महासाहस्रप्रमर्दनी नमो भगवत्यै आर्यमहासाहस्रप्रमर्दन्यै ॥ एवं मया श्रुतमेकस्मिन् समये भगवान् राजगृहे विहरति स्म । गृध्रकूटे पर्वते दक्षिणे पार्श्वे बुद्धगोचरे रत्नवृक्षे प्रभासे वनषण्डे महता भिक्षुसंघेन सार्धमर्धत्रयोदशभिर्भिक्षुशतैः ॥ तद्यथा । आयुष्मता च शारिपुत्रेण । आयुष्मता च महामौद्गल्यायनेन । आयुष्मता च महाकाश्यपेन । अयुष्मता च गयाकाश्यपेन । आयुष्मता च नदीकाश्यपेन । आयुष्मता चोरुविल्वाकाश्यपेन । आयुष्मता चाज्ञातकौण्डिन्येन । आयुष्मता च महाकात्यायनेन । आयुष्मता च वकुलेन । आयुष्मता च वाष्पेण । आयुष्मता च कोष्ठिलेन । आयुष्मता च वागीशेन । आयुष्मता चाश्वजिता । आयुष्मता च सुभूतिना । आयुष्मता च सुवाहुना । आयुष्मता चानिरुद्धेन । आयुष्मता च रेवतेन । आयुष्मता च नन्दिकेन । आयुष्मता चानन्देन । एवं प्रमुखैरर्धत्रयोदशभिर्भिक्षुशतैस्तस्मिंश्च समये भगवान् सभिक्षुसंघो मागधेन राज्ञाजातशत्रुणा वैदेहीपुत्रेण सत्कृतो गुरुकृतो मानितः पूजितोऽर्चितो याचयितश्चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्कारैः ॥ तेन खलु समयेन वैशाल्यां महानगर्यां महान् भूमिचालोऽभूदभ्रकूटं च प्रादुर्भूतम् । महति चाकालवाताशनिर्महामेघश्च समुत्थितो देवो गर्जति गुडगुडायति विद्युतश्च निश्चरन्ति । दशदिशश्चाकुलीभूताश्तमोऽन्धकारं च प्रादुर्भूतम् । नक्षत्राणि च न भाषन्ते । चन्द्रसूर्यौ न प्रभवतो न तपतो न विरोचतो न च प्रभास्वरौ भवतः ॥ अथ भगवानद्राक्षीद्दिव्येन चक्षुषा विशुद्धेनातिक्रान्तमानुष्यकेन वैशाल्यां महानगर्यां तानि भयानि प्रादुर्भूतनि । (म्प्स्_२) अप्येकत्यानां वैशालकानां लिच्छवीनां या ग्रामान्तः पुरीषाभूतैरधिष्ठिता अभिसंसृष्टा । अप्येकत्यानां च ग्रामकुमारकानां गणकमहामात्यामात्यापार्षद्यादासीदासकर्मकरप्रेष्यपरिचारकाः भूतैरभिभूताः समन्ततश्च वैशालीजनपदे या भिक्षुभिक्षुण्युपासकोपासिका भीतास्त्रस्ताः संविग्नाः संदृष्टरोमकूपजाता ऊर्ध्वमुखाः प्रक्रन्दन्तो बुद्धधर्मसंघान्नमस्यन्ति ॥ ये च ब्राह्मणगृहपतयो बुद्धशासने नाभिपन्नास्ते चाप्येकत्या ब्राह्मणगृहपतयो ब्राह्मणं नमस्यन्ति । केचित्पुनः शक्रं केचिल्लोकपालान्नमस्यन्ति । केचित्पुनर्महेश्वरमाणिभद्रपूर्णभद्रहारीतीचन्द्रसूर्यग्रहनक्षत्रपर्वतवनषण्डौषधिवृक्षनद्युत्ससरोह्रदकूपतडागचैत्यस्थानान्यपि नमस्यन्ति । कथं नामैतद्स्याद्वयमेवंरूपादुपद्रवतो भयस्थानात्परिमुच्येम इति ॥ अथ भगवांस्तथा रूपमृद्ध्यभिसंस्कारमकाशीद्यथा रूपेण ऋद्ध्यभिसंस्कारेणाभिसंस्कृतेन त्रिसाहस्रमहासाहस्रं लोकधातुं स्वरेण विज्ञाप्य सदेवमानुषासुरं लोकं प्रसाद्य स सन्निपातयामास । अथ ब्रह्मा सहापतिर्ब्रह्मकायिकाश्च देवाः शक्रश्च देवानामिन्द्रो देवाश्च त्रयस्त्रिंशाश्चत्वारश्च महाराजानश्चतुर्महाराजकायिकाश्च देवा अष्टाविंशतिश्च महायक्षसेनापतयो द्वात्रिंशच्च महायक्षनग्ना हारीती च सपुत्रिका सपरिवारा अतिक्रान्तवर्णा अतिक्रान्तायां रात्रौ केवलं कल्यं गृध्रकूटं पर्वतं स्वकेन वर्णानुभावेनोदारेणावभासेनावभास्य येन भगवांस्तेनोपसंक्रान्ताः । उपसंक्रम्य भगवतः पादौ शिरसा वन्दित्वा एकान्ते स्थिता एकवागेकस्वरैकपदेन भगवन्तं गाथाभिरभितुष्टुवुः ॥ दीप्तकाञ्चननिर्भासः पूर्णचन्द्रप्रभास्वरः । श्रीवैश्रमणवद्वीररत्नानामाकारो दृशि ॥ सिंहवारणविक्रान्तमत्तनागपराक्रमः । (म्प्स्_३) पर्वतो वा सुवर्णस्य निष्कं जम्बूनदस्य वा ॥ चन्द्रो वा विमले व्योम्नि नक्षत्रेभिः पुरस्कृतः ॥ मध्ये श्रावकसंघस्य लक्षणैः समलंकृतः ॥ लोकः सदेवको ह्येष मुनिं शरणमागतः । मनुष्याणां हितार्थाय रक्षाकाल उपस्थितः ॥ साहस्रप्रमर्दनं सूत्रं सर्वबुद्धैः प्रकाशितम् । आचक्रवाटपर्यन्तं सीमाबन्धनमुत्तमम् ॥ नमस्ते पुरुषवीर नमस्ते पुरुषोत्तमम् । कृताञ्जलिर्नमस्यामो धर्मराजं महामुनिम् ॥ अथ भगवान्मुहूर्तं तूष्णीभवेनाधिवास्य चतुरो महाराजानामन्त्रयामास ॥ नैतं ते महाराजानः प्रतिरूपं भवेद्यद्युष्मत्परिषदोऽस्मत्परिषदं विहेठयितव्यं मन्यते । तत्कस्य हेतोः । इतो हि मानुषे लोके बुद्धोत्पादो धर्मस्वाख्यातता च संघसुप्रतिपन्नता च । इदमस्मिन् बीजमवरोप्य बुद्धा भगवन्तो लोक उत्पद्यन्ते । प्रत्येकबुद्धाश्चार्हन्तः श्रावकाश्चास्मिन्निमे लोकाः कुशलमूलान्यवरोप्य स दशतो द्वात्रिंशतां देवनिकायानामन्यतरान्यतरे देवनिकाये उत्पद्यन्ते । राजानोऽपि भवन्ति चतुरङ्गिनश्चतुर्द्वीपेश्वराश्चक्रवर्तिनः । समुद्रपर्यन्ते महापृथिवीमण्डले धर्मेण राजं कारयन्ति । तेषां च पुत्रसहस्रं भवति शूराणां वीराणां वराङ्गरूपिणां महानग्नबलवेगधारिनां परसैन्यप्रमर्दकानां सप्तरत्नसमन्वागतानाम् । तद्युष्माकमल्पोत्सुकविहारेण विहरतामेवंरूपाणामस्मिन् लोके नोत्पत्तिर्भविष्यति ॥ अथ वैश्रमणो महाराजोऽभ्युद्गम्यासनादेकांसमुत्तरासङ्गं कृत्वा दक्षिणं जानुमण्डलं पृथिव्यां प्रतिष्ठाप्य येन भगवांस्तेनाञ्जलिं कृत्वा भगवन्तमेव नमस्यमानो भगवन्तमेतदवोचत् ॥ सन्ति भदन्त भगवन्नस्माकमुदाराणि गृहस्थानभवनानि नगरोद्यानविमानकूटागारहर्म्यनिर्यूहतोरणगवाक्षशुभरुचितविविधविचित्रपट्टदामघण्टाचामरमुक्ताजालपरिक्षिप्तानि (म्प्स्_४) धूपघटिकानि धूपितानि पुष्पावकीर्णानि येषु वयं नारीशतसहस्रपरिवृताः संपूर्णैः पञ्चभिः कामगुणैः समर्पिताः समन्वङ्गीभूता विहरामः । तेषामस्माकं भदन्त भगवन् प्रमत्तानां प्रमादविहारविहारिणां विहरतां परिषदः समन्ताद्दशदिशोऽन्नपानभोजनानि मार्गयन्ति । प्रपलायमानाः स्त्रीपुरुषदारकदारिकाणां तिर्यग्जातगर्भानां तिर्यग्योनिगतानामपि च प्राणिनामोजो हरन्ति विहेठयन्ति विघ्नयन्ति मारयन्ति । जीविताद्व्यपरोपयन्ति । ते वयं भदन्त भगवतोऽन्तिके चतुर्वर्णां परिषदां पुरतः स्वकस्वकानां परिषदां रूपलक्षणं दर्शयिष्यामः । यस्य परिषदो यो ग्रहो भविष्यति । ततस्तस्य महाराजस्योदारचैत्यप्रतिमा कर्तव्या । आतुरस्य च हस्तेन तस्य महाराजस्य नाम्ना नानागन्धधूपा धूपयितव्याः । पुष्पावकीर्णां धारणीं कृत्वा दीपांश्चादीप्य तत्र चैत्ये पूजा कर्तव्या । मदीयायाः परिषदो भदन्त भगवन् यक्षग्रहगृहीतस्य ईदृशं रूपलक्षणम् । हसति त्रसतेऽभीक्ष्णं प्रलपंश्च विकूप्यति । निद्रा चाविशते तस्य शूलो वाप्युपजायते ॥ ऊर्ध्वं संप्रेक्षते नित्यं नक्षत्राण्यनुधावति । रात्रौ प्रहर्षमायाति वेपते स्तनते सदा ॥ तत्र मन्त्रपदान्यस्ति लोकनाथ शृणोहि मे ॥ स्याद्यथेदम् ॥ सिद्धे । सुसिद्धे । सत्वे अरे । अरणे । बले । महाबले । जम्भे स्तम्भे जटिले । अखने । मखमे । खखने । खरट्टे । खरङ्गे । हरिपिङ्गले तिमिङ्गिले स्वाहा ॥ सिध्यन्तु मे मन्त्रपदाः स्वस्त्यस्तु मम सर्वसत्वानां च वैश्रमणस्य महाराजस्य नाम्ना बलेनैश्वर्याधिपत्येन च स्वाहा ॥ अथ धृतराष्ट्रो महाराजोऽभ्युद्गम्यासनादेकांसमुत्तरासङ्गं कृत्वा दक्षिणं जानुमण्डलं पृथिव्यां प्रतिष्ठाप्य येन भगवांस्तेनाञ्जलिं कृत्वा भगवन्तमेव नमस्यमानो भगवन्तम् (म्प्स्_५) एतदवोचत् । अस्मत्परिषदो भदन्त भगवन् गन्धर्वग्रहगृहीतस्य ईदृशं रूपलक्षणम् । नृत्यते गायते चापि भूषणानि प्रियायते । अलुब्धः सत्यवादि च हसते कुप्यते पुनः ॥ तृष्णायते रक्तनेत्रो ज्वरोऽस्याविशते सदा । उन्मिषति न चक्षुश्च शयते च पराङ्मुखः ॥ तत्र मन्त्रपदान्यस्ति लोकनाथ शृणोहि मे ॥ स्याद्यथेदम् । अखे । नखे । विनखे । बन्धे । वराणे । चपले । वखे । वखने । वखिणे । अखिने । नखिने । वहले । भगे । भगन्दरे । वशे वशवर्तिनि । स्वाहा ॥ मुच्यन्तु सर्वसत्वाः सर्वग्रहेभ्यो धृतराष्ट्रस्य महाराजस्य नाम्ना बलेनैश्वर्याधिपत्येन च स्वाहा ॥ अथ विरूढको महाराजोऽभ्युद्गम्यासनादेकांसमुत्तरासङ्गं कृत्वा दक्षिणं जानुमण्डलं पृथिव्यां प्रतिष्ठाप्य येन भगवांस्तेनाञ्जलिं कृत्वा भगवन्तमेव नमस्यमानो भगवन्तमेतदवोचत् । अस्मत्परिषदो भदन्त भगवन् कुम्भाण्डग्रहगृहीतस्य ईदृशं रूपलक्षणम् । बलवती तृषा भोन्ति विभ्रान्तश्चापि प्रेक्षते । मुखं लोहितमाभाति भूमौ स्वपिति कुञ्चितः ॥ दुर्वर्णः कृशगात्रश्च दीर्घकेशनखस्तथा । दुर्गन्धो मलिनश्चापि मृशा सम्भिन्ना भाषन्ते ॥ तत्र मन्त्रपदान्यस्ति लोकनाथ शृणोहि मे ॥ स्याद्यथेदम् । खखखमे । खलने । खलने । खलोमे । खरलिखे । खरखे । खटिने । खरलि । करखि । कशने । करटे । काले कामिनि । विधलि । विधिये । विधेये । शयने । समवते । शमि शमिनि स्वाहा ॥ शाम्यन्तु मम सर्वसत्वानां च सर्वग्रहाः सर्वभयोपद्रवा विरूढकस्य महाराजस्य नाम्ना बलेनैश्वर्याधिपत्येन च स्वाहा ॥ (म्स्प्६) अथ विरूपाक्षो महाराजोऽभ्युद्गम्यासनादेकांसमुत्तरासङ्गं कृत्वा दक्षिणं जानुमण्डलं पृथिव्यां प्रतिष्ठाप्य येन भगवांस्तेनाञ्जलिं कृत्वा भगवन्तमेव नमस्यमानो भगवन्तमेतदवोचत् । अस्मत्परिषदो भदन्त भगवन्नागसुपर्णीग्रहगृहीतस्य ईदृशं रूपलक्षणम् । हिक्कते श्वसते चापि शीतलं गात्रमेव च । स्विद्यते फेनलालास्य स्वपते च पुनः पुनः ॥ वर्णवान् भवते शूरो वेपते धावते तथा । पुनर्नखान् विदर्शयति महीं विशति रोदिति ॥ तत्र मन्त्रपदान्यस्ति लोकनाथ शृणोहि मे ॥ स्याद्यथेदम् । क्रगमे । क्रकमणि । क्रकसे । क्रकशसे । क्रुशुमे । क्रुकेके । क्रुखुमे क्रुमे । अगले । नगले । समङ्गले । कुहुमे । हुमे । अलुके । कलमके । कलले । इरे मिरे । धिरे धिरे अगरुवति स्वाहा ॥ स्वस्त्यस्तु मम सर्वसत्वानां च विरूपाक्षस्य महाराजस्य नाम्ना बलेनैश्वर्याधिपत्येन च स्वाहा ॥ अथ भगवांस्तावदेव सर्वावत्याः परिषदः पुरतः सिंहनादं नदति । दशबलसमन्वागतोऽहं चतुर्वैशारद्यविशारदः परिषद्युदारमार्षभं सम्यक्सिंहनादं नदामि । ब्रह्मचक्रं प्रवर्तयामि । मारो निर्जित एकेन ससैन्यबलवाहनः । रक्षायै सर्वसत्वानां सर्वे विद्यां शृणाथ मे ॥ स्याद्यथेदम् । असङ्गे । खङ्गवते । बलवते । बलनिर्घोषे । शूरे शूरवते । वज्रंगमे । वज्रधरे । स्तम्भे जम्भे । दृढसारे । विरजे । विघसे । वराग्रप्राप्ते । अरणे धर्मयुक्ते दिशि विघुष्टे स्वाहा ॥ स्वस्त्यस्तु मम सर्वसत्वानां च तथागतस्य नाम्ना बलेनैश्वर्याधिपत्येन च स्वाहा ॥ बुद्धस्य वचनं श्रुत्वा लोकपालाश्चतुर्दिशम् । उत्त्रस्ता भीतसंविघ्ना अस्थासुः प्राञ्जलीकृताः ॥ (म्स्प्७) शिष्टा भूतगणास्त्रस्ता विक्षिप्ता विरलीकृताः । पलायन्ते दशदिशो महानादमुदीरयन् ॥ तद्विदित्वा महाराजास्त्रिगुप्तिं समुदाहरत् । अहो विद्या महाविद्या महासाहस्रप्रमर्दनी ॥ यस्यां त्रसन्ति भूतानि श्रुत्वा बुद्धस्य भाषितम् । यथा प्रज्वलितो वह्निरश्मिर्वातैरपायितः ॥ क्षुरधारासमा विद्या गौतमेन प्रकाशिता । यो ह्येतन्नाभिमन्येत ऋषिवाक्यं सुभाषितम् ॥ तस्यात्र ब्रह्मशापेन ज्येष्ठपुत्रो न भेष्यति । अग्निं प्रज्वालयित्वा तु गृहीत्वासितसर्षपान् ॥ घृतमण्डेन संयुक्ताः प्रक्षेप्तव्याहुताशने । हेष्ठमूर्ध्वं चतुर्दिक्षु क्षिप्त्वा च वरुणोदकम् ॥ यदि क्षिप्रं न मुञ्चेयुः श्रुत्वा बुद्धस्य भाषितम् । भवन्तु ज्वलिताः सर्वे यथाग्नौ घृतसर्षपाः ॥ क्षेमं च तेन लप्स्यन्ति यक्षदण्डेन तर्जिताः । तेषां दक्षिणपार्श्वेषु महागण्डो भविष्यति ॥ चित्रभूता भविष्यन्ति यक्षरोगेन पीडिताः । अडकवतीं राजधानीं न गच्छन्ति कदा चन ॥ निवेशनं न पश्यन्ति कुबेरस्य यशस्विनः । आसनं च न लप्स्यन्ति भूतसंघाः समागमे ॥ अन्नपानेन रहिता जायन्ते यक्षमण्डले । महासाहस्रप्रमर्दनं सूत्रं यो यक्षो नानुवर्तते ॥ तस्य वज्रधरः क्रुद्धो मूर्धानं स्फोटयिष्यति । कर्कशक्षुरधारेण जिह्वान् तस्येह च्छेत्स्यति ॥ तीक्ष्णेण चास्य शस्त्रेण कर्णौ नासां च च्छेत्स्यति । प्रपातयति चक्रेण क्षुरधारेण मस्तकम् ॥ लोहमुद्गरकीलेन हृदयं चास्य पीडयेत् । मुखतः स्रवते चास्य पूयमुष्णं च शोणितम् ॥ विद्यापाशेन दण्डेन सदा संसारगामिनः । तत्रैव संसरिष्यन्ति संसारे चक्रमण्डले ॥ (म्स्प्८) श्रियाविष्टा महाराजाः समागम्य चतुर्दिशम् । धर्मसंनाहसंनद्धा निषण्णा भद्रपीठके ॥ धृतराष्ट्रश्च पूर्वायां दक्षिणेन विरूढकः । पश्चिमेन विरूपाक्षः कुबेरश्चोत्तरां दिशम् ॥ राज्ञां समागतानां हि ज्वलतां तेजसा श्रिया । अन्तरीक्षं तदा शाश्ता सर्वज्ञो हि समुद्गतः ॥ वज्रासने निषद्येह विमाने ब्रह्मनिर्मिते । ततो ब्रह्मा महाब्रह्मा प्राञ्जलिस्थो नमस्यति ॥ सुवर्णपर्वतः श्रीमांश्तप्तकाञ्चनसंनिभः । पद्मपुष्पवदुत्फुल्लः शालराजेव पुष्पितः ॥ पूर्णचन्द्रो रविर्वापि नक्षत्रैः परिवारितः । सुवर्णवर्णकायेन लक्षणैर्मुनिरावृतः ॥ संस्तुत्वा लोकप्रद्योतं ब्रह्मा लोकपितामहः । पुरतो लोकनाथस्य लोकपालानथाब्रवीत् ॥ न प्राप्तं लोकपालानां पर्षदो नानुशासनम् । इतो बुद्धा हि जायन्ते बुद्धाः प्रत्येकजा अपि ॥ इतश्च श्रावकोत्पत्तिर्देवाश्चापि समुत्स्थिताः । जायन्ते ब्राह्मणाश्चेतः षडङ्गावेदपारगाः ॥ ऋषयश्च महाभागा इतः श्रमणब्राह्मणाः । अल्पोत्सुकानां युष्माकं बध्यते मानुषीप्रजा ॥ ब्रह्मणो वचनं श्रुत्वा लोकपाला वचोऽब्रुवन् । एवमेतन्महाब्रह्मन्नेवमेतत्महामुने ॥ एते विशोधयिष्यामः समन्तात्सागरं वयम् । सुमेरुं कंपयित्वा तु धारणीं परिवर्त्य च ॥ बन्धयिष्यामः पाशेन चन्द्रसूर्यौ तथानिलम् । नक्षत्राणि च सर्वाणि गाढेनाभ्याहतेन ॥ दिशश्चादर्शना भागास्तेषां नेष्याम सर्वदा । ये प्रदुष्टा भविष्यन्ति न च लोकहितोद्यतः ॥ लोकः सदेवको ह्येष गर्हते भूतकारणात् । पराभवन्ति भूतानि हिंसन्ते मानुषीं प्रजाम् ॥ (म्स्प्९) अत्र मन्त्रधराः कामं दर्शयन्ति पराक्रमम् । अतिक्रामन्ति ये विद्यां मन्त्रानौषधमेव वा ॥ विद्यातिक्रान्ताः परिषदः समन्ताद्दण्डतर्जिताः । कृत्वा समानयिष्यामो लोकनाथस्य चाग्रतः ॥ तेषां दण्डं प्रणेष्यामः सूत्रं ब्रह्मणा निर्मितम् । यस्येदं भाषतो विश्वं तर्जते भूतमण्डलम् ॥ बुद्धस्य पादौ वन्दित्वा आलोक्य च परस्परम् । सुवर्णरूप्यवैडूर्यमुक्तायाः स्फटिकस्य च ॥ समुसाराश्मगर्भस्य सप्तरत्नसमाकुलान् । सहस्रारान् सुवर्णांश्चतुरः संस्कृतान् रथान् ॥ विश्वकर्मसु संयुक्तानृद्ध्य वैहायसंगमान् । तत्राभिरुह्य राजानः प्रक्रान्ता भूतमण्डलम् ॥ पुष्पपूर्णां महीं कृत्वा चूर्णैश्चापि हिरण्मयैः । यष्टीराबध्य हि गले सूत्रपाशांस्तथापि च ॥ यक्षसेनापतीन् सर्वान् प्रेषयित्वा चतुर्दिशम् । आनेथ सर्वभूतानि यावन्तोऽस्मद्गता दिशि ॥ साहस्रप्रमर्दनं ह्येतेत्संश्रौतुं सूत्रमुत्तमम् । ब्रह्मलोकान् समुदितं सर्वलोकैर्विचिन्तितम् ॥ महासाहस्रकायेन मर्दिता यक्षराक्षसाः । श्रुत्वा वाक्यं कुबेरस्य यक्षसेनापतिर्गतः ॥ विक्रमन्तश्चतुर्दिक्षु घोषं घोषन्ति गुह्यकाः । अष्टाविंशच्च भूतानि ग्रहा गन्धर्वजा मुने ॥ पूर्वेऽस्मिन् दिशोभागे भूतसंघाः शृणोन्तु मे । सर्वे ते सूत्रपाशेन पञ्चबन्धनपीडिताः ॥ अष्टाविंशच्च भूतानि ग्रहाः कुम्भाण्डजा मुने । दक्षिणेऽस्मिन् दिशोभागे भूतसंघाः शृणोन्तु मे ॥ सर्वे ते सूत्रपाशेन पञ्चबन्धनपीडिताः । अष्टाविंशच्च भूतानि भोन्ति नागग्रहा मुने । पश्चिमेऽस्मिन् दिशोभागे भूतसंघाः शृणोन्तु मे ॥ सर्वे ते सूत्रपाशेन पञ्चबन्धनपीडिताः । (म्स्प्१०) अष्टाविंशच्च भूतानि भोन्ति यक्षग्रहा मुने । दिग्भागे उत्तरे चापि भूतसंघाः शृणोन्तु मे ॥ सर्वे ते सूत्रपाशेन पञ्चबन्धनपीडिताः । ज्येष्ठपुत्रः कुबेरस्य सञ्जयो नरवाहनः ॥ पादमूले तु तस्यैव यक्षाणां षष्ठिकोटयः । आकृष्टाः सूत्रपाशेन पञ्चबन्धनपीडिताः ॥ पुत्रो द्वितीयस्तस्यैव जनको नाम विश्रुतः । पादमूले तु तस्यैव यक्षाणां षष्ठिकोटयः ॥ आकृष्टाः सूत्रपाशेन पञ्चबन्धनपीडिताः । पुत्रस्त्रितीयस्तस्यैव नाम्ना चासौ महाग्रहः ॥ पादमूले तु तस्यैव यक्षाणां षष्ठिकोटयः । आकृष्टाः सूत्रपाशेन पञ्चबन्धनपीडिताः ॥ पुत्रश्चतुर्थस्तस्यैव नाम्नासौ कलशोदरः । पादमूले तु तस्यैव यक्षाणां षष्ठिकोटयः ॥ आकृष्टाः सूत्रपाशेन पञ्चबन्धनपीडिताः । महेश्वरो महादेवश्चतुर्बाहुर्महाबलः ॥ पादमूले तु तस्यैव यक्षाणां षष्ठिकोटयः । आकृष्टाः सूत्रपाशेन पञ्चबन्धनपीडिताः ॥ आगत्य सर्वभूतानि पर्वते भूतमर्दने । एषा उद्भाविता विद्या सर्वविद्या शर्मकरा ॥ निष्ठुरं पुरुषं दण्डं सर्वबुद्धैर्हि भाषितम् । एष गच्छामः शरणं सर्वे गौतममादरात् ॥ अशाठ्येनानुवर्तेथ मा च सर्वेण भेष्येथ । ततो मुहूर्तमात्रेण भूतसंघाः समागताः ॥ पर्वतेषु प्रपातेषु समुद्रेषु सरःसु च । नदीप्रस्रवणोत्सेषु आवर्तेषु च ये स्थिताः ॥ उद्यानेषु विमानेषु आरामेषु वनेषु च । चैत्यस्थानेषु ग्रामेषु वृक्षमूलेषु ये स्थिताः ॥ नगरस्य प्रवेशेषु निगमजनपदेषु च । राजकुलेषु द्वारेषु विमानेषु च ये स्थिताः ॥ (म्स्प्११) मण्डपेषु श्मशानेषु तथा देवकुलेषु च । सीमासु शुल्कशालायां शून्यागारेऽथ जाङ्गले ॥ ऊर्ध्वं हेष्ठं च ये यक्षाश्चतुर्दिक्षु विदिक्षु च । यक्षकोटीसहस्राणि विद्यापाशेन कर्षिताः ॥ मृदङ्गवादितं कृत्वा केचिद्गर्गरवादितम् । वीणापणववेणूश्च वादयन्तो महाबलाः ॥ कृत्वा च वादितं चित्रं गान्धर्वं नाट्यमेव च । इन्द्रः सोमश्च वरुणो भरद्वाजः प्रजापतिः ॥ मातलिर्लोहिताक्षश्च हिमवन्तः सुपूर्णकः । चन्दनः कामश्रेष्ठी च मणिकण्ठो निकण्ठकः ॥ प्रजागुरुर्यतीशश्च देवसूतश्च मातलिः । चित्रसेनश्च गन्धर्वो नरराजो जिनर्षभः ॥ तथा पञ्चशिखो नाम तुम्बुरुः सूर्यवर्चसः । शैलश्चैवासिपुत्रश्च विश्वामित्रो यशोधरः ॥ आडवकः सुमनश्च शूचीकर्णो दरीमुखः । पञ्चालगण्डः सुमुखः ससैन्यबलवाहनः ॥ देवा नागाश्च गन्धर्वा असुरा यक्षराक्षसाः । त्रैतीयकश्च उन्मादास्तथा चातुर्थको ज्वराः ॥ ये च लोकं विहेठन्ति प्रदुष्टा यक्षराक्षसाः । चतुर्दिक्षु समानीय पञ्चबन्धनपीडिताः ॥ प्राञ्जलीकाः पुरः स्थित्वा लोकनाथमथाब्रुवन् । नमस्ते पुरुषवीर नमस्ते पुरुषोत्तम ॥ प्राञ्जलीका नमस्यामो धर्मराज नमोऽस्तु ते । धावन्ति पुरतस्तेषां भूता यक्षा महाभयाः ॥ चतुर्भुजा महाघोरा बहुपादेकपादः । चतुष्पादा द्विपादाश्च ऊर्ध्वपादा अधोमुखः ॥ बहुकायैकशीर्षाश्च एककायाश्चतुःशिराः । बहुनेत्रा महाकायाश्च एकाक्षा द्वादशोदराः ॥ खरोष्ठहस्तिशीर्षाश्च ऊर्ध्वहस्ता अधःशिराः । शस्त्रदन्ताः शस्त्रबाहू शस्त्रपादाश्च राक्षसाः ॥ (म्स्प्१२) ताम्रकेशास्ताम्रहस्तास्ताम्राक्षास्ताम्रपाणयः । ताम्रमुद्गरपादाश्च ताम्रनासा अयोमुखाः ॥ आदीप्तहस्तपादाश्च मनुष्यतनुना स्थिताः । काणाः कुब्जास्तु गरुडा विकृताक्षा विजृम्भकाः ॥ मकरव्याडरूपाश्च विरूपाश्सकलोन्मुखाः । लम्वोष्ठा वक्रदन्ताश्च प्रदुष्टा भृकुटीमुखाः ॥ स्थूलोदराः कुम्भकर्णा लंवकर्णा अकर्णकाः । दीर्घकर्णा दीर्घबाहू दीर्घकेशाग्रपाणयः ॥ शुष्ककाया दीर्घकाया दीर्घकेशाः स्वलंकृताः । पादभाराः कृषग्रीवा दुर्गन्धाः करशोदराः ॥ मकरस्य यथा अंशो मुषलमुद्गरोदराः । ऊर्ध्वनेत्रा महाकर्णा ऊर्ध्वकेशाः सुलोहिताः ॥ स्थूलशीर्षा धनुग्रीवाः कुब्जकुंभोदराः कृषाः । ववृषुर्वह्निवर्षाणि मेरुमूर्धं विचार्य वै ॥ वृक्षपर्वतपाषाणामग्रकूटं समद्युतिम् । शंखभेरीमृदङ्गानां कुंभाण्डा दुन्दुभिस्वराः ॥ प्रमुञ्चन्ति रवं भीमं महाकण्ठाः खरस्वराः । कालनीलकपीताश्च हरित्पिङ्गलपिङ्गलाः ॥ गुह्यकाः सर्वदुष्टानामालये पुरः स्थिताः । ग्रसन्ते मानुषं लोकं नरनार्यस्तथेतरान् ॥ हतकृत्यमांशरुधिरं मेदमज्जान् तथापरे । सूचीलोमासिकेशाश्च रक्तलोहितम्रक्षिताः ॥ भक्षमाणा विधावन्ति कुणपं संप्रगृह्य वै । तीक्षुदन्ता रक्तहस्ता ओष्ठम्रक्षितलोहिताः ॥ अर्धखादितगात्रैश्च कृत्वा हस्तौ प्रपूरितौ । वृक्काहृदयजत्रुनिजघणं भक्षमाणकाः ॥ कराला हस्तपादेभ्यो हरन्ते प्राणिनां बलम् । अस्थिसंकरकायेन त्रासयन्ति जनान् बहून् ॥ गृहीत्वा मानुषं चर्म लोहितेन प्रपूरितम् । विषेणोग्रेण संसृष्टं विक्षिपन्ति दिशोदशम् ॥ (म्स्प्१३) नगराणां प्रवेशेषु विक्षिपन्ति कुलाकुलम् । वातं पित्तं च श्लेष्माणं क्षोभयन्ति चतुर्दिशम् ॥ इति संतिष्ठन्ते तत्र राजपीडा महाभयाः । सर्वे समागतास्तेऽपि विद्यापाशेन कर्षिताः ॥ नमस्ते पुरुषवीर नमोऽस्तु पुरुषोत्तम । नमस्यामोऽञ्जलिकरा धर्मराज नमोऽस्तु ते ॥ चरन्ति नगरं ग्रामं राष्ट्रराजकुलेषु च । यक्षा ओजोहरा घोरा नृमांसरुधिरासिनः ॥ महाकाया महाभीमा महाबला महेश्वराः । दशग्रीवाः सहस्राक्षा महाग्रासा महामुखाः ॥ महता परिवारेण शस्त्रहस्ताः सुभैरवाः । अहिचर्मगृहीताश्च उल्काहस्ताश्चतुर्भुजाः ॥ दण्डहस्ताः शस्त्रहस्ताः शूलिनो वज्रपाणिनः । उत्त्रासेन्ति दिशः सर्वायुध्वं कृत्वा सुदारुणम् ॥ प्रसन्ना गुह्यकाः सर्वे दुष्टानामालये स्थिताः । ग्रसन्ते मानुषे लोके नरनार्यस्तथेतरान् ॥ उष्णैर्मांसैश्च रुधिरैर्भान्ताङ्गाः कामरूपिणः । सिंहव्याघ्राश्च महिषीगोखरोष्ट्रेभरूपिणः ॥ ऋक्षद्वीपिवृकन्यङ्कुशृगालैडविडालकैः । रूपैराखुकपिप्रख्यैः खङ्गीशूकरनाकुलैः ॥ मत्सकच्छपरूपैश्च अपरैः काककोकिलैः । उलूकगृध्रसेन्यादि तथा तिमितिमिङ्गिलैः ॥ मायूरैर्हंसकापोतै रूपैः क्रौञ्चविहङ्गमैः । केचित्कुक्कुटरूपेण यक्षाः पश्यन्ति मानुषान् ॥ सुपर्णीपक्षिवेषेण संत्रासेन्ति जनान् बहून् । केषांचिद्मानुषं शीर्षं शरीरं खरकोत्कटम् । अन्यान्यभिद्रवन्तोऽन्ये दृश्यन्ते विकलाशयाः । विनग्नाः कामपरमा अन्त्रमालावगुण्ठिताः ॥ प्रहरन्ति त्रिशूलेन पीडां कुर्वन्ति प्राणिनाम् । मुञ्चन्ति दारुणं श्वासं संतापेन्ति इमाः प्रजाः ॥ (म्स्प्१४) विचित्ररूपा दृश्यन्ते यावती प्राणसंततिः । गृहीतपर्वतश्चान्ये असिचक्रधरापरे ॥ संख्याशतसहस्राणि मुसलदण्डतर्जिताः । उत्पाटिताक्षा विमुखाः खण्डदन्ताश्च राक्षसाः ॥ छिन्ननासाश्छिन्नकर्णाश्छिन्नजिह्वा वलीमुखः । संछिन्नहस्तपादाश्च छिन्नशीर्षाश्च राक्षसाः ॥ प्रेक्षन्ति चावतारं हि ओजो हिंसन्ति किल्बिषाः । मानुषाणां शरीरेषु सुशूक्ष्मो दृश्यते ग्रहः ॥ रोमान्तरेषु मर्मेषु तथा व्रणमुखेषु च । सर्वे समागतास्तेऽपि विद्यापाशेन कर्षिताः ॥ नमस्ते पुरुषवीर नमस्ते पुरुषोत्तम । नमस्यामोऽञ्जलिकरा धर्मराज नमोऽस्तु ते ॥ सुमेरौ गिरिराजे च चक्रवाडे तथैव च । गृध्रकूटे इशाधारे हिमवद्गन्धमादने ॥ पाण्डवे चित्रकूटे च नारदे पर्वतद्वये । श्रीपर्वतस्य मूर्धस्थाः शृङ्गा ये भृशमुद्गताः ॥ यास्तत्र देवताधस्ता ऋषयश्च तथाधिकाः । बभूवुस्तेऽपि चोद्विग्ना आयुश्चोत्त्रस्तमानसाः ॥ देवकोटीसहस्राणि देवकोटीशतानि च । देवकन्या महाभागा अञ्जलिं संप्रगृह्य वै ॥ वेमचित्री राहुलश्च प्रह्लादश्च समागताः । भृत्यकोटीसहस्रैश्च भृत्यकोटीशतैरपि ॥ कन्यास्तेषामृद्धिमत्यो बद्धा दशनखाञ्जलिम् । सागरः सुप्रतिष्ठश्च नागराजो मनस्व्यपि ॥ नगेन्द्रोऽनवतप्तश्च उभौ नन्दोपनन्दकौ । वक्षुनन्दो वज्रमतिर्गङ्गा सिन्धुश्च सागरः ॥ सुपर्णी पक्षिराजानः सागरं क्षोभयन्ति ये । नागकोटीसहस्रभिर्नागकोटीशतैस्तथा ॥ कन्यास्तेषां महाभागा अञ्जलिं संप्रगृह्य वै । रविचन्द्रावुभौ वापि नक्षत्रपरिवारितौ ॥ (म्स्प्१५) सुवर्णवर्णः पुष्पेषु मगधेषु रभेयकः । कापिलिर्भरुकच्छेषु कोशलेषु प्रपुण्डकः ॥ शूचीलोमा च मद्रेषु मल्लेषु च यशोधरः । विभीषणश्च पाञ्चाले लोहिताक्षश्च अश्वजे ॥ पिङ्गलश्च अवन्तेषु कपिलाक्षश्च वैदिशे । कुम्भोदरश्च मत्सेषु सूरतेषु च दीर्घिलः ॥ प्रमर्दनस्तु गान्धारे सूर्यमित्रश्च कम्बुषु । महाजनपदेष्वेते उक्ता यक्षाश्चतुर्दश ॥ वज्रपाणिर्महायक्षो धर्मपालः प्रपुण्डरः । कपिलः सुदर्शनो विष्णुः पिण्डारः करशोदरः ॥ कुम्भीरः सात्यकिश्चापि पाञ्चिकश्च जिनर्षभः । महेश्वरो महायक्षश्चतुर्बाहुर्महाबलः ॥ प्रमर्दनः शूरसेनो महानग्नो महाबलः । यमश्च यमदूतश्च मारश्चापि ससैन्यकः ॥ हरिर्नाम्ना त्वसौ यक्षो यक्षकोटीपरिग्रहः । हारीती च ससैन्या तु गिरिदारि च यक्षिणी ॥ भीमरूपा महातेजा हारीती नाम विश्रुता । चण्डा चण्डालिका चैव पञ्चपुत्रशतैर्वृता ॥ आकोटा कर्कटी काली पदुमा पदुमावती । पुष्पदन्ती विशाला च खरकर्णा च राक्षसी ॥ चन्दनो विष्णुलश्चापि हरिपिङ्गलपिङ्गलः । कुञ्जरो नागदन्तश्च गिरिमित्रोऽग्रदंष्ट्रकः ॥ राक्षसी भद्रदन्ता च ब्रह्मिला विष्णुला तथा । यक्षो हालाहलश्चैव राक्षसश्च वितुण्डकः ॥ शूलेषु ते गृहीत्वाथ गवाश्च मृगमानुषान् । भक्षयन्तश्च जीवन्तो धावन्तश्च दिशोदिशः ॥ प्रकम्पमाना धारणीं शोषयन्तो वनस्पतीन् । संकोचयन्तः शिखरान्मर्दयन्त इमाः प्रजाः ॥ परस्परं संहर्षेन्तो विद्याकृष्टाः समागताः । तेषां समागतानां हि लोकनाथस्य चाग्रतः ॥ (म्स्प्१६) ततो वैश्रमणो राजा लोकनाथमथाब्रवीत् । ममास्त्युत्तरदिग्भागे राजधानि सुनिर्मिता ॥ मनोरमाडकवती तेनाहमडकाधिपः । चिन्तिता सर्वदेवे हि राजधान्यडकाह्वया ॥ समुच्छ्रिता तु प्राकारा सप्तरत्नसमाकुला । क्षोमकैर्योजने द्वेधैः संस्कृता काञ्चनामयैः ॥ क्षोमके चैकमेकस्मिन् समन्ताद्दिक्चतुष्टये । स्थिता वज्रधरा यक्षाः शस्त्रहस्ताः सुवर्मिताः ॥ राजधान्यास्तु तस्यैव कृतं द्वारचतुष्टयम् । एकं सुवर्णमयं द्वारं द्वितीयं रूप्यसंस्कृतम् ॥ तृतीयं स्फाटिकं द्वारं चतुर्थं मणिविचित्रितम् । अस्त्यन्तरे तु नगरे उद्याने वनपुष्पिते ॥ विमानानि विचित्राणि सप्तरत्नमयानि वै । नानारत्नमया वृक्षा नानापक्षिणिकूजिताः ॥ नानापुष्पसंछन्ना नानागन्धानुलेपनाः । पक्षिणीनां विलासैश्च गीतवाद्यैरलंकृताः ॥ अनुभोमि श्रियं त्वग्र्यां भूतानां तत्र मण्डले । सर्वाकारवरोपेतास्तत्र मे परिचारकाः ॥ धर्मचारी धर्मकामा न विहिंसन्ति प्राणिनाम् । अन्नपानैस्तु विकला दारुणास्त्वितराः प्रजाः ॥ अधर्मचार्यधर्मकामास्ते विहिंसन्ति प्राणिनाम् । उदारं परिमार्गन्तो विप्रेक्षन्ति चतुर्दिशम् ॥ नगरद्वारसंस्था ये उद्यानेषु वनेषु च । यक्षराक्षसभूतानां कोटीसहस्रकान् गणान् ॥ सर्वांस्तानानयिष्यामि सूत्रपाशेन कर्षितान् । चन्दनानां वनैश्च्छन्नं शीतपुष्करिणीचितम् ॥ मध्ये तद्राजधान्यास्तु धर्मराजनिवेशनम् । समन्ताद्योजनं यावत्कूटागारास्तु निर्मिताः । सुवर्नस्य भवेदेको द्वितीयो रूप्यमेव च । वैडूर्यस्य तृतीयस्तु चतुर्थः स्फाटिकः शुचिः ॥ (म्स्प्१७) पञ्चमो रक्तमुक्तायाः षष्ठश्चैवाश्मगर्भः । सप्तमस्तु मुसारस्य सप्तरत्नमयोऽष्टमः ॥ नारिशतसहस्राणि एकैकस्मिन् समागताः । चित्रैराभरणैरग्रैश्चित्रैर्वेशैरलंकृताः ॥ विचित्रगीतवाद्येषु शिल्पस्थानेषु शिक्षिताः । ईदृशेन प्रमोदेन उदग्रस्तुष्टमानसः ॥ तत्राहं मधुपानेन कामैश्चात्यर्थमुच्छ्रितः । पर्षत्मे प्रपलायन्ति संत्रासेन्ति दिशोदशः ॥ स्त्रियश्च पुरुषाश्चैव तथा दारकदारिकाः । गर्भस्था अपि नश्यन्ति तिर्यग्योनिगता अपि ॥ नक्षत्रचन्द्रसूर्याश्च ग्रहाः पीडन्ति दारुणाः । सस्यं बीजं फलं पुष्पमोषधं पानभोजनम् ॥ हरन्ते मानुषीं लक्ष्मीमुच्चानीचीं करोन्ति च । ये केचिद्दुष्कृता लोके वैराः कलहविग्रहाः ॥ दग्धं नष्टं हतं भिन्नं तत्सर्वं भूतजं स्मृतम् । ओगुण्ठन्ति निगुण्ठन्ति पर्यस्यन्ति स्थितन्ति ॥ उत्त्रासेन्ति च सत्वानां विप्रेक्षन्ति द्विषन्ति च । दर्शेन्ति पापकान् स्वप्नान् प्रसुप्तान् पीडयन्ति च ॥ द्वारस्थाश्चाच्छटां कृत्वा प्रक्रोशन्ति ग्रसन्ति च । मित्रज्ञातिसरूपाश्च दृश्यन्ते आलपन्ति च ॥ विचित्रकन्यारूपेण दृश्यन्ते कामरूपिणः । चन्द्ररूपेण दृश्यन्ते सूर्यनक्षत्ररूपिणः ॥ वातोल्काशनिरूपेण दृश्यन्ते वायुपीडकाः । उल्काकलापसदृशाः शृगालस्वरभैरवाः ॥ विक्रमन्तश्च दृश्यन्ते वृक्षचैत्यालयेषु च । कुमाररूपेण ज्वलन्तः शकटस्वराः ॥ सदा चित्राणि दर्शेन्ति आलयेषु पथेषु च । गृहाणां नगराणां च द्वारे मुञ्चन्ति ते ग्रहाः । गृहीत्वा जीवितं कायं कुपथे ग्रामयन्ति च । विचित्राणि च रूपाणि विचित्राणि स्वराणि च ॥ (म्स्प्१८) रोगान् विचित्रान् दर्शेन्ति व्याधीन् वै कायसंस्थितान् । विपरीतं च दर्शेन्ति सर्वरोगेषु च लक्षणम् ॥ यावती प्रकृति लोके सर्वान् दर्शेन्ति तेऽन्यथा । सर्वे समागतास्तेऽपि विद्यापाशेन कर्षिताः ॥ नमस्ते पुरुषवीर नमस्ते पुरुषोत्तम । नमस्यामोऽञ्जलिकरा धर्मराज नमोऽस्तु ते ॥ ततो वैश्रमणो राजा उत्थितोऽथ कृताञ्जलिः । चक्राङ्कचित्रचरणयष्टिकाञ्चनसन्निभः ॥ लोकप्रद्योतकिरण अग्निकल्पमहामुने । चतुःषष्ठिसहस्राणि यक्षाणामत्र दारुणाः ॥ निश्रिता ह्युत्तरभागं पीडयन्ति तदुद्भवान् । तेषां दण्डं प्रणेष्यामि लोकनाथस्य संमुखम् ॥ स्याद्यथेदम् । खङ्गे । खङ्गगर्भे । विचक्षणे । चक्रगगने । चन्द्रे चपले । भीमपर्वते । खराग्रे । कुटिलकराग्रे । एकाक्षिवर्गवति । सारङ्गवति विचित्रकान्ति स्वस्त्यस्तु मम सर्वसत्वानां च उत्तरस्यां दिशि स्वाहा ॥ ब्रह्मा चाप्यथ शक्रश्च लोकपाला महेश्वराः । यक्षसेनापतयः सर्वे हारीती च सपुत्रिका ॥ इदं पुष्पं च गन्धं च प्रतिगृह्णन्तु ममाहुतिम् । वीर्येण तेजसा तेषामैश्वर्येण बलेन च ॥ निहताः सर्वरोगाश्च स्वस्त्यस्तु मम सर्वसत्वानां च सर्वभयोपद्रवेभ्यः स्वाहा ॥ नमस्ते पुरुषवीर नमस्ते पुरुषोत्तम । नमस्यामोऽञ्जलिकरा धर्मराजा नमोऽस्तु ते ॥ धृतराष्ट्रश्च राजोऽपि स कृताञ्जलिरुत्थितः । पूर्णराशिरिवोत्फुल्लः कलविङ्करुतस्वरः ॥ मोरकोकिलनिर्घोषमेघदुन्दुभिगर्जितः । चतुःषष्ठिसहस्राणि गन्धर्वा राक्षसा मुने ॥ निश्रिता पूर्वदिग्भागं पीडयन्ति तदुद्भवान् । (म्स्प्१९) तेषां दण्डं प्रणेष्यामि लोकनाथस्य संमुखम् ॥ स्याद्यथेदम् । धरणि धारणि । प्रध्वंसनि । भञ्जनि । प्रभञ्जनि । विधमणि । किंपुरुषे । सकले । सारथे । सारवति । शूरधरे । शूरधारिणि । शुद्धचरणे । घोषवति । सराग्रे । शान्ति स्वस्त्यस्तु मम सर्वसत्वानां च पूर्वस्यां दिशि स्वाहा ॥ ब्रह्मा चाप्यथ शक्रश्च लोकपाला महेश्वराः । यक्षसेनापतयः सर्वे हारीती च सपुत्रिका ॥ इदं पुष्पं च गन्धं च प्रतिगृह्णन्तु ममाहुतिम् । वीर्येण तेजसा तेषामैश्वर्येण बलेन च ॥ निहताः सर्वरोगाश्च स्वस्त्यस्तु मम सर्वसत्वानां च सर्वभयोपद्रवेभ्यः स्वाहा ॥ नमस्ते पुरुषवीर नमस्ते पुरुषोत्तम । नमस्यामोऽञ्जलिकरा धर्मराज नमोऽस्तु ते ॥ राजा विरूढकश्चापि प्राञ्जलीकस्ततो उत्थितः । सर्वज्ञः सर्वदर्शी च सर्ववादी प्रमर्दनः । सर्वसंशयच्छेता च सर्वलोकविनायकः । चतुःषष्ठिसहस्राणि कुम्भाण्डाः प्रेतपूतनाः ॥ निश्राय दक्षिणं देशं पीडयन्ति तदुद्भवान् । तेषां दण्डं प्रणेष्यामि लोकनाथस्य संमुखम् ॥ स्याद्यथेदम् । शान्ति शारवति । कान्ति कारवति । किंकरसि । किरण्डि । किंवडि । धरणि । वर्धनि । भूमिधारिणि । विभूमिधारिणि । हिमवति । ज्योतिश्चरणे । मालाग्रि । स्वस्त्यस्तु मम सर्वसत्वानां च दक्षिणायां दिशि स्वाहा ॥ ब्रह्मा चाप्यथ शक्रश्च लोकपाला महेश्वराः । यक्षाधिपतयः सर्वे हारीती च सपुत्रिका ॥ इदं पुष्पं च गन्धं च प्रतिगृह्णन्तु ममाहुतिम् । वीर्येण तेजसा तेषामैश्वर्येण बलेन च ॥ निहताः सर्वरोगाश्च स्वस्त्यस्तु मम सर्वसत्वानां च (म्स्प्२०) सर्वभयोपद्रवोपसर्गेभ्यः स्वाहा ॥ नमस्ते पुरुषवीर नमस्ते पुरुषोत्तम । नमस्यामोऽञ्जलिकरा धर्मराज नमोऽस्तु ते ॥ विरूपाक्षो महाराजा गृहीताञ्जलिरुत्थितः । महामेघमहासिंहः महामहमहोदधिः । महावादी महाशूरो महासंग्राममर्दकः । चतुःषष्ठिसहस्राणि नागसौपर्णिगुह्यकाः । निश्राय पश्चिमं देशं पीडयन्ति तदुद्भवान् । तेषां दण्डं प्रणेष्यामि लोकनाथस्य संमुखम् ॥ स्याद्यथेदम् । धर्मधराग्रे । बलवति । बलिनि विशाङ्गे । विवसि सागरे । खरि कपिले । चण्डालि । तिरिणि । विराजने । विधारिणि । वर्णवति । अचरे । स्वस्त्यस्तु मम सर्वसत्वानां च पश्चिमायां दिशि स्वाहा ॥ ब्रह्मा चाप्यथ शक्रश्च लोकपाला महेश्वराः । यक्षाधिपतयः सर्वे हारीती च सपुत्रिका ॥ इदं पुष्पं च गन्धं च प्रतिगृह्णन्तु ममाहुतिम् । वीर्येण तेजसा तेषामैश्वर्येण बलेन च ॥ निहताः सर्वरोगाश्च स्वस्त्यस्तु मम सर्वसत्वानां च सर्वभयोपद्रवोपसर्गेभ्यः स्वाहा ॥ नमस्ते पुरुषवीर नमस्ते पुरुषोत्तम । नमस्यामोऽञ्जलिकरा धर्मराज नमोऽस्तु ते ॥ अथ ब्रह्मा महाब्रह्मा प्राञ्जलीकः समुत्थितः । ब्राह्मणः स्नातकः शुद्धः सर्ववेदेषु पारगः । वैद्यराजो जनानन्दः सर्वरोगचिकित्सकः । ये यक्षराक्षसाश्चैव दिग्विदिक्षु व्यवस्थिताः । पाताले हेष्ठमूर्ध्वं च आकाशे निश्रिता ग्रहाः । तेषां दण्डं प्रणेष्यामि लोकनाथस्य संमुखम् ॥ स्याद्यथेदम् । ब्रह्म ब्रह्मघोषे । ब्रह्मस्वरे । वज्रधरे । स्थिरे । सारे । अचले । अरणे । इषणे । अरणि देरणि । शूरे । वराग्रप्राप्ते । सारवते । (म्स्प्२१) स्वस्त्यस्तु मम सर्वसत्वानां च सर्वदिग्विदिग्भ्यः स्वाहा ॥ ब्रह्मा चाप्यथ शक्रश्च लोकपाला महेश्वराः । यक्षसेनापतयः सर्वे हारीती च सपुत्रिका ॥ इदं पुष्पं च गन्धं च प्रतिगृह्णन्तु ममाहुतिम् । वीर्येण तेजसा तेषामैश्वर्येण बलेन च ॥ निहताः सर्वरोगाश्च स्वस्त्यस्तु मम सर्वसत्वानां च सर्वभयोपद्रवोपसर्गेभ्यः स्वाहा ॥ नमस्ते पुरुषवीर नमस्ते पुरुषोत्तम । नमस्यामोऽञ्जलिकरा धर्मराज नमोऽस्तु ते ॥ वातजाः पित्तजा रोगाः श्लेष्मजाः सन्निपातजाः । निहताः सर्वरोगाश्च स्वस्त्यस्तु मम सर्वसत्वानां च सर्वभयोपद्रवोपसर्गोपायासेभ्यः स्वाहा ॥ अथ भगवानेतदवोचत् । नैकराजस्यार्थाय बुद्धा भगवन्तो लोक उत्पद्यन्ते । नैकनगरनिगमजनपदग्रामकुलानां यावन्नैकसत्वस्यार्थाय बुद्धा भगवन्तो लोक उत्पद्यन्ते । अपि तु सदेवकस्य लोकस्यार्थाय समारकस्य सश्रमणब्राह्मणिकायाः प्रजायाः सदेवमानुषासुराया बुद्धा भगवन्तो लोक उत्पद्यन्ते । तद्यथा । स्याद्वैद्यश्चिकित्सकः परमाचार्यः कुशलो भिषज्ज्ञानेषु शिक्षितो नैकराजस्यार्थाय नैकसत्वस्यार्थाय लोक उत्पद्यन्ते । एवमेव बुद्धा भगवन्तो लोक उत्पद्यन्ते । तत्कस्य हेतोः । यस्यां दिशि बुद्धा भगवन्तो विहरन्ति । न तत्र मनुष्यामनुष्यान् विहेठयितव्यान्मन्यते । पञ्चाहं येन वैशाली महानगरी तेनोपसंक्रामेयम् । एवं मया वैशाल्यां महानगर्यां महाजनकायस्यार्थाय कृतो भविष्यति बुद्धकार्यं च ॥ अथ खलु भगवान् पूर्वाह्णकालसमये निवास्य पात्रचीवरमादायार्धत्रयोदशभिर्भिक्षुशतैः सार्धं गृध्रकूटात्पर्वतादवतीर्णः ॥ अथ ब्रह्मा सहापतिः पञ्चमात्राणि दिव्यानि छत्रशतान्यादाय भगवतो दक्षिणेणोपनामितवान् । उपनाम्य भगवन्तम् (म्स्प्२२) एव विजयमानः स्थितोऽभूत् ॥ शक्रोऽपि देवानामिन्द्रः पञ्चमात्राणि छत्रशतान्यादाय भगवतो वामेनोपनामितवान् । उपनाम्य भगवन्तमेव विजयमानः स्थितः ॥ चत्वारोऽपि महाराजानः एकैकोऽपि दिव्यानि पञ्चमात्राणि छत्रशतान्यादाय भगवतः पृष्ठत उपनामितवन्त उपनाम्य भगवन्तमेव विजयमानः स्थितः ॥ महेश्वरोऽपि देवपुत्रोऽष्टाविंशतिश्च महायक्षसेनापतयो द्वात्रिंशच्च महायक्षनग्ना हारीती च सपुत्रिका सपरिवारा श्रावकानां प्रत्येकं दिव्यं छत्रमुपनामितवती विजयन्ती च स्थिता ॥ एवंरूपयोशोलाभसत्काराग्रप्राप्तो भगवान् सभिक्षुसंघो गृध्रकूटात्पर्वतादवतीर्य येन वैशाली महानगरी तेनोपसंक्रान्तः । अद्रक्षुः खलु पुनर्वैशालिका लिच्छवयो भगवन्तं दूरत एवागच्छन्तं प्रासादिकं प्रासादनीयं शान्तेन्द्रियं शान्तमानसं दान्तेन्द्रियं दान्तमानसं परमोत्तमदमशमथप्राप्तं जितेन्द्रियं नागमिव सुदान्तं ह्रदमिवाच्छं विप्रसन्नमनाविलं द्वात्रिंशद्भिर्महापुरुषलक्षणैः समलंकृतगात्रमशीतिभिश्चानुव्यञ्जनैः संकुसुमितं विचित्रितं गात्रं तथागतस्य शरीरं शालराजेव सुपुष्पितः सूर्यो वा दिवा प्रमुक्तरश्मिजालः । रात्रौ चान्धकारतमिश्रायां गिरिशिखरगतः । प्रज्वालन्महानग्निस्कन्धः । महानिव चामीकराचलधरः । एवमेव भगवान् भाषते तपति विरोचते सहदर्शनादेव वैशालिका लिच्छवयो भगवतोऽन्तिके चेतांसि प्रसादयामासुः ॥ ते प्रसन्नचित्ता येन मार्गेण भगवान् वैशालीं महानगरीं प्रविशति तं मार्गं शोधयन्ति स्म । संमार्जयन्ति स्म । पुष्पावकीर्णं च वरेण्यं कुर्वन्ति स्म । उच्छ्रितविचित्रपट्टदामघण्टाछत्रध्वजपताकानानागन्धानि धूपितं कृत्वा येन भगवांस्तेनोपसंक्रामन्ति स्म । उपसंक्रम्य भगवतः पादयोः शिरांसि निपातयन्ति ॥ (म्स्प्२३) अथ भगवान् सहस्रारचक्ररुचिरचरणविलिखिततलेन पद्मबिम्बगर्भसूकुमारेण पूर्वसुचरितलक्षणोपचितेन तरुणदिवाकरकिरणातिरेकप्रभेण । प्रसृतबहुरश्मिशतसहस्रनिर्मलेन करेण तेषां लिच्छवीनां शिरांशि परिमार्ज्योत्थाप्य समनुशासयति स्म ॥ मा भैष्ठ मा भैष्ठ आर्या एथाहमभ्यागतो युष्माकमेवानुकंपामुपादाय अनुत्तरं ज्ञानमभिसंबुद्धोऽस्मि । सर्वसत्वानां च हिताय सुखाय ॥ अथ भगवान् वैशालीं महानगरीं प्रविश्य मध्यमे यामे इन्द्रकीलमवष्टभ्य चतुर्दिशमवलोक्य सुवर्णवर्णबाहुं प्रसार्योत्तरासङ्गं विचरित्वोवाच । ये केचित्पश्चिमे काले पश्चिमे समये सर्षपफलमात्रं तथागतस्य शरीरधातुं पूजयिष्यन्ति । इमां च महासाहस्रप्रमर्दनीं विद्याराज्ञीं सर्वग्रहपरिमोचनीयं धर्मपर्यायं गङ्गासिकताप्रख्यानां तथागतानामर्हतां सम्यक्संबुद्धानां बुद्धमुद्रां भिक्षुभिक्षुण्युपासकोपासिका उद्गृहीष्यन्ति धारयिष्यन्ति वाचयिष्यन्ति देशयिष्यन्ति पर्यवाप्स्यन्ति । तेषां सर्वत्र इति भयोपद्रवोपसर्गोपायासावैरकलिकलहबन्धनविग्रहविवादा अन्तशः पैशून्यपापका अकुशला दुःखधर्मा न क्रमिष्यन्ति । अजयाश्च भविष्यन्ति सर्वविहेठकेभ्यः ॥ एवमुक्ते ब्रह्मा सहापतिर्भगवन्तमेतदवोचत् । कतमा च सा भदन्त भगवन्महासाहस्रप्रमर्दनी नाम विद्याराज्ञी सर्वग्रहपरिमोचनीयं धर्मपर्यायं गङ्गासिकताप्रख्यानां तथागतानामर्हतां सम्यक्संबुद्धानां बुद्धमुद्रा ॥ एवमुक्ते भगवान् ब्रह्माणं सहापतिमेतदवोचत् । तेन हि त्वं ब्रह्मन् शृणु साधु च सुष्ठु च मनसि कुरु भाषिष्य हन्त । एव भदन्तेति ब्रह्मा सहापतिर्भगवतः प्रत्यश्रौषीद्भगवांस्तस्यैतदवोचत् । स्याद्यथेदम् । (म्स्प्२४) अचले मचले । सारमचले । प्रकृतिवर्ण । प्रकृतिनिर्घोषे । समन्तमुखे । स्थिरे स्थावरे । विघुष्टशब्दे । प्रगलने । पारङ्गमे । सारवर्णे । सारङ्गवते । बले । महाबले । महानिर्भासे स्वाहा ॥ तत्रेदमुच्यते कायगतानुस्मृतिः शमथविपश्यने । त्रयः समाधयः । चत्वारो ऋद्धिपादाः । चत्वारि सम्यक्प्रहाणानि । चत्वारि स्मृत्युपस्थानानि । चत्वारि ध्यानानि । चत्वार्यार्यसत्यानि । पञ्चेन्द्रियाणि । पञ्चबलानि । षडनुस्मृतयः । सप्तबोध्यङ्गानि । आर्याष्टाङ्गा मार्गाः । नवानुपूर्वविहारसमापत्तयः । दशतथागतबलानि । एकादशविमुक्तायतनानि । द्वादशाङ्गप्रतीत्यसमुत्पादः । द्वादशकारधर्मचक्रम् । षोडशाकार अनायानानुस्मृतिः । अष्टादशावेणिकाबुद्धधर्माः । द्वाचत्वारिंशदक्षराणि । इयं सा ब्रह्मन्महासाहस्रप्रमर्दनी नाम महाविद्याराज्ञी सर्वग्रहपरिमोचनीयं सूत्रं गङ्गासिकताप्रख्यानां तथागतानामर्हतां सम्यक्संबुद्धानां बुद्धमुद्रा । बुद्धनिर्हारः । धर्मनिर्हारः । संघनिर्हारः । ब्रह्मनिर्हारः । इन्द्रनिर्हारः । लोकपालनिर्हारः । ईश्वरनिर्हारः । सत्यनिर्हारः । मार्गनिर्हारः । प्रतीत्यसमुत्पादनिर्हारः । चन्द्रनिर्हारः । सूर्यनिर्हारः । ग्रहनक्षत्रनिर्हारः ॥ स्याद्यथेदम् । शाले कसिने । विधरणि । वराग्रसारे । अमर्षणि । अमोघवते । सेचने नकालि । कासिवरे । भरणे । करकसखे । समन्तप्राप्ते । सारप्राप्ते । स्तम्भप्राप्ते । वज्रधरे स्वाहा ॥ अथ भगवांस्तस्यां वेलायामिमां गाथामभाषत । इमस्मिन् लोकेष्विमस्मिन् वा पुनः स्वर्गेषु वा रत्नवराणि सन्ति । समोऽस्ति नैवेह तथागतेन देवातिदेवेन नरोत्तमेन ॥ तस्मादिदं रत्नवरं प्रणीतमेतेन सत्येन इहास्तु स्वस्ति । क्षयो विरागो ह्यमृतं त्वसंस्कृतमाज्ञाय सौशाक्यमुनिप्रभावितः ॥ धर्मेण तेन न समोऽस्ति कश्चिदमृतेन शान्तेन असंश्कृतेन । (म्स्प्२५) तस्मादिदं रत्नवरं प्रणीतमेतेन सत्येन इहास्तु स्वस्ति ॥ यच्छ्रेष्ठमिष्टं विधिवत्प्रकाशितं शास्ता सदानुत्तरयोगवाहकम् । समाधिना तेन समो न विद्यते वज्रोपमेनाद्वयमार्गदर्शिना ॥ तस्मादिदं रत्नवरं प्रणीतमेतेन सत्येन इहास्तु स्वस्ति । अष्टौ महापुद्गलये प्रशस्ताः ख्यातानि चत्वारि युगानि चैव ॥ ते दक्षिणीया सुगतेन गीता महर्षिणा ह्यप्रतिपुद्गलेन । एभ्यः प्रदानं भवते महाफलं बीजानि न्यस्तानि यथा सुक्षेत्रे ॥ इदं प्रणीतं वरसंघरत्नमेतेन सत्येन इहास्तु स्वस्ति । ये सुप्रसन्नामनसा दृढेन उपसंक्रमी गौतमशासनं हि ॥ ते प्राप्तिप्राप्ता अमृतं विगाह्य तमोनुदा निर्वृतिमाप्नुवन्ति । इदं प्रणीतं वरसंघरत्नमेतेन सत्येन इहास्तु स्वस्ति ॥ सहस्रयोगादिह दर्शनस्य त्रयः प्रहीणा युगपत्किलेशाः । सत्कायदृष्टिर्विचिकित्सा च शीलं व्रतं दर्शनमार्यता च ॥ इदं प्रणीतं वरसंघरत्नमेतेन सत्येन इहास्तु स्वस्ति । न जातु कुर्यात्त्रिविधं हि पादं कायेन वाचा मनसाथ वापि ॥ प्रछादनीयं सहसा न कृत्वा यथा न दृष्टिर्ग्रहणेन तेषाम् । इदं प्रणीतं वरसंघरत्नमेतेन सत्येन इहास्तु स्वस्ति ॥ यथेन्द्रकीलपृथिवीप्रतिष्ठिता चतुर्दिशं वायुभिरप्यकम्प्य । तथोपमा पुद्गलाः सन्ति संघे या आर्यमार्गस्य दर्शिनः ॥ इदं प्रणीतं वरसंघरत्नमेतेन सत्येन इहास्तु स्वस्ति । य आर्यसत्यानि विभावयन्ति गम्भीरप्रज्ञेन सुदेशितानि ॥ कायप्रदानं च मनस्यकृत्वा न ते भयं कष्टमवाप्नुवन्ति । (म्स्प्२६) इदं प्रणीतं वरसंघरत्नमेतेन सत्येन इहास्तु स्वस्ति ॥ अर्चिर्यथा वायुवशाद्विनष्टा अस्तंगता नैव उपेति संक्षा । तथैव सम्योजनविप्रयुक्ता अदर्शनं यान्ति हि बुद्धपुत्रा ॥ इदं प्रणीतं वरसंघरत्नमेतेन सत्येन इहास्तु स्वस्ति । ये जङ्गमाश्चात्र तथैव स्थावरास्ते सर्वसत्वाः सुखिनो भवन्तु ॥ शास्तारमग्र्यं नरदेवपूज्यं बुद्धं नमस्येथ इहास्तु स्वस्ति । ये जङ्गमाश्चात्र तथैव स्थावरास्ते सर्वसत्वाः सुखिनो भवन्तु ॥ शान्तं विरागं नरदेवपूज्यं धर्मं नमस्येथ इहास्तु स्वस्ति । ये जङ्गमाश्चात्र तथैव स्थावरास्ते सर्वसत्वाः सुखिनो भवन्तु ॥ गणानमग्र्यं नरदेवपूज्यं संघं नमस्येथ इहास्तु स्वस्ति । यानीह भूतानि समागतानि स्थितानि भूमावथ वान्तरीक्षे ॥ कुर्वन्तु मैत्री सततं प्रजासु दिवा च रात्रौ च चरन्तु धर्मम् । येनैव सत्येन जिनो जितारिः स सत्यवादी रिपुस्तस्य नास्ति ॥ तेनैव सत्येन इहास्तु स्वस्ति मुच्यन्तु सर्वेऽद्य महाभयेभ्यः स्वाहा ॥ स्याद्यथेदम् ॥ धिरे धिधिरे । बलनिर्घोषे । बलसारे । सारवते । स्तुते । प्रभूतप्राप्ते । आरधे । आरघोषे । सारवति । अच्युते । बलवते । शूरप्राप्ते । सारंगमे । सूर्यगमे । सूर्यनिर्घोषे स्वाहा ॥ इयं सा महाब्रह्मन्महासाहस्रप्रमर्दनी नाम विद्याराज्ञी सर्वग्रहपरिमोचनीयं सूत्रं गङ्गासिकताप्रख्यानां तथागतानामर्हतां सम्यक्संबुद्धानां बुद्धमुद्रा । बुद्धपदा । धर्मपदा । संघपदा । ब्रह्मपदा । इन्द्रपदा । लोकपालपदा । (म्स्प्२७) ईश्वरपदा । महार्षिपदा । पर्यर्थिपदा । आयतिपदा । अक्षिपदा । हेतुपदा । प्रदेशपदा । निर्देशपदा । अभिसंबुद्धपदा । सम्यक्संबुद्धैश्च प्रत्येकबुद्धैश्च स्पर्शिता । श्रावकैरधिष्ठिता । ब्रह्मभिः प्रशंसिता । इन्द्रेण पूजिता । लोकपालैर्नमस्कृता । ईश्वरेण पूजिता । सर्वदेवैर्वर्णिता । योगाचारैरभिनन्दिता । ऋषिभिरलंकृता । ब्रह्मभिरबिस्तुता । देवताभिश्चिन्तिता । स्नातकैः प्रशंसिता । चातुर्वर्णेन लोकेन । गोचरः सर्वबुद्धानाम् । उद्यानं प्रत्येकबुद्धानाम् । निर्याणं श्रावकानाम् । आश्रयो योगाचाराणाम् । आकरो बोधिपक्षाणां धर्माणाम् । प्रवाहनं संक्लेशानाम् । उत्पाटनमनुशयशल्यानाम् । संदर्शनं मोक्षद्वाराणाम् । भेदनं सत्कायदृष्टीनाम् । प्रपातनं मानपर्वतस्य । विवरणमार्यमार्गस्य । पिथनं मोक्षद्वाराणाम् । संशोषणं संसारसमुद्रस्य । उच्चालनं सर्वसंसारपतितानामस्थिपर्वतानाम् । च्छेदनी मारपाशस्य । उत्त्रासनी मारपर्षदः । उद्गिलनी मारबडिशस्य । उत्त्रासनी क्लेशसंग्रामात् । प्रवेशनी निर्वाणनगरे । निष्क्रामणी संसारगृहादिति ॥ स्याद्यथेदम् । खङ्गे । खङ्गघोषे । उषोधने । सारथिप्रभेदे । विपुलप्रभे । संकर्षणि । विकर्षणि । विषाग्रवति । शुद्धसाधने । वरुणवते । वाशने । विभूषणि । विषंगमे । पशुपति । पुष्पगर्भे । स्वस्त्यस्तु मम सर्वसत्वानां च सर्वभयोपद्रवोपसर्गोपायासेभ्यः स्वाहा ॥ इयं सा महाब्रह्मन्महासाहस्रप्रमर्दनी नाम विद्याराज्ञी सर्वग्रहप्रमोचनीयं सूत्रं गङ्गासिकताप्रख्यानां तथागतानामर्हतां सम्यक्संबुद्धानां बुद्धमुद्रा । यया मुद्रया मुद्रितः सदेवमानुषासुरो लोकोऽनुत्तरनिर्वाणपुरं प्रविष्टः । यस्य चार्थाय गङ्गासिकताप्रख्यैः सम्यक्संबुद्दैः प्रत्येकबुद्धैः श्रावकैश्च पूर्वाभिसंबुद्धैः सम्यक्संबुद्धाः प्रत्येकबुद्धाः श्रावकाश्च मातापितृदक्षिणीया गुरुस्थानीयाः पर्युपासिता ब्रह्मचर्यं चीर्णं शीलं रक्षितं (म्स्प्२८) दानं दत्तं कृपा पारमिता परिपूरिः । साधिता बोधिसत्वचर्या साधिता बोधिप्राप्तिप्राप्ता सर्वज्ञता पराजितो मारः ॥ अथ ब्रह्मा सहापतिः शक्रश्च देवानामिन्द्रश्चत्वारश्च महाराजान एकवागेकमतैकस्वरा भगवन्तं नमस्यमाना ऊचुः ॥ अहो विद्या महाविद्या महासाहस्रप्रमर्दनी ॥ आरक्षा सर्वसत्वानां बुद्धमुद्राश्चतुर्दिशम् । मुद्रां वयं प्रदास्यामः सूत्रे साहस्रप्रमर्दने ॥ त्रासेन्ति सर्वभूतानि मुद्रया मुद्रितायया । ये मनुष्या प्रदुष्टाश्च त्रसन्नाश्चात्र शासने ॥ तेषां दण्डं प्रणेष्यामि विद्यां ब्रह्मेण निर्मिताम् । शक्रेण धारिता मुद्रा लोकपालैश्च मुद्रिताः ॥ स्याद्यथेदम् । कलिङ्गे । भारदे । जूदग्रे । जामले । सिंहमदे । साराग्रप्राप्ते । हंसगामिनि । मालिनि । हुले मिहुले । पिहुले २ पिहुलमे हहं हहं हहं हहम् । सूदनि वराग्रवति । हस्तिने । नेचरमति । चण्डालि । चरमे । चराचरे स्वाहा ॥ अस्यां खलु पुनर्महासाहस्रप्रमर्दन्यां विद्याराज्ञ्यां भाष्यमानायामयं त्रिसाहस्रमहासहस्रो लोकधातुः षडधिकारमकम्पत् । दिक्षु विदिक्षु भूताशतैर्यक्षराक्षसैर्निर्नादः प्रक्रुष्टघोषं चोद्घोषयन्ति स्म ॥ अहो दुःखमहो कष्टं नष्टा भूतगणा वयम् । विनष्टा भूतसंघास्ता वशनीताश्च सर्वथा ॥ अवशाः प्राणिभूतानां सर्वेषामद्य संवराः । ते च भूमौ निपीडन्ति संप्रपद्यन्ति दुःखिताः ॥ अथ भगवांस्तां भूमीं वज्रमयीमभिनिर्मिमीते । ते चतुर्दिशं प्रपलायन्ति अथ चत्वारो महाराजानः ॥ चतुर्दिशं महानग्निज्वालास्कन्धमभिनिर्मितवन्तः । ते चाकाशे परिधावन्ति ॥ अथ ब्रह्मा सहापतिरयोमयमाकाशमभिनिर्मिमीते । ते (म्स्प्२९) च सप्ततालमात्रं वैहायसं परिधावन्ति । अथ शक्रो देवानामिन्द्रोऽसिशरशक्तिकुन्ततोमरवृक्षपर्वतवृष्टीरभिप्रवर्षति । तेन च समयेन समन्ततः सहायां लोकधातौ पञ्चयक्षशतसहस्राणि सन्निपतितानि विद्याशापहतानि ज्वरावेशोन्मत्तानि विपीडन्ति । भगवतः पादयोः शिरांसि निपत्याब्रुवन् ॥ सर्वसत्वहितानुकम्पी श्रमणो गौतम । त्रायतु नः श्रमणो गौतम ॥ अथ भगवांस्तान् गुह्यकान्मैत्र्या स्फरन्ति स्म । शिक्षाग्रहणं च कारयामास । या गतिर्मातृघाटीनां पितृघाटीनां च या गतिः । अर्हतां घाटकस्यापि संघभेदी च या गतिः ॥ संबुद्धदुष्टचित्तस्य लोहितोत्पादकस्य च । तां गतिं प्रतिपद्येम यदि मुद्रां क्षिपेमहि ॥ सप्तधास्य स्फुटो मूर्धा अर्जकस्येव मञ्जरी । संमृष्टा यक्षरोगेण चित्रगात्रा भवेमहि ॥ साहस्रप्रमर्दनीसूत्रं यदिदं जिनभाषितम् । विद्याराज्ञीमभिक्रम्य वर्तेम स्वेच्छया वयम् ॥ तेन च समयेन वैशाल्यां महानगर्यां सर्वे इति भयोपद्रवोपसर्गोपायासाः प्रतिप्रस्रब्धाः । यक्षराक्षसमनुष्यामनुष्याः स्वकस्वकं गोचरमतिक्रान्ताः । वैशालका लिच्छवयश्च सर्वरोगव्याधिभ्यो विनिर्मुक्ताः सर्वसुखसमर्पिता बुद्धेऽवेत्य प्रसादेन समन्वागता बभूवुः । धर्मेऽवेत्य प्रसादेन समन्वागता बभूवुः । सततसमितं रत्नत्रयपूजाभिरता महोत्सवेन विहरन्तः । हंसशुकशारिकाकोकिलमयूरचक्रवाककुनारजीवञ्जीवकपक्षिगणा मधुरं निकूजन्ति स्म । विगतकायपीडाः सांसर इव किन्नराः । अघाटितानि रत्नभाजनानि रणन्ति स्म । भेरीशङ्खमृदङ्गपणववीणावेणवश्च यथा स्थाने स्थापिता एव प्रवाद्यन्ति स्म । दाडिमबिल्वामलन्यग्रोधाश्वत्थप्रक्षकपित्थोदुम्बरशालतालतमालतिलकचम्पकवृक्षा नानागन्धान् प्रमुञ्चन्ति स्म । देवतासहस्रैश्च हीहीकारप्रमुक्तः । अन्तरीक्षाच्च (म्स्प्३०) पुष्पवर्षमभिप्रविष्टम् । अमानुषश्च गन्धो लोके प्रादुर्भूतः ॥ अथ चत्वारो महाराजानः प्राञ्जलयो भगवन्तमेतदवोचत् । इदं भदन्त भगवन्महासाहस्रप्रमर्दनी सूत्रराजं सर्वग्रहप्रमोचनीयं बुद्धमुद्रा धर्मपर्यायम् । यः कश्चिच्छिक्षापदं परिगृहीत्वा काशायधारी उद्गृह्य धारयित्वा वाचयित्वा देशयित्वा पर्यवाप्य लिखित्वा ग्रन्थयित्वा धारयिष्यति । तस्य सर्वे इति भयोपद्रवोपसर्गोपायासावैरकलिकलहभण्डनविवादा यावत्पैशून्यका अकुशला धर्मा नाभिक्रमिष्यन्ति । अजयश्च भविष्यन्ति सर्वविहेठकेभ्यः । तेन राष्ट्रस्य सीमाबन्धयितुकामेन सुस्नातेन त्रिशुक्लभुक्तेन पञ्चामिषपरिवर्जितेन सर्वमानुषशिष्यापदपरिगृहीतेन सर्वसत्वसमाचित्तेन वस्त्राभरणयुक्तेन ग्रामनगरनिगमशृङ्गाटककुलान्यपगतसंकारकूटानि कृत्वा मध्यमायां राजधान्यां पुष्पावकीर्णां धरणीं कृत्वा नानागन्धा धूपयितव्या । चतुर्दिशं चतस्रः कन्यकाः सुस्नातविभूषिताः शस्त्रहस्ताः स्थापयितव्याः । चत्वारो घण्टाश्चत्वारि रत्नभाजनानि गन्धोदकपुष्पफलपरिपूर्णानि स्थापयितव्यानि । पूर्वाह्णकालसमये उद्गते सहस्रकिरणविद्या आवर्तयितव्या । पलषष्ठिकया सूत्रं कर्तयितव्यं लिखित्वा चीरिकायां मूर्ध्नि महाचैत्येषु महावृक्षेषु महाध्वजेषु चोच्छ्रापयितव्या । नानापुष्पैर्नानागन्धैश्च पक्षमात्रं पूजा कर्तव्या । दिवसे दिवसे चैकवारं विद्या आवर्तयितव्या । एवं राष्ट्रः परिमोचितो भविष्यति । एवं जनपदराजधानीस्थानविहारदेवकुलक्षत्रशालावृक्षफलहरितारामगोशालपशुशाला अपगतसंकाराः कृत्वा खदिरबदराग्निं प्रज्वाल्य पुष्पावकीर्णां धरणीं कृत्वा द्वारशालशोभनां नानागन्धप्रधूपितां कृत्वा सर्वबीजानि सर्पिषां म्रक्षयित्वा चतुर्दिशं प्रक्षेप्तव्यानि । अग्नौ च प्रक्षेप्तव्यानि नानारङ्गानि च सूत्राणि द्वारे बन्धनीयानि तिर्यग्योनिगतानि निष्कास्य पुनः प्रवेशयितव्यानि । विद्या चावर्तयितव्यानि । लिखित्वा ग्रन्थयित्वा चोर्ध्वमुत्थाप्य पूजनीया । ग्लानस्य पुरतो बुद्धप्रतिबिम्बं वा (म्स्प्३१) बुद्धशरीरं वा । समुद्गतेमं चेवापीठे वावरोप्य ब्रह्मप्रतिबिम्बं वा शक्रप्रतिबिम्बं वा चतुर्महाराजप्रतिबिम्बं वा चतस्रो मुद्राः कृत्वा स्थापयितव्याः । नानापुष्पैर्नानाधूपैर्नानागन्धैर्ब्रह्मशक्रचतुर्महाराजमहेश्वरयक्षसेनापतिर्यक्षमहानग्ना हारीती च नम्ना त्रयाणां रत्नानां पूजा कर्तव्या । तेषां बलेनैश्वर्याधिपतेन च स्वस्त्यस्तु मम सर्वसत्वानां च मुञ्चन्तु सर्वग्लानाः सर्वव्याधिभ्यः । ग्लानस्य चान्नपानभैषज्यम् ॥ उपनामयता इयं विद्या आवर्तयितव्या । विबुद्धबोधौ संबुद्धे लोकपालाश्चतुर्दिशम् ॥ भाजनानि समानीय चत्वारि सुगताय वै । दत्तानि निर्मितश्चैको मुनिना भाजनोत्तमम् ॥ गृहीतं पाणिना शास्ता भैषज्यममृतोपमम् । एतेन सत्यवाक्येन अमृतं भवन्तु औषधम् ॥ हारीती च तथा देवी गृह्य पश्यां तथा शुभम् । शास्त्रे दत्तवती दिव्यं भैषज्यममृतोपमम् ॥ एतेन सत्यवाक्येन आतुरस्य रूजापहम् । सर्वमुपहारं चापि भवत्वमृतमौषधम् ॥ विपश्यिबुद्धतेजेन शिखिनश्च बलेन च । विश्वभूसत्यवाक्येन क्रकुच्छन्दसमाधिना ॥ कनकाह्वस्य ज्ञानेन ऋद्ध्या वै काश्यपस्य च । शाक्यसिंहस्य वीर्येण भवत्वमृतमौषधम् ॥ कृत्वा पूर्वामुखं ग्लानभैषज्यमुपनामयेत् । इमां पाणितले विद्यां तस्मिन् काले उदाहरेत् ॥ स्याद्यथेदम् ॥ खटे । खटविखटे । विमले । विलम्बे । बले बलवते । चन्द्रे । चरणे । अमृतनिर्घोषे स्वाहा ॥ वातजाः पित्तजा रोगाः श्लेष्मजाः सन्निपातजाः । निहताः सर्वरोगाश्च स्वस्त्यस्तु मम सर्वसत्वानां च सर्वदा सर्वभयेभ्यः स्वाहा ॥ (म्स्प्३२) सर्वकाखोर्दवेताडसंप्रयुक्तेषु कर्मसु तेन पुरुषेण स्त्रिया वाऽहोरात्रो वपुष्टेन सुस्नातेन सुभूषितेन पुष्पावकीर्णां नानागन्धप्रधूपितां च धरणीं कृत्वा खदिरवदराग्निं प्रज्वाल्य सर्वबीजानि चतुर्दिशं प्रक्षेप्तव्यानि । नानारङ्गानि च सूत्राणि शस्त्रेषु वा शूलेषु वा कुन्तेषु वा काण्डेषु वा ग्रन्थयित्वा बन्धनीयानि सर्वमूलानि सर्वपुष्पाणि नानागन्धोदकं कृत्वा महति कुण्डे प्रक्षेप्तव्यानि । यस्य काखोर्दकृतं भविष्यति । तस्य तं सूत्रकमाबन्ध्य कुण्डेऽधिष्ठापनीयः शस्त्रेण तं सूत्रकं च्छित्वा अग्नौ प्रक्षेप्तव्यम् । इदं च महासाहस्रप्रमर्दनीसूत्रमुदाहर्तव्यम् । बुद्धाः प्रत्येकबुद्धाश्च बुद्धानां श्रावकाश्च ये । ब्रह्मेन्द्रो लोकपालाश्च यक्षसेनापतीश्वराः ॥ तथा यक्षनग्ना हारीती च सपुत्रिका । वीर्येण तेजसा तेषां वेताडंकर्म च्छिद्यतु ॥ भिन्नन्ति वज्ररत्नानि वह्निरिन्धनदाहकः । वातेन शोषिता मेघा भास्करेण वनस्पती ॥ एतेन सत्यवाक्येन काखोर्दकर्म दहताम् । नानागन्धैस्तथा पुष्पैर्निर्धूताः सर्वपापकाः ॥ तद्यथा । हुमे २ कखलि । खरलि । जुक्विनि । जवले । गरगे । हरिणि । शावरि शान्ति । प्रसान्ति स्वाहा ॥ धावनि स्वाहा । प्रधावनि स्वाहा । गान्धर्वे स्वाहा । पलङ्गनि स्वाहा । सर्वकाखोर्दकृतवेताडच्छेदनि स्वाहा ॥ इमैर्मन्त्रपदैर्मम सर्वसत्वानां च सर्वकाखोर्दवेताडौषधिमन्त्रविषयोगाः सर्वदेवैश्च्छेदिताः पराजिताः स्वाहा ॥ गलगण्डवैसर्पातिसारोन्मादगण्डपिटकभगन्दरविषपीतकात्परिमोचयितुकामेन सुस्नातेन सुभूषितेन भद्रपीठासननिषण्णेन इयं विद्या उदाहर्तव्या । तेजसा सर्वबुद्धानां प्रत्येकजिनतेजसा । अर्हतां चैव वीर्येण सर्वेषां मन्त्रधारिणाम् ॥ (म्स्प्३३) प्रज्ञया शारिपुत्रस्य मौद्गल्यस्य च ऋद्धिया । चक्षुषा चानिरुद्धस्य काश्यपस्य धूतैर्गुणैः ॥ कौण्डिन्यपूर्वप्राप्त्या च आनन्दस्य श्रुतेन च । मैत्र्या वै ब्रह्मणा चैव ऐश्वर्येण शतक्रतोः ॥ विषयैर्लोकपालानां महेश्वरबलेन च । सेनापतीनां सौर्येण हारीत्याश्च समृद्ध्या ॥ वीर्येण तेजसा तेषां विषमस्त्वविषं सदा । तत्र मन्त्रपदा भोन्ति निर्विषा विषदूषणाः ॥ स्याद्यथेदम् । हरिकेशि । नकिले । रेहिले । अमरे अण्डरे पण्डरे । कटके । केयूरे । हसे हसे हसे । खसे खसे खसे । खरङ्गे । मरुगहणे स्वाहा ॥ मुमुक्ष स्वाहा । हिले स्वाहा । मिले स्वाहा ॥ हता गण्डाः किलासाश्च वैसर्पाश्च विचर्चिकाः । पिट्टका लोहलिङ्गाश्च कच्छूर्भवति सप्तमी ॥ रागो द्वेषश्च मोहश्च एते लोके त्रयो विषाः । निर्विषो भगवान् बुद्धो बुद्धतेजोहतं विषम् ॥ रागो द्वेषश्च मोहश्च एते लोके त्रयो विषाः । निर्विषो भगवान् धर्मो धर्मतेजोहतं विषम् ॥ रागो द्वेषश्च मोहश्च एते लोके त्रयो विषाः । निर्विषो भगवान् संघं संघतेजोहतं विषम् ॥ विषस्य पृथिवी माता विषस्य पृथिवी पिता । एतेन सत्यवाक्येन विषाः सर्वे स्युर्निर्विषाः ॥ भूमिं संक्रामन्तु विषं पूर्णपात्रे वा संक्रामन्तु विषं स्वाहा ॥ अथातः कलिकलहविग्रहविवादपरचक्रशत्रूण्यपराजयितुकामेन पूर्वं महाचैत्ये पूजा कर्तव्या । इयं च महासाहस्रप्रमर्दनी विद्याराज्ञी प्रवर्तयितव्या ॥ बुद्धेन निर्जिता मारा धर्मेण च अधर्मता । संघेन निर्जिता तीर्थ्या इन्द्रेण असुरा जिताः । असुरैस्तु जितः सोमो वैनतेयेन सागरः ॥ (म्स्प्३४) अग्निना च जिताः काष्ठा उदकेनाग्निः पराजिताः । वातेन निर्जिता मेघा रत्नवज्रेण मथ्यते ॥ सत्येन देवास्तिष्ठन्ति सत्येन पृथिवी स्थिता । सत्यं बुद्धश्च धर्मश्च सत्यं जयतु मा मृषाः ॥ स्याद्यथेदम् । अमृते अग्रपुष्पे । बहुफले । निवारिणि सर्वार्थसाधनि । अपराजिते । धरधरणि । गुह्यावर्ते । गौतमे । गुप्तमति । जम्भनि स्वाहा ॥ बलप्रभञ्जनि स्वाहा ॥ जये स्वाहा ॥ विजये स्वाहा । जये विजये स्वाहा ॥ जिताः प्रत्यर्थिकाश्चैव सर्वपापाः पराजिताः । ततोऽथ शास्ता सर्वज्ञ इमां गाथामभाषत ॥ अक्षोभ्यराजो अवलोकितेश्वरोऽमिताभनेमीरतनार्चिमेरुः । वज्रस्य चो नाम गृहीत्वा सर्वदा नैवं भयं भोन्ति न छम्बितत्वम् ॥ य एषानष्टान्महाद्युतीनां नामानि कीर्तेय अनुग्रहार्थम् । न तस्य अग्निर्न विषं न शस्त्रं क्रमेण काये कृत सपवित्रे ॥ सचेदसौ आघातने उपस्थिते उत्कृष्टशस्त्रे वधके च संमुखम् । अनुस्मरन्तो अवलोकितेश्वरं ते खण्डखण्डं प्रपतेयुः शस्त्राः ॥ सचेदुद्गृहीतं पि भवेत शस्त्रं भञ्जित्वा पाणिं धरणीं पतेयुः । न तस्य काये निपतेय किंचिदन्यत्र कर्म पूरिमेन यत्कृतम् ॥ समग्रदेवा इमं गाथां भाषिषुः । नमोऽस्तु ते बुद्ध अनन्तगोचरा नमोऽस्तु ते सत्यप्रकाशका मुने । सत्यं प्रतिष्ठाय प्रजाय मोचसे सर्वे च कामाः सफाला भवन्तु ॥ (म्स्प्३५) मम सर्वसत्वानां च स्वाहा ॥ ततो ब्रह्मा महाब्रह्मा उत्थितोऽथ कृताञ्जलिः । सुभाषिता इयं विद्या महासाहस्रप्रमर्दिनी ॥ विद्यामहं प्रवक्षामि दारकानां हितंकरी । बुद्धवीरं नमस्यामि धर्मराजं शुभाकरम् ॥ येन प्रथमतो विद्या जंबुद्वीपे प्रकाशिता । धर्माय च विशिष्ठाय संघाय च गणोत्तमे ॥ बुद्धस्य पादौ वन्दित्वा ब्रह्मा वचनमब्रवीत् । बुद्धाः प्रत्येकबुद्धाश्च बुद्धानां श्रावकाश्च ये ॥ ऋषयो लोकपालाश्च यावन्तो देवतापि च । इतो मानुष्यलोकतः सर्व एते समुत्थिताः ॥ सन्तीह राक्षसा घोरा गर्भरक्षा महामुने । शक्यो न तेऽपि च द्रष्टुं नापि शक्याश्चतुर्दिशम् ॥ यासां पुत्रो न जायन्ते यासां गर्भो न तिष्ठति । नरनारीसंप्रयोगेन संप्रमुह्यन्ति इन्द्रिया ॥ पुत्रबीजं विनाश्यन्ति कललं वा सबुद्बुदम् । निष्पन्ना गर्भया च स्त्री जायते न विशल्यते ॥ नामानि तेषामाख्यासे लोकनाथ शृणोहि मे । मञ्जुको मृगराजश्च स्कन्दापस्मारमुष्टिका ॥ मातृका जामिकश्चैव कामिनी रेवती तथा । पूतना मातृनन्दा च शकुनिः कण्ठपाणिनी ॥ मुखमण्डितिकालम्बा चरन्ते सर्वमेदिनी । एते ग्रहाः पञ्चदशा दारकानां भयंकराः ॥ वक्षोलक्षणरूपाणि यथा गृह्णन्ति दारकान् । मञ्जुकेन गृहीतस्य चक्षुसी परिवर्तते ॥ मृगराजगृहीतस्य छर्दिर्भवति दारुणा । स्कन्देन प्रगृहीतस्य स्कन्दौ चालेति दारकः ॥ अपस्मारगृहीतस्तु फेणं लालां च मुञ्चति । मुष्टिकाप्रगृहीतस्य मुष्टिबद्धा न मुञ्चति ॥ मातृकासंगृहीतस्य स्तनते हसते तथा । (म्स्प्३६) जामिकासंगृहीतस्तु नाभिनन्दति स स्तनौ ॥ कामिनीप्रगृहीतस्तु प्रसुप्तः संप्ररोदति । रेवतीप्रगृहीतस्तु जिह्वा दन्तैः प्रखादति ॥ पूतनाप्रगृहीतस्तु कासते भनते तथा । मातृनन्दागृहीतस्तु विचित्ररूपमादिशेत् ॥ शकुनीप्रगृहीतस्य गन्धिपूतिं प्रवायते । कण्ठपाणिगृहीतस्य कण्ठः संपरिरुध्यते ॥ मुखमण्डीगृहीतस्तु ज्वर्यते च विरिच्यते । आलम्बाप्रगृहीतस्य हिक्काश्वासश्च जायते ॥ तत्र रूपं समाख्यास्ये यथा त्रास्यन्ति दारकान् । मञ्जुको गवरूपेण मृगराजो मृगो यथा ॥ स्कन्दः कुमाररूपेण अपस्मारः शृगालवत् । मुष्टिका काकरूपेण छागरूपेण मातृका ॥ जामिका अश्वरूपेण घोषरूपेण कामिनी । रेवती श्वानरूपेण शुकरूपेण पूतना ॥ मातृनन्दा विडालेन शकुनि पक्षिरूपिणी । कण्ठपाणी कौक्कुटेन औलूकेन मुखमण्डिका ॥ आलम्बा जत्रुरूपेण एतास्त्रास्यन्ति दारकाः । एताः शुक्रहरा घोरा दारकानां भयंकराः ॥ एताः समानयिष्यामि सूत्रपाशेन कर्षिताः । चन्दनो नाम गन्धर्वो यक्षसेनापतिर्महान् ॥ तस्य लेखं च मुद्रां च दत्वा दूत्येन प्रेषयेत् । उग्रान् ग्रन्थ समानेहि त्वं तान् पञ्चदशान् ग्रहान् ॥ तेन तत्क्षणमानीताः पञ्चबन्धनपीडिताः । ततोऽब्रवीत्महाब्रह्मा लोकनाथं कृताञ्जलिः ॥ एतानि तानि भूतानि बीजं नाशेन्ति प्राणिनाम् । तेषां दण्डं प्रणेष्यामि लोकनाथस्य संमुखम् ॥ यस्या न जायते पुत्रो जातो वा यस्य गृह्यते । शिष्या सद्धर्मचरण अष्टमीं स चतुर्दशिम् ॥ चैत्यं संपूजयित्वा तु सुस्नाताः सुविभूषिताः । (म्स्प्३७) सर्षपालिप्तधरणीं पुष्पगन्धसमाकुलाः ॥ पञ्चरङ्गेन सूत्रेण ग्रन्थीनां कारयेच्छतम् । अर्धरात्रे स्थिते काले मूष्टिं स्थित्वा तु सर्षपान् ॥ ब्रह्मनिर्मितमित्याहुर्ब्रह्मणा च प्रकंपिताः । यावद्द्वादशवर्षाणां कुमाराणां हितंकरी ॥ यो इमामतिक्रमेद्विद्यासूत्रं ब्रह्मणा निर्मिताम् । सप्तधास्य स्फुटेन्मूर्धा अर्जकस्येव मञ्जरी ॥ स्याद्यथेदम् । अङ्गे वङ्गे भङ्गे । भवने । इनन्दि विनन्दि । मुललि । गिरि । गररि । गरुणि । शरुणि । गिरिगवरे । लोचने । रोषणे । लसने । रोचने । अलभे । अङ्गने । अलफे तलफे । प्रकर्षणि स्वाहा ॥ क्षिप्रं संतिष्ठतां गर्भः सम्यग्वर्धन्तु इन्द्रिया । गर्भस्थाः सुखिनो भोन्तु मा च नश्यन्तु जातकाः ॥ स्वस्थः संतिष्ठतां गर्भः कालेन परिमुच्यते । नानारङ्गाणि सूत्राणि अक्षता गौरसर्षपाः ॥ एषा रक्षा समाख्याता चिरं जीवन्तु दारकाः । ततोऽथ शास्ता सर्वज्ञ इमां गाथामुदाहरेत् ॥ रक्षितो भवन्तु गर्भः सुखं मोदन्तु दारकाः । स्याद्यथेदम् । बोधि बोधि । महाबोधि । बोधानुमते । फलिनि । बहुफले । शिक्षे । शिक्षासारवते । सागले । दुरासदे । दूरागमे । शूरप्राप्ते । शूरवते । भगे । भगाभगे । भगिनि । निवारिणि स्वाहा ॥ ततो ग्रहाः पञ्चदशाः सर्वदा रुधिराशिनः । नमस्कृत्वाञ्जलिकरा लोकनाथं समब्रुवन् ॥ यत्रेदं नगरे सूत्रं ग्रामे वा यदि वा गृहे । नात्र बाला मरिष्यन्ति यत्र तिष्ठेत्सुभाषितम् ॥ अनुवृष्ट्या भजिष्यामो यथा तव महामुनि । नमो भगवते बुद्धाय नमो ब्रह्मणे सिध्यन्तु ॥ मन्त्रपदास्तारयन्तु इमां विद्यां ब्रह्मा मन्यतु स्वाहा ॥ अथ वैश्रमणो महाराज एकांसमुत्तरासंगं कृत्वा कृताञ्जलिर्(म्स्प्३८) भगवन्तं नमस्यमानोऽवोचत् । यः कश्चिद्भदन्त भगवन् श्रावक इदं महासाहस्रप्रमर्दनीसूत्रमुद्गृह्णयाद्वारयेद्वाचयेद्देशयेत्पर्यवाप्नुयात्तेन वा बहुश्रुतेन योगः करणीयः । चैत्यपूजा परेण भवितव्यम् । अष्टम्यां चतुर्दश्यां पञ्चदश्यां च त्वेते यक्षस्योदारचैत्यपूजां कृत्वा विद्या आवर्तयितव्या । तस्याष्टम्यां चत्वारो राजपुरुषा महाराजानां पुरतः समन्वाहरन्ति नाम चोद्घोषयन्ति । चतुर्दश्यां चतुर्णां महाराजानां पुरतः समन्वाहरन्ति नाम चोद्घोषयन्ति । पञ्चदश्यां स्वयमेव चत्वारो महाराजानः समन्वाहरन्ति नाम चोद्घोषयन्ति ॥ सर्वसत्वहितानुकंपीवतायं भगवतः श्रावको य इदं महासाहस्रप्रमर्दनीसूत्रमुद्गृह्णति धारयति वाचयति पर्यवाप्नोति । तस्य च भदन्त भगवन् वयं चत्वारो महाराजानश्चीवरपिण्डपातशयनग्लानप्रत्ययभैषज्यपरिष्कारैरौत्सुक्यं करिष्यामः । सत्कृतश्च भविष्यति । सर्वसत्वैर्गुरुकृतश्च मानितश्च पूजितश्च राज्ञां राजमहामात्राणां च भविष्यति । अन्यतीर्थकश्रवणब्राह्मणपरिव्राजकानां पूज्यो भविष्यति मित्रामित्रमध्यगतोऽपि सत्कृतो भविष्यति । ते च श्राद्धेन कुलपुत्रेण वा कुलदुहित्रा वा शुचिना भवितव्यम् । शुचिकायेन शुचिवस्त्राभरणशयनोपकरणविशेषेण । न कुदेशलाभेन न कुमित्रसंसर्गेण न कुदेशवाससंप्रयुक्तेन भवितव्यम् । यस्य च भूतग्रहगृहीतस्य पुरत इदं महासाहस्रप्रमर्दनी नाम सूत्रं श्रावयिष्यति । तस्य चत्वारो महाराजानः स्वयमेव रक्षावरणगुप्तिं संविधास्यन्ति । एवं महर्द्धिकं भदन्त भगवन्महासाहस्रप्रमर्दनीसूत्रं यस्यापि गृहे एकमपि रात्रिं दिवं वासं कल्पयिष्यति । तस्य संवत्सरं यावदमनुष्या अवतारं न लप्स्यन्ति । नमस्यनीयश्च भविष्यति सर्वभूतगणस्य यः इदं महासाहस्रप्रमर्दनीसूत्रं धारयिष्यति । तस्य काङ्क्षतश्चत्वारो महाराजानो सुखमुपदर्शयन्ति । किमङ्ग पुनरितरे यक्षराक्षसाः । तत्कस्य हेतोर्ये केचिल्लोके विद्या (म्स्प्३९) संविधास्यन्ति । सत्वानां हिताय । इमानि मन्त्रपदानि तेभ्यो वरप्रवरश्रेष्ठविशिष्टोत्तमानि । गंभीरविपुलो प्रमाणानि दूरावतरणा असाधारणा इयं धर्ममुद्रा ॥ अथेन्द्रश्च सहस्राक्षो देवराज शचीपतिः । प्राञ्जलिस्थो नमस्कृत्वा लोकनाथं समब्रवीत् ॥ सुभाषिता इयं विद्या सर्वलोकहितंकरी । विद्यामहं प्रवक्षामि मन्त्रौषधिसमायुतम् ॥ शिरीषपुष्पमपामार्गमगरुः कटकाफलम् । शैलेयमेडमञ्जिष्ठा सूकरी मर्कटी जया ॥ परिपेलवं रसं वीरा सामकं तगरं बुसा । चन्दनावर्तनं कुष्ठं नखं पत्रकतं वरा ॥ प्रियंगु रोचना स्पृक्का सर्षपाश्च मनःशिलाः । त्वचं च कुङ्कुमं हिङ्गुपत्रसंयुक्तवर्णकम् ॥ एषां च संयुतावर्तिः सर्वग्रहप्रमोचनी । सर्वभूतविकारेषु एषा नेत्राञ्जनी स्मृताः ॥ गृहीता येन मुच्यन्ति भूतवज्रशनीशरैः । महावृक्षेषु लेप्तव्यं महाचैत्ये तथैव च ॥ यो हि पश्यति तत्स्थानं भूतेभ्यो न भयं ततः । स्थानं न तत्र भूतानां नान्येषामहितैषिणाम् ॥ भेरीशङ्खमृदङ्गानि पणवांश्चापि लेपयेत् । यावच्छ्रूयति शब्दोऽद्य त्रसन्ते भूतमण्डलाः ॥ यक्षाणि लेपयेद्वापि पक्षिणां ग्रामचारिणाम् । यत्रासौ व्रजते पक्षी दिशं चापि दिगन्तरम् ॥ स्थानं न तत्र भूतानां नान्येषामहितैषिणाम् । सरित्स्रोतस्तडागेषु प्रक्षिपेद्यत्र तत्र वा ॥ समन्ताद्योजनं तत्र स्वस्ति शान्तिर्भविष्यति । अपि शस्त्रनिपातेषु परचक्रसमागमे ॥ सर्वमर्मेषु लेप्तव्यं स्वस्तिना उत्तरिष्यति । गलगण्डेषु चार्शेषु वैसर्पपिटकेषु च ॥ विषदष्टे विषपीते पीत्वा क्षिप्रं प्रमुच्यते । (म्स्प्४०) एतेन लेपयेद्गात्रं सर्वकाखोर्दच्छेदनम् ॥ विवादोत्तारणं सिद्धं राजद्वारपरिमोचनम् । असिद्धः सिद्धमाप्नोति ईश्वरत्वमनीश्वरम् ॥ अपुत्रो लभते पुत्रमधनो लभते धनम् । यावद्विद्याधरस्थानां मन्त्राणि तानि साधयेत् ॥ तिर्यग्योनिगते चैव तत्स्याद्वृक्षफलेषु च । विद्याधरस्य प्रज्ञोऽस्य शन्तिकरं शुभंकरम् ॥ तत्र मन्त्रपदान्यस्ति इन्द्रस्य वचनं यथा । स्याद्यथेदम् । अक्रमे । विक्रमे । भूतघोषे । भूतंगमे । दहनि । धधरे । धरधरे । दधिनि । निखुमे । खुखुमे । खख खख । सारंगमे । चन्द्रे । चपले । हलिमे । हले हरिणि स्वाहा ॥ स्वस्त्यस्तु मम सर्वसत्वानां च सर्वदिग्विदिग्भ्यः स्वाहा ॥ निहताः सर्वपापानि स्वाहा ॥ ततो ब्रह्मा च शक्रश्च लोकपाला महेश्वरः । यक्षसेनापतयः सर्वे हारीती च सपुत्रिका ॥ एकवागेकस्वरा अवोचत्प्राञ्जलीकृताः । सहस्रसूर्यप्रद्योतः पूर्णचन्द्रप्रभास्वरः ॥ सदेवमानुषे लोके सदृशस्ते न विद्यते । अचिन्त्या सुप्रयुक्ता च यक्षराक्षसमर्दनी ॥ राजप्रमोचनी नाम विद्या वैराग्यपालनी । साहस्रप्रमर्दनी नाम महाराजा शुभोदया ॥ युद्धसंग्रामविजया सर्वशत्रुप्रमर्दनी । महासाहस्रके लोके रक्षार्थं सूत्रमुत्तमम् ॥ नमस्ते पुरुषवीर नमस्ते पुरुषोत्तम । अञ्जलिस्था नमस्कृत्वा तत्रैवान्तरधायिषु ॥ अथ भगवान् सायाह्नकालसमये प्रतिसंलयनादुत्थाय भिक्षूनामन्त्रयामास । उद्गृह्णध्वं भिक्षवो महासाहस्रप्रमर्दनीशूत्रं धारयत वाचयत पर्यवाप्नुयात् । तद्भविष्यति । सदेवकस्य लोकस्य (म्स्प्४१) दीर्घरात्रमर्थाय हिताय सुखाय स्पर्शविहारतायै । यः कश्चिद्भिक्षवो मम श्रवक एतेन महासाहस्रप्रमर्दनीसूत्रेण शुष्कवृक्षस्यापि परित्राणं बध्नीयात्परिग्रहं तस्य पत्रपुष्पफलानि जयेरन् । किमङ्ग पुनः सविज्ञानस्य कायस्यान्यत्र पूर्वकर्मविपाकेन ॥ एवमुक्तास्ते भिक्षवो भगवन्तमेतदवोचत् । यानीमानि भदन्त भगवन् पञ्चमहारक्षासूत्राणि भाषितानि । स्याद्यथेदम् । महासाहस्रप्रमर्दनी । महामायूरी महाशीतवती महाप्रतिसरा महामन्त्रानुसारणी चेति । तानि च भगवता पञ्चामिषपरिवर्जिनेनानुज्ञतानि वाचयितव्यानि । पिण्डपात्रं च भोजनं निश्राय प्रव्रज्या व्याकृता । अल्पं च भगवन् पिण्डपात्रं पञ्चामिषपरिवर्जितम् । इदमेव बहुतरं यदिदं पञ्चामिषसंसृष्टं तत्र वयं भगवन् कथं प्रतिपद्यामः ॥ एवमुक्ते भगवान् तान् भिक्षूनेतदवोचत् । तेन हि भिक्षवो यो ह्येतत्महासाहस्रप्रमर्दनीसूत्रं धारयितव्यम् । तेनाक्षतेयं धारणी आत्मरक्षायै धारयितव्या । तेन हि पिण्डपात्रं परिगृहीता आहारे प्रतिकूलसंज्ञोत्पादयितव्या । पञ्चामिषसंसृष्टपिण्डपात्रे पञ्चामिषपरिवर्जितसंज्ञोत्पादयितव्या । सर्वसंस्कृते अनित्यसंज्ञा । अनित्ये दुःखसंज्ञा । दुःखे अनात्मसंज्ञा । अनात्मन्यशुभसंज्ञोत्पादयितव्या । कुतः पञ्चामिषाणि कस्य वा पञ्चामिषाणि । को वा पञ्चामिषाणि परिभोज्यन्ते । नास्ति सत्वः कुतः सत्वः । स सत्वो नोपलभ्यते । तत्र चाहार पञ्चामिषासंसृष्टसंज्ञकरणीया । आत्मरक्षा अष्टम्यां चतुर्दश्यां पञ्चदश्यां च राजगोत्राय कन्याय सुस्नाताय सुभूषिताय अहोरात्रो वपुष्टाय पञ्चशिक्षापदपरिगृहीतया लोहितं सूत्रं चतुर्गुणं कारयित्वा मन्त्रधारेण विद्या स्मरयितव्या । ग्रन्थिं कृत्वा तत्सूत्रं नवेन शस्त्रेण च्छित्वा दग्धा रत्नभण्डो वा उदकपरिपूर्णं कृत्वा पुष्पैराच्छादयित्वा नानागन्धेन धूपयित्वा इयं विद्या आवर्तयितव्या । यावत्तज्जातं सूत्रं भाजने प्रादुर्भवति । तच्च पाणौ बन्धयित्वा वाच्यम् ॥ (म्स्प्४२) ब्रह्मणैर्विप्रलब्धेन शाक्यसिंहेन तायिना । स विषं गिरिगुप्तेन भोजनमुपनामितम् ॥ प्रतिगृह्य ततः शास्ता निर्विषीकृत्य भोजिनाम् । एतेन सत्यवाक्येन अमृतं भोन्तु भोजनम् ॥ विपश्यिनो देवतायाः शिखिनो विश्वभुवस्तथा । क्रकुच्छन्दप्रसन्नाच्च देवताया महाबलाः ॥ कनकाख्यदेवेन्द्राः श्रीमतः काश्यपस्य च । प्रसन्नाः शाक्यसिंहस्य ब्रह्मेन्द्रास्त्रिदेशेश्वराः ॥ चत्वारो लोकपालाश्च माणिभद्रो महेश्वरः । राक्षसी च महाकाली चण्डचण्डालिनी तथा ॥ इदं पुष्पं च गन्धं च प्रतिगृह्णन्तु ममाहुतिम् । प्रीणिता पूजिता भूत्वा एते शोधन्तु भोजनम् ॥ पञ्चामिषेण संसृष्टमसंसृष्टं करोन्तु मे । अपञ्चामिषसंसृष्टं सर्वं भुजामि भोजनम् ॥ सर्वेषां बीजग्रामाणां प्रतिष्ठा पृथिवीरसाः । सर्वभोजनसंसृष्टमसंसृष्टं भवन्तु मे ॥ छिन्नं दग्धं यथा सूत्रं तादृशं भवते पुनः । तथा भोजनसंसृष्टमसंसृष्टं करोन्तु मे ॥ स्याद्यथेदम् । खखमे । खख खख । खुखुमे । सिमे सिमे । सिहुने । सिमि सिमे । स्वस्ति स्वस्ति स्वस्ति स्वस्ति । शान्ति शान्ति साराग्रि । पञ्चामिषेण संसृष्टं यथा हार निरामिषम् । येन दग्धं यथा सूत्रं सत्यं कुर्वन्तु तादृशम् ॥ स्याद्यथेदम् ॥ कलके । कलले । बलनिकरुणलाये । खलुमे । अग्निसंक्रामनि स्वाहा ॥ विपश्यिबुद्धं शरणमुपैमि । शिखिनं च बुद्धं सुगतं च विश्वभुम् । क्रकुच्छन्दबुद्धं कनकमुनिं च काश्यपम् । विशारदं शक्यमुनिं च गौतमम् । एतेन सप्तान्नरोत्तमानां पुष्पैश्च गन्धैश्च शरीरपूजां कायेन वाचा (म्स्प्४३) मनसा च कृत्वा प्रसन्नचित्तशरणं ह्युपैमि । एतेषु बुद्धेषु महर्द्धिकेषु या देवताः सन्ति अभिप्रसन्नाः । ता देवता आत्तमना उदग्राः कुर्वन्ति शान्तिं च नित्यम् । स्वस्त्यस्तु मम सर्वसत्वानां च स्वाहा ॥ इदमवोचद्भगवानात्तमनास्ते च भिक्षवो बोधिसत्वा सा च सर्वावती पर्षत्सदेवमानुषासुरगन्धर्वश्च लोको भगवतो भाषितमभ्यनन्दन्निति ॥ आर्यमहासाहस्रप्रमर्दनी नम महायानसूत्रं समाप्तम् ॥