अजातशत्र्ववदान = गोअश् १. अजातशत्रु महान्ति पापान्यभिभूय यस्मादजातशत्रुर्गुणवान् बभूव । उपेत्य सद्भिः सह संप्रयोगमतो निषेव्या गुणवन्त एव ॥ गोअश्_१ ॥ अहो विभूतिर्गुणविस्तराणां गुणाब्धिकैर्यत्सह संप्रयुज्य । गुणैरभूतैर्विगुणोऽभ्युपेति गुणप्रसिद्धिं गुणभूषनेषु ॥ गोअश्_२ ॥ अभूतसंभावनया तया तु हतोऽप्यसौ कालवशेन भूपः । तुषारदग्धद्रुमवद्वसन्ते गुणप्रभावोज्ज्वलतामुपैति ॥ गोअश्_३ ॥ स्वभावसंसिद्धिरियं तथा हि जनस्य सद्वृत्तिनिरत्ययस्य । विजिह्मभावेष्वपि यत्प्रयाति गुणप्रसिद्धेः खलु हेतुभावम् ॥ गोअश्_४ ॥ ब्रवीम्यतोऽहं नरकेऽपि वासो वरं स्फुरद्वह्निशिखाकराले । न चैव सन्मित्रनिराकृतस्य सुरेश्वराणां सुखसंपदोऽपि ॥ गोअश्_५ ॥ तद्यथानुश्रूयते राजा किलाजातशत्रुर्वनद्विरदवरोपग्रहनिमित्तं स्वनगरादभिनिःसृत्य ददर्श महान्तं कुञ्जरवरं वनाभिमुखमभिद्रवन्तम् । दृष्ट्वा च पुनस्तमेव हस्तिनमनुजगाम । स च दन्ती स्मृत्वा सरांसि कमलोत्पलमण्डितानि कादम्बपक्षपवनोद्धतशीकराणि । उद्भिन्नकोमलकसेरुलतावनानि वेगान्महीधरवनाभिमुखो जगाम ॥ गोअश्_६ ॥ उत्कण्ठितः किसलयोज्ज्वलपादपानां वैडूर्यनीलहरितोद्गतशाद्वलानाम् । उद्धूतशीकरकरो द्विरदो वनानां तूर्णं ययौ पवननुन्न इवाम्बुगर्भः ॥ गोअश्_७ ॥ अथ स महीपतिः पवनपटुजवातिशयतुरगवराधिरूढो दूरादपसृतबलसहायो न चिरेण खदिरबदरबिल्वेङ्गुदादिकण्टकद्रुमवनगहनां शरवणकाशकुशवंशजालजटिलदुःसंचारप्रदेशां जीर्णशीर्णविक्षिप्तास्थिकङ्कालशकलधवलभूमिभागां प्रतिभयगम्भीरश्वभ्रप्रपातस्थलस्थाणुवल्मीकदुर्निर्गमप्रवेशामटवीं प्रपेदे । स च गजाधिपतिस्तस्य राज्ञो दर्शनमपजगाम । राजासौ विहतपराक्रमावकाशो ग्रीष्मोष्मक्लमशिथिलाकुलप्रयत्नः । भूरेणुव्यतिकरधूसराग्रकेशः संमोहं समुपजगाम साध्वसेन ॥ गोअश्_८ ॥ तस्मिन् खड्गविषाणकोटिकष्ण __ __ __ __ __ सिंहव्याघ्रवराह __ महिषव्यालावकीर्णे वने । एकाकी स नृपो भ्रमन् रविकरज्वालाप्रतापातुरस् तृष्णार्तः पदवीं ददर्श सहसा शैलेन्द्रसंप्रापिकाम् ॥ गोअश्_९ ॥ तां च मुहूर्तमनुगच्छन् ददर्श दूरादेव नीलविपुलस्निग्धपलाशनिचितविटपतरुवरगहनमचलसानुप्रदेशम् । दृष्ट्वा + + + + + + + + + + + + + + + + + + + + + + + यनः(?) प्रोवाच ॥ अस्मिन्नूनं प्रदेशे नवनलिनवनच्छन्नतोयं सरो वा धारा शैलोदराद्वा पतति मणिदलस्वच्छशोभा जलस्य । वृक्षास्तत्संनिकर्षादुपचितविपुलश्यामशाखाप्रशाखा येनैते शैलमेतं जगदिव सकलं सज्जनाः शोभयन्ति ॥ गोअश्_१० ॥ दूरत्वाद्<अ> __ __ __ऽ __ __ __ __ __ __ __ __ __ भारगुरवो जीमूतपुञ्जा इव । एते वृद्धिमुपागताः खलु परामासाद्य तोयाशयं सन्मित्रं समुपेत्य साधव इव प्रध्वस्यमानारयः ॥ गोअश्_११ ॥ तदितो गच्छामीति संप्रधार्योपेत्य च तं प्रदेशं समन्ततो विलोकयन् ददर्शान्यतमस्मिन् तरुवरगहनविवरे + + + + + + + + + + + + + + + + + + + + + + + + + + + + कोपहाराभिदर्शने विपुलशिलातलाभोगनिषण्णकृताहारप्रयोजनमुपशमनिभृतेन्द्रियप्रचारसौम्यवपुषं शाक्यभिक्षुं दृष्ट्वा समाश्वासप्राप्तः प्रह्लादित इव विश्रान्त इव च वाजिनमेकान्ते निबध्य सप्रश्रयमःधुरो + + + + + + + + + + + + + + + + + + + + + + + + + + क्त इव च विकचकमलवनरेणुपिञ्जरसुरभिशिशिरसमीरणेन तं भिक्षुमब्रवीत् । भदन्त सलिलाशयप्रदेशमुपदेष्टुमर्हतीति । तेन चोपदिष्टम् । अथ स राजा तमुपदिष्टं सलिलाशयमुपगम्य विगतपिपासाक्लमपरि + + + + + + + + + + + + + + + + + + + ॥ __ __ __ __ __ मयूखैः प्रस्वेदवारिकणिकार्द्रललाटभित्तिः । पीत्वापि वारि कमलोत्पलनालशीतं तीव्रक्लमातुरमना न धृतिं जगाम ॥ गोअश्_१२ ॥ अथ स भिक्षुः सान्द्रकरुणामृतरसार्द्रशीतलेन चक्षुषा तं राजानमभिसमीक्ष्याब्रवीत् । क्लीबसत्त्वमिव व्या + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + <प्र>वादो लोकवृत्तातिवृत्तप्रभावेष्वप्युपलक्ष्यते । न खलु सुखोचिताः परदुःखानि जानन्तीति । ननु भदन्तावैषि ॥ दग्धापि भू रविकरैः स्फुटदीप्तिमद्भिर्दन्दह्यते गतघृणेन दवानलेन । भर्तुः प्रवासविरहे वनितेव दुःखैस्त __ __ __ __ __ __ ॥ गोअश्_१३ ॥ __ __ __ __ __ __ __ ः संतापिता रविकरैः सुतरां प्रचण्डैः । कल्याणमित्रविकलास्तु विचारशून्या रागात्मका इव नराः प्रमदाविलासैः ॥ गोअश्_१४ ॥ घर्मातुरो भयमनागतमप्रधार्य च्छायां समाश्रयति भोगिफणस्य भेकः । आपातमात्रसुख __ __ __ __ __ __ __ __ मिव राजलक्ष्मीम् ॥ गोअश्_१५ ॥ संशुष्कसालतरुकोटरसंनिलीनो व्यर्थं विरौति परिशुष्कगलः कपोतः । अज्ञानगह्वरनिरुद्ध इवात्मवादी बालः पुनर्भवतृषाविषमूर्छितात्मा ॥ गोअश्_१६ ॥ एते गजा रविकरोत्करतापितेषु नैव स्थलेषु न जलेषु धृतिं लभन्ते । ग्रामेषु पुष्पविकचेषु च काननेषु पारिप्लवाल्पमतयो यतयो यथैव ॥ गोअश्_१७ ॥ अम्ब्वेव (?) पल्वलजलं क्षयमभ्युपैति संशुष्कशैवलरजोऽरुणपङ्कलेशम् । मन्दागमस्य सदसीव विजृम्भमाणं वाक्कौशलं स्वमतिशक्तिनिराकृतस्य ॥ गोअश्_१८ ॥ एते खगा वनतरून् परिवर्जयन्ति संशीर्णपर्णनिचयोर्ध्वविशुष्कशाखान् । विस्मृत्य पूर्वपरिभोगसुखान्यनार्या वेश्या विलुप्तधनसारमिवाल्पसत्त्वम् ॥ गोअश्_१९ ॥ दावाग्निभस्मपरुषैः पवनैरुदस्तमेतद्भ्रमत्यविरतं तरुपर्णचक्रम् । उत्पीड्यमानमनिशं निरवग्रहेण संसारचक्रमिव कर्मसमीरणेन ॥ गोअश्_२० ॥ पर्यन्तेषु स्फुटितशकलच्छेदसंपर्करूक्षस् तोयाभ्याशे स्रुतजलतया न द्रवो नातिशुष्कः । किंचिच्छेषाकलुषसलिलाप्लावितो मध्यभागे पङ्कः शोषं स्फुरितशफरीजालगर्भः प्रयाति ॥ गोअश्_२१ ॥ किंचिच्छेषविवर्णपर्णशबला मूले कठोरारुणा मन्दश्यामपलाशसंचयवती मध्ये समार्द्रच्छविः । घर्मश्यामविभुग्नपल्लवदला प्रान्ते लता नर्तकी म्लानिं यात्यनिशं कलाविव युगे सत्पौरुषी धर्मता ॥ गोअश्_२२ ॥ छत्त्रैर्व्यभ्रशशाङ्कमण्डलसितै रत्नप्रभाभास्वरैर् विक्षिप्ताः किरणा यदस्य बहुशो निर्याणकाले मम । तद्वैरं हृदयेन संचितमयं नूनं वहत्यंशुमान् यस्याग्निर्दहतीव दुर्जनवचस्तीक्ष्णैर्मयूखाङ्कुरैः ॥ गोअश्_२३ ॥ अथ स भिक्षुः कथान्तरविवक्षया स्मितमाविश्चकार । + + + + + + + + + + + + + स राजा समन्ततो निरीक्ष्यान्यमनीक्षमाणो मामेवाधिकृत्य प्रव्रजितेन स्मितमादर्शितमिति विनिश्चित्य कुतूहलाक्रान्तमतिस्तमब्रवीत् ॥ विनयधीरमिदं च वपुस्तव स्मितमिदं च भदन्त विधार्यते । चलति बुद्धिरियं पवनाहता वनलतेव किमत्र नु कारणम् ॥ गोअश्_२४ ॥ + + + + + + + + + + + + + + + + + + + + । अथ स पार्थिवः सुतरामुपजातविमर्शसंभ्रमोद्भ्रान्तमानसः पुनरपि तं भिक्षुं स्मितप्रयोजनं पर्यपृच्छत् । स च भिक्षुस्तदुपकारकामतयैव राज्ञः प्रोवाच ॥ सूर्यातपो दहति वत्स शरीरकं ते तस्मात्सुखोचितमिदं तु रोगनीडम् । दुः<ख> __ __ __ __ __ __ __ __ __ <अ>भितापितानाम् ॥ गोअश्_२५ ॥ वस्त्रातपत्रतरुमन्दिरचन्दनाम्बुहारादयस्तदुपघातनिमित्तभूताः । दुःखं त्वनागतमवीचिसमुद्भवं ते नाशं प्रयास्यति नराधिप कैरुपायैः ॥ गोअश्_२६ ॥ प्राणोपरोधसमकालमवश्यभावि यत्प्राप्स्यसि त्वमकृत<ज्ञ> बहुप्र<कारम् ।> दुःखं यदा क्षण<य> __ __ __ __ __ त्<तव तद्गजभया> __ क्षणेन ॥ गोअश्_२७ ॥ कर्मेन्धनः स्फुरति तत्र (?) सदा हुताशो दुर्वृत्तशोणितवसासवपानशौण्डः । यो बान्धवानिव परिष्वजते प्रगाढं ज्वालाभुजैरविरलैः स्वकृतापराधान् ॥ गोअश्_२८ ॥ वीचिं वदन्ति विवरं न च तत्र का चिद्दुःखस्य वीचिरपि तिर्यगुपर्यधो वा । यस्मादवीचिरिति तेन च संप्रसिद्धः शीर्णस्त<नोति भ>वनो नरकान्तरेषु ॥ गोअश्_२९ ॥ यत्र त्वयातिथिजनप्रणयो निषेव्यो ज्वालासखीशतपरिष्वजनोचितेन । स त्वं व्यथामुपगतो रविरश्मितप्तो हाराद्बिभेषि न तु घोरविषाद्भुजङ्गत् ॥ गोअश्_३० ॥ यस्योत्सङ्गे क्षितितलरजोधूसरस्त्वं निषण्ण __ __ __ __ __ ँ ँ ँ ँ ँ । प्रेम्णा येनाकरुणहृदयो वर्धितः पालितश्च तं त्वं हत्वा यदि न पतितस्तत्क्षणं चित्रमेतत् ॥ गोअश्_३१ ॥ बाल्ये लालासलिलमलिनं पाणिना वक्त्रपद्मं येनामृष्टं विकचकमलच्छेदताम्रोदरेण । त्वां कृत्वाङ्के कृपण भवतः कुञ्चिताः काकपक्षा ये __ __ __ __ __ __ __ __ __ ॥ गोअश्_३२ ॥ स त्वं हत्वा पितरमपि ते धार्मिकं धर्मराजं कामास्वादव्यसनमदिरापानविक्षिप्तचित्तः । स्वस्थावस्थश्चरसि नरकद्वारशालां प्रविष्टो ज्वालाहस्तैर्नरकशिखिनः स्प्रष्टुमिच्छन्ति हि त्वाम् ॥ गोअश्_३३ ॥ ज्वलदनलशीखावलीपिङ्गलान्तःस्थलं सर्वतस्तुङ्गनिःसङ्गनिश्छिद्रलोहाद्रिजालावृतच्छिन्नसंभिन्नसंविग्नसंकूजितोत्कृष्टनिष्पिष्टनिष्पीडितोत्क्षिप्तविक्षिप्तलुप्तावलुप्ताश्रयप्राणिसंघाकुलभीषणं कृपण<क> नरकं पदा यास्यसि प्रेरितो दारुणैः कर्मवातैरनेकोग्रदुःखप्रकर्षातिसंतापितो दीनकण्ठो __ ऊर्ध्वबाहुर्ज्वलच्छूलचक्रासिकुन्तप्रहारव्रणोद्वान्तरक्तोक्षितस्तत्र चाकामकः संवसन् । ज्वलदनलकमण्डलाकोटरस्तब्धनेत्रैः स्फुरत्कोपसंदष्टदन्तच्छदैरुद्यताग्रायुधैरन्तकाज्ञाकरैस्तिष्ठ तिष्ठेति निस्तर्जितो भीतभीतो दिशः प्रेक्षमाणः स्थितोऽस्मीति कृच्छ्रादभिव्याहरन् कामवस्थामभिप्राप्स्यसि त्वं धृतो दुष्कृतैः कर्मभिर् यदि समनुविचारयेत्तद्भवान्नूनम् __ __ __ __ पादोपमाः स्युर्निदाघेऽतितीव्रा अमी भूपते न त्वनभ्याहता यान्ति संवेगमज्ञा जनाः प्रायशो दुःखयन्त्रान्तरस्थास्तु शोचन्ति मोघं प्रलापार्तिशोकाभिभूता भृशम् ॥ गोअश्_३४ ॥ अपि च हे पुत्रक ॥ कान्ताकराग्रविधृतानि मधूनि पीत्वा निश्वाससंचितदलोत्पलचन्द्रिकाणि । संदंशयन्त्रविवृतास्यपुटान्तरालस्ताम्रं कथं कथय पास्यसि वह्निवर्णम् ॥ गोअश्_३५ ॥ स्नात्वा त्वं गृहदीर्घिकाम्भसि हसत्पद्मोत्पलालंकृते तीरान्तानतपुष्पपादपलताच्छायासमालिङ्गिते । क्लिन्नस्विन्ननरास्थिपञ्जरवसानिर्यासपर्याकुले तप्ते वैतरणीजले निपतितो दुःखात्कदा मोक्ष्यसे ॥ गोअश्_३६ ॥ प्रासादे शरदभ्रशुभ्रशिखरे पुष्पावलीमण्डिते वीणावेणुमृदङ्गगीतमधुरे संप्राप्य चित्रं सुखम् । नित्यं प्रज्वलितस्फुटानलशिखासंतानजालाकुलं प्राप्यावीचिमनेकदुःखविहतः किं नाम कर्ता भवान् ॥ गोअश्_३७ ॥ लज्जामात्रविभूषणां सविनयां चारूपचारां प्रियां दृष्ट्वा प्रीतिविजृम्भमाणनयनो विश्रम्भनिर्यन्त्रणाम् । क्रोधप्रज्वलिताक्षिकोशविषमभ्रूभङ्गरौद्राननान् आलोक्यान्तककिंकरानभिमुखान् संमोहमायास्यसे ॥ गोअश्_३८ ॥ श्रीमच्चामरचारुभासुरनरैर्नानाविधैर्वाजिभिः कालिङ्गैश्च विचित्रितोत्तरकुथैर्गन्धोपवाह्यैर्गजैः । तीव्रक्रोधविषैस्तृ __ __ __ __ __ __ __ __ __ __ के विशीर्णचरणो वोढासि दीप्तान् रथान् ॥ गोअश्_३९ ॥ धृतश्चूडापीडो बकुलकुसुमामोदसुभगस् त्वया मूर्ध्ना येन स्फुटमणिकरालं च मुकुटम् । स्फुरद्वह्निज्वालावलयकपिलं चक्रमशिवं वहन्मूर्ध्ना तेन त्वमनुभविता चापलफलम् ॥ गोअश्_४० ॥ किं च भूयः ॥ कलेराज्ञाभङ्गो भवति सुचिराज्जन्मसमये मुनेर्यस्य प्राणिप्रियहितसमाधानविदुषः । जगन्नाथे तस्मिन् भगवति भवोपद्रवहरे प्रदुष्टानां का वा भवतु गतिरन्या परमतः ॥ गोअश्_४१ ॥ उन्मीलिता इव दिशो दश यस्य दीप्तैः कीर्त्यंशुभिर्घनतमःपटलावनद्धाः । तस्मिन् प्रदोषमुपगच्छति यस्तपस्वी <स्वैरेव कर्म>भिरसौ प्रहतः क्षतात्मा ॥ गोअश्_४२ ॥ यो मातेव पितेव बान्धव इव प्राणिष्वनुक्रोशवान् आत्मस्नेहपराङ्मुखेन मनसा जन्माटवीगह्वरे । प्रज्ञावीर्यकृपाभ्युपायसचिवः क्लेशैरनाकम्पितः प्राप्तो बोधिमनुत्तरां स भगवान् कां सत्क्रियां नार्हति ॥ गोअश्_४३ ॥ जगद्धिताधानविधानदीक्षां बभार शास्ता भृशदुर्वहां यः । मनःप्रसादायतनेऽपि तस्मिन् कथं नु चित्तानि विदूषयन्ति ॥ गोअश्_४४ ॥ असज्जनसमागमस्य कटुकावसानं फलं नरेन्द्र समुपस्थितं तदधुना तवापायिकम् । इदं समनुचिन्त्य साधुजनसंगमः सेव्यतां ततस्तव भविष्यति व्यसनपञ्जरान्निर्गमः ॥ गोअश्_४५ ॥ एवं गतेऽपि क्रियतां प्रयत्नः पापप्रहाणे कुशलोदये च । अप्येव नाम व्यसनाम्बुराशेः स्यात्तेऽवसानं नरलोकपाल ॥ गोअश्_४६ ॥ अनेकरूपव्यसनोपमृष्टां समुद्रवेलाजललोलशीलाम् । नरेन्द्रलक्ष्मीमुपगुह्य पापं कृतं त्वया दुःखशतावसानम् ॥ गोअश्_४७ ॥ बहुप्रकारात्ययदारुणेषु विचार्यमाणाल्पसुखोदयेषु । विषज्य कामेषु मनस्त्वयात्मा स्वयं कृतो दुर्गतिदुःखसाक्षी ॥ गोअश्_४८ ॥ अभिसन्धिकृतस्य कर्मणो न हि नाशं प्रवदन्ति सूरयः । अपि कल्पसहस्रकोटिभिः फलदं तन्नियमेन जायते ॥ गोअश्_४९ ॥ अत एव जगौ जगद्वरो जगदालोककरः कृपामयः । भगवान् भवभोगनिःस्पृहः स हि कर्मस्वकतां शरीरिणाम् ॥ गोअश्_५० ॥ सलिलानलराजतस्करैर्धनमत्रैव विलुप्यते नृणाम् । प्रभवन्ति तु तेन कर्मणा स्वमतः कर्म नृणां शुभाशुभम् ॥ गोअश्_५१ ॥ परिवर्तति निश्चलेक्षणः क्षणमात्रप्रतिबद्धजीवितः । मरणाभिमुखो यदा नरो ननु कर्मैव तदा परायणम् ॥ गोअश्_५२ ॥ स्वजनो जनवन्निवर्तने गृहवित्ताद्यपरैर्विलुप्यते । <स्व>कृतं त्वनुयाति देहिनां भवसंक्रान्त्यनुकूलवर्तिनाम् ॥ गोअश्_५३ ॥ अपि च हे महाराज ॥ मरणवशगतस्य जन्तोर्विवृद्धोल्बणश्वासशुष्कौष्ठकण्ठस्य हिक्काप्रवेशानुबन्धाद्विनिर्धूयमानोरसः कलविकलपदाक्षरे भाषिते विह्वले चक्षुषि च्छिद्यमानेषु मर्मस्वनामन्त्र्य रोषादिव प्रस्थि<तैर्वा>युभिः । महति शिथिलतां गते सन्धिसंघातयन्त्रे रुजातीक्ष्णसूची- निपातान्तरे क्वापि गन्तुं कृताभ्युद्यमे जीविते तिमिरगहनसंकटं निर्जनं मार्गमाक्रामतो नास्ति पुण्याद् ऋते कश्चिदन्यः सखा तत्प्रयत्नं कुरु श्रेयसि ॥ गोअश्_५४ ॥ अपि च महाराज ॥ अवश्यं त्यक्तव्यः परमदयितो बान्धवजनः प्रवेष्टव्यं घोरं सभयमसहायेन गहनम् । प्रवासे वस्तव्यं सुचिरमपि चासंस्तुतजने तदस्मात्कर्तव्यं बहुकुशलपाथेयमसकृत् ॥ गोअश्_५५ ॥ अथ स राजा तेन भिक्षुणा तथा संवेजितो यथा क्षणेनोपलब्धकुशलमूलोपचयाभिलाषस्तीव्रभयविषादव्याकुलमानसश्च प्रोवाच ॥ <तद्> अधुना करवाणि भदन्त हे वद वदास्ति दया यदि ते मयि । निपतितं महति व्यसनार्णवे कृपणकं कृपयोद्धर मां यते ॥ गोअश्_५६ ॥ जलदमारुतचन्दनशीतलैरपि वयं वचनैस्तव तापिताः । स्वकृतदुष्कृतशङ्कुशतक्षता विषयलौल्यपराजितमानसाः ॥ गोअश्_५७ ॥ विपरिणामकटूनि मया पुरा विषयसङ्गसुखान्यकृतात्मनाम् । समुपगुह्य कृतं बहु दुष्कृतं दहति यन्मम संप्रति मानसम् ॥ गोअश्_५८ ॥ धिगवरं विषमं विषयाश्रयं सुखमनार्यनिषेवितमध्रुवम् । यदुपगम्य नरा विषयद्विषामिह भवन्ति सदा करुणास्पदम् ॥ गोअश्_५९ ॥ अविनयोऽनुगतो मृदितं यशो न गणितं कुलमायतिरु<ज्झिता ।> __ कलुषं विवृतोऽनयो विषयलौल्य<तया> यागया ॥ गोअश्_६० ॥ असदृशजनसङ्गाभ्यास<दो>षान्मयैव प्रकृतिगुणविनाशो मन्दभाग्यस्य जातः । शठमतिभिरनार्यैर्विप्रलब्धोऽस्मि वाक्यैर् यदिह गुणधनानां शोचनीयोऽस्मि जातः ॥ गोअश्_६१ ॥ प्रकृतिरुचिरवृत्ताः साधवो नानुवृत्ताः सुच मानां वाङ्मधूनां निमित्तम् । यदनयगहनान्तर्वर्तिना<ं> __ __ __ व्यसनशरशतानां लक्ष्यतामागतोऽहम् ॥ गोअश्_६२ ॥ विषयसुखलवाशापाशमामुच्य चित्ते तृणलवमिव जीर्णं प्रोज्झ्य सद्वृत्तवन्तम् । परिणतिविरसानां कर्मणामात्मनैव क्षितिधर इव तुङ्गा राशयः संचिता __ ॥ गोअश्_६३ ॥ __ __ __ __ __ __ <भू>योऽपि मां धक्ष्यति प्रोद्धूताकु<ल>लोलपिङ्गलशिखो वह्निः कथं नारकः । पापात्मा मृत एव नाम सततं योऽन्योऽपि वास्मद्विधो मृत्युः किं मृतमारिकामकरुणः कर्तुं व्यवस्येन्मयि ॥ गोअश्_६४ ॥ दिक्संमोहमुपागतोऽहमधुना गच्छामि कां वा दिशं मज्जामीव भदन्त शोकसरसि व्या __ __ __ __ __ । शैलोऽयं स्फुटतीव पापचरितं मामद्य संधारयन् युष्मत्पादसमाश्रयात्तु शतधा न त्वेव याति ध्रुवम् ॥ गोअश्_६५ ॥ अथ स महात्मा तं राजानं संविग्नमानसमवेत्य पात्रमयं श्रेयस इति विनिर्धार्योवाच । तेन हि महाराज तमेव भगवन्तं विनिपात ... जनावलम्बवत्सलमपा ... त्यक्तसकलसत्त्वधातुमखिलजगद्धिताधानाम्लानप्रयोगमपरिमितविशुद्धोदारातिशयगुणगणरत्नाधिवासं महाकारुणिकं सर्वज्ञं सर्वदर्शनं शाक्यमुनिं शरणमुपैहि । तत एव ते दुःखपरंपरापर्यन्तो भविष्यति + + + + + + + + + + । सुक्षेत्रे बीजमुप्तं भवति बहुफलं तिक्तमास्यप्रियं वा क्षेत्रस्यासौ स्वभावो भवति समगुणः सर्वसस्यप्रसूतौ । एवं कारापकारा भगवति तनवोऽप्याहिताः पापकाले पर्यन्तं नाप्नुवन्ति व्युपरतसकलक्लेशसंतानकाले ॥ गोअश्_६६ ॥ अथ स भूपतिः प्रविजृम्भमाणकुशलमूलोपचयाभिलाषमृदुहृदयतया बुद्धे भगवति समुत्पन्नप्रेमगौरवप्रसादबहुमानः सप्रत्ययाश्रुसलिलबाष्पाविलदीनमृदुमुकुलितनयनयुगलवदनस्तं भिक्षुमुदीक्षमाणो बाष्पगण्डूषोपरुध्यमानकषायकण्ठो धरणितलप्रतिष्ठितजानुमण्डलः कृतकरपुट इत्युवाच ॥ एषोऽहं तमृषिं व्रजामि शरणं प्राणैरपि प्राणिनाम् एकं बान्धवमेकमेव सुहृदं शास्तारमेकं परम् । त्राणं त्रैभुवनार्तिगह्वरदरीव्यावर्तिनां प्राणिनाम् आचार्यं परमार्थतत्त्वविषये भूतार्थनाथं विभुम् ॥ गोअश्_६७ ॥ पुनः पुनरनुत्तरं पुरुषदम्यसत्सारथिं प्रयामि शरणं शरण्यतममप्यहं __ __ । अचिन्त्यचरितं तमेव भगवन्तमद्य कृत- प्रपञ्चविषबीजनिर्मलनिरुत्तराध्याशयम् ॥ गोअश्_६८ ॥ अप्यस्थितिस्हितिमतां शरणं प्रपद्ये लोकोपकारकरणैकरसस्वभावम् । बुद्धं तमेव शतधा च सहस्रधा चा- __ __ __ मकरालयकर्णधारम् ॥ गोअश्_६९ ॥ मन्ये पूतमिवात्मभावमधुना शास्तुः प्रणामोद्भवैः पुण्याम्भोभिरखण्डमण्डलशशिज्योत्स्नावलीनिर्मलैः । को वा तं प्रणिपत्य सान्द्रकरुणाप्रह्लादिताध्याशयं तीव्रापायवतीं विषादमकरां तीर्णो न दुःखापगाम् ॥ गोअश्_७० ॥ यत्रैकोऽप्यकृतधियो मनःप्रदोषः संसारं व्यसनशतैस्तनोति कृत्स्नम् । तत्रैकः कथमपि चेतसः प्रसादो नोच्छिन्द्याद्व्यसनसहस्रतन्तुजालम् ॥ गोअश्_७१ ॥ यं गत्वा शरणमहं जगत्प्रदीपं सर्वासच्चरितविरोधिनीं प्रपन्नः । आर्याणां नयपदवीं समन्तभद्रां तं वन्दे कृपणजनाधिकानुकम्पम् ॥ गोअश्_७२ ॥ इत्युक्त्वा व्यसनपराङ्मुखः स राजा संबुद्धे भगवति निश्चलप्रसादः । तं भिक्षुं क्षितितललग्नमौलिमूर्ध्ना वन्दित्वा स्वपुरवरोन्मुखो जगाम ॥ गोअश्_७३ ॥ संबुद्धे प्रतिलब्धवान्नरपतिः श्रद्धामसौ तादृशीं यत्कर्मावरणाद्रिजालमकरोदल्पावशेषाश्रयम् । पापं यत्क्रियते जिने व्रजति तत्तैर्<आर्य्>अकार्यैः क्षय<म् ए>केनैव हि शक्यते विलिखितुं वज्रस्वभावो ह्ययम् ॥ गोअश्_७४ ॥ अप्येव क्रकचैर्निशातदशनच्छेदावलीदन्तुरैस् तस्याज्ञा प्रविचार्यमानतनुभिः कार्यैव शास्तुर्भवेत् । यस्मात्तद्विमुखा विशन्ति नरकान् ज्वालावलीदारुणान् तस्याज्ञाप्रवणै __ नतसुखं संप्राप्यते शाश्वतम् ॥ गोअश्_७५ ॥ स्वाभिप्रायमतो ब्रवीमि सकलं संसारमप्युत्सहे वस्तुं भीमभयानकेऽपि नरके लोके जिनालंकृते । न त्वेवैकमपि क्षणं सुरपुरे संबुद्धशून्ये जगत्य् उद्वृत्तक्षतवृत्तराक्षसगणव्यालुप्तपुण्योत्सवे ॥ गोअश्_७६ ॥ तद्यावन्न पतति सर्व एव लोको दुर्दृष्टिमतवितते प्रमादकूपे । सर्वज्ञप्रवचनभास्करे गतेऽस्तं तत्तावद्वचनरसायनं निषेव्यम् ॥ गोअश्_७७ ॥ सर्वज्ञे परमगुरौ निवेश्य भक्तिं श्रोतव्यं वचनमृषेः समन्तशोभि । निक्षिप्य व्यसनमयीं कुकार्यचिन्तां नातोऽन्यत्परमधिकं यतोऽस्ति कृत्यम् ॥ गोअश्_७८ ॥ श्रवणकरकैः कोऽर्थस्तेषामसच्छ्रु __ __ __ऽ __ __ __ __ऽ __ __ __ । __ऽ __ __ __ __ऽ __ __ __ __ऽ __ __ __ __ऽ __ __ __ ॥ गोअश्_७९ ॥ *************************************************************************** भवलुब्धक = गोभ्ल् बसेदोन् थे एदितिओन् ब्य्रत्न हन्दुरुकन्दे. fइवे बुद्धिस्त्लेगेन्द्सिन् थे चम्पू स्त्य्ले - fरोम चोल्लेच्तिओन्नमेदवदानसारसमुच्चय. बोन्न् १९८४ (इन्दिच एत्तिबेतिच, ४). २. भवलुब्धक आपायानामविच्छिन्नप्रायसंसारवर्त्मनाम् । कर्मक्लेशवशावश्या दुःखमय्यः प्रवृत्तयः ॥ गोभ्ल्_१ ॥ तद्यथानुश्रूयते । द्वौ भिक्षू स्रोतापन्नौ बभूवतुस्ताभ्यामेकेनाशेषसंयोजनोपक्षयादर्हत्त्वमधिगतम् । तद्द्वितीयस्तन्मात्रसंतुष्ट एवासीत् । स तेनार्हतोच्यते स्म । भद्रमुख शेषक्लेशविषोपशमाय यत्नमारभस्वेति । दुःखैकरसा भवा दुष्टपापसिद्ध्युपायानि श्रेयांसि क्षणलवपरिणामाविश्वसनीयं जीवितमपरिनिष्पन्नप्रकृतयो मायोपमास्तत्त्वविरोधिनः कामाः सभयाः सवैराः सोपायासाः पापक्रियामेवाङ्गीकृत्य प्रवृत्ताः परिभवायतनमकृतबुद्धीनां कृतात्मनामप्यवहास्यतामावहन्ति । लेशेनाप्यनुगम्यमाना महद्दुःखमाकर्षन्ति । नैताननुपतन् कश्चिदक्षतोऽनुपहतो वा । ह्रीमन्तोऽप्येभिराविष्टाः पशुसहधर्मतां प्रतिपद्यन्ते । नैते तुलयन्ति वयसां परिणामवैकृतम् । यतिजनमप्येते प्रगल्भा व्यामोहयन्त्येव । श्रेयसो वधकाः प्रत्यमित्राश्चामी व्यतीत्य विनयनियमश्रीभरामार्यमर्यादामनार्यकमेवोद्भावयन्ति । समुदितकान्तिशोभमपि क्षणेन मलिनयन्ति पुरुषस्य शीलसौष्ठवम् । विपातिते च शीले सर्वविषयाय द्वारभूते हतोपनिषत्समाधिर्नालं प्रज्ञासंपदे । सकल एव च संसार एषां दुरन्तरायाणां पर्येषणाभिरतीतः । ये च श्वसूकरादीनामपि साधारणा रतिप्रसङ्गदोहदाः कस्तान् साधुजनो मनसापि प्रार्थयेत् । स तमर्हन्तमब्रवीत् । भद्रमुख भवा दुःखात्मकाः सन्ति श्रेयो दुरभिसंभवम् । जीवितं चलमत्यन्तं कामा दोषशताकराः ॥ गोभ्ल्_२ ॥ अपाया मम संक्षीणाः किञ्चिच्छेषो भवार्णवः । अनुभूय सुखं दिव्यं निर्वास्यामि नियोगतः ॥ गोभ्ल्_३ ॥ अपि चाकृतपुण्यानां भवेभ्यो जायते भयम् । पुण्यसम्भारयुक्तानामुत्सवातिशयो भवः ॥ गोभ्ल्_४ ॥ नानाविपत्तिगहनेष्वनयप्रपातेष्वन्धानिवाशु पिथिते पथि संनिपात्य । आर्यानपि प्रतिभयेन पथा हरन्तः प्रख्यापयन्त्यशुचयो विषयाः स्वशक्तिम् ॥ गोभ्ल्_५ ॥ अथ सोऽर्हन्मन्दसंवेगापन्नोऽयमायुष्मानिति विदित्वा तमाह । आयुष्मन् सप्रतिद्वन्द्वाः परीत्तास्वाददूषिताः । भवा निशितनिस्त्रिंशधारासंपातदारुणाः ॥ गोभ्ल्_६ ॥ नोपादानक्षमास्तात भवाः क्रुद्धा इवोरगाः । विषाग्निकवलालोककरालमुखशक्तयः ॥ गोभ्ल्_७ ॥ दग्धप्रवृत्त्युपादानवासनामलमानसैः । प्रवृत्तयो जगन्नाथैः सर्वा एव विवर्जिताः ॥ गोभ्ल्_८ ॥ भवान् परिहरन्त्यारादात्मकामाः परीक्षकाः । परिच्छन्नतटागाधाञ्श्वभ्रापातभयंकरान् ॥ गोभ्ल्_९ ॥ रतीनां सोपतापानां मुखे स परिवर्तते । अभिनन्दत्यनादेयान् क्षणिकानपि यो भवान् ॥ गोभ्ल्_१० ॥ विच्छिन्नाशेषसंस्कारप्रवाहप्रतिसंधयः । प्रतिसंधिमुपायासमूलमाहुस्तथागताः ॥ गोभ्ल्_११ ॥ विसंवादिन्य एवैता गतयो महतामपि । विविधानर्थनाराचसंनिपातखलूरिकाः ॥ गोभ्ल्_१२ ॥ आदीप्तः सर्व एवायं संसारविषपादपः । विष्वग्विकासिदुःखाग्नेर्ज्वालामालाकदम्बकैः ॥ गोभ्ल्_१३ ॥ भवोपभोगस्पृहलालसाः स्वयं प्रविश्य संमोहतमिस्रदुर्दिनान् । चरन्ति मत्ता इव भग्नलोचना घनान्धकारे विपरीतबुद्धयः ॥ गोभ्ल्_१४ ॥ हितोद्यतानामवकीर्य भारतीं निपातरूक्षां परिणामपेशलाम् । अनर्थपङ्कौघनिमग्नशक्तयो भवन्ति निश्वासपरायणा नराः ॥ गोभ्ल्_१५ ॥ लतां द्विरेफा इव पुष्पहासिनीमुपासते ये तु सतां सरस्वतीम् । अकार्यनिर्मोकमपास्य ते कलेर्मुखं न पश्यन्ति पुनर्विभीषणम् ॥ गोभ्ल्_१६ ॥ स तमर्हन्तमब्रवीत् । निरुत्तराण्यमूनि वो वचनकुसुमानि । किं तु आपायिकानि व्यसनानि यानि मयानुभूतान्यतिदारुणानि । तेषां प्रतीकारनिमित्तभूतं सुखं भदन्तानुभवामि तावत् ॥ गोभ्ल्_१७ ॥ अथ स महात्मा तेन तस्य वचसा सुतरामुपजनितसंवेगोऽब्रवीत् । न वर्णयन्ति क्षणिकामपीश्वरा भवाभिनिर्वृत्तिमवन्ध्यवादिनः । तथा ह्ययं स्कन्धकदम्बकोद्भवः समुद्भवो नैकविधस्य पाप्मनः ॥ गोभ्ल्_१८ ॥ भवप्रबन्धप्रणयो मनस्विनो जगद्धिताधानपरस्य युज्यते । अनुत्तरज्ञाननिबद्धचेतसां भवोद्भवो भावसुखादपि प्रियः ॥ गोभ्ल्_१९ ॥ पुनर्भवास्वादलवाकुलाशयः प्रवृत्तिमन्विच्छति यस्तु मोहनात् । मुधा स सर्वायतनोपतापिनीं विपत्तिमन्विच्छति सर्वतोमुखीम् ॥ गोभ्ल्_२० ॥ भवाः सशोकाः सभयाः सविग्रहा विवर्जिताः सद्भिरुदारमानसैः । नरैर्मरुद्धूतशिखा विषद्रुमा भुजङ्गमाधिष्ठितकोटरा इव ॥ गोभ्ल्_२१ ॥ भवावशिष्टाः किल सप्त जातयो भयं न ते येन पुनर्भवाश्रयम् । भवानुषङ्गोऽप्यशुचेर्विवृज्यते नरैर्विदग्धाभरणानुलेपनैः ॥ गोभ्ल्_२२ ॥ कृतं त्वयापायिकदुःखलङ्घनं प्रवृत्तिमन्विच्छसि येन जन्मनः । जिजीविषुस्तीव्रविषाभिदूषितं प्रणीतमप्यन्नमुपाददीत कः ॥ गोभ्ल्_२३ ॥ अपि च हे भवाभिनन्दिन् क्रिमेरिवावस्करकर्दमान्तर्विवर्तमानस्य यथाकथं चित् । नरस्य मातुर्जठरान्तराले किं गर्भवासो न महानपायः ॥ गोभ्ल्_२४ ॥ कडेवरावस्करनिर्झरेण सुबद्धसासृङ्मलदुर्दिनेन । प्रजायमानस्य नरस्य दुःखमपायदुःखैरपि किं न तुल्यम् ॥ गोभ्ल्_२५ ॥ दवानलप्लुष्टपलाशरूक्षं वहन् जराजर्जरमस्थियन्त्रम् । कथं चिदायासनिपीतहर्षो न किं समोऽपायशतैर्मनुष्यः ॥ गोभ्ल्_२६ ॥ विदाहिभिर्निष्प्रतिकारघोरैः कृतान्तबाणैरिव संपतद्भिः । विभिद्यमानस्वविषात्मभावो गदैरिहैवानुभवत्यपायान् ॥ गोभ्ल्_२७ ॥ प्रत्यावृत्तसिताक्षिकोशविकृतव्याघ्राननो भीषणः शस्त्रेणेव विदार्यमाणकरणो मर्मच्छिदा वायुना । बन्धूनां पुरतः कृतान्तमकरेणाक्रम्य निघ्नो यदा क्रुद्धेनेव वितीर्यतेऽधिकतरं किं नाम दुःखं ततः ॥ गोभ्ल्_२८ ॥ किं चायुष्मन् कर्मावेधसमुद्धतस्फुटशिखिज्वालावलीपिङ्गलो नैवावीचिरपि व्यथामुपहरत्यार्यस्य तां दारुणः । धीदौर्बल्यकराः समाधिविधुराः सद्वृत्तवेलाभिदो यां कुर्वन्ति मनोज्वराः परिचयाः स्फीतावलेपा मलाः ॥ गोभ्ल्_२९ ॥ अथ स विषयदौरात्म्यमिवोद्भावयंस्तं महर्षिमब्रवीत् । विषयासङ्गिनी बुद्धिर्दुःखेन प्रतिवार्यते । गङ्गेव कूलतोयोर्मिपर्यस्ततटपादपा ॥ गोभ्ल्_३० ॥ अन्येऽपि बहवः शैक्षा भवसंभोगलालसाः । तर्पयन्तीन्द्रियग्रामं विषयैरविषादिनः ॥ गोभ्ल्_३१ ॥ स चार्हंस्तैस्तद्वचोभिः सुतरामुद्वेजितप्रतिभयस्तं शैक्षमवोचत् । प्रतिसंख्यानमहतामकृच्छ्रश्चित्तनिग्रहः । न चानुवर्तनीयास्ते विषयैर्ये पराजिताः ॥ गोभ्ल्_३२ ॥ मयैव विषयोद्दामं ननु चेतो निवारितम् । अन्यैश्च व्रतिभिर्वीरैस्तत्कस्मान्नानुवर्तसे ॥ गोभ्ल्_३३ ॥ विषयेषु यदि प्रमादमेषे त्वमनार्याचरितेषु हन्त नष्टम् । अथ ते विरजन्ति नैव चेतस्तव कोऽर्थो वद तैरनर्थभूतैः ॥ गोभ्ल्_३४ ॥ विषयेषु परिप्लुतेन्द्रियाणां स्वमनोविभ्रममात्रभद्रकेषु । निकटे निवसन्ति सर्वदुःखान्यपरिज्ञातनिपातदारुणानि ॥ गोभ्ल्_३५ ॥ विषयापचयानुपातिनीनामपरिम्लानसुखामृतप्रदानाम् । छलितः पुरुषः प्रसङ्गदोषैर्न च संवेत्ति निरामिषं रतीनाम् ॥ गोभ्ल्_३६ ॥ परिभूतिरुपान्तिके नराणां भवसंभोगविषक्तमानसानाम् । विषयप्रतिकुञ्चितं च चेतो विनिपातायतनानि चावृतानि ॥ गोभ्ल्_३७ ॥ परिणामरतामशान्तरूपां विपरीताल्पसुखानुरागरम्याम् । परिभूय मनस्विनो रमन्ते कृपणां कामरतिं तपोवनेषु ॥ गोभ्ल्_३८ ॥ विनिगृह्य मनः प्रमाददोलाचलमध्यात्मरतिव्यपाश्रयेण । अनिराकृतयोगिनो रमन्ते बहुरूपैरतिमानुषैर्विहारैः ॥ गोभ्ल्_३९ ॥ वितथाभिनिवेषमात्ररम्याः पुरुषस्योपनमन्ति नाम कामाः । गतिचक्रचरव्रतं नराणां विषया एव समादिशन्त्यनार्याः ॥ गोभ्ल्_४० ॥ व्यसनोपनिपातलक्ष्यवृक्षे जगति क्लेशपिशाचिकाभिभूते । उदया न तु सर्वदा भवन्ति प्रकृतिस्वास्थ्यकृतां तथागतानाम् ॥ गोभ्ल्_४१ ॥ तदयं समयः कथं चिदेव प्रतिलब्धः कुशलप्रयोगयोग्यः । प्रतिपत्तिविधौ भवान् प्रमाणं शकुनानां हि वनं विरावमात्रम् ॥ गोभ्ल्_४२ ॥ स तमर्हन्तमब्रवीत् । शक्नुयां सुगतौ भोगस्पृहां यद्यप्युपेक्षितुम् । ब्रूयाः प्रवदतां श्रेष्ठ नैव मां त्वं पुनः पुनः ॥ गोभ्ल्_४३ ॥ यतस्तु मां हरत्येषा कामतृष्णा निशाचरी । तेनातिवेलकृपया त्वं मां कुत्सयसे विभो ॥ गोभ्ल्_४४ ॥ स तं महात्मा पुनरपि सानुक्रोशपेशलैर्वचोभिः संवेजयन्नब्रवीत् । खिन्ना वयं रुधिरबिन्दुमुपाददानाः सांक्लेशिकेषु सभयेषु भवेषु वत्स । आयासिनीं च कटसीमभिवर्धयन्तो नैकान्तरायविवशाः स्वपराभवाय ॥ गोभ्ल्_४५ ॥ क्रूरैः परस्परविरोधिभिरप्रशान्तैर्धातूरगैः प्रकुपितैरिव कृष्णसर्पैः । आतुद्यमानवपुषामपरायणानां कल्पायुतान्यभिगतानि च नो महात्मन् ॥ गोभ्ल्_४६ ॥ प्रत्यर्थिकैरिव समुद्यतमण्डलाग्रैः स्कन्धैर्हता वयमकारणबद्धवैरैः । आयासिताश्च विषयैर्विषकुम्भकल्पैस्तच्छिद्यतां भवसुखव्यसनानुरागः ॥ गोभ्ल्_४७ ॥ स तमर्हन्तमाह । नोपच्छेत्स्यामि यद्यत्र जन्मनि स्कन्धसंततिम् । उपपद्योद्धरिष्यामि त्वद्वाक्येन जिताधिना ॥ गोभ्ल्_४८ ॥ स तं प्रत्याह । यद्यप्येतदेवं तथापि सकृन्मर्तव्ये त्वं पुनरपि च मृत्युं मृगयसे स्फुटं दृष्ट्वालोकं तमसि विपुले मज्जसि पुनः । शिवं लब्ध्वा मार्गं कुसृतिमुपयासि प्रतिभयां भवान् यस्त्वं वाञ्छस्यमृतपुरमुत्सृज्य सुलभम् ॥ गोभ्ल्_४९ ॥ समुत्तीर्यागाधात्क्रिमिकुलचलत्पङ्ककलिलात् कथं विज्ञाबालात्पिपतिषसि तस्मिन् पुनरपि । विमुक्तो रोगेभ्यः पुनरपि च रोगाय यतसे भवेभ्यो दुःखेभ्यः स्पृहयसि पुनर्यस्त्वमघृणः ॥ गोभ्ल्_५० ॥ अ<ना>शानस्वन्तान् सुलभविनिपातप्रतिभयान् <स>वैरान् सोद्वेगान् सपरिभवसंतापविरसान् । परित्यज्यायुष्मन् व्यसनविशिखापातविहतान् भवान् सम्यग्मार्गं भवभयहरं भावय सदा ॥ गोभ्ल्_५१ ॥ दृष्टसंसारदुःखोऽपि सोऽभ्यासाद्रागपाप्मनः । तमुवाच महात्मानमारुजन्निव वाक्शरैः ॥ गोभ्ल्_५२ ॥ भ्रमन्ति ते बहून् कल्पान् बोधिसत्त्वा भवाध्वनि । सुदान्ताः सप्तजन्मानि भ्रमतां कीदृशी व्यथा ॥ गोभ्ल्_५३ ॥ स भिक्षुस्तेन वाक्येन प्रतोदेनेव विक्षतः । तमब्रवीद्भवास्वादकार्पण्योपहताशयम् ॥ गोभ्ल्_५४ ॥ न तेन विदिता भिक्षो या व्यथा भ्रमतां भवे । अवज्ञाय वचोऽस्माकं पुनरप्यवभोत्स्यसे ॥ गोभ्ल्_५५ ॥ पुनश्च त्वां ब्रवीमि । ये जन्मैवाधिमुक्ताः शमसुखमहतीं निर्वृतिं शुद्धसत्त्वा येषां क्लेशावशेषोऽप्युपशमितबलो योऽप्युपादानमेव । आत्मत्वेनाभ्युपेता जगदिदमखिलं ये कृपाक्रान्तचित्तास् तेषां श्लाघ्या प्रवृत्तिर्गतिषु न तु भवास्वादपर्यस्तबुद्धिः ॥ गोभ्ल्_५६ ॥ स्पृश्यन्ते सत्त्ववन्तो न विषयरजसा ये विविक्ताशयत्वाद् दुःखैर्नैव व्यथन्ते क्षितिधरगुरवो ये परार्थे चरन्तः । ते जन्मोपाददानाः परपुरपरिखासेतवो बोधिसत्त्वाः शोभन्ते न क्षमं तु क्षणमपि गतिषु स्थातुमात्मंभरीणाम् ॥ गोभ्ल्_५७ ॥ येषां सर्वे प्रयोगाः शशिन इव कलाः सर्वसत्त्वोपजीव्या ये लोकान् पान्ति कृत्स्नान् पितर इव सुतान् दुःखपातालमग्नान् । तेषां जन्मोपदेशः सुचरितमहतामुत्सवः श्रीविशेषः स्वार्थोद्योगानुरागादनुपतति भवान्मृत्यवे केवलं तु ॥ गोभ्ल्_५८ ॥ येषामुत्पादकाले सुचरितकिरणैर्लिख्यमानं समन्ताद् ध्वान्तं चेतः स्वरङ्गाविवरपरिचयस्फीतमप्यस्तमेति । उन्मज्जन्तीव लोकाः प्रतिभयमहतो दुःखपङ्कौघमध्यात् तेषामेवानुरूपा परहितविदुषां जन्मसंतानलीला ॥ गोभ्ल्_५९ ॥ किं बहुना सर्वेष्वाचार्यवर्या नियमगुरुधरा धर्मयानाग्रधैर्याः कारुण्योच्छ्रीतवीर्या रजनिकरनिभा भास्कराभाश्च दीप्त्या । जन्माटव्यानुयात्रा नमुचिविदरणा ज्ञानदीपोल्कधाराः सर्वज्ञत्वाभिषेकाः पुरुषवरयुगाः सर्वदा बोधिसत्त्वाः ॥ गोभ्ल्_६० ॥ एवमप्यसावुच्यमानः कुशलधर्मसाधनोद्योगविधुर एव व्याहार्षीत् । समुदागमवैगुण्यविरूक्षक्षामचेतसाम् । कुशलप्रत्यया बाह्याः किं करिष्यन्ति देहिनाम् ॥ गोभ्ल्_६१ ॥ प्रक्षालयन्ति मुनयो न जलेन पापं हस्तेन नाप्यपहरन्ति जनस्य दुःखम् । संचारयन्त्यधिगमं न परत्र च स्वं धर्मान् वदन्ति तु सुखप्रतिपत्तिसाध्यान् ॥ गोभ्ल्_६२ ॥ अथ स क्रमेण कालगतो भरुकच्छे प्रोषितभर्तृकाया नार्याः कुक्षौ जन्म प्रतिसंदधे । कालान्तरेण च गर्भादभिनिष्क्रान्तः । माता चैनमभिवीक्ष्य पुत्रस्नेहमनादृत्यापवादभयाशङ्किनी किमपि किमपि तपस्विनी विललाप । अनुनीयमानापि च समानसुखदुःखाभिः सखीभिरसहमाना तनयवियोगव्यसनं तमतिमनोहरात्मभावं बालकमङ्के कृत्वा बाष्पवेगोपरुध्यमानस्खलितवचसा नियतमीदृशं किं चिदवोचत् । जाते पुत्रे भवन्ति प्रमुदितहृदया मातरो जीवलोके दृष्ट्वा वंशस्य लक्ष्मीमनुपरतरसामुन्मिषन्तीं समन्तात् । आनन्दान्दोलितानां भवति स दिवसो बान्धवानामदीर्घो जातः शोकाय तु त्वं मम तनय कथं मन्दभाग्योदयायाः ॥ गोभ्ल्_६३ ॥ दुर्वृत्ताया मम तदधुना कर्मणा प्रेरितस्त्वं भुङ्क्ष्वासह्यं व्यसनमथवा स्वस्य दुश्चेष्टितस्य । एतेऽन्ये च व्यसननिवहा मूर्ध्नि तेषां स्फुरन्ति त्यक्त्वा लज्जां सुजनदयितां ये प्रमादं भजन्ते ॥ गोभ्ल्_६४ ॥ खाद्यमानपरिकोमलच्छविस्तीक्ष्णतुण्डनखरैः पतत्रिभिः । पुत्र दुर्नयफलानि भोक्ष्यसे मातुरद्य परिमाणवर्तकः ॥ गोभ्ल्_६५ ॥ धिग्धिगस्तु परिणामदारुणां सङ्गिनां रतिमपूर्ववाहिनीम् । अध्यवस्यति ययाभिभूतधीरीदृशान्यपि जनो हतत्रपः ॥ गोभ्ल्_६६ ॥ कष्टमायतविषादभीषणे संकटे मम विवर्तते मनः । यत्र लोकरवभीतया मया पुत्रक त्वमटवीं निपात्यसे ॥ गोभ्ल्_६७ ॥ दारुणं बत बिधेर्विचेष्टितं दुष्करं खलु मया समीहितम् । किं करोमि शरणं व्रजामि कं पुत्र शोकशरताडिताशया ॥ गोभ्ल्_६८ ॥ हा हतास्मि विघृणेन चेतसा कामदोहदपथानुपातिना । यत्सुदुष्करमिदं करिष्यते वैशसं विहतलज्जया मया ॥ गोभ्ल्_६९ ॥ भूरियं किमिति नावदीर्यते नारकः क्व नु स हव्यवाहनः । यो न निर्दहति पापकारिणीं कक्षमुष्टिमिव मां हतत्रपाम् ॥ गोभ्ल्_७० ॥ विततशिखिकलापोद्भासुरालोकजालं निपतति मम वज्रं सांप्रतं किं तु मूर्ध्नि । सुतमकरुणचित्ता याहमेवं त्यजामि स्तनरसपरिभोगक्लीबवक्त्रारविन्दम् ॥ गोभ्ल्_७१ ॥ इत्येवमन्यथा च तस्या विलपन्त्याः किंचिच्छेषा रजनी बभूव । सा परिचारिकामब्रवीत् । ज्ञायतां तावद्भद्रे किमवशेषं निशाया इति । साब्रवीत् । स्वामिनि संप्रति हि अरुणकिरणमालापाटलोपान्तलेखं प्रविरलतरतारं खं परावृत्तचन्द्रम् । पुलिनमिव पयोधेर्विद्रुमक्षोदताम्रं परिमुकुलपलाशस्वस्थसंसुप्तहंसम् ॥ गोभ्ल्_७२ ॥ सा प्रोवाच । इमं हृदयसंतापं दीर्घकालानुषङ्गिनम् । दुर्जातं मम मन्दाया गच्छ च्छोरय बालकम् ॥ गोभ्ल्_७३ ॥ इत्युक्त्वा सा बाष्पवेगोपरुध्यमानहृदया पृथिव्यां सहसा निपपात । परं च संमोहमुपजगाम । सा तथेति प्रतिश्रुत्य तमादाय तपस्विनम् । उपहारमिवापूर्वं विचिक्षेप महापथे ॥ गोभ्ल्_७४ ॥ पुत्रक्रौर्यं विवृतमशिवं जन्मदुःखोपतप्तं भर्तृस्नेहः चिरपरिचयाद्बद्धमूलो न दृष्टः । दग्धं वंशद्वयमपि मया दुर्नयाङ्गारवर्षैर् हा कामानां प्रकृतिरसती सर्वदुःखप्रसूतिः ॥ गोभ्ल्_७५ ॥ नासौ रुरावामुषितस्मृतित्वाच्चुकोप मात्रे न च तत्त्वदर्शी । दृष्ट्वा तु तामात्मगतामवस्थां स्वमेव चित्तं विनिनिन्द बालः ॥ गोभ्ल्_७६ ॥ नायं जनन्या मम कामचारो न चानिमित्तं व्यसनं ममेदम् । स्वयं कृतानि व्यसनान्यमूनि त्वयैव मे चित्त विमुञ्च दैन्यम् ॥ गोभ्ल्_७७ ॥ अनार्य तां चित्तकले प्रतार्य प्रगाढदुःखोदयदारुणेषु । भवोपभोगेष्वधुना विषादं किमेव मोहादसमीक्ष्यकारिन् ॥ गोभ्ल्_७८ ॥ हितैषिणस्तस्य वचोऽवधीर्य त्वमज्ञ निर्दग्धपुनर्भवस्य । बिभेषि दुःखादधुना किमेवं स्वकर्मनिर्माणमिदं तवैव ॥ गोभ्ल्_७९ ॥ न पूजयन्ति प्रतिपत्तिभिर्ये गिरो गुरूणामनुकम्पकानाम् । इमानि चान्यानि च ते लभन्ते विषादनीनां विपदां शतानि ॥ गोभ्ल्_८० ॥ यथा यथा तीव्रद्वन्द्वोपनिपातजानि दुःखान्यनुभवति स्म तथा तथा सुतरामुपजायमानसंवेगः साश्रुकण्ठ एव शुशोच विक्लवात्मा तपस्वी । प्रविरलतृणच्छन्नश्वभ्रप्रपातभयंकरान् मम गुरुरसौ त्यक्त्वा यातो भवाब्धिकदुर्भवान् । तनुसुखलवक्लिष्टात्मानो वयं तु हतत्रपा भवजलनिधेर्दृष्ट्वाप्यन्तं पुनर्निधनं गताः ॥ गोभ्ल्_८१ ॥ मतिहुतभुजा दग्ध्वा स्कन्धप्रवृत्तिविषद्रुमं स्थितिषु वशितां संप्राप्यापि प्रकाशयशोत्सवाः । सकलभुवनश्रेयः कृत्वा गताः सुगताः शमं विषयकृपणाः कष्टं नष्टा वयं भवलुब्धकाः ॥ गोभ्ल्_८२ ॥ स्थानास्थानविवेकयोगविदुषा स्थानेन संवर्णिता स्कन्धानां क्षणिकाप्यनुत्तरगिरा निर्वृत्तिरायासिनी । स्थाने प्रज्वलितांस्तरूनिव खगास्त्यक्त्वा भवान् भङ्गुरान् निर्वान्ति ज्वलना इवाम्बुविहताश्चित्तेश्वरा योगिनः ॥ गोभ्ल्_८३ ॥ कृत्वाभियोगमपि चागमगह्वरेषु स्वैरप्रचारमनुगृह्य मनो मनुष्याः । अल्पश्रुता इति जगत्युपयान्ति संख्यां चेतोविनिग्रहफलं श्रुतमाहुरार्याः ॥ गोभ्ल्_८४ ॥ स सूचिकाग्रैरिव तुद्यमानः पिपीलिकैर्भुग्नकरालदंष्ट्रैः । महीरजोधूसरकोमलाङ्गो मुहुर्मुहुः संपरिवर्तते स्म ॥ गोभ्ल्_८५ ॥ स मक्षिकाणां नयुतैः परीतो मृदुः प्रयत्नाकुलपाणिपादः । विचेष्टमानः करुणं कथं चिद्भवान् जगर्हे मनसानुतापी ॥ गोभ्ल्_८६ ॥ क्रूरारावैः पुरबलिभुजां मण्डलैः संपतद्भिर् व्याधूतास्यो विपदमशिवां योऽस्वतन्त्रः प्रपेदे । गोमायूनां विषमविरुतैरग्निमालाकरालैर् आर्यस्यापि प्रकृतिमृदुकं तस्य चेतश्चकम्पे ॥ गोभ्ल्_८७ ॥ क्रव्याशिनां परवधप्रणयप्रगल्भैः पूगैरसौ परिवृतो विगतासुकल्पः । प्राख्यापयत्स भवभोगलवाभिलाषदुःखानि तस्य च वचो विगतस्रवस्य ॥ गोभ्ल्_८८ ॥ तस्य तथा कृच्छ्रगतस्य पुरद्वारि परिवर्तमानस्य गवां निर्गच्छन्तीनां पुरःसरो वृषभस्तमायुष्मन्तं दृष्ट्वा विधियोगसामर्थ्यात्पितेवोपगु तावदवतस्थे यावदतिक्रान्तः सर्वो गौगणः । सोऽतितीव्रवेदनातुरतनुरल्पस्थामतया कण्ठगतप्राणः पुनरपि मया व्यसनमेवानुभवनीयं मरणादूर्ध्वमित्यभिविषादोऽपि मृत्युरेव तत्कालदुःखप्रतीकारमाकारयतु । वनविहगपक्षपातोद्धृतधरणितलरजोऽवकीर्णदेहो निराक्रन्दो मन्दमपरिस्पन्दकरचरणवदनकमल इदानीं न भविष्यामीति बुद्धमेव भगवन्तं नमस्कर्तुमारब्धः । तद्भाग्यशेषोपकृष्टा इव चोपासका बुद्धधर्मसंघानुवादाश्रयाः संकथाः कथयन्तस्तं प्रदेशमुपजग्मुः । स तानवलोक्य प्रत्युज्जीवित इव मृदुस्फुटकलेन वचसा कमलपलाशकोमलं पाणिमभिप्रसार्याब्रवीत् । भो भोः सत्पुरुषा मुहूर्तकं तावदस्मदनुकम्पयावतिष्ठध्वमिति । अथ ते सहसा तच्छब्दश्रवणसंभ्रान्ताः किमिदं कथं चेत्युत्पन्नविमर्शाः स्थिता वयं भद्रमुखेते तं महासत्त्वमाश्वासयां बभूवुः । कौतूहलाकुलसमासाश्च पुनरेवमूचुः । अवस्थांश्च वयश्चेदं वाक्सौष्ठवमिदं च ते । मत्वा चलति नो बुद्धिः कौतूहलसमाकुला ॥ गोभ्ल्_८९ ॥ तत्सौम्य वद को नाम त्वं देवोऽप्यथ दानवः । कथं चेमां दशां प्राप्तः सज्जनायासकारिणीम् ॥ गोभ्ल्_९० ॥ स तानाह । मानुषोऽस्मि महासत्त्वा नाहं देवो न दानवः । भवसंभोगतर्षेण प्राप्तस्त्वहमिमां दशाम् ॥ गोभ्ल्_९१ ॥ अथ ते तद्वचः श्रुत्वा संविग्नोद्धतमानसाः । अनुकम्पामृतस्निग्धं प्रत्यभाषन्त तं पुनः ॥ गोभ्ल्_९२ ॥ उपासका वयं साधो नित्यं किंकुशलैषिणः । विस्तरं श्रोतुमिच्छामः स चेत्खेदं न मन्यसे ॥ गोभ्ल्_९३ ॥ स तानित्यवदद्यूयं धर्मभ्रातर एव मे । दुःखानि तावद्वार्यन्तां पश्चाद्वक्ष्यामि विस्तरम् ॥ गोभ्ल्_९४ ॥ तथेति च प्रतिश्रुत्य गृहीत्वा पाणिभिः शनैः । प्रमृज्यास्तीर्य वस्त्राणि स्वानि तेषु न्यवेशयन् ॥ गोभ्ल्_९५ ॥ प्रस्वस्थकायः स समाहितात्मा चत्वारि सत्यानि यथेक्षितानि । परीक्षमाणो न चिरेण साधुर्मलान् यथास्थूलमयांश्चकार ॥ गोभ्ल्_९६ ॥ अनुशयविशेषं भावनामार्गहेयं रविरिव निशान्तध्वान्तमुल्लिख्य भाभिः । स्वतनुमतनुपुण्याप्यायितान्तर्विशेषामपहृतगुरुभारायासलघ्वीं बभार ॥ गोभ्ल्_९७ ॥ अथ स महात्मा कृतकरणीयः क्षणमप्यवस्थां तां परित्यज्य सबहुमानः केवलं तेषामुपासकानां कृतज्ञतामनुरक्षन् पर्यङ्कं गगनतले बद्ध्वा तैः सबहुमानमुदीक्ष्यमाणो विस्तरेण तेभ्यो यथावृत्तं व्याहृत्य पुनरपि तानाबभाषे । अभिनन्दति यो जन्म स दुःखमभिनन्दति । दुःखाभिनन्दी दुःखेभ्यो न जातु परिमुच्यते ॥ गोभ्ल्_९८ ॥ पक्वगण्डायमानस्य यः कायस्यास्य संभवः । ईत्युपायासदुःखानामुत्पादः स विदाहिनाम् ॥ गोभ्ल्_९९ ॥ संसारावचरं कृत्स्नं सुखमेकघनीकृतम् । नराणां जन्मदुःखेन क्षणिकेनाभिभूयते ॥ गोभ्ल्_१०० ॥ विषोपदिग्धा निशिता इवायसाः शिखा इवाग्नेः प्रबलानिलाकुलाः । सभीमनादा इव चाश्मवृष्टयः प्रवृत्तयो दुष्प्रसहाः शरीरिणाम् ॥ गोभ्ल्_१०१ ॥ भवप्रबन्धव्यसनानुषङ्गिनी मतिर्विपर्यासतमोऽवगुण्ठिता । परं समुत्क्षिप्य निपातयत्यधो विपत्तिपातालतले दुरुत्तरे ॥ गोभ्ल्_१०२ ॥ तडिल्लतानां स्फुटनानुकारिणीमनेकरूपव्यसनानुबन्धिनीम् । उपाददानस्य न जात्विमां शिवं नरस्य संस्कारविकारसंकुलाम् ॥ गोभ्ल्_१०३ ॥ स्वयं समुत्थाप्य विकल्पवासनान् समीरणोद्धूतशिखान् भवानलान् । जनाः सरोषा इव निर्दहन्त्यमी स्वमिन्द्रियग्राममनर्थपण्डिताः ॥ गोभ्ल्_१०४ ॥ स्वभावदुःखान् प्रकृतिप्रभङ्गुरानसारकान् फेनलवानिवाम्भसः । अरीनिमानात्मसमुद्भवान् भवान् सुखाभिमानाश्छलिताः शरीरिणः ॥ गोभ्ल्_१०५ ॥ निशम्य को नाम विडम्बनामिमां पुमान्मदीयां श्रवणोपतापिनीम् । रतिं प्रकुर्यादपरिप्लुतेन्द्रियो विचित्रसंक्लेशसमुद्भवे भवे ॥ गोभ्ल्_१०६ ॥ त एव सन्तः सुखमध्युपासते सनातनं शान्तमतीतमानुषम् । भवोपभोगप्रणयानुपातिनी मतिर्न येषां परिशुद्धकर्मणाम् ॥ गोभ्ल्_१०७ ॥ हतावलेपाः परिशुद्धवृत्तयः स्थितास्त एवोपरि सर्वसंपदाम् । न भावनां ये श्लथयन्ति साधवः प्रवृत्त्युपादानविषोपशान्तये ॥ गोभ्ल्_१०८ ॥ प्रख्याप्य दोषकणिकान् विभवान् भवानां नानाविधव्यसनसंकटसंभवानाम् । संवेज्य पर्षदमृषिः स उपासकानां सद्यो ययौ प्रशममग्निरिवाम्बुषिक्तः ॥ गोभ्ल्_१०९ ॥ इति भवलुब्धकावदानम् ॥ *************************************************************************** कपीश्वरजातकम् = गोकी बसेदोन् थे एदितिओन् ब्य्मिछएल्हह्न्. "गोपदत्तऽस्कपीश्वरजातक ः रे एदितेदन्द्त्रन्स्लतेद्", बुक्क्य्ः बुन्क केन्क्यूजो किय्ः [= बुल्लेतिनोf रेसेअर्छिन्स्तितुते fओर्बुद्धिस्त्चुल्तुरे, र्युकोकु उनिवेर्सित्य्] ४६ (२००७), प्प्. ४७-७४. ४. कपीश्वरजातकम् = गोकी अभ्यस्यन्ति तथा तथागतसुतास्त्यागं यथा स्वानपि प्राणान् प्राणिकृते त्यजन्ति कृपया रोगानिवायासिनः । क्षुद्राः पापविधौ तथा त्वभिरतिं बध्नन्ति निःसाध्वसा भूत्वा दुश्चरितैकतानमनसो गच्छन्त्यधस्ताद्यथा ॥ गोकी_१ ॥ तद्यथानुश्रूयते बोधिसत्त्वः किलान्यतमस्मिन् विविधवर्णगन्धरससंपन्नफलभारावनतद्रुमोपगूढे विकचसुरभिकुसुमवल्लीविराजितपर्यन्ते मरकतमणिप्रभाहरितशाद्वलकुथास्तीर्णविषमभूमिभागे कमलकुवलयाकरोन्मीलितविमलजलाशयपरिग्रहे महत्यरण्ये वानराधिपतिर्बभूव ॥ महाकृपास्वीकृतमानसत्वान्नीत्वापि पुण्यानि परं प्रकर्षम् । गतिं तिरश्चामधमां प्रपेदे साधुः स केनापि तु कारणेन ॥ गोकी_२ ॥ शुभाशुभैः कर्मभिरार्यकर्मा क्रीडन्निवासौ भवरङ्गमध्ये । निदर्शयामास विचित्ररूपामुपायपूर्वामुपपत्तिमायाम् ॥ गोकी_३ ॥ कृत्वाप्यसौ दुर्गतिसंनिरोधमपायहेतोश्चिरविप्रवासात् । संमोहतामिस्रमयीं प्रपेदे तिर्यग्विपत्तिं करुणापरीतः ॥ गोकी_४ ॥ प्रवर्तते कर्मवशेन लोको निराश्रयोऽयं गतिचक्रमध्ये । बभूव तस्य त्वनवद्यबुद्धेः शुभाशुभे कर्मणि कामकारः ॥ गोकी_५ ॥ महात्मा कायमात्रेण विनिपातं गतोऽप्यसौ । अविपन्नगुणाभ्यासपेशलाध्याशयो बभौ ॥ गोकी_६ ॥ अनार्यैश्चरितैर्दूरान्निशम्यैव विवर्जितः । आर्यामुद्भावयामास पद्धतिं स शिवोदयाम् ॥ गोकी_७ ॥ आत्मसंज्ञाविपर्यासप्रहाणादेव सोऽत्यजत् । स्वसुखासङ्गिनीं चर्यामनार्यजनवर्तिनीम् ॥ गोकी_८ ॥ वृत्तशोभां समालोक्य तस्य जातिविरोधिनीम् । मुनयोऽप्यभवन्नात्मन्यवज्ञाशिथिलादराः ॥ गोकी_९ ॥ स तत्र मातरमन्धां वृद्धां च परिचरन् विवेककामतया च स्वयूथमपहाय तेषु तेषु पुष्पफलसमृद्धेषु वनान्तरेष्वनुत्कण्ठितमना विजहार । अंसेन तां परिहरन् विषमेषु देशेष्वम्लायिनीं स्रजमिवाधिपतिः कपीनाम् । आनृण्यमप्रतिसमं स जगाम मातुर्गर्भादिधारणपरिश्रमखेदितायाः ॥ गोकी_१० ॥ पाकोपपादितरसैः स फलप्रकारैर्निष्प्राणकैश्च मधुभिः कुसुमाधिवासैः । तोयैश्च फुल्लकमलोत्पलिनीमनोज्ञैस्तां मातरं परिचचार विशुद्धसत्त्वः ॥ गोकी_११ ॥ तया करुणया चासावनुबद्धः कपीश्वरः । विजहार विविक्तेषु पर्वतेषु वनेषु च ॥ गोकी_१२ ॥ अथ कदा चिदन्यतमो व्याधो धन्वी पृष्ठावापी प्रगाढावबद्धपरिकरो मालुतावतानसंयताकुलकेशभारभासुरः श्वापदानभिद्रवंस्तं देशमभिजगाम । क्रोधारक्तविलोचनं गिरिशिलाश्यामायतोरःस्थलं वल्लीकुण्डलकावबद्धकपिलव्याधूतकेशाशिवम् । दृष्ट्वा मृत्युमिवापतन्तमथ तं तद्गोचराः प्राणिनो याताः क्वापि विलङ्घ्य कण्टकलतानद्धान् प्रपातानपि ॥ गोकी_१३ ॥ अथ स दुरात्मा विफलप्रयासतया सुतरां क्रोधाग्निना प्रदीप्तमानसः सशिरःप्रकम्पं निश्वस्य च पलाशिकयावगृह्य ललाटपुटप्रस्वेदसलिलं तमेवानुकम्पमानं तं वानराधिपतिं ददर्श पादपैकदेशावस्थितम् । दृष्ट्वा च भृशतरं क्रोधवह्निना प्रजज्वाल । अशक्नुवन्तो बलिनः प्रबाधितुं खलाः स्वदौरात्म्यविरूक्षदृष्टयः । अकारणक्रोधविषाशिवाशिवा भवन्ति साधुष्वपकारदारुणाः ॥ गोकी_१४ ॥ अथ स दुरात्मा धनुषि निशितं सायकं संधाय वेगेन बोधिसत्त्वमभिदुद्राव । स च महात्मा लोभनीयतरं वपुरवेत्य मयि च नास्यायं निर्बन्ध इति । शक्तोऽपि प्रत्यवस्थातुमपगतसंरम्भमानसः खग इव महता जवेन तद्बाणपथमतिचक्राम । मुष्टिप्रहारेण स शैलशृङ्गं शक्तोऽपि संचूर्णयितुं महात्मा । जाल्मं तमेव त्वनुकम्पमानस्तद्बाणसंपातपथाद्व्यतीतः ॥ गोकी_१५ ॥ स च पुरुषाधमस्तीव्रतरसंरम्भमन्युवेगाकुलीकृताशयस्तां बोधिसत्त्वजननीं प्रत्याकृष्टतीक्ष्णबाणाशनिरभिससाद । अभ्यासयोगात्कठिनीकृतानि मनांस्यनार्यैश्चरितप्रसङ्गैः । पापक्रियायामविचार्य कार्यं चरन्ति लोकस्य निरङ्कुशानि ॥ गोकी_१६ ॥ अथ बोधिसत्त्वः पुरायं मे मातरं व्यापादयतीत्यविगणितस्वप्राणात्ययः ससंभ्रमद्रुततरगतिरभिगम्य तं व्याधं सानुनयप्रशममधुरमित्यब्रवीत् । तिष्ठ तिष्ठ महासत्त्व मा वधीर्जननीं मम । कस्तवेमां गुणो हत्वा वृद्धां प्रोषितलोचनाम् ॥ गोकी_१७ ॥ तवापि नूनमायुष्मन्माता हृदयवल्लभा । आत्मस्नेहानुमानेन मा व्यात्सीर्मम मातरम् ॥ गोकी_१८ ॥ फलमूलजलाहारां वसन्तीं विजने वने । व्यापादयितुमम्बां मे साधोस्तव न युज्यते ॥ गोकी_१९ ॥ स्पृष्टदृष्टापचारेऽपि पुरुषास्तुङ्गमानसाः । प्रहरन्ति न शौटीराद्दैन्योपहतचेतसि ॥ गोकी_२० ॥ पुरातनैरेव हतां कर्मभिः परुषैरिमाम् । घ्नतो निरपराधां ते कथं नोत्पद्यते दया ॥ गोकी_२१ ॥ अपि चेदं मृगेन्द्रासृक्कलङ्कितमुखं शरम् । न लज्जसे कथं नाम मुञ्चञ्छाखामृगीतनौ ॥ गोकी_२२ ॥ स्फीतावलेपौ करिमस्तकेषु भुजाविमौ ज्याकठिनप्रकोष्ठौ । नियुज्यमानौ कृपणाश्रयेषु दौर्भाग्यमुद्भावयतः स्फुटं ते ॥ गोकी_२३ ॥ अमुक्तपूर्वो हरिणाङ्गनास्वप्यक्षूणलक्षस्तव कङ्कपत्त्रः । शिलीमुखोऽयं प्रतिकुञ्जरीव नियुज्यमानः कपिदुर्गतायाम् ॥ गोकी_२४ ॥ अभ्यर्थ्यमाना रिपुणापि धीरा बाष्पाम्बुविष्यन्दिविलोचनेन । भवन्ति तत्कालविनीयमानक्रोधोपरागाधिकरम्यशोभाः ॥ गोकी_२५ ॥ तस्मादुद्वीक्षस्व परं च लोकमिमां च वृद्धामपरायणां त्वम् । मा गा वशं रोषनिशाचरस्य लोकद्वयानर्थशतावहस्य ॥ गोकी_२६ ॥ एवमप्यसावुच्यमानः क्रौर्याभ्यासकठोरहृदयपाषाणस्तद्बोधिसत्त्ववचनमाकर्ण्यैवावधीरयामास । पापप्रसङ्गपरुषीकृतमानसेषु व्यर्था गिरो गुणिजनाभिहिता भवन्ति । विप्रस्रुता जलधरेभ्य इवाम्बुधारा वज्राग्निदग्धशिखरेषु महीरुहेषु ॥ गोकी_२७ ॥ अथ वानरेश्वरस्तमनार्यकर्माणमनुनयविधुरमवगम्य चिन्तामापेदे । मातर्ययं यदि मम प्रहरत्यनार्यः संपश्यतो मम वधः सकलः स एव । त्यक्त्वा स्वजीवितमतः परिपालयामि वृद्धामिमां कुमुदिनीधवलां च कीर्तिम् ॥ गोकी_२८ ॥ कामं मृते मयि मरिष्यति विक्लवेयं हा पुत्रकेति कृपणा करुणं रुदन्ती । युक्तस्तथापि मम पूर्वतरं विनाशो द्रष्टुं गुरुव्यसनमस्ति न मे प्रभुत्वम् ॥ गोकी_२९ ॥ जातश्च नाम न विनक्ष्यति वेत्ययुक्तमुत्पाद एव नियमेन निपातहेतुः । तुल्ये च नाम मरणव्यसनोपतापे मृत्युर्वरं परहितावहिताशयस्य ॥ गोकी_३० ॥ तद्गर्भसंधारणसंभृतस्य स्नेहानुबद्धस्य परिश्रमस्य । अस्याः क्रमेणैव ममाभ्युपेतो निर्वेशकालातिशयोत्सवोऽयम् ॥ गोकी_३१ ॥ दुःखं तु निर्गारयतीव चेतो ममैकमेवाविनिवार्यवीर्यम् । अम्बा मृतं मां यदियं विदित्वा दुःखेन संत्यक्ष्यति जीवलोकम् ॥ गोकी_३२ ॥ अर्थाय नेत्रव्यसनं तु जातमस्या न मां द्रक्ष्यति मार्यमाणम् । यदस्य तीक्ष्णेन दुराधरेण व्याधप्रयुक्तेन शिलीमुखेन ॥ गोकी_३३ ॥ कृत्वा च यत्पापमयं तपस्वी दुःखानि संप्राप्स्यति दारुणानि । एतन्मनो निर्दहतीव मह्यं प्राणोपरोधं स्वमचिन्तयित्वा ॥ गोकी_३४ ॥ धिगस्तु संक्लेशपिशाचवैशसं पृथग्जनत्वं धिगनर्थपण्डितम् । विपत्तिपातालतले दुरुत्तरे वृथैव यल्लोकमिमं विमुञ्चति ॥ गोकी_३५ ॥ अथ स प्रकृतिशुद्धसत्त्वस्तदवस्थोऽप्यनभिजातविषाददैन्यसंभ्रममनास्तं व्याधमब्रवीत् । अमोघो यदयं बाणस्त्वया तात समुद्यतः । मयि प्रहर निःशङ्कं मा कार्षीर्मृतमारिकाम् ॥ गोकी_३६ ॥ अथ सा वृद्धा वानरी तं बोधिसत्त्वस्यातिदुष्करं हृदयसंतापकरं व्यवसायमवेत्य पाणिभ्यां हृदयमभिघ्नन्ती साश्रुकण्ठा गद्गदायमानवचना बोधिसत्त्वमाह । पुत्र मा साहसं कार्षीर्मय्येव प्रहरत्वयम् । मृतयापि मया किं स्याज्जरयापीतसारया ॥ गोकी_३७ ॥ यदहं तात जीवामि दुर्मना दुःखभागिनी । त्वत्सङ्गमसुखाभ्यासं रसाग्रं न वरं हि तत् ॥ गोकी_३८ ॥ त्वयि जीवति जीवन्ति बहवो धर्मजीविनः । निमीलिते त्वयि व्यक्तं दिशः सर्वा निमीलिताः ॥ गोकी_३९ ॥ जराजनितसंवेगा विप्रोषितविलोचना । मृत्युमेवाभिकाङ्क्षामि निश्वासैकपरायणा ॥ गोकी_४० ॥ त्वं मे हृदयसर्वस्वं पुत्रकोच्छ्वसिमि त्वया । त्वयि जीवति जीवन्तीं मामवेहि मृतामपि ॥ गोकी_४१ ॥ उपायासि प्रपन्नाया जराकान्तारमायतम् । विश्रम्भस्थानवन्मृत्युर्भाग्येनैव ममागतः ॥ गोकी_४२ ॥ अथ बोधिसत्त्वोऽभिप्रणम्यानुनेष्यन्ननुकम्पाशीतलैरपि निर्दहन्निव वचोभिर्जननीं प्रत्याह । क्षुद्रजन्तोरपि कृते जह्यां देहशतान्यपि । मातुरर्थे त्यजेद्देहमितरोऽपि गतव्यथः ॥ गोकी_४३ ॥ कायव्रणमिमं तीव्रव्यसनापातकातरम् । तवैव परिचर्यायै मातः परिहराम्यहम् ॥ गोकी_४४ ॥ न च मे कायिकं दुःखं तथा जनयति व्यथाम् । मानसेनैव दुःखेन यथा पीड्ये विदाहिना ॥ गोकी_४५ ॥ स्वकायपरिरक्षार्थमध्युपेक्ष्य वधं तव । दुःखं मनोमयं सोढुं कथं शक्ष्यामि दुःसहम् ॥ गोकी_४६ ॥ अपि चाम्ब । उच्छ्राया विनिपातिनः प्रियजनश्लेषा विसंयोगिनः सर्वे संनिचयाः क्षयान्तविरसा दीपाः प्रभातेष्विव । मृत्योरप्रतिवार्यवीर्यमहतः क्रीडामृगाः प्राणिनः संसाराध्वनि देहिनां विचरतां धर्मानुकृत्यं परम् ॥ गोकी_४७ ॥ अथ सा बोधिसत्त्वजननी शीतैरनन्यसत्त्वसदृशैः करुणानिष्यन्दभूतैः स्नेहातिशयोद्गारिभिः स्वजीवितनिरपेक्षैरपरिम्लायमानगौरवप्रसादपेशलैस्तद्वचोभिः सुतरामाक्लेदितहृदया व्यापिना स्वरेण तद्वनमापूरयन्ती सकरुणं विरुराव । अमूनि तव वाक्यानि शीतान्यपि दहन्ति माम् । हिमापाता इव लतां पाकपाण्डुपलाशिनीम् ॥ गोकी_४८ ॥ हा मातृवत्सल रिपुष्वपि मैत्रचित्त क्षुद्रेष्वपि प्रकृतिभद्र मृदुस्वभाव । पुत्रापहाय कृपणां क्व नु यास्यसि त्वं मामद्य दुःखशतबाणशरव्यभूताम् ॥ गोकी_४९ ॥ हा हा हतास्मि कृपणा च्युतभागधेया दैवेन साधुजननिर्दयपौरुषेण । संरक्ष मां सुचिरमेकपदे जहासि किं पुत्रकाद्य ननु सैव तवास्मि माता ॥ गोकी_५० ॥ याताः क्व तेऽद्य मुनयो ज्वलितप्रभावाः सख्यः क्व ताः प्रतिगता वनदेवतास्ते । धर्माय रक्षति जगत्किल धर्मजीवी कस्माज्जगन्मम निमीलति पुत्रशून्यम् ॥ गोकी_५१ ॥ शैला निर्झरिणः कदम्बककुभश्रेणीनिरुद्धातपा नद्यश्च स्फुटपद्मरेणुहरितक्षामोर्मिमालाधराः । संशान्ता वनराजयश्च शिखिना सुद्योतिताश्चन्द्रकैर् भानोरंशुकरालिताश्च दिवसा रक्षन्तु मे पुत्रकम् ॥ गोकी_५२ ॥ अचेतनानामपि पादपानां बभूव कम्पो रुदितेन तेन । मृदूकृतं तस्य न नाम चेतो मनागपि क्रूरमनोरथस्य ॥ गोकी_५३ ॥ अथ स दुरात्मा तद्वाक्यश्रवणज्वलितकोपानलादीप्तहृदयः कथापर्यवसानमविगणय्यैव बोधिसत्त्वं तीक्ष्णेन बाणेन मर्मदेशेऽभिहत्य प्राणैर्वियोजयां बभूव । शिवाविरुतजर्जरा इव दिशोऽभवंस्तत्क्षणं ततान बहलं तमो द्विरदयूथनीलं जगत् । भयादिव चकम्पिरे विलुलितोपलाः पर्वताः पपात शलभावलीवलयपिङ्गलं खाद्रजः ॥ गोकी_५४ ॥ विशुष्कजलभैरवाः प्रदरगह्वराः सिन्धवो द्वितीय इव भास्करे समुदितेऽभवंस्तत्क्षणम् । पपात रुधिरं दिवो घटमुखैरिवावर्जितं हते कपिगणाधिपे सुचरितैकरत्नाकरे ॥ गोकी_५५ ॥ अथ स दस्युस्तदतिदारुणं कर्म कृत्वा सद्यस्तद्विपाकचिह्नाकुलीकृतहृदयः स्वमावासमभिप्रतस्थे । तत्र च तत्कर्मापराधेन भैरवो निष्प्रतीकाररभसज्वालामालाकुलो महदग्निः प्रजज्वाल । दूरादेव तमापतन्तमनिलप्रेङ्खोलनाचञ्चलैः सद्योऽग्निः परिषष्वजे प्रियमिव ज्वालाभुजैरायतैः । कर्म क्षेत्रविशेषबृंहितफलं कर्मान्तराव्याहतं निक्षेपं वपुषो विपाकचपलं नोदीक्षते प्राणिनाम् ॥ गोकी_५६ ॥ संशुष्ककक्षान्तविसर्पिणीभिर्ज्वालाभिरग्नेः पवनोद्धताभिः । आलिङ्गितोऽसौ कठिनान्तरात्मा मुमोह हा हेति च संरुराव ॥ गोकी_५७ ॥ अनिलाकुलितानलावलीढः कटुधूमौघनिरुद्धकण्ठतालुः । निपपात समुत्पपात चासावसकृन्मीन इवातुरस्तपस्वी ॥ गोकी_५८ ॥ तस्यास्थिशेषमपि कापुरुषस्य दग्ध्वा वह्निः सरोष इव नैव शशाम शीघ्रम् । तद्दूषितां वसुमतीमपि दग्धुकामो जज्वाल धूमकपिशार्चिर् __ अन्तः ॥ गोकी_५९ ॥ ज्वालानां गगनतलावलम्बिनीनां संतानाः कुसुमितकर्णिकारगौराः । रेजुस्ते प्रलयविलीयमानसानोर्निर्यासाः कनकगिरेरिव स्रवन्तः ॥ गोकी_६० ॥ दग्धो दुश्चरिताग्निभिः स परुषैर्दग्धः पुनः पावकैः पापात्मा सकलत्रपुत्रविभवः शुष्को यथा पादपः । तं भूयोऽपि ददाह दारुणतरः कर्मेन्धनो नारको वह्निर्धूमकलाकलङ्कितमुखज्वालाकलापश्चिरम् ॥ गोकी_६१ ॥ अवेत्य पापकर्मणामिदं विपाकवैशसं विवर्जयेदसत्क्रियां भुजङ्गमाङ्गनामिव । प्रसादयेच्च मानसं प्रसादनीयकर्मसु जिनौरसेष्वकारणप्रजाहिताभियोगिषु ॥ गोकी_६२ ॥ ॥ इति श्रीकपीश्वरजातकं नवत्रिंशत्तमम् ॥ *************************************************************************** मैत्रकन्यक = गोम्क् बसेदोन् थे एदितिओन् ब्य्कोन्रद्क्लौस्. दस्मैत्रकन्यकावदान (दिव्यावदान ३८), बोन्न् १९८३ (इन्दिच एत्तिबेतिच, २). ५. मैत्रकन्यक मातर्यपकारिणः प्राणिन इहैव व्यसनप्रपातपातालावलम्बिनो भवन्तीति सततसमुपजायमानप्रेमप्रसादबहुमानमानसैः सत्पुरुषैर्मातरः शुश्रूषणीयाः । तद्यथानुश्रूयते विकसितसितकुमुदेन्दुकुन्दकुसुमावलीगुणगणविभूषितः पूर्वजन्मान्तरोपात्ताप्रमेयानवद्यविपुलसकलसंभारो धनदसमानरत्नाश्रयः स्वजनकृपणवनीपकभुज्यमानोदारविभवसारनिचयो मित्रो नाम सार्थवाहो बभूव । परोपकारैकरसाभिरामा विभूतयः स्फीततरा बभूवुः । तस्यार्यसत्त्वस्य नभस्यनभ्रे करा इवेन्दोः कुमुदावदाताः ॥ गोम्क्_१ ॥ तृष्णानलैः शोकशिखाप्रचण्डैश्चित्तानि दग्धानि बहुप्रकारम् । आशावतां सप्रणयाभिरामैर्दानाम्बुसेकैः शमयां बभूव ॥ गोम्क्_२ ॥ दृष्ट्वा लोकमिमं धनक्षयभयात्संत्यक्तदानोत्सवं लोभक्लेशपिशाचिकावशतया संदूषिताध्याशयम् । कारुण्यात्स ददावनाथकृपणक्लीबातुरेभ्यो धनं मत्वा वायुहतार्णवोर्मिचपलं स्वं जीवितं भूयसा ॥ गोम्क्_३ ॥ येषु व्यासज्य चेतो भुजगवरवधूभोगभीमेषु लुब्धा गाहन्ते पापगर्तं स्फुटदहनशिखाभीमपर्यन्तरन्ध्रम् । वाताघातप्रनृत्तप्रवरनरवधूनेत्रपक्ष्माग्रलोलांस् तानर्थानर्थिदुःखव्युपशमपटुभिः प्रोत्ससर्ज प्रदानैः ॥ गोम्क्_४ ॥ तस्यापुत्रधनत्वात्पुत्राभिलाषिणो यदा मनोरथशतैरसकृदुन्मिषितोन्मिषिताः पुत्रश्रियः प्रसह्य स्फीततरवैरभारेन्धनवह्निनेव विगतनिखिलप्रतीकारदारुणप्रभावमहताशु कृतान्तालयैकपरायणाः क्रियन्ते स्म तदासौ लोकप्रवादमात्रयापि पन्थानं समवतीर्य धनदवरुणकुबेरशंकरजनार्दनपितामहादीन् देवताविशेषान् पुत्रार्थं याचितुमारेभे । यस्मिन् यस्मिंस्तनयसरसि स्वच्छपुण्याम्बुपूर्णे वव्रे वृद्धिं समुदितमहावंशलक्ष्म्यम्बुजन्म । तत्तत्तस्य प्रबालविरसां याति तीक्ष्णांशुमालैः शोषं निन्ये रविरिव जलं भागधेयार्कबिम्बम् ॥ गोम्क्_५ ॥ रुद्रं नैककपालशेखरधरं चक्रायुधं वज्रिणं स्रष्टारं मकरध्वजं गिरिसुतापुत्रं मयूरासनम् । गङ्गां शङ्खदलावदातसलिलां तां तांश्च देवानसौ पुत्रार्थी शरणं ययौ बहु पुनर्दानं द्विजेभ्यो ददौ ॥ गोम्क्_६ ॥ यद्यज्जनो मङ्गलदेशनाभिर्व्रतोपवासाधिगतैश्च दुःखैः । ॰ __ __ __ __ __ __ ॰ __ __ __ __ __ __ ॥ गोम्क्_७ ॥ __ __ __ __ __ __ __ __ __ __ __ __ __ __ । पुत्रार्थसंसिद्धिनिमग्नबुद्धिर्विक्षिप्य खेदं स चकार तांस्तान् ॥ गोम्क्_८ ॥ एवमनेकप्रकारं कायचेतस्सोरायासकारिभिरपि व्रतोपवासमङ्गलैर्यदा नैव कदा चित्कालेऽस्य पुत्रा जीविनो बभूवुस्तदैवमतिविपुले प्रगाढशोकापगाम्भसि निमज्जन्तं कश्चित्साधुपुरुषोऽब्रवीत् । कर्माण्येवावलम्बन्ति देहिनां सर्वसंपदः । भूतानां तुङ्गशृङ्गाच्च विनिपातो न भूतये ॥ गोम्क्_९ ॥ संक्लेशं बहवः प्राप्ताः पुत्रतृष्णार्तबुद्धिना [!] । न च तेऽद्यापि जीवन्ति तत्र किं परिखिद्यसे ॥ गोम्क्_१० ॥ कर्माणि निर्मुच्य कथं भवेभ्यः स्वर्गौकसस्तुष्टिवशादिहेयुः । ये यैर्विना नात्मभवं लभन्ते ते तैर्विना जन्म कथं भजेरन् ॥ गोम्क्_११ ॥ ये सांसारिकनैकदुःखदहनज्वालालतालिङ्गितास् ते वाञ्छन्ति नरामरोरगसुखं प्रायेण दानादिभिः । त्वं केनापि विडम्ब्यसे जडमतिः पुत्राशयोन्मत्तको यस्त्वं द्यामधिगन्तुमिच्छसि बृहत्सोपानमालाश्रयात् ॥ गोम्क्_१२ ॥ विधिमपरमहं ते बोधयामि प्रसिद्ध्यै त्वमपि च कुरु तावत्संप्रसिद्ध्यै कदा चित् । यदि भवति सुतस्ते कन्यकानाम तस्य सकलजनपदेऽस्मिन् ख्यापयस्व प्रसिद्ध्यै ॥ गोम्क्_१३ ॥ अथ तस्य कालान्तरे गगनतलमंशुमालीव स्वकिरणनिकरैर्विराजमानं स्ववंशलक्ष्मीः पुत्रं जनयां बभूव । स च निर्वान्तामलहेमशैलशिखरप्रच्छेदगौरद्युतिः संपूर्णामलचन्द्रमण्डलसमच्छत्त्रोरुभास्वच्छिराः । मत्तैरावणचारुपुष्करकरव्यालम्बबाहुद्वयो भिन्नेन्दीवरफुल्लपत्त्रनिचयश्यामारुणान्तेक्षणः ॥ गोम्क्_१४ ॥ भूयः कल्पसहस्रसंचितमहापुण्यप्रभावोद्भवैः प्रव्यक्तस्फुरितेन्द्रचापरुचिरैः प्रह्लादिभिर्लक्षणैः । मूर्तिस्तस्य रराज मेरुशिखराद्धेमं यथा भूच्युतं प्रोद्गीर्णस्वमयूखजालजटिलै रत्नाङ्कुरैर्वेष्टितम् ॥ गोम्क्_१५ ॥ भ्रमरचमरपङ्क्तिश्यामकेशाभिरामं समविपुलललाटं श्रीमदुत्तुङ्गनासम् । तनयमुदितचेता मैत्रकन्याभिधानं दशदिवसपरेण ख्यापयामास लोके ॥ गोम्क्_१६ ॥ शरीरिणां वृद्धिकरैः समृद्धैर्विशेषयुक्तैर्विविधान्नपानैः । सुधावदातैः स्फुटचन्द्रपादैः पयोधिवेलेव ययौ समृद्धिम् ॥ गोम्क्_१७ ॥ धात्रीभिः स समुन्नीतः क्षीरैश्च सर्पिमण्डकैः । पुपोष सुन्दरं देहं ह्रदस्थमिव पङ्कजम् ॥ गोम्क्_१८ ॥ अथ तस्य पिता मित्रः सार्थवाहो वणिग्जनैः । द्रव्यैर्वहनमारोप्य जगाहे तोयधिं मुदा ॥ गोम्क्_१९ ॥ तिमिङ्गिलक्षोभविवर्धितोर्मिमहोदधौ मीनविपन्नपात्रे । पितुर्व्यतीते जननीं जगाद चकार किं कर्म पिता ममेति ॥ गोम्क्_२० ॥ ततोऽस्य जननी पतिवियोगशोकग्लपितहृदया चिन्तामापेदे । आशापाशशताकृष्टो जनो मृत्युं न पश्यति । विषयास्वादकृपणो वारण इव बन्धनम् ॥ गोम्क्_२१ ॥ यद्यपि कथयिष्यामि पितरं यानपात्रिकम् । एषोऽपि मम मन्दाया नाशमेष्यति तोयधौ ॥ गोम्क्_२२ ॥ यावच्चायं जनपदमिमं तस्य वृत्तिं न भूतां पृच्छत्यस्मै कथयति न वा सर्व एवैष लोकः । तावद्युक्तं मम सुतमिमं मृत्युवक्त्रान्तरालं नानादुःखव्यसनगहनं व्याधिसक्तं निषेद्धुम् ॥ गोम्क्_२३ ॥ परोऽपि यः साधुजनानुजुष्टं विहाय मार्गं श्रयते विमार्गम् । निवारणीयः स मताज्जनेन प्रयत्नतः किं पुनरेव पुत्रः ॥ गोम्क्_२४ ॥ ततो जनानि कथयां चक्रे । पुत्रकौकरिकत्वेन पिता ते मामपूपुषत् । यद्यहं सुखिता कार्या कारयौकरिकापणम् ॥ गोम्क्_२५ ॥ अथ मैत्रकन्यको बोधिसत्त्वो मातुर्वचनं कुसुममालामिव शिरसा समभिवद्यान्यस्मिन्नहनि [!] औकरिकापणं प्रससार । पुण्यसंभारमहतस्तस्य सत्त्वदयावतः । प्रथमेऽहनि संपन्नं चतुष्कार्षापणं धनम् ॥ स्वगर्भसंधारणदुःखितायै ददौ स तस्यै मुदितो जनन्यै । दरिद्रदुःखव्यसनच्छिदायै धनं महाभोगफलप्रसूत्यै ॥ गोम्क्_२७ ॥ अथ ये तस्मिन् पुरवरे चिरंतना औकरिकास्ते तस्य तमभिवर्धमानं क्रयविक्रयलोकमविषमव्यवहारनीत्या प्रकृतिप्रेमपेशलतया चावर्जितमनसं तस्मिन्महासत्त्वे व्यवहारार्थमापतन्तमवलोक्य तं तस्मात्कर्मणो विनिवर्तनार्थमाहुः । गान्धिकापणिकः श्रेष्ठी पिता तेऽस्मिन् पुरे पुरा । स त्वं तां वृत्तिमुज्झित्वा श्रयसेऽन्यां कया धिया ॥ गोम्क्_२८ ॥ अथ बोधिसत्त्वस्तामपि जीविकामपहाय गान्धिकापणं चकार । यस्मिन्नेव दिने चक्रे स साधुर्गान्धिकापणम् । कार्षापणाष्टकं तस्य तस्मिन्नेवोपपद्यते ॥ गोम्क्_२९ ॥ तम् [!] अपि मात्रे प्रतिपादितवान् । अथ गान्धिकापणिकाः पुरुषाः समेत्यागत्य च तं महासत्त्वं विच्छन्दयामासुः । गान्धापणं क्लीबजनाभिपन्नं पिता न वैमद्यपुरे चकार । तत्रैव हैरण्यिकतां स कृत्वा धनानि भूयांसि समाप साधो ॥ गोम्क्_३० ॥ अथ मैत्रकन्यको बोधिसत्त्वस्तामपि जीविकामपहाय हैरण्यिकापणं चकार । तयापि तस्मिन् व्यवहारनीत्या हैरण्यिकांस्तानभिभूय सर्वान् । लेभे दिने स प्रथमे महार्हः कार्षापणान् षोडश तान् ददौ च ॥ गोम्क्_३१ ॥ दिने द्वितीये द्वात्रिंशत्कार्षापणानुपार्ज्य सः । दक्षिणीयविशेषाय [!] मात्रे तानपि दत्तवान् ॥ गोम्क्_३२ ॥ अथ हैरण्यिकापणिकाः पुरुषाः समेत्यागत्य च तं तस्मात्कर्मणो विनिवर्तनार्थमाहुः । शरच्चन्द्रांशुधवले लब्ध्वा जन्म कुले कथम् । कृपणां जीविकाहेतोर्वृत्तिमाश्रयते भवान् ॥ गोम्क्_३३ ॥ पर्भञ्जनोद्धूतशिखाकराले हुताशने विस्फुरितस्फुलिङ्गे । विवर्तितं श्लाघ्यमतिव पुंसां न तु स्ववृत्तेश्च्यवनं प्रवृत्तम् ॥ गोम्क्_३४ ॥ महोरगश्वासविघूर्णितोग्रैस्तरङ्गभङ्गैर्विषमान् पयोधीन् । अगाधपातालविलग्नमूलान् पिता विगाह्यार्जितवान् धनं ते ॥ गोम्क्_३५ ॥ यदाश्रितं कर्म जनानुवर्तिना त्वया विदग्धेन धनेप्सुनाधुना । कथं न संप्राप्स्यसि भाग्यसंपदं पितुर्व्यतीतेऽपि विशालिनीं श्रियम् ॥ गोम्क्_३६ ॥ वित्तेश्वरोऽप्यर्थविभूतिविस्तरैर्नासासदर्था विबभार यस्य । तस्या [!] महेन्द्रामलतुल्यकीर्तेः सूनुः कथं त्वं न बिभर्षि लज्जाम् ॥ गोम्क्_३७ ॥ ये मृत्युं गणयन्ति नैव विपदि ग्रामं भजन्ते न ये गेहे बन्धुषु सूनुषु व्यपगतस्नेहात्मनोद्योगिनः । ते तीर्त्वा जलधीनगाधसलिलानावर्तभीमान् बुधाः प्राप्यार्थान् गजदन्तभङ्गसितया चिन्वन्ति कीर्त्या जगत् ॥ गोम्क्_३८ ॥ अथ मैत्रकन्यको बोधिसत्त्वस्तेभ्योऽप्य्तथानुगुणिनीं कथामवधार्य समुद्रावतरणकृतव्यवसायो मातरमुपसृत्योवाच । अम्ब सार्थवाहः किलास्माकं पिता पुरा तदनुज्ञां प्रयच्छ यदहमपि महासमुद्रमवतरिष्यामीति । सा पूर्वमेव भर्तृमरणदुःखेन विगतजीविताशा स्वस्य तनयस्य तेनासंलक्षितदारुणेन वियोगशोकशस्त्रेण भृशतरं प्रविदार्यमाणहृदया स्वतनयमाह । वत्स केन तवाख्यातं विनाकारणशत्रुणा । जीवितं कस्य तेऽनिष्टं त्वया क्रीडां करोति कः ॥ गोम्क्_३९ ॥ दैवात्कथं चित्संप्राप्तं चक्षुरेकं त्वमद्य मे । पुत्रक क्लेशभागिन्या मृत्युना ह्रियसेऽधुना ॥ गोम्क्_४० ॥ न यावदेकं मम दुःखशल्यं प्रयाति नाशं प्रविदार्य शोकम् । कथं नु तस्योपरि मे द्वितीयं निपात्यते पापमयैरमित्रैः ॥ गोम्क्_४१ ॥ येषां चेतो विविधविरसायासदुःखाप्रकम्प्यं यैः संत्यक्तं कृपणहृदयैर्जीवितं भोगलुब्धैः । ते संत्यक्त्वा [!] नयनगलिताश्रुप्रवाहार्द्रवक्त्रान् बन्धूनज्ञा मकरनिलये मृत्यवे यान्ति नाशम् ॥ गोम्क्_४२ ॥ तन्मामनाथां प्रतिपालनीयां त्वज्जीविताशैकनिबन्धजीवाम् । संत्यज्य यातुं कथमुद्यमस्ते मा सा कथा मानवरो मदीयम् ॥ गोम्क्_४३ ॥ स्वप्राणसंदेहकरीमवस्थां प्रविश्य नैकान्तसुखं प्रसाध्यम् । संपत्तयो येन वणिग्जनस्य ततोऽहमेवं सुत वारयामि ॥ गोम्क्_४४ ॥ स तस्या हितार्थं मधुराण्यपि वचनकुसुमानि तृणमिवावधूय सप्रगल्भतया समवलम्बितविकत्थाशोभं किं चिदीदृशं प्रत्याह । वरं नैव तु जायेरन् ये जाता निर्धना जनाः । जातस्य यदि दुःखानि वरं मृत्युर्न जीवितम् ॥ गोम्क्_४५ ॥ आशया गृहमागत्य दीनदीनास्तपस्विनः । अर्थिनो मम पापस्य यान्ति निश्वस्य दुर्मनाः [!] ॥ गोम्क्_४६ ॥ ये शक्तिहीना विभवार्जनादौ ते देहिनो दुःखशतं सहन्ते । लोकं पुनर्दुःखशतोपतप्तं द्रष्टुं न शक्नोमि चिरायमाणः ॥ गोम्क्_४७ ॥ तस्माद्विलङ्घामि वचस्तवेदं यास्यामि तं त्वं प्रजहीहि शोकम् । तत्रैव यायां निधनं समुद्रे छिन्नं मया वा व्यसनं जनस्य ॥ गोम्क्_४८ ॥ अथ मैत्रकन्यको बोधिसत्त्वो मातरमप्रमाणीकृत्य निर्गत्य गृहाद्वाराणस्यां पुर्यामात्मानं सार्थवाहमित्युद्घोषयामास । अस्यामेव पुरा पुरंदरपुरीप्रस्पर्धिपुर्यां वणिङ् मित्रो नाम बभूव यः सुरनरप्रख्यातकीर्तिध्वजः । पुत्रस्तस्य महासमुद्रमचिराद्यास्यत्यमुष्मिन् दिने यातुं ये वणिजः कृतोपकरणास्ते सन्तु सज्जा इति ॥ गोम्क्_४९ ॥ अथ मैत्रकन्यको बोधिसत्त्वो विविधोपकरणसंभारसाधनानां समागृहीतपुण्याहप्रस्थानभद्राणामुपहृतमङ्गलविधानानां वणिजां पञ्चभिः शतैः कृतपरिवारः प्रससार । माता चैनं गच्छतीति श्रुत्वाह । ममैकपुत्रक क्व यास्यसीति करुणकरुणाक्रन्दितमात्रपरायणा कोमलविमलकमलविलासालसाभ्यां पाणिकमलाभ्यां रुचिरकनकघटितघटविकटपयोधरवरोरुभासुरमुरः प्रगाढमभिताडयति । बाष्पसलिलधारापरंपरोद्भवोपरुध्यमानकण्ठी [!] अनिलबलाकुलितगलितसजलजलदपटलावलीमलिनकेशपाशा सत्वरत्वरमभिगम्य मैत्रकन्यकस्य बोधिसत्त्वस्य पादयोः परिष्वज्यैवमाह । मा मां पुत्रक परित्यज्य यासीति । अनर्थरागग्रहमूढबुद्धयो नरा हि पश्यन्ति न केवलं हितम् । सतां हिताधानविधानचेतसां गिरोऽपि शृण्वन्ति न भूतवादिनाम् ॥ गोम्क्_५० ॥ मैत्रकन्यकोऽपि धरणि<तल>निमग्नां मातरं शोकवश्यां शिरसि कुपितचित्तः पादवज्रेण हत्वा । मुहुरुपचितशोकः कर्मणा प्रेर्यमाणस् त्वरितमतिरभूत्__ संप्रयातुं वणिग्भिः ॥ गोम्क्_५१ ॥ ततः सा माता समुत्थायाह । पुत्रक मयि गमननिवृत्तिं कर्तुमभ्युद्यतायां यदुपचितमपुण्यं मच्छिरस्ताडनात्ते । व्यसनफलमनन्तं मा तु भूत्कर्मणोऽस्य पुनरपि गुरुवाक्यं मातिगाः स्वप्नतोऽपि ॥ गोम्क्_५२ ॥ अथ मैत्रकन्यको बोधिसत्त्वो विविधविहारायतनपर्वतोपवनगह्वरसरित्तडागारामरमणीयतराननेकनगरनिगमकर्वटग्रामादीननुविचरन् क्रमेण समुद्रतीरं संप्राप्य सज्जीकृतयानपात्रो भुजगपतिवदनविसृतश्वसनचपलानिलबलविलुलितविपुलविमलसलिलमरुणतरुणकिरणनिकररुचिरपद्मरागपुञ्जप्रभारागरञ्जितोर्मिमालाजलमसुरस्वरसमसुरसुरेश्वरकरोदरस्फुरितहुतवहशिखावलीकरालवज्रपतनभयनिलीनधरणीधरशिखरपराहतजलोद्धतोत्तुङ्गतरङ्गभङ्गरौद्रं समुद्रमवततार । महानिलोत्क्षिप्ततरङ्गभङ्गैः समुल्लसद्भिः खमिवोत्पतन्तम् । सरित्सहस्राम्बुरयप्रवाहैर्भुजैर्विलासैरिव गृह्यमाणम् ॥ गोम्क्_५३ ॥ प्रक्षुब्धशीर्षोरगभीमभोगव्यावर्तितोद्वर्तिततोयराशिम् । तन्मुर्ध्नि रत्नोद्गतरश्मिपुञ्जं ज्वालाकलापोच्छुरितोर्मिचक्रम् ॥ गोम्क्_५४ ॥ अहिपतिवदनाद्विमुक्ततीव्रज्वलितविषानलदाहभीमशङ्खम् । तिमिनखकुलिशाग्रदारिताद्रिं तदचलपादहताम्बुमीनवृन्दम् ॥ गोम्क्_५५ ॥ तुङ्गतरङ्गसमुद्गततीरं तीरनिलीनकलस्वनहंसम् । हंसनखक्षतदारुणमीनं मीनविवर्तितकम्पितवेलम् ॥ गोम्क्_५६ ॥ रत्नलतावृतभासुरशङ्खं शङ्खसितेन्दुगभस्तिविवृद्धम् । वृद्धभुजंगमहाहवरौद्रं रौद्रमहामकराहतचक्रम् ॥ गोम्क्_५७ ॥ खगपतिसविलासपाणिवज्रं प्रहतविपाटितदृष्टिमूलरन्ध्रम् । प्रमुदितजलदन्तिदन्तकोटिप्रमथितनैकविलासकल्पवृक्षम् ॥ गोम्क्_५८ ॥ तदेव स संलक्ष्य तीरपर्यन्तरेखं प्रकटविकटावर्तगर्तोदरभ्रमद्भ्रमितझषभुजगकुलमण्डलं नैकविचित्राद्भुताश्चर्यमतिशयमम्भसामालयमतिक्रमतस्तस्य धरणीधरशिखरविपुलात्मभावस्य मकरकरिपतेर्विवर्तमानस्य समुत्थितैरुर्वीधराकारदारुणैः प्रमुक्तकलकलारावरौद्रैर्महद्भिः सलिलनिवहैरुत्पीड्यमानं तद्यानपात्रं मरणभयविषादभ्रश्यमानगात्रैर्दीनरुदिताक्रन्दितमात्रपरायणैः संयानपात्रकैः सह सहसैव सलिलनिधेरधः प्रवेष्टुमारब्धम् । उर्वीधराकारतरङ्गतुङ्गैरुग्रैर्युगान्तानिलचण्डवेगैः । तद्यानपात्रं जलधेर्जलौघैरास्फाल्यमानं विददार मध्ये ॥ गोम्क्_५९ ॥ दंष्ट्राकराले झषवक्त्ररन्ध्रे कश्चिन्ममारार्तरवस्तपस्वी । के चिज्जलोद्गारनिरुद्धकण्ठा जग्मुर्निरुच्छ्वासगिरो व्यसुत्वम् ॥ गोम्क्_६० ॥ गत्वापि के चित्फलकैर्महद्भिरम्भोनिधेस्तीरमवेक्षमाणाः । दूराम्बुसंतानपरिश्रमार्तास्त्रासाकुला नेदुरुदीर्णनादाः ॥ गोम्क्_६१ ॥ अथ मैत्रकन्यको बोधिसत्त्वस्तेन महता व्यसनोपनिपातेनाप्यनापतितभयविषाददैन्यायासमनाः समवलम्ब्य महद्धैर्यपराक्रमं ससंभ्रमं फलकमादाय प्रससार । ततोऽसौ समपवनगमनजवजनितसविलासगतिभिः सलिलप्लवैरितस्ततः समाक्षिप्यमाणो निराहारतया च परिम्लायमाननयनवदनकमलश्चान्यैर्बहुभिरहोरात्रैर्यथा कथं चित्तस्य दुरवगाहसलिलस्य महार्णवस्य दक्षिणं तीरदेशमाससाद । तीर्त्वा तमम्भोनिधिमप्रगाधमासाद्य तीरं फलकं मुमोच । संस्मृत्य मातुर्वचनं स पाणौ व्यासज्य मूर्धानमिदं जगाद ॥ गोम्क्_६२ ॥ शृण्वन्ति ये नात्महितं गुरूणां वाक्यं हितार्थोदयकार्यभद्रम् । तेषामिमानि व्यसनानि पुंसां मायावहन्ति प्रभवन्ति मूर्ध्नि ॥ गोम्क्_६३ ॥ तैरेव नैकव्यसनप्रदस्य तोयेन्दुबिम्बस्थितभङ्गुरस्य । प्राप्तं फलं जन्मतरोः सुधीभिर्ये मानयन्तीह गिरो गुरूणाम् ॥ गोम्क्_६४ ॥ मातुर्हितायैव सदोद्यतायाः प्रोल्लङ्घ्य वाक्यं मम दुष्कृतस्य । पुष्पं यदीदृग्भरपापदारुणं प्रान्तं गमिष्यामि कदा फलस्य ॥ गोम्क्_६५ ॥ हुतवहहतलेखात्यन्तपर्यन्तरौद्रं गगनौग्रं विस्मयत्यन्तवज्रम् । गुरुशिरसि दधानः पादवज्रं खलोऽहं कथमवनिविदार्यश्वभ्ररन्ध्रे न लग्नः ॥ गोम्क्_६६ ॥ ये सन्तो हितवादिनां स्फुटधियां संपादयन्ते गिरः श्रेयस्ते समवाप्नुवन्ति नियतं क्रव्यादपुर्यां यथा । ये तूत्सृज्य महार्थसारदयितां वाचं श्रयन्तेऽन्यथा दुस्तरे व्यसनोदधौ निपतिताः शोचन्ति तेऽहं यथा ॥ गोम्क्_६७ ॥ ततोऽसौ क्रमेण खदिरवटसरलनिचुलबकुलतमालतालनालिकेशरद्रुमवनगहनं प्रवरवारणवराहचमरशरभशम्बरमहिषविषाणकर्षणपतितमथितविविधमालुतालताजालदुःसंचरं क्व चित्क्षुभितकेसरिनिनादभयचकितवनचरकुलाकीर्णचरणं कथं चिदपि शबरमनुजजनचरणाक्षुण्णपर्यन्तमनुचरन् क्व चित्स्थित्वैवमाह । एते दाडिमपुष्पलोहितमुखाः प्रोन्मुक्तकोलाहला हासादर्शितदन्तपङ्क्तिविरसाः शाखामृगा निर्भयाः । सर्पान् भीमविषानलस्फुरदुरुज्वालाकरालस्फुटान् हत्वा पाणितालैः प्रयान्ति विवशाः फुत्कारभीताः पुनः ॥ गोम्क्_६८ ॥ रम्ये कुङ्कुमशाखिनामविरलच्छायाकुथाशीतले मूले कोमलनीलशाद्वलवति प्रव्यक्तपुष्पोत्करे । वंशैस्तालरवैः सगीतमधुरैः प्रच्छेदसंपादिभिः संगीताहितचेतसः प्रमुदिता गायन्त्यमी किन्नराः ॥ गोम्क्_६९ ॥ ततो नातिदूरमतिसृत्य महीधरवराकारं पर्वतं ददर्श । क्व चिदुग्रतरचारुमणिप्रभया सुरभीकृतभीमगुहाविवरम् । क्व चिदुद्धतकिन्नरगीतरवं प्रतिबुद्धससंभ्रमनागकुलम् ॥ गोम्क्_७० ॥ चपलानिलवेल्लितपुष्पतरुं तरुमन्दिरमूर्ध्नि चलद्भ्रमरम् । भ्रमरध्वनिपूर्णगुहाकुहरं कुहरस्थितरौद्रभुजंगकुलम् ॥ गोम्क्_७१ ॥ पक्षिविराजितपर्वतशृङ्गं शृङ्गशिलातलसंस्थितसिद्धम् । सिद्धवधूजनरम्यनिकुञ्जं कुञ्जनिषेवितमत्तशकुन्तम् ॥ गोम्क्_७२ ॥ मत्तशिखण्डिकलस्वनरम्यं रम्यगुहामुखनिर्गतसिंहम् । सिंहनिनादभयाकुलनागं नागमदाम्बुसुगन्धिसमीरम् ॥ गोम्क्_७३ ॥ क्व चिदुपचितवारणदन्तशिखाशनिदारितशिखरतटं प्रविरूढविलासशिखागरुवृक्षवनं क्व चिदुपरिपयोधरभारतरध्वनिञ्जितशिखिकुलविस्तृतपिच्छकलापविचित्रितचारुतटम् । क्व चिदनिलविकम्पितपुष्पतरुं स्खलितोज्ज्वलसुरभिजलं कुसुमप्रबलप्रतिवासितसानुशिखं __ __ __ __ __ __ __ __ __ __ ॥ गोम्क्_७४ ॥ तथापरं ददर्श । लिखन्तं करालैर्नभः शृङ्गजालैः क्षिपन्तं मयूखैस्तमः सागराणाम् । वहन्तं समुद्राम्बरामद्रिगुर्वीं क्षरन्तं क्व चित्काञ्चनाम्भःप्रवाहम् ॥ गोम्क्_७५ ॥ फलितामलभूषणकल्पतरुं तरुखण्डविराजितसानुशिखम् । शिखरस्थितदेववधूमिथुनं मिथुनैर्दहतां वयसां मधुरम् ॥ गोम्क्_७६ ॥ क्व चिदर्कमहारथचक्रनिर्वातविखण्डितमयूखकलापकरालितनैकमहामणिपल्लवसंचयमौलिभरावनतोन्नतभासुरवज्रधरं क्व चिदिन्द्रकरीन्द्रविमर्दतरङ्गरयभ्रमितप्रचलत्कलहंसकुलावलिहारनभःसरिदम्बुविधौतशिलम् । क्व चिदण्डजराजविलाससमुच्छ्रितपक्षमहाभुजवज्रविपाटितसागरवारितलोद्धृतपन्नगभोगधरं क्व चिदेव सुरासुरसंयुगशस्त्रविपन्नमहासुर- वैद्युतशोणितरङ्गमहावलयम् ॥ गोम्क्_७७ ॥ दृष्ट्वैवमाह । एते पर्वतशृङ्गचन्दनतरुच्छायास्थलं संसृताः कर्णप्रावरणं नवारुणकरच्छायासमानश्रियः । प्रेक्षन्ते मदवारिलोलमधुलिट्प्रोल्लीढगण्डस्थलं दर्पात्केसरिणो बलेन महता प्रोन्मथ्यमाना गजम् ॥ गोम्क्_७८ ॥ इत्येवमसावतिकान्तारदुर्गं सलिलफलाहारमात्रपरायणः परिभ्रमन्नज्ञानतमःपटलावगुण्ठितमिव जगत्संसारपङ्के त्रिभुवनस्वामीवोदयद्रमणकं नाम नगरं ददर्श । समुच्छ्रितोत्तुङ्गचलत्पताकैः पतत्पतत्रिस्वनवावदूकैः । सुवर्णसालैर्मणिहेमशृङ्गैर्महीधराकारगृहैः सुगुप्तैः ॥ गोम्क्_७९ ॥ निलीनपद्मालिकुलालिपद्मैः समुन्मिषत्पद्मरजःपिशङ्गैः । कलप्रलापाण्डजरावरम्यैर्मन्दानिलैरावसथीकृतं सदा ॥ गोम्क्_८० ॥ सुरकरिकरदघ्नकल्पवृक्षैर्मरकतरत्नतृणैः शुकांशुनीलैः । मणिकनकलताबद्धशाखैः क्व चिदुरुभिस्तरुभिः प्रकामहारि ॥ गोम्क्_८१ ॥ विकसितनवकर्णिकारगौरैः कनकगृहैर्बहुरत्नशृङ्गचित्रैः । स्वकिरणरुचिरोरुरत्नसानोरचलपतेः सकलश्रियं दधानम् ॥ गोम्क्_८२ ॥ क्व चिदमरविलासिनीकराग्रप्रहतमहामुरजस्वनाभिरामम् । क्व चिदुपरिपयोदतूर्यनादप्रमुदितमत्तशिखण्डिवृन्दकीर्णम् ॥ गोम्क्_८३ ॥ ततस्तद्दर्शनात्समुत्पन्नजीविताशोऽसौ रमणं नगरमुपससर्प । तस्मान्नगराद्विनिःसृत्य चतस्रोऽप्सरसो द्रवितनवकनकरसरागावदातमूर्तयः प्रविकसिताम्बुजकुसुमरुचकरुचिनयनयुगलोत्पलविलासाः क्वणद्रुचिरविविधमणिमेखलापभारमन्दविलासगतयः कनककलशाकारपृथुतरपयोधरभरावनमिततनुमध्या दिवसकरकरस्पर्शविबोधिताम्लानकमलपलाशभासुराधरकिसलया विविधविभूषणशता निरामयदर्शनाः शिरसि विरचितोभयकमलाञ्जलयो मैत्रकन्यकस्य बोधिसत्त्वस्य पादयोर्विन्यासितशिरसः प्राहुः । सुस्वागतं चन्द्रसमाननाय नारीजनप्रीतिविवर्धनाय । कृपामृताह्लादितमानसाय बोधौ चिराबद्धविनिश्चयाय ॥ गोम्क्_८४ ॥ अद्यैव दुह्खानि शमं गतानि [!] अद्यैव नो जीवितगात्रसारम् । निरत्ययप्रेमविशेषभद्राण्यद्यैव सौख्यानि पुरःस्थितानि ॥ गोम्क्_८५ ॥ इमानि दुःखाङ्कुशखण्डितानि मनांसि नः शोकपरिक्षतानि । भवन्तमासाद्य वसन्तकाले वनान्तराणीव विजृम्भितानि ॥ गोम्क्_८६ ॥ यान्यर्जितान्यन्यभवान्तरेषु कर्माणि शुक्लानि शुभोदयानि । तेषां फलं वीक्षणमेव तेऽलं सङ्गस्त्वया किं पुनरेव दीर्घम् ॥ गोम्क्_८७ ॥ अद्यैव मा बन्धुसुहृद्वियोगशोकं कृथाः कस्य न सन्त्यपायाः । दास्यो वयं तेऽप्सरश्चतस्रश्छाया न ते लङ्घयितुं समर्थाः ॥ गोम्क्_८८ ॥ रत्नानि वासांसि समुज्ज्वलानि शय्याश्रयाश्चारुतरा वयं च । संत्यक्तभर्ता सुरराजयोग्या शक्तिर्विधेनेह सुखं भजस्व ॥ गोम्क्_८९ ॥ अपि च दुःखे महत्यप्रतिकारघोरे ये वर्तमानाश्चिरमुद्वहन्ति । ते दुःखभारोपनिपातमूढास्तत्रैव शीघ्रं निधनं प्रयान्ति ॥ गोम्क्_९० ॥ नित्ये वियोगे मरणात्पुरःस्थिते शोचन्ति ते दैवकृते वियोगे । संस्मृत्य रागोपनिपातमूढाः कामप्रहारं विषमं प्रपन्नाः ॥ गोम्क्_९१ ॥ शब्दायमानवरनूपुरमेखलाभिरादिश्यमानभवनं प्रवराप्सरोभिः । हैमाद्रिशृङ्गमिव तत्पुरमाविशन्तं नेमुः कृताञ्जलिपुटा बहवोऽपि तत्र ॥ गोम्क्_९२ ॥ अन्यैश्[!] च पुनः किं दीप्तरश्मिर्विनिगूढरश्मिः किं पुष्पकेतुः सहसावतीर्णः । हा किं विनिक्षिप्तहराग्रवज्रो नाथः सुराणामिति तर्कितोऽभूत् ॥ गोम्क्_९३ ॥ तिमिरनिकरलेख्या श्यामगोपक्ष्मलेख्याः स्फुटितकनकहारा न्यस्तरत्नोज्ज्वलाङ्ग्यः । विपुलभवनमालाजालवातायनस्थाः प्रमुदितमनसोऽन्याश्चिक्षिपुः स्रस्तकाञ्च्यः ॥ गोम्क्_९४ ॥ रत्नप्रदीपप्रहतान्धकारं मुक्ताफलप्ररुचिरोरुहर्म्यम् । चलत्पताकाग्रविभिन्नमेघं गेहं विवेशाप्सरसां हि तासाम् ॥ गोम्क्_९५ ॥ तासां विलासैर्गमनैः सलीलैर्हासैः कटाक्षैर्मधुरैः प्रलापैः । क्रीडन् स कालं न विवेद यातं सर्वात्मना रागपरीतचेताः ॥ गोम्क्_९६ ॥ प्रत्यहं च दक्षिणेन गमनं वारयन्ति स्म । सोऽपि यथा यथा निवार्यते तथा तथा तया दिशा गमनायोत्सुकमना बभूव । यत्रायं वार्यते लोको जनेन हितबुद्धिना । विपर्यस्तमतिस्तत्र जनः स परिधावति ॥ गोम्क्_९७ ॥ यदि कुर्यादयं लोके सुहृदां वचनं हितम् । परैति स्वर्गं पातालश्वभ्रे [!] आ स्वप्नतोऽपि न ॥ गोम्क्_९८ ॥ अथ मैत्रकन्यको बोधिसत्त्वस्तासामप्सरसां परिज्ञातगमनप्रयोजनो दक्षिणस्यां दिशि पदवीमारुह्य व्रजन् सदामत्तकं नाम नगरं ददर्श । तस्मादपि नगरादष्टाप्सरसः ससंभ्रमं निःसृत्य तं महासत्त्वं प्रवेशयामासुः । तत्राप्यचिरं रतिमनुभूय प्रतिषिध्यमानगमनक्रियस्तेनैव दक्षिणेन पथा गच्छन्नन्दनं नाम नगरं ददर्श । तस्मादपि षोडशाप्सरोभिरभिगम्य सत्कृत्य प्रवेशयामासे । तत्रापि चिरं क्रीडां सेवित्वा तस्मादपि ब्रह्मोत्तरं नाम नगरं प्रययौ । तत्रापि द्वात्रिंशताप्सरोभिर्भूयः सत्कारं विषयसुखं भुक्त्वा ताः प्राह । इच्छामि गन्तुं तदहं भवन्त्यो [!] मा मत्कृते शोकह्रदे शयिध्वम् । संपातभद्राणि हि कस्य नाम विश्लेषदुःखानि न सन्ति लोके ॥ गोम्क्_९९ ॥ स्थित्वापि येनैव चिरं वियोगः शत्रोः कृतान्ताद्भवितान्तकाले । तेनैव नेत्राश्रुजलार्द्रगण्डान् [!] युष्मान् विहायाद्य यियासुरस्मि ॥ गोम्क्_१०० ॥ वाताहताम्भोधितरङ्गलोले ये जीवलोके बहुदुःखभीमे । विश्लेषदुःखाय रतिं प्रयान्ति तेषां परो नास्ति विमूढचेताः ॥ गोम्क्_१०१ ॥ अथाप्सरसस्ताः समस्तास्तद्गमनवियोगशोकग्लपितऋदयाः ससंभ्रमाः कमलकुवलयकुड्मलविलासा नलिन्य इव शिरसि विरचितोभयकमलाञ्जलयः प्राहुः । अस्मासु ते कर्तुमनिष्टमिष्टं कथं हि भक्तिप्रणयार्पितासु । सोऽन्येन एकग्रहणीयरूपः शरीरकानेन वयो ग्रहीते ॥ गोम्क्_१०२ ॥ गत्वा तन्नगरत्रयं यदपि हे स्वामिन्निहाप्यागतः संप्राप्ता विषयोपभोगमधुराः संपत्तयस्ते चिरम् । गन्तव्यं न पुनस्त्वया सुबहुना प्रोक्तेन किं यासि चेत् संस्मर्तासि विपत्समुद्रपतितो वाक्यं हि नो दुःखितः ॥ गोम्क्_१०३ ॥ बोधिसत्त्वः प्राह । यदभ्यासवशान्नृणामुदयसंपदः स्थिराः । कथं ते नु निवार्येरन्निवर्तेरन् कथं नु वा ॥ गोम्क्_१०४ ॥ नियोजनीयाः सुहृदः सुहृद्भिर्यस्मिन् हिते कर्मणि नित्यकालम् । निवारणं तत्र तु ये प्रकुर्वते ते शत्रवोऽमित्रतया भवन्ति ॥ गोम्क्_१०५ ॥ दिव्यं प्राप्य सुखं पुरे रमणके संचोदितः कर्मणा [!] आयातोऽस्मि निषेवणाय परमं सौख्यं सदामत्तकम् । संप्राप्तोऽस्मि ततः स्वकर्मकुशलेनेष्टं पुरं नन्दनं तस्मादागतकस्य यूयमधुना प्रोन्मूलिता भूमयः ॥ गोम्क्_१०६ ॥ तस्मादतो मे गमनं भवन्त्यो [!] मा वारयध्वं न हि नोऽस्त्यपायः । अस्माद्विशेषाणि सुखानि मन्ये लप्स्येऽहमित्युच्चलितोऽहमद्य ॥ गोम्क्_१०७ ॥ इत्यथ मित्रकन्यको बोधिसत्त्वस्तासामप्सरसां हितमपि वाक्यमहितमिवावज्ञया तिरस्कृत्य तेनैव दक्षिणेन पथा गच्छन् ददर्श महार्गडप्रटितप्रकटपुटचतुर्द्वारदारुणं सुरेश्वरेणाप्यभेद्योत्तुङ्गायसविशालप्राकारपरिवेष्टितमन्तर्भ्रमच्चक्रमण्डलालोकप्रमुक्तदमदमाशब्दगम्भीरभैरवमायसं नगरं तस्य च द्वारदेशमुपचक्राम । संप्राप्तमात्रस्य तु तत्क्षणेन द्वारं च विस्फोटकपाटभारम् । वज्राग्रधारापरिभिन्नसानोर्विन्ध्याचलस्येव नितम्बकुक्षिः ॥ गोम्क्_१०८ ॥ ततो मैत्रकन्यको बोधिसत्त्वोऽत्र विवेश । प्रविष्टमात्रस्य तु तत्क्षणेन द्वारं परिक्षिप्तकपाटयन्त्रम् । तत्कर्मवायुप्रभवैर्महद्भिः क्षणाद्भुजाग्रैरिव संजघाट ॥ गोम्क्_१०९ ॥ अश्रौषीच्च प्रगाढवेदनाविक्लवहृदयपुरुषस्यान्तःप्राकारान्तरतिरस्कृतपरमभीषणनिर्नादं सकलजनोत्त्रासनमुच्चरन्तं श्रुत्वा च द्वारदेशं त्वरितमतिर्ललङ्घ । प्रविष्टमात्रस्य ततो द्वितीयमास्फालितं द्वारमिवोपरुद्धम् । पर्यन्तकालानिलवेगविद्धं द्वारं सुराणामिव वज्रकल्पम् ॥ गोम्क्_११० ॥ ततो मित्रकन्यको बोधिसत्त्वः प्रविवेश । प्रविष्टमात्रस्य पुनस्तृतीयं द्वारं परिक्षिप्तकपाटयन्त्रम् । क्षणादभूत्तन्नगरं च सर्वं भ्रान्तं च कृत्स्नं स ददर्श भीतः ॥ गोम्क्_१११ ॥ ततो मैत्रकन्यको बोधिसत्त्वः पश्यति स्म तमतिदारुणाकारप्रमाणं क्रूरज्वलनमालालिङ्गितमुदारेण पटुपवनविकीर्यमाणधूमपटलान्धकारदुर्दिनेन स्फुरत्स्फुलिङ्गावलिकरालदर्शनेनायसेन महता भ्रमता चक्रेण दार्विव प्रविदार्यमाणमूर्धानं स्वशिरःप्रविगलितशोणितवसारसाहारमात्रविधृतप्राणशेषं समीपं चोपगम्यैनं पर्यपृच्छत् । किं नागोऽसि सुरोऽसि किन्नरवरो यक्षोऽसि किं मानुषः किं विद्याधरसैनिकः किमसि वा दैत्यः पिशाचोऽसि वा । किं वाकारि भवान्तरेषु भवता कर्मातिरौद्रं स्वयं यस्यास्तिव्यसनं दुरुत्तरमिदं भुज्यं फलं क्रन्दयत् ॥ गोम्क्_११२ ॥ पुरुषः प्राह । नाहं नागो नैव यक्षो न देवो दैत्यो नाहं नापि गन्धर्वराजा [!] । रक्षो नाहं नापि विद्याधरोऽपि जातिस्तुल्या संप्रतीहि त्वया नः ॥ गोम्क्_११३ ॥ बोधिसत्त्वः प्राह । किं कर्म भ्रमता त्वया कुमतिना संसारदुर्गे कृतं येनेदं ज्वलितानलं शिरसि ते चक्रं भ्रमत्यायसम् । पुरुषः प्राह । नानादुष्करकारिका भगवती संसारसंदर्शिका तत्र श्रेयःसुखोपपादनपरा मत्स्नेहबद्धाशया ॥ गोम्क्_११४ ॥ यां लोके प्रवदन्ति साधुमतयः क्षेत्रं परं प्राणिनां दैवावेशवशादकार्यगुरुकस्तस्यां जनन्यामहम् । साधो प्रास्खलयं शिरःप्रहरणं पादेन पापाशयस् तेनेदं ज्वलितानलं शिरसि मे चक्रं भ्रमत्यायसम् ॥ गोम्क्_११५ ॥ अथ बोधिसत्त्वस्तस्य पुरुषस्य प्रवचनप्रतोदेन संचोदितहृदयस्तां परजुगुप्सामात्मन्यनुपश्यन्नाह । अन्यं जुगुप्साम्यहमल्पबुद्धिरात्मानमेवाद्य निनिन्द अज्ञः । येषु स्वयं दोषगणेषु मग्नस्तैरेव लोकं कथमङ्कयामि ॥ गोम्क्_११६ ॥ मयापि यन्मातरि दक्षिणीये [!] कृतोऽपराधः पुरुषाधमेन । तस्यैव पापस्य फलानि भोक्तुमुल्लङ्घ्य तोयावलिमागतोऽस्मि ॥ गोम्क्_११७ ॥ इत्यथ तस्य वचनानन्तरमेव प्रभिन्ननवकुवलयदलनिर्मलान्नभस्तलात्सजलजलदनिनादगम्भीरधीरोध्वनिरुच्चचार । किं न पश्यति कर्माणि बलवन्ति शरीरिणाम् । लोकालोकान्तरस्थायी पाशेनेव विकृष्यते ॥ गोम्क्_११८ ॥ ये बद्धा विषयेण दुःखनिगडेऽनायासकर्मोत्कटे ये त्यक्त्वा गुरुवाक्यमन्धमतयः पापाश्रयं कुर्वते । मुक्ताः कर्मभिरेव दुःखनिगडप्रच्छेदशूरैः शुभैर् मानुष्यं यदवाप्य मूढमतयो दूरे स्थिता कर्मिणः ॥ गोम्क्_११९ ॥ अथ तस्य वचनानन्तरमेव कर्मानिलवेगोत्क्षिप्तमिव तच्चक्रं चिटिचिटायमानदहनकणचयोद्गाररौद्रं तस्य मूर्ध्नः समभ्युद्गम्य मैत्रकन्यकस्य बोधिसत्त्वस्य शिरः प्रविदारयं [!] भ्रमितुमारब्धम् । क्षणात्स रेजे रुधिरप्रवाहैर्मूर्ध्ना [!] च्युतैः स्नातसमस्तमूर्तिः । प्रभिन्नचक्राग्रविभिन्नमूर्ध्न ऐरावणस्येव तनुः पतन्ती ॥ गोम्क्_१२० ॥ ततः स पुरुषो हा हेति मूर्ध्ना [!] प्रविदाहजेन तीव्रेण दुःखेन समाक्रम्यमाणशरीरकं मैत्रकन्यकं बोधिसत्त्वमाह । दिव्याङ्गनागीतमनोहराणि चित्तप्रमोदोदयसाधनानि । संत्यज्य कस्मादु पुराणि तानि प्राप्तस्त्विदं स्थानमनन्तदुःखम् ॥ गोम्क्_१२१ ॥ देवालयं दिव्यसुखोपभोगं को नाम संप्राप्य शुभैरतुल्यैः । नित्यज्वलद्वह्निशिखाकरेण संप्रार्थयेद्भीममपायगर्तम् ॥ गोम्क्_१२२ ॥ बोधिसत्त्वः प्राह । मत्तालिकोलाहलसंकुलानि वनानि पुष्पोज्ज्वलमस्तकानि । संत्यज्य नागा व्यसनं सहन्ते यया तयेच्छालतयागतोऽहम् ॥ गोम्क्_१२३ ॥ राज्यानि विस्तीर्णधनोज्ज्वलानि विहाय नारीमुखपङ्कजानि । युद्धे म्रियन्ते बहवो नरेन्द्रा यया तयेच्छालतयागतोऽहम् ॥ गोम्क्_१२४ ॥ समुत्पतत्तुङ्गतरङ्गरौद्रे भ्रमज्जलावर्तविमुक्तनादे । महोदधौ यान्ति नराः प्रणाशं यया तयेच्छालतयागतोऽहम् ॥ गोम्क्_१२५ ॥ निरत्ययात्यन्तिकसौख्यसाधनं नरामरश्रीसुखसिद्धिमार्गम् । मुनीश्वराणां व्रतमुत्सृजन्ति यया तयेच्छालतयागतोऽहम् ॥ गोम्क्_१२६ ॥ तेषां मुनीनां विगतव्यथानां देयं कथं पादरजो न मूर्ध्नि । यैर्लङ्घितास्तीव्रविषप्रचण्डा आशाप्रपाता बहुदुःखभीमाः ॥ गोम्क्_१२७ ॥ किं तद्भवेद्दुःखमतीवतीव्रं का वा विपत्तिर्बहुदुःखयोनिः । तृष्णाविषाग्निक्षतचित्तवृत्तेर्या दूरतः संपरिवर्तिनी स्यात् ॥ गोम्क्_१२८ ॥ अपि च हे साधो कर्मणा परिकृष्टोऽस्मि वर्तमानोऽपि दूरतः । कर्षति प्राणिनस्तत्र फलं यत्र प्रयच्छति ॥ गोम्क्_१२९ ॥ अपि च कति वर्षसहस्राणि कति वर्षशतानि च । प्रदीप्तमायसं चक्रं मम मूर्ध्नि भ्रमिष्यति ॥ गोम्क्_१३० ॥ पुरुषः प्राह । षष्टिवर्षसहस्राणि षष्टिवर्षशतानि च । प्रदीप्तमायसं चक्रं तव मूर्ध्नि भ्रमिष्यति ॥ गोम्क्_१३१ ॥ बोधिसत्त्वः प्राह । एतद्भासुरवह्निपिङ्गलशिखाज्वालाकलापोज्ज्वलं कोऽन्योऽवभ्रमितं प्रयास्यति समं छित्त्वा परः चैष्यति । पुरुषः प्राह । यो मातर्यपकारकार्यमपरः कृत्वा समायास्यति तस्येदं शिरसि भ्रमिष्यति पुनर्मूर्ध्ना [!] तव प्रच्युतः ॥ गोम्क्_१३२ ॥ अथ बोधिसत्त्वस्तेन मूर्ध्ना [!] प्रविदाहजेन तीव्रेण दुःखेन समाकुलहृदयोऽपि सत्त्वेष्वनन्तेषु समुत्पादिततीव्रकारुण्याशयस्तं पुरुषमाबभाषे । क्षपितसकलरागक्लेशजालान्धकारा गगनतलनिलीना योगिनो ये नमस्याः । स्फुरितकटकहाराः प्रज्वलन्मौलयो ये पुनरमरसमूहास्तेऽपि शृण्वन्तु सन्तः ॥ गोम्क्_१३३ ॥ कृत्वा दुश्चरितं स्वमातरि जगत्कृत्स्नं यदि प्रोद्वहेद् एतत्प्रज्वलिताग्निरागकपिलं चक्रं बृहन्मूर्धनि । कल्पान् कल्पसमैरहोभिरयुतान् वोढुं चिरायोत्सहे सत्त्वार्थं प्रतिपद्य मानव हि मे चित्तं न संखिद्यते ॥ गोम्क्_१३४ ॥ अथ तस्य सर्वसत्त्वप्रियस्य मैत्रकन्यकस्य बोधिसत्त्वस्य वचनानन्तरमेव मूर्ध्ना [!] समुत्पत्योत्क्षिप्तमिव तच्चक्रं सप्ततालोच्छ्रयाच्चाक्रं नभस्तलं समुत्पत्यावतस्थे । रेजे तच्चपलानिलाहतचलज्ज्वालाकलापोज्ज्वलं चक्रं खे परिवर्तमानमसकृत्प्रोन्मुक्तभीमस्वनम् । उद्यन् [!] बिम्बमिवारुणस्य सकलं प्रोन्मुक्तरश्म्युत्करं रत्नाद्यैः प्रविलम्बमानममलैर्वैडूर्यभित्त्याश्रयैः ॥ गोम्क्_१३५ ॥ ततः स्रवन्निर्झरवारिचालिनः समीरणोल्लासितपुष्पशाखिनः । नभोविचुम्ब्यायतशृङ्गबाहवश्चकम्पिरे भूमिभृतो हता इव ॥ गोम्क्_१३६ ॥ भुजंगविक्षोभसमुद्गतोर्मयः पयोधरध्वानगभीरनादिनः । जलालया रत्नशिखानिवासिनस्तदातिवेलासलिलैर्ललङ्घिरे ॥ गोम्क्_१३७ ॥ प्रमुक्तनिःशेषमयूखभासुरं रराज खे मण्डलमंशुमालिनः । रवेर्मयूखाङ्कुरदन्तुरान्तराद्दिशः समन्ताद्ददृशुः स्फुटश्रियः ॥ गोम्क्_१३८ ॥ स्फुरत्तडिद्दामविराजितोरसः सुरेन्द्रचापप्रतिबद्धकङ्कणाः । पयोमुचः किंचिदवाश्रुताम्भसो वितानवद्व्योमनि ते विरेजिरे ॥ गोम्क्_१३९ ॥ स्रजो विचित्रा विनिपेतुरम्बराद्वितुष्टुवुर्हर्षतरा दिवौकसः । चिरप्रगाढव्यसना हतार्तयः क्षणादभूवन् बहवो निरामयाः ॥ गोम्क्_१४० ॥ ज्वलति विषमचक्रे प्रान्तदीर्णोर्ध्वकायो गलितरुधिरधारासिक्तसर्वाङ्गकायः । भगवति गुणराशौ संप्रसाद्य स्वचित्तं स्वगृहमिव स साधुर्द्यामयात्तत्क्षणेन ॥ गोम्क्_१४१ ॥ दानोदकमहत्तीर्थे शीलशौचसुनिर्मले । क्षमासुरभिशीताच्छे वीर्यागाधप्रवाहके ॥ गोम्क्_१४२ ॥ ध्यानस्तिमितगम्भीरे प्रज्ञापद्मप्रबोधके । तस्मिन् बोधिमहातीर्थे स्थित्वा बोधिपुरोत्सुकः ॥ गोम्क्_१४३ ॥ प्रक्षालयञ्छेषपापं तुषितेऽसौ ययौ मुदा । तत्रस्थोऽप्यचिरं रेमे दृष्ट्वा लोकं कृपान्वितः ॥ गोम्क्_१४४ ॥ तत्किमिदमुपनीतम् । एवं हि मातर्यपकारिणः प्राणिन इहैव व्यसनप्रपातपातालावलम्बिनो भवन्तीति सततसमुपजायमानप्रेमप्रसादबहुमानमानसैः सत्पुरुषैर्मातरः शुश्रूषणीया इति ॥ इति श्रीदिव्यावदाने मैत्रकन्यकावदानं समाप्तम् ॥ *************************************************************************** मत्सरनन्द = गोम्न् बसेदोन् थे एदितिओन् ब्य्रत्न हन्दुरुकन्दे. fइवे बुद्धिस्त्लेगेन्द्सिन् थे चम्पू स्त्य्ले - fरोम चोल्लेच्तिओन्नमेदवदानसारसमुच्चय. बोन्न् १९८४ (इन्दिच एत्तिबेतिच, ४). ७. मत्सरनन्द स्वयंकृतः सर्वसुखोपरोधी मात्सर्यतुल्योऽस्ति कलिर्न लोके । यत्राभिरूढा व्यसनौघमग्ना भवन्ति निश्वासपरा मनुष्याः ॥ गोम्न्_१ ॥ एवमिदमुच्यमानमलं संवेगाय । तद्यथानुश्रूयते । श्रावस्त्यां नन्दो नाम सार्थवाः प्रतिवसति स्म । तस्य जन्मान्तरे पात्रातिशयप्रतिपादितत्वात्तद्दानबीजस्यापरिमाणो भोगस्कन्धः प्रादुर्बभूव । मात्सर्याभ्यासात्तु नोत्सहते स्म किं चिदपि कस्मै चित्प्रदातुम् । तस्य क्षेत्रातिशयपतितं दानबीजं पुराणं नैकाकारं विभवनिचयं स्फीतमाविश्चकार । पूर्वं दानाकृतपरिचयाध्याशयत्वात्तु नासौ दातुं किं चित्प्रभवति तदा मत्सराक्रान्तचेताः ॥ गोम्न्_२ ॥ त्यागस्यैव फलानुबन्धमधुरां चित्रां विपाकश्रियं संप्राप्य प्रहरन्त्यनर्थरुचयो मूलेषु ये संपदाम् । ते संत्यज्य निदाघकालसुभगानिन्दोः कराञ्शीकरान् ह्लादायानुपतन्ति दावदहनांश्चञ्चच्छिखासंचयान् ॥ गोम्न्_३ ॥ नैवात्मनासौ बुभुजे कदर्यो भोगान् ददौ नापि सुहृज्जनेभ्यः । मात्सर्यभूतग्रहलुब्धचेता द्रव्यार्जनं केवलमेव चक्रे ॥ गोम्न्_४ ॥ प्रविष्टपूर्वा न गृहं कदा चिद्द्विजातयस्तस्य कपालहस्ताः । शुश्राव स प्रव्रजिताननेभ्यो न दक्षिणादेशनमङ्गलानि ॥ गोम्न्_५ ॥ वनीयकास्तस्य गृहाजिरेभ्यो व्रजन्ति निश्वस्य विशुष्कवक्त्राः । बलिं न काका अपि नाम तस्य स्मरन्ति सिक्थप्रकरोपहारम् ॥ गोम्न्_६ ॥ विवाहकालेष्वपि नाम तस्य वादित्रशब्दो न समुच्चचार । आवाहकालेष्वपि तस्य गेहे सुहृज्जना दीनमुखा बभूवुः ॥ गोम्न्_७ ॥ दूरात्श्मशानमिव तस्य विवर्ज्य गेहमन्येन याचकजनस्त्वरितं जगाम । नामापि तस्य परिकीर्त्य किल प्रभाते लेभे न कश्चिदशनं दिवसावसाने ॥ गोम्न्_८ ॥ श्रुत्वापि दाननियतां स कथां चकम्पे दृष्ट्वापि याचनकमुद्विजते कदर्यः । त्यागप्रियैः सह चकार न लोकयात्रां नन्दो जहास किल दायकमीक्षमाणः ॥ गोम्न्_९ ॥ दृष्ट्वा परस्यापि स देयधर्मानीर्ष्याकषायाक्षिपुटो बभूव । त्यागात्मभिः सार्धमनार्यकर्मा चकार नैव क्रयविक्रयं सः ॥ गोम्न्_१० ॥ अथ नन्दः कदा चिन्निष्प्रतीकारपरुषवेदनाक्रान्तदेहो नियतमहं मरिष्यामीत्युत्पन्नभयविषादशोकदैन्यमानसः पुत्रं चन्दनमाहूयाब्रवीत् । वत्स चन्दन मया हि महता परिश्रमेण द्रव्यमुपार्जितं परिपालितं च । तत्पुत्र मम प्रियमनुस्मरता न त्वया कस्मै किं चिदपि प्रदेयमिति । चण्डालशालां व्रजत प्रगल्भान् पश्यामि युष्मान्न पुनर्यथाहम् । स याचकान्नित्यसमीक्ष्यकारी प्रोवाच रोषस्फुरिताक्षिकोशः ॥ गोम्न्_११ ॥ कृत्वा स कर्माणि निकृष्टकर्मा मृतस्तपस्वी मृत एव पूर्वम् । चण्डालनार्याः प्रतिसन्धिबन्धं चकार कुक्षौ क्षतलोचनायाः ॥ गोम्न्_१२ ॥ सत्त्वानां चरितं चित्रमचिन्त्या कर्मणां गतिः । मलिना बत कामानां वृत्तिः पर्यन्तदारुणा ॥ गोम्न्_१३ ॥ अन्धा वृद्धा दरिद्रा च चण्डाली दीर्घरोगिणी । संरागायतनं याता धिक्फलत्वं प्रसङ्गिनाम् ॥ गोम्न्_१४ ॥ अथ सा वृद्धचण्डाली क्रमेण दारकं प्रसूता । तस्या एतदभूत् । नूनमहं देवताभिरनुकम्पिता येन मे पुत्रको जातः । नियतमयमायुष्मानभिवर्धमानो ममान्धाया यष्टिभूतो भविष्यतीति । सा प्रहर्षाक्षिप्तहृदया समीपपरिवर्तनीं चण्डालीमब्रवीत् । ज्ञायतां तावद्भगिनी कीदृशोऽयं दारक इति । सा तमालोक्याब्रवीत् । ईदृशो मा भूत्कश्चिदिति । कथं कथमिति च । तत्र पर्यनुयुक्ता प्रोवाच । निशान्ताङ्गारसंकाशः कुब्जश्चिपिटनासिकः । अन्धः संकुचिताङ्गश्च तव पुत्रोऽयमीदृशः ॥ गोम्न्_१५ ॥ सा नैराश्योपहतसंताना आह । हा हा हताहमधन्येत्येवं परं वैकल्यम् आजगाम । आह च । न तथानागताः पीडां कुर्वन्त्यर्थाः शरीरिणाम् । संप्राप्ता ध्वंसमानास्तु जनयन्ति यथा व्यथाम् ॥ गोम्न्_१६ ॥ अथ सा जर्जरचण्डाली व्यसनविकृतहृदया सस्वरं रुरोद । पतिताहमनर्थकर्दमे छलिता पूर्वकृतेन कर्मणा । किमियं मृतमारिता कृता विधिना निष्करुणेन मे पुनः ॥ गोम्न्_१७ ॥ व्यसनं निरुपायदारुणं व्यसनस्यैव ममोपरि स्थितम् । अनिमित्तखरेव लक्ष्यते मयि दैवस्य गतिर्गरीयसी ॥ गोम्न्_१८ ॥ अहमेव खलूरिका कृता कृपणा किं नु विपत्तिपत्त्रिणा । विधिना कृपणप्रमाथिना कुपितेनेव विहीनकर्मणा ॥ गोम्न्_१९ ॥ अपयुक्तविलोचनां सतीमशनप्र<स्र>वणादिवर्जिताम् । जरतीमुपहत्य को गुणो वद मां निर्घृणचित्त दैव हे ॥ गोम्न्_२० ॥ एवमन्यथा च सा तपस्विनी बहुप्रकारं विरुरोद । अथ गर्भमलोपलिप्तदेहं तनयं तं तरुण<ं> व्रणायमानम् । कुपितेव खरे महीतले सा विनिचिक्षेप रुजाहतं रुदन्तम् ॥ गोम्न्_२१ ॥ कर्माणि तीव्रपरितापफलानि कृत्वा किं रोदिषि त्वमधुना हतभागधेय । दुःखं मया सह सहस्व बहुप्रकारं त्वं पुत्रकेति विललाप तपस्विनी सा ॥ गोम्न्_२२ ॥ मिथ्याविकल्पपरिणामसुखानुपाती स्नेहो विवृद्धिमुपयाति सुखे स्थितानाम् । दुःखोपतप्तमनसां शिथिलीभवन्ति पाशास्त्वमी प्रियविकल्पमया जनानाम् ॥ गोम्न्_२३ ॥ अथ स तपस्वी चाण्डालदारको गर्भमलाक्लेदोपलिप्तबीभत्साश्रयस्तीव्रामगन्धः कृमिमक्षिकाशतनिपानभूतः पिपीलकगणाहृतकष्टाविस्पष्टचेष्टकरचरणवदनो मांसपिण्ड इव प्रत्यग्रः क्षितितलोपनिक्षिप्तो वायसैरप्यभिभूयमानो नारक इव स्वकर्मावधूतजीवितशेषः परं कृच्छ्रमुद्वहति स्म । तस्य कर्मापराधेन मातुः स्तन्यं क्षयं गतम् । उचितामपि सा भिक्षां न लेभे दुःखभागिनी ॥ गोम्न्_२४ ॥ सा प्रसूतिपरिक्लेशपरिक्षामतराश्रया । जरारुजापरिक्लिष्टा प्रेतीवाभूद्भयंकरी ॥ गोम्न्_२५ ॥ आचाममात्रामपि नाम नासौ लेभे शुनामप्यनिवारणीयाम् । तस्यैव वा कर्मभिरात्मजस्य स्वकर्मभिर्वा परिणामतिक्तैः ॥ गोम्न्_२६ ॥ अथ स चाण्डालदारको दैवसामार्थ्यात्क्रमेण यदा चङ्क्रमणक्षमः संवृत्तस्तदास्य मात्रा दण्डः खण्डमल्लकं चार्पितं गच्छेदानीमधन्यानुभवाशुभानां कर्मणां फलविपाकमिति । अथ स चण्डालशिशुर्भिक्षाहेतोश्चन्दनस्यैव गृहमुपजगाम । पूर्वाभ्यासेन तेनैव जगामासौ स्वमालयम् । कर्मैवात्यर्थमभ्यस्तं देहिनां देशिकायते ॥ गोम्न्_२७ ॥ अद्राक्षीच्चन्दनः सार्थवाहस्तं चाण्डालकुमारकं दण्डखण्डशरावव्यग्रहस्तं लालाजलपरिक्लिन्नवदनं भिनिभिनायमानमक्षिकाशतनिपानभूतं बाह्याध्यात्मिकमलोपहतगात्रं रथ्यारेणुविरूक्षितकतिपयशिरोरुहं प्रकृतिखरदर्भसंस्तरपरिवर्तनविलिखिततनुमकृतशौचसंस्कारविधानं विकृतनासिकाबिलागलितसिंहाणखण्डपर्यवनद्धबीभत्साननं वीथीमुखात्प्रविचित्य धान्यपुलाकान् रोमन्थायमानं पूतनारूपमिवातिविरूपं मूर्तिमन्तं संवेगं साक्षादिव पाप्मानमलक्ष्मीपुञ्जमिव संपिण्डितमपूर्वमिव पिशाचनिर्माणं विपाकसर्वस्वमिवाशुभस्य कर्मणः समाहारमिव संसारदुःखानां <राहुमु>खान्यमिव जगच्चक्षुषां रहस्यभूमिमिवानादेयताया विग्रहवन्तमिव परिभवमुपनिघातमिव नगरस्य प्रत्यादेशमिवापकारिणां निलयमिवाधन्यतायाः पदमिव दौर्भाग्यस्य गृहद्वारैकदेशे निषण्णं दण्डेन काकान्निवारयन्तम् । दृष्ट्वा च पुनः पूर्ववैरानुशयोद्बोधितकोप इव सरभसो दौवारिकमब्रवीत् । अरे कापुरुष निर्वासयैनममङ्गलमलक्ष्मीकमप्रेक्षणीयं चण्डालाधमम् । तथा चैनं निर्भर्त्सय यथा न पुनरिहागच्छेदिति । स तथेति प्रतिश्रुत्य तं चण्डालकुमारकम् । दण्डेन प्रेरयामास परुषां गिरमुद्गिरन् ॥ गोम्न्_२८ ॥ यदि त्वां पुनरायातमिह पश्यामि कश्मल । अस्मात्कष्टतरं तेऽहं करिष्यामीति निग्रहम् ॥ गोम्न्_२९ ॥ क्रौर्याभ्यासावलिप्तस्य मनसो वृत्तिवैकृतम् । न हि संकोचमायाति खलानां कृपणेष्वपि ॥ गोम्न्_३० ॥ पपात भूमौ कृपणः स बालो दण्डाभिघातक्षतपृष्ठवंशः । प्रकाशयन् कर्मफलं स्वमेव कर्मातिरौद्रं नरकस्य तस्य ॥ गोम्न्_३१ ॥ अथ स तपस्वी भग्नशिरःकपालभागो विकुञ्चितजानुमण्डलः पाषाणशकलकपालशर्करापरिक्षतक्षामजङ्घाबाहुदण्डकः समन्ततो विगलितरुधिरधारावसिच्यमानविग्रहो महीरजःकपालावरुद्धवदनविवरो विक्षिप्तदण्डकः संचूर्णितमल्लको धरणितलविकीर्णभिक्षाशेषस्तीव्रवेदनाभ्याहतशरीरो मत्स्य इव प्रतप्तसिकतामध्यगतः संपरिवर्तते स्म । अथास्य माता चिन्तयामास । किं नु मे पुत्रकः प्रपाते पतितः स्याच्छुना वा भक्षित उत गवा जीविताद्व्यपरोपितः परिभूय वा बालदारकैर्विहेठितो मार्गप्रनष्टो वान्येन पथा गतः । किं वा नागच्छतीति सा पुत्रस्नेहाकृष्टहृदया पुत्र पुत्रेति क्रन्दती तं देशमुपजगाम । स च बालदारको जनन्याः स्वरं प्रत्यभिज्ञाय भृशतरं विचुक्रोश । समानसुखदुःखानां सुहृदामपि संगमे । नवीभवन्ति दुःखानि व्यतीतान्यपि देहिनाम् ॥ गोम्न्_३२ ॥ मातेत्यपूर्वमेवैतद्विश्रम्भायतनं भुवि । पुत्र इत्येव निष्यन्दः स्नेहस्यास्य दुरत्ययः ॥ गोम्न्_३३ ॥ अम्बेति दीनां गिरमीरयन्तं सा तं परिष्वज्य तनुप्रलापम् । रुरोद तीव्रायतदीनकण्ठा निनादयन्ती पुरचत्वराणि ॥ गोम्न्_३४ ॥ कस्य पुत्र दया नासीत्त्वयि दुःखैकभाजने । गर्वितः को न्वसौ लक्ष्म्या गजकर्णाग्रलोलया ॥ गोम्न्_३५ ॥ प्रकाशितमिदं केन कृपणे त्वयि पौरुषम् । त्वयि प्रहरतः कस्य भूमौ न पतितः करः ॥ गोम्न्_३६ ॥ हतस्त्वं केन मे वत्स निरनुक्रोशचेतसा । निहतः पूर्वकेणैव कटुपाकेन कर्मणा ॥ गोम्न्_३७ ॥ इदमनार्यताचिह्नं केन त्वयि विदर्शितम् । को न्वसौ मानुषाकारो रक्षसामनुशिक्ष्यते ॥ गोम्न्_३८ ॥ आयसं हृदयं कस्य कस्य वज्रमयः करः । कस्य वाक्सविषा कस्य त्वयि नासीद्दयालुता ॥ गोम्न्_३९ ॥ निहीनकुलजे बाले सुहृद्बन्धुविवर्जिते । जात्यन्धे परपिण्डाशे त्वयि किं रोषकारणम् ॥ गोम्न्_४० ॥ स बालभावात्कृपणो वराकः स्वभ्यस्तमात्सर्यतया तया च । शुशोच भैक्षं क्षितिविप्रकीर्णं न तु क्षरच्छोणितमात्मदेहम् ॥ गोम्न्_४१ ॥ अथ वृद्धचण्डाली तं दारकं क्षतविक्षतशरीरं शनैः शनैः पाणिना परामृशन्ती प्रोवाच । केन ते पुत्रकेयमवस्था कृता निर्दयेन पापकर्मणा पुरुषाधमेनेति । स प्राह । अम्ब आर्यचन्दनेन पुरुषोऽभिहितो निर्वासयैनममङ्गलमलक्ष्मीकमप्रेक्षणीयं चण्डालाधमम् । तेनाहमेवं पीडित इति । अथ सा वृद्धचण्डाली दीर्घमुष्णं विनिश्वस्य पञ्चाङ्गुलमभिनिपीडयन्ती कोपपरुषाक्षरमित्यवोचत् । अल्पायुषि कुतस्तस्मिन्नार्यता पुरुषाधमे । व्यसनोपहते बाले त्वयीदं यस्य वैकृतम् ॥ गोम्न्_४२ ॥ एवं तस्याः शोकवशमुपगतायाः कृपणायाः समीपे महाजनकायः संनिपतितः । अत्रान्तरे आकृष्यमाणहृदयः कृपया महत्या वैनेयकृत्यमवलम्ब्य विनायकाग्र्यः । प्राविक्षदक्षतमना भगवान् पुरीं तां बुद्धो विबुद्धनवपङ्कजसंक्रमेण ॥ गोम्न्_४३ ॥ चामीकराद्रिमिव जङ्गममापतन्तं तं तायिनं स्वकिरणैः परिविष्टमूर्तिम् । पौराः प्रसादशिथिलावनतैः शिरोभिर्दूरात्प्रणेमुरुपशान्तभवप्रपञ्चम् ॥ गोम्न्_४४ ॥ सितभवनगतास्तं संभ्रमोद्भ्रान्तचेष्टास्तडित इव सुमेरोः शृङ्गपर्यन्तलग्नाः । उपशममिव साक्षादापतन्तं तरुण्यो मणिगुणकुसुमौघैरर्चयामासुरार्यम् ॥ गोम्न्_४५ ॥ अपेतपाषाणकपालशर्करः समः स निम्नोन्नतवर्जितोऽभवत् । भुवः प्रदेशो हरितार्द्रलेपनः प्रमुक्तपुष्पप्रकरोत्तरच्छदः ॥ गोम्न्_४६ ॥ निबद्धजीमूतवितानमम्बरं समुद्गतेन्द्रायुधतोरणं बभौ । ववुः शनैः स्पर्शसुखाः समीरणाः सिरिन्ध्रिकापुष्परजोविकर्षिणः ॥ गोम्न्_४७ ॥ तमालनीलोत्पलपत्त्रवृष्टयो निपेतुरन्तर्गतमत्तषट्पदाः । विपाटितस्येव विमानकोटिभिर्नभस्तलस्यावयवास्ततस्ततः ॥ गोम्न्_४८ ॥ पुण्यप्रभावजनिते भगवान्निषद्य पद्मे सहस्रदलके रथचक्रमात्रे । अम्लानपुण्यपरिपाकविमुक्तगन्धे तं चन्दनं परमकारुणिकः शशास ॥ गोम्न्_४९ ॥ येनार्जितं धनमिदं परिपालितं च स्वेदोपदिग्धवपुषा कुटुकुञ्चकेन । नन्दः पिता तव स एव फलानि भुङ्क्ते तिक्तानि मत्सरविषद्रुमसंभवानि ॥ गोम्न्_५० ॥ स्थानादितः पुनरयं कलुषान्तरात्मा यास्यत्यपायमनुपायभयप्रतिष्ठम् । अर्चिष्मता हुतभुजा विनिकीर्णदेहा यस्मिन् वसन्ति विवशा बहवः कदर्याः ॥ गोम्न्_५१ ॥ एतां सुहृज्जनविषादकरीमवस्थामालोक्य मोहतमसः प्रतिबिम्बभूताम् । स्वाङ्गान्निकृत्य पिशितान्यपि को न दद्यात्संसारवर्त्मनि नरः परिवर्तमानः ॥ गोम्न्_५२ ॥ क्लेशान्धकारवदना विकरालदंष्ट्रा दावाग्निदग्धशिखरा इव शैलपादाः । आयासिनो यदनवाप्तजला भ्रमन्ति प्रेताः फलं तदपि लोभविषद्रुमाणाम् ॥ गोम्न्_५३ ॥ तृष्णाविदारितमुखाः समुपेत्य बाला दूर्वाप्रवालहरितोपनितम्बलेखाम् । संशुष्कपङ्कपटलप्रकरान्तरालां पश्यन्ति के चिदनलज्वलितां स्रवन्तीम् ॥ गोम्न्_५४ ॥ देहान् दहन्ति दहना इव चन्द्रपादाः शीता रवेरपि करा हि समुद्गिरन्ति । अङ्गारचूर्णपरुषाश्च भवन्त्यमीषां मेघाम्बुशीकरमुचोऽपि कदम्बवाताः ॥ गोम्न्_५५ ॥ आशीविषैरिव निरीक्षितमात्रशोभाः प्रेतैर्द्रुमा विमलनीलचलत्पलाशाः । सद्यो भवन्ति परिशुष्कविशीर्णपर्णाः प्रत्यादिशन्त इव मत्सरिणो मनुष्यान् ॥ गोम्न्_५६ ॥ प्रेतोपपत्तिनियता व्यसनाभिघाता व्यक्तीभवन्ति मनुजेष्वपि नैकरूपाः । क्षुत्तर्षशीतपरितापभयप्रकारास्त्यागद्विषां विपदतः परतोऽनुमेया ॥ गोम्न्_५७ ॥ पञ्चोपतापविरसाक्षरमप्रगल्भं देहीति यद्वदति दुर्बलमन्दमन्दम् । वित्तावलिप्तमनसः कुलजोऽपि साधुः सा नीचता विभवलोभपराजितानाम् ॥ गोम्न्_५८ ॥ आशाविघातभयसंकुचितश्च दीनो देहीत्यपि प्रसहते कृपणो न वक्तुम् । यन्निर्धनो धनवतः पुरुषानकाले मौनव्रतं तदपि लोभकृतं नराणाम् ॥ गोम्न्_५९ ॥ न जनस्य मलोऽस्ति लोभतुल्यो न च मात्सर्यसमः परोपघातः । न च याचकतुल्यमस्ति मित्रं जगतां त्यागसमो न बन्धुरन्यः ॥ गोम्न्_६० ॥ परिपाकविमुक्तगन्धकोशं भ्रमराः पद्ममिव प्रकामगन्धम् । अपनीतपरिग्रहावलेपं बहवः सत्पुरुषं भजन्ति सन्तः ॥ गोम्न्_६१ ॥ स्वमदार्द्रविशेषका गजेन्द्रा नवकार्तस्वरबद्धपाशकक्षाः । अनुयान्ति जनं प्रदानशीलं जविनश्चामरिणश्च वाजिमुख्याः ॥ गोम्न्_६२ ॥ विनयाभरणाः क्रियाभिरम्याः प्रमदाश्चित्रकलाविदग्धभावाः । उपयान्ति नरस्य दासभावं कुशलैरेव वशीकृताः पुराणैः ॥ गोम्न्_६३ ॥ भवनानि विभूतिमन्ति मेरोः शिखराणीव मनोज्ञदर्शनानि । स्वकृतानवगीतकर्ममायारचितान्येव मुदा विशन्ति सन्तः ॥ गोम्न्_६४ ॥ विनिमीलितजातिवाददोषेष्वनपाकृष्टचरित्रभूषणेषु । उपपत्तिरदुर्लभा कुलेषु व्यपनीताविलमत्सराश्रयाणाम् ॥ गोम्न्_६५ ॥ कुसुमस्तबकाभिरामशोभं नरनारीनयनद्विरेफहारि । कुशलस्य फलं वपुर्नराणां मतिवीर्याचपलप्रयामधीरम् ॥ गोम्न्_६६ ॥ विकसत्कुमुदाकरातिरेकप्रभया यद्गगनं स्फुरन्ति कीर्त्या । गतलोभमलस्य ता नराणां द्युतयस्त्यागनिशाकरस्य रम्याः ॥ गोम्न्_६७ ॥ विशदागलितैः शिरोमणीनां किरणैर्यच्छलयन्ति पादपीठम् । नृपतेरनुजीविनो विनीता मधुरं त्यागवनस्पतेः फलं तत् ॥ गोम्न्_६८ ॥ कृपणासु बवोपभोगमात्रास्वथ वा कैव कथा विनाशिनीषु । निरवद्यसुखानुबन्धि रम्यं फलमाप्नोति सनातनं प्रदानात् ॥ गोम्न्_६९ ॥ अवधूय बलं शमद्विषां यज्जलदानामिव मण्डलं नभस्वान् । पदमव्ययमाप्नुवन्ति बुद्धा भगवन्तस्तदपि प्रदानबिजम् ॥ गोम्न्_७० ॥ अभिभूय परप्रवादिपूगान् परमार्थं गमयन्ति शासनं स्वम् । मुनयो भुवनैकशासितारस्तदिदं त्यागपरंपरावसानम् ॥ गोम्न्_७१ ॥ अथ भगवान् पात्रीकृताध्याशयं तं जनमवेत्य रत्नत्रयाविचलितप्रसादं संसारवासविमुखं भवदुःखोपशमप्रतिसंयुक्तामेव कथामाविश्चकार । दुःखान्यमूनि सति जन्मनि संभवन्ति क्षीणे च जन्मनि न दुःखमुपैति भूयः । जन्मक्षयाय मतिमान् प्रयतेत तस्माद्यः प्राप्तुमिच्छति न दुःखशताभिघातम् ॥ गोम्न्_७२ ॥ दुःखं सकारणमिदं समुपैत्यनादिसंतानवर्तिभयशोकविषादयोनि । तृष्णां प्रतीत्य विपरीतसुखाभिमानव्यामोहनीं त्रिभवनाटकयोगधूर्ताम् ॥ गोम्न्_७३ ॥ एषोऽहमित्युचित एव मनोविदाही सत्कायदर्शनमयः पुरुषस्य कीलः । जन्माध्वनि भ्रमयतीदमनादिमध्यं संसारचक्रमपरिग्रहमप्रशान्तम् ॥ गोम्न्_७४ ॥ स्थित्वा शीले विगतरजसि प्राप्य चेतः समाधिं प्रज्ञालोकैर्मनसि शयितं ध्वान्तमुल्लिख्य कृत्स्नम् । जन्माम्भोधेर्व्यसनमहतः क्षेममासाद्य पारं संशान्तात्मा न दिवि भुवि वा भिक्षुरायाति संख्यम् ॥ गोम्न्_७५ ॥ यैर्निर्दग्धा मतिहुतभुजा स्कन्धसंबन्धलक्ष्यी तृष्णा नैकव्यसनविशिखापातसंधानमौर्वी । तेऽस्मिन् धन्या जगति सुखिनस्ते त एवानवद्यास् तेषां भद्रं स्थितमभिमुखं ते भयेभ्यो विमुक्ताः ॥ गोम्न्_७६ ॥ रिक्ताकारद्रवरतिरसास्वादपर्यस्तबुद्धेर् लेशनापि व्यनुसृतवतो जालिनीं चित्रमायाम् । आयासिन्यः शिरसि विपदः संचरन्ति प्रगल्भा जन्माभ्यस्तं सुचरितफलं व्यर्थमेव प्रयाति ॥ गोम्न्_७७ ॥ आयासिनीं भवविभूतिमवाप्तुकामैः शान्तिं परां च परतः कुशलं प्रचेयम् । आशीविषो नरपतेर्निधनाय मुक्तो हारो बभूव कुशलैः स्फुटचन्द्रगौरः ॥ गोम्न्_७८ ॥ किं च भूयः दुःखद्विषा हृदि न लोभकलिर्निषेव्यो जन्मान्तरोपचितलोभविषाशयस्य । शान्तात्मनोऽपि किल निर्विवरं बभूव भक्ताभिहारसमये मुखमेव भिक्षोः ॥ गोम्न्_७९ ॥ तस्मात्प्रदानसलिलैः स्नपयन्तु सन्तो मात्सर्यपङ्कमलिनानि मनोगृहाणि । लोभानलेन्धनमिदं निधनं धनं वो यावन्न याति विपदग्निशिखावलीढम् ॥ गोम्न्_८० ॥ श्रुत्वा वचांसि स जनो जगदेकबन्धोर्नन्दस्य तां च विपदं विपुलामुदीक्ष्य । विक्षिप्य मत्सरमयीं मनसस्तमिस्रां दानादिकं सुचरितं प्रथयां बभूव ॥ गोम्न्_८१ ॥ इति मत्सरनन्दावदानम् ॥ *************************************************************************** मेघ = गोमे बसेदोन् थे एदितिओन् ब्य्मिछएल्हह्न्. "दिए एइन्लदुन्ग्देर्प्रत्येकबुद्धस्", बेर्लिनेरिन्दोलोगिस्छे स्तुदिएन् ९।१० (१९९६), प्प्. १५७-२०१. मितेइनिगेन् वेर्बेस्सेर्तेन् लेसुन्गेन् वोन्म्. हह्न् ८. मेघ पुण्यैर्वितृप्तिमुपयान्ति न बोधिसत्त्वाः कामैः प्रमादिन इव प्रतिपत्तिवामैः । राज्याश्रयाण्यपि सुखान्यवधीर्य धीराः पुण्याय पुण्यनिधयः श्रममाश्रयन्ते ॥ गोमे_१ ॥ तद्यथानुश्रूयते बोधिसत्त्वः किल भगवान् प्रकृतिदक्षिणो दक्षिणापथे राजा बभूव ॥ संतर्पयामास यतः स लोकं दानाम्बुभिः सस्यमिवाम्बुगर्भः । ततो महामेघ इति क्षितीशो यथार्थनामातिशयो बभूव ॥ गोमे_२ ॥ न तस्य राज्यद्युतिविस्तरेषु व्यासक्तदीनं हृदयं बभूव । अनर्थभूतान् स परार्थमर्थान् द्रुमः फलानीव बभार साधुः ॥ गोमे_३ ॥ बभूव तस्मिन् पितरीव लोको विश्रम्भसंभोगसुखप्रगल्भः । सुतेष्विव प्रेमनिबद्धभावो बभूव सोऽपि क्षितिपः प्रजासु ॥ गोमे_४ ॥ सगौरवोऽसौ गुरुषु प्रकृत्या दीनेषु कारुण्यमृदुस्वभावः । कृतापराधेष्वपि मैत्रचित्तः समन्तभद्रस्तु सुहृज्जनेषु ॥ गोमे_५ ॥ बभूव तस्य ग्रहराजकीर्तेस्तथाग्रहो न स्वपरिग्रहेषु । यथा तदीयासु ममत्वमासीज्जनस्य संपत्स्वतिशायिनीषु ॥ गोमे_६ ॥ जग्राह दानेन स कांश्चिदेव प्रियाभिधानैरपरान् विचित्रैः । तथार्थचर्याभिरनर्थभीरुः कांश्चित्समानार्थतयार्थभूतः ॥ गोमे_७ ॥ नैवा<सौ स्वं> परहितप्रतिपत्प्रकारो यन्नात्मसाच्च नरलोकपतिश्चकार । कोऽपि त्वसौ कथमपि द्युतिमान् कुतोऽपि लोकेष्वसंस्तुतसुहृद्भगवान् बभूव ॥ गोमे_८ ॥ स कदा चिन्महीपतिरमात्यगणपुरस्कृत उदङ्मुखो ददर्शातसीकुसुमराशिसंकाशमाकाशमवगाह्य पततो भगवतः प्रत्येकबुद्धान् परमविस्मितमना ह्यमात्यानब्रवीत् ॥ पश्यन्तु भवन्तः ॥ एते कषायपरुषाम्बरसंवृताङ्गा व्योमातसीकुसुमराशिनिभं विगाह्य । आयान्ति केऽप्युपशमस्तिमितप्रचारा भूर्जद्रुमा इव मरुद्भिरुदस्तमूलाः ॥ गोमे_९ ॥ अन्यतमोऽप्यमात्यः ससंभ्रमोऽब्रवीत् ॥ सम्यगभिहितं देवेन कुतः ॥ आयान्त्यमी काञ्चनराशिगौरा विधूतकाषायपटान्तभङ्गाः । परस्परास्लिष्टविकीर्णपक्षाः खं चक्रवाका इव शोभयन्तः ॥ गोमे_१० ॥ अपरोऽप्याह ॥ स्वच्छेन्द्रनीलोपलरागमेते नभः समुत्पत्य समापतन्ति । समीर्यमाणाः पवनेन संध्याकलङ्कितान्ताः शरदीव मेघाः ॥ गोमे_११ ॥ अनुपतति न चैतानभ्रमाली नभस्वान् उपशमरमणीये चापतन्ति प्रकृत्या । चरणतलनिपातो लक्ष्यते व्योम्न्यमीषां न च गगनमसङ्गं पादसंचारयोग्यम् ॥ गोमे_१२ ॥ यथा यथा ते निकटी भवन्ति व्रतीश्वराः शान्तिमिवाकिरन्तः । तथा तथा विस्मयहर्षपूर्णा राजन्वती सा समितिश्चकम्पे ॥ गोमे_१३ ॥ अतृप्ता एव ते तेषां दर्शनेन महात्मनाम् । बभूवुरथ चातीयुस्तेषां नयनगोचरम् ॥ गोमे_१४ ॥ अथ स पार्थिवस्तेषां महर्षीणां दर्शनेनावर्जितमनास्तानमात्यानब्रवीत् ॥ इदमाश्चार्यमालोक्य कौतूहलसमाकुलम् । मनो मम तदिच्छामि श्रोतुमेषां प्रविस्तरम् ॥ गोमे_१५ ॥ अथ तेषां नृपतिसचिवानामभिज्ञाततरोऽमात्यस्तं राजानमब्रवीत् ॥ श्रूयतां महाराज ॥ नोत्पद्यन्ते यदा बुद्धा भगवन्तः कृपात्मकाः । अपास्य रजसां वृत्तिं दीर्घकालानुशायिनीम् ॥ गोमे_१६ ॥ आवृते तमसा लोके समन्तादपरायणे । भवत्येषां तदा जन्म जन्मपर्यन्तगामिनाम् ॥ गोमे_१७ ॥ प्रतीत्योत्पादगाम्भीर्यदूरानुगतबुद्धयः । प्राप्तशय्यासनरता हीनदीनानुकम्पकाः ॥ गोमे_१८ ॥ संसर्गभीरवो नित्यं तूष्णींभावपरायणाः । विचरन्ति जगत्येते जङ्गमाः पुण्यराशयः ॥ गोमे_१९ ॥ आत्मानमेकं प्रत्येते बुद्धा यस्मादतः किल । प्रत्येकबुद्धा इत्येवं प्रतिमानमुपागताः ॥ गोमे_२० ॥ अथ स राजा सुतरां तद्गुणाकृष्टहृदयः स तममात्यमब्रवीत् ॥ अथ कुत्रामी भगवन्तः प्रतिवसन्तीति ॥ स प्राह ॥ मेघस्य राज्ञो विजिते जितात्मन् वसन्त्यमी दग्धभवाधिवासाः । हिमाद्रिकुञ्जेषु नमन्नमेरुप्रतानसंसक्तमहीरुहेषु ॥ गोमे_२१ ॥ राजोवाच ॥ अस्ति कश्चिदुपायो येनामी मद्विषयान्तमावसेयुरित्यमात्योऽब्रवीत् ॥ अस्ति महाराज यदि मेघराजा प्रार्थ्यते तदन्वभ्यर्थिताः किलामी त्वद्विषयमलं कुर्वन्त्यः प्राप्नुवन्ति चेति ॥ अथ बोधिसत्त्वः पुण्येष्वादरोपदर्शनार्थममात्यानाह ॥ तेन हि भवन्तः सज्जीकुरुत ॥ तदनुरूपमानपात्रं स्वयमेवाहं गत्वा मेघं राजानमस्मिन्नर्थे विज्ञापयिष्यामीत्यध्वसंभ्रान्तास्ते पुरुषा बोधिसत्त्वमाहुः ॥ नार्हति देवो दूतमात्रसाध्ये प्रयोजने खेदमापत्तुम् ॥ अपि च महाराज ॥ आज्ञासुखरसं राज्यमनेकापायसंकटम् । परराष्ट्रमतो गन्तुं सहसा तव न क्षमम् ॥ गोमे_२२ ॥ बोधिसत्त्वोऽब्रवीत् ॥ स्वहितेऽप्यभियुक्तानां करुणाविकलात्मनाम् । खेदः कः पुण्यकामानां भवाध्वपरिवर्तिनाम् ॥ गोमे_२३ ॥ आत्मत्वेनैव यैरेव तदुपात्तं भवत्रयम् । जगदत्यन्तबन्धूनां तेषां खेदः कथं भवेत् ॥ गोमे_२४ ॥ न च कार्याभिनिष्पत्तिर्दूतसाध्या गरीयसी । नास्माद्गुरुतरं चास्ति करणीयं मम परम् ॥ गोमे_२५ ॥ न चाज्ञारभसारम्भे न राज्यभारं वहाम्यहम् । जगतां वयमेवेह कृपया किंकराः कृताः ॥ गोमे_२६ ॥ अनेकापायसंराद्धं राज्यं येनैव भूभृताम् । तेनैवास्य क्षमस्त्यागः कुपितस्येव भोगिनः ॥ गोमे_२७ ॥ धर्मादेव च संप्राप्य राज्यश्रीसुखसंपदः । औदासीन्यं कथं नाम कुर्यात्तत्रैव पण्डितः ॥ गोमे_२८ ॥ अपि च भदन्तः ॥ विना श्रमैस्तुच्छमसारमध्रुवं सुखं न कामाश्रयमप्यवाप्यते । अशेषलोकत्रयसंपदास्पदं पदं किमङ्गाप्रतिमस्वयंभुवाम् ॥ गोमे_२९ ॥ निवेश्य कामेषु चलेषु मानसं मुधैव खिन्ना वयमन्यजन्मसु । जगद्धिताय त्वधुनाभिवाञ्छिता भवन्तु नस्त्वन्तकराः परिश्रमाः ॥ गोमे_३० ॥ कथं नु तस्मिन्न यतेत बुद्धिमान्निबध्य यस्मिन्नभिलाषमात्रकम् । असंस्तुतानामपि चैकबन्धुतां जनो जनानामुपयाति तत्क्षणात् ॥ गोमे_३१ ॥ तदत्ययाशङ्किभिश्चामात्यैः स महात्मा पुनः पुनः प्रतिबोध्यमानोऽपि नैव तेषां वचनं प्रमाणयामास ॥ त्यक्तस्पृहत्वात्क्षितिपस्य तस्य सर्वत्र कारुण्यमयी प्रवृत्तिः । गुणानुरागात्स तथापि तेषां पूजां मुनीनां प्रति सादरोऽभूत् ॥ गोमे_३२ ॥ गुणोद्गता एव गुणोदितेषु भवन्ति पूजाप्रतिपत्तिनम्राः । य एव रत्नातिशयान्तरज्ञास्त एव तेष्वत्यधिकं यतन्ते ॥ गोमे_३३ ॥ फलाभिलाषोपहतान्तरात्मा परीक्षते पात्रविशेषमेव । कृपालुकस्त्वर्थितयैव तुष्टः प्रवर्तते याचनकेषु सारम् ॥ गोमे_३४ ॥ वनस्पतीनामिव जन्म येषां परोपकारैकरसस्वभावम् । लभेत तेषां हृदयेऽवकाशं खला फलाशा विदुषां कथं च ॥ गोमे_३५ ॥ अथ स महासत्त्वो गुणानुवृत्तिस्थिरानुरागेण महता बलेन परिवृतः स्वपुरवराद्विनिर्ययौ ॥ निर्गच्छन्तं चैनं दूर्वाप्रवालकुसुमफलव्यग्रात्युच्छ्रितैकपाणयो द्विजवरा जय जय महाराजेत्युच्चैरानन्दयामासुः ॥ अथ स महात्मा लौकिकमङ्गलापरिनिष्पत्तिमभिप्रकाशयन् बुद्धानामेव च भगवतां गुणानुवादं मङ्गलं चोद्भावयन् व्यापिना स्वरेण तानमङ्गले मङ्गलाभिनिवेशिनो विप्रानब्रवीत् ॥ सर्वानर्थोपसंहारप्रगल्भैः क्लेशशत्रुभिः । पराजितानां को नाम विजयः क्लीबचेतसाम् ॥ गोमे_३६ ॥ दुर्भेदं यो बिभेद प्रविचयकिरणैर्ध्वान्तमन्तर्निविष्टं तृष्णावल्लीं समूलां भवतरुशिखरारोहिनीं यो ददाह । आगृह्य क्रोधसर्पं हृदयबिलतलात्कोऽपि चिक्षेप योऽसौ लोकालोकस्वभावः स जयति भगवान् भग्नसंसारचक्रः ॥ गोमे_३७ ॥ अश्रान्तं सुविदूरगोचरचरं दुर्निग्रहं दुर्ग्रहं दुष्पूरं विषयाभिलाषकृपणं मायास्वभावं चलम् । एकान्तव्यवदानमार्गविमुखं संक्लेशपक्षोन्मुखं यश्चित्तं दमयां बभूव स जयत्वव्यग्रचेता मुनिः ॥ गोमे_३८ ॥ अन्तर्द्योतिरपास्य यस्य तमसामायामिनीं वासनाम् अक्लिष्टामपि निर्दधाव निवृतिं कालत्रयव्यापिनीम् । सर्वाकारपरोपकारविषयं यस्यापरप्रत्ययं प्रज्ञानं भगवानसौ विजयते बुद्धो जगच्छङ्करः ॥ गोमे_३९ ॥ स क्रमेण व्यतीत्य तालहिंतालतमालनक्तमालनिचुलबकुलकाननोपशोभितं स्वविषयं खदिरबदरबिल्वेङ्गुदशमीपलाशगहनदुर्गामटवीं प्रपेदे ॥ तस्य खलु महासत्त्वस्य पुण्यतर्षेण द्रुततरं व्रजतः ॥ रजोभिः सैन्यानां शलभकुलसंपातकपिलैर् निरुद्धं खं रेजे पुलिनमिव पर्यस्तमुदधेः । क्व चित्पाणिक्षेपैर्मदसुरभिशीकारशिशिरैर् जलैर्नागेन्द्राणां नवतमवनीहारपटलैः ॥ गोमे_४० ॥ सोऽतिक्रम्य तामटवीमनुक्रमेण मेघस्य राज्ञो विषयमनुप्राप्तः । तदागमनसंभ्रान्तश्च मेघो महीपतिर्विदिततद्गुणप्रभावः प्रत्युद्गम्यैनं सबहुमानप्रहर्षविस्मयविकचलोचनो महता सत्कारेण मानयित्वा महार्हासनोपविष्टं तत्तत्प्रियमवोचत् ॥ सुस्वागतं क्षितीन्द्राय धन्यमागमनं तव । सुभाषितमिदं लोके जीवन् भद्राणि पश्यसि ॥ गोमे_४१ ॥ को नु संभावयेत्पुण्यां प्रमोदामृतपेशलाम् । आवयोः संगतिमिमां हिमवद्विन्ध्ययोरिव ॥ गोमे_४२ ॥ दृश्यसे चरितैरेव कामं लोकान्तचारिभिः । साक्षाद्वो दर्शनं यत्तु तन्मङ्गल्यफलोदयम् ॥ गोमे_४३ ॥ प्रत्यक्षमपि कल्याणं मनोरथविदूरगम् । न श्रद्धत्ते जनः प्रायः प्रीतिप्रेङ्खोलिताशयः ॥ गोमे_४४ ॥ स्वप्नोऽयमुत मायेति निश्चयं न लभामहे । भवन्तमपि पश्यन्तो लोचनानन्दबान्धवम् ॥ गोमे_४५ ॥ कच्चिदक्लान्तकायस्त्वं राजन् कच्चिदनामयः । कच्चिद्विश्रम्भनिःसङ्गः प्रणयाभिमुखो मयि ॥ गोमे_४६ ॥ कच्चिन्नोत्कण्ठयन्ति त्वां दक्सिणापथचन्द्रिकाः । प्रध्यानस्तिमिताताम्रपर्यन्तनयनाः प्रियाः ॥ गोमे_४७ ॥ अनपायी भवेत्कच्चिदयत्नः सत्समागमः । कच्चिदत्राभिरमसे स्वदेश इव भूपते ॥ गोमे_४८ ॥ अथ बोधिसत्त्वस्तं राजानमम्लानप्रणयशीभरैर्वचोभिः समुत्तेजयन्नब्रवीत् ॥ दृष्ट्वैव दर्शनीयं त्वां विश्रान्तोऽहं महीपते । अनार्यस्यापि विश्रम्भः कस्य न स्याद्भवादृशे ॥ गोमे_४९ ॥ त्वय्यसंस्तुतसद्बन्धौ बान्धवे पुरतः स्थिते । किं चान्यद्वल्लभतरं ममोत्कण्ठानिबन्धनम् ॥ गोमे_५० ॥ विदिताश्च महाराज मम प्रियसमागमाः । वितथाल्पसुखास्वादव्यसनायासहेतवः ॥ गोमे_५१ ॥ येऽर्थाः स्वप्नेऽनुभूयन्ते ये च निद्रापरिक्षये । तेसां निर्भुक्तिमुक्तानां विशेषो नोपलभ्यते ॥ गोमे_५२ ॥ स्वप्नमायोपमानेषु मुहूर्तपरिणामिषु । प्रसङ्गं मतिमान् कुर्यान्न प्रियप्रणयेष्वतः ॥ गोमे_५३ ॥ प्रियो ममेत्येवमनादिकालप्रवृत्तमुद्वृत्तमनल्पगर्भम् । सुखाभिधानं प्रवदन्ति दुःखं व्यतीतदुःखा मुनयः पुराणाः ॥ गोमे_५४ ॥ कृपा कृपावस्तुषु संप्रतार्यते स्त्रियः कृपावस्तु विशेषतः सताम् । अतो मतिर्मे करुणानुपातिनी प्रियासु राजन्न तु विभ्रमातुरा ॥ गोमे_५५ ॥ स्वभावदीनाः परतन्त्रवृत्तयः सदातुरा मत्सरमानमन्मथैः । पथि प्रकीर्णा इव मांसपेशिकाः कथं नु न स्युः प्रमदाः कृपास्पदम् ॥ गोमे_५६ ॥ अथ स राजा प्रसादितमानसस्तैर्बोधिसत्त्ववचनकुसुमैः प्रणम्यैनमब्रवीत् ॥ आज्ञापय महाराज यत्र मां मन्यसे क्षमम् । भवद्विधानां कृत्येषु वयमानम्रमूर्तयः ॥ गोमे_५७ ॥ प्रसन्नमानसं स चैनमवेत्य बोधिसत्त्वः संप्रहर्षयन्नब्रवीत् ॥ तवैव सफलं जन्म सुजीवं त्वं च जीवसि । ऐश्वर्यं तव पात्रस्थं यथार्था श्रीस्तवैव च ॥ गोमे_५८ ॥ यस्त्वमेषां भगवतां भवसंभोगविद्विषाम् । सत्कारव्यपदेशेन तनोषि यशसा जगत् ॥ गोमे_५९ ॥ सुहृदः संविभज्यन्ते दारैरपि धनैरपि । संविभागस्तु धर्मेण दुर्लभो भुवि नास्ति वा ॥ गोमे_६० ॥ धर्मातिथ्यमतो राजन्मम त्वं कर्तुमर्हसि । न हि संभावना सत्सु दृष्टा वन्ध्यफलोदया ॥ गोमे_६१ ॥ स्वर्गो मोक्षः सुखान्यर्था धर्मादेव यशांसि च । दधद्धर्ममतो युङ्क्ते स्वर्गमोक्षसुखादिभिः ॥ गोमे_६२ ॥ सद्धर्मप्रगुणं मित्रं करणीयं बलादपि । एषैव सुहृदां लोके साधोः साधीयसी स्थितिः ॥ गोमे_६३ ॥ अतिथिर्मित्रमर्थीव सत्कारायतनं परं मयि चैतत्त्रयं यस्मादतो मेऽभ्यर्थनां कुरु ॥ गोमे_६४ ॥ स्रवन्निव प्रसादस्ते लक्ष्यते मुखपङ्कजात् । पुण्यसंभोगवात्सल्यमुद्गिरंल्लक्ष्यसे गिरा ॥ गोमे_६५ ॥ अनुज्ञाता त्वया राजन्निमे प्रक्सीणकल्मषाः । वसन्तु दक्षिणीयाग्र्या दक्षिणापथभूमिषु ॥ गोमे_६६ ॥ अथासौ महीपतिर्बोधिसत्त्वमब्रवीत् ॥ शक्ये तत्कुशलं दातुं स्वसंतानगतं यदि । दद्यां तदपि सुव्यक्तं भवते कृतवेदिने ॥ गोमे_६७ ॥ वयं राज्यं च दातारो यद्वान्यत्साधु मन्यसे । तथैव प्रभुतां तत्र नावगन्तव्यमन्यथा ॥ गोमे_६८ ॥ मया यत्पुण्यमार्याणामेषामपचितेश्चितम् । त्वदभ्यागमनाकालकौमुदी तत्कृतैव मे ॥ गोमे_६९ ॥ मित्रमेकान्तकल्याणं बन्धुरत्यन्तवत्सलः । गुणवान् दक्षिणीयस्त्वं नाथश्चानुत्तरो मम ॥ गोमे_७० ॥ क्षुद्रसत्त्वोऽपि को नाम त्वदाज्ञामभिलङ्घयेत् । द्रष्टव्यरत्नं दृष्ट्वा च न प्रसीदेद्भवादृशम् ॥ गोमे_७१ ॥ एकं त्वत्र महाराज वैधुरमवगच्छामि । येन मे वक्तुमस्त्येतान्महर्षीनस्मिन् प्रयोजने संकुचति मानसम् ॥ एते हि महात्मानो विवेकरतिप्रियत्वादभिरमन्ते हिमवति शैलराजे ॥ पश्य महाराज ॥ अमी <हि> हिमवत्प्रस्थाः कदलीखण्शमण्डिताः । विवेकायैव साधूनां शङ्खधात्रा विनिर्मिताः ॥ गोमे_७२ ॥ हरिणा लुञ्चितोपान्तशाद्वलश्यामनिर्झरान् । देवदारुद्रुमान् पश्य कूटागारानिवोद्गतान् ॥ गोमे_७३ ॥ ख्यापयन्तीव लोकानां विनिपातं हिमापगाः । तरङ्गैः कूलपाषाणभिद्यमानैर्मुहुर्मुहुः ॥ गोमे_७४ ॥ एताः स्निग्धच्छदच्छायाः पद्मकद्रुमराजयः । यतीनाश्वासयन्तीव संसारोद्विग्नमानसान् ॥ गोमे_७५ ॥ क्लान्तानां व्रतिनामेष स्वेदबिन्दूनपोहते । प्रालेयकणसंपर्कशिशिरो वनमारुतः ॥ गोमे_७६ ॥ उपत्यकाः पद्मकपुष्पपाटलाः शिलीन्ध्रकापादपवारितातपाः । इमा हिमाद्रे रमयन्ति मानसं निवृत्तसंरागविषं विपश्चिताम् ॥ गोमे_७७ ॥ हिमाचलस्योपनितम्बरोहिणां निरीक्षमाणाः सरलाशिखावताम् । वनानि चेतःस्थितिमाप्नुवन्त्यमी सुमेधसः कामविवेकपेशलाम् ॥ गोमे_७८ ॥ बोधिसत्त्वः प्रोवाच ॥ तिमिरद्रुमसंछन्ना विविक्ताभोगकन्दराः । तत्राप्यनुगुणा सन्ति वेलाशैलः प्रहाणिनाम् ॥ गोमे_७९ ॥ तालहिन्तालमालिन्यः सरितो हरितोपलाः । सन्ति तत्रापि हारीतपक्षविक्षोभितोर्मयः ॥ गोमे_८० ॥ तरङ्गिनीनामुपकण्ठरोहिणां पलाशिनां पुष्पभरातुराः शिखाः । विधूय तत्रापि यतीन्निषेवते समुद्रवेलाजलशीतलोऽनिलः ॥ गोमे_८१ ॥ सरसमरिचवल्लीश्यामरोधो वनस्य ध्वनिरचलसुरुङ्गामुर्च्छितोऽप्यम्बुराशेः । अविरलपरिपातोऽभ्यासयोगानुपाती स्थिरयति किल भिक्षोस्तत्र चेतःसमाधिम् ॥ गोमे_८२ ॥ निर्धौतोपलसानुरञ्जनशिलानीलैः पयोधेर्जलैर् वातायासितचन्दनद्रुमलताविक्षिप्तसूर्यातपः । शैलेन्द्रो मलयोऽस्ति नाम जलदच्छेदावलीशेखरश् चेतः संयमिनामलं रमयितुं शान्तप्रपञ्चज्वरम् ॥ गोमे_८३ ॥ चित्रोत्सङ्गो विषमनिचितैर्धातुपाषाणखण्डैः शष्पोद्भेदैस्तरुणतरुणैः श्यामपर्यन्तलेखः । बद्धामोदो मदजलमुचां दन्तिनां दानगन्धैर् विन्ध्योऽप्यद्रिः प्रशममहतां योगिनां संनिवासः ॥ गोमे_८४ ॥ सह्याद्रेर्विलसत्तमालहरिताः प्रस्थाः प्रहाणक्षमा निःशब्दाक्षरदच्छनिर्झरजलप्रक्षालितप्रस्तराः । संन्यस्तव्यवहारशान्तमनसां जन्मप्रबन्धद्विषाम् आर्याणामनपायिनीं विदधति प्रत्यात्मवेशां रतिम् ॥ गोमे_८५ ॥ तीरान्तानतबालवेतसतरुश्रेणीनिरुद्धातपा नद्यः स्वच्छजलान्तराल<विल>सन्मीनावलीमेखलाः । सख्यः प्रेमनिरत्यया इव सखे तत्राप्यलं योगिनाम् आक्षेप्तुं विषयाभिलाषविमुखं प्रध्यानधीरं मनः ॥ गोमे_८६ ॥ अपि च महाराज ॥ येषामस्मीत्ययमपगतश्चेतसो विप्रलम्भो यैरध्यस्तंगमितमशिवं स्कन्धसंतानबीजम् । ये पश्यन्ति व्यसनदहनैरा भवाग्रात्प्रदीप्तं लोकं तेषां न भवति मनो लोकचित्रानुपाति ॥ गोमे_८७ ॥ नित्यस्राविणमग्निमध्यनिहितं कुम्भं यथा मेदसां ये लोकार्थमनर्थभारविरसं सन्तो वहन्त्याश्रयम् । तेषां रत्नशिलालवालवलयाः कल्पद्रुमा नन्दने लूतातन्तुवितानधूमशिखरैः कान्तारवृक्षैः समाः ॥ गोमे_८८ ॥ आविर्भवन्ति तनवोऽपि परोपकारा यस्मिंस्तदेव रमणीयमुपैति साधुः । दुःखेष्वनात्मसु चलेष्वपरायणेषु किं वा भवेषु रतिकारणमस्ति राजन् ॥ गोमे_८९ ॥ स्वार्थानुरागकृपणा मतयो नराणां तुच्छेऽपि वस्तुनि रतिं परिकल्पयन्ति । उत्पाद एव महतां हि जगद्धिताय येषां पुरन्दरपुरेऽपि न ते रमन्ते ॥ गोमे_९० ॥ प्रकृतिचञ्चलाकुलप्रसरं यैश्चित्तमेतद्वशीकृतम् । रतिरुदेति नान्यतस्तेषामध्यात्मचिन्ताविहारिणाम् ॥ गोमे_९१ ॥ रमयन्त्यनुद्धृतविकल्पसायकान् सरितः सरांसि गिरयो वनानि च । अविकल्पगोचरविचारिणो यतेर्वनमेव शान्तमिति निश्चिता मतिः ॥ गोमे_९२ ॥ अजितात्मनामनुपतन्ति बुद्धयो विविधान् बहिर्मुखमनोनिबन्धनान् । अधिचित्तयोगविदुषां तु योगिनामतिमानुषे चरति गोचरे मतिः ॥ गोमे_९३ ॥ रजसां विपूयपरिणाहिमण्डलं परमामवाप्य वशितां स्वचेतसि । अनपायिनीमनुभवन्ति ये रतिं भवनं वनं च सममेव तान् प्रति ॥ गोमे_९४ ॥ विषयान्तरान्तरितविभ्रमं मनः प्रशमे रमेत कथमित्यतो यतेः । उपदिश्यते वनतरुप्रतिश्रयो महतां समं तु विषयं मनःसुखम् ॥ गोमे_९५ ॥ रमणीयमेतदिति विकृतं मतेः प्रवदन्त्य<वन्ध्य>वचसः पुरातनाः । कृतिनां मनो हतविकल्पवासनं न समाधिजेष्वपि सुखेषु रज्यते ॥ गोमे_९६ ॥ जगतां हितेषु चरतां महीपते करुणैकतानमनसां मनस्विनाम् । भवति व्यथातनुपरिश्रमैस्तनोर्न च कायजीवितनिकान्तिविद्विषाम् ॥ गोमे_९७ ॥ गगनोपमानमनसां स्पृशन्त्यमी न मनः सुखारतिविकल्परेणवः । सुखमन्यदेव तदपाकृतोपमं यदुपासते सुकृतिनो रणंजहाः ॥ गोमे_९८ ॥ व्रतिनामदूरपरिसर्पिणी मनःस्थितिरेव नाम जननीव वत्सला । सुखमादधाति तदतीतमानुषं न मरुत्पतेरपि यदस्ति वज्रिणः ॥ गोमे_९९ ॥ विहतप्रियाप्रियविकल्पविभ्रमः पृथिवीसमेन विहरन्ति चेतसा । नृप यत्र तत्र भवभोगनिःस्पृहा मुनयोऽतिशान्तसुखमौनलाभिनः ॥ गोमे_१०० ॥ अनिकेतसंस्तवपरिग्रहाग्रहाः स्वजने जने च समताविहारिणः । त्रिभवोपपत्तिगहनान्तदर्शिनो हिमवद्वनेषु रतिमाप्नुयुः कथम् ॥ गोमे_१०१ ॥ सुखदुःखयोरविषमप्रवृत्तयो नृप येन तेन परितुष्टमानसाः । सततं मृगा इव निसर्गतापसा विहरन्त्यनावृतविहारगोचराः ॥ गोमे_१०२ ॥ विसृतां भवद्रुमशिखावलम्बिनीं विविधोपतापपरुषां विषक्तिकाम् । उपहात्य ये पदमुपासते शिवं त्रिदिवेऽपि ते नरकवाससंज्ञिनः ॥ गोमे_१०३ ॥ अनुबन्धिनिं प्रतिनिवार्य संहतिं तमसां किमप्यनुभवन्ति ये सुखम् । न सनत्कुमारभवनेऽपि ते रतिं विरतोपसर्गरतयः प्रकुर्वते ॥ गोमे_१०४ ॥ वनराजयः कुसुमचित्रपादपाः गिरयः कदम्बतरुचुम्बिताम्बुदाः । सरितश्च हंसकुलभिन्नवीचयः परिदुर्बले मनसि लब्धप्रवृत्तयः ॥ गोमे_१०५ ॥ शिरःकंपोल्लसच्चारुकुण्डलः स महीपतिः । साधु साध्विति संराध्य प्रतिजग्राह तद्वचः ॥ गोमे_१०६ ॥ न्यायोपरोधि परिपेशलवर्णशोभमक्षूणकालमधुरं स्वपरोपकारि । वाक्यं सुहृज्जनमुखोच्चरितं कथं न स्यादप्रतिग्रहविपातितकान्तिशोभम् ॥ गोमे_१०७ ॥ अम्लायमानकरुणारसशीभराणि स्वान्तान्यनाकुलपदक्रमयोगिकानि । वाक्यानि सज्जनमुखाम्बुरुहच्युतानि प्रद्वेषरूक्षमपि मानसमाक्षिपन्ति ॥ गोमे_१०८ ॥ नीचेष्वपि प्रणतिनम्रशिरोधराणां क्रूराशयेष्वपि कृपामृदुमानसानाम् । आद्यन्तमध्यमधुराणि जिनात्मजानां वाक्यानि को भुवे विमानयितुं समर्थः ॥ गोमे_१०९ ॥ तानभ्यर्थ्य स पार्थिवो भगवतः प्रत्येकबुद्धानथ प्रीत्युत्कर्षपरम्परामनुभवन् कामप्यनायासिनीम् । आवासं स्वमुपोह्य सौगतभवास्तेऽपि क्षणेनाययुः स्वर्द्ध्यैवाप्रतिघं विगाह्य विघनं खं राजहंसा इव ॥ गोमे_११० ॥ स भूपतिः षष्टिसहस्रसंख्या गुहा विविक्ता जलयंत्रशीताः । संस्कार्य तेभ्यः प्रददौ प्रसन्नः प्रत्येकशो दग्धपुनर्भवेभ्यः ॥ गोमे_१११ ॥ शरत्सहस्राणि सषष्टिरेव चकार तेषां विगतज्वराणाम् । पूजां परां दृष्टपरायणानां संचारिणां पुण्यवनस्पतीनाम् ॥ गोमे_११२ ॥ तं बोधौ स परिणमय्य पुण्यराशिं संत्यज्य प्रकृतिविनाशिनं स्वदेहम् । त्रैलोक्यप्रथितपराक्रमप्रभावो मान्धाता किल वसुधाधिपो बभूव ॥ गोमे_११३ ॥ संकल्पानुविधायिन्यस्तस्याभूवन् विभूतयः । सर्वलोकातिशायिन्यो निरुपायासपेशलाः ॥ गोमे_११४ ॥ पुण्यान्येवमसौ चकार भगवान् यस्माज्जगद्भूतये त्यक्त्वा राज्यविभूतिविस्तरसुखान्यम्लायमानोद्यमः । तस्मात्तत्र मनः प्रसाद्य भगवत्याश्चर्यरत्नाकरे पातव्यं स्व<प>रोपकारमधुरं तस्यैव वाक्यामृतम् ॥ गोमे_११५ ॥ इति श्रीमेघजातकं चत्वारिंशत्तमम् ॥ ॥ *************************************************************************** नाग = गोना बसेदोन् थे एदितिओन् ब्य्मिछएल्हह्न्. "देर्दुल्द्समे नागक्”निग्, गोपदत्तस्नागजातक", बेर्लिनेरिन्दोलोगिस्छे स्तुदिएन् ८ (१९९५), प्प्. ८७-१३५. ९. नाग सहस्रशोऽपि संत्यक्तुमुत्सहन्ते स्वजीवितम् । साधवः साधुमर्यादां न मुहूर्तमपि क्षमाः ॥ गो१ ॥ तद्यथानुश्रूयते। बोधिसत्त्वभूतः किलाहं भगवानपरिम्लायमानकरुणासौम्यदर्शनो नागराजो बभूव । क्रोधेन तस्य सह शाश्वतसंविरोधः क्रोधोत्तर<ं> निगदितं समुपागतस्य । इच्छानुकूलमधुरा प्रतिसन्धिलीला साधोः सुयोनिविधुरैव बभूव तस्य ॥ गो२ ॥ संप्राप्तकर्मवशितातिशयस्य यस्य लोका हृदीव निवसन्ति कृपाविशाले । रोषस्ततः कथमुदेरति शुद्धसत्त्वात्पद्माकराद्विकसितादिव चित्रभानुः ॥ गो३ ॥ कुवलयदलमालाकोमलं भोगचक्रं स्वमणिकिरणजालश्रीकरालं स बिभ्रत् । घनसमय इवासील्लोचनानन्दबन्धुः सुरवरपतिचापोद्भासितो वाम्बुगर्भः ॥ गो४ ॥ अथ स महासत्त्वः क्रोधबहुलतां नागयोनेरवेत्य तत्प्रतिपक्षक्षमाकथामुद्भावयामास स्वपर्षदि ॥ न हेममाला मणिदीप्तिशीभराः स्रजो न चित्रा मकरन्दपिञ्जराः । तथाभ्यलंकर्तुमलं शरीरिणां यथा क्षमा सर्वगुणैकरत्नका ॥ गो५ ॥ मनोज्ञरूपा अपि नाम रोषिणो विषाद<य>न्त्येव मनांसि देहिनाम् । विमुक्तकोशा इव पुष्पपादपाः स्वमूलसंसर्पिभुजङ्गकङ्कणाः ॥ गो६ ॥ असंस्तुतानामपि नाम सूरता भवन्ति विश्रम्भविशेषभाजनम् । इति क्षमां को न भजेत बुद्धिमानशेषलोकाश्रयसंग्रहक्षमाम् ॥ गो७ ॥ इमामवस्थां गमिता विदाहिनामुना वयं रोषमयेन पाप्मना । निवृत्तवैरानपि यद्विशङ्कते महाजनोऽस्माननिमित्तकाहतः ॥ गो८ ॥ एवमन्यथा च स्वयूथ्यान् संज्ञापयामास ॥ अपि च ॥ दृष्टीविषानलमुचां स्वमणिप्रभाद्भिः पातालरन्ध्रगहनान्तविसर्पिणीभिः । तेसां स पन्नगवरः शमयां बभूव वागम्बुभिश्च हृदयानि भुजङ्गमानाम् ॥ गो९ ॥ स च महा<त्मा>जन्मान्तराभ्यस्तप्रशमरतिविहारसाधनः सर्वलोकोत्तरोत्कृष्टैर्तैरपि विषयैरनाकलितमानसो विड<म्ब>नामिव तामैश्वर्यलक्ष्मीमभि<मन्य>मानः प्रविवेकसुखविहारोपरोधिनं चाधिपत्यपरिश्रममार्यन्यायमार्गकण्टकस्थानीयांश्च स्निग्धजनसमागमान् प्रकृतिधीरमानसः सन् गृहेऽप्यरण्यसंज्ञाभावनासमर्थः सशङ्को गार्हस्थदोषमेवोद्भावयन् स्वभवनादभ्युद्गम्य विविक्तेष्वरण्यायतनेषु पोषधनियमालंकृतशरीरः कालमतिनामयामास ॥ त्यक्त्वा गेहं विभवकलिलं ये विविक्ते वसन्ति प्रायस्तेषु प्रशमविमुखो विस्मयं याति लोकः । चित्रं मन्ये क्षणमपि गृहे यद्रमन्ते विदग्धा नानातङ्कप्रचयगहने बोधिसत्त्वप्रतिज्ञाः ॥ गो१० ॥ अथ कदा चित्स महात्मा प्रत्यरण्यनिविष्टतरुणतरुमण्डलैकदेशावस्थितो भुजगविषोपघातयोग्यविद्याधरेण ब्राह्मणेनोपलक्षितः । स तस्य तेन नियमविशेषरमणीयेनाश्वासदेन तेजस्विभावेन विस्मितमना नास्मात्प्रत्यवायोऽस्तीति निश्चित्य स्वजीविकोपायं च तद्ग्रहणसाहसमवेत्य तं भुजगपतिं विश्रम्भमुकुलितफणचक्रमासीनं सहसा महता दण्डेन शिरस्यभिजघान तप्तपांसुपूगैश्चास्य नयनानि पूरयामास महत्या चैनं वररज्ज्वा गाढं ग्रीवायामामर्दयां बभूव मूलागदसंमिश्रेण चैनं श्लेष्मणा वदनविवरेषु संसिक्तवान् विवृत्य चास्य वदनपुटमयःसंदंशेन दंष्ट्राः समुदाजहार ॥ लोभपर्याकुलमानसश्चास्य तीक्ष्णेन शस्त्रेण घनकोशोपगूढमूलां चूडामणिमुत्पाटयां चक्रे प्रतिनकुलचलवलयराशिकोमले चास्य भोगकुण्डले बिम्बोपधान इव निषद्य विशश्राम ॥ यः केलीकलहेष्वपि प्रणयिनीकर्णोत्पलाताडितो लज्जामन्थरकोमलालसफणच्छत्त्रो ययौ संभ्रमम् । मेने सोऽविकृताशयः फणिवरो दण्डप्रहारान् खरान् क्षान्त्यभ्यासवशात्समीरणचलत्तूलांशुपातोपमान् ॥ गो११ ॥ यो बिभ्रन् दयिताजनेन रचितां कण्ठेगुणां कोमलां खेदं नागवरः सुखोचितमयां [?] भेजे क्रियां चायताम् [?] । रज्ज्वा कर्कशपाशया पशुरिव ग्रीवोपबद्धो भृशं तेनाकारणदारुणेन रिपुणा सोऽभून्निरास्थो वशी ॥ गो१२ ॥ यं प्रत्यग्र<त>मालचन्दनरसप्रश्लेषशीतैः करैर् ग्रीष्मे प्राणसमाः सरत्नवलयैर्नागोत्तमं पस्पृशुः । पादेनाभिहतः खलेन पटुना स क्षान्तिगुप्तव्रतो लेभे संततवर्तिनीं घनरसां मैत्रीं तदालम्बनाम् ॥ गो१३ ॥ दंष्ट्रा बिसाङ्कुरसिता विनिगूढमूलास्तस्योच्चखान स यदा भुजगेश्वरस्य । शल्यापहारिणि तदा भिषजीव तस्मिन् विप्रे चकार स परामुपकारिसंज्ञाम् ॥ गो१४ ॥ आर्तीयते स्म सहजान्यपि यानि चित्र<ं> साधुः शिरोमणिमयानि विभूषणानि । तेषूद्धृतेषु स कृतार्थतया प्रमोदं निक्षिप्तभार इव भोगपतिर्जगाम ॥ गो१५ । श्वासानिलैः स्फुटविषाग्निकराकरालैरुच्छोषयेत्समकरानपि यः समुद्रान् । क्षान्तिं प्रियामिव सखीमुपगुह्य तस्थौ स्वस्थस्तमेव च रिपुं करुणायमानः ॥ गो१६ ॥ स्याद्भस्मसाच्छिखरकोटिविपाटिताभ्रः शैलोऽपि दृष्टिविषयं समुपेत्य यस्य । पापात्मना कुमुदनालमिवोरगेन्द्रो नासौ चुकोप<मृ>दितोऽपि परानुरक्षी ॥ गो१७ ॥ तीव्रप्रकारमुपकारमिवाविकारः सेहे कृपापरिगतः स यथा यथार्यः । क्रौर्यावलेपपरुषः स तथा तथा तं चिक्लेश पन्नगवरं विविधैरुपायैः ॥ गो१८ ॥ करुणाद्रवमेव दुर्जनः सुतरां सत्पुरुषं प्रबाधते । मृदमेव भिनत्ति कण्टकः कठिने कुण्ठक एव जायते ॥ गो१९ ॥ स पीड्यमानः पुरुषेण तेन भुजङ्गराजो विगतव्यथेन । तमेव रक्षन् गुणपक्षसाक्षी मुमोच न श्वासविषं विषादी ॥ गो२० ॥ यथा यथा पीडयति स्म नाम तमार्यकर्माणमसावनार्यः । तथा तथासौ तदपायशङ्की न चक्षुरुन्मीलयितुं विषेहे ॥ गो२१ ॥ परापकारप्रतिपत्तिमारुता दुराचरास्तस्य विशुद्धकर्मणः । क्षमाशिलाधारपरिग्रहस्थिरं न कम्पयन्ति स्म मनो मनस्विनः ॥ गो२२ ॥ अम्भोजरेणुकणिका इव संप्रतीच्छन्नागोत्तमः क्षितिरजोऽर्ककरोपतप्तम् । नेत्रोपघातपटुना पटुना विमुक्तं तस्मिन् बभूव सुतरां स परानुकम्पः ॥ गो२३ ॥ यः स्नातो जलयन्त्रमन्दिरगतो राजा जलैः शीतलैर् नानापुष्परजोऽधिवासशुचिभिश्चन्द्रप्रभानिर्मलैः । सिक्तः श्लेष्मलवैरनार्यमतिना दुर्गन्धिभिस्तेन सः प्रीत्यैवापचकार तं परिभवं क्षान्त्याम्भसेवोक्षितः ॥ गो२४ ॥ एवमन्यथा चासौ ब्राह्मणाधमस्तं बोधिसत्त्वं परिक्लिश्य महति करण्डे प्रक्षिप्य तेन तेन परिभ्रमन् वाराणसीं नगरीमनुप्राप्तः ॥ अथ तस्य भुजगपतेस्तां रूपसंपदमालोक्य महाजनः परमविस्मितमनास्तं ब्राह्मणं महत्या पूजया पूजयामास ॥ अथ तस्य महात्मनः सुमनानामान्तःपुराग्रचरा भुजगयोषिदतीतायामुचितायां तदागमनवेलायां तं भोगिपतिमपश्यन्ती जानाना तस्य प्रकृतिभद्रतामनार्यकर्मारामतां च मानुषहृदयानां तदत्ययाशङ्किनी तीव्रशोकायासव्यथितहृदया तत्तद्विकल्प्य सत्वरं रुरोद ॥ तमसा निरन्तरविसारिणैव मे परिवर्यते नयनगोचरं बलात् । अनिरूपितात्ययविकल्पकातरं द्रवतीव मानसमिदं प्रियं विना ॥ गो२५ ॥ स्फुटमल्लिकावनविलासलासका जलयन्त्रमन्दिरनिरोधशीतलाः । सुतरां दहन्ति मम चलमारुता दयितप्रवासपरितापिनीं तनुम् ॥ गो२६ ॥ प्रतिभात्यपूर्वमिव सर्वमद्य मे न च वेद्मि काहमिति तेन वर्जिता । व्यसने स एव शरणं मम प्रियो विरहे तु तस्य मरणं परायणम् ॥ गो२७ ॥ मणिवेदिकाकिरणपाटलोर्मयो गृहदीर्घिका न रमयन्ति मे मनः । प्रियविप्रवासपरितापविप्लुतं स्फुटपद्मकोशमकरन्दवासिताः ॥ गो२८ ॥ दिशतूत्तमानि जगदुत्तमद्युतिर्मम मङ्गलानि भगवान् स एव तु । न भवान्तरेऽपि विरहो यथा भवेद्दयितेन तेन निरवद्यकर्मणा ॥ गो२९ ॥ विरहानुबन्धविरसाः समागमा जगतोऽरपर्वपरिणामिनी स्थितिः । इति यज्जगाद मनसोऽतिवल्लभः समुपस्थितं तदिदमद्य वैशसम् ॥ गो३० ॥ विकसत्स्फुलिङ्गमनिलाकुलार्चिषं दहनं विशामि बहुदुःखभागिनी । तनुमुत्सृजामि शिखराद्गिरेरिमामवशिष्यते किमपरं ममायुषः ॥ गो३१ ॥ यदि सोऽद्य नैति सुखसौम्यदर्शनो मम मूर्तिमान् <अ>विकलो मनोरथः । स्वयमेव धक्ष्यति ममेदमाश्रयं हृदयज्वलस्तुमुलशोकदारुणः ॥ गो३२ ॥ इति सा रुराव कुररीव विक्लवा नयनाम्बुदुर्दिनमुखी तपस्विनी । वसुधातले गलितहारमेखला भुजगाङ्गना पतिवियोगशङ्किनी ॥ गो३३ ॥ अथ सुमना नाम योषिद्बोधिसत्त्वमन्वेषमाना वाराणसीं नगरीमनुप्राप्ता ददर्श चैनं महासत्त्वं परमदारुणाम् <अवस्थाम्> उपगतं दृष्ट्वा च तीव्रशोकायासव्यथितहृदया प्रोवाच । स्फुरितकिरणच्छायारम्याः शिरोमणयः क्व ते क्व दयित गतास्तास्ता दंष्ट्रा बिसाङ्कुरधूसराः । वपुरुपहतं दण्डाघातैर्नवोत्पलकोमलं विगलितहृदया (?) क्रूरेणैतत्कृपात्मक केन ते ॥ गो३४ ॥ किं धर्मोऽस्तमितः प्रजाहितकरः किं लोकपाला मृताः तेजः कोपविषातिसङ्गरभसं किं प्रोषितं भोगिनाम् । शून्यं किं नु पतिप्रभाभिरधुना निःशुक्लमूलं जगद् येन त्वं व्यसनं दुरुत्तरमिदं प्राप्तो विनाशाय ते ॥ गो३५ ॥ नासीत्कस्य दया त्वयि प्रहरतोऽनार्यस्य शान्तात्मनि क्रौर्यं त्वय्यपि नाम साधुचरिते पापात्मनां जायते । त्वामायासयतः कथं न पतितौ तस्य प्रकोष्ठात्करौ नाथानाथ इवापदं कथमिमां प्राप्तस्त्वमायासिनीम् ॥ गो३६ ॥ बोधिसत्त्वस्तु प्रत्यग्रकोपशोककलुषिताध्याशयात्मनामवेत्य तूष्णीमेव बभूव ॥ सा पुनरब्रवीत् ॥ कस्याप्रियं जीवितमाद्यजातं कालेन केली<ं> सह कः करोति । त्वदप्रियारिष्टनिविष्टचेष्टो लोकान्तरं कोऽभ्यनुगन्तुकामः ॥ गो३७ ॥ शीताभिलाषी प्रविविक्षुरग्निं को मारुतोद्धतशिखाकलापम् । आदित्सते क्रूरविषं भुजङ्गं कः पुष्पदामाकृतिविप्रलब्धः ॥ गो३८ ॥ उदधिपरिखामद्यैवैनां दहामि वसुन्धरां सनगनगरग्रामारामां स्वदृष्टिहुताशनैः । न मम हृदयं शान्ति<ं> याति त्वदप्रियताडितं दहति यदि न क्रोधाग्निर्मां पुरा निरवग्रहः ॥ गो३९ ॥ अथ बोधिसत्त्वस्तां तपस्विनीमविषह्यकोपाग्निप्रदीप्तमानसा<ं> ह्लादयन्निव तदामृतशिशिराभिर्वाग्भिरित्यब्रवीत् ॥ अलमलं मा गा भद्रे वै कोपस्य चेतोविदाहिनः । प्रकृतिदुःखेषु को भूयः सत्त्वेषु दुःखानि चिन्तयेत् ॥ गो४० ॥ दुःखहेतौ वर्तमानेषु शोच्येषु संक्लेशभागिषु कः पराक्रमेत् ॥ दुःखाय स्वहितक्रमार्तेषु देहिषु न मम दंष्ट्रोत्पाटनाद्दुःखं न च दण्डसंपातजा रुजाः ॥ दुःखयन्ति मानसं चण्डि त्वद्वाक्कर्कशास्तुदन्ति माम् ॥ अपि च कान्ते ॥ बोधिसंप्राप्तये चित्तं यदैवोत्पादितं पुरा । वयं तदैव लोकानामाधेयक्रियतां गताः ॥ गो४१ ॥ कोपवह्निम्लायमाना पुनः सैव त्वमन्येव लक्ष्यसे ॥ चन्द्रलेखेव चाम्बरे विकसद्घनधूमसंबाधधूसरे ॥ गो४२ ॥ किं च ॥ कर्मापराधजनितं यदि दुःखमेतत्कोपावकाश इह को नु मम द्विजातौ । कर्मेन्धनोद्धतशिखाशकलाकुलेभ्यः कुप्येत्कथं न मतिमान्नरकानलेभ्यः ॥ गो४३ ॥ तदलं कोपदैन्येन तव चेतोविदाहिना । स्वगृहानेव गच्छस्व संत्यागं च कुरुष्व मे ॥ गो४४ ॥ सा भर्तुरभिप्रायं संपादयन्ती तद्वचनाप्यायितहृदया विगतकोपसंरम्भा बभूव ॥ कोपोपरागविगमे विवृतोऽधिमात्रः स्नेहः प्रिये विषमवर्तिनि नागवध्वा । उद्घाटिताभ्रपटलस्फुटदिग्विभागे खे निःसपत्न इव चन्द्रमसः प्रकाशः ॥ गो४५ ॥ शोकाश्रुनयनपरिप्लुता चेति बोधिसत्त्वमब्रवीत् ॥ कुतो मे दुःखभागिन्या गेहमार्य त्वया विना । इहैव शोषमेष्यामि या गतिस्तव सा मम ॥ गो४६ ॥ विषमस्थं परित्यज्य त्वामनाथ सुखैधितम् । कान्त केन सुखेनाहं द्रक्ष्यामि स्वजनं पुनः ॥ गो४७ ॥ सुखे समानतां गत्वा दुःखे जह्यां यदि प्रियम् । अनार्यामकृतज्ञां मां धारयिष्यति भूः कथम् ॥ गो४८ ॥ प्रतिभाति जगच्छून्यं त्वया विरहितं मम । त्वं मे जीवितसर्वस्वं त्वं बन्धुस्त्वं परायणम् ॥ गो४९ ॥ बोधिसत्त्वोऽथ तां साध्वीं बहलस्नेहविक्लवाम् । अनुकम्पावशात्साधुरीदृशं प्रत्यभाषत ॥ गो५० ॥ अदृष्टपूर्वव्यसना सुखसंवर्धिता प्रिये । परिक्लेशमिमं सोढुमक्षमा त्वमनिन्दिते ॥ गो५१ ॥ मयि स्नेहोऽस्ति यदि ते दुःखं मे यदि नेच्छसि । अदृष्टमद्य मां कृत्वा तद्गच्छ त्वं स्वमालयम् ॥ गो५२ ॥ अथ सा तैर्बोधिसत्त्ववचोऽद्भिराक्लेदितहृदया दुःखदौर्मनस्यपर्याकुलमानसा निशीथे काशिकाराजमुपेत्य करुणाकुलतराक्षरेण वचसा कृताञ्जलिरवोचत् ॥ आपद्गतानां व्यसनक्षयाय त्वं पञ्चमः पार्थिव लोकपालः । त्रायस्व मामापदि वर्तमानां दीनामनाथां जगदेकनाथ ॥ गो५३ ॥ अथ स राजा तदतिभासुरं वपुरवलोक्य किमिदं कथं चेत्युत्पन्नजातसंभ्रमः सादरमुत्थाय पर्यङ्कपृष्ठात्तां नागयोषितमेतदवोचत् ॥ ध्यामीकृत्य मणिप्रदीपकिरणानेतद्वपुस्ते स्थितं व्याहारस्फुटचित्रवर्णकरणो दिव्यप्रभावश्च ते । का नु त्वं करवाणि किं भवति ते ब्रूहि त्वदाज्ञामिमां मालां फुल्लदलामिवाद्य शिरसा सम्यक्प्रतीच्छाम्यहम् ॥ गो५४ ॥ अथासौ भुजगवधूस्तेन तस्य राज्ञोऽभिजात्यपेशलेन वचसा समानन्दितमनसा प्रोवाच ॥ आशावशानां नरदेव कोऽन्यो मनोरथं पूरयितुं समर्थः । त्यक्त्वा भवन्तं जगतो हिताय प्रजापतेर्वंशमिवावतीर्णम् ॥ गो५५ ॥ नागाङ्गनां मामवगच्छ राजंस्त्वद्देशपर्यन्तकृताधिवासाम् । आपद्गतं मानद पन्नगेन्द्रं त्रायस्व कृत्यं मम तद्गरीय<ः> ॥ गो५६ ॥ राजोवाच ॥ भगिनि कस्तवासौ भुजगवरः ॥ सा प्रोवाच ॥ भर्ता मम प्राणधनेश्वरोऽसौ न्यायोप्रदेष्टा च गुरुर्गरीयान् । पितेव नित्यं हितसंविधातासुखे च विश्रम्भनिरत्ययश्च ॥ गो५७ ॥ अथ स भूपतिस्तेन तस्याः स्वाम्यनुरागशीभरेण चरितेनाभिप्रसादितः ॥ प्रोवाच चैनाम् ॥ भक्तिर्भर्तरि दर्शिता घनरसा दाक्षिण्यमुन्मीलितं प्रेमोद्भावितमापदि स्थिरतरं प्रोद्घाटिता भद्रता । धर्मो न्यायपरिग्रहेण परमां वृद्धिं त्वयापादितो लोके साधुपतिव्रतत्वमिति ते ख्यातिः स्थिता शाश्वती ॥ गो५८ ॥ त्यक्त्वा प्रियं जीवितमप्यतोऽहं पुण्यप्रभावोपनतं च राज्यम् । संपूरयिष्यामि मनोरथं ते पश्याद्य भद्रे दयितं विमुक्तम् ॥ गो५९ ॥ अथ स राजा तस्य ब्राह्मणस्यान्तिकात्तं नागराजानं महता मूल्येन निष्क्रीय परमेण .............. सपत्नीकं स्वभवनं प्रवेश्य महार्हसिंहासनोपविष्टमभ्यर्चयामास ॥ अथ बोधिसत्त्वस्तेन तस्य राज्ञोऽत्यद्भुतेन निष्कारणोपकारसंभ्रमेणाकृष्टमनाः प्रोवाचैनम् ॥ असंस्तुते नाम तवायमादरो मयि प्रसादस्थिरभक्तिपेशलः । कृतोपकारेष्वपि यो न दृश्यते पृथग्जनेषु सुखानुबुद्धिषु ॥ गो६० ॥ प्रकाशितेयं गुणपक्षपातिता प्रजानुरागो बहुलीकृतस्त्वया । गुणे विवर्धस्व तदुत्तरोत्तरैर्गुणेषु भद्रं जगतामवस्थितम् ॥ गो६१ ॥ इति संराध्य राजानं तमसौ भुजगेश्वरः । अनुबद्धो दयितया कृपयेव गृहान् ययौ ॥ गो६२ ॥ इति श्रीनागजातकं चत्वारिंशत्तमम् ॥ ः ॥ *************************************************************************** पुण्यराशि = गोप्र् बसेदोन् थे एदितिओन् ब्य्मिछएल्हह्न्. "पुण्यराश्यवदान Ä अनोथेर्लेगेन्द्ब्य्गोपदत्त?", fरन्क्-रिछर्धम्ं मेमोरिअल्वोलुमे, ओच्तोबेर्८, १९९०, एद्. ह्. एइमेर्, बोन्न् १९९० (इन्दिच एत्तिबेतिच, २१), प्प्. १०३-१३२. १०. पुण्यराशि अथाशोको महाराज उपगुप्तं यतिं गुरुम् । कृताञ्जलिपुटो नत्वा प्रार्थयच्च तथादरात् ॥ गोप्र्_१ ॥ भदन्त श्रोतुमिच्छामि पुनरन्यत्सुभाषितम् । तद्यथा गुरुणादिष्टं तथादेष्टुं च मेऽर्हति ॥ गोप्र्_२ ॥ इति तेन नरेन्द्रेण प्रार्थिते स जिनात्मजः । उपगुप्तो नरेन्द्रं तं समालोक्यैवमादिशत् ॥ गोप्र्_३ ॥ शृणु साधु महाराज यथा मे गुरुणोदितम् । तथाहं ते प्रवक्ष्यामि श्रुत्वा चैवं शुभे चर ॥ गोप्र्_४ ॥ नास्ति विपाकपर्यन्त उपकारापकारयोः । संबुद्धे सद्गुरौ तस्मात्कर्तव्यमुपकारकम् ॥ गोप्र्_५ ॥ तद्यथास्तां महासत्त्वौ संबुद्धोपासकौ पुरा । कदा चित्तावुभौ ग्रामं गच्छन्तौ संगतौ पथि ॥ गोप्र्_६ ॥ संबुद्धप्रतिमां तत्र पुण्यराशिमिवोत्तमाम् । तां समीक्ष्य तयोरेकः प्रणत्वैवं तमब्रवीत् ॥ गोप्र्_७ ॥ अहो बत महापुण्यराशिरयं विराजते । भाग्येन दृश्यतेऽस्माभिरद्य मित्र प्रणम्यताम् ॥ गोप्र्_८ ॥ इति तेनोदितं श्रुत्वा दृष्ट्वापरस्तमब्रवीत् । अहो बत महान्मित्र पापराशिरयं न्विति ॥ गोप्र्_९ ॥ इति तेनोदितं श्रुत्वा प्रथमः स उपासकः । कर्णौ पिधाय हस्ताभ्यां तमेवं पर्यभाषत ॥ गोप्र्_१० ॥ धिक्त्वामसद्बुद्धिमसत्प्रलापिनम् [!] एवं ह्यपि त्वं प्रतिभाषसेऽत्र । कस्मान्मुनेः शास्तुरुपासकोऽपि सद्धर्ममूर्तिं प्रतिनिन्दसेऽद्य ॥ गोप्र्_११ ॥ कथं न जिह्वा पतिता तवाननादसत्प्रलापापहता तपस्विनी । अपुण्यराशिर्भगवानिति ब्रुवन् कथं न मग्नस्त्वमरे रसातले ॥ गोप्र्_१२ ॥ धिगप्रशस्तामसतां दुरत्ययां पृथग्जनानां प्रकृतिं चलाचलाम् । विमर्शमप्राप्य यथेष्टचारिणी करोति या लोकमपायगोचरम् ॥ गोप्र्_१३ ॥ सुदारुणैरायुधभीमदर्शनैररातिभिः सार्धमहो वरं गतम् । त्वया सुहृच्छद्मनिगूढपाप्मना पदं न चैकं वितथप्रलापिना ॥ गोप्र्_१४ ॥ नमन्ति यं ब्रह्मविदो महर्षयः पुनाति यो विश्वमिदं वृषांशुभिः । अपुण्यराशिर्यदि स व्रतीश्वरस्तथागतः पुण्यनिधिः कुतोऽपरः ॥ गोप्र्_१५ ॥ मुनेः परोद्धारनिमित्तमात्रमप्युपैति यस्योद्धृतकल्मषोऽपि सन् । स योगपर्यन्तविदां धुरि स्थितो न पुण्यराशिर्यदि को न्विहापरः ॥ गोप्र्_१६ ॥ न यस्य बुद्धिः प्रतिहन्यते क्व चिन्न च प्रहेयावयवोऽवशिष्यते । न चास्ति सङ्गो जगदर्थसाधने स पुण्यराशिर्न कथंकथान्तशः ॥ गोप्र्_१७ ॥ तदुक्तं स समाकर्ण्य द्वितीयोपासकस्[!] ततः । प्रागल्भवचसा भूय आयुष्मन्तं तमब्रवीत् ॥ गोप्र्_१८ ॥ हितकाम्यतया निरत्ययं वचनं काममिदं सखे तव । अनुयुज्य तथापि शोभते वितथं साधुरुदीरयन् भवान् ॥ गोप्र्_१९ ॥ मम भक्तिरुदारशासने सुगते या परमानुकम्पके । विदिता तव सा तथापि मां सहसा सौम्य कथं विगर्हसे ॥ गोप्र्_२० ॥ आपाताल्पसुखाभिमानरसिकं पर्यन्तरिक्ताश्रयं सायासं सभयं प्रसङ्गविरसं धिग्लौकिकं संगतम् । यन्नामैवमकारणोद्धतरुषो मिथ्याविकल्पैर्हतं गच्छत्येकपदे क्षयं परिचयं विक्षिप्य मूर्ध्नोऽन्तिकम् ॥ गोप्र्_२१ ॥ एतत्तेनोदितं श्रुत्वा प्रथमः स उपासकः । अन्यथा तद्वचो मत्वा मनसैवं व्यचिन्तयत् ॥ गोप्र्_२२ ॥ अहो ह्यन्यदनेनोक्तमन्यन्मया विकल्पितम् । इति चिन्ताविषण्णात्मा तस्थौ लज्जाहताशयः ॥ गोप्र्_२३ ॥ दृष्ट्वा स च सहायस्तं लज्जावनमिताननम् । तदभिप्रायमाज्ञातुं प्रसह्य चैवमब्रवीत् ॥ गोप्र्_२४ ॥ साधो किं मन्यसे ह्यत्र यत्ते लज्जाहतं मुखम् । तावत्ते यदभिप्रायं तत्प्रचक्ष्व ममाग्रतः ॥ गोप्र्_२५ ॥ तस्यैतद्वचनं श्रुत्वा स आयुष्मानुपासकः । तन्मनोऽन्तर्गतं सर्वमभिप्रायं व्यमुञ्चत ॥ गोप्र्_२६ ॥ चित्तं यत्र प्रसाद्य क्षणमपि मनुजोऽनुत्तमे दक्षिणीये श्रीसौभाग्यप्रकर्षं भवगतिषु परं प्राप्य निर्द्वन्द्वरम्यम् । पश्चादालोक्य लोकं वितथविलपितं प्रत्ययग्राहमात्रं ज्ञात्वा प्राप्नोति शान्तं कथमिव न महान् पुण्यराशिर्भवेत्सः ॥ गोप्र्_२७ ॥ दत्त्वा पलालशकलस्रजमग्रसत्त्वे लेभे भवोपशमशान्तिसुखानि नारी । यस्मिन्नचिन्त्यचरितातिशयप्रभावे किं पुण्यराशिरयमित्यविदग्धमेतत् ॥ गोप्र्_२८ ॥ कोशातकीकुसुममपि प्रदाय स्तूपे मुनेः परमकारुणिकस्य यस्य । भुक्त्वालये गुणविभूतिसुखप्रकर्षं लेभेऽङ्गनामृतपुरप्रतिपत्समृद्धिम् ॥ गोप्र्_२९ ॥ यस्मै पांशुप्रदानं प्रकृतिचलमना बालकैः संप्रदाय स्फीतां मर्त्येन्द्रलक्ष्मीमनवनतसितच्छत्त्रहासाभिरामाम् । संप्राप्यातीतचिन्तं पदमभयमसद्दाहपर्यन्तशान्तं लेभे पश्चान्नरेन्द्रः कथमिव स न भोः पुण्यराशिर्महर्षिः ॥ गोप्र्_३० ॥ प्रसह्य पङ्काङ्कमृषेर्वराहः [!] चैत्ये वपुर्यस्य चिरं स एव । तस्यैव धर्मस्य सुधर्मतासौ यदाधिपत्येन भवाद्विमुक्तः ॥ गोप्र्_३१ ॥ कियान् प्रसादो जडचेतनानां सखे तिरश्चां गुणनिश्चयो वा । क्षेत्रस्य तस्यैव तु सा विभूतिर्येनात्र सत्त्वाः सफली भवन्ति ॥ गोप्र्_३२ ॥ दृष्ट्वा लोकविलोचनोत्सवसुखां संशान्तसर्वोद्धवां व्यामाभापरिवेषिणीं भगवतो बुद्धस्य मूर्तिं पुरा । हर्षोत्कम्पिगलश्चुकूज मधुरं प्रेङ्खत्कलापः शिखी तद्धेतोश्च शमं जगाम स शिखी धाराम्बुसिक्तो यथा ॥ गोप्र्_३३ ॥ मङ्गल्यत्वमचिन्त्ययोगमहतां सर्वार्थसिद्ध्यावहं बुद्धानां तदुदीक्ष्यतां भगवतां संमोहनिद्राच्छिदाम् । अत्यन्तोपशमावहं भवति यत्तिर्यग्गतानामपि प्रागेवाभिमुखाशयस्य विदुषः शास्तुर्गुणाम्भोनिधेः ॥ गोप्र्_३४ ॥ मन्ये दर्शनमेव तद्गुणवतां तेषामवन्ध्योदयं सर्वाकारपरोपकारमधुरं पूर्वाभिसंस्कारजम् । प्रद्वेषोपहताशयानपि जनान् संप्रापयत्युत्तमं स्थानं सर्वभवोपसर्गविगमादेकान्तशान्तं शिवम् ॥ गोप्र्_३५ ॥ श्रुत्वा नाम तथागतस्य मकरः सांयात्रिकेभ्यः पुरा संपृक्तास्यपुटो ममार सुगते चेतः प्रसाद्य क्षणम् । तद्धेतोः सरितां पतिं परिमितं नीत्वा पुनर्दुस्तरं जन्माम्भोनिधिमुत्ततार विपुलं निःसृत्य मार्गे प्लवम् ॥ गोप्र्_३६ ॥ अपायपातालतलावलम्बी सुरो मुनीन्द्रं शरणं प्रपद्य । स्वपुण्यसोपानपरम्पराभिः समारुरोहाग्र्यतरं विमानम् ॥ गोप्र्_३७ ॥ कृत्वा व्याघ्रभयान्नमो भगवते बुद्धाय सर्वात्मना नाम्नैवानुपमस्य पुण्यमहतीमालोक्य नान्दीं पुमान् । निःशेषव्यसनान्धकारगहनप्रध्वंसिनीं प्राप्तवाञ् छान्तिं कामपि वागतीतविषयां प्रह्लादसंवर्धनीम् ॥ गोप्र्_३८ ॥ इति भुवनमहिम्नामाकरं शाश्वतानां तमनुपमविशेषाचिन्त्यचर्यारहस्यम् । किमपि कथमपीशं शंकरं प्राप्तुमार्यं पदममरमहार्यं पुण्यराशिं वदामि ॥ गोप्र्_३९ ॥ इति तद्गदितं श्रुत्वा स इतर उपासकः । तमायुष्मन्तमालोक्य पुनरेवं समब्रवीत् ॥ गोप्र्_४० ॥ सम्यगभिहितं साधो भवतात्र तथापि च । ममाप्येवमभिप्रायं श्रूयतां सांप्रतं सखे ॥ गोप्र्_४१ ॥ कृत्वा चित्तप्रदोषं सकृदपि सुगते प्राप्तलोकावसाने यत्राविच्छिन्नमैत्रीजलकलशशतक्षालितान्तःप्रकोपे । आसंसारापरान्तं ज्वलदनलशिखागर्भपर्यन्तरन्ध्रं गाहन्तेऽवीचिमज्ञाः कथमिव स जिनोऽपुण्यराशिर्न तुङ्गः ॥ गोप्र्_४२ ॥ एलापत्रमवज्ञया किल मुनौ च्छित्वा प्रमादात्मकः पार्थग्जन्यविषस्य वृत्तिमशिवामुद्भावयन् कर्मणा । एलापादपपादपाटितशिरो __ __ द्वमच्छोणितो नागेन्द्रः पृथुभीमभोगपटलो नाद्यापि निर्मुच्यते ॥ गोप्र्_४३ ॥ सूक्ष्मोऽप्येवमनादरो भगवति प्राबन्धिकीं व्यापदं यत्सर्वायतनोपतापविरसामाकर्षति प्राणिनाम् । सर्वोत्कर्षदशावसानमहतीं कामप्यनायासिनीं प्राप्तः शान्तिमपुण्यराशिरसतां तस्मात्स सत्त्वोत्तमः ॥ गोप्र्_४४ ॥ कृत्वा चेतःप्रदोषं कृपणकपुरुषो यत्र वीथीमुखस्थः कीटः कोपोपदग्धो नृपरथचरणाघातविच्छिन्नमूर्धा । ज्वालामालाकलापं विवृतमिव भुवो भीषणं वक्त्रकोशं श्वभ्रं तस्माद्विवेश प्रतिहततिमिरोऽपुण्यराशिस्ततोऽसौ ॥ गोप्र्_४५ ॥ एवं बुद्धे भगवति गतिभ्रान्त्युपादानदाह- प्राप्ताभिज्ञे मृदुरपि कृतश्चेतनासंनिवेशः । संतानानानुपततिफलप्राप्तये निर्बबन्ध सः सर्त्ता [?] __ भवसुखलवास्वादलग्नाभिलाषम् ॥ गोप्र्_४६ ॥ मत्वा कर्मस्वकमनुशयस्नायुतन्त्रीप्रणेयं लोकैर्दुःखैर्विषयकृपणैरिन्द्रियैर्विप्रलब्धम् । उत्पद्यन्ते विपदुपशमप्राप्तये ये जनानां मातुं तेषु प्रभवति पुमान् कोऽपकारोपकारौ ॥ गोप्र्_४७ ॥ हृत्वा धातुधरान्* स्रजो भगवतः सद्योऽभवद्दारको विस्फोटस्फुटितार्द्रमांसगुडको बीभत्ससर्वाश्रयः । सत्कारं प्रविधाय तत्र च पुनः सद्योऽभवन्निर्व्रणः तत्को नाम न पूजयेत्सहृदयः पुण्यार्णवं जङ्गमम् ॥ गोप्र्_४८ ॥ तस्मात्प्रदुष्टमनसां भगवानपुण्यराशिः प्रसन्नमनसां तु स पुण्यराशिः । पर्यायतो विगतसर्वसवासनान्तःसंक्लेशकिल्बिषदशो विषयान्तदर्शी ॥ गोप्र्_४९ ॥ कृत्वा भग्नां प्र<ति>कृतिमृषेरङ्गना कन्दुकेन प्रकृईडन्ती करकिसलयप्रच्युतेन प्रमादात् । पश्चात्तापज्वरपरिगता पूजयित्वापि बुद्धं किं संप्राप्ता न कनकवती बाहुविच्छेददुःकम् ॥ गोप्र्_५० ॥ उद्यन् दर्शनमुच्छिनत्ति सविता नक्तंचराणां यथा नॄणां ध्वान्तमपाकरोत्यविरलं रूपोपलब्ध्यै करैः । दोषस्तत्र न भास्करस्य भगवद्द्विष्तप्रसन्नात्मनां बुद्धोऽप्येवमपुण्यपुण्यनिचयः सामान्यनाथोऽपि सन् ॥ गोप्र्_५१ ॥ इति तावुपासकौ बुद्धगुणमाहात्म्यकीर्तनम् । कृत्वा परस्परं सत्त्वं पवित्रीकृत्य जग्मतुः ॥ गोप्र्_५२ ॥ एवं मत्वा महाराज संबुद्धे सद्गुरौ मुदा । श्रद्धया सत्कृतिः कार्या नापकृतिः कथं चन ॥ गोप्र्_५३ ॥ शास्तर्यवज्ञामलिनाशयानां भूमिर्विदारं न ददाति सद्यः । बुद्धप्रसादद्रवचेतसां वा न जायते रत्नमयी विचित्रम् ॥ गोप्र्_५४ ॥ कोऽप्येष कर्मान्तरसंनिरोधः पुण्यप्रभावातिशयो विचित्रः । कर्माणि यत्पात्रविशेषजानि सद्यो न नॄणां फलमुद्वमन्ति ॥ गोप्र्_५५ ॥ तस्यैव कापीयमृषेरचिन्त्या विभूतिरावेणिकयोगसाध्वी । येनात्र कृत्वापि मनःप्रदोषं सद्यो न पातालतलं विशन्ति ॥ गोप्र्_५६ ॥ तल्लोकानाममृतफलदे जङ्गमे पुण्यवृक्षे कार्या भक्तिर्भगवति जिने निर्जितान्तःसपत्ने । निक्षिप्याशां विषयगहनव्रातविष्वग्विषक्तां यावन्नेदं भवति भुवनं बुद्धकान्तारघोरम् ॥ गोप्र्_५७ ॥ उत्पद्यन्ते जगति न सदा नापि सर्वत्र बुद्धाः सर्वाकारापरतवितथग्राहनिद्राप्रसङ्गाः । कश्चित्कल्पः प्रभवति चिरात्पुण्यसंभाररम्यो यत्रोत्पादो भवति भुवनस्वामिनां भूतभूत्यै ॥ गोप्र्_५८ ॥ यातस्यापि प्रशान्तिं भवपुरपरिखां जालिनीं शोषयित्वा यावत्संबुद्धभानोः प्रवचनकिरणा लोकमुद्भावयन्ति । तावत्पश्यन्तु सन्तः समविषमवतां दुर्विभागप्रभेदान् लोके दुर्दृष्टिमेघा विपदशनिमुखा दुर्निवाराः स्फुरन्ति ॥ गोप्र्_५९ ॥ एवं मे गुरुणाख्यातं तथा ते कथ्यते मया । तदेवं हि परिज्ञाय कर्तव्यं भजनं मुनेः ॥ गोप्र्_६० ॥ ये भजन्ति सदा बुद्धं न ते गच्छन्ति दुर्गतिम् । निःक्लेशाः सबलान्माराञ्जित्वा यान्ति जिनालयम् ॥ गोप्र्_६१ ॥ ये च शृण्वन्ति सद्धर्मं तेऽपि न यान्ति दुर्गतिम् । सर्वदा सत्सुखं भुक्त्वा यान्ति चान्ते सुखावतीम् ॥ गोप्र्_६२ ॥ येऽर्चयन्ति मुदा संघान्न तेऽपि यान्ति दुर्गतिम् । सर्वसत्त्वहितं कृत्वा संप्रयान्ति शुभालये ॥ गोप्र्_६३ ॥ एवं मत्वा महाराज त्रिरत्नशरणं गतः । सर्वसत्त्वहितं कृत्वा संवृतिं संप्रचारय ॥ गोप्र्_६४ ॥ तेन ते सर्वदा भद्रमिहामुत्रापि संभवेत् । क्रमाद्बोधिं समासाद्य निर्वृतिं वा समाप्नुयाः ॥ गोप्र्_६५ ॥ इति शास्त्रा समादिष्टं श्रुत्वा स नृपतिर्मुदा । तथेति संप्रतिज्ञाय प्राभ्यनन्दत्सपार्षदः ॥ गोप्र्_६६ ॥ पुण्यराश्यवदानं तदिदं ये श्रद्धया मुदा । श्रावयन्त्यनुमोदन्ते शृण्वन्ति च समाहिताः ॥ गोप्र्_६७ ॥ सर्वेऽपि <ते> महासत्त्वाः परिशुद्धत्रिमण्डलाः । सद्धर्मगुणसौख्यानि भुक्त्वा यान्ति जिनालयम् ॥ गोप्र्_६८ ॥ ॥ श्री ॥ इति पुण्यराश्यवदानं समाप्तम् ॥ १३ ॥ *************************************************************************** ऋषिपञ्चक = गोऋप् बसेदोन् थे एदितिओन् ब्य्रत्न हन्दुरुकन्दे. fइवे बुद्धिस्त्लेगेन्द्सिन् थे चम्पू स्त्य्ले - fरोम चोल्लेच्तिओन्नमेदवदानसारसमुच्चय. बोन्न् १९८४ (इन्दिच एत्तिबेतिच, ४). ११. ऋषिपञ्चक मूलं मलानां प्रवदन्ति जातिं जातिप्रपञ्चोपशमप्रवीणाः । तथागताश्चावितथप्रतिज्ञाः संभोधिसत्त्वाश्च विशुद्धसत्त्वाः ॥ गोऋप्_१ ॥ तद्यथानुश्रूयते । बोधिसत्त्वः किल लोकाभिमतगुणाभिलक्षिते महति ब्राह्मणकुले जन्म प्रतिजग्राह । किरणैरिव शुक्लपक्षचन्द्रः स्वगुणैरेव सहाभिवर्धमानः । परमां स्वकुलस्य चिह्नशोभां प्रथिमानं गमयां बभूव साधुः ॥ गोऋप्_२ ॥ वयसि प्रथमेऽपि वर्तमानो विषयेष्वतिबद्धमानसोऽसौ । अतिमानुषचेष्टितस्वभावो जगतां स्मयभाजनं बभूव ॥ गोऋप्_३ ॥ सोऽपर्यवसितकुकार्यपर्याकुलमुपशमविरोधिप्रकृष्टोपायासमर्थोपार्जनप्रधानकामरतिव्यवहारासारकर्मधर्मभूयिष्ठमविनयकलहवैरविग्रहायतनमीर्ष्यामात्सर्यचौर्यादिनिकेतभूतं शोकपरिदेवदुःखदौर्मनस्योपायासबहुलं मायाशाठ्यमदमानगहनं साहसावलेपाधिष्ठितमनार्यव्यवहारानुप्रवृत्तिजिह्मसत्त्वभावं प्रमादपदस्थानमनेकरूपपरिभवोपसृष्टं संनिहितदैन्यमनभिभूतविषादं प्रत्यासन्नविघातभयदौर्गत्यमविषह्योपद्रवसमुद्रं कण्टकगर्भादभ्रश्वभ्रप्रतिभयाकरमपास्य गार्हस्थ्यमन्यतममश्रमपदमभ्यलंचकार । बहुच्छलं सोऽथ बहुव्यलीकं बहूपसर्गं बहुदोषदुष्टम् । अपास्य गार्हस्थ्यमनर्थमूलं तपोवनं शान्तमलंचकार ॥ गोऋप्_४ ॥ सरोभिरुन्निद्रपलाशकोषकुशेशयेन्दीवरचित्रतोयैः । अलंकृतं बालकशेरुनीलप्रतीरसंसुप्तशरारिहंसैः ॥ गोऋप्_५ ॥ मीनावलीरशनया सरितोपगूढं स्नेहादिव प्रणयिनं प्रियया प्रकामम् । सर्वर्तुपुष्पफलदैः स्वजनैरिवान्तर्बालप्रवालहरितैस्तरुभिर्निरुद्धम् ॥ गोऋप्_६ ॥ व्यालैस्तपस्विभिरिवाकृतिमात्ररूक्षैः पर्याकुलं जलतृणाङ्कुरतुष्टचित्तैः । तं काननान्तमुपगम्य स बोधिसत्त्वो धर्मोऽवतीर्ण इव विग्रहवान् व्यराजत् ॥ गोऋप्_७ ॥ गृहस्थभावेऽपे स वर्तमानो जन्मान्तराभ्यस्तविवेकवासः । आगारदोषैरपरिक्षतात्मा विशेषयामास तपोवनस्थान् ॥ गोऋप्_८ ॥ __ __ __ __ __ __ __ प्रमादिनां कापुरुषाश्रयाणाम् । उत्कण्ठयन्ति प्रविवेकयोग्यास्त एव शान्ताः सततं वनान्ताः ॥ गोऋप्_९ ॥ अभ्यस्तनैष्क्रम्यसुखोत्सवानां सतां प्रवासा इव गेहवासाः । मृगाङ्गनाकुञ्चितपल्लवानि वनानि तेषां भवनोत्तमानि ॥ गोऋप्_१० ॥ परिग्रहेष्वेव विघातबुद्धिः संतोष एव स्वधनानुरागः । येषां गृहे चारकवाससंज्ञा तेषां न चित्रो वनसंनिवासः ॥ गोऋप्_११ ॥ तस्य पूर्वजन्मपरम्पराभ्यासवासनाघनस्नेहगौरवनिरत्ययाश्चत्वारः सहाया बभूवुः वायसः पारावतो भुजगो मृगश्च । ते तदाज्ञासंपादनैकतानमनसः स्वयोनिविधिना धर्मक्रियासौष्ठवेन जगत्यभिलक्षिता बभूवुः । छन्दोपघातविहतेष्वपरायणेषु तिर्यक्षु मोहबहुलेष्वधिकं विह्बान्ति । धर्मानुरागविशदाः प्रतिपत्तिशोभास्तामिस्रपक्षरजनीष्विव दीपमालाः ॥ गोऋप्_१२ ॥ विस्मापयन्ति सुतरां विगुणाश्रयिण्यो धर्मक्रियाः करणपाटवयोगरम्याः । ग्रीष्मोष्मदुर्गमतरासु वनस्थलीषु प्रोद्भिद्यमानकमला इव पङ्कजिन्यः ॥ गोऋप्_१३ ॥ तेषामेकदा स्नेहनिर्यन्त्रणरमणीयावस्थानप्रवृत्तसंकथानामयं विनिश्चयो बभूव । किं नु खलु भवन्तोऽतिशयेन दुःखं मन्यन्ते । तेषां दक्षतामिवोद्भावयन् प्रथमतरं वायसः प्रोवाच । नेहास्ति क्षुधोऽन्यत्परमं दुःखम् । कुतः न व्याधयो न च जरा न सुःर्द्वियोगो नानिष्टसंगममया व्यसनप्रकाराः । दुःखानि तान्युपहरन्ति जनस्य यानि ह्री विप्रवासपरितापकरी जिघत्सोः ॥ गोऋप्_१४ ॥ दुरुत्तरक्षारतरङ्गमालिनीमुपागता वैतरणीं प्रमादिनः । बुभुक्षया यन्निगिरन्त्ययोगुडान् ततोऽस्ति न क्षुत्सदृशोऽपरः कलिः ॥ गोऋप्_१५ ॥ कडेवरावस्करनिर्झरस्रवन्मलोपलेपाकमनीयदर्शनः । रुजा परीतोऽपि पिपासति स्तनं यदर्भकः क्षुद्व्यसनं ततो महत् ॥ गोऋप्_१६ ॥ विनाकृतः प्राणसमैरपि प्रियैर्गतोऽपि शोकस्य वशं विदाहिनः । यदश्रुमिश्रान् कवडान्निषेवते ततो भयं क्षुत्परमं जिनोऽब्रवीत् ॥ गोऋप्_१७ ॥ अपि च भदन्ताः जातः कुले महति मानमदावलिप्ते क्षुद्विक्षतोऽभ्युदयकाल इव प्रहर्षात् । उच्छेषपिण्डमपि नाम नृपस्य भुङ्क्ते यत्सारमेय इव कष्टतरं किमन्यत् ॥ गोऋप्_१८ ॥ प्रत्यन्तवासरतयस्तृणमात्रतुष्टा यत्तापसा इव परव्यसनानभिज्ञाः । लक्ष्यीभवन्ति हरिणाः परितः शराणां क्षुद्दुःखमत्र नियमेन परैमि हेतुम् ॥ गोऋप्_१९ ॥ मर्मच्छिदापि पवनेन विशस्यमाना हिक्कास्फुरद्गल<क>कण्ठविकारदेहाः । आहारयन्ति पिचुना<पि> यदन्नलेशान्न क्षुत्समं व्यसनमस्ति ततः प्रजानाम् ॥ गोऋप्_२० ॥ अपि च साधवः आसन्नान्नभुजो नभस्तलचरा देवा इवाभास्वराः सत्त्वाः प्राथमकल्पिकाः स्वकिरणज्वालावलीमालिनः । आहारप्रणयप्रसङ्गविहतास्ते तामवस्थां गताः यत्प्रेता इव वर्तयन्ति कृपणाः कृच्छ्रोपलब्धाशनाः ॥ गोऋप्_२१ ॥ क्षुद्दुःखोपनिपातदीनमनसः शुष्कानि काष्ठान्यपि क्लिन्नानि क्रिमिसंकुलानि विघृणाः खादन्त्यमेध्यानि च । कक्षैः के चन यापयन्ति परुषैर्लालाजलक्लेदितैर् अन्येऽस्थीनि चिरोज्झितान्यधृतयः क्षुद्विक्षता भुञ्जते ॥ गोऋप्_२२ ॥ <ते> राजान्तररक्षिणामपि शिरस्याधाय पादं खगाः क्षुद्दुःखोपनिपातविस्मृतभया हृत्वामिषं भुञ्जते । वेगेनाभिपतन्ति शस्त्रकलिलप्राकारदुःसंचराञ् शूलामांसलवाभिलाषकृपणा गच्छन्ति के चित्क्षयम् ॥ गोऋप्_२३ ॥ विविधान्यपि भोजनानि भुक्त्वा भवने स्वे मणिहेमभाजनेषु । शितकण्टकविक्षताग्रहस्ता बुभुजे सा बदराणि सत्यभामा ॥ गोऋप्_२४ ॥ शापोत्सर्गानुग्रहा<न्> म्लानशक्तिर्दिक्पर्यन्तख्यातकीर्तिप्रकाशः । विश्वामित्रो यच्चखाद श्वमांसं क्षुद्दुःखानां तेन दत्तो नियोगः ॥ गोऋप्_२५ ॥ बालः पुत्रः प्रेमसर्वस्वभूतो यत्कान्तारे खादितो दम्पतिभ्याम् । क्षुद्दुःखेभ्यो नास्ति दुःखं ततोऽन्यज्जन्माटव्यां धावतां क्रूररूपम् ॥ गोऋप्_२६ ॥ याच्ञादैन्यान्म्लानवक्त्रप्रसादा देहीत्येवं व्याहरन्त्यप्रगल्भम् । द्वारि स्थित्वा विद्विषां क्षुद्विलोलाः किं मन्यध्वे दुःखमस्माद्बलीयः ॥ गोऋप्_२७ ॥ अथैषां पारावतः प्रोवाच । सत्यं बलवत्क्षुद्दुःखम् । अपि तु ममाभिप्रायः श्रूयताम् । राग एव महद्दुःखमिति मे निश्चिता मतिः । क्षुत्करिष्यति किं यस्माद्भस्मनापि निवार्यते ॥ गोऋप्_२८ ॥ अपि च वाय्वम्बुजीर्णतरुपर्णभुजोऽपि नाम दीर्घोपवासपरिकर्शितगात्रयन्त्राः । अन्धीभवन्ति मुनयः स्खलितप्रभावा रागेन दुःप्रतिविधानसमुद्भवेन ॥ गोऋप्_२९ ॥ अम्लानचन्द्रकिरणास्वपि यामिनीषु प्रोत्फालिताभ्रविवरेष्वपि वा दिनेषु । अन्धोऽधमो भवति रागपराजितात्मा तस्मान्न रागसदृशः कलिरस्ति लोके ॥ गोऋप्_३० ॥ लज्जां निमीलयति सर्वगुणाग्रभूतां कीर्तिं कलङ्कयति निर्विकलप्रसादाम् । धर्मात्मनामपि च नाम तिरस्करोति श्रेयांसि मेरुशिखरप्रतिमानि रागः ॥ गोऋप्_३१ ॥ नायं वयस्तुलयति प्रगतं नराणां नापेक्षते कुलविशुद्धिमयीं व्यवस्थाम् । लोकापवादगहनान्यपि लङ्घयित्वा संकल्परागतुरगः स्वमतेन याति ॥ गोऋप्_३२ ॥ संमूर्छितः कुसुमहासिषु मल्लिकानां गुल्मेषु वारिकणकण्टकितो नभस्वान् । संतापयत्यनुपशान्तविकल्परागं चेतो नरस्य सुतरामपरीक्षकस्य ॥ गोऋप्_३३ ॥ सूक्ष्माणि संधिगहनान्यपि चावगाह्य स्वप्रत्यया बहुविधानि मतान्तराणि । मेधाविनोऽपि ननु रागपिशाचवश्याः संप्राप्नुवन्ति परमं स्मृतिविप्रलोपम् ॥ गोऋप्_३४ ॥ हत्वापि रागविषबीजविजृंभितानि स्वभ्यस्तयोगपदवीस्थिरबुद्धयोऽपि । योषिन्मुखान्यलकपल्लवितान्युदीक्ष्य भ्रष्टा भवन्ति तपसः पशुभिः समानाः ॥ गोऋप्_३५ ॥ दृङ्मार्गहेयमवहत्य बलं मलानामेकावशिष्टभवबन्धनतन्तवोऽपि । आर्या मनःस्थितिभिदानुगताः स्मरेण लज्जालवोऽप्यनुभवन्ति दशामनार्याम् ॥ गोऋप्_३६ ॥ उच्चैः शिरो वहति तावदयं प्रजासु यावन्न कामकलिदुर्ललितान्युपास्ते । आलिङ्गितश्च पुरुषो मदनज्वरेण श्वा संकटस्थित इव प्रखलीकृतश्च ॥ गोऋप्_३७ ॥ अपि च भद्रमुखाः कण्ठोपान्तविरोधगद्गदतरं कूजञ्छनैः पृष्ठतो रागाद्रक्ततरेक्षणः सचकितं निर्भ<र्>त्स्यमानो मुहुः । श्येनायातमसंप्रधार्य दयितामन्वेति पारावतो रागाभ्यासकलङ्कितस्य मनसः का वञ्चना दूरतः ॥ गोऋप्_३८ ॥ ये नैकाङ्गुलितर्जनामपि गुरोः सोढुं समर्था नराः मानात्युन्नतमानसाश्च सकलं पश्यन्त्यधस्ताज्जगत् । ते रागेन कदर्थिता धृतिभिदा पादैर्हता योषिताम् आज्ञा मूर्धभिरुद्वहन्ति कृपणा मालामिवाम्लायिनीम् ॥ गोऋप्_३९ ॥ जित्वारातीन् समरविजयख्यातशौर्यावलेपान् आयामिन्यो जगति वितता<ः> कीर्तयो यैः समन्तात् । भिन्नास्तेऽपि प्रकृतिचपलैरङ्गनावाक्यबाणैर् निर्मर्यादाः पुनरयशसा जीवलोकं स्फुरन्ति ॥ गोऋप्_४० ॥ परिचितमपि श्रुत्वा वाद्यध्वनिं रजनीक्षये भवति सहसा यासां त्रासो गृहेषु सवेपथुः । मदनविहतास्ता गच्छन्ति क्षपास्वभिसारिका बहलतिमिरच्छन्नान् देशाञ्छिवारुतभीषणान् ॥ गोऋप्_४१ ॥ मन्दं मन्दं सलीलं सकुसुमनिकरे हर्म्यपृष्थे विविक्ते खिद्यन्ते संचरन्त्यः प्रियविधृतकराम्भोरुहा यास्तरुण्यः । रागावेशावतन्त्रा बहुमहिषखुरक्षुण्णपङ्काङ्कदुर्गान् मार्गान् प्रावृड्निशासु द्रुतपदरभसं ता व्यतिक्रम्य यान्ति ॥ गोऋप्_४२ ॥ वेपन्ते नववारिचूर्णशिशिरैः स्पृष्टाः कदम्बानिलैर् बाला जालगवाक्षपक्षविसृतैर्या रम्यहर्म्याश्रिताः । धारापातविशीर्णपुष्परचना<ः> सारङ्गपर्याकुलास् ता पङ्काङ्कितमूकनूपुररवा रात्रौ व्रजन्त्यध्वना ॥ गोऋप्_४३ ॥ शस्त्रापाता कुवलयदलस्पर्शकल्पा भवन्ति ज्वालाश्चाग्नेर्गतघनशरच्चन्द्रिकाश्लेषशीताः । कामान् प्राप्य श्वसनचपला मूर्तयः पन्नगानां साम्यं यान्ति भ्रमरविरुतैर्दामभिर्मालतीनाम् ॥ गोऋप्_४४ ॥ सर्वायतनोन्माथी तस्माद्रागो महद्दुःखमित्युक्ते भुजगोऽब्रवीत् । ननु खलु दुःखं रागश्चित्तविपर्यासकृद्दुराचारः । क्रोधं तु दुःखतरमित्यवैमि चेतोज्वलं तु मूलम् । कुतः विक्षिप्ताम्बुदसान्द्रचन्द्रकिरणप्रक्षालिताट्टालके वीणावेणुरवानुबद्धमधुरस्त्रीगितरम्ये गृहे । विद्धः क्रोधशिलीमुखेन पुरुषो नाप्नोति निद्रां यतः क्रोधाद्दुःखतरं न दुःखमपरं किं चित्ततो विद्यते ॥ गोऋप्_४५ ॥ योगाभ्यासविशेषशान्तमतिभिर्वाय्वम्बुमूलाशनैर् विश्रम्भायतनत्वमभ्युपगतैः प्रायस्तिरश्चामपि । दग्धाः क्रोधहुताशनैर्जनपदाः क्रूरैरिवाशीविषैर् यन्मोहादृषिभिर्न दुःखमपरं क्रोधात्ततो विद्यते ॥ गोऋप्_४६ ॥ त्रासायासविशेषलोलनयनस्त्रीबाष्पपर्याकुलं बालैश्च स्तनचूचुकार्पितमुखैः सावेगमुन्नादितम् । संरम्भस्फुरितेक्षणत्रयशिखिज्वालापिशङ्गाननो रुद्रो यत्त्रिपुरं ददाह विघृणः क्रोधस्य तद्वैकृतम् ॥ गोऋप्_४७ ॥ तीव्रातङ्कविलोलमूलवलया नैवाञ्जलिप्रग्रहाः स्त्रीणां बाष्पकणाः करालतरला नो पक्ष्मला दृष्टयः । कुर्वन्त्यावरणं ललाटपटलव्यावर्तमानभ्रुवां राज्ञां क्रोधविषाशिवस्य मनसः किं नाम दुःखं ततः ॥ गोऋप्_४८ ॥ गर्भाधारणयन्त्रणामविगणय्यापायिकां मातरं सत्कारातिशयक्षमं च पितरं स्नेहद्रवाध्याशयम् । यद्विश्रम्भनिरत्ययां<श्च> सुहृदो घ्नन्ति क्षताध्याशयाः क्रोधस्यैव विपाकदारुणतरास्ता वृत्तयः साधवः ॥ गोऋप्_४९ ॥ उत्पद्यन्ते परममतयः शुद्धये ये प्रजानां दुःशोधानामविकलमलालीढगूढाशयानाम् । तानप्यार्यान् परहितसुखप्रक्रियामात्रहार्यान् क्रोधाविष्टा वचनविशिखैः संमुखं घ्नन्त्यनार्याः ॥ गोऋप्_५० ॥ क्रोधाघ्रातो भवति पुरुषो दग्धलावण्यवक्त्रो ज्वालाचक्रक्रकचकलिलान् क्रोधनो यात्यपायान् । तेभ्यो भ्रष्टो भवति जगतो लोचनातङ्कभूतः श्रीविद्वेषो न रिपुरपरः क्रोधतुल्योऽस्ति यस्मात् ॥ गोऋप्_५१ ॥ यस्मिन् रक्तो भवति पुरुषस्तत्र कुर्यात्प्रियाणि द्विष्टो यस्मै तदधिकतराण्यप्रियाण्येव धत्ते । अल्पावद्येऽविगतरजसा तेन रोष<ः> प्रविष्टः क्रोधं क्रोधोपशमकुशला वद्ययोनिं वदन्ति ॥ गोऋप्_५२ ॥ त्रासोत्फुल्लमुखीं मृगीमिव वने लज्जालसभ्रूलतां संरम्भापहृतोत्तरीयवसनां विच्छिन्नकण्ठेगुणाम् । चिक्लेश प्रचुराङ्गनामिव सतीं दुःशासनो द्रौपदीं स्फीते यत्सदसि प्रकामचपलाः क्रोधस्य ता विप्लुषः ॥ गोऋप्_५३ ॥ शान्तात्मा विजने वने प्रतिवसन्निक्षिप्तदण्डोऽपि सन् लोकानामनिमित्तपेशलरसः स्नेहार्थकारी सुहृत् । खड्गेनार्द्र इव द्रुमः शकलितो यत्क्षान्तिवादी मुनी राज्ञा दुर्जनवल्लभस्य निकषं क्रोधस्य तत्प्राहृतम् ॥ गोऋप्_५४ ॥ अनेकादीनवमयो विनिपाती मनोज्वलः । इत्येवं सर्वदुःखानां क्रोधारिर्धुरि वर्तते ॥ गोऋप्_५५ ॥ मृगोऽब्रवीत् । सम्यग्वक्तुमेतद्भुजगपते क्रोधवैशसं तीव्रम् । मरणभयादधिकतरं दुःखमहं नावगच्छामि । कुतः मरणोपनिपातकातराणां कमनीयान्यपि मारबन्धनानि । न मनो रमयन्ति यज्जनानां <न> __ दुःखमतः परं परैमि ॥ गोऋप्_५६ ॥ सुहृदां वदनानि वीक्षमाणो घनबाष्पाम्बुतरङ्गदुर्दिनानि । लभते व्यसनं यदन्तकाले न ततो दुःखमवैमि कष्टमन्यत् ॥ गोऋप्_५७ ॥ पवनैरविधेयदुःखशीलैः करपत्रैरिव पाट्यमानदेहाः । परलोकमहाप्रपातशङ्काः कृपणा दुःखमवाप्नुवन्ति तीव्रम् ॥ गोऋप्_५८ ॥ परिपाण्डुकपोलमण्डलानि श्वसनम्लानविपाटलाधराणि । दयितावदनानि नानुकम्पां जनयन्त्यन्तकदन्तविक्षतानाम् ॥ गोऋप्_५९ ॥ जननी मलपङ्कदिग्धवेणी सुतविश्रम्भनिरत्ययोपचारा । उपमृत्युमुदीक्ष्य शोकपङ्के विनिमज्जत्यपरायणा रुदन्ती ॥ गोऋप्_६० ॥ चलतां तृणपर्णपल्लवानां ध्वनिमाकर्ण्य वने मृगा वसन्तः । अनपेक्ष्य परस्परं द्रवामः स्वसुतानप्यवधूय मृत्युभीताः ॥ गोऋप्_६१ ॥ कठिनोपलशर्कराकरालेष्वनलप्लुष्टतृणाचलद्रुमेषु । मरणाशनिसंनिपातभीताः गिरिदुर्गेष्वपरायणा वसामः ॥ गोऋप्_६२ ॥ रजसापि विरूक्षितात्मभावाः परुषैश्चोपहता गदप्रहारैः । महतीमपि यातनां वहन्ते वचनत्रासजडा भवन्ति मृत्योः ॥ गोऋप्_६३ ॥ हरिणो हरिणेव बन्धुमध्यादभिभूय प्रसभं विकृष्यमाणः । अविखण्डितपौरुषेण मृत्युद्विषता दुःखमयं परैति लोकः ॥ गोऋप्_६४ ॥ परिशुष्कगलान्तरालनाडाः सरितां प्राप्य तटान्युदन्वतीनाम् । अनवाप्तजला मृगारिभीता वयमुत्प्लुत्य दिशो दिशं व्रजामः ॥ गोऋप्_६५ ॥ देशे देशे वयमशरणा व्याधमुद्वीक्ष्य हिंस्रं शष्पोद्भेदप्रचयहरितान् संपरित्यज्य दावान् । विन्ध्याटव्यामजगरदरीदारुणायामनाथाः शार्दूलानां नखमुखशिखालक्ष्यभावं व्रजामः ॥ गोऋप्_६६ ॥ तृणपुरुषकानप्यालोक्य द्रवन्ति मनांसि नो <न> निशि न दिवा मृत्योर्भीताः सुखानि लभामहे । विततधनुषं दृष्ट्वा व्याधं कृतान्तमिवापरं न भवति भयत्रस्ताङ्गानां मनागपि भोजनम् ॥ गोऋप्_६७ ॥ तरुपल्लवाहरितपाटलाधराः क्षितिरेणुधूसरितरोमराजिकाः । हरिणाङ्गना न रमयन्ति नो मनो मरणातुरं प्रकृतिचञ्चलेक्षणाः ॥ गोऋप्_६८ ॥ स्थलीवासे तुष्टा नवजलतृणास्वादपटवः सलीलं कान्ताभिः सह गमनविन्यासचतुराः । न लोकद्वेष्टारो न च न चकिता नापि भयदाः प्रयत्नाद्वध्यन्ते तदपि हरिणा रौद्रमतिभिः ॥ गोऋप्_६९ ॥ अटतामटवीष्ववारितानां तृणशष्पाङ्कुरमात्रभोजनानाम् । वद कं नु समीक्ष्य वैरिभावं हरिणानामपि विद्विषो भवन्ति ॥ गोऋप्_७० ॥ ऋजुषूत्तानचित्तेषु तृणतोयोपजीविषु । हरिणेषु कथं क्रूराः प्रहरन्ति मृगद्विषः ॥ गोऋप्_७१ ॥ सर्वदुःखप्रतिक्रुष्टं सर्वभूतभयंकरम् । अवैमि मरणं तस्मादुपसर्गदुरुत्तरम् ॥ गोऋप्_७२ ॥ यतश्च ते महासत्त्वाः स्वं स्वं वादमभिनिविष्टा न कथापर्यवसानमासादयन्ति ततो बोधिसत्त्वमुपेत्य न्यायतः प्रणम्येममर्थमूचुः । भगवन् क्षुद्रागक्रोधमरणभयानां किं नु दुःखम् । कस्य वास्माकं सुभाषितमित्यथैनान् स मुनिवर्योऽब्रवीत् । सुभाषितं च सर्वेषां सर्वेषां च सुनिश्चितम् । सर्वाण्येतानि दुःखानि रुजन्ति भुवनत्रयम् ॥ गोऋप्_७३ ॥ अपि च भद्रमुखा ममाप्यभिप्रायः श्रूयताम् । अभीक्ष्णसमुदाचारो धर्मे यो यस्य बाधते । आश्रमं मनसो दुःखमित्यवैमि ब्रवीमि च ॥ गोऋप्_७४ ॥ स्पर्धमाना इवान्योन्यमुपघ्नन्ति विदाहिनः । लोकानेव निरालोकाञ्जन्मसंबन्धिनो मलाः ॥ गोऋप्_७५ ॥ क्षुद्दुःखोपहतात्मानः किं न कुर्युः शरीरिणः । अपायफलसंधानदारुणं कर्मवैशसम् ॥ गोऋप्_७६ ॥ व्यतिक्रान्तार्यमर्यादा रागोपक्लिष्टचेतसः । भवन्ति करुणापात्रं पुरुषास्तत्त्वदर्शिनाम् ॥ गोऋप्_७७ ॥ स्फुटभ्रूभङ्गविक्षेपभ्रमद्विकृतलोचनाः । क्षणेनान्य इवाभान्ति पुरुषाः परुषा रुषा ॥ गोऋप्_७८ ॥ सर्वसत्त्वैर्विनाभावप्रवासो दीर्घकालिकः । भयमात्यन्तिकं हीदं मरणं सर्वदेहिनाम् ॥ गोऋप्_७९ ॥ एते चान्ये च ये दुःखप्रकारा रोमहर्षणाः । ते जातिमनुवर्तन्ते करुणामिव साधवः ॥ गोऋप्_८० ॥ मातापित्रोर्विप्रतिपत्तिं ................ । ................. किं नाम ततः परं दुःखम् ॥ गोऋप्_८१ ॥ ................. ........................ ॥ ................................... । किं नाम ततः परं दुःखम् ॥ गोऋप्_८२ ॥ रुद्धोच्छ्वासस्य भृशं कृमेरिवामेध्यपङ्कमग्नस्य । या गर्भस्थस्य दशा किं नाम ततः परं दुःखम् ॥ गोऋप्_८३ ॥ कायावस्करनिर्झरविवरे निष्पिष्यमाणदेहस्य । या प्रसवस्थस्य दशा किं नाम ततः परं दुःखम् ॥ गोऋप्_८४ ॥ तस्माज्जातिं दुःखं जातिजराव्याधिमरणनिर्मुक्ताः । कथयन्ति कथिकवरा जिना जितकथंकथाबीजाः ॥ गोऋप्_८५ ॥ अपि चायुष्मन्तः रागोऽनैकविधो जरा परिभवो भोगार्जना रक्षणा प्रध्वंसव्यसनं महात्ययमसत्संपर्कजं वैकृतम् । इष्टानिष्टवियोगयोगसुलभास्ते ते मनोविप्लवा जातिं प्राप्य यतो भवन्ति जगतः सैवेह दुःखं ततः ॥ गोऋप्_८६ ॥ आत्मार्थप्रतियोगिनी भगवतां येषां क्रिया सर्वदा सर्वाकारपरोपकारमधुरा येषां समुत्पत्तयः । श्लाघ्या जातिरचिन्त्ययोगमहतां तेषां जगच्चक्षुषां जन्म स्वार्थपरस्य तु क्षणिकमप्यापायिकी विप्लुतिः ॥ गोऋप्_८७ ॥ तस्माद्ब्रूमहे । संबोधये कुरुत वा स्थिरमप्रमादं तूर्णं घटध्वमथ वा भवसंक्षयाय । एतद्द्वयं तु विरहय्य विशन्त्यकामा भीमान्यपायवडवामुखगह्वराणि ॥ गोऋप्_८८ ॥ यत्नेन चेदुभयमेतदवाप्नुवन्ति यत्नः फले महति युक्ततरो मतो मे । छिद्रं वराटकमवाप्य सुधापि किं स्याच्चिन्तामणेरधिगमाय वरं श्रमोऽपि ॥ गोऋप्_८९ ॥ मां प्रत्यतश्च विफलोऽपि वरं प्रयासः साधोर्महाजनहितावहिताशयस्य । इच्छाविशेषविषयस्य पराक्रमस्य प्रस्थानमेव महतीं रतिमादधाति ॥ गोऋप्_९० ॥ साधारणानि दयितैः सह पेलवानि आमोदयन्ति सुतरां हृदयं सुखानि । पीडाकराणि महतां समुपस्थितानि प्राकर्षिकान्यपि सुखानि तु यौतकानि ॥ गोऋप्_९१ ॥ खद्योतानां जनयति यथा देहसद्भावमात्रं दीप्तिर्नासौ स्फुरति जगतां __ __ __ __ __ । एवं स्वार्थप्रणयमलिनज्ञानलेशाशयानाम् अर्थावाप्तिर्विनयनकृशा नास्ति सातुल्यरूपा ॥ गोऋप्_९२ ॥ आज्ञां शिरोभिरथ ते प्रतिगृह्य तस्य मानाभिमानमृदुभिर्मुनिसत्तमस्य । धर्मैकतानमनसः प्रथयां बभूवुः कीर्तिं शरत्कुमुदिनीधवलां समन्तात् ॥ गोऋप्_९३ ॥ <इति ऋषिपञ्चकजातकम् ॥> *************************************************************************** सप्तकुमारिका = गोस्क् बसेदोन् थे एदितिओन् ब्य्मिछएल्हह्न्. "सप्तकुमारिकावदान". इन्: म्. हह्न्. हरिभट्ट अन्द्गोपदत्त, तोक्यो १९९२, प्प्. ५८-७२. १२. सप्तकुमारिका ओं नमो रत्नत्रयाय ॥ वैराग्ययुक्तं च सुभाषितं च धर्मार्थकामप्रतिबोधनं च । एकान्तरम्यं बहुसज्जनानां वक्ष्यामि किं चिच्छृणुतावदानम् ॥ गोस्क्_१ ॥ एवमिदं भ्राजेत्परिपक्वकुशलमूलानां महान्तोऽपि भोगा यौवनं वा नालमन्तरायायेति । तद्यथानुश्रूयते । नयविनयादिगुणश्रीसमृद्धो राजाभूत्कृकी नाम । स च भगवति काश्यपे सम्यक्संबुद्धे समुपजातप्रसादः । तस्य राज्ञः सप्त कुमार्यः पूर्वबुद्धोत्पादसंनिरोपिताभिवृद्धकुशलमूलबलाधानाः समुपजातसंसारवासनिर्वेदास्ताः सविनयोपचारं मधुरेण वचसा प्रणिपत्य पितरमब्रुवन् । तोयान्तर्गतचन्द्रबिम्बतरलामालोक्य लोकस्थितिं कामान् क्रुद्धभुजङ्गभोगपटलच्छायोपमान् वीक्ष्य च । दृष्ट्वा दुःखहुताशनैर्जगदिदं कृत्स्नं च संदीपितं नैष्क्रम्याभिरताशयाः खलु वयं यामः श्मशानं नृप ॥ गोस्क्_२ ॥ राजोवाच ॥ बालाः सुखोचिता यूयमकृतार्थमनोरथाः । कथं शक्नोम्यहं वक्तुमाश्रयध्वं तपोवनम् ॥ गोस्क्_३ ॥ कन्यका ऊचुः । जानीमहे क्षितिपते भवतो जनेऽपि स्नेहार्द्रपेशलरसाभिनिवेष्टितानि । अस्मासु किं पुनरकारणवत्सलस्य स्वाङ्के विवृद्धिमनघां समुपागतासु ॥ गोस्क्_४ ॥ युष्मद्विधैरपि सहाभिमुखो वियोगो येनैव नो नृप निरत्ययशुद्धभावैः । तेनैव शान्तिपदमाप्तुमियं मनीषा मा भूत्पुनः पुनरयं व्यसनोपतापः ॥ गोस्क्_५ ॥ अथ स राजा स्नेहवशाद्वितानीभूतहृदयो निश्चलाभिताम्रनयनयुगलः पुनः पुनस्ताः कन्यकाः समभिवीक्ष्योवाच ॥ आस्तीर्णकोमलविचित्रकुथोदरेषु स्वैरं विहृत्य भवनेषु कथं भवत्यः । स्प्रक्ष्यन्ति दुर्जनमनोविषमां श्मशानभूमिं सितास्थिशकलप्रकरोत्तरीयाम् ॥ गोस्क्_६ ॥ स्नेहोन्मुखं पितरमेकपदे कथं वा शोकाश्रुदुर्दिनमुखीं जननीं च हित्वा । अम्लानसौहृदनिरन्तरमानसांश्च त्यक्त्वा कथं नु सुहृदस्तपसे रमध्वम् ॥ गोस्क्_७ ॥ अथ ताः कन्यका निरतिशयधैर्यावष्टम्भगल्भं पितरमूचुः । माता पिता सुहृदिति व्यवहारमात्रमेतत्पुनर्भवनिपातविघातभाजाम् । भूतार्थदर्शनपरोक्षमलीमसानां लोको वृथा नरपते परिखेदमेति ॥ गोस्क्_८ ॥ केनाप्यनर्थरुचिना कपटं प्रयुक्तमेतत्सुहृत्स्वजनबन्धुमयं विचित्रम् । कस्यात्र कः कथमिह स्वजनो जनो वा स्वप्नेन्द्रजालसदृशः खलु जीवलोकः ॥ गोस्क्_९ ॥ सालोकं भुवनत्रयं नरपते सद्धर्मवागंशुभिर् यावद्बुद्धदिवाकरस्य विलसत्कीर्तिप्रभामालिनः । निर्यातुं व्यसनान्धकारपटलच्छन्नान्तरालाद्भवात् तावन्न्याय्यमतः पुरा ह्यतिमहत्पर्येति घोरं तमः ॥ गोस्क्_१० ॥ वातास्फालनचञ्चलानलशिखाज्वालावलीढाद्गृहान् निर्यान्तं न निवारयन्ति पुरुषं तच्छान्तिकामा यथा । एवं दुःखमहाहुताशनशिखाग्रस्तात्समस्ताद्भवान् निष्क्रामन्तमनर्थजालपिहितात्सन्तो विवृण्वन्ति न ॥ गोस्क्_११ ॥ अथ स पार्थिवस्तासां तेन सुहृत्स्वजनबन्धुनिरपेक्षरूक्षाक्षरेण स्वकायजीविताशाविधुरेण वचसा सुतरां समुपजातशोकदैन्यमानसः पुनर्व्याह ॥ तपांस्यकालेष्वभिवाञ्छितानि पुष्णन्ति नार्थान्मनसोऽनुकूलान् अकालगर्भा इव कन्यकानामजातसारावयवाङ्गशोभाः ॥ गोस्क्_१२ ॥ भवन्त्यकाले तपसः प्रयोगाश्चन्द्रोपरागा इव सोपसर्गाः । तस्मादितो बुद्धिरियं कुमार्यो निवर्त्यतामुत्पथचारिणीव ॥ गोस्क्_१३ ॥ सोढुं न दुःखानि वपूंषि शक्तान्यदृष्टदुःखानि सुखोचितानि । दन्ताभिघाता द्विरदाधिपानामबद्धमूला इव चूतवृक्षाः ॥ गोस्क्_१४ ॥ सवह्निगर्भैरशिवैः शिवारुतैर्विनादितं भीषणरावगह्वरम् । भयं भयस्याप्युपसंहरेद्भृशं श्मशानमाक्रन्दविरावदारुणम् ॥ गोस्क्_१५ ॥ क्व वो वपुर्बालमृणालकोमलं मतिः क्व चेयं करपत्त्रनिष्ठुरा । परोपकारव्यतिषक्तचेतसो विधेरहो मय्यनपेक्षरूक्षता ॥ गोस्क्_१६ ॥ वैडूर्यनीलमृदुशाद्वलकञ्चुकानि नानाप्रकारकुसुमप्रकरोत्कराणि । एतानि वो मदकलालिकुलाकुलानि क्रीडावनान्यभिमतानि भवन्तु कन्याः ॥ गोस्क्_१७ ॥ गृहोपवनदीर्घिकास्तटविलम्बिपुष्पद्रुमाः समीरणचलत्तरङ्गरुचकावलीमेखलाः । विबुद्धकमलोत्पलाकरनिलीनहंसस्वना रतेरुपनिबन्धनं मघवतोऽप्यलं कन्यकाः ॥ गोस्क्_१८ ॥ उपवीजिता जलतरङ्गलासकैर्नवमालिकाकुसुमगन्धगन्धिभिः । पवनैरिहैव गृहकानने रतिं कुरुताङ्गनाः परभृतोपकूजिते ॥ गोस्क्_१९ ॥ एते जालगवाक्षपक्षविवरप्रोद्वान्तपुष्पासवा नानामोदविदिग्धवासविकसन्निःश्वासवाता इव । प्रासादा वलभीविटङ्कवलयप्रस्वस्थसुप्ताण्डजा युष्माकं रतये भवन्तु वनिताः संगीततूर्यस्वनाः ॥ गोस्क्_२० ॥ अथ ताः कुमार्यस्तत्पितुर्वचनममृष्यमाणाः पुनर्व्याहुः ॥ न हि तत्सुखमस्ति किं चिदन्यन्नरलोकाधिपते दिवि क्षितौ वा । शतशश्च सहस्रधा च भुक्तं न यदस्माभिरनर्थपण्डिताभिः ॥ गोस्क्_२१ ॥ विषयैर्न हि तृप्तिरिन्द्रियाणां विषयाभ्यासविशेषघस्मराणाम् । भवतीति विचिन्त्य बुद्धिमन्तः प्रयतन्ते भवबन्धनक्षयाय ॥ गोस्क्_२२ ॥ चपलान्यनवस्थितस्वभावान्यनिलोद्धूततरङ्गभङ्गुराणि । विनिवृत्तपुनर्भवाभिलाषा विजयन्ते यतयः षडिन्द्रियाणि ॥ गोस्क्_२३ ॥ भवचारकसूकरास्तु बालाश्छलिताश्चित्तकलेर्विचेष्टितेन । प्रपतन्ति सुखाभिलाषलुब्धा व्यसनेष्वेव दुरन्तभैरवेषु ॥ गोस्क्_२४ ॥ अहमित्युपजातविभ्रमेयं जनता प्रज्वलितास्त्रयन्त्रकल्पान् । विषयानुपसेवते हताशा परिणामायततीव्रदुःखहेतून् ॥ गोस्क्_२५ ॥ जगदध्रुवमेतदस्वतन्त्रं विषयाशीविषपूगसंनिरुद्धम् । अवगम्य भवेषु ये रमन्ते पशवस्ते नरविग्रहोपनीताः ॥ गोस्क्_२६ ॥ चमरा इव वृक्षलग्नवाला निधनं कापुरुषा व्रजन्ति गेहे । विषयैरुपरुद्धबुद्धिमार्गा वितथस्नेहलतानिबद्धचित्ताः ॥ गोस्क्_२७ ॥ रतिकारणमत्र जीवलोके व्यसनोद्भेदनिरन्तरान्तराले । वद तात किमस्ति येन नः स्याद्भवनेष्वेव रतिर्बहुच्छलेषु ॥ गोस्क्_२८ ॥ भवनेषु नरेन्द्र भागधेयान्युपयुज्यानि भवान्तरार्जितानि । मुषिता इव हीनदीनचित्ता भवकान्तारपरायणा भवन्ति ॥ गोस्क्_२९ ॥ पुरुषाः प्रसमीक्ष्य कारिणोऽपि व्यवहारेषु विचक्षणाः प्रकृत्या । गृहचारकमेत्य यान्ति नाशं नृप मीनाः कुपिनीमुखं यथैव ॥ गोस्क्_३० ॥ बहुभिर्नरलोकपाल यत्नैर्भवनानि द्रविणानि चार्जितानि । अपहाय नरः क्षणेन याति स्वकृतादेशितमार्ग एक एव ॥ गोस्क्_३१ ॥ अत एव जगाद लोकनाथो नृप कर्मस्वकमेव जीवलोकम् । मरणाभिमुखं नरं स्वकर्म स्तनपो वत्स इवानुयाति धेनुम् ॥ गोस्क्_३२ ॥ तदलं परिणामदारुणैस्तैः प्रियबन्धो प्रियसंगमाभिलाषैः । ध्रुवमेव हि विप्रयोगदुःखं प्रियसंयोगरताशया लभन्ते ॥ गोस्क्_३३ ॥ अपि चापरिनिष्ठितस्वभावे प्रियता का नरवीर जीवलोके । परमार्थविचारपेलवानां प्रिय इत्येव हि विभ्रमो मतीनाम् ॥ गोस्क्_३४ ॥ यदि तु प्रियतास्ति का चिदस्मास्वनुजानीष्व महीपते ततोऽस्मान् । अनवद्यमहार्यमार्यजुष्टं सुखमास्वादयितुं हि नो मनीषा ॥ गोस्क्_३५ ॥ अथ स राजा सुगतशासनाभिप्रसन्नो धर्मान्तरायभीरुर्जातस्नेहाक्रान्तहृदयः स्वा दुहितॄः पूर्वजन्मानुस्मरणावगमितप्रयोजना जातिस्मराः खल्वेता इति परिविचिन्त्य सुचिरं तूष्णीं बभूव ॥ निर्बन्धमिति विज्ञाय तासां स नरपुङ्गवः । गच्छतेत्यपरिव्यक्तं कथं चिदनुजज्ञिवान् ॥ गोस्क्_३६ ॥ अथ ता दारिका व्यपनीतस्रगनुलेपनाभरणाः विनयनिभृतवपुषः सितसूक्ष्मप्रलम्बाम्बरधराः पवनबलचलितसलिलफेनावलीमालिन्य इव सरितः सान्द्रचन्द्रचन्द्रिकापटावगुण्ठिता इव शरन्निशाः स्वकिरणजालोत्तरीया इव सप्तर्षितारकाः क्रमेण विरचितचिताग्निमध्यविन्यस्तसिमिसिमायमानोच्छूनशवामगन्धबीभत्सं निशितगृध्रतुण्डखण्डितशिरोघटीविवरविनिर्गतविगलितमस्तिष्करसविलिप्तवदननरकरङ्काक्रान्तपर्यन्तभीषणं जीर्णशीर्णविवर्णास्थिकङ्कालशकलनिकरखरभूमिभागदुःसंचरं मूर्तिमन्तमिव निर्वेदकर्मान्तमिवान्तकस्यारतिशोकदैन्योपायासास्पदभूतं श्मशानमनुप्राप्ताः ॥ भवति चात्र ॥ संप्राप्तास्ताः श्मशानं नररुधिरवसाविस्रगन्धान्धगृध्रं व्यालुप्तान्त्रोदरार्द्रैररतिभयकरैः संनिरुद्धं शवाङ्गैः । कुन्दापीतावदातैर्हसदिव सततं जर्जराङ्गैः कपालैर् जीर्णन्यग्रोधरन्ध्रव्यवहितविविधोलूकहूङ्कारभीमम् ॥ गोस्क्_३७ ॥ सवह्निकवलोद्धतस्फुटशिवारुताभीषणं क्व चित्सितकरङ्कजालपरिणद्धदुःसंचरम् । स्फुरत्कृमिकुलाकुलप्रचलनीलनासादरी- निलीनबहुमक्षिकाशतशवाकुलोपत्यकम् ॥ गोस्क्_३८ ॥ सितास्थिशकलारुणप्रबलमारुताभ्याहत- स्फुरत्स्फुटचिताग्निशुष्कतरुमूललीनोरगम् । क्व चिन्निशितशूलभिन्ननरविग्रहोग्राश्रयं महानसमिवान्तकस्य सततप्रवृत्तोत्सवम् ॥ गोस्क्_३९ ॥ क्व चिन्नरशिरोघटीविवरनिर्गतासृग्धरा- वसासवविकारघस्मरपिशाचिपूगाकुलम् । क्व चित्सिमिसिमायमानचितिकानलालिङ्गित- स्फुरन्नरकलेवरोदरविनिर्गतान्त्रोरगम् ॥ गोस्क्_४० ॥ संवेगानद्धहृदया विचेरुस्तत्र ताः स्त्रियः । स्वभावं जीवलोकस्य चिन्तयन्त्यश्चलाचलम् ॥ गोस्क्_४१ ॥ विवृतविकृतपूतिगुह्यदेशं धरणिरजोऽरुणरूक्षकेशपाशम् । खगनखमुखखण्डिताक्षिकोशं ददृशुरथोज्झितमङ्गनायाः ॥ गोस्क्_४२ ॥ मुहुरुपागतसाध्वसचञ्चलैः कुवलयावयवैरिव लोचनैः । तमभिवीक्ष्य कलेवरपञ्जरं बहुविधानि वचांसि बभाषिरे ॥ गोस्क्_४३ ॥ इयमसौ स्फुटचन्द्रकराङ्कुरच्छुरितसौधविमाननिवासिनी । प्रियतमाङ्कपरिष्वजनोचिता स्वपिति या वसुधातलमण्डले ॥ गोस्क्_४४ ॥ प्रियभुजान्तरपञ्जरशायिका जलधरस्तनितेष्वपि कातरा । सदहनादशिवाच्च शिवारुतात्कथमियं न बिभेति तपस्विनी ॥ गोस्क्_४५ ॥ गुरुनितम्बभरालसगामिनी ललितहासविलासविलोकिनी । इयमसौ स्वगृहाङ्गनचन्द्रिका गतघृणैर्विहगैरवलुप्यते ॥ गोस्क्_४६ ॥ नरकरङ्कशताकुलचत्वरे पितृवने भगिनि त्वमिहोज्झिता । अकरुणेन कथं दयितेन हे धिगनवस्थितहार्दमिदं जगत् ॥ गोस्क्_४७ ॥ स्वजनबन्धुसुहृत्कमलाकरभ्रमरिका दयिताङ्कविवर्तिनी । कथमियं क्षणदाचरभैरवे पितृवने रमतेऽद्य वराकिका ॥ गोस्क्_४८ ॥ संरागारुणतारकान्तमुकुलक्षीबेण या चक्षुषा कान्तं स्निग्धविदग्धमुग्धमधुरेणोदीक्षमाणा पुरा । चक्रे मन्मथवागुराहरिणकं सैवाद्य संरागिणां संत्रासं विहगापनीतनयना कष्टं करोत्यङ्गना ॥ गोस्क्_४९ ॥ अन्तर्निगूढविविधाशुचिगात्रयष्ट्या रागान्धबुद्धिनयनाश्छलिता मयेति । संरागिणोऽपहसतीव खगावलुप्तदन्तच्छदेन वदनेन वराङ्गनेयम् ॥ गोस्क्_५० ॥ वीणावेणुध्वनिकलरवैः काकलीगीतकैर्या निद्रां भेजे प्रियतमपरिष्वङ्गविश्रब्धगर्भाम् । सैवाद्येह स्वपिति वनिता भूरजोरूक्षिताङ्गी गोमायूनां ध्वनितमुखरारावरौद्रे श्मशाने ॥ गोस्क्_५१ ॥ वालाग्रमात्रमपि यत्र विचार्यमाणे नेक्षामहे शुचि निजाशुचिगर्भरन्ध्रे । तस्मिन् रतिं कथममी प्रखला लभन्ते कायाधमे निधनधर्मिणि रोगनीडे ॥ गोस्क्_५२ ॥ एवंविधं जगदिदं सकलं भगिन्यः स्वप्नेन्द्रजालजलचन्द्रचलस्वभावम् । मत्वा विरागमुपगच्छत यावदेतत् प्राणावशेषमुपयाति न वो विनाशम् ॥ गोस्क्_५३ ॥ प्राणान्तिकव्यसनकण्टकभिन्नमर्मा कुर्वीत किं नु कुशलं जलविप्लुताक्षः । दष्टः कृतान्तमकरेण जरामुखेन मूर्ध्ना च शुक्लपलितोत्करदन्तुरेण ॥ गोस्क्_५४ ॥ घोरान्धकारपरलोकमहाप्रपातसंपातचूर्णिततनोः कुशलाभिलाषम् । आशीविषास्यपुटसंकटसंनिरुद्धमण्डूकवासितसमं प्रवदन्ति सन्तः ॥ गोस्क्_५५ ॥ लोकं वाक्यैः कृतकमधुरैर्वञ्चयित्वाद्य मौनं धत्से कस्मात्परुषपिशुनाबद्धवादप्रगल्भैः । इत्याक्रोशन्निव सरभसं राजदन्ताग्रदष्टां जिह्वापेशीं हरति विहगस्तुण्डसंदंशकेन ॥ गोस्क्_५६ ॥ रागान्धानां वितथविषयाभ्यासजिह्माशयानां यद्बालानां नयनविषयं प्राप्य धैर्यं बिभेद । तस्मिन्नद्य व्यपगतभयाश्चारुबिम्बे नितम्बे नार्या गृध्रा नखमुखपदन्यासपङ्क्तिं लिखन्ति ॥ गोस्क्_५७ ॥ याभ्यां याता प्रियकरतलन्यस्तहस्तारविन्दा भित्तौ साचीपरिणतमुखी चित्रमुद्वीक्षमाणा । मन्दं मन्दं स्वभवनतले मुक्तपुष्पोत्तरीये तावेवाद्य ग्रसति चरणौ जम्बुकोऽयं युवत्याः ॥ गोस्क्_५८ ॥ इत्थंभूते सहजविविधामेध्यजम्बालपङ्के कष्टं कष्टं मदनमदिराः क्षीबचित्ताः पतन्ति । कायस्येमां प्रकृतिमशिवां वीक्षमाणास्तु यूयं निर्विद्यध्वं प्रचलिततडिद्भङ्गुराज्जीवलोकात् ॥ गोस्क्_५९ ॥ यः सत्त्वानामविरतरसक्लेशनाडीव्रणान्तः- संतप्तानामधिगतयथाभूतधर्माधिराजः । ह्लादं चक्रे प्रकृतिशिशिरैर्धर्मवागम्बुकुम्भैः शास्त्रे तस्मै परमभिषजे सर्वकाले नमोऽस्तु ॥ गोस्क्_६० ॥ दुर्विज्ञेयं कपटमशिवं क्लेशकर्मप्रयुक्तं सर्वाकारं विवृतमखिलं येन जन्माभिधानम् । यस्मिन्मूढो रथचरणवद्बम्भ्रमीत्यस्वतन्त्रो लोकस्तीव्रव्यसनकुलिशाघातनिष्पिष्टमूर्तिः ॥ गोस्क्_६१ ॥ माता बाल्ये प्रतिसरवतीं वेणिकां यत्र चक्रे यस्मिन् कान्तो मणिमकरिकां यौवनाग्रे बबन्ध । विप्रैः सिक्तं सुकुसुमलवैर्यच्च शान्त्यम्बुलेशैः कष्टं धृष्टः स्पृशति बलिभुक्तच्छिरोऽद्याङ्गनायाः ॥ गोस्क्_६२ ॥ ये वासिताः सुकुसुमेन विवाहकाले मातुः करेण कृतकौतुकमङ्गलेन । तेऽद्य प्रचण्डपवनैरवधूयमानाः केशाः श्मशानतरुचामरतां प्रयाताः ॥ गोस्क्_६३ ॥ प्रकृतिचतुरा दृष्टिः क्वासावपाङ्गविलोकिनी सललितपदन्यासा क्वासौ गतिर्मदविह्वला । क्व नु खलु गता हासास्तेऽस्या रदच्छदलासकाः सुरचितमहो चित्रं मायारहस्यमिदं कलेः ॥ गोस्क्_६४ ॥ हासायासविलोलकुण्डलमणिच्छायोपरागारुणे यस्मिन् प्राणसमश्चकार मुदितः पत्त्राङ्कुरं यत्नतः । बालाम्भोरुहपत्त्रकोमलदले तत्रैव गण्डस्थले वक्त्रं रक्तकलङ्कितं निकषति स्थित्वा ललाटेऽण्डजः ॥ गोस्क्_६५ ॥ मुक्ताहारमरीचिफेनसलिले रोमावलीशैवले विस्तीर्णस्तनचक्रवाकयुगले वक्षस्तडागोदरे । सव्याजस्खलितांशुके व्यसनिनां यत्रैव नेत्रालयः पेतुस्तत्र विपूयकेऽद्य निपतन्त्याशातिका मक्षिकाः ॥ गोस्क्_६६ ॥ पूर्वं चन्दनवारिशीकरमुचैर्या तालवृन्तानिलैः प्रेष्याभिर्वलयध्वनिव्यतिकरैः संवीजिता सुन्दरी । हर्म्ये चन्द्रकरोपहारधवले बिम्बोपधानाश्रिता तामेवाद्य तु वीजयन्ति परुषैः पक्षानिलैर्वायसाः ॥ गोस्क्_६७ ॥ येनायं कम्पितः पूर्वं शाखान्तरविचारिणा । क्वेमं कायद्रुमं त्यक्त्वा स गतश्चित्तमर्कटः ॥ गोस्क्_६८ ॥ येन निष्क्रियमप्येतत्क्रियावदिव लक्ष्यते । कलेवरमनात्मीयं क्व स चित्तविदूषकः ॥ गोस्क्_६९ ॥ अन्तरात्मानमिच्छन्ति यमविद्यान्धबुद्धयः । विज्ञानधूर्तकः क्वासौ गतस्तीर्थविमोहकः ॥ गोस्क्_७० ॥ चिरं व्यामोहितं येन न तत्त्वेषु प्रतिष्ठितम् । जगत्क्व नु प्रयातोऽस्माच्चित्तचित्रेन्द्रजालिकः ॥ गोस्क्_७१ ॥ न जानन्ति गतिं यस्य कपिलाद्यास्तपोधनाः । चित्तविद्याधरः क्वासौ विषयाम्बरगोचरः ॥ गोस्क्_७२ ॥ चचार योऽस्मिन्नशुचौ नवद्वारे चलाचले । शरीरपञ्जरे सोऽद्य क्व नु चित्तविहङ्गमः ॥ गोस्क्_७३ ॥ येनाविष्टा भवजलनिधौ क्लेशसंसर्पिसर्पे तीव्रच्छिद्रव्यसननिवहक्षारवारिप्रपूर्णे । मज्जन्त्यज्ञा मरणमकरक्षोभचञ्चत्तरङ्गे यातस्त्यक्त्वा क्व नु तनुमिमां चित्तनक्तंचरोऽसौ ॥ गोस्क्_७४ ॥ अदान्तत्वाद्योऽसौ क्षिपति नरके व्यार्तमवशम् स्फुरद्वह्निज्वालावलयकपिलद्वारविवरे । यमोपायं यस्य व्यपगतमदो वेत्ति भगवान् क्व यातोऽसावस्मात्प्रकृतिचपलश्चित्ततुरगः ॥ गोस्क्_७५ ॥ अथ कुलिशमरीचिश्यामपीनप्रकोष्ठः सविनयमुपगम्य प्रीतिविस्पन्दिताक्षः । अनुनयरमणीयं साधु साध्वित्युवाच प्रकृतिसुभगवाचा वासवः कन्यकास्ताः ॥ गोस्क्_७६ ॥ नववयसि भगिन्यो मन्मथावासभूते नृपतिकुलविभूतिश्रीसुखं पर्युदस्य । ऋषिभिरपि पुराणैर्दुष्करं संप्रपन्ना व्रतमिदमिति तुष्टोऽस्म्यद्य वः किं वृणीध्वम् ॥ गोस्क्_७७ ॥ करतल इव मन्ये कामधात्वीश्वरत्वं त्रिदशपतिसुखं वा निश्चयस्यास्य वोऽद्य । लघु वदत भगिन्यः किं करोम्येष वश्यः स्फुरति मनसि यद्वो देवराजोऽस्मि शक्रः ॥ गोस्क्_७८ ॥ अथ विषयसुखेभ्यो निःस्पृहास्ताः कुमार्यः प्रकृतिरुचिरभावास्तिर्यगालोक्य शक्रम् । जगुरिदमनवद्यं सुष्ठु चित्रार्थवाचः स्वकुशलपरिपाकाङ्गारधीरस्वभावः ॥ गोस्क्_७९ ॥ न वयममरबन्धो जन्मदुःखातुरत्वाद् भवसुखलवलोलात्तन्तुसंताननेयाः । (?) व्रतमिदमनुबद्धाः शोकबाष्पाम्बुलेशैः कलुषवदनशोभान् बान्धवानप्यपास्य ॥ गोस्क्_८० ॥ अपि तु जगदशेषं दुर्नयाविद्धतीव्र- व्यसनशतसहस्राघातनिर्भिद्यमानम् । कृपणमभिसमीक्ष्य क्षीणदोषानुजातं पदमभयमशोकं प्राप्तुमभ्युद्यताः स्मः ॥ गोस्क्_८१ ॥ प्रभवसि शतमन्यो त्वं वरं संप्रदातुं यदि जगदनुकम्पापेशलाध्याशयत्वात् । पदमजरमहार्यं ब्रह्मशान्तं तदार्यं भवभयपरितप्ताः प्रापयास्मान् विमोक्षम् ॥ गोस्क्_८२ ॥ कायावस्करनिर्झरस्रुतमलक्लेदोपदिग्धाश्रयो निर्याणास्थिकटाहकार्पितशिरा मूर्च्छातुरो निष्पतन् । गर्भान्मातुरमेध्यपङ्कगहनाद्यामप्रहायाश्नुते दुःखं दुःखपरंपरां च परतस्तां छिन्द्धि जातिं हि नः ॥ गोस्क्_८३ ॥ जगन्निर्मर्यादा दशति शिरसि व्यावृतमुखी जरा रक्षोयोषित्पलितसितदंष्ट्राङ्कुरवती । नृणां यासौ वीर्यस्मृतिधृतिमतिश्रीप्रमथिनी ततस्त्रायस्वास्मान् प्रभवसि यदि त्वं सुरपते ॥ गोस्क्_८४ ॥ श्वासोत्क्षेपचलत्कठोरजठरो व्यापाण्डुरूक्षच्छविः संप्राप्तानपि भोक्तुमप्रतिबलो भोगान् विचित्रोज्ज्वलान् । येनादष्टवपुः सुरेश्वर ततो रोगाभिधानाद्भयात् त्राता नो भव मृत्युदूतपुरुषाद्दित्सुर्वरं चेद्भवान् ॥ गोस्क्_८५ ॥ प्रत्यावृत्तस्तिमितनयनो मर्मविच्छेददुःख- क्षोभायासप्रतिहततनुः शीतविष्टब्धगात्रः । पश्यन् बन्धून्नयनसलिलस्नातगण्डाधरान्तान् येनाघ्रातो व्रजति विलयं पाहि मृत्योस्ततोऽस्मान् ॥ गोस्क्_८६ ॥ येनालिङ्गितमानसः पशुरिव व्याप्नोति शोच्यां दशां कार्याकार्यविभागपेलवमतिर्निन्दास्पदं जायते । ह्लादं नैति तमालशीकरमुचाप्यालिङ्गितो वायुना तन्नो रागहुताशनं वरद हे निर्वापयापायिकम् ॥ गोस्क्_८७ ॥ यस्यावेशात्स्फुरितनयना दष्टदन्तच्छदान्ताः पापाः पापं नरकमशिवं कुर्वते तत्क्षणेन । नैवोत्खातो मुनिभिरपि यः शीर्णपर्णाम्बुभक्षैस् तन्नः शक्र व्यपनय मनःकोटरात्क्रोधसर्पम् ॥ गोस्क्_८८ ॥ येनावारितलोचनः कुमतयस्त्यक्त्वा शिवां वर्त्मनीं मिथ्यादृष्टिविषोपदिग्धमनसो मार्गान्तरं संश्रिताः । हेतुं यत्प्रवदन्ति भिन्नतिमिराः सर्वास्रवोत्पत्तये तन्नश्छिन्धि मनोगृहान्तरचरं मोहान्धकारं हरे ॥ गोस्क्_८९ ॥ वरमेवंविधं शक्र भवन्तं प्रार्थयामहे । प्रतिज्ञातार्थविधुरं चेष्टन्ते न हि साधवः ॥ गोस्क्_९० ॥ अथ शक्रस्तेन तासां विषयप्रार्थनाकार्पण्यानपेक्षास्वच्छशोभिना वचसा प्रविजृम्भमाणविस्मयः प्रसादसंहृषिततनूरुहः प्राह । अशक्यमर्थं खलु याच्यमानो विघातदीनत्वमुपैति लोकः । वरं वृणीध्वं नरदेवकन्या यदेव शक्येत मया प्रदातुम् ॥ गोस्क्_९१ ॥ अथ ता दारिकास्तेन तस्यान्तर्निगूढशाठ्यविकल्पितेन वचसा समुपजातसंवेगामर्षाः शक्रमूचुः । उपलापयसे किमर्थमस्मानुपगम्याद्य सहस्रलोचनैवम् । सुखमात्रकदुर्विदग्धबुद्धे प्रखलास्तेन वयं न चापि गम्याः ॥ गोस्क्_९२ ॥ विदितो भवतो न राजवंशः किमसौ दिक्षु विकीर्णकीर्तिपुञ्जः । धनदोऽप्ययथार्थनामधेयो धनसारं समवेक्ष्य यस्य नूनम् ॥ गोस्क्_९३ ॥ यमपास्य वयं जरार्तिमृत्युव्यसनायासविघातदैन्यभीताः । सुरनाथ दशामिमां प्रपन्ना न भयान्नापि च बालचापलेन ॥ गोस्क्_९४ ॥ कृतपुण्य विहेठिताभिरर्थस्तव कोऽस्माभिरतीव दुःखिताभिः । उपजीव सबन्धुमित्रभृत्यो विभवन्नन्द च शक्र दीर्घरात्रम् ॥ गोस्क्_९५ ॥ सुकृतोज्ज्वलभागधेययोगाद्यदि देवाधिपतिर्भवांस्ततः किम् । न हि संपदमाप्नुवन्ति सन्तः परहेठाकरणाय देवराज ॥ गोस्क्_९६ ॥ अथ महेन्द्रस्तासां स्फुटविचित्रमहार्थसारसूचकैर्वचोभिराप्यायितविस्मयः प्रसादाभिव्यज्यमानवदनशोभः पुनरपि भावजिज्ञासुरर्थान्तरातिशयशुश्रूषया वाचात्युवाच । मा तावद्भगिन्यः नाथन्ते दर्शनस्यापि मम लोके तपोधनाः । किमर्थमेवं वरदे मयि यूयं तु निष्ठुराः ॥ गोस्क्_९७ ॥ अथ ताः कुमार्यः पुनरभ्यधिकतरजनितमन्युकोपाः सामर्षं रूक्षाक्षरं त्रिदशपतिमूचुः । अन्यथैव सितापाङ्गमुखस्मितविलोकितम् । दृश्यते वदनं शच्या दीयते वरमन्यथा ॥ गोस्क्_९८ ॥ वरप्रदाने यद्यस्ति शक्तिस्तव पुरन्दर । जहीहि प्रखलां तावद्विषयाशापिशाचिकाम् ॥ गोस्क्_९९ ॥ अथवा दुस्त्यजाः कामा मिथ्यासंकल्पलोलुपैः । त एव सन्तु ते नित्याः प्रभावोऽस्ति यदीदृशः ॥ गोस्क्_१०० ॥ अध्रुवेषु सहस्राक्ष कामेष्वासक्तमानसः । वरं वद कथं नाम त्वमन्यस्मै प्रदास्यसि ॥ गोस्क्_१०१ ॥ उह्यमानः कथं नाम सरिता भीमवेगया । उत्तारयिष्यस्यपरान् परिक्षामजडाश्रयः ॥ गोस्क्_१०२ ॥ पांशुकूलाम्बरधरा व्यपनीतशिरोरुहाः । अरण्याद्ग्राममेष्यामः कदा नस्तद्भविष्यति ॥ गोस्क्_१०३ ॥ युगमात्रविलोकिन्यो मृत्पात्रव्यग्रपाणयः । सावधानं कदा भिक्षां चरिष्यामः कुलात्कुलम् ॥ गोस्क्_१०४ ॥ असक्ता लाभसत्कारपङ्के संक्लेशसंकटे । कदा विशोधयिष्यामो देयधर्मानुरागिणः ॥ गोस्क्_१०५ ॥ पलालपुञ्जादुत्थाय नीहारगुरुचीवराः । यथेच्छमन्नपानार्थे यास्यामो निःस्पृहाः कदा ॥ गोस्क्_१०६ ॥ तरोर्मूले शुकश्यामे मृदुशाद्वलकञ्चुके । कदा निषद्य प्राप्स्यामो दृष्टधर्मसुखोत्सवम् ॥ गोस्क्_१०७ ॥ कायजीवितयोस्त्यक्त्वा जरत्तृणलवेष्विव । अपेक्षां सुचिराभ्यस्ताः कदा लप्स्यामहे सुखम् ॥ गोस्क्_१०८ ॥ कदा सरिन्निकुञ्जस्थास्तरङ्गैरुदयव्ययम् । उज्झामो जीवलोकस्य भिद्यमानैर्मुहुर्मुहुः ॥ गोस्क्_१०९ ॥ सत्कायदृष्टिमुत्पाट्य सर्वात्मदृष्टिमात्रिकाम् । निःस्पृहा भवभोगेभ्यो भविष्यामः कदा वयम् ॥ गोस्क्_११० ॥ अवभोत्स्यामहे लोकं कदा नु सचराचरम् । स्वप्नमायामरीच्यभ्रगन्धर्वनगरोपमम् ॥ गोस्क्_१११ ॥ इति यासां प्रिया त्रातः स्पृहा हृदि विजृम्भते वरेण तासां को न्वर्थः सामिषेण चलेन च ॥ गोस्क्_११२ ॥ अपि च सुरेशान वरप्रदानचित्तक । मिथ्याविकल्पक्षणमात्ररम्याः स्वभाववामाः सुरनाथ कामाः । विवर्जिताः सद्भिरुदारचित्तैर्महाप्रपाता इव सान्धकाराः ॥ गोस्क्_११३ ॥ सर्वानयोपद्रवहेतुभूताः कामाः खलीकारकरा नराणाम् । जुगुप्सिताश्चैव भयावहाश्च पुरीषदिग्धा इव कृष्णसर्पाः ॥ गोस्क्_११४ ॥ यान् सेवमाना निधनं प्रयाताः प्रयान्ति यास्यन्ति च सत्त्वकायाः । तान् वध्यघातप्रतिमान् भजेत को नाम कामानघहेतुभूतान् ॥ गोस्क्_११५ ॥ शक्रे च ये पांशुपिशाचके च सुरेन्द्र तुल्यं दधति स्वभावम् । असद्विकल्पप्रणयोद्भवत्वात्सेवेद्धि कामान्मनसापि कस्तान् ॥ गोस्क्_११६ ॥ वैडूर्यनीलहरितोद्गतशाद्वलानि त्यक्त्वा वनानि कुसुमोन्मिषितद्रुमाणि । तीक्ष्णाङ्कुशोल्लिखितजर्जरकुम्भदेशा भारान् वहन्ति विषयैश्छलिता गजेन्द्राः ॥ गोस्क्_११७ ॥ शूलान्तलग्नवपुषः परिवीज्यमानाः पक्षानिलैर्नगरवायसमण्डलानाम् । व्याजेन मित्रनयनैरभिवीक्ष्यमाणा नाशं व्रजन्ति पुरुषा विषयाहिदष्टाः ॥ गोस्क्_११८ ॥ प्रज्वाल्य कामदहनं स्वयमेव बाला मिथ्याविकल्पपवनैः स्वमनोगृहेषु । आत्मानमेव हि दहन्ति शरच्छतानि संघर्षजेन दहनेन यथैव वंशाः ॥ गोस्क्_११९ ॥ अपि च कुलिशपाणे वैजयन्ते विहृत्य स्फुरितमणिमरीचिश्रीसमुन्मेषरम्ये । ज्वलदनलकरालां यान्ति भूयोऽप्यवीचिं यदि विषयविषक्ताः स्वस्ति तस्मै सुखाय ॥ गोस्क्_१२० ॥ भवतु कुगतिरन्ते स्वर्गवासस्य सा वा च्यवनपतनदुःखक्लीबलोलेक्षणस्तु । यदनुभवति दुःखं देवलोकाभिनन्दी ननु सुखमनुभूतं तेन पूर्वानुभूतम् ॥ गोस्क्_१२१ ॥ विकचकनकपद्मच्छत्त्रसंसुप्तहंस्यां यदि सुरपुरवाप्यां रत्ननौभिर्विगाह्य । पतति पुनरकामः कर्मभिर्वैतरण्यां क्वथितनरकरङ्कव्याकुलान्तर्जलायाम् ॥ गोस्क्_१२२ ॥ परिणतिविरसेभ्यः स्वप्नमायोपमेभ्यः सुरभवनसुखेभ्यः का स्पृहा शक्र तेभ्यः । कुपितभुजगजिह्वाचञ्चलं जीवलोकं सकलमिति विदित्वा मोक्षकामाः स्थिताः स्मः ॥ गोस्क्_१२३ ॥ सुखमिदमिति मिथ्याकल्पनामात्रमेतद् भवगतिगहनान्तर्वर्तिनां बालिशानाम् । भवमवितथवादी दुःखमित्याह बुद्धः सकलमपि यतोऽस्मान् सर्वदुःखप्रसूतिः ॥ गोस्क्_१२४ ॥ प्रकृतिबहुलदुःखोपप्लुते जीवलोके भवति यदपि सौख्यं काकतालीयमस्मिन् । व्रजति तदपि नाशं दुःखजालाभिभूतं सलिलमिव नदीनां प्राप्य सामुद्रमम्भः ॥ गोस्क्_१२५ ॥ यस्मात्स्त्रीणां करकिसलयैः पद्मपत्त्रोपमानैः किंचित्स्थानं कलितवलयैश्चन्दनाश्लेषशीतैः । स्पृष्टः स्नेहश्लथमुकुलिताताम्रवृत्ताङ्गुलीयैर् निद्रां प्राप्य व्यजनपवनव्यस्तमालोपहारः ॥ गोस्क्_१२६ ॥ भूयः शेते क्लमगुरुतनुर्दर्भसूचीकराले मार्गे भस्मव्यतिकरखरैर्वीज्यमानो मरुद्भिः । तस्मान्मत्वा क्षणसुखलवं चञ्चलं जीवलोकं त्यक्त्वा कामान् व्यसनफलदान् ब्रह्मशान्तं भजेत ॥ गोस्क्_१२७ । दशशतनयनोऽथ कन्यकानां हृषिततनूरुहकञ्चुको वचोभिः । व्यवसितमभिनन्द्य चैव तासां त्रिदशपुराभिमुखो ययौ क्षणेन ॥ गोस्क्_१२८ ॥ प्रव्रज्यामथ समुपेत्य ताः कुमार्यस्तत्त्वार्थप्रविचयशुद्धबुद्धिनेत्राः । उत्तेरुर्मदविरसं चलत्तरङ्गं संसारव्यसनमहार्णवं दुरन्तम् ॥ गोस्क्_१२९ ॥ सर्वार्थप्रकृतिविभागनिश्चितात्मा सर्वेभ्यो मुनिरितिवृत्तकं जगाद । मोहान्धे जगति समन्तचक्षुरेकं सत्त्वेभ्यो भवभयकण्टकक्षतेभ्यः ॥ गोस्क्_१३० ॥ ॥ इति श्रीसप्तकुमारिकावदानं समाप्तम् ॥ ॥ कृतिराचार्यभदन्तगोपदत्तस्य ॥ *************************************************************************** सार्थवाह = गोस्व् बसेदोन् थे एदितिओन् ब्य्रत्न हन्दुरुकन्दे. fइवे बुद्धिस्त्लेगेन्द्सिन् थे चम्पू स्त्य्ले - fरोम चोल्लेच्तिओन्नमेदवदानसारसमुच्चय. बोन्न् १९८४ (इन्दिच एत्तिबेतिच, ४). १३. सार्थवाह जरत्तृणानीव शरीरकाण्यपि त्यजन्ति सन्तो न च लीनमानसाः । कृपाजलक्षालितदेहमत्सरा जगद्विपत्तिज्वलनोपशान्तये ॥ गोस्व्_१ ॥ तद्यथानुश्रूयते । बोधिसत्त्वभूतः किल भगवान् संतोषाभ्यासादपगतभवोपभोगविशेषाभिलाषः सुपरिज्ञातसंस्कारस्वभावत्वात्स्वदेहेऽप्यस्तमितस्नेहानुबन्धस्तृष्णादोषप्रत्यक्षज्ञानतया तदभिधेयमानसो जन्मान्तराभ्यस्तविविधलाभकुशलत्वादुपायान्तरेणापि धनार्जनसमर्थः समुपचितपुण्यसम्भारतया चाभिप्रायमात्रेणापि द्रविणविभूत्याकर्षणप्रभुः प्रभूतवित्तोपकरणोऽपि सन् केवलमुदधिगतजगद्व्यसनोपरित्राणायविअ संकेतप्रचारसांयात्रिकपरिवृतो महासमुद्रमुपजगाम । अथावगाढाः पयसां निधानं गम्भीरभीमायतपङ्क्तिरन्ध्रम् । वेलाचलोपघ्नविशीर्णफेनसितान्तलेखं वणिजः क्रमेण ॥ गोस्व्_२ ॥ तत्कर्मभिर्वा परिणामरौद्रैः स्वभावतो वाम्बुनिधिः क्षणेन । पर्याददानो हृदयानि तेषां संवर्तकालाधिकदारुणोऽभूत् ॥ गोस्व्_३ ॥ खरमकरकराग्रच्छिन्नबालप्रवालद्रुमरसपरिभोगापाटलावर्तचक्रम् । वियदिव नवसंध्यारञ्जिताम्भोदजालं सलिलनिधिमुदीक्ष्य त्रासमूकास्त आसन् ॥ गोस्व्_४ ॥ वनमिव कुमुदानां धौतमिन्दोर्मयूखैर्विषमितसितफेनच्छेदविन्यासचित्रम् । लवणसलिलराशिं वीक्षमाणाः समन्तान्न रतिमुपययुस्ते प्राणसंदेहकाले ॥ गोस्व्_५ ॥ विवृतदशनशङ्खध्वानवित्रस्तमीनो भुजगभुवनशृङ्गप्रान्तभिन्नोर्मिजालः । हृदयमुदधिरल्पस्थाम तेषां बिभेद स्फुरितविकृतनक्राक्रान्तविस्तीर्णकुक्षिः ॥ गोस्व्_६ ॥ अनिलबलविभक्तैः शैलतुङ्गैस्तरङ्गैर्नभ इव निगिरन्तं सार्कनक्षत्रचन्द्रम् । तमुदधिमवलोक्य प्राणसंदेहदोलां कृपणकमनसस्ते सर्व एवाधिरूढाः ॥ गोस्व्_७ ॥ भुजगमिव विषाग्निच्छेदमालाकरालं श्वसनविकचभोगं क्रुद्धमुद्वीक्षमाणाः । लवणजलनिकेतं तं दुरालोकपारं मरणभयविषण्णास्ते परं मोहमीयुः ॥ गोस्व्_८ ॥ निचयमिव घनानां वारिभारालसानां तिमिरमिव वमन्तं वीचिचूर्णप्रवेगैः । जलनिधिमवगाढास्ते निराक्रन्दभीमं मुषितवदनशोभा बोधिसत्त्वं प्रणेमुः ॥ गोस्व्_९ ॥ अदृष्टपूर्वैरथ तन्निमित्तैर्भयंकरैराकुलिता विचित्रैः । इत्यूचुरागद्गददीनकण्ठास्तं बोधिसत्त्वं समुदीक्षमाणाः ॥ गोस्व्_१० ॥ अयं जनस्त्वत्प्रतिबद्धसर्वप्रयोजनाशाविनिवृत्तचेष्टः । यदत्र कृत्यं क्रियतां तदाशु प्राणात्ययः संप्रति वर्तते नः ॥ गोस्व्_११ ॥ निरीक्षमाणस्य पुरो जनस्ते निरुद्यमो मज्जति तोयराशौ । कालातिपातोऽत्र न युक्तरूपः पराक्रमस्व स्वबलेन तस्मात् ॥ गोस्व्_१२ ॥ त्वत्पादमूलानुचरो न कश्चित्संस्पृष्टपूर्वो व्यसनैः कदा चित् । त्रायस्व तस्माद्विपदां मुखेषु भ्रमन्तमेनं नरवीर लोकम् ॥ गोस्व्_१३ ॥ पितेव पुत्राननुकम्पमानस्तन्नो भयान्मृत्युकरोदरस्थान् । विमोचयास्मान् परमार्यसत्त्व त्वं नः परित्राणमुपद्रवेभ्यः ॥ गोस्व्_१४ ॥ न देवतानामपि भूमयस्तास्तव प्रभावा न चरन्ति यासु । तदेष कालः कृपणाननाथानस्मान् परित्रातुमवन्ध्यशक्ते ॥ गोस्व्_१५ ॥ मन्यामहे त्वं समनुस्मृतोऽपि त्राणं परं सर्वजगद्भयेभ्यः । प्रागेव साक्षादभिवीक्ष्यमाणस्तत्पौरुषं दर्शय लोकबन्धो ॥ गोस्व्_१६ ॥ अमी दंष्ट्राचक्रक्रकचकलिलव्यात्तवदना जिघांसन्ति क्रूराः पृथुविवरविस्तीर्णजठराः । पुरास्मानत्राणांस्तिमिमकरचक्रा भयमयाः परित्रायस्वेमं निकटविनिपातं जनमतः ॥ गोस्व्_१७ ॥ स्वपुच्छविच्छिन्नतरङ्गसंकला निशातदन्तान्तविलग्नशुक्तयः । अभिद्रवन्त्यार्य पुरा तिमिङ्गिला जनानिमांस्त्वच्चरणाश्रितानपि ॥ गोस्व्_१८ ॥ विलम्बितुं नाथ न युज्यतेऽधुना विशीर्यते नौरियमम्बुताडिता । स्फुरन्त्यमी वीर समन्ततो झषाः प्रमृष्टगुञ्जाफलरक्तलोचनाः ॥ गोस्व्_१९ ॥ अथ स महात्मा तेन दुर्विषहेण परव्यसनेनोपतप्तमानसः स्वप्राणात्ययमविगणय्य निष्प्रतिकारदारुणां तां महाजनव्यापत्तिमवेत्य कृपापरिगतात्मा प्रकृतिधीरतया तदवस्थोऽप्यसंभ्रान्तचेतास्तत्कालातिशयध्यायिना वचसा तान् सहायानाश्वासयन्नब्रवीत् । मृतेन सार्धं न वसन्ति सागराः प्रसिद्धिरेषामियमेव शाश्वती । अतो ममाश्रित्य मृतं कडेवरं तरन्तु सन्तोऽम्बुनिधिं सुदुस्तरम् ॥ गोस्व्_२० ॥ संयुक्तसंयोगमुपेत्य सर्वे निराकुलाः प्रोज्झ्य विषाददैन्यम् । आत्मानमुत्तारयितुं यतध्वं महार्णवान्मां च परार्तिपङ्कात् ॥ गोस्व्_२१ ॥ आपद्गतानां सुहृदां प्रियाणां चिरानुबद्धप्रणयाशयानाम् । कोऽन्योऽस्त्युपायो रमणीयरूपस्तत्कार्ष्ट मा स्नेहमयं विषादम् ॥ गोस्व्_२२ ॥ शत्रोरपि व्यापदमापतन्तीं स्वप्राणमूल्येन निवारयेयम् । प्रागेव युष्माकमनल्पकालसंवर्धितस्नेहपरिग्रहाणाम् ॥ गोस्व्_२३ ॥ ममात्मभावैरपवृत्तसौख्यैः स्याच्चेत्सुखी कुन्तपिपीलिकोऽपि । जरत्तृणानीव तथापि जह्यामहं शरीराणि निरस्तखेदः ॥ गोस्व्_२४ ॥ त्राणाशयायां समुपाश्रितानां गुणैः पवित्रीकृतमानसानाम् । हिताय देहं त्यजतो ममैकं दयापरीतं किमिवात्र चित्रम् ॥ गोस्व्_२५ ॥ परार्थचर्याविगुणं शरीरं वृथा गुरुं भारमिवोद्वहन्तः । व्रजन्ति खेदं परिशुद्धसत्त्वाः कृपाकलत्रीकृतजीवलोकाः ॥ गोस्व्_२६ ॥ एवंविधे यदि न कायमिमं प्रयोक्ष्ये पुण्यागमे निरुपमानसुखानुबन्धे । कोऽर्थोऽमुना परिहृतेन कडेवरेण वाताहताम्बुनिधिबुद्बुददुर्बलेन ॥ गोस्व्_२७ ॥ त्यक्ष्यामि नेमं यदि पूतिकायं भवद्धिताधानविधानकाले । संत्याजयिष्यत्यबलं बलात्मा जगद्विनाशावहितः कृतान्तः ॥ गोस्व्_२८ ॥ त्यजामि युष्मान् किमुदीक्षमाणो यशोऽथ वा मानगतं च धर्मम् । देहं कलीनां पदबन्धभूतमुतावशो मृत्युकराभिमृष्टम् ॥ गोस्व्_२९ ॥ तदत्र शोकाय मतिर्न देया भवद्भिरासन्नपराभवाय । मम क्रमेणैव समागतोऽयं महोत्सवः पुण्यविशेषरम्यः ॥ गोस्व्_३० ॥ बहुसुखलवनानातन्तुसंताननेयास्तृणमिव गतशङ्का देहमुज्झन्त्यसन्तः । अतिसृजति परार्थं कायमासन्ननाशं यदि सुचरितपूर्वं दुष्करं किं नु तत्र ॥ गोस्व्_३१ ॥ अथ ते पुरुषास्तेन तस्याद्भुतेनाभिप्रसारितमानसाः सुतरां तद्वियोगशङ्काव्यथितहृदया विषाददैन्यविधेयाश्चिन्ताविषयातीतगोचरमविषह्यमतिविस्मयनीयं च तत्कर्म तं महासत्त्वमविरताश्रुधाराप्रक्षालितनयनदीनवदनाः पादयोः संपरिष्वज्य प्रणम्य च सर्वाङ्गैरित्यवदन् । काममत्रैव निधनं सर्व एव महोदधौ । यास्यामो न तु शक्यामः कर्तुमेतदनार्यकम् ॥ गोस्व्_३२ ॥ एवंविधस्य व्यसनानि दृष्ट्वा सुहृद्विशेषस्य सुदुर्लभस्य । प्राणैर्धनैर्वा किमिहास्ति कृत्यं तत्साहसाद्वारय धीरचेतः ॥ गोस्व्_३३ ॥ उत्तीर्णानपि तोयौघादस्मानस्माद्दुरुत्तरात् । मग्नान् दुश्चरितावर्ते कः समुत्तारयिष्यति ॥ गोस्व्_३४ ॥ नूनं कर्मण एवायं विपाकः प्रत्युपस्थितः । येनापदियमायाता निष्प्रतीकारदारुणा ॥ गोस्व्_३५ ॥ अध्युपेक्ष्य सुहृत्पीडामेतां पापानुबन्धिनीम् । दुःखान्तमुपयास्यामः कैरुपायैः पुनर्वयम् ॥ गोस्व्_३६ ॥ दयामृदुकसंतानं कुर्यादन्तावसायिनम् । इदं कर्मावदानं ते प्रागेवार्य सुहृज्जनम् ॥ गोस्व्_३७ ॥ अथ बोधिसत्त्वः सुतरांस्तैस्तेषां सौजन्यसूचकैर्वचोभिः प्रविजृम्भमाणतीव्रप्रसादप्रेमगौरवकारुण्यस्समनुनेष्यंस्तान् सहायकाननुकम्पामृतवारिभिः सिञ्चन्निव तृप्तिविसर्गैरित्यब्रवीत् । भवद्भिरनधीष्टोऽहं स्वभूत्यै देहसंज्ञकम् । त्यजाम्यनर्थं तत्र स्याद्युष्माकं किमनार्यकम् ॥ गोस्व्_३८ ॥ अकाले कौमुदी ह्येषा नैवैतद्व्यसनं मम । प्रतीकारो मया लब्धो विपदामेष शाश्वतः ॥ गोस्व्_३९ ॥ सौहार्दविश्रम्भनिरत्यया वो यद्यस्ति का चिन्मयि चित्तवृत्तिः । न कर्तुमर्हन्ति ततो भवन्तो धर्मस्य कीर्त्याभरणस्य विघ्नम् ॥ गोस्व्_४० ॥ चित्तं बलादपि हिते विनियोजनीयमार्यैरनार्यमहिताच्च विवेचनीयम् । तस्मात्प्रवृत्तिमिह कर्मणि साधुजुष्टे नार्हन्ति विघ्नयितुमश्रुमुखा भवन्तः ॥ गोस्व्_४१ ॥ अनुपादानमेवास्य परार्थं चापरिग्रहः । मां संप्रतीक्षते कायकले रन्ध्रप्रहारिणः ॥ गोस्व्_४२ ॥ उपात्तोऽप्ययमस्माभिरनादेयो न नीयते । यदि सत्त्वार्थसाचिव्यं कोऽनेनार्थः प्रणाशिना ॥ गोस्व्_४३ ॥ यदि नाभ्युद्धरिष्यामि युष्मानस्माद्दुरुत्तरात् । कथमुत्तारयिष्यामि लोकं संसारसागरात् ॥ गोस्व्_४४ ॥ एतानि चान्यानि च बोधिसत्त्वाः कुर्वन्ति कर्माण्यविपन्नसत्त्वाः । परार्थचर्याविषये चरन्तः कृपानुभूताः स्वसुखानुरागाः ॥ गोस्व्_४५ ॥ अनावृतद्वारमिदं निकेतनं दुरावहाणां भवदुःखपत्त्रिणाम् । चिरात्प्रमोदायतनी करिष्यते मया शरीरं सुहृदां हितागमे ॥ गोस्व्_४६ ॥ भवत्परित्राणमये सुखोदये नियोज्य कायं नियतं मयाप्स्यते । अभेद्यमच्छेद्यमहार्यमव्ययं निरुत्तरं धर्मशरीरमव्रणम् ॥ गोस्व्_४७ ॥ अमित्रभूतं यदि मित्रसादिमं कलिं करिष्यामि न कायसंज्ञकम् । विधक्ष्यते विप्रतिसारवह्निना मनो विनिश्वासशिखेन मे चिरम् ॥ गोस्व्_४८ ॥ गतविक्लवा भवन्तो मदीयमुद्गतप्राणं शरीरं प्लवमिवालम्ब्यान्योन्यसंसक्तिकया वारिवेगवशेन येन वातेन वा दिग्भागेन स्थलमुपगम्य पर्णमूलफलजलादिभिर्यापयन्तः परस्परमविपन्नसौहृदाः कर्मस्वकतावलम्बिनो लोकस्वभावमवेक्षमाणा विनीतविवादशोकदैन्याः कार्यावसानमागमयत । सुखमनुभूय दुःखमप्यनुभूयते । संपत्तिमप्युपास्य विपत्तिरुपास्यते । संसारचारकावचराणां हि एतदेव पर्याप्तं व्यसनमतः प्रतिकष्टतराण्यप्यत्र कृच्छ्राण्यासाद्यन्ते श्रुतिमनोविदाहिनी । न ह्येनमनुपतन् कश्चित्सुखी नाम । प्रबलानिलाकुलानलज्वालाकलापमध्यगतस्यानुक्तसिद्धं दाहदुःखम् । तृष्णाविधेयमनसां चाभिमुखः पराभव उत्सङ्गगतानि सर्वदैन्यान्यासन्नवर्ती परिभवो भयमुपरि व्यवस्थितमभितो विप्रलम्भवैकृतानि । संक्षेपतः सर्वमशिवजालमुपगृह्य तृष्णा नरमुपबध्नाति । स च मद्वियोगदैन्यावकाशो न हृदि करणीयः । ईदृशो हि लोकस्वभावो वियोगदुःखानुगता एव हि प्रियजनसंयोगाः । दीर्घकालपरिचयाद्दृढस्नेहनिबद्धान्यपि सौहृदानि क्षणेन विश्लिष्यन्ति । प्राणिनां विपर्यासश्चैष चेतसः प्रियोऽयं ममेति । दृश्यन्ते कारणान्तरविपर्ययात्परिवर्तमानानि प्रियाप्रियाणि जीवलोके । तस्मान्न परतन्त्रेष्वपरिनिष्पन्नस्वभावेषु प्रकृतिभेदवर्तिषु विप्रलम्भपदस्थानेषु क्षणविपरिणामलोलशीलेषु शोकायासमयेषु प्रियसमागमेष्वभिनिविश्यात्मा खेदयितव्यः । तत्र सुखं धैर्यमेव परुषाणामापत्स्ववलम्बो भवति विषादमवधीरयति शोकमुपरुणद्धि विघ्नयति आपदमापतन्तीं प्रज्ञानसहितं च तदेवाभिमतमर्थमानयति । शोकानिवृत्तिस्तु निष्प्रयोजनमाश्रयं संतापयति कृत्यमन्तरयति कान्तिमाच्छिनत्ति प्रतिभानमायासयत्यासन्नस्नेहदुःखं सुहृज्जनं .... धर्मार्थयशःसुखानि चोपहन्ति । मत्कृतमनुपश्यद्भिस्तु भवद्भिः पुण्येष्वादरः करणीयः । पुण्यमेव हि प्राणिनामिहामुत्र च निरत्ययो बन्धुरापत्सु विषादी सहायः पाथेयमयत्नवाह्यं प्रदीपस्तमसि प्रपातेषु संक्रमं भयस्थानेष्वारक्षा मङ्गलमद्वैधसिद्धमत्यन्तिकं सिद्धं सूपचरः स्वामी परायणमापद्गतानामायतनमविपरिणामिनां सुखानां क्षेत्रं दिशाविदिशान्तव्यापिनां यशसामाकरः प्रशंसानामनभिभूतं वैशारद्यम् । पुण्यावष्ठम्भादेव च पुरुषो दुरवगाहेऽपि सुखमवगाहते । परलोककान्तारे विषादपदस्थानेऽपि नाम मरणसमये न विषीदन्ति पुण्यकर्माणः । कण्टकप्रचयकर्कशान्यपि जन्मदुर्गाणि प्रायेणाक्षताः संचरन्ति पुण्यबलिनः । पुण्यैरेव चाखिलजगद्धितसुखाध्याशयप्रवृत्तिविस्तीर्णामाकर्षयन्ति सकलभुवनाधिपत्याभिषेकमहतीं सर्वलोकसाधारणां ताथागतीं गुणसमृद्धिं प्रागेव प्रतनुसुखानवकाशादीनवां प्रचुरजनमनोविकारिणीमनन्तदुःखबाणसंनिपातदूषितामायासिनीमिह परत्र च बालिशानां प्रतिक्षणव्ययानुबन्धादूषितामनेकरूपवैरकृतानुषङ्गदारुणां भवभोगमयीमशिवामखिलां विपरीतसुखाभिनिवेशखलां संपत्तिसंज्ञान्तरितां विपत्तिमकारणभ्रंशमनोविदाहिनीमित्यलमिति प्रसङ्गेनातिपतति । कार्यकालश्चरमसंदेशोऽयं भद्रमुखा इत्युक्त्वा बोधिसत्त्वो मुहूर्तमेकाग्रमनो बभूव । निवार्यमाणोऽपि शतैः सुहृद्भिर्बाष्पाम्बुविस्यन्दिविलोचनान्तैः । साधुः स्वदेहाश्रयणीमपेक्षां तत्याज लोकव्यसनोपतप्तः ॥ गोस्व्_४९ ॥ आर्तस्वरैरविरतैरविभक्तवर्णैस्तेषां विषादपरिलुप्तमनःस्थितीनाम् । आपूर्यमाणसलिलप्रदरान्तरालः संचुक्षुभे भृशतरं लवणाम्बुराशिः ॥ गोस्व्_५० ॥ बोधिसत्त्वोऽपि महासत्त्व इति प्रणिधिमुपबृम्हयामास शान्तये सर्वसत्त्वानाम् । दिव्या तावत्प्रकृतिचपला सोपसर्गा विभूतिः प्रागेवान्या परिमितसुखप्रत्ययप्रत्यपाया । तस्मान्नार्थो मम सुखैः स्वप्नमायोपमानैः पुण्यादस्मान्न च शमसुखं प्रार्थये प्रोज्झ्य लोकान् ॥ गोस्व्_५१ ॥ मोहावर्ते मरणमकरे मानपाषाणगर्भे तृष्णातोये मदनकलुषे क्रोधसंसर्पिसर्पे । मग्नं लोकं भवजलनिधौ शोकवातावधूते पुण्यादस्मादहमशरणं कृत्स्नमुत्तारयेयम् ॥ गोस्व्_५२ ॥ एवं कृत्वा प्रणिधिमचलं साद्रिसारस्थिरात्मा त्यक्तापेक्षः सुचरितशतोपार्जितेऽपि स्वदेहे । निस्त्रिंशेन प्रमुदितमनाः पाटयामास कुक्षिं स्वां शोकार्तिव्यथितहृदयः प्राणिनां तारणाय ॥ गोस्व्_५३ ॥ अथ शुश्रुविरे गिरः शुभाः सुरविद्याधरयक्षरक्षसाम् । इति चित्रमनोहराश्रयाः पतितास्तस्य गुणोपसंहिताः ॥ गोस्व्_५४ ॥ सत्त्वार्थप्रतिपत्तिकौशलमहो ही धीरता चेतसः पुण्याभ्यासविशेषपुण्यमहतामाश्चर्यरूपस्थितिः । साधूनां स्वसुखानुरागविगमस्वच्छा बत प्रक्रिया __ __ __ __ __ बत कृपा नापेक्षते स्वाश्रयम् ॥ गोस्व्_५५ ॥ लोकोऽयं विनिमीलितोऽपि विदुषा प्रोन्मीलितः सर्वतः कीर्त्या चन्द्रमयूखधौतकुमुदच्छाया __ __ __ । एतेनैव निमज्जतापि भुवनं मग्नं समभ्युद्धृतं जन्मावस्करकर्दमे स्फुरदुरुक्लेशक्रिमिव्याकुले ॥ गोस्व्_५६ ॥ तिर्यग्विक्षिप्यमानं नवजलशिशिरैर्मन्दमन्दैर्मरुद्भिर् दिव्योद्यानद्रुमेभ्यः कुसुममविरतं तच्छरीरे पपात । अभ्युद्गम्याम्बुराशेः स्फुटमणिकिरणश्रीकरालैः शिरोभिर् व्याभुग्नोपान्तमध्यैः कुवलयमृदुभिस्तं भुजङ्गाः प्रणेमुः ॥ गोस्व्_५७ ॥ लक्ष्म्या समालब्धमिव प्रकामं प्रमृष्टचामीकरचारुवर्णम् । समुद्गतप्राणमपि प्रसन्नं रराज तत्तस्य विभोः शरीरम् ॥ गोस्व्_५८ ॥ आलम्ब्य प्लवमिव तेऽथ तच्छरीरं बाष्पाम्बुव्यतिकरपाटलान्तनेत्राः । उत्तेरुर्मकरकरक्षतोर्मिचक्रं तस्यैव प्रणिधिबलाश्रयात्समुद्रम् ॥ गोस्व्_५९ ॥ तदेवमतिदुष्कराणि भगवानसौ भूतये चकार जगतां कृपापरिगतामलाध्याशयः । प्रसादयत तत्र मानसमतो जगद्बान्धवे समग्रभुवनोपकारकरणैकवीरे जिने ॥ गोस्व्_६० ॥ प्रसाद्य च मनो मुनौ सुचरितैकरत्नाकरे वचोऽवितथवादिनः श्रुतिरसायनं श्रूयताम् । तदश्रवणवञ्चितं जगदिदं भ्रमत्यातुरं भवाध्वनि निराश्रये व्यसनकण्टकान्धाचिते ॥ गोस्व्_६१ ॥ इति श्रीसार्थवाहजातकं समाप्तम् ॥ *************************************************************************** सर्वंदद = गोस्द् बसेदोन् थे एदितिओन् ब्य्रत्न हन्दुरुकन्दे. fइवे बुद्धिस्त्लेगेन्द्सिन् थे चम्पू स्त्य्ले - fरोम चोल्लेच्तिओन्नमेदवदानसारसमुच्चय. बोन्न् १९८४ (इन्दिच एत्तिबेतिच, ४). १४. सर्वंदद परदुःखदुःखिताः स्वजीवितमपि नापेक्षन्ते साधवः । तद्यथानुश्रूयते । बोधिसत्त्वोऽन्यतमं स्वकुलक्रमागतं महीमण्डलं समनुशशास । तस्यार्थिजनमनोहरैरविषमप्रवृत्तिमधुरतरैरनतिक्रान्तकालाभिलषितैः फलाशाकार्पण्योपशमस्वच्छशोभैर्विभवविसर्गैर्लोकान् संतर्पयतः सर्वंदद इत्येवं यथार्थं नाम प्रथितमासीत् । जगद्धिताधानसमुत्सुकत्वात्स राज्यभारं बिभरां बभूव । क्षितीश्वरः पूर्वकृतानवद्यपुण्यप्रभावोपनतं क्रमेण ॥ गोस्द्_१ ॥ न तस्य किंपाकफलोपमाश्चला मनो मनोविभ्रममात्रभद्रिकाः । स्वभागधेयोपनता विभूतयो बबन्धुरार्यप्रकृतेर्महात्मनः ॥ गोस्द्_२ ॥ परिश्रमस्तस्य बभूव यौतको महाकृपाधीनमतेर्महीपतेः । प्रभुत्वमासीज्जगतां त्वबाधिथं विभूतिसंभोगसुखेषु भूरिषु ॥ गोस्द्_३ ॥ न तस्य मात्सर्यतमोऽवगुण्ठनं बभूव गात्रेष्वपि मानसं यदा । तदा कथैवोपरतासुखागते तृणोपमे शोकनिबन्धने धने ॥ गोस्द्_४ ॥ तं किल महात्मानमन्यतमः पार्थिवोऽतृप्तः स्वराज्यश्रिया परित्यक्तधर्मयशाः सुखसाधनोपायदारुणः स्वराज्यादुच्चालयितुमुपचक्रमे । संप्राप्य भोगान्महतोऽप्यनार्याः पन्थानमार्याचरितं विलङ्घ्य । तृष्णापरीताः करुणात्मकेषु साधुष्वपि क्रोधविषं वमन्ति ॥ गोस्द्_५ ॥ भैषज्यवृक्षा इव ये कदा चित्क्व चित्कथं चिज्जगतो हिताय । भवन्ति तानप्युपतप्तचित्ताः क्रोधाग्निना कापुरुषा दहन्ति ॥ गोस्द्_६ ॥ कुर्वीत को नाम मनुष्य आर्यः सचेतनस्तेषु मनःप्रदोषम् । येषां यशोभिः कुमुदावदातैरुद्भासितानीव दिगन्तराणि ॥ गोस्द्_७ ॥ अथ धरणिरजोभिः शारिकाकण्ठधूम्रैस्तुरगखुरनिपातप्रोद्गतैश्छादयन् खम् । स नृपतिरुपतस्थे मत्तमातङ्गसैन्यैरुपवनतरुपूगानारुजन्मेघनीलान् ॥ गोस्द्_८ ॥ उदधिरिव युगान्ते प्लावयंल्लोकमन्तर्लुलितमकरपुच्छच्छिन्नचञ्चत्तरङ्गः । स नृपबलसमूहो नग्ननिस्त्रिंशपत्त्रस्फुरितरविमयूखस्तत्पुरं संरुरोध ॥ गोस्द्_९ ॥ उपनतमपि पुण्यैर्विप्रलम्भावसानं धिगनुपशमकारि श्रीसुखं पार्थिवानाम् । पिशितमिव विपूति क्रव्यभुग्मण्डलानां यदिह भवति पुंसां वैरवैरस्य मूलम् ॥ गोस्द्_१० ॥ अथ बोधिसत्त्वः प्रागेव विदितविषयदोषवैरवैरः संरम्भविप्रलभाद्यनर्थभूयिष्ठं राज्यमतिमन्यमानः स्वसुखसंभोगाभिष्वङ्गदैन्यानुपक्लिष्टमानसश्चिन्तयां बभूव । धिगस्त्वनार्यं विषयाश्रयं सुखं समीरणोद्धूतलतान्तचञ्चलम् । उपासते यत्र निबद्धमानसा नरा दशां बन्धुजनोपतापिनीम् ॥ गोस्द्_११ ॥ वातोद्धूततरङ्गितध्वजशिखाप्रत्याहताम्भोधरं दानप्रस्रुतिसिक्तदन्तमुसलक्रूरद्विपेन्द्राकुलम् । शक्तोऽरातिबलं विहन्तुमखिलं बाहुद्वितीयोऽप्यहं रक्षेदक्षतचारिणी यदि कृपा मातेव मां नापदि ॥ गोस्द्_१२ ॥ या वा श्रीरधिगम्यते परवधव्यासङ्गदग्धात्मना तां वाञ्छेद्भ्रमरोपगीतकुसुमां को वध्यमालामिव । योऽपि स्वार्हनिबन्धनप्रणयिना संप्रस्थितो वर्त्मना प्रागेव व्यसनातुरस्य जगतो योऽहं हितायोद्यतः ॥ गोस्द्_१३ ॥ अपि च राज्येऽपरो यदि मम प्रणयं करोति पूज्यो मया ननु विशेषत एव राजा । राज्याश्रयं खलु परार्थमहं बिभर्मि संक्लेशभारमिममायतदुःखहेतुम् ॥ गोस्द्_१४ ॥ अतिथिरिव यतोऽयं माननीयो नरेन्द्रो मदुपहितविभूतिप्रार्थनाकृष्टचेताः । उपचितकुशलत्वाच्चानुकम्पाविशेषात्सुत इव विनयार्थं कोऽत्र कोपावकाशः ॥ गोस्द्_१५ ॥ उन्मोचयत्येव बलाच्च यो मां राज्याभिधानाद्व्यसनप्रतानात् । यद्यत्र कुर्यां मनसः प्रकोपं पापोऽपरः कोऽथ मया समः स्यात् ॥ गोस्द्_१६ ॥ राज्यस्य दोषावयवे निवेशं प्रख्यापयन् हन्ति यशःसुखानि । मामर्थतः शिक्षयते नरेन्द्रो राज्याभिधाने तमसि भ्रमन्तम् ॥ गोस्द्_१७ ॥ त्यक्तव्यमेतेन च कारणेन क्षितीश्वरश्रीसुखमात्मकामैः । यदत्र सक्तस्य जनस्य वैरभयप्रसङ्गाः शिरसि स्फुरन्ति ॥ गोस्द्_१८ ॥ यो वाहमुत्सृज्य तपोवनानि निरन्तरायाण्यभितः शिवानि । गृहाभिधानं भयमावसामि नार्हामि नाहं व्यसनान्यमूनि ॥ गोस्द्_१९ ॥ तत्स्वस्तिराज्यद्युतिविस्तरेभ्यो नैकव्यलीकाश्रयदारुणेभ्यः । यास्यामि शान्तानि वनान्यतोऽहं विवेकजप्रीतिनिबन्धनानि ॥ गोस्द्_२० ॥ कल्याणमित्रं यत एव राजा ममाद्य नैष्क्रम्यसुखोदयाय । कल्याणमेवास्त्वनयोऽप्यतोऽस्य सबन्धुमित्रस्य शरच्छतानि ॥ गोस्द्_२१ ॥ मा गा गर्वं महिम्नः क्षितिपतिरहमित्युज्झ्यतां विप्रलम्भः प्रत्यासन्नोपतापामनुवहसि वृथा भङ्गिनीं किं नयाज्ञाम् । राज्यं त्यक्तव्यमेव व्यसनपरिगतं नात्यजस्त्वं किमर्थं शङ्के दौर्जन्यमित्थं मम नृपतिरयं क्षापयिष्यत्ययत्नः ॥ गोस्द्_२२ ॥ कदा त्यक्त्वा गेहं कुकृतशतसंबाधविरसं वने वत्स्यामीति प्रशमसुखसंभोगसुभगे । वितर्का ये भूताः सुचिरमनुबद्धा मम मतेः प्रसिद्धास्ते दिष्ट्या क्षितिपतिमिमं प्राप्य न चिरात् ॥ गोस्द्_२३ ॥ इति विनिश्चित्य बोधिसत्त्वो जन्मान्तराभ्यस्तनैष्क्रम्यसुखाभ्युदयपरिचयो मृग इव वागुरावरोधनिर्गमोपलम्भोद्भूतप्रमोदः समपनीतराज्यश्रीसूचकालंकारविभ्रमकायभारलघुविविक्तविग्रहः परैरपरिज्ञाततपोवनगमनप्रयोजनः संरूढप्रणयविश्रम्भस्नेहबहुमाननिरत्ययं च बन्धुवर्गं स्वपुण्यबलावष्टम्भोपनतसुखोपभोग्यां च राजलक्ष्मीं पर्युषितोपभोगमलिनम्लानकुसुमबन्धनामिव स्रजं परित्यज्यान्य्तमद्विविक्तमाश्रमपदमलंचकार । आहूयमान इव पल्लविनां द्रुमाणां शाखाकरैः स्वकुसुमाभरणाभिरामैः । शान्तं वनान्तमुपगम्य स बोधिसत्त्वः प्राप्तोऽमृतं नृपसुखैरनवाप्तपूर्वम् ॥ गोस्द्_२४ ॥ यान्येव शोकपरिदेवमुखानि लोके कामात्मनामनुचितोपशमोत्सवानाम् । तान्येव नाम दधति प्रशमप्रियाणां प्रीतिं निरामिषसुखप्रणयानवद्याम् ॥ गोस्द्_२५ ॥ पुष्पाधिवासशुचिभिः स वनान्तवातैः संवीजितः प्रतिविनोद्य शरीरखेदम् । ध्यात्वा प्रमादमलिनां मनुजेन्द्रलक्ष्मीं संवेगमेव मनसि क्षितिपः पुपोष ॥ गोस्द्_२६ ॥ कृत्वा नमः स भुवनत्रयशङ्करेभ्यः सर्वात्मना दशसु दिक्षु तथागतेभ्यः । अम्लानशाद्वलकुथापरिभोगरम्ये मूले तरोः क्षितिपतिर्निषसाद मध्ये ॥ गोस्द्_२७ ॥ स खेदितोऽन्तःपुरसुन्दरीणां संक्लेशपक्षानुगुणैर्विलासैः । विविक्तसंभोगसुखान्यरण्यान्यालोक्य विश्रान्त इव क्षितीशः ॥ गोस्द्_२८ ॥ परिस्रवन्निर्झरवारिधाराप्रक्षालितश्यामशिलातलानि । सानूनि पश्यन् स महीधराणामयत्नरम्याणि मुदं जगाम ॥ गोस्द्_२९ ॥ आलिङ्गितान् पुष्पभरालसाभिः स्नेहादिव प्राणसमांल्लताभिः । महीरुहान् भूरिपलाशनीलानालोक्य रेमे स महीमहेन्द्रः ॥ गोस्द्_३० ॥ अकर्कशश्यामकशेरुकाणि भ्रमद्द्विरेफाहतपुष्कराणि । निरीक्षमाणः स नृपोऽभिरेमे सरांसि पाठीनकुलाकुलानि ॥ गोस्द्_३१ ॥ विवेकजप्रीतिसुखानुकूलां निसर्गरम्यां स वनान्तभूमिम् । निरीक्षमाणः क्षितिपः प्रहर्षं जगाम संशान्तमनोविकारः ॥ गोस्द्_३२ ॥ उदीक्ष्य संसक्तशिखण्डिकेकामनोऽभिरामाणि स काननानि । अनेकसंक्लेशविषोपदग्धां नृपश्रियं भूमिपतिर्जगर्हे ॥ गोस्द्_३३ ॥ क्वासौ विपर्याससुखाभिमानप्रसङ्गजिह्मा क्षितिपाललक्ष्मीः । क्व चैव चेतोविनिबन्धनानि शान्तान्यरण्याश्रयिणां सुखानि ॥ गोस्द्_३४ ॥ अनर्थरागाश्रयदूषिताय नमोऽस्तु तस्मै क्षयिणे सुखाय । विषज्य यस्मिन्मनसः प्रवृत्तिं कृपास्पदत्वं विदुषां व्रजन्ति ॥ गोस्द्_३५ ॥ अवनतशिखैर्वानीराणां द्रुमैस्तटरोहिभिः कृतपरिकरश्रीसंभोगाः प्रशान्तरयोद्धवाः । हरितपुलिनाः शष्पोद्भेदैर्झरैः सरितः शिवाः क्षितितलपतिः पश्यंल्लेभे रतिं स निरामिषाम् ॥ गोस्द्_३६ ॥ वितथविषयक्रोधाभ्यासप्रयोगमलीमसं हृदयमसतां शान्तेऽरण्ये रतिं कथमेष्यति । स तु नरपतिर्गोत्रोत्कर्षप्रभावपरिग्रहाद् विषयविमुखः प्रीतिं भेजे परां विजने वने ॥ गोस्द्_३७ ॥ प्रकृतिचपला नैकापाया निरन्तरदारुणा न खलु हृदयं नो ज्ञानार्थं हरन्ति विभूतयः । अपगतमनःसंक्षोभाणां वनान्तमुपेयुषां भवति तु सतां पूर्वाभ्यासान्मतिः प्रगुणा शुभे ॥ गोस्द्_३८ ॥ हरिणचरणक्षुण्णोपान्ताः सशाद्वलनिर्झराः कुसुमशबलैर्विश्वाखातैस्तरङ्गितपादपाः । मुदितविहगश्रेणीचित्रध्वनिप्रतिनादिता मनसि न मुदं कस्यादध्युः शिवा वनराजयः ॥ गोस्द्_३९ ॥ प्रशमविधुरे नित्योद्वेगप्रदे गृहचारके विषयमरुता व्याधूतानां हतोपनिषत्सुखम् । उपरतजनक्षोभायासप्रकामसुखे वने व्रजति तु मनः सद्यः शान्तिं कुकार्यसमाकुलम् ॥ गोस्द्_४० ॥ अथान्यतमो ब्राह्मणो दारिद्र्यदुःखाभ्याहतस्तत्प्रतीकारचिकीर्षया मन्दोत्साहोऽपि बोधिसत्त्वमेकमार्तायनमवगम्य तद्विषयान्तमुपगच्छन्मार्गपरिभ्रंशपर्याकुलात्मा ततस्ततः परिभ्रमन् क्षुद्दुःखोपग्लपिततनुरध्वक्लमविक्लवाविधेयगुरुतरचरणविग्रहस्तदाश्रमपदमाससाद । दृष्ट्वा चैनं बोधिसत्त्वश्चिराभ्यागतस्निग्धबान्धवस्नेहातिरिक्तवात्सल्यपेशलया पिबन्निव दृष्ट्या प्रत्युद्गम्याभिवाद्य च कृतप्रतिसंमोदनमागमनप्रयोजनं पर्यपृच्छत् । ब्राह्मणोऽब्रवीत् । यः सर्वदो नाम भुवि प्रसिद्धो यथार्थनामा नरलोकपालः । कीर्त्या समाहूत इवास्मि तस्य प्राप्तस्तमार्तायनमीक्षमाणः ॥ गोस्द्_४१ ॥ त्राता स एव व्यसनातुराणां वनीपकानां स च बन्धुरेकः । तमेव चैकं व्यपदिश्य साधुमन्यत्र मौनव्रतमेति वाणी ॥ गोस्द्_४२ ॥ तत्तस्य वचनं श्रुत्वा स कृपापेशलाशयः । आचकम्पे महासत्त्वस्तद्दुःखपवनाहतः ॥ गोस्द्_४३ ॥ अथ स महात्मा दीर्घमुष्णं च निश्वस्य तं ब्राह्मणं प्रोवाच । उपायश्चिन्त्यतामन्यो द्विज दुःखोपशान्तये । भ्रष्टैश्वर्यः स भूपालस्तपसे वनमाश्रितः ॥ गोस्द्_४४ ॥ अथ स ब्राह्मणः समीहितार्थप्रत्याशाप्रणयभङ्गदैन्याक्रान्तमानसः सहसा पृथिव्यां निपपात परं च संमोहमुपजगाम । आशापर्यस्तधैर्याणि हृदयानि प्रसङ्गिनाम् । देहिनां मोहमायान्ति हेतुना येन केन चित् ॥ गोस्द्_४५ ॥ अथ बोधिसत्त्वस्तं ब्राह्मणं शीताभिरद्भिः परिषिञ्च्य प्रतिलब्धसंज्ञं समाश्वासयन्नब्रवीत् । अस्त्यन्योऽपि प्रतीकारो भवदाशासमृद्धये । अहं सर्वंददो राजा मा शुचस्त्वमिह द्विज ॥ गोस्द्_४६ ॥ सर्वंददो नाम कथं कदा वा यस्य स्वदेहेऽपि मनःप्रसङ्गः । यथार्थनामा त्वधुना भविष्याम्यहं त्वदभ्यागमनोत्सवेन ॥ गोस्द्_४७ ॥ मद्राज्यप्रणयी राजा मां समन्वेषते किल । बद्ध्वा मां देह्यतस्तस्मै स त्वां सम्तोषयिष्यति ॥ गोस्द्_४८ ॥ अनेकदुःखोपनिपातकातरश्चिरस्य तावद्भवदाश्रयादयम् । ममोपयोगं गुणपक्षसिद्धये शरीरसंज्ञः कलिरद्य यास्यति ॥ गोस्द्_४९ ॥ जरारुजामृत्युखलूरिकामिमां तनुं समाश्रित्य स हन्त योऽद्य मे । मनोरथो ब्राह्मणमुख्य पूर्यतां तव प्रभावादभिवाञ्छितश्चिरम् ॥ गोस्द्_५० ॥ प्रीतिर्नृपस्य तव चार्थविशेषसिद्धिः संपत्स्यते मम च पारमिताप्रकर्षः । एकं शरीरमतिसृज्य विपत्परीतं पश्योत्सवातिशयमापतितं क्रमेण ॥ गोस्द्_५१ ॥ एवंविधेऽतिथिजनप्रणयाभिधाने प्रीत्यागमे <च> मम कार्यसमृद्धिहेतौ । देहे कृतान्तमकरास्यपुटातिथौ च नैकोपसर्गविहिते विधिरस्ति कोऽन्यः ॥ गोस्द्_५२ ॥ कायादसारादहमद्य सारं भवन्तमासाद्य समुज्जिहीर्षुः । मनोरथं तत्सफलं कुरुष्व त्वमद्य मे विप्र चिरानुबद्धम् ॥ गोस्द्_५३ ॥ एवमस्त्विति पापात्मा प्रतिशुश्राव स द्विजः । अतिक्रम्यार्यमर्यादां लोभोपहतमानसः ॥ गोस्द्_५४ ॥ कोटरान्तर्गतव्यालविषादप्यतिदारुणैः । विषयैरुपतप्तानां पापं किं नाम दुष्करम् ॥ गोस्द्_५५ ॥ एकः परार्थं प्रददौ स्वदेहं समाददेऽन्यः परमात्महेतोः । अहो विकृष्टं चरितं नराणां गुणेषु दोषेषु च सादराणाम् ॥ गोस्द्_५६ ॥ तं बोधिसत्त्वं विनिबध्य गाढं पश्चाद्भुजं चौरमिव द्विजातिः । समाचकर्ष प्रकृतिप्रगल्भो निवार्यमाणो वनदेवताभिः ॥ गोस्द्_५७ ॥ साक्षादयं धर्म इवावतीर्णः प्रशान्तवाक्कायमनोविकारः । द्विजाधमेनाविनयावलेपक्रूरेण कष्टं ह्रियते महर्षिः ॥ गोस्द्_५८ ॥ अमी रुदन्तीव विलोलपल्लवाः प्रशस्तपुष्पाश्रुमुखा महीरुहाः । चलद्द्विरेफध्वनिदीननिस्वना वियुज्यमाना मुनिना सुमेधसा ॥ गोस्द्_५९ ॥ सुदुर्लभं दर्शनमस्य सर्वथा विलोचनप्रीतिकरस्य देहिनाम् । विलेपुरित्युद्गतशोककातराः प्रगाढशोका मुनयो वनौकसः ॥ गोस्द्_६० ॥ आदाय विप्रोऽथ तमार्यसत्त्वं निःसाध्वसानाकुलधीरचेष्टम् । प्रवेशयामास पुरं स यस्मिन्महीपतिस्त्ष्ठति तत्सपत्नः ॥ गोस्द्_६१ ॥ यमद्राक्षुर्नेत्रैः पुरयुवतयः स्नेहविकचैर् गजस्कन्धारूढं पतिमिव सुराणां नरपतिम् । तमेवापश्यंस्ताः परवशगतं वल्कलधरं मुखैः शोकायासस्तिमितगुरुपक्ष्मान्तनयनैः ॥ गोस्द्_६२ ॥ तं मत्तवारणगतिं कनकावदातं प्रांशुं सुमेरुमिव लक्षणरत्नचित्रम् । चीराम्बरं वृजिनदीर्घजटाकलापं दृष्ट्वा नृपो रिपुरधीरतया चकम्पे ॥ गोस्द्_६३ ॥ तथाभूतं चैनमवेक्ष्य साध्वसाकुलितमतिश्चिन्तयामास । को न्वेष काञ्चनशिलातलचारुवक्षाः क्षामोदरो भुजगभोगविलम्बिबाहुः । प्रत्यादिशन्निव कुकार्यसमाकुलं मां प्राप्तो युवापि विनयप्रतिपत्तिधीरः ॥ गोस्द्_६४ ॥ धर्मोऽवतीर्ण इव विग्रहवान् कुतोऽयम् आलम्बवल्कलधरो नयनाभिरामः । बद्धश्च नाम च <न> दैन्यविषादवश्यस् तेजोनिधिः प्रशममुद्गिरतीव चायम् ॥ गोस्द्_६५ ॥ अथ स ब्राह्मणाधमस्तं राजानमब्रवीत् । जयतु जयतु महाराजो दिष्ट्या वर्धसे । योऽसौ तव प्रत्यनीको राजा केनापि प्रयोजनेनारण्यमनुप्रविश्य तापसनेपथ्यावच्छादितो दौरात्म्यं किमप्यारेभे । स एष मया बलात्कारं त्वत्प्रियचिकीर्षया बद्ध्वा मीन इव स्फुरन्नानीतस्तदत्र देवः प्रमाणमिति । अथ स राजा तत्तस्य पापकर्मणः कर्मासंभावयन्नवोचदेनम् । मा तावद्भोः । जेतुं सागरमेखलां वसुमतीं बाहुद्वितीयोऽप्ययं शक्तः शक्तिमतां वरः करिकरव्यालम्बिबाहुद्रुमः । त्वं शक्तोऽस्य पराभवं कथमरे कर्तुं बृहद्वक्षसः तत्त्वं ब्रूहि पराभवन्ति न मृगाः सिंहं स्फुरत्केसरम् ॥ गोस्द्_६६ ॥ स तस्मै राज्ञे यथाभूतमाविश्चकार । धिक्त्वामिति च निर्भर्त्सितः कोपकलुषया दृष्ट्या तेन राज्ञा परां व्रीडामापन्नः । स्वयमेव विमुच्य बन्धनानि क्षितिपः सोऽथ यथासुखं नृपर्षिमुपवेश्य तमासने महार्हे बहुमानानतविग्रहो जगाद । गुणभक्तितयातिमानुषं ते नृप कर्मातिशयावदानमेतत् । प्रथयन्ति सुरासुरप्रधाना बहुमानश्लथमानतैः शिरोभिः ॥ गोस्द्_६७ ॥ यदि रञ्जयितुं प्रजाः समर्थो नृप राजेत्यभिधानसंनिवेशः । गुणरत्ननिधे त्वमेव राजा विगुणो रञ्जयितुं जगन्न शक्तः ॥ गोस्द्_६८ ॥ अनुशाधि यथा पुरा पुरं स्वं वयमाज्ञाप्रवणा भवद्विधानाम् । विनयाद्व्यसनं च नः क्षमेथाः स्खलति प्रोषितलोचनः समेऽपि ॥ गोस्द्_६९ ॥ जातप्रसादमथ तं नृपतिं विदित्वा पात्रीकृतं सुचरितस्य स बोधिसत्त्वः । शिष्यं विनीतमिव गौरवभारनम्रं प्रोवाच नीलजलदस्तनयित्नुघोषः ॥ गोस्द्_७० ॥ आयुर्नृणामचिरकालविनाशि तावत्तप्तोपलोदरनिषिक्त इवाम्बुबिन्दुः । सङ्गाः प्रियैः सह सदैव वियोगतिक्ताः संपत्तयो विपरिणामविषाविषह्याः ॥ गोस्द्_७१ ॥ कामा मुहूर्तवितथाभिनिवेशरामाः किंपाकपादपफलप्रतिमोपभोगाः । नैकान्तरायविरसं सभयं सवैरं राज्यं प्रमादवधबन्धनिमित्तभूतम् ॥ गोस्द्_७२ ॥ तस्माद्विपाकमधुराणि कुरुष्व नित्यं कर्माणि सज्जनमनोविनिबन्धनानि । शोकाश्रुकातरमुखास्तु विपाककाले येषां भवन्ति पुरुषाः प्रजहीहि तानि ॥ गोस्द्_७३ ॥ नार्थो राज्यसुखैः पुनर्मम चलै रिक्तैरनाश्वासिकैर् वैरायासविषाददैन्यकलहद्वारैः परप्रत्ययैः । उत्कण्ठां जनयन्ति मे क्षितिधराः संसक्तधाराधराः पुष्पालम्बकदम्बपादपवनश्यामोपकण्ठाः शिवाः ॥ गोस्द्_७४ ॥ हरिणकुलविलुप्तस्निग्धशष्पोत्तरीया निपतितसितपुष्पा द्यौरिवालक्ष्यतारा । अपहरति बलान्मे मानसं काननान्तक्षितिरुपरतराज्यप्रार्थनाविप्रलम्भम् ॥ गोस्द्_७५ ॥ स्थिरवनगमनाशयं विदित्वा नृपतिरसावथ तं विशुद्धसत्त्वम् । अपहृतहृदयो गुणैस्तदियैर्वनगमनाभिमुखः किलावतस्थे ॥ गोस्द्_७६ ॥ अवगमितमनाश्च बोधिसत्त्वः क्षितिपतिना विनयानतेन तेन । उपरतविषयस्पृहोऽपि चेतो वनगमनाद्विनिवर्तयां बभूव ॥ गोस्द्_७७ ॥ वन इव भवनेऽपि बोधिसत्त्वा विषयसुखव्यसनापरीतसत्त्वाः । मुनय इव वनान्तवासनिम्नाः प्रशमरसैकविहारिणो भवन्ति ॥ गोस्द्_७८ ॥ भवन इव वनेऽपि साधवस्ते जगदुदयैकनिबन्धनप्रयोगाः । स्वतनुमपि परार्थमुत्सृजन्ति प्रणयिजनप्रणयं न खण्डयन्ति ॥ गोस्द्_७९ ॥ अत इह भवनं वनं च तुल्यं जगदुपजीव्यविभूतिविस्तराणाम् । अविकलभुवनोपकारपारप्रणयकृतव्यवसायमानसानाम् ॥ गोस्द्_८० ॥ तेन दत्तं समादाय स्वराज्यं लोकसारथिः । धनं राजा स विप्राय वाञ्छितात्यधिकं ददौ ॥ गोस्द्_८१ ॥ तस्याश्चर्यमुदारधर्मसुरतिं चाकर्ण्य विप्रोदितं त्यक्त्वा वैरविकारदुःसहतरं क्रोधाभिधानं विषम् । धृत्वा मौलिमिवोन्नते __ __ __ राजा स्वयं चक्रे तच्चरणाम्बुजप्रणयिनीमुष्णीषमालां क्षणात् ॥ गोस्द्_८२ ॥ तस्मिन् गते निजपुरं विनयप्रपन्ने संप्राप्य राज्यमरिहीनमुदारपुण्यः । धर्मेण कीर्तिधवलाम्बुधिफेनमालावेलादुकूलललितां पृथिवीं शशास ॥ गोस्द्_८३ ॥ चरितमतिगतोपमानशोभं न हि विभवोऽस्त्यनुगन्तुमीश्वराणाम् । मम कृपणमतेस्तथापि चैतत्कृतमतिसाहसमात्मनो हिताय ॥ गोस्द्_८४ ॥ कुशलमुपचितं कृपात्मकानां चरितमिदं विनिबध्य यन्मयाद्य । भवतु भुवनशान्तये तदाशु ज्वलतु तथागतशासनं ततश्च ॥ गोस्द्_८५ ॥ इति सर्वंददजातकम् ॥ *************************************************************************** श्वन् = गोश्व् एद्. मिछएल्हह्न्. च्f. मिछएल्हह्न्. देर्ग्रोस्से लेगेन्देन्क्रन्श्महज्जातकमाला. wइएस्बदेन् १९५ (असिअतिस्छे fओर्स्छुन्गेन्, ८८). नो. ८: सोमजातकावदान १६. श्वन् (२४७ ६) परदुःखकातरा देवराज्यमप्यवधीरयन्ति साधवः ॥ तद्यथानुश्रूयते बोधिसत्त्वभूतः (२४८ ) किल भगवान् स्वपुण्यपरिपाकविशेषोपनतममरपुराधिपत्यं कारयामास । नपरिद्यूतहृदयेन सर्वलोकातिशयिनापि महिम्ना केवलं पुण्यानामवन्ध्यफलमाविष्कुर्वन्नमरपुरनिवासिनां चानुग्रहाय ॥ जगद्दृष्ट्वानन्तव्यसनकुलिशापातविहतं न स स्वर्गे रेमे प्रकृतिरमणीयेऽपि भगवान् । तदा ह्येनं सा धीर्हृदि तुदति निःसङ्गमनिशं परार्थप्राग्भारा परमविधुरा स्वादुविधुरा ॥ गोश्व्_१ ॥ अकृतकुशलव्यापारानां स्वभूतिनिबन्धनं कृपणमनसां __ __ यद्वा मनो बहु मन्यते । स्वचरितपरिप्राप्तैश्वर्यं जगद्धितकारिणा न विषयसुखेष्वास्थं चेतो महत्यपि रक्ष्यते ॥ गोश्व्_२ ॥ स कदा चिज्जम्बूद्वीपमवलोकयन् ददर्श [!] एवं लोकमशक्यप्रतीकारव्याधिदुःखोपप्लुतं विषमविरसकृतवैद्यसामर्थ्यं समरणमावर्ज्ज(?)व्यवसायविक्लवं रोमन्थमानमिव पिशिताशनैरिहैव नरकदुःखान्यनुभवन्तं विस्मृतस्नेहबन्धुमित्रसुहृच्छौचाचारप्रयोजनम् ॥ कृतान्तकर्मान्त इव प्रवृत्तस्तदा स रोगान्तरकल्पतुल्यः । अशक्यरूपप्रतिकारभीमो महात्ययो व्याधिकृतो विकारः ॥ गोश्व्_३ ॥ क्षुत्तृष्णाचेतनपरिगताः सानुबन्धं स्तनन्तो विक्षिप्ताङ्गाः क्षितितलरजोगुण्ठितोद्धस्तकेशाः । स्मारं स्मारं जलकणमुचां मल्लिकामालुतानां __ __ __ __ मधुकरगणैर्मार्ग आसन्नपाताः ॥ गोश्व्_४ ॥ श्वासाध्मातबृहत्कठोरजठरव्याभिन्ननासापुटाः सृक्कान्तप्रतिबद्धशुष्कविरसश्लेष्मानना भीषणाः । रूक्षस्थूलशिराप्रतानजटिलत्वक्स्नायुशेषाश्रयाः के चित्पूर्वकृतं निनिन्दुरशुभं कर्माभिसंधिस्थिरम् ॥ गोश्व्_५ ॥ क्वथितपिशितरन्ध्रप्रोद्वमत्पूयधारा मलिनविकृतदेहाः के चिदप्रेक्षणीयाः । क्रिमिकुलपरिलुप्तप्रायबाहूदरोरुश्रवणनयननासाः प्रार्थयन्ते स्म कालम् ॥ गोश्व्_६ ॥ संशुष्काधरकण्ठतालुविवरास्तृष्णाग्निना दाहिना रूक्षक्षामविदारिताननपुटाः प्रेता इवायासिनः । आमत्तालिकुलोद्धतोत्पलवनच्छन्नाम्बुविष्यन्दिनां वीक्षन्तः सरसां पयांसि विविशुः के चित्कृतान्तालयम् ॥ गोश्व्_७ ॥ दूषीकापटलनिरुद्धलोचनान्ता दुर्गन्धा बहलमलोपलिप्तगात्राः । अन्ये तु क्लमशिथिलाश्रया रुजानामाजग्मुर्निलयनतां प्रबन्धिनीनाम् ॥ गोश्व्_८ ॥ के चिल्लालासलिलविसरक्लिन्नसंसक्तदीर्घ- श्मश्रुव्राताः पथिषु कृपणाः क्लान्तकायाः शयानाः । क्रूरारावैः पुरबलिभुजां मण्डलैः संपतद्भिर् व्यावृत्तास्या विपदमवशाः प्रत्यपद्यन्त तीव्राम् ॥ गोश्व्_९ ॥ तस्य तदतिदारुणमालोक्य लोकव्यसनं महत्कारुण्यमुदपादि । अथ स महासत्त्वस्तेन सत्त्वोपद्रवेण व्यथितमनाः सुतरामभिवर्धितानुकम्पाकम्पितः पितेवैकपुत्रव्यसनमसहमानश्चिन्तामपेदे ॥ इत्थं गतानां क इवाभ्युपायः स्यादामयोच्छित्तिसुखः प्रजानाम् । अपीह लोकत्रयबान्धवानां तथागतानामनृणो भवेयम् ॥ गोश्व्_१० ॥ अपि नाम भवेन्मम प्रतिज्ञा सकला लोकहितप्रयोगसिद्ध्यै । अपि मानुषजन्मदुःखभाजो व्यसनेभ्यः परिमोक्षमश्नुवीरन् ॥ गोश्व्_११ ॥ अपि नाम न बोधिसत्त्वनामव्यपदेशं वितथं समुद्वहेयम् । अपि सर्वविदामगर्हणीयां दधदाज्ञामनिमित्तवत्सलानाम् ॥ गोश्व्_१२ ॥ भवदुःखशिलीमुखक्षतानामपि मतेव पितेव च प्रजानाम् । अहमेव परायणं परं स्यां भवदुःखाम्बुरयप्रतीरभूतः ॥ गोश्व्_१३ ॥ यावद्दुःखाभिभूतः प्रविशति न जनो रोगदंष्ट्राकरालं कालाहेरास्यकोशं सकलजगदनुग्राससंभोगभीमम् । तावद्द्वन्द्वानुरागं त्रिदशपुरपतिश्रीसुखं प्रोज्झ्य रम्यं प्राणत्यागानुरागं प्रणयसुखकरं भूतभृत्यै करोमि ॥ गोश्व्_१४ ॥ व्यवसायमिति ज्ञात्वा तस्यात्यद्भुतकर्मणः । तद्वियोगाभिशङ्कार्ता विचुक्रुशुरथामराः ॥ गोश्व्_१५ ॥ कृपालो दुःखितानस्मान् परित्यज्य क्व यास्यसि । विषमस्थानिव पिता वत्सलो बालपुत्रकान् ॥ गोश्व्_१६ ॥ सद्धर्मसलिलोत्सेकैर्वर्धयन् पादपानिव । अस्माननागसस्त्यक्त्वा मा यासीः प्रियदर्शन ॥ गोश्व्_१७ ॥ विषयास्वादचपलैर्हृतानिन्द्रियवाजिभीः । स्वामिन्मास्मान् परित्याक्षीः प्रपातान्तानुचारिणः ॥ गोश्व्_१८ ॥ प्रणामलोलानतमौलिबन्धनान् प्रगाढशोकोपनिपातकातरान् । अथामरानश्रुपरिप्लुतेक्षणान् स सान्त्वयन्नित्यवदन्मरुत्पतिः ॥ गोश्व्_१९ ॥ न मे न युष्मास्वनुरागपेशलं मनो न चायं स्वहितोदयादरः । विकासिनीनां विपदां मुखे स्थितं जगत्परित्रातुमयं तु निश्चयः ॥ गोश्व्_२० ॥ तदप्रमादः क्रियतां स एव वो ध्रुवं समार्तायनतामुपेष्यति । विसंवदन्त्येव समागमाः प्रियैर्निपातरम्याः परिणामदारुणाः ॥ गोश्व्_२१ ॥ स्थित्वापि कालमतुलं विविधोपभोगसंभोगविस्तरसुखैस्त्रिदशाधिवासे । कर्मक्षयाद्विनिपतन्ति सुराः स्मरन्तः संवर्तकानिलहता इव कल्पवृक्षाः ॥ गोश्व्_२२ ॥ मन्दाकिनीमपि विगाह्य सहाप्सरोभिरुन्निद्रहेमकमलोच्छुरितोपकण्ठाम् । क्षारोदकां ज्वलनदर्भकुकूलकूलां निघ्नाः पुनर्यदि च वैतरणीं भजन्ते ॥ गोश्व्_२३ ॥ को नाम तेषु मतिमान् स्वमनो निदध्यादुत्क्षेपणीयकुसुमावयवोपमेषु । स्वर्गोपभोगजनितेषु सुखेषु येषामन्तेष्वपायवडवामुखसंनिवेशः ॥ गोश्व्_२४ ॥ कल्पद्रुमोपवनभूमिषु नैकरत्नप्रोद्भास्यमानतततल्पशिलातलासु । साकं प्रियाभिरनुभूय सुखानि भूयस्तीक्ष्णासिपत्त्रवनमध्यगता भवन्ति ॥ गोश्व्_२५ ॥ संभ्रान्तबालहरिणेक्षणचञ्चलानि विभ्रान्तकालपरिणामकराणि बुद्धेः । यद्धीन्द्रियार्थपरिभोगसुखानि तस्माद्यत्नं सुराः कुरुत पुण्यपरिग्रहाय ॥ गोश्व्_२६ ॥ एधोभिरग्नय इव प्रशमं व्रजन्ति कामाग्नयो न विषयैर्विषपानकल्पैः । तस्मादुपाद्ध्वमनवद्यसुखाभिरामां ताथागतीं प्रतिपदं व्यसनोपशान्त्यै ॥ गोश्व्_२७ ॥ अनाथानां दैन्यग्लपितमनसां दुःखाशीविष- गणोपघ्रातानां परशुभिरिवोत्कृत्तवपुषाम् । प्रशान्त्यै भूतानां वयमपि तिरश्चामनुकृतिं करिष्यामो मुक्त्वा सुरभवनसंभोगवसिताम् ॥ गोश्व्_२८ ॥ अविचलप्रतिबन्धो दीर्घकालानुषङ्गी मम जगदुपकारप्रार्थनासंनिवेशः । सुचरितपरिपाकस्येति दृष्ट्वा प्रसिद्धिं न खलु कुशलविघ्नं कर्तुमर्हन्ति सन्तः ॥ गोश्व्_२९ ॥ अतिमानुषमप्यपास्य चित्रं महिमानं कृपया विकृष्यमाणः । स तु दुःखकरो गतौ तिरश्चां परमार्यः प्रतिसंदधे महात्मा ॥ गोश्व्_३० ॥ करुणामृतपेशलाशयानां स्वसुखासङ्गविविक्तमानसानाम् । प्रभवा इव कल्पपादपानामुदया लोकहिताय सज्जनानाम् ॥ गोश्व्_३१ ॥ विनयानतरत्नमौलिरश्मिच्छुरितास्तं न मरुद्गणप्रणामाः । मनुजातिसुखं समापतन्तं स्थिरसत्त्वं विनिवर्तयां बभूवुः ॥ गोश्व्_३२ ॥ विरहव्यसनोपतापदीनैर्नयनैर्बाष्पतरङ्गधूसरान्तैः । दयिताः करुणं तमीक्षमाणाः शुचिसत्त्वं न निवर्तयां बभूवुः ॥ गोश्व्_३३ ॥ स्वजनेषु न तस्य सानुकम्पं न मनो दक्षिण एव स प्रकृत्या । अवगम्य गरीयसीं तथापि प्रकृतिं श्वा स तथा चकार साधुः ॥ गोश्व्_३४ ॥ स हितावहिता रुजातुराणां हिमवन्मेरुगुरुर्गुरुः प्रजानाम् । पुरुषातिशयो गुणप्रकर्षान्नियतं दूरतरं समुत्पपात ॥ गोश्व्_३५ ॥ तपोभिर्यां दीर्घैर्यमनियमसंस्कारगुरुभिर् व्यवस्यन्ति प्राप्तुं सलिलफलमूलानिलभुजः । विभूतिं तामैन्द्रीं तृणमिव परित्यज्य कृपया तिरश्चां साभाग्यं स जगदुपकारार्थमगमत् ॥ गोश्व्_३६ ॥ शुभाभ्यासादेव क्षपितकुकृतप्रत्ययतया तथागतेन प्राप्ता भवगतिसमाक्षेपवशिता । यथेच्छं यत्रेच्छं परहितसमाधानविदुषस् तथा ह्यभूत्जन्मव्यसनशमनायैव जगताम् ॥ गोश्व्_३७ ॥ स्वकामकारानुविधायिनीं श्रियं पटान्तलग्नां हुतभुक्शिखामिव । न मर्षयन्ति व्यसनातुरान् जनान् दृष्ट्वा महान्तः करुणानिबन्धनाः ॥ गोश्व्_३८ ॥ तस्योपपत्तिसमकालमथोच्चचार लोकं स्फुरन् ध्वनिरिति श्रवणोपकारी । यः पाप्ययं कुरु पुरो भजनं च तस्य मांसासृजौ समुपयुज्य शिवं भजध्वम् ॥ गोश्व्_३९ ॥ श्रुत्वाथ ध्वनिमतिमानुषं मनुष्याः सांहत्यस्वरितमुपेत्य तं प्रदेशम् । आलोक्य क्षितिधरपीवरात्मभावं तं साधुं क्षमिणमभीयुरुद्विषाणाः ॥ गोश्व्_४० ॥ आघूर्णस्फुटितखड्गनिशातपाणीन् दृष्ट्वा तानभिपततो जवेन गत्वा । हाहेति स्फुटविरसं विलेपुरुच्चैः प्रत्यस्तप्रशिथिलमौलयः सुरौघाः ॥ गोश्व्_४१ ॥ मां दृष्ट्वा घनविपुलायतात्मभावं श्रुत्वा वा सुरपुरवासिनां प्रलापान् । न कश्चित्प्रतिहतमानसो वसासृग्मोकोऽयं क्षणमिति सोऽभवद्विकारी ॥ गोश्व्_४२ ॥ तान् पौरान् सुहृद इवावलोक्य तस्य प्रीतिर्या मनसि मनस्विनो जृम्भते । तामेव क्षितिधरसारधीः स मेने पर्याप्तं फलमतिदुष्करस्य तस्य ॥ गोश्व्_४३ ॥ लोकानामभिलषितोपकारम्यं मत्वासावुपचितमांसमात्मभवम् । एकान्तव्यसननिपातलक्ष्यभूते संसारेऽप्यभिरतिमाबबन्ध साधुः ॥ गोश्व्_४४ ॥ ये ध्वस्ताः परहितसंविधानशून्यास्तद्देहाः क्षणभिदुरा भवप्रबन्धे । तान्मन्ये स परिगणय्य शैलतुङ्गान् च्छुद्ध्यैव स्वतनुमुपादधे महात्मा ॥ गोश्व्_४५ ॥ तं मत्वा विततविकारमेव धैर्यात्ते तीक्ष्णैस्तरुमिव चिच्छिदुः कुठारैः । निःशङ्का गलितकृपाशिवैर्मनोभिः सोऽप्यासीत्तरुरिव चापनीतमन्युः ॥ गोश्व्_४६ ॥ तद्रक्तव्यतिरेकपाटलाग्रहस्तास्तं खड्गैररय इवापरे विचक्रुः । सोऽप्यासीदभिमतकार्यसंप्रसिद्ध्या प्रीत्यैव स्फुटहृदयो विशुद्धकर्मा ॥ गोश्व्_४७ ॥ सुस्राव क्षतजमथास्य खड्गधाराच्छेदेभ्यः स्फुटकरधीरपुष्पताम्रम् । संप्राप्तघनसमये विचित्रसानोर्विन्ध्याद्रेर्जलमिव धातुनिर्झरेभ्यः ॥ गोश्व्_४८ ॥ चक्षार व्रणमुखकन्दरेभ्यो यत्तस्य क्षतजमिव क्षताशयस्य । तेनोहुर्घनपरिणाहफेनपुञ्जा विष्टब्धा विपुलसितवीचयः स्रवन्त्यः ॥ गोश्व्_४९ ॥ तत्तस्य प्रणिधिबलावलम्बिनीनामाशानां कथमपि पूरणात्सुचेतः । संप्राप्तेऽप्यम्रपुरे शरीरभेदात्प्रामोद्यं निरतिशयोपमं बभार ॥ गोश्व्_५० ॥ दध्वान प्रपतदसृक्कदेहरन्ध्रे विच्छिन्ने परशुतीक्ष्णधारयास्य । प्रत्यन्तज्वलनशिखावलीढसानोः कुञ्जेषु द्रुतमिव कान्चनं सुमेरोः ॥ गोश्व्_५१ ॥ तस्योग्रैर्युगपदितस्ततश्च शस्त्रैर्निःशङ्कं शकलितकोमलाश्रयाङ्गे । विच्छिन्ने सहननिविष्टशुद्धबुद्धेः प्रीत्यार्द्रे मनसि तिरोदधे विषादः ॥ गोश्व्_५२ ॥ परिचयकृतमार्गास्तस्य रक्तप्रणाल्यो गगणपरिखभूते च्छिद्यमाने शरीरे । क्षितिधरसरिदोघा विस्तराणि प्रचक्रुर्न च मनसि विषादो नापि खेदो बभूव ॥ गोश्व्_५३ ॥ अपचिततरमांसासृग्वसाकर्दमासु व्यपगतभयशङ्कास्तस्य विस्तारिणीषु । तनुविवरतरेषु व्याडसंघा विचेरुर्न च मनसि विषादो न च खेदो बभूव ॥ गोश्व्_५४ ॥ यदपहृतमनार्यैस्तस्य मांसं शरीराद्यदि तदपरिशेषं पिण्डितं स्यात्कथं चित् । गिरिमपि स सुमेरुं लङ्घयेन्मांसराशिर्न च मनसि विषदो न च खेदो बभूव ॥ गोश्व्_५५ ॥ क्षयमुपययुरङ्गेष्वेव शस्त्राणि तस्य प्रकृतिमृदुषु साधोरक्षताध्याशयस्य । अभिरुचितपरार्थप्रीतिसंभोगशान्ते न च मनसि विषादो न च खेदो बभूव ॥ गोश्व्_५६ ॥ ये चास्य रक्तैर्विलिलेपुरङ्गा ते रेजिरे रोगविषादमुक्ताः । ये चापि रक्तानि पपुः सरोगास्ते सर्वलोकाः पुपुषुर्विरोगाः ॥ गोश्व्_५७ ॥ जनमपगतरोगं वीक्षमाणस्य हर्षो मनसि भुवनबन्धोर्लब्धगाधो बभूव । पिशितमनुपयोगं वीक्षमाणस्य भूयोऽप्यभवदरतिदोलं चञ्चलं तस्य चेतः ॥ गोश्व्_५८ ॥ उत्कृत्तचर्मपटलस्फुटताम्रमांसो रन्ध्रोद्वमद्रुधिरशेषविशेषताम्रः । कायः स तस्य विकृतः कृतनिश्चयस्य रेजे जवाकुसुमराशिरिवाभ्रचुम्बी ॥ गोश्व्_५९ ॥ विच्छिद्यमानः सुनिशातशस्त्रैस्तद्दुःखमेकाश्रयमीक्षमाणः । सुखेन दुःखं स निराचकार लब्ध्वा परत्रात्मनि चैकमत्यम् ॥ गोश्व्_६० ॥ परिणामखरा बताधमाया गतिरात्माभिनिवेशवासनायाः । उपदिग्धधियो यया मनुष्याः पितृभूतेष्वपि साधुषु स्खलन्ति ॥ गोश्व्_६१ ॥ एतस्य मांसं बुभुजे कृपालोर्यो यः स स व्याधिमपाचकार । क्रमेण कृच्छ्रं जगदुत्ततार विपत्समुद्रं तदनेन कृत्स्नम् ॥ गोश्व्_६२ ॥ अथ सर्व एव लोको विगतनिखिलरोगोपसर्गस्तस्मिन्महासत्त्वे समुपजातप्रेमगौरवबहुमानः प्रणम्य श्वानं बोधिसत्त्वमब्रवीत् ॥ अहो कृपाभ्यासविशेषभद्रता गुणेष्वहो भक्तिरपेतकल्मषा । अहो परार्थप्रतिपत्तिपेशलं तवार्य कर्मेदमतीतमानुषम् ॥ गोश्व्_६३ ॥ अहो जगच्छ्रेष्ठमहादयार्द्रता अहो स्वसौख्यव्यवसायनिःस्पृहा । शुभेष्वहो निश्चयनिश्चलं मनो मनस्विनां बोधिपथानुपातिनाम् ॥ गोश्व्_६४ ॥ अहो बताचिन्त्यमुपायकौशलमहो परार्थेऽभिरतेरुदात्तता । अचिन्त्यचर्यातिशयाय साधवे नमोऽस्तु तुभ्यं जगदेकबन्धवे ॥ गोश्व्_६५ ॥ त्वं नः पिता यदि पिता त्वमिवार्थकामः शास्ता त्वमेव यदि धर्मगुरुस्त्वमेव । त्वं दैवतं यदि न तज्जनवादमात्रमार्तायनं तु जगतः परमं त्वमेव ॥ गोश्व्_६६ ॥ तस्मादाज्ञाभिषेकेण पवित्रयितुमर्हसि । उपदिग्धमिमं लोकं युष्मदायासचेतसा ॥ गोश्व्_६७ ॥ अथ बोधिसत्त्वः समुपजातप्रसादमानसमवगम्य तमेनमब्रवीत् ॥ पीडा ममेयमिति नैवमिदं प्रधार्यं सत्त्वार्थमेव गतिचक्रचलस्य नित्यम् । पीडा ममाभवदुदीक्ष्य विपत्परीतान् युष्मान्निरामयसुखं त्वधुना मनो मे ॥ गोश्व्_६८ ॥ कृत्यं न मे परहितादपरं गरीयः संसारचारकनिबन्धनमेतदेव । तस्मात्कुकार्यमलिनामतिलङ्घ्य चर्यां मत्प्रीतये सततमात्महितं कुरुध्वम् ॥ गोश्व्_६९ ॥ लोकानिमान् स्वकृतकर्मभुजो विदित्वा मृत्योरपर्वपरुषस्य करोदरस्थान् । पापान्यसह्यपरितापफलोदयानि प्राणात्ययेऽपि परिवर्जयितुं यतध्वम् ॥ गोश्व्_७० ॥ स्वन्तान्यनाशरमणीयफलप्रदानि जन्माटवीगहनपथ्यदनोपमानि । पुण्यानि संचिनुत मत्प्रतिकारबुद्ध्या कल्याणमित्रवचनं हि न लङ्घनीयम् ॥ गोश्व्_७१ ॥ इति समनुशिष्य प्राणिनस्तान्महात्मा निशितपरशुधाराजर्जरक्लान्तदेहः । अवसितकरणीयः पर्युदस्यात्मभावं तमतिविकृतरूपं स्वर्गमेवारुरोह ॥ गोश्व्_७२ ॥ इति जगदुपजीव्या उत्तमश्रीसमुद्रा विपदशनिनिपातव्याहता व्युष्टियोगात् । विगतजलदपङ्कव्योमपर्यन्तदीर्घाः शशिन इव मयूखा लोकमुत्तारयन्ति ॥ गोश्व्_७३ ॥ ॥ इति श्रीजातकमालायां श्वजातकं त्रिचत्वारिंशत्तमं समाप्तम् ॥