(१) करुणापुण्डरीक-सूत्रम् धर्म-चक्र-प्रवर्तनो नाम प्रथमः परिवर्तः ओं नमः श्रीसर्वबुद्धबोधिसत्त्वेभ्यः ॥ बुद्धं प्रणम्य सर्वज्ञं धर्मं सङ्घं गुणाकरम् । करुणापुण्डरीकाख्यं प्रवक्ष्ये बोधिसूत्रकम् ॥ एवं मया श्रुतम् । एकस्मिन् समये भगवान् राजगृहे विहरति स्म गृध्रकूटे पर्वते महता भिक्षुसङ्घेन सार्धं द्वादशभिर्भिक्षुशतैः सर्वैरर्हद्भिः क्षीणास्रवैर्निःक्लेशैर्वशीभूतैः सुविमुक्तचित्तैः सुविमुक्तप्रज्ञैराजानेयैर्महानागैः कृतकृत्यैः कृतकरणीयैरपहृतभारैरनुप्राप्तस्वकार्थैः परिक्षीणभवसंयोजनैः सम्यगाज्ञासुविमुक्तचित्तैः सर्वचेतोवशिपरमपारमिताप्राप्तैरभिज्ञानाभिज्ञातैर्महाश्रावकैः । (२) तद्यथा, आयुष्मता चाज्ञातकौण्डिन्येन आयुष्मता चास्वजिता आयुष्मता च बाष्पेण आयुष्मता च महास्थाम्ना आयुष्मता च भद्रिकेण आयुष्मता च महाकाश्यपेन आयुष्मता चोरुविल्वाकाश्यपेन आयुष्मता च गयाकाश्येपेन आयुष्मता च शारिपुत्रेण आयुष्मता च महामौद्गल्यायनेन आयुष्मता च महाकात्यायनेन आयुष्मता चानिरुद्धेन आयुष्मता च रेवतेन आयुष्मता च कंफिल्लेन आयुष्मता च गवांपतिना आयुष्मता च पिलिन्दवत्सेन आयुष्मता च बकुलेन आयुष्मता च महाकौष्ठिलेन आयुष्मता च भरद्वाजेन आयुष्मता च महानन्देन आयुष्मता चोपनन्देन आयुष्मता च सुन्दरनन्देन आयुष्मता च पूर्णेन आयुष्मता च सुभूतिना आयुष्मता च राहुलेन । एवं प्रमुखैश्चानेकैर्महाश्राकैरायुष्मता चानन्देन शैक्षेण, अन्याभ्यां भिक्षुसहस्राभ्यां शैक्षाशैक्षाभ्याम् । महाप्रजापतीप्रमुखैश्च षड्भिक्षुणीसहस्रैः, यशोधरया च भिक्षुण्या राहुलमात्रा सपरिवारया । अशीतिभिश्च बोधिसत्त्वसहस्रैः सर्वैरवैवर्तिकैरेकजातिप्रतिबद्धैर्यदुतानुत्तरायां सम्यक्संबोद्धौ धारणीप्रतिलब्धैर्महाप्रतिभानप्रतिष्ठितैरवैवर्त्यधर्मचक्रप्रवर्तकैर्बहुबुद्धशतसहस्रपर्युपासितैर् (३) बहुबुद्धशतसहस्रावरोपितकुशलमूलैर्बहुबुद्धशतसहस्रसंस्तुतैर्मैत्रीपरिभावितकायचित्तैस्तथागतज्ञानावतारणकुशलैर्महाप्रज्ञैः प्रज्ञापारमितागतिंगतैर्बहुलोकधातुशतसहस्रविश्रुतैर्बहुप्राणकोटीनियुतशतसहस्रसंपालकैः । तद्यथा, मञ्जुश्रिया च कुमारभूतेन बोधिसत्त्वेन महासत्त्वेन अवलोकितेश्वरेण च महास्थामप्राप्तेन च सर्वार्थनाम्ना च नित्योद्युक्तेन च अनिक्षिप्तधुरेण च रत्नपाणिना च भैषज्यराजेन च भैषज्यसमुद्गतेन च व्यूहराजेन च प्रदानशूरेण च रत्नचन्द्रेण च पूर्णचन्द्रेण च महाविक्रमिणा च अनन्तविक्रमिणा च त्रैलोक्यविक्रमिणा च महाप्रतिभानेन च सततसमिताभियुक्तेन च धरणिंधरेण च अक्षयमतिना च महामतिना च शान्तमतिना च नक्षत्रराजेन च रत्नवैरोचनेन च मैत्रेयेण च बोधिसत्त्वेन महासत्त्वेन सिंहेन च बोधिसत्त्वेन महासत्त्वेन । भद्रपालपूर्वंगमैश्च षोडशभिः सत्पुरुषैः सार्धम् । तद्यथा, भद्रपालेन च रत्नाकरेण च सुसार्थवाहेन च नरदत्तेन च गुहगुप्तेन च वरुणदत्तेन च इन्द्रदत्तेन च उत्तरमतिना च विशेषमतिना च वर्धमानमतिना च अमोघदर्शिना च सुसंप्रस्थितेन च सुविक्रान्तविक्रमिणा (४) च अनुपममतिना च सूर्यगर्भेण च धरणिंधरेण च । एवं प्रमुखैरशीतिभिर्बोधिसत्त्वसहस्रैः सार्धम् । शक्रेण च देवानामिन्द्रेण विंशतिदेवपुत्रसहस्रपरिवारेण । तद्यथा, चन्द्रेण च देवपुत्रेण सूर्येण च समन्तगन्धेन च रत्नप्रभेण च अवभासप्रभेण च । एवं प्रमुखैश्चान्यैर्देवपुत्रैः । चतुर्भिश्च महाराजैः सार्धं सपरिवारैः । ब्रह्मणा च सहापतिना सार्धं द्वादशब्रह्मकायिकासहस्रेण शिखिना च ब्रह्मणा ज्योतिःप्रभेण च ब्रह्मना । एवं प्रमुखैर्द्वादशभिश्च ब्रह्मकायिकदेवपुत्रसहस्रैः । अष्टाभिश्च नागराजैः सार्धं बहुनागकोटीशतसहस्रपरिवारैः । चतुर्भिश्च किन्नरराजैः सार्धं बहुकिन्नरकोटीशतसहस्रपरिवारैः । चतुर्भिश्च गन्धर्वकायिकैर्देवपुत्रैः सार्धं बहुगन्धर्वशतसहस्रपरिवारैः । चतुर्भिश्चासुरेन्द्रैः सार्धं बह्वसुरकोटीशतसहस्रपरिवारैः । चतुर्भिश्च गरुडेन्द्रैः सार्धं बहुगरुडकोटीनियुतशतसहस्रपरिवारैः । राज्ञा चाजातशत्रुणा मागधेन वैदेहीपुत्रेण सार्धं बहुमनुष्यराजसामात्यपौरजानपदपरिवारैः ॥ तेन खलु पुनः समयेन भगवांश्चतसृभिः पर्षद्भिः परिवृतः पुरस्कृतः सत्कृतो गुरुकृतो मानितः (५) पूजितोऽर्चितोऽपचायितः, तदा बोधिसत्त्वविषयसंदर्शनप्रणिधानव्यूहसमाधिविषयधारणीमुखव्यूहं समाधानमुखनिर्देशं चर्यावैशारद्यं नाम धर्मपर्यायं सूत्रान्तं महावैपुल्यं बोधिसत्त्वानुगतं सर्वबुद्धपरिग्रहं भाषितुमारब्धवान्, तदा नानावर्णरश्मयो निश्चरिता यत्प्रभाभिरयं त्रिसाहस्रमहासाहस्रो लोकधातुर्महतावभासेन स्फुटोऽभूत् । तेन चावभासेन लोकान्तरिका अघा अघस्फुटा अन्धकारतमिस्राः, यत्रेमौ चन्द्रसूर्यौ एव महर्द्धिकौ महानुभावौ महेशाख्यौ नाभिपततो न विरोचतस्तत्र ये सत्त्वा उपपन्नास्ते स्वकस्वकमपि बाहुप्रसारितं न पश्यन्ति स्म, तत्रापि तेनावभासेन परिस्फुटाः समाना अन्योन्यं पश्यन्ति स्मान्योन्यं संजानन्ते स्म । सर्वाणि बुद्धक्षेत्राणि च परिस्फुटानि संदृश्यन्ते स्म यावदवीचिर्महानिरयो यावद्ब्रह्मलोकं परिस्फुटं दृश्यते स्म । ये च तेषु सर्वेषु क्षेत्रेषु षट्सु गतिषु सत्त्वास्ते सर्वे संदृश्यन्ते स्म । ये च तेषु बुद्धक्षेत्रेषु बुद्धा भगवन्तस्तिष्ठन्तो ध्रियन्तो यापयन्तो यं धर्मं भाषन्ते स्म स च सर्वो निखिलेन श्रूयते स्म । ये च तेषु बुद्धक्षेत्रेषु भिक्षुभिक्षुण्युपासकोपासिका योगिनो योगाचाराः प्राप्तफलाश्चाप्राप्तफलाश्च तेऽपि (६) सर्वे संदृश्यन्ते स्म । ये च तेषु बुद्धक्षेत्रेषु बोधिसत्त्वा महासत्त्वा अनेकविविधाश्रवणारम्बणाधिमुक्तिहेतुकारणोपायकौशल्यैर्बोधिचर्याचारिणस्तेऽपि सर्वे संदृश्यन्ते स्म । ये च तेषु बुद्धक्षेत्रेषु बुद्धा भगवन्तः परिनिर्वृतास्तेऽपि सर्वे संदृश्यन्ते स्म । ये च तेषु परिनिर्वृतानां बुद्धानां भगवतां रत्नमयधातुस्तूपास्तेऽपि सर्वे संदृश्यन्ते स्म । अन्तरीक्षाच्च पुष्पवर्षमभिप्रावर्षत्, मनोज्ञशब्दा अमारदुन्दुभ्यः प्रसस्वनुः ; सर्वश्चायं त्रिसाहस्रमहासाहस्रो लोकधातुः षड्विकारमष्टादशमहानिमित्तमकम्पत्प्राकम्पत्संप्राकम्पत्, अवेधत्प्रावेधत्संप्रावेधत्, अचलत्प्राचलत्संप्राचलत्, अक्षुभ्यत्प्राक्षुभ्यत्संप्राक्षुभ्यत्, अरणत्प्रारणत्संप्रारणत्, अगर्जत्प्रागर्जत्संप्रागर्जत् । तस्मिन् क्षणे सर्वतो लोकेषु हर्षणीयास्तोषणीयाः प्रसादनीया अवलोकनीयाः प्रह्लादनीया मनोज्ञाः शब्दाः श्रूयन्ते स्म । न च कस्यचित्सत्त्वस्य विहेठा वा त्रासो वा भयं वा स्तम्भितत्वं वा । न चान्यदेवलोकानां प्रभाः प्रज्ञायन्ते । सर्वनरकतिर्यग्योनियमलोकोपपन्नाः सत्त्वा विगतदुःखाः सर्वसुखसमर्पिताश्चाभुवान् । न च कस्यचित्सत्त्वस्य रागो वा द्वेषो वा मोहो वा मात्सर्यो (७) वा ईर्ष्या वा मानो वा म्रक्षो वा मदो वा क्रोधो वा व्यापादो वा परिदाहो वा बाधते । सर्वसत्त्वाश्च परस्परमित्रचित्ता हितचित्ता मातृपितृसंज्ञिनोऽभूवन् ॥ अथ रत्नवैरोचनो नाम बोधिसत्त्वो महासत्त्वस्तं महानिमित्तप्रातिहार्यं दृष्ट्वा सहसोत्थायैकांशमुत्तरासङ्गं कृत्वा दक्षिणजानुमण्डलं पृथिव्यां प्रतिष्ठाप्य येन भगवांस्तेनाञ्जलिं प्रणम्य भगवन्तमेतदवोचत् । "परमाश्चर्याद्भुतप्राप्तोऽहं भगवन्, कुत इमे रश्मय आगताः?, कस्यैष प्रभावः?, को न्वत्र भगवन् हेतुः?, कः प्रत्ययो भविष्यति?" अथ खलु भगवान् रत्नवैरोचनं बोधिसत्त्वं महासत्त्वमेतदवोचत्- "शृणु कुलपुत्र साधु च सुष्ठु च मनसिकुरु भाषिष्येऽहं ते" । "साधु साधु भगवन्" निति रत्नवैरोचनो भगवतः प्रत्यश्रोषीत् । भगवान् रत्नवैरोचनं बोधिसत्त्वं महासत्त्वमेतदवोचत् । "अस्ति कुलपुत्र पूर्वदक्षिणस्यां दिशि, इतो बुद्धक्षेत्रकोटीशतसहस्रगङ्गानदीवालुकासमान् बुद्धक्षेत्रानतिक्रम्य पद्मा नाम लोकधातुर्नानागुणविभूषिता नानापुष्पसमीरिता नानागन्धैश्च स्फुटा रत्नवृक्षैरलङ्कृता रत्नपर्वतैराकीर्णा; नीलवैडूर्यमयी तत्र भूमिर्(८) बोधिसत्त्वैराकीर्णा धर्मशब्देन स्फुटा; सा च पुनर्वैडूर्यमयी भूमिर्मृदुकाचलिन्दिकसुखसंस्पर्श, निक्षिप्ते च चरणे चतुरङ्गुलमवनमति, उत्क्षिप्ते च चरणे चतुरङ्गुलमुन्नमति, नानापद्मैश्चाकीर्णा । तत्र च सप्तरत्नमया वृक्षाः सप्तयोजनान्युच्चत्वेन; तेषु च वृक्षेषु दिव्यकाषायवस्त्राणि प्रलम्बन्ते, दिव्यानि च वाद्यानि मनोज्ञानि संप्रवाद्यन्ते; तेषु च वृक्षेषु नानाशकुन्ता इन्द्रियबलबोध्यङ्गमनोज्ञां शब्दां प्रव्याहरन्ति; तेषां वृक्षाणां पत्राणि परस्परं स्पृश्य दिव्यातिक्रान्तं पञ्चाङ्गिकतूर्यशब्दं निश्चारयन्ति; एकैकस्य च वृक्षस्य दिव्यातिक्रान्तेनोदारेण गन्धेन योजनसहस्रं स्फुरति; तेषु च वृक्षेषु दिव्यान्यलङ्काराण्यभिप्रलम्बन्ते स्म । तेषु च वृक्षान्तरेषु सप्तरत्नमयाः कूटागाराः, पञ्चयोजनशतमुच्चत्वेन सपादशतयोजनं विस्तारेण । तेषु च कूटागारेषु समन्ताच्चतुर्दिशं तोरणाः । तेभ्यश्च तोरणाग्रेभ्यो बहिर्धा कूटागारेभ्यः पुष्करिण्यः, अशीतियोजनानि दीर्घत्वेन पञ्चाशद्योजनानि विस्तारेण । ताभ्यश्च पुष्करिणीभ्यः समन्ताच्चतुर्दिशं सोपानाः सप्तरत्नमयाः । सामन्तकाश्च पुष्करिण्यः सप्तरत्नमयैः पद्मैः पूर्णाः, एकैकं च पद्मं (९) योजनं विस्तारेण । तेभ्यश्च पुष्पकेशरेभ्यो बोधिसत्त्वा महासत्त्वाः प्रजायन्ति; ते रात्र्याः प्रथमे यामे तेषु पद्मकेशरेषुपपद्यन्ते, तां च रात्रिं पर्यङ्केनातिनामयन्ति, विमुक्तिप्रीतिसुखं च प्रतिसंवेदयन्ति । तत्र च रात्र्याः प्रत्यूषकालसमये शीतला वायवः सुगन्धिका मृदुकाः सुखसंस्पर्शचलिताः प्रवायन्ते, ते च संकुचितानि पुष्पाणि रोहयन्ति । ते च बोधिसत्त्वाः समाधितो व्युत्थाय विमुक्तिप्रीतिसुखं प्रतिप्रस्रभ्य पद्मकेशरेष्ववतीर्या, तेषु च कूटागारेषु प्रविश्य सप्तरत्नमयेष्वासनेषु पर्यङ्केण निषण्णा धर्मं शृण्वन्ति स्म । तेषु च वृक्षकूटागारान्तरितेषु च चतुर्दिशं जाम्बुनदमयाः पर्वता, विंशतियोजनान्युच्चत्वेन त्रीणि योजनानि विस्तारेण; तेषु च पर्वतेषु अनेकशतसहस्राणि सूर्यकान्तचन्द्रकान्तेन्द्रनीलज्योतीरसाश्च मणयोऽन्तरान्तरे दृश्यन्ति स्म । पद्मोत्तरस्य बुद्धस्याभा तेषु पर्वतेमणिषु निपत्या तया च बुद्धाभया च मणिप्रभया सर्वा सा पद्मा लोकधातुर्नित्योदारेणावभासेन स्फुटा । न च तत्र चन्द्रसूर्ययोः प्रभा प्रज्ञायते, नान्यत्र यदा पद्माः संकुचन्ति पक्षिणश्चाल्पशब्दा भवन्ति तदा रात्रीति संज्ञा भवति, विपर्ययाद्दिवसम् । तेषां च (१०) पर्वतानामुपरि नीलवैडूर्यमयाः कूटागाराः षष्टियोजनान्युच्चत्वेन विंशतियोजनानि विस्तारेण, तेभ्यश्च कूटागारेभ्यश्चतुर्दिशं सप्तरत्नमयास्तोरणास्तेभ्यः कूटागारेभ्यश्च सप्तरत्नमयाः पर्यङ्का यत्रैकजातिप्रतिबद्धा बोधिसत्त्वा धर्मं शृण्वन्ति । पद्मायां कुलपुत्र लोकधातौ इन्द्रो नाम बोधिवृक्षस्त्रीणि योजनसहस्राण्युद्वेधेन पञ्चयोजनशतानि विस्तारेण, योजनसहस्रं शाखापत्रपलाशं सुसंस्थितम् । तस्य च बोधिवृक्षस्य मूले पद्मो रौप्यमयो नालः पञ्चयोजनशतान्युद्वेधेन, तस्य कोटीशतसहस्रसुवर्णमयानि पत्राणि पञ्चदशयोजनान्युद्वेधेन । सर्वेषु च केशरेष्वश्मगर्भमयानि किञ्जल्कानि, सप्तरत्नमयाः केशरा दशयोजनान्युद्वेधेन सप्तयोजनानि विस्तारेण । तत्राद्यरात्रौ पद्मोत्तरेण तथागतेनार्हता सम्यक्संबुद्धेनानुत्तरा सम्यक्संबोधिरभिसंबुद्धा, तस्य बुद्धासनपद्मस्य समन्ततः पद्मा यत्र बोधिसत्त्वा निषण्णाः पद्मोत्तरस्य तथागतस्यार्हतः सम्यक्संबुद्धस्य प्रातिहार्याणि पश्यन्ति स्म" । एवमुक्ते, रत्नवैरोचनो बोधिसत्त्वो भगवन्तमेतदवोचत्- "कियद्रूपाणि भगवान् पद्मोत्तरस्तथागतो (११) महाप्रातिहार्याणि कृतवान्?" । एवमुक्ते, भगवान् रत्नवैरोचनं बोधिसत्त्वमेतदवोचत्- "अद्यरात्र्याः पश्चिमे यामे पद्मोत्तरेण तथागतेनार्हता सम्यक्संबुद्धेनानुत्तरा सम्यक्संबोधिरभिसंबुद्धा, रात्र्याः प्रत्युशकालसमये तद्रुपमृद्ध्यभिसंस्कारमभिसंस्कृतवान्, यावद्ब्रह्मलोकमात्मानमभिनिर्माय उष्णीषमूर्ध्नः षष्टिरश्मिकोटीनयुतशतसहस्राणि प्रमुच्यते, रश्मिभिरूर्ध्वाया दिशो बुद्धक्षेत्रपरमाणुरजःसमान् लोकधातूनवभासयति । ये पुनस्तस्मिन् समये ऊर्ध्वायां दिशि स्थिता बोधिसत्त्वा अधोदिशमवलोकयन्ति, तेषां न सुमेरुरवभासमागच्छति, न चक्रवाडमहाचक्रवाडा न कालपर्वताः । ये च बोधिसत्त्वास्तेभ्यो लोकधातुभ्यो व्याकृता ये समाधिप्रतिलब्धा ये धारणीप्रतिलब्धा ये क्षान्तिप्रतिलब्धा ये च भूम्यतिक्रान्ता ये चैकजातिप्रतिबद्धा बोधिसत्त्वा महासत्त्वास्तेऽपि तेनावभासेन स्फुटा, अञ्जलिं प्रगृह्य पद्मोत्तरस्य तथागतस्यात्मभावं व्यवलोकयित्वा द्वात्रिंशद्भिर्महापुरुषलक्षणैः समलङ्कृतगात्रमशीतिभिश्चानुव्यञ्जनैर्दृष्ट्वा च तां बोधिसत्त्वपर्षदं पद्मां च लोकधातुं बुद्धक्षेत्रगुणव्यूहांश्च दृष्ट्वा परमप्रीतिसौमनस्यजातास्ते (१२) च बोधिसत्त्वा महासत्त्वा बुद्धक्षेत्रपरमाणुरजःसमेभ्यो लोकधातुभ्यो गणनासमतिक्रान्ता बोधिसत्त्वास्तांस्तां लोकधातूनपहाय ऋद्धिबलेन पद्मां लोकधातुमनुप्राप्ताः पद्मोत्तरस्य तथागतस्यार्हतः सम्यक्संबुद्धस्य पूजनाय वन्दनाय पर्युपासनाय । स च कुलपुत्र पद्मोत्तरस्तथागतो जिह्वेन्द्रियं मुखान्निर्नामयित्वा सर्वावतीमिमां चातुर्द्वीपिकां लोकधातुं निषण्णाः स्थिताश्चङ्क्रमन्तो जिह्वेन्द्रियेण परिच्छादितवान् । ये चात्र बोधिसत्त्वाः समापन्नास्ते समाधिभ्यो व्युत्थाय सर्वावती सा पर्षत्पद्मोत्तरस्य तथागतस्य पूजाकर्मणे उद्युक्ता । अथ कुलपुत्र पद्मोत्तरस्तथागतो जिह्वेन्द्रियमृद्ध्यभिसंस्कारेण प्रतिप्रस्रम्भयित्वा, पुनरपरं पद्मोत्तरस्तथागतः सर्वावन्तात्कायात्सर्वरोमकूपेभ्य एकैकस्माद्रोमकूपविवरात्षष्टिरश्मिकोटीनयुतशतसहस्राणि निश्चारयित्वा दशसु दिक्ष्वेकैकस्यां दिशि बुद्धक्षेत्रपरमाणुरजःसमां लोकधातूनुदारेणावभासेन स्फुरित्वा, बोधिसत्त्वा महासत्त्वास्तेभ्यो लोकधातुभ्यो व्याकृता ये समाधिप्रतिलब्धा इति तेऽपि बोधिसत्त्वा महासत्त्वाः स्वकस्वकबुद्धक्षेत्राभया ऋद्धिबलेन पद्मां लोकधातुं संप्राप्ताः पद्मोत्तरस्य (१३) तथागतस्यार्हतः सम्यक्संबुद्धस्य दर्शनाय वन्दनाय पूजनाय पर्युपासनाय । अथ खलु कुलपुत्र पद्मोत्तरस्तथाग