गुणकारण्डव्यूह सूत्र १. श्रीत्रिरत्न भजनानुशंसावदानम् ओं नमः श्रीरत्नत्रयायः नमः सर्वबुद्धबोधिसत्त्वेभ्यः ॥ यं श्रीघनो महाबुद्धः सर्वलोकाधिपो जिनः । तं नाथं शरणं गत्वा वक्ष्ये लोकेशसत्कथाम् ॥ या श्री भगवती देवी सर्वधर्माधिपेश्वरी । तस्या भक्तिप्रसादेन वक्ष्यामि बोधिसाधनम् ॥ येन संपालितं सर्वं त्रैधातुकमिदं जगत् । तस्य लोकेश्वरस्याहं वक्ष्ये सर्वार्थसाधनम् । तद्यथाभून्महासत्त्वो जिनश्रीराज आत्मवित् । त्रिरत्नशरणं गत्वा यतिरर्हन् जिनात्मजः ॥ एकस्मिन् समये सोऽर्हद्बोधिमण्डे जिनाश्रमे । बोधिचर्याव्रतं धृत्वा जगद्धित्वे समाश्रयत् ॥ तदा तत्र महाभिज्ञो जयश्रीर्यतिरात्मवित् । सद्धर्मं समुपादेष्टुं सभासने समाश्रयत् ॥ तं दृष्ट्वा श्रावकाः सर्वे भिक्षवो ब्रह्मचारिणः । तत्सद्धर्मामृतं पातुमुपेत्य समुपाश्रयन् ॥ तथान्ये बोधिसत्त्वाश्च संबोधिव्रतसाधिनः । सुभाषितामृतं पातुं तत्सभां समुपाश्रयन् ॥ भिक्षुण्यश्चेलकाश्चैवमुपासका उपासिकाः । व्रतिनोऽपि महासत्त्वाः सम्बुद्धभक्तिचारिकाः ॥ (२) ब्राह्मणाः क्षत्रियाश्चापि राजानो मन्त्रिणो जनाः । अमात्याः श्रेष्ठिनः पौराः सार्थवाहा महाजनाः ॥ तथा जानपदा ग्राम्याः पार्वतिकाश्च नैर्गमाः । तथान्ये दैशिका लोकाः सद्धर्मगुणवांछिनः ॥ सर्वे ते समुपागत्य तमर्हन्तं जयश्रियम् । यथाक्रमं समभ्यर्च्य प्रणत्वा समुपाश्रिताः ॥ तत्सद्धर्मामृतं पातुं कृतांजलिपुटा मुदा । शास्तारं तं समालोक्य परिवृत्य निषेदिरे ॥ तदा सोऽर्हन्महासत्त्वो बोधिसत्त्वो जिनात्मजः । जिनश्रीराजन्नालोक्य सर्वांल्लोकान् सभाश्रीतान् ॥ त्रिरत्नगुणमाहात्म्यं श्रोतुं समभिलाषिणः । समुत्थायासनात्तस्य जयश्रियः पुरोऽग्रतः ॥ उद्वहन्नुत्तरासंगं जानुभूमितलाश्रितः । पादाब्जं सांजलिर्नत्वा प्रार्थयदेवमादरात् ॥ भदन्त श्रोतुमिछामि त्रिरत्नोत्पत्तिसत्कथाम् । तद्भगवान् समुपादिश्य सम्बोधयतु मां गुरो ॥ इति संप्रार्थिते तेन जिनश्रीगुणसंभृता । जयश्रीः सुमतिः शास्ता सभा वीक्ष्यैवमादिशत् ॥ साधु शृणु समाधाय जिनश्रीराज सन्मते । त्रिरत्नस्य समुत्पत्तिसत्कथागुणविस्तरम् ॥ यथा मे गुरुणादिष्टं जिनकल्पेन योगिना । उपगुप्तेन लोकानां हितार्थे वक्ष्यते मया ॥ तद्यथाभून्महाराजश्चक्रवर्तीं नराधिपः । अशोको नाम राजेन्द्रः सर्वलोकहितार्थभृत् ॥ एकदा स महाराजः सद्धर्मगुणलालसः । त्रिरत्नगुणमाहात्म्यं श्रोतुमैच्छज्जगद्धिते ॥ ततः स भूपती राजा समन्त्रिजनपौरिकः । पूजोपहारमादाय स संवाद्य महोत्सवैः ॥ (३) विहारे कुक्कुटारामे प्रययौ संप्रमोदितः । ततः प्राप्तः स राजेन्द्र प्रविश्य संप्रसादितः ॥ उपगुप्तं महाभिज्ञं संददर्श ससांघिकम् । तमर्हन्तं समालोक्य नत्वा स सांजलिर्मुदा ॥ सहसा समुपागत्य यथाविधि समर्चयेत् । ततः प्रदक्षिणीकृत्वा प्रवत्वा चरणाम्बुजे ॥ सांजलिस्तस्य सद्धर्म श्रोतुं पुरः समाश्रयत् । ततः सर्वेऽपि लोगकाश्च यथाक्रममुपागताः ॥ तमर्हन्तं यतिं नत्वा परिवृत्य समाश्रयन् । तदाशोकः स राजेन्द्रो दृष्ट्वा सभाश्रितान् जनान् ॥ उत्थाय स्वासनाच्छास्तुः पुरतः समुपाश्रितः । उद्वहन्नुत्तरासंगं जानुभ्यां भुवि संस्थितः ॥ सांजलिस्तं यतिं नत्वा प्रार्थयेदेवमादरात् । भदन्त श्रोतुमिछामि त्रिरत्नोत्पत्तिसत्कथाम् ॥ किं त्रिरत्नमिति ख्यातं तत्समादेष्टुमर्हसि । इति संप्रार्थिते राज्ञा सोऽर्हन् जिनात्मजः सुधीः ॥ उपगुप्तो नरेन्द्रं तं समालोक्यैवमादिशत् ॥ साधु शृणु महाराज समाधाय जगद्धिते ॥ यथा मे गुरुणादिष्टं तथा ते वक्ष्यते मया । तद्यथादिसमुद्भूतो धर्मधातुस्वरुपकः ॥ पंचबुद्धांशसंजातो जगदीशस्तथागतः । महाबुद्धो जगन्नाथो जगच्छास्ता महेश्वरः ॥ धर्मराजो मुनीन्द्रोऽर्हन्वैरोचनसमाधिधृक् । सर्वज्ञः सद्गुणाधारः सर्वविद्याधिपो जिनः ॥ समन्तभद्ररुपांगः सुगतः श्रीसुखाकरः । षडभिज्ञो महावीरो वज्रसत्त्वविनायकः ॥ मारदर्पतमोहन्ता संबोधिज्ञानभास्करः । एष स भगवांल्लोके बुद्धरत्न इति स्मृतः ॥ (४) ये चैतच्छरणं गत्वा बोद्धिसत्त्वा जगद्धिते । बोधिचर्याव्रतं धृत्वा चरन्तो भद्रचारिकान् ॥ जित्वा मारगणान् सर्वानर्हन्तो निर्मलाशयाः । सम्यक्संबोधिमासाद्य संबुद्धपदमागताः ॥ तेऽपि सर्वे जगन्नाथास्तथागता मुनीश्वराः । भगवन्तो महाभिज्ञा बुद्धरत्ना इति स्मृताः । या श्री भगवती देवी प्रज्ञा सर्वगुणाश्रया । जननी सर्वबुद्धानां संबोधिज्ञानभास्करी ॥ मारदर्पतमोहन्त्री सद्धर्मगुणदायिनी । सर्वविद्याधरी लक्ष्मी सर्वसत्त्वशुभंकरी ॥ एषः सद्धर्मसम्भर्ता धर्मरत्न इति स्मृतः ॥ ये चान्येऽपि महायानसूत्रादयः सुभाषिताः । देशिताः सुगतैस्तेऽपि धर्मरत्न इति स्मृतः । यश्च सद्धर्मसंभिर्ता बोधिसत्त्वो जगत्प्रभुः । महासत्त्वो जगन्नाथः सर्वधर्माधिपेश्वरः ॥ दुष्टक्लेशतमोहन्ता संबोधिगिणभास्करः । विश्वरुपो महाभिज्ञः सर्वसत्त्वहितार्थभृत् ॥ सर्वलोकाधिपः श्रीमान् धर्मराजो जिनात्मजः । एष लोकेश्वरः शास्ता संघरत्न इति स्मृतः ॥ ये चान्येऽपि महासत्त्वा बोधिसत्त्वा जितेन्द्रियाः । अर्हन्तो निर्मलात्मानः संबोधिज्ञानसाधिनः ॥ भद्रचर्यासमाचाराश्चतुर्ब्रह्मविहारिणः । संबुद्धसांघिकास्तेऽपि संघरत्नाः स्मृता जिनैः ॥ ये तेषां शरणं गत्वा भक्तिश्रद्धासमाहिताः । भजन्ति सर्वदा नित्यं स्मृत्वापि च दिवानिशम् ॥ ते भवन्ति महासत्त्वा बोधिसत्त्वा गुणाकराः । सच्छ्रीसंपत्समापन्नाः सर्वसत्त्वहितोत्सवाः ॥ बोधिचर्याव्रतं दृत्वा कृत्वा लोके शुभं सदा । सुखान्येव सदाअ भुक्त्वाअ प्रान्ते याअन्ति सुखावतीम् ॥ (५) इत्येवं संघरत्नस्य भजनं पुण्यमुत्तमम् । मत्वा तच्छरणं गत्वा भजन्त्येतद्गुणार्थिनः ॥ एतत्पुण्यविशुद्धात्मा कदाप्येति न दुर्गतिम् । सर्वदा सद्गतिष्वेव जातो धर्माधिपो भवेत् ॥ ये चापि धर्मरत्नस्य प्रगत्वा शरणं सदा । भजन्ति श्रद्धया भक्त्या श्रुत्वाप्येतत्सुभाषितम् ॥ तेऽपि सन्तो महासत्त्वा बोधिसत्त्वा गुणाश्रयाः । संबोधिश्रीसुखाधाराः सर्वसत्त्वशुभारताः ॥ संबोधिचारिकां धृत्वा कृत्वा सत्त्वहितं सदा । सत्सुखान्येव भुक्त्वान्ते संयान्ति सुगतालयम् ॥ इत्येवं धर्मरत्नस्य भजनार्थं वरं वृषम् । विज्ञाय शरणं गत्वा भजन्त्वेतच्छुभार्थिनः ॥ एतद्धर्मविशुद्धात्मा दुर्गतिं नैव याति सः । सद्गतिष्वेव संजातो प्राओन्ते याति जिनालयम् ॥ इति विज्ञाय ये मर्त्याः सद्धर्मसुखवांछिनः । त्रिरत्नशरणं गत्वा भजन्तु ते सदा भवे ॥ एतत्पुण्यानुभावेन परिशुद्धाशया नराः । संबोधिचित्तमासाद्य चरन्ति बोधिसंवरम् ॥ बोधिचर्यां चरन्तस्ते पूर्य पारमिताः क्रमात् ॥ चतुर्मारान् विनिर्जित्य निःक्लेशा विमलाशयाः । अर्हन्तं प्राप्य संबोधिं संबुद्धपदमाप्नुयुः ॥ इति विज्ञाय यो मर्त्यः संबुद्धपदमिच्छति । स आदौ शरणं गत्वा सद्गुरोः समुपाश्रयेत् ॥ आराध्य सद्गुरुं भक्त्या सन्तोष्य संप्रसादयन् । तदुपदेशमासाद्य तीर्थ स्नात्वा व्रतं चरेत् ॥ व्रतानां पोषधं श्रेष्ठं समाख्यातं मुनीश्वरैः । एतत्पुण्यानुभावेन संप्राप्नोति बोधिमुत्तमाम् ॥ अतीता अपि संबुद्धा एतत्पुण्यानुभावतः । जित्वा मारान् समासाद्य संबोधिमभवन् जिनाः । (६) ये चैतर्हि स्थिताः सर्वे तेऽप्येतत्पुण्यभावतः । अर्हन्तं प्राप्य संबोधिं भवन्ति सुगताः खलु ॥ ये चाप्यनागताः सर्वे बोधिसत्त्वा व्रतोपमाः । तेऽप्येतत्पुण्यपाकेन भविष्यन्ति मुनीश्वराः ॥ एवमन्येतत्पुण्यपाकेन भविष्यन्ति मुनीश्वराः ॥ एवमन्येऽपि सत्त्वाश्च ये येऽप्येतद्व्रतंचराः । ते ते सर्वे महासत्त्वा भवेयुर्बोधिभागिनः ॥ श्रीमन्तः सद्गुणाधारा निःक्लेशा विजितेन्द्रियाः । सर्वसत्त्वहितोद्युक्ताश्चतुर्ब्रह्मविहारिणः ॥ दुर्गतिं ते न गच्छन्ति कदापि हि भवालये ॥ सदापि सद्गतावेव संजाताः सत्सुखान्विताः । बोधिसत्त्वाः सुधीमन्तःसद्धर्मगुणसाधिनः ॥ क्रमेण बोधिसंभारं पूरयित्वा समाहिताः । त्रिविधां बोधिमासाध निर्वृतिपदमाप्नुयुः ॥ इति विज्ञान ये मर्त्या निर्वृतिपदकांक्षिणः । ते एतद्व्रतमाधाय संचरन्तो यथाविथि ॥ एतत्पुण्यविशुद्धा हि नैव गच्छन्ति दुर्गतिम् । सदा सद्गतिसंजाताः प्रान्ते ययुः सुनिर्वृतिम् ॥ एवं मे गुरुणादिष्टं मुनीन्द्रैदेशितं यथा । तथाहं ते मया राजन् गदितं संप्रध्यताम् ॥ त्वमप्येवं सदा राजन् दुर्गतिं न यदीच्छसि ॥ सदा सद्गतिसंजातो निर्वृतिं हि यदीच्छसि ॥ चरस्वैतद्व्रतं राजन् पोषधाख्यं यथाविधि । एतत्पुण्यविशुद्धात्मा नूनं यायाः सुनिर्वृतिम् ॥ इति तेनार्हता शाया समादिष्टं निशम्य सः । अशोको नृपती राजा तद्व्रतं धर्तुमैच्छत ॥ ततः स नृपती राजा कृतांजलिरुपाश्रितः । उपगुप्तं तमर्हन्तं नत्वैवं प्रार्थयन्मुदा ॥ भवन्ते भवतादिष्टं श्रुत्वा मे रोचते मनः । तथाहं संचरिष्येदं पोषधं व्रतमुत्तमम् ॥ (७) तद्विधानं समाख्याहि तत्फलं च विशेषतः । त्रिरत्नभजनोत्पन्नं पुण्यfअलं च विस्तरम् ॥ इति संप्रार्थिते राज्ञा स शास्तार्हन्यतिः सुधिः । अशोकं तं महाराजं समालोक्यैवमादिशत् ॥ साधु शृणु महाराज यदिच्छसि समाहितः । यथा मे गुरुणाख्यातं तथा ते संप्रवक्ष्यते ॥ तद्याथायं प्रसन्नात्मा व्रतं चरितुमिच्छति । स आदौ प्रातरुत्थाय तीर्थ स्नात्वा यथाविधि ॥ शुद्धक्यावृतः शुद्धचित्तो ब्रह्मविहारिकः । अष्टांगविधिसंयुक्तं पोषधं व्रतमादधत् ॥ श्रीमदमोपाशस्य लोकेश्वरस्य मण्डलम् । सगणं वर्तयेद्रंगैः पंचभिः परिशोभितम् ॥ यथाविधि प्रतिष्ठाप्य शुचिशीलः समाहितः । तथैव मद्यमांसाद्या रसुनाद्या विवर्जयेत् ॥ आदौ गुरुं समभ्यर्च्य यथाविधि प्रणामयेत् । ततयिरत्नमभ्यर्च्य प्रणमेच्छरणं गतः ॥ ततश्चामोघपाशाख्यं लोकेश्वरं जगत्प्रभुम् ॥ निध्याय मनसावाह्य दत्वा पाद्यार्घमादरात् ॥ संस्थाप्य मण्डले तत्र सगणं संप्रमोदितः । यथाविथि समाराध्य श्रद्धाभक्तिसमन्वितः ॥ धूपैर्गन्धैः सुपुष्पैश्च दीपैः पंचामृताशनैः । सर्वैर्द्रव्यैः सरत्नैश्च समभ्यर्च्याभितोषयेत् ॥ जपस्तोत्रादिभिः स्तुत्वा कृत्वा नैकप्रदक्षिणाम् । अष्टांगैः सांजलिर्नत्वा प्रार्थयेद्भद्रसंवरम् ॥ ततश्च सांजलिः स्थित्वा कुर्यात्स्वपापदेशनाम् । पुण्यानुमोदनां चापि सुचिरं चापि संस्थितिम् । एवं स सुप्रसन्नात्मा संप्रार्थ्य बोधिसंवरम् । ततः क्षमार्थनां कृत्वा तन्मण्डलं विसर्जयेत् ॥ (८) ततोऽह्नेः तृतीये यामे पंचामृतादिभोजनम् । निरामिषं यथाकामं भुक्त्वा चरेत्समाहितः ॥ एवं तद्व्रतसंपूर्णं कृत्वा संपालयन्मुदा । सर्वसत्त्वहितं कृत्वा चरेत्संबोधिमानसः ॥ एअतत्पुण्यविशुद्धात्मा निःक्लेशः स जितेन्द्रियः । बोधिसत्त्वो महासत्त्वः स्वपरात्महितार्थभृत् ॥ श्रीमान् सद्गुणसंवासो बोधिचर्याव्रतं दधत् । सदा सद्गतिसंजातो भुक्त्वा भोयं यथेप्सितम् ॥ त्रिविधां बोधिमासाद्य प्रान्ते यायात्सुनिर्वृतिम् ॥ एवमेवद्व्रतोद्भूतं पुण्यfअलं महत्तरम् । प्रमातुं शक्यते नैव सर्वैरपि मुनीश्वरैः ॥ तत्पूजाकृतपुण्यानां विशेषं फलमुच्यते । तच्छृणुष्व महाराज समाधाय सुचेतसा ॥ ये पुण्यकामा मनुजायिरत्नं समीक्ष्य हर्षाच्छरणं प्रयान्ति । ते धर्मरक्ताः शुभलक्ष्मीमन्तः सम्बोधिचर्याभिरता भवन्ति ॥ पंचामृतैः पंचसुगन्धितोयैर्ये स्नापयन्ति प्रमुदा त्रिरत्नम् । मन्दाकिनीदिव्यसुगन्धितोये स्नात्वा सुखं ते दिवि संरमन्ते ॥ ये च त्रिरत्नेषु सुगन्धिधूपं प्रधुपयन्ति प्रतिमोदयन्तः । ते शुद्धचिताः शुचिगन्धितांगा रत्नोपमाः श्रीईगुणिता भवन्ति ॥ ये पंचगन्धैरनुपयन्ति त्रिरत्नदेहे परिशुद्धचित्ताः । ते रत्नवन्तः क्षितिपाधिराजा भवन्ति सर्वार्थहितार्थकामाः ॥ ये दूष्यपट्टादिवराम्बराणि त्रिरत्ननथाय मुदार्पयन्ति । कौशेयरत्नाभरणावृतांगा धर्माधिपास्ते सुधियो भवन्ति ॥ ये च त्रिरत्नं स्थलजैः सुपुष्पैर्जलोद्भवैश्चापि समर्चयन्ति । ते दिव्यलक्ष्मीसुखभोग्यवन्तः श्रीसिद्धिमन्तः सुभगा भवन्ति ॥ त्रिरत्नबिम्बवरे पुष्पमाला ये धर्मकामा अवलम्बयन्ति । ते देवराजा वरलक्ष्मीमन्तः संबोधिकामाः सुभगा भवन्ति ॥ सर्वाणि पुष्पाणि सुगन्धिमन्ति त्रिरत्नबिम्बे प्रकिरन्ति ये च । देवाधिपाः स्वर्गगता भवन्ति महीगतास्ते क्षितिपाधिराजाः ॥ (९) ये दीपमालां रचयन्ति ये च रत्नत्रयाग्रे हतमोहजालाः । ते कान्तरुपा गुणरत्नवन्तो भवन्ति भूपार्चितपादपद्माः ॥ प्रकुर्वते ये च प्रदीपदानं रत्नत्रयाग्रे घृततैलदीप्तम् । ते शुद्धनेत्राः प्रबला गुणाढ्या देवाधिराजाः क्षितिपाधिपाश्च ॥ भोज्यं प्रणीतं सुरसं सुवर्णं रत्नत्रयाय प्रतिपादयन्ति । ये भक्तियुक्ता दिवि ते भवन्ति सुराधिपा भूतपयश्च धीराः ॥ पानं नरा येऽमृतसद्गुणाढ्यं रत्नत्रयाय प्रतिपादयन्ति । ते भूराजा नीरुजो बलिष्ठा भवन्ति स्वर्गे त्रिदिशाधिपाश्च ॥ शाकानि मूलानि fअलानि ये च रत्नत्रयाय प्रतिपादयन्ति । यथेष्टभोग्यं सततं प्रभुक्त्वा गच्छन्ति तत्ते सुगतालये च ॥ ये च त्रिरत्नाय समर्पयन्ति सुपथ्यभैषज्यगणानि भक्त्या । श्रीईसमृद्धाः क्षितिपाधिनाथा भुक्त्वा सुखं यान्ति जिनालयं ते ॥ ताम्बूलपूगादिरसायनानि ये च त्रिरत्नाय समर्पयन्ति । दिव्यांगसौन्दर्यगुनाभिरामा भवन्ति ते श्रीगुणिनः सुराश्च ॥ वितानमुच्चैर्वितनोति यश्च रत्नत्रये सर्वनृपाभिवन्द्यः । विशालवंशो गुणवान् सुधीरो महानुभावप्रथितो भवेत्सः ॥ ध्वजान् विचित्रानवरोपयन्ति ये च त्रिरत्नालय उत्सवार्थम् । ते श्रीसमृद्धाः सुगुणाभिरामा भवन्ति नाथा दिवि भूतले च ॥ श्रीमत्पताका अवलम्बयन्ति रत्नत्रये ये रसाभियुक्ताः । लक्ष्मीश्वरास्ते जितदुष्टसंघा भवन्त्यधीशा दिवि भूतले च ॥ छत्राणि सौवर्णमयानि ये च कौशेयदूष्टै रचितानि वा च । सुशुद्धरंगैर्मयनैश्च पुष्पै रत्नत्रये येऽभ्यवरोपयन्ति ॥ ते भूपराजा वरसिद्धिमन्तो लक्ष्मीश्वराः सर्वहितार्थकायाः । सद्धर्मकामा गुणरत्नपूर्ना वन्द्या भवन्ति प्रवरर्द्धिमन्तः ॥ संगीतिवाद्यैर्मुरुजादिभिश्च मुकुंदढक्काप्रानवानकैश्च । मड्मृदंगपटहादिभिश्च मनोज्ञघोषैः श्रोतिचित्तरम्यैः ॥ स दुन्दुभिडिण्डमझर्झरैश्च प्रणादिभिर्मर्दनवादनैश्च । तथान्यकैर्मंगलशब्दवाद्यै रत्नत्रये ये रचयन्ति पूजाम् ॥ (१०) तथा च वीणादिमनोज्ञनादैर्वशैः सुरावैरपि काहरैश्च । भेरीभिरुच्चैः परिवादिनीभि रत्नत्रयं येसुरसा भजन्ति ॥ तौर्यत्रिकैर्भद्रसुघोषशंखैः शृंगादिभिश्चापि मनोज्ञनादैः । नृत्यादिभिश्चापि प्रमोदयन्तो रत्नत्रयं ये सुरसा भजन्ति ॥ ते दिव्यश्रोत्राः सुमनोज्ञशब्दाः सर्वार्थसम्पत्यपरिपूर्णकोशाः । सद्धर्म्मपुण्यानुगुणाभिरक्ताः सुखानि भुक्त्वा प्रचरन्ति स्वर्गे ॥ क्षिपन्ति लाजाक्षतपुष्पकाणि रत्नत्रये ये परिहर्षमाणाः । न दुर्गतिं ते सततं व्रजन्ति स्वर्गे प्रयाताः सुभगा रमन्ते ॥ सुधातुरत्नानि सदक्षिणानि रत्नत्रये ये च समर्पयन्ति । सुलब्धकामार्थसुखाभिरामाः पूर्णेन्द्रियास्ते सुधियो भवन्ति ॥ प्रदक्षिणानि प्रविधाय भक्त्या भजन्ति ये चापि मुदा त्रिरत्नम् । ते शुद्धकायाः प्रतिलब्धसौख्या भवन्ति देवा मनुजाधिपाश्च ॥ ये च त्रिरत्नं स्तुतिभिर्भजन्ति गद्यत्मिकैः पद्यमयैश्च शुद्धैः । वागीश्वरास्ते सुसमृद्धकोषा भवन्ति नाथा दिवि भूतले च ॥ ये च त्रिरत्नं शरणं प्रयाता अष्टाभिरगैः प्रनमन्ति भ्क्त्या । भवन्ति ते श्रीगुणवर्णपूर्णाः सद्धर्मकामाः नृपतीश्वराश्च ॥ ये चापि नित्यं मनसा विचित्य भजन्ति भक्त्या शरणं प्रयाताः । ते पापनिर्मुक्तविशुद्धकायाः सद्धर्मकामाः दुर्गतिं व्रजन्ति ॥ ये च त्रिरत्नं मनसा विचिन्त्य तन्नाम नित्यं समुदीरयन्ति । ते शुद्धचित्ता विमलात्मकाश्च संबुद्धधर्माभिरता भवन्ति ॥ ये च त्रिरत्नानि सुदूरतोऽपि दृट्वा प्रसन्नाः प्रणमन्ति भक्त्या । ते चापि सद्धर्मगुणाभिलाषाः शुद्धत्रिकायाः सुभगा भवन्ति ॥ इत्येतदादीनि महत्तराणि पुण्याअनि श्रीसद्गुणासाधनानि । त्रिरत्नपूजाभजनोद्भवानि मत्वा भजन्तु त्रिगुणात्मकं तम् ॥ आख्यातमेतत्सुगतैश्च सर्वेः त्रिरत्नसेवाभजनोद्भवं तत् । पुण्यं महत्तस्य समं क्वचिन्न सर्वत्र लोकेष्वपि सत्येमेव ॥ एवं महत्पुण्यमुदारमग्रं बद्धप्रमेयं गणनानभिज्ञम् । मत्वा त्रिरत्नं शरणं प्रयातो राजन् यदि बोद्धिमिच्छसि ॥ (११) ये ये त्रिरत्नं शरणं प्रयाता भजन्ति सत्कृत्य सदा प्रसन्नाः । ते सर्व एवं त्रिगुणाभिरामा सद्धर्मकामाः सुगतात्मजाः स्युः ॥ दत्वा सदार्थिभ्य उदारदानं संबोधिकामाः सुवृषे चरेयुः । क्रमेण सम्बोधिव्रतं चरन्तो बोधिं समासाद्य जिना भवेयुः । ततः ससंघायिजगद्धितार्थं विज्ञाय सुधर्ममुपादिशन्तः । समाप्य सर्वं त्रिषु बौद्धकार्यं संययुरन्ते परिनिर्वृतिं ते ॥ एवं हि विज्ञाय यदीच्छसि त्वं निर्वृतिसौख्यमधिगन्तुमेवम् । सदा त्रिरत्नं शरणं प्रयातः श्रद्धाप्रसन्नः सततं भजस्व ॥ मा निन्द राजन्नवमन्यमोहो त्रैधातुनाथं शुभदं त्रिरत्नम् । अनिन्दनीयं हि जगत्प्रधानं सद्धर्मराजं भजनीयमेव ॥ ये चाप्यधिक्षिप्य मदाभिमाना दुष्ट कुलेष्वेप्रि विहतात्मधैर्याः । आलोक्य निन्दन्ति सदा प्रसन्नाः त्रिलोकभद्रार्थप्रदं त्रिरत्नम् ॥ ते सर्व एनोऽभिरताः प्रमत्ताः सद्धर्मनिन्दाभिरताः प्रदुष्टाः । नष्टाः परद्रोहमदाभिमानाः सत्त्वविघाताभिरता भवेयुः ॥ ततश्च ते तदुरिताभिषक्ता महत्सु पापेष्वपि निर्विशंकाः । सर्वाणि धर्मार्थसुभाषितानि श्रुत्वा प्रसन्नाः परिभाषयेयुः ॥ एवं सुघोराणि बहूनि कृत्वा पापानि नित्यं समुदाचरन्तः । भूयोऽतिपापेष्वपि ते चरन्तो दुःखानि भुक्त्वा निरये व्रजेयुः ॥ गत्वापि तेऽपायनिमग्नदेहाः क्षुधाग्निसन्दग्धविमोहिताश्च । भुक्त्वाप्यमेध्यानि तृषाभितप्ताः पीत्वापि मूत्राणि च नैव तुष्टाः ॥ जिघत्सितास्तेऽतिपिपासिताश्च क्लेशाग्निसंतप्तविमोहिताश्च । तीव्रातिदुःखार्ताविलुप्तधैर्या भ्रमन्त एनोऽभिरता वसेयुः ॥ नैवापि तस्यापि विमुक्तिमार्गं लभेयुरेनोऽभिनिबन्ध्यमानाः । सदापि तत्रैव वसेयुरेवं तीव्रव्यथाक्रान्तविमोतास्ते ॥ ये चापि लोभेन बलेन चापि द्रव्यं त्रिरत्नस्य धनाशनादि । हत्वा मुषित्वाप्यपहत्य वापि प्रभुंजते क्लेशविलुतधैर्याः ॥ ते दुष्टसत्त्वा दुरताभिरक्ता कृत्वैव घोराण्यपि पातकानि । प्रभुंजमानाः सुचिरं सुदुःखं कृच्छ्रेण मृत्वा नरकं व्रजेतुः ॥ (१२) तत्रापि ते क्लेशविलुप्तधैर्याः क्षुधातितृष्णाग्निप्रतापितांगाः । पुरीषमूत्रादिप्रभुंजमाना भ्रमन्त एवं निरये वसेयुः ॥ कालान्तरे ते प्रतिलब्धधैर्याः स्वदुष्कृतं कर्म विभावयन्तः । स्मृत्वा त्रिरत्नं मनसानुतप्ता ध्यात्वा प्रसन्नाः प्रणतिं विदध्युः ॥ ततस्तदेनःपरिमुक्तदेहाः समुत्थितान्नरकात्कदाचित् । मानुष्यजातिं समाप्नुवन्तो दीना दरिद्रा कृपणा भवेयुः ॥ तत्रापि ते दुष्टजानुसक्ताआः सद्धर्मनिन्दादुरितानुरक्ताः । भूयोऽपि पापानि महान्ति कृत्वा व्रजेयुरेवं नरकेषु भूयः ॥ भ्रमन्त एवं बहुधा भवे ते दुःखानि भुक्त्वा सचिरं रुजार्ताः । किंचित्सुखं नैव लभेयुरेनोनिबन्धचिता नरके वसन्ते ॥ एवं त्रिरत्नेष्वपकारजातं पापं सुघोरं कथितं मुनीन्द्रैः । मत्वेति राजन्नपकारमत्र रत्नत्रये मा विदधातु किंचित् ॥ भक्त्वा प्रसन्नः शरणं प्रयातयिरत्नमेव सततं भजस्व । एतद्विपाकेन सदा शुभानि कृत्वा प्रयायाः सुगतालयं ते ॥ इत्येवं तत्समादिष्टं श्रुत्वाशोकः स भूपतिः । तमर्हन्तं गुरुं नत्वा सांजलिरेवमब्रवीत् ॥ भदन्त भवतादिष्टं श्रुत्वा मे रोचते मनः । तथा तच्छरणं गत्वा भजामि सर्वदाप्यहम् ॥ सदाप्यस्य त्रिरत्नस्य व्रतं चापि समादरात् । धर्तुमिच्छाम्यहं शास्तस्तत्समादेष्टुमर्हति ॥ कस्मिन्मासे चरेदेतद्व्रतं कस्मिन्स्तिथावपि । एतत्सम्यक्तमादिश्य प्रबोधयतु मां भवान् ॥ इति बिज्ञापितं राज्ञा श्रुत्वा सोऽर्हन्महामतिः । उपगुप्तो नरेन्द्रं तं समालोक्यैवमादिशत् ॥ साधु शृणु महाराज यद्येतद्व्रतमिच्छसि । तथाहं ते प्रवक्ष्यामि यथा मे गुरुणोदितम् ॥ तद्यथा सर्वमासेषु चरेत्पंचसु पर्वसु । शुक्लाष्टम्यां विशेषेन पूर्णमास्यां जगुर्जिनाः ॥ (१३) मासेषु श्रोवणे श्रेष्ठं कार्तिके च विशेषतः । कृतकर्मैविपाकत्वं बद्धसंख्यं महत्तरम् ॥ इति मत्वा महाराज यावज्जीवं समाहितः । त्रिरत्नं शरणं गत्वा व्रतमेतत्सदा चर ॥ एतत्पुण्यमहोदारं संबोधिज्ञानदायकम् । अक्षयं ह्यनुपमं चेति सर्वबुद्धैर्निगद्यते ॥ इति तेनार्हतादिष्टं श्रुत्वा राजा स मोदितः । तदुपदेशमासाध्य तद्व्रतं कर्तुमैच्छत ॥ ततं स नृपति राजा सभर्यात्मजबान्धवः । यथाविधि समाधाय चचारैतद्व्रतं सदा ॥ तन्नृपादेशमाधाय सर्वे मन्त्रिजना अपि । भृत्याः सैन्यगणाश्चापि पौरा ग्राम्या द्विजादयः ॥ सर्वलोकास्तथा भक्त्या त्रिरत्नशरणं गताः । सत्कारैः श्रद्धयाभ्यर्च्य प्राभजन् सर्वदा मुदा ॥ तदा तत्र सदाभद्रः महोत्साहं समन्ततः । प्रावर्तत निरुपातमेतद्धर्मानभावतः ॥ एवं मे गुरुणाख्यातं श्रुतं मया तथोच्यते । अनुमोद्य भवन्तोऽपि चरतैतद्व्रतं सदा ॥ एतत्पुण्यविशुद्धा हि परिशुद्धत्रिमण्डलाः । अर्हन्तो निर्मलात्मानः संबोधिं समवाप्नुयुः ॥ इति तेएन समाख्यातं जयश्रिया सुधीमता । श्रुत्वा ते श्रावकाः सर्वे प्राभ्यनन्दन् प्रबोधिताः ॥ तदारभ्य प्रसन्नात्मा जिनश्रीराज उन्मनाः । त्रिरत्नशरणं गत्वा चचारैतद्व्रतं सदा ॥ तत्संघा यतयश्चापि चतुर्ब्रह्मविहारिणः । त्रिरत्नभजनं कृत्वा व्रतमेतत्सदाचरन् ॥ ततस्ते व्रतिनः सर्वे परिशुद्धत्रिमण्डलाः । अर्हन्तो निर्मलात्मानो बभूवुर्बोधिभागिनः ॥ ये चापीदं त्रिरत्नं प्रथितगुणगणं श्रावयन्तीह लोकान् । श्रद्धाभक्तिप्रसन्नाः प्रमुदितमनसा ये च शृण्वन्ति मर्त्याः ॥ ते सर्वे बोधिसत्त्वा सकलगुणभृतः श्रीसमृद्धाः सुधिराः । भक्त्वा सौख्यं सदान्ते दशबलभुवने संप्रयाता रमेयुः ॥ भुक्त्वा सौख्यं सदान्ते दशबलभुवने संप्रयाता रमेयुः ॥ ॥ इति श्रीत्रिरत्नभजनानुशंसावदानं प्रथमोऽद्यायः ॥ (१४) २. अवीचि संशोषण श्रीधर्मराजाभिबोधन प्रकरणम् अथ धीमान्महासत्त्वो जिनश्रीराज आत्मवित् । जयश्रियं यतिं नत्वा सांजलिरेवमब्रवीत् । भदन्त श्रोतुमिछामि संघरत्नस्य सन्मतेः । श्रीमतो लोकनाथस्य माहात्म्यगुणमुत्तमम् ॥ तच्छ्रीमद्बोधिसत्त्वस्य त्रैलोक्याधितेः प्रभोः । गुणमाहात्म्यमाख्यातुमर्हसि त्वं जगद्धिते ॥ इति संप्रार्थ्यमानोऽसौ जयश्रीर्मतिमान् यतिः । जिनश्रीराजमालोक्य तं यदिमेवमब्रवीत् ॥ साधु शृणु महाभाग यथा मे गुरुणोदितम् । तथाहं ते समासेन प्रवक्ष्यामि जगद्धिते ॥ तद्यथासौ महाराजा भूयोऽशोको नराधिपः । विहारे कुक्कुटारामे धर्मं श्रोतुदाचरत् ॥ तत्र स समुपाविश्य समन्त्रिनपौरिकाः । उपगुप्तं तमर्हन्तं प्रणत्वा समुपाश्रयत् ॥ तत्र स समुपागम्य तमर्हन्तं यतिं मुदा । अभ्यर्च्य सांजलिर्नत्वा प्रार्थयदेवमादरात् ॥ भदन्त श्रोतुमिच्छामि लोकेशस्य जगत्प्रभोः । सद्धर्मगुणमाहात्म्यं तत्समादेष्तुमर्हसि ॥ एवं तेन महीन्द्रेण प्रार्थ्यमानः स सन्मतिः । उपगुप्तो महीपालं तमालोक्यैवमादिशत् ॥ साधु शृणु महाराज यथा शृतं मया गुरोः । तथाहं ते प्रवक्ष्यामि माहात्म्यं त्रिजगप्रभोः ॥ (१५) तद्यथासौ महाबुद्धः शाक्यमुनिर्जगद्गुरुः । धर्मराजो महाभिज्ञः सर्वज्ञोऽर्हन्मुनीश्वरः ॥ भगवांछ्रीघनः शास्ता तथागतो विनायकः । मारजित्सुगतो नाथयैधातुकाधिपो जिनः ॥ श्रीमतोऽनाथनाथस्य गृहस्थस्य महामतेः । विहारे जेतकोध्याने विजहार ससांघिकः ॥ तदा तत्र महासत्त्वा बोधिओसत्त्वा जिनात्मजाः । मैत्रेयप्रमुखास्सर्वे सद्धर्मं श्रोतुमागताः ॥ तत्र तं श्रीघनं दृष्ट्वा सुप्रसन्नाशया मुदा । तत्पादाब्जं प्रणत्वा तत्सभायां समुपाश्रयन् ॥ सर्वे प्रत्येकबुद्धाश्च अर्हन्तः समुपागताः । भगवन्तं तमानम्य तत्रैकान्ते समाश्रयन् ॥ श्रावका भिक्षवश्चापि यतयो ब्रह्मचारिणः । शास्तारं तं प्रणत्वा तत्सभायां समुपाश्रयन् ॥ ऋषयोऽपि महासत्त्वाः सर्वे सद्धर्मवांछिनः । दुरात्तं श्रीघनं दृष्ट्वा प्रणम्य समुपागताः ॥ ब्रह्मादयो महाभिज्ञा भासयन्तः समन्ततः । दूरात्तं सुगतं दृट्वा प्रणमन्तः समागताः ॥ इन्द्रादयः सुराः सर्वे धर्मामृतलालसाः । पश्यन्तो दूरतो नत्वा शास्तारं तं समागताः ॥ तथाग्निप्रमुखाः सर्वे लोकपालाः प्रमोदिताः । भगवन्तं समालोक्य दूरन्नत्वा समागताः ॥ तथा सर्वे च गन्धर्वा धृतराष्ट्रादयोऽपि ते । सुदूरात्सनिरीक्षान्ता नमन्तः सहसागताः ॥ विरुढकादयः सर्वे कुम्भाण्डाश्च प्रमोदिताः । तेऽपि सुदूरतो दृष्ट्वा नमन्तः सहसागताः ॥ विरुपाक्षादयश्चापि सर्वनागाधिपास्तथा । तेऽपि दृष्ट्वा सुदूरात्तं जिनण्समागताः ॥ (१६) वैश्रवणादयश्चापि यक्षाः सर्वप्रमोदिताः । पश्यन्तो दूरतो नत्वा तं मुनिं समुपागताः ॥ एतं सूर्यादयः सर्वे ग्रहाधिपाः समागताः । सर्वास्तारागणाश्चापि सर्वे विधाधरा अपि ॥ सिद्धाः साध्याश्च रुद्राश्च वायवश्च महेश्वराः । कामधात्वीश्वराः सर्वे श्रीपतिप्रमुखा अपि ॥ गरुडेन्द्राश्च सर्वेऽपि किओन्नरेन्द्रा द्रुमादयः । वेमचित्रादयः सर्वे दैत्येन्द्रा राक्षसा अपि ॥ महोरगाश्च नागाश्च सर्वेऽपि जलचारिणः । सर्वेऽपि देवपुत्राश्च सर्वे षोषप्सरोगणाः ॥ सर्वा गन्धर्वकन्याश्च सर्वाः किन्नरकन्यकाः । नाजकन्याश्च दिव्यांगा रक्षोकन्याश्च भद्रिकाः ॥ यक्षकन्या असंख्येया तथा च दैत्यकन्यकाः । असंख्येयास्तथा विधाधरकन्या मनोहराः ॥ सिद्धकन्यास्तथा साध्यकन्याश्चातिमनोहराः । देवकन्यादयश्चान्यकन्याः सर्वाः प्रमोदिताः ॥ समीक्ष्य संप्रभासन्तमुपतस्थुः सभान्तिके ॥ तथा च ब्रह्मचारिणो भिक्षुण्यश्चैलका अपि । व्रतिन उपासकाश्चापि तथा चोपासिका अपि ॥ ऋषिकन्यास्तथा चान्याः सद्धर्मं श्रोतुमागताः । तथा च ब्राह्मणा विज्ञास्तीर्थिकाश्च तपस्विनः ॥ राजानः क्षत्रियाश्चापि सर्वे राजकुमारकाः । अमात्या मन्त्रिणश्चापि श्रेष्ठिनश्च महाजनाः ॥ सैन्या योधृगणाश्चापि भृत्याः परिजना अपि । गृहस्था धनिनः सार्थवाहादयो वणिग्गणाः ॥ शिल्पिनं कॄषिणश्चापि सर्वे कुटुम्बिनोऽपि च । सर्वे वैश्याश्च शूद्राश्च तथान्ये सर्वजातिकाः ॥ (१७) नागराः पौरिकाश्चापि जानपदाश्च नैगमाः । ग्राम्याः प्रत्यन्तदेशस्थाः कार्पटिकाश्च पार्वताः ॥ एवं सर्वेऽपि लोकाश्च संबुद्धभत्तिमानसाः । त्रिरत्नगुणमाहात्यं पीयुषं पातुमागताः ॥ तत्र सर्वेऽपि ते लोका ब्रह्माअदय उपागताः । तं मुनीन्द्रं समालोक्य प्रणमन्तः पुरोगताः ॥ यथाविधि समभ्यर्च्य प्रणत्वा च यथाक्रमम् । तिस्त्रः प्रदक्षिणीकृत्य कृतांजलिपुटा मुदा ॥ तत्सद्धर्मामृतं पातुं परिवृत्य समन्ततः । पुरस्कृत्य समाधाय पश्यन्तः समुपाश्रयन् ॥ तत्र स भगवांस्तान् दृष्ट्वा सर्वान् समाश्रितान् । सर्वसंशोधनं नाम समाधिं विदधे तदा ॥ तस्मिन्नवसरे तत्र रश्मयः संप्रभास्वराः । अवभास्य दिशः सर्वा भासयन्तः समागताः ॥ तदा तद्रश्मिसंस्पृष्टे विहारे तत्र सर्वतः । हेमरत्नमया आसन् स्तम्भाः सर्वे प्रशोभिताः ॥ कूटागाराश्च सर्वेऽपि सुवर्णरत्नशोभिताः । द्वाराणि तत्र सर्वाणि हेमरुप्यमयानि च ॥ सोपानान्यपि सर्वाणि स्वर्णरुप्यमयानि च । वातायनानि सर्वाणि हेमरत्नमयानि च ॥ कपाटाअनि च सर्वाणि रुप्यरत्नमयाण्यपि । भित्तयोऽपि तथा सर्वाः स्वर्णरत्नमया बभुः ॥ पटलानि सुवर्णानि रत्नाभिमण्डितानि च । वेदिकास्तत्र सर्वाश्च सुवर्णरत्नमण्डिताः ॥ तोरणान्यपि सर्वाणि स्वर्णरत्नमयानि च । एवं सर्वेऽपि प्रासादाः सुवर्णरत्नमण्डिताः ॥ भूतलान्यपि सर्वाणि वैडूर्यसंनिभानि च । समतलानि शुद्धानि कोमलानि विरेजिरे ॥ (१८) एवं तज्जातकारामे विहारं परिशोभितम् । दिव्यसुवर्णरत्नश्रीमण्डितं समरोचत ॥ बहिश्च जेतकारामे विहारस्य समन्ततः । कल्पवृक्षाः समुद्भूताः सर्वार्थिसुखदायिनः ॥ सुवर्णस्कन्धशाखाढ्या रुप्यपत्राभिच्छादिताः । दिव्यचीवरक्यादिलम्बिता परिशोभिताः ॥ समुज्ज्वलदुदारश्रीरत्नमालाप्रलम्बिताः । सर्वालंकारमुक्तादिरत्नहारप्रलम्बिताः ॥ अनेका पुष्पवृक्षाश्व समुद्भूताः समन्ततः । दिव्यसौरभ्यागन्धाद्यप्रच्छन्नपुष्पभारिणः ॥ अनेकफलवृक्षाश्च समुद्भूताः समन्ततः । दिव्यमृतरसस्वादसुपथ्यfअलभारिणः ॥ सर्वा औषधयश्चापि रसवीर्यगुणान्विताः । सर्वा रोगनिहन्तारः प्रादुरासन् समन्ततः ॥ अनेकाः पुष्करिण्यश्च शुद्धाम्बुपरिपूरिताः । पद्मोत्पलादिपुष्पाढ्याः प्रादुरासन्मनोरमाः ॥ एवं सर्वाणि वस्तूनि भद्राभिशोभितानि च । श्रीसमृद्धप्रसन्नानि बभूवुस्तत्र सर्वतः ॥ एवं तदा महानन्दसुखधर्मगुणान्वितम् । सर्वसत्त्वमनोह्लादि महोत्साहं प्रवर्तते ॥ एतन्महाद्भूतं दॄष्ट्वा सर्वे लोकाः सुरादयः । विस्मयाक्रान्तचित्तास्ते पश्यन् तस्तस्थुरुन्मुखाः ॥ अथ सर्वनीवरणविष्कम्भी नाम सन्मतिः । बोधिसत्त्वो महासत्त्वस्तान् पश्यन् विस्मयान्वितः ॥ दृष्ट्वा सर्वान् सभासीनान् विस्मयोद्धतमानसान् । तं मुनीन्द्रं समालोक्य तस्थौ तद्धेतुं चिन्तयन् ॥ तदा स भगवांच्छास्ता लोकान् सर्वासुरानपि । तदद्भुतं महद्धेतुं परिज्ञातुं समाहितः ॥ (१९) गत्वा पश्यन् समाधाय तत्समाधेः समुत्थितः । तदद्भुतमहाहेतुं समुपादेष्टुमैच्छत ॥ तदालोक्य सुधीमान् स बोधिसत्त्वो जिनात्मजः । कृती सर्वनीवरणविष्कम्भी संविलोकयन् ॥ समुत्थायोपसंगच्छन् जानुभूमितलाश्रितः । उद्वहन्नुत्तरासंगं कृतांजलिपुटो मुदा ॥ संपश्यंस्तं जगन्नाथं शास्तारं त्रिजगद्गुरुम् । सर्वज्ञं श्रीघनं नत्वा प्रार्थयदेवमादरात् ॥ भगवन् परमाश्चर्यप्राप्तोऽस्मीदं विलोकयन् । कुत इते सुपुण्याभा रश्मयोऽत्र समागताः ॥ कस्य पुण्यात्मनश्चायं सद्धर्मविषयो महान् । प्रभाव इदृशोऽस्माभिर्दृश्यति न कदाचन ॥ तद्भवांस्त्रिगजच्छास्ता सर्वज्ञो भगवान् जिनः । तदेतन्नः समादिश्य प्रबोधयितुमर्हति ॥ इति संप्रार्थ्यमानोऽसौ भगवान् धर्माधिपो जिनः । दृओष्ट्वाआ सर्वनीवरणविष्कम्भिनं तमब्रवीत् ॥ यः श्रीमान्महाभिज्ञ आर्यावलोकितेश्वरः । बोधिसत्त्वो महासत्त्वः सर्वलोकाधिपेश्वरः ॥ स जिनस्यामिताभस्य धृताज्ञः करुणामयः । लोकधातोः सुखावत्याः सत्त्वानुद्धर्तुमागतः ॥ सांप्रतं नरकेऽवीचौ सत्त्वान् तेनाभिपाचितान् । प्रसमीक्ष्य समुद्धर्तुं प्रसारयन् करानागतः ॥ तत्प्रभा नरके तत्र स्पृष्ट्वा सर्वान् सुखान्वितान् । कृत्वा ततः समुद्धत्य समवभास्य सर्वतः ॥ इहागता इमास्तस्य लोकेशस्यात्मजाः प्रभाः ॥ एवमसौ महासत्त्वो महत्पुण्यसमृद्धिमान् । इहापि पापिनः सत्त्वान् समुद्धर्तुं समागतः ॥ इत्यादिष्टं मुनीन्द्रेण श्रुत्वा स सुगतात्मजः । धिमान् सर्वनीवरणविष्कम्भी विस्मयान्वितः ॥ (२०) भगवन्तं मुनीन्द्रं तं समालोक्य सकौतुकः । लोकेशपुण्यमाहात्म्यं प्रष्टुमेवमभाषत ॥ भगवन्नकेऽवीचौ महानग्निः सदोज्वलः । वीचिर्न ज्ञायते तस्य ज्वाला या महदर्च्चिषः ॥ तत्कथं स महासत्त्वो लोकेश्वरः कृपान्वितः । तत्र सत्त्वान् समुद्धर्तुं प्रविशति जगद्गुरुः ॥ यत्र प्राकारपर्यन्तमयोमयं महीतलम् । महदग्निखदा तत्र प्रोज्वलाग्निशिखाकुला ॥ तस्यां संस्थापिता कुम्भी महती तैलपूरिता । तस्यां सत्त्वा दुरात्मानः पापिष्ठा दुरितारताः । अप्रमेया असंख्येयाः क्वाथमाना दिवानिशम् । खिद्यत्यह्ने विशीर्णांगास्तिष्ठिन्ते प्राणिनः खराः ॥ एवं ते प्राणिनो दुष्टा असह्यवेदनातुराः । स्वदुष्कृतानभिभुंजन्तस्तिष्ठिन्ति पारितापिताः ॥ तत्राप्यसौ महासत्त्वो लोकेनाथो जिनात्मजः । प्रविष्टः कथमुद्धत्य संप्रेषयेच्च तान् कुह ॥ भगवन् सर्वविच्छास्तरेतत्सर्वं सुविस्तरम् । समादिश्य भवानस्मान् प्रबोधयितुमर्हसि ॥ इति संप्रार्थिते तेन बोधिसत्त्वेन धीमता । भगवान्स्तं महासत्त्वं समालोक्यैवमादिशत् ॥ साधु शृणु महासत्त्व समाधाय यदीच्छसि । लोकेश्वरर्द्धिमाहात्म्यं प्रवक्ष्यामि जगद्धिते ॥ तद्यथा भूपती राजा चक्रवर्ती नृपाधिपः । महद्राज्यर्द्धिसंपन्नमहोत्साहैः समन्वितः ॥ वसन्तसमये रन्तुं सर्वत्र पुष्पमण्डिते । महोद्याने मनोरम्ये प्रविशति प्रमोदितः ॥ तथा स त्रिजगन्नाथ पुण्यर्द्धिश्रीसमन्वितः । तत्रावीचौ समालोक्य प्रविशति प्रभासयन् ॥ (२१) तस्य कायेऽन्यथाभावं भवति नैव किंचन । सुखमेव महानन्दमहोत्साप्रमोदनम् ॥ यदा स त्रिजगन्नाथः स्वदेहरश्मिमुत्सृजन् । तदवीचिमुक्रान्तश्चरते संप्रभासयन् ॥ तदादौ निरयोऽवीचिर्महदग्निशिखाकुलः । शीतीभूतो महानन्दं सुखांगो भवति क्षणात् ॥ यमपालास्तदाअलोक्य संवेगोद्विग्नमानसाः । किमत्राशुभनैमित्तं जातमिति विषादिताः ॥ को देवोऽत्र महावीरो दैत्यो वा समुपागतः । इत्युक्त्वा ते च तद्द्रष्टुं प्रचरन्ते समन्ततः ॥ तत्र तं समुपासीनं दिव्यरुपं महत्प्रभम् । सौम्यरुपं सुभद्रांगं दिव्यालंकारमण्डितम् ॥ महच्छ्रीमणिसंयुक्तं जटामकुटशोभितम् । पश्यन्ते ते समालोक्य तिष्ठन्ते विस्मयान्विताः ॥ ततोऽसौ सर्वपालेन्द्रो लोकेश्वरो जिनात्मजः । संभासयन् विशुद्धाभैः प्रविशते विलोकयन् ॥ यदा तत्र प्रविष्टोऽसौ बोधिसत्त्वजगत्प्रभुः । तदा तत्र महापद्मं प्रादुर्भूतं प्रभास्वरम् ॥ सप्तरत्नमयं तत्र समाश्रित्य स तिष्ठति । तदा विस्फोटिता कुम्भी सा सोऽपि प्रशमितोऽनलः ॥ तत्रानलखदामध्ये प्रादुर्भूतं सरोवरम् । तदा ते पापिनः सत्त्वास्तद्रश्मिस्पर्शताश्रयाः ॥ निर्गतवेदनादुःखा महत्सौख्यसमन्विताः । विस्मिताः सुप्रसन्नात्माः संपश्यन्ते तमीश्वरम् ॥ समीक्ष्य सहसोपेत्य कृतांजलिपुटा मुदा । तत्पादाब्जे प्रणत्वा ते स्तुत्वा भजन्त आदरात् ॥ ततः सर्वेऽपि ते सत्त्वा निःशेषत्यक्तपातकाः । शुद्धांगा विमलात्मानः संप्रयान्ति सुखावतीम् ॥ (२२) सुखावत्यां च ते सर्वे संगताः संप्रमोदिताः । मुनीन्द्रस्यामिताभस्य सर्वदा शरणं गताः । बोधिचर्याव्रतं धृत्वा संचरन्ते जगद्धिते ॥ तदा नरकपारास्ते सर्व उद्विग्नमानसाः । विलोक्य तं महाश्चर्यं सविस्मयभयाकुलाः । प्रगृह्य स्वस्वशयाणि पलायन्ते ततो द्रुतम् ॥ ततस्ते सहसा गत्वा यमराजस्य सन्निधौ । प्रणत्वेतत्प्रवृतान्तं निवेदयन्ति विस्तरम् ॥ तैर्निवेदितमाकर्ण्य यमराजोऽतिविस्मितः । पुरतः समुपामन्त्र्य पृच्छते तान् समादरात् ॥ किमेवं यूयमायाताः सर्वेऽप्युद्विग्नमानसा । कुतो भयं समायातं केत युयं प्रखेटिताः ॥ सर्वमेतत्प्रवृत्तान्तं युयं मे यदि भक्तिकाः । विस्तरेण समाअख्यातुमर्हथ मे पुनः पुनः ॥ इत्युक्ते यमराजेन सर्वे ते यमकिंकराः । प्रणत्वा यमराजं च निवेदयन्ति विस्तरात् ॥ यत्खलु देव जानीयाद्भवानेव जगत्प्रभुः । तत्रावीचौ महोत्पातं जायेते तन्निगद्यते ॥ प्रथमं तस्मिन् सुगन्धश्चरते शीतलोऽनिलः । ततः प्रह्लादिनी कान्तिर्भासयन्ति समागताः ॥ तत्प्रभास्पर्शितः सोऽग्निरवीचिरपि शाम्यते । ततो विस्फोटिता कुम्भी खण्डीभूता विचूर्णिता ॥ तत्राप्यग्निखदामध्ये प्रादुर्भूतं सरोवरम् । ततस्तत्र महासत्त्वः कामरुपोऽतिसुन्दरः ॥ भद्रमूर्त्तिर्विशुद्धात्मा जटामकुटशोभितः । श्रीमान्महर्द्धिको धीरो दिव्यालंकारमण्डितः ॥ दयाकारुण्यभद्रांशः शीतरश्मिप्रभास्वरः । समीक्षन् पापिनस्सत्त्वान् प्रविशते प्रभासयन् ॥ (२३) तदा तत्र महापद्मं सप्तरत्नसमुज्ज्वलम् । प्रादुर्भूतं तदाश्रित्य तिष्ठते स प्रभासयन् ॥ तमासीनं समालोक्य पापिनस्ते सविस्मयाः । उपेत्य शरणं गत्वा सम्भजन्ते समादरात् ॥ ततस्ते प्राणिनः सर्वे शुधकायाः प्रमोदिताः । तत्पादाब्जे प्रणतिं कृत्वा सर्वे यान्ति ततश्च्युताः ॥ इत्यसौ नरकोऽवीचिर्निःशेषं प्रलयं गतः । तदत्र देव संवीक्ष्य विचारयितुमर्हति ॥ इति तैर्निवेदितं श्रूत्वा यमराजः स विस्मितः । किमेतदद्भुतं जातमित्युक्त्वैवं विचिन्तते ॥ कोऽसौ देवः समायात ईदृग्रूपो महर्द्धिकः । महेश्वरोऽथवा विष्णुर्ब्रह्माथ त्रिदशाधिपः ॥ वाडवो वा महानग्निरुत्थितः प्रलये यथा । गन्धर्वो वा सुरेन्द्रो वा किन्नरो वाथ राक्षसः ॥ किमुत्थितो महावायुरतिवीर्यपराक्रमः । यक्षो वाथ महासत्त्वो वज्रपाणिः स गुह्यराट् ॥ राक्षसेन्द्रो महावीरो रावणो मम स्पर्धी च । यक्षाधिपो महावीरो राजराजोऽथवान्यतः ॥ किं वा भूतेश्वरो रुद्र ईशानः प्रमथाधिपः । कोऽस्ति लोकाधिप वीर ईदृग्बलसमृद्धिमान् ॥ एतेषामपि सर्वेषां महद्वीर्यानुभाविनी ॥ ईदृग्विर्यप्राअभावो हि कस्यचिन्नैव दृश्यते ॥ अथवा तापसः कश्चिदृषिर्वापि नराधिप । तपःसिद्धिबलाधानमहद्वीर्यमृद्धिमान् ॥ कस्य देवस्य देव्या वा कस्या वा भक्तिमान् कृती । साधको वरमासाद्य मामपि जेतुमागतः ॥ कस्तदन्यो महावीर्यः पुरुषो विद्यते कुह । योऽवीचिं वहिनमुज्ज्वालं शमयितुं प्रशक्नुयात् ॥ (२४) ईदृक्सत्त्वो महेशाख्यो महत्पुण्यसमृद्धिमान् । नैवात्र दृश्यते क्वापि त्रैधातुभुवनेष्वपि ॥ एवं विचिन्त्य सन्त्रस्तो यमराट्सोऽतिविस्मितः । अवीचौ नरके तत्र पश्चते दिव्यचक्षुषा ॥ तत्र रत्नयोदारपद्मासनसमाश्रितम् । दिव्यातिसुन्दरं कान्तं दिव्यालंकारभूषितम् ॥ समन्तभद्ररुपांगं जटामणिकिरीटिनम् । सौम्यकान्तिप्रभासन्तं सौम्यं पुण्यगुणाश्रयम् ॥ तं श्रीमन्तं समालोक्य लोकेश्वरं जिनात्मजम् । बोधिसत्त्वं महासत्त्वं विदित्वा स प्रमोदितः ॥ यमराट्सहसोत्थाय त्वरंस्तत्र समागतः । उमेत्य सांजलिर्नत्वा स्तौत्येवं तं जिनात्मजम् ॥ नमस्ते बोधिसत्त्वाय महासत्त्वाय तायिने । आर्याअवलोकितेशाय महेश्वराय सुश्रीये ॥ पद्मश्रीभूषितांगाय सद्धर्मवरदाय ते । नमो वंशकराय भुवरदृष्टिकराय ते ॥ सर्वदा जगदाश्वासवरदानप्रदाय च । शतसहस्त्रहस्ताय कोटीलक्षणाय च ॥ असंख्यानन्तरुपाय विश्वरुपाय ते नमः । सर्वभूतात्मरुपाय आदिनाथाय ते नमः ॥ वडवामुखपर्यन्तशशिदिगाननाय च । सर्वधर्मानुरुपाय धर्मप्रियाय सिद्धये ॥ सर्वसत्त्वमहदुःखसंमोक्षणकराय च । मत्स्याद्यम्बुजजन्तूनामाश्वासनकराय च । ज्ञानराश्युत्तमांगाय धर्मार्थप्रियदायेने । रत्नश्रीभूषितांगाय सद्गुणश्रीप्रदाय च ॥ सर्वनरकभूमीनां संशोषणकराय च । ज्ञानश्रीसंप्रभासाय ज्ञानलक्ष्मीप्रदाय च ॥ (२५) सामरैः सासुरेन्द्रैश्च लोकैः संपूजिताय च । नमस्कृताय सभक्त्या वन्दिताय नमस्सदा ॥ अभयदानदत्ताय पारमितोपदेशिने ॥ सूर्यरोचनदीप्ताय धर्मदीपंकराय च ॥ कामरुपाय गन्धर्वसुरुपाय सुरुपिणे । हेमनगाधिरुढाय परमार्थयोगं बिभ्रते ॥ अब्धिगम्भीरधर्माय संमुखदर्शनाय च । सर्वसमाधिप्राप्ताय स्वभिरतिकराय च ॥ संविच्छुरितगात्राय मुनिपुंगवरुपिणे । वध्यबन्धनबद्धानां संमोक्षणकराय च ॥ सर्वभावस्नुरुपाय समुपचितकारणे । बहुपरिजनाढ्याय चिन्तामणिसरुपिणे ॥ निर्वाणमार्गसंचारसंदर्शनप्रदाय च । भूतप्रेतपिशाचादिनिलयोच्छोषकारिणे ॥ छत्रीभूताय लोकानां त्रैधातुकनिवासिनाम् । सर्वाधिव्याधियुक्तानां परिमोचनकारिणे ॥ नन्दोपनन्दनागेन्द्रनागेयज्ञोपवीतबिभ्रते ॥ श्रीमतोऽमोघपाशस्य रुपसन्दर्शनाय च । सर्वमन्त्रगुणाभिज्ञप्राप्ताय सद्गुणाय च ॥ वज्रपाणिमहायक्षविद्रापणकराय च । त्रैलोक्यदुष्टसत्त्वानां भीषणमूर्तिधारिणे ॥ भूतवेताडकुम्भाण्डरक्षोयक्षादिभीददे । नीलोत्पलसुनेत्राय गम्भीरधीरबुद्धये ॥ सर्वविद्याधिनाथाय सर्वक्लेशापहारिणे । विविधधर्मसंबोधिमार्गोपचिताय च ॥ मोक्षमार्गाभिरुढाय प्रबलधर्मबिभ्रते । प्राप्तसंबोधिसच्चित्तसन्मार्गोपचिताय च ॥ प्रेतादिदुर्गतिक्लेशपरिमोक्षणकराय च । परमाणुरजोसंख्यं समाधिं दधते नमः ॥ (२६) नमस्ते लोकनाथाय बोधिसत्वाय ते सदा । महासत्त्वाय सद्धर्मगुणसंपत्तिदायिने ॥ नमामि ते जगच्छास्तः सदाहं शरणं व्रजन् । भजानि सततं भक्त्या तत्प्रसीद जगत्प्रभो ॥ क्षन्तव्यं मेऽपराधत्वं यन्मयापकृतं भवेत् । अद्यारभ्य सदा शास्तर्भवे त्वच्छरणाश्रीतः ॥ भवदाज्ञां शिरो धृत्वा चरिष्यामि जगद्धिते । तथात्राहं करिष्यामि भवता दिश्यते यथा ॥ तद्भवान्मे सदालोक्य प्रसीदतु जगत्प्रभो । भवदभिमतं कार्यं तस्करिष्याम्यहं भवे ॥ इत्येवं धर्मराजोऽसौ स्तुत्वा संप्रार्थयन्मुदा । तं पुनः सांजलिर्नत्वा समुपतिष्ठते पुनः ॥ ततो लोकेश्वरोऽसौ तं धर्मराजं विलोकयन् । समादिशति संबोधिमार्गे नियोक्तुमादरत् ॥ यम त्वं धर्मराजोऽसि सर्वलोकानुशासकः । तत्सम्पद्भिर्गयित्वैव सत्त्वान् धर्मेऽनुशासय ॥ ये चापि प्राणिनो दुष्टाः पापिष्ठा अपि दुर्धियः । तेऽपि धर्मे प्रतिष्ठाप्य बोधयित्वा प्रयत्नतः ॥ ये चापि श्रद्धया भक्त्या त्रिरत्नं शरणं गताः । भजन्ति सर्वदा नित्यं संबोधिधर्मवांछिनः ॥ ते सर्वेऽपि समालोक्य पालनीयास्त्वया सदा ॥ बोधयित्वा समालोक्य पालनीयास्त्वाय्र सदा ॥ बोधयित्वा च ते सर्वे चारयित्वा शुभे व्रते । बोधिमार्गे प्रतिष्ठाप्य प्रेषणीयाः सुखावतीम् ॥ ये चापि पापिनो दुष्टास्तानपि त्वं प्रयत्नतः । प्रबोधय समालोक्य चारयस्व शुभे सदा ॥ इत्येवं मे वचनं श्रुत्वा संबोधिं यदि वांछसि । बोधिचर्याव्रतं धृत्वा संचरस्व जगद्धिते ॥ यद्येवं कुरुषे लोके दयाधर्मं समाचरन् । धर्मराजाभिधानं ते यथार्थ्यसफलं व्रजेत् ॥ इत्येवं समुपादिष्टं तेन लोकेश्वरेण सः । धर्मराजः समाकर्ण्य तथेति परिबुध्यते ॥ ततः स धर्मराजस्तं लोकेश्वर जिनात्मजम् । समीक्ष्य सांजलिर्नत्वा संप्रयाति स्वमालयम् ॥ ततोऽसौ लोकनाथोऽपि संप्रस्थिति कृपाकुलः । अन्यत्रापि समुद्धर्तुं सत्त्वान् संचरते पुनः ॥ ॥ इत्यवीचिसंशोषणधर्मराजाभिबोधनप्रकरणम् ॥ ३. सूचीमुखोदर पर्वत प्रेतोद्धारण प्रकरण अथ सर्वनीवरणविष्कम्भी सुगतात्मजः । बोधिसत्त्वो मुनीन्द्रं तं संपश्यंचैवमब्रवीत् ॥ कदासौ भगवंछास्तर्लोकेश्वरो जिनात्मजः । बोधिसत्त्व इहागच्छेत्तत्समादेष्टुमर्हति ॥ इति तदुक्तमाकर्ण्य भगवान् स मुनीश्वरः । बोधिसत्त्वं तमालोक्य पुनरेवं समादिशत् ॥ असौ श्रीमान्महासत्त्वः कुलपुत्र ततश्चरन् । प्रेतलोकान् समुद्धर्तुं प्रेतालयेऽभिगच्छति ॥ तत्र प्रेतालये गत्वा प्रेतान् पश्यन् स दूरतः । शीतरश्मि समुत्सृज्य प्रविवेश प्रभासयन् ॥ तद्रश्मीः संप्रभासन्तीः समवभास्य सर्वतः । तत्प्रेतभुवनं सर्वं करोति शीततान्वितम् ॥ तदा ते प्रेतिकाः सर्वे शीतरश्मिसमन्विताः । किमेतदिति संचिन्त्य तिष्ठन्ति विस्मयान्विताः ॥ यदा तत्र प्रविष्टोऽसौ लोकेश्वरः प्रभासयन् । तदा वज्राशनिर्भूमि उपशान्ता समन्ततः ॥ (२८) तदद्भुतं समाअलोक्य द्वारपालः स विस्मितः । किमतेतदिति संचिन्त्य लोहिताक्षो विलोकयन् ॥ उत्थाय सहसादाय कालकूटमहाविषम् । भिण्डिपालं धनुर्बाणं धृत्वा संत्रसते रुषा ॥ तत्र तं रत्नपद्मस्थं शीतरश्मिप्रभास्वरम् । विलोक्यासौ महारौद्रचित्तोऽपि विस्मयान्वितः ॥ तद्रश्मिसंपरिस्पृष्टः कारुण्यचित्तमाप्तवान् । स्वपापसाधनं कर्म संभाव्यैवं विचिन्तते ॥ धिग्मां यदीदृशे पापसाधने दुष्टकर्मणि । संरक्तो द्वारपालोऽत्र भूत्वा करोमि पापकान् ॥ नैव मे ईदृशं कर्म पालयतः शुभं भवेत् । नूनमेतन्महत्पापfअलं तुह्यां भवे सदा ॥ किमीदृग्कर्म साधव्यं केवलदुःखसाधनम् । तदहं नात्र तिष्ठेयं ह्युक्त्वा गेहं व्रजान्यपि ॥ इति विचिन्त्य स द्वारपालोऽतिकरुणान्वितः । पुरतस्तं महासत्त्वं प्रणत्वा चरते ततः ॥ तत्र तं समुपायातं सुधांशुसंप्रभासितम् । समीक्ष्य प्रेतिकाः सर्वे धावन्ति पुरतो द्रुतम् ॥ तस्य ते पुर आगत्य क्षुत्पिपासाग्नितापिताः । पानीयमभियाचन्तस्तिष्ठन्ति परिवृत्य वै ॥ तान् दृष्ट्वा स महासत्त्वः सूचीमुखानगोदरान् । दग्धस्थूणाश्रयानस्थियन्त्रवदतिमूर्च्छितान् ॥ स्वकेशरोमसंच्छन्नाः कृशांगान् विकृताननान् । क्षुप्तिपासाग्निसन्दग्धान् विण्मूत्रश्लेष्मभोजिनः ॥ ईदृशान् पापिनो दुष्टान् प्रेतान् सर्वान् विलोकयन् । तेभ्योऽतिकरुणार्तात्मा दादत्यब्जाद्भवं जलम् ॥ तदम्बु ते निपीयापि प्रेतास्सर्वे न तृप्तिताः । भूयोऽपि पातुमिच्छन्त उपतिष्ठिन्त तत्पुरः ॥ (२९) तानतृप्तान् समालोक्य लोकेशोऽतिदयाकुलः । दशभ्यः स्वांगुलीभ्योऽपि निश्चारयति निम्नगाः ॥ तच्छ्रवन्तीः समालोक्य सर्वे ते प्रेतिका मुदा । यथेच्छा संपिबन्तोऽपि नैव तृप्तिसमागताः ॥ भूयोऽपि पातुमिच्छन्तः सर्वे ते समुपाश्रिताः । तमेवं समुपालोक्य विभ्रमन्ते तृषातुराः ॥ भ्रमतस्तान् विलोक्यासौ लोकेशोऽतिदयान्वितः । दशपादांगुलीभ्योऽपि निश्यारयति चापराः ॥ ताश्च महानदीर्दृष्ट्वा प्रेतास्सर्वेऽपि ते मुदा । समुपेत्य पिबन्तोऽपि नैव तृप्तिं समागताः ॥ तानतृतान् विलोक्यासौ लोकेशोऽतिकृपान्वितः । सर्वेभ्यो रोमकूपेभ्यो निश्चारयति चापगाः ॥ तांश्चापि ते समालोक्य सर्वाप्रेताः तृइषार्दिताः । सहसा समुपाश्रीत्य प्रपिबन्ते यथेप्सितम् ॥ यदा तेअ प्रेतिकाः सर्वे तदुदकं सुधानिभम् । अष्टांगगुणसंपन्नं पिबन्त्यास्वाध्यमोदिताः ॥ तदा सर्वेऽपि ते पूर्णगात्रा विपुलकण्ठकाः । परिपुष्टेन्द्रियास्तृप्ता भवन्ति संप्रमोदिताः ॥ ततश्चासौ महासत्त्वो दृष्ट्वा तान् जलतोषितान् । भूयोऽपि करुणात्मा तैस्तोषयितुं समीहते ॥ तत्र स करुणासिन्धुर्मेघानुत्थाप्य सर्वतः । प्रणीतसुरसाहारा संप्रवर्षयतेऽनिशम् ॥ तान् दिव्यसुरसाहारान् प्रवर्षितान् समन्ततः । दृष्ट्वा ते प्रेतिकाः सर्वे सविस्मयप्रमोदिताः ॥ समीक्ष्य स्वेछयादाय यथाकामं प्रभुंजते । ततः सर्वेऽपि ते सत्त्वा तदाहाराभितोषिताः ॥ ततस्ते सर्वे आहारैः पानैश्चाप्यमृतोपमैः । सन्तर्पिता महानन्दसुखोत्साहसमन्विताः ॥ (३०) तदा ते सुखिताः सन्तः सद्धर्मगुणभाषिणः । परिशुद्धाशयाः सर्वे संचिन्त्यैवं वदन्त्यपि ॥ अहो ते सुखिनो लोका ये जाम्बुद्वीपिका नराः । आश्रित्य शीतलां छायां ध्यात्वा तिष्ठन्ति सद्गुरोः ॥ सुखितास्ते मनुष्या ये मातापित्रोर्यथासुखम् । परिचर्यां सदा कृत्वा भजन्ति समुपस्थिताः ॥ सुखितास्ते मनुष्या ये सन्मित्रं समुपस्थिताः । सुभाषितं सदा श्रुत्वा चरन्ति सर्वदा शुभे ॥ सुखिनस्ते महासत्त्वा ये संबोधिव्रतचारिणः । सर्वसत्त्वहितं कृत्वा संचरन्ति सदा शुभे ॥ सुखितास्ते महाभागा ये सुशीलाः शुभार्थिनः । स्वपरात्महितार्थेन चरन्ति पोषधं व्रतम् ॥ सत्पुरुषाः महाभागास्ते ये संघसमुपस्थिकाः । धर्मगण्डीं यथाकालमाकोटयन्ति सर्वदा ॥ ये विहारं प्रतिष्ठाप्य त्रिरत्नशरणं गताः । उपासकव्रतं धृत्वा चरन्ति तेऽपि भागिनः ॥ सुखितास्ते महासत्त्वा ये विहारं विशीर्णितम् । संस्कृत्य संप्रतिष्ठाप्य कुर्वन्ति संप्रशोभितम् । ये पूर्वस्तूपबिम्बानि विशिर्णस्फुटितानि च । संस्कृत्य प्रतिसंस्थाप्य भजन्ति ते सुभागिनः ॥ सद्धर्मभाणकान् ये च संमान्य समुपस्थिताः । सुभाषितानि शृण्वन्ति ते सुभाग्याः सुखान्विताः ॥ बुद्धानां प्रातिहार्याणि पश्यन्ति विविधानि ये । चंक्रमाणि च पश्यन्ति ये ते सर्वेऽपि भागिनः ॥ ये च प्रत्येकबुद्धानां विविधर्द्धिविकुर्वितम् । चंक्रमाणि च पश्यन्ति तेऽपि सर्वे सुभागिनः ॥ येऽर्हतां प्रातिहार्याणि पश्यन्ति चंक्रमाणि च । तेऽपि धन्या सुखापन्नाः संसारधर्मचारिणः ॥ (३१) ये चापि बोधिसत्त्वानां पश्यन्ति चंक्रमाण्यपि । प्रातिहार्याणि ये चापि तेऽपि धन्याः सुभागिनः ॥ ये बुद्धशरणं गत्वा स्मृत्वा भजन्ति सर्वदा । ते एव सुभगा धन्याः सद्धर्म्मगुणलाभिनः ॥ ये च शृण्वन्ति सद्धर्मं भजन्ति श्रावयन्त्यपि । तेऽपि सर्वे महाभागाः संबोधिधर्मभागिनः ॥ ये संघान् च शरणं गत्वा भजन्ति समुपस्थिताः । ते सर्वे सुभगा धन्याः संबोधिप्रतिलाभिनः ॥ ये च दत्वा प्रदानानि पालयन्तः परिग्रहान् । कृत्वा सत्वहितर्थानि चरन्ते ते सुभागिनः ॥ पापतो विरता ये च परिशुद्धत्रिमण्डलाः । चरन्ति व्रतमष्टांगं भद्रिकास्ते सुभाविनः ॥ ये च क्षान्तिव्रतं धृत्वाअ सुप्रसन्नाशयाः सदा । सर्वसत्त्वहितार्थेषु चरन्ति ते सुभाविनः ॥ ये च सद्धर्मरत्नानि साधयन्तो जगद्धिते । सदा लोकहितार्थानि कुर्वंते ते महाजनाः ॥ ये च तत महासत्त्वा सर्वविद्यान्तपारगाः । कृत्वा सत्त्वशुभार्थानि चरन्ते ते सुभागिनः ॥ ये चापि शासने बौद्धे श्रद्धया शरणं गताः । प्रवज्यासंवरं धृत्वा चरन्ते ते सुनिर्मलाः ॥ ये च बौद्धाश्रमे नित्यं शोधयन्ति समाहिताः । ते सुश्रीईमत्सुभद्रांगाः सद्धर्मसुखसंयुताः ॥ ये चापि सततं स्निग्धा हितं कृत्वा परस्परम् । साधयन्ति यशोधर्मं ते सभाग्या सुभाविनः ॥ ये चरन्ति सदा भद्रे विरम्य दशपापतः । ते धन्या विमलात्मानः सद्गुणसुखलाभिनः ॥ ये चरन्ति तपोऽरण्ये त्यक्त्वा सर्वान् परिग्रहान् । ते सुभद्राः शुभात्मानः सदा सद्गतिचारिणः ॥ (३२) बोधिचर्याव्रतं धृत्वा ये चरन्ति जगद्धिते । ते पुमांसो महासत्त्वाः संबुद्धपदलाभिनः ॥ इत्येवं ते समाभाष्य सर्वसंपरिनन्दिताः । महासत्त्वं तमानम्य प्रार्थयन्त्येमादरात् ॥ साधो भवान् हि नो नाथयाता स्वामी सुहृत्प्रभुः । नैवान्यो विद्यते कश्चिदेवं रक्ष्यहितार्थभृत् ॥ यद्भवान् स्वयमालोक्य पापिनोऽस्मान् सुदुःखितान् । समागत्यामृतैर्भोग्यैस्तोषयन्नभिरक्षति ॥ तद्वयं भवतामेव सर्वदा शरणं गताः । सत्कारैस्समुपस्थानं कर्तुच्छामहेऽधुना ॥ तद्भवान्नो हिताधाने संयोजयितुमर्हति । भवता यत्समादिष्टं तत्करिष्यामहे ध्रुवन् ॥ इति तै प्रार्थितं सर्वै लोकेश्वरो निशम्य सः । कृपादृष्ट्या समालोक्य समादिशति तान् पुनः ॥ शृणुध्वं तन्मयाख्यातं युष्माकं हितसाधनम् । संचरध्वं तथा नित्यं सदा भद्रं यदीच्छथ ॥ तद्यथादौ त्रिरत्नानां प्रयात शरणं मुदा । सर्वदा मनसा स्मृत्वा भजध्वं च समादरात् ॥ नमो बुद्धाय धर्माय संघाय च नमो नमः । इति त्रिभ्यो नमस्कारं कृत्वा चरत सर्वतः ॥ एतत्पुण्यानुभावेन सर्वत्रापि शुभं भवेत् । निरुत्पातं महोत्साहं सर्वदा च भवे ध्रिवम् ॥ ततो यूयं क्रमेणापि परिशुद्धत्रिमण्डलाः । बोधिचित्तं समासाध्य व्रतं चरितुमैक्ष्यथ ॥ तदेतत्पुण्यभावेन सर्वे यूयमितश्च्युताः । त्रिरत्नस्मृतिमाधाय सुखावतीं प्रयास्यथ ॥ तत्रामिताभनाथस्य शरणे समुपस्थिताः । सर्वदा भजनं कृत्वा चरिष्यथ महासुखम् ॥ (३३) तदा यूयं समदाय पोषधं व्रतमुत्तमम् । विधिवत्संचरित्वैत्पुण्यैर्लप्स्यथ सन्मतिम् ॥ ततोऽपि विमलात्मानः सर्वसत्त्वहितोत्सुकाः । बोधिचर्याव्रतं धृत्वा चरिष्यथ जगद्धिते ॥ ततः पारमिताः सर्वाः पूरयित्वा यथाक्रमम् । दुष्टान्मारगणान् सर्वान् जित्वार्हन्तो भविष्यथ ॥ ततः संसारसंचारनिस्पृहा विजितेन्द्रियाः । त्रिविधां बोधिमासाध्य निर्वृतिपदमाप्स्यथ ॥ एवं सत्त्वास्त्रिरत्नानां गच्छन्तः शरणं सदा । स्मृत्वा नां समुच्च्चार्य नत्वा भजध्वं नाभवम् ॥ इति लोकेश्वरेणैवं समादिष्टं निशम्य ते । सर्वे तथेति विज्ञाप्य प्रतिमोदन्ति नन्दिताः ॥ ततो लोकेश्वरो मत्वा तेषां मनोऽभिशुद्धितम् । निश्चारयति कारण्डव्यूहसूत्रसूभाषितम् ॥ तत्सुभाषितमाकर्ण्य सर्वे ते संप्रमोदिताः । त्रिरत्नभजनोत्साहसौख्यं वांछन्ति साधितुम् ॥ ततस्ते मुदिताः सर्वे त्रिरत्नशरणं गताः । नमो बुद्धाय धर्माय संघायेति वदन्ति ते ॥ ततः सर्वेऽपि ते सत्वायिरत्नस्मृतिसंरताः । संसारविरतोत्साहा भवन्ति धर्मलालसाः ॥ ततो ज्ञानासिना भित्त्वा सत्कायदृष्टिपर्वतम् । त्यक्त्वा देहं ततः सर्वे तेऽभियान्ति सुखावतीम् ॥ तत्रामिताभनाथस्य शरणे समुपस्थिताः । निर्देशं शिरसा धृत्वा प्रचरन्ति शुभे मुदा ॥ ततः सर्वे भवेयुस्ते चतुर्ब्रह्मविहारिणः । बोधिसत्त्वा महासत्त्वा आकांक्षितमुखाभिधाः ॥ इत्येवं स महासत्त्वो लोकेश्वरो जिनात्मजः । सर्वान् प्रेतान् समुद्धृत्य प्रेषयति सुखावतीम् ॥ (३४) एवं त्रैलोक्यनाथोऽसौ महाकारुणिकः कृती । कृपया स्वयमालोक्य संरक्ष्याभ्यवते जगत् ॥ ये ये सत्त्वाः सदा तस्य लोकेशस्य महात्मनः । स्मृत्वा नाम समुच्चार्य भजन्ते शरणं गताः ॥ ते ते सर्वेऽपि निष्पापाः श्रीमन्तः सद्गुणाकराः । सर्वसत्त्वहितं कृत्वा प्रचरन्तः शुभे सदा ॥ बोधिचर्याव्रतं धृत्वा भुक्त्वा धर्मयशःसुखम् । त्रिरत्नभजनोत्साहं धृत्वा यायुः सुखावतीम् ॥ न ते सर्वेऽपि गच्छन्ति दुर्गतिं च कदाचन । सदा सद्गतिसंजाता भद्रश्रीसद्गुणाश्रयाः ॥ परिशुद्धेन्द्रिया धीरा बोधिचर्याव्रतंधराः । स्वपरात्महितं कृत्वा यायुरन्ते जिनालये ॥ इत्येवं स महासत्त्वः सर्वसत्त्वहितार्थभृत् । कृपाकारुण्यसद्धर्मगुणमाहात्म्यसागरः ॥ असंख्यं पुण्यमाहात्म्यं तस्य लोकेश्वरस्य हि । सर्वैरपि मुनीन्द्रैस्तत्प्रमातुं नैव शक्यते ॥ इत्यादिष्टं मुनीन्द्रेण श्रुत्वा स सुगतात्मजः । सुधीः सर्वनीवरणविष्कम्भी चैवमब्रवीत् ॥ भगवन् स महासत्त्वो नागच्छति कदा व्रजत् । तस्याहं दर्शनं कर्तुमिच्छामि त्रिजगत्प्रभोः ॥ इति तेनोदितं श्रुत्वा भगवान् स मुनीश्वरः । विकम्भिनं तमालोक्य पुनरेवं समादिशत् ॥ एवं तान् कुलपुत्रासौ लोकेश्वरः प्रबोधयन् । प्रेषयित्वा सुखावत्यां ततो निष्क्रम्य गच्छति ॥ अन्यत्रापि समुद्धर्तुं पापिनो नरकाश्रितान् । करुणासुदृशा पश्यंश्चरंस्ते संप्रभासयन् ॥ दिने दिने स आगत्य सर्वेषु नरकेष्वपि । निमग्नान् पापिनो दुष्टान् समालोक्य प्रभासयन् ॥ स्वयमुद्धृत्य सर्वान्स्तान् सुखीकृत्वा प्रबोधयन् । बोधिमार्गे प्रतिष्ठाप्य संप्रेषयेत्सुखावतीम् ॥ ॥ इति श्रीगुणकारण्डव्यूहे सूचीमुखोदरपर्वतप्रेतोद्धारनप्रकरणम् ॥ ४. श्रीमहेश्वरादि देव समुत्पादन प्रकरणम् श्रीभगवानुवाच । एवमसौ महासत्त्वो लोकेश्वरो जिनात्मजः । भवाब्धेः स्वयमुद्धृत्य पालयति सदा जगत् । प्रदुष्टानपि पापिष्टान् बोधयित्वा प्रयत्नतः । बोधिमार्गे प्रतिष्ठाप्य संप्रेषयेज्जिनालये ॥ नास्तीदृग्गुणसंपन्नः सत्त्वयैधातुकेष्वपि । कस्यापि विद्यते नैव प्रतिभानं हि तादृशम् ॥ मुनीन्द्राणां च सर्वेषां नास्तीदृग्द्रुतिभानता । तेन लोकेश्वरो नाम बोधिसत्त्वस्स उच्यते ॥ इत्यादिष्टं मुनीन्द्रेण श्रुत्वा स सुगतात्मजः । विष्कम्भी भगवन्तं च समालोक्यैवमब्रवीत् ॥ भगवन् हेतुना केन सर्वलोकाधिपेश्वरः । लोकेश्वरः स आख्यात एतत्सम्यक्समादिश ॥ तस्येव प्रतिभासत्वं कस्यचिन्नैव विद्यते । मुनीन्द्राणामपि सर्वेषां नास्तीति तत्कथं खलु ॥ एतत्सम्यक्समाख्याहि श्रोतुमिच्छामि सर्ववित् । इमे सर्वे सभासीनास्तद्गुणश्रोतुमानसाः ॥ इति तेनोदितं श्रुत्वा भगवान् स मुनीश्वरः । विष्कम्भिनं महाविज्ञं तमालोक्यैवमादिशत् ॥ शृणु त्वं कुलपुत्रास्य लोकेशस्य प्रभावताम् । संप्रवक्ष्यामि ते प्रीत्या सर्वसत्त्वानुबोधने ॥ (३६) तध्ययाभूत्पुरा शास्ता तथागतो मुनीश्वरः । विपश्यी नाम संबुद्धः सर्वविद्याधिपो जिनः । सर्वज्ञोऽर्हन्महाभिज्ञो धर्मराजो विनायकः । भगवांयिजगन्नाथः सर्वसत्त्वहितार्थभृत् ॥ तदाहं कुलपुत्रासं सुगन्धसुखसंज्ञकः । वणिक्सुतो वृषोत्साही संबुद्धगुणलालसः ॥ तस्य विपश्यिनः शास्तुः संबुद्धस्य जगद्गुरोः । शरणे समुपाश्रित्य प्राचरन् बोधिसंवरम् ॥ तदा तेन मुनीन्द्रेण सर्वज्ञेन विपश्यिना । लोकेशगुणमाहात्यं समाअख्यातं श्रुतं मया ॥ तद्यथासौ जगच्छास्ता विपश्यी भगवान् जिनः । सद्धर्मं समुपादेष्टुं सभामध्ये समाअश्रितः ॥ तदासौ त्रिजगन्नाथो लोकेश्वरो जिनात्मजः । सर्वान् सत्त्वान् समुद्धर्तुं संपश्यन् करुणान्वितः ॥ पुण्यरश्मिं समुत्सृज्य प्रभासयन् समन्ततः । दुःखिनो नरकासीनान् सर्वान् सत्त्वान् विलोकयन् ॥ समुद्धृत्य प्रयत्नेन बोधयित्वानुमोदयन् । त्रिरत्नशरणे स्थाप्य चारयित्वा शुभे वृषे ॥ बोधिमार्गे प्रतिष्ठाप्य श्रावयित्वा सुभाषितान् । संबोधिसाधने धर्मे संनियोज्य विनोदयन् ॥ सर्वत्र मंगलं कृत्वा निरुपातं महोत्सवम् । त्रिरत्नगुणमाहात्म्यं प्रकाशयन् समाचरत् ॥ तदा तद्रश्मिसंस्पृष्टा सर्वा भुमिः प्रशोभिता । विशुद्धमंगलोत्साहसुखसमाकुलाभवत् ॥ तदद्भुतं महानन्दं महोत्साहं समन्ततः । समालोक्य महासत्त्वो महामतिर्जिनात्मजः ॥ विस्मयसमुपाघ्रात त्वन्त एवं व्यचिन्तयन् ॥ अहो कस्य प्रभाकान्तिरियमिह समागता । अवभास्य जगत्सर्वं संशोधयति शोभितम् ॥ (३७) इति चिन्ताकुलात्मा स बोधिसत्त्वो महामतिः । समुत्थायोत्तरासंगमुद्वहन् पुरतो गतः ॥ जाअनुभ्यां भूतके धृत्वा कृतांजलिपुतो मुदा । विपश्यिनं मुनीन्द्रं तं नत्वैवं पर्यपृच्छत ॥ भगवन् कस्य प्रभावोऽयं यदियं भासमागता । अवभास्य जगत्सर्वं शोधयन्ति प्रशोभितम् ॥ यदिदं महदाश्चर्यं दृष्ट्वा सर्वेऽतिविस्मिताः । श्रोतुमिच्छन्ति सर्वज्ञ तत्समादेष्टुमर्हति ॥ इति तेनोदितं श्रुत्वा विपश्यी स मुनीश्वरः । महामतिं महासत्त्वं तमालोक्यैवमादिशत् ॥ महामते शृणुष्वेदमद्भुतं यत्समुद्भवम् । तत्पुण्यप्रभावत्वं कथयिष्यामि सांप्रतम् ॥ ययैलोकाधिपो नाथो बोधिसत्त्वो जिनात्मजः । सर्वधर्माधिपः श्रीमानार्यावलोकितेश्वरः ॥ स सत्त्वान् पापिनो दुष्टान् दुःखिनो नरकाश्रितान् । समालोक्य कृपादृस्ट्या महाकारुण्यचोदितः ॥ तान् सर्वान् हि समुद्दृत्य बोधियित्वानुमोदयन् । बोधिमार्गे प्रतिष्ठाप्य प्रेषयितुं जिनालये ॥ संप्रस्थितः सुखावत्याः पुण्यरश्मीन् समुत्सृजन् । अवभास्य जगल्लोकमिहागन्तुं समागतः ॥ तस्य पुण्यप्रभाकान्तिरियं पापविशोधनी । अवभास्य जगत्सर्वं शोधयन्ती प्रसारिता । एवं स सर्वलोकानामधिपतिर्हितार्थभृत् । स्वयमालोक्य सर्वत्र याति सर्वान् समुद्धरन् ॥ पापिनोऽपि समालोक्य सर्वत्र नरकेष्वपि । निमग्नानतिदुःखांस्तान् पुण्यरश्मीन् समुत्सृजन् ॥ अवभास्य सुखापन्नान् समुद्धृत्य प्रबोधयन् । बोधिमार्गे प्रतिष्ठाप्य प्रेषयति सुखावतिम् ॥ (३८) एवं स श्रीगुणाधारः सद्धर्मसुखदारयकः । दिने दिनेऽप्यप्रेमेयान् सत्त्वानुद्धृत्य बोधयन् ॥ बोधिमार्गे प्रतिष्ठाप्य श्रावयित्या सुभाषितम् । कृत्वा शुद्धाशयान् सर्वान् प्रेषयति सुखावतीम् ॥ एवं तस्य महत्पुण्यं सर्वलोकाधिकं बहु । अप्रमेयमसंख्येयं संबोधिपदसाधनम् ॥ सर्वैरपि मुनीन्द्रैस्तत्पुण्यं महद्बहूत्तमम् । प्रमातुं परिसंख्यातुं शक्यते न कदाचन ॥ सर्वेषामपि बुद्धानामीदृक्पुण्यं महोत्तमम् । अप्रमेयसंख्येयं विद्यते न कदाचन ॥ कस्यापि दृश्यते नैवमीदृक्पुण्यं महत्तरम् । तेनासौ त्रिगजगन्नाथो विराजते समन्ततः ॥ एवं तस्य महत्पुण्यप्रमेयं बहुत्तमम् । सर्वैरपि मुनीन्द्रैस्तत्प्रमातुं शक्यते न हि ॥ तस्मादसौ जगन्नाथो जगच्छास्ता जगत्पतिः । सर्वलोकाधिपः श्रीमानार्यावलोकितेश्वरः ॥ आदिबुद्धात्मसंभूतो जगदीशो महेश्वरः । विश्वसृक्त्रिजगद्भर्त्ता संबोधिज्ञानभास्करः ॥ सर्वैः लोकाधिपैर्देवैः सासुरयक्षकिन्नरैः । राक्षसैर्गरुडैर्नागैः पूजितो वन्दितः सदा ॥ ग्रहैस्तारागणैः सर्वैर्विद्याधरैर्महर्द्धिकैः । सिद्धैः साध्यैश्च रुद्रैश्च कुम्भाण्डैश्च महोरगैः ॥ सर्वैर्भूताधिपैश्चापि सवह्निर्यममारुतैः । सर्वैश्चाप्यप्सरःसर्वैर्दैवादिकन्यकागणैः ॥ एवं दानवनागेन्द्रयक्षादिकन्यकागणैः । सदा ध्यात्वाप्यनुस्मृत्वा स्तुत्वा नत्वाभिपूजितः ॥ भैरवैश्च तथा सर्वैर्महाकालगणैरपि । मातृकाश्भिश्च सर्वाभिः संस्तुतो वन्दितोऽर्चितः ॥ (३९) सर्वैश्च डाकिनीसंघैः सर्वैर्भूतैः पिशाचकैः । सर्वैर्विघ्नाधिपैचापि सप्रेतकठपूतकैः ॥ सर्वैर्मारगणैश्चापि त्रैधातुकनिवासिभिः । सदा नित्यमनुस्मृत्वा प्रणमितः प्रशंसितः ॥ एवं महर्षिभिः सर्वैर्योगिभिश्च तपस्विभिः । यतिभिस्तीर्थिकैश्चापि नित्यं स्मृत्वाभिवन्दितः ॥ श्रावकैर्भिक्षुभिः सर्वैरर्हद्भिर्ब्रह्मचारिभिः । सदानुस्मरणं कृत्वा ध्यात्वा वन्दितार्चितः ॥ तथा सर्वैर्महासत्त्वैर्बोधिसत्त्वैश्व सर्वदा । तद्गुणानुस्मृतिं धृत्वा स प्रशंस्योऽभिवन्ध्यते ॥ तथा प्रत्येकबुद्धैश्च श्रुत्वा दृष्ट्वा च तद्गुणान् । सदानुमोदनां कृत्वा प्रणत्वा संप्रशंस्यते ॥ एवं सर्वैर्मुनीन्द्रैश्च संबुद्धैरपि सर्वदा । तत्पुण्यगुणमाहात्म्यं संप्रशंस्यानुमोद्यते ॥ एवं स सर्वलोकेशः सर्वधर्माधिपेश्वरः । विश्वरस्त्रष्टा जगद्भर्ता त्रैधातुकाधिपेश्वरः ॥ महाबुद्धात्मसंभूतः सद्धर्मगुणभास्करः । सर्वसंघाधिराजेन्द्रो बोधिसत्त्वो जगत्प्रभुः ॥ इति सर्वैर्महाभिज्ञैः संबुद्धैः सर्वदर्शिभिः । मुनीश्वरैः समाख्यातं पुरा मया श्रुतं किल ॥ तद्यथादौ महाशून्यं पंचभूतेऽप्यनुद्भवे । ज्योतिरुसमुद्भूत आदिबुद्धो निरंजनः । त्रिगुणांशमहामूर्त्तिर्विश्वरुपः समुत्थितः । स स्वयंभुर्महाबुद्ध आदिनाथो महेश्वरः । लोकसंसर्जनं नाम समाधिं विदधे स्वयम् ॥ ततस्तस्यात्मसंभूतो दिव्यारुपः शुभांशभृत् । भद्रमूत्तिर्विशुद्धांगः सुलक्षणाभिमण्डितः ॥ पुण्यकान्तिविरोचिष्कः सर्वलोकाधिपेश्वरः । सोऽपि लोकोद्भवं नाम समाधिं विदधे स्वयम् ॥ (४०) तदा तस्यादिनाथस्य चक्षुभ्यां चन्द्रभास्करौ । समुत्पन्नौ ललाटाच्च समुत्पन्नो महेश्वरः ॥ स्कन्धाभ्यां संप्रजातोऽभूदब्रह्मा सौम्यश्चतुर्मुखः । हदयाच्च समुद्भूतो नारायणोऽतिसुन्दरः ॥ उभाभ्यां दन्तपंक्तिभ्यां समुत्पुन्ना सरस्वती । वायुवो मुखतो जाताः पृथ्वी जाता च पादतः ॥ वरुणश्चोदराज्जातः वह्निश्च नाभिमण्डलात् । वामजानूद्भवा लक्ष्मीः श्रीदो दक्षिणजानुतः ॥ एवमन्येऽपि देवाश्च सर्वलोकाधिपा अपि । तस्य महात्मनो देहात्समुद्भूता जगद्धिओते ॥ यदैते लोकनाथस्य जाता लोकाधिपास्तनोः । तस्य सर्वे प्रसन्नास्याः पश्यन्तः समुपस्थिताः ॥ तदा महेश्वरो देवः स्त्रष्टारं तं जगद्गुरुम् । प्रणत्वा सांजलिः पश्यन् प्रार्थयदेवमादरात् ॥ भगवन् यदिमे सर्वे भवता निर्मिता वयम् । तदर्थेऽस्मानिमान् सर्वान् व्याकरोतु यथाविधि ॥ इति संप्रार्थिते तेन महेश्वरेण सर्ववित् । लोकेश्वरः समालोक्य सर्वांन्स्तानेवमादिशत् ॥ आरुप्यलोक्धात्वीशो भविष्यसि महेश्वर । त्राता योगाधिपः शास्ता संसारमुक्तिसौख्यदिक् ॥ कलियुगे समुत्पुन्ने सत्त्वधातौ कषायिने । तदा स्रष्टा विभर्त्ता च संहर्त्ता च भविष्यसि ॥ सर्वसत्त्वा दुराचारा मारचर्यासमारताः । मिथ्याधर्मगता दुष्टा सद्धर्मगुणनिन्दकाः ॥ विहीनबोधिचर्यांगास्तामसधर्मसाधिनः । तीर्थिकधर्मसंरक्ता भविष्यन्ति कलौ यदा ॥ तदा पृथग्जनाः सर्वे मोहेर्ष्यामदमानिकाः । सर्वे ते शरणं गत्वा भजिष्यन्ति सदादरात् ॥ (४१) आकाशं लिंगमित्याहुः पृथिवी तस्य पीठिका । आलयः सर्वभूतानां लीयनाल्लिंगमुच्यते ॥ इति सर्वे तदा लोकाः प्रभाषन्तः प्रमादतः । सर्वान् देवान् प्रतिक्षिप्य चरिष्यन्ति विमोहिताः ॥ तान् सर्वान् समालोक्य बोधयित्वा प्रयत्नतः । मुक्तिमार्गे प्रतिष्ठाप्य व्रतं शैवं प्रचारय ॥ एवं कृत्वा महैशानं पदं प्राप्य महेश्वरः । त्रैलोक्याधिपतिर्नाथो भविष्यसि कलौ युगे ॥ इत्येवं तत्समादिष्टं निशम्य स महेश्वरः । तथेति प्रतिनन्दित्वा तत्रैव समुपाश्रयत् ॥ अथासौ सर्वविच्छास्ता लोकेश्वरो जिनात्मजः । ब्रह्मानं समुपामन्त्र्य संपश्यन्नैमब्रवीत् ॥ ब्रह्मन्स्त्वं रुपधात्निशश्वतुर्वेदांगशायभृत् । सृष्टिकर्ता जगच्छास्ता चतुर्ब्रम्हविहारिकः ॥ शान्तचर्यासमाचारः सात्त्विकधर्मनायकः । परमार्थयोगविद्विद्वान् शुभार्थभृद्भविष्यति ॥ युगे कलौ समुत्पन्ने तव चर्या विनक्ष्यति । म्लेछधर्मसमाक्रान्ते सद्वृत्तिः परिहास्यते । तदापि त्वं प्रयत्नेन नानारुपेण बोधयन् । धर्ममार्गे प्रतिष्ठाप्य प्रापयस्व सुनिर्वृतिम् ॥ एवं ब्रह्मन्स्त्वमालोक्य सर्वान् सत्त्वान् प्रबोधयन् । बोधिमार्गे प्रतिष्ठाप्य पालयस्व जगद्धिते ॥ एवं कृत्वा महत्क्लेशभवोदधिं समुत्तरेत् । अर्हन्संबोधिमासाद्य संबुद्धोऽपि भविष्यसि ॥ इत्येवं तत्समादिष्टं समाकर्ण्य प्रबोधितः । ब्रह्मा तथेति संश्रुत्य प्राभ्यनन्दत्प्रसादितः ॥ ततोऽसौ च महासत्त्वो लोकेश्वरो जिनात्मभूः । नारायणं समालोक्य समामन्त्र्यैवमादिशत् ॥ (४२) विष्णो त्वं कामधात्वीशः सर्वलोकाधिपः प्रभुः । रजोधर्माधिपः शास्ता सर्वसत्त्वहितार्थभृत् ॥ महाभिज्ञो महावीरः सर्वदुष्टप्रमर्दकः । संसारसुखसंभर्ता मायाधर्मविचक्षणः ॥ कलौ क्लेशाकुलान् सत्त्वान्नानारुपेण बोधयन् । त्रासयित्वापि यन्नेन सर्वान् धर्मे नियोजय ॥ एवं कृत्वा महासत्त्वो महत्पुण्यगुणान्वितः । राजा विश्वम्भरो नाथो लक्ष्मीपतिर्महर्द्धितः ॥ सर्वान् सत्त्वान् सुखीकृत्य सर्वान् दुष्टान् विनिर्जयन् । संवृतिविरतात्मान्ते निर्वृतिपदमाप्स्यसि ॥ इत्येवं तत्समादिष्टं निशम्य स प्रबोधितः । विष्णुस्तथेति विज्ञप्य प्राभ्यनन्दत्प्रसादितः ॥ ततश्चासौ महासत्त्वो लोकेश्वरो जिनांशजः । सरस्वतीं समालोक्य समामंत्र्यैवमादिशत् ॥ सरस्वती महादेवी सर्वविद्यागुणाकरी । महामायाधरी सर्वशायविज्ञा सुभाषिणी ॥ सद्धर्मगुणसंभर्त्री संबोधिप्रतिपालिनी । ऋद्धिसिद्धिप्रदात्री त्वं वागिश्वरी भविष्यसि ॥ सर्वान्मूर्खान् दुराचारानपि सत्त्वान् प्रयत्नतः । बोधयित्वा शुभे धर्मे योजयन्त्यभिपालय ॥ येऽपि ते शरणं गत्वा भजेयुर्भक्तिमानसाः । पण्डितास्ते महाभिज्ञा भवेयु श्रीगुणाश्रयाः ॥ एवं सत्त्वहितं कृत्वा मह्त्पुण्यगुणान्विता । प्रान्ते बोधिं समासाद्य संप्राप्स्यसि जिनास्पदम् ॥ इत्येवं तत्समादिष्टं निशम्य सा सरस्वती । तथेति प्रतिनन्दित्वा तत्रैकान्ते समाश्रयत् ॥ ततश्चासौ महासत्त्वो लोकेश्वरो जिनात्मजः । विरोचनं समालोक्य समामंत्र्यैवमादिशत् ॥ (४३) सूर्य त्वं सुमहद्दीप्तिप्रभाकरो ग्रहाधिपः । दिवाकरो जगल्लोकतमोऽन्तको भविष्यसि ॥ अवभास्य जगल्लोकं प्रकाशयन् विशोधयन् । चारयित्वा शुभे धर्मे पालयस्व सदा भ्रमन् ॥ ततोऽसौ च महासत्त्वो लोकनाथो जगत्प्रभुः । चन्द्रमसं समालोक्य समामंत्र्यैवमादिशत् ॥ चंद्रमस्वं महाकान्तिः शीतरश्मिः सुधाकरः । ताराधिपो जगत्क्लेशसन्तापहृद्भविष्यति ॥ अवभास्य जगल्लोकं प्रवर्षयन् सदामृतम् । औषधीव्रीहिशस्यानां रसवीर्यं प्रवर्धयन् ॥ प्रह्लाद्सुखसंपन्नान् कृत्वा रात्रौ प्रबोधयन् । सर्वान् सत्त्वान् शुभे धर्मे चारयित्वाभिपालय ॥ ततो वायुं समालोक्य लोकेश्वरः स सर्ववित् । सर्वांस्तान् समुपामंत्र्य पुर एवमुपादिशत् ॥ यूयं समीरणाः सर्वे जगत्प्राणाः सुखावहाः । सर्वधर्मसुखोत्साहप्रकर्तारो भविष्यथ ॥ प्रचरन्तः सदा यूयं पुयगण्धसुखवहाः । प्रेरयित्वा जगद्धर्मे संपालयध्वमाभवम् ॥ ततः पृथ्वीं महादेवीं समालोक्य सर्वदृक् । जिनात्मजो लोकनाथो समामंत्र्यैवमादिशत् ॥ पृथिवि त्वं जगद्भर्त्री सर्वलोकसमाश्रया । वसुंधरा जगद्भर्ती विश्वमाता भविष्यसि ॥ सर्वधातून् सुरत्नानि व्रीहिशस्यमहौषधीः । दत्वा संस्थाप्य सद्धर्मे पालयस्व जगत्सदा ॥ ततो वरुमालोक्य स लोकेशो जिनात्मभूः । पुरतः समुपामंत्र्य व्याकरोदेवमादिशत् ॥ वरुण त्वमपां नाथः सर्वसत्त्वामृतपदः । सर्वरत्नाकराधीशो नागराजो भविष्यसि ॥ (४४) सदामृतप्रदानेन पोषयित्वा प्रबोधयन् । दत्वा रत्नानि सद्धर्मे चारयस्व जगत्सदा ॥ ततो वह्निं समालोक्य चित्रभानुं प्रभास्वरम् । सर्वलोकाधिपः शास्ता समामंत्र्यैवमादिशत् ॥ वह्ने त्वं सर्वदेवानां मुखीभूतो हुतांशभुक् । पाचकः सर्ववस्तूनां दहनः पावकोऽप्यसि ॥ तस्मात्सर्वप्रयत्नेन सर्वालोकान् प्रहर्षयन् । सदा लोके सुखं दत्त्वा संपालय जगद्धिते ॥ ततो लक्ष्मीं महादेविं लोकेश्वरः स सन्मतिः । पुरतः समुपामंत्र्य समालोक्यैवमादिशत् ॥ लक्ष्मि त्वं श्री महादेवी माहेश्वरी वसुन्धरा । सर्वसंपत्सुखोत्साहप्रदायिनी भविष्यसि ॥ सधातुद्रव्यरन्तादिमहान्सम्पत्सुखान्यपि । दत्वा धर्मे प्रतिष्ठाप्य पालयस्व जगत्सदा ॥ ततः श्रीदं समालोक्य स लोकेशो जगत्प्रभुः । पुरतः समुपामंत्र्य व्याकरोदेवमादिशत् ॥ कुबेर त्वं महाभागः सर्वद्रव्याधिपः प्रभुः । श्रीसंपत्सद्गुणाधारो राजराजो भविष्यसि ॥ दत्वा श्रीगुणसंपत्तीः प्रदत्वा संप्रबोधयन् । बोधिमार्गे प्रतिष्ठाप्य पालयस्व सदा जगत् ॥ एवं स त्रिजगत्न्नाथो लोकेश्वरो जिनात्मजः । सर्वांस्तान् स्वाअत्मजान् देवान् समामंत्र्यैवमादिशत् ॥ यूयं सर्वे महासत्त्वाः संबोधिव्रतचारिणः । सर्वसत्त्वहितं कृत्वा प्रचरध्वं सदा शुभे ॥ एवं कृत्वा महत्पुण्यं श्रीसमृद्धिसमन्विताः । अन्ते संबोधिमासाद्य संबुद्धपदमाप्स्यथ ॥ इत्येवं तत्समादिष्टं श्रुत्वा सर्वे प्रबोधिताः । ते देवाः प्रतिनन्दन्तस्तथेति प्रतिशुश्रुवुः ॥ (४५) एवं ते सकला देवाः धृत्वा तस्यानुशासनम् । बोधिचर्यां समाधाय संप्रचेरुजगद्धिते ॥ तदनुशासनादेव सर्वलोकाधिपा अपि । बोधिचर्याव्रतं धृत्वा संचरिरे जगद्धिते ॥ एवं स त्रिजगच्छास्ता लोकेश्वरो जिनात्मजः । बोधिसत्त्वमहाभिज्ञः सर्वलोकाधिपेश्वरः ॥ ये तस्य त्रिजगच्छास्तुः श्रद्धया शरणं गताः । सर्वे ते विमलात्मनो नैव गच्छन्ति दुर्गतिम् ॥ सदा सद्गतिसंजाताः सद्धर्मश्रीसुखान्विताः । निःक्लेशा बोधिमासाध्य संबुद्धपदमाप्नुयुः ॥ सर्वेऽपि सुगतास्तस्य श्रद्धया शरणं गताः । ध्यात्वानुस्मृतिमाध्याय प्रचरन्तो जगद्धिते ॥ एअतत्पुण्यानुभावेन निःक्लेशा विमलाशयाः । जित्वा मारगणान् बोधिं प्राप्य गताः सुनिर्वृतिम् ॥ अतीता अपि संबुद्धा वर्तमाना अनागताः । सर्वेऽपि ते जगच्छास्तुः श्रद्धया शरणं गताः ॥ ध्यात्वानुस्मृतिमाधाय प्रचरन्तो जगद्धिते । बोधिचर्याव्रतं धृत्वा कृत्वा सर्वजगद्धितम् ॥ क्रमेण बोधिसंभारं पूरयित्वा यथाविधि । जित्वा मारगणान् सर्वान् बोधिं प्राप्याभवन् जिनाः ॥ भवन्ति च भविष्यन्ति धर्मराजा मुनीश्वराः । अर्हन्तः सुगता नाथाः सर्वज्ञास्त्रिविनायकाः ॥ एवं स त्रिजगन्नाथो लोकेश्वरो महर्द्धिमान् । बोधिसत्त्वो महासत्त्वः सर्वलोकाधिपेश्वरः ॥ सर्वसत्त्वहितार्थेन बोधिचर्याव्रतं चरन् । सर्वान् सत्त्वान् स्वयं पश्यन्नवभास्य समुद्धरन् ॥ बोधिमार्गे प्रतिष्ठाप्य चारयित्वा शुभे वृषे । बोधयन् सुप्रसन्नांस्तान् प्रेषयति सुखावतीम् ॥ (४६) एवं स जगदादीशो लोकेश्वरो जिनात्मजः । बोधिसत्त्वो महासत्त्वः सर्वधर्महितार्थभृत् ॥ नास्ति तस्य समं कश्चित्सद्धर्मगुणपुण्यवान् । कुतोऽधिको भवेत्तेन लोकेश्वरो जगत्प्रभुः ॥ इत्येवं सुगतैः सर्वैः संबुद्धैः सर्वदर्शिभिः । लोकेशगुणमाहात्म्यं समादिष्टं श्रुतं मया ॥ ईदृक्पुण्यगुणोद्भावं लोकेशस्य विपश्विनः । मिनीन्द्रेण समादिष्टं पुरा मयाभिसंश्रुतम् ॥ तस्माल्लोकेशवरः सर्वसंघाधिपो जगद्गुरुः । सेवनीयः प्रयत्नेन सद्धर्मगुणवांछिभिः ॥ ये ह्यस्य शरणं गत्वा भजन्ति श्रद्धया मुदा । दुर्गतिं ते न गच्छन्ति सर्वत्रापि कदाचन ॥ सदा सद्गतिसंजाता धर्मश्रीसुखभागिनः । शुभोत्साहं प्रभुंजन्ते प्रान्ते यान्ति सुखावतीम् ॥ इत्येवं हि समादिष्टं शाक्यसिंहेन तायिना । श्रुत्वा सर्वे सभालोकाः प्राभ्यनन्दन् प्रबोधिताः ॥ ॥ इति श्रीमहेश्वरादिदेवसमुत्पादनप्रकरणम् ॥ ५. सर्वाकार सर्वसत्त्व प्रबोधन बोधिचर्यावतारण प्रकरण अथ सर्वनीवरणविष्कम्भी सुगतात्मजः । सांजलिर्भगवन्तं तं प्रणत्वा चैवमब्रवीत् ॥ भगवन्स महासत्त्वो लोकेश्वर जगत्प्रभुः । कदेह समुपागछेद्द्रष्टुमिच्छामि तं प्रभुम् ॥ इति तदुक्तमाकर्ण्य भगवान् स मुनीश्वरः । विष्कम्भिनं महासत्त्वं तमालोक्यैवमादिशत् ॥ (४७) विष्कम्भिन् स महासत्त्वो नागच्छेदिह सांप्रतम् । अन्यत्र नरके सत्त्वानुद्धर्तुमभिगच्छति ॥ सर्वत्रापि स्वयं गत्वा संपश्यन्नरकाश्रितान् । सर्वान् सत्त्वान् समुद्धृत्य प्रेषयति सुखावतीम् ॥ एवं स सर्वदा सत्त्वान् स्वयं पश्यन् दिने दिने । असंख्येयान् समुद्धृत्य प्रेषयति सुखावतीम् ॥ एवं कुर्वन् स लोकेशो बोधिचर्याव्रतं चरन् । असंख्यपुण्यरत्नाद्यश्रीसमृद्धो विराजते ॥ तस्य पुण्यमसंख्येयमप्रमेयं बहूत्तमम् । सर्वैरपि मुनीन्द्रैस्तत्प्रमातुं नैव शक्यते ॥ इत्येवं सुगतैः सर्वैः पुराख्यातं मया श्रुतम् । तदत्राहं प्रवक्ष्यामि शृणुध्यं यूयमादरात् ॥ तद्यथाभूत्पुरा शास्ता शिखि नाम तथागतः । सर्वज्ञोऽर्हन्महाभिज्ञोः धर्मराजो मुनीश्वरः ॥ सर्वविद्याधिराजेन्द्रः संबुद्धः सुगतो जिनः । मारजित्सर्वलोकेन्द्रस्त्रैधातुकविनायकः ॥ तदासं बोधिसत्त्वोऽहं दानशूरोऽभिधो गृही । सदादानरतो धीरः सर्वसत्त्वहितार्थभृत् ॥ सदा स शिखिनस्तस्य मुनीन्द्रस्य जगद्गुरोः । सत्कृत्य श्रद्धया नित्यं प्राभजन् समुपस्थितः ॥ तदा तेन मुनीन्द्रेण समाख्यातं मया श्रुतम् । लोकेश्वरस्य सद्धर्मसाधनोद्भवकौशलम् ॥ इति तेन मुनीन्द्रेण समाअख्यातं निशम्य सः । बोधिसत्त्वो महासत्त्वो विष्कम्भी चैवमब्रवीत् ॥ भगवन् किदृशं तस्य लोकेशस्य महात्मनः । सद्धर्मसाधनोद्भूतं कौशलं भवता श्रुतम् ॥ भगवन्स्तत्समाख्याय सर्वानस्मान् प्रबोधय । सर्वलोका इमे श्रुत्वा भवेयुस्तद्गुणारताः ॥ (४८) इति संप्रार्थितं तेन श्रुत्वासौ भगवान् जिनः । सर्वांल्लोकान् सभासीनान् समालोक्यैवमादिशत् ॥ यदा स भगवांच्छास्ता शिखी तथागतो जिनः । सर्वलोकसभामध्ये ससांघिकः समाश्रितः ॥ आदिमध्यान्तकल्याणं संबोधिगुणसाधनम् । सद्धर्मं समुपादेष्टुं समारभेज्जगद्धिते ॥ तदा तस्य मुखद्वारान्नानावर्णाः सुरश्मयः । विनिर्गता जगत्सर्वमवभास्य प्रचेरिरे ॥ कृत्वा सर्वत्र लोकेषु सुभद्राणि समन्ततः । पुनरागत्य सा कान्तिस्तदाश्रम उपागताः ॥ शिखिनं तं महाभिज्ञं धर्मराजं मुनीश्वरम् । त्रिधा प्रदक्षिणीकृत्य तन्मुखाज्ये समाविशत् ॥ तत्सत्पुण्यप्रभां दृट्वा लोकेश्वरः स विस्मितः । अमिताभं जिनं नत्वा पप्रच्छैवं समादरात् ॥ भगवन् कस्य सत्पुण्यकान्तिरियं समागता । तद्भवान् समुपादिश्य संबोधयतु नो गुरो ॥ इति तदुक्तमाकर्ण्य भगवान् सोऽमितप्रभः । लोकेश्वरं महासत्त्वं तमालोक्यैवमादिशत् ॥ कुलपुत्र शिखी नाम संबुद्धोऽर्हन्मुनीश्वरः । सर्वज्ञस्त्रिगच्छास्ता धर्मराजस्तथागतः ॥ विहारे जेतकोद्याने समाश्रितः ससांघिकः ॥ सर्वलोकसभामध्ये समासीनः प्रभासयन् । सद्धर्मं समुपादेष्टुं प्रारम्भं कुरुतेऽधुना ॥ तस्येयं सुप्रभाकान्तिर्मुखद्वाराद्विनिर्गता । सर्वत्र भुवनेष्वेवमवभास्य प्रचर्यते ॥ इहापि समुपायाता भासयन्ती प्रचारिता । परावृत्य मुनेस्तस्य मुखे प्राविशतेऽधुना ॥ इत्यादिष्टं मुनीन्द्रेण लोकेश्वरः प्रसादितः । अमिताभं मुनीन्द्रं तं प्रणत्वैवमभाषत ॥ (४९) भगवन् धर्मराजं तं द्रष्टुमिच्छामि सांप्रतम् । तत्तत्राहं गतिष्यामि तदाज्ञां दातुमर्हति ॥ इति संप्रार्थितं तेन लोकेशेन निशम्य सः । अमिताभो मुनीन्द्रस्तं लोकेशमेवमबव्रीत् ॥ कुलपुत्र मुनीन्द्रंस्तं यदि द्रष्टुं त्वमिच्छसि । गच्छ मद्वचनेनापि कौशल्यं स्प्रष्टुमर्हसि ॥ पद्मं समुपसंस्थाप्य तस्य पश्यन् सभामपि । समुपाश्रित्य सद्धर्मं श्रुत्वा गच्छानुमोदितः ॥ इत्यादिष्टं मुनीन्द्रेण श्रुत्वा लोकेश्वरो मुदा । सांजलिस्तं जिनं नत्वा संभासयंस्ततोऽचरत् ॥ यदा ततः सुखावत्यां संप्रस्थितः स भासयन् । तदा सर्वा मही साब्धिः सागाधा च प्रकम्पिता ॥ प्रवर्षाद्वियतो हेमरत्नमयं महोत्पलम् । निरुत्पातं शुभोत्साहं प्रावर्तत समन्ततः ॥ तदाश्रममहोद्याने कल्पवृक्षाः समुत्थिताः । दिव्यवस्त्रसुवर्णादिरत्नालंकारलम्बिताः ॥ नानाकुसुमवृक्षाश्च सुगंधिपुष्पशोभिताः । अनेकfअलवृक्षाश्च दिव्यरसfअलानताः ॥ अष्टांगुणसंपन्नजलपूर्णाः सरोवराः । नानापुष्पाभिसंकीर्णाः प्रादुर्भूता मनोरमाः ॥ विविधपुष्पवर्णाणि द्रव्याणि विविधान्यपि । हेमादिधातुरत्नानि वस्त्राणि भूषणानि च ॥ सुवर्णसुरसास्वादसंपन्नभोजनान्यपि । धान्यादिव्रीहिजातानि प्रवर्षन्त तदाश्रमे ॥ तत्र च सप्तरत्नानि संजातानि जिनाश्रमे । सर्वा भूमिश्च सौवर्णा निर्भासा संबभौ तदा ॥ तदा लोकेश्वर पद्मं सहस्त्रपत्रं सुवर्णिकम् । सप्तरत्नमयो ज्वालं समादाय ततश्चरन् ॥ (५०) एवं तत्र सुभद्राणां निमित्तं संप्रकाशयन् । अवभास्य जगल्लोकं समालोक्य समन्ततः ॥ प्राणिनो दुःखिनः सर्वान् समुद्धृत्य प्रयत्नतः । बोधिमार्गे प्रतिष्ठाप्य संप्रेषयन् सुखावतीम् ॥ सुधारश्मिं समुत्सृज्य संभासयन् समन्ततः । संबुद्धं शिखिनं तद्विहारमुपाचरत् ॥ तानि भद्रनिमित्तानि विलोक्य तत्सभाश्रितः । रत्नपाणिर्महासत्त्व बोद्धिसत्त्वोऽभिलोकयन् ॥ विस्मितः सहसोत्थाय पुस्तः समुपाचरत् । उद्वहन्नुत्तरासंगं जानुभ्यां भुवि संस्थितः ॥ भगवन्तं मुनीन्द्रं तं संबुद्धशिखिनं मुदा । कृतांजलिपुटो नत्वा पप्रच्छैवं समादरात् ॥ भगवन् कस्य प्रभाकान्तिरियमिह समागता । महद्भद्रनिमित्तानि दृश्यन्ते प्रोद्भवानि च ॥ भगवन्स्तत्समादिश्य सर्वानिमान् सभाश्रितान् । विस्मयाकुलचित्तान्तः प्रबोधयितुमर्हति ॥ इति संप्रार्थितं तेन श्रुत्वा शिखी तथागतः । रत्नपाणिं महासत्त्वं तं पश्यन्नेवमादिशत् ॥ रत्नपाणे महासत्त्व दृश्यन्ते यदिहाधुना । महद्भद्रनिमित्तानि संजातानि समन्ततः ॥ तद्धेतुं संप्रवक्ष्यामि शृणुध्वमिदमादरात् । यूयं सर्वे प्रसीदन्तः प्रतिबुध्यानुमोदत ॥ यः श्रीमांजगन्नाथो बोधिसत्त्वो जिनात्मजः । सर्वसंघाधिपः शास्त सर्वलोकाधिपेश्वरः । समन्तभद्रकारी स आर्यावलोकितेश्वरः । सत्त्वान् पश्यन् समुद्धर्तुं सुखावत्यां विनिश्चरन् ॥ पुण्यरश्मिं समुत्सृज्य संभासयन् समन्ततः । शोधयंस्त्रिजगल्लोकं कृत्वा भद्रं समन्ततः ॥ (५१) पापिनोऽपि दुराचारान् सर्वत्र नरकेष्वपि । निमग्नांस्तान् समालोक्य समुद्धृत्य समन्तत ॥ बोधयित्वा प्रयत्नेन कृत्वा सद्धर्मलालसान् । ममेह दर्शनं कर्तुं समुपागच्छपि सांप्रतम् । तस्येयं सुप्रभा कान्तिर्भासयन्ती समागता ॥ ईदृग्द्रनिमित्तानि संजातानि समंततः । भद्रहेतुरयं तस्य लोकेशस्यागतः खलु ॥ इत्यादिष्टं मुनीन्द्रेण रत्नपाणिर्निशम्य सः । संबुद्धं तं सभां तां च समालोक्यैवमब्रवीत् ॥ भगवन् स महासत्त्वो लोकेश्वरो जगत्प्रभुः । नागच्छति कदागत्च्छेद्द्रष्टुमिच्छामि तं प्रभुम् ॥ इति तेनोदितं श्रुत्वा भगवान् स शिखी जिनः । रत्नपाणिं तमालोक्य सभां चाप्येवमादिशत् ॥ आगच्छेत्स महासत्त्वो लोकेश्वरः सुदुःखितः । सत्त्वान् सर्वान् समुद्धृत्य प्रेषयित्वा सुखावतीम् ॥ प्रथममिह मां द्रष्टुमागच्छेत्स कृपानिधिः । तदा तं त्रिजगन्नाथं पश्च भज समादरात् ॥ इत्यादिष्टं मुनीन्द्रेण श्रुत्वा स रत्नभृन्मुदा । सह सर्वसभालोकैस्तस्थौ तद्दर्शनोत्सुकः ॥ तदासौ त्रिजगन्नाथो लोकेश्वरः प्रभासयन् । दूरात्तं सुगतं पश्यन् विहारे समुपाविशत् ॥ तं लोकेशं समायातं समीक्ष्य सुगतात्मजम् । सर्वे लोकाः सभासीनाः समुत्थाय प्रणेमिरे ॥ रत्नपाणिस्तमायातं संपश्यन् सहसोत्थितः । सांजलिः समुपागम्य ववन्दे तत्पदाम्बुजे ॥ एवं स वन्द्यमानस्तैः सर्वलोकैः प्रभासयन् । शिखिनं तं समालोक्य पुरतः समुपाचरत् ॥ (५२) तं समायातमालोक्य भगवान् स शिखी मुदा । स्वागतं ते महासत्त्व कौशलमित्यपृच्छत ॥ इत्यादिष्टं मुनीन्द्रेण श्रुत्वा स सुगतात्मजः । कौशलं मे सदा शास्तरिति वदन्नुपाचरत् ॥ तत्रासौ त्रिजगन्नाथः शिखिनं तं मुनीश्वरम् । वन्दित्वा तं महापद्ममुपस्थाप्यैवब्रवीत् ॥ भगवन्नमिताभेन शास्त्रेमं प्रहितं कजम् । कुशलं चापि सर्वत्र पृच्छत ते समन्ततः ॥ इति तदुक्तमाकर्ण्य भगवान् स शिखी मुदा । गृहीत्वा तं महापद्मं वामे स्थाप्यैवमब्रवीत् ॥ सर्वत्र कौशलमत्र क्वचित्तस्यापि कौशलम् । इति पृष्ट्वा मुनीन्द्रैश्च तनेवं पर्यपृच्छत ॥ कुलपुत्र त्वया सत्त्वाः कियन्तो नरकाश्रिताः । समुद्धृत्य शुभे स्थाप्य प्रेषितास्ते सुखावतीम् ॥ इति पृष्टे मुनीन्द्रेण लोकेश्वरो विलोक्य सः । संबुद्धं तं सभां चापि समालोक्यैवमब्रवीत् ॥ भगवन् बहवोऽसंख्येयाः सत्त्वा नरकाश्रिताः । ते सर्वेऽपि प्रयत्नेन मयालोक्य समुद्धृताः ॥ तद्यथा ये महादुष्टा अवीचौ कर्मभोगिनः । रौरवे कालसूत्रे च हाहवतपनेऽपि च ॥ तापनेऽग्निधटे ये च शाल्मलिके च पापिनः । संघाअते चान्धकारे च शीतोदकेऽसिपत्रके ॥ एवमन्यषु सर्वेषु नरकेषु समन्ततः । स्वकृतकर्मभुंजानां तिष्ठन्तो दुःखभोगिनः ॥ तीव्रदुःखाग्निसन्तप्ता मूढा विलुप्तचेतनाः । ते सर्वेऽपि मयोद्धृत्य संप्रेषिताः सुखावतीम् ॥ भूताः प्रेताः पिशाचाश्च क्षुप्तिपासाग्निदाहिताअः । सूचिमुखादयो दुष्टा विण्मूत्रामेध्यभोगिनः ॥ (५३) पशवोऽपि च ये दुष्टाः पक्षिणोऽपि दुरारताः । कृमिकीटादयश्चापि स्वकर्मfअलभोगिनः ॥ तेऽपि सर्वे मयालोक्य मोचयित्वा स्वकर्मतः । समुद्धृत्य प्रयत्नेने संप्रेषिताः सुखावतीम् ॥ एवमन्येऽपि सत्त्वा ये मर्त्या दैत्याःसुरा अपि । अधर्माभिरता दुष्टा भ्रष्टा नरकगामिनः ॥ तेऽपि सर्वे मयाअलोक्य बोधियित्वा प्रयत्नतः । सधर्मे संप्रतिष्ठाप्य संप्रेषिता जिनालये ॥ एवं नित्यं मयालोक्य प्राणिनो दुरितोऽर्द्धताः । सर्वेऽपि नरकासीनास्तीव्रदुःखाग्नितापिताः ॥ दिने दिनेऽप्यसंख्येया समुद्धृत्य प्रयत्नतः । बोधियित्वा शुभे स्थाप्य चारयित्वा सुसंवरे । बोधिमार्गे नियुज्यैवं संप्रेषिता जिनालये ॥ यथा मया प्रतिज्ञातं तथा कर्त्तव्यमेव तत् । इति नित्यं समालोक्य सत्त्वा धर्मेऽभियोजिताः ॥ यावन्तः प्राणिनः सर्वे यावन्न बोधिभागिनः । तावदहं न संबोधिं संप्राप्नुयां जगद्धिते ॥ इति दृढा प्रतिज्ञा मे यावन्न परिपूरिता । तावत्सत्त्वान् समालोक्य समुद्धृत्य प्रयत्नतः ॥ बोधयित्वापि कृत्वा च चतुर्ब्रह्मविहारिणः । बोधिमार्गे प्रतिष्ठाप्य प्रेषयेयं सुखावतीम् ॥ इत्येवं भगवंच्छास्ते बोधिचर्यां समाचरन् । सर्वसत्त्वहितं कृत्वा चरे त्रिधातुकेष्वपि ॥ एवं नित्यं जगल्लोकिअ कृत्वा भद्रसुखोत्सवम् । प्रचरं प्रचराम्येवं चरिष्यामि सदा भवे ॥ इत्युक्त्वा स महासत्त्वो लोकेश्वरो जिनात्मजः । भूयस्तं शिखिनं नत्वा समनुज्ञामयाचत ॥ भगवन् गन्तुमिच्छामि सत्त्वानुद्धर्तुमन्यतः । तदनुज्ञां प्रदत्वा मे प्रसीदतु जगद्धिते ॥ (५४) इति तदुक्तमाकर्ण्य स शिखी भगवान्मुदा । लोकेश्वरं महाभिज्ञं तमालोक्याइवमब्रवीत् ॥ सिध्यतु ते महासत्त्व कार्यं संबोधिसाधनम् । गच्छ लोके हितं कुर्वन् संचरस्व सुखं सदा ॥ इत्यादिष्टं मुनीन्द्रेण लोकेश्वरो जगत्प्रभुः । शिखिनं धर्मराजं तं प्रणत्वा प्राचरत्ततः ॥ प्रक्रमित्त्वा ततः सोऽग्निपिण्ड इव समुज्ज्वलन् । आकाशेऽन्तर्हितोऽन्यत्र भुवेने भासयन् ययौ ॥ तमेवं खे गतं दृष्ट्वा रत्नपाणिः स विस्मितः । शिखिनं भगवन्तं तं समालोक्यैवमब्रवीत् ॥ भगवंस्त्रिजगद्भर्तुर्लोकेअश्स्य महान्मनः । कियत्सुकृतसंभारं विद्यते तत्समादिश ॥ इति संप्रार्थितं तेन श्रुत्वा स भगवांछिखी । रत्नपाणिस्तमालोक्य समामंत्र्यैवमादिशत् ॥ कुलपुत्र शृणु चास्य लोकेशस्य जगत्प्रभोः । पुण्यस्कन्धं प्रवक्ष्यामि सत्त्वानां भद्रकारणे ॥ तद्यथैके महासत्त्वाः सर्वेषामपि देहिनाम् । सर्वदा सर्वसत्कारैर्भजन्ति समुपस्थिताः ॥ तेषां पुण्यानि यावन्ति तानि सर्वाणि सद्गुरोः । लोकेश्स्यैकवालाग्रे इति सर्वे जिना जगुः ॥ तद्यथापि चतुर्द्वीपे मेघा वर्षन्ति सर्वदा । तत्सर्वजलबिन्दूनां संख्यातुं शक्यते मया ॥ न तु लोकेश्वरस्यास्य बोधिसत्त्वस्य सत्प्रभोः । पुण्यस्कन्धप्रमाणानि कर्तुं केनापि शक्यते ॥ सर्वषामपि चाब्धीणां सर्वेषामपि चाम्भसाम् । एकैकबिन्धुसंख्यानि कर्तुं शक्नोम्यहं ध्रुवम् ॥ न तु लोकेश्वरस्यास्य संबोधिव्रतचारिणः । पुण्यसंभारसंख्यानि कर्तुं शक्नोम्यहं खलु ॥ (५५) सर्वेषामपि जन्तूनां चतुर्द्वीपनिवासिनाम् । एकैकरोमसंख्याभिः प्रमाणं शक्यते किल ॥ न तु लोकेश्वरस्यास्य सद्धर्मसद्गुणाम्बुधेः । बोधिसंभारपुण्यानां प्रमातुं शक्यते मया ॥ हेमरत्नमयान् स्तूपान् परमाणुरजोपमान् । विधाय सर्वदाभ्यर्च्य प्रभजेत्समुपस्थितः ॥ संबुद्धप्रतिमांश्चैवं परमाणुरजोपमान् । हेमरत्नमयान् स्थाप्य सर्वे लोका महोत्सवैः ॥ सधातुरत्नपूजांगैर्भजेयुः सर्वदा मुदा । एतत्पुण्यप्रमाणानि कर्तुं शक्नोम्यहं ध्रुवम् ॥ नैव लोकेश्वरस्यास्य चतुर्ब्रह्मविहारिणः । पुण्यसंख्याप्रमाणानि कर्तुं शक्नोमि सर्वथा ॥ सर्वेषामपि वृक्षाणां चतुर्द्विपमहीरुहाम् । पत्रसंख्याप्रमाणानि कर्तुं शक्नोम्यहं खलु ॥ नैव लोकेश्वरस्यास्य सत्त्वहितार्थदायिनः । पुण्यसंख्याप्रमाणानि कर्तुं शक्नोमि सर्वदा ॥ सर्वे स्त्रीपुरुषा मर्याश्चतुर्द्वीपनिवासिनः । श्रोतापत्तिfअले स्थाप्य चारयेयुः सुसंवरम् ॥ तेषां पुण्यप्रमाणानि कर्तुं शक्नोम्यहं खलु । न तु लोकेशपुण्यानां प्रमातुं शक्नुयामहम् ॥ एतान् सर्वान्नरांश्चापि बोधयित्वा प्रयत्नतः । सकृदागामिनः कृत्वा चारयेयुः शुभे सदा ॥ एतेषामपि पुण्यानां प्रमातुं शक्यते खलु । नैव लोकेशपुण्यानां प्रमातुं शक्यते क्वचित् ॥ तथा च मानवान् सर्वान् बोधयित्वानुमोदयन् । अनागामीfअले स्थाप्य चारयेयुः सुसंबरे ॥ एतेषामपि पुण्यानां प्रमातुं शक्यते किल । नैव लोकेश्वरस्यास्य प्रमातुं शक्यते क्वचित् ॥ (५६) तथैतान् सकलान्मर्त्यान् बोधयित्वा प्रयत्नतः । अर्हत्वे संप्रतिस्थाप्य चारयेयुः सुनिर्वृतौ ॥ एतेषामपि पुण्यानां प्रमातुं शक्यते मया । न तु लोकएश्वरस्यास्य शक्यते सुगतैरपि ॥ तथा प्रत्येकबोधौ च सर्वानेतान्नरानपि । बोधयित्वा नियुज्येव चारयेयुः सुनिर्वृतौ ॥ एतेषामपि पुण्यानां प्रमातुं शक्यते मया । न तु लोकेश्वरस्यास्य सर्वैरपि मुनीश्वरैः ॥ एतेषामपि सर्वेषां पुण्यानां प्रवरं महत् । पुण्यं लोकेश्वरस्यास्य बह्वमेयमुत्तमम् ॥ किं मयैकेन तत्पुण्यं प्रमातुमिह शक्यते । सर्वैरपि मुनीन्द्रैर्ही शक्यते न कदाचन ॥ एवमसौ महत्पुण्यसंभारश्रीसमृद्धिमान् । लोकश्वरो महासत्त्वो बोधिसत्त्वो जिनात्मजः ॥ नास्तीदृक्पुण्यसंभारसद्गुणश्रीसमृद्धिमान् । तदन्यो हि महासत्वः कुतस्त्रैधातुकेष्वपि ॥ इत्येवं तन्महत्पुण्यं श्रुत्वा यूयं प्रमोदिताः । तमीशं शरणं गत्वा भजध्वं सर्वदा भवे ॥ ये तस्य त्रिजगद्भर्तुर्लोकेशस्य जगत्प्रभोः । ध्यात्वा नाम समुच्चार्य स्मृत्वा भजन्ति सर्वदा ॥ ते भवक्लेशनिर्मुक्ताः परिशुद्धत्रिमण्डलाः । धर्मश्रीगुणसंपन्नाः संप्रयायुः सुखावतीम् ॥ तत्रामिताभनाथस्य गत्वा ते शरणं मुदा । सद्धर्मामृतमास्वाद्य रमेयुर्बोधिसाधिनः ॥ भूयस्ते भगसंक्लेशैर्बाधिष्यन्ते कदाचन । गर्भवासमहददुखं लभेयुर्न पुनर्भवे ॥ तस्यामेव सुखावत्यां पद्मे रत्नमेये वरे । संजाता सततं ध्यात्वा तिष्ठेयुस्तं मुनिश्वरम् ॥ (५७) तावत्तत्र सुखावत्यां तिष्ठेयुस्ते सुखान्विताः । यावन्नास्य जगच्छास्तुः प्रतिज्ञा परिपूरिता ॥ क्रमेण बोधिसंभारं पूरयित्वा जगद्धिते । त्रिविधां बोधिमासाद्य सम्बुद्धपदमाप्नुयुः ॥ इत्येवं सुगतैः सर्वेः समादिष्टं मया श्रुतम् । तदस्य लोकनाथस्य भजन्तु बोधिवांछिनः ॥ इत्यादिष्टं मुनीन्द्रेण रत्नपाणीर्निशम्य सः । शिखिनं भगवन्तं तं समालोक्यैवमब्रवीत् ॥ भगवन्नस्य प्रतिज्ञा या सुदृढातिमहत्यसौ । कियता खलु कालेन संपूरिता भविष्यते ॥ कथमेकात्मना तेन सर्वे त्रैधातुकाश्रिताः । बोधिमार्गे प्रतिष्ठाप्य संप्रेषिताः सुखावतीम् ॥ कथमसौ महासत्त्वः सत्त्वान्नाधिमुक्तिकान् । एकः प्रबोधयन् सर्वान् बोधिमार्गेऽभियोजयेत् ॥ सत्त्वाः षड्गतिसंजाता नानाकर्मानुचारिणः । एतान् सर्वान् कथमेको बोधयन् परिपाचयेत् ॥ इति तेनोदितं श्रुत्वा भगवान् स शिखी जिनः । रत्नपाणिं महासत्त्वं तमालोक्यैवमब्रवीत् ॥ एकोऽप्यसौ महासत्त्वो महाभिज्ञो जिनांशजः । नानारुपेण सत्त्वानां सद्धर्म समुपादिशत् ॥ बोधयन् प्राणिनः सर्वान् दत्त्वा द्रव्यं यथेप्सितम् । बोधिमार्गे प्रतिष्ठाप्य प्रेषयति जिनालयम् ॥ बोद्धान् सुबुद्धरुपेण बुद्धधर्मे नियोजयन् । बोधिमार्गे प्रतिष्ठाप्य प्रेषयति सुखावतीम् ॥ प्रत्येकबुद्धरुपेण प्रत्येकबोधिवांछिनः । बोधिमार्गे प्रतिष्ठाप्य प्रेषयति सुनिर्वृतिम् ॥ अर्हद्धर्मानुसंरक्तानर्हद्रूपेण बोधयन् । अर्हद्धर्मे प्रतिष्ठाप्य प्रेषयति सुखावतीम् ॥ (५८) बोधिचर्येषिणो बोधिसत्त्वरुपेण बोधयन् । बोधिचर्याव्रते स्थाप्य चारयति जगत्द्धिते ॥ तथोपासकरुपेण प्रबोधयनूपासकन् ॥ बोधिमार्गे प्रतिष्ठाप्य चारयति सुसंवरम् ॥ तथा च शिवरुपेण शैवान् सर्वान् प्रबोधयन् । बोधिमार्गे नियुज्यासौ चारयति जगद्धिते ॥ एवं स वैष्णवान् सर्वान् विष्णुरुपेण बोध्यन् । बोधिमार्गे नियुज्यापि चारयति जगद्धिते ॥ तथा च ब्राह्मणान् सर्वान् ब्रह्मरुपेण बोधयन् । बोधिमार्गे प्रतिष्ठाप्य चारयन्ति जगद्धिते ॥ तथैन्द्रानिन्द्ररुपेण सर्वानपि प्रबोधयन् । बोधिमार्गे प्रतिष्ठाप्य चारयति जगद्धिते ॥ तथा सूर्यस्य वैनेयान् सूर्येरुपेण बोधयन् । बोधिमार्गे प्रतिष्ठाप्य चारयति जगद्धिते ॥ तथा च चन्द्रवैनेयांश्चन्द्ररुप्रेण बोधयन् । बोधिमार्गे प्रतिष्ठाप्य चारयति जगद्धिते ॥ तथा च वह्निवैनेयान् वह्निरुपेण बोधयन् । बोधिमार्गे प्रतिष्ठाप्य चारयति जगद्धिते ॥ तथा च यमवैनेयान् यमरुपेण बोधयन् । एवं वरुणरुपेण वैनेयान् वरुणस्य च ॥ तथा च वायुवैनेयान् वायुरुपेण बोधयन् । वैनेयान् राक्षसस्यापि रक्षोरुपेण बोधयन् ॥ यक्षरुपेण यक्षस्य वैनेयान् संप्रबोधयन् । नागरुपेण नागस्य वैनेयान् संप्रबोधयन् ॥ तथा भूतेशरुपेण वैनेयान् भूतपरेरपि । तथा गणेशरुपेण वैनेयान् गणपस्य च ॥ तथा गन्धर्वरुपेण गान्धर्वधर्मचारिणः । तथा किन्नररुपेण वैनेयान् किन्नरस्य च ॥ (५९) विद्याधरस्य रुपेण वैद्याधरान् प्रबोधयन् । तथा भैरववैनेयान् रुपेण भैरवस्य च ॥ तथा कुमारवैनेयान् स्कन्दरुपेण बोधयन् ॥ महाकालस्य रुपेण वैनेयांस्तस्य बोधयन् । महाकालस्य रुपेण वैनेयांस्तस्य बोधयन् ॥ मातृकाणां च रुपेण वैनेयान् संप्रबोधयन् । बोधिमार्गे प्रतिष्ठाप्य चारयति जगद्धिते ॥ एवं यस्य यस्य वैनेयान् सत्त्वान् यन्तेन बोधयन् । तस्य तस्यैव रुपेण योगयति जगद्धिते ॥ एवं स ऋषिवैनेयानृषिरुपेण बोधयन् । योगिरुपेण वैनेयान् योगिनश्चापि बोधयन् ॥ तथा च यतिवैनेयान् यतिरुपेण बोधयन् । तथा तपस्ववैनेयांस्तपस्विरुपेण बोधयन् ॥ तथा तैर्थिकरुपेण तीर्थिकांश्चापि बोधयन् । तथा च राजवैनेयान् राजरुपेण बोधयन् ॥ वैश्यरुपेण वैनेयान् वैश्यस्यापि प्रबोधयन् । शूद्ररुपेण शूद्रस्य वैनेयांश्च प्रबोधयन् ॥ गृहपतेश्चापि वैनेयांस्तद्रूपेण प्रबोधयन् । तथा च मंत्रीवैनेयान्मंत्रीरुपेण बोधयन् ॥ तथा चामात्यरुपेण तद्वैनेयान् प्रबोधयन् । तथा च योधृवैनेयान् योधृरुपेण कांश्चन ॥ एवं च भृत्यरुपेण दासरुपेण कांश्चन । कांस्चिच्च सार्थभृद्रूपेण शिन्पिरुपेण कांश्चन ॥ तथा च वैद्यरुपेण वणिग्रूपेण कांश्चन । कांश्चिच्च पितृरुपेण मातृरुपेण कांश्चन ॥ तथा च भ्रातृरुपेण भार्यारुपेण कांश्चन । रुपेणापि भगिन्याश्च पुत्ररुपेण कांश्चन ॥ कश्चिद्दुहितृरुपेण पौत्ररुपेण कांश्चन । एवं पितामहादीनां ज्ञातीनां सुहृदामपि ॥ (६०) बंधुमित्रसहायानां रुपेण परिबोधयन् । कांश्चिच्च शत्रुरुपेण संत्रासयन् प्रयत्नतः ॥ कांश्चिच्चण्डालरुपेण चौररुपेण कांश्चन । सद्धर्मे प्रेरयित्वैव चररयति जगद्धिते ॥ एवं सिंहादिजन्तूनां रुपेण त्रासयन्नपि । पशूनां पक्षिणां चाअपि कृमिकीटादिप्राणिनाम् ॥ रुपेण त्रासयित्वापि बोधयित्वा च यत्नतः । बोधिमार्गे प्रतिष्ठाप्य चारयति जगच्छुभे ॥ एवमसौ महासत्त्वो लोकनाथो जगत्प्रभुः । नानारुपेण सर्वेषां सत्त्वानां बोधयन्मनः ॥ त्रासयन्नपि सद्धर्मे प्रेरयसि प्रयत्नतः ॥ एवं स त्रिजगन्नाथो बोधिसत्त्वो जिनात्मजः । सर्वान् सत्त्वान् समुद्धृत्य प्रेषयति सुखावतीम् ॥ एवं कृत्वा स लोकेशः सर्वलोकाधिपेश्वरः । षड्गतिभवचारीणां दुष्टानामपि मूढानाम् ॥ सद्धर्मसद्गुणश्रीमन्माहैश्वर्यसमृद्धिमान् ॥ नास्ति तेन समः कश्चित्पुण्यश्रीगुणवानपि । दयालुर्भद्रसंचारी त्रैधातुभुवनेष्वपि ॥ एवं तस्य महत्पुण्यं मत्वा संबोधिवांछिनः । श्रद्धया शरणं गत्वा स्मृत्वा ध्यात्वा भजंति ते ॥ ये तस्य शरणं गत्वा स्मृत्वा ध्यात्वा भजंति ते । सर्वे हि विमलात्मानो भद्राशयाः शुभेंद्रियाः ॥ बोधिसत्वा महासत्वाः प्रचरंतः सदा शुभे । त्रिविधां बोधिमासाध्य निर्वृतिं पदमाप्नुयुः ॥ इत्यादिष्टं मुनींद्रेण रत्नपाणिर्निशम्य सः । अत्यद्भुतसमक्रान्तहदयश्चैवमब्रवीत् ॥ परमाद्भुतप्राप्तोऽहं भगवन् यदीदृशं क्वचित् । धर्मश्रीगुणमाहात्म्यं दृष्टं न श्रूयतेऽपि न ॥ (६१) ईदृशं पुण्यसंभारं जिनानामपि न क्वचित् । दृश्यते श्रूयते नापि कदाचन मया खलु ॥ एवं तेनोदितं श्रुत्वा भगवान् स शिखी जिनः । रत्नपाणिं महासत्त्वं तमालोक्यैवमादिशत् ॥ सर्वाकारसुभद्रांशो विश्वरुपो मणिर्यथा । चिन्तामणिर्महारत्न इव सर्वहितार्थभृत् ॥ कामधेनुर्यथाकामं भोग्यं संपत्तिसंभरः । कल्पवृक्षो यथा भद्रश्रीसमृद्धिप्रदायकः ॥ भग्रघटो यथा सर्वसत्त्ववांछितपूरकः । लोकेश्वरः स सर्वेषां वांछितार्थाभिपूरकः ॥ बोधिसत्त्वो जगद्भर्ता विश्वनाथो जगत्प्रभुः । सर्वधर्माधिपश्शास्ता सर्वलोकाधिपेश्श्वरः ॥ किं वक्ष्यतेऽस्य माहात्म्यं बोधिश्रीगुणसंभृतः । शक्यते न समाख्यातुं सर्वैरपि मुनीश्वरैः ॥ तद्यथासौ महासत्त्वो दुर्दान्तानपि बोधयन् । बोधिमार्गे प्रतिष्ठाप्य चारयति जगद्धिते ॥ वज्रकुक्षिगुहा ख्याता जम्बूद्विपेऽत्र विद्यते । तत्रानेकसहस्त्रानि वसन्ति स्म सुरद्विषाम् ॥ तत्र गत्वा सुराणां स शास्तृरुपेण संसरन् । सद्धर्मं समुपादेष्टुं पश्यंस्तान् समुपाचरत् ॥ तं दृष्ट्वा समुपायातमाचार्यं तेऽसुरा मुदा । सर्वे ते सहसोपेत्य प्रणत्वैवं बभाषिरे ॥ स्वागतं ते समयासि प्रणत्वैवं बभाषिरे ॥ स्वागतं ते समायसि कश्चित्सर्वत्र कौशलम् । कृपया नः समालोक्य धर्ममादेष्टुमर्हसि ॥ भवता यद्यथादिष्टं तत्तथा वयमादरात् । श्रुत्वा धृत्वा चरिष्यामः संसारसुखसाधने ॥ इति संप्रार्थन्ते सर्वे दानवास्तं गुरुं मुदा । सभासने प्रतिष्ठाप्य धर्मं श्रोतुमुपाश्रयन् ॥ (६२) तान् सर्वान् समुपासीनान् दृष्ट्वा स सुगतात्मजः । दैत्यानां धर्ममारभ्य सद्धर्मं समुपादिशत् ॥ भवन्तः श्रूयत्वा धर्में संसारसुखसाधनम् । वक्ष्यतेऽत्र मया युष्मत्संसारगुःखमुक्तये ॥ मैत्रचिता भवन्तोऽत्र शान्तचिता जितेन्द्रियाः । दयाचित्ताश्च सत्त्वेषु भवध्यं समाचारिणः ॥ ततः सत्यसमाचाराः परिशुद्धाशया मुदा । त्रिरत्नशरणं गत्वा चरध्वं पोषधं व्रतम् ॥ धृत्वा तदव्रतराजाख्यं संसारभद्रकारिणः । शृणुध्वं चापि कारण्डव्यूहसूत्रसुभाषिते ॥ ये श्रुत्वेदं महायानसूत्रराजं सुभाषितम् । त्रिरत्नशरणं गत्वा चरन्ति पोषधं व्रतम् ॥ तेषां सर्वाणि पापानि पंचानन्तर्यकान्यपि । निःशेषं परिनष्टानि भविष्यन्ति सदा भवे ॥ ये च श्रुत्वानुदन्ति श्रद्दधास्यन्ति चादरात् । गृहिष्यन्ति लिखिष्यन्ति स्वाध्यास्यन्ति प्रमोदिताः ॥ ये च लिखापयिष्यन्ति वाचयिष्यन्ति सर्वदा । सदानुचिन्तयिष्यन्ति भावयिष्यन्ति चादरात ॥ परेभ्यो विस्तरेणार्थमुपदेष्यन्ति सादरात् । सत्कारैः श्रद्धया नित्यं पूजयिष्यन्ति सर्वदा ॥ ते एव सुखिता धन्याः संसारसुखभागिनः । न ते दुर्गतिदुःखानि भोज्यन्तेऽपि कदाचन ॥ सदासद्गतिसंजाताः संसारसुखभोगिनः । सद्गुणश्रीमहत्सपदृद्धिमन्तो महर्द्धिकाः ॥ बोधिचर्याव्रतं धृत्वा स्वपरात्महितोद्यताः । कृत्वा सर्वत्र भद्राणि चरिष्यन्ति सदा भवे ॥ प्रान्ते जातिस्मरास्ते च बोधिप्रणिहिताशयाः । त्रिरत्नशरणं गत्वा समेष्यन्ति सुनिर्वृतिम् ॥ (६३) यदा काले समायाते तेषां निर्वृतिवांछिनाम् । द्वादशा सुगताः प्रेक्ष्य समुपागम्य सम्मुखम् ॥ उपस्थिताः समालोक्य स्पृष्ट्वा पुण्यसुधाकरैः । संपश्यन्तः समाश्वास्य मानयन्त्येवमादरात् ॥ मा भैषीः कुलपुत्रात्र तिष्ठालं व्यसुधीरताम् । यन्महायानकारण्यूहसूत्रं त्वया श्रुतम् ॥ तत्ते नास्ति भयं किंचिददुर्गतेश्च कदाचन । गमनाय सुखावत्यां मार्गेस्ते परिशोधितः ॥ युष्मदर्थे सुखावत्यां दिव्यालंकारभूषणम् । दिव्यामृतसुभोग्यं च संस्थापितमहत्तमम् ॥ इत्याश्वास्य मुनीन्द्रास्तान् त्यक्तदेहान् सुखावतिम् । नीत्वामिताभनाथस्य स्थापयेयुः सभासने ॥ तत्रामिताभनाथस्य पीत्वा धर्मामृतं मुदा । बोधिचर्याव्रतं धृत्वा प्रचरेयुः सदापि ते ॥ क्रमेण बोधिसंभारं पूरयित्वा जगद्धिते । त्रिविधां बोधिमासाद्य समाप्स्यन्ति सुनिर्वृतिम् ॥ इअत्येवं सुगतैः सर्वैः समाख्यातं मया श्रुतम् । तथा समुदितं श्रूत्वा यूयं सर्वेऽनुमोदत ॥ यद्येवं निर्वृतिं गन्तुं सर्वे यूयं समिच्छथ । त्रिरत्नशरणं गत्वा चरत पोषधव्रतम् ॥ महायानसूत्रराजं कारण्डव्यूहमुत्तमम् । श्रुत्वा सदा समाधाय चरते बोधिसंवरम् ॥ एतत्पुण्यानुभावेन सदाअ भुक्त्वा महासुखम् । निःक्लेशा विमलात्मानः परिशुद्धत्रिमण्डलाः ॥ बोधिचर्याव्रतं धृत्वा संचरन्तो जगद्धिते । बोधिसत्त्वा महासत्वाः सर्वसंसारपालकाः ॥ ततः प्रान्ते सुखावत्यां गत्वा भुक्त्वा महत्सुखम् । सद्धर्ममिताभस्य श्रुत्वा शुभे चरिष्यथ ॥ (६४) तत्रापि बोधिसंभारं पूरयित्वा यथाक्रमम् । त्रिविधां बोधिमासाध्य संप्राप्स्यथ सुनिर्वृतिम् ॥ एतन्मया समाख्यातं यदि निर्वृतिमिच्छथ । श्रुत्वा यथा मयोद्दिष्टं तथा चरत सर्वदा ॥ इति तेन समादिष्टं श्रुत्वा सर्वेऽपि तेऽसुराः । तथेत्यभ्यनुमोदित्वा तथा चरितुमीच्छिरे ॥ ततस्ते दानवाः सर्वे निर्वृतिसुखवांछिनः । तमाचार्यं पुनर्नत्वा प्रार्थयन्नेवमादरात् ॥ शास्तर्भवत्समादिष्टं श्रुत्वा वयं प्रबोधिताः । तथा चरितुमिच्छामस्तत्समादेष्टुमर्हति ॥ इति तैः प्रार्थितं श्रुत्वा स लोकेशोऽसुरात्मधृत् । सर्वांस्तानसुरान् पश्यन् समामन्त्र्यैवमादिशत् ॥ भो भवन्तोऽसुराः सर्वे शृणुत तन्मयोदितम् । श्रुवानुमोदनां कृत्वा चरतैतद्व्रतं सदा ॥ आदौ सर्वे महायानसूत्रराजं वरोत्तमम् । कारण्डव्यूहमाकर्ण्य प्रानुमोद्य प्रबोधिताः ॥ प्रातस्तीर्थजले स्नात्वा शुद्धशीला जिनेन्द्रियाः । त्रिरत्नशरणं गत्वा ध्यानत्वा लोकेश्वरं प्रभुम् ॥ यथाविधि समभ्यर्च्य जपस्तोत्राभिवन्दनैः । संतोस्य प्रार्थनां कुर्युः संबोधिव्रतसाधनाम् ॥ एवं व्रतं समाप्यैव पंचामृतैर्निरामिषैः । भोजनैस्तृतीये यामे कुर्युस्तत्पालनं मुदा ॥ एवं नित्वं यथाशक्ति मासे मासेऽपि सर्वदा । अष्टम्यां पंचदश्यां च व्रतं कुर्युर्यथाविधि ॥ चरतैतदव्रतं नित्यं मासे मासेऽपि सर्वदा । अथैकवारमप्येवं वर्षे चरत्कार्तिके ॥ कार्तिके यय्कृतं कर्म तत्fअलं बहुसत्तमम् । अप्र्मेयमसंख्येयं न क्षणुयात कदाचन ॥ (६५) इति मत्वा समाधाय चरतैतद्व्रतं सदा । एवं स समुपादिश्य तद्विधिं समुपादिशत् ॥ तदाचार्यसमादिष्टं धृत्वा सर्वेऽपि तेऽसुराः । यथाविधि समाधाय प्रेचिरुस्तदव्रतं सदा ॥ ततस्ते दानवाः सर्वे चतुर्ब्रह्मविहारिणः । बोधिसत्त्वा महासत्त्वा बभूवुर्भद्रचारिणः ॥ एवमसौ महाभिज्ञो दुर्दान्तानपि दानवान् । बोधयित्वा प्रयत्नेन बोधिमार्गे प्रयोजयेत् ॥ एवं तस्य जगच्छास्तुः पुण्यस्कन्धं महद्बहु । अप्रमेयमसंख्येयमित्याख्यातं मुनीश्वरैः ॥ एवं स त्रिजगन्नाथो लोकेश्वरो जिनात्मजः । स्वयं पश्यन् जगत्सर्वं पालयति सदा भवे ॥ पापिष्टानपि दुर्दान्तानपि यत्नैः प्रबोधयन् । बोधिमार्गे नियुज्यैवं प्रेषयति सुनिर्वृतिम् ॥ तेनासौ त्रिजगच्छास्ता सर्वलोकाधिपेश्वरः । भजनीयः सदा भक्त्या संबोधिज्ञानवांछिभिः ॥ तस्य नाम समुच्चार्य स्मृत्वा ध्यात्वा भजन्ति ये । ते नूनं बोधिमासाध्य निर्वृतिं समवाप्नुयुः ॥ इत्यादिष्टं मुनीन्द्रेण रत्नपाणिर्निशम्य सः । प्रबोधितः प्रसन्नात्मा प्राभ्यनन्दत्स पार्षदः ॥ इत्येवं शिखिनादिष्टं संबुद्धेन मया श्रुतम् । लोकेश्वरस्य माहात्म्यं पुण्यस्कन्धं महत्तरम् ॥ इति तस्य जगद्भर्तुः पुण्यस्कन्धं महत्तरम् । स्मृत्वा नाम समुच्चार्य ध्यात्वापि भजतां सदा ॥ तस्य नाम समुच्च्चार्य स्मृत्वा ध्यात्वा भजन्ति ये । ते सर्वे विमलात्मानः संयास्यन्ति सुखावतीम् ॥ तत्रामिताभनाथस्य पीत्वा धर्मामृतं सदा । बोधिचर्याव्रतं धृत्वा संचरन्तो जगद्धिते ॥ बोधिसत्त्वा महाभिज्ञाः परिशुद्धत्रिमण्डलाः । त्रिविधां बोधिमासाध्य निर्वृतिपदमाप्नुयुः ॥ इत्यादिष्टं मुनीन्द्रेण श्रीघनेन स पार्षदः । श्रुत्वा सर्वनीवरणविष्कम्भी प्राभ्यनन्दत ॥ ॥ इति श्रीसर्वाकारसर्वप्रबोधनसद्धर्मसंचारणं प्रकरणम् ॥ ६. दुर्दान्त दानव प्रबोधन बोधिचर्यावतारण प्रकरणम् अथ सर्वनीवरणविष्कम्भी स जिनात्मजः । भगवन्तं मुनीन्द्रं तं पुनर्नत्वैवमब्रवीत् ॥ दुर्क्लभं भगवन्स्तस्य लोकेश्वरस्य दर्शनम् । सद्धर्मश्रवणं चापि सदा त्रैधातुकेष्वपी ॥ कदासौ त्रिजगन्नाथो लोकेश्वर इहाव्रजेत् । द्रष्टुमिच्छाम्यहं शास्तस्तं सर्वाधिपतिं प्रभुम् ॥ इति तेनोदितं श्रुत्वा भगवान् स मुनीश्वरः । विष्कम्भिनं महासत्त्वं तमालोक्यैवमादिशत् ॥ भूयस्तस्य जगद्भर्तुः लोकेश्स्य महात्मनः । सद्धर्मगुणमाहात्म्यं वक्ष्ये तच्छ्रणुतादरात् ॥ अस्मिन् द्वीपेऽस्ति कांचन्यमयी भूमिर्मनोरमा । तत्रानेकसहस्राणि वसन्ति स्मामरद्विषाम् ॥ तत्रासौ त्रिजगन्नाथो लोकेश्वरो विलोकयन् । दुर्दन्तान् दनुजान् दुष्टान् समुद्धर्तुमुपाचरत् ॥ ददर्श तान्महादुष्टान् दशाकुशले संचरतान् । मदमानातिर्दर्पान्धान् क्लेशाग्नितापिताशयान् ॥ संपश्यन् करुणात्मा स मैत्रीकारुण्यचोदितः । पुण्यरश्मिं समुत्सृज्य प्रभासयन्नुपाचरत् ॥ तद्रश्मिपरिसंस्पृष्टाः सर्वे ते सुखतान्विताः । अत्यद्भुतसमाघ्रातचित्ता एवं व्यचिन्तयन् ॥ अहो कुत इयं कान्तिः प्रायातेह प्रसारिता । यया स्पृष्टा वयं सर्वे महत्सौख्यसमन्विताः ॥ (६७) इति चिन्तयतां तेषां स लोकेश्शो जिनात्मजः । पुर आचार्यरुपेण संपश्यन् समुपाचरन् ॥ तमेवं समुपायातं दृष्ट्वा सर्वेऽपि तेऽसुराः । सुप्रसन्नाः समागम्य प्रणत्वैवं बभाषिरे ॥ स्वागतं ते शिवं कश्चिद्विजयस्वात्र सद्गुरो । प्रविशेहासने शास्तर्यत्कार्यं तत्समादिश ॥ इति तैः प्रार्थितं श्रुत्वा समाश्रित्य स आसने । सर्वांस्तान् समुपासीनान् समालोक्यैवमब्रवीत् ॥ कस्येयं कान्तिरायाता यत्पृष्टे नो महत्सुखम् । मन्यध्वं किं भवद्भिस्तद्भुतमिह जायते ॥ इति तेनोदितं श्रुत्वा सर्वे ते दानवा अपि । शास्तारं तं समालोक्य प्रत्यूचुरेवमादरात् ॥ न जानीमो वयं शास्तः कस्येयं कान्तिरागता । तद्भवान्नः समादिश्य प्रबोधयितुमर्हति ॥ इति तैः प्रार्थितं श्रुत्वा स आचार्यो विलोक्य तान् । सर्वांस्तदद्भुतं प्रष्टुकामानेवमभाषत ॥ शृण्वन्तु तदहं वक्ष्ये यदियं कान्तिरागता । श्रुत्वा मया यथाख्यातं तथा चरितुमर्हथ ॥ इति तेन समादिष्टं श्रुत्वा सर्वेऽपि तेऽसुराः । सुप्रसन्नाशया नत्वा तं गुरुमेवमब्रुवन् ॥ शास्तर्भवान् यदमाकमाचार्यो धर्मदेशकः । तदेतदद्भुतं जातं समुपादेष्टुमर्हति ॥ इति तैः प्रार्थ्यमानः स आचार्यस्तान् प्रसादितान् । सर्वान् विस्मयसंपन्नान् समालोक्यैवमादिशत् ॥ शृणुध्वमादद्यूयं सर्वं तत्र ममोदितम् । तदेवमद्भुतं जातं बोधयितुं प्रवक्ष्यते ॥ तद्यथा यो जगन्नाथः सर्वत्रैधातुकाधिपः । जगच्छास्ता जगद्भर्ता बोधिसत्त्वो जिनात्मजः ॥ (६८) महासत्त्वो महाभिज्ञ आर्यावलोकितेश्वरः । मैत्रीक्षमाप्रसन्नात्मा करुणामय ईश्वरः ॥ स त्रैलोकेश्वरः श्रीमान् सद्धर्मपुण्यभास्करः । सर्वान् सत्त्वान् समुद्धर्तुं चरते त्रिभवेष्वपि ॥ सर्वत्र स समालोक्य सर्वान् सत्त्वान् प्रबोधयन् । बोधिमार्गे प्रतिष्ठाप्य प्रेषयति सुखावतीम् ॥ स एवं सर्वलोकेषु सर्वेषु नारकेष्वपि । निमग्नान् पापिनो दुष्टानपि सत्त्वान् विलोकयन् ॥ पुण्यसुधाकरैः स्पृष्ट्वा समुद्धृत्य प्रबोधयन् ॥ बोधिमार्गे प्रतिष्ठाप्य प्रेषयति सुखावतीम् ॥ दिने दिने स आलोक्य समुद्धृय प्रबोधयन् । अप्रेमेयानसंख्येयान् सत्त्वान् प्रेषयति सद्गतौ ॥ एवं कृत्वा स लोकेशोओ महत्पुण्यैः समन्वितः । सर्वधर्माधिपः शास्ता धर्मराजो जगत्प्रभुः ॥ बोधिसत्त्वो महासत्वः सर्वसत्त्वहितार्थभृत् । सर्वविद्याधिपो धीरः संबोधिज्ञानभास्करः ॥ इहापि स समागत्य सर्वान् सत्त्वान् प्रबोधयन् । बोधिमार्गे प्रतिष्ठाप्य संप्रेषयेत्सुखावतीम् ॥ इत्येवं स इहागन्तुं पुण्यरश्मि समुत्सृजन् । प्रभासयन् जगल्लोकं संचरत्वे जिनालयान् ॥ तस्य पुण्यप्रभाकान्तिरिहापीयं प्रसारिता । तया यूयं परिस्पृष्टा महत्सुखसमन्विताः ॥ तत्तस्य शरणं कृत्वा ध्यात्वा स्मृवापि सर्वदा । नामापि च समुच्चार्य नत्वा भजितुमर्हथ ॥ ये तस्य शरणं कृत्वा ध्यात्वा स्मृत्वा समादरात् । श्रद्धया नाम प्रोच्चार्य स्तुत्वा नत्वा भजन्त्यपि ॥ सर्वेऽपि ते न जायन्ते दुर्गतीषु कदाचन । सदा सद्गतिसंजाताश्चरन्ति सर्वदा शुभे ॥ (६९) विरतमारसंचाराः सद्धर्मगुणलालसाः । सर्वसत्त्वहिताधानसंबोधिव्रतकामिनः ॥ त्रिरत्नभजनोत्साहाश्चतुर्ब्रह्मविहारिणः । भद्रश्रीगुणसंपत्तिसमुद्धाः सद्गुणारताः ॥ यावज्जीवं सुखं भुक्त्वा स्वपरात्महितोद्यताः । बोधिचर्याव्रतं धृत्वा संचरेरन् जगच्छुभे ॥ ततोऽन्तःसमये तेषां लोकेश्वरः स संमुखम् ॥ उपागत्य समाश्वासं दद्यादेवं वदत्पुरः ॥ मा भैषीः कुलपुत्रात्र किंचिन्ना ते भयं क्वचित् ॥ त्रिरत्नभजनं कृत्वा सद्धर्मं यत्त्वयार्जितम् । न त्वं यायाः पुनः क्वापि दुर्गतिषु कदाचन । सदा सद्गुतिसंजाताः सद्धर्मश्रीसुखान्वितः । त्रिरत्नभजनं कृत्वा संचरेथाः सुसंवरे ॥ तथा यावद्भुवं लोके बोधिचर्याव्रतं चरन् । कृत्वा सत्त्वहितं सौख्यं भुक्त्वा प्रान्ते व्रजेद्दिवि ॥ तत्रापि त्वं महासौख्यं भुक्त्वा चरेत्सदा शुभे ॥ एवं मत्वा समाधाय स्मृत्वा रत्नत्रयं सदा । तिष्ठामोऽत्र विषीद त्वं मृतोऽपि सत्सुखं लभेः ॥ सर्वेषामपि जन्तूनां ससारे मरणं ध्रुवम् । त्वं सुखेनैव मुक्त्वेमं कायं दिव्यमवाप्स्यसि ॥ यावज्जीवं यथाकामं भुक्त्वा स्वर्गेऽमरैः सह । ततश्चापि सुखेनैव यायादन्ते सुखावतीम् ॥ तत्र गत्वामिताभस्य त्रिशास्तुः समुपाश्रितः । सदा धर्मामृतं पीत्वा संचरेथाः सुसंवरे ॥ तत्रैवं सुचिरं भुक्त्वा सद्धर्मश्रीसुखोत्सवम् । प्रान्ते बोधिं समासाद्य समाप्नुयाः सुनिर्वृतिम् ॥ इत्यन्ते समये तेषां लोकनाथः स संमुखम् । समागत्य समाश्वासं दत्वाभयं समर्पयेत् ॥ (७०) इति सत्यं समाख्यातं सर्वैरपि मुनीश्वरैः । श्रुतं मया तथाख्यातं श्रुवानुमोद्य चर्यताम् ॥ एवं मत्वास्य त्रैलोकनाथस्य शरणं गताः । स्मृत्वा नाम समुच्चार्य ध्यात्वा भजत सर्वदा ॥ तथा वः सर्वदा भद्रं निरुत्पातं भवेद्ध्रुवम् । यावज्जीवं सुखं भुक्त्वा यायान्तान्ते सुरालयम् ॥ तत्रापि सुचिरं भुक्त्वा दिव्यकामं सुखोत्सवम् । ततोऽन्तसमये च्युत्वा संयास्यथ सुखावतीम् ॥ तत्र गत्वामिताभस्य सर्वदा समुपस्थिताः । पीत्वा धर्मामृतं पुण्यं महोत्साहैश्चरिष्यथ ॥ तत्रापि सुचिरं भुक्त्वा सद्धर्मश्रीमहोत्सवम् । प्रान्ते संबोधिमासाद्य समवाप्स्यथ निर्वृतिम् । इति तेन समादिष्टं श्रुत्वा सर्वैऽपि तेऽसुराः । तथेति प्रतिविज्ञाप्य प्रबोधिताश्चैवमब्रुवन् ॥ शास्तस्तथा करिष्यामः यथादिष्टं त्वयाधुना । अद्यारभ्य सदा तस्य नाथस्य शरणं गताः ॥ स्मृत्वा ध्यात्वा समुच्चार्य नामापि प्रभजामहे । तदस्माकं हितार्थेन भवांस्तस्य जगत्प्रभोः ॥ व्रतस्यापि विधानं च समुपादेष्टुमर्हति । इति तैः प्रार्थितं श्रुत्वा स आचार्योऽप्रबोधितान् । सर्वांस्तान् दानवान् दृष्ट्वा पुनरेवमुपादिशत् । शृणुध्वमस्य वक्ष्यामि व्रतविधिं समासतः ॥ आदौ तीर्थे जले स्नात्वा शुद्धशीला जिनेन्द्रियाः । ब्रह्मविहारिणो भूत्वा चरित्वा पोषधं व्रतम् । त्रिरत्नशरणं गत्वा ध्यात्वा तं सुगतात्मजम् । लोकेश्वरं समावाह्य समभ्यर्च्य यथाविधि । जगस्तोत्रादिभिः स्तुत्वा कृत्वा चापि प्रदक्षिणाम् । जगस्तोत्रादिभिः स्तुत्वा कृत्वा चापि प्रदक्षिणाम् । अष्टांगै प्रणतिं कृवा स्मृत्वा चापि समादरात् ॥ (७१) नामानि च समुच्चार्य दृष्ट्वा श्रुत्वापि तद्गुणान् । प्रशंसामपि भाषित्वा प्रकाशित्वा च सर्वतः ॥ सत्कृत्य श्रद्धया सर्वैरुपकणवस्तुभिः । यथाशक्ति समभ्यर्च्य वन्दित्वा भजताभवम् । एवं नित्यं समाधाय चतुस्संध्यं दिने दिने । यथाशक्ति भजध्वं तं ध्यात्वा स्मृत्वापि भावतः ॥ प्रत्यहमेकवारं वा मासे मासेऽपि वा सिते । अष्टम्यां पूर्णमास्यां वा भजध्वं सर्वदा तथा ॥ एवं विधाय सर्वेऽपि यूयमेतद्गुणान्विताः । यथोक्तं तत्fअलं प्राप्य नूनं यास्यथ निर्वृतिम् ॥ इति तेन समादिष्टं श्रुत्वा सर्वेऽपि तेऽसुराः । प्रबोधिताः प्रमोदन्तस्तथा चरितुमिच्छिरे ॥ ततस्ते दानवास्सर्वे दुर्दान्ता मदमानिनः । अप्येतत्पुण्यसत्सौख्यप्रकाममुदिताशयाः ॥ शुद्धशीलाः प्रसन्नाश्च सद्धर्मगुणलालसाः । विरतोपायसंचाराश्चतुर्ब्रह्म्विहारिणः ॥ तेन शास्त्रा यथादिष्टं तथाधाय समादरात् । तस्य त्रैलोकनाथस्य प्रकृत्वा शरणं मुदा ॥ ध्यात्वा स्मृत्वा सदा नाम समुच्चार्य यथाविधि । पोषधं च व्रतं धृत्वा प्राचरन्त समाहिताः ॥ यथाशक्ति समभ्यर्च्य सर्वोपकणैरपि । कृत्वा प्रदक्षिणान्येव कृत्वा च प्रणतिं मुहुः । अष्टांगैश्चापि वन्दित्वा प्रभजन्तः समाचरन् ॥ एवं ते दानवाः सर्वे शान्तचर्या जितेन्द्रियाः । शुद्धशीलाः शुभाचाराश्चतर्ब्रविहारिणः ॥ परस्परं हितं कृत्वा सद्धर्मगुणभाषिणः । बोधिचर्याव्रतारक्ता बभूवुर्बोधिभागिनः ॥ एवं तान् दानवान् सर्वानाचार्यः स प्रबोधयन् । बोधिमार्गे प्रतिष्ठाप्य समामन्त्र्य ततोऽचरत् ॥ (७२) ततः सोऽन्तर्हितः खे स्थः प्रभासयन् समन्ततः । धृत्वा लोकेश्वरो मूर्तिं सर्वांस्तान् समदर्शयत् ॥ तमाकाशे प्रभासन्तं लोकेश्वरं जिनात्मजम् । दृष्ट्वा ते दानवास्सर्वे बभूवुर्विस्मयान्विताः ॥ तत्र ते प्रणतिं कृत्वा गत्वा तं शरणं मुदा । जपस्तोत्रादिभिः स्तुत्वा वन्दित्वा प्रावदंस्तथा ॥ नमस्ते भगवन्नाथ सदा ते शरणं स्थिताः । बोधिचर्याव्रतं धृत्वा चराम तत्प्रसीदतु ॥ यदस्मदपराधं तत्क्षन्तव्यं भवता सदा । एवमस्मान् समालोक्य संपालयितुमर्हति ॥ इत्येवं तेऽसुराः सर्वे प्रार्थयित्वा समादरात् । अष्टांगैरपि तं नत्वा पश्यन्त एव तस्थिरे ॥ ततः स त्रिजगन्नाथो दत्वा तेभ्यो जयाशिषम् । ततश्चान्तर्हितोऽयत्र सत्त्वानुद्धर्तुमाचरत् ॥ ततस्ते दानवाः सर्वे भूयोऽतिधर्मलालसाः । त्रिरत्नभजनं कृत्वा संप्रचेरुः सदा शुभे ॥ एवं स त्रिजगन्नाथो नानारुपेण बोधयन् । दुर्दान्तानपि सद्धर्मे नियोजयति यत्नतः ॥ तेनास्य त्रिजगद्भर्तुः पुण्यस्कन्धं महत्तरम् । अप्रमेयमसंख्येयमित्याख्यातं मुनीश्वरैः ॥ इत्यसौ त्रिजगच्छास्ता सर्वलोकाधिपेश्वरः । सर्वज्ञैः सुगतैः सर्वैः प्रशंसितः सदादरात् ॥ इति तस्य जगल्लोकैः पुण्यमाहात्म्यसत्कथाम् । श्रुत्वानुमोदनां कृत्वा प्रशंस्य ते समन्ततः ॥ इति मत्वा सदा तस्य लोकेशस्य जगत्प्रभोः । श्रद्धया शरणे स्थित्वा भक्तव्यं सः सुखार्थिभिः ॥ इत्येवं शिखिनाख्यातं संबुद्धेन मया श्रुतम् । तथात्र वः समाख्यातं श्रुत्वानुप्रतिबुध्यताम् ॥ एवं मत्वास्य माहात्म्यं सद्धर्मगुणवांछिभिः । कर्तुव्याः सर्वदा भक्त्या ध्यात्वा स्मृत्वापि भावतः ॥ ये तस्य शरणे स्थित्वा ध्यात्वा स्मृत्वापि भावतः । नामापि च समुच्चार्य भजन्ति सर्वदा मुदा । ते सर्वे विमलात्मानः संबुद्धश्रीगुणाकराः ॥ बोधिसत्त्वा महासत्वा भविष्यन्ति जिनात्मजाः । इति शास्त्रा मुनीन्द्रेण समादिष्टं निशम्य ते ॥ विष्कम्भिप्रमुखाः सर्वे प्राभ्यनन्दन् प्रबोधिताः ॥ ॥ इति दुर्दान्तदानवप्रबोधन बोधिचर्यावतारणप्रकरणम् ॥ ७. अधोमुख सत्त्वोद्धारण प्रकरणम् अथासौ भगवांच्छास्ता श्रीघनस्त्रिजगद्गुरुः । विष्कम्भिनं महासत्त्वं संपश्यंश्चैवमब्रवीत् ॥ भूयोऽपि कुलपुत्रास्य लोकेशस्य महद्गुणम् । श्रुतं मया तथा वक्ष्ये तच्छृणुत समादरात् ॥ तद्यथाभुत्पुरा शास्ता तथागतो मुनीश्वरः । सर्वज्ञोऽर्हन्महाभिज्ञो धर्मराजो विनायकः ॥ सर्वधर्माधिपो नाथः सर्वविद्याधिपेश्वरः । विश्वभूर्नां संबुद्धो भगवान् सुगतो जिनः ॥ तदाहं कुलपुत्रासं क्षान्तिवादीति विश्रुतः । महर्षिस्तापसो धीमान् संयमी विजितेन्द्रियः ॥ गिरिगुहां समाश्रित्य संबोधिधर्मसाधकः । व्यहरन् सत्त्वहितं कृत्वा चतुर्ब्रह्मविहारिकः ॥ तदाप्यस्य जगच्छास्तुर्लोकेशस्य महत्तरम् । गुणप्रभावमाख्यातं विश्वभुवा श्रुतं मया ॥ (७४) तद्यथासौ जगच्छास्ता विश्वर्भूभगवान् जिनः । तद्वनोपाश्रमे रम्ये विजहार ससांघिकः ॥ तदा स भगवांस्तत्र सर्वलोकसभाश्रितः । सद्धर्मं समुपादिश्य सत्त्वान् बोधौ व्यनोदयन् ॥ यदैकसमये तत्र भगवान् स मुनीश्वरः । आर्यधर्ममुपादेष्टुं सभासने समाश्रयत् ॥ तदा तत्र महान् रश्मिरवभास्य समन्ततः । सर्वत्र मंगलं कृत्वाह्लादयन्ती समासरत् ॥ तद्रश्मिसंपरिस्पृष्टाः सर्वसत्त्वाः सुखान्विताः । तदद्भुतं समालोक्य विस्मयं समुपाययुः ॥ तदा गगनगंजाख्यो बोधिसत्त्वो महामतिः । सर्वांस्तान् विस्मयापन्नान् लोकान् पश्यन् समुत्थितः ॥ उद्वहन्नुत्तरासंगं सांजलिः पुरतोऽग्रतः । विश्वभुवं मुनीन्द्रं तं नत्वैवं पर्यपृच्छत ॥ भगवन् पुण्यप्रभाकान्तिः कस्य हेयं समागता । यया स्पृष्टा इमे लोका महत्सुखसमन्विताः ॥ विस्मितास्तत्समालोक्य भगवन्तं मुनीश्वरम् । तद्धेतुं श्रोतुमिच्छन्तः सर्वे तस्थुः समाहिताः ॥ तेदषां हदयान्तःस्थं महदद्भुतकौतुकम् । विनोदितुमिमं हेतुं कस्येति तदुपादिश ॥ इति तेनोदितं श्रुत्वा विश्वभूः स मुनीश्वरः । विलोक्य तं महासत्त्वं गगनगंजमब्रवीत् ॥ शृणु त्वं कुलपुत्रात्र यदिदं कान्तिरागता । तदहं संप्रवक्ष्यामि श्रुत्वेदमनुमोदत ॥ या कांचनमयीः भूमिर्जम्बुद्विपेऽत्र विद्यते । तस्यामधोमुखाः सत्वा निवसन्त्यप्रमोयिकाः ॥ तान् सर्वान् पापिनो दुष्टान् पश्यन् स सुगतात्मजः । लोकेश्वरः समद्धर्त्तुं सुखावत्या इहागतः ॥ (७५) तेषां पापविशोधार्थं पुण्यरश्मिं समुत्सृजन् । भासयन् स जगल्लोकांस्तत्र याति कृपानिधिः ॥ तत्प्रभापरिसंस्पृष्टाः सर्वे ते सत्सुखान्विताः । किमेतदिति संविक्ष्य तिष्ठन्ति विस्मिताशयाः ॥ तदा तत्र स लोकेश ऋषिरुपेण भासयन् । सर्वानधोमुखान् सत्त्वानुपैति तान् विलोकयन् । तमृषिं संप्रभासन्तं समायातं विलोक्य ते ॥ सर्वेऽप्यधोमुखाः सत्त्वाः समुपायान्ति संमुखम् । तत्र सर्वेऽपि ते सत्त्वाः प्रणत्वा तं मुनिं मुदा ॥ श्रद्धासने प्रतिष्ठाप्य प्रार्थयन्त्येवमादरात् । महर्षे यदिहायासि तदस्मद्भाग्ययोगतः ॥ तद्भवान् कृपयास्माकं दैवमाख्यातुमर्हति । किं कर्म पातकं घोरमस्माभिः प्रकृतं पुरा ॥ येनास्मोऽधोमुखा सर्वे वयं जाता इहेदृशाः ॥ इति तैः प्रार्थितं श्रुत्वा स महर्षिर्विलोक्य तान् । सर्वानधोमुखान् सत्त्वान् समादिशति बोधयन् ॥ शृणुश्वं यत्पुरा कर्म युष्माभिः प्रकृतं यथा । तत्समुपदिशाम्यत्र श्रुत्वा तत्परिबुध्यताम् ॥ यत्त्रिरन्तं प्रतिक्षिप्य मदेर्ष्यामानगर्विताः । अदृश्यमिति भाषन्तो चरन्नधोमुखाः पुरा ॥ तेनैतद्दैवयोगेन यूयं सर्वेऽप्यधोमुखाः । दुःखानि विविधान्यत्र भुक्त्वा वसथ साम्प्रतम् ॥ तदत्र श्रद्धया यूयं त्रिरत्नशरणं गताः । ध्यात्वा स्मृत्वा समुच्चार्य नामापि भजतादरात् ॥ पोषधं च व्रतं धृत्वा चतुर्ब्रह्मविहारिणः । स्वपरात्महितं कृत्वा संचरध्वं सदा शुभे ॥ ततः संबोधिचित्तेन धृत्वा बोधिव्रतं सदा । त्रिरत्नभजनोत्साहैः संचरध्वं जगद्धिते ॥ (७६) ततो यूयं विकल्मषाः परिशुद्धत्रिमण्डलाः । निःक्लेशा बोधिमासाद्य निर्वृतिसुखमाप्स्यथ ॥ इति तेन समादिष्टं श्रुत्वा सर्वेऽपि ते मुदा । तस्य पादौ पुनर्नत्वा पुरःस्थित्वैवमब्रुवन् ॥ नाथोऽसि त्वं जगल्लोके सद्धर्मसुखसंभरः । आश्वासय तदस्माकमन्धानां पापचारिणाम् ॥ तमोऽभिभूतदृष्टीनां प्रणष्टपथचारिणम् । अनाथानाममित्राणां दीनानां मूढचेतसाम् ॥ त्राणशरण्यशून्यानां मन्दानां दुःखभागिनाम् । धर्मदीपं समुज्ज्वाल्य दर्शय निर्वृतेः पथः ॥ दत्वा सत्सुखसम्पत्तिर्न्नाथो भव शुभार्थभृत् । दत्वा पुण्यार्जनोपायं सन्मित्रो भव सन्मतिः ॥ दुर्गतितरणोपायं प्रदत्वा भवसद्गतिः । सद्गतिगमनोपायं दत्वा शास्त्वा गुरुर्भव ॥ निर्वार्य पापसंगेभ्यस्त्राता क्लेशापहो भव । दुर्वृत्तिक्लेशसंतापं हत्वा भवशरण्यकः ॥ सद्धर्मसाधनोत्साहं दत्वा भव विनायकः । सद्गुणसुखसंपत्तीर्दत्वा भव सुहत्प्रभुः ॥ सद्धर्मं समुपादिश्य चारयास्मान् सुसंवरे । विमुक्तिसाधनोपायं दत्वा प्रेषय निर्वृतिम् ॥ धन्यास्ते सुखिता येते सततं शरणे स्थित्वा । स्मृत्वा नाम समुच्चार्य ध्यात्वा भजन्ति सर्वदा ॥ ईदृग्दुःखं न ते क्वापि यास्यन्ति भवचारणे । यादृग्वयमिदं दुःखमनुभावामहे सदा ॥ ते सद्भाग्या महासत्त्वा ये सदा ते उपस्थिताः । आदिमध्यान्तकल्याणं धर्मं श्रुत्वा चरन्ति वै ॥ वयमपि तथा सर्वे सदा ते शरणे स्थिताः । धर्मं श्रुत्वा सुकल्याणमिच्छामश्चरितुं व्रतम् ॥ (७७) तत्प्रसीद महर्षे त्वमस्माकं सद्गुरुर्भव । सद्धर्मं समुपादिश्य चारयास्मान् सुसंवरे ॥ इति तैः प्रार्थितं श्रुत्वा स महर्षिः प्रसादितान् । तान् सर्वान समुपामन्त्र्य समालोक्यैवमादिशत् ॥ शृणुध्वं सादरं यूयं सदा भग्रं यदीच्छथ । हितार्थं वः प्रवक्ष्यामि सद्धर्मबोधिसाधनम् ॥ इत्यादिश्य स कारण्डव्यूहसूत्रं सुभाषितम् । उच्चार्य श्रावयन् बोधिचर्यायां योजयत्यपि ॥ ततस्ते पुरेषाः सर्वे सद्धर्मसाधनोद्यताः । त्रिरत्नभजनं कृत्वा संचरन्ते सुसंवरे ॥ ततस्ते विमलात्मानः परिशुद्धत्रिमण्डलाः । बोधिचर्याव्रतं धॄत्वा संचरन्ते जगद्धिते ॥ सर्वेऽपि ते महासत्त्वा बोधिसत्त्वा महर्द्धिकाः । परमसुखाभर्तारो भवन्त्यप्यनिवर्तिनः ॥ एवं स त्रिजगन्नाथ ऋषिरुपेण बोधयन् । सर्वान्स्तान बोधिचर्यायां नियुज्य चारयत्यपि ॥ एवं तान् बोधिमार्गेऽसौ महर्षिः सर्वान्नियुज्य च । ततोऽन्तर्हित आकाशे याति वह्निरिवोज्ज्वलन् ॥ तमाकाशगतं दृष्ट्वा सर्वे तेऽप्यतिविस्मिताः । प्रणत्वा चानुशंसतः संचरन्ते समादरात् ॥ तस्य लोकेश्वरस्येयं पुण्यकान्तिः शुभा प्रभोः । अवभास्य जगल्लोकमिहापि संप्रसारिता ॥ एवं स त्रिजगन्नाथो लोकेश्वरो जिनात्मजः । सर्वसत्त्वहितं कृत्वा प्रचरन्ति समन्ततः ॥ तेन तस्य महत्पुण्यस्कन्धं बहुसमुत्तमम् । अप्रमेयमसंख्येयमित्यादिष्टं मुनीश्वरैः ॥ एवं विज्ञाय सर्वेऽस्य लोकेशस्य सदादरात् । स्मॄत्वा ध्यात्वा समुच्चार्य नामापि भक्तुमर्हथ ॥ (७८) ये तस्य शरणं गत्वा स्मृत्वा ध्यात्वापि सर्वदा । नामापि च समुच्चार्य भजन्ति श्रद्धया मुदा ॥ दुर्गतिं ते न गच्छन्ति संजातास्सद्गतौ सदा । धर्मश्रीगुणसंपत्तिर्भुक्त्वा यान्ति सुखावतीम् ॥ इत्यादिष्टं मुनीन्द्रेण विश्वभुवा निशम्य ते । सर्वे सभाश्रिता लोकाः प्राभ्यनन्दन् प्रबोधिताः ॥ इत्येवं लोकनाथस्य पुण्यप्रभावमुत्तमम् । विश्वभुवा मुनीन्द्रेण समादिष्टं मया श्रुतम् ॥ एवं सुकृतमाहात्म्यं लोकेश्वरस्य सद्गुरोः । विज्ञाय शरणं गत्वा भजन्तु बोधिवांछिन ॥ ये तस्य शरणं गत्वा भजन्ति श्रद्धया सदा । सद्धर्मगुणसौख्यं भुक्त्वा यायुः सुखावतीम् ॥ तत्र गत्वामिताभस्य सद्धर्मामृतमुत्तमम् ॥ पीत्वा संबोधिमासाद्य प्रान्ते यायुः सुनिर्वृतिम् ॥ इत्यादिष्टं मुनीन्द्रेण श्रीघनेन निशम्य ते । सर्वे सभाश्रिता लोकाः प्राभ्यनन्दन् प्रबोधिताः ॥ ॥ इत्यधोमुखसत्त्वोद्धरप्रकरणम् ॥ ८. रूपमयी भूमि चतुष्पाद पुरुषोद्धारण प्रकरणम् अथासौ भगवांश्छास्ता शाक्यमुनिरीश्वरः । विष्कम्भिनं तमालोक्य पुनरेवं तमादिशत् ॥ शृणु च कुलपुत्रास्य लोकेश्चरस्य सद्गुरोः । सद्धर्मगुणमाहात्म्यं श्रुतं मया तद्च्यते ॥ तदा गगनगंजोऽसौ भगवन्तं मुनीश्वरम् । विश्वभुवं तमानम्य पुनरेवमपृच्छत ॥ भगवन् स महाभिज्ञो लोकेश्वरो जिनात्मजः । पुनः सत्त्वान् समुद्धर्तुं कुत्रान्यत्राभिगत्छति ॥ (७९) पुनस्तच्छ्रोमिच्छामि यदन्यत्र स संसरन् ॥ सत्त्वान् पश्यन् समुद्धृत्य धर्मे युनक्ति तदादिश ॥ इति तेनोदितं श्रुत्वा भगवन् स मुनीश्वरः । गगनगंजमालोक्य तं पुनरेवमादिशत् ॥ शृणुष्व कुलपुत्रास्य लोकेशस्य जगत्प्रभोः । वक्ष्ये सद्गुणमाहात्म्यं श्रोतुं त्वं च यदीच्छसि ॥ तद्यथासौ महासत्त्वो लोकेश्वरो जिनात्मजः । ततो रुपमयीं भूमीं गच्छति संप्रभासयन् ॥ तत्र सत्त्वान्मनुष्यान् गांश्चतुष्पादान् विलोक्य सः । लोकेश्वरो दिव्यरुपः समुपासृत्य तिष्ठति ॥ तं दिव्यरुपमालोक्य सर्वे ते विस्मयान्विताः । पुरतः समुपाश्रित्य नत्वैवं प्रार्थयन्मुदा ॥ अहोभाग्यं तदस्माकं यद्भवानिह दृश्यते । तदस्मां कृपयालोक्य समुद्धर्त्तुमिहार्हति ॥ इति तैः प्रार्थ्यमानोऽसौ लोकेश्वरः कृपात्मकः । तान् सर्वान् समुपामन्त्र्य समालोक्यैवमादिशत् ॥ भगवन्तोऽत्र समाधाय शृणुध्वं यूयमादरात् । वक्ष्यामि यन्महत्सिद्धं धर्मनिर्वृतिसाधनम् ॥ तद्यथा यज्जगच्छ्रेष्ठं त्रिरत्नं भद्रकारकम् । तत्स्मृत्वा शरणं गत्वा भजध्वं सर्वदादरात् ॥ ये तेषां शरणं गत्वा न ते गछन्ति दुर्गतिम् । सदा सद्गतिसंजाताश्चरन्ति बोधिसंवरे ॥ एतत्पुण्यानुभावेन सर्वे ते पुरुषोत्तमाः । बोधिसत्त्वा महासत्त्वाः संचरेवं जगद्धिते ॥ ततस्ते बोधिसंभारं पूरयित्वा यथाक्रमम् । सर्वसत्त्वहितं कृत्वा संयास्यन्ति सुखावतीम् ॥ तत्र गत्वामिताभस्य जितेन्द्रस्य सभाश्रिताः । सद्धर्मामृतमाभुज्य संरमेयुर्यहोत्सवैः ॥ (८०) एवं ते सुचिरं तत्र भुक्त्वा सौख्यं शुभोत्सवम् । ततोऽन्ते त्रिविधां बोधिं प्राप्य यास्यन्ति निर्वृतिम् ॥ एवं मत्वा त्रिरत्नानां श्रद्धया शरणे स्थिताः । स्मृत्वा ध्यात्वा समुच्चार्य्य नामापि भजतादरात् ॥ तदैतत्पुण्यलिप्तांगाः शुद्धाशया जितेन्द्रियाः । निःक्लेशा विमलात्मानो बोधिसत्त्वा भविष्यथ ॥ ततः सत्त्वहितार्थेन बोधिचर्याव्रतोद्यताः । सर्वत्र भद्रतां कृत्वा गमिष्यथ सुखावतीम् ॥ तत्रामिताभनाथस्य पीत्वा धर्मामॄतं सदा । सद्धर्ममंगलोत्साहै रमिष्यथ सुसंवरे ॥ एवं तत्र चिरं भुक्त्वा सौख्यं भद्रमहोत्सवम् । प्रान्ते संबोधिमासाद्य समाप्स्यथ सुनिर्वृतिम् ॥ एवं मत्वा सदा बुद्धरत्नस्य शरणं गताः । स्मृत्वा ध्यात्वा समुच्चार्य नामापि भगतदरात् ॥ धर्मरत्नस्य माहात्म्यं श्रुत्वापि शरणे स्थिताः । स्मृत्वा ध्यात्वा समुच्चार्य नामापि भजतादरात् ॥ एवं च संघरत्नानां सत्कारैः समुपस्थिताः । स्मृत्वा ध्यात्वा समुच्चार्य नामापि भवताभवम् ॥ एतत्पुण्यं महत्ख्यातमसंख्येयं बहूत्तमम् । अप्रमेयं समाख्यातं सर्वैरपि मुनीश्वरैः ॥ एवं मत्वा त्रिरत्नानां शरणे समुपस्थिताः । स्मृत्वा ध्यात्वा समुच्चार्य नामापि सेव्यताभवम् ॥ एतत्पुण्यानुभावेन यूयं सर्वे विकल्मषाः । निःक्लेशा निर्मलात्मानः संयास्यथ सुखावतीम् ॥ तत्र गत्वामिताभस्य मुनीन्द्रस्योपसंश्रिता । सदा धर्मामृतं पीत्वा रमिष्यथ शुभोत्सवैः ॥ एवं तत्र चिरं भुक्त्वा महानन्दमयं सुखम् । प्रान्ते सम्बोधिमासाद्य संयास्यथ सुनिर्वृतिम् ॥ (८१) इति तेनोदितं श्रुत्वा सर्वे ते पुरुषा मुदा । तथेति प्रतिसंश्रुत्व वदन्त्येवं च मोदिताः ॥ मार्ष भवति नोऽन्धानां सन्माअर्गमुपदर्शकः । अत्राणानामपि त्राणं शरण्यं शरणार्थिनाम् ॥ अनाथानां पिता माता नाथश्चेष्टः सुहृत्पतिः । अगतीनां गतिश्चापि मित्रश्च व्यसनापहृत् ॥ तमःप्रणष्टमार्गाणां महादीपो भवानपि । मूर्खानां च प्रमत्तानां शास्ता सद्धर्मदेश्कः ॥ तद्वयं सर्वदा सर्वे भवतां शरणे स्थिताः । आज्ञां धृत्वा शुभे धर्मे संचरिष्यामहे ध्रुवम् ॥ सुखितास्ते माहाभागा ये भवच्छरणे स्थिताः । त्रिरत्नभजनं कृत्वा संचरन्ते शुभे सदा ॥ न तेषामिदृशं दुःखं भविष्यति कदाचन । यादृगिदं महट्कष्टमनुभावमहे भवे ॥ तद्भवान् कृपयास्माकं निर्वृतिसुखसाधनम् । सद्धर्मं समुपादिश्य सदेह स्थातुमर्हति ॥ इति तैः प्रार्थितं श्रुत्वा बोधिसत्त्वः स सर्ववित् । तान् प्रबोधितान् सर्वान् वदत्येवं विलोकयन् ॥ नाहं सदात्र तिष्ठेयं कार्याणि हि बहूनि मे । तन्मयात्र यथाख्यातं धृत्वा चरत सर्वदा ॥ इत्युक्त्वा स महाभिज्ञस्तेषां संबोधिसधनम् । समादिशति कारण्डव्यूहसूत्रं सुभाषितम् ॥ तत्सर्वेषां महायानसूत्राणां प्रवरोत्तमम् । श्रुत्वा ते पुरेषाः सर्वे प्राभिनन्दन्ति बोधिताः ॥ ततस्ते पुरुषाः सर्वे धृत्वा तत्सूत्रमादरात् । त्रिरत्नभजनं कृत्वा संचरन्ते शुभे मुदा ॥ एतत्पुण्यानुभावेन सर्वे ते विमलाशयाः । बोधिसत्त्वा महासत्त्वा भवन्ति ब्रह्मचारिणः ॥ (८२) बोधिचर्याव्रतं धृत्वा प्रचरन्तो जगद्धिते । सद्धर्मचरणे युक्ता भवन्त्यप्यनिवर्तिनः ॥ एवं ते पुरुषाः सर्वे परिशुद्धत्रिमण्डलाः । स्वपरात्महितोत्साहैः संचरन्ते महासुखम् ॥ एवं स त्रिजगन्नाथो लोकेश्वरो जिनात्मजः । सर्वांस्तान् पुरुषान् धर्मे नियोजयति बोधयन् ॥ ततोऽन्यत्र स लोकेशः सत्त्वानुद्धर्त्तुमुत्सुकः । अन्तर्हितो ज्वलदग्निरिवाकाशेन गच्छति ॥ एवं कृत्वा महत्पुण्यस्कन्धं तस्य जगत्प्रभोः । अप्रमेयमसंख्येयं समाख्यातं मुनीश्वरैः ॥ इति मत्वा सदा तस्य शरणे समुपस्थिताः । स्मृता नामापि चोच्चार्य ध्यात्वापि भजताभवम् ॥ ये तस्य शरणे स्थित्वा श्रद्धया समुपस्थिताः । स्मृत्वा ध्यात्वापि नामापि समुच्चाअर्य भजन्ति वै ॥ दुर्गतिं ते न गच्छन्ति कदाचन क्वचिद्भवे । सदा सद्गतिसंजाता भवन्ति धर्मचारिणः ॥ धर्मश्रीगुणसत्सौख्यं भुक्त्वा यान्ति सुखावतीम् । तत्र गत्वामिताभस्य शरणे समुपाश्रिताः ॥ सदा धर्मामृतं पीत्वा स्वपरात्महितोद्यताः । महानन्दसुखोत्साहैस्संरमन्ते यथासुखम् ॥ तत्रैव सुचिरं भुक्त्वा प्रचरन्तो जगद्धिते । प्रान्ते बोधिं समासाद्य निर्वृतिपदमाप्नुयुः ॥ इति सत्यं परिज्ञाय यूयं बोधिं यदीच्छथ । तल्लोकेशं महाभिज्ञं भजध्वं सर्वदा भवे ॥ इत्यादिष्टं मुनीन्द्रेण विश्वभुवा निशम्य सः । गगनगंज औत्सुक्यं प्राभ्यनन्दत्समार्षदः ॥ इत्येवं समुपादिष्टं विश्वभुवा श्रुतं मया । यूयमपि तथा तस्य सर्वदा भजतादरात् ॥ यूयमपि तथा सौख्यं भुक्त्वा सदा शुभारताः । बोधिश्रीगुणसंपन्नाः गमिष्यथ जिनालयम् ॥ इत्यादिष्टं मुनीन्द्रेण श्रीघनेन निशम्य ते । सर्वसांघिका लोकाः प्राभ्यनन्दन् प्रबोधिताः ॥ ॥ इति रुपमयीभूमिचतुष्पादरुषोद्धारणप्रकरणम् ॥ ९. बलि संबोधन बोधिमार्गावतारण प्रकरणम् अथ सर्वनीवरणविष्कम्भी सोऽभिनन्दितः । भूयस्तं श्रीघनं नत्वा प्रार्थयदेवमादरात् ॥ भगवछ्रोतुमिच्छामि भूयोऽप्यस्य जगत्प्रभोः । सद्धर्मगुणमाहात्म्यं तेन श्रुत्वा स भगवान् पुनः । विष्कम्भिनं महासत्त्वं तमालोक्यैवमादिशत् ॥ ततोऽसौ त्रिजगन्नाथो लोकेश्वरो जिनात्मजः । सत्त्वान् पश्यन् समुद्धर्तुं पाताले समुपाचरत् ॥ तत्र चायोमयी भूमी रसतले सुरालया । तत्रापि स महाभिज्ञो भासयन् समुपाचरत् ॥ यत्र राजा बलिर्नाम सर्वदैत्याधिपोऽपि यः । बद्धः स वामनः सान्तःपुर जनोऽधितिष्ठति ॥ दुर्दान्तं तं महावीर्यं त्रैलोकातिभयंकरम् । समुद्धर्तुं समालोक्य तत्राविशत्स भासयन् ॥ तत्र स रश्मिमुत्सृज्य सर्वत्र संप्रभासयन् । शनैश्चरन् समालोक्य बलेः सद उपाचरत् ॥ तत्र तं समुपायातं सुवर्णबिम्बमिवोज्ज्वलम् । दुरतः स बलिर्दृष्ट्वा निधायैवं व्यचिन्तयत् ॥ कोऽयमत्र समायातो दिव्यकान्तिः प्रभसयन् । महेश्वरोऽथवा सूर्यश्चन्द्रो वापि हुताशनः ॥ (८४) कोऽन्य ईदृक्प्रभाश्रीमान् देवो वा दानवोऽपि वा । गन्धर्वो किन्नरो वापि नागो वा गरुडोऽपि वा ॥ ईदृग्महर्द्धिकः श्रीमान्नास्ति त्रैधातुकेष्वपि ॥ बोधिसत्त्वोऽथवार्हन् वा मुनीन्द्रो वा समागतः ॥ इत्येवं चिन्तयन् द्रष्टुं स वामनासुरैः सह । सर्वपरिजनैश्चासौ बलिस्तं समुपाचरत् ॥ पश्यन्तं स बली राजा समीक्ष्यैनं जिनात्मजम् । लोकेश्वरं महासत्त्वं विज्ञाय संप्रमोदितः ॥ सहसा समुपासृत्य कृतांजलिपुटो मुदा । तस्य पादाम्बुजे नत्वा संपश्यन्नेवमब्रवीत् ॥ अद्य मे सfअलं जन्म भवत्संदर्शनोद्भोवे । अधुना प्रणिधानं च संसिध्यते मनोरथम् ॥ अस्य मे शुध्यतेऽप्यात्मा मुच्यते सर्वपापतः । मुक्तोऽस्मि बन्धनादद्य प्राप्तवान् सुगतेः पथः ॥ यद्भवान् स्वयमालोक्य मामुद्धर्तुमिहागतः । संदृश्यते मय ह्यद्य तन्मे पुण्यविपाकतः ॥ भवन्तं येऽपि पश्यन्ति पुण्यवन्तो नरा हि ते । भवन्ति श्रीसुखापन्नाः सर्वक्लेशविवर्जिताः । ते सत्त्वाः सुखिनो लोके परिशुद्ध विकल्मषाः ॥ भवचारणमुक्ता ये दृश्यन्ते भवतो भवे । भवतां दर्शनेनैवं मुक्तोऽस्मि भवबन्धनात् । क्लेशादयः पलायन्ते गरुडस्येव पन्नगाः । भवानेव जगन्नाथः शास्ता सद्धर्मदेशकः । त्राता भर्ता शरण्येऽपि नास्त्यन्यो मे सुहृद्गतिः ॥ तद्भवान् कृपयालोक्य मामुद्धृत्य भवोदधेः । सन्मार्गे संप्रतिस्थाप्य संपालयितुमर्हति ॥ इति संप्रार्थ्य दैत्येन्द्रः स बलिः सांजलिः पुनः । प्रणत्वा तं जगन्नाथं सादरात्स्वपुरेऽनयत् ॥ (८५) तत्र तं स्वपुरे नीत्वा महोत्सवैः प्रमोदनैः । अन्तःपुरे सुभास्वर्णरत्नपीठे न्यवेशयत् ॥ तत्र तं संप्रतिष्ठाप्य राजा संमोदितो बलिः । सान्तःपुरजनैः सार्धं यथाविधि समर्चर्यत् ॥ महद्राअजर्द्धिसत्कारैः सत्कृत्य प्रभजन्मुदा । पादाब्जे प्रणतिं कृत्वा प्रार्थयदेवमादरात् ॥ भगवंस्त्रैधातुनाथोऽसि यदत्र स्वयमागतः । तदस्मान् कृत्पयालोक्य सर्वान् संत्रातुमर्हसि ॥ त्राता न विद्यतेऽस्माकं दशाकुलचारिणाम् । जरामरणभीतानां क्लेशाग्निदहितात्मनाम् ॥ भवाब्धश्रमखिन्नानां नित्यमुद्विग्नचेतसाम् । अनाथानामबन्धूनां भव माता पिता सुहृत् ॥ एषां बन्धनबद्धानां जात्यन्धानां दुरात्मनाम् । मूढानां च शुचित्तानां भव क्लेशापहो गतिः ॥ नाथो भव जगन्नाथः शास्ता सद्धर्मदेशकः । शरण्यं सद्गुरुर्मित्रं त्राता भर्ता हितार्थभृत् ॥ यथा भवान् जगल्लोकं निवार्य पापमार्गतः । धर्ममार्गे प्रतिष्ठाप्य पालयति विलोकयन् ॥ तथास्मानपि पापिष्ठान्निवार्य पापपद्धतेः । नियुज्य सहसे पश्यन् पालयितुं सदार्हसि ॥ कृपयास्मान् दुरासक्तान् समुद्दृत्य भवोदधेः । संबोधिसाधने धर्मे नियोजयतु बोधयन् ॥ इति संप्रार्थितं तेन बलिना भद्रवांछिना । श्रुत्वा लोकेश्वरश्चैनं बलिं दृष्ट्वैवमादिशत् ॥ साधु शृणु समाधाय दैत्याधिप समादरात् । हितार्थं ते प्रवक्ष्यामि यद्धर्मं बोधिसाधनम् ॥ संसारे सर्वदा भद्रं सौख्यं भोक्तुं यदीच्छसि । त्रिरत्नस्मरणं कृत्वा भज नित्यं समाहितः ॥ (८६) त्रिरत्नशरणं कृत्वा ये भजन्ति सदा भवे । दुर्गतिपरिमुक्तास्ते गछन्ति सद्गतिं सदा ॥ सद्गतावेव संजाताः सद्धर्मसाधनोद्यताः । पुण्यश्रीगुणसत्सौख्यं भुक्त्वा यान्ति जिनालयम् ॥ त्रिरत्नभजनोत्पन्नं पुण्यfअलं महद्बहु । अप्रमेयसंख्येयं संबोधिज्ञानसाधनम् ॥ एवं विज्ञाय दैत्येन्द्र संबोधिं यदि वांछसि । धर्मधातुं समभ्यत्च्य भज नित्यं समाहितः ॥ धर्मधातुं समभ्यर्च्य ये भजन्ति सदादरात् । विमुक्तपातकाः सर्वे गच्छन्ति ते जिनालयम् ॥ सद्धर्मान् च सदा श्रुत्वा सत्कृत्य श्रद्धयादरात् । अभ्यर्च्य शरणं कृत्वा भज नित्यं समाहितः ॥ सद्धर्मं ये सदा श्रुत्वा सत्कृत्य श्रद्धयादरात् । गत्वा शरणमभ्यर्च्य भजन्ति संप्रमोदिताः ॥ ते सर्वे क्लेशनिर्मुक्ताः परिशुद्धत्रिमण्डलाः । बोधिसत्त्वा महाभिज्ञाः संयान्ति सुगतालयम् ॥ संघरत्नानि येऽभ्यर्च्य श्रद्धया शरणं गताः । सत्कारैः समुपस्थाय भजन्ति सर्वदा मुदा ॥ तेऽपि क्लेशविनिर्मुक्ताः शुद्धाशयाः शुभोद्यताः । महासत्त्वाः शुभोत्साहं भुक्त्वा यान्ति सुखावतीम् ॥ श्रद्धया योऽर्हते पिण्षपात्रामेकं प्रयच्छति । तस्य पुण्यमसंख्येयमप्रमेयं जगुर्जिनाः ॥ सर्वेषामपि पुण्यानां शक्यते मया । एतत्पुण्यप्रमानं तु शक्यते न जिनैरपी ॥ सर्वत्रैधातुकोत्पन्नाः सत्त्वाश्चेत्सुगतात्मजाः । तेऽप्येतत्पुण्यसंख्यानां प्रमातुं नैव शक्नुयुः ॥ प्रागेवाहमिहैकोऽस्मिन् तत्कथं शक्नुयामिदम् । पुण्यस्कन्धं समाख्यातुं यन्न शक्यं जिनैरपि ॥ (८७) चूर्णीकृत्य महीं सर्वां कृत्वा चानुरजोमयम् । तत्सर्वं गणितुं शक्यं सर्वैबुद्धर्मयापि च । नतु त्रिरत्नसत्कारे पुण्यस्कन्धं कदाचन । प्रमातुं शक्यते सर्वैर्मुनीश्वरैर्मयापि च ॥ सर्वेषामुदधीनां च नदीनां च जलान्यपि । बिन्दुसंख्याप्रमाणेन गणितुं शक्यते मया ॥ मेरुप्रमाणभूर्जेषु संपूर्णमक्षरं लिखेत् । तदक्षराणि सर्वाणि संख्यातुं शक्यते मया ॥ सर्वेस्वपि समुद्रेषु सर्वास्वपि नदीषु च । यावत्यो वालुकास्तासां संख्यातुं शक्यते मया ॥ सर्वेषामपि जन्तूनां चतुर्द्विपनिवासिनाम् । देहजानि च लोमानि संख्यातुं शक्यते मया ॥ सर्वेषामपि वृक्षाणां चतुर्द्वीपमहीरुहाम् । शस्यानामपि पत्राणि संख्यातुं शक्यते मया ॥ प्रवर्षज्जलधराणां वर्षैकस्य निरन्तरम् । तद्बिन्दुपरिसंख्याभिः प्रमातुं शक्यते मया ॥ नतु त्रिरत्नसत्कारपिण्डपात्रादिदानजम् । पुण्यस्कन्धमसंख्येयं प्रमातुं शक्यते मया ॥ यदि सर्वेऽपि सत्त्वाश्च दशभूमिप्रतिष्ठिताः । बोधिसत्त्वा महासत्वा भवेयुर्ब्रह्मचारिणः ॥ यावत्तेषां महत्पुण्यं संबोधि&॰२८९;यानसाधनम् । ततोऽपि हि महत्पुण्यं त्रिरत्नं संप्रादानजम् ॥ किमेवं बहुना प्रोक्ता सर्वेरपि मुनीश्वरैः । यत्संख्यातुं प्रमातुं च शक्यते न कदाचन ॥ तत्कथमहमेकोऽत्र संख्यातुं शक्नुयामपि ॥ अप्रेमेयमसंख्येयमित्येवं परिबुध्यताम् ॥ एतदेव महत्पुण्यं न क्षिणोति कदाचन । सर्वसत्त्वहिताधानसद्धर्मगुणसाधनम् ॥ (८८) भद्रश्रीसुखसंपत्तिसंस्थितिसंप्रदायकम् । सर्वक्लेशाग्निसंतापहरं संबोधिसाधनम् ॥ एवं महत्fअलं मत्वा त्रिरत्नं सर्वदा स्मरन् । ध्यात्वा स्तुत्वा प्रणत्वापि भज नित्यं समाहितः ॥ ये त्रिरत्नं सदा नित्यं श्रद्धया समुपाश्रिताः । स्मृत्वा ध्यात्वापि तुष्टाश्च प्रणत्वापि भजन्त्यदि ॥ सर्वे ते विमालात्मानः परिशुद्धेन्द्रियाशयाः । निःक्लेशाः सद्गुणाधाराश्चतुर्ब्रह्मविहारिणः ॥ धर्मश्रीगुणसंपत्तिशुभोत्साहसुखारताः । बोधिसत्त्वा महासत्त्वा भविष्यन्ति जिनात्मजाः ॥ ततः पारमिताः सर्वाः पूरयित्वा यथाक्रमम् । जित्वा मारगणान् सर्वान्निःक्लेशा विमलेन्द्रियाः ॥ अर्हन्तः त्रिजगत्पूज्या महाभिज्ञा विनायकाः । त्रिविधां बोधिमासाद्य सम्बुद्धपदमाप्नुयुः ॥ इति सत्यं समाख्यातं सर्वैरपि मुनीश्वरैः । मत्वा तस्मात्त्रिरत्नस्य भज बोधिं यदीच्छसि ॥ इति तेन जगच्छास्ता समादिष्टं निशम्य सः । बलिर्दैत्याधिपः पश्यन् विस्मयं समुपाययौ ॥ अथासौ चितयन् यज्ञदानादिप्रकृतं स्वकम् । गलदश्रुमुखः पश्यंल्लोकेश्वरं तमब्रवीत् ॥ भगवन् कीदृशं कर्म मूढेन प्रकृतं मया । येनेहापि मया प्राप्तं बन्धनं स्वजनैः सह ॥ हा मया कुधिया यज्ञं तीर्थिकसंमतं कृतम् । यत्fअलेनाहमत्रैवं बन्धितः सजनोऽधसि ॥ अहो बौद्धेषु यद्दानं प्रकृतं तत्फलं शुभम् । येनेह भद्रसंपत्तीर्भुक्त्वान्ते याति निर्वृतिम् ॥ हा मूढेन कृत तीर्थिकशासने मया । येनेहैवं महद्दुःखं प्राप्तं स्वजनैः सह ॥ (८९) यदा मया जगन्नाथ समारभ्य महन्महम् । सर्वार्थिभ्यः ससत्कारं दानं दत्तं यथेप्सितम् ॥ तदा वामन आगत्य ब्रह्मचारी ममाग्रतः । द्विपदमात्रसंस्थानं पृथिव्यां समयाचयत् ॥ तच्छ्रुत्वा दानरक्तेतन मया मानातिमानिना । तृतीये पदसंस्थानं दत्तं तस्मै महीतले ॥ मया प्रदत्तमादाय स्वस्तिवाक्यमुदीरयन् । वामनः स महन्मूर्त्तिं धृत्वातिष्ठत्पुरो मम ॥ स त्रिपादो महद्भूतो भीमरुपो महर्द्धिमान् । धृत्वा त्रैविक्रमीं मूर्त्तिं पश्यन्मामेवमब्रवीत् ॥ देहि मे यत्त्वया दत्तं तृतीयस्य पदस्य मे । स्थानं न विद्यते कुत्र स्थापयेयमिदं वद ॥ एकं न्यस्तं मयाकाशे द्वितीयं च महीतले ॥ तृतीयं मे पदं कुत्र स्थापयेथा त्दं वद ॥ इति तेनोदितं श्रुत्वा लज्जितो प्रविषर्णधिः । किंचिद्वक्तुशक्तोऽहमतिष्ठं मूढमानसः ॥ तदा स विष्णुरालोक्य मामवमवदत्पुनः । यत्राहं स्थापयिष्यामि तत्र संस्थापयेद्ध्रुवम् ॥ इति तदुक्तमाकर्ण्य तदाहमवदंस्तथा ॥ त्वया संस्थाप्यते यत्र तत्र संस्थापयाम्यहम् ॥ इति सत्यं मया प्रोक्तं श्रुत्वा स संप्रहर्षितः । मूर्धनि मे तृतीयेन पादेनाक्रम्य विक्रमी ॥ मामिहाधसि पाताले सान्तःपुरजनान्वितम् । सबन्धुसानुगं चापि बन्धने स्थापयत्यसौ ॥ यन्महादारुणं पापं निर्दयेन मया कृतम् । तेनात्र बन्धनं प्राप्तं सान्तःपुरजनैः सह ॥ दत्वार्थिभ्योऽपि सर्वेभ्यः सर्वोपकरणान्यपि । यथाभिवांछितं द्रव्यं गजाश्वरथवाहनम् ॥ (९०) कुक्षत्रे यत्कृतं दानमेतत्फलमिहाश्यते । हा मया किं कृतं श्रुत्वा तीर्थिकशासनम् ॥ एवं भद्रfअलं पुण्यं त्रिरत्नभजोनोद्भवम् । मया न श्रूयते क्वापि ज्ञायते नैवमुत्तमम् ॥ हाहं तीर्थिकैर्दुष्टैवशीकृत्वाभिवांछितः । प्रतारितोऽप्यसद्धर्मे प्रापितोऽत्रापि बन्धने ॥ ईदृशं सत्fअलं पुण्यं भद्रश्रीबोधिसाधने । सुक्षत्रे दानसंभूतं नश्रुतं न मतं मया ॥ यदीदृशं महत्पुण्यं भद्रश्रीबोधिसंप्रदम् । न ज्ञातं तत्त्रिरत्नानां प्राभजिष्यन् सदा भवे ॥ तन्मया भगवन् ज्ञातं श्रुत्वेदं भवतोदितम् । तत्सदैव त्रिरत्नानां शरणस्थो भजाम्यहम् ॥ तद्भवान् समुपाख्यातु त्रिरत्नभजने विधिम् । अद्यारभ्य सदाप्येवं चरिष्याम्यहमाभवम् । तथाहं भगवन् बुद्धरत्नस्य शरणे स्थितः । यथाविधि समभ्यर्च्य भजानि सर्वदाभवम् ॥ तथा च धर्मरत्नानां शरणे समुपस्थितः । सत्कृत्य श्रद्धया गौण्यं श्रुत्वा भजानि सर्वदा ॥ तथा य संघरत्नानां शरणे सर्वदा स्थितः । तथार्हभोजनैश्चापि सत्कृत्य प्रभजाम्यहम् ॥ यथात्र भवतादिष्टं संचरिष्ये तथा खलु । संबोधिसाधनं धर्मं समुपादेष्टुमर्हति ॥ इति तदुक्तमाकर्ण्य लोकेश्वरः स सर्ववित् । प्रबोधितं तमालोक्य दैत्येन्द्रमेवमादिशत् ॥ साधो बलेऽसुरेन्द्रोऽसि तच्छ्रिणुष्व समाहितः । हितार्थं ते प्रवक्ष्यामि यदि सद्धर्ममिच्छसि ॥ आदौ विरम्य पापेभ्यो दुष्टमित्राद्दूरगतः ॥ सन्मित्रं समुपाश्रित्य चर भद्र समाहितः ॥ (९१) ततः श्रद्धाशयो धीरश्चतुर्ब्रह्मविहारिकः । त्रिरत्नभजनं कृत्वा बोधिचर्याव्रतं चर ॥ सौगतेभ्यस्तथार्थिभ्यः श्रद्धया मानयन्मुदा । संबोधिप्रणिधानेन कुरुष्व दानमीप्सितम् ॥ संबोधिप्रणिधानेन यद्धानं श्रद्धया कृतम् । तत्fअलं हि महत्सिद्धं संबुद्धपदसाधनम् ॥ ततोऽन्यत्प्रणिधानेन यद्दानं प्रकृतं मुदा । तत्कलं श्रीमहत्सौख्यं दद्यान्नैव तु सौगतम् ॥ तत्त्रिरत्नमनुस्मृत्वा संबोधिनिहिताशयः । ददस्व श्रद्धया दानं बौद्धं पदं यदीच्छसि ॥ एवं दत्वा सदा दानं बोधिचित्तो जितेन्द्रियः । शुचिशीलसमाचारश्चरस्व पोषधं व्रतम् ॥ व्रतं विना न शुध्येत त्रिकायं महतामपि । तद्बोधिप्रणिधानेन चरष्व सौगतं व्रतम् ॥ एवं व्रतं सदा धृत्वा चतुर्ब्रह्मविहारधृक् । संबोधिप्रणिधानेन क्षान्तिव्रतं समाचर ॥ कृत कल्पसहस्त्रैर्यद्दानं त्रिरत्नसाधनम् । क्लेशोत्थितो जगद्दुष्टः क्रधो हन्ति क्षणेन तत् ॥ तत्क्लेशारीन् जगद्दुष्टान् क्रोधमूलान् विनिर्जयन् । संबोधिप्रणिधानेन सत्त्वे क्षमाव्रतं चर ॥ केवलं क्षमया नैव सद्धर्मगुणसाधनम् । विना वीर्यसमुत्साहं सिध्यते बोधिसंवरम् ॥ तत्कौधीद्यं समुत्सृज्य संबोधिनिहिताशयः । धृत्वा वीर्यसमुत्साहं चर भद्रार्थसाधने ॥ न हि वीर्यं विनाकार्यं सिध्यते सुधियामपि । तस्माद्वीर्यं समाधाय संबोधिकृतनिश्चयः ॥ स्वपरामहिताधानं सद्धर्मरत्नमर्जय । दुर्बुद्धेर्हि महोत्साहं वीर्यं न साधयेच्छुभम् ॥ (९२) स्वपरात्महितोत्पातमेव कुर्यात्सदारिवत् । तद्धैर्यसुमतिं धृत्वा संबोधिध्याननिष्ठितः ॥ सर्वसत्त्वहिताधानं सद्धर्मरत्नमर्जय । प्रज्ञाविरहितो नैव ध्यानाहितोऽपि सिध्यते । तत्सत्प्रज्ञामहारत्नमर्जय त्रिजगद्धिते ॥ एतद्धि परमोपायं संबोधिज्ञानसाधने । विज्ञाय त्वं सदा सत्त्वहितार्थे चर सद्व्रतम् ॥ तदा त्वं बोधिसत्त्व स्याः सर्वसत्त्वहितार्थभृत् । भद्रचारी महाअभिज्ञो महासत्त्वो जिनात्मजः ॥ इति बौद्धपदं प्राप्तुं यदीच्छसि जगद्धिते । बोधिचित्तं महारत्नं प्राप्तुं रत्नत्रयं भज ॥ त्रिरत्नभजनोत्पत्रपुण्यरत्नानुभावतः । बोधिचित्तं महारत्नं प्राप्स्यते जगद्धिते ॥ इति तेन जगच्छास्त्रा समादिष्टं निशम्य सः । बलिः प्रबोधितो बोधिचर्याव्रतं समैच्छत ॥ ततः स बलिरालोक्य तं लोकेशं जिनात्जम् । सांजलिः प्रणतिं कृत्वा प्रार्थयच्चैवमादरात् ॥ भगवंस्त्रिजगन्नाथो भवानेव जगद्गुरुः । समुद्धर्ता सुहृन्मित्रं कश्चिन्नैवापरो मम ॥ तदाज्ञां भवतां धृत्वा शिरसाहं समाहितः । त्रिरत्नभजनं कॄत्वा संचरिष्ये सुसंवरम् ॥ तच्चित्तरत्नसंप्राप्त्यै सर्वान् बुद्धान्मुनीश्वरान् । धर्मरत्नं च संघांश्च शरणं गच्छामि सर्वदा ॥ तेषां पूजां करिष्यामि श्रद्धया समुपस्थितः । धर्में श्रुत्वा च संघानां दास्ये यथार्हं भोजनम् ॥ अद्यारभ्य सदा तेषां मुनीन्द्राणामुपासकः । यथाविधि व्रतं धृत्वा चरिष्यामि जगद्धिते ॥ सच्चित्तरत्नग्रहणाय सम्यक्पूजां करोम्येष तथागतानाम् । सद्धर्मरत्नस्य च निर्मलास्य बुद्धात्मजानां च गुणाकराणाम् ॥ (९३) यावन्ति पुष्पाणि fअलानि चौवं भैषज्यजातानि च यानिओ सन्ति । रत्नानि यावन्ति च सन्ति लोके जलानि च स्वच्छमनोरमाणि ॥ महीधरा रत्नमयास्तथान्ये वनप्रदेशाश्च विवेकरम्याः । लताः सुपुष्पाभरणोज्ज्वलाश्च दुमाश्च ये सत्fअलनम्रशाखाः ॥ देवादिलोकेषु च गन्धधूपाः कल्पद्रुमा रत्नमयाश्च वृक्षाः । सरांसि चाम्भोरुहभूषनानि हंसस्वनात्यन्तमनोहराणि ॥ अकृष्टजातानि च शस्यजातान्यन्यानि वा पूज्यविभूषणानि । आकाशधातिप्रसरावधीनि सर्वान्यपीमान्यपरिग्रहानि ॥ आदाय बुद्धया मुनीपुंगवेभ्यो निर्यातयाम्येष सपुत्रकेभ्यः । गृह्णन्तु तन्मे वरदक्षिणीया महाकृपा मामनुकम्पमानाः ॥ अपुण्यवानस्मि महादरिद्रः पूजार्थमन्यन्मम नास्ति किंचित् । अतो ममार्थय परार्थचिन्ता गृणन्तु नाथा इदमात्मशक्त्या ॥ ददामि चात्मानमहं जिनेभ्यः सर्वेण सर्वं च तदात्मजेभ्यः । परिग्रहं मे कुरुताग्रसत्त्वा युष्मासु दासत्वमुपैमि भक्त्या ॥ परिग्रणास्मि भवत्कृतेन निभीर्भवे सत्त्वहितं करोमि । पूर्वं च पापं समतिक्रमामि नान्यच्च पापं प्रकरोमि भूयः ॥ सबुद्धधर्मसंघेषु चैत्येषु प्रतिमासु च । पुष्परत्नादिवर्षाश्च प्रवर्तन्तां निरन्तरम् ॥ बोधिसत्त्वा महासत्त्वाः पूजयन्ति यथा जिनान् । तथा सर्वान्मुनीन्द्रांस्तान् सपुत्रान् पूजयाम्यहम् ॥ स्वरांगसागरैः स्त्रोत्रैः स्तौमि चाहं गुणोदधीन् । स्तुतिसंगीतिमेघाश्च संभवन्त्येष्वनन्यथा ॥ सर्वक्षत्राणुसंख्यैश्च प्रणामैः प्रणमाम्यहम् । सर्वांस्त्र्यध्वगतान् बुद्धान् सहधर्मगणोत्तमान् ॥ सर्वचैत्यानि वन्देऽहं बोधिसत्त्वाश्रयानपि । नमस्करोम्युपाध्यायानभिवन्द्यान् यतींस्तथा ॥ बुद्धं गच्छामि शरणं यावदाबोधिमण्दतः । धर्मं गच्छामि शरणं बोधिसत्त्वगणांस्तथा ॥ (९४) विज्ञापयामि संबुद्धान् सर्वदिक्षु व्यवस्थितान् । महाकारुणिकांश्चापि बोधिसत्त्वान् कृतांजलिः ॥ अनादिगतिसंसारे जन्मन्यत्रैव वा पुनः । यन्मया पशुना पापं कृतं कारितमेव वा ॥ यच्चानुमोदितं किंचिदात्मघाताय मोहिनः । तदत्ययं देशयाम्यत्र पश्चात्तापेन तापितः ॥ रत्नत्रयेऽपकारो यो मातापितृषु वा मया । गुरुष्वन्येषु वा क्षोपात्कायवाग्बुद्धिभिः कृतः ॥ अनेकदोषदुष्टेन मया पापेन मोहना । यत्कृतं दारुणं पापं तत्सर्वं देशयाम्यहम् ॥ कथं च निःसराम्यस्मात्नित्योद्विग्नोऽस्मि साम्प्रतम् ॥ मा भून्मे मृत्युरचिरादक्षीणे पापसंचये ॥ कृताकृतोपरीक्षोऽयं मृत्युर्विश्रम्भघातकः । स्वस्थास्वस्थैरविश्वास्य आहस्मिकमहाशनिः ॥ प्रियाप्रियनिमित्तेन पापं कृतमनेनेकधा । सर्वमुत्सृज्य गन्तव्यं मया न ज्ञातमीदृशम् ॥ अप्रिया न भविष्यन्ति भविष्यन्ति न मे प्रियाः । अहं च न भविष्यामि सर्वं च न भविष्यति ॥ तत्तत्स्मरणतां याति यद्यद्वस्त्वनुभूयते । स्वप्नानूभूतवत्सर्वें गतं न पुनरीक्ष्यते ॥ इहैव तिष्ठतस्तावद्गतानेकप्रियाप्रियाः । तन्निमित्तं कृतं पापं मे पुरःस्थितम् ॥ एवमागन्तुकोऽमीती मया नैव समीक्ष्यते । मोहनुनयाविद्वेअषैः कृतं पापमनेकशः ॥ रात्रिंदिवमविश्राममायुषो वर्धते व्ययः । आयस्यज्यागमो मास्ति न मरिष्याम्यहं कथम् ॥ इह शय्यागतेनापि बन्धुमध्येऽपि तिष्ठता । मयैवैकेन सोढव्या मर्मछेदादिवेदना ॥ (९५) यमदूतैर्गृहीतस्य कुतो बन्धुसुहृत्सखाः । पुण्यमेकं तदा त्राणं मया तत्रैव संचितम् ॥ अनित्यजीवीतासंगादित्थं भयमजानता । प्रमत्तेन मदान्धेन बहुपापं मयार्जितम् ॥ अंगछेदार्थमप्यन्यो नीयमानो विशुष्यति । पिपसितो दीनदृष्टिरन्यदेवेक्षते जगत् ॥ किं दुष्टैर्भैरवाकारैर्यमदूतैरधिष्ठितः । महात्रासंकरग्रस्तः पुरीषोत्सर्गवेष्टितः ॥ कातरैर्नत्रविक्षोपैस्त्राणान्वेषी चतुर्दिशम् । को मे महाभयादस्मात्साधुस्त्राता भवेदिह ॥ त्राणशून्या दिशो दृष्ट्वा पुनः संमोहमागतः । तदाहं किं करिष्यामि तस्मिन् स्थाने महाभये ॥ अधैव शरणं यामि जगन्नाथान्महाबलान् । जगद्रक्षार्थमुद्युक्तान् सर्वत्रासहरान् जिनान् ॥ तैश्चाधिगतं धर्मं संसारभयनाशनम् । शरणं यामि भावेन बोधिसत्त्वगणं तथा ॥ समन्तभद्रायात्मानं ददामि भयविह्वलः । विरौम्यार्तरवं भीतो भयं नाशयते द्रुतम् ॥ तत्र सर्वज्ञनाथस्य सर्वपापापहारिणः । वाक्यमुल्लंघयामीति धिग्मामत्यन्तमोहितम् ॥ तिष्ठाम्यत्यप्रमत्तोऽहं प्रयातेष्वितरेष्वपि । किमु योजनसाहस्रे प्रपाते दीर्घकालिके ॥ अद्यैव मरणं नैति न युक्त मे सुखासिका । अवश्यं न भविष्यामि कस्मान्मे सुस्थिनं मनः ॥ पूर्वानुभूते नष्टेभ्यः किं मे सारमवस्थितम् । येषु मेऽभिनिविष्टेन गुरुणां लंघिनं वचः ॥ जीवलोकमिमं त्यक्त्वा बन्धून् परिचितानपि । एकाकी क्वापि यास्यामि किं मे सर्वैः प्रियाप्रियैः ॥ (९६) इयमेव तु मे चिन्ता युक्ता रात्रंदिवं सदा । अशुभान्नियतं दुःखं निःसरेयं ततः कथम् ॥ मया दुष्टेन मूढेन यत्पापं प्रकृतं पुरा । प्रकृत्या देशयाम्येष नाथानामग्रतोऽधुना । कृतांजलिर्दुःखभीतः प्रणिपत्य पुनः पुनः ॥ अत्ययमत्ययत्वेन प्रतिगृह्णन्तु नायकाः । अभद्रकं पुनर्नाथा न करिष्यामि सर्वदा ॥ अपायदुःखविश्रामं सर्वसत्त्वैः कृतं शुमम् । अनुमोदे प्रमोदेन सुखं तिष्ठन्तु दुःखिताः ॥ संसारे दुःखवैमोक्षमनुमोदे शरीरिनाम् । बोधिसत्त्वत्वबुद्धत्वमनुमोदे च तायिनाम् ॥ चित्तोत्पादसमुद्रांश्च सर्वसत्त्वसुखावहान् । सर्वसत्त्वहिताधानाननुमोदे च शासिनाम् ॥ सर्वदिक्संस्थितान् बुद्धन् प्रार्थयामि कृतांजलिः । धर्मप्रदीपं कुर्वन्तु मोहाद्दुःखप्रपातिनाम् ॥ जिनान्निर्वातुकामांश्च याचयामि समादरात् । कल्पोऽननल्पान्स्तिष्ठन्तु मा भूदन्धमिदं जगत् ॥ इत्युक्ते बलिना तेन लोकेश्वरो निशम्य निशम्य सः । साधु साध्विति संराध्य तं बलिं चैवमब्रवीत् ॥ क्षणसंपदियं सुदुर्लभा प्रतिलब्धा पुरुषार्थसाधनी । यदि नात्र विचिन्त्यते हितं पुनरप्येष समागमः कुतः ॥ रात्रौ यथा मेघघनान्धकारे विद्युत्क्षणं दर्शयति प्रकाशम् । बुद्धानुभावेन तथा कदाचिल्लोकस्य पुण्येषु मतिःक्षणं स्यात् ॥ तस्माच्छुभं दुर्बलमेव नित्यं बलं तु पापस्य महत्सुघोरम् । तज्जीयतेऽयेन शुभेन केन संबोधिचित्तं यदि नाम न स्यात् ॥ कल्पाननल्पान् प्रतिचिंतयद्भिर्दृष्टं मुनीन्द्रैः हितमेतदेव । यतः सुखेनैव सुखं प्रवृद्धमुत्प्लावयत्यमितान् जनौघान् ॥ (९७) भवदुःखशतानि तर्तुकामैरपि सत्त्वव्यसनानिओ हर्तुकामैः । बहुसौख्यशतानि भोक्तुकामैर्न विमोच्यं हि सदैव बोधिचित्तम् ॥ भवचारकबन्धनो वरो कः सुगतानां सुत उच्यते क्षणेन । सनरामरलोकवन्दनीयो भवति स्यादित एव बोधिचित्ते ॥ अशुचिप्रतिमामिमां गृहीत्वा जिनरत्नप्रतिमां करोत्यनर्घाम् । रसजातमतीव वेधनीयं सुदृढं गृह्णीष्व बोधिचित्तरत्नम् ॥ सुपरीक्षितमप्रमेयधीभीर्बहुमूल्यं जगदेकसार्थवाहैः । गतिपत्तनविप्रवासशीलाः सुदृढं गृह्णन्तु बोधिचित्तरत्नम् ॥ कदलीव fअलं विहाय याति क्षयमन्यत्कुशलं हि सर्वमेव । सततं fअलति क्षयं न याति प्रसवत्येव हि बोधिचित्तवृक्षः ॥ कृत्वापि पापानि सुदारुणानि यदाश्रयादुत्तरति क्षणेन । शूराश्रयेणैव महाभयानि नाश्रीयते तत्कथमज्ञसत्त्वैः ॥ युगान्तकालानलवन्महान्ति पापानि यन्निर्दहति क्षणेन । यस्यानुशंसानमितानुवाच मैत्रेयनाथः सुधनाय धीमान् ॥ तद्बोधिचित्तं द्विविधं विज्ञातव्यं समासतः । बोधिप्रणिधिचित्तं च बोधिप्रस्थानमेव च ॥ गन्तुकामश्च गन्तुश्च यथाभेदः प्रतीयते । तद्वद्भेदाऽनयोर्ज्ञेयो यथासंख्येन पण्डितैः ॥ बोधिप्रणिधिचित्तस्य सम्सारेऽपि महत्fअलम् । न त्वविच्छिन्नपुण्यत्वं यथाप्रस्थानचेतसः ॥ यतः प्रभृत्यपर्यन्तसत्त्वधातुप्रमोक्षणे । समाददाति तच्चित्तमनिवर्तेन चेतसा ॥ ततः प्रभृति सुप्तस्य प्रमत्तस्याप्यनेकशः । अविच्छिन्नाः पुण्यधाराः प्रवर्तन्ते नभःसमाः ॥ जगदानन्दबीजस्य जगद्दुःखौषधस्य च । चित्तरत्नस्य यत्पुण्यं तत्कथं हि प्रमीयते ॥ हिताशंसनमात्रेन बुद्धपूजा विशिष्यते । किं पुनः सर्वसत्त्वानां सर्वसौख्यार्थमुद्यमात् ॥ (९८) दुःखमेवाभिधावन्ति दुःखनिःसरणाशयाः । सुखेच्छयैव संमोहात्स्वसुखं घ्नन्ति शत्रुवत् ॥ यस्तेषां सुखरंकाणां पीडितानामनेकशः । तृप्तं सर्वसुखैः कुर्यात्सर्वाः पीडाश्छिनत्ति च ॥ नाशयत्यपि संमोहं साधुस्तेन समः कुतः । कुतो वा तादृशं मित्रं पुण्यं वा तादृशं कुतः ॥ कृते यः प्रतिकुर्वीत सोऽपि तावत्प्रशस्यते । अव्यापारितः साधुस्तु बोधिसत्त्वः किमुच्यते ॥ इति मन्त्रयतौ जिनस्य पुत्रे कलुषं स्वहृदये करोति यः । कलुषोदयसंख्यया सकल्पान्नरकेष्वासतीति नाथ आह ॥ अथ यस्य मनः प्रसादमेति प्रसवेत्तस्य ततोऽधिकं fअलम् ॥ तस्माद्गृहीत्वा सुदृढं बोधिचित्तं जिनात्मजः । शिक्षानतिक्रमे यत्नं कुर्यान्नित्यमतन्द्रितः ॥ त्वयापि च यथाशक्तिस्तत्र किं परिलम्ब्यते । नाद्य चेत्क्रियते यत्नं तलेनापि तलं व्रजेः ॥ यदि चैवं प्रतिज्ञाय साधयेनैव कर्मणा । एअतान् सर्वान् विसंवाद्य का गतिस्ते भविष्यति ॥ मनसा चिन्तयित्वा तु यो न दद्यात्पुनर्नरः । स प्रेतो भगवतीत्युक्तमल्पमात्रेऽपि वस्तुनि ॥ किमुतानुत्तरं सौख्यमुच्चैरुद्घुष्य भावतः । यस्मादापद्यमानोऽसौ सर्वसत्त्वार्थहानिकृत् ॥ योऽप्यन्यः क्षणमप्यस्य पुण्यविघ्नं करिष्यति । तस्य दुर्गतिपर्यन्तं नास्ति सत्त्वार्थघातिनः ॥ एकस्यापि हि सत्त्वस्य हितं हित्वा हतो भवेत् । अशोषाकाशपर्यन्तवासिनां किमु देहिनाम् ॥ अप्रेमेयागता बुद्धाः सर्वसत्त्वगवेषकाः । त्वमेषां न स्वदोषेण चिकित्साअगोचरं गतः ॥ न हीदृशैस्त्वच्चरित्रैः सद्गुतिर्लभ्यते पुनः । सद्गतावलभ्यमानायां पापमेव कुतः शुभम् ॥ (९९) यदा कुशलयोग्योऽपि कुशलं त्वं करोषि न । अपायादुःखसंमूढ किं करिष्यसि तदा शुभम् ॥ अकुर्वतश्च कौशल्यं पापमेवोपचिन्नतः । हतः सुगतिशब्दोऽपि कल्पकोटिशतैरपि ॥ एके क्षणकृतात्पापादवीचौ कल्पमास्यते ॥ अनादिकालोपचितात्पापात्का सुगतौ कथा ॥ यदीदृशं क्षणं प्राप्य पुनः सीदसि मोहितः । शोचिष्यसि चिरं भूयो यमदूतैः प्रचोदितः ॥ चिरं धक्ष्यति ते कायं नारकाग्नि सुदुःसहः । पश्चात्तापानलचित्तं चिरं धक्ष्यत्यशिक्षितम् ॥ हस्तपादादिरहितास्तृष्णाद्वेषादिशत्रवः । न शुरा नैव ते प्राज्ञाः कथं दासीकृतोऽसि तैः ॥ त्वच्चितावस्थित्ता एव घ्नन्ति त्वामेव सुस्थिताः । अत्र ते चेतना नास्ति मन्त्रैरिव विमोहितः ॥ सर्वे देवा मनुष्याश्च यदि स्युस्तव शत्रवः । तेऽपि नावीचिकं वह्निं समुदानयितुं क्षमाः ॥ सर्वे हिताय कल्प्यन्ते स्वानुकूल्येन सेविताः । सेव्यमानस्त्वमी क्लेशाः सुतरां दुःखकारकाः ॥ भवचारकपालका इमे नरकादिष्वपि वध्यघातकाः । मतिवेश्मनि लोभयन् जले यदि तिष्ठन्ति कुत सुखं तव ॥ अकारणेनापि रिपुक्षतानि गात्रेष्वलंकारदुद्वहन्ति । महार्थसिद्ध्यै तु समुद्यतस्य दुःखानि कस्मात्तव बाधकानि ॥ स्वजीविकामात्रनिबद्धचित्ताः कैवर्तचण्डालकृषीवलाद्याः । शीतातपादिव्यसनं सहन्ते जगद्धितार्थं सहसे कथं न ॥ दुर्गापुत्रककर्णाढ्या दाहछेदादिवेदनाम् । मुधा सहन्ते मुक्त्यर्थं कस्मात्त्वमसि कातरः ॥ मुक्त्यर्थिनश्च यक्तं ते लोभसत्कारबन्धनम् । ये मोचयन्ति बन्धात्त्वां द्वेषस्तेषु कथं तव ॥ स्पृष्त उष्नोदकेनापि सुकुमारः प्रतप्यसे । कृत्वा च नारकं कर्म किमेवं स्वस्थमास्यते ॥ न किंचिदस्ति तद्वस्तु तदभ्यासस्य दुष्करम् । तस्माअमृदुव्यथाभ्यासात्सोढव्यापि महाव्यथा ॥ दुःखं नेच्छसि दुःखस्य हेतुमिच्छसि दुर्मते । स्वापराधागते दुःखे कस्मादन्यत्र दूष्यते ॥ मुक्त्वा धर्मरतिं श्रेष्ठामनन्तसुखसन्ततिम् । रतिराद्धत्यहासादौ दुःखहेतौ कथं तव ॥ (१००) स्पृष्ट उष्णोदकेनापि सुकुमारः प्रतप्यसे । कृत्वा च नारकं कर्म किमेवं स्वस्थमास्यते ॥ न किंचिदस्ति तद्वस्तु यदभ्यासस्य दुष्करम् । तस्माअमृदुव्यथाभ्यासात्सोढव्यापि महाव्यथा ॥ दुःखं नेच्छसि दुःखस्य हेतुमिच्छसि दुर्मते । स्वापराधागते दुःखे कस्मादन्यत्र दूष्यते ॥ मुक्त्वा धर्मरतिं श्रेष्ठामनन्तसुखसन्ततिम् । रतिराद्धत्यहासादौ दुःखहेतौ कथं तव ॥ बोधिच्छन्दवियोगेन पौर्वकेन तवाधुना । विपत्तिरीदृशी जाता तस्माद्बोधिं प्रसाधय ॥ मिथ्या कल्पनया चित्ते पापात्काये व्यथा यतः । तस्मात्कार्यं शुभे छन्दं भावयित्वैवमादरात् ॥ न प्राप्तं भगवन्पूजामहोत्साहसुखं त्वया । न कृता शासने कारा दरिद्राशा न पूरिता ॥ भीतेभ्यो नाभयं दत्तमार्ता न सुखिनः कृताः । केवलस्वात्मसौख्यार्थं यज्ञदानं कृतं त्वया ॥ अभिलाषविघाताश्च जायन्ते पापकारिणाम् । दुःखानि दौर्मनस्यानि भयानि विविधान्यपि ॥ पापकारी सुखेच्छश्च यत्र यत्राभिगच्छति । तत्र तत्रैव तत्पापैर्दुःखशस्त्रैअहन्यते ॥ मनोरथं शुभकृतां यत्र यत्रैव गच्छति । तत्र तत्रापि तत्पुण्यैः फलार्घ्येनाभिपूज्यते ॥ विपुलसुगन्धिशीतलसरोरुहगर्भगताः । मधुरजिनस्वराशनकृतोपचितद्युतयः ॥ मुनिकरबोधितां व्रज विनिर्गतसद्वपुषः । सुगतसुता भवन्ति सुगतस्य पुरः कुशलैः ॥ यमपुषापनीतसकलछविरार्तरवो हुतवहतापविद्रुतकताम्रनिषिक्ततनुः । (१०१) ज्वलदसिशक्तिघातशतशातितमांसदलः पतति सुतप्तलोहधरणीष्वशुभैर्बहुशः ॥ जन्मान्तरेऽपि सोऽभ्यासः पापाद्दुःखं वर्धते । अन्यच्च कार्यं कालं च हीनं तत्तनसाधितम् ॥ आपदा बाधतेऽल्पापि मनस्ते यदि दुर्बलम् । विषादकृतनिश्चेष्ट आपदः सुकरा ननु ॥ व्युत्थितश्चेष्तमानस्तु महतामपि दुर्जयः । तदेष मानो वोढव्यो जिनसिंहसुतो ह्यहम् ॥ ये भोग्यमानविजिता वराकास्ते न मानिनः । मानि शत्रुं वशं नेति मानशत्रुवशास्तु ते ॥ मानेन दुर्गतिं नीता मूर्खा दुर्दर्शनाः कृशाः । हताशाः परिभूताश्च मानुष्येऽपि हतोत्सवाः ॥ ते मानिनो विजयिनश्च त एव शूराः ये मानशत्रुविजयाय वहन्ति मानम् । ये तं स्फुरन्तमपि मानरिपुं निहत्य कामं जने जयfअलं प्रतिपादयन्ति ॥ कामैर्न तृप्तिः संसारे क्षुरधारामधूपमैः । पुण्यामृतैः कथं तृप्तिर्विपाकमधुरैः शिवैः ॥ कस्यानित्येष्वनित्यस्य स्नेहो भवितुमर्हति । येन जन्मसहस्राणि द्रष्टव्यो न पुनः प्रियः ॥ अवश्यं न धृतिं याति समाधौ न च तिष्ठति । नच तृप्यति दृष्ट्वापि पूर्वद्बाध्यते तृषा ॥ न पश्यति यथाभूतं संवेगादवहीयते । दद्यते तेन शोकेन प्रियसंगमकांक्षया ॥ तच्चिन्तया मुधा याति ह्रस्वमायुर्मुहुर्मुहुः । अशाश्वतेन मित्रेण धर्मो भ्रश्यति शाश्वतः ॥ बालैः स भागचरितो नियतं याति दुर्गतिम् । नेष्यते विसभागश्च किं प्राप्तं बलसंगमात् ॥ (१०२) क्षणाद्भवन्ति सुहृदो भवन्ति रिपवः क्षणात् । तोषस्थाने प्रकुप्यन्ति दुराराध्याः पृथग्जनाः ॥ हितमुक्ताः प्रकुप्यन्ति वारयन्ति च ते हितात् । अथ न श्रूयते तेषां कुपिता यान्ति दुर्गतिम् ॥ ईर्ष्योत्कृष्टात्समाद्वन्द्वो हीनात्मानः स्तुतेर्मदः । अवर्णात्प्रतिघश्चेति कदा बालाद्धितं भवेत् ॥ आत्मोत्कर्षः परावर्णः संसाररतिसंकथा । इत्याद्यवश्यमशुभं सर्वथा बालसंगमात् ॥ तस्मात्प्राज्ञो न तामिच्छेदिच्छातो जायते भयम् । नानाधिमुक्तिकाः सत्त्वा जिनैरपि न तोषिताः ॥ बहवो लाभिनोऽभूवन् बहवश्च यशस्विनः । सहलाभयशोभिस्तेन ज्ञाताः क्व गता इति ॥ कामा ह्यनर्थजनका इहलोके परत्र च । इह बन्धवधछन्दैर्नारकादौ परत्र च ॥ यदर्थं दूतदूतीइनां कृतोंऽजलिरनेकधा । न च पापमकीर्त्तिर्वा यदर्थं गणिता पुरा ॥ प्रक्षिप्तश्च भयेऽप्यात्मा द्रविणं च व्ययीकृतम् । यान्येव च परिष्वज्य बभूवोत्तमनिर्वृतिः ॥ तान्येवास्थीनि नान्यानि स्वाधीनान्यममानि च । प्रकामं संपरिष्वज्य किं न गच्छति निर्वृतिम् ॥ एकस्मादशनादासां लालामेध्यं च जायते । तत्रामेध्यमनिष्ठं ते लालापानं कथं प्रियम् ॥ यदि न तेऽशुचौ रागः कस्मादालिंगसे परम् । मांसकर्दमसंलिप्तं स्नायुबद्धास्थिपंजरम् ॥ अमेध्यभवमल्पत्वान्न वांछस्यशुचिं कृमिम् । बह्वमेध्यमयं कायममेध्यजमपीच्छसि ॥ श्मशाने परितान् घोरान् कायां पश्यापरानपि । कथं ज्ञात्वापि तत्रैव पुनरुत्पद्यते रतिः ॥ (१०३) मानार्थं दासतां यान्ति मुढाः कामविदम्बिताः । दह्यन्ते छिद्यमानाश्च हन्यमानाश्च शक्तिभिः ॥ अर्जनरक्षणेनाथ विषादैरर्थमनन्तमवेहि । व्यग्रतया धनसत्तमतीनां नावसरो भवदुःखविमुक्त्यै ॥ मायया निर्मितं सर्वं हेतुभिर्यच्च निर्मितम् । आयाति तत्कुतः कुत्र याति चेति निरुप्यताम् ॥ स्वप्नोपमास्तु गत्यो विचारे कदलीसमाः । निर्वृतानिर्वृतानां च विशेषो नास्ति वस्तुतः ॥ एवं शून्येषु भावेषु किं लब्धं किं हृतं भवेत् । सत्कृतः परिभूतो वा केन कः संभविष्यति ॥ कुतः सुखं वा दुःखं वा किं प्रियं वा किमप्रियम् । का तृष्णा कुत्र सा तृष्णा मृग्यमाना स्वभावतः ॥ विचारे जीवलोके हि को नामात्र मरिष्यते । को भविष्यति को भूतः को बन्धुः कस्य कः सुहृत् ॥ सर्वमाकाशसंकाशं परिगृह्णीष्व तत्तथा । प्रकुप्यन्ति प्रहृष्यन्ति कलहोत्सवहेतुभिः ॥ शोकायासौविषादैश्च मिथश्छेदनभेदनैः । यापयन्ति सुकृच्छ्रेण पापैरात्मसुखेच्छवः ॥ मृताः पतन्त्यपायेषु दीर्घतीव्रव्यथेषु च । आगत्त्यागत्य सुगतिं भूत्वा भूत्वा सुखोचिताः ॥ भवे बहुप्रपातश्च तत्र वा तत्त्वमीदृशम् । तत्रान्योन्यविरोधश्च न बह्वेत्तत्त्वमीदृशम् ॥ तत्र चानुपमास्तीव्रा अनन्ता दुःखासागराः । तत्रैवमल्पबलता तत्राप्यल्पत्वमायुषः ॥ तत्रापि जीवितारोग्यव्यापारैः क्षुत्क्लमश्रमैः । निद्रयोपद्रवैर्बालैः सत्संगैनिष्fअलैस्तथा ॥ वृथैवायुर्वहत्याशु विवेकस्तु सुदुर्लभः । तत्राप्यभ्यस्तविक्षेपनिवारणगतिः कुतः ॥ (१०४) तत्रापि यतते मारो महापायप्रपातने । तत्रासन्मार्गबाहुल्यं विचिकित्सा च दुर्जया ॥ पुनश्च क्षणदौर्बल्यं बुद्धोत्पादोऽतिर्लभः । क्लेशौघो दुर्निवारश्चेत्यहो दुःखपरम्परा ॥ अहो बतातिशोच्यत्वमेषां दुःखौघवर्तिनाम् । येनेक्षन्ते स्वदौःस्थित्यमेवमप्यतिदुःखिताः ॥ स्नात्वा स्नात्वा यथा कश्चिद्विशेद्वह्निं मुहुर्मुहुः । स्वसौस्थित्यं न मन्यन्त एवमप्यतिदुःस्थिताः ॥ अजरामरशीलानामेवं विहरतां सताम् । आयास्यन्त्यापदो घोरा कृत्वा मरणमग्रतः ॥ एवं दुःखातप्तानां शान्त्यै बोधिव्रतं चर । बोधिव्रतं महत्पुण्यं संबोधिज्ञानसाधनम् ॥ पुण्यमेघसमुद्भूतैः सुखोपकरणैः स्वकैः । सदोपलम्भदृष्टिभ्यो बुद्धादेशय शून्यताम् ॥ संवृत्यानुपलम्भेन पुण्यसंभारमाचर । तस्माद्यथार्त्तिशोकादेरात्मानं गोप्तुमिच्छसि ॥ रक्षाचित्तं दयाचित्तं जगत्यभ्यस्यतां तथा । दुष्करान्मा निवर्तस्व तस्मासभ्यासशक्तितः । यस्यैव श्रवणात्त्रासस्तैरेव न विना रतिः ॥ आत्मानं च परांश्चैव यः शीघ्र त्रातुमिच्छति । स चरेत्परमं गुह्यं परात्मसमवर्तनम् ॥ यस्मिनात्मन्यतिस्नेहादल्पासपि भयाद्भयम् । न द्विषेत्कस्तमात्मानं शत्रुवद्यो भयावहः ॥ यो मान्यक्षुप्तिपासादिप्रतीकारचिकीर्षया । पक्षिमत्स्यमृगान् हन्ति परिपन्थं च तिष्ठति ॥ यो लाभसत्क्&॰६१७८३;रियाहतोः पितरावपि मारयेत् । रत्नत्र्यस्वमादद्याद्येनावीचिन्धनो भवेत् ॥ कः पण्डितस्तमात्मानमिच्छेद्रक्षेत्प्रपूजयेत् । न पश्येच्छत्रुवच्चैनं कश्चैवं प्रतिमानयेत् ॥ (१०५) यदि दास्यामि किं भोज्ये इत्यात्मार्थे पिशाचता । भोक्ष्ये चेत्किं ददामीति परार्थे देवराजता ॥ आत्मार्थं पीडयित्वान्यन्नरकादिषु पच्यते । आत्मानं पीडयित्वा तु परार्थे सर्वसंपदः ॥ दुर्गतिर्नीचता सौख्यं ययेवात्मोन्नतीच्छया । तामेवान्यत्र संक्राम्य सुगतिः सत्कृतिर्मतिः ॥ आत्मार्थं परमाज्ञाप्य दासत्वाद्यनुभूयते । परार्थं स्वयमाज्ञाप्य स्वामित्वाद्यनुभूयते ॥ ये केचिद्दु&॰२८९;खिता लोके सर्वे ते स्वसुखेच्छया । य केचित्सुखिता लोके सर्वे तेऽन्यसुखेच्छया ॥ बहुनात्र किमुक्तेन दृश्यतामिदमन्तरम् । स्वार्थार्थिनश्च बालस्य मुनेश्चान्यार्थकारिणः ॥ न नामसाध्यं बुद्धत्वं संसारेऽपि कुतः सुखम् । स्वसुखस्यान्यदुःखेन परिवर्त्तमकुर्वतः ॥ आस्तां तावत्परो लोको दृष्टोऽप्यर्थो न सिध्यति । भृत्यस्याकुर्वतः कर्म स्वामिनोऽददतो भृतिम् ॥ त्यक्त्वान्योन्यसुखोत्पादं दृष्ट्वादृष्टसुखोत्सवम् । अन्योन्यदूषणाद्घोरं दुःखं गृह्णन्ति मोहिताः ॥ उपद्रवा ये च भवन्ति लोके यावन्ति दुःखानि भयानि चैव । सर्वाणि तान्यात्मपरिग्रहेण तत्किं तव स्वात्मपरिग्रहेण ॥ आत्मानमपरित्यज्य दुःखं त्यक्तुं न शक्यते । यथाग्निमपरित्यज्य दाहस्त्यक्तुं न शक्यते ॥ तस्मात्स्वदुख शान्त्यर्थं परदुःखशमाय च । ददस्वान्येभ्य आत्मानं परान् गृह्णीष्व चात्मवत् ॥ अन्यसंबन्धितोऽस्मीति निश्चयं कुरु संमते । सर्वं सत्त्वार्थमुत्सृज्य नान्यच्चिन्त्यं त्वयाधुना ॥ सर्वमेतत्सुचरितं दानं सुगतपूजनम् । कृतं कल्पसहस्रैर्यत्प्रतिघः प्रतिहन्ति तत् ॥ (१०६) न च द्वेषसमं पापं न च क्षान्तिसमं तपः । तस्मात्क्षान्तिं प्रयत्नेन भावयेद्विविधैर्नयैः ॥ मनः शमं न गृह्णाति न प्रीतिसुखमश्रूते । न निद्रां न धृतिं द्वेसशल्ये हृदि स्थिते ॥ पूजयत्यर्थमानैर्यान्येऽपि चैनं समाश्रिताः । तेऽप्येनं हन्तुमिच्छन्ति स्वामिनं द्वेषदुर्भगम् ॥ सुहृदोऽप्युद्विजन्तेऽस्माद्ददाति चेन्न सेव्यते । संक्षेपान्नास्ति तत्किंचित्क्रोधनो येन सुस्थितः ॥ न द्विषन्तः क्षयं यान्ति दुर्जना गगनोपमाः । मारिते क्रोधचित्ते तु नश्यन्ते सर्वशत्रवः ॥ विकल्पेधनदिप्तेन जन्तुः क्रोधाग्निना किल । दहत्यात्मानमेवादौ परं धक्ष्यति वा न वा ॥ जरा रुपवतां क्रोधः तमश्चक्षुष्मतामपि । वधो धर्मार्थकामानां तस्मात्क्रोधं निवारयेत् ॥ अनिष्टकरणाज्जातमिष्टस्य च विघातनात् । कोधं यो हन्ति निर्बन्धात्स सुखीह परत्र च ॥ अत्यनिष्ठागमेनापि न क्षोभ्या मुदिता त्वया । दौर्ममनस्येऽपि नास्तीष्टं कुशलं त्ववहीयते ॥ यद्यस्त्येव प्रतीकारो दौर्मनस्येन तत्र किम् । अथ नास्ति प्रतीकारो दौर्मनस्येन तत्र किम् ॥ गुणोऽपरश्च दुःखस्य यत्सम्वेगान्मदच्युतिः । संसारिषु च कारुण्यं पापाद्भीतीर्जिने स्पृहा ॥ ये केचिदपराधास्तु पापानि विविधानि च । तत्सर्वं प्रत्ययबलात्स्वतन्त्रस्तु न विद्यते ॥ तस्मान्मित्रममित्रं वा दृष्ट्वाप्यन्यायकारिणम् । ईदृशाः प्रयया अस्येत्येवं मत्वा सुखी भव ॥ त्वत्कर्मचोदिता एव जातास्त्वय्यपकारिणः । येन यास्यन्ति नरकान् त्वयैव ते हता ननु ॥ (१०७) एतानाश्रित्य ते पापं क्षीयते क्षमता बहु । त्वामाश्रिय तु यान्त्येते नरकान् दीर्घवेदनान् ॥ त्वमेवास्यपकार्येषां तवैते चापकारिणः । मोहादिके पराध्यन्ते कुप्यन्त्यन्येऽपि मोहिताः ॥ एवं बुध्वा तु सत्त्वेषु क्षान्तिं धृत्वा शुभे चर । येन सर्वे भविष्यन्ति मैत्रचित्ताः परस्परम् ॥ स्तुतियशोऽर्थसत्कारा न पुण्या यतर्चषुष्वे । न बलार्थं न चारोग्येन च कायसुखाय ते । स्तुत्यादयश्च ते क्षेमं संवेगं नाशयन्त्यपि । गुणवत्स्वपि मात्सर्यं सम्पत्कोपं च कुर्वते ॥ तस्मात्स्तुत्यादिघाताय ये तव प्रत्युपस्थिताः । अपायपातरक्षार्थं प्रवृत्तास्तद्विषस्तव ॥ दुःखप्रवेष्टुकामस्य ये कपाटत्वमागताः । बुद्धाधिष्ठानत जाता इव द्वेषस्तेषु कथम् ॥ पुण्ये विघ्नः कृतोऽनेनेत्यत्र को यो न युज्यते । क्षान्त्या समं तपो नास्ति न त्वेतत्तदुपस्थितम् ॥ अथ त्वमात्मदोषेण न करोषि क्षमामिह । त्वयैवात्र कृतो विघ्नः पुण्यहेतावुपस्थिते ॥ न कालोपपन्नेन दानविघ्नः कृतोऽथिना । न च प्राव्राजके प्राप्ते प्रव्रज्य बिघ्न उच्यते ॥ सुलभा याचका लोके दुर्लभास्त्वपकारिणः । यतस्तेऽनपराद्धस्य न कश्चिदपराध्यति ॥ अश्रमोपार्जितस्तस्माद्गृहे निधिरिवोत्थितः ॥ बोधिचर्यासहायत्वात्स्पृहणीयस्सदा रिपुः । अपकाराशयोऽसेऽतिशत्रुर्यदि न पूज्यते ॥ अन्यथा ते कथं क्षान्तिर्भिषग्जीवहितोद्यते । तद्दुष्टाशयमेवातः प्रतीत्योत्पद्यते क्षमा । स एवातः क्षमाहेतुः पूज्यस्स धर्मवत्सदा ॥ (१०८) सत्त्वक्षेत्रं जिनक्षेत्रमित्यतो मुनिनोदितम् । एतानाराध्य बहवः सम्पत्पारं यतो गताः ॥ सत्त्वेभ्यश्च जिनेभ्यश्च बुद्धधर्मागमे समे । जिनेषु गौरवं यद्वन्न सत्त्वेष्विति कः क्रमः ॥ मैत्र्याशयस्तु यत्पूज्यः सत्त्वमाहात्म्यमेव तत् । बुद्धप्रसादाद्यत्पुत्यं बुद्धमाहात्ममेव तत् ॥ बुद्धधर्मागमांशेन तस्मात्सत्त्वा जिनैः समाः । न तु बुद्धैः समाः केचिदनन्तांशैर्गणार्णवैः ॥ गुणसारैकराशीनां गुणोऽणुरपि चेत्क्वचित् । दृश्यते तस्य पूजार्थं त्रैलोक्यमपि न क्षमम् ॥ बुद्धधर्मोदयांशश्च श्रेष्ठः सत्त्वेषु विद्यते । एतदंशानुरुपेण बुद्धपूजा कृता भवेत् ॥ किं च निश्च्छद्मबन्धूनामप्रमेयोपकारिणाम् । सत्त्वाराधनमुत्सृज्य निष्कृतिः कापरा भवेत् ॥ येषां सुखे यान्ति मुदं मुनीन्द्रा येषां व्यथायां च प्रविशन्ति मन्युम् । तत्तोषणात्सर्वमुनीन्द्रतुष्टिस्तत्रापकारेष्वकृतं मुनीनाम् ॥ आदीप्तकायस्य यथासमन्तान्न सर्वकामैरपि सौमनस्यम् । सत्त्वव्यथायामपि तद्वेदेवमप्रीत्युपायोऽस्ति दयामयानाम् ॥ आत्मीकृतं सर्वमिदं जगत्तैः कृपात्मभिर्नैव हि संशयोऽस्ति । दृश्यन्ते एते ननु सत्त्वरुपास्त एव नाथाः किमनादरोऽत्र ॥ तथागताराधनमेतदेव स्वार्थस्य संसाधनमेतदेव । लोकस्य दुःखापहमेतदेव तस्मात्तवास्तु व्रतमेतदेव ॥ आस्तां भविष्यबुद्धत्वं सत्त्वाराधनसम्भवम् । इहैव सौभाग्ययशः सौस्थित्यं किन्न पश्यसि ॥ प्रासादिकत्वमारोग्यं प्रामोद्यं चिरजीवितम् । चक्रवर्त्तिसुखं स्fईतं क्षमी प्राप्नोति संसरन् ॥ एवं क्षमो भजेद्वीर्यं वीर्यं बोधिर्यतः स्थिता । न हि वीर्यं विना पुण्यं यथा वायुं विन गतिः ॥ (१०९) वीर्यं हि सर्वगुणरत्ननिधानभूतं सर्वापदस्तरति वीर्यमहाप्लवेन । नैवास्ति तज्जगति वस्तु विचिन्त्यमानं नाप्नुयाद्यदिह वीर्यरथाधिरुढः ॥ युद्धेषु यकरितुरंगपदातिमत्सु नाराचतोमरपरश्वधसंकुलेषु । हत्वा रिपून् जयमनुत्तममाप्नुवन्ति विष्णुर्जितं तदह वीर्यमहाहटस्य ॥ अम्भोनिधीन्मकरवृन्दविघट्टिताबुतुंगाकुलाकुलतंरगविभंगभीमान् । विर्येण गोष्पदमिव प्रविलंघ्य शूराः कुर्वन्त्यनर्घगुणरत्नधनार्जनानि ॥ रागादीनूरगानिवोग्रवपुषो विष्टभ्य धैर्यान्विताः । शीलं सज्जनचित्तनिर्मलतरं सम्यक्तमादापयेत् ॥ मर्त्याः कान्ततरेषु मेरुशिखरोपान्तेषु वीर्यान्विताः । मोदन्ते सुरसुन्दरीभुजलतापाशोपगुढाश्चिरम् ॥ यद्देवो वियति विमान्बवासिनो ये निर्द्वन्द्वाः समनुभवन्ति सौमनस्यम् । अत्यन्तं विपुलfअलप्रसूतिहेतो वीर्यस्थिरविहितस्य सा विभूतिः ॥ क्लेशारिवर्गं त्वभिभूय धीराः संबोधिलक्ष्मीपदमाप्नुवन्ति । बोध्यंगदानं प्रदिशन्ति सद्भ्यो ध्यानं हि तत्र प्रवदन्ति हेतुम् ॥ जन्मप्रबन्धकरणैकनिमित्तभूतान् राजादिदोषनिचयान् विदार्य सर्वान् । आकाशतुल्यमनसः समलोष्टहेमाध्यानाद्भवन्ति मनुजा गुणहेतुभूताः ॥ प्रज्ञाधनेन विकलं तु नरस्य रुपमालेख्य रुपमिव सारविहीनमन्तः । बुद्धयान्वितस्य fअलमिष्टमुदेति वीर्याद्वीर्यन्तु बुद्धिरहितं स्ववधायशत्रुः ॥ यद्बुद्धो मर्त्यलोके मलतिमिरगणं दारयित्वा महान्तम् । ज्ञानालोकं करोति प्रहरति च सदा दोषवृन्दं नराणाम् ॥ आदेष्ट्य चेन्द्रियाणां परमनुजमनो वेत्ति सर्वैः प्रकारैः । प्रज्ञां तत्रापि नित्यं शुभवरजननीं हेतुमत्कीर्तयन्ति ॥ कार्यार्णवे वापि दृढं निमग्नाः संग्राममध्ये मनुजाः प्रधानाः । प्रज्ञावशात्ते विजयं लभन्ते प्रज्ञा ह्यतः सा शुभहेतुभूता ॥ तस्मात्सर्वगुणार्थसाधनकरी प्रज्ञैव संवर्ध्यताम् । न प्रज्ञा विकला विभान्ति पुरुषाः प्राताःप्रदीपा इव ॥ स्वर्गापवर्गगुणरत्ननिधानभूता एताः षडेव भुवि पारमिता नराणाम् । ज्ञात्वा भवस्व हितसाधनतत्परस्त्वं कुर्या अतः सततमेव शुभे प्रयत्नम् ॥ (११०) सद्धर्मसाधनं कायमितरार्थं न पीडयेः । एवं बुध्वा हि सत्त्वानामाशामाशु प्रपूरयेः ॥ आचारो बोधिसत्त्वानामप्रमेय उदाहृतः । चित्तशोधनमाचारं नियतं तावदाचर ॥ या अवस्थाः प्रपद्यन्ते स्वयं परवशोऽपि वा । तास्ववस्थासु याः शिक्षाः शिक्षेत्ता एव यत्नतः ॥ न ही तद्विद्यते किंचिद्यन्न शिक्ष्यं जिनात्मजैः । न तदस्ति न यत्पुण्यमेवं विहरतः सतः ॥ पारम्पर्येण साक्षाद्वा सत्त्वार्थात्मान् सदा चर । सत्त्वानामेव चार्थाय सर्वं बोधाय नामय ॥ सदाकल्याणमित्रं च जीवितार्थेऽपि मा त्यज । बोधिसत्त्वव्रतधरं महायानार्थकोविदम् ॥ इत्येवं लोकनाथेन समादिष्टं निशम्य सः । बलिरश्रुविरुक्षास्यो रुदित्वा चैवमबव्रीत् ॥ आकृतं किं मया नाथ यज्ञं तीर्थिकसम्मतम् । यस्येह fअलं भुंजानो वसाम्यत्र जनैः सह ॥ त्राहि मां भगवन्नथ पापिनं मूढमानसम् । सजनोऽहं सदा शास्तर्भवतां शरणं व्रजे ॥ नमोऽस्तु बोधिसत्त्वाय शुभपद्मधराय ते । पद्मश्रीभूषितांगाय जटामकुटधारिणे ॥ जिनराजशिरस्काय सत्त्वाश्वासप्रदाय च । हीनदीनानुकम्पाय दिनकृद्वरचक्षुषे ॥ पृथिवीवरनेत्राय भैषज्यराजकाय च । सुशुद्धसत्त्वनाथाय परमयोगधारिणे ॥ मोक्षप्रवरधर्माय मोक्षमार्गोपदर्शिने । चिन्तामणिप्रभासाय धर्मगंजाभिपालिने ॥ षण्णां पारमितानां च निर्देशनकराय च । बोधिमार्गोपदिष्टाय सुचेतनकराय च ॥ (१११) एवं स्तुत्वा स दैत्येन्द्रो लोकनाथं तमीश्वरम् । सांजलिर्मुदितो नत्वा पुनरेवमभाषत ॥ रक्ष मां दुर्मतिं नाथ समुद्धर भवोदधेः । बोधिमार्गे प्रतिष्ठाप्य नियोजय शुभे वृषे ॥ अद्यारभ्य सदा नाथ त्रिरत्नशरणं गतः । बोधिचर्याव्रतं धृत्वा संचरेयं जगद्धिते ॥ सर्वदिक्षु स्थितान्नाथान् संबुद्धांश्च मुनीश्वरान् । कृतांजलिः सदा स्मृत्वा नमामि शरणे स्थितः ॥ यच्च धर्मं जिनैः सर्वैः समादिष्टं जगद्धिते । तत्सद्धर्ममहं धृत्वा संचरिष्ये सदा शुभे ॥ सर्वाल्लोकधिपान्नाथान् बोधिसत्त्वान् जिनात्मजान् । तानप्यहं सदा स्मृत्वा भजानि शरणे स्थितः ॥ एवं तद्भजनं कृत्वा यन्मया साधितं शुभम् । तेन स्यां सर्वसत्त्वानां सर्वदुःखप्रशान्तिकृत् ॥ ग्लानानामस्मि भैअज्यं भवेयं वैद्य एव च । तदुपस्थायकश्चापि यावद्रोगी पुनर्भवे ॥ क्षुत्पिपाअसाव्यथां हन्यामन्नपानप्रवर्षणैः । दुर्भिक्षान्तरकल्पेषु भवेयं पानभोजनम् ॥ दरिद्राणां च सत्त्वानां निधिः स्यामहमक्षयः । नानोपकरणाकारैरुपतिष्ठेयमग्रतः ॥ आत्मभावांस्तथा भोगन् सर्वं त्र्यध्वगतं शुभम् । निरपेक्षस्त्यजाम्येष सर्वसत्त्वार्थसिद्धये ॥ सर्वत्यागश्च निर्वाणं निर्वानार्थि च मे मनः । त्यक्तव्यं चेन्मया सर्वं वरं सत्त्वेषु दीयते ॥ यथासुखीकृतश्चात्मा कर्तव्यो जयतां मया । घ्नन्तु निन्दन्तु वा नित्यमाकिरन्तु च पांशुभिः ॥ क्रीडन्तु मम कायेन हसन्तु विलसन्तु च । दत्तस्तेभ्यो मया कायश्चिन्तया किं ममान्यथा ॥ (११२) कारयन्तु च कर्माणि यानि तेषां सुखावहे । अनर्थः कस्यचिन्मा भून्मामालम्ब्य कदाचन ॥ येषां क्रुद्धा प्रसन्ना वा मामालम्ब्य मतिर्भवेत् । स एव तेषां हेतुः स्यान्नित्यं सर्वार्थसिद्धये ॥ अत्याख्यास्यन्ति मां ये च ये चान्येऽप्यपकारिणः । उत्प्रासकास्तथान्ये वा सर्वे स्युर्बोधिभागिनः ॥ अनाथानामहं नाथः सार्थर्वाहश्च जायिनाम् । पारेप्सुनां च नौभूतः सेतुः संक्रम एव च ॥ दीपार्थिनामहं दीपः शय्या शय्यार्थिनामहम् । दासार्थिनामहं दासो भवेयं सर्वदेहिनाम् ॥ चिन्तामणिर्भद्रधटः सिद्धविद्यामहौषधिः । भवेयं कल्पवृक्षश्च कामधेनुश्च देहिनाम् ॥ पृथिव्यादीइनि भूतानि निःशेषाकाशवासिनाम् । सत्त्वानामप्रमेयाणां यथाभोओग्यन्यनेकधा ॥ एवमाकाशनिष्ठस्य सत्त्वधातोरनेकधा । भवेयमुपजीव्योऽहं यावत्सर्वे न निर्वृताः ॥ यथा गृहितं सुगतैर्बोधिचित्तं पुरातनैः । ते बोधिसत्त्वशिक्षायामानुपूर्व्या यथास्थिताः ॥ तद्वदुत्पादयाम्येष बोधिचित्तं जगद्धिते । तद्वदेव च ताः शिक्षाः शिक्षिस्यामि यथाक्रमम् ॥ अद्य मे सfअलं जन्म सुलब्धाः सारसंपदः । अद्य बुद्धकुले जातो बुद्धपत्रोऽस्मि साम्प्रतम् ॥ तथाधुना मया कार्यं स्वकुलोचितकारिणा । निर्मलस्य कुलेऽस्यास्य कलंको न भवेद्यथा ॥ अन्धः सत्कालकूटेभ्यो यथाअ रत्नमवाप्नुयात् । तथा कंखचिदप्येतद्बोधिचित्तं ममोदितम् ॥ जगन्मृत्युविनाशाय जातमेतद्रसायनम् । जगद्दारिद्रयशमनं निधानमिदमक्षयम् ॥ (११३) जगद्व्याधिप्रशमनं भैषज्यमिदमुत्तमम् । भवाब्धभ्रमणश्रान्तजगद्विश्रामपादपः ॥ दुर्गत्युत्तरणे सेतुः सामान्यः सर्वपापिनाम् । जगत्क्लेशोष्मशमन उदितश्चित्तचन्द्रमाः ॥ जगदज्ञानतिमिरप्रोत्सारणमहारबिः । सद्धर्मक्षीरमथनान्नवनीतं समुत्थितम् ॥ सुखभोगबुभुक्षितस्य वा जनसार्थस्य भवाब्धचारिणः । सुखस्त्रमिदं ह्युपस्थितं सकलाभ्यागतसत्त्वतर्पणम् ॥ जगदद्य मया निमन्त्रितं सुगतत्वेन सुखेन चान्तरा । पुरतः खलु सर्वतायिनामभिनन्दन्तु सुरासुरादयः ॥ तस्मान्मया यज्जनदुःखदेन दुःखं कृतं सर्वमहाकृपानाम् । तदद्य पापं प्रतिदेशयामि यत्खेदितास्तन्मुनयः क्षमन्ताम् ॥ आराधना याद्य तथागतानां सर्वात्मन दासमुपैमि लोके । कुर्वन्तु मे मूर्ध्नि पदं जनौघा निघ्नन्तु वा तुष्यतु लोकनाथः ॥ त्वामेवाहमृषिं व्रजामि शरणं प्राणैरपि प्राणिनाम् एकं बान्धवमेकेव सुहदं शास्तारमेकं गुरुम् । त्रानं त्रैभुवार्त्तिगह्वरदरीव्यावर्त्तिनां प्राणिनाम् आचार्यं परमर्थतत्त्वविषये भूतार्थनाथं विभुम् ॥ मन्ये पूतमिवात्मभावमधुना शास्तुः प्रणामोद्भवैः पुण्यम्भोभिरखण्डमण्डलशशिज्योत्स्नावली निर्मलैः । को वा त्वं प्रणिपत्य सान्द्रकरुणां प्रह्लादिताध्याशयं तीव्रापायवतीं विषादनकरीं तीर्णां न दुःखापगाम् ॥ स्वाभिप्रायमतो ब्रवीमि सकलं संसारमप्युत्सहे वस्तुं भीमभयानके लोकेश्वरालंकृते । न त्वेवैकपि क्षणं सुरपुरे संबुद्धशून्ये जगत्य् उद्वृत्तक्षतवृत्तराक्षसगणव्यालुप्तपुण्योत्सवे ॥ तद्यावन्न पतति सर्व एव लोको दुर्दृष्टिव्रतविवृते प्रमादकूपे सर्वज्ञप्रवचनभास्करे गतेऽस्तं तत्तावद्वचनरसायनैर्निषेव्यम् । (११४) पापाभ्यासकलंकितान्यपि यतः कल्याणमित्राश्रयात् तोयानीव घनात्यये विमलतां चेतांसि गच्छन्त्यतः । सम्यक्मित्रसमागमोत्सवसुखान्याश्रित्य तस्मात्सदा सेव्याः सत्पुरुषा निरत्ययगुणश्रीसम्पदं वांछता । एवं विनिश्चित्य करोमि यत्नं यथोक्तशिक्षाप्रतिपत्तिहेतोः वैद्योपदेशाच्चलतः कुतोऽस्ति भैषज्यसाध्यस्य निरामयत्वम् ॥ इति तेनासुरेन्द्रेण समाख्यातं निशम्य सः । लोकेश्वरः समालोक्य तं बलिं चैवमब्रवीत् ॥ साधु साधु महाराज यद्येवं व्रतमिच्छसि । तावच्चित्तं समाधाय शिक्षां रक्ष प्रयत्नतः ॥ शिक्षां रक्षितुकामेन चित्त रक्षयं प्रयत्नतः । न शिक्षा रक्षितुं शक्या चलं चित्तमरक्षता ॥ अदान्ता मत्तमातंगा न कुर्वन्तीह तां व्यथाम् । करोति यामवीच्यादौ मुक्तश्चित्तमतंगजः ॥ बद्धश्चेच्चित्तमातंगः स्मृतिरज्ज्वा समन्ततः । भयमस्तं गतं सर्वं सर्वं कल्याणमागतम् ॥ व्याघ्राः सिहां गजा ऋक्षाः सर्पाः सर्वे च शत्रवः । सर्वे नरकपालाश्च डाकिन्यो राक्षसास्तथा ॥ सर्वे बद्धा भवन्त्येते चित्तस्यैकस्य बन्धनात् । चित्तस्यैकस्य दमनात्सर्वे दान्ता भवन्त्यपि ॥ यस्माद्भयानि सर्वाणि दुःखानि विविधान्यपि । चित्तादेव भवन्तीति प्रोक्तं सर्वमुनीश्वरैः ॥ तस्माच्चित्तं समाधाय स्मृत्वा रक्षन् प्रयत्नतः । चित्तादेव हि सर्वत्र भयं भद्रं च जायते ॥ शस्त्राणि नरके केन घट्टितानि प्रयत्नतः । तप्तायःकुट्टिमं केन कुतो जाताश्च ता स्त्रियः ॥ पापचित्तसमुद्भूतं तं तु सर्वं जगुर्जिनाः । तस्मात्कश्चिन्न त्रैलोक्ये चित्तादन्यो भयानकः ॥ (११५) अद्ररिद्रं जगत्कृता दानपारमिता यदि । जगद्दरिद्रमद्यापि सा कथं पूर्वतायिनाम् ॥ फलेन सह सर्वस्वत्यागचित्ते जनेऽखिले । दानपारमिता प्रोक्ता तस्मात्सा चित्तमेव हि ॥ मत्स्यादयः क्व नीयन्तां मारयेयुर्यतो नतान् । लब्धे विरतिचित्ते तु शीलपारमिता मता ॥ कियतो मारयिष्यामि दुर्जनान् गगनोपमान् । मारिते क्रोधचित्ते तु मारिताः सर्वशत्रवः ॥ भूमिं छादयितुं सर्वां कुतः चर्म भविष्यति । उपानच्चर्ममात्रेण छन्ना भवति मेदिनी ॥ बाह्या भावास्तथा सर्वा न शक्या वारयितुं क्वचित् । स्वचित्तमेव निवार्य किमेवान्यैर्निवारितैः ॥ सहापि वा च्छरीलाभ्यां मन्दवृत्तेन तत्fअलम् । यत्पटोरेककस्यापि चित्तस्य ब्रह्मतादिकम् ॥ जपास्तपांसि सर्वाणि दीर्घकालकृतान्यपि । अन्यचित्तेन मन्देन वृथैवेत्याह सर्ववित् ॥ दुःखं हन्तुं सुखं प्राप्तुं भ्रमन्ति ते मुधाम्बरे । यैश्चैतद्धर्मसर्वस्वं चित्तगुह्यं न भावितम् ॥ तस्मात्स्वाधिष्ठितं चित्तं सदा कार्यं सुरक्षितम् । चित्तरक्षाव्रतं मुक्त्वा किमन्यैर्बहुभिर्व्रतैः ॥ यथा चपलमध्यस्थो रक्षति व्रणमादरात् । एवं दुर्जनमध्यस्थो रक्षेश्चित्तव्रणं सदा ॥ लाभा नश्यन्तु ते कामं सत्कारः कायजीवितम् । नश्यत्वन्यच्च कुशलं मा तु चित्तं कदाचन ॥ असंप्रजन्यचित्तस्य श्रुतचिन्ततभावितम् । सछिद्रकुम्भजलवन्न स्मृताववतिष्ठते ॥ अनेके श्रुतवन्तोऽपि श्रद्धायत्नपरा अपि । असंप्रजन्यदोषेन भवन्त्यापत्तिकश्मलाः ॥ (११६) असंप्रजन्यचौरेण स्मृतिमोषानुसारिणः । उपचित्यापि पुण्यानि मुषिता यान्ति दुर्गतिम् ॥ क्लेशतस्करसंघोऽयमवतारगवेषकः । प्राप्यावतारं मुष्णाति हन्ति सद्गतिजीवितम् ॥ तस्मात्स्मृतिर्मनोद्वारान्नापनेया कदाचन । गतापि प्रत्युपस्थाप्या संस्मृत्वा पापिकीं व्यथाम् ॥ बुद्धाश्च बोधिसत्त्वाश्च सर्वत्राव्याहतक्षणाः । सर्वमेवाग्रतस्तेषामहं चापि पुरःस्थितः ॥ इति ध्यात्वा तथा तिष्ठन् त्रपादरभ्यान्वितः । बुद्धानुस्मृतिरप्येव भवेत्तव मुहुर्मुहुः ॥ संप्रजन्यं तदायाति नैव यात्यागतं पुनः । स्मृतिर्यदा मनोद्वारे रक्षार्थमवतिष्ठते ॥ इत्येवं त्वं महाराज बोधिचर्याव्रतं चर । त्रिरत्नं शरणं कृत्वा भज नित्यमनुस्मरन् ॥ एतत्पुण्यविपाकेन परिशुद्धत्रिमण्डलः । बोधिसत्त्वो महासत्त्वो महाभिज्ञो भवेद्ध्रुवम् ॥ ततः पारमित्ताः सर्वाः पूरयित्वा यथाक्रमम् । दुष्टमारान् विनिर्जित्य सद्धर्मगुणराड्भवेह् ॥ सद्धर्मश्रीगुणाधारः सर्वसत्त्वहितार्थभृत् । षडक्षरीमहाविद्यां प्राप्य भवेः समृद्धिमान् ॥ ततो मारगणान् सर्वान् जित्वार्हद्विजितेन्द्रियः । प्राज्ञः सम्बोधिमासाद्य सम्बुद्धपदमाप्नुत्याः ॥ तदा त्वमसुरेन्द्रश्रीनार्म तथागतो जिनः । धर्मराजो जगन्नाथः सर्वज्ञोर्हन्मुनीश्वरः ॥ सर्वविद्याधिपः शास्ता महाभिज्ञो विनायकः । समन्तभद्रकृच्छ्रीमान् गुणाकरो भविष्यसि ॥ इमे सर्वे सुरास्तत्र श्रावकास्ते जितेन्द्रियाः । निःक्लेशा विमलात्मानो भविष्यन्ति शुभंकराः ॥ (११७) तदा तव मुनीन्द्रस्य बुद्धक्षत्रे समन्ततः । क्लेशानां समुदाचारा भविष्यन्ति कदापि न ॥ इत्येवं त्वं परिज्ञाय समाधायासुराधिप । बोधिचर्याव्रतं धृत्वा संचरस्व जगद्धिते ॥ बोधिचर्यासमुद्भूतं पुण्यं नैव क्षिणोत्यपि । सदापि सत्fअलं दद्याद्यावत्संबोधिनिर्वृतिम् ॥ बोद्धिचर्याद्भवं पुण्यं सर्वैरपि मुनीश्वरैः । प्रमातुं शक्यते नैव मयैकेन कथं खलु ॥ तस्मात्सर्वप्रयत्नेन विरम्य क्लेशसंगतेः । त्रिरत्नभजनं कृत्वा बोधिचर्याव्रतं चर ॥ यद्येवं चरसे राजन् क्वापि न दुर्गतिं व्रजेः । सदा सद्गतिसंजातो बोधिसत्त्वः समृद्धिमान् ॥ स्वपरात्महितं कृत्वा भुक्त्वा सौख्यं सदा भवेः । सद्धर्मश्रीगुणापन्नसत्सौक्याभिनन्दितः ॥ अन्ते गत्वा सुखावत्याममिताभं जिनेश्वरम् । संपश्यंश्च्छरणं गत्वा भजिष्यसि सदादरात् ॥ तत्सद्धर्मामृतं पीत्वा संबुद्धश्रीगुणालयः । संबुद्धपदमासाद्य सुनिर्वृतिमवाप्स्यति ॥ इत्यादिष्टं जगच्छास्त्रा लोकेश्वरेण सद्धिया । श्रुत्वा सोऽसुरेन्द्रोऽपि मुमोद बोधिसाधने ॥ अथ बलिः स दैत्येन्द्रस्तं लोकाधिपतीश्वरम् । महाराजर्द्धिसत्कारैः समार्चयत्प्रमोदितः ॥ ततः पादाम्बुजे नत्वा सांजलिः संप्रसादितः । संबोधिप्रणिधिं धृत्वा पुनरेवमभाषत ॥ अहो गुणमयं क्षेत्रं सर्वदोषविवर्जितम् । यत्राद्य रोपितं बीजमद्य संपद्यते fअलम् ॥ यावत्र प्राणिनः सर्वे बोधिसत्त्वा भवन्त्यपि । तावत्सत्त्वहितार्थाय चरेऽहं बोधिसंवरम् ॥ (११८) उत्पादयामि संबोधौ चित्तं नाथ जगद्धिते । निमन्त्रये जगत्सर्वं दारिद्रयान्मोचयामि तत् । व्यापादाखिलचित्तं तदीर्ष्यामात्सर्यदुर्मतिम् । नाद्याग्रेण धरिष्यामि यावन्नाप्स्यामि निर्वृतिम् ॥ ब्रह्मचर्यं चरिष्यामि कायान्स्त्यक्ष्यामि पापकान् । बुद्धानामनुशिक्ष्येऽहं शीलसंयमसंवरम् ॥ नोऽहं त्वरितरुपेण बोधिं प्राप्तुं समुत्सहे । भवान्तकोटिमिच्छामि स्थातुं सत्त्वस्य कारणाम् ॥ क्षेत्रान् विशोधयिष्यामि चाप्रमेयान् समन्ततः । नामधेयं करिष्यामि दशसु दिक्षु विश्रुतम् ॥ कायवाचोमनस्कर्म शोधयिष्यामि सर्वथा । बोधिमार्गे प्रतिष्ठाप्य चारयिष्ये जगच्छुभे ॥ त्रिरत्नभजनं कृत्वा यावत्र निर्वृतिं गतः । बोधिचर्याव्रतं धृत्वा करिष्यामि जगद्धितम् ॥ इति मे निश्चयं शास्तस्तद्भवान् संप्रसीदतु । भवत्प्रसादमासाद्य बोधिसत्त्वोऽस्मि साम्प्रतम् ॥ इति तदुक्तमाकर्ण्य लोकेश्वरः प्रसादितः । तं बलिं बोधितं पश्यन् पुनरेवमुपादिशत् ॥ यद्येवं ते मनो बोधिचर्याव्रते सुनिश्चितम् । हितार्थं ते प्रवक्ष्यामि तच्छृणुष्व समाहितः ॥ यस्य पुण्येऽभिलाषोऽस्ति तेन पूज्या जिनास्सदा । तेन संलभ्यते पुण्यं संबोधिगुणसाधनम् ॥ यस्य ज्ञाने रुचिस्तेन श्रोतव्यं योगमुत्तमम् । ततः संप्राप्यते ज्ञानं संबोधिपदसाधनम् ॥ यस्य भोग्ये रुचिस्तेन कर्तव्यं दानमीप्सितम् । ततोऽभिवांछितं भोग्यं प्राप्यते श्रीगुणान्वितम् ॥ यस्य स्वर्गेऽभिलाषोऽस्ति सुशीलं तेन धार्यताम् । ततो दिव्यमहत्सौख्यं लभ्यते श्रीगुणास्पदम् ॥ (११९) प्रतिभाणार्थिकेनापि कर्तव्यं गुरुगौरवम् । तेन संप्राप्यते नूनं प्रतिभाणं महत्तरम् ॥ संधारणार्थिकेनापि भावनीया निरात्मता । तेनाभिलभ्यते मुक्तिर्भवचारणबन्धनात् ॥ सुखार्थिकेन त्यक्तव्या पातकाभिरतिर्मतिः । तेन संलभ्यते सौख्यं सुभद्रं निरुपद्रवम् ॥ सत्त्वहितार्थिकेनापि धर्तव्यं बोधिमानसम् । तेन सत्त्वहितं कृत्वा प्राप्यते बोधिरुत्तमा ॥ मंजुस्वरार्थिकेनापि वक्तव्यं सत्यमेव हि । तेन मंजुस्वरो सत्यवादी भवति सन्मतिः ॥ शुद्धगुणार्थिकेनापि सेवितव्यः सुसद्गुरुः । तेन सद्गुणसंपत्तिश्रीसमृद्धो भवत्यपि ॥ शमथे रुच्यते तेन कार्या सत्संगचारणा । विपश्यनार्थिकेनापि प्रत्यवेक्ष्यात्मशून्यता ॥ तथा हि सर्वदोषाणाअं व्युओपशन्तिर्भवेद्भवे ॥ ब्रह्मलोकार्थिकेनापि धार्या ब्रह्मविहारिता । तया ब्रह्म समासाद्य परा गतिरवाप्यते ॥ नृदेवश्र्यर्थिकेनापि धर्तव्यं दशकौशलम् । तेन सुरेन्द्रसम्पत्तित्वम्छ्रीः संप्राप्यते ध्रुवम् ॥ सुनिर्वाणार्थिकेनापि कार्यं ज्ञानभियोजनम् । तेनेव सकलान्मारान् जित्वा संबोधिमाप्नुयात् ॥ बोधिगुणार्थिकेनापि सेवितव्यं त्रिरत्नकम् । तेन बोधिमतिं प्राप्य निर्वृतिपदमाप्नुयात् ॥ एवं विज्ञाय दैत्येन्द्र सद्धर्मसुखसाधनम् । मया ते हितमाख्यातं बुध्वा धर्तुं यदीच्छसि ॥ विरम्य तीर्थिकासंगात्त्रिरत्नशरणं गतः । बोधिचर्याव्रतं धृत्वा संचरस्व जगद्धिते ॥ एवं कृत्वासुरेन्द्र त्वं बोधिसत्त्वो जिनात्मजः । महासत्त्वो महाभिज्ञो सर्वलोकाधिपो भवेः ॥ (१२०) एवं यो चरते नात्र क्लेशव्याकुलिताशयः । मारचर्यागुणसक्तोऽसत्पथे संचरिष्यते ॥ ततोऽतिक्लेशितात्मा स दशाकुशलसंरतः । भूयोऽतिपातके घोरे निर्विशंकश्चरिष्यति ॥ ततोऽतिदुरितात्मा स दारुणदुःखतापितः । दुःसहक्लेशरागाग्निदग्धांगः परितप्यते ॥ तदा तस्य सुहतत्राता कश्चिदेकोऽपि नैव हि । तथातिचिररोगार्त्तः कृच्छ्रेण स मरिष्यत ॥ ततः स यमदूतेन बध्वा संतर्ज्य नेष्यते । तत्र पश्यन् स सर्वत्र सर्वान् दुष्टान् भयंकरान् ॥ पश्येद्वृक्षान् प्रदीप्ताग्निज्वालामालातिभीषणान् । पूयशोणितसंपूर्णां भीमां वैतरणीं नदिम् ॥ तान् दृष्ट्वा स परित्रस्तो विकलो दीनमानसः । विमोहितो विषण्णात्मा तिष्ठेत्त्रासविषार्दितः ॥ ततस्ते यमदूतास्तं कालपाशैर्निबध्य च । क्षुरधारोचिते मार्गे क्रामयेयुर्बलाद्द्रुतम् ॥ तत्पादशीर्णमांसानि काकगृध्रोलूकादयः । पक्षिणः श्वशृगालाश्च भक्षेयु रुधिराण्यपि ॥ पुनेरेवं समुद्भूतो भविष्यतो विशीर्णितो । एवं स महतीं प्रत्यनुभवेन्नरके व्यथाम् ॥ ततोऽवतार्य भूयस्तं बध्वा ते यमकिंकराः । तीक्ष्णकण्टाचित्ते मार्गे क्रामयेयुरितस्ततः ॥ एकैकांघ्रितले तस्य पंचपंचशतान्यपि । कण्टकान्यतितीक्ष्णानि प्रवेक्ष्यन्ति समन्ततः ॥ तत्र स चंक्रमाशक्तातत्तीव्रवेदनार्दितः । किं मया प्रकृतं पापमित्युक्त्वाभिरुदनक्रमेत् ॥ तच्छ्रुत्वा यमदूतास्ते रक्ताक्षा भीइषणननाः । ततोऽवतार्य तं दुष्टं वदेयुरेवेमग्रतः ॥ (१२१) अरे पापिन किमत्रैवमिदानीमनुशोचसे । अवश्यं यत्कृतं कर्म भोग्यमेव हि तत्fअलम् ॥ यत्त्वया प्रकृतं पापं तत्fअलं भुक्तमत्र हि । यदि न प्रकृतं पापं भुंज्यानैवात्र तत्fअलम् ॥ धर्मस्ते विद्यते नैव तत्त्राता नात्र कश्चन । धर्म एव सुहत्त्राता सर्वेषां भवचारिणाम् ॥ यत्त्वय कामरक्तेन विलंघ्य सद्गुरोर्वचः । असन्मित्रानुरागेण प्रकृतं पातकं बहु ॥ हत्वापि प्राणिनोऽनेका भुक्तास्त्वया प्रमोदिना । अदत्तमपि चाहृत्य भुक्तं द्रव्यं त्वया बलात् ॥ अधर्मरतिरोगेण भुक्ताश्चापि परयियः । यशोजीवितद्रव्यार्थे प्रभाषितं मृषा वचः ॥ पैशुन्यवचसा भेदं सुहृदां च कृतं त्वया । लोके भिन्नप्रलापेन प्रकृतं वैरविग्रहम् ॥ पारुष्यवचसाक्रुष्य सन्तोऽपि परिभाषिताः । परस्वविषये लोभात्तृष्णाक्लिष्टं मनस्तव ॥ साधूनामर्हतां चापि व्यापादमपि चिन्तितम् । मिथ्यादृष्टिप्रमादेन स्वपरात्माहितं कृतम् ॥ एवं नानाविधानेन क्लेशाभिमानिना त्वया । प्रभुक्त्वैव यथाकामं संचरित्वा यथेच्छया । साधितं पापमेवैवं धर्मं किंचिन्न साधितम् ॥ भुक्त्वैव केवलं भोग्यं यथाकामं प्रमोदिना । क्रीडीत्वा पशुनेवैवं दु&॰६१७६८;ख हेतु त्वयार्जितम् ॥ सद्धर्मसाधनं चित्तमुत्साहितं न ते क्वचित् । तेनात्रैवं महद्दुखं त्वया दुरात्मना ॥ नापि किंचित्त्वया दत्तमर्थिभ्यः द्रव्यमीप्सितम् । दृष्ट्वापि परदेहानि मनस्ते रोषदूषितम् ॥ (१२२) शीलं ते विद्यते नैव किंचिदपि च संयमे । क्षान्तिर्न भाविता नैव सत्त्वेषु दुःखितेष्वपि ॥ न कृतं शासने बोउद्धे सत्कारभजनोत्सवम् । त्रिरत्नस्मरणं कृत्वा ध्यानं नापि जगद्धितम् ॥ प्रज्ञापि साधिता नैव सद्धर्मगुणसाधनी । त्रिरत्नस्तूपबिम्बानां दृष्ट्वापि नानुमोदितम् । सत्कारं भजनं नैव किंचिदपि कृतं त्वया ॥ प्रदक्षिणानि कृत्वापि वन्दिप्वापि कदाचन । स्मृत्वा नाम गृहीत्वापि न हि संसाधितं शुभम् ॥ सद्धर्मभाषितं क्वापि श्रुतं त्वया कदापि न । सांघिकानां च सत्कारं कृतं नापि कदाचन ॥ धर्मगण्डीनिनादं च श्रुतं त्वया कदापि न । किंचिदपि न ते धर्मे मनोऽभिलषते क्वचित् ॥ तेनात्र दारुणं दुःखं त्वयाप्तं साम्प्रतं ध्रुवम् । येनैव यत्कृतं कर्म तेनैव भुज्यते fअलम् ॥ इति तैर्गदितं श्रुत्वा स पापी परितापितः । तेषां पुरो रुदन्नैवं ब्रूयाच्च निःश्वसन् शनैः ॥ अश्राद्धोऽहं तदा धर्मे त्रिरत्नगुणनिःस्पृहः । असन्मित्रोपदेशेन प्रारमन्दुरिते सदा ॥ तद्भवद्भिः कृपाबुद्धया क्षन्तव्या मेऽपराधता । रक्षितव्याहमात्रापि युष्माभिरपि सर्वथा ॥ इति तत्प्रार्थितं श्रुत्वा सर्वे ते यमकिंकराः । तं बध्वा यमराजस्य पुरतः सहसा नयेत् ॥ तं दृष्ट्वा यमराजोऽपि समुपानीतमग्रतः । तान् सर्वान् किन्नरान् पश्यन् सहसैवमुपादिशेत् ॥ किमत्र मे उपानीतः पापिष्ठोऽयं हि दुर्मतिः । यदस्य पापिनो द्रष्टुमपि नेच्छाम्यहं मुखम् ॥ गच्छतैवं निबध्वापि दर्शयत स्वकर्मताम् । यत्र कर्मfअलं भोग्यं तत्रैनं नयत द्रुतम् ॥ (१२३) इति राज्ञा समादिष्टं श्रुत्वा ते यमकिन्नराः । तं बध्वा सहसा नीत्वा कालसूत्रेऽतिदारुणे । क्षिप्त्वा शक्तिशतैः काये प्रहरेयुरनेकधा ॥ तथा स विध्यमानोऽपि शक्तिशतैरनेकधा । दुःसहवेदनां भुक्त्वा जीवन्नैव त्यजेदसून् ॥ तथापि तं महादुष्टं जीवन्तं तं समीक्ष्य ते । बध्वा चाग्निखदामध्ये क्षिप्त्वा कुर्युर्विदाहितम् ॥ तथापि जीवितो नैव त्यजेत्प्राणं स किल्विषी । सर्वांगदग्धितश्चापि तिष्ठेत्प्रश्वस्य मोहितः ॥ तथापि तममुक्तासुं दृष्ट्वा ते यमकिंकराः । क्षिप्त्वा तस्य मुखे तप्तं भक्षयेयुरयोगुडम् ॥ तेन तस्य मुखमोष्ठौ जिह्वा दन्ता च कण्ठकम् । हदयमन्त्रगुणा दग्धा सर्वांगोऽप्यभिधक्ष्यते ॥ ततो निदग्धकायोऽसौ पापी त्यक्त्वा तदाश्रयम् । अन्यत्र नरके जन्म लब्ध्वैवं दुःखमाप्स्यते ॥ एवमेव महाराज दशाकुशलचारिणः । सर्वे ते पापिनो दुष्टा भुंजन्ते नरके व्यथाम् ॥ कश्चित्त्राता तदा तेषां नास्त्येव तत्र नारके । यावन्न क्षीयते कर्म तावद्दुःखं समन्ततः ॥ पुण्यमेव सुहृत्त्राता सर्वभवचारिणः । पापिनो नरकासीनाः स्वर्गासीना हि पुण्यिनः ॥ तस्माद्राजन्विदित्वैवं संसारभद्रवांछिभिः । दुःखं हन्तुं सुखं प्राप्तुं कर्तव्यं पुण्यमेव हि ॥ पुण्येन जायते क्वापि दुर्गतौ न कदाचन । सदा सद्गतिसंजाता भवन्ति श्रीगुणालयाः ॥ पुण्यवांल्लक्ष्मीमांछ्रीमान् गुणवान् बुद्धिमान् कृती । सर्वविद्याकलाभिज्ञः सर्वसत्त्वार्थभृद्भवेत् ॥ सुशीलो संयमी धीरः क्षान्तिमान् वीर्यवान् बली । समाधिगुणवान् प्राज्ञः सर्वधर्माधिपो भवेत् ॥ (१२४) बोधिचित्तमपि प्राप्य सर्वसात्त्वहितार्थभृत् । बोधिसत्त्वो महासत्त्वः संबुद्धगुणसाधकः ॥ बोधिचर्याव्रतं धृत्वा संचरेत जगद्धिते ॥ ततोऽभिसुहृत्कृपात्मा स परिशुद्धत्रिमण्डलः । निःक्लेशोऽर्हत्त्रिधां बोधिं प्राप्य निर्वृतिमाप्नुयात् ॥ इति विज्ञाय राजेन्द्र यदि संबोधिमिच्छसि । विरम्य तीर्थिकासंगाद्बोधिचर्याव्रतं चरन् ॥ सर्वसत्त्वहितं कृत्वा चतुर्ब्रह्मविहारधृक् । त्रिरत्नभजनं कृत्वा साधय पुण्यसन्मणिम् ॥ यद्येवं साध्यते पुण्यं भवेरेवं महर्द्धिमान् । सद्धर्मरत्नमासाद्य त्रिलोकाधिपतिर्भवेत् ॥ इत्येवं समुपादिष्टं लोकेशेन निशम्य सः । बलिस्तथेति विज्ञप्य प्राभ्यनन्दन्प्रबोधितः ॥ ततः स दैत्यराजेन्द्रस्तं त्रैलोकाधिपं गुरुम् । महद्राजर्द्धिसत्कारैः समभ्यर्च्य प्रमोदितः ॥ दिव्यरत्नमयोज्ज्वालं मौलिकुण्डलभूषणम् । मुक्तिकाहारत्नादिन् दक्षिणान् समढौकयेत् ॥ ततः प्रदक्षिणान्कृत्वा सांजलिः संप्रमोदितः । तत्पादाम्बुरुहे नत्वा समालोक्यैवमब्रवीत् ॥ भगवंल्लोकराजेन्द्र भवत्कृपाप्रसादतः । पवित्रीभूतमात्मानं भवति मेऽधुना ध्रुवम् ॥ सर्वदाहं जगन्नाथ भवतां शरणाश्रितः । त्रिरत्नभजनं कृत्वा संचरे बोधिसंवरे ॥ तन्मेऽनुग्रहमाधाय सदैवं द्रष्टुमर्हति । क्षमित्वा चापराधत्वं पुत्रवत्पालयस्व माम् ॥ भवानत्रैवमाश्रित्य सद्धर्मं समुपादिशत् । अस्मदनुग्रहं कृत्वा विजयितुं सदार्हति ॥ इत्येवं प्रार्थिने तेन बलिना स जगत्प्रभुः । लोकेश्वरो महासत्त्वस्तं विलोक्यैवमादिशत् ॥ (१२५) नाहं सदात्र तिष्ठेयं बहु कार्यं ममास्ति हि । ततोऽहं जेतकोद्याने विहारे सुगताश्रमे । सदेवासुरलोकानां सन्निपाता भवत्यपि ॥ तत्र तं त्रिजगन्नाथं विश्वभुवं मुनीश्वरम् । संबुद्धं द्रष्टुमिच्छामि तद्गमिष्यामि साम्प्रतम् ॥ तत्त्वं यथा परिज्ञातं तथा कृत्वा समाहितः । बोधिचर्याव्रतं धृत्वा सुखं चर सदा शुभे ॥ इति शास्ता समादिष्टं श्रुत्वा स बलिरादरात् । तथेति प्रतिवन्दित्वा प्राभ्यनन्दत्तमीश्वरम् ॥ एवं स त्रिजगन्नाथो लोकेश्वरो जिनात्मजः । तं बलिं समनुशास्य प्रतस्थौ भासयन्स्ततः ॥ संचरन्तं तमालोक्य सजनः सोऽसुराधिपः । दूरतः सांजलीर्नत्वा संपश्यन् स्वालयं ययौ ॥ तदारभ्यासुरेन्द्रोऽसौ बोधिचर्याव्रतं दधत् । त्रिरत्नभजनं कृत्वा सदारज्जगद्धिते ॥ सर्वे तस्य जनाश्चापि त्रिरत्नभजने रताः । तथा बोधिव्रतं धृत्वा प्राचरन्त सदा शुभे ॥ इत्यादिष्टं मुनीन्द्रेण श्रुत्वा सर्वे सभाश्रिताः । लोकाः सद्धर्मं वांछन्तः प्राभ्यनन्दन् प्रबोधिताः ॥ ॥ इति बलिसंबोधनबोधिमार्गावतारणप्रकरणम् ॥ १०. तमोन्धकार भूमि यक्ष राक्षस परिबोधन सद्धर्मावतारण प्रकरणम् अथ सर्वनीवरणविष्कम्भी सुगतात्मजः । भगवन्तं पूनर्नत्वा सांजलिरेवमब्रवीत् ॥ भगवन् स महाभिज्ञो लोकेश्वरो जिनात्मजः । कदेह समुपागच्छेत्संद्रक्ष्यते मया कथम् ॥ (१२६) नैवास्मि तोषितः शास्तः पीत्वापि तद्गुणामृतम् । यत्साक्षाद्द्रष्तुमिच्छामि कदेह स समाचरेत् ॥ यत्त्रैलोकाधिपतीशोऽसौ दुर्दान्तानपि दानवान् । बोधयित्वा प्रयत्नेन बोधिमार्गे न्ययोजयत् ॥ तत्तस्येव महद्वीर्यं कस्यापि विद्यते न हि । मुनीन्द्रैरपि सर्वैर्यत्प्रमातुं नैव शक्यते ॥ भूयोऽपि पातुमिच्छामि तद्गुणामृतमुत्तमम् । तद्भवान्समुपादिश्य तुष्टोऽन्तः कर्तुमहति ॥ इति संप्रार्थिते तेन भगवान् स मुनीश्वरः । विष्कम्भिनं तमालोक्य पुनरेवं समादिशत् ॥ शृणु साधो महासत्त्व लोकेशस्य महद्गुणम् । भूयोऽहं संप्रवक्ष्यामि सर्वस्त्तवशुभार्थतः ॥ ततो निष्क्रम्य दैत्येन्द्रभवनात्स जिनात्मजः । अन्यत्रापि समुद्धर्तुं सत्त्वान् संभासयन् ययौ ॥ ततश्चासौ महाभिज्ञो लोकेश्वरः स्वपुण्यजान् । नानारश्मीन् समुत्सृत्य जगल्लोकमभासयत् ॥ तद्रश्मयो जगल्लोकानभास्य प्रसारिताः । जेतोद्याने मुनीन्द्रस्य विश्वभुवः पुरः स्थिताः ॥ जेतोद्याने तदा तत्र प्रादुर्भूताः सरोवराः । अष्टांगगुणसंपन्नजलपूर्णा मनोहराः ॥ दिव्यसौवर्णपद्मादिपरिपूर्णाभिशोभिताः । अनेके कल्पवृक्षाश्च सर्वालंकारलम्बिताः । सरत्नमणिमुक्तादिहारलम्बितशोभिताः ॥ काशिकदुष्यपट्टादिवस्त्रालंकारलम्बिताः । प्रवालोहितस्तम्बाः सुवर्णरुप्यपत्रकाः ॥ अनेके पुष्पवृक्षाश्च fअलवृक्षादयोऽपि च । सर्वाश्चापि महौषध्यः प्रादुर्भूतास्समन्ततः ॥ तत्रारामे विहारे च सुगन्धिकुसुमानि च । दिव्यसुवर्णपुष्पाणि निपेतुर्वियतस्तदा ॥ (१२७) एवं तन्मंगलोद्भूतनिमित्तं महदद्भुतम् । समुद्भूतं समालोक्य तस्थुः सर्वे सविस्मयाः ॥ अथ गगनगंजाख्यो बोधिसत्त्वोऽपि विस्मितः । तन्महद्भद्रनैमित्यं परिस्प्रष्टुं समुत्थितः ॥ विश्वभुवो मुनीन्द्रस्य पुरतः समुपस्थितः । पादाब्जे प्रणतिं कृत्वा सांजलिरेवमब्रवीत् ॥ कस्य पुण्यप्रभारश्मिर्भगवन्नयमागतः । कुत इह समाभास्य करोत्येवं शुभाद्भुतम् ॥ तद्भवान् समुपादिश्य सर्वान् सभाश्रितानिमान् । लोकाअन् प्रबोधयन् धर्मे विनोदयितुमर्हति ॥ एवं संप्रार्थिते तेन विश्वभूर्भगवान् जिनः । गगनगंजमालोक्य तमेवं पुनरब्रवीत् ॥ असौ लोकेश्वरस्तस्माद्भवनान्निश्चरन् बलेः । तमोऽन्धकारभूम्यां च सत्त्वान् पातुं प्रगच्छति ॥ तस्य लोकेश्वरस्यायं पुण्यरश्मिस्समन्ततः । अवभास्य जगल्लोकमिहापि संप्रसारितः ॥ तेनदं भद्रनैमित्यं कुलपुत्र प्रजायते । तत्र सत्त्वान् समुद्धृत्य प्रागच्छेत्स जगत्प्रभुः ॥ तदात्र कुलपुत्रस्त्वं त्रैलोकाधिपतीश्वरम् । तमायातं समालोक्य नत्वाराधय सादरम् ॥ इत्यादिष्टं मुनीन्द्रेण विश्वभुवा निशम्य सः । गगनगंज आलोक्य तं मुनीमेवमब्रवीत् ॥ कथं स भगवान् याति तत्रान्धतमसे भुवि । सूर्यचन्द्रमसोर्यत्र प्रभा न ज्ञायते क्वचित् ॥ तत्रापि प्राणिनः सन्ति यानुद्धर्तुं स गच्छति । कथं किमर्थमालोक्य विहरेत्क्व जिनात्मजः ॥ इति तेनोदिते शास्ता विश्वभूः स मुनीश्वरः । गगनगंजमालोक्य तं पुनरेवमादिशत् ॥ (१२८) तत्रापि कुलपुत्रास्ति वरदो नाम सद्गुणी । चिन्तामणिर्महारत्नः श्रीकान्तिमान् दिनेशवत् ॥ तत्रानेकसहस्राणि यक्षणां रक्षसामपि । यथाकामं सुखं भुक्त्वा वसन्ति स्वैरचारिणः ॥ तान् क्लेशाभिमानो दुष्टान् पश्यन् स करुणानिधिः । बोधयित्वा प्रयत्नेन चारयितुं सुसंवरम् ॥ स्वपुण्यरश्मिमुत्सृज्य संभासयन् समन्ततः । प्रविशति यथा पूर्णचन्द्रः प्रह्लादयन् जगत् ॥ तद्रश्मिपरिस्पृष्टास्ते सर्वेऽपि यक्षराक्षसाः । महासौख्यसमापन्नाः तिष्ठन्ति विस्मयान्विताः ॥ तदा तं समुपायातं श्रीकान्तिसंप्रभासितम् । दृष्ट्वा ते मुदिताः सर्वे पुरतः समुपागताः । कृतांजलिपुटा नत्वा तस्य पादाम्बुजे मुदा । पुरतः समुपाश्रित्य संपृच्छन्त्येवमादरत् ॥ मा त्वं भगवंच्छ्रान्तः क्लान्तो व भवतां तनौ । कच्चित्सर्वत्र कौशल्यं दृश्यते सुचिराद्भवान् ॥ इति तैरुदितं श्रुत्वा लोकेशः स जिनात्मजः । तान् सर्वान् समुपासीनान् वदत्येवं विलोकयन् ॥ ममानेकानि कार्याणि सत्त्वानां हितसाधने । तेनाहं सुचिरेणात्र समागच्छामि साम्प्रतम् ॥ नात्मभावो मयैकस्य सत्त्वस्य कार्यसाधने । निष्पादितो जगत्सत्त्वसद्धर्मसाधनेऽपि हि ॥ सर्वे सत्त्वा मयालोक्य बोधयित्वा प्रयत्नतः । बोधिमार्गे प्रतिष्ठाप्य प्रेषणीयाः सुखावतीम् ॥ तेनाहं सुचिरेणात्र समागच्छामि साम्प्रतम् । नात्मभावो मयैकस्य सत्त्वस्य कार्यसाधने ॥ निष्पादितो जगत्सत्त्वसद्धर्मसाधनेऽपि हि । सर्वे सत्त्वा मयालोक्य बोधयित्वा प्रयत्नतः ॥ (१२९) बोधिमार्गे प्रतिष्ठाप्य प्रेषणीयाः सुखावतीम् ॥ तेनाहं सुचिरेणापि युष्माकं हितसाधने । विलोक्य समुपायामि नान्यथेति हि मन्यत ॥ इत्यादिष्टं जगच्छास्त्रा तेन लोकेश्वरेण ते । श्रुत्वा सर्वे मुदा तस्य पुर एवं वदन्ति च ॥ जयोऽस्तु ते सदा कार्ये सिध्यतु ते समीहितम् । सदैवं कृपयालोक्य सर्वान्नः पातुमर्हति ॥ इत्युक्त्वा ते प्रसन्नाक्षाः सर्वे तं त्रिगुणाधिपम् । स्वर्णरत्नासने स्थाप्य प्रार्थयन्येवमानताः ॥ भगवन्नाथ लोकेश सत्सौख्यगुणसाधनम् । अस्मदनुग्रहे धर्मं समुपादेष्टुमर्हति ॥ इति सम्प्रार्थिते तैः स लोकेश्वरो जिनात्मजः । तान यक्षान् राक्षसान् सर्वान् समालोक्यैवमादिशत् ॥ साधु चित्तं समाधाय शृणुध्वं यूयमादरात् । कारण्डव्यूहमौदार्यसूत्रं वक्ष्यामि वो हिते ॥ ये श्रोष्यन्ति महायानसूत्रराजमिदं मुदा । ये श्रुत्वा धारयिष्यन्ति वाचयिष्यन्ति ये सदा ॥ पर्यवाप्स्यन्ति ये चापि लिखिष्यन्ति च ये तथा । ये च लिखापयिष्यन्ति भावयिष्यन्ति ये सदा ॥ ये च प्रवर्तयिष्यन्ति श्रावयिष्यन्ति ये परान् । अनुमोद्य सदा स्मृत्वा प्रणत्वा ये भजन्त्यपि ॥ ये चापि श्रद्धया नित्यमर्चयिष्यन्ति सर्वदा । सादरं ये च सत्कृत्य मानयिष्यन्ति सर्वदा ॥ तेषां पुण्यमसंख्येयमप्रमेयं महत्तरम् । सद्गुनश्रीमहत्सौख्यसंबुद्धपदसाधनम् ॥ सर्वज्ञाः सुगताः सर्वे मुनीन्द्रा अपि सर्वदा । एतत्पुण्यप्रमाणानि कर्तुं न चाभिशक्नुयुः ॥ तद्यथापि च चतुर्द्विपनिवासिनोऽपि मानवाः । हेमरत्नमयं स्तूपं कुर्युरेकैकमुच्छ्रितम् ॥ (१३०) तेषु स्तूपेषु सर्वेषु धातुरत्नावरोपणम् । कूर्युस्ते मानवाः सर्वे चतुर्द्वीपनिवासिनः ॥ तेसां यावन्महत्पुण्यस्कन्धमौदार्यसत्तमम् । ततोऽधिकं हि तत्पुण्यं कारण्डव्यूहसूत्रजम् ॥ तद्यथा च महानघाः पंचपूर्णजलावहाः । सहस्रपरिवारास्ताः संक्रमन्ति यथोदधिम् ॥ एवमेव महत्पुण्यं कारण्डव्यूहसूत्रजम् । श्रवणभजनादीनां संप्राभिवहते सदा ॥ एवमेतन्महत्पुण्यं मत्वा यूयं यदीच्छथ । त्यक्त्वा पापमतिं सर्वे शृणुतेदं सुभाषितम् ॥ श्रुत्वानुमोद्य सत्कृत्य मानयत सदादरात् । एतत्पुण्याभिलिप्ता हि भविष्यथ जिनात्मजाः ॥ इति तेन जगच्छास्त्रा समादिष्टं निशम्य ते ॥ सर्वे ते राक्षसा यक्षा मुदिताश्चेदमब्रुवन् ॥ ये चापीदं महायानसूत्रराजं जगत्प्रभाः । लिखापयन्ति तेषां स्यात्कियत्पुण्यं समादिश ॥ इत्यक्ते तैः स लोकेशो बोधिसत्त्वो जिनात्मजः । सर्वांस्तान्मुदितान्मत्वा समालोक्येदमादिशत् ॥ कुलपुत्रा अप्रमेयं पुज्यं तेषां प्रजायते । लिखन्तीदं सूत्रराजं लिखापयन्ति येऽपि च ॥ चतुरशीतिसद्धर्मस्कन्धसाहस्रिकानि तैः । लिखापितानि सर्वाणि तेषां पुण्यं महत्तरम् ॥ राजानस्ते भविष्यन्ति नृपेन्द्राश्चक्रवर्तिनः । धर्मिष्ठा लोकभर्तारो विरा धीरा विचक्षणाः ॥ ये चाप्यस्य महायानसूत्रराजस्य सर्वदा । नामानुस्मरणं कृत्वा भजन्ति संप्रसादिताः ॥ ते सर्वे भवदुःखेभ्यो विमुक्ता विमलाशयाः । निःक्लेशाः परिपूर्णांगाः सुगन्धिमुखवासिनः ॥ (१३१) चन्दनगन्धितांगाश्च सुवीर्यबलवेगिनः । जातिस्मराश्च धर्मीष्ठा भवेयुः श्रीगुणाश्रयाः ॥ एवं मत्वा महत्पुण्यं यद्येतद्गुणमिच्छथ । विरम्य क्लेशसंगेभ्यः परिशुद्धाशया मुदा ॥ एतत्कारण्डव्यूहस्य सूत्रराजस्य सर्वदा । नामानुस्मरणं कृत्वा भजत श्रद्धयादरात् ॥ ततो यूयं विनिर्मुक्ता भवक्लेशातिदुःखतः । निःक्लेशा विमलात्मानः सुखावतीं गमिष्यथ ॥ तत्रामिताभनाथस्य पीत्वा धर्मामृतं सदा । बोधिचर्यांव्रतं प्राप्य भविष्यथ जिनात्मजाः ॥ ततः सत्त्वहिताधानश्रीसंपत्सद्गुणाश्रयाः । सर्वसत्त्वहितं कृत्वा संबुद्धपदमाप्स्यथ ॥ इति सत्यं परिज्ञाय शुद्धाशया जितेन्द्रियाः । त्रिरत्नभजनं कृत्वा भजन तत्सुभाषितम् ॥ इति तदुक्तमाकर्ण्य सर्वे ते यक्षराक्षसाः । प्रबोधिता महोत्साहैश्चरन्त्येवं समादरात् ॥ ततः केचिन् भवन्त्येतद्धर्मश्रद्धानुसारिणः । केचिच्च श्रोताअपन्नाः सकृदागामिनोऽपरे ॥ अन्येऽनागामिनः केचिद्भवन्ति बोधिसाधने । ततस्सर्वेऽपि ते यक्षा राक्षसाः संप्रमोदिताः ॥ तदुपदिष्टमासाद्य भवन्ति ब्रह्मचारिणः । परस्य च हितं कृत्वा संचरन्ते शुभे सदा ॥ ततस्ते नन्दिताः सर्वे भूयस्तं त्रिगुणाधिपम् । कृताजंलिपुटा नत्वा प्रार्थयन्त्येवमादरात् ॥ भगवन्नुबोधे नः सद्धर्मं समुपादिशत् । विहरस्व सदात्रैव क्वचिदन्यत्र मा व्रज ॥ स्वर्णरत्नमयं स्तूपं कृत्वा दास्यामहेऽत्र ते । रथचंक्रयात्रा च करिष्यामो जगत्प्रभोः ॥ (१३२) सदा ते शरणे स्थित्वा पीत्वा धर्मामृतं मुदा । सद्धर्मसाधनं कृत्वा चरिष्यामः सुखं शुभे ॥ इति तैः प्रार्थितं सर्वैः श्रुत्वा लोकेश्वरोऽथ सः । सर्वान्स्तान् राक्षसान् यक्षान् समालोक्यैवमादिशत् ॥ नाहं सदात्र तिष्ठेयमन्त्रत्राप्येवमाचरन् । बोधयन्नपरान् सत्त्वान् योजयेयं सुसंवरे ॥ तस्माद्यूयमिमे सर्वे उपदिष्टं यथा मया । तथा धृत्वा सदा धर्मे चरित्वा तिष्ठताभवम् ॥ इति शास्त्रा समादिष्टं श्रुत्वा ते यक्षराक्षसाः । तद्वियोगातिदुःखार्ता वदन्येवं परस्परम् ॥ गमिष्यति भवन्तोऽयं लोकनाथो जगत्प्रभुः । तद्भविष्यामहे सर्वे सद्धर्मरहिता वयम् ॥ इति संभाष्य सर्वे ते तस्य त्रैधातुकप्रभोः । पादाब्जे प्रणतिं कृत्वा तिष्ठन्ति समुपाश्रिताः ॥ ततः स त्रिजगन्नाथो लोकेश्वरो जिनात्मजः । तान् सर्वान् समुपामन्त्र्य चरति प्रस्थितस्ततः ॥ तत्र ते राक्षसा यक्षास्सर्वे तस्य जगत्प्रभोः । रुदन्तः स्नेहरागार्ता गच्छन्ति पृष्ठतोऽनुगाः ॥ तान् दृष्ट्वा त्वागतान् सर्वान् स लोकेशो करुणात्मकः । प्रायातान् दूरतो मार्गे समालोक्यैवमब्रवीत् ॥ सुदूरमागतो यूयं निवर्तध्वं स्वमालयम् । मागच्छत गमिष्यामि शुद्धावासे सुरालये ॥ इत्यादिष्टे जगच्छास्त्रा सर्वे ते यक्षराक्षसाः । लोकेश्वरस्य पादाब्जे नत्वा यान्ति स्वमालयम् ॥ तत्र ते राक्षसा यक्षा धृत्वाज्ञां त्रिजगत्प्रभोः । त्रिरत्नभजनं कृत्वा चतुर्ब्रह्मविहारिणः ॥ बोधिचर्याव्रतं धृत्वा संबोधिनिहिताशयाः । परस्परं हितं कृत्वा संचरन्ते सदा शुभे ॥ (१३३) एवं स त्रिजगन्नाथो दुर्बोधान् यक्षराक्षसान् । अपि नियुज्य सद्धर्मे चारयति प्रबोधयन् ॥ एवं स त्रिजगन्नाथः सर्वासत्त्वान् प्रबोधयन् । बोधिमाअर्गे प्रतिष्ठाप्य पालयति सदा भवे ॥ तेनास्य त्रिजगद्भर्तुः पुण्यस्कन्धं महत्तरम् । अप्रमेयं जिनैः सर्वैः प्रमातुं नैव शक्यते ॥ तस्मात्तस्य जगद्भर्तुः स्मृत्वापि नाम सर्वदा । समुदाहृत्य नत्वापि कर्तव्यं भजनं मुदा ॥ ये तस्योच्चार्य नामापि भजन्ति सर्वदा मुदा । दुर्गतिं ते न गच्छन्ति संप्रयायुः सुखावतीम् ॥ तत्रामिताभनाथस्य शरणे समुपाश्रिताः । सदा धर्मामृतं पीत्वा संचरेरन् सुसंवरे ॥ ततो बोधिव्रतं धृत्वा संचरित्वा जगद्धिते । त्रिविधां बोधिमासाद्य सम्बुद्धपदमाप्नुयुः ॥ इत्यादिष्टं मुनीन्द्रेण विश्वभुवा निशम्य ते । सर्वे लोकाः सभासीनाः प्राभ्यनन्दन् प्रबोधिताः ॥ इत्यादिष्टं मुनीन्द्रेण श्रीघनेन निशम्य ते । सर्वे ससांघिका लोका मुहुर्मुहुः संप्रबोधिताः ॥ ॥ इति तमोऽन्धकारभूमियक्षराक्षसपरिबोधनसद्धर्मावतारणप्रकरणं समाप्तम् ॥ ११. शुद्धावासिक सुकुण्डल देवपुत्रोद्धारण प्रकरणम् अथ गगनगंजोऽसौ बोधिसत्त्वः कृतांजलिः । विश्वभुवं मुनीन्द्रं तं नत्वेवं पुनरबवीत् ॥ भगवन् स महासत्त्वो लोकेश्वरो जिनात्मजः । कदेह समुपागच्छेद्द्रक्ष्यते स कथं मया ॥ (१३४) ततः कुत्र प्रयातोऽसौ समुद्धर्तुं च दुःखितः । तदुपादिश्य नः सर्वान् प्रबोधयितुमर्हति ॥ इति संप्रार्थिते तेन गगनगंजेन सद्धिया । विश्वभूर्मुनिराजस्तं समालोक्यैवमादिशत् ॥ ततोऽसौ कुत्रपुत्रान्तर्हिताग्निवत्प्रभासयन् । गत्वा विहायासौ शुद्धवासलोकेऽभिगच्छति ॥ तत्र स ब्राह्मणं रुपं धृत्वा पश्यन् समन्ततः । तत्र देवनिकायेषु समुपाचरते दीनवत् ॥ तत्र सुकुण्डलो नाम देवपुत्रो दरिद्रितः । दुःखितः क्लेशाभिन्नात्मा दुर्भगो दीनमानसः ॥ तं संपश्यन् समुद्धर्तुं सदृशाभाविताशयः । शनैस्तस्य गृहद्वारे समुपाश्रित्य तिष्ठति ॥ तं द्वारसमुपासीनं विलोक्य स सुकुण्डलः । कस्त्वं किमर्थमायात इत्येवं परिपृच्छति ॥ तेनैवं परिपृष्टेऽसौ ब्राह्मणोऽर्थि सुदुःखिवत् । निश्वस्यैवं शनैस्तस्य संपश्यन् वदते पुरः ॥ ब्राह्मणोऽहं महाभाग दूरदेशादिहागतः । क्षुत्पिपासाभितप्तोऽस्मि तद्भोज्यं मे प्रदीयताम् ॥ तेनैवं याचमानोऽसौ देवपुत्रः सुकुण्डलः । रुदन् दीनस्वरः पश्यन् वदत्येवं तमानतः ॥ ब्राह्मण किं प्रदास्यते किंचिद्वस्तु न मे गृहे । तत्क्षमस्वापराधं मे प्रार्थयान्यमितो व्रजन् ॥ इति तेनोदितं श्रुत्वा वदत्येवं द्विजः स तम् । किंचिदपि प्रदातव्यं क्षुत्तृष्णाखेदितस्य मे । यदि न दीयते किंचिदप्यत्र मरणं व्रजे ॥ इति तदुक्तमाकर्ण्य देवपुत्रः सुकुण्डलः । किंचिद्वस्तु गृहे द्रष्टुं प्रविश्य पश्यते श्वसन् ॥ तदा तस्य जगद्धर्तुः कृपादृष्ट्यनुभावतः । तत्र गृहे समुद्भूता महदैश्वर्यसंपदः ॥ (१३५) तदा तस्य गृहे तत्र काष्ठागारेषु सर्वतः । भाण्डानि विविधै रत्नैः पूर्णानि सर्वधातुभिः ॥ अन्नैश्च भोजनैर्द्रव्यैः पानैर्दिव्यामृतैरपि । दिव्यचीवरवस्त्रादिसर्वालंकारभूषणैः ॥ सुगन्धिद्रव्यपुष्पैश्च परिपूर्णानि सर्वतः । विलोक्य समुदाश्चर्यसमाकुलितमानसः ॥ अहो किमिदमाश्चर्यं स्वप्नं वा दृश्यते मया । इति संचिन्त्य भूयोऽपि समीक्ष्यैवं विचिन्तयन् ॥ नूनमयं महाभिज्ञः पुरुषो मद्गृहागतः । यस्य दर्शनभावेन लक्ष्मीर्जाता ममेदृशी ॥ इति निश्चित्य चित्तेन देवपुत्रः स नन्दितः । सहसोपेत्य तं विप्रं भाषते एवमादरात् ॥ नमस्ते ब्राह्मणश्रेष्ठ कश्चित्ते कौशलं तनौ । प्रविशात्र गृहेऽस्माकमनुग्रहीतुमर्हसि ॥ इति तेनोदितं श्रुत्वा ब्राह्मणः स प्रसादितः । सहसोत्थाय तद्गेहं प्रविशति विलोकयन् ॥ तत्र स सुप्रसनात्मा देवपुत्रः सुकुण्डलः । ब्राह्मणं तं प्रतिष्ठाप्य स्वासने चार्चते मुदा ॥ प्रवार्य दूष्यपट्टादिचीवरैः शुष्मकोमलैः । मण्डयित्वा च सर्वागं सर्वालंकारभूषणैः ॥ दिव्यरसाग्रसुस्वादैराहारैरमृतोत्तमैः । वर्णगन्धरसोदारैर्भोजयति समादरम् ॥ तत्सत्कारं समालोक्य ब्राह्मणः स प्रसादितः । भुक्त्वा भोग्यं यथाकामं ददात्यस्मै शुभाशिषम् ॥ स्वस्ति ते मंगलं भूयात्सर्वदापि समन्ततः । तिष्ठतु ते गृहे लक्ष्मीः सदा सद्धर्मसाधिनी ॥ भवतु ते सदा शुद्धं चित्तं सद्धर्मलालसम् । सिध्यन्तु तेऽभिलाषं च सम्वृतिकार्यसाधनम् ॥ (१३६) सदैतच्छ्रीसुसंपत्तिसुखं भुक्त्वा हितार्थभृत् । त्रिरत्नभजनं कृत्वा तिष्ठ चरन्मुदा शुभे ॥ अहं गच्छामि जेतर्षेरुद्यने सौगताश्रमे । विश्वभुवं मुनीन्द्रं संद्रष्टुं वन्दितुमुत्सहे ॥ इति तदुक्तमाकर्ण्य देवपुत्रः स विस्मितः । ब्राह्मणं तं समालोक्य पृच्छते चैवमादरात् ॥ कीदृशं तन्महोद्यानं जेतर्षेः सौगताश्रमम् । कीदृशी रमणीया सा भूमी तद्वद मे द्विज ॥ इत्येवं देवपुत्रेण परिपृष्टे निशम्य सः । ब्राह्मणस्तं समालोक्य वदत्येवं च सादरम् ॥ रमणीयं तदुद्यानं जेतर्षः सौगताश्रमम् । दिव्यसौवर्णरत्नादिनानालंकारमण्डितम् ॥ तत्रैनकसमुद्भूता कल्पृक्षा महीरुहाः । सर्वकुसुमवृक्षाश्च सर्वसत्fअलशाखिनः ॥ अष्टांगगुणसम्पन्नाः जलपूर्णमनोहराः । अनेकाः पुष्करिण्योऽपि पद्मोत्पलादिशोभिताः ॥ तत्रार्हन्तः शुभात्मानो भिक्षवो ब्रह्मचारिणः । शुद्धशीला महाभिज्ञा दक्षिणीया विचक्षणाः ॥ विश्वभुवो मुनीन्द्रस्य श्रावका बोधिचारिणः । अनेके बोधिसत्त्वाश्च महासत्त्वा महर्द्धिकाः ॥ भिक्षुण्यो ब्रहचारिण्यः शुद्धशीला जितेन्द्रियाः । चैलकव्रतिनश्चापि तथान्येऽपि च सांघिकाः ॥ त्रिरत्नभजनारक्ता उपासका उपासिकाः । विश्वभुवो मुनीन्द्रस्य शासने शरणाश्रिताः ॥ सदा धर्मामृतं पीत्वा विहरन्ति समाहिताः । एवमन्येऽपि लोकाश्च ब्राह्मणस्तीर्थिका अपि ॥ राजानः क्षत्रियाश्चैव समन्त्रिजनपौरिकाः । श्रेष्ठिनः सार्थवाहाश्च महाजनाः शुभार्थिनः ॥ (१३७) तत्रागत्य समाश्रित्य श्रुत्वा सद्धर्ममादरात् । त्रिरत्नभजनं कृत्वा विहरन्ति सदा शुभे ॥ तथा देवाश्च दैत्याश्च गन्धर्वा अपि किन्नराः । यक्षाश्च नागराजाश्च गरुडाश्च महोरगाः ॥ सिद्धा विद्याधराश्चापि सर्वे लोकाधिपा अपि । सदा तत्र समागत्य विश्वभुवो जगद्गुरोः ॥ सत्कृत्याभ्यर्च्य सद्धर्मं श्रुत्वा तिष्ठन्ति सादरम् ॥ एवं तत्र मुनीन्द्रोऽसौ विश्वभूः संप्रदर्शयन् । प्रातिहार्याणि सद्धर्मं समुपादिश्य तिष्ठति ॥ एवं तज्जेतकारामं पुण्यक्षेत्रं मनोरमम् । सर्वैर्लोकाधिपैश्चापि संसेवितं प्रशासितम् ॥ तदत्र साम्प्रतं सर्वे लोका देवाधिपा अपि । सद्धर्मं श्रोतुमागात्य तिष्ठन्ति तत्सभाश्रिताः ॥ तवापि यदि वांछास्ति तत्र गच्छ समदरात् । विश्वभुवो मुनीन्द्रस्य सभां पश्च वृषं शृणु ॥ तत्सद्धर्मामृतं पीत्पा संबोधिनिहिताशयः । त्रिरत्नभजनं कृत्वा बोधिचर्याव्रतं चर ॥ एतत्पुण्यविशुद्धत्मा परिशुद्धत्रिमण्डलः । त्रिविधां बोधिमासाद्य संबुद्धपदमाप्स्यसि ॥ इति मत्वा समाधाय श्रुत्वा सद्धर्ममादरात् । त्रिरत्नभजनं कृत्वा तिष्ठ चरन् सदा शुभे ॥ इति तेन समादिष्टं निशम्य स सुकुण्डलः । प्रबोधितस्तथेत्युक्त्वा पृच्छत्येवं द्विजं च तम् ॥ अवस्यं सत्यमाख्यातुमर्हसि मे पुरः द्विज । देवोऽसि मानवो वा त्वं दैत्येन्द्रो वा महर्द्धिमान् ॥ कस्यापि विद्यते नेदृक्कृपाधर्मानुभावता । यथा त्वमिह मां पश्यन् तथा कोऽन्योऽनुपालयेत् ॥ इति तेनोदितं श्रुत्वा ब्राह्मणः स प्रसादितः । देवपुत्रं तमालोक्य वदत्येवं प्रबोधने ॥ (१३८) न देवो मानवो नैव दैत्येन्द्रो वापि नास्म्यहम् । बोधिसत्त्वोऽस्म्यहं सर्वसत्त्वहितार्थसंभरः ॥ बोद्धिचर्याव्रतं धृत्वा पश्यन् सत्त्वान् सुदुःखितः । बोधयित्वा प्रयत्नेन योजयित्वा सुसंवरे ॥ एवं सर्वत्र लोकेषु दुःखिनः पापिनोऽप्यहम् । बोधयित्वा स्वयं पश्यन् योजयेयं सदा शुभे ॥ तथहं स्वयमालोक्य सर्वान् सत्त्वान् प्रबोधयन् । बोधिमार्गे प्रतिष्ठाप्य गच्छे तत्र जिनाश्रमे ॥ इति तेन समादिष्टं निशम्य संप्रमोदितः । स रत्नदक्षिणां दत्वा तस्यैवं च प्रभाषते ॥ अहो गुणमयं क्षेत्रं सर्वदोषविवर्जितम् । यत्राद्य रोपितं वीजमद्य संपद्यते fअलम् ॥ धन्यास्ते पुरुषाः सर्वे ये त्रिरत्नसुभक्तिकाः । सदा धर्मामृतं पीत्वा संचरन्ते जगद्धिते ॥ अहमपि गमिष्यामि जेतारामे जिनाश्रमे । विश्वभुवं मुनीन्द्रं तं द्रष्टुमिच्छे ससांघिकम् ॥ तदहं भवता सार्द्धं तत्र गन्तुं समुत्सहे । तन्मां नीत्वा मुनीन्द्रं तं संदर्शयितुमर्हति ॥ इति संप्रार्थिते तेन ब्राह्मणः स सुकुण्डलम् । देवपुत्रं तमालोक्य प्रतिब्रवीति बोधयन् ॥ अहमन्यत्र लोकेऽपि सत्त्वान् पश्यन् प्रबोधयन् । बोधिमार्गे नियुज्यैवं गमिष्यामि तदाश्रमे ॥ त्वमेव प्रथमं गत्वा तत्र जेताश्रमे वने । विहारस्थं मुनीन्द्रं तं संदर्शय ससांघिकम् ॥ तत्सद्धर्मामृतं पीत्वा संबोधिनिहिताशयः । त्रिरत्नभजनं कृत्वा संचरस्व सदा शुभे ॥ इत्युक्त्वा स महासत्त्वो ब्राह्मणः प्रस्थितस्ततः । अन्तर्हितः क्षणाद्वह्निरिवाशेऽभिगच्छति ॥ (१३९) तद्दृष्ट्वा देअवपुत्रोऽसौ मुदाश्चर्यकुलाशयः । नत्वाकाशे मुहुः पश्यंश्चिरेण गच्छते गृहे ॥ तत्र सत्त्वालयासीनाः ब्राह्मणं तमनुस्मरन् । तद्दुपदिष्टमाधाय तिष्ठते संचरेच्छुभे ॥ त्रिरत्नभजनं कृत्वा संचरन्ते सदा शुभे ॥ एवं स त्रिजगन्नथो लोकेश्वरो जिनात्मजः । देवानपि प्रयत्नेन बोधयित्वा प्रमोदयन् । बोधिमार्गे नियुज्यैवं चारयति जगद्धिते ॥ एवं तस्य जगद्भर्तुः पुण्यस्कन्धं महत्तरम् । अप्रमेयमसंख्येयमित्याख्यातं मुनीश्वरैः ॥ तत्रास्य त्रिजगद्भर्तुः स्मृत्वापि नाम सर्वदा । ध्यात्वापि प्रणतिं कृत्वा भजन्तु बोधिवांछिनः ॥ ये भजन्ति मुदा तस्य न ते गच्छन्ति दुर्गतिम् । सदा सद्गतिसंजाताः प्रान्ते यान्ति सुखावतीम् ॥ तत्रामिताभनाथस्य पीत्वा धर्मामृतं सदा । बोधिचर्याव्रतं धृत्वा संयास्यन्ति जिनालयम् ॥ इत्यादिष्टं मुनीन्द्रेण श्रुत्वा सर्वे सभाश्रिताः । लोकास्तथेति विज्ञप्य प्राभ्यनन्दन् प्रबोधिताः ॥ ॥ इति शुद्धावासिकसुकुण्डलदेवपुत्रोद्धरणप्रकरणं समाप्तम् ॥ १२. सिंहलद्वीप राक्षसी परिबोधनोद्धारण प्रकरणम् अथ गगनगंजोऽसौ बोधिसत्त्वो जिनात्मजः । विश्वभुवं मुनीन्द्रं तं पुनर्नत्वैवमब्रवीत् ॥ अद्यापि स महासत्त्वो नायाति भगवन्निह । कदेह समुपागच्छेत्कुत्र गच्छति साम्प्रतम् ॥ (१४०) इति तेनाभिसंपृष्टे विश्वभूः स सुधाखिरः । गगनगंजमालोक्य तमेवं पुनरादिशत् ॥ ततः संप्रस्थितोऽसौ च लोकेश्वः प्रभासयन् । सिहंलद्वीप आलोक्य च लोकेश्वर राक्षसीरभिगच्छति ॥ दिव्यातिसुन्दरं कामरुपं धृत्वा स भासयन् । तत्राभिसरते चित्तं राक्षसीनां प्रमोदयन् ॥ तमायातं समुपालोक्य प्रौढकामातिसुन्दरम् । सर्वासां राक्षसीनां तत्कामरागं समुत्थितम् ॥ तदा ताः प्रमदाः सर्वा राक्षस्य मदनाकुलाः । नवयौवनकन्तांगा रतिरुपातिसुन्दराः ॥ भूत्वा तं समुपालोक्य पुरतं समुपाश्रिताः । तत्पादाम्बुरुहे नत्वा बुवत्येवं समादरम् ॥ स्वागतं ते भवान् हि कच्चित्सर्वत्र कौशलम् । संपश्यन् तर्पयास्माकमनुगृहीतुमर्हसि ॥ अस्माकं यौवनीनां यत्स्वामी भर्ता पतिः प्रभुः । कस्या अपि हि नैकोऽपि विद्यते हि कदाचन ॥ तदास्माकं भवान् स्वामी भर्ता पतिः प्रभुः सुहृत् । भवतु नागतिश्चापि त्राता द्वीपः परायणः । शरण्यं च सदा लोके सन्मार्गदेशकोऽचि च ॥ सदा ते शरणे स्थित्वा समादिष्टं तथा त्वया । तथा सर्वा वयं धृत्वा संचरिष्यामहे मुदा ॥ सन्त्यत्र विविधा भोग्या दिव्यामृतरसोत्तमाः । वस्त्राणि विविधान्येवं विविधभूषणाम्यपि ॥ रमणीयास्तडागाश्च क्रीडोद्यानवनानि च । प्रासादा रमणीयाश्च दीर्घिकाश्च मनोरमाः ॥ सन्ति द्रव्याणि सर्वाणि रत्नानि विविधान्यपि । सर्वोपकरणवस्तूनि सुपथ्यान्यौषधान्यपि ॥ एतानीमानि सर्वाणि त्वदधीनानि सर्वदा । तद्भवान् समुपालोक्य स्वेच्छया दातुमर्हति ॥ (१४१) यथाकामं सुखं भुक्त्वा सहास्माभिः सदा रमन् । स्वेच्छया संचरंस्तिष्ठन् वसत्विहैव सर्वदा ॥ भवद्वशे समाश्रित्य सर्वा वयं समासरात् । पूरयित्वाप्यभिप्रायं चरिष्यामो यथासुखम् ॥ तदस्माकं भवान् स्वामी भूत्वात्रैव सदा रमन् । स्थातुमर्हसि राजेव पालयन्नः सुदुःखिताः ॥ भवतो भजनं कृत्वा करिष्यामः समीहितम् । तत्तिष्ठतु सदेहैव मान्यत्र व्रजतु क्वचित् ॥ एवं ताभिः समाख्यातं निशम्य स जगत्प्रभुः । सर्वास्ताः प्रमदाः पश्यन् ब्रवीत्येवं पुरः पुनः ॥ यथा मयोपदिष्टं हि युष्माभिः क्रियते यदि । तथा युष्मद्वशे स्थित्वा चरिष्यामीह सर्वदा ॥ यथाकामं सुखं भुक्त्वा युष्माभिः सह सर्वदा । रमन् सर्वमभिप्रायं पूरयिष्यामि वो ध्रुवम् ॥ इति तेन समादिष्टं श्रुत्वा ताः प्रमदा अपि । सर्वास्तं पुरुषं कान्तं संवीक्ष्यैवं ब्रुवन्ति च ॥ त्वदादिष्टं वयं श्रुत्वा न चरिष्यामहे कथम् । अवश्यं ते वशे स्थित्वा करिष्यामो यथोदितम् ॥ तदस्माकं वचः श्रुत्वा भुक्त्वास्माभिः सुखं सह । यथाकामं रमन्नत्र संचरतां यथेच्छया ॥ इति ताभिः समाख्यातं निशम्य स जगत्प्रभुः । सर्वास्ता राक्षसीः पश्यन् ब्रवीत्येव प्रबोधयन् ॥ यदि यूयं मयाख्यातं धृत्वा सर्वाश्चरिष्यथ । तच्छृणुध्वं समाधाय देशितं वो हितं मया ॥ विरम्य दशपापेभ्यो धृत्वा ब्रह्मविहारिकम् । त्रिरत्नभजनं कृत्वा चरध्वं पोषधं व्रतम् ॥ यद्येतद्व्रतमाधाय चरथ सर्वदादरात् । तदा युष्मद्वशे स्थित्वा तिष्ठेयमिह संरमन् ॥ (१४२) इति तेन समादिष्टं श्रुत्वा ताः प्रमदा अपि । सर्वास्तथेति विज्ञप्य कुर्वन्त्येवं च तत्पुरः ॥ स्वामिन् यथा त्वयादिष्टं तथा वयं चरेमहि । तदेतद्विधिमस्माकं समुपादेष्टुमर्हसि ॥ इति संप्रार्थितं ताभिनिर्शम्य स जिनात्मजः । ताः सर्वास्ता बोधिता मत्वा समीक्ष्यैवं ब्रवीति तत् ॥ शृणुध्वं यदि वांछास्मिन् युष्माकं सत्सुखे सदा । व्रतराजविधानं च उपदेक्ष्यामि विस्तरम् ॥ आदौ पुण्यसुखोत्साहं धृत्वा शुद्धाशया मुदा । तीर्थे स्नात्वा विशुद्धांगा प्रावृत्य शुद्धचीवरैः ॥ अभ्यर्च्य सद्गुरुं नत्वा त्रिरत्नशरणं गताः । श्रीमल्लोकेश्वरं ध्यात्वा समभ्यर्च्य यथाविधिम् ॥ ततश्चार्घादिकं दत्वा संस्तुत्वा स्तुतिजल्पनः । अष्टांगैः सादरं नत्वा कृत्वा वापि प्रदक्षिणान् ॥ सधातुद्रव्यरत्नादिदक्षिणान् श्रद्धयादरात् । उपढोक्य समालोक्य कृताजलिपुता मुदा ॥ पापानां देशनां कृत्वा धृत्वा पुण्यानुमोदनाम् । संबोधिओप्रणिधिं धृत्वा प्रार्थगेत जगच्छुभे ॥ एवं कृत्वा व्रतं नित्यमह्नायामे तृतीयके । भोग्यं निरामिषं भुक्त्वा कुरुत व्रतपालनाम् ॥ एवं नित्यं समाधाय कृत्वा व्रतमिदं सदा । त्रिरत्नशरणं कृत्वा संचरध्वं जगद्धितम् ॥ एतत्पुण्यानुभावेन परिशुद्धत्रिमण्डलाः । सदा सद्गतिसंजाताः सद्धर्मश्रीगुणाशयाः ॥ सत्सुखानि सदा भुक्त्वा निःक्लेशा विजितेन्द्रियाः । सर्वत्र भद्रतां कृत्वा गमिष्यथ सुखावतीम् ॥ तत्रामिताभनाथस्य पीत्पा धर्मामृतं सदा । त्रिविधां बोधिमासाद्य संबुद्धपदमाप्स्यथ ॥ (१४३) एवं मत्वा महत्पुण्यं पोषधव्रतसंभवम् । यदीच्छथ सदा भद्रं तच्चरध्वं सदा व्रतम् ॥ इत्येवं तत्समादिष्टं श्रुत्वा ताः प्रमदा अपि । राक्षस्यो मुदिताः सर्वा धर्तुमिच्छन्ति तद्व्रतम् ॥ ततस्ताः प्रमदाः सर्वा राक्षस्योऽपि प्रबोधिताः । यथाविधि समाधाय चरन्ति पोषधं व्रतम् ॥ एतत्पुण्यानुभावेन सर्वास्ता विमलाशयाः । विमुक्तकामसंरागा भवन्ति ब्रह्मचारिकाः ॥ तदा तासां च सर्वासां राक्षसीनां मनांस्यपि । क्लेशदुःखैर्न बाध्यन्तेऽपहारिभिः कदापि च ॥ तासामाघाचित्तं च नैवाभिजायते क्वचित् । दशाकुशलसंरागं कस्याश्चापि न जायते ॥ सर्वा श्रद्धानुसारिण्यः सद्धर्मगुणसाधने । तथा धर्मानुसारिण्यो भवन्ति प्राप्तसंवराः ॥ चतुःसत्यागमप्रप्ताः प्राप्तमार्गचतुष्टयाः । काश्चिच्च श्रोताअपतिfअलप्राप्ताः प्रबोधिताः ॥ तथान्याः सकृदागामिfअलप्राप्ताः काश्चित्सद्धर्मसाधने ॥ काश्चिदर्हत्वसंप्राप्ताः परिशुद्धत्रिमण्डलाः । प्रत्येकां बोधिमन्याश्च काश्चित्संबोधिलालसाः ॥ एवं तदुपदेशमासाद्य सर्वास्ताः प्रमदा अपि । सद्धर्माभिता भद्रा भवन्ति बोधिमानसाः ॥ एवं तस्य जगद्भर्तुः प्रसादास्ताः प्रमोदिताः । शिक्षासंवरमासाद्य प्रचरन्ति जगद्धिते ॥ ततस्ता नन्दिताः सर्वाः शास्तारं तमुपस्थिताः । कृताजलिपुटा नत्वा प्रार्थयन्त्येवमादरात् ॥ यद्भवान् स्वयमालोक्य सर्वानस्मान् दुरारतान् । कृत्या बोधयन् धर्मे नियोजयति सद्गुरो ॥ (१४४) तदस्माकं भवांच्छस्ता सुहृन्मित्रं च सद्गुरुः । सद्धर्मं समुपादिश्य सदेह स्थातुमर्हति ॥ वयं सर्वा भवच्छिक्षास्तद्भवच्छरणे स्थिताः । भवता यद्यथादिष्टं तत्करिष्यामहे तथा ॥ न पुरा राक्षसीवृत्तिं करिष्यामः कदाचन । शिक्षासंवरमाधाय चरिष्यामो व्रतं सदा ॥ जम्बूद्वीपे यथा मर्त्या विरम्य दशपापतः । संवृतिसुखभुंजाना जीवन्ति सद्गुणारताः ॥ तथा वयं विरम्यात्र दशकुलमार्गतः । सद्वृतिसुखभुंजाना जीवेम सद्गुणारताः ॥ सदैतद्व्रतमाधाय त्रिरत्नभजनारताः । सर्वं सत्त्वहितं कृत्वा संचरिष्यामहे शुभे ॥ तदस्मान् कृपया पश्यन्नेवं चानुग्रहं सदा । कृत्वा सद्धर्ममादिश्य विहरत्विह मान्यतः ॥ इति संप्रार्थितं ताभिः सर्वाभिः स जिनात्मजः । लोकेश्वरः समाकर्ण्य ता वीक्ष्य वदते पुनः ॥ नाहं सदेह तिष्ठेयं सर्वत्रापि सुदुःखिनः । प्राणिनः स्वयमालोक्य समुद्धर्तुं चरेमहि ॥ तदेतत्संवरं धृत्वा यूयमेवं समाहिताः । त्रिरत्नभजनं कृत्वा सौख्यं भुक्त्वाभितिष्ठत ॥ काले कालेऽहमागत्य युष्माकं हितसाधने । देशयिष्यामि सद्धर्मसंबुद्धपदसाधानम् ॥ एवं संबोधयन् सर्वा राक्षसीस्ताः स राक्षसः । लोकेश्वरो महासत्त्वः संप्रस्थितस्ततो द्रुतम् ॥ ततोऽन्तर्हित आकाशे गत्वेन्दुरिव भासयन् । प्रह्लादयन् जगल्लोकं चरते सत्वहितोत्सुकः ॥ तं खे गतं प्रभास्वन्तं दृष्ट्वा ताः सकला अपि । राक्षस्यो विस्मयोत्पन्नास्तिष्ठन्ति प्रतिनन्दिताः ॥ (१४५) ततः प्रभृती ताः सर्वा राक्षस्योऽपि समाहिताः । तच्छिक्षासंवरं धृत्वा संचरन्ते सदा शुभे ॥ एवं स त्रिजगन्नाथो राक्षसीरपि बोधयन् । बोधिमार्गे नियुज्यापि चारयति सदा शुभे ॥ एवं तस्य जगद्भर्तुः पुण्यस्कन्धं महत्तरम् । अप्रमेयसंख्येमित्याख्यातं मुनीश्वरैः ॥ तत्तस्य त्रिजगद्गर्तुः शरणं समुपाश्रिताः । ध्यात्वाप्युच्चार्य नामापि स्मृत्वापि भजताद्भवम् ॥ ये तस्य त्रिजगद्भर्तुः श्रद्धया शरणे स्थिताः । ध्यात्वाप्युच्चार्य नामापि स्मृत्वा भजन्ति सर्वदा ॥ ते सदा सद्गतिं यान्तिं न कदाचन । भद्रश्रीगुणसंपत्तिसमापन्ना भवन्त्यपि ॥ सदा सत्त्वहिताधाने सद्धर्मसाधनारताः । त्रिरत्नभजनं कृत्वा संप्रयायुः सुखावतीम् ॥ तत्रामिताभनाथस्य पीत्वा धर्मामृतं सदा । अर्हन्तो बोधिमासाद्य संबुद्धपदमाप्नुयुः ॥ इत्यादिष्टं मुनीन्द्रेण विश्वभुवा निशम्य ते । सर्वे सभाश्रिता लोकाः प्राभ्यनन्दन् प्रबोधिताः ॥ ॥ इतिसिंहलद्वीपराक्षसीपरिबोधनोद्धरण प्रकरणम् ॥ १३. वाराणसी कृमि कीटोद्धारण प्रकरण अथ गगनगंजोऽसौ बोधिसत्त्वः कृतांजलिः । विश्वभुवं मुनीन्द्रं च प्रणत्वैवमवोचत ॥ भगवन् स महासत्त्वो लोकेश्वरो जिनात्मजः । नाद्यापिह समायाति कदागच्छेत्तदादिश ॥ (१४६) इति तेनोदितं श्रुत्वा विश्वभूः स मुनीश्वरः । गगनगंजमालोक्य तं पुनरेवमब्रवीत् ॥ ततः संप्रस्थितश्चासौ लोकेश्वरो विलोकयन् । वाराणस्यां समुद्धर्तुं सत्त्वान् समभिगत्च्छति ॥ दृष्ट्वा स प्राणिनोऽनेकानसंख्येयान् सुदुःखितान् । सविण्मूत्रमृदालग्नांस्तिष्ठत्येवं विचिन्तयन् ॥ हा पापं कथमेतानि सविण्मुत्राश्रीतान्यहम् । कृम्यसंख्यसहस्त्राणि प्रोद्धरेयं प्रबोधयन् ॥ तत्र स चिन्तयन्मत्वा सत्त्वान् कृपया संविलोकयन् । भ्रमररुपमाधाय भर्मते तदुपाचरन् ॥ नमो बुद्धाय धर्माय संघायेति प्रणोदितम् । मधुरशब्दमुच्चार्य भ्रमते स वियच्चरन् ॥ तं खे भ्रमन्तमालोक्य सर्वे ते प्राणका अपि । तत्कलारावमाकर्ण्य चिन्तयन्येवमुत्सुकाः ॥ अहोऽयं सुखवान् पक्षी भ्रमते खेऽतियथेच्छया । किमनेन कृतं पुण्यं चरते सुखम् ॥ किमस्माभिः कृतं पापं येनामेध्याश्रिता वयम् । इति विचिन्त्य ते सर्वे कृमयस्तत्सुखेच्छिताः ॥ तद्विण्वमनुश्रुत्वा संतिष्ठन्ते तदुन्मुखाः ॥ तथा ते कृमयः सर्वे तन्नामस्मृतिभाविताः । तत्त्रिरत्ननमस्कारं धृत्वा तिष्ठन्ति चेतसा ॥ तथा चैवं समुच्चार्य त्रिरत्ननाम चेतसा । स्मृत्वा कृत्वा नमस्करं तिष्ठन्ति त्रिमणेर्मुदा ॥ एतत्पुण्यविलिप्तास्ते सर्वे संजातपक्षकाः । तत उड्डीय गंगायां निपतन्तस्त्यजन्त्यसून् ॥ ततस्ते विमलात्मानः संप्रयाताः सुखावतीम् । सर्वे सुगन्धमुखा नाम बोधिसत्त्वा भवन्त्यपि ॥ ते तत्रामितभासस्य पीत्वा धर्मामृतं सदा । त्रिविधां बोधिमासाद्य निर्वृपदमाप्नुयुः ॥ (१४७) एवमसौ महासत्त्वो लोकेश्वरः कृमीनपि । प्रयत्नेन समुद्धृत्य प्रेषयति सुखावतीम् ॥ तथा तस्य जगच्छास्तुः पुण्यस्कन्धं महत्तरम् । अप्रमेयमसंख्येयमित्याख्यातं मुनीश्वरैः ॥ ये चास्य लोकनाथस्य श्रद्धया शरणे स्थिताः । ध्यात्वा स्मृत्वा समुच्चार्य नाम भजन्ति सर्वदा ॥ सदा ते सद्गतौ जाता दुर्गतौ न कदाचन । सद्धर्मश्रीसुखापन्नाः संप्रयायुः सुखावतीम् ॥ तत्रामिताअभनाथस्य पीत्वा धर्मामृतं सदा । त्रिविधां बोधिमासाद्य संप्राप्स्यन्ति जिनालयम् ॥ इति मत्वा सदा भद्रसौख्यमिच्छन्ति ये भवे । तेऽस्य त्रैलोकनाथस्य भजन्तु शरणे स्थिताः ॥ इत्यादिष्टं मुनीन्द्रेण विश्वभुवा निशम्य ते । सर्वे समाश्रिता लोकाः प्राभ्यनन्दन् प्रबोधिताः ॥ ॥ इति वाराणसीकृमिकीटोद्धारणप्रकरणं समाप्तम् ॥ १४. मागधिक सत्त्व प्रबोधनोद्धारण प्रकरण अथ गगनगंजोऽसौ बोधिसत्त्वः प्रमोदितः । विश्वभुवं मुनीन्द्रं तं प्रणत्वैवमुवाच च ॥ भगवन् स महाभिज्ञः कदेह समुपासरेत् । इदानीं क्व प्रयातोऽसौ ह्येतदादेष्टुमर्हति ॥ इति संप्रार्थिते तेन विश्वभूः स मुनीश्वरः । बोधिसत्त्वं तमालोक्य सभां चाप्येवमब्रवीत् ॥ ततोऽसौ त्रिजगन्नाथो वाराणस्यां विनिश्चरन् । सत्त्वान् पश्यन् समुद्धर्तुं मगधेऽभिगतोऽधुना ॥ (१४८) तत्र स समुपाश्रित्य दुर्भिक्षपरिपीडितान् । नृमांसान्यपि भुंजानान् पिबतो रुधिराण्यपि ॥ परस्परं युध्यमानान्महापातकचारिणः । क्लेशाग्नितापितान् दुष्टान् संपश्यन्ननुपृच्छति ॥ कस्माद्यूयमिहान्योन्यं युद्धं कृत्वाविरोधिताः । नृमांसान्यपि भुक्त्वैवं पीत्वा नृरुधिराण्यपि ॥ क्लेशाग्निदहितात्मानो महापातचारिणः । भूतयक्षा इव क्षुराश्वरथैवमभद्रके ॥ इति तत्पृष्टमालोक्य सर्वे ते दुर्जना अपि । तत्पुण्यांशुपरिस्पृष्टा भवन्ति दमिताशयाः ॥ ततः सर्वेऽपि ते तस्य पुरतः समुपाश्रिताः । तं समीक्ष्य महासत्त्वं निवेदयन्ति तद्वृतिम् ॥ साधो यदत्र दुर्भिक्षमहोत्पातं प्रवर्तते । तन्नात्र विद्यते किंचिदन्नं पानं च भोजनम् ॥ विंशतिवर्षंजातो स दहतिः प्रवर्तिता । तत्क्षुत्तृष्णाग्निसंदग्धाः सर्वेऽतिक्लेशिता वयम् ॥ यदेवं क्लेशसंतप्ता दुःसहवेदनातुराः । निःस्नेहा निर्दयाः क्रूराश्चाण्डालवृत्तिचारिणः ॥ तदन्योन्यं निहत्यापि युद्धं कृत्वा दिवानिशम् । नृमांसान्यपि भुंजानाः पीत्वा नृरुधिराण्यपि ॥ कृत्वातिदारुणं कर्म महापातकचारिणः । स्वात्मानमेव संतृप्य पालयन्तश्चरामहे ॥ विंशतिवर्षपर्याप्तं कान्तारमिह वर्तते । अभक्ष्यान्यपि तद्भुक्त्वा पालयामः स्वजीवितम् ॥ तद्भवान् यदि शक्नोति दुर्भिक्षं शमयन्निह । कृत्वा सुभिक्षमस्माकं त्राता भवितुमर्हति ॥ इति तैः कथितं श्रुत्वा बोधिसत्त्वः स ऋद्धिमान् । गत्वा खे विविधं द्रव्यं प्रवर्षयति सर्वतः ॥ (१४९) प्रथममौदकं वर्षं प्रवर्तितं समन्ततः । तद्दृष्ट्वा ते जनाः सर्वे साश्चर्यहर्षिताशयाः ॥ तद्मृतं सुखं पीत्वा यथेच्छया प्रमोदिताः । संतृप्तरिसन्तुष्टा भवन्ति प्रीणीताश्रयाः ॥ ततश्चासौ महाभिज्ञो भोग्यानि विविधानि च । सुपिष्टादीनि खाद्यानि वर्षयति समन्ततः ॥ तानि दृष्ट्वा च ते सर्वे समागृह्य यथेच्छया । प्रभुक्त्वा सुखमासाद्य तिष्ठन्ति विस्मयान्विताः ॥ यदाहारेअण संतृप्ताः सर्वे ते संप्रमोदिताः । तदा धान्यादिसर्वाणि व्रीहिशस्यानि वर्षयन् ॥ विविधानि च वस्त्राणि द्रव्याणि विविधान्यपि । सर्वाणि धातुरत्नानि सर्वाणि भूषणानि च ॥ वर्षयंस्तत्र सर्वत्र करोति तान् प्रमोदितान् । तद्दृष्ट्वा सकला लोका भवन्ति विस्मयान्विताः ॥ तानि सर्वाणि ते सर्वे दृष्ट्वादाय यथेच्छया । पूरयित्वा गृहे कोष्ठे भवन्ति प्रतिनन्दिताः ॥ यदा तेषामभिप्रायं सर्वेसामनुसिध्यते । तदा ते नन्दिताः सर्वे समेत्येकान्त आश्रिताः ॥ परस्परं समालोक्य साश्चर्यहर्षिताशयाः । अहो कस्यानुभावोऽयमित्युक्त्वा समुपास्थिताः ॥ तदासौ त्रिजगच्छास्ता वृद्धमेकं महल्लकम् । सुदृष्ट्या समधिष्ठाय प्रेषयन्ति तदन्तिके ॥ तत्र स संचरन् वृद्धो जीर्णः कुब्जो महल्लकः । दण्डपरायणो गत्वा शनैः पश्चन्निषीदति ॥ तत्र मध्ये निषीत्वा स वृद्धस्तान् समुपाश्रितान् । सर्वांल्लोकान् समालोक्य कथयत्येवमानतः ॥ किं मन्यध्व इदं भद्रं जातं कस्यानुभावतः । कस्यापीदृक्प्रभावं हि नास्ति त्रैधातुकेष्वपि ॥ (१५०) ज्ञायाअं ह्यनुभावोऽयं लोकेशस्य जगत्प्रभोः । श्रूयतां वक्ष्यते तस्य प्रभावोऽत्र मयाधुना ॥ यो लोकेश्वरो नाम बोधिसत्त्वो जिनात्मजः । महासत्त्वो महाभिज्ञस्त्रैधातुकाधिपेश्वरः ॥ स सर्वेषामपि त्राता नाथः शास्ता हितार्थभृत् । धर्मश्रीगुणसंपत्तिसुखभर्ता गुरुं प्रभुः ॥ अन्धानामपि सन्मार्गं दर्शयति प्रदीपवत् । सूर्यादितापदग्धानां छत्रीभूतः सुधांशुवत् ॥ तृषितानां नदीभूतः क्षुधितानां सुरद्रुमः । रोगिणां शल्यहृद्वैद्यः माता पिता च दुःखिनाम् ॥ नरकाभ्युओपपन्नानामुद्धर्ता निर्वृतिप्रदः । दरिद्रानां प्रदाता च शरण्यं शरणार्थिनाम् ॥ अगतीनां गतिर्बन्धुमित्रं द्विपः परायणः । किमेव बहुनाख्याय सर्वधर्माधिपोऽप्यसौ ॥ सुखितास्ते महाभागा भद्राः सद्धर्मलाभिनः । येऽस्य त्रैधातुनाथस्य स्मृत्वा भजन्ति सर्वदा ॥ तेऽपि धन्या महात्मानः सद्धर्मगुणलाभिनः । येऽस्य नाम समुच्चार्य भजन्ति श्रद्धया सदा ॥ ते भवदुःखनिर्मुक्ता निःक्लेशा विमलाशयाः । पूजांगैः श्रद्धयाभ्यर्च्य भजन्ति ये समादरात् ॥ ये चास्य मण्डलं कृत्वं समभ्यर्च्य यथाविधि । जपस्तोत्रप्रणामाद्यैर्भजन्ते शरणाश्रिताः ॥ ते भवन्ति महाराजा नरेन्द्राश्चक्रवर्तिनः । धर्मश्रीगुणसत्कीर्तिसप्तरत्नसमन्विताः ॥ सौम्याः सुगन्धिकायाश्च पूर्णगात्राः शुभेन्द्रियाः । जातिस्मराः सुभद्रांशाः सद्धर्मगुणसाधिनः ॥ एवं तस्य जगत्त्रातुः सद्गुणं वर्ण्यते कथम् । अप्रमेयमसंख्येमित्याख्यातं मुनीश्वरैः ॥ (१५१) एवं तस्य महत्पुण्यस्कन्धमहत्तरं वरम् । यूयं विज्ञाय नामापि स्मृत्वा भजत सर्वदा ॥ ये चास्य श्रद्धया नित्यं स्मृत्वा ध्यात्वा समाहिताः । नामापि च समुच्चार्य भजन्ति शरणाश्रिताः ॥ दुर्गतिं ते न गच्छन्ति कदाचिदपि कुत्रचित् । सदा सद्गतिसंजाता भवन्ति श्रीगुणाश्रयाः ॥ कृत्वा भद्राणि सत्त्वानां भुक्त्वा सौख्यानि सर्वदा । बोधिचर्याव्रतं धृत्वा प्रान्ते यान्ति सुखावतीम् ॥ तत्रामितरुचेः शास्तुः पीत्वा धर्मामृतं सदा । त्रिविधां बोधिमासाद्य निर्वृतिपदमाप्नुयुः ॥ इति तेन समादिष्टं श्रुत्वा सर्वेऽपि ते जनाः । तथेति प्रतिनन्दित्वा व्रजन्ति स्वगृहं ततः ॥ सोऽपि महल्लको वृद्धः सद्धर्मगुणविस्तरम् । समाख्याय समुत्थाय संप्रयाति स्वमालयम् ॥ तदा सर्वेऽपि ते लोक मागधिकाः प्रबोधिताः । लोकेश्चरमनुस्मृत्वा भजन्ति सर्वदा मुदा ॥ तदारभ्य सदा तत्र सुभिक्षं संप्रवर्तितम् । सर्वे सत्त्वा यथाकामं भुक्त्वा चरन्ति सद्वृषे ॥ सर्वे ते विमलात्मानश्चतुर्ब्रह्मविहारिणः । बोधिचर्याव्रतं धृत्वा संचरन्ते शुभे सदा ॥ एवं स त्रिजगन्नाथो लोकेश्वरो जिनात्मजः । सर्वधर्माधिपः शास्ता बोधिसत्त्वः कृपानिधिः ॥ स्वयं सत्त्वान् समाअलोक्य पापिनो दुर्जनानपि । बोधयित्वा प्रयत्नेन चारयति शुभे व्रते ॥ एवं तस्य जगद्भर्तुः पुण्यस्कन्धं महत्तरम् । अप्रमेयमसंख्येयमित्याख्यातं जिनैरपि ॥ तेनासौ त्रिजगन्नाथः सर्वत्रैधातुकाधिपः । सर्वर्माभिसंभर्ता बोधिश्रीगुणरत्नभृत् ॥ (१५२) सर्वैर्मुनीश्वरैश्चापि प्रशंसितोऽभिसंष्टुतः । सर्वैर्लोकाधिपैश्चापि नित्यं स्मृत्वाभिवन्दितः ॥ इत्येवं तस्य सद्धर्मगुणमाहात्म्यमुत्तमम् । विज्ञाय स्मरणं धृत्वा भजन्तु बोधिवांछिनः ॥ ये तस्य शरणे स्थित्वा स्मृत्वा ध्वात्वापि चेतसा । नामोच्चार्याभिवन्दित्वा स्तुत्वा भजन्ति सर्वदा ॥ दुर्गतिं ते न गच्छन्ति क्वचिदपि कदाचन । सदा सद्गतिसंजाता भवन्ति बोधिचारिणः ॥ बोधिचर्याव्रतं धृत्वा सर्वसत्त्वहितोद्यताः । बोधिश्रीगुणसंपन्नाः संप्रयान्ति सुखावतीम् ॥ तत्रामितरुचेः शास्तुः पीत्वा धर्मामृतं सदा । त्रिविधां बोधिमासाद्य संबुद्धपदमाप्नुयुः ॥ इति यूयमपि ज्ञात्वा स्मृत्वा तं त्रिगुणाधिपम् । ध्यात्वा स्मृत्वाभिवन्दित्वा भजध्वं सर्वदादरात् ॥ इत्यादिष्टं मुनीन्द्रेण विश्वभुवा निशम्य ते । सर्वे लोकास्तथेत्युक्त्वा प्राभ्यनन्दन् प्रबोधिताः ॥ ॥ इति मागधिकसत्त्वप्रबोधनोद्धारणप्रकरणं समाप्तम् ॥ १५. श्रीजेताराम विश्वभू दर्शन सुखावती प्रत्युद्गम प्रकरणम् अथ सर्वनीवरणविष्कम्भी स जिनात्मजः । सांजलिः श्रीघनं नत्वा समालोक्यैवमब्रवीत् ॥ भगवन् स महासत्त्वो लोकेश्वरस्ततश्चरन् । कुत्र सत्त्वान् समुद्धर्तुं संप्रयातस्तदादिश ॥ इति तदुक्तमाकर्ण्य भगवन् स मुनीश्वरः । सभां विष्कम्भिनं तं च समालोक्यैवमादिशत् ॥ ततोऽप्यन्तर्हितश्चासौ लोकेश्वरो वियद्गतः । संभासयन् जगल्लोकं स्थित्वा चैवं व्यचिन्तयत् ॥ (१५३) जेतारामे विहारेऽद्य सर्वदेवासुरादयः । लोकाः समेत्य सद्धर्मं श्रोतुं सभासमाश्रिताः ॥ अहमपि मुनीन्द्रं तं विश्वभुवं जगद्गुरुम् । वन्दितुं तस्य धर्मं च श्रोतुं गच्छेयं साम्प्रतम् ॥ इति ध्यात्वा स लोकेश्वरः प्रभासयन् समन्ततः । प्रह्लादयन् जगल्लोकं जेताराममुपाचरत् ॥ तत्र स समुपाविश्य संपश्यन्स्तं मुनीश्वरम् । सर्वावतीं सभां तां च संभासयन्नुपासरत् ॥ तं दृष्ट्वा समुपायातं गगनगंज उत्थितः । उपेत्य तं मुनिं नत्वा सांजलिरेवमब्रवीत् ॥ भगवन्नयमायातः कतमस्सुगतात्मजः । बोधिसत्त्वो जगल्लोकं प्रभासयन् समागतः ॥ इति तत्पृष्टमालोक्य विश्वभूः स मुनीश्वरः । लोकेश्वरोऽयमायात इति पश्यन्स्तमब्रवीत् ॥ तत्रोपेत्य स लोकेशो बोधिसत्त्वो विलोकयन् । त्रिधा प्रदक्षिणीकृत्य विश्वभुवो जगद्गुरोः । सांजलिः प्रणतिं कृत्वा वामपार्श्वे समाश्रयत् ॥ कच्चिते कुशलं काये श्रान्तः क्लान्तश्च मास्यपि । इत्येवं कुशलं पृष्ट्वापृच्छत्स भगवान् पुनः ॥ कुलपुत्र त्वया कुतेर सत्त्वाः समुद्धृताः । कियन्तो बोधयित्वा च नियुज्य स्थापिता शुभे ॥ इति पृष्टे मुनीन्द्रेन लोकेश्वरः स आदितः । विस्तरेण मुनीन्द्रस्य पुर एवं न्यवेदयत् ॥ प्रेतलोकेषु ये सत्त्वाः प्रेताः सूचीमुखादयः । तेऽपि सर्वे मयोद्धृत्य संप्रेषिताः सूखावतीम् ॥ ये चावीचौ निमग्नास्ते सर्वे मया समुद्धृताः ॥ कालसूत्रे च ये सत्त्वा ये चापि रौरवाश्रिताः । हाहे च तपने ये च शीतोदके चये स्थिताः ॥ (१५४) असिच्छदे च ये सत्त्वाः संवृते चापि ये स्थिताः । एवमन्यत्र सर्वत्र नरकेषु समास्थिताः ॥ तेऽपि सर्वे मयोद्धृत्य संप्रेषिताः सुखावतीम् ॥ ये चापि पापिनो दुष्टास्तेऽपि मया प्रयत्नतः । बोधयित्वा प्रतिष्ठाप्य बोधिमार्गे नियोजिताः ॥ तथा कांचनभूम्यां च सत्त्वा येऽधोमुखाः । अपि ते सर्वेऽपि मया यत्नाद्बोधिमार्गे नियोजिताः ॥ तथा रुपमयीभूम्यां सत्त्वाः पुरुषपुंगलाः । तेऽपि मया प्रयत्नेन बोधिमार्गे नियोजिताः ॥ ततश्चायोमयीभूम्यां पाताले निवसन्ति ये । बलिप्रमुखदैत्याश्च दुर्दान्ता मदमानिनः ॥ तेऽपि सर्वे मया यत्नाद्बोधयित्वा प्रसादिताः । बोधिमार्गे प्रतिष्ठाप्य चारयित्वा जगद्धिते ॥ तमोऽन्धकारभूम्यं च ये सत्त्वा यक्षराक्षसाः । ते सर्वे बोधिमार्गेषु बोधयित्वा नियोजिताः ॥ शुद्धावासे देवलोके सुकुण्डलादयोऽमराः । बोधयित्वा प्रयत्नेन बोधिमार्गे नियोजिताः ॥ ततः सिंहलद्वीपे च राक्षस्योऽपि प्रयत्नतः । बोधयित्वा बोधिमार्गे सर्वाः स्थापिता मया ॥ वाराणस्यां च येऽमेध्यनिमग्नाः कृमयोऽपि ते । सर्वे मया समृद्धृत्य संप्रेषिताः सुखावतीम् ॥ ततो मागधिका लोका दुष्टा अपि प्रयत्नतः । बोधयित्वा बोधिमार्गे नियुज्य पालिता मया ॥ एवमन्येऽपि सत्त्वाश्च दुष्टाः पातकिनोऽपि ते । सर्वे मया समुद्धृत्य संप्रेषिताः सुखावतीम् ॥ एवं भूताः पिशाचाश्च प्रेताश्चापि निशाचराः । सर्वे पापिनो मग्नाः सर्वेषु नरकेष्वपि । मया समुद्धृत्य संप्रेषिताः सुखावतीम् ॥ (१५५) तिर्यंचोऽपि सर्वे सद्गतौ स्थापिता मया । तेऽपि मया समुद्धृत्य संप्रेषिताः सुखावतीम् ॥ एवं नागाश्च दैत्याश्च यक्षगन्धर्वकिन्नराः । कुम्भाण्डा राक्ष्यश्चापि दुष्टा दर्पाभिमानिनः ॥ तेऽपि सर्वे प्रयत्नेन बोधिमार्गे मयेरिताः ॥ एवं च मानवा दुष्टाः पापिष्ठा अपि यत्नतः । शोधयित्वा समालोक्य बोधिमार्गे नियोजिताः ॥ एवं दिव्यसुखारक्ता देवाश्चापि प्रयत्नतः । बोधयित्वा मया सर्वे बोधिमार्गे नियोजिताः ॥ एवं सर्वेऽपि सत्त्वाश्च त्रैधातुकनिवासिनः । बोधिमार्गे प्रतिष्ठाप्य प्रेषणीयाः सुखावतीम् ॥ एवं सर्वान् समालोक्य समुद्धृत्य समन्ततः । भवतां दर्शनं कर्तुमिहाहमागतोऽधुना ॥ भवतां दर्शनं प्राप्य साfअल्यं मे परिश्रमम् । इतोऽहं भगवंच्छास्ता गमिष्यामि सुखावतीम् ॥ भवानिह समाश्रित्य पुण्याभैर्भासयन् जगत् । सद्धर्मं सर्वदादिश्य विहरतु जगद्धिते ॥ इति तेन समाख्यातं श्रुत्वा स संप्रहर्षितः । गगनगंज आलोक्य लोकेशमेवमव्रवीत् ॥ अहो ईदृक्महाभिज्ञं दृष्टं श्रुतं न कस्यचित् । संबुद्धानां न विद्यन्ते तत्कस्यान्यस्य विद्यते ॥ इत्युक्त्वा स महासत्त्वो गगनगंज उत्थितः । तस्य लोकेश्वरस्याग्रे सांजलिः समुपाचरन् ॥ मा त्वं श्रान्तोऽसि लोकेश कच्चित्ते कौशलं तनौ । इति पृष्ट्वा पदाम्भोजे नत्वा पश्यन् समाश्रितः ॥ इत्येवं तेन संपृष्टे लोकेश्वरो निशम्य ते । गगनगंजमालोक्य सस्मित एवमब्रवीत् ॥ नात्राहं भवतां मध्ये श्रान्तः क्लिष्टोऽपि वा चरे । भवतां दर्शनेनापि कौशल्यं मम सर्वतः ॥ (१५६) इति तेन समादिष्तं निशम्य संप्रमोदितः । गगनगंज आलोक्य तं लोकेशमभाषत ॥ सदात्रास्मद्धिते शास्तर्विहरस्व कृपामते । भवद्धर्मामृतं पीत्वा करिष्यामो जगद्धितम् ॥ इति तदुक्तमाकर्ण्य लोकेश्वरो जिनात्मजः । गगनगंजमालोक्य तं पुनरेवमब्रवीत् ॥ नाहं सदेह तिष्ठेयं सर्वत्रापि चरेय हि । यथा मया प्रतिज्ञातं कर्तव्यं तज्जगद्धितम् ॥ सर्वे सत्त्वा मयालोक्य बोधयित्वा प्रयत्नतः । बोधिमार्गे प्रतिष्ठाप्य प्रेषणीयाः सुखावतीम् ॥ तत्सत्त्वान् समुद्धृत्य शोधयित्वाभिबोधयन् । बोधिमार्गे प्रतिष्ठाप्य गमिष्यामि सुखावतीम् ॥ तद्भन्तः सदाप्येवं संबुद्धशरणाश्रिताः । बोधिचर्याव्रतं धृत्वा विहरन्तु जगद्धिते ॥ सदा वो मंगलं भूयात्कार्ये संबोधिसाधने । संसिध्यतु जगद्भद्रसाधनश्रीः समृद्ध्यतु ॥ इत्यादिष्टं जगद्भर्त्रा श्रुत्वा स संप्रहर्षितः । गगनगंज एनं च समालोक्यैवमब्रवीत् ॥ भवतामपि सिध्यन्तु कार्याणि त्रिजगद्धिते । मंगलं च सदा भूयात्संबोधिश्रीः समृद्ध्यतु ॥ इत्येवं तौ महासत्वौ पृष्ट्वान्योन्यं सकौशलम् । मिथौ भद्राशिषं दत्वा तूष्णीभूत्वावतिष्ठतुः ॥ तदासौ भगवांच्छास्ता विश्वभूस्तान् सभाश्रितान् । सर्वांल्लोकान् समालोक्य सद्धर्मं समुपादिशत् ॥ शृण्वन्तु कुलपुत्रा यत्संबोधिज्ञानसाधनम् । सद्धर्मं तन्मयाख्यातं सत्त्वानां भद्रकारणम् ॥ प्रथमं बोधिसत्त्वेन संबोधिज्ञानसिद्धये । संबोधिं प्रणिधिं कृत्वा कर्तव्यं दानमीप्सितम् ॥ (१५७) ततो विरम्य पापेभ्यो दशभ्योऽपि समादरात् । शुद्धशीलं समाधाय चरितव्यं सुसंवरम् ॥ ततः क्लेशान् विनिर्जित्य चतुर्ब्रह्मविहारिणः । क्षान्तिव्रतं सदा धृत्वा चरितव्यं जगद्धितम् ॥ ततो धर्ममहोत्साहं धृत्वा सत्त्वार्थसाधने । पापमित्रारतिं त्यक्त्वा साधनीयं महद्गुणम् ॥ ततो दुष्टाशयं त्यक्त्वा कामभोग्यविरागिना । सुधीरचित्तमाधाय ध्यातव्यं त्रिजगद्धितम् ॥ ततो दुर्मित्रसंरागं त्यक्त्वा संबोधिरागिना । प्रज्ञाब्धौ बोधिसद्रत्नं साधनीयं जगच्छुभे ॥ एताः पारमिताः षड्वा पूरयित्वा यथाक्रमम् । सर्वान्मारगणान् जित्वा संबोधिज्ञानमाप्स्यते ॥ तत एवं महाभिज्ञश्रीईसंपद्वीर्यसद्गुणैः । सर्वसत्त्वहितं कृत्वा संबुद्धपदमाप्स्यते ॥ एवं यूयं परिज्ञाय संबुद्धत्वं यदीच्छथ । एवं पारमिताः सर्वाः पूरयध्वं यथाक्रमम् ॥ संबोधिप्रणिधिं धृत्वा चतुर्ब्रह्मविहारिणः । त्रिरत्नभजनं कृत्वा संचरध्वं जगद्धिते ॥ एतत्पुण्यानुभावेन सर्वे यूयं जितेन्द्रियाः । अर्हन्तः प्राप्य संबोधिं संबुद्धपदमाप्स्यथ ॥ इत्यादिष्टं मुनीन्द्रेण विश्वभुवा निशम्य ते । सर्वे लोकाः सभासीनस्तथेत्यभ्यनुमोदिताः ॥ विश्वभुवं मुनीन्द्रं तं तन्त्रलोकाधिपेश्वरम् । कृतांजलिपुटा नत्वा स्वस्वालयं ययुर्मुदा ॥ ततो लोकेश्वरो गत्वा खेऽग्निपिण्ड इवोज्जवलन् । संभासयन् जगल्लोकं द्रुतं सुखावतीं ययौ ॥ इत्येवं त्रिजगत्त्रातुर्लोकेशस्य महात्मनः । विश्वभुवा समादिष्टं महाभिज्ञं मया श्रुतम् ॥ (१५८) दृष्टं चापि तथा तस्य लोकेशस्य जगत्प्रभोः । महाभिज्ञानुभावत्वं मया तद्वो निगद्यते ॥ एवं तस्य महाभिज्ञं मत्वा यूयं समादरात् । ध्यात्वा स्मृत्वा समुच्चार्य नामापि भजताभवम् ॥ ये तस्य शरणे स्थित्वा ध्यात्वा स्मृत्वापि सर्वदा । नामापि च समुच्चार्य भजन्ति बोधिमानसाः ॥ दुर्गतिं ते न गच्छन्ति कदाचन क्वचिद्भवे । सदा सद्गतिसंजाताः सद्धर्मगुणसाधिनः ॥ भद्रश्रीगुणसंपत्तिसमृद्धिसिद्धिभाविनः । सदा लोके शुभं कृत्वा प्रान्ते यायुः सुखावतीम् ॥ तत्रामिताभनाथस्य पीत्वा धर्मामृतं सदा । त्रिविधां बोधिमासाद्य संबुद्धपदमाप्नुयुः ॥ इत्यादिष्टं मुनीन्द्रेण श्रीघनेन निशम्य ते । सर्वे लोकाः सभासीनाः प्राभ्यनन्दन् प्रबोधिताः ॥ ॥ इति श्रीजेतारामविश्वभूदर्शनसुखावतीप्रत्युद्गमप्रकरणं समाप्तम् ॥ १६. सिंहल सार्थवाहोद्धारण प्रकरणम् अथ सर्वनीवरणविष्कम्भी स जिनात्मजः । श्रीघनं तं पुनर्नत्वा सांजलिरेवमब्रबीत् ॥ भगवन् यदसौ श्रीमदार्यावलोकितेश्वरः । बोधिसत्त्वो महासत्त्वस्त्रैधातुकाधिपेश्वरः ॥ सर्वान् सत्त्वान् स्वयं पश्यन् त्रिधातुभुवनेष्वपि । समुद्धृत्याभिसंबोध्य प्रेषयति सुखावतीम् ॥ पापिनोऽपि समालोक्य स्वयमुद्धृय बोधयन् । बोधिमार्गे प्रतिष्ठाप्य संचारयते संवरम् ॥ तत्कथं स महासत्त्वः समुद्धृत्याभिशोधयन् । कृत्वा शुद्धेन्द्रियान् सर्वान् प्रेषयति सुखावतीम् ॥ (१५९) केनोपायेन पापिष्ठान् दुष्टानपि प्रबोधयन् । बोधिमार्गे नियुज्यापि प्रचारयनि संचरन् ॥ कथं सुदुःखिनः सर्वान् करोति सत्सुखान्वितान् । दरिद्रान् दुर्भगान् दीनान् धनिनः सुभगान् सतः ॥ दुर्दान्तान् दानवान् यक्षान् राक्षसान् राक्षसीरपि । बोधिमार्गे प्रतिष्ठाप्य चारयति कथं व्रतम् ॥ तदुपायं समाख्यातुं सत्त्वानां हितसाधनम् । येनोपायेन स सर्वान् करोति बोधिभागिनः ॥ इति संप्रार्थिते तेन विष्कम्भिना सुभाविना । भगवान् स तमालोक्य सभां चाप्येवमादिशत् ॥ कुत्रपुत्र स लोकेशो महोपायविधानवित् । येन सत्त्वान् समुद्धृत्य करोति बोधिभागिनः ॥ समाअधिस्तस्य प्राज्ञस्य महोपायो जगद्धिते । येन स सहसोद्धृत्य योजयति शुभे जगत् ॥ इत्यादिष्टं मुनीन्द्रेण श्रुत्वा स विस्मिताशयः । विस्कम्भी भगवन्तं तं प्रार्थयदेवमादरात् ॥ भगवांस्तत्समाधिं मे समुपादेष्टुमर्हति । येन सहसोद्धृत्य चारयते शुभे जगत् ॥ इति संप्रार्थिते तेन भगवान् स मुनीश्वरः । विष्कम्भिनं तमालोक्य पुनरेवं समादिशत् ॥ बहवस्तस्य विद्यन्ते कुलपुत्र समाधयः । यैः स सत्त्वान् समुद्धृत्य प्रेषयति सुखावतीम् ॥ अप्रेमेयैरसंख्येयैः सर्वाकारकरादिभिः । समाधिभिः समापन्नो भवति स जगत्प्रभुः ॥ धारणीनां च विद्यानां परमाणां सहस्रकैः । अप्रमेयैरसंख्येयैः समापन्नो विराजते ॥ एतेषामनुभावैः स समुद्धृत्य भवोदधेः । बोधिमार्गे प्रतिष्ठाप्य पालयति जगत्त्रयम् ॥ (१६०) एतत्पुण्यानुभावैः स लोकेश्वरो महर्द्धिमान् । शोधयित्वा जगत्सत्त्वं चारयति सुसंवरम् ॥ एवं तस्य जगत्त्रातुः पुण्यस्कन्धं महत्तरम् । अप्रमेयमसंख्येयमित्याख्यातं मुनीश्वरैः ॥ तेनासौ त्रिजगच्छास्ता सर्वत्रैधातुकेश्वरः । सर्वधर्माधिपो नाथो जगत्त्रातेति कथ्यते ॥ तेन तस्य भये दुःखे रक्षा न क्रियते क्वचित् । सर्वत्रापि सदा रक्षा क्रियते सर्वप्राणिनाम् ॥ नानोपायविधानेन समुद्धृत्य प्रबोधयन् । बोधिचर्याव्रतं दत्वा प्रापयति सुखावतीम् ॥ एवमसौ महासत्वो बोधिसत्त्वो महर्द्धिमान् । सर्वसत्त्वहित्तं कृत्वा संचरते समन्ततः ॥ अहमपि पुरा तेन संरक्षितो महाभयात् । यन्ममैतत्पुरावृत्तं शृणुध्वं वक्ष्यतेऽधुना ॥ तद्यथा सिंहकल्पायां राजधानां वणिक्प्रभोः । सिंहस्य सार्थवाहस्य पुत्रोऽभूत्सिंहलाभिधः ॥ बाल्येऽपि स महासत्त्वः सर्वसत्त्वहिताशयः । दिव्यातिसुन्दरः कान्तः सर्वसत्त्वमनोहरः ॥ कौमार्येऽपि स सर्वासां विद्यानां पारमागतः । सर्वसत्त्वहितं कृत्वा रेमे सुहृत्सहायकैः ॥ दत्वार्थिभ्यो यथाकामं श्रुत्वा नित्यं सुभाषितम् । गुरुणां सत्कृतिं कृत्वा कुलधर्माभिसंरतः ॥ स्वकुलदेवतादीन् च सर्वान् देवान् समर्चयन् । मानयन् सकलांल्लोकान् भृत्यान् दासान् च तोषयन् ॥ ज्ञातिबन्धुसुहृन्मित्रसचिवान् चाभिनन्दयन् । यथाकामं सुखं भुक्त्वा रेमे पित्रोरनुज्ञया ॥ ततो नूतनयौवन्ये प्रौढः पुष्टांगिकः कृती । शूरो धीरः समुत्साही व्यवहारविचक्षणः ॥ (१६१) मेधावी सद्गुणारक्तः सर्वविद्याविशारदः । यदुपचार आत्मज्ञः सत्यधर्मयशोऽर्थभृत् ॥ यथामूल्यं समादाय द्रन्यं दत्वा वणिग्जनान् । सर्वान्विनीय संस्थाप्य स्ववशेऽभ्यन्वमोदयत् ॥ सर्वेषामपि रत्नानां परीक्षासु विचक्षणः । सार्थवाहान् वणिग्नाथानपि सर्वान् व्यनोदयत् ॥ एवं स सकलांल्लोकान् धर्मश्रीगुणविक्रमैः । जित्वा राजेव सन्नीत्या विहरन्नभ्यराजत ॥ तस्यैतद्गुणसंपत्तिं दृष्ट्वेर्ष्यालुर्वणिक्कुधीः । रहसि तं समागम्य सुहृद्वदेवमब्रवीत् ॥ साधो धन्योऽसि सत्पुत्रः सर्वलोकाभिनन्दनः । तत्कुलर्जितसंवृत्तौ चरन् धर्मार्थमर्जय ॥ इति तेनोदितं श्रुत्वा सिंहलः स विचक्षणः । को कुलार्जितसंवृत्तिस्तद्वक्तुं मे त्वमर्हति ॥ इति तेनोदितं श्रुत्वा स ईर्ष्याकुलिताशयः । सिंहलं तं समालोक्य बोधितुमेवब्रवीत् ॥ जनकस्ते महाभाग सार्थवाहो वणिक्पतिः । सदा रत्नाकरे गत्वा सो धयति सुसंपदे ॥ धन्यास्ते एव सत्पुत्रा ये कुलधर्मचारिणः । अन्ये किंपुरुषास्ते हि भुक्त्वैव गृहचारिणः ॥ पितुर्द्रव्यं समादाय दत्वार्थिभ्यो न ते fअलम् । स्वार्जितमेव तन्दद्याद्यशोधर्मार्थसिद्धये ॥ तत्त्वं कुलार्जितां वृत्तिं दधानः श्रीगुणोत्साहः । अब्धौ रत्नाकरे गत्वा रत्नद्रव्याणि साधय ॥ ततो गृहं समागत्य दत्वार्थिभ्यो यथेप्सितम् । यथाकामं सुखं भुक्त्वा संचरस्व यशोऽन्वितः ॥ एवं श्रीगुणसंपत्तियशोधर्मासुखान्वितः । स्वकुलवृत्तिसंचारमहोत्साहैः सदा रम ॥ (१६२) एवं तदुक्तमाकर्ण्य सिंहलः स प्रबोधितः । समुद्रं गन्तुमुत्साहं प्रवर्धयन्मुदाचरत् ॥ ततः स सिंहलोऽम्भोधियात्रां गन्तुं समुत्सुकः । सार्थवाहात्मजान् सर्वान् समामन्त्र्यैवमब्रवीत् ॥ भवन्तोऽहं समिच्छामि गन्तुं रत्नाकरेऽधुना । भवतां यदि वांछास्ति प्रागच्छन्तु मया सह ॥ इति तदुक्तमाकर्ण्य सर्वे ते वणिगात्मजाः । तथेति प्रतिनन्दतः सहर्षमेवमब्रुवन् ॥ सार्थवाह समिच्छामो गन्तुं रत्नाकरे वयम् । यदस्माकं भवान्नेता तदन्वाहर्तुमर्हति ॥ इति तैः सह संभाष्य स सिंहलः समुन्मनाः । पितुः पादाम्बुजे नत्वा सांजलिरेवमब्रवीत् ॥ ततोऽहं गन्तुमिच्छामि रत्नाकरे महाम्बुधै । तद्भवान् सुदृशा मह्यमनुज्ञां दातुमर्हति ॥ इति पुत्रोदितं श्रुत्वा सिंहः सः सार्थभृत्पिता । स्वात्मजं तं समालोक्य सुचिन्तादेवमब्रवीत् ॥ पुत्र शृणु हितं वाक्यं मयोदितं त्वयात्मज । यत्तावत्सुकुमारोऽसि तत्कथमम्बुधौ व्रजेः ॥ तावन्मेऽस्ति महासंपन्मया कष्टैरुपार्जिता । सर्वा एतास्तवाधीना भुक्त्वा रम यथेच्छया ॥ यावज्जीवाम्यहं पुत्र तावद्गृहे सुखं रमन् । यथाकामं प्रभुज्यैवं संचरस्व यथेप्सिते ॥ तत्रैव च महाम्भोधौ तावन्मा व्रजथाः क्वचित् । मृतेऽपि मयि तत्राब्धौ गन्तुं नेह कदाचन ॥ यावद्द्रव्ये गृहे पूर्णे तावन्मा गाः कुहापि च । यदा क्षीणे गृहे द्रव्यं तदापि स्वगृहेऽर्जय ॥ सर्वदापि त्वया पुत्र महाम्बुधै सुदुस्तरे । गन्तुं नैवाभिवाछां ते भवेद्वांछास्ति ते यदि ॥ (१६३) किमेव बहुभिर्द्रव्यैः क्लेश एव यदुद्भवेत् । क्लेशिना हि सदा दुःखं संसारे सुखता कुतः ॥ बहुद्रव्यवतां नित्यं क्लेशदुःखमहद्भयम् । तन्निरर्थं बहुद्रव्यं साधने मा समुद्यम ॥ यदर्जितं बहुद्रव्यं गृहेऽस्ति तावदात्मज । एतत्सर्वं तवाधीनं तत्किमर्थत्वमर्जितुम् ॥ एततसर्वं त्वमादाय दत्वार्थिभ्यो यथेच्छया । यथाकामं स्वयं भुक्त्वा यावज्जीवं सुखं चर ॥ इति पित्रा समादिष्टं श्रुत्वात्नजस्स सिंहलः । जनकं तं समालोक्य पुनरेवं न्यवेदयत् ॥ सत्यमेव त्वयादिष्टं तथापि श्रूयतां मम । अभिप्रायं प्रवक्ष्यामि श्रुत्वानुबुध्यतां पितः ॥ विधिना प्रेरितो यत्र जातस्तद्वृत्तिसाधितैः । धर्मविद्यागुणद्रव्यसंपद्भिरेव शोभते ॥ तदन्यथार्जितैरेतैर्धर्मविद्यागुणादिभिः । सर्वद्रव्यैः समापन्नः पुमानपि न शोभते ॥ यदहं कर्मणा जातः सार्थवाहकुले तथा । तत्कुलवृत्तिविभ्राणः संचरितुं समुत्सहे ॥ तदहं स्वकुलाचारवीर्योत्साहाभिमानभृत् । गत्वा रत्नाकरेऽप्यब्धौ रत्नायर्जितुमुत्सहे ॥ स्वयमेवार्जितं द्रव्यं दत्वार्थिभ्यो यथेप्सितम् । भुक्त्वैव स्वजनान् बन्धूनपि संभर्तुमुत्सहे ॥ इत्येवं स कुलाचारवृत्तिधर्मार्थसाधिनम् । स्वात्मजं मां समालोक्य प्राभिनन्दितुमर्हसि ॥ निवारणा न कार्यात्र मम धर्मार्थसाधने । त्वयानुज्ञाप्रदानेन नन्दनीयोऽहमात्मजः ॥ यदि दैवाद्विपत्तिः स्यात्सर्वतीर्थाधिपेऽम्बुधौ । पतित्वा सर्वमुत्सृज्य संप्रयायां सुरालयम् ॥ (१६४) तथापि मां महत्पुण्यकीर्त्तिः संशोधयेत्कुलम् । इति विज्ञाय मे तात ह्यनुज्ञां दातुमर्हति ॥ गृहेऽपि नो भवेदेव विपित्तिर्दैवयोगतः । अवश्यंभाविनो वा भवेयुरेव सर्वतः ॥ इति शंकाविषं हित्वा सद्धर्मस्मृतिमानसः । धर्मार्थसाधने नित्यं महोत्साही समाचरेत् ॥ अथाहं क्षमकौशल्यं संपन्नो निरुपद्रवः । रत्नश्रीसुखसंयुक्तं संप्रायां स्वगृहे मुदा ॥ तदा किमुच्यते सौख्यं यशोधर्मोत्सवान्वितम् । दत्वार्थिभ्यो यथाकामं भुक्त्वा शुभे चरेमहि ॥ ततोऽस्मत्कुलजाश्चापि धर्माचारसमन्विताः । दत्वार्थिभ्यो यथाकामं भुक्त्वा यायुः सुरालयम् ॥ एतत्सत्यमिति ज्ञात्वा यदीच्छसि हितं मम । सुदृशानुग्रहं कृत्वा तदनुज्ञां प्रदेहि मे ॥ यद्यनुज्ञां ददासि न वियोगो नौ भवेद्ध्रुवम् । मृत्युर्हि सर्वजन्तूनां सर्वत्रापि पुरः सदा ॥ इति पुत्रोदितं श्रुत्वा सिंहः पिता स बोधितः । आत्मजं तं समालोक्य सिंहमेवमब्रवीत् ॥ यद्येवं निश्चयं पुत्र समुद्रे गन्तुमिच्छसि । तव निर्बन्धितं चितां वारयितुं न शक्यते ॥ तद्गच्छ ससहायस्त्वं मार्गेऽरण्ये वनेऽम्बुधौ । महाभयानि विद्यन्ते तत्समीक्ष्य समन्ततः ॥ शीतवातातपादीनि दुःखानि दुःसहान्यपि । सहित्वा धैर्यमालम्ब्य शनैर्व्रजाभिलोकयन् ॥ सिध्यतु ते विसंयात्रा भूयात्सर्वत्र मंगलम् । यथा हि वांछितं द्रव्यं गृहीत्वायाह्यविघ्नतः ॥ इति पित्राभ्यनुज्ञाते सिंहलः संप्रमोदितः । पित्रोः पादान् प्रणत्वैव सहसा गन्तुमारभेत् ॥ (१६५) तदा माता समालिंग्य सिंहलं तं प्रियात्मजम् । रुदन्त्यश्रुभिर्लिप्तास्या विलपन्त्यैवमब्रवीत् ॥ हा पुत्र मां परित्यज्य कथं गन्तुं त्वमिच्छसि । नान्यो मे विद्यते कश्चिदेक एव त्वमात्मजः ॥ हा जिवननन्दनो मेऽसि वल्लभो हि न चापरः । हा प्राण मातारि स्नेहः कथं ते विद्यते न हि ॥ यदा गर्भप्रविष्टो मे तदारम्भ समादरात् । मया सदाभिनन्दन्त्या संपाल्यसे प्रयत्नतः ॥ जायमानोऽपि संदृष्ट्वा मया संपालितो मुदा । बाल्येऽपि च सदालोक्य संपाल्य परिपुष्यसे ॥ कौमार्येऽपि समाराध्य सहानन्देन वर्द्धितः । मया संपालितः प्रौढभूतोऽसि नवयौवनः ॥ इदानीं त्वं युवा भूत्वा कथं मां त्यक्तुमिच्छसि । पुत्रः स्वां मातरं वृद्धां रक्षदेव त्यजेन्न तु ॥ इदानीं कथमेवं त्वं निःस्नेहश्चरसे मयि । हा पुत्र कथं मे को मां जीर्णितां त्यक्तुमर्हति ॥ यावज्जीवाम्यहं पुत्र कुत्रापि मा व्रजोऽन्यतः । यथाकामं सुखं भुक्त्वा संचरस्व गृहे रमन् ॥ मृतायां मयि ते पुत्र यत्रेच्छा वर्तते तदा । तत्र गत्वा यथाकामं कुरु धर्मार्थसाधनम् ॥ इति मात्रोदितं श्रुत्वा सिंहलः स विनोदितः । मातरं तां विलपन्तीं समाश्वस्यैवमब्रतीत् ॥ मा रौत्सीः किं विषादं ते धैर्यमालम्ब्य मा शुचः । विधिना प्रेरितो यत्र तत्रावश्यं गतिर्भवे ॥ यदभावि भवेत्तत्र सर्वत्रापि भवे सदा । भावि चेदृग्भवेदेव नैवान्यथा क्वचिद्भवेत् । अवश्यंभाविनो भावा भवन्त्येव हि नान्यथा । सर्वेषामपि जन्तूनां षड्गतिभवचारिणाम् ॥ (१६६) सर्वेषांश्चापि जन्तूनां सर्वत्र मृत्युरग्रतः । संपत्तिश्च विपत्तिश्च स्वस्वदैवानुयोगतः ॥ इति विज्ञाय किं मातविर्योगदुःखशंकया । अवश्यमेव सर्वेषां वियोगं भवचारिणाम् ॥ इति मेऽत्र महत्कार्ये कुलधर्मार्थसाधने । रुदित्वैवं निवारन्ती विघ्नं कर्तुं न चार्हसि ॥ यदि तेऽस्ति मयि स्नेहो पश्यन्ती सुदृशैव माम् । दत्वा भद्राशिषं मह्यमनुज्ञां दातुमर्हसि ॥ ममार्थे देवतां स्मृत्वा प्रार्थयन्ती सुमंगलम् । पित्रा सह सुखं भुक्त्वा पालयन्ती गृहे वस ॥ अचिरेणागमिष्यामि तन्मे स्मृत्वापि मा शुचः । विमुचं मा विषादं च प्रसीदाहं व्रजानि हि ॥ इत्युक्त्वा स महासत्त्वो मातरं संविनोदयन् । गाढाभिलिंगनान्मुक्तः प्रणत्वैव ततोऽचरत् ॥ ततः स नगरे तत्र घण्टाघोषमचारयत् । सिंहलः सार्थवाहोऽब्धौ रत्नाकरे व्रजेदिति ॥ तद्घण्टाघोष्णं श्रुत्वा पंचवणिक्श्तान्यपि । तथा रत्नाकरे तेन सह गन्तुं समीच्छिरे ॥ ततस्ते वणिजस्सर्वे समील्य सहसा मुद्रा । सिंहलस्य पुरो गत्वा प्रार्थयन्नेवमानताः ॥ सार्थवाह वयं सर्वे सार्थवाहात्मजा अपि । रत्नाकरे त्वया सार्धं गन्तुमिच्छामहे खलु ॥ यत्सर्वणिजां नेता सार्थवाहात्मजा भवान् । तन्नानुग्रहमाधाय समन्वाहर्तुमर्हति ॥ इति तैः प्रार्थिते सर्वैः स सिंहलो महामतिः । सर्वांस्तान् समुपामन्त्र्य संपश्यन्नेवमब्रवीत् ॥ भो भवन्तः समिच्छन्ति यद्यागन्तुं मया सह । तत्सर्वं पण्यमादाय समायान्तु व्रजामहे ॥ (१६७) इति तेनोदितं श्रुत्वा सर्वे ते संप्रहर्षिताः । सहसा स्वस्वगृहं गत्वा ज्ञातीन् सर्वान् विनोदयन् ॥ लब्धानुज्ञाः पितुर्मातुर्धृत्वा स्वस्त्ययनं मुदा । सर्वे ते पण्यमादाय संप्रस्थिताः समाचरन् ॥ सोऽपि महाअसत्त्वः धृवा स्वस्त्ययनं मुदा । पित्रोः पादान् प्रणत्वा च पण्यमादाय प्रस्थितः ॥ तत्र तान् वणिजः सर्वान् दृष्टवा स समुपाचरन् । संमील्य संमतं कृत्वा संप्रस्थितो मुदाचरत् ॥ तत्र सोऽनुगतान् सर्वान् बन्धुमित्रसुहृज्जनान् । संबोधयन् समालोक्य संनिर्वार्य न्यवर्तयत् ॥ ततः संसंचरन् पंचवणिक्शतैः समन्वितः । अनेकैर्गर्दभैर्गोभिरुष्ट्रैश्च भारवाहकैः ॥ सामुद्रपण्यभारात्तैः शनैः संप्रस्थितः क्रमात् । ग्रामारण्यवनोद्याननिगमपत्तनानि च ॥ नगरराज्यसौराष्ट्रराजधानीप्युरादिषु । चंचूर्यमाण आलोक्य समुत्साहैः समाचरत् ॥ ततो देशान्तरेऽरण्यकान्तारशैलपर्वतान् । शनैश्चरन् विलंघ्यापि सुदूरविपिने ययौ ॥ तत्र प्राप्ता विषण्णास्ते सर्वे त्रासविषादिताः । भग्नोत्साहाः शनैर्गत्वा ददृशुर्दूरतोऽम्बुधिम् ॥ दृत्वा सर्वेऽपि तेऽम्बोधिं दुरभिसंप्रहर्षिताः । प्रोत्साहवीर्यसंकान्तास्तीरं प्रापुर्महोदधेः ॥ तत्र ते समुपासृत्य सर्वे सहंर्षिताशयाः । प्रणत्वा तं महाम्बोधिं पश्यन्तः समुपाश्रयन् ॥ अथ ते वणिजः सर्वे समीक्ष्य तं महाम्बुधिम् । प्राणस्नेहनिरुत्साहास्तस्थुः संत्रसिताश्याः ॥ तदा स सिंहलो दृष्ट्वा सर्वांस्तांस्त्रासिताशयान् । कर्णधारं समामन्त्र्य पुर एवं न्यवेदयत् ॥ (१६८) कर्णधार महाभाग यद्वयमागता इह । सर्वसंपत्तिमिच्छन्तो गन्तुं रत्नाकरेऽम्बुधौ ॥ तद्भवानत्र सन्मित्रं नेताअस्माकं हितार्थदिक् । समीक्ष्यानुग्रहं कृत्वा संतारयितुमर्हति ॥ इत्येवं प्रार्थितं सर्वैः कर्णधारो निशम्य सः । सर्वांस्तान् वणिजः पश्यन् समामन्त्र्यैवमब्रवीत् ॥ भवन्तो यदि वांछन्ति गन्तुं रत्नाशयाम्बुधौ । तद्धैर्यदेवतां स्मृत्वा तिष्ठन्तु नौसमाश्रिताः ॥ इति तेनोदितं श्रुत्वा सर्वेऽपि ते वणिग्जनाः । नत्वा नावं समारुह्य संतस्थिरे समाहिताः ॥ ततः स कर्णधारोरोऽपि संस्मृत्वा कुलदेवताम् । सांजलिः प्रणतिं कृत्वा प्रार्थयदेवमम्बुधिम् ॥ महोदधे जगद्भर्ता भवान् रत्नामृताकरः । तदिमे वणिजः सर्वे भवच्छरण आश्रिताः ॥ तद्भवान् कृपया धृत्वा सर्वानिमान् धनार्थिनः । रत्नाकरे सुभद्रेण संप्रापयितुमर्हसि ॥ इति संप्रार्थ्य नत्वा तमम्भोधिं तरणिं च ताम् । नाविकः स समारुह्य प्राचारयन् शनैः क्रमात् ॥ ततः संचारिता सा नौ सदा गतिसमीरिता । क्रमेण संवहन्त्यब्धेर्मध्यद्वीपमुपाययौ ॥ तत्र नौका भ्रमन्त्येव तस्थै वाताभिताडिता । तद्दृष्ट्वा कर्णधारस्तं सिंहलमेवमब्रवीत् ॥ सार्थवाह विजानीयाद्भवानत्र महद्भयम् । यदियं नौर्महावातैराहता भ्रमते मुहुः ॥ कुत्र गन्तुं समीहा वो वाता वान्ति महाजवाः । स्वकुलदेवताः स्मृत्वा संप्रार्थ्य त्राणमम्बुधिम् ॥ धैर्यमालम्ब्य सर्वत्र संतिष्ठध्वं समाहिताः ॥ इति तेनोदितं श्रुत्वा सर्वे ते त्रसिताशयाः । स्वस्वेष्टदेवताः स्मृत्वा प्रार्थयदेवमम्बुधिम् ॥ (१६९) महोदधे जगद्भर्तर्वयं ते शरणे स्थिताः । तदस्मान् कृपया धृत्वा संतारयितुमर्हसि ॥ इत्येवं प्रार्थयन्तस्ते सर्वे स्मृत्वा स्वदेवताम् । धैर्यमालम्ब्य संत्रस्तास्तस्थुर्जीवराशिताः ॥ ततः स कर्णधारोऽपि संप्रार्थ्य तं महोदधिम् । स्वकुलदेवतां स्मृत्वा तस्थौ जीवनिराशितः । सिंहलः सार्थवाहोऽपि संप्रार्थ्य त्राणमम्बुधिम् । त्रिरत्नस्मरणं कृत्वा तस्थै धैर्यसमाहितः ॥ ततस्ते वायवः शान्ता नौका संचरिता क्रमात् । तद्दृष्ट्वा वणिशः सर्वे तस्थुः संहर्षिताशयाः ॥ तत्र तां समुपायातां नावं वणिक्समाश्रिताम् । ताम्रद्वीपनिवासिन्यो राक्षस्योयोऽद्राक्षुरम्बुधौ ॥ ततस्ताभिः समेत्याशु राक्षसीभिः प्रभंजनाः । उत्सृष्टाः कालिका वातास्तन्नौकाभिमुखा ववुः ॥ तैराशु प्रहता सा नौ भ्राम्यमाना प्रलोलिता । तीव्रातिवेगकल्लोलोऽभिहताभूद्विभिन्निता । तदा ते वणिजः सर्वे संत्रासाभिहताशयाः । हा दैवेति विलपन्तस्तस्थुः प्राणनिराशिताः ॥ तदा स सिहंलो दृष्ट्वा तरणिं तां विभिन्निताम् । सर्वांस्तान् सुहृदो भीतान् समालोक्यैवब्रवीत् ॥ भवन्तः किं विषादेन दैव एव गतिर्भवेत् । तत्त्रिरत्नस्मृतिं धृत्वा धैर्यमालम्ब्य तिष्ठत ॥ यदि दैवाद्विपत्तिः स्यादत्र तीर्थाधिपेऽम्बुधौ । द्रव्यैः सार्धं वयं सर्वे पतिता निधनं गताः ॥ सर्वपातकनिर्मुक्ताः परिशुद्धत्रिमण्डलाः । सद्गतौ सुकुले जाता भवेम श्रीगुणाश्रयाअः ॥ इत्युक्ता तेन ते सर्वे तीर्थिकानामुपासकाः । त्रिरत्नस्मरणं धातुं श्रद्दधुर्न कथंचन ॥ (१७०) स एव सिंहलः स्मृत्वा त्रिरत्नं शरणं गताः । ध्यात्वा नाम समुच्चार्य तस्थै संबोधिमानसः ॥ तदापि दैवतस्तेषां कालिकावातघातिता । कल्लोलभ्रमणाक्रान्ता नौकाभूच्छतखण्डिता ॥ सर्वे ते वणिजश्चापि विभग्नाशा विमोहिताः । पतितास्तत्र महाम्भोधौ सह द्रव्यैर्निमज्जिताः ॥ तत्र ते वणिजः सर्वे निमग्नान्यपि दैवतः । स्वस्वबाहुबलेनैव समुतेरुस्तटान्तिकम् ॥ दृष्ट्वा तान् वणिजः सर्वांस्तीरान्तिकसमागतान् । ताम्रद्वीपनिवासिन्यो राक्षस्यः संप्रमोदिताः ॥ दिव्यकौमारिकारुपं धृत्वा सर्वाः समागताः । तीरे स्थित्वा समुत्तार्य सर्वान्स्तानेवमब्रुवन् ॥ मा भैष्ट धैर्यमालम्ब्य समागम्य तरोरधः । छायामाश्रित्य सर्वत्र विश्रान्तुं तिष्ठत क्षणम् ॥ इत्येवं कथितं ताभिः श्रुत्वा ते वणिजस्ततः । गत्वा चम्पकवृक्षस्य छायायां समुपाश्रयन् ॥ तत्र विश्रम्य ते सर्वे संनिरीक्ष्य परस्परम् । ज्ञातीन् स्मृत्वानुशोचन्तो निश्वस्यैवं बभाषिरे ॥ हा दैव कथमस्माकं विपत्तिर्भवतीदृशी । क इह साम्प्रतं त्राता हितार्थी सद्गतिर्भवेत् ॥ इति तैः कथितं श्रुत्वा सार्थवाहः स सिंहलः । सर्वान्स्तान् त्रासभिन्नात्मान् समाश्वास्यैवमब्रवीत् ॥ नास्त्यस्माकमिह त्राता को हितार्थी सुहृद्गतिः । धर्म एव भवेत्त्राता सर्वत्रापि सुहृद्गतिः ॥ अवश्यंभाविनो भावा भवन्ति महतामपि । सर्वेषामपि जन्तूनां सर्वत्रापि न चान्यथा ॥ तदत्र श्रद्धया सर्वे त्रिरत्नस्य समाहिताः । स्मृत्वा नाम समुच्चार्य ध्यात्वापि भजतानताः ॥ (१७१) एतदेव हि संसारे धर्ममूलं निगद्यते । धर्म एव हि सर्वत्र त्राता भर्ता सुहृद्गतिः ॥ एवं विज्ञाय सर्वेऽपि त्रिरत्नस्य समाहिताः । स्मृत्वा नाम समुच्चार्य ध्यात्वापि भजतानताः ॥ इति तेनोदितं श्रुत्वा सर्वे ते परिबोधिताः । तीर्थिका श्रावका नैव त्रिरत्नं स्मर्तुमीच्छिरे ॥ स एव सिंहलः स्मृत्वा त्रिरत्नस्य समाहितः । ध्यात्वा नाम समुच्चार्य तस्थौ संबोधिमानसः ॥ ततस्ताः प्रमदाः कान्ताः कुमारिका मनोरमाः । सर्वान्स्तान् वणिजान् दृष्ट्वा पुरस्था एवमब्रुवन् ॥ वैषाद्यं वः किमत्रापि नैव चिन्त्यो हि दुःखता । यथेप्सितं सुखं भुक्त्वा संचरध्वं यथेच्छया ॥ अस्माकं स्वामिनो नैव गतिर्वापि न कश्चन । परायणोऽपि नैवास्ति भर्तापि न सुहृत्प्रियः ॥ तद्यूयं भवतास्माकं स्वामिनो गतयोऽपि च । परायणाश्च भर्तारः पतयः सुहृदः प्रियाः ॥ विद्यन्तेऽत्र गृहा रम्या भोग्यानि विविधान्यपि । पानानि सुरसान्येवं वस्त्राणि विविधानि च ॥ सर्वद्रव्याणि रत्नानि सर्वाणि भूषणान्यपि । सर्वर्तुफलपुष्पादिरम्योद्यानवनान्यपि ॥ पुष्करिण्योऽपि सन्त्यत्र दिव्यगन्धाम्बुपूरिताः ॥ तदत्र किं विषादं वः संरमध्वं यथेच्छया । यथाकामं सुखं भुक्त्वा संचरध्वं प्रमोदिताः ॥ इत्येवं कथितं ताभिर्निशम्य ते वणिग्जनाः । सर्वेऽपि ताः समालोक्य विस्मयं समुपाययुः ॥ ततस्ताः प्रमदाः सर्वान्मत्वा तान् काममोहितान् । एकैकं पुरुषं धृत्वा स्वस्वगेहं न्यवेशयन् ॥ तासां वृद्धापि या कान्ता सा दृष्ट्वा समुपासृता । सिंहलं तं समादाय स्वालयं संन्यवेशयत् । (१७२) अथ ताः प्रमदाः सर्वान् स्वान् स्वांस्तान् स्वामिनो मुदा । स्वस्वालये प्रतिष्ठाप्य दिव्यभोगैरतर्पयन् ॥ ततस्तान् भोगसंतृप्तान् सर्वान्स्ताः प्रमदाशयाः । रहिक्रीडारसाभोगैः सन्तर्पयितुमारभन् ॥ एवं ते वणिजः सर्वे भुक्त्वा भोज्यं यथेप्सितम् । संक्रीडित्वा यथाकामं संचरिते प्रमोदिताः ॥ एवं भुक्त्वा यथाकामं रमित्वा ते दिवानिशम् । महानन्दसुखासक्ताः सप्ताहानि व्यलंघयन् ॥ अथापरे क्षपायां स सिंहलः । त्रिरत्नस्मृतिमाधाय तस्थौ ध्यानसमाहितः ॥ तदा तत्रालये दीपः संप्रदीप्तमहोज्ज्वलः । राक्षस्यां निद्रितायां स प्राहसन् संप्रभासयन् ॥ तं प्रदीप्तं हसन्तं स दृष्ट्वातिविस्मिताशयः । सुचिरं संनिरीक्ष्यैवं ध्यात्वा चैवं व्यचिन्तयत् ॥ अहो चित्रं किमर्थेऽयं प्रदीपो यत्प्रहस्यते । एवं हि हसितो दीपो दृष्टो नैव श्रुतोऽपि न ॥ इति ध्यात्वा चिरं पश्यन् सिंहलः स समुत्थितः । समुपाश्रित्य तं नत्वा पप्रच्छैवं कृतांजलिः ॥ किमर्थं हससे दीप तदत्र मे समादिश । कोऽत्र दीपे प्रविष्टो हि मया न ज्ञायते भवान् ॥ इति तेनाभिंसंपृष्टे प्रदीपः स समुज्ज्वलन् । सिंहलं तं समामन्त्र्य प्रहसन्नेवमब्रवीत् ॥ सिंहल किं न जानासि राक्षसीयं न मानुषी । रमित्वापि यथाकामं भक्षेत्त्वां नैव संशयः ॥ सर्वास्ताः प्रमदाः कान्ता राक्षस्यो नैव मानवाः । सर्वांस्तांस्त्वत्सहायांश्च भक्षिष्यन्ति न संशयः ॥ इति दीपसमाख्याउतं श्रुत्वा भीतः स सिंहलः । किमिदं सत्यमेवं स्यादिति तं पर्यपृच्छत ॥ (१७३) सत्यमेव प्रदिपेयं राक्षसी यन्न मानुषी । कथं भवान् विजानासि सत्यमेतत्समादिश ॥ इति संप्रार्थिते तेन स प्रदीपः पुनर्हसन् । सिंहलं सार्थवाहं तं समामन्त्र्यैवमादिशत् ॥ सत्यमेतन्मयख्यातं यदि न त्वं प्रतीच्छसि । दक्षिणस्यां महारण्ये गत्वा पश्य त्वमात्मना ॥ तत्रारण्ये महद्दुर्गे आयसकोट्ट उच्चके । वणिक्शतसहस्त्राणि प्रक्षिप्य स्थापितानि हि ॥ केचिज्जीवन्ति केचिच्च मृताः केचिच्च भक्षिताः । अस्थीनि चावकीर्णान्निप्रतिणि समन्ततः ॥ तत्र गत्वा समालोक्य सर्वमेतन्मयोदितम् । सत्यं वा यदि वाऽसत्यं श्रद्दध्या मे वचस्तदा ॥ इत्येवं तदुपाख्यातं श्रुत्वा स परिबोधितः । तत्र गत्वा तथा द्रष्टुं सर्वमेतस्तमुत्सुकः ॥ प्रसुप्तां राक्षसीं मोहजालनिद्रावृतेन्द्रियाम् । कृत्वा चन्द्रप्रभं खड्गं धृत्वा संप्रस्थितो द्रुतम् ॥ ततो गच्छन् स एकाकी निशीये संविलोकयन् । दक्षिणस्यां महारण्ये दुर्गमे समुपाचरत् ॥ तत्रात्युच्चे महकोट्टमयःप्राकारसंवृतम् । गवाक्षद्वारे निर्यूहवीहीनं लोकसंस्कृतम् ॥ तं दृष्ट्वा समुपासृत्य परिभ्रमन्समन्ततः । लोकविषादवैलाप्यं श्रुत्वा स विस्मयाकुलः ॥ तत्र चम्पकवृक्षाग्रमारेह्य स समाश्रितः । महोत्काशरवो नैव नाजुहाव तदाश्रितान् ॥ भवन्तः के कियन्तोऽत्र प्रक्षिप्ताः केन निश्रिताः । किं भुक्त्वा वसथात्रापि तत्सर्वं वक्तुमर्हथ ॥ इति तदुक्तमाकर्ण्य तत्रस्थास्ते वणिग्जनाः । वृक्षशाखाग्रमारुढं तमालोक्यैवमब्रुवन् ॥ (१७४) कस्त्वं भो कथमायासि कस्मादिहागतः कुतः । सर्वमेतत्प्रवृत्तान्तं समुपाखातुमर्हति ॥ इति तदुक्तमाकर्ण्य साअर्थवाहः स सिंहलः । तत्रस्थांस्तान् जनान् सर्वान् समामन्त्र्यैवमब्रवीत् ॥ सिंहलः सार्थवाहोऽहं जम्बूद्वीपादिहागतः । गन्तुं रत्नाकरेऽम्भोधौ वणिक्पंचशतैः सह ॥ अब्धिमध्ये महावातैर्हता नौका विखण्डिता । उदके पतितास्सर्वे वयुमुत्तीर्य बाहुभिः ॥ तीरमासाद्य वृक्षस्य छायायां समुपाश्रिताः । स्वदेशमनुशोचन्तो न्यषीदाम विषादिताः ॥ तत्रातिसुन्दरीकान्ताः कुमारिका मनोहराः । ताः सर्वाः पुरतोऽस्माकं समाश्रित्यैवमब्रुवन् ॥ मा भैष्ट किं विषादं वा धैर्यमालम्ब्य तिष्ठत । सर्वासामपि ह्यस्माकं कश्चित्स्वामी न विद्यते ॥ तद्यूयं स्वामिनोऽस्माकं भूत्वा भुक्त्वा यथेप्सितम् । यथाकामं रमित्वेह संचरध्वं सदा सुखम् ॥ इत्यस्मानालोक्य सर्वास्तान् सर्वानस्मान् विमोहितान् । एकैकं स्वामिनं धृत्वा स्वास्वालयं न्यवेशयन् ॥ तत्रास्मान् यथाकामं भोजयित्वात्यमोदयन् । यथेच्छया रमित्वापि चारयन्ति सदा सुखम् ॥ इत्येवं महदाश्चर्यं सुखं भुक्त्वातिविस्मितः । किमत्र विषये वृत्तमिति द्रष्टुमिहाव्रजे ॥ इति तेन समाख्यातं श्रुत्वा तेऽपि वणिग्जनाः । सर्वे स्वकं प्रवृत्तान्तं कथित्वा तं व्यनोदयन् ॥ यत्खलु सार्थवाहोऽसि जानीहि ताभि राक्षसीः । तदत्र रतिसंरक्ता मा तिष्ठाशु व्रज स्वं पुरम् ॥ वयमप्येवमम्भोधौ पतिता व्यसनितास्तथा । राक्षसीभिः समुत्तार्त्य स्वस्वगृहे निवेशिताः ॥ (१७५) भोजयित्वा यथाकामं रमित्वापि यथेच्छया । विनोद्य स्ववशे स्थाप्य संचारिताः सुखे सदा ॥ यदा यूयमिह प्राप्तास्तद ताभिर्वयं द्रुतम् । कोटेऽत्र सर्व आनीय प्रक्षिप्ता बन्धनालये ॥ गृहीत्वामीभिरस्स्माकं राक्षसीभिर्दिवानिशम् । खादित्वा पुरुषान्नित्यं संचर्यन्ते यथेच्छया ॥ यूयमपि तथामीभी राक्षसीभिर्यथेच्छया । गृहीत्वात्र प्रतिक्षिप्ता भक्षिष्यध्वे न संशयः ॥ इत्यवश्यं भवेदेवं विज्ञाय सहसा भवान् । सर्वान् सार्थान् समाहूय स्वदेशं द्रुतम् ॥ यदीतः सहसा यूयं सर्वे गच्छत सांप्रतम् । कुशलं वा भवेन्नैवं यदि सर्वे विनक्ष्यथ ॥ इति तदुक्तमाकर्ण्य सिंहलं स प्रबोधितः । अवतीर्य द्रुतं वृक्षात्सहसा स्वालयं ययौ ॥ तत्र रतिकरं दीपमुद्दीप्तं तं समीक्ष्य सः । सांजलिः प्रणतिं कृत्वा पुरतः समुपाश्रयत् ॥ तं पुरस्थं समालोक्य प्रदीपः स समुज्ज्वलन् । साधो सत्यं त्वया दृष्टमित्येवं समपृच्छत ॥ इति दीपोदितं श्रुत्वा पुनराह स विस्मितः । सर्वं सत्यं मया दृष्टमादिष्टं भवता यथा ॥ किमुपायमिहाप्यस्ति येनेतः सहसा पुनः । जम्बूद्वीपं गमिष्याम तत्समादेष्टुमर्हति ॥ इति संप्रार्थिते तेन स प्रदीपः समुज्ज्वलन् । प्रहसंस्तं समाश्वस्य पुनरेवमुपादिशत् ॥ तदुपायमिहाप्यस्ति येनेतः सहसा व्रजेः । जम्बूद्वीपं पुनर्गन्तुं यदीच्छसि शृणुष्व तत् ॥ अत्र तीरे महाम्भोधेः सुवर्णबालुकास्थले । बालाहोऽश्वो महा..त्रो विद्यते करुणात्मकः ॥ (१७६) स श्वेता औषधीर्भुक्त्वा प्रावर्त्य परिवर्त्य च । समुत्थाय स्वमात्मानं प्रच्छोडित्वैवमालपेत् ॥ क इतोऽब्धिं समुत्तिर्य गन्तुमिच्छन्ति ये पुनः । स्वदेशं मे समारुह्य पृष्ठे तिष्ठन्तु ते दृढम् ॥ यदि गन्तुं तवेच्छास्ति जम्बूद्वीपमितः पुनः । तत्र गत्वाश्वराजं तं नत्वा संप्रार्थयादरात् ॥ वयमिच्छामहे गन्तुं जम्बूद्विपमितः पुनः । तदस्मान् कृपया सर्वान् संप्रापयिमर्हति ॥ ततः सोऽश्वो महाभिज्ञः सर्वान् युष्मानितो द्रुतम् । स्वपृष्ठेन समावाह्य पारेऽब्धेः प्रापयिष्यति ॥ इत्येवं समुपादिश्य स दीपोऽन्तर्हितोऽभवत् । सोऽपि शयनमारुह्य राक्षस्या शयितोऽभवत् ॥ तदंगशीतत्वं स्पृष्टा विबुद्धा सा निशाचरी । कथं ते शीतलं देहमित्येवं पर्यपृच्छत ॥ तच्छ्रुत्वा सार्थवाहोऽसौ सिंहलो भीतमानसः । तां कान्तां प्रमदामेवं प्रबोधयितुमब्रवीत् ॥ कान्तेऽहं निर्गतो गेहाम्मुलमूत्रं विसृज्य च । आगम्य शयितस्तेन शीतलिता तनु मम ॥ इति तां मिथ्यया कान्तां बोधियित्वापि शंकितः । सिंहलः स विषण्णात्मा तस्थौ निद्रापराङ्मुखः ॥ ततः स प्रातरुत्थाय सर्वांस्तान् वणिजः सत्त्वान् । समाहूय बहिर्देशे गत्वा यानमुपाश्रयत् । तथा ते वणिजश्चापि सर्वे तत्र समाश्रिताः । परस्परं समाभाष्य संतस्थिरेऽभिनन्दिताः ॥ तत्र तान् वणिजः सर्वान्निर्विशंकाभिनन्दितान् । सिंहलः स समालोक्य समामन्त्र्यैवमब्रवीत् ॥ भवन्तः प्रष्टुमिच्छामि सत्यं भाषन्तु नान्यथा । किदृक्स्नेहोपचारैर्वः कान्ताः संमानयन्ति हि ॥ (१७७) इति तदुक्तमाकर्ण्य तत्रओकोऽतिप्रगल्भितः । सिंहलं तं समालोक्य सहर्षमेवमब्रवीत् ॥ धन्योऽस्मि सार्थवाहात्र भाग्येन प्रेरितः खलु । ईदृग्भोग्यमहत्सौख्यं मन्ये स्वर्गेऽपि दुर्लभम् ॥ यन्मे कान्ता सुभद्रांगी सुस्नेहोपचारिणी । यथेच्छा सुरसैर्भोग्यैर्मानयन्ति दिवानिशम् ॥ तथान्यः प्रावदत्तत्र महर्सौख्यमिहाप्तवान् । भाग्येन प्रेरितोऽत्राहमीदृक्सौख्यं कुहापि न ॥ यन्मे कान्ता वरैर्भोग्यैस्तोषयित्वा दिवानिशम् । रमयन्ती यथाकामं मानयन्ती समादरात् ॥ तथापरो वणिक्प्राह धन्योऽहमतीभाग्यवान् । ईदृक्सम्पन्महत्सौख्यं लप्स्ये कुत्र कथं कदा । ईदृक्महत्तरं सौख्यं मन्ये स्वर्गेऽपि दुर्लभम् ॥ यन्मे स्नेहवती भार्या दिव्यवस्त्रादिभूषणैः । मण्डयित्वा यथाकामं रमयित्वा दिवानिशम् ॥ यथाभिलषितैर्भोग्यैस्सन्तर्प्य प्रतिपाति माम् । तथान्योऽपि वणिक्प्राह भाग्येनेहाहमाप्तवान् ॥ यदीदृक्महदैश्वर्यं संपत्तिर्लप्स्यते कुतः ॥ स्वर्गेऽपि दुर्लभं मन्ये कुत्रात्र पृथिवीतले । यन्मे भार्या मनोरम्या कान्ता दिव्यातिसुन्दरी ॥ विविधदिन्यसौरभ्यगन्धद्रव्यैर्दिवाशम् । अनुलिप्य यथाकामं क्रिडयति समादरात् ॥ भोजनैर्विविधास्वादैः पानैर्दिव्यामृतात्तमैः । वस्त्रैश्च विविधैः काम्यैर्भूषणैर्विविधैरपि ॥ मण्डयित्वा यथाकामं भोजयित्वा दिवानिशम् । यथाभिलषितैः सौख्यैः रमयन्त्यभिपाति माम् ॥ एवं ते वणिज्यः सर्वे स्वस्वभार्याकृतादरम् । स्नेहोपचारसत्सौख्यं निवेधैवं बभाषिरे ॥ (१७८) अहो भाग्यं तदस्माकं यदिह प्रेषिता वयम् । ईदृक्संपन्महत्सौख्यं स्वर्गेऽपि दुर्लभं खलु ॥ तदिहैव सदा भुक्त्वा यथाकामं चरेमहि । जम्बूद्वीपे पुनर्गन्तुं नोत्सहेम कदाचन ॥ किमीदृक्सुखसंपत्तिर्हित्वा यास्यामहे वयम् । स्वदेशेऽपि पुर्नगत्वा किं किं भोक्ष्यामहे सुखम् ॥ कुत्रेदृग्गुणसंपन्ना दिव्यकान्ता मनोरमाः । सर्वविद्याकलाभिज्ञा लभ्यन्ते दुर्लभा भुवि ॥ एताः कान्ताः सुभद्रांगाः स्वामिस्नेहोऽनुचारिकाः । हित्वा गत्चा स्वदेशेऽपि किं स्थित्वा स्वजनैः सह ॥ धन्यास्ते पुरुषा मर्त्याः कान्ताभिर्ये सदा रताः । यथाकामं सुखं भुक्त्वा संचरन्ते यथेच्छया ॥ एवं श्रीगुणसंपन्ना दिव्यकान्तासहारताः । यावज्जीवं सुखं भुक्त्वा संतिष्ठेमहि सर्वदा ॥ जम्बूद्विपे पुनर्गन्तुं नाभीच्छामः कदापि हि । किं लप्स्यामह एतादृक्महत्सौख्यं कदा कथम् ॥ इत्येवं तैः समाख्यातं सर्वैरपि निशम्य सः । सिंहलस्तान् समालोक्य निष्श्वसन्नेवमब्रवीत् ॥ भवन्तः श्रूयतां वाक्यं यन्मया सत्यमुच्यते । यदि भद्रेऽस्ति वांछा वः तत्कुरुध्वं यथोदितम् ॥ इति तेनोदितं श्रुत्वा सर्वे ते विस्मताशयाः । सिंहलं सार्थवाहं तं समालोक्यैवमब्रुवन् ॥ किं वाक्यं समुपाख्याहि यदि भद्रे समीहसि । भवता यत्समादिष्टं करिष्यामस्तथा वयम् ॥ इति तैः कथितं सर्वैः श्रुत्वा स सिंहलः सुधीः । सर्वांस्तान् वणिजः सार्थान् संपश्यन्नेवमब्रवीत् ॥ सर्वैः सत्य समाधाय समयं धास्यते यदि । तदाहमुपदेक्ष्यामि सत्यमेतद्यथाश्रुतम् ॥ (१७९) इति तेनोदितं श्रुत्वा सर्वेऽपि तेऽतिविस्मिताः । किं समयं धरिष्यामस्तदादिशेति चाब्रुवन् ॥ एतत्तैः कथिते सर्वैः सार्थवाहः स सिंहलः । सर्वांस्तान् वणिजः संघान् समालोक्यैवमब्रवीत् ॥ भवन्तः श्रूयतां सर्वैः समयमुदितं मया । नैतत्केनापि वक्तव्यं भार्यायाः पुरतोऽपि वः ॥ कश्चिद्भाषेत भार्यायाः पुरा यदि प्रमादतः । तदा सर्वे वयं ह्यत्र व्रजेम निधनं खलु ॥ इति सत्यं समाधाय समयं धातुमर्हथ । यदि संधार्यते सत्यं सर्वेषामपि भद्रता ॥ इति तदुक्तमाकर्ण्य सर्वेऽपि ते वणिग्जनाः । सत्यमेतद्धरिष्यामः समादिशेति चाब्रुवन् ॥ इति सर्वै समाख्यातं श्रुत्वा स सिंहलः सुधीः । सर्वांस्तान् वणिजः संघान् संपश्यन्नेवमब्रवीत् ॥ शृणुध्वं धैर्यमालम्ब्य तिष्ठत मा विषीदत । इमा हि प्रमदाः सर्वा राक्षस्यो नैव मानुषाः ॥ इति सत्यं मयाख्यातं श्रुत्वा सर्वेऽपि बोधिताः । कश्चिदपि स्वभार्यायाः पुरतो वक्तुमर्हति ॥ इति तेन समाख्यातं श्रुत्वा सर्वे वणिग्जनाः । भीतिसंत्रसितात्मानः क्षणं तस्थुर्विमोहिताः ॥ ततस्ते वणीजः सर्वे संत्रासाभिहताशयाः । सिंहलं सार्थवाहं तं समालोक्यैवमब्रुवन् ॥ सार्थवाह कथं ज्ञातं कुत्र दृष्टं श्रुतं त्वया । एताः कान्ता न मानुष्यो राक्षस्य इति तद्वद ॥ यद्येता नैव मानुष्यो राक्षस्य एव तत्कथम् । अस्माकं क इह त्राता गतिर्वा स्यात्परायणः ॥ यद्येतत्सत्यमेवेह तिष्ठेमहि कथं वयम् । पलायेमहि कुत्रेतस्तदुपायमुपादिश ॥ (१८०) इति तैः कथितं श्रुत्वा सार्थवाहः स सिंहलः । सर्वान्स्तान् वणिजः संघान् समाश्वास्यैवमब्रनीत् ॥ सत्यमेव मृषा नैव तथापि मा विषीदत । उपायं विद्यतेऽत्रापि तच्छृणुध्वं मयोदितम् ॥ योऽश्वाजोऽत्र बालाहो नाम तीरे महोदधेः । स्थितः सत्त्वानुकम्पार्थं स नः त्राता गतिर्भवेत् ॥ स तिष्ठेदुधेस्तीरे सुवर्णबालुकास्थले । आवर्त्य परिवर्त्तापि भुक्त्वा श्वेता महोषधीः ॥ तत्र गत्वा वयं सर्व उपसरेम वन्दितुम् । संपश्येत्करुणात्मा स सर्वानस्मानुपासृतान् ॥ दृष्ट्वास्मान् स समुत्थाय प्रच्छादयेत्स्वमाश्रयम् । कोऽत्र पारमितो गन्तुमिच्छन्तीति वदेत्त्रिधा ॥ तदा सर्वे वयं नत्वा तमेवं प्रार्थयेमहि । इच्छामहे इतो गन्तुं पारं तत्सहसा नय ॥ इत्यस्मत्प्रार्थित श्रुत्वा सर्वानस्मान् स्वपृष्ठके । आरोप्य समसोत्तीर्य नयेत्पारं महोदधेः ॥ स एवास्माकमिह त्राता गतिर्नान्यो हि विद्यते । तद्वयमश्वराजं तं नत्वैवं प्रार्थयेमहि ॥ एतदुपायमत्रापि विद्यतेऽस्मत्परायणे । कश्चिदेतत्स्वभार्याया वक्तुं नैवार्हति ध्रुवम् ॥ प्रमोदाद्यदि भार्यायाः स्नेहात्कश्चिद्वदेत्पुरः । राक्षस्योऽस्मान्स्तद सर्वान् भक्षिष्यन्ते न संशयः ॥ इति स्नेहोऽस्ति जीवे वो धृत्वैतत्समयं दृढम् । कस्याश्चित्पुरतः किंचिद्वक्तव्यं नैव केनचित् ॥ इति तेनोदितं श्रुत्वा सर्वेऽपि ते वणिग्जनाः । मृत्युत्रासाहतात्मानः सिःहलमेवमब्रुवन् ॥ सार्थवाह भवन्नाथस्त्राता मित्रं सुहृद्गतिः । अस्माकं नापरः कश्चित्तदन्वाहर्तुमर्हति ॥ (१८१) कस्मिन्दिने गमिष्याम इतस्तीरे महोदधेः । यत्र तिष्ठेदश्वराज इति सत्यं समादिश ॥ इत्युक्तं तैर्निशम्यासौ सार्थवाहो निरीक्ष्य तान् । इतोऽहिन तृतीयेऽवश्यं गच्छेमहीति चाब्रवीत् ॥ न कस्याश्चित्पुरः कश्चत्सत्यमेतद्वदेन्न हि । गोपनीयं प्रयत्नेन त्रिधेति सोऽब्रवीत्पुनः ॥ इति संमतमाधाय सर्वेऽपि ते वणिग्जनाः । तत्पुरे पुनरागत्य स्वस्वालयं समाविशत् ॥ तत्र ताः प्रमदाः कान्ता दृष्ट्वा तान् स्वगृहागतान् । स्वं स्वं स्वामितनमालोक्य पप्रच्छुरेवमादरात् ॥ कुत्र भवान् प्रयातोऽत्र समायातोऽसि साम्प्रतम् । सत्यमेतत्समाख्याहि यदि स्नेहोऽस्ति ते मयि ॥ इति भार्योदितं श्रुत्वा सर्वेऽपि ते वणिग्जनाः । देशाद्बहिर्वयं गत्वागताः स्म इति चाब्रुवन् ॥ एतच्छ्रुत्वा च ताः कान्ताः सर्वाः स्वं स्वं प्रियं मुदा । समीक्ष्य समुपासीनाः पप्रच्छुरेवमादरात् ॥ दृष्टं किं महदुद्यानं दृष्टं वापि सरोवरम् । fअलपुष्पाभिनम्राश्च दृष्टाः किं पादपा अपि ॥ इति भार्योदितं श्रुत्वा सर्वेऽपि ते वणिग्जनाः । किंचिन्न दृश्यतेऽस्माभिरिति प्रत्युत्तरं ददुः ॥ तच्छ्रुत्वा प्रमदाः सर्वाः समीक्ष्य ता स्वकं प्रियम् । संप्रहासं कुर्वन्त्यः पुनरेवं बभाषिरे ॥ कथं न दृश्यतेऽत्रास्ति महोद्यानं सरोवरम् । विविधास्तरवः सन्ति fअलपुष्पभरानताः ॥ अहो यूयं गताः कुत्र दृश्यन्ते न कथं खलु । एतत्सत्यं समाख्याहि यदि प्रियास्म्यहं तव ॥ एतच्छ्रुत्वापि ते सर्वे वणिजः स्वस्वप्रियां प्रति । प्रहसन् संनिरीक्ष्यापि पुनरेवं बभाषिरे ॥ (१८२) इतोऽह्नि तृतीयेऽवश्यं तदुद्यानं सरोवरम् । सर्वानपि तरुन् द्र्ष्टुं गमिष्यामो वयं प्रिये ॥ तानि सर्वाणि संवीक्ष्य गृहीत्वापि fअलानि च । पुष्पाण्यपि समाहृत्य समायास्यामहे द्रुतम् ॥ तच्छ्रुत्वा तास्तथेत्युक्त्वा सर्वाः स्वं स्वं प्त्रियं मुदा । यथाभिलषिताइर्भोग्यैः सादरं समतोषयन् ॥ भुक्त्वा तेऽपि यथाकामं सर्वैः संतोषिता अपिओ । दिर्घोच्छ्वासं समुत्सृज्य तस्थुः क्षणं विषादिताः ॥ तदृष्ट्वा प्रमदास्ताश्च सर्वाः स्वस्वप्रभुं प्रति । किमुच्छ्वासं समुत्सृष्टं वदेति प्रावदत्पुनः ॥ स्वदेशविषयं स्मृत्वा समुच्छ्वासं समुत्थितम् । इति स्वस्वप्रियास्ते सर्वेऽपि पुरतोऽवदन् ॥ तच्छ्रुत्वा प्रमदास्ताश्च सर्वाः स्वस्वपतेः पुनः । उपासीना विहसन्त्यः संनिरीक्ष्यैवमब्रुवन् ॥ किं स्वदेशस्मृतिं कृत्वा सुखं भुक्त्वेह तिष्ठत । संरमित्वा यथाकामं संचरध्वं यथेच्छया ॥ द्रव्याण्यपि च सर्वाणि भोग्यानि विविधानि च । सर्वोपकरणवस्तूनि वस्त्राणि भूषणान्यपि ॥ उद्यानानि सुरम्यानि पुष्करिण्यो मनोरमाः । fअलपुष्पाभिनम्राश्च पादपा विविधा अपि ॥ प्रासादाश्च मनोरम्या गृहाश्चाट्टाभिशोभिताः । मण्डपाश्च मठाश्चापि रथा अश्वाश्च हस्तिनः ॥ गावश्च महिषाश्चापि सर्वेऽपि पशुजातिकाः । विद्यते सकलोऽन्यत्र किं नास्तीह निरीक्ष्यताम् ॥ तदेतान्यपि सर्वाणि त्वदधीनानि सर्वदा । यथेच्छया समादाय भुक्त्वा रमन्सुखं चर ॥ नात्र किंचिद्विषादत्वं भयं चापि न किंचन ॥ यथाकामं प्रभुक्त्वैव रम चरन् सुखं वस ॥ (१८३) इति ताभिः समाख्यातं सर्वेऽपि ते वणिग्जनाः । तथेति प्रभाषित्वा तस्थुः विनोदिता इव ॥ ततस्ताः प्रमदाः सर्वा रात्रो स्वस्वप्रियैः सह । यथाकामं रमित्वापि सुषेयुः शयनाश्रिताः ॥ तेऽप्येवं वणिजः सर्वे रमित्वा शयनाश्रिताः । मृत्युशंकाहतात्मानस्तस्थुर्निद्रापराङ्मुखाः ॥ ततः प्रातः समुत्थाय सर्वेऽपि ते वणिग्जनाः । स्वां स्वां भार्यां समामन्त्र्य समालोक्यैवमब्रुवन् ॥ वयं यास्यामहे द्रष्टुं तडागोद्यानपादपान् । सज्जीकृत्य तदाहारं संस्थापयत संवरम् । तच्छ्रुत्वा प्रमदाः सर्वास्तास्तथेति प्रबोधिताः । सज्जीकृत्योपसंस्थाप्य स्वस्वप्रियं व्यनोदयन् ॥ तस्मिंश्च दिवसेऽप्येवं सर्वेऽपि ते वणिग्जनाः । भुक्त्वा भोग्यं रमित्वापि तस्थुर्जागर्तिका निशि ॥ ततः प्रातः समुत्थाय सर्वे ते सिंहलादयः । स्वां स्वां भार्यां समामन्त्र्य गृहीत्वा स्वस्वसंवरम् ॥ संमील्य सहसा सर्वे देशाद्बहिर्विनिर्गताः । गत्वा दूरमनोद्यनसमीपं समुपाश्रयन् ॥ तत्र स सिंहलः सर्वान् वणीजस्तान् विलोकयन् । समामन्त्र्य क्रियाकाअरं कर्तुमेवमभाषत ॥ भवन्तः श्रूयतां वाक्यं यन्त्रयात्र निगद्यते । तत्सर्वे सत्यमाधाय कर्तुमर्हन्ति नान्यथा ॥ यदि स्नेहः स्वजिवोऽस्ति ज्ञातिबन्धुसुहृत्स्वपि । युष्माभिर्मद्वचः श्रुत्वा सत्यं धर्तव्यमत्र हि ॥ शृणुध्वं तत्क्रियाबन्धं क्रियते यन्मया हिते । त्रिरत्नशरणं धृत्वा चरितव्यं समाहितैः ॥ केनापि स्मरणीया न भर्या कान्ता प्रिया अपि । पश्चान्नैवाभिलोक्यं च यावत्पारं न गम्यते ॥ (१८३) इति कृत्वा क्रियाबन्धं सर्वे ते सिंहलादयः । ततः संप्रस्थिताः शीघ्रं तीरं प्राप्तो महोदधेः ॥ तत्र तमश्वमद्राक्षुः सवर्णवालुकास्थले । आवर्त्यपरिवर्तित्वा भुक्त्वौषधीः समाश्रितम् ॥ तत्र तान् समुपयातान् दृष्ट्वा सोऽश्वः समुत्थितः । प्रच्छाडित्वा त्रिधा कोऽतः पारगामीति प्रावदत् ॥ तदा ते वणिज्यः सर्वे सांजलयस्तमादरात् । त्रिधा प्रदक्षिणीकृत्य प्रणत्वैवं बभाषिरे ॥ देव सर्वे वयं पारं गन्तुमिच्छामहे खलु । तद्भवान्नो द्रुतं पारं संप्रापयितुमर्हति ॥ इति तैः प्रार्थितं श्रुत्वा सोऽश्वराजो दयानिधिः । सर्वांस्तान् वणिजः पश्यन् पुनरेवमभाषत ॥ यदि पारमितो गन्तुं यूयं सर्वे समिच्छथ । मत्पृष्ठं दृढमारुह्य संतिष्ठध्वं समाश्रिताः ॥ यावत्र छोदितं कायं मया तावत्र केनचित् । कर्तव्यो दृष्टिविक्षेपो यदि जीवितमिच्छथ ॥ इति तेन समादिष्टं श्रुत्वा स सिंहलाग्रतः । नत्वा तत्पृष्टमारुह्य संश्रितः समतिष्ठत ॥ ततस्ते वणिज्यः सर्वे नत्वा तं सहसा क्रमात् । रुह्यते पृष्ठमाश्रित्य संश्लेषिता निषेदिरे ॥ ततः सोऽश्वो महावेगी संवहन्स्तान् वणिग्जनान् । संक्रमन् सहसाम्भोधेर्मध्ये द्वीपमुपाययौ ॥ तदाश्वेनाहूतान् सर्वान् राक्षस्यस्तान् वणिग्जनान् । दृष्टवा ताः सकलास्तत्र सहसा खादुपाचरन् ॥ हा कान्ता प्रियभर्तासि मां विहायाधुना कथम् । निःस्नेहो मयि कुत्रैक एव गन्तुं त्वमिच्छसि ॥ अहमपि त्वया सार्धं गन्तुमिहाव्रजामि हि । तन्मां पश्यन्भवाकान्त समत्वहर्तुमर्हति ॥ (१८५) हा कान्त कथमेकान्ते त्यक्त्वा मां भक्तिचारिणीइम् । निःस्नेहो रतिसंभोगो क्व प्रयातुं त्वमिच्छसि ॥ कथं मत्स्नेहसंभोगरतिसौख्यमहोत्सवम् । विस्मृतं भवता कान्त तत्स्मृत्वा पश्येमां प्रियाम् ॥ हा प्राणसमकान्तोऽसि नैवास्ति मे सुहत्प्रियः । तवाप्यस्मि प्रिया भार्या तत्कथं नौ वियोगता ॥ सुदुष्यकोमलैवस्त्रैः प्रावृतोऽसि मयेप्सितैः । तत्स्नेहतिमुत्सृज्य कुत्र गन्तुं त्वमिच्छसि ॥ यथाभिलषितैर्भोग्यैः पानैश्च परितोषितः । विस्मृत्य कथमेकान्ते मां त्यक्त्वा गन्तुमिच्छसि ॥ विविधसुरभिद्रव्यैस्त्वं लिप्त्वा मोदितो मया । सौगन्धिद्रव्यमुज्झित्वा कुत्र गन्तुं त्वमिच्छसि ॥ मुक्ताहाराद्यलंकारैर्भूषितोऽसि यथेप्सितैः । तत्ते सर्वमलंकारं त्यक्त्वा गन्तुं कुहेच्छसि ॥ भुक्त्वा भोग्यं यथाकामं रमित्वापि दिवानिशम् । तद्भोग्यरतिसत्सौख्यं हित्वा गन्तुं कुहेच्छसि ॥ हा कान्त मम नाथोऽसि कृत्वनाथामिमां सतीम् । निर्दयो मां परित्यज्य कथं गन्तुं कुहेच्छसि ॥ हा कान्त पस्य मां भार्यां भवद्धर्मानुचारिणीम् । देहि मे दर्शनं स्वामि मा त्यजेमां प्रियंवदाम् ॥ यदि मे दर्शनं कान्त न ददासीह किंचन । भवन्नाम समुच्चार्य मरिष्ये श्वो निराशिता ॥ तदा भवानपि मां स्मृत्वा भोग्यक्रीडासुखान्यपि । कियत्कालं धरेत्प्राणं यास्यसि मरणं ध्रुवम् ॥ इति स्नेहोऽस्ति ते भर्तः स्वजिवे मयि वा यदि । एकधापीह मां स्मृत्वा भवान् संद्रष्टुमर्हति ॥ इत्येवं विलपन्त्यस्ता राक्षस्यः सकला अपि । स्वस्वभर्तारमालोक्य रुदन्त्योऽनुययुर्द्रुतम् ॥ (१८६) तत्कारुण्यविलापं ते श्रुत्वा सर्वे वणिग्जनाः ॥ स्नेहरतिसुखोत्साहं स्मृत्वा ता द्रष्टुमिच्छिरे ॥ तत्र ये येऽतिस्तेनेहार्द्राषु कारुण्याधैर्यमोहिताः । तान् द्रष्टुं पृष्टमद्राक्षुस्ते तेऽश्वान्न्यपतन् जले ॥ ये येऽश्वान्निपततन्तोऽब्धौ तान्स्तानालोक्य ता द्रुतम् । राक्षस्यः सहसोद्धृत्य प्रादनत्स्वस्वपतिं मुदा ॥ एवं ते वणिजः सर्वे निपतन्तो महाम्बुधौ । सहसोद्धृत्य सर्वाभी राक्षसीभिः प्रभक्षिताः ॥ सिंहल एक एवाश्वपृष्ठे संश्लिष्य संश्रितः । त्रिरत्नस्मरणं धृत्वा संतस्थौ निश्चलेन्द्रियः ॥ तमेवैकं महासत्त्वमुहित्वा सोऽश्वराट्लघुः । सहसा संक्रमत्पारमब्धेरस्तीरं समाययौ ॥ तत्र स तीरमासाद्य प्रच्छोडित्वा स्वमाश्रयम् । अवतार्य स्वपृष्ठात्तं सिंहलमेवमब्रवीत् ॥ साधो व्रज समाधाय संपश्यन् पथि सर्वतः । सर्वत्र ते शुभं भूयाद्रमस्व बन्धुभिः सुखम् ॥ इति तेन समादिष्टं श्रुत्वा स सिंहलः कृती । तमश्वं सांजलिर्नत्वा संपश्यन्नेमवमब्रवीत् ॥ धन्योऽसि त्वं महासत्व यन्मां मृत्युमुखगतम् । आदाय सहसोत्तार्य रक्षसि स्वयमागतः ॥ तन्मे नाथोऽसि शास्ता पिण्डानुत्राता सुहृद्गतिः । यावज्जीवं भवत्पादं स्मृत्वा भजेय सर्वदा ॥ मन्ये भवन्तमीशांशनिर्मितं त्रिजगत्प्रभुम् । बोधिसत्त्वं महासत्वं सर्वसत्त्वानुपालकम् ॥ इत्थं मां सर्वदालोक्य भवान् सर्वत्र संकटे । बोधयित्या प्रयत्नेन कृपया त्रातुमर्हति ॥ इति संप्रार्थ्य तं नाथमश्वराजं स सिंहलः । त्रिधा प्रदक्षिणीइकृत्य ननाम तत्पदान् पुनः ॥ (१८७) ततः सोऽश्वस्तमालोक्य किंचिद्दूरे चरन् स्वयम् । अन्तर्हितो ज्वलद्वह्निरिवाकाशे ययौ द्रुतम् ॥ तमेवं खे गतं दृष्ट्वा सिंहलः सोऽतिविस्मितः । यावद्दृष्टिपथं पश्यंस्तस्थौ नत्वा कृतांजलिः ॥ ततः स सिंहलो धीरः पश्यन्न्मार्गे सहाहितः । एकाकी संक्रमन् जम्बूद्वीपारण्यमुपाययौ ॥ तदा या राक्षसी भार्या सिंहलस्य वणिक्पतेः । राक्षस्यः सकलास्तास्तां परिवृत्यैवमब्रुवन् ॥ अस्माभिर्भक्षिताः सर्वस्वामिनोऽपि स्वकस्वकाः । भक्षितो न त्वयैवैकः स्वामी निर्वाहितः कथम् ॥ यदि तावत्तमानीय भक्षसे न त्वमात्मना । त्वां विहत्य वयं सर्वा भक्षिष्याम इति ध्रुवम् ॥ इत्येवं कथितं ताभिः सर्वाभिस्तन्निशम्य सा । संत्रस्ता पुरतस्तासां विषण्णास्यैवब्रवीत् ॥ भगिन्यो यदि युष्माकं निर्बन्ध एष निश्चयः । सर्वथाहं तमानीय भक्षेयमिति निश्चितम् ॥ इति तयोक्तमाकर्ण्य राक्षस्यः सकला अपि । एवं चेत्ते भवेद्भद्रं नोचेन्नेति हि चाब्रुवन् ॥ ततः सा राक्षसी धृत्वा परमभीषणाकृतिम् । आकाशात्सहसा गत्वा सिंहलस्य पुरोऽसरत् ॥ दृष्ट्वा तां राक्षसीं भीमां पुरतः समुपासृताम् । सिंहलोऽसिं समुत्थाप्य संत्रासयितुमुद्ययौ ॥ सिंहलं तमसिं धृत्वा निहन्तुं संमुखागतम् । दृष्ट्वा सा राक्षसी त्रस्ता प्रदुद्राव वनान्तरे ॥ तदा तत्र वणिक्सार्थो मध्यदेशात्समाययौ । तं दृष्ट्वा सा सुन्दरीरुपं धृत्वा पुर उपासरत् ॥ तां कान्तां सुन्दरीं रम्यां पुरतः समुपासृताम् । सार्थवाहः समालोक्य पप्रच्छैवं समादरात् ॥ (१८८) भगिनि को भवन्तीह कान्तारे तु मिताश्रया । एकाकी कुत आयासि तत्सत्यं वक्तुमर्हसि ॥ इति सार्थभृता पृष्टे रुदन्ती सा कृतांजलिः । तस्य सार्थपतेः पादौ प्रणत्वैवं न्यवेदयत् ॥ अहं सार्थपते राज्ञस्ताम्रद्विपपतेः सुता । सिंहलस्यास्य भार्यार्थं दत्त तेन महीभुजा ॥ अनेन सार्थवाहेन परिनीयाहमात्मना । दत्वा विश्रम्भमानीता स्वदेशगमनं प्रति ॥ अब्धितीरोसंप्राप्ता नौकायादौ विभग्निता । अमंगलेति कृत्वाहं छोरितानेन जंगले ॥ तद्भवान् बोधयित्वैनं सार्थवाहं मम प्रियम् । मयि स्नेहभिसम्बन्धे संयोजयितुमर्हति ॥ तयेति प्रार्थितं श्रुत्वा सार्थवाहस्तथेति सः । प्रतिश्रुय तस्य सार्थवाहस्य समुपासरत् ॥ तं दृष्ट्वा समुपायातं सिंहलः स प्रसादितः । आसने संप्रतिष्ठाप्य समालोक्यैवमब्रवीत् ॥ वयस्य कौशलं कश्चिद्देहे सर्वत्र चापि ते । इत्येवं संकथालापं कृत्वा तस्थौ विनोदयन् ॥ तथा स सार्थवाहस्तं सिंहलं कौशलं मुदा । पृष्ट्वा संमोदयन् वीक्ष्य पुनरेवमभाषत ॥ वयस्यासौ राजपुत्री परिणीता त्वया स्वयम् । अस्थाने मा परित्याज्या क्षमस्वास्या विरोधताम् ॥ इति तेनोदितं श्रुत्वा सिंहलः स महामतिः । सार्थवाहं तमालोक्य पुनरेवं न्यवेदयत् ॥ सुखेन राजपुत्रीयं परिणीतापि ना मया । राक्षसीयमिहायाता ताम्रद्वीपनिवासिनी ॥ इति तेनोदितं श्रुत्वा सार्थवाहः स विस्मितः । सिंहलं सुहृदं तं च समालोक्यैवमब्रवीत् ॥ (१८९) वयस्य राक्षसीयं कि कथमेवमिहागता । ज्ञातापि च त्वया केन तत्सत्यं वक्तुमर्हसि ॥ इति तेनोदिते सर्ववृत्तान्तं विस्तरेण सः । सिंहलस्य मित्रस्य पुरतः संन्यवेदयत् ॥ तदुक्तं सर्वृत्तान्तं श्रुत्वा स सार्थभृत्सुधीः । सत्यमिति परिज्ञाय बभुव त्रसिताशयः ॥ ततः स सिंहलस्तस्मात्संप्रस्थितः समाहितः । संपश्यन् पथि सर्तत्र संचरन् स्वपुरं ययौ ॥ तत्र स स्वगृहे गत्वा मातापित्रोः पुरो गतः । तत्पादान् सहसा नत्वा कौशल्यं समपृच्छत ॥ त्वन्मुखदर्शनादेव कौशल्यं नौ सदा भवेत् । तवापि कौशलं कच्चिदिति तौ पर्यपृच्छताम् ॥ तच्छ्रुत्वा सिंहलश्चासौ स्वप्रवृत्तिमनुस्मरन् । गलदश्रुविलिप्तास्यो पित्रोरेवं न्यवेदयत् ॥ किं ताताविह वक्षामि दैवेन प्रेरितोऽस्मि हि । एक एवाहमायातः सर्वे नष्टाः सहायकाः ॥ कथमिति पुनः पृष्टः पितृभ्यां सिंहलः सुतः । सर्वमेतत्स वृत्तान्तं विस्तरेण न्यवेदयत् ॥ तदुक्तं सर्वमाकर्ण्य पितरौ प्रहताशयौ । चिरं निःश्वस्य तं पुत्रं पश्यन् तावेवमूचतुः । हा पुत्र भाग्यतो नौ त्वं जीवन्निह समागतः । मा शुचस्तद्धनं नष्टं धैर्यं धृत्वा सुखं चर ॥ किमेव बहुभिर्द्रव्यैर्विना पुत्रेण नौ गृहे । पुत्र एव महारत्नं धर्मार्थवंशसाधनम् ॥ बहुरत्नानि नः सन्ति यदि त्वमिह नागतः । एतान्यपि हि सर्वाणि व्यर्थं क्षिणुयुरावयोः ॥ द्रव्ये नष्टे पुनर्द्रव्यं साधययं प्रयत्नतः । त्वयि पुत्रे विनष्टेऽहं साधयेयं कथं परम् ॥ (१९०) किं करिष्यन्ति रत्नानि विना पुत्रेण साधुना । निर्धनोऽपि वरं साधुः पुत्रो धर्मार्थसाधनः ॥ मृते रत्नानि किं कुर्युर्विना पुत्रेण साधुना । सत्पुत्रः पिण्डदानादीन् कृत्वा स्वर्गेऽपि प्रेर्स्येत् ॥ सत्पुत्र एवं सद्रत्नमिह धर्मार्थसद्गुणान् । साधयेद्यत्परत्रापि संस्कृत्य प्रेरयोद्दिवि ॥ तत्त्वमेवावयो रत्नमिह धर्मार्थसौख्यदम् । संस्कारपिण्डदानैश्च परत्र प्रेरयेद्दिवि ॥ इत्यावयोर्हि संसारे त्वन्मुखाम्भोजदर्शनात् । जन्मजीवितसम्पत्तिसाधनं सfअलं भवेत् ॥ इति विज्ञाय सत्पुत्र त्वमावाभ्यां सहान्वितः । सद्धर्मसाधनं कृत्वा भुक्त्वा कामं समाचर ॥ धृत्वा स्वकुलसंवृत्तिं त्रिरत्नशरणं गतः । दत्वार्थिभ्यो यथाकामं संरमस्व गृहाश्रितः ॥ तस्मिन्नवसरे तत्र राक्षसी सातिसुन्दरी । भूत्वा सिंहलसंकाशं पुत्रं धृत्वा समाययौ ॥ तत्र तं बालकं पुत्रमंक आरोप्य सर्वतः । पृच्छन्ति सिंहलगेहं बभ्राम सा प्रगल्भिका ॥ तत्र सा प्रेरिता लोकैः सिंहलस्य गृहान्तिके । गत्वा समीक्ष्यमाना तद्द्वारमूलमुपाश्रयत् ॥ तत्र लोकाः समालोक्य बालकं तं मनोहरम् । सिंहलसदृशाकारं पश्यन्त एवमब्रुवन् । भवन्तो ज्ञायतामेष बालकः सिंहलात्मजः । यदस्य सिंहलस्येव निर्विशेषं मुखेन्द्रियम् । इत्युक्तं जनकायेन निशम्य सा क्षपाचरा । भवद्विर्ज्ञातेऽस्यायं पुत्र इत्येवमब्रवीत् ॥ भगिनि त्वं सुता कस्य कुतः कथमिहागता । इति तैश्च जनैः पृष्टा सा पुनरेवमब्रवीत् ॥ (१९१) भवन्तोऽहं सुता राज्ञस्ताम्रद्वीपाधिपस्य हि । पित्रास्य सार्थवाहस्य दत्ता भार्यार्थमात्मना ॥ अनेन सार्थवाहेन परिणीता सहागता । अब्धितीरोपप्राप्ता नौर्भग्ना यादोऽनिलाहता ॥ अमंगलेति कृत्वाहं छोरितानेन जंगले । क्षुद्रं पुत्रमिमं धृत्वा कष्टेनेहाहमागता ॥ अस्यात्मजो ह्ययं बालो भार्याहं धर्मचारिणी । इत्येनं स्वामिनं सर्वं संबोधयितुमर्हथ ॥ तयेति प्रार्थितं श्रुत्वा सर्वे लोकास्तथेति ते । प्रतिज्ञाय द्रुतं तस्य सिंहलस्य पुरो गताः ॥ सर्वमेतत्प्रवृत्तान्तं यथोदितं तथा तथा । विस्तरेण समाख्याय सिंहलमेवमव्रुवन् ॥ सार्थवाह त्वया भार्या क्षुद्रपुत्रा तपस्विनी । बालकश्च सुतस्तेऽसौ त्यक्तावेनावुभौ कथम् । तदस्माकं वचः श्रुत्वा भार्यां तां स्वात्मजं च तम् । संपश्यन् कृपया साधो समन्वाहर्तुमर्हसि ॥ इति तैः प्रार्थ्यमानोऽसौ सिंहलस्तान् सुहृज्जनान् । सर्वानपि समालोक्य पुर एवमभाषत ॥ भवन्तो न सुता राज्ञो भार्यापीयं न मे खलु । राक्षसी हि नराहारा ताम्रद्वीपनिवासिनी ॥ बालोऽप्ययं न मे पुत्रो निर्मितो माययानया । इति सत्यं मया ज्ञात्वा कथ्यते न मृषा खलु ॥ तच्छ्रुत्वा ते जनाः सर्वे तस्य पित्रोः पुरो गताः । सर्वमेतत्प्रवृत्तान्तं विस्तरेण न्यवेदयन् ॥ तन्निवेदितमाकर्ण्य पितरौ तौ प्रबोधितौ । स्वात्मजं तं समामन्त्र्य पुर एवमभाषताम् ॥ क्षमस्व स्वात्मजस्नेहाद्दुहितुर्नृपतेस्तव । भार्यायाः परिणीयात अपराधं सहस्रशः ॥ (१९२) इति तदुक्तमाकर्ण्य सिंहलः सोऽभिरोषितः । पित्रोरेतत्प्रवृत्तान्तं निवेद्य चैवमब्रवीत् ॥ तात नेयं सुता राज्ञः भार्यापि च न मे खलु । दारकोऽयं न मे पुत्रो निर्मितो माययानया ॥ राक्षसीयं नराहारा ताम्रद्वीपनिवासिनी । अस्मानपि समाहर्तुं ताम्रद्वीपादिहागता ॥ इति पुत्रोदितं श्रुत्वा तौ मातापितरावपि । तमात्मजं समालोक्य पुनरेवमभाषताम् ॥ सर्वा अपि स्त्रियः पुत्र राक्षस्य एव मायिकाः । तेनास्या अपराधत्वं क्षन्तुमर्हसि सर्वथा ॥ इत्येतत्कथितं ताभ्यां श्रुत्वा स सिंहलः सुतः । तौ मातापितरौ पश्यन् पुनेरेवमभाषत ॥ यद्येषा तात युष्माकमभिप्रेता मनोरमा । धारयत गृहे ह्येतां यास्याम्यन्यत्र साम्प्रतम् ॥ इति पुत्रोदितं श्रुत्वा तौ मातापितरौ पुनः । आत्मजं तं समालोक्य स्नेहादेवमभाषताम् ॥ धास्यामः सुत तामेनां तवैवार्थे गृहे सदा । यदि ते रुचिता नेयं किमस्माकमनयात्मज ॥ इति ताभ्यां कथित्वासौ निष्कासिता बलात्ततः । सिंहकेशलिनो राज्ञः सकाशं सहसा ययौ ॥ तत्र सा सुन्दरी कान्ता सपुत्रा द्वारे सन्निधौ । समुपासृत्य पश्यन्ती मोहयन्ती समाश्रयत् ॥ तां दृष्ट्वा मन्त्रिणोऽमात्याः सर्वे कौतूहलान्विताः । नृपतेः पुरतो गत्वा समीक्ष्यैवं न्यवेदयन् ॥ देवातिसुन्दरी कान्ता सकान्तबालकात्मजा । राजद्वारमुपाश्रित्य संपिष्ठते प्रगल्भिका ॥ इति तैर्निवेदितं श्रुत्वा राजा स सिंहकेशली । प्रवेशयात्र पश्येयमिति तान्मन्त्रिणोऽब्रवीत् ॥ (१९३) मन्त्रिणस्तथेत्युक्त्वा गच्छन्तः सहसा ततः । वनितां तां समाहूय प्रावेशयन्नृपालयम् ॥ दृष्ट्वा तां सुन्दरी कान्तां राजासौ रागमोहितः । सुचिरं तां समालोक्य तस्थौ निश्चरितेन्द्रियः ॥ ततः स नृपतिः पश्यन् पृष्ट्वा तां कौशलं मुदा । कुतस्त्वमागता कस्य पुत्रीति पर्यपृच्छत ॥ तच्छ्रुत्वा प्रमदा सा तं पश्यन्ती नृपतिं चिरात् । गलदश्रुविलिप्तास्या प्रणत्वैवमभाषत ॥ देव जानीहि मां पुत्रीं ताम्रद्वीपमहीपतेः । सार्थवाहस्य भार्यार्थं ददौ स नृपतिः स्वयम् ॥ तेनापि सार्थवाहेन परिणीतासमादरात् । ततः संप्रस्थितानेन सहेहागन्तुमुत्सुका ॥ अब्धितीरे प्राप्ता नौर्भग्ना यादोऽनिलाहता । कृच्छ्रात्ततः समुत्तीर्य तीरमासद्य प्राचरन् ॥ अमंगलेति कृत्वाहं छोरितानेन जंगले । तदात्मजमिमं धृत्वा शनैरिह समागता ॥ पृष्ट्वाहं सार्थवाहस्य गृहं गत्वा समाश्रिता । पितृभ्यामपि संत्यक्ता निर्वाहिता गृहाद्बलात् ॥ तद्भवच्छरणे राजन् क्षुद्रपुत्राहमागता । तद्भवान्सिंहलं पौरैं क्षमापयितुमर्हति ॥ इति तयोक्तमाकर्ण्य नृपतिः स समीक्ष्य ताम् । समाश्वास्य समाहूय मन्त्रिण एवमब्रवीत् ॥ मन्त्रिणः सार्थवाहं तं सिंहलं सिंहनन्दनम् । गत्वाहं सहसाहूय समानयत साम्प्रतम् ॥ इति राज्ञा समादिष्टं श्रुत्वा ते मन्त्रिणो द्रुतम् । सिंहलं तं समाहूय नृपस्य समुपानयत् ॥ दृष्ट्वा तं समुपायातं सिंहलं स नराधिपः । सादरं समुपामन्यिं समीक्ष्यैवं समादिशत् ॥ (१९४) सिंहलं केन भार्येषा त्वया त्यक्ता नृपात्मजा । क्षमस्वैनां गृहे नीत्वा सात्मजामभिपालय ॥ इत्यादिष्टं नरेन्द्रेण श्रुत्वा स सिंहलो वणिक् । सांजलिस्तं नृपं नत्वा समालोक्यैवमब्रवीत् ॥ देव नैषा सुता राज्ञो भार्यापि मे सुतोऽप्ययम् । राक्षसीयं नराहारा ताम्रद्वीपादिहागता ॥ तेनैतत्कथितं श्रुत्वा स राजा रागमोहितः । सिंहलं तां च समीक्ष्य पुनरेवं समादिशत् ॥ सर्वाः स्त्रियोऽपि राक्षस्य एव तत्क्षन्तुमर्हति । येद्येषा नाभिप्रेता ते त्यक्त्वा मे दीयतां त्वया ॥ एतद्राजोदितं श्रुत्वा सिंहलः स वणिक्सुधीः । नृपतिं तं समालोक्य पुनरेवं न्यवेदयत् ॥ राक्षसीयं महाराज न दद्यां नापि वारये । भवान् सम्यग्विचार्यैव करोतु ते हितं यथा ॥ इति तदुक्तमाकर्ण्य राजा स रागमोहितः । इत्युक्त्वा सिंहतो धीरः ततः संप्रेस्थितो गृहे ॥ त्रिरत्नस्मृतिमाधाय तस्थौ धैर्यसमाहितः । तां कान्तां ससुतां स्वान्तःपुरे प्रावेशयन्मुदा ॥ ततः सा रमणी कान्ता राजानं तं प्रमोहितम् । रमयन्ती यथाकामैः सुखैर्हृत्वा वशेऽनयत् ॥ तयैव सह संरक्तो राजा स कामनन्दितः । यथाकामं सुखं भुक्त्वा चचार स्वेच्छया रमन् ॥ एवं सा राक्षसी नित्यं रमयित्वा यथेच्छया । नृपतिं तं वशीकृत्य स्वच्छन्दं समचारयत् ॥ ततः सा राक्षसी रात्रो राजकुलाश्रितान् जनान् । नृपतिप्रमुखान् सर्वान् संप्रास्वपितान् व्यधात् ॥ कृत्वा सर्वान् प्रसुप्तांस्तान् प्रास्वापनाभिमोहितान् । ततः सा सहसाकाशात्ताम्रद्वीपं मुदाचरत् ॥ (१९५) तत्र सा सहसोपेय ताः सर्वा अपि राक्षसी । पुरतः समुपाहूय समालोक्यैवमब्रवीत् ॥ भगिन्यस्तेन युष्माकमेकेन सिंहलेन किम् । सिंहकेशरिणो राज्ञः सिंहकल्पाभिधे पुरे ॥ नृपतिप्रमुखाः सर्वे जना अन्तःपुराश्रिताः । मया कृताः प्रसुप्तास्ते प्रास्वापनाभिमोहिताः ॥ आगच्छत मया सार्धं सहसा तत्र चरेमहि । नृपतिप्रमुखान् सर्वान् भक्षिष्यामोऽधुना वयम् ॥ इति तयोक्तमाकर्ण्य राक्षस्यः सकला अपि । आकाशात्सहसा गत्वा सिंहकल्पं मुदाचरन् ॥ तत्र ताः सहसोपेत्य सर्वा राजकुले स्थितान् । नृपतिप्रमुखान् सर्वांल्लोकान्मुदा च खादिरे ॥ सर्वेऽपि भक्षितास्ताभी राक्षसीभिर्नृपादयः । जना राजकुलद्वारं नोद्घाटितमुषस्यपि ॥ राजकुलोपरि प्रातः पक्षिणः कुणपाशिनः । गृध्रादयो विरावन्तः प्रभ्रमन्तः प्रेचिरिरे ॥ तत्र प्रातः समायाता अमात्या मन्त्रिणो जनाः । पक्षिणो भ्रमतो दृष्ट्वा तस्थुः सर्वेऽपि विस्मिताः ॥ कथं राजकुलं द्वारं नोद्घाटितं च साम्प्रतम् । भ्रमन्तः पक्षिणोऽनेके इत्युक्त्वा तस्थुरुन्मुखाः ॥ तत्प्रवृत्तान्तमाकर्ण्य सिंहलः सहसोत्थितः । निशितं खड्गमादाय प्राचरत्तत्र सत्वरः ॥ तत्र तां जनतां पश्यन्सिंहलः स उपाश्रितः । गलदश्रुविलिप्तास्यः पुरत एवमब्रवीत् ॥ भवन्तः कुणपाहारा भ्रमन्त्यत्र खगा यतः । तद्राजापि जनाः सर्वे राक्षस्या भक्षिता खलु ॥ तदुक्तमिति तच्छ्रुत्वा सर्वेऽपि मन्त्रिणो जनाः । कथमेवं त्वया ज्ञातमित्यप्राक्षुस्तमादरात् ॥ (१९६) तच्छ्रुत्वा सिंहलश्चासौ सर्वान्स्तान्मन्त्रिणो जनान् । समीक्ष्य तत्पुरः स्थित्वा सहसौवमभाषत ॥ भवन्तो दीर्घनिःश्रेणिः सहसानीयतामिह । आरुह्योपरि गत्वाहं पश्याम्यत्र समन्ततः ॥ तदुक्तं मन्त्रिणः श्रुत्वा निःश्रेणिं सहसा जनैः । आनयित्वाशु प्रासादे प्रान्ते समध्यरोपयन् ॥ तान् दृष्ट्वा सिंहलः खड्गं धृत्वाभिरुह्य संक्रमन् । प्रासादोपरि संस्थित्वा त्रासयत्ताः निशाचरीः ॥ सिंहलं खड्गपाणिं तं प्रासादोपरि संस्थितम् । राक्षस्यस्ताः समालोक्य सर्वा भीता विबभ्रमुः ॥ तासां काश्चिच्छिरो धृत्वा काश्चित्पादान् भुजान् पराः । ताः सर्वा अपि राक्षस्यः पलायितास्ततो द्रुतम् ॥ ततः सिंहल आलोक्य सर्वास्ता निष्पलायिताः । प्रासादादवतीर्याशु द्वारं समुदघाटयत् ॥ ततस्ते मन्त्रिणोऽमात्या जनाः सर्वेऽपि सैनिकाः । गत्व समीक्ष्य राजादीन् सर्वान् भुक्तान् विचुक्रुशुः ॥ सुचिरं विलपित्वा ते सर्वेऽपि मन्त्रिणो जनाः । अमात्याः सैनिकाः पौरा विचेरुः संत्रसिताशयाः ॥ ततः स सिंहलो दृष्ट्वा सर्वांस्तान्मन्त्रिणो जनान् । अमात्यान् सैनिकान् पौरान् समामन्त्र्यैवमब्रवीत् ॥ भवन्तो मा विचरन्त्यत्र नास्ति काचिन्निशाचरी । तत्सर्वे समुपाविश्य पश्यन्तां सर्वतः पुनः ॥ ततस्ते मन्त्रिणोऽमात्या जनाः संवीक्ष्य सर्वतः । सर्वराजकुलं सान्तर्बहिस्तं समशोधयन् ॥ ततस्ते मन्त्रिणोऽमात्या ब्रह्मणादीन्महाजनान् । सन्निपात्य प्रजाश्चापि समामर्नयैवमब्रुवन् ॥ भवन्तोऽत्र मृतो राजा वंशस्तस्य न विद्यते । तदत्र कं कृत्वा मिमीमहि वदन्त्विदम् ॥ (१९७) इति तैर्मन्त्रिभिः प्रोक्तं श्रुत्वा ते ब्राह्मणादयः । महाजनाः प्रजाश्चापि सर्वेऽप्येवं न्यवेदयन् ॥ यः प्राज्ञः सात्विको विरो नीतिशास्त्रविचक्षणः । दयाकारुण्यभद्रात्मा सर्वधर्महितार्थभृत् ॥ तं विधिनाभिंषिंच्यात्र प्रतिष्ठाप्य नृपासने । सर्वराज्याधिपं कृत्वा प्रमाणयन्तु सर्वदा ॥ इति तैः कथितं श्रुत्वा केचिद्विज्ञा महाजनाः । सर्वेषां मन्त्रिणां तेषां पुरत एवमब्रुवन् ॥ सिंहलोऽयं सार्थावाहः सात्विको नीतिवित्कृती । दयाकारुण्यभद्रात्मा सर्वसत्त्वहितार्थभृत् ॥ ईदृग्वीरो महाप्राज्ञो दयाकारुण्यसन्मतिः । मैत्रीश्रीसद्गुणाधारो नास्ति कश्चिन्महाजनः ॥ तदेनं सिंहलं वीरमभीषिंच्य नृपासने । प्रतिष्ठाप्य नृपं कृत्वाभिमतां सकलैः सह ॥ इति तैरुदितं श्रुत्वा तेऽमात्या मन्त्रिणो जनाः । सर्वेऽप्यनुमतं कृत्वा तथा कर्तुं समारभन् ॥ ततस्ते मन्त्रिणोऽमात्या ब्राह्मणाश्च महाजनाः । सिंहलं तं समामन्यिं पुरत एवमब्रवन् ॥ सिंहलात्र यदस्माकं प्रजानामपि संमतम् । तदनुमोद्य राज्योऽत्र राजा भवितुर्हसि ॥ इति तैर्मन्त्रिभिः सर्वैरमात्यैः सुजनैर्द्विजैः । प्रार्थितं सिंहलः श्रुत्वा तत्पर एवमब्रवीत् ॥ भवन्तोऽहं वणिग्वृत्तिव्यवहारोपजीविकः । तत्कथं राज्यसंभारं संवोढुमभिशक्नुयाम् ॥ तदेतन्मम योग्यं न क्षमन्तु तदशक्यताम् ॥ यद्योग्यं कर्म तत्रैव योजनीयो हि मन्त्रिभिः ॥ इति तेनोदितं श्रुत्वा तेऽमात्या मन्त्रिणो जनाः । सर्वे तं सिंहलं वीक्ष्य समामन्त्र्यैवमब्रुवन् ॥ (१९८) भवत्सदृशः सद्बुद्धिर्विर्यवान् सदयः कृती । सात्विको लोकविख्यातः कश्चिदन्यो न निद्यते ॥ यच्चास्य नृपतेर्वंशे विद्यतेऽपि न कश्चन । तदत्रेदं भवान् राज्यमनुशासितुमर्हति ॥ इति तैर्मन्त्रिभिः सर्वैः संप्रार्थितं निशम्य सः । सिंहलो मन्त्रिणः सर्वान् समालोक्यैवमब्रवीत् ॥ भवन्तो यदि मां सर्वे राजानं कर्तुमिच्छथ । समये नाहमिच्छामि राज्यं समनुशासितुम् ॥ इति तेनोदितं श्रुत्वा सर्वे ते मन्त्रिणो जनाः । अमात्यास्तं महाभिज्ञं समलोक्यैवमब्रुवन् ॥ यथा यद्भवताख्यातं समयं तत्तथा खलु । सर्वे वयं समाधाय चरिष्यामः समाअहिताः ॥ इति तदुत्तमाकर्ण्य सिंहलः संप्रबोधितः । सर्वान्स्तान्मन्त्रिणोऽमात्यान् समालोक्यैवमब्रवीत् ॥ यद्येतत्सत्यमाधाय सर्वे चरितुमच्छथ । तथात्र राज्यसंभारं संवोढुमुत्सहेऽप्यहम् ॥ तद्भवन्तोऽत्र मे वाक्यं धृत्वा धर्मानुसाधिनः । त्रिरत्नभजनं कृत्वा चरेयुः सर्वेदा शुभे ॥ इत्यनुशासनं धृत्वा मम धर्मासहायीनः । सर्वेसत्त्वहिताधारे दह्र्मे चरितुमर्हथ ॥ इति तेनोदितं श्रुत्वा सर्वे मन्त्रिणो जनाः । अमात्या द्विजपौराश्च तथेति प्रतिशुश्रुवुः ॥ ततस्ते मन्त्रिणोऽमात्या जना द्विजा महाजनाः । सर्वेऽपि संमतं कृत्वा तं नृपं कर्तुमारभन् ॥ ततस्तेऽत्र पुरे सम्यग्छोधयित्वा समन्ततः । ध्वजछत्राद्यालंकारैर्मण्डनैः समशोधयन् ॥ ततस्ते परिशुद्धेऽहिन सिंहलं यथाविधिम् । अभिषिंच्य महोत्साहैश्चक्रुः लोकाधिपं नृपम् ॥ (१९९) नृपासने प्रतिस्ठाप्य सर्वे लोकाः समन्त्रिणः । सिंहलं तं महाराजं संसेविरे समादरात् ॥ ततः स सिंहलो राज सर्वांल्लोकाअन् विनोदयन् । स्वस्वधर्मे प्रतिष्ठाप्य शशास स्वात्मजानिव ॥ तदनुशासनं धृत्वा सर्वे लोका द्विजादयः । त्रिरत्नभजनं कृत्वा संचेविरे शुभे सदा ॥ तदा तस्य प्रभो राज्ये सर्वत्र विषयेष्वपि । निरुत्पातं शुभोर्साह प्रावर्त्तत निरन्तरम् ॥ तथा स मन्त्रिभिः सद्भिः नीतिधर्मविचक्षणैः । सेव्यमानो महाविज्ञो रराज देवराडिव ॥ तत्र स नृपतिर्जित्वा जन्बूद्वीपे महीभुजः । सर्वान्स्तान्मन्त्रिणोऽमात्यान् समामर्नयैवमादिशत् ॥ सज्जीक्रियतामाश्वत्र चतुरंगबलैः सह । ताम्रद्विपे गमिष्यामि जेतुं ता राक्षसीरपि ॥ तदादिष्टं समाकर्ण्य सर्वे मन्त्रिणो जनाः । चतुरंगबलान्येवं सहसा समसज्जयन् ॥ ततः सन्नाह्य स भूमीन्द्रश्चतुरंगबलैः सह । संप्रस्थितो महोत्साहैस्तीरं प्राप महोदधेः ॥ तत्र स तानि सर्वाणि चतुरंगबलान्यपि । आरोप्य वहनेष्वब्धौ संप्रस्थितो चरन्मुदा ॥ तत्र स संतरन् सर्वैश्चतुरंगवलैः सह । स्वस्तिना सहसाम्बोधेः पारतीरमुपाययौ ॥ ताम्रद्वीपे तदा तत्र राक्षसीनां महद्ध्वजः । रेपित आपणस्थाने कम्पितोऽसूचयद्भयम् ॥ तं प्रकम्पितमालोक्य राक्षस्यो भयशंकिताः । सर्वा एकत्र संमिल्य मिथ एवं समूचिरे ॥ भवन्त्य आपणस्थोऽथं ध्वजः प्रकम्पितोऽधुना । जाम्बुद्वीपनृपा नूनमस्भिर्योद्धुमागताः ॥ (२००) सज्जीकृत्वा तदस्माभिः स्थातव्यमिह साम्प्रतम् । इति संभाष्य ता द्रष्टुमब्धितीरमुपाचरन् ॥ तत्रस्थाः सकलास्तास्तान् सिंहलादीन्नराधिपान् । तीरोत्तीर्णान्महोत्साहैर्ददृशुर्योद्धुमागतान् ॥ दृष्ट्वा तान् समुपायातान् राक्षस्यस्ता भयान्विताः । काश्चित्पलायिता भीताः काश्चद्योद्धं समाश्रिताः ॥ योद्धं प्रत्युद्गताः काश्चित्काश्चित्तस्थुर्निरीक्ष्य खे ॥ तान् प्रत्युद्गतान् दृष्ट्वा सिंहलस्या&॰२८९;याया द्रुतम् । विद्याधरिभिराविष्टा वीरैः शस्त्रैः प्रद्योतिताः ॥ अवशिष्टा अभिस्ताः सिंहलस्य नृपप्रभोः । कृतांजलिपुटा नत्वा पादयोरेवमब्रुवन् ॥ क्षमस्व नो महाराज व्रजामः शरणे तव । तदस्मान् योषितो बाला हन्तुं नार्हति क्षत्रियः ॥ इति संप्रार्थितं ताभिः श्रुत्वा स सिंहलः प्रभुः । समयेन क्षयं व इति ता वीक्ष्याब्रवीत् ॥ तच्छुत्वा सकला तास्तं सिंहलं क्षत्रियाधिपम । सांजलयः पुनर्नत्वा समालोक्यैवमब्रवीत् ॥ किं समयं समाख्यातुं भवताभिहितं यथा । तथा सर्वे वयं धृत्वा चरिष्यामः सदापि हि ॥ इतिः ताभिः समाख्यातं निशम्य स नृपः सुधीः । तां सर्वा राक्षसीः पश्यन् पुनरेवमभाषत ॥ यदीदं नगरं त्यक्त्वा सर्वेऽन्यत्राधितिष्ठथ । मद्विजिते च यद्यत्र नापराध्येथ कस्यचित् ॥ तदा युष्माकमेवाहमपराध्यक्षयमेनहि । तदन्यथा कृते युष्मान् सर्वा हन्यां स संशयः ॥ इति तेन समाख्यातं श्रुत्वा ताः सकला अपि । सिंहलं तं प्रणत्वा च समालोक्यैवमब्रुवन् ॥ स्वामिंस्तथा करिष्यामो भवानभिहितं यथा । तदस्मान् योषिता बालाः संपालयितुमर्हति ॥ (२०१) इति संप्रार्थ्य सर्वास्ता राक्षस्यः परिबोधिताः । त्यक्त्वा तद्विषयं गत्वा वनेऽन्यत्र समाश्रयन् ॥ तत्र स सिंहलो राजा सामात्या मन्त्रिणो जनाः । स्थित्वा लोकानधिष्ठाप्य स्वस्वधर्मेऽन्वशासत ॥ तत्र ते सकला लोका धृत्वा तन्नुपशासनम् । त्रिरत्नभजनं कृत्वा स्वस्वर्धं समाचरन् ॥ तदैतद्धर्मभावेन सुभिक्षं निरुपद्रवम् । सद्धर्ममंगलोत्साहं प्रावर्तत समन्ततः ॥ सिंहलेन नरेन्द्रेण जित्वा संवासितं स्वयम् । तेनासौ सिंहलद्वीप इति प्रख्यापितोऽभवत् ॥ योऽसौ सिंहलो राजा तदाहमभवं खलु । यः सिंहकेशरी राजा ज्येष्ठ एव महल्लकः ॥ तदाभूद्राक्षसी या सा वेषा एवानुपमा खलु । यो वलाहोऽश्वराजोऽभूदेषोऽवलोकितेश्वरः ॥ तदाप्येवं स लोकेशो बोधिसत्त्वो विलोक्य माम् । अश्वो भूत्वा समुत्तार्याप्यब्धेरेवं महद्भयात् ॥ एवं स त्रिजगन्नाथो बोधिसत्त्वः सदा स्वयम् । विलोक्य सकलान् सत्त्वान् समुत्तार्य भयादवत् ॥ तेनास्य सदृशो धर्मो नास्ति कस्यापि कुत्रचित् । बुद्धानामपि नास्त्येव कुतोऽन्येषाअं त्रिधातुषु ॥ इत्थमयं महासत्त्वः सर्वलोकाधिपेश्वरः । सर्वधर्माधिपः शास्ता महाभिज्ञाऽधिराजते ॥ तेन लोकाधिपाः सर्वे त्रैधातुकाधिपा अपि । अस्य शरणमाश्रित्य प्रभजन्ति सदादरात् ॥ येऽप्यस्य शरणं कृत्वा भजन्ति सर्वदादरात् । दुर्गतिं ते न गच्छन्ति संप्रयान्ति सुखावतीम् ॥ तत्र गत्वामिताभस्य मुनीन्द्रस्योपसंश्रिताः । सदा धर्मामृतं पीत्वा प्रचरन्ति जगद्धिते ॥ ततस्ते बोधिसंभारं पूरयित्वा यथाक्रमम् । निःक्लेशा बोधिमासाद्य संबुद्धपदमाप्नुयुः ॥ इति विज्ञाय ये सत्त्वाः समीच्छन्ति जिनास्पदम् । तस्य लोकाधिनाथस्य भजन्तु शरणाश्रिताः ॥ इति शास्त्रा समादिष्टं श्रुत्वा सर्वे सभाश्रिताः । लोकास्तथेति विज्ञप्य प्राभ्यनन्दन् प्रबोधिताः ॥ ॥ इति सिंहलसार्थवाहोद्धारणप्रकरणं समाप्तम् ॥ १७. सर्वसत्त्वोद्धारण संबोधिमार्ग स्थापन महेश्वरोमादेवी संबोधिव्याकरणोपदेश प्रकरणम् अथ सर्वनीवरणविष्कम्भी स जिनात्मजः । सांजलिर्भगवन्तं तं पुनर्नत्वैवमब्रवीत् ॥ भगवंस्त्रिजगद्धर्तुस्ते लोकाधिपतेः प्रभोः । काये धर्माः कियन्तोऽपि विद्यन्ते तान् समादिश ॥ इति संप्रार्थितं तेन विष्कम्भिना निशम्य सः । भगवांस्तं महासत्त्वं समलोक्यैवमादिशत् ॥ कुलपुत्रास्य नाथस्य त्रैधातुकनिवासिनाम् । काये सर्वेऽपि सद्धर्माः संविद्यन्ते व्यवस्थिताः ॥ तद्यथास्य तनौ लोम्नां विवरेषु सन्ति ये वृषाः । तान् संक्षेपेण वक्ष्यामि शृणुध्वं यूयमादरात् ॥ तद्यथैकविले लोम्नः सुवर्णानि बहून्यपि । गन्धर्वाणां सहस्त्राणि निवसन्ति महासुखम् ॥ बाध्यन्ते न च ते क्लेशैर्दुःखैः संसारिकैरपि । विरक्ता दुरिताचारोपविशुद्धेन्द्रियोत्तमाः ॥ सद्धर्माचारसंरक्ताश्चतुर्ब्रह्मविहारिणः । शुद्धशीलाः सदाष्टांगपोषधव्रतधारिणः ॥ तत्र श्रीमन्महारत्नं चिन्तामणिसमुज्ज्वलः । सर्वसत्त्वहितार्थाय स्वयमुत्पद्य संस्थितः ॥ यदा ते मणीमभ्यर्च्य गन्धर्वास्ते समीप्सितम् । प्रार्थयन्ति तदा तेषां सर्वं संसिध्यते तथा ॥ एवं भद्रसुखं भुक्त्वा गन्धर्वास्ते प्रमोदिताः । त्रिरत्नभजनं कृत्वा प्रचरन्तः शुभे स्थिताः ॥ एतदपि महद्धर्ममस्य लोमविले स्थितम् । तेनासौ त्रिजगन्नाथो धर्मकायो विराजते ॥ ततोऽन्यस्मिंश्च कृष्णाख्ये लोमविले जगत्प्रभोः । शतकोटिसहस्राणि महर्षीणां वसन्त्यपि ॥ एकोऽभिज्ञा द्वयभिज्ञाश्च त्र्यभिज्ञाश्चापि केचन । (२०४) केचिच्चतुरभिज्ञाश्च पंचाभिज्ञाश्च केचन । सर्वे ते ऋषयो धीराः स्वस्वकुलव्रतंधराः । सुवर्णमयशैलानां पार्श्वेषु कुट्टिमाश्रिताः ॥ केचिद्रूपमयानां च पार्श्वेषु भूभृतां स्थिताअः । पद्मरागमयानां च केचित्पार्श्र्वेषु भूभृताम् ॥ केचिन्नीलमयानां च पार्श्वेषु कुट्टिमाश्रिताः । केचिद्वज्रमये पार्श्वे केचिन्मणिमये स्थिताः ॥ वैडूर्यकुट्टिमे केचिदश्मगर्भमयेऽपरे । केचिद्भीष्ममये पार्श्वे सप्तरत्नमयेष्वपि ॥ सर्वेषामपि रत्नानां पार्श्वेषु सरसीष्वपि । उद्यानेषु तथा केचिदारामेषु वनेषु च ॥ सर्वेर्तुfअलपुष्पाद्यैर्वृक्षैः संशोभितेष्वपि । केचिच्चन्दनवृक्षाणां केचिदगुरुर्भूरुहाम् ॥ केचित्तमालवृक्षाणां केचिच्चम्पकभूरुहाम् । अश्वत्थानां वटाणां च तथान्येषां च भूरुहाम् ॥ तथान्ये कल्पवृक्षाणां वांछितार्थप्रदायिनाम् । तलेषूटजमाश्रित्य संतिष्ठन्ते समाहिताः ॥ केचिदष्टांगशुद्धाम्बुसम्पूर्णेषु सरस्स्वपि । दिव्यपद्मोत्पलाद्येषु समाश्रित्य समाहिताः ॥ शुद्धशीला विशुद्धांगाः शुद्धाशय जितेन्द्रियाः । नानातपोव्रतं धृत्वा संतिष्ठन्ते समाहिताः ॥ अनेककल्पवृक्षाअश्च सुवर्णरुप्यपत्रकाः । सन्ति लोहितदण्डाश्च सर्वालंकारलम्बिताः ॥ तत्रेदृक्कल्पवृक्षाणामेकैकस्य तले स्थितम् । गन्धर्वाणां शतं स्मृत्वा त्रिरत्नं भजने सदा ॥ यदा ते भवसंचारदुखानि विविधान्यपि । विचिन्त्य खेदितात्मानः एवमुदीरयन्त्यपि ॥ अहो जन्मजराव्याधिक्लेशव्याकुलदुःखता । (२०५) सर्वेषामपि जन्तूनां संसारभ्रमतां सदा ॥ जाम्बूद्वीपमनुष्यास्ते क्लेशाग्निनितापिताशयाः । दुःखानि विविधान्येव भुक्त्वा चरन्तिं दुर्वृतौ ॥ कथं ते मानवा दृष्ट्वा जीवीतं भंगुरोपमम् । त्रिरत्नभजनं कृत्वा न चरन्ति जगद्धिते ॥ त्रिरत्नभजनं कृत्वा ये चरन्ति जगद्धिते ॥ तेषां सर्वमभिप्रायमिहापि सिध्यते खलु ॥ परत्र ते सुखावत्यां लोकधातौ समीरिताः । जिनेन्द्रस्यामिताभस्य शरणे समुपस्थिताः ॥ सर्वदा भजनं कृत्वा पीत्वा धर्मामृतं मुदा । बोधिचर्याव्रतं धृत्वा संचरेरन् जगद्धिते ॥ ततस्ते विमलात्मानो बोधिसत्त्वा जिनात्मजाः । त्रिविधां बोधिमासाद्य संबुद्धपदमाप्नुयुः ॥ इत्येवं तैः समाख्यातं श्रुत्वा पक्षिमृगादयः । पशवोऽपि समुद्विग्ना मनसैवं व्यचिन्तयन् ॥ अहो दुःखं मनुष्याणामपि संसारचारिनाम् । तिरश्चां पशुजातीनामस्माकं किं कथ्यते ॥ कदा वयमिमं पापकायं त्यक्त्वा पुनर्भवे । मानुष्यजन्म आसाद्य चरेमहि सदा वृषे ॥ धन्यास्ते मनुजा लोके त्रिरत्नशरणं गताः । स्मृत्वा ध्यात्वा भजन्तोऽयं संचरन्ते जगद्धिते ॥ इत्येवं तेऽनुसंचिन्त्य सर्वे पक्षिमृगादयः । त्रिरत्नमनुसंस्मृत्वा ध्यात्वा भजन्त आदरात् ॥ तदा तेषामभिप्रायं सर्वेषामपि सिध्यते । दिव्यभोग्यादिवस्तूनि सर्वाण्यपि भवन्ति च ॥ तद्दृष्ट्वा सुप्रसन्नास्ते सर्वे पक्षिमृगादयः । त्रिरत्नभजनं कृत्वा भजन्तः प्रचरन्त्यपि ॥ एवं ते ऋषिगन्धर्वाः पक्षिमृगादिजन्तवः । (२०६) अपि सर्वे शुभोत्साहैः संतिष्ठन्ते प्रमोदिताः ॥ एवं कृष्णाभिधे लोमे विवरे काये जगत्प्रभोः । ऋष्यादयो महासत्वाः महर्द्धिधर्मचारिणः ॥ एवं तस्य जगद्धर्तुः काये सर्वे वृषाः स्थिताः । तेनायं त्रिजगन्नाथः सर्वधर्माधिपः प्रभुः ॥ इति मत्वास्य सर्वेऽपि श्रद्धया शरणं गताः । नामाप्युच्चार्य स्मृत्वापि भजन्तु वोधिवांछिनः ॥ येऽप्यस्य शरणे स्थित्वा नामाप्युच्चार्य सर्वदा । ध्यात्वा स्मृत्वापि सद्भक्त्वा भजन्ति संप्रसादिताः ॥ दुर्गतिं ते न गच्छन्ति संयास्यन्ति सुखावतीम् । तत्रामिताभनाथस्य शरणे समुपस्थिताः ॥ सदा धर्मामृतं पीत्वा परिशुद्धत्रिमण्डलाः । त्रिविधां बोधिमासाद्य संबुद्धपदमाप्नुयुः ॥ इत्यादिष्टं मुनीन्द्रेण निशम्य ते सभाश्रिताः । विष्कम्भिप्रमुखाः सर्वे प्राभ्यनन्दन् प्रबोधिताः ॥ ततः स भगवांस्तं च विष्कम्भिनं जिनात्मजम् । सादरं समुपामन्त्र्य संपश्यन्नेवमादरात् ॥ कुलपुत्र ततोऽन्यत्र तस्य त्रैधातुकप्रभोः । लोकेशस्य तनौ लोमविवरे रत्नकुण्डले ॥ तत्रानेकानि गन्धर्वकन्यानां नियुतानि च । शतकोटिसहस्राणि निवसन्ति सदा मुदा ॥ ताः सर्वा देवकन्याभा दिव्यारुपा मनोहराः । सौम्यातिसुन्दराः कान्ता भद्रपोष्टेन्द्रियाशयाः ॥ बाध्यन्ते नैव ताः क्लेशैः दुःखैर्मानुष्यकैरपि । सद्धर्मश्रीगुणसंपत्तिसुखासंपन्ननन्दिताः ॥ तास्सर्वास्तस्य नाथस्य चतुःसंध्यं समाहिताः । ध्यात्वा नाम समुच्चार्य स्मृत्वा भजन्ति सादरम् ॥ तासां सर्वाणि वस्तूनि द्रव्याणि भूषणानि च । (२०७) प्रादुर्भूतानि सिध्यन्ते यथाभिवांछितान्यपि ॥ एवं ताः सुखसंपन्नाश्चतुर्ब्रह्मविहारिणः । बोधिचर्याव्रतं धृत्वा प्रचरन्तो जगद्धिते ॥ त्रिरत्नभजनं कृत्वा संबोधिनिहिताशयाः । सत्यधर्मानुसंरक्तास्तिष्ठन्ति संप्रमोदिताः ॥ एवं तस्य जगन्नाथशरीरं सुकृतालयम् । तेनासौ त्रिजगन्नाथो धर्मराजो विराजते । ततोऽन्यस्मिन् विले लोम्नस्तस्य च त्रिजगत्प्रभोः । कोटिशतसहस्राणि निवसन्त्यमृतान्धसाम् ॥ ते सर्वेऽप्यमरा धीराः संबोधिनिहिताशयाः । बोधिसत्त्वा महासत्त्वाश्चतुर्ब्रह्मविहारिणः ॥ एकभूमिस्थितः केचित्केचिद्द्वितीयभूमिकाः । तृतीयभूमिकाः केचित्केचिच्चतुर्थभूमिकाः ॥ पंचमभूमिकाः केचित्केचिच्च षष्ठभूमिकाः । सप्तमभूमिकाः केचित्केचिदष्टमभूमिकाः ॥ नवमभूमिकाः केचित्केचिद्दशमभूमिकाः ॥ सर्वे सत्त्वहिताधानसंबोधिव्रतचारिणः । त्रिरत्नभजनं कृत्वा संचरन्ते जगद्धिते ॥ तस्मिंश्च विवरे सन्ति हेमरुप्यमया नगाः । षष्टियोजनसाहस्रसमुच्छ्रिता महत्तराः ॥ सर्वेऽपि शतशृंगास्ते सप्तरत्नमयोज्ज्वलाः । तेषां पार्श्वेषु सर्वेषु ते एकभूमिकादयः । बोद्धिसत्वा महासत्वा ध्यात्वा तिष्ठन्ति योगिनः । गन्धर्वाणां च साहस्रकोटिलक्षशतान्यपि ॥ रत्नमयविमानेषु संरमन्ते महोत्सवैः । संगीतितूर्यसंवाद्यैर्महायानव्रतोत्सवैः ॥ त्रिरत्नभजनं कृत्वा संचरन्ते जगद्धिते ॥ ततो विश्रम्य सर्वे ते विमानेषु समाश्रिताः । (२०८) कृत्वा सद्धर्मसांकथ्यं संवसन्ते प्रमोदिताः ॥ ततस्ते चंक्रमस्थाने पुष्करिण्यो वै शुभाम्बुभिः । अष्टांगगुणसम्पन्नैः पूर्णायाश्च सरोरुहैः ॥ पद्मोत्पलादिपुष्पैश्च छन्नायास्तटमन्दिरे । मण्डितहेमरुप्यादिरत्नालंकारभूषणैः ॥ भूषिते कल्पवृक्षैश्च सुवर्णरुप्यपत्रकैः । प्रवाललोहितस्तम्बैः सर्वालंकारलम्वितैः । चंक्रम्य तत्र ते रात्रो सर्वे ध्यात्वा समाहिताः । षड्गतिभवसंचारनिःस्पृहा निर्वृतीच्छिकाः ॥ निःक्लेशा विमलात्मानश्चतुर्ब्रह्मविहारिणः । महायानव्रतोत्साहः सुखं भुक्त्वा समाश्रिताः । एवं ते सकला नित्यं चतुस्संध्यं समाहिताः ॥ त्रिरत्नाराधनं कृत्वा भजन्तो निवसन्त्यपि ॥ एवमस्य जगद्भर्तुः कायो धर्मगुणाश्रयः । ततोऽसौ त्रिजगन्नाथो धर्मकायो विराजते ॥ ततोऽन्यत्र विले लोम्ना वज्रमुखाभिधे पुनः । अनेके पर्वताः सन्ति लक्षकोटीसहस्रकाः ॥ केचिद्धेममया केचिद्रौप्यवज्रमया अपि । केचिन्नीलमयाः केचित्पद्मरागमया अपि ॥ केचिन्मणिन्मयाः केचिदश्मगर्भमयास्तथा । वैडूर्याः स्fआटिकाश्चापि सप्तरत्नमया अपि ॥ तेषु सर्वेषु भूभृत्सु कल्पवृक्षा महोच्छ्रयाः । विद्रुमपादपाश्चापि चन्दनतरवोऽपि च ॥ सर्वे सौगन्धिवृक्षाश्च सर्वे पुष्पमहीरुहाः । सर्वर्तुfअलवृक्षाश्च विद्यते परिशोभिताः ॥ पुष्करिणीसहस्रानि दिव्यामृतभराण्यपि । पद्मोत्पलादिसौगन्धिपुष्पपूर्णानि सन्ति च ॥ विमानान्यपि चानेकसाहस्राणि हि सन्त्यपि । (२०९) सुवर्णरुप्यदिव्यादिरत्नमयानि सन्ति च ॥ तेषु दिव्यविमानेषु किन्नराणां सुधर्मिणाम् । लक्षशतसहस्राणि वसन्ति सुरसोत्सवैः ॥ ते सर्वे किन्नरा दिव्यारत्नलंकारभूषिताः । भवचारभयोद्विग्नाश्चतुर्ब्रह्मविहारिणः ॥ प्रदातारः शुभाचाराः दयात्मनो महाशयाः । योगधानसमाधानाः शुद्धप्रज्ञाविचक्षणाः ॥ सर्वे तेषु विमानेषु विश्रान्ता विजितेन्द्रियाः । त्रिरत्नभजनं कृत्वा संचरन्ते जगद्धिते ॥ ततः सर्वेऽपि ते तेषु विमानेषु समाश्रिताः । सर्वपारमिताधर्मसांकथ्यं संप्रकुर्वते ॥ ततस्ते चंक्रमस्थाने कूटागारमनोरमे । अधस्तात्कल्पवृक्षाणां हेमरुप्यपलाशिनाम् ॥ प्रवाररक्षदण्डानां सर्वालंकारलम्बिनाम् । चंक्रम्य तत्र ते सर्वे विश्रम्य समुपाश्रिताः ॥ षड्गतिभवसंचारनानादुःखानुभाविनः । भवचारनिरुत्साहाः सद्धर्माभिरताशयाः ॥ त्रिरत्नस्मृतिमाधाय संतिष्ठन्तेइ समाहिताः । तद तेषां च सर्वेषां प्रादुर्भूतानि सर्वतः ॥ सरत्नद्रव्यभोग्यानि सर्वोपकरणान्यपि ॥ एवं ते किन्नराः सर्वे सद्धर्मश्रीसुखान्विताः । त्रिरत्नभजनं कृत्वा तिष्ठन्ते बोधिमानसाः ॥ एवं तस्य जगद्भर्तुः कायो महद्वॄषाश्रयः । तेनासौ त्रिजगन्नाथो धर्मकायेऽभिराजते ॥ ततोऽन्यस्मिन् विले लोम्नः सूर्यप्रभात्किधे पुनः । कनकपर्वताः सन्ति द्वादशशतलक्षकाः ॥ तदैकैकस्य शृंगानि दशशतशतानि च ॥ तत्रैकैकस्य पार्श्वानि दशलक्षशतानि च । (२१०) तत्रैकैकत्र पार्श्वाणि सप्तरत्नमयोज्ज्वलः ॥ उद्यानानि विचित्राणि मण्डितानि सुरद्रुमैः ॥ पुष्करिण्योऽप्यनेकाश्च स्वष्टांगगुणसंयुतैः । जलैः पद्मादिपुष्पैश्च परिपूर्णाः सुगन्धिभिः ॥ कूटागाराणि लक्षाणि हेमरत्नमयानि च । विचित्रदिव्यरत्नादिमण्डनालंकृताअन्यपि ॥ तेषां मध्ये महारत्नं सारदकोसिधो महान् । चिन्तामणिर्जगद्भद्रवांच्चितार्थाभिपूरकः ॥ तेषु सर्वेष्वसंख्येया बोधिसत्त्वा समाश्रिताः । त्रिरत्नभजनं कृत्वा निवसन्ति समाहिताः ॥ यदा ते बोधिसत्त्वास्तं चिन्तामणिमुपस्थिताः । सम्भ्यर्च्य यथाकामं प्रार्थयन्ति जगद्धिते ॥ तदा तेषां स सर्वार्थं पूरयति यथेप्सितम् ॥ एवं श्रीसुखसंपन्नाः संतिष्ठन्ते जिनात्मजाः ॥ यदा तत्र प्रतिष्ठास्ते बोधिसत्त्वाः शुभाशयाः । प्रजल्पन्ते महाविद्यामनुस्मृत्वा षडक्षरीम् ॥ तदा पश्यन्ति ते सर्वे सुखावत्यां समाश्रितम् । अमिताभं जिनं तं च सर्वलोकाधिपं प्रभुम् ॥ सर्वान् बुद्धांश्च पश्यन्ति सर्वक्षत्रसमाअश्रितान् । बोधिसत्त्वान् समासत्त्वान् सर्वांश्च सद्गुणाकरान् ॥ एवं सर्वान् जिनान् तृप्तान् बोधिसत्वांश्च ते मुदा । सर्वे तेनापि निष्क्रम्य चंक्रमन्ते यथेप्सिते ॥ केचिद्रत्नमयोद्याने पुष्करिणीतटेष्वपि । केचित्पर्वतपार्श्वेषु कल्पवृक्षतलेष्वपि ॥ तत्र पर्यंकमाभुज्य परिशुद्धत्रिमण्डलाः । ऋजुकायाः स्मृतिमन्तो ध्यात्वा तिष्ठन्ति योगिनः ॥ एवं तस्य जगद्भर्तुः काय सर्ववृषाश्रयः । तेनायं त्रिजगन्नाथो धर्मकायो विराजते ॥ २११ ततोऽन्यस्मिन् विले लोम्न इन्द्रराजाभिधे पुनः । नगाशीतिसहस्राणि हेमरत्नमयानि च ॥ तेष्ववैवर्त्तिका धीर बोधिसत्त्वाः समाश्रिताः ॥ महासत्त्वा महाभिज्ञा कोटिलक्षसहस्रकाः ॥ तत्र मध्ये समुद्भूतं चिन्तामणिं महत्तरम् । तं ते सर्वे समभ्यर्च्य प्रार्थयन्ति प्रार्थयन्ति यदेप्सितम् ॥ तदा तेषामभिप्रायं सर्वेषामपि वांछितम् । असौ चिन्तामणिः सर्वं संपूरयति सर्वदा ॥ तेषां न विद्यते किंचिद्दुःखं कदापि भाविकम् । बाध्यन्ते नापि ते सर्वे क्लेशै रोगादिभिः सदा ॥ सदापि ते महासत्त्वाश्चतुर्ब्रह्मविहारिणः । त्रिरत्नाराधनं कृत्वा संचरन्ते जगद्धिते ॥ एवं तत्र महाभिज्ञाः बोधिचर्याविवर्तिकाः । संबोधिनिहितात्मानः संतिष्ठन्ते समाहिताः ॥ ततोऽन्यस्मिन् विले लोम्नो महौषध्यभिधे च पुनः । नवनवेतिसाहस्रपर्वतास्तत्र सन्त्यपि ॥ केचिद्धेममया रुप्यमया वज्रमया अपि । इन्द्रनीलमयाश्चापि पद्मरागमया अपि ॥ मरकतमयाश्चापि केचिच्च स्fअटिका अपि । सर्वरत्नमयाश्चापि विद्यम्ते तत्र भूधराः ॥ तत्रानेकसहास्राणि प्रथमबोधिचारिणाम् । त्रिरत्नभजनं कृत्वा संचरन्ते जगद्धिते ॥ ते सर्वेऽपि न बाध्यन्ते क्लेशैर्दुःखैः कदाचन । भद्रश्रीगुणसंपत्तिसमन्विता निराधयः ॥ सुशीला विमलात्मानश्चतुर्ब्रह्मविहारिणः । संबोधिप्रणिधिं कृत्वा संचरन्ते सुसंवरे ॥ तेषु पर्वतशृंगेषु पार्श्वेषु च समन्ततः । गन्धर्वाणां सहस्राणि निवसन्ति बहूनि च ॥ (२१२) सर्वेऽपि ते महायानचर्याव्रतसमाहिअताः । परिशुद्धाशया धीराः संबोधिनिहिताशयाः ॥ सततं धर्मसंगीतिसंप्रवृत्तिमहोत्सवैः । लोकेशस्मृतिमाधाय प्रवर्तन्ते सदा शुभे ॥ एतद्धर्ममहोत्साहं सर्वे ते बोधिचारिणः । त्रिविधमोक्षाणि संचिन्त्य भावयन्ति सुनिर्वृतिम् ॥ ततस्ते भवसंचारे सुखदुःखादिभाविनः । संबोधिप्रणिधिं कृत्वा संतिष्ठन्ते समाधिषु ॥ ततोऽन्यस्मिन् विले लोम्नश्चित्रराजोऽभिधे पुनः । प्रत्येकबुद्धकोटीनां नियुतानि शतानि च ॥ सप्तरत्नमयोगानां पार्श्वेषु गह्वरेष्वपि । ध्यात्वा स्मृतिमुपस्थाप्य संतिष्ठन्ते समाधिषु ॥ सर्वेऽपि ते महाभिज्ञा महर्द्धिका विचक्षणाः । विविधप्रातिहार्याणि दर्शयन्ति वियद्गताः ॥ ततस्ते सप्तरत्नांगसानुषु समुपाश्रिताः । विविधधर्मसांकथ्यं कृत्वा तिष्ठन्ति मोदिताः ॥ ततस्ते कल्पवृक्षाणां छायासु समुपाश्रिताः । समाधिनिहितात्माअनः संतिष्ठन्ते समाहिताः ॥ ततस्ते कल्पवृक्षेभ्यः प्रार्थयित्वा समादरात् । सरत्नद्रव्यभोग्यानि भुक्त्वार्थिभ्यो ददन्ति च ॥ एवं तत्र महाभिज्ञाः प्रत्येकसुगताः स्थिताः ॥ ध्यात्वा सत्त्वहितं कृत्वा संचरन्ते समन्ततः ॥ एवमन्येषु सर्वेषु लोम्नां च विवरेष्वपि । ब्रह्मादयो मुनीन्द्राश्च शक्रादयोऽपि चामराः ॥ गन्धर्वाः किन्नराः सिद्धाः साध्या रुद्रा गणाधिपाः । भैरवा मातृकाः सर्वा महाकालगणा अपि ॥ भूताः प्रेताः पिशाचाश्च कुम्भाण्डा राक्षसादयः । नागाश्च गरुडा दैत्याः स्वस्वधर्मानुचारिणः ॥ (२१३) ब्रह्मणा वैष्णवाः शैवा योगिनो ब्रह्मचारिणः । निर्ग्रन्थाअस्तीर्थिकाश्चापि यतयश्च तपस्विनः ॥ राजानः क्षत्रिया वैश्याः शूद्राः सर्वे च मानवाः । एवं च प्राणिनः सर्वे यावन्तो भवचारिणः ॥ स्वस्वकुलव्रताचारसंरता धर्मचारिणः । सर्वे तस्य जगद्भर्तुः सर्वलोमविलाश्रिताः ॥ यदा ते तं जगन्नाथं ध्यात्वा स्मृत्वा समादरत् । त्रिरत्नं प्रणयन्तोऽपि संभजन्ते समाहिताः ॥ तदा तेषामभिप्रायधर्मश्रीगुणसाधनम् । सर्वेषामपि तत्सर्वं संसिध्यते यथेप्सितम् ॥ एवं तस्य जगच्छास्तुः कायस्सर्ववृषालयः । तेनासौ त्रिजगन्नाथो धर्मराजो विरजते ॥ तदग्रे विवरे लोम्नां ध्वजाग्रे सर्वेपश्चिमे । अशीत्यगसहस्राणि सन्ति रत्नमयान्यपि ॥ विद्यन्ते कल्पवृक्षाणां कोटिलक्षशतानि च । चन्दनागुरुसौगन्धिपुष्पfअलद्रुमा अपि ॥ सर्वा वज्रमयी भूमीश्चन्द्रकान्तिप्रभासमाः । कूटागारसहस्रानां कोटीनियुतशतानि च ॥ तेषु सर्वेषु सौवर्णसप्तरत्नमयेषु च । सोपानादीनि सौवर्णसप्तरत्नमयान्यपि ॥ कूटागारेषु सर्वेषु तेषु तथागताः स्थिताः । संबोधिसाधनं धर्मं निर्दिशन्ति जगद्धिते ॥ एवं ते सुगताः सर्वे जम्बूद्वीपे नृइणामपि । सर्वाः पारमिताश्चापि निर्दिशन्ति सदापि च ॥ एवं ते सर्वदा काले विविधां धर्मदेशनाम् । कृत्वा सत्त्वहितार्थेन संतिष्ठन्ते समाहिताः ॥ एवं तस्य जगच्छास्तुः कायः सर्ववृषाश्रयः । तेनासौ त्रिजगच्छास्ता धर्मकायो विराजते ॥ (२१४) अथ सर्वनीवरणविष्कम्भी स जिनात्मजः । भगवन्तं मुनीन्द्रं तं समालोक्यैवमब्रवीत् । भगवन् पुनरन्यानि लोमविवराणि सन्त्यपि । तानि सर्वाणि मे शास्तः समुपदेष्टुमर्हसि ॥ इति तदुक्तमाकर्ण्य भगवान् स मुनीश्वरः ॥ विष्कम्भिनं तमालोक्य पुनरेवं समादिशत् ॥ कुलपुत्र न विद्यन्ते ततोऽतिक्रम्य दक्षिणे । पादांगुष्ठे जगद्भर्तुर्भ्रमन्ति चतुरब्धयः ॥ तदंगुष्ठाद्विनिष्क्रम्य यदा पतति वाडवे । तदा तदुदकं सर्वं भस्मत्वमधियास्यति ॥ एवं तस्य जगद्भर्तुः सर्वधर्मालया तनुः । तेनायं त्रिजगद्भर्ता धर्माराजोऽभिराजते ॥ अथ सर्वनीवरणविष्कम्भी स जिनात्मजः । भगवन्तं मुनीन्द्रं तं समालोक्यैवमब्रवीत् ॥ भगवन् भगतादिष्टं महात्म्यं त्रिजगत्प्रभोः । श्रुत्वाहं परमाश्चर्यं प्राप्तोऽस्मि खलु साम्प्रतम् ॥ तच्छ्रुत्वा भगवांच्छास्ता शाक्यसिंहो जगद्गुरुः । विष्कम्भिनं तमालोक्य पप्रच्छैवं समादरात् ॥ कुलपुत्र किमर्थं त्वं परमाश्चर्यं प्राप्तवान् । एतत्सत्यं ममाग्रेऽत्र वक्तुमर्हति सर्वथा ॥ इत्यादिष्टं मुनीन्द्रेण निशम्य स जिनात्मजः । विष्कम्भी भगवन्तं समालोक्यैवमब्रवीत् ॥ यदसौ भगवान्नाथः सर्वधर्मसमाश्रयः । त्रैधातुकोऽधिपालेन्द्रो धर्मराजोऽभिराजते ॥ यदस्य शरणं गत्वा श्रद्धया समुपस्थिताः । ध्यात्वा स्मृत्वापि नामापि समुच्चार्य भजन्ति ये ॥ तदा तेषामभिप्रायं सद्धर्मगुणसाधने । भद्रश्रीसुखसंपत्तिरपि सर्वैव सिध्यते ॥ (२१५) धन्यास्ते सुखिताः सर्वे यस्य त्रैधतुकप्रभोः । सद्धर्मगुणासांकथ्यं शृण्वन्ति श्रद्धया मुदा ॥ ये चाप्यस्य गुणाशंसाकारण्डव्यूहसूत्रकम् । लिखेल्लिखापयेद्वापि पठेच्च पाठयेदपि ॥ श्रुत्वा च मनसा नित्यं भावयेत्सर्वदादरात् । विस्तरेण तदर्थं च परेभ्यः समुपादिशेत् ॥ सोऽपि धन्यो महासत्त्वो बोधिसत्त्वः गुणाशयः । निष्पापः परिशुद्धात्मा परिशुद्धेन्द्रियो भवेत् ॥ नापि स बाध्यते क्लेशैर्दुःखैश्च भवचारिकैः । न वापि जायते हीनकुलेषु दुर्गतिष्वपि ॥ तस्य काये ज्वराश्चाष्टौ रोगाः कुष्ठादयोऽपि च । विविधा व्याधयः सर्वे जायेरन्न कदाचन ॥ न च हीनेन्द्रियश्चासौ नापि दुःस्थो दुराशयः । बलवान् परिपुष्टांगः शुद्धेन्द्रियः सुखी सुधीः ॥ सद्धर्मसाधनोत्साही संबुद्धगुणलालसः । त्रिरत्नभजनं कृत्वा संचरेत जगद्धिते ॥ एतत्पुण्यविशुद्धात्मा परिशुद्धेन्द्रियः कृती । त्रिविधां बोधिमासाद्य संबुद्धपदमाप्नुयुः ॥ इति तेन समाख्यातं श्रुत्वा स भगवान्मुदा । विषम्भिनं तमालोक्य पुनरेवं समादिशत् ॥ साधु साधु महासत्त्व त्वमीदृक्प्रतीभानवान् । यल्लोकेशगुणोद्भावमाहात्यमनुभाषसे ॥ इत्यादिष्टं मुनीन्द्रेण श्रुत्वा स सुगतात्मजः । प्रमोदितो मुनीन्द्रं तं समालोक्यैवमब्रवीत् ॥ भगवन् यदहं भाषे लोकेशगुणसत्कथाम् । एतल्लोकसभामध्ये तद्भवतोऽनुभावतः ॥ यदाहं भगवन्नत्र लोकेशसुकृतोत्कथाम् । भाषामीमे तदा सर्वे लोकाः श्रद्धार्पिताशयाः ॥ (२१६) तदनुशंसनं श्रुत्वा सर्बेऽपीमे सभाश्रिताः । ब्रह्मेन्द्रासुरनागेन्द्रप्रमुखा अनुमोदिताः ॥ अस्य त्रैलोकनाथस्य सदा शरण आस्थिताः । ध्यात्वाप्याराधितुं नित्यं समभीच्छन्ति साम्प्रतम् ॥ इति तेन समाख्याते भगवान् स मुनीश्वरः । विष्कम्भिनं तं समालोक्य पुनरेव समादिशत् ॥ साधु साधु सुधिओइरोऽसि यत्त्वमत्र पुनः पुनः । प्रोत्साहयन्निमांल्लोकान् सर्वान् करोषि बोधितान् ॥ तदहं ते प्रसन्नोऽस्मि यत्स्वयं मे सभाश्रिताः । सर्वेऽस्य त्रिजगद्भर्तुः धर्मं प्रोत्साह्य नन्दिताः ॥ इत्यादिष्टं मुनीन्द्रेण विष्कम्भी सोऽभिनन्दितः । भगवन्तं तमानम्य प्रार्थयदेवमादरात् ॥ भगवंस्त्रिजगद्भर्तुस्तानि लोमविलान्म्यहम् । द्रष्टुमिच्छमि तच्छास्तः सन्दर्शयितुमर्हति ॥ इति संप्रार्थिते तेन विष्कम्भिना स सर्ववित् । भगवांस्तं महासत्त्वं समालोक्यैवमादिशत् ॥ अग्राह्या कुलपुत्रस्त्रे लोमविला जगत्प्रभोः । असंस्पृश्या असंदृश्या यथाकाशस्तथा किल ॥ तेषु समन्तभद्राद्या बोधिसत्त्वा जिनात्मजाः । सर्वे द्वादश वर्षाणि संभ्रमन्ते समन्ततः ॥ सर्वं तेनैव दृष्टानि तानि लोमविलानि हि । बुद्धैरपि न दृश्यन्ते तेष्वेव संस्थितैरपि ॥ किमन्यैर्बोधिसत्त्वैस्तौइरर्हद्भिर्ब्रह्मचारिभिः । योगिभिरृषिभिश्चापि दृश्यन्ते नैव केनचित् ॥ इत्यादिष्टं मुनीन्द्रेण श्रुत्वा स सुगतात्मजः । विष्कम्भी भगवन्तं च समालोक्यैवमब्रवीत् ॥ ये च समन्तभद्रेण दृश्यन्ते भ्रमतापि न । यानि बुद्धैर्न दृश्यन्ते तत्रैव संस्थितैरपि ॥ (२१७) भगवंस्तानि संद्रष्टुं शक्नुयां कथमेव हि । हा मे जन्म निःसारं यन्न दृष्टो स जगत्प्रभुः ॥ इति तेनोदितं श्रुत्वा भगवान् स मुनीश्वरः । विष्कम्भिनं समालोक्य पुनरेवं समादिशत् ॥ मयापि कुलपुत्रास्य लोमविलानि यत्नतः । चिरात्संवीक्षमाणेन दृश्यन्ते तानि सर्वतः ॥ कुलपुत्र स लोकेशो मायावी सूक्ष्मरुपकः । अरुप्यदृश्यमाण्येऽपि निराकारो निरंजनः ॥ अथ रुपी महरुपो विश्वरुपो महाकृतिः । एकादशशिरस्कंश्च शतसहस्रहस्तकः ॥ कोटिशतसहस्राक्षो दिव्यरुपः सुरुपकः । महायोगी महाप्राज्ञः परमार्थयोगपालकः ॥ सुचेतनो महाभिज्ञो बोधिसत्त्वो जगत्प्रभुः । कुलीनस्त्रिजगद्भर्ता सर्वधर्माधिपेश्वरः ॥ सर्वसत्त्वसमुद्धर्ता संसारोदधितारकः । महासत्त्वो महायानधर्मशास्ता जगद्गुरुः ॥ त्रैधातुकजगन्नाथो धर्मधातुस्वरुपद्धृक् । सर्वज्ञस्त्रिगुनाधारो निःक्लेशो विमलेन्द्रियः ॥ अर्हन् संबोधिमार्गस्थः सर्वसत्त्वहितार्थभृत् ॥ सर्वेषु भद्रधर्मेषु छायाभूतो निराकुलः । संबोधिधर्मसंभारपूरकः श्रीगुणाकरः ॥ ब्रह्मचारी विशुद्धात्मा सर्वलोकशुभंकरः । सर्वपारमिताधर्ता सर्वसंघाधिपेश्चरः ॥ एवं श्रीमान्महासत्त्व आर्यावलोकितेश्वरः । बोधिसत्त्व महाभिज्ञः सर्वसमाधिभृद्वरः ॥ केनापि दृश्यते नासौ सर्वधर्ममयाश्रयः । अचिन्त्यो ह्यसमीक्षोऽपि सर्वनिर्माणरुपधृक् ॥ सर्वसत्त्वान् समालोक्य दुर्गतितः प्रयत्नतः । (२१८) समुद्धृत्य शुभे धर्मे योजयति प्रबोधयन् ॥ दुर्दान्तानपि संपश्यन् प्रातिहार्याणि दर्शयन् । बोधयित्वा प्रयत्नेन योजयति सुसंवरे ॥ बोधिसत्त्वान्महासत्त्वांश्च परिपाचयन् । बोधिमार्गे प्रतिष्ठाप्य पालयत्यात्मजानिव ॥ एवं स त्रिजगन्नाथो जगत्सर्वं प्रबोधयन् । बोधिमार्गे प्रतिष्ठाप्य संप्रयायात्सुखावतीम् ॥ सुखावत्यां मुनीन्द्रस्य शरणे समुपस्थितः । सदानुशासनं धृत्वाअ संचरन्ते जगद्धिते ॥ तस्यामिताभनाअथस्य पीत्पा धर्मामृतं सदा । सर्वसत्त्वहिताधानं व्रतं धृत्वाधितिष्ठति ॥ इत्यादिष्टं मुनीन्द्रेण निशम्य स जिनात्मजः । विष्कम्भी भगवन्तं च समालोकयैवमब्रवीत् ॥ भगवंस्तं जगन्नाथमार्यावलोकितेश्वरम् । केनोपायेन पश्येयमहं कुत्र कदा कथम् ॥ भगवन् स जगन्नाथो येनोपायेन दीक्ष्यते । तदुपायं समादेष्टुमर्हति मे भवान् गुरुः ॥ इति संप्रार्थिते तेन भगवान् सर्वविज्जिनः । विष्कम्भिनं समालोक्य पुनरेवं समादिशत् ॥ कुलपुत्र स लोकेशः सत्त्वानुद्धृत्य सर्वतः । प्रथममत्र समागच्छेत सभायां मम दर्शने ॥ इति शास्त्रा समादिष्टं श्रुत्वा स सुगतात्मजः । विष्कम्भी भगवन्तं च समालोक्यैवब्रवीत् ॥ अनुजानाअम्यहं शास्त यत्स नाथ इहाव्रजेत् । कदेहासौ जगन्नाथ आगच्छेत्तत समादिश ॥ इति तदुक्तमाकर्ण्य भगवांस्तं जिनात्मजम् । विष्कम्भिनं समालोक्य पुनरेवं समादिशत् ॥ कुलपुत्र समालोक्य पुनरेवं समादिशत् ॥ कुलपुत्र यदा सर्वसत्त्वो बोधिपथास्थितः । (२१९) भवति स महासत्त्वः प्रथममासरेदिह ॥ इति शास्त्रोदितं श्रुत्वा विष्कम्भी स विषादितः । कपोलं स्वकले धृत्वा मनसैवं व्यचिन्तयत् ॥ हा मया किं कृतं पापं यदस्य त्रिभवप्रभोः । सर्वधर्माधिनाथस्य दर्शनं प्राप्स्यते न हि ॥ किं ममानेन कायेन सुचिरं जीवितेन च । विना सन्दर्शनेनात्र लोकेश्स्य जगद्गुरोः ॥ कदाहं तस्य नाथस्य दृष्ट्वा मुखसुधाकरम् ॥ क्लेशतापहतं लप्स्ये प्रह्लादनं महत्सुखम् ॥ कदास्य चरणाम्भोजे शरणे समुपस्थितः । प्रणत्वा श्रीगुणं लप्स्ये सर्वसत्त्वहितार्थदम् ॥ कदास्य भजनं कृत्वा पीत्वा धर्मामृतं सदा । महानन्दसुखोत्साहैः संचरेयं जगद्धिते ॥ कदास्य शासनं धृत्वा कृत्वा सर्वहितं सदा । संबोधिश्रीसुखं प्राप्तुं संगच्छेयं सुखावतीम् ॥ कदा गत्वा सुखावत्याममिताभं मुनीश्वरम् । समीक्ष्य समुपाश्रित्य भजेयं सर्वदा मुदा ॥ तत्सद्धर्मामृतं पीत्वा कृत्वा धर्ममयं जगत् । संबुद्धपदमासाद्य यास्यामि निर्वृतिं कदा ॥ इत्येवं मनसा ध्यात्वा विष्कम्भी स पुरो गतः । भगवन्तं पुनर्नत्वा प्रार्थयदेवामादरात् ॥ भगवन् स जगद्भर्ता कदेह समुपासरेत् । द्रष्टुमिच्छामि तं नाथं सर्वथाहं कुहापि हि ॥ येनोपायेन नाथोऽसौ यथा संद्रक्ष्यते मया । तदुपायं तथा मह्यं समुपादेष्टुमर्हत्ति ॥ इति तत्प्रार्थितं श्रुत्वा भगवान् विहसन्नपि । विष्कम्भिनं समालोक्य पुनरेव समादिशत् ॥ कुलपुत्रागतः कालो लोकेशस्य न साम्प्रतम् । (२२०) समयेऽसौ महाभिज्ञो ह्यवश्यमाचरेदिह ॥ दुर्लभं कुलपुत्रास्य दर्शनं त्रिभवे प्रभोः । कदाचित्केनचित्काले कथंचिल्लभते खलु ॥ यदसौ सर्वलोकेशः सार्वधर्माधिपः प्रभुः । सद्धर्मगुणसंभर्ताभद्रश्रिसंपदाश्रयः ॥ सर्वेषामपि सत्त्वानां षड्गतिभवचारिणाम् । त्राता भर्ता पिता माता सन्मित्रं सद्गुरुर्गतिः ॥ शरण्यं परायणं द्वीपः सुहृद्बन्धुर्हितार्थदः । भवोदधिसमुद्धर्ता क्लेशाग्निशमनामृतः ॥ सर्वमारनिहन्तापि सर्वदुष्टभयापहा । संबोधिमार्गसंदेष्टा निर्वृतिपददेशकः ॥ एवमसौ महेशाख्यः सर्वलोओकाधिपेश्वरः । बोधिसत्त्वाधिपः शास्ता सर्वसंघविनायकः ॥ संसारे तस्य सद्धर्मश्रवणं चापि दुर्लभम् । नामापि ग्रहणं चापि स्मरणं चापि दुर्लभम् ॥ ये तस्य शरणे स्थित्वा ध्यात्वा स्मृत्वापि सर्वदा । अभिधानं समुच्चार्य संभजन्ते समाहिताः ॥ एतत्पुण्यानुभोवेन सर्वे ते विमलेन्द्रियाः । निःक्लेशा विमलात्मानो भवन्ति बोधिचारिणः ॥ ततस्ते भद्रिताचाराश्चतुर्ह्मविहारिणः । पोषधं संवरं धृत्वा संचरम समाहिताः ॥ एतत्पुण्यानुभावेन परिशुद्धत्रिमण्डलाः । त्रिरत्नभजनोत्साहैः संचरेरन् जगद्धिते ॥ ततस्ते स्युर्महासत्त्वा बोधिसत्त्वा जिनात्मजाः । षडक्षरीं महाविद्यां विद्याराज्ञीं समाप्नुयुः ॥ यदा षडक्षरी विद्यां संप्राप्य ये जिनात्मजाः । ध्यात्वा स्मृत्वा समुच्चार्य जपन्ति श्रद्धया सदा ॥ तदा तस्य जगद्भर्तुः सर्वधर्ममयाश्रये । (२२१) लोमविलेषु जायेरन् सर्वे ते सुगतात्मजाः ॥ ततस्तेनैव संसाअरे संसरेयुः कदाचन । तस्यैव लोमरन्ध्रेषु जाता भ्रमेयुराभवम् ॥ तत्रैव संभवन्तस्ते संबोधिज्ञानसाधनम् । बोधिचर्याव्रतं धृत्वा संतिष्ठेरन् समाहिताः ॥ तत्रैव संस्थितातेऽपि विना दुष्करचर्यया । सुखेन प्राप्य संबोधिं निर्वृतिपदमाप्नुयुः ॥ इति शास्त्र समादिष्टं श्रुत्वा स सुगतात्मजः । विष्कम्भी मुनीराजं तं समालोक्यैवमब्रवीत् ॥ भगवन् प्राप्तुमिच्छामि विद्यां षडक्षरीम् । तद्भवान्म इमां विद्यॠअं समर्चयितुमर्हति ॥ इति तत्प्रार्थितं श्रुत्वा भगवान् स मुनीश्वरः । विष्कम्भिनं तमालोक्य पुनरेवं समादिशत् ॥ दुर्लभां कुलपुत्रेमां विद्याराज्ञीं षडक्षरीम् । बुद्धा अपि न जानन्ति प्रागेवान्ये जिनात्मजाः ॥ इत्यादिष्टं मुनीन्द्रेण विष्कम्भी स विषादितः । भगवन्तं समालोक्य पुनरेवं न्यवेदयत् ॥ यद्भगवन्न जानन्ति सर्वे बुद्धा जिनात्मजाः । तत्कुतोऽहमिमां विद्यां प्राप्स्यामि तदुपादिश ॥ इति तदुक्तमाकर्ण्य भगवान् सर्वविज्जिनः । विष्कम्भिनं समालोक्य पुनरेवं समादिशत् ॥ विद्येयं कुलपुत्रास्य लोकेशस्य जगत्प्रभोः । परमहृदयं हीति सर्वबुद्धैर्निगद्यते ॥ तदियं दुर्लभा विद्या सर्वविद्याविनायकाः । जानाति य इमां विद्यां परमार्थं स वेत्ति हि ॥ इत्यादिष्टे मुनीन्द्रेण विष्कम्भी च जिनात्मजः । भगवन्तं समालोक्य पप्रच्छैवं समादरात् ॥ भगवन् स महासत्त्वो विद्यतेऽपि भवालये । (२२२) जानीत य इमां विद्यां तं दर्शयितुमर्हति ॥ इति संप्रार्थिते तेन भगवांस्तं महामतिम् । विष्कम्भिनं समालोक्य पुनरेवं समादिशत् ॥ जानीते कुलपुत्रात्र कश्चित्तेषां षडक्षरीम् । महाविद्यां महेशाख्यां सर्वत्रैधातुकेष्वपि ॥ एषा महत्तरी विद्या सर्वयोगास्तमोधला । यन्नापि ज्ञायते बुद्धैः सर्वैरपि जिनात्मजैः ॥ एनां विद्यां समिच्छन्तः सर्वबुद्धा जिना अपि । भ्रमन्ति बोधिसत्त्वाश्च दशदिक्षु समन्ततः ॥ कुतश्चिल्लभ्यते नैव बुद्धैस्तैस्तु गतैरपि । बोधिसत्त्वैश्च तैः सर्वैरेवमेषा सुदुर्लभा ॥ केनचिल्लभ्यतेऽप्येषा भ्रमता सुचिरादिह । बहुपुण्यानुभावेन लोकेश्वरप्रसादतः ॥ धन्यास्ते बहुपुण्योघा बोधिश्रीगुणलाभिनः । सततं ये जपन्त्येनं लोकेशहृदयं मुदा ॥ जपति यो यदा यत्र विद्यामेनां षडक्षरीम् । तदा तस्यान्तिके बुद्धाः सर्वेऽप्युरुपाश्रिताः ॥ बोधिसत्त्वाश्च सर्वेऽपि महासत्त्वा महर्द्धिकाः । रक्षेयुस्तं महासत्त्वं समेत्य समुपस्थिताः ॥ षड्वपारमिताः सर्वाः तस्य द्वारसमाश्रिताः । संबोधिसाधनोपायसिद्धिं दद्युर्जगद्धिते ॥ द्वात्रिंशदेव पुत्राश्च सर्वे सपरिवारकाः । जल्पकं तं समालोक्य रक्षेयुर्विपदाश्रिताः ॥ चत्वारश्च महाराजाः ससैन्यसचिवानुताः । तस्य रक्षां प्रकुर्युस्ते दशदिक्षु व्यवस्थिताः ॥ सर्वे नागाधिपाश्चापि धरणीसमुपाश्रिताः । तस्य रक्षाविधानार्थं दृष्ट्वा दद्युर्महामणिम् ॥ भौमा यक्षाश्च सर्वेऽपि आश्रिताः संप्रसादिताः । (२२३) तस्य रक्षा प्रकुर्वन्ति संचरेरन् समन्ततः ॥ बुद्धाश्च बहवस्तस्य कायलोमविलाश्रिताः । साधुकारं प्रदत्वैवं वर्णयेयुः प्रसादिताः ॥ धन्यस्त्वं कुलपुत्रासि यदीदृग्च्छ्रीगुणाकरम् । चिन्तामणिअं महारत्नं प्राप्तवान् साधु सन्मते ॥ सप्तवंशाश्च ते सर्वे परिशुद्धत्रिमण्डलाः । निःक्लेशा विमलात्मानो लभेयुर्निर्वृतेः पदम् ॥ तव कुक्षि स्थिताश्चापि सर्वे प्राणिगणाः खलु । बोधिसत्त्वा महासत्वा भवेयुश्च निर्वर्तिकाः ॥ एवं तस्याः षडक्षर्या विद्यायाः पुण्यमुत्तमम् । अप्रमेयमसंख्येयमिति प्राहुर्मुनीश्वराः ॥ यश्चादारादिमां विद्यामहाराज्ञीं षदक्षरीम् । मूर्ध्नि कण्ठे भुजे वापि बध्वा दध्यात्समाहितः ॥ स सर्वपापनिर्मुक्तः परिशुद्धत्रिमण्डलः । निःक्लेशं परिशुद्धात्मा वज्रकायो भवेद्ध्रुवम् ॥ बुद्धधातुमणिस्तूप इव धर्ममयाश्रयः । संबोधिज्ञानसद्रत्नराशिश्रीसद्गुणाश्रयः ॥ तथागतगुणधारः सद्धर्मगुणसागरः । बोद्धिसत्वो महासत्त्वो महासमृद्धिमान् ॥ यश्चापीमां महाविद्यां गृहीत्वा विधितो मुदा । श्रीमल्लोकेश्वरं ध्यात्वा जपेन्नित्यं समाहितः ॥ स सर्वपातकैर्मुक्तः परिशुद्धत्रिमण्डलः । भवेत्सद्धर्मदिग्धीमानक्षयप्रतिभानवान् ॥ सर्वधर्माधिपः शास्ता ज्ञानराशिसमृद्धिमान् । भवेद्भद्रसमाचारी चतुर्ब्रह्मविहारिकः ॥ सर्वविद्याधिराजेन्द्रश्चक्रवर्ती गुणाकरः । षट्कपारमितां नित्यं संपूरयेद्दिने दिने ॥ ये च तस्य समुच्छ्वासैः स्पृश्यन्ते तेऽपि निर्मलाः । (२२४) बोधिसत्त्वा महासत्त्वा भवेयुरविवर्तिकाः ॥ ये चापि तस्य वस्त्राणि स्पृशन्ति तेऽपि निर्मलाः । बोधिसत्त्वाः सुधीराः स्युश्चरमभविकाः खलु ॥ ये चापि जपमानं तं पश्यन्ति तेऽपि निर्मलाः । चरमभविकाः सर्वे भवेयुः सुगतात्मजाः ॥ पक्षिणः पशवो वापि सर्वेऽपि प्राणिनश्च ये । पश्यन्ति जपमानं तं ते स्युस्सर्वे जिनात्मजाः ॥ एवमेतन्महाविद्याजपमानस्य सन्मतेः । पुण्यश्रीगुणसंपत्तिसंचोदनादिता जिनैः ॥ इति शास्त्रा स्मादिष्टं निशम्य स जिनात्मजः । विष्कम्भी भगवन्तं च समालोक्यैवमब्रवीत् ॥ भगवन् प्राप्तुमिच्छामि महाविद्यां षडक्षरीम् । तत्कुतः कथमाप्स्यामि भवानदेष्टुमर्हति ॥ यो मेए दद्यादिमां विद्यां सर्वाविद्याधिपेश्वरीम् । सर्वयोगगुश्रेणीं सर्वध्यानगुणार्थदाम् ॥ संबोधिज्ञानसंभर्त्रीं निर्वाणमार्गदर्सनीम् । क्लेशविद्यायतनीं भद्रां सद्धर्मविराजतीम् ॥ षड्गतिभवसंचारक्लेशसुखाग्निशामिनीम् । बोधिसंभारसंभर्त्रीं सर्वज्ञज्ञानदायिनीम् ॥ तस्मादहं चतुर्द्वीपान् सप्तरत्नाभिपूरितान् । संप्रदातुं समिच्छामि सत्यमेतन्मयोदितम् ॥ स हि माताधिमाता मे पिता संसारदर्शकः । मित्राणामपि सन्मित्रं गुरुणामपि सद्गुरुः ॥ तस्याहं शासनं धृत्वा शरणे सर्वदाश्रितः । निर्विकल्पः समाधानः संचरेयं मुदा सर्वतः ॥ इति मे भगवन् वक्यं सत्यमेवान्यथा न हि । तत्र मां प्रेषयित्वाशु यत्रासौ सद्गुरुः स्थितः ॥ दशदिक्ष्वपि सर्वत्र त्रैधातुभुवनेष्वपि । (२२५) यत्रासौ संस्थितः शास्ता तत्रापि गन्तुमुत्सहे ॥ इति मे खेदता चित्ते कायेऽपि विद्यते न हि । सर्वं भवान् विजानीते तदर्थे मे प्रसीदतु ॥ भवानेव जगच्छास्त सर्वधर्महितार्थभृत् । तन्मेऽनुग्रहं कृत्वा पूरयतु मनोरथम् ॥ एतत्तेनोदितं श्रुत्वा भगवान् सर्वसार्थदिक् । विष्कम्भिनं समालोक्य पुनरेवं समादिशत् ॥ कुलपुत्राहमप्यस्या विद्यायाः करणे पुरा । लोकधातुषु सर्वत्र पर्यभ्रमन् समुत्सुकः ॥ बुद्धक्षेत्रेषु सर्वेषु सुचिरं भ्रमता मया । न लब्धेयं महाविद्या सकाशात्कस्यचिन्मुनेः ॥ ततो रत्नोत्तमाख्यायां लोकधातौ मुदा चरन् ॥ तत्ररत्नोत्तमाख्यस्य संबुद्धस्य पुरो व्रजन् । तस्य रत्नोत्तमस्याग्रे सांजलिः समुपाचरन् ॥ पादौ नत्वाश्रुलिप्तास्यः संवीक्ष्यैवं न्यवेदयन् ॥ भगवन्नहमायामि भवतां शरणेऽधुना । तन्मेऽर्हति भवान् दातुं महाविद्यां षडक्षरीम् ॥ इति मयोदितं श्रुत्वा रत्नोत्तमः स सर्ववित् । संबुद्धोऽश्रुविलिप्तास्यं मां पश्न्नेवमादिशत् ॥ कुलपुत्राश्रु मा मुंच यदर्थे त्वमिहागतः । नैतन्मे विद्यते नूनं तदन्ये प्रार्थयेर्हि तम् ॥ यदि तेऽस्ति समीच्छा हि प्राप्तुं विद्यां षडक्षरीम् । गच्छ पद्मोत्तमाख्यायां लोकधातौ महामते ॥ तत्र पद्मोत्तमो नाम तथागतो मुनीश्वरः । सद्धर्मं समुपादिश्य विहरति जगद्धिते ॥ स एवेमां विजानीते महाविद्यां षडक्षरीम् ॥ तदेनां तं समाराध्य प्रार्थयस्व मुनीश्वरम् । स ते शास्ता महाभिज्ञः सर्वधर्माधिपो जिनः । (२२६) दद्यादेनां महाविद्यां षडक्षरीं जगद्धिते ॥ इति तेन समादिष्टं निशम्याहं प्रसादितः । ततः पद्मोत्तमाख्यायां लोक्धातौ मुदाचरम् ॥ तत्र पद्मोत्तमं नाम संबुद्ध तं सभाश्रितम् । दूरतोऽहं समालोक्य सहसा समुपाचरम् ॥ तत्र गत्वा पुरस्तस्य पद्मोत्तमस्य सद्गुरोः । पादाब्जे सांजलिर्न्नत्वा प्रार्थयमेवमादरात् ॥ भगवन् सर्वलोकेषु बुद्धक्षेत्रेष्वहं भ्रमन् । षडक्षरीं महाविद्यां प्राप्तुकाम इहाचरे ॥ यस्याः स्मृतिमात्रेन परिशुद्धत्रिमण्डलाः । लभेयुर्दुर्लभां बोधिं तस्या अर्थेऽहमाव्रजे ॥ यदर्थेऽहमसंख्येयालोकधातुर्भ्रमन्निह । भवच्छरणमायामि तत्साfअल्यं करोतु मे ॥ इति तेनोदितं श्रुत्वा पद्मोत्तमः स सर्ववित् । सुबुद्धो मां परिक्लिष्टं समालोक्यैवमादिशत् ॥ धन्योऽसि कुलपुत्रस्त्वं यदर्थेऽखिन्नमानसः । बुद्धक्षेत्रेषु सर्वेषु भ्रमन्निह समागतः ॥ तदर्थं ते महासत्व पूरयामि जगद्धिते । तत्पुण्यगुणमाहात्म्यं वक्ष्ये शृणु समाहितम् ॥ तद्यथा कुलपुत्रास्या विद्यायाः पुण्यमुत्तमम् । अप्रेयमसंख्येयमित्याख्यातं मुनीश्वरैः ॥ सर्वस्थाणुरजःकृत्वा तत्संख्यातुं प्रशक्यते । षडक्षरीमहामन्त्रजपपुण्यं न शक्यते ॥ सर्वाब्धिबालुकानां च संख्याकर्तुं प्रशक्यते । सर्वभूतलसंजातव्रीहिसंख्या च विद्यते ॥ सर्वसमुद्रतोयानां बिन्दुसंख्या च विद्यते । सर्वनदीजलानां च बिन्दुसंख्यापि विद्यते ॥ सर्वभूतृणवृक्षाणां पत्रसंख्या च विद्यते । (२२७) सर्वेषामपि जन्तूनां लोमसंख्या च विद्यते । सदावृष्टिजलानां च बिन्दुसंख्यापि विद्यते ॥ सर्वसत्त्वा भवेयुश्च दशभूमिप्रतिष्ठिताः । यावत्तेषां महत्पुण्यं ततोऽप्येतन्महत्तरम् ॥ सर्वेषु पुण्यतीर्थेषु सर्वेष्वपि च पर्वसु । स्नानदानजपुण्यानामेतज्जावद्वृषं महत् ॥ सर्वे सत्वा भवेयुश्च ये तपोब्रह्मचारिणः । तान् सर्वान् समभ्यर्च्य भोजयेयुर्थाविधि ॥ यावत्तेषां महत्पुण्यं भद्रश्रीगुणसंपदम् । ततोऽप्यभ्यधिकं पुण्यं षडक्षरीजपोद्भवम् ॥ सर्वे सत्त्वा भवेयुश्च प्रत्येकसुगता अपि । यश्चैतान् सुगतान् सर्वान् सत्कारैर्विधिनार्चयेत् ॥ तस्य यावन्महत्पुण्यं सद्धर्मश्रीगुणार्थदम् । ततोऽप्यभ्यधिओकं पुण्यं षडक्षरीजपोद्भवम् ॥ यश्चापि सुगतान् सत्कारैर्विधिनार्चयेत् । ततोऽप्यभ्यधिकं पुण्यं षडक्षरीजपोद्भवम् ॥ एवं महत्तरं पुण्यं षडक्षरीजपोत्थितम् । सर्वैरपि हि सर्वज्ञैः प्रमातुं नैव शक्यते ॥ कथमप्रमेयैकेन प्रमातुं शक्यतेऽखिलम् । एवं महत्तरं पुण्यं षडक्षरीजपोद्भवम् ॥ इति सर्वैर्जिनैः ख्यातं निशम्याहं प्रमोदितः । एतां षडक्षरीं विद्यां प्राप्तुमैच्छन् जगद्धिते ॥ एषो हि परमो धर्मः संबोधिधर्मसाधनः । सूक्ष्मोऽनागतोऽव्यक्तो लोकेशहृदयं वरम् ॥ सर्वाः पारमिताः सर्वतीर्थस्नानव्रतादिकम् । सर्वमेतन्महाविद्यामन्त्रसंप्राप्तिकारणम् ॥ यदा ह्येतन्महाविद्यामन्त्रसिद्धिरवाप्यते । तदा सर्वमहाविद्यासिद्धिश्रीगुणमाप्नुयात् ॥ (२२८) एवमेतन्महोपायकुशालं त्रिजगद्धिते । लोकेशस्य जगद्भर्तुर्हृदयमन्त्रमुत्तमम् ॥ एवमेतन्महाविद्यामन्त्रं संबोधिसाधनम् । असंख्येयं महत्पुण्यमित्याख्यातं मुनीश्चरैः ॥ एतां षडक्षरी महाविद्यां संप्राप्तिकारणे । अहमपि पुरा सर्वबुद्धक्षेत्रेष्वपि भ्रमन् । सर्वेषामपि बुद्धानां शरणे समुपाश्रितः ॥ सत्कारैर्विधानाभ्यर्च्य संप्रार्थयमिमां वराम् ॥ कुत्राप्येतां महाविद्यां संबोधिज्ञानसाधनीम् । कस्यचित्सुगतस्यापि नाध्यगच्छन् सकाशतः ॥ ततोऽप्यहमिमाः विद्यां समधिगन्तुमुत्सुकः । लोकधातौ सुखावत्यां प्रागच्छन् संप्रमोदितः ॥ तत्रामिताभमालोक्य दूरतोऽहं सभाश्रितम् । सांजलिः प्रणतिं कृत्वा दूरतः समुपाचरन् ॥ तस्य शास्तुर्मुनीन्द्रस्य नत्वा पादाम्बुजे पुरे । गलदश्रुविलिप्तास्यः संपश्यन्समुपाश्रयम् ॥ तद्दृष्ट्वा स भगवांच्छास्ता सर्वज्ञो मामुपाश्रितम् । जानन्मनोऽभिलाषं मे समालोक्यैवमदिशत् ॥ कुत्रपुत्र षदक्षरीं विद्यामिच्छन्निहागतः । त्वं किमेतन्ममाग्रेऽत्र प्रवदैनां यदीच्छसि । इत्यादिष्टं जिनेन्द्रेण निशम्याहं प्रसादितः ॥ भूयः पादाम्बुजे तस्य प्रणत्वैवं न्यवेदयम् ॥ भगवन्नेमिच्छामि महाविद्यां षडक्षरीम् । तद्भवान्मे मनोवांछां संपूरयितुमर्हति ॥ भगवन् यदहं सर्वलोकाधातुषु सर्वतः ॥ भ्रमन्निह समागच्छे प्राप्तुं विद्यां षडक्षरीम् ॥ सर्वेषामपि बुद्धानां बुद्धक्षेत्रेषु सर्वतः । भ्रमितोऽहमिमां विद्यां समन्वेषसमुत्सुकः ॥ (२२९) सर्वेषामपि वुद्धानां शरणे समुपाश्रितः । सत्कारैर्विधिनाराध्य प्राभजन् श्रद्धया मुदा ॥ एकस्यापि मुनीन्द्रस्य सकाशात्कस्यचिन्मया । लब्धा नेयं महाविद्या षडक्षरी श्रुतापि न ॥ भगवन्स्तद्भवंच्छास्ता मां शरणं समागतम् । संपश्यन् पुत्रवद्धर्मे नियोजयितुमर्हति ॥ भगवन् भव मे त्राता भर्ता गतिः परायणः । बन्धुर्मित्र सुहृच्छास्ता गुरुर्नाथो हितार्थभृत् ॥ देहि मे भगवन् धर्मदृष्टिं सर्वार्थदर्शनीम् । शमय मे महत्क्लेशं वह्नितापं सुधांशुवत् ॥ दर्शय बोधिमार्गं मे सम्बुद्धपुरचारणम् । देहि धर्मनिधानं मे सद्धर्मश्रीसुखार्थदम् ॥ स्थापय मां शुभे धर्मे संप्रेरय सुनिर्वृतिम् ॥ इत्येवं बहुधासौ संपार्थ्यमानो मया मुहुः । अमिताभो जिनेन्द्रोऽपि लोकेश्वरं व्यलोकयत् ॥ तद्दृष्ट्वासौ माहसत्त्वो लोकेश्वरः समुत्थितः । सांजलिः धर्मराजं तं प्रनत्वैवमभासत ॥ भगवन् किमभिप्रायं भगतां यत्समादिश । भवदाज्ञां वहन्मूर्ध्नि कुर्यामेव समादिश ॥ इत्युक्ते लोकनाथेन भगवान् सोऽमितप्रभः । लोकेश्वरं महाभिज्ञं समालोक्यैवमादिशत् ॥ पस्य त्वं कुलपुत्रेमं पद्मोत्तमं मुनीश्वरम् । षडक्षरीं महाविद्यां प्राप्तुमिह समागतम् ॥ योऽयं शास्ता मुनीन्द्रोऽपि संबुद्धोऽपि तथागतः । जगत्सत्त्वहिताधानीं विद्यामिच्छन्निहागतः ॥ तद्देहि कुलपुत्रास्मै सर्वसत्त्वशुभार्थिने । श्रद्धाभक्तिप्रसन्नाय महाराज्ञीं जगद्धिओते ॥ इत्यादिष्टे मुनीन्द्रेण लोकेश्वरो जगत्प्रभुः । अभिताभं जिनेन्द्रं तं समलोक्यैवमब्रवीत् ॥ (२३०) भगवन् कथमत्रास्मै विना मण्डलदर्शनम् । अनभिषिच्य दास्यामि विद्यामिमां षडक्षरीम् ॥ देया नेयं महाविद्या ह्यनभिषिक्ताय भिक्षवे । वीतरागाय दुष्टाय तीर्थिकाय दुरात्मने ॥ देया हीयं महाविद्या भद्रश्रीगुणसाधनी । सुसत्त्वाय प्रसन्नाय महायानव्रतार्थिने ॥ बोधिसत्त्वाय विज्ञाय सर्वसत्त्वहितेप्सवे । श्रद्धाअभक्तिप्रसन्नाय सद्धर्मगुणसाधने ॥ सर्वसत्त्वहिताधाने बोधिचर्याव्रतोद्यते । अस्थाने भगवन्नस्मै सुगतायार्हतेऽपि हि ॥ दया चेदभिषिंचैनं दर्शयित्वापि मण्डलम् । ततोऽस्मै सुप्रसन्नाय दास्यामि भवदाज्ञया ॥ इति निवेदितं तेन लोकेशेन निशम्य सः । अमिताभो मुनीन्द्रस्तं लोकेशमेवमब्रवीत् ॥ कुलपुत्र मयाख्यातं विद्यादानविधानं तम् । नानाविधिं समाख्यातं सर्वैरपि मुनीश्वरैः ॥ नैलचूर्णैः पद्मरागचूर्णैर्मारकतैरपि । सौवर्णै रुप्यकैश्चूर्णैर्वर्तन्मण्डलं गुरुः ॥ तथा शक्तौ पुष्पचूर्णैर्गन्धचूर्णैः सुरंगकैः । विधाय मण्डलं तीर्थें वाभिषेकं प्रदापयेत् ॥ यद्येतानि न विद्यन्ते देशभ्रमणचारिणः । स्थानपदान्वितस्यापि दरिद्रस्यापि सन्मतेः ॥ आचार्यो मनसा ध्यात्वा मुद्रालक्षणमण्डलम् । तीर्थशंखाभिषेकं वा दत्वा विद्यां समर्पयेत् ॥ इत्यनेन विधानेन कुलपुत्र सुभाविने । अस्मै श्रद्धालवे देया महाविद्या षडक्षरी ॥ इति शास्त्रमिताभेन समादिष्टं निशम्य सः । मुदितोऽहं समुत्थाय लोकेशस्य पुरोगतः ॥ (२३१) पादाब्जे प्रणतिं कृत्वा कृतांजलिपुतो मुदा । लोकेश्वरं तमालोक्य प्रार्थयमेवमादरात् ॥ भगवन् भगतामत्र शरणेऽहं समागतः । ददस्व मे महाविद्यां षडक्षरीं जगद्धिते ॥ ययाहं सकलान् सत्त्वान् समुद्धृत्य भवोदधेः । बोधिमार्गे समायुज्य प्रापयेयं सुनिर्वृतिम् ॥ तन्मे भवान् जगत्सर्वं सत्त्वं संबुद्धपदवांछिने । संबोधिसाधिनीं सर्वविद्येशां दातुमर्हति ॥ मयैवं प्रार्थ्यमाणोऽसौ लोकेश्वरो विनोदितः । संप्रादान्मे महाविद्यां षडक्षरीमुदाहरन् ॥ अग्रे प्रणवमस्यान्ते मणिरस्य सरोरुहम् । हद्बीजमिति सिद्धेयं षडक्षरीति विश्रुता ॥ संप्रदत्तां समादाय महाविद्यामहं मुदा । प्रादात्तस्मै जगच्छास्त्रे मुक्तामालां स दक्षिणाम् ॥ गृहीत्वा तां जगद्भर्ता मुक्तामालां स दक्षिणाम् । संबुद्धायामिताभाय समुपानामयत्तत्पुरः ॥ अमिताभो मुनीन्द्रोऽपि तां मालां प्रतिगृह्य च । मम पुरमुपस्थाप्य प्रादाद्भक्तिप्रसादितः ॥ तत्प्रदत्तां समादाय तां च मालां प्रबोधितः । तत्र श्रावकसंघेभ्य उपहृत्य समर्पयन् ॥ तत्र एतन्महन्मन्त्रं शास्त्रा दिष्टं यथा तथा । सश्रीलोकेश्वरं ध्यात्वा प्रजपन्ति समाहिताः ॥ तदा विघ्नगणाः सर्वे दुष्टा मारगणा अपि । संत्रासविह्वलात्मानः पलायन्ते दिगन्ततः ॥ चचाल वसुधा साब्धि षडविधा सशिलातोयाः । पपात पुष्पवृष्टिश्च सर्वत्राभूच्छुभोत्सवम् ॥ ततोऽहं श्रीमतः शास्तुर्लोकेशस्य जगत्प्रभोः । लब्धानुज्ञः प्रणत्वांघ्रीं मुदितः स्वाश्रमं ययौ ॥ (२३२) इत्थं मयातिकष्टेन भ्रमता सर्वभूमिषु । अमिताभानुभावेन प्राप्ता लोकेश्वरादियम् ॥ दुर्लभा कुलपुत्रेयं महाविद्या षडक्षरी । न लब्धा सुगतैस्सर्वैः कैश्चिल्लब्धा जिनैरपि ॥ इत्यादिष्टं मुनीन्द्रेण पद्मोत्तमेन मत्पुरः । श्रुत्तमेव मयाप्येतन्महोपायं जगद्धिते ॥ इत्यादिष्टं मुनीन्द्रेण निशम्य स जिनात्मजः । विष्कम्भी भगवन्तं च संपश्यन्नेवमब्रवीत् ॥ भगवन् कुत्र लप्स्येऽहं कथं कस्यान्तिकादिमाम् । जगद्भद्रकरीं विद्यां तन्मे आदेष्टुमर्हति ॥ धन्यास्ते विमलात्मानः पुण्यवन्तः सुभागिनः । जपन्ति य इमां विद्यां शृण्वन्ति भावयन्त्यपि ॥ दधत ये च भासन्ति मनसा चिन्तयन्त्यपि । तेऽपि सर्वे महासत्त्वा भद्रश्रीसद्गुणाश्रयाः ॥ अथासौ भगवान् पश्यन् विष्कम्भिनं महामतिम् ॥ एवमेते महासत्वा भवेयुर्हीइति प्रादिशत् ॥ यश्चापि कुलपुत्रेमां विद्यां संबोधिसाधनीम् । लिखापयेल्लिखेच्चापि लिखितां धारयेदपि ॥ चतुरशीतिसाहस्रधर्मस्कम्धानि तेन हि । लिखापितानि भवन्त्येव लिखितानि धृतानि च ॥ सर्वेषां यश्च बुद्धानां धातुरत्नाभिगर्भितान् । हेमरत्नमयान् स्तूपान् कृत्वा नित्यं भजन्मुदा ॥ यावत्तेषां महत्पुण्यं बहुतरतोऽधिकम् । विद्याराज्ञाः षडक्षर्या एकाक्षरस्य यत्fअलम् ॥ यो मुदा श्रद्धया नित्यं जपेदिमां षदक्षरीम् । संबोधिसाधनीं विद्यां भद्रश्रीसद्गुइणाकरीम् ॥ सोऽचिन्त्यश्रीर्महाभिज्ञः सर्वपारमिताप्रभुः । सर्वाश्च धारणीः सर्वान् समाधींश्च लभेदपि ॥ (२३३) सर्वविद्याधिपः शास्ता सर्वधर्माधिपः प्रभुः । अर्हन्मारविजेताअ च भवेत्सर्वहितार्थभृत् ॥ इत्यादिष्टं मुनीन्द्रेण निशम्य स प्रमोदितः । विष्कम्भी बोधिसत्त्वस्तं निशम्य स प्रमोदितः । विष्कम्भी बोधिसत्त्वस्तं मुनीन्द्रमेवमब्रवीत् ॥ भगवन् कुत्र गच्छेयं यत्रास्तीयं षडक्षरी । तत्राहं भवता शास्त्रा प्रेषणीयो हि सर्वथा ॥ एवं तदुक्तमाकर्ण्य भगवान् स मुनीश्वरः । विष्कम्भिनं तमालोक्य पुनरेवं समादिशत् ॥ कुलपुत्रैक एवास्ति जानाति यः षडक्षरीम् । वाराणस्यां नगर्यां स संतिष्ठते जपन् सदा ॥ स्वयं धृत्वा परेभ्योऽपि समुपादिश्य सादरम् । ध्यानसमाधिमुक्तात्मा विहरति जगद्धिते ॥ एतच्छास्त्रा समादिष्टं निशम्य स प्रमोधितः । विष्कम्भी बोधिसत्त्वस्तं शास्तारमेवमब्रवीत् ॥ भगवन्स्तत्र यास्यामि यत्र शास्ता स तिष्ठते । वाराणस्यां महापुर्यामपि तं द्रष्टुमुत्सहे ॥ तं समुत्सुकमालोक्य भगवान् स मुनीश्वरः । विष्कम्भिनं महासत्त्वं पश्यन्नेवं समादिशत् ॥ गच्छ त्वं कुलपुत्रेमां महाविद्यां यदीच्छसि । वाराणस्यां महापुर्यां स्थितं तं सद्गुरुं भजे ॥ स शास्ता सुविशुद्धात्मा धर्मभाणक आअत्मवित् । संबुद्धवन्महाभिज्ञः पुण्यराशिश्चरन्निव ॥ धर्मधातुमयस्तूपश्चरन्निव शुभाश्रयः । भूतवादी शुभाचारी सर्वसत्त्वहितार्थभृत् ॥ चिन्तामणिरिव श्रीमान् सर्वार्थसिद्धसंप्रदः । धर्मराजो जगद्भर्ता जगदुद्धारणप्रभुः ॥ यदि दृष्ट्वा तमात्मज्ञं निन्दंस्त्वविचारतः । गंगेव सर्वतीर्थानां क्षेत्राणां बोधिमण्डवत् ॥ (२३४) द्रष्टव्यः स त्वया नैव कुलपुत्र तदन्यथा । विचिकित्सा न कर्तव्या दृष्ट्वा तं धर्मभाणकम् । योगाचारं महात्मानं परिशुद्धत्रिमण्डलम् ॥ यदि दृष्ट्वा तमात्मज्ञं निन्दस्त्वमविचारतः । च्युत्वा हि बुद्धभूमेस्त्वमपायेषु पतेदपि ॥ स हि योगविशुद्धात्मा निर्विकल्पो जितेन्द्रियः । अनाचारो मलालिप्तो ह्यशुचिचीवरावृतः ॥ अनीर्यापथसंवृत्तो गृहाश्रमसमाश्रयः । शक्तिभार्यासमापन्ना दुहितृपुत्रावानपि ॥ तथापि स महाभिज्ञः षडक्षरीविशुद्धवित् । समन्तभद्रवद्योगी वन्दनीयस्वयादरात् ॥ इति भगवतादिष्टं निशम्य स प्रबोधितः । विष्कम्भी भगवन्तं च समालोक्यैवमब्रवीत् ॥ भगवन् भवता शास्त्रा यथाज्ञप्तं तथा खलु । कृत्वा तच्छरणे स्थित्वा भजेयं तं समादरात् ॥ भगवन्स्तत्र गच्छामि प्राप्तुं विद्यां षडक्षरीम् । तदनुज्ञां भवान्मह्यं साम्प्रतं दातुमर्हति ॥ ततः स भगवान्सतस्मै बोधिसत्त्वाय सद्धिये । गच्छ सिध्यत्वभिप्रायमित्यनुज्ञाशिषं ददौ ॥ प्राप्तानुज्ञा मुनीन्द्रस्य विष्कम्भी स प्रमोदितः । पादाब्जे सांजलिर्नत्वा ततः संप्रस्थितोऽचरत् ॥ अनेकैर्बोधिसत्त्वैस्स यतिर्ब्रह्मविहारिभिः । भिक्षुभिः श्रावकैः सद्भिचैलकैचाप्युपासकैः ॥ गृहस्थैर्व्रतिभिर्विप्रप्रमुखैः पौरिकैर्जनैः । वणिग्भिः सार्थवाहैश्च श्रेष्ठिभिश्च महाजनैः ॥ सार्धं पूजोपहारादिपुष्पाणि विविधान्यपि । सर्वर्तुजानि सर्वाणि जलजस्थलजान्यपि ॥ सुगन्धद्रव्याणि सर्वाणि धूपानि सुरभीनि च । (२३५) सर्वालंकारवस्तूनि वस्त्राणि विविधानि च ॥ ध्वजच्छत्रवितानानि पताकाव्यंजनानि च । चामराणि समुद्दीप्तरत्नदीपान्मुरुणि च ॥ धातुद्रव्याणि सर्वाणि रत्नानि सकलानि च । औषधादीनि सर्वाणि भोग्यानि सुरसानि च ॥ एवमन्यानि वस्तूनि सर्वोपकरणान्यपि । समादाय महोत्साहैः वाराणसिं ययौ ॥ तत्र प्राप्तः स विष्कम्भी दृष्ट्वा तं धर्मभाणकम् । दूरतः सांजलिर्नत्वा मुदितः समुपासरत् ॥ तत्र स मुदितो धर्मभाणकस्य पुरो गतः । पादाब्जे सांजलिर्नत्वा समालोक्यैवमब्रवीत् ॥ भदन्त कौशल कश्चिद्भवतामिन्द्रियेष्वपि । सर्वपरिग्रहाणां च सबन्धुसुहृदामपि ॥ यदर्थे भवतां शास्त शरणेऽहमिहाव्रजम् । तद्भवानपि जानीयात्तदर्थे मे प्रसीदतु ॥ इति विज्ञप्य तस्याग्रे शास्तुः स सुगतात्मजः । विष्कम्भी सुप्रन्नात्मा पूजां चक्रे यथाक्रमम् ॥ यथाविधि समभ्यर्च्य सर्वपूजोपहारदूष्यादिशुद्धरुचिरचीवरैः । ध्वजच्छत्रवितानैश्च पताकाव्यंजनादिभिः । अलंकृत्य महोत्साहं चक्रे सगीतवादनैः ॥ ततस्तस्य पुरः सर्वद्रव्योपकरणान्यपि । सधातुरत्नजातानि भोग्यानि चौषधीरपि ॥ सर्वाण्येतान्युपस्थाप्य पुरतः समकल्पयेत् । ततोऽष्टांगैः प्रणामानि प्रदक्षिणानि चाकरोत् ॥ ततः स प्रांजलिर्भूत्वा शास्तारं धर्मभाणकम् । समीक्ष्य सुप्रसन्नास्यः प्रार्थयदेवमादरात् ॥ भदन्त सद्गुरो शास्ता धर्मश्रीगुणसागराः । तद्भवान्मे मनोवांछां संपूरयितुमर्हति ॥ (२३५) शृण्वन्ति ये सदा धर्मं भवतः समुपाश्रिताः । देवा अप्यसुराश्चापि यक्षगन्धर्वकिन्नराः ॥ गरुडा अपि नागाश्च विद्याधरादयोऽपि च । कुम्भाण्डा राक्षसाश्चापि भूतप्रेतपिशाचकाः ॥ सिद्धाः साध्या ग्रहास्ताराः सर्वाश्चाप्यप्सरोगणाः । सर्वलोकाधिपाश्चापि ब्राह्मणाश्च महर्षयः ॥ यतिनो योगिनश्चापि भिक्षवो ब्रह्मचारिणः ॥ भिक्षुण्यश्चैलकाश्चापि व्रतिनश्चाप्युपासकाः ॥ तीर्थिकाश्चापि शैवाश्च वैष्णवाश्च तपस्विनः । राजानः क्षत्रिया वैश्याः श्रेष्ठिनोऽपि महाजनाः ॥ पौरिकाः सार्थवाहाश्च वणिजः शिल्पिनोऽपि च । एवमन्येऽपि लोकाश्च सर्वे ते विमलाशयाः ॥ पुण्यवन्तो महासत्त्वा भद्रश्रीसद्गुणाश्रयाः । बोधिसत्त्वा महाभिज्ञा भवेयुर्बोधिलाभिनः ॥ भजन्ति भवतां ये च शरणे समुपस्थिताः । ते सर्वे विमलात्मानः भवेतुर्बोधिलाअभिनः ॥ भवद्दर्शनमात्रेण सर्वाणि पातकान्यपि । निरवशेषे विनष्टानि क्षिणुयुर्दारुणान्यपि ॥ जानन्ते तव संबुद्धाः सर्वेऽपि दशदिक्स्थिताः । बोधिसत्त्वाश्च सर्वेऽपि सर्वेऽर्हन्तोऽपि योगिनः ॥ ब्रह्मशक्रादयो देवाः सर्वलोकाधिपा अपि । महत्पुण्याभिवांछन्तो भजन्ति सर्वतः सदा ॥ धन्यास्ते पुरुषाः सर्वे सद्धर्मश्रीगुणलाभिनः । ये ते धर्मामृतं पीत्वा भजन्ति समुपस्थिताः ॥ पुण्यक्षेत्रमहाभूमिरियं वाराणसी भुवि ॥ भवत्पादरजोलिप्ता भवत्यतिपवित्रिता ॥ तद्भदन्त भवांच्छास्ता कृपया मां विलोकयन् । पुण्यामृतेन संसिचं संविभृतां स्वपुत्रवत् ॥ (२३७) इति तेनोदितं श्रुत्वा स सुधीर्धर्मभाणकः । विष्कम्भिनं महासत्त्वं तं पश्चन्नेवमब्रवीत् ॥ कौकृत्यं कुलपुत्रात्र मोत्पादय ममाग्रतः । किमिच्छसि भवे क्लेशं सद्धर्मसुखसाधनम् ॥ कति मार्षाः किल क्लेशाः संसार औपभागिकाः ॥ नैमित्तिकाः प्रजोत्पत्तेः सद्धर्मगुणसाधनाः ॥ ये चापीयं महाविद्यां संजानन्ते षडक्षरीम् । संलिप्यन्ते न तेअ क्लेशैः संसारधर्मचारिणः ॥ यथा जाम्बुनदं हेम मलैर्नासन्ध्यते क्वचित् । यस्य कायगता चेयं महाविद्या षडक्षरी ॥ संसारे सरतोऽप्यस्य काये क्लेशैर्न लिप्यते । इति तेन समादिष्टं निशम्य स विनोदितः । विष्कम्भी प्रार्थयदेवं नत्वैनं धर्मभाणकम् ॥ ददस्व धर्मचक्षुर्मे नष्टमार्गस्य सद्गुरो । संतर्पय जगद्भर्त धर्मामृतरसेन माम् ॥ संबोधिकल्पवृक्षस्य बीजं रोपय मे तरौ । सद्धर्मगुणरत्नानां कुरु मे कार्यमालयम् ॥ भद्रश्रीसुखसंपत्तिवसतिं कुरु मे तनौ । अभेद्यकुशलाधारं सुप्रतिष्ठ वृषाश्रयम् ॥ कुरु मां निर्मलात्मानं परिशुद्धत्रिमण्डलम् । ददस्व मे महाविद्यां संबोधिज्ञानसाधनीम् ॥ सद्धर्मश्रीगुणाधारीं षडक्षरीं जगद्धिते ॥ ययाहं क्षिप्रमासाद्य संबोधिज्ञानसन्मणिम् । उद्धरेयं जगल्लोकं सांसारमहदम्बुधेः ॥ प्रवर्तयेयमालोकं धर्मचक्रं भवालये । मोचयेयं जगत्सर्वं षड्गतिक्लेशबन्धनात् ॥ श्रावयेयं जगत्सर्वं संबुद्धानां सुभाषितान् । चारयेयं जगल्लोके महायानं व्रतोत्तमम् ॥ (२३८) स्थापयेयं जगत्सर्वं बोधिमार्गेऽभिबोधयन् । तद्भवान्मे कृपासिन्धो महाविद्यां षडक्षरीम् ॥ संबोधिज्ञानसंभर्ता प्रयच्छतु जगद्धिते । दत्वा मे श्रीमतीमेनां महाविद्यां षडक्षरीम् ॥ त्राता नाथो गुरुः शास्ता सन्मित्रं सद्गुणार्थभृत् । गतिर्बन्धुः सुहृत्स्वामि प्रभुः पिता परायणः ॥ द्वीपपरायणो भर्ता शरण्यं भवतां मम ॥ इति संप्रार्थिते तेन श्रुत्वा स धर्मभाणकः । विष्कम्भिनं महासत्वं तमालोक्यैवमब्रवीत् ॥ दुर्लभं कुलपुत्रेदं सर्वविद्यामहत्पदम् । अभेद्यं सर्वमाराणां वज्रसारमनुत्तरम् ॥ सर्वक्लेशाग्निसंतापप्रशान्तिकरणं महत् । भद्रश्रीगुणसद्धर्मसमृद्धिसुखसाधनम् ॥ सर्वसत्त्वहिताधानं बोधिसंभारपूरणम् । सर्वधर्मोत्तमोदारं सर्वापायविशोधनम् ॥ अक्षयज्ञानसम्पत्तिविमुक्तिपदसाधनम् । दशपारमिताधर्मसारसंबोधिसाधनम् ॥ सर्वदेवादिलोकैश्च समभिकांक्षितं पदम् । सर्वधर्मपदस्थानं प्रवेशनपदं महत् ॥ ये च स्वस्वकुलेस्थानाअं देवतानां यथाविधि । अभिषेकं समादाय चरन्ति सद्व्रतं सदा ॥ केचित्तीर्थे समाश्रित्य सद्धर्ममोक्षवांछिनः । ध्यात्वा मन्त्राणि जल्पन्तो भक्त्याराधयन्ति तान् ॥ केचिद्गिराशरण्येऽपि गुहायां निर्जने वने । पुण्यक्षेत्रे गृहे रन्मे पीठे प्रेतालयेऽपि च ॥ केचिच्चैत्यविहारे च सभागारे च मण्डपे । उद्याने वॄक्षमूले च शिवादिसुरमन्दिरे ॥ केचिन्महोदधेस्तीरे नदीतिरे सरस्तटे । एवमन्यत्र सत्क्षेत्रे समाश्रिताः समाहिताः ॥ (२३९) स्वस्वकुलेष्टदेवानां शरणे समुपस्थिताः । ध्यात्वाराध्य समभ्यर्च प्रार्थयन्ति सुनिर्वृतिम् ॥ सुनिर्वृतिं न ते यान्ति कृत्वापि दुष्करं तपः । स्वस्वकुलेष्टेवानामालयमेव यान्ति ते ॥ ये च सन्तो महासत्त्वा बोधिसत्त्वाः शुभार्थिनः । त्रिरत्नभजनं कृत्वा ददत दानमादरात् ॥ एतत्पुण्याभिलिप्तास्ते भवेयुर्विलाशयाः । शुद्धशीलसमाचाराः संचरेरन् सुसंवरम् ॥ एतत्पुण्यानुलिप्तास्ते परिशुद्धत्रिमण्डलाः । क्षान्तिव्रतं समाधाय संचरेरन् जगद्धिते ॥ एतत्पुण्याभियुक्तास्ते सद्धर्मसाधनोद्यताः । महावीर्ये समुत्साहं कुर्युर्भवार्थसाधनम् ॥ एतत्पुण्यविमुक्तास्ते निःक्लेशा विजितेन्द्रियाः । योगध्यानसमाधानाः संतिष्ठेरन् समाहिताः ॥ एतत्पुण्यामृतव्याप्ता अर्हन्तस्ते निरंजनाः । संबोधिप्रणिधिं धृत्वा वरेयुर्बौद्धसंवरम् ॥ एतत्पुण्यांशुदीप्तास्ते चतुर्ब्रविहारिणः । प्रज्ञारत्नं समासाद्य संचरेरन् सुसंवृतौ ॥ एतत्पुण्यानुभावैस्ते सर्वोपायविचक्षणाः । सर्वसत्त्वहिताधानीं चरेयुर्भद्रचारिकाम् ॥ एतत्पुण्यसमृद्धास्ते यथेच्छारुपचारिणः । सर्वहितार्थसंभारं पूरयेयुर्जगद्धिते ॥ एतत्पुण्यसमुद्दीप्ता महाभिज्ञा गुणाकराः । बोधिमार्गे जगत्सर्वं स्थापयेयुः प्रयत्नतः ॥ एतत्पुण्यमयांगास्ते परमार्थज्ञानमुत्तमम् । प्राप्य मारान् विनिर्जित्य संबोधिं समवाप्नुयुः ॥ ततस्ते सुगता बुद्धां जगत्सत्वं सुसंवृतौ । बोधयित्वा प्रतिष्ठाप्य संप्रयायुः सुनिर्वृतिम् ॥ (२४०) एवं चिरेण बुद्धास्ते चरन्तो बोधिचारिकाः । दशपारमिताः सर्वाः पूरयित्वा यथाक्रमम् ॥ जित्वा मारगणान् सर्वांश्चतुर्ब्रह्मविहारिणः । परमज्ञानमासाद्य संबोधिं प्राप्य निर्वृताः ॥ एवं दुष्करमर्माणि कृत्वा सर्वजिना अपि । चिरात्संबोधिमासाद्य संप्रायाताः सुनिर्वृतिम् ॥ य इमां श्रीमहत्सर्वविद्येश्वरीं षडक्षरीम् । ध्यात्वा लोकेश्वरं नित्यं जपति बोधिमानसः ॥ स तत्क्षणाद्विशुद्धात्मा परिशुद्धत्रिमण्डलः । भद्रश्रीसुखसंपन्नः संप्रयायात्सुखावतीम् ॥ तत्र प्राप्तोऽमिताभस्य मुनेः शरणनिश्रितः । बोधिधर्मामृतं पीत्वा बोधिसत्त्वव्रतं चरेत् ॥ ततः संवृतिशुद्धात्मा सर्वसत्त्वहितोत्सुकः । कृती पारमिताः सर्वाः संपूरयन् यथाअक्रमम् ॥ संवृतिधर्मसंभारं पूरयन्ति जितेन्द्रियाः । समाधिसद्गुणाधारा जित्वा मारगणानपि ॥ परमार्थं समासाद्य संबोधिं समवाप्नुयात् । ततो बुद्धपदं प्राप्य कृत्वा धर्ममयं जगत् ॥ निर्विकल्पो विशुद्धात्मा संप्रयायात्सुनिर्वृतिम् । सर्वयोगा महाविद्याः परमार्थाप्तिकारणाः ॥ एषा विद्या महाधर्मसंबोधिज्ञामसाधनी । यथा हि तण्डुलसिद्धं संसारधर्मपालनम् ॥ एवमेषा महाविद्या सर्वसद्धर्मपालिनी । सर्वलोका सुमेदिन्यामुर्वरायां प्रयत्नतः ॥ कृषित्वा धान्यमारोप्य संपालयन्ति सादरम् । तदंकुरे समुद्भूते नदीभिन्नरहाम्बुभिः ॥ मेघधाराम्बुभिः सम्यक्स्fआल्यमानं प्रवर्धिते । ततस्तत्परिनिष्पन्नं छिवा खले महीतले ॥ (२४१) मर्दयित्वा गृहे नीत्वा संशोष्य भास्वदातपैः । ततस्तं मुशलेनापि भेदयित्वा समादरात् ॥ तद्बुषाणि परित्यज्य समालोन्त्येव तण्डुलम् । तदेव तण्डुलं सिद्धं सर्वसंसारपालनम् ॥ सद्धर्मप्राप्तिसंभारपुरणं बोधिसाधनम् । तथा सर्वमहायोगाः सर्वाः पारमिता अपि ॥ सर्वा विद्याश्च मन्त्राणि सद्धर्मप्राप्तिसिद्धये । सर्वेषां योगविद्यानां मन्त्राणामपि सत्तमम् ॥ सिद्धमेतन्महाविद्यामन्त्रं सम्बोधिसाधनम् । एवमेव महाविद्या सर्वधर्मार्थसाधनी ॥ महत्पुण्यैर्विना नैव लभ्या केनापि सद्दिया । सुक्षेत्रे व्यारुहेन्नेव तण्डुलं वितुषं क्वचित् ॥ निष्पुण्यैः लभ्यते नैषा महाविद्या कथंचन । यावन्न लभ्यते ह्येषा विद्या सर्वार्थसाधनी ॥ तावत्पुण्यानि सर्वाणि संसाधयेत्प्रयत्नतः । यदैषा लभ्यते विद्यां तदा पुण्यनिरादरः ॥ एतामेव महाविद्यां ध्यात्वा लोकेश्वरं जपेत् । यदेयं सिध्यते विद्या सर्वसंभारसाधनी ॥ तदा सद्धर्मकार्याणि साधयेत्स्वेच्छयानया । एषा हि तण्डुलाकारा संसारधर्मसाधनी ॥ सर्वधर्मास्तुषाकाराअ एतद्विद्याप्तिकारणाः । एवं महत्तरीमेनां विद्याराज्ञां षडक्षरीम् ॥ ध्यात्वा पारमिताः सर्वाः प्रणमन्ते सदादरात् । संबुद्धामपि सर्वेऽथ बोधिसत्त्वा जिनात्मजाः ॥ अर्हन्तो वीतक्लेशाश्च ध्यात्वेमां प्रणमन्त्यपि । सर्वेऽपीन्द्रादयो देवाः ब्रह्मादयो महर्षयः ॥ सूर्यादयो ग्रहाः सर्वे चन्द्रादितारका अपि । सर्वसिद्धाश्च साध्याश्च वसवश्चाप्सरोगणाः ॥ (२४२) सर्वेऽपि त्रिदशेन्द्राश्च सर्वविद्याधरा अपि । विष्णुब्रह्मादिलोकेन्द्राः कुम्भाण्डाश्च यमादयः ॥ सर्वेऽपि राक्षसेन्द्राश्च वरुणादयोऽप्यहीश्वराः । सर्वेऽपि गरुडेन्द्राश्च सर्वेऽपि पवनाधिपाः ॥ सर्वे श्रीदादियक्षेन्द्राः सर्वेऽपीशादियोगिणः ॥ गन्धर्वकिन्नरेन्द्राश्च सर्वलोकाधिपा अपि ॥ सदा नित्यामिमां विद्यां विद्याराज्ञीं षडक्षरीम् । ध्यात्वा स्मृत्वा प्रणत्वापि संभजन्ते समादरात् ॥ ये येप्यस्याः सुसिद्धायाः विद्याराज्ञां समादरात् । ध्यात्वा स्मृत्वा प्रणत्वापी प्रभजन्ते सदानिशम् ॥ ते तेअ सर्वे विशुद्धांगाः विमुक्तसर्वपातकाः । निःक्लेशा विमलात्मानः संप्रयायुः सुखावतीम् ॥ तत्रामितरुचेः शास्तुः शरणे समुपाश्रिताः । सदा धर्मामृतं पीत्वा संचरेरन् जगद्धिते ॥ एवं ते च जगल्लोकं हितं कृत्वा प्रमोदिताः । बोधिसत्त्वा महाभिज्ञा भवेयुर्धर्मराजिकाः ॥ ततस्ते विमलात्मानः परिशुद्धत्रिमण्डलाः । अर्हन्तो बोधिमासाद्य सम्बुद्धपदमाप्नुयुः ॥ एवं महत्तरी विद्या प्रसिद्धेयं षडक्षरी । यस्या अनुस्मृतिमात्रेण सर्वे नष्टा हि पापकाः ॥ य एनां जपते नित्यं तस्य यः चीवरं स्पृशेत् । सोऽपि भवेन्महासत्त्वो बोधिसत्त्वो विवर्तिकः ॥ यश्चैनं पूजयेद्भक्त्या तेन सर्वेऽर्चिता जिनाः । ससंघा अपि सत्कारैर्भवन्ति पूजिताः सदा ॥ एवं महत्तरी सर्वभद्रश्रीसद्गुणार्थदा । षदक्षरीति विख्याता सर्वत्र भुवनेष्वपि ॥ बुद्धानां जननी माता प्रज्ञापारमितापि सा । सांजलिं प्रणतिं धृत्वा भजत्येनां शुभंकरीम् ॥ (२४३) अत एषा महाविद्या संसारधर्मसाधनी । मुनीन्द्रैर्बोधिसत्त्वैश्च सर्वदेवैश्च वन्दिता ॥ अस्या नामसंभारं ग्रहणमपि दुर्लभम् । स्मरणं श्रवणं चापि विना पुण्यैर्न लभ्यते ॥ इति तेन समादिष्टं श्रुत्वा स संप्रमोदितः । विष्कम्भी सांजलिः प्रार्थ्य नत्वैवं धर्मभाणकम् ॥ भदन्त सद्गुरो शास्तः शरणे तेऽहमागतः । तद्भवान्मे महाविद्यां प्रददातु जगद्धिते ॥ इति संप्रार्थितस्तेन पश्यन् स धर्मभाणकः । स्मृत्वा लोकेश्वरं ध्यात्वा तस्थौ तद्दानचिन्तया ॥ तदाकाशान्महच्छब्दो निश्चचार मनोहरः । ददस्वास्मै जगल्लोकहितार्थपुण्यवांछिनः ॥ योऽयं धीरो महासत्त्वो बोधिसत्त्वो जिनात्मजः । सर्वसत्त्वहितानि विद्यामिच्छन् समागतः ॥ श्रद्धाभक्तिप्रसन्नात्मा सं बोधिज्ञानलालसः । तत्प्रसिद्धा महाविद्या देयास्मै दीयतामिति ॥ तन्निश्चरन्महाशब्दं श्रुत्वा स धर्मभाणकः । कुतोऽयं चरते शब्द इति ध्यात्वा व्यवस्थितः ॥ भूयोऽप्येयं महाशब्दो निश्चचार विहायसः । देयास्मै सुप्रसन्नाय संबोधिज्ञानसाधिने ॥ सर्वसत्त्वहितार्थाय सद्धर्मश्रीगुणार्थिने । बोधिसत्त्वाय धीराय श्रद्धया दीयतामिति ॥ निश्चरन्तं सुशब्दं तं श्रुत्वा स धर्मभाणकः । कुतोऽयं चरते शब्द इति ध्यात्वा व्यलोकयेत् ॥ समीक्ष्य सर्वतो दिक्षु धिमान् स संविलोकयन् । विस्मयापन्नचित्तः खे संपश्यन् संददर्श तम् ॥ शरत्पूर्णेन्दुदीप्ताभं जटामिताभशोभितम् । पद्महस्तं महासत्त्वमार्वलोकितेश्वरम् ॥ (२४४) दृष्ट्वा तं खे कजालीनं बोधिसत्त्वं जिनात्मजम् । भद्रश्रीसद्गुणाधारं संबोधिधर्मभास्करम् ॥ संपश्यन् समुत्थाय सानन्दविस्मिताशयः । अष्टांगैः प्रणतिं कृत्वा तस्थौ ध्यात्वा कृतांजलिः ॥ तमेवं संस्थितं धर्मभाणकं निश्चरेन्द्रियम् । स त्रैलोकेश्वरः पश्यन् समामन्त्र्यैवमादिशत् ॥ कुलपुत्रायमुद्योगी संबोधिज्ञानसाधने । अस्मै दैया महाविद्या प्रदियतां षडक्षरी ॥ इति तेन जगच्छास्त्रा समादिष्टं निशम्य सः । धर्मभाणकः आलोक्य नत्वैनमब्रवीत् ॥ भगवन्नाथ धर्मेन्द्र भवदाज्ञां शिरो वहन् ॥ ददात्वस्मै महाविद्यां तद्भवान् संप्रसीदतु ॥ इति विज्ञप्य लोकेशं ततः स धर्मभाणकः । विष्कम्भिनं समामन्त्र्य संपश्न्नेवमब्रवीत् ॥ कुलपुत्र जगच्छास्ता दत्ताज्ञा मे प्रसीदतः । दद्यामहं महाविद्यां गृहाणेमां षडक्षरीम् ॥ इत्यादिश्य स धर्मिष्ठो विधिनास्मै महात्मने । सविशुद्धिमुदाहृत्य प्रादाद्विद्यां षडक्षरीम् ॥ प्रणवमणिकजहृद्बीजमिति षडक्षरम् । सिद्धमेतन्महाविद्या षदक्षरीति विश्रुता ॥ तत्प्रदत्तामिमां विद्यां विद्याधीणां षडक्षरी । विष्कम्भी सांजलिर्नत्वा संप्राग्रहीत्प्रमोदितः ॥ तत्क्षणे साचला साब्धिश्चचाल षड्विधा मही । पपात पुष्पवृष्टिश्च सर्वतोऽप्यचरच्छुभम् ॥ तद्विद्या दत्तमात्रेऽपि विष्कम्भी स समृद्धिमान् । अनेकधर्मसंभारसमाधिप्राप्तवानभूत् । ततः स सुप्रसन्नाअत्मा शत्रे तस्मै सदक्षिणाम् । चतुर्द्वीपां सप्तरत्नपरिपूर्णां ददौ मुदा ॥ (२४५) तां दृष्ट्वा स महाभिज्ञो धर्मिष्ठो धर्मभाणकः । विष्कम्भिनं महासत्त्वं तं समालोक्यैवमब्रवीत् ॥ कुलपुत्र त्वमार्योऽसि नानार्यः सुगतात्मजः । वैनेयो बोधिसत्त्वस्तत्गृह्णीयां दक्षिणां न ते ॥ एता एकाक्षरस्यापि पर्याप्ता न तु दक्षिणा । प्रागेव षडक्षराणां गृह्णियां ते तथापि न ॥ तच्छ्रुत्वा स महाभिज्ञो विष्कम्भी तस्य सद्गुरोः । महार्घ्यमूल्यशुद्धाभं मुक्ताहारमुपाहरत् ॥ तमुपनामितं पश्यन् गृहीत्वा धर्मभाणकः । तस्मै प्रत्यर्पयित्वा स पश्यंस्तं चैवमब्रवीत् ॥ कुलपुत्र मुनीन्द्रस्य शाक्यमुनेर्जगद्गुरोः । एनं पुन उपास्थाप्य मद्वचसा वदेर्नमः ॥ इति शास्त्रा समादिष्टं निशम्य स विनोदितः । विष्कम्भिनं सुप्रसन्नं समालोक्यैवमब्रवीत् ॥ भवता यद्यथादिष्टं तत्तथाहं करोमि हि । इति विज्ञप्य तं मुक्ताहारं नत्वा समाददे ॥ ततः स सुप्रसन्नात्मा विष्कम्भी तस्य सद्गुरोः । पादाअब्जे सांजलिर्नत्वा संप्रस्थितोऽचरन्मुदा ॥ सार्धं सर्वैः सदा यैस्तैः प्रतिलब्धमनेप्सितः । सुमंगलमहोत्साहं जेतोद्यानमुपाचरत् ॥ तत्र स दूरतः पश्यन् भगवन्तं सभाश्रितम् । सांजलिः प्रणतिं कृत्वा सहसा समुपासरत् ॥ तत्र समुपासृत्य शास्तुस्तस्य जगद्गुरोः । पादाब्जं सांजलिर्नत्वा संपश्यन् समुपाश्रयत् । तत्र स भगवान् पश्यन् विष्कम्भिनं समागतम् । सुप्रसन्नमुखाम्भोजं समालोक्यैवमादिशत् ॥ स्वागतं कुलपुत्रैहि कश्चित्ते कौशलं तनौ । वांछितार्थं समासाद्य समायासि प्रसीदतः ॥ (२४६) इत्यादिष्टे मुनीन्द्रेण विष्कम्भी संप्रसादितः । भगवन्तं जगन्नाथं पश्यन्नेवं न्यवेदयत् ॥ भगवन् लब्धवानस्मि भवत्कृपानुभावतः । संबोधिसाधनीं विद्यां भद्रश्रीसद्गुणार्थदाम् ॥ अद्य मे सfअलं जन्म बुद्धपुत्रोऽस्मि साम्प्रतम् । प्राक्संबोधिसन्मार्गो भद्रश्रीमान् जगद्धिते ॥ भगवन् यद्भवांच्छास्ता सर्वर्महितार्थभृत् । यथाशु बोधिमाप्नुयां तथा मां प्रोत्तुमर्हति ॥ इति तेनोदितं श्रुत्वा भगवान् स मुनीश्वरः । विष्कम्भिनं समालोक्य पुनरेवं समादिशत् ॥ धन्यस्त्वं कुलपुत्रोऽसि बोधिसत्त्वो जिनात्मजः । सर्वसत्त्वहिताधानी महविद्यासमाप्तवान् ॥ भूयोऽप्यहं महाविद्यां सप्तसप्ततिकोटिभिः । संबुद्धैर्भाषिता या तां दास्यामि ते जगद्धिते ॥ य एतां धारणीं विद्यां सर्वपातकनाशनीम् । भद्रश्रीसद्गुणाधारां संबोद्धपदसाधनीम् ॥ समादाय सुचित्तेन स्मृत्वा ध्यात्वा समाहितः । संबोधिप्रणिधिं धृत्वा पठति सर्वदादरात् ॥ स सर्वपापनिर्मुक्तः परिशुद्धेन्द्रियः सुधीः ॥ निःक्लेपरिशुद्धात्मा बोधिसत्त्वो भवेत्कृती ॥ सर्वैरपि मुनीन्द्रैस्स समालोक्य सदानिशम् । दुष्टमारभ्येभ्योऽपि संरक्ष्यते स्वपुत्रवत् ॥ सर्वविघ्नगणानां स्यात्प्रधृष्यः स वीर्यवान् । महासत्त्वो महोत्साही सद्धर्मगुणसाधने ॥ संबुद्धजननी देवी प्र&॰२८९;यापारमितापि तम् । बोद्धिसत्त्वं महासत्त्वं पश्यन्ती समवत्सदा ॥ लोकेश्वरोऽपि संपश्यन्स्तं श्रीभद्रगुणाश्रयम् । सर्वत्र सर्वदा रक्षेद्योजयन् बोधिसंवरे ॥ (२४७) ततः स त्रिगुणाभिज्ञो बोधिचर्याव्रतं दधन् । सर्वं संबोधिसंभारं संपूरयन् यथाक्रमम् ॥ ततः स सुविशुद्धात्मा निःक्लेशो विमलेन्द्रियः । अर्हन्मारान् विनिर्जित्य त्रिविधां बोधिमाप्नुयात् ॥ ततः स त्रिजगच्छास्ता कृत्वा धर्ममयं जगत् । सर्वं बोधिव्रते युज्य समाप्नुयात्सुनिर्वृतिम् ॥ एवं महत्तरी विद्यां संबुद्धपदसाधनी । एषा त्वया सदा धार्या पठनीया जगद्धिते ॥ ये चाप्येतन्महाविद्यापाठभाषणसुस्वरम् । श्रुत्वानुमोदमानास्तं नत्वा भजन्ति सादरम् ॥ तेऽपि सर्वे विकल्माषाः परिशुद्धत्रिमण्डलाः । त्रिरत्नभजनोद्युक्त्ता भजेयुः सुगतात्माजाः ॥ ततस्ते बोधिसंभारं पूरयित्वा यथाक्रमम् । त्रिविधां बोधिमासाद्य संबुद्धापदमाप्नुयुः ॥ एवं सर्वैर्जगन्नाथैरियं विद्यां महत्तरी । धृत्वा संपाठिता नित्यं देशिता च जगद्धिते ॥ इति मत्वा त्वयाप्येषा विद्या संबोधिसाधनी । भद्रश्रीधर्मसंभर्त्री पठितव्या जगद्धिते ॥ इत्यादिश्य मुनीन्द्रोऽसौ भगवांस्त्रिजगद्गुरुः । विष्कम्भिने सुधीराय बोधिसत्त्वाय सद्धिये ॥ आअ ओं चले चूले चुन्दे स्वाहेत्येतन्नवाक्षरम् । धारणीं परमां विद्यां प्रादात्स्वयमुदाहरन् ॥ शास्त्रा स्वयं प्रदत्तं तां महाविद्यां नवाक्षरीम् । विष्कम्भी सांजलिर्नत्वा समादायापठन्मुदा ॥ धृत्वा विष्कम्भिना शास्तुः पाठेमाना गुरोः पुरः । संसिद्धा सा महाविद्या बभूव त्रिजगद्धिते ॥ एतद्विद्यानुभावेन विष्कम्भी स विशुद्धदृक् । लोकेश्वरस्य प्राद्राक्षीत्सर्वलोमविलान्यपि ॥ (२४८) तानि दृष्ट्वा स विष्कम्भी सहर्षविस्मयान्वितः । अहो चित्रं महामाया संदृश्यते मयाधुना ॥ धर्मकाये जगद्भर्तुः सर्वाणि भुवनान्यपि । इति ध्यात्वा समाधाअय संतस्थे निश्चलेन्द्रियः ॥ ततः स सुप्रसन्नात्मा विष्कम्भी संप्रबोधितः । भगवन्तं प्रणत्वा च सांजलिरेवमब्रवीत् ॥ भगवंस्त्रिजगद्भर्तुः सर्वधर्माश्रयेऽधुना ॥ लोमविलेषु पश्यामि सर्वाणि भुवनात्मनि ॥ कति सन्ति तनौ तस्य सर्वधर्माधिपस्स्य हि । लोमविलेषु लोकास्तान् सर्वान् दर्शयितुमर्हति ॥ इति संप्रार्थिते ते विष्कम्भिना स सर्ववित् । भगवान्स्तं महासत्त्वं संपश्यन्नेवमादिशत् ॥ कुलपुत्रे विजानीहि सर्वत्रैधातुकान्यपि । भुवनानि जगद्भर्तुः सन्ति धर्ममयाश्रये ॥ तेनासौ त्रिजगन्नाथो सर्वधर्ममयाश्रयः । सर्वधर्माधिपः शास्ता सर्वलोकाधिपेश्वरः ॥ एवमसौ महेशाख्यो धर्मश्रीसद्गुणाश्रयः । बोधिसत्त्वो महाभिज्ञो धर्मराजोऽभिराजते ॥ तत्तस्य शरणे स्थित्वा ध्यात्वा स्मृत्वा समाहितः । नामापि समुदाहृत्य भजितुमर्हति सर्वदा ॥ ये तस्य शरणे स्थित्वा ध्यात्वा स्मृत्वापि सर्वदा । नामापि च समुच्चार्य प्रभजन्ते समाहिताः ॥ दुर्गतिं ते न गच्छन्ति यान्ति सद्गतिमेव हि । भद्रश्रीगुणसंपन्नाश्चरेयुः पोषधं सदा ॥ तत्पुण्यपरिशुद्धास्ते निःक्लेविमलेन्द्रियाः । बोधिचर्याव्रतं धृत्वा संचरेरन् जगद्धिते ॥ ततस्ते सद्गुणाधाराः कृत्वा सर्वसुभद्रकम् । त्रिरत्नस्मृतिमाधाय प्रान्ते प्रेयुः सुखावतीम् ॥ (२४९) तत्र गत्वामिताभस्य शरणे समुपाश्रिताः । सदा धर्मामृतं पीत्वा संचरेरन्महाव्रतम् ॥ ततः ते स्युर्महासत्त्व बोधिसत्त्वा गुणाकराः । सर्वं संबोधिसंभारं पूरयित्वा यथाक्रमम् ॥ सर्वसत्त्वहिताधानसंबोधिसाधनोद्यताः । अर्हन्तो विमलात्मानश्चतुर्ब्रह्मविहारिणः ॥ जित्वा मारगणान् दुष्टान्महाभिज्ञाः सुभद्रिकाः । त्रिविधाम्बोधिमासाद्य सम्बुद्धपदमाप्नुयुः ॥ इत्यादिष्टं मुनीन्द्रेण श्रुत्वा ते तत्सभाश्रिताः । सर्वे देवादयो लोकाः प्राभ्यनन्दन् प्रबोधिताः ॥ ततः सर्वनीवरणविष्कम्भी संप्रसादितः । भगवन्तं समालोक्य पुनरेवमभाषत ॥ भगवन्स्त्रिजगन्नाथो लोकेअश्वरो जिनात्मजः । नाद्यापीह समायाति कदागच्छेत्तदादिश ॥ इति तेनोदितं श्रुत्वा भगवान् स मुनीश्वरः । विष्कम्भिनं महासत्त्वं समालोक्यैवमादिशत् ॥ कुलपुत्र स लोकेशो बोधिसत्त्वो जगत्प्रभुः । व्याकरणं महेशाय दातुमिहाधुना चरेत् ॥ ममापि दर्शनं कर्तुं दर्शयितुमिमाः सभाः । सर्वांच्छुभे प्रतिष्ठाप्य प्रथममिह प्राव्रजेत् ॥ इत्यादिष्टं मुनीन्द्रेण निशम्य स प्रबोधितः । विष्कम्भी स समालोक्य तस्थौ संहर्षिताशयः ॥ तस्मिन्नवसरे तत्र विहारे जेतकाश्रमे । नानावर्णाः सुपुण्याभा अवभास्यात्यरोचयन् ॥ तत्रोद्याने महाकल्पवृक्षाः समीहितार्थदाः । सर्वर्तुपुष्पवृक्षाश्च सर्वfअलद्रुमा अपि ॥ अष्टांगगुणशुद्धाम्बुपरिपूर्णाः सरोवराः । पद्मादिकजपुष्पाद्याः प्रादुर्भूता मनोरमाः ॥ (२५०) तद्रश्मिसंपरिस्पृष्टाः सर्वलोकाः सभाश्रिताः । महाद्भुतसुखापन्नो बभूवुर्नन्दिताशयाः ॥ तत्सुभद्रनिमित्तानि प्रादुर्भूतानि सर्वतः । सरोवरद्रुमादीनि दृष्ट्वा तस्थुः सविस्मयाः ॥ तान् समीक्ष्य स विष्कम्भी सहर्षविस्मयान्वितः । भगवन्तं प्रणम्यैवं पओप्रच्छ सांजलिः पुनः ॥ भगवन् कुत आअयाता इमे पुण्यसुरश्मयः । नानावर्णाः सुभद्राभा एअतदादेष्टुमर्हती ॥ इति संप्रार्थिते तेन विष्कम्भिना स सर्ववित् । भगवान्स्तं सभां चापि समालोक्यैवमादिशत् ॥ योऽसौ त्रैधातुकाधिश आर्यावलोकितेश्वरः । बोधिसत्त्वो समासत्त्व इहागन्तुं समीहते ॥ तेनमास्य सुपुण्याभा समुत्सृज्य समन्ततः । भासयित्वा विहारेऽत्र शोभयितुं समीरिताः ॥ इदानीं स जगन्नाथः सर्वान् सत्त्वान् भवोदधेः । उद्धृत्य बोधिसन्मार्गे प्रतिष्ठाप्येह प्राचरेत् ॥ तस्मिन्नवसरे तत्र विहारे संप्रभासयन् । समागत्य स लोकेशः प्रविवेशावलोकयन् ॥ तं समागतमालोक्य भगवन् संप्रसादितः । स्वागतमेहि भद्रं ते कच्चिदित्यभ्यपृच्छत ॥ इति पृष्टे मुनीन्द्रेण दृष्ट्वावलोकितेश्वरः । भगवन्नागतोऽस्मीति निवेद्य समुपासरत् ॥ तत्र तस्य मुनीन्द्रस्य दिव्यसुवर्णवारिजम् । पुरतः समुपस्थाप्य पादाब्जे प्रणतिं व्यधात् ॥ ततः स त्रिजगन्नाथस्तस्य शास्तुर्जगद्गुरोः । वामपार्श्वे समाश्रित्य पश्यन्नेवं न्यवेदयन् ॥ भगवन्नमिताभेन भगवतेममम्बुजम् । प्रहितं भवतां सर्वकौशल्यं चापि पृच्छति ॥ (२५१) तत्सौवर्णांगमालोक्य भगवान् संप्रमोदितः । गृहीत्वा वामपार्श्वे संनिधायैवं समादिशत् ॥ धन्यस्त्वं कुलपुत्रासि समुद्धृत्य भवोदधेः । बोधिमार्गे त्वया सत्त्वाः कियन्तः संनियोजिताः ॥ इति पृष्टे मुनीन्द्रेअण लोकएश्वरो जिनात्मजः । भगवन्तं सभां चापि पश्यन्नेवं न्यवेदयत् ॥ भगवन्स्तत्प्रजानीते भवान् सर्वं भवालये । यत्सत्त्वाः समुद्धृत्य संवृतौ योजिता मया ॥ एतत्तदुक्तमाकर्ण्य भगवान् संप्रमोदितः । लोकेश्वरं महाभिज्ञं संपश्यन्न्वेवमादिशत् ॥ साधु साधु महासत्त्व सर्वत्रैधातुकाधिपः । त्वमेव सर्वसत्त्वानां त्राता नाथो हितार्थभृत् ॥ यत्त्वया सर्वलोकेषु व्यवलोक्य भवोदधेः । सर्वसत्त्वाः समुद्धृत्य बोद्धिमार्गे नियोजिताः ॥ तेनासि त्वं महासत्त्वः सर्वत्रैधातुकाधिपः । लोकेश्वरो जगद्गर्ता लोकनाथो जगत्प्रभुः ॥ सिद्धानि सर्वकार्याणि यथाभिवांछितान्यपि । जयतु ते सदा सर्वसत्त्वोद्धारणसंवरम् ॥ सर्वेऽपि दुष्टमारास्ते प्रभास्पृटाः शुभाशयाः । शरणे समुपासृत्य भवन्तु बोधिचारिणः ॥ सर्वेषामपि सत्त्वानां त्वन्नामस्मृतिभाविनाम् । सर्वत्रापि सदा भद्रं भवन्तु निरुपद्रवम् ॥ इत्येवं बहुधा तस्मै लोकेशाय महात्मने । सिद्धाशिषं प्रदत्वासौ भगवान्मौनमादधे ॥ तस्मिन्नवसरे तत्र महेश्वरः समागतः । भगवन्तं समालोक्य पुरस्तात्समुपाचरत् ॥ भगवतो मुनीन्द्रक्य पुस्तात्समुपाचरत् ॥ भगवतो मुनीन्द्रस्य शरणे समुपाश्रितः । पादाब्जे प्रणतिं कृत्वा संपार्थ्यैवं कृतांजलिः ॥ (२५२) भगवन् सर्वविच्छास्तर्भवच्छरनमाव्रजे । तद्भवान्मे महायानसंवरं दातुमर्हति ॥ एतत्संप्रार्थितं तेन महेश्वरेण सादरम् । श्रुत्वा स भगवानेनं महेशमेवमादिशत् ॥ गच्छ त्वं कुलपुत्रेशं प्राथर्येमं जगत्प्रभुम् । अयं लोकेश्वरो दद्याद्व्रतं ते बोधिसाधनम् ॥ इत्यादिष्टं स मुनीन्द्रेण श्रुत्वा महेश्वरो मुदा । लोकेशस्य पुरो गत्वा पादाब्जे प्रणतिं व्यधात् ॥ ततो महेश्वरस्तस्य लोकेशस्य पुरः स्थितः । सद्गुणतथ्यसंवादैस्तुष्य चैवं कृतांजलिः ॥ नमेऽहं भगवंच्छास्त्रेऽवलोकितेश्वराय ते । पद्मभृते महेशाय सुप्रह्लादनकराय च ॥ पद्मासनाय पद्मश्रीपरिवृतसुमूर्तये । संशुभपद्महस्ताय जगदाश्वासदायिने ॥ पृथिवीवरनेत्राय संशुद्धपंचचक्षुषे । जिनरत्नकिरीटाय चिन्तामणिविभूषिते ॥ इत्येवं स महेशानं स्थुत्वा तं श्रीगुणाकरम् । तत्पादाब्जे पुनर्नत्वा पश्यन्नेव समाश्रयत् ॥ तमेवं संस्थितं दृष्ट्वा आर्यावलोकितेश्वरः । सुप्रसन्नमुखाम्भोजं संपश्यन्नेवमादिशत् ॥ महेश किमभिप्रायं तव चित्तेऽभिरोचते । तदहं पूरयेयं हि तद्वदस्व ममाग्रतः ॥ इत्यादिष्टं जगद्भर्त्रा निशम्य स महेश्वरः । संहर्षितः पुनर्नत्वा संप्राथ्यैवं कृतांजलिः ॥ भगवन् सर्वविच्छास्तर्बोधिं मे वांछते मनः । तन्मे ददस्व सम्बोधिव्याकरणं जगद्धिते । इति तत्प्रार्थितं श्रुत्वा लोकेश्वरो जगत्प्रभुः । तमीशानं समामन्त्र्य संपश्यन्नेवमादिशत् ॥ (२५३) धन्योऽसि त्वं महेशान यत्संबोधिमभीच्छसि । तदहं ते प्रदास्यामि संबोधिसाधनं व्रतम् ॥ तदादौ श्रद्धया नित्यं संबोधिनिहिताशयः । त्रिरत्नभजनं कृत्वा दद्या अर्थिं समीप्सितम् ॥ ततः शुद्धसमाचारः परिशुद्धत्रिमण्डलः । अष्टांगाचारसंपन्नं पोषधं व्रतमाचरे ॥ ततो धैर्यं समालम्ब्य चतुर्ब्रह्मविहारिकः । स्वपरात्मसमाधानं क्षान्तिव्रतं समाचरेः ॥ ततः पुण्यमहोत्साहं धृत्वा सद्धर्मसाधनम् । सर्वान् दुष्टगणां जित्वा संवृतिव्रतमाचरेः ॥ ततः क्लेशान् विनिर्जित्य संसारे रतिनिःस्पृहः । ध्यात्वादिओइश्वरसंबुद्धं ध्यानव्रतं समाचरेः ॥ ततः सद्धर्मशास्त्राब्धाववगाह्य जगद्धिते । प्रज्ञारत्नं समासाद्य महायानव्रतं चरेः ॥ ततः समाधिगुणापायं सर्वसत्त्वाभिबोधनम् । सद्धर्मसाधनं रत्नं धृत्वा कुर्याज्जगद्धितम् ॥ ततः श्रीधारणीद्यासिद्धिसाधनतत्परः । सम्बोधिप्रणिधिं धृत्वा संचरेथा जगद्धिते ॥ ततः श्रीगुणसंपन्नो भद्रचर्यासमाहितः । सर्वसत्त्वान् वशे स्थाप्य धर्मराजो बली भवेः ॥ ततो मारगणान् जित्वा निःक्लेशो विमलेन्द्रियः । अर्हन्सम्बोधिमासाद्य दशभूमिश्वरो भवेः ॥ ततस्त्वं स्या महाभिज्ञस्तथागतो मुनीश्वरः । सर्वविद्यधिपः शास्ता जगन्नाथो विनायकः ॥ भस्मेश्वर इति ख्यातः सर्वत्रैधातुकेश्वरः । सर्वधर्माधिराजेन्द्रः संबुद्धः सुगतो भवेः ॥ लोकधातौ विवृतायां बुद्धक्षेत्रं भवेत्तव । ततस्त्वं भगवान् सर्वं कृत्वा धर्ममयं जगत् ॥ (२५४) संप्राप्य सौगतं कार्यं सम्बुद्धालयमाप्नुयाः ॥ इत्यादिष्टं जगद्भर्त्रा निशमुअ स महेश्वरः । मुदितस्तं जगन्नाथं नत्वा चैकान्तमाश्रयत् ॥ अथोमापि महादेवी लोकेशस्य पुरो गता । पादाब्जे प्रांजलिर्नत्वा स्तोत्रमेवं व्यधान्मुदा ॥ नमेऽहं भगवंच्छास्त्रेऽवलोकितेश्वराय ते । महेशाय जगद्भर्त्रे प्राणदाय महात्मने ॥ पृथिवीधरनेत्राय शुभपद्मधराय च । पद्मश्रीपरिवृताय सुचेतनकराय च ॥ धर्मधराय नाथाय दशभूमीश्वराय च । सुनिर्वृतिमयानसंप्रस्थिताय्सर्वदा ॥ इत्युमा सा महादेवी संतुष्टा तं जिनात्मजम् । लोकेश्वरं पुनर्नत्वा संप्रार्थ्यैवं कृतांजलिः ॥ भगवन्मां समालोक्य स्त्रीभावात्परिमोचय । कलिमलाधिवासाच्च गर्भावासाच्च मोचय ॥ क्लेशपरिग्रहोद्वीचेः समुद्धृत्य भवोदधेः । बोधिमार्गे प्रतिष्ठाप्य प्रापय सौगतीं गतिम् ॥ इति तया महादेव्या संप्रार्थितं निशम्य सः । लोकेश्वर उमादेवीं समालोक्यैवमादिशत् ॥ भगिनि त्वं महादेवि निर्वृतिं यदि वांछसि । त्रिरत्नभजनं कृत्वा प्रचेरेः पोषधं व्रतम् ॥ ततस्संशुद्धपुण्याप्ता परिशुद्धत्रिमण्डला । भद्रश्रीगुणसम्पन्ना प्रान्ते यायाः सुखावतीम् ॥ तत्रामिताभनाथस्य शरणे समुपाश्रिता । सदा धर्मामृतं पीत्पा समुपाश्रिता । सदा धर्मामृतं पीत्पा संबोधिव्रतमाप्नुयाः ॥ ततः पारमिताः सर्वाः पुरयित्वा यथाक्रमम् । जगद्भर्ता जगनाथो दशभूमीश्वरो भवेः ॥ ततः संबोधिमासाद्य तथागतो मुनीश्वरः । (२५५) उमेश्वर इति ख्यातः संबुद्धो भगवान् जिनः । सर्वविद्याधिपः शास्ता सर्वधर्माधिपेश्वरः ॥ धर्मराजो जगन्नाथः सद्धर्मश्रीगुणाकरः । सर्वसत्त्वाधिराजोऽर्हन्सर्वत्रैधातुके प्रभुः ॥ मारजेता महाभिज्ञो विनायको भविष्यसि । हिमवद्दक्षिणे पार्श्वे बुद्धक्षेत्रं भवेत्तव ॥ एतेऽपि तीर्थिकाः सर्वे भवेयुः श्रावकास्तव । इत्यादिष्टो जगच्छास्त्रा लोकेशेन निशम्य सा । उमा देवी प्रहर्षन्ती तत्रैकान्ते समाश्रयत् ॥ अथ स भगवान् सर्वान् सभालोकान् समीक्ष्य तम् । विष्कम्भिनं च संपश्यन् समामन्त्रैवमादिशत् ॥ दृष्यतां कुलपुत्रोमा देवी संबोधिकामिनी । संबोधौ व्याकृतानेन लोकेशेन जगद्धिते ॥ यूयमप्यस्य सच्छास्तुः शरणे समुपाश्रिताः । संबोधिप्रणिधिं धृत्वा भजध्वं सर्वदादरात् ॥ एतत्पुण्यानुभावेन परिशुद्धत्रिमण्डलाः । बोद्धिसत्त्वा महासत्त्वा भवेत श्रीगुणाकरा ॥ ततः सर्वत्र सत्त्वानां कृत्वा भद्रवृषोत्सवम् । धर्मश्रीसुखसंपन्नाः प्रान्ते प्रेध्वं सुखावतीम् ॥ तत्र गत्वामिताभस्य मुनेः शरणमाश्रिताः । सदा धर्मामृतं पीत्वा संचरध्वं जगद्धिते ॥ ततः बोधिसंभारं पूरयित्वा यथाक्रमम् । त्रिविधां बोधिमासाद्य संबुद्धपदमेष्यथ ॥ एतद्भगवतादिष्टं निशम्य ते सभाश्रिताः । विष्कम्भिप्रमुखाः सर्वे लोकाः संमोदिताशयाः ॥ उत्पाअय समुपासृत्य लोकेशस्य जगत्प्रभोः । पादाब्जे प्रांजलिं कृत्वा प्रणेमिरे यथाक्रमम् ॥ सर्वेषामपि तेषाः स लोकनाथः शिरः स्पृशन् । (२५६) बोधिसिद्धाशिषं दत्वा चेतांसि प्राभ्यनन्दयत् ॥ ततः श्रीजगन्नाथ आर्यावलोकितेश्वरः । भगवन्तं मुनीन्द्रं तं समालोक्यैवमब्रवीत् ॥ भगवन् गन्तुमिच्छमि सुखावत्यां निजाश्रमे । तदनुज्ञां प्रदत्वा मेऽभिनन्दयतु मानसम् ॥ इति संप्रार्थिते तेन लोकेशेन स सर्ववित् । दिव्यरत्नाम्बुजं तस्मै दत्वैवं च समादिशत् ॥ गच्छ त्वं कुलपुत्रेमं पद्मं शास्तुर्महामुनेः । उपहृत्य पुरः पृच्छः कौशल्यं मद्गिरा नमेः ॥ तथेति प्रतिविज्ञप्य लोकेश्वरो जिनात्मजः । भगवन्तं प्रणत्वा च सभां समीक्ष्य प्राचरत् ॥ ततः संप्रस्थितो लोकनाथः स पुण्यरश्मिभिः । संभासयन् जगल्लोकं सरत्सुखावतीं ययौ ॥ ततः स समुपासृत्य शास्तुरमितरोचिषः । पादाब्जे सांजलिर्नत्वा तत्पद्मं समुपाहरत् ॥ समीक्ष्य तं समायातं लोकेश्वरं स सर्ववित् । अमिताभो जगच्छास्ता सम्पश्यन्नेवमादिशत् ॥ एहि समागतोऽसि त्वं कुलपुत्रेह संश्रय । सिद्धानि सर्वकार्याणि कच्चित्तवापि कौशलम् ॥ कियन्तो हि त्वया सत्त्वा समुद्धृताः कुतः कुतः । दर्शितो भगवांच्छास्ता शाक्यसिंहः मुनीश्वरः ॥ इति पृष्तेऽमिताभेन लोकेश्वरः स सांजलिः । शास्तुरग्रे स्ववृत्तान्तं सर्वमेवं न्यवेदयत् ॥ भगवन् सर्वलोकेषु सर्वेषु नरकेष्वपि । निमग्नान् प्राणिनः सर्वान् समालोक्य प्रयत्नतः ॥ समुद्धृत्य प्रसन्नांस्तान् बोधयित्वा विनोदतन् । बोधिमार्गे प्रतिष्ठाप्य प्राचारयन् जगद्धिते ॥ एवं तान् सकलान् सत्त्वान् कृत्वा संबोधिसाधिनः । (२५७) जेतोद्याने विहारस्थं संबुद्धं द्रष्टुमाचरम् ॥ तत्राविष्टोऽहमालोक्य तं मुनीन्द्रसभाश्रितम् । सर्वावतीं सभां तान् च सश्रावकजिनात्मजान् ॥ पुरतः समुपासृत्य शाक्यमुनेर्जद्गुरोः । पद्मं पुर उपस्थाप्य वन्दित्वा समुपाश्रयम् ॥ तत्र भगवतामग्रे संप्रेषितो महेश्वरः । स मया व्याकृतो बोधौ सोमापि व्याकृता तथा ॥ तथा सर्वेऽपि लोकाश्च तत्सभासमुपाश्रिताः । विनोद्य बोधिसंभारव्रते नियोजिता मया ॥ ततस्तस्य मुनीन्द्रस्य प्राप्यानुज्ञां प्रमोदितः । भवतां दर्शनं कर्तुं समुत्सुकोऽहमाव्रजे ॥ भवतां प्रहितं तेन भगवता सवन्दनम् । इदं रत्मयं पद्मं कौशल्यं चापि पृच्छ्यते ॥ एत्यन्निवेदितं तेन लोकेशेन निशम्य सः । अमितभो जगच्छास्ता प्राभ्यनन्दत्प्रमोदितः ॥ ततः सोऽमितप्रभस्तं लोकेश्वरं समीक्ष्य च । साधु धन्योऽसि सत्पुत्र इत्याराध्याभ्यनन्दयेत् ॥ इत्येवं स जगन्नाथो महाभिज्ञो जिनात्मजः । सर्वसत्त्वहिताधानं व्रतं धृत्वा समाचरेत् ॥ ॥ इति सर्वसत्त्वोद्धरणसंबोधिमार्गस्थापनमहेश्वरोमादेवी-संबोधिव्याकरणोपदेशप्रकरणं समाप्तम् ॥ १८. सर्व सभालोकसद्धर्मश्रवणोत्साहसंप्रमोदितस्वस्वालयप्रतिगमनप्रकरणम् अथ सर्वनीवरणविष्कम्भि स प्रमोदितः । भगवन्तं तमानम्य सांजलिरेवब्रवीत् ॥ भगवन्नद्य स दृष्टो लोकेश्वरोऽधुना मया । तदस्मि परिशुद्धात्मा सद्धर्मप्राप्तवानपि ॥ अद्य मे जन्मसाfअल्यं संसिद्धश्च मनोरथः । (२५८) आशा सम्पूर्णसिद्धा च सम्बोधिं प्राप्तवान् भवे ॥ भूयोऽपि भगवन्नस्य लोकेशस्य महात्मनः । गुणविशेषसत्कीर्तिं श्रोतुमिच्छामि साम्प्रतम् ॥ तद्भवान् सर्वसत्त्वानां सम्बोधिव्रतचारिणाम् । मनः प्रोत्साहनं कर्तुं समुपादेष्टुमर्हति ॥ इति संप्रार्थिते तेन विष्कम्भिना स सर्ववित् । भगवांस्तं महासत्त्वं संपश्यन्नेवमादिशत् ॥ साधु शृणु महासत्त्व कुलपुत्र समाहितः । लोकेशगुणसत्कीर्तिं प्रवक्ष्यामि समासतः ॥ अप्रमेयसंख्येयं लोकेशस्य महात्मनः । पुण्यगुणप्रमाणानि कर्तुं न शक्यते मया ॥ तद्यथा सर्वलोकेषु सर्वेषामपि भूभृताम् । पलसंखयाप्रामाणानि कर्तुं मयापि शक्यते ॥ सपर्वता मही सर्वा कृत्वायणुरजोमया । तेषां संख्याप्रमाणानि कर्तुं मया हि शक्यते ॥ सर्वेषामपि चाब्धीनां सर्वासां सरितामपि । जलबिन्दुप्रमाणानि संख्यातुं शक्यते मया ॥ सर्वेषामपि वृक्षाणां सर्वत्रापि महीरुहाम् । पत्रसंख्याप्रमाणानि प्रकर्तुं शक्यते मया ॥ न त्वस्य लोकनाथस्य पुण्यसंभारमुत्तमम् । अप्रेयमसंख्येयं संख्यातुं शक्यते मया ॥ सर्वे सत्त्वाश्च संबुद्धान् सर्वानपि ससांघिकान् । सर्वोपकरणैर्नित्यं संभाजेरन् समादरम् ॥ यावत्तेषां महत्पुण्यं बोधिश्रीगुणसाधनम् । ततोऽप्यधिकमौदार्यं लोकेशभजनोद्भवम् ॥ यदसौ त्रिजगन्नाथो बोधिसत्त्वो महर्द्धिमान् । सर्वसमाधिसपन्नः प्रकरोति जगद्धिते ॥ ईदृशस्त्रिजगन्नाथो बोधिसत्त्वो महर्द्धिकः । (२५९) सर्वसमाधिसम्पन्नस्त्रैलोक्ये नास्ति कश्चन ॥ तद्यथाहं पुराद्राक्षमस्य त्रैधातुकप्रभोः । समाधिगुणमाहात्म्यं सर्वजिनात्मजाधिकम् ॥ तद्यथाभूत्पुरा शास्ता क्रकुच्छन्दस्तथागतः । सर्वविद्याधिपो धर्मराजोऽर्हत्सुगतो जिनः । तदाहं दानशूराख्यो बोधिसत्त्वो हितार्थभृत् ॥ तस्य शास्तुर्मुनीन्द्रस्य सद्धर्मशासनारतः ॥ तदैकसमयेऽसौऽपि क्रकुच्छन्दो विनायकः । जेताश्रमे विहारेऽत्र विजहार ससांधिकः ॥ तदा तस्य मुनीन्द्रस्य पातुं धर्मामृतं मुदा । ब्रह्मादिब्राह्मणाः सर्वे शक्रादित्रिदशाधिपाः ॥ सर्वे लोकाधिपाश्चापि दैत्येन्द्रा राक्षसाधिपाः । गन्धर्वाः किन्नरा यक्षा नागेन्द्रा गरुडाधिपाः ॥ सूर्यादयो ग्रहाः सर्वे चन्द्रादयश्च तारकाः । सिद्धाः साध्याश्च रुद्राश्च सर्वे विद्याधरा अपि ॥ राजानः क्षत्रिया वैश्या अमात्या मन्त्रिणो जनाः । वणिजः सार्थवाहाश्च श्रेष्ठिनश्च महाजनाः ॥ पौरजानपदा ग्राम्यास्तथान्ये देशवासिनः । सर्वेऽपि ते समासृत्य समभ्यर्च्य यथाक्रमम् ॥ क्रकुच्छन्दमुनीन्द्रं तं नत्वा तस्थुः सभाश्रिताः । तदानेकमहासत्त्वा बोधिसत्त्वाः समाहिताः ॥ समाधिविग्रहं चक्रुःक्रकुच्छन्दमुनेः पुरः ॥ यदा समन्तभद्राख्यो बोधिसत्त्वो महर्द्धिमान् । समापेदे समाधिं तद्यद्ध्वजोद्गतसंज्ञकम् ॥ तदा लोकेश्वरश्चासौ बोधिसत्त्वो महर्द्धिकः । समापेदे समाधिं तद्यद्विकिरिणसंज्ञकम् ॥ यदा समन्तभद्रश्च बोधिसत्त्वो जिनात्मजः । समापेदे समाधिं तद्यत्पूर्णेन्दुवरलोचनम् ॥ (२६०) तदा लोकेश्वरश्चासौ महाभिज्ञो जिनात्मजः । समापेदे समाधिं तद्यत्सुर्यवरलोचनम् ॥ यदा समन्तभद्रश्च महाभिज्ञो जिनात्मजः । समाधिं तत्समापेदे यद्विच्छुरितसंज्ञकम् ॥ तदा लोकेश्वरश्चापि महाभिज्ञो जिनात्मजः । समापेदे समाधिं यद्गगनगंजसंज्ञकम् ॥ यदा समन्तभद्रश्च बोधिसत्त्वो महामतिः । समापेदे समाधिं तत्सर्वाकारकराभिधम् ॥ तदा लोकेश्वरश्चापि बोधिसत्त्वो महामतिः । समापेदेद्समाधिं यदिन्द्रमत्यभिधानकम् ॥ यदा समन्तभद्रश्च बोधिसत्त्वो गुणाकरः । समापेदे समाधिं यदिन्द्रराजोऽभिधानकम् ॥ तदा लोकेश्वरश्चासौ बोधिसत्त्वो गुणाकरः । समापेदे समाधिं यदब्धिगम्भीरसंज्ञकम् ॥ यदा समन्तभद्रश्च बोधिसत्त्वः सुवीर्यवान् । समापेदे समाधिं यत्सिहंविजृम्भिताह्वयम् ॥ तदा लोकेश्वरश्चापि बोधिसात्त्वः सुवीर्यवान् । समापेदे समाधिं यत्सिहविक्रीडिताभिधम् ॥ यदा समन्तभद्रश्च बोधिसत्त्वः सुबुद्धिमान् । समापेदे समाधिं यद्वरदायकसंज्ञकम् ॥ तदा लोकेश्चरश्चापि बोधिसत्त्वः सुबुद्धिमान् । समापेदे समाधिं तद्यदवीच्यभिशोषणम् ॥ यदा समन्तभद्रश्च बोधिसत्त्वो विचक्षणः । उद्घाट्य दर्शयामास सर्वलोमविलान्यपि ॥ तदा लोकेश्वरश्चापि बोधिसत्त्वो विचक्षणः । अपावृणोत्स सर्वाणि लोमरन्ध्राण्यशेषतः ॥ तदा समन्तभद्रोऽसौ लोकेशं तं महर्धिकम् । समीक्ष्य सांजलिर्नत्वा संपश्यन्नेवमब्रवीत् ॥ (२६१) साधु धन्योऽसि लोकेश यदीदृक्प्रतिभानवान् । कश्चिन्नैवास्ति लोकेषु त्वादृक्समाधिवित्सुधिः ॥ एवमन्यैर्महासत्त्वैर्बोधिसत्त्वैर्महद्धिकैः । स्माधिविग्रहे सैव लोकेश्वरो विजितवान् ॥ तदा सर्वे महाभिज्ञ बोधिसत्त्वाः प्रसादिताः । लोकेशं तं महाभिज्ञं समानम्यैवमब्रवन् ॥ साधु धन्योऽसि लोकेश यदीदृक्प्रतिभानवान् । कश्चिन्नैवास्ति लोओके यत्त्वादृक्समाधिसद्बली ॥ तदा स भगवान् दृष्ट्वा सर्वांस्तान् सुगतात्मजान् । पुरतः समुपामन्त्र्य संपश्यन्नेवमादिशत् ॥ कुलपुत्राल्पमेवैतत्प्रतिभानं जगत्प्रभोः । लोकेशस्यास्य युष्माभिर्दृश्यतेऽपीह साम्प्रतम् ॥ यादृग्लोकेश्वरस्यास्य प्रतिभानं महत्तरम् । ईदृक्सर्वमुनीन्द्राणामपि नैवास्ति कस्यचित् ॥ एवं तस्य जगद्भर्तुः प्रतिभानं महत्तरम् । क्रकुच्छन्दमुनीन्द्रेअण समाख्यातं मया श्रुतम् ॥ अथ सर्वनीवरणविष्कम्भी स प्रबोधितः । भगवन्तं मुनीन्द्रं च समालोक्यैवमब्रवीत् ॥ भगवन् यन्महायानसूत्रराजं निगद्यते । तत्समादिश कारण्डव्यूहसूत्रोद्भवं वृषम् ॥ यच्छ्रुत्वापि वयं सर्वे सम्बोधिगुणसाधनैः । धर्मरसौरभिव्याप्तमानसाः प्रचरेमहि ॥ तच्छ्रुत्वा भगवांश्चापि विष्कम्भिनं महामतिम् । साधु शृणु समाधाय वक्ष्ये तदिति प्रादिशत् ॥ येऽपि श्रोष्यन्ति कारण्डव्यूहसूत्रं सुभाषितम् । तेषां सर्वाणि पापानि क्षिणुयुर्दारुणान्यपि ॥ दशाकुशलपापानि पंचातिपातकान्यपि । निरवशेषनष्टानि क्षिणुयुरिति निश्चयम् ॥ (२६२) इत्यादिष्टे मुनीन्द्रेण विष्कम्भी संप्रमोदितः । भगवन्तं समालोक्य पुनरेवमभाषत ॥ भगवन् सर्वविच्च्छास्त जानीमहि कथं वयम् । यत्पापं कुरुते क्षीणं कारण्डन्यूहसूत्रकम् ॥ तच्छ्रुत्वा भगवान् भूयो विष्कम्भिनं विबोधितम् । सभाश्रितान् जनांश्चापि समालोक्यैवमादिशत् ॥ विद्यते कुलपुत्रासौ तीर्थो मलसुनिर्मलौ । सुमेरोर्दक्षिणे पार्श्वे मुनीन्द्रैः परिकल्पितौ ॥ मलतीर्थजले क्षिप्तं शुभ्रवासोऽपि नीलितम् । तथा तज्जलसंस्पृष्टो शुद्धोऽपि नीलितो भवेत् ॥ सुनिर्मले जले क्षिप्तं नीलवासोऽपि शुक्लितम् । तथा तज्जलसंस्पृष्टः पापात्मापि भवेच्छुचिः ॥ एवमिदं महायानसूत्राग्रं योऽभिनन्दति । सद्धर्मलिप्तोऽपि क्लेशैः संक्लिश्यते द्रुतम् ॥ श्रुत्वापीदं महायानसूत्राग्रं योऽभिनन्दति । स महापापलिप्तोऽपि निःक्लेशः स्याच्छुभान्तिकः ॥ यथा शतमुखो हीन्द्रो विनिसृत्य निजालयात् । दहति सर्वभूजातान् तृणगुल्मलताद्रुमान् ॥ तथेदं सर्वसूत्राणां कारण्डव्यूहमुत्तमम् । पातकान्यपि सर्वाणि निःशेषं दहते द्रुतम् ॥ ये श्रुत्वेदं महायानसूत्रराजं सुभाषितम् । अनुमोद्याभिनन्दन्तः संभजन्ते सदादरात् ॥ ते सर्वे निर्मलात्मानो निःक्लेशविमलेन्द्रियाः । बोधिसत्त्वा महासत्त्वा भवेयुर्निवर्तिकाः ॥ इदं सर्वमहायानसूत्रराजं महोत्तमम् । श्रुत्वा नैवानुमोदेयुः पृथग्जना दुराशयाः ॥ ये चापीदं महायानसूत्रराजं महोत्तमम् । निशम्याभ्यनुमोदन्तः प्रभजन्ते सदादरात् ॥ (२६३) धन्यास्ते पुरुषाः सर्वे परिशुद्धत्रिमण्डलाः । निःक्लेशा निर्मलात्मानो भवेयुः सुगतात्मजाः ॥ मृत्युकालेऽपि तेषां च द्वादश सुगता जिनाः । समुपेत्याभिपश्यन्तो दद्युरेवं वरोत्तमम् ॥ मा भैषीः कुलपुत्र त्वं यत्कारण्डव्यूहसूत्रकम् । श्रुत्वानुमोद्य सत्कारैर्भजसे श्रद्धयादरात् ॥ एतत्पुण्यानुलिप्तात्मा भूयो न संसरेर्भवे । नैव क्लेशाग्निसंतापैः संधक्ष्यसे कदाचन ॥ यावज्जीवं महत्सौख्यं भुक्ता श्रीसद्गुणान्वितम् । भूयो धर्मामृतं भोक्तुं संप्रयायाः सुखावतीम् ॥ तत्र त्वममिताभस्य जिनस्य शरणे स्थितः । सदा धर्मामृतं पीत्वा संचरेथाः सुसंवरे ॥ ततो निर्मलशुद्धात्मा परिशुद्धत्रिमण्डलः । सर्वसत्त्वहिताधनबोधिचर्याव्रतं चरेः ॥ ततः पारमिताः सर्वाः पूरयित्वा यथाक्रमम् । निःक्लेशोऽर्हन्महाभिज्ञश्चतुर्ब्रह्मविहारिकः ॥ जित्वा मारगणान् सर्वान् सम्बोधिनिश्चलाशयः । त्रिविधां बोधिमासाद्य संबुद्धपदमाप्नुयाः ॥ इति तैः सुगतैः सर्वैः समादिष्टं निशम्य ते । सर्वेऽप्युभ्यनुमोदन्तो नमेयुस्तान् जिनान्मुहुः ॥ ततस्ते तान् जिनान् स्मृत्वा प्राणं त्यक्त्वा समाहिताः । तैरेव सुगतैः सार्धं संप्रयायुः सुखावतीम् ॥ तत्रोपेत्यामिताभस्य शरणे समुपाश्रिताः । सदा धर्मामृतं पीत्वा संचरेयुर्जद्धिते ॥ ततः सम्बोधिसंभारं पूरयित्वा यथाक्रमम् । निःक्लेशा निर्मलात्मानः परिशुद्धत्रिमण्डलाः ॥ जित्वा मारगणान् सर्वांश्चतुर्ब्रह्मविहारिणः । त्रिविधां बोधिमासाद्य संबुद्धपदमाप्नुयुः ॥ (२६४) एवं महत्तरं पुण्यं कारण्डव्यूहसूत्रजम् । अप्रमेयमसंख्येयं संबोधिज्ञानसाधनम् ॥ यूयं सर्वेऽपि विज्ञाय संबोधिं यदि वांच्छथ । शृणुतेदं महायानसूत्रराजं सुभाषितम् ॥ अनुमोदत सत्कृत्य भजन सर्वदादरात् । इत्यादिष्टं मुनीन्द्रेण निशम्य ते सभाश्रिताः । सर्वे लोकास्तथेत्युक्त्वा प्राभ्यनन्दन् प्रबोधिताः ॥ ततस्ते सर्वे सभालोका ब्रह्मादयो महर्षयः । शक्रादयः सुरेन्द्राश्च सर्वलोकाधिपा अपि ॥ गन्धर्वकिंनरा रक्षाः सिद्धाः साध्याः सुरांगनाः । विद्याधराश्च दैत्येन्द्रा नागेन्द्रा गरुडा अपि ॥ महोरगाश्च दैत्येन्द्र नागेन्द्रा गरुडा अपि ॥ महोरगाश्च नैरृत्या भूतेशाश्च शुभाशयाः । योगिनो यतिनश्चापि तीर्थिकाश्च तपस्विनः ॥ विप्रराजादयः सर्वे मनुष्याश्च प्रसादिताः । त्रिधा प्रदक्षिणीकृय कृतांजलिपुटो मुदा ॥ भगवन्तं ससंघं तं नत्वा स्वस्वालयं ययुः ॥ ॥ इति सर्वसभालोकसद्धर्मश्रवणोत्साहसंप्रमोदितस्वस्वालयप्रतिगमनप्रकरणं समाप्तम् ॥ १९. सिक्षा संवर समुद्देश प्रकरणम् तदानन्दः समुत्थाय भगवतः पुरो गतः । पादाब्जे सांजलिर्नत्वा सम्पश्यन्नेवमब्रवीमब्रवीत् ॥ भगवच्छास्तरस्माकं भिक्षूणां ब्रह्मचारिणाम् । शिक्षासंवरसंवृत्तं समुपादेष्टुमर्हति ॥ इति संप्रार्थिते तेन भगवान् स मुनीश्वरः । आयुष्मन्तं तमानन्दं संपश्यन्नेवमादिशत् ॥ (२६५) साधु शृणु त्वमानन्द भिक्षूणां ब्रह्मचारिणाम् । शिक्षासंवरसांवृतं प्रवक्षामि समासतः । ये शुद्धश्स्यः सत्त्वाः प्रव्रजित्वा जिनाश्रमे । शिक्षासंवरमिच्छन्ति धर्तुं निर्वृतिसाधनम् ॥ प्रथमं ते समालोक्य शुद्धक्षेत्रे मनोरमे । निषद्य स्वासने ध्यात्वा संतिष्ठेरन् समाहिताः ॥ भस्मास्थिकेशजम्बालावस्करामेध्यसंकुले । क्षेत्रे नैव निवास्तव्यं कदापि ब्रह्मचारिभिः ॥ दुःशीलैर्भिक्षुभिः सार्धं कर्तव्या नैव संगतिः । आअलापोऽपि निवासोऽपि कर्तव्या न कदाचन ॥ दुःशीलैर्भिक्षुभिः सार्धं भोक्तव्यं नापि किंचन । न स्थातव्यं न गन्तव्यं क्रीडितव्यं न च क्वचित् ॥ उपसंपन्ने दातव्या न च ज्ञप्तिचतुर्थकम् । सद्धर्मस्साधनोपायं नापि देयं दुरात्मनाम् ॥ दुःशीला हि दुरात्मानो बौद्धशासनदूषकाः । मारचर्यानुसंरक्ताः क्लेशव्यालितेन्द्रियाः ॥ तेषां नैवाभिदातव्य आवासः सौगताश्रमे । दातव्यो दूरतस्तेषामावास आश्रमाद्बहिः ॥ संघालापो न दातव्यो दुःशीलानां कदाचन । न तेषां सांघिकी भूमिर्नैवार्हति कुहापि हि ॥ न तेषां विद्यते किंचिदर्हत्संवृत्तिचारणम् । सर्वसत्त्वहिताधानं कुतः संबोधिसाधनम् ॥ इत्यादिष्टं मुनीन्द्रेण निशम्य स जिनात्मजः । आनन्दस्तं मुनीशानं समालोक्यैवमब्रवीत् ॥ भगवन् कतमे काले दुःशीला भिक्षवः शठाः । दक्षणीया भविष्यन्ति नायकाः सौगताश्रमे ॥ इत्यानन्देन संपृष्टे भगवान् सर्वविज्जिनः । तमानन्दं समालोक्य पुनरेवं समादिशत् ॥ (२६६) त्रिवर्षशतनिर्याते सुनिर्वृतस्य मे तदा । दुःशीला भिक्षवो दक्षाः भवेयुः सौगताश्रमे ॥ तत्र ते भिक्षवः सर्वे भ्रष्टाचारा दुराशयाः । विहारे समुपासीनाश्चरेयुर्गृहिचारिकम् ॥ भार्यापुत्रसुताभ्रातृज्ञातिबन्धुसमन्विताः । यथाकामं सुखं भुक्त्वा संचरेरन् प्रमादिताः ॥ तेऽनीत्याहृत्य संघानां सर्वोपकरणान्यपि । सर्वाणि स्वात्मसात्कृत्वा भविष्यन्ति निजालयम् ॥ यथेच्छया समादाय भुक्त्वा भोग्यान् यथेप्सितम् । कुटुम्बसाधनोपाये संचरेरन् प्रगल्भिताः ॥ ते सांघिकोपचारेऽपि कुर्युर्विण्मूत्रसर्जनम् । श्लेष्मलालोद्वमोच्छिष्ठं विसर्जेयुश्च सर्वतः ॥ एतत्कर्मविपाकानि न ते ज्ञास्यन्ति दुर्धियः । उन्मत्ता इव दुर्दान्ताश्चरेयुर्दुरितारताः ॥ ये सांघिकोपचारेषु कुर्तुः श्लेष्मादिसर्जनम् । शालाटव्यां भवेयुस्ते प्रेताः सूचीमुखा किल ॥ विण्मूत्रादिपरित्यागं कुर्युर्ये सांघिकाश्रमे । वाराणस्यां भवेयुस्ते कृमयो गूथमूत्रजाः ॥ दन्तकाष्ठादिकं हृत्वा प्रभुं स्fऊर्य च सांघिकम् ॥ ते स्यू रक्तपशम्बूकमत्स्यादिजलजन्तवः । व्रीहिद्रव्याणि ये हृत्या भुंज्युर्ये सांघिकानि च । ते भवेयुर्महाप्रेताः सूचीमुखा नगोदराः ॥ येऽन्नपानादिकं कृत्व भुंज्युर्ये चापि सांघिकम् । ते स्युर्हीनकुले जाता हीनेन्द्रियाश्च पाचकाः ॥ ततश्च्युताश्च ते जाता लंगितकुब्जदुर्मुखाः । कुष्थव्याधिपरीतांगा भवेयुः पूतिवाहिकाः ॥ यदा तत्र स्थिता यायुर्यष्टिं धृत्वा शनैर्भुवि । नियतेयुस्तदा तेषां सर्वाणि पिशितान्यपि ॥ (२६७) एवं ते बहुवर्षाणि दुःखानि विविधानि च । भुक्त्वापायिकं कर्म कृत्वा यायुश्च नारकान् ॥ ये चापि सांघिकीं भूमिं परिभोज्यन्ति लोभिनः । ते दुष्टाः क्लेशितात्मानो यायु रौरवनारके ॥ तत्र तेषां मुखे तप्तलौहगुडा निवेशयेत् । तैस्तेषामभिधक्ष्यन्ते ताल्वौष्ठहृदुदरान्यपि ॥ कण्ठहृदुदरान्त्रादीन् धक्ष्यन्ते सर्वविग्रहान् । तथा मृताः पुनस्तेऽपि जीवेयुः कर्मभोगिनः ॥ यमपालैर्गृहीत्वा च क्षेप्स्यन्ते घोरनारके । तेषां कर्मवशाज्जिह्वा प्रभवेच्च महत्तरी ॥ कृष्यन्ते हलशतैस्तत्र जिह्वायां यमकिन्नरैः । एवं बहूनि वर्षाणि दुःखानि विविधानि ते ॥ भुक्त्वा मृताः पुनर्यायुर्नाकेऽग्निघटे खलु । तत्र तेषां महज्जिह्वा प्रोद्भवेदपि तत्र च ॥ सूचीशतसहस्राणि विध्येयर्युमकिन्नराः । तथापि ते मृता नैव स्थास्यन्ति दुःखिताश्चिरम् ॥ ततस्थानग्निखदायां च क्षेप्स्यन्ति यमकिन्नराः । तत्रापिअ ते मृता नैव स्थास्यन्ति कर्मभोगिनः । ततश्चोत्क्षिप्य तान् प्रेतनद्यां क्षेप्स्यन्ति किन्नराः ॥ तत्रापि बहुवर्षाणि दुखानि विविधानि ते ॥ भुक्त्वा स्थास्यन्ति दुःखार्ताः सुचिरं कर्मभोगिनः ॥ एवं त्रिकल्पवर्षाणि भ्रमतां नरके सदा । ततस्तत्कर्मवैपाकक्षीणं तेषां भवेच्चिरात् ॥ ततश्च्युत्वा च ते जंबूद्वीपे जातास्सुदुःखिताः । दरिद्रिताश्च जात्यन्धा भवेयुर्दुरिताशयाः ॥ एवं ते बहुदुःखानि प्रभुक्त्वा बहुजन्मसु । सदा क्लेशाग्निसंतप्ता भ्रमेयुर्भवसागरे ॥ तस्मादानन्द संघानां सर्वोपकरणान्यपि । द्रव्याण्यपि च सर्वाणि रक्षितव्यानि यत्नतः ॥ (२६८) अनीत्या नैव भोक्तव्यं सांघिकं वस्तु किंचन । केनापि सांघिकं वस्तु जीर्णीकर्तुं न शक्यते ॥ तदभोग्यमनीत्या हि सांघिकं वस्तु किंचन । अस्पृश्यं वह्निवत्तप्तं दहनं वस्तु सांघिकम् ॥ भारोपमं सदाक्रान्तमभेद्यं वज्रसन्निभम् । अपथ्यविषवद्दुष्टं तीक्ष्णासिधारसन्निभम् ॥ वैषं तेजैः समीकर्तुं मन्त्रौषध्यैर्हि शक्यते । सांघिकिं वस्तु हर्तुं न पापं केनापि शम्यते ॥ इति मत्वात्र संसारे सम्बोधिश्रीसुखेप्सुभिः । सांघिकं वस्तु यत्नेन रक्षितव्यं रक्षितव्यं सदादरात् ॥ एवं विज्ञाय संबोधिचित्तं धृत्वा समहितः । शिक्षासंवरमाधाय सम्पद्रक्षितुमर्हति ॥ शिक्षां रक्षितुकामेन चित्तीरक्ष्यं प्रयत्नतः । न शिक्षा रक्षितुं शक्या चलं चित्तमरक्षता ॥ अदान्ता मत्तमातंगा न कुर्वन्तीह तां व्यथाम् । करोति यामवीच्यादौ मुक्तश्चित्तमतंगजः ॥ बद्धश्चेच्चित्तमातंगः स्मृतिरक्षा समन्ततः । भयमस्तं गतं सर्वं सदा कल्याणमागतम् ॥ व्याघ्राः सिंहा गजा ऋक्षा सर्वे च दुष्टशत्रवः । सर्वे नरकपालाश्च डाकिन्यो राक्षसास्तथा ॥ सर्वे बद्धा भवन्त्येते चित्तस्यैकस्य बन्धनात् । चित्तस्यैकस्य दमनात्सर्वे दान्ता भवन्त्यमी ॥ यस्माद्भयानि सर्वाणि दुःखाप्रमितान्यपि । चित्तादेव समुद्यान्ति सर्वेषां भवचारिणाम् ॥ शस्त्राणि नरके केन घटितानि समन्ततः । तप्तायःकुट्टिमं केन कुतो जाताश्च ताः स्त्रियः ॥ पापं चित्तसमुद्भुतं सर्वमेतद्भवालये । तस्मान्न कश्चित्त्रैलोक्ये चितादन्यो भयानकः ॥ (२६९) अदरिद्रं जगत्कृत्वा दानपारमिता यदि । जगद्दरिद्रमद्यापि सा कथं पूर्वतायिनाम् ॥ fअलेन सह सर्वस्वत्यागचित्तं जनेअखिले । दानपारमिता प्रिक्ता तस्मात्सा चित्तमेव हि ॥ मत्स्यादयः क्व नीयन्तां मारयेयुर्यतो रतान् । लब्धे विरतिचित्ते तु शीलपाअरमिता मता ॥ कियतो मारयिष्यन्ति दुर्जनान् गगनोपमान् । मारिते क्रोधचित्ते तु मारिताः सर्वशत्रवः ॥ भूमिं छादयितुं सर्वान् कुतश्चर्म भविष्यति । उपानच्चर्ममात्रेण छन्ना भवति मेदिनी ॥ बाह्या भावाः सदा तद्वच्छक्या वारयितुं न हि । स्वचित्तमेव निवार्यं तत्किमेवान्यैर्निवारित्रैः ॥ सहापि वाक्छरीराभ्यां मन्ददृत्तेर्न तत्fअलम् । यत्पटोरेकैकस्यापि चित्तस्य ब्रह्मतादिकम् ॥ जपांस्तपांसि सर्वाणि दीर्घकालकृतान्यपि । अन्यचित्तेन मन्देअन वृथैव सिध्यते न हि ॥ दुःखं हन्तुं सुखं प्राप्तुं ते भ्रमन्ति मुधाम्बरे ॥ यैरेतद्धर्मसर्वस्वं चित्तं गुह्यं न भावितम् । तस्मात्स्वधिष्ठितं चित्तं सदा कार्यं सुरक्षितम् ॥ चित्तरक्षाव्रतं त्यक्त्वा बहुभिः किं तपोव्रतैः । यथा चपलमध्यस्था रक्षति व्रणमादरात् ॥ एवं दुर्जनमध्यस्था रक्षेच्चित्तं प्रयत्नतः । व्रणदुःखलवाद्वीता रक्षेत्स्वं व्रणमादरात् ॥ संघातपर्वताघाताद्भीतश्चित्तं बलं न किम् । अनेन हि विहारेन विहरन् दुर्जनेष्वपि ॥ प्रमदाजनमध्येऽपि यतिर्धीरो न खण्दते ॥ लाभा नश्यन्तु संपत्तिः सत्कारः कायजीवितम् । नश्यत्वन्यच्च कौशल्यं मा तु चित्तं न कस्यचित् ॥ (२७०) चित्तमेव सदा रक्ष्यं संबोधिज्ञानसाधनम् । स्मृतिं च संप्रजन्यं च सर्वयत्नेन रक्षयेत् ॥ व्याध्याकुलो नरो यद्वन्न क्षमः सर्वकर्मसु । तथाभ्यां व्याकुलं चित्तं न क्षमं बोधिसाधने ॥ असंप्रजन्यचित्तस्य श्रुतचिन्तितभावितम् । जलवच्छिद्रिते कुम्भे स्मृतौ नैवाभितिष्ठते ॥ अनेके श्रुतवन्तोऽपि श्रद्धायत्नपरा अपि । असंप्रजन्यदोषेण भवन्त्यापत्तिकश्मलाः ॥ असंप्रजन्यचौरेण स्मृतिमोषानुसारिणा । उपचित्यापि पुण्यानि मुषिता यान्ति दुर्गतिम् ॥ क्लेशतस्करसंघोऽयमेव तारणवेषकः । प्राप्यावतारं मुष्णाति हन्ति सद्गतिं जीवितम् ॥ तस्मात्स्मृतिर्मनोद्वारान्नापनेया कदाचन । गतापि प्रत्युपस्थाप्या संस्मृत्या पापिकीं व्यथाम् ॥ उपाध्यायानुशासिन्या भीत्याप्यादरचारिणाम् । धन्यानां गुरुसंवासात्सुकरं जायते स्मृतिः ॥ बुद्धाश्च बोधिसत्त्वाश्च सर्वत्राव्याहतेक्षणाः । सर्वोऽप्ययं जगल्लोकस्तेषामग्रे सदा स्थितः ॥ इति ध्यात्वा सदा तिष्ठेत्त्रपादरभयान्वितः । बुद्धानुस्मृतिरप्येवं भवेत्तस्य मुहुर्मुहुः ॥ संप्रजन्यं तदा याति नैव यात्यागतं पुनः । स्मृतिर्यदा मनोद्वारे रक्षार्थमवतिष्ठते ॥ पूर्वं तावदिदं चित्तं सदोपस्थाप्यमीदृशम् । सदा निरिन्द्रयेणैव स्थातव्यं काष्ठवत्सदा ॥ निष्fअला नेत्रविक्षेपा न कर्तव्याः कदाचन । निध्यायन्तीव सदापि कार्या दृष्टिरधोगता ॥ दृष्टिविश्रामहेतोस्तु दिशः पश्येत्कदाअचन । आभासमात्रमालोक्य स्वागतार्थं विलोकयन् ॥ (२७१) मार्गादौ भयबोधार्थं मुहुः पश्येच्चतुर्दिशम् । दिशो विश्रम्य विक्षते परावृत्यैव पृष्ठतः ॥ सरेदपसरेद्वापि पुरः पश्चान्निरुप्य च । एवं सर्वास्ववस्थासु कार्यं बुद्ध्वा समाचरेत् ॥ कायेनैवमवस्थेयमित्याक्षिप्य क्रियां पुनः । कथं कायः स्थित इति द्रष्टव्यः पुनरन्तरा ॥ निरुप्य सर्वयत्नेन चित्तमत्तद्विपस्तथा । धर्मचित्तो महास्तम्भे यथाअ बद्धो न मुच्यते ॥ कुत्र मे वर्तत इति प्रत्यवेक्ष्यं तथा मनः । समाधानधुरं नैव क्षणमप्युत्सृजेद्यथा ॥ भयोत्सवादिसम्बन्धे यद्यसक्तो यथासुखम् । दानकाले तु शीलस्य यस्मादुक्तमुपेक्षणम् ॥ यद्बुद्ध्वा कर्तुमारब्धं ततोऽन्यत्र विचिन्तयेत् । तदेव तावन्निष्पाद्यं तद्गतेनान्तरात्मना ॥ एवं हि सुकृतं सर्वमन्यथा नोभयं भवेत् । असंप्रजन्यक्लेशोऽपि वृद्धिं चैव गमिष्यति ॥ नानाविधप्रलापेषु वर्धमानेष्वनेकधा । कौतूहलेषु सर्वेषु हन्यादौत्सुक्यमागतम् ॥ मृण्मर्दनतृणच्छेदने खाद्यfअलमागतम् । स्मृत्वा तथागतीं शिक्षां तत्क्षणाद्भीत उत्सृजेत् ॥ यदा चलितुकामः स्याद्वक्तुकामोऽपि वा भवेत् । स्वचित्तं प्रत्यवेक्ष्यादौ कुर्याद्धैर्यं युक्तिमत् ॥ अनुनीतं प्रतिहतं यदा पश्येत्स्वकं मनः । न कर्तव्यं न वक्तव्यं स्थातव्यं काष्ठवत्तदा ॥ उद्धतं सोपहासं वा यदा मानमदान्वितम् । सोत्प्रसातिशयं वक्त्रं वंचकं च मनो भवेत् ॥ यदात्मोत्कर्षणाभासं परपंशनमेव च । साधिक्षेपं ससंरम्भं स्थातव्यं काष्ठवत्तदा ॥ (२७२) लाभसत्कारकीर्त्यर्थि परिकारार्थि वा यदा । उपस्थानार्थि वा चित्तं तदाअ तिष्ठेच्च काष्ठवत् ॥ परार्थरुक्षं स्वार्थार्थि परिसत्काममेव वा । वक्तुमिच्छति सक्रोधं तदा तिष्ठेच्च काष्ठवत् ॥ असहिष्णुलसंभीतं प्रगल्भं मुखरं यदा । स्वपक्षाभिनिविष्टं वा तदा तिष्ठेच्च काष्ठवत् ॥ एवं संक्लिष्टमालोक्य निष्fअलारम्भि वा मनः । निगृह्णीयाद्दृधं शूरः प्रतिपक्षेण तत्सदा ॥ सुनिश्चितं सुप्रसन्नं धीरं सादरगौरवम् । सलज्जं सभयं शान्तं पराराधनतत्परम् ॥ परस्परविरुद्धाभिर्बालेच्छाभिरखण्डितम् । क्लेशोत्पादादिकं ह्येतदेषामिति दयान्वितम् ॥ आत्मसत्त्ववशं नित्यमनवद्येषु च वस्तुषु । निर्माणमिव निर्माणं धारयेन्मानसं सदा ॥ चिरात्क्षणवरं प्राप्तं स्मृत्वा स्मृत्वा मुहुर्मुहुः । धारयेदीदृशं चित्तमप्रकम्प्यं सुमेरुवत् ॥ गृद्धैरामिषसंगृद्धैः कर्ष्यमाण इतस्ततः । न करोत्यन्यथा कायः कस्मादत्र प्रतिक्रियाम् ॥ कायनौ बुद्धिमाधाय गत्यागमननिश्रयात् । यथाकामं गमं कार्यं कुर्यात्सर्वार्थसिद्धये ॥ एवं वशीकृतस्वात्मा नित्यं स्मितमुखो भवेत् । त्यजेद्भृकुटिसंकोचं पूर्वाभाषी जगत्सुहत् ॥ स शब्दपातं सहसा न पिठादीन् विक्षिपेत् । नास्fआलयेत्कपाटं च स्यान्निःशब्दरुचिः सदा ॥ बको विडालश्चौरश्च निःशब्दो निभृतश्चरन् । प्राप्तो ह्यभिमतं कार्यमेवं नित्यं यतिश्चरन् ॥ परचोदनदक्षाणामनधीष्टोपकारिणाम् । प्रतीच्छेच्छिरसा बाह्यं सर्वशिष्यः सदा भवेत् ॥ (२७३) सुभाषितेषु सर्वेषु साधुकारमुदीरयेत् । पुण्यकारिणमालोक्य स्तुतिभिः संप्रहर्षयेत् ॥ परोक्षे च गुणान् श्रूयादनुश्रूयाच्च तोषतः । स्ववर्णभाष्यमाणे च भावयेत्तद्गुणज्ञताम् ॥ सर्वारम्भा हि तुष्ट्यर्थाः स चित्तैरपि दुर्लभा । भुंज्यात्तुष्टिसुखं तस्मात्परश्रमकृतैर्गुणैः ॥ न चात्रापि व्ययः कश्चित्परत्र च महत्सुखम् । द्वेषैरप्रीतिदुःखं तु महद्दुखं परत्र च ॥ विश्वस्तविन्यस्तपदं विस्पष्टार्थं मनोरमम् । श्रुतिसौख्यं कृपामूलं मृदुमन्दस्वरं वदेत् ॥ ऋजु पश्येत्सदा सत्त्वांश्चक्षणा संपिबन्निव । यस्मादेतान् समाश्रितान् संबुद्धत्वमवाप्नुयात् ॥ सातत्याभिनिशोत्थं प्रतिपक्षोत्थमेव च । गुणोपकारिक्षित्रे च दुःखिते च महच्छुभम् ॥ दक्ष उत्थानसम्पन्नः स्वयंकारी सदा भवेत् । नावकाशः प्रदातव्यः कस्यचित्सर्वकर्मसु ॥ उतरोत्तरतः श्रेष्ठा दानपारमितादयः । नैतरार्थं त्यजेच्छ्रेष्ठामन्यत्राचारसेतुतः ॥ एवं बुद्ध्वा परार्थेषु भवेत्सततमुत्थितः । निषिद्धमप्यज्ञातं कृपालोरर्थदर्शिनः ॥ विनिपातगतानाथान् व्रतस्थान् संविभज्य च । भुंजीत मध्यमां मात्रां त्रिचीवरबहिस्त्यजेत् ॥ सद्धर्मसेवकं कायमितरार्थं न पीडयेत् । एवमेव हि सत्त्वानामाशामाशु प्रपूरयेत् ॥ त्यजेन्न जीवितं तस्मादशुद्धेऽकरुणाशये । तुल्याशये तु तत्त्याज्यमित्थं न परिहीयते ॥ धर्मं निगौरवेऽस्वस्थे न शिरोवेष्ठिते वदेत् । सछत्रदण्डशस्त्रं च नावगुण्ठितमस्तके ॥ (२७४) गम्भीरोदारमल्पेषु न स्त्रीषु पुरुषं विना । हीनोत्कृष्टेषु धर्मेषु समं गौरवमाचरेत् ॥ नोदारधर्मपात्रं च हीनधर्मे नियोजयेत् । न चाचारं परित्यज्य सूत्रमन्त्रैः प्रलोभयेत् ॥ दन्तकाष्ठस्य खेटस्य विसर्जनमपावृतम् । नेष्टं जले स्थले भोग्ये मूत्रादेशचापि गर्हितम् ॥ मुखपूरं न भुंजीत सशब्दं प्रसृताननम् । प्रलम्बपादं नासीत न बाहू मर्दयेत्समम् ॥ नैकयान्या स्त्रिया कुर्याद्यानं शयनमासनम् । लोकाप्रसादितं सर्वं दृट्वा पृट्वा स वर्जयेत् ॥ नांगुल्या कारयेत्किंचिद्दक्षिणेन तु सादरम् । समस्तेनैव हस्तेन मार्गमप्येवमादिशेत् ॥ नवाह्नक्षेपकं किंचिच्छब्दयेदल्पसंभ्रमे । अच्छतादिं तु कर्तुव्यन्यथा स्यादसंहृतः ॥ नाथनिर्वाणशय्यावच्छयीतेप्सितया दिशा । संप्रजानन् लघूत्थानं प्रागवश्यं नियोगतः ॥ आचारो बोधिसत्त्वानामप्रमेयमुदाहृतम् । चित्तशोधनमाचारं नियतं तावदाचरेच् ॥ रात्रिं दिवं च त्रिस्कन्धं त्रिकालं च प्रवर्तयेत् । शेषापत्तिसमस्तेन बोधिचित्तजिनाशयान् ॥ यो अवस्थाः प्रपद्यते स्वयं परवशोऽपि वा । तास्ववस्थासु याः शिक्षाः शिक्षेत्ता एव यत्नतः । न हि तद्विद्यते किंचिद्यन्न शिक्ष्यं जिनात्मजैः ॥ न तदस्ति न यत्पुण्यमेव विहरतः सतः । पारंपर्येण साक्षाद्वा सत्त्वार्थान्नान्यदा चरेत् ॥ सत्त्वानामेव चार्थाय सर्वं बोधाय नामयेत् । सदा कल्याणमित्रं च जीवीतार्थेऽपि न त्यजेत् ॥ बोधिसत्त्वव्रतधरं महायानार्थकोविदम् । एतदेव समासेन संप्रजन्यस्य लक्षणम् ॥ (२७५) यत्कायचित्तवस्थायाः प्रत्यवेक्ष्य मुहुर्मुहुः । यतो निवार्यते यत्र यदेव च नियुज्यते ॥ तल्लोकचित्तरक्षार्थं शिक्षां दृष्ट्वा समाचरेत् । सर्वमेतत्सुचरितं दानं सुगतपूजनम् । कृतं कल्पसहस्त्रैर्यत्प्रतिघ प्रतिहन्ति तत् ॥ न च द्वेषसमं पापं न च क्षान्तिसमं तपः । तस्मात्क्षान्तिं प्रयत्नेन भावयेद्विविधैर्नयैः ॥ मनः शमं न गृह्णाति न प्रीतिसुखमश्नुते । न निद्रां न धृतिं याति द्वेषशस्ये हृदि स्थिते ॥ पूजयत्यर्थमानैर्यान् येऽपि चैनं समाश्रिताः । तेऽप्येनं हन्तुमिच्छन्ति स्वामिनं द्वेषदुर्भगम् ॥ सुहृदोऽप्युद्विजन्तेऽस्माद्ददाति न च सेव्यते । संक्षेपान्नास्ति तत्किंचित्क्रोधनो येन सुस्थितः ॥ एवमादीनि दुःखानि करोतीत्यरिसंज्ञया । यः क्रोधं हन्ति निर्बन्धात्स सुखीह परत्र च ॥ तस्मात्क्रोधबलं हत्वा रत्नत्रयप्रभावतः । बुद्ध्वा क्षान्तिं प्रयत्नेन भावयेद्विविधैर्नयैः ॥ नैवं द्विषः क्षयं यान्ति यावज्जीवमपि घ्नतः । क्रोधमेकं तु यो हन्यात्तेन सर्वद्विषो हताः ॥ [अल्पनिष्ठागमेनापि नतोत्पामुदिता सदा । दौर्मनस्येऽपि नास्तीष्टं कुशलं त्ववहीयते ॥ यद्येव प्रतीकारोऽस्ति दौर्मनस्येन तत्र किम् । अथ नास्ति प्रतीकारो दौर्मनस्येन तत्र किम् ॥ दुःखापकारपारुष्यमयशश्चेत्यनीप्सितम् । प्रियानामात्मना वापि शत्रोश्चैतद्विपर्ययात् ॥ कथंचिल्लभ्यते सौख्यं दुःखं स्थितमयत्नतः । दुःखेन बहिः निःसारस्तत्कार्यं मनो दृढम् । सत्त्वक्षेत्रं जिनक्षेत्रमित्याख्यातं मुनीश्वरैः । एता आराध्य संबुद्धाः सर्वे निर्वृतिमागताः ॥ (२७६) [सत्त्वेभ्यश्च जिनेभ्यश्च बुद्धधर्मागमे सः । जिनेषु गौरवं यद्वन्नष्विति कः क्रमः ॥ आत्मीकृतं सर्वमिदं जगत्तैः कृपात्मभिः नैव हि संशयोऽस्ति । दृश्यन्त एते ननु सत्त्वरुपास्त एव नाथाः किमनादनात्र ॥ तथागताराधनमेतदेव लोकस्य दुःखापहमेतदेव । स्वार्थस्य संसाधनमेतदेव तत्साचरध्वं तमेवेदम् ॥ ] यस्मान्नरकपालाश्च कृपावन्तश्च तद्बलम् । तस्मादाराधरेत्सत्त्वान् भृत्यश्चण्डनृपं यथा ॥ कुपितः किं नृपः कुर्याद्येन स्यान्नरकव्यथा । यत्सत्त्वदौर्मनस्येन कृतेन ह्यनुभूयते ॥ तुष्टः किं नृपतिर्दद्याद्यद्बुद्धत्वं समं भवेत् । यत्सत्त्वसौमनस्येन कृतेन ह्यनुभूयते । आस्तां भविष्यबुद्धत्वं सत्त्वाराधनसंभवम् । इहापि सौभाग्ययशःसौस्थित्यं लभते क्षमी ॥ प्रासादिकत्वप्रामोद्यमारोग्यं चिरजीवितम् । चक्रवर्तिसुखस्थानं क्षमी प्राप्नोति संसरन् ॥ एवं क्षमो भवेद्वीर्यं वीर्ये बोद्धिर्यतः स्थितः । न हि वीर्यं विना पुण्यं यथा वायु विना गतिः ॥ किं विर्यं कुशलोत्साहस्तद्विपक्षः क उच्यते । आलस्यकुत्सिता शक्तिर्विषादात्मावमन्यता ॥ अव्यापारसुखास्वादनिद्रयाश्रयतृष्णया । संसारदुःखानुद्वेगादालस्यमुपजायते ॥ तस्मादालस्यमुत्सृत्ज धृत्वा वीर्यं समाहितः । सर्वसत्त्वहिताधानं बोधिचर्याव्रतं चरेत् ॥ वीर्यं हि सर्वगुणरत्ननिधानभूतं सर्वापदस्तरति वीर्यमहाप्लवेन । नैवास्ति तज्जगति विचिन्त्यमानं नावाप्नुयाद्यदिह वीर्यस्थाधिरुढः ॥ यद्धेषु यत्करितुरंगपदातिमत्सु नाराचतोमरश्वधसंकुलेषु । हत्वा रिपून् जयमनुत्तममाप्नुवन्ति विस्fउर्जितं तदिह वीर्यं महाभटस्य ॥ (२७७) अम्भोनिधीन्मकरवृन्दविघट्टिताम्बुतुंगोकुलाकुलतरंगविभंगभीमान् । वीर्येण गोष्पदमिव प्रविलंघ्य शूराः कुर्वन्त्यनर्घगुणरत्नधनार्जनानि ॥ रागादीनुरगानिवोग्रवपुषो विष्कम्भवीर्यान्विताः शीलं सज्जनचित्तनिर्मलतरं समादाय यन्मर्त्याः । कान्ततरे सुमेरुशिखरोपान्ते वीर्यान्वितास्तिष्ठन्ते सुरसिद्धसंघसहिताः संबोधिसत्त्वाः सुखम् ॥ यद्देवा वियति विमानवासिनोऽन्ये निर्द्वन्द्वाः समनुभवन्ति सौमनस्यम् । अत्यन्तविपुलfअलप्रसूतिहेतोर्वीर्यस्थिरविहितस्य सा विभूतिः ॥ इति मत्वा सदोत्साहं धृत्वा संबोधिसाधने । सर्वसत्त्वहिताधाने बोधिचर्याव्रते चरेत् ॥ लघु कुर्यात्तथात्मानमप्रमादकथां स्मरन् । कर्मागमाद्यथा पूर्वं सज्जः सर्वत्र च तु ते ॥ यथैव तूलिकं वायोर्गमनागमने वशम् । तथोत्साहवशं यायादृद्धिश्चैवं समृध्यति ॥ वर्धयित्वैवमुत्साहं समाधौ स्थापयेन्मनः । विक्षिप्तचित्तस्तु नरः क्लेशं दंष्ट्रान्तरे स्थितः ॥ कायचित्तविवेकेन विक्षेपस्य न संभवः । तस्माल्लोकान् परित्यज्य वितर्कान् परिवर्जयेत् ॥ स्नेहान्न त्यज्यते लोको लाभादिषु च तृष्णया । तस्मादेतत्परित्यागे विद्वानेवं विचारयेत् ॥ शमथेन विपश्यनया सुयुक्तः कुरुते क्लेशविनाशमित्यवेत्य । शमथः प्रथमं गवेषणीयः स च लोके निरपेक्षयभिरत्या ॥ कस्यानित्येष्वनित्यस्य स्नेहो भवितुमर्हति । येन जन्मसहस्त्राणि द्रष्टव्यो न पुनः प्रियः ॥ अपश्यन्नरतिं याति समाधौ न च तिष्ठति । न च तृप्यति दृष्ट्वापि पूर्ववद्बाधते तृषा ॥ न पश्यति यथाभुतं संवेगादवहीयते । दह्यते तेन शोकेन प्रियसंगमकांक्षया ॥ (२७८) तच्चिन्तया मुधा याति ह्रस्वमायुमुहुर्मुहुः । अशाश्वतेन मित्रेण धर्मो भ्रश्यति शाश्वतः ॥ बालैः सभागचरितो नियतं याति दुर्गतिम् । नेष्यते विषभागश्च किं प्राप्तं बालसंगमात् ॥ क्षणाद्भवन्ति सुहदो भवन्ति रिपवः क्षणात् । तोषस्थाने प्रकुप्यन्ति दुराराध्याः पृथग्जनाः ॥ अथ न श्रूयते तेषां कुपिता यान्ति दुर्गतिम् । ईर्ष्योत्कृष्टात्समाद्वन्द्वा हीनात्मानः स्तुतेर्मदः ॥ अवर्णात्प्रतिघश्चेति कदा बालाद्धितं भवेत् ॥ आत्मोत्कर्षः परावर्णः संसाररतिसंकथा । इत्याद्यमवश्यमशुभं किंचिद्बालस्य बालता ॥ एवं मत्वा यतिर्धीमान्विहाय बालसंगमम् । बालाद्दूरं पलायेत्प्राप्तमाराधयेत्प्रियैः ॥ न संस्तवानुबन्धेत किंभूदासीनसाधुवत् । एकाकी विहरेन्नित्यं सुखमक्लिष्टमानसः ॥ धर्मार्थमात्रादाय भृंगवत्कुसुमान्मधुः । अपूर्व इव सर्वत्र विहरेदप्यसंस्तुतः ॥ एवं यतिर्महासत्त्वः संसाररतिनिःपृहः । समाधिसत्सुखासक्तो विहरेद्बोधिमानसः ॥ क्लेशारिवर्गानभिभूय वीराः संबोधिलक्ष्मीपदमाप्नुवन्ति । बोध्यंगदानं प्रदिशन्तिं सद्भ्यो ध्यानं हि तत्र प्रवदन्ति हेतुम् ॥ जन्मप्रबन्धकर्णैकनिमित्तभूतान् रागादिदोषनिचयान् प्रविदार्य सर्वान् । आकाशतुल्यमनसः समलोष्टहेमाध्यानाद्भवन्ति मनुजा गुणहेतुभूताः ॥ जित्वा क्लेशारिवृन्दं शुभबलमथनं सर्वथा लब्धलक्षम् । प्राप्तः संबोधिलक्ष्मीं प्रवरगुणमयीं दुर्लभामन्यभूतैः ॥ सत्त्वे ज्ञानाधिपत्यं विगतरिपुभयाः कुर्वते यन्नरेन्द्राः । ध्यानं तत्रैकहेतुं सकलगुणनिधिं प्राहुः सर्वे नरेन्द्राः ॥ मोहान्धकारं प्रविदार्यं शश्वज्ज्ञानावभासं कुरेते समन्तात् । संबुद्धसुर्यस्सूरमानुषाणां हेतुः स तत्र प्रवरस्समाधिः ॥ (२७९) इति मत्वा समाधाय क्लेशावरणहानये । विमार्गाच्चित्तमाकृष्य समाधौ स्थाप्य प्राचरेत् ॥ इमं परिकरं समाधौ स्थाप्य प्राचरेत् ॥ इमं परिकरं सर्वं प्रज्ञार्थं हि जगद्धिते । तस्मादुत्पादयेत्प्रज्ञां दुःखनिर्वृतिकांक्षया ॥ संवृत्तिः परमार्थश्च सत्यद्वयमिदं मतम् । बुद्धेरगोचरं तत्त्वं बुद्धिसंस्मृतिरुच्यते ॥ तत्र लोको द्विधादृष्टो योगी प्राकृतकस्तथा । तत्र प्राकृतको लोको यगिलोकेन बाध्यते ॥ बाध्यन्ते धीविशेषेण योगिनोऽप्यत्तरोत्तरैः । दृष्टान्तेनोभयेष्टेन कार्यार्थमविचारतः ॥ लोकेन भावा दृश्यन्ते कल्प्यन्ते चापि तत्त्वतः । न तु मायावदित्यत्र विवादो योगिलोकयोः ॥ इति मत्वा यतिर्धिमान् सर्वं मायाभिर्निर्मितम् । प्रज्ञारत्नं समासाद्य संचरेत जगद्धिते ॥ प्रज्ञाधनेन विकुलं तु नरस्य रुपमालेख्य रुपमिव सारविहीनमन्तः । बुद्धयान्वितस्य fअलमिष्टमुदेति वीर्याद्वीर्यं हि बुद्धिरहितं स्ववधाय शत्रुः ॥ योऽनेकजन्मान्तरितं स्वजन्मभूतंभविष्यत्कुलनामगोत्रैः । मध्यान्तमाद्यपि जनः प्रवेत्ति प्रज्ञाबलं तत्कथयन्ति तज्ज्ञाः ॥ यद्बुद्धो मर्त्यलोके मलतिमिरगणं दारयित्वा महान्तम् । ज्ञानालोकं करोति प्रहरति च सदादोषवृन्दं नराणाम् ॥ आदेष्टा चेन्द्रियाणां परमनुजमनो वेत्ति सर्वैः प्रकारैः । प्रज्ञां तत्रापि नित्यं शुभवरजननीं हेतुमुत्कीर्तयन्ति ॥ कार्यार्णवेऽपि दृढं निमग्नाः संग्राममध्ये मनुजाः प्रधानाः । प्रज्ञावशात्ते विजयं लभन्ते प्रज्ञा ह्यतः सा शुभहेतुभूताः ॥ प्रज्ञाबलेनैव जिनाः जयन्ति घोरं सुदुष्टं च मारसैन्यम् । प्रज्ञाविशेषेण जना विभान्ति प्रज्ञा हि ख्याता जननी जिनानाम् ॥ तस्मात्सर्वगुणार्थसाधनकरी प्रज्ञैव संवर्ध्यताम् । यत्प्रज्ञाविकला विभान्ति पुरुषाः प्रातःप्रदीपा इति ॥ (२८०) स्वर्गापवर्गगुणरत्ननिधनभूता एताः षडेव भुवि पारमिता नराणाम् । ज्ञात्वा नरः स्वहितसाधनतत्परः स्यात्कुर्यादतः सततमाशु दृढं प्रयत्नम् ॥ एतद्धि परमं शिक्षासंवरं बोधिचारिणाम् । मया प्रज्ञप्तमानन्द धातव्यं बोधिप्राप्तये ॥ य एतत्परमाचारं धृत्वा सम्बोधिमानसाः । त्रिरत्नशरणे स्थित्वा संचरन्ते जगद्धिते ॥ ते भद्रश्रीगुणाधाराः शीलवन्तः शुभेन्द्रियाः । क्षान्तिसौरभ्यसंवासाः सदोत्साहा हिताशयाः ॥ निःक्लेशा निर्मलात्मानो महासत्त्वा विचक्षणाः । प्रज्ञावन्तो महाभिज्ञा अर्हन्तो ब्रह्मचारिणः ॥ त्रिविधां बोधिमासाद्य संबुद्धालयमाप्नुयुः । एतच्छास्त्रा समादिष्टं श्रुत्वानन्दोऽभिबोधितः ॥ भगवन्तं मुनीन्द्रं च समालोक्यैवमब्रवीत् । भगवन् भवताज्ञप्तं संबुद्धपदसाधनम् । शिक्षासंवरमाधाय ये चरन्ति सदा शुभे ॥ त एव सुभगा धन्याः शिक्षासंवृतिकौशलाः । विनयाभिमुखाः सन्तः सद्धर्मकोशधारिणः ॥ जिनात्मजा महाभिज्ञाः अर्हन्तो निर्मलेन्द्रियाः । बोधिसत्त्वा महासत्त्वा भवन्ति बोधिलाभिनः ॥ तेषामेव सदा भद्रं सर्वत्रापि भवेद्ध्रुवम् । सद्धर्मसाधनोत्साहं निरुत्पातं निराकुलम् ॥ तेषां भूयात्सदा भद्रं बोधुइश्रीगुणसाधनम् । त्रिरत्नशरणे स्थित्वा ये चरन्ति जगद्धिते ॥ इत्यानन्दसमाख्यातं श्रुत्वा स भगवन्मुदा । आयुष्मन्तं तमानन्दं समालोक्यैवमादिशत् ॥ एवमेव सदा तेषां भद्रं संबोधिसाधनम् । धर्मश्रीगुणसम्पन्न भवेन्नुनं भवालये ॥ इति सत्यं परिज्ञाय यूयं सर्वेऽभिबोधिताः । त्रिरत्नभजनं कृत्वा संचरध्वं जगद्धिते ॥ (२८१) एवं मयोक्तमादाय चरध्वे यदि सर्वदा । नूनं सम्बोधिमासाद्य संबुद्धपदमाप्स्यथ ॥ इत्यादिष्टं मुनीन्द्रेण श्रुत्वा सर्वेऽपि सांघिकाः । तथेति प्रतिविज्ञप्य प्राभ्यनन्दन् प्रबोधिताः ॥ अथ ते सांघिकाः सर्वे आनन्दप्रमुखाः मुदा । नत्वा पादौ मुनीन्द्रस्य स्वस्वध्यानालयं ययुः ॥ भगवानपि तान् वीक्ष्य सर्वान् ध्यानालयाश्रीतान् । गत्वा ध्यानालयासीनस्तस्थौ ध्यानसमाहितः ॥ इत्येवं मे समाख्यातं गुरुणा शाणवासिना । श्रुतं मया तथाख्यातं श्रुत्वानुमोद भूपते ॥ प्रजा अपि महाराज श्रावयित्वा प्रबोधयन् । त्रिरत्नभजनोत्साहे चारयित्वानुपालय ॥ तथा चेत्ते सदा राजन् धर्मश्रीगुणसंयुतम् । शुभोत्साहं निरातंकं भवेद्ध्रुवं समन्ततः ॥ त्वमपि बोधिसंभारं पुरयित्वा यथाक्रमम् । जित्वा मारगणानर्हन् बोधिं प्राप्य जिनो भवेः ॥ इति शास्त्रा समादिष्टं श्रुत्वाशोकः स भूपतिः । तथेति प्रतिविज्ञप्य प्राभ्यनन्दत्सपार्षदः ॥ ॥ इति शिक्षासंवरसमुद्देशप्रकरणं समाप्तम् ॥ २०. फलश्रुतिः अथ भूयः स राजेन्द्रो भूपोऽशोकः कृतांजलिः । उपगुप्तं तमर्हन्तं नत्वालोक्येदमब्रवीत् ॥ भदन्त लोकनाथोऽसौ यदावलोकितेश्वरः । इति नाम्ना प्रसिद्धोऽभूत्तत्केन समुपादिश ॥ (२८२) इति संप्रार्थिते राज्ञा यतिः सोऽर्हन्महामतिः । अशोकं तं महाराजं समालोक्यैवमादिशत् ॥ शृणु राजन्महाभाग यथा मे गुरुणोदितम् । तथाहं ते प्रवक्ष्यामि श्रुत्वानुबोधितो भव ॥ षड्गतिसम्भवा लोकास्त्रैधातुभुवनाश्रिताः । तेषां ये दुःखिता दुष्टाः क्लेशाग्निपरितापिताः ॥ तान् सर्वान् स जगन्नाथः कृपादृष्ट्यावलोकयत् । तेनावलोकितेशाख्यः प्रसिद्धस्त्रिजगत्स्वपि ॥ ये ये सत्त्वा जगद्भर्त्रा कृपादृष्ट्यावलोकिताः । ते ते सर्वे विकल्माषा भवेयुर्विमलाशयाः ॥ येऽप्यस्य त्रिजगच्छास्तुः शृणुयुर्नां सादरम् । विमुक्तपातकास्ते स्युर्निःक्लेशा विमलेन्द्रियाः ॥ दुःखाग्नौ पतितो योऽपि स्मृत्वा लोकेश्वरं भजेत् । तदा तं स महासत्त्वः कृपादृष्ट्यावलोकयन् ॥ तदा स सहसा तस्माद्दुःखाग्नेः परिमुक्तितः । शुद्धेन्द्रियो विशुद्धात्मा भवेत्संबोधिमानसः ॥ यो नद्या प्रोह्यमाणोऽपि क्रन्देल्लोकेश्वरं स्मरन् । तदा स बोधिसत्त्वस्तं कृपादृष्ट्यावलोकयेत् ॥ तदा दद्यान्नदी तस्य गाधं सन्तरणार्थिनः । ततः स सहसोत्तीर्य स्मृत्वा धर्मरतो भवेत् ॥ यदा च वणिजः सार्था नौकारुढा महाम्बुधौ । रत्नार्थिनो महोत्साहैः संक्रमेयुर्यथाक्रमम् ॥ तत्र नौः कालिकावातैः प्रेर्यमाणां विलोलिता । तरसा राक्षसीद्वीपसमीपं समुपाचरेत् ॥ तदा तेषां महाधीरः स्मृत्वा लोकेश्वरं नमेत् । लोकेशस्तान्स्तदा सर्वान् कृपादृष्ट्यावलोकयन् ॥ ततस्ताः कालिका वाता न चरेयुः प्रसादिताः । ततो नौ सवणिक्सार्था स्वस्ति रत्नाकरं व्रजेत् ॥ (२८३) तत्र ते वणिजः सर्वे लब्धरत्नाः प्रमोदिताः । स्वस्ति प्रत्यागताः स्वस्ति समियुः स्वपुरं लघु ॥ यदि दैवाद्विपत्तिः स्यात्सर्वतीर्थजलाश्रये । मृतास्ते शोषितात्मानः संप्रयायुः सुखावतीम् ॥ यश्च दुष्टो वधात्सृष्टो गृहीतो वध्यघातकैः । भीतो लोकेश्वरं स्मृत्वा ध्यात्वा नामाप्युदाहरेत् ॥ तदा लोशेश्वरस्तं स कृपादृष्ट्यावलोकयेत् । ततस्ते घातकाः सर्वे तं हन्तुं नाभिशक्नुयुः ॥ यदि विघातितो दैवात्त्यक्त्वा पापाश्रयां मृतः । शुद्धाशयो विशुद्धात्मा संप्रयायात्सुखावतीम् ॥ सर्वे यक्षाश्च गन्धर्वाः कुम्भाण्डा राक्षसा अपि । किन्नरा गरुडा नागा भूताः प्रेताः पिशाचिकाः ॥ लोकेश्वरस्य भक्तारं ध्यातारं स्मृतिभाविनम् । नामोच्चारणकर्तारं द्रष्टुमपि न शक्नुयुः ॥ यश्चापि निगडैर्बद्धा स्थापितो बन्धनालये । स्मृत्वा लोकेश्वरं द्यात्वा तिष्ठेन्नामाप्युदाहरेत् ॥ तत्क्षणे लोकनाथस्तं कृपादृष्ट्यावलोकयेत् । तदा स बन्धनान्मुक्तो धर्माभिरततो भवेत् ॥ यश्चारण्ये गृहे वापि चौरैर्धूतैरुपद्रुते । स्मृत्वा लोकेश्वरं ध्यात्वा नमेन्नामाप्युदाहरेत् ॥ तत्क्षणे लोकनाथस्तं कृपादृट्यावलोकयेत् । तदा ते धूर्तकाश्चौराः सर्वे यायुः पराङ्मुखाः ॥ यश्च रोगी सदा दुष्टः कुष्ठव्याध्याचिताश्रयः । स्मृत्वा लोकेश्वरं ध्यात्वा नमेन्नामाप्युदाहरेत् ॥ तत्क्षेणे लोकनाथस्तं कृपादृष्ट्यावलोकयेत् । तदा स व्याधितो मुक्तो नीरोगी पुष्टितेन्द्रियः ॥ शुद्धाशयो विशुद्धात्मा भवेत्संबोधिमानसः । यदि दैवाद्विपत्तिः स्याद्धित्वा दुःखाश्रयं तनुम् । शुद्धाशयो विशुद्धात्मा संप्रयायात्सुखावतीम् ॥ (२८४) यश्च दरिद्रितो दुःखी दीनोऽनाथो दुराश्रयः । स्मृत्वा लोकेश्वरं ध्यात्वा नमेन्नामाप्युदाहरेत् ॥ तत्क्षणे लोकनाथस्तं कृपादृष्ट्यावलोकयेत् । तदा स श्रीगुणोत्पन्नो भवेत्साअधुः शुभेन्द्रियः ॥ यश्च संग्राममध्येऽपि शत्रुभिः परिवेष्टित । स्मृत्वा लोकाधिपं ध्यात्वा नमेन्नामाप्युदाअहरेत् ॥ तत्क्षणे लोकनाथस्तं कृपादृष्ट्यावलोकयेत् । तदा सोऽरीन्विनिर्जित्य लब्ध्वा रमेज्जयश्रियम् ॥ यश्चापि दह्यमानेषु गृहोद्यानाश्रमेष्वपि । स्मृत्वा लोकाधिपं ध्यात्वा नाम प्रोच्चारयन्नमेत् ॥ तत्काले लोकनाथस्तं कृपादृष्ट्यावलोकयेत् । तदा स सहसा वह्निस्कन्धः शाम्येन्निराकुलः ॥ विवादे कलये वापि परिभूतेऽपि दुर्जनैः । स्मृत्वा लोकेश्वरं ध्यात्वा नाम प्रोच्चारयन्नमेत् ॥ तत्क्षणे लोकशास्ता तं कृपादृष्ट्यावलोकयेत् । तदा स विजयन् सर्वान् संस्थापयेन्निजे वशे ॥ यश्च क्लेशाग्निसंतप्तो व्याकुलेन्द्रियमानसः । स्मृत्वा लोकप्रभुं ध्यात्वा नमेन्नामाप्युदाहरन् ॥ तत्क्षणे तं महासत्त्वो दयादृष्त्यावलोकयेत् । तदा निःक्लेशभद्रात्मा भवेद्भद्रेन्द्रियः सुधीः ॥ योऽपुत्रः पुत्ररत्नार्थी तं लोकेशं शरणं गतः । स्मृत्वा ध्यात्वा यथाशक्ति भजेन्नामान्युदाहरन् ॥ तदा स त्रिजगद्भर्ता कृपादृष्ट्यावलोकयेत् । दद्यात्तस्मै पुत्ररत्नं महासत्त्वं जगत्प्रियम् ॥ सुतार्थिनेऽपि सत्पुत्रीं रमाकारां शुभेन्द्रियाम् । सर्वसत्त्वप्रियां कान्तां साध्वीं दद्याज्जगत्प्रभुः ॥ विद्यार्थी लभते विद्यां धनार्थि लभते धनम् । राज्यार्थी लभते राज्यं लोकेशभक्तिमानपि ॥ (२८५) द्रव्यार्थी लभते द्रव्यं गुणार्थी लभते गुणम् । भोग्यार्थी लभते भोज्यं गृहार्थी लभते गृहम् ॥ एवमन्यानि वस्तूनि सर्वोपकरणान्यपि । यथाभिवांछितं सर्वं लभेल्लोकेशभक्तिमान् ॥ तेनासौ त्रिजगन्नाथ आर्यावलोकितेश्वरः । इति प्रख्यापितः सर्वैर्धर्मराजैमुनीश्वरैः ॥ एवं महत्तरं पुण्यं लोकेशभक्तिभाविनाम् । अप्रमेयमसंख्येयं संबुद्धपदसाधनम् ॥ इत्येवं सुगतैः सर्वैः समादिष्टं समन्ततः । बोधिसत्त्वैर्महाभिज्ञैः सर्वैश्चापि प्रशंस्यते ॥ इति मत्वा महाराज लोकनाथस्य सर्वदा । शरणे समुपाश्रित्य भजस्व श्रद्धया मुदा । यस्य लोकेश्वरे भक्तिस्तस्य पापं न किंचन । दुष्टक्लेशभयं नापि निर्विघ्नं सत्सुखं सदा ॥ सर्वे दुष्टगणा माराः क्षीयन्ते सर्वतः सदा । यमदूतादयश्चापि पलायेयुः पराङ्मुखाः ॥ लोकेशभ्क्तिभाजांश्च पुण्यधारा निरन्तरा । अप्रेया असंख्येयाः प्रवर्धन्ते दिवानिशम् ॥ एतत्पुण्यानुभावैस्तु सद्धर्मस्तेन लभ्यते । तत्सद्धर्मानुभावेन संबुद्धो दृश्यतेऽग्रतः ॥ ततो बुद्धानुभावेन बोधिचित्तं सुलभ्यते । बोधिप्रणिधिचित्तेन चर्यन्ते बोधिचारिकाः ॥ क्रमात्संबोधिसंभारं पूरयित्वा यथाक्रमम् । सर्वान् क्लेशान् विनिर्जित्याअचतुर्मारगणानपि ॥ सर्वत्र वशिता प्राप्ता धारणीगुणसंयुता । दशभूमीश्वरो भूत्वा संबोधिं समवाप्नुयात् ॥ इति मत्वा महाभिज्ञो लोकेश्वरो जिनात्मजः । भजनीयः सदा सद्भिः संबुद्धपदवांछिभिः ॥ (२८६) ये भजन्ति सदा नित्यं लोकेश्वरं जगत्प्रभुम् । तेषां नैव भयं किंचित्सर्वत्र सर्वदापि हि ॥ रक्षेयुस्तं समालोक्य ब्रह्यादयो महर्षयः । शक्रादयः सुरेन्द्राश्च सर्वलोकाधिपा अपि ॥ रक्षेयुरग्नयोऽप्येनं लोकेशभक्तिभाविनम् । धर्मराजादयः प्रेताः सर्वे निशाचरा अपि ॥ वरुणाश्च हि राजाश्च सर्वे वायुगणा अपि । सर्वे श्रीदादयो यक्षाः सर्वे भूताधिपा अपि ॥ सूर्यादयो ग्रहाः सर्वे चन्द्रादयश्च तारकाः । सर्वे सिद्धाश्च साध्याश्च रुद्रा विद्याधरा अपि ॥ धृतराष्ट्रादयः सर्वे गन्धर्वा अपि सर्वदा । विरुढकादिकुम्भाण्डा रक्षेयुस्तं सदानुगाः ॥ विरुपाक्षादयः सर्वे नागेन्द्रा गरुडा अपि । कुवेरप्रमुखाः सर्वे यक्षा अपि समादरात् ॥ द्रुमादिकिन्नराः सर्वे वेमचित्रादयोऽसुराः । सर्वे पैशाचिकाश्चापि रक्षेयुस्तं समाहितः ॥ सर्वे मातृगणाश्चापि सकुमारगणाधिपाः । सर्वेऽपि भैरवाः सर्वे महाकालगणा अपि ॥ सडाकडाकिनीसंघाः सर्वे कापालिका अपि । सर्वे वैताडिकाश्चापि दृष्ट्वा चेयुस्तमादरात् ॥ तथा च योगिनः सिद्धा अविकल्पा जितेन्द्रियाः । दूराद्दृष्ट्वाभिरक्षेयुस्तं लोकेशशरणाश्रितम् ॥ वज्रपाण्यादयो वीराः सर्वमन्त्रार्थसाधकाः ॥ रक्षेयुस्तं समालोक्य लोकेशभक्तिचारिणम् ॥ यतयस्तीर्थिकाश्चापि तापसा ब्रह्मचारिणः । वैष्णवा अपि शैवाश्च लिंगिनो व्रतिनोऽपि च ॥ दूरादपि तमालोक्य भक्तिमन्तं जगत्प्रभोः । प्रणत्वा प्रांजलिं धृत्वा प्रशंसेयुः समादरात् ॥ (२८७) अर्हन्तो भिक्षवश्चापि दृष्ट्गा तं दूरतो मुदा । धन्योऽसीति समाराध्य प्रकुर्युरभिनन्दितम् ॥ श्रावकाश्चैलकाश्चापि व्रतिनश्चाप्युपासकाः । दूरतस्तं महाभागं दृष्ट्व नमेयुरानताः ॥ सर्वे चापि महासत्त्वा बोधिसत्वा जिनात्मजाः । वरदानैस्तमाराध्य चारयेयुर्जगद्धिते ॥ प्रत्येकसुगतश्चापि दृष्ट्वा तं बोधिभागिनम् । समालोक्य समाश्वास्य प्रेरयेयुः सुसंवरे ॥ संबुद्धा अपि सर्वे तं संबुद्धपदलाभिनम् । दृष्ट्वाभिनन्द्य सद्धर्मे नियुज्यावेयुराभवम् ॥ एवमस्य जगद्भर्तुर्लोकेशस्य महात्मनः । सद्धर्मगुणमाहात्म्यं सर्वबुद्धैः प्रशंस्यते ॥ एवं महत्तरं पुण्यं लोकेशभजनोद्भवम् । मत्वा सदानुमोदित्वा श्रोतव्यं बोधिवांछिभि ॥ इदं सर्वं महायानसूत्ररत्नं सुभाषितम् । शृण्वन्ति श्रद्धया येऽपि कलौ पंचकषायिते ॥ दुर्गतिं ते न गच्छिन्त कदाचन कथंचन । सदा सद्गतिसंजाता भवन्ति भद्रचारिणः ॥ लोकेशस्य जगच्छास्तुः सर्वदा शरणे स्थिताः । ध्यात्वा नाम समुच्चार्य स्मृत्वा भजेयुराभवम् ॥ एतत्पुण्यानुलिप्तास्ते भद्रश्रीसद्गुणालयाः । सद्धर्मसुखसंपत्तिं भुक्त्वा यायुः सुखावतीम् ॥ एनं यः सकलांल्लोकांच्छ्रावयति प्रबोधयन् । सोऽपि न दुर्गतिं याति याति सद्गतिमेव हि ॥ एतत्पुण्यविशुद्धात्मा भद्रश्रीसद्गुणाश्रयः । सद्धर्मसुखसंपत्तिं भुक्त्वा यायात्सुखावतीम् ॥ यश्चापीदं कलौ काले निरपेक्षाः स्वजीविते । सभामध्ये समासीनो भाषेत्सूत्रसुभाषितम् ॥ (२८८) सोऽप्येतत्पुण्यशुद्धात्मा यायान्न दुर्गतिं क्वचित् । सदा सद्गतिसंजातो भद्रश्रीसद्गुणाश्रयः ॥ सर्वसत्त्वहिताधानं सद्धर्ममेव साधयन् । शुभिओत्साहसहत्सौख्यं भुक्त्वा यायात्सुखावतीम् ॥ तत्रामितरुचेः शास्तुः सर्वे शरणे स्थिताः । सदा धर्मामृतं पीत्वा चरेयुर्बोधिसंवरम् ॥ ततस्ते बोधिसंभारं पूरयित्वा यथाक्रमम् । भवेयुः सर्वे लोकेशा दशभूमीश्वरा अपि ॥ ततस्ते निर्मलत्मानो बोधिसत्त्वा जिनात्मजाः । भवेयुयुस्त्रिगुणाभिज्ञा महासत्त्वाः शुभेन्द्रियाः ॥ क्लेशान्मारगणान् सर्वान् जित्वार्हन्तो निरंजनाः । त्रिविधां बोधिमासाद्य संबुद्धपदमाप्नुयुः ॥ येऽपि वेदमहायानसूत्रराजं लिखेन्मुदा । तेनापि लिखितं सर्वमहायानसुभाषितम् ॥ लेखापितं च येनेदं सूत्रराजसुभाषितम् । तेन लेखापितं ज्ञानं सर्वं महायानसुभाषितम् ॥ लिखितं वापि येनेदं प्रातिष्ठाप्य यथाविधि । शुद्धस्थाने गृहे स्थाप्य पूजांगैः सर्वदार्चितम् ॥ तेनार्हन्तो जिनाः सर्वे प्रत्येकसुगता अपि । ससंघा बोधिसत्त्वाश्च भवन्ति पूजिताः खलु ॥ यश्चापीदं स्वयं धृत्वा परेभ्योऽपि समादिशेत् । भावयेत्सततं स्मृत्वा ध्यात्वापि प्रणयेन्मुदा ॥ तस्य सर्वे मुनीन्द्राश्च प्रत्येकसुगता जिनाः । अर्हन्तो बोधिसत्त्वाश्च तुष्टा दद्युः समीहितम् ॥ यश्चैतदुपदेष्टारं सर्वांश्च श्रावकानपि । यथाविधि समभ्यर्च्य भोजनैः परितोषयेत् ॥ तेन सर्वेऽपि संबुद्धाः प्रत्येकसुगता अपि । अर्हन्तो भिक्षवः सर्वे योगिनो ब्रह्मचारिणः ॥ (२८९) बोधिसत्त्वाश्च सर्वेऽपि व्रतिनो यतयोऽपि च । अभ्यर्च्य भोजनैर्नित्यं भवेयुः परितोषिताः ॥ किमेवं बहुनोक्तेन सर्वे बुद्धाः मुनीश्वराः । सर्वाः पारमिता देव्यः सर्वे संघा जिनात्मजाः ॥ नित्यं तेषां समालोक्य कृपादृष्ट्यानुमोदिताः । रक्षां विधाय सर्वत्र वरं दद्युर्जगद्धिते ॥ लोकपालाश्च सर्वेऽपि सर्वे देवाश्च दानवाः । रक्षां कृत्वा वरं दद्युस्तेषां सद्धर्मसाधिनाम् ॥ राजानोऽपि सदा तेषां रक्षां कृत्वानुमोदिताः । यथाभिवांछितं कृत्वा पालयेयुः समाअदरात् ॥ मन्त्रिणोऽपि सदा तेषां सामात्यसचिवानुगाः । सभृत्यसैन्यभट्टाश्च भवेयुर्हितकारिणः ॥ सर्वे वैश्याश्च सर्वार्थभर्तारः स्युः सुहृत्प्रियाः । श्रेष्ठिमहाजनाः सर्वे भवेयुर्हितकारिणः ॥ द्विषोऽपि दासतां यायुर्दुष्टाश्च स्युर्हिताशयाः । एवमन्येऽपि लोकाश्च सर्वे स्युर्मैत्रमानसाः ॥ पशवः पक्षिणश्चापि सर्वे कीटाश्च जन्तवः । नैव तेषां विरुद्धाः स्युर्भवेयुर्हितशंसिनः ॥ एवं सर्वत्र लोकेषु तेषां सद्धर्मसाधिनाम् । निरुत्पातं शुभोत्साहं सौमांगल्यं सदा भवेत् ॥ एवं भद्रतरं पुण्यं लोकेशभजोनोद्भवम् । मत्वा तं त्रिजगन्नाथं भजस्व सर्वदा स्मरन् ॥ ये तस्य शरणे स्थित्वा ध्यात्वा समाहिताः । नामापि च समुच्चार्य भजन्ति श्रद्धया सदा ॥ तेषां स्युः सुप्रसन्नानि त्रिरत्नान्यपि सर्वदा । कृपादृष्ट्या समालोक्य कृत्वा चेयुः शुभं सदा ॥ एतच्छास्त्रा समादिष्टमुपागुप्तेन भिक्षुणा । श्रुत्वाशोकः स भूमीन्द्रः प्राभ्यननदन् प्रबोधितः ॥ (२९०) सभा सर्वावती सापि श्रुत्वैतत्संप्रसादिता । तथेति प्रतिवन्दित्वा प्राभ्यनन्दत्प्रबोधिता ॥ ततस्ते सकला लोकाः समुत्थाय प्रमोदिताः । उपगुप्तं तमर्हन्तं नत्वा स्वस्वालयं ययुः ॥ ततः प्रभृति राजा स लोकेशं सर्वदा स्मरन् । ध्यात्वा नाम समुच्चार्य प्राअभजत्पालयन् प्रजाः ॥ तदा तस्य नरेन्द्रस्य विषये तत्र सर्वदा । निरुत्पातं शुभोत्साहं प्रावर्तत समन्ततः ॥ इति जयश्रियादिष्टं निशम्य स ससांघिकः । जिनश्रीराज आत्मज्ञः प्राभ्यनन्दत्प्रबोधितः ॥ ततश्चासौ महाभिज्ञो जयश्रीः सुगरातात्मजः । सर्वान् संघान् समालोक्य पुनरेवं समादिशत् ॥ यत्रेदं सूत्रराजेन्द्रं प्रावर्तयेत्कलावपि । भाषेद्यः शृणुयाद्यश्च श्रावयेद्यश्च प्रचारयेत् ॥ एतेषां तत्र सर्वेषां संबुद्धाः सकलाः सदा । कृपादृष्ट्या समालोक्य कुर्वन्तु भद्रमाभवम् ॥ सर्वाः पारमितादेव्यस्तेषां तत्र सदा शिवम् । कुर्वन्त्या बोधिसंभारं पूरयन्तु जगद्धिते ॥ सर्वेऽपि बोधिसत्त्वाश्च प्रत्येकसुगता अपि । अर्हन्तो योगिनस्तेषां भद्रं कुर्वन्तु सर्वदा ॥ ब्रह्मदिलोकपालश्च सर्वे चापि महर्षयः । तत्र तेषां च सर्वेषां कुर्वन्तु मंगलं सदा ॥ काले वर्षन्तु मेघाश्च भूयाच्छस्यवती मही । निरुत्पातं महोत्साहं सुभिक्षं भवतु ध्रुवम् ॥ बहुक्षीरप्रदा गावो वृक्षाः पुष्पfअलान्विताः । औषध्यो रसवीर्याद्या भूयात्सुस्तत्र सर्वदा ॥ भवन्तु प्राणिनः सर्वे आरोग्यचिरजीविनः । सर्वद्रव्यसमापन्नाः श्रीमन्तो भद्रचारिणः ॥ (२९१) राजा भवतु धर्मिष्ठो मन्त्रिणो नीतिचारिणः । सर्वे लोकाः सुवृत्तिस्था भवन्तु धर्मसाधिनः ॥ मा भुत्कश्चिद्दुराचारश्चौरो दुष्टश्च वंचकः । दरिद्रो दुर्भगो दीनो मदमानाभिगर्वितः ॥ सर्वे सत्त्वाः समाचाराः परिशुद्धत्रिमण्डलाः । स्वस्वकुलव्रतारक्षाः प्रचरन्तु जगद्धिते ॥ सर्वे भद्राशयाः सन्तः संबोधिव्रतचारिणः । त्रिरत्नभजनं कृत्वा संचरन्तां सदा शुभे ॥ इति जयश्रियाख्यातं श्रुत्वा सर्वेऽपि सांघिकाः । एवमस्त्विति विज्ञप्य प्राभ्यनन्दन् प्रमोदिताः ॥ ॥ इति जिनश्रीराजपरिपृष्टजयश्रीसंप्रभाषित- श्रीमदार्यावलोकितेश्वरगुणकारण्डव्यूहसूत्रराजं समाप्तम् ॥ ये धर्मा हेतुप्रभवा हेतुं तेषां तथागतो ह्यवदत् । तेषां च यो निरोधमेवंवादी महश्रमणः ॥ ॥ शुभमस्तु ॥