कल्पद्रुमावदानमालायां १० सुभूत्यवदानम्* ॥ अथाशोको महाराजः सर्वशोकविनोदितः । उपगुप्तं गुरुं नत्वा कृताञ्जलिपुटोऽवदत्* ॥ १ ॥ भदन्त श्रोतुमिच्छामि पुनरन्यत्सुभाषितम्* । यदुक्तं शाक्यसिंहेन तन्मे गदितुमर्हसि ॥ २ ॥ इति पृष्टो नृपेणासावुपगुप्तो यतीश्वरः । पर्षदं च समालोक्य संबभाष सुभाषितम्* ॥ ३ ॥ शृणु राजन्महाबाहो सर्वलोकहितार्थतः । सुभूतेरवदानं यत्तत्प्रवक्ष्ये यथाश्रुतम्* ॥ ४ ॥ पुरा श्रीभगवान् बुद्धो धर्मराजस्तथागतः । विद्याचरणसंपन्नः सुगतो लोकविज्जिनः ॥ ५ ॥ शास्ता देवमनुष्याणां सम्यक्संबोधिदेशकः । सत्कृतो मानितः सत्वैर्गुरुकृतश्च पूजितः ॥ ६ ॥ राजभी राजमात्रैश्च धनिभिः पुरवासिभिः । श्रेष्ठिभिः सार्थवाहैश्च नानादेशसमागतैः ॥ ७ ॥ देवासुरमहानागैर्यक्षगन्धर्वकिन्नरैः । गुरुडैश्च महासर्पैस्तथान्यसत्वजातिकैः ॥ ८ ॥ सुसंज्ञातो महापुण्यो लाभी चीवरवाससाम्* । पिण्डपातासनादीनां शय्यादीनां तथैव च ॥ ९ ॥ औषधादिपरिष्कार- वस्तूनां सर्वतः सदा । सार्धं सश्रावकैः संघैर्भिक्षुभिश्च जितेन्द्रियैः ॥ १० ॥ भिक्षुण्युपासिकाभिश्च चेलकोपासकैस्तथा । बोधिसत्वमहासत्वैः सत्वार्थबोधिवाञ्छिभिः ॥ ११ ॥ श्रावस्त्यां राजधान्यां वै जेतवने मनोरमे । विहारे व्यहरद्धर्मं देशयञ्छुभयस्सदा ॥ १२ ॥ तदा भगवता सत्व- विनयानुग्रहार्थिना । आमन्त्र्य भिक्षवः सर्वे सम्यगाज्ञापिता इति ॥ १३ ॥ गच्छत भिक्षवो यूयं सत्वानां विनयार्थतः । देशान् प्रत्यभिगच्छन्तः प्रकाशयत संवृतिम्* ॥ १४ ॥ -------------------- वैद्य, प्. २६६ -------------------- तथेत्येव प्रतिश्रुत्य शास्तुः पादौ प्रणम्य च । श्रावका भिक्षवश्चैव प्रतस्थुस्ते नियोगिनः ॥ १५ ॥ गुरो आज्ञां वहन्तस्ते केचित्प्राचीं दिशं गताः । देशयन्ति स्म सद्धर्मं प्रतिदेशानुपास्थिताः ॥ १६ ॥ दक्षिणस्यां तथा केचित्केचिच्च पश्चिमां दिशम्* । तथोत्तरां दिशं गत्वा विदिक्षु चापि सर्वतः ॥ १७ ॥ तेषां ध्यानरता ये वै ते विविक्तसुखैषिणः । मेरोरुपरिषण्डायामध्यूषुर्ध्यानतत्पराः ॥ १८ ॥ तदाब्धेर्गरुडेनैको नागपोतः समुद्धृतः । तमाश्रममुपानीय भक्षितुमुपचक्रमे ॥ १९ ॥ तत्रस्थास्तेन नागेन भिक्षवो ध्यानसंरताः । दृष्ट्वैव सुप्रसन्नेन मनसा प्रणिधिर्दधे ॥ २० ॥ धन्यास्ते भिक्षवो ह्येते सद्धर्मसुखचारिणः । अहमपि च भूयासं तादृग्धर्मसमाहितः ॥ २१ ॥ इति प्रणिधिं कुर्वाणो जीविताद्व्यवरोपितः । तत्रैव गरुडेनैवं भक्षितोऽभूत्स नागकः ॥ २२ ॥ ततः कालगतस्तत्र श्रावस्त्यां पुरि + + + । भूतिनाम्ना द्विजस्यासौ भार्याया गर्भमाविशत्* ॥ २३ ॥ ततश्च क्रमतस्तस्या गर्भः समनुवर्धितः । ततस्तत्समये प्राप्ते दारकः समजायत ॥ २४ ॥ ततः पिता च तं दृष्टा दारकं संप्रसादिकम्* । दर्शनीयं सुभद्राङ्गं मुहुः पश्यन्ननन्द सः ॥ २५ ॥ ततो जातिमहं कृत्वा ज्ञानीनाहूय चादरात्* । भवन्तोऽस्य नु किं नाम क्रियतामिति सोऽब्रवीत्* ॥ २६ ॥ ज्ञातयोऽपि तथा श्रुत्वा दृष्ट्वा चैनं च बालकम्* । सर्वे हर्षसमापन्ना भूतिं तमब्रुवंस्तथा ॥ २७ ॥ यस्माद्भूतेरयं पुत्रं सुजातो लक्षणान्वितः । तस्मात्सुभूतिरित्येव नाम्ना भवतु विश्रुतः ॥ २८ ॥ तथा क्रमाद्विवृद्धोऽसौ सुभूतिर्बालसुन्दरः । कुमारत्वं क्रमात्प्राप्तो रराम स वयोन्वितः ॥ २९ ॥ -------------------- वैद्य, प्. २६७ -------------------- पूर्वकर्मबलाधानात्क्रोधनः क्रूरभाषणः । किंचिन्निमित्तसंरुष्टो विग्रहे निरतोऽभवत् ॥ ३० ॥ परुषीभूतचित्तत्वान्न तस्य कोऽप्यभूत्सुहृत्* । सर्वज्ञातिविरुद्धत्वात्पितृभ्यामप्युपेक्षितः ॥ ३१ ॥ बन्धुभिश्च परित्यक्तो नैव कस्याप्यभूत्प्रियः । विश्रम्भप्रणयं तस्मिन्नैव कश्चिदभाषत ॥ ३२ ॥ स्थातुं गन्तुं तथा भोक्तुं शयितुं वाभिलापितुम्* । तेनैव क्रोधिना सार्धं समुत्सेहुर्न केचन ॥ ३३ ॥ तदा पित्रा नियुक्तोऽसौ लिपिशालामुपागमत्* । सुभूतिश्च गुरुं नत्वा लिपिमन्वग्रहीत्क्रमात्* ॥ ३४ ॥ ततो व्याकरणादीनि सर्वशास्त्राण्यनुक्रमात्* । सोऽधीत्यैषां सुशीघ्रेण पारं प्राप सुबुद्धिमान्* ॥ ३५ ॥ तथा वेदानधीत्यैवं साङ्गोपाङ्गान् यथाक्रमम्* । अथर्वमप्यधीतुं स प्रारभत्तीक्ष्णमानसः ॥ ३६ ॥ तत्र पिता द्विजो भूतिरथर्वाधीतसंरतम्* । सुभूतिं स्वात्मजं पुत्रं दृष्ट्वैवं समचिन्तयत्* ॥ ३७ ॥ सुभूतिर्मम पुत्रोऽयमग्निकल्पः सुतीक्ष्णधीः । कदाचित्कुपितो रोषाल्लोकेऽनर्थं करिष्यति ॥ ३८ ॥ तदन्वाहरितव्योऽयमाथर्वणात्प्रयत्नतः । ऋषिषु प्रेषयित्वैनं योजयिष्ये च संयमे ॥ ३९ ॥ इति मत्वा पिता भूतिः सुभूतिं स्वात्मजं तथा । आथर्वणाद्विनिर्हृत्य प्रबोधयंस्तमब्रवीत्* ॥ ४० ॥ शृणु पुत्र मया प्रोक्तं हितार्थं तव संमतम्* । त्वं हि विद्वान्महाविज्ञः सर्वशास्त्राङ्गपारगः ॥ ४१ ॥ किं तवाथर्ववेदेन मायाक्लेशार्थसाधिना । विरम्य तदधिष्ठानादृषिचर्यां समाचर ॥ ४२ ॥ मुनीनामुपदेशानि प्रतिलभ्य जितेन्द्रियः । शान्तात्मा सुखमास्थाय चरस्व व्रतमुत्तमम्* ॥ ४३ ॥ धन्यास्ते वीतरागा ये गुरुभक्ताश्च निर्मदाः । विविक्तारण्यवासेषु वसन्ति ध्यायिनः सदा ॥ ४४ ॥ -------------------- वैद्य, प्. २६८ -------------------- येऽपि परिग्रहांस्त्यक्त्वा भवन्ति ब्रह्मचारिणः । देवानामपि ते मान्या वन्दनीयाः सदा खलु ॥ ४५ ॥ ये प्रव्रज्यां समागृह्य शान्तात्मानो जितेन्द्रियाः । अवसन्ति पुण्यतीर्थेषु तेऽपि हि परमर्षयः ॥ ४६ ॥ कामभोग्यानि ये हित्वा साधयन्ते तपोवने । फलमूलोदकैस्तुष्टास्तेऽपि धन्या द्विजोत्तमाः ॥ ४७ ॥ येऽपि क्लेशान् विनिर्जित्य चतुर्ब्रह्मविहारिणः । भिक्षाशिनः समाधिस्थास्ते हि ब्रह्मविदां वराः ॥ ४८ ॥ ये चापरिग्रहीतारो निर्लोभाः सत्यवादिनः । निर्मदा निरहंकारास्त एव ब्राह्मणोत्तमाः ॥ ४९ ॥ यस्य दातुं मनो नास्ति मत्सराक्रान्तचेतसः । वेदशास्त्रागमैस्तस्य किमेव स्वात्मपोषिणः ॥ ५० ॥ यस्य चित्तं ह्यविशुद्धं शीलसंवरवर्जितम्* । किं भाति मुनिवेषेण स नटर्षिरिवोन्मदः ॥ ५१ ॥ यस्य लोके दया नास्ति बालवृद्धादिदुःखिते । किं तस्य ब्रह्मवृत्तेन चित्ते{न} परिमोहिते ॥ ५२ ॥ यस्य न कुशलोत्साहं चित्ते लोकार्थं साधितुम्* । तस्य किं तपसा सिद्धे केवलं पापहेतुभिः ॥ ५३ ॥ यस्य चित्तं प्रविक्षिप्तं क्लेशाद्यैरसमाहितम्* । स किं गुहानिविष्टोऽपि न साधुर्दुष्टजन्तुवत्* ॥ ५४ ॥ यस्य प्रज्ञा विशुद्धा न सद्धर्मगुणसाधने । तस्य किं ब्रह्मचर्येण केवलं दुःखहेतुना ॥ ५५ ॥ यश्च दाता विशुद्धात्मा सर्वसत्वानुपालकः । नीचोऽपि स द्विजकल्पो यतो दाता प्रजापतिः ॥ ५६ ॥ येन संरक्षितं नित्यं शीलं संयमसंवृत्तम्* । स एव ब्राह्मणः शुद्धः श्रोत्रियो वेदनान् यतिः ॥ ५७ ॥ यस्य चित्तं दयाशूलं सर्वसत्वहितेषितम्* । चण्डालोऽपि स विप्रः स्याल्लोकेशो हि क्षमाकरः ॥ ५८ ॥ येनैव दुष्करं कर्म साधितं सत्वहेतुना । स एव ब्राह्मणो धीरो विश्वकर्मा यतो विधिः ॥ ५९ ॥ -------------------- वैद्य, प्. २६९ -------------------- यस्य चित्तं सदा सत्व- हितार्थेषु समाधितम्* । स हि विप्रो महाभिज्ञो ब्रह्मा ज्ञानरतो यतः (स्पेयेर्: ध्यानरतो) ॥ ६० ॥ यस्य प्रज्ञा जगल्लोक- हितानुशासनोज्ज्वला । सैव द्विजवरो विज्ञो वेदधर्मास्थितो द्विजः ॥ ६१ ॥ येनैव निर्जिताः क्लेशाश्चतुर्ब्रह्मविहारिणा । स्वचित्ते भावितं ब्रह्म स एव ब्राह्मणोत्तमः ॥ ६२ ॥ तस्मात्पुत्र मया प्रोक्तं श्रुत्वा लोकहितोत्सुकः । सर्वक्लेशान् विनिर्जित्य सद्धर्माभिरतो भव ॥ ६३ ॥ इति पितुर्वचः श्रुत्वा सुभूतिः सोऽनुमोदितः । कृताञ्जलिस्तथा नत्वा पितरमित्यभाषत ॥ ६४ ॥ तथा सत्यं मनस्तात रोचते तपसे मम । तदाज्ञां देहि मे तात चरिष्ये ब्रह्मसद्व्रतम्* ॥ ६५ ॥ तेनैवं प्रार्थ्यमानोऽसौ सुभूतिना पिता ततः । परिष्वज्यात्मजं पुत्रं पुनरप्यब्रवीन्मुदा ॥ ६६ ॥ एवं चेत्तव वाञ्छास्ति पुत्र ब्रह्मसुसाधनैः । चर ब्रह्मव्रतं सम्यग्- धीरचित्तसमाहितः ॥ ६७ ॥ आदौ क्रोधरिपुं जित्वा दुष्टभारान् विनिर्जय (स्पेयेर्: दुष्टमारान्) । यावत्क्रोधमनिर्जित्य दुष्टाञ्जेतुं न शक्नुयाः ॥ ६८ ॥ यावद्दुष्टाननिर्जित्य धर्मे स्थातुं न शक्नुयाः । असुसंस्थितधर्माणं हन्युर्मारा हि सर्वथा ॥ ६९ ॥ तस्माद्वाञ्छति यो ब्रह्म तेनादौ चित्तकोटरात्* । विनिःकृष्य प्रयत्नेन हन्तव्यः क्रोधपन्नगः ॥ ७० ॥ क्रोधो हि वसते यस्य चित्ते मानमदाकुले । तावत्सद्गुणयुक्तोऽपि सेव्यते नैव सज्जनैः ॥ ७१ ॥ तस्मात्सर्वप्रयत्नेन क्रोधजिष्णुः समाहितः । प्रव्रज्यां समुपासिश्रित्य चर ब्राह्मण्यमादरात्* ॥ ७२ ॥ तथेत्यसौ प्रतिश्रुत्य सुभूतिः संप्रमोदितः । सहसा पितरौ नत्वा मुनीनामाश्रमं ययौ ॥ ७३ ॥ तत्र प्राप्तो मुनीन्नत्वा कृताञ्जलिपुटो मुदा । ब्राह्मण्यसंवरं प्राप्तुं प्रव्रज्यां समयाचत ॥ ७४ ॥ -------------------- वैद्य, प्. २७० -------------------- गुरो ब्रह्मविदां श्रेष्ठ कल्याणवर्त्मदेशक । प्रव्रज्यां देहि मे सत्यं चरेयं भवमुक्तये ॥ ७५ ॥ इति तस्य वचः श्रुत्वा गुरुर्ब्रह्मविदां वरः । एहि वत्स चर ब्रह्म- चर्यं जित्वा षडिन्द्रियम्* ॥ ७६ ॥ इत्युक्तो गुरुणा सोऽभूत्सुभूतिर्मुनिवेषभृत्* । ब्रह्मविहारसंपन्नो विनीतः श्रद्धयान्वितः ॥ ७७ ॥ तथापि दैवसामर्थ्यात्क्रोधसंरक्तमानसः । किंचिन्निमित्तमात्रेऽपि विग्रहवानसंयतः ॥ ७८ ॥ वेदसिद्धान्तशास्त्रेषु विवादी क्रोधबाहुलः । अतीव रोषसंक्रुष्टो विचिक्षेप यतीनपि ॥ ७९ ॥ धर्मार्थकाममोक्षेषु निरपेक्षः सुतीक्ष्णवाक्* । सर्वत्र मुनिभिश्चापि विजग्राहासमाहितः ॥ ८० ॥ इत्येनं क्रोधसंरक्तं वेदसिद्धान्तमानिनम्* । सुभूतिं ब्राह्मणं दृष्ट्वा गुरुश्चैवमचिन्तयत्* ॥ ८१ ॥ अहो दैवबलाधानात्सुभूतिर्ब्राह्मणोऽप्ययम्* । स्वसिद्धान्तसमानोऽद्य क्रूरवाग्विग्रहोत्सुकः ॥ ८२ ॥ अग्निकल्पो महातीक्ष्णः सर्वशास्त्रार्थकोविदः । विशारदो महाभिज्ञो धर्मसंयमतत्परः ॥ ८३ ॥ तपश्चरणसंरक्तस्तीक्ष्णबुद्धिः कृतोद्यमः । महोत्साहो महावीरः सिद्धविद्यो महोत्कटः ॥ ८४ ॥ सर्वशास्त्रकलाभिज्ञो मन्त्रसिद्धिप्रयोगवित्* । वेदसिद्धान्तयोगानां पारगश्च महासुधीः ॥ ८५ ॥ किं तु क्रोधाविशुद्धात्मा विग्रही वादसंरतः । किंचिन्निमित्तमात्रेऽपि विक्रुष्टोऽथ रुषाशयः ॥ ८६ ॥ कदाचित्कुपितो रुष्टेः संक्लेशाधीरचेतनः । शापाशनिप्रहारेण लोकेऽनर्थं करिष्यति ॥ ८७ ॥ तदहं संप्रबोध्यैनं सुभूतिं द्विजसत्तमम्* । समाधिध्यानवर्यासु योजयेयं स सर्वथा ॥ ८८ ॥ इति मत्वा गुरुश्चैनं सुभूतिं समबोधयत्* । शृणु वत्स हितं वक्ष्ये तत्र भव समाहितः ॥ ८९ ॥ -------------------- वैद्य, प्. २७१ -------------------- सर्ववर्णाग्रजो विप्रः सर्वजातिवरोत्तमः । ब्राह्मणोऽस्मीत्यहंकारो न कर्तव्यः कदाचन ॥ ९० ॥ न जीवो ब्राह्मणस्तावद्यस्मात्संस्कारतो द्विजः । जीवश्चेद्ब्राह्मणस्तावद्वृथा स्याद्धर्मसंस्कृतैः ॥ ९१ ॥ आद्यन्ते पशवो देवा इति वेदेऽपि कथ्यते । ततो धर्माभिसंस्कारैः सर्वे स्युर्मानवा द्विजाः ॥ ९२ ॥ श्वपचा अपि धर्मस्थाः संस्कृताः स्युर्द्विजाधमाः । गुणधर्मानुसारैश्च देवा दैत्याश्च मानुषाः ॥ ९३ ॥ सत्वधर्मधरा देवा रजोधर्मधरा नराः । तमोधर्मधरा दैत्या इति सिद्धान्तसंमतम्* ॥ ९४ ॥ इति धर्मगुणाधानात्त्रैधातुकभवालये । चतुर्योनिसमुद्भूताः षड्गतिषु भ्रमन्ति ते ॥ ९५ ॥ तत्रापि कर्मभेदेन जातिभेदा ह्यनेकशः । जातिष्वपि च सर्वासु स्वकर्मपरिणामतः ॥ ९६ ॥ सत्वा नैकविधा जाता अधमोत्तममध्यमाः । ये सत्वास्तामसा रौद्रा हिंसाकर्मानुसंरताः । तेऽधोभुवनसंजाता वसन्ति क्लेशभागिनः ॥ ९७ ॥ रजोधर्मरता ये हि रागचर्यानुसारिणः । ते सत्वा भूमिसंजाता वसन्ति मानुषादयः ॥ ९८ ॥ सत्वधर्मरता ये तु सात्विकाः शान्तचारिणः । ते देवा निर्मलानन्दा वसन्ति स्वर्गतिं गताः ॥ ९९ ॥ तथैते सर्वसत्वाश्च गुणधर्मानुसारतः । स्वकृतं कर्म भुञ्जन्तो भ्राम्यन्ति त्रिभवालये ॥ १०० ॥ वृद्धिं प्राप्य गुणाश्चेत्थमेकैकं गुणवृद्धितः । + + + + + + + + + + + + + + + + + ॥ १०१ ॥ आकाशस्य गुणश्चैकः शब्द एव न चापरः । शब्दस्पर्शौ च वायोर्वै द्वौ गुणौ परिकीर्तितौ ॥ १०२ ॥ अग्नेः शब्दश्च स्पर्शश्च रूपमेव त्रयो गुणाः । शब्दस्पर्शरूपरसाश्चत्वार्येव समीरणे ॥ १०३ ॥ स्पर्शः शब्दो रसो रूपं गन्धश्च पृथिवीगुणाः । एवं मिलितयोगैश्च ब्रह्माणोत्पत्तिरुच्यते ॥ १०४ ॥ -------------------- वैद्य, प्. २७२ -------------------- सर्वे जीवा मिलित्वैव ब्रह्माणांश्च समुद्भवाः (स्पेयेर्:ब्रह्माणांशसमुद्भवाः) । चतुरशीति लक्षाश्च प्रोक्ता वै जीवजातयः ॥ १०५ ॥ धर्मतः सुखिनो भूताः पापतो दुःखभागिनः । मिश्रतो मिश्रभुक्तार इत्युक्तमवदानिकैः ॥ १०६ ॥ भारतेऽपि तथा प्रोक्तमृषिभिः कर्मवादिभिः । सप्त व्याधा दशारण्ये मृगाः कालिञ्जरे गिरौ ॥ १०७ ॥ चक्रवाकौ शरद्वीपे हंसाः सरसि मानसे । तेऽपि जाताः कुरुक्षेत्रे ब्राह्मणा वेदपारगाः ॥ १०८ ॥ उक्तं च मानवे धर्मे मुनिना मुनिना + + । मिथ्याजीवेन जीवन् यः पतितो ब्राह्मणो ह्यसौ ॥ १०९ ॥ वृषलीफेनपीतस्य निःश्वासोपहतस्य च । तयैव सहसुप्तस्य निष्कृतिर्नोपलभ्यते ॥ ११० ॥ शूद्रीहस्तेन यो भुञ्क्ते मासमेकं निरन्तरम्* । जीवमानो भवेच्छूद्रो मृतश्च स प्रजायते ॥ १११ ॥ अधीत्य चतुरो वेदान् साङ्गोपाङ्गांश्च तत्वतः । शूद्रात्प्रतिग्रहग्राही ब्राह्मणो जायते खरः ॥ ११२ ॥ खरो द्वादश जन्मानि षष्टि जन्मानि सूकरः । श्वानः सप्तति जन्मानि इत्येवं मनुरब्रवीत्* ॥ ११३ ॥ तथोक्तमवदानेऽपि बुद्धेनाद्वयवादिना । ब्राह्मणोऽदत्तमादाय बभूव वानराधिपः ॥ ११४ ॥ तत्र स बुद्धनाथाय ददौ च पणसं मुदा । ततश्च मानवो भूत्वा पांशुदाता ह्यभूच्छिशुः ॥ ११५ ॥ तत्कर्मफलतो राजा सर्वानन्दो बभूव सः । तत्रापि बुद्धनाथाय पिण्डपातं ददौ मुदा ॥ ११६ ॥ तद्दीपंकरप्रसादेन बोधिसत्वोऽभवन्नृपः (स्पेयेर्: भवेन्) । सर्वपारमिताः पूर्य बुद्धोऽपि स भविष्यति ॥ ११७ ॥ इत्युक्तमवदानेऽपि जिनेनाद्वयवादिना । तस्माच्चैवं विजानीया न जीवो ब्राह्मणः खलु ॥ ११८ ॥ जात्यापि ब्राह्मणो नैव संस्कृतस्तु द्विजो भवेत्* । जात्या चेद्ब्राह्मणो भूतो वृथा स्यात्संस्कृतेर्विधिः ॥ ११९ ॥ -------------------- वैद्य, प्. २७३ -------------------- स्मृतौ हि तत्तथा प्रोक्तं ना जात्या धर्मतो द्विजः । + + + + + + + + + + + + + + + + ॥ १२० ॥ धर्मसंस्कृतिवृत्तिस्थः श्वपचोऽपि द्विजो भवेत्* । तथा हि मानवे धर्मे मनुनाभिहितं खलु ॥ १२१ ॥ अरणीगर्भसंभूतः कठिनाख्यो महामुनिः । तपसा ब्राह्मणो जातस्तस्माज्जातिरकारणम्* ॥ १२२ ॥ कैवर्तिगर्भसंभूतो व्यासो नाम महामुनिः । तपसा ब्राह्मणो जातस्तस्माज्जातिरकारणम्* ॥ १२३ ॥ उर्वशीगर्भसंभूतो वसिष्ठाख्यो महामुनिः । तपसा ब्राह्मणो जातस्तस्माज्जातिरकारणम्* ॥ १२४ ॥ हरिणीगर्भसंभूतो ऋष्यशृङ्गो महामुनिः । तपसा ब्राह्मणो जातस्तस्माज्जातिरकारणम्* ॥ १२५ ॥ चण्डालीगर्भसंभूतो विश्वामित्रो महामुनिः । तपसा ब्राह्मणो जातस्तस्माज्जातिरकारणम्* ॥ १२६ ॥ तण्डुलीगर्भसंभूतो नारदाख्यो महामुनिः । तपसा ब्राह्मणो जातस्तस्माज्जातिरकारणम्* ॥ १२७ ॥ एवमन्येऽपि सर्वे च ऋषयो ब्रह्मचारिणः । तपसा ब्राह्मणा भूता ब्राह्मणीगर्भसंभवाः ॥ १२८ ॥ धर्मसंस्कारतः सर्वे मानवा ब्राह्मणाः खलु । धर्मवृत्तिप्रमाणेन सर्वे स्युर्ब्राह्मणा नराः ॥ १२९ ॥ एकवर्णमिदं सर्वं ब्रह्मसृष्टिसमुद्भवम्* । धर्मकल्पविकल्पेन चातुर्वर्ण्यं प्रकल्पितम्* ॥ १३० ॥ सर्वे वै योनिजा मर्त्याः सर्वे मूत्रपुरीषिणः । एकेन्द्रियक्रियार्थाश्च तस्माच्छीलगुणैर्द्विजाः ॥ १३१ ॥ शूद्रोऽपि शीलसंपन्नो गुणवान् ब्राह्मणो भवेत्* । ब्राह्मणोऽपि क्रियाहीनः शूद्रात्प्रत्यवरो भवेत्* ॥ १३२ ॥ गुणैर्धर्मैस्तथा शीलैर्वर्णा ह्यनेकजातयः । ब्रह्मजेषु हि सर्वेषु नरेषु किं विशेषता ॥ १३३ ॥ यथा भस्मनि सौवर्णे विशेष उपलभ्यते । ब्राह्मणे चान्यजातौ वा न विशेषोऽस्ति वै तथा ॥ १३४ ॥ यथा प्रकाशतमसोर्विशेष उपलभ्यते । ब्राह्मणे चान्यजातौ वा विशेषो नैष विद्यते ॥ १३४ ॥ -------------------- वैद्य, प्. २७४ -------------------- न हि ब्राह्मण आकाशान्मरुतो वा समुद्भवः । भित्वा वा पृथिवीं जातो जातवेदा यथारणेः ॥ १३६ ॥ ब्राह्मणा योनितो जाताश्चण्डाला अपि योनितः । श्रेष्ठत्वे वृषलत्वे च किं वास्ति भेदकारणम्* ॥ १३७ ॥ ब्राह्मणोऽपि मृतोत्सृष्टो जुगुप्स्योऽशुचिरुच्यते । वर्णास्सथव चाप्यन्ये का नु तत्र विशेषता ॥ १३८ ॥ यथा सिंहादिजन्तूनां पदादिभेदलक्षणम्* । देहसंस्थानलिङ्गैश्च नराणां किं विशेषता ॥ १३९ ॥ यथा हंसमयूरादि- पक्षिणां च विशेषता । मुखादिवर्णशब्दैश्च नराणां नास्ति भेदता ॥ १४० ॥ यथा च कृमिकीटानां कायसंस्थानभेदता । तथैव नरजातीनां नैवास्ति भेदलक्षणम्* ॥ १४१ ॥ यथा भूरुहवृक्षाणां पत्राद्याकारभेदता । तथा नास्ति मनुष्याणामाकृतेर्भेदलक्षणम्* ॥ १४२ ॥ तृणौषधादिशस्यानां यथाकृतिविशेषता । मानवानां तथा नास्ति संस्थानं भिन्नलक्षणम्* (स्पेयेर्:संस्थानभिन्नश्) ॥ १४३ ॥ धान्यादिव्रीहिजातीनां वर्णाकारादिलक्षणम्* । तथा नास्ति मनुष्याणां वर्णाकारविशेषता ॥ १४४ ॥ जातिकुन्दादिपुष्पाणां यथा वर्णादिभेदता । मानवानां तथा नास्ति वर्णगन्धादिभेदता ॥ १४५ ॥ जलजानां च पुष्पाणां पद्मादीनां विशेषता । वर्णसंस्थानगन्धाश्च नराणां तु तथा न हि ॥ १४६ ॥ यथाम्रादिफलानां च स्वादादिगुणभेदता । मनुजानां तथा नास्ति मांसास्थिगुणभेदता ॥ १४७ ॥ यथा षड्रसजातीनां गुणास्वादादिभेदता । तथा नास्ति मनुष्याणां षडिन्द्रियविशेषता ॥ १४८ ॥ यथा हेमादिधातूनां द्रव्यवर्णादिभेदता । तथा नास्ति मनुष्याणां संस्थानवर्णभेदता ॥ १४९ ॥ यथा वज्रादिरत्नानां संस्थानवर्णभेदता । तथा नास्ति मनुष्याणां शरीराकारभेदता ॥ १५० ॥ सममांसादिभेदाश्च षडिन्द्रियसमास्तथा । एकांशतो विशेषो न कुतो देहेषु भेदता ॥ १५१ ॥ -------------------- वैद्य, प्. २७५ -------------------- यथा हि बालका बाला क्रीडमाना महापथे । पांशुपुञ्जानि संपिण्ड्य स्वयं नामानि कुर्वते ॥ १५२ ॥ इदं क्षीरमिदं मांसमिदं घृतमिदं दधि । न च बालस्य वचनात्पांशवोऽन्ना भवन्ति हि ॥ १५३ ॥ वर्णास्तथैव चत्वारः सुभूत इति कल्पिताः । पांशुपुञ्जाभिधानेन योगोऽप्येष न विद्यते ॥ १५८ ॥ न केशेन न कऋणेन न शीर्षेण न चक्षुषा । न मुखेन न नासाया न ग्रीवया न बाहुना ॥ १५५ ॥ नोरसा न च पार्श्वेन न पृष्ठेनोदरेण वा । नोरुभ्यामथ जङ्गाभ्यां पाणिपादनखैर्न च ॥ १५६ ॥ न स्वरेण न वर्नेन न सर्वांशैर्न मैथुनैः । नैका विशेषता वापि मनुष्येषु न विद्यते ॥ १५७ ॥ तथा नास्ति यथान्यासु जातेर्लिङ्गं पृथक्पृथक्* । सामान्यकारणं मन्ये किंचिन्न भेदलक्षणम्* ॥ १५८ ॥ संज्ञामात्रेण कल्प्यन्ते ब्राह्मणाः क्षत्रियास्तथा । वैश्याः शूद्रास्तथान्येऽपि संज्ञामात्रे हि कीर्तिताः ॥ १६९ ॥ यथैकवृक्षजातानां फलानां नास्ति भेदता । तथैकमनुजातानां किं विशेषत्वलक्षणम्* ॥ १६० ॥ गुणधर्मानुचारेण जातिभेदा भवन्ति हि । चातुर्वर्ण्यमिदं लोके सर्वं हि मनुसंभवम्* ॥ १६१ ॥ गुणधर्मप्रमाणेन जातेर्नैव प्रमाणता । तथा च प्रोच्यते बौद्धैरवदानार्थकोविदैः ॥ १६२ ॥ मानवा ये प्रशान्तास्था सत्यधर्मव्रतान्विताः । ब्राह्मणास्ते महाशुद्धाश्चतुर्ब्रह्मविहारिणः ॥ १६३ ॥ परिग्रहान् परित्यज्य वनप्रस्थनिवासिनः । ये भजन्ति सदा ब्रह्म वानप्रस्था हि ते द्विजाः ॥ १६४ ॥ षट्कर्मनिरता ये तु श्रोत्रिया गृहवासिनः । महायज्ञसमाचारा उपाध्याया हि ते द्विजाः ॥ १६५ ॥ निरपेक्षाः स्वदेहेऽपि त्यक्तमाराभिगोचराः । भिक्षाशिनो व्रतस्थास्ते भिक्षवो ब्रह्मवादिनः ॥ १६६ ॥ ये च मारान् विनिर्जित्य निःसङ्गा धीरमानसाः । तपन्ति पुण्यक्षेत्रेषु मानवास्ते तपस्विनः ॥ १६७ ॥ -------------------- वैद्य, प्. २७६ -------------------- दशाकुशलनिर्भुक्ता दशाकुशलसंरताः । सत्यवाचो व्रतस्था ये ऋषयस्ते द्विजोत्तमाः ॥ १६८ ॥ ये च लोकप्रचारेषु विरता धर्ममानसाः । वाचंयमाश्च ते भद्रा मुनयः सत्यवादिनः ॥ १६९ ॥ ये च जितेन्द्रियग्रामा निर्मुक्तभवचारकाः । निर्ममा निरहंकारा यतयो योगिनोऽपि ते ॥ १७० ॥ ये च स्थण्डिलमाश्रित्य चरन्ति व्रतमादरात्* । तेऽपि च मानवा धीराः स्थण्डिला जटिलास्तथा (स्पेयेर्: स्थाण्डिला) ॥ १७१ ॥ ये च भस्मविलिप्ताङ्गा हाराभरणभूषिताः । कापालिकाश्च ते वीराः श्मशानव्रतचारिणः ॥ १७२ ॥ ये समिद्धव्यद्रव्याणि जुह्वत्यग्नौ समाहिताः । ते होतारश्च यज्वानो वेदधर्मार्थसाधकाः ॥ १७३ ॥ ये च क्षत्राणि रक्षन्तः पालयन्ति सदा प्रजाः । सत्वरक्षाव्रताचाराः क्षत्रियास्ते नृपा नराः ॥ १७४ ॥ ये रञ्जयन्ति धर्मार्थे लोकान्नीतिप्रयोजकाः । राजानस्ते महावीराः सर्वधर्माभिपालकाः ॥ १७५ ॥ ये च सत्वहिताधाने विविधार्थानुकारिणः । वेशयन्ति प्रजा धर्मे वैश्यास्ते हि नरोत्तमाः ॥ १७६ ॥ व्रताचारविहीना ये सत्वरक्षार्थचारिणः । मन्यन्ते सेवया शुद्धिं शूद्रास्ते श्रेष्ठिनस्तथा ॥ १७७ ॥ ये च क्षेत्राणि कर्षन्ति धान्यादिव्रीहिसाधकाः । कृषिकास्ते नरा धान्यैः सत्वजीवानुपोषकाः ॥ १७८ ॥ साधयन्ति महत्कार्यं धनादिवस्तुसंग्रहैः । वणिक्कर्माभिसंयुक्ता वणिजस्ते महोद्यमाः ॥ १७९ ॥ ये च सार्थान् समाहृत्य रत्नाकरसमागताः । साधयन्ति च रत्नानि सार्थवाहाश्च ते नराः ॥ १८० ॥ तथान्ये शिल्पविद्यादीन् ये च कुर्वन्ति मानवाः । शिल्पिनस्ते तथान्येऽपि स्वर्णकारादयो नराः ॥ १८१ ॥ ज्योतिर्विद्याविदो ये च गणयन्ति दिवानिशम्* । युगान्तकालविज्ञाता गणकास्तेऽपि मानवाः ॥ १८२ ॥ धातुदोषान्यभिज्ञाय लोकानां परिचारकाः । भैषज्यं ये ददन्त्येव भिषजस्ते हि वैद्यकाः ॥ १८३ ॥ -------------------- वैद्य, प्. २७७ -------------------- भूतदोषाण्यभिज्ञाय बलिपूजाविधानतः । शमयन्ति च ये भूतान् भौतिकास्तेऽपि मानवाः ॥ १८४ ॥ एवं चान्येऽपि ये सत्वा यद्यत्कर्मानुचारिणः । तत्तत्कर्मानुशीलेन जातिधर्मप्रवृत्तिकाः ॥ १८५ ॥ ततो ये मानवाः क्रूरा निर्दयाः सत्वहिंसकाः । चण्डवृत्तिप्रचाराश्च चण्डाला इति ते स्मृताः ॥ १८६ ॥ ये भजन्ति शिवं नित्यं शिवभक्तिपरायणाः । ते शैवा मनुजा ज्ञेयाः शिवधर्मानुचारतः ॥ १८७ ॥ ये भजन्ति विष्णुं नित्यं विष्णुभक्तिपरायणाः । विष्णुधर्मसमाचाराद्वैष्णवास्तेऽपि मानवाः ॥ १८८ ॥ ब्रह्माणं ये भजयन्त्येव ब्रह्मभक्तिपरायणाः । ब्रह्मधर्मसमाचाराद्ब्राह्मणास्तेऽपि मानवाः ॥ १८९ ॥ ये भजन्ति महारौद्रं भैरवभक्तिमानसाः । महारौद्राश्च ते ख्याता भैरविकाश्च मानवाः ॥ १९० ॥ ये च माहेश्वरीं देवीं भजन्ति कुलधर्मिणः । माहेश्वरीव्रताधाराः कालिकास्तेऽपि मानवाः ॥ १९१ ॥ येए भजन्ति सदा बुद्धं बौद्धधर्मपरायणाः । तेऽपि च मानवा बौद्धाः संबोधिपदसाधिनः ॥ १९२ ॥ ये भजन्ति जिनं चैव जैनधर्मपरायणाः । तेऽपि च मनुजा जैना जैनधर्मानुचारणात्* ॥ १९३ ॥ एवं चान्येऽपि ये सत्वा व्रतचर्यानुलिङ्गिनः । तेऽपि च मानवाः सर्वे धर्मचर्यानुवर्णिनः ॥ १९४ ॥ यादृशं साध्यते कर्म तादृशी जातिता भवेत्* । प्रजापतिर्हि चैकत्वे निर्विशेषोऽभवद्यतः ॥ १९५ ॥ न चेन्द्रियेषु नानात्वं क्रियावादेन दृश्यते । ब्राह्मणे चान्यजातौ वा नैषां किंचिद्विशिष्यते ॥ १९६ ॥ न ह्यात्मनः समुत्कर्षाच्छ्रेष्ठत्वमिह युज्यते । शुक्रशोणितसंभूतं योनिजं सर्वमेव हि ॥ १९७ ॥ चातुर्वर्ण्यमिदं लोकमिति तीर्थ्यैर्विकल्पितम्* । ब्रह्मजा ब्राह्मणा नैवं धर्मसंस्कारजाः खलु ॥ १९८ ॥ यदि वा ब्रह्मजा विप्रा ब्राह्मणी कुत्र संभवा । ब्राह्मण्यपि तथा चैव ब्रह्मजा यदि सांप्रतम्* ॥ १९९ ॥ -------------------- वैद्य, प्. २७८ -------------------- ब्राह्मणस्य च सा भार्या स्याच्चैवेदं न युक्तितः । न भार्या भगिनी युक्ता ब्रह्मणां ब्रह्मजा यदि ॥ २०० ॥ न सत्वा ब्रह्मणो जाताः कर्मसंस्कारजास्त्वमी । निहीनोत्कृष्टमध्याश्च सत्वा नानाश्रयाः पृथक्* ॥ २०१ ॥ तेषां हि जातिसामान्याद्ब्राह्मणे क्षत्रिये तथा । वैश्यशूद्रे तथान्येषु समं ज्ञानं प्रवर्तते ॥ २०२ ॥ शीलं प्रधानं न कुलं प्रधानं कुलेन किं शीलविवर्जितेन । बहवो नरा नीचकुलप्रसूताः स्वर्गं गताः शीलमुपेत्य धीराः ॥ २०३ ॥ न जातिर्दृश्यते देवैः शीलः कल्याणकारकः । चण्डालोऽपि हि शीलस्थस्तं देवा ब्राह्मणं विदुः ॥ २०४ ॥ सत्यं ब्रह्म तपो ब्रह्म शीलश्चेन्द्रियसंयमः । सर्वभूतदया ब्रह्म एतद्ब्राह्मणलक्षणम्* ॥ २०५ ॥ सत्यं नास्ति तपो नास्ति नास्ति चेन्द्रियसंयमः । सर्वभूतदया नास्ति एतच्चण्डाललक्षणम्* ॥ २०६ ॥ देवमनुष्यनारीणां तिर्यग्योनिगतेष्वपि । मैथुनं नाधिगच्छन्ति ते नरा ब्राह्मणाः खलु ॥ २०७ ॥ शूद्रीहस्तेन यो भुङ्क्ते मासमेकं निरन्तरम्* । जीवमानो भवेच्छूद्रो मृतः स श्वा प्रजायते ॥ २०७ ॥ शूद्रीपरिवृतो विप्रः शूद्री च गृहमेधिनी । वर्जितः पितृदेवैश्च रौरवं सोऽधिगच्छति ॥ २०८ ॥ तस्माद्धर्मतपःशील- संयमज्ञानतो द्विजः । न त्वेतैर्हि विना विप्रः किं स्यात्संस्कारमात्रतः ॥ २१० ॥ तन्न शरीरसंस्कार- मात्रेण ब्राह्मणो भवेत्* । संस्कृतेन द्विजो वा चेच्छूद्रोऽपि संस्कृतो द्विजः ॥ २११ ॥ यदि विप्रः शरीरः स्यात्पावको ब्रह्महा भवेत्* । ब्रह्महत्या च बन्धूनां शरीरदहनाद्भवेत्* ॥ २१२ ॥ ब्राह्मणबीजसंभूतः शूद्रोऽपि न कथं द्विजः । तस्माद्धि ब्राह्मणो नैव देहसंस्कारमात्रतः ॥ १२३ ॥ सद्यः पतति मांसेन धात्वन्नक्षिरविक्रयी । ब्राह्मणोऽपि भवेच्छूद्रः सुरया लवणेन च ॥ २१४ ॥ आकाशगामिनो प्रियाः पतिता मांसभक्षणात्* । विप्राणां पतनं दृष्ट्वा ततो मांसानि वर्जयेत् ॥ २१५ ॥ -------------------- वैद्य, प्. २७९ -------------------- भक्ष्यन्ते येन मांसानि भक्ष्यते तेन किं न हि । अभक्ष्यभक्षणाच्चैव ब्राह्मणः पतितो भवेत्* ॥ २१६ ॥ पतितो ब्राह्मणश्चैवं संस्कारं नार्हति पुनः । तस्माज्ज्ञानं विना नैव शरीरो ब्राह्मणो भवेत्* ॥ २१७ ॥ ज्ञानवान् हि भवेत्पूज्यो ब्राह्मणा अपि मानवाः । समानेषु च देहेषु कुत्राप्यस्ति विशेषता ॥ २१८ ॥ तस्माज्ज्ञानप्रमाणेन न शरीरप्रमाणता । यथा करोति भाण्दानि मृत्तिकयैव भार्गवः ॥ २१९ ॥ मृत्तिकाया न भेदोऽस्ति तत्कृतभाजनेष्वपि । किं तु प्रक्षिप्तवस्तूनां संज्ञयाख्यायते खलु ॥ २२० ॥ प्रक्षिप्तं यत्र यद्द्रव्यं तद्भाण्डं तेन लक्ष्यते । ज्ञानधर्मगुणाचारैर्लक्ष्यते मानवस्तथा ॥ २२१ ॥ ज्ञानधर्मगुणाचारैर्विहीनो मानवः पशुः । ज्ञानविज्ञानभेदेन वर्तते गुणभेदता ॥ २२२ ॥ गुणभेदाद्भवेद्धर्म- भेदा च संप्रजायते । धर्मभेदात्ततः कर्म- भेदता संप्रवर्तते ॥ २२३ ॥ कर्मभेदात्तथाचार- भेदता च प्रवर्तते । तथाचारविशेषेण जातिभेदाः प्रवर्तिताः ॥ २२४ ॥ महाभूतसमुद्भूत- स्कन्धेष्वायतनेषु च । सर्वजन्तुशरीरेषु समेषु का विशेषता ॥ २२५ ॥ ज्ञानविज्ञानमात्रेण भिद्यन्ते खलु मानवाः । ज्ञानविज्ञानपात्रत्वात्पूज्यन्ते नीचजा अपि ॥ २२६ ॥ ज्ञानविज्ञानहीनत्वान्मानवोऽपि न पूज्यते । पशुवत्स नराकारः ततः पूजा न चाकृतेः ॥ २२७ ॥ ज्ञानेनापि द्विजो नैव कर्माचारप्रमाणतः । ज्ञानेन यदि वा विप्रः शूद्रोऽपि ब्राह्मणो भवेत्* ॥ २२८ ॥ अन्येऽपि बहवः सन्ति सकैवर्तादिनीचजाः । ज्ञानवन्तश्च ये धीरास्तेऽपि स्युर्ब्राह्मणाः खलु ॥ २२९ ॥ तमाच्च ज्ञानमात्रेण ब्राह्मणो न भवेत्खलु । कर्माचारप्रमाणेन न ज्ञानस्य प्रमाणता ॥ २३० ॥ कर्मणापि द्विजो नैव शुद्धाचारप्रमाणतः । कर्मणा वै द्विजाश्चैवं सर्वे स्युर्ब्राह्मणाः खलु ॥ २३१ ॥ -------------------- वैद्य, प्. २८० -------------------- सन्ति हि बहवो लोके महायज्ञादिकर्मिणः । क्षत्रियवैश्यशूद्राश्च कथं न ब्राह्मणा नु ते ॥ २३२ ॥ तस्मान्न कर्ममात्रेण ब्राह्मणाः स्युर्नराः खलु । नापि स्वाचारमात्रेण ब्राह्मणाः स्युस्तथा नराः ॥ २३३ ॥ यदि स्वाचारतो विप्रः सर्वे स्युर्ब्राह्मणाः खलु । ये ये स्वाचारवन्तश्च ते ते स्युर्ब्राह्मणाः किल ॥ २३४ ॥ सन्ति च बहवः शूद्राः शुद्धाचारसमन्विताः । व्रतोपवासधर्मिष्टा नीचजा अपि सन्ति च ॥ २३५ ॥ तेऽपि स्युर्ब्राह्मणाश्चैवं यद्याचारप्रमाणता । तस्मादाचारमात्रेण ब्राह्मणा नैव मानुषाः ॥ २३६ ॥ वेदेनापि तथा नैव ब्राह्मणाः स्युर्नरोत्तमाः । यदि वेदैर्भवेद्विप्रो राक्षसोऽपि द्विजः खलु ॥ २३७ ॥ तथाभूद्रावणो नाम राक्षसो वेदपारगः । सर्वेऽपि राक्षसाश्चैवं वेदकर्मानुचारकाः ॥ २३८ ॥ कथं ते ब्राह्मणा नैव यदि वेदाद्द्विजो भवेत्* । तस्माच्च वेदमात्रेण नैव स्युर्ब्राह्मणाः खलु ॥ २३० ॥ सत्यधर्मप्रमाणेन सर्वमेकं जगद्ध्रुवम्* । चातुर्वर्ण्यमिदं लोकं तीर्थिकैरिति कल्पितम्* ॥ २४० ॥ तथा च कल्प्यते लोक- बोधार्थमिति तीर्थिकैः । स्वयंभूदेहसंभूतं चातुर्वर्ण्यमिदं खलु ॥ २४१ ॥ मुखतो ब्राह्मणो जातो बाहुभ्यां क्षत्रियः स्मृतः । ऊरुभ्यां संभवो वैश्यः पद्भ्यां शूद्रः समुद्भवः ॥ २४२ ॥ तथा चेद्धि भवेद्दोषो धर्मेषु वर्णवादिनाम्* । अगम्यगमनाच्चैवं कथं धर्मविशुद्धिता ॥ २४३ ॥ यदि विप्रो मुखाज्जातो ब्राह्मणी कुत्र संभवा । ब्राह्मण्यपि मुखाज्जाता स्वसा भार्या कथं ननु ॥ २४४ ॥ तथा च क्षत्रिया जाता बाहुभ्यामेव चेत्तथा । क्षत्रियस्य भवेद्भार्या क्षत्रिया भगिनी खलु ॥ २४५ ॥ वैश्यापि हि तथा चैवमूरुभ्यामेव संभवा । वैश्यस्यापि भवेद्भार्या वैश्या तु भगिनी विशः ॥ २४६ ॥ पद्भ्यां जातो यथा शूद्रः शूद्री चापि तथोद्भवा । शूद्रस्यापि भवेद्भार्या शूद्री हि भगिनी खलु ॥ २४७ ॥ -------------------- वैद्य, प्. २८१ -------------------- न युक्ता भगिनी भार्या तथा धर्मः कथं भवेत्* । अगम्यगमनाच्चैवमधर्म एव संभवेत्* ॥ २४८ ॥ ततोऽत्यन्तविरुद्धं स्याद्ब्रह्मजा ब्राह्मणा यदि । धर्मक्रियाविशेषात्तु वर्णावस्थाः प्रतिष्ठिताः ॥ २४९ ॥ भारतेऽपि तथा चैवं धर्मराजो युधिष्ठिरः । वैशम्पायनमागम्य प्राञ्जलिः पर्यपृच्छत ॥ २५० ॥ के ते ये ब्राह्मणाः प्रोक्ताः किं वा ब्राह्मणलक्षणम्* । एतदिच्छामि भो ज्ञातुं तद्भवान् व्याकरोतु मे ॥ २५१ ॥ इति श्रुत्वा महाविज्ञो वैशम्पायन आदरात्* । प्रत्युवाचेति कौन्तेय शृणु तत्कथ्यते मया ॥ २५२ ॥ क्षान्त्यादिभिर्गुणैर्युक्तस्त्यक्तदण्डो निरामिषः । न हन्ति सर्वभूतानि प्रथमं ब्राह्मलक्षणम्* ॥ २५३ ॥ यदा सर्वपरद्रव्यं पथि वा यदि वा गृहे । अदत्तं नैव गृह्णाति द्वितीयं ब्राह्मलक्षणम्* ॥ २५४ ॥ त्यक्तक्रूरस्वभावस्तु निर्ममो निःपरिग्रहः । मुक्तश्चरति यो नित्यं तृतीयं ब्राह्मलक्षणम्* ॥ २५५ ॥ देवमनुष्यनारीणां तिर्यग्योनिगतेष्वपि । मैथुनं हि सदा त्यक्तं चतुर्थं ब्राह्मलक्षणम्* ॥ २५६ ॥ सत्यं शौचं दया शौचं शौचमिन्द्रियनिग्रहः । सर्वभूतदया शौचं तपः शौचं च पञ्चमम्* ॥ २५७ ॥ पञ्चलक्षणसंपन्न ईदृशो यो भवेद्द्विजः । तमहं ब्राह्मणं ब्रूयां शेषाः शुद्रा युधिष्ठिर ॥ २५८ ॥ न कुलेन न जात्या च क्रियाभिर्ब्राह्मणो न च । चाण्डालोऽपि हि वृत्तस्थो ब्राह्मणः स युधिष्ठिर ॥ २५९ ॥ अहिंसा ब्रह्मचर्यं च विशुद्धात्मापरिग्रहः । फलेष्वनभिलिप्साथ ब्राह्मणः स्याद्युधिष्ठिर ॥ २६० ॥ एकवर्णमिदं विश्वं पूर्वमासीद्युधिष्ठिर । कर्मक्रियाविशेषेण चातुर्वर्ण्यं प्रतिष्ठितम्* ॥ २६१ ॥ सर्वे वै योनिजा मर्त्याः सर्वे मूत्रपुरीषिणः । एकेन्द्रियक्रियार्थाश्च तस्माच्छीलगुणैर्द्विजाः ॥ २६२ ॥ शूद्रोऽपि शीलसंपन्नो गुणवान् ब्राह्मणो भवेत्* । ब्राह्मणोऽपि क्रियाहीनः शूद्रात्प्रत्यवरो भवेत्* ॥ २६३ ॥ -------------------- वैद्य, प्. २८२ -------------------- पञ्चेन्द्रियार्णवं घोरं यदि शूद्रोऽपि तीर्णवान्* । तस्मै दानं प्रदातव्यमप्रमेयं युधिष्ठिर ॥ २६४ ॥ न जातिर्दृश्यते राजन् गुणाः कल्याणकारकाः । गुणविद्यानिधिर्विद्वान् ब्राह्मणो ब्रह्मचाराणात्* ॥ २६५ ॥ जीवितं यस्य लोकार्थे धर्मार्थे यस्य जीवितम्* । अहोरात्रं चरेन्मुक्तस्तं देवा ब्राह्मणं विदुः ॥ २६६ ॥ परित्यज्य गृहावासं ये स्थिता मोक्षकाङ्क्षिणः । कामेष्वसक्ताः कौन्तेय ब्राह्मणास्ते युधिष्ठिर ॥ २६७ ॥ अहिंसा निर्ममत्वं वा सत्कृत्यस्य विवर्जनम्* । रागद्वेषनिवृत्तिश्च एतद्ब्राह्मणलक्षणम्* ॥ २६८ ॥ क्षमा दया दमो दानं सत्यं शौचं स्मृतिर्घृणा । विद्या विद्यानमाधीत्यमेतद्ब्राह्मणलक्षणम्* ॥ २६९ ॥ गायत्रीमात्रसारोऽपि वरं विप्रः सुयन्त्रितः । नाधित्य चतुरो वेदान् सर्वाशी सर्वविक्रयी ॥ २७० ॥ एकरात्रोषितस्यापि या गतिर्ब्रह्मचारिणः । न तां क्रतुसहस्रेण प्राप्नुवन्ति युधिष्ठिर ॥ २७१ ॥ पारगः सर्ववेदानां सर्वतीर्थाभिषिञ्चनैः । युक्तश्चरति धर्मं यो तं देवा ब्राह्मणं विदुः ॥ २७२ ॥ यदा न कुरुते पापं सर्वभूतेषु दारुणम्* । कायेन मनसा वाचा ब्रह्म संपद्यते तदा ॥ २७३ ॥ यस्य लोकहिते चित्तं मैत्रीयुक्तमिवात्मजे । तेन संपद्यते ब्रह्म तस्मान्मैत्रीं विभावय ॥ २७४ ॥ यस्य लोकेषु कारुण्यं स्वात्मजे इव दुःखिते । तेन संपद्यते ब्रह्म तस्मात्कारुणिको भव ॥ २७५ ॥ यच्चित्तं मुदितं लोके सुखीभूते इवात्मजे । तस्य संजायते ब्रह्म तल्लोके मोदवांश्चर ॥ २७६ ॥ यस्योपेक्षायुतं चित्तं सर्वलोकेष्विवात्मजे । तस्य संजायते ब्रह्म तदुपेक्षायुतश्चर ॥ २७७ ॥ एतद्धि परमं ब्रह्म- विहारं ब्रह्मसाधनम्* । ज्ञात्वा लोकहितार्थेन चर ब्रह्मविहारिणम्* (स्पेयेर्: ब्रह्मविहारणम्*) ॥ २७८ ॥ ततः क्लेशान् विनिर्जित्वा स्वात्मचित्तसमाहितः । ब्रह्मप्रणिधिमालम्ब्य स्थिरीभव समाधिषु ॥ २७९ ॥ -------------------- वैद्य, प्. २८३ -------------------- तथा ब्रह्मगुणाधानाद्ब्रह्मर्षिस्त्वं भवेः किल । पञ्चाभिज्ञपदप्राप्तो ब्रह्मलोकमवाप्नुयाः ॥ २८० ॥ इति श्रुत्वा गुरोर्वाक्य स सुभूतिर्गुणोत्सुकः । तथेति प्रतिसंश्रुत्य ध्यानचर्यामुपाश्रयत्* ॥ २८१ ॥ ततोऽन्यद्वनमाश्रित्य गुरोराज्ञासमाधृतः । सर्वेन्द्रियविनिर्गत्या व्यहरद्ध्यानतत्परः ॥ २८२ ॥ तत्राधिवसतोऽस्यापि क्रोधाग्निः समुदीरितः । कर्माधानबलाभ्यासान्नैव शान्तिमुपाययौ ॥ २८३ ॥ तत्र च वनषण्डे या वसन्ती वनदेवता । सा सुभूतिं महाक्रोधं दृष्ट्वैवं समचिन्तयत्* ॥ २८४ ॥ सुभूतिर्ब्राह्मणो ह्येष सर्ववेदार्थपारगः । सर्वमन्त्रविधानज्ञः सुतीक्ष्णक्रोधबाहुलः ॥ २८५ ॥ कदाचित्कुपितश्चायं क्रोधतः शापवह्निना । धक्ष्यति पर्वतांश्चापि सपक्षिजन्तुमानवान्* ॥ २८६ ॥ समाधिध्यानयुक्तोऽपि नैव चित्तसमाहितः । ज्ञानविज्ञानधर्मेषु विशेषं नाधिगच्छति ॥ २८७ ॥ यदि बौद्धेषु धर्मेषु नियुक्तोऽयं द्विजोत्तमः । क्षिप्रं क्लेशान् विनिर्जित्य बोधिचित्तं च लप्स्यति ॥ २८८ ॥ बोधिचित्ते प्रलब्धे तु तदा लोकहिते चरेत्* । बोधिसत्वो महाविज्ञो भविष्यति न संशयः ॥ २८९ ॥ इति निश्चित्य सा देवी कारुण्यहितमानसा । तं सुभूतिं समागम्य जगादैवं पुरः स्थिता ॥ २९० ॥ शृणु वत्स महाभाग यन्मया हितमुच्यते । धन्योऽसि त्वं महाधीर महर्षिर्द्विजसत्तम ॥ २९१ ॥ किमर्थं वससे चैवमेकाकी निर्जने वने । निश्चित्तः प्रतिसंलीनः काष्ठपाषाणवद्वृथा ॥ २९२ ॥ धर्मार्थकाममोक्षेषु यदि वाञ्छास्ति ते यते । बुद्धस्य वचनं श्रुत्वा चर संबोधिसत्पथे ॥ २९३ ॥ बुद्धो हि भगवान्नाथः सर्वज्ञो लोकनायकः । मुनीन्द्रः श्रीधनः शास्ता सर्वधर्मानुपालकः ॥ २९४ ॥ तस्यैव धर्मता शुद्धा दशकुशलसंमता । षट्च पारमिताः ख्याताः परत्रेह शिवंकराः ॥ २९५ ॥ -------------------- वैद्य, प्. २८४ -------------------- धन्यास्ते भिक्षवश्चैव बुद्धस्योपासकाश्च ये । सर्वसत्वहितार्थेन संबोधिगुणसाधकाः ॥ २९६ ॥ त्वं चापि हि तथा मत्वा स्वपरात्महितार्थतः । त्रिरत्नशरणं गत्वा चर ब्रह्मन् व्रतोत्तमम्* ॥ २९७ ॥ ततः क्लेशगणान् हित्वा ब्रह्मचारिञ्जिनेन्द्रवत्* । साक्षादर्हत्पदं प्राप्य निर्वृतिसुखमाप्नुयाः ॥ २९८ ॥ इति श्रुत्वा सुभूतिः स त्रिरत्नगुणवर्णनाम्* । तथानुमोदितः प्राह तां देवतां पुरः स्थिताम्* ॥ २९९ ॥ तथाहं देवते यामि संबुद्धदर्शनं प्रति । त्रिरत्नसमयं प्राप्तुमिच्चामि त्वत्प्रसादतः ॥ ३०० ॥ यदि तेऽस्ति कृपा देवि मयि मोक्षार्थसाधिनि । संबुद्धं दर्शय क्षिप्रं तद्धर्मेषु निवेशय ॥ ३०१ ॥ त्रिरत्नशरणं गत्वा चरिष्ये तद्व्रतोत्तमम्* । तथाशु कृपया नीत्वा मां विहारे प्रवेशय ॥ ३०२ ॥ इति श्रुत्वा वचस्तस्य सुभूतेर्वनदेवता । विज्ञाय बोधिमार्गेषु चित्तं तथानुमोदितम्* ॥ ३०३ ॥ तत एव समागृह्य सुभूतिं ब्रह्मचारिणम्* । ऋद्ध्या साकाशमार्गेण निनाय जिनमन्दिरम्* ॥ ३०४ ॥ सुभूतिस्तत्र संप्राप्तो ददर्श जिनभास्करम्* । भगवन्तं महासौम्यं लक्षणैः समलंकृतम्* ॥ ३०५ ॥ व्यञ्जनैश्च विराजन्तं व्यामप्रभामहोज्ज्वलम्* । सहस्रकिरणाधिक्यं रत्नाङ्गमिव जङ्गमम्* ॥ ३०६ ॥ समन्ततो महाभद्रं जगन्नाथं मुनीश्वरम्* । सर्वदेवाधिपं सम्यक्- संबोधिगुणसागरम्* ॥ ३०७ ॥ दृष्ट्वैव सहसा चाथ सुभूतेस्तस्य सर्वथा । आधातो यश्च सत्वेषु स प्रतिविगतोऽप्यभूत्* ॥ ३०८ ॥ ततः प्रसादजातोऽसौ सुभूतिर्द्विजसत्तमः । नत्वा पादौ मुनेर्धर्मं श्रोतुं तस्थौ मुदाः पुरः ॥ ३०९ ॥ ततोऽसौ भगवांस्तस्य सुभूतेश्चित्तशुद्धताम्* । ज्ञात्वार्यसत्यधर्माणि दिदेशैवं सविस्तरम् ॥ ३१० ॥ शृणु विप्र महाभाग सर्वसत्वहितार्थतः । यदि ते धर्मवाञ्छास्ति संबोधिपदसाधने ॥ ३११ ॥ -------------------- वैद्य, प्. २८५ -------------------- भावनीया सदा मैत्री सत्वेषेवं यथात्मजे । धर्ममाता यतो मैत्री तन्न त्याज्या कदाचन ॥ ३१२ ॥ करुणा च तथा कार्या सत्वेषपि यथात्मजे । कारुण्याद्वर्धते धर्मस्त कारुण्यं सदा कुरु ॥ ३१३ ॥ मुदितापि सदा साध्या सत्वेषु च यथात्मजे । मुदितां हि समालम्ब्य बोधिपदमवाप्नुयाः ॥ ३१४ ॥ उपेक्षापि सदा धार्या सत्वेष्वपि यथात्मजे । उपेक्षातो लभेत्सौख्यं तदुपेक्षां सदा भज ॥ ३१५ ॥ इमे धर्मा हि चत्वारश्चतुर्वर्गफलाप्तये । तत्प्राप्त्यै साध्यतां यत्नाच्चतुर्ब्रह्मविहारता ॥ ३१६ ॥ इति श्रुत्वार्यधर्माणि स सुभूतिः प्रमोदितः । क्लेशसंघान् विनिर्जित्य बुद्धधर्मं समैक्षत ॥ ३१७ ॥ सत्कायदृष्टिशैलं च विंशतिशिखरोद्गतम्* । विदार्य ज्ञानवज्रेण संसाररतिनिःस्पृहः ॥ ३१८ ॥ स्रोतापत्तिफलं साक्षात्कृत्वा शिष्योऽभवन्मुनेः (स्पेयेर्: शिक्षो) । दृष्टसत्योऽथ संबुद्धं नत्वा चैव कृताञ्जलिः ॥ ३१९ ॥ प्रव्रज्याप्रार्थनां चक्रे स्वाख्यातधर्मसाधने । नमस्ते भगवन्नाथ सर्वसत्वानुपालक ॥ ३२० ॥ अद्याग्रेण जगद्बन्धो यामि ते शरणं सदा । तथा धर्मे च संघेषु संबोधिगुणप्राप्तये ॥ ३२१ ॥ प्रव्रज्यां देहि मे नाथ सद्धर्मेषु निवेशय । ब्रह्मचर्यं चरिष्येऽहं त्वदाज्ञां शिरसा वहन्* ॥ ३२२ ॥ इत्युक्ते भगवान् दृष्ट्वा हस्तेन तच्छिरः स्पृशन्* । एहि भिक्षो चरस्वेति प्रवदंस्तं समग्रहीत्* ॥ ३२३ ॥ एहीति प्रोक्तः स जिनेन मुण्डो पात्री सुसंघाटिपरीतदेहः । सद्यः प्रशान्तेन्द्रिय एव तस्थौ भिक्षुः सुभूतिः सुगतप्रभावात्* ॥ ३२४ ॥ सच्चित्तलब्धः स मुनेः प्रसादात्प्रयुज्यमानो व्यहरत्समाधौ । व्यायच्छमानः खलु बोधिमार्गे संबुद्धधर्मे घटमान एव ॥ ३२५ ॥ सर्वं च संसारमनित्यताहतं मत्वा च संसारगतिं विभङ्गिनीम्* । क्लेशांश्च सर्वान् प्रविहाय संयतः साक्षाच्च सोऽर्हन्नभवन्महर्द्धिकः ॥ ३२६ ॥ सुवीतरागः समलोष्टहेमा आकाशचित्तो धनसारवासी । भिन्दन्नविद्याद्रिमिवाण्डकोशं प्रापदभिज्ञाः प्रतिसंविदश्च ॥ ३२७ ॥ -------------------- वैद्य, प्. २८६ -------------------- सत्कारलाभेषु पराङ्मुकत्वात्सशक्रदेवासुरमानुषाणाम्* । पूज्यश्च मान्यो अभिवादनीयो बभूव स ब्रह्मविहारचारी ॥ ३२८ ॥ अथ सुभूतिरायुष्मान् समन्वाहरदात्मवान्* । कुतश्च्युतोऽहमायातः कुत्र केन च कर्मणा ॥ ३२९ ॥ अपश्यत्स ततश्चेति पञ्चजन्मशतानि च । नागयोनिसमुत्पन्नस्ततश्च्युत्वाहमागतः ॥ ३३० ॥ यद्द्वेषाभ्यासतश्चासं क्रूरो लोकोपघातकः । तेनैव हेतुना चाहं महद्व्यसनमाप्तवान्+ ॥ ३३१ ॥ इदानीं तु तथा चैतं क्रोधं प्रहातुमाचरे । यस्यैव हेतुना लोका भ्रमन्ति नरकेषु ते ॥ ३३२ ॥ तस्मादहं चरिष्यामि निःसङ्गो निरहंकृतिः । सङ्गाद्धि जायते माया मायायां जायते रतिः ॥ ३३३ ॥ रतौ रागोऽभिजायेत रागे मोहः प्रवर्धते । मूढस्य द्रूयते चित्तं स्वेष्टकार्योपघाततः ॥ ३३४ ॥ उपघाताहते चित्ते क्रोधाग्निः परिदीप्यते । क्रोधानलसमुद्दीप्तो दहते स परानपि (स्पेयेर्: स्वपरानपि) ॥ ३३५ ॥ यावत्क्रोधानलोद्दीप्तं स्वचित्तं क्लेशवायुभिः । तावत्किं तपसाप्येतन्निरर्थं दुःखहेतवे ॥ ३३६ ॥ धर्मं सुचरितं पुण्यं दानशीलादिसाधनम्* (स्पेयेर्: धर्मसुचरितं) । कृतं कल्पसहस्रैर्यद्दहेत्क्रोधानलः क्षणात्* ॥ ३३७ ॥ तस्मात्क्रोधाग्निशान्त्यर्थं कृत्वेन्द्रियविनिग्रहम्* । एकान्ते हि वसेयं च विविक्तारण्यगोचरे ॥ ३३८ ॥ यदा च गरुडेनाहं बलादाकृष्य भक्षितः । यतीन् दृष्ट्वानुमोदं च कुर्वन्मृत्युमवाप्तवान्* ॥ ३३९ ॥ तेनैव हेतुना चाद्य द्विजातिकुलसंभवः । सर्वक्लेशान् विनिर्जित्य ब्रह्मचारी भवाम्यहम्* ॥ ३४० ॥ अद्यापि चेत्तथा चात्र वसेयं जनपदाश्रमे(?) । केनचित्क्लेशितश्चाहं भ्रष्टिमेवमवाप्नुयाम्* ॥ ३४१ ॥ इति निश्चित्य चित्तेन सुभूतिर्निरहंकृतिः । विविक्तेऽरण्यवासे स निःसङ्गो न्यवसत्सुधीः ॥ ३४२ ॥ तथैकाकी वसंस्तत्र चतुर्थध्यानसंयुतः । फलमूलाम्बुसंतुष्टो ब्रह्मचारी मुमोद सः ॥ ३४३ ॥ -------------------- वैद्य, प्. २८७ -------------------- अथ सङ्गेऽपि ग्रामेषु देशे जनपदेषु च । भिक्षाहेतोर्विहर्तुं वा स सकामोऽभवद्यदा ॥ ३४४ ॥ तदा पूर्वमसौ दृष्ट्वा गोचरमभ्यलक्षयत्* । अहो देशेषु सर्वत्र भवन्ति निर्गुणा जनाः ॥ ३४५ ॥ मानिनो मदमोहान्धा दुष्टा मत्सरिणः शठाः । तत्कथं संचरिष्येऽत्र भिक्षाहेतोः कुले कुले ॥ ३४६ ॥ दूषयिष्यन्ति चित्तानि केचिद्दृष्ट्वैव मां यतिम्* । यद्धेतोर्जनाश्चैवं(?) भ्रमन्ति दुर्गतिष्वपि ॥ ३४७ ॥ कल्पकोटिसहस्राणि नैव मुक्ताश्च दुर्गतेः । तदहं सर्वसत्वेषु कुन्तपिपीलिकादिषु ॥ ३४८ ॥ दयाचित्तं समालम्ब्य वसेयं ध्यानसंरतः । येनैवं सर्वसतानां भवेच्चित्तं प्रसादितम्* । तमेव धर्ममाध्याय यतिर्मोक्षमवाप्नुयात्* ॥ ३४९ ॥ इति संनह्य चित्तेन स सुभूतिः सुबुद्धिमान्* । विविक्तेऽरण्यदेशेऽपि न्यवसद्ध्यानसंरतः ॥ ३५० ॥ अथ सोऽर्हंस्त्रिमासानामत्ययाद्बोधिमानसः । इत्येवं चिन्तयामास लोकानुग्रहकारणात्* ॥ ३५१ ॥ किमत्र ध्यानसंलीनः करोमि लोकबोधनम्* । कियत्कालं च जीवेयं काष्ठपाषाणवत्स्थितः ॥ ३५२ ॥ केवलं स्वमनस्तुष्ट्यै ध्यानं सौख्यार्थसाधनम्* । सुखं लब्ध्वापि किं सारं सत्वानुग्रहणं विना ॥ ३५३ ॥ तस्माद्ध्यानात्समुत्थाय सत्वानुग्रहकारणात्* । ऋद्धिं प्रदर्श्य संबोधौ स्थापयिष्ये महज्जनान्* ॥ ३५४ ॥ इति निश्चित्य चित्तेन स सुभूतिः समृद्धिमान्* । सत्वानां विनयार्थेन प्रातिहार्यमदर्शयत्* ॥ ३५५ ॥ तदृद्धिनिर्मितान्येव गरुडानां महौजसाम्* । पञ्च कुलशतान्यत्र प्रसस्रिरे समन्ततः ॥ ३५६ ॥ एतांश्च गरुदान् दृष्ट्वा नागाः संत्रसितास्ततः । इतस्ततः समुद्भ्रान्ताः सुभूतेः शरणं ययुः ॥ ३५७ ॥ अथ स्वर्द्धिबलेनैव समाश्वास्य सुभूतिना । सर्वे नागाः सुपर्णेभ्यः परित्राताश्च सर्वतः ॥ ३५८ ॥ -------------------- वैद्य, प्. २८८ -------------------- पुनस्तेन सुपर्णानां विनयार्थं सुभूतिना । स्वर्द्धिवलप्रभावेण महान्नागो विनिर्मितः ॥ ३५९ ॥ तेनाप्येवं सुपर्णानां पञ्च कुलशतानि च । अभिद्रुतानि नागेन समन्तत इतस्ततः ॥ ३६० ॥ तेनैवाभिद्रुताः सर्वे गरुडास्त्रासमागताः । इतस्ततः समुद्भ्रान्ताः सुभूतेः शरणं ययुः ॥ ३६१ ॥ सुभूतिना तथा चैवं सर्वे ते गरुडा अपि । स्वर्द्धिबलप्रभावेण समाश्वास्य सुरक्षिताः ॥ ३६२ ॥ एवमृद्धिप्रभावाणि सुभूतेस्तस्य सद्यतेः । दृष्ट्वा सर्वे जनौघास्ते सहर्षाद्भुतमाययुः ॥ ३६३ ॥ धन्योऽयमृद्धिमान् भिक्षुरर्हन् संबुद्धसेवकः । येनैते रक्षिताः सर्वे नागाश्च गरुडा अपि ॥ ३६४ ॥ इति सोऽर्हन् सुभूतिस्तान् सर्वान् दृष्ट्वा प्रसन्नितान्* । सद्धर्मे विनयार्थेन मैत्रीधर्ममुपादिशत्* ॥ ३६५ ॥ शृणुध्वं मद्वचः सर्वे नागाश्च गरुडास्तथा । यदि मे शरणं याथ रमध्वं मैत्रमानसाः ॥ ३६६ ॥ ये एते सुखिनो लोके सर्वे ते मैत्रचारिणः । ये एते दुःखिनो लोके सर्वे ते क्रोधिनो नराः ॥ ३६७ ॥ तस्मात्क्रोधप्रहाणाय क्रियतां यत्नमादरात्* । यावच्चित्ते स्थितं क्रोधं तावन्मैत्री न भाव्यते ॥ ३६८ ॥ न च द्वेषसमं पापं न च मैत्रीसमं तपः । तस्मान्मैत्री प्रयत्नेन भावनीया सदादरात्* ॥ ३६९ ॥ मनः शमं न गृह्णाति न प्रीतिसुखमश्नुते । न निद्रां न धृतिं याति द्वेषशल्ये हृदि स्थिते ॥ ३७० ॥ न द्विषन्तः क्षयं यान्ति यावज्जीवमपि घ्नतः । क्रोधमेकं तु यो हन्यात्तेन सर्वे द्विषो हताः ॥ ३७१ ॥ विकल्पेन् धनदीप्तेन जन्तुः क्रोधहविर्भुजा । दहत्यात्मानमेवादौ परान् धक्ष्यति वा न वा ॥ ३७२ ॥ जरा रूपवतां क्रोधस्तमश्चक्षुष्मतामपि । बन्धो धर्मार्थकामानां तस्मात्क्रोधो निवार्यताम्* ॥ ३७३ ॥ दिव्यभोगानुभोक्ता च प्रासादे मणिमण्डिते । सुप्तोऽपि न लभेन्निद्रां क्रोधपर्याकुलो नरः ॥ ३७४ ॥ -------------------- वैद्य, प्. २८९ -------------------- ऋषिभिर्योगिभिश्चाम्बु- फलमूलादितोषितैः । दग्धा जनपदाश्चापि क्रोधाच्छापहुताशनैः ॥ ३७५ ॥ यच्छांकरो महारौद्रो निर्घृणो दृक्प्रभानलैः । ददाह ब्रह्मजं कामं तच्च क्रोधप्रभावतः ॥ ३७६ ॥ यद्राजानो विरुद्धाश्च युद्धं कृत्वा परस्परम्* । मृत्युं यान्ति जनैः सार्धं तच्चापि क्रोधभावतः ॥ ३७७ ॥ सुहृदो यत्सहायांश्च स्नेहविश्रम्भचारिणः । सत्यधर्मावनादृत्य घ्नन्ति क्रोधादनार्यकाः ॥ ३७८ ॥ साधवो ये महात्मानः संवृत्तिधर्मचारिणः । तानपि संमुखं घ्नन्ति दुर्वाग्बाणै रुषा खलाः ॥ ३७९ ॥ मातरं जन्मदात्रीं च धात्रीर्वा स्नेहपालिनीः । स्वात्मजान्निर्दया घ्नन्ति तच्च क्रोधप्रभावतः ॥ ३८० ॥ स्वात्मजाः पितरं यच्च स्नेहसत्कारपालकम्* । अविगणय्य पापानि घ्नन्ति क्रोधप्रभावतः ॥ ३८१ ॥ गुरून् सद्धर्मशास्तॄंश्च कल्याणाध्वावतारकान्* । अनादृत्य भयं पापा घ्नन्ति क्रोधोद्धता नराः ॥ ३८२ ॥ यत्पिता स्वात्मजं पुत्रं पुत्रीं वा बालकामपि । निर्दयस्ताडयन् हन्ति तस्मात्क्रोधो महारिपुः ॥ ३८३ ॥ भ्रातरः सहजाश्चापि रोषिता भेदिताशयाः । विगृह्णन्ति महाक्रुद्धास्तस्मात्क्रोधो महारिपुः ॥ ३८४ ॥ यत्स्वयं परिणीतापि भार्या धर्मानुचारिणी । ताडिता त्यज्यते भर्त्रा क्रोधात्ततो महद्भयं* ॥ ३८५ ॥ प्रमदापि च भर्तारं स्वामिनं स्नेहकारिणम्* । कुलधर्ममनादृत्य जहाति क्रोधतस्तथा ॥ ३८६ ॥ ये शान्ता यतयो धीराश्चतुर्ब्रह्मविहारिणः । तानपि संमुखं दुष्टास्ताडयन्ति रुषान्विताः ॥ ३८७ ॥ शान्तात्मा हितकृद्योगी क्षान्तिवादी वने वसन्* । सोऽपि शकलितो राज्ञा स्वयमेवासिना रुषा ॥ ३८८ ॥ दानवा घ्नन्ति देवांश्च देवाश्च घ्नन्ति दानवान्* । अन्योन्यं विग्रहं कृत्वा प्रमथ्नन्ति रुषाकुलाः ॥ ३८९ ॥ -------------------- वैद्य, प्. २९० -------------------- आत्मानमात्मना हत्वा विषशस्त्रानलादिभिः । वसन्ति नरके घोरे तेऽपि सर्वे रुषान्विताः ॥ ३९० ॥ ये ये दुष्टाशयाः क्रूराः स्वपरार्थाभिघातकाः । पतन्ति नरके घोरे तेऽपि सर्वे रुषाश्रयात्* ॥ ३९१ ॥ क्रोधेन भिद्यते लोकः क्रोधेन परिभाष्यते । क्रोधेन हिंस्यते जन्तुस्तस्मात्क्रोधो महारिपुः ॥ ३९२ ॥ क्रोधेनैव महारुद्रश्चिच्छेद ब्रह्मणः शिरः । तेनैव पातकेनैव भ्रान्तचित्तोऽभवच्छिवः ॥ ३९३ ॥ क्रोधेनैव तथा रुद्रः सुरज्येष्ठात्मजस्य च । श्वशुरस्यापि दक्षस्य च्छेदयामास मस्तकम्* । तत्पापकर्मणा ह्येव शिवोऽप्यभूद्दिगम्बरः ॥ ३९४ ॥ क्रोधेन ध्वंस्यते धर्मः क्रोधेन विलयं गतः । क्रोधेन त्यज्यते सत्यं तस्मात्क्रोधो महारिपुः ॥ ३९५ ॥ यानि महान्ति पापानि महादुःखभयानि च । तानि सर्वाणि दुष्टानि क्रोधचित्तोद्भवानि च ॥ ३९६ ॥ तत्क्रोधादपरो वैरः पातकोऽन्यो न विद्यते । तस्मात्क्रोधविनाशाय प्रयतध्वं समाहिताः ॥ ३९७ ॥ येन क्रोधो जितो वैरो ज्ञानवज्रेण साधुना । तेन सर्वे जिता दुष्टा शत्रवो दुःखदायकाः ॥ ३९८ ॥ यस्य चित्ते दया नास्ति क्रोधानलविदाहिनि । स साधुपुरुषश्चापि नैव विश्वस्यते जनैः ॥ ३९९ ॥ क्रोधकलङ्कितो यो हि सद्गुणालंकृतो यदि । स विद्वानपि नासेव्यो यथा वृक्षोऽहिवेष्टितः ॥ ४०० ॥ दानशीलादिसद्धर्म- वृत्तैश्च यदि भूषितः । क्रोधवान्न विभात्येव अहिपूर्णो यथा ह्रदः ॥ ४०१ ॥ सर्वविद्याकलाज्ञोऽपि समृद्धः शिल्पवानपि । अस्त्रमन्त्राद्यभिज्ञोऽपि क्रोधवान्नैव सेव्यताम्* ॥ ४०२ ॥ क्रोधवान् हस्यते लोकैः क्रोधवान् वध्यते जनैः । क्रोधवान् हीयते मित्रैः क्रोधवान् परिभूयते ॥ ४०३ ॥ क्रोधो धर्मविरुद्धत्वाच्चतुर्वर्गविनाशकृत्* । तस्मात्क्रोधविनाशाय प्रयतध्वं समाहिताः ॥ ४०४ ॥ -------------------- वैद्य, प्. २९१ -------------------- क्रोधेन भिद्यते चित्तं भिन्नचित्तो विकीर्यते । विकीर्णः क्लिश्यते मारैः क्लेशितोऽधैर्यतां व्रजेत् ॥ ४०५ ॥ अधैर्यत्वाद्भवेन्मूढो मूढो दुष्टवशं व्रजेत्* । दुष्टमित्रोपदेशेन कुपथे चरते कुधीः ॥ ४०६ ॥ असन्मार्गो समारूढो विपरीतं समाचरेत्* । विपरीतानुबोधेन भवेदार्यापवादकः ॥ ४०७ ॥ सद्धर्मादीन् प्रतिक्षिप्य प्रतिमादीन् विघातयेत्* । इत्यादिपातकं कृत्वा पञ्चानन्तर्यमाप्नुयात्* ॥ ४०८ ॥ ततश्च नरकान् यायाद्रौरवादीन् समन्ततः । नरकान्नरकं गत्वा महादुःखमवाप्नुयात्* ॥ ४०९ ॥ इत्थं दुःखानुवेदी स नरकेषु सदा वसेत्* । नरकेभ्यस्तमुद्धर्तुं जिनोऽपि नैव शक्नुयात्* ॥ ४१० ॥ यावन्ति पापदुःखानि दुर्वृत्तिप्रभवानि हि । तानि सर्वाणि जानीध्वं क्रोधचित्तोद्भवानि हि ॥ ४११ ॥ सर्वेषां पातकानां तत्क्रोधं मूलं जगुर्जिनाः । धर्माणां तु क्षमा मूलं यतः सौख्यं प्रवर्तते ॥ ४१२ ॥ इति क्रोधं विनिर्जित्य क्षमैव साध्यतां सदा । मैत्रीचित्तं समालम्ब्य विहरध्वं यथासुखं ॥ ४१३ ॥ आत्मनीव दया स्याच्चेत्स्वजने वा यथा जने । कस्य नाम भवेच्चित्तमधर्मप्रणयाशिवम्* ॥ ४१४ ॥ दयावियोगतो लोकः परमामेति विक्रियाम्* । मनोवाक्कायविस्पन्दैः स्वजनेऽपि यथा जने ॥ ४१५ ॥ धर्मार्थी न त्यजेदस्माद्दयामिष्टफलोदयाम्* । सुवृष्टिरिव शस्यानि गुणान् सा हि प्रसूयते ॥ ४१६ ॥ दयाक्रान्तं चित्तं न भवति परद्रोहरभसं शुचौ तस्मिन् वाणी व्रजति विकृतं नैव च तनुः । विवृद्धा तस्यैवं परहितरुचिर्मैत्र्यनुगता प्रदानक्षान्त्यादीञ्जनयति गुणान् कीर्त्यनुसृतान्* ॥ ४१७ ॥ दयालुर्नोद्वेगं जनयति परेषामुपशमाद्दयालुर्विश्वास्यो भवति जगतां बान्धव इव । न संरम्भक्षोभः प्रभवति दयाधीरहृदये न कोपाग्निश्चित्ते ज्वलयति हि दयातोयशिशिरे ॥ ४१८ ॥ -------------------- वैद्य, प्. २९२ -------------------- संक्षेपेण दयामतः स्थिरतया पश्यन्ति धर्मं बुधाः को नामास्ति गुणः स साधुदयितो यो नानुयातो दयाम्* । तस्मात्पुत्र इवात्मनीव च दयां नीत्वा प्रकर्षं जने सन्मैत्र्या विहरन्त एव मुदितां प्रोद्भावयध्वं सदा ॥ ४१९ ॥ दयालोर्हृदये जाता मैत्री सद्धर्मसाधनी । तस्माद्दयां हृदि स्थाप्य मैत्री लोके प्रसार्यताम्* ॥ ४२० ॥ मैत्रीमान् पुरुषः साधुर्देवैरपि प्रशस्यते । विश्वस्यते सदा सद्भिर्बान्धवैः स्वजनैर्जनैः ॥ ४२१ ॥ मैत्रीमान् सज्जनो लोके निर्गुणोऽपि प्रशोभते । मैत्रीमान् सन्मतिर्बन्धुर्लोकानां जगतामपि ॥ ४२२ ॥ मैत्रीमाञ्जगतामिष्टो मैत्रीमाञ्जगतां सुहृत्* । मैत्रीमाञ्जगतां मित्रो मैत्रीमाञ्जगतां सखा ॥ ४२३ ॥ मैत्रीमान् पुरुषः श्रीमान् यत्र यत्र प्रगच्छति । तत्र तत्रैव सर्वत्र पूज्यते स्वजनैर्यथा ॥ ४२४ ॥ बुद्धो हि जगतां बन्धुस्त्रैलोक्याधिपनायकः । सोऽपि शास्ता विभात्येवं मैत्र्या संस्कारयञ्जगत्* ॥ ४२५ ॥ ये ये सत्वा महाभिज्ञाः सर्वलोकानुकम्पकाः । पूज्यन्ते सत्वलोकैश्च तेऽपि मैत्र्याः प्रभावतः ॥ ४२६ ॥ बोधिसत्वा महासत्वा बोधिसंभारसाधकाः । सर्वसत्वहितार्थस्थास्तेऽपि मैत्रीप्रचारिणः ॥ ४२७ ॥ यन्माता दुःखिताप्येवमा गर्भाद्बालकं सुतम्* । पाति स्नेहोपचारेण तच्च मैत्रीप्रभावतः ॥ ४२८ ॥ यत्पिता बालकं पुत्रमभुञ्जानः स्वयं सुखम्* । पाति स्नेहोपचारेण तच्च मैत्रीप्रभावतः ॥ ४२९ ॥ यच्च राजा प्रजाः पाति स्वयं वीरव्रतं दधत्* । दुर्जनान्मर्दयन् सर्वान् तच्च मैत्रीप्रभावतः ॥ ४३० ॥ यच्च विद्वान् गुरुः शिष्यान् सद्धर्मार्थोपदर्शयन्* । प्रबोध्य बालकाञ्छास्ति तच्च मैत्रीप्रभावतः ॥ ४३१ ॥ यच्च वीरा रणे स्थित्वा सहन्त्यरीन् प्रहारिणः । प्ररक्षन्ति स्वपक्षांश्च तच्च मैत्रीप्रभावतः ॥ ४३२ ॥ -------------------- वैद्य, प्. २९३ -------------------- सार्थवाहोऽम्बुधिं गत्वा यत्नै रत्नानि साधयन्* । सत्वान् पाति ददद्दानं तच्च मैत्रीप्रभावतः ॥ ४३३ ॥ यच्च भार्यानुयात्येव मृतेन स्वामिना सह । अनपेक्ष्य स्वजीवेऽपि तच्च मैत्रीप्रभावतः ॥ ४३४ ॥ पितृभ्यो मृतकेभ्योऽपि ददाति पिण्डमादरात्* । अनुशोचन्मुहुश्चापि तच्च मैत्रीप्रभावतः ॥ ४३५ ॥ तिर्यग्योन्युद्भवाश्चापि पशवः क्रूरमानसाः । स्वसुतान् स्नेहतः पान्ति तच्च मैत्रीप्रभावतः ॥ ४३६ ॥ कृम्याधिकीटयश्चापि क्रूरा गृध्रादिपक्षिणः । स्वबन्धून् स्नेहतः पान्ति तद्धि मैत्रीप्रभावतः ॥ ४३७ ॥ चण्डाला निर्घृणा रौद्राः सत्वहिंसारताः खलाः । बान्धवांस्तेऽपि रक्षन्ति तद्धि मैत्रीप्रभावतः ॥ ४३८ ॥ यद्ददन्ति महासत्वाः स्वदेहेऽप्यनपेक्षिताः । अर्थिभ्यः प्रार्थितं वस्तु तद्धि मैत्रीप्रभावतः ॥ ४३९ ॥ एवमन्येऽपि ये लोका भोजयन्तः परस्परम्* । पालयन्ति महास्नेहात्तच्च मैत्रीप्रभावतः ॥ ४४० ॥ मैत्री हि जगतां माता पिता शास्ता गुरुः प्रभुः । पतिर्मित्रः सुहृद्बन्धुस्तस्मान्मैत्री प्रसाध्यताम्+ ॥ ४४१ ॥ मैत्रीं विना न जायेत करुणा स्वात्मजेऽपि च । न मुदिता न चोपेक्षा तस्मान्मैत्री प्रधीयताम्* ॥ ४४२ ॥ एता ब्रह्मविहाराख्याः संबोधिपदसाधकाः । त्रैलोक्यभर्तृका नाथाः सर्वसत्वानुपालकाः ॥ ४४३ ॥ एता विना न शोभन्ति महाभिज्ञास्तपस्विनः । कल्पकोटिसहस्राणि तप्त्वापि दुष्करं तपः ॥ ४४४ ॥ एता हि परमाचार्याः सद्धर्मगुणदायकाः । एता विना न सिध्यन्ति सर्वपारमितारताः ॥ ४४५ ॥ यावन्ति सुखभोग्यानि पुण्यसिद्धानि सर्वथा । तानि सर्वाणि जानीत मैत्रीमूलोद्भवानि हि ॥ ४४६ ॥ तस्मात्सर्वप्रयत्नेन क्रोधं जित्वांवरैरपि । मैत्रीं चित्ते समाधाय कुरुध्वं प्राणिषु क्षमाम्* ॥ ४४७ ॥ -------------------- वैद्य, प्. २९४ -------------------- ततो धर्मप्रभावेण यूयं सर्वेऽनुमोदिताः । यावज्जीवं सुखं भुक्त्वा सौखावतीं गमिष्यथ ॥ ४४८ ॥ इति श्रुत्वा वचस्तस्य नागाश्च गरुडा यतेः । वैरानुशयतां त्यक्त्वा बभूवुर्मैत्रिचारिणः ॥ ४४९ ॥ इति दृष्ट्वा च ते सत्वा विस्मयहर्षसंयुताः । धर्मानुमोदनं कृत्वा बभूवुर्मैत्रिचारिणः ॥ ४५० ॥ एवं सुभूतिना तेन नागाश्च गरुडाश्च ते । मैत्रीधर्मोपदेशेन विनीता धर्मसत्पथे ॥ ४५१ ॥ अथ श्रीभगवान् बुद्धः सर्वदर्शी विनायकः । भिक्षूनामन्त्रयामास संवृतिचारकानपि ॥ ४५२ ॥ पश्यध्वं भिक्षवो यूयं सुभूतिं ब्रह्मचारिणम्* । येनैते गरुडा नागा विनीता धर्मसत्पथे ॥ ४५३ ॥ एष मे श्रावकाणां च भिक्षूणां ब्रह्मचारिणाम्* । सुभूतिः कुलपुत्रोऽयमग्रोऽरणाविहारिणाम्* ॥ ४५४ ॥ इति तेन मुनीन्द्रेण सुभूतिरेव सद्यतिः । निर्दिष्टः सर्वभिक्षूणामग्रोऽरणाविहारिणाम्* ॥ ४५५ ॥ अथ ते भिक्षवः सर्वे संशयोद्धतमानसाः । च्छेतारं संशयानां तं पप्रच्छुरेवमीश्वरम्* ॥ ४५६ ॥ कानि भदन्त कर्माणि कृतान्यपि सुभूतिना । निर्दिष्टो भवता येन ज्येष्ठोऽरणाविहारिणाम्* ॥ ४५७ ॥ इति तैर्भिक्षुभिः पृष्टो भगवानित्युदाहरत्* । शृणुध्वं भिक्षवः सर्वे तत्कृतं यत्सुभूतिना ॥ ४५८ ॥ सुभूतिना कृतं कर्म तत्कोऽन्यः परिभोक्ष्यते । येनैव यत्कृतं कर्म तेनैव तत्प्रभुज्यते ॥ ४५९ ॥ भूतपूर्वमतीतेऽध्वन्यस्मिन्* कल्पे च भद्रके । वर्षसहस्रमायुष्च विंशतिगुणितं यदा ॥ ४६० ॥ तस्मिंश्च समये बुद्धः काश्यपो नाम नायकः । विद्याचरणसंपन्नः सुगतो लोकविज्जिनः ॥ ४६१ ॥ शास्ता देवमनुष्याणां पुरुषदम्यसारथिः । सर्वज्ञो भगवान्नाथः षडभिज्ञो मुनीश्वरः ॥ ४६२ ॥ -------------------- वैद्य, प्. २९५ -------------------- वाराणसीमुपाश्रित्य मृगदावे जिनाश्रमे । व्यहरत्सर्वसत्वानां सद्धर्मं समुपादिशन्* ॥ ४६३ ॥ तस्यैव शासने शुद्धे स्वाख्याते धर्मवैनये । अयं प्रव्रजितो भूत्वा महादाताप्यभूत्तदा ॥ ४६४ ॥ दश वर्षसहस्राणि ब्रह्मचर्यमपालयत्* । प्रणिधानं तथा चायमकरोद्ब्रह्मवित्तमः ॥ ४६५ ॥ अनेन कुशलेनाहं भवेयं बौद्धसद्यतिः । योऽसौ भगवतानेन काश्यपेन सुतायिना ॥ ४६६ ॥ माणव उत्तरो नाम व्याकृत इति बोधये । माणव त्वं प्रजानां तु यदा वर्षशतायुषि ॥ ४६७ ॥ शाक्यमुनिर्महाबुद्धः सर्वज्ञो लोकनायकः । संबुद्धो भगावन्नाथस्तथागतो भविष्यसि ॥ ४६८ ॥ अस्यैव शसने चाहं भवेयं श्रावकोत्तमः । अर्हतामग्रसंप्राप्तो भूत्वारणाविहारिणाम्* ॥ ४६९ ॥ तेनैव कर्मणा चाद्य प्रविष्टो मम शासने । अर्हतां ज्येष्ठतां प्राप्तस्तथारणाविहारिणाम्* ॥ ४७० ॥ कानि पुनरनेनैव कर्माणि प्रकृतान्यपि । येनैव नागयोनौ च समुत्पन्नो बभूव सः ॥ ४७१ ॥ यत्तः क्लेशाप्रहीणत्वादुद्भ्रान्तेन्द्रियचेतसा (स्पेयेर्: यतः क्लेशाश्) । शैक्षाशैक्षगाणानां च भिक्षूणां ब्रह्मचारिणाम्* ॥ ४७२ ॥ अनेन रुष्टचित्तेन परुषाबद्धचेतसा । चित्तानि संप्रदूष्यैव विकलानि कृतान्यपि ॥ ४७३ ॥ सदाशीविषवादेन विक्रुश्याभाणि सांघिके । तेनैव पातकेनैवं पञ्च जन्मशतान्यपि ॥ ४७४ ॥ नागयोनिसमुत्पन्नो बभूवायं महाविषः । यच्चानेन पुनस्तत्र प्रव्रज्य बुद्धशासने ॥ ४७५ ॥ सदा दानानि संदत्वा ब्रह्मचर्यं च पालितम्* । तेनेदानीं तथार्हत्वं प्राप्य साक्षात्कृतं मुदा ॥ ४७६ ॥ अरणाविहारिणां चाग्रो निर्दिष्टोऽयं मया खलु । इति हि भिक्षवो यूयं जानीध्वं कर्मताफलम्* ॥ ४७७ ॥ -------------------- वैद्य, प्. २९६ -------------------- येनैव यत्कृतं कर्म तस्यैव तत्फलं ध्रुवम्* । न नश्यन्ति हि कर्माणि कल्पकोटिशतैरपि । सामग्रीं प्राप्य कालं च फलन्ति खलु देहिनां ॥ ४७८ ॥ अभुक्तं क्षीयते नैव कर्म क्वापि कथंचन । नाग्निभिर्दह्यते कर्म वायुभिर्नापि शुष्यति । उदकैः क्लिद्यते नैव भूमिष्वपि न नश्यति ॥ ४७९ ॥ अन्यथापि च नो भूता सर्वथा कर्मणां गतिः । शुक्लानां शुक्लता नित्यं कृष्णानां कृष्णता खलु । मिश्रतैव तु मिश्राणां षड्गतौ भुज्यते ध्रुवम्* ॥ ४८० ॥ तस्मादपास्य कृष्णानि कर्माणि मिश्रितानि च । यतितव्यं शुभेष्वेव कर्मसु सुखवाञ्छिभिः ॥ ४८१ ॥ तथेति भिक्षवः श्रुत्वा ते च लोकाः प्रभाषिताः । बुद्धवचोमृतं पीत्वा ननन्दुरनुमोदिताः ॥ ४८२ ॥ एवमेतन्महाराज श्रुतं मे गुरुभाषितम्* । इति मत्वा त्वया राजन् परात्मशुभवाञ्छिना ॥ ४८३ ॥ क्रोधारिं यत्नतो जित्वा क्षमाधर्मपुरस्कृतः । मैत्रीं भावय सत्वेषु स्वात्मजेषु यथा सदा ॥ ४८४ ॥ इति सुभाषितं श्रुत्वा उपगुप्तस्य सद्गुरोः । तथेति नृपराजः स ननन्द ससभाजनः ॥ ४८५ ॥ ये मैत्रीभावधर्मं कलिमतिहरणं तत्सुभूतेश्चरित्रं शृण्वन्ति श्रावयन्ति त्रिभुवनसुखदं संनिपात्य जनौघान्* । ते लोका मैत्रचित्तास्त्रिभुवनसुखदाः क्षान्तिसौरभ्ययुक्ताः याताः सौखावतीं तेऽप्यमितरुचिमुनेर्धर्ममाराधयन्ति ॥ ४८६ ॥