सिद्धार्थचरित्रं काव्यम् आचार्यबुद्धघोषविरचितं पद्यचूडामणिमहाकाव्यम् प्रथमः सर्गः मङ्गलम् कारुण्यकल्लोलितदृष्टिपातं कन्दर्पदर्पानलकालमेघम् । कैवल्यकल्पद्रुममूलकन्दं वन्दे महाकन्दलमर्कबन्धुम् ॥ १.१ ॥ यस्यैकदेशं यतयोऽपि वक्तुं नालं बभूवुर्नलिनासनाद्याः । शास्तुस्तदेतच्चरितापदानं वक्तुं मनीषा मम मौग्ध्यमेव ॥ १.२ ॥ तथापि तत्राहितभक्तिशक्त्या तदेतदाख्यातुमहं प्रवीणः । तथाहि तत्पादसमाश्रयेण रजोऽपि लक्ष्मीं कुरुते हि पुंसाम् ॥ १.३ ॥ अस्ति प्रशस्ता कपिलेति नाम्ना काचित्पुरी कामदुघा प्रजानाम् । यां वीक्ष्य शक्रो निजराजधान्याः श्लाघाभिसन्धिं शिथिलीकरोति ॥ १.४ ॥ सम्भाव्यते यत्र सुधामरीचिः सौधध्वजस्तम्भनिलीनबिम्बः । मुखारविन्दद्युतिमोषरोषादारोपितः शूलमिवाङ्गनाभिः ॥ १.५ ॥ वीथीषु माणिक्यमयीषु यस्यां ज्योतींषि भान्ति प्रतिबिम्बितानि । अनङ्गचापादपकृष्यमाणान्मुक्ताफलानीव परिच्युतानि ॥ १.६ ॥ उत्सेधिनो यत्र गृहाः प्रभूणामुदस्तजैत्रध्वजदण्डवाहाः । आलोलघण्टाक्वणितैरजस्रमभ्यर्थिनो दातुमिवाह्वयन्ति ॥ १.७ ॥ रथ्यासु रत्नोपहितासु यस्यां बिम्बप्रविष्टाः करिणो विभान्ति । कूलाद्रिकूटा इव कुण्डलीन्द्रसाहायकं कर्तुमधः प्रवृत्ताः ॥ १.८ ॥ पाञ्चालिका यद्गृहपञ्जरेषु प्रपञ्चिताः काञ्चनसञ्चयेन । भूमाभिभूतारिपुराहृतानां पुष्यन्ति शोभां पुरदेवतानाम् ॥ १.९ ॥ आरुह्य सौधानतिमेघमार्गान् वर्षान्धकारेष्वपि वासरेषु । कथानभिज्ञा धनगर्जितानां वसन्ति यस्यां वनिता वियुक्ताः ॥ १.१० ॥ यत्रालयाः काञ्चनकेतुदण्डैरुदञ्चितैर्दोभिरिवातिदीर्घैः । अपाहरन्तीव कृताभ्यसूयाः शोभां शुनासीरपुरालयानाम् ॥ १.११ ॥ यदङ्गनाः सौधसमीपलग्नामादाय हस्तैरमृतांशुलेखाम् । निवेशयन्त्यो निजकुन्तलेषु विडम्बयन्ति श्रियमम्बिकायाः ॥ १.१२ ॥ यन्मण्डपाः प्रौढनिदाघतप्ताश्चञ्चत्पताकारसनाञ्चलेन । आस्वादयन्तीव तुषाररश्मिं सुधारसेन स्वदमानबिम्बम् ॥ १.१३ ॥ विलोक्य चैत्यध्वजसिंहमुद्रां भयाकुले क्वापि गति कुरङ्गे । निशाकरो यत्र नितम्बिनीनां साधर्म्यमभ्येति सहाननाब्जैः ॥ १.१४ ॥ यच्चन्द्रशालास्वबलाजनानां वितन्वतां विभ्रममण्डनानि । आदर्शतामाश्रयते निशासु पुरोगतं पूर्णसुधांशुबिम्बात् ॥ १.१५ ॥ यत्रेन्द्रनीलोपलगोपुराणां विजृम्भमाणाः किरणप्रणालाः । चण्डांशुबिम्बेऽपि सनीडभाजि क्षणं वितन्वति कलङ्कशङ्काम् ॥ १.१६ ॥ यत्रापगाः स्वच्छजलान्तरालसंक्रान्ततीरस्थितकेलिशैलाः । मदोष्मणा मग्नसुरद्विपाया महेन्द्रसिन्धोः श्रियमाश्रयन्ते ॥ १.१७ ॥ यत्रौकसां रत्नविनिर्मितानामुच्चावचैरुच्चलितैर्मयूखैः । वर्षावसानेऽपि महेन्द्रचापैराभाति सन्नद्धमिवान्तरिक्षम् ॥ १.१८ ॥ प्रासादमालासु हिरण्यमयीषु प्रारब्धलीलाः प्रमदा यदीयाः । सुमेरुशृङ्गेषु विहारिणीनां सुराङ्गनानां द्युतिमाक्षिपन्ति ॥ १.१९ ॥ यत्रालयानां प्रविजृम्भमाणाः प्रभाविरोहाः स्फटिकाचितानाम् । आसन्नभाजां हरितां हयानां यान्तीव कर्णक्षणचामरत्वम् ॥ १.२० ॥ मरीचिभिर्यन्मणितोरणानां विसृत्वरैर्विच्छुरितप्रवाहा । मध्येनभो भाति महेन्द्रसिन्धुः कलिन्दजाकर्बुरितान्तरेव ॥ १.२१ ॥ समुच्छ्रितैः सौधतलेषु यस्यां मत्स्यध्वजैर्मारुतकम्पमानैः । सार्धं विगृह्णन्ति सपत्नबुद्ध्या मरुत्स्रवन्तीमकराः सरोषम् ॥ १.२२ ॥ रतिश्रमो यत्र विलासिनीनां प्रासादमभ्रङ्कषमाश्रितानाम् । विनीयते गन्धवहेन मन्दं मन्दाकिनीवीचिविहारभाजा ॥ १.२३ ॥ सुधासनाथेन सुधामयूखः कलासमग्रः करपल्लवेन । विलिम्पतीव क्षणदासु यस्यां क्रीडागृहाणामुपरिस्थलानि ॥ १.२४ ॥ यत्रेन्द्रनीलोपलकुट्टिमेषु प्रविष्टबिम्बां प्रथमेन्दुलेखाम् । मृणालखण्डस्पृहया मरालाश्चञ्चूपुटैश्चर्वितुमुत्सहन्ते ॥ १.२५ ॥ अभ्युद्गतं यद्गृहधूपराशिमकाण्डघाटीपटुराहुदर्शम् । पश्यन् भयेनैव पतिर्दिनानामन्तर्दधात्यम्बुधराटवीषु ॥ १.२६ ॥ बिम्बप्रविष्टाः स्फटिकस्थलीषु वक्रश्रियो यद्वरवर्णिनीनाम् । विकासिनां व्योमनदीजलेषु सरोरुहाणां वितरन्ति शङ्काम् ॥ १.२७ ॥ सालं यदीयं समतीत्य गन्तुमपारयन् धिक्कृतचक्रवालम् । पतिस्त्विषामुत्तरदक्षिणार्धव्याजेन तत्पार्श्वभुवा प्रयाति ॥ १.२८ ॥ प्रभञ्जनक्षोभविजृम्भिताभिर्वीचिभिरुल्लङ्घिततीरदेशम् । खातं यदीयं कलशाम्बुराशिं जेतुं समुद्योगमिवातनोति ॥ १.२९ ॥ कनन्ति कालागरुधूपमिश्रा यत्सौधचीनध्वजवैजयन्त्यः । कल्लोलभिन्नास्तपनात्मजायाः स्वर्लोकसिन्धोरिव वीचिमालाः ॥ १.३० ॥ महीपतिस्तत्र बभूव मान्यः शाक्यान्वयः शाश्वतराजलक्ष्मीः । धर्मानुरोधार्जनशुद्धवृत्तिः शुद्धोदनो नाम यथार्थनामा ॥ १.३१ ॥ विभुः प्रतापानलमेव वीध्रं विवाहसाक्ष्ये विरचय्य वीरः । यः पर्यणैषीदरिराजलक्ष्मीं कृपाणधाराजलपातपूर्वम् ॥ १.३२ ॥ यः पूर्वमाधाय महाभिषेकं कृतेभकुम्भैर्गलदस्रपूरैः । पश्चादरीणां हृदयारविन्दैः पुपोष पूजां रणदेवतायाः ॥ १.३३ ॥ पाणौ कृपाणी विरराज यस्य विभूषिताङ्गी पुलकाक्षरेण । आकारणाय द्विषतां यमेन सम्प्रेषिता शासनपत्रिकेव ॥ १.३४ ॥ निरुद्धभूभृन्महिमातिरेको निःशेषपीताहितवाहिनीशः । यच्चन्द्रहासो भुवनप्रसादं प्रासूयतागस्त्य इवोदयेन ॥ १.३५ ॥ यो वाहिनीं मेघ इवात्तधन्वा विपक्षभूभृत्कटकप्रभूताम् । आसारयन्नाकुलराजहंसां चक्रे समुच्चेलकबन्धनृत्ताम् ॥ १.३६ ॥ अलंकृताङ्गाः सुभटान्त्रमाल्यैरादाय शृङ्गानिव नागहस्तान् । यद्वैरिरक्ताम्बुतरङ्गिणीषु व्यात्युक्षिलीला विदधुः पिशाचाः ॥ १.३७ ॥ प्रशस्तिवध्वा प्रवरस्य यस्य प्रतापदीपाञ्जनसंग्रहाय । आस्थापितं पात्रमिवेन्द्रनीलमभ्रं घनश्यामलमाबभाषे ॥ १.३८ ॥ आपूरिते निर्भरमन्तरिक्षे यस्याण्डकुक्षिम्भरिभिर्यशोभिः । पृथ्वीपतीनां यशसः प्रसर्तुमासीत्परेषामिव नावकाशः ॥ १.३९ ॥ यशस्तदीयं यदि नाभविष्यच्छीतांशुशुभ्रं शिशिरोपचारः । सोढुं प्रतापानलमप्रसह्यमपारयिष्यत्कथमेष लोकः ॥ १.४० ॥ भुजेन भोगीन्द्रधुरन्धरेण यस्मिन् दृढं भूवलयं दधाने । प्रत्यर्थिकान्ताभुजवल्लरीभ्यः पपात भूषावलयं विचित्रम् ॥ १.४१ ॥ दयालुमाश्रित्य तमत्युदारं वनीपका नापरमभ्यगच्छन् । आसाद्य वाराकरमम्बुबाहाः कासारमन्यं किमु कामयन्ते! ॥ १.४२ ॥ तस्यांसधारासदनेऽवतंसमाल्यासवस्यन्दनितान्तशीते । बहिः प्रतापज्वरविह्वलेव विमुक्तलौया विजहार लक्ष्मीः ॥ १.४३ ॥ तस्याभिषेके सचिवावमुक्तैर्गङ्गादितीर्थोपनतैः पयोभिः । शत्रुप्रतापानलशक्तितरासि सहैव पुंसां हृदयज्वरेण ॥ १.४४ ॥ सुवर्णरूपं सुमनोनिषेव्यं तुङ्गं सुधर्मास्पदमद्वितीयम् । तं भूभृतं मेरुमिव प्रपन्नाश्चकाशिरे षड्गुणरत्नसार्थाः ॥ १.४५ ॥ अन्यत्र कर्णः सुधियामसक्तस्तस्यापदानश्रवणे ससज्ज । अपास्य पीयूषरसं सुराणां रसान्तरे किं रमते रसज्ञा! ॥ १.४६ ॥ सहस्रशस्सन्त्वपरेऽपि भूपास्तेनैव सौराज्यवती धरित्री । अनेकरत्नप्रभवोऽयुदन्वान् रत्नाकरोऽभून्ननु कौस्तुभेन ॥ १.४७ ॥ महात्मना तेन मखैरजस्रमाहूयमानेष्वमृताशनेषु । परिष्क्रियाजायत पारिजातः परं सुराधीश्वरराजधान्याः ॥ १.४८ ॥ तस्यापदानानि तटस्थिताभिः सङ्गीयमानानि सुराङ्गनाभिः । आकर्ण्य हर्षाद्द्रवतीव मेरुरद्यापि निष्यन्दजलापदेशात् ॥ १.४९ ॥ तस्मिन्नृपे तन्वति दानवर्षं नैकोऽप्यसम्पूर्णमनोरथोऽभूत् । महाघने वर्षति बद्धधारमलब्धपूर्त्त्यस्ति सरः किमुर्व्याम्! ॥ १.५० ॥ नदीव सिन्धोर्नलिनीव भानोः कलेव चेन्दोः कमलेव विष्णोः । सौदामिनीवाम्बुधरस्य तस्य मायेति नाम्ना महिषी बभूव ॥ १.५१ ॥ तस्याः प्रवालोदरसोदराभं युग्मं पदाम्भोरुहयोर्बभार । सामन्तकान्तालकवल्लरीणां पुष्पायमाणान्नखपूर्णचन्द्रान् ॥ १.५२ ॥ विजृम्भमाणा नखरत्नदीप्तिः पदस्य तस्याः पतिदेवतायाः । चकार शङ्कां शरणागतायाः स्वर्भानुभीत्या शशिचन्द्रिकायाः ॥ १.५३ ॥ आकारमत्यद्भुतसन्निवेशं दधानयोर्दशितसौकुमार्यम् । तज्जङ्घयोस्तादृशकान्तिमत्योर्न चाधिकं नापि समं बभूव ॥ १.५४ ॥ ये दर्शनीया द्विपराजहस्ता ये चाभिजाताः कदलीविशेषाः । तदूरुकाण्डद्वयजृम्भमाणसौन्दर्यरत्नाकरबिन्दवस्ते ॥ १.५५ ॥ माणिक्यकाञ्चीवलयानुविद्धश्रोणीभरा क्ष्मापतिधर्मपत्नी । वसुन्धरेवार्णवरत्नगर्भवेलासमालिङ्गितसैकतान्ता ॥ १.५६ ॥ सुरार्णवावर्तमनोज्ञशोभं नतभ्रुवोऽलक्ष्यत नाभिरन्ध्रम् । कुचाद्रिकान्तिद्रवनिर्झरस्य निम्नीकृतं स्थानमिव प्रपातैः ॥ १.५७ ॥ तस्या वपुःक्षेत्रमनङ्गशालि सौन्दर्यनिष्यन्दजलैर्जिषेक्तुम् । आसूत्रिता यौवनहालिकेन त्रयीव कुल्या त्रिवली चकाशे ॥ १.५८ ॥ विलग्नमालग्नवलित्रयीकं दरिद्रताजन्मगृहं तदीयम् । अमर्त्यगङ्गाजलवेणिकाभिराश्लिष्टमाकाशमिवाबभासे ॥ १.५९ ॥ तमालनीला नवरोमराजिस्तस्या बभौ तामरसेक्षणायाः । विवृण्वती बाल्यदशाविनाशमुत्पातधूमावलिरुत्थितेव ॥ १.६० ॥ आतन्वतश्चेतसि कोमलाङ्ग्याः कोदण्डशिक्षां कुसुमायुधस्य । मौर्वी बहिर्बिम्बगतेव मान्या तन्व्याश्चकाशे तनुरोमरेखा ॥ १.६१ ॥ विजृम्भमाणेन विलङ्घ्य वेलां तस्यास्तरुण्याः स्तनमण्डलेन । निःशेषमाक्रान्तनिजावकाशमासीदवलग्नशेषम् ॥ १.६२ ॥ मृणालिका विभ्रमदीर्घिकाया विद्युल्लता यौवनमेघपंक्तेः । मङ्गल्यमाला मकरध्वजस्य बाहा बभौ वामविलोचनायाः ॥ १.६३ ॥ आमुक्तमुक्तासरदर्शनीयमाबिभ्रती कण्ठमतीव रेजे । निष्ठ्यूतमुक्तानिकराभिरामशङ्खोज्ज्वला सागरवीचिकेव ॥ १.६४ ॥ तदाननेन्दुं भुवि निस्सपत्नं निर्मातुकामेन पितामहेन । अकारि पद्मं ध्रुवमात्तगन्धमन्तःकलङ्कं च सुधांशुबिम्बम् ॥ १.६५ ॥ तरुप्रवालाश्चलसौकुमार्यात्सिन्धुप्रवालाः स्थिरकर्कशत्वात् । न जग्मुरस्या नलिनेक्षणाया बिम्बाधरौपम्यकथाप्रसङ्गम् ॥ १.६६ ॥ बिम्बाधरोष्ठद्युतिरायताक्ष्यास्तस्या विलासस्मितविप्रकीर्णा । सन्ध्येव बन्धुकरुचिश्चकाशे चन्द्रातपैः शारितसन्निवेशा ॥ १.६७ ॥ नितान्तकान्तालिकचन्द्रलेखानिष्यन्दसौन्दर्यमहाप्रणाली । सीमान्तरेखा नयनान्तनद्योर्नासा बभासे नवयौवनायाः ॥ १.६८ ॥ कस्तूरिकाकल्पितपत्रलेखस्तस्याः कपोलः शशिमण्डलश्रीः । आक्रम्य तस्थौ मुकुरस्य शोभामम्भोदवातैर्मलिनोदरस्य ॥ १.६९ ॥ बभूव तस्या नयनोत्पलस्य नीलोत्पलस्यापि महान् विशेषः । अमोघमस्त्रं कुसुमायुधस्य पूर्वं द्वितीयं तु तपःसु शीर्णम् ॥ १.७० ॥ तस्या विशालेन विलोचनेन विलासगर्भेण विजीयमानाः । अद्यापि वासं वनकन्दरेषु ह्रियेव कुर्वन्ति कुरङ्गशावाः ॥ १.७१ ॥ सौभाग्यवाराकरवीचिकाभ्यां तारुण्यकल्पद्रुमशाखिकाभ्याम् । भ्रूवल्लरीभ्यां वदनं तदीयं बभाविवाब्जं भ्रमरावलीभ्याम् ॥ १.७२ ॥ रराज राजीवविलोचनाया ललाटरेखा रचितालकान्ता । आलक्ष्यनामाक्षरबिन्दुपंक्तिरनङ्गजैत्रध्वजपट्टिकेव ॥ १.७३ ॥ विलोलदृष्टिद्वयलोभनीयं तस्या मुखं साम्यमुपाचकार । परिप्लुतान्तःपरिवर्तमानपाठीनयुग्मस्य पयोरुहस्य ॥ १.७४ ॥ गोरोचनागौररुचिश्चकाशे स षट्पदश्यामलकेशपाशा । धूमोद्गमैर्धूसरिताग्रभागा मान्योदया मङ्गलदीपिकेव ॥ १.७५ ॥ अर्धासिकां भर्तुरनन्यलभ्यां भद्रासने सैव परं प्रपेदे ॥ अन्याः किमर्हन्त्यपहाय लक्ष्मीं वक्षोनिवासं मधुसूदनस्य ॥ १.७६ ॥ महीपतिर्मान्यगुणोज्ज्वलायां तस्यां महिष्यां तनयाभिलाषी । प्रदीपधूपप्रमुखैः पदार्थैः स देवताराधनतत्परोऽभूत् ॥ १.७७ ॥ ममज्ज तीर्थेषु जजाप मन्त्रं ततान दानानि तपश्चकार । शुश्राव धर्मं सुजनं सिषेवे स पुत्रहेतोः सह धर्मपत्न्या ॥ १.७८ ॥ इति गतवति पुण्यैर्दीर्घदीर्घेऽपि काले, पतिरवनिपतीनां पुत्ररत्नं न भेजे । तदपि च ववृधे तत्प्रार्थना तस्य पुंसां विरमति न हि यत्नः कार्यसिद्धेः पुरस्तात् ॥ १.७९ ॥ इति बुद्धघोषाचार्यविरचिते पद्यचूडामणिनाम्नि महाकाव्ये सिद्धार्थचरिते प्रथमः सर्गः ॥ द्वितीयः सर्गः देवानां तुषितपुरीगमनम् तत्रान्तरे जगति पूर्वनिमित्तमासीद्दृष्ट्वा तदद्भुतममर्त्यगणाः समेताः । सर्वज्ञतावसर एष तवेति वक्तुं जग्मुः पुरीं सुरगुरोस्तुषिताअभिधानम् ॥ २.१ ॥ उत्तुङ्गनीलमणिमन्दिरजृम्भमाणरोचिश्छटाच्छुरणशाद्वलितान्तरिक्षाम् । प्रक्रीडमानमृगशावविलोलदृष्टिच्छायासमुच्चलनचन्द्रकिलोपकण्ठाम् ॥ २.२ ॥ लीलाचकोररसनाञ्चललिह्यमानप्रासाददन्तवलभीकिरणप्ररोहाम् । तिर्यक्प्रवृत्तमणितोरणदीर्घरश्मिमालावलीगुणितवन्दनमालिकाभाम् ॥ २.३ ॥ शिञ्जानपञ्चशरचक्रितकार्मुकज्याझङ्कारवेगचलिताध्वगवामनेत्राम् । दर्पान्धदिग्गजकपोलमदप्रवाहकल्लोलिनीसलिलकर्दमितप्रतोलीम् ॥ २.४ ॥ शम्पासहस्रचतुरस्रसरोरुहाक्षीदेहप्रभापुनरुदीरितदीपमालाम् । सौधस्थलोपरिसमुच्छ्रितवैजयन्तीचीनांशुकाकलितदिग्वनितावगुण्ठाम् ॥ २.५ ॥ पुष्पावचायवलमानपुरन्ध्रिवर्गपीनस्तनोन्नतिविकल्पितकेलिशैलाम् । माकन्दकोरकगलन्मकरन्दपूरधारानुबद्धपुनरुक्ततटाकतोयाम् ॥ २.६ ॥ श्रृङ्गारमण्डपशिरोनवरत्नतेजःसञ्चारसञ्चितशतक्रतुचापशोभाम् । मन्दारकल्पहरिचन्दनपारिजातसन्तानसंहृतदरिद्रकथाप्रसङ्गाम् ॥ २.७ ॥ तत्र स्थितं सुरगणा ददृशस्तमेनं सिंहासने विविधरत्नशिलानिबद्धे । विभ्राजमानबहुधातुविचित्रवर्णे मेरोर्मृगेन्द्रमिव सानुतटप्रदेशे ॥ २.८ ॥ माणिक्यमौलिवलभीसविधस्थितेन मान्येन मङ्गलसितातपवारणेन । पूर्वाचलस्य सुषमां मणितुङ्गश्रृङ्गसंलक्ष्यपूर्णशशिनः प्रतिपक्षयन्तम् ॥ २.९ ॥ प्रत्यग्रहाटकशिलाफलकायतस्य फालस्थलस्य परितः प्रसृतैर्मखैः । आशाविशालनयनाननमण्डनानामाकल्पयन्तमिव कान्तिसुधाविभागम् ॥ २.१० ॥ आयामशालिभिरमन्ददयासमुद्रवेलाजलेषु विहरद्भिरपाङ्गपातैः । आपादयन्तममराधिपराज्यलक्ष्म्याः क्रीडासरोरुहततीरिव दिङ्मुखेषु ॥ २.११ ॥ आकाशकन्दरदरीषु वितायमानैरानन्दमन्दहसितैरधिकप्रसन्नैः । सन्धुक्षणाय निजकीर्त्तिपयःपयोधेः सम्पादयन्तमिव शाश्वतमिन्दुलोकम् ॥ २.१२ ॥ अभ्यर्णवर्त्तिभिरकृत्रिमभक्तिशोभैरात्मीयबिम्बसदृशैः सह मित्रवर्गैः । आभाषणेष्वधरविद्रुमरागलक्ष्यादन्तःस्फुरन्तमनुरागमिवोद्गिरन्तम् ॥ २.१३ ॥ आनन्दवाष्पजलजर्जरदृष्टिपातमभ्युल्लसत्पुलकभूषितगण्डरेखम् । आकर्णयन्तमभिजातनिजापदानमग्रे कुशीलवगणैरभिगीयमानम् ॥ २.१४ ॥ कल्पद्रुमप्रसवकल्पितकर्णपूररिच्छोलिकाविगलितैर्मकरन्दपूरैः । बाहुद्वयस्य महनीयपराक्रमस्य वीराभिषेकमहिमानमिवाचरन्तम् ॥ २.१५ ॥ उत्तुङ्गबाहुयुगलोदयशैलजाततेजोदिवाकरयशोहिमरश्मिशङ्काम् । आतन्वतारुणसितोपलनिर्मितेन मङ्गल्यकुण्डलयुगेन मनोज्ञगण्डम् ॥ २.१६ ॥ मन्दारपुष्पकलिकापरिकल्पितेन माल्येन मान्यभुजमध्यविलम्बितेन । कण्ठप्रणालिमुखगत्वररक्तधारमादर्शयन्तमिव मैत्रबलावतारम् ॥ २.१७ ॥ अभ्युद्गतैररुणरागमनोऽभिरामैरामुक्तरत्नवलयांकुररश्मिजालैः । निर्भिद्यमाननिजशौर्यमहःप्रवालसञ्छादिताविव भुजौ विटपौ दधानम् ॥ २.१८ ॥ अङ्गैरमन्दहरिचन्दनपङ्कलिप्तैरभ्यन्तरेषु कुतकुंकुमपत्रलेखैः । पक्षीन्द्रचञ्चुपुटपाटनजर्जराङ्गां जीमूतवाहनदशामिव दर्शयन्तम् ॥ २.१९ ॥ नानाविधाभरणरत्नमरीचिदण्डैदिङ्मण्डलेषु परितः परिजृम्भमाणैः । आगामिबोधिपदवैभवचिह्नभूतामृद्धिपदर्शनधुरामिव शिक्षयन्तम् ॥ २.२० ॥ आपादपद्ममभितः प्रविजृम्भिताभि रम्भोजरागपतपतकाभरणप्रभाभिः । तस्मात्प्रभृत्युपरिभाविमुनित्वमुद्रां काषायधारणकलामिव शीलयन्तम् ॥ २.२१ ॥ संक्रान्तसौधवलभीमणिपुत्रकेण वक्षः कवाटफलकेन मनोहरेण । साक्षादुरःस्थलविहारिसमुद्रराज कन्यस्य कैटभरिपोः कलयन्तमाभाम् ॥ २.२२ ॥ निष्यन्दमानमकरन्दनिरन्तरेण रक्तोत्पलेन करपङ्कजलालितेन । सद्यो विपाटनगलद्रुधिरारुणेन नेत्रोत्पलेन शिविराजमिवोपलक्ष्यम् ॥ २.२३ ॥ आलेपचन्दनविसृत्वरगन्धलोभा दालीयमानमलिनामभितो निकायम् । अज्ञानगाढतिमिरौधमिवान्तरस्थं तेनैव दिक्षु नितरामपसारयन्तम् ॥ २.२४ ॥ आशामुखप्रसृमरैररभिनन्दनीयैराश्चर्यसंहननकान्तिसुधाप्रवाहैः । आप्लावयन्तमिव निर्जरराजलोकमात्मप्रतापतपनातुरमन्तिकस्थम् ॥ २.२५ ॥ आलोकबाहुवलयस्खलनारवारवाचालिताखिलहरिन्मुखमण्डलीभिः । आरादमर्त्यपुरवारविलासिनीभिराधूयमानसितचामरचक्रवालम् ॥ २.२६ ॥ वक्षःस्थलेन वलमानमनोज्ञहारतारावलीवलयिना गगनोपमेन । आकाशसिन्धुलहरीपरिरभ्यमाणमाभासयन्तममराद्रितटावलेपम् ॥ २.२७ ॥ अम्भोरुहाकृतिमभङ्गरपद्मरागभङ्गीभिरारचितमद्भुतपादपीठम् । दानाभिभूतनतपद्मनिधिप्रकाशं सव्येतरेण चरणेन परामृशन्तम् ॥ २.२८ ॥ अंघ्रेरक्तलकरसद्युतिहारिणीभिरभ्युद्गताभिररुणांगुलिदीधितीभिः । वन्दारुदेववदनाम्बुजबोधनाय बालातपप्रसरवर्षमिवाचरन्तम् ॥ २.२९ ॥ नक्षत्रनाथकरकन्दलमांसलेन नव्येन पादनखदीधितिजालकेन । निष्यन्दमानसुरनिर्झरिणीमरन्दधाराभिरामचरणाब्जमिवाब्जनाभम् ॥ २.३० ॥ संसारेघोरपरितापजुषां जनानां संरक्षणाय किमयं समयो न वेति । जिज्ञासया क्षणमिवावतरीतुकामं माणिक्यकुट्टिमतलप्रतिमानिभेन ॥ २.३१ ॥ दृष्ट्वा जगत्त्रयगुरुं शिरसा प्रणेमुर्दूरानतेन तुषितालयपारिजातम् । वाचामतीत्य पदवीमभिवर्तमानमारेभिरे स्तुतिभिरर्चयितुं च देवाः ॥ २.३२ ॥ दीनावलोकनदशान्तरजृम्भमाणकारुण्यपूरपरिवाहमहाप्रणालैः । अस्मानपाङ्गय विनिद्रसरोजमुद्राकर्णेजपैस्तव सुरेन्द्र! कटाक्षपातैः ॥ २.३३ ॥ स्वैरोज्जिहानसुषमाभरदुग्धसिन्धुकल्लोलकन्दलकरम्बितगात्रयष्टे । चूडावतंस! तुषितालयदेवतानां तुभ्यं नमः परमकारुणिकव्रताय ॥ २.३४ ॥ प्रज्ञाप्रधानमहिषीपदपट्टबन्धसम्भावनातिशयसम्भृतनिर्वृताय । सर्वोत्तराश्रमकथामृतपानलीलागोष्ठीपराय गुणवारिधये नमस्ते ॥ २.३५ ॥ मैत्रीकलत्रकुचभारपटीरपङ्कपत्रावलीमकरिकाङ्करमण्डिताय । तेजस्तरङ्गितदिगन्तरकन्दराय, त्रैलोक्यभाग्यपरिपाकभुवे नमस्ते ॥ २.३६ ॥ मारप्रतापबडवानलकीलजालजाज्वल्यमानजननार्णवधर्मनावे । दिवपालशेखरितशासनपत्रिकाय दिक्यानुभाव! जगदेकगुरो! नमस्ते ॥ २.३७ ॥ निष्यन्दमाननिरपायकृपाप्रवाहवीचीविटङ्कवलमानविशालदृष्टे । ध्यानामृतद्रवतरङ्गितचित्तवृत्ते! देवादिदेव! जगदेकदृशे नमस्ते ॥ २.३८ ॥ निर्व्याजकृत्तगलनिर्गलदस्रधारानिर्वापितक्षुधितराक्षसजाठराग्ने । निर्वाणकेलिकृतिनिर्मितिसूत्रधार! नेत्राभिराम! सुरराज! नमो नमस्ते ॥ २.३९ ॥ गन्धर्वराजमहिलाजनगीयमानकीर्त्तिप्रवाहपरिवाहितदिङ्मुखाय । भव्यानुरक्षणपराय फलोन्मुखीनभाग्याधिकाय भगवन्! भवते प्रणामः ॥ २.४० ॥ नित्यप्रवृत्तनिरवद्यमहाप्रदानशोभापराजितसुरद्रुइमकामधेनो । शुद्धाशयाय सुचरित्रविभूषणाय तुभ्यं नमस्तुषितलोकधुरन्धराय ॥ २.४१ ॥ राकासुधाकिरणबिम्बमनोऽभिरामवक्त्रावधूतवरवारिजवैभवाय । शान्ताशयाय शफरध्वजबाहुवीर्यमुष्टिन्धयाय मुनिमान्यधिये नमस्ते ॥ २.४२ ॥ शृङ्गारितायतदिगन्तमदावलेन्द्रशुण्डारकाण्डपरिभावुकबाहुदण्डम् । सौन्दर्यकन्दलितचारुमुखारविन्दं वन्दामहे वरदराज! भवन्तमेव ॥ २.४३ ॥ वीर! त्वमेव विजिताखिलदिङ्मुखस्य मीनध्वजस्य विनिपातविधौ विदग्घः । सिंहादृते जगति कः खलु धीरचेता दन्तावलं जयति जर्जरिताद्रिकूटम् ॥ २.४४ ॥ विद्वेषतापमखिलं जगतां विनेतुं शक्तस्त्वमेव शरणागतपुण्यराशे । धाराधरं तरलविद्युतमन्तरेण दावानलं शमयितुं भुविः कः क्षमेत! ॥ २.४५ ॥ मोहान्धकारमुषितानि जगत्त्रयाणि पुण्याधिक! त्वमसि बोधयितुं प्रवीणः । को वा विकासयितुमर्हति कोकबन्धुं भानुं विना शरदि पङ्कजकाननानि ॥ २.४६ ॥ तृष्णाप्रवाहमवशोषयितुं जनानां तेजस्विनामधिप! दक्षतरस्त्वमेव । कल्पावसानबडवानलमन्तरेण कः पारयेज्जगति पातुमपामधीशम् ॥ २.४७ ॥ धीर! त्वमेव जननाम्बुनिधेस्त्रिलोकीं पारं परं गमयितुं पटुतामुपैषि । को वा विहाय भुवेन कुहनावराहं क्षोणीसमुद्धृतिविधौ कुशलः पयोधेः ॥ २.४८ ॥ इत्थं सुपर्वविहितां स्तुतिमादरेण श्रुत्वा प्रसन्नहृदयस्तुषिताधिराजः । गम्भीरवारिधरगर्जितमन्दरेण तान् प्रत्युवाच वचसा मधुराक्षरेण ॥ २.४९ ॥ भो भोःपुरन्दरमुखा हरिदन्तपालाः सम्भूय यूयमिह सादरमागताः किम् । कार्य मया किमपि चेद्भवतामभीष्ट मावेद्यतामलमिह स्तुतिसम्पदेति ॥ २.५० ॥ तेऽपि प्रसन्नमनसः प्रणिपत्य तस्मै व्यज्ञापयन् विनयनम्रितपूर्वकायाः । देवाधिदेव! जगतामवबोधनाय, सन्तिष्ठते समुचितोऽवसरस्तवेति ॥ २.५१ ॥ आकर्ण्य तद्वचनमश्रुतपूर्वमेषां कालादिचिन्तनपरः क्षणमेष भूत्वा । निश्चित्य तत्सकलमेव निधिर्गुणानां प्रत्यब्रवीत्पुनरमून् प्रथितापदानः ॥ २.५२ ॥ शुद्धोदनस्य सुततामहमेत्य सत्यं सम्बोधनं त्रिजगतां नियतं करिष्ये । अङ्गैर्धनैरसुभिरप्यहमेतदेव सम्प्रार्थ्य पुण्यनिचयं कृतवान् पुरेति ॥ २.५३ ॥ इति कृतवति तस्मिन् सत्यसन्धे प्रतिज्ञां परहितपरभावे पारमीपारनिष्ठे । प्रमुदितमनसस्ते स्फीतरोमाञ्चदण्डप्रचयनिचुलिताङ्गाः प्रत्यगच्छन् यथेच्छम् ॥ २.५४ ॥ अथ कानिचिदेव वासराणि क्षपयित्वा त्रिदिवे स देवराजः । विदधे विविधव्रतोज्ज्वलायां प्रतिसन्धिं पृथिवीपतेर्महिष्याम् ॥ २.५५ ॥ इति बुद्धघोषविरचिते पद्यचूडामणिनाम्नि महाकाव्ये द्वितीयः सर्गः ॥ तृतीयः सर्गः दौहृदलिङ्गाधानम् अथोदयं शाक्यमहीपतीनामानन्दमालीजनलोचनानाम् । आश्वासनं सज्जनमानसानामाधत्त सा दौहृदलिङ्गमार्या ॥ ३.१ ॥ विवर्धमानेन च मध्यमेन श्यामायमानेन च चूचुकेन । गर्भोदयोऽभूदलसेक्षणायास्तस्याः सखोनामनुमानगम्यः ॥ ३.२ ॥ महामुनीनामपि माननीये गर्भत्वमातस्थुषि बोधिसत्त्वे । मध्यस्तदीयो मनसोऽपि सूक्ष्मः प्रियादिव स्फीततरो बभूव ॥ ३.३ ॥ यथा यथा वृद्धिमवाप तस्या मध्यं महिष्या महनीयमूर्त्तेः । तथा तथा वृद्धिमवाप गात्रमपुत्रताशोककृशस्य भर्त्तुः ॥ ३.४ ॥ स्तनद्वयस्याग्रमभूद्विवर्णं साकं सपत्नीवदनेन तस्याः । किञ्चाननं गर्भभरालसायाः कीर्त्त्या समं पाण्डुरमास भर्त्तुः ॥ ३.५ ॥ अन्तर्गतस्याद्भुतविक्रमस्य विश्वत्रयीविस्मयनीयमूर्त्ते । प्रतापवह्नेरिव धूपजालैस्तस्याः स्तनः श्याममुखो बभूव ॥ ३.६ ॥ तस्याः स्तनद्वन्द्वमनिन्दिताङ्ग्याः श्यामं शिखायामवशेषपाण्डु । तटाभिघाताहितपङ्कमुद्रामाधत्त नागाधिपकुम्भलक्ष्मीम् ॥ ३.७ ॥ वृद्धा वितेनुर्विविधौषधीभिः पुत्रस्य रक्षामुदरस्थितस्य । सैव स्मरोपद्रवपीडितानां बभूव रक्षा भुवनत्रयाणाम् ॥ ३.८ ॥ पुण्ये मुहूर्ते पुंरुहूतलक्ष्मीः कुलानुरूपं गुरुगर्भवत्याः । यथाक्रमं पुंसवनादि कृत्यं निर्वर्तयामास नृपो महिष्याः ॥ ३.९ ॥ प्रभातवेलेव सहस्रभानुं प्रदोषलक्ष्मीरिव शीतरश्मिम् । भद्रे मुहूर्ते नृपधर्मपत्नी प्रासूत पुत्रं भुवनैकनेत्रम् ॥ ३.१० ॥ तत्रान्तरे तामरसैरुदारैरुदञ्चितैरञ्चितपञ्चवर्णैः । सञ्छादिता तस्य विहारहेतोः कृतोपहारेव बभूव पृथ्वी ॥ ३.११ ॥ शाखासु शाखासु समुद्भवद्भिविचित्रपत्रैः शतपत्रजातैः । चकाशिरे तस्य विलोकनाय सञ्जातनेत्रा इव शाखिनोऽपि ॥ ३.१२ ॥ अस्माकमुत्पत्तिरिवात्र भूमौ बुद्धाङ्कुराणामपि दुर्लभेति । सन्दर्शनायेव शरीरभाजां नालीकमासीन्नभसः स्थलेऽपि ॥ ३.१३ ॥ अस्योपदेशादखिलोऽपि सत्यं निर्वाणमभ्येष्यति जीवलोकः । किमस्मदभ्युज्ज्वलनैरतीव निर्वाणमीयुर्निरयाग्नयोऽपि ॥ ३.१४ ॥ महात्मनस्तस्य महीध्रपातगुरूणि पादाक्रमणानि सोढुम् । अपारयन्तीव भृशं चकम्पे विश्वम्भरा विश्लथशैलबन्धा ॥ ३.१५ ॥ तालप्रमाणाः सहसा धरित्रीं भित्त्वा समुत्तस्थुरुदप्रवाहाः ॥ पुण्यात्मनस्तस्य नमस्क्रियार्थं भुजङ्गलोका इव शेषवश्याः ॥ ३.१६ ॥ अमुष्य सर्वत्र वितायमानैराकाशङ्गासलिलावदातैः । यशःप्रवाहैरिव लिप्यमाना दिशः समस्ताः विशदीबभूवुः ॥ ३.१७ ॥ ‘जातः पृथिव्यामधिपो मुनीनाम्’ इति ब्रुवाणा इव विष्टपानाम् । मङ्गल्यशङ्खानकमर्दलाद्यवाद्यप्रभेदाः स्वयमेव रेणुः ॥ ३.१८ ॥ महानुभावस्य महाभिषेकसम्भावनां कर्तुमिव प्रवृत्ताः । व्यतीत्य वेलां सकलाः समुद्राः प्रचेलुरभ्युच्छ्रितवीचिहस्याः ॥ ३.१९ ॥ चचाल मेरोरचलाभिधानं चस्खाल सिन्धोर्लवणोदवार्ता । आख्या स्रवन्तीत्यगलत्स्रवन्त्यास्थिरेति भूमेरभिधा व्यरंसीत् ॥ ३.२० ॥ ववर्ष वर्षासमयं विनापि वलाहको वारिधिधीरघोषः । आश्चर्यकर्माणि बभूवुरित्थं जाते सतामग्रसरे कुमारे ॥ ३.२१ ॥ आस्फालितानेकमृदङ्गघोषवाचालिताशान्तदरीमुखाणाम् । आनन्दनृत्तभ्रमिघूर्णमानवसुन्धरान्दोलितभूधराणाम् ॥ ३.२२ ॥ अन्योन्यसम्मर्दविशीर्णहारमुक्तावलीतारकितस्थलीनाम् । प्रक्षिप्तपिष्टातकपांसुमुष्टिशृङ्गारिताशेषदिगन्तराणाम् ॥ ३.२३ ॥ परस्पराक्षिप्तविभूषणानां पर्यस्तचूडामणिशेखराणाम् । एकालयस्येव जगत्त्रयाणां बभूव तज्जन्ममहोत्सवश्रीः ॥ ३.२४ ॥ प्रत्यग्रगर्भच्छविपाटलेन सुतेन माता सुतरां चकाशे । नव्योदयालोहितविग्रहेण वेलेव बालेन सुधाकरेण ॥ ३.२५ ॥ प्रतप्तचामीकरभास्वरेण प्रसर्पता तस्य शरीरभासा । प्रसूतिकागर्भगृहप्रदीपाः प्रत्यूषताराप्रतिमा बभूवुः ॥ ३.२६ ॥ अत्यद्भुतामात्मजजन्मवार्तां श्रृण्वन् स शुद्धान्तजनान्नरेन्द्रः । आनन्दमूर्च्छाकुलचित्तवृत्तिः कर्तव्यमूढः स्तिमितो बभूव ॥ ३.२७ ॥ पदार्थमेतत्प्रियदानयोग्यमदृष्टवान् स त्रिषु विष्टपेषु । सर्वस्वदानेन तथापि राजा सम्भावयामास तमत्युदारः ॥ ३.२८ ॥ भद्रे मुहूर्ते स पतिः प्रजानां ददर्श देव्याः स्तिमितायताक्षः । कुमारमुत्सङ्गतले शयानं तटे तटिन्या इव हंसशावम् ॥ ३.२९ ॥ अश्रान्ततृष्णेन विलोचनेन मुखेन्दुमास्वादयतः स्वसूनोः । आसीत्पितुः कण्टकिताङ्गयष्टेरानन्दबाष्पप्रसरो निरोधः ॥ ३.३० ॥ स्तनन्धयस्याननचन्द्रबिम्बममन्दसौन्दर्यसुधानिधानम् । निपीय नेत्राञ्जलिना नितान्तं नृपाधिपो निर्वृतिमाससाद ॥ ३.३१ ॥ स जातकर्मादिकमत्युदारं सूनोः समापय्य पुरोहितेन । ऽसिद्धार्थऽ इत्यस्य जगत्प्रशस्यामनन्ययोग्यामकरोदभिख्याम् ॥ ३.३२ ॥ नवाम्बुवाहेन नभःस्थलीव नव्येन तारापतिना निशेव । मृगेन्द्रशावेन महाटवीव विभूषिता सन्ततिरास तेन ॥ ३.३३ ॥ अव्यक्तवर्णाभिरमुष्य वाग्भिर्यथा नृपः प्रीतमना बभूव । तथा न गानैरपि गायकानां महाकवीनामपि वाग्विलासैः ॥ ३.३४ ॥ निसर्गसौरभ्यनितान्तहृद्यं तस्याननं तादृशसौकुमार्यम् । बभूव सामान्यमयातयामं लीलाब्जमन्तःपुरसुन्दरीणाम् ॥ ३.३५ ॥ मनोऽभिरामैर्मणिकिङ्कणीनां मातुर्मुदं मांसलयन्निनादैः । आत्मीयबिम्बानुनयाभिमानश्चिक्रीड सूनुर्मणिमेदिनीषु ॥ ३.३६ ॥ आतन्वता पांसुविहारमाप्तैरमात्यपुत्रैः सह बालकेन । संग्रामभूधूलिषु भाविनीषु स्वैरं विहर्तुं विहितेव योग्या ॥ ३.३७ ॥ स धीरमन्तःपुरसिंहशावैः संक्रीडमानः सह राजसूनुः । अत्यद्भुतस्यात्मपराक्रमस्य शिक्षामिवैषां चिरमन्वतिष्ठत् ॥ ३.३८ ॥ अनुप्रवृत्तान्मणिघण्टिकानामारावहर्षाद्गृहराजहंसान् । तताट पादेन तदीयराजशब्दासहिष्णुः किल तान् कुमारः ॥ ३.३९ ॥ नखांकुशाघातविधूतमूर्धा मुखारवप्रस्रुतवृंहितश्रीः । मङ्गल्यनिर्वृत्तमदाम्बुरेखो बालो वितेने मदहस्तिलीलाम् ॥ ३.४० ॥ अभ्युल्लसच्चम्पकदामदीप्तिरालोकसम्भावितजीवलोकः । स दारको दीप इव प्रदीप्तः शोकान्धकारं विनिनाय पित्रोः ॥ ३.४१ ॥ कृतोपवीतं गलितातिबाल्यं समस्तविद्यापरिशीलनाय । तमर्पयामास कुमारवर्यमाचार्यहस्तेषु पतिः पृथिव्याः ॥ ३.४२ ॥ स देशिकेन्द्रैरुपदिश्यमाना विद्याः समस्ताः सकलाः कलाश्च । जग्राह मेधावितयाचिरेण वर्षाघनो वारिनिधेरवाप ॥ ३.४३ ॥ अनन्यसामान्यधियं कुमारमासाद्य विद्याः सुतरां विरेजुः । शरत्प्रसन्नं गगनावकाशं ताराधिपस्येव मयूखमालाः ॥ ३.४४ ॥ नितान्तमानन्दयता प्रजानां मनांसि सद्यो हरता तमांसि । चन्द्रोदयेनेव महासमुद्रः शाक्यान्वयस्तेन समुल्ललास ॥ ३.४५ ॥ प्रभेव भानोः प्रतिभेव सूरेः शिखेव दीपस्य दयेव साधोः । ज्योत्स्नेव चन्द्रस्य सुधेव सिन्धोस्तस्योदितासीन्नवयौवनश्रीः ॥ ३.४६ ॥ आरोप्य तारुण्यविशेषशाणं रौषाणितानीव मनोभवेन । अङ्गान्यभिव्यञ्जितलक्षणानि विभक्तसन्धीनि बभूवुरस्य ॥ ३.४७ ॥ तस्यांध्रियुग्मं सहजाभिरूप्यं रेखासहस्राररथाङ्गचिह्नम् । नव्यानि नालीकवनानि नूनं नखप्रभचन्द्रिकया जहास ॥ ३.४८ ॥ वलित्रयालंकृतिदर्शनीयविलग्नभागो नरपालसूनुः । मन्थाचलो वासुकिभोगवेष्टः लेखोल्लसन्मध्य इवालुलोके ॥ ३.४९ ॥ गुणैः समस्तै सह राजसूनोर्नितम्बबिम्वः प्रथिमानमाप । दोषैरशेषैः सममेव तस्य मध्यप्रदेशः कृशतामयासीत् ॥ ३.५० ॥ नाभिह्रदस्तस्य नरेन्द्रसूनो रोमावलीकेतननीलयष्टिम् । निखातुकामेन मनोभावेन निर्वर्तितो गर्त इवाबभासे ॥ ३.५१ ॥ श्रियः सरोजान्तरदुःस्थिताया विशृङ्खलं दातुमिवावकाशम् । पुण्यात्मनस्तस्य भुजान्तराअलं बभूव विन्ध्याद्रिशिलाविशालम् ॥ ३.५२ ॥ शूरस्य तस्य क्षितिपालसूनोर्वृक्षःकवाटे सति वज्रसारे । चक्रुः कवाटं सदनेषु सत्त्वा विभूषणार्थं न तु रक्षणार्थम् ॥ ३.५३ ॥ भुजो भुजङ्गाधिपभोगदीर्घस्तस्य प्रजापालनपण्डितस्य । अक्षेपणीयः प्रतिभूपतीनां त्रैलोक्यरक्षापरिघो बभूव ॥ ३.५४ ॥ रेखाभिरत्यन्तपरिस्फुटाभिस्तत्कन्धरा बन्धुरसन्निवेशा । गाढादरालिङ्गितकान्तिलक्ष्मीकेयूरमुद्राभिरिवावबभासे ॥ ३.५५ ॥ मुग्धस्य तस्यास मुखाम्बुजस्य महोत्पलस्यापि महान् विशेषः । वाणिमलोलां वहति स्म पूर्वं स्वभावलोलामितरतु लक्ष्मीम् ॥ ३.५६ ॥ वाण्या वरेण्यस्य मुखे वसन्त्या मञ्जीरशिञ्जानमिवास सूक्तम् । नखप्रभेव स्मितचन्द्रिकासीन्मुक्ताक्षमालेव च दन्तपंक्तिः ॥ ३.५७ ॥ तदाननाम्भोरुहकान्तिलक्ष्म्यास्तद्गण्डभित्तिर्मणिदर्पणश्रीः । तत्कर्णपाशश्च विलासडोला तदीक्षणं विभ्रमदीर्धिकासीत् ॥ ३.५८ ॥ भ्रूवल्लरी तस्य मनोज्ञमूर्त्तेस्तारांशुलीढोभयकोटिभागा । कोदण्डलीलेव विजित्य मारादात्मीकृतारोपितभृङ्गमौवी ॥ ३.५९ ॥ प्रसन्नमूर्णावलयाभिरामं ज्योतिर्मयं तस्य मुखारबिन्दम् । भूयिष्ठमन्तर्गतचन्द्रलेखां बालार्कबिम्बश्रियमाततान ॥ ३.६० ॥ ऊर्णाभिरामा नरपालसूनोर्निटालभूमिर्नितरां चकाशे । वप्रक्रियाभग्ननिलीनदन्तिदन्तांकुरा मेरुशिलातटीव ॥ ३.६१ ॥ विनाङ्गरागेण विनाङ्गदेन विनावतंसेन विना स्रजापिउ । आविष्कृतासेचनकालमासीदङ्गः तदीयं नवयौवनेन ॥ ३.६२ ॥ आनन्दयित्री हरिणेक्षणानामदुष्टिपूर्वा पुरुषान्तरेषु । निर्व्याजभूषा निखिलाङ्गयष्टेस्तस्योदितासीत्समुदायशोभा ॥ ३.६३ ॥ विश्वम्भरावलयधारणयोग्यबाहोः सूनोर्नृपः सुरपतिप्रतिमस्वभावः । माणिक्यकुम्भभरितैर्मणिमन्त्रपूतैस्तीर्थैश्चकार युवराजपदाभिषेकम् ॥ ३.६४ ॥ इति बुद्धघोषविरचिते पद्यचूडामणिनाम्नि महाकाव्ये तृतीयः सर्गः ॥ चतुर्थः सर्गः सिद्धार्थविवाहप्रस्तावः अथो कुमारस्य कुलोद्वहस्य करग्रहं कारयितुं नरेन्द्रः । का सास्य योग्या भुवि कन्यकेति चिन्तयामास समेतबन्धुः ॥ ४.१ ॥ तत्रान्तरे कोलियभूमिपालः कुमारिकां मे कुलरत्नदीपाम् । दास्यामि सूनोस्तव सर्वथेति सन्देशपत्रं विससर्ज तस्मै ॥ ४.२ ॥ आकर्ण्य सन्देशमुखादुदन्तमतीव सन्तुष्टमनाः क्षितीशः । तथैव सज्जीक्रियतां त्वयेति सन्देशमस्मै प्रजिघाय भूयः ॥ ४.३ ॥ तथेति सोऽपि प्रतिगृह्य तस्मै सन्देशपत्रं समुदीर्णहर्षः । प्रचक्रमे कारयितुं कुमार्या विवाहदीक्षोत्सवमत्युदारम् ॥ ४.४ ॥ आरोपिताभ्रङ्कषकेतुमालमाबद्धकौशेयवितानशोभम् । अभ्युच्छ्रितेन्द्रायुधतोरणाङ्कमभ्यन्तरस्थापितपूर्णकुम्भम् ॥ ४.५ ॥ आस्तीर्णमुक्तासिकताभिराममाकीर्णनानाकुसुमौपहारम् । आरब्धवैवाहिकसंविधानमन्तःपुरं भूमिपतेर्बभूव ॥ ४.६ ॥ अभ्यक्तगात्रीमधिवासितेन तैलेन गन्धामलकोपलिप्ताम् । वराङ्गनास्ता मणिकुम्भमुक्तैरम्भोधरैः सादरमभ्यषिञ्चन् ॥ ४.७ ॥ स्नानावसाने नरदेवकन्या पाथोभरार्द्रं परिमुच्य वासः । समाददे चारुतरं दुकूलं चन्द्रातपं शारदिकेव रात्रिः ॥ ४.८ ॥ ततः प्रकीर्णाभिनवप्रसूने चतुष्कमध्ये विनिवेश्य सख्यः । नानाविधैराभरणैर्नरेन्द्रकन्यामलञ्चक्रुरतिप्रवीणाः ॥ ४.९ ॥ अन्तःसमावेशितफुल्लमल्लीधम्मिल्लबन्धस्तरलेक्षणायाः । ततान तारागणशारितस्य गाढान्धकारस्तबकस्य कान्तिम् ॥ ४.१० ॥ आकुञ्चिताग्रैरलकैः प्रशस्तैस्तस्या मुखाम्भोरुहमाबभासे । तदीयसौरभ्यसमृद्धिलोभादालीयमानैरिव चञ्चरीकैः ॥ ४.११ ॥ सिन्दूरक्लृप्त क्षितिपालपुत्र्या विवाहदीक्षातिलको विरेजे । प्राप्ताधिपत्यस्य मनोभवस्य प्रतापबाकार्क इवोज्जिहानः ॥ ४.१२ ॥ कर्णावसक्ताः कमलेक्षणाया यवाङ्कुराः सातिशयं विरेजुः । त्रिलोकजिष्णोः कुसुमायुधस्य कीर्त्तिप्ररोहा इव जृम्भमाणाः ॥ ४.१३ ॥ कस्तूरिकाकल्पितपत्रलेखस्तस्याः कपोलः शशिमण्डलश्रीः । आक्रम्य तस्थौ मुकुरस्य शोभामम्भोदवातैर्मलिनोदरस्य ॥ ४.१४ ॥ विन्यस्तकालाञ्जनदर्शनीयं विलोचनं मीनविलोचनायाः । अत्युग्रहालाहलपङ्कदिग्धामनङ्गबाणश्रियमन्वयासीत् ॥ ४.१५ ॥ अनन्यसाधारणपाटलिम्नस्तस्या मनोज्ञस्य रदच्छदस्य । आकल्पिता यावकपङ्कभतिरभूतपूर्वां न चकार शोभाम् ॥ ४.१६ ॥ अलंकृतं मौक्तिककुण्डलाभ्यामम्भोरुहाक्ष्या मुखामार्द्रहासम् । पार्श्वद्वयावस्थितपुण्डरीककोशं शरत्कोकनदं जिगाय ॥ ४.१७ ॥ आमुक्तमुक्तासरदर्शनीयमाबिभ्रती कण्ठमतीव रेजे । निष्ठ्यूतमुक्तानिकराभिरामशङ्खोज्ज्वला सागरवीचिकेव ॥ ४.१८ ॥ तस्या वपुश्चन्दनपङ्कलिप्तमामोदिकालागरुभक्तिचित्रम् । कलिन्दजाकर्बुरितान्तरायाः शोभामपुष्यत्सुरशैवलिन्याः ॥ ४.१९ ॥ पयोधरद्वन्द्वमनिन्दिताङ्ग्याः परिस्फुरन्निस्तलताअरहारम् । आकीर्णतारानिकराभिरामामस्ताद्रिशृङ्गश्रियमन्वगच्छत् ॥ ४.२० ॥ बलित्रयालंकृतमध्यदेशा तन्वी विलोलस्तनभारहारा । तरङ्गिता शीकरजालिताङ्गचक्राह्वया शैवलिनीव रेजे ॥ ४.२१ ॥ माणिक्यकाञ्चीवलयानुविद्धश्रोणीभरा क्षोणिपतेस्तनूजा । वसुन्धरा वारिधिरत्नगर्भवेलासमालिङ्गितसैकतैव ॥ ४.२२ ॥ रराज तस्या नवरोमराजिरारोहतस्तुङ्गपयोधराद्रिम् । शृङ्गारयोनेरवलम्बनार्थमालम्बितेन्दीवरमालिकेव ॥ ४.२३ ॥ अनर्घचामीकरकल्पिताभिरलंक्रियाभिः सुतनुश्चकाशे । समुज्ज्वला नूतनमञ्जरीभिः सञ्चारिणी चम्पकवल्लरीव ॥ ४.२४ ॥ अलक्तकासङ्गविवृद्धरागमंघ्रिद्धयं कोमलमायताक्ष्याः । नवातपस्पर्शविशेषदृश्यां नालीकशोभां नमयाञ्चकार ॥ ४.२५ ॥ आकल्पसौन्दर्यदिदृक्षयेयमाबिभ्रती स्फाटिकमात्मदर्शम् । विदिद्युते पूर्णशशाङ्कविम्बसम्पर्किणी शातमखी दिशेव ॥ ४.२६ ॥ अनन्तरं बन्धुरगात्रयष्टेः पुरोधसः पूर्णमनोरथायाः । न केवलं कौतुकमाबबन्धुः कराम्बुजे किञ्च हदम्बुजेऽपि ॥ ४.२७ ॥ एवं समापय्य कुमारिकाया वैवाहिकं मण्डनसंविधानम् । कुतूहली कौलियभूमिपालस्तस्थौ वरस्यागममीक्षमाणः ॥ ४.२८ ॥ अथ स्ववेश्मन्यधिराजसूनुः स्नातानुलिप्तो नवधौतवासाः । उल्लासिकां लोकविलोचनानामुद्वाहभूषामुररीचकार ॥ ४.२९ ॥ सुवर्णसूत्रग्रथितान्तरेण क्षौमोत्तरीयेण स राजसूनुः । विद्युत्पिनद्धेन शरद्घनेन वियत्तलाभोग इव व्यराजत् ॥ ४.३० ॥ विशालवक्षःस्थललम्बितेन मुक्ताकलापेन बभौ कुमारः । विराजमानेन तटोपकण्ठं छायापथेनेव सुवर्णशैलः ॥ ४.३१ ॥ प्रसन्नगम्भीरवपुः कुमारः प्रवालमुक्तामयकुण्डलाभ्याम् । चण्डांशुताराधिपमण्डलाभ्यामलंकृतो मेरुरिवालुलोके ॥ ४.३२ ॥ वरश्चकाशे हरिचन्दनार्द्रो बालातपाताम्र इवोदयाद्रिः । धातुच्छटाविच्छुरितः करीव सन्ध्यामहःसान्द्र इवामृतांशुः ॥ ४.३३ ॥ आदर्शबिम्बे प्रतिमाशरीरमामुक्तरत्नाभरणस्य यूनः । वैकर्तनं मण्डलमास्थितस्य पुंसः पुराणस्य पुपोष लक्ष्मीम् ॥ ४.३४ ॥ अलंक्रियाजायत देहकान्तिर्नैसर्गिकी तस्य नरेन्द्रसूनोः । एईश्वर्यचिह्नानि परं बभूवुरन्यानि माणिक्यविभूषणानि ॥ ४.३५ ॥ उक्षिप्तमुक्तातपवारणश्रीरुद्धूतबालव्यजनोपचारः । आरुह्य वैवाहिकमौपवाह्यं जगाम सन्बन्धिगृहं कुमारः ॥ ४.३६ ॥ तमागतं शाक्यकुलप्रदीपं क्षोणीपतिः कोलियचक्रवर्त्ती । स्वयं पदाभ्यामभिगम्य दूरं वैवाहिकं मण्डपमानिनाय ॥ ४.३७ ॥ ददर्श धीरः क्षितिपालपुत्रीं तत्र स्थितां तारकराजवक्त्राम् । लीलारविन्देन करस्थितेन पयोधिकन्यामिव भासमानाम् ॥ ४.३८ ॥ सोत्कण्ठमालोकयतः कुमारीं सुधांशुशोभापरिभावुकाङ्गीम् । अतीत्य वेलामधिराजसूनोरानन्दसिन्धुः प्रससार दूरम् ॥ ४.३९ ॥ यत्कार्यते तत्र पतिव्रताभिः कृत्वा तदेतत्सकलं कुमारः । तया समं तामरसायताक्ष्या जताम वैतानिकवेदिमध्यम् ॥ ४.४० ॥ उदर्चिषस्तस्य हुताशनस्य हविर्भिरुच्चैर्ज्वलतः पुरस्तात् । क्रियाकलापे कृतधीः पुरोधाः संयोजयामास वधूकुमारौ ॥ ४.४१ ॥ आसीत्कुमारः पुलकप्ररोहैरुदञ्चितैः कञ्चुकिताङ्गयष्टिः । वैकक्षमाल्यच्युतकेसरास्तद्गुप्त्यै बभूवुर्गुणरत्नराशेः ॥ ४.४२ ॥ आविर्भवद्भिः श्रमवारिलेशैरार्द्राङ्गुलिः कोलियकन्यकासीत् । विवाहधाराजलशीकरास्तद्व्याजीबभूवुर्विपुलेक्षणायाः ॥ ४.४३ ॥ आलोकलोभादभिवर्तमाना निवर्तमानास्त्रपया च शश्वत् । तयोरपाङ्गप्रसरास्तदानीं डोलाविहारश्रियमन्वभूवन् ॥ ४.४४ ॥ अभ्यस्तया संवरणाम्बुशेरावर्तचक्रभ्रमलीलयेव । वरः समं वामदृशा कृशानोः प्रदक्षिणाप्रक्रममन्वतिष्ठत् ॥ ४.४५ ॥ कन्याकुमारौ कमनीयरूपावालोक्य होमाग्निरदृष्टपूर्वौ । प्रदक्षिणार्चिःस्फुरणच्छलेन श्लाघाशिरःकम्पमिवाचचार ॥ ४.४६ ॥ गुरुप्रयुक्ता कुलपालिका सा लाजोपहार विससर्ज वह्नौ । मरुद्विधूता लतिकेव पुष्पं चूतद्रमे स्यूतनवप्रवाले ॥ ४.४७ ॥ समुद्गता धूमततिः कृशानोः समीपलग्ना मुखसारसस्य । अम्लाननीलायतनालभङ्गीम ङ्गीचकाराम्बुजलोचनायाः ॥ ४.४८ ॥ तस्मादुदीर्णा नवधूमराजिस्तस्या मुखे तद्ग्रहणप्रसन्ने । क्षणं समालक्ष्यत सञ्चरन्ती सरोरुहे षट्पदमालिकेव ॥ ४.४९ ॥ वक्त्रारविन्दं परितः प्रकीर्णा वामभ्रुवो मङ्गलधूमराजिः । अन्यामृतांशुभ्रमतः प्रयातामधत्त साक्षात्परिवेषलक्ष्मीम् ॥ ४.५० ॥ वक्त्राम्बुजं वामदृशः परीता वैवाहिकी मङ्गलधूमपंक्तिः । बभार नीलांशुकनिर्मितस्य मुहूर्तवक्त्रावरणस्य शोभाम् ॥ ४.५१ ॥ कालाञ्जनोच्छ्वासविकूणिताक्षं धर्मोदकक्लिष्टकपोलपत्रम् । विवर्णकर्णोत्पलमाननाब्जं बभूव धूमग्रहणान्मृगाक्ष्याः ॥ ४.५२ ॥ इति क्रमेणाहितपाणिपीडस्तया सहैव श्वसुरौ कुमारः । ननाम तावप्यनुमोदमानावाशीर्भिरेतावनुवर्धयेताम् ॥ ४.५३ ॥ अन्यांश्च सर्वानपि बन्धुवर्गान् सम्भाव्य जायासहितः कुमारः । निर्गत्य तस्मान्निजराजधानीप्रदक्षिणाय प्रवरो जगाम ॥ ४.५४ ॥ तस्मिन्मुहूर्ते कपिलाङ्गनानां कुमारनिध्यानपरायणानाम् । सौधेषु सौधेषु समुद्बभूवुः शृङ्गारचेष्टा मदनोपदिष्टाः ॥ ४.५५ ॥ तथा हि काचित्करपल्लवेन कल्हारमालामवलम्बमाना । स्वयं वरीतुं किल राजधानीसोपानमार्गं त्वरया जगाम ॥ ४.५६ ॥ नेत्रस्य तद्दर्शननिश्चलस्य मा मूदिदं रोध इतीव मत्वा । अपास्य कालाञ्जनमायताक्षी वातायनं सत्वरमाप काचित् ॥ ४.५७ ॥ विभूषणैरन्तरिते मदङ्गे नैसर्गिकीं कान्तिमसौ न पश्येत् । इतीव नैपथ्यमकल्पयन्ती काचित्प्रपेदे सहसा गवाक्षम् ॥ ४.५८ ॥ व्याकोशमेतद्यदि कर्णपाशे निवेशयेयं सुरभि द्विरेफः । मां पीडयेदित्यवधीर्य मन्ये कर्णोत्पलं कापि जगाम जालम् ॥ ४.५९ ॥ तदाननालोकनहर्षजातः स्तनस्य रोमोद्गम एव भुषा । इतीव पत्रावलिमुत्सृजन्ती वातायनाभ्यर्णमवाप काचित् ॥ ४.६० ॥ पतिव्रतायाः परदर्शनाय यात्रा न युक्तेति निरुन्धतीव । नितम्बबिम्बाद्रसना गलन्ती कस्याश्चिदघ्रिं कलयाञ्चकार ॥ ४.६१ ॥ एकावलीं काचिदनर्पयित्वा कण्ठोकण्ठं करपङ्कजेन । समुद्वहन्ती त्वरमाणचेतास्तस्योपहारार्थमिव प्रतस्थे ॥ ४.६२ ॥ ताभिस्तदुद्वीक्षणतत्पराभिर्निरन्तराः सौधतलप्रदेशाः । जगज्जिगीषोर्मकरध्वजस्य सेनानिवेशप्रतिमा बभूवुः ॥ ४.६३ ॥ वीथीषु वीथीषु विलासिनीनां तस्मिन्निपेतुस्तरलाः कटाक्षाः । प्रासादजालान्तरिताङ्गयष्टेः प्रसूनकेतोरिव पुष्पबाणाः ॥ ४.६४ ॥ तमायताक्ष्यः स्पृहणीइयमङ्गादङ्गान्तरं गन्तुमशक्नुवानैः । आकर्णपूरप्रसृतैरपाङ्गैरालोकयामासुरतृप्तिभाजः ॥ ४.६५ ॥ तासां कुमारः शतपत्रमित्रैर्विलोचनैर्विस्मयनिर्निमेषैः । अङ्गेषु सर्वत्र निषिक्तबिम्बैः साक्षात्सहस्राक्ष इवाबभासे ॥ ४.६६ ॥ यत्रैव यत्रैव कुमारगात्रे व्यापारितं लोचनमङ्गनाभिः । तत्रैव तत्रैव बभूव कान्तिनिर्यासनिःस्यूतमिवानुषक्तम् ॥ ४.६७ ॥ तासां कुमाराकृतिरातुराणामस्पन्दविस्फारितलोचनानाम् । विनेतुकामेव मनोभवार्तिं प्रत्येकमन्तर्हृदयं विवेश ॥ ४.६८ ॥ काचित्तदा कण्टकिताङ्गयष्टिस्तदाननाम्भोरुहनिर्विशेषम् । आजिघ्रदानन्दनिमीलिताक्षी करस्थितं विभ्रमपुण्डरीकम् ॥ ४.६९ ॥ काचित्तदाकर्षणसिद्धमन्त्रं कामोपदिष्टं किल जप्तुकामा । करेण मन्दं भ्रमयाञ्चकार मुक्ताक्षमालामिव हारयष्टिम् ॥ ४.७० ॥ शुकावचञ्चूपुटपाटलेन नखेन काचिद्विलोलेख नव्यम् । पाणिस्थितं केतकगर्भपत्रमनङ्गसन्देशमिवास्य कर्तुम् ॥ ४.७१ ॥ आलेख्यलीलाफलकं सतूलिमेकं दधाना करपल्लवेन । आत्मानमालिख्य वराय तस्मै दातुं समुद्योगवतीव तस्थौ ॥ ४.७२ ॥ चेतोभुवः पुष्पशिलीमुखानां परागवर्षैः पततामजस्रम् । कस्याश्चिदासीत्कलुषीकृतेव दृष्टिः समुद्यद्बहुलाश्रुपूरा ॥ ४.७३ ॥ उद्भिन्नरोमोद्गमलोभनीया रराज कस्याश्चन गण्डपालिः । धृताङ्कुरा चित्तग्रहप्रवेशे मनोभुवो मङ्गलपालिकेव ॥ ४.७४ ॥ आकर्णमाकृष्टशरासनस्य कामस्य कादम्बकदम्बकानाम् । पक्षीनिलेनेव विधूयमाना काचिच्चकम्पे स्खलदुत्तरीया ॥ ४.७५ ॥ धर्मोदबिन्दुप्रकरैरुदीर्णैः करम्बिता काचन राजते स्म । कोदण्डवल्लीव दृढावकृष्टा निष्ठ्यूतमुक्ताङ्कुरिता स्मरस्य ॥ ४.७६ ॥ मनः प्रतोलीं विशतः प्रकीर्णैर्मनोभुवः पादपरागजालैः । काचिद्दृशं कर्बुरविग्रहेव विवर्णभावं प्रतिपद्यते स्म ॥ ४.७७ ॥ कुमारमेनं कुलशैलधुर्यं भर्त्तारमाप्तुं परमाभिरूप्यम् । बिम्बाधरेयं जननान्तरेषु किं वाकरोत्पुण्यमगण्यरूपम् ॥ ४.७८ ॥ सुधानिधानं तुहिनांशुबिम्बं लक्ष्मीविमानानि च पङ्कजानि । आतन्वता पूर्वममुष्य वक्त्रनिर्माणयोग्येव कृता विधात्रा ॥ ४.७९ ॥ निर्माणकाले भुवनत्रयस्य सम्भृत्य सम्भृत्य समर्पितेन । सौन्दर्यसारेण सरोजजन्मा प्रायेण चक्रे युवराजमेनम् ॥ ४.८० ॥ युवानमेनं युगदीर्घबाहुं द्रष्टुं त्रिलोकस्पृहणीयशोभम् । अस्माकमक्ष्णामयुतं विरिञ्चिस्त्रिलोकवेदी न चकार कस्मात् ॥ ४.८१ ॥ अमुष्य वक्त्रामृतभानुबिम्बसम्भूतसौन्दर्यसुधोपयोगात् । आपद्यते दृष्टियुगं न केषामत्रैव जन्मन्यनिमेषभावम् ॥ ४.८२ ॥ इत्यादिमासां गिरमत्युदारामाकर्णयन् कर्णसुखायमानाम् । प्रदक्षिणीकृत्य पुरीं कुमारः प्राविक्षदन्तर्भवनं नृपस्य ॥ ४.८३ ॥ प्रविश्य दूरावनतेन मूर्ध्ना बद्धप्रणामाञ्जलिकुड्मलेन । तया समेतः शकवंशदीपः प्रियोत्तरङ्गं पितरं ववन्दे ॥ ४.१८४ ॥ उत्थाप्य दूरानतमूढभार्यमुदञ्चिताभ्यां भुजपञ्जराभ्याम् । रोमोद्गमाध्यासितगात्रययष्टिरुर्वीपतिः सादरमालिलिङ्ग ॥ ४.१८५ ॥ अनन्तरं काञ्चनपात्रासंस्थैः कर्पूरदीपैः परिवारनार्यः । अमुष्य भद्रासनमास्थितस्य नीराजनं मङ्गलमन्वतिष्ठन् ॥ ४.१८३ ॥ इति विहितविवाहं विश्वविश्रान्तकीर्त्ति त्रिजगदवनदीक्षाबद्धकक्षं कुमारम् । नरपतिरवलोक्य प्रीयमाणः स मेने निजकुलमतितुङ्गं निहनुतारातिगर्वम् ॥ ४.१८७ ॥ इति बुद्धघोषविरचिते पद्यचूडामणिनाम्नि महाकाव्ये चतुर्थः सर्गः ॥ पञ्चमः सर्गः त्रयो महाप्रासादाः ततः कुमारस्य समग्रवैभवो नराधिनाथो नवयौवनश्रियः । ऋतूत्सवानामुपसेवनक्षमानकारयत्त्रीनतुलान्महालयान् ॥ ५.१ ॥ स तेषु सद्मस्वधिराजनन्दनो विचित्रविन्यासविशेषशालिभिः । विनोद्यमानो वरवारयोषितां विलासनृत्तैर्विजहार हारिभिः ॥ ५.२ ॥ बभूव वर्षासमयोऽथ मेदिनी कठोरधर्मज्वरशान्तिकर्मठः । अशेषकान्तारशिखण्डिमण्डलीविलासलास्यक्रमदेशिकेश्वरः ॥ ५.३ ॥ पयोधराः केचन काचमेचकाश्चकाशिरे चण्डसमीरणेरिताः । शनैः शनैरम्बरकृष्णभोगिना विमुच्यमाना इव जीर्णकञ्चुकाः ॥ ५.४ ॥ तदा समारुह्य विहारमण्डपं सहैव वध्वा सरसीरुहेक्षणः । प्रदर्शयन्मीनदृशः पयोधरान् प्रचक्रमे वर्णयितुं तपात्ययम् ॥ ५.५ ॥ इतः सरोजाक्षि! विलोकयाम्बुदानुदन्वदम्भोभरपश्यतोहरान् । वियत्तलाभोगविलासदर्पणप्रविष्टभूमण्डलबिम्बसन्निभान् ॥ ५.६ ॥ ऋतुश्रिया दीप्ततडित्प्रदीपिकासमार्जितैरञ्जनसञ्चयैरिव । नतभ्रु! नव्यैः शकलैः पयोमुचां नभःस्थली पात्रमियं विभाव्यते ॥ ५.७ ॥ पयोदकालेन चिरप्रवासिना समागतेनाभिनवं प्रिये! दिशाम् । विमुच्यमाना इव केशवेणयो विभान्ति कामं नवमेघपंक्तयः ॥ ५.८ ॥ तपात्ययाभ्यागमनेन शाम्यतो निदाघरूपस्य कृपीटजन्मनः । विजृम्भमाणा इव धूमवीचयो विशन्ति मेघावलयो वियत्तलम् ॥ ५.९ ॥ पुरन्दराक्रान्तिभयेन ये पुरा पयोनिधिं प्रापुरलूनपक्षकाः । समुत्पतन्तीव त एव भूधरास्ततः समुदद्यन्नववारिदच्छलात् ॥ ५.१० ॥ मृगाक्षि! विद्युल्लतिकाकरम्बिम्बितैर्नभोऽवकाशो जलदैर्विराजते । पयोनिधिर्विद्रुमवल्लिवेल्लितैर्युगक्षये कर्दमगोलकैरिव ॥ ५.११ ॥ शिखण्डिनामद्भुतताण्डवश्रियामरण्यरङ्गे मधुरप्रणादिनाम् । विलोक्य विद्युन्नयनेन विभ्रमान् प्रशंसतीव स्तनितेन तोयदः ॥ ५.१२ ॥ कलापिनः काञ्चनकाहलोपमान् फणीन्द्रलोकान् परिगृह्य चञ्चुभिः । गभीरकेकामुखरीकृताम्बरा नदन्ति चक्रीकृतबर्हमण्डलाः ॥ ५.१३ ॥ सुवर्णकारेण तपात्ययात्मना पयोदपालीनिकषोपलान्तरे । निघृष्यमाणा इव हेमराजयस्तडिल्लता भान्ति चकोरलोचने ॥ ५.१४ ॥ मलीमसं केवलमङ्गमन्तरं विशुद्धमन्तःकरणं तु मामकम् । इति स्फुरच्चञ्चलदीधितिच्छलाद्विभिद्य तं दर्शयतीव वारिदः ॥ ५.१५ ॥ समुद्रनेमीवहनस्य भारिणश्चतुर्महासागरमध्यवर्तिनः । कूलाद्रिकूटेषु तडिद्गणावृता विभान्ति सीता इव मेघपंक्तयः ॥ ५.१६ ॥ विजित्य विश्वत्रयमद्भुतश्रिया प्रदानशौर्येण पयोमुचामुना । समुच्छ्रितानां तरलाक्षि! विद्युतो जयध्वजानां जनयन्ति संशयम् ॥ ५.१७ ॥ सितच्छदोत्सारणवेत्रयष्टयो विलोलदृष्टे! विलसन्ति विद्युतः । धनाघनैः प्रोषिततर्जनक्रियाविघूर्ण्यमानाः करशाखिका इव ॥ ५.१८ ॥ शतह्रदापादितचारुमौर्विकं सलीलमादाय महेन्द्रकार्मुकम् । पयोदकालः शबरः शरव्रजैरपुण्डरीकां विदघाति मेदिनीम् ॥ ५.१९ ॥ भुजङ्गभुग्वान्तफणामणिश्रियः स्फुरन्ति भूम्ना पुरुहूतगोपकाः । प्रचण्डधाराहतरत्नसूदरप्रकीर्णरत्नोपलखण्डकान्तयः ॥ ५.२० ॥ शरन्निशाकाशतलोदरप्रभासहोदरे नूतनशाद्वलस्थले । पतन्ति वज्रायुधगोपकीटकाः समग्रन्ध्यारुणतारकोपमाः ॥ ५.२१ ॥ ‘वियत्पृथिव्योः कियदन्तरं भवेत्’ इति प्रमातुं प्रथमेन वेधसा । प्रसार्यमाणा इव मानरज्जवः पतन्ति धाराः परितः पयोमुचाम् ॥ ५.२२ ॥ इयं चकोराक्षि! पयोदमालिका प्रकामवाचाटबकोटमण्डली । उपात्तशङ्खा स्फुटमिक्षुधन्वनः प्रयाणमुद्घोषयतीव दिङ्मुखे ॥ ५.२३ ॥ वकावलीविभ्रमकण्ठकम्बवो वितीर्णशक्रायुधचित्रकम्बलाः । नमन्ति शैलेषु नवाभ्रकुञ्जरास्तटाभिघातार्थमिवोढगर्जिताः ॥ ५.२४ ॥ क्षणप्रभाचम्पकदामभूषणा दिशः सुरेन्द्रायुधचारुशेखराः । पयोदशृङ्गैर्नववारिगर्भितैः परस्पराभ्युक्षमिव प्रकुर्वते ॥ ५.२५ ॥ विगाहमानस्य नभःस्थलीगृहं निदाधजिष्णोरृतुचक्रवर्तिनः । घनेन बद्धा इव तोरणस्रजः सुरेन्द्रचापाः सुतरां चकासति ॥ ५.२६ ॥ प्रकम्पितायां कठकाषलीलया दिगन्तभित्तौ स्तनयित्नुदन्तिना । विशीर्यमाणा इव तारकागणाः पलाण्डुभासः करकाः पतन्त्यमूः ॥ ५.२७ ॥ पयःप्रवाहैः सममेव वारिदः परं समादाय महापयोनिधेः । पुनर्विभक्ता इव मौक्तिकोत्कराः स्फुरन्ति वर्षोपलशर्कराः क्षितौ ॥ ५.२८ ॥ यथा यथा वृष्टिभिरभ्रमण्डले विजृम्भते वैद्युतहव्यवाहनः । तथा तथा पान्थमृगीदृशां ध्रुवं विजृम्भते चेतसि मन्मथानलः ॥ ५.२९ ॥ निदाघतापज्वलिता वनस्थली प्रसारयन्ति स्फुटकन्दलीकरम् । मयूरकेकाविरुतैर्मनोहरैः पयोदमभ्यर्थयतीव जीवनम् ॥ ५.३० ॥ विनिद्रकान्तारविनम्रवाटिकाप्रसूनकिञ्जल्कपरागवाहिनः । हरन्ति मन्दाः पवमानकन्दलाः शिखण्डिनां ताण्डवजं परिश्रमम् ॥ ५.३१ ॥ विशङ्कटामम्बरराजवीथिकां वलाहकानामटतामितस्ततः । प्रतायमाना इव पादपांसवः पतन्ति मन्दं परितः पयःकणाः ॥ ५.३२ ॥ विघुष्यमाणे तडिताभ्रमंडले विधाय साक्ष्ये नववैद्युतानलम् । ऋतुः पुरोधास्तटिनीसमुद्रयोः प्रवर्तयत्यूर्मिकरग्रहोत्सवम् ॥ ५.३३ ॥ अनेन कालेन विनामृतद्रवैर्निकाममापादितसर्वसम्पदा । अशेषतो भूरपि सर्वथा भजेदपुत्रिणीनामधिदेवतापदम् ॥ ५.३४ ॥ इति प्रशंसामुखरे सकौतुकं स्ववृत्तिमुद्दिश्य नरेन्द्रनन्दने । उपोढलज्जा इव दिङ्मुखान्तरे तिरोबभूवुः सकलाः पयोधराः ॥ ५.३५ ॥ दिगङ्गनावर्णघृतानुलेपनं सितच्छदस्वैअविहारवीथिका । सरोजिनीयौवनविभ्रमोदयः समाविरासीत्समयोऽथ शारदः ॥ ५.३६ ॥ तडित्प्रियायाः सविलाससम्पदो बलाकिकायाश्च विशुद्धजन्मनः । वियोगदुःखादिव मौनमुद्रिताः प्रपेदिरे पाण्डरतां पयोधराः ॥ ५.३७ ॥ कदर्थितात्मीयगुणप्रकाशने क्षयं प्रपन्ने सति वारिदागमे । प्रमोदहासा इव दिङ्मृगीदृशां समुद्बभूवुः कलहंसमण्डलाः ॥ ५.३८ ॥ सितच्छदानां श्रवणार्तिकारणं निशम्य कोलाहलमुत्कचेतसाम् । वियोगभाजस्तरुणीजना भृशं निनिन्दुरन्तःकरणेन भार्गवम् ॥ ५.३९ ॥ अनन्तरत्नाकरफेनमण्डलैरनङ्गकीर्तिस्तबकभ्रमावहैः । मरालवृन्दैर्वलमानपक्षकैरपूरि सर्वं हरिदन्तकन्दरम् ॥ ५.४० ॥ विकासिनां सप्तपलाशभूरुहां विजृम्भमाणाः परितो रजोभराः । हरिन्मुखानामधिवासचूर्णंकभ्रमं वितेनुः प्रथमानसौरभाः ॥ ५.४१ ॥ प्रवर्त्यमाने प्रमदैर्मदावलैः समुल्वणे दानजलाभिवर्षणे । गतेऽपि वर्षासमये महापगा बभूवुरत्यन्तविवृद्धजीवनाः ॥ ५.४२ ॥ कलाधिनाथः करजालमुज्ज्वलं प्रसारयामास हरित्सु निर्भरम् । चिरोत्सुकानां कुमुदाकरश्रियां दृढाङ्गपालीमिव कर्तुमुन्मनाः ॥ ५.४३ ॥ वितायमानैः स्मितचन्द्रिकाभरैस्तरङ्गिताः क्षोमविशेषपाण्डरैः । विलज्जमाना द्विजराजदर्शनाद्धृतावगुण्ठा इव दिग्वधूटिकाः ॥ ५.४४ ॥ पतङ्गदावानललङ्घितात्मनां तमस्तमालद्रुमषण्डसम्पदाम् । मरुत्प्रकीर्णा इव भस्मधूलयः शशङ्किरे शारदमेघपंक्तयः ॥ ५.४५ ॥ विसृत्वरैः शारदिकैः पयोधरैर्विडम्बयामास विकीर्णमम्बरम् । तरङ्गभङ्गैः कलशाम्भसां निधेर्युगान्तभिन्नैर्लवणोदधेर्द्युतिम् ॥ ५.४६ ॥ कृताभिषेकाः प्रथमं घनाम्बुभिघृतोत्तरीयाः शरदभ्रसञ्चयैः । विलिप्तगात्र्यः शशिरश्मिचन्दनैर्दिशो दधुस्तारकहारयष्टिकाम् ॥ ५.४७ ॥ कृताप्लवानामचिरेण वारिदैर्दिशावधूनां रुचिराम्बरत्विषाम् । शरीरलग्ना इव तोयविप्रुषश्चकाशिरे सातिशयेन तारकाः ॥ ५.४८ ॥ विकासिनश्चन्द्रकरोपलालनाद्विरेजिरे कैरवकोशराशयः । शरत्प्रसन्नेषु तडाकवारिषु प्रविष्टबिम्बा इव तारकागणाः ॥ ५.४९ ॥ विकस्वरा व्यञ्जितकण्टकांकुरा विमुक्तमाध्वीकमुदश्रुबिन्दवः । सरोजषण्डाः शरदं समागताः विलोक्य विस्मेरमुखा इवाबभुः ॥ ५.५० ॥ विकासभाजामभितः सरोरुहां विलीयमानैर्मकन्दनिर्झरैः । अगाधतां प्रापुरतीव पूरिताः शरत्कृशा अप्यखिलाः सरोवराः ॥ ५.५१ ॥ विपक्वपुण्ड्रेक्षुपरुमुखच्युतैर्निरन्तरा मौक्तिकसारसञ्चयैः । उदारकैदारककुल्यकातटाः प्रपेदिरे ताम्रनदीतटोपमाम् ॥ ५.५२ ॥ विपाकभूम्नाभिविदीर्णदाडिमीफलप्रकीर्णैर्नवबीजबालकैः । करम्बिताः काननभूमयो बभुः पुनः समुद्यत्सुरगोपका इव ॥ ५.५३ ॥ आनन्दपाकोदयशालिभिः फलैरवाङ्मुखीनाः कलमा ललक्षिरे । उपस्थितामात्मविनाशविक्रियां विचिन्त्य शोकावनता इवाधिकम् ॥ ५.५४ ॥ विकीर्णपङ्काङ्कितशृङ्गकोटयः खुरार्धचन्द्रक्षयकूलभूमयः । मुहुर्नदन्तो वृषभा मदोद्धतास्तटाभिघातं सरितां वितेनिरे ॥ ५.५५ ॥ अत्रान्तरे राजकुमारमेनमाहूय पृथ्वीपतिराबभाषे । अयं जनः पुत्र! तवास्त्रशिक्षाविलोकनं प्रत्यभिवाञ्छतीति ॥ ५.५६ ॥ श्रुत्वा तु तत्सूर्यकुलावतंसः प्रत्युज्जगाद प्रथमं नृपाणाम् । आलोक्यतां तात! ममास्त्रशिक्षा प्राप्ते दिने सप्तमसङ्ख्ययेति ॥ ५.५७ ॥ अथागते सप्तमवासरान्ते प्रजापतिर्बन्धुजनेन सार्धम् । तस्यास्त्रशिक्षाप्रविलोकनार्थमध्यास्त भद्रासनमन्तरेण ॥ ५.५८ ॥ एकेन बाणासनमाततज्यम्, अन्येन हस्ताम्बुरुहेण बाणम् । समाददानः स पिनद्धमूर्तिरग्रे गुरोराविरभूत्कुमारः ॥ ५.५९ ॥ किं पुष्पधन्वा प्रतिमब्धमूर्तिः, किं वावतीर्णो मधवान् सधन्वा! एवंविधा प्रादुरभूत्प्रजानां विकल्पना विस्मितमानसानाम् ॥ ५.६० ॥ अदृष्टपूर्वामतिलोकशिल्पामत्यद्भुतामप्रतिमप्रभावः । बहुप्रकारां पितुरस्त्रशिक्षां सन्दर्शयामास स वीरवर्यः ॥ ५.६१ ॥ दृष्ट्वास्त्रशिक्षां जगदेकबन्धोरभूतपूर्वामवनीतलेषु । आत्मानमाखण्डलतुल्यधामा विशामधीशो बहु मन्यते स्म ॥ ५.६२ ॥ इत्थं धीरो दर्शयित्वास्त्रशिक्षां धानुष्काणामग्रगण्यस्तरस्वी । आगोपालं स्तूयमानापदानो लोकैरुच्चैराससादात्मगेहम् ॥ ५.६३ ॥ सङ्गीतमङ्गलमहोत्सवसङ्गिनीभिः साकं वधूभिरनुरागतरङ्गिताभिः । क्रीडागृहेषु विहरन् क्षितिपालसूनुर्वर्षाणि कानिचिदसौ क्षपयाञ्चकार ॥ ५.६४ ॥ इति बुद्धघोषविरचिते पद्यचूडामणिनाम्नि महाकाव्ये पञ्चमः सर्गः ॥ षष्ठः सर्गः वसन्तसमयवर्णनम् प्रादुर्बभूव समयः सुभगो वसन्तः प्रस्तावनालिकुलकोकिलकूजितानाम् । बाणाशयो मकरकेतनसायकानां मौहूर्तिको मलयमारुतनिर्गमानाम् ॥ ६.१ ॥ उच्चण्डदण्डधरकासरसौर्वभौमसन्नाहभीत इव चण्डमयूखमाली । सद्यो विवर्तितहयो यमदिङ्मुखान्ताद्यात्रामधत्त हिमभूधरसम्मुखीनाम् ॥ ६.२ ॥ चन्द्रोदयोज्ज्वलमुखेन झषध्वजाज्ञां व्याकुर्वता विमलसूक्ष्मतराम्बरेण । वन्या वसन्तसमयेन परिग्रहत्वसम्भाविता सपदि पुष्पवती बभूव ॥ ६.३ ॥ कलेन गाढतरमानपरिग्रहाणां प्राणानिलान् रसयितुं प्रमदाजनानाम् । उल्लासितेव रसना कुसुमद्रुमाणामद्भासते स्म नवकोमलपल्लवश्रीः ॥ ६.४ ॥ उन्मोचयन् परिणतच्छदकञ्चुलीकामुद्भावयन्मुकुलजालकरोमहर्षम् । उल्लोलयन् भ्रमरकेशभरं लतानामुद्यानभूषु विजहार वसन्तकालः ॥ ६.५ ॥ आरुह्य मन्दमलयानिलमौपवाह्यमाशाजयप्रचलितस्य मनोभवस्य । सूनप्रसूतिरभवन्नवलाजवृष्टिः पुंस्कोकिलध्वनिरभूद्वरशङ्खघोषः ॥ ६.६ ॥ मन्दानिलेन वहता वनराजिमध्यादुत्थापितः कुसुमकोणकरेणुरुच्चैः । सेनापराग इव दिग्विजयोद्यतस्य चेतोभुवः प्रसरति स्म दिगन्तरेषु ॥ ६.७ ॥ पुष्पायुधस्य नृपतेः परपुष्टवर्गः संग्रामसम्भ्रमसहान् सहकारबाणान् । सञ्चेतुकाम इव सञ्चितचारुपत्रान् बभ्राम विभ्रमवनेषु नवांकुरेषु ॥ ६.८ ॥ वीरेण मारसुभटेन विभिद्य बाणैर्बद्धा महाविटपिनां विटपान्तरेषु । व्याकीर्णकेशनिचया इव शत्रुमुण्डा व्यालोलभृङ्गनिवहाः स्तबका विरेजुः ॥ ६.९ ॥ भृङ्गाभिमुद्रितमुखा मकरन्दपूरैः पूर्णोदरा रुरुचिरे सुमनोगुलुच्छाः । वीरस्य मारनृपतेर्विजयाभिषेकं कालेन कर्तुमिव रत्नघटाः प्रणीताः ॥ ६.१० ॥ ओघीकृता मलयमारुतचन्दनेन पुष्फोर पूगवननूतनपुष्पपालिः । चेतोभवस्य नृपतेर्मधुना सलीलमान्दोलिता ललितचामरमालिकेव ॥ ६.११ ॥ पुंस्कोकिलाअः पुनरनङ्गजयापदानगाथासदृक्षकलपञ्चमकूजितानि । पेठुः प्रसन्नमधुरोज्ज्वलपेशलानि प्रत्यग्रचूतकलिकासु वनस्थलीषु ॥ ६.१२ ॥ उद्वेलसम्भृतमधुव्रतदानराजिरुच्छृङ्खलो मलयमारुतगन्धहस्ती । मानग्रहाद्रिकटकेषु मनस्विनीनां वप्रक्रियाविहृतिमाचरति स्म मन्दम् ॥ ६.१३ ॥ मन्दानिलक्षितिपमङ्गलपाठकानां माकन्दगन्धगजमण्डनडिण्डिमानाम् । उद्दामकामविजयोत्सवघोषणामामुज्जृम्भते स्म रुतमुन्मदषट्पदानाम् ॥ ६.१४ ॥ आमूलचूडमभितः प्रविजृम्भमाणो बालप्रवाहनिवहो वनपादपानाम् । मानान्धकारहरणाय मनस्विनीनां बालातपप्रसरविभ्रममाललम्बे ॥ ६.१५ ॥ निरन्तरस्मेरमणीचकानां निष्यन्दमानाभिरनोहकानाम् । मधूलकासारमहानदीभिर्वनं नदीमातृकतामयासीत् ॥ ६.१६ ॥ तटोपकण्ठं मकरन्दसिन्धोः प्रसूनधूलीपुलिनाभिरामे । आबद्धचक्राः सह कामिनीभिरारेभिरे पातुमलिप्रवीराः ॥ ६.१७ ॥ वीरुन्मयीं विभ्रमयन्त्रडोलामारोप्य भृङ्गीमविगीतगीताम् । समीरणैरात्मगरुत्समुत्थैः सानन्दमान्दोलयति स्म भृङ्गः ॥ ६.१८ ॥ अशोकयष्ट्याः स्तबकोपनीतमादाय पुष्पासवमाननेन । सम्भोगभिन्नां तरणद्विरेफः सचाटुकं पाययति स्म कान्ताम् ॥ ६.१९ ॥ अङ्गं समासाद्य लताङ्गनानां षडंघ्रिडिम्भाः स्तबकस्तनेषु । प्रत्यग्रपुष्पासवदुग्धपानं प्रपेदिरे विस्मृतलोलभावाः ॥ ६.२० ॥ अनेकसंग्रामविमर्दशीर्णां पुराणमौर्वीमपनीय भारः । कोदण्डयष्टेर्मकरन्दयष्टेरपूर्वमौर्वीकरोद्द्विरेफैः ॥ ६.२१ ॥ अनन्ययोनेरपदानगाथां मधोः सकाशादिव शिक्षयन्तः । शाखासु शाखासु महीरुहाणां शनैः शिशिञ्जुः कलकण्ठशावाः ॥ ६.२२ ॥ उत्क्षिप्तशाखाच्छलबाहुदण्डाश्चूतद्रुमाः शूर्पकशासनाज्ञाम् । कर्णाभिरामैः कलकण्ठनादैरुद्धोषयामासुरिवाध्वगानाम् ॥ ६.२३ ॥ विनेतुकामस्य विलासिनीनां माअनद्विपेन्द्रं मकरध्वजस्य । हेमांकुशानामवहन्नभिख्यामग्रे नताः प्रौढपलाशकोशाः ॥ ६.२४ ॥ परिभ्रमत्षट्पदकर्बुराणां पंक्तिः पलाशद्रुममञ्जरीणाम् । देदीप्यमानस्य शिलावलस्य दीप्तिं ययौ दर्शितधूमराशेः ॥ ६.२५ ॥ आमोदलुब्धैरलिनां कदम्बराकृष्यमानः सुमनोगुलुच्छः । ग्रासीकृतो राहुमुखेन राकाकलानिधेर्बिम्ब इवाबभासे ॥ ६.२६ ॥ तटीपटीरद्रुमसङ्गभाजां सरीसृपाणामिव साहचर्यात् । वियोगिनश्चन्दनशैलजन्मा विमूर्च्छयामास मुहुः समीरः ॥ ६.२७ ॥ मधुशीकरदुर्दिनान्धकारे वनलक्ष्मीरतिदूतिकोपितानाम् । भ्रमरीमभिसत्वरीं प्रमत्तः सचमत्कारमरीरमद्द्विरेफः ॥ ६.२८ ॥ वकुलद्रुमवाटिका वरस्त्रीमुखगण्डूषमधुद्रवाभिषेकम् । अनुभूय नवांकुरापदेशादवहन्नञ्चितरोमहर्षशोभाम् ॥ ६.२९ ॥ सहकारवनीषु सञ्चरन्त्या मधुलक्ष्म्या इव नूपुरप्रणादाः । कलकण्ठभुवः कलप्रलापाः श्रवसः पारणमादधुर्जनानाम् ॥ ६.३० ॥ अङ्गनावदनपद्मपूरणीमादरेण परिपीय वारुणीम् । उद्ववाम पुनरेव केसरः स्यन्दमानमकरन्दकैतवात् ॥ ६.३१ ॥ परिमललहरीषु पादपानां भरितसमस्तदिगन्तरापगासु । जलविहरणमाचचार दिर्घं मलयमहीधरमन्दगन्धवाहः ॥ ६.३२ ॥ मनोभवो मण्डलितास्त्रमौर्विकागभीरविष्फारविराविताम्बरम् । अशेषसांसारिकशेमुषीमुषो ववर्ष चूतांकुरशातसायकान् ॥ ६.३३ ॥ इति प्रवृत्ते मधुमासवैभवे विधातुमुद्यानविहारमुत्सुकः । रथं समारुह्य नरेन्द्रनन्दनः सहावरोधेन विनिर्जगाम सः ॥ ६.३४ ॥ ततः कुमारस्य पुरन्दरश्रियः प्रबोधकालोऽयमिति प्रबोधितुम् । क्रमेण वृद्धातुरलुप्तजीवितान् प्रदर्शयामासुरमुष्य देवताः ॥ ६.३५ ॥ क्रमेण पश्यन् पुरतः स्थितानमून्नितान्तमुद्विग्नमनाः नृपात्मजः । किमेतदित्याअहितविभ्रमः स्वयं पुरोगतान् पर्यनुयुंक्त सारथीन् ॥ ६.३६ ॥ सविस्तरं तेऽपि सुरैरधिष्ठिता नरेन्द्रपुत्रस्य विरक्तिकारणम् । क्रमेण तेषामतिमात्रदुःसहं जराविकारादिकमाचचक्षिरे ॥ ६.३७ ॥ निशम्य तेषां वचनं नृपात्मजो निकामनिर्वेदविभाविताशयः । नियन्त्रितोद्यानविहारकौतुको निवर्तयाश्वानिति सूतमब्रवीत् ॥ ६.३८ ॥ अनन्तरं तस्य पुरः सुराधिपैरदर्शि शान्तानुशयस्तपोधनः । विवृद्धकारुण्यसमुद्रवीचिकाविटङ्कविश्रान्तविशाललोचनः ॥ ६.३९ ॥ प्रतप्तचामीकरगौरविग्रहः प्रवालभङ्गारुणचारुचीवरः । प्रसन्नपूर्णेन्दुनिभाननद्युतिः प्रभूतमैत्रीपरिवाहिताशयः ॥ ६.४० ॥ तमेनमालोक्य च शाक्यनन्दनस्तपस्विनामग्रसरं सविस्मयः । क एष का वास्य चरित्रचातुरीत्यपृच्छदभ्याशजुषः स्वसारथोन् ॥ ६.४१ ॥ अयं महाभाग! विशुद्धमानसः पवित्रशीलः परमार्थदेशिकः । सवासनोन्मूलितसर्वकिल्विषस्तपोधनः कश्चिदपश्चिमः सताम् ॥ ६.४२ ॥ अमुष्य यः शासनमाश्रितो जनो जराविकारादितरङ्गभङ्गुरम् । क्रमेण निस्तीर्य स जन्मसागरं प्रयाति निर्वाणपदं निरुत्तरम् ॥ ६.४३ ॥ इति प्रवीराः क्षितिपालनन्दनप्रबोधनार्थं विबुधानुभावतः । वितेनिरे वाङ्मनसातिगोचरं तपोनिधेस्तस्य चरित्रवर्णनम् ॥ ६.४४ ॥ इत्थं श्रुत्वा सारथीनां वचस्तल्लब्धोपायः संसृतेर्निष्क्रमाय । सन्तुष्टान्तर्मानसो राजसूनुर्भूयोऽप्यैच्छत्कर्तुमुद्यानलीलाम् ॥ ६.४५ ॥ इति बुद्धघोषविरचिते पद्यचूडामणिनाम्नि महाकाव्ये षष्ठः सर्गः ॥ सप्तमः सर्गः सिद्धार्थस्योद्यानप्रवेशः प्रचोदिताश्वः पुनरेव सूतैः प्रतोदहस्तैर्नरलोकवीरः । आखण्डलोदयानमनोऽभिराममाराममत्यद्भुतमाविवेश ॥ ७.१ ॥ विद्यागृहं पञ्चमपाठकानां विकल्पतूणीरमनन्ययोनेः । गञ्जागृहं षट्पदकामिनीनां क्रीडागृहं किञ्च वसन्तलक्ष्म्याः ॥ ७.२ ॥ चराचराणमभिवन्दनीयमागन्तुमुद्यानामहीरुहस्तम् । मरुद्वशादानमितैः शिरोभिर्बद्धप्रबालाञ्जलयः प्रणेमुः ॥ ७.३ ॥ परागसम्पत्सिकतावकीर्णे पर्युक्षिते पुष्परसैः पतद्भिः । कृतोपहारे गलितैः प्रसूनैरुद्यानमध्ये विजहार वीरः ॥ ७.४ ॥ लताङ्गहारैर्ललितालिगीतैर्वनप्रियामञ्जुरवैश्च वाद्यैः । आरामभूमिं स विलोक्य मेने सङ्गीतशालामिव शम्बरारेः ॥ ७.५ ॥ तरुप्रसूनान्यपचेतुकामा वामालका मन्दपदं चरन्त्यः । कुमारसेवार्थमुपस्थितानां शङ्कां वितेनुस्तरुदेवतानाम् ॥ ७.६ ॥ आलापमारामविहारिणीनामाकर्णयन्तो हरिणेक्षणानाम् । विलज्जमाना इव बद्धमौनास्तस्थुः क्षणं तत्र वसन्तघोषाः ॥ ७.७ ॥ मञ्जीरनादच्छलतो ममार्तिं न सुभ्रु! कुर्या इति नाथतेव । पदेन पङ्केरुहकोमलेन पस्पर्श काचिच्छनकैरशोकम् ॥ ७.८ ॥ अशोकयष्टिस्तरुणीजनस्य पादाम्बुजस्पर्शमिवासहिष्णुः । नवप्रवालप्रसवापदेशात्कोपानलज्वालमिवोत्ससर्ज ॥ ७.९ ॥ सुधामरीचिद्युतिशीतलेन कराम्बुजस्पर्शसुखेन काचित् । उद्भिद्यमानांकुररोमहर्षं पुत्रागतां प्रापयति स्म चूतम् ॥ ७.१० ॥ असूत सद्यः सहकारशाखी नवांकुरन् पुङ्खितचारुपत्रान् । अनन्ययोनेरभिमानहेतू नरुन्तुदान् पान्थबधूजनानाम् ॥ ७.११ ॥ सौगन्धिकेन्दीवरवासितेन सलीलमन्तर्मुखसम्भृतेन । पुराणमाध्वीकरसेन काचिदशोकतां केसरमानिनाय ॥ ७.१२ ॥ मनोज्ञगन्धैर्वकुलद्रुमाणां स्वयं विकीर्णैः सुमनोनिकायैः । लताप्रतानेन विचित्रमेका सङ्कल्पयामास विकल्पकाञ्चीम् ॥ ७.१३ ॥ उपाहृतैः काञ्चनपुष्पजालैरुदारगन्धैर्नवमल्लिकायाः । आपूरयन्ती निजकेशपाशमनङ्गतूणीरमिवाबबन्ध ॥ ७.१४ ॥ आवर्ज्यशाखां करपल्लवेन प्रसह्य पुष्पापचयोन्मुखायाः । रुषेव कस्याश्चिदशोकयष्टिस्तिरस्करोति स्म दृशं परागैः ॥ ७.१५ ॥ करेण साकं मम कोमलेन स्पर्धामिदं किं परुषं भजेत । इत्यात्तरोषेव सलीलमेका चूतप्रवालस्य चकार भङ्गम् ॥ ७.१६ ॥ सिन्दूरसौन्दर्यसहोदरेण शेफालिकापुष्परजःकणेन । चकार सख्याः सविलासमेका फालस्थले चारुतमालपत्रम् ॥ ७.१७ ॥ आकृष्य शाखाः सदयं लतानामालूय हस्तेन नवप्रवालम् । माणिक्यभूषामपसार्य कण्ठे निवेशयामास पतिः परस्याः ॥ ७.१८ ॥ काचित्प्रगल्भा रमणस्य कर्णे निवेशयन्ती किल कर्णपूरम् । आवेष्ट्य कण्ठं भुजबन्धनेन कपोलकान्तिं परिचुम्बति स्म ॥ ७.१९ ॥ नवप्रसूनैः सकलाङ्गनद्धैर्मनोहराः काश्चन वारिजाक्ष्यः । अयुग्मबाणायुधदेवतानामाविष्कृतानामवहन्नभिवयाम् ॥ ७.२० ॥ स्तनाभिरामस्तबकोज्ज्वलानां दन्तच्छदापाटलपल्लवानाम् । मध्ये लतानाअं निभृतं वसन्तीं सखीं विवेक्तुं न शशाक काचित् ॥ ७.२१ ॥ इत्थं कुमारस्य सहावराधैः सलीलमारामविहारभाजः । आलोकनायेव सहस्रभानुराकाशमध्यं परमध्यरुक्षत् ॥ ७.२२ ॥ चण्डातपस्पर्शविवर्धमानमरीचिकावापिविहारदक्षः । सन्धुक्षयंस्तापमतीव तासां मध्याह्नशंसी मरुदाजगाम ॥ ७.२३ ॥ छायास्तरूणामभितः प्रवृत्ताश्चण्डातपे क्षन्तुमिवासमर्थाः । मूलालवालं मुहुरम्बुसेकसञ्जातशैत्यं शनकैरुपेयुः ॥ ७.२४ ॥ विहारसञ्जातपरिश्रमाणां विलासिनीनामलिकस्थलीषु । प्रदुर्बभूवुः श्रमवारिलेशाः प्रद्युम्नकीर्त्यङ्करनिर्विशेषाः ॥ ७.२५ ॥ धर्मोदबिन्दुप्रकरा विरेजुः कपोलपालीषु नितम्बिनीनाम् । स्नानार्थमानेतुममूः पुरस्तात्तडाकदूता इव सम्प्रयाताः ॥ ७.२६ ॥ आरामभूमावतिवाह्य तापं माध्याह्निकं मध्यमलोकपालः । आसेव्यमानो वरवर्णिनीभिरम्भोविहारार्थमवाप वापीम् ॥ ७.२७ ॥ मन्दानिलान्दोलितवीचिमालाडोलायमानोन्मदराजहंसीम् । सम्फुल्लकल्हारविजृम्भमाणसौरभ्यपूरप्लवमानभृङ्गीम् ॥ ७.२८ ॥ कुमुद्वतीकोशपुटावतीर्णमाध्वीकधारामधुरप्रवाहाम् । उत्तुङ्गकल्लोलवितानरत्नरङ्गस्थलीचंक्रममाणमत्स्याम् ॥ ७.२९ ॥ एकत्र फुल्लैर्नवपुण्डरीकैर्गङ्गानुषक्तामिव दृश्यमानाम् । रक्तारविन्दैरितरत्र भिन्नैः शोणोपगूढामिव शोभमानाम् ॥ ७.३० ॥ पतत्रिपक्षप्रविकीर्णपद्मपरागसिन्दूरितदिग्विभागाम् । स शीकरासूत्रितदुर्दिनाभालोक्य वापीमधिकं ननन्द ॥ ७.३१ ॥ दुढावबद्धायतकेशपाशैः शृङ्गानुषङ्गोज्ज्वलपाणिपद्मैः । सहावरोधैः स विहार वापीमवातरत्पाशधरप्रभावः ॥ ७.३२ ॥ तत्पूर्वमभ्यागतमादरेण तमूर्मिहस्तैः परितभ्य वापी । कर्णाभिरामैः कलहंसनादैर्वार्त्तानुयोगं मधुरं चकार ॥ ७.३३ ॥ अन्तर्विगाढे सति सुन्दरीभिरुद्वेलतां प्राप महातडागः । जलाशयाः स्त्रीषु कृतानुषङ्गाः कथं नु वेलां न विलङ्घ्यन्ति ॥ ७.३४ ॥ कठोरकान्ताकुचमण्डलानामाघातभीता इव वेपमानाः । कल्लोलमालाः कणिकापदेशान्मुक्तोपहारानुपनिन्युरासाम् ॥ ७.३५ ॥ पद्माकरे पङ्कजलोचनाभिर्नरेन्द्रसूनुर्विजहार सार्धम् । सलीलमन्तःपुरिकाङ्गनाभिः साकं प्रचेता इव वारिराशौ ॥ ७.३६ ॥ कान्ताकरोदञ्चितवारिधाराः कान्तस्य वाह्वोरुपरि प्रकीर्णाः । अयत्नबालव्यजनोपचारचातुर्यधुर्याः क्षणमात्रमासन् ॥ ७.३७ ॥ परिस्फुरच्छीकरदन्तुराङ्गं पर्यायवल्गत्कुचकुम्भहारम् । काश्चित्करैः कान्तमिवापराद्धमास्फालयामासुरमन्दमम्भः ॥ ७.३८ ॥ तरङ्गरङ्गे सह भृङ्गगानैः सरोरुहे ताण्डवमादधाने । हस्ताम्बुजैरात्तमृणालदण्डैरवादयन् वारिमृदङ्गमन्याः ॥ ७.३९ ॥ निमज्जनोन्मज्जनरागिणीभिर्नितम्बिनीभिर्निविडस्तडागः । अशुम्भदम्भोनिधिरन्तरान्तराविर्भवन्तीभिरिवाप्सरोभिः ॥ ७.४० ॥ क्रीडातडाकं क्षितिपालसूनुः केयूरभोगीन्द्रवृतेन दोष्णा । ममन्थ भूभारधुरन्धरेण मन्थाद्रिणा सिन्धुमिवाब्जनाभः ॥ ७.४१ ॥ क्षोणीभुजा कुंकुमवारिधारा यन्त्रप्रयुक्ता रमणीमुखेषु । पपात पंकेरुहकाननेषु प्रभेव भानोः प्रथमावतारा ॥ ७.४२ ॥ वामभ्रुवस्तं मणिशृङ्गमुक्तैरवाकिरन् कुंकुमवारिपूरैः । तथागतः सोऽयमतीव रेजे सपल्लवश्रीरिव पारिजातः ॥ ७.४३ ॥ कस्याश्चिदाविष्कृतचन्द्रिकायाः कराब्जयन्त्रप्रहिताम्बुधारा । पपात पत्युर्मणिमौलिबन्धे गङ्गेव देवस्य जटाकलापे ॥ ७.४४ ॥ स्वहस्तयन्त्रप्रहिताभिरद्भिः पिधाय कस्याश्चन नेत्रयुग्मम् । विटः परस्या विनिमीलिताक्ष्याश्चुचुम्ब बिम्बाधरमादरेण ॥ कयाचिदभ्यर्णजुषः सलीलं कान्तस्य कण्ठे प्रहिताम्बुधारा । चेतोभुवा चित्तमृगं ग्रहीतुं व्यापारिता वागुरितेव रेजे ॥ ७.४६ ॥ वक्त्रे मनोज्ञस्मितचन्द्रिकाभूद्वक्षोरुहे निर्झरकान्तिरासीत् । मध्ये बभूवाभ्रसरिद्विलासो वामभ्रुवां मज्जनवारिधारा ॥ ७.४७ ॥ आप्लावयामास करोदकेन वक्त्रं स कस्याश्चन मानवत्याः । तदेव तन्मानपरिग्रहस्य जलाञ्जलिप्रक्रममाललम्बे ॥ ७.४८ ॥ निमज्य कासाञ्चिदुदञ्चितानां वक्षोरुहाः प्रक्षरदम्बुधाराः । चकाशिरे चञ्चुपुटापकृष्टमृणालनाला इव चक्रवाकाः ॥ ७.४९ ॥ निराकृते कापि तरङ्गवातैः स्तनोत्तरीये सति लज्जमाना । कुचस्थलं नव्यनखव्रणाङ्कं डिण्डीरपिण्डेन तिरश्चकार ॥ ७.५० ॥ कस्याश्चिदन्तःसलिले निमज्य समुच्चलन्त्याः सरसं मुखाब्जम् । समुज्जिहानस्य समुद्रमध्यात्तारापतेर्बिम्बमिवाबभासे ॥ ७.५१ ॥ अम्भोविहाराकुलितैः पयोभिरपाकृतेष्वञ्जनमण्डनेषु । रोषादिवान्तःपुरमुन्दरीणां नेत्रारविन्दान्यरुहणीबभूवुः ॥ ७.५२ ॥ पयोधराः पङ्कजलोचनानां पाथोविहारे पतदम्बुधाराः । नागेन्द्रकुम्भा इव नद्धहाराः सनिर्झरौघा इव शैलशृङ्गाः ॥ ७.५३ ॥ अनङ्गसाम्राज्यमहाभिषेककुम्भाविवाम्भोरुहलोचनायाः । वक्षोरुहौ मङ्गलशृङ्गसंस्थैरवाकिरन् वारिभरैः परस्याः ॥ ७.५४ ॥ बिभूषणैर्विद्रुमपुष्यरागवैडूर्यगारुत्मतपद्मरागैः । अङ्गच्युतैरम्बुजलोचनानां रत्नाकरोऽभूत्कमलाकरोऽपि ॥ ७.५५ ॥ एवं स कृत्वा सरसीविहारं सहावरोधैः सरसीरुहाक्षः । उत्तीर्य तस्यास्तटसन्निविष्टं बद्धोपचारं सदनं विवेश ॥ ७.५६ ॥ तत्रानुरक्तैः सह मित्रवर्गैः सङ्कल्पिताकल्पविकल्पवेषः । रसोत्तरव्यञ्जनपाकहृद्यमाहारमार्यः परमभ्यनन्दत् ॥ ७.५७ ॥ विचित्रपट्टास्तरणोपपन्नं विकीर्णपुष्पप्रकरं कुमारः । अभ्यन्तरस्थापितभद्रपीठमास्थानिकं मण्डपमध्यवात्सीत् ॥ ७.५८ ॥ तत्र क्षोणीरमणतनयो मण्डपे वाणिनीनां नृत्तारम्भैर्निरुपमरसैर्वाद्यघोषैर्मनोज्ञैः । वीणानादैः श्रवणसुभगैर्वेणुनादैश्च हृद्यैः श्रीमानह्नस्त्रिभुवनगुरुः शेषमेष व्यनैषीत् ॥ ७.५९ ॥ इति बुद्धघोषचरिते पद्यचुडामणिनाम्नि महाकाव्ये सप्तमः सर्गः ॥ अष्टमः सर्गः सूर्यास्तकालवर्णनम् तत्रान्तरे बिम्बममन्दरागं पपात भानोदिशि पश्चिमायाम् । आकाशकोशाद्गलितस्य नीलादाकृष्टलीलं मणिदर्पणस्य ॥ ८.१ ॥ आकाशसिन्धोरपराह्णकर्णधाराधिपः संहृतरश्मिजालः । प्रक्षेपणीभिः स्फटिकात्मिकाभिर्दिगन्ततीरं तरणिं निनाय ॥ ८.२ ॥ अशोकपुष्पस्तबकाभिताम्रमस्ताचले मण्डलमुष्णभानोः । बभार सिन्धोर्मथने विषक्तप्रवालवल्लीवलस्य शोभाम् ॥ ८.३ ॥ भास्वानभीप्सुः परालोकयात्रां पद्माकरेषु प्रतिबिम्बलक्षात् । आप्रच्छनार्थं प्रियबान्धवानामम्भोजिनीनामिव सम्प्रविष्टः ॥ ८.४ ॥ क्रमेण मध्यं चरमाम्बुराशेः प्राभाकरं बिम्बमलञ्चकार । हरिन्मणिश्याममिवाच्युतस्य वक्षःस्थलं कौस्तुभनाम रत्नम् ॥ ८.५ ॥ आवर्तवेगादपरम्बुराशेरावृत्तबिम्बं हरिदश्वबिम्बम् । भूयोऽपि चक्रभ्रममुन्मृजार्थमारोपितं विश्वसृजेव रेजे ॥ ८.६ ॥ मया विनाब्धिः प्रलयप्रसङ्गं वेला कदाचिन्न विलङ्घितेति । सत्यं चकारेव तदङ्गहस्तैरादाय तप्तारुणलोहकूटम् ॥ ८.७ ॥ दिनावसानेन परीक्षकेण मन्दप्रदीप्तिद्युमणिर्महार्हः । और्वाग्निना तेजयितुं किलान्तरुदन्वङ्गारभरे निरस्तः ॥ ८.८ ॥ अस्तङ्गते भर्तरि भृङ्गमालामङ्गल्यसूत्रं दिवसान्तधात्री । अम्भोजिनीनामपसौरभाणामपाकरोदम्बुरुहोपकण्ठात् ॥ ८.९ ॥ विश्लेषदुःखादिव तिग्मभानोः सङ्कोचभाजां नलिनीवधूनाम् । शोकाग्निधूमालिरिवोज्जजृम्भे भृङ्गावली पङ्करुहाननेम्यः ॥ ८.१० ॥ सौरभ्यलोभात्सविधे चरन्ती भृङ्गावली पद्मवनेषु रेजे । वियोगिनीभिर्नलिनीवधूभिर्व्यापारितोद्वन्धनवागुरेव ॥ ८.११ ॥ विहाय भास्वान्नलिनीं सरागामस्तङ्गतोऽभून्मम बाल्यमित्रम् । इत्यातियोगादिव चक्रवाकस्त्यक्त्वा प्रियां दीनतरं ररास ॥ ८.१२ ॥ प्रतायमाना प्रथमेतरस्मिन् काष्ठान्तराले कनति स्म सन्ध्या । दिवानिशान्योऽन्यनिपीडनेन जाज्वल्यमाना ज्वलनप्रभेव ॥ ८.१३ ॥ अस्तङ्गतं भास्करमम्बरश्रीरालोक्य शोकातिशयाकुलेव । नक्षत्रमुक्ताक्षवटं दधाना सन्ध्यातपं चीवरमाललम्बे ॥ ८.१४ ॥ रुद्राक्षमालावलयोज्ज्वलानि तपोधनानां करपल्लवानि । सन्ध्याप्रणामाय सभृङ्गचक्रैः सङ्कोचमापुः सह पद्मषण्डैः ॥ ८.१५ ॥ आकाशनीलोत्पलभृङ्गभङ्गिराशावधूनीलपटोत्तरीयम् । विश्वम्भराभूमिगृहप्रवेशोऽप्यजृम्भतान्धङ्करणी तमिस्रा ॥ ८.१६ ॥ निष्यन्दमानैरिव चन्द्रकान्तैर्निर्वापितानां तपनोपलानाम् । समीओइरणोत्था इव धूमसार्थास्तमोभरास्तरुरन्तरिक्षम् ॥ ८.१७ ॥ प्रदोषवेधाः प्रवरस्य ताराप्रशस्तिवर्णान् लिखितुं हिमांशोः । पयोदवीथीफलकं तमिस्रमषीप्रकारैर्मलिनीचकार ॥ ८.१८ ॥ शर्वस्य सन्ध्याधृतताण्डवस्य कण्ठप्रभापुञ्ज इवान्धकारः । ज्वलिष्यतामोषधिपादपानां किञ्चावृणोद्धूम इवान्तरिक्षम् ॥ ८.१९ ॥ आवव्रुराकाशमतिप्रभूता आशान्तपर्यस्ततमः समूहा । कूलङ्कषाः प्रावृषि वारिराशिं कलिन्दपुत्र्या इव वारिपूराः ॥ ८.२० ॥ विभावरीचम्पककर्णपूरा बभासिरे वेश्मसु दीपलेखा । पलायमानस्य रवेः पटिष्ठैर्बन्दीकृता भास इवान्धकारैः ॥ ८.२१ ॥ जिज्ञासमानास्तिमिरप्रवृत्तिमर्कस्य चारा इव सञ्चरन्तः । सन्ध्याकृशानोरिव विष्फुलिङ्गास्तमोमणीनां व्यरुचन्निकायाः ॥ ८.२२ ॥ निशान्धकारप्रकराम्बुवाहनिष्ठ्यूतधाराकरकाभिरामैः । तारागणैर्दन्तुरमन्तरिक्षं कान्तिं दधौ कैरवकाननस्य ॥ ८.२३ ॥ निरंकुशानां तिमिरद्विपानां शुण्डाविकीर्णैरिव शीकरौघैः । उद्दामशोभैर्निकरैरुडूनां तारापथः शर्करिलो बभूव ॥ ८.२४ ॥ तमालनीलं तगरावदातैस्तारागणैर्दन्तुरमन्तरिक्षम् । अगस्त्यपीतस्य जहार सिन्धोराकीर्णमुक्तानिकरस्य शोभाम् ॥ ८.२५ ॥ समुद्रगर्भान्तरमाश्रयन्तं तमोऽपहं चन्द्रमसं तनूजम् । समुद्वहन्ती शतमन्तुकाष्ठा शनैर्मुखे पाण्डरतामयासीत् ॥ ८.२६ ॥ चकाशिरे चन्द्रमसः समुत्थाः समुद्रगूढस्य मयूखमालाः । पीत्पा प्रवाहं तिमिभिः सरन्ध्रैः शिरोभिरूर्ध्वप्रहिता इवाप ॥ ८.२७ ॥ अर्धोदितः शीतकरस्य बिम्बः किञ्चित्समाविष्कृतलाञ्छनश्रीः । शृङ्गारयोनेस्त्रिजगज्जिगीषोर्विषाङ्कितो बाण इवार्धचन्द्रः ॥ ८.२८ ॥ तमालनीलस्य समुद्रविष्णोस्ताराधिभूमण्डलपुण्डरीकम् । आवर्तनाभीविवरादुदस्थादालक्ष्यचिह्नभ्रमराभिरामम् ॥ ८.२९ ॥ समुज्जिहानं लवणाब्धिमध्यात्तारापतेर्मण्डलमुत्तरङ्गात् । उवाह तस्मादभिमथ्यमानादुन्मज्जदैरावतकुम्भलीलाम् ॥ ८.३० ॥ उद्यच्छमानस्तुहिनांशुमाली यतः प्रवालारुणमण्डलोऽभूत् । तद्वाडवेनार्णमूषिकायामावर्जितैराहित एव रत्नैः ॥ ८.३१ ॥ सधैर्यमादाय तटेषु पादं पूर्वाद्रिमारोहति राजसिंहे । भूता इव ध्वान्तमतङ्गजेन्द्रा महीभृतां गह्वरमाश्रयन्ते ॥ ८.३२ ॥ अस्ताद्रिशृङ्गस्खलिताग्रपादः पपात भास्वानपराम्बुराशौ । इतीव भीतः कटकान् करेण स्पृष्ट्वारुरोह प्रथमाद्रिमिन्दुः ॥ ८.३३ ॥ नवोदयालोहितमिन्दुबिम्बं विदिद्युते पार्वणमम्बरान्ते । सायाह्नमुद्राधिकृतेन धातुद्रवेण संन्यस्तमिवैकचिह्नम् ॥ ८.३४ ॥ विभावरीशः करपल्लवेन भृङ्गावलीमङ्गलसूत्रमालाम् । कुसुद्वतीनां कुमुदोपकण्ठे संयोजयामास सकौतुकानाम् ॥ ८.३५ ॥ आकर्ण्य गानं मधुपाङ्गनानां कर्णामृतं पीत इवामृतांशुः । दिदेश ताभ्यो मकरन्दगर्भमामुद्रितं कैरवकोशजातम् ॥ ८.३६ ॥ पत्युः करस्पर्शपरिश्लथस्य तमिस्रकेशस्य निशाङ्गनायाः । नवप्रसूनैरिव विप्रकीर्णैर्नक्षत्रजालैः शुशुभे नभःश्रीः ॥ ८.३७ ॥ विपक्वताराधिपबिम्बशङ्खविमुक्तमुक्ताफलदन्तुरेव । व्योमापगाशीकरराजितेव विदिद्युते तारकिता नभःश्रीः ॥ ८.३८ ॥ आकाशशय्यातलमश्नुवाने सुधाकरे भर्तरि सानुरागे । श्यामाङ्गनायास्तिमिरान्तरीयमाकाशमध्यादपयातमासीत् ॥ ८.३९ ॥ पतिः पशुनामिव कालकूटं पतिं नदीनामिव कुम्भयोनिः । आदाय चन्द्रः करपल्लवेन गाढान्धकारं कवलीचकार ॥ ८.४० ॥ वियोगदुःखादिव पाण्डराङ्गीं विलम्बमानभ्रमरालकान्ताम् । कुमुद्वतीमासवपुष्पदिग्धामाश्वासयामास करेण चन्द्रः ॥ ८.४१ ॥ वेलाजलेषु मणिदर्पणविभ्रमेषु च्छायागतेन शशलाञ्छनमण्डलेन । वाराकरो वरुणभूपतिना मणीनामेकाकरो रचितमुद्र इवाशशङ्क ॥ ८.४२ ॥ अन्तः परिस्फुरितबालतमालकान्तिरालक्ष्यते स्म रजनीकरमण्डलश्रीः । आसृक्वभागविवृताननसैंहिकेयदंष्ट्राकरालगरलद्रवमुद्रितेव ॥ ८.४३ ॥ बिम्बं प्रदर्शितकुरङ्गकलङ्करेखं व्यक्तं बभौ कुमुदिनीकुलदैवतस्य । आवर्तमण्डलमिवाचलसार्वभौमकन्याकलिन्दतनयामिलनोपजातम् ॥ ८.४४ ॥ अन्तःस्फुरन्मृगकलङ्कमभंगुराभमत्यर्थमेव शुशुभे द्विजराजबिम्बम् । ताटङ्कचक्रमिव दन्तमयं तमिस्रावामभ्रुवो मरकताङ्कितमध्यदेशम् ॥ ८.४५ ॥ अन्तर्मलीमसमभादमृतांशुबिम्बमम्भोदवातमलिनोदरदर्पणाभम् । कण्ठप्रभप्रसरकर्बुरितान्तरालं भिक्षाकपालमिव किञ्च कपालपाणेः ॥ ८.४६ ॥ स्पष्टे प्रदोषसमये नरपालसूनुस्त्वष्ट्रा समारचितमङ्गलमण्डनश्रीः । वाराङ्गनाभिरभितो मणिदीपिकाभिरासेवितः स्वभवनं पुनराजगाम ॥ ८.४७ ॥ इति बुद्धघोषविरचिते पद्यचूडामणिनाम्नि महाकाव्ये अष्टमः सर्गः ॥ नवमः सर्गः कुमारस्य नीराजनम् आगत्य गेहमध्यास्य कुमारो भद्रपीठिकाम् । आरब्धं मातृधात्रीभिरारात्रिकमुपाददे ॥ ९.१ ॥ महाराजाधिराजस्य तनयो मण्डपस्थितः । सिंहासनमियायैष सिंहसंहननस्ततः ॥ ९.२ ॥ वारवामालकास्तस्य मधुराकृतयः पुरः । आरेभिरे दर्शयितुमद्भतं नृत्तविभ्रमम् ॥ ९.३ ॥ असक्तहृदयस्तासामङ्गहारमनोहरे । सङ्गीते नवगीतेऽपि स चिन्तामन्तरा ददौ ॥ ९.४ ॥ तदा बभौ कुमारोऽसौ चामरैरमरोच्छ्रितैः । समीरणसमुद्धूतैस्तरङ्गैरिव सागरः ॥ ९.५ ॥ ध्वजरत्नपताकाभिः शुशुभे क्षोणिमण्डलम् । अन्तरिक्षमिवानेकविद्युद्वल्लीभिरावृतम् ॥ ९.६ ॥ कालागरुमहाधूमवल्लीवेल्लितमम्बरम् । कृष्णोरगशताकीर्णं रसातलमिवाबभौ ॥ ९.७ ॥ ब्रह्माण्डकुक्षिम्भरिभिर्बधिरीकृतदिङ्मुखैः । अनेकपटहध्वानैराध्मातमभवन्नभः ॥ ९.८ ॥ ऐरावत्य इवाकाशरङ्गेष्वमरयोषितः । घनवाद्यरवाश्चक्रुरखण्डं ताण्डवक्रमम् ॥ ९.९ ॥ तासां तरलसञ्चारदृष्टिभिर्मुखमण्डलैः । तारापथस्थलमभुत्सहस्रमृगलाञ्छनम् ॥ ९.१० ॥ विद्याधराश्च गन्धर्वा वीणागर्भितपाणयः । पूर्वापदानमुखराः पुरस्तस्य प्रतस्थिरे ॥ ९.११ ॥ महेन्द्रकरविक्षिप्ताः मन्दारसुमनोभराः । भुवनक्षोभगलिताः पुष्फुरुस्तारका इव ॥ ९.१२ ॥ इत्थमाराधितो देवैर्दशत्रितययोजनम् । अतीत्य पन्थानमसावगादनवमां नदीम् ॥ ९.१३ ॥ मरालमहिलालीढमृणालदलमेदुराम् । गम्भीरमकरारावमुखरीकृतदिङ्मुखाम् ॥ ९.१४ ॥ तरङ्गशीकरासरतारादन्तुरिताम्बराम् । सरसीरुहसौरभ्यसुरभीकृतमारुताम् ॥ ९.१५ ॥ कल्लोलवल्लीवलयसमुल्लासितसारसाम् । कलहंसकलत्राणां कण्ठदघ्नोर्मिमण्डलीम् ॥ ९.१६ ॥ मीनविक्षिप्तकल्हारपुञ्जकिञ्जल्करञ्जिताम् । विनिद्रकमलोदीर्णमधुद्रवतरङ्गिताम् ॥ ९.१७ ॥ तारणाय महाम्भोधेस्तन्वन् गुणनिकामिव । चिन्तायुक्तेन वाहेन तां नदीमुदतीतरत् ॥ ९.१८ ॥ उत्तीर्य तस्याः पुलिने तुरगादवतीर्य सः । छन्नं निवर्तयामास दत्वा भूषाश्च वाहनम् ॥ ९.१९ ॥ आदिकल्पसमुद्भूतामादिब्रह्मसमाहृताम् । अग्रहीदग्रणीः पुंसां तपोधनपरिष्क्रियाम् ॥ ९.२० ॥ आदाय तापसाकल्पमनल्पगुणगुम्भितम् । आच्छाद्य तेन चात्मानमधत्त तपसि स्थितिम् ॥ ९.२१ ॥ अथावलोक्य लोकेशं दीक्षितं शक्रदिङ्मुखम् । आनन्दमन्दहसितैरिव पाण्डरतामयात् ॥ ९.२२ ॥ समस्तलोकनाथस्य तस्य शास्तुरिवाज्ञया । शतमन्युदिशाधत्त सन्ध्यापाटलमम्बरम् ॥ ९.२३ ॥ तस्यावलोकनायैव शास्यवंशशिखामणेः । अध्यास्त कूलकूटस्थः प्रथमाद्रिं गभस्तिमान् ॥ ९.२४ ॥ अज्ञानमेवं जगतामपसार्यं त्वयेत्यपि । अस्यादिशन्निव रविरन्धकारमपाकरोत् ॥ ९.२५ ॥ ज्ञानालोकस्त्रिजगतामेवमेव त्वयेति च । अस्यादिशन्निवालोकमाविश्चक्रे विकर्तनः ॥ ९.२६ ॥ दीक्षिते भूभृतां नाथे निर्विण्णा इव भूभृतः । अरुणातपलक्षेण चक्रिरे वल्कधारणम् ॥ ९.२७ ॥ आदित्यबन्धोर्बोधैकसिन्धोः समुदयादिव । प्रबोधमुद्रामभजन् सकलाः कमलाकराः ॥ ९.२८ ॥ कृतकृत्यं तमुद्दिश्य कृताञ्जलिपुटा इव । आअबद्धमुकुलास्तस्थुरशेषाः कुमुदाकराः ॥ ९.२९ ॥ सन्मार्गदेशिकस्यास्य तीर्थिका इव तेजसा । तपनस्य समाक्रान्तास्तारका निस्त्विषोऽभुवन् ॥ ९.३० ॥ अवकाशप्रदानार्थमिव तत्कीर्तिसंहतेः । अशेषमाशाविवरमानशेऽतिविशालताम् ॥ ९.३१ ॥ सिद्धार्थमुखशीतांशुं दृष्ट्वा दीप्तं दिवापि च । व्रीडावशादिव विधुर्बभूव विगतच्छविः ॥ ९.३२ ॥ जगदेकगुरोस्तस्य दर्शनादिव दीप्तिमान् । विगतोदयरागश्रीर्विवेशाकाशमाश्रमम् ॥ ९.३३ ॥ मनोरथशतप्राप्तप्रव्रज्यारसनिर्वृतः । दिनानि कानिचित्तस्यास्तीरे चिक्षेप देशिकः ॥ ९.३४ ॥ अन्येद्युरथ भिक्षार्थमादिभिक्षुर्बुभुक्षितः । व्यतीत्य दूरमध्वानं बिम्बसारपुरीमगात् ॥ ९.३५ ॥ विशङ्कटशिलासालविजितावधिभूधरान् । पातालागाधपरिखापल्वलीकृतसागराम् ॥ ९.३६ ॥ घोटीखुरपुटीकोटिक्रोडीकृतधरातलाम् । माद्यन्मदावलाधीशमदपङ्किलवीथिकाम् ॥ ९.३७ ॥ माणिक्यसौधवलभीवलमानमरालिकाम् । वातायनमुखोदीर्णधूमराजिविराजिताम् ॥ ९.३८ ॥ बालाचलतुलाकोटिवाचालहरिदञ्चलाम् । मन्दानिलसमाधूतध्वजचूडालमन्दिराम् ॥ ९.३९ ॥ वलारिकार्मुकस्मेरमणितोरणमांसलाम् । वल्लीकिसलयारब्धरथ्यावन्दनमालिकाम् ॥ ९.४० ॥ विशालविशिखाभोगमेखलोज्ज्वलमध्यमाम् । विहारवापिकावीचीसमीचीनोपशाखिकाम् ॥ ९.४१ ॥ तत्र भिक्षां समादातुं तपोधनशिखामणिः । वीथीषु वीथीषु शनैर्विजहार विनायकः ॥ ९.४२ ॥ मोहापनोदमप्येनं मुनीन्द्रमभिवीक्षिताः । मुग्धा विदग्धाः सकला मोहनिद्रां प्रपेदिरे ॥ ९.४३ ॥ विगतोन्मेषसम्मेषविष्फारीकृतचक्षुषाम् । मनोभवारिरप्यासां मनोभवमजीजनत् ॥ ९.४४ ॥ तत्र भिक्षां समादाय शिक्षापादविचक्षणः । तदभ्यर्णगतं तूर्णं शिलोच्चयमशिश्रियत् ॥ ९.४५ ॥ उपकण्ठकलालापकालकण्ठमनोहरम् । कण्ठीरवकराघातचूर्णीकृतगजाकुलम् ॥ ९.४६ ॥ वेतण्डशुण्डादण्डाभकुण्डलीश्वरमण्डितम् । शिखण्डिमण्डलारब्धताण्डवं पाण्डराह्वयम् ॥ ९.४७ ॥ विशालशिखरोद्देशविश्रान्तजलदाध्वगम् । विहरन्मत्तमातङ्गपुनरुक्तमहोपलम् ॥ ९.४८ ॥ विशङ्कटशिलाकोटिपाटिताम्बरकोटरम् । पञ्चास्यपाणिओअर्यस्तगजमौक्तिकविस्तृतम् ॥ ९.४९ ॥ निर्झरीपूरनिर्धौतकलधौतशिलातलम् । मेखलोपान्तविलसत्पुलिन्दपृतनापतिम् ॥ ९.५० ॥ तडाके तस्य सिद्धार्थः स्नात्वा निकटवर्तिनि । स्थित्वा तटशिलापट्टे भिक्षान्नरसमन्वभूत् ॥ ९.५१ ॥ अपरेद्युर्विनिर्गत्य तस्मादेष पुरान्तरे । पिण्डपातविधिं कृत्वा प्रापदभ्यर्णकाननम् ॥ ९.५२ ॥ तडाकनिकटे नद्यास्तटे शैले च कानने । निवसन् दिवसानेष निन्ये मान्यो बहूनपि ॥ ९.५३ ॥ तपोवनेषु धन्येषु दुःसाधानि तपांस्यपि । चचार धीरहृदयः संसारक्लेशशान्तये ॥ ९.५४ ॥ अप्राप्य निर्वाणपदं दुश्चरैश्वरितैरपि । को वाभ्युपायस्तस्यार्थे भवेदित्याकुलोऽभवत् ॥ ९.५५ ॥ एकदा पारमीभाग्यपरिपाकप्रकाशनम् । स्वप्नपञ्चकमद्राक्षीत्सुचरित्रनिधिः प्रगे ॥ ९.५६ ॥ दृष्ट्वावबुध्य स्वप्नार्थं प्रत्यवेत्य विचक्षणः । निश्चिकायाहमद्यैव निर्वृतिं प्राप्नुयामिति ॥ ९.५७ ॥ कृत्वा दिनमुखाचारं भिक्षावेलां प्रतीक्ष्य सः । आसाञ्चक्रे वटस्याधः पूजाविहितसत्कृतेः ॥ ९.५८ ॥ अथ काचिद्विशालाक्षी देवतां तन्निवासिनोम् । अधिकृत्य तदा नित्ये पायसं प्रार्थनापरा ॥ ९.५९ ॥ तच्छङ्कयैव सा तस्मै ददौ पात्रेण पायसम् । तदादाय महासत्त्वो ययौ नैरञ्जरातटम् ॥ ९.६० ॥ तस्याः शरन्निशाकाशविमले सलिले मुनिः । स्नात्वा सुवर्णपात्रस्थं बुभुजे पायसं बुधः ॥ ९.६१ ॥ ततः किसलयालोकबालातपविलासिनि । मनोज्ञकोकिलालापवाचालहरिदञ्चले ॥ ९.६२ ॥ मन्दानिलाधूतलताडोलादुर्ललितालिनि । बालचूतांकुरास्वादमोदमानवनप्रिये ॥ ९.६३ ॥ मन्दारकोरकस्यन्दिमकरन्दसुगन्धिनि । मदगन्धवहस्पन्दकन्दलीकृतकौतुके ॥ ९.६४ ॥ उत्फुल्लमञ्जरीपुञ्जपिञ्जरीकृतसत्पथे । भ्रमद्भ्रमरझङ्कारहुङ्कारचकिताध्वगे ॥ ९.६५ ॥ विहङ्गपक्षविक्षिप्तपरागभरपांसुले । माकन्दमधुसन्दोहजम्बालितमहीतले ॥ ९.६६ ॥ प्रफुल्लसुमनोवल्लीमतल्लीयुतमारुते । वसन्तकालसामन्तसाम्राज्यमणिमण्डपे ॥ ९.६७ ॥ तालीतमालहिन्तालबहुले सालकानने । स्थित्वा माध्यन्दिनं तापं निनाय नरनायकः ॥ ९.६८ ॥ दिनावसाने सम्प्राप्ते याममात्रावधौ यतः । उत्थाय भगवान् बोधिं प्रपेदे प्राज्यविक्रमः ॥ ९.६९ ॥ ब्रह्मणोपहितान् दर्भानादाय निजपाणिओना । चिक्षेप देशिकवरः प्राच्ये बोधिमहीतले ॥ ९.७० ॥ तत्र कन्दर्पदर्पाणाम्भेद्यमतिकोमलम् । अपराजितपर्यङ्कमाविरासीन्महासनम् ॥ ९.७१ ॥ आरुरोहासनं तुङ्गमनङ्गरिपुमद्भुतम् । अंशुमानिव पूर्वाद्रिमशेषजनबोधकः ॥ ९.७२ ॥ आरुढबोधिपर्यङ्कमभंगुरगुणं सुराः । अमुमारेभिरे स्तोतुमवाङ्मनसगोचरम् ॥ ९.७३ ॥ नमः सुगुणमाणिक्यसिन्धवे रविबन्धवे । नमः संसारपाथोधिसेतवे मुनिकेतवे ॥ ९.७४ ॥ नमः सकलसंक्लेशहारिणे गुणहारिणे । नमः समस्ततत्त्वार्थवेदिनेऽद्वयवादिने ॥ ९.७५ ॥ करुणापूरलहरीपरीवाहितचक्षुषे । भागधेयनिधानाय भगवन्! भवते नमः ॥ ९.७६ ॥ कन्दर्पदर्पनिर्भेदकर्मठस्त्वं न चापरः । पञ्चाननं विना को हि कुञ्जरं शासितुं क्षमः! ॥ ९.७७ ॥ शूरस्त्वमेव दुर्वारगर्वतीर्थिकमर्दने । मन्दरेण विना सिन्धुं मथितुं केन पार्यते! ॥ ९.७८ ॥ चुलुकीकरणे शूरस्त्वमेव भववारिधेः । कुम्भयोनिं विना को हि कोविदः सिन्धुचूषणे ॥ ९.७९ ॥ कुशलोऽत्र भवानेव श्रोणीवलयबोधने । को वा विधुर्विना चन्द्रं कुमुदाकरहासने! ॥ ९.८० ॥ भवक्लेशं त्वमेवेश! निःशेषयितुमीशिषे । हर्तुमन्यः किमीशीत हरिदश्वादृते तमः ॥ ९.८१ ॥ एताभिरेषां स्तुतिभिरेधमानगुणोदयम् । बोधिमूलतलारूढं बुद्धं शुश्राव मन्मथः ॥ ९.८२ ॥ श्रुत्वा मनोभूः क्षुभितान्तरात्मा विरक्तबुद्धापशदं विजेतुम् ॥ को वाभ्युपायो भुवने मम स्यादित्याशु चिन्ताज्वरनिर्दुतोऽभूत् ॥ ९.८३ ॥ इति श्रीबुद्धघोषविरचिते पद्यचूडामणिनाम्नि महाकाव्ये नवमः सर्गः ॥ दशमः सर्गः मारसन्नद्धतावर्णनम् अत्रान्तरे निविडमास्थितबोधिमूलमावेगवानभिषिषेणयिषुर्मुनीन्द्रम् । अध्यास्य मत्तकरिणं गिरिमेखलाख्यमाहूतसैन्यनिवहो निरगादनङ्गः ॥ १०.१ ॥ निर्गत्य निह्नतदिगन्तरकन्दरेण निर्घातभीमजयदुन्दुभिनिःस्वनेन । सन्त्रासिताखिलजनेन महाबलेन साकं शनैरवततार धरामनङ्गः ॥ १०.२ ॥ सम्भ्रान्तशाङ्खिकशताननपूर्यमाणो मारस्य सान्नहनिको वरशङ्खघोषः । संग्रामशश्वदुपलालितपाञ्चजन्यनादस्य न व्यसन मब्धिशयस्य चक्रे ॥ १०.३ ॥ निस्साणघोरनिनदो निखिलान्तरिक्षकुक्षिम्भरिः प्रसृमरो मकरध्वजस्य । दम्भोलिघोषजनितश्रवणोत्सवस्य देवस्य केवलमजायत दत्तहर्षः ॥ १०.४ ॥ वेतण्डमण्डलविडम्बितचण्डवायुवेगावखण्डितकुलाचलगण्डशैलम् । संवर्तसागरसमुद्गतभङ्गतुङ्गत्वङ्गत्तुरङ्गमतरङ्गितसर्वदिक्कम् ॥ १०.५ ॥ आढौकमानरथमण्डलचक्रनेमिधाराविदारितधरातलसन्निवेशम् । पादातपादपतनाशनिपाट्यमानपातालसन्तमससान्द्ररजोऽन्धकारम् ॥ १०.६ ॥ आधूयमानकरवालकरालकालच्छायासमुच्चलनशाद्वलितान्तरिक्षम् । हेलावकुण्डलितकार्मुककाननज्याविष्फारवेगबधिरीकृतविश्वलोकम् ॥ १०.७ ॥ आस्फालिताप्रतिमभैरवभेरिघोरकोलाहलध्वनियथार्थनभोऽभिधानम् । शुण्डाकरण्डविवरप्रवितन्यमानशूत्कारशीकरकरालितमेघमार्गम् ॥ १०.८ ॥ क्षोणीतलान्तरनिरन्तरजृम्भमाणधूलोनिकायचुलुकाकृतसिन्धुपूरम् । नासीरवीरसमुदीरितसिंहनादसन्नाहगर्जितसमस्तगुहान्तरालम् ॥ १०.९ ॥ दोधूयमानसितचामरिकानिकायसम्पादिताद्भुतशरत्समयावतारम् । संरब्धपुष्पशरशासनचोद्यमानचक्रं क्रमेण चतुरङ्गबलं चचाल ॥ १०.१० ॥ कल्पान्तकालघटमानघनाघनौघगम्भीरघोरघनगर्जितनिर्विशेषैः । आपादितैर्मकरकेतनवाद्यकारैराध्मातमण्डमभवत्पटहप्रणादैः ॥ १०.११ ॥ अभ्युद्भतै रमितसैन्यपरागजालैरन्धीकृताकुलदृशामहिपुङ्गवानाम् । आविश्चकार भुवनेषु परं निपीडामाडम्बरः पटहजो मदनप्रयाणे ॥ १०.१२ ॥ अत्यन्तमन्धयति दिङ्मुखमम्बुवाहसन्दोहरोचिषि चमूरजसां समूहे । नौका इवोद्धुरसरस्वति नष्टमार्गा भ्रेमुर्भृशं सुरपथे सुमनोविमानाः ॥ १०.१३ ॥ वातोत्थितं महति सैनिकधूलिमध्ये सञ्चारिणस्सुमनसां व्यरुचन्विमानाः । संहारताण्डवितसागरवारिपूरे पारिप्लवा इव मुहुः जगदण्डखण्डाः ॥ १०.१४ ॥ कल्पक्षयक्षुभितमारुतवेगभीमकन्दर्पसैन्यकबलीकृतभीतभीताः । अभ्युल्लसद्बहलरेणुभरापदेशादम्भोधयो गगनमुत्पतिता इवासन् ॥ १०.१५ ॥ प्रत्यर्थिदन्तिजयसिन्धुरदन्तभिन्नक्ष्माभृद्गुहान्तरगता इव चान्धकाराः । आवव्रुरम्बरमभङ्गुरजृम्भमाणाः सेनापरागनिकरा भ्रमराभिरामाः ॥ १०.१६ ॥ अत्युल्बणैरमितसैन्यपरागपूरैरापूरिओतं गगनकन्दरमाबभासे । आप्लाविताखिलपथैर्यमुनाप्रवाहैराश्लिष्यमाणमिव लावणसिन्धुमध्यम् ॥ १०.१७ ॥ अभ्युच्छ्रितैरवनिमांसलपांसुजालैरत्युल्बणं गगनमण्डलमास्तृणानैः । आशाङ्गना मदनसायकपातभीतेरामुक्तनीलघनकञ्चुलिका इवासन् ॥ १०.१८ ॥ धूलीभरे चुलुकितार्णवतोयपूरे स्वैरप्रचार मभितः प्रतिपद्यमाने । कल्पक्षयोऽमिति कैटभजिद्भ्रमेण भूयोऽपि विश्वमुदरे परिहर्तुमैच्छत् ॥ १०.१९ ॥ पर्यापतत्तुरखण्डितभूसमुत्थैः पाथोधयः कबलिताः परुषैः परागैः । मत्तेभगण्डगलितैर्मदवारिपूरैर्भूयो बभूवुरधिकं पुनरुक्ततोयाः ॥ १०.२० ॥ अम्भोधिसम्पदवलुण्ठनकुम्भयोनिरभ्युद्गतो मकरकेतनसैन्यरेणुः । अम्भोजिनीपतिरसौ मम वैरिबन्धुरित्यन्तराहितरुषेव तिरश्चकार ॥ १०.२१ ॥ अभ्युद्गतं परिभवं निजवंशकेतोरत्युग्रमीक्षितुशक्त इवांशुमालो । कन्दर्पसैन्यघनधूलिपरम्पराषु गाढान्धकारितदिशासु तिरोबभूव ॥ १०.२२ ॥ आतन्यमानबलरेणुघनान्धकारैराकम्पमानकरिकेतुशतह्रदाभिः । अश्वीयफेनकणिकाकरकाकदम्बैर्वर्षावतार इव हर्षकरो बभूव ॥ १०.२३ ॥ प्रौढान्धकारितदिशावलये प्रसर्पत्युच्छृङ्खले रजसि रुद्धनभोऽवकाशे । पाताललोक इव भूवलयो बभूव भूसन्निवेश इव पुण्यकृतां निवासः ॥ १०.२४ ॥ अश्वीयपाददलितादवनीतलान्तादभ्युच्छ्रिते च नितरां निखिले परागे । भूमीधराः परमभूमिधरा बभूवुः शेषोऽपि केवलमभूत्फणमालभारी ॥ १०.२५ ॥ दिग्दिन्तिनां मुखपटप्रकटोपमेये सेनापरागनिकरे सति जृम्भमाणे । पाथोधयः सपदि पङ्कधयस्तदासन् पाथोधरा नभसि पङ्कधरा बभूवुः ॥ १०.२६ ॥ आपीतसर्वमकराकरवारिराशेराशावकाशगगनेष्वमितस्य रेणोः । चक्राचले बहिरिव प्रसराय चक्रुराशागजा विवरमादृतवप्रघाताः ॥ १०.२७ ॥ सेनाम्बुधौ जयिपदातिमहाप्रवाहे मग्नाः कुलक्षितिधरा इव वारणेन्द्राः । त्वङ्गत्तरङ्गनिवहा इव तुङ्गवाहाअ नौमण्डला इव रथाः सुतरां विरेजुः ॥ १०.२८ ॥ मध्ये लसन्मकरलाञ्छनदर्शनीया मारस्य रेजुरमला जयकेतुपट्टाः । अम्भोनिधिं निजबलोदधिना विजित्य बन्दीकृता इव तदीयपुरन्ध्रिवर्गाः ॥ अन्तः समुद्भवदमर्षमहाग्निजात धूमावलीमलिनकञ्चुकसञ्चिताङ्गम् । अत्यन्तभीषणमनेकसहस्रबाहुमात्मानमात्तविविधास्त्रमसावकार्षीत् ॥ १०.३० ॥ आप्लाविताखिलदिगन्तमहीध्ररन्ध्रमाकृष्टकल्पविलयक्षुभितार्णवाभम् । आकारितं मकरकेतुरदृष्टपारमाकारभीषणमकारयदात्मसैन्यम् ॥ १०.३१ ॥ आशामशेषमवनीतलमश्नुवानैरावेष्टितः परिकरैरमितप्रभावैः । आरूढबोधितलवेदिमभिन्नधैर्यमभ्याससाद मुनिपुङ्गवमात्मयोनिः ॥ १०.३२ ॥ आमुक्तचारुतरचीवरवारवाणमारूढयोगगजबन्धुरकन्धराग्रम् । आरब्ध योद्धुमविकम्पितशौर्यराशिं पुष्पायुधः स्फुरदमर्षकषायिताक्षः ॥ १०.३३ ॥ तस्यान्तिके शमदमामृतवारिराशेर्मुक्ता बभूवुरमला विशिखाः स्मरस्य । शुद्धात्मनामकृतदानफलोन्नतीनां किं किं न सिध्यति कृताक्षयपक्षकाणाम् ॥ १०.३४ ॥ तस्मिन् क्षमामयतनुच्छमादधाने धैर्योदधौ तपनचण्डतमप्रभावे । कुण्ठीकृतात्मगतयः कुसुमास्त्रबाणाः कृत्या इव प्रतिनिवृत्य तमेव जघ्नुः ॥ १०.३५ ॥ मारस्य मार्गणगणाः सुमनायमानाः सत्पक्षसम्भृतसमागतयोऽप्यवापुः । तं स्थूललक्षमुपगम्य न दानलाभं को वा ददातु गुणहीनविचेष्टिताय ॥ १०.३६ ॥ चक्रीकृतायतशरासनमास्थितेन सम्प्रेषिताः शितशरा मकरध्वजेन । आसाद्य बुद्धमभजन् सुमनोमयत्वं सत्सङ्गतिः सुरलतेव न किं करोति ॥ १०.३७ ॥ सम्प्राप्य शान्तहृदयं मुनिसार्वभौमं संविद्विशेषरहितेष्वपि सायकेषु । सद्यो गतेषु मृदुतां स हि शम्बरारिर्व्यारोषदग्धहृदयो मृदुतां न भेजे ॥ १०.३८ ॥ चेतोभवस्य सफला अपि सायकास्ते तं प्राप्य शान्तहृदयं विफला बभूवुः । दैवे समेयुषि पराङ्मुखतां हि सर्वं हस्तोपयातमपि हन्त! विनाशमेति ॥ १०.३९ ॥ इत्थं जगत्त्रयतिरस्करणक्षमेषु सर्वेषु हन्त! विशिखेषु निरर्थकेषु । वैरग्रहान्धहृदयो मथनाय तस्य मारो महाप्रलयमारुतमादिदेश ॥ १०.४० ॥ आमूलभागधुतदिव्यनदीसमुद्यदम्भोभराहितयथाध्युषिताभिषेकः । अभ्यर्चनार्थमिव सम्भृतपुष्परेणुरक्षोभितं मुनिमवाप महासमीरः ॥ १०.४१ ॥ तं प्रात्य सर्वगुणभारगुरुं मुनीन्द्रं न प्रागभवच्चलयितुं स महाजवोऽपि । नैतद्विचित्रमखिलाटविघस्मरस्य दावानलस्य न हि मूर्छति शक्तिरप्सु ॥ १०.४२ ॥ एवं महापवनवारिधरादिकेषु व्यर्थीभवत्सु विपुलेष्वपि चायुधेषु । पुष्पायुधः पुनरियेष पुमांसमाद्यं वाक्सायकैर्हृदयमर्मतुदैर्विजेतुम् ॥ १०.४३ ॥ नैव त्वदीयमिदमासनमस्मदीयमुत्थाय तूर्णममुतः सहसापयाहि । आपूरिता परमपारमिका मयैव तत्साक्षिणी मम महापृतनेत्यवोचत् ॥ १०.४४ ॥ अङ्कात्प्रसार्य करपल्लवमादिभिक्षुर्यावज्जगाद गिरमिद्धतपप्रभावः । मारः पलायत ततो महता बलेन भ्रष्टातपत्ररथकेतुकुथेन भीतः ॥ १०.४५ ॥ माराङ्गनास्तदनु मन्थरदृष्टिपाता वाचालरत्नपदनूपुरपारिहार्याः । सद्यः समेत्य चतुरस्रविशालगर्भं चक्रुस्तदग्रभुवि ताण्डवमत्युदारम् ॥ १०.४६ ॥ अन्तःसमाहितसमाधिरसानुषक्तमालोक्य शाक्यकुलनन्दनमप्रकम्प्यम् । कर्णामृतानि वचनानि च कातराक्ष्यः कामाङ्गना विदधिरे करुणाक्षराणि ॥ १०.४७ ॥ अस्यै पतन्मदनसायकविह्वलायै दृष्टिप्रदानमपि कर्तुमपारयन्तम् । उत्पाट्य लोचनयुगं द्विजपुङ्गवाय त्वां दत्तवानिति कथं ब्रुवते पुराणाः ॥ १०.४८ ॥ मग्नां महामकरकेतनवारिराशौ मामित्थमाधिविधुरामवलम्बशून्याम् । उद्धर्तुमप्यकुशलो जननाम्बुराशेरुत्तारयिष्यसि कथं त्वमशेषलोकम् ॥ १०.४९ ॥ दृष्ट्वास्मदीयमनवद्यतमं विलासं श्लाघाशिरोविधुतिमप्यतिदूरयन्तम् । उच्छीद्य मस्तकमुदस्तरिपुप्रभावं त्वां दत्तवानिति वदन्ति कथं कवीन्द्राः ॥ १०.५० ॥ पुण्यात्मनामधिपते! पुरुषोत्तमत्वमाप्तुं पदं त्वमभिवाञ्छसि किं तपोभिः । अस्मासु कामपि वधूमधिरोपय त्वं वक्षस्तटे महति मेरुशिलाविशाले ॥ १०.५१ ॥ भद्रान्ववायमथ वा परमेश्वरत्वमाकांक्षसे समुपयातुमलं तपोभिः । कामप्यमूषु कमलायतदृष्टिपातां वामालकां त्वमधिरोहयं वामभागे ॥ १०.५२ ॥ आनन्दकन्दलितलोचनविभ्रमाणामम्भोरुहप्रकरगर्वगलग्रहाणाम् । आविःस्मिताननरुचामवलोकनानां पात्रीभवन्ति सुदृशां ननु भाग्यवन्तः ॥ १०.५३ ॥ आकृष्टरक्तपरपुष्टवचोविलासादालोचनान्तविवृतादृतकर्णपेयात् । आश्चर्यभङ्गिसुभगादपरोक्षसौख्यादाभाषणान्मृगदृशाममृतं किमन्यत् ॥ १०.५४ ॥ अश्रान्तपानसहमौषधमात्मयोनितापोदयेष्वनुपदंशमनोऽभिरामम् । अक्षीयमाणमधरामृतमङ्गनानामास्वाद्यतामयति पुण्यवतां हि पुंसाम् ॥ १०.५५ ॥ एवंविधैर्ललितभावरसानुविद्धैर्नृत्तक्रमैर्निरुपमैर्वचसां विलासैः । आलोक्य बुद्धमविकम्पितचित्तवृत्तिं लज्जावशात्प्रतिनिवृत्य ययुस्तरुण्यः ॥ १०.५६ ॥ इत्थं पुष्पशरासनस्य विजयव्यापारशुष्कस्थितां सम्बोधिप्रसदां निवेश्य सुदृशं श्रीबोधिमूले वरः । सिद्धार्थश्चिरवासनापरिगतानुच्छिद्य दोषद्विषो- मुक्तिक्षेत्रकुटुम्बरक्षणविधौ मूधार्भिषिक्तोऽभवत् ॥ १०.५८ ॥ इति बुद्धघोषविरचिते पद्यचूडामणिनाम्नि महाकाव्ये सिद्धार्थचरिते दशमः सर्गः ॥