महामन्त्रानुसारिणी ०.१. ओं नमो भगवत्यै आर्यमहामन्त्रानुसारिण्यै । नमो विद्याराजाय । नमः समन्तबुद्धानाम् ॥ १.१.अ. एवं मया श्रुतमेकस्मिन् समये भगवान् राजगृहे विहरति स्म । वेणुवने करन्दकनिवापे । १.१.ब्. एवं मया श्रुतमेकस्मिन् समये भगवान् वैशाल्य्ं विहरति स्म । मर्कटह्रदतीरेकू टागारशालायं १.२. तत्र भगवानायुष्मन्तमानन्दमामन्त्रयते स्म । आगमयानन्द येन वैशालीति । एवं भदन्ते त्यायुष्मानानन्दो भगवतः प्रत्यश्रौषीत् । अथ भगवान् वृजिषु जनपदेषु जनपदचारिकाञ्चरन् वैशालीमनुप्राप्तो वैशाल्यां विहरत्याम्रपालीवने । १.३. तत्र भगवानायुष्मन्तमानन्दमामन्त्रयते स्म । गच्छानन्द वैशालीं गत्वा इन्द्रकीले पादं स्थापयित्वा इमानि महामन्त्रानुसारिणी मन्त्रपदानि भाषस्व । इमाश्च गाथाः । २.१. विसरत विसरत विसरत विसरत विसरत । २.२. बुद्धो लोकानुकम्पक आज्ञापयति । सर्वबुद्धानुमतेन । सर्वप्रत्येकबुद्धानुमतेन । सर्वार्हदानुमतेन (अfघ्: सर्वभूतानुमतेन) सर्वशैक्षानुमतेन । सर्वश्रावकानुमतेन । सर्वसत्यवाक्यानुमतेन । प्रत्येकब्रह्मानुमतेन । ब्रह्मानुमतेन । कामेश्वरानुमतेन । इन्द्रानुमतेन । देवानुमतेन । असुरेन्द्रानुमतेन । सर्वासुरानुमतेन । असुरप्रेष्यानुमतेन । सर्वभूतानुमतेन । २.३. विसरत विसरत विसरत विसरत विसरत । २.४. बुद्धो लोकानुकम्पक आज्ञापयति । मूम्चत मूम्चत मूम्चत मूम्चत । मा तिष्ठन्तु । ईतिर्व्युपशाम्यतु । निर्गच्छत निर्गच्छत निर्गच्छत । २.५. बुद्धः प्रविशति महादेवो देवातिदेवो देवगुरुः सेन्द्रकाश्च देवाः सब्रह्मकाः सप्रजापतिकाश्चत्वारश्च लोकपालाः प्रविशन्ति अनेकानि च देवतासहस्राण्यसुरेन्द्राश्च । अनेकानि च असुरसहस्राणि प्रतिवसन्ति । बहूनि च भूतसहस्राणि भगवतोऽभिप्रसन्नानि प्रवेक्ष्यन्ति सर्वसत्वानामर्थे । २.६. ते वो मानर्थं करिष्यन्ति । निर्गच्छत निर्गच्छत निर्गच्छत निर्गच्छत । क्षिप्तं पलायत । यदि यूयं दुष्टचित्ता न पलायेत नश्येत । ये मैत्रचित्ता नापराधुकामा रक्षां चानुवर्तयितुकामास्ते तिष्ठन्तु मतं च प्रविशन्तु । २.७. बुद्धो लोकानुकम्पक एवमाज्ञापयति । २.८. सुमुरु ४ सुरु ४ हुरु ४ मु ४ प्रविशति । मुरु ८ मिरि ६ मुरु मिरि १३ मुरु मिरीति ६ रि ६ री ६ मिरि ६ तिरि हस मिरि ति मिरी रि मिरि कर्ता करं कर्ता कंकरा करकचा । कंकरा ८ कंकरो चंकरिति कुरीशे । कंकरि ३ षेति । रि ६ रेफसारि । फुरि ७ फरा अनाथानाथा सिरि थि फुरि रुरि प्रास्तुरि अनाथानाथा निर्गच्छत रिपूं निर्गच्छत यदि यूयं दुष्टचित्ता न पलायेत नश्येत २.९. बुद्धो लोकानुकम्पक एवमाज्ञापयति । प्रविशति सर्वसत्वहिताध्याशयो मैत्रीविहारी कारुणिको मुदिताविहारी उपेक्षाविहारी । २.१०. एते मन्त्रपदाः सिद्धाः सिद्धगाथा जिनोदिताः । सर्वेषां देवतानां हि भूतानां च हितैषिणाम् ॥ ज्ञानेनाथोत्तमेनाद्य तथा धर्मतयापि च । जगतामीतयः सर्वाः शाम्यन्त्वारोग्यमस्तु वः ॥ ३.१. विशक्तिका यस्य तृष्णा विध्वस्ता विरलीकृताः । शान्तचित्तो ह्यनायासः स वः स्वस्ति करिष्यति ॥ च्द्fघ्: थ्रोउघोउत्: सर्वः स्वस्ति ३.२. यो जगन्मोक्षमार्गस्मिन्निवेशयति नायकः । देशकः सर्वधर्माणां स वः स्वस्ति करिष्यति ॥ ३.३. गतिर्यो जगतां शास्ता कृतं येन सुखी बहुः । अर्थाय सर्वसत्वानां स वः स्वस्ति करिष्यति ॥ ३.४. येन सर्वजगच्चैतन्मैत्रचित्तेन तायिना । पालितं पुत्रवन्नित्यं स वः स्वस्ति करिष्यति ॥ ३.५. गतिर्यः सर्वसत्वानां त्राणं द्वीपः परायणम् । संसारे वर्तमानानां स वः स्वस्ति करिष्यति ॥ ३.६. यः साक्षात्सर्वधर्माणामविसंवादकः शुचिः । शुचिवाक्यः शुचिकरः स वः स्वस्ति करिष्यति ॥ ३.७. यस्मिञ्जाते महावीरे समृद्धाः सर्वसम्पदः । सिद्धार्थः सिद्धसंभारः स वः स्वस्ति करिष्यति ॥ ३.८. यस्मिञ्जाते वसुमती सवनेयं प्रकंपिताः । सर्वे सत्वाः प्रमुदिताः स वः स्वस्ति करिष्यति ॥ ३.९. षड्विकारं प्रचलिता यस्य बोधौ वसुंधराः । मारश्च दुर्मना आसीत्स वः स्वस्ति करिष्यति ॥ ३.१०. यश आसीन्मुनेर्यस्य धर्मचक्रे प्रवर्तिते । आर्यसत्यानि वदतः स वः स्वस्ति करिष्यति ॥ ३.११. येन तीर्थकराः सर्वे जिता धर्मेण तायिना । वशीकृताः सर्वगणाः स वः स्वस्ति करिष्यति ॥ ३.१२. स्वस्ति वः कुरुतां बुद्धः स्वस्ति देवाः सशक्रकाः । स्वस्ति सर्वाणि भूतानि सर्वकालं दिशन्तु वः ॥ ३.१३. बुद्धपुण्यानुभावेन देवतानां मतेन च । यो योऽर्थः समभिप्रेतः सर्वार्थोद्य समृद्ध्यताम् । ३.१४. स्वस्ति वो द्विपदे भोन्तु स्वस्ति वोऽस्तु चतुष्पदे । स्वस्ति वो व्रजतां मार्गे स्वस्ति प्रत्यागतेषु च ॥ ३.१५. स्वस्ति रात्रौ स्वस्ति दिवा स्वस्ति मध्यंदिने स्थिते । सर्वत्र स्वस्ति वो भोन्तु मा चैषां पापमागमत् ॥ ३.१६. सर्वे सत्वाः सर्वे प्राणाः सर्वे भूताश्च केवलाः । सर्वे वै सुखिनः सन्तु सर्वे सन्तु निरामयाः । सर्वे भद्राणि पश्यन्तु मा कश्चित्पापमागमत् ॥ ३.१७. यानीह भूतानि समागतानि स्थितानि भूमावथवान्तरीक्षे । कुर्वन्तु मैत्रीं सततं प्रजासु दिवा च रात्रौ च चरन्तु धर्मम् ॥ ४. इत्येवं भदन्तेत्यायुष्मानानन्दो भगवतः प्रतिश्रुत्य इन्द्रकीले पादं स्थापयित्वा इमानि महामन्त्रानुसारिणीमन्त्रपदानि भाषते स्म । इमाश्च गाथाः । ५.१. विसरत विसरत विसरत विसरत विसरत । ५.२. बुद्धो लोकानुकम्पक आज्ञापयति । सर्वबुद्धानुमतेन । सर्वप्रत्येकबुद्धानुमतेन । सर्वार्हदानुमतेन । सर्वशैक्षानुमतेन । सर्वश्रावकानुमतेन । सर्वसत्यवाक्यानुमतेन । प्रत्येकब्रह्मानुमतेन । ब्रह्मानुमतेन । कामेश्वरानुमतेन । इन्द्रानुमतेन । देवानुमतेन । असुरेन्द्रानुमतेन । सर्वासुरानुमतेन । असुरप्रेष्यानुमतेन । सर्वभूतानुमतेन । ५.३. विसरत विसरत विसरत विसरत विसरत । ५.४. बुद्धो लोकानुकम्पक आज्ञापयति । मूम्चत मूम्चत मूम्चत मूम्चत । मा तिष्ठन्तु । ईतिर्व्युपशाम्यतु । निर्गच्छत निर्गच्छत निर्गच्छत निर्गच्छत । ५.५. बुद्धः प्रविशति महादेवो देवातिदेवो देवगुरुः सेन्द्रकाश्च देवाः सब्रह्मकाः सप्रजापतिकाश्चत्वारश्च लोकपालाः प्रविशन्ति । अनेकानि च देवतासहस्राणि असुरेन्द्राश्च । अनेकानि चासुरसहस्राणि प्रविशन्ति । बहूनि च भूतसहस्राणि भगवतोऽभिप्रसन्नानि प्रवेक्ष्यन्ति सर्वसत्वानामर्थे । ५.६. ते वो मानर्थं करिष्यन्ति । निर्गच्छत निर्गच्छत निर्गच्छत निर्गच्छत । क्षिप्रं पलायत । यदि यूयं दुष्टचित्ता न पलायेत नश्येत । ये मैत्रचित्ता न चापराधुकामा रक्षां चानुवर्तयितुकामास्ते तिष्ठन्तु मतं च प्रविशन्तु । ५.७. बुद्धो लोकानुकम्प एवमाज्ञापयति । ५.८ सुमुरु ४ सुरु ४ हुरु ४ मु ४ प्रविशति । मुरु ८ मिरि ६ मुरु मिरि १३ मुरु मिरीति ६ रि ६ री ६ मिरि ६ तिरि हस मिरि ति मिरी रि मिरि कर्ता करं कर्ता कंकरा करकचा । कंकरा ८ कंकरो चंकरिति कुरीशे । कंकरि ३ षेति । रि ६ रेफसारि । फुरि ७ फरा अनाथानाथा सिरि थि फुरि रुरि प्रास्तुरि अनाथानाथा निर्गच्छत रिपूं निर्गच्छत यदि यूयं दुष्टचित्ता न पलायेत नश्येत ५.९. बुद्धो लोकानुकम्पक एवमाज्ञापयति । प्रविशति सर्वसत्वहिताध्याशयो मैत्रीविहारी कारुणिको मुदिताविहारी उपेक्षाविहारी । ५.१०. एते मन्त्रपदाः सिद्धाह्सिद्धगाथा जिनोदिताः । सर्वेषां देवतानां हि भूतानां च हितैषिणाम् ॥ ज्ञानेनाथोत्तमेनाद्य तथा धर्मतयापि च । जगतामीतयः सर्वाः शाम्यत्वारोग्यमस्तु वः ॥ ६.१. विशक्तिका यस्य तृष्णा विध्वस्ता विरलीकृताः । शान्तचित्तो ह्यनायासः स वः स्वस्ति करिष्यति ॥ ६.२. यो जगन्मोक्षमार्गस्मिन्निवेशयति नायकः । देशकः सर्वधर्माणां स वः स्वस्ति करिष्यति ॥ ६.३. गतिर्यो जगतां शास्ता कृतं येन सुखी बहु । अर्थाय सर्वसत्वानां स वः स्वस्ति करिष्यति ॥ ६.४. येन सर्व जगच्चैतन्मैत्रचित्तेन तायिना । पालितं पुत्रवन्नित्यं स वः स्वस्ति करिष्यति ॥ ६.५. गतिर्यः सर्वसत्वानां त्राणं द्वीपः परायणम् । संसारे वर्त्तमानानां स वः स्वस्ति करिष्यति ॥ ६.६. यः साक्षात्सर्वधर्माणामविसंवादकः शुचिः । शुचिवाक्यः शुचिकरः स वः स्वस्ति करिष्यति ॥ ६.७. यस्मिञ्जाते महावीरे समृद्धाः सर्वसम्पदः । सिद्धार्थः सिद्धसंभार स वः स्वस्ति करिष्यति ॥ ६.८. यस्मिन् जाते वसुमती सवनेयं प्रकम्पिता । सर्वे सत्वाः प्रमुदिताः स वः स्वस्ति करिष्यति ॥ ६.९. षड्विकारं प्रचलिता यस्य बोधौ वसुन्धरा । मारश्च दुर्मना आसीत्स वः स्वस्ति करिष्यति ॥ ६.१०. यश आसीन्मुनेर्यस्य धर्मचक्रे प्रवर्तिते । आर्यसत्यानि वदतः स वः स्वस्ति करिष्यति ॥ ६.११. येन तीर्थकराः सर्वे जिता धर्मेण तायिना । वशीकृताः सर्वगणाः स वः स्वस्ति करिष्यति ॥ ६.१२. स्वस्ति वः कुरुतां बुद्धः स्वस्ति देवाः सशक्रकाः । स्वस्ति सर्वाणि भूतानि सर्वकालं दिशन्तु वः ॥ ६.१३. बुद्धपुण्यानुभावेन देवतानां मतेन च । यो योऽर्थः समभिप्रेतः सर्वार्थोद्य समृद्ध्यताम् । ६.१४. स्वस्ति वो द्विपदे भोन्तु स्वस्ति वोऽस्तु चतुष्पदे । स्वस्ति वो व्रजतां मार्गे स्वस्ति प्रत्यागतेषु च ॥ ६.१५. स्वस्ति रात्रौ स्वस्ति दिवा स्वस्ति मध्यंदिने स्थिते । सर्वत्र स्वस्ति वो भोन्तु मा चैषां पापमागमत् ॥ ३.१६. सर्वे सत्वाः सर्वे प्राणाः सर्वे भूताश्च केवलाः । सर्वे वै सुखिनः सन्तु सर्वे सन्तु निरामयाः । सर्वे भद्राणि पश्यन्तु मा कश्चित्पापमागमत् ॥ ३.१७. यानीह भूतानि समागतानि स्थितानि भूमावथवान्तरीक्षे । कुर्वन्तु मैत्रीं सततं प्रजासु दिवा च रात्रौ च चरन्तु धर्मम् ॥ ७.१. इति तत्र बुद्धानां बुद्धानुभावेन देवतानां देवतानुभावेन महतीतिर्व्युपशान्ते ति । ७.२. इदमवोचद्भगवानात्तमनास्ते च भिक्षवस्ते च बोधिसत्वा सा च सर्वावती पर्षत्सदेवमानुषासुरगन्धर्वश्च लोको भगवतो भाषितमभ्यनन्दन्निति । ८. (अ) आर्यमहारक्षामन्त्रानुसारिणीनाममहायानसूत्रं समाप्तमिति । (ब्) आर्यमहारक्षामन्त्रानुसारिणी समप्ता । (च्) इति मन्त्रानुसारीनीपरीसमाप्त । (ए) आर्यमहामन्त्रानुसारिणीमहाविद्यारज्ञी समाप्त ति । (f) आर्यमहारक्षामहामन्त्रानुसारणीनाममहायानसूत्रं रक्षाकल्पं समाप्तः ९. (अ) शुभमस्तु सर्वजगताम् । (ब्) ये धर्मा हेतुप्रभवा हेतुस्तेषां तथागतः । ह्यवदत्तेषां यो निरोध एवंवादी महाश्रमणः । शुभम् ।