नवश्लोकी आर्याष्टसाहश्रिकायाः प्रज्ञापारमितायाः पिण्डार्थः प्रज्ञापारमिताम्बोधौ शुभरत्नाकरे स्वयम् । सर्वा पारमितास्तत्र तादात्म्येन व्यवस्थिताः ॥ १ ॥ निष्प्रपञ्चा निराभासा निर्विकल्पा निरालया । निःस्वभावा परा सूक्ष्मा बिन्दुनादविवर्जिता ॥ २ ॥ प्रज्ञापारमिता माता सर्वबुद्धोदया परा । त्रयानुपलब्धिरूपा सर्वज्ञज्ञानगोचरा ॥ ३ ॥ प्रज्ञापारमितां संयग्यो भावयितुमिच्छति । तेनार्थतो नवश्लोकाश्चिन्तनीयाः समासतः ॥ ४ ॥ कर्मप्रभावसंभूतं षडायतनलक्षणम् । पुनर्भवमिति ख्यातं प्रतिभासोपमं हि तत् ॥ ५_[१] ॥ निर्मितं नगरं यद्वद्विलोकयति निर्मितः । तद्वत्पश्यति रूपाणि कर्मभिर्नि<र्मि>तं जगत् ॥ ६_[२] ॥ धर्मं देशयतः शब्दा ये केचित्श्रुतिगोचराः । प्रतिश्रुत्कोपमाः सर्वे प्रोद्भूतश्रुतिनः श्रुताः ॥ ७_[३] ॥ आघ्रतं स्वादितं तथा स्प्रष्टं विषयलालासैः । स्वप्नतुल्यमिदं सर्वमुपलब्धं न विद्यते ॥ ८_[४] ॥ मायायन्त्रो नरो यद्वद्भिन्नां चेष्टां करोति वै । तद्वद्चेष्टां करोत्येव देहयन्त्रो निरात्मकः ॥ ९_[५] ॥ नानोपलब्धयो याश्च प्रतिक्षणसमुद्भवाः । मरीचिसदृशाश्चैते दृष्टनष्टाः विलक्षणाः ॥ १०_[६] ॥ प्रतिबिम्बनिभं ग्राह्यमनादिचित्तसंभवम् । तदाकारं च विज्ञानमन्योन्यप्रतिबिम्बवत् ॥ ११_[७] ॥ ध्यायिना<ं> स्वच्छसंताने <यज्> ज्ननेन्दुसमुद्भवम् । उदकचन्द्रोपमं तद्धि प्रत्यक्षं न विद्यते ॥ १२_[८] ॥ योगिनामपि यज्ज्ञानं तदप्याकाशलक्षणम् । तस्माज्ज्ञानं च ज्ञेयं च सर्वमाकाशलक्षणम् ॥ १३_[९] ॥ इति चिन्तयतः तत्त्वं सर्वभावेष्वनाश्रितम् । बोधिप्रणिधिचित्तेन ज्ञानमग्रं भविष्यति ॥ १४ ॥ आर्याष्टसाहस्रिकायाः प्रज्ञापारमितायाः पिण्डार्थः समाप्तः कृतिरियं श्रीकम्<ब्>अलाम्बरपादनाम्