अवलोकितेश्वरगुण-कारण्डव्यूहः । ओं नमो रत्नत्रयाय ॥ श्रीआर्यावलोकितेश्वराय बोधिसत्त्वाय महासत्त्वाय महाकारुणिकाय ॥ _________________________________________________________________ १,१: १. जेतवनविहारवर्णनं प्रथमं प्रकरणम् । एवं मया श्रुतम् । एकस्मिन् समये भगवान् श्रावस्त्यां विहरति स्म जेतवनेऽनाथपिण्डदस्यारामे महता भिक्षुसंघेन सार्धमर्धत्रयोदशभिर्भिक्षुशतैः संबहुलैश्च बोधिसत्त्वशतसहस्रैः । तद्यथा - वज्रपाणिना च बोधिसत्त्वेन महासत्त्वेन । ज्ञानर्दशनेन च बोधिसत्त्वेन महासत्त्वेन । वज्रसेनेन च बोधिसत्त्वेन महासत्त्वेन । गुहगुप्तेन च बोधिसत्त्वेन महासत्त्वेन । आकाशगर्भेण च बोधिसत्त्वेन महासत्त्वेन । सूर्यगर्भेण च बोधिसत्त्वेन महासत्त्वेन । अनिक्षिप्तघुरेण च बोधिसत्त्वेन महासत्त्वेन । रत्नपाणिना च बोधिसत्त्वेन महासत्त्वेन । समन्तभद्रेण च बोधिसत्त्वेन महासत्त्वेन । महास्थामप्राप्तेन च बोधिसत्त्वेन महासत्त्वेन । सर्वनीवरणविष्कम्भिना च बोधिसत्त्वेन महासत्त्वेन । सर्वशूरेण च बोधिसत्त्वेन महासत्त्वेन । भैषज्यसेनेन च बोधिसत्त्वेन महासत्त्वेन । अवलोकितेश्वरेण च बोधिसत्त्वेन महासत्त्वेन । वज्रमतिना च बोधिसत्त्वेन महासत्त्वेन । सागरमतिना च बोधिसत्त्वेन महासत्त्वेन । धर्मधरेण च बोधिसत्त्वेन महासत्त्वेन । पृथिवीवरलोचनेन च बोधिसत्त्वेन महासत्त्वेन । आश्वासहस्तेन च बोधिसत्त्वेन महासत्त्वेन । मैत्रेयेण च बोधिसत्त्वेन महासत्त्वेन । एवंप्रमुखैरशीतिकोट्यो बोधिसत्त्वाः संनिषण्णाः । अन्ये च द्वात्रिंशद्देवनिकाया देवपुत्राः संनिपतिता महेश्वरनारायणदेवपुत्रपूर्वंगमाः । शक्रो देवानामिन्द्रो ब्रह्मा च सहांपतिश्चन्द्रादित्यवायुवरुणादयो देवपुत्राः संनिपतितास्तस्मिन् पर्षदि । अनेकानि च नागराजशतसहस्राणि संनिपतितानि । तद्यथा—उपलालश्च नागराजः । एलपत्रश्च नागराजः । तिमिंगिरश्च नागराजः । गवांपतिश्च नागराजः । शतशीर्षश्च नागराजः । हुल्लुरश्च नागराजः । वहूदकश्च नागराजः । तक्षकश्च नागराजः । गोशीर्षश्च नागराजः । मृगशीर्षश्च नागराजः । नन्दोपनन्दौ च नागराजौ । वात्सीपुत्रश्च नागराजः । एवंप्रमुखाण्यनेकानि नागराजशतसहस्राणि संनिपतितानि । अनेकानि च गन्धर्वराजशतसहस्राणि संनिपतितानि । तद्यथा—दुन्दुभिस्वरश्च गन्धर्वराजः । मनोज्ञस्वरश्च गन्धर्वराजः । सहस्रभुजश्च गन्धर्वराजः । सहांपतिश्च गन्धर्वराजः । शरीरप्रह्लादनश्च गन्धर्वराजः । निर्नादितभूर्यश्च गन्धर्वराजः । अलंकारभूषितश्च गन्धर्वराजः । कुमारदर्शनश्च गन्धर्वराजः । सुबाहुयुक्तश्च गन्धर्वराजः । धर्मप्रियश्च गन्धर्वराजः । एवंप्रमुखाण्यनेकानि गन्धर्वराजशतसहस्राणि संनिपतितानि तस्मिन् पर्षदि । अनेकानि च किन्नरराजशतसहस्राणि संनिपतितानि । तद्यथा - सुमुखश्च किन्नरराजः । रत्नकिरीटी च किन्नरराजः । स्वातिमुखश्च किन्नरराजः । प्रहसितश्च किन्नरराजः । (वैद्य २५९) चक्रव्यूहश्च किन्नरराजः । पुष्पावकीर्णश्च किन्नरराजः । मणिश्च किन्नरराजः । प्रलम्बोदरश्च किन्नरराजः । दृढवीर्यश्च किन्नरराजः । सुयोधनश्च किन्नरराजः । शतमुखश्च किन्नरराजः । द्रुमश्च किन्नरराजः । एवंप्रमुखाणि अनेकानि किन्नरराजशतसहस्राणि संनिपतितानि तस्मिन् पर्षदि । अनेकाश्चाप्सरसःशतसहस्राः संनिपतिताः । तद्यथा - तिलोत्तमा नामाप्सरसा । सुव्यूहा नामाप्सरसा । सुवर्णमेखला नामाप्सरसा । विभूषिता नामाप्सरसा । कर्णधारा नामाप्सरसा । अमृतबिन्दुर्नामाप्सरसा । परिशोभितकाया नामाप्सरसा । मणिप्रस्थनामाप्सरसा । चूडका नामाप्सरसा । मृदुका नामाप्सरसा । पञ्चभूर्याभिमुखा नामाप्सरसा । रतिकरा नामाप्सरसा । काञ्चनमाला नामाप्सरसा । नीलोत्पला नामाप्सरसा । धर्माभिमुखा नामाप्सरसा । सक्रीडा नामाप्सरसा । कृत्स्नाकरा नामाप्सरसा । सुव्यूहमुखा नामाप्सरसा । केयूरधरा नामाप्सरसा । दानंददा नामाप्सरसा । शशी नामाप्सरसा । एवंप्रमुखाण्यनेकाप्सरसःशतसहस्राणि संनिपतितानि तस्मिन् पर्षदि । अनेकानि च नागकन्याशतसहस्राणि संनिपतितानि । तद्यथा - विभूषणधरा नाम नागकन्या । स्वातिमुखा नाम नागकन्या । जयश्रीर्नाम नागकन्या । विजयश्रीर्नाम नागकन्या । मुचिलिन्दा नाम नागकन्या । त्रिजटा नाम नागकन्या । विद्युल्लोचना नाम नागकन्या । स्वातिगिरिर्नाम नागकन्या । शतपरिवारा नाम नागकन्या । विद्युत्प्रभा नाम नागकन्या । महौषधिर्नाम नागकन्या । जलबिन्दुर्नाम नागकन्या । एकशीर्षा नाम नागकन्या । शतबाहुर्नाम नागकन्या । ग्रसती नाम नागकन्या । अनाकृच्छ्रगता नाम नागकन्या । सुभूषणा नाम नागकन्या । पाण्डलमेघा नाम नागकन्या । रथाभिरुढा नाम नागकन्या । त्यागगता नाम नागकन्या । अभिन्नपरिवारा नाम नागकन्या । पुलिन्दा नाम नागकन्या । सागरकुक्षिर्नाम नागकन्या । छत्रमुखा नाम नागकन्या । धर्मपीठा नाम नागकन्या । मुखरा नाम नागकन्या । वीर्या नाम नागकन्या । सागरगम्भीरा नाम नागकन्या । मेरुश्रीर्नाम नागकन्या । एवंप्रमुखाण्यनेकानि नागकन्या शतसहस्राणि संनिपतितानि तस्मिन् पर्षदि । अनेकानि च गन्धर्वकन्याशतसहस्राणि संनिपतितानि । तद्यथा - प्रियमुखा नाम गन्धर्वकन्या । प्रियंददा नाम गन्धर्वकन्या । सुदर्शना नाम गन्धर्वकन्या । वज्रश्रीर्नाम गन्धर्वकन्या । वज्रमाला नाम गन्धर्वकन्या । अनादर्शना नाम गन्धर्वकन्या । समालिनी नाम गन्धर्वकन्या । वनस्पतिर्नाम गन्धर्वकन्या । शतपुष्पा नाम गन्धर्वकन्या । मुकुलिता नाम गन्धर्वकन्या । रत्नमाला नाम गन्धर्वकन्या । मुदितपुष्पा नाम गन्धर्वकन्या । सुकुक्षिर्नाम गन्धर्वकन्या । राजश्रीर्नाम गन्धर्वकन्या । दुन्दुभिर्नाम गन्धर्वकन्या । शुभमाला नाम गन्धर्वकन्या । विभूषितालंकारा नाम गन्धर्वकन्या । अभिनमिता नाम गन्धर्वकन्या । धर्मकाङ्क्षिणी नाम गन्धर्वकन्या । धर्मंददा नाम गन्धर्वकन्या । औदुम्बरा नाम गन्धर्वकन्या । शताकारा नाम गन्धर्वकन्या । पद्मावती नाम गन्धर्वकन्या । फलंददा नाम गन्धर्वकन्या । पद्मालंकारा नाम गन्धर्वकन्या । परिशोभितकाया नाम गन्धर्वकन्या । विलासेन्द्रगामिनी नाम गन्धर्वकन्या । पृथिवींददा नाम (वैद्य २६०) गन्धर्वकन्या । सिंहगामिनी नाम गन्धर्वकन्या । कुमुदपुष्पा नाम गन्धर्वकन्या । मनोरमा नाम गन्धर्वकन्या । दानंददा नाम गन्धर्वकन्या । देववचना नाम गन्धर्वकन्या । क्षान्तिप्रिया नाम गन्धर्वकन्या । निर्वाणप्रिया नाम गन्धर्वकन्या । रत्नाङ्कुरा नाम गन्धर्वकन्या । इन्द्रश्रीर्नाम गन्धर्वकन्या । इन्द्रमघश्रीर्नाम गन्धर्वकन्या । प्रजापतिनिवासिनी नाम गन्धर्वकन्या । मृगराजिनी नाम गन्धर्वकन्या । स्फुरन्तश्रीर्नाम गन्धर्वकन्या । ज्वलन्तशिखरा नाम गन्धर्वकन्या । रागपरिमुक्ता नाम गन्धर्वकन्या । द्वेषपरिमुक्ता नाम गन्धर्वकन्या । मोहपरिमुक्ता नाम गन्धर्वकन्या । सुजनपरिवारा नाम गन्धर्वकन्या । रत्नपीठा नाम गन्धर्वकन्या । आगमनगमना नाम गन्धर्वकन्या । अग्निप्रभा नाम गन्धर्वकन्या । चन्द्रबिम्बप्रभा नाम गन्धर्वकन्या । सूर्यलोचना नाम गन्धर्वकन्या । सुवचा नाम गन्धर्वकन्या । एवंप्रमुखाण्यनेकानि गन्धर्वकन्याशतसहस्राणि संनिपतितानि तस्मिन् पर्षदि । अनेकानि च किन्नरकन्याशतसहस्राणि संनिपतितानि । तद्यथा - मनसा नाम किन्नरकन्या । मानसी नाम किन्नरकन्या । वायुवेगा नाम किन्नरकन्या । वरुणवेगा नाम किन्नरकन्या । आकाशप्लवा नाम किन्नरकन्या । वेगजवा नाम किन्नरकन्या । लक्ष्मींददा नाम किन्नरकन्या । सुदंष्ट्रा नाम किन्नरकन्या । अचलश्रीर्नाम किन्नरकन्या । धातुप्रिया नाम किन्नरकन्या । अवलोकितलक्ष्मीर्नाम किन्नरकन्या । कुटिला नाम किन्नरकन्या । वज्रमुष्टिर्नाम किन्नरकन्या । कपिला नाम किन्नरकन्या । सुभूषणभूषिता नाम किन्नरकन्या । विस्तीर्णललाटा नाम किन्नरकन्या । सुजनपरिसेविता नाम किन्नरकन्या । सहांपतिर्नाम किन्नरकन्या । आकाशरक्षिता नाम किन्नरकन्या । व्यूहराजेन्द्रा नाम किन्नरकन्या । मणिचूडा नाम किन्नरकन्या । मणिधारिणी नाम किन्नरकन्या । मणिरोचनी नाम किन्नरकन्या । विद्वज्जनपरिसेविता नाम किन्नरकन्या । शताकरा नाम किन्नरकन्या । आयुर्ददा नाम किन्नरकन्या । तथागतकोशपरिपालिता नाम किन्नरकन्या । धर्मधातुपरिरक्षिणी नाम किन्नरकन्या । सततपरिग्रहधर्मकाङ्क्षिणी नाम किन्नरकन्या । सदानुकालदर्शिनी नाम किन्नरकन्या । नूपुरोत्तमा नाम किन्नरकन्या । लक्षणोत्तमा नाम किन्नरकन्या । आश्वासनी नाम किन्नरकन्या । विमोक्षकरा नाम किन्नरकन्या । सदानुवृत्तिर्नाम किन्नरकन्या । संवेगधारिणी नाम किन्नरकन्या । खङ्गज्वलना नाम किन्नरकन्या । पृथिव्युपसंक्रमणा नाम किन्नरकन्या । सुरेन्द्रमाला नाम किन्नरकन्या । सुरेन्द्रा नाम किन्नरकन्या । असुरेन्द्रा नाम किन्नरकन्या । मुनीन्द्रा नाम किन्नरकन्या । गोत्रक्षान्तिर्नाम किन्नरकन्या । योगानुगता नाम किन्नरकन्या । बह्वाश्रया नाम किन्नरकन्या । शतायुधा नाम किन्नरकन्या । विभूषितालंकारा नाम किन्नरकन्या । मनोहरा नाम किन्नरकन्या । एवंप्रमुखाण्यनेकानि किन्नरकन्याशतसहस्राणि संनिपतितानि । अनेकान्युपासकोपासिकाशतसहस्राणि संनिपतितानि, अनेकानि च परिव्राजकनिर्ग्रन्थशतसहस्राणि संनिपतितानि ॥ यदा महासंनिपातश्चाभूत, तदा अवीचौ महानरके रश्मयो निश्चरन्ति स्म । निश्चरित्वा जेतवनविहारमागच्छन्ति स्म । सर्वे ते विहारपरिशोभिता एव दृश्यन्ते स्म । दिव्यमणिरत्नोपलित्पाः (वैद्य २६१) स्तम्भाः परिशोभिता एव दृश्यन्ते स्म । कूटागाराः सुवर्णोपचिता दृश्यन्ते स्म । लयने लयने सुवर्णरूप्यमयानि द्वाराणि दृश्यन्ते स्म । लयने लयने सुवर्णरूप्यमयानि सोपानानि दृश्यन्ते स्म । सुवर्णरूप्यमयानि प्रासादानि, रूप्यमये प्रासादे सुवर्णमयानि स्तम्भानि दिव्यरत्नोपचितानि । सुवर्णमये प्रसादे रूप्यमयानि स्तम्भानि दिव्यरत्नोपशोभितानि । सुवर्णमये प्रासादे रूप्यमयानि स्तम्भानि दिव्यरत्नोपशोभितानि । बहिर्जेतवनस्य पुरत उद्याने नानाविधानि कल्पवृक्षाणि दृश्यन्ते स्म । सुवर्णदण्डानि रूप्यपत्राणि नानाविधालंकारप्रलम्बितानि । विचित्राणि चीवरवस्त्रप्रलम्बितानि । कौशिकवस्त्रप्रलम्बितानि । मुक्ताहारशतसहस्रप्रलम्बितानि । विविधमौलीकुण्डलस्रग्दामकेयूरनूपुरशतसहस्राणि प्रलम्बितानि । कर्णपृष्ठोत्तर्याणि स्तम्भानि मणिरत्नकटककेयूरकाणि प्रलम्बितानि संदृश्यन्ते । स्म । तेन तत्र च रम्यावभासे तादृशानि कल्पवृक्षशतसहस्राणि प्रादुर्भूतानि । तस्मिन्नेव जेतवनविहारे वज्रमयाणि सोपानानि दृश्यन्ते स्म, द्वारकोष्ठे च मुक्तापटकलापप्रलम्बितानि । अनेकानि पुष्करिणीशतसहस्राणि प्रादुर्भूतानि । तत्र कानिचिदष्टाङ्गोपेतवारिणा परिपूर्णानि । कानिचिन्नानाविधपुष्पपरिपूर्णानि । तद्यथा - उत्पलपद्मकुमुदपुण्डरीकमान्दारवमहामान्दारववडौदुम्बरपुष्पपरिपूर्णानि । अन्यानि च पुनस्तत्र विविधानि काष्ठपुष्पाण्युत्पद्यन्ते । तद्यथा - चम्पकाशोककरवीरपाटलानिर्मुक्तकसुमनागन्धवार्षिकाणि । एतानि मनोरमाणि काष्ठपुष्पाणि प्रादुर्भूतानि । इत्येवं तस्मिन् जेतवनविहारे समन्ततः परिशोभितानि दृश्यन्ते स्म ॥ इति जेतवनविहारवर्णनं नाम प्रथमप्रकरणम् ॥ _________________________________________________________________ १,२: अवीचिशोषणं नाम द्वितीयं प्रकरणम् । अथ तस्मिन्नेव पर्षन्मध्ये सर्वनीवरणविष्कम्भी नाम बोधिसत्त्वो महासत्त्व उत्थायासनादेकांसमुत्तरासङ्गं कृत्वा दक्षिणं जानुमण्डलं पृथिव्यां प्रतिष्ठाप्य येन भगवांस्तेनाञ्जलिं प्रणम्य भगवन्तमेतदवोचत्- परमाश्चर्याद्भुतप्राप्तोऽहं भगवन् । कुत इमे रश्मयः समागच्छन्ति स्म? कस्यैष तथागतस्य विषयप्रभावः? इति । भगवानाह - नैष तथागतप्रभावः । कुलपुत्रोऽवीचौ महानरके आर्यावलोकितेश्वरो बोधिसत्त्वो महासत्त्वः प्रविष्टः । सत्त्वान् परिमोचयित्वा च प्रेतनगरं प्रविशति । तेनेमे रश्मय उत्सृष्टाः ॥ अथ सर्वनीवरणविष्कम्भी बोधिसत्त्वो महासत्त्वो भगवन्तमेतदवोचत्- भगवन्, अवीचौ महानरके कानि सत्त्वानि संविद्यन्ते? यत्र वीचिर्न प्रज्ञायते । तत्रास्य धर्मं देशयति - यस्याः कुड्यप्राकारपर्यन्ता अयोमयी भूमिः समनन्तरप्रज्वलितैकज्वालीभूता, विस्फुरद्रत्नकरण्डकवत्संदृश्यते । तस्मिन्नेव महानरके आक्रन्दती कुम्भी तिष्ठति । तस्यामेव कुम्भ्यामनेकानि सत्त्वकोटीनियुतशतसहस्राणि प्रक्षिप्तानि । यथा बह्वयुदकायां स्थाल्यां मुद्गा वा माषा वा चोर्ध्वं गच्छन्तोऽधो गच्छन्तः स्विद्यन्ते पच्यन्ते, एवं ते सत्त्वा (वैद्य २६२) अवीचौ महानरके कायिकं दुःखं प्रत्यनुभवन्ति । तत्कथं भगवनवीचौ महानरकेऽवलोकितेश्वरो बोधिसत्त्वो महासत्त्वः प्रविशति? भगवानाह - यथा कुलपुत्र राजा चक्रवर्ती दिव्यरत्नमयोद्याने प्रविशति महत्या चक्रवर्तिराज्यसमृद्धया, एवमेव कुलपुत्र अवलोकितेश्वरो बोधिसत्त्वो महासत्त्वस्तस्मिन्नवीचौ महानरके प्रविशति । न च पुनस्तस्य कायोऽन्यथाभावं गच्छति । यदा अवीचिमहानरकसमीपमुपसंक्रामति, तदा अवीचिर्महानरकः शीतीभावमनुगच्छति । तदा ते यमपालपुरूषाः संवेगचित्ताः परमोद्विग्नाश्चिन्तां समापद्यन्ते - किमस्मिन्नवीचौ महानरकेऽशुभनिमित्तं प्रादुर्भूतम्? यदावलोकितेश्वरो बोधिसत्त्वो महासत्त्वः प्रविशति, तदा तस्मिन् शकटचक्रप्रमाणमात्राणि पद्मानि प्रादुर्भूतानि । सा च कुम्भी विस्फुटिता । तस्मिन्नेवाग्निखदायां मधोः पुष्करिणी प्रादुर्भूता ॥ अथ ते यमपालपुरूषा असिमुसलभिन्दिपालतोमरगदाचक्रत्रिशूलादीनुपसंगृह्य सर्वं चावीचिपरिष्कारं गृहीत्वा येन स यमो धर्मराजस्तेनोपसंक्रान्ताः । उपसंक्रम्य यमं धर्मराजमेतदवोचन् - यत्खलु देवो जानीयात्प्रथमम् - सा चास्माकं कर्मभूमिर्निरवशेषं परिक्षीणा अभिरमणीया संवृत्ता सर्वसुखसमर्पिता । यमो धर्मराजस्तानुवाच - किंकारणं युष्माकमपि कर्मभूमिः परिक्षीणा? यमपालपुरूषा ऊचुः - अपि च । यत्खलु देवो जानीयात्प्रथमम् - तस्मिन्नवीचिमहानरकेऽशुभनिमित्तं प्रादुर्भूतम् । सर्वं प्रशान्तं शीतीभावमुपगतम् । कामरूपी च तत्र पुरुषः प्रविष्टो जटामुकुटधरो दिव्यालंकारभूषितशरीरः परममैत्रमानसः सुवर्णबिम्बमिव दृश्यते । स च तादृशः पुरुषस्तत्र प्रविष्टः । तस्य च प्रविष्टमात्राच्छकटचक्रमात्राणि पद्मानि प्रादुर्भूतानि । सा च कुम्भी विस्फुटिता । तस्मिन्नेवाग्निखदायां मधोः पुष्करिणी प्रादुर्भूता ॥ अथ स यमो धर्मराजश्चिन्तामापेदे - कस्य पुनर्देवस्यायं प्रभावः? अथ महेश्वरस्य महर्द्धिकस्य, अथवा नारायणस्य पञ्चमहासमुद्रनमस्कृतस्य, अथवा अन्येषां महर्द्धिकदेवपुत्राणामपि वरप्रदानेनेदृशं फलविशेषं संवृत्तम्? ते चेह भूमावनुप्राप्ताः? अथवा राक्षस उत्पन्नः एष महारावणप्रतिद्वन्द्वी? एवं स ततः स्थितश्चिन्तयामास । स च दिव्येन चक्षुषा व्यवलोक्य तच्च देवनिकायेन पश्यति स्म - ईदृशं वरं कस्यान्यस्य? अथ स पुनरेवावीचौ महानरके व्यवलोकयति स्म । व्यवलोक्य तस्मिन्नेवावीचौ महानरकेऽवलोकितेश्वरं बोधिसत्त्वं महासत्त्वमेव पश्यति स्म ॥ अथ स यमो धर्मराजो येनावलोकितेश्वरो बोधिसत्त्वो महासत्त्वस्तेनोपसंक्रान्तः । उपसंक्रम्य भगवतः पादौ शिरसाभिवन्द्य स्तोत्रविशेषं कर्तुमारब्धः । नमोऽस्त्ववलोकितेश्वराय, महेश्वराय, पद्मश्रिये, वरदाय, वशंकराय, पृथिवीवरलोचनकराय, जगदाश्वासनकराय, शतसहस्रभुजाय, कोटीशतसहस्रनेत्राय, एकादशशीर्षाय, वडवामुखपर्यन्ताय, धर्मप्रियाय, सर्वसत्त्वपरिमोक्षणकराय, कूर्ममकरमत्स्याश्वासनकराय, ज्ञानराश्युत्तमकराय, प्रियंददाय, (वैद्य २६३) रत्नश्रिये, उत्तमाय, अवीचिसंशोषणकराय, ज्ञानलक्ष्म्यलंकृताय, ज्ञानप्रियाय, सर्वदेवपूजितनमस्कृताय, वन्दिताय, अभयंददाय, धर्मदीपंकराय, कामरूपाय, गन्धर्वरूपया, काञ्चनपर्वतसमारूढाय, सागरकुक्षिगम्भीरधर्माय, परमार्थयोगमनुप्राप्ताय, संमुखसंदर्शनकराय, अनेकसमाधिशतसहस्रावकीर्णाय, अभिरतिकराय, विच्छुरितगात्राय, ऋषिपुंगवकराय, हडिनिगडबन्धनभयत्रस्तमार्गपरिमोक्षणकराय, सर्वसत्त्वाभावसंयुक्ताय, बहुपरिवारसंवर्तनीयाय, उपचितकराय, चिन्तामणिरत्नाय, निर्वाणमार्गोपदर्शनकराय, प्रेतनगरसमुच्छोषणकराय, छत्रभूतजगत्कराय, व्याधिपरिमोचनकराय, नन्दोपनन्दनागराजकृतयज्ञोपवीताय, अमोघपाशसंदर्शनकराय, अनेकमन्त्रशतावकीर्णाय वज्रपाणिविद्रावणकराय, त्रिलोकभयंकराय, यक्षराक्षसभूतप्रेतवेतालडाकिनीकूष्माण्डापस्मारसंत्रासनकराय, नीलोत्पलचारुनेत्राय, गम्भीरधीराय, विद्याधिपतये, सर्वक्लेशविमोक्षणकराय, विविधबोधिमार्गोपचिताय, समारूढमोक्षमार्गप्रवराय, आश्रयचित्तबोधिमार्गोपचिताय, प्रेतगतिपरिमोक्षणकराय, परमाणुरजोपमसमाधिशतसहस्राकीर्णाय । एवं यमो धर्मराजो विशेषतरं स्रोतावधानं कृत्वा पुनरपि यमो धर्मराजः त्रिः प्रदक्षिणीकृत्य तत्रैव प्रक्रान्तोऽभूत् ॥ इति अवीचिशोषणं नाम द्वितीयं प्रकरणम् ॥ _________________________________________________________________ १,३: सत्त्वधातुपरिमोक्षणं तृतीयं प्रकरणम् । अथ सर्वनीवरणविष्कम्भी भगवन्तमेतदवोचत्- कदा भगवन्नागच्छति अवलोकितेश्वरो बोधिसत्त्वो महासत्त्वः? भगवानाह - एष कुलपुत्र अवीचीमहानरकान्निष्क्रम्य प्रेतनगरं प्रविष्टः । तत्रानेकानि प्रेतशतसहस्राणि पुरस्ताद्धावन्ति स्म दग्धस्थूणाकृतिभिरस्थियन्त्रवदुच्छ्रितैः पर्वतोदरसंनिभैः सूचीच्छिद्रोपममुखैः । यदावलोकितेश्वरो बोधिसत्त्वो महासत्त्वः प्रेतनगरमुपसंक्रामति, तदा स प्रेतनगरः शीतीभावमनुगच्छति, सा च वज्राशनिर्व्युपशमिता, स च द्वारपालपुरूष उद्बद्धभिण्डिपालः कालकूटव्यग्रहस्तो लोहिताक्षः । सततमस्यानुभावेन मैत्रचित्तं संभावयति - न च मे ईदृशेन कर्मभूमिना कृत्यम् ॥ अथार्यावलोकितेश्वरो बोधिसत्त्वो महासत्त्वस्तं च सत्त्वनिकायं दृष्ट्वा महाकरुणाचित्तमुत्पाद्य दशभ्यो हस्ताङ्गुलीभ्यो दश वैतरणीर्निष्क्रामयति । दशभ्यः पादाङ्गुलीभ्यो दश वैतरणीर्निष्क्रामयति । अतिकरुणाभिभूतचेतसा अवलोकितेश्वरस्य बोधिसत्त्वस्य महासत्त्वस्य तेषां सत्त्वानामन्तिके सर्वरोमकूपेभ्योऽष्टाङ्गवारिपरिपूर्णा महानद्यो निष्क्रामन्ति । यदा च ते प्रेतसत्त्वास्तदुदकमास्वादयन्ति, तदा ते विपुलकण्ठा भवन्ति, परिपूर्णगात्राश्च भवन्ति । तेन चैते दिव्यरसरसाग्रोपेतेनाहारेण संतर्पिताश्च भवन्ति । तदा मानुषिकीं चेतनामुपादायैव सांसारिकीं चिन्तां विचिन्तयन्ति - अहो बत ते जाम्बुद्वीपका मनुष्याः सुखिताः, ये शीतलां छायां परिसेवन्ति । सुखितास्ते जाम्बुद्वीपका मनुष्या (वैद्य २६४) ये मातापितरौ सततं परिग्रहमुपस्थानं कुर्वन्ति । सुखितास्ते सत्पुरुषा ये कल्याणमित्रं सततसमितमन्वेषयन्ति, परिग्रहं परिपालयन्ति । ते सत्पुरूषाः सचेतना ये महायानं सततसमितमवगाहयन्ति । ते सत्पुरुषा ये आर्यास्तान् गोमार्गाय वासमुपवसन्ति । ते सत्पुरूषा ये धर्मदण्डिकामाकोटयन्ति । ते सत्पुरुषाः ये त्रुटितस्फुटितान् विहारान् प्रतिसंस्कारं कुर्वन्ति, प्रतिष्ठापयन्ति । ते सत्पुरुषा ये पूर्विकानि स्तूपबिम्बानि त्रुटितस्फुटितानि विशीर्णभूतानि प्रतिसंस्कारं कुर्वन्ति । ते सत्पुरुषा ये धर्मभाणकांल्लेखकान् धारकान् वाचकान् सूत्रराजस्य श्रावकान् सततसमितं परिसेवन्ति चोपतिष्ठन्ति च । ते सत्पुरूषा ये तथागतप्रातिहार्याणि विविधानि च तथागतचंक्रमणानि धर्मसराणि च पश्यन्ति । ते सत्पुरूषा ये प्रत्येकबुद्धचंक्रमणानि पश्यन्ति । ते सत्पुरुषा येऽर्हच्चंक्रमणानि पश्यन्ति । ते सत्पुरुषा ये बोधिसत्त्वविकुर्वितानि चंक्रमणानि पश्यन्ति । इत्येवं ते प्रेतविषयं शरीरमनुविचिन्त्य मानसानां कामानामभावोपपत्तिं प्रति परित्यजन्ति । तदा तस्य सकाशात्ऽकारण्डव्यूहऽमहायानसूत्ररत्न राजशब्दो निश्चरति । तदा तेषां विंशतिशिखर समुद्गतं सत्कायदृष्टिशैलं ज्ञानवज्रेण भित्त्वा सर्वे ते सुखावत्यां लोकधातावुपपन्नाः आकाङ्क्षितमुखा नाम बोधिसत्त्वा उपपन्नाः । अथावलोकितेश्वरो यदा ते सत्त्वधातवः परिमोक्षिताः सुपरिमुक्ताश्च, यदा ते सर्वसत्त्वा बोधिसत्त्वभूमावुपपन्नाः, तदा ततः प्रेतनगरात्पुनरपि निष्क्रामति ॥ इति सत्त्वधातुपरिमोक्षणं नाम तृतीयं प्रकरणम् ॥ _________________________________________________________________ १,४: चन्द्राद्युत्पत्तिर्नाम चतुर्थं प्रकरणम् । अथ सर्वनीवरणविष्कम्भी भगवन्तमेतदवोचत्- भगवन, अद्यापि नागच्छत्यवलोकितेश्वरो बोधिसत्त्वो महासत्त्वः? भगवानाह - अनेकानि कुलपुत्र सत्त्वकोटिनियुतशतसहस्राणि परिपाचयति । दिने दिने स आगत्य परिपाचयति । नास्ति कुलपुत्र ईदृशं प्रतिभानं तथागतानामपि यादृशमार्यावलोकितेश्वरस्य बोधिसत्त्वस्य महासत्त्वस्य ॥ अथ सर्वनीवरणविष्कम्भी आह - केन प्रकारेण भगवन्? भगवानाह - भूतपूर्वं कुलपुत्र विपश्यी नाम तथागतोऽर्हन् सम्यक्संबुद्धो लोक उदपादि विद्याचरणसंपन्नः सुगतो लोकविदनुत्तरः पुरुषदम्यसारथिः शास्ता देवानां च मनुष्याणां च बुद्धो भगवान् । तेन कालेन तेन समयेनाहं सर्वनीवरणनिष्कम्भिन् सुगन्धमुखो नाम वणिक्पुत्रोऽभूवम् । तदा मे श्रुता विपश्यिनस्तथागतस्य सकाशादार्यावलोकितेश्वरस्य गुणोद्भावना ॥ अथ सर्वनीवरणविष्कम्भी भगवन्तमेतदवोचत्- कीदृशी त्वया भगवन् गुणोद्भावना श्रुता? एताः सर्वा प्रवदताम् । विज्ञराज भगवन्मे प्रबोधय, यादृशी त्वया भगवन् गुणोद्भावना आर्यावलोकितेश्वरस्य बोधिसत्त्वस्य महासत्त्वस्य श्रुता ॥ (वैद्य २६५) भगवानाह - चक्षुषोश्चन्द्रादित्यावुत्पन्नौ, ललाटान्महेश्वरः, स्कन्धेभ्यो ब्रह्मादयः, हृदयान्नारायणः, दंष्ट्राभ्यां सरस्वती, मुखतो वायवो जाताः, धरणी पादाभ्याम्, वरुणश्चोदरात् । यदैते देवा जाता आर्यावलोकितेश्वरस्य कायात्, अथार्यावलोकितेश्वरो बोधिसत्त्वो महासत्त्वो महेश्वरं देवपुत्रमेतदवोचत्- भविष्यसि त्वं महेश्वरः कलियुगे प्रतिपन्ने । कष्टसत्त्वधातुसमुत्पन्न आदिदेव आख्यायसे स्रष्टारं कर्तारम्, ते सर्वसत्त्वा बोधिमार्गेण विप्रहीणा भविष्यन्ति, य ईदृशपृथग्जनेषु सत्त्वेषु सांकथ्यं कुर्वन्ति ॥ आकाशं लिङ्गमित्याहुः पृथिवी तस्य पीठिका । आलयः सर्वभूतानां लीलया लिङ्गमुच्यते ॥ क्व्यु_१,४.१ ॥ ईदृशं मया कुलपुत्र विपश्यिनस्तथागतस्य सकाशादार्यावलोकितेश्वरस्य गुणोद्भावना श्रुता ॥ तदप्यतिक्रम्य शिखी नाम तथागतोऽर्हन् सम्यक्संबुद्धो बभूव विद्याचरणसंपन्नः सुगतो लोकविदनुत्तरः पुरुषदम्यसारथिः शास्ता देवानां च मनुष्याणां च बुद्धो भगवान् । तेन कालेन तेन समयेनाहं सर्वनीवरणविष्कम्भिन् दानशूरो नाम बोधिसत्त्वो महासत्त्वोऽभूवम् । तस्य शिखिनस्तथागतस्य सकाशादवलोकितेश्वरस्य बोधिसत्त्वस्य महासत्वस्य गुणोद्भावना श्रुता ॥ इति चन्द्राद्युत्पत्तिर्नाम चतुर्थं प्रकरणम् ॥ _________________________________________________________________ १,५: विविधरश्मिनिःसरणं पञ्चमं प्रकरणम् । अथ सर्वनीवरणविष्कम्भी भगवन्तमेतदवोचत्- कीदृशी भगवंस्त्वया गुणोद्भावना अवलोकितेश्वरस्य श्रुता? भगवानाह - यदा सर्वदेवा नागा यक्षा गन्धर्वा राक्षसा असुरा मरुतो गरूडा गन्धर्वाः किन्नरा महोरगा मनुष्याः संनिपतिताः संनिषण्णा अभूवन्, तदा भगवान् । महासंनिपातं दृष्ट्वा तासां पर्षदां मध्ये धर्मसांकथ्यं कर्तुमारब्धः । तदा भगवतो मुखद्वारान्नानावर्णा अनेकरश्मयो निःसरन्ति स्म । तद्यथा - नीलपीतलोहितावदातमाञ्जिष्ठस्फटिकरजतसुवर्णनानाविधरश्मयो निश्चरन्ति स्म । निश्चरित्वा च दशदिग्विदिक्षु सर्वान् लोकान् धातुनवभास्य पुनरेवागत्य तं शिखिनं भगवन्तं त्रिःप्रदक्षिणीकृत्य भगवतो मुखद्वारे प्रविष्टाः ॥ इति विविधरश्मिनिःसरणं नाम पञ्चमं प्रकरणम् । समाप्तोऽयं सर्वनीवरणाविष्कम्भिसंवादो नाम प्रथमः काण्डः ॥ _________________________________________________________________ १,६: तथागतसंवादः षष्ठं प्रकरणम् । अथ तस्मिन्नेव पर्षदि रत्नपाणिर्नाम बोधिसत्त्वो महासत्त्व उत्थायासनादेकांसमुत्तरासङ्गं कृत्वा दक्षिणं जानुमण्डलं पृथिव्यां प्रतिष्ठाप्य येन भगवांस्तेनाञ्जलिं प्रणम्य भगवन्तमेतदवोचत्- (वैद्य २६६) किं कारणं भगवन्, ईदृशं निमित्तं प्रादुर्भूतं दर्शितम्? भगवानाह - एष कुलपुत्र अवलोकितेश्वरः सुखावत्या लोकधातोरागच्छति, तस्य आगच्छमानस्येदं मयेदृशं निमित्तं प्रादुर्भूतं दर्शितम् ॥ अथ रत्नपाणिर्नाम बोधिसत्त्व आह - कीदृशानि तानि निमित्तानि? दर्शयतु भगवान् । भगवानाह - यदा कुलपुत्र अवलोकितेश्वरो बोधिसत्त्वो महासत्त्व आगच्छति, तदा विविधानि कल्पवृक्षा विस्तरन्ति, चूतवृक्षा विस्तरन्ति, कुन्दपुष्पाणि सततं जायन्ते, चम्पकवृक्षा अभिनमन्ति । अतिपुष्पावकीर्णाः पुष्करिण्यः प्रादुर्भवन्ति । रत्नवृक्षशतानि ततो दृश्यन्ते । विविधानि पुष्पवर्षाणि पतन्ति, रत्नवर्षाणि च प्रवर्षन्ति, विविधानि च रत्नमणिमुक्तावज्रवैदूर्यशङ्खशिलाप्रवालजातरूपरजतताम्राणि प्रवर्षन्ति, दिव्यानि च वस्त्रवर्षाणि पतन्ति । तस्मिन्नेव विहारसमीपे सप्त रत्नानि प्रादूर्भूतानि । तद्यथा - हस्तिरत्नं मनिरत्नमश्वरत्नं स्त्रीरत्नं गृहपतिरत्नं परिणायकरत्नम् । एवं सप्त रत्नानि प्रादुर्भूतानि । भूमिः सुवर्णनिर्भासा संदृश्यते । यदा आर्यावलोकितेश्वरो बोधिसत्त्वो महासत्त्वः सुखावत्या लोकधातोर्निष्क्रान्तः, तदा सर्वपृथिवी षड्विकारं प्रकम्पिता ॥ अथ रत्नपाणिर्बोधिसत्त्वो महासत्त्वो भगवन्तमेतदवोचत्- कस्य निमित्तानि भगवन्? भगवानाह - एष कुलपुत्र आर्यावलोकितेश्वरो महासत्त्वो बोधिसत्त्व आगच्छति, तस्यैष शुभनिमित्तमीदृशं प्रादुर्भूतम् । यदा स चलति तदा मनोरमं पद्मवर्षः पतति । तदा अवलोकितेश्वरो सहस्रपत्राणि पद्मानि सुवर्णदण्डानि वैदूर्यनिर्भासानि गृहीत्वा येन भगवांस्तेनोपसंक्रान्तः । उपसंक्रम्य भगवतः पादौ शिरसाभिवन्द्य भगवतस्तानि पद्मान्युपनामयति स्म - इमानि ते भगवन्नमिताभेन तथागतेनार्हता सम्यक्संबुद्धेन प्रहितानि । स तथागतः पृच्छति अनातङ्कतां लघुतां सुखस्पर्शविहारितां च । ततो भगवता पद्मानि गृहीत्वा वामपार्श्वे स्थापितानि । तदा अर्यावलोकितेश्वरस्य गुणोद्भावनां कुरुते - कीदृशी त्वया अवलोकितेश्वर कर्मभूमिर्निष्पादिता सदा प्रेतेषु अवीचावुपपन्नेषु? कालसूत्ररौरवोपपन्नेषु सत्त्वेषु, हाहे तपने प्रेतायने महानरके, अग्निघटे महानरके, शाल्मलिमहानरके, अन्धकाले महानरके, शीतोदके महानरके - एवं चान्येष्वपि? महानरके ये उपपन्नाः सत्त्वास्तेषां च कर्मभूमिं दृष्ट्वा तत्र मया सत्त्वपरिपाको मे कृतः कर्तव्यश्च । कृत्वा सर्वे च अनुत्तरायां सम्यक्संबोधौ प्रतिष्ठापयितव्याः । न च तावत्त्वयानुत्तरा सम्यक्संबोधिरभिसंबोद्धव्या, यावत्समन्ताद्दशभ्यो दिग्भ्यः सर्वाक्षणोपपन्नाः सत्त्वा अरूपविशेषे निर्वाणधातौ न प्रतिष्ठापिता भवेयुः ॥ अथावलोकितेश्वरो बोधिसत्त्व इदं प्रश्नव्याहारं कृत्वा भगवतः पादौ शिरसाभिवन्द्य एकान्ते प्रकान्तः, प्रक्रमित्वा ज्वलन्निवाग्निपिण्ड आकाशेऽन्तर्हितः ॥ इति तथागतसंवादो नाम षष्ठं प्रकरणम् ॥ _________________________________________________________________ १,७: (वैद्य २६७) अवलोकितेश्वरपुण्यस्कन्धकथनं सप्तमं प्रकरणम् । अथ रत्नपाणिर्बोधिसत्त्वो भगवन्तमेतदवोचत्- परिपृच्छेयमहं भगवन् प्रश्नव्याहरणमुद्देशम् - किदृशोऽवलोकितेश्वरस्य बोधिसत्त्वस्य महासत्त्वस्य पुण्यसंभारः? भगवानाह - शृणु कुलपुत्र । निर्देशयामि अस्यावलोकितेश्वरस्य बोधिसत्त्वस्य महासत्त्वस्य नामग्रहणात्पुण्यसंभारस्य प्रमाणम् । तद्यथा - अपि नाम कुलपुत्र केचिदेव सत्त्वा गङ्गानदीवालुकोपमास्तथागता अर्हन्तः सम्यक्संबुद्धाः दिव्यकल्पपुष्पधूपगन्धमाल्यविलेपनचूर्णचीवरछत्रध्वजघण्टापताकाभिर्विविधाभिः, चीवरपिण्डपात्रशयनासनग्लानप्रत्ययभैषज्यपरिष्कारैरुपस्थिता भवन्ति, यश्च तेषां तथागतानां पुण्यस्कन्धः प्रभवति, अवलोकितेश्वरस्यैकवालाग्रे स पुण्यस्कन्धः । तद्यथा - अपि नाम कुलपुत्र द्वादशमासिकेन संवत्सरेण चतुर्महाद्वीपेषु रात्रिंदिवमविच्छिन्नं देवो वर्षति, तच्छक्यमेकैकं बिन्दुं गणयितुम् । न तु कुलपुत्र अवलोकितेश्वरस्य शक्यं मया पुण्यसंभारं गणयितुम् । तद्यथापि नाम कुलपुत्र महासमुद्रश्चतुरशीतियोजनसहस्राणि गाम्भीर्येण, अप्रमेयो वैपुल्येन, वडवामुखपर्यन्तम्, तन्मया शक्यमेकैकं बिन्दुं गणयितुम् । न तु कुलपुत्र अवलोकितेश्वरस्य बोधिसत्त्वस्य महासत्त्वस्य शक्यते पुण्यसंभारं गणयितुम् । तद्यथापि नाम कुलपुत्र चतुर्महाद्वीपेषु ये केचिच्चतुष्पादा सिंहव्याघ्रऋक्षतरक्षुमृगोष्ट्रशृगालादयो गोगर्दभाः पशवः हस्तिनोऽश्वा महिषा मार्जारादयः, एतेषु चतुष्पदेषु शक्यते मयैकैकं रोमं गणयितुम् । न तु कुलपुत्र अवलोकितेश्वरस्य बोधिसत्त्वस्य महासत्त्वस्य शक्यते पुण्यसंभारं गणयितुम् । तद्यथापि नाम कुलपुत्र कश्चिदेव कुलपुत्रो वा कुलदुहिता वा परमाणुरजोपमास्तथागता अर्हतः सम्यक्संबुद्धा दिव्यसौवर्णरत्नमयान् स्तूपान् कारयेद्धस्तशतसहस्रप्रमाणम्, कारयित्वा चैकदिने ध्यानावरोपणं कुर्यात्, तच्छक्यं मया कुलपुत्र तेषां सौवर्णरजतमयानां तथागतानां करणेषु पुण्यस्कन्धं गणयितुम् । न तु कुलपुत्र अवलोकितेश्वरस्य बोधिसत्त्वस्य शक्यते पुण्यसंभारं गणयितुम् । तद्यथापि नाम कुलपुत्र शक्यते मया शीर्षवनस्यैकैकं पत्राणि गणयितुम्, न त्ववलोकितेश्वरस्य शक्यते मया पुण्यसंभारं गणयितुम् । तद्यथापि नाम कुलपुत्र चतुर्महाद्वीपेषु स्त्रीपुरुषदारकदारिकास्ते सर्वे स्रोतापत्तिफले सकृदागामिफलेऽनागामिफलेऽर्हत्त्वे प्रत्येकबोधौ नियोजयेयम् । यश्चैतेषु पुण्यस्कन्धः, अवलोकितेश्वरस्य पूर्ववद्बालग्रे स पुण्यस्कन्धः ॥ इत्यवलोकितेश्वरपुण्यस्कन्धकथनं नाम सप्तमं प्रकरणम् ॥ _________________________________________________________________ १,८: वैनेयधर्मोपदेशः अष्टमं प्रकरणम् । अथ रत्नपाणिर्बोधिसत्त्वो महासत्त्वो भगवन्तमेतदवोचत्- न मे भगवन क्वचिदीदृशः अचिन्त्यस्तथागतानां पुण्यस्कन्धो दृष्टो वा श्रुतो वा प्रागेव बोधिसत्त्वभूतस्य, यादृशो भगवतोऽवलोकितेश्वरस्य बोधिसत्त्वस्य पुण्यस्कन्धः । भगवानाह - यत्खलु कुलपुत्र मम सदृशाः गङ्गानदीवालुकोपमास्तथागता अर्हन्तः सम्यक्संबुद्धा भवेयुः, ते चैकस्थाने (वैद्य २६८) धारयेयुः सत्काराय दिव्यकल्पचीवरपिण्डपात्रशयनासनग्लानप्रत्ययभैषज्यपरिष्कारैः, ते च तथागता अर्हन्तः सम्यक्संबुद्धाः सर्वथैकत्र संनिपात्यन्ते । सर्वे अवलोकितेश्वरस्य बोधिसत्त्वस्य महासत्त्वस्य न शन्कुवन्ति पुण्यस्कन्धं गणयितुम् । प्रागेव कुलपुत्र अहमेकाकी अस्मिन् लोकधातौ विहरामि, तत्कथं शक्नुयां तस्य पुण्यस्कन्धं वाचा व्याहर्तुम्? अपि च कुलपुत्र सर्वे तथागता दशभ्यो वाग्भिः एवं वाचमभाषन्त - ते सत्त्वाः सुखिता लोके भवन्ति, ये अवलोकितेश्वरस्य बोधिसत्त्वस्य महासत्त्वस्य नामधेयमनुस्मरन्ति । ते जरामरणव्याधिशोकपरिदेवदुःखदौर्मनस्येभ्यः परिमुक्ता भवन्ति, ते आपश्चिमसांसारिकं दुःखं नानुभवन्ति, ते शुक्लपाण्डरपटा इव राजहंसाः प्लुतवायुवेगा इव गच्छन्ति सुखावतीलोकधातुममिताभस्य तथागतस्य संमुखं धर्मश्रवणाय । धर्मं श्रुत्वा च सांसारिकं दुःखं तेषां काये न बाधते, न च रागद्वेषमोहेन जरामरणम्, न च तेषां क्षुत्पिपासा दुःखं काये न बाधते, न च ते गर्भावासदुःखमनुस्मरन्ति, तस्मिन्नेव पद्मे जायन्ते । धर्मरसेन पूर्यमाणाः सततपरिग्रहं व्यवस्थापिताः तावदस्मिंल्लोकधातौ तिष्ठन्ति, यावदवलोकितेश्वरस्य बोधिसत्त्वस्य दृढप्रतिज्ञा न परिपूरिता भवति - सर्वसत्त्वा सर्वदुःखेभ्यः परिमोक्षिताः यावदनुत्तरायाः सम्यक्संबोधौ न प्रतिष्ठापिता भवन्ति ॥ अथ रत्नपाणिर्बोधिसत्त्वो भगवन्तमेतदवोचत्- कतमेन कालेन भगवतोऽस्य दृढप्रतिज्ञां परिपूरयति, सर्वसत्त्वाश्च मोक्षमार्गे प्रतिष्ठापिता भवेयुः? भगवानाह - बहुभिः कुलपुत्र कारणैः सत्त्वाः कारणात्संसारे संसरन्ति, देवता सत्त्वान् परिपाचयति, तेषां सत्त्वानां बोधिमार्गमुपदर्शयति । येन येन रुपेण वैनेयाः सत्त्वाः, तेन तेन रुपेण धर्मं देशयति । तथागतवैनेयानां सत्त्वानां तथागतरुपेण धर्मं देशयति । प्रत्येकबुद्धवैनेयानां सत्त्वानां प्रत्येकबुद्धरूपेण धर्मं देशयति । अर्हत्त्ववैनेयानां सत्त्वानामर्हत्त्वरूपेण धर्मं देशयति । बोधिसत्त्ववैनेयानां सत्त्वानां बोधिसत्त्वरूपेण धर्मं देशयति । महेश्वरवैनेयानां सत्त्वानां महेश्वररूपेण धर्मं देशयति । नारायणवैनेयानां सत्त्वानां नारायणरूपेण धर्मं देशयति । ब्रह्मवैनेयानां सत्त्वानां ब्रह्मरूपेण धर्मं देशयति । इन्द्रवैनेयानां सत्त्वानामिन्द्ररूपेण धर्मं देशयति । आदित्यवैनेयानां सत्त्वानामादित्यरूपेण धर्मं देशयति । चन्द्रवैनेयानां सत्त्वानां चन्द्ररूपेण धर्मं देशयति । अग्निवैनेयानां सत्त्वानामग्निरूपेण धर्मं देशयति । वरुणवैनेयानां सत्त्वानां वरुणरूपेण धर्मं देशयति । वायुवैनेयानां सत्त्वानां वायुरूपेण धर्मं देशयति । नागवैनेयानां सत्त्वानां नागरूपेण धर्मं देशयति । विघ्नपतिवैनेयानां सत्त्वानां विघ्नपतिरूपेण धर्मं देशयति । यक्षवैनेयानां सत्त्वानां यक्षरूपेण धर्मं देशयति । वैश्रवणवैनेयानां सत्त्वानां वैश्रवणरूपेण धर्मं देशयति । राजवैनेयानां सत्त्वानां राजरूपेण धर्मं देशयति । राजभटवैनेयानां सत्त्वानां राजभटरूपेण धर्मं देशयति । मातृपितृवैनेयानां सत्त्वानां मातृपितृरूपेण धर्मं देशयति । यथा यथा वैनेयानां सत्त्वानां तथा तथा (वैद्य २६९) रूपेण धर्मं देशयति । एवं कुलपुत्र अवलोकितेश्वरो बोधिसत्त्वो महासत्त्वः सत्त्वान् धर्मं देशयति, परिपाचयति, निर्वाणभूमिमुपदर्शयति ॥ इति वैनेयधर्मोपदेशो नाम अष्टमं प्रकरणम् ॥ _________________________________________________________________ १,९: असुराश्वासनं नवमं प्रकरणम् । अथ रत्नपाणिर्बोधिसत्त्वो महासत्त्वो भगवन्तमेतदवोचत्- परमाश्चर्याद्भुतप्राप्तोऽहं भगवन् । न च मे कदाचिदस्माभिरीदृशो विषयो दृष्टो वा श्रुतो वा, यादृशोऽवलोकितेश्वरस्य बोधिसत्त्वस्य महासत्त्वस्य विषयः । तादृशस्तथागतानामपि न संविद्यते ॥ भगवानाह - अस्ति कुलपुत्र अस्मिन्नेव जम्बुद्वीपे वज्रकुक्षिर्नाम गुहा । अत्र अनेकान्यसुरकोटीनियुतशतसहस्राणि प्रतिवसन्ति स्म । तत्र कुलपुत्र अवलोकितेश्वरो बोधिसत्त्वोऽसुररूपेणासुराणां धर्मं देशयति । इमं च कारण्डव्यूहमहायानसूत्ररत्नराजमुद्देशयति । धर्मश्रवणायागतानसुरानेवं च कथयति स्म - असुराणां धर्मं शृण्वन्तु भवन्तः । ये चान्येऽसुरपर्षदस्ते मैत्रचित्ताः शान्तचित्ताः दयाचित्ताः सत्त्वानामन्तिके हितसुखचित्ता भावं समन्वाहृत्य इमं कारण्डव्यूहं धर्मपर्यायं श्रोतव्यम् ॥ अथ तेऽसुराः कृतकरपुटा अवलोकितेश्वरस्यान्तिकमिमं धर्मपर्यायं शृण्वन्ति स्म । ते सुखिता लोके ये ईदृशं चिन्तामणिसदृशं कारण्डव्यूहं महायानसूत्ररत्नराजमभिमुखीकुर्वन्ति, शृण्वन्ति, श्रुत्वा चाभिश्रद्दधास्यन्ति, प्रतीष्यन्ति, लिखिष्यन्ति, लिखापयिष्यन्ति, धारयिष्यन्ति, वाचयिष्यन्ति, पूजयिष्यन्ति, चिन्तयिष्यन्ति, परेभ्यश्च विस्तरेण संप्रकाशयिष्यन्ति, भावयिष्यन्ति, परमप्रीत्या गौरवेणाध्याशयेन च नमस्कुर्वन्ति । तेषां च पञ्चानन्तर्याणि कर्माणि क्षपयन्ति, क्षपयित्वा परिशुद्धकाया भविष्यन्ति, जातिस्मराश्च । मरणकाले द्वादश तथागता उपसंक्रमिष्यन्ति, ते च सर्वे तथागता आश्वासयिष्यन्ति - मा भैषीः कुलपुत्र, त्वया कारण्डव्यूहं महायानसूत्ररत्नराजं श्रुतम् । विविधास्तेऽर्थमार्गाः सज्जीकृताः सुखावती गमनाय च । तत्र सुखावत्यां लोकधातौ तवार्थे विचित्रं च ते छत्रं सिहासनं सज्जीकृतम्, दिव्यमौलीकुण्डलस्रग्दाममीदृशस्य निमित्तम्, मरणकालसमयपरिपन्थित एव सुखावतीमनुगच्छति । एवं स रत्नपाणे प्रतिविशिष्टतरं पुण्यफलं दर्शयन्नवलोकितेश्वरो बोधिसत्त्वो महासत्त्वो निर्वाणिकीं भूमिमुपदर्शयति स्म । असुराणां निर्वाणपथमुपदर्शितं सर्वपापमतिनिवारणार्थमनुत्तरे बोधिमार्गे प्रतिष्ठापनार्थम् ॥ अथ रत्नपाणिर्बोधिसत्त्वो महासत्त्वो भगवतः पादौ शिरसाभिवन्द्य तत्रैव प्रक्रान्तः ॥ इति असुराश्वासनं नाम नवमं प्रकरणम् ॥ _________________________________________________________________ १,१०: काञ्चनमयभूम्याद्युपस्थानं दशमं प्रकरणम् । अथे सर्वनीवरणविष्कम्भी भगवन्तमेतदवोचत्- अतिदुर्लभं भगवनस्यावलोकितेश्वरस्य विकुर्वितानि श्रूयन्ते गुणोद्भावनानि च । भगवानाह - अपि च कुलपुत्र तस्माद्(वैद्य २७०) वज्रकुक्षेर्यदा निष्क्रान्तः, काञ्चनमय्यां भूम्यां प्रविष्टः, तदा गुणोद्भावनां शृणु । तदपि पूर्वतरप्रवचनम् । तदपि समतिक्रम्य विश्वभूर्नाम तथागतोऽर्हन् सम्यक्संबुद्धो बभूव विद्याचरणसंपन्नः सुगतो लोकविदनुत्तरः पुरुषदम्यसारथिः शास्ता देवानां च मनुष्याणां च बुद्धो भगवान् । तेन कालेन तेन समयेन अहं सर्वनीवरणविष्कम्भी बोधिसत्त्वः क्षान्तिवादी ऋषिरभूत्गिरिगह्वरान्तरकर्वटस्थानवासी, मनुष्याणामवचरे पृथिवीप्रदेशे व्यहरन् । तदा कालानुकालं मया तस्य विश्वभुवः तथागतस्य सकाशात्गुणोद्भावना अवलोकितेश्वरस्य बोधिसत्त्वस्य महासत्त्वस्य श्रुता विविधसर्वसत्त्वपरिपाचनम् । अस्ति सर्वनीवरणविष्कम्भिन् सा काञ्चनमयी नाम भूमिरस्ति यदुत्तरस्यां काञ्चनमय्यां भूम्यां गत्वा अवलोकितेश्वरो बोधिसत्त्वो महासत्त्वोऽधोमुखानां सत्त्वानां धर्मं देशयति स्म । आर्याष्टाङ्गिकमार्गं निर्वाणमुपदर्शयति । स ततः काञ्चनमय्या भूम्या निष्क्रमित्वा रूप्यमय्यां भूम्यां प्रविशति । तत्र स पश्यति चतुष्पादिकानि सत्त्वानि पुरुषपुद्गलानि । दृष्ट्वा तेषामवलोकितेश्वरो बोधिसत्त्वो महासत्त्वो सर्वसत्त्वानामेव धर्मं देशयति - शृण्वन्तु भवन्तः सर्वे पुरुषपुद्गला अभिमुखं धर्मपर्यायं प्रचलमानसुचेतसा निर्वाणिकम् । सत्वरमनुविचिन्तयत ॥ अथे ते सर्वे पुरुषा अवलोकितेश्वरस्य पुरतः स्थित्वा एतदवोचत्- आश्वासय त्वम् । अन्धभूतानां सत्त्वानां मार्गमुपदर्शको भव । अत्राणानां सत्त्वानां त्राणं भव । अशरणानां सत्त्वानां शरणं परायणं मातापितृभूतो भव । तमोभिभूतानां सत्त्वानां प्रनष्टमार्गाणां दीपभूतो भव । सचेतक, महाकरुणया मोक्षमार्गस्योपदर्शक, सुखितास्ते सत्त्वा ये तव सततं परिग्रहं नाममनुस्मरन्ति, उदीरयन्ति च । इदं च समागाढतरं दुःखं न कदाचित्प्रत्यनुभवन्ति, मुञ्चन्ति ते हीदृशं दुःखं यावद्यादृशं वयं प्रत्यनुभवामः ॥ अथ स तेषां सत्त्वानां कारण्डव्यूहं नम महायनसूत्ररत्नराजं कर्णपुटे निश्चारयति स्म । ते च सत्त्वा अमुं धर्मपर्यायं श्रुत्वा अन्योन्यविहितश्रोतृकर्णपुटा निश्चरन्ति स्म । तदपि ते पुरुषाः श्रुत्वा अवैवर्तिकभूमिनिष्पादिताः परमसुखसमर्पिताः संस्कृताः ॥ अथ आर्यावलोकितेश्वरो बोधिसत्त्वो महासत्त्वस्तस्या रूपमय्या निष्क्रम्यान्यतरायां भूम्यां प्रविशति सत्त्वपरिपाकाय महाकरुणासंपीडितहृदयोऽयोमय्यां भूम्यां यत्र स राजा बलिरसुरेन्द्रो बद्धः । स तस्यैव सकाशमुपसंक्रान्तः । उपसंक्रम्य च राज्ञो बलेरसुरेन्द्रस्य दूरतश्चक्षुर्दर्शनं याति स्म सुवर्णबिम्बमिव रश्मिभिः प्रमुञ्चमानैर्नानावर्णैः ॥ इति काञ्चनमयभूम्याद्युपस्थानं नाम दशमं प्रकरणम् ॥ _________________________________________________________________ १,११: बलिसमाश्वासनमेकादशमं प्रकरणम् । अथ स राजा बलिरसुरेन्द्रोऽवलोकितेश्वरं बोधिसत्त्वं महासत्त्वं दूरत एवागच्छन्तं पश्यति स्म । दृष्ट्वा च सान्तःपुरपरिवारैः सार्धमनेकैरसुरशतसहस्रैः कुब्जवामनकादिभिः सहस्रपरिवारैर्गत्वा अवलोकितेश्वरस्य बोधिसत्त्वस्य महासत्त्वस्य पादयोर्निपत्येदमुदानयति स्म - (वैद्य २७१) अद्य मे सफलं जन्म जीवितं पुण्यमेव च । अद्य मे हीदृशं चैव परिपूर्णं मनोरथम् ॥ क्व्यु_१,११.१ ॥ अद्य मे आशयः पूर्णः परिशुद्धश्च दुःखतः । यन्मया दर्शने सम्यग्दृष्ट्वा लोकैकबान्धवः ॥ क्व्यु_१,११.२ ॥ तदा मे सर्वसौख्यं च कामे संतिष्ठते पुनः । सौख्या भवन्ति ते सत्त्वा सर्वदुःखविवर्जिताः ॥ क्व्यु_१,११.३ ॥ संसारबन्धनान्मुक्तास्तिष्ठन्ति सुखमोदकाः । ममापि दर्शनेनैव सर्वे स्फुटितबन्धनाः । दूराद्दूरतरं यान्ति गरूडस्येव पन्नगाः ॥ क्व्यु_१,११.४ ॥ अथ स राजा बलिस्तस्य भगवतोऽवलोकितेश्वरस्य पादयोः प्रणिपत्य रत्नपीठकं दत्त्वा दशनखाञ्जलिं कृत्वैवमाह - अपि च । भगवन्, निषीदस्व अस्मिन्नासने, अनुग्रहं कुरु, पापरतानां जात्यन्धभूतानां परदारगमनप्रसक्तानां प्राणातिपातोद्युक्तानां परप्राणाहिंसकानां जरामरणभयभीतानामुद्विग्नमानसानां संसारदुष्टवार्तानां त्राता भव । अनाथानां मातापितृभूतो भव । दुष्टदारुणचण्डभूतानां भगवन् त्राता भव । परमदारुणदुष्टप्रशमको भव । एषामस्माकं बन्धनबद्धानां तव दर्शनेन सर्वबन्धनादयः परिमुक्ताः, स्फुटिताः दूराद्दूरतरं पलायन्ति । त्वद्दर्शनमात्रेण यानि तानि राज्ञश्चक्रवर्तिनश्च शुभकर्मजातानि चक्रवर्तिसुखानि मम संविद्यन्ते, तत्स भगवन् तादृशं धर्ममार्गमुपदर्शय, येनैवं पुनरेव बन्धनदुःखं न प्रत्यनुभवेम । न च पुनरिमानि यानि सर्वबन्धनानि चक्षुषु आभासमागच्छेयुः ॥ अथ आर्यावलोकितेश्वरो बोधिसत्त्वो महासत्त्वो राजानं बलिमसुरेन्द्रमेवमाह - ये महाराज सत्त्वानामन्तिके अविहिंसाचित्तमुत्पादयन्ति, तथागतशासने पिण्डपात्रमनुप्रयच्छन्ति, कारोपकारं बहुतरं कुर्वन्ति, न च तेषां केचित्सत्त्वाः स्वप्नेनापि पीडयन्ति । अमुं च कारण्डव्यूहं महायानसूत्ररत्नराजं लिखन्ति, लिखापयन्ति, अन्ततो नामधेयमपि, अस्माद्धर्मपर्यायं शृण्वन्ति, अस्य बोधिसत्त्वस्यैकमपि पिण्डपात्रमनुप्रयच्छन्ति, तेषां च धर्मभाणकानामस्य धर्मपर्यायस्य धारकानां वाचकानां लेखकानां संश्रावकाणाम्, अस्य च तथागतस्य धर्मपर्यायमुद्दिश्य एकदिवसमपि पुरोभक्तमपि पिण्डपात्रमनुप्रदास्यति, ते सर्वे चक्रवर्तिराज्यलाभिनो भविष्यन्ति । न च कदाचित्क्षुत्पिपासादुःखं प्रत्यनुभविष्यन्ति । न च कदाचिन्नरकबन्धनदुःखं प्रत्यनुभविष्यन्ति । न च प्रियविप्रयोगदुःखम् । अपि च सर्वदुःखेभ्यो विमुच्यन्ते । सुखावतीलोकधातुमनुगमिष्यन्ति, तस्य च भगवतोऽमिताभस्य तथागतस्य पुरतः संमुखं धर्मं श्रुत्वा व्याकरणमनुप्राप्स्यन्ति । अपि च महाराज । श्रूयतां दानफलम् । तद्यथापि नाम कुलपुत्र ये तथागतस्यार्हतः सम्यक्संबुद्धस्य तिष्ठतः परिनिर्वृतस्य वा पिण्डपात्रमनुप्रयच्छन्ति, तेषामिदं पुण्यस्कन्धं प्रवक्ष्यामि । तद्यथापि नाम कुलपुत्र (वैद्य २७२) द्वादशगङ्गानदीवालुकोपमा मम सदृशा बोधिसत्त्वा महासत्त्वा भवेयुः, ते चैकस्थाने धारयेयुर्दिव्यकल्पतत्पुण्यप्रमाणमुद्ग्रहीतुं सर्वसुखोपधानेन समुपतिष्ठमानाः, तेऽपि सर्वे समग्रीभूता न शक्यन्ते एकस्य पिण्डप्रात्रप्रदानस्य कुशलमूलसंभारस्य पुण्यस्कन्धं गणयितुम् । प्रागेवाहमेकाकी अस्मिन्नसुरभवने विहरामि । तद्यथापि नाम कुलपुत्र शक्यते मया परमाणुरजसां प्रमाणमुद्ग्रहीतुम् । न तु कुलपुत्र शक्यं मया पिण्डपात्रस्य पुण्यस्कन्धं गणयितुम् । तद्यथापि नम कुलपुत्र चतुर्षु महाद्वीपेषु स्त्रीपुरुषदारकदारिकादयस्ते सर्वे कृषिकर्मान्ते उद्युक्ता भवेयुः । ते चतुर्महाद्वीपेषु नान्यं कृषिं कारयेयुः । कालेन कालं नागराजानो वर्षधारामनुप्रयच्छन्ति । ते च सर्षपान्निष्पाद्यन्ते । तच्चैकद्वीपखलं कुर्यात् । सर्वे ते स्त्रीपुरुषदारकदारिकादयः शकटैर्भारैर्मुटैः पीठकैरुष्ट्रैर्गोभिर्गर्दभैः सर्वे ते मर्दयित्वा तस्मिन्महाखलके महान्तं राशिं कुर्यात् । गोभिर्गर्दभादिभिर्मर्दयित्वा महान्तं राशिं निष्पादयित्वा । तच्छक्यं कुलपुत्र एकमेकं फलं गणयितुम् । न तु कुलपुत्र शक्यते पिण्डपात्रस्य पुण्यस्कन्धं गणयितुम् । तद्यथापि नाम कुलपुत्र सुमेरुः पर्वतराजः चतुरशीतियोजनसहस्राणि अधस्तादुपगतः ऊर्ध्वेण चतुरशीतियोजनसहस्राण्युच्छ्रयेण च । स कुलपुत्र भूर्जराशिर्भवेत् । महासमुद्रो मेलन्दुकपरिमण्डलं भवेत् । ये चतुर्द्वीपनिवासिनः पुरुषदारकदारिकास्ते च सर्वे लेखका भवेयुः । तच्च सुमेरुपर्वतराजान्तपर्यन्तं लिखितं भवेत् । तच्च कुलपुत्र शक्यं मयैकैकाक्षरं गणयितुम् । न तु कुलपुत्र शक्यते पिण्डपात्रस्य पुण्यस्कन्धं गणयितुम् । तद्यथापि नाम कुलपुत्र लेखकाः सर्वे ते दशभूमिप्रतिष्ठिता बोधिसत्त्वा भवेयुः पर्यापन्नाः । यच्च तेषां दशभूमिप्रतिष्ठितानां बोधिसत्त्वानां महासत्त्वानां पुण्यस्कन्धं तमेकस्य पिण्डपात्रस्य पुण्यस्कन्धं गणयितुम् । तद्यथापि नाम कुलपुत्र गङ्गाया नद्या वालुकासमुद्रस्य च शक्यं मया एकैकं वालुकां गणयितुम्, न तु कुलपुत्र शक्यते मया पिण्डपात्रस्य पुण्यस्कन्धं गणयितुम् । तद्यथापि नाम कुलपुत्र शक्यते मया सर्वमतुरास्रां(?) प्रमाणमुद्ग्रहीतुम् । न शक्यं मया कुलपुत्र पिण्डपात्रस्य पुण्यस्कन्धं गणयितुम् ॥ अथ बलिसुरेन्द्रः इदं च तस्य भगवतोऽवलोकितेश्वरस्यान्तिकात्पिण्डपात्रकुशलभूतस्य सुक्षेत्रावरूढबीजपात्रभूतस्य निर्देश्यमानस्य तत्सर्वमनुमोद्य साश्रुदुर्दिनवदनो गद्गदकण्ठः बाष्पपरिपूर्ण उच्छ्वसनवलोकितेश्वरं बोधिसत्त्वं महासत्त्वमेतदवोचत्- कीदृशं मया भगवन् बलिना कर्म कृतं दानं दत्तम्, येनेहैव जन्मनि बन्धनमनुप्राप्तम्? सान्तः - पुरपरिवारेण कुक्षेत्रे मया दानं दत्तम् । तस्यैव तत्कर्मणः फलमनुभवामि । अथवा सर्वज्ञक्षेत्रे भस्ममुष्टिमुपक्षिप्तमपि अमृतं परिनिष्पद्यते । मयाज्ञानेन यज्ञां यजितम् । यदा मया च भगवन् तैर्थिकदृष्टिपर्यापन्नेन मानग्रस्तमानसेन च यज्ञं यजता महादानसमुच्छ्रयं कर्तुमारब्धम्, तदा मे तत्र यज्ञे वामनकरूपेण याचनको हिंस्रः समागतः । तस्य मे मौलीकुण्डलस्रग्दामानि रत्नाभरणानि ह्यश्वरथादीनि मुक्त्वा रत्नकवचानि मरकतप्रलम्बितानि (वैद्य २७३) चामरप्रलम्बितानि मुक्ताहाराणि मुक्तिकाजालप्रलम्बितानि मुक्तिकाजालप्रतिच्छन्नानि मुक्तिकाकलापजालाङ्गुलीकानि सौवर्णघण्टिकारूप्यनिबद्धानि रणरणायमानानि, (अन्यानि च) कपिलासहस्राणि रूप्यपादानि सौवर्णशृङ्गानि मुक्ताजालप्रलम्बितानि मुक्तिकाजालप्रतिच्छन्नानि अर्घपात्रसमायुक्तानि नानाविचित्रघण्टारत्नसमायुक्तानि, तादृक्षाणि कपिलासहस्राणि, (अन्यानि च) कुमारीणां शतसहस्राणि परमया गुर्वरुणपुष्कलतया समन्वागतानां नानाविचित्राणां कन्यालक्षणसमलंकृतानां परमरूपशोभमानामप्सरसामपि प्रतिस्पर्धिनीनां दिव्यालंकारविभूषितानां मौलीकुण्डलस्रग्दामपरिक्षेपिकाणां केयूरकटकनूपुरकटिमेखलाहस्तोत्तर्या कर्णपृष्ठोत्तर्या हस्ताङ्गुलीयसमायुक्तानां सरसरायमाणमालासमायुक्तानां नानारङ्गोपरक्तवस्त्रप्रावृतानाम्, (अन्यानि) रत्नपीठशतसहस्राण्यनेकानि सुवर्णराशिरूप्यराशीनि रत्नराशीनि स्थापितानि । अनेकानि च वस्त्राभरणानि स्थापितानि । अनेकानि च गोकुलशतानि सगोपालसमायुक्तानि सज्जीकृतानि । अनेकान्यन्नपानशतानां स्थापितानि । दिव्यरसरसाग्रोपेतान्याहाराणि सज्जीकृताणि । अनेकानि सुवर्णरूप्यमयानि दण्डानि रत्नसंयुक्तानि सततं व्यवस्थापितानि । अनेकानि सुवर्णरूप्यमयानि संहासनानि रत्नसंयुक्तानि च । दिव्यानि चामरदण्डानि धत्राण्युपानहानि रत्नपरिवेष्टितानि । अनेकानि सुवर्णमयानि रूप्यमयानि मौलिकुण्डलस्रग्दामसहस्राणि रत्नोपचितानि । तस्मिन् स मया राज्ञा शतसहस्रान् संनिपतितान् ब्राह्मणशतसहस्रं संनिपतितम् । अनेकानि क्षत्रियशतसहस्राणि संनिपतितानि । तदाहं भगवनेवं स्थानस्थितानां यथासंनिपतितानां दृष्ट्वा विस्मयमापन्नः । त्रीणि वाराणि एकच्छत्रां पृथिवीं कृतवान् । तत्र मया पात्रभूतेष्विदं दानं दातुमारब्धम् । एतत्पौर्विकं पापं प्रतिदेशयामि - क्षात्रियभार्याणां गुर्विणीनां यावद्धृदयं स्फुटयित्वा कुमारकुमारिका जीविताद्वयपरोपिताः । ततस्ते च महाक्षत्रियाः सर्वे मया हडनिगडबन्धनैर्बद्धाः । नीत्वा ताम्रगुहायामनेकानि क्षत्रियशतसहस्राणि पञ्चबन्धनबद्धानि कृत्वा स्थापितानि पञ्चपाण्डवप्रभृतीनि । तस्यामेव यक्षगुहायामुपयमानि कीलकानि शृङ्खलासमायुक्तानि तेषां क्षत्रियाणां हस्तपादानि बद्ध्वा स्थापितानि । तदा मे सर्वद्वाराणि जृम्भीकृतानि । प्रथमं द्वारं काष्ठमयम्, द्वितीयं द्वारं खदिरमयम्, तृतीयं द्वारमयोमयम्, चतुर्थं द्वारं ताम्रमयम्, पञ्चमं द्वारं रूप्यमयम्, षष्ठं द्वारं सुवर्णमयम्, सप्तमं द्वारं रत्नमयम् । एतानि सप्त द्वाराणि । एकैकद्वारे पञ्च पञ्च शतानि कपाटानि यन्त्रसमायुक्तानि । तस्मिन् सुवर्णमये द्वारे सप्तपर्वतान्युपर्युपरि स्थापितानि । एकैकस्मिन् द्वारे एकैकपर्वतानि उपर्युपरि स्थापितानि । ततोऽहं पश्चाद्दशरथपुत्रमन्वेषयामि । क्वचिद्दिवसे मक्षिकारूपेण, क्वचिद्दिवसे भ्रमररूपेण, क्वचिद्दिवसे वराहरूपेण, क्वचिद्दिवसे मानुषरूपेण । रूपं कृत्वा दिने दिने मृगपक्ष्यादिना नानाजन्तुरूपेण । न च संमुखं तं समनुपश्यामि । तदा मेऽनुविचिन्तयित्वा यज्ञः प्रारब्धः ॥ तदात्र मे दशरथपुत्रेणावतारप्रेक्षिणा गत्वा तेन द्वारस्थापिताः सप्त पर्वता उत्पाटिताः । उत्पाटयित्वा लघुनीवान्यप्रदेशे छोरयित्वा उच्चैःशब्देन तेषां क्षत्रियाणामारोचयति (वैद्य २७४) स्म युधिष्ठिरनकुलसहदेवभीमसेनार्जुनकौरवादिभिः । अन्ये राजानः शब्दमनुश्रुतं श्रुत्वा समाश्वास्य स्वस्थकाया व्यवस्थिताः । स च तानेवमाह - जीवन्तो युष्माकमथवा मृताः? ते कथयन्ति - जीवामो भगवन् । तेन महावीर्येण पुरुषेण सर्वाणि तानि द्वाराणि भग्नानि । यावत्ताम्रगुहायां पश्यति, सर्वे ते राजानो बन्धनबद्धाः । दृष्ट्वा च नारायणं सर्वे ते परस्परं विचिन्तयन्ति - अथ बलिरसुरेन्द्रो मृतः कालगतः? अथवा पुनरपि मरणकालोऽस्माकं भूतः? अथ ते कथयन्ति - वरमस्माकं संग्रामभूमीमरणं न तु बन्धनबद्धानां मरणम् । यदा बन्धनबद्धाः कालं कुर्याम, तदा क्षत्रियधर्ममस्माकं विनश्यति । यदा संग्रामभूमौ कालं कुर्याम, तदा स्वर्गोपगा वयं भवेम ॥ अथ ते राजानः सर्वे स्वकं स्वकं गृहं गताः । तदा रथयोग्यान्यश्वानि स्वकस्वकानि सज्जीकृतानि । यदा ते रथं सज्जीकुर्वन्ति महार्हाणि शस्त्राणि, तदा दशरथपुत्रेण वामनकरूपमभिनिर्माय मृगाजिनेनोत्तर्य वेणुदण्डमुपगृह्य पीठिकामुपगृह्य संप्रस्थितो मत्सकाशम् । द्वारमागतः । द्वारपालैरनुबद्धः - मा प्रविश वामनक ब्राह्मण इति । स कथयति - दूरादेवाहमागतः । अथ स द्वारपालस्तमेतदवोचत्- ब्राह्मण । कतमस्या भूमेस्त्वमागतः? स तमाहचन्द्रद्वीपाद्राजर्षिरहमागतः । अथ स द्वारपालपुरुषो गत्वा बलिमारोचयति - देव, आगतस्ते वामनको ब्राह्मणः । अथ स बलिस्तमेतदवोचत्- कीदृशं वस्तु याचते? अथ स द्वारपालस्तमेतदवोचत्- देव न तमनुजानामि । अथ स बलिस्तमेतदवोचत्- गच्छन्तु भवन्तः, आनीयतां ब्राह्मणः । स तैर्द्वारपालपुरुषैराहूयोक्तः - प्रविश महाब्राह्मण । स प्रविष्टः, रत्नपीठमनुप्रदत्तम् । शुक्रस्तत्रैव व्यवस्थितः । स च तस्योपाध्याय इति ख्यायते । स तं बलिमेतदवोचत्- एष कालपुरुषोऽवप्रविष्टः, अवश्यं ते विघातो भविष्यति । बलिस्तमेतदवोचत्- कथं जानासि भगवन्? शुक्र उवाच - जानाम्यहं तस्य निमित्तानि चिह्नानि च दृष्ट्वा । बलिराह - किमुपायं वयं कुर्यामः? अथ नारायणेन विचिन्त्य अवश्यं दानस्य विप्रतिसारं भविष्यति । तेन मे सरस्वती मुखे न्यस्ता, तदा स कथयति - आगच्छ ब्राह्मण । कीदृशमभिप्रायो भवतः? स प्रविश्यैतदवोचत्- द्विपदभूमी याचयामि । बलिरुवाच - यदि त्वं ब्राह्मण द्विपदं याचसे, मया त्रीणि पदानि तेऽनुप्रदत्तानि । स प्रतिग्रहं तस्योपगृह्य स्वस्तिमुपवद्यानुगृहीतं तेन तिलपानीयसुवर्णसहितम् । ततस्तेन वामनकरूपमन्तर्धापितम् । अथ शुक्रो बलिमेतदवोचत्- राजन् कथितं मया कालपुरुष एष प्रविष्टः । न च त्वया प्रमाणं कृतं वचनम् । तस्यैतत्कर्मफलमनुभव । तेनात्मानं महाप्रमाणीकृतम् । तस्य चन्द्रादित्यौ स्कन्धौ व्यवस्थितौ । गृहीत्वासौ निगडचक्रधनुस्तोमरभिण्डिपालासन्नह्य (?) ॥ अथ बलिरसुरेन्द्रोऽधोमुखं प्रपतितः स्मृतिभ्रष्टः थरथरायमानः स्थितः । किं कृत्य(?) स्वहस्तेन मया विषं भक्षितम् । द्विपदानि परिपूरितानि । तृतीयं पदं न संविद्यते । तदा स कथयति - तृतीयस्य पदं न संविद्यते । यन्मम प्रतिग्रहं याचितम्, कीदृशं पापं करोम्यहम्? अथ नारायणस्तमेतदवोचत्- यत्राहं स्थापयामि तत्र त्वया स्थातव्यम् । (वैद्य २७५) अथ स बलिरसुरेन्द्रस्तमेतदवोचत्- यादृशं त्वयाज्ञप्तं तादृशं करोम्यहम् । सत्यं कुरुषे? स कथयति - सत्यं सत्यं करोम्यहम् । तेन सत्यपाशैर्बद्धः । सा च यज्ञभूमिर्विनाशिता । तानि च भाण्डान्युच्छिष्टीकृतानि । ता अपि च कुमारिकाः पाण्डवैः कौरवैर्विध्वंसिताः । तानि च सुवर्णमयानि सिंहासनानि दिव्यानि च्छत्राण्युपानहानि रत्नपरिवेष्टितानि च वस्त्राभरणानि च सुवर्णघण्टानि सुवर्णकटकानि रत्नखचितानि कपिलानि कौरवपाण्डवैर्विध्वंसितानि । सा च यज्ञभूमिर्विनाशिता ॥ अथ स बलिरसुरेन्द्रो यज्ञभूमेर्निष्क्रान्तः शरीरचिन्तामापेदे - दाता बलिरुदारयज्ञमुपास्य । कालदानस्य दत्तस्य बन्धनमेव लब्धम् । नमोऽस्तु देवाय । यथैव कर्ता सर्ता स नीत्वा पातालमुपस्थापितः सान्तःपुरपरिवारः । आख्यातं हि मया भगवन् - भूतपूर्वं कुरुक्षेत्रे मया दानं दत्तं तस्यैतत्कर्मफलमनुभवामि । तथा त्राता भवाहि मे भगवन्नाथ, न भूयो दुःखमाप्नुयाम् ॥ अथ बलिस्तं भगवन्तमार्यावलोकितेश्वरं बोधिसत्त्वं महासत्त्वं स्तोत्रविशेषैः स्तोतुमारब्धः - त्राणं भवाहि शुभपद्महस्त । पद्मश्रियालंकृतशुद्धकाय । अमिताभमूर्ते शिरसा नमामि । जटार्धमध्ये चिन्तामणिमुकुटधराय । शुभपद्महस्ताय । पद्मश्रिया समलंकृताय । जटामुकुटधराय । सर्वज्ञवशीकृताय । बहुसत्त्वाश्वासनकराय । हीनदीनानुकम्पाय । दीवाकरवररोचनकराय । पृथिवीवररोचनकराय । भैषज्यराजोत्तमाय । सुशुद्धसत्त्वाय । परमयोगमनुप्राप्ताय । मोक्षप्रवराय मोक्षप्रियाय । चिन्तामणिवत्सदृशाय । धर्मगञ्जपरिपालनकराय । षट्पारमितानिर्देशनकराय । सुचेतनकराय । इदं स्तोत्रं मया कृतमवलोकितेश्वरस्य । सुखितास्ते सत्त्वा ये तव नामधेयमनुस्मरन्ति । मुच्यन्ते ते कारसूत्रै रौरवोपपन्नेषु अवीच्युपपन्नेषु प्रेतनगरोपपन्नेषु ये तव नामधेयमनुस्मरन्ति । मुच्यन्ते त बहवः पापदुःखात् । सुचेतनास्ते सत्त्वा ये तव नामधेयमनुस्मरन्ति । गच्छन्ति ते सुखावतीलोकधातुम् । अमिताभस्य तथागतस्य धर्ममनुस्मरन्ति शृण्वन्ति ॥ अथ आर्यावलोकितेश्वरो बलेरिन्द्रस्य व्याकरणमनुप्रयच्छति स्म - भविष्यसि त्वमसुरेन्द्र श्रीर्नाम तथागतोऽर्हन् सम्यक्संबुद्धो विद्याचरणसंपन्नः सुगतो लोकविदनुत्तरः पुरुषदम्यसारथिः शास्ता देवानां च मनुष्याणां च बुद्धो भगवान् । सर्वे तेऽसुरा वैनेया भविष्यन्ति । तत्र तव बुद्धक्षेत्रे न रागशब्दो न द्वेषशब्दो न मोहशब्दो भविष्यति । षडक्षरी महाविद्या लब्धलाभा भविष्यति । तेन तस्य धर्मदक्षिणा उपनामिता । शतसहस्रमूल्यं मुक्ताहारमुपनामितं मौलीकुण्डलं च नानारत्नसमुच्चितमुपनामितं च ॥ अथ आर्यावलोकितेश्वरो धर्मदेशनां कर्तुमारब्धः - शृणु महाराज । नित्ये ध्रुवे शाश्वते मानुष्यके ये चिन्तयन्ति सततपरिग्रहं महाभोगान्यनुविचिन्तयन्ति दासीदासकर्मकरपौरुषेयान्, यानि च महार्हाणि वस्त्रशय्यासनानि, ये च महार्हा निधानधनधानधनधान्यकोषकोष्ठागाराः, अज्ञानास्ते सत्त्वा ये पुत्रदारदारिकामनुविचिन्तयन्ति भार्यां मातापितरौ । (वैद्य २७६) एभिर्वस्तुभिर्ये सक्तास्ते स्वप्नोपमा एव दृश्यन्ते । मरणकालसमये न कश्चित्तेषां त्राता भवति । यदा प्राणोद्धरणं भवति, तदा जम्बुद्वीपं विपरीतं पश्यति । अथ महतीं वैतरणीं पूयशोणितपरिपूर्णां पश्यन्ति । ये च महार्हा वृक्षास्तान् प्रदीप्तान् सप्रज्वलितानेकज्वालीभूतान् पश्यन्ति । दृष्ट्वा च समापद्यन्ते । ततो यमपालपुरुषैः कालपाशैर्बद्ध्वा नीयन्ते । त्वरितं त्वरितं क्षुरधारोपचिते महापथे पादा विशीर्यन्ते । उत्क्षिप्ते पादे येऽन्याः पादाः प्रादुर्भवन्ति, अनेकैः काकगृध्रश्वानादिभिर्भक्ष्यन्ते । महतीं नारकीयां वेदनां प्रत्यनुभवन्ति । ततः क्षुरधारोपचितान्महापथादवतीर्य यत्र षोडशाङ्गुलिप्रमाणानि कण्टकानि तत्रानीयते, तत एकैकपादे पञ्च पञ्चशतानि कण्टकानि प्रविशन्ति । स चाक्रन्दन्ति - विषयपापरतेन सत्त्वेन कर्म कृतम् ॥ अथ ते यमपालपुरुषा एवमाहुः - मार्षाः, न त्वया तथागतस्य पिण्डपात्रं निर्यातितम् । न च त्वया धर्मगण्डीमाकोट्यमाना श्रुता । न बुद्धनाम गृहीतम् । न च त्वया क्वचिद्दानानि दीयमानानि दृष्ट्वानुमोदितानि । न च त्वया क्वचित्प्रदेशे स्तूपबिम्बानि प्रदक्षिणीकृतानि । स कथयति - अश्राद्धोऽभूवं पापरतो बुद्धधर्मसंघपरिवर्जितः पापमित्रपरिगृहीतः कल्याणमित्रपरिवर्जितश्च । ते कथयन्ति - तस्यैतत्कर्मफलमनुभवसे । स तैर्यमपालकैर्नीयते चैतत्कर्मभूमिमुपदर्शयितुम् ॥ अथे ते यमपुरुषा नीत्वा कालसूत्रे महानरके क्षिपन्ति । शिक्षा चैकैकशक्तिशतं काये विध्यन्ति तदपि जीवति, द्वितीयं शक्तिशतं काये विध्यन्ति तदपि जीवति, तृतीयं शक्तिशतं काये विध्यन्ति तदपि जीवति । यदा कलं न कुर्वन्ति तदाग्निखदामध्ये क्षिपन्ति । तदपि कालं न कुर्वन्ति । ततस्ते तप्तायोगुडामुखे विष्कम्भन्ते दह्यन्ते । तेषामीष्टमपि दन्तानि विशीर्यन्ते, तालूनि विस्फुटन्ते, कण्ठमपि तालुमपि हृदयमपि यन्त्रवत्कला निगडायमाना सर्वं तं कायं दह्यन्ते । एवमेव हा राजन्न कश्चित्त्राता भविष्यति परलोके । तस्मात्तर्हि तं महाराज यत्नेन पुण्यं कर्तव्यम् । एवं सानुलोमिकीं धर्मदेशनां कृत्वा च तं राजानं बलिमसुरेन्द्रमेवमाह - अप्रमत्तेन भवितव्यम्, न पुनः कदाचित्प्रमादचारिणा भवितव्यम् । एवं बहुदोषदुष्टोऽयं गृहावासः परमदारुणनरकभूमिप्रपातनः । तस्मात्तर्हि महाराज अप्रमत्तेन भवितव्यं पापभीरुणा । परलोकं दर्शितम् । अपि च महाराज । ममान्तिकाद्धर्मदेशनां शृण्वतो निरवशेषाणि पापस्कन्धानि न च सुपरिशुद्धानि । सर्वदुःखतरगाढबन्धनैः परिमुक्तः । सुखावतीलोकधातुगमनाय तव पन्थानं परिशुद्धम् । तत्र च तव सप्तरत्नमयं पद्मासनं प्रादुर्भूतं भविष्यति । यत्र रत्नपद्मे निषद्य तस्य भगवतोऽमिताभस्य तथागतस्यार्हतः सम्यक्संबुद्धस्यान्तिकातिमं सर्वदुःखपापस्कन्धं पापशमनं सर्वदुर्गतिसाधनमनन्तमणिमहापुण्यनिर्देशं कारण्डव्यूहमहायानं सूत्ररत्नराजं त्वं श्रोष्यसि, श्रुत्वा च तत्रैव व्याकरणमनुप्राप्स्यसे अनुत्तरायां सम्यक्संबोधौ, तावत्सुपरिशुद्धबोधिचित्तालंकारं नाम बोधिसत्त्वजन्म प्रतिलप्स्यसे । यावदनुत्तरां सम्यक्संबोधिमभिसंबुद्धो भविष्यसि ॥ (वैद्य २७७) अथ आर्यावलोकितेश्वरो बोधिसत्त्वो महासत्त्वस्तस्य च बलेरसुरेन्द्रस्य इमं सर्वदुर्गतिपरिशोधनं बोधिसत्त्वालंकारकारण्डव्यूहं नाम धर्मालोकं देशयित्वा तं राजानं बलिमसुरेन्द्रं समाश्वास्य इदमवोचत्- गमिष्याम्यहम् । अस्मिन् जेतवने महाविहारेऽद्य महासंनिपातो भवति ॥ इति बलिसमाश्वासनं नामैकादशं प्रकरणम् ॥ _________________________________________________________________ १,१२: यक्षादिसमाश्वासनं द्वादशं प्रकरणम् । ततोऽवलोकितेश्वरेण बोधिसत्त्वेन महासत्त्वेन रश्मय उत्सृष्टाः । अनेकानि नानावर्णानि नीलपीतलोहितावदातानि माञ्जिष्ठस्फटिकरजतवर्णानि । गत्वा च विश्वभूवस्तथागतस्य पुरतो व्यवस्थितानि । तदा ते देवा नागा यक्षा राक्षसा असुरा गरुडाः किन्नरा महोरगा मनुष्याः संनिपतिताः । अनेकानि बोधिसत्त्वशतानि संनिपतितानि ॥ अथ तेषां बोधिसत्त्वेनां मध्ये गगनगञ्जो नाम बोधिसत्त्व उत्थायासनादेकांसमुत्तरासङ्गं कृत्वा दक्षिणं जानुमण्डलं पृथिव्यां प्रतिष्ठाप्य येन भगवांस्तेनाञ्जलिं प्रणम्य भगवन्तमेतदवोचत्- कुतो भगवन् रश्मय आगच्छन्ति? भगवानाह - एष कुलपुत्र अवलोकितेश्वरो बोधिसत्त्वो महासत्त्वो बलेरसुरेन्द्रस्य भवने विहरति, तेन तस्मान्निष्क्रामित्वा अमी रश्मयः प्रमुक्ताः । ततोऽमी रश्मय आगच्छन्ति, पुनस्तस्यैव सकाशं गताः ॥ अथ गगनगञ्जो बोधिसत्त्वो महासत्त्वो भगवन्तमेतदवोचत्- केनोपायेन पश्येयमहमवलोकितेश्वरं बोधिसत्त्वं महासत्त्वम्? भगवानाह - एष कुलपुत्र इहैवागच्छत्यवलोकितेश्वरः । यदा अवलोकितेश्वरो बोधिसत्त्वो महासत्त्वो बलेरसुरेन्द्रस्य भवनान्निष्क्रान्तः, तदा जेतवने महाविहारे दिव्यानि पुष्पवर्षाणि पतन्ति, दिव्यानि कल्पवृक्षशतानि परमशोभनीयानि, रत्नालंकारशतसहस्राणि प्रलम्बितानि, मुक्ताहारशतसहस्राणि प्रलम्बितानि, काशिकवस्त्रसच्चीवराणि प्रलम्बितानि, लोहितदण्डानि सुवर्णरूप्यपत्राणि अनेकानि पुष्पवृक्षशतानि अनेकानि पुष्करिणीशतानि पुष्पपरिपूर्णानि परमशोभनीयानि प्रादुर्भूतानि ॥ अथ गगनगञ्जो बोधिसत्त्वो महासत्त्वो भगवन्तमेतदवोचत्- नागच्छति भगवन्नवलोकितेश्वरो बोधिसत्त्वो महासत्त्वः? भगवानाह - एष कुलपुत्र ततो बलेरसुरेन्द्रस्य भवनान्निष्कम्य परमभीषणीयं तमोन्धकारं नाम पृथिवीप्रदेशं यक्षराक्षसानां भूमिममनुष्यावचरमपृथिवीप्रदेशं तत्र गच्छति । यत्र कुलपुत्र चन्द्रादित्यौ न ज्ञायेते, तत्र च पृथिवीप्रदेशे वरदो नाम चिन्तामणिरत्नराजोऽस्ति । स च तत्रावभासं कुरुते । अनेकानि यक्षराक्षसशतसहस्राणि तस्मिन् द्वीपे प्रतिवसन्ति । यदावलोकितेश्वरो बोधिसत्त्वो महासत्त्वः प्रतिवसति, तदा दर्शनमात्रात्सर्वयक्षराक्षसाः परमहृष्टतुष्टाः प्रमुदितहृदया भवन्ति । अथ तेऽवलोकितेश्वरस्य पुरस्ताद्धावन्ति, निर्धावन्ति, धावित्वा पादयोः प्रणिपत्य संभाषयन्ति - मा त्वं भगवन् श्रान्तक्लान्तो यस्त्वं चिरकालेन दृष्टः, यस्त्वमस्यां तमोन्धकारायां भुमौ विहरसि । (वैद्य २७८) स कथयति - अनेकानि कर्तव्यानि मे । न च मयैकसत्त्वस्यार्थे आत्मभावः परिनिष्पादितः । अपि तु सर्वसत्त्वानामन्तिके मया महाकरुणाचित्ततोत्पादयितव्या ॥ अथ ते सर्वे यक्षराक्षसा दिव्यसुवर्णरत्नमयं सिंहासनं प्रसमयन्ति तस्यावलोकितेश्वरस्यार्थे विचित्रैः पुष्पमयैः संछादितम्, यत्र च भगवान्निषद्य धर्मं देशयति । स तैर्यक्षराक्षसैर्नीत्वा तत्र दिव्यसुवर्णरत्नमये सिंहासने विश्रामितः । ततः अवलोकितेश्वरस्तेषां यक्षराक्षसानां धर्म देशयति - शृण्वत्तु भवन्तः । आर्यकारण्डव्यूहस्य महायानसूत्ररत्नराजस्य चतुष्पादिकामपि गाथां ये श्रोष्यन्ति, श्रुत्वा च धारयिष्यन्ति पर्यवाप्स्यन्ति प्रवर्तयिष्यन्ति, योनिशं च मनसि करिष्यन्ति, तेषामिदं पुण्यस्कन्धसंचोदनो भविष्यति । तद्यथापि नाम कुलपुत्राः शक्यं मया परमाणुरजसां प्रमाणमुद्ग्रहीतुम्, न तु कुलपुत्राः शक्यं मया कारण्डव्यूहस्य महायानसूत्ररत्नराजस्य पुण्यस्कन्धं गणयितुम् । तद्यथापि नाम कुलपुत्राः शक्यं मया महासमुद्रस्यैकमुदकबिन्दुं गणयितुम्, न तु कुलपुत्राः शक्यं मया कारण्डव्यूहस्य महायानसूत्ररत्नराजस्य चतुष्पादिकाया अपि गाथायाः पुण्यस्कन्धं गणयितुम् । तद्यथापि नाम कुलपुत्राः द्वादशगङ्गानदीवालुकोपमास्तथागता अर्हन्तः सम्यक्संबुद्धाद्वादशकल्पानेकस्थाने धारयेयुः, चीवरपिण्डपात्रशयनासनग्लानप्रत्ययभैषज्यपरिष्कारैः पुष्पधूपगन्धमाल्यविलेपनचूर्णचीवरच्छत्रध्वजघण्टापताकाभिः, तेऽपि तथागताः सर्वे सहिता भूत्वा कारण्डव्यूहस्य महायानसूत्ररत्नराजस्य चतुष्पादिकाया अपि गाथायाः पुण्यस्कन्धं गणयितुं न शक्नुवन्ति स्म, प्रागेवाहमेकाकी तमोन्धकारभूमौ विहरामि ॥ तद्यथापि नाम कुलपुत्राश्चतुर्महाद्वीपेष्वेकैकद्वीपप्रमाणं गृहं विहारं वा कारयेद्दिव्यसुवर्णरत्नमयम्, तत्र गृहे विहारे वा स्तूपसहस्रं कुर्यात्, तेषां चैकदिने धात्वावरोपणं कुर्यात्, यच्च तेषां धात्वावरोपणेषु पूजायां पुण्यस्कन्धम्, ततो बहुतरं कारण्डव्यूहस्य महायानसूत्ररत्नराजस्य चतुष्पादिकाया अपि गाथायाः पुण्यस्कन्धम् । तद्यथापि नाम कुलपुत्राः पञ्च महानद्यो सहस्रनदीपरिवारा महासमुद्रमुपसंक्रामन्ति, एवमेव कुलपुत्रा अस्य कारण्डव्यूहमहायानसूत्ररत्नराजस्य चतुष्पादिकामपि गाथां शृण्वतां पुण्यौघप्रवाहमुपप्रवहति ॥ अथ ते यक्षराक्षसा अवलोकितेश्वरमेतदवोचन् - ये सत्त्वाः कारण्डव्यूहं महायानसूत्ररत्नराजं लिखापयिष्यन्ति, तेषां किदृशं पुण्यस्कन्धं भवति? स आह - अप्रमेयं तेषां कुलपुत्राः पुण्यस्कन्धं प्रभवति । ये कारण्डव्यूहं महायानसूत्ररत्नराजं लिखापयन्ति, तैश्चतुरशीतिधर्मस्कन्धसहस्राणि लिखापिउतानि भवन्ति । ते राजानो भवन्ति, चक्रवर्तिनश्चतुर्द्वीपेश्वरा भवन्ति । ते सहस्रं पुत्राणां शूराणां वीराणां वराङ्गरूपिणां परसैन्यप्रमर्दकानां जनयन्ति । ये सततपरिग्रहं कारण्डव्यूहस्य महायानसूत्ररत्नराजस्य नाममनुस्मरन्ति, मुच्यन्ते ते ईदृशात्संसारिकाद्दुःखात् । जातिजराव्याधिमरणशोकपरिदेवनादुःखदौर्मनस्योपायासपरिमुक्त भवन्ति । यत्र यत्रोपपद्यन्ते, तत्र तत्र जातौ जातौ जातिस्मरा भवन्ति । (वैद्य २७९) तेषां च कायात्गोशीर्षचन्दनगन्धो वास्यति । नीलोत्पलगन्धिनो मुखा भवन्ति । परिपूर्णगात्राश्च भवन्ति । महानग्ना अपरिमाणपुण्यबलसमन्वागताश्च ते सत्पुरूषा भविष्यन्ति । न कदाचित्यक्षत्वं न राक्षसत्वं न प्रेतत्वं न पिशाचत्वं न पूतनात्वं न कटपूतनात्वं न मनुष्यदारिद्र्यं प्रत्यनुभविष्यन्ति । गङ्गानदीवालुकासमानां बुद्धानां भगवतां सेवापुण्यस्कन्धेन समन्वागता भविष्यन्ति । येऽपि केचित्कुलपुत्राः सत्त्वा अस्मात्कारण्डव्यूहमहायानसूत्ररत्नराजादेकाक्षरमपि नामधेयमपि चतुष्पादिकामपि गाथां लिखापयिष्यन्ति, तेषां पञ्चानन्तर्याणि कर्माणि निरवशेषं परिक्षयं गमिष्यन्ति । ते चाभिरूपा भविष्यन्ति । प्रासादिका भविष्यन्ति । दर्शनीयाश्च भविष्यन्ति । बहुजनप्रियमनापदर्शनेन च भविष्यन्ति । तेषां न कश्चित्काये व्याधिः प्रभविष्यति । न चक्षुरोगं न श्रोत्ररोगं न घ्राणरोगं न जिह्वारोगं न कायरोगम् । न हीनाङ्गानि भविष्यन्ति । न प्रत्यन्तिकेषु जनपदेषु प्रत्याजायन्ते । न म्लेच्छेषु न पापकुलेषु नोरभ्रिकेषु न कौक्कुटिकेषु न जत्येषु(?) प्रत्याजायन्ते । सुपरिशुद्धकायाश्च ते सत्पुरुषा भविष्यन्ति ॥ अथ आर्यावलोकितेश्वरो बोधिसत्त्वो महासत्त्व एवं तेषां यक्षराक्षसानां तमोन्धकारवासिनां सर्वेषां चानुलोमिकां धर्मदेशनां कृतवान् । ते यक्षराक्षसास्तां धर्मदेशनां शुभां श्रुत्वा केचित्स्रोतआपत्तिफले प्रतिष्ठिताः । केचित्सकृदागामिफले, केचिदनागमिफले, केचिदर्हत्त्वे, केचित्प्रभुत्वबोधौ प्रतिष्ठिताः ॥ अतो येनार्यावलोकितेश्वरो बोधिसत्त्वो महासत्त्वः तेनोपसंक्रम्य पादयोः प्रणिपत्य एवं कथयन्ति - इहैव भगवन् विहरस्व, मान्यत्र स्थाने क्वचिद्गच्छ, वयं ते उपस्थानपरिचर्यां करिष्यामः, वयं च तवान्तिके अस्मिन्नेव तमोन्धकारभूमौ तवार्थाय दिव्यानि सौवर्णमयानि चंक्रमणानि करिष्यामः । मा भगवन्नन्यत्र प्रदेशं गच्छस्व, वयं तवादर्शनात्कथं तिष्ठामः? अथ आर्यावलोकितेश्वरो बोधिसत्त्वो महासत्त्वस्तांश्च यक्षराक्षसानेतदवोचत्- अनेकानि च मया कुलपुत्राः सत्त्वानि बोधिमार्गे नियोजयितव्यानि । अथ ते सर्वे यक्षराक्षसाः करे कपोलं दत्त्वा चिन्तापरा व्यवस्थिताः । ते परस्परमेवमाहुः - गमिष्यति अयमस्माकमवलोकितेश्वरो बोधिसत्त्वो महासत्त्वोऽन्यतरं पृथिवीप्रदेशम्, तद्वयं धर्मसांकथ्यविप्रहीणा भविष्यामः । किमस्माभिः कर्तव्यम्? अथ आर्यावलोकितेश्वरो बोधिसत्त्वो महासत्त्वस्तस्यास्तमोन्धकाराया भूम्याः संप्रस्थितः । अथ ते तमोन्धकारप्रतिवासिनो यक्षराक्षसास्तस्य भगवतोऽवलोकितेश्वरस्य बोधिसत्त्वस्य महासत्त्वस्य पृष्ठतः पृष्ठतः समनुबद्धा गच्छन्ति स्म । अथ अवलोकितेश्वरो बोधिसत्त्वो महासत्त्वस्तानेतदवोचत्- प्रतिनिवर्तयध्वम् । दूरतमेवमाह(?) ॥ ते यक्षराक्षसाः पादौ शिरसा वन्दित्वा त्रिःप्रदक्षिणीकृत्य तत्रैव च प्रक्रान्ताः ॥ इति यक्षादिसमाश्वासनं नाम द्वादशं प्रकरणम् ॥ _________________________________________________________________ १,१३: (वैद्य २८०) देवभवनभ्रमणं त्रयोदशं प्रकरणम् । अथार्यावलोकितेश्वरो ज्वलदिवाग्निपिण्डमाकाशेऽन्तर्हितः । ततो देवभवनं गत्वा शुद्धावासकायिकदेवपुत्राणां सकाशमुपसंक्रान्तः । उपसंक्रम्य ब्राह्मणरूपमात्मानमभिनिर्मायागमत् । तत्र देवनिकायेषु सुकुण्डलो नाम देवपुत्रो दरिद्रो दुश्चित्तश्चेति । अथ आर्यावलोकितेश्वरः स तेन ब्राह्मणरूपेण तस्य देवपुत्रस्य सकाशमुपसंक्रान्तः । उपसंक्रम्य सर्वेषां देवानां दारिद्र्यदुःखव्युपशमाय तं देवपुत्रमेतदवोचत्- बुभुक्षितोऽहं तृषितश्चेति । अथ स देवपुत्रो रुदंस्तं ब्राह्मणमेतदवोचत्- न च मे ब्राह्मण किंचित्संविद्यते । ब्राह्मणोऽवोचत्- अवश्यं त्वया मम किंचिद्दातव्यम् । अथ स देवपुत्रो विमानं प्रविश्य सर्वभाण्डं निरभ्यवेक्षितुमारब्धः । स च परिपतितं निवेशनं दिव्यैर्महार्है रत्नभाण्डैः परिपूर्णं दक्षिणपार्श्वम्, अन्यानि च भाण्डानि दिव्यरसरसाग्रोपेतैराहारैः परिपूर्णानि वामपार्श्वे विमानस्य वस्त्राभरणैः सर्वपुष्पगन्धादिभिः परिपूर्णानि ॥ अथ स देवपुत्र एतद्दृष्टैवं चिन्तामापेदे - अवश्यमयं स सत्पात्रो द्वारे स्थितो यस्य दर्शनमात्रेणापिदृशी लक्ष्मीर्ममानुप्राप्ता । अथ स देवपुत्रस्तं ब्राह्मणमाहूयैवमाह - एहि ब्राह्मण, इदं विमानं प्रविश । स च ब्राह्मणस्तेन देवपुत्रेण विमाने प्रविश्य तैर्दिव्यरत्नैः प्रतिपादितः, दिव्यै रसरसाग्रोपेतैराहारैर्भोजितः, दिव्यैर्वस्त्रैः प्रवारितः । स भुक्त्वा च स्वस्तिकारमनुकुरुते । अथ स देवपुत्रस्तं ब्राह्मणमेतदवोचत्- भो ब्राह्मण, कतमाया भूम्यास्त्वमागतः? ब्राह्मण आह - जेतवननाममहाविहारादहमागतः । अथ स देवपुत्रस्तमेतदवोचत्- कीदृशी सा भूमिः? अथ स ब्राह्मणो देवपुत्रमेतदवोचत्- तथागताध्युषिता सा भूमी रमणीया दिव्यमणिरत्नपरिखचिता परिशोभिता । परिभोगाय च तद्भूमौ दिव्यकल्पवृक्षाः प्रादुर्भूताः, मनोरमाणि पुष्पाणि प्रादुभर्वन्ति, विविधाः पुष्करिण्यो दृश्यन्ते, विविधाश्च शीलवन्तो गुणवन्तो दक्षिणीया दृश्यन्ते विश्वभुवः । तथागतस्यानेकानि प्रातिहार्याणि दृश्यन्ते । एवं सा परमरमणीया देवपुत्र भूमिः । अथ स देवपुत्रस्तं ब्राह्मणमेतदवोचत्- अवश्यं त्वया ब्राह्मण सत्यं प्रत्याहारः कर्तव्यः । अथवा त्वं देवोऽसि, मनुष्योऽसि वा? न च मनुष्यस्येदृशं निमित्तं भवति यादृशं तव निमित्तं भवति । अथ स ब्राह्मणस्तमेतदवोचत्- न देवः, अपि तु मानुषोऽहं बोधिसत्त्वभूतः । एवं हीनदीनानुकम्पको बोधिमार्गमुपदर्शकः । अथ स देवपुत्रस्तस्मै मौलिकुण्डलमुपनामयति, उपनामयित्वा च स देवपुत्र इमां गाथां भाषित(वान्) - अहो गुणमयं क्षेत्रं सर्वदोषविवर्जितम् । अद्यैव वापितं बीजमद्यैव फलसंपदम् ॥ अथ स देवपुत्र इमां गाथां भाषित्वा तत्रैव प्रक्रान्तः ॥ इति देवभवनभ्रमणं नाम त्रयोदशं प्रकरणम् ॥ _________________________________________________________________ १,१४: (वैद्य २८१) सिंहलभ्रमणं चतुर्दशं प्रकरणम् । अथ स ब्राह्मणः तस्माद्देवनिकायादवतीर्य सिंहलद्वीपं प्रत्युद्गतः । गत्वा च राक्षसीनां पुरतो व्यवस्थितः कामरूपमात्मानमभिनिर्माय प्रासादिकम् । अथ ता राक्षस्योऽन्योन्यमेवमाहुः - अयमीदृशं परमकामरूपी पुरुषो दृश्यते । अथ तं दृष्ट्वा च तदा तासां राक्षसीनां कामचित्तमुत्पन्नम् । तदा तस्य सकाशमुपसंक्रम्यैतदवोचन् - भवांस्त्वं भजस्व अस्माकं कुमारीयौवनम्, न चास्माकं स्वामी संविद्यते । त्वं च भो पुरुष, अस्वामिकानां स्वामी भव । अगतिकानां गतिर्भव । अपरायणानां परयाणो भव । अत्राणानां त्राणं भव । अद्वीपानां द्वीपो भव । अन्धानामालोको भव । इमानि तेऽन्नगृहाणि पानगृहाणि वस्त्रगृहाणि विविधानि विचित्राणि शयनानि उद्यानरमणीयानि पुष्किरिणीरमयाणि ॥ स कथयति - मदीयमाज्ञप्तं यदि कुरुते, तत्सर्वं युष्माकं यथाभिप्रायं करिष्यामि । ताश्च तमाहुः - कथं वयं तवाज्ञां न करिष्यामः? तेन तासामार्याष्टाङ्गिकमार्गमुपदर्शितम् । दश कुशलानि कर्मपथान्युपदर्शितानि । आगमचतुष्टयं चाधीतम् । अथ ता राक्षस्यस्तस्यपुरुषस्यान्तिकादार्याष्टाङ्गिकमार्गं गृहीत्वा दश कुशलानि च संस्मर्य, सत्यचतुष्टयं प्राप्त्वा, आगमसत्यचतुष्टयाधीताः, काश्चित्स्रोतापत्तिफलमनुप्राप्ताः, सकृदागामिफलं चानुप्राप्ताः, अनागामिफलं चानुप्राप्ताः, यावत्काश्चिदर्हत्त्वं काश्चित्प्रत्येकबोधिमनुप्राप्ताः, तदा तासां राक्षसीनां रागदुःखं न बाधते । द्वेषदुःखं न बाधते । मोहदुःखं न बाधते । आघातचित्तं न भवति । न च कस्यचिज्जीवितान्तरायं कुर्वन्ति । अभिरता धर्मेषु व्यवस्थिताः, शिक्षासंवरमुपगृहीताः । एवं चाहुः - पुनरपि न प्राणातिपातं कुर्वामः । यादृशेन जाम्बुद्वीपका मनुष्या जीवन्ति अन्नेन पानेन, तादृशजीविकया वयं जीवामः । पुनरपि राक्षसीवृत्तिं न कुर्वामः । उपासकसंवरं धारयिष्याम इति । तादृशं शिक्षासंवरमुपगृहीत्वा तस्यैव पुरुषस्य पुरतोऽनिमिषैर्नयनैः प्रेक्षमाणाः प्रस्थिताः ॥ इति सिंहलभ्रमणं नाम चतुर्दशं प्रकरणम् ॥ _________________________________________________________________ १,१५: वाराणसीभ्रमणं पञ्चदशं प्रकरणम् । अथ आर्यावलोकितेश्वरो बोधिसत्त्वो महासत्त्वस्तस्मात्सिंहलद्वीपादवतीर्य वाराणस्यां महानगर्यामुच्चारप्रस्रावस्थाने गतो यत्रानेकान्यनेकानि कृमिकुलशतसहस्राणि प्रतिवसन्ति । ततोऽवलोकितेश्वरो बोधिसत्त्वो महासत्त्व उपसंक्रम्य तत्रास तानि प्राणिशतसहस्राणि दृष्ट्वा आत्मानं भ्रमररूपमभिनिर्माय घुणघुणायमाणम् । तदेषां शब्दं निश्चारयति - नमो बुद्धाय, नमो धर्माय, नमः संघाय इति । तच्छ्रुत्वा ते च सर्वे प्राणकाः नमो बुद्धाय नमो धर्माय नमः संघायेति नाममनुस्मारयन्ति । ते च सर्वे बुद्धनामस्मरणमात्रेण विंशतिशिखरसमुद्गतं सत्कायदृष्टिशैलं ज्ञानवज्रेण भित्त्वा सर्वे ते सुखावत्यां लोकधातावुपपन्नाः सुगन्धमुखा नाम बोधिसत्त्वा बभूवुः । सर्वे ते भगवतोऽमिताभस्य तथागतस्यान्तिकादिदं कारण्डव्यूहं नाम महायानं श्रुत्वा अनुमोद्य च नानादिग्भ्यो व्याकरणानि प्रतिलब्धानि ॥ (वैद्य २८२) अथ आर्यावलोकितेश्वरो बोधिसत्त्वो महासत्त्वो सत्त्वपरिपाकं कृत्वा तस्या वाराणस्या महानगर्याः प्रक्रान्तः ॥ इति वाराणसीभ्रमणं नाम पञ्चदशं प्रकरणम् ॥ _________________________________________________________________ १,१६: मगधभ्रमणं षोडशं प्रकरणम् । तदा स मगधाभिमुखं प्रत्युद्गच्छति । स मगधविषयमनुप्राप्तः । यावत्सत्त्वान् पश्यन्ति स्म परस्परं मांसभक्षणं कुर्वाणान् । अथ आर्यावलोकितेश्वरो बोधिसत्त्वो महासत्त्वस्तानेवमाह - कस्माद्भोः, यूयमन्योन्यं मासं भक्षयथ? ते चाहुः - नाद्यैव मासंभक्षणम्, विंशतिवर्षाणि परिपूर्णानि कान्तारस्य च प्रतिपन्नस्य च । नात्र किंचिदन्नपानं संविद्यते । तस्माद्वयमन्योन्यं विरोधं कुर्वाणा जीविताः । एवं कृत्वा मांसभक्षणं कुर्वामः ॥ अथ अवलोकितेश्वरो बोधिसत्त्वश्चिन्तामापेदे - केनोपायेनाहं सत्त्वान् सर्वान् सुखोपधानैस्तस्मात्कान्तारान्महादारूणादकालमरणात्परिमोचयेयं संतर्पयेयम्? अथावलोकितेश्वरो विविधानि वर्षाणि प्रवर्षितुमारब्धः । प्रथममुदकवर्षम् । यदा उदकेन संतर्पिताः प्रीणितगात्राश्च भवन्ति, तदा पश्चाद्दिव्यानि पिष्टकानि रसरसाग्रोपेतानि तेनाहारेण परिपूर्णानि । यदाहारेण संतर्पिता भवन्ति तदा धान्यवर्षाणि पतन्ति, अन्यानि च तिलतण्डुलकोलमुद्गमाषकलावमसूरयवगोधूमशालिधान्यकुलत्थादीनि पतन्ति स्म । विविधानि च वस्त्राभरणानि च प्रवर्षन्ति स्म । यदा यदा तेषां सर्वेषां सत्त्वानां केऽप्यभिप्राया भवन्ति, तदा तदा तेषां सत्त्वानामभिप्राया अनुसिध्यन्ते । अथ ते मागधकाः सत्त्वास्तदिदं विचित्रं स्वात्मसुखं दृष्ट्वा दुःखं च व्युपशान्तम्, तदा परमविस्मयमापन्नाः । ते च सर्वे एकस्थाने विश्रान्ताः, विश्रमित्वा परस्परमेवमाहुः - कस्य देवस्यायं प्रभावः? ततस्तेषां पुरुषाणां मध्ये जीर्णो वृद्धो महल्लकः कुब्जो गोपाणसीवक्रोऽधिभग्नो दाण्डपरायणः अनेकवर्षशतसहस्रायुषिकः । स तेषां मध्ये स्थित्वा कथयति - न युष्माकमन्यदेवस्य कस्यचिदीदृशं प्रभावो भवति विरहितादवलोकितेश्वरस्य । ततस्ता पर्षदः पृच्छन्ति - कीदृशं तस्य निमित्तमवलोकितेश्वरस्य? अथ स पुरुष आर्यावलोकितेश्वरस्य गुणोद्भावनां भाषितुमारब्धः - शृणुत कुलपुत्राः । अवलोकितेश्वरो बोधिसत्त्वो महासत्त्वोऽन्धभूतानां दीपभूतः, सूर्यतापदग्धानां छत्रीभूतः, तृषोपद्रुतानां नदीभूतः, भयभीतानामभयंददः, व्याधिपरिपीडितानां वैद्यभूतः, दुःखितानां सत्त्वानां मातापितृभूतः, अवीच्युपपन्नानां सत्त्वानां निर्वाणप्रदर्शकः । ईदृशानि भवन्तस्तस्य गुणविशेषाणि । सुखितास्ते सत्त्वा लोके ये तस्य नाममनुस्मरन्ति । ते आपश्चिमं सांसारिकं दुःखं परिवर्जयन्ति । सचेतनास्ते पुरुषपुंगवा ये अवलोकितेश्वरस्य सततपरिग्रहं पुष्पधूपं निर्यातयन्ति । येऽवलोकितेश्वरस्य पुरतश्चतुरस्रं मण्डलकं कुर्वन्ति, ते राजानो भवन्ति चक्रवर्तिनः सप्तरत्नसमन्वागताः । तद्यथा - चक्ररत्नम्, अश्वरत्नं हस्तिरत्नं मणिरत्नं स्त्रीरत्नं गृहपतिरत्नं परिणायकरत्नम् । एवं सप्त रत्नानि, एभिः सप्तरत्नैः समन्वागता भवन्ति । ये चावलोकितेश्वरस्यैकमपि पुष्पं निर्यातयन्ति, ते (वैद्य २८३) सुगन्धिकाया भवन्ति । यत्र यत्रोपपद्यन्ते तत्र तत्र परीपूर्णकायाश्च भवन्ति । एवं स पुरुषो गुणविशेषं कृतवान । ताश्च पर्षदः स्वकस्वकेषु भवनेषु प्रत्युद्गताः, अनन्तविमला नाम कायपरिशुद्धिः [तां] प्रतिलभन्ते स्म । अथ स जीर्णपुरूषः आनुलोमिकीं धर्मदेशनां कृत्वा स्वकं गृहं निवेशनं प्रत्युद्गतः । अथावलोकितेश्वरस्तत्रैवाकाशेऽन्तर्हितः ॥ अथ स आकाशे चिन्तामापेदे - विश्वभूस्तथागतो मे चिरकालं दृष्टः, सोऽनुपूर्वेण जेतवनं विहारमनुप्रविष्टः । यावत्पश्यति अनेकानि देवनागयक्षगन्धर्वासुरगरुडकिन्नरमहोरगमनुष्यामनुष्यशतसहस्राणि । अनेकानि च बोधिसत्त्वशतसहस्राणि संनिपतितानि ॥ अथ गगनगञ्जो बोधिसत्त्वो भगवन्तमेतदवोचत्- कतमोऽयं भगवन् बोधिसत्त्व आगच्छति? भगवानाह - एष कुलपुत्र अवलोकितेश्वरो बोधिसत्त्वो महासत्त्व आगच्छति । अथ गगनगञ्जो बोधिसत्त्वः तूष्णींभावेन व्यवस्थितः । अथावलोकितेश्वरो बोधिसत्त्वस्तं भगवन्तं त्रिः प्रदक्षिणीकृत्य वामपार्श्वे विश्रान्तः ॥ अथ स पुनः श्रान्तं विदित्वा भगवान् पृच्छति - श्रान्तस्त्वं कुलपुत्र । कीदृशी कर्मभूमिस्त्वया निष्पादिताः? तन तस्य भूतपूर्वं वर्णितम् - सदा प्रेतेष्ववीच्युपपन्नेषु कालसूत्ररौरवोपपन्नेषु हाहे तपने महानरके, सितोदके महानरके, असिच्छेदे महानरके, संवरे महानरके । एषु महानरकेषु ये सत्त्वा उपपन्नास्तेषां च कर्मभूमिः सत्त्वानामपरिपाककृता कर्तव्या, कृत्वा चानुत्तरायां सम्यक्संबोधौ प्रतिष्ठापयितव्याः । ईदृशो मया सत्त्वपरिपाकः कृतः । अथ गगनगञ्जो बोधिसत्त्वो महासत्त्वः परमविस्मयमापन्नः - न च मे बोधिसत्त्वभूतस्य ईदृशं विषयं दृष्टं श्रुत वा, तथागतानामीदृशं विषयं न संविद्यते ॥ अथे गगनगञ्जो बोधिसत्त्वोऽवलोकितेश्वरस्य बोधिसत्त्वस्य महासत्त्वस्य पुरतः स्थित्वा अवलोकितेश्वरमेवमाह - मा त्वं श्रान्तः । क्लिष्टस्त्वम् । स आह - न चाहं युष्माकं मध्ये श्रान्तो न क्लिष्टः । तौ परस्परं सांकथ्यं कृत्वा तूष्णींभावेन व्यवस्थितौ ॥ अथ भगवान् षट्पारमितानिर्देशं धर्मं देशयितुमारब्धः - शृण्वन्तु कुलपुत्राः । प्रथमं बोधिसत्त्वभूतेन दानपारमिता परिपूरयितव्या । एवं शीलपारमिता क्षान्तिपारमिता धै(वी)र्यपारमिता ध्यानपारमिता प्रज्ञापारमिता परिपूरयितव्या । इमां चानुलोमिकां धर्मदेशनां कृत्वा तूष्णींभावेन व्यवस्थितः । अथ ताः पर्षदः स्वकस्वकस्थानेषु प्रक्रान्ताः, ते च बोधिसत्त्वाः स्वकस्वकेषु बुद्धक्षेत्रेषु प्रक्रान्ताः ॥ अयं कारण्डव्यूहमहायानसूत्ररत्नराजस्य प्रथमो निर्व्यूहः सर्वकर्मविशोधनोऽनुत्तरबोधिमार्गप्रतिष्ठापकः समाप्तः ॥ १ ॥ _________________________________________________________________ _________________________________________________________________ २,१: (वैद्य २८४) द्वितीयो निर्व्यूहः । अश्वराजवर्णनं प्रथमं प्रकरणम् । अथ सर्वनीवरणविष्कम्भी भगवन्तमेतदवोचत्- आख्याहि भगवनवलोकितेश्वरस्य भूतपुर्वं कृतमेते समाधयः, यैरवलोकितेश्वरः समापन्नः । भगवानाह - अप्रमेयैरसंख्येयैः समाधिकोटिनियुतशतसहस्रैः समापन्नौऽवलोकितेश्वरः, येषां समाधीनां (न) शक्यं सर्वतथागतैः पर्यन्तमधिगन्तुम् । अथ सर्वनीवरणविष्कम्भी आह - निर्देशय भगवंस्तानि समाधीनि सर्वसत्त्वानुकम्पया । भगवानाह - तद्यथापि नाम कुलपुत्र आकारकरो नाम समाधिः, प्रभाकरो नाम समाधिः, वज्रोद्गतो नाम समाधिः, सूर्यप्रभो नाम समाधिः, विकिरिणो नाम समाधिः, केयूरो नाम समाधिः, ध्वजाग्रो नाम समाधिः, अलंकारो नाम समाधिः, व्यूहराजो नाम समाधिः, दशदिग्व्यवलोकनो नाम समाधिः, चिन्तामणिवरलोचनो नाम समाधिः, धर्मधरो नाम समाधिः, समुद्रावरोहणो नाम समाधिः, अभिनमितो नाम समाधिः, उष्णीषकुण्डलो नाम समाधिः, चन्द्रवरलोचनो नाम समाधिः, बहुजनपरिवारो नाम समाधिः, देवकुण्डलरोचनो नाम समाधिः, कल्पद्वीपो नाम समाधिः, प्रातिहार्यसंदर्शनो नाम समाधिः, पद्मोत्तमो नाम समाधिः, अवीचिसंशोषणो नाम समाधिः, रुचितो नाम समाधिः, देवमण्डलो नाम समाधि, अमृतबिन्दुर्नाम समाधिः, प्रभामण्डलो नाम समाधिः, समुद्रावगाहनो नाम समाधिः, विमाननिर्व्यूहो नाम समाधिः, कलविङ्कस्वरो नाम समाधिः, नीलोत्पलगन्धो नाम समाधिः, आरूढो नाम समाधिः, वज्रकुचो नाम समाधिः, द्विरदरतो नाम समाधिः, सिंहविक्रीडितो नाम समाधिः, अनुत्तरो नाम समाधिः, दमनो नाम समाधिः, चन्द्रोत्तर्यो नाम समाधिः, आभासकरो नाम समाधिः, शतकिरणो नाम समाधिः, विच्छुरितो नाम समाधिः, प्रभाकरो नाम समाधिः, स्वाकारकरो नाम समाधिः, असुरसंचोदनो नाम समाधिः, भवसंशोधनो नाम समाधिः, निर्वाणसंचोदनो नाम समाधिः, महाद्वीपो नाम समाधिः, द्विपराजो नाम समाधिः, भवोत्तारकरो नाम समाधिः, अक्षरकरो नाम समाधिः, देवाभिमुखो नाम समाधिः, योगकरो नाम समाधिः, परमार्थदर्शनो नाम समाधिः, विद्युन्नाम समाधिः, नामव्युहो नाम समाधिः, सिंहविजृम्भितो नाम समाधिः, स्वातिमुखो नाम समाधिः, आगमनागमनो नाम समाधिः, बुद्धिविस्फुरणो नाम समाधिः, स्मृतीन्द्रियसंवर्धनो नाम समाधिः, अभिमुक्तो नाम समाधिः, जयवाहनो नाम समाधिः, मार्गसंदर्शनो नाम समाधिः । एभिं कुलपुत्र अवलोकितेश्वरो बोधिसत्त्वो महासत्त्वः समाधिभिः समन्वागतः । तस्यैककरोमविवरे समाधिशतसहस्राणि सन्ति । अयं कुलपुत्र अवलोकितेश्वरस्य परमपुण्यसंभारः । ईदृशस्तथागतानां पुण्यसंभारो न संविद्यते, प्रागेव बोधिसत्त्वभूतस्य ॥ (वैद्य २८५) भूतपूर्वं कुलपुत्र अहं सिंहलराजो नाम बोधिसत्त्वभूतोऽभूवम् । ततोऽहं सिंहलद्वीपयात्रां संप्रस्थितः । पञ्चभिर्वणिक्पुत्रशतैः सार्धं शकटैर्भारैर्मूटैः पिठरैरुष्ट्रैर्गोभिर्गर्दभादिभिः प्रभूतं पण्यमारोप्य सिंहलद्वीपं संप्रस्थितः । ततोऽनुपूर्वेण ग्रामनगरनिगमपर्णपत्तनेषु चंचूर्यमाणः सिंहलद्वीपमनुप्राप्तः, येन निपुणं तद्यानपात्रं प्रतिपादितम् । तदा मे कर्णधारा आहुः - कथय कथय युष्माकं कतमद्वीपेषु गमनायेदृशा वायवो वान्ति? अथवा रत्नद्वीपेषु वायवो वान्ति, अथवा राक्षसद्वीपेषु वायवो वान्ति? अथ कर्णधार एवमाह - यत्खलु देवो जानीयात्- सिंहलद्वीपेषु वायवो वान्ति । अथ तद्यानपात्रमारुह्य सिंहलद्वीपं संप्रस्थितः ॥ ततोऽहं सिंहलद्वीपनिवासिनीभी राक्षसीभिः संप्रस्थितो विदित्वा अकालवायव उत्सृष्टाः । तच्च तद्यानपात्रं खण्डखण्डं विशीर्णम् । ते च वणिक्पुरुषा उदके पतिता बाहुबलेन संतर्तुमारब्धाः । ततस्तीरस्य समीपमनुप्राप्ताः ॥ ततो राक्षसीनां पञ्च शतानि निष्क्रान्तानि किलकिलायमानानि । कुमारीरूपमभिनिर्माय तदा कूलस्य समीपमनुप्राप्ताः । उत्तार्य शाटकानि दत्त्वा उदकेभ्य उत्क्षिप्ताः । ते च स्वकीयानि वस्त्राणि शरीरे लग्नानि गृहीत्वा निष्पीडितुमारब्धाः । निष्पीडयित्वा ते तस्मात्स्थानादतिक्रम्य अन्यप्रदेशे महतश्चम्पकवृक्षस्य तले विश्रान्ताः । विश्रमित्वा परस्परं सांकथ्यं कर्तुमारब्धाः - कोऽस्माकमुपायः संविद्यते? ते कथयन्ति - नास्माकमुपायस्य स्थानम् । एवं सांकथ्यं कृत्वा तूषींभावेन व्यवस्थिताः । अथ तेषां राक्षस्यः पुरुषाणां पुरतः स्थित्वैवमाहुः - स्वागतम् । भवन्त आगच्छताम्, अस्वामिकानां स्वामी भव । अगतिकानां गतिको भव । अद्वीपानां द्वीपो भव । अनालयनानामपरायणानामालयो भव, परायणो भव । इमानि तेऽन्नगृहाणि पानगृहाणि यानगृहाणि वस्त्रगृहाणि कटककेयूराणां मौलिकुण्डलानां गृहाणि उद्यानरमणीयानि पुष्किरिणीरमणीयानि संतिष्ठन्ति । ताभी राक्षसीभिरेकैकं पुरुषं गृहीत्वा स्वकं स्वकं निवेशनं प्रत्युद्गताः । या च तासां राक्षसीनां वृद्धतरा, तयाहं स्वकीयं निवेशनं नीत्वा दिव्यरससाग्रोपेतेनाहारेण संतर्पितः । संतर्पयित्वा क्रीडितुमारब्धा । स तु ततो मानुष्यकेन सौख्येन संतर्पितः । एवं द्वित्रिसप्तदिनान्यतिक्रान्तानि । स रात्रौ शयितः । एवं यावत्पश्यति रतिकरहसनं तदाहं विस्मयमापन्नः । न कदाचित्स्यान्मया दृष्टं वा श्रुतं वा प्रज्वलितमेव रतिकरहसनम्, तदैव मया तस्य प्रत्याहारः कृतः - किं कारणं त्वं हससे? इयं सिंहलद्वीपनिवासिनी राक्षसी । सा तव जिवितान्तरायं करिष्यति । तदा मे तस्य प्रत्याहारः कृतः - त्वं जानासि राक्षसीति? स कथयति - यदि न प्रतीयसि, दक्षिणपन्थलिकां गृहीत्वा अनुविचरन् गच्छ । तत्रायं स नगरमूर्ध्वमुच्चं गवाक्षतोरणविप्रहीणं चाप्रतिहतम् । तत्रानेकानि वणिग्जनानि भक्षयित्वा अस्थीनिप्रक्षिप्तानि । अन्ये च जीवन्तो अन्ये च मृताः । यदि न प्रतीयसि, तदपि मार्गं गच्छ । गत्वा च मार्गं निरीक्षस्व, तदा मे श्रद्धास्यसि । तदा तस्यास्तेन मोहजाला नाम निद्राति सा ॥ (वैद्य २८६) अथ स बोधिसत्त्वो रात्रिप्रथमयामे समये तस्या राक्षस्याः सकाशादुत्थाय संप्रस्थितः । चन्द्रावभासं खङ्गं सज्जीकृतम् । उपगृह्यानुविचरंस्तां दक्षिणपन्थलिकां गृहीत्वा संप्रस्थितः । अनुपूर्वेणायसं नगरमनुप्राप्तः, समन्तेन परिक्रमति । न च द्वाराणि गवाक्षाणि समनुपश्यति । अथ तस्मिन्नायसे नगरे महान् यश्चम्पकवृक्षस्तत्रैवारुह्य ततो मया तेषामुत्कासनशब्दः कृतः । ततो मे वणिक्पुरुषाः कथयन्ति - यत्खलु महासार्थवाहो जानीयात्- वयं राक्षसीभिरायसे नगरे प्रक्षिप्ताः । तदा दिने दिने शतं पुरुषाणां गृहीत्वा भक्षयन्ति । तान् भक्षयित्वा अस्थीन्यत्रैवायसे नगरे क्षिपन्ति । तेन तस्य भूतपूर्वं वर्णितम् । तदाहं चम्पकवृक्षादवतीर्य पुनरेव दक्षिणां पन्थलिकां गृहीत्वा अनुविचरन् त्वरित आगच्छामि स्म । ततो प्रविष्टः ॥ अथ रतिकरो मामेतदवोचत्- दृष्टस्ते सार्थवाह मद्वचनम्? उक्तं च मया - दृष्टं युष्माकं सत्यं सांकथ्यकृतम् । तदा मेऽस्य प्रत्याहारः कृतः - सत्यमेव, क उपायोऽस्माकम्? अथ स रतिकर एतदवोचत्- अस्ति मे महासार्थवाहोपायम्, येनोपायेन सिंहलद्वीपात्स्वस्तिक्षेमाभ्यां जम्बूद्वीपं निर्गच्छसि । पुनरेव जम्बुद्वीपमपसरसि । अथ स रतिकरो मामेतदवोचत्- अस्ति तस्मिन्नेव द्वीपे महासमुद्रतीरे देवबालाहो नामाश्वराजो हीनदीनानुकम्पकः । स च बालाहोऽश्वराजः । सर्वश्वेतानामौषधीं भुक्त्वा सुवर्णवालुकास्थले आवर्तनपरिवर्तनसंपरिवर्तनं कृत्वा शरीरं प्रच्छोडयति, प्रच्छोडयित्वा प्रत्याहारं कुरुते - कः पारगामी, कः पारगामी कः पारगामीति? त्वयैवं वक्तव्यम् - अहं देव पारगामीति । एवं सांकथ्यं कृत्वा सा राक्षसी समीपमुपगम्य सार्धं शयित एव प्रतिविबुद्धा । सा कथयति - आर्यपुत्र, कथं ते शरीरं शीतलम्? तदा मया तस्या मृषावादं प्रत्याहारं कृतम् । बहिर्नगरस्य उच्चारप्रस्रवेण निष्क्रान्तोऽहम्, ततः शरीरं शीतलम् । इत्युक्त्वा सा पुनरपि शयिता । ततः प्रातः सूर्यस्य चाभ्युद्गमनकालसमये उत्थाय तेषां वणिक्पुरूषाणामारोचयति स्म - आगच्छन्तु भवन्तो बहिर्नगरस्य गच्छामः । ते सर्वे सहिताः समग्रा बहिर्नगरस्य संप्रस्थिताः । ते च बहिर्नगरस्य गत्वा एकान्ते विश्रान्ताः सांकथ्यं कर्तुमारब्धाः - कस्य कीदृशी भार्या स्नेहवती? केचित्कथयन्ति - अतिस्नेहं न कुरुते । केचित्कथयन्ति - मम दिव्यरसरसाग्रोपेतैराहारैः संधारयति । केचित्कथयन्ति - नानाविधैर्वस्त्रैर्मम संधारयति । केचित्कथयन्ति - मम दिव्यमौलीकुण्डलस्रग्दामानि धारयति । केचित्कथयन्ति - नास्माकं कायदौर्बल्यम् । केचित्कथयन्ति - मम विविधानि चन्दनकर्पूरकस्तूरिकादीनि धारयति । एवं तैः सांकथ्यं कृतम् । तदा तेषां वणिक्पुरुषाणां प्रत्याहारं करोति स्म - न युष्माकं युक्तमिदं यद्वयं राक्षसीभिः प्रसक्ताः । इति श्रुत्वा ते विह्वलीभूताः एवमाहुः - सत्यं महासार्थवाह, राक्षसी सिंहलद्वीपनिवासिनीति । तदा तेषां मया प्रत्याहारः कृतः - सत्यं सत्यं बुद्धधर्मसंघेभ्यं, नेयं मानुषी, राक्षसी । अथ ते वणिक्पुरुषाः कथयन्ति - कास्माकं गतिः? किं परायणम्? तदा तेषां मया प्रत्याहारः कृतः - अस्माकं गतिः शरणं परायणम्? (वैद्य २८७) वणिक्पुरूषाः कथयन्ति - उपदर्शय सार्थवाह । अथ स तेषामेवमाह - अस्ति युष्माकं सिंहलद्वीपे बालाहो नाम अश्वराजः । स च हीनदीनानुकम्पकः । स सर्वश्वेतानामौषधीर्भुक्त्वा सुवर्णवालुकास्थले आवर्तनं करोति । कृत्वा च शरीरं प्रच्छोडयित्वा वाणीं प्रत्याहरेदिति - कः पारगामी कः पारगामी कः पारगामीति । तत्रास्माभिर्गन्तव्यम् - वयं पारंगामिन इति । अथ ते वणिक्पुरूषा ऊचुः - कतमे दिने गच्छामो वयम्? स प्रत्याहारं कर्तुमारब्धः - तृतीये दिवसेऽवश्यं गन्तव्यम् । पुरुषेण संबलं कर्तव्यमिति । ते क्रियाकारं कृत्वा पुनरेव तन्नगरं प्रविष्टाः स्वकस्वकं निवेशनमुपगता । ताभी राक्षसीभिः संभाषिताः - श्रान्तस्त्वम्, दृष्टास्ते तान्युद्यानरमणीयानि पुष्करिणीशतानि रमणीयानि? स कथयति - न च ते किंचिद्दृष्टम् । अथ सा राक्षसी तमेतदवोचत्- सन्ति आर्यपुत्र विविधान्यस्मिन् सिंहलद्वीपे उद्यानरमणीयानि पुष्करिणीरमणीयानि विविधविचित्रपुष्पपरिपूर्णानि । अनेकानि च पुष्करिणीशतानि रमणीयानि । स प्रत्याहारं कर्तुमारब्धः - तृतीये दिवसे गमिष्यामीत्यतः संबलं कर्तव्यम् । उद्यानभूमिदर्शनायोपसंक्रमिष्यामि । तानि च विविधानि पुष्करिणीशतानि रमणीयानि उद्यानशतानि पुष्पपरिपूर्णानि पश्यामि । तानि च विविधानि पुष्पाणि गृहीत्वा आगमिष्यामि । सा कथयति स्म - आर्यपुत्र । एवं करोम्यहम् । ततस्तेन शरीरमनुविचिन्त्य । (?) अथ राक्षस्यो जानन्ति योगं तेनास्माकं (?) जीवितान्तरायं करिष्यन्ति । ईदृशं शरीरमनुविचिन्त्य तूष्णींभावेन व्यवस्थितः । तस्य तया प्रणीताप्रणीतान्याहाराण्यनुप्रदत्ता । भुक्त्वा च उच्छ्वासं छोरितम् । सा कथयति राक्षसी - आर्यपुत्र किं कारणमुच्छ्वासं छोरितम्? अथ स तामेतदवोचत्- स्वदेशाभिरता जाम्बुद्वीपका मनुष्याः । सा आह - किं करोष्यार्यपुत्र स्वकीयेन विषयेन? अस्मिन्नेव सिंहलद्वीपे विविधान्यन्नगृहाणि पानगृहाणि वस्त्रगृहाणि विविधान्युद्यानरमणीयानि पुष्करिणीरमणीयानि । विविधसुखमनुभवसे । किं जम्बुद्वीपमनुशोचसे? तदाहं तूष्णींभावेन व्यवस्थितः । स तं दिवसमतिक्रान्तः । द्वितीये दिवसे प्रणीतान्याहाराणि सत्वरमनुप्रदत्तानि सज्जीकृतानि । तृतीये दिवसे प्रत्यूषकालसमये सर्वे ते संप्रस्थिताः । ते च बहिर्नगरस्य निष्क्रान्ताः । निष्क्रमित्वा क्रियाकारं कर्तुमारब्धाः । न पुनः केनचित्पुनरेव सिंहलद्वीपो निरीक्षितव्यः । त्वरितमस्माभिर्गन्तव्यम् । ईदृशं क्रियाकारं कृत्वा संप्रस्थिताः त्वरितं त्वरितमेव लघु लघ्वेव गच्छन्ति । अनुपूर्वेण यत्र स बालाहकोऽश्वराजस्तत्रानुप्राप्ताः । यावत्पश्यन्ति बालाहमश्वराजम् । तं सर्वश्वेतानामौषधीमास्वादयति । आस्वादयित्वा सुवर्णवालुकास्थले आवर्तनं करोति । कृत्वा च शरीरं प्रच्छोडयति । यदा शरीरं प्रच्छोडयति तदा सिंहलद्वीपं चलति स्म । त्रीणि वाक्यानि प्रत्याहरति स्म - कः पारगामी, कः पारगामी, कः पारगामीति? अथ स बालाहोऽश्वराजस्तानेतदवोचत्- भो वणिक्पुरुषाः । यदा शरीरं प्रच्छोडयामि, न तदा युष्माकं केनचित्सिंहलद्वीपो निरीक्षितव्यः । न केनचिच्चक्षुर्विस्फुरितव्यम् । ते तादृशं क्रियाकारं कृत्वा...... । तदाहं प्रथमतरमारूढः, (वैद्य २८८) पश्चात्पञ्चशताणि वणिग्जनाः । यदा ते आरूढाः तदा सिंहलद्वीपनिवासिन्यो राक्षस्यः किलकिलायमानाः पृष्ठतो धावन्ति स्म रुदन्त्यः करुणकरुणैर्विलापैः । ततस्तै रुदच्छब्दं श्रुत्वा प्रतिनिवर्त्य निरीक्षितुमारब्धम् । तैर्निरीक्ष्यन्ते । तदा तेऽधोमुखा उदके पतन्ति स्म । यदा ते उदके पतिताः, तदा राक्षस्य उत्क्षिप्य मांसं भक्षयन्ति स्म । तदाहमेकाकी जम्बूद्वीपमेव प्रत्युद्गतः । तदा तीरस्य समीपे बालाहमश्वराजं त्रिः प्रदक्षिणीकृत्य तत्रैव प्रक्रान्तः । ततोऽहं संप्रस्थितः । स्वकीयं निवेशनमनुपूर्वेणानुप्राप्तः । तदा मे मातापितारौ कण्ठे परिष्वज्य रोदितुमारब्धौ । ततो बाष्पेण पटलानि विस्फुटितानि । ततो द्रष्टुमारब्धौ । ततो मातापितृभ्यां सार्धं विश्रान्तः । तेन तेषां सर्वं भूतपूर्वं वृत्तान्तमाख्यातम् । ततस्तौ मातापितरौ कथयतः स्म - जीवंस्तु पुत्र त्वमनुप्राप्तः । नास्माकं द्रव्येण कृत्यम् । जराकाले यष्टिभूतोऽन्धकारे मार्गस्योपदर्शकः, मरणकाले पिण्डदाता, मृतस्य सनाथीकरणीयम् । यथा शीतलो वातो नाम पुत्र आह्लादकरः । एतद्वचनं मातापितरौ चाख्यातम् । ईदृशं मया सर्वनीवरणविष्कम्भिन् सार्थवाहबोधिसत्त्वभूतेन दुःखमनुभूतम् ॥ तद्यथापि नाम सर्वनीवरणविष्कम्भिन् बालाहकं तमश्वराजभूतेनावलोकितेश्वरेण बोधिसत्त्वेन महासत्त्वेन तादृशादहं मृत्युभयात्परिमोक्षितः । तद्यथापि नाम सर्वनीवरणविष्कम्भिन्न शक्नोम्यवलोकितेश्वरस्य पुण्यसंभारं गणयितुम् । अल्पमात्रमिदं सांकथ्यं कृतमेकैकरोमविवरस्य ॥ इति अश्वराजवर्णनं नाम प्रथमं प्रकरणम् ॥ _________________________________________________________________ २,२: रोमविवरणावर्णनं द्वितीयं प्रकरणम् । तद्यथापि नाम सर्वनीवरणाविष्कम्भिन् सुवर्णं नाम रोमविवरम् । तत्रानेकानिगन्धर्वकोटिनियुतशतसहस्राणि प्रतिवसन्ति स्म । तेन च संसारिकेन दुःखेन न बाध्यन्ते । परमेण सौख्येन संतर्पिता भवन्ति । दिव्यानि वस्तूनि प्रादुर्भवन्ति । तत्र न च ते रागेण बाध्यन्ते । न च मोहेन बाध्यन्ते । न च द्वेषेण बाध्यन्ते । न च ते आघातचित्तमुत्पादयन्ति । न च तेषां हिंसाचित्तमुत्पद्यते । ते सततसमितमार्याष्टाङ्गिकमार्गमुपदर्शिता भवन्ति । सततकालं धर्माभिकाङ्क्षिणो भवन्ति । तद्यथापि नाम सर्वनीवरणविष्कम्भिन् सुवर्णनामरोमविवरे अवभासं नाम चिन्तामणिरत्नम् । यदा ते गन्धर्वा अभिप्रायं चिन्तयन्ति, तदा तेषामभिप्रायोऽनुसिध्यति । तदा सुवर्णरोमविवरादतिक्रम्य कृष्णो नाम रोमविवरः । तत्रानेकानि ऋषिकोटिनियुतशतसहस्राणि प्रतिवसन्ति । केचिदेकाभिज्ञाः, केचिद्द्वयभिज्ञाः, केचित्त्र्यभिज्ञाः, केचिच्चतुरभिज्ञाः, केचित्पञ्चाभिज्ञाः, केचित्षडभिज्ञाः । तस्मिंश्च रोमविवरे रूप्यमयी भूमिः, कनकमयाः पर्वताः, रूप्यमयाः शृङ्गाः, पद्मरागैरुपचिताः पर्वताः, तादृशाः सप्तसप्ततिपर्वताः । एकैकपर्वतेऽशीतिसहस्राणि ऋषीणां प्रतिवसन्ति । तेषां च ऋषीणामीदृशा पर्णकुटिरकल्पवृक्षाणि दृश्यन्ते । लोहितदण्डाः (वैद्य २८९) सुवर्णरूप्यपत्रा रत्नावभासिताः । एकैकपार्श्वे रोमविवरे चतस्रः पुष्करिण्यः । केचिदष्टाङ्गोपेतेन वारिणा परिपूर्णाः केचित्पुष्पपरिपूर्णाः । तस्मिन्नुपचारसमीपे दिव्या अगुरुद्रुमवृक्षाः, सुगन्धाश्चन्दनवृक्षाः, परिशोभिताः कल्पवृक्षाः, संदृश्यन्ते । दिव्यालंकारप्रलम्बिता मौलीकुण्डलप्रलम्बिता हारार्धहारप्रलम्बिताः केयूरनूपुरस्रग्दामप्रलम्बिताः सौवर्णपत्राः । तत्रैकैककल्पवृक्षे गन्धर्वशतं विश्रान्तम् । यदा ते वाद्यप्रत्याहारमुदीरयन्ति, तदा मृगपक्ष्यादयः संवेगमापद्यन्ते - सुखदुःखमिदं सांसारिकाणां सत्त्वानाम् । कथं जम्बुद्वीपे दुःखमनुभवन्ति? जातिजरामरणं पश्यन्ति? इष्टप्रियवियोगमप्रियसंप्रयोगं पश्यन्ति? मानुष्यकाणि बहूनि दुःखानि प्रत्यनुभवन्ति? इत्येवं ते मृगपक्षिणः संवेगमनुविचिन्त्य यदा कारण्डव्यूहस्य महायानसूत्ररत्नराजस्य नामानुस्मरन्ति, तदा तेषां दिव्यरसरसाग्रोपेता आहाराः प्रादुर्भवन्ति । दिव्यानि च सौगन्धिकानि वस्तूनि प्रादुर्भवन्ति । दिव्यानि वस्त्राणि प्रादुर्भवन्ति । यदा तेऽभिप्रायमनुविचिन्तयन्ति, तदाभिप्रायाः सिध्यन्ति ॥ अथ सर्वनीवरणविष्कम्भी भगवन्तमेतदवोचत्- परमाश्चर्याद्भुतप्राप्तोऽहं भगवन् । भगवानाह - किं कारणं कुलपुत्र परमविस्मयमापन्नः? अथ सर्वनीवरणविष्कम्भी भगवन्तमेतदवोचत्- यदा भगवन् कारण्डव्यूहस्य महायानसूत्ररत्नराजस्य नामानुस्मरन्ति, तदाभिप्राया अनुसिध्यन्ति । यस्य नामधेयमात्रेण ईदृशानि वस्तूनि प्रादुर्भवन्ति, सुखितास्ते सत्त्वा ये कारण्डव्यूहं महायानसूत्ररत्नराजं श्रोष्यन्ति लिखापयिष्यन्ति धारयिष्यन्ति वाचयिष्यन्ति पर्यवाप्स्यन्ति, योनिशं च मनसि करिष्यन्ति । ये कारण्डव्यूहस्य महायानसूत्रराजस्यैकाक्षरमपि लिखापयिष्यन्ति, ते इदं सांसारिकं दुःखं न पश्यन्ति । न च ते चण्डालकुक्कुरकुलेषु जायन्ते । न च ते हीनेन्द्रिया भवन्ति । न च ते खञ्जकुब्जकोर्ध्वनासगण्डलम्बोष्ठाश्च सत्त्वाः कुष्ठिनश्च सन्तः । न च तेषां काये व्याधिः संक्रमते । आरोग्यबलवत्प्रीणितेन्द्रियाश्च भवन्ति । अथ भगवान् साधुकारमदात् । साधु साधु सर्वनीवरणविष्कम्भिन्, यस्त्वमीदृशं प्रतिभानं करोषि । अनेकानि देवनागयक्षगन्धर्वासुरगरूडकिन्नरमहोरगमनुष्यामनुष्या उपासकोपासिकासहस्राणि संनिपतितानि - त्वयेदृशं धर्मसांकथ्यं कृतम् । यतस्त्वयेदृशो वैपुल्यप्रतिभानः कृतः ॥ अथ सर्वनीवरणविष्कम्भी भगवन्तमेतदवोचत्- यदा भगवन्निदं प्रश्नमनिर्दिष्टं तदा देवपुत्राणामभेद्या श्रद्धोत्पन्ना । अथ भगवान् साधुकारमदात्- साधु साधु कुलपुत्र, यस्त्वमेवं पुनः पुनस्तथागतमध्येषसे । तद्यथापि नाम सर्वनीवरणविष्कम्भिन् कृष्णान्नाम रोमविवरादवतीर्य रत्नकुण्डलो नाम रोमविवरः । तत्रानेकानि गन्धर्वकन्याकोटिनियुतशतसहस्राणि प्रतिवसन्ति । ताश्च गन्धर्वकन्या अभिरूपाः दर्शनीयाः परमया शुभवर्णपुष्कलतया समन्वागता दिव्यालंकारविभूषितशरीरा अप्सरसामिव प्रतिस्पर्धिन्यः तादृश्यः, परमशोभनाः । न च ता रागदुःखेन बाध्यन्ते । न च द्वेषदुःखेन बाध्यन्ते । न च मोहदुःखेन बाध्यन्ते । न च तासां काये किंचिन्मानुषीदुःखं संविद्यते । ताश्च गन्धर्वकन्यास्त्रिकालमवलोकितेश्वरस्य (वैद्य २९०) बोधिसत्त्वस्य महासत्त्वस्य नाममनुस्मरन्ति । यदा त्रिकालमनुस्मरन्ति, तदा तासां सर्ववस्तूनि प्रादुर्भवन्ति ॥ अथ सर्वनीवरणाविष्कम्भी भगवन्तमेतदवोचत्- गमिष्याम्यहं भगवन् । तानि रोमविवराणि द्रष्टुकामोऽहम् । भगवानाह - अग्राह्यास्ते कुलपुत्र रोमविवरा असंस्पर्शाः । यथा आकाशधातुरग्राह्योऽसंस्पर्शः, एवमेव ते कुलपुत्र रोमविवरा अग्राह्या असंस्पर्शाः । तेषु रोमविवरेषु समन्तभद्रो बोधिसत्त्वो महासत्त्वस्तेषां रोमविवराणां द्वादश वर्षाणि परिभ्रमितः, न च तेन तानि रोमविवराणि दृष्टाणि । यस्यैकैकरोमविवरे स्थितं बुद्धशतम्, तेनापि न दृष्टाणि, प्रागेवान्ये बोधिसत्त्वभूताः ॥ अथ सर्वनीवरणविष्कम्भी भगवन्तमेतदवोचत्- यदा भगवन् समन्तभद्रेण बोधिसत्त्वेन महासत्त्वेन न दृष्टं द्वादशवर्षाणि परिभ्रमता, न च तेन तानि रोमविवराणि दृष्टानि, अस्यैकैकरोमविवरे स्थितं बुद्धशतं तेनापि न दृष्टम्, तदा तेषां रोमविवराणामन्ततोऽहमपि किं गमिष्यामि? आह - कुलपुत्र, मयापि तस्य रोमविवरं वीक्षमाणेन परिमार्गयमाणेन न दृश्यते । सर्वनीवरणविष्कम्भिन् कुलपुत्र, अयं मायावी असाध्यः सूक्ष्म एवमनुदृश्यते । निरञ्जनो रूपी महापी(?) शतसहस्रभुजः कोटिशतसहस्रनेत्रो विश्वरूपी एकादशशीर्षः महायोगी निर्वाणभूमिव्यवस्थितः सुचेतनो महाप्राज्ञः भवोत्तारकः कुलीनोऽनादर्शी प्राज्ञो निर्देशस्तथाच्छायाभूतः सर्वधर्मेषु, एवमेव कुलपुत्र अवलोकितेश्वरो बोधिसत्त्वो न श्रुतो न केनचिद्दृश्यते । तस्य स्वभावका अन्यथार्तगता न पश्यन्ति, प्रागेव समन्तभद्रादयोऽन्ये च बोधिसत्त्वाः । अचिन्त्योऽयं कुलपुत्र अवलोकितेश्वरो बोधिसत्त्वो महासत्त्वः प्रातिहार्याणि समुपदर्शयति । अनेकानि च बोधिसत्त्वकोटिनियुतशतसहस्राणि परिपाचयति, सत्त्वांश्च तान् बोधिमार्गे प्रतिष्ठापयति । प्रतिष्ठापयित्वा सुखावतीलोकधातुमनुगच्छति । अमिताभस्य तथागतस्यान्तिके धर्ममनुशृणोति ॥ अथ सर्वनीवरणविष्कम्भी भगवन्तमेतदवोचत्- केनोपायेन भगवन् पश्यामि अहमवलोकितेश्वरं बोधिसत्त्वं महासत्त्वम्? भगवानाह - यदि कुलपुत्र इहैव सहालोकधातुमागच्छति मम दर्शनाय वन्दनाय पर्युपासनाय । अथ सर्वनीवरणविष्कम्भी भगवन्तमेतदवोचत्- अनुजानाम्यहं भगवन्, अवलोकितेश्वरो बोधिसत्त्वो महासत्त्व आगच्छति? भगवानाह - यदा कुलपुत्र सत्त्वपरिपाको भवति, तदावलोकितेश्वरः प्रथमतरमागच्छति ॥ अथ सर्वनीवरणविष्कम्भी बोधिसत्त्वः करे कपोलं दत्त्वा चिन्तापरो व्यवस्थितः - किं मया पापरतेन चिरकालजीविकया तेनावलोकितेश्वरदर्शनविप्रहीणेनान्धभूतेन तमोनुप्राप्तमार्गसंप्रस्थितेन? अथ सर्वनीवरणविष्कम्भी बोधिसत्त्वः पुनरपि भगवन्तमेतदवोचत्- कतमस्मिन् काले भगवन्नवलोकितेश्वर आगच्छति? अथ भगवानपीदं वचनं श्रुत्वा हसति, व्यवहसति च - अकालस्ते कुलपुत्र अवलोकितेश्वरस्यागमनकालसमयः । तद्यथापि नाम कुलपुत्र ततो रोमविवरादवतीर्य अमृतबिन्दुर्नाम रोमविवरः, तत्रानेकानि देवपुत्र कोटिनियुतशतसहस्राणि (वैद्य २९१) प्रतिवसन्ति । केचिदेकभूमिका, केचिद्द्विभूमिकाः, केचित्रिभूमिकाः, केचिच्चतुर्भूमिकाः, केचित्पञ्चभूमिकाः, केचित्षड्भूमिकाः, केचित्सप्तभूमिकाः, केचिदष्टभूमिकाः, केचिन्नवभूमिकाः, केचिद्दशभूमिकाः प्रतिष्ठिता बोधिसत्त्वा महासत्त्वा वसन्ति । तद्यथापि नाम सर्वनीवरणविष्कम्भिनस्मिन्नमृतबिन्दौ रोमविवरे षष्टिपर्वताः सुवर्णरूप्यमयाः । एकैकपर्वतः षष्टियोजनासहस्राण्युच्छ्रयेण । तदेषां पर्वतानां नवनवतिशृङ्गसहस्राणि दिव्यसुवर्णरत्नोपचितानि । पार्श्वे केचिदेकचित्तोत्पादिका बोधिसत्त्वाः प्रतिवसन्ति । तेषु पर्वतराजिषु अनेकानि गन्धर्वकोटिनियुतशतसहस्राणि प्रतिवसन्ति, ये तस्मिन् रोमविवरे सततसमितं निर्नादितं सूर्यं धारयति । तद्यथापि नाम सर्वनीवरणविष्कम्भिन् तस्मिंश्चामृतबिन्दौ रोमविवरे अनेकानि विमानकोटिनियुतशतसहस्राणि रत्नपरिखचितानि शोभनीयानि दर्शनीयानि विचित्राणि मुक्ताहारशतसहस्राणि प्रलम्बितानि । तेषु विमानेषु बोधिसत्त्वा विश्रमित्वा धर्मसांकथ्यं कुर्वन्ति । ततो विमानान्निष्क्रम्य स्वकस्वकानि चंक्रमणानि प्रत्युद्गताः । चंक्रमे चंक्रमे सप्तति सप्तति पुष्करिण्यः केचिदष्टाङ्गोपेतेन वारिणा परिपूर्णाः, केचिद्विविधपुष्पपरिपूर्णाः, उत्पलपद्मकुमुदपुण्डरीकसौगन्धिकमान्दारवमहामान्दारवपुष्पपरिपूर्णाः । तेषु चंक्रमेषु मनोरमाः कल्पवृक्षाः लोहितवर्णाः सुवर्णरूप्यपत्रा दिव्यालंकारप्रलम्बिता मौलीकुण्डलस्रग्दामप्रलम्बिता हारार्धहारप्रलम्बिताः केयूरप्रलम्बिताः । तदन्ये विविधालंकारप्रलम्बिताः । तेषु चंक्रमेषु रात्रौ ते बोधिसत्त्वाश्चंक्रमन्ति, विविधं च महायानमनुस्मरन्ति, नैर्वाणिकीं भूमिमनुविचिन्तयन्ति । सांसारिकं दुःखमनुविचिन्तयन्ति । नरकनिर्यासं चिन्तयन्ति । संचिन्तयित्वा मैत्रीं भावयन्ति । एवमेव सर्वनीवरणविष्कम्भिन् तस्मिन् रोमविवरे ईदृशा बोधिसत्त्वा वसन्ति । ततोऽमृतवित्तबिन्दुरोमविवरादवतीर्य वज्रमुखो नाम रोमविवरः, तत्रानेकानि किन्नरशतसहस्राणि प्रतिवसन्ति । अङ्गदकुण्डलकेयूरविचित्रमाल्याभरणानुलेपनपरमशोभनानि दृश्यन्ते । सततकालं बुद्धधर्मसंघाभिप्रसन्नाः एकाग्रधर्ममैत्रीविहारिकाः क्षान्तिसंभाविता निर्वाणचिन्तकाः संवेगमानुष्यकाः । ईदृशास्ते कुलपुत्र किन्नरा धर्माभिरताः । तस्मिन्नेव रोमविवरे अनेकानि पर्वतविवराणि शतसहस्राणि । केचिद्वज्रमयाः केचित्पद्मरागमयाः केचिदिन्द्रनीलमयाः केचित्सप्तरत्नमयाः । ईदृशानि च तत्र कुलपुत्र रोमविवरे सद्धर्मनिमित्तानि च दृश्यन्ते । तत्र रोमविवरे अनेकाः कल्पवृक्षाः, अनेकविद्रुमवृक्षाश्चन्द्रनवृक्षाः सौगन्धिकवृक्षाः, अनेकानि पुष्करिणीशतसहस्राणि, दिव्यानि विमानानि, स्फटिकरजतसंयुक्ताः परमशोभनीयाः रमणीयाः प्रासादाः । यत्र ईदृशानि विमानानि प्रादुर्भवन्ति, तेषु विमानेषु किन्नरा विश्रान्ताः । विश्रमित्वा धर्मसांकथ्यं कुर्वन्ति । यदुत दानपारमितासांकथ्यं कुर्वन्ति । ध्यानपारमितासांकथ्यं कुर्वन्ति । प्रज्ञापारमितासांकथ्यं कुर्वन्ति । एवं षट्पारमितासांकथ्यं कृत्वा स्वकस्वकानि चंक्रमणानि चंक्रमन्ति । केचित्सुवर्णमयाश्चंक्रमाः । तेषु चंक्रमेषु सामन्तकेषु कल्पवृक्षा लोहितदण्डाः सौवर्णरूप्यपत्रा दिव्यालंकारप्रलम्बिताः मौलिकुण्डलस्रग्दामप्रलम्बिता हारार्धहारप्रलम्बिता रत्नहारप्रलम्बिताः । ते च कल्पवृक्षास्तस्मिंश्चंक्रमे कूटागारवत्संस्थिताः, कूटागारसदृशेषु (वैद्य २९२) तेषु चंक्रमेषु किन्नराश्चंक्रमन्ति । चंक्रम्यमाणाः सांसारिकं सत्यमनुविचिन्तयन्ति - अहो दुःखम् । जातिर्दुःखम् । अहो दुःखम् । जरामरणदुःखम् । अहो दुःखम् । तदपि दारिद्र्यदुःखम् । इष्टप्रियवियोगाप्रियावियोगदुःखम् । तदपि कष्टतरं दुःखम् । ये चावीचावुपपन्ना रौरवोपपन्नाः, कालसूत्रोपपन्नाः, हाहवे महानरके उपपन्नाः, प्रतापने नरके उपपन्नाः, अग्निघटेषुपपन्नाः, वज्रशैलेषुपपन्नाः, प्रेतनगरोपपन्नाः, तदेषां सर्वसत्त्वानां दुःखतरम् । एवं च ते किन्नराश्चित्तेन चिन्तयन्ति । चिन्तयित्वा नैर्वाणिकीं भूमीं चिन्तयन्ति । एवमेव कुलपुत्र किन्नरा धर्माभिरताः सततकालमवलोकितेश्वरस्य नामनुस्मरन्ति । यदा ते नामानुस्मरन्ति, तदा तेषां सर्वोपकरणैरुपस्थिता भवन्ति । एवं दुर्लभः कुलपुत्र अवलोकितेश्वरो बोधिसत्त्वो महासत्त्वः सर्वसत्त्वानां मातापितृभूतः सर्वसत्त्वेष्वभयंददः । सर्वसत्त्वेषु मार्गोपदर्शकः । सर्वसत्त्वेषु कल्याणमित्रः । एवं कुलपुत्र अवलोकितेश्वरो बोधिसत्त्वो महासत्त्वः । दुर्लभं कुलपुत्र तस्य नामग्रहणम् । ये च तस्य षडक्षरीमहाविद्यानामानुस्मरन्ति, तदा तेषु रोमविवरेषु जायन्ते । न च पुनरेव संसारे संसरन्ति । रोमविवराद्रोमविवरमुपसंक्रामन्ति । तेषां तेषु रोमविवरेषु तावत्तिष्ठन्ति यावन्नैर्वाणिकीं भूमिमन्वेषन्ते ॥ इति रोमविवरवर्णनं नाम द्वितीयं प्रकरणम् ॥ _________________________________________________________________ २,३: षडक्षरीमहाविद्यामाहात्म्यवर्णनं तृतीयं प्रकरणम् । अथ सर्वनीवरणविष्कभी भगवन्तमेतदवोचत्- कुतो भगवन् षडक्षरी महाविद्या प्राप्यते? भगवानाह - दुर्लभा कुलपुत्र सा षडक्षरी महाविद्या । न च तथागता जानन्ति प्रागेव बोधिसत्त्वभूताः । अथ सर्वनीवरणविष्कम्भी भगवन्तमेतदवोचत्- यद्भगवन् तथागता अर्हन्तः सम्यक्संबुद्धा न जानन्ति? भगवानाह - कुलपुत्र सा षडक्षरी महाविद्या त्ववलोकितेश्वरस्य परमहृदयम् । यश्च परमहृदयं जानाति स मोक्षं जानाति । अथ सर्वनीवरणविष्कम्भी भगवन्तमेतदवोचत्- अस्ति भगवन् केचित्सत्त्वा ये षडक्षरीं महाविद्यां जानन्ति? भगवानाह - न कश्चिज्जानीते कुलपुत्र । षडक्षरी महाविद्या राज्ञी । एषा दुरासदा अप्रमेया योगिनस्तथागता जानन्ति प्रागेव बोधिसत्त्वभूताः । अस्याः कुलपुत्र षडक्षरीमहाविद्यायाः कारणेन सर्वे तथागताः षोडशकल्याणसंख्येयाः परिभ्रमिताः प्रागेव बोधिसत्त्वभूताः कुतो जानन्ति? अयं स परमहृदयः अवलोकितेश्वरस्य । योऽप्ययं परिभ्रमति जगन्मण्डले, कश्चिज्जानीते षडक्षरीं महाविद्याम् । पुण्यवन्तस्ते सत्त्वा ये षडक्षरीं महाविद्यां सततपरिग्रहं जपाभियुक्ता भवन्ति । तस्या जपकाले तु नवनवतिगङ्गानदीवालुकोपमास्तथागताः संनिपतन्ति, परमाणुरजोपमा बोधिसत्त्वाः संनिपतन्ति, षट्पारमिता द्वारस्था भवन्ति । अन्ये च द्वात्रिंशद्देवनिकायाः देवपुत्राः संनिपतिताः । चत्त्वारश्च महाराजानश्चतस्रो दिशो रक्षन्ति । सागरश्च नागराजः । अनवतप्तश्च नागराजः । तक्षकश्च नागराजः । वासुकिर्नागराजः - एवंप्रमुखान्यनेकानि नागराजकोटीनियुतशतसहस्राणि धरणीं परिरक्षन्ति । अन्ये च भौमा यक्षाः । अन्ये चावकाशं रक्षन्ति । तस्य कुलपुत्रस्य एकैकरोमविवरे (वैद्य २९३) तथागतकोट्यो विश्रमन्ति, विश्रमित्वा साधुकारमनुप्रयन्ति - साधु साधु कुलपुत्र, यस्त्वमीदृशं चिन्तामणिरत्नलब्धलाभोऽसि । विमोक्षितास्ते सप्तकुलवंशा जातिपरंपरया । ये च तव कुलपुत्र कुक्षिगताः प्राणिनः, सर्वे तेऽवैवर्तिका बोधिसत्त्वा भविष्यन्ति । यः कश्चिदिमां धारयेत्षडक्षरीं महाविद्यां कायगतां कण्ठगतां वा, स कुलपुत्र वज्रकायशरीर इति वेदितव्यः, धातुस्तूप इति वेदितव्यः, तथागतज्ञानकोटिरिति वेदितव्यः । यः कश्चित्कुलपुत्रो वा कुलदुहिता वा इमां षडक्षरीं महाविद्यां जपन्ति सोऽक्षयप्रतिभानो भवति । ज्ञानराशिविशुद्धो भवति । महाकरुणया समन्वागतो भवति । स दिने दिने षट्पारमिताः परिपूरयति । विद्याधरचक्रवर्त्यभिषेकं प्रतिलभते । यस्य कस्यचिदुच्छवस्योच्छ्वासप्रश्वासं ददाति मैत्र्या वा द्वेषेण वा, सर्वे तेऽवैवर्तिकाधिसत्त्वा भवन्ति, क्षिप्रं चानुत्तरां सम्यक्संबोधिमभिसंबुध्यन्ते । ये केचिद्वस्त्रस्पर्शनेनापि स्पृशन्ति, सर्वे ते चरमभविका बोधिसत्त्वा भवेयुः । दर्शनमात्रेण स्त्री वा पुरुषो वा दारिका वा मृगपक्षिणो गोमहिषगर्दभादयश्च चक्षुर्दर्शनेनापि पश्यन्ति, सर्वे ते चरमभविका बोधिसत्त्वा भवेयुः, जातिजराव्याधिमरणदुःखप्रियविप्रयोगविहीणा भवेयुः । अचिन्त्या योगिनश्च भवेयुः । एवं तु षडक्षरीं महाविद्यां जपमानस्य संचोदनो भवति ॥ अथ सर्वनीवरणविष्कम्भी भगवन्तमेतदवोचत्- कथं भगवन् लभेयमहं षडक्षरीं महाविद्याम्? सोऽचिन्त्यो योगानां चाप्रमेयध्यानानां च अपरिस्थितश्चानुत्तरायां सम्यक्संबोधौ, निर्वाणस्योपदर्शकः, मोक्षस्य प्रवेशनम्, रागद्वेषस्य व्युपशमनम्, धर्मराजस्य च परिपूरणम्, उन्मूलनं च संसारस्य पञ्चगतिकस्य, संशोषणं च नारकाणां क्लेशानाम्, समुद्धातनमुत्तारणं च तिर्यग्योनिगतानाम्, आस्वादो धर्माणां च परिपूरणम्, सर्वज्ञज्ञानस्य अक्षयं निर्देशं श्रोतुमिच्छामि । भगवन् यो मे षडक्षरीं महाविद्यामनुप्रयच्छति, तस्य चतुर्द्वीपान् सप्तरत्नपरिपूर्णान्निर्यातयितुम् । यदि भगवन् लिख्यमानायापि भूर्जं न संविद्यते, न मसिः, न च करमम् । मदीयेन शोणितेन मसिं कुर्यात्, चर्ममुत्पाट्य भूर्जं कुर्यात्, अस्थिं भङ्क्तवा च करमं कुर्यात्, तदापि भगवन्मम नास्ति खेदं शरीरस्य । स च मे मातापितृभूतो भवेत्गुरूणामपि गुरुश्च ॥ अथ भगवान् सर्वनीवरणविष्कम्भिणं बोधिसत्त्वमेतदवोचत्- स्मराम्यहं कुलपुत्र अस्याः षडक्षरिमहाविद्यायाः कारणेन परमाणुरजोपमान् लोकधातून् परिभ्रमितः । अनेकानि तथागतकोटिनियुतशतसहस्राणि मया पर्युपासितानि । न च तेषां तथागतानां सकाशात्सचालंबापि (?) श्रुता । तदा रत्नोत्तमो नाम तथागतोऽर्हन् सम्यक्संबुद्धो विद्याचरणसंपन्नः सुगतो लोकविदनुत्तरः पुरुषदम्यसारथिः शास्ता देवानां च बुद्धो भगवान् । तस्य मया पुरस्तादश्रूणि प्रमुक्तानि । तदा तेन तथागतेनार्हता सम्यक्संबुद्धेनाभिहितम् - मा कुलपुत्र एवं करुणकरूणान्यश्रूणि प्रमुञ्च । गच्छ कुलपुत्र येन पद्मोत्तमो नाम लोकधातुः । तत्र पद्मोत्तमो नाम तथागतोऽर्हन् सम्यक्संबुद्धः । स इमां षडक्षरीं (वैद्य २९४) महाविद्यामनुजानाति । तस्य कुलपुत्र अहं रत्नोत्तमस्य तथागतस्यान्तिकात्प्रक्रान्तः । येन पद्मोत्तमस्य तथागतस्य बुद्धक्षेत्रं तेनोपसंक्रान्तः । उपसंक्रम्य भगवतः पादौ शिरसा वन्दित्वा पुरस्तात्प्राञ्जलीभूत्वोत्तम् - लभेयमहं भगवन् पद्मोत्तम षडक्षरीं महाविद्यां राज्ञीं यस्या नामानुस्मरणमात्रेण सर्वपापानि क्षयन्ते, दुर्लभां बोधिं प्रतिलभते, येनार्थेनाहं क्लिष्टोऽनेकानि लोकधातूनि । इहैवागत्वा मा व्यर्थश्रमो भवेयम् । तदा पद्मोत्तमस्तथागत इमां षडक्षरीं महाविद्यागुणां संस्मारयति स्म - तद्यथापि नाम कुलपुत्र शक्यते परमाणुरजःप्रमाणमुद्गृहीतुम्, न तु कुलपुत्र शक्यते षडक्षरिमहाविद्याया एकजापस्य पुण्यस्कन्धं गणयितुम् । शक्यते मया कुलपुत्र चतुःसमुद्रस्यैकैकां वालुकां गणयितुम्, न तु कुलपुत्र शक्यते मया षडक्षरिमहाविद्याया एकजापस्य पुण्यस्कन्धं गणयितुम् । तद्यथापि नाम कुलपुत्र कश्चिदेव पुरुषो भवेत् । स गृहं पूर्णं योजनसहस्रं कुर्यात्द्विगुणं पञ्चयोजनशतानि । तं तिलफलैः परिपूर्णं कुर्यात् । यत्र सूचीविवरं न संविद्यते, तत्र पुरुषो द्वारे स्थापितोऽजरामरः । स कल्पशतस्यातिक्रान्तस्य अस्यैकतिलफलं बहिर्द्वारे प्रक्षिपेत् । तदनेन पर्यायेण तं गृहसमूहप्रतिष्ठितास्तिलाः परिक्षयपर्यवदानं यावत्कालेन व्रजेयुः, तच्छक्यते मया गणयितुम् । न तु कुलपुत्र शक्यते षडक्षरिमहाविद्यायाः एकजापस्य पुण्यस्कन्धं गणयितुम् । तद्यथापि नाम कुलपुत्र चतुर्द्वीपे नानाविधानि कृषिं कारयन्ति यवगोधूमशालिमुद्गमाषादयस्तिलकोलकुलत्थादिभिः, तत्र कालेन कालं नागराजानो वर्षधारामनुप्रयच्छन्ति । तानि शस्यानि निष्पाद्यन्ते, ततस्ते परिपक्काः परिछिद्यन्ते । एवं जम्बुद्वीपं खलं कुर्यात्, ततस्ते शकटैर्भारैर्मुटैः पिठकैर्गोभिर्गर्दभादिभिर्लङ्घयित्वा तस्मिन् खलाभ्यन्तरे प्रक्षिपेरन्, तानि गोभिर्गर्दभैर्मर्दयित्वा महान्तं राशिं निष्पाद्यते । शक्यते मया कुलपुत्र एकैकानि फलानि गणयितुम्, न तु कुलपुत्र शक्यते मया षडक्षरिमहाविद्याया एकजापस्य पुण्यस्कन्धं गणयितुम् । तद्यथापि नाम कुलपुत्र इमा महानद्यो जम्बुद्वीपे प्रवहन्ति रात्रौ दिवा च । तद्यथा गङ्गा सीता यमुना सिन्धुः शतद्रुः चन्द्रभागा एरावती सुमागन्धा हिमरती कलशोदरी चेति । एकैकनदी पञ्चसहस्रपरिवारा । रात्रौ च दिवा च महासमुद्रे प्रवहन्ति । एवमेव षडक्षरिमहाविद्याया एकजापस्य पुण्यस्कन्धः प्रवहति । तत्रासां महानदीनां शक्यते मया एकैकबिन्दुं गणयितुम् । न च कुलपुत्र शक्यते मया षडक्षरिमहाविद्याया एकजापस्य पुण्यस्कन्धं गणयितुम् । तद्यथापि नाम कुलपुत्र चतुर्द्वीपेषु चतुष्पाज्जातीनां गोगर्दभमहिषाश्वहस्तिनः, श्वजम्बुकच्छागलपशवः, तथा सिंहव्याघ्रतरक्षुमृगमर्कटशशकादयः, एषां मयैकैकानि रोमाणि शक्यते गणयितुम्, न तु कुलपुत्र षडाक्षरिमहाविद्यायाः शक्यते एकजापस्य पुण्यस्कन्धं गणयितुम् । तद्यथापि नाम कुलपुत्र वज्राङ्कुशो नाम पर्वतराजो नवनवतियोजनसहस्राण्युच्छ्रयेण चतुरशीतियोजनसहस्राण्यधस्तात् । तस्य पर्वतराजस्य वज्राङ्कुशस्यैकं पार्श्वं चतुरशीतियोजनसहस्रम् । तस्य च पार्श्वे पर्वतराजस्य जरामरः पुरुषो भवेत् । स (वैद्य २९५) कल्पस्यातिक्रान्तस्य एकवारं कशिकवस्त्रेण परिमार्जयेत् । एवं कृत्वा तस्य परिक्षयं पर्यवदानं भवेत्, एतत्कालेषु वर्षमासदिनमुहूर्तनाडीकलाः यावत्श्वासाः, तेषां प्रमाणं कर्तुंशक्यम्, न तु षडक्षरिमहाविद्यायाः शक्यते एकजापस्य पुण्यस्कन्धं गणयितुम् । तद्यथापि नाम कुलपुत्र महासमुद्रं चतुरशीतियोजनसहस्रं गाम्भीर्येण, अप्रमेयं वैपुल्येन वडवामुखपर्यन्तं शक्यते मया शताग्रभिन्नया वालग्रकोट्या एकैकं बिन्दुं गणयितुम् । न तु कुलपुत्र शक्यते मया षडक्षरिमहाविद्यायाः पुण्यस्कन्धं गणयितुम् । तद्यथापि नाम कुलपुत्र शक्यते मया शीर्षवनस्य एकैकपत्राणि गणयितुम्, न तु षडक्षरिमहाविद्यायाः शक्यते एकजापस्य पुण्यस्कन्धं गणयितुम् । तद्यथापि नाम कुलपुत्र चतुर्द्विपनिवासिनं स्त्रीपुरुषदारकदारिकास्ते सर्वे दशभूमिप्रतिष्ठिता बोधिसत्त्वा भवेयुः । यत्तेषां बोधिसत्त्वानां पुण्यस्कन्धम्, ततः षडक्षरिमहाविद्याया एकजापस्य पुण्यस्कन्धम् । तद्यथापि नाम कुलपुत्र द्वादशमासिकेन संवत्सरेण अधिमासिकेन त्रयोदशमासिकेन वा संवत्सरेण तथा संवत्सरगणनया पूर्ण कल्पं देवो रत्रौ दिवा वर्षति, तच्छक्यते मया कुलपुत्र एकैकं बिन्दुं गणयितुम् । न तु कुलपुत्र षडक्षरिमहाविद्याया एकजापस्य पुण्यस्कन्धं गणयितुम् । एवं कुलपुत्र बहवो मत्सदृशाः तथागतकोटय एकस्थानधारिता दिव्यं कल्पं चीवरपिण्डपात्रशयनासनग्लानप्रत्ययभैषज्यपरिष्कारैः सर्वोपकरणोपस्थाने नोपस्थिता भवेयुः । न च तथागताः शक्नुवन्ति षडक्षरिमहाविद्यायाः पुण्यस्कन्धं गणयितुम् । प्रागेवाहमेकाकी अस्मिंल्लोकधातौ विहरामि । अचिन्त्यध्यानपदेन समुत्थानेनाहं कुलपुत्र भावनायोगमनुयुक्तः । स च सूक्ष्मो धर्मः, अव्यक्तो धर्मं, अनागतो धर्मः, परमहृदयप्राप्तः । अवलोकितेश्वरस्य बोधिसत्त्वस्य महासत्त्वस्योपायकुशलैर्धर्मैः प्रतिष्ठितः । एवं कुलपुत्र षडक्षरिमहाविद्याया उपायकौशल्यं प्राप्तुमहमपि कुलपुत्र अनेकानि लोकधातुकोटीनियुतशतसहस्राणि परिभ्रमितः । गत्वा चामिताभस्य तथागतस्य पुरस्तात्प्राञ्जलीभूत्वा धर्मवेगेनाश्रूणि प्रमुक्तानि, तथामिताभस्तथागतो जानाति अनागतप्रत्युत्पन्नम् ॥ तेन ममाभिहितम् - कुलपुत्र षडक्षरीं महाविद्यां राज्ञीमिच्छसि भावनायोगमनुयुक्तः? मयोक्तम् - इच्छामि सुगत । यथा तृषार्तः पानीयमन्वेषते एवमहं भगवन् षडक्षरीं महाविद्यां समन्वेषमाणोऽनेकलोकधातूनुपसंक्रान्तः । पर्युपासितानि मेऽनेकानि तथागतकोटीनियुतशतसहस्राणि, न कस्यचित्सकाशान्मया लब्धा षडक्षरी महाविद्या राज्ञी । त्वं भगवन् त्राता भव, शरणं परायणम् । विकलेन्द्रियस्य चक्षुर्भूतो भव । नष्टमार्गस्य दर्शको भव । सूर्यतापदग्धानां छत्रभूतो भव । चतुर्महापथे शालवृक्ष इव भव । धर्मपरितृषिस्यानन्तधर्ममार्गमुपदर्शको भव । सुप्रतिष्ठितचेतसो वज्रकवचभूतो भव ॥ अथामिताभस्य तथागतार्हतः सम्यक्संबुद्धस्य अवलोकितेश्वरस्य बोधिसत्त्वस्य महासत्त्वस्य लम्बिकरुतेन स्वरेण निर्घोषेणारोचयति - पस्य कुलपुत्र अयं पद्मोत्तमस्तथागतो (वैद्य २९६)ऽर्हन् सम्यक्संबुद्धः षडक्षरीमहाविद्यायाः कारणेनानेकलोकधातुकोटीनियुतशतसहस्राणि परिभ्रमितः । ददस्व कुलपुत्र षडक्षरीं महाविद्यां राज्ञीम् । तथागत एवं परिभ्रमति ॥ इति षडक्षरिमहाविद्यामाहात्म्यवर्णनं तृतीयं प्रकरणम् ॥ _________________________________________________________________ २,४: षडक्षरिमहाविद्यामण्डलवर्णनं चतुर्थं प्रकरणम् । अथ अवलोकितेश्वरो भगवन्तमेतदवोचत्- अदृष्टमण्डलस्य न दातव्यां कथं भगवत्पद्माङ्कमुद्रामनुगृह्णाति? कथं मणिधरां मुद्रां संजानीते? कथं सर्वराजेन्द्रां संजानीते? मण्डलपरिशुद्धिं कथं संजानीते? मण्डलस्येदं निमित्तं चतुरस्रं पञ्चहस्तप्रमाणं सामन्तकेन मध्ये मण्डलस्यामिताभं लिखेत् । इन्द्रनीलचूर्णं पद्मरागचूर्णं मरकतचूर्णं स्फाटिकचूर्णं सुवर्णरूप्यचूर्णान्यमिताभस्य तथागतस्य काये संयोजयितव्यानि । दक्षिणे पार्श्वे महामणिधरो बोधिसत्त्वः कर्तव्य । वामपार्श्वे षडक्षरी महाविद्या कर्तव्या चतुर्भुजा शरत्काण्डगौरवर्णा, नानालंकारविभूषिता । वामहस्ते पद्मं कर्तव्यम् । दक्षिणहस्ते अक्षमाला कर्तव्या । दौ हस्तौ संप्रयुक्तौ सर्वराजेन्द्रा नाम मुद्रा कर्तव्या । तस्याः षडक्षरिमहाविद्यायाः पादमूले विद्याधरं प्रतिस्थापयितव्यम् । दक्षिणहस्ते धूपकटच्छुकं कर्तव्यं धूमायमानम् । वामहस्ते नानाविधालंकारपरिपूर्णं पिटकं कर्तव्यम् । तस्य च मण्डलस्य चतुर्द्वारेषु चत्वारो महाराजाः कर्तव्याः, नानाप्रहरणगृहीताः कर्तव्याः । तस्य मण्डलचतुष्कोणेषु चत्वारः पूर्णकुम्भाः नानामणिरत्नसंचिताः । यः कश्चित्कुलपुत्रो वा कुलदुहिता वा इच्छति मण्डलं प्रवेष्टुम्, तेन सर्वगोत्रस्यापरंपरस्य नामानि लिखितव्यानि, लिखित्वा च हस्ते गृहीतव्यानि च । मण्डले प्रथमतरं तानि नामानि प्रक्षिपेत् । ते सर्वे चरमभविका बोधिसत्त्वा भवन्ति । सर्वमानुष्यकेण दुःखेन विप्रहीणा भविष्यन्ति, क्षिप्रं चानुत्तरां सम्यक्संबोधिमभिसंबुध्यन्ते । तत आचार्येण अस्थाने नैव दातव्या । अथवा श्रद्धाधिमुक्तकस्य दातव्या । अथवा महायानश्रद्धाधिमुक्तकस्य दातव्या । न च तीर्थिकस्य दातव्या ॥ अथामिताभस्तथागतोऽर्हन् सम्यक्संबुद्धोऽवलोकितेश्वरमेतदवोचत्- यदि कुलपुत्र इन्द्रनीलचूर्णं पद्मरागचूर्णं सुवर्णरूप्यचूर्णं दरिद्रस्य कुलपुत्रस्य कुलदुहितुर्वा न संविद्यन्ते तानि चूर्णानि, भगवन्नानारङ्गाणि संप्रयोक्तव्यानि? नानारङ्गाणि संप्रयोक्तव्यानि नानापुष्पैर्नानागन्धैः । यदि कुलपुत्र तदपि न संविद्यते देशान्तरगतस्य स्थानपदच्युतस्य, तदाचार्येण मानसिकं मण्डलं चिन्तितव्यम् । आचार्येण मन्त्रमुद्रालक्षणान्युपदर्शयितव्यानि ॥ इति षडक्षरिमहाविद्यामण्डलवर्णनं चतुर्थं प्रकरणम् ॥ _________________________________________________________________ २,५: महाविद्योपदेशो नाम पञ्चमं प्रकरणम् । अथ पद्मोत्तमस्तथागतोऽर्हन् सम्यक्संबुद्धो अवलोकितेश्वरमेतदवोचत्- ददस्व मे कुलपुत्र षडक्षरीं महाविद्यां राज्ञीम्, येनाहमनेकसत्त्वकोटीनियुतशतसहस्राणि दुःखात्परिमोचयेयम् । यथा ते क्षिप्रं चानुत्तरां सम्यक्संबोधिमभिसंबुध्यन्ते ॥ (वैद्य २९७) अथ अवलोकितेश्वरो बोधिसत्त्वो महासत्त्वः पद्मोत्तमस्य तथागतस्यार्हतः सम्यक्संबुद्धस्येमां षडक्षरीं महाविद्यामनुप्रयच्छति - ॥ * ॥ + ॥ ० ॥ + ॥ ओं मणिपद्मे हूम् ॥ + ॥ ० ॥ + ॥ * ॥ यस्मिन् काले इयं षडक्षरी महाविद्या अनुप्रदत्ता, तदा चत्वारो द्वीपाः, सदेवभवनपर्यन्ताः कदलीपत्रेव संचलिताः, क्षुब्धाश्चत्वारो महासमुद्राः सर्वविघ्नविनायकाः । निष्पलायन्ते यक्षराक्षसकुम्भाण्डा महाकालमातृगणसहिताः ॥ अथ पद्मोत्तमेन तथागतेन भुजंगसदृशं बाहुं प्रसार्य अवलोकितेश्वरस्य शतसहस्रमूल्यं मुक्ताहारम्, तेन गृहीत्वा अमिताभस्य तथागतस्यार्हतः सम्यक्संबुद्धस्योपनामितम् । तेन गृहीत्वा तस्य पद्मोत्तमस्य तथागतस्यार्हतः सम्यक्संबुद्धस्योपनामितम् । अथ पद्मोत्तमस्तथागतोऽर्हन् सम्यक्संबुद्ध इमां षडक्षरीं महाविद्यां गृहीत्वा येन पत्रोत्तमो नाम लोकधातुस्तेनोपसंक्रान्तः । एवं कुलपुत्र मया भूतपूर्वं पद्मोत्तमस्य तथागतस्यार्हतः सम्यक्संबुद्धस्व सकाशाच्छ्रुतम् ॥ अथ सर्वनीवरणविष्कम्भी भगवन्तमेतदवोचत्- कथं भगवन् लभेयं षडक्षरीं महाविद्या राज्ञीं प्राप्तयोगस्य? यथा हि भगवन्नमृतस्य लब्धास्वादास्तृप्तिं न लभन्ते, एवमहं भगवन् षडक्षरिमहाविद्याश्रुतमात्रेण तृप्तिं न लभाम । पुण्यवन्तस्ते सत्त्वा य इमां षडक्षरीं महाविद्यां जपन्ति शृण्वन्ति चिन्तयन्ति अध्याशयेन धारयन्ति ॥ भगवानाह - कुलपुत्र, यश्चेमां षडक्षरीं महाविद्यां लिखापयेत्, तेन चतुरशीतिधर्मस्कन्धसहस्राणि लिखापितानि भवन्ति । परमाणुरजोपमानां तथागतानामर्हतां सम्यक्संबुद्धानां दिव्यसौवर्णरत्नमयान् स्तूपान् कारयेत्, कारयित्वा एकदिने धात्वावरोपणं कुर्यात् । यश्च तेषां फलविपाकः, स षडक्षरिमहाविद्याया एकस्याक्षरस्य फलविपाकः । अचिन्त्योऽगुणानां सुप्रतिष्ठितो मोक्षः । यः कुलपुत्रो वा कुलदुहिता वा इमाः षडक्षरीं महाविद्यां जपेत्, स इमान् समाधीन् प्रतिलभते । तद्यथा - मणिधरो नाम समाधिः, नरकतिर्यक्संशोधनं नाम समाधिः, वज्रकवचो नाम समाधिः, सुप्रतिष्ठितचरणो नाम समाधिः, सर्वोपायकौशल्यप्रवेशनो नाम समाधिः, विकिरिणो नाम समाधिः, सर्वबुद्धक्षेत्रसंदर्शनो नाम समाधिः, सर्वधर्मप्रवेशनो नाम समाधिः, ध्यानालंकारो नाम समाधिः धर्मरथाभिरूढो नाम समाधिः, रागद्वेषमोहपरिमोक्षणो नाम समाधिः, अनन्तवत्सो नाम समाधिः, षट्पारमितानिर्देशो नाम समाधिः, महामेरुधरो नाम समाधिः, सर्वभवोत्तारणो नाम समाधिः, सर्वतथागतव्यवलोकनो नाम समाधिः, सुप्रतिष्ठितासनो नाम समाधिः । एवंप्रमुखानामष्टोत्तरसमाधिशतं प्रतिलभते, य इमां षडक्षरीं महाविद्यां धारयति ॥ इति षडक्षरिमहाविद्योपदेशो नाम पञ्चमं प्रकरणम् ॥ _________________________________________________________________ २,६: (वैद्य २९८) महाविद्यामण्डलवर्णनं षष्ठं प्रकरणम् । अथ सर्वनीवरणविष्कम्भी भगवन्तमेतदवोचत्- कुत्राहं भगवन् गच्छेयं यत्र षडक्षरीं महाविद्याराज्ञीं लभेयम्? भगवानाह - अस्ति कुलपुत्र वाराणस्यां महानगर्यां धर्मभाणको य इमां षडक्षरीं महाविद्यां धारयति वाचयति योनिशश्च मनसि कुरुते । आह - गमिष्याम्यहं भगवन् वाराणसीं महानगरीं तस्य धर्मभाणकस्य दर्शनाय वन्दनाय पर्युपासनाय । भगवानाह - साधु साधु कुलपुत्र, एवं कुरुष्व । दुर्लभस्ते कुलपुत्र धर्मभाणकस्तथागतसमो द्रष्टव्यः, पूण्यकूट इव द्रष्टव्यः । सर्वतीर्थो गङ्गेव द्रष्टव्यः । अवितथवादीव द्रष्टव्यः । भूतवादीव द्रष्टव्यः । रत्नराशिरिव द्रष्टव्यः । वरदश्चिन्तामणिरिव द्रष्टव्यः । धर्मराज इव द्रष्टव्यः । जगदुत्तारण इव द्रष्टव्यः । न च कुलपुत्र त्वया धर्मभाणकं दृष्ट्वा विचिकित्साचित्तमुत्पादयितव्यम् । मा त्वं कुलपुत्र बोधिसत्त्वभूमेश्च्युत्वा अदाये प्रपत्स्यसे । स च धर्मभाणकः शीलविपन्नः आचरविपन्नो भार्यापुत्रदुहितृभिः परिवृतः काषायोच्चारप्रस्रावपरिपूर्णः असंवृत्तेर्यापथः ॥ अथ सर्वनीवरणविष्कम्भी भगवन्तमेतदवोचत्- यथाज्ञप्तं भगवता । अथ सर्वनीवरणविष्कम्भी बोधिसत्त्वो महासत्त्व अनेकैर्बोधिसत्त्वपर्षद्गृहस्थैः प्रव्रजितैर्दारकदारिकादिभिः संप्रस्थितः । तस्य धर्मभाणकस्य पूजाकर्मणे दिव्यानि छत्राणि दिव्यानि उपानहानि मौलीकुण्डलस्रग्दामकेयूरहारार्धहाररत्नहारस्कन्धोपरिष्वजानिकपृष्ठोत्तर्याणि अङ्गुष्ठविभेदिकानि अन्यानि च विविधानि वस्त्राणि चीवराध्युषितानि विद्याधरसंचोदितानि काशिकवस्त्राण्यग्निशौचवस्त्राणि च अन्यानि च विविधानि वस्त्राणि पुष्पाणि । तद्यथा - उत्पलपद्मकुमुदपुण्डरीकमान्दारवमहामान्दारवाणि मञ्जूषकमहामञ्जूषकाणि चौदुम्बराणि अन्यानि विविधानि काष्ठपुष्पाणि चम्पककरवीरपाटलानि मुक्तकवार्षिकाणि शकुनकाध्युषितानि । सुमनानवमालिकचक्रवाकोपशोभितानि । शालिकौत्सुक्यानि शतपत्रिकाणि नीलपीतलोहितावदातमाञ्जिष्ठस्फटिकरजतवर्णानि । अन्यानि च स्थलजलजानि पुष्पाणि विविधानि गृहीत्वा येन वाराणसी महानगरी तेनोपजगाम । अनुपूर्वेण वाराणसीं महानगरीमनुप्राप्तः । येन स धर्मभाणकस्तेनोपसंक्रान्तः । उपसंक्रम्य पादौ शिरसाभिवन्द्य स तेन दृष्टः शीलविपन्न आचारविपन्नोऽसंवृतेर्यापथः । तेन ताणि छात्राण्युपानहानि वस्त्राभरणानि गन्धमाल्यविलेपनान्युपढौकितानि । तैर्वस्त्राभरणैः गन्धमाल्यैश्च महतीं पूजां कृत्वा तस्य धर्मभाणकस्य पुरस्तात्प्राञ्जलीभूतः तद्विज्ञमिदमवोचत्- अहो धर्मनिधानास्वादकोऽमृतनिधिरिव संचय अनवगाहोऽसि, सागरो यथा भाजनभूतोऽसि सर्वमानुष्यभूतेषु एव ते । तव सकाशाद्धर्मं देशयतः देवा नागा यक्षा गन्धर्वा असुरा गरूडाः किन्नरा महोरगा मनुष्यामनुष्याः सर्वे ते संनिपतिताः । तव धर्मश्रवणकाले महावज्रसमये धर्मपर्यायं निर्दिशसि परिमोक्षयसि । बहवः सत्त्वा ये संसारे बन्धनबद्धाः । पुण्यवन्तस्ते सत्त्वाः येऽस्यां वाराणस्यां महानगर्यां वसन्ति, पश्यन्ति, तव सततं परिग्रहं कुर्वन्ति । दर्शनमात्रेण सर्वपापानि निर्दहसि । यथाग्निर्दहति वनान्तरम्, (वैद्य २९९) एवं त्वं दर्शनेन सर्वपापानि दहसि । जानन्ते तव तथागता अर्हन्तः सम्यक्संबुद्धाः । अन्ये चानेकबोधिसत्त्वकोटीनियुतशतसहस्राणि तव पूजाकर्मण उपसंक्रामन्ति । ब्रह्माविष्णुमहेश्वरचन्द्रादित्यवायुवरुणाग्नयो यमश्च धर्मराजोऽन्ये च चत्वारो महाराजानः ॥ अथे स धर्मभाणकस्तस्यैतदवोचत्- मा त्वं कुलपुत्र कौकृत्यमुत्पादयसि । कति माषाः क्लेषा औपभोगिकाः संसारस्य नैमित्तिकाः प्रजामण्डलस्योत्पादिकाः । ये च कुलपुत्राः षडक्षरीं महाविद्याराज्ञीं जानन्ते, न च ते रागेण द्वेषेण मोहेन संलिप्यन्ते । यथा जाम्बूनदस्य सुवर्णस्य न सज्जते मलम्, एवमेव कुलपुत्र यस्य षडक्षरी महाविद्या कायगता, न तस्य कायेन न रागेण न द्वेषेण न मोहेन संलिप्यते ॥ अथ सर्वनीवरणविष्कम्भी गाढं पादे परिष्वज्यैनमेतदवोचत्- विकलेन्द्रियस्य चक्षुर्भूतो भव । नष्टमार्गस्योपदर्शको भव । धर्मपरितृषितस्य धर्मरसेन संतर्पय मे त्वम् । अनुत्तरासम्यक्संबोधिविप्रहीणस्य बोधिबीजं मे ददस्व । धर्माणामवकाशं ददस्व । सुप्रतिष्ठितरूपाणां कायपरिशुद्धिं ददस्व । अभेद्यानां कुशलानां प्रतिलम्भ इति सर्वजनाः कथयन्ति वाक्यं मधुरोपचयम् । एवं गुरुर्ददस्व मे षडक्षरीं महाविद्याराज्ञीं येनाहं क्षिप्रमनुत्तरां सम्यक्संबोधिमभिसंबुद्धो भवेयम् । द्वादशाकारं धर्मरन्ध्र(चक्र?)मावर्तयेयम् । सर्वसत्त्वानां सांसारिकं दुःखं परिमोचयेयम् । षडक्षरीमहाविद्याराज्ञीलब्धलाभो भवेयम् । ददस्व मे षडक्षरीं महाविद्याराज्ञीम् । त्राता भव, शरणं परायणम् । अद्वीपानां द्विपो भव ॥ अथ स धर्मभाणकस्तस्यैतदवोचत्- दुर्लभं षडक्षरिमहाविद्याराज्ञ्या असमवज्रपदम् । अभेद्यवज्रपदम् । अनुत्तरज्ञानदर्शनपदम् । अक्षयज्ञानपदम् । निरुत्तरपदम् । मोक्षप्रवेशनपदम् । तथागतज्ञानविशुद्धिपदम् । रागद्वेषमोहसंसारदुःखपरिवर्जनपदम् । सर्वोपायकौशल्यपदम् । ध्यानविमोक्षसमाधिसमापूर्तिपदम् । सर्वधर्मप्रविशनपदम् । नित्यकालदेवताभिकाङ्क्षिपदम् । ये च कुलपुत्रा नानास्थानेषु दीक्षन्ते । मोक्षार्थेषु नानापटेषु दीक्षन्ते । तद्यथा इन्द्रपटं श्वेतपटं ध्युषितपटम् । दिवसनिरीक्षका महेश्वरेषु दीक्षन्ते । बैल्मवेगरूद्रेषु नग्नश्रमणेषु च । एषु स्थानेषु दीक्षन्ते । न तेषां मोक्षं संविद्यते । अनादिगतिकानामपि नापि नाशो भवति । सर्वदेवगणाश्च ब्रह्मविष्णुमहेश्वराः शक्रश्च देवानामिन्द्रश्चन्द्रादित्यौ वायुवरुणादयो यमश्च धर्मराजो चत्वारश्च महाराजानः, ते नित्यकालं षडक्षरीं महविद्याराज्ञीं प्रार्थयन्ति ॥ अथ सर्वनीवरणविष्कम्भी तमाह - कथं वयं षडक्षरीं महाविद्याराज्ञीं लभेमहि येन वयं क्षिप्रवरा भवामः? धर्मभाणकस्तमुवाच - तद्यथापि नाम सर्वनीवरणविष्कम्भिन् प्रज्ञापारमितानिर्जाताः सर्वतथागताः । तत्प्रज्ञापारमिता सर्वतथागतानां च नेत्रीत्याख्यायते । सापि च षडक्षरीं महाविद्याराज्ञीं प्रणमते कृताञ्जलिपुटा भवन्ती, प्रागेव तथागता अर्हन्तः सम्यक्संबुद्धा बोधिसत्त्वगणाः । इद कुलपुत्र तण्डुलवत्सारं महायानस्य किंचिदसौ बहुमहायानसूत्रं गेयं व्याकरणगाथानिदानेतिवृत्तजातकवैपुल्याद्भुतधर्मोपदेशकः प्राप्यन्ते(?) (वैद्य ३००) कुलपुत्र जपितमात्रेण शिवं मोक्षम्, किंबहुना अन्यकुशलमिति । किंवा तु समध्यगतं सारमुपगृह्णन्ति शालिनस्तथा सारमित्यनुगृह्णन्ति, नीत्वा स्वकीये निवेशने भाण्डानि परिपूर्णानि कृत्वा स्थापयित्वा दिवसानुरूपेण सूर्यतापेन परिशोषयित्वा मुसलप्रहारैर्विभेदयन्ति, ततश्चतुर्वर्षाणि परित्यजन्ति । किं सारमिति व्यवस्थितम्? तण्डुलसारमिति । एवमेवान्ये योगाः तुषसदृशाः । सर्वयोगानां चेयं षडक्षरी महाविद्या राज्ञी तण्डुलमिति भूता द्रष्टव्या । यस्याः कारणेन कुलपुत्र बोधिसत्त्वाः श्रावयन्तो भ्रमन्ति दानपारमितार्थिनः, शीलपारमितार्थिनः, क्षान्तिपारमितार्थिनः वीर्यपारमितार्थिनः, ध्यानपारमितार्थिनः, प्रज्ञापारमितार्थिनः । एकजापेन कुलपुत्र षट्पारमिताः परिपूरयन्ति । यस्य कस्यचिद्वस्त्रस्पर्शनेनापि अवैवर्तिकभूमिं प्रतिलभन्ते । एवमेवास्याः षडक्षरी महाविद्या राज्ञी, दुर्लभमस्या नामग्रहणम् । एकवारनामग्रहणेन सर्वे तथागताश्चीवरपिण्डपात्रशय्यासनग्लानप्रत्ययभैषज्यपरिष्करैः सर्वोपस्थानैरुपस्थिता भवन्ति ॥ अथ सर्वनीवरणविष्कम्भी धर्मभाणकमेतदवोचत्- ददस्व मे षडक्षरिमहाविद्याराज्ञीम् । अथ स धर्मभाणकः संचिन्त्य संचिन्त्य व्यवस्थितः । ततो आकाशे छन्दो (शब्दो?) निश्चरति स्म - ददस्व आर्य षडक्षरीं महाविद्याराज्ञीम् । अयं बोधिसत्त्वभूतोऽनेकदुष्कराभियुक्तः । पुनः स धर्मभाणकः संचिन्तयति स्म - कुतः शब्दो निश्चरति । ततः स पुनरप्याकाशाच्छब्दो निश्चरितः - ददस्वार्थ षडक्षरीं महाविद्याराज्ञीम् । अयं बोधिसत्त्वोऽनेकदुष्कराभियुक्तः ॥ अथ स धर्मभाणक आकाशं व्यवलोकयति स्म । यावत्पश्यति शरत्काण्डगौरवर्णं जटामुकुटधरं सर्वज्ञशिरसिकृतं शुभपद्महस्तं पद्मश्रियालंकृतं शरीरम् । स तादृशं रूपं दृष्ट्वा सर्वनीवरणविष्कम्भिणं बोधिसत्त्वमेतदवोचत्- अनुज्ञातस्ते कुलपुत्र अवलोकितेश्वरेण बोधिसत्त्वेन षडक्षरीं महाविद्याराज्ञीम् ॥ तेन ससंभ्रमेण कृताञ्जलिपुटेन भूत्वा उद्गृहीतुमारब्धः - ॥ * ॥ ० ॥ + ॥ ओं मणिपद्मे हूम् ॥ + ॥ ० ॥ * ॥ इयं च समनन्तरदत्तमात्रेण षड्विकारं पृथिवी प्रकम्पिता । इमे समाधयः सर्वनीवरणविष्कम्भिनः प्रतिलब्धाः । तद्यथापि नाम कुलपुत्र सूक्ष्मजनो नाम समाधिः, मैत्रीकरूणामुदितो नाम समधिः, योगाचारो नाम समाधिः, मोक्षप्रवेशव्यवस्थानो नाम समाधिः, सर्वालोककरो नाम समाधिः, व्यूहराजो नाम समाधिः, धर्मधरो नाम समाधिः । इमे समाधयः प्रतिलब्धाः । उद्गृहीतमात्रेण सर्वनीवरणविष्कम्भीणा बोधिसत्त्वेन तस्योपाध्यायस्य दक्षिणोपनामयितुमारब्धा - चत्वारो द्वीपाः सप्तरत्नपरिपूर्णाः ॥ अथ स धर्मभाणकस्तस्यैतदवोचत्- एकस्याक्षरस्यापि न भवति दक्षिणा, प्रागेव षडक्षरिमहाविद्यायाः । न च गृह्णामि कुलपुत्र त्वत्सकाशात् । त्वं च बोधिसत्त्वभूत (वैद्य ३०१) आर्योऽनार्योऽसि मा वैनेयश्च त्वं कुलपुत्र । तेन तस्य शतसहस्रमूल्यमुक्ताहारमुपनामितम् । स कथयति - कुलपुत्र, मद्वचनेन शाक्यमुनेस्तथागतस्यार्हतः सम्यक्संबुद्धस्योपनामयितव्यम् ॥ अथ सर्वनीवरणविष्कम्भी तस्य धर्मभाणकस्य पादौ शिरसा वन्दित्वा प्रक्रान्तः परिपूर्णलाभो लब्धमनोरथः । येन जेतवनविहारस्तेनोपसंक्रान्तः । उपसंक्रम्य भगवतः पादौ शिरसाभिवन्द्यैकान्ते व्यवस्थितोऽभूत् ॥ इति षडक्षरिमहाविद्यामण्डलवर्णनं षष्ठं प्रकरणम् ॥ _________________________________________________________________ २,७: सप्तमं प्रकरणम् । अथ भगवान् शाक्यमुनिस्तथागतोऽर्हन् सम्यक्संबुद्धस्तमेतदवोचत्- लब्धलाभस्त्वं कुलपुत्र? स आह - यथा भगवान् ज्ञानं संजानीते । ततः सप्तसप्ततिः सम्यक्संबुद्धकोटयः संनिपतिताः । तैश्चापि तथागतैरियं धारणी भाषितुमारब्धा - नमः सप्तानां सम्यक्संबुद्धकोटीनाम् । ॥ + ॥ ० ॥ ओं चले चुले चुन्ये स्वाहा ॥ ० ॥ + ॥ इयं सप्तसप्ततिसम्यक्संबुद्धकोटिभिरुक्का नाम धारणी ॥ ततो रोमविवरादवतीर्य सूर्यप्रभो नाम रोमविवरः । तत्रानेकानि बोधिसत्त्वकोटिनियुतशतसहस्राणि प्रतिवसन्ति । तस्मिन् सूर्यप्रभे रोमविवरे द्वादशशतसहस्राणि कनकमयानां पर्वतानां प्रतिवसन्ति । तस्मिन् पर्वते द्वादश शृङ्गशतानि । तेषां पर्वतानां पार्श्वानि पद्मरागोपचितानि पार्श्वे दिव्यमणिरत्नखचितानि । परमशोभमानान्युद्यानानि परमशोभितानि विचित्राणि सुरमणीयानि । दिव्यपुष्करिणीरमणीयानि च कूटागारशतसहस्राणि, दिव्यसुवर्णरत्नमयानि मुक्ताफलदामकलापप्रलम्बितानि, मुक्ताहारशतसहस्राणि प्रलम्बितानि । तेषां कूटागाराणामधो सारदो नाम चिन्तामणिरत्नम्, यत्तेषां बोधिसत्त्वानां सर्वोपकरणैरुपस्थानं करोति । तदा ते बोधिसत्त्वास्तेषां कूटागारेषु प्रविशन्ति । प्रविष्टाश्च षडक्षरीमहाविद्यामनुस्मरन्ति । तं चावलोकितेश्वरं पश्यन्ति । दृष्ट्वा च तस्य चित्तप्रसादं जनयन्ति । जनयित्वा च ते बोधिसत्त्वास्तेभ्यः कूटागारेभ्यो निष्क्रामन्ति । निष्क्रम्य केचिच्चंक्रमेषु चंक्रमन्ति । केचिन्मणिरत्नमयेषुद्यानेषु, केचित्पुष्करिणीषु गच्छन्ति, केचित्पद्मरागमयेषु पर्वतेषु गच्छन्ति । गत्वा च पर्यङ्कमाभुज्य ऋजुकायं प्रणिधाय अभिमुखां स्मृतिमुपस्थाप्य । ईदृशास्ते कुलपुत्र बोधिसत्त्वास्तस्मिन् रोमविवरे प्रतिवसन्ति । ततः कुलपुत्र रोमविवरादवतीर्य इन्द्रराजो नाम रोमविवरः । तत्रानेकान्यवैवर्तिकबोधिसत्त्वकोटिनियुतशतसहस्राणि प्रतिवसन्ति । तस्मिन्निन्द्रराजरोमविवरेऽशीतिसहस्राणि पर्वतानामभूवन् दिव्यसुवर्णरत्नमयानि । तत्तेषां पर्वतानां मध्ये पद्मावभासो नाम चिन्तामणिरत्नम् । यदा यदा ते बोधिसत्त्वाश्चिन्तयन्ति, तदा तदा तेषामभिप्रायोऽनुसिध्यति । अथे ते बोधिसत्त्वास्तेषु पर्वतराजेषु विहरन्ति । न च तेषां सांसारिकं (वैद्य ३०२) दुःखं विद्यते । न च ते संसारिकैः क्लेशैर्लिप्यन्ते । सर्वकालं निर्वाणचिन्ता व्यवस्थिता । न च तेषामन्या चिन्ता शरीरे संविद्यते । ततः कुलपुत्र रोमविवरादवतीर्य महोषधीर्नाम रोमविवरः । तत्रानेकानि प्रथमचित्तोत्पादिकबोधिसत्त्वकोटिनियुतशतसहस्राणि प्रतिवसन्ति । तस्मिन् कुलपुत्र रोमविवरे नवनवतिसहस्राणि पर्वतानाम् । केचिद्वज्रमयां, केचिद्रूप्यमयाः, केचित्सुवर्णमयां, केचिदिन्द्रनीलमयाः, केचित्पद्मरागमयाः, केचिन्मरकतमयाः, केचित्स्फटिकमयाः, केचिद्रजतमयाः, ईदृशास्ते पर्वतराजानः । एकैकस्मिन् पर्वतेऽशीतिशृङ्गसहस्राणि विविधरत्नखचितानि परमशोभनीयानि विविधचित्राणि रमणीयानि । तेषु शृङ्गेषु गन्धर्वाः प्रतिवसन्ति । सततकालं रोमविवरान्निनादितं तूर्यं धारयन्ति । ये ते प्रथमचित्तोत्पादिका बोधिसत्त्वस्ते शून्यतानिमित्तं चिन्तयन्ति । अहो दुःखम्, जरा दुःखम्, मरणं दुःखम्, इष्टप्रियसंप्रयोगवियोगो दुःखम्, अवीच्युपपन्नानां दुःखम्, प्रेतनगरोपपन्नानां सत्त्वानां दुःखम् । इदं काये संवेगमनुविचिन्त्य तदा ते पर्यङ्कमाभुज्य ऋजुकायं प्रणिधाय प्रतिमुखां स्मृतिमुपस्थाप्य तेषुपर्वतराजेषु विहरन्ति । ततः कुलपुत्र रोमविवरादवतीर्य चित्तराजो नम रोमविवरः । तत्रानेकानि प्रत्येकबुद्धकोटिनियुतशतसहस्राणि प्रतिवसन्ति, ये ज्वलनतपनविद्योतनवर्षणप्रातिहार्याणि कुर्वन्ति । तस्मिन् रोमविवरे शतसहस्राणि पर्वतानाम् । ते सर्वे पर्वतराजाः सप्तरत्नमयाः । तेषु पर्वतराजेषु विविधानि कल्पवृक्षाणि सौवर्णदण्डानि रूप्यपत्राण्यनेकरत्नखचितानि विविधालंकारप्रलम्बितानि मौलीकुण्डलस्रग्दामप्रलम्बितानि केयूरहारार्धहारप्रलम्बितानि काशिकवस्त्रप्रलम्बितानि सौवर्णरूप्यघण्टारुणरूणायमानानि । तादृशैः कल्पवृक्षैः पर्वतराजेषु प्रत्येकबुद्धा विहरन्ति । अनेकानि सूत्रगेयव्याकरणगाथोदानेतिवृत्तकजातकवैपुल्याङ्गात्धर्मोपदेशं परस्परमीदृशं सांकथ्यं कुर्वन्ति । तदा सर्वनीवरणविष्कम्भी ततो रोमविवरादवतीर्य सर्वपश्चिमोऽयं रोमविवरः ध्वजाग्रो नाम रोमविवरः । स रोमविवरोऽशीतियोजनसहस्राणि । तस्मिन् रोमविवरेऽशीतिपर्वतसहस्राण्यभूवन्, विविधरत्नपरिखचितविचित्राणि । तेषु पर्वतराजेषु अनेकाः कल्पवृक्षाः, अनेकाश्चन्दनवृक्षाः शतसहस्राः, अगुरुवृक्षाः शतसहस्राः । तस्मिन् रोमविवरे वज्रमयी भूमिः । तस्मिन् रोमविवरे नवनवतिकूटागारशतसहस्राणि दिव्यसौवर्णमयानि मुक्ताहारपटदामकलापप्रलम्बितानि घण्टामालाप्रलम्बितानि चन्द्रकान्तिरत्नावभासितानि । तत्तेषु कूटागारेषु तथागतविग्रहा निषण्णाः । ते जाम्बूद्वीपकानां मनुष्याणां च धर्मं देशयन्ति । यदुत षट्पारमितानिर्देशं निर्दिशन्ति । दानपारमितानिर्देशं निर्दिशन्ति । शीलपारमितानिर्देशं निर्दिशन्ति । क्षान्तिपारमितानिर्देशं निर्दिशन्ति । वीर्यपारमितानिर्देशं निर्दिशन्ति । ध्यानपारमितानिर्देशं निर्दिशन्ति । प्रज्ञापारमितानिर्देशं निर्दिशन्ति । एवं विविधां धर्मदेशनां कृत्वा जाम्बुद्वीपकानां मनुष्याणां कालेन कालं धर्म देशयन्ति । एवं ते कुलपुत्र अवलोकितेश्वरस्य बोधिसत्त्वस्य महासत्त्वस्य रोमविवराणि यावत्पश्यन्ति । तस्मिन्नेव जेतवनविहारे (वैद्य ३०३) देवनागयक्षगन्धर्वासुरगरूडकिन्नरमहोरगमनुष्यामनुष्यमहेश्वरनारायणपूर्वंगमानि देवपुत्राणि संनिपतितानि । अनेकानि बोधिसत्त्वकोटिनियुतशतसहस्राणि संनिपतितानि ॥ अथ सर्वनीवरणविष्कम्भी भगवन्तमेतदवोचत्- किं भगवन् । यानि रोमविवराणि, संविद्यन्ते वाः? भगवानाह - ततः कुलपुत्र रोमविवरादतिक्रम्य अवलोकितेश्वरस्य दक्षिणं पादाङ्गुष्ठं यत्र ते चत्वारो महासमुद्राः परिभ्रमन्ति, न च जानन्त्यवगाहयन्ति । यदा दक्षिणपादाङ्गुष्ठादुदकं निष्क्रामति, तदा वडवामुखे पतन्ति । तदा भस्मराशिमनुगच्छन्ति । एवमेव कुलपुत्र अवलोकितेश्वरस्य बोधिसत्त्वस्याधिष्ठानं संविद्यते । अथ सर्वनीवरणविष्कम्भी भगवन्तमेतदवोचत्- तदपि भगवन् रोमविवरं संविद्यते? भगवानाह - तदपि कुलपुत्र न संविद्यते ॥ अथ सर्वनीवरणविष्कम्भी भगवन्तमेतदवोचत्- नागच्छति भगवन्नवलोकितेश्वरः? भगवानाह - आगच्छति कुलपुत्र अवलोकितेश्वरः । अस्मिन्नेव जेतवनमहाविहारे मम दर्शनाय वन्दनाय पर्युपासनाय, महेश्वरस्य देवपुत्रस्य सहाया लोकधातौ व्याकरणमुद्देशाय च ॥ अथावलोकितेश्वरेण बोधिसत्त्वेन महासत्त्वेन रश्मय उत्सृष्टा नीलपीतलोहितावदातमाञ्जिष्ठस्फटिकरजतवर्णाः । ते च रश्मयो जेतवनमागच्छन्ति । आगत्य भगवन्तं त्रिः प्रदक्षिणीकृत्य पुनरेव जेतवनाद्विहारान्निष्क्रम्य अवीचिं महानरकं गच्छन्ति । तत्र गत्वा अवीचिमहानरकं शीतिभावमुपनयन्ति । अथ सर्वनीवरणविष्कम्भी भगवन्तमेतदवोचत्- कुतो भगवन् रश्मय आगच्छन्ति कुत्र गच्छन्ति? भगवानाह - एवं कुलपुत्र अवलोकितेश्वरेण नानाविधा रश्मय उत्सृष्टाः । ते चास्मिन् जेतवने विहारमागच्छन्ति । आगत्य च मां त्रिः प्रदक्षिणीकृत्य अवीचिं महानरकं गच्छन्ति । गत्वा चावीचिमहानरकं शीतिभावं कुर्वन्ति । तस्मिन् जेतवने विहारे शुभनिमित्तानि प्रादुर्भूतानि । दिव्यानि चम्पकवृक्षाणि प्रादुर्भूतानि । दिव्याः पुष्करिण्यः प्रादुर्भूताः । तत्र जेतवनविहारे दिव्यसौवर्णनिर्भासा दृश्यन्ते । ईदृशो जेतवनविहारो दृश्यते ॥ अथावलोकितेश्वरः सुखावतीलोकधातोर्निष्क्रम्य येन जेतवनविहारस्तेन संप्रस्थितः । अनुपूर्वेण जेतवनविहारं संप्राप्तः । अथ तस्मिन् जेतवनविहारे प्रविष्टो भगवतः पादौ शिरसाभिवन्द्य एकान्ते स्थितः । तदा कलविङ्करुतस्वराभिनिर्घोषेण भगवानारोचयति - आगतस्त्वं कुलपुत्र? कृतस्ते सत्त्वपरीपाकः? अथावलोकितेश्वरो बोधिसत्त्वो महासत्त्वो भगवन्तमेतदवोचत्- यथाज्ञप्तो भगवता । एवं च मया कर्मभूमिर्निष्पादिता । अथ भगवान् साधुकारमदात्- साधु साधु कुलपुत्र, यस्त्वया ईदृशा कर्मभूमिर्निष्पादिता । अथावलोकितेश्वरो भगवन्तं पद्मान्युपनामयति - इमानि ते भगवन्नमिताभेन तथागतेन प्रहितानि । पृच्छत्यल्पाबाधतां च अल्पातङ्कतां च लघूत्थानतां च सुखस्पर्शविहारतां च । ततो भगवता गृहीत्वा वामपार्श्वे स्थापितानि ॥ अथ महेश्वरो देवपुत्रो येन भगवांस्तेनोपसंक्रान्तः, उपसंक्रम्य भगवतः पादौ शिरसाभिवन्द्य भगवन्तमेतदवोचत्- लभेयाहं भगवन् व्याकरणनिर्देशस्य समुद्देशम्? भगवानाह - (वैद्य ३०४) गच्छ कुलपुत्र अवलोकितेश्वरो बोधिसत्त्वो महासत्त्वस्ते व्याकरणं दास्यति । अथ महेश्वरो देवपुत्रोऽवलोकितेश्वरस्य पादयोर्निपत्य स्तोत्रविशेषं कर्तुमारब्धः - नमोस्त्वलोकितेश्वराय महेश्वराय पद्मधराय पद्मासनाय पद्मप्रियाय शुभपद्महस्ताय पद्मश्रिये परिवृताय जगदास्वादनकराय पृथिवीवरलोचनकराय प्रह्लादनकराय ॥ एवं महेश्वरो देवपुत्रो गत्वा अवलोकितेश्वरस्य स्तोत्रविशेषं कृत्वा तूष्णींभावेन व्यवस्थितः । अथ अवलोकितेश्वरस्तमेतदवोचत्- किं कारणं त्वं कुलपुत्र तूष्णींभावेन व्यवस्थितः? अथ महेश्वरो देवपुत्रस्तमेतदवोचत्- ददस्व मे व्याकरणमनुत्तरायां सम्यक्संबोधौ । अवलोकितेश्वरस्तमेतदवोचत्- भविष्यसि त्वं कुलपुत्र विवृतायां लोकधातौ भस्मेश्वरो नाम तथागतोऽर्हन् सम्यक्संबुद्धो विद्याचरणसंपन्नः सुगतो लोकविदनुत्तरः पुरुषदम्यसारथिः शास्ता देवानां च मनुष्याणां च बुद्धो भगवान् । अथ सा उमादेव्युपसंक्रम्यावलोकितेश्वरस्य पादौ शिरसा वन्दित्वा अवलोकितेश्वरस्य स्तोत्राभिधानं कर्तुमारब्धाः - नमोऽस्त्वलोकितेश्वराय मेहेश्वराय प्राणंददाय पृथिवीवरलोचनकराय शुभपद्मश्रिये परिवृताय निर्वाणभूमिसंप्रस्थिताय सुचेतनकराय धर्मधराय ॥ एवं सा उमादेवी स्तोत्राभिधानं कृत्वा अवलोकितेश्वरस्य प्रत्याहारं कर्तुमारब्धा - परिमोचय मे स्त्रीभावाज्जुगुप्सनीयात् । कलिमलपरिपूर्णगर्भावासदुःखात्सततपरिग्रहसंगृहीतात्परिमोक्षय माम् । अथावलोकितेश्वरस्तामेतदवोचत्- भविष्यसि त्वं भगिनि उमेश्वरो नाम तथागतोऽर्हन् सम्यक्संबुद्धो विद्याचरणसंपन्नः सुगतो लोकविदनुत्तरः पुरुषदम्यसारथिः शास्ता देवानां च मनुष्याणां च बुद्धो भगवान् । हिमवतः पर्वतराजस्य दक्षिणे पार्श्वे तव लोकधातुर्भविष्यति । अथ सा उमादेवी व्याकरणमनुप्राप्ता ॥ भगवानाह - पश्य सर्वनीवरणविष्कम्भिन् । व्याकृता उमादेवी अवलोकितेश्वेरण बोधिसत्त्वेन महासत्त्वेन सर्वे तेऽनुत्तरायां सम्यक्संबोधौ ॥ अयं कुलपुत्र महेश्वरनिर्व्यूहो नाम ख्यात इति ॥ _________________________________________________________________ २,८: अष्टमं प्रकरणम् । अथ सर्वनीवरणविष्कम्भी भगवन्तमेतदवोचत्- आगतो भगवन्नवलोकितेश्वरः । यथान्धभूतेन चक्षुरनुप्राप्तम्, एवं भगवन्नवलोकितेश्वरोऽनुप्राप्तः । अद्य मे सफलं जन्म । अद्य मे आशा परिपूर्णा । अद्य मे परिशोधितो बोधिमार्गः । स चेतनसधर्मकायनिर्वाणोपदर्शकम् ॥ अथ सर्वनीवरणविष्कम्भी पुनरेव भगवन्तमेतदवोचत्- अद्यास्माकं भगवन् देशय त्वमवलोकितेश्वरस्य गुणविशेषम् ॥ भगवानाह - तद्यथापि नाम सर्वनीवरणविष्कम्भिन् चक्रवालमहाचक्रवालौ पर्वतराजानौ । मुचिलिन्दमहामुचिलिन्दौ पर्वतराजानौ । कालमहाकालौ पर्वतराजानौ । संसृष्टमहासंसृष्टौ पर्वतराजानौ । प्रलम्बोदरः पर्वतराजा । अनादर्शकः पर्वतराजा । (वैद्य ३०५) कृत्स्रागतः पर्वतराजा । जालिनीमुखः पर्वतराजा । शतशृङ्गः पर्वतराजा । भवनश्च पर्वतराजा । महामणिरत्नः पर्वतराजा । सुदर्शनश्च पर्वतराजा । अकालदर्शनश्च पर्वतराजा । एतेषु पर्वतराजेष्वेकैकं लोकधातुषु शक्यते मया पर्वतराजानां पलानि वा पलशतानि वा पलसहस्राणि वा पलकोटीनियुतशतसहस्राणि वा संख्यामपि कलामपि गणनामपि शक्यते मया कुलपुत्र गणयितुम् । न तु कुलपुत्र अवलोकितेश्वरस्य शक्यते पुण्यसंभारं गणयितुम् । तद्यथापि नाम कुलपुत्र शक्यते मया परमाणुरजसां प्रमाणमुद्गृहीतुम्, न तु कुलपुत्र अवलोकितेश्वरस्य शक्यते पुण्यसंभारं गणयितुम् । तद्यथापि नाम कुलपुत्र शक्यते मया महासमुद्रस्यैकैकं बिन्दुं गणयितुम्, न तु कुलपुत्र अवलोकितेश्वरस्य शक्यते मया पुण्यसंभारं गणयितुम् । तद्यथापि नाम कुलपुत्र शक्यते मया शीर्षवनस्यैकैकानि पत्राणि गणयितुम्, न तु कुलपुत्र अवलोकितेश्वरस्य शक्यते पुण्यसंभारं गणयितुम् ॥ तद्यथापि नाम कुलपुत्र सुमेरुः पर्वतराजो भूर्यराशिर्भवेत् । महासमुद्रः भेरण्डुमण्डलं भवेत् । चतुर्द्वीपनिवासिनः स्त्रीपुरुषदारकदारिकादयः सर्वे ते लेखका भवेयुः । स च सुमेरुपर्वतराजोऽनन्तो लिखितो भवेत् । शक्यते मयैकैकाक्षरं गणयितुम् । न त्ववलोकितेश्वरस्य शक्यते पुण्यसंभारं गणयितुम् । तद्यथापि नाम सर्वनीवरणविष्कम्भिन् द्वादश गङ्गानदीवालुकोपमास्तथागता अर्हन्तः सम्यक्संबुद्धाश्चीवरपिण्डपात्रशयनासनग्लानप्रत्ययभैषज्यपरिष्कारैः सर्वोपकरणैः समुपस्थिता भवेयुः । यश्च तेषां तथागतानामुपस्थाने पुण्यस्कन्धः, ततः कुलपुत्र अवलोकितेश्वरस्यैकवालाग्रे पुण्यस्कन्धः । तद्यथापि नाम सर्वनीवरणविष्कम्भिनवलोकितेश्वरः अनेकैः समाधिशतैः समन्वागतः । तद्यथा - प्रभंजनो नाम समाधिः । विभूषणकलो नाम समाधिः । अभूषणकरो नाम समाधिः । विद्युल्लोचनो नाम समाधिः । क्षपणो नाम समाधिः । महामनस्वी नाम समधिः । आकारकरो नाम समाधिः । वज्रमाला नाम समाधिः । वरदो नाम समाधिः । शतवीर्यो नाम समाधिः । अन्धव्यूहो नाम समाधिः । प्रतिभानकूटो नाम समाधिः । राजेन्द्रो नाम समाधिः । वज्रप्राकारो नाम समाधिः । वज्रमुखो नाम समाधिः । सदावरदायको नाम समाधिः । इन्द्रियपरिमोचनो नाम समाधिः । द्वेषपरिमोचनो नाम समाधिः । चन्द्रवरलोचनो नाम समाधिः । दिवाकरवरलोचनो नाम समाधिः । धर्माभिमुखो नाम समाधिः । वज्रकुक्षिर्नाम समाधिः । सुदर्शको नाम समाधिः । निर्वाणकरो नाम समाधिः । अनन्तरश्मिनिष्पादनकरो नाम समाधिः । योगकरो नाम समाधिः । विकिरिणो नाम समाधिः । जम्बुद्वीपवरलोचनो नाम समाधिः । बुद्धक्षेत्रवरलोचनो नाम समाधिः । मैत्र्याभिमुखो नाम समाधिः । प्रज्ञाप्रतिभासितो नाम समाधिः । सुदन्तो नाम समाधिः । अक्षराक्षरो नाम समाधिः । अवीचिसंशोषणो नाम समाधिः । सागरगम्भीरो नाम समाधिः । शतपरिवारो नाम समाधिः । मार्गसंदर्शनो नाम समाधिः । एभिः कुलपुत्र अवलोकितेश्वरः समन्वागतः ॥ (वैद्य ३०६) तद्यथापि नाम सर्वनीवरणविष्कम्भिन् भूतपूर्वं कुलपुत्र क्रकुच्छन्दो नाम तथागतोऽर्हन् सम्यक्संबुद्धो लोक उदपादि विद्याचरणसंपन्नः सुगतो लोकविदनुत्तरः पुरुषदम्यसारथिः शास्ता देवानां च मनुष्याणां च बुद्धो भगवान् । तेन कालेन तेन समयेन अहं दानशूरो नाम बोधिसत्त्वोऽभूवम् । तदा एतस्य तथागतस्य पुरः स्थित्वा ईदृशमवलोकितेश्वरसमन्तभद्रयोः समाधिविग्रहो मया दृष्टः । भद्रादिभिश्चान्यैर्बोधिसत्त्वैर्महासत्त्वैः समाधिविग्रहो दृष्टः । यदा समन्तभद्रो बोधिसत्त्वो वज्रोद्गतं नाम समाधिं समापेदे, तदावलोकितेश्वरो बोधिसत्त्वो महासत्त्वो विविधमाधिसमाधिं समापेदे । यदा समन्तभद्रश्चन्द्रवरलोचनं नाम समाधिं समापेदे, तदावलोकितेश्वरः सूर्यवरलोचनं नाम समाधिं समापेदे । यदा समन्तभद्रो विच्छुरितं नाम समाधिं समापेदे, तदावलोकितेश्वरो गगनगञ्जं नाम समाधिं समापेदे । यदा समन्तभद्र आकारकरं नाम समाधिं समापेदे, तदावलोकितेश्वर इन्द्रमतिं नाम समाधिं समापेदे । यदा समन्तभद्रो भद्रराजं नाम समाधिं समापेदे, तदा अवलोकितेश्वरः सागरगम्भीरं नाम समाधिं समापेदे । यदा समन्तभद्रः सिंहविष्कम्भितं नाम समाधिं समापेदे, तदावलोकितेश्वरः सिंहविक्रीडितं नाम समाधिं समापेदे । यदा समन्तभद्रो वरदायकं नाम समाधिं समापेदे, तदावलोकितेश्वरः अवीचिसंशोषणं नाम समाधिं समापेदे । यदा समन्तभद्रः सर्वरोमविवराण्युद्धाटयति, तदावलोकितेश्वरः सर्वरोमविवराण्यपावृणोति । तदा समन्तभद्रस्तमेतदवोचत्- साधु साध्ववलोकितेश्वर, यस्त्वमीदृशं प्रतिभानवान् । अथ क्रकुच्छन्दस्तथागतस्तमेतदवोचत्- अल्पं त्वया कुलपुत्र अवलोकितेश्वरस्य प्रतिभानं दृष्टम् । यादृशमवलोकितेश्वरस्य प्रतिभानं तादृशं तथागतानां न संविद्यते । ईदृशं मया कुलपुत्र क्रकुच्छन्दस्य तथागतस्य सकाशाच्छ्रुतम् ॥ अथ सर्वनीवरणविष्कम्भी भगवन्तमेतदवोचत्- देशयतु मे भगवान् कारण्डव्यूहं महायानसूत्ररत्नराजं येन वयं धर्मरसेनापूर्यमाणाः संतृप्ताः भवेम । भगवानाह - ये कुलपुत्र कारण्डव्यूहमहायानसूत्ररत्नराजस्य नाम श्रोष्यन्ति, तेषां पूर्वकानि कर्मावरणानि न संविद्यन्ते । ये परदारगमनप्रसक्ता औरभ्रिककर्मोद्युक्ताः, ये मातापितृघातका अर्हद्धातस्तूपभेदकास्तथागतस्यान्तिके दुष्टचित्तरुधिरोत्पादकाः, ईदृशानां पापरतानां सत्त्वानां तदपि कारण्डव्यूहो महायानसूत्ररत्नराजः सर्वपापपरिमोक्षणं कुरुते ॥ अथ सर्वनीवरणविष्कम्भी भगवन्तमेतदवोचत्- कथं जानाम्यहं भगवन् कारण्डव्यूहं महायानसूत्ररत्नराजं सर्वपापपरिमोक्षणं कुरुते? भगवानाह - अस्ति कुलपुत्र सुमेरोः पर्वतराजस्य दक्षिणपार्श्वे सप्तभिः सम्यक्संबुद्धैर्मलनिर्मलौ तीर्थौ परिकल्पितौ । एतर्हि मया विकल्पितौ । यथा पाण्डुलवस्त्रं नीलमनुगच्छन्ति, स पापराशिरिव द्रष्टव्यः । एवमेव कुलपुत्र इदं कारण्डव्यूहं महायानसूत्ररत्नराजं सर्वपापानि दहति । सुशुक्लभावं कुरुते । तद्यथापि नाम सर्वनीवरणविष्कम्भिन् वर्षाकालसमये सर्वाणि तृणगुल्मौषधिवनस्पतयः सर्वे नीलाभि(रूपा) भवन्ति । अथ शतमुखो नाम नागराजः भवनादवतीर्य सर्वास्ता तृणगुल्मौषधिवनस्पतीर्दहति । एवमेवायं कुलपुत्रं कारण्डव्यूहं महायानसूत्ररत्नराजं सर्वपापानि दहति, शुक्लभावं कुरुते । सुखितास्ते सत्त्वा भविष्यन्ति, य इमं कारण्डव्यूहं महायानसूत्रं रत्नराजं (वैद्य ३०७) श्रोष्यन्ति । न ते कुलपुत्र पृथग्जना इति वक्तव्याः । अवैवर्तिका बोधिसत्त्वा इव द्रष्टव्याः । तेषां च मरणकारणसमये द्वादश तथागता उपसंक्रम्य आश्वासयन्ति - मा भैषीः कुलपुत्र । त्वया कारण्डव्यूहं महायानसूत्ररत्नराजं श्रुतम् । न त्वया पुनरेव संसारं संसरितव्यम् । न पुनरपि तेषां जातिजरामरणं भविष्यति । तत इष्टप्रियविप्रयोगो प्रियसंप्रयोगो न भविष्यति । गमिष्यसि त्वं कुलपुत्र सुखावतिलोकधातुम् । अमिताभस्य तथागतस्य सकाशाद्धर्ममनुश्रोष्यसि । एवं कुलपुत्र तेषां सत्त्वानां सुखमरणं भविष्यति । अथावलोकितेश्वरो भगवतः पादौ शिरसाभिवन्द्य एकान्ते प्रक्रान्तः । अथ सर्वनीवरणविष्कम्भिस्तूष्णींभावेन व्यवस्थितः । त च देवा नागा यक्षा गन्धर्वा असुरा गरूडाः किन्नरा महोरगा मनुष्यामनुष्याः प्रक्रान्ताः ॥ यदा ते प्रक्रान्तास्तदायुष्मानानन्दो भगवन्तमेतदवोचत्- देशयतु मे भगवानस्माकं शिक्षासंवरम् । भगवानाह - ये भिक्षव उपसंपदाभावमिच्छन्ति, तैः प्रथमतरं गत्वा आवासं सम्यगवलोकयितव्यम् । व्यवलोकयित्वा भिक्षुक(?)मारोचयितव्यं शुद्धयते भदन्त नानावासं न च यत्र नानावासेऽस्थीनि संविद्यन्ते । उच्चारप्रस्तावे न संविद्येते । परिशुद्धयति । एवं भदन्त नानावासमर्हति उपसंपदाभावो भिक्षूणाम् ॥ भगवानाह - दुःशीलेन भिक्षुणा नोपसंपादयितव्यम् । न च ज्ञप्तिर्दातव्या । किं बहुना? भिक्षवो दुःशीलेन भिक्षुणा नानावासं न कर्तव्यम्, प्रागेव ज्ञप्तिचतुर्थम् । एते हि शासनदूषकाः । दुःशीलानां भिक्षूणां शीलवतां दक्षिणीयाणां मध्ये आवासो न दातव्यः । तेषां बहिर्विहारे आवासो दातव्यः । तथा संघालापो न दातव्यः । न च तेषां सांघिकी भूमिमर्हति । न च तेषां किंचिद्भिक्षुभावं संविद्यते ॥ अथ खल्वायुष्मानानन्दो भगवन्तमेतदवोचत्- कतमे काले भगवन्नीदृशादक्षिणीया भविष्यन्ति? भगवानाह - तृतीये वर्षशतगते मम परिनिर्वृतस्य तथागतस्य ईदृशादक्षिणीया भविष्यन्ति, ये विहारे गृहिसंज्ञां धारयिष्यन्ति । ते दारकदारिकापरिवृता भविष्यन्ति । ते सांघिकं मञ्चपीठं वंशिकोपबिम्बोपधानकं शयनासनमसत्परिभोगेन परिभोक्ष्यन्ते । ये च सांघिकोपचारे उच्चारं प्रस्रावं कुर्वन्ति, ते वाराणस्यां महानगर्यामुच्चारप्रस्रावे गूढमृत्तिकोदरे प्राणिनो जायन्ते । ये सांघिकं दन्तकाष्ठमसत्परिभोगेन परिभुञ्जन्ते, ते कूर्ममकरमत्स्येषु जायन्ते । ये सांघिकं तिलतण्डुलकोद्रवकुलत्थधान्यादीनसत्परिभोगेन परिभूञ्जन्ते, ते प्रेतनगरेषुपपद्यन्ते । हीनेन्द्रिया दग्धस्थूणाकृतिभिरस्थिपत्रवदुच्छ्रितैः स्वकेशरोमप्रतिच्छन्नैः पर्वतोदरसंनिभैः सूचीछिद्रोपममुखैः काये ईदृशं ते दुःखं प्रत्यनुभवन्ति । ये सांघिकस्यान्नपानादेरन्यायेन परिभोगं कुर्वन्ति, तेऽल्पश्रुतेषु कुलेषु जायन्ते । हीनेन्द्रियाश्च जायन्ते । खञ्जकुब्जकाणवामनाश्च जायन्ते । परमुखयाचनकाश्च जायन्ते । ततश्चोत्तरि व्याधिताश्च जायन्ते । पूयशोणितं काये वहन्ति । स्वकीयलोमसंकुचितकाया उत्तिष्ठन्ति, तदा मांसपिण्डा भूमौ पतन्ति । अस्थीनि दृअश्यन्ते । एवं ते बहूनि वर्षशतानि कायिकं दुःखं प्रत्यनुभवन्ति । ये सांघिकीं भूमिमसत्परिभोगेन परिभुञ्जन्ते, ते द्वादश कल्पान् रौरवे महानरके उपपद्यन्ते । तेषां तप्तान्ययोमुहानि मुखे (वैद्य ३०८) विष्कम्भान्ते दह्यन्ते । ओष्ठमपि, दन्ता अपि विशीर्यन्ते । तालूनि स्फूटन्ति दह्यन्ते । कण्ठमपि ताल्वपि हृदयमपि । अन्यान्यपि सर्वेण सर्वं दह्यन्ते, अवशेषं गच्छन्ति । तदा भिक्षवः कर्मवायवो वान्ति येन ते मृताः पुरूषाः पुनरेव जीवन्ति । ततः पुनरपि यमपालैः पुरुषैः संगृह्यन्ते । ततः तेषां कर्मोपगानां कर्मवशानां महती जिह्वा प्रादुर्भवति । तत्र जिह्वायामुपरि हलशतसहस्रं कृष्यते । एवं ते बहूनि वर्षशतानि बहूनि वर्षसहस्राणि बहूनि वर्षशतसहस्राणि नारकं दुःखं प्रत्यनुभवन्ति । ततश्च्युत्वा अग्निघटे महानरके उपपत्स्यन्ते । ततस्ते यमपालपुरुषा गृहीत्वा च तस्य जिह्वायां सूचीशतसहस्रं विध्यन्ति । तदपि कर्मवशाज्जीवन्ति, तत उत्क्षिप्य अग्निखदामध्ये क्षिपन्ति । तस्यामग्निखदायामुत्क्षिप्य महतीं वैतरणीं क्षिपन्ति, तदपि कालं न कुर्वन्ति, तदन्यनरकेषुपपद्यन्ते । एवं परिक्रमतां तेषां त्रयः कल्पाः परीक्षीयन्ते । ततश्च्युत्वा जम्बूद्वीपे जायन्ते दरिद्राः जात्यन्धाः । तस्मात्ते ह्यनिन्दान्युत्तराणि सांघिकानि वस्तूनि रक्षितव्यानि ॥ ये भिक्षवः शिक्षासंवरसंवृताश्च भवन्ति, तैः इमानि त्रीणि चीवराणि धारयितव्यानि । एकं चीवरं संघस्य विश्वासेन संघपरिभोगाय, तथा द्वितीयं चीवरं राजकुलद्वारगमनाय च, तृतीयं चीवरं ग्रामनगरनिगमपल्लीपत्तनेषु च । इमानि त्रीणि चीवराणि भिक्षवो धारयितव्यानि । ये शीलवन्तो गुअणवन्तः प्रज्ञावन्तस्तैर्भिक्षव इमानि शिक्षापदानि मया प्रज्ञप्तानि धारयितव्यानि । असत्परिभोगेन भिक्षवो न परिभोक्तव्यं सांघिकं वस्तु अग्निघटोपमम् । सांघिकं वस्तु विषोपमम् । सांघिकं वस्तु वज्रोपमम् । सांघिकं वस्तु भारोपमम् । विषस्य प्रतीकारं कर्तुं शक्यते, न तु सांघिकस्य वस्तुनः प्रतिकारं कर्तुं शक्यते ॥ अथायुष्मानानन्दो भगवन्तमेतदवोचत्- आज्ञप्तानि भगवता शिक्षापदानि, ये भिक्षवो धारयन्ति, ते प्रतिमोक्षसंवरसंवृता भवन्ति । विनायाभिमुखा भवन्ति । कोशाभिमुखा भवन्ति । शिक्षाकुशला भवन्ति । तानि च भगवतः शिक्षापदानि भवन्ति ॥ आयुष्मानानन्दो भगवतः पादौ शिरसा वन्दित्वा प्रक्रान्तः । अथ ते महाश्रावकाः स्वकं स्वकं बुद्धक्षेत्रं प्रक्रान्ताः । ते च देवा नागा यक्षा गन्धर्वा असुरा गरुडाः किन्नरा महोरगा मनुष्याः, सर्वे ते प्रक्रान्ताः ॥ इति शिक्षासंवरो नाम द्वादशं(?) प्रकरणम् ॥ इदमवोचद्भगवान्, ते च बोधिसत्त्वाः सा च सर्वावती पर्षत्सदेवमानुषासुरगन्धर्वश्च लोको भगवतो भाषितमभ्यनन्दन्निति ॥ अयं कारण्डव्यूहमहायानसूत्ररत्नराजस्य धारणिव्यूहः महेश्वरः समाप्तः ॥ आर्यकारण्डव्यूहो महायानसूत्ररत्नराजः समाप्तः ॥ * * * * * ये धर्म हेतुप्रभवा हेतुस्तेषां तथागतो ह्यवदत् । तेषां च यो निरोध एवं वादी महाश्रमणः ॥