चर्मवस्तु (८० ६ = ग्ब्म् ६.७४२; म्स्विव्१५९) उद्दानम् । पञ्चभिरुपसंप<दा शयनासन> + + + । + + + + + + + + + ॥ <बुद्धो {च्f. दिव्य्१-२४} भगवाञ्छ्रावस्त्यां विहरति स्म जेतवनेऽनाथपिण्डदस्यारामे । तस्मिन् समयेऽश्मकनगरान्तके वासव>ग्रामके बलसेनो नाम गृहपतिः प्रतिवसत्याढ्यो महाधनो महाभोगे <विस्तीर्णविशालपरिग्रहो वैश्रवणधनप्रतिस्पर्धी । तेन सदृशात्कुलात्कलत्रमानीतम्* । स तया सार्धं क्रीडति रमते परिचारय>ति । तस्य क्रीडतो रममाणस्य परिचारयतो न पुत्रो न दुहिता । <सोऽपुत्रः पुत्राभिनन्दी शिववरुणकुबेरशक्रब्रह्मादीनायाचते । आरामदेवतां वनदेवतां शृङ्गाटकदेवतां बलि>पृष्ठरतिग्राहिकां देवतां सहजां सहधर्मिकां नित्यानुबद्धामपि देवतामायाचते । अस्ति चैष लोकप्रवा<दो यदायाचनहेतोः पुत्रा जायन्ते दुहितरश्चेति । तच्च नैवम्* । यद्येवमभविष्यदेकैकस्य पुत्रसहस्रमभविष्यत्तद्यथा राज्ञश्चक्रवर्तिनः । अपि तु त्रयाणां स्थाना>नां संमुखीभावात्पुत्रा जायन्ते दुहितरश्च । कतमेषां त्रयाणाम्* । मातापितरौ रक्तौ भवतः संनिपतितौ (८१ = ग्ब्म् ६.७४४) माता कल्या भवति ऋतुमती गन्धर्वश्च प्रत्युपस्थितो भवति । एषां त्रयाणां स्थानानां संमुखीभावात्पुत्रा जायन्ते दुहितरश्च । स चैवमायाचनपरस्तिष्ठति । अन्यतमश्(म्स्विव्१६०) च सत्वश्चरमभविकश्चरितैषी गृहीतमोक्षमार्गोऽन्तर्मुखो निर्वाणे बहिर्मुखः संसारादनर्थिकः सर्वभवगतिच्युत्युपपत्तिषु अन्तिमदेहधारी अन्यतमस्माद्देवनिकायाच्च्युत्वा तस्याः प्रजापत्याः कुक्षिमवक्रान्तः । पंचावेणिका धर्मा एकत्ये पण्डितजातीये मातृग्रामे । कतमे पंच । रक्तं पुरुषं जानाति । विरक्तं जानाति । कालं जानाति ऋतुं जानाति । गर्भमवक्रान्तं जानाति । यस्य सकाशाद्गर्भमवक्रामति तं जानाति । दारकं जानाति । दारिकां जानाति । सचेद्दारको भवति दक्षिणं कुक्षिं निश्रित्य तिष्ठति । सचेद्दारिका भवति वामं कुक्षिं निश्रित्य तिष्ठति । सात्तमनात्तमनाः स्वामिन आरोचयति । दिष्ट्यार्यपुत्र वर्धस्वापन्नसत्वास्मि संवृत्ता । यथा च मे दक्षिणं कुक्षिं निश्रित्य तिष्ठति नियतं दारको भविष्यति । सोऽप्यात्तमनात्तमना उदानमुदानयति । अप्येवाहं चिरकालाभिलषितं पुत्रमुखं पश्येयं समजातो मे स्यान्नावजातः । कृत्यानि मे कुर्वीत भृतः प्रतिबिभृयाद्दायाद्यं प्रतिपद्येत कुलवंशो मे चिरस्थितिकः स्यात्* । अस्माकं चाप्यतीतकालगतानामल्पं वा प्रभूतं वा दानानि दत्वा पुण्यानि कृत्वा अस्माकं (म्स्विव्१६१) नाम्ना दक्षिणामादेक्ष्यति । इदं तयोर्यत्र यत्रोपपन्नयोर्गच्छतोरनुगच्छत्विति । आपन्नसत्वां चैनां विदित्वा उपरि प्रासादतलगतामयन्त्रितां धारयति शीते शीतोपकरणैरुष्णे उष्णोपकरणैर्वैद्यप्रज्ञप्तैराहारैर्नातितिक्तैर्नात्यम्लैर्नातिलवणैर्नातिमधुरैर्नातिकटुकैर्नातिकषायैस्तिक्ताम्ललवणमधुरकटुककषायविवर्जितैराहारैर्हारार्धहारविभूषितगात्रीमप्सरसमिव नन्दनवनविचारिणीं मञ्चान्मञ्चं पीठात्पीठमनवतरन्तीमधरिमां भूमिम्* । न चास्याः किंचिदमनोज्ञशब्दश्रवणं यावदेव गर्भस्य परिपाकाय । साष्टानां वा नवानां वा मासानामत्ययात्प्रसूता । दारको जातः । अभिरूपो दर्शनीयः प्रासादिको गौरः कनकवर्णश्छत्राकारशिराः प्रलम्बबाहुर्विस्तीर्णविशालललाटः सङ्गतभ्रूरुत्तुङ्गनासो रत्नप्रत्युप्तिकया कर्णिकया आमुक्तयालङ्कृतः । बलसेनेन गृहपतिना रत्नपरीक्षका आहूयोक्ताः । भवन्तो रत्नानां मूल्यं कुरुत इति । न शक्यते रत्नानां मूल्यं कर्तुमिति । धर्मता खलु यस्य रत्नस्य न शक्यते मूल्यं कर्तुं तस्य कोटिर्मूल्यं क्रियते । ते कथयन्ति । गृहपते एषां रत्नानां कोतिर्मूल्यमिति । तस्य ज्ञातयः संगम्य समागम्य त्रीणि सप्तकान्येकविंशतिदिवसानि विस्तरेण जातस्य जातिमहं कृत्वा नामधेयं (म्स्विव्१६२) व्यवस्थापयन्ति । किं भवतु दारकस्य नामेति । ज्ञातयः ऊचुः । अयं दारकः कोटिमूल्यया रत्नप्रत्युप्तिकया <आमुक्तया> {म्स्कर्णिकया} जातः श्रवणेषु च नक्षत्रेषु । भवतु दारकस्य श्रोणः कोटीकर्ण इति नाम । यस्मिन्नेव दिवसे श्रोणः कोटीकर्णो जातस्तस्मिन्नेव दिवसे बलसेनस्य गृहपतेर्द्वौ प्रेष्यदारकौ (८१ = ग्ब्म् ६.७४५) जातौ । तेनैकस्य दासक इति नामधेयं व्यवस्थापितमपरस्य पालक इति । श्रोणः कोटीकर्णोऽष्टाभ्यो धात्रीभ्योऽनुप्रदत्तो द्वाभ्यामंसधात्रीभ्यां द्वाभ्यां क्रीडनिकाभ्यां द्वाभ्यां मलधात्रीभ्यां द्वाभ्यां क्षीरधात्रीभ्याम् । सोऽष्टाभिर्धात्रीभिरुन्नीयते वर्ध्यते क्षीरेण दध्ना नवनीतेन सर्पिषा सर्पिर्मण्डेनान्यैश्चोत्तप्तोत्तप्तैरुपकरणविशेषैराशु वर्धते ह्रदस्थमिव पङ्कजम्* । स यदा महान् संवृत्तस्तदा लिप्यामुपन्यस्तः संख्यायां गणनायां मुद्रायामुद्धारे न्यासे निक्षेपे वास्तुपरीक्षायां रत्नपरीक्षायाम्* । सोऽष्टासु परीक्षासूद्घाटको वाचकः पण्डितः पटुप्रचारः संवृत्तः । तस्य पित्रा त्रीणि वासगृहाणि मापितानि । हैमन्तिकं ग्रैष्मिकं वार्षिकम्* । त्रीण्युद्यानानि मापितानि हैमन्तिकं ग्रैष्मिकं वार्षिकम्* । त्रीण्यन्तःपुराणि प्रत्युपस्थापितानि ज्येष्ठकं मध्यमं कनीयसम्* । स उपरि प्रासादतलगतो निष्पुरुषेण तूर्येण क्रीडति रमते परिचारयति । बलसेनो गृहपतिर्नित्यमेव कृषिकर्मान्ते उद्युक्तः । स कोटीकर्णस्तं पितरं पश्यति(म्स्विव्१६३) नित्यं कृषिकर्मान्ते उद्युक्तम्* । स कथयति । तात कस्यार्थे त्वं नित्यमेव कृषिकर्मान्ते उद्युक्तः । स कथयति । पुत्र यथा त्वमुपरि प्रासादतलगतो निष्पुरुषेण तूर्येण क्रीडसि रमसे परिचारयसि यद्यहमप्येवमेव क्रीडेयं रमेयं परिचारयेयं न चिरादेवास्माकं भोगास्तनुत्वं परिक्षयं पर्यादानं गच्छेयुः । स संलक्षयति । ममैवार्थं चोदना क्रियते । स कथयति । तात यद्येवं पण्यमादाय देशान्तरं गच्छामि । पिता कथयति । पुत्र तावन्तं मे रत्नजातमस्ति यदि त्वं तिलतण्डुलकोलकुलत्थन्यायेन रत्नानि परिभोक्ष्यसे तथापि मे रत्नानां परिक्षयो न स्यात्* । स कथयति । तातानुजानीहि मां गच्छामि पण्यमादाय देशान्तरमिति । बलसेन तस्यावश्यं निर्बन्धं ज्ञात्वा अनुज्ञातः । बलसेन गृहपतिना वासवग्रामके घण्टावघोषणं कारितं यो युष्माकमुत्सहते श्रोणेन कोटीकर्णेन सार्थवाहेन सार्धमशुल्केनातर्पण्येन महासमुद्रमवतर्तुं स महासमुद्रगमनीयं पण्यं समुदानयतु । पञ्चभिर्वणिक्शतैर्महासमुद्रगमनीयं पण्यं समुदानीतम्* । बलसेनो नाम गृहपतिः संलक्षयति । कीदृशेन (म्स्विव्१६४) यानेन श्रोणः कोटीकर्णो यास्यति । स संलक्षयति । सचेद्धस्तिभिर्हस्तिनः सुकुमारा दुर्भराश्च । अश्वा अपि सुकुमारा दुर्भराश्च । गर्दभाः स्मृतिमन्तः सुकुमाराश्च । गर्दभयानेन गच्छत्विति । स पित्राहूयोक्तः । पुत्र न त्वया सार्थस्य पुरस्ताद्गन्तव्यं नापि पृष्ठतः । यदि बलवांश्च चौरो भवति सार्थस्य पुरस्तान्निपतति दुर्बलो भवति पृष्ठतो निपतति । त्वया सार्थस्य मध्ये गन्तव्यं न चेथते सार्थवाहे हतः सार्थो भवेत्* । दासकपालकावपि अभिहितौ । पुत्रौ युवाभ्यां न केनचित्प्रकारेण श्रोणः कोटीकर्णो मोक्तव्य इति । अथापरेण समयेन श्रोणः कोटीकर्णः कृतकौतुकमङ्गलस्वस्त्ययनो मातुः सकाशमुपसंक्रम्य पादयोर्निपत्य कथयति । अम्ब गच्छामि अवलोकिता भव महासमुद्रमवतरामि । सा रुदितुमारब्धा । स कथयति । अम्ब कस्माद्रोदिषि । माता साश्रुदुर्दिनवदना कथयति । पुत्र कदाचिदहं पुत्रकं पुनरपि जीवन्तं द्रक्ष्यामि इति । स संलक्षयति । अहं मङ्गलैः संप्रस्थितः । (८२ = ग्ब्म् ६.७४६) इयमीदृशममङ्गलमभिधत्ते । स रुषितः कथयति । अम्ब अहं कृतकौतुकमङ्गलस्वस्त्ययनो महासमुद्रं संप्रस्थितः । त्वं चेदृशान्यमङ्गलानि करोषि । अपायान् किं न पश्यसीति । सा कथयति । पुत्र खरं ते वाक्कर्म निश्चारितम्* ।(म्स्विव्१६५) अत्ययमत्ययतो देशय । अप्येवैतत्कर्म तनुत्वं परिक्षयं पर्यादानं गच्छेत्* । सा तेनात्ययमत्ययतः क्षमापिता । अथ श्रोणः कोटीकर्णः कृतकौतुकमङ्गलस्वस्त्ययनः शकटैर्भारैर्मोटैः पिटकैरुष्ट्रैर्गोभिर्गर्दभैः प्रभूतं समुद्रगमनीयं पण्यमारोप्य महासमुद्रं संप्रस्थितः । सोऽनुपूर्वेण ग्रामनगरनिगमपल्लीपत्तनेषु चञ्चूर्यमाणो महासमुद्रतटमनुप्राप्तः {म्स्: समुद्रतीरसमनुप्राप्तः} । निपुणतः सामुद्रं यानपात्रं प्रतिपद्य महासमुद्रमवतीर्णो धनहारकः सोऽनुगुणेन वायुना रत्नद्वीपमनुप्राप्तः । तेन तत्रोपपरीक्ष्योपपरीक्ष्य रत्नानां तद्वहनं पूरितं तद्यथा तिलतण्डुलकोलकुलत्थानाम्* । सोऽनुगुणेन वायुना संसिद्धयानपात्रो जम्बुद्वीपमनुप्राप्तः । स सार्थस्तस्मिन्नेव समुद्रतीरे आवासितः । असौ श्रोणः कोटीकर्णोऽपि सार्थवाहो दासकपालकावादाय सार्थमध्यादेकान्तेऽपक्रम्य आयं व्ययं च तुलयितुमारब्धः । पश्चात्तेनासौ दासकोऽभिहितः । दासक पश्य सार्थः किं करोतीति । स गतः । यावत्पश्यति सार्धं सुप्तम्* । सोऽपि तत्रैव सुप्तः । दासकश्चिरायतीति कृत्वा पालकोऽभिहितः । पालक पश्य सार्थः किं करोतीति । स गतः । यावत्पश्यति स्थोरां लर्दयन्तं सार्थम्* । सोऽपि स्थोरां लर्दयितुमारब्धः । दासक संलक्षयति । पालकः सार्थवाहं शब्दापयिष्यति । पालकोऽपि (म्स्विव्१६६) संलक्षयति । दासकः सार्थवाहं शब्दापयिष्यतीति । स सार्थः सरात्रिमेव स्थोरां लर्दयित्वा संप्रस्थितः । सोऽपि गाढनिद्रावष्टब्धः शयितः । स सार्थस्तावद्गतो यावत्प्रभातम्* । ते कथयन्ति । भवन्तः क्व सार्थवाहः । पुरस्ताद्गच्छति । पुरस्ताद्गत्वा पृच्छन्ति क्व सार्थवाहः । पृष्ठत आगच्छति । पृष्ठतो गत्वा पृच्छन्ति क्व सार्थवाहः । मध्ये गच्छति । मध्ये गत्वा पृच्छन्ति । यावत्तत्रापि नास्ति । दासकः कथयति । मम बुद्धिरुत्पन्ना पालकः सार्थवाहं शब्दापयिष्यति । पालकोऽपि कथयति । मम बुद्धिरुत्पन्ना दासकः सार्थवाहं शब्दापयिष्यतीति । भवन्तो न शोभनं कृतं यदस्माभिः सार्थवाहश्छोरितः । आगच्छत निवर्तामः । ते कथयन्ति । भवन्तो यदि वयं निवर्तिष्यामः सर्व एवानयेन व्यसनमापत्स्यामः । आगच्छत क्रियाकारं तावत्कुर्मः । तावन्न केनचिच्छ्रोणस्य कोटीकर्णस्य मातापितृभ्यामारोचयितव्यं यावद्भाण्डं न प्रतिशामितं भवतीति । ते क्रियाकारं कृत्वा गताः । श्रोणस्य कोटीकर्णस्य मातापितृभ्यां श्रुतं श्रोणः कोटीकर्णोऽभ्यागत इति । तौ प्रत्युद्गतौ । क्व सार्थवाहः । मध्ये आगच्छति । मध्ये गत्वा पृच्छतः क्व सार्थवाह इति । ते कथयन्ति । पृष्ठत आगच्छति । पृष्ठतो गत्वा पृच्छतः । क्व सार्थवाहः । पुरस्ताद्गच्छतीति । तैस्तावदाकुलीकृतौ यावद्भाण्डं प्रतिशामितम्* । गतः पश्चात्ते कथयन्ति । अम्ब विस्मृतोऽस्माभिः सार्थवाह इति । ताभ्याम् (म्स्विव्१६७) एक आगत्य कथयति । अयं श्रोणः कोटीकर्णोऽभ्यागत इति । तस्य तावभिसारं दत्वा प्रत्युद्गतौ न पश्यतः । अपर आगत्य कथयति । अयं श्रोणः कोटीकर्णोऽभ्यागत इति । तस्य तावभिसारं दत्वा प्रत्युद्गतौ न पश्यतः । तौ यावन् (८२ = ग्ब्म् ६.७४७) न कस्यचित्पुनरपि श्रद्दधातुमारब्धौ । ताभ्यामुद्यानेषु देवकुलेषु छत्राणि घण्टाव्यजनानि अक्षराणि लिखितानि यदि तावच्छ्रोणः कोटीकर्णो जीवति लघ्वागमनाय । अथ च्युतः कालगतो गत्युपपत्तिस्थानात्स्थानान्तरविशेषतायै । तौ शोकेन रुदन्तावन्धीभूतौ । सोऽपि सूर्यस्याभ्युद्गमनकालसमये सूर्यांशुभिराभान्वितः प्रतिबुद्धो यावत्सार्थं न पश्यति । नान्यत्र तावेव गर्दभावतिष्ठतः । स तौ योजयित्वा संप्रस्थितः । वालुकास्थले वायुना मार्गः पिहितः । स्मृतिमन्तो गर्दभा जिघ्रित्वा संप्रस्थितः शनैर्गच्छन्तीति प्रतोदयष्ट्या स्पृष्ठाः शालाटवीं प्रविष्टाः । ते तृषार्ता (म्स्विव्१६८) विह्वलवदना जिह्वां निर्नामय्य गच्छन्ति । तान् दृष्ट्वा तस्य कारुण्यमुत्पन्नम्* । स संलक्षयति । यद्येतान्नोत्स्रक्ष्यामि एभिरेव सार्धमनयेन व्यसनमापत्स्ये । स तानुत्सृज्य पद्भ्यां संप्रस्थितः । यावत्पश्यति आयसं नगरमुच्चं च प्रगृहीतं च । तत्र द्वारे पुरुषस्तिष्ठति कालो रौद्रश्चण्डो लोहिताक्ष उद्बद्धपिण्डो लोहलगुडव्यग्रहस्तः {म्स्: तत्र कालो चण्डो लोहिताक्षः उद्बन्धपिण्डकायष्टि विग्रहो पुरुषो द्वारे तिष्ठति} । स तस्य सकाशमुपसंक्रान्तः । भोः पुरुष । अस्त्यत्र पानीयम्* । स तूष्णीमवस्थितः । भूयस्तेन पृष्टोऽसौ पुरुषोऽस्त्यत्र पानीयमिति । भूयोऽपि स तूष्णीमवस्थितः । तेन सार्थवाहेन तत्र प्रविश्य पानीयं पानीयमिति शब्दो निश्चारितः । यावत्पञ्चमात्रैः प्रेतसहस्रैर्दग्धस्थूणासदृशैरस्थियन्त्रवदुच्छ्रितैः स्वकेशरोमप्रच्छन्नैः पर्वतसन्निभोदरैः सूचीच्छिद्रोपममुखैरनुपरिवारितः श्रोणः कोटीकर्णः । ते कथयन्ति । सार्थवाह कारुणिकस्त्वमस्माकं तृषार्तानां पानीयमनुप्रयच्छ । स कथयति । भवन्तोऽहमपि पानीयमेव मृगयामि कुतोऽहं युष्माकं पानीयमनुप्रयच्छामीति । ते कथयन्ति । सार्थवाह प्रेतनगरमिदं कुतः खल्वत्र पानीयम्* । अद्यास्माभिर्(म्स्विव्१६९) द्वादशभिर्वर्षैस्त्वत्सकाशात्पानीयं पानीयमिति शब्दः श्रुतः । स कथयति । के यूयं भवन्तः केन वा कर्मणा इहोपपन्नाः । त ऊचुः । श्रोण दुष्कुहका जम्बुद्वीपका मनुष्या नाभिश्रद्दधास्यन्ति । स चाह । अहं भवन्तः प्रत्यक्षदर्शी कस्मान्नाभिश्रद्दधास्ये {म्स्: कथं न श्रद्धास्ये} । ते गाथां भाषन्ते । आक्रोशका रोषका वयं मत्सरिणः कुटुकुञ्चका वयम्* । दानञ्च दत्तमण्वपि तेन वयं प्रेतलोकमागताः ॥ श्रोण गच्छ पुण्यमहेशाख्यस्त्वम्* {म्स्: पुण्यकामां त्वम्} । अस्ति कश्चित्त्वया दृष्टः प्रेतनगरं प्रविष्टः स्वस्तिक्षेमाभ्यां जीवन्निर्गच्छन्* {म्स्: नगरं प्रविश्य जीवन् गच्छति} । स संप्रस्थितः । यावत्तेनासौ पुरुषो दृष्टः । स तेनोक्तः । भद्रमुख अहो बत त्वया ममारोचितं स्याद्यथेदं प्रेतनगरमिति नाहमत्र प्रविष्टः स्याम्* । स तेनोक्तः । श्रोण गच्छ पुण्यमहेशाख्यस्त्वम्* । येन त्वं प्रेतनगरं प्रविश्य स्वस्तिक्षेमाभ्यां निर्गतः । स संप्रस्थितो यावदपरं पश्यत्यायसं नगरमुच्चं च प्रगृहीतं च । तत्रापि द्वारे पुरुषस्तिष्ठति कालश्चण्डो लोहिताक्ष उद्बद्धपिण्डो लोहलगुडव्यग्रहस्तः । स तस्य सकाशमुपसंक्रान्तः । उपसंक्रम्यैवमाह । भोः पुरुष अस्त्यत्र नगरे पानीयम्* । स तूष्णीमवस्थितः । भूयस्तेन पृष्टः । भोः पुरुष अस्त्यत्र नगरे पानीयम्* । स तूष्णीमवस्थितः । तेन तत्र प्रविश्य पानीयं पानीयमिति शब्दः कृतः । अनेकैः प्रेतसहस्रैर्दग्धस्थूणाकृतिभिर्(म्स्विव्१७०) अस्थियन्त्रवदुच्छ्रितैः स्वकेशरोमप्रतिच्छन्नैः पर्वतसन्निभोदरैः सूचीच्छिद्रोपममुखैरनुपरिवारितः । ते कथयन्ति । (८३ = ग्ब्म् ६.७४८) श्रोण कारुणिकस्त्वमस्माकं तृषार्तानां पानीयमनुप्रयच्छ । स कथयति । अहमपि भवन्तः पानीयमेव मृगयामि कुतोऽहं युष्माकं पानीयं ददामीति । ते कथयन्ति । श्रोण प्रेतनगरमिदं कुतोऽत्र पानीयम्* । अद्यास्माभिर्द्वादशभिर्वर्षैस्त्वत्सकाशात्पानीयं पानीयमिति शब्दः श्रुतः । स चाह । के यूयं भवन्तः केन वा कर्मणा इहोपपन्नाः । त ऊचुः । श्रोण दुष्कुहका जम्बुद्वीपका मनुष्या नाभिश्रद्दधास्यन्ति । स चाह । अहं भवन्तः प्रत्यक्षदर्शी कस्मान्नाभिश्रद्दधास्ये । ते गाथां भाषन्ते । आरोग्यमदेन मत्तका यौवनभोगमदेन मत्तकाः । दानं च न दत्तमण्वपि येन वयं प्रेतलोकमागताः ॥ श्रोण गच्छ पुण्यकर्मा त्वम्* । अस्ति कश्चित्त्वया दृष्टः श्रुतः प्रेतनगरं प्रविश्य स्वस्तिक्षेमाभ्यां जीवन्निर्गच्छन्* । स संप्रस्थितः । यावत्तेनासौ पुरुषो दृष्टः । स तेनोक्तः । भद्रमुख अहो बत यदि त्वया ममारोचितं स्याद्यथेदं प्रेतनगरमिति नैवाहमत्र प्रविष्टः स्याम्* । स कथयति । श्रोण गच्छ पुण्यमहेशाख्यस्त्वम्* । अस्ति कश्चित्त्वया दृष्टः श्रुतो वा प्रेतनगरं प्रविश्य स्वस्तिक्षेमाभ्यां जीवन्निर्गच्छन्* । (म्स्विव्१७१) स संप्रस्थितः । यावत्पश्यति सूर्यस्यास्तंगमनकाले विमानं चतस्रोऽप्सरसः अभिरूपाः प्रासादिका दर्शनीयाः । एकश्च पुरुषोऽभिरूपो दर्शनीयः प्रासादिकः अङ्गदकुण्डलविचित्रमाल्याभरणानुलेपनस्ताभिः सार्धं क्रीडति रमते परिचारयति । स तैर्दूरत एव दृष्टः । ते तं प्रत्यवभाषितुमारब्धाः । स्वागतं श्रोण मासि तृषितो बुभुक्षितो वा । स संलक्षयति । नूनं देवोऽयं वा नागो वा यक्षो वा भविष्यति । आह च । आर्य तृषितोऽस्मि बुभुक्षितोऽस्मि । स तैः स्नापितो भोजितः । स तस्मिन् विमाने तावत्स्थितो यावत्सूर्यस्याभ्युद्गमनकालसमयः । स तैरुक्तः । श्रोण अवतर आदीनवोऽत्र भविष्यति । सोऽवतीर्य एकान्ते प्रक्रम्यावस्थितः । ततः पश्चात्सूर्यस्याभ्युद्गमनकालसमये तद्विमानमन्तर्हितम्* । ता अप्यप्सरसोऽन्तर्हिताश्चत्वारः श्यामशवलाः कुक्कुराः प्रादुर्भूताः । तैस्तं पुरुषमवमूर्धकं पातयित्वा तावत्पृष्ठवंशान्युत्पाट्योत्पाट्य भक्षितानि यावत्सूर्यस्यास्तंगमनकालसमयः । ततः पश्चात्पुनरपि तद्विमानं प्रादुर्भूतं ता आप्सरसः प्रादुर्भूताः । स च पुरुषोऽभिरूपो दर्शनीयप्रासादिकोऽङ्गदकुण्डलविचित्रमाल्याभरणानुलेपनस्ताभिः सार्धं क्रीडति रमते परिचारयति । स तेषां सकाशमुपसंक्रम्य कथयति । के यूयं केन च कर्मणा इहोपपन्नाः । ते प्रोचुः । श्रोण दुष्कुहका जम्बुद्वीपका मनुष्या नाभिश्रद्दधास्यन्ति । स चाह । अहं प्रत्यक्षदर्शी कथं नाभिश्रद्दधास्ये । श्रोण अहं वासवग्रामके औरभ्रिकः (म्स्विव्१७२) आसीत्* । उरभ्रान् प्रघात्य प्रघात्य मांसं विक्रीय विक्रीय जीविकां कल्पयामि । आर्यश्च महाकात्यायनो ममानुकम्पया आगत्य कथयति । भद्रमुख अनिष्टोऽस्य कर्मणः फलविपाकः । विरम त्वमस्मात्पापकादसद्धर्मात्* । नाहं तस्य वचनेन विरमामि । भूयो भूयः स मां विच्छन्दयति । भद्रमुकानिष्टोऽस्य कर्मणः फलविपाकः । विरम त्वमस्मात्पापकादसद्धर्मात्* । तत्राप्यहं न प्रतिविरमामि । (८३ = ग्ब्म् ६.७४९) स मां पृच्छति । भद्रमुख किं त्वमेतानुरभ्रान् दिवा प्रघातयस्याहोस्विद्रात्रौ । मयोक्तः । आर्य दिवा प्रघातयामीति । स कथयति । भद्रमुख रात्रौ शीलसमादानं किं न गृह्णासि । मया तस्यान्तिकाद्रात्रौ शीलसमादानं गृहीतम्* । यत्तद्रात्रौ शीलसमादानं गृहीतं तस्य कर्मणो विपाकेन रात्रावेवंविधं दिव्यं सुखं प्रत्यनुभवामि । यन्मय दिवा उरभ्राः प्रघातितास्तस्य कर्मणो विपाकेन दिवा एवंविधं दुःखं प्रत्यनुभवामि । गाथां च भाषते । दिवसं परप्राणपीडको रात्रौ शीलगुणैः समन्वितः । तस्यैतत्कर्मणः फलं ह्यनुभवामि कल्याणपापकम्* ॥ श्रोण गमिष्यसि त्वं वासवग्रामकम्* । गमिष्यामि । तत्र मम पुत्रः प्रतिवसति । स उरभ्रान् प्रघात्य प्रघात्य जीविकं कल्पयति । स त्वया वक्तव्यः दृष्टस्ते मया पिता । स कथयति । अनिष्टोऽस्य कर्मणः फलविपाको विरमास्मात्(म्स्विव्१७३) पापकादसद्धर्मात्* । भोः पुरुष यत्त्वमेवं कथयसि दुष्कुहका जम्बुद्वीपका मनुष्या इति । नाभिश्रद्दधास्यति । श्रोण यदि न श्रद्दधास्यति वक्तव्यस्तव पिता कथयति असिस्थानाधस्तात्{म्स्: पित्रोऽस्य सूनायामधस्तात्} सुवर्णस्य कलशः पूरयित्वा स्थापितः । तमुद्धृत्यात्मानं सम्यक्सुखेन प्रीणय आर्यं च महाकात्यायनं कालेन कालं पिण्डकेन प्रतिपादयास्माकं च नाम्ना दक्षिणामादेशय । अप्येवैतत्कर्म तनुत्वं परिक्षयं पर्यादानं गच्छेत् । स संप्रस्थितः । यावत्सूर्यस्याभ्युद्गमनकालसमये पश्यत्यपरं विमानं* । तत्र एका अप्सरा अभिरूपा दर्शनीया प्रासादिका । एकश्च पुरुषोऽभिरूपो दर्शनीयः प्रासादिकः अङ्गदकुण्डलविचित्रमाल्याभरणानुलेपनस्तया सार्धं क्रीडति रमते परिचारयति । स तं दूरत एव दृष्ट्वा प्रत्यवभाषितुमारब्धः । स्वागतं श्रोण मा तृषितोऽसि मा बुभुक्षितोऽसि वा । स संलक्षयति । नूनमयं देवो वा नागो वा यक्षो वा भविष्यति । स कथयति । तृषितोऽस्मि बुभुक्षितश्च । स ताभ्यां स्नापितो भोजितः । स तस्मिन् विमाने तावत्स्थितः यावत्सुर्यस्यास्तंगमनकालसमयः । स ताभ्यामुक्तः । श्रोण अवतरस्वादीनवोऽत्र भविष्यति । स दृष्टादीनवोऽवतीर्य एकान्तेऽवस्थितः । ततः पश्चात्सूर्यस्यास्तंगमनकालसमये{म्स्: सूर्यस्यावतरणकालसमये} तद्विमानमन्तर्हितम्* । साप्यप्सरा (म्स्विव्१७४) अन्तर्हिता । महती शतपदी प्रादुर्भूता । तया तस्य पुरुषस्य कायेन कायं सप्तकृत्वो वेष्टयित्वा तावदुपरिमस्तकं भक्षितं यावत्स एव सूर्यस्याभ्युद्गमनकालसमयः । ततः पश्चात्पुनरपि तद्विमानं प्रादुर्भूतम्* । साप्यप्सरा प्रादुर्भूता । स च पुरुषोऽभिरूपो दर्शनीयः प्रासादिकः अङ्गदकुण्डलविचित्रमाल्याभरणानुलेपनस्तया सार्धं क्रीडति रमते परिचारयति । स तमुपसंक्रम्य पृच्छति । को भवान् केन कर्मणा इहोपपन्नाः । स एवमाह । श्रोण दुष्कुहका जम्बुद्वीपका मनुष्या नाभिश्रद्दधास्यन्ति । स कथयति । अहं प्रत्यक्षदर्शी कस्मान्नाभिश्रद्दधास्ये । स कथयति । अहं वासवग्रामके ब्राह्मण आसीत्* पारदारिकः । आर्यश्च महाकात्यायनो ममानुकम्पयागत्य कथयति । भद्रमुखानिष्टोऽस्य कर्मणः फलविपाको विरम त्वमस्मात्पापकादसद्धर्मात्* । तस्य वचनेनाहं न प्रतिविरमामि । भूयो भूयः स मां विच्छन्दयति । भद्रमुक अनिष्टोऽस्य कर्मणः फलविपाकः (८४ = ग्ब्म् ६.७५०) । विरमास्मात्पापकादसद्धर्मात्* । तथाप्यहं तस्मात्पापकादसद्धर्मान्न प्रतिविरमामि । स मां पृच्छति । भद्रमुख परदारान् किं त्वं दिवा गच्छस्याहोस्विद्रात्रौ । स मया अभिहितः । आर्य रात्रौ । स कथयति । भद्रमुख दिवा किं न शीलसमादानं गृह्णासि । मया तस्यान्तिकाद्दिवा शीलसमादानं (म्स्विव्१७५) गृहीतम्* । यत्तन्मयार्यस्य महाकात्यायनस्यान्तिकाद्दिवा शीलसमादानं गृहीतं तस्य कर्मणो विपाकेन दिवा एवंविधं दिव्यं सुखं प्रत्यनुभवामि । यत्तद्रात्रौ परदाराभिगमनं कृतं तस्य कर्मणो विपाकेन रात्रावेवंविधं दुःखं प्रत्यनुभवामि । गाथां च भाषते । रात्रौ परदारमूर्च्छितो दिवसं शीलगुणैः समन्वितः । तस्यैतत्कर्मणः फलं ह्यनुभवामि कल्याणपापकम्* ॥ श्रोण गमिष्यसि त्वं वासवग्रामकम्* । तत्र मम पुत्रो ब्राह्मणः पारदारिकः । स वक्तव्यः । दृष्टस्ते मया पिता । स कथयति अनिष्टोऽस्य कर्मणः फलविपाको विरमास्मात्पापकादसद्धर्मात्* । स चाह । भोः पुरुष त्वमेवं कथयसि । दुष्कुहका जम्बुद्वीपका मनुष्या इति । नाभिश्रद्दधास्यति । श्रोण यदि न श्रद्दधास्यति वक्तव्यः तव पित्राग्निष्टोमस्याधस्तात्सुवर्णकलशः पूरयित्वा स्थापितः । तमुद्धृत्यात्मानं सम्यक्सुखेन प्रीणय आर्यं च महाकात्यायनं कालेन कालं पिण्डकेन प्रतिपादय अस्माकं च नाम्ना दक्षिणामादेशय । अप्येवैतत्कर्म तनुत्वं परिक्षयं पर्यादानं गच्छेत् । स संप्रस्थितः । यावत्पश्यति अपरं विमानम्* । तत्रैका स्त्री अभिरूपा दर्शनीया प्रासादिका अङ्गदकुण्डलविचित्रमाल्याभरणानुलेपना । तस्याश्चतुर्षु पर्यङ्कपादकेषु चत्वारः प्रेता बद्धास्तिष्ठन्ति । सा तं दूरत एव दृष्ट्वा प्रत्यनुभाषितुमारब्धा । श्रोण स्वागतं मा (म्स्विव्१७६) तृषितोऽसि मा बुभुक्षितोऽसि वा । स संलक्षयति । नूनं देवीयं वा नागी वा यक्षी वा भविष्यति । स कथयति । आर्ये तृषितोऽस्मि बुभुक्षितोऽस्मि । तयासौ स्नापितः भोजितः उक्तश्च । श्रोण यद्येते किञ्चिन्मृगयन्ति मा दास्यसीत्युक्त्वा तेषां सत्वानां कर्म स्वकृतं प्रत्यक्षीकर्तुकामा विमानं प्रविश्यावस्थिता । ते मृगयितुमारब्धाः । श्रोण कारुणिकस्त्वं बुभुक्षिता वयमस्माकमनुप्रयच्छ । तेनैकस्य क्षिप्तं बुसप्लावी प्रादुर्भूता । अपरस्य क्षिप्तमयोगुडं भक्षयितुमारब्धः । अपरस्य क्षिप्तं स्वमांसं भक्षयितुमारब्धः । अपरस्य क्षिप्तं पूयशोणितं प्रादुर्भूतम्* । स पश्यति विस्रगन्धेन निर्गतम्* । श्रोण निवारितस्त्वं मया कस्मात्त्वयैषां दत्तम्* । किं मम करुणया त्वमेव कारुणिकतरः । स कथयति । भगिनि तवैते के भवन्ति । सा कथयति । अयं मे स्वामी । अयं मे पुत्रः । इयं मे स्नुषा । इयं मे दासी । स आह । के यूयं केन वा कर्मणा इहोपपन्नाः । तयोक्तम्* । श्रोण दुष्कुहका जम्बुद्वीपका मनुष्या नाभिश्रद्दधास्यन्ति । अहं भगिनि प्रत्यक्षदर्शी (म्स्विव्१७७) कस्मान्नाभिश्रद्दधास्ये । सा कथयति । अहं वासवग्रामके ब्राह्मण्यासीत्* । मया नक्षत्ररात्रौ प्रत्युपस्थितायां प्रणीतमाहारं सज्जीकृतम्* । आर्यश्च (८४ = ग्ब्म् ६.७५१) महाकात्यायनो ममानुकम्पया वासवग्रामकं पिण्डाय प्राविक्षत्* । स मया दृष्टः कायप्रासादिकश्चित्तप्रासादिकः । चित्तमभिप्रसन्नं दृष्ट्वा स मया प्रासादजातया पिण्डकेन प्रतिपादितः । तस्या मम बुद्धिरुत्पन्ना स्वामिनमनुमोदयामि प्रामोद्यमुत्पादयिष्यतीति । स स्नात्वा आगतो मयोक्तः । आर्यपुत्रानुमोदस्व मयार्यो महाकात्यायनः पिण्डकेन प्रतिपादितः । स रुषितो यावद्ब्राह्मणानां न दीयते ज्ञातीनां वा ज्ञातिपूजा न क्रियते तावत्त्वया तस्मै मुण्डकाय श्रमणकायाग्रपिण्डकं दत्तम्* । सोऽमर्षजातः कथयति । कस्मात्स मुण्डकः श्रमणको बुसप्लावीं न भक्षयतीति । तस्य कर्मणो विपाकेनायं बुसप्लावीं भक्षयति । मम बुद्धिरुत्पन्ना पुत्रं तावदनुमोदयामि । प्रामोद्यमुत्पादयिष्यतीति । सोऽपि मयोक्तः । पुत्रानुमोदस्व मयार्यो महाकात्यायनः पिण्डकेन प्रतिपादितः । सोऽपि रुषितो यावद्ब्राह्मणानां न दीयते ज्ञातीनां वा ज्ञातिपूजा न क्रियते तावत्त्वया तस्मै मुण्डकाय श्रमणकायाग्रपिण्डकं दत्तम्* । सोऽप्यमर्षजातः कथयति । कस्मात्स मुण्डकः श्रमणकोऽयोगुडं न भक्षयतीति । तस्य (म्स्विव्१७८) कर्मणो विपाकेनायमयोगुडं भक्षयति । नक्षत्ररात्र्यां प्रत्युपस्थितायां ज्ञातयः प्रहेणकानि मम प्रेषयन्ति । तान्यहं स्नुषायाः समर्पयामि । सा प्रणीतानि प्रहेणकानि भक्षयित्वा मम लूहानि उपनामयति । अहं तेषां ज्ञातीनां सन्दिशामि । किं नु यूयं दुर्भिक्षे यथा लूहानि प्रहेणकानि प्रेषयथेति । ते मम सन्दिशन्ति । न वयं लूहानि प्रेषयामः अपि तु प्रणीतान्येव प्रहेणकानि प्रेषयामः । मया स्नुषाभिहिता । वधूके मा त्वं प्रणीतानि प्रहेणकानि भक्षयित्वास्माकं लूहान्युपनामयसि । सा कथयति । किं न स्वमांसानि भक्षयति याहं त्वदीयानि प्रहेणकानि भक्षयामीति । इयं तस्य कर्मणो विपाकेन स्वमांसानि भक्षयति । नक्षत्ररात्र्यां प्रत्युपस्थितायामहं दारिकाया हस्ते प्रणीतानि प्रहेणकानि दत्वा ज्ञातीनां प्रेषयामि । सा दारिका तानि प्रणीतानि प्रहेणकानि मार्गेऽन्तर्भक्षयित्वा तेषां लूहान्युपनामयति । ते मम सन्दिशन्ति । किं नु त्वं दुर्भिक्षे यथा लूहान्यस्माकं प्रहेणकानि प्रेषयसीति । अहं तेषां सन्दिशामि । नाहं लूहानि प्रहेणकानि प्रेषयामि अपि तु प्रणीतान्येवाहं प्रेषयामीति । मया दारिकाभिहिता । दारिके मा त्वं प्रणीतानि प्रहेणकानि भक्षयित्वा तेषां लूहान्युपनामयसि । सा कथयति । किं नु पूयशोणितं न भक्षयति या त्वदीयानि प्रहेणकानि भक्षयतीति । तस्य कर्मणो विपाकेनेयं पूयशोणितं भक्षयति । मम बुद्धिरुत्पन्ना । तत्र (म्स्विव्१७९) प्रतिसन्धिं गृह्णामि यत्रैतान् सत्वान् स्वकं स्वकं कर्मफलं परिभुञ्जानान् पश्यामीति । यन्मयार्यमहाकात्यायनं पिण्डकेन प्रतिपाद्य प्रणीते (८५ = ग्ब्म् ६.७५२) त्रयस्त्रिंशे देवनिकाये उपपत्तव्यं साहं मिथ्याप्रणिधानं कृत्वा प्रेतमहर्द्धिका संवृत्ता । श्रोण गमिष्यसि त्वं वासवग्रामकं तत्र मम दुहिता वेश्यां वाहयति । सा त्वया वक्तव्या । दृष्टास्ते मया पिता माता भ्राता भ्रातुर्जाया दासी । ते कथयन्ति । अनिष्टोऽस्य कर्मणः फलविपाको विरमास्मात्पापकादसद्धर्मात्* । भगिनि त्वमेवं कथयसि । दुष्कुहका जम्बुद्वीपका मनुष्या नाभिश्रद्दधास्यन्ति । श्रोण यदि न श्रद्दधास्यति वक्तव्या तव पौराणे पैत्रिके वासगृहे चत्वारो लोहसंघाटाः सुवर्णस्य पूर्णास्तिष्ठन्ति मध्ये च सौवर्णदण्डकमण्डलुः । ते कथयन्ति तमुद्धृत्यात्मानं सम्यक्सुखेन प्रीणय आर्यं च महाकात्यायनं कालेन कालं पिण्डकेन प्रतिपादय अस्माकं च नाम्ना दक्षिणामादेशय । अप्येवैतत्कर्म तनुत्वं परिक्षयं पर्यादानं गच्छेत् । तेन तस्याः प्रतिज्ञातम्* । एवं तस्य परिभ्रमतो द्वादश वर्षा अतिक्रान्ताः । तयोक्तः । श्रोण गमिष्यसि त्वं वासवग्रामकम्* । भगिनि गमिष्यामि । स तस्मिन्नेव विमाने अधिरूढः । तया तेषामेव प्रेतानामाज्ञा (म्स्विव्१८०) दत्ता भवन्तो गच्छत श्रोणं कोटीकर्णं सुप्तमेव वासवग्रामके पैत्रिके उद्याने स्थापयित्वा आगच्छत । स तैर्वासवग्रामके पैत्रिके उद्याने स्थापितः । स प्रतिविबुद्धो यावत्पश्यति घण्टाच्छत्राणि व्यजनान्यक्षराणि लिखितानि । यदि तावच्छ्रोणः कोटीकर्णो जीवति लघ्वागमनाय क्षिप्रमागमनाय च्युतः कालगतो गत्युपपत्तिस्थानात्स्थानान्तरविशेषतायै । स संलक्षयति । यद्यहं मातापितृभ्यां मृत एव गृहीतः कस्माद्भूयोऽहं गृहं प्रविशामि गच्छाम्यार्यमहाकात्यायनस्यान्तिके प्रव्रजामीति । अथ श्रोणः कोटीकर्णो येनायुष्मान्महाकात्यायनस्तेनोपसंक्रान्तः । अद्राक्षीदायुष्मान्महाकात्यायनः श्रोणं कोटीकर्णम्* । दूरादेव दृष्ट्वा च पुनः श्रोणं कोटीकर्णमिदमवोचत्* । एहि श्रोण स्वागतं ते दृष्टस्ते श्रोण अयं लोकः परश्च लोकः । स कथयति । दृष्टो भदन्त महाकात्यायन लभेयाहं भदन्त महाकात्यायन स्वाख्याते धर्मविनये प्रव्रज्यामुपसंपदं भिक्षुभावं चरेयमहं भगवतोऽन्तिके ब्रह्मचर्यम्* । स आर्येणोक्तः । श्रोण तां तावत्पूर्विकां प्रतिज्ञां परिपूरय यथागृहीतान् सन्देशान् समर्पयेति । स तस्यौरभ्रिकस्य सकाशमुपसंक्रान्तः । भद्रमुख दृष्टस्ते पिता मया । स कथयति । अनिष्टोऽस्य कर्मणः फलविपाको विरमास्मात्पापकादसद्धर्मात्* । भोः पुरुष अद्य मम पितुर्द्वादश वर्षाणि कालगतस्य । अस्ति कश्चिद्दृष्टः परलोकात्(म्स्विव्१८१) पुनरागच्छन्* । भद्रमुख एषोऽहमागतः । नासौ श्रद्दधाति । भद्रमुख यदि न श्रद्दधासि स तव पिता कथयति असिस्थानाधस्तात्सुवर्णस्य कलशः पूर्णस्तिष्ठति । तमुद्धृत्यात्मानं सम्यक्सुखेन प्रीणय आर्यं च महाकात्यायनं कालेन कालं पिण्डकेन प्रतिपादयास्माकं च नाम्ना दक्षिणामादेशय । अप्येवैतत्कर्म तनुत्वं परिक्षयं पर्यादानं गच्छेत् । स संलक्षयति । न कदाचिद्(८५ = ग्ब्म् ६.७५३) एवं मया श्रुतपूर्वं पश्यामि सचेद्भूतं भविष्यति सर्वमेतत्सत्यम्* । तेन गत्वा खनितं यावत्तत्सर्वं तत्तथैव तेनाभिश्रद्दधीतम्* । ततः पश्चात्स पारदारिकस्य सकाशमुपसंक्रान्तः । उपसंक्रम्य कथयति । भद्रमुख दृष्टस्ते मया पिता । स कथयति । अनिष्टोऽस्य कर्मणः फलविपाको विरमास्मात्पापकादसद्धर्मात्* । स कथयति । भोः पुरुष अद्य मम पितुर्द्वादश वर्षाणि कालं गतस्य । अस्ति कश्चित्त्वया दृष्टः परलोकं गत्वा पुनरागच्छन्* । भद्रमुख एषोऽहमागतः । नासौ श्रद्दधाति । स कथयति । भद्रमुख सचेन्नाभिश्रद्दधासि तव पित्राग्निष्टोमस्याधस्तात्सुवर्णस्य कलशः पूरयित्वा स्थापितः । स कथयति । तमुद्धृत्यात्मानं सम्यक्सुखेन प्रीणयार्यं च महाकात्यायनं कालेन कालं पिण्डकेन प्रतिपादयास्माकं च नाम्ना दक्षिणामादेशय । अप्येवैतत्कर्म तनुत्वं परिक्षयं पर्यादानं गच्छेत्* । स संलक्षयति न कदाचिदेतन्मया श्रुतपूर्वं पश्यामि सचेद्भूतं भविष्यति सर्वमेतत्सत्यम्* । तेन (म्स्विव्१८२) गत्वा खनितं यावत्पश्यति तत्सर्वं तत्तथैव तेनाभिश्रद्दधीतम्* । स गणिकायाः सकाशमुपसंक्रान्तः । उपसंक्रम्य कथयति । भगिनि दृष्टस्ते मया माता पिता भ्रातुर्जाया दासी । ते कथयन्ति । अनिष्टोऽस्य कर्मणः फलविपाको विरमास्मात्पापकादसद्धर्मात्* । सा कथयति । भोः पुरुष अद्य मम मातापित्रोर्द्वादश वर्षाणि कालगतयोः । अस्ति कश्चित्त्वया दृष्टः परलोकं गत्वा पुनरागच्छन्* । स कथयति । एषोऽहमागतः । सा न श्रद्दधाति । स कथयति । भगिनि सचेन्नाभिश्रद्दधासि तव पौराणे पैत्रिके वासगृहे चत्वारो लोहसंघाटाः सुवर्णपूर्णास्तिष्ठन्ति । मध्ये च सौवर्णदण्डकमण्डलुः । ते कथयन्ति । तमुद्धृत्यात्मानं सम्यक्सुखेन प्रीणयार्यं च महाकात्यायनं कालेन कालं पिण्डकेन प्रतिपादयास्माकं च नाम्ना दक्षिणामादेशय । अप्येवैतत्कर्म तनुत्वं परिक्षयं पर्यादानं गच्छेत्* । सा संलक्षयति । न कदाचिन्मया श्रुतपूर्वं पश्यामि सचेद्भूतं भविष्यति सर्वमेतत्सत्यम्* । तया गत्वा खनितं यावत्तत्सर्वं तत्तथैव तथाभिश्रद्दधीतम्* । श्रोणः कोटीकर्णः संलक्षयति । सर्वोऽयं लोकः सुवर्णस्य श्रद्दधाति न तु कश्चिन्मम श्रद्धया गच्छतीति । तेन वैपुष्पितम्* । तस्य शिशुत्वे सुवर्णेन दशना बद्धाः । तयासौ प्रत्यभिज्ञातः । स्यादार्यः श्रोणः कोटीकर्णः एव मे (म्स्विव्१८३) भगिनि संजानीते । तया गत्वा तस्य मातापितृभ्यामारोचितम्* । अम्ब तात कोटीकर्णोऽभ्यागत इति । अनेकैस्तेषामारोचितम्* । ते न कस्यचित्* श्रद्धया गच्छन्ति । ते कथयन्ति । पुत्रि त्वमप्यस्माकमुत्प्रासयसि । यावदसौ स्वयमेव गतः । तेन द्वारकोष्ठके स्थित्वोत्काशनशब्दः कृतः । हिरण्यस्वरोऽसौ । स तैः स्वरेण प्रत्यभिज्ञातः । तौ कण्ठे परिष्वज्य रुदितुमारब्धौ । तेषां वाष्पेण पटहानि स्फुटितानि । द्रष्टुमारब्धौ । स कथयति । अम्ब तातानुजानीध्वं प्रव्रजिष्यामि समगेव श्रद्धया अगारादनागारिकम्* । तौ कथयतः । पुत्रावां त्वदीयेन शोकेन रुदन्तावन्धीभूतौ । इदानीं त्वमेवागम्य चक्षुः प्रतिलब्धम्* । यावदावां जीवावस्तावन्न प्रव्रजितव्यम्* । यदा कालं करिष्यावस्तदा प्रव्रजिष्यसि । तेनायुष्मन्तो महाकात्यायनस्यान्तिकाद्धर्मं श्रुत्वा स्रोतआपत्तिफलं साक्षात्कृतं मातापितरौ च शरणागमनशिक्षापदेषु प्रतिष्ठापितौ । आगमचतुष्टयमधीतम्* । (८६ = ग्ब्म् ६.७५४) सकृदागामिफलं साक्षात्कृतम्* । मातापितरौ सत्येषु प्रतिष्ठापितौ । अपरेण समयेन तस्य मातापितरौ कालगतौ । स तं धनजातं दीनानाथकृपणवनीपकेभ्यो दत्वा दरिद्रानदरिद्रान् कृत्वा येनायुष्मान्महाकात्यायनस्तेनोपसंक्रान्तः । उपसंक्रम्यायुष्मतो महाकात्ययनस्य पादौ शिरसा वन्दित्वा एकान्तेऽस्थात्* । एकान्ते स्थितः श्रोणः (म्स्विव्१८४) कोटीकर्णः आयुष्मन्तं महाकात्यायनमिदमवोचत्* । लबेयाहमार्य महाकात्यायन स्वाख्याते धर्मविनये प्रव्रज्यामुपसंपदं भिक्षुभावम्* । <यावच्चरेयमहं भगवतोऽन्तिके ब्रह्मचर्यम्* ।> स आयुष्मता महाकात्यायनेन प्रव्राजितः । तेन प्रव्रज्य मातृकाधीता । अनागामिफलं साक्षात्कृतम्* । अश्मापरान्तकेषु जनपदेषु अल्पभिक्षुकं कृच्छ्रेण दशवर्गो गणः परिपूरयते । स त्रैमासीं श्रामणेरो विधारितः । धर्मता खलु यथा बुद्धानां भगवतां श्रावकाणां द्वौ संनिपातौ भवतः । यश्चाषाढ्यां वर्षोपनायिकायां यश्च कार्तिक्यां पौर्णमास्याम्* । तत्र ये आषाढ्यां वर्षोपनायिकायां संनिपतन्ति ते तांस्तानुद्देशयोगमनसिकारानुद्गृह्य पर्यवाप्य तासु तासु ग्रामनगरनिगमराष्ट्रराजधानीषु वर्षामुपगच्छन्ति । ये कार्तिक्यां पौर्णमास्यां संनिपतन्ति ते यथाधिगतमारोचयन्ति । उत्तरे च परिपृच्छन्ति । एवमेव महाश्रावकाणामपि । अथ ये आयुष्मतो महाकात्यायनस्य सार्धंविहार्यन्तेवासिका भिक्षवस्तांस्तानुद्देशयोगमनसिकारविशेषानुद्गृह्य पर्यवाप्य तासु तासु ग्रामनगरनिगमराष्ट्रराजधानीषु वर्षामुपगतास्ते त्रयाणां वार्षिकाणां मासानामत्ययात्कृतचीवरा निष्ठितचीवराः समादाय पात्रचीवरं येनायुष्मान्महाकात्यायनस्तेनोपसंक्रान्ताः । उपसंक्रम्यायुष्मतो महाकात्यायनस्य पादौ शिरसा वन्दित्वैकान्ते (म्स्विव्१८५) निषण्णाः । एकान्ते निषद्य यथाधिगतमारोचयन्ति उत्तरे च परिपृच्छन्ति । दशवर्गो गणः परिपूर्णः । स तेनोपसंपादितः । तेन पिटकत्रयमधीतम्* । सर्वक्लेशप्रहाणादर्हत्वं साक्षात्कृतम्* । अर्हन् संवृत्तस्त्रैधातुकवीतरागो समलोष्ट्रकांचनः आकाशपाणितलसमचित्तो वासीचन्दनकल्पोऽविद्याविदारिताण्डकोशो विद्याभिज्ञाप्रतिसंवित्प्राप्तो भवलाभलोभसत्कारपराङ्मुखः सेन्द्रोपेन्द्राणां देवानां पूज्यो मान्योऽभिवाद्यश्च संवृत्तः । अथायुष्मतो महाकात्यायनस्य सार्धंविहार्यन्तेवासिका आयुष्मन्तं महाकात्यायनं यावत्तावत्पर्युपास्यायुष्मन्तं महाकात्यायनमिदमवोचन्* । दृष्टोऽस्माभिरुपाध्याय पर्युपासितश्च । गच्छामो वयं भगवन्तं पर्युपासिष्यामहे । वत्स एवं कुरुध्वम्* । पर्युपासितव्या एव हि तथागता अर्हन्तः सम्यक्संबुद्धाः । तेन खलु पुनः समयेन श्रोणः कोटीकर्णस्तस्यामेव पर्षदि संनिषण्णोऽभूत्संनिपतितः । अथायुष्मान् श्रोणः कोटीकर्ण उत्थायासनादेकांसमुत्तरासंगां कृत्वा दक्षिणं जानुमण्डलं पृथिव्यां प्रतिष्ठाप्य येनायुष्मान्महाकात्यायनस्तेनाञ्जलिं कृत्वा प्रणम्यायुष्मन्तं महाकात्यायनमिदमवोचत्* । दृष्टो मयोपाध्यायानुभावेन (८६ = ग्ब्म् ६.७५५) स भगवान् धर्मकायेन नो तु रूपकायेन । गच्छाम्युपाध्याय रूपकायेनापि तं भगवन्तं द्रक्ष्यामि । स आह । एवं वत्स (म्स्विव्१८६) कुरुष्व । दुर्लभदर्शना हि वत्स तथागता अर्हन्तः सम्यक्संबुद्धाः तद्यथा औदुम्बरपुष्पम्* । अस्माकं च वचनेन भगवतः पादौ शिरसा वन्दस्वाल्पाबाधतां च यावत्सुखस्पर्शविहारतां च पञ्च प्रश्नानि च पृच्छ । अश्मापरान्तकेषु भदन्त जनपदेषु अल्पभिक्षुकं कृच्छ्रेण दशवर्गगणः परिपूर्यते । तत्रास्माभिः कथं प्रतिपत्तव्यम्* । खरा भूमिर्गोकण्टकाधाना । अश्मापरान्तकेषु जनपदेषु इदमेवंरूपमास्तरणं प्रत्यास्तरणं तद्यथा अजचर्म गोचर्म मृगचर्म च्छागचर्म । तदन्येषु जनपदेष्विदमेवंरूपमास्तरणं प्रत्यास्तरणं तद्यथा एरको मेरको जन्दुरको मन्दुरकः । एवमेवाश्मापरान्तकेषु जनपदेष्विदमेवंरूपमास्तरणं प्रत्यास्तरणं (म्स्विव्१८७) तद्यथा अजचर्म पूर्ववत्* । उदकशुद्धिका मनुष्या स्नानसमुदाचाराः । भिक्षुर्भिक्षोश्चीवरकाणि प्रेषयति । इतश्च्युतानि तत्रासंप्राप्तानि । कस्यैतानि नैसर्गिकाणि । अधिवासयत्यायुष्मान् श्रोणः कोटीकर्ण आयुष्मतो महाकात्यायनस्य तूष्णींभावेन । अथायुष्मान् श्रोणः कोटीकर्णस्तस्या एव रात्रेरत्यायात्पूर्वाह्णे निवास्य पात्रचीवरमादाय वासवग्रामकं पिण्डाय प्राविक्षत्* । यावदनुपूर्वेण श्रावस्तीमनुपृअप्तः । अथायुष्मान् श्रोणः कोटीकर्णः पात्रचीवरं प्रतिशामय्य पादौ प्रक्षाल्य येन भगवांस्तेनोपसंक्रान्तः । उपसंक्रम्य वन्दित्वैकान्ते निषण्णः । तत्र भगवानायुष्मन्तमानन्दमामन्त्रयते स्म । गच्छानन्द तथागतस्य श्रोणस्य च कोटीकर्णस्यैकविहारे मञ्चं प्रज्ञपय । एवं भदन्तेत्यायुष्मानानन्दस्तथागतस्य श्रोणस्य च कोटीकर्णस्य यावत्प्रज्ञप्य येन भगवांस्तेनोपसंक्रान्तः । उपसंक्रम्य भगवन्तमिदमवोचत्* । प्रज्ञप्तो भदन्त तथागतस्य श्रोणस्य च कोटीकर्णस्यैकविहारे मञ्चो यस्येदानीं भगवान् कालं मन्यते । अथ भगवान् येन श्रोणस्य कोटीकर्णस्य विहारस्तेनोपसंक्रान्तो यावद्विहारं प्रविश्य निषण्णः । यावत्(म्स्विव्१८८) प्रतिमुखं स्मृतिमुपस्थाप्य । अथायुष्मानपि श्रोणः कोटीकर्णो बहिर्विहारस्य पादौ प्रक्षाल्य विहारं प्रविश्य निषण्णः पर्यङ्कमाभुज्य यावदृजुकायं प्रणिधाय प्रतिमुखं स्मृतिमुपस्थाप्य । तां खलु रात्रिं भगवानायुष्मांश्च श्रोणः कोटीकर्ण आर्यस्य तूष्णींभावेनातिनामितवान्* । अथ भगवान् रात्र्याः प्रत्यूषसमये आयुष्मन्तं श्रोणं कोटीकर्णमामन्त्रयते स्म । प्रतिभातु ते श्रोण धर्मो यो मया स्वयमभिज्ञायाभिसंबुध्याख्यातः । अथायुष्मान् श्रोणो भगवता कृतावकाशः अश्मापरान्तिकया स्वरगुप्तिकया उदानात्पारायणात्सत्यदृष्टः शैलगाथामुनिगाथास्थविरगाथास्थविरीगाथार्थवर्गीयाणी च सूत्राणि विस्तरेण स्वरेण स्वाध्यायं करोति । अथ भगवान् श्रोणस्य कोटीकर्णस्य कथापर्यवसानं विदित्वा आयुष्मन्तं श्रोणं कोटीकर्णमिदमवोचत्* । (८७ = ग्ब्म् ६.७५६) साधु साधु श्रोण मधुरस्ते धर्मो भाषितः प्रणीतश्च यो मया स्वयमभिज्ञायाभिसंबुध्याख्यातः । अथायुष्मतः श्रोणस्य कोटीकर्णस्यैतदभवत्* । अयं मे कालो भगवत उपाध्यायस्य वचसाराधयितुमिति विदित्वोत्थायासनाद्यावद्भगवन्तं प्रणम्येदमवोचत्* । अश्मापरान्तकेषु जनपदेषु वासवग्रामके भदन्त महाकात्यायनः प्रतिवसति (म्स्विव्१८९) यो मे उपाध्यायः । स भगवतः पादौ शिरसा वन्दतेऽल्पाबाधतां लघूत्थानतां च पृच्छति यावत्स्पर्शविहारतां च पञ्च च प्रश्नानि पृच्छति । विस्तरेणोच्चारयितव्यानि । अथ भगवान् श्रोणं कोटीकर्णमिदमवोचत्* । अकालस्ते श्रोण प्रश्नव्याकरणाय । संघमध्ये प्रश्नः पृच्छ्येत । तत्र कालो भविष्यति प्रश्नस्य व्याकरणाय । अथ भगवान् काल्यमेवोत्थाय पुरस्ताद्भिक्षुसंघस्य प्रज्ञप्त एवासने निषण्णः । अथायुष्मान् श्रोणः कोटीकर्णो येन बहग्वांस्तेनोपसंक्रम्य भगवतः पादौ शिरसा वन्दित्वैकान्तेऽस्थात्* । एकान्तस्थितो भगवन्तमिदमवोचत्* । अश्मापरान्तकेषु जनपदेषु वासवग्रामके भदन्त महाकात्यायनः प्रतिवसति यो मे उपाध्यायः । स भगवतः पादौ शिरसा वन्दतेऽल्पाबाधतां पृच्छति यावत्स्पर्शविहारतां च पञ्च च प्रश्नानि विस्तरेणारोचयति यथा पूर्वमुक्तानि यावत्कस्य नैसर्गिकाणि । भगवानाह । तस्मादनुजानामि । प्रत्यन्तिमेषु जनपदेषु विनयधरपञ्चमेन गणेनोपसंपदा । सदा स्नानम्* । एकपलाशिके उपानहे धारयितव्ये न द्विपुटे न त्रिपुटे । सा चेत्क्षयधर्मिणी भवति अर्गलकं दत्वा धारयितव्ये {म्स्: सचेत्क्षियधर्मिण्यौ भवतः । अर्घटकं वारयितव्ये चर्मा धारयितव्याम्} । भिक्षुर्भिक्षोश्चीवरकाणि प्रेषयति इतश्च्युतानि तत्रासंप्राप्तानि न कस्यचिन्नैसर्गिकाणि । (म्स्विव्१९०) आयुष्मानुपाली बुद्धं भगवन्तं पृच्छति । यदुक्तं भदन्त भगवता प्रत्यन्तिमेषु जनपदेषु विनयधरपञ्चमेन गणेनोपसंपदा । तत्र कतमोऽन्तः कतमः प्रत्यन्तः । पूर्वेणोपालिन् पुण्ड्रवर्धनं नाम नगरं तस्य पूर्वेण पुण्ड्रकक्षो नाम दावः । सोऽन्तः । ततः परेण प्रत्यन्तः । दक्षिणेन शरावती नाम नगरी {म्स्: प्रत्यन्त नगरावती नाम नगरी तस्य परेण शरावती} । तस्याः परेण शरावती नाम नदी । सोऽन्तः । ततः परेण प्रत्यन्तः । पश्चिमेन स्थूणोपस्थूणकौ ब्राह्मणग्रामकौ । सोऽन्तः । ततः परेण प्रत्यन्तः । उत्तरेण उशीरगिरिः । सोऽन्तः । ततः परेण प्रत्यन्तः । भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पृच्छन्ति । किं भदन्त आयुष्मता श्रोणेन कोटीकर्णेन कर्म कृतं तस्य कर्मणो विपाकेनाढ्ये महाधने महाभोगे कुले जातो रत्नप्रत्युप्तिकया कर्णे आमुक्तिकया भगवतः शासने प्रव्रज्य सर्वक्लेशप्रहाणादर्हत्वं साक्षात्कृतम्* । भगवानाह । भूतपूर्वं भिक्षवो वाराणस्यां नगर्यां काश्यपो नाम तथागतोऽर्हन् सम्यक्संबुद्धो भगवाञ्छास्ता लोक उत्पन्नः । तेन खलु समयेन वाराणस्यां द्वौ जायापतिकौ । ताभ्यां (म्स्विव्१९१) काश्यपस्य सम्यक्संबुद्धस्यान्तिके शरणगमनशिक्षापदान्य्(८७ = ग्ब्म् ६.७५७) उद्गृहीतानि । यदा काश्यपः सम्यक्संबुद्धः सकलं बुद्धकार्यं कृत्वा निरुपधिशेषे निर्वाणधातौ परिनिर्वृतस्तस्य राज्ञा कृकिणा चतूरत्नमयं चैत्यं कारितं समन्ताद्योजनमर्धयोजनमुच्चत्वेन । तेन तत्र खण्डस्फुटप्रतिसंस्करणाय ये पूर्वनगरद्वारे करप्रत्याया उत्तिष्ठन्ते ते तस्मिन् स्तूपेऽनुप्रदत्ताः । यदा कृकी राजा कालगतस्तस्य पुत्रः सुजातो नाम्ना स्वराज्ये प्रतिष्ठापितः । तस्यामात्यैः स्तोकाः करप्रत्याया उपनामिताः । राजा पृच्छति । किं कारणमस्माकं भवद्भिः स्तोकाः करप्रत्याया उपनामिताः । किमस्माकं विजिते करप्रत्याया उत्तिष्ठन्ते । ते कथयन्ति । देव कुतः करप्रत्याया उत्तिष्ठन्ते । ये देव पूर्वद्वारे करप्रत्यायास्ते वृद्धराज्ञा स्तूपे खण्डस्फुटप्रतिसंस्करणाय प्रज्ञप्ताः । यदि देवोऽनुजानीते वयं तान् करप्रत्यायान् समुच्छिन्दामः । स कथयति । भवन्तो यन्मम पित्रा कृतं तदेव ब्रह्मकृतम्* । ते संलक्षयन्ति । यदि देवोऽनुजानीते वयं तथा करिष्यामो यथा स्वयमेव ते करप्रत्याया नोत्थास्यन्ति । तैः स द्वारो बद्ध्वा स्थापितः । न भूयः करप्रत्याया उत्तिष्ठन्ते । तस्मिन् स्तूपे च स्फुटितकानि प्रादुर्भूतानि । तौ जायापती वृद्धीभूतौ तत्रैव स्तूपे परिकर्म कुर्वाणौ तिष्ठतः । उत्तरापथाच्च सार्थवाहः (म्स्विव्१९२) पण्यमादाय वाराणसीमनुप्राप्तः । तेनासौ दृष्टः स्तूपश्चटितस्फुटितकैः प्रादुर्भूतैः । स दृष्ट्वा पृच्छति । अम्ब तात कस्यैष स्तूप इति । तौ कथयतः । काश्यपस्य सम्यक्संबुद्धस्य । केन कारितः । कृकिणा राज्ञा । न तेन राज्ञा अस्मिन् स्तूपे खण्डस्फुटप्रतिसंस्करणाय किञ्चित्प्रज्ञप्तम्* । तौ कथयतः । प्रज्ञप्तं ये पूर्वनगरद्वारे करप्रत्यायास्तेऽस्मिन् स्तूपे खण्डस्फुटप्रतिसंस्करणाय निर्यातिताः । कृकी राजा कालगतः । तस्य पुत्रः सुजातो नाम्ना स्वराज्ये प्रतिष्ठितः । तेन ते करप्रत्यायाः समुच्छिन्नाः । तेनास्मिन् स्तूपे चटितस्फुटितकानि प्रादुर्भूतानि । तस्य रत्नकर्णिका कर्णे आमुक्तिका । तेन सावतार्य तयोर्दत्ता । अम्ब तातानया रत्नकर्णिकया अस्मिन् स्तूपे खण्डस्फुटप्रतिसंस्कारं कुरुतमिति यावदहं पण्यं विसर्जयित्वागच्छामि । ततः पश्चाद्भूयोऽपि दास्यामि । तैस्तां विक्रीय तस्मिन् स्तूपे खण्डस्फुटप्रतिसंस्कारः कृतः । अपरमुत्सर्पितम्* । अथापरेण समयेन स सार्थवाहः पण्यं विसर्जयित्वागतः । तेन स दृष्टः स्तूपेऽसेचनकदर्शनः । दृष्ट्वा स च भूयस्यापि मात्रयाभिप्रसन्नः । स प्रसादजातः पृच्छति । अम्ब तात मा युष्माभिः किञ्चिदुद्धारीकृतम्* । (म्स्विव्१९३) तौ कथयतः । पुत्र नास्माभिः किञ्चिदुद्धारीकृतं किन् त्वपरमुत्सर्पितं तिष्ठति । तेन प्रसादजातेन यत्तत्रावशिष्टमपरं च दत्वा महतीं पूजां कृत्वा प्रणिधानं च कृतम्* । अनेनाहं कुशलमूलेनाढ्ये महाधने महाभोगे कुले जायेयम्* । एवंविधानां च धर्माणां लाभी स्याम्* । एवंविधमेव शास्तारमारागयेयं मा विरागयेयमिति । किं मन्यध्वे भिक्षवः । योऽसौ सार्थवाह एष एवासौ श्रोणः कोटीकर्णः । (८८ = ग्ब्म् ६.७५८) यदनेन काश्यपस्य सम्यक्संबुद्धस्य स्तूपे कारां कृत्वा प्रणिधानं कृतं तस्य कर्मणो विपाकेनाढ्ये महाधने महाभोगे कुले जातः । मम शासने प्रव्रज्य सर्वक्लेशप्रहाणादर्हत्वं साक्षात्कृतम्* । अहमनेन काश्यपेन सम्यक्संबुद्धेन समबलः समजवः समधूरः समसामान्यप्राप्तः शास्ता आरागितो न विरागित इति हि भिक्षव एकान्तकृष्णानां कर्मणामेकान्तकृष्णो विपाकः एकान्तशुक्लानां कर्मणामेकान्तशुक्लो विपाकः व्यतिमिश्राणां व्यतिमिश्रः । तस्मात्तर्हि भिक्षव एकान्तकृष्णानि कर्माण्यपास्य व्यतिमिश्राणि चैकान्तशुक्लेष्वेव कर्मस्वाभोगः करणीयः । इत्येवं वो भिक्षवः शिक्षितव्यम्* । भिक्षव ऊचूः । किं भदन्तायुष्मता श्रोणकोटीकर्णेन कर्म कृतं यस्य कर्मणो विपाकेन दृष्ट एव धर्मे अपाया दृष्टाः । भगवानाह । यदनेन मातुरन्तिके खरवाक्कर्म निश्चारितं तस्य कर्मणो विपाकेन दृष्ट एव धर्म अपाया दृष्टाः । (म्स्विव्१९४) बुद्धो भगवान् श्रावस्त्यां विहरति जेतवनेऽनाथपिण्डदस्यारामे । आयुष्मानुपनन्दः संघनवकः । तस्य पंक्त्या कटकटायमंचकः प्राप्तः । स भयेन परिवर्तते । मा भेत्स्यतीति संलक्षयति । अहमुपनन्दो मंचकस्यापि स्पृहयामि । नोपनन्द इति नामधेयं धारयामि यदि शय्यां मंचकं वा नोपावर्तयामि । स काल्यमेवोत्थाय राज्ञः प्रसेनजितः कोसलस्य सकाशमुपसंक्रान्तः । स तेनोक्तः । स्वागतं भदन्तोपनन्दस्य । कश्चिद्भदन्तोपनन्दः सुखं शयितः । स कथयति । गिल्लपेठ किं त्वं न जानीषे यथाहमष्टपुटीं शय्यां कल्पयाम्युपनन्दोऽपि तथैवेति । अहं संघनवको मम पंक्त्या कटकटायमंचकः प्राप्तः । सोऽहं भयेन परिवर्तामि । मा भेत्स्यतीति कल्पते । भदन्तोपनन्दस्येदृशी अष्टपुटी शय्या साधु कल्पते सुष्ठु कल्पते । कुत्र प्रतिक्षिप्तं केन वा प्रतिक्षिप्तम्* । यदि ते कल्पते गृहीतो भवतु । उपनन्दः कथयति । किं मम कोसलो जनपदो वर्तते । विहारं नामयित्वानुप्रयच्छ । तेन तस्याष्टौ मनुष्या अनुप्रदत्ताः । तत्र चतुर्भिः शयनासनं गृहीतं चतुर्भिः खट्टा । ते गृहीत्वा वीथ्या मध्येन संप्रस्थिताः । ते ब्राह्मणगृहपतिभिर्(म्स्विव्१९५) दृष्टाः । दृष्ट्वा च पृच्छन्ति । कुत्र भवन्तोऽस्य देवशय्यां कल्पयिष्यन्ति । उपनन्दः कथयति । स्वगृहे । कस्यैषा शय्या नीयते । उपनन्दः कथयति । मयैषा लब्धा । तेऽवध्यायन्ति क्षिपन्ति विवाचयन्ति । किं भदन्तोपनन्दस्य श्रामणकस्य कामगुणा बाधन्ते । तेन विहारं गत्वा विहारं सिक्तं संमृष्टं सुकुमारी गोमयकार्ष्यनुप्रदत्ता । शय्यां प्रज्ञप्य निषेत्स्यामीति । भगवान् च तं प्रदेशमनुप्राप्तः । सौद्विल्यजातो भगवन्तमिदमवोचत्* । पश्य मम भदन्त कीदृशी शय्या । तत्र भगवान् भिक्षूनामन्त्रयते स्म । आदित एव भिक्षवः उपनन्दो मोहपुरुषः प्रतिगोपको वेदितव्यः । भगवान् संलक्षयति । यः कश्चिदादीनवो भिक्षवो उच्चशयनमहाशयने शय्या कल्पयन्ति । तस्मान्न भिक्षुणोच्चशयनमहाशयने निषेत्तव्यम्* । निषीदति सातिसारो भवति । उक्तं भगवता न भिक्षुणोच्चशयनमहाशयने (८८ = ग्ब्म् ६.७५९) निषेत्तव्यमिति । अन्यतमेन गृहपतिना बुद्धप्रमुखा भिक्षुसंघा अन्तर्गृहे निमंत्रिताः । स उच्चान्यासनानि प्रज्ञपयितुमारब्धः । आयुष्मानानन्दः अनुकालं प्रविष्टः । तेन दृष्टः य उच्चान्यासनानि प्रज्ञपयन्* । स तेनोक्तः । नैतानि गृहपते भिक्षुप्रतिरूपाण्यासनानि । अपनय । स तान्यपनयितुमारब्धः । भगवांश्च तत्रागतः । जानकाः पृच्छका बुद्धा भगवन्तः । पृच्छति बुद्धो भगवानायुष्मन्तमानन्दम्* । किमिदमानन्द करिष्यसि । बहगवन्नयं गृहपतिर्महार्हाणि शयनासनानि प्रज्ञपयति (म्स्विव्१९६) नैतानि गृहपते भिक्षुप्रतिरूपाणि शयनासनानि । अपनयैतानि । सैषोऽपनयति । मानन्द गृहपतिं वारय । प्रज्ञपयन्तु न सर्वत्रानन्द रिद्धिष्यति । तस्मादनुजानाम्यन्तर्गृहे उच्चासने निषेत्तव्यम्* । नाभिनिपतितव्यम्* । विहारे नैव निषेत्तव्यम्* । निषद्याभिनिपतति सातिसारो भवति । अन्यतमो भिक्षुस्त्रिचीवरको दक्षिणापथात्श्रावस्तीमनुप्राप्तो भगवतः पादाभिवन्दकः । तस्य चर्मकास्तरिका शोभना । स तत्रोपनन्देन दृष्टः । स तेनोक्तः । पिण्डपातिक प्रयच्छ ममैतत्चर्म चैत्याभिवन्दको {fओल्लोwइन्ग्तेxत्रेस्तोरेदच्चोर्दिन्ग्तिब्: <अहं भगवतः पादाभिवन्दकः गच्छामि । स कथयति । भदन्तोपनन्द युक्तमेतन्न युक्तम्* । अहमपि भगवतः पादाभिवन्दकोऽत्रागतः । पिण्डपातिकस्त्वमिति मन्ये । भदन्तोपनन्द एवंरूपचर्मग्रहणे त्वं समर्थो वासमर्थः । पश्य भदन्तोपनन्द येन त्वमसमर्थस्तेनाहं तव नानुप्रयच्छामि ।>} गच्छामि । स कथयति । भदन्तोपनन्द गछ त्वमावासम्* । अहं चैत्याभिवन्दक एवागतः पादाभिवन्दकः । किं त्वं जानीषे असमर्थोपनन्द ईदृशं चर्म समुदानेतुम्* । पश्य भदन्तोपनन्द येन त्वमसमर्थस्तेनाहं तव नानुप्रयच्छामि । राज्ञः प्रसेनजितः कोसलस्य बड्रो नाम गवाध्यक्षः आयुष्मत उपनन्दस्य सप्रेमकः । स तस्य सकाशमुपसंक्रान्तः । यावद्वसन्तकाले चित्रोपचित्रको वत्सो जातः । सैकस्य वत्सस्य पृष्ठं परामृशति । बड्रेणोक्तः । किं भदन्तोपनन्द (म्स्विव्१९७) काङ्क्षसे त्वमस्य मातुः क्षीरम्* । नेदम्* । स कथयति । एतच्च भवतु । अपि तु यस्य भिक्षोरीदृशं चर्मसु अल्पोत्सुकः कुशलपक्षं कुर्यात्* । स कथयति । भदन्तोपनन्द गच्छ । विज्ञातम्* । स प्रक्रान्तः । तेन गोपालस्याज्ञा दत्ता एतद्वत्सकं प्रघात्य चर्म गृहीत्वा भदन्तोपनन्दस्य नीत्वानुप्रयच्छस्व । स तं वत्सकं प्रघात्य चर्म गृहीत्वा संप्रस्थितः । सा गौः पुत्रस्नेहेन हंभारवं कुर्वती पृष्ठतः पृष्ठतः समनुससार । जेतवने प्रविष्टा सा गौः जेतवनद्वारे हंभारवं रवमाना तिष्ठति । जानकाः पृच्छका बुद्धा भगवन्तः । पृच्छति बुद्धो भगवानायुष्मन्तमानन्दम्* । कस्मादानन्द इयं गौः जेतवनद्वारे तिष्ठति । आयुष्मानानन्दः कथयति । भगवन् तस्या वत्सकः चर्मकार्थाय भदन्तोपनन्देन प्रघातापितः । तेनेयं गौः जेतवनद्वारे हंभारवं रवमाना तिष्ठति । भगवानाह । यः कश्चिदादीनवो भिक्षवश्चर्म धारयन्ति । तस्मान्न भिक्षुणा चर्म धारयितव्यम्* । धारयन्ति सातिसारा भवन्ति । उक्तं भगवता । न चर्म धारयितव्यम्* । अन्यतमेन गृहपतिना बुद्धप्रमुखो भिक्षुसंघो निमन्त्रितः । स चर्मकान्यासनानि प्रज्ञपयितुमारब्धः । पूर्ववत्तु न सर्वत्र संपत्स्यते । तस्मादन्तर्गृहे चर्मासने निषेत्तव्यं न निपतितव्यम्* । विहारे न निषेत्तव्यं (८९ = ग्ब्म् ६.७६०) (म्स्विव्१९८) न निपतितव्यम्* । निषीदति निपतति सातिसारो भवति । राजगृहनिदानम्* । पिलिन्दवत्सस्य सदा ग्लानकस्य यानमनुज्ञातम्+ । षड्वर्गिका यानेन गन्तुमारब्धाः । तस्मान्न गन्तव्यं यानेन । स एवादीनवः । तस्माद्द्वाभ्यां गन्तव्यं जीर्णेन वा जरादुर्बलेना ग्लानेन वा अप्रयोगक्षमेण । भिक्षवो जनपदचारिकां चरन्ति । नद्या गच्छन्ति । ते तर्तुं न शक्नुवन्ति पात्रचीवरमुत्तोलयित्वा । एतत्प्रकरणं भिक्षवो भगवत आरोचयन्ति । भगवानाह । भिक्षुणा सन्तरणं शिक्षितव्यम्* । षड्वर्गिका अजिरवतीमुत्तरन्त्यपि स्रोत उत्तरन्त्यपि । यावदातीर्य आगताः । भगिनि उत्तारयाम युष्माकमेवं कुरुध्वम्* । तैस्तासामङ्गप्रत्यङ्गानि परामृष्टानि । भूयः आगच्छत । ताः कथयन्ति । येऽस्माकं स्वामिनापि न प्रदेशा परामृष्टास्ते युष्माभिः परामृष्टाः । ता अवध्यायन्ति क्षिपन्ति विवाचयन्ति । भगवानाह । यः कश्चिदादीनवो भिक्षवो मातृग्रामं स्पृशति । तस्मान्न भिक्षुणा मातृग्रामं स्प्रष्टव्यमिति । उक्तं भगवता । मातृग्रामो स स्प्रष्टव्यः । नगरमनुष्याः (म्स्विव्१९९) उद्यानप्रियाः । तेषामुद्यानगतानामन्यतमा स्त्री पानीयस्यार्थाय नदीमवतीर्णा । सा तृष्यते । तां मनुष्योऽवलोकयन् गच्छति । तेन भिक्षुर्दृष्टः । आर्येण काचित्स्त्री प्लवमाना दृष्टा । दृष्टा एषा प्लवते । दिवसे पानीयं प्रतिवीक्षमाणा तिष्ठति एवं प्राणोऽस्यायते । एतत्प्रकरणं भिक्षवो भगवत आरोचयन्ति । भगवानाह । उत्तारयितव्या । अपराः कथयन्ति मुंचतु । अतिबला {ग्ब्म्: प्रतिबला} भवन्ति । प्रतिमोक्तव्या । अपरा निश्चेष्टा भवन्ति । ता बालिकास्थलं कृत्वावमूर्धिकाः स्थापयित्वा छोरयित्वा गच्छन्ति । ताः शृगालैर्भक्ष्यन्ते । न छोरयित्वा गन्तव्यम्* । रज्यन्ति । एकान्ते स्थातव्यम्* । ये स्वाध्यायकारका भिक्षवस्तैः स्वाध्यायनिका कर्तव्या । ये ध्यायिनस्तैर्मनसिकारः कर्तव्यः । भक्तच्छेदो भवति । ये तत्र गोपालकाः पशुपालका भवन्ति तेषामनुपरितस्तु गन्तव्यम्* । षड्वर्गिका गोपुच्छेन तरन्ति । अन्यतमो गृहपतिः । तस्य गावः । तासां तावदुत्तारोत्तारं कृत्वा यावत्क्षीरमन्तर्हितम्* । (म्स्विव्२००) तेन गोपालकः पृष्टः । कस्मादद्य क्षीरं नास्ति । ते कथयन्ति । आर्यकैः षड्वर्गीयैः पूर्ववत्* । सोऽवध्यायति क्षिपति विवाचयति । तस्मान्न भिक्षुणा गोपुच्छेन तर्तव्यम्* । उक्तं भगवता । न गोपुच्छेन तर्तव्यमिति । भिक्षूणां नदीसन्तरेण विघातो जातः । हस्तिपुच्छेन नेच्छन्ति तर्तुम्* । भगवानाह । पंचानां बालधीयानां पुच्छेन तर्तव्यम्* । हस्त्याजानेयस्य अश्वाजानेयस्य वृषभस्य महिषस्य चमरस्य । अपि तु भृषिणा तर्तव्यम्* । उक्तं भगवता भृषिणा तर्तव्यमिति । षड्वर्गीयैश्चित्रोपचित्राणि कमलमात्राणि स्त्रीपुरुषविप्रतिपन्नानि कृतानि । ते ब्राह्मणगृहपतिभिर्दृष्टाः कथयन्ति । भवन्तः किमिदम्* । ते कथयन्ति । भगवता भृषिणा अनुज्ञाताः । तेऽवध्यायन्ति । आर्य युष्माकं श्रामणकः कामगुणो भवति । एतत्प्रकरणं भिक्षवो भगवत आरोचयन्ति । भगवानाह । न भिक्षुभिश्चित्रोपचित्राणि कमलमात्राणि स्त्रीपुरुषैर्विप्रतिपन्नैर्भृषयो धारयितव्याः । अपि तु द्वौ भृषी । काषायः तारणिकश्च । अनाथपिण्डदेन गृहपतिना मण्डलवाटं कारितम्* । धर्मश्रवणाय (म्स्विव्२०१) काष्ठपादुकाभिर्(८९ = ग्ब्म् ६.७६१) भिक्षव आगताः । तैः स कुट्टिमः काष्ठपादुकाभिः क्षतविक्षतः कृतः । अनाथपिण्डदो गृहपतिः काल्यमेवोत्थाय भगवतः पादाभिवन्दक आगतः । तेन दृष्टम्* । दृष्ट्वा कथयति । आर्याः किमत्र राजा प्रसेनजित्* चतुरो गोणबलकायेन रात्रिं वासमुपगतः । ते कथयन्ति । न राजा अपि तु भिक्षवः काष्ठपादुकाभिरागताः । तैरेतद्विनाशितम्* । सोऽवध्यायते । एतत्प्रकरणं भिक्षवो भगवत आरोचयन्ति । भगवान् संलक्षयति । यः कश्चिदादीनवो भिक्षवः काष्ठपादुकां धारयन्ति । तस्मान्न हि भिक्षुणा काष्ठपादुका धारयितव्या । उक्तं भगवता न भिक्षुणा काष्ठपादुका धारयितव्या । भिक्षवोऽन्तर्गृहे उपगच्छन्ति । तेषां पादुकाः कर्दमेन क्लिद्यन्ते । एतत्प्रकरणं भिक्षवो भगवत आरोचयन्ति । भगवानाह । अन्तर्गृहे भिक्षुणा काष्ठपादुका धारयितव्या । शुद्धा ब्राह्मणगृहपतयः संघे भिक्षूणां काष्ठपादुकामनुप्रयच्छन्ति । भिक्षवो न प्रतिगृह्णन्ति । ते कथयन्ति । आर्य यदा बहगवांल्लोके नोत्पन्नस्तदा तीर्थ्या दक्षिणीया आसन्* । यावद्भगवानाह । प्रतिग्रहीतव्या । प्रतिगृह्य सांघिकायां वर्चस्कुट्यां वा प्रस्रावकुट्यां प्रक्षेपयितव्या । उद्दानम्* । वंशपत्रा च श्रोणश्च अनुज्ञाता हि गुप्तये । तिर्यग्बद्धिका च पुरा पार्ष्णी पुटी च । (म्स्विव्२०२) उक्तं भगवता । न काष्ठपादुका धारयितव्या इति । ते वंशपत्रपादुकां धारयन्ति । स एवादीनवः । भगवानाह । न वंशपत्रपादुका धारयितव्या । ते मुंजपादुकां धारयन्ति । स एवादीनवः । भगवानाह । न मुंजपादुका धारयितव्या । ते रज्जुपादुकां धारयन्ति । स एवादीनवः । भगवानाह । न रज्जुपादुका धारयितव्या । उक्तं भगवता । न रज्जुपादुका धारयितव्या इति भिक्षूणां वातशोणितं भवति । तेषां परिषेकेण चर्मपादुकाः क्लिद्यन्ते । एतत्प्रकरणं भिक्षवो भगवत आरोचयन्ति । भगवानाह । यस्य वातशोणितं भवति तेन रज्जुपादुका धारयितव्या । यदा श्रोणः कोटीविंशः प्रव्रजितस्तदा पादतलेषु सुवर्णवर्णानि रोमाणि चतुरंगुलमात्राणि षड्वर्गिकैर्दृष्टानि । ते दृष्ट्वा कथयन्ति । एष तावन्नवनीतपिण्डः एकान्तघटने शासने किं प्रव्रज्य करिष्यति । तेन श्रुतम्* । तस्य श्रुत्वाभिमानो जातः । स आयुष्मत आनन्दस्य सकाशमुपसंक्रान्तः । उपसंक्रम्यायुष्मन्तमानन्दं पृच्छति । कतमो भदन्तानन्द एकान्तघटनः समाधिरुक्तो भगवता । चंक्रम्याधिगमः आयुष्मन् श्रोण । तेन शीतवनं श्मशानं गत्वा चंक्रमेऽधिष्ठितः । तस्य चंक्रमतः स्वर्णवर्णानि रोमाणि चतुरंगुलमात्राणि शीर्णानि । ततः पश्चाच्चर्म पश्चाच्छोणितम्* । स यावदेकस्माच्चंक्रमशिरसोऽपरं गच्छति तावत्तस्यैकस्मिन् (म्स्विव्२०३) चंक्रमशिरसि काकाः शोणितं पिबन्ति द्वितीयेऽपि । धर्मता खलु बुद्धा भगवन्तो जीवन्तस्तिष्ठन्तो ध्रियमाणा यापयन्तः कालेन कालं नदीचारिकां चरन्ति विस्तरेण यावदेवास्मिंस्त्वर्थे बुद्धो भगवान् विहारचारिकां चरन् (९० = ग्ब्म् ६.७६२) येनायुष्मतः श्रोणस्य कोटीविंशस्य विहारस्तेनोपसंक्रान्तः । अद्राक्षीद्भगवान् श्रोणस्य कोटीविंशस्य चंक्रमम्* । दृष्ट्वा च पुनर्जानकाः पृच्छका बुद्धा भगवन्तो जानन्तः पृच्छन्ति । पृच्छति बुद्धो भगवानायुष्मन्तमानन्दमेकान्तघटकस्य भिक्षोश्चंक्रमम्* । श्रोणस्य भदन्त कोटीविंशस्य । तस्मादानन्द अनुजानामि श्रोणेन कोटीविंशेन एकपलाशिका उपानहा धारयितव्या न द्विपुटी न त्रिपुटी । सा चेत्क्षयधर्मिणी भवति अर्गलकं दत्वा धारयितव्या । अथायुष्मानानन्दो येनायुष्मान् श्रोणकोटीविंशस्तेनोपसंक्रान्तः । उपसंक्रम्य श्रोणं कोटीविंशमिदमवोचत्* । यत्खल्वायुष्मन् श्रोण जानीथाः शास्त्रा ते एकपलाशिकोपानहा अनुज्ञाता न द्विपुटीति विस्तरः । किं भदन्तानन्द सर्वसंघस्य आहोस्विन्ममैवैकस्य । तवैवैकस्य । अकोप्या भदन्तानन्द शास्तुराज्ञा । सचेदहं धारयिष्यामि स्यान्मे अतोनिदानं सब्रह्मचारिणो वक्तारः । प्रभूतं तत्र श्रोणकोटीविंशेन प्रव्रज्यावाप्तं यश्चम्पामसाधारणां सप्तहस्तिकां चानीकमपहाय प्रव्रजितः स इदानीमुपानहकल्पमात्रे सक्तः । अपि तु यदि भगवान् (म्स्विव्२०४) समागम्य सर्वसंघस्यानुजानीयादेवमहं धारयेयम्* । एतत्प्रकरणमायुष्मानानन्दो भगवतो विस्तरेणारोचयति । भगवानाह । तस्मादनुजानामि श्रोणं कोटीविंशमागम्य सर्वसंघेनैकपलाशिकोपानहा धारयितव्या न द्विपुटीति विस्तरः । अन्यतमो महल्लो भगवतः पुरस्तात्सोपानत्कश्चंक्रमति । अथ भगवांस्तं भिक्षुमिदमवोचत्* । अपेहि भिक्षो मा मे पुरतस्तिष्ठ । तत्र भगवान् भिक्षूनामन्त्रयते स्म । यस्तावदसौ भिक्षवः शास्ता सर्वलोकामिषसंमृष्टो भवति तस्य तावच्छास्तुः श्रावका नैव लघु लघ्वेव पातकव्रतमापद्यन्ते । कुतः पुनः सर्वलोकामिषविसंयुक्तो विहरामि । भगवान् संलक्षयति । यः कश्चिदादीनवो भिक्षवः उपानहौ धारयन्ति तस्मान्न भिक्षुणा उपानहा धारयितव्या इति । अन्यतमश्शोभितः प्रव्रजित इति । तस्योदकस्थानकं भग्नम्* । स पादधावनिकायां पादौ प्रक्षाल्य पानीयेनास्यं {म्स्: पानीयस्या[प्]यं} पूरयित्वा मयूरगत्या संप्रस्थितः । स षड्वर्गिकैर्दृष्टः । ते कथयन्ति । आयुष्मन्तो विना वादित्रेण भिक्षुर्नृत्यति । वादित्रं वादयतेति । ते मुखवादित्रं वादयितुमारब्धाः । ते भिक्षुभिर्भर्त्स्यन्ते । किमौद्धत्यं कुरुत । ते कथयन्ति । किमत्रौद्धत्यम्* । न पश्यत यूयं भिक्षुं विना वादित्रेण नृत्यन्तम्* । एतत्प्रकरणं भिक्षवो भगवत आरोचयन्ति । जानका पृच्छका बुद्धा भगवन्तो जानन्तः पृच्छन्ति । पृच्छति बुद्धो भगवांस्तं भिक्षुं किमभिप्रायेण भिक्षो एवं कृतम्* । शयनासनगुप्त्यर्थं भदन्त । अनापत्तिरस्य भिक्षोः (म्स्विव्२०५) शयनासनगुप्त्यर्थमेव कुर्वतः । तस्मादनुजानामि शयनासगुप्त्यर्थमेकपलाशिकोपानहा धारयितव्या । न द्विपुटी न त्रिपुटी । सा चेत्क्षयधर्मिणी भवत्यर्गलकं दत्वा धारयितव्या । उक्तं भगवता । एकपलाशिकोपानहा धारयितव्या इति । अन्यतमस्य पिण्डपातिकस्य (९० = ग्ब्म् ६.७६३) गृहपतिरभिप्रसन्नः । सोऽनुपानहकः श्रावस्तीं पिण्डाय प्रविष्टः । स तेन गृहपतिना अनुपानहको दृष्टः । दृष्ट्वा च कथयति । आर्यस्य नास्त्युपानहः । आगच्छ चर्मकारसकाशं गच्छामः । उपानहौ दापयिष्यामि । स चर्मकारसकाशं गतः । तेन चर्मकार उक्तः । आर्यस्योपानहावनुप्रयच्छेत्युक्त्वा प्रक्रान्तः । तेन खलु समयेन द्वयोरेकपलाशिका उपानहाः क्रियन्ते भिक्षूणामुपरतकानां च । स भिक्षुर्भूयो भूयश्चर्मकारसकाशमुपसंक्रामति । स नानुप्रयच्छति । अपरेण समयेन भूयस्तेन गृहपतिना स भिक्षुर्दृष्टोऽनुपानत्कः । दृष्ट्वा कथयति । आर्य न तेन शिल्पिना उपानहा दत्ता । गृहपते न श्रुतं त्वया दुर्लभः शिल्पी सत्यजल्पक इति । भूयो भूय उपसंक्रमामि नानुप्रयच्छति । स कथयति । आर्यागच्छ गृहं गच्छामः । स तेन गृहं नीत्वा प्रणीतेनाहारेण सन्तर्प्य बहुपुटी उपानहा दत्ता । भिक्षुः कथयति । गृहपते भगवता नानुज्ञातम्* । स कथयति । आर्य गच्छ एकपुटीं कृत्वा धारयिष्यसि । स तां गृहीत्वा विहारं गतः । स तामादाय शस्त्रकं च वृक्षमूलं गत्वा उत्पाटयितुमारब्धः । (म्स्विव्२०६) भगवांश्च तं प्रदेशमनुप्राप्तः । भिक्षो किं क्रियते । भगवता बहुपुटी उपानहा प्रतिक्षिप्ता । मम च बहुपुटी एव संपन्ना एकपुटीं कृत्वा धारयिष्यामि । अथ भगवत एतदभवत्* । दास्यन्ति बतामी श्राद्धा गृहपतयः श्रावकाणां बहुपुटी उपानहा तस्मादनुजानामि बहुपुटी उपानहा आगारिकविनिर्मुक्तेन कृत्वा धारयितव्या । आयुष्मानुपाली यावत्पृच्छति । यदुक्तं भदन्त भगवता बहुपुटी उपानहा आगारिकविनिर्मुक्तेभिः कृत्वा धारयितव्या । कियता भदन्त आगारिकविनिर्मुक्ता वक्तव्या । अन्तत उपालिन् सप्त वाष्ट वा पदानि परिमुक्तानि भवन्ति । वैशाल्यां निदानम्* । तेन खलु समयेन वैशाल्यामेवंरूपा उपानहाः क्रियन्ते । तद्यथा हिनिहिनायमानाः किणिकिणायमाना मेण्डविषाणिका बोधिपटपत्रकाः चित्रोपचित्राः पंचकार्षापणमूल्याः । षड्वर्गिकैर्हि दृष्टो भवति उपानहा यावत्पिधाय ते पार्ष्णिपादाङ्गुष्ठेन पाटयित्वा ग्रीवायां मेल्लयित्वा गृह्णन्तीदं ते दानं चित्तालङ्काराय । सामन्तकेन शब्दो विसृतः । आर्यका उपानहान्येवंरूपाणि हरन्ति । एकायुवत्या जामाता आगतः । तस्य तयोपानहा (म्स्विव्२०७) दत्ता । उक्तश्चार्या उपानहां हरन्ति । अप्रमत्तो भविष्यसि यथा न हरापयसीति । पिण्डपातिकः पिण्डपातं प्रविशति । तेन दृष्टः स एकस्मिन् गृहे प्रविष्टः । असावपि तत्रैव प्रविष्टः । स तस्माद्गृहान्निर्गत्यापरं गृहं प्रविष्टः । पिण्डपातिकोऽपि तत्रैव प्रविष्टः । स कथयति । आर्य कस्यार्थे त्वं मां पृष्ठतः पृष्ठतः समनुबद्धः । किमिच्छस्युपानहामपहर्तुम्* । भद्रमुख नाहं तवोपानहामपहरामि त्वहं पिण्डपातं प्रविशामि । स कथयति । आर्य हर वा मा वापि तु युष्माकं सामन्तकेन शब्दो विसृतः - आर्यका उपनाहा हरन्तीति । एतत्प्रकरणं भिक्षवो भगवत आरोचयन्ति । अथ भगवत एतदभवत्* । यः कश्चिदादीनव इह भिक्षव एवंरूपामुपानहां धारयन्ति हिनिहिनिका इति विस्तरः । (९१ = ग्ब्म् ६.७६४) तस्मान्न भिक्षुणा एवंरूपा उपानहा धारयितव्या हिनिहिनिका इति विस्तरः । भिक्षुरिमामेवंरूपामुपानहां धारयति सातिसारो भवति । श्रावस्त्यां निदानम्* । तेन खलु समयेन भिक्षूणामुपानहाभिः पादपृष्ठे व्रणानि कृतानि । ब्राह्मणगृहपतिभिर्दृष्टानि । केन युष्माकं व्रणानि कृतानि । उपानहाभिः । किं न यूयं तिर्यग्बद्धा धारयत । भगवता नानुज्ञातम्* । एतत्प्रकरणं भिक्षवो भगवत आरोचयन्ति । भगवानाह । तिर्यग्बद्धिका धारयितव्या । गृध्रकूट एव पर्वतो राजगृहे । पर्वतमभिरुहतां पादाङ्गुष्ठेषु क्षतानि (म्स्विव्२०८) भवन्ति । ते ब्राह्मणगृहपतिभिर्दृष्टाः । केन युष्माकं पादाङ्गुष्ठेषु क्षतानि । गृध्रकूटपर्वतमभिरुहताम्* । न यूयं पुटापुटीं धारयत । नानुज्ञातं भगवता । एतत्प्रकरणं भिक्षवो भगवत आरोचयन्ति । भगवानाह । धारयितव्या । तत्रैवावतरतां पार्ष्ण्या क्षता भवन्ति । पूर्ववद्यावद्धारयितव्या । उद्दानम्* । नालाम्बुजा मुण्डपूला पूला हैमवतेषु च । ऋक्षचर्ममनुज्ञातमारा शस्त्री च बद्धिका ॥ श्रवस्त्यां निदानम्* । भिक्षूणां नवेन तृणेन पादाः शूलिताः । ब्राह्मणगृहपतयः कथयन्ति । केन युष्माकं पादाः शूलिताः । नवेन तृणेन । यूयं नालाम्बुजं किं न धारयत । नानुज्ञातं भगवता । एतत्प्रकरणं भिक्षवो भगवत आरोचयन्ति । भगवानाह । नालाम्बुजा (म्स्विव्२०९) धारयितव्याः । एवं वृद्धे तृणे मुण्डपूला धारयितव्याः । पूला हैमवतेषु च इति । यदा विरूढकेन मोहपुरुषेण कापिलवास्तवः शाक्याः प्रघातिताः तत्र केचिदुत्तरापथं गताः केचिद्यावन्नैवालं प्रविष्टाः । श्रावस्तीया वणिजो नैवालं गताः । तैर्वणिजः पृष्टाः । आर्यानन्दो ज्ञातिवत्सलो नास्माकमवलोकयतीति । यावत्तैस्तस्यारोचितम्* । स नैवालं प्रविष्टः । तस्य हिमेन पादौ स्फुटितौ । स भिक्षुभिरुच्यते । तव पादौ किमर्थमिदानीमीदृशौ । हिमेन । ते तव ज्ञातयः किं कुर्वन्ति । पूलां धारयन्ति । त्वं किमर्थं न धारयसि । भगवता नानुज्ञातम्* । एतत्प्रकरणं भिक्षवो भगवत आरोचयन्ति । भगवानाह । हैमवतेषु जनपदेषु पूला धारयितव्याः । आयुष्मानुपाली बुद्धं भगवन्तं पृच्छति । यदुक्तं भदन्त भगवता हैमवतेषु जनपदेषु पूला धारयितव्या इति । कतमे हैमवता जनपदाः । यत्रोदकस्थालकं श्यायति । भिक्षोर्लुब्धकोऽभिप्रसन्नः । तस्य ऋक्षचर्म संपन्नम्* । स भिक्षोरनुप्रयच्छति । स न गृह्णाति । भगवांश्च तं प्रदेशमनुप्राप्तः । जानका पृच्छका बुद्धा भगवन्तः । पृच्छति बुद्धो भगवानायुष्मन्तमानन्दम्* । किमेष आनन्द भिक्षोर्लुब्धकः पृष्ठतः (म्स्विव्२१०) पृष्ठतः समनुबद्धः । एतत्प्रकरणं भिक्षवो भगवत आरोचयन्ति । भगवानाह । दुर्लभा आनन्द लुब्धकस्य श्रद्धा । यदि शतसहस्रमपि लभति सर्वं प्रघातयति । तस्माद्यदि लुब्धको रिक्षचर्मानुप्रयच्छति (९१ = ग्ब्म् ६.७६५) ग्रहीतव्यम्* । गृहीत्वा गन्धकुटिद्वारे प्रज्ञपयितव्यं पादान्ते वा । सर्वं रिक्षचर्म चाक्षुष्यं स्वस्ति । भिक्षोरुपानहाश्छिन्नाः । स चर्मकारसकाशं गच्छति । यावद्दीर्घकालं गत्वा स्वबुद्धेर्वारयिष्यतीति । सोऽन्यतमेन भिक्षुणा दृष्टः । यावदस्ति मम कौशलं यदि भगवाननुजानीयाद्ग्रन्थयेयम्* । एतत्प्रकरणं भिक्षवो भगवत आरोचयन्ति । भगवानाह । यस्य कौशलं विद्यते तेन प्रतिगुप्ते प्रदेशे स्थित्वा ग्रन्थयितव्यम्* । स कथयति । भगवतानुज्ञातः । ग्रन्थये । तत्रारया शस्त्रकेण बद्धिकया च प्रयोजनम्* । एतत्प्रकरणं भिक्षवो भगवत आरोचयन्ति । भगवानाह । तस्मादनुजानामि भिक्षुणा आरा शस्त्रकं बद्धिका च धारयितव्याः । चर्मवस्तु समाप्तम्* ।