दीपंकरभद्र गुह्यसमाजमण्डलविधि नमो वज्रसत्त्वाय ॥ ज्ञेयाद्यावृतिनिर्मुक्तं ज्ञानादर्शादिसंयुतम् । मञ्जुश्रीगुह्यसच्चक्रं नत्वा तद्वच्मी मत्स्मृतौ ॥ १ श्रीमत्समाजसन्नीत्या चक्राम्नातक्रमादतः । उदकाद्यमनुज्ञान्तं योऽभिषिक्तो गुरोस्ततः ॥ २ तत्त्वाप्तौ गुह्यचक्रेऽस्मिन् गुह्यप्रज्ञाभिषेकतः । गुह्यज्ञो योगतत्त्वज्ञस्त्रियानसन्धितत्त्ववित् ॥ ३ विद्याहृन्मन्त्रमुद्राणां समाधित्रितयस्य च । सामान्येतरसिद्धीनां तन्त्रनीत्या विभागवित् ॥ ४ समयसंवरस्थो वा प्रज्ञायोगसुतत्परः । मन्त्रतन्त्रप्रयोगज्ञो भव्यः सत्त्वार्थसाधने ॥ ५ योगधैर्यादियुक्तोऽपि प्रोक्तैर्गुणैरनन्वितः । सत्त्वार्थे नैव भव्यो यत्सद्भिस्तैः स्युर्गुणा ह्यमी ॥ ६ कृपावान् सुव्रतो जापी श्राद्धो गम्भीरतत्त्ववित् । पूर्वसेवां स्वचक्रस्थः कृत्वा मण्डलमालिखेत् ॥ ७ क्वचिन्मनोऽनुगे स्थाने दिग्धे सच्चन्दनादिभिः । सुगन्धिकुसुमाकीर्णे प्राक्प्रअतर्विनिवेश्य च ॥ ८ विमोक्षमुखसंशुद्धौ हृदीन्दौ मं प्रभोज्ज्वलम् । ध्यात्वा शुभाभिवृद्ध्यर्थं प्रकुर्याद्देशनादिकम् ॥ ९ सर्वदिक्त्र्यध्वसंभूतबुद्धानां पुरतः स्थितः । हृद्प्रभोद्भवरूपाद्यैः पूजां कृत्वा विधानतः ॥ १० स्वासत्संकल्पमात्रोत्थं त्र्यध्वजं दुष्कृतं कृतम् । स्वप्नस्वप्नादिवत्सर्वं त्रिष्कृत्य देशयाम्यहम् ॥ ११ संबुद्धसत्सुतार्याणामन्येषां यच्चुभं शुभम् । निःशेषमनुमोद्याहं संबोधौ नामयाम्यनु ॥ १२ याचेऽहं सर्वबुद्धानां सर्वाशाश्वासदायिका । देशनाकाशसंस्थानां भातु लोकेऽखिलेऽनघा ॥ १३ शुद्धनिःशेषसंकल्पान् प्रत्यात्मानन्दवेदिनः । सम्बुद्धान् शरणं यामि स्वपरार्थफलप्रदान् १४ सत्सत्त्वाशेषसद्धर्ममागमाधिगमात्मकम् । सत्सम्पदाश्रयाचिन्त्यं शरणं समुपैम्यहम् ॥ १५ प्राप्ताश्वासमवैवर्त्यं निष्यन्दादिफलैर्युतम् । गुह्याभिषेकजं चैव गतोऽस्मि शरणं गणम् ॥ १६ मुनीन्द्रसूनुसन्मार्गं चर्यानन्ताग्रबोधकम् । सर्वबुद्धात्मसद्बुद्ध्या समाश्रितोऽस्म्यतोऽधुना ॥ १७ सर्वावृतिसमुद्घात्यनन्तज्ञानामृतास्पदम् । भ्रमिदृष्टिप्रबोधाय बोधौ सर्वं दधे मनः ॥ १८ बोधिचित्ताच्च बुद्धत्वं फलहेतोरसङ्गतः । प्रत्यात्मवेद्यधर्मत्वाच्छून्यज्ञानात्मको ह्यहम् ॥ १९ ओं शून्यताज्ञानवज्रस्वभावात्मकोऽहम् । हूङ्कारं चाप्यथोष्णीषान् शाश्वतादिकमेव च ॥ रक्षार्थं क्रोधचक्रस्थो ध्यायाद्विघ्नान् प्रमर्दयन् ॥ २० धर्मधातुं ततो ध्यायात्त्र्यश्रं शुक्लोर्ध्वसंस्थित । दिक्चक्रवर्तिचित्राभमन्तःखाधोऽब्जवज्रगम् ॥ २१ तत्र भ्रूङ्कारचक्रोत्थसविद्यशाश्वतोद्भवम् । स्फरद्बुद्धौघखव्यापि चतुरश्रादिसंयुतम् ॥ २२ शशिसूर्यसमाक्रान्तं विश्वाब्जदेवतासनम् । विभक्ताशेषसद्रत्नं कूटागारं प्रभावयेत् ॥ २३ स्वरलक्षणसंयुक्तं कादिव्यञ्जनरश्मिकम् । मध्यचन्द्रासने चित्तं ज्ञानचन्द्रं विभाव्य तत् ॥ २४ तत्राद्यहृद्भवं वज्रं रक्तमाद्यहृदा युतम् । कृतजिनाभदेह्यर्थस्तदहङ्कृतिमान् स्वयम् ॥ २५ स्फतिकेन्द्वङ्गमूलास्यं नीलसव्येतरारुणम् । सर्वाकारवरोदारं सद्गुणाभरणाम्बरम् ॥ २६ द्विभुजाश्लिष्टसत्प्रज्ञं वज्रपर्यङ्कसुस्थिरम् । वज्रखड्गभुजं सव्ये वामे सन्मणिपद्मिनम् ॥ २७ प्रज्ञोपायात्मकं श्रिमज्जगत्सम्पत्समाश्रयम् । समन्तभद्रमात्मनं भावयेत्स्फरणत्विषम् ॥ २८ महारागविनेयं तल्लोकमालोक्य भाजनम् । सुरतध्वनिना स्वान्तर्जिनवृन्दं निवेशयेत् ॥ २९ तल्लोचनादिसद्विद्या रूपादिविषयात्मभिः । प्रोत्सृज्य नवधा देवीः स्वविद्यान्तर्निवेशयेत् ॥ ३० स्वयोषित्पद्मकर्कट्यां सुरतोद्भवमण्डलम् । निर्मायात्र जगत्कृत्स्नमाश्वासाय प्रवेशयेत् ॥ ३१ खव्यापिबुद्धसन्मित्रैः स्ववज्रान्तर्द्रवोद्भवैः । सेवयेदविवर्त्यर्थं तत्त्वज्ञानफलाप्तये ॥ ३२ आश्वस्तं तज्जगद्दृष्ट्वा बीजैश्चातः स्वभावजैः । उत्सृजेत्सर्वसत्त्वांश्च जगच्चित्तात्मभावजान् ॥ ३३ क्षितिगर्भादिकान् षट्कांश्चक्षुरादिस्वभावकान् । क्षिं ज्रं खं गं स्कमित्येभिः सं-बीजाच्च यथाक्रमम् ॥ ३४ रूपवज्रादिकान् षट्कान् बाह्याध्यात्मस्वभावजान् । जः हूं वं होः खमित्येतै रं-बीजाच्च बहिः स्थितान् ॥३५ लोचनाद्यास्तु ता विद्याः पृथिव्यादिस्वभावजान् । लां मां पां तामिति त्वेभिर्जगद्धर्मात्मतत्त्वजाः ॥ ३६ शाश्वताद्यांस्तु संबुद्धान् रूपादिस्कन्धस्वभावजान् । बुं-आं-ज्रीं-भिश्च खं-हूं-भ्यां सर्वधर्मान् समुत्सृजेत् ॥ ३७ ओमाः हूमिति तच्चित्तं भास्वद्धोर्भ्यां विदर्भितम् । गुह्यपद्मोदरान्तस्थं मृदुनिष्यन्दशुद्धये ॥ ३८ ते च रागाग्निसंदीप्ते कायद्वयद्रवीकृते । सन्मित्राभातदिग्देवीगीत्या ध्यायात्सुचोदनाः ॥ ३९ त्वं वज्रचित्त भुवनेश्वर सत्त्वधातो त्रायाहि मां रतिमनोज्ञा महार्थकामैः । कमाहि मां जनक सर्वमहाग्रबन्धो यदीच्छसे जीवितु मह्य नाथ ॥ ४० त्वं वज्रकाय बहुसत्त्वप्रियाज्ञचक्र बुद्धार्थबोधिपरमार्थहितानुदर्शी । रागेण रागसमयां मम कामयस्व यदीच्छसे जीवितु मह्य नाथ ॥ ४१ त्वं वज्रवाच सकलस्य हितानुकम्पी लोकार्थकार्यकरणे सदा संप्रवृत्त । कामहि मां सुरतचर्य समन्तभद्र यदीच्छसे जीवितु मह्य नाथ ॥ ४२ त्वं वज्रकाम समयाग्र महाहितार्थ सम्बुद्धवंशतिलकः समतानुकम्पी । कामाहि मां गुणनिधिं बहुरत्नभूतां यदीच्छसे जीवितु मह्य नाथ ॥ ४३ उत्थापन्यनुरोधात्तद्द्रवं पश्यन् विपत्तिवत् । मायावद्वस्तु संचिन्त्य स्वमन्त्रार्थः पुनर्भवेत् ॥ ४४ कुङ्कूमाकारमूलास्यो नीलसव्यसितेतरः । कुमाराभरणाकारः प्रज्ञानन्दैकसुन्दरः ॥ ४५ द्विभुजाश्लिष्टसत्प्रज्ञः स्वाभप्रज्ञाधरास्यधृक् । भास्वत्कृपाणसद्बाणनीलोत्पलधनुःकरः ॥ ४६ स्फरद्बुद्धौघनिर्माणनिष्पादितजगत्त्रयः । स्वबीजोद्भवचिह्नोत्थमञ्जुवज्रः स्वयं भवेत् ॥ ४७ भवसङ्गाद्भवोऽ नन्तः शमसङ्गो विपत्तिभाक् । मायया कृतसंसेवो धर्मधात्वात्मको भवेत् ॥ ४८ ओं धर्मधातुस्वभावात्मकोऽहम् ॥ सन्मित्रैः कृतनिष्यन्दः पाकात्सर्वज्ञतामियात् । तच्चक्षुराद्यधिष्ठानमुपसाधनमिष्यते ॥ ४९ क्षितीशकुलिशाकाशलोकेशस्काम्भभद्रकैः । संपूर्य चक्षुरादीनि तद्बीजैः पौरुषं वहेत् ॥ ५० धर्मसंभोगनिर्माणवाहिनी जगदर्थता । चित्तगुह्याद्यधिष्ठानं साधनार्थमतो भवेत् ॥ ५१ स्वहृत्कण्ठशिरश्चन्द्रे हूं-आः-ओं-जांश्च सत्प्रभून् । वज्राब्जचक्रमध्यस्थान् ध्यात्वा चित्तादिगुह्यकान् ॥ ५२ तद्धृत्प्रज्ञाङ्गसङ्गार्चीरूपवज्रादिरश्मिभिः । संपूज्य सर्वदिक्त्र्यध्वव्याप्ताशेषविनायकान् ॥ ५३ कृतार्थसंपदां तेषां ये हृत्कण्ठशिरोगताः । चित्तवज्रादयस्तांस्तु तदधिष्ठाने प्रयाचयेत् ॥ ५४ चित्तवज्रधरः श्रीमांस्त्रिवज्राभेद्यभावितः । अधिष्ठानपदं मेऽद्य करोतु चित्तवज्रिणः ॥५५ दशदिक्संस्थिता बुद्धास्त्रिवज्राभेद्यभाविताः । अधिष्ठानपदं मेऽद्य कुर्वन्तु चित्तवज्रिणः ॥५६ ओं सर्वतथागतचित्तवज्रस्वभावात्मकोऽहम् ॥ धर्मो वै वाक्पथः श्रीमांस्त्रिवज्राभेद्यभावितः । अधिष्ठानपदं मेऽद्य करोतु वाग्वज्रिणः ॥५७ दशदिक्संस्थिता बुद्धास्त्रिवज्राभेद्यभाविताः । अधिष्ठानपदं मेऽद्य कुर्वन्तु वाग्वज्रिणः ॥५८ ओं सर्वतथागतवाग्वज्रस्वभावात्मकोऽहम् ॥ कायवज्रधरः श्रीमांस्त्रिवज्राभेद्यभावितः । अधिष्ठानपदं मेऽद्य करोतु कायवज्रिणः ॥ ५९ दशदिक्संस्थिता बुद्धास्त्रिवज्राभेद्यभाविताः । अधिष्ठानपदं मेऽद्य कुर्वन्तु कायवज्रिणः ॥ ६० ओं सर्वतथागतकायवज्रस्वभावात्मकोऽहम् ॥ षोडशानुस्मृतेः शुद्धौ कुर्वन्तीति तदुक्तवान् । तस्य चित्ताद्यधिष्ठानं नोक्तमप्रस्तुतोक्तितः ॥ ६१ त्रिगुह्यालक्षणं वीक्ष्य मायाप्रज्ञाङ्गसङ्गतः । मृदुवैमल्यसंशुद्धौ महासाधनमिष्यते ॥ ६२ संचोद्य दिग्गतान्नाथान् ज्ञानसत्त्वहृदर्चिषा । तत्प्रभोद्भवविद्याभिर्भृतकुम्भामृताम्बुभिः ॥ ६३ स्वभिषिक्तः प्रभुः श्रीमान् कुलेशमकुटोत्तमः । निष्यन्दाद्यैस्तथा मध्यैः स्वाभां प्रज्ञां विशोधयेत् ॥ ६४ शिरोहृन्नाभिगुह्येऽस्याश्चरणान्ते च प्रत्यणून् । ओं-हूं-स्वा-हृद्भिः आः-हाभ्यां शाश्वतादिकुलात्मकैः ॥३२ ६५ आपूर्य पञ्चसंबुद्धैः हूं-आः-अष्टदलाब्जिकाम् । संविशोध्य तया बुद्धान् हूं-सद्वज्रोऽनुरागयेत् ॥ ६६ ओं सर्वतथागतानुरागणवज्रस्वभावात्मकोऽहम् ॥ हृच्चन्द्रखद्गहृद्भाभिः खव्यापिबुद्धमण्डलम् । निवेश्यात्मनि सच्चित्तरूपं वज्राब्जसंस्थितम् ॥ ६७ निजचक्रं स्वबीजेन तत्रोत्पाद्य स्थिरीकृतम् । उत्सृजेद्विधिनानेन जगत्स्वज्ञानशुद्धये ॥ ६८ संचोद्याधिपमक्षोभ्यं महाद्वेशार्थकृज्जिनम् । वज्रधृगिति चोत्सृज्याङ्गेन्द्रनीलमणिप्रभम् ॥ ६९ सितसव्येतरारक्तं परमाद्यभुजान्वितम् । संहृत्यात्मनि सच्छ्रीमान् सर्वभावैर्निवेशयेत् ॥ ७० जिनजिगिति चाद्याभं महामोहार्थकृद्विभुम् । सच्चक्राद्यन्वितं तद्वद्ध्यायात्पूर्वेन्दुमण्डले ॥ ७१ रत्नधृगिति रत्नेशं सुवर्णाभं समोद्यमम् । सद्रत्नाद्यन्वितं नाथं कुमारास्यं तु दक्षिणे ॥ ७२ आरोलिगिति वागीशं महारागार्थकृत्प्रभुम् । पद्मरागाभपद्माद्यां कुमारास्यं तु पृष्ठतः ॥ ७३ प्रज्ञाधृगित्यमोघेशं महोग्रेर्ष्यार्थकृत्खजम् । वैदूर्याभं कुमारास्यं ध्यायात्खड्गाद्यमुत्तरे ॥ ७४ सजटामुकुटाः सर्वे स्वविद्याद्वयसन्गिणः । सर्वाभरणसद्वस्त्रा ध्येयाः पद्मार्कमण्डले ॥ ७५ मोहरतीति चाग्नेयां कृपोपायजनार्थदा । कायेशवत्स्वरूपा स्याल्लोचना स्वेन्दुमण्डले ॥ ७६ द्वेषरतीति नैरृत्यां मैत्रीप्रणिधिकामदा । चित्तेशवद्रतौत्सुक्या मामकी चन्द्रमण्डले ॥ ७७ रागरतीति वायव्यां मोदबलसमाधिदा । वागीशाभार्थशुद्धा सा पाण्डरा चन्द्रमण्डले ॥ ७८ वज्ररतीति चैषान्यामुपेक्षज्ञानसाधिका । रत्नेशवत्स्वरूपा स्याच्चन्द्रे तारा मनोरमा ॥ ७९ चक्रं रक्तोत्पलं दिव्यं पङ्कजं पीतमुत्पलम् । शिष्टं स्वाधिपवद्दिष्टं चिह्नमासां क्रमादतः ॥ ८० आग्नेयादिचतुःकोणे पूर्वद्वारद्विपार्श्वयोः । रूपाद्या दर्पणाद्यैः स्युः कायाद्याभास्त्रितत्त्वतः ॥ ८१ प्राग्द्वारे क्रोधपर्यङ्कश्चित्तेशाकारभासुरः । यमान्तकृदितीतिघ्नः स्कन्धज्ञेयविनाशतः ॥ ८२ कायेशाभोग्रदृग्भीमोऽवाग्द्वारेऽपराजितः । प्रज्ञान्तकृदितीच्छाघ्नः स्वात्मदृक्क्लेशहानितः ॥ ८३ मृत्युजन्माघसां घाती पृष्ठद्वारेऽश्वकन्धरः । पद्मान्तकृदितीच्छाघ्नो वागीशाभोग्रघूर्णितः ॥ ८४ अक्षोभ्याभोग्रविघ्नघ्न उत्तरेऽमृतकुण्डलिः । विघ्नान्तकृदिति द्वारक्रियासुरारिशुद्धितः ॥ ८५ भ्रूभङ्गोर्ध्वज्वलत्केशबभ्रुभ्रूश्मश्रुलोचनाः । व्यावृताश्या ललज्जिह्वाः सदंष्ट्रोत्कटहासिनः ॥ ८६ चण्डमुद्गरदण्डाब्जस्ववज्रादिकरास्त्वमी । क्रूरभुजङ्गभूषाङ्गाः स्वाभविद्याङ्गसङ्गिनः ॥ ८७ निष्पन्नं चक्रमालोक्य निजभावेन सर्वतः । हृद्बीजाभाङ्कुशैर्बुद्धांश्चक्राकारसमाहृतान् ॥ ८८ दृष्ट्वा विघ्नान् स्वविघ्नघ्नैः समुत्सार्याभिरक्ष्य च । दत्त्वार्घं मन्त्रसंजप्तं चन्द्रादिकुसुमान्वितम् ॥ ८९ चक्रे निवेश्य तच्चक्रं चक्षुःकायाद्यधिष्ठितम् । प्राग्वत्सिक्तं च तद्ध्यायान्निष्यन्दाद्यधिमात्रतः ॥ ९० बुद्धानां मकुटेऽक्षोभ्यः शेषाः स्वाधिपसेकिनः । कायेशाक्षोभ्यवागीशचित्तेशैर्द्वारिणो मताः ॥ ९१ इत्यासिच्य स्वहृद्भाभिः प्रज्ञाब्जान्तर्निवेशितम् । रूपाद्यं रोमकूपोत्थं रूपवज्रादिरश्मिभिः ॥ ९२ कूटागारप्रभोन्मुक्तैर्गगनान्तःप्रसर्पिभिः । सम्पूज्य स्वं मुनीन्द्रांश्च पूज्यपूजात्मको भवेत् ॥ ९३ ओं सर्वतथागतपूजावज्रस्वभावात्मकोऽहम् ॥ सर्वधर्मैः स्तुयाच्चक्रं संबुद्धस्वात्ममूर्तिभिः । पञ्चज्ञानानि मुद्राभिः शतपञ्चकुलं त्रिकम् ॥ ९४ अक्षोभ्यवज्र महाज्ञान वज्रधातु महाबुध । त्रिमण्डल त्रिवज्राग्र घोषवज्र नमोऽस्तु ते ॥ ९५ वैरोचन महाशुद्ध वज्रशान्त महारते । प्रकृतिप्रभास्वराग्राग्र्य देशवज्र नमोऽस्तु ते ॥ ९६ रत्नराज सुगाम्भीर्य खवज्राकाशनिर्मल । स्वभावशुद्ध निर्लेप कायवज्र नमोऽस्तु ते ॥ ९७ वज्रामित महाराज निर्विकल्प खवज्रधृक् । रागपारमिताप्राप्त भाषवज्र नमोऽस्तु ते ॥ ९८ अमोघवज्र संबुद्ध सर्वाशापरिपूरक । शुद्धस्वभावसंभूत वज्रसत्त्व नमोऽस्तु ते ॥ ९९ चन्द्रार्कवारिभैषज्यगन्धं वाय्वग्निचक्रगम् । प्रणवाधिष्ठितं सार्चिस्त्रितत्त्वैरभिमन्त्रितम् ॥ १०० हूंन्यस्तवज्रसज्जिह्वो ध्यात्वा ज्ञानामृतैर्भृतम् । हृच्चन्द्रान्तर्गताशेषचक्रं तेन प्रतर्पयेत् ॥ १०१ हृद्रश्मिनिर्मितैर्नाथैः स्वासत्संकल्पवर्जितैः । बुद्धात्मकं जगत्कृत्वा हृद्बीजान्तर्निवेशयेत् ॥ १०२ हृच्चिह्नवरटान्तस्थं चन्द्रहृद्बिन्दुरूपकम् । प्रभास्वत्स्वमनो ध्यात्वा ज्ञानसत्त्वं प्रभासयेत् ॥ १०३ चित्तवाक्कायवज्रं च प्रबोध्य रश्मिमालया । निविष्टां हृदि तां ध्यायात्स्वज्ञानामृतवाहिनीम् ॥ १०४ अन्तस्तनुमतः सर्वां तयाभास्य समन्ततः । प्रतिरोमप्रभाव्यूहैर्जगदर्थं प्रपूरयन् ॥ १०५ ध्यात्वा सूक्ष्मं स्वचिह्नं वा विद्यानासाग्रसंस्थितम् । मुनिचक्रं स्वसंवेद्यं सत्प्रज्ञासङ्गभास्वरम् ॥ १०६ दृष्त्वा स्थैर्यनिमित्तं तु स्फरणं तद्रश्मिनिमित्तैः । बुद्धैर्नानाविधैश्चिह्नैर्विदधीत पुनः पुनः ॥ १०७ कायवाक्चित्तसद्वज्रात्पञ्चसज्ज्ञानरश्मिकम् । स्फरन्मन्त्रं जपं कुर्याद्युगपत्क्रमशोऽथवा ॥ १०८ वज्राब्जधर्मतच्चक्रं कायवाक्चित्तवज्रगम् । निलयं तद्दृढीकुर्वञ्ज्ञानकायं स्फरञ्जपेत् ॥ १०९ उच्चारयेत्स्फरन् प्राणैर्मन्त्रमायामसंहृतम् । कायादिस्फारसंहारैः कुर्याज्जापं क्रमाक्रमात् ॥ ११० उच्चार्यैवं वियद्व्याप्य कायाद्यैस्तैः स्वरश्मिभिः । प्राग्वत्सच्चित्तपूजार्हं प्राणाद्विद्यौघमुत्सृजन् ॥ १११ परिगूढोल्लसद्विद्यासुखावेशवशीकृतम् । आयामाज्ञानबुद्धौघं स्वात्मन्यन्ते निवेशयेत् ॥ ११२ निष्यन्दाद्यधिमोक्षैश्च बिन्दुसूक्ष्मत्रिगुह्यजाः । ध्येया मृद्वादिभिर्भेदैर्योगाः सेवादिवत्तथा ॥ ११३ स्वहृत्तत्त्वपरामर्षात्परीत्तचित्तसंसृतेः । लोचनादिगणोद्गीतैश्चक्रमभ्यर्थ्य पूजयेत् ॥ ११४ मूर्ध्नीन्दुप्रणवार्द्रां तु सचित्तवारिवाहिनीम् । विधिवत्पातयन् कुर्यात्कायवाक्चित्तप्रीणनम् ॥ ११५ विश्रम्यैवं जपं कृत्वा कृतपूजादिको बुधः । त्रितत्त्वात्माहितान् बुद्धान् गतसङ्गो विसर्जयेत् ॥५४ ११६ एवं तत्त्वदृशा मुक्तं जगत्कृत्स्नं विलोक्य च । प्रणिधिमामुखीकुर्यात्कृपया तद्धिताय च ॥ ११७ समाधितः समुत्थाय गर्वं पत्युः समुद्वहन् । चारगतस्तु संबुद्धविषयैः संप्रपूजयेत् ॥ ११८ श्रीमञ्जुवज्रसर्वात्मा स्वभावविषयानुगान् । विषयान् भावयन्नेवं स्वस्वशुद्ध्या प्रतिष्ठितान् ॥ ११९ शाश्वतादिस्वभावांस्तान् प्रत्यात्मधर्मसंस्थितान् । श्रीमद्वज्रधराकारान् शुद्धसत्त्वसमन्वितः ॥ १२० सर्वं संपादयेत्कृत्यं स्वासत्संकल्पवर्जितः । सच्चक्रानन्तपूजेयं सदामेया सुयोगिनः ॥ १२१ स्वहृच्चन्द्रे स्वचक्रेशं निजबीजैः स्वभोजनम् । समालम्ब्य स्वहृत्तत्त्वैः सर्वबुद्धामृततायितम् ॥ १२२ सर्वधर्मतया शुद्धं त्रितत्त्वैरभिमन्त्रितम् । स्वाधिदैवतसच्चक्रं प्रीणयंस्तेन पूजयेत् ॥ १२३ होमो बाह्योऽनुमेयोऽयं चित्तमात्रात्तु मानसः । अनुत्तरस्त्वयं ज्ञानाग्निस्कन्धेन्धनदाहतः ॥ १२४ कामैरेवं समस्तैः स्वं स्वदैवात्मस्वभावजम् । परांश्च पूजयेदेवं समयः सुगतैर्मतः ॥ १२५ तत्तत्कायादि यत्कर्म सर्वबुद्धांस्तु पूजयन् । अनुरूपं जगत्कार्यं कुर्यान्नित्यं समाहितः ॥ १२६ यत्कायवाङ्मयं कर्म मुद्रामन्त्रात्मकं महत् । तत्तत्कर्म समासाद्य सर्वबुद्धांस्तु पूजयेत् ॥ १२७ वस्तुन्येकत्र संकल्पा नानाकारावभासिनः । मुक्तिदुःखसुखोत्पादाः कर्माशेषा भवन्ति यत् ॥ १२८ तस्माच्छुभाशुभं कर्म कायाद्यं कल्पनोद्भवम् । सर्वसत्कल्पनिर्मुक्ते ज्ञाने तत्कल्पना कथम् ॥ १२९ अमोघवज्रसच्चक्री समयोत्थापनाय तु । हृत्कर्मवज्रखं ध्यात्वा सर्वशुद्ध्याभिषेचयेत् ॥ १३० गुर्ववज्ञादिके दोषे सदानं भोज्यमावहेत् । बाह्यस्नानं स्वचक्रस्थः कुर्यात्सेकविधानतः ॥ १३१ सन्ध्यान्तरेऽपि पूजादि जपं कृत्वा तु पूर्ववत् । हृद्यन्तर्गतसच्चक्रः सुप्यात्प्रज्ञाकृपान्वितः ॥ १३२ उत्थानसमये श्रीमान् देवीसंगीतिचोदितः । प्रातरुत्थाय प्राग्वत्तु संजपेदादिकर्मिकः ॥ १३३ मन्त्रसीलव्रतैर्युक्तश्चक्षुःकायाद्यधिष्ठितः । ज्ञाने किञ्चित्समावेशी जपेत्सन्ध्यास्वतन्द्रितः ॥ १३४ सर्वाकारसुनिष्पन्नं स्फरत्सम्हारकारकम् । प्राप्तज्ञानवशी किञ्चिदनिशं योगमाश्रयेत् ॥ १३५ सम्यग्ज्ञानवशी ध्यायन् कुर्यात्कार्यं जगद्धितम् । धात्वण्वन्तस्त्रिसच्चक्रैः प्रतिबिम्बात्ममूर्तिभिः ॥ १३६ संसिद्धावसकृल्लब्ध्वा योगी निमित्तमेव तु । त्रितत्त्वां विधिवत्पूजां कृत्वा मण्डलमालिखेत् ॥ १३७ चक्रस्थो विधिवज्जप्त्वा स्वयं वाध्येषितोऽपि वा । परार्थं घटमानोऽपि निमित्तं प्राप्य संलिखेत् ॥ १३८ चक्रिमन्त्रं जपेल्लक्षं लक्षं वा स्वाधिदैवतम् । अन्येषामयुतं सम्यक्चक्रिणां वाज्ञया लिखेत् ॥ १३९ त्रितत्त्वैर्गर्भितोत्सर्गानन्यान् हृद्बीजगर्भितान् । सानुस्वाराद्यवर्णांस्तु नाम्नो मन्त्रान् समुद्धरेत् ॥ १४० कायवाक्चित्तगुह्याख्या कर्मधर्ममहात्मिका । त्रिगुह्या समया मुद्रा बीजं हृदयमुच्यते ॥ १४१ कर्मकर्त्री तु विद्योक्ता शान्त्यादिप्रतिचोदनात् । मालामन्त्राश्च विद्योक्ता सर्वथा तां जपेत्बुधः ॥ १४२ यथायोगं जपं कृत्वा लब्ध्वाज्ञां स्वाधिपादितः । निरोधचक्रमाभुज्य स्वचित्तशुद्धितो लिखेत् ॥ १४३ विघ्नानुत्सार्य संकील्याभ्युक्ष्य क्ष्मां प्रार्थ्य याचयेत् । समाधित्रितयं कृत्वा बुद्धादीनधिवास्य च ॥ १४४ दत्त्वा बल्यर्घमापूज्य होमैराप्याय्य खे न्यसेत् । खानयेत्क्ष्मां सुनिर्विघ्नां गर्तापूरेऽपि अयं क्रमः ॥ १४५ आचीर्णपूर्वसंसेवो मञ्जुवज्रात्मयोगवान् । संस्कृत्य मण्डलस्थानं संहार्यैः पूजयान्वितः ॥ १४६ विघ्नारिचक्रयोगस्थः स्वाभिषेकं समादधेत् । दुष्टान्निकृन्तयेदेवं योगाद्वा स्वाधिदैवतात् । १४७ ओं भूः खमिति मन्त्रेण वियद्भूतां वसुन्धराम् । हूं लं हूमिति वज्रात्म क्ष्मां कृत्वा तामधिष्ठयेत् ॥ १४८ ओं मेदिनि वज्रीभव वज्रबन्ध हूम् ॥ प्राग्वद्विघ्नघ्नयोगात्मा सेवाद्यन्तानुरागणः । आदियोगी स्वचक्रं तु प्रोत्सृज्यान्तामृतश्च सः ॥ १४९ चक्रराजाग्रियोगात्मा चक्रकर्मसुकर्मकृत् । कर्मराजाग्रियोगीति समाधित्रयमुत्तमम् ॥ १५० एतद्योगस्थ आचार्यः सर्वबुद्धात्ममूर्तिकः । स्वभावशुद्धवज्रात्मा चक्रभूमध्यसंस्थितः ॥ १५१ वज्रघण्टाधरो वीरोऽध्येष्यस्त्रिचक्रनिर्मितौ । सहायैर्वज्रघण्टाग्रैः शाश्वताद्यात्ममूर्तिभिः ॥ १५२ सर्वताथागतं शान्तं सर्वताथागतालयम् । सर्वधर्माग्रनैरात्म्यं देश मण्डलमुत्तमम् ॥ १५३ सर्वलक्षणसंपूर्णं सर्वालक्षणवर्जितम् । समन्तभद्रकायाग्रं भाष मण्डलमुत्तमम् ॥ १५४ शान्तधर्माग्रसंभूतं ज्ञानचर्याविशोधकम् । समन्तभद्रवाचाग्रं भाष मण्डलमुत्तमम् ॥ १५५ सर्वसत्त्वमहाचित्तं शुद्धं प्रकृतिनिर्मलम् । समन्तभद्रचित्ताग्र्यं घोष मण्डलसारथे ॥ १५६ वीक्ष्यातो मञ्जुराड्क्रुद्धः सत्त्वधातुं तमिश्रितम् । हूं वज्रोत्तिष्ठेति स्वक्षश्चक्रमुत्क्षिप्य निर्मितम् ॥ १५७ मट्कारचन्द्रशूर्याक्षः सर्वाध्वदिक्षु दीपयन् । जगदालोकयन् धीमांश्चक्रभूमौ परिक्रमेत् ॥ १५८ पादतलज्वलद्वज्रो वज्रोल्लालनतत्परः । लीलावज्रपदं नृत्यन् सदंष्ट्रोत्कट-हूं-कृतः ॥ १५९ प्रोत्सारयेत्प्रदुष्टौघान् देवाद्यान् विघ्नमण्डलान् । शृण्वन्तु सर्वविघ्नौघाः कायवाक्चित्तसंस्थिताः ॥ १६० अहं मञ्जुरवः श्रीमान् रक्षाचक्रप्रयोजकः । वज्रेणादीप्तवपुषा स्फालयामि त्रिकायजान् ॥ १६१ लङ्घयेद्मे विशीर्येतात्र नान्यथा ।९३ भूमेः परिग्रहं कृत्वा निर्विघ्नाय प्रकीलयेत् । १६२ ओं घ घ घातय २ सर्वदुष्टान् फट्कीलय २ सर्वपापान् फठूं हूं हूं वज्रकील वज्रधरो आज्ञापयति सर्वदुष्टकायवाक्चित्तवज्रं कीलय हूं फट् ॥ अधःशूलोर्ध्वविघ्नारिं धिया मध्ये प्रकीलयेत् । विघ्नौघान् घातयेत्सर्वान् दशदिक्संव्यवस्थितान् ॥ १६३ संवीक्ष्य क्ष्मां सुनिर्विघ्नां तीक्ष्णज्वालाकुलप्रभाम् । सीमाप्राकारदिग्बन्धान् धिया कृत्वाधिवासयेत् ॥ १६४ त्वं देवि साक्षिभूतासि सर्वबुद्धानां तायिनाम् । चर्यानयविशेषेषु भूमिपारमीतासु च ॥ १६५ यथा मारबलं भग्नं शाक्यसिंहेन तायिना । तथा मारबलं जित्वा मण्डलं लेलिखाम्यहम् ॥ १६६ क्ष्मां संलिप्य सुगन्धद्यैश्चित्रैः पुष्पैः प्रकीर्य च । चन्द्राद्यैश्चक्रिणां स्थाने प्रकुर्यान्मण्डलं बुधः ॥ १६७ तत्रावाह्य तु सच्चक्रं कृत्वा सीमादिबन्धनम् । पूजास्तुत्यामृतास्वादं कलशानधिवासयेत् ॥ १६८ वस्त्राच्छादितसद्ग्रीवांश्चूतादिपल्लवान्वितान् । कलशान्माण्डलेयानां तन्मन्त्रैरधिवासयेत् ॥ १६९ पञ्चव्रीह्यौषधीरत्नगन्धाम्बुचक्रसंचयम् । श्रग्बद्धवज्रमूर्धानं चक्रेशेन जपं जपेत् ॥ १७० अर्घं दत्त्वा समापूज्य प्रक्षिप्य सितपुष्पकम् । धूपाधिवासितं तत्र सद्गन्धाद्यब्जभाजनम् ॥ १७१ प्रतिदिनं त्रिसन्ध्यासु बलिं दत्त्वा तथा जपेत् । ते च चक्रबहिष्कोणे जयश्चक्रेशसव्यतः ॥ १७२ तेभ्योऽर्घभाजने तोयं क्षिप्त्वा तेनाभिषेचनात् । आत्मनः सर्वशिष्याणां जलाभिषेचनं भवेत् ॥ १७३ चक्रपूजां पुनः कृत्वा धूपमुत्क्षिप्य पाणिना । चक्रेशं प्रार्थयेद्धीमान् बुद्धांश्च जानुसंस्थितः ॥ १७४ भगवन्मञ्जुसद्वज्र विद्याराज नमोऽस्तु ते । इच्छामि लिखितुं नाथ मण्डलं करुणात्मक ॥ १७५ शिष्याणामनुकम्पायै युष्माकं पूजनाय च । तन्मे भक्तस्य भगवन् प्रसादं कर्तुमर्हसि ॥ १७६ समन्वाहरन्तु मां बुद्धा जगच्चक्रक्रियार्थदाः । फलस्था बोधिसत्त्वाश्च याश्चान्या मन्त्रदेवताः ॥ १७७ देवता लोकपालाश्च भूताः सम्बोधिशासिताः । शासनाभिरताः सत्त्वा ये केचिद्वज्रचक्षुषः ॥ १७८ अमुकोऽहं महावज्री मञ्जुश्र्युदयमण्डलम् । लिखिष्यामि जगच्छुद्ध्यै यथाशक्त्युपचारतः ॥ १७९ अनुकम्पामुपादाय सशिष्यस्य तु तन्मम । मण्डले सहिताः सर्वे सांनिध्यं कर्तुमर्हथ ॥ १८० निमन्त्र्यैवं त्रिवारांस्तान् कृत्वा पूजादिकं विभोः । समारक्ष्य बहिर्गत्वा स्वशिष्यान् स्रक्करग्रहान् ॥ १८१ मनीषिणो महोत्साहान् कृतज्ञनिरहङ्कृतान् । कुलिनो गुणिनः श्राद्धान् रूपवर्णवयोन्वितान् ॥ १८२ अर्थिनश्चाभियुक्तांश्च सौगतान्मन्त्रसाधने । विरूपान्निर्गुणांश्चापि हीनानप्यधिवासयेत् ॥ १८३ चतुर्णामप्यनुज्ञातः पर्षदां मण्डले विधिः । शिक्षासु स्वासु युक्तानां महायानरतात्मनाम् ॥ १८४ मन्त्रसिद्ध्यर्थिनः केचित्प्रविशन्तीह मण्डले । पुण्यकामास्ततोऽन्ये च परलोकार्थिनोऽपरे ॥ १८५ परलोकं समुद्दिष्य श्रद्धां कृत्वा च भूयसीम् । प्रविशेन्मण्डलं धीमान्नैहिकं फलमीहयेत् ॥ १८६ ऐहिकं काङ्क्षमाणस्य न तथा पारलौकिकम् । परलोकार्थिनः पुंसः पुष्कलं त्वैहिकं फलम् ॥ १८७ एवमुक्त्वा तु तान् शिष्यान् धिया स्वान्तर्निवेशितान् । प्राग्वद्वज्राब्जसंशुद्धानिह द्वारे तु याचयेत् ॥ १८८ त्वं मे शास्ता महारत इच्छाम्यहं महानाथ महाबोधिनयं दृढम् ॥ १८९ देहि मे समयं तत्त्वं बोधिचित्तं च देहि मे । बुद्धं धर्मं च संघं च देहि मे शरणत्रयम् प्रवेशयस्व मां नाथ महामोक्षपुरं वरम् । १९० त्रिरुच्चार्य च तान् शिष्यान् ज्ञात्वा सद्भक्तिवत्सलान् । प्रधानं शिष्यमेकं तु कृत्वा ब्रूयादिदं वचः ॥ १९१ एहि वत्स महायानं मन्त्रचर्यानयं विधिम् । देशयिष्यामि ते सम्यक्भाजनस्त्वं महानये ॥ १९२ बुद्धास्त्रियध्वसंभूताः कायवाक्चित्तवज्रिणः । संप्राप्ता ज्ञानमतुलं वज्रमन्त्रप्रभावनैः ॥ १९३ मन्त्रप्रयोगमतुलं येन भग्नं महाबलम् । मारसैन्यं महाघोरं साक्यसिंहादिभिर्वरैः ॥ १९४ लोकानुवृत्तिमागम्य चक्रं प्रवर्त्य निर्वृताः । तस्मान्मतिमिमां वत्स कुरु सर्वज्ञताप्तये ॥ १९५ देशनादिंस्त्रिधालाप्या बोधिचित्तं ततो गुरुः । उत्पादयेदनुत्पन्नमुत्पन्नं स्मारयेत्पुनः ॥ १९६ सर्वकर्मकृतारक्ष्य ध्यायाद्धृत्कण्ठमूर्धसु । वज्रमब्जं तथा चक्रं हूमाः ओं तेषु विन्यसेत् ॥ १९७ गन्धाम्बुवज्रसन्मुष्ट्या हूमोमाः एवमापठन् । हृच्छिरःकण्ठमालभ्य दद्यात्पुष्पादिकं क्रमात् ॥ १९८ पुष्पं मूर्ध्नि पुरो धूपं दीपं गन्धं पुनर्हृदि । दद्यात्सर्वकृता जप्तं शिष्येभ्यो यतिरादरात् ॥ १९९ द्वादशाङ्गुलपुष्पाग्रमकीटापाटिताव्रणम् । अश्वत्थोदुम्बुरावक्रं प्रदद्याद्दन्तधावनम् ॥ २०० प्रागुदङ्मुखसंस्थैस्तैः खादयित्वैव प्रक्षिपेत् । गोचर्ममात्रभूलिप्ते सिद्धिं शान्त्यादिकां दिशेत् ॥ २०१ आचम्य त्रिचलुपानं दत्त्वा बाह्ये निवेश्य च । कुशान् शय्योपधानाय बाहुसूत्रैः सुरक्षयेत् ॥ २०२ त्रिचलुपानमन्त्रः ॥ ओं ह्रीः विशुद्धधर्म सर्वपापानि चास्य शोधय सर्वविकल्पानपनय हूम् ॥ सर्वज्ञानां कदा लोके सम्भवो जायते न वा । उदुम्बरस्येव कुसुमं कदाचित्कर्हिचिद्भवेत् ॥ २०३ ततोऽपि दुर्लभोत्पादो मन्त्रचर्यानयस्य हि । येन सत्त्वार्थमतुलं कर्तुं शक्ता ह्यनिर्वृताः ॥ २०४ अनेककल्पकोटीभिर्यत्कृटं पापकं पुरा । तत्सर्वं हि क्षयं याति दृष्ट्वा मण्डलमीदृशम् ॥ २०५ किमुतानन्तयशसां मन्त्रचर्यानये स्थितः । पदं ह्यनुत्तरं याति जपन् वै मन्त्र तायिनाम् ॥ २०६ उच्छिन्ना दुर्गतिस्तेषां सर्वदुःखस्य सम्भवा । येषां चर्यावरे ह्यस्मिन्मतिरत्यन्तनिर्मला ॥ २०७ अद्य युष्माभिरतुला लाभा लब्धा महात्मभिः । येन यूयं जिनैः सर्वैः सपुत्रैरिह शासने ॥ २०८ सर्वे परिगृहीता स्थ जायमाना महात्मभिः । तेन यूयं महायाने श्वो जाता हि भविष्यथ ॥ २०९ एष मार्गवरः श्रीमान्महायानमहोदयः । येन यूयं गमिष्यन्तो भविष्यथ तथागताः ॥ २१० कृत्वाथ देशनां रक्षां स्वापयेत्कुशसंस्तरे । यत्किञ्चित्पश्यथ स्वप्ने प्रातर्मे कथयिष्यथ ॥ २११ रक्षाधिष्ठादिकं कृत्वा तज्जपेत्सार्वकर्मिकम् । पञ्चकुलत्रिचक्राणां कुण्डलिः सार्वकर्मिकः ॥ २१२ पृष्ट्वा शुभाशुभं स्वप्नं हत्वा कुण्डलिनाशुभम् । शिष्यान् संरक्ष्य तान् योग्यान् संवरं ग्राहयेत्ततः ॥ २१३ चक्रेऽवैवर्त्यसंसेकं दत्त्वा नाथ वदस्व मे । चक्रदेवतयोस्तत्त्वमाचार्यपरिकर्म च ॥ २१४ समयं सर्वबुद्धानां संवरं गुह्यमुत्तरम् । आचार्यः स्यामहं नित्यं सर्वसत्त्वार्थकारणात् ॥ २१५ आचार्यतार्थिनः शिष्यान् ग्राहयित्वा तु संवरम् । योगमाधाय सच्चक्रं संपूज्य खे धिया न्यसेत् ॥ २१६ शाश्वतादिस्वरूपाभं तद्वर्णबीजसंभवम् । पञ्चज्ञानान्वितं सूत्रं पञ्चविंशतिभेदितम् ॥ २१७ यःकारसूर्यचन्द्राक्षो मञ्जुवज्रात्मविग्रहः । दीप्तदृष्ट्यङ्कुशाकृष्तं स्ववर्णान्तर्निवेशितम् ॥ २१८ वैरोचनादिहृज्ज्ञानसूत्रं सर्वकृता सह । प्रयच्छ शाश्वत सूत्रं स्वचक्रसूत्रणाय च ॥ २१९ त्रितत्त्वगर्भितं चैव यावदक्षोभ्यमर्थयन् । अन्योन्यानुगताः सर्वधर्मा इत्याद्यनुस्मरन् ॥ २२० चक्रद्विगुणतो दीर्घं द्वारविंशतिभागिकम् । पञ्चामृतसुगन्धेन तेमयित्वापि रक्षितम् ॥ २२१ त्र्यक्षरान्तर्गतं योगी चालयेत्सूत्रधारिणा । त्रिर्ज्जःकारैस्तमाप्रेष्य ज्जः ज्जः ज्जः इत्यपि स्वयं पुनः ॥ २२२ वाममुष्टिग्रहो नाभौ प्रतीच्यवाग्दिशि स्थितः । खसूत्रं पातयेच्छ्रीमांस्तथैवाधः प्रसूत्रयेत् ॥ २२३ ओं वज्रसमयसूत्रं मातिक्रम हूम् ॥ सत्त्वार्थे भवतां कालो वियद्व्यापितथागतान् । चोदयेत्सूत्रध्वनिना तदिहागमनाय तु ॥ २२४ यक्षप्रेतेन्द्रनागेशदिङ्मुखोऽग्न्यनिलाश्रितः । प्राक्प्रतीच्युत्तरावाक्चतुर्दिग्बहिः प्रसूत्र्य च ॥ २२५ कोणसूत्रं समासूत्र्य चाग्नेयनैरृतिस्थितः । प्राक्प्रतीच्युत्तरावाग्दिक्तथैवाष्टकमण्डलम् ॥ २२६ द्विगुणीकृत्य तत्सूत्रं चक्रमध्ये विधार्य च । चक्राकारं ततो बाह्यं वज्रसूत्रद्वयं पुनः ॥ २२७ ऐशान्यां चक्रवाडं च स्वानुपूर्व्या प्रदक्षिणात् । सूत्रेण सूत्रयेत्प्राज्ञः सर्वदिक्समतां वहन् ॥ २२८ अनिमित्तैरसिद्धिः स्यात्सूत्रच्छेदे गुरोः क्षयः । हीनाभिरिक्ततो रोगा दिङ्मोहे शिष्यविभ्रमः ॥ २२९ चतुरस्रं चतुर्द्वारं चतुस्तोरणभूषितम् । चतुःसूत्रसमायुक्तं पट्टस्रग्दामभूषितम् ॥ २३० कोणभागेषु सर्वेषु द्वारनिर्यूहसन्धिषु । खचितं वज्ररत्नैस्तु सूत्रयेद्बाह्यमण्डलम् ॥ २३१ तस्याभ्यन्तरतश्चक्रमष्टमण्डलकोपमम् । अर्धेन बाह्यचक्रस्य समन्तात्परिमण्डलम् ॥ २३२ चक्रस्तम्भाद्यरचितं वज्रावल्यावृतं शुभम् । विभजेच्च ततो द्वारं ह्रीःकारक्रोधदृष्टितः ॥ २३३ चक्राष्टभागिकं द्वारं वेदिकारहितं मतम् । द्वारप्रमाणा निर्यूहा देवतापट्टिकास्तथा ॥ २३४ द्वारार्धा सर्वतो वेदी कपोलः पक्षकस्तथा । हरार्धहारचन्द्रार्का पट्टस्रग्दामपट्टिकाः ॥ २३५ रजोभूमिस्तदर्धेन मूलसूत्रभुवो बहिः । चक्राद्यस्तम्भसूत्राणां भूमिस्तुल्या रजोभुवा ॥ २३६ तोरणं त्रिगुणं द्वारात्पताकाघण्टयान्वितम् । सघण्टा मारुतोद्धूटा पताका बाह्यकोणतः ॥ २३७ चक्रानुरूपतोऽन्येषां यथाशोभं प्रकल्पना । संबुद्धज्ञानकायत्वाद्वाग्मी वज्रकुले स्मृतः ॥ २३८ धर्मकायात्मसंशुद्धौ चित्तमण्डलमस्य तु । सत्त्वाशयं समासाद्य मानादिनियमः कृतः । प्रज्ञोपायोद्भवा सिद्धिर्जात्यादिनियमेन किम् ॥ २३९ तदेकहस्तमारभ्य यावद्धस्तसहस्रकम् । एवमासूत्र्य तच्चक्रं दीप्तदृष्ट्या रजांसि तु । प्राक्क्रमज्ञानसद्दीप्त्या समुत्तेज्याभिमन्त्रयेत् ॥ २४० ओं वज्रचित्र समय हूम् ॥ धर्मधातुरयं शुद्धः सत्त्वधातुप्रमोचकः । स्वयं मञ्जुरवो राजा सर्वतथागतालयः ॥ २४१ सर्वदोषविनिर्मुक्तश्चक्राभ्यन्तरसंस्थितः । ऐशानीं दिशमाश्रित्य गुरुर्वामेन मुष्टिना ॥ २४२ श्वेतं पीतं तथा रक्तं हरितं कृष्णमेव च । समप्रदक्षिणाच्छिन्नावक्रां रेखां प्रपातयेत् ॥ २४३ समां च पातयेद्रेखां द्वारविंशतिभागिकाम् । स्थूलपाते भवेद्व्याधिः कृशया धननाशनम् ॥२४४ विद्वेषो वक्रया मृत्युश्छिन्नया गुरुशिष्ययोः । अप्रदक्षिणपाते तु रजसां कीलनं भवेत् ॥ २४५ श्वेतवज्रमयी सूची सौवर्णालम्बनापरा । पद्मरागमयी सूची तथा मरकतापरा ॥ २४६ कृष्णाभ्यन्तरतो ज्ञेया एष रङ्गक्रमोऽस्य तु । पूर्वेण तु महाश्वेतं दक्षिणे पीतसंयुतम् ॥ २४७ लोहितं पश्चिमभागं मञ्जिष्ठोत्तरसंयुतम् । मध्यतो भूमिभागं तु इन्द्रनीलप्रभास्वरम् ॥ २४८ प्रज्ञोपायात्मको नित्यं संलिखेत्सुसमाहितः । यवमात्रान्तरा रेखा पातनीय परस्परम् ॥ २४९ कुण्डलामृतवज्रेण सर्वदुष्टान् प्रमर्दयन् । महामुद्रास्य दम्ष्ट्रोक्ता दुष्टशत्रुश्च मन्त्रराड् ॥ २५० नमः समन्तकायवाक्चित्तवज्राणां नमो वज्रक्रोधाय महादंष्ट्रोत्कटभैरवाय असिमुषलपर्शुपाशहस्ताय ओममृतकुण्डलि ख २ खाहि २ तिष्ठ २ बन्ध २ हन २ दह २ गर्ज २ विस्फोटय २ सर्वविघ्नविनायकान्महागणपतिजीवितान्तकराय हूं फट् ॥ एवं मण्डलमालिख्य चन्द्रसूर्यकृतासनम् । मध्ये खड्गं लिखेत्स्यामं सुविशुद्धादिभास्वरम् ॥ २५१ पूर्वेणाष्टारसच्चक्रमादर्शादिसमुज्ज्वलम् । सव्ये रत्नं हरीताभं नवांशं समतोन्नतम् ॥ २५२ पश्चिमेऽष्टदलं पद्मं प्रत्यवेक्षादिरक्तकम् । उत्तरे तु सत्खड्गं कृत्यादिप्रतिमण्डितम् ॥ २५३ उपायैर्नेत्रमाग्नेय्यां नैरृत्यां वज्रमर्थनात् । वायव्यां विकटास्यं तु बलात्पद्मं सकन्दकम् ॥ २५४ ऐशान्यामुत्पलं ज्ञानात्पीतं नीलाभशोभनम् । आग्नेयादिचतुष्कोणे पूर्वद्वारद्विपार्श्वयोः ॥ २५५ दर्पणं च तथा वीणां गन्धशङ्खरशायनम् । वस्त्रं धर्मोदयं चैव दानशीलादिशोधितम् ॥ २५६ श्रद्धादिमुद्गरं दण्डं पद्मं वज्रं चतुर्थकम् । द्वारेषु सर्वथा ज्ञात्वा स्फुटं ध्यात्वा स्वचक्रकम् ॥ २५७ प्राग्वत्प्रज्ञाङ्गसंयोगाद्बुद्धान् स्वान्तर्निवेश्य च । सच्चित्तेन वियद्व्याप्य चक्रपार्श्वकृतास्पदान् ॥ २५८ तैः समायातविघ्नांस्तान् समुत्सार्याभिरक्ष्य च । यमार्यादिभिराकृष्यावेश्य बद्ध्वा वशं नयेत् ॥ २५९ चक्षुःकायाद्यधिष्ठायार्घाभिषेकाभिपूजनम् । कृत्वा स्तुत्वाथ संप्रीण्य जप्त्वा विभाव्य तोषयेत् ॥ २६० प्राग्वत्सत्पद्मभाण्डे तु कृत्वा ज्ञानामृतामृतम् । दिक्पालान् स्वस्वयोगस्थान् प्रपूज्य मण्डलं विशेत् ॥ २६१ त्रैलोक्यविजयो भूत्वा यथाप्त्याभरणाम्बरः । कृतप्रदक्षिणश्चक्रं नत्वा होमेन पूरयेत् ॥ २६२ चतुरङ्गुलमात्यज्य तन्मानाब्जप्रफुल्लया । वेद्या हस्तार्धहस्ताधश्चक्रवत्सार्वकर्मिकम् ॥ २६३ दैर्घादुच्छ्रयतः खड्गमष्टैकाङ्गुलमानकम् । कुण्डमध्ये लिखेच्चक्ररत्नाब्जखड्गमध्यगम् ॥ २६४ बहिर्वेष्टितवज्रालीं योगी पूर्वमुखस्थितः । जप्त्वा सर्वकृतारक्ष्य वामेऽर्घाद्यन्यदन्यत् ॥ २६५ न्यस्योपकरणं प्रोक्ष्य मञ्जुवज्रात्मयोगवान् । क्षीरवृक्षेन्धनादीप्तमग्निं त्र्यक्षररेचितम् ॥ २६६ प्रज्वाल्य व्यञ्जनाघातैः कुशान् दद्यात्प्रदक्षिणम् । आद्यजहृत्सरत्र्यश्राब्जस्थं रूंबीजसंभवम् ॥ २६७ ध्यात्वा पीतं त्रिवक्त्रं तु पीनं प्रज्ञान्गसङ्गिनम् । कुण्डिकाभयदण्डाक्षमालाकरमिहानलम् ॥ २६८ आवाह्य ज्ञानसद्वह्निं प्राग्वत्त्रितत्त्वटक्किना । अभ्युक्षणादिकं तस्य कृत्वासननिवेशनम्॥ २६९ स्रुक्स्रुवे हस्तदण्डाधो वज्ररत्ने तदूर्ध्वतः । चतुरस्राङ्गुला पात्री द्व्यङ्गुलखातवज्रधा ॥ २७० चतुरङ्गुलवज्रान्तरन्ते पद्मदलाकृतिः । अन्तर्वज्राङ्गुलं खातं द्व्यङ्गुलाब्जदलं स्रुवम् ॥ २७१ ध्यात्वा स्वदैवतं बीजं प्रदीप्तं स्रुक्स्रुवानने । दद्यात्पूर्णाहुतिं तस्मै रेफं विन्यस्य तन्मुखे ॥ २७२ जुह्वीत समिधो धन्याः समिद्धेऽग्नौ घृतं तिलान् । दूर्वाखण्दं तु दध्यन्नं कुशान् विधिक्रमादतः ॥ २७३ तथताज्ञानसद्वह्नेर्हृच्चन्द्रे मं-भवाधिपम् । सच्चक्रं जुहुयाद्ध्यात्वा बाह्यपूजादि पूर्वकम् ॥ २७४ ओमग्नये स्वाहा ॥ घृतस्य ॥ ओं सर्वपापदहनवज्राय सर्वपापं दह स्वाहा ॥ तिलानाम् ॥ ओं वज्रायुषे स्वाहा ॥ दूर्वायाः ॥ ओं वज्रपुष्टये स्वाहा ॥ अखण्डतण्डुलानाम् ॥ ओं सर्वसम्पदे स्वाहा ॥ दध्यन्नस्य ॥ ओमप्रतिहतवज्राय स्वाहा ॥ कुशानाम् ॥ पुष्टिशान्तिवशाकर्षे द्वेषोच्चाटाभिचारुके ॥ ओं स्वाहा होः जः हुं हूं फट्मन्त्रान्ते चापि चोदना ॥२७५ हृत्सत्त्वात्स्वाधिपात्सर्वाः प्रीण्यन्ते देवता इति । ध्यायंश्चन्द्रादिकैरन्यैर्द्रव्यैः संतर्प्य पूर्ववत् ॥ २७६ हृच्चन्द्रचक्रसज्जिह्वमन्ते पूर्णाहुतिं तथा । अभ्युक्ष्य चमनार्घं दत्त्वापूज्य स्तुत्वा विसर्जयेत् ॥ २७७ शेषं हव्यं स्वयोगात्मा वह्नौ हुत्वाथ तं तथा । विसर्ज्य प्राग्विधानेन चक्रमापूज्य संविशेत् ॥ २७८ शिष्यप्रवेशविधिना प्रविश्यादौ स्वयं कृती । निष्पाद्य सेकपर्यन्तं प्राप्यानुज्ञां कुलाधिपात् ॥ २७९ महारागोद्भवं तत्त्वं चक्रं च प्रतिबिम्बवत् । पुरे शिष्यप्रवेशार्थं तत्त्वं सत्यं च श्रावयेत् ॥ २८० आकाशोत्पादचिह्नत्वादनादिनिधनः परः । महावज्रमयः सत्त्वो मञ्जुवज्राद्य सिद्ध मे ॥ २८१ सर्वोत्तममहासिद्धि माहैश्वर्याधिदैवत । सर्ववज्रधरो राजा सिद्ध मे परमाक्षर ॥ २८२ निर्दोषः शाश्वतश्चासि सर्वरागानुरागण । तत्त्वेन सिद्ध मे भगवन्महारागो महारत ॥ २८३ अत्यन्तशुद्ध सर्वाग्र आदिमुक्तस्तथागतः । समन्तभद्र सर्वात्मा बोधिसत्त्व प्रसिद्ध मे ॥ २८४ सर्वोत्तममहासिद्धि माहैश्वर्याग्रमुद्रया । सिद्ध वज्र महोत्कर्षात्वज्रगर्वापते मम ॥ २८५ सर्वसत्त्वमनोव्यापी सर्वसत्त्वहृदीस्थितः । सर्वसत्त्वपिता चैव कामोऽग्र्यः समयाग्रिणाम् ॥ २८६ येन सत्येन सज्ज्ञानं प्रज्ञोपायात्ममण्डलम् । तेन सत्येन मे नाथ कामांस्त्वं परिपूरय ॥ २८७ प्रतिबिम्बसमा धर्मा अच्छाः शुद्धा ह्यनाविलाः । अग्राह्या अनभिलाप्याश्च हेतुकर्मसमुद्भवाः ॥ २८८ तथतातत्त्वनिर्याता इति सत्येन मण्डले । प्रतिबिम्बं स्फुटं शिष्याः सर्वे पश्यन्त्वकल्मषाः ॥ २८९ सामान्यसंवरं शिष्यं प्राग्वत्कायादिभास्वरम् । जमनीकान्तरं प्रोक्त सर्वकृत्कलशाम्भसा ॥ २९० रक्ताम्बरं तदास्यं च पृच्छेत्कस्त्वमिति प्रिय । शिष्येणापि ततो वाच्यं सुभगोऽहमिति प्रिय ॥ २९१ संपूज्य स्रक्करं द्वारि तथैवादत्तदक्षिणम् । योगचित्तं समुत्पाद्य हृदि वज्रं हृदा न्यसेत् ॥ २९२ मन्त्रः ॥ ओं सर्वयोगचित्तमुत्पादयामि सुरते समयस्त्वं होः सिध्य वज्र यथासुखम् । अद्य त्वं सर्वतथागताधिष्ठितो भविष्यसि । न च त्वयेदं सर्वतथागतपरमरहस्यममण्डलप्रविष्टाय वक्तव्यं न चाश्रद्धातव्यमिति वाच्यम् ॥ यमार्यादिस्वसन्मन्त्रैः समाकृष्य प्रवेश्य च । पञ्चाक्षरैरथाप्येवं वाच्यं सत्संवरग्रहे ॥ २९३ अद्य त्वं सर्वतथागतकुले प्रविष्टः । तदहं ते वज्रज्ञानमुत्पादयामि येन ज्ञानेन त्वं सर्वतथागतसिद्धीरपि प्राप्स्यसि किमुतान्याः सिद्धीः । न च त्वयादृष्टमण्डलस्य पुरतो वक्तव्यम् । मा ते समयो व्यथेदिति तद्धृदि वज्रमास्थाप्य । ओं वज्रसत्त्वः स्वयं तेऽद्य हृदये समवस्थितः । निर्भिद्य तत्क्षणं यायाद्यदि ब्रूया इमं नयम् । २९४ पद्मस्थं त्र्यक्षरोज्ज्वलं पाययेदमृतं पञ्च ॥ इदं ते नारकं वारि समयातिक्रमाद्दहेत् । समयरक्षणात्सिद्धिः पिब वज्रामृतोदकम् ॥ २९५ ओं वज्रोदक ठः ॥ दृढप्रतिज्ञमिदं वदेत् ॥ अद्य प्रभृति तवाहं वज्रपाणिर्यदहं ब्रूयामिदं कुरु तत्त्वया कर्तव्यं न चाहमवमन्तव्यो मा ते विषमापरिहारेण कालक्रियां कृत्वा नरकपतनं स्यात् । ब्रूयाद्ब्रूहि ततः शिष्यान् सर्वतथागताश्चाधितिष्ठन्तां वज्रसत्त्वो मे आविशतु । वाचयित्वा च तद्धृदि । वज्राङ्ककोणमाहेन्द्रे हूं ध्यायात्पीत-लं-भवे । वारुणं वं-भवं शुक्लं घटाङ्कं परिमण्डलम् ॥ २९६ नीलध्वजाङ्कधन्वाभं वायव्यं यं-भवं चलम् । काये वाचि तयोर्हः आः पादाधो झैः समुज्ज्वलम् ॥ २९७ वायव्ये रं-भव त्र्यस्रेणोद्दीप्य शिष्यमाविशेत् ॥ २९८ आवेशय स्तोभय र र र र चालय २ हूं हः आः झैः ॥ जिह्वायां रक्तमाः-कारं ध्यात्वाविष्टं पुनर्वदेत् । रागवज्रं तमाभुज्य ब्रूहि वज्र शुभाशुभम् ॥ २९९ तमावेशं दृधीकुर्वन् तिष्ठ वज्रेति तं लपेत् । प्रक्षेपयेत्स्रजं चक्रे प्रतीच्छ वज्र होः ॥ तां शिरसि बन्धयेत् ॥ ३०० प्रतिघृह्ण त्वमिमं सत्त्वं महाबल ॥ चिह्ने चिह्नसमीपे वा स्रक्प्रपन्नाप्रपन्नयोः । पतेद्रुच्यापि तद्योगं दद्याद्भव्यतयाथ वा ॥ ३०१ सज्वालं प्रणवं नेत्रे ध्यत्वा । ओं वज्रसत्त्व स्वयं तेऽद्य चक्षूद्घाटनतत्परः । उद्घाटयति सर्वाक्षो वज्रचक्षुरनुत्तरम् ॥ ३०२ ध्यात्वा चक्रं प्रदर्शयेत् । चक्राधिपं समारभ्य यावदमृतकुण्डलिम् । सेचयेदम्बुना मूर्ध्नि वज्राभिसिञ्च वाग्ब्रुवन् ॥ ३०३ सेचयेन्मौलिना प्राग्वद्दत्त्वा चाधिपदैवतम् । हृदि संग्राह्य तद्वज्रं वज्रेणाप्यभिषेचयेत् ॥ ३०४ अद्याभिषिक्तस्त्वमसि बुद्धैर्वज्राभिषेकतः । इदं तत्सर्वबुद्धत्वं गृह्ण वज्रं सुसिद्धये ॥ ३०५ आलिङ्ग्य वज्रघण्टाभ्यां स्वाधिपात् । ओं वज्राधिपति त्वामभिषिञ्चामि तिष्ठ वज्र समयस्त्वम् ॥ मूर्ध्नि नामतः ॥ ओं वज्रसत्त्व त्वामभिषिञ्चामि वज्रनामाभिषेकतः ॥ हे अमुकवज्र ॥ यद्यद्भाति स्वसर्वस्वं मुख्यं तन्मञ्जुराट्स्वयम् । धर्माः शुद्धाः प्रकृत्या यद्बुद्धज्ञानचयः स हि ॥ ३०६ स्वस्यैव चक्रवर्तित्वे श्रीध्वनिर्नाम्न आदितः । सर्वे सर्वाधिपत्यात्तु वज्रान्ता हे-नियोजिताः ॥ ३०७ अब्धातुशुद्धिरक्षोभ्यो मकुटः समतात्मकः । वज्रं सत्प्रत्यवेक्षात्माधिपः कृत्यकरोऽर्थदः ॥ ३०८ ज्ञानं विद्यात्र वज्रं स्याद्धातुर्गोत्रं वशी ह्यतः । व्रतव्याकरणाश्वासा विद्यासेकेऽपि नाम्न्य्मी ॥ ३०९ इदं तत्सर्वबुद्धत्वं वज्रसत्त्वकरे स्थितम् । त्वयापि हि सदा धार्यं वज्र्पाणिदृढव्रतम् ॥ ३१० ओं सर्वतथागतसिद्धिवज्रसमये तिष्ठ एष त्वां धारयामि हीः हि हि हि हि हूम् ॥ सर्वान् वज्रव्रतं दत्त्वा वज्रं तत्त्वेन ग्राहयेत् । अनादिनिधनः सत्त्वो वज्रसत्त्वो महारतः । समन्तभद्र सर्वात्मा वज्रगर्वापतिः पतिः । ३११ घण्टां तत्त्वेन संग्राह्य इयं सा सर्वबुद्धानां प्रज्ञाघोषानुगा स्मृता । त्वयापि हि सदा धार्या बोधिरग्रा जिनैर्मता । ३१२ तां तद्धर्मेण वादयेत् ॥ ३१३ स्वभावशुद्धो हि भवः स्वभावैर्विभवीकृतः । स्वभावशुद्धैः सत्सत्त्वैः क्रियते परमो भवः ॥ ३१४ अधिष्ठाय महामुद्रां हृद्भिः सेवादिकीर्तितैः । समयैः कामरूपाद्यैर्जपेन्मन्त्रमव्यङ्गतः ॥ ३१५ स्वसंवेद्यस्वभावैस्तैः सर्वदिक्त्र्यध्वसंस्थितैः । स्वाधिदैवतयोगेन स्वं परांश्चैव पूजयेत् ॥ ३१६ दुष्करैर्नियमैस्तैर्यत्सेव्यमानैर्न सिद्धयः । सिध्यन्तेऽन्तर्ध्यभिज्ञाखचारिवाक्चित्तकायजाः ॥ ३१७ तस्माद्बुद्धाश्च सत्सत्त्वा मन्त्रचर्याग्रचारिणः । प्राप्ता धर्माक्षरं श्रेष्ठं सर्वकामोपसेवनैः ॥ ३१८ सेवयन् कामगुणान् पञ्च सुखदुःखोभयात्मकान् । ज्ञानार्थी रागिणां योगात्साधयेत्सर्वमेव हि ॥ ३१९ कायवाक्चित्तसंसिद्धेर्याश्चान्या हीनजाः स्मृताः । सिध्यन्ते मन्त्रजापात्तु कायवाक्चित्तभावनैः ॥ ३२० यदुक्तं वज्रं तत्त्वेन संगृह्य घण्टां धर्मेण वाद्य च । समयेन महामुद्रामधिष्ठाय हृदा जपेदिति ॥ ३२१ तत्प्रत्युक्तम् ॥ गृहीतसम्वरं शिष्यं तथैवादत्तदक्षिणम् । याचयेदभिषेकाय प्रणम्यैवं तु गाथया ॥ ३२२ बोधिवज्रेण बुद्धानां यथा दत्तो महामहः । ममापि त्राणनार्थाय खवज्राद्य ददाहि मे ॥ ३२३ प्रवेशद्वारपीठस्थाष्टदलाब्जेष्टयोगिनम् । सर्वदिक्त्र्यध्वखव्यापिबुद्धचक्रैः स्वहृद्भवैः ॥ ३२४ वाद्यगन्धाद्युपेतैस्तैः प्राग्वद्विद्याभिषेकिणम् । महावज्राभिषेकेण सेचयेदिति गाथया ॥ ३२५ अभिषेकं महावज्रं त्रैधातुकनमस्कृतम् । ददामि सर्वबुद्धानां त्रिगुह्यालयसंभवम् ॥ ३२६ दत्त्वाविवर्त्यसंसेकं चक्रतत्त्वं तु दर्शयेत् । चतुरस्रमवैषम्याद्बुद्धाबुद्धसमत्वतः ॥ ३२७ कायवाक्चित्तधर्माणां नानैकत्वाद्ययोगतः । तत्स्मृतिस्तत्र या श्रद्धा प्राग्द्वारं बोधये मतम् ॥ ३२८ भूतभाविविपर्यासहान्यनुत्पत्तये ततः । अभूतोत्पन्नतथ्यस्य चोत्पत्तिस्थितये पुनः ॥ ३२९ अर्वाग्द्वारं चतुर्वीर्यं छन्दोत्साहस्थितिर्मतिः । पश्चिममृद्धिपादास्तु द्वारं तत्स्मृतिरत्र तु ॥ ३३० श्रद्धावीर्यस्मृतिध्यानप्रज्ञेन्द्रियबलातुलम् । समाधिरुत्तरं त्वेवं चतुर्द्वारं स्मृतीन्द्रियैः ॥ ३३१ प्रथमादिचतुर्ध्यानैश्चतुस्तोरणवद्भवेत् । शूरङ्गमखगञ्जादिसमाधिर्वेदिकाः स्मृताः ॥ ३३२ वेद्यां पूजाकरव्यग्रग्रन्थादिधारिणीचयः । यच्चित्राभरणं तस्मात्सर्वाशापरिपूरणम् ॥ ३३३ विनयोद्धूतसद्धर्मनवाङ्गरवसर्वगम् । मारुतोद्धूतविश्वाग्रपताकाघण्टनादितम् ॥ ३३४ ज्ञानेष्वादर्शबोध्यङ्गैः सर्वदिक्षु प्रभास्वरैः । हारार्धहारचन्द्रार्कादर्शस्रक्चामरोज्ज्वलम् ॥ ३३५ चक्ररत्नादिसत्स्तम्भैर्विमोक्षाष्तकशोधितैः । तस्याभ्यन्तरतश्चक्रमष्तमण्डलकोपमम् ॥ ३३६ सर्वदिक्त्र्यध्वसम्बुद्धवज्रयानप्रवर्तनात् । वज्रसूत्रपरिक्षिप्तं समन्तात्परिमण्डलम् ॥ ३३७ रङ्गाणि पञ्चसंबुद्धास्तज्ज्ञानैः सत्त्वरञ्जनात् । इन्द्रियार्थादिसंशुद्ध्या स्वलक्षणविवेकतः ॥ ३३८ प्राग्यज्ज्ञानामृतं पीतं वज्रिणां कलशं तु तत् । संभारपूरिनिष्यन्दः पूर्णकुम्भः कृपार्द्रतः ॥ ३३९ पुष्पधूपमहादीपगन्धाख्यं यच्च मण्डले । बोध्यङ्गसुमनोह्लादिधर्मोल्का यशसां चयः ॥ ३४० धर्माहारस्तु नैवेद्यं ह्रीरपत्राप्यसंवरम् । सुगीतनृत्यवादित्रमहासुखविवर्धनम् ॥ ३४१ पुरं मोक्षपुरत्वाच्च मण्डलं सारसंग्रहात् । चक्रतत्त्वं समादर्श्य देवतातत्त्वमादिशेत् ॥ ३४२ श्रद्धावीर्यस्मृतिध्यानशुद्ध्या सद्द्वारिरूपकम् । कायादौ योगधृक्चित्तं प्रज्ञाशुद्ध्या सुनिर्मलम् ॥ ३४३ दानादिषड्बहिःशुद्ध्या रूपवज्रादिभावधृक् । भूपायाद्यनिमित्तत्वाल्लोचनादिस्वभावकम् ॥ ३४४ अर्थसत्त्वात्मसंकल्पप्रवृत्तिज्ञानशुद्धितः । आदर्शादिक्षयज्ञानं सर्वबुद्धस्वरूपकम् ॥ ३४५ ज्ञानानुत्पादयोगेन चक्रेशाकारभास्वरम् । रूपादिभ्रमसंशुद्ध्या स्कन्धायतनधातुकम् ॥ ३४६ मात्सर्यादिपरावृत्तेः परमाभूषु सुस्थिरम् । स्वविपक्षपरावृत्त्या बलाद्यविकलामलम् ॥ ३४७ अविकल्पात्तु गाम्भीर्यमौदार्यं स्वपरोदयात् । गाम्भीर्यौदार्यतश्चेतः प्रज्ञोपायात्मकं मतम् ॥ ३४८ प्रत्यात्मवेद्यधर्मत्वाद्भेदाभेदाद्यसंस्थितम् । एवं प्रपञ्चिते भ्रान्तिफलाः पारमीतादयः ॥ ३४९ समयाग्र्या ततो योगं रूपाब्दगुणयुक्तया । कृत्वाचार्योऽत्र संविश्य ज्ञानावेशं प्रकल्पयेत् ॥ ३५० वज्रेण पद्ममास्फोट्य बुद्धान् स्वान्तर्निवेश्य च । स्थिरीकृत्य च पद्मस्थान् प्राप्यानुज्ञां कुलाधिपात् ॥ ३५१ स्वनामोच्चार्य वज्रात्मा स्फरयेच्चक्रयोगतः । वज्राब्जध्वनिभिर्बुद्धानानीय चक्रपार्श्वतः ॥ ३५२ विघ्नानुत्सार्य संरक्ष्य दत्त्वार्घं प्रतिपूज्य च । संस्तुत्य द्वारिभिर्द्वारकर्म कृत्वात्र साधयेत् ॥ ३५३ चक्षुःकायाद्यधिष्ठानसेकपूजादिकल्पिते । विज्ञापयेत्सर्वसत्त्वार्थं कुरुध्वं सर्वसिद्धये ॥ ३५४ चक्रं संलिख्य सम्यक्प्राक्प्रतिष्ठायां त्वयं विधिः । प्रतिमापुस्तकादीनां पौरुषान्तस्तु सेकतः ॥ ३५५ सकलार्घवितानादि रक्षाहोमादि यत्स्मृतम् । त्रिपञ्चाक्षरसन्मन्त्रैर्मन्त्रैर्वा प्राक्समुद्धृतैः ॥ ३५६ कारयित्वा बहिः स्नानं चक्रवर्तीव तत्स्वयम् । उत्तमं तत्त्वमेतद्धि प्रज्ञोपायात्मकं तु यत् ॥ ३५७ जलमौली तु निष्यन्दः पाको वज्राधिपाःवकाः । संबुद्धैः पौरुषः सेको वैमल्यो गुह्ययोगतः ॥ ३५८ ततो रूपादिसम्पन्नां स्वभ्यस्तचक्रयोगिनीम् । समयसंवरस्थां तां चक्रे मुद्रामधिष्ठ्य च ॥ ३५९ मुनीन्द्रवृन्दं वज्रान्तः समावेश्य च सत्सुखम् । प्रपीड्यानामज्येष्ठाभ्यां शिष्यवक्त्रे प्रपातयेत् ॥ ३६० शिष्यो दृढमतिः सर्वं पिबेत्वैरोचनात्मना । स भवेद्विश्ववद्विश्वोऽत्राहो सुखेति वाग्ब्रुवन् ॥ ३६१ प्रज्ञासंपर्कतः श्रीमान् तत्त्वं समुपलक्षयेत् । इयं ते धारणी रम्या सेव्या बुद्धैः प्रकल्पिता ॥ ३६२ चक्रक्रमप्रयोगेण समास्वादय सत्सुखम् । वज्रपर्यङ्कतश्चित्तं मण्यन्तर्गतमीक्षयन् ॥ ३६३ मण्डलं देवतातत्त्वमाचार्यपरिकर्म च । संकथ्य गुह्यप्रज्ञाभ्यां सिक्त्वा तत्त्वं समुद्दिशेत् ॥ ३६४ यदाह ॥ न तथा बोधिचर्याद्यैरन्यैर्वापि न यैः शुभैः । प्राप्यन्ते सर्वबुद्धाद्या यथाभिषेकादितो नयात् ॥ ३६५ समयं रक्षयेद्भर्तुः संवरं पालयेत्सदा । पञ्चमांसामृतं भक्ष्यं रक्षोऽन्यः समयोऽप्यतः ॥ ३६६ रत्नघ्नघातसर्वस्त्रीपरस्वादानं वाङ्मृषा । एतद्धि विधिवत्रक्ष्यं योगतन्त्रे च यत्स्मृतम् ॥ ३६७ ततस्तथागतो भूत्वा व्याकुर्यादुद्गतयानया । हृन्मुष्टिचीवरा वामा दक्षिणा तु वरप्रदा ॥ ३६८ ओमेसाहं व्याकरोमि त्वां वज्रसत्त्वस्तथागतः । भवदुर्गतितोद्धृत्य अत्यन्तभवसिद्धये ॥ ३६९ हे वज्रनाम तथागत सिद्धये भूर्भूवः स्वः ॥ व्याक्रियतेऽनया यस्तु मन्त्री सर्वजगत्पतिः । बोधावनुत्तरायां हि व्याकुर्यात्सुगतैरपि ॥ ३७० यथा यथा हि विनयं सत्त्वा यान्ति स्वभावतः । तथा तथा हि सत्त्वार्थं कुर्याद्रागादिभिः शुचिः ॥ ३७१ प्रतिदिनं चतुःसन्ध्यं समाधित्रययोगवान् । भूत्वा साधय संसिद्धिं सामान्येतरभावनीम् ॥ ३७२ अन्तर्धिर्धातुसाहस्रे द्विसाहस्रेष्वभिज्ञकः । विद्याधरस्त्रिसाहस्रे वज्री सर्वजगत्पतिः ॥ ३७३ शान्तिपुष्ट्यादि यत्कर्म तदन्यद्वा यदीप्सितम् । चक्रानुरागयोगेन साधयन् सिध्यते लघु ॥ ३७४ तदुक्तम् ॥ वज्राधिपतयः सर्वे रागतत्त्वार्थचिन्तकाः । कुर्वन्ति रागजां बोधिं सर्वसत्त्वहितैषिनिईम् ॥ ३७५ अतो बोध्यर्थिको मन्त्री कायवाक्चित्तचेष्टितम् । कर्म कुर्याद्विधानेन सर्वं तद्बोधये मतम् ॥ ३७६ यथा प्रविष्टशिष्येभ्योऽनुशंसार्थिभ्य इत्यपि । समाश्वासां त्रिसमयमतो दद्याद्विधानतः ॥ ३७७ दृष्ट्वा प्रविष्ट्वा परमं रहस्योत्तममण्डलम् । सर्वपापैर्विनिर्मुक्ता भवन्तोऽद्यैव सुस्थिताः ॥ ३७८ न भूयो मरणं वोऽस्ति यानादस्मान्महासुखात् । अधृष्याश्चाप्यबद्धाश्च रमध्वमकुतोभयाः ॥ ३७९ निवृत्तं भवदुःखं वोऽत्यन्तभवशुद्धये । संभूताः शासिनामग्रा अत्यन्तभवसिद्धये ॥ ३८० अयं वः सततं रक्ष्यः सिद्धः समयसंवरः । सर्वबुद्धैः समं प्रोक्ता आज्ञा परमशाश्वती ॥ ३८१ बोधिचित्तं न वै त्याज्यं यद्वज्रमिति मुद्रया । यस्योत्पादनमात्रेण बुद्ध एव न संशयः ॥ ३८२ सद्धर्मो न प्रतिक्षेप्यो न च त्याज्यः कदाचन । अज्ञानाद्वाथ मोहाद्वा न वै विवृणुयात्स तु ॥ ३८३ स्वमात्मानं परित्याज्य तपोभिर्न च पीडयेत् । यथासुखं सुखं धार्यं संबुद्धोऽयमनागतः ॥ ३८४ वज्रं घण्टा च मुद्रा च न वै त्याज्या कदाचन । अचार्यो नावमन्तव्यः सर्वबुद्धसमो ह्यसौ ॥ ३८५ यो वावमन्येताचार्यं सर्वबुद्धसमं गुरुम् । सर्वबुद्धापमानेन स नित्यं दुःखमाप्नुयात् ॥ ३८६ ज्वरैर्गरैर्विषैर्रोगैर्डाकिन्युपद्रवैर्ग्रहैः । विघ्नैर्विनायकैर्घोरैर्मारितो नरकं व्रजेत् ॥ ३८७ तस्मात्सर्वप्रयत्नेन वज्राचार्यं महागुरुम् । प्रच्छन्नवरकल्याणं नावमन्येत्कदाचन ॥ ३८८ अनुरूपं च ते देयं गुरुभक्तं सदक्षिणम् । ततो ज्वरादयस्तापा न भूयः प्रभवन्ति हि ॥ ३८९ नित्यं स्वसमयः साध्यो नित्यं पूज्यास्तथागताः । नित्यं च गुरवे देयं सर्वबुद्धसमो ह्यसौ ॥ ३९० तद्दानात्पुण्यसंभारः संभाराद्बोधिरुत्तमा ।२८६ दत्तेऽस्मै सर्वबुद्धेभ्यो दत्तं भवति शाश्वतम् ॥ ३९१ अद्य वः सफलं जन्म यदस्मिन् सुप्रतिष्ठिताः । समाः समयदेवानां भविता स्थ न संशयः ॥ ३९२ अद्याभिषिक्ता आयुष्मन्तः सर्वबुद्धैः सवज्रिभिः । त्रैधातुकमहाराज्यं राजाधिपतयः स्थिराः । ३९३ अद्य मारान् विनिर्जित्य प्रविष्टाः परमं पुरम् । प्राप्तमद्यैव बुद्धत्वं भवद्भिर्नात्र संशयः ॥ ३९४ इति कुरुत मनः प्रसादवज्रं स्वसमयमक्षयसौखदं भजध्वम् । जगति लघु सुखेऽद्य वज्रसत्त्वप्रतिसमशाश्वततां गता भवन्तः ॥ ३९५ प्रणिपत्य गुरोः पदौ शिष्याः सद्भक्तिवत्सलाः । ब्रूयुरेवं करिष्यामो यथाज्ञापयसे विभो ॥ ३९६ सत्येव संभवे तेषां प्रत्येकं वामपाणिना । सव्याङ्गुष्ठकमागृह्य शान्तिं कुर्याद्विधानतः ॥ ३९७ त्रिसप्ताहुतिमेकां वा राज्ञो वा भूपतेरथ । दिक्पालस्वात्मशान्तौ च हुत्वा याचेत दक्षिणाम् ॥ ३९८ सर्वसत्त्वार्थकर्त्तव्ये श्रुतादौ वा प्रति प्रति । भूगजादिसुवर्णादौ स्वसिद्धौ वा सहायताम् ॥ ३९९ संगृह्य यत्तदुत्सृष्टं संतोष्य दत्तदक्षिणान् । सर्वाहारविहारैस्तैः स्वपरैश्चक्रमर्चयेत् ॥ ४०० संगृह्य योग्यसच्छिष्यान् विचित्रपरमायुभिः । संतर्प्य चोपसंहृत्य मुः-कारान्तैश्च त्र्यक्षरैः ॥ ४०१ आकारेत्यादिमन्त्रेण शून्यं तच्चक्रमुत्तमम् । दत्त्वार्थिने रजः स्तोकं महत्तोये रजः सृजेत् ॥ ४०२ गर्त्तापूरे प्रतिष्ठायां होमे चक्रे च यद्धनम् । आचार्यस्यैव तत्सर्वमित्याह वरवज्रधृक् ॥ ४०३ इत्यादिकर्मिकस्यायमुक्तश्चक्रविधिः स्फुटः । ज्ञानावेशसुलब्धस्य त्वावेशेनैव कथ्यते ॥ ४०४ द्वादशाब्दे समावेश्य संपूज्य बालबालिके । ताभ्यां यद्रचयेच्चक्रं चित्तवाक्कायिकं मतम् ॥ ४०५ चित्ते त्वक्षोभ्यमामक्योरादेशः समुदाहृतः । पाण्डरामितयोर्वाचि काये शाश्वतलोचने ॥ ४०६ चित्तवाक्कायसंस्तोभाद्रचनात्त्वियमद्भुता । चित्तस्तोभात्परिज्ञानं वाक्स्तोभान्मन्त्रभाषणम् ॥ ४०७ कायस्तोभाच्च खेस्थानं स्तोभावेशे विधिस्त्वयम् । आचार्यशिष्यसेकोऽत्र प्राङ्न्यायेनैव संस्थितः ॥ ४०८ प्राप्तज्ञानवशीकुर्याच्चेतसैव त्रिचक्रकम् । तदधिष्ठानतश्चक्रं दृश्यते स्वपरैर्यतः ॥ ४०९ प्रवेशोऽत्राभ्यनुज्ञतः स्पष्टस्वप्नवदिष्यते । यतस्तेनोत्तमो ज्ञेयश्चित्तमूर्तिदृढत्वतः ॥ ४१० त्रियोगानामपि प्राग्वद्विधिर्वाक्कायचक्रयोः । तत्स्थानेऽक्षोभ्यचिह्नं स्याद्वाक्कायगुह्यशुद्धये ॥ ४११ ज्ञानादिकर्मिसंवेशिसंप्राप्तवशिनामपि । चेतसैव विधिः सर्वस्तद्धीनो नैव सिध्यति ॥ ४१२ वज्राचार्याग्रशिष्याणां निष्यन्दादिरतात्मनाम् । मनसोक्तो विधिः श्रेष्ठो वाङ्मात्रेणात्र किं भवेत् ॥ ४१३ वृत्तमात्रान्न बुद्धत्वं श्रुतमात्राच्च नो भवेत् । चिन्तयापि न यावच्च भावनातो निरुच्यते ॥ ४१३ यदाह ॥ अलं बहुविसर्पिण्या कथया मन्त्रवादिनाम् । चेतः साध्यं विशेषेण चित्तात्संबोधिसम्भवः ॥ ४१४ यदुक्तम् ॥ यत्फलं बोधिचित्तं तद्बुद्धज्ञानमनुत्तरम् । वज्रसत्त्वमयं तस्य धर्मसंभोगनिर्मितम् ॥ ४१५ प्राकृतकल्पनावृत्तेर्नान्यद्दुःखं भवात्मकम् । साक्षादस्य विरोध्येवं प्रज्ञोपायात्म [...] ४१६