कृतिर्मैत्रेयनाथस्य ॥ ओं नमो मैत्रेयनाथाय ॥ या सर्वज्ञतया नयत्युपशमं शान्तैषिणः श्रवकान् या मार्गज्ञतया जगद्धितक्रितां लोकार्थसंपादिका । सवार्कारमिदं वदन्ति मुनयो विश्वं यया संगता स्तस्यै श्रावकबोधिसत्त्वगणिनो बुद्धस्य मन्ने नमः ॥ सर्वाकारज्ञतामार्गः शासित्रा योऽत्र देशित । धीमन्ती वीक्षीषीरंस्तमनालीढं परैरिति ॥ १.१ ॥ स्मृतौ चाधाय सूत्रार्थं धर्मचर्या दशात्मिका । सूखेन प्रतिपत्सीरन्नित्यारम्भप्रयोजनम् ॥ १.२ ॥ प्रज्ञापारमिताष्टाभीः पदार्थैः समुदीरिता । सर्वाकारज्ञता मार्गज्ञता सर्वज्ञता ततः ॥ १.३ ॥ सर्वाकाराभिसंबोधो मुर्धप्रार्प्तोऽनुपूर्विकः । एकक्षणभिसंबोधो धर्मकायश्च तेऽष्टधा ॥ १.४ ॥ चित्तोत्पादोऽववादश्च निर्वेधाङ्गं चतुर्विधं । आधारः प्रतिपत्तेश्च धर्मधातुस्वभावकः ॥ १.५ ॥ आलम्बनं समुद्देशः संनाहप्रस्थितिक्रिये । संभाराश्च सनिर्याणाः सर्वाकारज्ञता मुनेः ॥ १.६ ॥ ध्यामीकरणतादीनि शिष्यखङ्गपथौ च यौ । महानुशंसो दृङ्मार्ग ऐहिकामुत्रिकैर्गुणैः ॥ १.७ ॥ कारित्रमधिमुक्तिश्च स्तुतस्तोभितशंसिताः । परिणामेऽनुमोदे च मनस्कारावनुत्तमौ ॥ १.८ ॥ निर्हारः शुद्धिरत्यन्तामित्ययं भावनापथः । विज्ञानां बोधिसत्त्वानामिति मार्गज्ञतोदिता ॥ १.९ ॥ प्रज्ञया न भवे स्थानं कृपया न शमे स्थितिः । अनुपायेन दूरत्वमुपायेनाविदूरता ॥ १.१० ॥ विपक्सप्रतिपक्सौ च प्रयोगः समतास्य च । दृङ्मार्गः श्रावकादीनामिति सर्वज्ञतेष्यते ॥ १.११ ॥ आकाराः सप्रयोगाश्च गुणा दोषाः सलक्सणाः । मोक्षनिर्वेधभागीये शैक्षोऽवैवर्तिको गणः ॥ १.१२ ॥ समताभवशान्त्योश्च क्षेत्रशुद्धिरनुत्तरा । सर्वाकाराभिसंबोध एष सोपायकौशलः ॥ १.१३ ॥ लिङ्गं तस्य विवृद्धिश्च निरूढिश्चित्तसंस्थितिः । चतुर्धा च विकल्पस्य प्रतिपक्षश्चतुर्विधः ॥ १.१४ ॥ प्रत्येकं दर्सनाख्ये च भावनाख्ये च वर्त्मनि । आनन्तर्यसमाधिश्च सह विप्रतिपत्तिभिः ॥ १.१५ ॥ मूर्धाभिसमयः त्रेधा दशधा चानुपूर्विकः । एकक्षणाभिसंबोधो लक्षणेन चतुर्विधिः ॥ १.१६ ॥ स्वाभाविकः ससांभोगो नैर्माणिकोऽपरस्तथा । धर्मकायः सकारित्रश्चतुर्धा समुदीरितः ॥ १.१७ ॥ चित्तोत्पादः परार्थाय सम्म्यक्संबोधिकामता । समासव्यासतः सा च यथासुत्रं स चोच्यते ॥ १.१८ ॥ भूहेमचन्द्रज्वलनैर्निधिरत्नाकरार्णवैः । वज्राचलौषधीमित्रैश्चिन्तामण्यर्कगीतिभिः ॥ १.१९ ॥ नृपगञ्जमहामार्गयानप्रस्रवणोदकैः । आनन्दोक्तिनदीमेघैर्द्वाविंशतिविधः स च ॥ १.२० ॥ प्रतिपत्तौ च सत्येषु बुद्धरत्नादिषु त्रिषु । असक्तावपरिश्रान्तौ प्रतिपत्संपरिग्रहे ॥ १.२१ ॥ चक्षुःषु पञ्चसु ज्ञेयः षट्स्वभिज्ञागुणेषु च । दृङ्मार्गे भावनाख्ये चेत्यववादो दशात्मकः ॥ १.२२ ॥ मृदुतिक्ष्णेन्द्रियौ श्रद्धादृष्टिप्राप्तौ कुलंकुलौ । एकवीच्यन्तरोत्पद्य काराकाराकनिष्ठगाः ॥ १.२३ ॥ प्लुतास्त्रयो भवस्याग्रपरमो रूपरागह । दृष्टधर्मशमः कायसाक्षी खङ्गश्च विंशतिः ॥ १.२४ ॥ आलम्बनत आकाराद्धेतुत्वात्संपरिग्रहात् । चतुर्विकल्पसंयोगं यथास्वं भजतां सताम् ॥ १.२५ ॥ श्रावकेभ्यः सखड्गेभ्यो बोधिसत्त्वस्य तायिनः । मृदुमध्याधिमात्राणामूष्मादीनां विशिष्टता ॥ १.२६ ॥ आलम्बनमनित्यादि सत्याधारं तदाकृतिः । निषेधोऽमिनिवेशादेर्हेतुर्यानत्रयाप्तये ॥ १.२७ ॥ रूपाद्यायव्ययौ विष्ठास्थिती प्रज्ञप्त्यवाच्यते । रूपादावस्थितिस्तेषां तद्भावेनास्वभावता ॥ १.२८ ॥ तयोर्मिथःस्वभावत्वं तदनित्याद्यसंस्थितिः । तासां तद्भावशून्यत्वं मिथः स्वभाव्यमेतयोः ॥ १.२९ ॥ अनुद्ग्रहो यो धर्माणां तन्निमित्तासमीक्सणम् । परीक्षणं च प्रज्ञायाः सर्वस्यानुपलम्भतः ॥ १.३० ॥ रूपादेरस्वभवावत्वं तदभावस्वभावता । तदजातिरनिर्याणं शुद्धिस्तदनिमित्तता ॥ १.३१ ॥ तन्निमित्तानधिष्ठानानधिमुक्तिरसंज्ञता । समाधिस्तस्य कारित्रं व्याकृतिर्मननाक्सयः ॥ १.३२ ॥ मिथस्त्रिकस्य स्वाभाव्यं समाधेरविकल्पना । इति निर्वेधभागीयं मृदुमध्याधिमात्रतः ॥ १.३३ ॥ द्वैविध्यं ग्राह्यकल्पस्य वस्तुतत्प्रतिपक्सतः । मोहराश्यादिभेदेन प्रत्येकं नवधा तु सः ॥ १.३४ ॥ द्रव्यप्रज्ञप्त्यधिष्ठानो द्विविधो ग्राहको मतः । स्वतन्त्रात्मादिरूपेण स्कन्धाद्याश्रयतस्तथा ॥ १.३५ ॥ चित्तानवलीनत्वादि नईःस्वाभाव्यादिदेशकः । तद्विपक्सपरित्यागः सर्वथा संपरिग्रहः ॥ १.३६ ॥ षोढाधिगमधर्मस्य प्रतिपक्सप्रहाणयोः । तयोः पर्युपयोगस्य प्रज्ञायाः कृपया सह ॥ १.३७ ॥ शिष्यासाधारणत्वस्य परार्थानुक्रमस्य च । ज्ञानस्यायत्नवृत्तेश्च प्रतिष्ठा गोत्रमुच्यते ॥ १.३८ ॥ धर्मधातोरसंभेदाद्गोत्रभेदो न युज्यते । आधेयधर्मभेदात्तु तद्भेदः परिगीयते ॥ १.३९ ॥ आलम्बनं सर्वधर्मास्ते पुनः कुशलादयः । लौकिकाधिगमाख्याश्चं ये च लोकेत्तरा मताः ॥ १.४० ॥ सास्रवानास्रवा धर्माः संस्कृतासंस्कृताश्च ये । शिष्यसाधारणा धर्मा ये चासाधारना मुनेः ॥ १.४१ ॥ सर्वसत्त्वाग्रता चित्तप्रहाणाधिगमत्रये । त्रिभिर्महत्त्वैरूद्देशो विज्ञेयोऽय स्वयंभुवाम् ॥ १.४२ ॥ दानादौ षड्विध तेषां प्रत्येकं संग्रहेण या । संनाहप्रतिपत्तिः सा षड्भिः षट्कैर्यथोदिथा ॥ १.४३ ॥ द्यानारूप्येषु दानादौ मार्गे मैत्र्यादिकेषु च । गतोपलम्भयोगे च त्रिमण्डलविशुद्धिषु ॥ १.४४ ॥ उद्देशे षट्स्वभिज्ञासु सर्वाकारज्ञतानये । प्रस्थानप्रतिपज्ज्ञेया महायानाधिरोहिणी ॥ १.४५ ॥ दया दानादिकं षट्कं शमथः सविदर्शनः । युगनद्धश्च यो मार्ग उपाये यच्च कौशलम् ॥ १.४६ ॥ ज्ञानं पुण्यं च मार्गश्च धारणी भूमयो दश । प्रतिपक्षश्च विज्ञेयः संभारप्रतिपत्क्रमः ॥ १.४७ ॥ लभ्यते प्रथमा भुमिर्दशधा परिकर्मणा । आशयो हितवस्तुत्वं सत्त्वेषु समचित्तता ॥ १.४८ ॥ त्यागः सेवा च मित्राणां सद्धर्मालम्बनैषणा । सदा नैष्क्रम्यचित्तत्वं बुद्धकायगता स्पृहा ॥ १.४९ ॥ धर्मस्य देशना सत्यं दशमं वाक्यमिष्यते । ज्ञेयं च पारिकर्मैषां स्वभावानुपलम्भतः ॥ १.५० ॥ शीलं कृतज्ञता क्षान्तिः प्रमोद्यं महती कृपा । गौरवं गुरुशुश्रूषा वीर्यं दानादिकेऽष्टमम् ॥ १.५१ ॥ अतृप्तता श्रुते दानं धर्मस्य च निरामिषम् । बुद्धक्षेत्रस्य संशुद्धिः संसारापरिखेदिता ॥ १.५२ ॥ ह्रीरपत्राप्यमित्येतत्पञ्चधा मननात्मकम् । वनाशाल्पेच्छता तुष्टिर्धूतसंलेखसेवनम् ॥ १.५३ ॥ शिक्षाया अपरित्यागः कामानां विजुगुप्सनम् । निर्वित्सर्वास्तिसंत्यागोऽनवलिनानपेक्षते ॥ १.५४ ॥ संस्तवं कुलमात्सर्यं स्थानं संगणिकावहम् । आत्मोत्कर्षपरावज्ञे कर्ममार्गान् दशाशुभान् ॥ १.५५ ॥ मानं स्तम्भं विपर्यासं विमतिं क्लेशमर्षणम् । विवर्जयन् समाप्नेति दशैतान् पञ्चमीं भुवम् ॥ १.५६ ॥ दानशीलक्षमावीर्यध्यानप्रज्ञाप्रपूरणात् । शिष्यखड्गस्पृहात्रासचेतसां परिवर्जकः ॥ १.५७ ॥ याचितोऽनवलिनश्च सर्वत्यागेऽप्यदुर्मनाः । कृशोऽपि नार्थिनां क्षेप्ता षष्ठीं भूमिं समश्रुते ॥ १.५८ ॥ आत्मसत्त्वग्रहो जीवपुद्गलोच्छेदशाश्वतः । निमित्तहेत्वोः स्कन्धेषु धातुष्वायतनेषु च ॥ १.५९ ॥ त्रैधातुके प्रतिष्ठानं सक्तिरालीनचित्तता । रत्नत्रितयशीलेषु तद्दृष्ट्यभिनिवेशिता ॥ १.६० ॥ शून्यतायां विवदश्च तद्विरोधश्च विंशतिः । कलङ्का यस्य विच्छिन्नाः सप्तमीमेत्यसौ भुवम् ॥ १.६१ ॥ त्रिविमोक्षमुखज्ञानं त्रिमण्डलविशुद्धता । करूणामनना धर्मसमतैकनयज्ञता ॥ १.६२ ॥ अनुत्पादक्षमाज्ञानं धर्माणामेकधेरणा । कल्पनायाः समुद्धातः संज्ञादृक्क्लेशवर्जनम् ॥ १.६३ ॥ शमथस्य च निध्यप्तिः कौशलं च विदर्शने । चित्तस्य दान्तता ज्ञानं सर्वत्राप्रतिघाति च ॥ १.६४ ॥ सक्तेरभूमिर्यत्रेच्छं क्षेत्रान्तरगतिः समम् । सर्वत्र स्वात्मभावस्य दर्शनं चेति विंशतिः ॥ १.६५ ॥ सर्वसत्त्वमनोज्ञानमभिज्ञाक्रीडनं शुभा । बुद्धक्षेत्रस्य निष्पत्तिर्बुद्धसेवापरीक्षणे ॥ १.६६ ॥ अक्षज्ञानं जिनक्षेत्रशुद्धिर्मायोपमा स्थितिः । संचिन्त्य च भवादानमिदं कर्माष्टधोदितम् ॥ १.६७ ॥ प्रणिधानान्यनन्तानि देवादीनां रूतज्ञता । नदीव प्रतिभानानां गर्भावक्रान्तिरूत्तमा ॥ १.६८ ॥ कुलजात्योश्च गोत्रस्य परिवारस्य जन्मनः । नैष्क्रम्यबोधिवृक्षाणां गुणपूरेश्च संपदः ॥ १.६९ ॥ नव भूमीरतिक्रम्य बुद्धभूमौ प्रतिष्ठते । येन ज्ञानेन सा ज्ञेया दशमी बोधिसत्त्वभूः ॥ १.७० ॥ प्रतिपक्षोऽष्टधा ज्ञेयो दर्षनाभ्यासमार्गयोः । ग्राह्यग्राहकविकल्पानामष्टानामुपशान्तये ॥ १.७१ ॥ उद्देशे समतायां च सत्त्वार्थे यत्नवर्जने । अत्यन्ताय च निर्याणं निर्याणं प्राप्तिलक्षणम् ॥ १.७२ ॥ सर्वाकारज्ञतयां च निर्याणं मार्गगोचरम् । निर्याणप्रतिपज्ज्ञेया सेयमष्टविधात्मिका ॥ १.७३ ॥ ॥ अभिसमयालङ्कारे प्रज्ञापारमितोपदेशशास्त्रे सर्वाकारज्ञताधिकारः प्रथमः ॥ ध्यामीकरणता भाभिर्देवानां योग्यतां प्रति । विषयो नियतो व्याप्तिः स्वभावस्तस्य कर्म च ॥ २.१ ॥ चतुर्णमार्यसत्यानामाकारानुपलम्भतः । श्रावकाणामयं मार्गो ज्ञेयो मार्गज्ञतानये ॥ २.२ ॥ रूपादिस्कन्धशून्यत्वाच्छून्यतानामभेदतः । उष्माणः अनुपलम्भेन तेषां मुर्धगतं मतम् ॥ २.३ ॥ क्षान्तयस्तेषु नित्यादियोगस्थाननिषेधतः । दश भूमीः समारभ्य विस्तरास्थानदेशनत् ॥ २.४ ॥ अग्रधर्मगतं प्रोक्तमार्यश्रावकवर्त्मनि । तत्कस्य हेतोर्बुद्धेन बुद्ध्वा धर्मासमीक्षणात् ॥ २.५ ॥ परोपदेशवैयर्थ्यं स्वयंबोधात्स्वयंभुवाम् । गम्भीरता च ज्ञानस्य खड्गानामभिधीयते ॥ २.६ ॥ शुश्रूषा यस्य यस्यार्थे यत्र यत्र यथा यथा । स सोऽर्थः ख्यात्यशब्दोऽपि तस्य तस्य तथा तथा ॥ २.७ ॥ ग्रह्यार्थकल्पनाहानाद्ग्राहकस्याप्रहाणतः । आधारतश्च विज्ञेयः खड्गमार्गस्य संग्रहः ॥ २.८ ॥ प्रज्ञप्तेरविरोधेन धर्मतासूचनाकृतिः । उस्स्मगं मूर्धगं रूपाद्यहानादिप्रभावितम् ॥ २.९ ॥ अद्यात्मशून्यताद्याभी रूपादेरपरिग्रहात् । क्षान्तिः रूपाद्यनुत्पादाद्याकारैरग्रधर्मता ॥ २.१० ॥ क्षान्तिज्ञानक्षणैः सत्यसत्यं प्रति चतुर्विधैः । मार्गज्ञतायां दृङ्मार्गः सानुशंसोऽयमुच्यते ॥ २.११ ॥ आधाराधेयताभावात्तथताबुद्धयोर्मिथः । पर्यायेणाननुज्ञानं महत्ता साप्रमाणता ॥ २.१२ ॥ परिमाणान्तताभावो रूपादेरवधारणम् । तस्यां स्थितस्य बुद्धत्वेऽनुग्रहात्यागतादयः ॥ २.१३ ॥ मईत्र्यादि शून्यता प्राप्तिर्बुद्धत्वस्य परिग्रहः । सर्वस्य व्यवदानस्य सर्वाधिव्याधिशातनम् ॥ २.१४ ॥ निर्वाणग्राहशान्तत्वं बुद्धेभो रक्षणादिकम् । अप्राणिवधमारभ्य सर्वाकारज्ञतानये ॥ २.१५ ॥ स्वयं स्थितस्य सत्त्वानां स्थापनं परिणामनम् । दनादीनां च संबोधाविति मार्गज्ञताक्षणाः ॥ २.१६ ॥ सर्वतो दमनं नाम सर्वतः क्लेशनिर्जयः । उपमक्राविषह्यत्वं बोधिराधारपूज्यता ॥ २.१७ ॥ अधिमुक्तिस्त्रिधा ज्ञेया स्वार्था च स्वपरार्थका । परार्थिकैवेत्येष च प्रत्येकं त्रिविधेष्यते ॥ २.१८ ॥ मृद्वी मध्याधिमात्रा च मृदुमृद्वादिभेदतः । सा पुनस्त्रिविधेत्येवं सप्तविंशतिधा मता ॥ २.१९ ॥ स्तुतिः स्तोभः प्रशंसा च प्रज्ञापरमितां प्रति । अधिमोक्षस्य मात्राणां नवकैस्त्रिभिरिष्यते ॥ २.२० ॥ विशेषः परिणामस्तु तस्य कारित्रमुत्तमम् । नोपलम्भाकृतिश्चासावविपर्यासलक्षणः ॥ २.२१ ॥ विविक्तो बुद्धपुण्यौघस्वभावस्मृतिगोचरः । सोपायश्चानिमित्तश्च बुद्धैरभ्यनुमोदितः ॥ २.२२ ॥ त्रैधातुकाप्रपन्नश्च परिणामोऽपरस्त्रिधा । मृदुर्मध्योऽधिमात्रश्च महापुण्योदयात्मकः ॥ २.२३ ॥ उपायानुपलम्बाभ्यां शुभमूलानुमोदना । अनुमोदे मनस्कारभावनेह विधीयते ॥ २.२४ ॥ स्वभावः श्रेष्ठता तस्य सर्वस्यानभिसंस्कृतिः । नोपलम्भेन धर्माणामर्पणा च महार्थता ॥ २.२५ ॥ बुद्धसेवा च दानादिरूपाये यच्च कौशलम् । हेतवोऽत्राधिमोक्षस्य धर्मव्यसनहेतवः ॥ २.२६ ॥ माराधिष्ठानगम्भीरधर्मतानधिमुक्तते । स्कन्धाद्यभिनिवेशश्च पापमित्रपरिग्रहः ॥ २.२७ ॥ फलशुद्धिश्च रूपादिशुद्धिरेव तयोर्द्वयोः । अभिन्नाच्छिन्नता यस्मादिति शुद्धिरुदीरिता ॥ २.२८ ॥ क्लेशज्ञेयत्रिमार्गस्य शिष्यखड्गजिनौरसाम् । हानाद्विशुद्धिरात्यन्तिकी तु बुद्धस्य सर्वथा ॥ २.२९ ॥ मृदुमृद्वादिको मार्गः शुद्धिर्नवसु भूमिषु । अधिमात्राधिमात्रादेर्मलस्य प्रतिपक्षतः ॥ २.३० ॥ त्रिधातुप्रतिपक्षत्वं समता मनमेययोः । मार्गस्य चेष्यते तस्य परिहारतः ॥ २.३१ ॥ ॥ अभिसमयालङ्कारे प्रज्ञापारमितोपदेशशास्त्रे मार्गज्ञताधिकारो द्वितीयः ॥ नापरे न परे तीरे नान्तराले तथोः स्थिता । अध्वनां समताज्ञानात्प्रज्ञापारमितामता ॥ ३.१ ॥ अनुपायेन दूरं सा सनिमित्तोपलम्भतः । उपायकौशलेनास्याः सम्यगासन्नतोदिता ॥ ३.२ ॥ रूपादिस्कन्धशून्यत्वे धर्मेषु त्र्यध्वगेषु च । दानादौ बोधिपक्षेषु चर्यासंज्ञा विपक्षता ॥ ३.३ ॥ दानादिष्वनहंकारः परेषां तन्नियोजनम् । सङ्गकोटीनिषेधोऽयं सुक्ष्मः सङ्गो जिनादिषु ॥ ३.४ ॥ तद्गाम्बीर्यं प्रकृत्यैव विवेकाद्धर्मपद्धतेः *इति* । एकप्रकृतिकं ज्ञानं धर्माणां सङ्गवर्जनम् ॥ ३.५ ॥ दृष्टादिप्रतिषेधेन तस्या दुर्बोधतोदिता *इति* । रूपादिभिरविज्ञानात्तदचिन्त्यत्वमिष्यते ॥ ३.६ ॥ एवं कृत्वा यथोक्तो वै ज्ञेयः सर्वज्ञतानये । अयं विभागो निःशोषो विपक्षप्रतिपक्षयोः ॥ ३.७ ॥ रूपादौ तदनित्यादौ तदपुरिप्रपूरयोः । तदसङ्गत्वे चर्याया: प्रयोगः प्रतिषेधतः ॥ ३.८ ॥ अविकारो न कर्ता च प्रयोगो दुष्करस्त्रिधा । यथाभव्यं फलप्राप्तेरवन्ध्योऽभिमतश्च सः ॥ ३.९ ॥ अपरप्रत्ययो यश्च सप्तधा ख्यातिवेदकः । चतुर्धा मनना तस्य रूपादौ समता मता ॥ ३.१० ॥ धर्मज्ञानान्वयज्ञानक्षान्तिज्ञानक्षणात्मकः । दुःखादिसत्ये दृङ्मार्ग एष सर्वज्ञतानये ॥ ३.११ ॥ रूपं न नित्यं नानित्यमतितान्तं विशुद्धकम् । अनुत्पन्नानिरुद्धादि व्योमाभं लेपवर्जितम् ॥ ३.१२ ॥ परिग्रहेण निर्मुक्तमव्याहारं स्वभावतः । प्रव्याहारेण नास्यार्थः परेषु प्राप्यते यतः ॥ ३.१३ ॥ नोपलम्भकृदत्यन्तविशुद्धिर्व्याध्यसंभवः । अपायोच्छित्त्यकल्पत्वे फलसाक्षात्क्रियां प्रति ॥ ३.१४ ॥ असंसर्गो निमित्तैश्च वस्तुनि व्यञ्जने द्वये । ज्ञानस्य या चानुत्पत्तिरिति सर्वज्ञताक्षणाः ॥ ३.१५ ॥ इति सेयं पुनः सेयं सेयं खलु पुनस्त्रिधा । अधिकारत्रयस्यैषा समाप्तिः परिदीपिता ॥ ३.१६ ॥ ॥ अभिसमयालङ्कारे प्रज्ञापारमितोपदेशशास्त्रे सर्वज्ञताधिकारस्तृतीयः ॥ वस्तुज्ञानप्रकाराणामाकारा इति लक्षणम् । सर्वज्ञतानां त्रैविद्यात्त्रिविधा एव ते मताः ॥ ४.१ ॥ असदाकारमारभ्य यावन्निश्चलताकृतिः । चत्वारः प्रतिसत्यं ते मार्गे पञ्चदश स्मृताः ॥ ४.२ ॥ हेतौ मार्गे च दुःखे च निरोधे च यथाक्रमम् । अष्टौ ते सप्त पञ्चेति षोडशेति च कीर्तिताः ॥ ४.३ ॥ स्मृत्युपस्थानमारभ्य बुद्धत्वाकारपश्चिमाः । शिष्याणां बोधिसत्त्वानां बुद्धानां च यथाक्रमम् ॥ ४.४ ॥ सप्तत्रिंशच्चतुस्त्रिंशत्त्रिंशन्नव च ते मताः । त्रिसर्वज्ञत्वभेदेन मार्गसत्यानुरोधतः ॥ ४.५ ॥ कृताधिकारा बुद्धेसु तेषूप्तशुभमूलकाः । मित्रैः सनाथाः कल्याणैरस्याः श्रवणभाजनम् ॥ ४.६ ॥ बुद्धोपासनसंप्रश्नदानशीलादिचर्यया । उद्ग्रहधारणादीनां भाजनत्वं सतां मतम् ॥ ४.७ ॥ रूपादिष्वनवस्थानात्तेषु योगनिषेधतः । तत्तथतागम्भीरत्वात्तेषां दुरवगाहतः ॥ ४.८ ॥ तदप्रामाण्यतः कृच्छाच्चिरेण प्रतिबोधतः । व्याकृतावविवर्त्यत्वे निर्याणे सनिरन्तरे ॥ ४.९ ॥ आसन्नबोधे क्षिप्रं च परार्थेऽवृद्ध्यहानितः । धर्माधर्माद्यदृष्टौ च रुपाचिन्त्याद्यदर्शने ॥ ४.१० ॥ रूपादेस्तन्निमित्तस्य तद्भावस्याविकल्पकः । फलरत्नप्रदाता च शुद्धकः सावधिश्च सः ॥ ४.११ ॥ माराणां शक्तिहान्यादिश्चतुर्दशविधो गुणः । दोषाश्च षड्विबोद्धव्याश्चतुर्भिर्दशकैः सह ॥ ४.१२ ॥ लक्ष्यते येन तज्ज्ञेयं लक्षणं त्रिविधं च तत् । ज्ञानं विशेषः कारित्रं स्वभावो यश्च लक्ष्यते ॥ ४.१३ ॥ तथागतस्य निर्वृत्तौ लोके चालुज्यनात्मके । सत्त्वानां चित्तचर्यासु तत्संक्षेपे बहिर्गतौ ॥ ४.१४ ॥ अक्षयाकारतायां च सरागादौ प्रविस्तृते । महद्गतेऽप्रमाणे च विज्ञाने चानिदर्शने ॥ ४.१५ ॥ अदृश्यचितज्ञाने च तदुन्मिञ्जादिसंज्ञकम् । पुनस्तथताकारेण तेषां ज्ञानमतः परम् ॥ ४.१६ ॥ तथतायां मुनेर्बोधे तत्पराख्यानमित्ययम् । सर्वज्ञताधिकारेण ज्ञानलक्षणसंग्रहः ॥ ४.१७ ॥ शून्यत्वे सानिमित्ते च्प्रणिधानविवर्जिते । अनुत्पादनिरोधादौ धर्मताया अकोपने ॥ ४.१८ ॥ असंस्करेऽविकल्पे च प्रभेदालक्षणत्वयोः । मार्गज्ञताधिकारेण ज्ञानलक्षणमिष्यते ॥ ४.१९ ॥ स्वधर्ममुपनिश्रित्य विहारे तस्य सत्कृतौ । गुरूत्वे माननायां च तत्पूजाकृतकत्वयोः ॥ ४.२० ॥ सर्वत्र वृत्तिमज्ज्ञानमदृष्टस्य च दर्शकम् । लोकस्य शून्यताकारसूचकज्ञापकाक्षगम् ॥ ४.२१ ॥ अचिन्त्यशान्ततादर्शि लोकसंज्ञानिरोधि च । ज्ञानलक्षणमित्युक्तं सर्वाकारज्ञतानये ॥ ४.२२ ॥ अचित्यादिविशेषेण विशिष्टैः सत्यगोचरैः । विशेषलक्षणं षड्भिर्दशभिश्चोदितं क्षणैः ॥ ४.२३ ॥ अचिन्त्यातुल्यते मेयसंख्येयासमतिक्रमौ । सर्वार्यसंग्रहो विज्ञवेद्यासाधारणज्ञते ॥ ४.२४ ॥ क्षिप्रज्ञान्युनपूर्णत्वे प्रतिपत्समुदागमौ । आलम्बनं च साधारं साकल्यं संपरिग्रहः ॥ ४.२५ ॥ अनास्वादश्च विज्ञेयो विशेषः षोडशात्मकः । विशेषमार्गा मार्गेभ्यो येनान्येभ्यो विशिस्यते ॥ ४.२६ ॥ हितं सुखं च त्राणं च शरणं लयनं नृणाम् । परायणं च द्वीपं च परिणायकसंज्ञकम् ॥ ४.२७ ॥ अनाभोगं त्रिभिर्यानैः फलासाक्षात्क्रियात्मकम् । पश्चिमं गतिकारित्रमिदं कारित्रलक्षणम् ॥ ४.२८ ॥ क्लेशलिङ्गनिमित्तानां विपक्षप्रतिपक्षयोः । विवेको दुष्करैकान्तावुद्देशोऽनुपलम्भकः ॥ ४.२९ ॥ निषिद्धाभिनिवेशश्च यश्चालम्बनसंज्ञकः । विप्रत्ययोऽविघाती च सोऽपदागत्यजातिकः ॥ ४.३० ॥ तथतानुपलम्भश्च स्वभावः षोडशात्मकः । लक्ष्मेव लक्ष्यते चेतिचतुर्थं लक्षणं मतम् ॥ ४.३१ ॥ अनिमित्तप्रदानादिसमुदागमकौशलम् । सर्वाकारावबोधेऽस्मिन्मोक्षभगीयमिष्यते ॥ ४.३२ ॥ बुद्धाद्यालम्बना श्रद्धा वीर्यं दानादिगोचरम् । स्मृतिराशयसंपत्तिः समाधिरविकल्पना ॥ ४.३३ ॥ धर्मेषु सर्वैराकारैर्ज्ञानं प्रज्ञेति पञ्चधा । तीक्ष्णै सुबोधा संबोधिर्दुर्बोधा मृदुभिर्मता ॥ ४.३४ ॥ आलम्बनं सर्वसत्त्वा ऊस्मणामिह शक्यते । समचित्तादिराकारस्तेष्वेव दशधोदितः ॥ ४.३५ ॥ स्वयं पापान्निवृत्तस्य दानाद्येषु स्थितस्य च । तयोर्नियोजनान्येषां वर्णवादानुकुलते ॥ ४.३६ ॥ मूर्धगं स्वपराधारं सत्यज्ञानं तथा क्षमा । तथाग्रधर्मा विज्ञेयाः सत्त्वानां पाचनादिभिः ॥ ४.३७ ॥ निर्वेधङ्गान्युपादय दर्शनाभ्यासमार्गयोः । ये बोधिसत्त्वा वर्तन्ते सोऽत्रावैवर्तिको गणः ॥ ४.३८ ॥ रूपादिभ्यो निवृत्त्याद्यैर्लिङ्गैर्विंशतिधेरितैः । निर्वेधाङ्गस्थितस्येदमवैवर्तिकलक्षणम् ॥ ४.३९ ॥ रूपादिभ्यो निवृत्तिश्च विचिकित्साक्षणक्षयौ । आत्मनः कुशलस्थस्य परेषां तन्नियोजनम् ॥ ४.४० ॥ पराधारं च दानादि गम्भिरेऽर्थेऽप्यकाङ्क्षणम् । मैत्रं कायाद्यसंवासः पञ्चधावरणेन च ॥ ४.४१ ॥ सर्वानुशयहानं च स्मृतिसंप्रज्ञता सुचि । चिवरादिशरीरे च कृमीणामसमुद्भवः ॥ ४.४२ ॥ चित्ताकौटिल्यमादानं धूतस्यामत्सरादिता । धर्मतायुक्तगामित्वं लोकार्थं नरकैषणा ॥ ४.४३ ॥ परैरनेयता मारस्यान्यमार्गोपदेशिनः । मार इत्यवबोधश्च चर्या बुद्धानुमोदिता ॥ ४.४४ ॥ ऊष्ममूर्धसु स क्षान्तिष्वग्रधर्मेष्ववस्थितः । लिङ्गैरमीभिर्विशत्या संबोधेर्न विवर्तते ॥ ४.४५ ॥ क्षान्तिज्ञानक्षणः षट्च पञ्च पञ्च च दृक्पथे । बोधिसत्त्वस्य विज्ञेयमवैवर्तिकलक्षणम् ॥ ४.४६ ॥ रूपादिसंज्ञाव्यावृत्तिर्दार्ढ्यं चित्तस्य हिनयोः । यानयोर्विनिवृत्तिश्च ध्यानाद्यङ्गपरिक्षयः ॥ ४.४७ ॥ कायचेतोलघुत्वं च कामसेवाभ्युपायिकी । सदैव ब्रह्मचारित्वमाजीवस्य विशुद्धता ॥ ४.४८ ॥ स्कन्धादवन्तरायेषु संभारे सेन्द्रियादिके । समरे मत्सरादौ च नेति योगानुयोगयोः ॥ ४.४९ ॥ विहारप्रतिषेधश्च धर्मस्याणोरलब्धता । निश्चितत्वं स्वभुमौ च भूमित्रितयसंस्थितिः ॥ ४.५० ॥ धर्मार्थं जीवितत्याग इत्यमी षोडश क्षणाः । अवैवर्तिकलिङ्गानि दृङ्मार्गस्थस्य धीमतः ॥ ४.५१ ॥ गम्भिरो भावनामार्गो गाम्भीर्यं शुन्यतादिकम् । समारोपापवादान्तमुक्तता सा गभीरता ॥ ४.५२ ॥ चिन्तातुलननिध्यानान्यभीक्ष्णं भावनापथः । निर्वेधाङ्गेषु दृङ्मार्गे भावनामार्ग एव च ॥ ४.५३ ॥ प्राबन्धकत्वादिष्टोऽसौ नवधा च प्रकारतः । मृदुमध्याधिमात्राणां पुनर्मृद्वादिभेदतः ॥ ४.५४ ॥ असंख्येयादिनिर्देशाः परमार्थेन न क्षमाः । कृपानिष्यन्दभूतास्ते संवृत्याभिमता मुनेः ॥ ४.५५ ॥ हानिवृद्धी न युज्येते निरालापस्य वस्तुनः । भावनाख्येन किं हिनं वर्त्मना किमुदागतम् ॥ ४.५६ ॥ यथा बोधिस्तथैवासाविष्टस्यार्थस्य साधकः । तथतालक्षणा बोधिः सोऽपि तल्लक्षणो मतः ॥ ४.५७ ॥ पूर्वेण बोधिर्नो युक्ता मनसा पश्चिमेन वा । दीपदृष्टान्तयोगेनगम्भीरा धर्मताष्टधा ॥ ४.५८ ॥ उत्पादे च निरोधे च तथतायां गभीरता । ज्ञेये दाने च चर्यायामद्वयोपायकौशले च ॥ ४.५९ ॥ स्वप्नोपमत्वाद्धर्माणां भवशान्त्योरकल्पना । कर्माभावादिचोद्यानां परिहारा यथोदिताः ॥ ४.६० ॥ सत्त्वलोकस्य या शुद्धिस्तस्याः सुद्ध्युपहारतः । तथा भाजनलोकस्य बुद्धक्षेत्रस्य शुद्धता ॥ ४.६१ ॥ विषयोऽस्य प्रयोगश्च शात्रवाणामतिक्रमः । अप्रतिष्ठो यथावेधमसाधारणलक्षणः ॥ ४.६२ ॥ असक्तोऽनुपलम्भश्च निमित्तप्रणिधिक्षतः । लल्लिङ्गश्चाप्रमाणश्च दशधोपायकौशलम् ॥ ४.६३ ॥ ॥ अभिसमयालङ्कारे प्रज्ञापारमितोपदेशशास्त्रे सर्वाकाराभिसंबोधाधिकारश्चतुर्थः ॥ स्वप्नान्तरेऽपि स्वप्नाभसर्वधर्मेक्षणादिकम् । मुर्धप्राप्तस्य योगस्य लिङ्गं द्वादशधा मतम् ॥ ५.१ ॥ जम्बुद्विपजनेयत्ताबुद्धपूजाशुभादिकाम् । उपमां बहुधा कृत्वा विवृद्धिः षोडशात्मिका ॥ ५.२ ॥ त्रिसर्वज्ञत्वधर्माणां परिपुरिरनुत्तरा । अपरित्यक्तसत्त्वार्था निरूढिरभिधीयते ॥ ५.३ ॥ चतुर्द्विपकसाहस्रद्वित्रिसाहस्रकोपमः । कृत्वा पुण्यबहुत्वेन समाधिः परिकीर्तितः ॥ ५.४ ॥ प्रवृत्तौ च निवृत्तौ च प्रत्येकं तौ नवात्मकौ । ग्राह्यौ विकल्पौ विज्ञेयावयाथाविषयात्मकौ ॥ ५.५ ॥ द्रव्यप्रज्ञप्तिसत्सत्त्वविकल्पौ ग्राहकौ मतौ । पृथग्जनार्यभेदेन प्रत्येकं तौ नवात्मकौ ॥ ५.६ ॥ ग्राह्यौ चेन्न तथा स्तोऽर्थौ कस्य तौ ग्राहकौ मतौ । इति ग्राहकभावेन शुन्यतालक्षणं तयोः ॥ ५.७ ॥ एष स्वभावे गोत्रे च प्रतिपत्समुदागमे । ज्ञानस्यालम्बनाभ्रान्तौ प्रतिपक्षविपक्षयोः ॥ ५.८ ॥ स्वस्मिन्नधिगमे कर्तृतत्कारित्रक्रियाफले । प्रवृत्तिपक्षाधिष्ठानो विकल्पो नवधा मतः ॥ ५.९ ॥ भवशान्तिप्रपातित्वान्न्यूनत्वेऽधिगमस्य च । परिग्रहस्याभावे च वैकल्ये प्रतिपद्गते ॥ ५.१० ॥ परप्रत्ययगामित्वे समुद्देशनिवर्तने । प्रादेशिकत्वे नानात्वे स्थानप्रस्थानमोहयोः ॥ ५.११ ॥ पृष्ठतो गमने चेति विकल्पोऽयं नवात्मकः । निवृत्तिपक्षाधिष्ठानः श्रावकादिमनोभवः ॥ ५.१२ ॥ ग्राहकः प्रथमो ज्ञेयो ग्रगणप्रतिमोक्षणे । मनस्क्रियायां धातूनामुपश्लेषे त्रयस्य च ॥ ५.१३ ॥ स्थाने चाभिनिवेशे च प्रज्ञप्तौ धर्मवस्तुनः । सक्तौ च प्रतिपक्षे च यथेच्छं च गतिक्षतौ ॥ ५.१४ ॥ यथोद्देशमनिर्याणे मार्गामार्गावधारणे । सनिरोधे समुत्पादे वस्तुयोगवियोगयोः ॥ ५.१५ ॥ स्थाने गोत्रस्य नाशे च प्रार्थनाहेत्वभावयोः । प्रत्यर्थिकोपलम्भे च विकल्पो ग्राहकोऽपरः ॥ ५.१६ ॥ बोधौ सन्दर्शनान्येषां तद्धेतोश्च परिन्दना । तत्प्राप्त्यनन्तरो हेतुः पुण्यबाहुल्यलक्षणः ॥ ५.१७ ॥ क्षयानुत्पादयोर्ज्ञाने मलानां बोधिरूच्यते । क्षयाभावादनुत्पादात्ते हि ज्ञेये यथाक्रमम् ॥ ५.१८ ॥ प्रकृतावनिरुद्धायां दर्शनाख्येन वर्त्मना । विकल्पजातं किं क्षीणं वानुत्पत्तिमागतम् ॥ ५.१९ ॥ सत्ता च नाम धर्माणां ज्ञेये चावरणक्षयः । कथ्यते यत्परैः शास्तुरत्र विस्मीयते मया ॥ ५.२० ॥ नापनेयमतः किंचित्प्रक्षेप्तव्यं न किंचन । द्रष्टव्यं भूततो भूतं भूतदर्शी विमुच्यते ॥ ५.२१ ॥ एकैकस्यैव दानादौ तेषां यः संग्रहो मिथः । स एकक्षणिकः क्षान्तिसंगृहीतोऽत्र दृक्पथे ॥ ५.२२ ॥ स समाधिं समापद्य ततः सिंहविजृम्भितम् । अनुलोमं विलोमं प्रतीत्योत्पादमीक्षते ॥ ५.२३ ॥ कामाप्तमवधीकृत्य विज्ञानमसमाहितम् । सनिरोधाः समापत्तीर्गत्वागम्य नव द्विधा ॥ ५.२४ ॥ एकद्वित्रिचतुःपञ्चषट्सप्ताष्टव्यतिक्रमात् । अवस्कन्दसमापत्तिरानिरोओधमतुल्यता ॥ ५.२५ ॥ संक्षेपे विस्तरे बुद्धैः सनाथ्येनापरिग्रहे । त्रैकालिके गुणाभावे श्रेयसस्त्रिविधे पथि ॥ ५.२६ ॥ एको ग्राह्यविकल्पोऽयं प्रयोगाकारगोचरः । द्वितीयश्चित्तचैत्तानां प्रवृत्तिविषयो मतः ॥ ५.२७ ॥ अनुत्पादस्तु चित्तस्य बोधिमण्डामनस्क्रिया । हीनयानमनस्कारौ संबोधेरमनस्कृतिः ॥ ५.२८ ॥ भावनेऽभावने चैव तद्विपर्यय एव च । अयथार्थश्च विज्ञेयो विकल्पो भावनापथे ॥ ५.२९ ॥ ग्राहकः प्रथमो ज्ञेयः सत्त्वप्रज्ञप्तिगोचरः । धर्मप्रज्ञप्त्यशून्यत्वे सक्तिप्रविचयात्मकः ॥ ५.३० ॥ कृतेन वस्तुनो यानत्रितये च स कीर्तितः । दक्षिणाया अशुद्धौ च चर्यायाश्च विकोपने ॥ ५.३१ ॥ सत्त्वप्रज्ञप्तितद्धेतुविषयो नवधापरः । भावनामार्गसंबुद्धो विपक्षस्तद्विघाततः ॥ ५.३२ ॥ सर्वज्ञतानां तिस्रीणां यथास्वं त्रिविधावृतौ । शान्तिमार्गे तथतादिसंप्रयोगवियोगयोः ॥ ५.३३ ॥ असमत्वे च दुःखादौ क्लेशानां प्रकृतावपि । द्वयाभावे च संमोहे विकल्पः पश्चिमो मतः ॥ ५.३४ ॥ आसां क्षये सतीतीनां चिरायोच्छ्वसिता इव । सर्वाकारजगत्सौख्यसाधना गुणसंपदः ॥ ५.३५ ॥ सर्वाः सर्वाभिसारेण निकामफलशालिनम् । भजन्ते तं महासत्त्वं महोदधिमिवापगाः ॥ ५.३६ ॥ त्रिसाहस्रजनं शिष्यखड्गाधिगमसंपदि । बोधिसत्त्वस्य च न्यामो प्रतिष्टाप्य शुभोपमाः ॥ ५.३७ ॥ कृत्वा पुण्यबहुत्वेन बुद्धत्वप्तेरनन्तरः । आनन्तर्यसमाधिः स सर्वाकारज्ञता च तत् ॥ ५.३८ ॥ आलम्बनमभावोऽस्य स्मृतिश्चाधिपतिर्मतः । आकारः शान्तता चात्र जल्पाजल्पिप्रवादिनाम् ॥ ५.३९ ॥ आलम्बनोपपत्तौ च तत्स्वभावावधार्रणे । सर्वाकारज्ञताज्ञाने परमार्थे ससंवृतौ ॥ ५.४० ॥ प्रयोगे त्रिषु रत्नेषु सोपाये समये मुनेः । विपर्यासे समार्गे च प्रतिपक्षविपक्षयोः ॥ ५.४१ ॥ लक्षणे भावनायां च मता विप्रतिपत्तयः । सर्वाकारज्ञताधारा षोढा दश च चादिनाम् ॥ ५.४२ ॥ ॥ अभिसमयालङ्कारे प्रज्ञापारमितोपदेशशास्त्रे मूर्धाभिसमयाधिकारः पञ्चमः ॥ दानेन प्रज्ञया यावद्बुद्धादौ स्मृतिभिश्च सा । धर्माभावस्वभावेनेत्यनुपूर्वक्रिया मता ॥ ६.१ ॥ ॥ अभिसमयालङ्कारे प्रज्ञापारमितोपदेशशास्त्रे अनुपुर्वाभिसमयाधिकारः षष्ठः ॥ अनूस्रवाणां सर्वेषामेकैकेनापि संग्रहात् । एकक्षणावबोधोऽयं ज्ञेयो दानादिना मुनेः ॥ ७.१ ॥ अरधट्टं यथैकापि पदिका पुरूषेरिता । सकृत्सर्वं चलयति ज्ञानमेकक्षणे तथा ॥ ७.२ ॥ विपाकधर्मतावस्था सर्वशुक्लमयी यदा । प्रज्ञापारमिता जाता ज्ञानमेकक्षणे तदा ॥ ७.३ ॥ स्वप्नोपमेषु धर्मेषु स्थित्वा दानादिचर्या । अलक्षत्वं धर्माणां क्षणेनैकेन विन्दति ॥ ७.४ ॥ स्वप्नं तद्दर्शिनं चैव द्वययोगेन नेक्षते । धर्माणामद्वयं तत्त्वं क्षणेनैकेनपस्यति ॥ ७.५ ॥ ॥ अभिसमयालङ्कारे प्रज्ञापारमितोपदेशशास्त्रे एकक्षणाभिसमयाधिकारः सप्तमः ॥ सर्वाकारां विशुद्धिं ये धर्माः प्राप्ता निरास्रवाः । स्वाभाविकोमुनेः कायस्तेशां प्रकृतिलक्षणः ॥ ८.१ ॥ बोधिपक्षाप्रमाणानि विमोक्षा अनूपुर्वशः । नवात्मिका समापत्तिः कृत्स्नं दशविधात्मिकम् ॥ ८.२ ॥ अभिभ्वायतनान्यष्टप्रकाराणि प्रभेदतः । अरणा प्रणिधिज्ञानमभिज्ञाः प्रतिसंविदः ॥ ८.३ ॥ सर्वाकाराश्चतस्नोऽथशुद्धयो वशिता दश ॥ बलानि दश चत्वारि वैशारद्यान्यारक्षणम् ॥ ८.४ ॥ त्रिविधं स्मृत्युपस्थानं त्रिधासंमोषधर्मता । वासनायाः समुद्धातो महति करूणा जने ॥ ८.५ ॥ आवेणिका मुनेरेव धर्मा येऽष्टादशेरिताः । सर्वाकारज्ञता चेति धर्मकायोऽभिधीयते ॥ ८.६ ॥ श्रवकस्यारणादृष्टेर्नृक्लेशपरिहारिता । तत्क्लेशस्रोतौच्छित्त्यै ग्रामादिषु जिनारणा ॥ ८.७ ॥ अनाभोगमनासङ्मव्याघातं सदा स्थितम् । सर्वप्रश्नापनुद्वौद्धं प्रणिधिज्ञानमिष्यते ॥ ८.८ ॥ परिपाकं गते हेतौ यस्य यस्य यदा यदा । हितं भवति कर्तव्यं प्रथते तस्य तस्य सः ॥ ८.९ ॥ वर्षत्यपि हि पर्जन्ये नैव बीजं प्ररोहति । समुत्पादेऽपि बुद्धानां नाभव्यो भद्रमश्रुते ॥ ८.१० ॥ इति कारित्रवैपुल्यात्बुद्धो व्यापी निरूच्यते । अक्षयत्वाच्च तस्यैव नित्य इत्यपि कथ्यते ॥ ८.११ ॥ द्वात्रिंशल्लक्षणाशीतिव्यञ्जनात्मा मुनेरयम् । सांभोगिको मतः कायो महायानोपभोगतः ॥ ८.१२ ॥ चक्राङ्कहस्तः क्राकुर्मपादो जालावाद्धाङ्गुलिपाणिपादः । करौ सपादौ तरूणौ मृदू च ममुत्सदैः सप्तभिराश्रयोऽस्य ॥ ८.१३ ॥ दीर्घाङ्गुलिर्व्यायतपार्ष्णिगात्रं प्राज्यं त्वृजुच्छङ्खपदोर्ध्वरोमा । एणेयजङ्घश्च पटूरूबाहुः कोशावनद्धोत्तमबस्तिगुह्यः ॥ ८.१४ ॥ सुवर्णवर्ण्ः प्रतनुच्छविश्च प्रदक्षिणैकैकसुजात्रोमा । ऊऊर्णाङ्कितास्यो हरिपूर्वकायः स्कन्धौ वृतावस्य चितान्तरांसः ॥ ८.१५ ॥ हीनो रसः ख्याति रसोत्तमोऽस्य न्यग्रोधवन्माण्डलतुल्यमूर्तिः । उषीषमूर्धा पृथुचारूजिह्वो ब्रह्मस्वरः सिंहहनुः सुशुक्लाः ॥ ८.१६ ॥ तुल्याः प्रमाणेऽविरलास्च दन्ता अन्यूनसंख्या दशिकाश्चतस्रः । नीलेक्शणे गोवृषपक्ष्मनेत्रो द्वात्रिंशदेतानि हि लक्षणानि ॥ ८.१७ ॥ यस्य यस्यात्र यो हेतुर्लक्षणस्य प्रसाधकः । तस्य तस्य प्रपूर्यायं समुदागमलक्षणः ॥ ८.१८ ॥ गुरूणामनुयानादिर्दृढता संवरं प्रति । संग्रहासेवनं दानं प्रणितस्य च वस्तुनः ॥ ८.१९ ॥ वध्यमोक्षसमादानां विव्र्६ द्धिः कुशलस्य च । इत्यादिको यथासुत्रं हेतुर्लक्षणसाधकः ॥ ८.२० ॥ ताम्राः स्निग्धाश्च तुङ्गाश्च नखा अङ्गुलयो मुनेः । वृत्ताश्चितानुपूर्वाश्च गुढा निर्ग्रन्थ्यः शिराः ॥ ८.२१ ॥ गुढौ गुल्फौ समौ पादौ सिंहेभद्विजगोपतेः । विक्रान्तं दक्षिणं चारूगमनमृजुवृत्तता ॥ ८.२२ ॥ मृष्टानुपूर्ते मेध्यमृदुत्वे शुद्धगात्रता । पूर्णव्यञ्जनता चारुपृथुमण्डलगारता ॥ ८.२३ ॥ समक्रमत्वं शुद्धत्वं नेत्रयोः सुकुमारता । अदीनोस्सदगात्रत्वे सुसंहतनगात्रता ॥ ८.२४ ॥ सुविभक्ताङ्गता ध्वान्तप्रध्वस्तालोकशुद्धता । वृत्तमृष्टाक्षामकुक्षिताश्च गभिरता ॥ ८.२५ ॥ दक्षिणावर्तता नाभेः समन्तद्दर्शनीयता । समाचारः शुचिः कालतिलकापगता तनुः ॥ ८.२६ ॥ करौ तुलमृदूस्निग्धगम्भीरायतलेखता । नात्यायतं वचो बिम्बप्रतिबिम्बोपमौष्ठता ॥ ८.२७ ॥ मृद्वी तन्वी च रक्ता च जिह्वा जिमूतघोषता । चारूमञ्जस्वरो दंष्ट्रा वृत्तास्तीक्ष्णाः सिताः समाः ॥ ८.२८ ॥ अनुपुर्वी गतास्तुङ्गा नासिका परं शुचिः । विशले नयने पक्ष्मचितं पद्मदलाक्षिता ॥ ८.२९ ॥ आयतश्लक्ष्णसुस्निग्धसमरोम्नौ भ्रुवौ भुजौ । पीनायतौ समौ कर्णावुपघातविवर्जितौ ॥ ८.३० ॥ ललाटमपरिम्लानं प्रृथुपूर्णोत्तमाङ्गता । भ्रमराभाश्चिताः श्लक्ष्णा असंलुलितमूर्तयः ॥ ८.३१ ॥ केशा अपरुषाः पुंसां सौरभ्यान्यपहारिणः । श्रीवत्सः स्वस्तिकं चेति बुद्धानुव्यञ्जनं मतम् ॥ ८.३२ ॥ करोति येन चित्राणि हितानि जगतः समम् । आ भवात्सोऽनुपच्छिन्नः कयो नैर्माणिको मुनेः ॥ ८.३३ ॥ तथा कर्माप्यनुच्छिन्नमस्यासंसारमिष्यते । गतीनां शमनं कर्म संग्रहे च चतुर्विधे ॥ ८.३४ ॥ निवेशनं ससंक्लेशे व्यवदानावबोधने । सत्त्वानामर्थयाथात्म्ये षट्सु पारमितासु च ॥ ८.३५ ॥ बुद्धमार्गे प्रकृत्यैवशुन्यतायां द्वयक्षये । संकेतेऽनुपलम्भे च परिपाके च हेहिनाम् ॥ ८.३६ ॥ बोधिसत्त्वस्य मार्गेऽभिनिवेशस्य निवारणे । बोधिप्राप्तु जिनक्षेत्रविशुद्धौ नियतिं प्रति ॥ ८.३७ ॥ अप्रमेये च सत्त्वर्थे बुद्धसेवादिके गुणे । बोधेरङ्गेष्वनाशे च कर्मणां सत्यदर्शने ॥ ८.३८ ॥ विपर्यासप्रहाणे च तदवस्तुकतानये । व्यवदाने ससंभारे संस्कृतासंस्कृते प्रति ॥ ८.३९ ॥ व्यतिभेदापरिज्ञाने विर्नाणे च निवेशनम् । धर्मकायस्य कर्मेदं सप्तविम्शतिधा मतम् ॥ ८.४० ॥ ॥ अभिसमयालङ्कारे प्रज्ञापारमितोपदेशशास्त्रे धर्मकायाधिकारोऽष्टमः ॥ लक्षणं तत्प्रयोगस्तत्प्रकर्षस्तदनुक्रमः । तन्निष्टा तद्विपाकस्चोत्यन्यः षेढार्थसंग्रहः ॥ १ ॥ विषयस्त्रितयो हेतुः प्रयोगश्चतुरात्मकः । धर्मकायः फलं कर्मेत्यन्यस्त्रेधार्थसंग्रहः ॥ २ ॥ अभिसमयालङ्कारं नाम प्रज्ञापारमितोपदेशशास्त्रं समाप्तम् ॥ कृतिरार्यमैत्रेयनाथस्य ॥