श्री सिद्धार्थः कपिलनगरे बोधिसत्त्वः सपुत्रां देवीं त्यक्त्वा सकलविभवं चक्रवर्तिश्रियं च । मास्याषाढे विरतमनसा पूर्णिमायां निशीथे निश्चक्राम श्रमणपदभृन्मोक्षमन्वेष्टुकामः ॥ १ ॥ अथ प्रभाते शयनात्समुत्थिता सुतेन सार्धं महिषी यशोधरा । दिदृक्षया स्वामिवरस्य सत्वरं गताविदूरे शयनीयमन्दिरम् ॥ २ ॥ यथा पुरे वञ्चयितुं स मे पती रहोगतः कुत्र चिदेव गूढवान् । विचिन्त्य सौधेऽन्तरबाहिरं भृशं परीक्ष्यमाणापि ददर्श नैव तम् ॥ ३ ॥ दधाव तस्मात्सचिवस्य मन्दिरं गवाक्षमुद्घाट्य द्रुतं द्रुतं शुचा । कपाटमाहत्य दृढं मुहुर्मुहुर् व्यरीरवच्छन्न भवन् भवन्निति ॥ ४ ॥ अपेक्ष्य किं चित्क्वणमन्तराद्गृहे व्यतिष्ठताल्पं प्रतिहारसन्निधौ । विचारभङ्गाच्छ्वसती च पाणिना प्रताडयामास कपोलयुग्मकम् ॥ ५ ॥ ततो गता सा नृपमन्दुरालयं तुरङ्गमं नात्र ददर्श कन्थकम् । कुतो ययौ किं रहसा स वल्लभो वितर्कयन्तीति बभूव मूर्छिता ॥ ६ ॥ विचिन्त्य यत्किं चिदितस्ततः शिरश् चचाल जघ्रौ च मुखे सुतस्य सा । भुजातपत्रेण विलोचनद्वयान् न्यवारयत्सा स्रवदश्रुशीकरम् ॥ ७ ॥ अशक्नुवन्ती नितरां समुद्गमां मनोव्यथां सोढुमुदग्रमन्युना । पतिप्रदत्तं मणिकण्ठभूषणं प्रवालमालामपि कुण्डलद्वयम् ॥ ८ ॥ ललाटिकां हेममयाङ्गुलीयकं हिरण्यसूत्रेण निबद्धमेखलाम् । विमुच्य शीर्षाभरणं च कङ्कणे ससर्ज धिग्धिग्वदती ससम्भ्रमम् ॥ ९ ॥ अतीतडत्पादतलेन भूतलं जजृम्भ ऊर्ध्वं विचकर्ष मूर्धजम् । जजल्प वाक्यं विगतार्थमाकुलं रुराव भीतेव रुरोद गद्गदम् ॥ १० ॥ निवेश्य बालं शयने पुनः पुनः समुत्क्षिपन्ती युगपत्करद्वयम् । विकम्प्य शीर्षं च यथा विचेतना जुघोष शश्वास पपात विव्यथे ॥ ११ ॥ निपीड्यमानापि बुभुक्षयानिशं न भोजनं भोक्तुमियेष किं चन । तृषातुरा नोदकबिन्दुमप्यसौ पपौ च कायेऽप्य्बभूव वेपथुः ॥ १२ ॥ निहन्यते धीस्मृतिशक्तिधीरता शरीरवर्णं बलमिन्द्रियेष्वपि । विनश्यते जीवमनुक्रमेण च दुरन्ततेयं प्रियविप्रयोगता ॥ १३ ॥ निषद्य भूम्यां विनतार्धविग्रहा शिरश्च पाणिद्वयमङ्कमस्तके । निवेश्य किं चित्परिणम्य कंधरं ममज्ज चिन्ताजलधावपाश्रये ॥ १४ ॥ यशोधराया अवमाननक्रिया असह्य सिद्धार्थकुमार एककः । निवासमुत्सृज्य गतो नु काननम् इति प्रवादोऽपि भवेदहो मम ॥ १५ ॥ यदस्ति कार्यं त्रिषु मन्दिरेषु तच् चकार कार्यक्षमसेविका यथा । गतौ स्थितौ वा शयने च विप्रियं कदा चनाहं न चकार किं चन ॥ १६ ॥ विचिन्तयन्ती सहसागतापदं प्रगम्य देवायतनं प्रियं प्रति । सुगन्धिपुस्पैरपि धूमदीपकैर् अपूपुजद्देवगणं सगौरवम् ॥ १७ ॥ भुजद्वयं मूर्ध्नि निवेश्य शोकिनी विलोक्य देवप्रतिमाननश्रियम् । प्रणम्य भक्त्या परिशुद्धचेतसा ययाच देवानिति विप्रयोगतः ॥ १८ ॥ त्रिलोकसर्गस्थितिनाशहेतवः चतुर्मुखश्रीपतिचन्द्रशेखराः । महानुभावा जगदीश्वराः सुराः सुदुःखितायै शरणं भवन्तु मे ॥ १९ ॥ विधाय याच्ञामिति देवहस्तयोर् उपायनीकृत्य बबन्ध कार्षिकौ । उपाहरन्मिष्टनवाम्बुपायसं सितांशुकं स्वर्णमयीं च पुत्रिकाम् ॥ २० ॥ प्रमोदमापादयितुं सुरेश्वरांश् चकार घण्टानिनदं च भूसुरान् । अजीजपद्देवगिरा च संस्तवान् ननाम भूमावसकृत्निपत्य सा ॥ २१ ॥ पुरे वने संवसथेऽपि वल्लभो वसेद्धि कस्मिन्निति दिव्याचक्षुषा । विलोक्य गेहं विनिवर्तयन्तु तं दिवौकसः प्रार्थयतैव सा पुनः ॥ २२ ॥ निरीक्ष्य जिह्मानिमिषेण चक्षुषा निहत्य गाढं चरणं भुवस्तले । मुहुर्मुहुर्दंशितकोमलाधरा प्रकर्षमुत्क्षिप्य विकम्प्य तर्जनीम् ॥ २३ ॥ अरे-त्वयार्यस्य गृहाभिनिष्क्रमः श्रुतो न दृष्टः वद किं निराकुलम् । इति प्रतीहारभटं रुषोच्चकै रवेण पप्रच्छ सबाष्पलोचना ॥ २४ ॥ भवान् स आर्ये नृपवंशशेखरो मया न दृष्टः प्रतिहारमागतः । वराङ्गनाभिः सह केलिकानने गते निशीथेऽरमतेति मे श्रुतम् ॥ २५ ॥ अवीतरागो ननु राजनन्दनो ववाञ्छ तस्मान्ननु नूतनप्रियाम् । मिथः स कां चित्परिणीय नाटिकां बहिर्गतोऽद्धेति वितर्कयाम्यहम् ॥ २६ ॥ पुरा हि मन्धात्वभिधो महायशाः स सार्वभौमोऽपि सुराङ्गनागणे । कृतानुरागो परिवर्ज्य मानुषीं श्रियं प्रपेदे नु दिवौकसां पुरम् ॥ २७ ॥ मनोऽभिरामं सुरसुन्दरीगणं विहाय विन्ध्यावनतापसाश्रमे । अगस्तिपत्नीं परिरभ्य तापसीं ललास रन्तुं निशि पाकशासनः ॥ २८ ॥ प्रतीतलङ्काविजितेऽग्रभूपतिर् दशाननो दण्डककाननं गतः । विगृह्य सीतां जनकात्मजामपि निजप्रियावद्व्यदधात्तदात्मसात् ॥ २९ ॥ महेश्वरश्चापि पुरा तपश्चरन्न् उमामहिष्या सह कलिकानने । अपास्य सातत्यसमाधिभावनं व्यरीरमच्चाजनयत्सुतौ ननु ॥ ३० ॥ शुचाकुलां सान्त्वयितुं वधूत्तमाम् इति प्रतीहार उरःस्थलेऽञ्जलिम् । विधाय वल्गुध्वनिनानुकम्पया नतेन मूर्ध्ना वचसा व्यजिज्ञपत् ॥ ३१ ॥ अरे-त्वमेतर्हि भवन्तमुत्तमं गृहे बहिर्वोपवनेऽपि कुत्र चित् । अहर्मुखे किं निशि वा ददर्शिथ व्यपृच्छदित्थं निजसेविकां रुषा ॥ ३२ ॥ निधाय वामेतरजानुमण्डलं क्षितौ भुजौ चापि ललाटमस्तके । नतार्धकायं निजगाद सेविका श्रुतं च दृष्टं न न वेद्मि किं चन ॥ ३३ ॥ अतः-परं हर्म्यमुपेयुषी सती प्रमार्ज्य निस्यन्दजलं विलोचने । अरे-किमार्योऽत्र समागतो न वा व्यपृच्छदन्तःपुरपालपण्डकम् ॥ ३४ ॥ प्रशस्यरूपेण गिरा च वल्गुना श्रियाऽपि धृत्या तव कक्षमागताः । महोत्तमे सर्वजनेन मानिता भवन्ति तस्य त्रितयाः प्रियाङ्गनाः ॥ ३५ ॥ मनोऽभिरामा भवती च भारती तथैव लक्ष्मीरिति ताः प्रियाङ्गनाः । सदैव ताभी रमते कुमारकः कदा चिदन्यत्र मनोऽस्य नो रजेत् ॥ ३६ ॥ जुगुप्सिते सत्पुरुषैर्मनस्विभिः सदोषकामे विमुखो नु ते पतिः । ततोऽस्य शुद्धान्तगतिः कदा चन श्रुता न दृष्टा न दिवा वा निशि ॥ ३७ ॥ तपोधनानां समतामुपेयिवान् रतिं न कुर्यात्स भवत्रये क्व चित् । अमेध्यगेहेन समेऽवरोधने कथं विधत्ते रतिमेष ते पतिः ॥ ३८ ॥ असाध्यरोगायतने सुखेतरे बुभुक्षया नित्यनिपीडितोदरे । अतर्पणीये विविधान्नपानकैः स्पृहां न देहे प्रकरोति पण्डितः ॥ ३९ ॥ विकीर्णघर्मोदकविप्रुषि त्वचि विचित्रवर्णं शमलेन संस्कृते । शरीर आलोक्य जनो विनश्यते पतङ्गवद्दीपशिखोज्ज्वलप्रभाम् ॥ ४० ॥ ततो नृपान्तःपुरपालकोदिते कृतावधाना वचने यशोधरा । दिवौकसां नन्दनकाननोपमं जगाम राजोपवनं चलात्मना ॥ ४१ ॥ अथाभिरामोपवनस्य रक्षकः पुरः प्रगम्योरसि बद्धपाणिना । किमर्थमार्येऽत्र समागतिस्तव भवामि जिज्ञासुरिति न्यवेदयत् ॥ ४२ ॥ सखे ममार्यो रहसारुणोदये समागतो वात्र न किं समागतः । किमत्र दृष्टः स न वा श्रुतस्त्वया विचिन्त्य सम्यग्वद मां यथातथम् ॥ ४३ ॥ गतस्पृहः पञ्चसु कामवस्तुषु स आर्यपुत्रो विजितेन्द्रियो भवेत् । ततोऽभिरामोपवनं समागमो न दृष्ट आर्ये न हि वा श्रुतो मया ॥ ४४ ॥ विधित्समानोऽभ्युदयं जगत्त्रये दिवौकसानामधिगम्य याचनम् । दिवोऽवतीर्णो ननु पुण्यतेजसा मनुष्यजन्मन्यजनिष्ट स प्रभुः ॥ ४५ ॥ महामहे सत्यसितर्षिरीयिवान् दिवं किमित्यस्य विमृश्य कारणम् । स्वमित्रशुद्धोदनभूपतेः सुतो ऽजनीति हर्षात्तमवेक्षितुं ययौ ॥ ४६ ॥ ततोऽसितर्षिर्नृपसौधमागतः कुमारकं वीक्ष्य सपुण्यसम्पदम् । अतीन्द्रियज्ञानमयेन चक्षुषा परीक्षमाणोऽस्य शरीरलक्षणम् ॥ ४७ ॥ जगाद वाक्यं शिशुरेष पुण्यवान् भवेद्धि बुद्धो हतमारबन्धनः । प्रतारयेत्सर्वनरामरासुरान् अपारसंसारमहार्णवादिति ॥ ४८ ॥ द्विजेषु पञ्चस्वथ देहलक्षणं परीक्ष्य कौण्डण्यबुधोऽब्रवीदिति । विनश्य तृष्णादिमलान्ययं शिशुर् अनुत्तरं बुद्धपदं गमिष्यति ॥ ४९ ॥ तदा प्रसूतक्षण एव लुम्बिनी- वने स सप्ताम्बुजमूर्ध्न्यभिव्रजन् । अभीतनादं न्यनदज्जगत्त्रये भवेयमग्रस्त्विति सिंहपोतवत् ॥ ५० ॥ भ्रमद्द्विरेफश्रुतिरम्यनिस्वनः सुगन्धिनः पुष्पपरागराशिना । तरंगिणीशीकरमिश्रमारुतो ववौ समन्ताद्विपिने शनैः तदा ॥ ५१ ॥ महात्मनस्तस्य परार्ध्यजन्मनि वसुंधराया निधयः समुद्गताः । धराङ्गना तर्ह्यतिमात्रमोदिता सविस्मयां सिद्धिमदर्शयद्भुवि ॥ ५२ ॥ ततः परं लुम्बिनिकाननाद्गृहं विचित्रजाम्बूनदबिम्बसंनिभम् । कुमारकं तौ पितरौ सवत्सलौ सबन्धुवर्गं परिवार्य निन्यतुः ॥ ५३ ॥ गुरुप्रदिष्टं विधिवद्गुरुप्रियः समस्तविद्यासमयं च दर्शनम् । भवे भवे संचितपुण्यतेजसा समध्यगीष्टाचिरमेष बुद्धिमा ॥ ५४ ॥ श्रुतेन धृत्या नवयौवनश्रियम् उपेयुषोऽस्यार्यसुतस्य जन्मनः । सह त्वया षोडशमे हि हायने विवाहदीक्षां विधिवच्चकार नु ॥ ५५ ॥