ओं नमो रत्नत्रयाय ॥ पूर्वावदानचरितेषु सुदुष्करेषु गीतेषु यस्य सुरकिंनरसुन्दरीभिः । अद्यापि चन्द्रकिरणैरिव संकुचन्ति माराङ्गनावदनपङ्कजकाननानि ॥ १ ॥ सौभाग्यहृद्यवपुषः परमाद्भुतस्य यस्याल्पपुण्यजनदुर्लभदर्शनस्य । संपादिताभिमतलोकमनोरथस्य चिन्तामणेरिव परार्थरसैकवृत्तिः ॥ २ ॥ यः सर्वदा परसुखैकरसो बभूव दुःखेन दुःखमगमत्परमं परेषाम् । अत्यर्थमाहितमहाकरुणागुणस्य यस्यात्मदुःखसुखमन्तरितं तदेव ॥ ३ ॥ विच्छि x मावयसि यस्य शिरः परार्थ x x x सन्नयनपङ्कजतामवाप । स्वार्थं पुन x x x x x सितातपत्रा पृथ्वी बभूव निशितेव कृपाणधारा ॥ ४ ॥ लोकोपकारनिरतप्रकटोदयेन शुल्क x x x x x x गुणोज्ज्वलेन । दोषान्धकारभिदुरेण मनोरमेण येनोदितेन शशिनेव जगत्प्रकाशम् ॥ ५ ॥ चूडाविभूषणमिवोत्तमरत्नकल्पमूढं शिरोभिरुरुभिः फणिनां x x x । यच्छासनं शुभमखण्डविशुद्धवृत्तं पातालमूर्धनि लयतिमिरं प्रमार्ष्टि ॥ ६ ॥ धर्माम्बुवाह इव योऽभ्युदितो हिताय धर्मामृतं जलमिवैकरसं ववर्ष । तापाप x x x x x x x x x x x x यदनेकरस x x x x x x x x x x x x x x ॥ ७ ॥ विस्तीर्णनिम्नविमलप्रकटाश्रयेषु पात्रेषु सर्वपरिमर्दसहेषु येषु । तत्संस्थितं भवति सर्वजनोपकारं x x x x x x x x x x x x x x ॥ ८ ॥ तज्जागरं मरणजन्मजरापहारि ये नाप्नुवन्ति न पिबन्ति न धारयन्ति । ते माहिता बहुलमोहमहामदेन x x x x x x x x x धमाद्रियन्ते ॥ ९ ॥ चक्षुर्यदेकममलं जगतोऽखिलस्य साधारणं त्रिभुवनस्य यदेकदीपः । तच्छासनं समधिगम्य यदुत्सृजन्ति मोहस्य तद्विलसितं परमाद्भुतस्य ॥ १० ॥ शिक्षा x x x विदितेष्विव बोधिसौधसोपानपद्धतिपदेषु पदं दधानाः । तुङ्गां प्रयान्ति पदवीमनिवर्तमाना भूमिं निजामवतरन्ति विवर्तमानाः ॥ ११ ॥ जन्मार्णवं परमदुस्तरमुत्तितीर्षुः शीलप्लवं क इह हस्तगतं जहाति । कान्तारमध्यपतितः कथमार्यसार्थाद्भ्रष्टो न शोचति चिरं सुपथानभिज्ञः ॥ १२ ॥ संसारभूधरदरीजठरप्रपातादुत्थातुमुद्यतपराः परमान्धकारात् । मुञ्चन्ति ये जिनगुणावलिमन्तराले वेगेन ते विषमपातमधः पतन्ति ॥ १३ ॥ एकाकिनोऽपि मनसा नियमं प्रकल्प्य ये कर्मणा समुदितेन समुन्नयन्ति । ते साधवो भुवनमण्डलमौलिभूतास्तैरेव यान्ति गुरुतां गुरवः सुशिष्यैः ॥ १४ ॥ लब्ध्वा गुणौघजननीं जननीमिवार्यामत्यन्तशुद्दहृदयामनुवर्तमानाः । तेजस्विनः सुखमसूनपि संत्यजन्ति सत्यस्थितिव्यसनिनो न पुनः प्रतिज्ञाम् ॥ १५ ॥ तिष्ठन्तु तावदिह सर्वजनापवादाः सर्वाश्च पापगतयो निरयाश्च घोराः । सद्यो जहाति सहजां प्रकृतिं यदेष दुःखं ततः किमपरं भुवि सज्जनस्य ॥ १६ ॥ यः प्रप्य नावमिव धर्ममयीं विशालां भूयो जहाति पदवीं मुनिभिः प्रक्लृप्ताम् । संसारसागरविवर्तननर्तनेषु चेतःस्पृहा तरलिता नियमेन तस्य ॥ १७ ॥ संसारचक्रमनिशं परिवर्तमानमारुह्य यः सुखमवैति विवर्तमानः । सोऽवश्यमेव तरिवशं मसः क्रमेण सर्वाः समाश्च विसमाश्च गतीः प्रयाति ॥ १८ ॥ अत्युग्रगन्धमशुचिप्रकरोपरुद्धमत्यन्तसंकटमुपोढघनान्धकारम् । आविश्य गर्भनिलयं निरयं यथैव दुःखं महत्स सहते परिपिण्डताङ्गः ॥ १९ ॥ कालक्रमेन स ततो दृढतैलयन्त्रनिष्पीड्यमान इव याति भुवं कथंचित् । सद्यस्तथापि यदयं न जहाति जीवं दुःखोपभोगगतिदुर्लभि तत्तदेव ॥ २० ॥ तत्र स्थितं तमशुचौ परिवर्तमानमार्द्रोल्बवेष्टिततनुं बहलोग्रगन्धम् । पूर्वस्मृतिव्रणमिवोल्बणदोषपाकं भिन्नं जहाति घृणयेव निपीड्यमानः ॥ २१ ॥ सर्वोपचारविवशं शिथिलाकुलाङ्गमुत्सृज्य बाल्यमुपजातकणैरभावः । तुङ्गेषु यौवनगिरीन्द्रदरीतटेषु मोहायते विषयदृष्टिविषालयेषु ॥ २२ ॥ स ततोऽपि पतत्यचेतनः पतितो नैव जहाति विक्रियाम् । अजरामरमात्मविग्रहं ललितं मन्यत एवं बालिशः ॥ २३ ॥ स विहाय मुनीन्द्रसेवितं सुपथं यात्यपथेन मोहितः । रभसेन परां विचूर्णयन् गजवज्जातमदो निरङ्कुशः ॥ २४ ॥ अथ तस्य बलादनिच्छतः शिरसि न्यस्तपदा सुनिर्दयम् । निशितं पलिताङ्कुशं जरा करिणो हस्तिपकीव यच्छति ॥ २५ ॥ स तथापि विजिह्यचेष्टितः कुशलेनापि भयादिवोज्झितः । सुकृतानि करोति मोहितः शरवत्स्वात्मवधाय पुष्पितः ॥ २६ ॥ अथ तं प्रहसन्निवान्तकः पलितौघैर्दर्शनैरिवोल्बणैः । शिरसि ग्रसितुं प्रवर्तते निरुपायप्रशमो जरारुजः ॥ २७ ॥ विदलन्ति ततोऽस्य सन्वयो मतिरुत्क्रामति हीयते गतिः । क्षयमेति वपुः परिश्लषं नियतं वर्धत एव जीविताशा ॥ २८ ॥ क्रमशश्च निमीलितेन्द्रियो हतशक्तिर्विषयेषु लालसः । उपगच्छति यामयं दशां नरके सा यदि भीम एव सः ॥ २९ ॥ कथमेवमिदं मया कृतं कथमेवं न कृतं हता गतिः । कथमेवमयं मयास्तकः शिरसि न्यस्तपदो न लक्षितः ॥ ३० ॥ इति x x x चित्तमाधिभिः कुकृतैः शोकमयैरुपद्रुतः । व्यधितेन सवाष्पवारिणा करुणं बन्धुजनेन वीक्षितः ॥ ३१ ॥ विनिपीडितमर्मबन्धनस्तिमिरं घोरतरं विशन्निव । विजहाति निजं कडेवरं दयितं यत्नपरेण रक्षितम् ॥ ३२ ॥ स विरौति गृहीतमूर्धजो यमदूतैर्दृढपाशसंयतः । न शृणोति जनोऽस्य भाषितं स्वकृताक्रन्दरवादिवाकुलः ॥ ३३ ॥ प्रस्तारशैलसरिदन्तरदुर्गमेषु मार्गेषु तीक्ष्णतरकण्टकसंकटेषु । घोरैः कृतान्तपुरुषैर्यमदण्डघातमाकृष्यते गलनिषेवितकालपाशः ॥ ३४ ॥ दूरान्निरीक्ष्य विमलं सलिलं पिपासुरभ्येति गाढतृषितो यदयं तदेव । केशौघशैवलविमिश्रितपूतिपूयपङ्कापङ्कितं क्षतजवं जलता प्रयाति ॥ ३५ ॥ वेलानिलाकुलितशीकरशीतसानुमानीलचन्दनतरुं मलयं प्रयाति । सोऽप्यस्य चण्डवनदावशिखावलीढशीर्णोल्मुकप्रकरदन्तुरतां प्रयाति ॥ ३६ ॥ यद्येति वारिनिधिमुद्वतभीमलोलकल्लोलभेदजनितोल्वणफेनहासम् । सोऽप्यस्य तप्तविषदारुणसैकताभ्रविभ्रान्तकर्कशमरुन्मरुतां प्रयाति ॥ ३७ ॥ तत्र स्थितस्य जलदागमशंसिनोऽस्य साङ्गारधूमकुलिशोपलविस्फुलिङ्गम् । विद्युल्लताकनकराजिपिशङ्गमङ्गे नाराचवर्षमभिवर्षति वारिवहः ॥ ३८ ॥ तापार्दितस्य दहनं तु हितानिलोऽपि शीतार्दितस्य दहनोऽपि करोति शीतम् । अत्युग्रकर्मपरिणामविमोहितस्य विश्वं तदास्य विपरीतमिदं विभाति ॥ ३९ ॥ शूचीमुखस्य बहुयोजनभीमकुक्षेरार्तस्य वारिपिबतोऽपि महासमुद्रे । अप्राप्त एव पृथुकण्ठदरीप्रपातश्लेष्मोष्मणा जललवः परिशोषमेति ॥ ४० चञ्चच्छटानिक x पीवरसारमेयदंष्ट्राङ्कुराग्रकुलिशक्षतचूर्णिताङ्गः । क्षाराम्बुपूर्णतरवैतरणीतटेषु निष्कृष्यते विषमकोटिशितोपलेषु ॥ ४१ ॥ धावञ्जवेन निशितक्षुरसंस्तरेषु विच्छिन्नमूर्तिरसिपत्त्रलतावनेषु । कूपे पतत्यशरणः शितशूलशक्तिप्रासासिहासनिजितान्तकवक्त्ररन्धे ॥ ४२ ॥ तीव्रातपक्वषितदुःसहाखिन्नदेहो वृक्षान्निरीक्ष्य घननीलदलानुपैति । तत्पत्त्रशस्त्रशतपातविभिन्नमूर्तिस्तत्रैव तिष्ठति चिरं विरुतैकबन्धुः ॥ ४३ ॥ पर्यन्तनिर्गतशिखाशतविस्फुलिङ्गमालाकुलज्वलितमण्डनमण्डिताभिः । प्रेमान्तरप्रणयनिर्दयमङ्गनाभिरालिङ्ग्यते क्रकचकर्कशविग्रहाभिः ॥ ४४ ॥ शैलाभभीषणविसंकटमेषयूथसंघट्टचूर्णितविशीर्णसमस्तगात्रः । आपातवातलवशैत्यसमर्पितासुः संचूर्ण्यते पुनरसौ शतशस्तथैव ॥ ४५ ॥ उत्त्रासितो मुखरखड्गशिवासहस्रैरारोहति द्रुतपदं पुनरेव रौद्रान् । तां कूटशाल्मलिमधोमुखकण्ठकौघनिर्भिद्यमानवपुरर्पितगाढशल्यः ॥ ४६ ॥ मृत्योः करान्तगलितैरिव कालपाशैराशीविषैर्धृतफणैर्दृढसंयतस्य । उत्पाटयन्ति नयने स्फुरतः प्रसह्य तत्र स्थितस्य बकवायसकङ्कगृध्राः ॥ ४७ ॥ तेषां मुखैः कुलिशकोटिनिभैः प्रसह्य निद्रायमानवपुरेष कृतार्तनादः । लोहोन्मुखप्रचुरपीवरतीक्ष्णशङ्कुनिर्भिन्नमूर्तिरवरोहति नष्टचेताः ॥ ४८ ॥ आदीप्तशूलशितशल्यविभिन्नदेहास्तत्रैव केचिदवरोढुमशक्नुवन्तः । घोरैर्यदा निशितशस्त्रमुखैरयोभिराकृष्यमाणविसरद्गलितान्त्रसूत्राः ॥ ४९ ॥ केचित्पतन्ति विषमेषू गिरेस्तटेषु केचित्परिक्वषिततैलकटाहकुक्षौ । उत्तप्तवालुकभुवं विसृतस्फुलिङ्गामेन्य विशन्ति पदसङ्गमनाप्नुवन्तः ॥ ५० ॥ एके पुनः सिमिसिमायितमूक्ष्मजन्तुसंघातजर्जरितसूनविपूतिकायाः । संचालमात्रमपि हर्तुमशक्नुवन्तो जीवन्ति कर्ममयपाशनिबद्धजीवाः ॥ ५१ ॥ अस्थीन्यपि प्रणयता रहितोपमेन शीतेन जर्जरितवेपितपिण्डिताङ्गाः । उत्पन्नभिन्नपिटका शतजातजन्तुजग्धक्षतश्रुतसमज्जवशालशीकाः ॥ ५२ ॥ संदष्टलग्नदशनास्तनुलोमकेशाः संघट्टितव्यधितलोचनकर्णकण्ठाः । आ चेतसो जडतरत्वमुपेतकायास्तिष्ठन्ति शीतनरकेषु भृशं नदन्तः ॥ ५३ ॥ विकीर्णबहलोग्रगन्धकटुधूमधूम्रान्तरं विजृम्भितशिखाकरप्रकररुद्रदिग्मण्डलम् । सितास्थिसकलाटलीरचितभूषणं भीषणं प्रवृत्तमिव भैरवं ससुजचर्म हाहारवम् ॥ ५४ ॥ चटच्छढदिति क्वचित्स्फुरदुरुस्फुलिङ्गाकुलं छमच्छमदिति क्षणस्थगितजृम्भितं मेदसि । कटत्कटदिति क्वणन्तमुरसोऽस्थिरन्ध्रान्तरे पतन्ति नरकानलं विजितकल्पकालानलम् ॥ ५५ ॥ पुराणतृणजर्जरज्वलितपर्शुका x x x x x x x x लतालवो धगिति वान्तदीप्तार्चिषः । स्फुटज्जठरनिःसृतप्रसरदन्त्रसंत्रासिताः विमुक्तगुरुघर्घरध्वनितमात्रशेषक्रियाः ॥ ५६ ॥ निरीक्ष्य विवरान्तरं मुहुरपावृतं दूरतः प्रयान्ति कथमप्यमी प्रमतदुःखमोक्षाश्रयाः । यदा तदपि घट्टितं भवति कर्मपट्टैर्दृढैस्तदा विफलवाञ्छिताः किमपि यान्ति दुःखान्तरम् ॥ ५७ ॥ ज्वलन्निशिततोमरप्रकरवर्षणानन्तरं द्रवीकृतमयोरसं दहनरश्मिमालाकुलम् । पिबन्ति गलदस्रवो नरकपालदण्डाहता मुखश्रवणनासिकाविवरलब्धधूमोद्गमाः ॥ ५८ ॥ आदग्धविस्फुटितनेत्रशिरः कपालमस्तिष्कदीपितपिशङ्गशिखाकलापः । शुष्केन्धनप्रकरनिर्दयतामुपैति शोकाग्निकोष इव गात्रचयेषु तेषाम् ॥ ५९ ॥ ते जन्तवो गिरिनदीजललोलजीवा औष्ठ्यं तदेव नरकेषु त एव चाग्निः । कर्माणि तत्खलु तथा परिणामयन्ति सर्वं यथा परमदारुणमाविभाति ॥ ६० ॥ आत्मीयकर्मविवशाकुलवेष्टितस्य मुक्तस्य पापनिलयान्निरयां कथंचित् । लोकेष्वनन्तगतिभेदभयाकुलेषु मानुष्यकं परमदुर्लभमेव जन्तोः ॥ ६१ ॥ म्लेच्छेषु वा नरकपालसमव्रतेषु तिर्यक्षु वा कृतपरस्परभक्षणेषु । जातिं लभेत यदि तत्र तदेव शीलमासेवते पतति येन पुनः प्रपातम् ॥ ६२ ॥ यत्प्राप्य जन्मजलधेरपि यान्ति पारमारोपयन्ति शिवमुत्तमबोधिबीजम् । चिन्तामणेरपि समभ्यधिकं गुणौघैर्मानुष्यकं क इह तद्विफलीकरोति ॥ ६३ ॥ अत्यन्तदुर्लभमुपेत्य मनुष्यभावं यद्वाञ्छितं तदभिवाञ्छितमेव कुर्यात् । चण्डानिलाकुलितदीपशिखाचलस्य न ह्यायुषः क्षणमपि स्थितिनिश्चयोऽस्ति ॥ ६४ ॥ श्वः कार्यमेतदिदमद्य परं मुहूर्तादेतत्क्षणादिति जनेन विचिन्त्यमाने । तिर्यग्निरीक्षणपिशङ्गितकालदण्डः शङ्के हसत्यसहनः कुपितः कृतान्तः ॥ ६५ ॥ आयाति फुल्लकुसुमः कुसुमागमोऽयमेषा शशाङ्कतिलका शरदागतेति । सर्वः प्रहृष्यति जनो न पुनर्ममैतदायुः प्रहीणमिति याति परं विषादम् ॥ ६६ ॥ आसन्नपीनशशिमण्डलमण्डनासु विश्रान्तवारिगुरुवारिदमेखलासु । निःसङ्गमासु गिरिशृङ्गवनस्थलीषु धन्या नयन्त्यनिलचञ्चलशीलमायुः ॥ ६७ ॥ किं सा रतिर्भवति नन्दनभूमिकासु दिव्याङ्गनाजघनपृष्ठशिलातलासु । या मुग्धमुग्धहरणीगणसेवितासु निःसङ्गचारुसुभगासु वनस्थलीषु ॥ ६८ ॥ दिव्याङ्गनापरिमलाविलये निभिन्नसंतानकस्तवकहासवितण्वनीषु । किं सा रतिः सुरसरित्सु विविक्तरम्यतीरासु या शुचिजलासु वने नदीषु ॥ ६९ ॥ विशालाः शैलानां विरतजनसंपातसुभगा गुहा गाढाभोगा हरितवनलेखापरिकराः । सरित्तीरासन्ना सुरजमधुरैर्निर्जनरवैर्न गम्याः क्लेशाग्नेरयमिति वदन्तीव पथिकान् ॥ ७० ॥ मायामरीचिदकचन्द्रतरंगकल्पाः कामा जिनेन गदिता विभवाः स्त्रियश्च । स्वप्नान्तदुर्लभितविभ्रमविप्रलब्धा बालाः पतन्ति निरयेष्वपि येषु सक्ताः ॥ ७१ ॥ आपातमात्रमधुरा विषया विषश्च घोरा विषाककटुका विषया विषश्च । मोहान्धकारगहना विषया विषश्च दुर्वारवेगचपला विषया विषश्च ॥ ७२ ॥ कामा विषश्च विषयाश्च निरूप्यमानाः श्रेयो विषं न विषया विषमस्वभावाः । एकत्र जन्मनि विषं विषतां प्रयाति जन्मान्तरेऽपि विषया विषतां प्रयान्ति ॥ ७३ ॥ विषस्य विषयाणां च दूरमत्यन्तगोचरम् । उपयुक्तं विषं हन्ति विषयाः स्मरणादपि ॥ ७४ ॥ संसृष्टं व्रजति विषं विषेण शान्तिं सन्मन्त्रैरगदधरैश्च साध्यमानम् । युक्तं वा भवति विषं हिताय नॄणां न त्वेवं विषयमहाविषं कदाचित् ॥ ७५ ॥ यद्वद्वृषो विषमकूपतटान्तत्रूढो दूर्वाप्रवाललवलालसमानसः सन् । श्वभ्रे पतत्यथ च नास्तु त एव लाभस्तद्वत्सुखान्वितमतिः खलु जीवलोकः ॥ ७६ ॥ मन्दाकिनीजलरयाकुलितालकाभिः क्रीडाविहारमनुभूय सहाप्सरोभिः । भूयो भ्रमन्ति खरवैतरणे तरंगसंपर्कजर्जरितदारुणदुःखभाजः ॥ ७७ ॥ आस्तीर्णकल्पतरुपल्ल्वसंस्तरेषु कान्तासखाः सुरवनेषु मखं विहृत्य । भूयो भ्रमन्ति निशिताकुलशस्त्रपातविच्छिन्नगात्रमसिपत्त्रवनस्थलीषु ॥ ७८ ॥ स्पर्शे सुखासु पदपातनतोन्नतासु मेरोर्नितम्बपदवीषु चिरं विहृत्य । उत्तप्तसैकतकुकूलकृशानुराशिं संसीर्यमाणचरणोरुभुजो भ्रमन्ति ॥ ७९ ॥ गत्वा दिवं मुखरभासुरकिङ्कनीकहारावलीनिकरदन्तुरितैर्विमानैः । घोरं स्थिराश्रयममेयमनन्तपारमन्धं तमः पुनरधःशिरसा पतन्ति ॥ ८० ॥ शक्रोऽपि यत्र सुरकिंनरनागयक्षमौलिप्रभाप्रकरपिञ्जरपादपीठः । कर्मानिलाकुलगतिः कुगतिः प्रयाति को नाम तत्र पुरुषो न भयं भजेत ॥ ८१ ॥ प्रम्लायमानकुसुमाः श्रु x x x दिग्धा म्लानाम्बराः करुणदीक्षितबन्धुवर्गाः । दुःखं परं यदमरा मरणे व्रजन्ति तन्मानवा न जलबुद्बुदलोलजीवाः ॥ ८२ ॥ दुःखाग्निप्रकरनिरोधभैरवेऽस्मिन्यलोके वहति जनः सुखाभिमानम् । तन्मत्योर्वदनमपावृतं विशालं तद्बीजं पुनरपि जन्मपादपस्य ॥ ८३ ॥ तं तृष्णामयदृढदीर्घतन्तुबद्धं पर्यस्तप्रणिहितभीमकालदण्डम् । सत्त्वानां भवजलधौ परिप्लुतानां मत्स्यनां बडिशमिवान्तकेन दत्तम् ॥ ८४ ॥ कुम्भीपाकक्वथितकलिलादुष्णसंरम्भवेगात्कृत्वोद्ग्रीवं क्षणमपि सुखं लब्धनिश्वासमोक्षाः । क्रोधापूर्णैः सुबहुभिरयोमुद्गरैस्ताड्यमाना मन्यते तं परमिव सुखं नारका यद्वदेव ॥ ८५ ॥ तद्वद्दुःखैरनिशमवशो दारुणैः पीड्यमानस्तावत्कालं जरणमणरक्षोभमुक्तः कथंचित् । मन्दीभूते क्षणमपि निजे दुःसहे दुःखवह्नौ सर्वो लोकस्तनुसुखलवग्रामतृष्णां करोति ॥ ८६ ॥ यावद्यावज्जगति सकले जायते सौख्यसंज्ञा तावत्तावद्बहुतरशिखो जायते रागबह्निः । यावद्यावद्विसरति शुभा भावना भाव्यमाना तावत्तावद्बहलतरतामेति मोहान्धकारम् ॥ ८७ ॥ यावद्यावन्नियतमशुभा भावना याति वृद्धिम् । तावत्तावत्तरलतरतमिति मोहान्धकारम् ॥ ८८ ॥ दुर्गन्धिपूतिविकृतैररविन्दमिन्दुमिन्दीवरं च तुलयन्ति यदाङ्गनाङ्गैः । तस्यानृतस्य फलमुग्रमिदं कवीनां तास्वेव गर्भनिलयं पदमी विशन्ति ॥ ८९ ॥ का सौगतिर्जगति या शतशो न याता किं तत्सुखं यदशकृन्न पुरानुभूतम् । कास्ताः श्रियश्चपलचामरचारुहासाः प्राप्ता न यास्तदपि वर्धत एव रागः ॥ ९० ॥ नद्यो न ता न विहृतं पुलिनेषु यासां स्थानं न तज्जगति यत्र कृतो न वासः । व्योम्नापि तन्न पदमस्ति न यत्र यातं दुष्पूरणस्तदपि वर्धत एव रागः ॥ ९१ ॥ दुःखं न तद्यदसकृन्न पुरानुभूतं कामा न ते जगति यैरिह तृप्तिरासीत् । सत्त्वो न सोऽस्ति जठरे शयितं न यस्य संसारिणस्तदपि नास्ति कथं विरागः ॥ ९२ ॥ अत्यायते जगति जन्मपरिग्रहेऽस्मिन्दुःखे सुखे च बहुशः परिवर्तमानः । नासौ जनो जगति यो न बभूव बन्धुर्द्वेषोरगस्तदपि तिष्ठति भीमभोगः ॥ ९३ ॥ यैः सार्धमेत्य हसितं ललितं प्रगीतमेकत्र पीतमशितं च कृताश्च गोष्ठ्यः । कालक्रमेण गमिताः कति केऽपि रम्या नीताः समाश्च विषमाश्च दशाः कथंचित् ॥ ९४ ॥ तानार्जवं जवविवर्तनदृष्टनष्टानावर्तमध्यपतितानिव वीक्ष्यमाणः । संसारसागरगतानपहाय बन्धूनेकः प्रयाति यदि नास्ति ततः कृतघ्नः ॥ ९५ ॥ अङ्कस्थितेन शिशुना विवशेन यासां पीतः पयोधररसं प्रणयानुयातः । तन्निष्फलप्रचुरदुर्ललितैकभाजः को नाम दस्युरपि हातुमिहोत्सहेत ॥ ९६ ॥ या संस्थितोऽयमुदरेऽपि कृतावकाशो याः स्नेहविक्लवधियः श्लथमेनमूहुः । ता दुःखिता अशरणाः कृपणा विहाय को नाम शत्रुरपि गन्तुमिहोत्सहेत ॥ ९७ ॥ विकीर्णे दुःखौघैर्जगति विवशेऽस्मिन्नशरणे परार्थे यद्दुःखं तदिह सुखमाहुः सुपुरुषाः । क्षणं क्षुत्तृष्णोष्णश्रमविगमरम्यानरुचः परं कृत्वा तेषामपि यदिह क इवास्य प्रतिसमः ॥ ९८ ॥ न सारम्यैर्या नैव च नृपतिलक्ष्मीपरिकरैर्न दारैर्नापत्यैर्न सुरभवने नासुरगतौ । कथंचित्संप्राप्यं x विषयसुखं भोगपरमैर्लभन्ते या प्रीतिं परहितसुखाधाननिरताः ॥ ९९ ॥ स्वयं घासग्रासं पशुरपि करोत्येव सुलभं यदृच्छा लब्धं वा पिबति सलिलं गाढतृषितः । परस्यार्थ कर्तुं यदिह पुरुषोऽयं प्रयतते तदस्य स्वं तेजः सुखमिदमहो पौरुषमिदम् ॥ १०० ॥ यदालोकं कुवन् भ्रमति रविरश्रान्ततुरगः सदालोकं धत्ते यदगणितभारा वसुमती । न स स्वार्थः कश्चित्प्रकृतिरियमेव महतां यदेते लोकानां हितसुखरसैकान्तरसिकाः ॥ १०१ ॥ अविद्याधूम्रान्धभ्रमपरिगतव्याकुलगतिप्रदीप्ते दुःखाग्नौ पतितमवशं वीक्ष्य भुवनम् । स्फुरद्वह्निज्वाला प्रमथितशिरोवेष्टननिभा यातन्ते येऽत्राद्भुत इह पुरुषास्ते सुकृतिनः ॥ १०२ ॥ अवीचिं गाहन्ते हुतवहशिखापूरितमपि प्रसर्पद्रोमाञ्चा हिमनिकरचन्द्रांशुशिशिरम् । परार्थे x x x स्फुटनलिनहासापि नलिनी करोत्येषां तापं हुतवहशिखासंहतिरिव ॥ १०३ ॥ परहितकरणाय बद्धकक्षाः सुखमसिपत्त्रवने वसन्ति सन्तः । न पुनरमरसुन्दरीसहायाः क्षणमपि नन्दनकानने रमन्ते ॥ १०४ ॥ अशरणजनतारणाय तीर्णाः पुनरपि वैतरणीं तरन्ति धीराः । न तु गगनसरित्तरंगभङ्गव्यतिकरसङ्गसुखं स्वयं भजन्ते ॥ १०५ ॥ इति सुचरितरत्नं भूषणं भूषणानां शिवममृतमुदारं भासुरं भासुराणाम् । असुलभमकृतज्ञैर्नन्दनं नन्दनानां भज समसुखहेतुं मङ्गलं मङ्गलानाम् ॥ १०६ ॥ सुगतवचनपुष्पं सर्वदा सेवनीयं फलति फलमुदारं पुष्पमेव द्रुमाणाम् । सुगतवचनपुष्पादर्थराशिर्निषेव्यो मधुनि मुधकराणां यस्य वाञ्छाप्रकर्षम् ॥ १०७ ॥ विसृज विषयान्नीत्याकीर्णां क्षणव्ययसङ्गिनो भज समसुखं साकाङ्क्षं कृतान्तभयोज्झितम् । विकर तिमिरं मोहव्याजं विमोक्षयथार्गलं न खलु सुचिरं निद्रायन्ते सदश्वकिशोरकाः ॥ १०८ ॥ विनयविसरो वीर्यस्कन्धः क्षमादमपल्लवः शमथकुसुमः प्रज्ञाशाखः प्रदानघनच्छदः । प्रणिधिशिखरः शीलच्छायः प्रशान्तिफलप्रदो भव भव मरौ तापार्तानां त्वमेकमहाद्रुमः ॥ १०९ ॥ बहुजनहितो माभैर्वादप्रदानमहास्वनः पृथुतरशोधारासारः कृपानिलचोदितः । प्रशमितरजः शीलच्छायाविभूषितभूतलो भव भव मरौ तापार्तानां त्वमेकमहाघनः ॥ ११० ॥ प्रकटविपुलं पङ्कागाधः प्रसन्नतराश्रयः सततशिशिरो जालव्यालप्रमादविवर्जितः । प्रकृतिसुभगस्तृष्णाच्छेदाविमर्दभरक्षमो भव भव मरौ तापार्तानां त्वमेकमहाह्रदः ॥ १११ ॥ इति निगदता यदुपार्जितं पुण्यं मया कियत्सुगतचरिते कृत्वा श्रद्धामनेन जनोऽखिलः । सततसुखितो रम्याभोगः समृद्धमनोरथः परहितरतः सर्वज्ञत्वं प्रयातु ततः शनैः ॥ ११२ ॥ करतलसमाः स्पष्टालोकाः प्रशान्तकृशानवः स्थलकमलिनीपत्त्रच्छन्ना बिसाङ्कुरदन्तुराः । शुचिसुरभयः स्फुल्लाम्भोजैर्विभूषितभूमयो दधतु नरकाः स्फीतां शोभां सशीकरवायवः ॥ ११३ ॥ विजितंविरुतमारानीकाः कृताभयघोषणा गगनसलिलक्रीडा रम्या समेत नरामराः । जननमरणक्लेशायासप्रबन्धविघातिनो दिशि दिशि सदा बुद्धोत्पादा भवन्तु समीहिताः ॥ ११४ ॥ भवतु जगतां धर्मामोदः प्रबन्धमहोत्सवः सुचिरगुणिता मृत्योर्बन्ध्या भवन्तु मनोरथाः । मुनिजनकथागोष्ठीबन्धैः समावृतवर्षिभिः सततशिशिरः सुभगचन्द्रालोकः प्रयातु कृतार्थताम् ॥ ११५ ॥ ॥ इति शिष्यलेखनाम धर्मकाव्यं समाप्तम् ॥ । कृतिराचार्यचन्द्रगोमिपादस्य ॥