महामायूरीविद्याराज्ञी ओं नमो भगवत्यै आर्यमहामायूर्यै मृतसंजीवनीं देवीं दुष्टसत्वनिवारणीं विद्या राज्ञीं महात्मानीं मायूरीं प्रणमाम्यहं नमः सर्वबुद्धबोधिसत्वेभ्योऽर्हद्भ्यः सम्यक्संबुद्धेभ्योऽतीतानागतप्रत्युत्पन्नेभ्यः सर्वधर्ममहासंघेभ्यः । नमो बुद्धाय नमो धर्माय नमः संघाय, नमः सप्तानां सम्यक्संबुद्धानां सश्रावकसंघानां, नमो लोकेऽर्हतां, नमो मैत्रेयप्रमुखानां बोधिसत्वानां महासत्वानां, नमोऽनागामिनां, नमः सकृदागामिनां, नमः श्रोतापन्नानां, नमो लोके सम्यग्गतानां, नमः सम्यक्प्रतिपन्नानां । एषां नमस्कृत्वा इमां महामायूरीं विद्याराज्ञीं प्रयोजयिष्यामि । इयं मे विद्या समृध्यतु, शृण्वन्तु मे भूतगणाः । ये केचित्पृथिवीचराः खचरा जलचरा देवा नागा असुरा मरुता गरुडा गन्धर्वाः किन्नरा महोरगा यक्षा राक्षसाः प्रेताः पिशाचा भूताः कुम्भाण्डाः पूतनाः कटपूतनाः स्कन्दा उन्मादाश्च्छाया अपस्मारा ओस्तारकाः शृण्वन्तु मे ओजाहारा भूतगणा गर्भाहारा रुधिराहरा वसाहारा (म्म्व्र्तकु २) मांसाहारा मेदाहारा मज्जाहारा जाताहारा जीविताहारा बल्याहारा माल्याहारा गन्धाहारा धूपाहाराः पुष्पाहाराः फलाहाराः सस्याहारा आहुत्याहाराः पूजाहारारा विष्ट्याहारा मूत्राहाराः खेटाहाराः श्लेष्माहाराः शिंघाणकाहारा उच्छिष्टाहारा वान्ताहारा अशुच्याहाराः स्यन्दनिकाहाराः, पापचित्ताः दुष्टचित्ता रौद्रचित्ताः परप्राणहराः । इमां महामायूरीविद्याराज्ञीं प्रवक्ष्यामि, गन्धं पुष्पं धूपं दीपं बलिं च दास्यामि, अपक्रामन्तु मे पापचित्ताः दुष्टचित्ता रौद्रचित्ताः परप्राणहराः सर्वग्रहा ओजोहाराः शृण्वन्तु मे, सौम्यचित्ता मैत्रचित्ताः कल्याणचित्ताः शृण्वन्तु मे बुद्धधर्मसंघाभिप्रसन्नाः । तद्यथा कालि करालि कुम्भाण्डि शंखिनि कमलाक्षि हरीति हरिकेशि श्रीमति हरि हरिपिङ्गले, लंबे प्रलंबे कालपाशे कालशोदरि यमदूति यमराक्षसि भूतग्रसनि, प्रतीच्छथ मां, गन्धं पुष्पं धूपं बलिं च दास्यामि, रक्षथ मम सगणपरिवाराणां सर्वसत्वानांश्च सर्वभयोपद्रवेभ्यः, जीवतु वर्षशतं पश्यतु शरदाशतं, सिध्यन्तु मे मन्त्रपदाः स्वाहा । एवं मया श्रुतमेकस्मिं समये भगवां श्रावस्त्यां विहरति स्म, जेतवनेऽनाथपिण्डस्यारामे महता भिक्षुसंघेन महता बोधिसत्वसंघेन सार्धं, तेन खलु पुनः समयेन श्रावस्त्यां जेतवनेऽनाथपिण्डस्यारामे स्वातिर्नाम भिक्षुः प्रतिवसति स्म । नवो दह्रतरुणोऽचिरप्रव्रजितोऽचिरोपसंपन्नोऽचिरागत इमं धर्मविनयं, संघस्यार्थे जेन्ताकदारूणि पाटयमानः, अन्यतमस्मात्पूतिदारुशुषिरान्निष्क्रम्य महता कृष्णसर्पेण दक्षिणे पादांगुष्ठो दष्टः स क्लान्तकायो भूमौ निपतितः, फेनं वाहयमानोऽक्षिणी च परिवर्तयमानः स्वपिति । (म्म्व्र्तकु ३) अद्राक्षीदायुष्मानानन्दः स्वातिर्नाम भिक्षुमाबाधिकं दुःखितं गाढग्लानं भूमौ पतितं फेनं वाहयमानमक्षिणी परिवर्तयमानं स्वपन्तं, दृष्ट्वा च पुनस्त्वरितं त्वरितं येन भगवांस्तेनोपसंक्रान्तः, उपसंक्रम्य भगवतः पादौ शिरसा वन्दित्वैकान्तेऽस्थात् । एकान्तस्थितश्चायुष्मानानन्दो भगवन्तमेतदवोचत् । इह भगवन् छ्रावस्त्यां जेतवनेऽनाथपिण्डस्यारामे स्वातिर्नाम भिक्षुः प्रतिवसति, नवो दह्रस्तरुणोऽचिरप्रव्रजितोऽचिरोपसंपन्नोऽचिरागत इमं धर्मविनयं । संघस्यार्थे जेन्ताकदारूणि पाटयमानोऽन्यतमस्मात्पूतिदारुसुषिरान्निष्क्रम्य महता कृष्णसर्पेण दक्षिणे पादांगुष्ठो दष्टः । स क्लान्तकायो भूमौ पतितः फेनं वाहयमानोऽक्षिणी च परिवर्तयमानः स्वपिति, तस्याहं भगवं कथं प्रतिपद्यामि । एवमुक्ते भगवानायुष्मन्तमानन्दमेतदवोचत् । गच्छ त्वमानन्द तथागतस्य वचनेनानया महामायूर्या विद्याराज्ञ्या स्वातेर्भिक्षो रक्षां कुरु, गुप्तिं परित्राणं परिग्रहं परिपालनं शान्तिं स्वस्त्ययनं दण्डपरिहारं शस्त्रपरिहारं विषदूषणं विषनाशनं सीमाबन्धं धरणीबन्धं च कुरु । देवग्रहातो नागग्रहातोऽसुरग्रहातो मरुतग्रहातो गरुडग्रहातो गन्धर्वग्रहातः किन्नरग्रहातो महोरगग्रहातो यक्षग्रहातो राक्षसग्रहातः प्रेतग्रहातः पिशाचग्रहातो भूतग्रहातः कुम्भाण्डग्रहातः पूतनग्रहातः कटपूतनग्रहातः स्कन्दग्रहातो उन्मादग्रहातः छायाग्रहातोऽपस्मारग्रहात ओस्तारकग्रहातः कृत्याकर्मणकाखोर्दवेताडकिरणचिच्चकप्रेषकदुर्भुक्तदुश्छर्दितदुश्छायादुष्प्रेक्षितदुर्लिखितदुर्लंघितावधूतातः, (म्म्व्र्तकु ४) ज्वरादेकाहिकाद्द्वैतीयकात्त्रैतीयकाच्चातुर्थकात्सप्ताहिकादर्धमासिकान्मासिकाद्दैवसिकान्मौहूर्तिकान्नित्यज्वराद्विषमज्वराद्भूतज्वरान्मानुष्यज्वरादमानुष्यज्वराद्वातिकात्पैत्तिकाच्छ्लेष्मकात्सर्वज्वरात्, शिरोर्त्तिमपनय अर्धावभेदकमरोचकमक्षिरोगं नासारोगं मुखरोगं कण्ठरोगं हृद्रोगं गलग्रहं कर्णशूलं दन्तशूलं हृदयशूलं पृष्ठशूलं पार्श्वशूलमुदरशूलं मणिशूलं योनिशूलं प्रजनशूलं गण्डशूलं वस्तिशूलमूरुशूलं जंघशूलं हस्तशूलं पादशूलमंगप्रत्यंगशूलं चापनय । रात्रौ स्वस्ति दिवा स्वस्ति स्वस्ति मध्यंदिने स्थिते, स्वस्ति सर्वमहो-रात्रं सर्वबुद्धा दिशन्तु मे । तद्यथा इडि विडि किडि हिडि मिडि तिडि आडे घाडे दुर्गाडे हरिणि वगुडि पांशु पिशाचि वर्षणि आरोहणि ओरोहणि, एले मेले तेले तिले, तिलि तिले, मेले मेले, तिमे तिमे, दुमे दुमे, दुदुमे दुदुमे, इट्टि मिट्टि विष्ठन्दे, चपले विमले, हुलु हुलु हुलु हुलु, अश्वमुखि, कालि कालि करालि महाकालि, प्रकीर्णकेशि, कुलु कुलु, वफुलु वफुलु कोलु कोलु हुलु हुलु, वहुलु वहुलु, कोलु कोलु, हुलु हुलु, वहुलु वहुलु, वोसा दुम्बा दोदुम्बा दोमदुम्बा, गोलाया वेलाया परिवेलाया, पिशु पिशु, हिलि हिलि हिलि हिलि हिलि हिलि हिलि हिलि हिलि हिलि, ओं मिलि मिलि मिलि मिलि मिलि मिलि मिलि मिलि मिलि मिलि । ओं तिलि तिलि तिलि तिलि तिलि तिलि तिलि तिलि तिलि तिलि । ओं चुलु चुलु चुलु चुलु चुलु चुलु चुलु चुलु चुलु चुलु । ओं मुहु (म्म्व्र्तकु ५) मुहु मुहु मुहु मुहु मुहु मुहु मुहु मुहु मुहु । ओं मुलु मुलु मुलु मुलु मुलु मुलु मुलु मुलु मुलु मुलु । ओं हु हु हु हु हु हु हु हु हु हु । ओं हुलु हुलु हुलु हुलु हुलु हुलु हुलु हुलु हुलु हुलु । ओं वा वा वा वा वा वा वा वा वा वा । ओं पा पा पा पा पा पा पा पा पा पा । ओं जाल जाल जाल जाल जाल जाल जाल जाल जाल जाल । दम दमनि, तप तपनि, ज्वल ज्वलनि, पच पचनि, दुंदुभि गर्जनि वर्षणि स्फोटनि, तपनि तापनि, पचनि पाचनि, हरिणि हारिणि, कालिणि कमलि कंपनि, मर्दनि, मण्डितिके, क्षेमंकरि, मकरि शाकरि, शर्करि कर्करि सवरि शंकरि, ज्वलनि ज्वलनि, दुमदुम्बनि सुकुसुमे, गोलाया वेलाया परिवेलाया वर्षतु देवः समन्तकेन इलिकिसि स्वाहा । मैत्री मे धृतराष्ट्रेषु मैत्री ऐरावणेषु च, विरूपाक्षेषु मे मैत्री कृष्णगोतमक्षेषु च । मणिना नागराजेन मैत्री वासुकिना च मे, दण्डपादेषु नागेषु पूर्णभद्रेषु मे सदा । नन्दोपनन्दौ यौ नागौ वर्णवन्तौ यशस्विनौ, देवासुरमपि संग्राममनुभवन्तौ महर्द्धिकौ । अनवतप्तेन वरुणेन मैत्री मन्दूरकेन च, तक्षकेन अनन्तेन तथा वासूमुखेन च । अपराजितेन मे मैत्री मैत्री च्छित्वासुतेन च, महामनस्विनानित्यं तथैव च मनस्विना । कालको अपलालश्च भागवाञ्छ्रामणेरकः, दधिमुखो मणिश्चैव पौण्डरीको दिशांपतिः । कर्कोटकः शंखपालः कम्बलाश्वोत्तरावुभौ, एतेष्वपि च मे मैत्री नागराजेषु च नित्यशः । (म्म्व्र्तकु ६) साकेतश्च कुम्भीरः सूचिलोमा तथैव च, उरगाधिपेन कालेन मैत्री मे ऋषिकेन च । तथा पूरणकर्णेन मैत्री शकटमुखेन, कोलुकेन सुनन्देन वात्सीपुत्रेण मे सदा । एलपत्रेण मे मैत्री लम्बुरकेन च, अमानुषाश्च ये नागास्तथैवोत्तरमानुषाः । मृगिलश्च महानागो मुचिलिन्दश्च विश्रुतः, पृथिवीचराश्च ये नागास्तथैव जलनिश्रिताः । अन्तरीक्षचरा ये च ये च मेरुसमाश्रिताः, एकशीर्षद्विशीर्षाहि मैत्री मे तेषु नित्यशः । अपादकेषु मे मैत्री मैत्री मे द्विपदेषु च, चतुष्पदेषु मे मैत्री मैत्री बहुपदेषु च । मा मे अपादका हिंस्युर्मा मे हिंस्युर्द्विपादकाः, मा मे चतुष्पदा हिंस्युर्मा मे हिंस्युर्बहुपादकाः । सर्वनागेषु मे मैत्री ये नागा जलनिश्रिताः, सर्वभूतेषु मे मैत्री ये केचित्पृथिवीस्थिताः । सर्वसत्वेषु मे मैत्री ये सत्वा अत्र स्थावराः, सर्वे सत्वाः सर्वे प्राणाः सर्वे भूताश्च केवलाः । सर्वे वै सुखिनः सन्तु सर्वे सन्तु निरामयाः, सर्वे भद्राणि पश्यन्तु मा कश्चित्पापमागमतु । मैत्रीचित्तं समोत्थाय करोमि विषदूषणं, रक्षां परिग्रहं चैव तथैव परिपालनं । नमोऽस्तु बुद्धाय नमोऽस्तु बोधये, (म्म्व्र्तकु ७) नमोऽस्तु मुक्ताय नमोऽस्तु मुक्तये । नमोऽस्तु शान्ताय नमोऽस्तु शान्तये, नमो विमुक्ताय नमो विमुक्तये । ये ब्राह्मणा वाहितपापधर्माः, तेषां नमस्ते च मम पालयंतु । सर्वभयेभ्यः सर्वोपद्रवेभ्यः सर्वोपसर्गोपायासेभ्यः सर्वज्वरेभ्यः सर्वव्याधिभ्यः सर्वग्रहेभ्यः सर्वविषेभ्यः मम सर्वसत्वानां च रक्षां कुर्वन्तु, जीवन्तु वर्षशतं पश्यन्तु शरदाशतं । भूतपूर्वमानन्द हिमवतः पर्वतराजस्य दक्षिणे पार्श्वे सुवर्णावभासो नामो मयूरराजा प्रतिवसति स्म । सोऽप्यनया महामायूर्या विद्याराज्ञ्या कल्यं स्वस्त्ययनं कृत्वा दिवा स्वस्तिना विहरति । सायं स्वस्त्ययनं कृत्वा रात्रौ स्वस्तिना विहरति । नमो बुद्धाय नमो धर्माय नमः संघाय नमो भगवत्यै महामायूर्यै विद्याराज्ञ्यै । तद्यथा हु हु हु हु हु हु, नाग ले ले ले, दुम्ब ले ले ले, हुय हुय, विज विज, थुस थुस, गुरु गुरु, हे चेजिनि, अगलु, एला मेला, इलि मेला, तिलि मेला, इलि तिलि मेला, इलि मित्ते, तिलि मित्ते इलि तिलि मित्ते, दुम्बे सुदुम्बे, तोसु तोसु, गोला वेला चपला विमला, इट्टिरि भिट्टिरि रिट्टिरि, नमो बुद्धानां चिलिकिसि गोदोहिकानां नमोऽर्हतां हाल दाल वर्षतु देवः समन्तेन दशसु दिशासु । नमो बुद्धानां स्वाहा । सोऽपरेण समयेनानया महामायूर्या विद्याराज्ञ्या रक्षास्वस्त्ययनमकृत्वा संबहुलाभिर्वनमयूरकन्याभिः सार्धमारामेणाराममुद्यानेनोद्यानं पर्वतपार्श्वेन (म्म्व्र्तकु ८) पर्वतपार्श्वं कामेषु गृध्र आसक्तो मदमत्तः प्रमूढः प्रमूर्च्छितः प्रलुडितोऽनुविचरन् प्रमादवशादन्यतरं पर्वतविवरमनुप्रविष्टः । स तत्र दीर्घरात्रं प्रत्यर्थिकैः प्रत्यमित्रैर्हिंसकैरवतारप्रेक्षिभिरवतारगवेषिभिर्मयूरपाशैर्बद्धः । सोऽमित्रमध्यगतः स्मृतिं प्रतिलब्धः, इमामेव महामायूरीविद्याराज्ञीं मनस्यकार्षीत् । नमो बुद्धाय नमो धर्माय नमः संघाय नमो भगवत्यै महामायूर्यै विद्याराज्ञ्यै । तद्यथा हु हु हु हु हु हु, हुलु हुलु हुलु, नाग ले ले ले, दुम्ब ले ले ले, नाग ले ले ले, हुय हुय, विज विज, थुसु थुसु, गुलु गुलु, हु चेजिनि, अगलु, एला मेला, इलि मेला, तिलि मेला, इलि मित्ते तिलि मित्ते, इलि तिलि मित्ते, दुम्बे सुदुम्बे, तोसु तोसु, गोला वेला चपला विमला, इट्टिरि भिट्टिरि रिट्टिरि, नमो बुद्धानां । चिलिकिसि गोदोहिकानां । नमोऽर्हतां हाल दाल वर्षतु देवः समन्तेन दशसु दिशासु । नमो बुद्धानां स्वाहा । अथ स तस्माद्व्यसनात्परिमुक्तः, स्वस्तिना क्षेमेण स्वविषयमनुप्राप्तः । इमानि च मन्त्रपदान्युदाहरति स्म । नमो बुद्धाय नमो धर्माय नमः संघाय नमः सुवर्णावभासस्य मयूरराज्ञः, नमो महामायूर्यै विद्याराज्ञ्यै । तद्यथा सिद्धे सुसुद्धे, मोचनि मोक्षनि, मुक्ते विमुक्ते, अमले विमले निर्मले, अण्डरे पण्डरे, मङ्गले मङ्गल्ये, हिरण्ये हिरण्यगर्भे, रत्ने रत्नगर्भे, भद्रे सुभद्रे समन्तभद्रे, सर्वार्थसाधनि परमार्थसाधनि, सर्वानर्थप्रशमनि सर्वमङ्गलसाधनि, सर्वमङ्गलवाधनि, मनसि मानसि महामानसि, अद्भुते अत्यभुते, मुक्ते मोचनि मोक्षनि, अच्युते, अरजे विरजे, विमले, अमृते अमरे अमरणि ब्रह्मे ब्रह्मस्वरे, पूर्णे पूर्णमनोरथे, मृतसंजीवनि, श्रीभद्रे चन्द्रे चन्द्रप्रभे, सूर्ये सूर्यकान्ते, वीतभये, सुवर्णे ब्रह्मघोषे ब्रह्मजेष्ठे (म्म्व्र्तकु ९) सर्वत्राप्रतिहते, रक्ष रक्ष मां सर्वसत्वानांश्च स्वाहा । नमः सर्वबुद्धानां स्वस्तिर्भवतु स्वातेर्भिक्षोर्मम सर्वसत्वानाञ्च । जीवन्तु वर्षशतं पश्यन्तु शरदाशतं । तद्यथा । हुचि गुचि मुचि स्वाहा । स्यात्खलु पुनरानन्द अन्यः स तेन कालेन तेन समयेन सुवर्णावभासो नाम मयूरराजा बभूवेति । न पुनरेवं द्रष्टव्यम् । तत्कस्य हेतोः । अहमेव स तेन कालेन तेन समयेन सुवर्णावभासो नाम मयूरराजा बभूव । अस्याश्चानन्द महामायूर्या विद्याराज्ञ्या एतर्हि हृदयमनुव्याख्यास्यामि । तद्यथा । इलि मित्ति, तिलि मित्ति, तिलि मिलि मित्ति, तिलि मिले, मिलि तिलि मित्ति, चिलि मिलि मिलि, चिलि मिलि मिलि, तिलि मिलि, सुतुम्बा तुम्बा, सुवच चिलिकिसिय, भिन्न मेडि । नमो बुद्धानां चिलिकिसि प्राप्तमूले, इतिहारा लोहितमूले, तुम्बा सुतुम्बा कुट्टि कुनट्टि, तिल कुञ्ज नट्टि, अडकवात्यायां, वर्षतु देवो नव मासान् दश मासानिति । इलि मिलि किलि मिलि केलि मिलि, केतुमूले, दुदुम्बे सुदुम्बे, सुदुमोडे, दलिमे सन्तुवट्टे बुसवट्टे, वुसर वुसर, धनवस्त्रके, नर्कला नर्कलिमे, खलिमे घोषे रखिले इति, सज्जले, तुम्बे सुतुम्बे, अट्टे नट्टे प्रनट्टे अणनट्टे, अनमाले, वर्षतु देवो नवोदकेन सर्वतः समन्तेन नारायणि पारायणि हरितालि कुन्तालि, इलि मिस्ति, किलि मिस्ति, इलि किलि मिस्ति, इलि मे सिध्यन्तु, द्रामिडा मन्त्रपदाः स्वाहा । इदमानन्द महामायूर्या राज्ञ्या हृदयं । इयं चानन्द महामायूरी विद्याराज्ञी ग्रामगतेन मनसिकर्तव्या, अरण्यगतेन मनसिकर्तव्या, पथिगतेन मनसिकर्तव्या, उत्पथगतेन, राजकुलमध्यगतेन, चौरमध्यगतेन, अग्निमध्यगतेन, उदकमध्यगतेन, प्रत्यर्थिकमध्यगतेन, पर्षन्मध्यगतेन, विवादमध्यगतेन, अहिदष्टेन, विषपीतेन, सर्वभयसन्निपातेन च (म्म्व्र्तकु १०) मनसिकर्तव्या, ज्वरितेन मनसिकर्तव्या । वातिकपैत्तिकश्लेष्मिकसान्निपातिकेषु चतुरुत्तरेषु चतुर्षु व्याधिशतेषु, अन्यतरान्यतरेण व्याधिना स्पृष्टः समानापत्सु वासमुत्पन्नासु मनसिकर्तव्या । तत्कस्य हेतोः । वध्यार्होऽप्यानन्द दण्डेन मुच्यते दण्डार्हः प्रहारेण, प्रहारार्ह आक्रोशेन, आक्रोशार्हः, परिभाषेन, परिभाषार्हो रोमहर्षणेन, रोमहर्षणार्ह एवमेव मुच्यते । सर्वव्याधिविनिर्वृत्तिश्चास्य भविष्यति । इमानि चानन्द विद्यमन्त्रपदानि मनसिकर्तव्यानि । तद्यथा । चिलि मिलि किलि मिलि केतुमूले बुद्धवर्णे वुसरणे वुसरणे, वुदारणि वुदारणि, केवट्टे केवट्टकमूले, इति सवले, तुंबे तुंबे, प्रियं करे आवर्त्त परिवर्त्त नवोदकेन वर्षतु देवः समन्तेन । नमो भगवते इट्टित्ताय इन्द्रगोमिसिकाय आशने पाशने पापनिकूले, कपिलमित्ते इलि मित्ते, नमो भगवते बुद्धाये, सिध्यन्तु मन्त्रपदाः मम सर्वसत्वानाञ्च स्वाहा । अनया चानन्द महामायूर्या विद्याराज्ञ्या तथागतभाषितया स्वातेर्भिक्षोर्मम सर्वसत्वानां च रक्षां कुरु, गुप्तिं परित्राणं परिग्रहं परिपालनं शान्तिं स्वस्त्ययनं दण्डपरिहारं शस्त्रपरिहारं विषदूषणं विषनाशनं सीमाबन्धं धरणीबन्धं च कुरु । जीवतु वर्षशतं पश्यतु शरदाशतं । नाहमानन्द समनुपश्यामि सदेवके लोके समारके सब्रह्मके सश्रवणब्राह्मणिकायां प्रजायां सदेवमानुष्यासुरायां यस्यानया महामायूर्या विद्याराज्ञ्या रक्षया कृतया गुप्त्या परित्राणेन परिग्रहेण परिपलानेन शान्त्या स्वस्त्ययनेन दण्डपरिहारेण शस्त्रपरिहारेण विषदूषणेन विषनाशनेन सीमाबन्धेन धरणीबन्धेन च कृतेन, कश्चिदेव विहेठायोपसंक्रामेत् । देवो वा देवा वा देवपुत्रो वा देवदुहिता वा देवमहल्लको वा देवमहल्लिका वा देवपार्षदो (म्म्व्र्तकु ११) वा देवपार्षदी वा, नागो वा नागी वा नागपुत्रो वा नागदुहिता वा नागमहल्लको वा नागमहल्लिका वा नागपार्षदो वा नागपार्षदी वा, असुरो वा असुरी वा असुरपुत्रो वा असुरदुहिता वा असुरमहल्लको वा असुरमहल्लिका वा असुरपार्षदो वा असुरपार्षदी वा, मरुतो वा मरुती वा मरुतपुत्रो वा मरुतदुहिता वा मरुतमहल्लको वा मरुतमहल्लिका वा मरुतपार्षदो वा मरुतपार्षदी वा, गरुडो वा गरुडी वा गरुडपुत्रो वा गरुडदुहिता वा गरुडमहल्लको वा गरुडमहल्लिका वा गरुडपार्षदो वा गरुडपार्षदी वा, गन्धर्वो वा गन्धर्वी वा गन्धर्वपुत्रो वा गन्धर्वदुहिता वा गन्धर्वमहल्लको वा गन्धर्वमहल्लिका वा गन्धर्वपार्षदो वा गन्धर्वपार्षदी वा, किन्नरो वा किन्नरी वा किन्नरपुत्रो वा किन्नरदुहिता वा किन्नरमहल्लको वा किन्नरमहल्लिका वा किन्नरपार्षदो वा किन्नरपार्षदी वा, महोरगो वा महोरगी वा महोरगपुत्रो वा महोरगदुहिता वा महोरगमहल्लको वा महोरगमहल्लिका वा महोरगपार्षदो वा महोरगपार्षदी वा, यक्षो वा यक्षी वा यक्षपुत्रो वा यक्षदुहिता वा यक्षमहल्लको वा यक्षमहल्लिका वा यक्षपार्षदो वा यक्षपार्षदी वा, राक्षसो वा राक्षसी वा राक्षसपुत्रो वा राक्षसदुहिता वा राक्षसमहल्लको वा राक्षसमहल्लिका वा राक्षसपार्षदो वा राक्षसपार्षदी वा, प्रेतो वा प्रेती वा प्रेतपुत्रो वा प्रेतदुहिता वा प्रेतमहल्लको वा प्रेतमहल्लिका वा प्रेतपार्षदो वा प्रेतपार्षदी वा, पिशाचो वा पिशाची वा पिशाचपुत्रो वा पिशाचदुहिता वा पिशाचमहल्लको वा पिशाचमहल्लिका वा पिशाचपार्षदो वा पिशाचपार्षदी वा, भूतो वा भूती वा भूतपुत्रो वा भूतदुहिता वा भूतमहल्लको वा भूतमहल्लिका वा भूतपार्षदो वा भूतपार्षदी वा, कुम्भाण्डो वा कुम्भाण्डी वा कुम्भाण्डपुत्रो वा कुम्भाण्डदुहिता वा कुम्भाण्डमहल्लको वा कुम्भाण्डमहल्लिका वा कुम्भाण्डपार्षदो वा कुम्भाण्डपार्षदी वा, पूतनो वा पूतनी वा पूतनपुत्रो वा पूतनदुहिता वा पूतनमहल्लको वा पूतनमहल्लिका वा पूतनपार्षदो वा पूतनपार्षदी वा, कटपूतनो वा कटपूतनी वा कटपूतनपुत्रो वा कटपूतनदुहिता वा कटपूतनमहल्लको वा कटपूतनमहल्लिका वा कटपूतनपार्षदो वा कटपूतनपार्षदी वा, स्कन्दो वा स्कन्दी वा स्कन्दपुत्रो वा स्कन्ददुहिता वा स्कन्दमहल्लको वा स्कन्दमहल्लिका वा स्कन्दपार्षदो वा स्कन्दपार्षदी वा, उन्मादो वा उन्मदी वा उन्मादपुत्रो वा उन्माददुहिता वा उन्मादमहल्लको वा उन्मादमहल्लिका वा उन्मादपार्षदो वा उन्मादपार्षदी वा, च्छायो वा च्छायी वा च्छायपुत्रो वा च्छायदुहिता वा च्छायमहल्लको (म्म्व्र्तकु १२) वा च्छायमहल्लिका वा च्छायपार्षदो वा च्छायपार्षदी वा, अपस्मारो वा अपस्मारी वा अपस्मारपुत्रो वा अपस्मारदुहिता वा अपस्मारमहल्लको वा अपस्मारमहल्लिका वा अपस्मारपार्षदो वा अपस्मारपार्षदी वा, ओस्तारको वा ओस्तारकी वा ओस्तारकपुत्रो वा ओस्तारकदुहिता वा ओस्तारकमहल्लको वा ओस्तारकमहल्लिका वा ओस्तारकपार्षदो वा ओस्तारकपार्षदी वा, उपसंक्रमिष्यत्युपस्थास्यत्यवतारार्थी अवतारगवेषी अवतारं न लप्स्यते । न देवो देवसमितीये स्थानं, न नागो नागसमितीये स्थानं, नासुरोऽसुरसमितीये स्थानं, न मरुतो मरुतसमितीये स्थानं, न गरुडो गरुडसमितीये स्थानं, न गन्धर्वो गन्धर्वसमितीये स्थानं, न किन्नरः किन्नरसमितीये स्थानं, न महोरगो महोरगसमितीये स्थानं, न यक्षो यक्षसमितीये स्थानं, न राक्षसो राक्षससमितीये स्थानं, न प्रेतः प्रेतसमितीये स्थानं, न पिशाचः पिशाचसमितीये स्थानं, न भूतो भूतसमितीये स्थानं, न कुम्भाण्डो कुम्भाण्डसमितीये स्थानं, न पूतनः पूतनसमितीये स्थानं, न कटपूतनः कटपूतनसमितीये स्थानं, न स्कन्दः स्कन्दसमितीये स्थानं, न उन्माद उन्मादसमितीये स्थानं, नापस्मारोऽपस्मारसमितीये स्थानं, न्ऽओस्तारक ओस्तारकसमितीये स्थानं लप्स्यते । यश्चैमं महाविद्यां कश्चिदतिक्रमिष्यति सप्तधास्य स्फुटेन्मूर्धा अर्जुकस्येव मंजरी । इमानि चात्र मन्त्रपदानि मनसिकर्तव्यानि । तद्यथा इलि मिलि, किलि मिलि, किलि किं दुग्धे, मुक्ते सुमुक्ते, ऊड नाड सुनाड, वर्षतु देवः परमडकवत्यायां, आरा पारा गोदोहिका, इलि मिलि भिज्जिलिका उदुका डदुका करोडुका इलि मिलि तिलि मिलि, समन्ततः कृत्वा, हुलु हुलु हिलि हिलि, मिलि मिलि मिलि मिलि, पिलि पिलि पिलि पिलि, किलि किलि, शीर्षेण वर्षं, चुलु चुलु, चल चल, चिलि चिलि, चिडि चिडि चिडि चिडि, शिखि शिखि शिखि शिखि, जुहु जुहु जुहु जुहु जुहु जुहु जुहु जुहु जुहु जुहु, हर हर हरणे, जंभे प्रजंभे, सर्वदुष्टप्रदुष्टानां च जंभे प्रजंभे, स्वातेर्(म्म्व्र्तकु १३) भिक्षोर्मम सर्वसत्वानां च रक्षां करोमि, गुप्तिं परित्राणं परिग्रहं परिपालनं शान्तिं स्वस्त्ययनं दण्डपरिहारं शस्त्रपरिहारं विषदूषणं विषनाशनं सीमाबन्धं धरणीबन्धं च करोमि । जीवतु वर्षशतं पश्यतु शरदाशतं । तद्यथा । चित्रमूले चित्रे चित्रमाले, हले हलमाले, फले फलमाले, हले हले, माले माले, खुलु खुलु वुरु वरुणो, धीरे धर्य, सुरु सुरु, हतं विषं, निहतं विषं, सर्वदुष्टप्रदुष्टानां द्रंष्ट्राविषं मूलविषमन्नविषं सर्वबुद्धानां तेजसा, सुरु सुरु के, चर चर के, बिरि बिरि, हतं विषं, नास्ति विषं, सप्तानां सम्यक्संबुद्धानां, सश्रावकसंघानां तेजसा, एल मेला, इलि मेला, तिलि मेला, तिह दुह तिलिमा तिमा दुमा, विमधु सुकुम्भा सुम्भा तुम्बा समतुम्बा, आडे नाडे, तिल कुञ्जनाडे, वर्षतु देवः, तिलिकिसि समन्तेन नवमासां, मैत्री मे सर्वसत्वेषु वुशडे शवरिणि वुदारिणि वुदारिणि, केवट्टे केवट्टकमूले इतिशबरे, तुंबे तुंबे प्रियं करे, आवट्ट परिवट्ट, नवोदकेन वर्षतु देवः समन्तेन, नमो भगवते इन्द्रगोमिसिकाय इट्टिताय गोदोहिकाय भृङ्गारिकाय, अले तले कुन्तले, अट्टे नट्टे कुनट्टे आशने पाशने, पापनिकूले प्रतिकूले, नमो भगवतां बुद्धानां । सिध्यन्तु मन्त्रपदाः स्वाहा । अशोकमाश्रित्य जिनो विपश्यी शिखी जिनः पुण्डरीकस्य मूले, शालस्य मूले उपगम्य विश्वभूत् शिरीषमूले क्रकुच्छन्दब्राह्मणः । बुद्धश्च कनकमुनि उदुंबरे न्यग्रोधमूले उपगम्य काश्यपः, अश्वत्थमूले मुनि शाक्यपुङ्गवः उपेत्य बोधिं समवाप्य गोतमः । एतेषु बुद्धेषु महर्द्धिकेषु (म्म्व्र्तकु १४) या देवताः सन्ति अतिप्रसन्नाः, ता देवता मुदितमना उदग्राः कुर्वन्तु शान्तिं च शिवं च नित्यं । तद्यथा । इलि मिलि, किलि मिलि, चिलि किलि वोलि, उदुम्बरे, सुदुमोडे, बुसर बुसर, हु हु, करञ्जे करञ्जमूले, इति सनता कुन्तरि कुन्तारि, नारायणि पारायणि, पश्यनि पश्य पश्यनि कपिलवस्तुनि, इडिवा इडिवा इरिवा सिध्यन्तु, द्रविडा मन्त्रपदाः स्वाहा । इमाः पुनरानन्द महौषधयो ब्रह्मणा सहापतिना भाषिताः, शक्रेण देवानामिन्द्रेण चतुर्भिश्च महाराजैरष्टाविंशतिभिश्च महायक्षसेनापतिभिश्च । यो ह्यानन्द आसां महौषधीनां नामसु गृह्यमानेषु कश्चित्प्रदुष्टचित्त उपसंक्रामेत्, सप्तधास्य स्फुटो मूर्धा अर्जकस्येव मञ्जरी । तद्यथा । कीर्त्तिमूले एरमूले एरण्डमूले समन्तमूले, अडनाडे कुशनाडे, इत्ते मित्ते, पारु अडका मरडका, इलिकिशि गोदोहिका, उद्वन्धमाभि भिन्ने मेदा । नमो बुद्धानां । स्वस्ति वो द्विपदे भोतु, स्वस्ति वोऽस्तु चतुष्पदे, स्वस्ति मार्गव्रजतां च स्वस्ति प्रत्यागतेषु च । स्वस्ति रात्रौ स्वस्ति दिवा स्वस्ति मध्यंदिने स्थिते, सर्वत्र स्वस्ति वो भोतु मा चैषा पापमागमेत् । सर्वे दिवसः कल्याणाः सर्वे नक्षत्रा भद्रकाः, सर्वबुद्धा महर्द्धिकाः सर्वेऽर्हन्तो निराश्रवाः, (म्म्व्र्तकु १५) अनेन सत्यवाकेन स्वस्तिर्भोतु समन्ततः । अनया महामायूर्या विद्याराज्ञ्या तथागतभाषितया स्वातेर्भिक्षोर्मम सर्वसत्वानां च रक्षां कुरु, गुप्तिं परित्राणं परिग्रहं परिपालनं शान्तिं स्वस्त्ययनं दण्डपरिहारं शस्त्रपरिहारं विषदूषणं विषनाशनं सीमाबन्धं धरणीबन्धं च कुरु । जीवतु वर्षशतं पश्यतु शरदाशतं । ये चानन्द यक्षा महायक्षाः समुद्रकूले प्रतिवसन्ति । ये च सुमेरौ पर्वतराजे, ये चान्येषु पर्वतराजेषु, अटवीषु महाटवीषु नदीषु महानदीषु कुंजेषु महाकुंजेषु विणेषु तडागेषु पल्वलेषु गिरिगुहाश्मशानेषु चत्वरेषु महाचत्वरेषु चतुष्पथेषु शृङ्गाटकेषु नगरेषु महानगरेषु घोषेषु ग्रामेषु उद्यानेषु वनेषु काननेषु पथेषु उत्पथेषु च, ये चानन्द यक्षा महायक्षा अडकवत्यां राजधान्यां प्रतिवसन्ति, तेऽप्यनया महामायूर्या विद्याराज्ञ्या स्वातेर्भिक्षोर्मम सर्वसत्वानां च रक्षां कुर्वन्तु गुप्तिं परित्राणं परिग्रहं परिपालनं शान्तिं स्वस्त्ययनं दण्डपरिहारं शस्त्रपरिहारं विषदूषणं विषनाशनं सीमाबन्धं धरणीबन्धं च कुर्वन्तु, जीवतु वर्षशतं पश्यतु शरदाशतं । तद्यथा । हरि हारिणि, चलि चालिनि, त्रमणि त्रामणि मोहनि स्तंभनि जंभनि स्वयंभुवे स्वाहा । पूर्वायामानन्द दिशायां धृतराष्ट्रो नाम गन्धर्वमहाराजा प्रतिवसति, गन्धर्वाधिपतिरनेकगन्धर्वशतसहस्रपरिवारो गन्धर्वाणामाधिपत्यं कारयति । यः पूर्वां दिशं रक्षति परिपालयति, सोऽपि सपुत्रः सपौत्रः सभ्राता सामात्यः ससेनापतिः सप्रेष्यः सदूतः सप्रवरः सपार्षदोऽनया महामायूर्या (म्म्व्र्तकु १६) विद्याराज्ञ्या स्वातेर्भिक्षोर्मम सर्वसत्वानां च रक्षां करोतु, गुप्तिं परित्राणं परिग्रहं परिपालनं शान्तिं स्वस्त्ययनं दण्डपरिहारं शस्त्रपरिहारं विषदूषणं विषनाशनं सीमाबन्धं धरणीबन्धं च करोतु । जीवतु वर्षशतं पश्यतु शरदाशतं । तद्यथा । सुरु सुरु सुरु सुरु सुरु सुरु सुरु सुरु सुरु सुरु मे स्वाहा । दक्षिणायामानन्द दिशायां विरूढको नाम कुम्भाण्डमहाराजा प्रतिवसति स्म, कुम्भाण्डाधिपतिरनेककुम्भाण्डशतसहस्रपरिवारः कुम्भाण्डानामाधिपत्यं कारयति । यो दक्षिणां दिशं रक्षति परिपालयति, सोऽपि सपुत्रः सपौत्रः सभ्राता सामात्यः ससेनापतिः सप्रेष्यः सदूतः सप्रवरः सपार्षदोऽनया महामायूर्या विद्याराज्ञ्या स्वातेर्भिक्षोर्मम सर्वसत्वानां च रक्षां करोतु, गुप्तिं परित्राणं परिग्रहं परिपालनं शान्तिं स्वस्त्ययनं दण्डपरिहारं शस्त्रपरिहारं विषदूषणं विषनाशनं सीमाबन्धं धरणीबन्धं च करोतु । जीवतु वर्षशतं पश्यतु शरदाशतं । तद्यथा । वेलुके वेलुके अमित्रघातनी वरुणवति सोमवति वेणुमालिनि वेलुनि पुत्रिके चो चू चि चू स्वाहा । पश्चिमायामानन्द दिशायां विरूपाक्षो नाम नागमहाराजा प्रतिवसति, नागाधिपतिरनेकनागशतसहस्रपरिवारो नागानामाधिपत्यं कारयति । यः पश्चिमां दिशं रक्षति परिपालयति, सोऽपि सपुत्रः सपौत्रः सभ्राता सामात्यः ससेनापतिः सप्रेष्यः सदूतः सप्रवरः सपार्षदोऽनया महामायूर्या विद्याराज्ञ्या स्वातेर्भिक्षोर्मम सर्वसत्वानां च रक्षां करोतु, गुप्तिं परित्राणं परिग्रहं परिपालनं शान्तिं स्वस्त्ययनं दण्डपरिहारं शस्त्रपरिहारं विषदूषणं विषनाशनं (म्म्व्र्तकु १७) सीमाबन्धं धरणीबन्धं च करोतु । जीवतु वर्षशतं पश्यतु शरदाशतं । तद्यथा । वेदुरि वेदुरि वेदुरि वेदुरि, मट्टिते मट्टिते, कोटि कोटि, विद्युमति, हु हु हु हु हु हु हु हु, चु चु चु चु चु चु चु चु, रु रु रु रु रु रु रु रु, च च च च च च च च, स स्वाहा । उत्तरायामानन्द दिशायां वैश्रमणो नाम यक्षमहाराजा प्रतिवसति, यक्षाधिपतिरनेकयक्षशतसहस्रपरिवारो यक्षाणामाधिपत्यं कारयति । य उत्तरां दिशं रक्षति परिपालयति, सोऽपि सपुत्रः सपौत्रः सभ्राता सामात्यः ससेनापतिः सप्रेष्यः सदूतः सप्रवरः सपार्षदोऽनया महामायूर्या विद्याराज्ञ्या स्वातेर्भिक्षोर्मम सर्वसत्वानां च रक्षां करोतु, गुप्तिं परित्राणं परिग्रहं परिपालनं शान्तिं स्वस्त्ययनं दण्डपरिहारं शस्त्रपरिहारं विषदूषणं विषनाशनं सीमाबन्धं धरणीबन्धं च करोतु । जीवतु वर्षशतं पश्यतु शरदाशतं । तद्यथा । सोरि सोरि, सिरि सिरि, मति मति, हिरि हिरि, मति पेले मति पेले, पिंगले चुरु चुरु, हतं विषं, बन्धुमति, निहतं विषं बन्धुमति स्वाहा । पूर्वेण धृतराष्ट्रस्तु दक्षिणेन विरूढकः, पश्चिमेन विरूपाक्षः कुबेरश्चोत्तरादिशं । चत्वार एते महाराजा लोकपाला यशस्विनः, दिशश्चतस्रः परिपालयन्ति महासैन्या महाबलाः । परचक्रप्रमथनाः दुर्धर्षा चापराजिताः, ऋद्धिमन्तो द्युतिमन्तो वर्णवन्तो यशस्विनः, देवासुरमपि संग्राममनुभवन्ति महर्द्धिकाः । (म्म्व्र्तकु १८) तेऽप्यनया महामायूर्या विद्याराज्ञ्या स्वातेर्भिक्षोर्मम सर्वसत्वानां च रक्षां कुर्वन्तु, गुप्तिं परित्राणं परिग्रहं परिपालनं शान्तिं स्वस्त्ययनं दण्डपरिहारं शस्त्रपरिहारं विषदूषणं विषनाशनं सीमाबन्धं धरणीबन्धं च कुर्वन्तु, जीवतु वर्षशतं पश्यतु शरदाशतं । तद्यथा । एले मेले, किले तिले, मिले शिले, वासे, दुंबे दुंबे, वर्षतु देवः समन्तेन हिलि मिलि तुंबे तुंबे, अट्ट वट्ट परदु वत्ता वर्षतु देवो गुड गुडन्तु समन्तेनाडकोवत्यां, अण्डे मण्डे तुन्दे तुतुन्दे चुर्के वुक्के, इरिडि मिरिडि निरिडि चिरिडि, हिलि हिलि, हुलु हुलु, मिलि मिलि, तुले ततले स्वाहा । उद्गृह्ण त्वमानन्द महायक्षसेनापतीनां नामानि ये धरण्यां प्रतिवसन्ति । जेष्ठपुत्रः कुबेरस्य संजयो नरवाहनः । मिथिलायां प्रतिवसति देवसत्योपयाचकः । सोऽप्यनया महामायूर्या विद्याराज्ञ्या स्वातेर्भिक्षोर्मम सर्वसत्वानां च रक्षां करोतु, गुप्तिं परित्राणं परिग्रहं परिपालनं शान्तिं स्वस्त्ययनं दण्डपरिहारं शस्त्रपरिहारं विषदूषणं विषनाशनं सीमाबन्धं धरणीबन्धं च करोतु, जीवतु वर्षशतं पश्यतु शरदाशतं । तद्यथा । बले बल्कले, मातंगि चण्डलि पुरुष, निचि निचि निगौरि गन्धारे, चण्डालि मातंगि, मालिनि हिलि हिलि, आगति गति, गौरि गन्धारि कौष्ठिका वचरि विहारि, हिलि हिलि, कुंजे स्वाहा । क्रकुच्छन्दः पाटलिपुत्रे ष्ठलायां चापराजितः, शैलो भद्रपुरे यक्ष उत्तरायां च मानवः । वज्रपाणि राजगृहे गृध्रकूटे कृतालये, त्रिकृत्वो अनुपर्यन्ति सागरान् तां वसुंधरां, महाबलो महातेजा दशयोजनविक्रमः । (म्म्व्र्तकु १९) गरुडो विपुले यक्षः चित्रगुप्तश्चितीमुखे, राजगृहे वक्कुलो यक्षो महासैन्यो महाबलः । कालोपकालकौ यक्षौ वसथः कपिलवस्तुनि, यत्र जातो मुनि बुद्धः शाक्यकेतुर्महामुनिः । कल्माषपादो वैरायां किरातेषु महेश्वरः, बृहस्पतिश्च श्रावस्त्यां साकेते सागरो वसेत् । वज्रयुधश्च वैशाल्यां मल्लेषु हरिपिङ्गलः, वाराणस्यां महाकालश्चंपायां च सुदर्शनः । विष्णुर्यक्षो द्वारकायां धरणो द्वारपालियां, विभूषनस्ताम्रपर्ण्यामुरगायां च मर्दनः । आटव्यामाटवको यक्षः कपिलो बहुधन्यके, उज्जयन्यां वसुत्रातो वसुभूमिरवन्तिषु । भरुको भरुकच्छेषु नन्दो नन्दपुरे स्थितः, अग्रोदके माल्यधर आनन्दोऽमरपर्वते । शुक्लदंष्ट्रः सुवास्तुषु दृढनामा मनस्विषु, महागिरिर्गिरिनगरे वासवो वैदिशे वशेत् । रोहितके कार्त्तिकेयः कुमारो लोकविश्रुतः, वर्णभटे शतबाहुः कलिंगेषु वृहद्रथ । दुर्योधनश्च श्रुघ्नेषु अर्जुनश्चार्जुनवने, मर्दने मण्डपो यक्षो गिरिकूटश्च मालवे । भद्रश्च रोहिताश्वेषु सर्वभद्रश्च सागरे, सन्टीरके पालितकः सार्थवाहो धनेश्वरे । अजितंजये कूटदंष्ट्रो वसुभद्रो वसातिषु, (म्म्व्र्तकु २०) शिवः शिवपुराधाने शिवभद्रश्च भीषणे । इन्द्रश्चेन्द्रपुरे यक्षः पुष्पकेतुः शिलापुरे, दारुको दारुकपुरे कपिलो वसति वर्णिषु । मणिभद्रो ब्रह्मवत्यां पूर्णभद्रश्च ब्रातरौ, प्रमर्दनश्च गान्धारे तक्षशिलायां प्रभञ्जनः । खरोपोष्ट महायक्षो दशशैलनिवासिकः, त्रिगुप्तो हनुमतीरे रौरुके च प्रभंकरः । नन्दी च वर्धनश्चैव नगरे नन्दिवर्धने, वायिरो वायिभूमीये लंपाके कलहप्रियः । मथुलायां गर्दभको लंकायां कोलशोदरः, शून्ये सूर्यप्रभो यक्षो गिरिमुण्डश्च कोशले । विजयो वैजयन्तश्च वसतः पाण्डमाथुरे, मलये पूर्णको यक्षः केरलेषु च किन्नरः । पौण्डेषु मेघमालि प्रतिष्ठाने खण्डकः, पितंगलेषु शंकाली तरंगवत्यां सुखावहः । नासिके सुन्दरो यक्ष आसंगो तरुकच्छके, नन्दिके च पितानन्दी वीरश्च करहाटके । लम्बोदरः कलिंगेषु कौशल्यायां महाभुजः, स्वस्तिकः स्वस्तिकटके वनवास्यां च पालकः । तटिस्कन्धे भद्रकर्णः षदपुरे धनवरः, वैरामके बलो यक्षो अवन्त्यां प्रियदर्शनः । गोमर्दने शिखण्डी च वैदेशे चांगुलिप्रियः, (म्म्व्र्तकु २१) छत्राकारे वेष्टितकस्त्रिपुर्यां मकरंदमः । एककक्षे विशालाक्षो अण्डभश्च उदुम्बरे, अनाभोगश्च वैशाल्यां शान्तिवत्यां विरोचनः । अहिच्छत्रे चरितकः कम्पिल्ये कपिलस्तथा, बक्कुलो उज्जहान्यायां मण्डव्यां पूर्णकस्तथा । नैगमेशश्च पांचाल्यां प्रसभो गजसाह्वये, वरुणायां दृढधनुः योधेये च पुरंजयः । कुरुक्षेत्रे च यक्षेन्द्रौ तरर्ककुरुतरर्कौ, यक्षीख्याता च तत्रैव महोल्लूखलमेखलौ । व्यतिपातनः सिद्धार्थ आयतीवानिवासिनः, सिद्धपात्रस्तथा श्रुघ्ने स्थलायां स्थल एव च । यक्षौ सिंहबलौ यौ तु सिंहव्याघ्रबलाबलौ, कोटिवर्षेमहासेनस्तथा परपुरंजये । पुष्पदन्तश्च चंपायां मगधश्च गिरिब्रजे, गोयोगे पर्वतो यक्षः सुसेनश्चैव नागरे । वीरबाहुश्च साकेते काकट्यां च सुखावहः, कौशाम्ब्यां चाप्यनायसो भद्रिकायां च भद्रिकः । यक्षः पाटलिपुत्रे च नाम्ना भूतमुखस्तथा, अशोकश्चैव कांचीषु अम्बष्ठेषु कटंकटः । भरुकच्छे व सिद्धार्थो मन्दकश्चाजितंजये, अग्रोदके मंजकेशः सैन्धवे मणिकाननः । विकटंकटाश्च ये यक्षा वसन्ते कपिलवस्तुनि, गान्धारके नैकृतिको द्वारको निलयध्रुवे । (म्म्व्र्तकु २२) यक्षो मध्यमकीयश्च सौभद्रिये महायशे, वैराटकः सारपुरे जम्भको मरुभूमिषु । यक्षो वृन्दकटे ख्यातः तथा विकट इत्यपि, वेमानिको देवसर्मे दरदेषु च मन्दरः । प्रभंकरश्च कश्मीरे चम्पकस्च जटापुरे, पाञ्चिक इति नाम्ना तु वसते सिंधु सिंधुषु । पंचपुत्रशता यस्य महासैन्या महाबलाः, जेष्ठपुत्रः पाञ्चिकस्य वसते चीनभूमिषु । स्कन्धाक्ष इति नामेन स भ्राता कौशिके वसेत्, उष्ट्रपादः कलिंगेषु मण्डलो मण्डलासने । लंकेश्वरश्च कापिश्यां मारीची रामकांक्षियां, धर्मपालश्च खाशेषु बह्ल्याञ्चैव महाभुजः । जिनर्षभो राजपुत्रः श्रीमान् वैश्रमणात्मजः, यक्षकोटीपरिवृतस्तुखारेषु निवासिकः । सातागिरिहैमवतौ वसतः सिंधुसागरे, त्रिशूलपाणि त्रिपुरे कलिंगेषु प्रमर्दनः । पाञ्चालगण्डो द्रमिडे सिंहलेषु धनेश्वरः, शुकामुखश्चाटव्यां पाताले किंकरो वसेत् । प्रभास्वरः पुण्डरीके समिलश्च महापुरे, प्रभंजनश्च दरदेषु पिङ्गलोऽम्बुलिमे वसेत् । वच्चडो उअच्चडाधाने मातलिश्चैव कामदे, (म्म्व्र्तकु २३) पुत्रीवटे सुप्रबुद्धः कापिश्यां नरकुवेरः । पारासरः पारतेषु शकस्थानेषु शंकरः, वेमचित्रश्च बाह्लीके केतकेषु च पिङ्गलः । पुण्डवर्धने पूर्णमुखः कराडश्चोडियानके, कुंभोदरः कौशलेषु मरुषु मकरध्वजः । चित्रसेनश्च वोक्काने रमथेषु च रावणः, पिंगलश्चैव राशिने पत्नीये प्रियदर्शनः । कुम्भीरयक्षो राजगृहे विपुलेऽस्मिं निवासिकः, भूयः शतसहस्राणां यक्षेण पर्युपास्यते । अहिच्छत्रायां गोपाल अलको अलकापुरे, नन्दी व नन्दिनगरे ग्रामघोषे बलिः स्थितः । देवावतारे वैश्रमणः स्वसैन्यपरिपालकः, यक्षकोटिपरिवृतोऽडकवत्यां निवासिकः । एते महर्द्धिका यक्षाः महासैन्या महाबलाः, परचक्रप्रमथना दुर्धर्षा अपराजिताह् । ऋद्धिमन्तो द्युतिमन्तो वर्णवन्तो यशस्विनः, देवासुरमपि संग्राममनुभवन्ति महर्द्धिकाः । तेऽप्यनया महामायूर्या विद्याराज्ञ्या स्वातेर्भिक्षोर्मम सर्वसत्वानां च रक्षां कुर्वन्तु, गुप्तिं परित्राणं परिग्रहं परिपालनं शान्तिं स्वस्त्ययनं दण्डपरिहारं शस्त्रपरिहारं विषदूषणं विषनाशनं सीमाबन्धं धरणीबन्धं च कुर्वन्तु, जीवतु वर्षशतं पश्यतु शरदाशतं । तद्यथा । अकटे विकटे हरिणि हारिणि धरणि धारणि, हुक्के हुक्के, वुक्के वुक्के, हन हन हन हन हन हन हन हन हन हन, अमित्रान्मम सर्वसत्वानां च, दह (म्म्व्र्तकु २४) दह दह दह दह दह दह दह दह दह, अहितैषिणो मम सर्वसत्वानां च, पच पच पच पच पच पच पच पच पच पच, प्रत्यर्थिकां मम सर्वसत्वानां च, धु धु धु धु धु धु धु धु धु धु, नाशय अहितैषिणो मम, हु हु हु हु हु हु हु हु हु हु, जिटि जिटि जिटि जिटि जिटि जिटि जिटि जिटि जिटि जिटि, नाशय शत्रून्मम सर्वसत्वानां च, चुलु चुलु चुलु चुलु चुलु चुलु चुलु चुलु चुलु चुलु, हिलि हिलि हिलि हिलि हिलि हिलि हिलि हिलि हिलि हिलि, मिलि मिलि मिलि मिलि मिलि मिलि मिलि मिलि मिलि मिलि, फुरु फुरु फुरु फुरु फुरु फुरु फुरु फुरु फुरु फुरु, चिटि चिटि चिटि चिटि चिटि चिटि चिटि चिटि चिटि चिटि, नाशय सर्वशत्रून्मम सर्वसत्वानां च, हिक्के मिक्के चिक्के चुक्के श्रीभद्रे मङ्गले समन्तभद्रे हिरण्यगर्भे, सर्वार्थसाधनि, अमले विमले, चन्द्रे चन्द्रप्रभे, सूर्ये सूर्यप्रभे सूर्यकान्ते, दुर्विज्ञेये दुंबे दुंबे दोदुंबे, प्रियंकरे रक्ष मां सर्वसत्वांश्च, जीवतु वर्षशतं पश्यतु शरदाशतं । उद्गृह्ण त्वमानन्द महायक्षसेनापतीनां नामानि, ये दशदिशो रक्षन्ति परिपालयन्ति । पूर्वायामानन्द दिशायां चत्वारो महायक्षसेनापतयः प्रतिवसन्ति, ये पूर्वां दिशं रक्षन्ति परिपालयन्ति । तद्यथा । दीर्घः सुनेत्रः पूर्णकः कपिलश्चेति । तेऽप्यनया महामायूर्या विद्याराज्ञ्या स्वातेर्भिक्षोर्मम सर्वसत्वानां च रक्षां कुर्वन्तु, गुप्तिं परित्राणं परिग्रहं परिपालनं शान्तिं स्वस्त्ययनं दण्डपरिहारं शस्त्रपरिहारं विषदूषणं विषनाशनं सीमाबन्धं धरणीबन्धं च कुर्वन्तु, जीवतु वर्षशतं पश्यतु शरदाशतं । दक्षिणायामानन्द दिशायां चत्वारो महायक्षसेनापतयः प्रतिवसन्ति, ये दक्षिणां दिशं रक्षन्ति परिपालयन्ति । तद्यथा सिंह उपसिंहः शंखिलो नन्दश्चेति । (म्म्व्र्तकु २५) तेऽप्यनया महामायूर्या विद्याराज्ञ्या स्वातेर्भिक्षोर्मम सर्वसत्वानां च रक्षां कुर्वन्तु, गुप्तिं परित्राणं परिग्रहं परिपालनं शान्तिं स्वस्त्ययनं दण्डपरिहारं शस्त्रपरिहारं विषदूषणं विषनाशनं सीमाबन्धं धरणीबन्धं च कुर्वन्तु, जीवतु वर्षशतं पश्यतु शरदाशतं । पश्चिमायामानन्द दिशायां चत्वारो महायक्षसेनापतयः प्रतिवसन्ति, ये पश्चिमां दिशं रक्षन्ति परिपालयन्ति । तद्यथा । हरिर्हरिकेशः प्रभुः पिङ्गलश्चेति । तेऽप्यनया महामायूर्या विद्याराज्ञ्या स्वातेर्भिक्षोर्मम सर्वसत्वानां च रक्षां कुर्वन्तु, गुप्तिं परित्राणं परिग्रहं परिपालनं शान्तिं स्वस्त्ययनं दण्डपरिहारं शस्त्रपरिहारं विषदूषणं विषनाशनं सीमाबन्धं धरणीबन्धं च कुर्वन्तु, जीवतु वर्षशतं पश्यतु शरदाशतं । उत्तरायामानन्द दिशायां चत्वारो महायक्षसेनापतयः प्रतिवसन्ति, ये उत्तरां दिशं रक्षन्ति परिपालयन्ति । तद्यथा । धरणो धरनन्द उद्योगपालो विष्णुश्चेति । तेऽप्यनया महामायूर्या विद्याराज्ञ्या स्वातेर्भिक्षोर्मम सर्वसत्वानां च रक्षां कुर्वन्तु, गुप्तिं परित्राणं परिग्रहं परिपालनं शान्तिं स्वस्त्ययनं दण्डपरिहारं शस्त्रपरिहारं विषदूषणं विषनाशनं सीमाबन्धं धरणीबन्धं च कुर्वन्तु, जीवतु वर्षशतं पश्यतु शरदाशतं । चत्वार इम आनन्द महायक्षसेनापतयो ये विदिशासु प्रतिवसन्ति, ये विदिशो रक्षन्ति परिपालयन्ति । तद्यथा । पञ्चिकः पञ्चालगण्डः सातागिरिर्हैमवतश्च । तेऽप्यनया महामायूर्या विद्याराज्ञ्या स्वातेर्भिक्षोर्मम सर्वसत्वानां च रक्षां कुर्वन्तु, गुप्तिं परित्राणं परिग्रहं परिपालनं शान्तिं स्वस्त्ययनं दण्डपरिहारं शस्त्रपरिहारं विषदूषणं विषनाशनं सीमाबन्धं धरणीबन्धं (म्म्व्र्तकु २६) च कुर्वन्तु, जीवतु वर्षशतं पश्यतु शरदाशतं । चत्वार इम आनन्द महायक्षसेनापतयो ये धरण्यां प्रतिवसन्ति, ये धरणीगतान् सत्वान् रक्षन्ति परिपालयन्ति । तद्यथा । भूमः सुभूमः काल उपकालश्चेति । तेऽप्यनया महामायूर्या विद्याराज्ञ्या स्वातेर्भिक्षोर्मम सर्वसत्वानां च रक्षां कुर्वन्तु, गुप्तिं परित्राणं परिग्रहं परिपालनं शान्तिं स्वस्त्ययनं दण्डपरिहारं शस्त्रपरिहारं विषदूषणं विषनाशनं सीमाबन्धं धरणीबन्धं च कुर्वन्तु, जीवतु वर्षशतं पश्यतु शरदाशतं । चत्वार इम आनन्द महायक्षसेनापतयो येऽन्तरीक्षे प्रतिवसन्ति, येऽन्तरीक्षे गतान् सत्वान् रक्षन्ति परिपालयन्ति । तद्यथा सूर्यः सोमोऽग्निर्वायुश्चेति । तेऽप्यनया महामायूर्या विद्याराज्ञ्या स्वातेर्भिक्षोर्मम सर्वसत्वानां च रक्षां कुर्वन्तु, गुप्तिं परित्राणं परिग्रहं परिपालनं शान्तिं स्वस्त्ययनं दण्डपरिहारं शस्त्रपरिहारं विषदूषणं विषनाशनं सीमाबन्धं धरणीबन्धं च कुर्वन्तु, जीवतु वर्षशतं पश्यतु शरदाशतं । उद्गृह्ण त्वमानन्द वैश्रवणस्य महाराजस्य धर्मभ्रातॄणां नामानि, ये सत्वान् रक्षन्ति परिपालयन्ति । ईतीश्चोपद्रवांश्चोपसर्गांश्च सर्वसत्वानां नाशयन्ति, लोकानुग्रहार्थं लोकमनुविचरन्ति । तद्यथा । इन्द्रः सोमः सूर्यो वरुणः प्रजापतिः भरद्वाजः ईशनश्चन्दनः कामः श्रेष्ठः कुनिकण्ठो निकण्ठको वडिर्मणिर्माणिचरः प्रणाद उपपञ्चकः सातागिरिर्हैमवतः (म्म्व्र्तकु २७) पूर्णकः खदिरः कोविदो गोपालयक्ष आटवको नरराजो जिनर्षभः पाञ्चालगण्डः सुमुखो दीर्घयक्षः सपरिजनश्चित्रसेनश्च गन्धर्वस्त्रिफाली च त्रिखण्ठकः दीर्घशक्तिश्च मातलिः । एते यक्षाः महायक्षाः सेनायाः परिनायका ऋद्धिमन्तो द्युतिमन्तो वर्णवन्तो यशस्विनः वैश्रवणस्य महाराजस्य धर्मभ्रातरः, येषां वैश्रवणो महाराजा आरोचयति, अयं मे यक्षो विहेठयत्ययं मे न मुञ्चति, इमे वैश्रवणस्य महाराजस्य धर्मभ्रातरः, तेऽप्यनया महामायूर्या विद्याराज्ञ्या स्वातेर्भिक्षोर्मम सर्वसत्वानां च रक्षां कुर्वन्तु, गुप्तिं परित्राणं परिग्रहं परिपालनं शान्तिं स्वस्त्ययनं दण्डपरिहारं शस्त्रपरिहारं विषदूषणं विषनाशनं सीमाबन्धं धरणीबन्धं च कुर्वन्तु, जीवतु वर्षशतं पश्यतु शरदाशतं । परित्रायन्तु कलिकलहविग्रहविवादेभ्यः, परित्रायन्तु मनुष्यग्रहातः अमनुष्यग्रहातः, देवग्रहातः, नागग्रहातः, असुरग्रहातः, मरुतग्रहातः, गरुडग्रहातः, गन्धर्वग्रहातः, किंनरग्रहातः, महोरगग्रहातः, यक्षग्रहातः, राक्षसग्रहातः, प्रेतग्रहातः, पिशाचग्रहातः, भूतग्रहातः कुम्भाण्डग्रहातः, पूतनग्रहातः, कटपूतनग्रहातः, स्कन्दग्रहातः, उन्मादग्रहातः, छायाग्रहातः, अपस्मारग्रहातः, ओस्तारकग्रहातः, नक्षत्रग्रहातः लेपकग्रहातः, मम रक्षां कुर्वन्तु । ओजोहारिणीतो रुधिराहारिणीतो वसाहारिणीतो मांसाहारिणीतो मेदाहारिणीतो मज्जाहारिणीतो, (म्म्व्र्तकु २८) जाताहारिणीतो जीविताहारिणीतो बल्याहारिणीतो माल्याहारिणीतो गन्धाहारिणीतः पुष्पाहारिणीतः फलाहारिणीतः सस्याहारिणीतो आहुत्याहारिणीतः पूयाहारिणीतो रुधिराहारिणीतो विष्टाहारिणीतो मूत्राहारिणीतः खेटाहारिणीतः श्लेष्माहारिणीतः सिंहानकाहारिणीतो वान्ताहारिणीतो विरिंक्ताहारिणीतो अशुच्याहारिणीतः स्यन्दिकाहारिणीतः स्वातेर्भिक्षोर्मम सर्वसत्वानां च रक्षां कुर्वन्तु, गुप्तिं परित्राणं सर्वसत्वानां च परिग्रहं परिपालनं शान्तिं स्वस्त्ययनं दण्डपरिहारं शस्त्रपरिहारं विषदूषणं विषनाशनं सीमाबन्धं धरणीबन्धं च कुर्वन्तु, कृत्याकर्मणः काखोर्दकिरणाधवनातो हुवनात उन्मादातो भूतातो वेताडातश्चिच्चातः प्रेष्यकातो दुर्भुक्तातो दुश्छर्दितातो दुश्च्छायातो दुष्प्रेक्षितो दुर्लिखितातो दुर्ल्लंघितातोऽवर्धूतात उत्त्रासात ओस्तारकातोऽपस्मारतो वित्रासतो रक्षन्तु मां सर्वसत्वानां च । राजभयाच्चौरभयादग्निभयादुदकभयात्परचक्रभयाद्दुर्भिक्षभयादशनिभयादकालमृत्युभयाद्धरणीकम्पभयाद्धनिकभयाच्चण्डमृगभयादमित्रभयाद्मरणभयात्सर्वभयाद्रक्षां कुर्वन्तु स्वातेर्भिक्षोर्मम सर्वसत्वानां च दद्रूकण्डूकुष्ठभगन्दरार्षकिटिमपिस्तकपामावैसर्पलोहलिंगभयात् । शिरोर्त्तिमपनयन्तु । अर्धावभेदकमरोचकमक्षिरोगं नासारोगं मुखरोगं कण्ठरोगं हृद्रोगं गलग्रहं कर्णशूलं दन्तशूलं हृदयशूलं पार्श्वशूलं पृष्ठशूलमुदरशूलं गण्डशूलं वष्टिशूलं गुडशूलं योनिशूलं प्रजनशूलमूरुशूलं जंघाशूलं हस्तशूलं पादशूलमङ्गप्रत्यङ्गशूलं ज्वरमपनयन्तु । एकाहिकं द्वाहिकं त्रैतीयकं (म्म्व्र्तकु २९) चातुर्थकं सप्ताहिकमर्धमासिकं मासिकं द्वैमासिकं मौहूर्तिकं नित्यज्वरं विषमज्वरं भूतज्वरं प्रेतज्वरं मानुषज्वरममानुषज्वरं वातिकं पैत्तिकं श्लेष्मिकं सान्निपातिकं सर्वज्वरं सर्वव्याधिं सर्वग्रहं सर्वविषं सर्वपापं सर्वभयं च नाशयन्तु स्वातेर्भिक्षोर्मम सर्वसत्वानां च स्वाहा । द्वादशेमा आनन्द महापिशाच्यो याभिर्बोधिसत्वो मातुः कुक्षिगतो रक्षितो जायमानो रक्षितो जातोऽपि रक्षितः, ताः पुनः कतमा द्वादश । तद्यथा । लम्बा प्रलम्बा विलम्बा ओलम्बा हारीती हरिकेशी पिङ्गला काली कराली कम्बुग्रीवा काकी कलशोदरी चेति । एता द्वादश महापिशाच्यः ऋद्धिमत्यो द्युतिमत्यो वर्णवत्यो यशस्विनः, देवासुरमपि संग्राममनुभवन्ति महर्द्धिकाः । ताऽप्यनया महामायूर्या विद्याराज्ञ्या स्वातेर्भिक्षोर्मम सर्वसत्वानां च रक्षां कुर्वन्तु, गुप्तिं परित्राणं परिग्रहं परिपालनं शान्तिं स्वस्त्ययनं दण्डपरिहारं शस्त्रपरिहारं विषदूषणं विषनाशनं सीमाबन्धं धरणीबन्धं च कुर्वन्तु, जीवतु वर्षशतं पश्यतु शरदाशतं । इमानि चात्र मन्त्रपदानि भवन्ति । तद्यथा । हरे खरे खुरे मले विमले मूले, मदेन्ति मत्ते मण्डितिके । हुलु हुलु हुलु हुलु हुलु हुलु हुलु हुलु हुलु हुलु, लु लु लु लु, मेडि मेडि मेडि मेडि, सिद्धि सिद्धि सिद्धि सिद्धि, स्वातेर्भिक्षोर्मम सर्वसत्वानां च स्वाहा । स्वस्ति स्वस्ति स्वस्ति स्वस्ति । स्वातेर्भिक्षोर्मम सर्वसत्वानां च स्वाहा । अष्ट इमा आनन्द महापिशाच्यो मांसशोणितभोजिका मनुष्याणां विहेठिका याभिर्(म्म्व्र्तकु ३०) बोधिसत्वो मातुः कुक्षिगतो रक्षितो जायमानो रक्षितो जातोऽपि रक्षितः । ताः पुनः कतमाः । तद्यथा । मदा मदना मदोत्कटा उपमदा प्रेती ओजोहारिणी असनी ग्रसनी चेति । एता अष्ट महापिशाच्यः ऋद्धिमत्यो द्युतिमत्यो वर्णवत्यो यशस्विनः, देवासुरमपि संग्राममनुभवन्ति महर्द्धिकाः । ताऽप्यनया महामायूर्या विद्याराज्ञ्या स्वातेर्भिक्षोर्मम सर्वसत्वानां च रक्षां कुर्वन्तु, गुप्तिं परित्राणं परिग्रहं परिपालनं शान्तिं स्वस्त्ययनं दण्डपरिहारं शस्त्रपरिहारं विषदूषणं विषनाशनं सीमाबन्धं धरणीबन्धं च कुर्वन्तु, जीवतु वर्षशतं पश्यतु शरदाशतं । तद्यथा । हरे खरे खुरे मले मिले मूले, मदेन्ति मत्ते मण्डितिके । हुलु हुलु हुलु हुलु हुलु हुलु हुलु हुलु हुलु हुलु, लु लु लु लु, मेडि मेडि मेडि मेडि, सिद्धि सिद्धि सिद्धि सिद्धि, स्वस्ति स्वस्ति स्वस्ति स्वस्ति, स्वातेर्भिक्षोर्मम सर्वसत्वानां च स्वाहा । स्वस्ति स्वस्ति स्वस्ति स्वस्ति । स्वातेर्भिक्षोर्मम सर्वसत्वानां च स्वाहा । इमाः पुनरानन्द सप्त महापिशाच्यो मांसशोणितभोजिकाः, मनुष्याणां विहेठिका याभिर्बोधिसत्वो मातुः कुक्षिगतो रक्षितो जायमानो रक्षितो जातोऽपि रक्षितः । ताः पुनः कतमाः । तद्यथा । अग्रोदिका रक्षितिका चित्रपिशाचिका पूर्णभद्रिका अग्निरक्षितिका मित्रकालिका ऋषिरक्षितिका चेति । एताः सप्त महापिशाच्यः ऋद्धिमत्यो द्युतिमत्यो वर्णवत्यो यशस्विनः, देवासुरमपि संग्राममनुभवन्ति महर्द्धिकाः । ताऽप्यनया महामायूर्या विद्याराज्ञ्या स्वातेर्भिक्षोर्मम सर्वसत्वानां च रक्षां कुर्वन्तु, गुप्तिं परित्राणं परिग्रहं परिपालनं शान्तिं स्वस्त्ययनं दण्डपरिहारं शस्त्रपरिहारं विषदूषणं विषनाशनं सीमाबन्धं धरणीबन्धं च कुर्वन्तु, जीवतु वर्षशतं पश्यतु शरदाशतं । तद्यथा । हरे खरे खुरे मले मिले मूले, मदेन्ति मत्ते मण्डितिके । हुलु हुलु हुलु हुलु (म्म्व्र्तकु ३१) हुलु हुलु हुलु हुलु हुलु हुलु, लु लु लु लु, मेडि मेडि मेडि मेडि, सिद्धि सिद्धि सिद्धि सिद्धि, स्वस्ति स्वस्ति स्वस्ति स्वस्ति, स्वातेर्भिक्षोर्मम सर्वसत्वानां च स्वाहा । इमाः पुनरानन्द पञ्च महाराक्षस्यो याभिर्बोधिसत्वो मातुः कुक्षिगतो रक्षितो जायमानो रक्षितो जातोऽपि रक्षितः । ताः पुनः कतमाः । तद्यथा । कुण्ठा निकुण्ट्ःा नन्दा विष्णुला कपिला चेति । एताः पञ्च महाराक्षस्यः ऋद्धिमत्यो द्युतिमत्यो वर्णवत्यो यशस्विनः, देवासुरमपि संग्राममनुभवन्ति महर्द्धिकाः । ताऽप्यनया महामायूर्या विद्याराज्ञ्या स्वातेर्भिक्षोर्मम सर्वसत्वानां च रक्षां कुर्वन्तु, गुप्तिं परित्राणं परिग्रहं परिपालनं शान्तिं स्वस्त्ययनं दण्डपरिहारं शस्त्रपरिहारं विषदूषणं विषनाशनं सीमाबन्धं धरणीबन्धं च कुर्वन्तु, जीवतु वर्षशतं पश्यतु शरदाशतं । तद्यथा । हरे खरे खुरे मले मिले मूले, मदेन्ति मत्ते मण्डितिके । हुलु हुलु हुलु हुलु हुलु हुलु हुलु हुलु हुलु हुलु, लु लु लु लु, मेडि मेडि मेडि मेडि, सिद्धि सिद्धि सिद्धि सिद्धि, स्वातेर्भिक्षोर्मम सर्वसत्वानां च स्वाहा । स्वस्ति स्वस्ति स्वस्ति स्वस्ति, मम सर्वसत्वानां च स्वाहा । अष्टाविमा आनन्द महाराक्षस्यो मांसशोणितभोजिका मनुष्याणां विहेठिका, याभिर्बोधिसत्वो मातुः कुक्षिगतो रक्षितो जायमानो रक्षितो जातोऽपि रक्षितः । ताः पुनः कतमाः । तद्यथा । मोहा सुसीमा कुशाक्षी केशिनी कांबोजी सुमित्रा लोहिताक्षी काचरा चेति । इतीमा आनन्द अष्ट महाराक्षस्यो मांशशोणितभोजिका हरन्ति स्त्रीपुरुषदारकदारिका (म्म्व्र्तकु ३२) अपि सूतिकाकुलानि सेवन्ते, शून्यागारं वा तमःप्रभा वा गच्छन्तमनुगच्छन्ति, शब्दापयन्ति मनुष्याणामोजो हरन्ति । महाकृत्या न तासामस्ति कारुण्यं, त्रासयन्ति मानुषीं प्रजां । इत्येता अष्ट महाराक्षस्यः, ऋद्धिमत्यो द्युतिमत्यो वर्णवत्यो यशस्विनः, देवासुरमपि संग्राममनुभवन्ति महर्द्धिकाः । ताऽप्यनया महामायूर्या विद्याराज्ञ्या स्वातेर्भिक्षोर्मम सर्वसत्वानां च रक्षां कुर्वन्तु, गुप्तिं परित्राणं परिग्रहं परिपालनं शान्तिं स्वस्त्ययनं दण्डपरिहारं शस्त्रपरिहारं विषदूषणं विषनाशनं सीमाबन्धं धरणीबन्धं च कुर्वन्तु, जीवतु वर्षशतं पश्यतु शरदाशतं । तद्यथा । हरे खरे खुरे मले मिले मूले, मदेन्ति मत्ते मण्डितिके । हुलु हुलु हुलु हुलु हुलु हुलु हुलु हुलु हुलु हुलु, लु लु लु लु, मेडि मेडि मेडि मेडि, सिद्धि सिद्धि सिद्धि सिद्धि, स्वातेर्भिक्षोर्मम सर्वसत्वानां च स्वाहा । स्वस्ति स्वस्ति स्वस्ति स्वस्ति । स्वातेर्भिक्षोर्मम सर्वसत्वानां च स्वाहा । दशेमा आनन्द महाराक्षस्यो याभिर्बोधिसत्वो मातुः कुक्षिगतो रक्षितो जायमानो रक्षितो जातोऽपि रक्षितः । ताः पुनः कतमाः । तद्यथा । हारीती राक्षसी नन्दा राक्षसी पिङ्गला राक्षसी शंखिनी राक्षसी कालिका राक्षसी देवमित्रा राक्षसी कुम्भाण्डा राक्षसी कुन्तद्रंष्ट्रा राक्षसी कम्बोजी राक्षसी अनला राक्षसी । इत्येता दश महाराक्षस्यः ऋद्धिमत्यो द्युतिमत्यो वर्णवत्यो यशस्विनः, देवासुरमपि संग्राममनुभवन्ति महर्द्धिकाः । ताऽप्यनया महामायूर्या विद्याराज्ञ्या स्वातेर्भिक्षोर्मम सर्वसत्वानां च रक्षां कुर्वन्तु, गुप्तिं परित्राणं परिग्रहं परिपालनं शान्तिं स्वस्त्ययनं दण्डपरिहारं शस्त्रपरिहारं विषदूषणं विषनाशनं सीमाबन्धं धरणीबन्धं च कुर्वन्तु, (म्म्व्र्तकु ३३) जीवतु वर्षशतं पश्यतु शरदाशतं । तद्यथा । हरे खरे खुरे मले मिले मूले, मदेन्ति मत्ते मण्डितिके । हुलु हुलु हुलु हुलु हुलु हुलु हुलु हुलु हुलु हुलु, लु लु लु लु, मेडि मेडि मेडि मेडि, सिद्धि सिद्धि सिद्धि सिद्धि, स्वातेर्भिक्षोर्मम सर्वसत्वानां च स्वाहा । स्वस्ति स्वस्ति स्वस्ति स्वस्ति, स्वातेर्भिक्षोर्मम सर्वसत्वानां च स्वाहा । द्वादशेमा आनन्द महाराक्षस्यो याभिर्बोधिसत्वो मातुः कुक्षिगतो रक्षितो जायमानो रक्षितो जातोऽपि रक्षितः । ताः पुनः कतमाः । तद्यथा । अनार्थिका राक्षसी समुद्रा राक्षसी रौद्रा राक्षसी प्राणहारिनी राक्षसी विद्याधरा राक्षसी धनुर्धरा राक्षसी शरधरा राक्षसी असिधरा राक्षसी हलधरा राक्षसी चक्रधरा राक्षसी चक्रवाडा राक्षसी विभूषणा राक्षसी । इत्येता द्वादश आनन्द महाराक्षस्यः, ऋद्धिमत्यो द्युतिमत्यो वर्णवत्यो यशस्विनः, देवासुरमपि संग्राममनुभवन्ति महर्द्धिकाः । ताऽप्यनया महामायूर्या विद्याराज्ञ्या स्वातेर्भिक्षोर्मम सर्वसत्वानां च रक्षां कुर्वन्तु, गुप्तिं परित्राणं परिग्रहं परिपालनं शान्तिं स्वस्त्ययनं दण्डपरिहारं शस्त्रपरिहारं विषदूषणं विषनाशनं सीमाबन्धं धरणीबन्धं च कुर्वन्तु, जीवतु वर्षशतं पश्यतु शरदाशतं । तद्यथा । हरे खरे खुरे मले मिले मूले, मदेन्ति मत्ते मण्डितिके । हुलु हुलु हुलु हुलु हुलु हुलु हुलु हुलु हुलु हुलु, लु लु लु लु, मेडि मेडि मेडि मेडि, सिद्धि सिद्धि सिद्धि सिद्धि, स्वातेर्भिक्षोर्मम सर्वसत्वानां च स्वाहा । स्वस्ति स्वस्ति स्वस्ति स्वस्ति, स्वातेर्भिक्षोर्मम सर्वसत्वानां च स्वाहा । द्वादशेमा आनन्द महामातरो याभिर्बोधिसत्वो मातुः कुक्षिगतो रक्षितो जायमानो रक्षितो जातोऽपि रक्षितः । याश्च सत्वानपद्रवन्ति विहेठयन्ति उत्त्रासयन्ति, (म्म्व्र्तकु ३४) ताः पुनः कतमाः । तद्यथा । ब्राह्मी रौद्री कौमारी वैष्णवी ऐन्द्री वाराही कौवेरी वारुणी याम्या वायुव्या आग्नेयी महाकाली चेति । ताऽप्यनया महामायूर्या विद्याराज्ञ्या स्वातेर्भिक्षोर्मम सर्वसत्वानां च रक्षां कुर्वन्तु, गुप्तिं परित्राणं परिग्रहं परिपालनं शान्तिं स्वस्त्ययनं दण्डपरिहारं शस्त्रपरिहारं विषदूषणं विषनाशनं सीमाबन्धं धरणीबन्धं च कुर्वन्तु, जीवतु वर्षशतं पश्यतु शरदाशतं । तद्यथा । हरे खरे खुरे मले मिले मूले, मदेन्ति मत्ते मण्डितिके । हुलु हुलु हुलु हुलु हुलु हुलु हुलु हुलु हुलु हुलु, लु लु लु लु, मेडि मेडि मेडि मेडि, सिद्धि सिद्धि सिद्धि सिद्धि, स्वातेर्भिक्षोर्मम सर्वसत्वानां च स्वाहा । स्वस्ति स्वस्ति स्वस्ति स्वस्ति, स्वातेर्भिक्षोर्मम सर्वसत्वानां च स्वाहा । अस्त्यानन्द एकजटा नाम महापिशाची, रावणस्य भार्याः समुद्रकूले प्रतिवसति । या एकरात्र्या अशीतियोजनसहस्राणि रुधिरगन्धेनाहिण्डते । तयापि बोधिसत्वो मातुः कुक्षिगतो रक्षितो जायमानो रक्षितो जातोऽपि रक्षितः । साप्यनया महामायूर्या विद्याराज्ञ्या स्वातेर्भिक्षोर्मम सर्वसत्वानां च रक्षां करोतु, गुप्तिं परित्राणं परिग्रहं परिपालनं शान्तिं स्वस्त्ययनं दण्डपरिहारं शस्त्रपरिहारं विषदूषणं विषनाशनं सीमाबन्धं धरणीबन्धं च करोतु, जीवतु वर्षशतं पश्यतु शरदाशतं । तद्यथा । हरे खरे खुरे मले मिले मूले, मदेन्ति मत्ते मण्डितिके । हुलु हुलु हुलु हुलु हुलु हुलु हुलु हुलु हुलु हुलु, लु लु लु लु, मेडि मेडि मेडि मेडि, सिद्धि सिद्धि सिद्धि सिद्धि, स्वातेर्भिक्षोर्मम सर्वसत्वानां च स्वाहा । स्वस्ति स्वस्ति स्वस्ति स्वस्ति । (म्म्व्र्तकु ३५) स्वातेर्भिक्षोर्मम सर्वसत्वानां च स्वाहा । उद्गृह्ण त्वमानन्द महाराक्षसीनां नामानि । तद्यथा । कपिला नाम राक्षसी, पदुमा नाम राक्षसी, महिषी नाम राक्षसी, मोरिका नाम राक्षसी, नाडिका नाम राक्षसी, ज्वलनी नाम राक्षसी, तपनी नाम राक्षसी, कलसी नाम राक्षसी, विमला नाम राक्षसी, धरणी नाम राक्षसी, हरिचन्द्रा नाम राक्षसी, रोहिणी नाम राक्षसी, मारीची नाम राक्षसी, हुतासनी नाम राक्षसी, वारुणी नाम राक्षसी, काली नाम राक्षसी, क्रोञ्ची नाम राक्षसी, कौञ्जरा नाम राक्षसी, बला नाम राक्षसी, ग्रसनी नाम राक्षसी, कराली नाम राक्षसी, मातङ्गी नाम राक्षसी, पिङ्गला नाम राक्षसी, विदुरा नाम राक्षसी, गौरी नाम राक्षसी, गन्धारी नाम राक्षसी, कुम्भाण्डी नाम राक्षसी, कारङ्गी नाम राक्षसी, रावणी नाम राक्षसी, मदनी नाम राक्षसी, अशनी नाम राक्षसी, गर्भाहारिणी नाम राक्षसी, रुधिराहारिणी नाम राक्षसी, दन्तुरा नाम राक्षसी, उत्त्रासनी नाम राक्षसी, ब्राह्मी नाम राक्षसी, तडागपालिनी नाम राक्षसी, वज्रधरा नाम राक्षसी, स्कन्दा नाम राक्षसी, वर्षणी नाम राक्षसी, गर्जनी नाम राक्षसी, स्फोटनी नाम राक्षसी, विद्योतनी नाम राक्षसी, जङ्गमा नाम राक्षसी, उल्कामुखी नाम राक्षसी, वसुंधरा नाम राक्षसी, कालरात्री नाम राक्षसी, यमदूती नाम राक्षसी, अमला नाम राक्षसी, अचला नाम राक्षसी, ऊर्ध्वजटा नाम राक्षसी, शतशीर्षा नाम राक्षसी, शतबाहुर्नाम राक्षसी, शतनेत्रा नाम राक्षसी, घाटनी नाम राक्षसी, मर्दनी नाम राक्षसी, मार्जारी नाम राक्षसी, षडक्षरी नाम राक्षसी, चण्डा नाम राक्षसी, (म्म्व्र्तकु ३६) निशाचरा नाम राक्षसी, दिवसचरा नाम राक्षसी, मण्डितिका नाम राक्षसी, क्रोधना नाम राक्षसी, विहेठना नाम राक्षसी, असिमुषलधरा नाम राक्षसी, त्रिशूलपाणी नाम राक्षसी, करालदन्ती नाम राक्षसी, मनोरमा नाम राक्षसी, सोमा नाम राक्षसी, चण्डाली नाम राक्षसी, दण्टा नाम राक्षसी, हिडिम्बा नाम राक्षसी, नीला नाम राक्षसी, चित्रा नाम राक्षसी । इत्येताः सप्तसप्ततिर्महाराक्षस्यः ऋद्धिमत्यो द्युतिमत्यो वर्णवत्यो यशस्विनः, देवासुरमपि संग्राममनुभवन्ति महर्द्धिकाः । ताऽप्यनया महामायूर्या विद्याराज्ञ्या स्वातेर्भिक्षोर्मम सर्वसत्वानां च रक्षां कुर्वन्तु, गुप्तिं परित्राणं परिग्रहं परिपालनं शान्तिं स्वस्त्ययनं दण्डपरिहारं शस्त्रपरिहारं विषदूषणं विषनाशनं सीमाबन्धं धरणीबन्धं च कुर्वन्तु, जीवतु वर्षशतं पश्यतु शरदाशतं । तद्यथा । हिलि हिलि हिलि हिलि हिलि हिलि हिलि हिलि हिलि हिलि, मिलि मिलि मिलि मिलि मिलि मिलि मिलि मिलि मिलि मिलि, हुरु हुरु हुरु हुरु हुरु हुरु हुरु हुरु हुरु हुरु, चिटि चिटि चिटि चिटि चिटि चिटि चिटि चिटि चिटि चिटि, हिक्के हिक्के हिक्के हिक्के, होर होर, धर धर, हर हर, हल हल, चल चल, चुरु चुरु स्वाहा । नमः सर्वबुद्धानां स्वाहा । प्रत्येकबुधानां स्वाहा । नमोऽर्हतां स्वाहा । मैत्रेयस्य बोधिसत्वस्य महासत्वस्य स्वाहा । सर्वबोधिसत्वानां स्वाहा । अनागामिनां स्वाहा । सकृदागामिनां स्वाहा । श्रोतापन्नानां स्वाहा । सम्यग्गतानां स्वाहा । सम्यक्प्रतिपन्नानां स्वाहा । ब्राह्मणे (म्म्व्र्तकु ३७) स्वाहा । प्रजापतये स्वाहा । इन्द्राय स्वाहा । ईशानास्य स्वाहा । अग्नये स्वाहा । वायवे स्वाहा । वरुणाय स्वाहा । कुवेराय स्वाहा । यमाय स्वाहा । उपेन्द्राय स्वाहा । वैश्रमणाय स्वाहा । यक्षाधिपतये स्वाहा । धृतराष्ट्राय गन्धर्वाधिपतये स्वाहा । विरूढकाय कुम्भाण्डाधिपतये स्वाहा । विरूपाक्षाय नागाधिपतये स्वाहा । देवानां स्वाहा । नागानां स्वाहा । असुराणां स्वाहा । मरुतानां स्वाहा । गरुडानां स्वाहा । गन्धर्वाणां स्वाहा । किन्नराणां स्वाहा । महोरगाणां स्वाहा । यक्षाणां स्वाहा । राक्षसानां स्वाहा । प्रेतानां स्वाहा । पिशाचानां स्वाहा । भूतानां स्वाहा । कुम्भाण्डानां स्वाहा । पूतनानां स्वाहा । कटपूतनानां स्वाहा । स्कन्दानां स्वाहा । उन्मादानां स्वाहा । छायानां स्वाहा । अपस्माराणां स्वाहा । ओस्तारकाणां स्वाहा । चन्द्रसूर्ययोः स्वाहा । रुद्राणां स्वाहा । नक्षत्राणां स्वाहा । ग्रहाणां स्वाहा । ज्योतिषाणां स्वाहा । ऋषीणां स्वाहा । सिद्धव्रतानां स्वाहा । सिद्धविद्यानां स्वाहा । गौरीये स्वाहा । गन्धारीये स्वाहा । जांगुलीये स्वाहा । अमृताये स्वाहा । जम्भनीये स्वाहा । स्तम्भनीये स्वाहा । चापेटीये स्वाहा । द्रामिडीये स्वाहा । शबरीये स्वाहा । अथर्वशबरीये स्वाहा । चण्डालीये स्वाहा । मातङ्गीये स्वाहा । नागहृदयाय स्वाहा । गरुडहृदयाय स्वाहा । मानसीये स्वाहा । महामानासीये स्वाहा । षडक्षरीये स्वाहा । मणिभद्राय स्वाहा । समन्तभद्राय स्वाहा । महासमन्तभद्राय स्वाहा । समयाय स्वाहा । महासमयाय स्वाहा । महाप्रतिसराय स्वाहा । शीतवनाय स्वाहा । महाशीतवनाय स्वाहा । दण्डधराय स्वाहा । महादण्डधराय स्वाहा । मुचिलिन्दाय स्वाहा । महामुचिलिन्दाय स्वाहा । जयन्तीये स्वाहा । शान्तिये स्वाहा । अव्याकृताय स्वाहा । अश्वक्रीडाय स्वाहा । अपराजिताय स्वाहा । सुवर्णावभासाय महामयूरराजाय स्वाहा । महाधारणीये स्वाहा । मन्त्रपदानां स्वाहा । महामायूर्यै विद्याराज्ञ्यै स्वाहा । ओं ह्रीं कुण्डल स्वाहा । मयूरक्रान्ताय स्वाहा । (म्म्व्र्तकु ३८) आभिर्महाविद्याभिर्महामन्त्रैर्महाप्रतिसराभिर्महारक्षाभिः स्वातेर्भिक्षोर्मम सर्वसत्वानां च हताः कृत्याः, हताः कर्मणाः, हताः काखोर्दाः किरणा वेताडाश्चिच्चाः प्रेषकाः, हताः स्कन्दा उन्मादाश्छाया अपस्मारा ओस्तारकाः, हता उत्त्रासा गरा विषा, हताः शोषाः, हता दुर्भुक्तका दुश्छर्दिता दुश्छाया, हता दुःप्रेक्षिता दुल्लिखिता दुर्लंघिताः, अवधूता हताः । सर्व ज्वरा एकाहिका द्वैतीयकास्त्रैतीयकाश्चातुर्थकाः सप्ताहिका अर्धमासिका मासिका दैवसिका मुहूर्तिका नित्यज्वरा विषमज्वरा भूतज्वराः वातिकाः पैत्तिकाः श्लेष्मिकाः सान्निपातिका मानुष्यज्वरा अमानुष्यज्वरा हताः, सर्वज्वरा दद्रूकण्डूकिटिमकुष्ठगण्डपिटकपामावैसर्पलोहलिङ्गा हताः, शिरोर्त्तिअर्धावभेदकमरोचकमक्षिरोगं नासारोगं मुखरोगं कण्ठरोगं हृद्रोगं गलग्रहं कर्णशूलं दन्तशूलं हृदयशूलं पार्श्वशूलं पृष्ठशूलमुदरशूलं गण्डशूलं वस्तिशूलं गुदशूलं योनिशूलं प्रजनशूलमूरुशूलं जंघाशूलं हस्तशूलं पादशूलमङ्गप्रत्यङ्गशूलं हतं । हताः सर्वग्रहाः सर्वविषाः सर्वव्याधयः । स्वस्तिर्भवतु मम सर्वसत्वानां च । स्वस्ति रात्रौ स्वस्ति दिवा स्वस्ति मध्यदिने स्थिते, स्वस्ति सर्वमहोरात्रं सर्वबुद्धा दिशन्तु वः । नमोऽस्तु बुद्धाय नमोऽस्तु बोधये, नमोऽस्तु मुक्ताय नमोऽस्तु मुक्तये । नमोऽस्तु शान्ताय नमोऽस्तु शान्तये, नमो विमुक्ताय नमो विमुक्तये । ये ब्राह्मणा वाहितपापधर्माः, (म्म्व्र्तकु ३९) तेषां नमस्ते, मम सर्वसत्वानां च रक्षां कुर्वन्तु, स्वस्ति मातुः, स्वस्ति पितुः, स्वस्ति गर्भगतस्य, स्वस्ति द्विपदानां, स्वस्ति भवतु चतुष्पदानां, स्वस्ति बहुपदानां, स्वस्ति त्रिभवपर्यवपन्नानां, स्वस्ति मम सर्वसत्वानां च स्वाहा । ओगृह्ण त्वमानन्द नागराज्ञान्नामानि । तद्यथा । बुद्धो भगवान् धर्मस्वामी नागराजा, ब्रह्मा नागराजा, महाब्रह्मा नागराजा, इन्द्रो नागराजा, महेन्द्रो नागराजा, उपेन्द्रो नागराजा, समुद्रो नागराजा, समुद्रपुत्रो नागराजा, सागरो नागराजा, सागरपुत्रो नागराजा, मकरो नागराजा, नन्दो नागराजा, उपनन्दो नागराजा, नलो नागराजा, उपनलो नागराजा, सुदर्शनो नागराजा, वासुकिर्नागराजा, तक्षको नागराजा, षडङ्गुलो नागराजा, अरुणो नागराजा, वरुणो नागराजा, पाण्डरको नागराजा, श्रीमान्नागराजा, श्रीकण्ठो नागराजा, श्रीवर्धनो नागराजा, श्रीभद्रो नागराजा, अबलो नागराजा, सबलो नागराजा, अतिबलो नागराजा, शलभो नागराजा, अब्जको नागराजा, शतबाहुर्नागराजा, सुबाहुर्नागराजा, सुमेरुर्नागराजा, सूर्यप्रभो नागराजा, चन्द्रप्रभो नागराजा, भद्रकान्तो नागराजा, नन्दनो नागराजा, नर्दनो नागराजा, गर्जनो नागराजा, विद्योतनो नागराजा, स्फोटनो नागराजा, वर्षणो नागराजा, विमलो नागराजा, अलकशीर्षो नागराजा, बलकशीर्षो नागराजा, अश्वशीर्षो नागराजा, गवयशीर्षो नागराजा, गयाशीर्षो नागराजा, मृगशीर्षो नागराजा, हस्तिशीर्षो नागराजा, नरसिंहो नागराजा, आर्द्रबलको नागराजा, नन्दो नागराजा, जनार्दनो नागराजा, चित्रो नागराजा, चित्राक्षो नागराजा, चित्रसेनो नागराजा, नमुचिर्नागराजा, (म्म्व्र्तकु ४०) मुचिर्नागराजा, मुचिलिन्दो नागराजा, रावणो नागराजा, राघवो नागराजा, शिरि नागराजा, शिरिको नागराजा, लम्बुरु नागराजा, अनन्तो नागराजा, कनको नागराजा, हस्तिकच्छो नागराजा, पिङ्गलो नागराजा, पाण्डरो नागराजा, शंखो नागराजा, अपलालो नागराजा, कालको नागराजा, उपकालको नागराजा, बलदेवो नागराजा, नारायणो नागराजा, कंबलो नागराजा, भीमो नागराजा, विभीषणो नागराजा, राक्षसो नागराजा, शैलबाहुर्नागराजा, गङ्गा नागराजा, सीता नागराजा, सिंधुर्नागराजा, वक्षुर्नागराजा, मङ्गल्यो नागराजा, अनवतप्तो नागराजा, सुप्रतिष्ठितो नागराजा, ऐरावणो नागराजा, धरणिधरो नागराजा, निमिंधरो नागराजा, द्युतिंधरो नागराजा, भद्रो नागराजा, सुभद्रो नागराजा, वसुभद्रो नागराजा, बलभद्रो नागराजा, मणिर्नागराजा, मणिकण्ठो नागराजा, द्वौ कालकौ नागराजानौ, द्वौ पीतकौ नागराजानौ, द्वौ लोहितकौ नागराजानौ, द्वौ श्वेतकौ नागराजानौ, मालिर्नागराजा, रक्तमालिर्नागराजा, वत्सो नागराजा, भद्रपदो नागराजा, दुन्दुभिर्नागराजा, उपदुन्दुभिर्नागराजा, आम्रतीर्थको नागराजा, मणिसुतो नागराजा, धृतराष्ट्रो नागराजा, विरूढको नागराजा, विरूपाक्षो नागराजा, वैश्रवणो नागराजा, शकटमुखो नागराजा, चाम्पयको नागराजा, गौतमो नागराजा, पाञ्चालको नागराजा, पञ्चचूडो नागराजा, प्रद्युन्मो नागराजा, विन्दुर्नागराजा, उपविन्दुर्नागराजा, अलिको नागराजा, कालिको नागराजा, किञ्चिनी नागराजा, किञ्चको नागराजा, कोणो नागराजा, उपकोणो नागराजा, चिच्चो नागराजा, कृष्णगौतमो नागराजा, मानुषो नागराजा, अमानुषो नागराजा, मूलमानुषो नागराजा, पूर्वमानुषो नागराजा, उत्तरमानुषो नागराजा, मातङ्गो (म्म्व्र्तकु ४१) नागराजा, मण्डलको नागराजा, दन्त्तुरो नागराजा, उलूको नागराजा, उत्तरो नागराजा, लुको नागराजा, उत्तमो नागराजा, एलो नागराजा, एलवर्णो नागराजा, अलबालो नागराजा, मरबालो नागराजा, मनस्वी नागराजा, कर्कोटको नागराजा, कपिलो नागराजा, शैबलो नागराजा, उत्पलो नागराजा, नखको नागराजा, वर्धमानको नागराजा, मोक्षको नागराजा, बुद्धिको नागराजा, प्रमोक्षो नागराजा, कम्बलाश्वतरौ नागराजानौ, एलमेलौ नागराजानौ, नन्दोपनन्दौ नागराजानौ, अच्छिलो नागराजा, महासुदर्शनो नागराजा, परिकालो नागराजा, परिकीटो नागराजा, सुमुखो नागराजा, आदर्शमुखो नागराजा, गन्धारो नागराजा, सिंहलो नागराजा, द्रमिडो नागराजा, द्वौ कृष्णकौ नागराजानौ, द्वौ श्वेतकौ नागराजानौ, द्वावुपशुक्लकौ नागराजानौ । इत्येते चान्ये चानन्द नागराजानो येऽस्मिं पृथिवीमण्डले कालेन कालं वर्षन्ति, कालेन कालं गर्जन्ति, कालेन कालं विद्योतयन्ति, कालेन कालं सस्यं निष्पादयन्ति । बुद्धदर्शिनो गृहीतशिक्षापदास्त्रिसरणगताः, दीर्घायुषः कल्पस्थायिनः, निर्मुक्ता गरुडभयात्, अग्निवालकाभयात्, राजकर्मभयात्, धरणीकम्पभयात्, धरणीधरा महारत्नविमानवासिनो दीर्घायुषो महेशाख्या महर्द्धिकाः, महानुभावा महाभोगा महापरिवारा अरिबलप्रभञ्जका ऋद्धिमन्तो द्युतिमन्तो वर्णवन्तो यशस्विनः । देवासुरमपि संग्राममनुभवन्ति महर्द्धिकाः । इत्येते नागराजानः सपुत्राः सपौत्राः सभ्रातरः सामात्याः ससेनापतयः सप्रेष्याः सदूताः सप्रवराः सपार्षदाः, तेऽप्यनया महामायूर्या विद्याराज्ञ्या स्वातेर्भिक्षोर्मम सर्वसत्वानां च रक्षां कुर्वन्तु, गुप्तिं परित्राणं परिग्रहं परिपालनं शान्तिं स्वस्त्ययनं दण्डपरिहारं शस्त्रपरिहारं विषदूषणं विषनाशनं सीमाबन्धं धरणीबन्धं च कुर्वन्तु । जीवतु वर्षशतं पश्यतु (म्म्व्र्तकु ४२) शरदाशतं । स्वस्ति मम सर्वसत्वानां च स्वाहा । उच्छिष्टस्यानुत्सिष्टस्य मत्तस्य प्रमत्तस्य गच्छतस्तिष्ठतः, निषण्णस्य शयनस्य जाग्रतः, आगतस्य अनागतस्य स्वस्ति राजभयाच्चौरभयाद्, अग्निभयादुदकभयाद्, बन्धकभयात्, प्रत्यर्थिकभयात्, प्रत्यमित्रभयादुत्त्रासभयाद्, परचक्रभयाद्, दुर्भिक्षभयाद्, अकालमृत्युभयाद्, धरणीकम्पभयाच्चण्डमृगभयात् । स्वस्ति देवभयाद्, नागभयाद्, असुरभयाद्, गरुडभयाद्, गन्धर्वभयाद्, किन्नरभयान्, महोरगभयाद्, यक्षभयाद्, राक्षसभयात्, प्रेतभयात्, पिशाचभयाद्, भूतभयात्, कुम्भाण्डभयात्, पूतनभयात्, कटपूतनभयात्, स्कन्दभयाद्, उन्मादभयाद्, छायाभयाद्, अपस्मारभयाद्, ओस्तारकभयात् । स्वस्ति कृत्याकर्मणकाखोर्दकिरणवेताडचिच्चप्रेषकदुर्भुक्तदुश्छर्दितदुश्छायादुःप्रेक्षितदुर्लिखितदुर्लंघितावधूतभयात् । स्वस्ति दद्रूकण्डूकिटिमकुष्ठगण्डकपिटकपामावैसर्पलोहलिङ्गशोषौत्त्रासभयात् । स्वस्ति मम सर्वसत्वानां च स्वाहा । स्वस्ति सर्वरोगेभ्यः । रात्रौ स्वस्ति दिवा स्वस्ति मध्यंदिने स्थिते, स्वस्ति सर्वमहोरात्रं सर्वबुद्धा दिशन्तु वः । नमोऽस्तु बुद्धाय नमोऽस्तु बोधये, नमोऽस्तु मुक्ताय नमोऽस्तु मुक्तये । नमोऽस्तु शान्ताय नमोऽस्तु शान्तये, नमो विमुक्ताय नमो विमुक्तये । ये ब्राह्मणा वाहितपापधर्माः तेषां नमस्, ते मम सर्वसत्वानां च रक्षां कुर्वन्तु, गुप्तिं परित्राणं परिग्रहं परिपालनं शान्तिं स्वस्त्ययनं दण्डपरिहारं शस्त्रपरिहारं विषदूषणं विषनाशनं सीमाबन्धं धरणीबन्धं च कुर्वन्तु । जीवतु वर्षशतं पश्यतु शरदाशतं । (म्म्व्र्तकु ४३) इयं चानन्द महामायूरी विद्याराज्ञी विपश्यिना सम्यक्संबुद्धेन भाषिता चाभ्यनुमोदिता च । तद्यथा । अरडे करडे मरडे मदवर्धने अवशबरे तुरे तुरे चरे चरे शबरे पर्णशबरे, हुचु हुचु, कुचि कुचि, मुचि मुचि, हुचि हुचि हुचि हुचि हुचि हुचि हुचि, मुचि मुचि मुचि मुचि स्वाहा । इयं चानन्द महामायूरी विद्याराज्ञी शिखिना सम्यक्संबुद्धेन भाषिता चाभ्यनुमोदिता च । तद्यथा । इडि मिडि खिरे विखिरे, हिलि हिलि हिलि, मिलि मिलि, तुमूले, अम्बरे अम्बरावति, दुम्बे दुम्बे हिलि हिलि हिलि, कुर्वि कुर्वि कुर्वि, मुचि मुचि मुचि, स्वाहा । इयं चानन्द महामायूरी विद्याराज्ञी विश्वभुवा सम्यक्संबुद्धेन भाषिता चाभ्यनुमोदिता च । तद्यथा । मोरिके मोरिके मोरिके केवण्टु मण्डितिके, हरे हरे हरे हरे हरे हरे, घरे घरे, खरे खरे, फरे फरे फरे, फलि निदन्ति निदन्तिरे, शकटि मकटि, नण्ड नडिनि, शिरि शिरि शिरि शिरि शिरि शिरि स्वाहा । इयं चानन्द महामायूरी विद्याराज्ञी क्रकुच्छन्देन सम्यक्संबुद्धेन भाषिता चाभ्यनुमोदिता च । तद्यथा । हिडि मिडि कुडि मिडि, तुडि कुडि अडि मुडि तुडि तुडि आडे दन्ते दन्तिले शकरि मकारि थगरि चगरि कञ्चने कञ्चनावति, शबरे, बरे बरे बरे बरे बरे बरे, दन्ते सिद्धि स्वाहा । इयं चानन्द महामायूरी विद्याराज्ञी कनकमुनिना सम्यक्संबुद्धेन भाषिता (म्म्व्र्तकु ४४) चाभ्यनुमोदिता च । तद्यथा । तन्तुले ततले ततले चलते, तले तले तले तले, विरे विजये विज्जधरे, अरजे अरजे विरजामति, मति मालिनि मण्डे शिरिमण्डे, ज्वल ज्वल ज्वल ज्वल ज्वल ज्वल, भद्रवति सिद्धि स्वाहा । इयं चानन्द महामायूरी विद्याराज्ञी काश्यपेन सम्यक्संबुद्धेन भाषिता चाभ्यनुमोदिता च । तद्यथा । अण्डरे पण्डरे कण्डरे मण्डरे खण्डरे जंबु जुंबुनदि जंबुवति, मत्ते मण्डितिके, अमरे सिद्धि, हर हर हर हर, पशु पशु पशु पशु पशुपति स्वाहा सिद्धि सिद्धि सिद्धि सिद्धि स्वाहा । इयं चानन्द महामायूरी विद्याराज्ञी मयाप्येतर्हि शाक्यमुनिना सम्यक्संबुद्धेन भाषिता चाभ्यनुमोदिता च । तद्यथा । हिलि मिलि किलि मिलि इलिले कतले केतुमूले अडमलि डफे डफे बुसरेके, बुसट्ट नरकन्दे कतिलि बोचलिके कम्बु दारिणिकाय शबरंगे ततुट्ट भरशेभो वर्धनि प्रकृति दंष्ट्र मिलि तले, ईति हासे अमले मकुले बट्ट बट्ट वर्षन्तु, देवः समन्ता यथा सुखं दशासु दिक्षु । नमो भगवतः कुमुदोदकं भवतु, नमो भगवते इटिटाय गोदोहिकाय भृङ्गारिकाय, अरुचि मरुचि नट्ट नट्ट वज्रे वज्रनट्टे उदयनप्रिये, अले ताले कुन्ताले कुले ताले, नारायणि पारायणि, पश्यनि स्पर्शनि सिद्ध्यन्तु द्रामिडा मन्त्रपदाः स्वाहा । संयथेदं मया शाक्यमुनिना सम्यक्संबुद्धेन भाषिता चाभ्यनुमोदिता च । आनन्देन भिक्षुणा स्वातेर्भिक्षोर्दष्टस्य स्वस्त्ययनं कृतं, एवं सर्वसत्वानां (म्म्व्र्तकु ४५) च रक्षा कृता भवतु, गुप्तिं परित्राणं परिग्रहं परिपालनं शान्तिं स्वस्त्ययनं दण्डपरिहारं शस्त्रपरिहारं विषदूषणं विषनाशनं सीमाबन्धं धरणीबन्धं च कृतं भवतु । जीवतु वर्षशतं पश्यतु शरदाशतं । इयं चानन्द महामायूरी विद्याराज्ञी मैत्रेयेन बोधिसत्वेन महासत्वेन भाषिता चाभ्यनुमोदिता च । तद्यथा । शिरि शिरि शिरि, भद्रे, ज्योति ज्योति ज्योति, भद्रे, हरे हरे हरे, हरिणि हारिणि, दन्ति शबरि शिवे शूलपाणिनि, बोधि बोधि बोधि बोधि बोधि बोधि, बोधिसत्वे, बोधिपरिपाचणीये स्वाहा । इयं चानन्द महामायूरी विद्याराज्ञी ब्रह्मणा सहापतिना भाषिता चाभ्यनुमोदिता च । तद्यथा । हिलि हिलि हिलि हिलि, मिलि मिलि मिलि मिलि, मालिनि चङ्कलि, किरि किरि किरि किरि किरि किरि, किरये ब्रह्माये रत्नकरण्डके, विडाफु विडाफुसे, धर धर, हर हर, हुले हुले, फुरु फुरु फुरु फुरु फुरु स्वाहा । हतं विषं निहतं विषं, बुद्धतेजोहतं विषं, प्रत्येकबुद्धतेजोहतं विषं, अर्हत्तेजोहतं विषं, अनागामितेजोहतं विषं, सकृदागामितेजोहतं विषं, श्रोतापन्नतेजोहतं विषं, सत्यवादितेजोहतं विषं, ब्रह्मदण्डतेजोहतं विषं, इन्द्रवज्रतेजोहतं विषं, विष्णुचक्रतेजोहतं विषं, अग्नितेजोहतं विषं, वरुणपाशतेजोहतं विषं, असुरमायाहतं विषं, नागविद्याहतं विषं, रुद्रशूलतेजोहतं विषं, स्कन्दशक्तितेजोहतं विषं, महामायूरीविद्याहतं विषं । भूम्या संक्रामतु विषं, स्वस्त्ययनं भवतु स्वातेर्(म्म्व्र्तकु ४६) भिक्षोर्मम सर्वसत्वानां च सर्वविषाद्वत्सनाभविषाधलाहलविषात्कालकूटविषाद्दंष्ट्राविषान्मूलविषाद्विद्युद्विषान्मेघसङ्कटविषाच्चुण्डविषाधृष्टिविषान्मेघविषात्सर्पविषाद्लूटकीटककनभमण्डूकमक्षिकाभ्रमरत्र्यम्बुकत्रैलाटकविषाद्गरुडविषान्मनुष्यविषादमनुष्यविषात्शक्रविषादोषधिविषाद्विद्याविषात् । स्वस्ति सर्वविषेभ्यः स्वातेर्भिक्षोर्मम सर्वसत्वानां च स्वाहा । इयं चानन्द महामायूरी विद्यारज्ञी शक्रेण देवानामिन्द्रेण भाषिता चाभ्यनुमोदिता च तद्यथा । जला जन्तुले चापेटि जन्तुले मथनि घटनि ग्रसनि हरि हरि शिरि द्योति शिरे ततरु ततरु, णबति सिंहा हा हा हा हा हा, सिंहे धिति धिति कुरु कुरु शबरे वज्रे ज्योति तुट तुटसि, बट बटसि, सिलि सिलि, कपिले, कपिलमूले हा ही हूम् । सर्वदुष्ट प्रदुष्टानां जंभन करोमि । हस्तपादाङ्गनिग्रहं करोमि । सह त्रिदशेहि देवेहि डटङ्गिनि सुरपतिवर्ति वज्र वज्र वज्र वज्र वज्र वज्र वज्रपतये स्वाहा । इयं चानन्द महामायूरी विद्यारज्ञी चतुर्भिर्महाराजैर्भाषिता चाभ्यनुमोदिता च तद्यथा । ज्वल ज्वलन, तप तपन, धम धमन, शर शरण, नकुटि नकुटि, मुटि मुटि, सर सर, मर मर, हर हर, भर भर, तिति तिरि, ट ट ट ट ट, दा दा दा दा दा, वा वा वा वा वा, हले हले हले हले हले, सिद्धि सिद्धि सिद्धि सिद्धि सिद्धि, स्वस्ति स्वस्ति स्वस्ति स्वस्ति स्वस्ति, मम सर्वसत्वानां च स्वाहा । (म्म्व्र्तकु ४७) स्वस्ति सर्वप्रेषकातः, कालरात्रीतः, कालपाशातः, मृत्युदण्डातः, ब्रह्मदण्डातः, इन्द्रदण्डातः, ऋषिदण्डातः, देवदण्डातः, नागदण्डातः, असुरदण्डातः, मरुतदण्डातः, गरुडदण्डातः, गन्धर्वदण्डातः, किन्नरदण्डातः, महोरगदण्डातः, यक्षदण्डातः, राक्षसदण्डातः, प्रेतदण्डातः, पिशाचदण्डातः, भूतदण्डातः, कुम्भाण्डदण्डातः, पूतनदण्डातः, कटपूतनदण्डातः, स्कन्ददण्डातः, उन्माददण्डातः, ओस्तारकदण्डातः, वेताडदण्डातः, राजदण्डातः, चौरदण्डातः, अग्निदण्डातः, उदकदण्डातः, सर्वदण्डकुण्डेभ्यः, स्वस्तिर्भवतु, स्वातेर्भिक्षोर्मम सर्वसत्वानां च रक्षां कुर्वन्तु, जीवतु वर्षशतं पश्यतु शरदाशतं । उद्गृह्ण त्वमानन्द नदीराज्ञीनां नामानि । तद्यथा । गङ्गा नदीराज्ञी, सिन्धुर्नदीराज्ञी, सीता नदीराज्ञी, वक्षुर्नदीराज्ञी, शरयूर्नदीराज्ञी, अजिरवती नदीराज्ञी, यमुना नदीराज्ञी, कुहा नदीराज्ञी, वितस्ता नदीराज्ञी, शतबाहुर्नदीराज्ञी, विपश्या नदीराज्ञी, ऐरावती नदीराज्ञी, चन्द्रभागा नदीराज्ञी, सरश्वती नदीराज्ञी, कच्छपी नदीराज्ञी, पयोष्णी नदीराज्ञी, कावेली नदीराज्ञी, ताम्रपर्णी नदीराज्ञी, मधुमती नदीराज्ञी, वेत्रवती नदीराज्ञी, इक्षुमती नदीराज्ञी, पुष्किरिणी नदीराज्ञी, गोमती नदीराज्ञी, चर्मदा नदीराज्ञी, नर्मदा नदीराज्ञी, सौमित्रा नदीराज्ञी, विश्वमित्रा नदीराज्ञी, अमरा नदीराज्ञी, तामरा नदीराज्ञी, पञ्चाला नदीराज्ञी, सुवास्तुर्नदीराज्ञी, प्रभद्रिका नदीराज्ञी, तपोदा (म्म्व्र्तकु ४८) नदीराज्ञी, विमला नदीराज्ञी, नैरञ्जना नदीराज्ञी, हिरण्यवती नदीराज्ञी, रथस्या नदीराज्ञी । इत्येताश्चान्याश्च महानद्यो या अस्मिन् पृथिवीमण्डले प्रस्रवन्ति । तासु सर्वासु नदीषु ये देवा नागा असुरा मरुता गरुडा गन्धर्वाः किन्नरा महोरगा यक्षा राक्षसाः प्रेताः पिशाचा भूताः कुम्भाण्डाः पूतनाः कटपूतनाः स्कन्दा उन्मादाश्छाया अपस्मारा ओस्तारका ओजोहारा गर्भाहारा रुधिराहारा मांसाहारा वसाहारा मेदाहारा मञ्जाहारा जाताहारा जीविताहारा वान्ताहारा बल्याहारा माल्याहारा गन्धाहारा पुष्पाहारा धूपाहारा सस्याहारा आहुत्याहारा पूयाहारा विष्टाहारा मूत्राहारा खेटाहारा श्लेष्माहारा सिंहानकाहारा उत्सिष्टाहारा अशुच्याहारा स्यन्दनिकाहारा नानारूपा विरूपा चक्षुरूपा अनन्तरूपाः कामरुपिणो विचित्ररूपा नैवासिकाः प्रतिवसन्ति । तेऽप्यनया महामायूर्या विद्याराज्ञ्या स्वातेर्भिक्षोर्मम सर्वसत्वानां च रक्षां कुर्वन्तु, गुप्तिं परित्राणं परिग्रहं परिपालनं शान्तिं स्वस्त्ययनं दण्डपरिहारं शस्त्रपरिहारं विषदूषणं विषनाशनं सीमाबन्धं धरणीबन्धं च कुर्वन्तु, जीवतु वर्षशतं पश्यतु शरदाशतं । उद्गृह्ण त्वमानन्द पर्वतराजानां नामानि । तद्यथा । सुमेरुः पर्वतराजा, हिमवान् पर्वतराजा, गन्धमादनः पर्वतराजा, शतशृङ्गः पर्वतराजा, खदिरकः पर्वतराजा, सुवर्णपार्श्वः पर्वतराजा, विद्युन्धरः पर्वतराजा, द्युतिन्धरः पर्वतराजा, निमिन्धरः पर्वतराजा, चक्रवाडः (म्म्व्र्तकु ४९) पर्वतराजा, महाचक्रवाडः पर्वतराजा, इन्द्रशैलः पर्वतराजा, ब्रह्मालयः पर्वतराजा, श्रीमन्तः पर्वतराजा, सुदर्शनः पर्वतराजा, विपुलः पर्वतराजा, रत्नाकरः पर्वतराजा, असुरप्राग्भारः पर्वतराजा, कृमिलः पर्वतराजा, मणिकूटः पर्वतराजा, वेमचित्रः पर्वतराजा, वज्राकरः पर्वतराजा, असुरप्राग्भारः पर्वतराजा, हनुचित्रः पर्वतराजा, विद्युत्प्रभः पर्वतराजा, अश्वस्थः पर्वतराजा, चन्द्रप्रभः पर्वतराजा, भद्रशैलः पर्वतराजा, सूर्याकान्तः पर्वतराजा, विन्दुः पर्वतराजा, विन्ध्यः पर्वतराजा, शैलः पर्वतराजा, चित्रकूटः पर्वतराजा, मलयः पर्वतराजा, सुवर्णशृङ्गः पर्वतराजा, परिजातः पर्वतराजा, सुबाहुः पर्वतराजा, मणिमन्तः पर्वतराजा, सुषेनः पर्वतराजा, ब्रह्मदण्डः पर्वतराजा, वेदगच्छः पर्वतराजा, गोकर्णः पर्वतराजा, माल्यचित्रः पर्वतराजा, खड्गः पर्वतराजा, तापनः पर्वतराजा, अर्जनः पर्वतराजा, संगमः पर्वतराजा, रुरुभः पर्वतराजा, दरदः पर्वतराजा, शंखः पर्वतराजा, मोदकः पर्वतराजा, चन्दनमालः पर्वतराजा, गोपगिरिः पर्वतराजा, कैलासः पर्वतराजा, महेन्द्र पर्वतराजा, सह्यः पर्वतराजा, उपातिष्टिः पर्वतराजा, चन्द्रमालः पर्वतराजा, वल्लूलगृहः पर्वतराजा, काकनादः पर्वतराजा, शासननादः पर्वतराजा । (म्म्व्र्तकु ५०) इत्येते चान्ये चास्मिन् पृथिवीमण्डले पर्वतराजनस्तत्र ये देवा नागा असुरा मरुता गरुडा गन्धर्वाः किन्नरा महोरगा यक्षा राक्षसाः प्रेताः पिशाचा भूताः कुम्भाण्डाः पूतनाः कटपूतनाः स्कन्दा उन्मादाश्छाया अपस्मारा ओस्तारका सिद्धविद्याधराः राजानश्च सपरिवारा नैवासिकाः प्रतिवसन्ति । तेऽप्यनया महामायूर्या विद्याराज्ञ्या स्वातेर्भिक्षोर्मम सर्वसत्वानां च रक्षां कुर्वन्तु, गुप्तिं परित्राणं परिग्रहं परिपालनं शान्तिं स्वस्त्ययनं दण्डपरिहारं शस्त्रपरिहारं विषदूषणं विषनाशनं सीमाबन्धं धरणीबन्धं च कुर्वन्तु, जीवतु वर्षशतं पश्यतु शरदाशतं । सर्वपापान्यपनयन्तु, कल्याणेषु दृश्यन्तामकल्याणं नाशयन्तु, अर्थेषु दृश्यन्तामनर्थं प्रतिवाधयंतु । स्वातेर्भिक्षोर्मम सर्वसत्वानां च । रात्रौ स्वस्ति दिवा स्वस्ति स्वस्ति मध्यंदिने स्थिते, स्वस्ति सर्वमहोरात्रं सर्वबुद्धा दिशन्तु वः । उद्गृह्ण त्वमानन्द नक्षत्राणां नामानि ये गगने विचरन्ति अवभासयन्ति । तद्यथा । कृत्तिका रोहिणी चैव मृगशिरार्द्रा पुनर्वसुः, पुष्यो मङ्गलसंपन्नोऽश्लेषा भवति सप्तमी । इत्येते सप्तनक्षत्राः पूर्वद्वारिकास्थिताः ये पूर्वां दिशं रक्षन्ति परिपालयन्ति । तेऽप्यनया महामायूर्या विद्याराज्ञ्या स्वातेर्भिक्षोर्मम सर्वसत्वानां च रक्षां (म्म्व्र्तकु ५१) कुर्वन्तु, गुप्तिं परित्राणं परिग्रहं परिपालनं शान्तिं स्वस्त्ययनं दण्डपरिहारं शस्त्रपरिहारं विषदूषणं विषनाशनं सीमाबन्धं धरणीबन्धं च कुर्वन्तु, जीवतु वर्षशतं पश्यतु शरदाशतं । तद्यथा । मघा चामित्रमर्थनी फाल्गुन्युभे तथैव च, हस्ता चित्रा च स्वास्ती च विशाखा भवति सप्तमी । इत्येते सप्तनक्षत्रा दक्षिणद्वारिकास्थिताः, ये दक्षिणां दिशं रक्षन्ति परिपालयन्ति । तेऽप्यनया महामायूर्या विद्याराज्ञ्या स्वातेर्भिक्षोर्मम सर्वसत्वानां च रक्षां कुर्वन्तु, गुप्तिं परित्राणं परिग्रहं परिपालनं शान्तिं स्वस्त्ययनं दण्डपरिहारं शस्त्रपरिहारं विषदूषणं विषनाशनं सीमाबन्धं धरणीबन्धं च कुर्वन्तु, जीवतु वर्षशतं पश्यतु शरदाशतं । अनुराधा महातेजा जेष्ठा मूला तथैव च, पूर्वोत्तरे च आषाढे अभिजिच्छ्रवणस्तथा । इत्येते सप्तनक्षत्राः पश्चिमद्वारिकास्थिताः, ये पश्चिमां दिशं रक्षन्ति परिपालयन्ति । तेऽप्यनया महामायूर्या विद्याराज्ञ्या स्वातेर्भिक्षोर्मम सर्वसत्वानां च रक्षां कुर्वन्तु, गुप्तिं परित्राणं परिग्रहं परिपालनं शान्तिं स्वस्त्ययनं दण्डपरिहारं शस्त्रपरिहारं विषदूषणं विषनाशनं सीमाबन्धं धरणीबन्धं च कुर्वन्तु, जीवतु वर्षशतं पश्यतु शरदाशतं । धणिष्ठा शतभिषा चैव उभे भाद्रपदे तथा, रेवती चाश्विनी चैव भरणी भवति सप्तमी । इत्येते सप्तनक्षत्रा उत्तरद्वारिकास्थिताः, ये उत्तरां दिशं रक्षन्ति परिपालयन्ति । तेऽप्यनया महामायूर्या विद्याराज्ञ्या स्वातेर्भिक्षोर्मम सर्वसत्वानां च रक्षां कुर्वन्तु, गुप्तिं परित्राणं परिग्रहं परिपालनं शान्तिं स्वस्त्ययनं (म्म्व्र्तकु ५२) दण्डपरिहारं शस्त्रपरिहारं विषदूषणं विषनाशनं सीमाबन्धं धरणीबन्धं च कुर्वन्तु, जीवतु वर्षशतं पश्यतु शरदाशतं । उद्गृह्ण त्वमानन्द ग्रहाणां नामानि, ये ग्रहा नक्षत्रेषु चरन्तो ह्रासवृद्धिं सुखदुःखं क्षेमं सुभिक्षदुर्भिक्षं च निवेदयन्ति तद्यथा । सूर्यो ग्रहः, चन्द्रो ग्रहः, बृहस्पतिः ग्रहः, शुक्रः, ग्रहः, शनिश्चरो ग्रहः, अङ्गारो ग्रहः, बुधो ग्रहः । राहुरसुरेन्द्रो ग्रहः, धूम्रकेतुर्ग्रहः, अष्टाविंशति नक्षत्राः सप्तसप्त दिशि स्थिताः । ताराग्रहास्तथा पञ्च राहुकेतुश्च सप्तमः, महातेजो महाबलो महर्द्धिका महातपाः । सूर्यचन्द्रमसौ चैव सप्तत्रिंशदनूनकाः, उदयास्तंगमस्थानं चक्रसंक्रमणायुधाः । क्षयवृद्धिकरा लोके महातेजा महर्द्धिकाः, विद्यां समनुमोदन्तु सुप्रसन्नेन चेतसा । तेऽप्यनया महामायूर्या विद्याराज्ञ्या स्वातेर्भिक्षोर्मम सर्वसत्वानां च रक्षां कुर्वन्तु, गुप्तिं परित्राणं परिग्रहं परिपालनं शान्तिं स्वस्त्ययनं दण्डपरिहारं शस्त्रपरिहारं विषदूषणं विषनाशनं सीमाबन्धं धरणीबन्धं च कुर्वन्तु, जीवतु वर्षशतं पश्यतु शरदाशतं । उद्गृह्ण त्वमानन्द पौराणां महर्षीणां नामानि । सिद्धानां सिद्धव्रतानां सिद्धविद्यानां दीप्ततपसां नदीपर्वतवासिनां शापायुधानामुग्रतेजसां (म्म्व्र्तकु ५३) ऋद्धिमतां पंचाभिज्ञानां वैहायसगामिनां, तेषां नामानि कीर्तयिष्यामि । तद्यथा । अष्टमको नाम महर्षिः, वामदेवको नाम महर्षिः, वामको नाम महर्षिः, मारीची नाम महर्षिः, मार्कण्डेयो नाम महर्षिः, विश्वमित्रो नाम महर्षिः, वशिष्ठो नाम महर्षिः, काश्यपो नाम महर्षिः, बलमीको नाम महर्षिः, वृद्धकाश्यपो नाम महर्षिः, भृगुर्नाम महर्षिः, भृङ्गिरसो नाम महर्षिः, अंगिरसो नाम महर्षिः, भृङ्गी नाम महर्षिः, बट्टो नाम महर्षिः, भागिरथो नाम महर्षिः, अंगीरजो नाम महर्षिः, आत्रेयो नाम महर्षिः, पुरस्त्यो नाम महर्षिः, स्थूलशिरो नाम महर्षिः, यम-द्-अग्निर्नाम महर्षिः, द्वैसंपायनो नाम महर्षिः, कृष्णवैपायनो नाम महर्षिः, हरीतो नाम महर्षिः, हरितायनो नाम महर्षिः, समङ्गिरो नाम महर्षिः, उद्गतो नाम महर्षिः, समुद्गतो नाम महर्षिः, क्षान्तिवादी नाम महर्षिः, कीर्ती नाम महर्षिः, सुकीर्ती नाम महर्षिः, गुरुर्नाम महर्षिः, शरभो नाम महर्षिः, मर्दनो नाम महर्षिः, पोतलको नाम महर्षिः, अश्वलायनो नाम महर्षिः, हिमवान्नाम महर्षिः, लोहिताक्षो नाम महर्षिः, दुर्वासो नाम महर्षिः, वैशंपायनो नाम महर्षिः, बाल्मीको नाम महर्षिः, सुरतो नाम महर्षिः, मदनो नाम महर्षिः, मनुर्नाम महर्षिः, प्रभो नाम महर्षिः, शुक्रो नाम महर्षिः, बृहस्पतिर्नाम महर्षिः, अरनेमि नाम महर्षिः, शनैश्चरो नाम महर्षिः, बुधो नाम महर्षिः, जांगुली नाम महर्षिः, गन्धारो नाम महर्षिः, एकशृङ्गो नाम महर्षिः, ऋषिशृङ्गो नाम महर्षिः, गर्गो नाम महर्षिः, गार्ग्यायनो (म्म्व्र्तकु ५४) नाम महर्षिः, भाण्डायनो नाम महर्षिः, कात्यायनो नाम महर्षिः, काण्ड्यायनो नाम महर्षिः, भीष्मो नाम महर्षिः, भीष्ममातङ्गो नाम महर्षिः, कपिलो नाम महर्षिः, गौतमो नाम महर्षिः, मातङ्गो नाम महर्षिः, लोहिताश्वो नाम महर्षिः, सुनेत्रो नाम महर्षिः, सुरनेमी नाम महर्षिः, असितो नाम महर्षिः, बालिखिल्यो नाम महर्षिः, नारदो नाम महर्षिः, पर्वतो नाम महर्षिः, कृमिलो नाम महर्षिः । इत्येते आनन्द पौराणा महर्षयो वेदानां कर्तारो मन्त्राणां प्रवर्तयितारः, शापानां दातारः, उग्रव्रातानां महातेजसः, सिद्धपराक्रमाः । तेऽप्यनया महामायूर्या विद्याराज्ञ्या स्वातेर्भिक्षोर्मम सर्वसत्वानां च रक्षां कुर्वन्तु, गुप्तिं परित्राणं परिग्रहं परिपालनं शान्तिं स्वस्त्ययनं दण्डपरिहारं शस्त्रपरिहारं विषदूषणं विषनाशनं सीमाबन्धं धरणीबन्धं च कुर्वन्तु, जीवतु वर्षशतं पश्यतु शरदाशतं । तद्यथा । हिरि हिरि हिरि, खिरि खिरि, मिरि मिरि, मुरि मुरि, हिरि हिरि, मिलि मिलि, डफु डफु डफु, मथनि, घाटनि, पचनि पाचनि, दहनि दाहनि, तपनि तापनि, हननि, दह दह दहनि, तालनि पातनि मोजनि स्त स्तनि जस्तनि स्वयं भूवे स्वाहा । उद्गृह्ण त्वमानन्द महाप्रजापतीनां नामानि, ये देवा नागा मरुता असुरा गरुडा किंनरा महोरगा यक्षा राक्षसा मनुष्या अमनुष्या तिर्यग्योनिस्वर्गनरकशुभाशुभप्रभृतयः, असंख्येयैः स्वस्तिविशेषैस्त्रैलोके व्यवस्थिताः । तद्यथा । ब्रह्मा प्रजापतिः, अतृः प्रजापतिः, आत्रेयः प्रजापतिः, अग्निः प्रजापतिः, भृगुः (म्म्व्र्तकु ५५) प्रजापतिः, पुलस्त्यः प्रजापतिः, पुलहः प्रजापतिः, मनुः प्रजापतिः, वशिष्ठः प्रजापतिः, दुष्टः प्रजापतिः, सुतनुः प्रजापतिः, सुनन्दमानः प्रजापतिः, दक्षः प्रजापतिः, सनत्कुमारः प्रजापतिः । इत्येते आनन्द महात्मानः प्रजापतयः स्थावरजङ्गमस्य भूतग्रामस्य रक्षार्थे व्यवस्थिताः, तेऽप्यनया महामायूर्या विद्याराज्ञ्या स्वातेर्भिक्षोर्मम सर्वसत्वानां च रक्षां कुर्वन्तु, गुप्तिं परित्राणं परिग्रहं परिपालनं शान्तिं स्वस्त्ययनं दण्डपरिहारं शस्त्रपरिहारं विषदूषणं विषनाशनं सीमाबन्धं धरणीबन्धं च कुर्वन्तु, जीवतु वर्षशतं पश्यतु शरदाशतं । एभिश्च मन्त्रपदैरप्रतिहतैः रक्षां कुर्वन्तु स्वातेर्भिक्षोर्मम सर्वसत्वानां च । तद्यथा । हिरि हिरि, खिरि खिरि, मिलि मिलि, सिलि सिलि, हिलि हिलि, मिलि मिलि सिलि सिलि, डफु डफु डडफु, ग्रसनि मथनि दहनि घातनि, पचनि पाचनि, हननि दाहनि, दल दल दालनि पाटनि मोहनि स्त स्तनी जम्भनीये स्वाहा । उद्गृह्ण त्वमानन्द महाविषाणां नामानि । तद्यथा । अण्डरा, पण्डरा, करडा, केयूरा, भूतांगमा, भूतपति, विन्दुपति, शिरिपति, तेजपति, तेजोग्रपति, यशोपति, अरडा, तरडा, तरदा, तरतरडा, दुत्तरा, दन्ताजुहा, जुहा, जोहा, जोला, मेला, फुरा, गुहा, रुचिरा, दन्तुरा, इलिकिचिका, किरिकिरिका, काम्वा, शतन्तुरा, विकुलि, किरिमि, तरङ्गा, रिष्टा, आम्रवति, जम्बुमति, मनुमति, कमले, विमले, कुण्डले, अहितुहि, दुहि, वक्वे, वक्वदूते, वत्समाते, महागारे, तुलम्वे सुलम्वे स्वाहा । इत्येते आनन्द महाविषास्तेऽप्यनया महामायूर्या विद्याराज्ञ्या स्वातेर्भिक्षोर्(म्म्व्र्तकु ५६) मम सर्वसत्वानां च रक्षां कुर्वन्तु, गुप्तिं परित्राणं परिग्रहं परिपालनं शान्तिं स्वस्त्ययनं दण्डपरिहारं शस्त्रपरिहारं विषदूषणं विषनाशनं सीमाबन्धं धरणीबन्धं च कुर्वन्तु, जीवतु वर्षशतं पश्यतु शरदाशतं । उद्गृह्ण त्वमानन्द महावृक्षाणां नामानि । तद्यथा । काञ्चनो नाम महावृक्षः, पिप्पलो नाम महावृक्षः, अश्वत्थानो नाम महावृक्षः, कपित्थानो नाम महावृक्षः, उदुम्बलो नाम महावृक्षः, कपीतुको नाम महावृक्षः, शालो नाम महावृक्षः, कर्णिकारो नाम महावृक्षः, तिनिशो नाम महावृक्षः, बिल्वो नाम महावृक्षः, चूतो नाम महावृक्षः, निचूतो नाम महावृक्षः । इत्येते चान्ये च महावृक्षाः तेष्वपि च देवताः प्रतिवसन्ति । ताऽप्यनया महामायूर्या विद्याराज्ञ्या स्वातेर्भिक्षोर्मम सर्वसत्वानां च रक्षां कुर्वन्तु, गुप्तिं परित्राणं परिग्रहं परिपालनं शान्तिं स्वस्त्ययनं दण्डपरिहारं शस्त्रपरिहारं विषदूषणं विषनाशनं सीमाबन्धं धरणीबन्धं च कुर्वन्तु, जीवतु वर्षशतं पश्यतु शरदाशतं । इयं चानन्द महामायूरी विद्याराज्ञी सप्तभिः सम्यक्संबुद्धैर्भाषिता चाभ्यनुमोदिता च । तद्यथा । विपश्यिना सम्यक्संबुद्धेन भाषिता चाभ्यनुमोदिता च, शिखिना सम्यक्संबुद्धेन भाषिता चाभ्यनुमोदिता च, विश्वभुवा सम्यक्संबुद्धेन भाषिता चाभ्यनुमोदिता च, क्रकुच्छन्देन सम्यक्संबुद्धेन भाषिता चाभ्यनुमोदिता च, कनकमुनिना सम्यक्संबुद्धेन भाषिता चाभ्यनुमोदिता च, काश्यपेन सम्यक्संबुद्धेन भाषिता चाभ्यनुमोदिता च, मया चैतर्हि शाक्यमुनिना सम्यक्संबुद्धेन भाषिता चाभ्यनुमोदिता च । इयं चानन्द महामायूरी विद्याराज्ञी मैत्रेयेन बोधिसत्वेन महासत्वेन भाषिता चाभ्यनुमोदिता (म्म्व्र्तकु ५७) च । ब्रह्मणा सहापतिना भाषिता चाभ्यनुमोदिता च । शक्रेण देवानामिन्द्रेण चतुर्भिश्च महाराजैर्धृतरष्ट्रेण गन्धर्वराजेन विरूढकेन कुम्भाण्डराजेन विरूपाक्षेण नागराजेन वैश्रवणेन यक्षराजेन भाषिता चाभ्यनुमोदिता च । अष्टाविंशतिभिश्च गन्धर्वसेनापतिभिः, अष्टाविंशतिभिश्च कुम्भाण्डसेनापतिः, अष्टाविंशतिभिश्च नागसेनापतिभिः, अष्टाविंशतिभिश्च यक्षसेनापतिभिः, पाञ्चिकेन च यक्षसेनापतिना, हारित्या च पञ्चपुत्रशतपरिवारया भाषिता चाभ्यनुमोदिता च । इयं चानन्द महामायूरी विद्याराज्ञी अनतिक्रमणीया देवग्रहेण नागग्रहेण असुरग्रहेण मरुतग्रहेण गरुडग्रहेण गन्धर्वग्रहेण किन्नरग्रहेण <महोरगग्रहेण> यक्षग्रहेण राक्षसग्रहेण प्रेतग्रहेण पिशाचग्रहेण भूतग्रहेण कुम्भाण्डग्रहेण पूतनग्रहेण कटपूतनग्रहेण स्कन्दग्रहेण उन्मादग्रहेण छायाग्रहेण अपस्मारग्रहेण ओस्तारकग्रहेण । अनतिक्रमणीया सर्वग्रहैः, अनतिक्रमणीया सर्वोजाहारिणीभिः, गर्भाहारिण्या वसाहारिण्या मांसाहारिण्या मेदाहारिण्या मज्जाहारिण्या जीविताहारिण्या बल्याहारिण्या माल्याहारिण्या रुधिराहारिण्या जाताहारिण्या गन्धाहारिण्या पुष्पाहारिण्या धूपाहारिण्या फलाहारिण्या सस्याहारिण्या आहुत्याहारिण्या पूयाहारिण्या विष्टाहारिण्या मूत्राहारिण्या खेटाहारिण्या श्लेष्माहारिण्या सिंहानकाहारिण्या उत्सिष्टाहारिण्या वान्ताहारिण्या विरिक्ताहारिण्या अशुच्याहारिण्या स्यन्दिकाहारिण्या । अनतिक्रमणीया कृत्याकर्मणकाखोर्दकिरणवेताडचिच्चप्रेषकदुर्भुक्तदुश्छर्दितदुश्छायादुःप्रेक्षितदुर्लिखितदुर्लंघितावधूतैः । अनतिक्रमणीया (म्म्व्र्तकु ५८) ज्वरेण एकाहिकेन द्वैतीयकेन त्रैतीयकेन चातुर्थकेन सप्ताहिकेनार्धमासिकेन मासिकेन द्वैमासिकेन मौहूर्तिकेन नित्यज्वरेण विषमज्वरेण भूतज्वरेण मानुषज्वरेण अमानुषज्वरेण वातिकेन पैत्तिकेन श्लेष्मिकेन सान्निपातिकेन । अनतिक्रमणीया सर्वज्वरैः । अनतिक्रमणीया शिरोर्त्त्या अर्धावभेदकेनारोचकेनाक्षिरोगेन नासारोगेन मुखरोगेन कण्ठरोगेन कर्णरोगेन हृदयरोगेन गलग्रहेन कर्णशूलेन दन्तशूलेन हृदयशूलेन पार्श्वशूलेन पृष्ठशूलेन उदरशूलेन गण्डशूलेन वस्तिशूलेन योनिशूलेन प्रजनशूलेन जंघाशूलेन ऊरुशूलेन हस्तशूलेन पादशूलेन अङ्गप्रत्यङ्गशूलेन । अनतिक्रमणीय दद्रूकण्डूकिटिमकुष्ठभगन्दरगण्डपिटकपामावैसर्पलोहलिङ्गैः । अनतिक्रमणीया सर्वव्याधिभिः सर्वदुष्टैः सर्वविषैः सर्वभयैः । अनतिक्रमणीया सर्वकलिकलहविग्रहोपद्रवोपसर्गोपायासैः । यश्चेमामानन्द महामायूरीविद्याराज्ञीमतिक्रमेत्तस्य वज्रपाणिः सप्तधा मूर्धानमर्जकस्येव मञ्जरीं स्फोटयिष्यति । सर्वबुद्धबोधिसत्वप्रत्येकबुद्धश्रावकानां तेजसा नष्ट आलोको नष्टश्चेतसः । आर्यपुद्गलास्तेन विसंवादिता भवेयुः । चत्वारश्चैनं महाराजानः क्षुरपर्यन्तैः शस्त्रैर्महान्तं व्यसनमापादयेयुः । शक्रश्चास्य देवानामिन्द्रस्त्रिदशगणपरिवृतो वज्रेण मूर्धानमभिभिन्द्यात् । ब्रह्मतेजसा चास्य विभूतिर्भस्मं गच्छेत् । अनया चानन्द महामायूरीविद्याराज्ञ्या यस्य रक्षा क्रियते सूत्रं प्रतिसरा चाबध्यते, स बाध्यर्हो ह्यानन्द दण्डेन मोक्षते दण्डार्हः, प्रहारैः प्रहारार्हः, आक्रोशेन आक्रोशार्हः, परिभाषणया परिभाषणार्हः, रोमहर्षेण रोमहर्षणार्हः, एवमेव मोक्षते । न (म्म्व्र्तकु ५९) चास्य राजभयं भविष्यति, न चौरभयं भविष्यति, नाग्निभयं भविष्यति, नोदकेन कालं करिष्यति, न चास्य काये विषं क्रमिष्यति, न शस्त्रं क्रमिष्यति, सुखं चिरं जीविष्यति, स्थापयित्वा आनन्द पौराणां स्वप्नां सुखं च प्रतिविबुधिष्यति, स्वस्थो निरुपद्रवो निरुत्त्रासो निहतप्रत्यर्थिको निहतप्रत्यमित्रो निरुपहतः सर्वविषभयविनिर्मुक्तः, सुखं चिरं जीविष्यति, स्थापयित्वा आनन्द पौराणं कर्मविपाकं । इयं चानन्द महामायूरी विद्याराज्ञी अतिवर्षे अनावृष्टौ चोच्चारयितव्या । ततः सर्वे नागा औत्सुक्यमापद्यन्ते अतिवर्षं ग्रहीष्यति, अनावृष्टौ च धारापातं करिष्यति, यावत्तस्य कुलपुत्रस्य वा कुलदुहितुर्वा अभिप्रायो भविष्यति तावद्देवो वर्षिष्यति । अस्याश्चानन्द महामायूर्या विद्याराज्ञ्याः स्मरणादेव सर्वभयवैरवाणि प्रशमिष्यन्ति । किं पुनरिमां सकलसमस्तामखण्डं धारयिष्यति वाचयिष्यति, स्वस्त्ययनं वा कुर्यात् । उद्गृह्ण त्वमानन्द इमां महामायूरीविद्याराज्ञीं । पर्यवाप्नुहि धारय वाचय महामायूरीविद्याराज्ञीं सर्वभयवैरप्रशमनीं चतसृणां पर्षदां रक्षावरणगुप्तये मे भिक्षूणां भिक्षुणीणामुपासकानामुपासिकानां च । तद्यथा । यावति धावति बलकि कुरु तुलु मे स्वाहा । रक्ष मां सर्वसत्वांश्च स्वाहा । रागो द्वेषश्च मोहश्च एते लोके त्रयो विषाः, निर्विषो भगवान् बुद्धो बुद्धसत्यहतं विषं । रागो द्वेषश्च मोहश्च एते लोके त्रयो विषाः, निर्विषो भगवद्धर्मो धर्मसत्यहतं विषं । रागो द्वेषश्च मोहश्च एते लोके त्रयो विषाः, निर्विषो भगवत्संघो संघसत्यहतं विषं । (म्म्व्र्तकु ६०) यद्यलं सर्वबुद्धानामर्हतां चैव यद्यशः, तथागतस्य तेजेन कृतं स्वस्त्ययनं मया । स्वातिभिक्षोर्मम सर्वसत्वानां च हतं विषम्, महामायूरी विद्याराज्ञी स्वातेर्भिक्षोर्मम भवतु । साधु भगवन्नित्यायुष्मानानन्दो भगवतः पादौ शिरसा वन्दित्वा भगवन्तं त्रिःप्रदक्षिणीकृत्य येन स्वातिर्भिक्षुस्तेनोपसंक्रम्य स्वातेर्भिक्षोरनया महामायूर्या विद्याराज्ञ्या रक्षामकार्षीत् । गुप्तिं परित्राणं परिग्रहं परिपालनं शान्तिं स्वस्त्ययनं दण्डपरिहारं शस्त्रपरिहारं विषदूषणं विषनाशनं सीमाबन्धं धरणीबन्धं चाकार्षीत्, व्युत्थितश्चायुष्मान् स्वातिर्भिक्षुस्तस्मादाबाधादायुष्मता आनन्देन रक्षास्वस्त्ययने कृते । अथायुष्मानानन्द आयुष्मांश्च स्वातिर्भिक्षुर्येन भगवांस्तेनोपसंक्रान्तौ, उपसंक्रम्य भगवतः पादौ शिरसाभिवन्द्य भगवतः सर्वं यथा वृत्तान्तं निवेद्य भगवतानुज्ञतौ चैकान्ते निषण्णौ । अथ भगवानायुष्मन्तमानन्दमुवाच । दृष्टस्ते महामायूर्या विद्याराज्ञाः प्रभाव इति । तथा वादितं भगवन्तमानन्दः प्रणम्योवाच । किमिदं भगवन्न विदितं भविष्यति । भगवान् पुनरुवाच । अप्येवानन्द चत्वारो महासमुद्राः शोषं गच्छेयुः, पृथिवी वा आकाशमुत्पद्येत्, चन्द्रादित्यौ वा पृथिव्यां निपतेतां, नद्यो वा प्रतिश्रोतो गच्छेयुः, न च तथागतस्य वचनमन्यथा भवेदिति । अथ भगवानायुष्मन्तमानन्दमामन्त्रयते स्म । तस्मात्तर्हि त्वमानन्द इमां महामायूरीं विद्याराज्ञीं चतसृणां पर्षदां रक्षावरणगुप्तये भिक्षूणां भिक्षुणीणामुपासकानामुपासिकानां चारोचय । साधु भगवन्नित्यायुष्मानानन्दो भगवतः प्रतिश्रुत्य इमां महामायूरीं विद्याराज्ञीं चतसृणां पर्षदामारोचयति भिक्षूणां भिक्षुणीणामुपासकानामुपासिकानां चेति । (म्म्व्र्तकु ६१) इदमवोचद्भगवान्, आत्तमना आयुष्मानानन्द आयुष्मांश्च स्वातिर्भिक्षुर्, ये च तस्यां पर्षदि सन्निपतिताः सन्निषण्णाः देवनागयक्षगन्धर्वासुरगरुडकिन्नरमहोरगयक्षाराक्षसमनुष्यामनुष्यास्ते च सर्वे भगवतो भाषितमभ्यनन्दन्निति । समाप्ता चेयं भगवत्यार्यमहामायूरी विद्याराज्ञी । अविनष्टा यक्षमुखात्प्रतिलब्धा नवशतिका बुद्धभाषिता । रक्ष मां सर्वसत्वांश्च स्वस्तिश्रेयो भवत्विति । अस्या महामायूर्या विद्याराज्ञ्या अयमुपचारः । अपतितकपिलगोमयेन शुचौ भूमिप्रदेशे गोचर्ममात्रं स्थण्डिलमुपलिप्य समुत्पन्नेन कार्येण येन केनचिद्गोमयेन चतुरश्रं मण्डलकं कर्तव्यं । तत्र च मध्ये बुद्धप्रतिमा पश्चिमाभिमुखा स्थापयितव्या, तस्या वामपार्श्वे महामायूरीपुस्तकलिखिता चित्रकर्मकृता वा स्थापयितव्या, अथ वा त्रयो मयूरचन्द्रिकाः कपिलगोमये निषद्य स्थापयितव्याः, ततः श्वेतार्कपुष्पाणि श्वेतकरवीरबिल्बपत्राणि शिरीषपत्राणि च दत्वा बलिं तिलकृसरतिलोदकं चैव पायसं गुडपूर्णकयावकमधुपूर्णकभक्तां यथा लाभेन दत्वा प्राङ्मुखेन गुग्गुलुधूपं च दत्वा ततो दक्षिणपश्चिमोत्तरमुखेन चतुर्दिशं पूर्वोक्तानां चतुर्दिशानां यक्षाणामग्रहां कुर्वता वक्तव्यं, आगच्छध्वं, पुष्पं धूपं गन्धं बलिं दीपं च प्रतीच्छध्वं, रक्ष मां सर्वसत्वानांश्च । ओं वरदे हूं (म्म्व्र्तकु ६२) हरिणि स्फुट्कारिणि स्वाहा । तत्र गुडपूर्णपायसं च पूर्वायां दिशि स्थापयितव्यं, गन्धर्वाणां स बलिः, तिलकृसरसुरापूर्णकं च दक्षिणायां दिशि स्थापयितव्यं, कुम्भाण्डानां स बलिः । क्षीरपूर्णकं पायसं च पश्चिमायां दिशि स्थापयितव्यं, नागसुपर्णीनां स बलिः । सिंधुपूर्णकं दधिभक्तमुत्तरस्यां दिशि स्थापयितव्यं, यक्षाणां स बलिः । आर्यमहामायूरी नाम महाविद्याराज्ञी समाप्ता इति । ये धर्मा हेतुप्रभवा हेतुं तेषां तथागतो ह्यवदत्, तेषां च यो निरोध एवंवादी महाश्रमणः ।