सिद्धं नमः सर्व्वबुद्धधम्मार्य्यसंघेभ्यः १ १ मनोपूर्व्वंगमा धम्मा मनोश्रेष्ठा मनोजवा । मनसा च प्रदुष्टेन भाषते वा करोति वा । ततो नं दुखमन्नेति चक्रं वा वहतो पदं ॥ ३१:२३ मनःपूर्वङ्गमा धर्मा मनःश्रेष्ठा मनोजवाः । मनसा हि प्रदुष्टेन भाषते वा करोति वा । ततस्तं दुःखमन्वेति चक्रं वा वहतो पदम् ॥ २ २ म[नोपूर्व्वं]गमा धम्मा मनोश्रेष्ठा मनोजवा । मनसा च प्रसन्नेन भाषते वा करोति वा । ततो नं सुखमन्नेति च्छाया वा अनपायिनी ॥ ३१:२४ मनःपूर्वङ्गमा ध्र्मा मनःश्रेष्ठा मनोजवा । मनसा च प्रसन्नेन भाषते वा करोति वा । ततस्तं सुखमन्वेति च्छाया वा अनुगमिनी ॥ ३ १५ इह शोचति प्रेच्च शोचति पापकम्[मो उभय]त्थ शोचति । सो शोचति सो विहंन्यति दृष्टा कम्मकिलेशमात्तनो ॥ २८:३४ इह शोचति प्रेत्य शोचति पापकम्मा हि उभयत्र शोचति । स हि शोचति स प्रशोचति दृष्ट्वा कर्म हि क्लिष्टमात्मनः ॥ ४ १६ इह नन्दति प्रेच्च नन्दति कतपुंञो उभयत्थ नन्दति । सो नन्दति [ ]दति दृष्टा कम्मविशुद्धिमात्तनो ॥ २८:३५ इह नन्दति प्रेत्य नन्दति कृतपुण्यो ह्युभयत्र नन्दति । स हि नन्दति स प्रमोदते दृष्ट्वा कर्म विशुद्धमात्मनः ॥ ५ ३ आक्रोशि ममवधि मं अजिनि ममहासि मे । ये तानि उपनह्यन्ति वेरं तेसं न शाम्यति ॥ १४:९ आक्रोशन्मामवोचन्माम् अजयन्मामजापयेत् । अत्र ये ह्युपनह्यन्ति वैरं तेषां न शाम्यति ॥ ६ ४ आक्रो[षि मं] अवधि मं अजिनि ममहासि मे । ये तानि नोपनह्यन्ति वेरं तेसमुपशम्यति ॥ १४:१० आक्रोशन्मामवोचन्माम् अजयन्मामजापयेत् । अत्र ये नोपनह्यन्ति वैरं तेषां प्रशाम्यति ॥ ७ ७ शुभाऽनुपश्शिं विहरन्तं इन्द्रियेसु असंवृतं । [भोजन]म्हि अमात्तंञू कुशीदं हीनवीरियं ॥ तं वे प्रसहते मारो वातो रुक्खं व दुब्बलं । २९:१५ शुभानुदर्शिनं नित्यम् इद्रियैश्चाप्यसंवृतं । भोजने चाप्यमात्रज्ञं हीनं जागरिकासु च । तं वै प्रसहते रागो वातो वृक्षमिवाबलं । ८ ८ अशुभानुपश्शिं विहरन्तं इन्द्रियेषु सुसंवृतं ॥ भोजनम्हि च मा[ ]द्धमारद्धवीरियं । तं वे न प्रसहते मारो वातो शेलं व पर्व्वतं ॥ २९:१६ अशुभानुदर्शिनं नित्यम् इन्द्रियैश्च सुसंवृतं । भोजने चापि मात्रज्ञं युक्तं जागरिकासु च । तं न प्रसहते रागो वातः शैलमिव स्थिरं ॥ ९ ३२८ सचे लभेया निपकं सप्रंञं साद्धिंचरं साधुविहारधीरं । अधिभूय सब्बाणि परिश्रव्[ ] चरेया तेनात्तमनो सतीमा ॥ १४:१३ स चेल्लभेद्वै निपकं सहायं लोके चरं साधु हि नित्यमेव । अधिभूय सर्वाणि परिस्रवाणि चरेत तेनाप्तमना स्मृतात्मा ॥ १० ३२९ न चे लभेया निपकं सप्रंञं साद्धिंचरं साधुविहारधीरं । राजा व राष्टं विजितं प्रहाय एको च्चरे मातंगारन्ने व नागो ॥ १४:१४ न चेल्लभेत्वै निपकं सहायं लोके च रं साधु हि नित्यमेव । राजेव राष्ट्रं विपुलं प्रहाय एकश्चरेन्न च पापानि कुर्यात् ॥ ११ ३३० एकस्स चरितं श्रेयो नास्ति बाले बितीयता । एको च्चरे न च पापानि कयिरा अप्पुस्सुको मातंगारन्ने व नागो ॥ १४:१६ एकस्य चरितं श्रेयो न तु बालः सहायता । एकश्चरेन्न च पापानि कुर्याद् अल्पोत्सुकोऽरण्यगतै व नागः ॥ १२ छन्ददोषभया मोहा यो धम्ममतिवत्तति । नीहीरते तस्स यशो कालपक्खे व चन्द्रमा ॥ १३ छन्ददोषभया मोहा यो धम्मं नातिवत्तति । आपूरते तस्स यशो शुक्लपक्खे व चन्दरमा ॥ १४ २१ अप्रमादो अमतपदं प्रमादो मच्चुनो पदं । अप्रमत्ता न म्रीयन्ति ये प्रमत्ता यथा मता ॥ ४:१ अप्रमादो ह्यमृतपदं प्रमादो मत्युनः पदम् । अप्रमत्ता न म्रियन्ते ये प्रमत्ताः सदा मृताः ॥ १५ २२ एतं विशेषतं न्यात्ता अप्रमादम्हि पण्डिता । अप्रमादे प्रमोदन्ति अयिराणां गोचरे रता ॥ ४:२ एतं विशेषतां ज्ञात्वा ह्यप्रमादस्य पण्डितः । अप्रमादं प्रमुद्येत नित्यमार्यः स्वगोचरम् ॥ १६ २३ ते झायिनो साततिका निच्चं दृढपराक्रमा । फुसन्ति धीरा निब्बाणं योगच्छेममनुत्तरं ॥ ४:३ अप्रमत्ताः साततिका निच्चं दृढपराक्रमाः । स्पृशन्ति धीरा निर्वाणं योगक्षेममनुत्तरम् ॥ १७ २६ प्रमादमनुयुञ्जन्ति बाला दुम्मेधिनो जना । अप्रमादन् तु मेधावी धनं श्रेष्ठं व रक्खति ॥ ४:१० प्रमादमनुवर्तन्ते बाला दुर्मेधसो जनाः । अप्रमादं तु मेधावी धनं श्रेष्ठीव रक्षति ॥ १८ २९ अप्रमत्तो प्रमत्तेसु सुत्तेसु बहुजागरो । अबलाष्षं व शीघ्राश्शो हेत्ता याति सुमेधसो ॥ १९:४ अप्रमत्तः प्रमत्तेषु सुप्तेषु बहुजागरः । अबलाश्व इव भद्राश्वं हित्वा याति सुमेधसम् ॥ १९ २८ प्रमादमप्रमादेन यदा नुदति पण्डितो । प्रंञाप्रासादमारुह्य अशोको शोकिनिं प्रजां । पर्व्वतट्ठो व भोमऽट्ठे धीरो बाले अवेच्छति ॥ ४:४ प्रमादमप्रमादेन यदा नुदति पण्डितः । प्रज्ञाप्रासादमारुह्य त्वशोकः शोकिनीं प्रजाम् । पर्वतस्थैव भूमिस्थां धीरो बालानवेक्षते ॥ २० १७२ पूर्व्वे चापि प्रमज्जित्ता यो पच्छा न प्रमज्जति । सो इमं लोकं प्रभासेति अभ्रमुत्तो व चन्द्रमा ॥ १६:५ यस्तु पूर्वं प्रमाद्येह पश्चाद्वै न प्रमाद्यते । स इमं भासते लोकम् अभ्रमुक्तैव चन्द्रमाः ॥ २१ पूर्व्वे चापि प्रमज्जित्ता यो पच्छा न प्रमज्जति । सो इमां विसत्तिकां लोके सतो समतिवत्तति ॥ १६:६ यस्तु पूर्वं प्रमाद्येह पश्चाद्वै न प्रमाद्यते । स इमां विषक्तिकां लोके स्मृतः समतिवर्तते ॥ २२ ३२ अप्रमादगरु भिक्खू प्रमादे भयदंशिनो । अभव्वो परिहाणाय निब्बाणस्सेव सन्तिके ॥ ४:३२ अप्रमादरतो भिक्षुः प्रमादे भयदर्शकः । अभव्यः परिहाणाय निर्वाणस्यैव सोऽन्तिके ॥ २३ ३१ अप्रमादगरु भिक्खू प्रमादे भयदंशिनो संयोजनमणुत्थूलं दहमग्गीव गच्छति । ४:२९ अप्रमादरतो भिक्षुः प्रमादे भयदर्शकः । संयोजनमणुस्थूलं दहन्नग्निरिव गच्छति । २४ ३२७ अप्रमादरता होथ सं चित्तमनुरक्खथ ॥ दुग्गा उद्धरथात्तानं पके सन्नो व कुञ्जरो । ४:३६।४:२७ अप्रमादरता भवत स्वचित्तमनुरक्षत ॥ दुर्गादुद्धरते त्मानं पङ्कसन्नैव कुञ्जरः । २५ प्रमादे प्रमुदिनो निपका शीलसंवृता ॥ ते वे काले प्राच्छन्ति यत्थ प्रात्तो न शोचति । २६ प्रमादे प्रमोदेथ न कामरतिसन्धवे ॥ एवं विहरनातापी शान्तचित्तोऽनुद्धतो । चेतोशमथमनुयुत्तो दुक्खस्सन्तकरो सिया ॥ २७ २४ उट्ठेया न प्रमज्जेया धम्मं सुचरितं चरे । धम्मचारी [ ] शेति अश्शिं लोके परम्हि च ॥ ४:३५ उत्तिष्ठेन्न प्रमाद्येत धर्मं सुचरितं चरेत् । धर्मचारी सुखं शेते ह्यस्मिं लोके परत्र च ॥ २८ २४ उट्ठाणवतो सतीमतो शुचिकम्मस्स निशाम्मकाणो । संय्यतस्स च धम्मजीविनो अप्रमत्तस्स यशोऽस्स वद्धति ॥ ४:६ उत्थानवतः स्मृतात्मनः शुभचित्तस्य निशाम्यचारिणः । संयतस्य हि धर्मजीविनो ह्यप्रमत्तस्य यशोऽभिवर्धते ॥ २९ २५ उट्ठाणेनाऽप्रमादेन संय्यमेन दमेन च । दीपं कयिराथ मेधावी यमोघो नाधिपूरति ॥ ४:५ उत्थानेनाप्रमादेन संयमेन दमेन च । द्वीपं करोति मेधावी तमोघो नाभिमर्दति ॥ ३० २८० उट्ठाणकालम्हि अनुट्ठिहानो युवा बली आलसिको उपको । संसन्नसंकप्पमनो कुसीदो प्रंञाय माग्गमलसो न येति ॥ ३१:३२ उत्थानकालेषु निहीनवीर्यो वाचा बली त्वालसिको निराशः । सदैव संकल्पहतः कुसीदो ज्ञानस्य मार्गं सततं न वेत्ति ॥ ३१ १६७ हीनं धम्मं न सेवेया प्रमादेन न सम्वसे । मिच्छदृष्टिं न सेवेया न सिया लोकवद्धनो ॥ ४:८ हीनां धर्मं न सेवेत प्रमादेन न संवसेत् । मित्यादृष्टिं न रोचेत न भवेल्लोकवर्धनः ॥ ३२ २५९ न तावता धम्मधरो यावता बहु भाषति । यो तु अप्पं पि सोत्तान धम्मं कायेन फस्सये । स वे धम्मधरो होति यो धम्मे न प्रमज्जति ॥ ४:२१ न तावता धर्मधरो यावता बहु भाषते । यस्त्विहाल्पमपि श्रुत्वा धर्मं कायेन वै स्पृशेत् । स वै धर्मधरो भवति यो धर्मे न प्रमाद्यते ॥ ३३ ३७१ धम्मं विचिनाथ अप्रमत्ता मा वो कामगुणा भ्रमेंसु चित्तं । मा लोहगुडे गिलं प्रमत्तो क्रण्डे दुक्खमिदन् ति दह्यमानो ॥ ३१:३१ आतापि विहर त्वमप्रमत्तो मा ते कामगुणो मथेत चित्तम् । मा लोहगुडां गिलेः प्रमत्तः क्रन्दं वै नरकेषु पच्यमानः ॥ अप्रमादवग्गः ***** ब्राह्मण ***** ३४ ३८३ छिन्न सूत्रं पराक्राम्म भवं प्रणुद ब्राह्मण । संखाराणां खयं ञात्ता अकथसो सि ब्राह्मण ॥ ३३:६० छिन्धि स्रोतः पराक्रम्य कामां प्रणुद ब्राह्मण । संकाराणां क्षयं ज्ञात्वा ह्यकृतज्ञो भविष्यसि ॥ ३५ यम्हि धम्मं विजानेया वृद्धम्हि दहरम्हि । सक्कच्च नं नमस्सेया अग्गिहोत्रं व ब्राह्मणो ॥ ३३:६४ यस्य धर्मं विजानीयाद् वृद्धस्य दहरस्य वा । सतृअत्यनं नमस्येत ह्यग्निहोत्रमिव द्विजः ॥ ३६ ३९२ यम्हि धम्मं विजानेया सम्मसंबुद्धदेशितं । तमेव अपचायेया अग्गिहोत्रं व ब्राह्मणो ॥ ३३:६६ यस्य धर्मं विजानीयात् सम्यक्संबुद्धदेशितम् । सत्कृत्यैनं नमस्येत ह्यग्निहोत्रमिव द्विजः ॥ ३७ न जटाहि न गोत्रेण न जाच्चा होति ब्राह्मणो । यो तु बाहति पापानि अणुत्थूलानि सब्बशो ॥ बाहना एव पापानां ब्राह्मणो ति प्रवुच्चति । ३३:८ न जटाभिर्न गोत्रेण न जात्या ब्राह्मणः स्मृतः । यस्तु वाहयते पापान्य् अणुस्थूलानि सर्वशः । वाहितत्वात्तु पापानां ब्राह्मणो वै निरुच्यते ॥ ३८ ४०१ वारी पुक्खरपत्ते वा आराग्रे-र्-इव सासवो ॥ यो न लिप्पति कामेसु तमहं ब्रूमि ब्राह्मणं । ३३:३० वारी पुष्करपत्रेणेव् आराग्रेणेव सर्षपः । न लिप्यते यो हि कामैर् ब्रवीमि ब्राह्मणं हि तम् ॥ ३९ ३८७ उदयं तपति आदिच्चो रात्रिमाभाति चन्द्रमा ॥ सन्नद्धो खत्तियो तपति झायिं तपति ब्राह्मणो ॥ अथ सब्बे अहोरात्ते बुद्धो तपति तेजसा ॥ ३३:७४ दिवा तपति हादित्यो रात्रावाभाति चन्द्रमाः । संनद्धः क्षत्रियस्तपति ध्यायी तपति ब्राह्मणः । अथ नित्यमहोरात्रं बुद्धस्तपति तेजसा ॥ ४० ३८५ यस्स पारमपारं वा पारापारं न विज्जति । वीतज्जरं विसंयुत्तं तमहं ब्रूमि ब्राह्मणं ॥ ४१ ३८४ यदा दयेसु धम्मेसु पारगू होति ब्राह्मणो । अथस्स सब्बे संयोगा अत्थं गच्छन्ति जानतो ॥ ३३:७२ यदा हि स्वेषु धर्मेषु ब्राह्मणः पारगो भवेत् । अथास्य सर्वसंयोगा अस्तं गच्छन्ति पश्यतः ॥ ४२ स खु सो खिणसंयोगो खीणमानपुनब्भवो । संघावसेवी धम्मट्ठो संघं न उपेति वेदगू ॥ ६:१० स तु विक्षीण संयोगः क्षीणमानो निरौपधिः । कायस्य भेदात्सप्रज्ञः संख्यान्नोपैति निर्वृतः ॥ ४३ ४०८ अकक्कशिं विन्नपणिं गिरां सच्चमुदीरये । ताय नाभिषपे कंचि तमहं ब्रूमि ब्राह्मणं ॥ ३३:१७ योऽकर्कशां विज्ञपनीं गिरं नित्यं प्रभाषते । यया नाभिषजेत्कश्चिद् ब्रवीमि ब्राह्मणं हि तम् ॥ ४४ ४०४ असंसट्ठं गृहट्ठेहि अनगारेहि चूभयं । अनोकसारिमप्पिच्छं तमहं ब्रूमि ब्राह्मणं ॥ ३३:२० असंसृष्टं गृहस्थेभिर् अनगारैस्तथोभयं । अनोकसारिणं तुष्टं ब्रवीमि ब्राह्मणं हि तं ॥ ४५ ३९१ यस्स कायेन वाचाय मनसा नास्ति दुक्कतं । संवृतं त्रिसु ट्ठाएसु तमहं ब्रूमि ब्राह्मणं ॥ ३३:१६ यस्य कायेन वाचा च मनसा च न दुष्कृतम् । सुसंवृतं तृभिः स्थानैर् ब्रवीमि ब्राह्मणं हि तम् ॥ ४६ ३८९ मा ब्राह्मणस्स प्रहरे नास्स मुच्चेय ब्राह्मणो । धि ब्राह्मणस्स हन्तारं य स्स वा सु न मुच्चति ॥ ३३:६३ न ब्राह्मणस्य प्रहरेन् न च मुञ्चेत ब्राह्मणः । धिग्ब्राह्मणस्य हन्तारं धिक्तं यष्च प्रमुञ्चति ॥ ४७ २९४,२९५ मातरं पठनं हन्ता राजानं दो च खत्तिये । राष्टं सानुचरं हन्ता अनिघो चरति ब्राह्मणो ॥ ३३:६१,६२ मातरं पितरं हत्वा राजानं द्वौ च श्रोत्रियौ । राष्ट्रं सानुचरं हत्वा अनिघो याति ब्राह्मणः ॥ ४८ ४०३ गम्भीरप्रंञं मेधाविं माग्गाऽमाग्गस्स कोविदं । उत्तमात्थमनुप्रात्तं तमहं ब्रूमि ब्राह्मणं ॥ ३३:३३ गम्भीरबुद्धिं मेधाढ्यं मार्गामार्गेषु कोविदम् । उत्तमार्थमनुप्राप्तं ब्रवीमि ब्राह्मणं हि तम् ॥ ४९ ३८६ झायिं विरजमासीनं कतकिच्चमनासवं । उत्तमात्थमनुप्रात्तं तमहं ब्रूमि ब्राह्मणं ॥ ३३:३२ ध्यायिनं वीतरजसं कृतकृत्यमनासवम् । क्षीणास्रवं विसंयुक्तं ब्रवीमि ब्राह्मणं हि तम् ॥ ब्राह्मणवर्ग्गः ***** भिक्षु ***** ५० सब्बत्थ संवरो साधु साधु सब्बत्थ संवरो । सब्बत्थ संवृतो भिक्खू सब्बदुक्खा प्रमुच्चति ॥ ५१ ३६१ कायेन सम्वरो साधु साधु वाचाय संवरो । मनसा पि संवरो साधु साधु सब्बत्थ संवरो । सब्बत्थ संवृतो भिक्षू सब्बदुक्खा प्रमुच्चति ॥ ७:११ कायेन संवरः साधु साधु वाचा च संवरः । मनसा संवरः साधु साधु सर्वत्र संवरः । सर्वत्र संवृतो भिक्षुः सर्वदुःखात्प्रमुच्यते ॥ ५२ ३६२ हस्तसंय्यतो पादसंय्यतो वाचासंय्यतो संवृतेन्द्रियो ॥ अज्झत्तरतो समाहितो एको संतुषितो तमाहु भिक्खुं । ३२:७ हस्तसंयतः पादसंयतो वाचासंयतः सर्वसंयतः । आध्यात्मरतः समाहितो ह्येकः संतुषितो हि यः स भिक्षुः ॥ ५३ ३७८ शान्तकायो शान्तचित्तो शान्तवा सुसमाहितो ॥ वान्तलोकामिषो भिक्खू उपशान्तो ति वुच्चति । ३२:२४ शान्तकायः (शान्तचित्तः) शान्तवाक्सुसमाहितः । वान्तलोकामिषो भिक्षुर् उपशान्तो निरुच्यते ॥ ५४ ३६३ यो मुखे संय्यतो भिक्खू मन्ताभाषी अनुद्धतो ॥ अत्थं धम्मञ्च देशेति मधुरं तस्स भाषितं । ८:१० मुखेन संयतो भिक्षुर् मन्दाभाषी ह्यनुद्धतः । अर्थं धर्मं च देशयति मधुरं तस्य भाषितम् ॥ ५५ ३६५ सं लाभं नातिमंञेया नाऽंञेसं प्रिहयं चरे ॥ अंञेसं प्रिहयं भिक्खू समाधिन्नाधिगच्छति । १३:८ स्वलाभं नावमन्येत नान्येषां स्पृहको भवेत् । अन्येषां स्पृहको भिक्षुः समाधिं नाधिगच्छति ॥ ५६ ३६६ अप्पलाभो पि चे भिक्खू सं लाभं नातिमंञति ॥ तं वे देवा प्रशंसन्ति शुद्धाजीविमतन्द्रितं ॥ १३:१२ अल्पज्ञातोऽपि चेद्भवति शीलेषु सुसमाहितः । विद्वांसस्तं प्रशंसन्ति शुद्धाजीविमतन्द्रितम् ॥ ५७ ३६९ सिञ्च भिक्खु इमं नावां सित्ता ते लघु हेहिति । हेत्ता रागञ्च दोषं च ततो निब्बाणमेहिसि ॥ २६:१२ सिञ्च भिक्षोरिमां नावं सिक्ता लघ्वी भविष्यति । हित्वा रागं च दोषं च ततो निर्वाणमेष्यसि ॥ ५८ उदाग्ग्रचित्तो सुमनो अधिभूय प्रियाऽप्रियं ॥ ततो प्रामोज्जबहुलो सतो भिक्खू परिव्रजे । ३२:२३ उदग्रचित्तः सुमना ह्यधिभूय प्रियाप्रियम् ॥ प्रामोद्यबहुलो भिक्षुर् दुःखक्षयमवाप्नुयात् । ५९ ३६८ मेत्ताविहारी भिक्खू प्रसन्नो बुद्धशासने ॥ पटिविज्झि पदं शान्तं संखारोपशमं सुखं । दृष्टे व धम्मे निब्बाणं योगच्छेममनुत्तरं ॥ ३२:२१ मैत्राविहारी यो भिक्षुः प्रसन्नो बुद्धशासने । अधिगच्छेत्पदं शान्तं संस्कारोपशमं सुखम् ॥ (दृष्टे व धम्मे निब्बाणं योगच्छेममनुत्तरं ॥) ६० ३७३ शुंञऽगारं प्रविष्टस्स शान्तचित्तस्स भिक्खुणो । अमानुषा रती होति सम्मं धम्मं विपश्शतो ॥ ३२:९ शुन्यागारं प्रविष्टस्य प्रहितात्मस्य भिक्षुणः । अमानुषा रतिर्भवति सम्यग्धर्मां विपश्यतः ॥ ६१ ३७४ यथा यथा सम्मस्सति खन्धानामुदयव्ययं । लभते चित्तस्स प्रामोज्जं अमता हेतं विजानतो ॥ ३२:१० यथो यथः संपृशति स्कन्धानामुदयव्ययम् । प्रामोद्यं लभते तत्र प्रीया सुखमनल्पकम् । ततः प्रामोद्यबहुलः स्मृतो भिक्षुः परिव्रजेत् ॥ ६२ ३७२ नास्ति झानमप्रंञस्स प्रंञा नास्ति अझायतो । यम्हि झानं च प्रंञा च स वे निब्बाणसन्तिके ॥ ३२:२५ नास्त्यप्रज्ञस्य वै ध्यानम् प्रज्ञा नाध्यायतोऽस्ति च । यस्य ध्यानं तथा प्रज्ञा स वै निर्वाणसान्तिके ॥ ६३ ३७५ तत्थायमादी भवति इह प्रंञस्स भिक्खुणो । इन्द्रियगोत्ती सान्तोष्टी प्रातिमोक्खे च संवरो ॥ ३२:२६ द्,२७ ब् तस्यायमादिर्भवति तथा प्रज्ञस्य भिक्षुणः । संतुष्टिरिन्द्रियैर्गुप्तिः प्रातिमोक्षे च संवरः ॥ ६४ ३७५ f,३७६ मित्ते भजेथ कल्लाणे शुद्धाजीवी अतन्द्रितो । पटिसन्धरवट्टि स्स आचरकुशलो सिया । ततो प्रामोज्जबहुलो सतो भिक्खू परिव्रजे ॥ ३२:६ मात्रं भजेत प्रतिरूपं शुद्धाजीवो भवेत्सदा । प्रतिसंस्तारवृत्तिः स्याद् आचारकुशलो भवेत् । ततः प्रामोद्यबहुलः स्मृतो भिक्षुः परिव्रजेत् ॥ ६५ ३३१ अत्थेसु जातेसु सुखा सखाया पुंञं सुखं जीवितसंखयम्हि । तोष्टी सुखा या इतरी[ ] सब्बस्स पापस्स सुखं प्रहाणं ॥ ३०:३४ अर्थेषु जातेषु सुखं सहायाः पुण्यं सुखं जीवितसंक्षयेषु । तुष्टिः सुखा या त्वितरेतरेण सर्वस्य दुःखस्य सुखो निरोधः ॥ ६६ ३३२ सुखा मात्रेता लोके ततो पेत्तेता सुखा । शामन्नता सुखा लोके ततो ब्राह्मन्नता सुखा ॥ ३०:२१ सुखं मातृव्यता लोके सुखं चैव पित्तृव्यता । सुखं श्रामण्यता लोके तथा ब्राह्मण्यता सुखम् ॥ ६७ ३३३ सुखं यावज्जरा शीलं सुखा श्रद्धा प्रतिष्ठिता । सुखा अत्थरसा वाचा अस्सिं मानक्खयो सुखो ॥ ३०:२० सुखं यावज्जरा शीलं सुखं श्रद्धा प्रतिष्ठिता । सुखं चार्थरता वाचा पापस्याकरणं सुखं ॥ ६८ १९४ सुखो बुद्धान उप्पादो सुखा धम्मस्स देशना । सुखा संघस्स सामग्ग्री समग्ग्राणां तपो सुखो ॥ ३०:२२ सुखं बुद्धस्य चोत्पादः सुखं धर्मस्य देशना । सुखं संघस्य सामग्री समग्राणां तपः सुखं ॥ ६९ २०६ सुखं दंशनमयिराणां संवासो पि सतां सुखो । अद्दंशनेन बालानां निच्चमेव सुखी सिया ॥ ३०:२५ सुखं दर्शनमार्याणां संवासोऽपि सदा सुखं । अदर्शनेन बालानां नित्यमेव सुखी भवेत् ॥ ७० २०७ बालासङ्गतचारी हि द्रीघमद्धान शोचति । दुक्खो बालेहि संवासो अमित्तेहि-र्-इव सब्बदा । धीरा तु सुखसंवासा ञातीनं वा समागमो ॥ ३०:२६ बालासंसर्गचारी हि दीर्घाध्वानं प्रशोचति । दुःखो बालैर्हि संवासो ह्यमित्रैरिव सर्वशाः । धीरैस्तु सुखसंवासो ज्ञातीनामिवा संगमः ॥ ७१ २०८ तस्सा हि धीरं च बहुश्शुतञ्च धोरेयशीलव्रतमन्तमयिरं । तं तारिसं सप्पुरुषं सुमेधं सेवेथ नक्खत्तपथे व चन्द्रमा ॥ २५:२५ धीरं प्राज्ञं निषेवेत शीलवन्तं बहुश्रुतम् । धौरेयं जवसंपन्नं चन्द्रं तारागणा इव ॥ ७२ २१२ प्रियातो जायते दुक्खं प्रिया शोका प्रिया भयं । प्रियातो विप्रमुत्तस्स नास्ति शोका कतो भयं ॥ ५:१ प्रियेभ्यो जायते शोकः प्रियेभ्यो जायते भयम् । प्रियेभ्यो विप्रमुक्तानां नास्ति शोकः कुतो भयम् ॥ ७३ २१० मा प्रियेहि समागंम अप्रियेहि कदाचनं । प्रियस्स अद्दंशनं दुक्खं अप्रियस्स च दंशनं ॥ ५:५ मा प्रियैः संगमो जातु मा च स्यादप्रियैः सदा । प्रियाणामदर्शनं दुःखं अप्रियाणां च दर्शनम् ॥ ७४ २११ तस्सा प्रियं न कयिराथ प्रियावादो हि पापको । ग्ग्रंथा तेसं न विज्जन्ति येसं नास्ति प्रियाप्रियं ॥ ५:८ तस्मात्प्रियं न कर्वीत प्रियभावो हि पापकः । ग्रन्थास्तेषां न विद्यन्ते येषां नास्ति प्रियाप्रियम् ॥ ७५ २१३ छुधा परम रोगाणं संखारपरमं दुखं । एतं ञात्ता यथाभूतं निब्बाणपरमं सुखं ॥ २६:७ क्षुधा परम रोगाणां संस्कारा दुःखमेव तु । एतज्ज्ञात्वा यथाभूतं निर्वाणपरमो भवेत् ॥ ७६ २०४ आरोग्गपरमा लाभा सांतोष्टीपरमं धनं । विश्शासपरमा ञाती निब्बाणपरमं सुखं ॥ २६:६ आरोग्यपरमा लाभा सांतुष्टिपरमं धनम् । विश्वासपरमं मित्रं निर्वाणपरमं सुखम् ॥ ७७ २९० मात्तासुखपरिच्चागा पश्शे चे विपुलं सुखं । चजे मात्तासुखं धीरो संपश्शं विपुलं सुखम् ॥ ३०:३० मात्रासुखपरित्यागाद् यः पश्येद्विपुलं सुखम् । त्यजेन्मात्रासुखं धीरः संपश्यं विपुलं सुखम् ॥ ७८ मनुजस्स सदा सतीमतो मात्तं जानिय लद्धिभोजने । तनुकाऽस्स भवन्ति वेदना शनिकं जीरति आयु पालयं ॥ २९:१४ मनुजस्य सदा स्मृतीमतो लब्ध्वा भोजनमात्रजानतः । तनुकास्य भवन्ति वेदनाः शनकैर्जीर्यति आयुः पालयम् ॥ ७९ १९३ दुल्लभो पुरुषाजंञो न सो सब्बत्थ जायति । यत्थ सो जायते वीरो तं कुलं सुखमेधति ॥ ३०:२७ दुर्लभः पुरुषो जात्यो नासौ सर्वत्र जायति । यत्रासौ जायते वीरस् तत्कुलं सुखमेधते ॥ ८० ८३ सब्बत्थ वे सप्पुरुषा भवन्ति न कामकामा लपयन्ति सन्तो । सुखेन पुट्ठा उत्तवा दुखेन नोच्चावचं सप्पुरुषा करोन्ति ॥ ३०:५२ सापत्रपाः सत्पुरुषा भवन्ति न कामहेतोर्लपयन्ति सन्तः । स्पृष्टा हि दुखेन तथा सुखेन नोच्चावचाः सत्पुरुषा भवन्ति ॥ ८१ २०१ जयं वेरं प्रसवति दुखं शेति पराजितो । उपशान्तो सुखं शेति हेत्ता जयपराजयं ॥ ३०:१ जयाद्वैरं प्रसवते दुःखं शेते पराजितः । उपशान्तः सुखं शेते हित्वा जयपराजयौ ॥ ८२ ३३३ द् सुखा नज्जो सूपतित्था सुखो धम्मजितो जनो । सुखो श्रद्धपटीलाभो पापस्स अकरणं सुखं ॥ ३०:२४ -च्,३०:२० सुखा नदी सूपतीर्था सुखं धर्मजिनो जिनः । प्रज्ञालाभः सुखो नित्यम् पापस्याकरणं सुखम् ॥ ८३ सुखं द्रष्टुं शीलवन्तो सुखं द्रष्टुं बहुश्शुता । अरहन्तो पि सुखं द्रष्टुं विप्रमुत्ता निरोपधी ॥ ३०:२३ शीलवन्तः सुखं दृष्टुं सुखं दृष्टुं बहुश्रुताः । अरहन्तश्च सुखं दृष्टुं विप्रमुक्तपुनर्भवाः ॥ ८४ ये केचि शोका परिदेवितं वा दुक्खं व लोकम्हि अनेकरूपं । प्रियं पटिच्च प्रभवति एते प्रिये असन्ते न भवन्ति एते ॥ ५:३ शोका हि वै परिदेवितं च दुःखं च लोकस्य हि नैकरूपम् । प्रियं प्रतीत्येह तदस्ति सर्वं प्रियेऽसति स्यान्न कथं चिदेतत् ॥ ८५ तस्सा हि ते सुखि<खि>नो वीतशोका येसं प्रियं नास्ति लिके । तस्सा अशोकं विरजं प्रात्थयाना प्रियं न कयिराथ कहिंचि लोके ॥ ५:४ तस्माद्धि ते सुखिता वीतशोका येषां प्रियं नास्ति कथं चिदेव । तस्मादशोकं पदमेषमाणः प्रियं न कुर्वीत हि जीवलोके ॥ ८६ ९० गतद्धुनो विशोकस्स विप्रमुत्तस्स सब्बहिं । सब्बग्ग्रन्तप्रहीणस्स परिदाहा न विज्जति ॥ २९:३५ गताध्वनो विशोकस्य विप्रमुक्तस्य तायिनः । सर्वग्रन्थप्रहीणस्य परिदाघो न विद्यते ॥ ८७ ९० येसां सन्निचयो नास्ति ये परिञातभोजना । आकाशे व शकुन्तानां पदं तेसां दुरन्नयं ॥ २९:२५ बेf येषां संनिचयो नास्ति ये परिज्ञातभोजनाः । आकाशैव शकुन्तानां पदं तेषां दुरन्वयम् ॥ ८८ ९६ शान्तो तस्स मनो होति शान्ता वाचा च कंमु च । संमदंञाविमुत्तस्स उपशान्तस्स तायिनो ॥ ३१:४५ शान्तमस्य मनो भवति शान्ता वाक्कायकर्म च । सम्यगाज्ञाविमुक्तस्य ह्युपशान्तस्य भिक्षुणः ॥ ८९ ९४ यस्सेन्द्रियाणि समतं गतानि अश्शा यथा सारथिना सुदान्ता । प्रहीणमानस्स अनासवस्स देवा पि तस्स प्रिहयन्ति तायिनो ॥ १९:३ यस्येन्द्रियाणि समतां गतानि अश्वो यथा सारथिना सुदान्तः । प्रहीणदोषाय निरास्रवाय देवापि तस्मै स्पृहयन्ति नित्यम् ॥ ९० ३२१ दान्तं नयन्ति समितिं दान्तं राजाभिरूहति । दान्तो श्रेष्ठो मनुष्येसु योऽतिवादे तितिक्खति ॥ १९:६ दान्तो वै समितिं याति दान्तं राजाधिरोहति । दान्तः श्रेष्ठो मनुष्याणां योऽतिवाक्यं तितीक्षति ॥ ९१ ३२२ वरमस्सतरा दान्ता आजानेया व सेन्धवा । कुञ्जरा व महानागा आत्ता दान्तो ततो वरं ॥ १९:७ यो ह्यश्वं दमयेज्जान्यम् आजानेयं च सैन्धवम् । कुञ्जरं वा महानागम् आत्मा दान्तस्ततो वरम् ॥ ९२ ३२३ न हि तेहि जानजातेहि तां भूमिमभिसंभवे । यथाऽत्तना सुदान्तेन दान्तो दान्तेन गच्छति ॥ १९:८ न हि तेन स यानेन तां भूमिमभिसंभवेत् । यामात्मना सुदान्तेन दान्तो दान्तेन गच्छति ॥ ९३ ८१ शेलो यथा एकघनो वातेन न समीरति । एवं निन्दाप्रशंसासु न समीरन्ति पण्डिता ॥ २९:४९ शैलो यथाप्येकघनो वायुना न प्रकम्प्यते । एवं निन्दाप्रशंसाभिर् न कम्प्यन्ते पण्डिताः ॥ ९४ ९ अनिक्कषायो काषायं यो वस्तं परिधेहिति । अपेतो दमसच्चेन न सो काषायमरिहति ॥ २९:७ अनिष्कषायः काषायं यो वस्तं परिधास्यति । अपेतदमसौरत्यो नासौ काषायमर्हति ॥ ९५ १० यो तु वान्तकषायस्स शीलेहि सुसमाहितो । उपेतो दमसच्चेन स वे काषायमरिहति ॥ २९:८ यस्तु वान्तकषायः स्याच् छीलेषु सुसमाहितः । उपेतदमसौरत्यः स वै काषायमर्हति ॥ शोकवर्ग्गः ***** कल्याणी ***** ९६ ११६ अभित्तरेथ कल्लाणे पापा चित्तं निवारये । धंधं हि करतो पुंञं पापम्हि रमते मनो ॥ २८:२३ अभित्वरेत कल्याणे पापाच्चित्तं निवारयेत् । धन्धं हि कुर्वतः पुण्यं पापेषु रमते मनः ॥ ९७ ११७ कयिर चे पुरुषो पापं न नं कयिरा पुनप्पुनो । न तम्हि छन्द[ं] कयिराथ दुक्खो पापस्स स[ं]चयो ॥ २८:२१ कर्याच्चेत्पुरुषः पापं नैनं कुर्यात्पुनः पुनः । न तत्र च्छन्दं कुर्वीत दुःखं पापस्य संचयः ॥ ९८ ११८ कयिर चे पुरुषो पु[ं]ञ[ं] कय्[इ]र चेन[ं] पुनप्पुनो । तम्ह्[इ] एव छन्द[ं] कयिराथ सुखो पुंञस्स संचयो ॥ २८:२२ कुर्यात्तु पुरुषः पुण्यं कुर्याच्चैनं पुनः पुनः । तत्र च्छन्दं च कुर्वीत सुखं पुण्यस्य संचयः ॥ ९९ शुद्धस्सेव सदा फग्गू शुद्दस्सोऽपोषधो सदा । शुद्धस्स शुचिकम्मस्स सदा संपज्जते व्रतं ॥ १६:१५ शुद्धस्य हि सदा फल्गुः शुद्दस्य पोषथः सदा । शुद्धस्य शुचिकर्मणः सदा संपद्यते व्रतम् ॥ १०० ३१४ ब् अकतं दुक्कतं श्रेयो पच्छा तपति दुक्कतं । दुक्कतं मे कतं ति शोचति भूयो शोचति दोग्गतिं गतो ॥ २९:४१ अकृतं कुकृताच्छ्रेयः पश्चात्तपति दुष्कृतं । शोचते दुष्कृतं कृत्वा शोचते दुर्गतिं गतः ॥ १०१ ३१४ द् कतञ्च सुकतं साधु यं कत्ता नानुतप्पति । सुकतं मे कतं ति नन्दति भूयो नन्दति सोग्गतिङ्गतो ॥ २९:४२ कृतं तु सुकृतं श्रेयो यत्कृत्वा नानुतप्यते । नन्दते सुकृतं कृत्वा नन्दते सोगतिं गतः ॥ १०२ ११९ पापो पि पश्शते भद्रं याव पापं न पच्चति । यदा तु पच्चते पापं अथ पापो पापानि पश्शति ॥ २८:१९ पापोऽपि पश्यते भद्रं यावत्पापं न पच्यते । यदा तु पच्यते पापम् अथ पापानि पश्यति ॥ १०३ १२० भद्रो पि पश्शते पापं याव भद्रं न पच्चति । यदा तु पच्चते भद्रं अथ भद्रो भद्राणि पश्शति ॥ २८:२० भद्रोऽपि पश्यते पापं यावद्भद्रं न पच्यते । यदा तु पच्यते भद्रम् अथ भद्राणि पश्यति ॥ १०४ पापं पि करतो भद्रं याव पापं न पच्चति । अथ पयिरागते काले पापो पापानि पश्शति ॥ १०५ भद्रं पि करतो पापं याव भद्रं न पच्चति । अथ पयिरागते काले भद्रो भद्राणि पश्शति ॥ १०६ १२४ पाणिम्हि चे व्रणो नाऽस्स धारेया पाणिना विषं । नाव्रणे विषमन्नेति नास्ति पापमकुर्व्वतो ॥ २८:१५ पाणौ चास्य व्रणो न स्याद् धारयेत्पाणिना विषम् । नाव्रणे क्रामति विषम् नास्ति पापमकुर्वतः ॥ १०७ ७१ न हि पापकं कतं कम्मं सज्जं छीरं व मुच्छति । दहन्तं बालमन्नेति भस्सछन्नो व पापको ॥ ९:१७ न हि पापकृतं कर्म सद्यः क्षीरमिव मूर्छति । दहन्तद्बालमन्वेति भस्माछन्न इवानलः ॥ १०८ न हि पापकं कतं कम्मं सज्जं शस्तं व कन्तति । मरणोऽपेतो हि जानाति या गती पापकंमुनो ॥ ९:१८ न हि पापकृतं कर्म सद्यं शस्त्रमिव कृन्तति । साम्पराये तु जानाति या गतिः पापकर्मणाम् ॥ १०९ अनागतं पटिकयिराथ किच्चं मा वो किच्चं किच्चकाले व्यधेया । तं तारिसं पटिकतकिच्चकारिं न नं किच्चं किच्चकाले व्यधेहि ॥ १६:१ पूर्वं हि कृत्यं प्रतिजागरेत मा मे कृत्यं कृत्यकाले विहन्यात् । तं नित्यकाले प्रतियत्यकारिणं नैव कृत्यं कृत्यकाले विहन्ति ॥ ११० पटिकच्चेव तं कयिरा यं ञाय्या हितमात्तनो । न शाकटिकमन्ति स्स मन्तं धीरो पराक्रमे ॥ ४:१६ प्रतियत्येव तत्कुर्याद् यज्जान्र्द्धितमात्मनः । न शाकटिकचिन्ताभिर् मन्दं धीरः पराक्रमेत् ॥ १११ यथा शाकटिको माग्गं समं हेत्ता महापथं । विषमं माग्गमासाज्ज अक्खछिन्नो थ झायति ॥ ४:१७ यथा शाकटिको मार्गं समं हित्वा महापथम् । विषमं मार्गमागम्य च्छिन्नाक्षः शोचते भृशम् ॥ ११२ एवं धम्मा अपक्रांम अधंममनुवत्तिय । बालो मच्चुमुखं प्रात्तो अक्खछिन्नो व झायति ॥ ४:१८ एवं धर्मादपक्रम्य ह्यधर्ममनुवर्त्य च । बालो मृत्युवशं प्रातच् छिन्नाक्ष इव शोचते ॥ ११३ ३०७ काषायकंठा बहवो पापधंमा असंय्यता । पापा पापेहि कंमेहि निरयं ते उपपज्जथ ॥ ११:९ काषायकण्ठा बहवः पापधर्मा ह्यसंयताः । पापा हि कर्मभिः पापैर् इतो गच्छन्ति दुर्गतिम् ॥ ११४ ३०६ अभूतवादी निरयमुपेति यो चापि कत्ता न करोमी ति आह । उभो पि ते प्रेच्च समा भवन्ति निहीनकंमा मनुजा परत्र ॥ ८:१ अभूतवादी नरकानुपैति यश्चान्यदप्याचरतीह कर्म । उभौ हि तौ प्रेत्य समौ निरुक्तौ निहीनधर्मौ मनुजौ परत्र ॥ ११५ १२५ यो अप्रदुष्टस्स नरो प्रदुष्यति शुद्धस्स पोषस्स अनंगनस्स । तमेव बालं प्रच्चेति पापं सुखुमो रजो पटिवातं व खितो ॥ २८:९ यो ह्यप्रदुष्टस्य नरस्य दुष्यते शुद्धस्य नित्यं विगताङ्गणस्य । तमेव बालं प्रत्याति पापं क्षिप्तं रजः प्रतिवातं यथैव ॥ ११६ १२३ वाणिजो व भयं व माग्गं अप्पसात्थो महद्धनो । विषं जीवितुकामो व पापानि परिवज्जये ॥ २८:१४ वणिग्वा सभयं मार्गं अल्पशास्त्रो महाधनो । विषं जीवितकामो वा पापानि परिवर्जयेत् ॥ ११७ २९१ परदुक्खोपधानेन यो इच्छे सुखमात्तनो । वेरसंसग्गसंसट्ठो दुक्खा न परिमुच्चति ॥ ३०:२ परदुःखोपधानेन य इच्छेत्सुखमात्मनः । वैरसंसर्गसंसक्तो दुःखान्न परिमुच्यते ॥ ११८ कुणपस्स पि गंधुच्छिज्जति उऽद्धुकितस्स (-छितस्स) पि राति अच्चया । पुरुषस्स अधम्मचारिणो अन्नाहं गन्धो न छिज्जति ॥ ११९ यथ ग्ग्रहपतयो प्रभूतरतना आडित्ते नगरम्हि दह्यमाने । मुत्तामणिफटिकरजतहेतो व्यायमन्ति अपि नीहरेम किंचि ॥ १२० तथ-र्-इव शमणा प्रभूतप्रंञा अयिरा अयिरपथेसु सिच्छमाना । जातिजरामरणभयाद्दित्ता दुक्खाट्टा व्यायमन्ति अपि प्रापुणेम शान्तिं ॥ कल्याणिवग्गः ***** पुष्प ***** १२१ ५४ न पुष्पगन्धो पटिवातमेति न चन्दनं तगरं वाह्लिकं वा । सतान् तु गन्धो पटिवातमेति सब्बा दिशा सप्पुरुषो प्रवाति ॥ ६:१६ न पुष्पगन्धः प्रतिवातमेति न वाह्निजात्तगराच्चन्दनाद्वा । सतां तु गन्धः प्रतिवातमेति सर्वा दिशः सत्पुरुषः प्रवाति ॥ १२२ ५५ चन्दनं तगरं चापि उप्पलमथ वाश्शिकिं । एतेसां गन्धजातानां शीलगन्दधो अनुत्तरो ॥ ६:१७ तगराच्चन्दनाच्चापि वार्शिकायास्तथोत्पलात् । एतेभ्यो गन्धजातेभ्यः शीलगन्दस्त्वनुत्तरः ॥ १२३ ५६ अप्पामात्रो अयं गंधो योयं तगरचन्दने । यो तु शीलवतां गन्धो वाति देवेसु उत्तमो ॥ ६:१८ अल्पमात्रो ह्ययं गंधो योऽयं तगरचन्दनात् । यस्तु शीलवतां गन्धो वाति देवेष्वपीह सः ॥ १२४ ५७ तेसां सम्पन्नशीलानां अप्रमादविहारिणां । सम्मदंञाविमुत्तानां मारो माग्गं न विण्डति ॥ ६:१९ तेषां विशुद्धशीलानाम् अप्रमादविहारिणाम् । सम्यगाज्ञाविमुक्तानां मारो मार्गं न विन्दति ॥ १२५ ५७ यथा पि रुचिरं पुष्पं वन्नवन्तमगन्धकं । एवं सुभाषिता वाचा अफला होति अकुर्व्वतो ॥ १८:६ यथापि रुचिरं पुष्पं वर्णवत्स्यादगन्धवत् । एवं सुभाषिता वाचा निष्फला सावकुर्वतः ॥ १२६ ५२ यथा पि रुचिरं पुष्पं वन्नवन्तं सगंधकं । एवं सुभाषिता वाचा सफला होति कुर्व्वतो ॥ १८:७ यथापि रुचिरं पुष्पं वर्णवत्स्यात्सुगंधवत् । एवं सुभाषिता वाचा सफला भवति कुर्वतः ॥ १२७ ४९ यथा पि भ्रमरो पुष्पा वन्नगन्धमहेडयं । प्रडेति रसमादाय एवं ग्ग्रामे मुनी चरे ॥ १८:८ यथापि भ्रमरः पुष्पाद् वर्णगन्धावहेटयन् । परैति रसमादाय तथा ग्रामं मुनिश्चरेत् ॥ १२८ ४७ पुष्पाणि हेव प्रचिनन्तं व्यासत्तमनसं नरं । सुत्तं ग्ग्रामं महोघो वा मच्चु-र्-आदाय गच्छति ॥ १८:१४ पुष्पाण्येव प्रचिन्वन्तं व्यासक्तमनसं नरम् । सुप्तं ग्रामं महौघैव मृत्युरादाय गच्छति ॥ १२९ ४८ पुष्पाणि हेव प्रचिनन्तं व्यासत्तमनसं नरं । असंपु®न्नेसु कामेसु अन्तको कुरुते वशे ॥ १८:१५ पुष्पाण्येव प्रचिन्वन्तं व्यासक्तमनसं नरम् । अतृप्तमेव कामेषु त्वन्तकः कुरुते वशम् ॥ १३० ५३ यथा पि पुष्पराशिम्हा कयिरा मालागुणे बहू । एवं जातेन माच्चेन कातव्वं कुशलं बहुं । १८:१० यथापि पुष्पराशिभ्यः कुर्यान्मालागुणां बहून् । एवं जातेन मर्त्येन कर्तव्यं कुशलं बहु । १३१ ४४ को इमं पठविं विजेहिति यमलोकं व इमं सदेवकं । को धम्मपदे सुदेशिते कुशलो पुष्पमिव प्रजेहिति ॥ १८:१ को इमां पृथिवीं विजेष्य्ते यमलोकं च तथा सदेवकम् । को धर्मपदं सुदेशितं कुशलः पुष्पमिव प्रचेष्यते ॥ १३२ ४५ शे®खो पठविं विजेहिति यमलोकं व इमं सदेवकं । सो धम्मपदे सुदेशिते कुशलो पुष्पमिव प्रजेहिति ॥ १८:२ शैक्षः पृथिवीं विजेष्यते यमलोकं व तथा सदेवकम् । स हि धर्मपदं सुदेशितं कुशलो पुष्पमिव प्रजेहिति ॥ १३३ ३७७ वाश्शिकी-र्-इव पुष्पाणि मञ्चकानि प्रमुञ्चति । एवं रागञ्च दोषञ्च विप्रमुञ्चथ भिक्खवो ॥ १८:११ वर्षासु हि यथा पुष्पं वगुरो विप्रमुञ्चति । एवं रागं च दोषं च विप्रमुञ्चत भिक्षवः ॥ १३४ ४६ फेनोपमं लोकमिमं विदित्ता मरीचिधम्ममभिसंबुधानां । छेत्तान मारस्स प्रपुष्पकानि अद्दंशनं मच्चुराजस्स गच्छे ॥ १८:१८ फेनोपमं कायमिमं विदित्वा मरीचिधर्मं परिबुध्य चैव । छित्वेह मारस्य तु पुष्पकानि त्वदर्शनं मृत्युराजस्य गच्छेत् ॥ १३५ ५८ यथा संकारकूटम्हि उज्झितम्हि महापथे । पदुममुब्भिदमस्स शुचिगन्धं मनोरमं ॥ १८:१२ यथा संकारकूटे व्युज्झिते हि महापथे । पद्मं तत्र तु जायेत शुचिगन्धि मनोरमम् ॥ १३६ ५९ एवं संकारभूतेसु अन्धभूते पृथुज्जने । अतिरोचन्ति प्रंञाय संमसबुद्धसावका ॥ १८:१३ एवं संकारभूतेऽस्मिन्न् अन्धभूते पृथग्जने । प्रज्ञया व्यतिरोचन्ते सम्यक्संबुद्धश्रावकाः ॥ पुष्पवर्ग्गः ***** तह्न ***** १३७ ३३४ मनुजस्स प्रमत्तचारिणो तह्ना वद्धति मालुता इव । सा प्राप्लवते हुराहुरं फलमेषी व वनम्हि वान्नरो ॥ ३:४ मनुजस्य प्रमत्तचारिणस् तृष्णा वर्धति मालुतेव हि । स हि संसरते पुनः पुनः फलमिच्छन्निव वानरो वने ॥ १३८ ३३५ यं चेसा सहते जंमी तह्ना लोके दुरच्चया । शोका तस्स प्रवद्धंति ओवट्ठा बेरुणा इव ॥ ३:९ य एतां सहते ग्राम्यां तृष्णां लोके सुदुस्त्यजाम् । शोकास्तस्य प्रवर्धन्ते ह्यववृष्टा बीरणा यथा ॥ १३९ ३३६ यो चेतां सहते जंमिं तह्नां लोके दुरच्चयां । शोका तस्स विवट्टन्ति उदबिन्दू व पुक्खरे ॥ ३:१० यस्त्वेतां त्यजते ग्राम्यां तृष्णां लोके सुदुस्त्यजाम् । शोकास्तस्य निवर्तन्ते उदबिन्दुरिव पुष्करात् ॥ १४० ३३७ तं वो वदेमि भद्रं वो यावंत्-इत्थ समागता । तह्नां समूलां खणथ उषीरात्थी व बेरुणिं । तह्नाय खतमूलाय नास्ति षोका कतो भयं ॥ ३:११ तद्वै वदामि भद्रं वो यावन्तः स्थ समागताः । तृष्णां समूलां खनथ उशीरार्थीव बीरणाम् । तृष्णायाः खातमूलाय नास्ति षोकः कुतो भयम् ॥ १४१ तह्नबितियो पुरुषो द्रीघमद्धान संसरि । एत्थभावंञथाभावं तत्थ तत्थ पुनप्पुनो ॥ ३:१२ तृष्णाद्वितीयः पुरुषो दीर्घमध्वानमाशया । इत्थंभावान्यथीभावः संसारे त्वागतिं गतिम् ॥ १४२ एतमादीनवं न्यात्ता तह्ना दुक्खस्स संभवं । वीततह्नो अनादानो सतो भिक्खू परिव्रजे ॥ ३:१८ एतदादीनवं ज्ञात्वा तृष्णा दुःखस्य संभवं । वीततृष्णो ह्यनादानः स्मृतो भिक्षुः परिव्रजेत् ॥ १४३ ३४५ न तं दृढं बन्धनमाहु धीरा यदायसं दारुजं बब्बजं वा । सार्त्तरत्ता मणिकुण्डलेसु पुत्रेसु दारेसु च या अपेखा ॥ २:५ न तद्दृढं बन्धनमाहुरार्या यदायसं दारवं बल्बजं वा । संरक्तचित्तस्य हि मन्दबुद्धेः पुत्रेषु दारेषु च या अपेक्षा ॥ १४४ ३४६ एतं दृढं बन्धनमाहु धीरा ओहारिनं सुखुमं दुप्रमुञ्चं । एतप्पि छेत्तान व्रजन्ति सन्तो अनपेखिनो सब्बदुखं प्रहाय ॥ २:६ एतद्दृढं बन्धनमाहुरार्याः समन्ततः सुस्थिरं दुष्प्रमोक्षम् । एतदपि च्छित्वा तु परिव्रजन्ति ह्यनपेक्षिनः कामसुखं प्रहाय ॥ १४५ १८६ न काहापणवासेन त्त्रेत्ती कामेसु विज्जति । २:१७ न कर्षापणवर्षेण तृप्तिः कामैर्हि विद्यते । १४६ १८७ अपि दिव्वेसु कामेसु रतिं सो नाधिगच्छति ॥ तह्नक्खयरतो होति संमसंबुद्ध्सावको ॥ २:१८ अपि दिव्येषु कामेषु स रतिं नाधिगच्छति ॥ तृष्णाक्षयरतो भवति बुद्धानां श्रावकः सदा ॥ १४७ ३५२ वीततह्नो अनादानो निरुत्तीपदकोविदो । अक्खराणां सन्निपातेन (ञ्)ञाय्या पूर्व्वापराणि सो । स वे अन्तिमशारीरो महप्रंञो ति वुच्चति ॥ १४८ ३४१ सरितानि सिनेहितानि च सोमनस्सानि भवन्ति जन्तुनो । ये सातसिता सुखेषिणो ते वे जातिजरोपगा ॥ ३:५ सरितानि वै स्नेहितानि वै सौमनस्यानि भवन्ति जन्तुनः । ये सातसिताः सुखैषिणस् ते वै जातिजरोपगा नराः ॥ १४९ ३४२ तह्नाय पुरेक्खटा प्रजा परिसप्पन्ति शशो व बाधितो । ते संजोतनसङ्गसङ्गसत्ता गब्भमुपेन्ति पुनप्पुनो चिरं पि ॥ ३:६ तृष्णाभिरुपस्कृताः प्रजाः परिधावन्ति शशा व वागुराम् । संयोजनैः सङ्गसक्ता दुःखं यान्ति पुनः पुनश्चिररात्रम् ॥ १५० ३४८ मुञ्च पुरे मुञ्च पच्छतो मज्झे मुञ्च भवस्स पारगू । सब्बत्थ विमुत्तमानसो न पुनो जातिजरामुपेहिसि ॥ २९:५७ मुञ्च पुरतो मुञ्च पश्चतो मध्ये मुञ्च भवस्य पारगः । सर्वत्र विमुक्तमानसो न पुनर्जातिजरामुपेष्यसि ॥ १५१ ३४४ यो निव्वनधो वना तु मुत्तो वनमुत्तो वनमेव धावति । तं पुग्गलमेथ पश्शथ मुत्तो बन्धनमेव धावति ॥ २७:२९ यो निर्वनगैर्विमोक्षितः संवनमुक्तो वनमेव धावति । तं पश्यथ पुद्गलं त्विमं मुक्तो बन्धनमेव धावति ॥ १५२ ३५६ त्त्रिणदोषाणि खेत्त्राणि रागदोषा अयं प्रजा । तस्सा हि वीतरागेसु दिन्नं होति महप्फलं ॥ १६:१६ क्षेत्राणि तृणदोषाणि रागदोषा त्वियं प्रजा । तस्माद्विगतरागेभ्यो दत्तं भवति महाफलम् ॥ १५३ ३५७ त्त्रिणदोषाणि खेत्त्राणि दोषदोषा अयं प्रजा । तस्सा हि वीतदोषेसु दिन्नं होति महप्फलं ॥ १६:१७ क्षेत्राणि तृणदोषाणि द्वेषदोषा त्वियं प्रजा । तस्माधि विगतद्वेषेभ्यो दत्तं भवति महाफलम् ॥ १५४ ३५८ त्त्रिणदोषाणि खेत्त्राणि मोहदोषा अयं प्रजा । तस्सा हि वीतमोहेसु दिन्नं होति महप्फलं ॥ १६:१८ क्षेत्राणि तृणदोषाणि मोहदोषा त्वियं प्रजा । तस्माद्विगतमोहेभ्यो दत्तं भवति महाफलम् ॥ १५५ ९९ रमणीयं वताऽरण्णं यम्हिं न रमते जनो । वीतरागात्थ रंसन्ति नांञे कामागवेषिणो ॥ २९:१७ रमणीयान्यरण्यानि न चात्र रमते जनः । वीतरागात्र रंस्यन्ते न तु कामागवेषिणः ॥ १५६ ९९ यथा पि मूले अनुपद्रुते दृढे छिन्नो पि रुक्खो पुन-र्-ईव जायति । एमेव तह्नानुशये अनूहते निव्वत्तते दुक्खमिदं पुनप्पुनो ॥ ३:१६ यथापि मूलैरनुपद्रुतैः सदा छिन्नोऽपि वृक्षः पुनरेव जायते । एवं हि तृष्णानुशयैरनुद्धृतैर् निर्वर्तते दुःखमिदं पुनः पुनः ॥ तह्नवर्ग्गः ***** मल ***** १५७ २४१ असज्जिहायमला वेदा अनुट्ठाणमला घरा । मलो वण्णस्स कोसज्जं प्रमादो रक्खतां मलो ॥ १५८ २४२ मलो इस्तिये दुच्चरितं मच्छेरं ददतां मलो । मलो पापानि कंमाणि अस्सिं लोके परम्हि च ॥ १५९ २४३ ततो मलतरं ब्रूमि अविज्जा मरणं मलं । एते मले प्रहत्तान निंमला भिक्खवो ॥ १६० २४० अयसा तु मलो समुट्ठितो ततो उट्ठाय तमेव खादति । एमेव विधूनचारियं सकानि कंमाणि नयन्ति दोग्गतिं ॥ ९:१९ अयसो हि मलः समुत्थितः स तदुत्थाय तमेव खादति । एवं ह्यनिशाम्यचारिणं स्वानि कर्माणि नयन्ति दुर्गतिम् ॥ १६१ २३५ पाण्डुपलाशो च दानि सि यमपुरुषा पि च ते उपट्ठिता । उय्योगमुखे च तिष्ठसि पाथेयं पि च ते न विज्जति ॥ १६२ च्f. २३६ उय्यमस्स घटस्स आत्तना कंमारो रजतं व निद्धमे ॥ निद्धान्तमलो अनङ्गनो बितियं (वितियं) अयिरभूमिमेसि ॥ १६३ २३९ अनुपूर्व्वेण मेधावी थोकथोकं खणे खणे । कम्मारो रजतस्सेव निद्धमे मलमात्तनो ॥ २:१० अनुपूर्वेण मेधावी स्तोकं स्तोकं क्षणे क्षणे । कर्मारो रजतस्यैव निर्धमेन्मलमात्मनः ॥ १६४ २४४ सुजीवमहिरीकेन संकिलिष्टन् तु जीवति । प्रक्खण्डिणा प्रगब्भेण काकशूरेण धन्सिना ॥ २७:३ अह्रीकेन सुजीवं स्यात् काकशूरेण ध्वाङ्क्षिणा । प्रस्कन्दिणा प्रगल्भेन संक्लिष्टं त्विह जीवते ॥ १६५ २४५ हिरीमता तु दुज्जीवं निच्चं शुचिगवेषिणा । अलीनेनाप्रगब्भेण शुद्धाजीवेन पश्शता ॥ २७:४ ह्रीमता त्विह दुर्जीवं नित्यं शुचिगवेषिणा । सुलीनेनाप्रगल्भेन शुद्धाजीवेन पश्यता ॥ १६६ २५२ सुपश्शं वज्जमंञेसं आत्तनो पुन दुद्दशं । परेसामिह वज्जानि उप्पुनाति यथा बुसं । आत्तनो पुन छादेति कलिं व कृतवां शठो ॥ २७:१ सुपश्यं परवद्यं स्याद् आत्मवद्यं तु दुर्दृशम् । परः परस्य वद्यानि तूत्पुनाति बुसं यथा । आत्मनश्छादयत्येष कृत्वा यद्वत्कलिं शठः ॥ १६७ १६३ सुकराणि असाधूनि आत्तनो अहितानि च । यं वे हितं च साधूनि च तं वे परमदुक्खरं ॥ २८:१६ सुकराणि ह्यसाधूनि स्वात्मनो ह्यहितानि च । यद्वै हितं च पथ्यं च तद्वै परमदुष्करम् ॥ १६८ सुकराणि असाधूनि आत्तनो अहितानि च । यानि हितानि साधूनि तानि कुर्व्वन्ति पण्डिता ॥ १६९ ३१६,३१७ अलज्जितव्वे लज्जन्ति लज्जितव्वे न लज्जथ । अभये भयदंशावी भये चाभयदंशिनो । मिच्छदृष्टिसमादाना सत्ता गच्छन्ति दोग्गतिं ॥ १६:४ अलज्जितव्ये लज्जन्ते लज्जितव्ये त्वलज्जनः । अभये भयदर्शीनो भये चाभयदर्शिनः । मिथ्यादृष्टिसमादानात् सत्वा गच्छन्ति दुर्गतिम् ॥ १७० ३१८ अवज्जे वज्जमतिनो वज्जे चावज्जसंञिनो । मिच्छदृष्टिसमादाना सत्ता गच्छन्ति दोग्गतिं ॥ १७१ ११ असारे सारमतिनो सारे चाऽसारसंञिनो । ते सारन्नाधिगच्छन्ति मिच्छसंकप्पगोचरा ॥ २९:३ असारे सारमतयः सारे चासारसंज्ञिनः । ते सारं नाधिगच्छन्ति मिथ्यासंकल्पगोचराः ॥ १७२ १२ सारञ्च सारतो ञ्ञात्ता असारञ्च असारतो । ते सारमधिगच्छन्ति संमसंकप्पगोचरा ॥ २९:४ सारं तु सारतो ज्ञात्वा ह्यसारं चापि असारतः । ते सारमधिगच्छन्ति सम्यक्संकल्पगोचराः ॥ १७३ २०९ अवोगे युञ्जियात्तानं योगम्हि च अयुंजिय । अत्थं हेत्ता प्रियग्ग्राही पृहयन्तत्थानुयोगिनां ॥ ५:९ अवोगे युज्य चात्मानं योगे चायुज्य सर्वदा । अर्थं हित्वा प्रियग्राही स्पृहयत्यर्थयोगिने ॥ मलवग्गः ***** बाल ***** १७४ ६६ चरन्ति बाला दुम्मेधा अमित्तेण-र्-इव आत्तना । करोन्ता पापकं कम्मं यं होति कटुकप्फलं ॥ ९:१३ चरन्ति बाला दुष्प्रज्ञा ह्यमित्रैरिव चात्मभिः । कुर्वन्तः पापकं कर्म यद्भवति कटुकं फलम् ॥ १७५ ६७ कथञ्च तं करे कंमं यं कत्ता अनुतप्पति । यस्स अंशुमुखो रोदं विपाकं पटिसेवति ॥ ९:१४ न तत्कर्र्म कृतं साधु यत्कृत्वा ह्यनुतप्यते । रुदन्नश्रुमुखो यस्य विपाकं प्रतिषेवते ॥ १७६ ६८ तं च कंमं कतं साधु यं कत्ता नानुतप्पति । यस्स प्रतीतो सुमनो विपाकं पटिसेवति ॥ ९:१५ तत्तु कर्म कृतं साधु यत्कृत्वा नानुतप्यते । यस्य प्रतीतः सुमना विपाकं प्रतिषेवते ॥ १७७ ७२ यावदेव अनत्थाय ञात्तं बालस्स जायति । हन्ति बालस्स शुक्राङ्ग्गं (?) मुद्धमस्स निपातये ॥ १३:२ यावदेव ह्यनर्थाय ज्ञातो भवति बालिशः । हन्ति बालस्य शुक्लांशं मूर्धां चास्य पातयेत् ॥ १७८ ७३ असतां भावनमिच्छन्ति पुरेक्खाञ्च भिक्खुसु । आवासेसु च एस्सरियं पूजं परकुलेसु च ॥ १३:३ असन्तो लाभमिच्छन्ति सत्कारं चैव भिक्षुषु । आवासेषु च मात्सर्यं पूजां परकुलेषु च ॥ १७९ ७४ ममेव कतमन्नेन्तु गृही प्रव्रजिता च ये । न मे प्रतिबला अस्स किच्चाऽकिच्चेसु केसुचि ॥ १३:४ मामेव नित्यं जानीयुर् गृही प्रव्रजितस्तथा । मम प्रतिवशाश्च स्युः कृत्याकृत्येषु केषु चित् ॥ १८० ७४ f,७५ ब् इति बालस्स संकप्पो इच्छामानो च वद्धति । अंञा हि लाभोपनिशा अंञा निब्बाणगामिनी ॥ १३:५ इति बालस्य संकल्पा इच्छामानाभिवर्धकाः । अन्या हि लाभोपनिषद् अन्या निर्वाणगामिनी ॥ १८१ ७५ -f एवमेतं यथाभूतं पश्शं बुद्धस्स सावको । सक्कारं नाभिनन्देया विवेकमनुब्रूहये ॥ १३:६ एतज्ज्ञात्वा यथाभूतं बुद्धानां श्रावकः सदा । सत्कारं नाभिनन्देत विवेकमनुबृंहयेत् ॥ १८२ जयं वे मन्यते बालो वाचाय परुषं भणं । सतां हेस जयो होति या तितिक्खा विजानतो ॥ २०:१३ जयं हि मन्यते बालो वचोभिः परुषैर्वदन् । नित्यमिव जयस्तस्य योऽतिवाखं तितीक्षति ॥ १८३ अबलं तस्स बलं होति यस्स बालबलं बलं । बलस्स धम्मगुत्तस्स पटिवत्ता न विज्जति ॥ २०:६ अबलं हि बलं तस्य यस्य क्रोधे बलं बलम् । क्रुद्धस्य धर्महीनस्य प्रतिपत्तिर्न विद्यते ॥ १८४ ६३ यो बालो बालमानी पण्डितो चापि तत्थ सो । बालो तु पण्डितमानी स वे बालो ति वुच्चति ॥ २५:२२ यो जानीयादहं बाल इति बालः स पण्डितः । बालः पण्डितमानी तु बाल एव निरुच्यते ॥ १८५ ६० द्रीघा अस्सुपतो रात्री द्रीघं शान्तस्स योजनं । द्रीघो बालान संसारो सद्धंममविजानतां ॥ १:१९ दीर्घा जागरतो रात्रिर् दीर्घं श्रान्तस्य योजनम् । दीर्घो बालस्य संसारः सद्धर्ममविजानतः ॥ १८६ पूतिमच्छे कुशाग्ग्रेण यो नरो उपनहति । कुशा पि पूतिं वायन्ति एवं बालोपसेवना ॥ २५:७ पूतिमत्स्यां कुशाग्रेण यो नरो ह्युपनह्यते । कुशापि पूतिका वान्ति ह्येवं पापोपसेवनाः ॥ १८७ तगरञ्च पलाशम्हि यो नरो उपनह्यति । पत्तं पि सुरभिं वाति एवं धीरोपसेवना ॥ २५:८ तगरं पलाशपत्रेण यो नरो ह्युपनह्यति । पत्राण्यपि सुगन्धीनि सदेवं संगमात्सताम् ॥ १८८ अकरोन्तो पि चे पापं करोन्ते उपसेवति । शङ्कियो होति पापम्हि अवण्णो चास्स रूहति ॥ २५:९ अकुर्वन्नपि पापानि कुर्वांमुपसेवते । शङ्कितो भवति पापस्य अवर्णश्चास्य वर्धते ॥ १८९ सेवमानो सेवमाने संपुट्ठो संफुसं परे । शरो लित्तो कलापे वा अलित्ते उपलिंपति । उपलेपभया धीरो नेव पापसखा सिया ॥ २५:१० संसेवमानः पापो हि संस्पृष्टः संस्फृशेत्परान् । शरो लिप्तः कलापस्थान् अलिप्तानुपलिंपति । उपलेपभयाद्धीरो नैव पापसखा भवेत् ॥ १९० तस्सा फलपुटस्सेव ञाय्या संपाकमात्तनो । असन्तो नोपसेवेया सन्तो सेवेय पण्डीतो ॥ २५:१२ तस्मात्फलपुटस्यैव दृष्ट्वा संपाकमात्मनः । असन्तो नोपसेवेत सन्तः सेवेत पण्डीतः ॥ १९१ ६४ यावज्जीवं पि चे बालो पण्डिते पयिरुपासति । नेव धम्मं विजानाति द्रव्वी सूपरसानिव ॥ २५:१३ यावज्जीवं पि चेद्बालः पण्डितां पर्युपासते । न स धर्मं विजानाति दर्वी सूपरसानिव ॥ १९२ ६५ मुहुत्तमपि चे प्रंञो पण्डिते पयिरुपासति । खिप्रं धम्मं विजानाति जिह्वा सूपरसानिव ॥ २५:१४ मुहूर्तमपि सप्रज्ञः पण्डितां पर्युपासते । स वै धर्मं विजानाति जिह्वा सूपरसानिव ॥ १९३ १२१ नाप्पं पापस्स मंञेया न मे तमागमिष्यति । उदबिन्दुनिपातेन उदकुंभो पि पूरति ॥ पूरते बालो पापस्स थोकथोकं पि आचिनं । १७:५ नाल्पं मन्येत पापस्य नैतं मामागमिष्यति । उदबिन्दुनिपातेन महाकुम्भोऽपि पूर्यते । पूर्यन्ति बालः पापैर्हि स्तोकस्तोकं कृतैरपि ॥ १९४ १२१ नाप्पं पापस्स मंञेया न मे तमागमिष्यति ॥ उदबिन्दुनिपातेन उदकुम्भो पि पूरति । पूरते प्रंञो पुंञस्स थोकथोकं पि आचिनं ॥ १७:५ नाल्पं मन्येत पापस्य नैतं मामागमिष्यति ॥ उदबिन्दुनिपातेन महाकुम्भोऽपि पूर्यते । पूर्यन्ति बालाः पापैर्हि स्तोकस्तोकं कृतैरपि ॥ बालवर्ग्गः ***** दण्ड ***** १९५ १४१ न नग्गचरिया न जटा न पंको नानाशनं त्थण्डीलशायिका वा । रजोचेलमुक्कुटुकप्रधानं शोधेन्ति माच्चमवितिण्णकंछं ॥ ३३:१ न नगचर्या न जटा न पङ्का नोऽनाशनं स्थण्डीलशायिका वा । न रजोमलं नोत्कुटुकप्रहाणं शोधेत मर्त्यं ह्यवितीर्णकाङ्क्षं ॥ १९६ १४२ अलंकतो चापि समं चरेया दान्तो शान्तो नियतो धम्मचारी । सब्बेसु प्राणेसु निधाय दण्डं सो ब्राह्मणो सो शमणो स भिक्खू ॥ ३३:२ अलंकृतश्चापि चरेत द्गर्मं क्षान्तो दान्तो नियतो ब्रह्मचारी । सर्वेषु भूतेषु निधाय दण्डं स ब्राह्मणः स श्रमणः स भिक्षुः ॥ १९७ १३३ मा वदे परुषं कंचि वुत्ता पटिवदेयु तं । दुक्खा हि सारम्भकथा पटिदण्डा फुसेयु तं ॥ २६:३ मा कं चित्परुषं ब्रूथः प्रोक्ताः प्रतिवदन्ति तम् । दुःखा हि संरम्भकथाः प्रतिदण्डं स्पृशन्ति हि ॥ १९८ सचे इरेसि आत्तानं कंसो उपहतो-र्-इव । जातीमरणसंसारं चिरं प्रच्चनुभोहिसि ॥ २६:४ यदीरयसि हात्मानं कंसीवोपहता सदा । जातीमरणसंसारं चिरं ह्यनुभविष्यसि ॥ १९९ १३४ न चे इरेसि आत्तानं कंसो अनुपहतो-र्-इव । एस प्रात्तो सि निब्बाणं सारम्भा ते न विज्जति ॥ २६:५ न त्वीरयसि हात्मानं कंसिर्नोपहता यथा । एष प्राप्तोऽसि निर्वाणं संरम्भस्ते न विद्यते ॥ २०० १३५ यथा दण्डेन गोपालो गावो प्(र्)आजेति गोचरं । एवं जरा च मच्चू च प्राणिनामधिवत्तति ॥ १:१७ यथा दण्डेन गोपालो गाः प्रापयति गोचरम् । एवं रोगैर्जरामृत्युः आयुः प्रापयते नृणाम् ॥ २०१ ३१५ -f यथा दण्डेन गोपालो गावो रक्षति सामिनां । एवं रक्खथ आत्तानं खणो वो मा उपच्चगू । खणातीता हि शोचन्ति निरयम्हि समप्पिता ॥ ५:१७ -f (यथा दण्डेन गोपालो गावो रक्षति सामिनां ।) एवं गोपयतात्मानं क्षणो वो मा उपत्यगात् । क्षणातीता हि शोचन्ते नरकेषु समर्पिताः ॥ २०२ १३० सब्बे त्रसन्ति दण्डानां सब्बेसं जीवितं प्रियं । आत्तानमुपमं कत्ता नेव हंय्या न घातये ॥ ५:१९ सर्वे दण्डस्य बिभ्यन्ति सर्वेषां जीवितं प्रियम् । आत्मानमुपमां कृत्वा नैव हन्यान्न घातयेत् ॥ २०३ १३१ सुखकामानि भूतानि यो दण्डेन विहिंसति । आत्तनो सुखमेषाणो प्रेच्च सो न लभते सुखं ॥ ३०:३ सुखकामानि भूतानि यो दण्डेन विहिंसति । आत्मनः सुखमेषाणः स वै न लभते सुखम् ॥ २०४ १३२ सुखकामानि भूतानि यो दण्डेन न विहिंसति । आत्तनो सुखमेषाणो प्रेच्च सो लभते सुखं ॥ ३०:४ सुखकामानि भूतानि यो दण्डेन न विहिंसति । आत्मनः सुखमेषाणः स प्रेत्य लभते सुखम् ॥ २०५ ७८ -द्,७६ f न भजेथ पापके मित्रे न भजेथ पुरुषाऽधमे । भजेथ प्रंञे (प्रांञ-) मेधावी भजेथ पुरुषोत्तमे । तारिसे भजेमानस्स श्रेयो होति न पापियो ॥ २५:३ -द्,२८:७ f न भजेत्पापकं मित्रं न भजेत्पुरुषाधमम् । भजेत मित्रं कल्याणं भजेदुत्तमपूरुषम् । तादृशं भजमानस्य श्रेयो भवति न पापकम् ॥ २०६ ७६ निधिनो व प्रवत्तारं यं पश्शे वज्जदंशिनं । निगृह्यवादिं मेधावीं तारिसं पुरुषं भजे । तारिषं भजमानस्स श्रेयो होति न पापियो ॥ २८:७ निषेद्धारं प्रवक्तारं यज्जानेद्वद्यदर्शिनम् । निगृह्यवादिनं धीरं तादृशं सततं भजेन्त् । तादृशं भजमानस्य श्रेयो भवति न पापकम् ॥ २०७ ७७ ओवदेया अनुशासेया असब्भातो निवारये । सतां हेतं प्रियं होति असतां होति अप्रियं ॥ ५:२६ अववदेतानुशासीत चासभ्याच्च निवारयेत् । असतां न प्रियो भवति सतां भवति प्रियं ॥ २०८ तस्सा सताञ्च असन्ताञ्च नाना होति गती । असन्तो निरयं यान्ति सन्तो सग्गपरायणा ॥ ५:२७ असन्तश्चैव सन्तश्च नाना यान्ति त्वितश्च्युताः । असन्तो नरकं यान्ति सन्तः स्वर्गपरायणाः ॥ २०९ १५२ अप्पश्शुतो अयं पुरुषो बलिवद्दो व (ज्)जीरति । मांसानि तस्स वद्धन्ति प्रंञा तस्स न वद्धन्ति ॥ २१० ३०९ चत्तारि ट्ठाणानि नरो प्रमत्तो आपज्जते परदारोपसेवी । अपुंञलाभमनिकामशेयं निन्दं त्रितीयं निरयं चतुत्थं ॥ ४:१४ स्थानानि चत्वारि नरः प्रमत्त आपद्यते यः परदारसेवी । अपुन्यलाभं ह्यनिकामशय्यं निन्दां तृतीयं नरकं चतुर्थम् ॥ २११ ३१० अपुंञलाभो च गती च पापिको भीतस्स भीताय रती पि अप्पिका । राजा पि दण्डं गरुकं प्रणेति कायस्स भेदा निरयमुपेति ॥ ४:।१५। अपुण्यलाभं च गतिं च पापिकां भीतस्य भीताभिरथाल्पिकां रतिम् । राजा च दण्डं गरुकं ददाति कायस्य भेदाद्नरकेषु पच्यते ॥ २१२ संय्यता सुगतिं यान्ति दोग्गतिं यान्ति असंय्याता । मा स्सु विश्शासमापादि इति विन्दु समं चरे ॥ २१३ माकुञ्जर नागमासिद दुक्खो कुञ्जर नागमंसदो । न हि नागहतस्स कुञ्जर सुगती इतो परअं यतो ॥ २१४ गिरिदुग्गविचारिणं यथा सीहं पर्व्वतपट्ठिगोचरं । नरवीरमपेतभेरवं मा हिंसित्थ अनोमनिक्रमं ॥ २१५ ३२० अहं नागो व संग्ग्रामे चापातिपतिते शरे । अतीवादे तितिक्खामि दुश्शीलो हि बहुजनो ॥ २९:२१ अहं नाग इव संग्रामे चापादुत्पतितां शरान् । अतीवाक्यं तितीक्षामि दुःशीलो हि महाजनः ॥ दण्डवर्ग्गः ***** शरण ***** २१६ १८८ बहू वे शरणं यान्ति पर्व्वते च वनानि च । वस्तूनि रुक्खचित्ताणि मनुष्या भयतज्जिता ॥ २७:३१ बहवः शरणं यान्ति पर्वतांश्च वनानि च । आरामां वृक्षचैत्यांश्च मनुष्या भयतर्जिताः ॥ २१७ १८९ न एतं शरणं खेम्मं न एतं शरणमुत्तमं । एतं शरणमागंम सब्बदुक्खा प्रमुच्चति ॥ २७:३२ नैतद्धि शरणं क्षेमं नैतच्छरणमुत्तमम् । नैतच्छरणमागम्य सर्वदुःखात्प्रमुच्यते ॥ २१८ १९० यो तु बुद्धञ्च धम्मञ्च सघं च शरणं गतो । चत्तारि च अयिरसच्चानि यथाभूतानि पश्शति ॥ २७:३३ यस्तु बुद्धं च धर्मं च संघं च शरणं गतः । चत्वारि चार्यसत्यानि प्रज्ञया पश्यति यदा ॥ २१९ १९२ एतं वे शरणं खेम्मं एतं शरणमुत्तमं । एतं शरणमागम्म सब्बदुक्खा प्रमुच्चति ॥ २७:३५ एतद्धि शरणं क्षेमम् एतच्छरणमुत्तमम् । एतच्छरणमागम्य सर्वदुःखात्प्रमुच्यते ॥ २२० गवां चे तरमाणानां जिह्मं गच्छति पुङ्गवो । सब्बा ता जिह्मं गच्छंति नेत्ते जिह्मगते सति ॥ २२१ एवामेव मनुष्येसु यो होति श्रेष्ठसंमतो । स चे अधंमं चरति प्रागेव इतरा प्रजा ॥ २२२ गवां चे तरमाणानां उज्जुं गच्छति पुङ्गवो । सब्बा ता उज्जुं गच्छंति नेत्ते उज्जुगते सति ॥ २२३ एवामेव मनुष्येसु यो होति श्रेष्ठसंमतो । स चे धंमं चरति प्रागेव इतरा प्रजा ॥ २२४ १६९ धंमं चरे सुचरितं न नं दुच्चरितं चरे । धम्मचारी सुखं शेति अस्सिं लोके परम्हि च ॥ ३०:५ धर्मं चरेत्सुचरितं नैनं दुश्चरितं चरेत् । धर्मचारी सुखं शेते ह्यस्मिं लोके परत्र च ॥ २२५ धंमं चरे सुचरितं न नं दुच्चरितं चरे । ब्रह्मचारी सुखं शेति अस्सिं लोके परम्हि च ॥ २२६ ३६४ धंमारामो धंमरतो धंममनुविचिन्तयं । धम्ममनुस्सरं भिक्खू धम्मा न परिहायति ॥ ३२:८ धर्मारामो धर्मरतो धर्ममेवानुचिन्तयम् । धर्मं चानुस्मरं भिक्षुर् धर्मान्न परिहीयते ॥ २२७ धम्मो हवे रक्खति धम्मचारी धम्मो सुचिन्नो सुखाय दहाति । एसानुशंसो धम्मे सुचिन्ने न दोग्गतिं गच्छति धम्मचारी ॥ ३०:७ धर्मः सदा रक्षति धर्मचारिनं धर्मो सुचीर्णः सुखमादधाति । एषानुशंसो धर्मे सुचीर्ने न दुर्गतिं गच्छति धर्मचारी ॥ २२८ धम्मो हवे रक्खति धम्मचारी धम्मो सुचिन्नो सुखाय दहाति । एसाऽनुशंसो धम्मे सुचिन्ने न दोग्गतिं गच्छ<च्छ>ति ब्रह्मचारी ॥ २२९ १५५ अचरित्ता ब्रह्मचेरं अलद्धा योव्वने धनं । जिन्नक्रोंचा व झायंति झीनमच्छे व पल्लरे ॥ १७:३ अचरित्वा ब्रह्मचेर्यम् अलब्ध्वा यौवने धनम् । जीर्णक्रौञ्चैव ध्यायन्ते ऽल्पमत्स्य इव पल्वले ॥ २३० १५६ अचरित्ता ब्रह्मचेरं अलद्धा योव्वने धनं । शेन्ति चापाधिकिन्नो वा पोराणानि अऽनुत्थनं ॥ १७:४ अचरित्वा ब्रह्मचर्यम् अलब्ध्वा यौवने धनम् । शेन्ति चापातिकीर्णा वा पौराणान्यनुचिन्तिताः ॥ २३१ ९१ उज्जुज्जन्ति सतीमन्तो न निकेते रमंति ते । हंसा व पल्लरं हेत्ता ओकमोकं जहंति ते ॥ १७:१ स्मृतिमन्तः प्रयुज्यन्ते न निकेते रमन्ति ते । हंस्वत्पल्वलं हित्वा ह्योकमोघं जहन्ति ते ॥ २३२ १७५ हंसा व आदिच्चपथे वेहायसं यान्ति इद्धिया । निय्यांति धीरा लोकम्हि मारसेनं प्रमद्दिय ॥ १७:२ हंसादित्यपथे यान्ति आकाशे जीवितेन्द्रियाः । निर्यान्ति धीरा लोकान् मारसैन्यं प्रमथ्य ते ॥ २३३ १४६ किन्नु हाशो किमानन्दो निच्चं प्रज्जलिते सति । अन्धकारम्हि प्रक्खित्ता प्रदीपं न गवेषथ ॥ १:४ को नु हर्षः क आनन्द एवं प्रज्वलिते सति । अन्धकारं प्रविष्टाः स्थ प्रदीपं न गवेषथ ॥ २३४ ३१५ प्रच्चंतिमं वा नगरं गुत्तं सान्तबाहिरं । एवं रक्खथ आत्तानं खणो वो मा उपच्चगू । खणातीता हि शोचंति निरयम्हि समप्पिता ॥ ५:१६,१७ यथा प्रत्यन्तनगरं गुप्तमन्तर्बहिस्थिरम् । एवं गोपयतात्मानं क्षणो वो मा ह्युपत्यगात् । क्षणातीता हि शोचन्ते नरकेषु समर्पिताः ॥ २३५ २६४ न मुण्डभावा शमणो अव्रतो अलिकं भणं । इच्छालोभसमापन्नो शमणो किं भविष्यति ॥ ११:१३ न मुण्डभावाच्छ्रमणो ह्यवृतस्त्वनृतं वदन् । इच्छालोभसमापन्नः श्रमणः किं भविष्यति ॥ २३६ २६५ यो तु शमेति पापानि अणुत्थूलानि सब्बशो । शमणा एव पापानां शमणो ति प्रवुच्चति ॥ ११:१४ शमितं येन पापं स्याद् अणुस्थूलं हि सर्वशः । शमितत्वात्तु पापानां श्रमणो हि निरुच्यते ॥ २३७ ३३९ यस्स छत्त्रीशतिं सोता मानाफस्समया भ्रिशा । वाहा वहन्ति दुद्रिष्टिं संकप्पा ग्ग्रेधनिश्शिता ॥ ३१:२९ स्रोतांसि यस्य षट्त्रिंशन् मनःप्रस्रवण्नानि हि । वहन्ति नित्यं दुर्दृष्टेः संकल्पैर्ग्रेधनिःश्रितैः ॥ २३८ २२१ क्रोधं जहे विप्रजहेय मानं संयोजनं सब्बमतिक्रमेया । तं नामरूपम्हि असज्जमानं अकिंचनं नानुपतन्ति दुक्खा ॥ २०:१ क्रोधं जहेत्विप्रजहेच्च मानं संयोजनं सर्वमतिक्रमेत । तं नाम्ने रूपे च असज्यमानम् अकिञ्चनं नानुपतन्ति सङ्गाः ॥ शरणवर्ग्गः ***** खान्ति ***** २३९ १८४ खान्ती परमं तपो तितिक्खा निब्बाणं परमं वदन्ति बुद्धा । न हि प्रव्रजितो परोपघाती श्मणो होति परे विहेसयानो ॥ २६:२ क्षान्तिः परमं तपस्तितीक्षा निर्वाणं परमं वदन्ति बुद्धाः । न हि प्रव्रजितः परोपतापी श्रमणो भवति परं विहेठयं वै ॥ २४० २२५ अहिंसका ये मुनयो निच्चं कायेन संवृता । ते यान्ति अच्चुतं ट्ठाणं यत्थ गन्ता न शोचति ॥ ७:७ अहिंसका वै मुनयो नित्यं कायेन संवृताः । ते यान्ति ह्यच्युतं स्थाणं यत्र गन्ता न शोचति ॥ २४१ ३०० सुप्रबुद्धं प्रबुज्झन्ति सदा गोतमसावका । येसां दिवा च रात्तो च अहिंसाय रतो मनो ॥ १५:१७ सुप्रबुद्धं प्रबुध्यन्ते इमे गौतमस्श्रावकाः । येषां दिवा च रात्रौ चैव् आहिंसायां रतं मनः ॥ २४२ ३०१ सुप्रबुद्धं प्रबुज्झन्ति सदा गोतमसावका । येसां दिवा च रात्तो च भावनाय रतो मनो ॥ १५:२५ सुप्रबुद्धं प्रबुध्यन्ते इमे गौतमस्श्रावकाः । येषां दिवा च रात्रौ च निर्वाणेऽभिरतं मनः ॥ २४३ २९९ सुप्रबुद्धं प्रबुज्झन्ति सदा गोतमसावका । येसां दिवा च रात्तो च निच्चं कायगता सती ॥ १५:१५ सुप्रबुद्धं प्रबुध्यन्ते इमे गौतमस्श्रावकाः । येषां दिवा च रात्रौ च नित्यं कायगता स्मृतिः ॥ २४४ १८१ ये झानप्रसुता धीरा नेक्खंमोऽपशमे रता । देवा पि तेसं प्रिहयन्ति संबुद्धानां सतीमतां ॥ २१:९ ये ध्यानप्रसृता धीरा नैष्क्रम्योपशमे रताः । देवापि स्पृहयन्त्येषां बुद्धानां श्रीमतां सदा ॥ २४५ ९८ अरन्ने यदि वा ग्ग्रामे निन्ने वा यदि वा थले । यत्थ अरहन्तो विहरंति तं भोमं रामणीयकं ॥ २९:१८ ग्रामे वा यदि वारण्य निम्ने वा यदि वा स्थले । यत्रार्हन्तो विहरन्ति ते देशा रमणीयकं ॥ २४६ एकं पि चे प्राणमदुष्टचित्तो मेत्तायते कुशली तेन होति । सब्बे च प्राणे मनसाऽनुकंपी प्रभूतमयिरो प्रकरोति पुंञं ॥ ३१:४३ एकमपि चेत्प्राणमदुष्टचित्तो मैत्रायते कुशलं तेन हि स्यात् । सर्वांस्तु सत्वां मनसानुकम्पं प्रभूतमर्यः प्रकरोति पुण्यम् ॥ २४७ ये सत्तशण्डां पठविं विजेत्ता राजरिषयो यजमानाऽनुपरियगु । अश्शमेधं पुरुषमेधं संमप्रास वायुपेयं निराग्गदं । मेत्तस्स चित्तस्स सुभावितस्स कलां पि ते नानुभवन्ति षोडशिं । चन्दप्रभां तारगणा व सब्बे ॥ २४८ योऽथ मेत्तेण चित्तेन सब्बे प्राणे नुकंपति । मेत्तं से सब्बभूतेसु वेरं तस्स न केनचि ॥ ३१:४२ अव्यापन्नेन चित्तेन यो भूतान्यनुकम्पते । मैत्रः स सर्वसत्वेषु वैरं तस्य न केन चित् ॥ २४९ यस्स सब्बे अहोरात्ते अहिंसाय रतो मनो । मेत्तं से सब्बभूतेसु वेरं तस्स न केनचि ॥ २५० यस्स सब्बे अहोरात्ते अहिंसाय रतो मनो । मेत्तं से सब्बभूतेसु वेरं तस्स न केनचि ॥ २५१ यस्स सब्बे अहोरात्ते निच्चं कायगता सतै । मेत्तं से सब्बभूतेसु वेरं तस्स न केनचि ॥ २५२ यो न हन्ति न घातेति न जिनाति न जापये । मेत्तं से सब्बभूतेसु वेरं तस्स न केनचि ॥ २५३ ५ न हि वेरेण वेराणि शामन्तीह कदाचनं । अवेरेण तु शामंति एस धंमो सनातनो ॥ १४:११ न हि वैरेण वैराणि शाम्यन्तीह कदा चन । क्षन्त्या वैराणि शाम्यन्ति एष धर्मः सनातनः ॥ २५४ ६ परे च न विजानंति वेरमेत्थ जयामथ । ये च तत्थ विजानंति ततो शांमंति मेधका ॥ १४:८ परे हि न विजानन्ति वयमत्रोद्यमामहे । अर्त ये तु विजानन्ति तेषां शाम्यन्ति मेथकाः ॥ २५५ १९७ सुसुखं वत जीवामो वेरिणेसु अवेरिणो । वेरिणेसु मनुष्येसु विहराम अवेरिणो ॥ ३०:४७ सुसुखं बत जीवामो वैरिकेषु अवैरिकाः । वैरिकेषु मनुष्येषु विहरामो ह्यवैरिकाः ॥ २५६ १९९ सुसुखं वत जीवामो उस्सुकेसु अनुस्सुका । उस्सुकेसु मनुष्येसु विहराम अनुस्सुका ॥ ३०:४३ सुसुखं बत जीवामो ह्युत्सुकेषु त्वनुत्सुकाः । उत्सुकेषु मनुष्येषु विहरामो ह्यनुत्सुकाः ॥ २५७ २०० ब् सुसुखं वत जीवामो येसं नो नास्ति किंचनं । सकिञ्चनेसु मनुष्येसु विहराम अकिंचनं ॥ ३०:४४ ब् सुसुखं बत जीवामो येषां नो नास्ति किञ्चनं । मिथिलायां दह्यमानायां न नो दह्यति किञ्चनम् ॥ २५८ १७० यथा बुब्बुदकं पश्शे यथा पश्शे मरीचिकं । एवं लोकमवेच्छानं मच्चुराजा न पश्शति ॥ २७:१५ यथा बुद्बुदिकां पश्येद् यथा पश्येन्मरीचिकाम् । एवं लोकमवेक्षं वै मृत्युराजं न पश्यति ॥ २५९ १४८ परिजिन्नमिदं रूपं रोगनीडं प्रभंगुरं । भिज्जीहिति<ति> पूतिसंदेहो मरणात्तं हि जीवितं ॥ १:३४ परिजीर्णमिदं रूपं रोगनीडं प्रभङ्गुरम् । भेत्स्यते पूत्यसंदेहं मरणान्तं हि जीवितम् ॥ २६० जिह्मं च द्रिष्टा दुखितं च व्याधितं प्रेतञ्च द्रिष्टा न चिरस्स मानवो । संवेगो तीप्पे (?) विपुलो (?) अजायथ अच्चेच्छि धीरो गृहिबन्धनानि ॥ १:२७ जीर्णं च दृष्ट्वेह तथैव रोगिणं मृतं च दृष्ट्वा व्यपयातचेतसम् । जहौ स धीरो गृहबन्धनानि कामा हि लोकस्य न सुप्रहेयाः ॥ खान्तिवर्ग्गः ***** आसव ***** २६१ ८५ अप्पका ते मनुष्येसु ये जना पारगामिनो । अथायमितरा प्रजा तीरमेवानुधावति ॥ २९:३३ अल्पकास्ते मनुष्येषु ये जनाः पारगामिन । अथेयमितराः प्रजास् तीरमेवानुधावति ॥ २६२ ८६ ये च खो संमदाक्खाते धम्मे धंमानुयत्तिनो । ते जना पारमेहिंति मच्चुधेयं सुदुत्तरं ॥ २९:३४ ये तर्हि सम्यगाख्याते धर्मे धर्मानुदर्शिनः । ते जनाः पारमेष्यन्ति मृत्युधेयस्य सर्वशः ॥ २६३ ८७ किह्ने धम्मे विप्रहाय शुक्रे भावेथ पण्डिता । ओका अनोकमागंम विवेको यत्थ दूरमं ॥ १६:१४ -द् कृष्नां धर्मां विप्रहाय शुक्लां भावयथ भिक्षवः । ओकादनोकमागम्य विवेकमनुबृंहयेत् ॥ २६४ ८८ तत्थाभिरतिमेषाणा हेत्ता कामे अकिंचना । पयिरोदमेथ आत्तानं चित्तं किलेशेहि सब्बशो ॥ १६:१४ f तत्र चाभिरमेतार्यो हित्वा कामानकिञ्चनः । (पयिरोदमेथ आत्तानं चित्तं किलेशेहि सब्बशो ॥) २६५ ८९ यस्स संबोधिअंगेहि समं चित्तं सुभावितं । आत्तानपटिनिस्सग्गे अनुपादाय ये रता । खीणासवा जुतीमन्तो ते लोके परिनि(व्)वृता ॥ ३१:३९ संबोध्यङ्गेषु येषांस्तु सम्यक्चित्तं सुभावितम् । आदानं प्रतिनिःसृज्य चानुपादायमाश्रिताः । क्षीणासवा वान्तदोषास् ते लोके परिनिर्वृताः ॥ २६६ २९२ यद्<अ>हि किच्चं तदपविद्धं अकिच्चं पुन कीरति । उन्नद्धानां प्रमत्तानां तेसं वद्धंति आसवा ॥ ४:१९ -द् यत्कृत्यं तदपविद्धं अकृत्यं क्रियते पुनः । उद्धतानां प्रमत्तानां तेषं वर्धन्ति आसवाः ॥ २६७ २९३ येसं च सुसमारद्धा निच्चं कायगता सती । अकिच्चं ते न सेवंति किच्चे सातच्चकारिणो । सतानां सम्प्रजानानां तेसं खीयंति आसवा ॥ ४:२० ब्,एf येसं च सुसमारद्धा निच्चं कायगता सती । अकिच्चं ते न सेवंति किच्चे सातच्चकारिणो । सतानां सम्प्रजानानां तेसं खीयंति आसवा ॥ २६८ २५३ परवज्जानुपश्शीनां निच्चमोज्झायसंञिना । आसवा तेसं वद्धन्ति आरा ते आसवक्खया ॥ २७:२ द्,४:१९ f परवद्यानुदर्शिनो नित्यावध्यानसंज्ञिनः । आसवास्तेषु वर्धन्ते आरात्ते ह्यास्रवक्षयात् ॥ २६९ २२६ जागरिकामनुयुत्तानां अहोरात्तानुशिक्खिणां । निब्बाने अधिमुत्तानां अत्थं गच्छंति आसवा ॥ १५:८ जागर्यमनुयुक्तानाम् अहोरात्रानुशिक्षिणाम् । अमृतं चाधिमुक्तानाम् अस्तं गच्छन्ति आस्रवाः ॥ २७० ९३ येसाऽसवा परिक्खीणा आहारे च अनिश्शिता । शुंञता आनिमित्तो च विमोघो येस गोचरो । आकाशे व शकुन्तानां पदं तेसं दुरन्नयं । २९:३१ येषां भवः परिक्षीणो ह्यपरान्तं च नाश्रिताः । शुन्यता चानिमित्तं च समाधिश्चैव गोचरः । आकाशैव शकुन्तानां पदं तेषं दुरन्वयम् । २७१ २७१ न हि शीलव्रतेनेव बाहुशोच्चेन वा पुन । अथ वा समाधिलाभेन विवित्तशयनेन वा ॥ ३२:३१ न शीलव्रतमात्रेण बहुश्रुत्येन वा पुनः । तथा समाधिलाभेन विविक्तशयनेन वा ॥ २७२ २७२ फुसाम नेक्खंमसुखं अपृथुज्जनसेवितं । भिक्खू वि<स्स>श्शासमापादि अप्राप्यासवक्खयं ॥ ३२:३२ भिक्षुर्विश्वासमापद्येत् अप्राप्ते ह्यासवक्षये । स्पृशेत्तु संबोधिसुखम् अकापुरुषसेवितम् ॥ २७३ नायं प्रमज्जितुं कालो ऽप्राप्यास्वक्खयं । प्रमत्तं दुखमन्नेति सीहं वा मृगमातिका ॥ ४:१३ नायं प्रमादकालः स्याद् अप्राप्ते ह्यास्वक्षये । मारः प्रमत्तमन्वेति सिंहं वा मृगमातृका ॥ २७४ १२६ गब्भमेके ओक्रंमन्ति निरयं पापकंमुणो । सग्गं सुगतिनो यान्ति परिनिव्वान्ति अनासवा ॥ २७५ ८२ यथा ह्रदोऽस्स गंभीरो विप्रसन्नो अनाविलो । एवं धंमाणि शोत्थान विप्रसीदंति पण्डिता ॥ १७:११ यथा ह्रदः सुगम्भीरो विप्रसन्नो ह्यनाविलः । एवं श्रुत्वा हि सद्धर्मं विप्रसीदन्ति पण्डिताः ॥ २७६ १७९ यस्स जितं नाऽप्पज्जीयति जितमस्सा न उपेति अन्तको । तं बुद्धमनोमनिक्रमं अपदं केन पदेन नेहिसि ॥ २९:५२ यस्य जितं नोपजीयते जितमन्वेति न कं चिदेव लोके । तं बुद्धमनन्तगोचरमं ह्यपदं केन पदेन नेष्यसि ॥ २७७ १८० यस्स जालिनी विसत्तिका तह्ना नास्ति कहिं चि नेतये । तं बुद्धमनन्तगोचरं अपदं केन पदेन नेहिसि ॥ २९:५३ यस्य जालिनी विषक्तिका तृष्णा नास्ति हि लोकनायिनी । तं बुद्धमनन्तगोचरं ह्यपदं केन पदेन नेष्यसि ॥ आसववर्ग्गः ***** वाचा ***** २७८ २८१ वाचानुरक्खी मनसा सुसंवृतो कायेन यो अकुशलं न सेवति । एते त्त्(र्)अयो कंमपथे विशोधिय प्राप्पोज्ज सो शान्तिपदमनुत्तरं ॥ ७:१२ वाचानुरक्षी मनसा सुसंवृतः कायेन चैवाकुशलं न कुर्यात् । एतां शुभां कर्मपथां विशोधयन्न् आराधयेन्मार्गमृषिप्रवेदितम् ॥ २७९ २३१ कायप्रदोषं रक्खेया कायेन संवृतो सिया । कायदुच्चरितं हेत्ता कायेन सुचरितं चरे ॥ ७:१ कायप्रदोषं रक्षेत स्यात्कायेन सुसंवृतः । कायदुश्चरितं हित्वा कायेन सुकृतं चरेत् ॥ २८० २३२ वाचाप्रदोषं रक्खेया वाचाय संवृतो सिया । वाचादुच्चरितं हेत्ता वाचाय सुचरितं चरे ॥ ७:२ वाचाः प्रदोषं रक्षेत वचसा संवृतो भवेत् । वाचो दुश्चरितं हित्वा वाचा सुचरितं चरेत् ॥ २८१ २३३ मनप्रदोषं रक्खेया मनसा संवृतो सिया । मनोदुच्चरितं हेत्ता मनसा सुचरितं चरे ॥ ७:३ मनःप्रदोषं रक्षेत मनसा संवृतो भवेत् । मनोदुश्चरितं हित्वा मनःसुचरितं चरेत् ॥ २८२ २३४ कायेन संवृता धीरा वाचाय उत्त चेतसा । सब्बत्थ संवृता धीरा ते वे सुपरिसंवृता ॥ ७:१० -द् कायेन संवृता धीरा धीरा वाचा सुसंवृताः । मनसा संवृता धीरा धीराः सर्वत्र संवृताः ॥ २८३ २२७ पोराणमेतमाधोर न एतमहुना-र्-इव । निन्दन्ति तोह्निमासीनं निन्दन्ति मितभाणिकं । बहुभाणिकं पि निन्दन्ति नास्ति लोके अनिन्दितो ॥ २९:४५ -f (पोराणमेतमाधोर न एतमहुना-र्-इव ।) निन्दन्ति तुष्णिमासीनं निन्दन्ति बहुभाषिणं । अल्पभाणिं च निन्दन्ति नास्ति लोकेषु अनिन्दितः ॥ २८४ २२८ न चाभु न भविष्यति न चेतरहि विज्जति । एकान्तनिन्दितो पोषो एकान्तं वा प्रशंसितो ॥ २९:४६ एकान्तनिन्दितः पुरुषः एकान्तं वा प्रशंसितः ॥ नाभूद्भविष्यति च नो न चापि एतरहि विद्यते । २८५ यञ्च बाला अधंमट्ठं पूजेयु गरहेयु वा । अविञूमविभावाय न तमत्थाय कायचि ॥ २८६ २२९ यञ्च विञू प्रशन्ति अनुविच्च सुवे सुवे । अच्छिद्रवत्तिं मेधाविं प्रंञाशीलसमाहितं ॥ च्f. २९:४७-४८ यं तु विज्ञाः प्रशंसन्ति ह्यनुयुज्य शुभाशुभम् । मेधाविनं वृत्तयुक्तं प्रज्ञं शीलषु संवृतं ॥ २८७ २३० निक्खं जांबूनदस्सेव को तं निन्दितुमरिहति । देवा पि नं प्रशन्सन्ति ब्रह्मुणा पि प्रशंसितो ॥ २८८ २६२ न वाक्ककरणमात्त्(र्)एण वन्नपुक्खलताय वा । साधुरूपी नरो होति इश्शुकी मच्छरी शठो ॥ २९:१० न नामरुपमात्रेण वर्णपुष्कलया न च । साधुरूपो नरो भवति मायावी मत्सरी शठः ॥ २८९ च्f. २६१,२६३ यम्हि सच्चं च धम्मो च विरती संय्यमो दमो । स वान्तदोषो मेधावी साधुरूपी ति वुच्चति ॥ १०:७ यस्य श्रद्धा च शीलं चैव् आहिंसा संयमो दमः । स वान्तदोषो मेधावी साधुरूपो निरुच्यते ॥ २९० १९ बहुं पि चे सहितं भाषमानो न तक्करो होति नरो प्रमत्तो । गोपो व गावो गणयं परेसं न भागवा शामण्णस्स होति ॥ ४:२२ सुबह्वपीह सहितं भाषमानो न तत्करो भवति नरः प्रमत्तः । गोपैव गाः संगणयं परेषां न भागवां च्छ्रामण्यार्थस्य भवति ॥ २९१ २० -च्,f अप्पं पि चे सहितं भाषमानो धम्मस्स होति अनुधम्मचारी । रागं च दोषं च प्रहाय मोहं विमुत्तचित्तो अखिलो अकंछो । अनुपादियानो इह वा हुरे वा स भागवा शामन्नस्स होति ॥ ४:२३ ब्च्f अल्पमपि चेत्सहितं भाषमानो धर्मस्य भवति अनुधर्मचारी । रागं च दोषं च तथैव मोहं (विमुत्तचित्तो अखिलो अकंछो । अनुपादियानो इह वा हुरे वा) प्रहाय भागी श्रामण्यस्य भवति ॥ २९२ २२४ सच्चं भणे न क्(र्)उज्झेया देया अप्पा पि याचितो । एतेहि त्तिहि ट्ठाणेहि गच्छे देवान सन्तिके ॥ २०:१६ सत्यं वदेन्न च क्रुध्येद् दद्यादल्पादपि स्वयम् । स्थानैरेभिस्त्रिभिर्युक्तो देवानामन्तिकं व्रजेत् ॥ २९३ १७७ न वे कदार्य्या देवलोकं व्रजन्ति बाला हि भे (ते) न प्रशंसन्ति दानं । धीरो तु दानमनुमोदमानो तेनेव सो देवलोकं परेति ॥ १०:२ न वै कदर्या देवलोकं व्रजन्ति बाला हि ते न प्रशंसन्ति दानम् । श्राद्धस्तु दानं ह्यनुमोदमानो ऽप्येवं ह्यसौ भवति सुखी परर्त ॥ २९४ २१७ शीलवन्तं शुचिं दच्छं धम्मट्ठं सच्चवादिनं । आत्तनो कारकं शन्तं तं जनो कुरुते प्रियं ॥ ५:२४ धर्मस्थं शीलसंपन्नं ह्रीमन्तं सत्यवादिनम् । आत्मनः कारकं शन्तं तं जनः कुरुते प्रियम् ॥ २९५ ३०८ श्रेयो अयोगुडा भुत्ता तत्ता अग्गिशिखोपमा । यं च भुञ्जेय दुश्शीलो राष्टपिण्डमसंय्यतो ॥ ९:२ श्रेयो ह्ययोगुडा भुक्तास् तप्ता ह्यग्निशिखोपमाः । न तु भुञ्जीत दुःशीलो राष्ट्रपिण्डमसंयतः ॥ २९६ ३११ कुशो यथा दुग्गृहीतो हस्तमेवानुकंतति । शामन्नं दुप्परामाट्ठं निरयाय उपकट्टति ॥ ११:४ शरो यथा दुर्गृहीतो हस्तमेवापकृन्तति । श्रामण्यं दुष्परामृष्टं नरकानुपकर्षति ॥ २९७ १७६ एकधंममतीतस्स मुषावादिस्स जंतुनो । वितिन्नपरलोकस्स नास्ति पापमकारियं ॥ ११:४ २९८ न हि शस्तं सुनिशितं विषं हालाहक्लं तथा । एवं खिप्रमतिपातेति वाचा दुब्भाषिता यथा ॥ २९९ पुरुषस्स जायमानस्स कुठारी जायते मुखे । याय छिन्दति आत्तानं वाचं दुब्भाषितं भणं ॥ ८:२ पुरुषस्य हि जातस्य कुठारी जायते मुखे । यया छिनत्ति हात्मानं वाचा दुर्भाषितं वदन् ॥ ३०० यो हि निन्दिये प्रशंसति उत्तवा निन्दति यो प्रषंसिये । विचिनाति मुखेन सो कलिं कलिना तेन सुखं न विन्दति ॥ ८:३ यो निन्दियां प्रशंसति तानपि निन्दति ये प्रशंसियाः । स चिनोति मुखेन तं कलिं कलिना तेन सुखं न विन्दति ॥ ३०१ अप्पामात्तो अयं कली यो अक्खेहि धनं पराजये । सब्बस्सं पि सहापि आत्तना यमेव महत्(त्)अरो कली ॥ यो सुगतेसु मनं प्रदूषये ८:४ अल्पामात्रो ह्ययं कलिर् य इहाक्षेण धनं पराजयेत् । अयमत्र महत्तरः कलिर् यः सुगतेषु मनः प्रदूषयेत् ॥ ३०२ शतं सहस्राणि निरब्बुदानां छत्त्रीशतिं पंच च अब्बुदानि । यमयिरगरही निरयमुपेति वाचं मनं च प्रणिधाय पापिकां ॥ ८:५ शतं सहस्राणि निरर्बुदानि षट्त्रिंशतिं पंच तथार्बुदानि । यानार्यगर्ही नरकानुपैति वाचं मनश्च प्रणिधाय पापकम् ॥ ३०३ कल्लाणिमेव भाषेया नाऽस्स मुच्चेय पापिका । मोक्खो कल्लाणिये श्रेयो मुत्ता तपति पापिकं ॥ ८:८ कल्याणिकां विमुञ्चेत नैव मुञ्चेत पापिकाम् । मुक्ता कल्याणिकी श्रेयो मुक्ता तपति पापिका ॥ ३०४ कल्लाणिमेव सेवेया नाऽस्स मुच्चेय पापिका । मोक्खो कल्लाणिये श्रेयो मुत्ता तपति पापिकं ॥ ३०५ वाचं भाषेय कल्लाणिं नाऽस्स मुच्चेय पापिक(ं) । जातं क्रोधं निवारेया सो बिषब्भि निरुज्झति ॥ २०:२ (वाचं भाषेय कल्लाणिं नाऽस्स मुच्चेय पापिक(ं) ।) अविद्यां प्रजहेद्धीरः (सो बिषब्भि निरुज्झति ॥) वाचावर्ग्गः ***** आत्त ***** ३०६ १६२ यस्स अच्चन्तदोश्शिल्लं मलुता सालमिवोऽतता । करोति सो तथात्तानं यथा नं बिषमिच्छति ॥ ११:१० योऽसावत्यन्तदुःशिलः सालवां मूलुता यथा । करोत्यसौ तथात्मानं यथैनं द्विष्-दिच्छति ॥ ३०७ १६१ द् आत्तना हि कतं पापं आत्तजमात्तसंभवं । अनुमंधति दुम्मेधं वयितं वा अह्ममयं मणिं ॥ २८:१२ द् (आत्तना हि कतं पापं आत्तजमात्तसंभवं ।) अभिमथ्नाति तं पापं वज्रमश्ममणिं यथा ॥ ३०८ १६५ आत्तना हि कतं पापं आत्तना संकिलिश्शति । आत्तना अकतं पापं आत्तना ये विशुज्झति । शोद्धी अशोद्धी प्रच्चत्तं नांञो अंञं विशोधये ॥ २८:११,१२ ब् आत्मना हि कृते पापे त्वात्मना क्लिश्यते सदा । आत्मना त्वकृते पापे ह्यात्मनैव विशुध्यते । अशुद्धबुद्धिं प्रत्यात्मं नान्यो ह्यन्यं विशोधयेत् ॥ ३०९ ५० न परेसं विलोमानि न परेसं कताऽकतं । आत्तना ये अवेच्छेया कतानि अकतानि च ॥ १८:९ न परेषां विलोमानि न परेषां कृताकृतम् । आत्मनस्तु समीक्षेता समानि विषतानि च ॥ ३१० न परेसं विलोमानि न परेसं समासमं । आत्तना ये अवेच्छेया समानि विषमानि च ॥ ३११ आत्तानं चे प्रियं ञाय्या रक्खेया नं सुरक्खितं । न एतं सुलभं होति सुखं दुक्कतकारिणां ॥ ५:१३ आत्मानं चेत्प्रियं विद्यान् नैनं पापेन योजयेत् । न ह्येतत्सुलभं भवति सुखं दुष्कृतकारिणा ॥ ३१२ १५७ आत्तानं चे प्रियं ञाय्या रक्खेया नं सुरक्खितं । त्तिण्णमञतरं यामानं पटिजाग्ग्रेय पण्डितो ॥ ५:१५ बेf आत्मानं चेत्प्रियं विद्यात् रक्षेदेनं सुरक्षितम् । त्रयाणामन्यतमं यामां प्रतिजाग्रेत पण्डितः ॥ ३१३ ३०५ एकासनमेकशेयं एकचरियामतन्द्रितो । एको रमयमात्तानं वनान्ते रमिता सिया ॥ २३:२ एकासनं त्वेकशय्याम् एकचर्यामतन्द्रितः । रमयेच्चैकमात्मानं वनेषु एकः सदा वसेत् ॥ ३१४ यो शासनमरहतां अयिराणां धम्मजीविनां । पटिक्रोति दुम्मेधो दृष्टिं निश्शाय पापिकां । करोति सो तथात्तानं यथा नं बिषमिच्छति ॥ ३१५ १६४ यो शासनमरहतां अयिराणां धम्मजीविनां । पटिक्रोशति दुम्मेधो दृष्टिं निश्शय पापिकां । फलं कण्टकवेणुर्वा आत्तघन्नाय फल्लति ॥ ८:७ यः शासनं ह्यर्हतां आर्याणां धर्मजीविनाम् । प्रतिक्रोशति दुर्मेधा दृष्टिं निःश्रित्य पापिकाम् । फलानि कण्टकस्सेव फलत्यात्मवधाय सः ॥ ३१६ आत्तानमेव पठमं अत्थे धंमे निवेशये । अथांञमनुशासेया एवं होति यथा अहं ॥ च्f. २३:६ आत्मानमेव प्रथमं प्रतिरूपे निवेशयेत् । ततोऽन्यमनुशासित (एवं होति) यथा ह्यह(ं) ॥ ३१७ १५८ आत्तानमेव पठमं पटिरूपे नियोजये । अथांञमनुशासन्तो न किलिश्शति प्रंञवा ॥ २३:७ आत्मानमेव प्रथमं प्रतिरूपे निवेशयेत् । ततोऽन्यमनुशासीत न क्लिश्यत हि पण्डितः ॥ ३१८ १५९ आत्तना ये तथा कयिरा यथांञमनुशासये । अदान्तो वत दमेया आत्ता हि किर दुद्दमो ॥ २३:८ आत्मानं हि तथा कुर्याच् छासीतान्यं यथा स्वयम् । सुदान्तो बत मे नित्यम् आत्मा स हि सुदुर्दमः ॥ ३१९ १०४ आत्ता हि वरं दान्तो यच्छायमितरा प्रजा । आत्तदान्तस्स पोषस्स सदा संय्यतचारिणो ॥ २३:४ आत्मा ह्यस्य जितः श्रेयां यच्चेयमितराः प्रजाः । आत्मदान्तस्य पुरुषस्य नित्यं संवृतचारिणः ॥ ३२० १०५ नेव देवा न गन्धब्बा न मारो सह ब्रह्मुणा । जितमपजितं कयिरा तथरूपस्स जन्तुनो । २३:५ न देवा नापि गन्धर्वा न मारो ब्राह्मुणा सह । जितस्यापजितं कुर्युस् तथा प्राज्ञस्य भिक्षुणः ॥ ३२१ १६० आत्ता हि आत्तनो नाथो को हि नाथो परो सिया । आत्तना हि सुचिन्नेन नाथं लभति दुल्लभं ॥ २३:११ आत्मा त्विहात्मनो नाथः को नु नाथः परो भवेत् । आत्मना हि सुदान्तेन नाथं लभति पण्डितः ॥ ३२२ ३८० आत्ता हि आत्तनो नाथो आत्ता हि आत्तनो गती । तस्सा संय्यमयाऽत्तानं अश्शं भद्रं व वाणिजो ॥ १९:१४ आत्मैव ह्यात्मनो नाथः आत्मा शरणमात्मनः । तस्मात्संयमयात्मानं भद्रामिव सारथिः ॥ ३२३ आत्तानमेव दमये अश्शसुगतिया सदा । दंम शंम उज्जुं होहि(होति) ततो अकुटिलो भव ॥ ततो दान्तो सुखी होहि(होति) अनुपादाय निवृतो । १९:१३ ब् आत्मानमेव दमयेद् भद्राश्वमिव सारथिः । (दंम शंम उज्जुं होहि(होति) ततो अकुटिलो भव ॥ ततो दान्तो सुखी होहि(होति) अनुपादाय निवृतो ।) ३२४ ३७९ आत्तना चोदयाऽत्तानं परिमशात्तानमात्तना । सो आत्तगुत्तो सतिमा सुखं भिक्खू विहाहिसि । ३२५ १६६ आत्तदात्थं परात्थेन बहुना पि न हापये । आत्तदात्थं परं ञात्ता सदात्थपरमो सिया ॥ २३:१० आत्मनोऽर्थं परार्थेन बहुनापि न हापयेत् । आत्मार्थं परमं ज्ञात्वा स्वकार्थपरमो भवेत् ॥ ३२६ ८४ नेवात्तहेतो न परस्स हेतो न सग्गमिच्छे न धनं न राष्टं । नेच्छे अधम्मेण समृद्धिमात्तनो सो शीलवा प्रंञवा धांमिको सिया ॥ आत्तवर्ग्गः ***** ददन्ती ***** ३२७ २४९ ददन्ति वे यथाश्रद्धं यथाप्रसदनं जना । तत्थ यो दुंमनो होति परेसं पानभोजने । न सो दिवा च रात्तो च समाधिमधिगच्छति ॥ १०:१२ ददन्त्येके यथा श्रद्धा यथाविभवतो जनाः । तत्र यो दुर्मना भवति परेषां पानभोजने । नासौ दिवा च रात्रौ च समाधिमधिगच्छति ॥ ३२८ २५० यस्स चेतं समुच्छिन्नं मूलोऽग्घच्चतं । स वे दिवा च रात्तो च समाधिमधिगच्छति ॥ १०:१३ यस्य त्वेते समुच्छिन्नास् तालमस्तकवद्धताः । स वै दिवा च रात्रौ च समाधिमधिगच्छति ॥ ३२९ १४३ -द्,१४४ ब् अश्शो व भद्रो कषाय पुट्ठो आतापिनो सविंगणो चराणो । श्रद्धाय शीलेन च वीरियेण च समाधिना धम्मविपश्शनाय च । ते खान्तिसोरच्छसमाधिसंठिता शुतस्स प्रंञाय च सारमज्झगू ॥ १९:१,२(?) भद्रो यथाश्वः कशयाभिस्पृष्ट ह्यातापिनः संविजिताश्चरेत । श्राद्धास्तथा शीलगुणैरुपेतः समाहितो धर्मविनिश्चयज्ञः । संपन्नविद्याचरणः प्रतिस्मृतस् तायि स सर्वं प्रजहाति दुःखम् ॥ ३३० यो द्रिष्टे धंमे लभति श्रद्धां प्रंञामनुत्तरां । स वे महद्धनो लोके मोहमंञं बहुं धनं ॥ १०:९ यो जीवलोके लभते श्रद्धां प्रज्ञां च पण्डितः । तद्धि तस्य धनं श्रेष्टं हीनमस्येतरद्धनम् ॥ ३३१ ३०३ श्रद्धो शीलेन संपन्नो यशभोगसमाहितो । यं यं सो भजते देशं तत्थ तत्थेव पूजितो ॥ १०:८ श्राद्धः शीलेन संपन्नस् त्यागवां वीतमत्सरः । व्रजते यत्र यत्रैव तत्र तत्रैव पूज्यते ॥ ३३२ श्रद्धबितियं पुरुषं चरन्तं न नं लभेया अश्रद्धो व चारो । यशो चकित्ती च ततो नमेति सग्गं च गच्छे शरीरं प्रहाय ॥ ३३३ ९७ अश्रद्धो अकतंञू च संधिच्छेदो च यो नरो । हतावकाशो वान्ताशो स वे उत्तिमपोरुषो ॥ २९:२३ अश्रद्धश्चाकृतज्ञश्च संधिच्छेत्ता च यो नरः । हतावकाशो वान्ताशः स वै तूत्तमपूरुषः ॥ ३३४ १८२ किच्छो बुद्धान उप्पादो किच्छा धम्मस्स देशना । किच्छो श्रद्धपटीलाभो किच्छं माच्चान जीवितं ॥ ३३५ ३८ अनवट्ठितचित्तस्स सद्धंममविजानतो । पारिप्लवप्रसादस्स प्रंञा न परिपूरति ॥ ३१:२८ अनवस्थितचित्तस्य सद्धर्ममविजानतः । पारिप्लवप्रसादस्य प्रज्ञा न परिपूर्यते ॥ ३३६ नाप्रसन्नचित्तेन दुष्टेन कुपितेन वा । शक्कमाजानितुं धम्मो सारंभबहुलेन वा ॥ ३१:२५ नाप्रसन्नेन चित्तेन दुष्टेन क्षुभितेन वा । धर्मो हि शक्यमाज्ञातुं संरम्भबहुलेन वा ॥ ३३७ यो तु विनीय सारंभं अप्रसादं च चेतसो । प्रसन्नचित्तो सुमनो स वे न्याय्या सुभाषितं ॥ ३१:२६ विनीय यस्तु संरम्भम् अप्रसादं च चेतसा । आघातं चैव निःसृज्य प्रजानीयात्सुभाषितम् ॥ ३३८ १७८ मनुष्यपटिलाभेन सग्गानां गमनेन च । पृथिव्यामेकराज्जेन सोतापत्तिफलं वरं ॥ ३३९ यस्स श्रद्धा तथागते अचाला सुप्रतिष्ठिता । शीलञ्च यस्स कल्लाणं अयिरकान्तं प्रशंसियं ॥ ३४० संघे प्रसादो यस्स अस्ति उज्जुभूतञ्च दंशनं । अदरिद्रो ति तमाहु अमोघं तस्स जीवितं ॥ ३४१ तस्सा श्रद्धञ्च शीलं च प्रसादं धम्मदंशने । अनुयुञ्जेय मेधावी सरं बुद्धान शासनं ॥ ददन्तीवर्ग्गः ***** चित्त ***** ३४२ ३३ फन्दनं चपलं चित्तं दुरक्खं दुन्निवारयं । उज्जुं करोति मेधावी उषुकारो व तेजना ॥ ३१:८ स्पन्दनं चपलं चित्तं दुरक्ष्यं दुन्निवारणं । ऋजुं करोति मेधावी इषुकारो इव तेजसा ॥ ३४३ ३४ वारिजो व थले खित्तो ओकमोकातु उब्भतो । परिफन्दतिमं चित्तं मारधेयं प्रहातये ॥ ३१:२ वारिजो वा स्थले क्ष्प्तो ओकादोघात्समुद्धृतः । परिस्पन्दति वै चित्तं मारधेयं प्रहातवै ॥ ३४४ ३७ दूरंगममेकचरं अशरीरं गुहाशयं । ये चित्तं संय्यमेहिन्ति मोक्खंते मारबंधना ॥ ३४५ ३५ दुन्निग्ग्रहस्स लघुनो यत्थकामनिपातिनो । चित्तस्स दमथो साधु चित्तं दान्तं सुखावहं ॥ ३१:१ दुर्निग्रहस्य लघुनो यत्रकामनिपातिनः । चित्तस्य दमनं साधु चित्तं दान्तं सुखावहम् ॥ ३४६ ३६ सुदुद्दशं सुनिपुणं यथकामनिपातिनं । चित्तं रक्खेय मेधावी तद्<अ>हि गुत्तं सुखावहं ॥ ३४७ ३९ अनपाश्रयमाणस्स अनन्वाहतचेतसो । हेत्ता कल्लाणपानि नास्ति जागरतो भयं ॥ २८:६ अनपाश्रयमाणस्स अनन्वाहतचेतसो । हेत्ता कल्लाणपानि नास्ति जागरतो भयं ॥ ३४८ ७९ धम्मप्रीतिरसं पाता विप्रसन्नेन चेतसा । अयिरप्रवेदिते धम्मे सदा रमति पण्डितो ॥ ३०:१३ धर्मप्रीतिः सुखं शेते विप्रसन्नेन चेतसा । आर्यप्रवेदिते धर्मे रमते पण्डितः स्मृतः ॥ ३४९ ४१ अचिरा वत अयं कायो पठविमभिशेहिति । छूडो अपेतविंन्याणो निरात्थं वा कटिंगरं ॥ १:३५ अचिरं बत कायोऽयं पठिवीमभिशेष्यते । शुन्यो व्यपेतविज्ञाणो निरास्तं वा कडङ्गरम् ॥ ३५० ४० कुंभोपमं कायमिमं विदित्ता नगरोपमं चित्तमधिष्ठित्ता । योधेय मारं प्रंञायुधेन जितं च रक्खे अनिवेशनो सिया ॥ ३१:३५ कुम्भोपमं कायमिमं विदित्वा नगरोपमं चित्तमधिष्ठितं च । युध्येत मारं प्रज्ञायुधेन जितं च रक्षेदनिवेशनः स्यात् ॥ ३५१ १३ यथा अगारं दुच्छन्नं वट्ठी समिविज्झति । एवमभावितं चित्तं रागो समितिविज्झति ॥ ३१:११ यथा ह्यगारं दुच्छन्नं वृष्टिः समतिभिन्धति । एवं ह्यभावितं चित्तं रागः समतिभिन्दति ॥ ३५२ १४ यथा अगारं सुच्छन्नं वट्ठी न समितिविज्झति । एवं सुभावितं चित्तं रागो न समितिविज्झति ॥ ३१:१७ यथा ह्यगारं सुच्छन्नं वृष्टिर्न व्यतिभिन्दति । एवं सुभावितं चित्तं रागो न व्यतिभिन्दति ॥ ३५३ यथा अगारं दुच्छन्नं वट्ठी समितिविज्झति । एवमभावितं चित्तं रागो समितिविज्झति ॥ ३१:१२ यथा ह्यगारं दुच्छन्नं वृष्टिर्समतिभिन्दति । एवं ह्यभावितं चित्तं द्वेषः समतिभिन्दति ॥ ३५४ यथा अगारं सुच्छन्नं वट्ठी न समितिविज्झति । एवं सुभावितं चित्तं दोषो न समितिविज्झति ॥ ३१:१८ यथा ह्यगारं सुच्छन्नं वृष्टिर्न व्यतिभिन्दति । एवं सुभावितं चित्तं द्वेषो न व्यतिभिन्दति ॥ ३५५ यथा अगारं दुच्छन्नं वट्ठी समितिविज्झति । एवमभावितं चित्तं मोहो समितिविज्झति ॥ ३१:१३ यथा ह्यगारं दुच्छन्नं वृष्टिर्समतिभिन्दति । एवं ह्यभावितं चित्तं मोहः समतिभिन्दति ॥ ३५६ यथा अगारं सुच्छन्नं वट्ठी न समितिविज्झति । एवं सुभावितं चित्तं मोहो न समितिविज्झति ॥ ३१:१९ यथा ह्यगारं सुच्छन्नं वृष्टिर्न समतिभिन्दति । एवं सुभावितं चित्तं मोहो न व्यतिभिन्दति ॥ ३५७ १८३ सब्बपापस्स अकरणं कुशलस्स अपसंपदा । सचित्तपयिरोदमनं एतं बुद्धान शासनं ॥ २८:१ सर्वपापस्यआकरणं कुशलस्योपसंपदः । स्वचित्तपर्यवदनम् एतद्बुद्धस्य शासनम् ॥ चित्तवर्ग्गः ***** माग्ग ***** ३५८ २७३ माग्गानष्टंगिको श्रेष्ठो सच्चानां चतुरो पदा । विरागो श्रेष्ठो धम्माणां दुपदानां च चक्खुमा ॥ १२:४ मार्गेषु अष्टाङ्गिकः श्रेष्ठश् चत्वार्यार्याणि सत्यतः । श्रेष्ठो विरागो धर्माणां चक्षुमां द्विपदेषु च ॥ ३५९ २७५ द्,२७६ आक्खातो वो मया माग्गो अंञाये शल्लसःसनो । तुब्भेहि किच्चमातप्पं अक्खातारो तथागता । पटिपन्ना प्रमोक्खन्ति झायिनो मारबंधना ॥ १२:९ -द्,१२:११ आख्यातो वो मया मार्गस् त्वज्ञायै शल्यकृन्तनः । युष्माभिरेव करणीयम् आखातारस्तथागताः । प्रतिपन्नकाः प्रहास्यन्ति ध्यायिनो मारबन्धनम् ॥ ३६० २७४,२७५ ब् एसेव माग्गो नास्तंऽञो दंशनस्स विशुद्धिये । तं माग्गं पटिपज्जह्वो मारस्सेऽसा प्रमोहनी । एताहि तुब्भे पटिपन्ना दुक्खस्स अन्तं करिष्यथ ॥ १२:११ ब् एषो हि मार्गो नास्त्यन्यो दर्शनस्य विशुद्धये । (तं माग्गं पटिपज्जह्वो मारस्सेऽसा प्रमोहनी । एताहि तुब्भे पटिपन्ना दुक्खस्स अन्तं करिष्यथ ॥) ३६१ २८३ वनं छिन्दथ मा रुक्खे वनो जायते भयं । छेत्ता वनञ्च वनधञ्च निब्बनेन गमिश्शथ ॥ १८:३ वनं छिन्दत मा रुक्षं वनाद्वै जायते भयम् । छित्वा वनं च समूलं तु निर्वणा भवत भिक्षवः ॥ ३६२ २८४ यावता वनधो न च्छिज्जति अणुमात्तो पि नरस्स ञातिसु । पटिबद्धमनो हि तत्थ सो वच्छो च्छीरवको व मातरि ॥ १८:४ न छिद्यते यावता वनं ह्यनुमात्रमपि नरस्य बन्धुषु । प्रतिबद्धमनाः स तत्र वै वत्सः क्षीरपक इव मातरम् ॥ ३६३ २८५ उच्छिन्न सिनेहमात्तनो कुमुदं शारदिकं व पाणिना । शान्तिमाग्गमेव ब्यूहय निब्बाणं सुगतेन देशितं ॥ १८:५ उच्छिन्धि हि स्नेहमात्मनः पद्मं शारदकं यथोदकात् । शान्तिमार्गमेव बृंहयेन् निर्वाणं सुगतेन देशितम् ॥ ३६४ २८६ इदं वश्शा करिष्यामि इदं हेमंन गृह्मसु । इति बालो विचिंतेति अन्तरायं न बुज्झति ॥ १:३८ इह वर्षं करिष्यामि हेमन्तं ग्रीष्ममेव च । बालो विचिन्तयत्येवम् अन्तरायं न पश्यति ॥ ३६५ २८७ तं पुत्तपशुसंमत्तं व्यासत्तमनसं नरं । सुत्तं ग्ग्रामं महोघो वा मच्चु-र्-आदाय गच्छति ॥ १:३९ तं पुत्रपशुसंमत्तं व्यासक्तमनसं नरम् । सुप्तं ग्रामं महौघैव मृत्युरादाय गच्छति ॥ ३६६ २८८ न सन्ति पुत्ता त्ताणाय न पिता नो पि भातरो । अन्तकेनाऽधिभूतस्स नास्ति ञातीसु त्ताणता ॥ १:४० न सन्ति पुत्रास्त्राणाय न पिता नापि बान्धवाः । अन्तकेनाभिभूतस्य न हि त्राणा भवन्ति ते ॥ ३६७ क्रन्दतामेव ञातीनं विलपतां चेवमेकतो । जना अन्तरहीयंति असकामा जहंति नं ॥ ३६८ २८९ एतं विदिय मेधावी प्रंञवा वीतमच्छरी । तं सग्गगमनं माग्गं निच्चमेव विशोधये । ६:१५ एतद्धि दृष्ट्वा शिक्षेत सदा शीलेषु पण्डितः । निर्वाणगमनं मार्गं क्षिप्रमेव विशोधयेत् ॥ ३६९ तस्सा हि पण्डितो पोषो संपश्शमत्थमात्तनो । तं सग्गगमनं माग्गं निच्चमेव विशोधये ॥ ३७० श्रद्धो शीलेन संपन्नो प्रंञवा सुसमाहितो । निच्चं माग्गं विशोधेति सच्छयनं सांपरायिकं ॥ ३७१ श्रद्धो शीलेन संपन्नो प्रंञवा सुसमाहितो । रमते माग्गमासेवं अज्झत्तोपसमे रतो ॥ ३७२ ३१ द् श्रद्धो शीलेन संपन्नो प्रंञावागरतो सदा । संयोजनमणुत्थूलं दहमग्गी व गच्छति । मानमक्खे व पापके ॥ ४:२९ द् (श्रद्धो शीलेन संपन्नो प्रंञावागरतो सदा ।) संयोजनमणुस्थूलं दहन्नग्निरिव गच्छति । (मानमक्खे व पापके ॥) ३७३ २७७ अनिच्चा सब्बसंखारा यतो प्रंञाय पश्शति । अथ निव्वण्डते दुक्खा एस माग्गो विशुद्धिये ॥ १२:५ अनित्यां सर्वसंस्कारां प्रज्ञाय पश्यते सदा । अथ निर्विद्यते दुःखाद् एष मार्गो विशुद्धये ॥ ३७४ २७९ सब्बधंमा अनात्ता ति यतो प्रंञाय पश्शति । अथ निव्विण्डते दुक्खा एस माग्गो विशुद्धिये ॥ १२:८ सर्वधर्मा अनात्मानः प्रज्ञया पश्यते यदा । अथ निर्विद्यते दुःखाद् एष मार्गो विशुद्धये ॥ ३७५ २८२ योगा हि भूरी संभवति अयोगा भूरिसंखयो । एतं जेथापथं ञात्ता भवाय विभवाय च । तथा शिच्छेय मेधावी यथा भूरी प्रवद्धति ॥ २९:४० योगाद्भवः प्रभवति वियोगाद्भवसंषयः । एतद्द्वैधापथं ज्ञात्वा भवाय विभवाय च । तत्र शिक्षेत मेधावी यत्र योगानतिक्रमेत् ॥ माग्गवग्गः ***** सहस्र ***** ३७६ १०० सहस्रमपि चे वाचा अनत्थपदसाहिता । एकमत्थपदं श्रेयो यं शोत्ता उपशांमति ॥ ३७७ १०२ यो च गाथाशतमनत्थपदसाहितं । एकं धमपदं श्रेयो यं शोत्ता उपशाम्मति ॥ २४:१,२ यच्च गाथाशतमनर्थपदसंहितम् । एकं धर्मपदं श्रेयो यच्छ्रुत्वा ह्युपशाम्यति ॥ ३७८ १०३ यो सहस्रं सहस्राणां संग्ग्रामे मानुषे जिने । एकं च पंञमात्तानं स वे संग्ग्राममुत्तमो ॥ २३:३ यः सहस्रं सहस्राणां संग्रामे द्विषतां जयेत् । यश्चात्मानं जयेतेकं संग्रामो दुर्जयः स वै ॥ ३७९ १०६ -f मासे मासे सहस्रेण यो यजेय शतं समा । एकं च भावि<त्त>तात्तानं मुहुत्तमपि पूजये । सा एव पौजना श्रेयो यच्छ वश्शशतं हुतं ॥ २४:१६ -f (मासे मासे सहस्रेण यो यजेय शतं समा ।) यच्वैकं भावितात्मानं मुहूर्तमपि पूजयेत् । सा तस्य पूजना श्रेष्टता न तद्वर्षशतं हुतम् ॥ ३८० १०७ यो च वश्शशतं जन्तू अग्गिं परिचरे वने । एकञ्च भावितात्तानं मुहुत्तमपि पूजये । सा एव पूजना श्रेयो यच्छ वश्शशतं हुतं ॥ २४:१६ यच्च वर्षशतं पूर्णम् अग्निं परिचरेद्वने । यच्चैकं भावितात्मानं मुहूर्तमपि पूजयेत् । सा तस्य पूजना श्रेष्ठा न तद्वर्षशतं हुतम् ॥ ३८१ १०८ यं किंचि यष्टं व हुतं व लोके संवत्सरं यजते पुंञपेखी । सब्बं पि तं न चतुब्बागमेति अभिवादना उज्जुगतेसु श्रेयो ॥ ३८२ मासे मासे सहस्रेण यो यजेय शतं समा । न तं बुद्धे प्रसादस्स कलामग्घति षोडशिं ॥ २४:२१ मासे मासे सहस्रेण यो यजेत समाशतम् । न तद्बुद्धे प्रसादस्य कलामर्घति षोडशीम् ॥ ३८३ मासे मासे सहस्रेण यो यजेय शतं समा । न तं धम्मे प्रसादस्स कलामग्घति षोडशिं ॥ २४:२२ मासे मासे सहस्रेण यो यजेत समाशतम् । न तद्धर्मे प्रसादस्य कलामर्घति षोडशीम् ॥ ३८४ मासे मासे सहस्रेण यो यजेय शतं समा । न तं संघे प्रसादस्स कलामग्घति षोडशिं ॥ २४:२३ मासे मासे सहस्रेण यो यजेत समाशतम् । न तद्संघे प्रसादस्य कलामर्घति षोडशीम् ॥ ३८५ मासे मासे सहस्रेण यो यजेय शतं समा । न तं साखातधंमानां कलामग्घति षोडशिं ॥ २४:२१-२३ मासे मासे सहस्रेण यो यजेत समाशतम् । न तद्बुद्धे प्रसादस्य कलामर्घति षोडशीम् ॥ ३८६ मासे मासे कुशाग्ग्रेण बालो भुञ्जेय भोजनं । न तं बुद्धे प्रसादस्स कलामग्घति षोडशिं ॥ २४:१७ मासे मासे कुशाग्रेण यो हि भुञ्जीत भोजनम् । न तद्बुद्धे प्रसादस्य कलामर्घति षोडशीम् ॥ ३८७ मासे मासे कुशाग्ग्रेण बालो भुञ्जेय भोजनं । न तं धम्मे प्रसादस्स कलामग्घति षोडशिं ॥ २४:१८ मासे मासे कुशाग्रेण यो हि भुञ्जीत भोजनम् । न तद्धर्मे प्रसादस्य कलामर्घति षोडशीम् ॥ ३८८ मासे मासे कुशाग्ग्रेण बालो भुञ्जेय भोजनं । न तं संघे प्रसादस्स कलामग्घति षोडशिं ॥ २४:१९ मासे मासे कुशाग्रेण यो हि भुञ्जीत भोजनम् । न तद्संघे प्रसादस्य कलामर्घति षोडशीम् ॥ ३८९ ७० मासे मासे कुशाग्ग्रेण बालो भुञ्जेय भोजनं । न तं साक्खातधंमाणां कलामग्घति षोडशिं ॥ २४:१७-१९ मासे मासे कुशाग्रेण यो हि भुञ्जीत भोजनम् । न तद्बुद्धे प्रसादस्य कलामर्घति षोडशीम् ॥ ३९० ११० यो च वश्शशतं जीवे दुश्शीलो असमाहितो । एकाहं जीवितं श्रेयो शीलवन्तस्स झायतो ॥ २४:३ यच्च वर्षशतं जीवेद् दुःशीलो ह्यसमाहितः । एकाहं जीवितं श्रेयः सदा शीलवतः शुचेः ॥ ३९१ १११ यो च वश्शशतं जीवे दुश्शीलो असमाहितो । एकाहं जीवितं श्रेयो प्रंञवन्तस्स झायतो ॥ २४:४ यच्च वर्षशतं जीवेद् दुष्प्रज्ञो असमाहितः । एकाहं जीवितं श्रेयः प्राज्ञस्य ध्यायिनः सदा ॥ ३९२ ११२ यो च वश्शशतं जीवे कुसीदो हीनवीरियो । एकाहं जीवितं श्रेयो वीर्य्यमारभतो दृडं ॥ २४:५ यच्च वर्षशतं जीवेद् कुसीदो हीनवीर्यवान् । एकाहं जीवितं श्रेयो वीर्यमारभतो दृढम् ॥ ३९३ ११३ यो च वश्शशतं जीवे अपश्शमुदयव्ययं । एकाहं जीवितं श्रेयो पश्शतो उदयव्ययं ॥ २४:६ यच्च वर्षशतं जीवेद् अपश्यन्नुदयव्ययम् । एकाहं जीवितं श्रेयः पश्यतो ह्युदयव्ययम् ॥ ३९४ ११५ यो च वश्शशतं जीवे अपश्शं धम्ममुत्तमं । एकाऽहं जीवितं श्रेयो पश्शतो धम्ममुत्तमं ॥ ३९५ ११४ यो च वश्शशतं जीवे अपश्शममतं पदं । एकाऽहं जीवितं श्रेयो पश्शतो अमतं पदं ॥ २४:१५ यच्च वर्षशतं जीवेद् अपश्यन्नमृतं पदम् । एकाहं जीवितं श्रेयः पश्यतो ह्यमृतं पदम् ॥ ३९६ यो च वश्शशतं जीवे सद्धंमे अप्रतिष्ठितो । एकाऽहं जीवितं श्रेयो सधंममिह विजानतो ॥ ३९७ यो च वश्शशतं जीवे अप्राप्य आसवक्खयं । एकाऽहं जीवितं श्रेयो प्राप्यतो आसवक्खयं ॥ २४:८ यच्च वर्षशतं जीवेद् अपश्यन्नास्रवक्षयम् । एकाहं जीवितं श्रेयः पश्यतो ह्यासवक्षयम् ॥ सहस्रवर्ग्गः ***** [उरग] ***** ३९८ यो नाऽज्झगमी भवेसु सारं विचिनं पुष्पमिव उदुम्बरेसु । सो भिक्खु जहाति ओरपारं उरगो जिन्नमिव त्तचां पुराणिं ॥ १८:२१ यो नाध्यगमद्भवेषु सारं बुद्ध्वा पुष्पमुदुम्बरेस्य यद्वत् । स तु भिक्षुरिदस्ं जहात्यपारं ह्युरगो जीर्णमिव त्वचं पुराणम् ॥ ३९९ यो उप्पतितं विनेति रागं विसटं सप्पविषं व ओषधीहि । सो भिक्खु जहाति ओरपारं उरगो जिन्नमिव त्तचां पुराण्ज्ं ॥ ४०० यो उप्पतितं विनेति दोषं विसटं सप्पविषं व ओषधीहि । सो भिक्खु जहाति ओरपारं उरगो जिन्नमिव त्तचां पुराण्ज्ं ॥ ४०१ यो उप्पतितं विनेति मोहं विसटं सप्पविषं व ओषधीहि । सो भिक्खु जहाति ओरपारं उरगो जिन्नमिव त्तचां पुराण्ज्ं ॥ ४०२ यो उप्पतितं विनेति क्रोधं विसटं सप्पविषं व ओषधीहि । सो भिक्खु जहाति ओरपारं उरगो जिन्नमिव त्तचां पुराण्ज्ं ॥ ४०३ यो उप्पतितं विनेति मानं विसटं सप्पविषं व ओषधीहि । सो भिक्खु जहाति ओरपारं उरगो जिन्नमिव त्तचां पुराणिं ॥ ३२:६५ यस्तूत्पतितं निहन्ति मानं विसृटं सर्पविषं यथौषधेन । सो तु भिक्षुरिदं जहात्यपारं ह्युरगो जीर्णमिव त्वचं पुराणम् ॥ ४०४ यो रागमुदिच्छिया अशेषं बिसपुष्पं व सरेरुहं विगाह्य । सो भिक्खु जहाति ओरपारं उरगो जिन्नमिव त्तचां पुराणिं ॥ १८:२१ =३२:५६ यो रागमुदाच्छिनत्त्यशेषं बिसपुष्पमिव जलेरुहं विगाह्य । स तु भिक्षुरिदं जहात्यपारं ह्युरगो जीर्णमिव त्वचं पुराणम् ॥ ४०५ यो दोषमुदिच्छिया अशेषं बिसपुष्पं व सरेरुहं विगाह्य । सो भिक्खु जहाति ओरपारं उरगो जिन्नमिव त्तचां पुराणिं ॥ १८:२१ =३२:५७ यो द्वेषमुदाच्छिनत्त्यशेषं बिसपुष्पमिव जलेरुहं विगाह्य । स तु भिक्षुरिदं जहात्यपारं ह्युरगो जीर्णमिव त्वचं पुराणम् ॥ ४०६ यो मोहमुदिच्छिया अशेषं बिसपुष्पं व सरेरुहं विगाह्य । सो भिक्खु जहाति ओरपारं उरगो जिन्नमिव त्तचां पुराणिं ॥ १८:२४ =३२:५८ यो मोहमुदाच्छिनत्त्यशेषं बिसपुष्पमिव जलेरुहं विगाह्य । स तु भिक्षुरिदं जहात्यपारं ह्युरगो जीर्णमिव त्वचं पुराणम् ॥ ४०७ यो क्रोधमुदिच्छिया अशेषं बिसपुष्पं व सरेरुहं विगाह्य । सो भिक्खु जहाति ओरपारं उरगो जिन्नमिव त्तचां पुराणिं ॥ ४०८ यो मानमुदिच्छिया अशेषं बिसपुष्पं व सरेरुहं विगाह्य । सो भिक्खु जहाति ओरपारं उरगो जिन्नमिव त्तचां पुराणिं ॥ १८:२१ =३२:५९ यो मानमुदाच्छिनत्त्यशेषं बिसपुष्पमिव जलेरुहं विगाह्य । स तु भिक्षुरिदं जहात्यपारं ह्युरगो जीर्णमिव त्वचं पुराणम् ॥ ४०९ यो रागमुदिच्छिया अशेषं कुश (क्रम)-संगानि व छेत्त (छेतु) बन्धनानि । सो भिक्खु जहाति ओरपारं उरगो जिन्नमिव त्तचां पुराणिं ॥ ४१० यो तह्नमुदिच्छिया अशेषं सरितां शीघरयां विशोधयित्ता । सो भिक्खु जहाति ओरपारं उरगो जिन्नमिव त्तचां पुराणिं ॥ ३२:७४ तृष्णां य उदाच्छिनत्त्यशेषं सरितां शीघरजवामशोषयज्ञः । स तु भिक्षुरिदं जहात्यपारं ह्युरगो जीर्णमिव त्वचं पुराणम् ॥ ४११ यो नाऽच्चसरी न प्रेच्चसारी सब्बं वीतसरी इमं प्रपञ्चं । सो भिक्खु जहाति ओरपारं उरगो जिन्नमिव त्तचां पुराणिं ॥ ४१२ यो नाऽच्चसरी न प्रेच्चसारी सब्बमिदं वितधं ति मोषधंमं । सो भिक्खु जहाति ओरपारं उरगो जिन्नमिव त्तचां पुराणिं ॥ ३२:५५ यो नात्यसरं न चात्यलीयं ज्ञात्वा वितथमिमं हि सर्वलोकम् । स तु भिक्षुरिदं जहाति अपारं ह्युरगो जीर्णमिव त्वचं पुराणम् ॥ ४१३ यस्स वनथा न संति केचि विनिबंधाय भवाय हेतुकप्पा । सो भिक्खु जहाति ओरपारं उरगो जिन्नमिव त्तचां पुराणिं ॥ ३२:७८ यस्य हि वनसा न सन्ति के चिन् मूलं चाकुशलस्य यस्य नष्टम् । स तु भिक्षुरिदं जहात्यपारं ह्युरगो जीर्णमिव त्वचं पुराणं ॥ ४१४ यस्स वनथा न सन्ति केचि मूला अक्कुशला समूहताऽस्स । सो भिक्खु जहाति ओरपारं उरगो जिन्नमिव त्तचां पुराणिं ॥ ३२:७९ यस्य ज्वरथा न सन्ति के चिन् मूलं चाकुशलस्य यस्य नष्टम् । स तु भिक्षुरिदं जहात्यपारं ह्युरगो जीर्णमिव त्वचं पुराणं ॥ समाप्ता धम्मपदा अमृतपदानि गाथाशतानि पञ्च द्वे च गाथे ॥ यथा दृष्टं तथा लिखितमिति परिहारोयमस्मदीयः ॥ शुभमस्तु सर्व्वसत्वानानम् ॥