भदन्तगुणप्रभविरचितं [मूलसर्वास्तिवादीयं] विनयसूत्रम् । *१. प्रव्रज्यावस्तु **(१,१) श्रामणेरत्वोपनयम् [१ १] । । नमो बुद्धाय । १.१ । अथ निर्याणवृत्तम् । १.२ । सर्वस्मिन्* सन्निपतिते संघे कृतेदं वेषं निपत्य प्रगृहीताञ्जलिमुत्कुटुस्थं वृद्धान्तं याचिवन्तं त्रिर्ज्ञप्तिचतुर्थेन कर्मणा सह प्रव्रज्योपसंपदावुपनयेयुरिति पुराकल्पः । १.३ । निश्रितस्य कञ्चिद्भिक्षुं तत्रोपाध्यायतया प्रव्रज्योपसम्पदौ । १.४ । पृष्ट्वान्तरायिकं परिशुद्धाय पूर्वोपाध्यायत्वेनावकाशं [१ २] कुर्यात्* । १.५ । नानुपपन्नस्य पूर्वमुपासकत्वश्रामणेरत्वभिक्षुत्वानामुत्तरम् । १.६ शरणगत्यभ्युपगमवचनोपक्रममुपासकत्वश्रामणेरत्वाभ्युपगमवचनं कुर्वीत । १.७ । अनन्तरमस्य शिक्षोत्कीर्तनमभ्युपगमरूपेण । १.८ । स्वयमुपासकतामुपनीयारोचकाय संघस्यार्पयेत्* भिक्षवे । १.९ । कञ्चित्परिशुद्ध्य तीति पृष्ट्वा शुद्धमा[१ ३]रोचयेत्* । १.१० । सर्वसन्निपातेन वा संनिषण्णेऽनुलयनं वा । १.११ । सचेत्* परिशुद्ध्यतीति सर्वे ब्रूयुः । १.१२ । उपाध्यायं याचेत्* । १.१३ । केशस्मश्र्ववतारयेताचूडम् । १.१४ । अवतार्यतां चूडेति पृष्टेनानुज्ञाते तां* । १.१५ । स्नायात्* । १.१६ । उपाध्यायः काषायाणि वस्त्राणि दद्यात्* । १.१७ । पादयोर्निपत्य प्रतिगृह्नीत्* । १.१८ । उपाध्यायः प्रावृणुया[१ ४]त्* ॥ १.१९ व्यञ्जनं प्रत्येवेक्षेतासंचेतितम् ॥ १.२० प्रव्रज्यामुपनयेत्* शरणगमनोपक्रमम् । १.२१ । याज्ञानन्तरं वा । १.२२ । श्रमणेरत्वोपनायिने र्ययेत्* भिक्षवे । १.२३ । कञ्चित्परिशुद्ध्यतीति पृष्ट्वा शुद्धमुपनयेत्* । १.२४ । स आचार्यः । १.२५ । रहो नुशासककर्मकारकनिःश्रयदायकपाठकाश्च । १.२६ । वृत्ते र्थे भूतत्वम् । १.२७ । अभ्युपगतावु[१ ५]पाध्यायस्य याज्ञायां तदुद्भूति । १.२८ । आवृत्तौ तृतीये ङ्शे न्त्यायां वृत्तत्वम् । १.२९ । तद्यथा परोत्कीर्तनकाले श्रामणेरत्वस्य । १.३० । पश्चिमे त्रोपाध्यायत्वस्य । १.३१ । पर्यन्तो निःश्रेयदानस्यैकरात्रं निःश्रयत्वेन प्रत्युपस्थानम् । १.३२ । पाठस्य त्रिरेकगाथापरिवर्तनम् । १.३३ । नापाठनाभिप्रायेणोच्चारणे पाठत्वम् । १.३४ । नान्यथैनावुपपदयेत्* ॥ १.३५ [१ ६] नैवमन्यम् । १.३६ । नानुक्त्वा सहितमर्थहेतोर्नाम गृह्नामीत्युपाध्यायनाम गृह्नीयात्* ॥ श्रामणेरत्वोपनयविधिः ॥ **(१,२) उपसम्पद्विधिः १.३७ ॥ संघादुपसं*पत्* । १.३८ । उपाध्यायतायामुन्मुखीभूतः कर्मकारकमधीच्छेद्रहो नुशासकञ्च भिक्षुम् । १.३९ । उपाध्ययं याचेत्* । १.४० । स स्वयमेनं त्रिचीवरमधिष्ठापयेत्* । १.४१ । पात्रञ्चोपदर्श्य मोनम[२ १] । ।धिकं पाण्डपेतीति संघे । १.४२ । सुपात्रमित्यनेवं ब्रूयुः सर्वे । १.४३ । अपकसिते क इत्याख्याप्य रह नुशासकमुत्साह्य कर्मकारकः संघं येनमनुज्ञा..पयेत्* । १.४४ । शृणु त्वमिति रहसमनुशष्यात्* । १.४५ । तिष्ठ मा शब्दिता गमिष्यसीत्येनमुक्त्वा समनुशिष्ट इति संघाय परिशुद्धिं निवेद्य किमागच्छत्वित्यागमनं पृच्छेत्* । १.४६ । सचेत्* परिशुद्ध्यतीति सर्वे ब्रूयुः १.४७ [२ २] उपसंपदं कर्मकारको याचयेत । १.४८ । ज्ञापयित्वा संघान्तरायिकं पृच्छेत । १.४९ । उपसंपदमुपनयेत । १.५० । छाय वेदयेतानन्तरं मिताम् । १.५१ । संकुना चतुरङ्गुलेनैतत्साधु । १.५२ । पुरुषत्वेनास्यानुव्यवहारः । १.५३ । अहोरात्राङ्शपूर्वाह्नादिकम् । १.५४ । समयञ्च पञ्चैते । १.५५ । हेमन्तितो ग्रैस्मिको वार्षिको मितवार्षिक्. दीर्घवार्षिक इति । १.५६ । चातुर्मासिकौ पू[२ ३]र्वौ । १.५७ । मासः परः । १.५८ । ततो होरात्रतः । १.५९ । तदूनमन्त्यो मासत्रयम् । १.६० । निःश्रयानारोचयेत्* । १.६१ । [प]तनीयान् धर्मान् । १.६२ । श्रमणकारकांश्च । १.६३ । स[म्*]पन्नतां सम्यग्तया च प्रेप्सितस्योत्ग्राह्य शीलसामान्यगततारागणे नियुञ्जीत्* । १.६४ । यात्रिकसम्बन्धप्रतिबिम्बने । १.६५ । विनीतसम्वासतायाम् । १.६६ । प्रयोजनानुष्ठाने । । १.६७ । [२ ४] संप[त्स]मानतामनाख्यातसमात्तपरिज्ञानस्याचक्षीत्* । १.६८ । आदरे नियुञ्जीत्* । १.६९ । सोपायाख्यानञ्च संपादने । । उपसंपद्विधिः ॥ (क) निःश्रयगतम् । १.७० ॥ नानवलोक्य निःश्रयं निःश्रितः कारणीयं कुर्यात्* । १.७१ । मुक्त्वोच्चारप्रस्रावम् । १.७२ । दन्तकाष्ठविसर्जनं सोपविचारे विहारे चेत्यमभिवन्दनम् । १.७३ । एकान्नं पञ्चाशव्यामपर्यन्ताद्विहारतो गमनं [२ ५] पात्रचीवरकर्मणो ग्लानोपस्थाने कोकृत्यप्रतिविनोदने पापकदृष्टिगतप्रतिनिःसर्गे तीव्रमौत्सुग्यमापद्येताहोवताहं कुर्यां कारयेयं वेति । १.७४ । प्रणिधातुकामे संघे हो वत संघो स्येदं प्रणिधिकर्म न कुर्यादिति । १.७५ । कृते वसारयेदिति । १.७६ । परिवासमूलपरिवासमानाप्यमूलमानाप्यावर्तणार्थिनि निःश्रये हो वत संघस्य परिवासादि चतुष्कं दद्यादा[२ ६]बृहेतिति । १.७७ । सो प्येतदस्मै कुर्यादुत्सृज्यावलोकनम् । १.७८ । नोनदशवर्ष उपसंपदोपाध्यायत्वनिःश्रयत्वानिःश्रितवासान् कुर्यात्* । १.७९ । नासमन्विते केनचिदनन्तरेभ्यः समायोगेन । १.८० । ग्लानोपस्थानकौकृत्यप्रतिविनोदनपापकदृष्टिगतप्रतिनिःसर्गानभिरतिस्थानप्रमीलनानां करणका[र]णे सीमार्थम् । १.८१ । पा.. .ऐ[२ १]क्षत्वादपञ्चके सशीलवन्ता बाहुश्रुत्यम् । १.८२ । पिटकाभिज्ञत्वम् । १.८३ । ग्राहण एषां प्रतिबलत्वम् । १.८४ । अधिशीलचित्तप्रज्ञां शिक्षन्ता । १.८५ । प्रतिबलत्वं वा शिक्षणायाम् । १.८६ । एवमध्याचारविनयप्रातिमोक्षम् । १.८७ । श्रद्धाशीलश्रुतत्यागप्रज्ञासम्पन्नत्वम् । १.८८ । शीलसमाधिप्रज्ञाविमुग्ति(त)ज्ञानदर्शणे । १.८९ । सारब्धवीर्यत्वप्राज्ञत्वं च । १.९० । स्मृतिमत्त्वम् । १.९१ । प्रतिसंलीलनत्वम् । १.९२ । समाहितत्वम् ॥ १.९३ [२ २] शैक्षत्. म् । १.९४ । अशैक्षता । १.९५ । उत्पत्तिप्रज्ञप्त्यनुप्रज्ञापतिप्रतिक्षेपाभ्यनुज्ञाभिज्ञत्वम् । १.९६ । आन्तरायिकानान्तरायिकाभिज्ञात्वाख्यापितानुशासकत्वम् । १.९७ । सह ग्राहणप्रतिबलत्वेन निःश्रयस्य्[आ]निःश्रयस्य वा । १.९८ । आपत्येनापत्तिगुरुलघुताभिज्ञत्वप्रवृत्तप्रातिमोक्षविस्तरत्वम् । १.९९ । वृद्धाभावे नवकं निश्रयेत्* । १.१०० । सामीचीं* केवल हापयेत । १.१०१ । चरेद[२ ३]निःश्रितः पञ्चवर्षः पश्चिमसमयोगेन समन्वितजनपदचारिकम् । १.१०२ । नान्यस्त्रैविद्यो पि । । निःश्रयगतम् ॥ (ख) संग्राह्यगतम् । १.१०३ । मासि तीर्थ्य इति प्रव्रज्यार्थमुपसंक्रान्तं पृच्छेदुपसम्पादकाश्च । १.१०४ । नानाराधितचित्तमुत्सृज्य शाक्यमाग्नेयञ्च जटिलं तीर्थ्यं प्रव्रजयेयुरुपसंपादयेयुर्वा कृते तत्तीर्थ्यानाराधितादितीर्थ्यान्त[र]वर्जम्* । १.१०५ । रत्नानां वर्णस्य [२ ४] तीर्थ्यानामवर्णस्य भूतस्योक्तावकुप्यत्वमाराधितचित्तता । १.१०६ । तदर्थमतद्वन् तमेनं कृतोपासकतान्तं चतुरो मासान् परिवासयेद्* संघो दत्वा परिवासं कर्मणा । १.१०७ । संघात्तस्य भक्तम् । १.१०८ । उपाध्यायाच्चीवरम् । १.१०९ । कर्तृत्वञ्च कर्मादानस्य । १.११० । परिपूर्णपञ्चदशवर्षो सीति प्रव्रज्यर्थमुपसंक्रान्तं पृच्छेत्* । १.१११ । नोनमसमर्थं काकोड्डायने समर्थं वा [२ ५] सप्तवर्षं प्रव्रजयेयुः । १.११२ । नैकत ऊर्धं श्रमणोद्देशमुपस्थापयेत्* । १.११३ । अरुचिश्चेदनेकध्यं प्रव्रज्यायां प्रव्रज्यातिरिक्तमुपसम्*पादयेत्* । १.११४ । ऊनश्चेदन्यस्मा उपनिश्रित्यर्थमर्पयेत्* । १.११५ । नासौ तमाछिद्यात्* । १.११६ । उपसंपादयेदप्रयच्छतो बलादादाय कृधासः । १.११७ । व्यसिस्ते कस्यचित्किचिद्देयमल्पं वा प्रभूतं वा । १.११८ । जीवत्पितृकमननुज्ञातम्* । १.११९ । [२ ६] [त्]आब्[ह्य्]आमद्[ऊ]रदेशं प्रव्रज्यापेक्ष सप्ताहं धारयेत्* । १.१२० । नानारोचितं दूरदेशमप्येनं संघे प्रव्राजयेत्* । १.१२१ । युक्तं प्रव्रज्यापेक्षस्य संघेन भक्तदानम् । १.१२२ । कृतानुज्ञाते सो मातपितृभ्यामन्ते मुक्त्वा दूरदेशकम् । १.१२३ । मासि ग्लानमित्युपसंक्रान्तं पृच्छेत्* । १.१२४ । मा ते ग्लान्यं कञ्चिदस्तीति वा । १.१२५ । विशेषत उपसंपादकाः । १.१२६ । न ग्लानं प्रव्राजयेयु[३ १] । ।रुपसम्पादयेयुर्वा । १.१२७ । कृत प्राक्प्रणिहितात्* । १.१२८ । नास्त्यस्य प्ररोहणधर्मतेति च । १.१२९ । नाशनमेवं धस्य लिङ्गिनः । १.१३० । निर्मितः । १.१३१ । पण्डकः । १.१३२ । पाञ्चविध्यमस्य जात्या पक्षासक्तप्रादुर्भावीर्षयापत्कृत इति । १.१३३ । अन्त्यस्यात्र दोषभक्तौ नाशनम् । स्तेयसंवासिकः । जानतो कृततां विधेरुपसंपदो प्ररूढतां वा द्वितीयायां संघे न सा[३ २]र्धं कर्मणः प्रत्यनुभूततायां तत्वम् । १.१३४ । तीर्थिकावक्रान्त[क]ः । १.१३५ । समात्तेदं प्रव्रज्यस्य तद्दृष्टेर्निक्षिप्येदं चीवरन् तेन ध्वजेन तत्रारुणोद्गमने तत्त्वम् । १.१३६ । अकृते दोर्थाग्यथा स्तेयस्य । १.१३७ । मातृघातकः । १.१३८ । पितृघातकः । १.१३९ । अर्हत्घातकः । १.१४० । संघभेदकः । १.१४१ । तथागतस्यान्तिके दुष्टचित्त रुधिरोत्पादकः । १.१४२ । भिक्षुणीदूषकः । १.१४३ । चतुर्णां [३ ३] पारजिकानामन्यत्तमापत्तिमापन्नः । १.१४४ । भ्युपपतः स्याच्चेत्सामग्री पुनः प्रणिधानम् । १.१४५ । अदर्शनोक्तौ मृषा चेत्प्रायश्चित्तिकम् । हस्तछिन्नाः पादछिन्ना अङ्गुलीफणहस्तकाः । । अनोष्टकाश्च चित्राङ्गा अतिवृद्धा अतिबालकाः । । खञ्जः काण्डरिकः काणः कुणिः कुब्जो थ वा मनः । । गलगण्डमूकबधिराः पीठसर्पी [३ ४] श्लीपदी । । स्त्रीछिन्ना भारछिन्ना मार्गछिन्नाश्च ये नराः । । तालमुक्ता कन्दलिछिन्नाः एवंरूप हि पुरुषाः प्रतिक्षिप्ता महर्षिणा । । प्रासादिकश्च प्रव्रज्या परिशुद्धस्योपसंपदा । । आख्या[ता] सत्यनाम्ना वै संबुद्धेन प्रजानता । । संग्राह्यगतं समाप्तञ्च प्रव्रज्यवस्तु ॥ ॰ **(१,३) क्षुद्रकादिगतम् १.१४६ ॥ कृद्राजभटः । १.१४७ । अननुज्ञातं राज्ञाऽदूरदेशकम् । १.१४८ । [३ ५] कृनरोध्वजवधकः । १.१४९ । न रथकारचण्डालपुक्कसतद्विधान्* प्रव्राजयेत्* । १.१५० । निदर्शनं हस्तछिन्नादयः । । हारिद्रकेशा हरिकेशा हरितकेशास्तथैव च । । अवदातकेशाश्च ये नरा नागकेशा अकेशका । । घाटाशिरा बद्रशिरा अतिस्थूलाश्चिपाटकाः । । खरसूकरशीर्षाश्च द्विशीर्षा अप्यशीर्षकाः । । हस्तिकर्णा अश्वकर्णा गण[३ ६]मर्गटकर्णकाः । । खरसूकरकर्णाश्च एककर्णा अकर्णकाः । । लोहिताक्षा तिवद्राक्षाश्चुल्लाक्षातिपिङ्गलाः । । काचाक्षा बुद्बुदक्षाश्च एकाक्षाप्यनाक्षकाः । । हस्तिनासाश्वनासा गोणमर्गटनासकाः । । खरसूकरनासाश्च एकनासा [अ]नासकाः । । हस्तिजोडा अश्वजोडा गोणमर्गटजोडकाः । । खरसूक[३ १]रजोडाश्च एकजोडा अजोडकाः । । हस्तिदन्ताश्वदन्ता गोणमर्गटदन्तकाः । । खरसूकरदन्ताश्च एकदन्ता अदन्तकाः । । अतिग्रीवा अग्रीवाश्च स्कन्धाक्षा अपि कुब्जकाः । । लांगुलछिन्ना वातांडा एकाण्डाप्यनण्डकाः । । अतिदीर्घातिह्रस्वाश्च क्रिशाश्चातिकिलासिनः । । चतुर्भिश्च छविवर्णैः खेला विकटकास्तथा । । एवंविधा[३ २]नमपि तं प्रतिक्षेपं प्रधारयेत्* । १.१५१ । न जातिकायदुष्टं प्रव्रजितमुपस्थायेत्* । १.१५२ । युज्यते नैकस्यैकोपाध्यायस्यैकेन वचसोपादनमात्रयात्* । १.१५३ । अभावस्तुल्यसमयानां परस्परं सामीचीकरणस्य । १.१५४ । सं<<प्रा>>प्ते प्राथम्यम् । १.१५५ । न द्व्यङ्गुलादूर्धमारण्यकः केषान् धारयेत्* । १.१५६ । नैतदर्वाग्त्वात्ग्रामान्तिकः । १.१५७ । न गोलोमकान् केशां छेदयेत्* । १.१५८ । मुक्त्वा व्रण[३ ३]सामन्तकम् । १.१५९ । न चूडां का<<र>>येत्* । १.१६० । न संबाधे प्रदेश्[ए] रोमकर्म । १.१६१ । कारयेत व्रणनिमित्तमरूट्टावन्यथा विज्ञान्* स्थविरस्थविरानवलोक्य । १.१६२ । नाङ्गनाडीमनेतन्निमित्तम् । १.१६३ । नान्यत्र काये .. क्षुरभारं वा नखछेदं भजेत वासिमुखं वा । १.१६४ । नैषां मृष्टिं भजेत्* । १.१६५ । भजेत लेखं मलापकृष्ट्यै न चीवरेण केशश्मश्र्ववतारयेत्* । १.१६६ । धारयेत्के[३ ४]शपतिग्रहणम् । १.१६७ । अभावे संकक्षिकया । १.१६८ । न संस्तरे । १.१६९ न यत्र सांघिकसंमर्जनीनिपातः । १.१७० । अवतारयेत प्रसादादौ जीर्णो ग्लानो वातातपवर्षेषु च । १.१७१ । तं प्रदेशं परिकर्मयेत्* । १.१७२ । संकीर्णे बालच्छौरणम् । १.१७३ । एवं नखछेदनम् । १.१७४ । नानधिष्ठिता भिक्षुण्यैषा पुरुषेणावीतरागा केशां छेदयेत् । १.१७५ । संरज्यमानामधिष्ठात्री समनुशिष्यान्* [३ ५] स्मृतिमुपस्थापय किमस्मिन्* पूतिकडेवरे सारमस्तीति । १.१७६ । मतृसंज्ञां भगिन्या दुहितुर्वेति कल्पकम् । १.१७७ । स्नानं कृते त्र कुर्वीत । १.१७८ । पञ्चाङ्गिकं वा शौचं न नग्नः स्नायात्* । १.१७९ । न भिक्षुणी पुरुषतीर्थे न स्त्रीतीर्थे चूर्णेन । १.१८० । कल्पते मुत्गादेगन्धपरिभावितं चूर्णम् । १.१८१ । प्रतिग्रहणमस्य । १.१८२ । भैषज्यपरिभावितस्य च ग्लानेन । १.१८३ । न भिक्षुणी योषिति चूर्णं क्षिपेत्* । १.१८४ । ना[३ ६]ग्रथिताधस्त्यपूर्वपश्चिमनिवासितान्तै निःश्रयणीमधिरोहेत्* । १.१८५ । नान्यदैवं स्यात्* । १.१८६ । नाप्रतिछन्नवक्त्र[या] वृतिं भजेत । १.१८७ । धारयेत स्नात्रशाटकम् । १.१८८ । आसक्तिर्द्विपुटे प्राणकानाम् । । त्रैचीवरको पि । १.१८९ । पत्राण्यभावे दत्त्वो पूरतः पृष्ठतश्च प्रतिगुप्ते प्रदेशे स्नानम् । १.१९० । मोचनेन सक्तस्य प्राणिनोपगतिः । १.१९१ । उदकभ्रमे विहार एतत्* । १.१९२ । छोरणं [४ १] । ।च द्रवस्य । १.१९३ । करणं स्नात्रशालिकायाः । १.१९४ । इष्टकास्तारस्यास्यां दानम् । । उदकभ्रमस्य मोक्षः । १.१९५ । श्यन्दनिकायाः शोचनम् । १.१९६ । भ्रमे स्नातावनुत्थानम् । १.१९७ । नेट्टनोत्घर्षेण कायं शोधयेत्* पादाभ्यामन्यम् । १.१९८ । निदर्शनमे[त]त्तीक्ष्णशौटीरयोः । १.१९९ । अग्निना शुक्तेः शोचनम् । १.२०० । न किञ्चित्केनचिदामुष्टि चेलवर्तेर्भिक्षुण्युत्घर्षेत्* । १.२०१ । नानप[४ २]गतसंभावकोदकश्चीवराणि प्रावृण्वीत । १.२०२ । धारयेत्कायपोच्छनम् । १.२०३ । अभावे मुहुर्तमु<<त्*>>कुटुकेन स्थित्वा स्नात्रशाटकेन पोच्छनम् । १.२०४ । प्रतिसेवेत जेन्ताकम् । १.२०५ । करण्डस्य करणमुच्छर्करे साधु । १.२०६ । बहिःसंवृत्तस्यान्तर्विशालस्य समुद्राकृतेर्वाता<<य>>नस्य मोक्षो मध्ये । १.२०७ । जालवातायनकवाटिकाचक्रिकाघटिकाशूचीनामत्र विनिवेशनम् । १.२०८ । अजा[४ ३]पादकदण्डोपस्थापनञ्च । १.२०९ । द्वारे कवाटार्गडकटकायामपट्टसमायोज(न्)नम् । १.२१० । तप्तजलस्थापनार्थमभ्यन्तरपार्श्वे कपोतमा<<ला>>करणम् । १.२११ । अग्निकरणस्थाने भूमाविष्टकास्[त्]आरदानम् । १.२१२ । अनिर्वाणाय संवर्त[न]म् । १.२१३ । तदर्थमायसस्फिजधारणम् । १.२१४ । ज्वलत्यग्नावक्लमाय प्रवेशपरिहरणम् । १.२१५ । तमिकानुत्पत्तये सक्तूनां कटुकतैल[४ ४]म्रक्षितानाग्नौ प्रक्षेपः । १.२१६ । दौर्गन्ध्यविनिवृत्तये धूपदानम् । १.२१७ । चिक्कसपिण्डिकया क्षिप्रघरणे प्रविधानम् । १.२१८ । आमलगपिण्डिकपाचकक्षपिण्डकोत्रासनम् । १.२१९ । तृणो भूमेरास्तरणमात्रैरौत्पत्तिकेनार्द्रत्वेन तेमनेन वा । १.२२० । कण्डूयनार्थमाय<<स>>दर्विकाकरणम् । १.२२१ । छिद्रेणोपनिवर्त्य सूत्रकेनास्यास्थापनमुपधिवारिकेण गुप्ते । १.२२२ । निर्मा[४ ५]दिततासंपत्यर्थमस्यामग्निकल्पकरणम् । १.२२३ । अस्नानं तत्र । १.२२४ । शालायास्तदर्थं करणम् । १.२२५ । अनाशाय स्नपयच्चीवराणामिष्टकावबद्धगर्तकरणम् । १.२२६ । उदकभ्रमस्यास्य मोक्षः । १.२२७ । शिष्टानामत्युष्णतायां जलस्यारोचनम् । १.२२८ । शीतेनास्य भेदः । १.२२९ । सेकादयो पि । १.२३० । पाषीगोमयदन्तकाष्टपरिपूर्णकर्परोपस्थापनम् । १.२३१ । क्षमता चेत्पुरोभ[४ ६]क्तिकाकरणम् । १.२३२ । मध्यपातेन प्रत्युपतिष्ठमानमज्ञातमत्रैत्गतो निर्ज्ञानार्थं पृच्छेत्* । १.२३३ । द्वारपालस्यैतदर्थं स्थापनम् । १.२३४ । अप्रवेशार्थं - च भिक्षोः । १.२३५ । नाश्रद्धस्यात्र प्रवेशं दद्यात्* । १.२३६ । सार्धं विहार्यन्तेवासिकैरत्र परिकर्मकरणम् । १.२३७ । नवकैरित्यपरम् । १.२३८ । दीपनकटाहकतैलदन्तकाष्ठगोमयस्य मृच्चूर्णपानीयाद्युपस्थापनकाष्ठप्रत्यवेक्षणोद्वर्तनस्नेहनस्ना[४ १]पयनसंमार्जनसंकरछोरणादेव । १.२३९ । तेषां परस्परेण । १.२४० । पीठशुक्तयोश्चौक्षतां कृत्व निक्षेपो यथास्थाने । १.२४१ । सर्वत्रैष भाण्डे विधिः सर्वमुपकरं सुगुप्तकेला[य्]इतं कुर्यात्* । १.२४२ । अल्पशब्दो त्र प्रविशेत्* । १.२४३ । प्रासादिकः । १.२४४ । सुसंवृतेर्यः । १.२४५ । संप्रजानन्* । १.२४६ । नाग्रत स्थित्वा वितपेत । १.२४७ । संगणिकावर्जनम् । १.२४८ । आर्यन् तूष्णिम्भावावलम्बनम् । १.२४९ । त्रिदण्डक[४ २]दानमन्ते । १.२५० । नैकचीवरः परिकर्म कुर्यात्* । १.२५१ । नैतत्कायस्याश्रद्धेन कारयेत । १.२५२ । अनित्वरात्र पूर्वत्र च श्रद्धाभिसंहिता । १.२५३ । न सिं*हसम<<ः>> सृगालसममुतिष्ठेत । १.२५४ । परमो दुःशीलाप्याचार्योपाध्यायानुपतिष्ठेत । १.२५५ । मातृआपितृग्लानांश्चागारिकमपि । १.२५६ । स्नानं संभारकस्नात्रेण । १.२५७ । वातहहमूलगण्डपत्रपुष्पफलक्वाथस्नानं तदाख्यम् । १.२५८ । [४ ३] अभ्यङ्क्यारूक्षतार्थम् । १.२५९ । उपस्नानकेनापगत्यै तस्य । १.२६० । पूर्वार्थमन्त्ये उदकुम्भे द्वित्रस्नेहबिन्दुदानम् । १.२६१ । स्नायादपोद्रोणिकायाम् । १.२६२ । धारयेदेनां ग्लानः । १.२६३ । दद्यादुपर्यस्याः पिधानकम् । १.२६४ । ग्रीवायां चात्र गण्डोपधानिकाम् । १.२६५ । न यत्र क्वचन पादौ प्राक्षालयेत्* । १.२६६ । स्थनमस्य प्रनाडीमुखम् । १.२६७ । कारयरन् पादधावनिकाम् । १.२६८ । उपरि विहारस्य पूर्व[४ ४]दक्षिणे कोणे । १.२६९ । कूर्माकृतिं* खराम् । १.२७० । उपस्थापयेत्कठिल्लं मृन्मयं हस्तिपदबुध्नकार्णिकावन्तम् । १.२७१ । मध्ये संनिवेष्टया कदम्बपुष्पाकारया खरया च । १.२७२ । प्रक्षाल्य स्थापनमवाग्मुखस्य । १.२७३ । तलकोपरि सांघिकस्य । १.२७४ । पौत्गलिकस्य लयने कवाटसन्धौ । १.२७५ । पात्रनिर्मादनादि यत्र प्रदेशे विहारे कुर्यात्तस्या मार्जनमुदकेन प्रलेपनं वा । १.२७६ । [४ ५] कुन्तफलाकाकारेण मृदङ्गस्य वा । १.२७७ । गोमयेन मृदा वा । १.२७८ । न विद्यते रत्नार्थतायां प्रलिप्तेराकारस्य नियमः । १.२७९ । नापात्रकं प्रव्राजयेयुरुपसम्पादयेयुर्वा । १.२८० । नोनेनाधिकेन पाण्डुना वा । १.२८१ । त्रीणि पात्राणि जेष्ठं मध्यं कनीयः । १.२८२ । शेषेणोर्धभागान्तानन्तरादङ्गुष्ठोदरात्पक्वतन्डुलप्रस्थस्योर्धं वा तद्द्वयां मागधकस्योद्वाहि ससूपसव्यञ्जनस्यैतन्न्याय्यम् । १.२८३ । [४ ६] न भिक्षुण्यूर्ध भिक्षुकनीयसो धारयेत । १.२८४ । त्रपुमण्डलकस्यानयात्रा निषादे दानम् । १.२८५ । बोधिवटपत्रस्य पाणितलकस्य वा । १.२८६ । परिमाणतश्च । १.२८७ । भवति सतत्वं याचितेन । १.२८८ । तद्वत्पञ्चकम् । १.२८९ । न वर्षास्वपात्रक<<ः>> स्यात्* । १.२९० । न जनपदचारिकां चरेत्* । १.२९१ । चरेत्सभयतायां कुपात्रकेण । १.२९२ । प्रव्राजयेदभावे । १.२९३ । नोत्थितः पात्रं कर्षेत्प्रक्षिपेच्छोषयेद्वा । १.२९४ । मात्रया परिभुञ्जीत्* । १.२९५ । [५ १] । । नान्येनात्र निसर्ग प्रक्षिपेत्* । १.२९६ । नानेन संकारं छोरयेत्* । १.२९७ । न चोचं न हस्तमुख्[ओ]दकं दद्यात्* । १.२९८ । न प्रमदनधर्मणा श्रामण्[ए]रेण निर्मादयेत्* । १.२९९ । न सवालुकेन गोशकृता । १.३०० । नात्यार्द्रं प्रतिशामयेत्* । १.३०१ । नातिशुष्क(ं)मध्युपेक्षेत । १.३०२ । न शिलायां स्था<<प>>येत । १.३०३ । नाशुचौ प्रदेशे । १.३०४ । न यत्र क्वचन । १.३०५ । नास्मिन्निक्षिपेत्* । १.३०६ । मालकस्यैतदर्थ करणम् । १.३०७ । उ[५ २]त्तिष्ठतोर्विहारपरिगणयोर्न खननेन भित्तेः । १.३०८ । चकोरकस्यारण्यकैः । १.३०९ । लतामयस्य रज्व वा । १.३१० । लिप्त<<स्य>> गोमयमृदा । १.३११ । सतच्चिद्विध[प्]इधानस्य । १.३१२ । लम्बनमस्य कान्तारिकया वृक्षे साधु । १.३१३ । न भूमौ स्थापनम् । १.३१४ । नैनमत्यत्र नयेत्* । १.३१५ । प्रक्षिप्तं स्थविकायां नयेत्* । १.३१६ । न हस्तेन । १.३१७ । कक्षयास्य नयनमालयनकं दत्वा । १.३१८ । पृथक्स्थविकासु - पात्र-भैषज्य-[५ ३]कोलाहलानि स्थापयेत । १.३१९ । धारयेदेनाः । १.३२० । न तुल्यावलम्बानामास्वालयनकानां निवेशमुपयुंजीत । १.३२१ । अविस्तीर्णानाञ्च दुःखानिच्छुः । १.३२२ । संकोचासंपत्तये न मतदानं मध्ये । १.३२३ । स्थानायास्यान्तरान्तरे काकपादके दानम् । १.३२४ । चक्षुरिव पात्रं पालयेत्* । १.३२५ । त्वचमिव सांघाटीं* । १.३२६ । शिष्टं च चीवरम् । १.३२७ । न प्रतिसंस्करणमुपेक्षेत । १.३२८ । अनुतिष्ठेत्पात्रबन्धनं प्रति[५ ४]गुप्तिप्रदेशे । १.३२९ । उपस्थापयेत्संघः कर्मारभाण्डिकाम् । १.३३० । छिद्रस्यैतदसाधु गुडजतुसित्थत्रपुशीसैः । १.३३१ । साधु पट्टिकाकीलिकाथिग्गलिकामगरदन्तिकाभिः । १.३३२ । चूर्णिकया लोहस्य पाषाणस्य वा । १.३३३ । तैलेन घृष्टिरासित्थसादृश्याल्लोहेन कुरुविन्देन वा । १.३३४ । उष्णे दानम् । १.३३५ । अवगुण्ठ्य भूर्जेन मृदानुलिप्य पाकस्य मध्यस्य । १.३३६ । घृष्टिस्तैलेन गुडमृदमृन्म[५ ५]यस्य भुज्यमा<<न>>त्वे पाक्यत्वं मासषट्कान्ते । १.३३७ । मार्तन्* चेत्पक्षस्य । १.३३८ । वर्षाश्चेतद्विरूक्षणे म्रक्षितत्वेन कार्यान्तराले स्य संयोज्यत्वम् । १.३३९ । पचनमस्य । १.३४० । नैतदात्मना कर्तुं युक्तम् । १.३४१ । कटाहकस्य तदर्थमुपस्थापनम् । १.३४२ । तत्वोत्पत्तेः । १.३४३ । कर्[प्]अरकस्य वा । १.३४४ । भस्मनः पूरयित्वा साधु भेदनं घटभेदनकेन । १.३४५ । धारणमस्य । १.३४६ । तेनाव[च्छा]दनमपलापिधूमम् । १.३४७ । दत्ततुषमृत्ति[५ ६]काबहिः लेपेन । १.३४८ । पिण्याकेन गोमयेन वा लिप्ताभ्यन्तरेण उपगतशोषेण । १.३४९ । कृतपरिकर्मायां भूमावास्तृततुषायामवकीर्णरुचिरधूमकरकपिण्याकादिद्रव्यायां तस्याधोबिलम् । १.३५० । गोमयै.. पलालेन वावगुण्ठ्यादीपनम् । १.३५१ । सुशीतलस्यापनयनम् । १.३५२ । आनिष्पन्नरङ्गसंपत्तेरावृत्तिः । १.३५३ । निर्माद्य निर्माद्यारोपनम् । १.३५४ । सामन्तकस्य प्राण[५ १]कानामनुकम्पया सम्मार्जनं सेकश्च । १.३५५ । प्ररोहस्य परिव्यञ्जनमज्ञातो वर्षाग्रस्योपसंपद्यङ्गीकरणं व्याजेनास्य प्रत्यवेक्षणम् । १.३५६ । उच्चनागदन्तकचीवरवङ्शस्थभावावतारणादिना । १.३५७ । नोपसंपत्प्रेक्षं वृक्षमधिरोहयेत । १.३५८ । न बहिःसीमां प्रेषयेत । १.३५९ । दर्शनोपविचार एनमवकाशने स्थापयेयुः गणाभिमुखं व्रगृहीताञ्जलिं* । १.३६० । न गृहिणे निःश्रया[५ २]नारोचयेत्* । १.३६१ । नोपसंपन्नमात्राय नारोचयेत्* । १.३६२ । वस्तुकर्मोपस्थापकपरिहारेणैनं परीच्छेयुः । १.३६३ । दहरमप्यभावे वृद्धतरमापृच्छेत्* । १.३६४ । भावे प्युपनिःश्रयत्वेन । १.३६५ । नानवलोक्य तज्जातीयं परिकर्मयेत्तेन वात्मानम् । १.३६६ । निर्दोषमभावे प्रवृत्तपर्येषनस्य निःश्रयार्हस्यानिःश्रितस्य वासे । १.३६७ । आपञ्चरात्रनिष्ठानात्* । १.३६८ । अर्हत्वञ्च लाभे । १.३६९ । [५ ३] विश्रम्याकन्तुको द्वितीये त्रितीये वाह्नि निःश्रयं गृह्णीत्* । १.३७० । नैकाहस्यार्थे । १.३७१ । अन्यमसान्निध्ये निःश्रितस्यापृच्छेत्* । १.३७२ । निर्दोषमनापृष्टौ गतस्य कर्मादानेऽपरतदागतौ । १.३७३ । न यस्य तस्यान्तिकात्* । १.३७४ । निर्ज्ञाय वृत्तज्ञानपरिवारानुग्राहकत्वं प्रस्नादिनास्य ग्रहणं संवरवत्* । १.३७५ । प्रपीड्योभाभ्यां पाणिभ्यामुभौ पादतलौ । १.३७६ । परीक्षदानम् । १.३७७ । [५ ४] पुत्रपितृसंज्ञयोः निवेशनम् । १.३७८ । तत्त्[ऐ]वोपाध्याय्[ए] निःश्रितत्वं तस्मादग्रहणमस्य तत्र । १.३७९ । निरपेक्षतासंपत्तिरुभयोरान्तनिःश्रयध्वंसे कारणम् । १.३८० । सन्निपत्तावनौपाध्यायेनाभिमतेन प्रवृत्तिः । १.३८१ । तेनैव तेन । १.३८२ । निरन्तरं दृष्ट्वोपाध्यायमासनं मुञ्चेत्* । १.३८३ । त्रिर्दिवसेन निःश्रितमुपसंक्रामेत्तद्विहारस्थः । १.३८४ । अरण्यवासी क्रोशे चेत्प्रत्यहम् । १.३८५ । पञ्चषैरहोभिः क्रोशपञ्चके । १.३८६ । [५ ५] पोषधे र्द्वतृतीये (र्)योजन्[ए]षु । १.३८७ । न निःश्रितमवसादनार्ह नावसादयेत्* । १.३८८ । पञ्चावसादनाः । १.३८९ । अनालापो नववाद उपस्थानधर्मामिषैरसंभोगः प्रारब्धकुशलपक्षसमुच्छेदो निःश्रयप्रतिप्रश्रम्भणञ्च । १.३९० । अश्रद्धस्येतदर्हत्वम् । १.३९१ । कुसीतस्य दुर्वचसो नादृतस्य पापमित्रस्य च । १.३९२ । अवसादितसंग्रहे न्यस्य स्थूलात्ययः । १.३९३ । अनादृतौ भिक्षोः प्रगुणीकरणा[५ ६]य प्रयोगो भिज्ञस्य । १.३९४ । त्यक्तनिमित्तस्य क्षमणं क्षमयतः । १.३९५ । नानर्हमवसादयेत्* । १.३९६ । नार्हस्य न क्षमेत्* । १.३९७ । नानर्हस्य क्षमेत्* । १.३९८ । सर्वथा निष्काशनमकरणीयतायां लयनात्* । १.३९९ । परिश्रावणकुण्डिके दत्वा सान्तरोत्तरञ्च श्रामणेरस्य । १.४०० । उपसंपत्प्रेक्षश्चेत्पंच परिस्कारान्* । १.४०१ । उपसम्पन्नस्य च । १.४०२ । न सिङ्हनिष्णुरो भवेत्* । १.४०३ । न विघातसंवर्तिनं [६ १] । । क्रियाकारं कुर्वीरन्* । १.४०४ । पलिशुद्धतापर्युषितत्वमास्यस्य । १.४०५ । विसर्जयेत्* दन्तकाष्ठम् । १.४०६ । प्रतिछन्नम् । १.४०७ । उच्चारप्रस्रावक्रिया च । १.४०८ । नोपभोग्यस्यान्ते वृक्षस्य कुड्यस्य वा । १.४०९ । प्रमणमस्य द्वादशकादङ्गुलीनां प्रभृत्याष्टकात) । १.४१० । आचतुष्कोत्तरादभावे बहुश्लष्मणः । १.४११ । नायुक्तत्वं विजनस्य लयने कठिल्लकस्योपरे । १.४१२ । नासंपत्तिरत्र [६ २] गुप्तेः प्रनाडीमुखे । १.४१३ । हस्तसामन्तकस्यात्रैवंजातीयके संभाव्यर्थं* । १.४१४ । जिह्वामस्यानुनिर्लिखेत्* [।] १.४१५ । उपस्थापयेज्जिह्वनिर्लेखनिकाम् । १.४१६ । शूचीद्रव्या । १.४१७ । कल्पते त्रार्थे दन्तकाष्ठ[व्]इदलः । १.४१८ । परस्परमस्यातीक्ष्णतायै घृष्टिः । १.४१९ । न तीक्ष्णेन दन्तं जिह्वां कर्णञ्चोत्घृषेत्* । १.४२० । नाशनैः । १.४२१ । अवाधयंस्तन्मासम् । १.४२२ । नाप्रक्षाल्य दिग्धं मुखमलेन प्रदेशम[६ ३]वगुण्ठ्य वा पांशुना दन्तजिह्वयोः यवनं छोरयेत्* । १.४२३ । नाविशब्द्य । १.४२४ । निदर्शनमेतत्* । १.४२५ । उच्चारप्रश्रावखेटसिं*घाणकवान्तं विरिक्तम[प्]यन्यच्च । १.४२६ । निर्मादनस्यातो पि संपत्तिरूषाडुकगोमयादपि । १.४२७ । चेत्यमनन्तरं कायकरणीयानुष्ठानाद्वन्देत । १.४२८ । अथ निःश्रितप्रतिपत्* । १.४२९ । अतो नन्तरं काल्यमुपसंक्रम्य वन्दनम् । १.४३० । वार्ताप्रच्छनम् । १.४३१ । ऊ[६ ४]षाडुकोदकदन्तकाष्ठोपनामनम् । १.४३२ । महानसमवलोक्यमारोचनम् । १.४३३ । प्रियस्योपनाम्यत्वेन मनसिकरणम् । १.४३४ । पात्रनिर्मादनम् । १.४३५ । पिण्डपातिकश्चेद्रावकस्य च । १.४३६ । सप्रयोजनं परिश्रा<<व>>णस्यापि । १.४३७ । सो पि चेत्प्रस्नः । १.४३८ । साह्यं चेदभिरुचितं तेनैव सह प्रवेशः । १.४३९ । विषमादौ पुरतो गतिः । १.४४० । प्रणीतस्य तस्मै परिणमनम् । १.४४१ । असह चेदागत्योपदर्शनम् । १.४४२ । [६ ५] वरतरस्योपनामनम् । १.४४३ । मात्राज्ञो सौ सर्वत्र स्यात्* । १.४४४ । उदकस्थालकपूरणम् । १.४४५ । कालार्[ओ]चनम् । १.४४६ । भुक्ते पात्रादिनिर्मादनम् । १.४४७ । स्थापनमस्य । १.४४८ । चेत्यादिवन्दनायामूषाडुकोदकाह्युपनयः । १.४४९ । पादप्रक्षालनगतानुष्ठानम् । १.४५० । शयनासनप्रज्ञपनम् । १.४५१ । प्रति निवासनार्पणम् । १.४५२ । निवासनग्रहणम् । १.४५३ । पादौदकाधिष्ठानकठिल्लोपनामनं [६ ६] उपानपौच्चनम् । १.४५४ । असम्मतमुत्थानकारकत्वेन ग्रिहीतसम्मार्जनीकं दृष्ट्वाल्पोत्सुकं कुर्यात्* । १.४५५ । ग्रिहीतसूचिकं चासम्मतं चीवरसेवकत्वेन । १.४५६ । कल्पिकीकरणाल्पहरिततापादनपुष्पफलोच्चयदन्तकाष्ठोपसं*-हाराद्यपि श्रामणोद्देशे । १.४५७ । अर्ग..काकोटनेनाभ्यन्तरस्थं बोधयेत्* । १.४५८ । शनैरेतत्* । १.४५९ । नातिवेलम् । १.४६० । नात्येनं* विद्येत्* । १.४६१ । शनैः सं[६ १]प्रजानन्* प्रविश्[ए]न्निष्क्रामेच्चासंघर्षयं द्वारशाखे । १.४६२ । स कुर्यादेनम् । १.४६३ । आलियेत्* । १.४६४ । न तद्विरुद्धिं* । १.४६५ । अपत्रपेतातः । १.४६६ । दक्षो स्य कृत्ये स्यात्* । १.४६७ । सत्कृत्यकारि प्रासादिकप्रस्थानः । १.४६८ । ह्रीमान् सगौरवः । १.४६९ । सप्रतीशः । १.४७० । नीचचित्तः । १.४७१ । संप्रजान्न हापयन् स्वकार्याम् । १.४७२ । किं*कुशलगवेषी । १.४७३ । विक्रिमयामापद्यमानं निवारयेत्* । १.४७४ । अवृद्धौ कुशले नान्यत्र तत्(कर)करे समर्प[६ २]णां याचेत्* । १.४७५ । निर्ज्ञाय निःश्रयार्ते र्पयेत्* । १.४७६ । पापमित्राढारणम् । १.४७७ । कुशले नियोगः । १.४७८ । तदुपसंहारः व्युत्थापनायामापत्तेरानुलोमिकाजीवितपरिस्कारसंपत्तौ चोद्योगः । १.४७९ । सार्धन्विहार्यन्तेवासिकोपाध्यायाचार्यसमानोपाध्यायसमानाचार्यालप्तकसम्* लप्तकसंस्तुतकसंप्र्[ए]मकं ग्लानमुपतिष्ठेत्* । १.४८० । पूर्वक्रियाभावादुत्तरः । १.४८१ । पाठाचार्यस्याप्यत्र गृहीतता । १.४८२ । [६ ३] सा ह्यशक्तौ निःश्रितं येन प्रवृत्तिः । १.४८३ । प्रव्रजितवदत्र प्रारब्धतल्लिङ्गः । १.४८४ । न ग्लान सब्रह्मचारिणमध्युपेक्षेरन्* । १.४८५ । उपस्थायकमस्याभावे ददीरन्नान्तात्* । १.४८६ । कल्पते भैषज्यस्य संघतः । १.४८७ । केवलस्य ग्लानस्य परिभोगः । १.४८८ । असत्व [ए]तदुपस्थायकः समादापयेत्* । १.४८९ । असंपत्तो सांघिकं ददीरन्* । १.४९० । अभावे बौद्धिकमाशरीरगतात्* । १.४९१ । यानकछत्रारो[६ ४]पणादिकारानेनमुदिश्य कुर्युः सांघिकात्* । १.४९२ । अभावे स्य बोधिकात । १.४९३ । देयत्वमा[भ्य्]आमात्तस्य तेनामृत्यौ सति विभवे । १.४९४ । नोपस्थायक एनं नोपतिष्ठेत्* । १.४९५ । नार्थ्यामस्य धर्माञ्चाज्ञां विलोमयेत्* । १.४९६ । नाध्यवसानवस्तूपयाचितो विधारयेत्* । १.४९७ । न नाववदेत्* । १.४९८ । नैनं ग्लानो तिलंघयेत्* । १.४९९ । सांघिकादेनमसौ मारणाशंकायां शयनासनादुत्थाप्य [६ ५] पौत्गलिके निवेशयेत । १.५०० । अभ्यञ्जनस्नापनपूर्वकताव्याजेन । १.५०१ । यत्नवांस्तदवस्थापरिछेदे स्यात्* । १.५०२ । तत्कार्यत्वं तत्कृतसंक्लेशानां तन्मृतचीवराणां धावनस्य । १.५०३ । संघस्य तत्स्थविरसंनिपाते पूर्वगमः स्यात्* । १.५०४ । गमने विलम्बितमुदीक्षेत । १.५०५ । ते प्येनम् । १.५०६ । अनिर्गतञ्च दूरं गत्वा । १.५०७ । ग्रामान्ते च । १.५०८ । प्रवेशश्चेदत्रानुयन्तम् । १.५०९ । द्रुतश्चेत्* स्यादागमय यावत्स्थविरागच्छ[६ ६]तीतेनं ब्रूयुः । १.५१० । पाण्युदकदाने च गतत्वे भ्यवहारायास्ति चेत्* कालः - १.५११ । असत्यत्रोपवेशे स्यासनं मुञ्चेरन्* । १.५१२ । सन्निषण्णतायां बहिश्च प्रत्यवेक्षेत्* । .. १.५१३ । दुःप्राव्रितत्वे दुर्निवस्ततायां वा सौष्ठवार्थमनयोर्निमित्तमस्मै कुर्वीत्* । १.५१४ । अप्रतिवेधे न[न्त]रेण कारयेत्* । १.५१५ । असंपत्तौ स्वयं नैनान्* संलापयेन्नवकान्* । १.५१६ । यत्रेषां विहारारण्ययोर्वृत्तिस्तत्वृत्तं ग्राहयेन्नियुञ्जी । १.५१७ । [७ १] । । आगन्तुक प्रत्यवेक्ष्यावासिकानामारोचयेच्छयनासनार्थम् । १.५१८ । गमिको दिक्सार्थावासशयनासनं सहायकाब्श्च ग्लान्येन पहायित्वेन तोलयित्वा प्रक्रामेत्* । १.५१९ । सर्व पश्चात्मा कस्यचित्किञ्चित्प्रमुषितमित्यपेत्य दूरमुत्सारयेत्* । १.५२० । अनुद्धतानुन्नडत्वै नवकां प्रतिस्थापयेत्* । १.५२१ । कुलञ्चोपगतान्* सर्वः सर्वान्* । १.५२२ । संजानीत चार्येर्योपदेशोद्देशादिभक्तलाभग्लानसं[७ २]विधानादिकरणीयसंपादनेनानुगृह्णीत्* । १.५२३ । वर्षोपगतो नुसंज्ञा<<प>>य विहारमप्रतिसंस्कुर्वतः संस्कारयेत्* । १.५२४ । संस्कुर्वतो भ्युत्सादयेत्* । १.५२५ । पर्षत्गतान् सर्वः कथैषितायामानुलोमिकधर्मोपसंहारेणानुगृह्णीत्* । १.५२६ । तुष्णीं*त्वे रतानुपेक्षेत्* । १.५२७ । गृहिण उपगतां भक्तात्संविभाजयेत्* । १.५२८ । अकरणे निष्टौ वा धर्म्यामेभ्यः कथं कृत्वेदमस्माकं संविद्यत इति ब्रूयात्* । १.५२९ । पर्षदं [७ ३] तद्वान् सर्वः प्रत्यवेक्षेत । १.५३० । मुधाचारिण[ं] निगृह्णीयात्* । १.५३१ । गमनाद्यत्र यथैत्कुर्यात्* । १.५३२ । अनानातिर्यक्कथस्स्यात्* । १.५३३ । न पुरः पश्चाच्छ्रमणोपगच्छेत्* । १.५३४ । न तिष्ठेत्* । १.५३५ । उक्तो ब्रूयात्* संपादयेद्वा । १.५३६ । नान्तरकथामवपादयेत्* । १.५३७ । अधर्म भाषमाणं प्रतिवहेत्* । १.५३८ । धर्ममनुमोदेत । १.५३९ । उत्पन्नं धार्मिकं लाभं प्रतिगृह्णीत । १.५४० । अनुद्धतः कुले स्यादनुन्नडा[७ ४]नवस्थितः । १.५४१ । उत्क्षिप्तचक्षुः । १.५४२ । धर्म्यां गृहिभ्यः कथां कुर्यात्* । १.५४३ । दानदमसंयमब्रह्मचर्यवासोपोषधशरणगमनशिक्षापदग्रहणेष्वेनान्नियुञ्जित । १.५४४ । सर्वत्रापत्तिमुखभूते प्रस्थाने स्मृतः प्रतिपद्येत्* । १.५४५ । न नशिष्टो नुगः । १.५४६ । एहि स्वागतपूर्वप्रियालाप्यभिगते स्यात्* । १.५४७ । उत्तानमुखवर्णः स्मतपूर्वंगमो विगतभृकुटिः । १.५४८ । गृही चेत्* धर्म्यामस्मै कथं कुर्यात्* । १.५४९ । [७ ५] अनागच्छत्यत्र ग्रामान्तिकस्संरञ्जनीयं यथाशक्ति प्रवर्तयेत्* । १.५५० । पानीयासनमुपस्थापयेत्* । १.५५१ । संमार्गशयनासनप्रज्ञपनपानीयस्थापनचारणः भक्तनिःसर्गान्नवकः कुर्यात्* । १.५५२ । उपगच्छेद्विलोमां परिजनक्रियां न चेत्स्वपरोपघाताय । १.५५३ । अस्मै चेच्छक्तौ समुच्छिद्यैनां धर्म्यामुत्पाद्य तया संज्ञपयेत । १.५५४ । भङ्गे प्ररोगे वा तन्निदानं परिजनस्य प्रतिसंस्क[७ ६]रणम् । १.५५५ । अशक्तत्वे न्येन प्रक्रमनम् । १.५५६ । न तत्प्रत्ययं विगृह्य ब्रूयात्* । १.५५७ । संघारामे पराध्यांस्तथा कुर्याद्यथा स्वयं ग्राहिकया ग्रहणं गच्छेत । १.५५८ । अगच्छन्तमनारोच्य सहसा कस्यचित्कुमारमित्रामत्यभट्टराजपुत्रपादमूलिकान्* ग्राहयित्वा शुद्धिकायां पर्षदि निहन्यात्* । १.५५९ । भिक्षुणी भिक्षुस्थाने सर्वस्य प्रव्रजायाम् । १.५६० । उपसंपद्यन्यस्य तद्याचनादौ कर्मकर्तुः [७ १] अत्राचयस्संघः । १.५६१ । कथनं भिक्ष्ण्यन्तरितमान्तरायिकस्य । १.५६२ । शिक्षमाणात्वं नाम स्त्रियामपरं पर्व । १.५६३ । नि(ः)श्रितायामेव । १.५६४ । श्रामणेरिकात्वभिक्षुणीत्वयोरन्तराले वर्षद्वयञ्चरणस्य कालः । १.५६५ । तदूनोपसंपत्कालाद्यादिकः प्ररोहस्य । १.५६६ । द्वादशत्वं वर्षाणामुपसंपद्यूढतायामादिः । १.५६७ । दानादुत्थानम् । १.५६८ । भिक्षु[७ २]णीसंघेन । १.५६९ । शिक्षासंवृतिरिति दानम् । १.५७० । अनन्तरमस्य शिक्षोत्कीर्तनम् । १.५७१ । नालब्धब्रह्मचर्योपस्थानसंवृतेरुपसंपत्* । १.५७२ । रहोनुशासनादूर्धं तद्दानम् । १.५७३ । संघेन । १.५७४ । पृष्ट्वान्तरायिकम् । १.५७५ । याचितायाम् । १.५७६ । पञ्चत्वं चीवरेषु । १.५७७ । नि(ः)श्रयेषु विवृक्षमूलत्वम् । १.५७८ । अष्टत्वं पतनीयेषु । १.५७९ । गुरुधर्मारोचनम् । १.५८० । पतनीयश्रमणकरकान्तराले । १.५८१ । कृत्*षट्के । १.५८२ । नास्त्यस्याः [७ ३] प्ररोहणधर्मत्वेति च । १.५८३ । उभयव्यञ्जना । १.५८४ । संभिन्नव्यञ्जना । १.५८५ । सदाप्रश्रवणी । १.५८६ । अलोहिनी नैमित्तिकी । १.५८७ । निमित्तमात्रभूतव्यञ्जना तदाख्या । १.५८८ । पूर्वं प्रव्रजिता । । क्षुद्रकादिप्रव्रजवस्तुगतम् ॥ **(१,४) पृच्छागतम् । १.५८९ ॥ नामनुषगतिकोत्तरकोरवकयोः १.५९० संवरस्य क्षेत्रत्वम् । १.५९१ । न त्रितीयस्यां परिवृत्तो व्यञ्जनस्य । १.५९२ । न प्रथमयोर्वस्तिः । १.५९३ । उत्थानं गृह्यमाणत्वे । १.५९४ । अनुपाध्याय[७ ४]कतायां तद्वतः । १.५९५ । अनुपसंपन्नत्वे स्य । १.५९६ । न जानाने स्याभिक्षुत्वम् । १.५९७ । नेनं प्रत्याचक्षणे । १.५९८ । नानयोर्नामानुत्भावने । १.५९९ । न संघस्य तद्योनेः । १.६०० । नागारिकतीर्थिकध्वजे । १.६०१ । न नग्नकुपितपुंफालिनीषु । १.६०२ । न निमित्तविपर्ययानभ्युपेतावुत्क्षिप्तकस्य । १.६०३ । दुस्क्रितमात्रकमपूर्वपर्वतायाम् । १.६०४ । अयाज्ञायामुपाध्यायस्य । १.६०५ । आन्तरायिकस्याप्रष्णे [७ ५] प्रतिज्ञाने स्यासतो दान्[ए] । १.६०६ । न पुरुषानुकृतित्वं स्त्रिया स्त्र्यनुकृतित्वं च पुरुषस्य व्यञ्जनान्तरप्रकारः । १.६०७ । आक्षिप्तत्वमस्य हस्तछिन्नादिना । १.६०८ । पापलक्षणभिन्नकल्पद्वीपान्तरजय्[ओ]ः । १.६०९ । एकनख-समुद्रकलेख-पक्षहत-लिङ्गशिरो-गुल्मकेश्-आन्तर्बहिर्द्विकुब्ज-षट्सहित्-आनङ्गुलि-यक्ष्म-नकुल-किं*पिलविपरीतमिलित-सिक्य--कश्मीलिता-क्षाक्षाक्षि-शालशक्तदद्रू-विचर्चिक-पीतावदातरक्त-नाडी[७ ६]कर्ण-कण्डूपिण्डस्थूलकच्छ्वण्डलांगुलप्रतिछन्न--मूढाजिह्वैकहस्तपादनीलकेशहस्त्यश्वश्वगोमेषमृगमत्स्याहिदीर्घबहुशीर्षतालकण्ठशूलेर्यापथछिन्नेभ्यश्चानाबाधिकानां ग्लानेन चेतरेषाम् । १.६१० । .औरेण दस्योः । १.६११ । पितृवत्पित्राशयत्वे नुज्ञायां राजा । १.६१२ । परिग्रहीत्रोरनुज्ञानधारणारोच[ने]षु पितृत्वम् । १.६१३ । नामनुष्यगतिकयोः । १.६१४ । नात आनन्तर्योत्थानम् । १.६१५ । जनकाभ्यामेतत्परिवृत्तव्यं १.६१६ [८ १] । । नाभ्यामपि । १.६१७ । एतत्कृत्त्वं मातृघातकादौ तन्त्रम् । १.६१८ । दूषकत्वमब्रह्मचर्येण स्वादयतोरपराजित्व्[ए] । १.६१९ । अर्हत्वं प्रव्रज्य्[ओ]पसंपदोरुपगतौ पुंस्त्वस्य हीनायां योषिति । १.६२० । असाधारणं पाराजयिकमध्याचरितवत्याम् । १.६२१ । आवासिकानां स्त्र्युपसंपादने ङ्गत्वम् । १.६२२ । ध्वंसो भवत्वस्योत्सृष्टौ ॥ ॥ पृच्छाप्रायं प्रजवस्तुगतं समाप्तञ्च प्रव्रजवस्तु ॥ ________________________________________________ *२. पोषधवस्तु । **(२,१,१) पाराजयिकम् । (क) भिक्षुविभंगः (१) अब्रह्मचर्यपाराजयिकम् । [प्रत्याख्यानविधिः] ॥ विभङ्गादिगतम्* ॥ ६ ॥ २.१ । न नष्टप्रकृतिक्रितता प्रत्याख्यात[८ २]त्वम् । २.२ । न तत्यम् । २.३ । न मूके । २.४ । नामौषगतिके । २.५ । नाभोधितत्वे । २.६ । न रहसि । २.७ । न रहस्संज्ञया । २.८ । शिक्षा प्रत्याचक्षे बुद्धं धर्मं संघं सूत्रं विनयं मातृकामाचार्यमुपाध्यायमागारिकमान्धारयश्रमणोद्देशं षण्ड्कपण्डकं भिक्षुणीदूषकम् । स्तेयसंवासिकं नानासंवासिकमसंवासिकं तीर्थिकं तीर्थिकावक्रान्तगं मातृघातकं पितृघातकमर्हघातकं संघभेदकं [८ ३] तथागतस्यान्तिके दुष्टचित्तरुधिरोत्पादकमलं मे युस्मद्विधैः ब्रह्मचारितिः सार्धं संवासेन वासभोगेन चेति प्रत्याख्यानवचनानि । ॥ प्रत्याख्यानविधिः ॥ (क) विभंगगतम् । २.९ । प्रविष्टस्पर्शस्विकृतो प्रश्रावकरणस्य । २.१० । तत्र । २.११ । अविकोपिते । २.१२ । मुखे वर्चोमार्गे वा । २.१३ । विकोपितेषु स्थूलम् । २.१४ । अप्रतिबलत्वे ह्रासः । २.१५ । अहासममनुषगतिकत्वयौस्नपण्डकतासिव[८ ४]सेव्यसान्तरत्वमृततासु । २.१६ । असंचेतितनष्टप्रकृत्यवर्स्थाकामप्रविष्टत्वे । २.१७ । स्वक्यतायां सेव्यमानस्य । २.१८ । वहिर्निघर्षपूर्वकत्वे नन्तर्मुक्त<<त्वे>>परतायाम् । २.१९ । नागुप्तो दिवा पार्श्वं दत्त्वा मिद्धमवक्रमेत्* । २.२० । तिस्रो गुप्तयः । २.२१ । बद्धद्वारपरिवृतस्थत्वमारक्षितत्वं भिक्षूणा ग्रथितत्वमधोनिवसनस्य । ॥ अब्रह्मचर्यपाराजिकेभङ्ग ॥ (ख) क्षुद्रकगतम् । २.२२ । न यत्र स्त्रिया काम्येत तत्रो[८ ५]पसंक्रामेत । २.२३ । न यत्रामनुषो स्पर्शायोद्यतः तत्र निवसेत्* । २.२४ । धारयेत्तीव्ररागो वस्तिं* । २.२५ । छागचर्मणो मृगस्य मूषिकस्य वा । २.२६ । कषायानमदौर्गन्ध्यार्थम्* । २.२७ । शोचनं शोषनञ्च । २.२८ । तत्कालार्थमपरन्* । २.२९ । प्राभूत्येन द्रवीभूतावास्तरदानम् । २.३० । वालुकायाः पांशोर्वा । २.३१ । निक्षिप्य शौचं कृत्वा भोजनचैत्यवन्दनम् । ॥ क्षुद्रकगतमब्रह्मचर्य[८ ६]पारजयिकन्* ॥ (ग) पृच्छागतम् । २.३२ । दन्तात्परं मुखस्यादिः । २.३३ । वर्चोमार्गस्य विलगण्डिकान्तात्* । २.३४ । चर्मपुटात्प्रस्रावणस्य । २.३५ । मणेरस्य प्रविष्टता तदन्तः । २.३६ । प्रदेशस्यास्यादष्टत्वं दष्टता शून्यत्वं क्लिन्नता शटितत्वं खादितता प्राणकैरिति विकोपितता । २.३७ । न मध्यछन्नत्वे गम्यस्याप्यपह्रासः । २.३८ । अप्रज्ञाने च सन्धेः पाटितस्य मध्यासेव्यस्य संहितस्य । २.३९ । प्रज्ञाने नन्तरं पर्व । २.४० । [८ १] स्थू[ल]कृत्वं पक्वस्य निर्लोम्नः सूकरादेः । २.४१ । शिरछिन्ने मुखस्य । २.४२ । पृथक्*कृतयो<<ः>> कायात्य्सेव्यसेवनयोः । २.४३ । अन्ययोरपि परकीययोः परत्र समायोजने । २.४४ । अन्यस्य छिन्ने कायेपि छिद्रस्य । २.४५ । सेव्यस्य चानन्तरस्य पण्डिकायाम् । । योष्ठयोः । २.४६ । बाह्यस्य सीम्नः परस्तात्* । २.४७ । प्रसेविकायाः । २.४८ । द्विगुणीकृता स्पृष्टिप्रवेशयोः । २.४९ । तदन्त्योक्तावन्तरणमभिसंहितं येना[८ २]न्तरितस्य न सर्वेण सर्वमसंभावनं स्पृष्टेः । २.५० । अन्येनान्तरितत्वमस्पृष्टिप्रवेशेन व्याख्यातम् ॥ प्रथमे पाराजिके पृच्छागतम् ॥ (घ) विनीतकानि । २.५१ । भिक्षुभावासंचेतनं प्रक्रितिनाशः । २.५२ । द्वयं विकोपितत्व(ं)मन्तः वहिश्च । २.५३ । कुपितत्वं शिक्षायाः सेवां प्रति परस्याभ्युपगतौ । २.५४ । देयत्वमत्र पुनरस्याः । २.५५ । स्थूलमस्यां भिक्षोः । २.५६ । संग्रहगतौ च । २.५७ । प्रवेशनार्थं व्रणपी[८ ३]डने । २.५८ । भीतिलज्जयोः संरागासंपत्तेः । २.५९ । स्फोटादंगजातस्य रसासंवितौ । २.६० । अकर्मण्यप्रवेशने । २.६१ । हस्तेन हस्तं पादेन पादं सन्धिना सन्धिं* वस्तिना वस्तिमत्यघट्टने । २.६२ । इञ्जितत्वमात्रके संयुक्तस्य । २.६३ । दादुदन्तशैलवस्त्रमपधीतिकोपक्रान्ताविन्द्रियमात्रस्य चेदवनामः । २.६४ । सर्वाङ्गेषु स्पर्शदानेषु मौलम् । २.६५ । पादस्य सेवा[८ ४]र्थमुद्यतेनाङ्गजाते प्रक्षेपे । २.६६ । वहिस्पर्शने सेव्यस्य तन्मात्रपरतयाङ्गजातेन । २.६७ । पराज्ञपने च सेवायाम् । २.६८ । न प्रकृत्या कर्मण्यत्वमपक्रामकृत्* । २.६९ । नाग्रपृष्ठयोर्यतयाम्भस्ततो न्यतो निष्ठाने । २.७० । न शिष्टैरपि मार्गैरुपक्रमिष्य इति । २.७१ । तत्भ्रष्टो हमित्यभिप्रायः । २.७२ । न रोगापगत्यर्थता । २.७३ । न मार्गे न्यत्वसंज्ञानं विमतिर्वा । २.७४ । स्थूलकृत्व[८ ५]मनयोरमार्गे । २.७५ । ..नापत्तिरतिद्रुतस्य स्त्र्युपरिनिपाते । २.७६ । कण्ठे चाकाममार्तया च लम्बने । २.७७ । स्पर्शने चौष्ठेनौष्ठस्य । २.७८ । न शून्याः पुरस्तात्प्रश्रावं कुर्वीत्रः । २.७९ । न यत्र प्राणात्ययापातस्तत्रारण्ये प्रतिवसेत् । २.८० । न यत्राङ्गजातादानभयन् तां नग्नो नदीन् तरेत्* । २.८१ । संप्रजानन्नेनां नावा तरेत्* । २.८२ । गवाञ्च सव्ये गच्छेत्* । २.८३ । उद[८ ६]यन च प्रेक्षे[त्*] । २.८४ । पिण्डाय च ग्रामं चरेत्* । २.८५ । सुप्रत्यवेक्षितं कृत्वा प्रव्राजयेत । २.८६ । नेकाक्यभ्यवकाशे पार्श्वं दद्यात्* । २.८७ । नापावृतद्वारे गारे भिक्षुणी समापद्येत च । । प्रथमे पाराजयिके विनीतकानि । । अब्रह्मचर्यपाराजयिकं समाप्तम्* ॥ **(२,१,२) अदत्तादानपाराजयिकम् । (क) विभंगगतम् । २.८८ । हरणहारणयोः । २.८९ । दूतेनापि । २.९० । अदत्तस्य । २.९१ । पञ्चमाषिकादेः । २.९२ । स्तेय[९ १] । ।चित्तेन । २.९३ । मनुषगितकपरिगृहीतस्य । २.९४ । तत्संज्ञायाम् । २.९५ । अनापेतत्वं स्वमित्वस्यापहृतत्वे नुत्सृष्टतायामाशयेन । २.९६ । भवत्यधिष्ठातुरपात्रागतीये स्वामित्वमसत्वमाशयानुबन्धस्याभ्यवहाराय दाने । २.९८ । नानभियोक्तृस्वत्वमभिप्रयुक्तानां दवदहादिभिरादानार्थं मृगपक्षिसरीसृपा[णा]म् । २.९९ । अनिगलने वस्तुतो व्यवस्था । २.१०० । हारस्थानकालेन [९ २] मूलस्य । २.१०१ । नानभिप्रेतादापत्तिः । २.१०२ । स्वभावको लिकविश्वासचित्तैः परं विज्ञाप्य । २.१०३ । अन्यथा विनास्तेयचित्तेन । २.१०४ । कृपपर्ध्यामोचने । २.१०५ । प्रयोगे दुःकृतं सर्वत्र । २.१०६ । स्थूलमस्मिन्नकाये मूलस्य चेत्* । २.१०७ । अनन्तरे चेतत्* । २.१०८ । न्यूनापकृतौ । २.१०९ । अस्वामिकस्य निवेः । २.११० । स्वस्यान्यगतेः । २.१११ । अस्वीकृतौ च गोपननाशनवर्भोन्सर्गादौ वियोजने । २.११२ । दुष्कृतं का[९ ३]रुण्यचित्तेन । २.११३ । न प्रतिकृतावकृतत्वमादेः । २.११४ । प्रयोगप्रयोगत्वं प्रागामर्शात्* । २.११५ । अहानौ प्रतिपदं भेदः । २.११६ । प्रतिसत्वं तत्गते । २.११७ । न कीलान्मोक्षो नावः सृष्टिः । २.११८ । हारो भारस्य तत्कृत्य हरणे । २.११९ । निकरस्योच्च्[इ]त्य । २.१२० । स्थानोत्तमातिक्रान्ति<<ः>> द्रव्यो तु मेन निमज्जने । २.१२१ । नयने सा मतिर्यास्मिन् यश्चाद्वारे । २.१२२ । च्युतिरपकाशने पार्श्वाधारस्य पार्श्वान्तरेण [९ ४] सीम्नः । २.१२३ । न व्यस्तान्तर्गतस्य तद्वत्त्वे । २.१२४ । तत्र रूपं चाटस्फोटितपेखावर्णान्तरसन्धिव्यवधयः । २.१२५ । व्यवधित्वं लक्षमाणप्रविभागार्थां प्राणि[नि] पार्श्वादीनाम् । २.१२६ । स्तरस्य स्तृतत्वे स्थानत्वम् । २.१२७ । निक्षिप्तवत्प्ररोहः । २.१२८ । विवेचनमामुक्तास्य भूम्यातदतिक्रान्तः शुल्कस्य । २.१२९ । मनुष्यस्य संकेते न चेत्तत्संपत्तिः । २.१३० । उत्पाटनं पक्षिणस्तथा चेत्* । २.१३१ । मुक्तिर्वद्धश्च तिरश्चः । २.१३२ । अनाभासित्वं निबन्ध[९ ५]नोर्यूथनाभ्याम् । २.१३३ । आभासनं मन्त्रैराकर्षणे । २.१३४ । पूर्वमनुगच्छदुपहरतोर्हानिनिवृत्यप्रक्रमप्रवेशो कोशैर्न तदात्तस्य । २.१३५ । नावः स्थलकुल्याप्रकीर्णोदकैः । २.१३६ । अनुत्स्नातश्च । २.१३७ । तिर्यङ्क्वा नाभाषितायां तीरान्तरस्य । २.१३८ । तत्प्राप्तिरितरथात्वे । २.१३९ । तरपुटकातिक्रमः प्रतिस्रोतः निष्पत्तिः स्वकर्मान्तस्य तदर्थं व्यधिकेतरस्यातु छन्देन परकर्मान्तेष्वम्भसः । २.१४० । प्रेरणेन वारणे वा । २.१४१ । [९ ६] लब्धिरंशस्य तदर्थमपहर्तॄणां प्रतिपत्वृत्तान्तनिवेदने । २.१४२ । भूमिदृहयोः परिक्षेपेण संधिसङ्गतिः । २.१४३ । जयो विवादेन राजकुले चेत्* । २.१४४ । युक्तकुले चेन्निराकृतप्रयोगत्वं परअस्य । २.१४५ । अस्य प्रयोगत्वम् । २.१४६ । अनाशङ्क्यमणध्वस्तेयचित्तस्य शुक्लगते दोषोत्थानम् । २.१४७ । यदातुत्वं भाण्डस्य तस्य देयत्वम् । २.१४८ । न मुक्ते न्यदीयातिक्रामणं न हारः । २.१४९ । नामुक्तो न्येनातिक्राम[९ १]येत्* । २.१५० । नासंचेतितातिक्रामणासंपत्यै न पतेत । २.१५१ । आरक्षकस्थापनं भिक्षोरनेकस्य । २.१५२ । समुदानेयत्वं तत्भक्तस्य । २.१५३ । निवारणं तेन । २.१५४ । आख्यानं प्रक्षिप्ततायाम् । २.१५५ । चिह्नकरणमसंभवे । २.१५६ । प्रच्छनमादाने । २.१५७ । स्पृश्यत्वमसंपत्तावन्यथापनयनस्य । २.१५८ निर्यातितत्वमप्रतिपातितस्य निश्चयोपगतौ । २.१५९ । संवर्णनं पित्रोस्तदर्थोन्मुक्यै । २.१६० । रत्नानाञ्च । २.१६१ । दानमितरार्थार्थमितरार्था[९ २]दुधारग्रहणधमर्णा । २.१६२ । न सशुल्ककरणीयोन्वोढिं* भजेत्* । २.१६३ । अतत्वं रक्तस्य गोमयनिष्पीड्येनापि । २.१६४ । छिन्नदशायामस्य च । २.१६५ । अरूढिस्तन्मतेरदृस्ते । २.१६६ । न परवृत्तौ प्रहरेत्* । २.१६७ । नाविश्वसनीये विश्वस्ततां भजेत । २.१६८ । तत्वमधरस्योत्तरस्याम् । २.१६९ । पृयो सौ मनापो गुरुर्भावनीयः पूज्यः प्रशस्यः प्रेताग्रहणेन । २.१७० । कुर्यात्प्रतिकर्मणा कर्म पुण्यबुद्ध्या च । २.१७१ । न भृतिकया । २.१७२ । [९ ३] न देशनिरुक्तेर्व्यसनम् । २.१७३ । नापभ्रष्टमातुमतिचिरं धारयेत्* । २.१७४ । उपधिवारिकस्य देयत्वम् । २.१७५ । संघे तेन प्राव्रजितसंभावनायामुपदर्शनम् । २.१७६ । अननुमज्जे स्वामिनः प्रतिसंस्तरोगायामुपनिबन्धनम् । २.१७७ । नाननुज्ञातात्ग्लानेन तत्भषज्यं पाचेत्* ॥ अदत्तादानपाराजयिके विभङ्गः ॥ (ख) क्षुद्रकगतम् । २.१७८ ॥ न सपरिग्र्हमनुज्ञा[त्]ओ न्येन कल्पेन स्वीकुर्यात्* । २.१७९ । न स्वीकृतं मोचयेत्* । २.१८० । [९ ४] याचैनं धर्मदेशनया । २.१८१ । उ<<प्>>आर्द्धमूल्येन च । २.१८२ । युक्तं पात्रचीवरस्य स्फुटेनापि ग्रहणम् । २.१८३ । नासत्संभावना वा ह्युत्सृष्टमित्यमहाजनप्रत्यक्षमधितिष्ठेत्* । २.१८४ । नामनुषाधिष्ठत्वे शवद्रव्यस्यापरिग्रहत्वम् । २.१८५ । पृष्ठतो स्य प्रदुष्टस्य गमनम् । २.१८६ । अवमू[र्ध]कं निपन्नायोपरिदानं पादान्तात्प्रभृति । २.१८७ । नाक्षंतात्गृह्नीयात्* । २.१८८ । न स्वयं क्षण्वीत क्षाणये[द्] वा । २.१८९ । प्रतिशमनमेव दन्तका[९ ५]ष्ठो .. कोषाडुकगोमयमृदां यथासुखकरणं धारणमकामं संबद्धेनापहृयमानस्य भिक्षोः श्रामणेरस्य वा । । अदत्तादानपाराजिके क्षुद्रकगतम् ॥ (ग) पृच्छागतम् । २.१९० ॥ काकणिचतुष्कं माषकः । २.१९१ । निदर्शनं पञ्चत्वं चतुर्थस्य कार्षापणात्* । २.१९२ । यत्रास्य विङ्शतिपर्वत्वं तदाश्रित्य । २.१९३ । हारकालस्थानगणनेनास्य व्यवस्था । २.१९४ । प्रकर्षपर्यन्तभूतत्वमशक्यकरणमूल्यस्य महत्त्वेन । २.१९५ । नाल्पत्वेन [९ ६] अस्य न्यूनत्वेनन्तर्गतत्वम् । २.१९६ । अतुलरत्नत्वमत्र बुद्धधातोः । २.१९७ । दुष्कृतं पूजार्चतायाम् । २.१९८ । निर्दोषत्वं लेख्यस्य । २.१९९ । विनाश्यापहृतौ तदवस्थस्य हारवस्तुत्वम् । २.२०० । अपरिग्रहत्वमुत्तरकुरौ । २.२०१ । स्वक्यवदेतत्* । २.२०२ । तात्कालिकस्यात्मनः स्वामित्वम् । २.२०३ । देवत्वं निर्वृतस्य । २.२०४ । प्रयोगवदनुज्ञातस्य निःसृष्टत्वेनोपभोगः । २.२०५ । दायनं च मन्त्रौषधाभ्याम् । २.२०६ । पारार्थ्ये च मौल[१० १] । ।विधम् । २.२०७ । कल्पेन च । २.२०८ । विचपनं च रुचितापहारेछायाम् । २.२०९ । प्रयोगो व्यंसनं द्यूतेन चेत्* जितत्वभूतम् । २.२१० । एतदत्र हारः । २.२११ । तस्य संख्याने । २.२१२ । तत्वं लोपाध्यारोपयो चिह्नस्य । २.२१३ । स्थानोत्तरे च निक्षिप्ते । २.२१४ । निष्पत्तिरत्र हारः । २.२१५ । तद्वद्वर्गान्तरे गणनम् । २.२१६ । व्यपलापश्च पौर्वस्येतरेषु द्वै(न्)तरस्य वा पूर्वेषु । २.२१७ । यत्रैतत्सर्वादौ तत्रांशित्वम् । २.२१८ । प्राप्नुवतोत्भावनञ्चाप्रभवतः । २.२१९ । अनादिष्टपाच[१० २]नञ्च । २.२२० । प्रयोगोपलापो(व)<<या>>चितकायमित्यकनिष्टक्षेपाणाम् । २.२२१ । संनिष्ठपनं हारः । २.२२२ । निहितनिक्षेपस्य सह चेद्व्याचनेन पञ्चाच्चातः पुरस्ताच्चेत्प्रयोगान्तरत्वम् । २.२२३ । नाशनं स्थूरां छेदो मारणञ्च । २.२२४ । स्थूलकृत्वं सीमाकाशस्य शुल्कभंक्तौ । २.२२५ । निर्दोषत्वमृद्धिनयने न्यसीम्नश्च । २.२२६ । दुष्कृतमुद्योजनस्य । २.२२७ । मार्गान्तरोपदेशिश्च । २.२२८ । न्यूनमुपा<<यो>>दाहारः । २.२२९ । पथिवदपथम् । २.२३० । अन्यावपनव[ं*] [१० ३] मुखकण्ठेनान्त्यस्य स्तेयचित्ततापगतावनुष्ठितत्वम् । २.२३१ । न लिप्यादौ ह्रासः । २.२३२ । न प्रसज्य भञ्जनं च हारः । २.२३३ । न सस्थानस्य । २.२३४ । न मारितत्वं कृतता । २.२३५ । नैकदेशेन स्थानामुक्तौ । २.२३६ । शाटनं तेनापनये हारः । २.२३७ । निर्गमः स्यन्दकरकृच्छ्रिद्रणेन । २.२३८ । एकत्वञ्चापश्चिमादतो त्र द्रव्यस्य । २.२३९ । प्रत्यादानं राशेः हारभेदः । २.२४० । नियोज्यानैक्ये प्रनितदंशम्* । २.२४१ । हर्तृणाञ्च । २.२४२ । ल[१० ४]भेरनेकमत्ये त्र हारः ॥ ॥ अदत्तादान(ं)पाराजिके पृच्छागतम् ॥ (घ) विनीतकानि । २.२४३ ॥ प्रागन्ते मृतत्वे प्रतिनिक्षेप्यत्वम् । २.२४४ । मृतपरिस्कार(ं)त्वं विपर्यये । २.२४५ । भ्रातृवत्संघो न तदर्थं हारो न स्वीकारः । २.२४६ । स्ववत्स्वम्यभेदः । २.२४७ । नापक्रमेणादाननिश्चये [वा] शिष्टैः हृतौ तद्गत्वम् । २.२४८ । नांशस्वीकारेच्छानादानाभिप्रायः । २.२४९ । न तत्गतकर्मानुष्ठानं न तस्य । २.२५० । न सार्धम्विहारित्वमन्तेवासिता च हारा[१० ५]नुत्थाने कारणम् । २.२५१ । मर्यादार्थे परिक्षेपे तन्त्रम् । २.२५२ । न स्थितं मर्यादासंचारणस्यानेनाक्षेपः । २.२५३ । समक्षान्ते प्यनाभासित्वं हारः वशीकृतत्वं फलात्ग्रहे मनुष्यस्य । २.२५४ । नैषात्मनः । २.२५५ । न हारे यदभिसंहितं तत्संबन्धादनाभिसंहित(ं)स्यापक्रमः । २.२५६ । स्थूलं यो यत्गृह्णीते तस्य तदिति व्यवस्थायामन्यहारे । २.२५७ । सपरिग्रहाच्छ्मशानात्ग्रहणो । २.२५८ । सूनकवाटव्[आ]ण्डपत्रपुष्पफलारामदेर्मन्त्रैर्शष[१० ६]णे । २.२५९ । ग्रासानुप्रदानेन नयताश्वमधिरूढेन चैवमेष हर्तव्यमिति कायविप्रकारे । २.२६० । नावं च । २.२६१ । इत इति च । २.२६२ । मातृपितृभ्रतृभगिन्युपाध्याचार्यस्थूपसंघादौ संकल्प्य शुल्ककरणीयकरणीयातिक्रमणो । २.२६३ । याचितो धारयोरदानसंकल्पे । २.२६४ । वण्टने चान्त्यर्थं दत्तस्य । २.२६५ । परिगृहीतसंज्ञिनो परिगृहीते । २.२६६ । कुल्मासौदनसक्ष्णुमत्स्यमांसखाद्यवस्तुकपिण्डपादपरिग्रहे[१० १]नाज्ञाते न्यत्र वस्तुत्वम् । २.२६७ । नामे धीष्टेन । २.२६८ । दुष्कृतमनिमन्त्रितभोजने । २.२६९ । गमने चापहृत्यै । २.२७० । न संप्रधारणा स्यातः पृथक्त्वम् । २.२७१ । निराग्रहमिति स्वप्रत्यवेक्षितं कृत्वा गृह्णीयात्* । २.२७२ । न कायावपादं कुर्यात्* । २.२७३ । न कुलायकं भंज्येत्* । २.२७४ । नानुषितस्तत्र वार्षिके चीवरांशे वयतेत । २.२७५ । न हर्तुर्दानपतिचित्तेन प्रतिग्रहे दोषः । २.२७६ । नागमस्तैन्यचौरादध्वजबद्धका गृह्णीयत्* । २.२७७ । [१० २] शस्त्रलूनं दुर्वर्णीकृत्यातो गृह्(ण्)ईतं धारयेत्* । २.२७८ । दानमेवं कृतस्यापि याचने । २.२७९ । न चक्रकं कुर्यात्* । २.२८० । न मन्त्रैर्मोचने दोषः । २.२८१ । मूषिकापहृतस्य च स्वस्यादाने न्यभिक्ष्वर्थस्य तदर्थम् । २.२८२ । .. अभिद्रुतस्य लुब्धकेर्मृगस्याश्रमं प्रविष्टस्यादाने । २.२८३ । मृतस्यास्य तेभ्यो देयता ॥ अदत्ता(न्)दानपाराजयिके विनीतकानि । । अदत्तादानपाराजिकं समाप्तम्* ॥ **(२,१,३) वधपाराजयिकम् । (क) विभंगगतम् । २.२८४ । न मरण[१० ३]चेतनानुगुणं ग्लानायोपसंहारे स्नपसंहरेत्* । २.२८५ । नाविज्ञ्[आ]मस्यानुक्तौ मृत्यौ प्रत्यनीकत्व(ं)मुपस्थापयेत्* । २.२८६ । न सत्यां गतौ । २.२८७ । न मरणोपकरणम्* । २.२८८ । मरणार्थादेनमनुष्ठानादुपस्थाको वारयेत्* । २.२८९ । नार्थार्थे परस्य मृत्युमाकांक्षयेत्* । २.२९० । अकरणीयत्वं चित्तं नाकरणीयकरणानुमोदनस्य । २.२९१ । जीवतौपरोधा । २.२९२ । तच्चित्तेन [१० ४] मनुषगते । २.२९३ । अभेदः कायतत्संबद्धमुक्तपर<<स>>मादापनानाम् । २.२९४ । विषचूर्णगर्तदारुनष्टप्रकृतिप्रेषणोरस्कन्दपत्रकूटवेताडमन्त्रप्रयोगानां पातनस्य । २.२९५ । जलाग्न्योः प्रक्षिप्तेः । २.२९६ । धारणस्य शीतोष्णयोः । २.२९७ । दौत्यप्रेषणादीनामल्पत्वस्यानुष्ठाने । २.२९८ । स्त्रीपुरुषषण्डकत्वे घात्यस्य । २.२९९ । अन्यदा तन्निदानं मृतौ । २.३०० । अनिमित्त[१० ५]त्वं विवृन्दनात्* परस्याम्* । २.३०१ । स्थूलमभिसंहितस्य मातृगर्भयोः कुक्षिमर्दे । २.३०२ । अधिवासनायां तु तन्निमित्तं वधप्रवृत्त्[ए]ः । २.३०३ । त्वन्नाम्ना मरणोपकरणं ददामीति चोक्तेः । २.३०४ । अन्यघाते वा तिरश्चो निर्मितस्यापि । २.३०५ । नानुक्तमवलोक्येन ग्लानाय भैषज्यं दद्यात्* । २.३०६ । वेद्यतत्प्रव्रजितक्लिष्टानामत्रावलोक्यत्वम् । २.३०७ । व्यधिना च । २.३०८ । वृद्धवृद्धानां [१० ६] सप्रव्रजानां भिक्षूणाम् । २.३०९ । पूर्वाभावे परस्य । २.३१० । अभावो मरणाय हितकामतया भैषज्यानुप्रदाने ह्रासस्य । २.३११ । नासह्यभारो <<त्र>> क्षेपे साहार्जय्यं भजेत्* । २.३१२ । भजेत दूपश्चेत्प्रत्ययो व्यवकीर्णतायां गृहस्थैर्नियुक्ततायां समोत्क्षेपे । २.३१३ । स्थापने पि समत्वे नियुञ्जीत्* । २.३१४ । नेष्टका क्षिपेत्* । २.३१५ । न चटितां स्फुटितां वा नारोच्य तत्वम[११ १]र्प्ययेत । २.३१६ । कुर्यात्तस्करपराभृत्यै फिप्फिरं* । २.३१७ । क्षिपेत्* परिकृतां संगण्ढादि । २.३१८ । अनुवातं च पांसुघटभस्मकर्परम् । २.३१९ । धारयेत्* क्षपनम् । २.३२० । न श्रान्तं क्षिपेद्भिक्षुम् । २.३२१ । सनाथ्यस्यास्य करणम् । २.३२२ । विश्रामणम् । २.३२३ । भाण्डिकदानम् । २.३२४ । अशक्तौ प्राप्णुमावासं समं चेन्न काले भक्तस्य पानकस्य वा । २.३२५ । पात्रनिर्मादनम् । २.३२६ । गन्त्रीस्थापनम् । २.३२७ । प्रतिग्रहणम् । २.३२८ । प्रत्य[११ २]वेक्षणम् । २.३२९ । काले चेत्प्रत्युत्गमनमादाय ॥ वधपाराजयिके विभङ्गः ॥ (ख) क्षुद्रकगतम् । २.३३० ॥ हस्तछेदनं मनुष्यगतिकस्य स्थूलम् । २.३३१ । दवे ग्निदाने । २.३३२ । केशविक्रये । २.३३३ । राजकुले येन मुषितस्तस्यार्पणे । वधपाराजयिके क्षुद्रकगतम् ॥ (ग) पृच्छागतम् । २.३३४ ॥ नियोगोपदेशः । २.३३५ । निदर्शनम्* मातृगर्भः । २.३३६ । स्थूलमात्मनो घाते । २.३३७ । दुष्कारो साधुरविकृतचित्तस्य कारः । २.३३८ । नासंहिता[११ ३]र्थसंपत्ते कर्तृत्वम् । २.३३९ । न जन्मान्तरे कर्मोदयः ॥ वधपाराजयिके पृच्छागतम् ॥ (घ) विनीतकानि । २.३४० ॥ स्थूलं मृत्युरेवं मे भवतीति ब्रुवाणस्याप्रति(य)<<प>>ता तथात्वसंपादने मृयतामित्यनुस्थानैः ग्लानस्य । २.३४१ । असंप्रेयाभ्यवहार्यदाने । २.३४२ । गण्डस्यापरिपक्वस्य पाटने । २.३४३ । गर्तप्रक्षेपकवाटयी उनादौ पातने । २.३४४ । प्रपातोत्सर्गोद्वन्धादौ मरणार्थे नुष्ठाने । २.३४५ । न ग्लानाय सहसा [११ ४] शस्त्रकं रजुं वा दद्यात्* । २.३४६ । संप्रजानं वैयपृत्यं कुर्यात्* । २.३४७ । मन्त्रचपेटञ्च दद्यात्* । २.३४८ । प्रहारञ्चादेरपनोदाय तत्भूतः सुप्रत्यवेक्षितं कृत्व ले..येत्* । २.३४९ । नाल्पांशो गुरुभारोद्यमं कुर्यात्* । २.३५० । नावमुर्धको गच्छेत्* । २.३५१ । नाशिक्षितः शिक्षां योजयेत्* । २.३५२ । न प्रहरणमुक्तावाज्ञापयेत्* । २.३५३ । न ग्लानमसमर्थनिनयेत्* ॥ वधपाराजयिग विनीत[का]नि ॥ [११ ५] वधपाराजिक समाप्तः ॥ **(२,१,४) उत्तरप्रलापपाराजयिकम् । (क) विभङ्गगतम् । २.३५४ ॥ विनिधाय संज्ञामुत्तरमनुष्यधर्मयुक्ततोक्ता<<वा>>त्मनः । २.३५५ । तत्वं पश्यामि मा पश्यन्ति शब्दन्* शृणोमि मम श्रेण्वन्त्युपक्रमामि मानुपसंक्रामन्ति सार्धमालपामि संलपामि प्रतिसंमोदे सातत्यमपि समापद्ये मया सार्धमित्युक्ते । २.३५६ । देवनागयक्षगन्धर्वकिन्नरमहोरगप्रेतपिशाचकुम्भाण्डकटपूतनप्रतियो[११ ६]कितायाम् । २.३५७ । स्थूलकृत्वं पांसुपिशाचकस्य । २.३५८ । अनित्यादिसंज्ञा<<ध्याना>>प्रमाणारूप्यफलाभिज्ञादिकमुत्तरो धर्मः । २.३५९ । स्थूलकृत्वं स्वलक्षणग्राहकस्य क्लेशविस्कम्भिनः शमथनिमित्तस्य । २.३६० । नानुक्तिस्तद्व त्वस्य तद्वद्धर्मकत्वोग्तिः । २.३६१ । परावदेशत्वमस्त्यसावित्युपसन्धाने स्वस्य । २.३६२ । नोपसंधाने । २.३६३ । नासमन्वाहृत्य व्याकुर्यात्* ॥ प्रलापे विभङ्गः ॥ (ख) पृच्छागतम् । २.३६४ । [११ १] नाख्यापनमुत्तरस्य प्राप्तपरिहानिप्रतिपादनम्* । २.३६५ । उत्तरख्यापनछन्देन सनामार्थाभिधाने स्थूलम् । २.३६६ । विपर्ययस्य । २.३६७ । संसूचनेन च न भूतोत्तरत्वे स्य जातत्वम् ॥ प्रलापे पृच्छागतम् ॥ (ग) विनीतकानि । २.३६८ । स्थूलमर्हन्तदन्तोग्रचार्हसि चीवरादिकं ब्राह्म[ण्]ओ वाहित<<प>>आपधर्मा षड्गतस्येन्द्रियाणि सुदान्तगुप्तरक्षितभावितानीत्युक्तस्य तूष्णीम्भावेनाधिवासने । २.३६९ । यदि भदन्तो र्हन् पिण्ड[११ २]पा[त्]अं मे गृहाण प्रविश गृहामासने निषीद <<ह>>स्तोदकं गृहाण भोजनं प्रतिगृहाण सूपिकं भुं[क्]ष्वानुमोदस्व निष्क्रामेति तद्वत्संपादने ॥ प्रलापे विनीतकानि ॥ समाप्त उत्तरप्रलापः ॥ २,२ संघावशेषः । **(२,२,१) शुक्रमोचनम् । (क) विभङ्गगतम् । २.३७० ॥ अभाववत्स्वप्नः । २.३७१ । अकृतत्वं तत्*फलस्य । २.३७२ । मोचने । २.३७३ । तच्छन्देन । २.३७४ । स्वशुक्रस्य । २.३७५ । आद्ये । २.३७६ । अविशेषः सुखविद्याबीजभैषज्यमीमांसार्थितानाम् । २.३७७ । [११ ३] स्पर्शनेन । २.३७८ । व्यापृत्या । २.३७९ । अङ्गजातस्य । २.३८० । बाह्येनापि सत्व(ं)संख्येन स्थितेन तदाहारे । २.३८१ । विनाप्यभिनिग्रहाभिनिपीडनाभ्याम् । २.३८२ । विनिर्भोगव्यासकव्यवसर्गसुखप्रत्यनुभवैश्च । २.३८३ । अनाडीगतस्य <<अ>>कृतत्वं वि(द्)धावस्थायां प्रतिविरतो समाप्तेः । २.३८५ । ह्रासकृत्वं नृतुप्रनृतुयोः । २.३८६ । आकाशे कटिचालनस्य । २.३८७ । प्रदेशान्तरस्पृष्टेः । २.३८८ । [११ ४] प्रतिश्रोतो धारणकस्य । २.३८९ । प्रतिवातञ्च । २.३९० । अभिनिर्भोगसुखप्रत्यनुभावोपसंपतः । २.३९१ । नाडीगतस्य । २.३९२ । न मापनार्थतयां रक्तचित्ततायां स्पृष्टिरप्रयोगः । २.३९३ । दर्शने दुष्कृतम् । २.३९४ । धारणे चानुश्रोतोवातम् । २.३९५ । अनापत्ति सहसा अतदर्थप्रवृत्तावूरुवस्त्रपरसंस्पर्शकण्डूयनैः । २.३९६ । अस्पृश्यानुभूतेः । २.३९७ । स्मरणतस्तस्यापि ॥ मोचने [११ ५] विभङ्गः ॥ (ख) पृच्छागतम् । २.३९८ । च्यविष्यमाणाच्युते समनन्तरं विण्हनाडीगते । २.३९९ । नारम्भमात्रेण प्रयोगत्वम् । २.४०० । तद्व त्वं निष्प्रयोगायां मुक्तौ स्वादने । २.४०१ । न पीडमर्दपरिमर्दानाञ्चाङ्गजातस्य । २.४०२ । कर्मण्यस्यास्य परिमार्गे भैषज्येन मोचन । २.४०३ । परकीयच्च ॥ मोचने पृच्छा ॥ (ग) विनीतकानि २.४०४ ॥ विनीलिकादौ विघटिति अस्थिशङ्कलिकयोः शिर<<ः>>कर्णनाससु ग्रिवान्त[११ ६]रे पार्श्वपृष्ठक्रोडवलिषु वालान्तरे हस्तांसबाहुषु बाह्वन्तरे कट्युरुपादजं*घासु जंघान्तरे च मोचने मौलम् । २.४०५ । स्थूलकोचवनेअमतचिलिमिनिकबिम्बोपधानकमंचपीठवृशि<<काय>>पीठान्तरे घटघटिकाघटविकरकिनीकठिल्लकशिलालेपलेपान्तरार्गडमांसपेशिषु । २.४०६ । व्रणपीडने । २.४०७ । निपीडने स्त्रीक्यं तस्यारम्भे । २.४०८ । अङ्गु[१२ १]ष्ठस्यात्र प्रक्षिप्तौ । २.४०९ । उपसंक्रामतो मुक्तौ । २.४१० । संक्रामप्तश्च स्थानात्स्थानम् । २.४११ । अयोनिशश्च मनसिकुर्वतः । २.४१२ । अंगजातं धारयतः । २.४१३ । अनापत्तिः वस्तिसंघर्षणात्* । २.४१४ । परिष्वङ्गेनापीदानीं* पुराणद्वितीयया । २.४१५ । पादजंघाबाहूर्वंगुल्पादौ च स्त्रिय ग्रहणे । ॥ मोचने विनीतकानि ॥ ॥ मोचन समाप्तम्* ॥ १ ॥ **(२,२,२) कायसंसर्गः । (क) विभङ्गगतः । २.४१६ । स्त्रिया कर्तृत्वम्* । २.४१७ । [१२ २] इह । २.४१८ । रहसि निषद्यास्थानयोः । २.४१९ । सभोजनतायाञ्च । २.४२० । सह शय्यायामध्वन्यविज्ञपुरुषया सार्द्धमूढो । २.४२१ । उत्तरत्र द्वये । २.४२२ । देशेने गृहिण्याः पुंसो .आन्निध्यविज्ञस्य । २.४२३ । सान्निध्ये प्यकल्पिकायाम् । २.४२४ । दुःकृतस्य । २.४२५ । न्यूनत्वं द्वीपान्तरजाविकारभाजो । २.४२६ । वोढृत्वमस्य । २.४२७ । व्यर्थं ताद्विध्ये परं लिङ्गम् । २.४२८ । अवताकरमत्र । २.४२९ । आज्ञाने सुभषित[१२ ३]दुर्भाशितयोरर्थस्य त्रयो न्.ये न्यत्र प्रतिसेवने मेथुनस्येति प्रतिबलत्वे मौलस्य । २.४३० । अनन्तरस्यान्यत्र । २.४३१ । तद्वत्पण्डिका पण्डिको निर्मिता च । २.४३२ । इह च त्रये पुरुष । २.४३३ । तत्सुखानुभवनछन्दे चेत्संरागसंप्रयुक्तेनेति । २.४३४ । गात्रसंम्सर्शस्वीकारे । २.४३५ । तद्वत्वमत्र वेणेः । २.४३६ । तत्प्रतिबद्धस्य च चीवरस्य । २.४३७ । अविशिष्टत्वमामर्षयामर्शालम्भग्रहणाकर्षपरिक[१२ ४]र्षोल्लिंगावलिङ्गाभिनिपीडानाम् । २.४३८ । सेव्यकृत्वस्य च । २.४३९ । अनन्तरं चीवरान्तरये । २.४४० । अनन्यत्वं दुष्कृतह्रासस्य । २.४४१ । न भिक्षुणी स्पृशेत । २.४४२ । न स्त्रियम् । २.४४३ । स्पृशेदंभस्यार्तामुत्तारणाय बाहौ केशेषु वा मातृदुहितृभगिनीसंज्ञामुपस्थाप्य । २.४४४ । वालुकास्थाने चेष्टालाभार्थमवाङ्मुखावस्थापनम् । २.४४५ । पीठवत्* रक्षणम् । २.४४६ । भक्तायावलोक्य गो[१२ ५]पालपशुपालकान गमनम्* । २.४४७ । प्रत्यवेक्षणं जीवति न वेति पौनःपुन्येन । २.४४८ । निर्दोषो नुकम्पया शुद्धचित्तस्य स्त्रिपरिष्वङ्गः । ॥ कायसंसर्गे विभंगः ॥ (ख) पृच्छागतम् । २.४४९ । श्लक्ष्णोष्णमृदुकाभिप्रायत्वे स्थूलं* । २.४५० । अनापत्तिरनुकम्पया दुःखात मोचने । २.४५१ । मातृदुहितृभगिनीषु तत्संज्ञाने । २.४५२ । पूर्वसंभुक्तायां संमोदने । ॥ कायसंसर्गे पृ[१२ ६]च्छा ॥ (ग) विनीतकानि । २.४५३ । भिक्षापांसुलेड्डुकादेः स्त्रीन्द्रिये प्रक्षिप्तौ स्थूलम् । २.४५४ । दुष्कृतं पादांशादिना स्त्रीघट्टने । २.४५५ । तदासनस्य च । २.४५६ । पिच्छिलितपतितस्त्र्युत्थापने । २.४५७ । अनापत्ति स्त्रियास्यै तत्त्रयकरणे ग्रहणे च । २.४५८ । आलिं*गने मात्रा । २.४५९ । दुहित्रोत्सङ्गे निषन्तौ । २.४६० । स्त्रिया प्रस्खल्योपरि पाते । ॥ कायसन्सर्गे विनीतकानि ॥ ॥ कायसंसर्गः ॥ २ ॥ **(२,२,३) मैथुनाभाषणम् । (क) विभङ्गगतम् । २.४६१ । [१२ १] मेथुनोक्तौ । २.४६२ । याद्यर्थेन । २.४६३ । यत्र बोद्धुं भव्यता स विज्ञपने न्तः । २.४६४ । न तद्गतार्थोक्तेऽप्रयोगत्वम् । २.४६५ । अविशिष्टत्वं वर्णावर्णयाज्ञोपयाज्ञापृच्छापरिपृच्छाख्यानाशंसाक्रोशप्रत्यनुभाषणप्रतिपदाम् । २.४६६ । अनापत्तिरर्थान्तराभिप्रायेण जनपदनिरुक्तिवशात्* । २.४६७ । सदृशाङ्शत्वस्य वा नाम्नः । ॥ मेथुनाभाषणे विभङ्गः ॥ (ख) पृच्छागतम् । २.४६८ । स्थूलं छेकाशीति [१२ २]वादे पापिकसीति छेकं ते पापकं वा व्रणमुखमिति संविभागं कुर्विति मां संविभजस्वेति मया सार्धं स्वपिहि समागमं वा कुर्विति । ॥ मेथुनभाषणे पृच्छा ॥ (ग) विनीतकानि । २.४६९ । तथाविकुर्वाणधर्मिकाभाषणे । २.४७० । यवान् देहि देहि भगिनि मह्यं यत्ते भगिनि पश्यामि तद्देहि यत्ते भगिनि पुरतस्तद्देहि यत्ते भगिनि मनापं तद्देहि प्रियं ते देयमित्यहमुक्ता किन् ते प्रियमित्युक्ते त्वं [१२ ३] मे भगिनि प्रिया । २.४७१ । देहि मे भगिनि पानीयं खाद्यकं यवागूं भोजनं त्वमेवैतदित्युक्तिषु । २.४७२ । गर्दभास्त एतत्कुर्वन्त । २.४७३ । चारिकां भगिनि चरस्युल्लापयमाना पुरुषान् पिण्डपातम् । २.४७४ । अलातमस्मिन् प्रक्षिप्तेति च । २.४७५ । प्रक्रित्या च दौष्ठुल्यभाषिणो दुष्ठुलया भाषणे । ॥ विनीतकानि मेथुनाभाषणम् ॥ **(२,२,४) सांचरित्रम् । (क) विभङ्गगतम् । २.४७६ । मेथुनेनात्मनः परि[१२ ४]चरणस्य वर्णने । २.४७७ । तद्वत्तद्वर्णितानुमोदनार्थं वचनम् । २.४७८ । तदेव प्रत्युच्चारणम् । २.४७९ । तेन मेथुनेन वानुपसंधाने प्रयोगत्वम् । २.४८० । उभाभ्यां तस्य । २.४८१ । परिचर्यासंवर्णनम् । २.४८२ । संयोगे । २.४८३ । अन्यस्य । २.४८४ । अन्येन । २.४८५ । तदर्थम् । २.४८६ । अनुपनतोपनतेः सम्पत्येः गृहीतदौतेयस्य संप्रयोज्यतो निवेदि भवतस्तत्रेतरतदुक्ते पूर्वत्र प्रवेदने । २.४८७ । कृतत्वं श्रु[१२ ५]तत्वे प्यमध्यवृत्तेः । २.४८८ । पृथक्त्वमेषां करणीयतायाम् । २.४८९ । नाकर्तृत्वेऽन्त्यस्य नृत्वे न प्रयोगत्वम् । २.४९० । न फलेक्यात्प्रतिकर्तृसमाप्ते व्यापारस्य लोपः । २.४९१ । स्वत्वमत्र दूतस्य । २.४९२ । संप्रयोज्यत्वं तत्प्रभोः । २.४९३ । दुष्कृतत्वमन्यस्य । २.४९४ । वाक्त्वं लिपिहस्तमुद्रोद्देशं संकेते निमित्तानाम् । २.४९५ । अनुपनतिर्वेश्यात्वम् । २.४९६ । प्रवतत्वं चास्वत्वेन प्राक्चतुष्टात्* । २.४९७ । [१२ ६] भ्रष्टत्वं फलहितत्वे । २.४९८ । तद्वशा चेदभार्यानुश्रावितत्वे प्राणिवत्त्वं तदन्तरसमन्तरकलिहितत्वतिलिन्तिलिकाच्छिन्नत्वत्रिसङ्करापरितत्वाचारप्रतिनिःसृष्टत्वाभार्यानुश्रावितत्वघण्टा च घुष्टत्वानां दुःक्रितकृत्त्वं त्रयस्यास्यामार्यस्य । २.४९९ । कस्मादयं न प्रतितिष्ठतीयं न गच्छति श्वशुरगृहान्न नीयत इति चोक्तीनाम् । ॥ सांचरित्रे विभङ्गः ॥ (ख) पृच्छागतम् । २.५०० । [१३ १] स्थूलं गर्धासन्निपतासेवनक्रीडोपनतात्मनां सांचरित्रे । २.५०१ । व्यपदेशे प्रतीष्टतायाम् । २.५०२ । कलिहेन हारणे । २.५०३ । भार्याममुका स्त्रियं क्रीणीहीत्युक्तौ । २.५०४ । दुष्कृतं स्त्रियमिति । २.५०५ । काचिल्लभेति च । ॥ सांचरित्रे पृच्छा ॥ (ग) विनीतकानि । २.५०६ । स्थूलं दत्ततो त्त्रमसमाधानेन । २.५०७ । धर्मोपाधिं* पुरस्कृत्य शब्दनेन । २.५०८ । अन्यार्थाम्(अ) संहितञ्च(ं) । २.५०९ । नादुष्टताया सत्त्वस्यान्यत्रेत्यनाक्षिप्तत्वम् । [१३ २] सांचरित्र विनीतकानि ॥ ॥ सांचरित्रम् ॥ ४ ॥ **(२,२,५) कुटिकाविहारगतः । (क) विभंगगतः । २.५१० । निर्दोषमयात्र ईर्यापथचतुष्कस्य । २.५११ । अतन्त्रत्वं नियुक्तत्वानियुक्तत्वयोः । २.५१२ । स्वत्वं नियुक्तस्य । २.५१३ । प्रतीष्टा वः यथोक्तकारे कायेन वा वाचा वा । २.५१४ । एकत्वं कृतेः । २.५१५ । अकर्तृत्वमङ्गानां भेदस्य । २.५१६ । याचिते नुज्ञाते वा तेन तद्विधेनाशुद्धे २.५१७ वस्तुन्यदेशिते आवसस्य कारणे न्ते । २.५१८ । अनन्तरे प्येतदया[१३ ३]चितत्वम् । २.५१९ । एकार्थमतिप्रमाणस्य । २.५२० । अकल्पिकता सारम्भत्वमपराक्रमतेत्यशुद्धिः । २.५२१ । क्षुद्रजन्त्वाशयवत्त्वं राजकुलतीर्थकावसथसन्निःसृतत्वाच्छेद्यवृक्षत्वमर्वाग्व्यामान्तानन्तर्यतो बहिर्नदीप्राग्भारोदपानावष्टब्धत्वमिति यथासंख्यमेतानि । २.५२२ । प्रामणिको हस्तो ध्यर्धः सुगतवितस्तिः । २.५२३ । तत द्वादशकसप्तको प्रमाणाम[१३ ४]न्तरत । २.५२४ । लब्धदेशनत्वं संघतो देशितत्वम् । २.५२५ । नाशुद्धस्य याचेत्* । २.५२६ । स्वप्रत्ययेन वा गच्छेयु नियुक्तानां वा भिक्षूणाम् । २.५२७ । संस्तरे प्येतत् । २.५२८ । अनापत्तिः कृतलाभपरिभोगयोः । २.५२९ । पुराणाभिसंस्करणे च । ॥ कुटिकासंघावशेषसंघार्थम् ॥ विहारसंघावशेषाम् ॥ (ख) पृच्छागतः । २.५३० । प्रयोगत्वमारम्भस्य । २.५३१ । तद्वदच्छन्नकारणे न्तः । २.५३२ । अनेकार्थं [१३ ५] अनिसृष्टे पौद्गलिकेन । २.५३३ । विप्रकृतस्य च । २.५३४ । दुष्कृतमनिर्वाहे याचनादूर्धम् । ॥ कुटिकाविहारसंघावशेषगता पृच्छा ॥ ५ ॥ **(२,२,६) अमूलकसंघावशेषः । २.५३५ । पाराजयिकाध्याचरणस्य भिक्षोर्ध्वस्तस्याप्यनङ्गमत्र पक्षतः स्वत्वं मृषावादेन कस्यचिद्विज्ञप्तौ । २.५३६ । च्याचनच्छन्देन । २.५३७ । न तं मूलमन्तरम् । २.५३८ । असत्वं प्रमुषितस्य अकारणमृषावादित्वेऽर्थतत्वम् । ॥ अमूलकसंघावशेषा ॥ ६ ॥ **(२,२,७) अन्यथाभागीयानुध्वंसने । २.५३९ । [१३ ६] वाच्यान्तरप्रतिष्ठेन वाक्येन मृषा । ॥ अन्यथाभागीयानुध्वंसनसंघावशेषा ॥ ७ ॥ **(२,२,८) अमूलकलेशः । २.५४० । स्थूलमसेवनेनानुध्वंसने । २.५४१ । अनुत्*ग्रहे च नाम्नः । २.५४२ । तथागतस्यान्तिके दुष्टचित्तरुधिरोत्पादने संघभेदे च संसूचने सन्धाय भाषितमित्यपि दुष्कृतम् । ॥ अमूलकलेशिगपृच्छा ॥ ८ ॥ **(२,२,९) संघभेदे । २.५४३ । परपर्षदपकृष्टौ स्थूलम् । २.५४४ । निवाररूपेणाप्रतिनिसर्गानुष्ठानरूपानु[१३ १]गतिः । २.५४५ । निवारणवत्त्वं ज्ञप्तेः एकक्षणात्वं वाक्यस्य । २.५४६ । पृथक्त्वमावृत्तेः । २.५४७ । न निगमनस्य । २.५४८ । प्रयोगत्वं प्रवृत्तेः । २.५४९ । तस्याकृतप्रवासनीयचोदनस्मारणस्य । २.५५० । अनाज्ञप्यत्वमस्य । २.५५१ । नैषु न नाज्ञपयेयुर्मेथकेन कर्मणा च । २.५५२ । तदन्ते प्रतिनिसर्गे । २.५५३ । पराक्रान्तित्वस्य । २.५५४ । भेदे । २.५५५ । संघस्य । ॥ संघभेदसंघावशेषा ॥ ९ ॥ **(२,२,१०) अनुवर्त्तने । २.५५६ । [१३ २] तत्साहाय्यप्रतिपत्तृतायाः । ॥ अनुवर्तनं संघावशेषा ॥ १० ॥ **(२,२,११) कुलदूषणे । २.५५७ । स्वप्रवासनस्य कर्तरि संघे मिथ्याशायेनैषास्यात्र प्रवृत्तिरिति वक्तृत्वस्य मृषा । ॥ कुलदूषणसंघावशेषा ॥ ११ ॥ **(२,२,१२) दौर्वचस्ये । २.५५८ । चोदितत्वे भिक्षुणाधिशीलमवचनीयत्वस्यात्र भिक्षुभिरात्मनः कृतेः । ॥ दौर्वचस्यसंघावशेषा ॥ १२ ॥ ॥ संघावशेषाः समाप्ताः ॥ २,३ नैस्सर्गिकः । **(२,३,१) मारणे । २.५५९ । नापूर्वे होरात्रे [१३ ३] नस्त्यस्य सत्त्वम् । २.५६० । प्रयोगपात्रत्ववासे । २.५६१ । प्रथमारुणादिरेषो स्य । २.५६२ । सूर्योद्गमने कर्म [वृत्य]ये । २.५६३ । सत्वं नैसर्गिके संज्ञानतः प्राधान्येन । २.५६४ । अपेतत्वमस्य निर्यातितत्वे (निर्याचितत्वे) । २.५६५ । तत्वं प्रव्रज्यापेक्षार्थतायां नियमनस्य । २.५६६ । चीवराद्विकल्पनायाञ्च । २.५६७ । ध्वंसो त्रानुवृत्तत्वस्य । २.५६८ । भ्रंसे च प्रकृते । २.५६९ । सतो स्यान्यत्रापि तद्वस्तुनि [१३ ४] जातत्वम् । २.५७० । सजातो साप्ताहिके । २.५७१ । नैसर्गित्वस्य तदापत्तिसत्तायां स्वीकृते परिस्कारमात्रे । २.५७२ । नेतदूनत्वे खण्डस्य । २.५७३ । सांघिकस्य च । २.५७४ । निस्तत्वमत्र तन्त्रम्* । २.५७५ । नेदम्* त्रयमास्तीर्णकठिनस्य । २.५७६ । सद्भावे स्वत्वस्यानुवृत्तस्य दशरात्रम् । २.५७७ । पराहादौ । २.५७८ । वाससि । २.५७९ । त्रिमण्डलस्छादिपर्यन्तप्रमाणे । २.५८० । असम्बद्धे धिष्ठानेन । २.५८१ । [१३ ५] सम्बद्धे च सानुवृत्तौ अन्यत्रानधिष्ठिततद्गोत्रात्प्रभृत्यन्यत्र । ॥ धारणे नैस्सर्गिकम् ॥ १ ॥ **(२,३,२) विप्रवासे । (क) विभंघगतः । २.५८२ । निर्दोषो निशदनेन विप्रवासः । २.५८३ । न प्रमील्य प्रत्यास्तरणं गच्छेन्न चेदन्यैव प्रतिप्राप्तिरिति संस्था । २.५८४ । वासे देवमभिप्रेत्य गतो कालसम्पत्तौ तत्र याचित्वैतत्* । २.५८५ । असम्पत्तौ चतुर्गुण उत्तरासं*गे बहुतरजागरणेन । २.५८६ । नानर्हे संघाटीनिक्षिप्ते[१३ ६](र्) आवसे वर्षाषाटि निक्षिपेत्* । २.५८७ । न वृष्टौ । २.५८८ । न नद्यन्तेरेतत्वे गन्तव्यस्य । २.५८९ । नानयोराशङ्कायाम् । २.५९० । सभिक्षुकसकपाटकत्वं* साहितमावास्यवर्षत्ता देवस्य वर्षाशङ्किता वा जलान्तरितत्वं गन्तव्यस्येत्यस्याभावेनादत्तसम्वृत्तिरणास्तीर्णकठिनः संघाटीं* विना न क्वचिद्* गच्छेत्* । २.५९१ । अन्याधिष्ठानमुत्सृज्य चीवरस्थानप्राप्त्यसंभवे प्रति[१४ १] । । विधिः । २.५९२ । दानमविप्रवाससंवृत्तेः संघाट्या गुरुकत्वे जीर्णं वाधिकयोः । २.५९३ । अधिष्ठितस्यालब्धसम्वृत्तेः कर्तृत्वम् । २.५९४ । सोपविचारात्तत्स्थानादन्यत्र स्थितस्यारुणोद्गतौ । २.५९५ । कृतमर्यादे मर्यादास्थानपर्यन्तः । २.५९६ । नैकत्वे परिगृहीतुरवान्तरमर्यादानां भेतृत्वम् । २.५९७ । अविभक्ततायां च धनतो दृष्टितश्च । २.५९८ । शाखोप[१४ २]शाखानामसंसंगे पृथक्स्थानत्वं साधारण्यमूलस्य । २.५९९ । मूलामूलादेश्च । २.६०० । संसक्तशाखाविटपवृक्षाणामेकस्थानत्वम् । २.६०१ । तलक इव तत्राधोभागस्य प्रवेशः । २.६०२ । नौशकटयोश्च । २.६०३ । निर्मर्यादे व्याप्यङ्गपर्यन्तः । २.६०४ । उपविचारव्यामस्सामन्तकेन । २.६०५ । कुड्यपरिक्षिप्तो ग्रामे यावत्षड्गवयुक्तेन वंशशकटेन[१४ ३] स्फुरणमध्वना वा कुक्कुटस्योत्पात्य निलयने वाटपरिक्षिप्ते जैडकरजासंप्रकृतिह्रीमत्पुरुषप्रविचारभूम्यध्वना वा । २.६०६ । परिखापरिक्षिप्ते द्वादशपदिकया निःश्रयण्या च्छोरितसंकारस्थूललोष्टाध्वनो वा । २.६०७ । तत्स्थाने त्रिकरणीयपरिसर्पणातिना मन रजोभिश्च यावतस्तदगतस्य संभावनम् । २.६०८ । निर्मर्यादेऽध्वन्यभिन्नग[१४ ४](ग)तेर्मनुष्यस्येकान्न(ं)पञ्चाशद्व्यामाः । २.६०९ । न सीमान्तरं पृथक्त्वं क्रोशान्तान्मध्यतः परस्य । ॥ विप्रवासनैस्सर्गिके विभङ्गः ॥ (क) क्षुद्रकगतः(?) २.६१० । न पापखण्डतोपगतावधिष्ठनस्य । २.६११ । नारूढिनैसर्गिके । २.६१२ । सांघिके च । २.६१३ । भवत्यतो विप्रवासः । २.६१४ । नान्याधिष्ठानादन्यस्थानत्वहानिः । २.६१५ । नान्येदं धर्मकयोः दृष्टितश्चेदनाक्षेपः । २.६१६ । [१४ ५] न साधारणैर्द्वारकोष्ठकस्य । २.६१७ । न धनत इति पितृपुत्रयोः । २.६१८ । विवर्जिताप्येतत्* । २.६१९ । सभोजनत्वे च । २.६२० । नोपविचारत्वं ग्रामे स्याभवतो विहारस्य । ॥ विप्रवासनैस्सर्गिकम् ॥ २ ॥ **(२,३,३) मासिके । (क) विभंगगतः । २.६२१ । पूर्णवदसत्यां पूरकप्रत्यासां मां न्यूनं मां समसामन्तकात्* । २.६२२ । सत्वे चाधिष्ठानिकस्य । २.६२३ । अन्यत्रास्य त्रिंशद्राह्रातिक्रान्तौ । २.६२४ । अ[१४ ६]पूरकत्वं विजतियस्य वर्णादितः । २.६२५ । सर्ववर्णत्वं शौक्ल्ये । २.६२६ । तद्गणाहादौ एथितत्वं संपत्तौ तस्य । २.६२७ । पुटद्वयमहतात्संघाटीपर्यन्तः । २.६२८ । निषदनस्य च । २.६२९ । एक उत्तरासंगान्तर्वासनौ । २.६३० । द्विगुणमृतुहतात्* । २.६३१ । अनियम पांसुमयेषु । २.६३२ । दद्याल्लूहत्वे परित्ततायां वाधिकानि या[१४ १]वदर्थम्* । २.६३३ । अदेयत्वमधिकस्य । २.६३४ । नैसर्गिककृत्वञ्च । २.६३५ । न न्याय्यमुत्पाटयेदत्रैव परिकर्म कृत्वारोपयिष्य इत्यनुसम्पाद्य चित्तम् । २.६३६ । यथातथोत्पाटितस्य प्राक्समायोगान्नैस्सर्गिककृत्वम् । २.६३७ । खण्डसंघाट्यां नव प्रभृत्यां पञ्चाविं*शतेर्युग्*मवर्जम् । २.६३८ । अतः परं कन्था । २.६३९ । प्रथम एषां त्रिकैः द्वितृतीयमण्डलकत्वम् । २.६४० । अर्धच[१४ २]तुर्थमण्डलकं द्वितीये । २.६४१ । तृतीये र्धपञ्चममण्डलकत्वम् । २.६४२ । त्रिपञ्चकानि स्वहस्तैः ज्येष्ठान्याधिष्ठानिकानि । २.६४३ । कनिष्ठान्युभयतो र्धहस्तमुत्सृज्य । २.६४४ । अन्तरं मध्यानां प्रमाणम् । २.६४५ । अन्तर्वाससो द्विपञ्चकमपि द्विचतुष्कञ्च । २.६४६ । आत्रिमण्डलच्छादितत्वतो पि । २.६४७ । कायसप्तांशद्वयं हस्ते र्थः । २.६४८ । अकारयति कुसूलककरणम्* । ॥ [१४ ३] मा[ं]सिकनैसर्गिकविभङ्गः ॥ (ख) पृच्छागतः । २.६४९ । दुष्कृतकृत्त्वं न्यूनवदन्तरे । २.६५० । अप्रत्याशत्वमच्छादने र्धमण्डलस्य । २.६५१ । अकल्पिके च । २.६५२ । निरधिष्ठनानाञ्च मुखपोचपरिश्रावप्रत्यास्तरणचिलिमिलिकादीनां परिस्कारचीवराणाम् । ॥ मासिकपृच्छा ॥ ॥ मासिकनैःसर्गिकम् ॥ ३ ॥ **(२,३,४) धावने । (क) विभंगगतः । २.६५३ । प्रतिगुप्तेरन्तरात्यास्थानम् । २.६५४ । अनुपेक्षणमत्र भिक्षुणीभिः । २.६५५ । [१४ ४] पिण्डकस्यास्मै दानम् । २.६५६ । ज्ञातिरासप्तमाभ्यां पितृभ्यामन्यतरेणाप्येकपूर्वजः । २.६५७ । संज्ञानस्य कर्तत्वं प्राधान्येन । । वृंदे तत् । २.६५८ । भिक्षुणीत्वतदज्ञातित्वयोः । २.६५९ । उत्तरस्मिं*श्च । २.६६० । अधिष्ठितस्वपुराणधावनार्हचीवरनिषदनानां कस्य निर्धावनरञ्जनाकोटनेषु विज्ञप्त्या । २.६६१ । प्रदेशस्यापि कृतौ कर्मणः कृतत्वम् । २.६६२ । कृतत्वे कारितत्वम् । २.६६३ । आ[१४ ५]फलपर्यन्तादेकत्वम् । २.६६४ । पर्वभूतत्वे फलानामैक्यम् । २.६६५ । संज्ञानप्रधानतायां यथार्थे मौलं* २.६६६ उपमूलत्वमयथार्थत्वे संज्ञानवद्विमतिः । २.६६७ । सांघिकं क्रियाकारमनुरक्षेत्* । २.६६८ । अनिस्सरणमत्रागन्तुकत्वं सदसत्वरूपनिर्ज्ञानार्थमस्य तेन प्रश्नः । २.६६९ । अनति..मय्य । २.६७० । न बुद्धोक्तः सांघिकाद्विचालः । २.६७१ । गृह्णीयान्निःसृ[१५ १] । । ज्यमानमतिरेकं पात्रचीव<<र>>शिक्यसरितकायबन्धनं संघ उपनिक्षेपाय । २.६७२ । तथोपनिक्षेप तस्य यथेष्टं तद्विकलैरादानम् । ॥ धावननैःसर्गिके विभङ्गः ॥ (ख) पृच्छागतम् । २.६७३ । नोच्चारप्रस्रावस्यन्दनिकाकर्दमादिनासितधावने स्त्यपह्रासः । २.६७४ । दुःकृतं चिलिमिनिकागृहचोडौपधानकविकल्पितनिःसृष्टसांघिकानाम् । ॥ धावननैःसर्गिक[१५ २]पृच्छा । ॥ धावननैस्सर्गिकः ॥ ४ ॥ **(२,३,५) प्रतिग्रहे । (क) विभंगगतः । २.६७५ । प्रतिगृह्णीयाद्भिक्षुणी महार्हं वासः परिवर्हणाय कुर्याद्भिक्षुण्या सार्द्धं परिवर्त्तम् । २.६७६ । तुल्येन तत्तुष्टिक्रिता वा ॥ प्रतिग्रहे । २.६७७ । विज्ञप्त्या चीवरस्य । २.६७८ । अनापत्तिः पटकप्रदाने संघाय सौभाषनिकस्य । २.६७९ । उपसंपाद्यमानमुषितयोः । २.६८० । चित्तश्रद्धमुद्भाव्य पुरतः स्थापयित्व निर[१५ ३]पेक्षणं प्रक्रमणे ॥ प्रतिग्रहेनैस्सर्गिकेविभङ्गः ॥ (ख) पृच्छागतः । २.६८२ । हस्तिभूतत्वं लब्धदा । २.६८३ । दर्शनोपविचारगततास्यादिः प्रयोगत्वमसन्निहितप्रतिष्ठेः । २.६८४ । वैशद्यमयात्रावसत्वं च पटप्रदानादौ तन्त्रम् । २.६८५ । अनापत्तिस्तावत्कालिकचित्तेन विस्मृत्य मूल्यादाने ॥ प्रतिग्रहनैस्सर्गिकपृच्छा । ॥ प्रतिग्रहनैःसर्गिकः ॥ ५ ॥ **(२,३,६) याच्ञानैस्सर्गिकः । २.६८६ । मनुषगति[१५ ४]गतो गृहीभूतः प्राण्यज्ञातिरापत्तिकृत् । २.६८७ । उत्तरस्मिंश्च त्रये । २.६८८ । अनाच्छिन्ननष्टदग्धहृतो र्ढचीवरस्य । २.६८९ । विज्ञाने दुष्कृतस्य । २.६९० । मौलस्य लब्धौ चीवरस्य । २.६९१ । अनूनस्य । २.६९२ । यद्विधस्यार्घवर्णसमतो विज्ञप्तिः । २.६९३ । अनापत्तिरन्यस्य । २.६९४ । न तुकदशिकयोश्च विज्ञपने । २.६९५ । न्यूनत्वमौतोस्तानस्य च । २.६९६ । तद्वत्तत्प्रकृतिः । ॥ या[१५ ५]ज्ञानैस्सर्गिकः ॥ ६ ॥ **(२,३,७) विज्ञापनार्हः । २.६९७ । सर्वस्याभावे धिष्ठेयस्य विज्ञपनार्हत्वम् । २.६९८ । अस्यापत्यता । २.६९९ । परं गृहिणो द्वादशहस्तकः पडकोत्तरमन्तरं सप्तद्विकषाटकः । २.७०० । भिक्षोः ज्येष्ठे यथोक्तपुटे संघाटीनिवसने । २.७०१ । युग्मस्य विज्ञप्यत्वम् । २.७०२ [१५ऽअ१]। अन्यतरस्य । २.७०३ । अतिरिक्तस्यातः प्रमाणादविज्ञप्यत्वम् । २.७०४ । पूर्वकस्य च पूर्वलब्धौ उत्तरलब्धावधिकस्य देयत्वम् । २.७०५ । उत्तरलाभ [१५ऽअ२]अतिकस्य देयत्वम् । २.७०६ । विज्ञप्तावविज्ञप्तस्य दुक्कृतम् । २.७०७ [१५ ५ ]। विज्ञप्तावविज्ञप्यस्य दुष्कृतम् । २.७०८ । लब्धौ मूलम् । २.७०९ । अदाने च देयस्य । ॥ विज्ञपना[१५ १]र्हनैस्सर्गिकम् ॥ ७ ॥ **(२,३,८) संजकल्पितः । २.७१० । संकल्पितमप्रवारितस्य ज्ञातं तुल्यमसंकल्पितेन । २.७११ । तदेवान्यत् । ॥ संकल्पितमार्गणनैस्सर्गिकः ॥ ८ ॥ **(२,३,९) प्रत्येकः । २.७१२ । वैशद्यपि दातुः । २.७१३ । एकत्वं लब्धेः प्रयोगैक्ये । ॥ प्रत्येकनैस्सर्गिकः ॥ ९ ॥ **(२,३,१०) प्रेषितः । २.७१४ । प्रेषितमकल्पिकं चीवरमूल्यं प्रतिक्षिप्य परिप्रष्णपूर्वकमुपदिष्टं वैयापृत्यकरमादिष्टं दूतेनोक्तो वृत्ता[१५ २]न्तात्वाख्यानपूर्वकञ्चोदयेत । २.७१५ । नाशक्तवत्तायां संप्रधारेणे चोदितत्वम् । २.७१६ । असम्पत्तौ द्वितीयमपि । २.७१७ । त्रितीयञ्च । २.७१८ । तत आतृतीयमुद्देशे तिष्ठेत्* । २.७१९ । असम्पत्तौ दातारं श्रावयेत्* । २.७२० । वृत्तायामेवं प्रतिनिःश्रिष्टौ प्रयच्छत उक्तप्रतिनिःसर्गादभ्युपेतदातृचित्तग्रहणानुष्ठानात्प्रतिगृह्णीयात्* । २.७२२ । परंचोद[१५ ३]नेन स्थानेऽभ्युपेते वा । २.७२३ । गृहीतौ । २.७२४ । मनुष्यद्वेत्रयस्य गृहीत्वे च । २.७२५ । अनुक्तौ दुष्कृतम् । २.७२६ । अप्रतिक्षेपे । २.७२७ । अपृष्टोपदेशे च । २.७२८ । नैराश्ये चाश्रावणे । ॥ प्रेषितनैःसर्गिकः ॥ १० ॥ **(२,३,११) कौशेयः । (क) विभंगगतः । २.७२९ । धारयेत संस्तरम् । २.७३० । कृतिकारणयोः । २.७३१ । कोशेयस्य । २.७३२ । संस्तीर्णतादि संस्तरे । २.७३३ । कृतिनिष्ठानस्य । २.७३४ । अनापत्तिः कृ[१५ ४]तलाभे भोगाभिसंस्करणेषु । ॥ कोशेयनैःसर्गिके विभर्गः ॥ (ख) पृच्छागतः । २.७३५ । न्यूनत्वं न्यूनमिश्रत्वे । २.७३६ । विनष्टतायाञ्च द्रव्यस्य । ॥ कोशेयनैःसर्गिके पृच्छा ॥ ११ ॥ **(२,३,१२) शुद्धकाले । २.७३७ । शुद्धकालकैडकरोम्नाम्* । २.७३८ । जात्या । २.७३९ । तत्वं नीलकर्नमककंचशकानाम् । ॥ शुद्धकालनैःसर्गिकः ॥ १२ ॥ **(२,३,१३) द्विभागः । २.७४० । अतिरिक्तत्वेऽर्द्धस्य तेषाम् । २.७४१ । समांश[१५ ५]त्वमितरत्रावदातगोचरकानाम् । २.७४२ । पार्श्वपृष्ठग्रीवजं पूर्वम् । २.७४३ । शिरपादोदरजमुत्तरम् । ॥ द्विभागनैःसर्गिकः ॥ १३ ॥ **(२,३,१४) षड्वर्षः । २.७४४ । दैर्घ्यवितस्तारयोरतिमात्रत्वे छेदनम् । २.७४५ । वर्धनं ह्रस्वस्वासंवृतत्वयोः । २.७४६ । छेदे संबन्धनम् । २.७४७ । प्रतिवायो भेदे दौर्बल्ययोः । २.७४८ । दुष्प्रतिसंस्करत्वे दानम् । २.७४९ । अलब्धसम्वृत्तेः सत्यन्यत्र स्वकामत्यक्ते वान<<ति>>क्रान्ते । २.७५० । [१६ १] । । षड्वर्षसंगतौ कृततायां संस्तरस्य । २.७५१ । सत्ववदारम्भे विप्रकृ<<त्>>त्वम् । २.७५२ । नान्तगतौ प्रयोगस्यानापत्तिकृत्वम् । २.७५३ । पृथक्त्वं प्रव्रजान्तरस्य । ॥ षड्वर्षनैःसर्गिकः ॥ १४ ॥ **(२,३,१५) वितास्तिः । २.७५४ । अदत्तपुराणनिषदनसुगतवितस्तैर्नवनिषदनस्य परिभोगे । २.७५५ । सच्चेतत् । २.७५६ । एतावतापि । २.७५७ । शक्यप्रतिसंस्कारेणापि । २.७५८ । संदर्भसमुदा[१६ २]गमेन वा । ॥ वितस्तिनैःसर्गिकः ॥ १५ ॥ **(२,३,१६) ऊर्णिढिः । २.७५९ । सति वोढर्यसति च योजनत्रयादूर्धमैडकोर्णोद्वहने । २.७६० । क्रोशो ध्वनि गतेरात्मा । २.७६१ । प्रयोगस्यार्द्धं दुष्कृतमृद्धेरन्येन नभसा हरणे निर्मिते च । २.७६२ । निर्दोषं खोलापूलालेप्यकायष्कुञ्चकलोठकमुरुचिकाव्यर्थं तन्मात्राणाम् । २.७६३ । परमाण्वण्वब्लोहशशविगोवातायनच्छिद्ररजोलिक्षयूगयवा[१६ ३]ङ्गुलीनां षट्* पूर्वमुत्तरम् । २.७६४ । षट्चतुरङ्गुलो हस्तो र्धचतुर्थ<<ः>> हस्तकः पुरुषश्च चतुर्हस्तकं धनुस्तत्शतपञ्चकं क्रोशः । २.७६५ । तदन्तादि चरण्यस्य न कायभारं वहेत । २.७६६ । न पार्श्वपृष्टकटिशिरोभिः । २.७६७ । अनाशङ्क्यमस्मिन्नसाधरणत्वम् । २.७६८ । नार्द्धभागादूर्धमुत्पाटयेत्* । ॥ ऊर्णोढिनैःसर्गिकः ॥ १६ **(२,३,१७) ऊर्णपरिकर्म । २.७६९ । पुराणाचीवर[१६ ४]स्य स्थाने एडकरोमाणि । २.७७० । विचटनमाकोटनस्य । ॥ ऊर्णपरिकर्मनैःसर्गिकः ॥ १७ ॥ **(२,३,१८) जातरूपरजते । २.७७१ । स्वीकृते रत्नस्य । २.७७२ । गम्यतायां तत्पूरिः । २.७७३ । स्वस्य चाकृतकल्पस्य । २.७७४ । स्पृष्टो स्पर्शेन च । २.७७५ । यथाकथञ्चित । २.७७६ । पात्रिकताम्रस्य दुष्कृताम् । अ २.७७७ । अनापत्तिरन्यस्य । २.७७८ । त्रपुसज्जशीसलोहानां श्रामणेरयोश्च । २.७७९ । [१६ ५] दानपतेः स्वामित्वाधिमोक्षो वैय्यपृत्यकरस्य स्वामित्वाधिमोक्षो वैयापृत्याकरस्य स्वामित्वाभ्युपगमनमैधिष्ठानमिति कल्पाः । २.७८१ । नाविद्यमानधर्मार्थप्रत्ययादन्यत्र रुढिः । २.७८२ । न दूरत्वे स्वामिनो ध्वस्तिः । २.७८३ । कल्पते कारणमात्मार्थं भोजनस्य । २.७८४ । तत्करे चार्पणाय कार्षापणग्रहणम् । २.७८५ । पथ्यदनस्य चारनात्* । २.७८६ । उप[१६ १]स्थापयेदग्न्यर्थि सूर्यकान्तम् । २.७८७ । नैनमगुप्त स्थापयेत । २.७८८ । दनादत्तादायिनेदर्षयेत्* । २.७८९ । फलमुत्पाद्यस्यास्मै दद्यात्* । २.७९० । उदकार्थि चन्द्रकान्तम् । २.७९१ । समानः पालनविधिः । २.७९२ । अनन्तः कृतत्वमुपस्कारानुज्ञाने रत्नस्वीकरस्य । २.७९३ । न रीतिताम्रकंसंदारुपात्रं स्वीकुर्यात्* । २.७९४ । स्वीकृतस्यास्यान्यस्य वा परिभोगश्चेत्* [१६ २] भैषज्यशरावकपरिभोगेण <<॥>> २.७९५ द्वयमधिष्ठानिकमायसं मृन्मयञ्च । २.७९६ । मणिमुक्तवैदूर्यशंखशिलाप्रवाडरजतजातरूप अस्मगर्भमुसारगल्वलोहितिकादक्षिणावर्तप्रभृति रत्नम् । २.७९७ । न्यूनत्वमयात्रिके । २.७९८ । अनन्तरे पि । २.७९९ । छिन्नभिन्नखण्डदग्धाप्रचरितपूर्वानाहतालक्षणप्रतिरूपकमेतत्* । ॥ जातरूपरजतनैःसर्गिकः ॥ १८ ॥ **(२,३,१९) रूपिक । २.८०० । [१६ ३] लाभे प्सोरापत्तिः । २.८०१ । गृहीत्वे परस्याज्ञातित्वे मौली । २.८०२ । उत्पत्तौ वृद्धेः । २.८०३ । अनन्तरे च । २.८०४ । पणेन रत्नेन वा व्यवहारात्* । २.८०५ । एकत्वं प्रयोगे । २.८०६ । प्रयुञ्जित्* रत्नार्थम् । २.८०७ । आरामिकोपासकयोः सत्वे नियोगेन । २.८०८ । बन्धकं द्विगुणमादाय साक्षिसम्वत्सरमासदिवससंघस्थविरोवारिक गृहीतृधनला[१६ ४]भानारोप्य पत्रे । २.८०९ । ज्ञातवानेतदितरस्मै प्रवेदयेत्* । ॥ रूपिकव्यवहारनैःसर्गिकः ॥ १९ ॥ **(२,३,२०) क्रयविक्रय । २.८१० । अन्येन दद्यात्सांघिकं संघभक्तोपक्रीणते धान्यं मूल्येन । २.८११ । तस्यैव चेत्सविशेषम् । २.८१२ । क्रीणीयात्* क्षये संघः । २.८१३ । नवञ्च । २.८१४ । पुराणं चिक्रीय निष्प्राणकं चेत्* । २.८१५ । न मूल्यं कुर्यात । २.८१६ । न गृहिव्यवहारेषु हस्तं प्रक्षिपेत्* । २.८१७ । गृहिणा [१६ ५]क्रायणम् । २.८१८ । असम्पत्तावात्रयाद्वाद्निश्चारणम् । २.८१९ । अकरणं परार्थे प्युत्सृज्य रत्नत्रयं पणापणः । २.८२० । न बन्धकं कुर्यात्* । २.८२१ । संघेन तदर्थं संघकर्मिकेणोधिस्य दानम् । २.८२२ । नापृष्ट्वा वृद्धवृद्धां संघार्थमुद्यच्छेत्* । २.८२३ । यत्राभिलिखितता सम्पत्तिमस्यानुतिष्ठेत्* । ॥ क्रयविक्रयनैःसर्गिकः ॥ २० ॥ **(२,३,२१) पात्रधारण । २.८२४ । पात्रस्याधिष्ठितस्य । २.८२५ । [१७ १] । । निस्सृष्ठत्वं प्रव्रज्यापेक्षार्थतायां नियमने । २.८२६ । अकल्पिकत्वं पाण्डुशुक्लाधिकानां न्यूनता प्यामस्य । २.८२७ । निर्दोषत्वं कुपात्रकस्यैकस्य । ॥ पात्रधारणनैःसर्गिकः ॥ २१ ॥ **(२,३,२२) पात्रपरिष्ठि । २.८२८ । नाधिलोभं कुर्वीत्परिस्कारे त्यध्यावसानं न पत्रादस्तधायेत्* । २.८२९ । याचेत्पात्रमप्यभावे । २.८३० । सत्वे स्य । २.८३१ । आचतुर्बन्धन तदर्हा । २.८३२ । क्षमस्य परिभोगे । २.८३३ । परी[१७ २]ष्टौ विज्ञप्त्या गृहितो ज्ञातेः । २.८३४ । उत्तरत्राप्येतत्* द्वये । २.८३५ । वातृदात्रान्येषु । २.८३६ । अदोषमज्ञाता च वृद्धिपात्रयोः ज्ञातेः । २.८३७ । दुष्कृतं मौलम् । २.८३८ । ततो निष्पधौ । २.८३९ । सम्मतावसत्वे पहासः । २.८४० । स्वपरिस्कारैः सत्वे चेषाम् । २.८४१ । परिवर्तणे श्रेष्ठ्यच्छन्देन । २.८४२ । संघे स्य निःसर्गः । २.८४३ । एकस्यानेकत्वे भिप्रेततमस्य । २.८४४ । योज्यत्वमन्यस्य । २.८४५ । इदं प्रव्रा[१७ ३]ज्याके । २.८४६ । प्रत्यवरस्यास्मै दानम् । २.८४७ । चारणेन निष्कर्षः । २.८४८ । मम्मतेन । २.८४८ । श्वो स्य करिष्यत्तायां तेनारोचनम् । २.८४९ संघे सामग्रिवेलायां श्वोऽहमायुस्मन्त उन्न<<तं>> पात्रं चारयिष्यामि युस्माभिः स्वकस्वकानि पात्राणि गृहीत्वा संघमध्ये वतरितव्यमिति । २.८५० । सन्निसादार्थमनुष्ठानम् । २.८५१ । रोचनोपसंक्रममुपनामनम् । २.८५२ । स्थवि[१७ ४]रेदं <<पात्रं>> स्वच्छं परिमण्डलं परिभोगक्षमं स चेदाकांक्षसि गृहाणेति यथा गुणं रुच्या ग्रहणमयाचनं गृहितस्यान्तरितेन । २.८५३ । अदानत्वयोर्वाचोर्नोत्तरस्यामन्याज्यातानाधिष्ठानिकद्वयोरापन्नस्य प्रवेदनम् । २.८५४ । उपयोजनमस्याभेदान्मन्दमन्दम् । २.८५५ । उभाभ्यामनेन संव्यवहरणम् । २.८५६ । अत्र साधुतरस्य विनिर्युक्तिरुपकरस्य । २.८५७ । ल[१७ ५]घुतरे स्य प्रमासे । २.८५८ । नैव भोजनकरणत्वे । ॥ पात्रपरीष्टिनैःसर्गिकः ॥ **(२,३,२३) वायन । २.८५९ । विना मूल्येन विज्ञप्त्यान्येनापि वापने । २.८६० । न सात्यतायामतत्कृतत्वम् । ॥ वापननैस्सर्गिकः ॥ २३ ॥ **(२,३,२४) उप्यमानवर्धन । २.८६१ । ततौद्देशिकत्वं पानीयस्य । २.८६२ । भूयस्तायां वा दुर्नियोगतः सौष्ठवे वा । २.८६३ । क्षयश्चेद्दातुः । २.८६४ । अदानं विनिश्रयस्य । २.८६५ । [१७ १] अनभ्यनुज्ञातैः तदर्थत्वं दात्रेति कर्तृणि । २.८६६ । मौलस्य सम्पत्तौ । २.८६७ । प्राग्प्रतितदौद्देशिकानुष्ठानं दुष्कृतस्य । २.८६८ । तत्वमप्रवारितस्योपसंक्रान्तेः । ॥ उयमानवर्धननैःसर्गिकः ॥ २४ ॥ **(२,३,२५) आच्छेद । २.८६९ । भिक्षुत्वं वियोज्यस्य । २.८७० । अस्वकृत्वमाछेद्यस्य । २.८७१ । चीवरत्वं तस्य । २.८७२ । समस्तयोर्व्यस्तयोर्वा कायवाचोराछेदार्थं प्रवृत्तिस्तस्य । २.८७३ । [१७ २] तन्नियुक्तस्य चेति कर्तृणि । २.८७४ । अन्त्यस्य समाप्तौ पृथग्भावस्य कायतः । २.८७५ । प्रयोगे दुष्कृतस्य । २.८७६ । प्रतिदेयत्वमस्य । २.८७७ । अनङ्गमत्र स्वार्थत्वम् । २.८७८ । निष्कर्षवदनुपसम्पन्ने । २.८७९ । स्वता<<पना>>यनभूतस्यात्रावरोध आछेदस्य । २.८८० । असम्मतिकृतस्यानुच्छवित्वम् । २.८८१ । अनर्थाहितकृत्प्रवृत्तिविघ्ननार्थेनापत्तिः । ॥ आछेदनैःसर्गिकः ॥ २५ ॥ **(२,३,२६) षड्रात्र । २.८८२ । [१७ ३] स्वस्थानवत्सभयतायामारण्यकस्येकत्र चीवरे ग्रमः । २.८८३ । विप्रवसेदतोऽसावन्तर्गृहगतादर्थवशेनाषष्ठमह्नः । २.८८४ । अप्रस्रब्धिरूद्धम् । २.८८५ । अदोषो न्तरायवशेनागतौ । २.८८६ । अनङ्गमत्रातिवाह्यत्वे षड्रात्रस्य प्रक्रान्तौ संकल्पः । ॥ षद्रात्रविप्रवासनैःसर्गिकः ॥ २६ ॥ **(२,३,२७) वर्षाशाती । २.८८७ । स्वोपगमाहपूर्वमासादिप्रभृ[१७ ४]ति वर्षाशात्रीं* परीच्छेत्* । २.८८८ । आस्ववर्शोध्वार्धमासान्तं धारयेत । २.८८९ । पूर्वपरयोरतः कालयोः कर्तृत्वं* । २.८९० । धारणे परस्यरपूर्वस्य परीष्टो दुष्कृतस्य । २.८९१ । अन्त्यस्य संपत्तौ । २.८९२ । न्यूनत्वं विलीने । २.८९३ । यथोपगति तदनुगम् । ॥ वर्षाशाटीनैःसर्गिकः ॥ २७ ॥ **(२,३,२८) आत्ययिक । २.८९४ । वार्षिकलाभस्य कर्तृत्वम् । २.८९५ । अन्तर्व[१७ ५]ष स्वीकृतौ । २.८९६ । उत्सृज्यान्त्ये त्ययवशाद्दशाहे लभ्यमानस्य । २.८९७ । विभक्तौ चास्यापि । २.८९८ । अविभक्तौ च । २.८९९ । अन्तरेण दात्रुक्तिवशता । २.९०० । अनन्तरे प्रवारणादिवशादह्न्यसम्मततत्गोपकानाम् । २.९०१ । नैनं न स्म मन्येरन्* । ॥ आत्ययिकनैःसर्गिकः ॥ २८ ॥ **(२,३,२९) परिणामन । २.९०१ ॥ पुद्गले न्यत्र संघे वा संकल्पितस्यान्येन चीवरस्य [१८ १] जानतात्मनि परिणामतो लब्धौ । २.९०२ । परिणमने दुष्कृतम् । २.९०३ । अन्यत्र चात्र । २.९०४ । तत्फले च । २.९०५ । अन्यस्य च । २.९०६ । असत्त्वसंख्यातत्त्वे वियोज्ययोज्ययोः । २.९०७ । एकप्रदेशत्वे च । २.९०८ । अनापत्तिरलाभे पर्येषविघसखादकतिर्यगादेः । २.९०९ । कल्पते या च्छया प्रतिनिध्यन्तरे सुगतस्य दानम् । २.९१० । दुष्कृतं संकल्प्यादाने । २.९११ । बहिः सीमां गत्वा सांघिकाधिष्ठाने । २.९१२ । [१८ २] व्यग्रैर्भाजने । २.९१३ । अनधिष्ठायाम् । २.९१४ । एकस्य द्वयोः त्रयाणां वा संघादा भवतो लाभस्यादाने । २.९१५ । अनया योत्रान्येषां मंशिकत्वस्य । २.९१६ । हारत्वं स्तेयचित्तेन । २.९१७ । न सहसैव निरावासताकरणं विहारस्य । २.९१८ । सानुनयस्य तत्रावलोकं दाने । २.९१९ । अनुपनतौ दशवर्षाण्यतिनमनः । २.९२० । पञ्चपिण्डपातेन । २.९२१ । अनुद्भू[१८ ३]तावत्र काले दानपतेरपराणि सामन्तकविहारेण सार्द्धम् । २.९२२ । हिदुक्योषधैकलाभतायाः करणं कर्मकरणा[त्] । २.९२३ । सामन्तकविहारेषु प्रमीलने वस्तूनां निक्षेपः । २.९२४ । आवासिते दानम् । २.९२५ । न स्थानान्तरीयं द्रव्यं स्थानान्तरे दद्युः । २.९२६ । दास्यत्वमेषामप्रतिलम्भते । २.९२७ । दानत्वेऽपि गृहपतेर्नियतेरभङ्गः । २.९२८ । [१८ ४] बलाददाने ग्रहणम् । २.९२९ । दद्युर्याचितकत्वेन । २.९३० । स्थानान्तरीयं द्रव्यं स्थानान्तरे । २.९३१ । निर्दोषमसम्पत्तौ चैत्यान्तरे तल्लाभस्य परिणमनमुत्सृज्य बोधिधर्मचक्रमहाप्रातिहार्यदेवावतरणानामेभ्योऽन्यत्र । ॥ [इति] परिणामननैःसर्गिकः ॥ २९ ॥ **(२,३,३०) साप्ताहिक । २.९३२ । व्यतीतं दिवसमधिष्ठितस्य साप्ताहिकस्य भिक्षुं श्रायेत् । २.९३३ । धारणे । २.९३४ । अस्य । २.९३५ । अष्टमारुणोद्गतौ । २.९३६ । [१८ ५] अत्ययेऽह्ने कल्पिकस्याभ्यवहार्यस्य भुक्तिवदित्यत्र व्यवस्था । २.९३७ । यस्यात्रार्थे कल्पनं तं प्रत्यनापत्तिः कल्पितेनास्याभङ्गयोः सन्निहितम् । ॥ [इति] साप्ताहिकनैःसर्गिकः ॥ ३० ॥ ॥ समाप्तश्च नैःसर्गिकः ॥ २,४ प्रायश्चित्तिकम् । **(२,४,१) मृषावादे । २.९३८ । संज्ञाय संघसन्निधावधर्मस्य धर्मतो धर्मस्य चाधर्मतः परिदीपनं स्थूलात्ययः । २.९३९ । कच्चित्स्था [अ]त्र परिशुद्धा इत्या[१८ १]तृतीयपरिप्रस्नात्पोषधे शुद्धसंज्ञस्य तूष्णीं भावेनातिनामनाया दुष्कृतम् । २.९४० । आभ्यां पाराजिक-संघावशेषाभ्यां चान्यस्मिन्मृषावादे । २.९४१ । भाषमान्त्वेऽपि संज्ञालाभेऽस्योत्थानम् । २.९४२ । न शपथं कुर्वीत । ॥ [इति] मृषावादप्रायश्चित्तिकम् ॥ १ ॥ **(२,४,२)। पैशुन्य । २.९४३ । भिक्षोः । २.९४४ । अनन्तरे च । २.९४५ । ऊनतोद्भावनच्छन्देन । २.९४६ । श्लक्ष्णेन पुरु[१८ २]षेण वा । २.९४७ । यस्य कस्यचिदचराभिमतस्योक्तौ । २.९४८ । अजातेऽपि मङ्गुत्वे । २.९४९ । अन्यस्य क्षत्रियताब्राह्मण्यादेः दुष्कृतम् । २.९५० । अनुवादः । २.९५१ । पैशुन्यच्छन्देनामुकोक्तमित्युक्तौ । २.९५२ । नाम्ना चेत् । २.९५३ । भिक्षुता चास्य दुष्कृतमन्यथा । ॥ [इति] पैशुन्यम् ॥ २ ॥ **(२,४,३) खोटने । २.९५४ । न हिततायां सम्यक्संघेन । २.९५५ । भिक्षोश्चाधिकरणतायां खोटने । २.९५६ । [१८ ३] नैवासिककर्मकृच्छन्ददायकानामेव मौलस्य । २.९५७ । दुष्कृतस्यैव दृष्ट्याविष्कर्तागन्तुकयोः । २.९५८ । तद्वत्त्वमधिकरणान्तरत्वेनाधिकरणस्य संज्ञाने । २.९५९ । अर्द्धत्वं कर्मफलगतस्यातत्त्वेन समुदाचारे । ॥ [इति] खोटनम् ॥ ३ ॥ **(२,४,४) देशना । २.९६० । देशनायाम् । २.९६१ । धर्मस्य । २.९६२ । षष्ठात्पदादूर्ध्वम् । २.९६३ । जानत ऊर्धतायाम् । २.९६४ । पञ्चमात्पञ्चपदिको[१८ ४]पक्रमे । २.९६५ । न पण्डितकृतोत्तरोत्तरपरिप्रष्णनिर्व्नये परिवर्तनिकास्वाध्यायनिकापरिपृच्छनिकोपवासदानदक्षिणादेशनेषु । २.९६६ । अकृतत्वं स्थानान्तरे पूर्वस्याः । ॥ [इति] देशना ॥ ४ ॥ **(२,४,५) वाचना । २.९६७ । सममनुपसम्पन्नेन हीनं वा नेत्रीभूतस्योच्चारणे धर्म्स्याक्षरस्यापि । २.९६८ । उत्सृज्याकामसम्पत्तिम् । २.९६९ । अनुशास्य पाठनम् । २.९७० । स्वाध्यायनिकां परि[१८ ५]वर्त्तनिकां परिपृच्छनिकां च । ॥ [इति] वाचना ॥ ५ ॥ **(२,४,६) कुलदूषणम् । २.९७१ । संमन्येरन् पापयोर्भिक्षुभिक्षुण्योः कुलप्रतिसंवेदकम् । २.९७२ । शृण्वन्त्वायुष्मन्तो कुलेषु कुलदूषका आश्रमेष्वाश्रमदूषकास्तद्यथा सम्पन्ने शालिक्षेत्रेऽशनिर्विचक्रा निपतेद्यावदेव तस्यैव शालेरुत्सादाय विनाशायानयेन व्यसनाय संपन्ने वा इक्षुक्षेत्रे मञ्जिष्ठि[१९ १]का नाम रोगजातिर्नियते[द्] यावदेव तस्यैवेक्षोरुत्सादाय विनाशायानयेन व्यसनाय मा यूयमायुष्मन्तोऽनेन भिक्षुनानया भिक्षुण्या शासनं प्रमिणुत एष भिक्षुरेषा च भिक्षुणी दग्धेन धाना अप्ररोहणधर्मा अस्मिन् धर्मविनये भगवन्तं पश्यत स्थविरस्थविरांश्च भिक्षून् श्निति कुलेषु कुलप्रतिसंवेदको ब्रूयात् । २.९७३ । अनुत्सहमाने [१९ २] ज्ञप्तिं कुर्युः । ॥ [इति] कुलदूषणम् ॥ ६ ॥ **(२,४,७) दुष्ठलारोचने । २.९७४ । अप्रतिसंविहितानुपसंपन्नत्वयोः श्रोतुः । २.९७५ । आख्यातो पाराजिकसंघावशेषयोः । २.९७६ । अकृतमसम्मतेः । २.९७७ । अज्ञप्ते संघे । ॥ [इति] दुष्ठूलारोचनम् ॥ ७ ॥ **(२,४,८) उत्तरमनुष्यधर्मारोचने । २.९७८ । सत्यतायाम् । २.९७९ । अदृष्टसत्येऽनुपसम्पदि । २.९८० । नागारिकपुरस्तादृद्धिं विदर्शयेत् । २.९८१ । न भिक्षुणी शास्तुः । ॥ [इति] उत्तरमनुष्यधर्मारोचनम् ॥ ८ ॥ **(२,४,९) अववादे । २.९८२ । [१९ ३] स्थैर्येण चेदर्थो ज्ञप्तिपूर्वकमर्थं कुर्युः । २.९८३ । दत्तमहस्य । २.९८४ । पुद्गलभिक्षुसंघाभक्तलाभस्य मिथ्यापरिणामकत्वेन भिक्षोरन्यत्राप्यनाम्ना चोक्तौ । २.९८५ । अभूतार्थतायाम् । ॥ [इति] अववादप्रायश्चित्तिकम् ॥ ९ ॥ **(२,४,१०) वितण्डना । २.९८६ । विनयप्रतिसंयुक्तभाषमानावध्यानभूतायामुक्तौ । २.९८७ । सूत्रान्तस्य दुष्कृतम् । ॥ [इति] वितण्डना ॥ १० ॥ **(२,४,११) अनुपरतावच्छेदने । २.९८८ । छेदयेन्नवक[१९ ४]र्मिको वृक्षं स्तूपसंघार्थम् । २.९८९ । प्राक ततः सप्ताष्टेषु दिवसेष्वतस्तस्य मण्डलकगन्धपुष्पदीपधूपबलिदानत्रिदण्डकं भाषणदक्षिणदेशनां कृत्वा या देवताऽस्मिन् वृक्षेऽध्युषिता साऽन्यद्भवनं समन्वेषत्वनेन वृक्षेण स्तूपस्य संघस्येति-करणीयं भविष्यतीत्युक्ता जानीहि वादेन । २.९९० । विकारश्चेदग्निमोक्षरुधिरस्यन्दनशाखाकम्पनपत्रशटनादिरुदृश्येत पक्षेऽत्र [१९ ५] दानमात्सर्ययोः संवर्णनिविवर्णनं कुर्यात् । ॥ [इति] अनुपरतावच्छेदनम् ॥ ११ ॥ **(२,४,१२) बीजप्ररोहनाशने । २.९९१ । अविनष्टतायाम् । २.९९२ । अकृतकल्पबीजप्रोद्भेदयोः । २.९९३ । ओशीरकादौ विनाशने । २.९९४ । यथाकथञ्चित् । २.९९५ । धूननेनापि । २.९९६ । अवष्टम्भेनापि तृणशादपांसुप्रभृतिभिः । २.९९७ । उत्सर्गादिनापि । २.९९८ । वातातपेऽपि स्थापनेन । २.९९९ । शुष्केऽपि स्थण्डिले । २.१००० । तच्छन्देन स्वयमन्ये[१९ १]न वा । २.१००१ । विनष्टो मूलीनां विनष्टापरिमाणानाम् । २.१००१ ॰गण्डतः । २.१००२ । दुष्कृतानां प्रयोगे । २.१००३ । प्रतिप्रहारमस्यात्र भेदो न वक्तुतः । २.१००४ । अन्तत्वं विरोढत्वेऽपि निर्मुक्तेः । २.१००५ । तत्त्वमुद्यारे जलाच्छेवालकटभयोः । २.१००६ । अन्धःसंपुटितास्थिनिगिलनं कारस्य । २.१००७ । साधु स्याद्यद्ययं छिद्येतेत्युक्तोर्नियुक्तिः । २.१००८ । अकारत्वमृद्धेः । २.१००९ । तद्वत्त्वं बी[१९ २]जान्तरत्वेन बीजस्य संज्ञाने । २.१०१० । त्वक्फल्गुपाण्डुपत्रपुष्पितपुष्पपक्वफलानामर्धमृततया व्यवहारः । २.१०११ । नानपेतस्यैषां प्रकृतेर्मूलभूतस्य । २.१०१२ । अर्द्धजाततयोप्तस्यासंजातमूलस्य बीजधान[योः] । २.१०१३ । क्षुप्यपर्यच्छत्रककाचिकागालचीवरादिपुष्पाणामर्द्धप्रोद्भूतत्वेन । २.१०१४ । तप्तपूषादिकोरणचंक्रमणशाखाद्याकर्ष[१९ ३]णमण्डलकामा ज्ञानतदभिप्रायतायामनापत्तिः । २.१०१५ । छेदने च कुशादेरापद्यवबधेन तेनासम्भवे मोक्षः । २.१०१६ । अतश्चैकेनानेकत्वे । २.१०१७ । नाबीजधर्मणो दो[ष?]क्ङृत्त्वम् । २.१०१८ । संस्पर्शोऽग्निना क्षतिः शस्त्रनखशूखैर्म्लान्युत्पाटन उत्दलनभिदुच्छित्तिरिति कल्पाः । २.१०१९ । नाबीजत्वगते कल्पनेऽपेक्षत्वम् । २.१०२० । नानग्नित्वमत्र वाष्पस्य । २.१०२१ । [१९ ४] सम्यम्क्त्वसंख्यामग्निना कल्पने फलानां कल्पने समुदायरूपस्य तन्त्रीकरणम् । २.१०२२ । नैकतः प्रदेशात्समुदायस्य सम्भावनोत्थानम् । २.१०२३ । कृतत्वं कल्पानां भिक्षुकृत्यता । २.१०२४ । भूमो चाकल्पिकायाम् । २.१०२५ । नानभिक्षितं शीतेन वारिणा साप्ताहिकं यावज्जीवकमभ्यवहरेत् । २.१०२६ । नाभिन्नमेतेन यामिकम् । ॥ [इति] बीजप्ररोहनाशनम् ॥ १२ ॥ **(२,४,१३) क्षेपणे । २.१०२७ । [१९ ५] द्वादशानां पुद्गलानां कर्तृत्वम् । २.१०२८ । असम्मतानामपि । २.१०२९ । प्रतिस्रब्धप्रयोगानां च । २.१०३० । अवध्याने वा स्वगतेनार्थेन सश्रुतं क्षेपे वा परव्यपदेशेन । २.१०३१ । मौलस्य गणिते । २.१०३२ । अन्यत्र दुष्कृतस्य । २.१०३३ । नासमर्थमप्लस्याप्यधिवासनायामीरयेत् । २.१०३४ । न स्वयमेनं द्वेष्यः कर्मणि युज्जीत । ॥ [इति] क्षेपणम् ॥ १३ ॥ **(२,४,१४) आज्ञाविहेठने । २.१०३५ । [२० १] न न गण्येयुश्चोदनताज्ञा तूष्णीं भावविहेठकोक्तपुद्गलसमुखावधायकपरव्यपदेशक्षेपकान् । २.१०३६ । ज्ञापनेन । २.१०३७ । भिक्ष्वाज्ञाविहेठने । २.१०३८ । तच्छन्देन । २.१०३९ । अन्योक्त्या दुष्कृतं तूष्णीम्भावेन । २.१०४० । न स्मरामीति च । २.१०४१ । न चेद्दुःखमाख्येयम् । २.१०४२ । तस्माद्वध्यदर्शनपरिप्रश्ने वियप तावत्पानीयंतावत्पिब विश्राम्य तावन्न पश्यामि [२० २] न खं वा परमार्थतः सत्त्वं नपश्यामि वध्यश्चेत्युक्तावनापत्तिः । २.१०४३ । न यत्र साक्षित्वेन करणमापतेत्तत्रावस्थानं भजेत । २.१०४४ । नाकृतोवघातद्वारबन्धः साक्षेपं दद्यात् । ॥ [इति] आज्ञाविहेठनम् ॥ १४ ॥ **(२,४,१५) शयासने । २.१०४५ । मञ्चपीठवृशिकोचकबिम्बोपधानचतुरस्रकमिति शय्यासनम् । २.१०४६ । एकान्न पञ्चाशद्व्यामास्तदुपविचारः । २.१०४७ । द्वारकोष्ठकात्परिवृते । २.१०४८ । तदतिक्र[२० ३]माय विस्मृत्यापि प्रस्थानमन्तश्च स्वप्नसमापत्यादिना विपरोक्षीभावः । २.१०४९ । प्राक्संभेदात्प्रयोगः । २.१०५० । संभेदेऽतिक्रमश्च निष्ठानम् । २.१०५१ । नैते कृतकारितो द्वारस्य । २.१०५२ । नावलोकितभिक्षौ न संकटप्राप्तस्य । २.१०५३ । कारकवद्भोगः । २.१०५४ । द्वयोरेकत्र निषादे पश्चादुत्थायिनः करणीयवत्ता । २.१०५५ । समं चेन्नवकस्य । २.१०५६ । तुल्यतायामुभयोः । २.१०५७ । अलज्जिसा[२० ४]न्तरजीर्णग्लानानुपसंपन्नानामनवलोक्यमत्र । २.१०५८ । एष विहारः पश्य चेदं शयनासं गृहाण चापावरणीदानमित्यवलोकनानि । २.१०५९ । संभेदास्त्रयो वातेन परिवर्त्तनं वृष्ट्या पुटान्तरप्राप्ति[ः] दीपिकाभिश्च । २.१०६० । शयनासनत्वं सांघिकता तस्य स्वयंनियुक्तकृततोपनिक्षेपस्याभ्यवकाश इति कर्तृणि । २.१०६१ । मौलस्य निष्ठाने । २.१०६२ । प्रयोगे दुष्कृतस्य । २.१०६३ । [२० ५] एतत्तावत्कालमन्तरमन्येनाधिष्ठिते । २.१०६४ । पौद्गलिके च । २.१०६५ । उत्तरत्र च चतुष्के । २.१०६६ । नैवास्पृश्यतायाम् । २.१०६७ । पिण्डाय चेत्प्रविषज्याप्रविष्टे वातवर्षमागच्छेद्विहारस्थाः प्रवेशयेयुः । २.१०६८ । आहृत्य प्रविष्टमागच्छेत् । २.१०६९ । नैतदर्थतायामदोषो ह्वासो वा । २.१०७० । विस्मृत्य चेद्बहुसमतिक्रान्ताध्वनो गतो वा स्मृतिं लभेत न भूय एवं करिष्यामीति चित्तमुत्पा[२० १]दयेद्वाचं च भाषेत । २.१०७१ । प्रतिपथितञ्चेद्भिक्षुमारागयेदुधारायैनं प्रार्थयेत् । २.१०७२ । कर्तृत्वं प्राप्ततायामत्र येन प्रतिज्ञातं प्रक्रमिषन्नावसादसंकटप्राप्तोऽभिसंक्षिपेत्शयनासनम् । २.१०७३ । प्रस्फोट्य मलिनञ्चेत् । २.१०७४ । अर्पयेतैनम् । २.१०७५ । अवलोकनमन्य एव क्रुवीत भिक्षोः । २.१०७६ । अभावे श्रामणेरस्य । २.१०७७ । तस्यापि गृहपतेः । २.१०७८ । सर्वाभावे चतुर्दिशं [२० २] व्यवलोक्यापावरणीं गोपयित्वा प्रक्रामेत् । २.१०७९ । अन्तरमार्गे चेद्भिक्षुं पश्येत्तं प्रदेशमस्मै ब्रूयात् । २.१०८० । द्वारे चेदन्तर्गृहोपनिमन्त्रणायां बध आगच्छेत्कुड्यस्य मूले वृक्षस्य वा निधायाध्वनि प्रविशेत् । २.१०८१ । दद्युस्तत्रासनानि । २.१०८२ । न स्वयमानयेयुः । २.१०८३ । आगारिकः श्रामणेराणामेतत् । २.१०८४ । अभावे चावलोक्य गृहिणमानयना[२० ३]र्थमागमनम् । २.१०८५ । स्थापयेयुः गच्छन् वयमानेष्याम इति ब्रुवत्सु । २.१०८६ । नि[ः]श्रयकरणीयैस्तैरनानीतावानयने । २.१०८७ । अभावे स्वयम् । २.१०८८ । सर्वतायां गण्डिमाकोट्य । २.१०८९ । दद्युर्विहारे । २.१०९० । निमन्त्रण्करेभ्यः स्वार्थं याच्ञ्[आ]यामासनानि । २.१०९१ । भिक्षुश्चेषामारक्षायै स्थापयेयुः । २.१०९२ । एकान्तेऽसौ तिष्ठेत्स्वकर्म कुर्व[२० ४]न्नवधानदानञ्च । २.१०९३ । प्रक्रान्तेषु प्रवेशनम् । २.१०९४ । शोचनं नाशितानां वक्कसेनाद्भिः । २.१०९५ । स्नेहिनोपस्नानेन । २.१०९६ । अशुचिना मृदोषाटुकेन गोमयेन वा । २.१०९७ । छित्तिरशुद्धौ वातस्य । २.१०९८ । गृहिणा निषाद्य प्रवेशितस्य दृष्टः प्रवेश्यत्वम् । २.१०९९ । जीरश्चेद्ग्लानो वोपधिवारिकस्य । २.११०० । आख्येयत्वं तस्य । २.११०१ । ग्लानमवलोकयेत्सर्वः । २.११०२ । निषद्य । २.११०३ । न तत्रा[२० ५]सनं गृहीत्वा गच्छेत् । २.११०४ । उपस्थायको ग्लानस्य तत्रासनान्युपस्थापयेत् । २.११०५ । कुशलपक्षापगच्छत्याचार्योपाध्याये न च चेदन्यथा वृद्धिः कुशलपक्षस्य पृष्ठतो गच्छेत् । २.११०६ । स्वयमस्मायासनं नयेत् । २.११०७ । नापृष्ट्वा गतिम् । २.११०८ । स्वयमेव चैतदानयेत् । २.११०९ । अभ्यवकाशधर्मश्रवणे वातवर्षप्रवेशनं शयनासनस्य । २.१११० [२१ १] ॥ स्वयमशक्तो गुरुतया वृत्तानां नवकैः सह परिवृत्तिः । २.११११ । साकेन सार्धं [स्था]पयेयुः । २.१११२ । दद्युर्विहारान्तरे याच्यमानं शयनासनं वस्त्रञ्च । २.१११३ । न चेत्वृष्टिर्वर्षाशंकिता वा । २.१११४ । वातवर्ष न् चेदन्तर्मार्गे स्याद्वृक्षस्य मूले कुड्यस्य वा स्थलं कुर्युः । २.१११५ । प्रच्छादयेयुश्च वस्त्रेणैकेन प्रत्यवरेण । २.१११६ । विहारं नीत्वा वस्त्राणां शोषणम् । २.१११७ । दग्धावुढौ च सां[२१ २]घिकस्यापि निष्कासनम् । २.१११८ । वृत्ते स्वपात्रचीवरनिस्कासने । २.१११९ । निष्काषितस्य भिक्षुमारक्षायै स्थापयेयुरसमर्थतरम् । २.११२० । नासाह्यतायां प्रविशेयुः ॥ शयनासनप्रायश्चित्तिकम् ॥ **(२,४,१६) संस्तरे २.११२१ ॥ कृतं संस्तरमन्तर्गृहे ..च्छोरयेयुरवलोक्य गृहपतिं* २.११२२ । अरणे विकोपयेयुर्वा । २.११२३ । कृतत्वमस्य शिरोन्ते पादान्ते वा कृतत्वे । २.११२४ । चीवरशोषना[२१ ३]यापि तृणप्रज्ञप्तेश्छोर्यता । २.११२५ । दानं मृगयते प्रतिज्ञातच्छोरणाय । २.११२६ । प्रज्ञापयेयुच्चंक्रमेषु घृष्टोतलयोस्तृणानि । २.११२७ । तेषामपि छोर्यताम् । २.११२८ । उत्सर्गे छोर्यस्य छोरणमगतस्याकरणीयताम् । २.११२९ । अन्यदा कालेन कालं प्रत्येवेक्षणं परिवर्तनञ्च । २.११३० । स्निग्धमधुरमृत्तिके न्वहम् । २.११३१ । अनुपक्षमन्यत्र । २.११३२ । अवबध्य र[२१ ४]ज्वा वृक्षे वललम्ब्य चंक्रमे(यु)षु कक्षपिण्डकानां स्थापनम् । २.११३३ । कर्परे गोमयं स्थापयेत्* । २.११३४ । प्राग्गतं प्राक्प्रक्रमिष्यन्त्यस्मात्तुल्यत्वं साह्योपभोगे । २.११३५ । तत्पतीनाञ्चासांघिके वलोक्यत्वम् । २.११३६ । सांघिकविहारत्वमगडवालुकालिकताद्यात्मकःत्वं तत्र [शूच्]आदीनवयोग्यत्वं भूमे स्वयंनियुक्तकृत(त)संस्तरस्योतकर्तृणि ॥ संस्तरप्रायश्चित्तिक ॥ **(२,४,१७) विहारे २.११३७ ॥ [२१ ५]भिक्षुत्वसांघिकविहारतयोः कर्तृत्वम् । २.११३८ । न चेत्तत्संबाधसंघसंक्षोभजन्मानुपशमप्रतिचिकिर्षण्[ए] ।॰ २.११३९ । परेणापि परानुवृत्या च । २.११४० । शिक्षमाणश्रामणेरश्रामणेरिकाणां दुष्कृतस्य । २.११४१ । आसां च । २.११४२ । हास्येन च । २.११४३ । गृहिणामपुण्यस्य बहुनः । २.११४४ । निष्कर्षणम् ॥ वृत २.११४५ ॥ आरूढतायाम् । २.११४६ । भिक्षुणा सांघिकविहारस्थानस्य । २.११४७ । [२१ १]अनुप्रस्कन्द्य मुक्त्वा ग्लान्यभयवशतामारूढौ । २.११४८ । निदर्शनमेतद्विहेठनछन्देन भिक्षोर्विहेठनानाम् । २.११४९ । अनुप्रस्कन्द्यापातः॥ २.११५० । सांघिकविहारोपरिष्टतलकत्वं कर्तृ । २.११५१ । न चेत्पारिणामिकत्वं फलकतद्विधछद[न]ता वा । २.११५२ । कीलपादकत्वं ..[ड]चाक्रमणीयस्य । २.११५३ । मुक्त्वोत्तानताम् । २.११५४ । दत्तप्रतिपादकत्वञ्च । २.११५५ । आक्रान्तौ ॥ वृता २.११५६ ॥ [२१ २] आहार्यपादकाहोह् । २.११५७ ॥ स्वपरिभोगार्थ ततो न्यत्र । २.११५८ । सप्राणकोपभोगः ॥ २.११५९ ॥ द्वारकोषदान संपादयेत्* । २.११६० । अर्गडकानाञ्च । २.११६१ । वातायनानां मोक्षम् । २.११६२ । विहारस्य कर्तृत्वम् । २.११६३ । चतुष्टयस्येर्यपथानां [मा]त्रस्य । २.११६४ । न चेत्सर्वत्वेन शैलः पक्वशैलो दारुमयो वा । २.११६५ । छादनञ्चोदकत्राणेन । २.११६६ । कृतं पश्यामि निष्ठितं चेत्यनुक्तस्य [२१ ३]दानपतिना । २.११६७ । त्रयादूर्धमिष्टकापर्यायदानसंपादने । २.११६८ । परेणापि । २.११६९ । तद्दिने । २.११७० । अन्यत्रापि निष्कर्दमात्* । २.११७१ । अमुक्तत्वे चोदकभ्रमाणाम् । २.११७२ । अदत्तत्वे वा खातमूलपादस्य । २.११७३ । औपरिष्टस्य वा द्वारकोशस्य । २.११७४ । निर्दोषमाद्यात्पूर्वम् । विहारप्रायश्चित्तिकः ॥ । वृत **(२,४,१८) असम्मताववादे । २.११७५ ॥ अपराजितं सूत्रंविनयमातृकाधरम[२१ ४]नुनविं*शतिवर्षं नागरलपितमुपनामितकायत्वे भिक्षुण्या कृतप्रतिक्रियां भिक्षुण्यववादकं संमन्येरन्* । २.११७६ । पोषधे पञ्चदशामन्तसीम्नि । २.११७७ । अभावे सूत्रादिधरस्य प्रवृत्तप्रातिमोक्षम् । २.११७८ । तस्यापि पाराजयिकसंप्रकाशनम् । २.११७९ । गुरुधर्माणां बा । २.११८० । पश्चिमकः क[श्चि]द्वो भगन्यः । २.११८१ । समग्रो भिक्षुणीसंघः परिशुद्धसमवेतो नवद्यो मा [२१ ५]वः कश्चिदसंमत<<ः>> संघेन पुद्गलो ववदते संघाद्व आगच्छति पुद्गलो ववादको न वः कश्चिदुत्सहते भिक्षुरववदितुं संघाद्वो ववादानुशासनी अप्रमादेन भगिन्यः । २.११८२ । सम्पादयेतेत्यस्य । २.११८३ । मुक्त्वोत्तरधर्मप्रभाववन्तम् । २.११८४ । एकेनापि विना तस्स<<अस>>म्मतस्य च भिक्षुण्य[व]वादेन पूर्वं सम्मत..स्यासम्मतत्वम् । २.११८५ । निर्दोषमपूरौ संघस्यार्हस्य [२२ १] । । याच्ञायाम् । २.११८६ । तस्याञ्च ॥ असम्मताववादः ॥ वृत **(२,४,१९) अस्तमिताववादे । २.११८७ । अस्तमितायाम् । २.११८८ । मुक्त्वा सर्वरात्रिकं धर्मश्रवणं भिक्षुण्यववादे । २.११८९ । न चेदपावृतद्वारस्तदा तत्भूतस्याग्रतो विहारस्य वर्षकः । । अस्तमिताववादः ॥ **(२,४,२०) आमिषकिञ्चित्काववादे । २.११९० । कुर्याद्वैशारद्याय धर्मप्ररिपृच्छायां भिक्षो भिक्षुण्यामिषोपसंहारम् । २.११९१ । अष्कुञ्चकपरिअ[२२ २]ट्टिक्[अ]लोठकमुरूचिकानाञ्च । २.११९२ । गृह्णीतादो भिक्षुः । २.११९३ । भिक्षोरतथाभूतस्यामिषकिञ्चितकहेतोर्भिक्षुणीरववदतीति विवादे ॥ आमिषकिञ्चित्काववादः ॥ वृत **(२,४,२१) चीवरकरणम् । २.११९४ ॥ अज्ञातिकतायां भिक्षुण्याः । २.११९५ । स्युतौ चीवरस्य ॥ चीवरकरणम् ॥ वृत **(२,४,२२) चीवरप्रदाने । २.११९६ ॥ दत्तौ । २.११९७ । अपटकप्रदाने । २.११९८ । न चेत्* मूषितायै सौभाषिणिकस्योपसंपद्यमानायै परि[२२ ३]वर्तकेन वा ॥ चीवरप्रदानम् ॥ **(२,४,२३) भिक्षुणीकजलयानोढौ । २.११९९ । वाहयेयुः पाथेयम् । २.१२०० । कल्पकारकल्पकारीश्रामणेरश्रामणेरीभिः । २.१२०१ । न्याय्यमितरेतरपथेयवहनं भिक्षुभिक्षुणीनाम् । २.१२०२ । अन्यो न्यप्रतिग्राहणञ्च । २.१२०३ । न ग्लानम् । २.१२०४ । सब्रह्मचारिणमध्वनि छोरयेयुः । २.१२०५ । वहेयुरेनम् । २.१२०६ । एव[ं] भिक्षुण्यः । २.१२०७ । कुर्युरत्र परस्परं साहा[२२ ४]य्यःं* । २.१२०८ । शिरोन्तग्रहणेन । २.१२०९ । ग्रामप्राप्तानामदोषं प्रक्रमणम् । २.१२१० । समुदानीय ग्लानभैषज्यपिण्डपादञ्च । २.१२११ । एकं <<च>> सरूपमुपस्थायकं स्थापयित्वा । २.१२१२ । मुक्त्वो सभयतायां मार्गस्यैकसार्थपालमभिन्नप्रयाणतायामेकभिक्षुण्यापि मार्गातिवाहन् २.१२१३ । प्रतिक्रोषम् । २.१२१४ । प्रतितदर्धदुष्कृतम् ॥ २.१२१५ । सभिक्षुणीकाध्वोरूढि ॥ २.१२१६ ॥ [२२ ५]सान्तरायतायामुभयकुलस्योच्छृज्या सम्बिधौ युगपदेकनावा तिर्यक्पारसंतरणादन्यत्र । २.१२१७ । वङ्कवटवर्तपरिहृतिकर्णयष्टिदण्डवंशावभङ्गकर्णधारवशाच्च तदर्थारूढौ प्रस्थानान्तरात्* ॥ सभिक्षुणीकजलयानोढि ॥ **(२,४,२४) एकस्थाने । २.१२१८ । स्त्र्येकाकितारहस्त्वमप्रवृत्तजनप्रचारतया प्रदेशस्य । २.१२१९ । साधारणत्वमन्तर्व्यामता वेति कर्तृणि । २.१२२० । [२२ १]निषदने । २.१२२१ । आनिषादप्रतिष्ठापनमेतत्* । २.१२२२ । एकनिषद्या । २.१२२३ । भिक्षुण्यास्थाने ॥ एकस्थानम् ॥ वृति **(२,४,२५) पाचितोपभोगे । २.१२२४ । भिक्षुणीपरिपाचितायाम् । २.१२२५ । अभूतैर्गुणैः । २.१२२६ । अकृतनिमन्त्रणके । २.१२२७ । कृते चातिरिक्तस्य । २.१२२८ । अभ्यवहार्यस्य । २.१२२९ । प्रतिपत्तिसंपत्त्या । २.१२३० । तच्छ्रुतेन वा । २.१२३१ । अभ्यवहारे कण्ठेनैतदेषः । २.१२३२ । ह्रासकृत्वं परार्थस्य । २.१२३३ । [२२ २]देहि चोक्तेः पिण्डाय प्रविष्टे ॥ ॥ पाचितोपभोगः ॥ **(२,४,२६) परंपराभोजने । २.१२३४ । अधिवासयेद्भक्तोपनिमन्त्रणमन्तर्गृहे पि । २.१२३५ । कालं ज्ञात्वा प्रविशेयुः न सा[त्]रकालम् । २.१२३६ । गण्डीं* दत्त्वा । २.१२३७ । स्वपर्षदं तत्रावलोकयेत्* । २.१२३८ । आकन्तुकं स्थविरः । २.१२३९ । न सहसा भक्तछेदं कुर्यात्* । २.१२४० । तिष्ठेयुर्याचमानाः पानकाय । २.१२४१ । समं पश्चाद्* वानुपेतचीवर[२२ ३]लाभद्वितीयनिमन्त्रणकलब्धिः । २.१२४२ । भोजनीयेन । २.१२४३ । अन्तर्गतेन पञ्चके । २.१२४४ । अनेनैव चेदन्यत्* । २.१२४५ । अग्लानस्याकृतकर्मणो नूढस्याध्वनि । २.१२४६ । अधिवासनायां दुष्कृतस्य । २.१२४७ । अभ्यवहारे मौलस्य । २.१२४८ । समसामन्तकात्* पर्यन्तभूतं चीवरम् । २.१२४९ । अध्वार्धयोजनम् । २.१२५० । अन्यत्रापि । २.१२५१ । अत्र वा नौगमने वा २.१२५२ [२२ ४]संमार्जनं किलिञ्ज[मा]त्रस्योपलेपो गोपिटगमात्रस्येति कर्म । २.१२५३ । सांघिकता स्तौपिकत्वे चास्य । २.१२५४ । अशक्तिर्ग्लान्यस्य परिमाणम् । २.१२५५ । अनिमन्त्रणकत्वं प्रज्ञप्त्[ए]ः । २.१२५६ । संदर्शनस्य च । २.१२५७ । असत्वं विहेठनकृतस्य । २.१२५८ । सांघिकस्य [चा]तदौद्देशिकस्य निक्षिपे चान्यत्र पञ्चके । २.१२५९ । धर्मत्वमस्य । २.१२६० । ग्रहणे प्यन्यस्य स्वीकरणं दुःभिक्षो [२२ ५]आवत्संपत्तिनिमन्त्रणकानाम् । २.१२६१ । भुक्तिश्च । २.१२६२ । दानं बा । २.१२६३ । अ<<न>>भिरुचिसंभावने दातुर्द्वित्रिग्रासाभ्यवहारादूर्धं गृहपते यं भिक्षुः पिण्डकेन विहन्यते नुमोदम्बा<<स्वा>>स्मै ददामीत्यभिरोच्य ॥ परंपरभोजनम् ॥ **(२,४,२७) आवसथपरिभोगे । २.१२६४ ॥ अनेदंधर्मकः सगृहिस्वामिको सर्वपाषाण्डिक आवासथः । २.१२६५ । अग्लानस्याप्रवारितस्य दानपतिना ॥ २.१२६६ [२३ १] । । भुक्तिवतस्तदीयमभ्यवहारं मौलस्य । २.१२६७ । उषितवतो वासे दुष्कृतस्य । २.१२६८ । अस्वामिकश्च <<।>> २.१२६९ <<।>> तीर्थ्यवत्त्वमत्रैदं प्रव्रज्यस्य । २.१२७० । ज्ञातेश्च ॥ आवसथपरिभोगः ॥ **(२,४,२८) अतिरिक्तग्रहणे । २.१२७१ ॥ प्रवारयतः । २.१२७२ । अप्ररिमितम् । २.१२७३ । अकृतयथासुखस्य । २.१२७४ । गृहिणः । २.१२७५ । अर्धपञ्चमानां पक्वत[ण्डु]लमागधकप्रस्थापरिमाणानां [२३ २] प्रस्थानामुत्सृज्य व्यञ्जनमूर्धं सहापि सहायप्रत्यंशेन पिण्डपातः । २.१२७६ । अभ्यवह्रिकतावुत्कृष्य । २.१२७७ । अत्र दुष्कृतस्य् २.१२७८ । परकृते च । २.१२७९ । अन्यथानापत्तिः । २.१२८० । असंष्कृतस्य च । २.१२८१ । ग्राह्यात्प्रभूतञ्चेत्भिक्षुं संविभजेत ॥ द्वित्रपात्रपूरातिरिक्तग्रहणम् ॥ **(२,४,२९) निरिक्तकरणे । २.१२८२ ॥ भुञ्जीद्यावदाप्तम् । २.१२८३ । नोत्तिष्ठेत्विप्रकृतामिषः । २.१२८४ । यावतोस्ता[२३ ३]वतो यस्य कस्यचिदालवणमभ्यवहार्यस्यादाने तद्विधत्वम् । २.१२८५ । स्थानोत्सर्ग<<ः>> प्रवारणम् । २.१२८६ । निषण्णस्य । २.१२८७ । विप्रकृतमूलखादनीयाद्यामिषस्य । २.१२८८ । मूलगण्डपत्रपुष्पफलखादनीयेभ्यो न्यपैयाच्च कल्पिकमसंसृष्[ट]मकल्पिकेनाभ्यवहार्यमभिसंभवनीयप्रदेशस्थस्य प्रतिग्राहयतो निवाणं कृत्वा । २.१२८९ । देहीत्यस्येतत्* । २.१२९० । [२३ ४]गच्छेत्यपि । २.१२९१ । भुक्तमिति च । २.१२९२ । न च तावत्शब्दोपसन्धाने । २.१२९३ । पर्याप्तमित्यपि । २.१२९४ । स्थानस्य कला[च्]इकया ऊर्धमसंपादकत्वे यवाग्वाः पेयत्वम् । २.१२९५ । तर्पणस्याप्रज्ञायमानपंचाङ्गुलस्य । २.१२९६ । अप्रतिग्राहणत्वं विहेठनस्य । २.१२९७ । न बहिःसीमानभिसंभावनीयप्रदेशानग्रतस्[थ्]ए निरिक्तकरणस्योत्[थ्]आनं? । २.१२९८ । नापाणिस्थ[ं] क[२३ ५]रणीये । २.१२९९ । अकरणीयत्वमकल्पिकस्य संसृष्टस्य वा तेन । २.१३०० । अनुत्सृष्टस्य स्थानस्य कर्तृत्वम् । २.१३०१ । कृतवतो पि संकल्पमभोजने । २.१३०२ । याचितस्य । २.१३०३ । गच्छ तवैव भवत्विति वचनं करणम्* । २.१३०४ । यथासुखं परिभुंक्ष्वेत्येके । २.१३०५ । द्वित्रानभ्यवहृत्यालोपम् । २.१३०६ । न निर्वृतक्रियः परिभुञ्जीत्* । २.१३०७ । भु न्जितान्यस्य कृतनिरिक्तम्* । । [२३ १] वृत्* **(२,४,३०) एकासनभोनजे । २.१३०८ ॥ प्रवारितत्वाकृतनिरिक्तत्वयोः । २.१३०९ । अभ्यवहृतौ । २.१३१० । आमिषमात्रस्य । एकासनभोजनम् ॥ वृत्* **(२,४,३१) प्रवारितनियोगे । २.१३११ ॥ नियोगे स्यां भिक्षोः ॥ प्रवारितनियोगः ॥ वृत **(२,४,३२) गणभोजने । २.१३१२ ॥ प्रतिनियतभक्तावासेकेभ्यो न्यैरन्तःसीमस्थैर्भिक्षुभिः संघभूतैरसहभक्ततायाम् । २.१३१३ । सहितस्य । २.१३१४ । सहभोक्तृतया । २.१३१५ । त्रयादिना । २.१३१६ । भिक्षूणां यद्विधस्याची[२३ २]वरद्वितीयभक्तलब्धेरनूढस्य च नावा । २.१३१७ । महासमाजादन्यत्र । २.१३१८ । अन्यास्यानिदं लिङ्गप्रव्रजितभक्तात्* । २.१३१९ । अभ्यवहार्[ए] स्थिततत्रागन्तव्यताना<<म>>न्तःसीमास्थानामपि पृच्छ्यागतत्वम् । २.१३२० । भुक्तिरर्धातिक्रमः । २.१३२१ । संचारणे स्तोकस्यापि । २.१३२२ । यस्य कस्यचिदेकभक्तत्वम् । २.१३२३ । न गमिकागन्तुकग्लानतदुपस्थायकोपधिवारिकादन्यो य[२३ ३]वनोपन्वाहारादभुक्ततायां म? सर्वैरुत्कृष्ट्य भुञ्जीत्* । । गणभोजनम् ॥ **(२,४,३३) अकालभोजने । २.१३२४ । स्वमध्याह्नाह्नपर्यन्तारुणोत्गत्यन्तरमकालः । २.१३२५ । तत्वे वृत्* । २.१३२६ । खादनीयभोजनीयाभ्यवहारे ॥ अकालभोजनम् ॥ **(२,४,३४) सन्निहितवर्जने । २.१३२७ । पूर्वभक्ते प्रतिग्राहितं पश्चात्भक्ते तत्र यामातिक्रान्तमिति सन्निहितम् । २.१३२८ । नोद्गृहीतं* गिलेत्* । २.१३२९ । न पक्वमुषितं बान्तःसीम्नि । २.१३३० । भिक्षुपक्वञ्च । २.१३३१ । सो त्र पाको य आमस्य । २.१३३२ । तत्वममृदूनां प्राक्त्रिभागोत्स्विन्नत्वात्* । २.१३३३ । वर्णपरिवृत्तेर्मृदूनाम् । २.१३३४ । द्रवाणां द्वितीयमुत्थितत्वात्* । २.१३३५ । न्[आ].इना कल्पकरणं न पाकः । २.१३३६ । न जन्मा[य]त्तनिर्मितत्वं वासस्यानुषितत्वम् । २.१३३७ । प्रदेशस्थतयापि पात्रस्य तत्भूमिपक्वता । २.१३३८ । न पक्तुस्त[२३ ५]त्गतत्वेनम् । २.१३३९ । नाग्नेरपात्रत्वम् । २.१३४० । न ततो निष्कृष्टनिर्गतयोस्तत्त्वम् । २.१३४१ । वासत्वमुपविचा[र्]अस्य । २.१३४२ । व्यामम् । २.१३४३ । ऊर्धञ्च वियतस्संभाव्यस्य । २.१३४४ । अभ्यन्तरस्य च । २.१३४५ । तत्वं पुरान्तरस्योपरिष्टस्य । २.१३४६ । नान्याधिष्ठितत्वे न्यवासत्वम् । २.१३४७ । न यावज्जीविकानामुत्गृहीतान्तःपक्वभिक्षुपक्वेषु तत्प्रतिशेधे संशितत्वं का[२४ १]लं प्रति । २.१३५० । अर्धामिषत्वं परिशुद्धे । २.१३५१ । पानादयो मलस्यास्ये । २.१३५२ । बहिरस्य गोमयेन मृदा वा परिघृष्टोदकेन सम्मार्गो निर्मादनम् । २.१३५३ । अन्तद्वित्रोदकगण्डूषछोरणम् । २.१३५४ । निर्मादितत्वमाशयतो द्वित्रवधिकं दाने विस्वनतो पि पात्रस्य । २.१३५५ । निर्दोषं विरलने । २.१३५६ । निष्परिगोधे च संस्पर्शे । २.१३५७ । प्रक्षालितस्य च त्रिरुषगोमयमृत्तिका[२४ २]न्यतरेणास्निग्धतायाम् । २.१३५८ । अपनेयत्वमुत्थितस्य । २.१३५९ । तस्यैव प्रदेशपरिगोधे प्रक्षाल्यत्वम्* । २.१३६० । निःस्नेहतायै स्निग्धस्य च घटादेर्गम्भीर उदके ह्रदे निधानम् । २.१३६१ । आमत्स्यकच्छपमण्डूकशिशुमारवुल्लकैर्निर्लेहाधारणम् । २.१३६२ । दारुतो पि निःस्नेहतापत्तिः । २.१३६३ । निर्मादने निःस्नेहितस्योषाटुकेन गोमयेन वा शुद्धत्वम् । २.१३६४ । अर्धत्वम्* [२४ ३] लवणक्षारकलुषोदकभूतस्य लवणादेः । २.१३६५ । कल्पमानता च सर्वस्याकाले । २.१३६६ । असत्त्वमकरणे लवणक्षारयोः स्वकार्यस्य । २.१३६७ । उत्पत्तौ प्रतिबिम्बस्योत्तरस्य । २.१३६८ । कटकफलेनाम्भसः स्वाच्छ्योपगमनं। २.१३६९ । क्षारेण सक्तुपिण्ड्या । २.१३७० । स्नेहनमविशरणायास्याः । २.१३७१ । नाप्रज्ञायमानस्य सत्संख्य[२४ ४]त्वमाकरेष्वनुप्रविष्टस्य । २.१३७२ । प्रदेशव्यवकरे तस्यैवापनेयत्वम् । २.१३७३ । चञ्चुना काकेन स्पृष्टतायां सामन्तकस्य । २.१३७४ । न तत्संयुक्तधारा स्पृष्टौ न तस्य स्पृष्टता । २.१३७५ । न भ्रान्त्या स्मृतिप्रमोषेण वा । २.१३७६ । नाभ्यां च्यावितस्य स्थापने । २.१३७७ । स्वल्पतरमन्तरं स्थानमुपनयेत्* । २.१३७८ । न वैतरिके नोद्गृहीतत्वं प्रतिग्राहित वा । २.१३७९ । नानयेत्प्रतिग्रा[२४ ५]हणार्हसम्बन्धस्य ग्रहणम् । २.१३८० । सम्बद्धत्वं तेनान्तरवादिसंबद्धतायाम् । २.१३८१ । एकत्वं सन्निहितप्रतिगृहीतोत्गृहीतेषु तुल्ययो संवरेणाभिन्नदृष्ट्योः । २.१३८२ । परेण चावरस्य । २.१३८३ । गृहिवत्स्त्रीपुंसयोः परस्परम्* । २.१३८४ । श्रामणेरिय स्पृष्टवा गोपनात्तद्वद्दोषकारी । २.१३८५ । न सापेक्षेण दत्तस्योत्सृष्टत्वम् । २.१३८६ । अर्धत्वं निरपेक्षोत्सृष्टस्य सापे[२४ १]क्षतायां तस्मान्नेतद्याचेत । २.१३८७ । न गृह्णीत जानन्* । २.१३८८ । नाकल्पिकत्वं भागनयने स्पृष्टौ नीतस्य प्रवेशने तद्रूपेषु प्रत्ययेषु । २.१३८९ । वाहासनं शकटे वर्ज्यत्वम् । २.१३९० । पूरणे पि । २.१३९१ । ग्लानाधिरोहे च । २.१३९२ । कर्णस्य नावि । २.१३९३ । आसनस्य च तद्धारणार्थस्य । २.१३९४ । सांघिकौषधयोश्चोद्वलतोर्घट्टनापनयनेनाग्निनिर्वापणेन चीवरकर्णकादि[२४ २]भिर्वा तदानेनेत्यादौ प्रयतनम् । २.१३९५ । कल्पिकमसम्पत्तौ विधेर्नदीसंतारणार्थं नेतरि च संप्रापणार्थमुद्गृहीतमभावे न्यस्य पथ्यदनम् । २.१३९६ । उत्साहनमभावे वाढुरस्य दानपतेः । २.१३९७ । वहनमसम्पत्तौ स्वयं २.१३९८ । संपादनञ्च तत एव दानपरिवर्तग्राह्यस्य । २.१३९९ । भोज्यत्वमस्याप्यसंपत्तावन्यस्य । २.१४०० । अप्रतिग्राहितस्य च प्रतिग्राहकाभावेऽस्य चान्यस्य वा [२४ ३] कृतभक्तच्छेदस्य । २.१४०१ । प्रथमे ह्ने व्याघ्रमुष्टेः । २.१४०२ । द्वयोः द्वितीये । २.१४०३ । तृतीये यावदाप्तम्* । २.१४०४ । भोज्यत्वं फलानामकाले प्यकृतकल्पानामप्यप्रतिग्राहितानां च । २.१४०५ । निर्भक्तस्य । २.१४०६ । तैव्र्ये क्षुदः । २.१४०७ । मूलानाञ्च । २.१४०८ । स्वयं च पातनोत्पाद्यते साह्यत्वं च । २.१४०९ । उत्तरकौवरप्रसिद्धेः सर्वत्राप्रतिग्राहीतोप[२४ ४]भोगादौ प्रारिप्सायामभिध्यानं। २.१४१० । न करके पानीयं पिबेत्संभवे हस्तनिर्मादनपत्रयोः । २.१४११ । असम्भवे चाप्रतिग्रस्तम्* । २.१४१२ । नास्य सजलतायामपि तत्त्वं* भजेत्* । २.१४१३ । त्रैविध्यमस्य पिधानके । २.१४१४ । काष्ठमयं शैलमयं मृन्मयमिति । २.१४१५ । धारयेत्करकस्थालकम् । २.१४१६ । काष्ठमयं शैलमयं वा । २.१४१७ । निर्दोषं भा[२४ ५]जनत्वोपयोगे पत्राणामप्रतिग्राहितत्वम् । २.१४१८ । अविशेषो त्र मुक्तामुक्तयोः । २.१४१९ । उपयोजनमसम्भवे न्यस्यामुक्तानाम्* ॥ [इति] सन्निहितवर्जनम् ॥ ३४ ॥ **(२,४,३५) प्रतिग्राहितभुक्तौ । २.१४२० । भुञ्जीत त्यक्तमाशयतो दात्रान्यप्रतिग्राहकाभावे स्वयं प्रतिगृह्य । २.१४२१ । सम्मुखान्तःसीम्न्यतिसंभवनीये प्रदेशे वस्थिते नोत्तानपाणिना काये तत्संबद्धे चोद्ग्रहणसमर्थतोऽनुपसं[२५ १]पन्नादमनुष्यादपि दित्*शेयाङ्गेन तत्सं*बंधेन चोत्सृष्टस्य प्रतीष्टिः प्रतिग्रहः । २.१४२२ । जैगुप्स्यतायां जनपदस्योपनिक्षिपेत्युपदर्शिते मण्डलकेऽपि । २.१४२३ । एक्यं पात्रतदधिष्ठानयोः । २.१४२४ । गोचरः शाखामर्कटानां न ततस्तान् प्रत्यनभिसंभवनीयत्वं भूमेः । २.१४२५ । न फलानां पञ्चपीठिकोत्संगपात्राधिष्ठानैः प्रतिग्रहप्रतीष्टेरन्याय्यत्वम्* । २.१४२६ । [२५ २] निःश्रितैरेषां प्रत्यवेक्षणं तूष्णींभावेन । २.१४२७ । समप्रवृत्तिं चारकं* रोचयेयुः । २.१४२८ । न्याह्यं भिक्षोश्चारकत्वं प्रतिग्राहित्वस्य । २.१४२९ । घृततैलमधुफाणितघटांश्चारयंस्तृणपत्रप्रभृतिश्चीवराणि व्यवदध्यात्* । २.१४३० । पृथक्चार्ये ज्येष्ठमध्यमकनीयसां करणम्* । २.१४३१ । पृथक्कृत्य मृष्टाम्राणां चारणं* । २.१४३२ । चारकस्याचार्य उपाध्यायो वा प्रति[२५ ३]गृह्णीयात्* । २.१४३३ । अप्राप्यप्राप्तावनन्तरस्थानः । २.१४३४ । अनेकत्वे यावतामासनमुक्त्वा प्रतिग्रहीतुं शक्तिः । २.१४३५ । लुठितस्य शक्यतायां स्वयममुक्त्वा स्थानं ग्रहीतुमध्वंसः प्रतिग्राहस्य । २.१४३६ । स्पृष्टस्य च मक्षिकाकीटिकादिभिः । २.१४३७ । अन्येनास्य मुक्तस्य भिक्षुणा । २.१४३८ । ध्वंशकृन्मूषिकः । २.१४३९ । न प्रतिग्राहि[२५ ४]कःतप्रतिग्रहणमन्याय्यम् । ॥ प्रतिग्राहितभुक्तिः] ॥ वृत ॥ ३५ ॥ **(२,४,३६) अप्रतिग्राहितभुक्तौ । २.१४४० । अप्रतिग्राहितायाम् । २.१४४१ । उत्सृज्योदकदन्तकाष्ठमाहार्यस्य । २.१४४२ । मुखेनाभ्यवहारे । २.१४४३ । अनुत्तरकुरौ । २.१४४४ । प्रतीष्ठ्यद्ग्लानो नुपसम्पन्नेन भोजनमभाव उपसंपन्नस्य । २.१४४५ । भोजयेदनुपसंपन्नम्* । ॥ [इति] अप्रतिग्राहितभुक्तिः ॥ ३६ ॥ **(२,४,३७) प्रणीतविज्ञापने । २.१४४६ । क्षीरं दधि नवनीतं मत्स्यं मांसम्* वल्लूरा [२५ ५] इति प्रणीतभोजनम् । २.१४४७ । एतत्कर्तृत्वमज्ञातिगृहीता च दातुः । २.१४४८ । स्वविज्ञप्त्याभ्यवहृतौ विज्ञप्तौ कारितत्वे चास्या दुष्कृतस्य । २.१४४९ । अग्लानस्याकृतयथासुखप्रवारणस्य । २.१४५० । तस्माल्लभमानस्यापि चेदन्यल्लूहं प्रणीतं वा समं प्रकृष्टं वा विज्ञप्तिः । २.१४५१ । अर्धतास्मिन्* लूहस्य । २.१४५२ । यथासुखप्रवारणत्वं भिक्षयादाय निर्गतेन [२५ १] तूष्णीम्* तिष्ठतः प्रतिक्षिप्तो वा तत्किं* याचस इति । प्रस्नस्य ॥ [इति] प्रणीतविज्ञप्तनम् ॥ ३७ ॥ **(२,४,३८) सप्राणकोपभोगे । (क) विभङ्गगतम् । २.१४५३ । स्वोपभोगार्थत्वे प्रवृत्तिप्रवर्त्तणयोः । वृत । २.१४५४ । सप्राणितायाम् । २.१४५५ । उदकं सर्प्पिस्तैलमधुफाणितक्षीरदधिनवनीतशुक्तशुलुकदधिमण्डकांचिकफलखाद्यकादेरुपयोज्यस्य । २.१४५६ । दृश्यैः । २.१४५७ । मृतौ । २.१४५८ । प्रतिप्राणि उपभोगः शरीर उपयोगः । २.१४५९ । तद्यथा [२५ २] स्नानं* पानं* दन्तकाष्ठविसर्जनं* हस्तपादप्रक्षालनं* । २.१४६० । उपकार्ये स उपयोगो य उपकरणेषु । २.१४६१ । अभ्यवहार्यपात्रचीवरस्थानदन्तधावनाग्निप्रभृतीनि शरीरोपकरणानि <<। २.१४६२ ।>> तेषां मृद्गोमयरङ्गतृणकाष्ठप्रभृति । २.१४६३ । तेषु उपयोगस्तद्यथा निर्मादनं भावनं* रञ्जनं* सेकः सम्*मार्ग उपलेपः । २.१४६४ । यूषमण्डयवागू[२५ ३]नां कारणम् । २.१४६५ । बन्धमोक्षयोरुदकमार्गस्य । २.१४६६ । काष्ठप्लवयोः क्षेपाकर्षणोत्पाटनानाम् । २.१४६७ । अकपलसकादन्येन रोमविधादिना स्नानं* । २.१४६८ । तेनास्य हि रिक्तप्राणकधातावुदक इत्यपि प्रयोगाः ॥ सप्राणकोपभोगः, विभङ्गगतः ॥ (ख) क्षुद्रकादिगतम् । २.१४६९ । धारयेद्दण्डपोण* । २.१४७० । दत्तप्रत्येष्ट्यभाण्डोत्त्माकाशावस्थाप्याकीर्यमाणपव्यजलप्र-[२५ ४]त्येष्ट्यपवित्य असम्*<<जनना>>यमार्थय लहकण्टकरस्त्रिदण्डस्तदाख्यः । २.१४७१ । स्थानार्थं जलस्यास्तृतेः परिश्रावणे दानम् । २.१४७२ । वालुकया गोमयेन वा । २.१४७३ । धारणपात्रस्य वा । २.१४७४ । मृत्ताम्रमयोरन्यतरस्य । २.१४७५ । त्रिदण्डयष्ट्यामस्य बन्धनम्* । २.१४७६ । सम्*गृह्य रन्ध्रे सूत्रकेण पूर्वस्य । २.१४७७ । उत्तरस्य श्लक्ष्णसृङ्खलिकया । २.१४७८ । धारणमस्य । २.१४७९ । कम्पिक[२५ ५]या मुहुर्मुहुरतानेस्त्रपरिश्रावणस्य पराघातः । २.१४८० । अल्पप्रयत्नेन र<<व>>णं* । २.१४८१ । धारणमस्य । २.१४८२ । मृदस्ताम्रस्य वा । २.१४८३ । कुम्भकृत्येतदधोनाडिषु पुस्करवदन्तरविवरं* । २.१४८४ । नदुकस्यैषु शोधकत्वम् । २.१४८५ । परिश्रावणमुपस्थापयेत्* । २.१४८६ । खल्लगं धर्मकरंकं मोचनपट्टकं वा । २.१४८७ । आत्युहायां कल्पिकजलस्य सम्*[२६ १]भावदायाञ्च करककुण्डिकाभ्यामेतत्तद्वत्त्वम् । नानेन विनाजनपदचारिकञ्चरेत् । २.१४८८ । न सान्तरेण सार्द्धम्* । २.१४८९ । तद्रूपश्चेत्प्रत्ययः क्षमयित्वा कार्यकरणे स्तित्वमास्तित्वम् । २.१४९० । तस्मात्तद्वत्त्वमत्र दाने प्रतिज्ञाते न्येन । २.१४९१ । नैतज्जनपदचारिकायां वियुक्तौ दानाप्रतिज्ञाने संश्रयेत्* । २.१४९२ । नाविघातकृदन्तरसंचा[२६ २]रश्चारिका । २.१४९३ । क्रोशपञ्चकस्यैतत्त्वम् । २.१४९४ । न प्रमील्य गतस्य स्थाने तद्वत्त्वाभावे कामजः । २.१४९५ । नैकेनानेकस्य तद्वत्त्वासंपत्तिरासंघात्* । २.१४९६ । नाविघातकृत्त्वं शीघ्रस्रोतसः । २.१४९७ । क्रोशमनु गच्छतोऽस्यामनुस्रोतोऽनुसंहितं* प्रत्यवेक्षणात्तेन प्रवृत्तिः । २.१४९८ । सम्भेदश्चेदत्रोदकान्तरेण प्राक्ततः । २.१४९९ । व्यामस्य परितः प्रत्यवेक्षितत्वम् । २.१५०० । चक्षुषा [२६ ३] शुद्धत्वमुदकस्य शुद्धिः । २.१५०१ । प्राकृतेन । २.१५०२ । निष्कम्पत्वे प्रत्यवेक्षणमरजसः । २.१५०३ । पूर्णत्वे घटस्य । २.१५०४ । नातिकृयासंख्यामत्र चिरतां कुर्यात । २.१५०५ । तूलिकया सुकरं प्राणकानां दर्शयनं* श्लक्ष्णया । २.१५०६ । नैनां क्लमके ध्वन्या किरेत्* । २.१५०७ । नान्याम्* । २.१५०८ । प्राणकपतनम् । २.१५०९ । चेत्प्रदीपे तत्करणेनास्य प्रच्छादनम्* । २.१५१० । पञ्जरं वंशवि[२६ ४]दलिकानां शुक्लवस्त्रस्य वेष्टिमभ्रपटलेन वा तदाख्यम् । २.१५११ । शताक्षश्च । २.१५१२ । आद्यकृतित्वा कर्परं वा घटादेश्छिद्रितम् । २.१५१३ । न वालपाशेन सर्पं बध्नीयात्* । २.१५१४ । अछटाशब्दं कृत्वा भद्रमुखादर्शनपथे तिष्ठेति वदेत्* । २.१५१५ । अस्थितावजपदकेन दण्डेन शनैष्कुम्भे कुण्डके वा प्रक्षिप्य छिद्राणि कृत्वा मुखं पिधाय निष्कासनम् । २.१५१६ । [२६ ५] असंमत्तौ पट्टिकया लोठिकया मुरुचिकया वा रजुपाशेन वा नतुके वेष्टितेन ग्रीवायां बद्ध्वा । २.१५१७ । प्रक्षेपेऽप्येषां विनयोगः । २.१५१८ । न दवे च्छोरयेत्* । २.१५१९ । आशयप्रवेश तिष्टेत्* । २.१५२० । नदुके यूकानां स्थापनम्* । २.१५२१ । शुसिरे तस्य । २.१५२२ । शाद्वले मत्कुणानाम् । २.१५२३ । शीतले वा । २.१५२४ । मोचनघटिकायाः पूर्वावतार[२६ १]णार्थं* वारणम् । २.१५२५ । तेनैव वा परिश्रावणेनावतारणम्* । २.१५२६ । मोचनं परिश्रावणस्य लग्नप्राणकापनीतावुपायः । २.१५२७ । भावनं मलस्य । २.१५२८ । शोष्यणं यौ?न्यानुपगतेः । २.१५२९ । निष्पीडनस्य द्वयेऽप्यस्मिन्नुपकरत्वम् । २.१५३० । निरावद्यालंभप्रत्ययसंघपुद्गलपरिश्रावणप्रस्रवणप्रत्ययेन प्रवृत्तिः । २.१५३१ । आसूर्योदयात [२६ २] गृह्णीतो दपानयोः प्रत्यवेक्षितानुवृत्तिः । २.१५३२ । पादधावनिकां रिक्तामुल्लोच्य पूरयेत्* । २.१५३३ । उपस्थापयेद्<<चोदका>>न्यभाण्डम्* । २.१५३४ । भाण्डगोपकस्य तद्गतः सांघिके व्यापारः । २.१५३५ । नात्र दानग्रहणयोः नान्तर्भावः । २.१५३६ । दानं गृहिणे याचितकत्वेन । २.१५३७ । परिभुक्तस्य तत्सत्वे । २.१५३८ । नानेन दानपतीनां विहारे देयत्वस्य नोक्तता [२६ ३] नवस्य भिक्षवे निद्देयत्वेन । २.१५३९ । भाण्डार्थे लयनसनियोजनम् । २.१५४० । पृथक्त्वेन मृत्ताम्रभाण्डिकयोर्निक्षेपः । २.१५४१ । उपस्थापनं पानीयस्य । २.१५४२ । न यत्र क्वचन स्थापनम्* । २.१५४३ । मण्डपस्य तदर्थं करणम् । २.१५४४ । दक्षिणपश्चिमे विहारस्य पार्श्वे भ्यन्तरतः । २.१५४५ । वातायनमोक्षेष्टकास्तरदानोदकभ्र[२६ ४]ममोक्षद्वारकरणकवाटकटकदानं* । २.१५४६ । वंश्रस्य च परिश्रावणस्थापनार्थम् । २.१५४७ । काष्ठ(म्)मञ्जिकासु स्थापनम् । २.१५४८ । इष्टकपिण्डिकायां वा । २.१५४९ । आधारकेषु । २.१५५० । चौक्यं पानीयभाण्डमापारिभोगोकार्थात्कुर्यात्* । २.१५५१ । शुचि । २.१५५२ । पानीयञ्च पेयम्* । २.१५५३ । नाकल्पिकैरेनधस्तचीवरैश्चारयेत्* । २.१५५४ । [२६ ५] कालेन कालमुदकभाण्डानामन्तःशोचनम्* । २.१५५५ । गम्भीराणामुशीरकुर्वकेन पत्रवैभङ्गुकैर्नत्रकेन वा यष्ट्यामुपनिबद्धेन । २.१५५६ । नातो रम्वृत्वमामिषोपदेहस्य । २.१५५७ । शोषणञ्च । २.१५५८ । तदा विघातार्थमपहतत्वेन । २.१५५९ । निश्रयकरणीयानामुदकगतो व्यापारः । ॥ सप्राणकजलसंबद्धक्षुद्रकादिगतः ॥ ३८ ॥ [२७ १] । वृत **(२,४,३९) निषदने । २.१५६० । प्रवृत्तावौन्मुखे वा । २.१५६१ । सन्निपाते । २.१५६२ । स्त्रीपुन्सयोः । २.१५६३ । गृहित्वे । २.१५६४ । अन्यस्थानतायाम् । २.१५६५ । योग्यत्वे च । २.१५६६ । निरस्यत्वे संप्रयुक्तेः । २.१५६७ । प्रत्यक्षकल्पेन निषदने । । सभोजने निषदनम् ॥ **(२,४,४०) स्थाने । २.१५६८ । । स्थाने रहःकल्पेन । २.१५६९ । सावरणस्य । २.१५७० । न चेत्भयवशात २.१५७१ । दुष्कृतस्यासम्वेद्यसम्वेतृत्वे । २.१५७२ । अवधाने [२७ २]च स्थानान्तरे । २.१५७३ । गोचरान्तात्* दृष्तेः स्थानान्तः । २.१५७४ । अन्तर्गतत्वं गन्*जस्य । २.१५७५ । भिन्नत्वम्* गृहान्तरस्य । । सभोजनस्थानम्* ॥ **(२,४,४१) अचेलदाने । २.१५७६ ॥ स्त्रियाः पुरुषस्य वा । २.१५७७ । उत्सृज्य ज्ञातिं* प्रव्रजापेक्षं* ग्लानञ्च । २.१५७८ । अनिदंलिङ्गप्रव्रजितस्याचेलकस्य काये कायसम्बद्धे वा । २.१५७९ । खादनीयभोजनीययोः [।] २.१५८० स्वस्य [२७ ३]तस्य च । २.१५८१ । उत्सृज्य पापगदृष्टिगताद्विवेचनार्थताम् । २.१५८२ । स्वयं दाने । २.१५८३ । अकल्पिकयोः दुष्कृतम् । २.१५८४ । दापने । २.१५८५ । सम्विभागे च । । अचेलदानम् ॥ **(२,४,४२) सेनादर्शने । २.१५८६ । युद्धाभिनन्दिसेनदर्शनार्थतया । २.१५८७ । उत्सृज्य राजदेवीकुमारामत्यभटवलाग्रनैगमजानपदोक्तिम्* । २.१५८८ । अन्तरायोपपातवशताञ्च । २.१५८९ । [२७ ४]प्रस्थापितस्य । २.१५९० । उपविचारान्तातिक्रमे दृष्टौ । । सेनादर्शनम्* ॥ **(२,४,४३) सेनावासे । २.१५९१ । विनैते तत्र रात्रिन्दिवद्वयपरिपूरेरूर्धं वासे । २.१५९२ । अनिमित्तञ्च पूर्वत्रापि । । सेनावासः ॥ **(२,४,४४) युद्धाङ्गप्रत्यनुभवे । २.१५९३ । युद्धाङ्गानां कर्तृत्वम् । २.१५९४ । अनान्तरायवशगतस्य । २.१५९५ । समस्तव्यस्तानाम् । २.१५९६ । सज्जीकृतानाम् । २.१५९७ । मौले मोलस्य । २.१५९८ । दुष्कृतस्य प्रयुक्तौ । २.१५९९ । [२७ ५]असज्जीकृतानाम् । २.१६०० । उभयत्रापि दुष्कृतस्यैव । २.१६०१ । स्पृष्टिरुद्यूथनं प्रस्थाय दर्शनार्थमुपविचारान्तातिक्रमे दृष्टिरिति मूलानि । २.१६०२ । न्यूनत्वमनुद्यतत्वे । २.१६०३ । न हस्त्यश्वकुक्कुटलावकवर्तकस्त्रीपुरुषयुद्धादि कुर्यात्कारयेन्निरीक्षेत वा । । युधाङ्गप्रत्यनुभवः ॥ **(२,४,४५) प्रहरणे । २.१६०४ । कलुषचित्ततया । २.१६०५ । कायतन्निःसृष्टसम्बद्धैर्येन [२७ १]केनचिदन्ततः पादाङ्गुष्ठसर्षपतूलिकभिः प्रहृतौ । २.१६०६ । भिक्षो । २.१६०७ । परस्य । २.१६०८ । उत्तरेषु त्रिषु । २.१६०९ । स्पृष्टो । २.१६१० । प्रतिनिपात्यम्* । २.१६११ । अनिपाते दुष्कृतम्* । २.१६१२ । नान्यत्र प्रहर्तव्ये न्यत्र प्रहरेत् । २.१६१३ । न स्तम्भे प्रहारं दद्यात्* । २.१६१४ । न भित्तौ भूम्यां वृक्षे न्यत्र वा । । प्रहरणम्* ॥ **(२,४,४६) अवगुरणे । २.१६१५ । प्रहारावगुरणे । २.१६१६ । प्रतिद्रव्यम् । । अवगूरणम् । **(२,४,४७) अवद्यप्रतिच्छादने । २.१६१७ । [२७ २]पाराजयिकसंघावशेषयोरुत्सृज्यास्पर्शश्रामण्यब्रह्मचर्यान्तरायसंघसंक्षोभाशंकवशताम्* । २.१६१८ । प्रतिछादने । २.१६१९ । अन्ते होरात्रस्य । २.१६२० । प्राग्दुष्कृतम्* । २.१६२१ । अन्य<<स्या>>श्वापत्तेः । । अवद्यप्रतिछादनम्* ॥ **(२,४,४८) भक्तच्छेदकारणे । २.१६२२ ॥ सं*चिन्त्य मुक्त्वा रोगप्रतिकृयार्थ तां गृही दातृभक्तछेदस्य कारणे । । भक्तछेदकारणम्* ॥ **(२,४,४९) अग्निवृत्ते । २.१६२३ ॥ [२७ ३]न सिं*हं* स्पृशेत्* । २.१६२४ । शास्तृधर्मसंघसब्रह्मचारिणां धर्म्यकरणीयार्थतापेक्षा पात्ररंगकर्मणोश्च समयाधिष्ठानम्* । २.१६२५ । अधितिष्ठेत्* दीर्घम्* । २.१६२६ । क्रीडायां चरपरया चन्द्रसूर्यालातचक्रादिकरणतश्च । २.१६२७ । अग्निना । २.१६२८ । अनधिष्ट्ःितसमयस्य अग्लान्यवशतास्थस्य स्पृष्टौ । २.१६२९ । स्वयन्नियोग[२७ ४]तो वा । २.१६३० । प्रज्वालनिर्वापणस्पृष्टास्पृष्टेन्धनसम्ववधानयुक्तनिष्कर्षणाङ्गारसमावर्तननिष्कर्षणेषु । २.१६३१ । अर्धास्तमितत्वं कुकूलस्य । २.१६३२ । ज्वालानाञ्च । २.१६३३ । समवधाननिष्कर्षणे तत्रेन्धनस्याग्न्यन्तरवृत्तम्* । २.१६३४ । केशरोमास्थिनखखेटसिं*घाणकवान्तविरिक्तमुत्गमाषतिलतैलमधु-सर्पिषामर्धेन्धनत्वम् । २.१६३५ । अन्यस्य [२७ ५]करणीये न्यस्यैत्यधिष्ठानमर्धाधिष्ठानम्* ॥ ॥ अग्निवृत्तम्* ॥ **(२,४,५०) छन्दप्रत्युद्धारे । २.१६३६ ॥ भिक्ष्वर्थार्थे कर्मणि । २.१६३७ वृत्[त]स्य मतदानस्य प्रत्युद्धारार्थायां वापि ॥ ॥ छन्दप्रत्युद्धारः ॥ **(२,४,५१) [शयने] २.१६३८ ॥ नाचन्द्रसूर्यालोकवत्यववरकदेशे शयीत । २.१६३९ । मुक्त्वा ग्लान्यग्लानोपस्थानवशताम्* । २.१६४० । प्रायश्चित्तिकमत्रेत्येके । २.१६४१ । अर्धत्वम[२८ १] । ।निपत्तेः पृथक्त्वञ्चाह्नः । २.१६४२ । यत्भूयः परिवारितमगारपर्यन्तः । २.१६४३ । तत्गतत्वं संबद्धस्य तत्*द्वारपार्श्वोपचारस्यागारभूतस्य । २.१६४४ । पुरान्तरस्य च तत्गतद्वारस्यानन्तरस्य च । २.१६४५ । न सोपचारात्परस्य लयनमात्रात्पृथग्भूताध्यासितस्य । २.१६४६ । अर्धत्वं वृक्षमूलकुड्यशुशिर......वूर्तमूलानाम् । [ इति शयनप्रायश्चित्तिकम् ।] **(२,४,५२) स्त्रीसहस्वप्ने । २.१६४७ । सगहनानां स्त्री[२८ २]सहस्वप्ने । २.१६४८ । अध्वनो त्र कुक्कुटस्योत्पात्य निलयने न्तरमभूतत्वम् । २.१६४९ । सर्वस्य सान्तरसंचारस्य निरनगारान्तरत्वे छदनस्यैकत्वम् । २.१६५० । पृथक्त्वम्* स्वभागगतबन्धनबद्धत्वे द्वारस्योपचारस्यापि । २.१६५१ । तद्वद्रक्षितत्वं भिक्षुणापत्तेः । २.१६५२ । गुप्तत्वञ्च स्वामिना मातृग्रामस्य । २.१६५३ । उद्धृतत्वञ्च निःश्रयणेः पुरान्तरे । २.१६५४ । हासो नगारत्वे न्यभूतात्* । [ इति स्त्रीसहस्वप्नम् ] **(२,४,५३) अनुपसंपन्नसहस्वप्ने । २.१६५५ । [२८ ३]अनुपसंपन्नेन सार्धमगारे त्रितीयस्यां रात्रो स्वप्ने । २.१६५६ । अन्ते । २.१६५७ । प्राक्दुष्गृतं निर्दोषमध्वपरिश्रान्तस्य क्लान्तौ । २.१६५८ । यथास्यान्ते पि । २.१६५९ । अकल्पिनि च भिक्षोर्करणीये तत्संपादकेन सार्धं* ग्लानस्य तदुपस्थायिनश्च । २.१६६० । श्रामणेरेण च तद्वतः सन्निहिततायां तत्रावासे पापभिक्षोः कृतकुर्वत्तन्निवासप्रयत्नस्य । २.१६६१ । उपगतो [२८ ४]पश्चिमकालयोर्द्वयोराद्ययोर्मासयोर्वर्तमानस्य । २.१६६२ । नोर्धमस्य वस्त[व्]यत्वम्* । २.१६६३ । अकार्यत्वं पूर्वोपगतेः । २.१६६४ । अरक्षत्वं प्राग्* । २.१६६५ । नैषो नुपस्थापितम्* श्रामणेरमुपस्थापयेत्* । २.१६६६ । मिद्धोपपातेनाध्वनि श्रामणेरमभिप्लुतं* पुरतः कृत्वा गच्छेत्* । २.१६६७ । बुभुक्षितश्चेत्सानुकालं दद्यादस्मै तदाहारम्* । २.१६६८ । पुनश्चेद्वेलायां तदा[२८ ५]पि । । अनुपसम्पन्नः सहस्वप्नः ॥ **(२,४,५४) दृष्टिगतानुत्सर्गे । २.१६६९ ॥ तथाहं भगवतो धर्मदेशितमाजानामि यथा <<य्[ए] अधर्मा[ः] संक्लेशिका[ः]>> आन्तरेयिकधर्मा उक्ता भगवतो प्रतिषेव्यमाने <<ना>>लमन्तरायायेत्यादि प्रवृत्तवचनतावसर्गे जैगुप्स्यमत एनं कुर्यु ज्ञापनेन । । दृष्तिगतानुत्सर्गः ॥ वृत । **(२,४,५५) उत्क्षिप्तानुप्रवृत्तौ । २.१६७० । तथा विदितप्रक्षिप्तस्याप्रतिकृ<<त>>तायां भिक्षोः । २.१६७१ । उद्दे[२८ १]शदाने । २.१६७२ । परिप्रच्छन्निकायायाः । २.१६७३ । सनिःश्रयस्य । २.१६७४ । अनुशासन्याः । २.१६७५ । अववादस्य । २.१६७६ । आविष्करणे दृष्टेः । २.१६७७ । आमिषसंभोगे । २.१६७८ । उपस्थापनस्वीकृतो । २.१६७९ । अगारे च सहस्वप्ने । २.१६८० । अन्ते रात्रेः । २.१६८१ । अन्यथा वासं स्यन्दने <<।>> २.१६८२ <<।>> मुक्त्वा ग्लान्यदृग्विवेचनगतेनार्थेन । । उत्क्षिप्तानुप्रवृत्तिः ॥ **(२,४,५६) नाशितसंग्रहे । २.१६८३ ॥ [२८ २]प्रवृत्ततद्वचनानुत्सर्गे स्रामणेरं नाशयेयुः । २.१६८४ । ज्ञप्ते चतुर्थस्य ते कर्मण इति पूर्वत्रोत्तरत्रनाशनीयस्य ते इत्युपक्रमं ज्ञप्ति<<ः>> कृता नि<<ः>>सृजेदमेवंरूपं पापकं दृष्टिगतं प्रथमा कर्मवाचना कृता द्वितीयेति प्रत्येतदन्तमस्मै भिक्षुणा श्रावयेयुः । २.१६८५ । <<अ>>नारतावुत्तरं कुर्युः । २.१६८६ । नाशिततायां श्रमणोद्देशस्य । । नाशितसंग्रहः । **(२,४,५७) अरक्तवस्त्रोपभोगे । २.१६८७ ।[२८ ३]नील्या गैरिकेन वल्कलेनेत्यनुपरक्तस्य स्ववाससः । २.१६८८ । अन्ततः पात्रवस्यकस्थाविकापादचोडकायबन्धनानां प्रावरणादौ परिभोगे । २.१६८९ । न निकायान्तरीयस्य पुनः कल्पनीयत्वम् । २.१६९० । नाछिन्नस्य गृहिणा । २.१६९१ । न महारङ्गरक्तं प्रावृत्तिं भजेत । २.१६९२ । नागारिकस्य । २.१६९३ । भजेद्विहाराभ्यन्तरे प्रतिछातितस्य का[२८ ४]षायेण । २.१६९४ । साधारणत्वमध्वनि याचितप्रावरणस्य । २.१६९५ । साहायकैः भिक्षुश्रामणैरैः । २.१६९६ । एकत्वे वृद्धान्तादारभ्य यावत्संभावनामुपरिदानम् । २.१६९७ । नानवछिन्नमपरतः प्रावृत्यं चंक्रम्येत । २.१६९८ । अन्वाक्रामेदुपनिमन्त्रितः पुण्यकामेन नवमाछिन्नदशात्पराहत्यानित्यतामनसिकारेण । । अरक्तवस्त्रोपभोग[ः] । **(२,४,५८) उद्धर्षवस्तुगते । २.१६९९ <<।>>[२८ ५]स्पृष्टोस्पर्शनयोः कर्तृरत्नमस्वम् । २.१७०० । तत्सम्मतञ्च । २.१७०१ । शस्त्रमेतत्संग्रामावचरं भाण्डञ्च गन्धर्वावचरम् । २.१७०२ । प्राप्तं योग्यत्वमुपयोगाय मूलस्य । २.१७०३ । दुष्कृतस्याप्राप्तम् । २.१७०४ । मुक्त्वा स्वीकाराना अनुगत <<तत्र>> द्रव्याविनाशचित्तस्य विहारतदुपचारगतम् । २.१७०५ । न तदुपेक्षेत । २.१७०६ । सप्ताष्टान् दिवसनेतदुपविचारे प्रक्र[२९ १] । ।ष्यन् पांसुना वैभङ्गुकैर्वा छादयेत । २.१७०७ । नासमुदितचिन्नाय स्वाम्यहमिति ब्रुवते दद्यात्* । २.१७०८ । अनागमे स्योधं सांघिकै गञ्जोपनिक्षिपेत्* । २.१७०९ । आषष्ठमासपर्यन्ता धारयेत्* । २.१७१० । ऊर्धमनागतौ यत्भूमौ बुद्धसांघिकयोर्लब्धिं* तत्रोपयुक्तिः । २.१७११ । अयोग्यत्वे क्रयनं योग्यस्य तेन स्थावरस्य । २.१७१२ । तदा चेत्स्वाम्यागच्छेदनुज्ञानमाया..य[२९ २]निछते दद्युः । २.१७१३ । वृद्धिञ्चेत्मृगयेदेतदेव न बहु मन्यसे यदस्माभिः परिपालितमिति ब्रूयुः । २.१७१४ । घटितविद्धतायां मण्यादेर्योग्यत्वम् । २.१७१५ । हर्षकटककेजूरहारार्धाहारत्वविनिवेशे च । २.१७१६ । वीणावेणुवल्लरिमहतिमुत्घोषकानां सतन्त्रीकत्वे । २.१७१७ । वदत्तायां शङ्खभेरीपटहमुरवाणाम् । २.१७१८ । धनुषः सगुणत्वे । २.१७१९ । तत्वे शील्येकतो धारककुन्तडा[२९ ३]भाणे र्धानाम् । २.१७२० । शरनाराचार्धनाराचानां सफलत्वे(ः) । २.१७२१ । सधातुकत्वे प्रतिमायाः । २.१७२२ । निघोषमस्याः शास्तृसंज्ञामुपस्थाप्य । २.१७२३ । काचमणिपलालमालकाण्डवीनिकतलमडुकपिञ्जनकतुलिकाकाण्डानामर्धत्वम् । २.१७२४ । अयोग्यत्वं सुवर्णपिण्डस्य । २.१७२५ । गोपयित्वोत्रासे गृहीत्वा वानुपरोधे स्वस्य सांघिकम्* [२९ ४]स्तौपिकञ्च हिरण्यसुवर्णमपक्रमणम् । २.१७२६ । स्राद्धेन श्रामणेरेण वा । २.१७२७ । अभावे स्वयम्* । २.१७२८ । खननमत्र । २.१७२९ । अपगते दानम्* । २.१७३० । उत्पाट्य तद्वत्* । २.१७३१ । निर्दोषममानुषभवने पुण्यनिर्जातं चेदेषां रत्नमयं भूमिसोपादानादि । २.१७३२ । भोजने च भाजनमसम्भवे न्यस्य । २.१७३३ । शयनासनम्* च निषादे । २.१७३४ । गच्छेद्यानेन । २.१७३५ । धर्मार्थ[२९ ५]वशतया । २.१७३६ । नाटोपवता । २.१७३७ । न जीर्णग्लानाभ्यामन्यः । २.१७३८ । निषीदेद्धर्मश्रवणार्थं रत्नमये सिं*हासने पराहत्यानित्यतामनसिकारेण । २.१७३९ । निवेशने चागारिकीयाणीति संप्रेक्ष्य तत्प्रज्ञप्तौ । २.१७४० । सुवर्णखचितकांकणिकावृतेषु वस्त्रेषु । २.१७४१ । अत्र च मणिप्रत्युप्तेषु सुवर्णरूप्यखचितेषु । प्रवेशयेयुरेतानि । २.१७४२ [२९ १]नाकल्पिकत्वमुपस्थापितशास्तृसंज्ञानामागारिकश्रामणेराभावे बुद्धप्र<<ति>>कृतेर्धर्म्यार्थवशतया स्पृष्टौ । २.१७४३ । त द्रव्यस्य च । २.१७४४ । नाभरणप्रावृत्तिं भजेत्* । २.१७४५ । धारयेत्* मुद्रां* । २.१७४६ । अप्रावरणिकीम्* । २.१७४७ । त्रपुताम्ररितीकं सजतुकाष्ठशैलमृद्दन्तशृङ्गेभ्यः । २.१७४८ । चिह्नं सांघिकायां मध्ये चक्रं पार्श्वयोर्मृगावधस्ताद्विहारस्वा[२९ २]मिनो नाम(ः) । २.१७४९ । पैङ्गलिकायामस्थिसंकलाशिरकपालं वा । २.१७५० । न फणिकया शिर प्रसाधयेत्* । २.१७५१ । निदर्शनमेषा । २.१७५२ । नादर्शेन मुखं पश्येत्* । २.१७५३ । उदकात्* । २.१७५४ । अनापत्तिरुदकप्रत्यवेक्षणार्थतायां व्रणवलीपलितदर्शने पूर्वोत्तरनिमत्तोद्ग्रहणै <<।>> २.१७५५ <<।>>न त्र्यार्षं भजेत्* । २.१७५६ । न रोचनाम्रक्षणम्* । २.१७५७ । न गन्धैः । २.१७५८ । भजेत पादयोर्गन्धा[२९ ३]ङ्गददानं पुण्यार्थिनाम्* । २.१७५९ । न तस्य पुरतोपनयेत्* । २.१७६० । नैभिःरक्तः संघे सन्निपदेत्* । २.१७६१ । न गृहीभ्यो धर्मं देशयेत । २.१७६२ । न कुलान्युपसंक्रामेत । २.१७६३ । स्नानमन्ते भाजेत । २.१७६४ । प्रतिगृह्नितैनाम । २.१७६५ । पुष्पमालाञ्च । २.१७६६ । चैत्यै विनियोगः । २.१७६७ । श्रावकस्यापि । २.१७६८ । अनभिमतो दातुः शिरोन्ते पादान्ते वा । २.१७६९ । अ[२९ ४]सम्मुखे द्वारस्य । २.१७७० । भित्तौ । २.१७७१ । लम्बनं मालाद्याशूच्यामत्रावतूसितायां कण्टके वा । २.१७७२ । चक्षुष्यं सुगन्धीति कालानुकालं घ्राणम्* । २.१७७३ । न ब्रह्मसूत्रप्रावृत्तिं* भजेत्* । २.१७७४ । न सूत्रकस्य । २.१७७५ । मूलवाहौ चिकित्सार्थस्य भजेत वामे । २.१७७६ । न यत्र क्वचन छोरयेत । २.१७७७ । सशेषं चेत्* चीवरकर्णके (ष्)कुञ्चके वा बन्धनम् । २.१७७८ । न चेत्* स्तम्भस्य[२९ ५]शुषिरे कुड्यस्य वा निक्षेपः । २.१७७९ । न नृ(इ)र्तगीतवादितमाचरेत्* । २.१७८० । न शिक्षयेत्* । २.१७८१ । नोपसंहरेत । २.१७८२ । न दर्शनायोपसंक्रामेत्* । २.१७८३ । न भिक्षुण्या नृर्तिं कारयेत्* । २.१७८४ । गुर्यात्शास्तृगुणसंकीर्तने त्रिदण्डकदाने च स्वरगुप्तिं* । २.१७८५ । शिक्षेतैनां प्रतिगुप्तिप्रदेशे । २.१७८६ । न संचग्घनसंक्रीडनसंकिलिकिलायनौद्धत्यद्रवकायताड्यानि कुर्यात्* [३० १] । २.१७८७ । नौद्धत्याभिप्रायः कायवाचो विकुर्वीत । २.१७८८ । भागशो व्यवकरे संसर्गः । २.१७८९ । न भाजनसंचारकेनाभ्यवहृतिं* कुर्यात्* । २.१७९० । नाअ वतंसकं ग्र[थ्न्]ईयात । २.१७९१ । नामुञ्चेत । २.१७९२ । न लालाटिकमनुप्रयच्छेत । २.१७९३ । न समावस्थायां वाचेत्*। २.१७९४ । न जवनप्लवने कुर्यात्* । २.१७९५ । नोरुवाहुमत्स्यपरिवर्तकं परिवर्तेत्* । २.१७९६ । न जलशिक्यि[३० २]कां विध्येत । २.१७९७ । न जलमण्डुकभेरिके वादयेत्* । २.१७९८ । न दकपिच्छिलिकां पिच्छिलेत्* । २.१७९९ । न हस्तिक्रुञ्चिताश्वहेषितर्षभगर्जितमयूरकोकिलरुतानि कुर्यात्* । २.१८०० । न मुखशंखडुड्डुकभेरीवादनम्* । । उद्धर्षवस्तुगतम्* ॥ **(२,४,५९) स्नाने । २.१८०१ । शिष्टादध्यर्धतो ग्रीस्मस्य पूर्वतश्च वर्षाणां मासात्* । २.१८०२ । अचीवर<<स्य>> द्वितीय<<स्य>> लब्धो यद्विधस्य । २.१८०३ । अनुद्धूतस्य [३० ३]वातेन । २.१८०४ । चीवरकर्णकेरणम्* । । तत्पर्यन्तः । २.१८०५ । अनववृष्टस्य । २.१८०६ । अस्य बिन्दुद्वयनिपात काये । २.१८०७ । अन्यदा पञ्चदशादस्नानदिवसादर्वाक्[स्]नाने । २.१८०८ । अभिषेकेण वावगाहनेन वा । २.१८०९ । नाभिप्राप्तौ । २.१८१० । पुरस्ताद्दुष्कृतम्* । २.१८११ । सर्वत्र समयेष्वनधिष्ठाने । २.१८१२ । नार्थान्तरपरो जालानुभवः स्नानम्* । २.१८१३ । तस्मादुत्त[३० ४]रणं संचेतितया मूर्छितसेकेष्वनापत्तिः । २.१८१४ । मन्येताष्मपरान्तकेष्वस्याभावम् । २.१८१५ । न संभवे परस्योत्स्वासकल्पं संश्रयेत्स्नातप्रायश्चित्तिकम् ॥ **(२,४,६०) तिर्यग्*वधे । २.१८१६ । वधकचित्तेन तिरश्चः प्रहृतौ <<।>> २.१८१७ <<।>> तदान्यदा वा तन्निदानं मृतौ दुष्कृत(कृ)त्वं सत्वाविग्रभस्य । । तिर्यग्वधः ॥ **(२,४,६१) कौकृत्योपसंहारे । २.१८१८ ॥ न त्वमुपसंपन्नः पराजयिकमस्यापन्न इत्याद्यर्थ भिक्ष्वर्थेन कौकृत्योपसंहृतौ [३० ५]भिक्षोः । २.१८१९ । अस्पर्शोत्पादनचित्तेन । २.१८२० । हास्येनापि । २.१८२१ । अनुत्पत्तावपि । २.१८२२ । कौकृत्यस्य । २.१८२३ । अन्येन दुष्कृतम् । । कौकृत्योपसंहारः ॥ **(२,४,६२) प्रतोदने । २.१८२४ ॥ भिक्षोः । २.१८२५ । अङ्गुलिमुष्ट्यरत्निस्कन्धशीर्षपार्श्वपृष्ठकट्यूरुजंघाजानुपादाङ्गुष्ठादिभिः प्रतोदनतः स्पृष्टौ विकिरणचित्तेन <<।>> २.१८२६ <<।>> तस्माद्व्रणमशपिल्पतिलकरोमावर्तादि दर्शनेनापत्तिः । २.१८२७ । एके वानेक[३० १]त्वे निपात्यस्य । । प्रतोदनप्रायश्चित्तिकम्* ॥ **(२,४,६४) द्रवहर्षणे । २.१८२८ ॥ जलविषयक्रियानुष्ठाने । २.१८२९ । अवतीर्णस्य निमज्जनोन्मज्जनतीरान्तरसंचारानुप्रतिस्रोतोव्यायामजलभेरिकामाअण्डुकवादनशिक्यिकावेधचक्रवाडवज्रककूपकावर्तकरणलेखा अर्षणाकानां मौलम् । २.१८३० । ऋटिप्यकादानस्य दुष्कृतम् । २.१८३१ । गोलघटवर्धनी शरावे । २.१८३२ । क्षोलसूपयू[३० २]षमण्डे च सत्यमपि तप्ततायाम् । २.१८३३ । अजलहर्षणे च । २.१८३४ । तद्वत्तत्भूतकारणम् । २.१८३५ । औद्धत्यरतप्रत्यनुभवछन्देन । २.१८३६ । तस्मात्प्रह्लादनछन्देनावतारा<<ना>>दावनापत्तिः । २.१८३७ । तरणशिक्षायां तिर्यगायतं वा व्यायामे । २.१८३८ । जिह्लादयिषया तप्तेषु लेखकर्षणे । । द्रवहर्षणम्* ॥ **(२,४,६५) स्त्रीसहशय्यायाम्* । २.१८३९ ॥ मातृग्रामेण सार्धमेकस्मिनागारे मिद्धावक्रान्तौ [३० ३]निशयाम् । २.१८४० । अन्तेः । २.१८४१ । प्राग्दुष्कृतम् । २.१८४२ । कुक्कुटिप्रमाणमेतत्कृत्वे न्तः । । स्त्रीसहशय्या ॥ **(२,४,६६) भीषणे । २.१८४३ । हासप्रेक्षयापि भिषणछन्देन भयनिमित्तोपसंहारपूर्वकं विज्ञपने । २.१८४४ । भयंकरस्यामुको यमिति भिक्षोः परेणाप्यनुत्पत्तावपि भयस्य । २.१८४५ । मौलममन आपस्य । २.१८४६ । तद्यथा प्रेतपिशाचकुम्भाण्डकटपूतनत्वा[३० ४]ख्यापिनाम्* कीटनं कीटकीटानामङ्गारिका<<वर्णा>>नां दग्धस्थूणानिभानां रूपाणाम् । २.१८४७ । सिं*हव्याघ्रद्वीपिकोकपटररुभ्रष्टोरोकाशब्दानाम् । २.१८४८ । उच्चारप्रस्रावस्थवतकटगन्धानाम् । २.१८४९ । किटककिं*लं*जकुतपस्पर्शानां। २.१८५० । मन आपस्य दुष्कृतम् । २.१८५१ । तद्यथा देवनागगन्धर्वयक्षकिन्नरमहोरगत्वख्यापिनाम् । २.१८५२ । धनिश्रेष्ठि[३० ५]सार्थवाहादिरूपानाम् । २.१८५३ । वीनादिशब्दानाम् । २.१८५४ । अगुरुचन्दनकुंकुमतमालपत्रगन्धानाम् । २.१८५५ । पट्टपटप्रावरांशुकदुकूलकोट्टम्वकस्पर्शानाम्* । २.१८५६ । उत्सृष्टसंवेगा<<जना>>र्थताम् । २.१८५७ । तस्मात्संवेजनार्थं नरकतिर्यक्प्रेतमनुष्यकथादावनपत्तिः <<।>> <<।>> भीषणम्* ॥ **(२,४,६७) गोपने । २.१८५८ । इदं प्रव्रजसंतकपात्रचीवरपोणिकाकंसिका[३१ १] । कायबन्धनादिश्रामणकजीवितपरिस्कारनिधाने । २.१८५९ । निधापने च । २.१८६० । उत्सृष्टहितकामतया । । गोपनम् ॥ **(२,४,६८) दत्तोपजीवने । २.१८६१ ॥ दत्तस्य भिक्षोर्निर्देयं चीवरस्य विना तदनुज्ञानं परिभोगे । २.१८६२ । न चेदस्य तन्निदानं प्रीतेस्सम्भावना । । दत्तोपजीवनम् ॥ **(२,४,६९) अस्वाख्याने । २.१८६३ ॥ ध्वन्सनछन्देन बिक्षोर्विनिधायसंज्ञा संघावशेषापतनस्य विज्ञप्तौ । २.१८६४ । लेशना[३१ २]पि । । अस्वाख्यानप्रायश्चित्तिकम् । **(२,४,७०) स्त्रीसहगमने । २.१८६५ । कामतो ध्वन्यूढौ । २.१८६६ । प्रतिक्रोषम् । २.१८६७ । प्रतितदर्धं दुष्कृतस्य । २.१८६८ । उत्सृज्यातियात्रयन्तीं* । २.१८६९ । नष्टञ्चेनमध्वनो ध्वन्यवतारयन्तीं* । २.१८७० । अशक्तस्य वा निर्वोढुम्* । । स्त्रीसहगमनम् ॥ **(२,४,७१) स्तेयसहगमने । २.१८७१ ॥ ग्रामघातकैश्चोरैः शुल्कभञ्जकैर्वा वणिग्भिः । २.१८७२ । कापटिकैः स्तेयप्रव्रजितैः दुष्कृतम् । । स्तेय[३१ ३]सहगमनम् ॥ वृत । **(२,४,७२) ऊनोपसंपादने । २.१८७३ । ऊनविं*शतिवर्षतायामुपसंपाद्यस्य । २.१८७४ । उपाध्यायत्वेनोपसंपादने । २.१८७५ । नासावेनं पूर्णतां न पृच्छेत्* । २.१८७६ । नान्ये । २.१८७७ । नानिर्ज्ञायैनामुपसंपादयेयुः । २.१८७८ । सर्वथा परिपूर्वणविं*शतेरुपसंपादो रूढिः । २.१८७९ । इतरस्य परिपूर्णसंज्ञतायाम् । २.१८८० । अमत्यस्मितिविमतिषु च । २.१८८१ । ज्ञाने च [३१ ४]ध्वन्सः । २.१८८२ । न चेददः प्राप्तपूरेः । २.१८८३ । अपि गर्भाधिकमासकै सा(व)र्धं* । । ऊनोपसंपादनम् ॥ **(२,४,७३) भूम्युद्*घाते । २.१८८४ ॥ खननखाननयोः । २.१८८५ । मृत्भुवः । २.१८८६ । मुक्त्वा चतुरङ्गुलमात्रकीलकनिखननं नवकर्मिकस्य न[क्ष]त्रप्रयोगेनासन्निहितकल्पकारस्य । २.१८८७ । जातिक? चेत्मौलम् । २.१८८८ । न चेत्* दुष्कृतम् । २.१८८९ । त्रीन्मासां पर्युषितासंहतिः पूर्वा । २.१८९० । [३१ ५]वृष्टिकान्तारं चेत्* । २.१८९१ । षडन्यदा । २.१८९२ । नाभूत्वं? कन्थायां मन्येत्* । २.१८९३ । प्रभूत्येन समुदायेषु <<ल>>क्षणां<<नां>> प्रभावकत्वम् । २.१८९४ । तस्मात्कार्त्स्न्यमेव स न्यूनान्यत्र वृतायाम् । २.१८९५ । नष्टतादग्धत्वे । २.१८९६ । अर्धत्वं नष्टस्य । २.१८९७ । चटितकानां च पृथिवीपर्पटककूलकन्थातल्लेपानाम् । २.१८९८ । गडकवालुकाद्यधिक्ये व । २.१८९९ । क्रियाणाञ्च । २.१९०० । की[३१ १]लोत्पाटनलेखकर्षणमृत्कणाकर्षिगोमयोत्पाटनपंकाकम्पनतल्लग्नगोलाद्युत्पाटनलोणिकाशातनात्मिकानाम् । २.१९०१ । विगोपनमतेरत्रैतत्* । २.१९०२ । तस्मात्गणनन्यसनाद्यभिप्रायस्यानापत्तिः । । भूम्युत्घातः । **(२,४,७४) प्रवारितार्थातिसेवायाम्* । २.१९०३ ॥ नातियाचेत्* । २.१९०४ । युक्तमनारोचितकालस्य तदसंभावनायां प्रतीष्टभोजनगृहोपसंक्रमणं* । २.१९०५ । उद्योज[३१ २]नञ्च परिवेषणे तिपत्तौ कालस्य । २.१९०६ । न तत्वं व्यजनस्याद्रियेत्* । २.१९०७ । स्वीकुर्यात्प्रत्येकप्रवारणाम् । २.१९०८ । सप्रवारणे पि संघे । २.१९०९ । सर्वकालां च । २.१९१० । विना मर्यादाव्यवस्थापनेन प्रवारितवतो न्यथा पौनःपुण्येनात्यर्थतया चोर्धमकृतप्रवारणाच<<त्*>> चतुर्थमासपरिसमाप्तेरूर्धं प्रज्ञप्ताभ्यवहृतौ । २.१९११ । विज्ञप्तौ दुष्कृतम् । २.१९१२ । [३१ ३]अनापत्ते ग्लान्ये । २.१९१३ । ज्ञातो? च । २.१९१४ । पृथक्त्वं पूर्वस्य विभ्रमात्* । २.१९१५ । अप्रवारितदोषकारित्वं तस्य । २.१९१६ । पुरस्तादपि येन न प्रवारितः । । प्रवारितार्थातिसेवा ॥ वृत्* । **(२,४,७५) शिक्षोपसंहारप्रतिक्षेपे । २.१९१७ । अभिज्ञातायाम् । २.१९१८ । आख्यातुः । २.१९१९ । शिक्षायाम् । २.१९२० । अस्यान्ते शिक्षितस्य मित्याख्या दयमानायामुद्देशेन वा भिक्षुणा न शि[३१ ४]क्षिष्यामीत्येतत्कारणभावेन निवेदयितुरज्ञतामुत्भावयतो वचनस्योदाहृतौ । २.१९२१ । सौत्र्यां दुष्कृतस्य । । शिक्षोपसंहारप्रतिक्षेपः ॥ **(२,४,७६) उपश्रवगते । २.१९२२ । भिक्षोरधिकरणसंप्रधारणस्य भिक्षुभिरुपश्रुत्यर्थमुत्सृज्योपशमनछन्देनावधाने । २.१९२३ । प्रतिसंवेदनायां शब्दस्य दुष्कृतम् । २.१९२४ । अर्थस्य मौलम् । २.१९२५ । क्षोपकरणप्राह्व्येण चेत्* । २.१९२६ । अर्थान्तर[३१ ५]वशायामुपश्लिष्टौ चेतनादूर्धं पदच्छटोत्काशनशब्दादिभिःरचेतयतो न चेत्मुग्धः शमार्थी वा नियतमातृतायां पातः । २.१९२७ । न कलिमुपोद्[व्]अलयेत्* । २.१९२८ । नोपशृणुयात नैनं कुर्वन्तमनुपरिवात्य तिष्ठेत्* । २.१९२९ । नोपशान्त्यै न प्रयतेत्* । । उपश्रवगतम्* ॥ **(२,४,७७) सामग्रीभङ्गे । २.१९३० ॥ ज्ञप्त्यादिकर्म<<णि>> संनिपतितस्यानवलोक्य भिक्षुं प्रक्रान्तौ [३२ १] । । श्रवणोपविचारातिक्रमे मूलम् । २.१९३१ । पुरस्तात्* दुष्कृतम् । २.१९३२ । विनार्थेन युक्तेनापक्रान्तौ । २.१९३३ । कृतत्वे ज्ञप्तेः । २.१९३४ । अधर्म्य <<र्थे>> च कर्मणः । २.१९३५ । श्रवणदेशानतिक्रमेच्छायामनापत्तिः । । समग्रीभङ्गः ॥ **(२,४,७८) अनादरवृत्ते । २.१९३६ । स्थानगमनशयनासनविहारग्रहणभाषतद्विपर्ययादेरुपनीतस्यार्थास्यानादराद्विना धर्म्यसंज्ञप्तिदाने व्यति[३२ २]क्रान्तौ । २.१९३७ । भिक्षुसंघेन मौलम् । २.१९३८ । आचार्योपाध्यायैः दुष्कृतम् । २.१९३९ । अधर्म्यत्वे ज्ञप्तेः तत्वं कथावपातनस्य । २.१९४० । सुखं संघस्य तद्व्यवहारकः । २.१९४१ । संघवद्बुद्धः । २.१९४२ । न राजार्हन्*संघस्थविराणामाज्ञां कोपयेत्* । । अनादरवृत्तम्* ॥ **(२,४,७९) मद्यपाने । २.१९४३ ॥ पाने मदनीयस्य <<।>> २.१९४४ <<।>> च्युतिरस्य तत्त्वात्क्वाथे <<।>> २.१९४५ <<।>> विद्यते खोलवक्कसभक्षणे [३२ ३]तत्प्रवेशः । २.१९४६ । अर्धत्वं किण्वपिण्डिकायाम् । २.१९४७ । मदनीयानां मूलगण्डपत्र(प)पुष्पफलानां मद्यगन्धरसानां वा मदयितॄणां पेयानाम् । २.१९४८ । निर्दोषो वर्णमात्रेण मद्यस्य सदृशम्* । २.१९४९ । प्रयोगवत्गण्डूषधारणगात्रम्रक्षणे । २.१९५० । ग्लान्येनापत्तिः । । मद्यपानम् ॥ वृत । **(२,४,८०) अकालचर्यायाम्* । २.१९५१ । अकालतायाम । २.१९५२ [३२ ४] अनवलोकितसत्भिक्षोः । २.१९५३ । ग्रामप्रवेशे । २.१९५४ । न चेदत्यात्ययिककार्यसन्निपातः । २.१९५५ । अन्यत्र सञ्चारे त्र दुष्कृतम् । २.१९५६ । अभावे त्र भिक्षोस्तद्वत्भिक्षुणी । २.१९५७ । अस्याः श्रामणेरः । २.१९५८ । अस्य शिक्षमाणा । २.१९५९ । तस्याः श्रामणेरी । २.१९६० । असत्वमबोद्धुः । २.१९६१ । सीमान्तरस्थोत्क्षिप्तान्यपक्षाणाञ्च । २.१९६२ । रिद्ध्या त्वनापत्तिः । । [३२ ५] अकालचर्या ॥ **(२,४,८१) कुलचर्यायाम्* । २.१९६३ ॥ चतुर्थादावकाले कुल उपसंक्रमणे । २.१९६४ । तन्मुखिकया च संघोपनिमन्त्रणेनास्मदानागमनवशात्परिवेषोऽतिपात्य इत्यपरिप्राप्य दातरि तृतीयप्रभृतौ । । कुलचर्या ॥ वृत । **(२,४,८२) राजकुलरात्रिचर्यायाम्* । २.१९६५ । अप्रभातत्वे । २.१९६६ । अन्त्यारुणस्यैतदत्रानुत्गतत्वम् । २.१९६७ । अन्तःपुरनिवासस्थानसम्बद्धतायाम्* । १९६८ । [३२ १]अतदा प्रस्तुतावपि । २.१९६९ । प्रतिरात्रि । २.१९७० । तत्कीलोपविचारान्तो तदादिः <<।>> २.१९७१ <<।>> एवं राजकुलनगरयोः । २.१९७२ । राजकुलस्थानेन च । २.१९७३ । नागरेण दुष्कृतम् । २.१९७४ । तदर्थता चेत्* । २.१९७५ । द्वितीयञ्चेदत्रावद्यम् । २.१९७६ । न चेद्राजदेविकुमारामत्यान्तरायविनयनवशेन । २.१९७७ । ना(न)नुश्राव्य राजकुलं प्रविशेत्* । । राजकुलरात्रिचर्या । **(२,४,८३) शिक्षापदद्रव्यताध्याचारे । २.१९७८ । [३२ २]वर्तमाने प्रातिमोक्षोद्देशे नुभूतवतद्वयस्यासंविग्नेन मनसा संप्रति मया ज्ञातमयमप्यत्र धर्मो विद्यत इत्यस्योक्तौ । २.१९७९ । अन्यव्यञ्जनेनोद्देशे साधारणिं* प्रति दुष्कृतम् । २.१९८० । सौत्र्याञ्च <<नोक्ता>> भाषमाणायाम् । २.१९८१ । अनापत्तिरसाधारणीं* । २.१९८२ । असत्कृत्य प्रातिमोक्षोद्देशश्रुतिमुपनयन्तं संवेजयेयुः । । शिक्षापदद्रव्यताध्याचारः । **(२,४,८४) सूचीगृहकसंपादने । २.१९८३ । [३२ ३]दन्तास्थिविषाणमयसूचीगृहककरणकारणे । २.१९८४ । कृतलाभपरिभोगयोरनापत्तिः । २.१९८५ । नापृष्ट्वाभिन्नतां देशनां प्रतिगृह्णीयात्* । २.१९८६ । अदेशितत्वमभित्वा चेत्* । २.१९८७ । उत्तरेष्वप्येतत्पञ्चप्रछेदोपसंहितम् । २.१९८८ । उद्दालेन द्वितीये । । सूचीगृहकसंपादनम्* ॥ **(२,४,८५)पादकसंपादने । २.१९८९ ॥ न निकटपादिकायां खट्वायां शयीत्* । २.१९९० । न [३२ ४]शय्यास्थानगतमञ्चानुसहिते प्रदेशे पादौ प्रक्षालयेत्* <<।>> २.१९९१ <<।>> सन्निहितपदत्राणः । २.१९९२ । अन्यश्च मुक्त्वा शिरः पादान्तौ । २.१९९३ । नोच्चशयनमहाशयने निषीदेन्निपद्येत्* । २.१९९४ । कुर्वीतासम्भवे न्यस्य पूर्वमन्तर्गृहे । २.१९९५ । कल्पेत्* सप्रतिपादके शय्यां <<।>> २.१९९६ । न पीठातिपीठे निषीदेत्* । २.१९९७ । प्रमाणादूर्धं करणकारणे । २.१९९८ । परेषु च द्विती[३२ ५]यात्त्रिषु । २.१९९९ । माञ्चपीठयोः सांघिकयोः । २.२००० । उत्तरे च । २.२००१ । पादकानाम् । २.२००२ । अहस्त एष माटनिकाप्रदेशवर्ज्यानां प्रमाणम् । २.२००३ । सौगततृतीये । २.२००४ । उत्तरेषु च । । पादकसंपादनम्* ॥ **(२,४,८६) अवनाहे । २.२००५ ॥ तूलेनोपनाहे । २.२००५ । स्वयन्नियुक्तेन वा । २.२००६ । पञ्च तूलानि शाल्मलमार्कं काशमयं वौकमैर[३३ १]कञ्च । ॥ अवनाहः ॥ ८६ ॥ **(२,४,८७) निषदनगते । २.२००७ । निषदनस्य प्रमाणमस्य दैर्घ्यस्य हस्तत्रयं। २.२००८ । आध्यर्धाच्चोर्धमकारयतः । २.२००९ । विस्तारस्य हस्तद्वयं षड्वाङ्गुलयः । २.२०१० । दुष्कृतमस्य न्यूनस्याधिष्ठानम्* । २.२०११ । उत्तरस्य च द्वयस्य । ॥ निषदनगतम् ॥ ८७ ॥ **(२,४,८८) कण्डूप्रतिच्छादने । २.२०१२ । कण्डूप्रतिछादनस्य । २.२०१३ । षडकं हस्तानां त्रयः । ॥ कण्डूप्रतिछादनगतं* ॥ ८८ ॥ **(२,४,८९) वर्षाशाट्याम् । २.२०१४ । [३३ २] वर्षाषाट्याः । २.२०१५ । नवकं त्रयमष्टाडशाङ्गुलयः । ॥ वर्षाषाटीगतम् ॥ ८९ ॥ **(२,४,९०) सुगतचीवरे । २.२०१६ । पञ्चत्रिकं शास्तुः स्वहस्तेन चीवरम् । २.२०१७ । तत्प्रमाणस्यातत्तनोर्ध्वं वा चीवरस्य करणकारणे । २.२०१८ । नैतद्वारयेत । ॥ सुगतचीवरगतम्* ॥ ९० ॥ ॥ शुद्धप्रायश्चित्तकानि समाप्तानि ॥ २,५ प्रातिदेशनीयम् । ॥ वृत ॥ २.२०१९ । अज्ञातिकतायाम् । २.२०२० । भिक्षुण्याः । २.२०२१ । स्वप्रतिपादि[३३ ३]तस्यापरिवेषेण स्वयं ग्रामस्थेन प्रतिगृह्य खादनीयभोजनीयस्याभ्यवहारे । २.२०२२ । न वर्षकस्य ग्रामत्वम् । २.२०२३ । न भिक्ष्वावासस्य । २.२०२४ । अर्धत्वमाकाशस्य । २.२०२५ । नासन्निधौ निक्षेप्तुरादानं निक्षिप्तस्य तस्मा(म्मा)त्* । ॥ भिक्षुणीपिण्डग्रहणं नाम प्रथमं प्रतिदेशनीयम् ॥ २,५,१ ॥ २.२०२६ । खाद्यकमिह देहि पानकं भो[३३ ४]जनं भूयो चेत्यादि तस्मिन्* भिक्ष्वन्तरे वा व्यपदेशप्रवृत्तभिक्षुण्यवस्थानकर्तृ । २.२०२७ । न चेत्तन्मुखिकया तत्ज्ञातिना वा निमन्त्रणकम् । २.२०२८ । उत्सृज्य गन्त्रिव्यपदेशमदत्तदापनञ्च । २.२०२९ । आगमयस्व तावद्भगिनि यावद्भिक्षवो भुञ्जत इत्यनाज्ञप्तायां तस्यां भिक्षुणा येन केन चिदसहभुजा पितृप्रभृतिभिक्षुनिमन्त्रणक[३३ ५]भुक्तौ । २.२०३० । कुले । २.२०३१ । उपचारप्राप्त चेत्* सावचनस्य मौल्याः । २.२०३२ । न चेत्* दुष्कृतस्य । २.२०३३ । त्यतात्राज्ञप्ततायां व्यवस्थापनम् । २.२०३४ । तस्मात्प्रश्नायौत्सुक्यमापद्येत् । २.२०३५ । वृद्धाप्रवृत्तावत्र नवकः प्रवर्तेत । ॥ पंकतिवैषम्यवादानवारितत्वे भुक्तिद्वितीयं प्रातिदेशनीयम् ॥ २,५,२ ॥ २.२०३६ । श्राद्धस्य विघातश्चेद्दस्य दाने कुल[३३ १]शिक्षासम्वृतिं दद्युः । २.२०३७ । प्रज्ञप्त्या प्रतिप्रश्रम्भणं च । २.२०३८ । दत्तैतदश्चित्तं बुद्ध्वा निवेशनगमनासनपरिभोगधर्मदेशनानि कुर्यात्* । २.२०३९ । न रिक्तपात्रः प्रविशेत्* । २.२०४० । दद्यादस्य याचमानेभ्यो बालेभ्यः पिण्डपात्रात्पूपिकामसकलाम् । २.२०४१ । अर्थिनि प्रतिप्रश्रम्भणम्* । २.२०४२ । दत्ताशिक्षासम्वृतेः कुलात्प्राक्तद्दानादनिमन्त्रितश्च प्रतिगृह्य खादनी[३३ २]यभोजनीययोरुत्सृज्यककटिकामूलकहरितकमविघात्यभ्यवहृतौ । ॥ कुलशिक्षाभङ्गप्रवृत्तिः तृतीयं प्रतिदेशनीयम्* ॥ २,५,३ ॥ २.२०४३ । सम्मन्येरन् वनप्रतिसम्वेदकां भिक्षुं* । २.२०४४ । अर्धयोजनमसौ समन्ततः प्रत्यवेक्षेत् । २.२०४५ । सभयतायां धूमं कुर्यात्* । २.२०४६ । पताक उत्स्रयेत । २.२०४७ । पत्रवैभङ्गुकानि मार्गे स्थापयेत । २.२०४८ । दद्युरस्मै [३३ ३] सत्यार्थिकत्वे पुरोभक्तिकाम् । २.२०४९ । सहायकञ्च । वृत । २.२०५० । अप्रतिसम्विदिततायां वनस्य । २.२०५१ । अरण्ये बहिरारामस्य प्रतिगृह्य खादनीयं भोजनीयं चाभ्यवहरेत्* । २.२०५२ । अर्धकृत्त्वं दक्षासम्वादे । २.२०५३ । अन्यत्र <<च>> भयस्थानाद्वर्तमानतायाम् । ॥ वनविषयगतं चतुर्थं प्रतिदेशनीयम् ॥ २,५,४ ॥ ॥ समाप्तानि च प्रातिदेशनीयानि ॥ २,६ क्षुद्रशिक्षापदानि । २.२०५४ । [३३ ४] तथा निवसनं निवसीत यथा परिमण्डलं संस्थितं स्यात्* । २.२०५५ । न चात्युत्कृष्टन्नात्यपकृष्टम् । २.२०५६ । नांशेन शुण्डावलम्बितम् । २.२०५७ । नोद्गतम् । २.२०५८ । न फणवत्प्रत्यागतम् । २.२०५९ । न सम्वर्तिकया स्थितम् । २.२०६० । तथा चीवरं प्रावृण्वीत यथा स्याद्यं त्रयं स्यात्* । २.२०६१ । सुसंवृतो न्तर्गृहं गच्छेत । २.२०६२ । सुप्रतिछन्नो ल्पशब्दो नुत्क्षिप्तचक्षुः युगमात्रदर्शीं* । २.२०६३ । नोत्गुण्ठिक[३३ ५]याकृतिकया नोत्कृष्टिकया । २.२०६४ । न वितस्तिकया । २.२०६५ । न पर्यस्तिकया । २.२०६६ । नोत्टङ्किकया । २.२०६७ । नोज्जङ्घिकया । २.२०६८ । नोल्लङ्घिकया । २.२०६९ । नोत्कुटुकिकया । २.२०७० । न स्तम्भाकृता । २.२०७१ । न कायप्रचालकम् । २.२०७२ । न बाहुप्रचालकम् । २.२०७३ । न शीर्शप्रचालकम् । २.२०७४ । नांसे ढौकिकया । २.२०७५ । न हस्तसंखग्निकया । २.२०७६ । नात्राननुज्ञातासने निषीदेत । २.२०७७ । [३४ १] नाप्रत्यवेक्ष्य । २.२०७८ । न सर्वकायं समवधाय । << नपादौ पादामाधाय ॥>> २.२०७९ । न सक्थिनि सक्थि । २.२०८० । न गुल्फे गुल्फम् । २.२०८१ । न संक्षिप्य पादौ । २.२०८२ । न विक्षिप्य । २.२०८३ । न विडङ्गिकया । २.२०८४ । न करे कपोलं दत्त्वा । २.२०८५ । न प्रतिपुटकमासनमुत्सर्पयेत् । २.२०८६ । सर्व सत्कृत्य पिण्डपादं प्रतिगृह्णीयात । २.२०८७ । न समतित्तिकम् । २.२०८८ । समसूपिकम् । २.२०८९ । सावदानम्* । २.२०९० । नानागते खादनीये भोजनीये पा[३४ २]त्रमुपनामयेत्* । २.२०९१ । नोपर्यस्य धारयेत्* । २.२०९२ । सत्कृत्य पिण्डपातं प्रतिभुञ्जीत्* । २.२०९३ । नातिखुद्दकैरालोपैः । २.२०९४ । नातिमहद्भिः । २.२०९५ । नानागत आलोपे मुखद्वारं वृण्वीत्* । २.२०९६ । न भूयस्कामतयौदनेन सूपिकं सूपिकेन चौदनं प्रतिछादयेत । २.२०९७ । नचुच्चुकारम् । २.२०९८ । न थुत्थुकारम् । २.२०९९ । न सुस्सुकारम् । २.२१०० । न सालोपेन मुखेन वाचं [३४ ३] निश्चारयेत्* । २.२१०१ । न सित्थपृथक्कारम् । २.२१०२ । नावर्णकारम् । २.२१०३ । नगल्लापहारम् । २.२१०४ । न कवडछेदम् । २.२१०५ । न जिह्वास्फोटनिश्चारम् । २.२१०६ । न स्तूपाकृत्यवमर्दम्* । २.२१०७ । न हस्तपात्रावलेहसन्*धूनसंतोलम्* । २.२१०८ । पात्रसंज्ञी । २.२१०९ । नावध्यानप्रेक्ष्यन्तरिकस्य भिक्षोः पात्रमवलोकयेत्* । २.२११० । न सामिषेण पाणिनोदकस्थालकं प्रतिगृह्णीयात्* । २.२१११ । [३४ ४] न सामिषेणोदकेनान्तरिकं भिक्षुं सिञ्चेत्* । २.२११२ । नैतदन्तर्गृहे छोरयेदनवलोक्य गृहपतिम् । २.२११३ । न पात्रेण विघसं छोरयेत्* । २.२११४ । त्रिः प्रक्षाल्य पात्रमार्षभिर्गाथाभिरभिमन्त्रपात्रोदकं दद्यात्* । २.२११५ । नानास्तीर्णे पृथिवीप्रदेशे पात्रं स्थापयेत । २.२११६ । नोत्थितो निर्मादयेत । २.२११७ । नास्यैतदुभयमतटो कुर्यात्* । २.२११८ । न प्रपातेन प्राग्भारेण न चतुस्पथे । २.२११९ । [३४ ५] नानुश्रोतोनेन नद्याहार्यहारिण्याः पानीयं गृह्णीयात्* । २.२१२० । प्रागुच्चारप्रस्रावादग्लानाय । २.२१२१ । तत्राग्लानः । २.२१२२ । नोत्थितो निषण्णाय धर्मं देशयेत्* । २.२१२३ । न निषण्णो निपन्नाय । २.२१२४ । न नीचतरासने निषण्ण उच्चतरके निषण्णाय । २.२१२५ । हीनप्रणीततो प्येते । २.२१२६ । न पृष्टतो गच्छन्* पुरतो गच्छने । २.२१२७ । नोत्पथेन पथम् । २.२१२८ । नोद्गुण्ठिकादिकृताय । २.२१२९ । [३४ १] न हस्त्यश्वयानसिबिकामञ्जपादुकारूढाय । २.२१३० । न खोलामौल्युष्णीषवेष्टितमालाशिरसे । २.२१३१ । न छत्रदण्डशस्त्रखत्गायुधपाणये । २.२१३२ । न सन्नद्धाय । २.२१३३ । नोत्थित <<उच्चार>>प्रस्रावं कुर्यात्* । २.२१३४ । न हरिते पृथिवीप्रदेशे । २.२१३५ । न छोरयेत । २.२१३६ । खेटसिं*घानकवान्तं रिक्तञ्च । २.२१३७ । नोदके । २.२१३८ । न पुरुषदघ्नादूर्धं वृक्षस्याधिरोहेदन्यत्रापदः । << शैक्शासमाप्त । समाप्तश्च विभङ्गः >> अथ भिक्षुणीविभङ्गः । पाराजयिकम् । २.२१३९ । प्रागापत्तियोगे वच[३४ २]नात्भिइक्षुण्याम्* । २.२१४० । चतुष्टयं स्वीकारे । २.२१४१ । चक्षुर्जान्वन्तरालेन । २.२१४२ । स्पर्शस्य । २.२१४३ । पुंसः । २.२१४४ । मेथुनरागेन । २.२१४५ । अङ्गान्तरेण । २.२१४६ । स्थूलम्* । २.२१४७ । ह्रासो न्येन चेतसा । २.२१४८ । पंसश्चेत्तदानीम्* तत्र विज्ञायमानन् तयैतत्(अ) । २.२१४९ । न चित्ततो पि । २.२१५० । अनापत्तिरस्त्वीकृतौ । २.२१५१ । अदुष्टं पुत्रस्पर्शनम् । २.२१५२ । न बालमप्यन्यन्न स्पृशेत्* । २.२१५३ । प्रतिबलत्वे सेवायां पुंस कामोपसंहि[३४ ३]ते २.२१५४ तद्गतार्थपरिज्ञाने वाचि परिपूर्णकारित्वम् । ॥ स्पर्शपाराजयिकम् ॥ २,६,१ ॥ २.२१५५ । पञ्जरोपनिक्षेपे । २.२१५६ । रक्तया । २.२१५७ । प्रत्युपस्थितं सेवायां रक्तन् तस्यां पुमांसं तत्प्राप्यतायाम् । २.२१५८ । औद्धत्यस्य रक्तेन सार्द्धं रक्तया करणे स्थूलम् । २.२१५९ । द्रव्यस्य कादर्यस्य । २.२१६० । उद्देशस्य । २.२१६१ । अत्र प्रतीष्टौ च । २.२१६२ । संकेतस्य । २.२१६३ । निमित्तस्य । २.२१६४ । आगमनगमनप्रवृत्तस्य चास्य । २.२१६५ । स्वी[३४ ४]कारे । ॥ पञ्जरोपनिक्षेपपाराजयिकम् ॥ २,६,२ ॥ २.२१६६ । पाराजयिकस्य भिक्षुण्याः प्रतिछादने । ॥ [इति] प्रतिछादनपाराजयिकम् ॥ २,६,३ ॥ २.२१६७ । निश्चितस्यावसारणयाच्ञायामुत्क्षिप्तस्य । २.२१६८ । भिक्षोः कृतावन्दनार्हसम्वृतज्ञात्वा तो निवारकत्वस्याप्रतिनिःसङ्गे । २.२१६९ । पराक्रन्तत्वस्येव भेदेन । ॥ निवारणपाराजयिकम् ॥ २,६,४ ॥ समाप्तानि च भिक्षुणीपाराजयिकानि ॥ संघावशेषाः । २.२१७० । सांचारित्रम् । २.२१७१ । आगा[३४ ५]रिकत्वे भिक्षुण्याः प्रलोभने स्थूलम् । २.२१७२ । वेशस्य चान्यया वाहने । २.२१७३ । नातः पण्येन दास्याः प्रेषणस्य बहिर्भावः । ॥ भिक्षुणीसांचारित्रसंघावशेषा ॥ २,७,१ ॥ २.२१७४ । अमूलकलेशिके । २.२१७५ । पुंस्त्वे स्तित्वमत्र पुंस्त्वम्* । २.२१७६ । किञ्चित्कस्वीकारे । २.२१७७ । रक्तया । २.२१७८ । पुरुषात्* । २.२१७९ । रक्तादरक्ताच्च । २.२१८० । अरक्तया स्थूलम् । २.२१८१ । दुष्कृतमरक्तात्किञ्चित्कग्रहः । २.२१८२ । न रक्तादरक्तायाः [३५ १] किञ्चित्कस्वीकारे दोष इति भिक्षुणीबोधने । ॥ किञ्चित्कग्रहसमादापनम्* ॥ २,७,२ ॥ २.२१८३ । चतुर्षु उत्तरेषु विना भिक्षुण्याः । २.२१८४ । वितृतीयत्वं शिक्षमाणत्वं तृतीयोऽङ्गः श्रामणेरी । २.२१८५ । निर्दोषो कामविप्रयोगः । २.२१८६ । अन्तरायापातवशतया च । २.२१८७ । प्रयोगत्वं प्राच्यन्ततः काले गतस्य । २.२१८८ । अस्तङ्गमान्तो दिवसान्तः । २.२१८९ । रात्रो वहिर्वर्षकात्भावे । ॥ रात्रिविप्रवासः ॥ २,७,३ ॥ २.२१९० । [३५ २] दिवा । २.२१९१ । चीवरेदेकाकिनी ज्ञातिगृहभुक्तिनिमित्तं दुर्भिक्षे लब्धायां ज्ञातिभिर् सार्द्धं सम्बन्धोपविचारसम्वृतौ । २.२१९२ । दद्युरेनाम् । ॥ दिवाविप्रवासः ॥ २,७,४ ॥ २.२१९३ । अध्व्रप्रतिपत्तौ । २.२१९४ । अध्वावतारः । २.२१९५ । नदीपारसन्तरणे । २.२१९६ । पारप्राप्तौ बाहुभ्याम्* । २.२१९७ । स्थूलमर्वाक्(अ) । २.२१९८ । दुष्कृतं कुल्यापारस्य । ॥ नदीलंघनम् ॥ २,७,५ ॥ २.२१९९ । प्रव्राजने । २.२२०० । गणसंमतस्वामी परित्यक्तराजा स्वानुज्ञा[३५ ३]तायाः । २.२२०१ । मारण प्रति । २.२२०२ । उपाध्यायिकत्वेन । २.२२०३ । जानन्त्येतत्* । ॥ प्रव्राजनम् ॥ २,७,६ ॥ २.२२०४ । मृतधनोद्ग्रहणे । २.२२०५ । अनापत्ति सांघिकस्य । २.२२०६ । अल्पायासेन चेत्* । ॥ उद्ग्रहणम्* ॥ २,७,७ ॥ २.२२०७ । बहिःसीम्न्यवसारणे । ॥ अवसारणम् ॥ २,७,८ ॥ २.२२०८ । रत्नप्रत्याख्यानमिदं तुल्यत्वमन्यश्रमणानां तत्र ब्रह्मचर्यचरिष्यत्व(ं)मित्यस्यावचनप्रवृत्तेरविरतौ । २.२२०९ । संघभेदप्रवृत्तेरिव । २.२२१० । उत्त[३५ ४]राद्यश्च । ॥ प्रत्याख्यानम्* ॥ २,७,९ ॥ २.२२११ । छन्दादिगामितानुयुक्ते(र्) भिक्षुणीनाम् । २.२२१२ । कलहभण्डनविग्रहविवादात्भिक्षुणीभिः सार्द्धं विचारणे । ॥ कलहवृत्तम्* ॥ २,७,१० ॥ २.२२१३ । सं*सृष्टविहृते भिक्षुण्याः । २.२२१४ । औद्धत्यद्रवकातर्यहेतुभूतयोः । ॥ स्त्रीसन्सर्गगतम्* ॥ २,७,११ ॥ २.२२१५ । तत्सन्सर्गसमादापने । ॥ समादापनम्* ॥ २,७,१२ ॥ २.२२१६ । संघभेदादेश्चतुष्टया भिक्षु(णी)गतात्* । ॥ [इति] संघभेदादिचतुष्टयम् ॥ २,७,१३-१६ ॥ ॥ [३५ ५] संघावशेषसमाप्तः ॥ नैस्सर्गिकाः । ॥ दशकम्(अ) ॥ २.२२१७ । जातरूपरजतरूपिकक्रयविक्रयन्नहनतन्त्रवायद्वयाछेदपरिणमनसन्निधिगतञ्च । ॥ [इति] जातरूपरजतादिदशकम् ॥ २,८,१-१० ॥ २.२२१८ । भिक्षोर्धावनादावतः प्रतिगृहे । ॥ [इति] प्रतिग्रहः ॥ २,८,११ ॥ २.२२१९ । भिक्षुण्यै दत्त्वा । २.२२२० । न देवछन्दन् धारयेत । २.२२२१ । अतिरेकपात्रस्यैकाहा ऊर्ध्वं धारणे । ॥ पात्रधारणम् ॥ २,८,१२ ॥ २.२२२२ । प्रत्यर्द्धमासमार्ये हन्यनधिष्ठितो वाधिष्ठानिकस्य । ॥ अनधिष्ठानम्(अ) ॥ २,८,१३ ॥ २.२२२३ । [३५ ६] फल्गुनान्त्यदिवसादर्वाक्कठिनोद्धारे । २.२२२४ । अनापत्तिश्चौरमुषितकभिक्षुण्यर्थतायाम् । ॥ कठिनोद्धारः ॥ २,८,१४ ॥ २.२२२५ । अनुद्धारे । २.२२२६ । तत्* । ॥ कठिनानुद्धारः ॥ २,८,१५ ॥ २.२२२७ । हिरण्यसुवर्णविज्ञपने । ॥ रत्नविज्ञपनम्* ॥ २,८,१६ ॥ २.२२२८ । अन्यार्थं लब्धस्य चीवरस्यामिषीकृत्याभ्यवहरणार्थमधिष्ठाने । ॥ चीवरभक्षणगतम्* ॥ २,८,१७ ॥ २.२२२९ । चीवरशयनासनवर्षकार्थञ्च । २.२२३० । यस्य कस्य [३५ १] चित्* । ॥ चीवरादिभक्षणगतम्* ॥ २,८,१८ ॥ २.२२३१ । भिक्षुणी महाजनार्थं समादाप्य स्वत्र परिणमनम्* । ॥ महाजनोद्देशिकाधिष्ठानम्* ॥ २,८,१९ ॥ २.२२३२ । संघार्थञ्च । ॥ संघोद्देशिकाधिष्ठानम् ॥ २,८,२० ॥ २.२२३३ । वचनस्वीकारार्थं बद्धस्यार्थस्य मोचने । ॥ मोचनम्* ॥ २,८,२१ ॥ २.२२३४ । पलशतिकादिविं*शतिकार्षापणादिमूल्यस्य वाससः स्वाकारे(ः) । ॥ गुरुवस्त्रसंभजनम् ॥ २,८,२२ ॥ २.२२३५ । [३५ २] पञ्चपलिकपर्यन्तस्य च । ॥ लघुवस्वन् सं*भजनम् ॥ २,८,२३ ॥ ॥ नैःसर्गिकाः समाप्ताः ॥ ॥ द्विसप्ततिः ॥ शुद्धकप्रायश्चित्तिकम् । २.२२३६ । असम्मतादिदशकनिष्कर्षणपरंपरप्रणीतनिषद्यास्था<<नात्*>> न प्रत्युद्धृतोनशाटीगतवर्जम्* ॥ २,९,१ ॥ २.२२३७ । कल्पिकं भिक्षोरामिषमोपसंहरणं प्रव्रजितायै । २.२२३८ । पत्नीचरित्वे पि । २.२२३९ । ग्रहणं च तस्याः । २.२२४० । न सशय्यायाममहतः पुत्रस्य [३५ ३] वर्ज्यत्वम्* । २.२२४१ । लब्धसम्वृतेः । २.२२४२ । दानमस्याः । २.२२४३ । प्रव्राजनोपसंपादनयोः । २.२२४४ । अपरिपूर्णद्वादशवर्षतायाम्* । २.२२४५ । आत्मोपसम्पन्नतायाः । २.२२४६ । ऊनोपस्थानं २.२२४७ । दद्युः पर्षदनलपर्षदुपस्थापनसंवृती । २.२२४८ । प्रतिबलायै तदुपस्थापने । २.२२४९ । पूर्णतायां द्वादशत्वस्योपसंपद्वर्षाणाम् । २.२२५० । नान्या याचेत्* । २.२२५१ । [३५ ४] अलब्धप्राक्* संवृतेः पर्षदुपस्थापने । ॥ अलब्धसंवृत्युपस्थापनम्* ॥ २,९,२ ॥ २.२२५२ । अमितपर्षदः परस्याम् । २.२२५३ । अनलोपस्थापनम्* । २.२२५४ । उपसंपादने द्वादशवर्षत्वादर्वाग्परिणीतायाः । ॥ ऊनद्वादशवर्षोपसंपा<<द>>नम्* ॥ २,९,३ ॥ २.२२५५ । विं*शतेरन्यस्याः । ॥ ऊनविं*शतिवर्षोपसंपादनम् ॥ २,९,४ ॥ २.२२५६ । उपाध्यायिकत्वेनादत्तशिक्षयोः । २.२२५७ । पर्वलं[३५ ५]घने । २.२२५८ । अचरितत्वे स्याः । ॥ अशिक्षितशिक्षोपसंपादनम्* ॥ २,९,५ ॥ २.२२५९ । चरिततायां नो । ॥ चरितशिक्षानुपसंपादनम्* ॥ २,९,६ ॥ २.२२६० । स चेन्मे चीवरं ददासि ततः स्वोपसंपादयामीत्युपसंपत्प्रेक्षया वचने । ॥ धर्मपणनम्* ॥ २,९,७ ॥ २.२२६१ । प्रव्राजनानुकूल्यसंदर्शनेन संक्षेप्य गृहविस्तरमप्रव्राजने । ॥ विप्रवादनम्* ॥ २,९,८ ॥ २.२२६२ । प्रव्राजने नुवर्षम्* । २.२२६३ । [३६ १] सन्तानवहुल्यम्* । २.२२६४ । अननुज्ञातायाः स्वामिना । ॥ [इति] अननुज्ञातोपसंग्रहः ॥ २,९,९ ॥ २.२२६५ । व्यभिचारिण्याः । २.२२६६ । गर्भिण्याः । २.२२६७ । शोकहतायाः । २.२२६८ । भण्डकारिण्या उपसम्पादनेऽपि । ॥ [इति] सापक्षालोध्वं संग्रहगतम् ॥ २,९,१० ॥ २.२२६९ । प्रव्राजितोपसम्पादितयोरनुपग्रहे । २.२२७० । अनपकर्षणेऽन्तरायदृष्टौ । २.२२७१ । अशिक्षणे । २.२२७२ । अ[३६ २]नुपस्थापने ग्लानयोः । २.२२७३ । सान्तेवासिन्योः । ॥ [इति] अध्युपेक्षणगतम् ॥ २,९,११ ॥ २.२२७४ । स्वयं सेव्ये जतुलोठकस्यान्तरा धारणे । २.२२७५ । न प्रतिस्रोतो व्यायच्छेत । २.२२७६ । न योनद्वारे शुक्रं प्रतिक्षिपेत् । २.२२७७ । न चर्मपट्तेन पार्श्वबन्धनं कुर्वीत । २.२२७८ । न वेमपट्टेन स्तनयोः । २.२२७९ । न सुगतान्तरायेनान्तरणम् । २.२२८० । निदर्शनमेतत् । ॥ [इति] अनङ्गसेवा ॥ २,९,१२ ॥ २.२२८१ । अङ्गुलि[३६ ३]पर्वद्वयादूर्ध्वं व्यञ्जनस्यान्तःशोचने । २.२२८२ । अनङ्गमेव प्रतिकृतिः । २.२२८३ । पाणितलघातस्यात्र दाने । ॥ [इति] अनङ्गसेव्[आ]विधिव्याबाधवृत्तम् ॥ २,९,१३ ॥ २.२२८४ । रोमापनीतेरतः करणकारणयोः । ॥ [इति] सेव्योपकल्पनम् ॥ २,९,१४ ॥ २.२२८५ । गृहिणा सार्द्धं स्थितौ प्रतिच्छन्ने । २.२२८६ । कुड्यवाटवस्त्रगहनान्धकारैरेतत्वं संपत्तिः । २.२२८७ । भिक्षुणा । २.२२८८ । अभ्यवकाशे पूर्वेण । २.२२८९ । [३६ ४] उत्तरेण । २.२२९० । ऊनापत्तिः सद्वितीयतायामस्य । २.२२९१ । सपश्चात्सच्छ्रमणिकात्वे भिक्षुण्याः । २.२२९२ । गृहिण उपकर्णकेन सन्देशदाने । २.२२९३ । गृहणेऽस्यैव मतः । २.२२९४ । भिक्षोः । २.२२९५ । अतश्च । २.२२९६ । विद्योद्ग्रहणे गृहिणः । २.२२९७ । पाठनेऽस्यास्याः । २.२२९८ । वधवधव्रणमोचने । २.२२९९ । व्याजेन । २.२३०० । तस्मादनापत्तिः भूततायामर्थस्य । ॥ [इति] असंस्पर्शिसंसर्ग[३६ ५]गतानि ॥ २,९,१५ ॥ २.२३०१ । सन्तानधारणे । ॥ [इति] प्रसवाभिष्वङ्गः ॥ २,९,१६ ॥ २.२३०२ । गृहस्वामिनमनवलोक्यान्तर्गृहे रात्र्यतिनमने । २.२३०३ । अनापत्ति स्त्र्यधीनतायां तदवलोकने । २.२३०४ । रात्रेरप्रत्यवेक्ष्य प्रतिच्छन्नेऽतिनामनम् । २.२३०५ । लयने विना परया भिक्षुण्या । २.२३०६ । अनापत्तिः हतादित्वेऽस्याः । २.२३०७ । अवष्टम्भायतद्वारपरिहरणानि । [। भिक्षुण्यासार्ध्यमेकञ्च ] २.२३०८ । [३६ १] संस्पृष्टशय्याकल्पने । २.२३०९ । अनापत्तिरनया सार्द्धमनेकयापि कृतावरणतायां वृश्यादिनोपस्थितस्मृतिरनास्वादनेऽङ्गसंस्पर्शस्याचलमञ्चे प्राकृते संस्तरे वा । २.२३१० । दुष्कृतं संभवे । ॥ [इति] संभोगसंवासप्रतिक्षेपः ॥ २,९,१७ ॥ २.२३११ । कारणे भिक्षुण्या स्वाङ्गोद्वर्तनस्य शिक्षमाणया । २.२३१२ । श्रामणेरिकया गृहिण्या । २.२३१३ । तीर्थ्यता । २.२३१४ । उत्कुटिकाकारणे । २.२३१५ । [३६ २] सुगन्धद्रव्यैः स्वाङ्गोद्वर्तने । २.२३१६ । पिण्याकेन । ॥ [इति] परिकर्मगतम् ॥ २,९,१८ ॥ २.२३१७ । स्नाने हस्तसंलग्नकया । ॥ [इति] जलसम्भोगः ॥ २,९,१९ ॥ २.२३१८ । प्रसाधनार्थं नियुक्तावुशीरस्य । २.२३१९ । फणकूर्वत्र्याख्यप्रतिशीर्षकाणाञ्च । २.२३२० । गृहालंकारप्रावृत्तौ । ॥ [इति] प्रसाधनगतम् ॥ २,९,२० ॥ २.२३२१ । नृत्तो येन केनचिदङ्गेन । २.२३२२ । गाने । २.२३२३ । यत्र तत्र तदभिप्रायेण स्वरविकारे । २.२३२४ । [३६ ३] वादने वादित्रस्य । ॥ [इति] उद्धर्षगतम् ॥ २,९,२१ ॥ २.२३२५ । छत्रस्य परिभोगभूते धारणे । २.२३२६ । उपानहोश्च । २.२३२७ । अनापत्तिः वर्षके शयनासनगुप्त्यर्थम् । २.२३२८ । आसन्दी परिचर्ययोः प्रत्यनुभवने । ॥ [इति] लीलायितत्वगतम् ॥ २,९,२२ ॥ २.२३२९ । निषादेऽननुज्ञातेऽन्तर्गृहमासने । ॥ [इति] प्रागल्भ्यानुप्रस्कन्दनम् ॥ २,९,२३ ॥ २.२३३० । परिभुज्य धर्मश्रवणदानावस्थायागा[३६ ४]रिकशयनासनमुत्सृज्यानवलोक्य गृहिणे प्रक्रमणे । २.२३३१ । त्यक्तिरस्योपविचारस्य पर्यन्तः । ॥ [इति] विप्रवादनम् ॥ २,९,२४ ॥ २.२३३२ । कर्त्तने सूत्रस्य । २.२३३३ । अनापत्ति[ः] लोठकाष्ठञ्च कस्यार्थे प्रतिगुप्ते प्रदेशे । २.२३३४ । स्वीकारे भिक्षुणीगणचोरस्य । २.२३३५ । कृतावामिषविक्रयस्य । २.२३३६ । गृहव्याकुलिकायाश्च । २.२३३७ । न मद्यकर्म कुर्यात् । २.२३३८ । न पानागारं वाहयेत् । २.२३३९ । [३६ ५] पक्तावामस्य । २.२३४० । अनापत्तिः भिक्षुसंघस्य आचार्यसब्रह्मचारिणामर्थे प्रतिगुप्ते प्रदेशे । ॥ [इति] गृहिणीशिल्पगतम् ॥ २,९,२५ ॥ २.२३४१ । भुक्तवत्त्वेऽच्युत्वासनादभ्यवहारे । ॥ [इति] लेहडवृत्तम् ॥ २,९,२६ ॥ २.२३४२ । लसुनस्य । ॥ [इति] असभ्यगन्धोपभोगः ॥ २,९,२७ ॥ २.२३४३ । रजश्चोडस्यानाधारणे । २.२३४४ । सूत्रके नास्य बद्धस्यावस्थापनम् । २.२३४५ । क्[आ]लानुकालमस्य शोचनं रञ्जनञ्च । २.२३४६ । [३७ १] [उ]दकशाटिकायाञ्च । २.२३४७ । धारयेदेने । २.२३४८ । धावकेन चीवरधावने । ॥ [इति] गुप्तिभःगगतम् ॥ २,९,२८ ॥ २.२३४९ । दाने श्रमणचीवरस्यागारिकायावगुंठनार्थम् । ॥ [इति] धर्मध्वहानादरगतम् ॥ २,९,२९ ॥ २.२३५० । भिक्षुणा सार्द्धं संघाट्याः परिवर्तने । ॥ [इति] ध्वजपरिवर्तनगतम् ॥ २,९,३० ॥ २.२३५१ । वर्णमात्सर्यकरणे । २.२३५२ । कुलावासलाभधर्ममात्सर्यानाञ्च । ॥ [इति] मात्सर्यगतम् ॥ २,९,३१ ॥ २.२३५३ । [३७ २] निष्कासने भिक्षुणीवर्षकात् । २.२३५४ । यथा तथा भिक्षुण्याः । २.२३५५ । पूर्वोपगतायाश्चान्तर्गृहात् । ॥ [इति] निष्कर्षणगतम् ॥ २,९,३२ ॥ २.२३५६ । चोदने दुर्दृष्ट्यादिना । ॥ [इति] विहेठनगतम् ॥ २,९,३३ ॥ २.२३५७ । शपथकरणे । ॥ [इति] विपर्ययोर्दर्शनगतम् ॥ २,९,३४ ॥ २.२३५८ । व्यथने क्रोधेनात्मनः । ॥ [इति] अधीरवैकृतम् ॥ २,९,३५ ॥ २.२३५९ । अवस्यण्डने भिक्षुणीगणस्य । २.२३६० । आक्रोशने च । २.२३६१ । ज्येष्ठपर्षदः पानीयेन [३७ ३] सेके । २.२३६२ । अनापत्तिर्मूर्छितस्य । २.२३६३ । न भिक्षुमवष्ठीवेत् । २.२३६४ । नेदंप्रव्राजितमाक्रोशेत । २.२३६५ । द्वयेऽप्येतत् । २.२३६६ । न भिक्षोः पुरस्ताद्गोचरे चरेत् । २.२३६७ । नास्थिरसंक्रमेण भिक्षुणा सार्द्धं गच्छेत् । २.२३६८ । सहदर्शनाद्भिक्षोरासनं मुञ्चेत । २.२३६९ । निषाद एनां स्थितातिनामने निषण्णो निमुञ्चीत । २.२३७० । अकरणेऽवलोक्य निषण्णत्वेऽस्य [३७ ४] भजेत । ॥ [इति] गुरुभूतखलीकरणगतम् ॥ २,९,३६ ॥ २.२३७१ । अनुपशमने सति सामर्थ्ये भिक्षुणीकलेः । ॥ [इति] संक्षोपध्युपेक्षणम् ॥ २,९,३७ ॥ २.२३७२ । पर्युषितच्छन्ददाने । ॥ [इति] साम्मत्यखेलागतम् ॥ २,९,३८ ॥ २.२३७३ । अन्वर्द्धमासमप्रत्यनुभवने भिक्षुभ्योऽववादानुशासन्याः । २.२३७४ । विना भिक्षुभिः पोषधकरणे । २.२३७५ । वर्षोपगतावभिक्षुकावासे । २.२३७६ । संघद्वये वर्षो[३७ ५]षितायास्त्रिभिः स्थानैरप्रवारणे । ॥ [इति] गुरुधर्मातिक्रमणगतम् ॥ २,९,३९ ॥ २.२३७७ । दरिद्रस्य कठिनसमादापने । २.२३७८ । कठिनोद्धारार्थमदापने प्रस्रब्धौ सामग्र्याः । २.२३७९ । चीवरभाजनार्थञ्च । २.२३८० । नास्या जिघृक्षायां कृतत्वम् । ॥ [इति] परविघाताचरणगतम् ॥ २,९,४० ॥ २.२३८१ । वर्षकमननुपरिन्द्य प्रक्रान्तौ । २.२३८२ । उपचारत्यागे । २.२३८३ । न वर्षकमु[त्?]क्रमेण दद्यात् । २.२३८४ । [३७ १] न गृहवस्त्वापणवस्तु वा । ॥ [इति] वर्षकास्फीतिकरणगतम् ॥ २,९,४१ ॥ २.२३८५ । जनपदचर्याचरणेऽन्तर्वर्षम् । २.२३८६ । अनापत्तिरन्तरायप्रत्युपस्थापने । २.२३८७ । वर्षोषितत्वादचरणेऽस्याः । २.२३८८ । चरणे साशङ्के राष्ट्रे । २.२३८९ । प्रतिविरुद्धे च । ॥ [इति] प्रवरणाप्रचरणगतम् ॥ २,९,४२ ॥ २.२३९० । देवकुलादौ तीर्थ्याश्रये गत्वा वादस्य करणे । २.२३९१ । पृच्छायां प्रश्नस्या[३७ २]कृतावकाशस्य । २.२३९२ । दत्त्वासनं प्रति सम्मोद्य पृष्टागमाभियोगमवकाशं कारयेत् । ॥ [इति] संजल्पगतम् ॥ २,९,४३ ॥ २.२३९३ । बहिःभूम्येकाकिनीगमने । २.२३९४ । छोरणायामुच्चारस्य हरिते तृणे । २.२३९५ । अनापत्तिः ग्लान्ये स्फुटत्वे च नीलतृणैः सर्वस्य । २.२३९६ । तिरश्च प्राकारमनवलोक्य । २.२३९७ । अनापत्तिः वरण्टकप्रतिक्षिप्ततायां प्राकारस्य । २.२३९८ । [३७ ३] न शुचौ लोष्ठं क्षिपेत् । ॥ [इति] उच्चारप्रतिसंयुक्तम् ॥ २,९,४४ ॥ ॥ शुद्धप्रायश्चित्तिकानि समाप्तानि ॥ [रोमित्स्१ लिने] **(२,१०) ॥ पयसः परकुलतो विज्ञप्तस्यात्मार्थमभ्यवहृतौ । । अग्लानया । । विज्ञप्तापनयादुष्कृतम् । । तद्धिनवनीतः सर्पिस्तैलं मधुथानि तमां समत्स्यवल्लूराणाञ्च । । नातो न्यलब्धाव्न्य विज्ञपने ह्रासः । । [३७ ४] लूहस च । । तत्गते चास्य लब्धौ । । दुष्कृतत्वमस्य । । सैर्गः ॥ ॥ प्रातिदेशनीयानि । २.२३९९ । न श्रोणीनि वस्तं निवसीत । २.२४०० । नावभुतान्तर्गृहं गच्छेत् । २.२४०१ । भैक्षवांश्च । २.२४०२ । शैक्षाः । ॥ भिक्षुणीविभङ्गसूत्राणि समाप्तानि ॥ २,११? **(२,११) प्रकीर्णशिक्षापदानि । **(२,११,१) शमथगताः । २.२४०३ । दुष्कृतमापत्तियोगे ध्वस्ताप्ररूढयोः । २.२४०४ । अनुपसम्पत्कप्रव्रजितस्य च समानातिक्रमे । २.२४०५ । [३७ ५] तत्पक्षाणां मानसम् । धारणं विप्रवासञ्च स्पर्शमग्नेर्निवारिते । भोजनं वीजाघातञ्च देशे च हरिते शुचेः ॥ उत्सर्गं वृक्षरोहञ्च शैक्षा उद्देशयोस्सह । रत्नस्पर्शैनभुक्त्वा च रजतसान्निध्यनान्नयोः ॥ भूमिप्ररोहघाताभ्यामृत्सृज्यान्तं च पुत्रगम् । प्रावृष्येकत्रवसनं पोषधः सप्रवारणः ॥ इत्याद्यस्यान्तभाग्लिङ्ग [३८ १] । ।नाशायतकान्तारिकागतां तालिकामालंब्य तत्स्थं वा सूत्रकम् । २.२४०६ । न सोपानत्कश्चंक्रम्येत । २.२४०७ । प्रज्ञपनं खलमानकस्यादिग्ध्यै पांसुना पादयोः । २.२४०८ । तृतीयेऽह्नि प्रहाणिकः पादौ म्रक्षयेत् । २.२४०९ । असक्तोऽस्वप्नस्तत्रापि । २.२४१० । आवृतद्वारे । २.२४११ । पार्श्वमपि दत्त्वा । २.२४१२ । सम्मयेरन् प्रहान्प्रतिजागरकम् । २.२४१३ । तद्वृत्तमुत्थायैव सेकसन्मा[३८ २]र्गसुकुमारी गोमयाकार्षीं प्रहाणम् । २.२४१४ । आसनप्रज्ञपनम् । २.२४१५ । अशुचिकुड्यो शोचनम् । २.२४१६ । सेकादिशुन्धनमृत्तिकापानीयस्थापनम् । २.२४१७ । गण्डीदानञ्चागमाय । २.२४१८ । कारणपृष्ठमत्र स्थापनम् । २.२४१९ । संघसन्निपातार्थं तिस्रो घुमास्तावन्तः प्रहाराः । २.२४२० । कर्मदानार्थञ्च धुम्[आ]त्वेका । २.२४२१ । तिस्रः परिवृत्तयोर्द्वौ प्रहारमित्यपरम् । २.२४२२ । मृतस्यांसदाना[३८ ३]य मुण्डिका । २.२४२३ । एकपरिवर्त्तः प्रहारश्चेत्यपरम् । २.२४२४ । खक्खरकः प्रहाणिकार्थम् । २.२४२५ । कटिकेत्यपरः । २.२४२६ । यावदाप्तमापदि । २.२४२७ । भुक्त्यर्थसन्निपातार्थमुभयोः कटिकागण्ड्योर्द्दानम् । २.२४२८ । अन्तरितयोर्विलम्बेन । २.२४२९ । असंपत्तौ गण्डीदानेन संबोधनस्य महासन्निपाते यमलशंखयोरापूर्णम् । २.२४३० । भेर्यास्ताडनम् । २.२४३१ । न गण्डीं नाभ्युद्ग[३८ ४]च्छेत् । २.२४३२ । न न क्षिप्रम् । २.२४३३ । संभाविनि कार्यस्य कालेऽवशिष्टे यथासुखं करणं दत्तत्रिदण्डके । २.२४३४ । परिमण्डलस्यास्य दानम् । २.२४३५ । दक्षिणदेशनकरणम् । २.२४३६ । परिमण्डलस्य । २.२४३७ । पृष्टत[ः] परिजागरितु गमनम् । २.२४३८ । आगमनमग्रतः । २.२४३९ । तद्रूपश्चेत्प्रत्ययः कृतकोपनापावरणीव्यपदेशः । ॥ [इति] पोषधवस्तुनि शमथपोषधगतम् ॥ १ ॥ **(२,११,२) स्थानगताः । २.२४४० । [३८ ५] सम्मन्येरन् पोषधामुखम् । २.२४४१ । सर्वजातकृतनिष्ठितं वस्तु । २.२४४२ । स बहिर्व्यामोपविचारम् । २.२४४३ । अभिरुचितसंघस्य । २.२४४४ । कर्मान्तराणामपि तत्स्थानम् । २.२४४५ । बध्नीयुः सीमानमार्द्धतृतीययोजनपर्यन्तात् । २.२४४६ । शैलकुड्यस्तम्भवृक्षप्राकारप्राग्भारातिमार्गोदपानादौ प्रतिदिशं संलक्ष्य तत्ज्ञैः भिक्षुभिः परिकीर्त्तिते सन्निधौ संघस्य स्थावरे चिह्ने कर्मणः [३८ ६] करणम् । २.२४४७ । कृतायां संवृतावत्र विप्रवासश्चीवरः । २.२४४८ । कुर्युरेनाम् । २.२४४९ । सत्त्वोद्देशकं करणं मण्डलकसंमतेः । २.२४५० । नाप्रस्रब्धे पूर्वे बन्धान्तरस्य रूढिः । २.२४५१ । मुञ्चेयुः सीमानम् । २.२४५२ । युज्यते द्वयोः सीम्नोरेकेन वचसा बन्धो मोक्षो वा । २.२४५३ । कुड्यं कर्मण्यबद्धसीम्न्यावासे सीमा । २.२४५४ । यत्र वाशिववहनी परिभ्रष्टोदकपातः । २.२४५५ । उप[३८ १]विचारान्तो ग्रामे । २.२४५६ । क्रोशान्तः प्रतिदिशमरण्ये । ॥ [इति] पोषधवस्तुनि स्थानगतम् ॥ २ ॥ **(२,११,३) सामग्रीगताः । २.२४५७ । सम्पद्यते छन्ददानतस्तेन सामग्र्यम् । २.२४५८ । न सीमाबन्धे । २.२४५९ । कल्पिकं शिक्षादत्तकात्तद्ग्रहणमुपस्थापिततद्भिक्षुसंज्ञस्य । २.२४६० । न दानम् । २.२४६१ । भवति संवृतैरुन्मत्तकेनाप्यग्रत्वम् । २.२४६२ । परिशुद्धिदानेन चैक्यं पोषधे । २.२४६३ । प्रवारणायाञ्च । २.२४६४ । तद्दानेन [३८ २] कुर्वतैवमेते । २.२४६५ । प्रतीच्छेयुरेवंविधिम् । २.२४६६ । न गणशच्छन्दादिसंगत्या कर्मकरणमन्याय्यम् । २.२४६७ । न तुल्यप्रक्रमाणां वचनीयानामवियुत्यवचनम् । २.२४६८ । नैकेनानेकैः तदानयनम् । २.२४६९ । आख्यानशक्तेरत्र परिच्छेदः । २.२४७० । यथाकथंचिदेतद्दानानामशक्तौ संपादनम् । २.२४७१ । अपि कायेन । २.२४७२ । कथंचिदप्यशक्तौ संघस्य वा तत्र गमनं [३८ ३] तस्य वा मञ्चेनानयनम् । २.२४७३ । नैतान् गृहीत्वा धावेत् । २.२४७४ । न जवेत । २.२४७५ । न प्लवेत । २.२४७६ । न वाट्टां लंघयेत । २.२४७७ । न परिषण्डाम् । २.२४७८ । न खे तिष्ठेत् । २.२४७९ । न बहिः । २.२४८० । नान्तरित्यान्यन्निःश्रयणीपदकमाक्रामेत् । २.२४८१ । न सोपानकडेवरम् । २.२४८२ । न कष्ठमात्रमुदकमवगाहेत । २.२४८३ । न स्वप्नन् समापत्तिं कुर्वीत । २.२४८४ । वैतरिकत्वेनास्यनयोः गर्हत्वं [३८ ४] भिक्षोरारोचयेत् । २.२४८५ । संघस्येत्यपरम् । २.२४८६ । समन्वाहरत भदन्ता इत्युपक्रमः । २.२४८७ । असंप्राप्तस्य संघमध्यं कालक्रियामागारिकादित्वप्रतिज्ञात्वेनानीतत्वम् । २.२४८८ । आनीतत्वं संप्राप्तस्य । २.२४८९ । परेण पञ्चदश्यां गृहीतत्वे भिक्षोर्मुञ्चैनं भिक्षुं सब्रह्मचार्येषस्माकमिति ब्रूयुः । २.२४९० । अमुक्तावस्त्यस्माकमनेन सार्द्धं किञ्चिदेव करणीय[३८ ५]मिति साद्यम् । २.२४९१ । तथापि मण्डलके कुर्वीरन् । २.२४९२ । नोर्द्धमस्य मोक्षाय न व्यायच्छेयुः । २.२४९३ । भवत्युत्प्रेक्षितेन व्यग्रत्वम् । २.२४९४ । पृथग्भावरुचिमभिनिरूप्य कर्मणः कृतौ स्थूलात्ययः । २.२४९५ । न विचिकित्सितं निश्चितं वा कल्पमानत्वेऽनुत्थितेर्दोषस्य कर्तृ । २.२४९६ । कर्तृशुद्धेः पर्य्षितं भावतो न कल्पतः । २.२४९७ । मार्गणशब्दनोच्चस्थदिगवलोकने चेतत् । ॥ [इति] पोषध[३८ ६]वस्तुनि सामग्रीगतम् ॥ ३ ॥ **(२,११,४) परिभाषाः । २.२४९८ । पोषधं कुर्वीरन् पञ्चदश्यामन्वर्द्धमासं प्रातिमोक्षसूत्रोद्देशेन । २.२४९९ । न प्रवारणेऽस्यासंपन्नत्वम् । २.२५०० । ज्ञपनव्यवस्थोद्ग्रहणपूर्वकं तदुद्देशः । २.२५०१ । भाषणेनैव निदानोद्देशस्योच्चारणेन संपादनीयत्वं ज्ञप्तेश्च । २.२५०२ । श्रुतश्रावणेनापि शिष्टस्य । २.२५०३ । आरब्धस्य समापनं वर्गस्य । २.२५०४ । कृत्स्नस्य तुर्यस्पृष्टौ । २.२५०५ । प्रत्य[३९ १]याच्ञाभाण्डोपभुग्द्रव । २.२५०६ । कामोपघातसंवासानादरासोधवस्तुकम् । २.२५०७ । तुल्यत्वं शिक्षादत्तकस्य । २.२५०८ । अनुपसंपन्नवत्त्वञ्च । २.२५०९ । न तत्र । २.२५१० । शिक्षामाणायाञ्च । २.२५११ । गन्त्यन्तराकारभजने लब्धौ भिक्षुसंज्ञानस्य । २.२५१२ । अलब्धो न्यूनत्वम् । २.२५१३ । पूर्वप्रयुक्तश्च । २.२५१४ । तत्वं परस्य । २.२५१५ । द्रव्यस्य च प्रतिक्षिप्तात्* । २.२५१६ । तुल्यस्यापि । २.२५१७ । [३९ २] व्यञ्जनस्य पक्षेत्रत्वम् । २.२५१८ । यत्प्रयोगत्वं न्यूनार्थात्* । २.२५१९ । तत्वं कृतस्य । २.२५२० । स्वत्वं न्यूनस्य । २.२५२१ । न्यूने ङ्शत्वं दशाहे । २.२५२२ । ध्वन्सो क्षेत्रत्वे । २.२५२३ । नैतन्न प्रतिछाददोषस्य । २.२५२४ । नैस्फल्यं चरितस्य मानास्यस्य । २.२५२५ । परिवृत्तिरत्र कल्पानाम्* । २.२५२६ । तदातनस्यात्मनः कर्तृत्वम्* । २.२५२७ । नाश्वगतित्वमन्यजस्य । २.२५२८ । गत्यन्तराकाभजने च घाते । २.२५२९ । नावस्था[३९ ३]न्तराप्रतिपत्तावन्यत्वम्* । २.२५३० । छेतो तद्दोषभागमनम् । २.२५३१ । उत्सर्गश्च । २.२५३२ । अनेकत्वा एकत्र वसुनि प्रज्ञप्तेः । यावदेव तद्दोषः । २.२५३३ । तच्छेदस्तद्गतम्* । २.२५३४ । सर्वत्र मुक्तावनन्त्यत्वे संघावशेषः । २.२५३५ । नानेककृयाफलेनापत्तिव्यवधानम्* । २.२५३६ । अर्धत्वंकारे दुकृतस्य । २.२५३७ । न्यूनांशत्वं न्यूनेष्ववद्येषु । २.२५३८ । सर्वत्र विचिकित्सतः [३९ ४] प्रवृत्तौ सत्वानम्* । २.२५३९ । संज्ञानं प्रयोगे ङ्गम्* । २.२५४० । न त्वं सन्धाने । २.२५४१ । नाब्रह्मचर्यशुक्रविसृष्ट्योः । २.२५४२ । श्रोतुश्चासत्ये । २.२५४३ । योग्यत्वं सर्वाङ्गेषु ग्रहणगमने सेवायां प्रतिबलत्वम् । २.२५४४ । ऊनत्वं परत्रान्यस्य । २.२५४५ । ततो प्यनेकवैकल्ये । २.२५४६ । मनुष्ये च तिरश्च । २.२५४७ । अनृद्धि धर्मकत्वमस्पर्शने ङ्गे । २.२५४८ । अधिकृतं स्पृश्यम । २.२५४९ । प्रतो[३९ ५]दे च । २.२५५० । अन्यवत्वं नखदन्तनिर्मांसास्थिरोम्णाम्* । २.२५५१ । मनुषगतेर्व्यवहार्यत्वं न नष्टप्रकृतेः । २.२५५२ । तद्वत्त्वं पण्डकोभयव्यञ्जनयोः । २.२५५३ । व्यवहारवत्सन्सर्गः । २.२५५४ । अर्धत्वं वाह्यके प्रव्राजिते गृहीत्वस्यारूढिध्वस्तयोश्च । २.२५५५ । सोपसंपत्कमध्वस्तं भिक्षुभिक्षुणीत्वम् । २.२५५६ । स्वपक्षोपसंपत्*व्यञ्जनो [यो]गमाभ्या[ं] । २.२५५७ । लिङ्गत्वमेतत्गते गृहिण ऊ[३९ १]नम्* । २.२५५८ । कल्पिकत्वं प्रव्रजितद्रव्येषु प्रमाणिकादित्वञ्च । २.२५५९ । स्वार्थत्वं मतन्मुख्ये । २.२५६० । बोधो र्थस्य विज्ञप्तौ । २.२५६१ । तं कृत्वे वस्थितो वधस्वार्थहारयोः । २.२५६२ । नैतत्समादातरि । २.२५६३ । पात्रमस्य । २.२५६४ । वाक्च । २.२५६५ । स्वा । २.२५६६ । आत्मोपसंहिता । २.२५६७ । स्वाधिष्ठितत्वं कारणे । । विभङ्गगतप्रायाः परिभाषाः समाप्ताः ॥ ४ ॥ ११? **(२,११,५) पोषधविधिः । २.२५६८ । न गो[३९ २]चरप्रसृतयोगं वाचयेत । २.२५६९ । नाभ्यागमे । २.२५७० । युक्तं विक्षिप्तृक्रूरोत्गण्डकानां परिहरणम् । २.२५७१ । मापयेयुः प्रहाणशालाम्* । २.२५७२ । स्वरुङ्गमध्यं लयनद्वयम्* । २.२५७३ । पञ्चके षट्के वा । २.२५७४ । द्वारकपाटशब्दाकरणाकर्षणोपायांश्च । २.२५७५ । वातायनञ्च वि तृतीये ऊर्धं बहिस्सम्वृतमन्तर्विशालं साधु । २.२५७६ । जालिकाकवाटिकासुचीर्घटिका[३९ ३]चक्रिकाजपादकदण्डाश्च । २.२५७७ । करणं मण्डपस्योपर्यमाने पुरान्तरस्या वा । २.२५७८ । सोपानस्याधिरोहाय । २.२५७९ । परिक्षेपो प्रपातार्थं वेदिकया । २.२५८० । कीलनं लोहकण्टकैरकम्पनार्थमस्याः । २.२५८१ । बहिर्वा च प्रहाणमण्डपस्य लयनपङ्क्तेर्वा । २.२५८२ । न द्वारसम्मुखं द्वारं कुर्यात्* । २.२५८३ । करणं द्वारकोष्ठकस्य । २.२५८४ । कुर्युर्गुहामपि । २.२५८५ । मृण्म[३९ ४]यान्यासनार्थे संहतानि । २.२५८६ । पीठिकाञ्च । २.२५८७ । चतुर्हस्ता सौ समन्तपरिक्षेपेण साध्वी । २.२५८८ । पांचविध्यां वाने । २.२५८९ । मौञ्जं साणं वाल्वजं पट्टिका वेत्रवैभङ्गुकमिति । २.२५९० । प्रज्ञपयेयुरत्र तूलिकाम्* । २.२५९१ । गृष्टिपरितो स्यामधिकत्वं साधु । २.२५९२ । अर्ककाशेरकबूकशल्मलीनां तूलं पूरणम् । २.२५९३ । ऊर्णा शणः कर्प्यासो नतुकानि पत्रवैभङ्गुकञ्च । २.२५९४ । काकपदकाना[३९ ५]मन्तरो न्तरे यथार्थमवस्थापनाय दानम् । २.२५९५ । मिद्ध्वागमे घटिकाधारणम् । २.२५९६ । सूत्रकेण कर्णोपनिबध्य । २.२५९७ । यष्टेः सारणम् । २.२५९८ । सनैः अदुःखनार्थमाढकं छित्तेर्वेष्टितायाश्च नतुकैः । २.२५९९ । कण्डुसकक्षेपः सूत्रकेन वध्वस्य पुनरान्त्यैः । २.२६०० । प्रदीपस्याग्रतः स्थापनम् । २.२६०१ । पादस्यावतारणम् । २.२६०२ । अपरस्यापि । २.२६०३ । चङ्क्रमणम् । २.२६०४ । [४० १] वेक्षणमत्रार्धमासवृत्तस्य । २.२६०५ । सनिपत्स्यत्तायाम् । २.२६०६ । प्रतिकृत्य चेतितन् सर्वत्र सन्निषीदेत्* । २.२६०७ । सन्निषण्णतायां स्मृतिविमत्योरनन्तर्[ए] धिष्ठेत । २.२६०८ । चित्तेन कर्मकारकः । २.२६०९ । स्वं चेदेकमतद्वन्तं पञ्चदशां मन्येत [प्रेम]सप्रेमकप्रागुण्ये प्रयतेत्* । २.२६१० । य आयुस्मनिदं चेदञ्च करोति किं* तस्य भवति सापत्तिको नत्वायुस्मतेदं चेदं च कृतं कृतमेवं [४० २] सत्यायुस्मान्* सापत्तिको नाहमायुस्मन्नेको पि तु सर्वसंघो नेनार्थेनाङ्गतावत्त्वमायुस्मान् स्वामापत्तिं* यथाधर्मं प्रतिकुरु किन् ते करिष्यति सर्वसंघ इति प्रक्रमेण दर्शनपथे शिष्टानामिच्छायां देशयेत्* । २.२६११ । नाकाममत्रैनं चोदयेत्* । २.२६१२ । सर्वे चेत्* पञ्चदश्यामापत्तिम्* प्रतीयुर्विमतिं वा स्वप्रतिक्रियार्थमावासान्तरे कञ्चित्प्रस्थापयेयुः प्रतिगृही[४० ३]तृसंवत्यर्थम् । २.२६१३ । असंपत्तावधिष्ठानं प्रतिज्ञपनं कामयेरन्* । २.२६१४ । चतुष्कतो र्वाग्भावे विहारकरणीयं स्थितमेव । २.२६१५ । अहापनमासनप्रज्ञप्तेः । २.२६१६ । सेक-संमार्गसुकुमारीगोमयकार्षाप्रदानसिं*हासनासनप्रज्ञपनप्रदीपधर्मश्रवणदानेषु क्रितेषूच्चतरके प्रदेशे स्थित्वा चतुर्दिशं व्यवलोकनम् । २.२६१७ । दर्शन भिक्षुणामङ्ग तावदायुस्मन्त[४० ४]स्त्वरितत्वरितमागच्छतामार्यसंघस्य पोषधः प्रवरणा वा पाञ्चदशिक इति वचनम् । २.२६१८ । अपरिपूरो चतुष्कस्याधिष्ठानम् । २.२६१९ । वेलां यावदागमय्य । २.२६२० । निषद्य केवलस्य । २.२६२१ । सान्यत्वे शिष्टे सन्निधौ । २.२६२२ । सन्निषद्य त्रयाणाम् । २.२६२३ । तद्वत्प्रवरणं चतुर्णाम् । २.२६२४ । नासत्प्रातिमोक्षसूत्रोद्देशके तदास्थाने ज्ञात्वा पोषधमागमयेत्* । २.२६२५ । न यत्रास्याति[४० ५]क्रमस्तत्रोपगच्छेत्* । २.२६२६ । नोपगतिमनुरक्षेत्* । २.२६२७ । प्राक्परातः । २.२६२८ । तञ्चोर्धं मासद्वयात्* । २.२६२९ । वस्तुकर्मलाभोपस्थायकपरिहारेणोद्देशकं परीच्छेयुः आगच्छन्तं सूत्रधरं प्रत्युद्गच्छेयुः छत्रध्वजपताकाभिः । २.२६३० । विनय्सस्य मातृकायाश्च । २.२६३१ । अर्धतृतीयानि योजनानि । २.२६३२ । अशक्तौ क्रोशपञ्चकम् । २.२६३३ । त्रिकमर्धयोजनं क्रोशमर्धक्रो[४० ६]शं परिषण्डां वा । २.२६३४ । <<वाक्साखिल्य>>केन प्रत्युत्गम्य पात्रचीवरं प्रतिगृह्णीयुः । २.२६३५ । स्नात्रं कुर्युः । २.२६३६ । स्नेहलाभञ्च संघे । २.२६३७ । वस्त्रादिपरिहारं दद्युः । २.२६३८ । धर्मश्रवणञ्च । २.२६३९ । शास्तृधरत्वमेषां भिक्षुमीर्ष्यन्तं बोधयेयुः । २.२६४० । नाकृतपोषधः प्रवारणस्तद्दिने प्रज्ञायमानस्वत(द)ः स्थानात्प्रक्रामेन्न चेत्तदैव तद्वधे प्राप्तिः कलिकृत्भ्यो विमुक्तिरनुप्राप्तिः [४० १] सत्*वृत्ताना<<मित्ये>>तत्परायनत्वं वा । २.२६४१ । न कलिकृत्भिक्षुकं सद्वृत्तभिक्षुकाद्गच्छेत । २.२६४२ । नाभिक्षुकं सभिक्षुकादसहितः शिष्टैरन्यत्रापदः कायचित्तप्रस्रब्धिवशता त वा । २.२६४३ । नाकृत्*-पोषधप्रवारणं क्रान्तौ निःश्रितमवसृजेत । २.२६४४ । तत्*रूपतायां प्रत्ययस्य सद्वृत्तोद्देशवन्तमुपदिश्य वासं तत्रावतारे नियुञ्जीत्* । २.२६४५ । नैनामुक्तिमति[४० २]लङ्घयेत्* । २.२६४६ । कल्पतापश्चादागतानामर्थे पुनः करणमनयोः । २.२६४७ । कामो त्र प्रवृत्तो सम्यक्ता चेत्* । २.२६४८ । समानयात्रेष्वपि । २.२६४९ । सामग्रमितरे याचेरन्* । २.२६५० । अलाभे स्य सीमान्ते करणम् । २.२६५१ । संपत्तिः शेषानुभवेन क्रियमानतायामागतौ । २.२६५२ । नियमो प्रक्रान्तत्वे कस्यचित्तत्स्थानात्* । २.२६५३ । बहुतरत्वे चागता[४० ३]नाम् । २.२६५४ । कालं प्रति बहुतराणामनुवर्त्यत्वम् । २.२६५५ । समत्वे नैवासिकानाम्* । २.२६५६ । अत्र च ॥ पोषधविधिगतम्* ॥ **(२,११,६) विभंगादिगतम् । २.२६५७ । न समाधेर्व्युत्थापयेत्* । २.२६५८ । नानववादकं ध्यायेत्* । २.२६५९ । न्याय्यो घटिकाक[न्दु]शकप्रयोगः । २.२६६० । न वीर्यं स्रंसयेत्* । २.२६६१ । सूत्रवदेतत्* । २.२६६२ । अविक्षिप्ताङ्गचित्तचीवरतयापि शय्यकल्पनम् । २.२६६३ । नाग्लानो दिवा श[४० ४]यीत्* । २.२६६४ । धारयेत्* पृष्ठावाधिक आयपदम्* । २.२६६५ । अन्तर्गतेश्चंक्रम्येतेन्द्रियैरबहिर्गतेन मान्ससेनाविलम्बितम् । २.२६६६ । स्पष्टमृजुः । २.२६६७ । अशक्तौ सूत्रकेणाक्षिप्य । २.२६६८ । द्वादश स्वाध्यायकारकस्य हस्ताश्चंक्रमः । २.२६६९ । अष्टादश प्रहाणिकस्य । २.२६७० । सूत्रयित्वास्य करणम् । २.२६७१ । देशयेत्* भिक्षुर्धर्मं निषद्य । २.२६७२ । अनेकता चेदेकः । २.२६७३ । यः कश्चि[त्*] [४० ५] नानाधीष्ठो न चेत्तन्मुखिकया निर्गतिः । २.२६७४ । न मण्डलकेन । २.२६७५ । नार्धमण्डलकेन । २.२६७६ । न द्वावेकत्र । २.२६७७ । वृद्धान्ते । २.२६७८ । प्राभूत्यं चेत्* द्वित्राण्युत्सृज्यासनानि । २.२६७९ । अतदासनश्चेत्* । २.२६८० । सिं*हासने च । २.२६८१ । स्थापयेत्* खेटकटहकम् । २.२६८२ । आस्तरमत्र दद्यात्* वालुकाच्छयिका वा । २.२६८३ । काले चैतत्कालं शोचयेत्* । २.२६८४ । धर्मश्रवणं [४० ६] कुर्युः निशायाम्* । २.२६८५ । अष्टम्यां चतुर्दश्यां पञ्चदश्याञ्च । २.२६८६ । नैतदकरणे ग्लानस्य दोषः । २.२६८७ । नाध्येष्यमाणो स्य भाषणार्थं न प्रतीच्छेत । २.२६८८ । अशक्त्यादावध्येषकं संज्ञपयेत्* । २.२६८९ । असति भाषणके परिपाटिकयोत्*स्मार्य भाषेरन्* । २.२६९० । अन्तत एकेकां गाथाम् । २.२६९१ । प्रदीपस्यानुकरणम् । २.२६९२ । अर्धचन्द्राकारेण प्र[४१ १] ॥ क्षिरिण्याकारेण वा धर्मश्रवणसंगतिं* प्रज्ञपयेत्* प्रक्षीरिण्याम् । २.२६९३ । अभ्यवकाशे धर्मश्रवणे वितानकं दानम् । २.२६९४ । वातवर्षे प्रवेशनम् । २.२६९५ । न ततो धर्मश्रवणमुत्सृज्येयुः । २.२६९६ । मुहूर्त्तं स्थविरो ग्रेगतं तूष्णीमाग<<म>>य्यात्र धर्मं भाषेतान्यं वाधीच्छेद्वद भिक्षो धर्मं <<।>> २.२६९७ । भाषमाणमवधार्य धर्मश्चेदुत्साहयेत्* । २.२६९८ । न चेद्धारयेत्* । २.२६९९ । गृहिणाम[४१ २]त्रागतानां धर्मं कथं कुर्यात्* । २.२७०० । तीर्थ्यञ्च प्रत्यवतिष्ठमानं सुनिगृहीतमदर्शयत्कोपमननुसूयम्* । २.२७०१ । न पर्षदमादाय देशको गच्छेत्* । २.२७०२ । <<निर्>>गतामेनां धर्ममुखे निवेशयेत्* । २.२७०३ । सगौरवः सप्रतीशो नीचचित्तो वगाहेत्* । २.२७०४ । सत्कृत्य देशयेत । २.२७०५ । सगौरवो धर्मे स्थिरः । २.२७०६ । अविक्षिप्तमानसः । २.२७०७ । युक्तमुकैः पदैः । २.२७०८ । अव्यवकीर्णैः [४१ ३] सानुसन्धि । २.२७०९ । मैत्रानुकंपानिरामिषचित्तः । २.२७१० । हर्षरुचितुष्टीः कुर्वन्* । २.२७११ । तिष्ठेदसमाप्ते र्थवशेन । २.२७१२ । भाषेत्स्वरेण धर्मम्* । २.२७१३ । कुर्यादुत्थाय विभागम्* । २.२७१४ । उद्धृत्य चार्थ(ः)कथाम् । २.२७१५ । भङ्गसन्धी च । २.२७१६ । दिवसस्य गणनं संघस्थविरेण सूत्रप्रोतवंशशलाकासंचारण्[ए]न । २.२७१७ । उपधिवारिकेन तत आगम्यारोचनं [४१ ४] संघे । २.२७१८ । विशेषितस्य । २.२७१९ । पक्षभेदेन । २.२७२० । विहारस्वामिदेवतार्थञ्च गाथाभाषणे भिक्षूणां नियोगस्य वचनम् । २.२७२१ । अनन्तरम्* । २.२७२२ । अद्य शुक्लपक्षस्य प्रतिपद्विहारस्वामिनो विहारदेवतानां चार्थाय गाथां भा<<ष>>ध्वमिति । २.२७२३ । विहारस्वाम्युपनिमन्त्रणवचनम् । २.२७२४ । एवं नाम दानपति श्वो भिक्षुसंघं भक्तेनोपनिमन्त्रयते तं भदन्त कल्या[४१ ५]णैः मनोभिः प्रत्यनुकम्पान्तामिति । २.२७२५ । ऊनरात्रपादनमर्धमासावशेषतायामृतोः । २.२७२६ । अधिकमासककरणं राजानुवृत्या । २.२७२७ । जोतिषिकानुवृत्या नक्षत्रानुगतिः । २.२७२८ । नाविचार्यानागम्य्य पोषधं शून्यो यमित सीमानं बध्नीयुः । २.२७२९ । अनङ्गमरूढो ज्ञातताबद्धत्वस्य । २.२७३० । निस्तत्वयापि प्रस्रब्धिः । २.२७३१ । कल्पिकत्वस्य [४१ ६] च कुटेः । २.२७३२ । न कल्पते सीम्ना सीम्नः परिक्षेपः । २.२७३३ । कल्पते मण्डलकभिक्षुणीवर्षकयोर्दकावर्ते च । २.२७३४ । व्यवतिष्ठते सीम्न्याचतुष्टयादेक<<..>>वृक्षेऽनेका मर्यादा । २.२७३५ । व्यवहारिकस्यात्र चिह्नत्वम् । २.२७३६ । अनेवंभूतत्वमृद्धिमायाकृतयोः । २.२७३७ । अस्थिरत्वं चन्द्रार्कताराकिरणोर्मितरङ्गाणाम् । २.२७३८ । सीमान्तरं वदुकं सीम्नि । २.२७३९ । अस[४१ १]त्वमेकत्वस्य विछेदे । २.२७४० । विषयत्वं संक्रमस्य शिरश्चेत्* । २.२७४१ । अनुवृद्धिरस्य ध्वस्तो पुनः कृतो । २.२७४२ । अप्रतिप्रस्रब्धप्रयोगतायाम् । २.२७४३ । नोर्धं सप्तरात्रातविछेदभूतं नभः । २.२७४४ सत्वेनैवात्र न व्यवहारः कुतः संवर्धतया । २.२७४५ । नोर्धं मध्यतो र्धतृतीययोजनान्तात्सीम्नो बन्धस्य रूढिः । २.२७४६ । एतस्मादधोर्धं <<च>> खरससंबन्धस्य तलवत्त्वम् । २.२७४७ । अरूढि[४१ २]रविप्रवाससम्वृतेरबद्धसीमतायां भूमेः । २.२७४८ । अपेति पा[स्]ए बन्धस्य । २.२७४९ । नास्यास्याः । २.२७५० । स्तूपगहाङ्गणपोषधामुखेष्वपि पोषधे संमृज्यता । २.२७५१ । दत्तत्वं छन्दादेः संघे दत्तता । २.२७५२ । यस्य कस्यचिदतस्तदारोचकत्वेन भवनीयत्वम् । २.२७५३ । नैनं बहिःसीमस्थो ददीत दापयेत वा । २.२७५४ । न परंपरया <<। २.२७५५ ।>> दुष्कृतं ग्लानावशचप्राणब्रह्मचर्या[४१ ३]न्तरायभीतादन्यस्य दाने । २.२७५६ । अनारोचने नादरात्* । २.२७५७ । निर्दोषं बहिःसीम्ना <<अ>>नया भीत्या नयनम्* । २.२७५८ । भिक्षूणां गणनमुपधिवारिकेण पोषधे शलाकाचारणे<<न>> । २.२७५९ । सुप्रवृत्तस्यार्ध्वपदे प्यस्खलन्तायामुद्देशः । २.२७६० । संघस्थाविरस्य । २.२७६१ । अप्रतिबलत्वे द्वितीयस्य । २.२७६२ । तृतीयस्य तस्यापि । २.२७६३ । तस्यापि वारेण । २.२७६४ । अन्यस्या[४१ ४]शक्तावध्येषणम्* । २.२७६५ । अप्रतिपत्तौ संघेन । २.२७६६ । साततिकस्यापि । २.२७६७ । विष्ठाने शेषस्यान्येन । २.२७६८ । खण्डधरतायां यावत्भिः संपत्तिः । २.२७६९ । अनयस्सप्रत्यपायतायां प्रासादिकस्थानलोभेनासमीपे ग्रामस्य योध्वकरणम्* । २.२७७० । करणमनवस्थाने सार्थे स्य गच्छत्भिः । २.२७७१ । अनिष्टौ शब्दनस्य संक्षेपेन । २.२७७२ । तावतो प्यधिष्ठानम्* । २.२७७३ । [४१ ५] निरवद्यं स्राद्धस्य प्रधानस्य च तुष्टिसंभावनायामाचारानुश्रावणम्* । २.२७७४ । करणञ्च सन्निधौ पोषधस्य । २.२७७५ । आपदि गृहिसन्निदौ देशनम्* । २.२७७६ । अनुश्रावणञ्चास्याचारस्य । २.२७७७ । संज्ञप्तये च राज्ञः । २.२७७८ । नानिर्वाहणे परस्यारूढिः । २.२७७९ । उद्देश्य तदियन्तकालोद्देष्टॄणां तत्वानुपगृहीतिरत्राधर्मः । २.२७८० । श्रमणोपविचारादपेत[४१ ६]त्वं प्रक्रान्तता ॥ समाप्तं पोषधवस्तु ॥ २ ॥ ________________________________________________ *३. वार्षिकवस्तु । **(३,१) तद्ग्राहकसम्मतिः । ३.१ वर्षा उपगच्छेत्* । ३.२ । त्रैमासीम्* । ३.३ । प्रतिपदि । ३.४ । आषाढ्यानन्तरायाम्* । ३.५ । श्रावणाया वा । ३.६ । विहारं केलायेयुः दशाहार्धमासेन भविष्यत्तायाम् । ३.७ । सप्ताष्टैरित्यपरम्* । ३.८ । पूर्वे ह्नि शयनासनस्य पात<<न>>म्* । ३.९ । [४२ १] । । आपादकठिल्लकात । ॥ तद्ग्राहकसंमतिः ॥ १ ॥ **(३,२) शलाकाञ्चारणम् । ३.१० । अपारणे नेकस्य । ३.११ । सो क्तगन्धैश्चाङ्गेरीपटलकगते शुक्ले वासस्युपनिक्षिप्ताः शलाका वृद्धान्ते निवेश्या यञ्चायं चास्मिन्नावासे क्रियाकारो यो युस्माकमुत्सहते तेन क्रियाकारेणास्मिन्नावासे वर्षावस्तुं स शलाकां ग्रिह्णातु न च वः केनचिदन्तर्वर्षे संघमध्ये रणमुत्पा[४२ २]दयितव्यो यो वः कस्यचित्किञ्चिज्जानाति स इदानीं* वदन्त यो <<वो>> न्तर्वर्षे संघे रणमुत्पादयिष्यति तस्य संघ उत्तर उपपरीक्षितव्यं मत्स्यत इति भिक्षून् वेदयेत । ३.१२ । ग्रहणोपशमनं प्रति संघं ज्ञपयेदन्यः । ॥ शलाकाञ्चारणम् ॥ २ ॥ **(३,३) । वासवस्तुग्रहणम् । ३.१३ । शास्तुरग्रे ग्रहणम् । ३.१४ । अर्धमुक्तेनासनेनान्येः । ३.१५ । आचार्योपाध्यायैः श्रामणेराणाम् । ३.१६ । नैवासिकाना[४२ ३]मस्येतदन्ते शनैः स्थापनम । ३.१७ । गणयित्वा प्रवेदनमियद्भिर्भिक्षुभिरस्मिन्नावासे शलाका गृहीतेति । ॥ वासवस्तुग्रहणम्* ॥ ३ ॥ **(३,४) पात्रतद्ग्रहणादि । ३.१८ । अन्त तस्य तत्ताडककुञ्जिकेन पुरतः स्थित्वा रोचनोपक्रमं स्थविरामुको विहारः सलाभः सचीवरिको गृहाणेति यथागुणम्* । ॥ पात्रतद्ग्रहणादि ॥ ४ ॥ **(३,५) शयनासनादिदानम् । ३.१९ । ज्ञात्वोद्देशमस्तूपसंघार्थे गतस्य गन्त्र्या भागित्वं [४२ ४] वृक्षमूलहरितसार्धलस्थण्डिलेष्वपि यथावृद्धिकोद्देशः । ३.२० । द्वादिभ्यो <<ऽ>>संभावने लयनस्यान्ततो निष्यदनप्रामाण्ये<<ना>>स्य भूमेः । ३.२१ । पात्रकरकोषा[ट्]उकदन्तकोष्ठस्थानस्यापेक्षणम् । ३.२२ । द्वारकोष्ठकसोपानकोष्ठिकाप्रासादोपस्थानभक्तजेन्ताकशाला नोद्दिशेयुः । ३.२३ । न रात्रो शयनासनम्* । ३.२४ । नाध्युषितं ग्लानेनान्यस्मै लयनम । ३.२५ । [४२ ५] नैतत्त्वाप्राप्त्यभावे न ददीरन्* । ३.२६ । नैनमुपस्थायकं वास्य कर्म कारयेरन् । ३.२७ । न कुष्ठी सांघिकं शयनासनं परिभुञ्जीत । ३.२८ । प्रत्यन्ते स्य विहारं दद्युः । ३.२९ । न ससवे प्यत्र सांघिके तिष्ठेदाप्रासादपुष्किरिणीद्वारकोष्ठकपरिषण्डचंक्रमस्थानवृक्षात्* । ३.३० । न वर्चःप्रस्रावकुट्योः प्रविशेत । ३.३१ । उपास्थाय<<क>>दानेनैनमनुकम्पयेरन्* । ३.३२ । [४२ ६] पात्रचीवरस्थापनार्थमारण्यकेभ्यः सर्वदा लयनमुद्दिशेयुः । ३.३३ । वर्षोपगमने स्युः केचिदागन्तव इति वस्तु शयनासनञ्च स्थापयेयुः । ३.३४ । प्रभूतागतावुपगतेः पुनरुद्देशः । ३.३५ । नोर्धमुपनायिकातः । ३.३६ । द्व्यादेरसंभावना भूम्[न्]येकस्य । ३.३७ । नैकाहस्यार्थे शयनासनं गृह्णीत्* । ३.३८ । न लाभलोभात्* [४२ १] विहारम्* । ३.३९ । सर्वं परिभुञ्जीत । ३.४० । पूर्वाह्णे क्वचित्पाठस्वाध्यायावस्थानचंक्रमाणां क्वचिद्मध्याह्ने परत्रान्यत्र <<पात्र>>चीवरस्थापनमावासो परत्र रात्रावित्यस्य योगः । ३.४१ । खण्डफुल्लमुपगतो वासवस्तुनः प्रतिसंस्कुर्वीत । ३.४२ । वर्षकस्य वर्षोषिताभिर्भिक्षुणीभिरभिसंस्करणम् । ३.४३ । कलिकरनिवेशासंपत्यर्थम्* । ३.४४ । हेमन्तिकग्रैष्मावपि शयनासन[४२ २]ग्राहो कुर्वीरन्* । ३.४५ । कार्स्नेन चोद्दौशम्* । ३.४६ । तद्यथा सामन्तकस्यापि विहारपरिगणयोः । ३.४७ । प्रासादस्यापि सैतदः । ३.४८ । नोर्ध्वमेनां प्रक्रान्तत्वादेषामनुवर्त्तयेरन्* । ३.४९ । न प्रकृतिस्थार्थे घट्टं कुर्वीरन्* । ३.५० । न भाविनार्थेन । ३.५१ । अयममुत्रर्तावहौरात्रे तदवयवे वा भविष्यत्ययममुत्रायामाचार्यस्य भविष्यत्ययमुपाध्यायस्य सा[४२ ३]र्धं विहारिणो यमयमन्तेवासिन आलप्तकादेरयमिति विहारान्नुद्दिशेयुः । ३.५२ । न प्रतीच्छेत्* । ३.५३ । लतावारिकस्यालयप्रतिविधानार्थम्* सम्मतिः । ३.५४ । <<नि>>रण्डानां सातनम्* । ३.५५ । क्षौद्राणां सूत्रकेणावृद्ध्ये वेष्टनम् । ॥ शयनासनादिदानम् ॥ ५ ॥ **(३,६) उद्देश्यत्वादि । ३.५६ । सत्वे नेकस्य वृद्धपीठानामप्युद्देशत्वम् । ३.५७ । संस्तराणां च । ३.५८ । न सांघिकमव[४२ ४]नद्धं नाशनधर्मणे शुचिना श्रामणेराय शयनासनं कश्चिद्दद्यात्* । ३.५९ । न भिक्षुण्यै । ३.६० । दानमस्यै विहारस्यात्र वाससम्पत्तौ पर्यन्ते । ३.६१ । शयनासनस्य च शिष्टस्याप्रणीतस्य । ३.६२ । न वष्केनचित्सांघिकं शयनासनं विना प्रत्यास्तरणेन परिभोक्तव्यं न कल्पप्रत्यास्तरणेन न मलप्रत्यास्तरणेनेति वेदयेत । ३.६३ । अन्वर्धमास च प्रत्यवेक्षेत्* । ३.६४ । [४२ ५] समयमुत्क्रम्य परिभुक्तावाछिन्द्यादारोच्य निःश्रये निःश्रितस्यान्यस्य संघे । ३.६५ । अमुकेन दानपतिनामुकेन वैय्यपृत्यकरेणामुकेन गोचरग्रामकेन स्वः संघो वर्षा उपगमिष्यतीत्यारोचयेत्* । ३.६६ । अनुन्मादित्वप्रतिविनोदित्वयोः कौकृत्यस्यान्यस्य च दुःखदौर्मनस्यस्य सुखसौमनस्यस्य चोत्यादित्वानुरक्षित्वयोः ग्लानोपस्थायकत्वस्य च [४२ ६] सब्रह्मचारिषु भूतेः प्रत्याशंसनेनावासं गोचरञ्च पिण्डकभैषज्यदात्रोर् अवलोक्योपगमनम्* । ३.६७ । छन्ने भिक्षोः पुरस्तात्* । ३.६८ । नानेकत्र विहारे । ३.६९ । न यस्मिन्नभिक्षुकत्वमकपाटकत्वञ्च सहितम्* । ३.७० । सत्वे दानपतिवैय्यापृत्यकरगोचरग्रमिकोपस्थायकानामुत्कीर्तनम्* । ३.७१ । न वहिःसीम्न्यरुणोद्गमयेदनधिष्ठितम्* । ३.७२ । [४३ १] सप्ताहमधिष्ठितम्* । ३.७३ । सप्ताहमतितिष्ठे र्थे धर्म्ये । ३.७४ । तद्यथा नाम निर्यातनविहारप्रतिष्ठापनशयनासनदानध्रुवभिक्षाप्रज्ञपनचैत्यप्रतिष्ठापयष्टिध्वजारोपणपूजाकरणालचन्दनकुंकुमसेक् दानपाठकोकृत्यप्रतिविनोदनदृष्टिगतप्रतिनिसर्गपक्षसंपत्त्यवसारणपरिवासादिचतुष्कदानावर्त्तनग्लानप्रश्वसनेषु भिक्षोः । ३.७५ । [४३ २] भिक्षुण्या गुरुधर्ममानाप्यदाने च । ३.७६ । ब्रह्मचर्योपस्थानसम्वृतेः शिक्षमाणायाः । ३.७७ । उपसंपादने च । ३.७८ । अत्र श्रामणेरस्य । ३.७९ । श्रामणेरिकायाः शिक्षासंवृतिदाने । ३.८० । शिरोवेष्टनरजोहरणसीमन्तोन्नयनजटापहरणकुण्डलबन्धनेषु गृहिगृहिण्योः । ३.८१ । <<वि>>संघावशेषगतमनुपसंपन्नानां पूर्वम् । ३.८२ । उन्मज्जनम[४३ ३]वसारणे गृहिगृहिण्योः । ३.८३ । लङ्घयेदेतद्भक्तभैषज्योपस्थायकाभावे शक्तौ तैर्विना यापयितुम्* । ३.८४ । श्रामण्यजीवितब्रह्मचर्यान्तरायसंभावने । ३.८५ । अनु<<नव>>लोमिकचित्तोत्पादनपापिकवाग्निश्चारणयोः भेदाय पराक्रममाणे संघस्य । ३.८६ । नैतच्छान्त्यै ससम्भावनो न गच्छेत्* । ३.८७ । गतो न लङ्घयेत्* । ३.८८ । न प्रति<<शूता>> वर्षावासे [४३ ४] नावासस्य सम्बन्धनम्* । ३.८९ । न कुर्वीत्* नास्त्यस्यैकपोषधतायामावासयोरुत्थानम्* । ३.९० । अस्त्येकलाभतायाम् । ॥ वार्षिकवस्तु ॥ ६ ॥ **(३,७) निदानादिगतम् । ३.९१ । पञ्चानामपि निकायानामुपगन्तव्यत्वम् । ३.९२ । न शुद्धानां स्रामणेराणाम् । ३.९३ । अवार्षिकानाञ्च । ३.९४ । नैषामेव रूढिरुपगतेः । ३.९५ । न ग्राह्यत्वं शयनासनस्य । ३.९६ । [४३ ५] नासत्वे ग्राहकस्य । ३.९७ । नासंमतेन ग्राहणम् । ३.९८ । नानुत्पादितादौ पिटकधरकालिकृत्स<<दस>>त्वयोरसंश्रितत्वम् । ३.९९ । उषितत्वमनुपगतस्य स्थानामोक्षे । ३.१०० । नाकाशे रूढिरुपगतेः । ३.१०१ । न नाव्युत्सृज्य प्राप्तपृथिवीमुपनिबद्धां वा भूमिस्थे स्थिरे संजनतो न्तरापयायित्वम्* । ३.१०२ । ध्वन्सस्तद्दृशमभिनिःसृत्याधर्मपक्षसंक्रान्तावरुणोद्गतौ [४३ ६] न संदिग्धतायाम्* । ३.१०३ । नान्त्ये धिष्ठानस्य षडहे रूढिः । ३.१०४ । ध्वन्सो वगतनिष्कार्य <<त>>स्याप्रतिनिर्वृत्यवस्थानयोः । ३.१०५ । पर्यन्तं परमत्र सप्ताहत्वम् । ३.१०६ । अलब्धं संवृतेरेष पर्यन्तः । ३.१०७ । अन्यस्य चत्वारि षड्रात्रः । ३.१०८ । दानमस्याः । ३.१०९ । नात ऊर्द्धं बहिवस्तव्यता । ३.११० । पञ्चानामपि निकायानामेतत्* । ३.१११ । अन्तःसी[४३ १]म्न्यस्य रूढिः । ३.११२ । भिक्षोः पुरस्तात्* । ३.११३ । अनाशंक्यमनाक्षिप्तत्वं तीर्थ्यस्य दृष्टेर्विवेचनार्थं ज्ञातेः करणीयेनागमाधिगमयोरात्मनः कांक्षाविनोदनार्थं गमनायैतत्कृतेः । ३.११४ । अनु<<त्*>>क्षैप्यत्वमुपगततास्थस्य । ३.११५ । निदर्शनं वासः । ॥ निदानादिगतम्* ॥ ७ ॥ ॥ समाप्तञ्च वार्षिकवस्तु ॥ ३ ॥ ________________________________________________ *४. प्रवारणवस्तु । **(४,१) प्रवारणाविधिः । ४.१ । न मौनं समाददीत । ४.२ । शुद्धि[४३ २]मुक्त्योरनेन प्रत्यवगतौ स्थूलात्ययः । ४.३ । दृष्टस्रुतपरिशङ्काभिः वर्षोषितः संघ प्रवारयेत्* । ४.४ । पश्चिमे ह्नि वर्षाणाम् । ४.५ । गोचरा रोचयेयुः । ४.६ । यतः प्रभृति केलायनमियत्भिः दिवसैः संघस्य प्रवारणा भविष्यति युष्माकमारोचितं भवत्विति । ४.७ । विहारस्य मण्डनम्* । ४.८ । कूटागाराणां बन्धनम्* । ४.९ । राहानां चि[४३ ३]त्रणं स्तूपानां मोच्चनमोलनं च । ४.१० । सिद्धासनस्य मण्डनम्* । ४.११ । अद्य सर्वरात्रिकं धर्मश्रवणं भविष्यति तत्र युष्माभिः सामग्री देयेति गोचरारोच्य सूत्रविनयमात्रकधरैरधिष्टचतुर्दश्यां सर्वरात्रिकधर्मश्रवणदापनम्* । ४.१२ । परस्यान्तैः प्राक्कर्मतो धम्यया विनिश्चयकथया रात्रेरतिनामनम्* । ४.१३ । प्रागरुणसं[४३ ४]भेदा<<त्>> प्रवारणात्कर्म । ४.१४ । प्रवारणकं संमन्येरन्* भिक्षुम् । ४.१५ । अपारणे नेकम् । ४.१६ । न्यायमत्रांशसः पंक्तौ व्यापारणम् । ४.१७ । दर्भानसौ चारयेत्* । ४.१८ । प्रवारणं प्रत्यन्येन संघस्य ज्ञपनम्* । ४.१९ । प्रतिभिक्ष्वा प्रवारणात्पुरतस्तिष्ठेत्* । ४.२० । तस्मै प्रवारणं त्रिः । ४.२१ । द्विस्तावता ग्लान(न)क्लान्तिशयनासनसंभेदकालातिक्रान्ति[४३ ५]सम्बाधस्नंपत्तिसंभावने । ४.२२ । तावतापि सकृत्* । ४.२३ । तेनापरस्मै निष्ठितायां पंक्तौ । ४.२४ । अभावे न्यस्मै । ४.२५ । सर्वसंघेन प्रतिवारिते एतत्त्वस्य संघे निवेदनम्* । । साधु प्रवारितं सुष्ठु प्रवारितमिति । ४.२६ । सर्वे समर्थयेयुः । ४.२७ । येन तेनासूचेः । । स्वक्येन वस्तुना वस्तप्रवारणमारभेत वचनतो गृहीत्वा<<त>>ः [४३ ६] संघेन लभ्यं भदन्ता एवं रूपेणापि वस्तुना वर्षोषितम् भिक्षुसंघं प्रवारयितुमिति । ४.२८ । अतः श्रामणेरान्* प्रवारयेत्* । ४.२९ । ततो भिक्षुणीः । ४.३० । प्रवारितत्वमधिष्ठाय गतस्यार्वाक्तत्प्रवारणायासहकृतौ । ४.३१ । न स्त्रियां परिवृत्यापि । ४.३२ । अशक्यतायामवस्थातुं भागप्राप्तं भिक्षुमवलोकयेत् गणप्रवारणेन । ४.३३ । [४४ १] । ।प्रवारयेदन्तर्वर्ष प्रक्रमिष्यन्* करणीयेन । ४.३४ । स्थापयित्वापि वस्तुपुद्गलमुभयं वा । ४.३५ । प्रतीच्छेयुरेणाम् । ४.३६ । स्थापनेन नन्त्यतामुपनीय । । न हैव वयमायुस्मन्नित्यर्थं सन्निषण्णाः सन्निपत्तिताः कच्चिदायुस्मन्* वस्तु स्थापयेन्न पुत्गलमित्यपि तु शीलविशुद्ध्यर्थं पोषध उक्तो भगवता धर्मथिशुद्ध्यर्थं प्रवारणा सआचेदाकां[४४ २]क्षसि प्रवारयेति । ४.३७ । पुत्गगलं स्थापयेन्न न वस्त्विति वस्तु स्थापयेत्* पुत्गलञ्चेति अभङ्गः प्रतीष्टैः व्यपलापे स्थापनस्य प्रतीष्टताया स्थापितस्य वा । ४.३८ । नैवंविधं किञ्चिदस्तीतिवादे मृषात्वमत्र पूर्वस्यास्य वा । ४.३९ । कलिकृताञ्चेत्भिक्षूणामागनमुपगताः शृणुयुः द्वित्रिपोषधातिक्रान्तिश्चेत्प्रवारयेयुः । ४.४० । असंपत्तौ यञ्च [४४ ३] पाणिमण्डकानि संमन्येरन्* । ४.४१ । वाक्यस्वल्पकेन प्रत्युत्गम्य पात्रचीवरप्रतिशमनं लयनमालंककूटागारोद्देशः । ४.४२ । स्नात्रस्नेहलाभकरणम् । ४.४३ । करणधर्मश्रवणदा(द)नमित्येषां प्रलोभनानि प्रयुञ्जीरन्* असंपत्तावात्मीभावस्य पोषधं कुर्वीरन्* मण्डलकेषु । ४.४४ । ननु युष्माकमद्य प्रवारणेति ब्रुवाणा[४४ ४]नामागमयतायुष्मन्तागन्तुका यूयं नैवासिका अनेनार्थेनेति प्रतिवदेयुः । ४.४५ । प्रक्रान्तेषु प्रवारणाम् । ॥ प्रवारणावस्तु ॥ १ ॥ **(४,२) क्षुद्रकादिगतम् । ४.४६ । नाकृतक्षमणः सान्तरस्य प्रवारयेत्* । ४.४७ । दशार्द्धमासेन भविष्यत्तायामस्यास्तत्कालः । ४.४८ । सप्ताष्टैरित्यपरः । ४.४९ । न सन्निपातः । ४.५० । नासावक्षान्त्वानाकृतसंमोदनसंनि[४४ ५]हितानां सर्वस्तदा । ४.५१ । न रुषितं क्षमयेत्* । ४.५२ । न भिक्षुणी भिक्षुं बहिरावासात्* । ४.५३ । न पादयोर्निपत्य । ४.५४ । क्षान्ते नियत्य गमनम् । ४.५५ । नैनां क्षमयन्*तीमनादृ(दृ)त्य भिक्षुर्गच्छेत्* । ४.५६ । न विलंघयेत्* । ४.५७ । संज्ञप्तेः क्षमनीयस्य पुरस्ताद्दापनमभिज्ञान । ४.५८ । नानिष्टावुपायपर्येषणं नापद्येत्* । ४.५९ । न चीरयेत्* । ४.६० । न पर्य[४४ ६]वस्थानापगतिन्नोदीक्षेत्* । ४.६१ । न क्षम्यमाणो न क्षमेत । ॥ क्षुद्रकादिगतम् ॥ २ ॥ ॥ समाप्तञ्च प्रवारणवस्तु ॥ ४ ॥ ________________________________________________ *५. कठिनवस्तु । **(५,१) क्षुद्रकादिगतम् । ५.१ । आस्त्रीण्वीरन्* कठिनम्* । ५.२ । यथा त्रयमेवमास्तीर्णस्य परंपरभोजनमपि निर्दोषं गणभोजनमनामन्त्र्यग्रामप्रवेशश्चीवरविज्ञपनञ्च । ५.३ । साधारण्यमस्य शिष्टैः लाभस्य । ५.४ । अनुत्थानमस्यावार्षि[४४ १]कछिन्नवर्षपश्चिमवर्षस्थानान्तरोषितवर्षेषु भूम्यन्तरस्थेषु च । ५.५ । विष्ठानमेतत्प्राप्तौ । ५.६ । भागिनो व्यन्त्यश्रामणेरभूम्यन्तरस्थालाभे । ५.७ । नोत्क्षिप्तः । ५.८ । तत्ताप्राप्तिवदधर्मपक्षेषु यातो भिन्नेषु । ५.९ । मौलकालप्रवारणपर्यन्तवर्षानिमित्तकास्तारकादिनपर्यन्तसम्बन्धी चीवरलाभसंख्यं च त्रिचीवरम् । ५.१० । सांघिकममृदितमवि[४४ २]लिखितमपैलोतिकम् । ५.११ । न न वर्णितकम्* । ५.१२ । अपरिभुक्तम् । ५.१३ । दृढम्* । ५.१४ । असंबन्धानिमपट्टिकगण्डूषकत्तढिकपरिषण्डन । ५.१५ । अनैःसर्गिकसन्ततिप्रस्कन्नगतप्रत्यागतम्* । ५.१६ । छिन्नस्यूतम्* । ५.१७ । निष्ठितं पञ्चकम् । ५.१८ । उत्तरे वा । ५.१९ । अनास्तीर्णपूर्वञ्च । ५.२० । आस्तीर्णम्* । ५.२१ । अनेकमपि । ५.२२ । यावत्तदास्तारकः । ५.२३ । चीवरान्तरा[४४ ३]धिष्ठानमेतत्तस्मादुद्धृत्याधिष्ठितानि । ५.२४ । रोचयेरन्* सामग्र्याम्* । ५.२५ । अनुषितम्* । ५.२६ । संमन्येरन्नन्तःसीम्नि । ५.२७ । आस्तारकञ्च । ५.२८ । यत्रास्योत्थानम्* । ५.२९ । तस्मै ददीत ज्ञप्त्याधावनस्यूतिरञ्जनेष्वसौ पूर्वंगमः स्यात्* । ५.३० । द्वित्रानुष्ठानेन । ५.३१ । निष्ठितं संपत्तौ द्वित्राणां स्वयं सूचीपदकानां दानम्* । ५.३२ । आदानस्वयंकृति तदन्तेष्वास्ता[४४ ४]रिष्याम्यास्तृणोम्यास्तृतं मयेति यथासंख्यं चित्तस्योत्पादनम्* । ५.३३ । नाद्यस्य हानावनुत्थानम्* । ५.३४ । श्वो हमायुष्मन्तः कठिनमास्तरिष्यामि युष्माभिः स्वकस्वकानि चीवराण्युद्धर्तव्यानिईति सामग्र्यामारोचनम्* । ५.३५ । सन्निपातगतानुष्ठानम्* । ५.३६ । गन्धपुष्पार्चितं सुरभिधूपधूपित चांगेरिपटलकस्थमेकं त्रिवानेकमादाय वृद्धा[४४ ५]न्ते वस्थितेनास्तृतेस्सम्पादनं प्रतिपदिः । ५.३७ । कार्तिकस्य । ५.३८ । त्रिरुक्त्या । ५.३९ । आस्तृणोमीति । ५.४० । प्रतिभिक्षुमग्रतः स्थित्वा आस्तृतमिति निवेदनम् । ५.४१ । साध्वास्तृतं सुष्ठ्वास्तृतं यो त्र लाभश्चानुशंसश्च सोऽस्माकमितीतरः । ५.४२ । प्रत्यनुभूतिवदस्यानुमोदनम्* । ५.४३ । सम्मुखीभूतेन । ५.४४ । कालेन काल शोषयेदातापयेत्* स्फोटयेत्* । ५.४५ । न धूमरजोगारे [४४ ६] स्थापयेत्* । ५.४६ । न राज्ञः । ५.४७ । नातो विप्रवसेत्* । ५.४८ । नादायान्यत्र गच्छेत्* । ५.४९ । नाशुचिकुटिम्* प्रविशेत्* । ५.५० । अभ्यवकाशे तिष्ठेत्* । ५.५१ । द्विविध उद्धारः स्वयं विवर्तीकृतृमश्च । ५.५२ । स्वयं विवृत्तिः प्राप्तो सीमान्तरस्य कठिनेन । ५.५३ । उद्गतौ निरधिष्ठत्रे कर्त्वन्तःसीम्नोऽरणस्य । ५.५४ । विच्छेदे तन्मण्डलान्तर्भावस्य । ५.५५ । तमत्र प्रति । ५.५६ । [४५ १] सीमातिक्रान्तावस्य संपत्तिः । ५.५७ । अप्रत्यागमनचित्तेन । ५.५८ । अस्य चोत्पत्तौ बहिःसीम्नि । ५.५९ । अभावे चीवरकरणाभिप्रयेणानुस्यूतेस्तदेव । ५.६० । करिष्यत्ता विछित्तौ भावे । ५.६१ । पत्यागतेष । ५.६२ । त्रये करिष्यमाणस्यैतत्संस्थानमाशासमुच्छेदे प्रारब्धनष्टौ निष्ठान इति । ५.६३ । उद्धर्तृनिश्चयवद्विमतिः । ५.६४ । न कर्मणो न्यङ्कारमनु[४५ २]त्तिष्ठेयुः । ५.६५ । फाल्गुनी तत्कालः । ५.६६ । अन्तरा । ५.६७ । मुषितकार्थतायामर्वाचीनो पि । ५.६८ । आश्रुतेरस्मिन्नननुभूतेवन् तं प्रत्यनुवृत्तिरनुशंसे । ५.६९ । असत्वे नुस्यूतेः । ५.७० । आछित्तेः मत्वे । ५.७१ । नानुद्धृते सर्वेषां तात्कालिकं लाभं भाजयेत्* । ॥ कठिनवस्तु ॥ १ ॥ **(५,२) पृच्छागतम् । ५.७२ । यथाप्रवारणमास्तारः । ५.७३ । नापोषधान्ते । ५.७४ । उद्धारश्च । ५.७५ । तद्दिनत्वम[४५ ३]स्य । ५.७६ । उद्धृतत्वं पुनः पोषधे कृतौ । ५.७७ । पृथगस्यास्तीर्य भिन्नेषु संपत्तिः । ५.७८ । धर्मवादिनां स तद्यास्तारः । ५.७९ । कृते प्यत्रेतरैरेषामावासे लाभे र्हत्वम्* । ५.८० । नोत्क्षिप्तकानां प्रकृतिस्थकावासे स्योत्थानम्* । ५.८१ । भावसन्निवेशनमास्तारः । ५.८२ । भवति छन्ददानवशात्सहितेन करणीयस्य शिष्टैः कृतौ कृतत्वम्* । ५.८३ । तदपच्युतिरुद्धारः । ५.८४ । तस्माद[४५ ४]दत्वा च्छन्दं स्वप्नसमापत्योः संनिषण्णे स्यानुत्थानमास्तारस्योद्धृतेश्च प्राक्श्रुवणात्* । ५.८५ । उषितत्वमेकसीमतायां तत्रावासान्तरोषितानामास्तारे । ५.८६ । तत्स्थानत्वमास्तारकाले स्यामस्य । ५.८७ । यत्तदास्तृत्य पृथक्सीमकरणे चास्य स्थानम्* । ५.८८ । प्रत्यावासं पृथक्त्वे स्यैषामुद्धारः । ५.८९ । प्रतिपक्षं भिन्नतायाम्* । ५.९० । नानुद्धृतिरना[४५ ५]स्तारोद्धारः । ५.९१ । नानुत्थानकत्वादपूरकत्वम् । ५.९२ । नानास्तारत्वादुद्धारे । ५.९३ । निर्दोषमास्तृतकठिनस्य । ५.९४ । विनासांघाट्या ग्रामप्रवेशाद्याशृङ्गाटके निषादात्* । ॥ कठिनवस्तुनि पृच्छागतम्* ॥ २ ॥ ॥ समाप्तञ्च कठिनवस्तु ॥ ५ ॥ ________________________________________________ *६, चीवरवस्तु । **(६,१) चीवरवस्तु । ६.१ । नाशस्त्रलूनं वासः परिभुञ्जीत । ६.२ । छिन्नस्यूतं चीवरत्वायाधिष्ठेत् । ६.३ । भक्तिचित्रताशेष[४५ ६]सममध्यान्यत्तद्गतपत्रमुखत्वपरिमण्डितत्वेः । ६.४ । अन्तरवास उत्तरवासंगं संघाटीञ्च । ६.५ । कूसुलकसंघक्षिके च यत्तद्विधे भिक्षुणी । ६.६ । मतसंभवे याच्ञायापि । ६.७ । नैतद्विहासरुतोद्गतिमागमयेत् । ६.८ । रोहत्यन्यासंपत्तावरक्तकस्याधिष्ठानम् । ६.९ । अछिन्नकस्य च । ६.१० । आसेवकानामत्र दानं संभवश्चेत् । ६.११ । [४५ १] आगारिकविधस्य च । ६.१२ । नमतकोचवप्रावारस्थूलकम्बलपैलातिकमच्छिन्नमासैवकदानसूतम् । ६.१३ । तत्क्षणादेवाशुचिम्रक्षणं सम्पत्तौ शयनासनं शोचयेत । ६.१४ । नैनं सांघिकमखटमंचपीठमप्रत्यास्तृतमतेनानिषादात्संवरणं वा दत्तान्तर्द्धानमुपभुञ्जीत । ६.१५ । सर्वञ्च चित्रमभूयो विनष्टम् । ६.१६ । न कल्पभूते[४५ २]न मलववता वा । ६.१७ । धारणं प्रत्यास्तरणस्य येन एकपुटं न्याय्यम् । ६.१८ । द्विपुटं पैलोतिकम् । ६.१९ । अकल्पिकं चित्रोपचित्रम् । ६.२० । पत्रमुखमस्य कुर्वीत्* । ६.२१ । अधस्तृतीयभागादौ । ६.२२ । नैकखण्डमधितिष्ठेत् । ६.२३ । कण्डूप्रतिछादनं तद्वान् धारयेत् । ६.२४ । पञ्चयैरेनद्दविसैः शोचयेत् । ६.२५ । कल्पते कोशेयमूर्णकं शानकं [४५ ३] क्षौमकञ्च । ६.२६ । नातन्तोतभांगेयम् । ६.२७ । केशमयनाग्न्यौलूकपक्षिकत्वसमादानम् । ६.२८ । स्थूलमत्र । ६.२९ । अन्यदेतत्भजनम् । ६.३० । केशलुञ्चनपर्णशाट्यजिनसान्तरोत्तरयापनतिरिटाङ्गनाडीसर्वनीलप्रवारणदीर्घदशफणदशकंचुकोष्णीषशिरोवेष्टनकुतपोष्टक बलतीर्थिकध्वजञ्च । ६.३१ । पुलासपत्रपूरदीपवर्ति[४५ ४]कामात्रतयापि समतयै विभजनम् । ६.३२ । विक्रीयकोचवतद्विधानाम् । ६.३३ । न पाटयित्वा । ६.३४ । पञ्चानां लभेः भाजने करणमद्यलाभो भाजयिष्यते तत्र युष्माभिः सन्निपतितव्यमित्यारोचनं संघे । ६.३५ । गण्ड्या कोटनम् । ६.३६ । शलाकाचारणम् । ६.३७ । गणनम् । ६.३८ । प्रत्यंशप्रवारणम् । ६.३९ । ईशित्वक्रियमाणतायामान्त्यादि[४५ ५]गतस्य । ६.४० । नावसितत्वे । ६.४१ । कुलाभके प्येतत् । ६.४२ । नानर्हः प्रक्रान्तायां तल्लाभक्रिया प्रविष्टेः । ६.४३ । तस्मान्नियुञ्जीत्* ग्रहणे प्रक्रामन् । ६.४४ । दस्युत्वमग्रहणे प्रतिज्ञातवतः । ६.४५ । पणपञ्चकात्प्रभृति कुलाभके । ६.४६ । नानुक्तो गृह्णीयात् । ६.४७ । गृह्णीयादाचार्योपाध्यायो वा । ६.४८ । विश्रम्भस्थानार्थञ्च । ६.४९ । नास्वपक्षार्थम् । ६.५० । [४५ ६] शयनासने प्येतत् । ६.५१ । भक्ते वा । ६.५२ । परस्परार्थं गृह्णन् विज्ञपयेत् । ६.५३ । नानाभवन् तमन्तर्भूयः । ६.५४ । नैकत्वमर्द्धस्य सुवरुता च लब्धेरनर्हप्रवेशे कारणम् । ६.५५ । अनर्हः संघलाभस्याधर्मपक्षेषु पतितो भिन्नेषु । ६.५६ । उषितत्वं बहुतरमुषितस्य तत्कालके लाभे हानायास्यावृत्तौ मृत्यौ च । ६.५७ । यथाविनियतिलाभस्य व्यवस्था । ६.५८ । [४६ १] लब्धृभिश्च । ६.५९ । कृत्स्नप्रतिपादने पि । ६.६० । कर्मसीम्ना संघस्यापरिच्छेदे परिच्छेदः । ६.६१ । तत्त्वमत्रैकादेः । ६.६२ । धर्मलाभे तद्भाणकानामीशित्वम् । ६.६३ । एकार्षगाथाधारणं तत्त्वे त्र पर्यन्तः । ६.६४ । अर्हत्वं भिन्नव्यञ्जनस्येतरसन्निधौ मृतपरिष्कारे । ६.६५ । तथोत्क्षिप्तस्य । ६.६६ । असन्निधौ वा निवृत्ते निमित्ताच्चेतसि । ६.६७ । अभिन्नत्वमस्य तारादीयमैतद्ग्रा[४६ २]ह्यतायाम् । ६.६८ । भिन्नत्वं भिन्नस्य । ६.६९ । नान्यस्य प्रव्रजितात्सब्रह्मचारिणस्तदीशित्वम् । ६.७० । न ज्ञप्त्याधिष्ठिते प्राप्तस्य पूर्वचरमेण वा । ६.७१ । कस्यचित्ततः संघवृद्धनवकयोः दानं तदाख्यम् । ६.७२ । यत्राधिष्ठेयस्य गतता तत्सीमान्तर्गतानामधिष्ठतृत्वम् । ६.७३ । अकरणमत्र मरणस्थानता । ६.७४ । सीमान्तरिकात्स्थलग्ने काये न्यत्र वा यातामा[४६ ३]क्रान्तिस्तावद्गतानाम् । ६.७५ । सप्रतिवस्तुकत्वे यत्रासौ तद्गतत्वं परिस्कारस्य । ६.७६ । प्रतिवस्तुकेनान्यस्थमधितिष्ठेयुः । ६.७७ । प्रेषितस्याप्रतिक्षिप्तस्य संप्रदानेन तदीयत्वम् । ६.७८ । प्रतिक्षिप्तस्य प्रेषयितृत्वम् । ६.७९ । प्रतिक्षिप्तस्यापि तेन । ६.८० । बहिरस्य रूढिः । ६.८१ । सीम्नो न्तः संज्ञिना केवलाधिष्ठानम् । ६.८२ । नाकृते निर्हारसत्करणधर्मश्रवणदक्षि[४६ ४]णादेशने धितिष्ठितेयुः । ६.८३ । अन्तर्गृहस्थत्वे पात्रचीवरस्य यस्मै गृहपतिना दानं तस्यैशित्वम् । ६.८४ । अर्हश्चेत् । ६.८५ । विहीनश्च तेन । ६.८६ । अदाने याचितवतः । ६.८७ । क्रमे प्रथमम् । ६.८८ । असत्त्वे नुद्देशत्वात्पृष्टौ गतवतः । ६.८९ । तद्वत्क्रमे । ६.९० । एनिकोद्भूतो तद्देयपरिमाणस्य तद्गामित्वं मृतपरिस्कारस्य । ६.९१ । विभक्तस्यापि । ६.९२ । यत्तेन सा[४६ ५]र्द्धमवस्थितं तस्य देयत्वं ग्राह्यता वा न तस्यैव । ६.९३ । नानेन सब्रह्मचारिणामृणित्वम् । ६.९४ । रत्ना दीपित्वं संभावने यावद्भ्य एतत्तावत्सु नावकर्मिकस्य विनियोगः समं स ग्लानोपस्थायक्रात्वतद्गामित्वं परिस्कारषट्कस्य नाधिष्ठेयत्वम् । ६.९५ । सोत्तमाधममध्यमस्य । ६.९६ । साधारण्यमनेकत्वे तस्य । ६.९७ । प्रक्रान्ततायां ग्लानस्य मृत्यौ [४६ ६] तादर्थ्ये देयत्वम् । ६.९८ । नैतन्मृतद्रव्ये नर्हस्य । ६.९९ । न नान्यत्रोपगते । ६.१०० । सर्वार्हत्वमत्रानुसंपन्ने । ६.१०१ । हायते ग्लानस्योक्तोक्तेन दाने यथोक्तेन दाने यथोक्तं कार्यत्वम् । ६.१०२ । अप्रगमो मृतकालस्वत्वसंपादने धनिनः । ६.१०३ । प्रगमो गृहस्थस्य । ६.१०४ । निर्यात्य गृहिणि मृते पुत्रदारस्य यथासुखकरणम् । ६.१०५ । हस्त्यश्वोष्टखरवेसरसन्नाहानां [४६ १] राज्ञि निर्यातनम् । ६.१०६ । त्रये हिरण्यसुवर्णान्यकृताकृतानाम् । ६.१०७ । रत्नानाञ्च । ६.१०८ । स च्चेदन्यदेतत्तदंशत्वेनार्थिरिक्तत्वे पि न चेदेवमेव बुद्धे मुक्तानाम् । ६.१०९ । महारङ्गस्य च । ६.११० । लेपस्य पिष्ट्वाभिर्गन्धकुड्यां दानम् । ६.१११ । अतदौबोधिकस्य प्रतिमागन्धकुटिचैत्योपस्करणे विनियोगः । ६.११२ । बुद्धवचनलेखनसिद्धापयोर्धार्मिकस्य । ६.११३ । यानस्य प्रतिमायाम् । ६.११४ । ध्वजार्थं [४६ २] तद्वंशानाम् । ६.११५ । यष्टीनाञ्च तद्योग्यानाम् । ६.११६ । अन्यासाम्नायुधानां संघे । ६.११७ । खक्खरकसूची शस्त्रकं कृत्वेषां शरणम् । ६.११८ । यथार्हमन्यस्य सांघिकस्य निक्षेपभाजनं भोजनानि क्षेत्रगृहापणशयनासनायपस्कारलोहनापितकुलालतक्षा च वरुओडभाण्डदासीदासकर्मकरपौरुषयगोमहिष्यजैडकभैषज्यबुद्धशास्त्रपुस्तकानां सुसाध्यलेखा[४६ ३]नां प्रथमार्हत्वम् । ६.११९ । शाटकपटकप्रावरकोप्यनत्पुलातैलकुतुपकरकुण्डिकान्यपुस्तकलेख्यवर्णकानां द्वितीयस्य । ६.१२० । तृतीयस्य पञ्चतिलव्रीहिमुद्गमाषावरधान्यान्नपानानाम् । ॥ चीवरवस्तु ॥ १ ॥ **(६,२) क्षुद्रकादिगतम् । ६.१२१ । समुत्वं मण्डलार्धमण्डलमेषु कुर्वीत्* । ६.१२२ । मानार्थं तत्प्रमाणयष्टिधारणम् । ६.१२३ । पत्रमुखेषु च । ६.१२४ । तत्प्रमाणशलाकाधारणम् । ६.१२५ । [४६ ४] पर्यन्तो स्य प्रकर्षे चत्वार्यङ्गुलानि । ६.१२६ । काकवितस्तिर्वा । ६.१२७ । अपकर्षे द्वे सार्धे वांगुष्ठोताराना । ६.१२८ । न भूमौ चीवरं वितन्वीत्* । ६.१२९ । कठिनस्ये तदर्थं करणम् । ६.१३० । दारुमयं वंशमयं वा । ६.१३१ । चतुरस्रकं कृतबन्धार्थं सूत्रकावकाशार्थं छिद्रं तदाख्यम्(अ) । ६.१३२ । यावच्चीवरम् । ६.१३३ । शस्त्रकेन पाटकम् । ६.१३४ । धारयेदेनम् । ६.१३५ । काकचञ्चुकाकारं कुक्कुटपक्षकाकारं वा । ६.१३६ । [४६ ५] नान्यदायसात् । ६.१३७ । न कमनमृष्टेन चित्रोपचित्रेण वा दण्डेन । ६.१३८ । न षडलङ्गुलातिरिक्तस्य प्रमाणम् । ६.१३९ । नाष्टेत्यपरः । ६.१४० । निष्प्रयोज्नत्वमूनचतुरंलुस्य । ६.१४१ । दत्तगोमयोपलेपे सेवनम् । ६.१४२ । अभावे गोमयस्य शिक्तसंमृष्टे । ६.१४३ । सीव्येदेनम् । ६.१४४ । सूच्यापि । ६.१४५ । धारयेदेनम् । ६.१४६ । नान्यां रीतिताम्रकंसमोमयीतः । ६.१४७ । ताम्रायसोस्तीक्ष्णयोरित्यपरम् । ६.१४८ । [४६ ६] धारयेदस्यागृहकं नाडिकं मुष्टिकं वा । ६.१४९ । नैतदलज्जिश्रामणेरयोरधीनं कुर्वीत्* । ६.१५० । मधुसित्थम्रक्षिते सूचीशास्त्रकाणां कौटकाभक्षणायानतुके स्थापनम् । ६.१५१ । पाशकस्यानपगमाय चीवरे दानं वलकं दत्त्वा । ६.१५२ । ग्रन्थिकायाश्च । ६.१५३ । न रजकेन रक्तमरक्तं वा वस्त्रं शोचयेत् । ६.१५४ । न तद्वत्स्वयम् । ६.१५५ । नास्यास्तरे न काष्ठभित्तके । ६.१५६ । कुण्डा[४७ १] । ।लके शोचयेच्<<ल्>> लक्षणे सुखोदकेन सनैः । ६.१५७ । परिवर्त्तनं हस्ताभ्याम् । ६.१५८ । अशक्तौ पदाभ्याम् । ६.१५९ । कल्पत एवं गृहिणं शोचनम् । ६.१६० । अन्यथात्वं चरणमस्य रक्षेत । ६.१६१ । सुधौस्युत रक्तं पंसुकूलं भारयेत । ६.१६२ । नाशुचिम्रक्षितां चीवरम् । ६.१६३ । शोषणं साधुतायै संगुव्यरङ्गस्य छायातपे । ६.१६४ । विना चीलैक्वाध्वनम् । ६.१६५ । आतृतीयाद्विशिष्टत्वम् । ६.१६६ । तस्माद्बहुनान्वित्वे [४७ २] त्रिरादानम् । ६.१६७ । हीनतरत्वं परस्य । ६.१६८ । तस्मात्पृथग्स्थापनम् । ६.१६९ । लेखनमयं प्रथममित्यादि । ६.१७० । पूर्वस्य च प्रथममुपयोगः । ६.१७१ । संमृतितचीवरस्य च । ६.१७२ । तस्मादपनीय कुण्डालके तन्मात्रमोल्लकस्य दानम् । ६.१७३ । प्रधरणं द्रवे । ६.१७४ । चित्तलत्वमतिशुष्के । ६.१७५ । तस्मात्मध्यस्य । ६.१७६ । कान्तारिकायां साधुशोषणम् । ६.१७७ । ततापामन्तलगनेनचर्प्यटकैः । ६.१७८ । [४७ ३] दुर्धराणां कक्षप्रज्ञप्तौ । ६.१७९ । अनेकपार्श्वकतापैरङ्गस्य संपरिवर्त्तनं पुनः पुनः । ६.१८० । नवरङ्गस्य नवेष्वेव साधु दानम् । ६.१८१ । पुराणस्य पुराणेषु । ६.१८२ । शोषणं नवानामातपे । ६.१८३ । पुराणानां छायायाम् । ६.१८४ । पानीयोल्लकस्याचित्तलतायै दानम् । ६.१८५ । अपरेद्युः । ६.१८६ । न मेध्यां चंक्रमे वा रङ्गकर्म कुर्युः । ६.१८७ । न विहारे । ६.१८८ । उपर्यस्य करणम् । ६.१८९ । [४७ ४] नाचामनिकासामन्तके । ६.१९० । प्रलिप्ते तत्र प्रदेशे दानम् । ६.१९१ । शुद्धाप्रवालिप्तश्चेच्छोचनम् । ६.१९२ । प्रस्तुते चेद्वातवर्षागमः करणं प्रासादे । ६.१९३ । प्रलिप्तेस्तत्र प्रदेशे कृते करणम् । ६.१९४ । गोमयेन मृदा वा । ६.१९५ । नासंपन्नकल्पाकोटितप्रत्याकोटितचीवरपरिभुक्ति भजेत् । । भङ्गो मृष्टेरत्र कल्पः । । पानीये न बोल्लितत्वम् । । अवश्याय परिशुधे शक्यतरत्वं हस्तमर्धेन भगस्य । । [४७ ५] निवासितस्योपरिकायस्य बन्धनम् । । पट्टिकयाखोथिकयाङ्कुञ्चकेन मुञ्चिकया वा । । नानाभरणकलापकात्दुण्ढुभकावैदेहकासु वर्णसूत्रञ्च । । तद्वच्चित्रम् । । नानास्तरायां भूमौ चीवरं निक्षिपेत् । ६.१९६ । नाशुचौ प्रदेशे । ६.१९७ । न गुरुणा सति पराक्रमे भारेणाक्रमेत् । ६.१९८ । नान्यपरिभोगेन परिभुञ्जीत्* । ६.१९९ । नोच्चारप्रश्रावकरणं [४७ ६] शुचिपरिकर्मणेषूत्तरासंघप्रावृत्तिं* भजेत्* । ६.२०० । नास्मिन्निपद्येत्* । ६.२०१ । न पिण्डपातचर्याभोजनचैत्याभिवन्दनसामीचीकरणं संघसन्निपाताववादधर्मश्रवणानुभवनादन्यस्यां व्यापृतौ सांघाट्याः । ६.२०२ । नास्यां निशीदेन्निपद्येत्त्वा । ६.२०३ । नाक्रम्यैनाम् । ६.२०४ । नानयैने कस्य कस्य चिन्नियुञ्जीत्* । ६.२०५ । न कायसंस्पर्शकं परिभुञ्जीत्* । ६.२०६ । कक्षघर्मेण दक्षिण[४७ १]स्यास्यां नाननसंपत्तिः । ६.२०७ । तदभूत्यै तत्र प्रदेशे वस्त्रस्यास्यां दानम् । ६.२०८ । अध्यर्धहस्तवितस्तिकस्य । ६.२०९ । उभयोः पार्श्वयोरष्टसूत्रेण लगनम् । ६.२१० । कालेन कालमस्य शोचनं रञ्जनञ्च । ६.२११ । गैरिकेनास्यैतत् । ६.२१२ । धारयेत्मुखपोच्चनम् । ६.२१३ । श्रवत्कायः कायोद्घर्षणम् । ६.२१४ । अभ्यन्तरे चीवरादस्य प्रावरणम् । ६.२१५ । लग्नस्य कषायोदकेन क्षोदमिश्रेण गते म[४७ २]यित्वा मन्दमन्दमपनयनं पूयशोणितस्य च । ६.२१६ । कालेन कालमस्य शोचनं शोषणं रञ्जनञ्च । ६.२१७ । धातुनास्यैतत्साधु । ६.२१८ । न यत्र क्वचन चीवराणि स्थापयेत् । ६.२१९ । वंशस्य तदर्थं समायोजनम् । ६.२२० । द्रोणिकायास्तदर्थम् । ६.२२१ । क्रियमाणे विहारे । ६.२२२ । न कृते छिद्रणम् । ६.२२३ । निदर्शनं विहारे परिगणे प्येतत् । ६.२२४ । लतारज्वोरस्यस्य संपत्तिः । ६.२२५ । वृषिकया साधु [४७ ३] वस्त्राणां नयनम् । ६.२२६ । कुर्वीतैनाम् । ६.२२७ । त्र्यध्यर्हहस्तकस्य द्विगुणीकृत्य सेवनम् । ६.२२८ । मध्ये मुखकरणम् । ६.२२९ । जालकस्यात्र दानमसूत्रकेन । ६.२३० । अपरेण बन्धनम् । ६.२३१ । उपरि परिभुज्यमानानां स्थापनम् । ६.२३२ । अवलोक्य श्वो गमिष्यत्तायाम् । ६.२३३ । गुरूननुज्ञातो गच्छेत् । ६.२३४ । कृतस्वावाससेकादिः । ६.२३५ । धर्म्यया वा कथयाध्वनि गच्छेदार्येण वा तूष्णीम्भावेन । ६.२३६ । [४७ ४] विश्रामस्थाने गाथां भाषेदाषाम् । ६.२३७ । पानीयग्रहणस्य च । ६.२३८ । यस्य तद्पानीयं तमुद्दिश्य । ६.२३९ । अपरां च देवताम् । ६.२४० । वासस्य त्रिदण्डकम् । ६.२४१ । धारयेत्कान्तारिकायाम् । ६.२४२ । तत्प्रमाणमध्यर्धं शतमुपादाय हस्तानामाशतात् । ६.२४३ । देशानुरूप्येणेत्यपरम् । ६.२४४ । न विनैतया दुर्लभाकूपपानीये देशे चागारिकां चरेत् । ६.२४५ । प्रस्फोटितचीवरो ध्वगः [४७ ५] स्नातवां प्रक्षालितपाणिपादो वा गृहीतपानीयः पोच्चितो पानकेस्त्रिचीवरं प्रावृत्य शान्तेर्यापथो विहारं प्रविशेत् । ६.२४६ । चतुरो वृद्धान् वन्दित्वावतिष्ठेत् । ६.२४७ । प्राकृते प्रदेशे न्यशब्दः । ६.२४८ । प्रासादिकः सुसंवृतेर्यः सप्रभवेनास्य प्रतिशामनम् । ६.२४९ । नाज्ञायमान प्रतिशामयेत्सतीर्थ्यमपि । ६.२५० । पिध्वीयतां द्वारं न देयं मृगयते निवार्यो गृह्णान इति प्रत्या[४७ ६]यितस्य प्रतीच्छ्याव्युपेक्षितवतोपहृतौ विश्वासवस्तुताञ्चोपनीतेन ममैवायं सहाय इत्यादि प्रतिपादनया दास्यत्वम् । ६.२५१ । अभिज्ञानसंश्रयणमविदितस्यापरेण विशेषगतावुपायः । ६.२५२ । अर्प्यमाणयातेनान्ते चेत्प्रमीलनम् । ६.२५३ । प्रश्नस्यानुप्रमादासंपत्तये करणम् । ६.२५४ । नाशने याचितस्याशुचिनाऽसंपत्तो शोचादिना चित्तग्रहणस्य मूल्यदानः । ६.२५५ । [४८ १] । ।पात्रचीवरप्रतिग्रहणम् । ६.२५६ । आसनं प्रज्ञपनम् । ६.२५७ । पादधावनेनोपनिमन्त्रणम् । ६.२५८ । उदकेन च । ६.२५९ । वन्दनम् । ६.२६० । सुखचर्याप्रश्नः । ६.२६१ । यथाशक्ति संरञ्जनीयकरणम् । ६.२६२ । अनुरूपशयनासनदानम् । ६.२६३ । संघस्थविरमुपसंक्रामेत् । ६.२६४ । निःश्रयग्रहणे स चेदेनन्नियुञ्जीत । ६.२६५ । वृद्धश्चेत्शयनासनस्यास्य दाने तद्वारिकम् । ६.२६६ । न सहसा शयनासनं [४८ २] याचेत् । ६.२६७ । परिषण्डादानमन्तस्य चीवरे ध्वस्तो प्रतिविधानमारापदकैस्तत्संग्रहः । ६.२६८ । परिवास्याभ्यवकाशे वृक्षाद्युपरि सप्ताष्टान्यहानि पञ्चाषातीत्यपरं शोचयित्वा शवचीवरं भुञ्जीत्* । ६.२६९ । प्रवेदिते स्मशनिको हमित्युपनिमन्त्रितः प्रवेशं विहारकुलयोः परिभोगञ्चानुत्सृष्टस्वीकारस्य श्मशनिको भजेत्* । ६.२७० । न सांघिकं शयनासनं परिभुञ्जीत्* । ६.२७१ । आव्यामा[४८ ३]न्ताच्चैत्यं परिहरेत् । ६.२७२ । धारयेन्मशकवारणम् । ६.२७३ । ऊर्णां सणं कर्पासं नतुकं पत्रमञ्जरीञ्च । ६.२७४ । न हस्त्यश्वगोबालादिकमयम् । ६.२७५ । सर्वत्राकमलमृष्टत्वं चित्रोपचित्रताचार्योशलिके दण्डे । ६.२७६ । मशककुटिञ्च । ६.२७७ । उपरि शटकषितननं* । ६.२७८ । दण्डिकायां बन्धनेन । ६.२७९ । चतुर्धिहस्तकस्य । ६.२८० । पटकेन परिवारणं द्वादशहस्तकेन । ६.२८१ । सावष्टम्भम् । ६.२८२ । [४८ ४] अथास्य शयनासने वष्टम्भः । ६.२८३ । द्वारस्य करणं विकर्णकस्य । ६.२८४ । वीजनं धर्मे प्रतिविधिः । ६.२८५ । धारयेद्विधमनम् । ६.२८६ । वारुटंटेतालवृन्तं वा । ६.२८७ । न चित्रोपचित्रम् । ६.२८८ । संघो न्यदपि । ६.२८९ । चैत्ये मणिवालव्यव्जनस्योत्पन्नस्य दानम् । ६.२९० । श्रावकस्यापि । ६.२९१ । धारयेद्वृषिबिम्बोपधानचतुरस्रकानि । ६.२९२ । पुत्रदारलाभे दातृवशेन प्रतिपत्तिः । ६.२९३ । मो[४८ ५]चनं चेद्या[..]दस्यौष्टं तावतो निष्क्रयत्वम् । ६.२९४ । कल्पये पुनर्निर्यातनम् । ६.२९५ । वृक्षे निर्यातितस्यालङ्कारश्चेत्तस्यैवोत्सवे लंकरणोपस्थापनम् । ६.२९६ । भित्तौ ल्लपने चेच्चित्रणाय । ६.२९७ । न चेत्स्तम्भे च नवकर्मणे । ६.२९८ । भूमौ । ६.२९९ । अग्निशालायां प्रज्वालनिकाकरणम् । ६.३०० । स्नेहलाभस्य वा । ६.३०१ । भैषज्योपस्थापनं ग्लानकल्पिकशालायाम् । ६.३०२ । भक्तशालायां [४८ ६] भक्तकरणम् । ६.३०३ । पानकस्य पानीयमण्डले । ६.३०४ । जेन्ताकशालायां जेन्ताकस्य स्नेहलाभस्य वा । ६.३०५ । स्नेहलाभस्य मण्डलवाटे स्थापनशालायोः । ६.३०६ । जातकेन खनं वा । ६.३०७ । मेढीचंक्रमद्वारकोष्ठकप्रसादेषु भाजनम् । ६.३०८ । पुष्करिण्या च । ६.३०९ । स्थापनामस्यां चातुर्दिशसांघिकत्वेनेत्ययं* । ६.३१० । कल्पते रत्नार्थं भिक्षणम् । ६.३११ । उद्धोषणञ्च [४८ १] ग्रहणे । ६.३१२ । चक्रस्य दर्शनार्थं करणं घर्मवातवर्षोपद्रवेणास्पृष्ट्यै कूपगारस्य द्वारवन्त । ६.३१३ । ष्टयवतः । ६.३१४ । महस्यान्ते चक्रोस्य धारणम् । ६.३१५ । भाण्डगोपकेन लाभस्य गोपनम् । ६.३१६ । नानुद्दिश्य द्वयं शास्तृपूजायां दत्ते भिक्षुणीनां सांघिके प्रवेशः । ६.३१७ । पृथगासामत्रे कस्यां चक्रो श्रूयणे स्थूलात्ययः । ६.३१८ । भाजनं भाण्डभाजकेन । ६.३१९ । संमतिरस्य । ६.३२० । [४८ २] नाथिक्रीय्याणाम् । ६.३२१ । संघसन्निपाते वर्द्धनेन । ६.३२२ । तस्यैवात्र सन्निपातगतमनुष्ठेयं संघस्थविरेण मूल्यस्य करणम् । ६.३२३ । मध्यमस्य । ६.३२४ । नातस्तस्य पात्यत्वम् । ६.३२५ । निश्चित्य पुनरभूतिं* वर्द्धनस्य पातनम् । ६.३२६ । नाक्रयिको वर्धयेत् । ६.३२७ । न स्त्रियम् । ६.३२८ । नादत्तमूल्यं परं परिभुञ्जीत्* । ६.३२९ । संस्कुर्वीत वा । ६.३३० । दशाद्यल्लाभिप्रभूत्ये दायादानां भाजनम्(अ) । ६.३३१ । [४८ ३] दत्ते कस्यचिदविभक्ते वङ्गान्मृतौ तद्वर्ग्यगामित्वं तदंशस्य । ६.३३२ । अर्हति निर्वाणाशयेन प्रव्रजितः शीलवां शतसाहस्रं वस्त्रं शतरसंभोजनं पञ्चसूतं कूटागारम् । ६.३३३ । संघद्रव्यञ्च । ६.३३४ । आशैक्षात् । ६.३३५ । पृथग्जनो पि । ६.३३६ । न दुःशीलः । ६.३३७ । ऋणभूतं कुसीतस्य प्रतिग्रहोपजीवनम् । ६.३३८ । अर्हः पौद्गलिकविहारतल्लाभोपजीव्यन्तस्सीमतायां संघलाभे । ६.३३९ । [४८ ४] लयने च नियतस्य । ६.३४० । वारेणास्योद्देशः । ६.३४१ । पात्रविपात्रककंसिकाविन्दुलाकुञ्चिकाशस्त्रकसूचीनखच्छेदनककटच्छ्वङ्गारस्थापनकुट्ठारीपचनिकासरकानामयोभाण्डेभ्यो भाजयितव्यता । ६.३४२ । मृद्भाण्डेभ्यः पात्रविपात्रकपचनिकाघटिकाकरककुण्डककुण्डिकापानीयस्थालकानाम् । ६.३४३ । मंचस्य रत्नमयादे[४८ ५]रयोमयात्तस्य परिवर्त्या । ६.३४४ । न काष्ठमयस्य रंगस्य पंचकादन्यस्य । ६.३४५ । अक्वाथितस्य । ६.३४६ । क्वथितस्य रञ्जनीये विनियोज्यत्वम् । ६.३४७ । संघस्य यत् । ६.३४८ । अविक्रियतास्यागमविहारतद्वस्तुशयनासनानाम् । ६.३४९ । अनापेयत्वम् । ६.३५० । अनधिष्ठेयता च । ६.३५१ । योगं भक्ता छादनेन पित्रोरुद्वहेत् । ६.३५२ । न चेल्लाभस्य पात्रचीवरादतिरेकस्समा[४८ ६]दाप्य । ६.३५३ । असंपत्तौ भोजनोपनतेरुपार्धस्यादानम् । ॥ क्षुद्रकादिचीवरवस्तुगतम् ॥ २ ॥ **(६,३) सपृच्छक्षुद्रकादिगतम् । ६.३५४ । पषणंविभागज्ञानाय चीवराणाम् । ६.३५५ । उपचयानामेषु दानम् । ६.३५६ । मपिटिप्यकस्तदास्यः । ६.३५७ । उल्लपनकानाञ्च । ६.३५८ । दशापाशात्तयोर्वर्धिकाकरणम् । ६.३५९ । नासांघाट्यां छिन्नाधिष्ठाननियमः नासत्वे तद्रूपाणां प्रत्ययानामिच्छन्न[४९ १] । ।या ग्रामान्तर्गृहयोरनयोपवेशः प्रवेशश्च । ६.३६० । एवं तीर्थ्यावसथे । ६.३६१ । नैव सत्सूपवेशः । ६.३६२ । न रोमविधं त्रिचीवरत्वेनाधितिष्ठेत् । ६.३६३ । नैतत्प्रावृतिं भोजने भजेत्* । ६.३६४ । स्वीकरणं विरलिकायाः । ६.३६५ । चातुर्विध्यमस्याः । ६.३६६ । और्णिका क्षोमिका दुकूलिका कार्यासिकेति । ६.३६७ । अन्येषाञ्च लघूनां पटप्रवाराणां निकटरोमप्रभृतीनाम् । ६.३६८ । कोचवस्य [४९ २] च । ६.३६९ । न लोमस्य विहेठे स्यान्यथा प्रावृतिं भजेत्* । ६.३७० । नानेनैवं प्रावृते चंक्रम्येत् । ६.३७१ । नार्याणीकोचवप्रावारचित्रचिलिमिलिकास्वीकृतिं* पुद्गलो भजेत्* । ६.३७२ । प्रतीच्छेच्चंक्रमे चिलिमिलिकाप्रज्ञपनम् । ६.३७३ । न नित्यमेकयैव धारया चंक्रमणम् । ६.३७४ । शक्यतायां प्रतिसंस्करणम् । ६.३७५ । सेवनदण्डकार्गडकदानैः । ६.३७६ । अशक्यत्वे गोमयम्रदा तत्रैव चं[४९ ३]क्रमे लेपनम् । ६.३७७ । धारणमन्येषां दानपतिविश्वासेन । ६.३७८ । धारयेत्प्रतिविवसनसंकक्षिकाप्रतिसंकक्षिका । ६.३७९ । परिस्कारचीवरञ्च । ६.३८० । नास्य शैक्ल्ये सदशापाशातायां वा दोषः । ६.३८१ । न सांघिकस्य । ६.३८२ । अधिष्ठाय तत्त्वेनानुज्ञाता चीवरधारणं धारयेदुपरां विकल्पानेकमपि । ६.३८३ । नास्थिरचित्तस्य विकल्पयेत् । ६.३८४ । नानुपसंपन्नस्य । ६.३८५ । न प्रत्य[४९ ४]क्षम् । ६.३८६ । न देशान्तरस्थतायां विकल्पस्य ध्वंसः । ६.३८७ । ध्वंसश्च्युतौ । ६.३८८ । ज्ञातौ । ६.३८९ । विकल्पकस्यात्र स्वामित्वम् । ६.३९० । न निःसृष्टं स्वीकुर्वीत्* । ६.३९१ । भिक्षौ निःसृजेत् । ६.३९२ । न संघे । ६.३९३ । नाव्यक्ते । ६.३९४ । याचनमदाने । ६.३९५ । ग्रहणञ्च वलेन । ६.३९६ । गन्धैः पर्लिगुद्धस्य वाससः शोचयित्वा परिभोगः । ६.३९७ । प्रस्फोट्य चूर्णैः । ६.३९८ । स्नेहेन विरुक्षयित्वा । ६.३९९ । न वर्षत्यभ्यवका[४९ ५]शे सांघिकस्य । ६.४०० । नधावनरङ्गनपात्रकर्मकाष्ठपाटनादिकर्म कुर्त्वत्तायाम् । ६.४०१ । सम्यक्त्वं संख्यमनुक्तौ साह्यस्य व्ययचायनिक्षेप्त्रे दानम् न सानिक्षेप्ते मनोनुन्मत्तका तज्ञातितद्गृहादातुं प्रतिगृह्णीत्* । ६.४०२ । प्रतिगृह्णीत प्रणायितात्पुत्रात् । ६.४०३ । श्मशानाच्च प्रतिनिर्वर्त्तितम् । ६.४०४ । प्रतिमृगयते दानमस्य । ६.४०५ । ग्रहणं पुनर्लब्धौ स्तौपिकस्य वृत्तेर्मू[४९ ६]लफलेक्षुभ्यो न्यस्य भक्तार्थस्योद्देशोपजीव्यस्य वा भाज्यत्वं स्वीकाराय । ६.४०६ । वर्षिकेन सीम्ना लाभस्य प्रवेशः । ६.४०७ । न छिन्नवर्षत्वेनर्तत्वम् । ६.४०८ । नोक्षिप्तायाम् । ६.४०९ । एकांशतैवावष्टम्भिद्रव्यो पि तस्य । ६.४१० । स्वसंख्यांशत्वमस्मिन्नवष्टम्भानाम् । ६.४११ । भूयस्त्वेनैवान्यत्रानेकत्रोपगतौ व्यवस्था । ६.४१२ । वितृतीयांशत्वं श्रामणेरश्रामणेरिकयोर्लाभे । ६.४१३ । साम्यम[४९ १]भ्यवहार्ये । ६.४१४ । उपसंपत्प्रेक्षशिक्षमाणयोश्च । ६.४१५ । पुद्गलशो भिक्षुणीनामंशहरता न संघशः । ६.४१६ । नानवछिन्नं भोजनमनुलाभे भिक्षुणीनां भुक्तवत्वे तत्राप्रवेशः । ६.४१७ । नासनोदकपिण्डपातेषु भिक्षो भिक्षुणीस्वीन ज्येष्ठत्वम् । ६.४१८ । आसनस्य वृद्धान्ते भिक्षुणीभिः सन्निषादे मुक्तिः । ६.४१९ । करणं सभिक्षुतायामशक्तौ तेषां भिक्षुण्या दक्षिणादेश[४९ २]नस्य सामान्यञ्चारयिष्यतीति चारकमाहारस्य प्रत्युपस्थितपादौ दानाय संघस्थविरो नियुञ्जीत् । ६.४२० । यथासंभावनमित्यवलोक्य पर्षदं प्रभूत्येल्पत्वे भक्तस्य तदाख्यानपूर्वकम् । ६.४२१ । यथाविभवनेत्यन्यथात्वे । ६.४२२ । न चानुद्घोषिते संप्राप्तमिति वृद्धान्त आदौ गृह्णीत् । ६.४२३ । सज्जीकृतावाहारस्योद्दिष्टेभ्यो परेषामागतौ तदावेदनम् । ६.४२४ । [४९ ३] न त्रिचीवरदाने भिक्षुं प्रवर्तयेत् । ६.४२५ । नैतज्जीवत्तायाम् । ६.४२६ । प्रतिदाद्यत इत्यतो न्येन मनसा संघः प्रतिगृह्णीयात् । ६.४२७ । सान्तरोत्तरेण मृतच्छोरणम् । ६.४२८ । मध्येन । ६.४२९ । नावशिष्टेन । ॥ सपृच्छक्षुद्राकादिचीवरवस्तुगतम् ॥ ३ ॥ ॥ समाप्तञ्च चीवरवस्तु ॥ ६ ॥ ________________________________________________ *७, चर्मवस्तु । ७.१ । मर्यादा मध्यदेशस्य । ७.२ । पूर्वेण पुण्डकच्छो नाम दावः पुरतः पुण्डवर्धनस्य । ७.३ । शरावत्यास्तदुपा[४९ ४]ख्या नदी दक्षिणेत्र । ७.४ । पश्चिमेन स्थूणोपस्थूणौ ब्राह्मणग्रामकौ । ७.५ । उशीरगिरिरुत्तरेण । ७.६ । धारयेत्प्रत्यन्त उपनहौ । ७.७ । शयनासनगुप्त्यर्थं च । ७.८ । एकपलाशिके । ७.९ । अर्गडिकदानेन प्रतिसंस्करणम् । ७.१० । न पुटान्तरस्य । ७.११ । सप्त पदान्यन्ततो गृहिणा परिभुक्ते बहुपुटौ अपि । ७.१२ । नाकल्पिकस्य कल्पिकमात्रार्थतायां तद्योगवशं [४९ ५] ग्रहणमान्तता । ७.१३ । न चित्रोपचित्र्ताम् । ७.१४ । न वेषविषाणिकां* । ७.१५ । नाश्वत्थकरवीरपत्रिकाम् । ७.१६ । न सुवर्णरूप्रखचिताम् । ७.१७ । न किचिकिचायन्तीं* । ७.१८ । न किणिकिणायन्तीं* । ७.१९ । न खिणिखिणायन्तीं* । ७.२० । न झिणिझिणायन्तीं* । ७.२१ । अन्यद्वा शौटीर्यमुद्वहन्तीं* । ७.२२ । न तिर्यग्वधिऊकत्वस्याकल्पिकत्वम् । ७.२३ । धारयेत्पुरः प्रार्ष्णिपुटके । ७.२४ । लाला[४९ ६]म्बुजाम् । ७.२५ । मुण्डपूलां च । ७.२६ । पिण्डीभवज्जने च जनपदे खोलां पूलां च । ७.२७ । न मान्यस्य सन्निधावुपानत्प्रवृत्तिं भजेत । ७.२८ । न सिं*हव्याघ्रद्वीपिहस्त्याजानेयाङ्गस्य किञ्चित्काये वस्थितत्वम् । ७.२९ । कक्षहस्तिखटुंकाश्च तदन्यचण्डमृगान्<<ण्>>आमप्येभिराक्षेपः । ७.३० । नोपानाहमास्फोटयेत । ७.३१ । उदाअ<<का>>र्द्रेण नतुकेनैनां विरजीभावाय [५० १] । । पोच्छयेत्* । ७.३२ । धारयेदेनत्* । ७.३३ । ग्रथ्नीयादेनाम् । ७.३४ । प्रतिगुप्तप्रदेशेऽप्रासादवस्तुनः करणम् । ७.३५ । धारयेत्तदर्थमारां वद्ध्रञ्च । ७.३६ । न शत्रीम् । ७.३७ । न काष्ठपादुकायारोहेदन्यत्रान्तर्गृहदशुचिकुटेश्च । ७.३८ । न वंशपत्रमुंजसीरीदर्भाणाम् । ७.३९ । रज्जोश्च । ७.४० । अवातशोणिते । ७.४१ । निषीदेच्चर्मण्यभावे न्यस्यान्तर्गृहे । ७.४२ । अत्राप्यत्र तद्रूपेष्वपि प्रत्ययेष्वनि[५० २]पत्तव्यता प्रतिगृह्णीत्तर्क्षचर्म चक्षुषे । ७.४३ । पादस्थाने प्रज्ञपनम्* । ७.४४ । गन्धकुटिद्वारे बोद्धस्य । ७.४५ । उपानहोः प्रावरणम्* । ७.४६ । वाते निषद्या निपद्या च सर्वमर्शःस्वेतदित्यस्योपयोगः । ७.४७ । रोमसंस्पर्शेनो[प]कर्तृतां विद्यात्* । ७.४८ । बहुपुटत्वेन चोपनाहोः । ७.४९ । अनेकोपरिस्थेन चैकेनापि । ७.५० । नानस्मापरान्तकेषु चर्म धारयेत्* । ७.५१ । न सिं*हादेः । ७.५२ । [५० ३] स्नाय्वस्थिदन्तमांसवंसानामपि तस्याकल्पिकत्वं* यस्य चर्मणः । ७.५३ । धारयेत तृतिं* । ७.५४ । काषायं माणवकं वा । ७.५५ । न चित्रोपचित्रम्* । ७.५६ । न नाभिज्ञास्तरणे कृत्वा सविधानमगाधमम्भो वगाहेत्* । ७.५७ । शिक्षेत्तर्तुं प्रविविक्ते प्रदेशे । ७.५८ । न तदगाधे हेरो?गामपाश्रयेत मुक्त्व्[आ]र्षभम्* । ७.५९ । अपाश्रयेत हस्त्यश्वमहिष्यरान्* । ॥ [इति] [५० ४] चर्मवस्तु ॥ ७ ॥ ________________________________________________ *८. भैषज्यवस्तु । **(८,१) भैषज्यवस्तु । ८.१ । प्रतिसेवेत भैषज्यम् । ८.२ । चातुर्विध्यमस्य । ८.३ । ग्लानं प्रत्यप्रथमता । ८.४ । सर्वं चोचमोचकोलाश्वोत्थोदुम्बरपुरुषकमृद्धीकखर्जूरपानानाम् । ८.५ । तद्वच्छुक्तशुलुकदधिमण्डोदश्विन्मण्डकानि दकभिन्नानि पट्टपरिश्रुतानि स्वच्छानि मुखदर्शीनि शरकाण्डवर्णानि । ८.६ । अयुक्तिः प्रागेवं [प]श्चादुपसंपन्नेन यर्शनस्य स[५० ५]मानव्यंजनेन । ८.७ । हरीतक्यादेः पञ्चकस्य । ८.८ । गुडस्य च । ८.९ । अधिष्ठितस्यास्य भक्षणे ग्लानवत्त्वमच्चोद्धोपधिवारिके नवकर्मिणाम् । ८.१० । भक्तिच्छिन्नकस्यात्र चाकालिकाभक्षणे च । ८.११ । पानानियामिकम् । ८.१२ । स्वच्छानि । ८.१३ । अतत्त्वात्तद्द्रव्यस्य कालिकं चेदनुपसंपन्नेन मर्द्धनं परिश्रावणञ्च पटेन । ८.१४ । दाडिमवीजपूरकादन्येष्वेषु द्रव्यम् । ८.१५ । कालि[५० ६]कत्वे स्य यामान्तः पर्यन्तः । ८.१६ । अन्यत्वे यस्तिस्मिन् । ८.१७ । अनितिवृत्तावेषोतिवृत्तौ यतः सेत्येकः । ८.१८ । तदसदतिरिक्तकालाश्रितावरूढिप्राप्ते तस्यां चागम्यत्वाद्भविष्यतः प्राकृतानामनधिष्ठेयतापत्तेः । ८.१९ । प्रविष्टत्वमत्र रसचूर्णारिष्टयोः । ८.२० । सौवीरकस्य च स्वच्छस्य । ८.२१ । पूलादिभैषज्यं शूतपच्लमेतत् । ८.२२ । सर्प्पिस्तैलमधुफाणितानि सप्ताहिकम् । ८.२३ । [५० १] सर्वेषां गुडखण्डशकरादीनां फाणितत्वेनाक्षेपः । ८.२४ । सर्पिष्ट्वसुधायाः । ८.२५ । तैलवत्त्वं वशानां पञ्च परिसूतानाम् । ८.२६ । मत्स्यशुशुशिरमारक्षसूकाराणाम् । ८.२७ । आसम्भूयान् ग्लान्य उपयोगः । ८.२८ । स्वस्थतायामासां ग्लान्यानिमित्तं पाचते दानम् । ८.२९ । अभावेऽस्य ग्लानकोष्ठिकायां कषायांजनयोश्च । ८.३० । यावज्जीविकं मू[५० २]लगण्डपत्रफलमस्फरित्रामिषार्थस्य । ८.३१ । तद्यथा मुस्तं वचा हरिद्रार्द्रकमतिविषा । ८.३२ । चन्दनं चविका पद्मकं गुडूचि देवदारु हरिद्रार्द्रकम् । ८.३३ । वासककेशातकीपटोलनिम्बसप्तपत्रपत्राणि । ८.३४ । पुष्पानि वासकनिम्बधातकीनागानां पद्मकेसरञ्च । ८.३५ । हरितक्यामलकं बिभीतकं मरीचं पिप्यली । ८.३६ । जतु । ८.३७ । तद्यथा हिङ्गुसर्जरसः । ८.३८ । स्तपः [५० ३] स्तपकर्णी स्तपाकरः । ८.३९ । क्षारः । ८.४० । तद्यथा तिलपलाशस्वर्जिकायवशूकवासकानाम् । ८.४१ । क्षारक्षारश्च । ८.४२ । लवणम् । ८.४३ । तद्यथा सैन्धवं सौवर्चलं विटं सामुद्रं रोमकम् । ८.४४ । कषायः । ८.४५ । तद्यथाम्रनिम्बकोषाम्बशिरीषजम्बूनाम् । ८.४६ । यावदाप्तं दानं स्नात्वा पुनरसं स्पर्षं सकृत्स्नानमिति कषायदानम् । ८.४७ । न विकृतभोजनस्य भैषज्यग्र[५० ४]हणेनान्तता । ८.४८ । यावज्जीविकत्वमस्य । ८.४९ । तदाख्यं पुनरुच्चारप्रस्रावौ स्तन्ययानयायिनां वत्सकानां विषे तावुपकारौ । ८.५० । छाविका । ८.५१ । काञ्चनपीतशालाश्वत्थोदुम्बरन्यग्रोधानां सा । ८.५२ । मृच्चतुरङ्गुलादधोभूमेः साध्वी । ८.५३ । स्राद्धादस्यादानमुपासकात् । ८.५४ । तेन प्रतिग्रहणम् । ८.५५ । मांसभैषज्यस्य चामस्य । ८.५६ । ग्रहणं [५० ५] वस्तूनातः सर्वस्य । ८.५७ । कार्यत्वमस्य । ८.५८ । जरकुचोच्चारयवाश्चेदकालोपयोज्यतायां याचकृतभैषज्यस्य तदर्थं स्फरेयुः नान्यात्परिभुञ्जीत् । ८.५९ । पट्टपरिश्रुता च दबक्षारी नान्यत् । ८.६० । कोकोच्चारसांसंचेन्मांसभैषज्यस्य नान्यत । ८.६१ । पट्टपरिश्रुतेश्चेद्रसको नान्यत् । ८.६२ । सान्ये पि सद्भावस्तदद्याचारस्य तस्माद्पूर्वकल्पेन तत्साह्ये प्रवृत्तिः । ८.६३ । [५० ६] नानापन्नस्य रूपान्तरमपूर्वरूपत्वं तस्मान्न विसंपच्चितस्य परतः स्वकल्पेनाकल्पनम् । ८.६४ । सम्पद्यते प्रक्षालनेन शक्ततण्डुलेषु प्रवृत्तावस्थानस्य स्वमात्रसंख्यता गुडस्य । ८.६५ । गुडत्वे गुडवत्त्वे प्रतिपत्तिः । ८.६६ । अनुत्थानमधितिष्ठते सान्निहित्यस्याधितिष्ठेत्ग्लान्यनिमित्तपरिभोगार्थम् । ८.६७ । आश्वकालपर्यन्तात् । ८.६८ । पूर्वभक्ते । ८.६९ । [५१ १] । । प्रतिग्राहितम् । ८.७० । रक्ष्योऽप्रतिग्राहितसन्निहितसम्पर्कस्तस्मान्निर्माद्य हस्तौ । ८.७१ । नोद्गृहीतसन्निहिताप्रतिग्राहितान्तरुषितपक्वभिक्षुपक्वेष्वधिष्ठानस्य रूढिः । ८.७२ । सन्निहितत्वं रसाच्छता परिवृत्तौ । ८.७३ । नाधरेण सार्धमधिष्ठितं परिभुञ्जीत् । ८.७४ । निदर्शनं भैषज्यानु(क्)क्रमः । ८.७५ । प्रतिसेवतांजनम् । ८.७६ । नाभैषज्यार्थम् । ८.७७ । योग्यमस्य भाजनम् । ८.७८ । रसाञ्जनस्य [५१ २] समुद्गकः । ८.७९ । गोणिकागुडिकांजनस्य । ८.८० । पुष्पकल्कं चूर्णांजनानां नाडिका । ८.८१ । धारयेच्छलाकाम् । ८.८२ । ताम्रलोहयोस्साध्वी मणिभूतयोः । ८.८३ । धारयेदावाधिकः कच्छपुटं भैषज्यनिधानाय । ८.८४ । स्वसंभवतां तत्र भारीकृत्य सूतं वा निधानम् । ८.८५ । शोषणतः कालेन कालं निहितस्य पौत्यानुपगतिः । ८.८६ । छायातपे । ८.८७ । वीर्यस्य शोषे हानिः । ८.८८ । [५१ ३] अनयनेत स्वयमुपयात्रे विनाशहेतोरभावे नुसंपन्नस्य । ८.८९ । धारयेद्भैषज्यसरावकम् । ८.९० । भैषज्यकटछुकम् । ८.९१ । विषीदनके चानुपानपट्टकम् । ८.९२ । आवाधिको लवणम् । ८.९३ । नाडिकस्य साधु स्थानं साङ्गा । ८.९४ । गोमयेन परिक्वाथितस्य । ८.९५ । विधानकस्य तद्विरहादोषाभावाय दानम् । ८.९६ । अतन्मयस्यैव । ८.९७ । गन्धपरिभाविनां मृदम् । ८.९८ । पा[५१ ४]नीयतापनार्थ(ं)मयस्पिण्डम् । ८.९९ । उपयोजयेत्सर्वः । ८.१०० । सृङ्खलायास्तप्तोत्क्षेपार्थं तत्र लगनम् । ८.१०१ । आर्द्रमृत्तिकया तापनकाले तदवष्टम्भः । ८.१०२ । नास्त्यामिषोपदेहस्य भावेऽवस्थानम् । ८.१०३ । कल्पिकस्य पूर्वं तापनं पश्चात्परिभोगिकस्य । ८.१०४ । भजनं बस्तिचिकीत्सितस्य । ८.१०५ । स्थूलमत्रान्यथाशक्यतायां व्युत्थापनस्य । ८.१०६ । मणेर्लोह[५१ ५]स्य वात्र नाडीकसाध्वी नायसः । ८.१०७ । तद्वत्शस्त्रचिकित्सितम् । ८.१०८ । नैतदन्यच्चिरावेधान्मुखे भजेत् । ८.१०९ । नार्शसां छेदम् । ८.११० । अन्येनापि शस्त्रात् । ८.१११ । मन्त्रौषधाभ्यामेषां विचिकित्सनम् । ८.११२ । न प्रदुष्टेन चिकित्सयेत् । ८.११३ । न रात्रिरभ्यवहारे विचिकित्सायामप्रतिरूपा । ८.११४ । अनाशंक्यमत्राप्रतिग्राहितसन्निहितयोरकल्पिकत्वम् । ८.११५ । पानं विचिकित्सायै धूपवर्त्तेः [५१ ६] नेत्रिकयास्य सम्पत्तिः । ८.११६ । अयोमय्याः करणम् । ८.११७ । द्वादशाङ्गुला साध्वी न तीक्ष्णा पुरुषा वा । ८.११८ । स्थविकायां निधानं म्रक्षयित्वा सर्पिषा तैलेन वा । ८.११९ । नागदन्तके चीवरवंशे वा तस्या स्थापनम् । ८.१२० । निर्मादनार्थमग्नौ प्रक्षेपः । ८.१२१ । करणं नस्तः कर्मणः । ८.१२२ । नस्तकरणे नास्यसंपत्तिः । ८.१२३ । द्व्यतीक्ष्णचंचुकं साधु । ८.१२४ । कारणमस्य । ८.१२५ । प्रतिसेवे[५१ १]तामनांसं भैषज्यार्थे । ८.१२६ । भुक्त्यै तस्यासक्तवत उपायः । ८.१२७ । पिधानमक्ष्णोः पट्टकेन । ८.१२८ । भावनं सुगन्धिनानुत्थानाय । ८.१२९ । अपेततायां पलिगोधस्य स्थितत्वे च मनोज्ञस्य पुरतः खाद्यभोज्यस्य मोक्षः । ८.१३० । स्थूलमन्यार्थेऽस्यास्याम् । ८.१३१ । सर्वत्र मानुषमांसस्य । ८.१३२ । नोद्दिश्यकृतं ज्ञात्वा मांसं भुञ्जीत् । ८.१३३ । न व्याघ्रशेषम् । ८.१३४ । न हस्त्यश्वनागानाम् । ८.१३५ । [५१ २] नैकखुरसृगालम्र्कटकाकेटककाकगृ(द्)ध्रवलाकाभषकालिकोलूकतदन्यकुणपखादकपक्षिवकजान्तुकोपलद्धागण्डूपककृमीणाम् । ८.१३६ । प्रतिक्षिप्तमयतामेति मांसं प्रतिग्राहयन्तं पृच्छेत् । ८.१३७ । प्रथमोऽनेकत्वे । ८.१३८ । अन्तरोहापनायाम् । ८.१३९ । अप्येयत्वं हस्तिमानुषक्षीरयोः । ८.१४० । अदुष्टं त्वग्वणदेहनस्यदानाक्ष्यञ्जनमभक्ष्येणो । ८.१४१ । [५१ ३] पेयत्वं ग्लानेन मूर्छितस्य । ८.१४२ । सर्प्(य्)इषा तैलेन चामद्यस्य । ८.१४३ । निर्दोषममद्यत्वे । ८.१४४ । संपत्तिरस्य क्वाथात् । ८.१४५ । प्रक्षिप्तभर्जितयवस्यास्य भूमौ निहितस्य सुक्ते त्वोपगतिः । ८.१४६ । भवत्यनुपगतिः । ८.१४७ । मद्यत्वे क्वाथेन द्राक्ष्यरसस्य । ८.१४८ । नाव्यवपृक्ततायामस्तित्वम् । ८.१४९ । सत्वं वासनाभूतत्वम् । ८.१५० । पानं मद्यतृद्विगमाय मद्यगन्धपरिभावितमूलगण्डपत्र[५१ ४]पुष्प-फलभैषज्यशुष्कचूर्णोदकस्य । ८.१५१ । समद्ये भाण्डे लम्बनस्थापनेन परिभावनम् । ८.१५२ । रक्ष्यस्संसर्गस्तस्मादूने विगतवेगतायाञ्च । ८.१५३ । तथा विरसीकरणेनाकालपाने चामिषेण । ८.१५४ । प्रासादिकञ्च साधु तस्माच्छुक्लनत्रकेन सूतीकरणम् । ८.१५५ । अपानं ग्लानेन मद्यस्य कुशाग्रेणापि । ८.१५६ । अदानञ्च सर्वेणौपासकात् । ८.१५७ । चिकित्सार्थतां मुक्त्वे[५१ ५]त्यप्रकृतिसावद्ये सर्वत्र शेषः । ८.१५८ । न लशुनं पलाण्डुं गृञ्जनकं वा परिभुञ्जीत । ८.१५९ । प्रतिगुप्तिप्रदेशे ग्लानः । ८.१६० । नोपयुञ्जनः परतश्च सप्ताहं लशुने पलाण्डौ त्रिरात्रमेकरात्रं गृञ्जनविहारं परिभुञ्जीत् । ८.१६१ । शयनासनम् । ८.१६२ । न वर्चकुटिं प्रवेशेत् । ८.१६३ । न प्रस्रावकुटिम् । ८.१६४ । न संघमध्येऽवतरेत् । ८.१६५ । नोपविचारे चैत्यस्य । ८.१६६ । व्यामोध्व प्रमाणम् । ८.१६७ । [५१ ६] न गृहिभ्यो धर्मं देशयेत् । ८.१६८ । न कुलाक्षय संक्रामेत । ८.१६९ । न जनाकीर्णान् प्रदेशान् । ८.१७० । स्नानमन्ते । ८.१७१ । अपनयनञ्च चीवराणां गन्धस्य । ८.१७२ । शोचनधूपनाभ्याम् । ८.१७३ । आयुष्करा दुर्भिक्षे । ८.१७४ । वाह्यवकवायसोरधिष्ठितं कल्पिकत्वेन । ८.१७५ । अधितिष्ठेन्न वृक्षमूलहस्तिशालतीर्थिकावसथराजकुलवस्तु भिक्षुणी वर्षकावैहारमेधीद्वार[५२ १] । । कोष्ठकप्रासादजेन्ताकोपस्थापन-शालम् । ८.१७६ । अभ्यवकाशाग्निशालाचैत्यवस्तु गृहपतिवसूनि चैत्यपरम् । ८.१७७ । साधनपचनस्याप्यत्राकारणम् । ८.१७८ । पञ्चोपस्करणञ्च । ८.१७९ । चत्वारात्रकालाः । ८.१८० । प्रथमाष्टकान्यस्य मानत्वमूर्ध्वं सनवकर्मत्वम् । ८.१८१ । अन्यदानपगतभिक्ष्वधिवासनत्वम् । ८.१८२ । निरेतदोधिवसनाय भिक्षूणां संप्राप्तिः । ८.१८३ । आकृत्या[५२ २]न्तरारम्भप्रतिशान्तिभ्यां तत्वम् । ८.१८४ । सर्वत्र संघः कर्मणा । ८.१८५ । प्रथमयोः पुद्गलोऽपि । ८.१८६ । नवकर्मिकः । ८.१८७ । केवलोऽस्याद्या । ८.१८८ । भाषणतः । ८.१८९ । अवधाने द्वितीये संबहुलानां भिक्षूणाम् । ८.१९० । यावन्तस्ता[व?]न्तस्सन्निहिताश्चतुर्थे संमंकल्पिकशालां वाङ्भावकवचनोदाहारतः । ८.१९१ । नान्ये कस्यैकस्य यानायाविहारस्य कृत्यकरणमप्रासादिकम् । ८.१९२ । न पृथग्भू[५२ ३]तस्यैतत्कल्पिकत्वमुक्तम् । ८.१९३ । भुञ्जीत्भिक्षु[ः] पक्वोद्गृहीतप्रतिगृहीते । ८.१९४ । पुरोभक्तिकाम् । ८.१९५ । पेयां सर्वदा । ८.१९६ । प्रागप्रतिग्राहितं प्रध्वाद्योत्थितः । ८.१९७ । उत्तिष्ठेत्तदान्त्यै । ८.१९८ । शिष्टम् । ८.१९९ । अभिनिर्हृतम् । ८.२०० । निर्हरेदेनत् । ८.२०१ । वनस्थिकानि । ८.२०२ । तदाख्यम् । ८.२०३ । तद्यथा द्राक्ष्यदाडिमखर्जूराक्षोष्टौ वाताम उरुमानरामापिकाकुरुमायिकानिकोचोबभूः पिञ्चितिका[५२ ४]पुष्करञ्च तदाख्यम् । ८.२०४ । तद्यथा विन्मंमृणालिकावेट्टशालूकं पद्मकर्कटिका । ॥ [इति] भैषज्यवस्तु ॥ १ ॥ **(८,२) क्षुद्रकाधिकम् । ८.२०५ । न राज्यमुपार्धं वास्य प्रतीच्छेत । ८.२०६ । प्रतिगृह्णीयात्संघार्थं ग्रामाम् । ८.२०७ । क्षेत्रञ्च । ८.२०८ । नैतदभ्युपेक्षेरन् । ८.२०९ । भोगेनास्य दानम् । ८.२१० । मार्गणं भाग्यस्य । ८.२११ । कृष्णातोऽस्य विहारे नेयत्वम् । ८.२१२ । प्रथमतरमात्मीयात् । ८.२१३ । रक्षणाय [५२ ५] भिक्षूणां नियोगः । ८.२१४ । नाप्रज्ञायमानाय व्ययो भयान्यतरे गणनां मृगयेत् । ८.२१५ । अन्यत्र स्मृतिस,प्रजन्यपुर[ः]सरस्तत्र प्रवर्त्तेत् । ८.२१६ । प्रतिगृज्णीयात संघार्थमुपस्थायकान् । ८.२१७ । यतो नागतिः शब्दस्य विहारे तत्र कल्पकारमापनम् । ८.२१८ । देयत्वं भक्तस्य करणं चेत कर्मणः । ८.२१९ । गोमहिष्याजैडकहस्त्यश्वोष्ट्रगर्दभामधान्यभाजनं च [५२ ६] न स्तूपस्यैषामकल्पनम् । ८.२२० । धारयेत्कलाविकालवणपातलिकाञ्च । ८.२२१ । नाभ्यामनुपानपट्टकाच्चान्यत्कंसभाजनं पुद्गलो धारयेत् । ८.२२२ । उपस्थापयेदारामिकम् । ८.२२३ । ग्रहणं रक्षायै प्रतिपाद्यमानानामप्यन्यानां समानव्यञ्जनानाम् । ८.२२४ । आसक्तकण्ठचीवरकत्वमेषां वेषः । ८.२२५ । कट्यां वा प्रतिपालनमनुकम्पाचरितेन । ८.२२६ । [५२ १] ग्रहणं तत्ज्ञात्युपसंकृतस्य । ८.२२७ । निष्त्रयत्वेन चान्ते । ८.२२८ । तैश्च कृतज्ञतया । ८.२२९ । नैतन्मूल्यं याचेत् । ८.२३० । स्वीकुर्यात्फललाभम् । ८.२३१ । घृततैलमधुफाणितघटान् । ८.२३२ । तद्भाजनञ्च । ८.२३३ । स्थापयेदेनामाधारके । ८.२३४ । अनुपभोज्यत्वमुच्चारप्रस्रावमद्य घटानाम् । ८.२३५ । प्रतिजागृयात्संघार्थयोः साधनपचनयोः । ८.२३६ । नापार्श्वनिहिततां प्रागावात्पात्र[५२ २]स्य पिण्डाय प्रवृत्तौ भजेत् । ८.२३७ । पिण्डोपभानं धारयेत् । ८.२३८ । अनाशंक्यमत्र लोहभाण्डाधारणे चासाधारणत्वम् । ८.२३९ । अकल्पिकत्वं च ग्लानायाः चेलाभरणस्य । ८.२४० । नाविशभरावकेण पिण्डाय कुलं प्रविशेत् । ८.२४१ । धारयेदेनम् । ८.२४२ । निष्काशप्रवेशकौशले प्रयते[त] । ८.२४३ । अभिज्ञानकरणेन पिण्डापाता च करादिना । ८.२४४ । न धर्मवणिज्यपजीवितां कल्पयेत् । ८.२४५ । [५२ ३] शोचनमसंभवे जलस्य दध्यादिमण्डेन पादयोः । ८.२४६ । निषदनं पिण्डके । ८.२४७ । स्थापनमेकान्तेऽभ्यवकाशे । ८.२४८ । राशीकृत्यापि । ८.२४९ । प्रमी लनमन्ते । ८.२५० । करणं प्राभूत्ये पाटिकानेकत्वस्य । ८.२५१ । शतपंचकशः । ८.२५२ । प्रतिवृद्धान्तमुपन्वाहारः । ८.२५३ । अधिष्ठापकानामपहर्तृत्वे वा करणमुद्देशः । ८.२५४ । प्रथमतरं भोजनव्यापारिकैः भक्तिः । ८.२५५ । यथा वृद्धिकया [५२ ४] निषादनाय दापनाय च महासन्निपाते भिक्षूणामुद्देशः । ८.२५६ । निषदेयुः द्वित्रावर्जां यथेष्टमत्र भिक्षुण्याः । ८.२५७ । अल्पशब्दोऽभ्यवहाराग्रं गच्छेत् । ८.२५८ । सुसंवृतेर्यः । ८.२५९ । प्रासादिकः । ८.२६० । एवं तिष्ठेत् । ८.२६१ । नाभ्यवहार्यं पादेनाक्रामेत् । ८.२६२ । न यदा पात्राधिष्ठानं स्पृशेत् । ८.२६३ । स्मृतिमुपस्थाप्याविक्षिप्तचित्त[ः] पिण्डपातं गृह्णीयात् । ८.२६४ । अनवकिरन् [५२ ५] पात्रामात्रकम् । ८.२६५ । असंमिश्रयन्नेन । ८.२६६ । अनान्वालयम् । ८.२६७ । सुप्रतिछन्नम् । ८.२६८ । अनतिपातं कालमभिनिर्हरेत् । ८.२६९ । न येन मन्त्रित ततोऽन्यस्य लब्धेः स्वीकारेऽस्त्ययुक्तत्वम् । ८.२७० । निर्दोषत्वं स्वभोजनेऽन्यप्रतीष्टेः । ८.२७१ । तदन्तर्गतवदन्योपनिमन्त्रणे निषण्णस्यानुज्ञातं तेनान्यदत्तम् । ८.२७२ । अभिप्रेतेनार्थेन शब्दप्रयोगे व्यवस्थानप्रसिद्धेन । ८.२७३ । नान्तं विसर्जयेत्[५२ ६] दृष्टिशीलसम्पन्नाभ्यामान्तस्यान्यत्र यथासंख्यं दानमतिरिक्तस्य चालोपाद्यात्राकारिणो ग्रहणम् । ८.२७४ । भोगश्च विनिपातनं श्रद्ध्[आ]देयस्य । ८.२७५ । मात्[आ]पितृग्लानपुत्रह्यापेक्षकुक्षीमतीभ्यो विनेयाकां क्षापिण्डपातं स्पृष्टवते गृहिणे च संप्राप्ताय संविभागश्च तत्ः करणम् । ८.२७६ । आलोपपिण्डां स्थापयेत् । ८.२७७ । अव्यवच्छिद्य भोकारम् । ८.२७८ । [५३ १] तिरश्चे च दद्यात् । ८.२७९ । नानवशिते भक्त्यर्थमुपनिक्षिप्ताद्ददीत्* । ८.२८० । न निमन्त्रणके श्रद्धदेयत्वेन पात्राधिष्ठानेऽस्योच्छिष्टाशिलां यथा सुखकरणम् । ८.२८१ । नैवासिकानां बलिदानम् । ८.२८२ । तत्कल्पानुगत्या पूर्वाह्वादौ । ८.२८३ । भिन्नकल्पत्वे भेदेन । ८.२८४ । नावर्धको किलिकभावस्थामाम्रं भक्षयेत् । ८.२८५ । नाकल्पिकत्वं मूलगण्डपत्रपुष्पफलखादनीयौदनकुल्मासम[५३ २](छ?)त्स्यमांसापूपक्षीरदधिनवनीतमत्स्यवल्लूराणाम् । ८.२८६ । अनाशङ्क्यद्गसार्षपमूलगण्डपत्रपुष्पफलादियवागूनामनिषेध्यत्वम् । ८.२८७ । ओजस्करत्वं दूतस्योदकेनापि । ८.२८८ । नाकल्पिकत्वं तृतिगतस्य । ८.२८९ । कल्पते भाजने भोजनम् । ८.२९० । यार्याम् । ८.२९१ । शेलामये च । ८.२९२ । कृतभोजनेऽपि निःश्रितव्यापारो निर्मादनम् । ८.२९३ । भुक्तेऽपि । ८.२९४ । नापरेण सार्द्धमेकत्र भाजने भुञ्जीत्* । ८.२९५ । [५३ ३] भुञ्जिदाध्वन्यसंभवे भाजनानां भिक्षूणाम् । ८.२९६ । उद्धृतेऽन्यस्य हस्ते स्वं प्रक्षिपेत् । ८.२९७ । श्रामणेरे च सार्द्धं परवदयोगे कल्पकारकानां पिण्डीकृत्य दानम् । ८.२९८ । ज्ञातिना सर्वत्र हार्देन प्रार्थितः । ८.२९९ । प्रतिगुप्ते प्रदेशे । ८.३०० । रक्षत्वमनयेष्प्रतिग्रहध्वस्तेनप्रतिग्राहितसंपृक्तेश्च । ८.३०१ । न सोपानत्थो भुञ्जीत्* । ८.३०२ । आक्रम्य ग्लानः । ८.३०३ । न नग्न एकचीवरो वा । ८.३०४ । अनापत्तिर्ग्लानस्योपस्था[५३ ४]यकोऽस्य गुप्तिं कुर्यात् । ८.३०५ । संकक्षिकां शक्तौ संश्रयेत । ८.३०६ । गुप्तञ्च प्रदेशम् । ८.३०७ । नेदमितो वा देहीति भोजनार्थमुपविष्टपरिवेष्टारं बोधयेत् । ८.३०८ । अनापत्तिर्ग्लानेऽनुक्तयस्य । ८.३०९ । तद्यथा मन्दाग्नौ पक्वस्यामस्य दीपताग्नौ ग्लानसंज्ञाम् । ८.३१० । स्वत्रोपस्थाप्य भुञ्जीत्* भैषज्यसंज्ञामाहारे । ८.३११ । स्मृतिञ्च । ८.३१२ । समुदागमसादृश्यपरिणतप्रत्यर्थिकत्वनिष्यन्द प्रतीत्य विधिपरीष्टिपराधीन[५३ ५]त्वन्मव्याबाधिकत्वप्रत्येकगततातिरास्थितप्रातिकुल्यम् । ८.३१३ । उपस्थितस्मृतिः । ८.३१४ । अविक्षिप्तः । ८.३१५ । संप्रजानन्नल्पशब्दः । ८.३१६ । अकुर्वन्नेनम् । ८.३१७ । अनुत्थापयन् यवाग्वाम् । ८.३१८ । अमटमटायमानः । ८.३१९ । मृदुकरणं शब्दकृतामुदकादिना । ८.३२० । न तद्भुक्त्यर्थं वाद्यमानत्वे । ८.३२१ । न देशनकृयमाणतायां प्रतिसंवेदितस्य । ८.३२२ । अत्यये कालस्य द्वित्रयोगार्थयोः । ८.३२३ । गा[५३ ६]थां भुक्ता भाषेत्* । ८.३२४ । दक्षिणादेशनधर्मदेशनयोः निमन्त्रणकं भुक्त्वा करणम् । ८.३२५ । निर्ज्ञाय भुक्तिवतां सर्वेषाम् । ८.३२६ । अवलोकनेन । ८.३२७ । प्रथमेनानेकत्वे । ८.३२८ । अशक्तावध्येषणं प्रतिबलस्य । ८.३२९ । अकृते चेद्गमनप्रत्ययः परिवारदानं भिक्षूणाम् । ८.३३० । चतुर्णामन्ततः । ८.३३१ । गमनप्रत्यये त्र दन्तस्यावलोक्य । ८.३३२ । नन्दोपनन्दयोर्दक्षिणादेशने नामग्रहणम् । ८.३३३ । निगिलेष्व [५३ १]नाडिकोकालोङ्गरान् द्वित्रानादौ छोरयित्वा मुखं निर्माद्य । ८.३३४ । नैतन्नामिषम् । ८.३३५ । तस्मान्मुखमकाले प्रवारितश्चोद्गारारामे निर्मादयेदन्यः । ८.३३६ । नाप्रज्ञप्ते प्रदेशे श्लेष्मानां छोरयेत् । ८.३३७ । न परिकरिमिते । ८.३३८ । नैतत्छन्दं वा स्थाविरस्य पुरतष्कुर्यात् । ८.३३९ । न भुञ्जानस्य । ८.३४० । न पुनः पुनः शिष्टस्यापि । ८.३४१ । अन्येनाशक्तौ प्रक्रमणम् । ८.३४२ । नान्यस्यास्पर्शकरणम् । ८.३४३ । नक्ता[५३ २]ध्वकप्रश्नः । ८.३४४ । चंक्रमणे नान्येन वा प्रक्रमणम् । ८.३४५ । पात्रमस्य हस्तिपदबुध्नं साधारकस्य । ८.३४६ । तप स्थापयेदेनम् । ८.३४७ । क्षोदकवालुकछायिकानां धारणं मक्षिकाणां प्रतिविधेः । ८.३४८ । अदुर्गन्धीभावप्राणकासंभवाय कालेन कालं शोचनं शोषणञ्च । ८.३४९ । तत्कालार्थमपरोपस्थापनम् । ८.३५० । अविघातार्थं कोणस्तम्भपार्श्वे विहारस्य । ८.३५१ । चतुर्णामपि [५३ ३] श्लेष्मकटकस्थापनम् । ८.३५२ । न सशब्दं वातकर्म कुर्वीत्* । ८.३५३ । नाधो वृक्षस्योच्चारप्रस्रावम् । ८.३५४ । मुक्तानिरवकाशत्वं तैरट्टव्याम् । ८.३५५ । कण्टकिनश्च । ८.३५६ । करणं वर्चस्कुटेः । ८.३५७ । विहारे चेदुत्तरपश्चिमे पार्श्वे । ८.३५८ । क्षोमस्य तमङ्गस्य वा । ८.३५९ । कण्टकिनामधो वृक्षाणां रोपणम् । ८.३६० । पादकयोरुपछिद्रमुपरि दानम् । ८.३६१ । कुण्डिकास्थानकरणम् । ८.३६२ । विकर्णाकारया द्वारम् । ८.३६३ । [५३ ४] कवाटस्य दानम् । ८.३६४ । कटकार्गडयोश्च । ८.३६५ । शब्दनं प्रविविक्षता । ८.३६६ । सूते तत्र च प्रविष्टेण । ८.३६७ । सुसंगृहीतचीवरः प्रविशेत्संप्रजनन् । ८.३६८ । मध्ये निषीदेत । ८.३६९ । शनैरलिंपनकुटिपादुकं कुर्वीत्* । ८.३७० । नानागतमागमयेत् । ८.३७१ । नागतं विधारयेत् । ८.३७२ । न तत्प्रतिबद्धकार्यादन्येन तत्समीपे तिष्ठेत् । ८.३७३ । प्रतिदिनं शोचनमुपधिवारिकेन । ८.३७४ । मृत्पात्रोपस्थापनञ्च । ८.३७५ । [५३ ५] नाप्रज्ञप्ते प्रदेशे प्रस्रावं कुर्यात्* । ८.३७६ । नानेकत्र । ८.३७७ । प्रोढौ गर्तायां खानयेत्* । ८.३७८ । करणं प्रस्रावकुटेः । ८.३७९ । पार्श्वे स्याः । ८.३८० । तमङ्गस्य । ८.३८१ । प्रनाडिकादानम्* । ८.३८२ । समानमितरत । ८.३८३ । करणं छीद्रपीठस्य चोदनारोगे । ८.३८४ । संवर्तनेन बालस्य । ८.३८५ । असंपत्तौ छेदनम्* । ८.३८६ । सामन्तके दुःखनं चेत्पात्रवैभङ्गुकानां दानम्* । ८.३८७ । रक्ष्यो भूमिनाशस्तस्मादष्कर्यकरस्य । ८.३८८ । [५३ ६] नान्युच्चा साधु । ८.३८९ । कालेन कालमदुर्गन्धतायै शोचनम्* । ८.३९० । शोषणं म्रक्षणञ्च कटुकतैलेन । ८.३९१ । तत्कालार्थमपरार्जनम्* । ८.३९२ । असंपत्तौ पतलिकाधारत्वेनोपयोगः । ८.३९३ । कृत्वोच्चारं तत्करणशुद्धेत्* । ८.३९४ । न तीक्ष्णेन तृणकुर्वकेन वा । ८.३९५ । नतुकपत्तलिकपत्रवैभङ्गुकलोष्ठकाष्ठानामत्र साधुत्वम् । ८.३९६ । द्वाभ्यां च मृद्भ्यां शोचयेत् । ८.३९७ । प्राक्स्थापिताभिः [५४ १] । ।प्रविभागेन मृद्भिरुत्तरः शोचः । ८.३९८ । सनैर्मन्दमन्दमनाशयताविस्कम्भिनाचमनिकापादुकाम् । ८.३९९ । सप्तभिर्वामस्य । ८.४०० । सप्तभिरुभयोः वाह्विः शोचनम्* । ८.४०१ । पुनः हस्तयोर्मृदा । ८.४०२ । अपराया[ः] कुण्डिकायाः पादप्रक्षालनम्(अ) । ८.४०३ । निर्दोषं शूते कुक्षेः प्रागन्तात्पोच्चनमात्रं कृत्वासनं नातो न्यः । ८.४०४ । सत्युदके नावान्ते निषीदेत्* । ॥ [इति] क्षुद्रकादिभैषज्यवस्तु[५४ २]गतम्* ॥ २ ॥ ॥ समाप्तं भैषज्यवस्तु ॥ ८ ॥ ________________________________________________ *९, कर्मवस्तु । **(९,१) कर्मवस्तु । ९.१ । विध्युत्क्रमे कर्मणो रूढिः । ९.२ । नाश्राप्यश्रुतो । ९.३ । नारूढि कुर्यात्* । ९.४ । ज्ञप्तिवाचनाप्रातिमोक्षोद्देशप्रवारणास्तत् । ९.५ । नाधर्मेण कुर्युः । ९.६ । न व्यग्राः । ९.७ । न गणस्य । ९.८ । नासंघभूताः । ९.९ । विं*शतिप्रभृतीनामावर्तणे संघत्वम् । ९.१० । उपसंपदि दशप्रभृतीनाम् । ९.११ । विनयधरपञ्चमादीनां प्रत्यन्तेष्वसंपत्तौ । ९.१२ । शिष्टे चतुः[५४ ३]प्रभृतीनाम्* हिरुक्त्वं भिक्षुणीनाम् । ९.१३ । कर्मणि प्रवारणं भिक्षुसंघे पि । ९.१४ । पोषधसंपन्नसामग्र्याणां तेन । ९.१५ । छन्दपोषधहरणेन तत्संपादनम्* । ९.१६ । द्वयोरत्र व्यापृतिः । ९.१७ । प्रतिबलत्वमनयोः । ९.१८ । अभाव एकस्याग्रहीतुभिक्षुसंघेन नियोगो भिक्षोः । ९.१९ । द्वारकोष्ठके तेनावस्थानम्* । ९.२० । पलायमानस्य संज्ञपनम्* । ९.२१ । तेनास्येतत् । ९.२२ । न पलायनम । ९.२३ [५४ ४] अज्ञातो नाम गोत्रप्रश्नः । ९.२४ । मानास्यवर्तणं द्वयोस्सामे तयोः । ९.२५ । उपसंपादनञ्च । ९.२६ । द्वादशवर्गो त्रासाम् । ९.२७ । सपूर्वसंवृतिद्वयपर्षदनलपर्षदुपस्थानसंवृतिदानेऽन्तः संघस्य । ९.२८ । कल्पिकमशक्तौ कर्मकारिकायानितीरितं तया भिक्षुणा कृतं वचनम्* । ९.२९ । यस्मात्तूष्णीमित्यतः प्राक्* । ९.३० । नासन्निषादस्थस्य पूरकत्वम्* । ९.३१ । न यस्य क्रियतेः [५४ ५] तस्मादसत्वं पूरकत्वस्य छन्दपरिशुद्धिर्विधेः । ९.३२ । अर्हत्*त्वमनयोः । ९.३३ । असम्मतिप्रकारकत्वेन । ९.३४ । नानुपसंपत्कध्वस्तानन्तर्यकृत्पापदृष्टिभूम्येन्तरस्थनानासंवासिकानाम्* । ९.३५ । सस्खलितस्य च । ९.३६ । संवरकरणीयेनापि । ९.३७ । भवत्यधिष्ठानेन शुद्धत्वम्* । ९.३८ । न शक्यतायाम्* । ९.३९ । शक्यत्वं तदातने शुद्धप्रायश्चित्तिकप्रतिदेशनीयदुःकृतप्रतिकरणस्य प्रतिग्र[५४ ६]हीतृसद्भावे देशनामात्रकत्वात्* । ९.४० । यथा संघमापन्ने प्रतिपद्येत् । ९.४१ । न्याय्यमेवं नाशनं चैकस्य । ९.४२ । प्रतिकरणञ्चानेकधा । ९.४३ । नैषां कर्तृत्वम् । ९.४४ । उद्देष्ट्टत्वं सावशेषं प्रतिक्रियायाम् । ९.४५ । वर्तमानस्य नातो न्यैभिः सश्रुतं कुर्युः । ९.४६ । उत्सृज्य वर्जितमनावृत्तम् । ९.४७ । उत्क्षिप्तञ्च स्वकर्मणि । ९.४८ । अन्नः पृच्छार्थं ज्ञप्तिप्रभृतौ चोपद्यमानम् । ९.४९ । दर्श[५४ १]नोपविचारस्थाताया सांमुख्यस्य । ९.५० । निवेदनेनानुश्रावणस्य तत्करणीये संपादनम् । ९.५१ । असंमुखीभूतस्य विहारो उन्मत्तकावन्दनानालपनासंभोगसंवृतयः । ९.५२ । नाज्ञपिते तदर्थं वाचना । ९.५३ । तत्सीमान्तर्गतस्यार्हस्य पूरणे कायतः छन्दतो वा संनिषादे ननुप्रविष्टत्वं प्रतिक्रोषन्ता च यस्य तत्कर्म ततो न्यस्य प्रतिकूलं चेत्धर्मं वाच्युतस्येर्यापथात्* प्र[५४ २]कृतिस्थस्य संयतस्य वा चोत्सृज्यानभिज्ञसान्तरात्* व्यग्रत्वम् । ९.५४ । मृषावादप्रह्वत्वमसंयतिर्वाचा । ९.५५ । पैषुन्ये पारुष्ये संभिन्नप्रलापे च । ९.५६ । अप्रकृतिस्थत्वमत्र चान्यत्र वा करणीये करणीयकृतौ च । ९.५७ । च्युतिरीर्यापथाद्विप्रक्रमणचित्तेन प्रवृत्तस्यास्योत्सृष्टिः । ९.५८ । संघे दृष्टिमाविस्कुर्वीत । ९.५९ । नान्यत्र । ९.६० । नानुपसंपत्क । ९.६१ । अनर्हे वा पूरणायाम् । ९.६२ । नानव[५४ ३]शेषत्वे । ९.६३ । संमन्येरन्* साधुतरवहुतरकारिणं संमतमपसार्य । ९.६४ । न नियम्य कालं पौनःपुन्ये न्यत्र वा । ९.६५ । दध्युरन्यत्र यावदर्थं परिहारम् । ९.६६ । शलाकग्रहणेनाभावे संमतस्य भाजनम् । ९.६७ । यस्य पूरणे नर्हत्व शलाकाचारणे पि तस्य । ९.६८ । संघभेदे स्य रूढिरनर्हे न चारणे शलाकाणाम् । ॥ कर्मवस्तु ॥ १ ॥ **(९,२) कर्मपरिभाषा । ९.६९ ॥ नाधिक्ये वाचनानामकृ[५४ ४]तत्वम् । ९.७० । अकृतत्वं हापने । ९.७१ । क्रियमाणतायां प्रक्रान्तावपूर्णस्य पर्वणो विगुपितत्वम्* । ९.७२ । पूर्णस्यानवशिष्टत्वे तत्कर्मसंघपरिमाणानामव्युत्थितानाम्* । ९.७३ । नावशिष्टत्वे । ९.७४ । पुनश्चेत्तच्चिकीर्षाधिकोपनं वा च । ९.७५ । संघविज्ञपनेन । ९.७६ । पुनर्भदन्ताज्ञप्तिं* करिष्याम्यनुश्रावणञ्चेति । ९.७७ । प्रतिनिःसृष्ट्यर्था ज्ञपननासन तत्स्वभावैषीय[५४ ५]शिक्षासामग्रीतत्पोषधतीर्थ्यपरिवासतदन्यमानास्यमूलापकर्षस्मृत्यमूढविनदानोपसंपादनोपसंपादनसीममोक्षप्रणिधिकर्मावर्हणेषु त्रिर्वाचना स्वार्थानिरिक्तमंत्रोक्तिः । ९.७८ । पुद्गले च परा र्थम् । ९.७९ । निषण्णो स्योत्कुटुकिकया पुरतो निरिक्तेश्च । ९.८० । रोचनं च । ९.८१ । इष्टके पार्ष्णिभ्यां विरहोऽनुशिष्टानुपसंपदि । ९.८२ । मसूरिकादौ स्त्रियाः [५४ ६] वृद्धान्ते नन्यतन्त्रतायां संघे स्थितस्य परार्थे सप्रणतम्* । ९.८३ । अन्तरमार्गे समनुषिष्टतायां रहसीत्येकम्* । ९.८४ । द्रव्याधिष्ठानञ्च । ९.८५ । तत्त्वं विकल्पनस्य । ९.८६ । गृहीत्व तदेतत्* । ९.८७ । पात्रभैषज्यं वामे पाणो प्रतिस्थाप्य प्रतिछाद्य दक्षिणेन पाणिना । ९.८८ । अग्रत स्वस्याग्राह्यतायां । निषण्णताया कर्म । ९.८९ । असंसृतौ संघैकद्वयोः पुद्गलस्य [५५ १] ॥ विज्ञप्यत्वं भिक्षोः । ९.९० । रोहन्त्यसान्निध्ये चीवरस्य मनसा विकल्प उत्सर्गे धिष्ठानञ्च नानुत्सृष्टे पूर्वत्र । ९.९१ । वाग्भाषै चैकाधिष्ठानं तदाशयोपसंपत्तिपूर्वकम् । ९.९२ । कृतैकांशोत्तरासंगत्वम् । ९.९३ । समागतत्वे भिक्षूणाम् । ९.९४ । सामीच्या तदर्हत्वेः वचनीयताया स्वार्थामन्त्रस्य । ९.९५ । अशिष्टौ च रहसि । ९.९६ । ससांघाटितायामुपसंपत्संनिषादे । ९.९७ । आदौ [५५ २] च त्रिःप्रगृहीतां जलित्वं तादर्थ्ये दिवसारोचने च । ९.९८ । औपयिकमित्यन्ते स्वार्थं विज्ञप्तेन वचनं पुद्गलश्चेत् । ९.९९ । स्वार्थि तदन्वितरेण । ९.१०० । छन्दद्वेषमोहभयगतिविरहितस्य शक्तस्य कृताकृतस्मरणे संमतिरुत्साह्य । ९.१०१ । कृताकृतव्रवेदनं स्थिते । ९.१०२ । वर्धत्ववर्धव्यामानतायां सीम्नि प्रतिपत्तिः । ९.१०३ । गण्ड्याकोटनपृष्टवाचिकासमनुयोगाभ्यां सन्निषादकेन सन्नि[५५ ३]षाद्यानां बोधनम् । ९.१०४ । तस्य तदर्थमासनं प्रज्ञपनम् । ९.१०५ । संमतस्य तत्कार्यार्थतायामेतत्त्वम् । ९.१०६ । सर्वत्र यथा वृद्धिका । ९.१०७ । रुच्याग्राह्ये ग्रत्वम् । ॥ कर्मपरिभाषा ॥ २ ॥ ॥ समाप्तं कर्मवस्तु ॥ ९ ॥ ________________________________________________ *१०, प्रतिक्रियावस्तु । **(१०,१) प्रतिक्रियावस्तु । १०.१ । नाप्रतिकृताज्ञपनजष्कर्म प्रत्यनुभवेत् । १०.२ । उत्सृज्य पोषधं प्रवारणाञ्च । १०.३ । न सीमान्तरस्थस्य कस्मिंश्चिदङ्गत्वम् । १०.४ । ध्वंसस्तद्गतौ साह्य गतस्य । १०.५ । उभयस्थत्वमेकस्मिन्ने[५५ ४]कत्र पादे परस्मिन् परत्र । १०.६ । सर्वस्मिन्नवष्टम्भिनि स्थितस्यावष्टब्धे । १०.७ । रूढिरेवमनेकत्रोपगतेः । १०.८ । अर्हत्वमनेकशयनासनग्राहे । १०.९ । यथेष्टमस्य वस्तव्यता । १०.१० । न व्यग्रकारित्वं जिनस्य । १०.११ । न पूरकत्वम् । १०.१२ । नाकर्मणा तत्करणीयस्योत्थानम् । १०.१३ । कृतत्वं यद्भूयस्कृतत्वे वाक्यस्यानुत्तरस्य । १०.१४ । नाकीर्त्तित्वे निमित्तानां बन्धे । १०.१५ । पारिवासिके [५५ ५] नान्तस्योपस्थानसंवृतेः । १०.१६ । उन्मत्तकेन चोद्देशस्य । १०.१७ । ज्ञप्तिवद्भेदानुष्ठानम् । १०.१८ । अनङ्गमत्र भिन्नव्यंजनत्वम् । १०.१९ । न हास्यभावेन कस्यचित्स्थूलमरूढिबुद्ध्या भेदोत्क्षेपयोः । १०.२० । दुष्कृतमसंघभूतत्वे । १०.२१ । नान्येषां नानासंवासिकेभ्यो बर्हाणां पूरणे गणेन ज्ञप्तिवाचनयोः । १०.२२ । नासंपन्नत्वेऽर्ह[ः] स्वसंघेन प्रत्यनुभवस्य । १०.२३ । संपन्नत्वं [५५ ६] ज्ञप्तिश्रुतावस्य नाविधिर्भव्यरूपे प्रतिनिधिना दूतेन प्रव्राजनम् । १०.२४ । उत्तरञ्चोपसंपादनात् । १०.२५ । नाप्रतीष्टो दत्तत्वम् । १०.२६ । ध्वंसोऽत्र याचनस्य । १०.२७ । विधित्वं मेवकज्ञपनपूर्वकत्वेऽस्य । १०.२८ । उत्क्षेपेऽप्येतत् । १०.२९ । अवधानं परेणासमन्वाहाराद्युक्तो तन्त्रः । १०.३० । नार्थच्छेदाना, क्रमव्यत्यादरूढिः । १०.३१ । अकरणीयत्वं भ्रेषस्य । १०.३२ । न व्यञ्जनान्तर[५५ १]संश्रयात् । १०.३३ । न भिक्षुभिक्षुणीत्वयोरन्यकर्मवस्तुप्रतिज्ञपिते चोदकेन कल्पयति सांमुख्यं प्रणिधिकरणम् । १०.३४ । प्रतीतिमात्रेण सन्निपातादाने । १०.३५ । अनङ्गमदर्शने व्याघातित्वात्सत्त्वस्य प्रतिज्ञानम् । १०.३६ । अवकाशां करणे चायोगात् । १०.३७ । संपत्यास्वयमनुत्थाने चोदकस्योत्थापनम् । १०.३८ । [आ]क्रोषरोषकपरिभाषकतामलाभावा[५५ २]साभ्यां संघस्य चेतकत्वम् । १०.३९ । राजकुलयुक्तकुलज्ञातिपुद्गलप्रतिसरणतामप्रतिसर्तृतां संघस्याबिभ्रतः । १०.४० । अकुर्वाणस्यास्यागारिकतीर्थिकध्वजधारणतीर्थ्यसेवानाचारचरणान्यशिक्षणञ्च भिक्षुशिक्षायामुत्कचप्रकचस्य संघे रोम पातयतो निःसरणं प्रवर्त्तयतः समीचीमुपदर्शयतो विरमतो निमित्तादवसारणं याचिते । १०.४१ । [५५ ३] कर्मदानबर्हणोपसंपादनप्रतिप्रस्रम्भन्नोन्मज्जनञ्च । १०.४२ । कलहकारकतं जयेयुः कर्मणा । १०.४३ । निगर्हणमभीक्ष्णसंघावशेषापत्तिकस्याप्रतिकृत्य । १०.४४ । कुलदूषकस्य प्रवासनम् । १०.४५ । अदानाकरणयोश्च तदर्थं संनिपातावकाशयोः । १०.४६ । उद्भावने च तददृष्टेः । १०.४७ । प्रतिसंहरणमवं पण्डितागारिकस्य । १०.४८ । तत्क्षम[५५ ४]णकमत्र कर्मणः स्थानेऽवसारणं प्रति प्रतीतायाम्[आ]पत्तावप्रतिकृतायामप्रतिकार्यायां संवरेणादृष्टिमुद्भावयन्तमनिच्छन्तं प्रतिकृतिमनुष्ठातुमनुत्सृजन्तं च पापिकां दृष्टिमुत्क्षिपेयुः । १०.४९ । इहैवैनामापत्तिं प्रतिकुर्वीथा अयमेव त्वासंघः प्रस्रम्भयिष्यति इत्येवं ब्रूय्युः । १०.५० । नापत्तिं प्रतिच्छादयेत् । १०.५१ । नाम्नाऽन्ततः [५५ ५] प्रवेद्यत्वम् । १०.५२ । यथाकथंचित्दुष्कृतस्य । १०.५३ । प्रकृतिस्थे । १०.५४ । अनन्यदृष्टौ सोपसंपदि । १०.५५ । तुल्यव्यंजने । १०.५६ । अतैवैतत्सोत्तरम् । १०.५७ । कृतत्वमस्यैदंधर्मके । १०.५८ । सीमान्तरस्थे च । १०.५९ । संघे सर्वत्राज्ञापनजानाम् । १०.६० । सन्निहिते तत्रास्रमे प्रतिदेशनीयस्य गर्ह्यमायुष्मन्तः स्थानमापन्नो सात्म्यं प्रतिदेशनीयन्त धर्मं प्रतिदे[श]यामि इति । १०.६१ । नैतन्मन्त्रवत् । १०.६२ । [५५ ६] संवरकृतेरतो व्युत्थानं मानसीतः । १०.६३ । अन्य तस्मै तदो देशनात् । १०.६४ । एकत्र । १०.६५ । अनन्यदृष्टो तत्र । १०.६६ । असमावन्ये निकायतः । १०.६७ । अभावे आपत्तितः । १०.६८ । निःसर्गवीचनपूर्वकानैःकातः । १०.६९ । संघे स्थूलात्सर्वत्र । १०.७० । पंचकादौ सशेषागताद्गुरुणः । १०.७१ । अशेषागतादनवच्छिन्ने भूयसि । १०.७२ । लिङ्घोरस्माच्चतुष्कादौ । १०.७३ । कृत[५६ १] । ।वदन्तेऽत्रोद्युक्तस्यासंपन्नप्रयत्वे कर्म । १०.७४ । दुष्कारवत्त्वमूढकृतस्य प्रत्यापत्तौ संज्ञायमानस्य तेन । १०.७५ । नामगोत्रोपसंहितमापत्तित्वात्कीर्त्तनम् । १०.७६ । इयत्कालप्रतिच्छन्नतया वा संघावशेषायाम् । १०.७७ । आवर्हणमतो व्युत्थानकृत । १०.७८ । चरितमानास्यस्य । १०.७९ । षडहमादाय संघात् । १०.८० । अर्द्धमासं भिक्षुण्याः । १०.८१ । गुरुधर्मा[५६ २]तिक्रमेऽप्यस्य चरितत्वम् । १०.८२ । असति प्रतिच्छाददोषे तद्रूढिः । १०.८३ । परिवाएन तदपहतिः । १०.८४ । तावन्तं कालमाद्[आ]य संघात् । १०.८५ । क्रियमान्तायामनयोस्तत्संघावशेषापदने ध्वंसः कृतादानयोः । १०.८६ । तस्मान्मूलोपक्रमत्वं दानम् । १०.८७ । निर्वाह्य तत्प्रस्तुतम् । १०.८८ । तस्मादरूढस्यास्य पृथक्तदानीमुत्थाप्यता प्रथमं च । १०.८९ । प्रतिकार्यं तदान्तरम् । १०.९० । तस्मात्तादर्थस्या[५६ ३]पि संश्रयत्वम् । १०.९१ । अवरोध्यता चातिरिक्तस्य तत्प्रतिच्छादकालस्य । १०.९२ । कर्मणा न्योद्दानम् । १०.९३ । आवर्हणाञ्च । १०.९४ । तर्जनं चात्र ज्ञप्तिप्रथमवाचनान्तराले । १०.९५ । निपतितस्य तृणप्रस्तारकेण । १०.९६ । समुद्रेजनञ्च । १०.९७ । कृततोत्कीर्त्तनान्तरम् । ॥ [इति] प्रतिक्रियावस्तु ॥ १ ॥ **(१०,२) क्षुद्रादिगतम् । १०.९८ । निष्काशनं दुःशीलस्य । १०.९९ । संघस्यात्र प्रगमः । १०.१०० । नासावेनदव्युपेक्षेत । १०.१०१ । [५६ ४] अवसार्यत्वं नाशितस्य । १०.१०२ । नासां मन्ये प्रणिधातॄणामवसारणस्य प्रणिहितौ रूढिः । १०.१०३ । अवस्तव्यता दूषितस्थाने प्रवासितस्य । १०.१०४ । सर्वत्रोत्क्षिप्तके संबास्यत्वासंभोग्यत्वे । १०.१०५ । संज्ञयात्र व्यवस्थानम् । १०.१०६ । अधर्मपक्षस्यैतिभिन्नतायामितरेण । १०.१०७ । नान्यस्य । १०.१०८ । नान्यत्रैत प्रणिहिते । १०.१०९ । अपाश्रयेणास्य वस्तव्यता सप्रेमकस्य । १०.११० । विकृतेः क्रियमाणप्रणिधिना ध्वस्ते[५६ ५]न च निष्कास्य मानेन भजने भाण्डस्य छोरणम् । १०.१११ । वलानिष्काशः । १०.११२ । अवलम्बनस्य छोदनम् । १०.११३ । अपतनधर्मणा तत्रोत्पाटनम् । १०.११४ । संघेन तस्य प्रतिसंस्करणम् । १०.११५ । संप्रदास्य । १०.११६ । असंपत्तौ वैहारात् । १०.११७ । न कलहकारकं निष्कास्यमानन् वारयेत् । १०.११८ । अनिवृत्तौ कलेरुपशान्त्यै प्रयत्नादुत्क्षेपः । १०.११९ । विनिश्चयगते व्युपशमनेन । १०.१२० । निःश्रिते निःश्रयः प्रय[५६ ६]तेत् । १०.१२१ । निमित्तस्यापि कलेरुपसंहारिणोत्क्षेप्यता । १०.१२२ । संसृष्टविहारिणमपि भिक्षुणीभिरुत्क्षिपेयुः । १०.१२३ । अवन्दनार्हसंवृतिमत्रोत्क्षिप्तस्य भिक्षुण्याष्कुर्युः । १०.१२४ । उद्भवोऽन्यस्य प्रणिधिः निमित्ते तदर्थाभिसन्धिनान्यप्रकृतौ । १०.१२५ । अरूढिरन्यथात्वं परत्र । १०.१२६ । अनुत्थानमुत्क्षेपे । १०.१२७ । स्थूलं ज्ञातमहापुण्यसूत्रविनयमातृकाधरबहुश्रुतपक्षमनिवाराणां [५६ १] निर्दोषनागारिकभिक्ष्वादिपञ्चकावस्पण्डनेऽपि प्रतिसंहरणम् । १०.१२८ । नाक्रोश्येनावस्पण्डनम् । १०.१२९ । अनाशंक्यं स्वसाधारण्यम् । १०.१३० । अनुपसंपत्कस्यैषां प्रव्रजिते कर्तव्यता । १०.१३१ । न गृहिणि । १०.१३२ । पात्रसस्वाख्यातारं प्रति भिक्षोरभूतेन पाराजैकेन । १०.१३३ । क्रोशकं परिभाषकं च निकुब्जयेरन् । १०.१३४ । व्यवस्थाकरणतः । १०.१३५ । प्रज्ञप्त्या । १०.१३६ । न निकुब्जितया तस्य [५६ २] गृहान् गच्छेत् । १०.१३७ । नासनं परिभुञ्जीत । १०.१३८ । न प्रज्ञप्तान् देयधर्मम् । १०.१३९ । न पिण्डपातं प्रतिगृह्णीतात् । १०.१४० । न धर्मं देशयेत् । १०.१४१ । यत्कर्म करणं तद्गतानां निकुब्जितत्वम् । १०.१४२ । अनुत्तानमस्यास्वपक्षकुलं प्रत्योत्क्षिप्तकात् । १०.१४३ । तेतनमस्य केनचित् । १०.१४४ । क्षमिततत्युन्मज्जनं ज्ञपनेन । १०.१४५ । भवत्युत्थानमनुत्पन्नप्रतिच्छादचित्तस्यान्तिमातः । १०.१४६ । शिक्षाचरणेन । १०.१४७ । [५६ ३] तल्लभायाः संघतः । १०.१४८ । कर्मणा दानम् । १०.१४९ । यावज्जीव[म्] । १०.१५० । शुद्धिरेकस्य पुरतो देशनेन संघावशेषतो ह्रीमतः । १०.१५१ । सूत्रधरस्य विनयस्य मातृकायाः । १०.१५२ । ज्ञातस्य च । १०.१५३ । अशयतापत्तिव्युत्थानेन दण्डकर्मतः । १०.१५४ । निकायतो नामात्रापत्तेर्नाम । १०.१५५ । समुत्थानं गोत्रम् । ॥ समाप्तं प्रतिक्रियावस्तु ॥ १० ॥ ________________________________________________ *११, कालाकालसम्पातवस्तु । **(११,१) कालाकालसम्पातव्स्तु । ११.१ । अप्रतीतत्वे संघावशेषान्तर्धाने [५६ ४] न्तास्थितप्रतिछादचित्तस्याशक्तवत्तायां कृतं ने वा किं* वा कीदृश्यं चेति स्मर्तुमनुपसंप कतोत्क्षिप्तयोश्चानुत्थानं प्रतिछादस्य । ११.२ । भ्रष्टस्यावहारिकसंज्ञतायामापत्तेरस्यापराजयात्* । ११.३ । अप्रज्ञप्ततायां च । ११.४ । नाज्ञातत्वेन स्रद्धितत्वे वा । ११.५ । अनभिज्ञतासंज्ञिनो पि । ११.६ । भूम्यन्तरस्थितायां प्राचो पि । ११.७ । ज्ञानवत्प्रतिछादे विमतिः संघा[५६ ५]वशेषत्वम् । ११.८ । आवरणस्यापि साभूति या प्रतिछादानुत्थानस्य । ११.९ । दुष्कृतमनादृत्यैः चरणोत्सर्गे । ११.१० । तनैकायिकाध्याचारे चात्र । ११.११ । संभवे चाप्रतिकृतौ । ११.१२ । तदवस्थत्वं प्रत्यागतावचरणभूमेः । ११.१३ । शोधिते वस्तुनि साषानुष्ठानमनिर्ज्ञाने प्रतिछादकालस्यासंव्य आनन्यूनत्वस्य संश्रयणम् । ११.१४ । चरितव्यतायां शुद्धान्तिकत्वोत्तरस्य । ११.१५ । चतु[५६ ६]रो मासां शुद्धान्तिकमिति । ११.१६ । अपरिमात्वस्याप्रतिछादे । ११.१७ । संचिन्त्य शुक्रे विसृष्ट-समुत्थाम-परिमाणामिति । ११.१८ । यावतीष्वभिप्रायस्तावत्कीमित्वमत्रात्रानुष्ठितेः । ११.१९ । अपरिमान इत्यनिर्ज्ञाने स्य संश्रयसंबहुलाः परिमानवत्य इति प्राभूत्ये । ११.२० । अतिरिक्तेन कालानाम् । ११.२१ । प्रभृतिमत्वेन नाम्नाम् । ११.२२ । गुरुत्वतीव्राशयकृतत्वा[५७ १] ॥भ्यामादित्वेन । ११.२३ । चरतो परप्राक्सम्पन्नप्रतिचिकीर्षोत्पत्तौ पृ[थ]ग्* दानमेकं चरणम् । ११.२४ । नास्य प्रतिछन्नतायां मानास्ये संभवः । ॥ [इति] कालाकालसंपातवस्तु ॥ १ ॥ **(११,२) पृच्छागतम् । ११.२५ । नानन्त्ये न्से होरात्रस्य प्रतिछादोत्थानम्* । ११.२६ । नाभावे ङ्गस्योद्भावनायात्मचित्ताना[ं] प्रतिछादः । ११.२७ । अभावममत्यपक्रान्तिवशस्य । ११.२८ । तदर्थवशतयापि कृतौ । ११.२९ । विनार्थे[५७ २]न दुष्कृतम् । ११.३० । प्रात्कान्ह्यात् । ११.३१ । अनुत्सृष्टत्वं प्रतिछादचित्तस्य तत्चित्ततानदोर्षमापत्तेः पराजितस्याप्रकृतौ । ॥ कालाकालसंपातवस्तु पृच्छा ॥ ११ ॥ ________________________________________________ *१२, भूम्यन्तरस्थचरणवस्तु । **(१२,१) भूम्यन्तरस्थचरणवस्तु । १२.१ । पारिवासिकमानास्यचारिभ्यामभिवादनवन्दन-प्रत्युत्थानांजलिसामीचीकर्मणां प्रकृतिस्थाद्भिक्षोरस्वीकरणम् । १२.२ । यस्याभ्यामकरणमितरैरपि तत्र तद्गतस्य । १२.३ । यदपरिहाणिकातो न्यथानेन सार्द्धमचंक्र[५७ ३]मणम् । १२.४ । नीचतरासनकत्वादनिषादः । १२.५ । पश्चाच्छ्रमणात्मकतातष्कुलानुपसंक्रमणम् । १२.६ । अकल्पनमेकछदने शय्यायाः । १२.७ । प्रव्राजनोपसंपादननिःश्रयदानश्रमणोद्देशोपस्थापनानामकरणम् । १२.८ । प्रज्ञप्तिवाचनयोश्चाप्रतीष्टः । १२.९ । कर्मकारकभिक्षुण्यववादकसंघवैश्वासिकसम्मतेः । १२.१० । अव्यापरण प्राक्सम्मतेनापि । १२.११ । अनवव[५७ ४]दनञ्च भिक्षुणीनाम्* । १२.१२ । अनुद्देशः पोषधे प्रातिमोक्षस्य सत्यन्यत्रोद्देष्टरि । १२.१३ । अचोदनं विपत्त्या भिक्षोः । १२.१४ । अनपसारितस्य संघात्* । १२.१५ । अकरणं सवचनीयतासकीलत्वयोः । १२.१६ । अस्थापनमववादपोषधप्रवारणाज्ञप्तिवाचनानाम् । १२.१७ । असंप्रयोगो नेन । १२.१८ । वर्जनं कृतदण्डनिमित्तस्य । १२.१९ । अन्यस्य चापराधस्य । १२.२० । नापराध्यता सब्रह्मचारिषु । १२.२१ । [५७ ५] व्रतस्य निःसारः प्रवर्तितो भवतीति मनसिकरणम् । १२.२२ । काल्यमुत्थाय द्वारमोक्षो दीपस्थालकोद्धरणविहारसेकसंमार्गसुकुमारिगोमयकार्ष्यानुप्रदानानि । १२.२३ । धावनं प्रस्रावोच्चारकुट्याः । १२.२४ । पोच्चन-मृतकालानुरूपपानीयोपस्थापनम्* । १२.२५ । प्रणाडिकामुखानां धावनम्* । १२.२६ । आसनं प्रज्ञपनम्* । १२.२७ । कालं ज्ञात्वा धूपतत्कटच्छुकयोरुपस्थपनम । १२.२८ । [५७ ६] प्रतिबलता वेच्छास्तुर्गुणासंकीर्तणम् । १२.२९ । न चेद्भाषणकाध्येषणम् । १२.३० । उपन्वाहृते गण्डीदानम्* । १२.३१ । धर्मश्चेद्भिक्षूणां वीजनम्* । १२.३२ । अन्त्यत्वमस्य सर्वोपसंपन्नानाम् । १२.३३ । कृते भक्तकृत्ये शयनासनस्य छन्ने गोपनम्* । १२.३४ । पात्राधिष्ठानछोरणं* । १२.३५ । कालं ज्ञात्वा स्तूपानां संमार्जनम्* । १२.३६ । सुकुमारिगोमयकार्ष्यनुप्रदानम् । १२.३७ । सामग्रीवेलायां प्र[५७ १]ज्ञपनाद्यागुणगतात्* । १२.३८ । प्रतिबलता चेद्दिवसारोचनम्* । १२.३९ । न चेदन्यस्य भिक्षोरध्येषणम् । १२.४० । पादशोचनं भिक्षूणां चैकालिकं कालानुरूपेणाम्बुना । १२.४१ । म्रक्षणञ्चानिच्छायां स्नेहोपसंहारः । १२.४२ । विहारेऽस्य प्रत्यन्ते र्हत्वम् । १२.४३ । अर्हत्वं सर्वत्र लाभे । १२.४४ । प्रतिजाग्रियात्कुशलपक्षे । १२.४५ । तद्वदत्र तत्प्रभावैषीयशिक्षादत्तकौ । [रोम्.] । नैवोद्देशः । । अवसारणेन । । पूर्वस्य प्र[५७ २]कृतिगतेः । । अर्हत्वेनोत्तरस्य । । प्राग्* द्वारमोक्ष्याद्विहारादौ च पर्युषितवच्चरितपत्तौ । । तथातरितपत्तौ । । तथातर्जितनिगर्हितप्रथासितप्रतिसंकृतोत्क्षिप्ताः । । नैवोद्देशः । । वर्जनमेवोत्क्षिप्तस्येतरैः । । अनर्तत्वञ्च तदात्वनिमित्तलाभे । । भिन्नवत्* । । तद्वद्भिन्नेष्वधर्मपक्ष्यः । । अरूडैरप्रकृतिस्थेषु परिपासमानाप्यशिक्षाचरणानाम् । [एन्दोf रोम्.] १२.४६ । असंघे च । १२.४७ । [५७ ३] परिच्छिन्नेषु च तदाश्रमपदोपगेभ्यः । १२.४८ । न बहुतां परिहरेत्* । १२.४९ । स स्थविरप्रातिमोक्षतायै प्रयतेत । १२.५० । न यत्र्यान्ये त्रिःप्रभृतयः सर्वथा तदाख्यचरणास्तत्र तच्चरेत्* । १२.५१ । नान्यत्र प्रथमावरणेणानुद्गमयेनाम् । १२.५२ । वर्त्त्स्यत्वृत्तमारोचयेताम् । १२.५३ । संनिपाते संघस्य । १२.५४ । प्रत्यहं न चेच्चिरं चरितव्यत्वम् । १२.५५ । अत्र त्रिचतुरैः । १२.५६ । नैवानेनार्थेनावस्पण्डयेत्* । १२.५७ । [५७ ४] कलहकारकागमनञ्च श्रुत्वा भयञ्चेदतः प्रतिनि[ः]सृजेतां संघसन्निधौ पुद्गले वा । १२.५८ । अपगतौ भीतेरादानं तत्रैवम् । । भूम्यन्तरस्थचरणवस्तु ॥ १ ॥ **(१२,२) पृच्छागतम् । १२.५९ । छेदस्तदहोरात्रस्य प्रकृतिस्थेन सार्धमेकछदने परिवासिकमानास्यचारिणोः शय्यायां बहि[ः]सीम्नि च । १२.६० । अनारोचने च । १२.६१ । नासन्निधौ तत्सीम्नि श्राव्याणामस्योत्थानं निर्दोषं तदहरा[५७ ५]गतौ सीमान्तरे गमनम्* । १२.६२ । न परिवासिकेन सार्धमेकछदने पारिवासिकः शयीत्* । १२.६३ । न तीर्थ्युपनिवासस्थस्य तेन सार्धमत्र दोषः ॥ ॥ भूम्यन्तरस्थचरणवस्तुपृच्छा ॥ १२ ________________________________________________ *१३. परिकर्मवस्तु १३.१ ॥ नाप्रासिद्धिकस्य मूलत्वम् । १३.२ । अरूढिरवसितप्रवारणोक्तौ प्रवारणास्थापनस्य । १३.३ । तथा ग्लानकर्तृकतायाम् । १३.४ । दूतेनापि । १३.५ । ग्लानगतायाञ्च । १३.६ । [५७ ६] नैतत्प्रतीच्छेयुः । १३.७ । आगमय त्वमायुष्मं ग्लानस्त्वमप्रयोज्यम इत्यायुस्मं भूतेति ग्लानो सावननुयोज्या इति प्रतिवदेयुः । १३.८ । अनवगतस्वरूपतायां कृतस्य कर्तुर्वा चोदनस्य । १३.९ । शिष्टे पि नाकाले प्रवर्तेत । १३.१० । नानुपस्थास्य स्मृतिसंप्रजन्ये । १३.११ । नानेकान्ते । १३.१२ । नाकारितावकाशे । १३.१३ । तत्वं प्रवारणस्य । १३.१४ । अस्मृतौ स्मारणं [५८ १] । १३.१५ ॥ अकरणेभ्यः वचनीयतामस्य कुर्यात्* । १३.१६ । सवचनीयं त्वायुष्मन् करोमि न त्वं यो स्मादावासादनवलोक्य प्रक्रमितव्यमस्ति मे आयुष्मति प्रणिहितं वचनायेति । १३.१७ । आगच्छत्येव दमनाथमन चोद्यताम् । १३.१८ । आलपनादेरस्यनुविनिवर्तनम्* । १३.१९ । तथापि पोषधस्थापनम् । १३.२० । ततो पि प्रवारणायाः । १३.२१ । करणमस्यत्र स्थापकैः स्थापितस्य तेन [५८ २] सार्धमुपसारणम् । १३.२२ । कृतत्वे वकाशस्यामृदुत्वं चेत्सकीलकरणम् । १३.२३ । वक्ष्याम्यत्रामुत्र वा वसे मुत्र वा वास्तुनि यत्र चेष्टमित्यारोप्य चामत्तिं* दर्शयित्वापराधमुत्सृजनेन । १३.२४ । शीलदृष्ट्या चाराजीव विपत्या सर्वस्यास्य चोदनादेः क्रियायां रुढिः समूलकम् । १३.२५ । न दुर्दूलेन कुर्यात्* । १३.२६ । अकरणमत्र वस्तुनः सत्यत्वम् । १३.२७ । क्रियानिमित्तानां परसंलाप[५८ ३]स्य सानुश्रावणस्येति त्रिविधं श्रुतम् । १३.२८ । अमूलत्वमस्रद्धितस्य । १३.२९ । कामो नेकत्वे ज्ञातुश्चोदनादौ । १३.३० । नाप्रवारणे तत्स्थावनम्* । १३.३१ । नापोषधे तस्य न कृतौ कृतत्वे वा स्त्रीत्वे स्थापकस्यै[क]तरस्य पुंस्त्वे स्थापितत्वं स्थापितता । १३.३२ । न नष्टप्रकृतिना । १३.३३ । नाशीलैक्येन । १३.३४ । नानयोः । । पारिकर्मणवस्तुपृच्छा ॥ १३ ________________________________________________ *१४. कर्मभेदवस्तु **(१४,१) कर्मभेदः १४.१ ॥ न नानात्वाय संघस्य प्रभाविष्णुमका[५८ ४]मं चोदयेदुन्मोटयेद्वा चोदयत्वम् । १४.२ । न यत्र प्रतिविरोधस्तेन सार्धमभिनमने समासीत । १४.३ । द्वित्रासनान्तरितमन्यत्र । १४.४ । एवमितरस्तेन । १४.५ । अन्तरितस्यानयोर्विहारस्य देयत्वं ग्राह्यता च । १४.६ । धर्मे विनये चैतद्वतामधर्मे चेदभिनिवेशो ज्ञात्वा संघसामग्रीन्न विद्यते । १४.७ । तस्मान्न तदन्यानां संभूय कृतौ कर्मणो रूढिन्न परस्परेणाव्यग्रत्वम्* । १४.८ । [५८ ५] कलिपरायणत्व एषा तद्विपक्षस्य चावन्द्यत्वमिदं धर्मभिः । १४.९ । प्रत्युत्थानासनोपनिमन्त्रणासंलपनालपनसंमोदनव्यवलोकनालोकनानामप्यकरणम् । १४.१० । लूहशयनासनानुप्रदानं हस्तसंव्यवहारकेन । १४.११ । वचनेनान्यत्र ससूतमित्यपरम्* । १४.१२ । प्रत्यन्ते विहारस्य । १४.१३ । मृद्धद्वा वयमिति वदत्सु यूथमपि श्रमणाः शाक्यपुत्रिया स्म इत्यात्मानम्* [५८ ६] प्रतिजानीध्वे । १४.१४ । येषां चेदं वृत्तमियं वार्ता कारुणिको वः शास्ता येनैतदनुज्ञातमेतदपि वो न प्रापद्यत इति प्रतिवदेयुरन्यत्र । १४.१५ । न भिक्षुण्यासनमोक्षं हापयेत्* । १४.१६ । ददीतोपासकपिण्डपातम् । १४.१७ । नापि सारिताआमेषां सामग्यस्य विना सामग्रीलाभेनोत्थापनम् । १४.१८ । न विना पोषधेन प्रकृतिस्थताप्राप्तिः । १४.१९ । दत्वपिनं कुर्युः । १४.२० । कर्मणैतत्* । १४.२१ । पूर्वं च । १४.२२ । [५८ १] कल्पते सामग्रीमङ्गलार्थमापदि पोषधः । १४.२३ । तस्यैव चात्र कालस्य निमित्तत्वम् । । कर्मभेदवस्तु ॥ **(१४,२) पृच्छागतः । १४.२४ । कर्मणः कृतावधर्मवादिभिरन्तःसीम्नि पृथक्तद्भेदो तदचित्तेन । १४.२५ । रूढिरस्मिन्* प्रतिस्वं कर्मणः । १४.२६ । नास्वपक्षं प्रति । १४.२७ । धर्मवादि कृतता संघस्य कृतत्वम् । १४.२८ । स्थलस्थैरत्र सन्नि चेद्भिक्षुणीनामचोद्यत्वम् । १४.२९ । व्यग्रत्वमेषां धर्मपक्षैः । १४.३० । ध्वन्सो नुविधौ त[५८ २]त्त्वस्य । १४.३१ । नैनं कुर्यात्* । १४.३२ । अचोद्यत्वम्* पक्षापरपक्षव्यवस्थितस्य भिक्षुणीसंघस्य । १४.३३ । नैनः भिन्नस्य । १४.३४ । समग्र्य याचमानानां नियोज्यत्वम् । १४.३५ । धर्मत्रादिनि गामित्वं वार्षिकस्य । १४.३६ । उभयसन्निपाते चाविभज्याप्रतिपातितस्य संघे वैभाज्यस्य । १४.३७ । संघपरिमाणता चेत्तत्र तेषाम् । १४.३८ । जनता चेतिरेषाम् । १४.३९ । तत्तता यदीयस्योत्संघे प्रतिपादनं [५८ ३] द्वयोश्चेदुभयत्र । १४.४० । पुद्गलसो रांशित्वं न संघशः । । कर्मभेदवस्तुगते पृच्छा माणविके ॥ १४ ________________________________________________ *१५. चक्रभेदवस्तु । १५.१ । ज्ञपनतो वा पृथग्भावस्य धर्मात्संघभेदः । १५.२ । शलाकाग्रहणतो वानेनार्थेन । १५.३ । अरूढिरस्यासंघपरिमाणत्वे भिद्यमानानामसत्वे चान्येषामन्तःसीम्नि संघपरिसानानामधर्मधर्मयोः तथात्वेन प्रत्यवगतावानन्तर्यम् । १५.४ । धर्मसंज्ञि[५८ ४]नो पि भेदे । । चक्रभेदवस्तु । १५ ________________________________________________ *१६. अधिकरणवस्तु **(१६,१) अधिकरणम् । १६.१ । चत्वारि संक्षोपकरणानि । १६.२ । पदार्थतथात्वे विप्रतिपत्तिर्वर्जनं सापत्तिका सामग्र्यदानं कर्माणि । १६.३ । प्रथमनिमित्तस्यैकोतीकरणेन व्युपशमनम्* । १६.४ । अनेन च शुद्धिदाने च द्वितीयनिमित्तस्य । १६.५ । त्रितीयनिमित्तस्य प्रतिकरणे निवारणनियुक्तत्वादानेन च । १६.६ । दापनेनान्त्यस्य । १६.७ । सभ्यै स्वयमशक्तौ विवदित्रोः संप्र[५८ ५]तिपादनम्* । १६.८ । भिक्षुभिरभिरुचितैः । १६.९ । तयोरेकतः स्थलस्थानारोचनम् । १६.१० । सम्मतिरेषां संघेन साततिकानाम् । १६.११ । अनुत्द्योजिनष्कलहे त्र संमन्तव्यता । १६.१२ । लज्जिनः शिक्षाकामस्य । १६.१३ । सुविनिश्चितस्य विनये । १६.१४ । कुशलस्याधिकरणवृत्ते ध्याचारे च । १६.१५ । विनिविष्टस्य । १६.१६ । धीरस्यासंरब्धय प्रस्थानस्य । १६.१७ । समस्य । १६.१८ । अवगन्तुः । १६.१९ । प्रत्यायकस्य । १६.२० । [५८ ६] विदुषः । १६.२१ । अनुपशमने तैः । १६.२२ । संघे निक्षेपः । १६.२३ । असक्तौ तेन व्यूढानां संमतिः । १६.२४ । अनूनानां संघपरिमाणात्* । १६.२५ । समन्तृत्वं वर्गस्य स्वतो सक्तौ व्यूढकेषु । १६.२६ । अक्रितावुत्तरस्यासक्तौ यत आदानतन्त्रनिक्षेपः । १६.२७ । प्रत्यागते मूलसंघे नाधिकरणसंचारकसंमतिः । १६.२८ । तेन सस्थविरे सप्रातिमोक्षे न्यत्र संघ उपनिक्षेपः । १६.२९ । [५९ १] ॥ त्रिमास्यात्कालस्य दानं वृत्तारोचनपूर्वकम् । १६.३० । अस्यैतत्* । १६.३१ । प्रत्यर्पिते तेन सूत्रधरविनयधरमातृकधरेषु । १६.३२ । षण्मास्याः । १६.३३ । तैः प्रभाविते स्थविरे अपर्यन्तस्य । १६.३४ । वर्जयेदसौ ततः स्वीकरणं कस्यचित्* । १६.३५ । ओषाटुकदन्तकाष्ठात्* । १६.३६ । एकासननिषदनैकचंक्रमचंक्रमणालापसंलापाश्च । १६.३७ । अनुपधूत इदं वदेत्तेषां च [५९ २] आयुष्मन्त अलाभानालाभादुर्लभो न सुलभा ये यूयं स्वाख्याते धर्मविनये प्रव्रज्या कलहजाता विहरत भण्डनजाता विकृहीता विवादमापन्नामायुष्मन्तः कलहो मा भण्डनं विग्रहो मा विवादः ॥ नास्ति द्वयोर्युध्यतो जय एकस्य जय एकस्य पराजयः । नास्ति द्वयोर्धावतो जय एकस्य जय एकस्य पराजय [५९ ३] इति । १६.३८ । बहुतरमतेन संस्थानमित्यपरः संप्रतिपादनप्रकारः । १६.३९ । धर्मविनिश्चितावश्यसंभवो न वृत्तिविनिश्चितौ । १६.४० । विवदितृगतत्वात्तद्गतायाः प्रत्यवगतेः । १६.४१ । खरमर्थिप्रत्यर्थिकैर्गृहीतत्वे प्रगाढम्* च व्याढत्वे तेषां भेदाशंकितायामस्य संस्रयणम् । १६.४२ । असंवरणकरणीयेत्वे र्थस्य । १६.४३ । परिक्षिप्तेषु स्थविरपर्यन्तेषु । १६.४४ । मूलसंघेन । १६.४५ । [५९ ४] शलाकाग्रहणेनात्र मतस्य गृहीतव्यता । १६.४६ । शलाकाचारकसंमतिः । १६.४७ । शलाकानां तेनोपस्थापनं द्विप्रकाराणाम् । १६.४८ । अजिह्मावंकाकुटिलसुवर्णसुगन्धस्पर्शवत्त्वे धर्मशला[का]स्विह रस्म विपर्ययः । १६.४९ । सन्निपातायारोचनं : संघे सर्वैः सन्निपति[त]व्यं* । शलाकाश्चारयिष्यामीति । १६.५० । तथा चेदधर्मशलाकाधिक्यसंपत्तिं* [५९ ५] मन्येत न छन्दानुप्रदानेन सामग्र्ये चारयेत । १६.५१ । दक्षिणेन पाणिना धर्मशलाकानां चारणकाले ग्रहणं वामेनेतरासाम् । १६.५२ । प्रतिछाद्यैनाश्पूर्वाः प्रकाशिकृत्योपयाचनम्* । स्थविरे यं धर्मशलाका अजिह्मा अवंका अकुटिल्[आ] सु[व]र्णा सुगन्धा सुखसंस्पर्शा गृहाणेति द्वयोर्वाचोरितरां मृगय तेन प्रयच्छेत्* । १६.५३ । यथा धर्मोद्भवम्* [५९ ६] मन्येत तथा चारयेच्छन्नं वा वृतं वा । १६.५४ । आयुस्मन्, उपाध्यायेन ते धर्मशलाका गृहीता आचार्येण समानोपाध्यायेन समानाचार्येणाल[प्त]केन न संलप्तकेन संस्तुतकेन सप्रेमकेन त्वमपि धर्मशलाकं गृहाण मात्रेतैः सार्धं विरुक्षणं भविष्यतीति वा कर्णमूले तन्तुनायम् । १६.५५ । नाप्तधर्मशलाकां गृह्णीयात्* । १६.५६ । नापृष्ट्वा सूत्रधरविनय[५९ १]धरमातृकधरान्* । १६.५७ । न भेदोद्भवक्षान्त्या नाधर्म्यस्य न जानन्नयो भविष्यत्ताम् । १६.५८ । समत्वे महाश्रा[व]कमुद्देश्यैकधर्मशलाकाग्रहणम् । १६.५९ । नाधर्मेणाप्येवमुपशान्तं खोटयेत । १६.६० । निरवद्यचोदनशुद्धिदानम् । १६.६१ । चतुर्धा तच्चोदनावस्तुकमन्यानुष्ठानवशात्प्रतिकृत्यनपेक्षणादुन्मत्तकृतेन च । १६.६२ । त्रिष्वाद्येषु स्मृतिविनयदानम् । १६.६३ । अमूढविनयस्यान्ते १६.६४ [५९ २] त्रयः सापत्तिकत्वात्संक्षोभाः । १६.६५ । निर्विक्रियसविक्रियश्च द्विप्रकारः प्रादेशिकः सकलसंघगतश्च । १६.६६ । पक्षापरपक्षव्यवस्थानेन । १६.६७ । प्रथमतः प्रतिकरणं प्रतिज्ञाकारकः । १६.६८ । संमुखविनयो द्वितीयस्मात्* । १६.६९ । तृतीयस्मात्तृणप्रस्तारकः । १६.७० । बहूनामर्थे त्रासंघे देश्यानामेकेन प्रतिकरणम् । १६.७१ । सह चानेकासाम् । १६.७२ । यामिति चोलिङ्गन[५९ ३]तो ज्ञानोद्भासनेन । १६.७३ । पक्षान्तरे च समेते । १६.७४ । नाप्रतिज्ञातस्य वृथा वा प्रतिदेशनायारूढिः । १६.७५ । कल्पते सह्येन चोद्यत्वम् । १६.७६ । तथा चोदकत्वम् । १६.७७ । अनियमोऽत्र संख्याविशेषाणाम् । १६.७८ । सम्वृतत्वं कायवाग्भ्यां पिटकानां वेतृत्वमदीयत्वम्* । १६.७९ । विपर्ययतो धर्मविनयतद्विपर्ययाणां संघमध्ये संचिन्त्येति त्रिकान्वितं चोदकमादृयेरन् । १६.८० । उन्मोटनं दुः[५९ ४]शीलविपर्य[य]दीपिनोः । १६.८१ । संज्ञपनम संज्ञपनमरेन्तः पिटकानां धारयितुरनेवंविधस्य समनुयुञ्जीरन्नेनं भावः प्रतिबोधाय स्थानस्थापनेन । १६.८२ । कालदेशेर्यापथानुआनानि स्थानम्* । १६.८३ । अरूढिस्थानान्तरसंचारे कालष्योपसंपत्तौ च चोदनस्य । १६.८४ । प्रतिज्ञानं चोदितेन निष्ठा दृष्टसत्यत्वे प्रकृष्टतरत्वे च गुणतो न्यस्य चतुष्प्रमाणीकरणं गृहिणो पि । १६.८५ । संवा[५९ ५]दनं सात्यत्वे । १६.८६ । न संदिग्धतायापत्तौ ज्ञातत्वम् । १६.८७ । प्रतिज्ञानवदतो निश्चयः । १६.८८ । अप्रत्यवगतिरवज्ञानम्* । १६.८९ । प्रतिज्ञाप संघे वजानता निर्धारणनियोगदानम्* । १६.९० । तत्स्वभावैषततत्वादस्य तत्प्रभावैषियत्वम् । १६.९१ । प्रणिधिकर्मरूपेणास्य केश्चिदाम्नानम् । १६.९२ । असाधु तन् सूत्रविरोधात्* । १६.९३ । अनिष्टेस्वव्युपशमथेनापवर्गीकरणस्य । १६.९४ । तज्जनीयादीना[५९ ६]मेतत्त्वेनाव्यवस्थापनात्* । १६.९५ । प्रतिपतो स्यैतदवज्ञानमिति च प्रत्यवगतावदर्शकत्वप्रतीतायाजातत्वभावात्* । १६.९६ । न व्युपशमार्थमौत्सुक्यं नापद्येरन्* । । [इति] अधिकरणवस्तु ॥ १ **(१६,२) पृच्छागतम् । १६.९७ । सर्वशमथानां कृत्याधिकरणे वतारः । १६.९८ । नानर्हस्य पूरणे संघव्यवहृतौ सभ्यत्वम् । १६.९९ । सोपसंपत्कानामैतरेधिकारः । १६.१०० । अर्हत्वं पुंसां स्त्रैणे । १६.१०१ । व्युपशा[६० १] ॥न्तत्वं च्युतौ जीवितादुपसंपदो वा । १६.१०२ । वर्जता-पत्तावान्यपक्ष्यतात्* । १६.१०३ । प्रक्रान्तावन्येन दीर्घरोगजातस्य स्पृष्टौ वा । १६.१०४ । अर्थादायिनो भियुक्तस्य वा । । अधिकरणवस्तुपृच्छा ॥ २ ॥ समाप्तञ्चाधिकरणवस्तु ॥ १६ ________________________________________________ *१७. शयनासनवस्तु । **(१७,१) शयनासनवस्तु । **(१७,१,१) वन्द्याः । १७.१ । परः प्रातिमोक्षसंवरेण प्रव्रजितस्य वन्द्यः । १७.२ । समानश्च वृद्धः । १७.३ । अनन्यव्यंजनः । १७.४ । पुमांश्चाहीन [स्त्रि]याः । १७.५ । भूम्यन्त[६० २]रस्थध्वस्तभिक्षुणीदूषकाधर्मपक्ष्यनानासंवासिकानन्तर्यच्छ्[अ]यितसमापन्नव्यग्रान्यचित्तस्यष्ठाभिमुखान्तर्गृहभक्ताग्रस्थवर्जम् । १७.६ । आगारिकस्य प्रव्रजितः । १७.७ । बुद्धः सर्वस्य । **(१७,१,२) विहारकरणम् । १७.८ । कुर्वीत्* विहारम्* । १७.९ । एकस्य गन्धकुटेर्मध्ये पक्षस्य कर्तव्यता । १७.१० । तदभिमुखं द्वारकोष्ठकस्य । १७.११ । चतुरस्रस्य साधुत्वम् । १७.१२ । त्रिशालस्य च । १७.१३ । प्रतिगृह्णीत्*[.. .. । १७.१४ ।] वसेद्विहारे १७.१५ [६० ३] अनुजानियुरन्येषां सांघिके वस्तुनि संघाय पुद्गलाय वा भिक्षवे वासवस्तु(न)करणम् । १७.१६ । संश्चेद्दानपतिरनुज्ञातेन । १७.१७ । कल्पन्ते प्रतिक्रमणकबहिरन्तर्वा नगरस्य । १७.१८ । व्यवध्यर्थ भित्तिकरणेन स्वरूपे संरागप्रत्ययं विहन्युः । १७.१९ । अंजलिपूरणिकया पायनेन मातृग्राममनुग्[ऋ]ह्णीत नाच्छिन्नधारादानेन । १७.२० । अर्हस्तु काल[त्]व्[ए] न्तर्वर्षमा[६० ४]गतो लाभे । १७.२१ । बहुतरत्वं वर्षाकालस्य तल्लाभकालः । १७.२२ । न कर्मण्यलाभो भोक्ता । १७.२३ । देयत्वमप्राप्नुवल्लाभे भक्तस्य । १७.२४ । नान्यलाभे सन्निपत्* । १७.२५ । निर्दोषमतदर्थं गतस्य वेलाप्राप्तौ विहारान्तरे भोजनम्* । १७.२६ । दुर्भक्षे चानन्तस्य स्वे । १७.२७ । अतिरिक्ततायां भिक्षु मात्रर्थाद्ग्रहणन्न विहारमव्युपेरन्* । १७.२८ । दानपतेः प्रतिसंस्करणायोत्साहणम् । १७.२९ । [६० ५] असंपत्तौ सांघिकस्य यावच्छक्तिविनियोगः । १७.३० । स्वयञ्च प्रतिसंस्करणम् । १७.३१ । लाभग्राहिणो विहारस्य सम्मार्जनम्* । १७.३२ । न प्रसादलाभस्य वैहारत्वम् । १७.३३ । बध्वा द्वारं विहारात्प्रवरेयुः । १७.३४ । पालञ्च स्थापयित्वा । १७.३५ । पिण्डकस्यासत्वो स्मै दा[ना]म्* । १७.३६ । नानिर्याय चौरतन्त्रत्वाभावं सद्वारमनुप्रयच्छेत । १७.३७ । दर्शनमतिरुक्षशरणपृष्ठं मा त्वं ज्वरित इति [६० ६] संज्ञया ख्यापनमित्यत्रोपाय[ः] । १७.३८ । निवासानामपितृमात्रादेः प्रत्यभिज्ञाने । १७.३९ । नाप्रत्यभिज्ञाताय सभयताया द्वारं दद्[य्]उः । १७.४० । धारयेदारण्यकष्कुक्करम् । १७.४१ । उत्थायैवासौ काल्यमवलोकयेद्विहारम्* चैत्या[ङ्]गनं च । १७.४२ । [..] उच्चारश्चेत्तत्कृतः छोरयेत्* प्रस्रावश्चेदु[द्धू]षेन्नखरिकाभिलिखितं चेत्समं कुर्यात्* । १७.४३ । म[ण्ड][६० १]लकमेषां स्थानेषु । १७.४४ । पात्रशेषस्यास्मै दाने । १७.४५ । बहिश्चेत्यविहारोपविचारतः । १७.४६ । यवैष्टमीर्यापथा उद्देशदाने । **(१७,१,३) सामीच्यादि । १७.४७ । धातुसाम्यं पृष्ट्वा साम्[ई]चीकरणपूर्वकं न[ः]कस्य ग्रहणायेर्यपथभजणम् । १७.४८ । बद्धक्रतोः । १७.४९ । अनवनतकायचित्तस्य । १७.५० । रिजोः । १७.५१ । चंक्रम्यमाणे पदपरिहाणिका चंक्रम्यस्य । १७.५२ । स्थानस्य तिष्ठति । १७.५३ । निषण्णे निपन्ने च नि[६० २]षादस्य । १७.५४ । नीचतरासने । १७.५५ । उक्ते नवकस्य । १७.५६ । उक्ते डुकिकयानुक्ते । १७.५७ । बहुत्वे ग्राह्यस्यावलोकनम्* । १७.५८ । मुक्त्वो श्रमणोपविचारं स्वाध्यायनम्* । १७.५९ । दर्शनोपविचारे स्थित्वा । १७.६० । अववादमेकान्ते पक्रम्य संवादयेत्* । १७.६१ । सुस्वाध्यायितं सुपरिमृष्टं निःसंधिग्धं कृत्वोद्देशधारणं च । **(१७,१,४) भक्तोद्देशकादिसम्मतिः । १७.६२ । संमन्ये[र]न् विहारभग्तौद्देशकयवागूखाद्यकफल[६० ३]भाजकम् । १७.६३ । अवरमात्रकस्य । १७.६४ । शिष्टमन्येद्यु(ह्य)श्चार्यं तदाख्यम् । १७.६५ । भाण्डगोपकं* । १७.६६ । वर्षाशा[ट्]याः (॥) कठिनस्य चीवराणां (॥) भाजकञ्चो १७.६७ पधिवारिकप्रेषकौ । १७.६८ । भाजनवारिकम्* । १७.६९ । चारणे स्यैषां व्यापारो भुक्ते च गोपने । १७.७० । पानीयवारिकम् । १७.७१ । प्रासादकवारिकम् । १७.७२ । अवलोक्य तेनाच्छटाशब्दकरणपूर्वक(मु)ं संस्थाभजसा[६० ४]नानां प्रव्रजितानाम् । १७.७३ । संस्थायां विनियोजनम्* । १७.७४ । तद्यथान्यशब्दतया भोजने सुसंवृततया (॥) सुप्रतिछन्नतया चैत्यवन्दने यथावृद्धिकया च । १७.७५ । परिषण्डाधारिकम् । १७.७६ । तत्प्रथतो भुक्त्वा वंसमादाय काकचटकपार([त])तादीनां भुञ्जनेषु तेन वारणम् । १७.७७ । शयनासनवारिकं १७.७८ मुण्डशयनासनवारिकम् । १७.७९ । लोकप्रवेशसकल्पि[६० ५]कतयोः भोजने १७.८० छण्डिकवारिकम् । ॥ शयनासनवस्तु ॥ १ ॥ **(१७,२) पश्चिमशयनासनवस्तु । **(१७,२,१) वन्दनम् । १७.८१ । सप्रणामां वचमन्धकारवन्दनस्थाने निश्चारयेत्* । १७.८२ । लोपचारप्राप्तप्रसृतो न्यस्य वन्दनेन वन्देत्* । १७.८३ । कृतत्वमस्य ब्राह्म्यां षामीच्यम् । १७.८४ । न सान्तरस्य सामीचीं* कुर्यात्* । १७.८५ । न वन्दमानं नारोग्ययेत्* । १७.८६ । नावन्द्यत्वमतीतायातत्प्रत्ययाः । १७.८७ । न पलिगुद्धं वन्देत्* । १७.८८ । [६० ६] न पलिगुद्ध चरेत्* । १७.८९ । नैनां स्वीकुर्वीत्* । १७.९० । न पलिगुद्धम्* । १७.९१ । द्वयं पलिगोधो भक्ष्यमाणेन वा दन्तकाष्ठादशुचिना वा तद्भूमिपरिकर्मणात्* । १७.९२ । पलिगोध तत्र नाग्न्यमेकचीवरता चदेवन्दने पञ्चमण्डलकेन जंघप्रपी[ड]निकया च । १७.९३ । न क्षुत्*वन्तं जीव्[ए]त्यभिवन्देदुत्सृज्यान्त्यावयसमागारिकां च । १७.९४ । नवकमेनमारोग्ययेत । १७.९५ । [६१ १] । । वन्देद्वृद्धम्* । **(१७,२,२) नामगोत्राग्रहणम् । १७.९६ । क्षुत्वा च । १७.९७ । नायुष्मन्नामगोत्रवादेन तथागतं समुदाचरेत्* । १७.९८ । नास्य निरूपापदं नाम गोत्रं वा गृह्णीयात्* । १७.९९ । न वृद्धस्य । १७.१०० । प्रतिरूपमत्र स्थविरायुष्मतोरुपपदत्वम्* । १७.१०१ । न पूर्वत्र । **(१७,२,३) नवकर्म । १७.१०२ । गमनागमनसंपन्नव[स्तु]नि नवकर्मिको विहारं प्रति स्थापयेत्* । १७.१०३ । वृक्षवापीचंक्रमैः । १७.१०४ । उपविचारेण । १७.१०५ । अव्याकीर्णवि[६१ २]लापशब्दनिर्घोषे । १७.१०६ । कारणमनुज्ञाते दात्राविहारकरणार्थाद्वस्तुनस्तत्करणभाण्डस्य । १७.१०७ । लयनस्यास्य स्थापनाय दानम्* । १७.१०८ । क्रयस्तदुपयोज्यस्य तैलादेः मात्रया । १७.१०९ । भोजनं नवकर्मकेण तादृशस्य यादृश्यं यवने । १७.११० । निर्विहारस्य तस्य स्थानस्य । १७.१११ । प्रग्रहणं स्नेहलाभस्य । १७.११२ । सामन्तकविहारे पञ्च[पु]रत्वं विहारेषु पर्य[६१ ३]न्तः । १७.११३ । त्रिपुरत्वं भिक्षुणीनाम् । १७.११४ । अतिरेचनं गन्धकुटिवाताग्रपोतिकयोः पुरद्वयेन । १७.११५ । निरवद्यमेषां पुरोजित्वे भरस्य पुरोद्वेष्टनम्* । १७.११६ । प्रारब्धस्य च वृहत्तो ल्पस्य वा करणार्थं भञ्जनम्* । १७.११७ । बृहत्वार्थं [स्तू]पप्रतिमयोः । १७.११८ । सीर्णतानिमित्तं तुल्ययोरपि निष्ठितयोश्च । १७.११९ । प्रदेशस्य च प्रतिसंस्करणार्थम् । १७.१२० । अवतारणञ्च कत्रादीनाम् । १७.१२१ । अन्या[६१ ४]रोपनायापि । १७.१२२ । नैतदर्थमनुष्ठापिता नयेत्* । १७.१२३ । जातकादिचित्रबुद्धवचनलेखनयोश्च । १७.१२४ । भंग्यस्यैष विशेषस्य क्रियायै । १७.१२५ । करणमकृतावारभ्यान्येन शेषस्य । १७.१२६ । देयत्वमर्धोत्थिते संघार्थञ्चे[द्] उत्थानकस्य । १७.१२७ । पश्चाद्भक्तं तद्दाने कालो हेमन्तश्चे[द्] ग्रीष्मश्चेति पूर्वभक्तम् । १७.१२८ । भक्तकरणीयकालस्य शेषणम् । **(१७,२,४) यात्राप्रवर्तनम् । १७.१२९ । नासज्जी[६१ ५]भूय ततो यत्रायां प्रवर्तेत्* । १७.१३० । प्रक्षालितं हस्तपात्तत्वं तदन्तः । १७.१३१ । पुरोभक्तिकमुत्थानकारकः समादापयेत्* । १७.१३२ । पश्चद्भक्ते पानकहस्तपादाभ्यंगम् । **(१७,२,५) द्वारादिकरणम् । १७.१३३ । नयनानां द्वारकरणम् । १७.१३४ । कचाटदानम्* । १७.१३५ । आयामकटकचर्मखण्डिकयोः । १७.१३६ । वातायनकरणम् । १७.१३७ । मध्येबहिःसंवृतस्याभ्यन्तरे विशालस्य समुद्राकृतेः । १७.१३८ । जालि[६१ ६]कादानम्* । १७.१३९ । कवाटिकायाश्चक्रिकाघटिकाशूचीनाम् । १७.१४० । अजपादकदण्डधारणम्* । १७.१४१ । अरामथैन वाननम् । १७.१४२ । करणं प्रासादस्य [व्य]यनाग्रतः । १७.१४३ । सप्ताष्टेष्टकास्तरदानम्* । १७.१४४ । तदुपरिन्यासपट्टस्य । १७.१४५ । तस्य स्तंभपंक्तेः । १७.१४६ । तेषां त्रिकटपत्राणाम् । १७.१४७ । तेषां सिकानाम् । १७.१४८ । तासां धरणीनाम् । १७.१४९ । तासां पट्टानाम्* । १७.१५० । [६१ १] तेषामिष्टकास्तरस्य । १७.१५१ । तस्य क्षोदकस्य । १७.१५२ । अप्रपातार्थं वेदिककरणम् । १७.१५३ । अकम्पनायामस्यामवसंगदानम् । १७.१५४ । लोहकीलकैरस्य संपर्वणम्* । १७.१५५ । सोपानस्यातिरोहार्थं करणम् । १७.१५६ । अधःशैलमयस्य । १७.१५७ । मृन्मयस्य । १७.१५८ । मध्ये । १७.१५९ । उपरि दारुमयस्य । १७.१६० । अधिरोहेन्निःश्रयण्या । १७.१६१ । दारुवंस(ं)रज्जुमय्यामपि । १७.१६२ । इष्टकास्तरणपु[६१ २]ष्करिणिकायां द्वारकोष्टके चाकर्दमीभावाय दानम्* । १७.१६३ । तदुपरि क्षोदकस्य । १७.१६४ । सुधायास्तस्य । १७.१६५ । अभावे काष्ठपट्टस्य पदत्राणार्थम्* । १७.१६६ । अन्तरे न्तरे वैष्टकायाः । १७.१६७ । चैत्ये प्येतत्* । १७.१६८ । कृतत्वमस्याव्याममात्रे कृततायाम् । **(१७,२,६) सिंहासनादिकरणम् । १७.१६९ । सि[ं]हानस्य करणञ्चतुरस्रकस्य । १७.१७० । सि[ं]हमुखत्वं पादकेषु । १७.१७१ । ग्रहणाय संचारणे लोहकण्टकानां चतु[६१ ३]ष्के प्येषु दानम् । १७.१७२ । पट्टिकाभिः दानम्* । १७.१७३ । मसूकरस्यादानम्* । १७.१७४ । उपरि वितानस्य । १७.१७५ । लम्बनानां सोपानकस्य करणमिष्टकामयस्य स्थिरे । १७.१७६ । संचार्ये काष्ठमयस्य । १७.१७७ । असंपत्तौ निःश्रयणिकायाः । १७.१७८ । पादपीठस्य करणम्* । १७.१७९ । पत्रवैभङ्गुकानामुपरि दानम्* । १७.१८० । कक्षपिण्डकस्य वा । १७.१८१ । पादयोरालम्बनमत्रा[६१ ४]र्थः । १७.१८२ । संपत्तिरस्य शिलया काकचटकयोः । **(१७,२,७) जालादिदानम् । १७.१८३ । पारावतेभ्यो भुञ्जानाना[मिवि]हेठाय जालदानम्* । १७.१८४ । चातुर्विध्यमस्य । १७.१८५ । मौञ्जे वावल्वजः साणकः कार्प्यासिका इति । १७.१८६ । चक्रिकाणां चतुर्षु कोनेषु दानम् । १७.१८७ । तासु बन्धः । १७.१८८ । स्फुट(ना)नं क्लेदश्च काष्ठस्य तस्मादयोमयीनाम् । १७.१८९ । छिद्रस्यास्यैकदेशे करणम् । १७.१९० । भुक्ते प्रवे[६१ ५]शाय । १७.१९१ । वेलायामस्य पिधानम्* । १७.१९२ । पानीयेन प्रासादस्याप्लवनाय वर्षासु पट्टानां दानं [स्त]म्भान्तरेषु । १७.१९३ । आलोकाय प्रदेशमुत्सृज्य । १७.१९४ । अभावे किटकानां किलिञ्जानां वा । १७.१९५ । वार्षिकमासचतुष्टयान्ते पनयनम्* । **(१७,२,८) मण्डलवाटादिकरणम् । १७.१९६ । करणं मण्डलवाटस्य । १७.१९७ । शीतलस्थानतायै बहिः भित्तिदानम्* । १७.१९८ । स्तम्भपंक्तेः । १७.१९९ । वा[६१ ६]तयनमुक्तिः । १७.२०० । आसनोत्तमसमानकक्ष्यापरिमानान्तानाम्* । १७.२०१ । जालिकाकवाटिकयोः दानम्* । १७.२०२ । करणभक्ताग्न्युपस्थापनचंक्रमणशालानाम्* । १७.२०३ । अवच्छादनकानाञ्च कण्ठादेशपरिक्षिप्तानाम् । **(१७,२,९) भूमिगृहककरणम् । १७.२०४ । कल्पते भूमिगृहकम्* । १७.२०५ । प्रासादवदत्र वेदिकागतम् । १७.२०६ । वेष्टिकत्वञ्च कन्थायां प्रव्रजितारामस्य । १७.२०७ । [६२ १] । । मुक्तोदकभ्रमत्वञ्च भित्त्[ए]ः । १७.२०८ । वाटपरिखाभ्यां च । १७.२०९ । पुद्गलस्य च विहारः सपरिकरः । १७.२१० । करणं नीलादिकृत्स्ननिमित्तामुखीभावाय नीलादिचतुर्विध्यस्य लयनभित्तीनाम् । **(१७,२,१०) चित्रणमारामस्य । १७.२११ । कल्पत्[ए] चित्रितत्वं प्रव्रजितारामस्य । १७.२१२ । द्वारे यक्षाणां चित्रणं वज्रधरादिहस्तानाम् । १७.२१३ । द्वारकोष्ठके संसारचक्रस्य । १७.२१४ । गण्डपञ्चकस्य करणम् । १७.२१५ । ऊर्धं द्[ए]वमनुष्या[६२ २]णाम् । १७.२१६ । चतुर्णां द्वीपानाम् । १७.२१७ । औपपादुकानां सत्वानां घटियंत्रवच्च्यवमानानामुपपद्यमानानां च रागद्वेषमोहानां पारावतभुजंगसूकराकारेण । १७.२१८ । ग्रस्यमानयोर्मोहेन पूर्वयोः । १७.२१९ । प्रतीतसमुत्पादस्य सामन्तके द्वादशाङ्गस्य । १७.२२० । सर्वस्यानित्यतया ग्र[स्त]स्य । १७.२२१ । ऊर्धं बुद्धस्य शुक्लं निर्वाणमण्डलमुपदर्शयेत्* । १७.२२२ । गाथयो[६२ ३]रारब्धमिति द्वयोरधस्तात्* । १७.२२३ । आख्यातुरस्य स्थापनम्* । १७.२२४ । सामन्तकेनास्य महाप्रातिहार्यमारभङ्गयोः । १७.२२५ । प्रासादे जातकानाम् । १७.२२६ । मालाधाराणां यक्षाणां गन्धकुटिद्वारे १७.२२७ उपस्थापनशालायां स्थविरपंक्तेः । १७.२२८ । गन्*जद्वारे ङ्कुरहस्तानां यक्षाणाम् । १७.२२९ । खाद्यहस्तानां भोजनमण्डपे । १७.२३० । जेन्ताकाशालायामङ्कुरकशहस्तानां कुभा[६२ ४]ण्डानां चाग्निद्वीपयताम् । १७.२३१ । अग्निशालायां मेचकादि कुर्वतामग्निं* च ज्वालयतां कुम्भाण्डपुत्राणाम् । १७.२३२ । दानपतेर्दीपं धारयतो देवदूति यस्य च । १७.२३३ । नानालंकारविभूषितानां कलश[हस्ता]नां नागकन्यकानां चोदकं धारयन्तीनां पानीयमण्डपे । १७.२३४ । ग्लानकल्पिकशालायां तथागतस्य ग्लानमुपतिष्ठतः । १७.२३५ । वर्चःप्र[६२ ५]स्रावकुट्योः शिवपथिकायाः शिरष्करोटेर्वा । **(१७,२,११) विहारसम्मार्जनादि । १७.२३६ । न विहारे नभ्यवकाशे सधूममग्निं* कुर्याद्धारयेद्धारकुट्टिमे सर्वम् । १७.२३७ । धारयेत्तदर्थं भ्रष्टिकाम् । १७.२३८ । समावर्तनार्थञ्चायोमयं दण्डतपकम्* । १७.२३९ । ढिं*सुकेनापि दारुमयेनैतत्कार्यसम्पत्तिः । १७.२४० । विहारमुपधिवारिकः संमृ[ह्या]त्प्रत्यहम् । १७.२४१ । असक्तावुपयुज्यमानं प्रदेशम् । १७.२४२ । अवशिष्टमष्टम्यां चतुर्दश्यां च सर्वसंघे [६२ ६] गण्डीमाकोट्ट्य धर्म्यया वा कथयार्येण वा तूष्णीम्भावेन । १७.२४३ । धर्मोत्सवे सेकः सुकुमार्याश्च गोमयकार्षाः प्रदानम्* । १७.२४४ । स्नानमन्तेर । १७.२४५ । हस्तपादप्रक्षालनं वा । १७.२४६ । गात्रस्य चोदकदिग्धेनानुपरिमार्जनम्* । १७.२४७ । स्नेहलाभस्य करणम् । १७.२४८ । रत्नार्थं संमृष्टामृष्टयोर्गन्धकूटिप्रतिमाचैत्ययष्टिछयानां चार्यां गाथां पठता लंघणम् । १७.२४९ । शयना[६२ १]सनस्यानयोरेवाह्नोः प्रत्यवेक्षणं संस्करणं निःसृतैः । १७.२५० । सेकसंमार्गसुकुमारिगोमयकार्षाप्रदानानि वासवस्तुनि कुर्वीत्* । १७.२५१ । शयनासनं मलिनं प्रस्फोटयेत्* । १७.२५२ । अतीव चेद्धावेत्* । १७.२५३ । ऊर्धं सेकास्संसृष्टिः । १७.२५४ । तत[श्] च प्रज्ञपनम्(अ) । १७.२५५ । न प्रस्फोटिते सरजस्कतायामाधारे । १७.२५६ । प्रज्ञ[प्र]नीयेभ्यो वस्त्रस्यैकस्य प्रस्फोटने विनियोगः । १७.२५७ । लूहस्य । १७.२५८ । प्रति[६२ २]संस्करणमस्य । १७.२५९ । अशक्यतायां चीरीकृत्य यष्ट्यामुपनिबध्य प्रस्फोटनम्* । १७.२६० । तथाप्ययोग्यत्वे गोमयमृदास्तम्भसुशिरे कुण्यस्य वा लेपनम्* । १७.२६१ । पुण्याभिवृद्धिचिरतायै दात्तः । १७.२६२ । न द्वारकोष्ठके प्रासादे वा शय्याप्रज्ञप्तिं कृत्वा वा धारणं कुर्यात्* । १७.२६३ । कुर्यादशद्रव प्रतिपक्षेणार्थमष्टमीचतुर्दशै प्रासादे । **(१७,२,१२) मंचपीठादिधारणम् । १७.२६४ । धारयेत्* मंचपीठम्* । १७.२६५ । कुटिमाविनाशार्थम्* [[६२ ३] मण्डलमधःपादकछेदं कारये[नु]षमुटके चैनं स्थापयेन्नतुकेन वा वेष्टयेत्* । १७.२६६ । नासंघो लेख्यपादकपीठकास्वीकृतं [भ]जेत । १७.२६७ । न भद्रासनमायाङ्गासनयोः । १७.२६८ । न दीपवृक्षस्य । १७.२६९ । अनेकलतकस्येत्यन्यपरम्* । १७.२७० । धारयेच्चतुरस्रकं वृषीम् [वो(पि)]पधानकं च । १७.२७१ । चतुर्द्विगुण्यद्विगुणीकृत्य सेवनम्* । १७.२७२ । तूलेन पूरणम् । १७.२७३ । नाकृतं प्रत्यवेक्षणे शय्यां [६२ ४] कल्पयेत्* । १७.२७४ । नानुपस्थाप्य स्मृतिम्* । **(१७,२,१३) सहानिषीदनम् । १७.२७५ । नापरेणे सार्धमेकत्र मंचे सं[स्]तरे न्यत्र वा । १७.२७६ । कल्पयेदसंभवे लज्जी पृथ[क्] प्रत्यास्थी[त्या]न्तरे वृषिकापात्रस्थाविकादि दत्त्वा स्मृतिमुपस्थाप्य । १७.२७७ । न त्रयादूर्धं प्रचितिः साह्येन मंचरूढतां भजेत्* । १७.२७८ । न द्वया धीर्घपीठि । १७.२७९ । नासंत्यामनेकः । १७.२८० । न त्रिवर्षाः परेणान्तरितेन सार्धमासनस्य । १७.२८१ । भजे[द्] आन्तर्गृहे [६२ ५] उपाध्यायेनाप्यासनाभावे स्मृतिमुपस्थाप्य । १७.२८२ । न क्वचिद्गृहिणानुपसं[(न्)प]न्नेन वा । १७.२८३ । न षण्णदृपण्डकमातृघातकादितीर्थ्यतीर्थ्याक्रान्तक[स्ते]यसंवासिकनानासंवासिकासंवासिकैः । १७.२८४ । न शि[क्षा]दत्तकः । **(१७,२,१४) सांघिकपरिष्कारेषु वर्तनम् । १७.२८५ । शिक्षादत्तकेनासनत्वं चिलिनिमिकायाः सोपसंपत्संघसन्निपातादन्यत्र । १७.२८६ । न स्थलिकायाः संकटसंबाधप्राप्ता[६२ ६]वनापत्तिः । १७.२८७ । संचारणे शयनासनस्य द्वौ चेदेकेन मंचपीठस्य वा ग्रहणमपरेण वृश्यादेः । १७.२८८ । नैत[त्सा]ंघिकमदयमाकर्षेन्निष्कर्षेद्धीन तथा कुर्याद्यथास्य [द्रू]ममलरजोभियोगः संपद्येत्* । १७.२८९ । नास्याशुचिकुट्योः सा[न्नि]हित्यं भजेत्* । १७.२९० । न विनस्य छोरयेत्* । १७.२९१ । आतपनं स्ये शोषणं प्रस्फोटनं छिद्रेर्गडकदानम्* । १७.२९२ । द[ण्ड]कस्य स्फोटो । १७.२९३ । [६३ १] क्षीणमध्यस्यान्तयोर्मध्यताकरणम् । १७.२९४ । रंजनं तदर्हस्य । १७.२९५ । अशक्यप्रतिसंस्करणतायां दीपेषु विनियोगो वर्तिकात्वेन रत्नोपयोगेषु पुद्गलदातृकेष्वपि । १७.२९६ । अनुपयज्यमानस्यात्र कर्दमेन भित्तिस्तम्भकवाटसुषिरेषु रत्नेषु लेपनमित्यनुप्रतिपत्तिः । १७.२९७ । अद्देष्टस्ये गृहीत्रा । १७.२९८ । शिष्टस्य संघ्[ए]न संनिपत्य गण्ड्याकोटनेन । १७.२९९ । न श[६३ २]क्यं सांघिकमपहरन्तं दृष्[ट्र] न निवारयेत्* । १७.३०० । नो त्रासे सांघिकमव्युपेक्षेरन्* । १७.३०१ । असंप्राप्तस्य स्थानम्* । १७.३०२ । नेतरूपत्रैयोज्यत्वम् । १७.३०३ । परिभुक्तिरसंभवे स्वस्थानोपनयनस्य स्थानान्तरे परिभोगेन । १७.३०४ । न स्थानान्तरीयं भक्तोपकरणलाभं स्थानान्तरे परिभुञ्जीत्* । १७.३०५ । तेनमन्यस्मै दद्युः । १७.३०६ । दास्यत्वं ग्रहीतुः । १७.३०७ । दातुरप्रगमे । १७.३०८ । निरव[द्]योंसिभिः [६३ ३] सांघिकस्य स्वस्यैव निरुपयोज्यस्य तृणकाष्ठस्योपयोगः । १७.३०९ । यथागतिकानुद्दिष्ट अवृत्त्योपयोज्येन यथावृद्धिका । १७.३१० । साह्ये याचनस्यैषाम् । १७.३११ । नातो विप्रयुक्तं वियोजयेत्* । १७.३१२ । शुद्धत्वमुदकेन पादस्यैतत्तद्भावने । १७.३१३ । प्रविष्टत्वं कुटौ तत्* । १७.३१४ । न निषद्यायोनिषद्याषण्णमुत्थापयेत । १७.३१५ । नास्यां यथावृद्धिका । १७.३१६ । न कर्दमामिषपरिशुद्धं [६३ ४] भिक्षुम् । १७.३१७ । नागन्त्र्या निषीदेत्* । १७.३१८ । न सत्यर्थिनि कृतकृत्य आवृद्धि भोज्यम्* धारय्[ए]त्* । १७.३१९ । अकृतकृत्यत्वमन्तरालार्थतन्त्रतायां मुक्तावासनस्य । १७.३२० । चीवरेणैनदायपट्टेन वा तदाधिष्ठितं कुर्वीत्* । १७.३२१ । नार्थिसद्भावे सत्यां गतौ सांघिकस्य पलिगुद्धतां भजेत्* । १७.३२२ । निरवद्यमेवंविधाद्वियोजनं सत्यर्थे । **(१७,२,१५) नापितभाण्डादिधारणम् । १७.३२३ । धारयेत्संघो निषदां पुत्रकं चा[६३ ५]स्याः । १७.३२४ । नापितभाण्डञ्च सुक्त्यां प्रक्षिप्य भित्तो स्थापनम्* । १७.३२५ । वासी च सपरशुनखादनादि त[द्] भाण्डम्* । १७.३२६ । दानमनेनामृन्मयस्य भिक्षोः याचितकत्वेन । १७.३२७ । न भिक्षुणीकाचभाण्डं धारयेत्* । १७.३२८ । धारयेत्सर्वं तैलभाजनम्* । १७.३२९ । कौर्डवात्प्रभृत्यर्धकौडवात्* । १७.३३० । स्थालीमायसीञ्[च] । १७.३३१ । अस्याः पर्यङ्किकाम् । १७.३३२ । मृन्मयञ्चेद्धानम्* । १७.३३३ । [६३ ६] लब्धसंवृतिः दण्डाम् । १७.३३४ । सिक्यं चैकवर्णम् । १७.३३५ । द[द्यु]रेने? । १७.३३६ । जीर्णग्लानयोः । १७.३३७ । संभवत्यनयोरेकेन वचसा दानम्* । १७.३३८ । धारणं सशब्दस्य शरीसृपादिप्रतिक्रियार्थं दण्डस्य । १७.३३९ । बन्धनं यष्टे मूलास्फोटे कूटेन । १७.३४० । प्रान्तादट्टनेन । १७.३४१ । धारये[च्छ]त्रं वा रूढं [व]र्णमयं वा । १७.३४२ । पञ्जरप्रमाण दण्डम्* । **(१७,२,१६) ग्रामादिचर्या । १७.३४३ । नानेकग्राममध्ये गच्छेत । १७.३४४ । मार्गवशत चेत्* पा[६३ १]र्श्वावनतेन । १७.३४५ । प्रचरेत्पण्डाय वर्षत्तायां देवस्य । १७.३४६ । नाकल्पिकत्वम्* । १७.३४७ । दण्डे निलीनस्य । १७.३४८ । स्थिते गृहेषु स्थापनम्* । १७.३४९ । निर्गच्छता ग्रहणम्* । १७.३५० । न घोषवेशपानागारराजकुलचण्डलाकठिनस्थतां भजेत्* । १७.३५१ । नाशुचिकुटिसमीपे वस्थानम्* । **(१७,२,१७) आरण्यककरणीयम् । १७.३५२ । न रत्नभूतेन वस्त्रेनारण्ये निवसेत्* । १७.३५३ । न मेरुकाचचूर्णेन प्रणाकासंजाताः । १७.३५४ । [६३ २]हिं*गोः । १७.३५५ । निम्वावासकप्र[त्रं]णां वा । १७.३५६ । तत्पुटस्य तत्रोपकरणत[र]त्वम्* । १७.३५७ । शोषणमस्ये तदर्थम्* । १७.३५८ । दिग्मार्गतिथिदिवसनक्षत्रेष्वरण्यककुशलः स्यात्* । १७.३५९ । नित्यसन्निहिताग्निपानीयः । १७.३६० । सक्तुत्संनिदध्यान्नतुकानि मधुसर्प्पिष्यि यथाशक्ति । १७.३६१ । शेषं भोजना ज्ञायते चेत्* । **(१७,२,१८) भिक्षुण्यकरणीयम् । १७.३६२ । न भिक्षुण्यरण्ये वसेत्* । १७.३६३ । करणं वर्षकस्य नगराभ्यंतरे । १७.३६४ । [६३ ३] नास्यैषाय द्वारे तिष्ठेत्* । १७.३६५ । नावलोकनके । १७.३६६ । न चतुष्पथो । १७.३६७ । नाप्रावृतवती । १७.३६८ । प्रावरणत्वमत्र संकक्षिकायाः । १७.३६९ । नापिधायिनो बाहोर्गृहिसंनिधाने । १७.३७० । अर्धपर्यङ्को स्याः पर्यङ्कस्थाने १७.३७१ ददीत्* प्रस्रावकरणद्वारे प्राणकाप्रवेशाय वस्त्रप्रभृति । १७.३७२ । न प्रवेशावरणं विहारे भिक्षुणीनाम् । १७.३७३ । भिक्षवष्कुर्युः । १७.३७४ । अनालापाने [६३ ४] अववादपोषधप्रवारणास्थापनैरेनाः परिदमयेयुः । १७.३७५ । नाननुज्ञास्येषा भिक्षुं विहारं प्रविशेत्* । १७.३७६ । सत्यसिनसान्तरे भ्यनुज्ञानम् । १७.३७७ । प्रस्ने निर्जयो प्रदुष्टताम् । **(१७,२,१९) सूच्यादिसमायोजनम् । १७.३७८ । शूचीघटिकाचक्रिकताटकाकुञ्चिकानां बन्धनाय विहारे समायोजनम्* । **(१७,२,२०) उपधिवारककरणीयम् । १७.३७९ । प्रदोषबध्वा प्रत्यवेक्षणमुपधिवारिकेन विहारस्य । १७.३८० । जागरणं सभयतायां प्राहरिकत्वेन । १७.३८१ । त[त्व्यू]ते[६३ ५]न वर्जनं स्वप्नसमाप[त्योः] । १७.३८२ । कृततामत्र संविधानस्य उपधिवारिकं संघस्थविरः पृच्छेत्* । १७.३८३ । विहारमोषे न चेद्बद्धत्वं समायुक्तैरुपधिवारिकस्य दास्य । १७.३८४ । हापने यावतामेतत्तावतामंशानाम् । १७.३८५ । धारयेत्कुञ्चिकां ताडकं च । १७.३८६ । नाबद्ध्वा यावद्भावं बन्धनैः द्वारं प्रक्रामेत । १७.३८७ । शून्यावासं चेत्प्रविशे सेकाद्यनुकुर्यात्* । १७.३८८ । भाण्डं विप्रकृतं प्रतिशमयेत्* [६३ ६]निर्मृज्य द[क्ष]मं चेत्* । १७.३८९ । संश्चेत्कल्पकार्[ओ] ल्पहरिततां कारयेत्* । १७.३९० । गृहिणश्चेदत्रागच्छेयुर्धर्म्यमेभ्यष्कथामन्यच्च शक्यधर्मः कुर्यात्* । **(१७,२,२१) वृक्षरोपणम् । १७.३९१ । नाकल्पिकं वृक्षरोपणम्* । १७.३९२ । नैनमुप्त्वा न पालयेत्* । १७.३९३ । आयुष्मणा तद्वृक्षम् । १७.३९४ । अन्यमाफलनात्* । १७.३९५ । चिरत्वे पंचकं वर्षाणाम् । १७.३९६ । स्वत्वन्नियुक्तस्यात्र भिक्षोः । १७.३९७ । हस्तयोः शचनम्* । १७.३९८ । पादयोः [६४ १] । । दन्तकाष्ठविसर्जनम्* । १७.३९९ । पात्रनिर्मादनं स्नानमिति यापनम्* । **(१७,२,२२) गर्भगृहकरणम् । १७.४०० । गर्भगृहकस्य शीतवारणार्थं करणम् । १७.४०१ । गवाक्षाकानामस्योच्छ्वासाय मोक्षः । १७.४०२ । अवच्छादनदानम्* । १७.४०३ । गृष्मे स्याश्चेदार्थमपनयः पूर्वस्यापि वर्षाः स्वक्लेदान्तम्* । १७.४०४ । निर्वाहस्य चाम्भसकरणम् । १७.४०५ । न मूलवृत्तिमव्युपेक्षरन्* । १७.४०६ । वर्षद्विभागेन विभज्य परिकर्मणाम्* । १७.४०७ । क्वचिद्दन्तका[६४ २]ष्ठभक्ष्यणम्* क्वचिन्मुखशोचनं क्वचित्* पादयोरित्येवं न तत्प्रसृततया । **(१७,२,२३) पुष्पफलादिरक्षा । १७.४०८ । पुष्पफलरक्ष[णा]य भिक्षूणामुद्देशः । १७.४०९ । भक्तकालाध्वमपरेषाम्* । १७.४१० । प्रथमतरं भुक्त्वा तैर्गमनम्* । **(१७,२,२४) पठनम् १७.४११ । पृथग्प्रवृत्त्यापि पाठको बहुतरोपस्थापनकारिणामशक्त सानुकम्पेत्* । १७.४१२ । अनुकम्पेतोद्गृह्य तद्विनयं तदुद्देशस्वाध्यायनिकपरिपृच्छानिकदानैः भिक्षुणीः । **(१७,२,२५) लेखनम् । १७.४१३ । लिखेल्लेखम्* । १७.४१४ । [६४ ३] असमर्थश्च स्मर्तुं धारणाय विनयम् । १७.४१५ । अलेख्यत्वमस्य । १७.४१६ । तद्वदत्र प्रातिमोक्षः । १७.४१७ । तत्प्रतिसंयुक्तम् । १७.४१८ । पैङ्गलिगस्य च । **(१७,२,२६) परिष्कारेषु निमित्तकरणम् । १७.४१९ । अदोषं निमित्तकरणम् । १७.४२० । सांघिके नाम्नः शयनासने लेखनम् । १७.४२१ । देयधर्मोयममुकस्येदंनाम्नि विहार इति । १७.४२२ । वस्त्रेषु च । १७.४२३ । अन्यत्र चैवंविधे । **(१७,२,२७) बुद्धवचनस्य छन्दस्य नारोपणम् । १७.४२४ । न बुद्धवचनं छन्दसि पदे क्रमे वा तत्परायणतयारोप्य पठित उ[द्]गृह्णीतद्वहिः [६४ ४] शास्त्राणि समर्थः परसंज्ञपने अनु[त्]सृजन् बुद्धवचनाभियोगम्* । १७.४२५ । तृतीयो दिवसभागस्तत्कालो प्रणातः । १७.४२६ । रात्रेश्च । १७.४२७ । उद्गृह्णीतानुग्राहिणो मन्त्रान्* । १७.४२८ । प्रयुञ्जीत्* । १७.४२९ । नोपघातिनः । **(१७,२,२८) रत्नत्रयभिन्ना नमस्यता । १७.४३० । रत्रत्रयस्यैषु नमस्यस्थाने व्याहारः । १७.४३१ । नान्यदेवतां नमस्येत्* । १७.४३२ । न पूजयेत्* । १७.४३३ । नासत्कुर्यात्* । १७.४३४ । आर्षा गाथां भाषणेनैनामभिमुखं स्थित्वा संबो[६४ ५]ध्यछटाशब्देनायनप्राप्तोऽनुगृह्णी[ता] । **(१७,२,२९) शिल्पानुद्ग्रहणम् । १७.४३५ । न शिल्पमनुतिष्ठेत्* । **(१७,२,३०) उपस्थानादिकरणीयता । १७.४३६ । शिक्षेयेरुपस्थापयेद्वा । १७.४३७ । तद्भाण्ड समुत्सृज्य शस्त्रकोशं सूचीगृहकं मेलंदुकं च । १७.४३८ । उपतिष्ठेत्कुशलश्चिकित्सया तीर्थ्यं पुण्यभिप्रायेनानभृतिकया । १७.४३९ । न विवेकं दत्त्वान्यत्र गच्छेत्* । १७.४४० । गच्छेत्तद्रूपेषु प्रत्ययेषु प्रतिविहारे सावुपद्रवे व्यपदिश्य । १७.४४१ । कुर्यान्नापितकरणीयं सब्रह्मचारि[६४ ६]णसुल्यव्यज्जनस्य प्रतिगुप्तप्रदेशे । १७.४४२ । घटनं च भग्नं मञ्चाङ्गस्य । १७.४४३ । ग्रन्थनञ्च रत्नार्थं मालागुणानाम् । १७.४४४ । लेखनञ्च रत्नपूजभूतस्यासत्वकृतेरालेख्यस्य । १७.४४५ । तत्वं तदर्थलेखायाः । **(१७,२,३१) मृतकक्रिया । १७.४४६ । मृतस्य सब्रह्मचारिणः शरीरपूजाकरणम् । १७.४४७ । दहनमस्य न चेत्सप्राणकव्रणत्वम् । १७.४४८ । प्रत्यवेक्षणेन निश्चयः । १७.४४९ । निखनमाप्लावनं वा नद्याम् । १७.४५० । अयुक्तो दव[६४ १]मध्ये स्थापनम्* । १७.४५१ । निपद्ययोदक्थिरसो दक्षिणपार्श्वेन । १७.४५२ । कक्षपिण्डकस्य शिरसि दानम्* । १७.४५३ । तृणैः पत्रैः वा प्रतिच्छादनम्* । १७.४५४ । धर्मश्रवणदक्षिणादेशनयोः करणम् । १७.४५५ । स्पृष्टवद्भिः सचेलस्नानस्य । १७.४५६ । अन्यैर्हस्तपादप्रक्षालनम् । १७.४५७ । चैत्यमभिवन्द्य प्रवेशः । **(१७,२,३२) स्तूपनिर्माणम् । १७.४५८ । द्वैविध्यं स्तूपे । १७.४५९ । सहगतत्वं स्तम्भभूतता च । १७.४६० । अर्हत्वमस्य प्रव्रजितानां कल्याण[ञ्] चेत्* । १७.४६१ । [६४ २] सर्वाकारस्य बुद्धानाम् । १७.४६२ । जगतीचतुष्कं जङ्घाण्डकहर्मिकायष्टयस्त्रयोदश छत्राणि वर्षस्थालकनित्याकाराः । १७.४६३ । विवर्षस्थालकस्य प्रत्येकबुद्धानाम् । १७.४६४ । फलपरिमाणैः छत्रैरेकाधिकैरस्य श्रवकानाम् । १७.४६५ । तथागतपा[र्श्व]देशवैवृत्तता चेत्तस्यां दिशि करणं यत्रैषां तत्परिवारदाने च स्थानमभूत्* । १७.४६६ । नान्यस्मिन्न यथावृद्धिका । १७.४६७ । मुण्डकस्य पृ[६४ ३]थग्भजनानाम् । १७.४६८ । बहिरेषां संघारामात्कर्तव्यत्वम् । १७.४६९ । अर्हत्यार्षस्तूपमहम् । १७.४७० । सब्रह्मचारिणां श्रवकस्तूपे निर्यातितस्येसित्वम्* । १७.४७१ । धर्म्यं बुद्धस्य लोहमयं स्तूपकरणम्* । १७.४७२ । सुवर्णरूप्यवैदूर्यस्फटिकमयानां केशनखस्तूपानां च । १७.४७३ । अनुपरिवारस्यात्र करणम् । १७.४७४ । तुषितभवनवासादिपरिनिर्वाणा[न्तं] वृत्तं तदाख्यम्* । १७.४७५ । सुधादानम्* । १७.४७६ । [६४ ४] श्वेतनम्* । १७.४७७ । दीपप्रतिग्रहणम् । १७.४७८ । वेदिकया वेष्टणम् । १७.४७९ । तोरणस्योत्स्रयणम् । १७.४८० । ध्वजानां दानम् । १७.४८१ । चातुर्विध्यमस्य । १७.४८२ । सिं*हध्वजो मकरध्वजो नागराजध्वजो वृषभध्वज इति । १७.४८३ । गहने पि करणम् । १७.४८४ । तोरण[स्यो]त्*[त्स्र]यणम् । १७.४८५ । चैरकस्य करणं वेदिकयास्य परिक्षेपः । १७.४८६ । स्तम्भानां गेरिकेन लेपनम्* । १७.४८७ । भित्तिः लाक्षया चित्रणं गन्धाभिषेकदानम्* । १७.४८८ । [६४ ५] तैलालचन्दनकुंकुमशेकानाञ्च । १७.४८९ । न कण्टकानां रोप[ण]ं नागदन्तकानां माससंयोजनाय दानमुत्तिष्ठति । १७.४९० । न छिद्रणाम् । १७.४९१ । नोपरिदीपदानमागारिकैष्पूजनार्थमधिरोहणमभावे श्रमणोद्द्[ए]शैष्पादो प्रक्षाल्य गन्धोदकेन । १७.४९२ । न चेदनेन गन्धैरुद्वर्त्य वस्त्रेण वा वेष्टयित्वा शास्तु संज्ञामामुखीकृत्यार्थमभिध्याय स्मृतैः । १७.४९३ । तेषामपि भिक्षुभि[६४ ६]रेवमेव । १७.४९४ । तदर्थं रज्ज्वासंजनम्* । । रत्नमयमालदानम्* । १७.४९५ । अवछेदनगर्भेण नासकं प्रतिबन्धाय छादनम्* । १७.४९६ । द्वाराणामनन्धकारायास्य मोचनम्* । **(१७,२,३३) बुद्धप्रतिमाकरणम् । १७.४९७ । बुद्धप्रतिकृतैस्करणम्* । **(१७,२,३४) बुद्धप्रतिमामहः । १७.४९८ । महस्यास्याष्प्रस्थापनम् । १७.४९९ । जातिजटाचूडाबोधिमहानाञ्च । १७.५०० । नगरप्रवेशे चास्याष्करणम् । १७.५०१ । कल्पते त्र भिक्षोस्तद्वहनम्* । १७.५०२ । [६५ १] ॥ नवकेष्वस्य प्राप्तिः पंचभिः निकायैः परिवारदानम् । १७.५०३ । आर्घ्येयस्य वृद्धेर्ग्रहणम् । १७.५०४ । वादित्रेणैतद्वाद्यमानेन सार्[द्]वन्येन च महता स[त्]कारेण निरावद्यं वादनाय कुरु कुरु भोष्पुरुष [शास्तु]ः पूजामित्युदीरणम्* । १७.५०५ । उद्घोषणं रथ्यावीथिच[फ्व?] सृङ्गाटकेषु श्वः परश्वो वा भविष्यत्तायां लिखितस्य इति बुद्धप्रवेशो भविष्यतीति भुजादावारोपितस्य [६५ २] हस्तिस्कन्धे छ[त्र]ध्वजपताकापरिवृतस्य । **(१७,२,३५) बोधिसत्त्वप्रतिमाकरणम् । १७.५०६ । धर्म्यं बोधिसत्वप्रतिमाकरणम्* । १७.५०७ । ध्वजैरस्याः परिवारो वेदिकयावेष्टनम्* लोहस्तम्भेश्च । १७.५०८ । पताकानां तेषु बन्धः । १७.५०९ । अनुमानकरणम् । १७.५१० । आभरणप्रतियुक्तिरुत्सृज्य पादाभरणं कर्णपूरं च । १७.५११ । गन्धार्गददानम्* । १७.५१२ । शिविक कायां वा हिण्डनम्* । १७.५१३ । रथेन च । १७.५१४ । छत्रध्वजपताकानां तत्रो[६५ ३]त्स्रयनम्* । १७.५१५ । पुष्पन्नतन्सकस्य शिरसि दानम् । १७.५१६ । अर्घपाद्ययोश्च । १७.५१७ । अभिसारस्य निःश्रितैस्तरुणवृद्धेश्च नयनम्* । १७.५१८ । चक्षण स्थविरैः । १७.५१९ । पालशमुद्गकस्य रथे करणं गन्धसमु[द्ग]केन सम्विधानम्* । १७.५२० । मालामुक्तिः । १७.५२१ । समाप्तायां पूजायां निर्वृतेषु वाद्येषु विप्रक्रान्ते जनकाये मण्डनापनमनम्* । १७.५२२ । नात्रौ । १७.५२३ । धर्म्यं प्रव्रजितवा[६५ ४]समर्ह प्रस्थापनम् । १७.५२४ । भक्तकल्पिकस्य कल्पिकस्य प्रतिवो[द्द्रि]त्य कल्पिकसमासः । १७.५२५ । उत्तरस्य भक्तृप्रतिपूर्वस्य्[ए]ति कल्पिकस्य । ॥ शयनासनवस्तु क्षुद्रकादिगतम्* ॥ ॥ समाप्तञ्च शयनासनवस्तु पश्चिमम् ॥ १७ ॥ विनयकर्मसंग्रहकारिकाः धारणं विप्रवासं च स्पर्शमग्नेर्निवारिते । भोजनं बीजाघातं च देशे च हरिते शुचिः ॥ उत्सर्गं वृक्षारोहश्च शैक्षा उ[६५ ५]द्देशायोस्सह । रत्नस्पर्शनभुक्या च जातस्सांनिध्यानान्तयोः ॥ भूमिप्ररोहघाताभ्यामुत्सृज्यान्त च सूत्रगतम् । प्रवृषे कत्र वसनं पोषधस्सप्रवारणाः ॥ इत्याद्यस्यान्तभाग्लिङ्ग याञ्चा भाण्डोपभुग्द्रव कामोपभोग संवासानाद् अराशोधकवस्तुकम् । स्पर्शपञ्जरनिक्षेपौ प्रतिछादो निवारणम् । त्रयं किंचित्कचतुष्टयं [६५ ६] गणमृतसीम्नि रत्नतः ॥ छन्दसंमृष्टसंस्पर्शाच्चतुष्टयं भवति पश्चिमम् । विधारणं सप्तकं द्वे चान्ये धारणाधिष्ठानोद्धारानुद्धार इति ॥ हिरण्यान्यचीवरासनवर्षकजनसंघार्थं वचनपलसंचतः निष्प्रयोजने हित्वानुद्धृतो चानुशाटी च द्वादशपर्ष्य नलषट्कं चीवरं संक्षेपस्यान्वननुव्यभिशोकभण्डनम् । अन्वयाशिक्षणानुस्थानात् । [६५ १] जत्वङ्गुलितलरोमछन्नौ च कर्णकग्रहणे भिक्षोश्च विद्यापाठनमोचन संतग्रधारणम् । गृहे छन्ने लयने मञ्चे उद्वर्त्तनमंचक उन्मुरोटिका गन्धपिण्याकतः । स्नाओशीरफलकुर्वत्रिशीर्षाणां कार्णङ्कारवृद्धादि । छत्रोपानह आसन्दी निषादारिकर्त्तनं चोडा ॥ विक्रयगृहपतिच्युत्वा लसुन रजादक धावन दानपरिवर्त्तनतः [६५ २] । चर्णकुलानिष्कासनन्तरुर्दृष्ट सपथ व्यथनावस्यण्डनक्रोशानसेकाव्युपशयनतः । छन्दाववादपोषधवर्षप्रावरणकठिनोद्धारभाजनवर्षाका[ल?]चर्याचर- णवादः । पृच्छा वहिश्छोरणे तिरः । ॥ भिक्षुणीविभङ्गोद्धानम् ॥ ज्ञपनं सेकवाक्यञ्च सत्यवाक्यञ्च तद्यथा । रहोन्तः प्रस्रयोरर्थपोषधस्यात्र सा यदि ॥ संघे [६५ ३] वैमतिके चास्यां विवादनिष्ठितत्वयोः प्रवारणगते चात्र सर्वस्मिन्नर्धपञ्चके ॥ वर्षोपगमने चैव मृतार्थे प्रतिवस्तुना । दाने कठिनवस्त्रस्य दुष्ठुलारोचने पि च ॥ दाने व्स्त्रस्य गणान् चतुष्के कुलसम्वृति । तत्प्रस्रब्ध्यौ कुब्जे च सोन्मज्जे ज्ञप्तिमात्रकम् ॥ मुखसीमद्वयाविप्रवासोन्मत्तप्रवारक । शय्यासनगृहगाणां [६५ ४] कल्पभूमेश्च सन्मति ॥ कठिनस्य तदास्तर्त्तुरुद्धारो स्यावसारणम् । विहारो देशिकादीनां स्थलस्थव्यूढनायकम् ॥ शलाकं वारकानां विहारकुटिदेशने । चोदकस्याप्रवासाय सन्मेतष्या त्र चारिणाः ॥ अप्रसादप्रवेदाववदित्रोर्वनवेदिनः । अवन्दनानलार्थं च दण्डशिक्षार्थमेव च ॥ एकलाभक्रियायाञ्च शिक्षणा न समु[६५ ५]पस्थिते । पुत्रे ज्ञातौ बहिर्याने ज्ञपनं शैक्ष्यावासनम् ॥ उपसंपादनं तीर्थ्यवासदानं [च] मोचनम् । सीम्नः साम्रग्र दानं च पोषधस्य च सप्तकम् ॥ षट्कं च स्मृत्यसंमूढ तत्स्वभावगमष्टकम् । आज्ञप्तध्वस्तदानं च ज्ञपनं सत्रिवाचनम् ॥ ॥ विनयकर्मसंग्रहकारिकाः समाप्ताः ॥ ॥ समाप्तं विनयसूत्रम् । [६५ ६] कृतिराचार्यगुणप्रभस्य ॥ ॥ अनेन पुण्येन सर्वेषां लोकपिटकभाजनम् ॥ शाक्यभिक्षु धर्मकीर्त्तिना सत्त्वार्थे लिखितं श्रीमद्विक्रमशिलामाश्रित्य फाल्गुणमासे ॥ ग्नुर्छोस्क्यि ग्रग्स्पस्ब्रिस्प । द्पल्ल्दन्ऽव्य्रि क्रम शि लर्द्प्येऽस्ल र व ल (= ग्नुर्धर्मकीर्त्तिना श्रीमद्विक्रमशिलायां फाल्गुणे मासे ) प्रथं मुखपत्रे (१ )--- शी ल अ क र स ब्रिस्प (= शीलाकरणे लिखितम्) विग्रहव्यावर्तनी पुस्तकान्ते ग्नुर्ध र्म किर्तिस्ब्रिस्प जो च म्यिङि म्खन् वुयिन् । एतस्य धर्मकीर्त्तेर्वणनं देब्लेर्स्रो पो ग्रन्थे ।