भिक्षुणी-विनय महाप्रजापती गौतमी १. ओं नमो बुद्धाय । आर्यमहासांघिकानां लोकोत्तरवादिनां मध्य्ऽ-उदेशिकानां पाठेन भिक्षुणीविनय स्यादिः । भगवान् सम्यक्सम्बुद्धो यदर्थं समुदागतो तदर्थमभिसम्भावयित्वा शाक्येषु विहरति शाक्यानां कपिलवस्तुस्मिन्न्यग्रोधारामे शास्ता देवानाञ्च मनुष्यानाञ्च बुद्धो भगवान् सत्कृतोगुरुकृतो मानितः पूजितो अर्चितो अपचायितो लाभाग्रयशो-ऽग्रप्राप्तो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्कारानान् । तत्र चानुपलिप्तो पद्ममिव जलेन पुण्यभागीयान् सत्वान् पुण्येहि निवेशयमानो फलभागीयान् सत्वान् फलेहि प्रतिष्ठापयमानो वासनाभागीयान् सत्वान् वासनायामवस्थापयमानो अमृतमनल्पकेन देवमनुष्यान् सम्विभजन्तो प्राणिकोटिनियुतशतसहस्राण्यमृतमनुप्रापयन्तो अनवराग्रजातिजरामरणसंसारकान्तारनरकविदुर्गान्महाप्रपातादभ्युद्धरित्वा क्षेमे शिवे समे स्थले अभये निर्वाणे प्रतिष्ठापयमानो आवर्जयित्वा अङ्गमगधवृजिमल्लिकाशिकोशलकुरुपञ्चालचेदिवत्समत्स्यशूरसेनशिविदशार्ण चास्वकिअवन्ति । ज्ञाने दृष्टपराक्रमो स्वयांभूः दिव्येहि विहारेहि विहरन्तो ब्राह्मेहि विहारेहि आर्येहि विहारेहि अनिञ्जेहि विहारेहि विहरन्तो ब्राह्मेहि विहारेहि आर्येहि विहारेहि अनिञ्जेहि विहारेहि सातत्ये हि विहारेहि बुद्धो बुद्धविहारेहि जिनो जिनविहारेहि जानको जानकविहारेहि सर्वज्ञो सर्वज्ञविहारेहि चेतोवसिपरमपारमिप्रप्ताश्च पुनर्बुद्धा भगवन्तो येहि येहि विहारेहि आकाङ्क्षन्ति तेहि तेहि विहारेहि विहरन्ति विहारकुशलाश्च पुनर्बुद्धा भगवन्तः । २. अथ खलु महाप्रजापती गौतमी च्छन्दाय च्छन्दकपालाय दासच्छन्दाये च्छन्दकमातरे च पञ्चहि च शाकियानीशतेहि सार्धं येन भगवांस्तेनोपसंक्रमित्वा भगवतः पादौ शिरसा वन्दित्वा एकान्ते अस्थासि एकान्तस्थिता महाप्रजापती गौतमी भगवन्तमेतदवोचत् । दुर्लभो भगवन् बुद्धोत्पादो दुर्लभा सद्धर्मदेशना । भगवांस्चैतर्हि लोके उत्पन्नो तथागतोऽर्हन् सम्यक्सम्बुद्धो धर्मो च देशयति औपसमिको पारिनिवाणिको सुगतप्रवेदितो अमृतस्य प्राप्तये निर्वाणस्य साक्षात्क्रियाय सम्वर्तति । साधु भगवन्मातृग्रामो पि लभेय तथागतप्रवेदिते धर्मविनये प्रव्रज्यामुपसम्पदं भिक्षुणिभावम् । भगवानाह । मा ते गौतमि रोचतु तथागतप्रवेदिते धर्मविनये प्रव्रज्यामुपसंपदा भिक्षुणीभावो । अथ खलु महाप्रजापती गौतमी । न खलु भगवान्मातृग्रामस्य अवकाशं करोति तथागत प्रवेदिते धर्मविनये प्रव्रज्यामुपसम्पदाय भिक्षुणीभावायेति । सा भगवतो पादौ शिरसा वन्दित्वा सार्धं च्छन्दाय च्छन्दकपालाये दासच्छन्दाये च्छन्दकमातरे च येन तानि पञ्च शाकियानीशतानि तेनोपसंक्रमित्वा शाकियानीयो एतदवोचत् । न खलु आर्यमिश्रिकायो भगवानवकाशं करोति मातृग्रामस्य तथागतप्रवेदिते धर्मविनये प्रव्रज्याउपसंपदाय भिक्षुणीभावाय । किं पुन वयमार्यमिश्रिकायो साममेव केशानोतारयित्वा काषायानि वस्त्राणि आच्छादयित्वा कोशकाबद्धेहि यानेहि भगवन्तं कोशलेहि जनपदेहि चारिकां चरमाणं पृष्ठिमेन पृष्ठिमाबन्धेम । सचे मो भगवाननुजानिष्यति प्रव्रजिष्यामो नो च अनुजानिष्यति एवं तु तायि भगवतो सन्तिके ब्रह्मचर्यञ्चरिष्यामः साधु आर्येति तायो शाकियानीयो महाप्रजापतीये गौतमीये प्रत्याश्रौषि । ३. अथ खलु भगवान् कपिलवस्तुस्मिन्नगरे यथाभिरम्यं विहरित्वा कोशलेषु जनपदेषु चारिकां प्रक्रामि । अथ खलु महाप्रजापती गौतमी सार्धं च्छन्दाये च्छन्दकपलाये दासच्छन्दाय च्छन्दकमातरे च पञ्चहि च शाकियानीशतेहि सात्मनेव केशानोतारयित्वा काषायाणि वस्त्राणि आच्छादयित्वा कोशकबद्धेहि यानेहि भगवन्तं कोशलेषु जनपदेषु चारिकां चरमाणं पृष्ठिमेन पृष्ठमनुबन्धेंसुः । ४. अथ खलु भगवान् कोशलेषु जनपदेषु चारिकां चरमानो महता भिक्षुसंघेन सार्धं पञ्चहि भिक्षुशतेहि येन कोशलानां श्रावस्तीनगरं तदवसारि । तदनुप्राप्तस्तत्रैव विहरति जेतवने अनाथपिण्डदस्यारामे । अथ खलु महाप्रजापती गौतमी येन भगवांस्तेनोपसंक्रमित्वा भगवतः पादौ शिरसा वन्दित्वा एकान्ते अस्थासि । एकान्तस्थिता महाप्रजापती गौतमी भगवन्तमेतदवोचत् । दुर्लभो भगवन् बुद्धोत्पादो दुर्लभा सद्धर्मदेशना । भगवांश्चैतर्हि लोके उत्पन्नो तथागतो र्हं सम्यक्सम्बुद्धो धर्मो च देशते औपसमिको च पारिनिर्वाणिको सुगतप्रवेदितो अमृतस्य प्राप्तये निर्वाणस्य साक्षात्क्रियाय सम्वर्तति । साधु भगवन्मातृग्रामो पि लभेय तथागतप्रवेदिते धर्मविनये प्रव्रज्यामुपसम्पदां भिक्षुणीभावम् । एवमुक्ते भगवान्महाप्रजापतीं गौतमीमेतदवोचत् । मा ते गौतमी रोचतु मातृग्रामस्य तथागतप्रवेदिते धर्मविनये प्रव्रज्याउपसम्पदाभिक्षुणिभावो । ५. अथ खलु महाप्रजापती गौतमी । न खलु भगवानवकाशं करोति मातृग्रामस्य तथागतप्रवेदिते धर्मविनये प्रव्रज्याय उपसम्पदाय भिक्षुणिभावस्येति । सा भगवतो पादां शिरसा वन्दित्वा जेतवनस्य आरामद्वारकोष्ठकसमीपे रोदमानी अस्थासि पादाण्गुष्ठेन भूमिं विलिखन्ती । अद्दशाशि खु अन्यतरो भिक्षुर्महाप्रजापतीं गौतमीं जेतवनस्य आरामद्वारकोष्ठसमीपे रुदमानीन् तिष्ठन्तीं पादाङ्गुष्ठेन भूमिं विलिखेन्तीं दृष्ट्वा च पुनर्येनायुष्मानानन्दो तेनोपसंक्रमित्वा आयुष्मन्तमानन्दमेतदवोचत् । एषा आयुष्मनानन्द महाप्रजापती गौतमी जेतवनस्य आरामकोष्ठकसमीपे रुदमानी तिष्ठति पादाङ्गुष्ठेन भूमिं विलिखन्ती । गच्छावुसानन्द जानेहि किं महाप्रपती गौतमी रोदीति । ६. अथ खलु आयुष्मानानन्दो येन महाप्रजापती गौतमी तेनोपसंक्रमित्वा महाप्रजापतीं गौतमीमेतदवोचत् । किं गौतमि रुदसि । एवमुक्ते महाप्रजापती गौतमी आयुष्मन्तमानन्दमेतदवोचत् । अलं मे आर्यानन्द रुण्णेन यत्र हि नाम एवं दुर्लभो बुद्धोत्पादो एवं दुर्लभा सद्धर्मदेशना । भगवांश्चैतर्हि लोके उत्पन्नो तथागतोऽर्हन् सम्यक्सम्बुद्धो धर्मो देशीयति औपसमिको पारिनिर्वाणिको सुगतप्रवेदितो अमृतस्य प्राप्तये निर्वाणस्य साक्षात्क्रियायै सम्वर्तति । न च भगवानवकाशं करोति मातृग्रामस्य तथागतप्रवेदिते धर्मविनये प्रव्रज्यायोपसम्पदाय भिक्षुणीभावस्य श्चै साधु तावार्यानन्द भगवन्तं याच यथा लभेय मातृग्रामो पि तथागतप्रवेदिते धर्मविनये प्रव्रज्यामुपसम्पदां भिक्षुणीभावम् । ७. साधु गौतमीति आयुष्मानानन्दो महाप्रजापतीये गौतमीये प्रतिश्रुत्वा येन भगवांस्तेनोपसंक्रमित्वा भगवतः पादौशिरसा वन्दित्वा एकान्ते अस्थासि । एकान्तस्थितो आयुष्मानानन्दो भगवन्तमेतदवोचत्दुर्लभो भगवन् बुद्धोत्पादो दुर्लभा सद्धर्मदेशना भगवान् चेतर्हि लोके उत्पन्नो तथागतोऽर्हन् सम्यक्सम्बुद्धो धर्मो च देश्यते औपसमिको पारिनिर्वाणिको सुगतप्रवेदितो अमृतस्य प्राप्तये निर्वाणस्य साक्षात्क्रियायै सम्वर्तति । साधु भगवन्मातृग्रामो पि लभेय तथागतप्रवेदिते धर्मविनये प्रव्रज्यामुपदम्पदां भिक्षुणिभावम् । एवमुक्ते भगवानायुष्मन्तमानन्दमेतदवोचत् । मा ते गौतमीमाता रोचतु मातृग्रामस्य तथागतप्रवेदिते धर्मविनये प्रव्रज्यामुपसम्पदा भिक्षुणीभावो । ८. अथ खल्वायुष्मानानन्दो । भगवान्नावकशं करोति मातृग्रामस्य तथागत प्रवेदिते धर्मविनये प्रव्रज्याउपसंपदाये भिक्षुणीभावस्येति । भगवतः पादौ शिरसा वन्दित्वा येन महाप्रजापति गौतमी तेनोपसंक्रमित्वा महाप्रजापतीं गौतमीमेतदवोचत् । न खलु गौतमी भगवानवकाशं करोति मातृग्रामस्य तथागतप्रवेदिते धर्मविनये प्रव्रज्यायोपसंपदाय भिक्षुणीभावाय । एवमुक्ते महाप्रजापती गौतमी आयुष्मन्तमानन्दमेतदवोचत् । साधु तावार्यानन्द द्वितीयं पि भगवन्तं याच यथा मातृग्रामो पि लभेय तथागतप्रवेदिते धर्मविनये प्रव्रज्यामुपसंपदां भिक्षुणीभावम् । साधु गौतमीति आयुष्मानानन्दो द्वितीयं पि महाप्रजापतीये गौतमीये प्रतिश्रुत्वा येन भगवान् तेनोपसंक्रमित्वा भगवतः पादौ शिरसा वन्दित्वा एकान्ते अस्थासि । एकान्ते स्थितो आयुष्मानानन्दो भगवन्तमेतदवोचत् । दुर्लभो भगवन् बुद्धोत्पादो ति तदेवं सर्वं याव भिक्षुणीभावो ति एवमुक्ते भगवानायुष्मन्तमानन्दमेतदवोचत् । माते गौतमी माता रोचतु मातृग्रामस्य तथागतप्रवेदिते धर्मविनये प्रव्रज्या उपसंपदा भिक्षुणीभावो । संयथापि नामानन्द सम्पन्ने यवकरणे च कारण्डवं नाम रोगराजा ति उपनिपतेय एवन् तं सम्पन्नं यवकरणं महता उपक्लेशेन उपक्लिष्टं भवति एवमेव गौतमी माता यस्मिन् प्रावचने मातृग्रामो पि लभति प्रव्रज्यामुपसंपदां भिक्षुणीभावमेवन् तं प्रावचनं महतामुपक्लेशेन उपक्लिष्टं भवति । सय्यथापि नाम गौतमी माता सम्पन्ने इक्षुकरणे मञ्जिष्ठा नाम रोगराजा ति एवन् तं सम्पन्नमिक्षुकरणं महता उपक्लेशेन उपक्लिष्टं भवति । एवमेव गौतमी माता यस्मिन् प्रावचने मातृग्रामो पि लभति प्रव्रज्यामुपसंपदां भिक्षुणीभावं एवन् तं प्रावचनं महता उपक्लेशेन उपक्लिष्टं भवति । सय्यथापि नाम मा ते गौतमी माता रोचतु मातृग्रामस्य तथागतप्रवेदिते धर्मविनये प्रव्रज्यामुपसंपदा भिक्षुणीभावो । ९. अथ खल्वायुष्मानानन्दो । भगवान्ना वकाशं करोति मातृग्रामस्य तथागतप्रवेदिते धर्मविनये प्रव्रज्यायोपसंपदाय भिक्षुणीभावस्येति । येन महाप्रजापती गौतमी तेनोपसंक्रमित्वा महाप्रजापतीं गौतमीमेतदवोचत् । न खलु गौतमी भगवानवकाशं करोति मातृग्रामस्य तथागतप्रवेदिते धर्मविनये प्रव्रज्यायोपसंपदाय भिक्षुणीभावस्येति । एवमुक्ते महाप्रजापती गौतमी आयुष्मन्तमानन्दमेतदवोचत् । साधु तावार्यानन्द तृतीयं पि भगवन्तं याच यथा मातृग्रामो पि लभेय तथागतप्रवेदिते धर्मविनये प्रव्रज्यामुपसंपदं भिक्षुणीभावम् । साधु गौतमीती आयुष्मानानन्दो तृतीयं पि महाप्रजापतीय गौतमीय प्रतिश्रुत्वा येन भगवांस्तेनोपसंक्रमित्वा भगवतः पादौ शिरसा वन्दित्वा एकान्ते निषीदि एकान्तनिषण्णो आयुष्मानानन्दो भगवन्तमेतदवोचत् । पुरिमकानां भगवन् तथागतानामर्हतां सम्यक्सम्बुद्धानां कति पर्षायो अभुवन् । एवमुक्ते भगवानायुष्मन्तमानन्दमेतदवोचत् । पुरिमकानामानन्द तथागतानामर्हतां सम्यक्सम्बुद्धानां चत्वारि परिषायो अभुवन् सय्यथीदम् । भिक्षु भिक्षुणी उपासकोपासिका । एवमुक्ते आयुष्मानानन्दो भगवन्तमेतदवोचत् । ये इमे भगवन् चत्वारो श्रामण्यफला सय्यथीदं श्रोतआपत्तिफलं सकृदागामिफलमनागामिफलमग्रफलमर्हत्वम् । भव्यो एतेषां मातृग्रामो पि एकोऽप्रमत्तो आतापि व्युपकृष्टो विहरन्तो साक्षीकर्तुम् । एवमुक्ते भगवानायुष्मन्तमानन्दमेतदवोचत् । यानीमानि आनन्द चत्वारि श्रामण्यफलानि सय्यथीदं श्रोतआपत्तिफलं यावदग्रफलमर्हत्वम् । भव्यो एतेषां मतृग्रामो पि एकोऽप्रमत्तो आतापि व्युपकृष्टो विहरन्तो साक्षीकर्तुम् । १०. एवमुक्ते आयुष्मानानन्दो भगवन्तमेतदवोचत् । यतो खलु भगवन् पुरिमकानां तथागतानामर्हतां सम्यक्संबुद्धानां चत्वारो पर्षायो अभूंसुः भिक्षुभिक्षुणी उपासकोपासिका । इमे चत्वारि श्रामण्यफलानि सय्यथीदम् । श्रोतआपत्तिफलं याव अग्रफलमर्हत्वम् । भव्यो एतेषां मातृग्रामो पि एको अप्रमत्तो आतापि व्युपकृष्टो विहरन्तो साक्षीकर्तुम् । साधु भगवन्मातृग्रामो पि लभेय तथागतप्रवेदिते धर्मविनये प्रव्रज्यामुपसंपदां भिक्षुणीभावम् । दुष्करकारिका च भगवतो महाप्रजापती गौतमी आपायिका पोषिका जनेत्रीये कालगताये स्तन्यस्य दायिका भगवांश्च कृतज्ञो कृतवेदी । एवमुक्ते भगवानायुष्मन्तमानन्दमेतदवोचत् । एवमेतदानन्द दुष्करकारिका आनन्द तथागतस्य महाप्रजापती गौतमी आपायिका पोषिका जनेत्रिये कालगताये स्तन्यस्य दायिका तथागतो च कृतज्ञो कृतवेदी च । अपि चानन्द तथागतो पि महाप्रजापतीय गौतमीय दुष्करकारको । तथागतं ह्यानन्दाआगम्य महाप्रजापती गौतमी बुद्धशरणं गता । धर्मशरणं गता । संघशरणं गता तथागतं ह्यानन्दागम्य महाप्रजापती गौतमी यावज्जीवं प्राणातिपातातो प्रतिविरता [१] यावज्जीवमदत्तादानात्प्रतिविरता [२] यावज्जीवं कामेषु मिथ्याचारात्प्रतिविरता [३] यावज्जीवं मृषावादातो प्रतिविरता [४] यावज्जीवं सुरामैरेयमद्यपानातो प्रतिविरता ॥ [५] तथागतं ह्यानन्दागम्य महाप्रजापती गौतमी श्रद्धया वर्धति । शीलेन वर्धति श्रुतेन वर्धति त्यागेन वर्धति । प्रज्ञया वर्धति । तथागतं ह्यानन्दागम्य महाप्रजापती गौतमी दुःखं जानाति समुदयं जानाति । निरोधं जानाति । मार्गं जानाति ॥ ११. यमानन्द पुद्गलो पुद्गलमागम्य बुद्धं शरणं गच्छति । धर्मं शरणं गच्छति । संघं शरणं गच्छति । इमिना आनन्द पुद्गलेन इमस्य पुद्गलस्य न सुप्रतिकरणं भवति यावज्जीवं पि न उपस्थिहेय यदुत चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्कारेहि । एवं पि न सुप्रतिकरं भवति । यमानन्द पुद्गलो पुद्गलमागम्य यावज्जीवं प्राणातिपातातो प्रतिविरमति । यावज्जीवमदत्तादानातो प्रतिविरमति । यावज्जीवं कामेषु मिथ्याचारात्प्रतिविरमति । यावज्जीवं मृषावादातो प्रतिविरमति । यावज्जीवं सुरामैरेयमद्यपानातो प्रतिविरमति । इमिना पुद्गलेन इमस्य पुद्गलस्य न सुप्रतिकरं भवति । यावज्जीवमपि न उपस्थिहेया । यदुत चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्कारेहि । एवं पि न सुप्रतिकरं भवति । यमानन्द पुद्गलो पुद्गलमागम्य श्रद्धया वर्धति शीलेन श्रुतेन त्यागेन प्रज्ञया वर्धति । इमिनानन्द पुद्गलेन इमस्य पुद्गलस्य न सुप्रतिकरं भवति । यावज्जीवं पि न उपस्थिहेय यदुत चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्कारेहि । एवं पि से न सुप्रतिकारं भवति । यमानन्द पुद्गलो पुद्गलमागम्य दुःखं जानाति समुदयं जानाति निरोधञ्जानाति मार्गञ्च जानाति । इमिना आनन्द पुद्गलेन इमस्य पुद्गलस्य न सुप्रतिकारं भवति । यावज्जीवं पि न उपस्थिहेय यदुत चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्कारेहि । एवं पि से न सुप्रतिकरं भवति ॥ १२. अथ खलु भगवतो एतदभूषि । सचे खलु अहमानन्दस्य गौतमस्य पुत्रस्य यावत्तृतीयकमपि प्रतिवहिष्यामि भविष्यति च से चित्तस्यान्यथात्वम् । श्रुता पि से धर्मा सम्मोहं गमिष्यन्ति । कामं वर्षसहस्रं पि मे सद्धर्मो स्थास्यति । मा हैवानन्दस्य गौतमीपुत्रस्य भवतु चित्तस्यान्यथात्वं मा पि से श्रुता धर्मा सम्मोषङ्गच्छन्तु । कामं पञ्चापि मे वर्षशतानि सद्धर्मो स्थास्यति । अथ खलु भगवानायुष्मन्तमानन्दमामन्त्रयति स्म । सय्यथापि नामानन्द इह पुरुषो पर्वतसंक्षेपे सेतुं बन्धेय यावदेव वारिस्य अनतिक्रमणाय एवमेवानन्द तथागतो भिक्षुणीनामष्ट गुरुधर्मान् प्रज्ञापेति ये भिक्षुनीहि यावज्जीवं सत्कर्तव्या गुरुकर्तव्या मानयितव्या पूजयितव्या अनतिक्रमणीया वेलामिव महासमुद्रेण ॥ कतमे अष्टौ । अष्टौ गुरुधर्मा गुरुधर्म १ १३. वर्षशतो पसम्पन्नाये आनन्द भिक्षुणीये तदहोपसम्पन्नस्य भिक्षुस्य शिरसा पादा वन्दितव्या । अयमानन्द भिक्षुणीनां प्रथमो गुरुधर्मो यो भिक्षूणीहि यावज्जीवं सत्कर्तव्यो याव अनतिक्रमणीयो वेलामिव महासमुद्रेण ॥ गुरुधर्म २ अष्टादशवर्षाये कुमारीभूताये द्वे वर्षाणी देशिताशिक्षाये परिपूर्णशिक्षाये उभयतो संघे उपसम्पदा प्रत्याशंसितव्या । अयमानन्द द्वितीयो गुरुधर्मो यो भिक्षुणीहि यावज्जीवं सत्कर्तव्यो गुरुकर्तव्यो याव वेला इव समुद्रेण ॥ गुरुधर्म ३ आवड्डो आनन्द भिक्षुणीनां भिक्षुषु वचनपथो भूतेन वा अभूतेन वा अनावड्डो भिक्षुस्य भिक्षुणीषु वचनपथो भूतेन नो अभूतेन । अयमानन्द भिक्षुणीनां तृतीयो गुरुधर्मो यो भिक्षुणीहि यावज्जीवं सत्कर्तव्यो विस्तरेण ॥ गुरुधर्म ४ भक्ताग्रं शय्यासनं विहारो च भिक्षुणीहि भिक्षुतो सादयितव्यो । अयमानन्द चतुर्थो गुरुधर्मो यो भिक्षुणीहि यावज्जीवं सत्कर्तव्यो गुरुकर्तव्यो विस्तरेण ॥ गुरुधर्म ५ गुरुधर्मापन्नाये आनन्द भिक्षुणीये अर्धमासं भिक्षुणीसंघे मानत्वं याचितव्यमुभयतो संघे च आह्वयनम् । अयमानन्द पण्चमो भिक्षुणीनां गुरुधर्मो यो भिक्षुणीहि यावज्जीवं सत्कर्तव्यो विस्तरेण ॥ गुरुधर्म ६ अन्वार्धमासं भिक्षुणीहि भिक्षुसंघातुवादोपसंक्रमणं प्रत्याशंसितव्यम् । अयमानन्द भिक्षुणीनां षष्ठो गुरुधर्मो यो भिक्षुणीहि यावज्जीवं सत्कर्तव्यो विस्तरेण । गुरुधर्म ७ न क्षमति भिक्षुणीहि अभिक्षुके आवासे वर्षामुपगन्तुम् । अयमानन्द भिक्षुणीनां सप्तमो गुरुधर्मो यो भिक्षुणीहि यावज्जीवं सत्कर्तव्यो विस्तरेण ॥ गुरुधर्म ८ वर्षोषिताहि आनन्द भिक्षुणीहि उभयतोसंघे प्रवारणा प्रत्याशंसितव्या । अयमानन्द भिक्षुणीनामष्टमो गुरुधर्मो यो भिक्षुणीहि यावज्जीवं सत्कर्तव्यो गुरुकर्तव्यो मानयितव्यो पूजयितव्यो अनतिक्रमणीयो वेला इव समुद्रेण । इमे आनन्द भिक्षुणीनामष्टौ गुरुधर्मा ये भिक्षुणीहि यावज्जीवं सत्कर्तव्या गुरुकर्तव्या मानयितव्या पूजयितव्या अनतिक्रमणीया वेला इव समुद्रेण ॥ १४. सचे नामानन्द महाप्रजापती गौतमी इमानष्ट गुरुधर्मान् प्रतीच्छति चतुहि च पतनीयेहि धर्मेहि अनध्याचाराय शिक्षां शिक्षति । एषा से अद्यदग्रेण प्रव्रज्या । एषा उपसंपदा एष भिक्षुणीभावो । साधु भगवन्निति आयुष्मानानन्दो भगवतः पादौ शिरसा वन्दित्वा येन महाप्रजापती गौतमी तेनोपसंक्रमित्वा महाप्रजापतीं गौतमीमेतदवोचत् । शृणु गौतमी भगवतो वचनम् । सय्यथापि नाम गौतमी इह पुरुष पर्वतसंक्षेपे सेतुं बन्धेय यावदेव वारिष्य अनतिक्रमणाय एवमेव गौतमी भगवान् भिक्षुणीनामष्टगुरुधर्मान् प्रज्ञापेति ये भिक्षुणीहि यावज्जीवं सत्कर्तव्या गुरुकर्तव्या मानयितव्या पूजयितव्या अनतिक्रमणीया वेलामिव समुद्रेण । १५. कतमेऽष्ट । वर्षशतोपसम्पन्नाय गौतमी भिक्षुणीय तदहोपसम्पन्नस्य भिक्षुस्य पादा शिरसा वन्दितव्या । अयं गौतमी भिक्षुणीनां प्रथमो गुरुधर्मो यो भिक्षुणीहि यावज्जीवं सत्कर्तव्यो यो अनतिक्रमणीयो वेलामिव समुद्रेण । एवं सर्वे अष्ट गुरुधर्मान् । तदेव महाप्रजापतीय गौतमीय प्रत्यारोचिति । याव सचे खु त्वं गौतमी इमानष्ट गुरुधर्मान् प्रतीच्छसि चतुहि च पतनीयेहि धर्मेहि अनध्याचाराय शिक्षां शिक्षसि । एषा एव ते अद्यदग्रेण प्रव्रज्या एषा उपसम्पदा एष भिक्षुणीभावो ॥ १६. एवमुक्ते महाप्रजापती गौतमी आयुष्मन्तमानन्दमेतदवोचत् । सय्यथापि नामानन्द इह स्यात्युवा पुरुषो मण्डनजातीयो शीर्षस्नातो आहतवस्त्रनिवस्त्रो उत्पलमालां वा चम्पकमालां वा कुमुदमालां वा तृणमोलिकमालां वा शिरसा प्रतीच्छेय एवमेवाहमार्यानन्द इमानष्टगुरुधर्मान् शिरसा प्रतीच्छामि चतुहि च पतनीयेहि धर्मेहि अनध्यचाराय शिक्षां शिक्षां शिक्षिष्यम् ॥ १७. अथ खलु महाप्रजापती गौतमी सार्धं च्छन्दायि च्छन्दकपालाये दासच्छन्दाये च्छन्दकमातरे च पञ्चहि च शाकियानिशतेहि सार्धं येन भगवान् तेनोपसंक्रमित्वा भगवतः पादौ शिरसा वन्दित्वा एकान्ते अस्थासुः । १८. एकान्तस्थितायो भिक्षुणीयो भगवानेतदवोचत् । तस्मादिह भवे भिक्षुणीयो अद्य्दग्रेण महाप्रजापतीं गौतमीं संघस्थविरां संघमहत्तरीं संघथविरिणा विकन्धावेथ । अथ खलु महाप्रजापती गौतमी येन भगवान् तेनाञ्जलिं प्रणामयित्वा भगवन्तमेतदवोचत् । ये इमे भगवन् भिक्षुणीनामष्टगुरुधर्मा भगवता संक्षिप्तेन भाषिता विस्तरेण विभक्ता लभ्या तेऽस्माभिर्विस्तरेण श्रोतुम् ॥ १९. भगवानाह । लभ्या । आह । किन्ति दानी गौतमी वर्षशतोपसम्पन्नाये भिक्षुणीये तदहोपसम्पन्नस्य भिक्षुस्य अभिवादनवन्दनप्रत्युत्थानाञ्जलीकर्म समीचीकर्म कर्तव्यम् । न दानिं भिक्षुणीये आगमितव्यम् । यदाहं वर्सशतोपसम्पन्ना भविष्यं भिक्षु च तदहोपसम्पन्नो भविष्यति तदाहमभिवादनवन्दनप्रत्युत्थानमञ्जलीकर्म सामीचिकर्म करिष्यम् । २०. अथ खलु सर्वाहि भिक्षुणीहि स्थविरीहि वा नवाहि वा मध्यमाहि वा सर्वेषां भिक्षूणां स्थेराणां नवानां मध्यमानामभिवादनवन्दनप्रत्युत्थानाञ्जलीकर्म सामीचिकर्म कर्तव्यम् ॥ एते दानि भिक्षू भिक्षूणीउपाश्रयं प्रविष्टा भवन्ति । सर्वाहि भिक्षुणीहि स्थेरीहि वा नवाहि वा मध्यमाहि वा सर्वेषां भिक्षूणां स्थेराणां नवानाञ्च मध्यमानामभिवादनवन्दनप्रत्युत्थानाञ्जलीकर्म सामीचीकर्म कर्तव्यम् ॥ २१. अथ दानि भिक्षुणी जरादुर्बला वा भवति व्याधिदुर्बला वा यत्तकानामभिसंभुणोति तत्तकानां पादा शिरसा वन्दितव्या । शिष्ठकानां मूर्ध्नि अञ्जलिं कृत्वा वक्तव्यम् । सर्वेषामार्यमिश्राणां पादां वन्दामि । एतायो भिक्षुणीयो भिक्षुविहारं निर्धावन्ति सर्वाहि भिक्षुणीहि स्थेरीहि वा नवाहि वा मध्यमाहि वा सर्वेषां भिक्षूणां थेराणां नवानां मध्यमानां पादा शिरसा वन्दितव्या । अथ दानि भिक्षुणी जरादुर्बला भवति व्याधिदुर्बला वा यत्तकानामभिसंभुणोति तत्तकानां पादा शिरसा वन्दितव्या शिष्टकानां मूर्ध्नि अञ्जलीं कृत्वा वक्तव्यम् । सर्वेषामार्यमिश्राणां पादा शिरसा वन्दामि । २२. सा एषा भिक्षुणी अवज्ञाय परिभवनेन कोण्टभिक्षू ति वा कृत्वा ढोस्सभिक्षू ति वा कृत्वा वैद्यभिक्षू ति वा कृत्वा अखल्लमहल्ले ति वा अकुशलो ति वा अप्रतिकृतिज्ञो ति वा कृत्वा न शिरसा पादान् वन्दति गुरुधर्ममतिक्रामति । एवं गौतमी वर्षशतोपसम्पन्नाये भिक्षुणीये तदहोपसम्पन्नस्य भिक्षुस्य शिरसा वन्दितव्यम् । अयं गौतमी भिक्षुणीनां प्रथमो गुरुधर्मो यावज्जीवं सत्कर्तव्यो गुरुकर्तव्यो मानयितव्यो पूजयितव्यो अनतिक्रमणीयो वेलामिव समुद्रेण ॥ गुरुधर्म २ २३. किन्ति दानि गौतमी अष्टादशवर्षाये कुमारीभूताये द्वेवर्षाणि शिक्षितशिक्षाये परिपूर्णशिक्षाये उभयतोसंघे उपसम्पदा प्रत्यासंसितव्या । या दानि एषा अष्टादशवर्षा कुमारीभूता भवति ताये भिक्षुणीसंघे द्वेवर्षाणी शिक्षादेशनासंमुति याचितव्या । कर्मकारिकाय कर्म कर्तव्यम् । शृणोतु मे आर्यसंघो । इयमित्थन्नामा नाम अष्टादशवर्षा कुमारीभूता आकाङ्क्षति तथागतप्रवेदिते धर्मविनये प्रव्रज्यामुपसम्पदां भिक्षुणीभावम् । यदि संघस्य प्राप्तकालमियम्नामा अष्टादशवर्षा कुमारीभूता संघं द्वेवर्षाणि शिक्षादेशनासंमुतिं याचेया । याचिष्यति आर्यमिश्रिकायो संघो इयमित्थन्नामा अष्टादशवर्षा कुमारीभूता द्वेवर्षाणि शिक्षादेशनासंमुतिम् । क्षमते तं संघस्य यस्मात्तूष्णीमेवमेतं धारयामि । २४. ताय दानि याचितव्यम् । वन्दामि आर्यसंघम् । अहमित्थन्नामा अष्टादशवर्षा कुमारीभूता आकाङ्क्षामि तथागतप्रवेदिते धर्मविनये उपसम्पदां भिक्षुणीभावम् । साहं संघं द्वे वर्षाणि शिक्षादेशनासंमुतिं याचामि । साधु वत मे आर्यसंघो द्वे वर्षाणि शिक्षादेशनासंमुतिं देतु । एवं द्वितीयं पि तृतीयं पि । २५. कर्मकारिकाय कर्म कर्तव्यम् । शृणोतु मे आर्यसंघो इयमित्थन्नामा अष्टादशवर्षा कुमारीभूता द्वे वर्षाणि शिक्षादेशनासंमुतिं याचति । तस्या आर्यसंघो इत्थन्नामाये अष्टादशवर्षाये कुमारीभूताये द्वे वर्षाणि शिक्षादेशनासंमुतिन् दद्यात् । ओवयिका एषा ज्ञप्तिः । शृणोतु मे आर्या संघो । इयमित्थन्नामा अष्टादशवर्षा कुमारीभूता आकाङ्क्षति तथागतप्रवेदिते धर्मविनये प्रव्रज्यामुपसम्पदां भिक्षुणीभावम् । सेयं संघं द्वे वर्षाणि शिक्षादेशनासंमुतिं याचति । तस्या संघो इत्थन्नामाये अष्टादशवर्षाये कुमारीभूताये द्वे वर्षाणि शिक्षादेशनासंमुतिन् देति । यस्या आर्यमिश्रिकाणां क्षमति इत्थन्नामाये अष्टादशवर्षाये कुमारीभूताये द्वे वर्षाणी शिक्षादेशनासंमुतिं दीयमानां संघेन सा तूष्णीमस्य । यस्या न क्षमति सा भाषतु । एवं द्वितीयं पि तृतीयं पि दिन्नामार्यमिश्रिकायो इत्थन्नामाये अष्टादशवर्षाये कुमारीभूताये द्वे वर्षाणि शिक्षादेशनासंमुतिः संघेन । क्षमते तं संघस्य यस्मात्तूष्णीमेवमेतं धारयामि । २६. तस्या दानि का वत्ता । सर्वभिक्षुणीनान्नविका सर्वश्रामणेरीणां वृद्धा आसनपर्यन्तो ताये सादयितव्यो [१] । भक्तपर्यन्तो ताये सादयितव्यो [२] य्वागुपर्यन्तो ताये सादयितव्यो [३] यत्तस्याऽमिषमकल्पिकं तं भिक्षुणीनामामिषं कल्पिकं [४] यं भिक्षुणीनामामिषं कल्पिकं तस्या तमामिषमकल्पिकं [५] भिक्षुणीयिहि तस्याः तेन परिवर्तशेय्या कर्तव्या [६] ताय पि श्रामणेरीणां तेन परिवर्तकशेय्या कर्तव्या [७] । भिक्षुणीयिहि सा प्रतिग्राहणिका कारापयितव्या स्थापयित्वा अग्निकल्पञ्च [८] । जातरूपरजतञ्च [९] ताये पि श्रामणेरीयो प्रतिग्राहणिका कारापयितव्यायो [१०] । २७. न क्षमति ताये पोषधो वा प्रवारणा वा अभिसंभुणितुम् । अथ खलु यदा पोषधो वा प्रवारणा वा भवति । तदहो तायि वृद्धान्तमारुह्य मूर्ध्नि अञ्जलिं कृत्वा वक्तव्यम् । वन्दामि आर्यायो विशुद्धां मे धारेथ । द्वितीयं पि तृतीयं पि । वन्दामि आर्यायो विशुद्धां धारयेथ त्रीणि वारां जल्पीय गन्तव्यं [११] न क्षमति सा प्रातिमोक्षसूत्रं श्रावयितुम् । अथ खलु यत्तकं पारियति पदफलकाये ग्राहयितुं तत्तकं ग्राहयितव्या [१२] । वक्तव्यम् । न क्षमति अब्रह्मचर्यं प्रतिसेवितुं [१३] न क्षमति अदिन्नमादयितुम् [१४] । न क्षमति स्वहस्तं मनुष्यविग्रहं जीविताद्व्योपरायितुं [१५] न क्षमति अभूवनमुत्तरिमनुष्यधर्मं प्रजानितुं [१६] । एवं यत्तकं पारीयति पदफलके ग्राहयितुं तत्तकं ग्राहयितव्या । पञ्चशिक्षाभञ्जनकानि । विकालभोजनम् । सन्निधिकाराभोजनम् । जातरूपरजतप्रतिग्रहणम् । गन्धामालाविलेपनधारणम् । सुरामैरेयमद्यपानाञ्च । यत्तकानि दिवसानि अध्याचरति तत्तकानि दिवसानि उक्तानि शिक्षा शिक्षितव्या [१८] ॥ २८. यं कालं द्वे वर्षाणि भवन्ति ततो ताय संघो उपस्थापनासंमुतिं याचितव्यो । कर्मकारिकाय कर्म कर्तव्यम् । शृणोतु मे आर्यसंघो इयमित्थन्नामा अष्टादशवर्षा कुमारीभूता द्वे वर्षाणि देशितशिक्षा परिपूरशिक्षा आकाम्क्षति तथागतप्रवेदिते धर्मविनये प्रव्रज्यामुपसम्पदां भिक्षुणीभावम् । यदि संघस्य प्राप्तकालमित्थन्नामा अष्टादशवर्षा कुमारीभूता द्वे वष्राणि देशितशिक्षा परिपूरिशिक्षा । सा संघमुपस्थापनासंमुतिं याचेय । याचिष्यति आर्यमिश्रिकायो इत्थन्नामा अष्टादशावर्षा कुमारीभूता देशितशिक्षा परिपूरिशिक्षा द्वे वर्साणि उपस्थापनासंमुतिम् । क्षमते तं संघस्य यस्मात्तूष्णिमेतद्धारयामि । २९. ताय दानि याचितव्यम् । वन्दामि आर्यसंघमहमित्थन्नामा अष्टादशवर्शा कुमारीभूता द्वे वर्षाणि देशितशिक्षा परिपूरिशिक्षा । सा अहं संघमुपस्थापनासंमुतिं याचामि । साधु मे आर्या संघो उपस्थापनासंमुतिन् देतु । द्वितीयं पि तृतीयं पि । वन्दामि आर्यायो अहमित्थन्नामा अष्टादशवर्षा कुमारीभूता द्वे वर्षाणि देशितशिक्षा परिपूरिशिक्षा । साहं संघमुपस्थापनासंमुतिं याचामि । साधु मे आर्यसंघो उपस्थापनासंमुतिन् देतु । कर्मकारिकाये कर्म कर्तव्यम् । शृणोतु मे आर्यसंघो । इयमित्थन्नामा अष्टादशवर्षा कुमारीभूता द्वे वर्षाणि देशितशिक्षा परिपूरिशिक्षा सा संघमुपस्थापनासंमुतिं याचति । यदि संघस्य प्राप्तकालं संघो इत्थन्नामाये अष्टादेशवर्षाये कुमारी भूताये द्वे वर्षाणि देशितशिक्षाये परिपूर्णशिक्षाये उपस्थ्हापनासंमुतिन् दद्यात् । ओवशिकाये एषा ज्ञप्तिः ॥ ३०. शृणोतु मे आर्यसंघो इयमित्थन्नामा अष्टादशवर्षा कुमारी भूता द्वे वर्षाणि देशितशिक्षा परिपूर्णशिक्षा । सा संघमुपस्थापनासंमुतिं याचति । ताय संघो इत्थन्नामाये अष्टादशवर्षाये कुमारीभूताये द्वे वर्षाणि देशितशिक्षाये परिपूर्णशिक्षाये उपस्थापनासंमुतिं देति । यासामार्यमिश्रिकाणां क्षमति इत्थन्नामाये अष्टादश वर्षाये कुमारीभूताये द्वे वर्षाणि देशितशिक्षाये परिपूर्णशिक्षाये उपस्थापनासंमुतिं दीयमानां संघेन । सा तूष्णीमस्य । यस्य न क्षमति सा भाषितु । इयं प्रथमा कर्मवाचना । एवं द्वितिया तृतीया कर्मवाचनेति । ३१. दिन्ना आर्यमिश्रिकायो इत्थन्नामाये अष्टादश वर्षाये कुमारिभूताये द्वे वर्षाणि देशितशिक्षाये परिपूर्णशिक्षाये उपस्थापनासंमुति संघेन । क्षमते तं संघस्य यस्मात्तूष्णीमेवमेतद्धारयामि । ३२. उपसंपाद्याय उपाध्यायिनी याचितव्या । वन्दाम्यार्ये अहमित्थन्नामा आर्यामुपाध्यायिनीं याचामि । आर्या मे उपसंपादेतु उपाध्यायिनीमिश्राहि । एवं द्वितियं पि तृतीयं पि याचितव्यम् । उपाध्यायिनीय पात्रचीवराणि पर्येषितव्यानि । अनुश्रावणाचार्या पर्येषितव्या द्वे रहानुशासनाचार्या पर्येषितव्या यो गणो समुदानयितव्यो गणस्य उपनामयितव्यो । ३३. कर्म । शृणोतु मे आर्यसंघो इयमित्थन्नामा इत्थन्नामाय उपसम्पाद्या । यदि संघस्य प्राप्तकालमित्थंनामा च इत्थन्नामा च इत्थन्नामां रहोऽनुशासेय्या । अनुशासिष्यति आर्यसंघो इत्थन्नामा च इत्थन्नामा च इत्थन्नामां रहो । क्षमते तं संघस्य यस्मात्तूष्णीमेवमेतन् धारयामि । ३४. ताहि दानि सा अनुशासितव्या गणस्य नातिदूरे नात्यासन्ने संक्षिप्तेन वा विस्तरेण वा । किन्ति दानि संक्षिप्तेन । वक्तव्या । शृणु कुलधिते यं यदेवात्र संघमध्ये पृच्छियसि तत्तदेव यमस्ति तमस्तीति वक्तव्यम् । यन्नास्ति तन्नाfतिति वक्तव्यम् । एवं संक्षिप्तेन । ३५. किन्ति दानि विस्तरेण । शृणु कुलधीते अयं सत्यकालो अयं भूतकालो याव सदेवकं लोकं समारकं सब्रह्मकं सश्रमणब्राह्मणीं प्रजां सदेवमानुषासुरां विसम्वादेय्या या च तस्य भगवतो तथागतस्यार्हतः सम्यक्सम्बुद्धस्य श्राविकासंघं विसम्वादेय्या इमं ततो महासावद्यतरम् । यं यदेव संघमध्ये पृच्छियसि तं तदेव यमस्ति तमस्तीति वक्तव्यम् । अनुज्ञातासि अनुज्ञापकेहि । आमम् । याचिता ते उपाध्यायिनी । आम । परिपूर्णन् ते पात्रचिवरम् । आम । देशितशिक्षासि । आम । परिपूर्णशिक्षासि । आम । सम्मतासि विशुद्धासि भिक्षुणीहि । आम । मा मातृघातिनि । नहि । मा पितृघातिनि । नहि । मा अर्हन्तघातिनी । नहि । मा संघभेदिका । नहि । मा तथागतस्य दुष्टचित्तरुधिरोत्पादिका । नहि । चिरा परिनिवृतो खो पुन सो भगवांस्तथागतो र्हन् सम्यक्सम्बुद्धो ॥ मा भिक्षुदूषिका । नहि । मा स्तैन्यसम्वासिका । नहि । मा तिर्थिकापक्रान्तिका । नहि । मा दासि । नहि । मा अवपितिका । नहि । मा ऋणहारिका । नहि । मा राजभटि । नहि । मा राज्ञः किल्बिषकारिणि । नहि । उपसम्पन्नपूर्वासि । अन्यदापि यद्याह उपसम्पन्नपूर्वा ति । वक्तव्या गच्छ नस्य चल प्रपलाहि । नास्ति ते उपसम्पदा । अथ दानाह । नहीति । उत्तरि समनुग्राहितव्या मा वातिला । मा पित्तिला । मा पिन्दिला । मा हल्लवाहिनी । मा पूयवाहिनी । मा चक्रवाहिनी । मा आर्द्रव्रणा । मा शुष्कव्रणा । मा शोणितव्रणा । मा शिखिरिणी । मा द्विपुरुषिका । मा स्त्रिपण्डिका । मा पुरुषद्वेषिणी ३६. सन्ति खो पुनरिमस्मिन् काये विविधा अनुशयिका आबाधा सय्यथीदम् । दर्द्रु कण्डू कच्छू रकचा । विचर्चिका अर्शो भगन्दला । पाण्डुरोगो आलसको । लोहितपित्तं ज्वरो । कासो श्वासो सोषो अपस्मारो । वातोदरं दकोदरम् । प्लीहोदरं कुष्ठं किटिभं मधुमेहो विसूचिका । सन्ति ते एते वा अन्ये वा विविधा अनुशयिका आबाधाः कायेऽस्मिन्न वा । ३७. यद्याह नहीति । वक्तव्या । यं कालं शब्दापियेसि तं कालमागच्छेसि ताहि दानीमागत्वा सामीचिं कृत्वा वक्तव्यमनुशास्ता ति । कर्मकारिकाय कर्म कर्तव्यम् । शृणोतु मे आर्यसंघो इयमित्थम्नामा इत्थन्नामाये उपसम्पाद्या इत्थन्नामाय च इत्थन्नमाय च रहोऽनुशास्ता । यदि संघस्य प्राप्तकालमियमित्थन्नामा इत्थंनामाय उपाध्यायिनीय संघमध्यमुपसंक्रामेय्या । उपसंक्रमिष्यति आर्यमिश्रिकायो इत्थन्नामा इत्थंनामाय उपाध्यायिनीय संघमध्यम् । क्षमते तं संघस्य । यस्मात्तूष्णीमेवमेतं धारयामि । ३८. सा दानि शब्दापितव्या । ताय दानि आगच्छित्वा वृद्धान्तातो प्रभृति सर्वासां पादा शिरसा वन्दितव्याः यावन्नवकान्तम् । कर्मकारिकाये अग्रतः अष्टोहं + + + + + + + + +तकं कृत्वा पर्यङ्केन निषीदितव्यं दुर्बलवस्तिको मातृग्रामः मा अफासु भवेया ति । ३९. कर्मकारिकाय कर्म कर्तव्यम् । शृणोतु मे आर्यसंघो इयमित्थन्नामा इत्थन्नामाये उपसंपाद्या इत्थन्नामाय च इत्थन्नामाय च रहोऽनुशास्ता । यदि संघस्य प्राप्तकालमियमित्थन्नामा इत्थम्नामाय उपाध्यायिनीय संघमुपसंपदं याचेय्या । याचिष्यति आर्यमिश्रिकायो इत्थन्नामा इत्थन्नामाय उपाध्यायिनीय संघमुपसंपदम् । क्षमते तं संघस्य यस्मात्तूष्णीमेवं मे धारयामि । ४०. ताय दानि याचितव्यम् । वन्दाम्यार्यसंघम् । अहमित्थन्नामा अर्थहेतोर्नाम गृह्णामि इत्थन्नामाये उपाध्यायिनीय उपसम्पाद्या इत्थंनामाय च इत्थंनामाय च आर्या रहोऽनुशास्ता । साहमित्थन्नामा अर्थहेतोर्नाम गृह्णामि इत्थन्नामाय उपाध्यायिनीय संघमुपसंपदं याचामि । उपसंपादेतु मे आर्यसंघो । उल्लुम्पतु मे आर्यसंघो । अनुकम्पतु मे आर्यसंघो । अनुकम्पको अनुकम्पामुपादाय । एवं द्वितीयं पि तृतीयं पि याचयितव्यम् । ४१. कर्मकारिकाय कर्म कर्तव्यम् । शृणोतु मे आर्यसंघो । इयमित्थन्नामा इत्थंनामाये उपसंपाद्या । इत्थन्नामाय च इत्थन्नामाय च रहोऽनुशास्ता । अनेया इत्थन्नामाय इत्थन्नामाय उपाध्यायिनीय संघो यावत्तृतीयकमुपसंपदं याचितो । यदि संघस्य प्राप्तकालमित्थन्नामामित्थंनामाय उपाध्यायिनीय संघमध्ये अन्तरायिकान् धर्मान् पृच्छेमः । पृच्छिष्यति आर्यमिश्रिकायो इत्थन्नामा इत्थन्नामाय उपाध्यायिनीय संघमध्ये अन्तरायिकान् धर्मान् । क्षमते तं संघस्य यस्मात्तूष्णीमेवमेतन् धारयामि । ४२. सा दानि वक्तव्या शृणु । कुलधीते संघ सत्यकालो अयं भूतकालो याव सदेवकं लोकं समारकं सब्रह्मकं सश्रमणब्राह्मणीं प्रजां सदेवमानुषासुरान् विसम्वादेय्या या च तस्य भगवतो तथागतस्यार्हतः सम्यक्सम्बुद्धस्य श्राविकासंघं विसम्वादेय्या इमन् ततो महासावद्यतरम् । ४३. यं यदेव संघमध्ये पृच्छियेसि तं तदेव यमस्ति तमस्तीति वक्तव्यम् । यन्नास्ति तन्नास्तीति वक्तव्यम् । अनुज्ञातासि अनुज्ञापकेहि । आम । याचिता ते उपाध्यायिनी । आम । परिपूर्णन् ते पात्रचीवरम् । आम । देशितशिक्षासि । आम । परिपूर्णशिक्षासि आम । सम्मतासि । विशुद्धासि भिक्षुणीहि । आम । मा मातृघातिनि । नहि । मा पितृघातिनि । नहि । मा अर्हद्घातिनि । नहि । मा संघभेदिका । नहि । मा तथागतस्य दुष्टचित्तरुधिरोत्पादिका । नहि । चिरपरिनिवृतो खो पुन सो भगवांस्तथागतोऽर्हन् सम्यक्सम्बुद्धो । ४४. मा भिक्षुदूषिका । नहि । मा स्तैन्यसम्वासिका । नहि । मा तिर्थिकापक्रान्तिका । नहि । मा स्वयं सन्नद्धिका । नहि । मा दासि । नहि । मा अवपितिका । नहि । मा ऋणहारिका । नहि । मा राजभटि । नहि । मा राज्ञः किल्बिषकारिणी । नहि । उपसम्पन्नपूर्वासि अन्यदापि । यद्याह उपसम्पन्नपूर्वा ति । वक्तव्या । गच्छ नस्य चल प्रपलाहि नास्ति ते उपसंपदा । ४५. अथाह । नहीति । वक्तव्या । मा वातिला । नहि । मा पित्तिला । नहि । मा पिन्दिला । नहि । मा हल्लवाहिनी । नहि मा पूयवाहिनी । नहि । मा चक्रवाहिनी । नहि । मा आर्द्रव्रणा । नहि । मा शुष्कव्रणा । नहि । मा शोनितव्रणा । नहि । मा शिखरिनी । नहि । मा द्विपुरुषिका । नहि । मा स्त्रीपण्डिका । नहि । मा पुरुषद्वेषिणी । नहि । ४६. सन्ति खो पुनरिमस्मिं काये विविधा आनुशयिका आबाधा संयथीदम् । दर्द्रु कण्डू कच्छू रकचा । विचर्चिका अर्शो भगन्दला । पाण्डुरोग अलसको । लोहितपित्तम् । ज्वरो । कासो श्वासो शोषो अपस्मारो । वातोदरं दकोदरं प्लीहोदरं मधुमेहो । सन्ति ते एते वा अन्ये वा विविधा आनुशयिका वा आबाधाः कायेऽस्मिन्न वा । यद्याह नहीति वक्तव्यम् । तूष्णीका भवाहीति । ४७. कर्मकारिकाये कर्म कर्तव्यम् । शृणोतु मे भन्ते आर्या संघो इयमित्थन्नामा इत्थन्नामाये उपसंपाद्या इत्थन्नामाय च इत्थन्नामाय च रहोऽनुशास्ता । ताय इत्थन्नामाय उपाध्यायिनीय संघो यावत्तृतीयकमुपसंपदं याचितो । अनुज्ञाता अनुज्ञापकेहि । याचितानया उपाध्यायिनी । परिपूर्णमस्याः पात्रचीवरम् । देशितशिक्षा परिपूर्णशिक्षा । सम्मता परिशुद्धा अन्तरायिकेहि धर्मेहि । आत्मानं प्रतिजानाति । यदि संघस्य प्राप्तकालमित्थंनामाये उपाध्यायिनीय संघमध्ये त्रयो निश्रया देशयामः । देशयिष्यन्ति आर्यसंघो इत्थन्नामाये इत्थन्नामाय उपाध्यायिनीय संघमध्ये त्रयो निश्रयान् । क्षमते तं संघस्य यस्मात्तूष्णीमेवमेतद्धारयामि । ४८. सा दानि वक्तव्या । शृणु कुलधीते इमे तेन भगवता तथागतेनार्हता सम्यक्सम्बुद्धेन अर्थकामेन हितैषिना अनुकम्पकेन अनुकम्पामुपादाय श्राविकाणां त्रयो निश्रया अभिज्ञाय देशिताः प्रज्ञप्ताः सम्यगाख्याताः । यत्रोत्सहन्तीयो श्राद्धायो कुलधीतायो उपसंपदीयन्ति । अनुत्सहन्तीयो नोपसंपादीयन्ति । निश्रय १ ४९. पांसुकूलं चीवराणामल्पञ्च सुलभञ्च कल्पिकञ्चानवद्यञ्च श्रमणीसारूप्यञ्च । तण्च निश्राय प्रव्रज्या उपसंपदा भिक्षुणीभावः यत्रोत्सहन्तीयो श्रद्धायो कुलधीतायो उपसंपादीयन्ति । अनुत्सहन्तीयो नोपसंपादीयन्ति । अत्रच ते कुलधीते यावज्जीवमुत्साहो करणीयो । उत्सहसि त्वं कुलधीते यावज्जीवं पांसुकूलं चीवराणान् धारयितुम् । उत्सहन्त्या उत्सहामीति वक्तव्यम् । अतिरेकलाभः कम्बलं कर्पासं क्षौमं शाणं भङ्गं क्षौमुतिका चीवराणाम् ॥ निश्रय २ ५०.उच्छिष्टपिण्डं भोजनानामल्पञ्च सुलभञ्च कल्पिकं चानवद्यञ श्रमणीसारूप्यञ्च । तङ्च निश्राय प्रव्रज्या उपसंपदा भिक्षुणीभाव यत्रोत्सहन्तीयो श्रद्धायो कुलधीतायो उपसंपादीयन्ति । अनुत्सहन्तीयो नोपसंपादीयन्ति । अत्र च ते कुलधीते यावज्जीवमुत्साहो करणीयो । उत्सहसि त्वं कुलधीते यावज्जीवमुच्छिष्टपिण्डं भोजनानां भोक्तुम् । उत्सहन्तीयो उत्सहामीति वक्तव्यम् । अतिरकलाभः पक्षिकानिमन्त्रणा चातुर्दशिका पाञ्चदशिका उपोषधिका शलाकाभक्तम् । निश्रय ३ ५१. पूतिमूत्रं भैषज्यानामल्पञ्च सुलभञ्च कल्पिकञ्चानवद्यञ्च श्रमणीसारूप्यञ्च । तञ्च निश्राय प्रव्रज्या उपसंपदा भिक्षुणीभावः । अत्र उत्सहन्तीयो श्रद्धायो कुलधीतायो उपसंपादीयन्ति । अनुत्सहन्तीयो नोपसम्पादीयन्ति । अत्र च ते कुलधीते यावज्जीवमुत्साहो करणीयो । उत्सहसि त्वं कुलधीते यावज्जीवं पूतिमूत्रं भैषज्यानां प्रतिसेवितुम् । उत्सहन्त्या उत्साहामीति वक्तव्यम् । अतिरेकलाभः सर्पिस्तैलं मधुफाणितं वसानवनीतमिमे त्रयो निश्रया आर्यवंशा । अनुशिक्षितव्यमनुवर्तितव्यम् । ५२. कर्मकारिकाय कर्म कर्तव्यम् । शृणोतु मे आर्या संघो इयमित्थन्नामा इत्थंनामाये उपसंपाद्या इत्थन्नामाय च इत्थन्नामाय च रहोऽनुशास्ता । ताय इत्थन्नामाय उपाध्यायिनीय संघो यावत्तृतीयकमुपसंपदं याचितो । अनुज्ञाता अनुज्ञापकेहि । याचितानया उपाध्यायिनी । परिपूर्णमस्याः पात्रचीवरन् । देशितशिक्षा । परिपूर्णशिक्षा । सम्मता । परिशुद्धा अन्तरायिकेहि धर्मेहि । आत्मानं प्रतिजानाति । निश्रयेषु चोत्सहति । यदि संघस्य प्राप्तकालम् । संघो इत्थंनामामित्थंनामाय उपाध्यायनीय उपसंपादेय्य । ओवयिका एषा ज्ञप्तिः । ५३. शृणोतु मे आर्या संघो इयमित्थन्नामा इत्थन्नामाये उपसंपाद्या । इत्थंनामाय च इत्थंनामाय च रहोऽनुशास्ता । संघोऽनया इत्थंनामाय इत्थन्नामाय उपाध्यायिनीय यावत्तृतीयकमुपसंपदं याचितो । अनुज्ञाता अनुज्ञापकेहि । याचितानया उपाध्यायिनी परिपूर्णमस्याः पात्रचीवरम् । देशितशिक्षा । परिपूर्णशिक्षा । सम्मता । परिशुद्धा अन्तरायिकेहि धर्मेहि आत्मानं प्रति जानाति । निश्रयेषु चोत्सहति । ५४. तां संघो इत्थन्नामामित्थन्नामाय उपाध्यायिनीय उपसंपादेति । यासामार्यमिश्रिकाणां क्षमति इत्थन्नामामित्थन्नामाय उपाध्यायिनीय उपसंपादीयमानां संघेन । सा तूष्णीमस्य । यस्या न क्षमति सा भाषतु । इयं प्रथमा कर्मवाचना । एवं द्वितीया । तृतीया कर्मवाचनेति । वक्तव्यम् । उपसम्पन्नेयमार्यमिश्रिकायो इत्थन्नामा इत्थन्नामाये उपाध्यायायिनीय संघेन । क्षमते तं संघस्य यस्मात्तूष्णीमेवमेतद्धारयामि । ५५. सा दानि वक्तव्या । जानामि त्वमित्थन्नामे उपसंपन्ना सूपसंपन्ना त्रैवाचिकेन कर्मणा । ज्ञप्तिचतुर्थेन अनाघातपञ्चमेन । समग्रेण संघेन न व्यग्रेण । दशबद्धेन गणेन । सातिरेकदश बद्धेन । ५६. तथा दानि करोहि यथा । बुद्धशोभना च भोसि । धर्मशोभना च भोसि । संघशोभना च भोसि । बुद्ध गुरु च धर्म गुरु च संघ गुरु च । उपाध्यायिनी गुरु च । आचार्यायिणी गुरु च । शिक्षा गुरु च । तथा दानि करोहि । यथा । आरागयित्वा न विरागयसि । दुर्लभा क्षणसंपदा । यस्यार्थाय प्रव्रज्या यस्यार्थाय उपसंपदा । तच्छीलमनुरक्षस्व बालाग्रं चमरी यथा ॥ [१] यन्मनापमभिप्रेतं बुद्धस्यादित्यबन्धुनो । श्राविकानाञ्च विज्ञानां निपुणानामर्थदर्शिनाम् । सो ते अर्थो अनुप्राप्तो लब्धा ते उपसंपदा ॥ [२] अशोकं विरजं क्षेमं द्वीपं लेनं परायणम् । तं प्रापुणाहि निर्वाणमेषा ते सर्वसम्पदा ॥ [३] ५७. तामेवं भिक्षुणीगणेनोपसंपादिय भिक्षुविहारं गत्वा उपाध्यायिनीय उभयतो संघो समुदानयितव्यो । आसनप्रज्ञप्ति कर्तव्या नीचतमा एकदेशे भिक्षुणीसम्घस्य । यदा भिक्षू सामीचिं कृत्वा निषण्णा भवन्ति तदा भिक्षुणीहि सामीचिं कृत्वा निषीदितव्यम् । ततो उपाध्यायिनीय उपसंपाद्या गणस्योपनामयितव्या । कर्मकारकेण पृच्छितव्या । परिशुद्धासि भिक्षुणीहीति । न पृच्छति विनयातिक्रममासादयति । ५८. कर्मकारकेण कर्म कर्तव्यम् । शृणोतु मे भन्ते संघो । इयमित्थन्नामा भिक्षुणी । ताये इत्थन्नामा अन्तेवासिनी उपसंपाद्या । विशुद्धा भिक्षुणीहि । यदि संघस्य प्राप्तकालमित्थन्नामा भिक्षुणी इत्थन्नामाये अन्तेवासिनीये संघमुपसंपदं याचेय्या । याचिष्यति भन्ते संघो इत्थन्नामा इत्थन्नामाये अन्तेवासिनीये संघमुपसंपदम् । क्षमते तं संघस्य यस्मात्तूष्णीमेवमेतद्धारयामि । ५९. ताय दानि याचितव्यम् । वन्दाम्यार्यसंघमहमित्थन्नामा भिक्षुणी । तस्या मे इयमित्थन्नामा अन्तेवासिनी उपसम्पाद्या । साहमित्थन्नामाय अन्तेवासिनीये संघमुपसंपदं याचामि । उपसंपादेतु तं संघो इत्थन्नामां मया इत्थन्नामाय उपाध्यायिनीय अनुकम्पामुपादाय । द्वितीयं पि तृतीयं पि याचितव्यम् । कर्म । शृणोतु मे भन्ते संघो । इयमित्थन्नामा इत्थन्नामाये भिक्षुणीये उपसंपाद्या । इत्थन्नामाय च इत्थन्नामाय च रहोऽनुशास्ता । यदि सम्घस्य प्राप्तकालमित्थन्नामा इत्थन्नामाय उपाध्यायिनीय संघमुपसंपदं याचेय्या । याचिष्यति भन्ते संघो इत्थन्नामा इत्थन्नामाय उपाध्यायिनीय संघमुपसंपदम् । क्षमते तं संघस्य यस्मात्तूष्णीमेवमेतद्धारयामि । ६०. ताय दानि याचितव्यम् । वन्दाम्यार्यसंघम् । अहमित्थन्नामा अर्थहेतोर्नाम गृह्णामि इत्थन्नामाये उपाध्यायिनीये उपसंपाद्या । इत्थन्नामाय च इत्थन्नामाय च आचार्याय रहोऽनुशास्ता । साहमित्थन्नामा अर्हहेतोर्नाम गृह्णामि इत्थन्नामाय उपाध्यायिनीय संघमुपसंपदं याचामि । उपसंपादेतु मे आर्यो संघो । उल्लुम्पतु आर्यो संघो । अनुकम्पतु मे आर्यो संघो । अनुकम्पको अनुकम्पामुपादाय एवं द्वितीयं पि तृतीयं पि । कर्म । शृणु मे भन्ते संघो । इयमित्थन्नामा इत्थन्नामाये उपसंपाद्या । इत्थन्नामाय च इत्थन्नामाय च रहोऽनुशास्ता । अनया इत्थन्नामाय इत्थन्नामाय उपाध्यायिनीय संघो यावत्तृतीयकमुपसंपदं याचितो । यदि संघस्य प्राप्तकालमित्थन्नामा इत्थन्नामाय उपाध्यायिनीय संघमध्ये अन्तरायिकान् धर्मान् पृच्छेमः । पृच्छिष्यति भन्ते संघो इत्थन्नामा इत्थन्नामाय उपाध्यायिनीय संघमध्ये अन्तरायिकान् धर्मान् । क्षमते तं संघस्य यस्मात्तूष्णीमेवमेतद्धारयामि । ६१. सा दानि वक्तव्या । शृणु कुलधिते । अयं सत्यकालो । अयं भूतकालो याव सदेवकं लोकं समारकं सब्रह्मणं सश्रमणब्राह्मणीं प्रजां सदेवमानुषासुरां विसम्वादेय्या य च तस्य भगवतो तथागतस्यार्हतः सम्यक्सम्बुद्धस्य उभयतोसंघं विसम्वादेय्या इमन् ततो महासावद्यतरम् । यं यदेव ते संघमध्ये पृच्छेयाम तं तदेव यमस्ति तमस्तीति वक्तव्यम् । यं नास्ति तं नास्तीति वक्तव्यम् । ६२. अनुज्ञातासि अनुज्ञापकेहि । आम । याचिता ते उपाध्यायिनी । आम । परिपूर्णन् ते पात्रचीवरम् । आम । देशितशिक्षासि । आम । परिपूर्णशिक्षासि । आम । सम्मतासि । आम । विशुद्धासि भिक्षुणीहि । आम । मा मातृघातिनी । नहि । मा अर्हद्घातिनी । नहि मा संघभेदिका । नहि । मा तथागतस्य दुष्टचित्तरुधिरोत्पादिका । नहि । चिरपरिनिवृत्तो खो पुन सो भगवांस्तथागतोऽर्हन् सम्यक्सम्बुद्धो । मा भिक्षुदूषिका नहि मा स्तैन्यसम्वासिका । नहि । मा तीर्थिकापक्रान्तिका । नहि । मा दासी । नहि । मा अवपितिका । नहि । मा ऋणहारिका । नहि । मा राजभटी । नहि । मा राज्ञः किल्बिषकारिणी । नहि । उपसम्पन्नपूर्वासि अन्यदापि । यद्याह । आमन् ति । वक्तव्या । गच्छ नस्य चल प्रपलाय नास्ति ते उपसंपदा । अथाह नहीति । वक्तव्यम् । सन्ति खो पुनरिमस्मिं काये विविधा अनुशायिका आबाधाः । संयथीदं दद्रु कण्डू कच्छू रकचा । विचर्चिका कुष्ठं किटिभम् । अर्शा भगन्दला । पाण्डुरोगो आलसो । लोहितपित्तं ज्वरो । कासो श्वासो सोषो अपस्मारो । वातोदरं दकोदरम् । प्लीहोदरं मधुमेहो विसूचिका । सन्ति ते एते वा अन्ये वा विविधा अनुसायिका आबाधा कायेऽस्मिन्न वा । यद्याह नहीति । वक्तव्या । तूष्णिका भवाहि । ६३. कर्म । शृणोतु मे भन्ते संघो । इयमित्थन्नामा इत्थन्नामाये भिक्षुणीये उपसंपाद्या । इत्थन्नामाय च इत्थननामाय च रहोऽनुशास्ता । अनया इत्थन्नामाय इत्थन्नामाय उपाध्यायिन्या संघो यावत्तृतीयकमुपसंपदं याचितो । अनुज्ञाता अनुज्ञापकेहि । याचितानया उपाध्यायिनी । परिपूर्णं से पात्रचीवरम् । देशितशिक्षा । परिपूर्णशिक्षा । सम्मता विशुद्धा भिक्षुणीहि । परिशुद्धा अनतरायिकैर्धर्मैरात्मानं प्रतिजानाति । यदि संघस्य प्राप्तकालमित्थन्नामाये इत्थन्नामाय उपाध्यायिनीय संघमध्ये त्रयो निश्रया देशयामः । देशिष्यन्ति भन्ते संघो इत्थन्नामाय उपाध्यायिनीय संघमध्ये त्रयो निश्रयान् । क्षमते तं संघस्य यस्मात्तूष्णीमेवमेतद्धारयामि । निश्रय १ ६४. सा वक्तव्या । शृणु कुलधीते इमे तेन भगवता तथागतेनार्हता सम्यक्सम्बुद्ढेनार्थकामेन हितैषिना अनुकम्पकेनानुकम्पामुपादाय श्राविकाणान् त्रयो निश्रया अभिज्ञाय देशिता प्रज्ञप्ताः सम्यगाख्याताः । यत्रोत्सहन्तीयो श्राद्धायो कुलधीतायो उपसंपादीयन्ति अनुत्सहन्तीयो नोपसंपादीयन्ति । अत्र च कुलधिते यावज्जीवमुत्साहो करणीयो । पांसुकूलं चीवराणामल्पञ्च सुलभञ्च कल्पिकञ्चानवद्यञ्च श्रमणीसारूप्यञ्च । तञ्च निश्राय प्रव्रज्योपसंपदा भिक्षुणीभावः । यत्रोत्सहन्तीयो श्राद्धायो कुलकुलधीतायो उपसंपादीयन्ति । अनुत्सहन्तीयो नोपसंपादियन्ति । अत्र च ते कुलधीते यावज्जीवमुत्साहो करणीयो । उत्सहसि त्वं कुलधीते यावज्जीवं पांसुकूलं चीवराणान् धारयितुम् । उत्सहन्तीय उत्सहामीति वक्तव्यम् । अतिरेकलाभः कम्बलं कर्पासं क्षौमं शाणं भङ्गं क्षोमुतिका चीवराणाम् । निश्रय २ उच्छिष्टपिण्डं भोजनानामल्पञ्च सुलभञ्च कल्पिकञ्चानवद्यञ्च श्रमणीसारूप्यञ्च । तञ्च निश्राय प्रव्रज्योपसंपदा भिक्षुणीभावः । यत्रोत्सहन्तीयो श्रद्धायो कुलधीतायो उपसंपादीयन्ति । अनुत्सहन्तीयो नोपसंपादीयन्ति । अत्र च ते कुलधिते यावज्जीवमुत्साहो करणीयो । उत्सहसि त्वं कुलधिते यावज्जीवमुच्छिष्टपिण्दं भोजनानां भोक्तुम् । उत्सहन्तीय उत्साहामीति वक्तव्यम् । अतिरेकलाभः । पक्षिकानिमन्त्रणा चातुर्दशिका पाञ्चदशिकायामुपोषधिका शलाकाभक्तम् । निश्रय ३ पूतिमूत्रं भैषज्यानामल्पञ्च सुलभञ्च कल्पिकञ्चानवद्यञ्च श्रमणीसारूप्यञ्च । तञ्च निश्राय प्रव्रज्योपसंपद्भिक्षुणीभावः । यत्रोत्सहन्तीयो श्राद्धायो कुलधीतायो उपसंपादीयन्ति । अनुत्सहन्तीयो नोपसंपादीयन्ति । अत्र च कुलधीते यावज्जीवमुत्साहो करणीयो । उत्सहसि त्वं कुलधीते यावज्जीवं पूतिमूत्रं भैषज्यानां प्रतिसेवितुम् । उत्सहन्तीय उत्साहामीति वक्तव्यम् । अतिरेकलाभः । सर्पिस्तैलं मधुफाणितं वसानवनीतम् । इमे त्रयो निश्रया आर्यवंशा । अनुशिक्षितव्यमनुप्रवर्तितव्यम् । ६५. कर्मकारकेण कर्म कर्तव्यम् । शृणोतु मे भन्ते संघो । इयमित्थन्नामा इत्थन्नामाये भिक्षुणीये उपसंपाद्या इत्थन्नामा य च इत्थन्नामाय च रहोऽनुशास्ता संघोऽनया इत्थन्नामाय इत्थन्नामाय उपाध्यायिनीय यावत्तृतीयकमुपसंपदं याचितो । अनुज्ञाता अनुज्ञापकेहि । याचितानया उपाध्यायिनी । परिपूर्णमस्याः पात्रचीवरम् । देशितशिक्षा । परिपूर्णाशिक्षा सम्मता विशुद्धा भिक्षुणीहि परिशुद्धा अन्तरायिकेहि धर्मेहि आत्मानं प्रतिजानाति । निश्रयेषु चोत्सहति यदि संघस्य प्राप्तकालं संघो इत्थन्नामामित्थन्नामाय उपाध्यायिनीय उपसंपादेय्या । ओवयिका एषा ज्ञप्तिः । ६६. शृणोतु मे भन्ते संघो । इयमित्थन्नामा इत्थन्नामाये भिक्षुणीये उपसंपाद्या । इत्थन्नामाय च इत्थन्नामाय च रहोऽनुशास्ता संघोऽनया इत्थन्नामाय उपाध्यायिनीय यावत्तृतीयकमुपसंपदं याचितो । अनुज्ञाता अनुज्ञापकेहि याचितानया उपाध्यायनीयिनी । परिपूर्णमस्याः पात्रचीवरम् । देशितशिक्षा । परिपूर्णशिक्षा सम्मता । विशुद्धा भिक्षुणीहि । परिशुद्धा अन्तरायिकैर्धर्मैरात्मानं प्रत्fइआनाति । निश्रयेषु चोत्सहति । तां संघो इत्थन्नामामित्थन्नामाये उपाध्यायिनीये उपसंपादेति । येषामायुष्मन्तानां क्षमति इत्थन्नामामित्थन्नामाये उपाध्यायिनीये उपसंपादीयमानां संघेन । सो तूष्णीमस्य । यस्य न क्षमति सो भाषतु । इयं प्रथमा कर्मवाचना । एवं द्वितीया । तृतीया कर्मवाचनेति वक्तव्यम् । उपसंपन्नेयं भन्ते संघो इत्थन्नामामित्थन्नामाये उपाध्यायिनीय संघेन । क्षमते तं संघस्य यस्मात्तूष्णीमेवमेतद्धारयामि । ६७. अत्रान्तरे च्छाया मापयितव्या । नक्षत्राणि वा गणयितव्यानि सा दानि वक्तव्या । एषासि त्वं कुलधीते उपसंपन्ना सूपसंपन्ना त्रैवाचिकेन कर्मणा । ज्ञप्तिचतुर्थेन । अनाघातपञ्चमेन उभयतः संघेन समग्रेण न व्यग्रेण दशबद्धेन गणेन सातिरेकदशबद्धेन वा । तथा दानि करोहि यथा । बुद्धशोभना च भोसि धर्मशोभना च संघशोभना च । बुद्ध गुरु च धर्म गुरु च संघ गुरु च । उपाध्यायिनी गुरु च आचार्या गुरु च तथा दानि करोहि यथा । आरागयित्वा न विरागयसि दुर्लभा क्षणसम्पदा । यसार्थाय प्रव्रज्या यस्यार्थाय उपसंपदा । तच्छीलमनुरक्षस्व बालाग्रं चमरी यथा । [१] यन्मनापमभिप्रेतं बुद्धस्यादित्यबन्धुनो । श्राविकानाञ्च विज्ञानां निपुणानामर्थदर्शिनाम् । सो ते अर्थो अनुप्राप्तो लब्धा ते उपसंपदा ॥ [२] अशोकं विरजं क्षेमं द्वीपं लेनं परायणम् । तं प्रापुणाहि निर्वाणमेषा ते सर्वसम्पदा ॥ [३] ६८. पारिवेणिका । अष्टौ पाराजिका धर्माः । एकूनविंशति संघातिशेषा धर्माः । त्रिंशन्निःसर्गिकपाचत्तिका धर्माः । अष्ट प्रातिदेशिका धर्माः । चतुषष्टि शेखिया धर्माः । सप्त अधिकरणशमथा धर्माः । द्वौ धर्मौ धर्मोऽनुधर्मश्च । एष ते कुलधीते संक्षिप्तेन ओवादो । विस्तरेण ते उपाध्यायिनीआचार्यायो ओवदिश्यन्ति । ६९. शृणु त्वमित्थन्नामे । इमे तेन भगवता तथागतेनार्हता सम्यक्सम्बुद्धेन एवं प्रव्रजितोपसम्पन्नाये भिक्षुणीये चत्वारः श्रामणीका रका धर्मा आख्याता । आक्रुष्टाय न प्रत्याक्रोषितव्यं रोषिताय न प्रतिरोषितव्यम् । भण्डिताय न प्रतिभण्डितव्यं ताडिताय न प्रतिताडितव्यम् ॥ [१] प्रासादिकाय प्रव्रज्या परिशुद्धायोपसंपदा । आख्याता सत्यनामेन सम्बुद्धेन प्रजानता ॥ [२] सर्वपापस्याकरणं कुशलस्योपसंपदा । स्वचित्तपर्यादमनमेतद्बुद्धानुशासनम् ॥ [३] ७०. एकमिदङ्गौतमि समयं तथागतो वैशालीयं विहरति । महावने कूटागारशालायान् धर्मदिन्नाये दानि भिक्षुणीये द्वे अन्तेवासिनीयो उपसंपाद्यायो । अप्रशर्केण दानि लिच्छविकुमारेण श्रुतम् । धर्मदिन्नाये भिक्षुणीये द्वे अन्तेवासिनीयो उपसंपाद्यायो । ता पञ्चाहं पूर्वे एवञ्चैवञ्च खलीकृतो गच्छाम्यहन् तायो उपसम्पाद्यायो ब्रह्मचर्यातो याचयामीति धर्मदिन्नाये श्रुतम् । ७१. सा दानि येन भगवांस्तेनोपसंक्रमित्वा भगवन्तमेतदवोचत् । मम भगवन् द्वे अन्तेवासिनीयो उपसंपाद्यायो । तासामिहागच्छन्तीनां स्याद्ब्रह्मचर्यान्तरायः । लभ्या भगवन् तायो तत्रस्थितायो इहस्थितेन संघेन उपसंपादयितुम् । भगवानाह । लभ्या । गच्छ प्रथमं भिक्षुणीगणेनोपसंपादिय पश्चाद्भिक्षुविहारं गत्वा दूतोपसंपदाप्रतिग्राहकान् याच द्वौ वा त्रीणि वा गण न क्षमति । ददातु च ते संघो दूतोपसंपदाप्रतिग्राहकान् । साधू ति वदित्वा धर्मदिन्ना भिक्षुणी भगवतोऽन्तिकात्प्रक्रान्ता । यावत् । ७२. कर्मकारकेण कर्म कर्तव्यम् । शृणोतु मे भन्ते संघो इयन् धर्मदिन्ना भिक्षुणी । तस्या इत्थन्नामा च इत्थन्नामा च अन्तेवासिनीयो उपसंपाद्यायो । तासामिहागच्छन्तीनां स्याद्ब्रह्मचर्यान्तरायो । यदि संघस्य प्राप्तकालं धर्मदिन्ना भिक्षुणी इत्थन्नामाय च इत्थन्नामाय च अन्तेवासिनीनां तत्रस्थितानामिहस्थितं संघं दूतोपसंपदाप्रतिग्राहकान् याचेय । याचिष्यति भन्ते संघो धर्मदिन्ना भिक्षुणी इत्थन्नामाये च इत्थन्नामाये च अन्तेवासिनीनामुपसंपाद्यानां तत्रस्थितानामिहस्थितं संघं दूतोपसंपदाप्रतिग्राहकान् । क्षमते तं संघस्य यस्मात्तूष्णीमेवमेतद्धारयामि । ७३. ताय दानि याचितव्यम् । वन्दाम्यार्यसंघमहन् धर्मदिन्ना भिक्षुणी । तस्या मे इत्थन्नामा च इत्थन्नामा च अन्तेवासिनीयो उपसंपाद्यायो । तासामिहागच्छन्तीनां स्याद्ब्रह्मचर्यान्तरायो । साहं धर्मदिन्ना भिक्षुणी इत्थन्नामाये च इत्थन्नामाये च अन्तेवासिनीनामुपसंपाद्यानान् तत्रस्थितानामिहस्थितं संघं दूतोपसंपादाप्रतिग्राहकान् याचामि । साधु भव मे आर्यो संघो इत्थन्नामाये च इत्थन्नामाये च अन्तेवासिनीनामुपसंपाद्यानां तत्रस्थितानामिहस्थितो संघो दूतोपसंपदाप्रतिग्राहकान् देतु । एवं द्वितीयं पि तृतीयं पि याचितव्यम् । ७४. कर्म । शृणोतु मे भन्ते संघो । इयन् धर्मदिन्ना भिक्षुणी । तस्या इत्थन्नामा च इत्थन्नामा च अन्तेवासिनीयो उपसंपाद्यायो । तासामिहागच्छन्तिनां स्याद्ब्रह्मचर्यन्तरायः । सेयन् धर्मदिन्ना भिक्षुणी इत्थन्नामाये च इत्थन्नामाये च उपसंपाद्यानां तत्रस्थितानामिहस्थितं संघं दूतोपसंपदाप्रतिग्राहका याचयति । यदि संघस्य प्राप्तकालं संघो इत्थन्नामं च इत्थन्नामं च दूतोपसंपदाप्रतिग्राहकान् सम्मन्येया । इवयिका एषा प्रज्ञप्तिः । ७५. शृणोतु मे भन्ते संघो । इयं धर्मदिन्ना भिक्षुणी तस्या इत्थन्नामा च इत्थन्नामा च अन्तेवासिनी उपसंपाद्या तासामिहागच्छन्तीनां स्याद्ब्रह्मचर्यान्तरायो । सेयं धर्मदिन्ना भिक्षुणी इत्थन्नामाये च इत्थन्नामाये च अन्तेवासिनीनामुपसंपाद्यानां तत्रस्थितानामिहस्थितं संघं दूतोपसंपदाप्रतिग्राहकान् याचते । तान् संघो धर्मदिन्नाये भिक्षुणीये इत्थन्नामं च इत्थन्नामं च दूतोपसंपदाप्रतिग्राहकान् सम्मन्यति । येषामायुष्मन्तानां क्षमति धर्मदिन्नाये भिक्षुणीये इत्थन्नामो च इत्थन्नामो च दूतोपसंपदाप्रतिग्राहकान् सम्मन्यियमानान् संघेन । सो तूष्णीमस्य । यस्य न क्षमति सो भाषतु । इयं प्रथमा कर्मवाचना । एवं द्वितीय तृतीया कर्मवाचना इति कर्तव्यम् । ७६. सम्मता । भन्ते संघो । धर्मदिन्नाये भिक्षुनिये इत्थन्नामाये च इत्थन्नामाये च अन्तेवासिनीनां तासामिहागच्छन्तीनां स्याद्ब्रह्मचर्यान्तराय इति कृत्वा तत्रस्थितानामिहस्थितेन संघेन इत्थन्नामो च इत्थन्नामो च भिक्षू दूतोपसंपदाप्रतिग्राहकाः क्षमते तं संघस्य यस्मात्तूष्णीमेवमेतद्धारयामि । ७७. तेहि दनि सम्मतेहि समानेहि धर्मदिन्नाये भिक्षुणीये उपाश्रयं गन्तव्यम् । ताहि दानि धर्मदिन्नाय अन्तेवासिनीहि ते याचितव्याः । वन्दाम्यार्यमिहस्थितायो इत्थन्नामा च इत्थन्नामा च आर्याये धर्मदिन्नाये उपाध्यायिनीये उपसंपाद्यायो । विशुद्धा भिक्षुणीहि । इत्थन्नामाय च इत्थन्नामाय च आर्याय रहोऽनुशास्तायो तासामस्माकं तत्रगच्छन्तीनां स्याद्ब्रह्मचर्यान्तरायो । ता वयमित्थन्नामा च इत्थन्नामा च आर्याय धर्मदिन्नाय उपाध्यायिनीय तत्रस्थितं संघमुपसंपदं याचामः । उपसंपादेतु मे आर्य संघो । उल्लुम्पतु मे आर्यो संघो । अनुकम्पतु मे आर्यो संघो अनुकम्पको अनुकम्पामुपादाय । एवं द्वितीयं पि तृतीयंपि याचितव्यम् । ७८. ततो भिक्षुविहारङ्गन्तव्यम् । यं कालमुभयतो संघो उपविष्टो भवति ततो धर्मदिन्नाय याचितव्यम् । वन्दाम्यार्यसंघम् । अहन् धर्मदिन्ना भिक्षुणी । तस्या इत्थन्नामा च इत्थन्नामा च अन्तेवासिनीयो उपसंपाद्यायो । विशुद्धा भिक्षुणीहि । तासामिहागच्छन्तीनां स्याद्ब्रह्मचर्यान्तरायो । साहन् धर्मदिन्ना भिक्षुणी इत्थन्नामाय च इत्थन्नामाय च अन्तेवासिनीनामुपसंपाद्यानां तत्रस्थितानामिहस्थितं संघमुपसंपदं याचामि । उपसंपादेतु तायो संघो मया इत्थन्नामाय उपाध्यायिनीय । एवं द्वितीयं पि तृतीयं पि याचितव्यम् । ७९. यं कालं धर्मदिन्नाय याचितं भवति । ततो दूतोपसंपदाप्रतिग्राहकेहि याचितव्यम् । वन्दाम्यार्यसंघम् । इयन् धर्मदिन्ना भिक्षुणी तस्या इत्थन्नामा च इत्थन्नामा च अन्तेवासिन्यो उपसंपाद्यायो । तासामिहागच्छन्तीनां स्यात्ब्रह्मचर्यान्तरायो । ताहि इत्थन्नामाय च इत्थन्नामाय च धर्मदिन्नाय उपाध्यायिनीय तत्रस्थिताहि इहस्थितः संघ उपसंपदं याचितः । उपसंपादेतु तायो आर्यो संघो । उल्लुम्पतु तायो आर्यो संघो । अनुकम्पतु तायो आर्यो संघो । अनुकम्पको अनुकम्पामुपादाय । एवं द्वितीयं पि तृतीयं पि याचितव्यम् । ८०. कर्मकारकेन कर्म कर्तव्यम् । शृणोतु मे भन्ते संघो इयं धर्मदिन्ना भिक्षुणी । तस्या इत्थन्नामा च इत्थन्नामा च अन्तेवासिनीयो उपसंपाद्यायो इत्थन्नामा च इत्थन्नामा च रहोऽनुशास्तायो । तासामिहागच्छन्तीनां स्याद्ब्रह्मचर्यान्तरायो ताहि इत्थन्नामाय च इत्थन्नामाय च धर्मदिन्नाय उपाध्यायिनीय तत्र स्थिताहि इहस्थितः संघो उपसंपदं याचितो । अनुज्ञाता अनुज्ञापकेहि । याचिता ताहि उपाध्यायिनी । परिपूर्णं तासां पात्रचीवरम् । देशितशिक्षायो परिपूर्णशिक्षायो सम्मतायो विशुद्धायो भिक्षुणीहि । परिशुद्धायो अन्तरायिकेहि धर्मेहि आत्मानं प्रतिजानन्ति । निश्रयेषु चोत्सहन्ति । यदि संघस्य प्राप्तकालमित्थन्नामां च इत्थन्नामां च धर्मदिन्नाय उपाध्यायिनीय तत्रस्थितायो इहस्थितो संघो उपासंपादेय्या । ओवयिका एषा ज्ञप्तिः । ८१. शृणोतु मे भन्ते संघो । इयन् धर्मदिन्ना भिक्षुणी । तस्या इत्थन्नामा च इत्थन्नामा च अन्तेवासिनीयो उपसंपाद्यायो । इत्थन्नामाय च इत्थन्नामाय च रहोऽनुशास्तायो । तासामिहागच्छन्तीनां स्याद्ब्रह्मचर्यान्तरायो । ताहि इत्थन्नामाय च इत्थन्नामाय च धर्मदिन्नाय उपाध्यायिनीय तत्रस्थिताहि इहस्थितो संघो उपसंपदं याचितो । अनुज्ञातायो अनुज्ञापकेहि । याचिता ताहि उपाध्यायिनी । परिपूर्णं तासां पात्रचीवरम् । देशितशिक्षायो । परिपुर्णशिक्षायो । सम्मतायो विशुद्धायो भिक्षुणीहि । परिशुद्धायो अन्तरायिकेहि धर्मेहि आत्मानं प्रतिजानन्ति । तायो संघो इत्थन्नामां च इत्थन्नामां च धर्मदिन्नाय उपाध्यायिनीय इहस्थितो संघो उपसंपादेति । येषामायुष्मतां क्षमति इत्थन्नामा च इत्थन्नामा च धर्मदिन्नाय उपाध्यायिनीय तत्रस्थितायो इहस्थितेन संघेन उपसंपादीयमानायो । सो तूष्णीमस्य । यस्य न क्षमति सो भाषतु । इयं प्रथमा कर्मवाचना । एवं द्वितीया तृतीया कर्मवाचना । ८२. कर्म कर्तव्यम् । उपसम्पन्ना भन्ते संघो इत्थन्नामा च इत्थन्नामा च धर्मदिन्नाय उपाध्यायिनीय तत्रस्थितायो इहस्थितेन संघेन । क्षमते तं संघस्य यस्मात्तूष्णीमेवमेतन् धारयामि । एवमुपसंपदाय तेहि दूतोपसंपदाप्रतिग्राहकेहि भिक्षुण्युपाश्रयङ्गत्वा तायो उपसंपन्नायो वक्तव्यायो । एता इत्थन्नामायोपसंपन्नायो सूपसंपन्नायो त्रैवाचिकेन कर्मणा ज्ञप्तिचतुर्थेन । अनाघातपञ्चमेन । समग्रेण उभयतः संघेन दशबद्धेन गणेन । सातिरेकदशबद्धेन वा । तथा दानि करोथ यथा । बुद्धशोभना च भोथ । धर्मशोभना च संघशोभना च । बुद्ध गुरु च । धर्म गुरु च संघ गुरु च । उपाध्यायिनी गुरु च । आचार्य गुरु च । तथा दानि करोथ यथा । आरागयित्वा न विरागयथ । दुर्लभा क्षणसम्पदा । यस्यार्थाय प्रव्रज्या यस्यार्थाय उपसंपदा तच्छीलमनुरक्षध्वं बालाग्रं चमरी यथा ॥ [१] यं मनापमभिप्रेतं बुद्धस्यादित्यबन्धुनो । श्राविकानां च विज्ञानां निपुणानामर्थदर्शिनाम् । सो वोऽर्थो अनुप्राप्तो लब्धा वो उपसंपदा ॥ [२] अशोकं विरजं क्षेमं द्वीपं लेनं परायणं तं प्रापुणथ निर्वाणमेषा वो सर्वसंपदा ॥ [३] शेषं पूर्ववद्योज्यम् । एवं गौतमि अष्टादशवर्षाये कुमारी भूताये उभयतःसंघे उपसंपदा प्रत्याशंसितव्या । अयं गौतमि भिक्षुणीनां द्वितीयो गुरुधर्मो यो भिक्षुणीहि यावज्जीवं सत्कर्तव्यो यावद्वेलामिव महासमुद्रेण । गुरुधर्म ३ ८३. किन् ति दानि गौतमि आवडो भिक्षुणीनां भिक्षूहि वचनपथो भूतेन वा अभूतेन वा अनावडो भिक्षूणां भिक्षुणीहि वचनपथो भूतेन अभूतेन । न क्षमति भिक्षुणीहि भिक्षुं धर्षिय वक्तुं कोण्टभिक्षू ति वा वैद्यभिक्षू ति वा चूडभिक्षू ति वा अखल्ला महल्लअप्रतिज्ञअकुशलो ति वा वक्तुम् । अथैव जल्पति गुरुधर्ममतिक्रमति । ८४. अथ दानि भिक्षुणीये कश्चित्प्रव्रजितो भवति ज्ञातिको वा भ्राता वा । सो च भवति उद्धतो उन्नडो । न क्षमति अध्युपेक्षितुं नामपि क्षमति धर्षिय वक्तुम् । अथ खलु प्रज्ञया सम्ज्ञापयितव्यो यदि तावत्तरुणको भोति वक्तव्यो । सालोहित इदानीं त्वं न शिक्षसि कदा शिक्षिष्यसि । किन् दानि यदा जीर्णो वृद्धो महल्लको अध्वगतवयननुप्राप्तो भविष्यसि । एतत्तव साधु एतत्प्रतिरूपं यच्च उद्दिशेशि स्वाध्यायेसि भद्रको गुणवान् शिक्षाकामो भवेसि बुद्धानां शासने योगमापद्येसि । ८५. अथ दानि सो वृद्धो भोति । वक्तव्यो । इदनीमिमीदृशो पुनस्त्वं तरुअणकाले इदानीं त्वं न शिक्षसि कदा शिक्षिष्यसि । किन् दानि यदा मण्डलद्वारमनुप्राप्तो भविष्यसि तदा शिक्षिष्यसि या प्येषा तव पर्षा सापि तव दृष्टा अनुकृतिमापद्यमाना अनयव्यसनमापद्यिष्यतीति एतत्तव साधु एतत्प्रतिरूपं यत्त्वमुद्दिशसि स्वाध्यायेसि भद्रको गुणवान् । शिक्षाकामो भवेसि बुद्धानां शासने योगमापद्येसि सा एषा भिक्षुणी अवज्ञाय वा परिभवेन वा कोण्टभिक्षू ति वा वैद्यभिक्षू ति वा चूडभिक्षू ति वा अखल्लमहल्लअप्रकृतिज्ञअकुशलो ति वा धर्षिय जल्पति गुरुधर्ममतिक्रमति । ८६. अनावडो भिक्षूणां भिक्षुणीहि वचनपथो भूतेन वा अभूतेन इति न क्षमति भिक्षुणा भिक्षुणीं धर्षिय वक्तुं मुण्डस्त्री छिन्नकवडेति जल्पति विनयातिक्रममासादयति । ८७. अथ दानि भिक्षोर्माता वा भगिनी वा प्रव्रजितिका भवति सा च उद्धता वा उन्नडा वा भवति । न क्षमति अध्युपेक्षितुं यदि तावत्तरुणिका भोति । वक्तव्या । सालोहिते इदानीं त्वं न शिक्षिष्यसि कदा शिक्षिष्यसि । किं दानि यं कालं जीर्णवृद्धा महल्लिका भविष्यसि एतत्तव साधु एतत्प्रतिरूपं यत्त्वमुद्दिशेसि स्वाध्यायेसि भद्रिका गुणवती शिक्षाकामा भवेसि बुद्धनां शासने योगमापद्येसि । ८८. अथ दानि सा वृद्धा भोति । वक्तव्या । सालोहिते इदानीं त्वमीदृशी कीदृशी पुनस्तरुणीकाले इदानीं त्वन्न शिक्षसि कदा शिक्षिष्यसि किन् दानि यं कालं मण्डलद्वारमनुप्राप्ता भविस्यसि तदा शिक्षिष्यसि या प्येषा तव पर्षा सापि तव दृष्टा अनुकृतिमापद्यमाना अनयेन व्यसनमापद्यिष्यतीति । एतत्तव साधु एतत्प्रतिरूपं यत्त्वमुद्दिशेसि स्वाध्यायसि भद्रिका गुणवती शिक्षाकामा भवेसि बुद्धानां शासने योगमापद्येसीति । एष गौतमि आवटो भिक्षुणीनां भिक्षूहि वचनपथो भूतेन वा । अभूतेन वा । अनावटो भिक्षूणां भिक्षुणीहि वचनपथो भूतेन नो अभूतेन । अयं गौतमि भिक्षुणीनां तृतियो गुरुधर्मो यो भिक्षुणीहि यावज्जीवं सत्कर्तव्यो यावदनतिक्रमणीयो वेलामिव महासमुद्रेण । गुरुधर्म ४ ८९. किन् ति दानि गौतमि भक्ताग्रं शयनासनाग्रं विहाराग्रञ्च भिक्षुणीहि भिक्षुसंघातो सा दयितव्यम् । एषो दानि कोचि भिक्षुणीसंघस्य भक्तं करोति वक्तव्यो । ज्येष्ठपर्यायता करोहीति । अथ दानि सो आह नास्ति मम तंहि श्रद्धा नास्ति प्रसादो ति वक्तव्यः । वयं पि न प्रतिच्छामो ति । अथ दानाह । दत्तपूर्वं तेषां मम मात्रा वा पित्रा वा गोष्ठीसम्बन्धेन वा श्रेणीसंबन्धेन वा समयसम्भन्धेन वा आर्यमिश्रिकाणां न कदाचिन्मया भक्तं कृतपूर्वम् । प्रतिगृह्णन्तु आर्यमिश्रिका ति अन्तमसतो एकपिण्डपातं पि दापयित्वा भिक्षुसंघस्य भिक्षुणीसंघो शतरसं पि भोजनं प्रतिच्छति अनापत्तिः । ९०. किन् ति दानि शयनासनाग्रम् । एषो दानि कोचिद्भिक्षुणीसंघस्य शयनासनं ददाति । वक्तव्यम् । ज्येष्ठपर्यायतावद्देहीति । अथ दानि सो आह नास्ति मम तहिं श्रद्धा नास्ति प्रसादो । वक्तव्यम् । वयं पि न प्रतिच्छामो ति । अथ दानाह । दत्तपूर्वं मम आर्ये भिक्षुसंघस्य शयनासनं मात्रा वा यावत्समयसम्बन्धेन वा । प्रतीच्छन्त्वार्यमिश्रिका ति अन्तमसतो खयु[?]का मञ्चं पि भिक्षुसंघस्य दापयित्वा महार्हं शयनासनं भिक्षुणीसंघः प्रतीच्छत्यनापत्तिः । ९१. किन् ति दानि विहाराग्रम् । एषो दानि कोचित्भिक्षुणीसंघस्य विहारं प्रतिष्ठापयति । वक्तव्यम् । ज्येष्ठपर्यायतावत्प्रतिष्ठापयेहीति । अथ दानाह । आर्ये नास्ति मम तहिं श्रद्धा । नास्ति प्रसादो ति । वक्तव्यं वयं पि न प्रतीच्छामो ति । अथ दानाह । आर्ये कारापितन् तेषां विहाराः मात्रा वा यावत्समयसम्बन्धेन वा प्रतीच्छन्त्वार्यमिश्रिका विहारन् ति अन्तमसतो गोमयगृहं पि पिष्ठगृहं पि भिक्षुसंघस्य दापयित्वा भिक्षुणीसंघो सप्तभूमकं पि विहारं प्रतीच्छत्यनापत्तिः । ९२. ता एता भिक्षुणीयो अवज्ञाय परिभवेन वा कोण्टभिक्षू ति वा । वैद्यभिक्षू ति वा । अखल्लमहल्लाप्रकृतिज्ञो ती वा कृत्वा भक्ताग्रं शयनासनाग्रं विहाराग्रं भिक्षुसंघातो न शातियति गुरुधर्ममतिक्रामति । एवं गौतमी भक्ताग्रं शयनासनग्रं विहाराग्रं भिक्षुणीहि भिक्षुसंघातो सातयितव्यो । अयं गौतमि भिक्षुणीनां चतुर्थो गुरुधर्मो यो भिक्षुणीहि यावज्जीवं सत्कर्तव्यो यावदनतिक्रमणीयो वेलामिव महासमुद्रेण । गुरुधर्म ५ ९३. किन् ति दानि गुरुधर्मापन्नाय भिक्षुणीय अर्धमासं मानत्वञ्चरितव्यमुभयतः संघे आह्वयनम् । सा दानि एषा भिक्षुणी गुरुधर्मानपन्ना भवति ताय अर्धमासं भिक्षुणीसंघे मानत्वं चरितव्यमुभयतः संघे च आह्वयनम् । सा एषा भिक्षुणी अवज्ञाय वा परिभवेन वा यावदकुशलो ति वा कृत्वा गुरुधर्मापन्ना समाना नार्धमासं भिक्षुणीसंघे मानत्वं चरति उभयतः संघे च आह्वयनम् । गुरुधर्ममतिक्रमति । अयं गौतमि भिक्षुणीनां पञ्चमो गुरुधर्मो यो भिक्षुणीहि यावज्जीवं सत्कर्तव्यो यावद्वेलामिव महासमुद्रेण । गुरुधर्म ६ ९४. किन् ति दानि अन्वार्धमासं भिक्षुणीहि भिक्षुसंघातो ओवादोपसंक्रमणं प्रत्याशंसितव्यं यदहो दानि पोषधो भवति तदहो भिक्षुणीसंघेन भिक्षुविहारं गन्तव्यम् । अथ दानि सर्वसंघो न गच्छति अर्धसंघेन गन्तव्यम् । अर्धसंघो न गच्छति अष्टाहि वृद्धतरिकाहि गन्तव्यम् । अष्ट वृद्धतरिका न गच्छन्ति अन्तमसतो मासचारिकिणीहि पक्षचारिकिणीहि वा च्छन्दार्हणां छन्दं गृह्णीय गन्तव्यम् । यदि तावदनुकाल्यं भवति स्तूपो तावद्वन्दितव्यो । स्तूपं वन्दित्वा यो तहिं भिक्षुरभिलक्षितो भवति परिज्ञातो वा तस्य छन्दो दातव्यो । वक्तव्यं वन्दाम्यार्यसंघम् । आर्यसमग्रो भिक्षुणीसंघो समग्रस्य भिक्षुसंघस्य पादान् शिरसा वन्दति । ओवादोपसंक्रमणञ्च धर्मं याचति । पोषधञ्च प्रतीच्छति । द्वितीयं पि तृतीयं पि वक्तव्यम् । ९५. अथ दानाह । अहं संघस्थविरो अहं तत्रदेशको अहं भिक्षुणीओवादको ति ताभिरपि एते त्रयो वर्जं कृत्वा शिष्टकानां छन्दो दातव्यो छन्दं दत्वा भिक्षुणीउपाश्रयं गन्तव्यम् । यं कालं भिक्षुणीसंघो उपविष्टो भवति पोषस्धकर्माय सूत्रोद्देशिकाय सूत्रं प्रगृहीतं भवति । शृणोतु मे आर्यसंघो अद्य संघस्य चातुर्दशिको वा पाञ्चदशिको वा सन्धिपोषधो वा विशुद्धिनक्षत्रमेत्तकमृतुस्य निर्गतमेत्तकमवशिष्टम् । किं संघस्य पूर्वकृत्यम् । अल्पार्थोऽल्पकृत्यो भगवतः श्राविकासंघो शोभति अनागतानामार्यमिश्रिकाणां छन्दपरिशुद्धिमारोचेथ । नीतो छन्दहारिकाहि छन्दो ति ताहि वृद्धान्तमारुहित्वा सामीचिं कृत्वा वक्तव्यम् । नीतोऽस्माभिः छन्दहारिकाभिश्छन्दो इत्थन्नामेनार्येण प्रतीच्छितो । ९६. यं कालं भिक्षुसंघो उपविष्टो भवति सूत्रोद्देशकेन सूत्रं प्रतिगृहीतं भवति । शृणोतु मे भन्ते संघो अद्य संघस्य चातुर्दशिको वा पाञ्चदशिको वा सन्धिपोषधो वा विशुद्धिनक्षत्रम् । एत्तकमृतुस्य निर्गतमेत्तकमवशिष्टम् । किं संघस्य पूर्वकृत्वा अल्पार्थो अल्पकृत्यो भगवतः श्रावकसंघो शोभति । अनागतानामायुष्मन्तो भिक्षूणां छन्दपारिशुद्धिमारोचेथ । आरोचितञ्च प्रतिवेदेथ । को भिक्षु भिक्षुणीनां छन्दहारको तेनोत्थाय वृद्धान्तमारुह्य वक्तव्यम् । वन्दाम्यार्यसंघं समग्रो हि भिक्षुणीसंघो समग्रस्य पादां शिरसा वन्दति । अववादञ्च याचति । पोषधञ्च प्रतिच्छति । एवं द्वितीयं पि तृतीयं पि वक्तव्यम् । यदि तहिं भिक्षुणीतोवादको सम्मतको भवति वक्तव्यो । ओवादाहीति । ९७. अथ दानि न कोचिद्भिक्षुणीयोवादको भवति तत्र यो द्वादशेहि अङ्गेहि समन्वागतो भवति सो सम्मन्यितव्यो । कतमेहि द्वादशेहि । तद्यथा । प्रातिमोक्षसम्वरसम्वृतो विहरति आचारगोचरसम्पन्नः । अनुमात्रेष्ववद्येषु भयदर्शी समादाय शिक्षितशिक्षापदेषु कायकर्मवाक्कर्मणा सम्मन्वागतः । परिशुद्धेन परिशुद्दाजीवः । बहुश्रुतश्च अभिधर्मे बहुस्रुतश्च भवत्यभिविनये पर्तिबलो च भवत्यधिशीलशिक्षायां विनयितुम् । ण्क । प्रतिबलो भवत्यधिचित्तं शिक्षायां विनयितुम् । तृ । प्रतिबलो भवत्यधिप्रज्ञां शिक्षायां विनयितुम् । फु । अननुध्वस्तब्रह्मचर्यश्च भवति । ग्रा । यो भूयक्षान्तिजातिको भवति । ह्रा । न च भिक्षुणीनां गुरुधर्ममापद्यिता भवति । तो कल्याणवचनश्च भवति कल्याणवाक्करणोपेतश्च भवति । पौर्यवाचा समन्वागतो विस्पष्टाय अनेलाय अर्थस्य विज्ञापनीय । विंशतिवर्षो च भवति सातिरेकविंशतिवर्षो वा । इमेहि द्वादशेहि अङ्गेहि समन्वागतो भिक्षुणीओवादक सम्मुतीय संमन्यितव्यो । ९८. कर्मकारकेण कर्म कर्तव्यम् । शृणोतु मे भन्ते संघो अयमित्थन्नामो ति भिक्षुरङ्गोपेतो । यदि संघस्य प्राप्तकालं संघो इत्थन्नामं भिक्षुं भिक्षुणीतोवादकं संमुतीय संमन्येय ओवयिका एषा ज्ञप्तिः । शृणोतु मे भन्ते संघो अयमित्थन्नामो भिक्षुर्तं संघो इत्थन्नामं भिक्षुं भिक्षुणीओवादकं संमुतीय सम्मन्यति । येषामायुष्मन्तानां क्षमति इत्थन्नामं भिक्षुं भिक्षुणीओवादकं संमुतीय सम्मन्यियमानं संघेन । सो तूष्णीमस्य । यस्य न क्षमति सो भाषतु । इयं प्रथमा कर्मवाचना एवं द्वितीय तृतीया कर्मवाचनेति । सम्मतो भन्ते संघो इत्थन्नामो भिक्षुः भिक्षुणीओवादक संमुतीय संघेन । क्षमते तं संघस्य यस्मात्तूष्णीमेवमेतं धारयामि । ९९. तेन दानि सम्मतेन समानेन तायो भिक्षुणीयो ओवादितव्यायो नाकाले [१] । नादेशे [२] । नानागते काले [३] । नातिक्रान्ते काले [४] । न छन्दशो [५] । न व्यग्रशो [६] । न पार्षदो [७] । न दीर्घोवादेन [८] । आगन्तुकामस्य प्रेषितव्या [९] । किन् ति दानि नाकालो । अकालो नाम अस्तमितो सूर्यो । अन्तर्हितो च अरुणो [१] । किन् ति दानि नादेशे । अदेशो नाम वेशिकासामन्ते वा द्यूतकरशालासामन्ते वा । पानागारशालासामन्ते वा । वधबन्धनागारशालासामन्ते वा अतिभूण्डे वा अतिप्राकटे वा प्रदेशे [२] । किन् ति दानि नानागते काले अनागतो नाम कालो प्रतिपदे द्वितीयायां वा [३] । किन् ति दानि नातिक्रान्ते काले । अतिक्रान्तो नाम कालो चतुर्दशीयां वा पञ्चदशीयां वा । अथ खु तृतीयाप्रभृति तावदोवदितव्या यावत्त्रयोदशीति [४] । किन् ति दानि न छन्दशो । ओवादकस्य भिक्षुणीय छन्दो दातव्यो । अथ खु सर्वाहि आगन्तव्यं [५] । किन् ति दानि न व्यग्रशो । न भिक्षुणा व्यग्रो भिक्षुणीसंघो ओवदितव्यो । अथ खु सर्वाः समग्रा त्-ओवदितव्याः [६] । किन् ति दानि न पार्षदो । न तावत्तव पर्षा ओवदितव्या तवाद्य पर्षाये ओवादकवारो तवाद्य पर्षाये ओवादकवारो ति । अथ खु सर्वाः समग्रा त्-ओवदितव्याः [७] । किन् ति दानि न दीर्घोवादेन ओवदिताः । अथ खु संक्षिप्तेन ओवदितव्याः । सर्वपापस्याकरणं कुशलस्योपसम्पदा । स्वचित्तपर्योदवनमेतद्बुद्धानुशासनन् ति ॥ एष भगिनीयो ओवादो शिष्टकं परिकथा भविष्यति । यागन्तु कामा सागच्छतु । या श्रोतुकामा सा शृणोतु । १००. किन् ति दानीमागन्तुकामस्य प्रेषयितव्यम् । यदि सो भिक्षुणीओवादको देशान्तरङ्गतो भवति ततो ये तस्य सार्धेविहारिकावा अन्तेवासिका भवन्ति ते भिक्षुनीसंघेन उत्साहयितव्याः । गच्छथ आर्यस्य पात्रचीवरमानेथ । तेषान् दानि गच्छन्तानामागच्छन्तानाञ्च पथ्यदनेनावैकल्यं कर्तव्यम् । आगच्छन्तस्य भिक्षुणीसंघेन छत्रध्वजपताकेहि योजनं पन्थस्य प्रत्युद्गन्तव्यम् । यंहि विहारे अवतराय तंहि उभयसंघस्य सप्ताहं भक्तं कर्तव्यम् । अथ दानि दरिद्रो भिक्षुणीसंघो भवति भिक्षुसंघस्यैव सप्ताहं भक्तं कर्तव्यम् । अन्तमसतो एकपिण्डपातेनापि प्रतिमानयितव्यो तेन दानि भिक्षुणीओवादकेन भिक्षुणीहि धीतासंज्ञा उपस्थापयितव्या । ताहि भिक्षुणीहि तस्मिन् भिक्षुणीओवादकेहि पितृसंज्ञा उपस्थापयितव्या । १०१. न क्षमति तेन भिक्षुणीओवादकेन घोटेन यथा प्रसार्य ग्रीवां तायो भिक्षुणीयो ओवादितुम् । अथ खलु युगमात्रं निरीक्षन्ते न तायो ओवादितव्यायो । यदि कदाचित्तहिं भवेत्केशावर्तेन वा कृतेन । अक्षीहि वा अञ्चितेन आकोटितमष्टेहि वा चीवरेहि । श्वेतेन वा काय बन्धनेन । चित्रकुटाहि वा उपानहाहि । न क्षमति अध्युपेक्षितुम् । यदि ताव तरुणिका भवति धर्षयितव्या । हे अव्यक्ते अकुशले इदानीं त्वं न शिक्षसि कदा शिक्षिष्यसि यं कालं जीर्णवृद्धा महल्लिका अध्वगतवयमनुप्राप्ता भविष्यसि या पि तवैषा पर्षा सा पि तव दृष्ट्वा अनुकृतिमापद्यमाना अनयेन व्यसनमापद्यिष्यति । एतं तव साधु एतत्प्रतिरूपं यं त्वं भद्रिका गुणवती शिक्षाकामा भवेसि बुद्धानां शासने योगमापद्येसि । अथ दानि सा वृद्धा भवति वक्तव्यम् । सालोहिते इदानीमीदृशी कीदृशी त्वमासि तरुणे काले इदानीं त्वं न शिक्षसि कदा शिक्षिष्यसि । यं कालं मण्डलद्वारमनुप्राप्ता भविष्यसि यापि तव एष पर्षा सापि तव दृष्ट्वा नुकृतिमापद्यमाना अनया व्यसनमापत्स्यति एतत्तव साधु एतं प्रतिरूपं यं त्वं भद्रिका गुणवती शिक्षाकामा भवेसि बुद्धानां शासने योगमापद्येसि । १०२. अथ दानि सो भिक्षुणीयोवादको गोचरप्रसृतो रथ्यायं भिक्षुणीन् पश्यति केशावर्तेन वा कृतेन । अक्षीहि वा अञ्चितेहि । आकोटितमष्टेहि वा चीवरेहि । श्वेतेन वा कायबन्धनेन । चित्रकूटाहि वा उपानहाहि न दानि क्षमति नहि कीञ्चिज्जल्पितुम् । मा जनो ओज्झापेय पश्यथ भणे श्रमणको भार्यामिव श्रवणिकामोवदति । अथ खु पृच्छितव्या । कतमहिमेषा विहारके प्रतिवसति । का से उपाध्यायी । का से आचार्या पश्चादुक्तं तहिं गत्वा ओवदितय्वा । सा एषा भिक्षुणी अवज्ञाय वा परिभवेन वा कोण्टभिक्षू ति वा कृत्वा । वैद्यभिक्षू ति वा कृत्वा चूडभिक्षू ति वा कृत्वा । अखल्लमहल्लअकुशलअप्रकृतिज्ञो ति वा कृत्वा अन्वार्धमासं भिक्षुसंघातो ओवादोपसंक्रमणं न प्रत्याशंसति गुरुधर्ममतिक्रमति । एवं गौतमि अन्वर्धमासं भिक्षुणीहि भिक्षुसंघातो ओवादोपसंक्रमणं प्रत्याशंसितव्यम् । न प्रत्याशंसति गुरुधर्ममतिक्रामति । अयं गौतमि भिक्षुणीनां षष्टो गुरुधर्मो यो भिक्षुणीहि यावज्जीवं सत्कर्तव्यो यावदनतिक्रमणीयो वेलामिव महासमुद्रेण । गुरुधर्म ७ १०३. किन् ति दानि न क्षमति भिक्षुणीहि अभिक्षुके अवासे वर्षामुपगन्तुम् । न क्षमति भिक्षुणीहि अभिक्षुकेहि ग्रामनगरेहि वर्षामुपगन्तुम् । अथ दानि भिक्षुणी ज्ञातिकेहि ग्रामवासकेहि निमन्त्रीयति । इहार्या वर्षावसान ति न च तहिं केचि भिक्षू भवन्ति भिक्षुणी च ज्ञातिकामनुकंपितुकामा भवन्ति वक्तव्यम् । ज्येष्ठपर्षां ताव निमन्त्रेथ । अथ दानाहंसुः । नास्ति अस्माकं तहिं श्रद्धा । नास्ति प्रसादो । वक्तव्यम् । अहं पि न इच्छामि । अथ दानि भिक्षुणी सविभवा भवति । ज्ञातिकाञ्च अनुकम्पितुकामा भवति । आत्मना भिक्षू निमन्त्रयितव्या । तेषामागतानां समानानामाहारेण अवैकल्यं कर्तव्यम् । तेहि तहिं वर्षामुपगन्तव्यम् । ताय भिक्षुणीय तहिं वर्षां ताय भिक्षुणीय तेषां भिक्षूणां मूले अन्वर्धमासमोवादोपसंक्रमणं प्रत्याशंसितव्यम् । १०४. अथ तेषां भिक्षूणां वर्षामुपगतानामन्तरवर्षा-र्-अस्तु । कोचि आदीनवो उत्पद्यति उत्थाय पलायन्ति । न दानि क्षमति भिक्षुणीय कहिञ्चि गन्तुं यावत्प्रवारणाकालम् । यदि तावत्क्षेमं भवति ततो ते शब्दापयितव्याः । न दानि आगन्तिकायो । अथ खलु उक्तेन निमन्त्रयितव्याः । आगतानां समानानां भक्तेन प्रतिमानीय आच्छादीय यथा सम्विभागन् दातव्यम् । प्रवारिते किञ्चापि यंहि छन्दो तहिं गच्छति अनापत्तिः । १०५. सा एषा भिक्षुणी अवज्ञाय वा परिभवेन वा कोण्ट भिक्षू ति वा कृत्वा । वैद्यभिक्षू ति वा कृत्वा कृत्वा चूडभिक्षू ति वा कृत्वा खल्लमहल्लअकुशलअप्रकृतिज्ञो ति वा कृत्वा अभिक्षुके आवासे वर्षामुपगच्छति गुरुधर्ममतिक्रमति । एवं गौतमि न क्षमति भिक्षुनीय अभिक्षुके आवासे वर्षामुपगन्तुम् । अयं गौतमि भिक्षुणीनां सप्तमो गुरुधर्मो यो भिक्षुणीहि यावज्जीवं सत्कर्तव्यो यावदनतिक्रमणीयो वेलामिव महासमुद्रेण । गुरुधर्म ८ १०६. किन् ति दानि वर्षोषिताहि भिक्षुणीहि उभयतो संघे प्रवारणा प्रत्याशंसितव्या । यदहो दानि संघस्य प्रवारणा भवति तदहो भिक्षुणीहि प्रवारयितव्यम् । अपरेज्जुकातो प्रतिपदे कल्यतो ये च निर्धाविय भिक्षुविहारं गन्तव्यम् । यदि ताव समग्रो भिक्षुसंघो भवति न क्षमति सर्वाहि भिक्षुणीहि अपूर्वाचरिमं प्रावरयितुम् । अथ खु एका प्रवारायिका संमन्यितव्या । भिक्षुणी प्रतिबला प्रवारायिका । १०७. ततो कर्मकारिकाय कर्म कर्तव्यम् । शृणोतु मे आर्यसंघो । इयमित्थन्नामा भिक्षुणी प्रतिबला प्रवारायिका । यदि संघस्य प्राप्तकालं संघो इत्थन्नामां भिक्षुणीं संघस्य प्रवारायिकां संमन्येय । ओवयिका एषा ज्ञप्तिः । शृणोतु मे आर्यसंघो । इयमित्थन्नामा भिक्षुणी प्रतिबला प्रवारायिका । तां संघो इत्थन्नामां भिक्षुणीं संघस्य प्रवारायिकां संमन्यति । यासामार्यमिश्रिकाणां क्षमति इत्थन्नामां भिक्षुणीं संघस्य प्रवारायिकां संमन्यियमानां संघेन । सा तूष्णीमस्य । यस्या न क्षमति सा भाषतु । इयं प्रथमा कर्मवाचना । एवं द्वितीया तृतीया कर्मवाचनेति । वक्तव्यम् । सम्मता आर्यमिश्रिकायो इत्थन्नामा संघस्य प्रवारायिका संघेन क्षमते तं संघस्य यस्मात्तूष्णीमेवं धारयामि । १०८. ततो सर्वाहि वृद्धान्ते स्थातव्यम् । ततो ताय प्रवारायिकाय वक्तव्यम् । समग्रो भिक्षुणीसंघो समग्रं भिक्षुसंघं प्रवारेति दृष्टेन श्रुतेन परिशङ्कया । ओवदन्तु मो आर्यो संघो अर्थकामो हितैषी अनुकम्पको अनुकम्पामुपादाय जानन्त्यो पश्यन्त्यो स्मरन्त्यो यथा धर्मविनयं प्रतिकरिष्यामः । एवं द्वितीयं पि तृतीयं पि । अथ दानि समग्रो भिक्षुणीसंघो भवति संबहुला भिक्षू भवन्ति । वक्तव्यम् । समग्रो भिक्षुणीसंघो संबहुलान् भिक्षून् प्रवारेति दृष्टेन श्रुतेन यावत्प्रतिकरिष्यामः । द्वितीयं पि तृतीयं पि । १०९. अथ दानि समग्रो भिक्षुणीसंघो भवति एक भिक्षु च भवति । वक्तव्यम् । समग्रो भिक्षुणीसंघो आर्यं प्रवारेतीति दृष्टेन श्रुतेन परिशङ्कया यावत्प्रतिकरिष्यामः एवं द्वितीयं पि तृतीयं पि । अथ दानि संबहुलायो भिक्षुणीयो भवन्ति । समग्रो च भिक्षुसंघो भवति । वक्त्यव्यं संबहुलाः आर्यमिश्रिकाः समग्रं भिक्षुसंघं प्रवारेन्ति दृष्टेन श्रुतेन परिशङ्कया यावत्प्रतिकरिष्यामः । एवं द्वितीयं पि तृतीयं पि । अथ दानि संबहुला च भिक्षुणीयो भवन्ति संबहुला च भिक्षु भवन्ति । वक्तव्यम् । संबहुला आर्यमिश्रिकाः संबहुलानार्यमिश्रान् प्रवारेन्ति दृष्टेन श्रुतेन परिशङ्कया यावद् । यथा धर्मं यथा विनयं तथा प्रतिकरिष्यामः । एवं द्वितीयं पि तृतीयं पि । अथ दानि संबहुला भिक्षुणीयो भवन्ति । एक भिक्षु च भवति । वक्तव्यम् । संबहुला आर्यमिश्रिकाः आर्यं प्रवारेन्ति दृष्टेन श्रुतेन परिशङ्कया यावद्यथा धर्मं यथा विनयं तथा प्रतिकरिष्यामाः । एवं द्वितीयं पि तृतीयं पि । अथ दानि एका भिक्षुणी भवति । समग्रो च संघो भवति । वक्तव्यम् । अहमित्थन्नामा संघं प्रवारेमि दृष्टेन श्रुतेन परिशङ्कया । ओवदतु मो आर्यो संघो यावत्प्रतिकरिष्यामि एवं द्वितीयं पि तृतीयं पि । अथ दानि एका भिक्षुणी भवति । संबहुला च भिक्षू भवन्ति । वक्तव्यम् । अहमिथन्नामा संबहुलानार्यमिश्रान् प्रवारेमि दृष्टेन श्रुतेन परिशङ्कया । ओवदन्तु मे आर्यमिश्रा यावद्यथाधर्मं प्रतिकरिष्यामि । एवं द्वितीयं पि तृतीयं पि । अथ दानि एका भिक्षुणी भवति । एक भिक्षु भवति । वक्तव्यम् । अहमित्थन्नामा आर्यं प्रवारेमि दृष्टेन श्रुतेन परिशङ्कया । ओवदतु मे आर्यो अर्थ कामो हितैषी अनुकम्पको अनुकम्पामुपादाय जानन्ती पश्यन्ति स्मरन्ती यथा धर्मं यथा विनयं तथा प्रतिकरिष्यामि । एवं द्वितीयं पि तृतीयं पि । ११०. सा एषा भिक्षुणी अवज्ञाय वा परिभवेन वा कोण्टभिक्षू ति वा कृत्वा । वैद्यभिक्षू ति वा कृत्वा । चूडभिक्षू ति वा कृत्वा अखल्लमहल्लअकुशलअप्रकृतिज्ञो ति वा कृत्वा । वर्षोषिता उभयतो संघप्रवारणान्न प्रत्याशंसयति गुरुधर्ममतिक्रामति । एवं गौतमि वर्षोषिताहि भिक्षुणीहि उभयतो संघे प्रवारणा प्रत्याशंसितव्या । अयं गौतमि भिक्षुणीनामष्टमो गुरुधर्मो यो भिक्षुणीहि यावज्जीवं सत्कर्तव्यो गुरुकर्तव्यो मानयितव्यो पूजयितव्यो अनतिक्रमणीयो वेलामिव महासमुद्रेण । इमे गौतमि भिक्षुणीनामष्टौ गुरुधर्माः ये भिक्षुणीहि यावज्जीवं सत्कर्तव्या गुरुकर्तव्या मानयितव्या पूजयित्व्या अनतिक्रमणीया वेलामिव महासमुद्रेण । पाराजिकधर्म । मैथुनं १११. अथ खलु भगवान् भिक्षुणीयो आमन्त्रयते स्म तस्मात्तहिं भिक्षुणीयो अद्यदग्रेण महाप्रजापतीं गौतमीं संघस्थविरीं संघमहत्तरीं संघपरिणायिकां धारयथ । य इमे भगवन् भगवता चत्वारो पतनीयो धर्मो अभिज्ञाय देशिताः लभ्या ते भगवन्नस्माभि विस्तरेण श्रोतुम् । भगवानाह लभ्या गौतमि । ११२. पञ्चार्थवशान् संपश्यमानाय श्रद्धाय कुलधीताय अलं विनयमुद्दिशितुम् । अलं विनयं धारयितुं यथा भिक्षुविनये । ११३. एकमिदं गौतमि समयन् तथागतो श्रावस्तीयं विहरति । अथ खलु शारिपुत्रस्य स्थविरस्य यावत्को नु खलु भगवन् हेतुः कः प्रत्ययो येन इहैकेषान् तथागतानाम्, अर्हतां सम्यक्सम्बुद्धानामत्ययेन चिरस्थितिकं प्रावचनं भवति चिरस्थितिकः सद्धर्म इति यथा भिक्षुविनये । एकमिदं गौतमि समयन् तथागतो वैशालीयं विहरति । विस्तरेण यशिकस्यार्थोत्पत्तिः प्रथमा । तस्मात्तर्हि गौतमि भिक्षुण्यापि अत्रैव शिक्षितव्यम् । द्विन्नां लिच्छवि कुमाराणामर्थोत्पत्तिः । द्वितीया । यावन्नास्ति भिक्षुणीये शिक्षाप्रत्याख्यानम् । तृतीया । नास्ति दौर्बल्याविष्करकर्म । चतुर्थी । नन्दिकस्यार्थोत्पत्तिः । पञ्चमी । मर्कटीय अर्थोत्पत्तिः षष्ठी । विस्तरेण तस्मादिह गौतमि भिक्षुणीहि अत्रैव शिक्षितव्यम् । ११४. अथ खलु भगवान्महाप्रजापतीं गौतमीमामन्त्रयति । सन्निपातय गौतमि भिक्षुणीयो । अथ खलु भगवान् सन्निपतितं भिक्षुणीसंघं विदित्वा यावच्छिक्षापदं प्रज्ञप्तम् । या पुन भिक्षुणी छन्दसो मैथुनं ग्राम्यं धर्मं प्रतिषेविय अन्तमसतो तिर्यग्योनिगतेन पि सार्धमियं भिक्षुणी पाराजिका भवत्यसम्वास्या । या पुन भिक्षुणी ति उपसम्पन्ना सूपसम्पन्ना त्रैवाचिकेन कर्मणा ज्ञप्तिचतुर्थेन अनाघातपञ्चमेन समग्रेण संघेन उभयतः संघेन इयं भिक्षुणी । च्छन्दसो ति रक्तचित्ता । मैथुनन् ति अब्रह्मचर्यं ग्राम्यधर्मन् ति ग्रामस्याप्येषो धर्मो नगरस्याप्येषो धर्मो सर्वावन्तस्यापि लोकस्य एषो धर्मो । प्रतिषेवेया ति अध्याचारेय । सा एषा भिक्षुणी मैथुनं ग्राम्यधर्मं प्रतिषेवति मानुषेण पुरुषेण मानुष्यकेन पण्डकेन त्रयाणां व्रणमुखानां धन्यमार्गे वर्चमार्गे प्रस्रावमार्गे अन्यतरान्यतरस्मिं व्रणमुखे अङ्गजाते अङ्गजातं प्रक्षिप्तमार्तीयति आर्तयित्वा स्वादयति । आदौ स्वादयति । मध्ये स्वादयति । पर्यवसाने स्वादयति । सुखीयति । आस्वादं निगमयति पाराजिका भवति । आदौ न स्वादयति । मध्येन स्वादयति । पर्यवसाने स्वादयति । यावत्पाराजिका भवति । आदौ न स्वादयति । मध्ये न स्वादयति । पर्यवसाने स्वादयति या आस्वादन्निगमयति सा पाराजिका भवति । आदौ न स्वादयति । मध्ये न स्वादयति । पर्यवसाने न स्वादयति अनापत्तिः । एवं सुप्तस्य मृतस्य अङ्गजाते अङ्गजातं प्रक्षिपित्वा अर्तीयति । पेयालमेवममानुषस्य पण्डकस्य तिर्यग्योनिगतस्य पुरुषस्य पण्डकस्य त्रयाणां व्रणमुखानाम् । पेयालम् । ११५. सा एषा भिक्षुणी रक्तचित्ता पुरुषं दर्शनाय उट्ठापेति सम्वरगामिविनयातिक्रममासादयति दर्शनश्रवणे देशनागामिविनयातिक्रममासादयति । यथा भिक्षुविनये । ११६. पुरुषो त्रिखण्डीकृतो भवति । द्विधापाटितो भवति । शुष्को भवति । कोटरकजातः । आध्मातजातो भवति । विनीलको भवति । विपूयको भवति । ११७. पञ्च भिक्षुणीयो पञ्च भिक्षून् बलात्प्रसह्यमध्योमर्दन्ति पञ्च भिक्षुणीयो पाराजिकायो भवन्ति । यो च भिक्षुः सातियति । पञ्च भिक्षू पञ्च भिक्षुणीयो बलात्प्रगृह्यमध्योमर्दन्ति पञ्च भिक्षू पाराजिका भवन्ति । या च भिक्षुणी सातियति । भिक्षु भिक्षुणीय सार्धमन्योन्यं विप्रतिपद्यति उभये पाराजिका भवन्ति । भिक्षुणी श्रामणेरेण सह विप्रतिपद्यति भिक्षुणी पाराजिका भवति श्रामणेरो नाशयितव्यो । अथ दानि भिक्षुणी आरामिकेन सह विप्रतिपद्यते भिक्षुणी पाराजिका भवति । आरामिको अगृहीतसम्वरत्वात्किं व्रद्यिष्यति । एवं तीर्थिकेन । त्रिहि भिक्षुणी पाराजिका भवति । मानुषेण अमानुषेण तिर्यग्योनिगतेन अपरेहि त्रिहि धन्यमार्गे वर्चमार्गे प्रस्रावमार्गे । अपरेहि त्रिहि सुप्ते मृते जाग्रन्ते । द्विहि भिक्षुणी पाराजिका भवति पुरुषेण पण्डकेन च । सा एषा भिक्षुणी सुप्ता वा भवति मत्ता वा उन्मत्ता वा विस्तरेण पुरुषो उपसंक्रम्य अभिनिषीदति वा अभिनिपद्यति वा । अन्तोस्तरति वा । सा ततो उत्थाय आदौ स्वादयति । मध्ये स्वादयति । पर्यवसाने स्वादयति पाराजिका भवति । किन् ति दानि सादियना द्रष्टव्या । किन् ति दानि असादियना । यथा भिक्षुविनये । सा एषा भिक्षुणी छन्दसो मैथुनं ग्राम्यधर्मं प्रतिषेवतीति । पेयालम् । सा एषा आपद्यति । अप्येकत्या अज्ञानात् । अप्येकत्या स्मृतिसंमोषात् । अप्येकत्याकल्पियसंज्ञया । अप्येकत्या अलज्जिकेन । अप्येकत्या रागाभिभूता दोषाभिभूता मोहाभिभूता अनापत्तिः । क्षिप्तचित्ताये अकरन्तीये अनध्याचरन्तीये अनापत्तिः । तेन भगवानाह । या पुनर्भिक्षुणी छन्दशो मैथुनं ग्राम्यधर्मं प्रतिषेवेय अन्तमसतो तिर्यग्योनिगतेनापि सार्धमियं भिक्षुणी पाराजिका भवत्यसंवास्या । पाराजिकधर्म २४ एवं द्वितीयस्य । तृतीयस्य । चतुर्थस्य । न किञ्चिन्नानाकरणं यथा भिक्षुविनये । संसर्ग ११८. भगवान् छाक्येषु विहरति शाक्यानां कपिलवस्तुस्मिं न्यग्रोधारामे । तेन दानि कालेन तेन समयेन भगवता भिक्षुणीनामरण्यकानि शयनासनानि प्रतिक्षिप्तानि । ग्रामान्तकानि च अकृतानि । भिक्षुणीयो गृहिणामुपवसितेहि वसन्ति । राष्ट्रा नाम भिक्षुणी । सा दानि अपरस्य साक्यस्य उदुवसिते वसति । सा दानि राष्ट्रा तस्य शाकियकुमारस्य उद्दिशति । सा दानि राष्ट्रा प्रासादिका दर्शनिया अविगतराग । सो पि शाकियकुमारो प्रासादिको दर्शनीयो । सो दानि ताये त्रिक्खत्तो देवशिकमुपलङ्कृतं काल्यं मध्याह्ने सायम् । ताये दानि तं शाकिय कुमारं दृष्ट्वा अभीक्ष्णं संसेवाय च रागचित्तमनुध्वंसयति । सा दानि म्लायति पाण्डुकृशा दुर्वर्णा भोन्तीमपि भोजनं न छन्दो भवति । ११९. भिक्षू दानीं पृच्छन्ति । केन त्वं भगिनी राष्ट्रा पाण्डुकृशा दुर्वर्णा । किन् ते दुःखति । किन् ते पर्येषामः । सर्पिस्तैलं मधु फाणितम् । सा दानाह भोतु भोतु आर्य एवमेव वर्ता भविष्यामि । भिक्षुणीयो पृच्छन्ति । आर्ये राष्ट्रे केन त्वमेवं पाण्डुकृशा दुर्वर्णा । किन् ते दुःखति । किन् ते पर्येषामः । सर्पिस्तैलं मधु फाणितम् । सा दानाह । भोतु भोतु आर्यमिश्रिकायो एवमेव वर्ता भविष्यामीति । एवमेव उपासिका उपासिकायो । सो पि शाकियकुमारो आह । आर्ये किन् ते दुःखति । केन सि पाण्डु कृशा दुर्वर्णा । आचिक्षाहि कीदृशेहि अत्र भैषज्येहि वा उपकरणेहि वा अर्थो भवेय । सचेदस्माकं न भविष्यति प्रातिवेश्य कुलातो उद्धारधर्मणा आनापयिष्यामि । अन्तरापणातो वा ग्रामान्तरातो वा आनापयिष्यामि । सा दानाह भोतु दीर्घायुः एवमेव वर्ता भविष्यामि । द्वितीयं तृतीयमपि आह । आर्ये किन् ते दुःखति । केनासि पाण्डुकृशा दुर्वर्णा यावद्ग्रामान्तरातो आनापयिष्यामि । सा दानाह भोतु दीर्घायु एवमेव वर्ता भविष्यामि । सो दानि शाकियकुमारो आह । न इदमार्याये किञ्चित्कायिकं गैलायम् । चैतसिकमार्याये गैलान्यम् । सा दानाह । बाढं चैतसिकं गैलान्यम् । सो दानाह कथं सह्यं भवेय । सा दानाह । यदि एवमिच्छसि एवं सह्यं भवेय । १२०. सो दानाह । आर्ये किमर्थमहं नेच्छामि । यो दानि अहं जल्पामि । आचिक्षतु आर्या किमाज्ञापयसि । किं करोमि । कीदृशेहि अत्र भैषज्येहि वा उपकरणेहि वा अर्थो भवेय । सचेदस्माकं न भविष्यति प्रातिवेश्यकुलातो उद्धारधर्मणा आनयिष्यामि अन्तरापणातो वा ग्रामान्तरातो वा आनापयिष्यामीति । आचिक्षतु आर्या । सा दानाह । साधु ते एतमर्थं करोहि । सो दानाह । न आर्ये एवं वक्तव्यम् । अन्याहि अहं काषायवसनाहि नोत्सहाम्येतमर्थं कर्तुं प्रागेव आर्याय । आर्या मम गुरु च भावनीया च । नाहमार्याय एवं वक्तव्यो । नह्यहमुत्सहाम्येतं कार्यं कर्तुम् । सा दानाह । साधु ताव मे आलिङ्गस्व चुम्बस्व स्तनोदरञ्च मे परिमर्दस्वेति । लभ्यन्मया एतन्मात्रं कर्तुम् । स मात्रालिङ्गति चुम्बति स्तनोदरञ्च से परिमृशति । सा पि दानि तत्तकेनैव विनोदयति । सो पि दानि शाकियकुमारो अभीक्ष्णसंसर्गेण अपम्लायति । १२१. यथा भगवानाह । नाहं भिक्षवोऽन्यमेकं स्प्रष्टव्यं समनुपश्यामि । एवं रञ्जनीयमेवं कमनीयमेवं वञ्चनीयमेवं मूर्च्छनीयमेवमध्योहारि एवमन्तरायकरमनुत्तरस्य योगक्षेमस्याधिगमाय यथा पुरुषस्य स्त्री स्प्रष्टव्यं स्त्रीया पुरुष इति दानि तेन अभिक्ष्णसंसेवाय अपम्लायति । सो दानि पुनः पुनः करोति । १२२. सा दानि भिक्षुणीहि वुच्चति । मा आर्ये एवं करोहि नैवं लभ्या कर्तुम् । सा दानाह । एवं मम क्रियमाणं फासु भवति । एतं प्रकरणं तायो भिक्षुणीयो महाप्रजापतीये गौतमीये आरोचयेंसु । महाप्रजापती गौतमी भगवतो आरोचयति । भगवानाह शब्दापयथ राष्ट्राम् । सा दानि शब्दापिता । भगवानाह । सत्यं राष्ट्रे एवं नाम त्वमवश्रुता अवश्रुतस्य । पुरुषस्य उपरि जानुमण्डलाभ्यामधो कक्षाभ्यामामोषणपरामोषणं सादियसि । आह । आं भगवन् । भगवानाह । दुष्कृतं ते राष्ट्रे । नन्वहं राष्ट्रे अनेकपर्यायेण सर्वेषां कामानां कामनन्दीनां कामनिम्नानां काममूर्च्छानां कामपिपासानां कामपरिदाह्यानां कामाध्यवसानानामन्तं वदामि । प्रहाणं वदामि । समतिक्रमणं वदामि । तत्र नाम त्वमिममेवं रूपत्वं पापमकुशलं धर्ममध्याचरसि । नैष राष्ट्रे धर्म । नैष विनयो । नैवं शास्तुः शासनम् । नैवं कर्तव्यम् । नैवं करतो वृद्धिर्भवति कुशलेहि धर्मेहि । १२३. अथ खलु भगवान्महाप्रजापतीं गौतमीमामन्त्रयति । सन्निपातय गौतमि भिक्षुणीयो । यावतिका भिक्षुणीयो कपिलवस्तुन्नगरमुपनिश्रित्य विहरन्ति । अथ खलु भगवान् सन्निपतितं भिक्षुणीसंघं विदित्वा एतत्प्रकरणं भिक्षुणीनां विस्तरेणारोचयति । पेयालम् । यावत्पर्यवदातानि भविष्यन्ति । या पुन भिक्षुणी अवश्रुता अवश्रुतस्य पुरुषस्य अधो कक्षाभ्यामुपरि जानुमण्डलाभ्यामामोषणपरामोषणं सादियेय इयं पि भिक्षुणी पाराजिका भवत्यसम्वास्या । या पुन भिक्षुणीति । पेयालम् । यावदेषा भिक्षुणी अवश्रुता ति रक्तचित्ता । अवश्रुतस्येति रक्तचित्तस्य । अधो कक्षाभ्यामिति स्तनोदरम् । उपरि जानुमण्डलाभ्यामिति ऊरु । आमोषणं ति च्छुवणम् । परामोषणन् ति वीतिहारो । सादियेया ति सातीयति सुखियति रमीयति आस्वाद निगमयति पाराजिका भवति । पाराजिकेति पारं नामोच्यते धर्मज्ञानम् । ततो जीना ओजीना संजीना परिहीणा । तेनाह पाराजिकेति । १२४. एवं विस्तरेण । सा एषा भिक्षुणी अवश्रुता अवश्रुतस्य पुरुषस्य उपरि जानुमण्डलाभ्यामधो कक्षाभ्यामामोषणपरामोषणं सादयति पाराजिका भवति । सा एषा भिक्षुणी अवश्रुतस्य पण्डकस्य उपरि जानुमण्डलाभ्यामधो कक्षाभ्यामामोषणपरामोषणं सादयति पाराजिका भवति । सा एषा भिक्षुणी अवश्रुता अनवश्रुतेन पण्डकेन उपरि जानुमण्डलाभ्यामधो कक्षाभ्यामामोषणपरामोषणं सादियति थूलच्चयमासाद्यति । सा पि एषा भिक्षुणी अवश्रुता अनवश्रुतेन पुरुषेन उपरि जानुमण्डलाभ्यामधो कक्षाभ्यामामोषणपरामोषणं सादियति थूलच्चयमासादयति । सा एषा भिक्षुणी अवश्रुता अनवश्रुतेन पण्डकेन उपरि जानुमण्डलाभ्यामधो कक्षाभ्यामामोषणं परामोषणं सादियेय थूलच्चयमासादयति । सा एषा भिक्षुणी अवश्रुता अनवश्रुताय स्त्रियाय उपरि जानुमण्डलाभ्यामधो कक्षाभ्यामामोषणपरामोषणं सादिय देशनागामिविनयातिक्रममासादयति । सा एषा भिक्षुणी अनवश्रुता अवश्रुतेन पुरुषेण उपरि जानुमण्डलाभ्यामधो कक्षाभ्यामामोषणपरामोषणं सादियति थूल्ऽ-अच्चयमासादयति । सा एषा भिक्षुणी अनवश्रुता अवश्रुतेनपण्डकेन उपरि जानुमण्डलाभ्यामधो कक्षाभ्यामामोषणपरामोषणं सादियति थूल्ऽ-अच्चयमासादयति । सा एषा भिक्षुणी अनवश्रुता अवश्रुताय स्त्रियाय उपरि जानुमण्डलाभ्यामधो कक्षाभ्यामामोषणपरामोषणं सादयति देशनागामिविनयातिक्रममासादयति । सा एषा भिक्षुणी अनवश्रुता अवश्रुतेन पुरुषेण उपरि जानुमण्डलाभ्यामधो कक्षाभ्यामामोषणपरामोषणं सादयति देशनागामि विनयातिक्रममासादयति । सा एषा भिक्षुणी अनवश्रुता अनवश्रुतेन पण्डकेन उपरि जानुमण्डलाभ्यामधो कक्षाभ्यामामोषणपरामोषणं सादयति देशनागामिविनयातिक्रममासादयति । सा एषा भिक्षुणी अनवश्रुता अनवश्रुताय स्त्रियाय उपरि जानुमण्डलाभ्यामधो कक्षाभ्यामामोषणपरामोषणं सादयति सम्वरगामिविनयातिक्रममासादयति । सा एषा भिक्षुणी अवश्रुता अवश्रुतेन पुरुषेण अधो जानुमण्डलाभ्यामुपरि कक्षाभ्यां यावत्स्थूलात्ययमासादयति । सा एषा भिक्षुणी अवश्रुता अवश्रुतेन पण्डकेन अधो जानुमण्डलाभ्यामुपरि कक्षाभ्यां याव थूल्ऽ-अच्चयमासादयति । सा एषा भिक्षुणी अवश्रुता अवश्रुताय स्त्रियाय अधो जानुमण्डलाभ्यामुपरि कक्षाभ्यां यावद्देशनागामिविनयातिक्रममासादयति । सा एषा भिक्षुणी अवश्रुता अवश्रुतेन पुरुषेण अधो जानुमण्डलाभ्यामुपरि कक्षाभ्यां यावत्देशनागामिविनयातिक्रममासास्दयति । सा एषा भिक्षुणी अवश्रुता अवश्रुतेन पण्डकेन अधो जानुमण्डलाभ्यामुपरि कक्षाभ्यां यावत्देशनागामिविनयातिक्रममासादयति । सा एषा भिक्षुणी अवश्रुता अवश्रुताय स्त्रियाय अधो जानुमण्डलाभ्यामुपरि कक्षाभ्यां यावत्सम्वरगामिविनयातिक्रममासादयति । सा एषा भिक्षुणी अनवश्रुता अनवश्रुतेन पुरुषेण अधो जानुमण्डलाभ्यामुपरि कक्षाभ्यां यावत्देशनागामिविनयातिक्रममासादयति । सा एषा भिक्षुणी अनवश्रुता अनवश्रुतेन पण्डकेन अधो जानुमण्डलाभ्यामुपरि कक्षाभ्यां यावत्देशनागामिविनयातिक्रममासादयति । सा एषा भिक्षुणी अनवश्रुता अनवश्रुतायस्त्रियाय अधो जानुमण्डलाभ्यामुपरि कक्षाभ्यां यावत्सम्वरगामिविनयातिक्रममासादयति । सा एषा भिक्षुणी अनवश्रुता अनवश्रुतेन पुरुषेण अधो जानुमण्डलाभ्यामुपरि कक्षाभ्यां यावत्सम्वरगामिविनयातिक्रमम् आसादयति । सा एषा भिक्षुणी अनवश्रुता अनवश्रुतेन पण्डकेन अधो जानुमण्डलाभ्यामुपरि कक्षाभ्यां यावत्सम्वरगामिविनया तिक्रममासादयति । सा एषा भिक्षुणी अनवश्रुता अनवश्रुताय स्त्रियाय अधो जानुमण्डलाभ्यामुपरि कक्षाभ्यामामोषणपरामोषणं सादीयति अनापत्तिः । १२५ । अथ दानि भिक्षुणी ललाटसिरां वेधापयति द्वितीयाय भिक्षुणीय मूर्ध्नि आक्रमितव्या यथा स्त्री स्प्रष्टव्यं संजानाति न पुरुष स्प्रष्टव्यं संजानाति । अथ दानि बाहुशिरां विन्धापयति अपराय भिक्षुणीय बाहा ग्रहेतव्या यथा स्त्री स्प्रष्टव्यं संजानाति न पुरुष स्प्रष्टव्यम् । एवं गुल्फशिरा । एवं जानुमण्डलाधः । अथ दानि गण्डं वा पिटकं वा क्षतं वा पुरुषेण पाटापयति वा उपनाहापयति वा अपराय भिक्षुणीय आलम्बयितव्यम् । न क्षमति सम्बाधे प्रदेशे गण्डं वा पिटकं वा क्षतं वा उपहतं वा पुरुषेण वेधापयितुं वा पाटापयितुं वा उपनाहापयितुं वा । सम्बाधो नाम प्रदेशो उपरि जानुमण्डलाभ्यामधः कक्षाभ्याम् । तेन भगवानाह । या पुन भिक्षुणी अवश्रुता अवश्रुतस्य पुरुषस्य अधो कक्षा भ्यामुपरि जानुमण्डलाभ्यामामोषणपरामोषणं सादियेय इयं पि भिक्षुणी पाराजिका भवत्यसम्वास्या । पाराजिकधर्म ६ अष्टवस्तुका १२६. भगवान् सम्यक्सम्बुद्धो यदर्थं समुदागतो तदर्थमभिसम्भावयित्वा वैशालीयां विहरति । महावने कूटागारशालायाम् । तेन दानि कालेन तेन समयेन भगवता भिक्षुणीनामारण्यकानि शयनासनानि प्रतिक्षिप्तानि । ग्रामान्तिकनि च अकृतानि । भिक्षुणीयो अभ्यन्तरनगरे प्रविशन्ति । अथ राष्ट्रपाला नाम भिक्षुणी । सा दानि अपरस्य लिच्छविकुमारस्य उदुवसिते वसति । सा दानि तस्य लिच्छविकुमारस्य उद्देशन् ददाति । सा दानि राष्ट्रपाला तस्य देवसिकमुपसंक्रमति काल्यं मध्याह्ने सायम् । सा दानि प्रासादिका दर्शनीया अवीतरागा । सो पि लिच्छविकुमारो प्रासादिको दर्शनीयो । ताये दानि राष्ट्रपालाय अभीक्ष्णदर्शनेन अभिक्ष्णं संसेवाय च रागचित्तमनुध्वंसयति । सा दानि म्लायति । पेयालम् । यावद्गुरु च भावनीया च यावन्नोत्सहामि । १२७. सा दानाह । साधु खलु तावन्मे अन्तो हस्तपाशस्य तिष्ठाहि संलपाहि । हस्तं मे गृह्णाहि । प्रहस्तं मे गृह्णाहि । अङ्गुलिं मे गृह्णाहि । अन्गुष्टं मे गृह्णाहि । चीवरं मे गृह्णाहि । अहं पि ते आगतमभिनन्दिष्यम् । आसनेन उपनिमन्त्रयिष्यम् । कायन् ते अनुप्रयच्छिष्यम् । पीठिकां वा आपणं वा कर्मान्तं वा गमिष्यन् ति । सो दानाह । आर्ये लभ्या मया एतं कर्तुम् । सो दानि ताये अन्तो हस्तपासस्य तिष्ठति । संलपति । हस्तेन गृह्णाति । प्रहस्ते गृह्णाति । चीवरे गृह्णाति । सा पि तमागतमभिनन्दति । आसनेनोपनिमन्त्रयति । कायं से नुप्रयच्छति । संकेतं वा गच्छति । सापि दानि तत्तकेनैव कामच्छन्दं विनोदेति । सो पि दानि लिच्छविकुमारो अभीक्ष्णदर्शनेन अभीक्ष्णसंसेवाय अपम्लायति । १२८. यत्तदुक्तं भगवता । नाहं भिक्षवोऽन्यदेकरूपमपि समनुपश्यामीति विस्तरेण सूत्रम् । सा दानि अभीक्ष्णं संसेवाय अपम्लायति । सा पुनः पुनः करोति । सा भिक्षुणीहि वुच्चति । मा आर्ये राष्ट्रपाले एवं करोहि । नैवं लभ्या कर्तुम् । सा दानाह । केन्ऽ अर्थन्न लभ्यते । एवं मम क्रियमाणे फासु भवति । एतं प्रकरणं भिक्षुणीयो महाप्रजापतीये गौतमीये आरोचयन्ति । महाप्रजापती गौतमी भगवतो आरोचयति । भगवानाह । शब्दापयथ राष्ट्रपालाम् । सा दानि शब्दापिता । भगवानाह । सत्यं राष्ट्रपाले एवन्नाम त्वमवश्रुता अवश्रुतस्य पुरुषस्य अन्तो हस्तपाशस्य संतिष्ठसि संलपसि । पेयालम् । यावत्संकेतं गच्छसि । आह । आं भगवन् । भगवानाह । दुष्कृतं ते राष्ट्रपाले । यावन्महाप्रजापतीं गौतमीमामन्त्रयति । यावच्छिक्षापदं प्रज्ञपतम् । या पुन भिक्षुणी अवश्रुता अवश्रुतस्य पुरुषस्य अन्तो हस्तपाशस्य संतिष्ठेत वा संलपेत वा । हस्तग्रहणं वा । चीवरग्रहणं वा सादीयेय । आगतं वा अभिनन्देय । आसनेन वा उपनिमन्त्रेय । कायं वा अनुप्रयच्छेय । संकेतकृतं वा गच्छेय । इयं पि भिक्षुणी पाराजिका भवत्यसंवास्या । १२९. या पुन भिक्षुणीति उपसंपन्ना । यावत्सा एषा भिक्षुणी अवश्रुता ति रक्तचित्ता । अवश्रुतस्य पुरुषस्येति रक्तचित्तस्य । अन्तो हस्तपाशस्येति अन्तो व्यायामेति । संलपेया ति उपकर्णं वा जल्पेय । हस्तग्रहणन् ति हस्ते गृह्णिय यावदङ्गुष्टके वा । चीवरग्रहणन् ति संघाटीयं वा उत्तरासङ्गे वा अङ्तरेवासे वा संकक्षिकायां वा दकशाटिकायां वा । सादियेया ति आस्वादं निगमयेत् । आगतं वा अभिनन्देया ति वा स्वागतन् ते अनुरागतन् ते पुनः पुन आगच्छेसि । प्रीतास्मि तवागमनेन । प्रह्लादितं मे गात्रं तव दर्शनेन । आसनेनोपनिमन्त्रेया ति आसनमस्य ददेय । कायं से अनुप्रयच्छेया ति येनासौ तेन कायं प्रणामेत । संकेतकृतं गच्छेदिति यस्तस्य अभीक्ष्णमुपचारो भवेदापणो वा पीठिका वा क्षेत्रवस्त्रं वा उदकसमीपं वा कर्मान्तं वा उद्यायं वा मार्गे वा तहिं तिष्ठेदियं पि भिक्षुणी पाराजिका असंवास्येति यावत्प्रज्ञप्तिः । १३०. सा एषा भिक्षुणी अवश्रुता अवश्रुतस्य पुरुषस्य अन्तो हस्तपाशं संतिष्ठति यावत्संकेतं कृतं गच्छति पाराजिका भवति । एवं पण्डकस्य स्त्रियाः स्थूलात्ययः । सा एषा भिक्षुणी अवश्रुता अवश्रुतस्य पुरुषस्य अन्तो हस्तपाशं तिष्ठति यावत्संकेतकृतं वा गच्छति थूल्ऽ-अच्चयम् । एवं पण्डके स्त्रियायां देशनागामिविनयातिक्रममासादयति । सा एषा भिक्षुणी अनवश्रुता अवश्रुतस्य अन्तो हस्तपाशस्य संतिष्ठति यावत्संकेतकृतं वा गच्छति स्थूलात्ययम् । एवं पण्डकस्य स्त्रियायान् देशनागामिविनयातिक्रममासादयति । सा एषा भिक्षुणी अवश्रुता अवश्रुतेन पुरुषेण सन्तिष्ठति थूल्ऽ-अच्चयम् । संलपति स्थूल्ऽ-अच्चयम् । हस्तग्रहणं थूल्ऽ-अच्चयम् । चीवरग्रहणं थूल्ऽ-अच्चयम् । आगतमभिनन्दति थूल्ऽ-अच्चयम् । आसनेनोपनिमन्त्रेति थूल्ऽ-अच्चयम् । कायमनुप्रयच्छति थूल्ऽ-अच्चयम् । संकेतङ्गच्छति पाराजिका भवति । एवमेकैकेन पदेन थूल्ऽ-अच्चयम् । यावत्सप्तमे सप्त थूल्ऽ-अच्चयाः । अष्टमे पदे पाराजिका भवति । अथ दानि अनुखज्जकमापज्जति यदाष्टौ थूल्ऽ-अच्चया भवन्ति तदा पाराजिका भवति । अथ दानि एक समापद्यित्वा प्रतिकरित्वा यावत्सप्तममापद्यित्वा प्रतिकरित्वा अष्टममापद्यति न सा पाराजिका भवति । अथ दानि सप्तममापद्यित्वा अप्रतिकरित्वा अष्टममापद्यति पाराजिका भवति । तेन भगवानाह । या पुन भिक्षुणी अवश्रुता अवश्रुतस्य पुरुषस्य अन्तो हस्तपाशस्य सन्तिष्ठेद्वा । संलपेद्वा । हस्तग्रहणं वा । चीवरग्रहणं वा सादीयेय । आगतं वा अभिनन्देय । आसनेन वा उपनिमन्त्रेयेत । कायं वा अनुप्रयच्छेय । संकेतकृतं वा गच्छेय । इयं पि भिक्षुणी पाराजिका भवत्यसम्वास्य । पाराजिकधर्म ७ अवद्यप्रतिछादिका १३१. भगवान् वैशालीयं विहरति । विस्तरेण निदानं कृत्वा । वैशालीयं दानि नगरे अपरस्य लिच्छविस्य त्रियन्तरा दारिका जाता । अमङ्गल्या अप्रशस्ता । तेषान् दानि मातापितृणां भवति । क इमां विवाहयिष्यति । गृहे पि धार्यमाणा अमङ्गल्या कस्येयन् दातव्या । अपरे आहंसुः । इच्छत यूयमेतां दारिकामुन्नीयमानाम् । ते दानाहंसुः । इच्छामः । आहंसुः । एषात्र काली नाम भिक्षुणी । तस्या देथ सा उन्नेष्यति । तेहि दानि सा उक्ता । आर्येऽस्माकं त्रियन्तरा दारिका जाता अधन्या वामङ्गल्या वाप्रशस्ता वा । तां वयमानापेयेमः । उन्नेहि वर्धेहि अन्तेवासिनीय ते भविष्यति । वयं च ते ग्रासाच्छादन् दास्यामः । ताय सा परिगृहीता । उन्नेति वर्धेति । ततो देवसिकं पक्वप्रहेणकमानीयति । अनुशममनुशममाच्छादं लभति । हेमन्ते हेमन्तिकम् । वर्षाकाले वर्षावासिकम् । सा यदा महन्तीभूता तदा ताय प्रव्रजिता । शिक्षा देशिता । परिपूरशिक्षा । उपसम्पादिता । तीव्ररागो मातृग्रामः । सा दानि क्लेशेहि बाध्यते । न सहति । सा दानाह । आर्ये न दानि प्रव्रज्यायां गमिष्याम्यहम् । क्लेशेन बाध्यामि । काली आह । पुत्रि दुःखो गृहावासः । अङ्गारकर्षूपमा कामा उक्ता भगवता । किन् ते गृहावासेन । सा पश्यति यदि तावदियं प्रत्योधावति ततो मे लाभसत्कारोऽन्तरहायिष्यति । सा ताय निगृहीता विच्छिन्दिता । सा दानि क्लेशानसहन्ती आरामिकपरिव्राजकेहि सार्धं मिश्रिभूता । ताय कुक्षिः प्रतिलद्भोदरं महन्तीभूतम् । सा भिक्षुणीहि निष्काशीयति । तायो दानि भिक्षुणीयो आहंसुः । आर्ये कालि जानासि त्वमेतामागारकेहि परिव्राजकेहि सह मिश्रीभूताम् । आह । जानामि । एवं विरोपादाय आहंसुः । किमर्थं त्वं नारोचेसि । न जल्पसि । पश्यामि यद्यहमारोचयिष्यं । एषा गृहं गमिष्यति । मम एष लाभसत्कारो अन्तराहायिष्यतीति । १३२. एतं प्रकरणं तायो भिक्षुणीयो महाप्रजापतीये गौतमीये आरोचयेंसुः । महाप्रजापती गौतमी भगवतो आरोचयति । भगवानाह । शब्दापयथ कालिम् । सा शब्दापिता । तदेव सर्वं भगवान् विस्तरेण पृच्छति । आह । आम भगवन् । भगवानाह । दुष्कृतं ते कालि । अस्ति नाम त्वं कालि जानन्ती भिक्षुणीं दुष्ठुल्लापत्तिमापनां प्रतिच्छादेसि । यावन्नैष कालि धर्मो नैष विनयो । यावद्भगवान्महाप्रजापतीं गौतमीमामन्त्रयति । सन्निपातय गौतमि भिक्षुणीयो यावतिका भिक्षुणीयो वैशालीन्नगरीमुपनिश्रित्य विहरन्ति । यावच्छिक्षापदं प्रज्ञप्तम् । या पुन भिक्षुणी जानन्ती भिक्षुणीं दुष्ठुल्लामापत्तिं कृतामध्याचीर्णां छादेय । सा न परेषामारोचयति कुवेगे महाजने संघमध्ये । यदा सा भिक्षुणी भिक्षुणीहि च्युता भवति मृता निषण्णा अवसण्णा अवक्रान्ता इमस्माद्धर्मविनयाद् । अथ सा भिक्षुणीनामेवं वदेय । आज्ञासि वताहमार्ये इत्थन्नामाये भिक्षुणीये दुष्ठुल्लामापत्ति कृतामध्याचीर्णा । साहं न परेषामारोचयेयम् । किन् ति इमाये मापरे जानन्तू ति । इयं भिक्षुणी पाराजिका भवति ॥ या पुन भिक्षुणीति उपसम्पन्ना । पेयालम् । जानन्तीति स्वयं वा जानेय परतो वा श्रुणेय आकारवन्तेन दर्शनेन श्रवणेन । दुष्ठुल्लामापत्तिं ति दुष्ठुल्लानाम अष्टानामन्यतरान्यतरा कृता अध्याचीर्णा । सा न परेषामारोचेय इति न कथयेत् । कुवे एगे ति एकाये । महाजने ति द्विन्नां त्रयाणाम् । संघमध्य्ति परिपूर्णसंघस्य । च्युता ति च्युता भोति ब्रह्मचर्यातो । मृता ति कालगता । निषण्णा अवसण्णा ति गृहिणीभावङ्गता । अवक्रान्ता इमस्माद्धर्मविनयादिति अन्यतीर्थिकायतनं संक्रान्ता । अथ सा भिक्षुणी भिक्षुणीनामेवं वदेया । आज्ञासि वताहमार्ये इत्थन्नामाये भिक्षुणीये दुष्ठुल्ला-म्-आपत्तिः कृतामध्याचीर्णा । छाये । साहं न परेषामारोचये । किन् ति इमाये मापरे जानन्तू ति । इयं पि भिक्षुणी पाराजिका भवति । पारन्नाम वुच्चति धर्मज्ञानम् । पेयालम् । यावत्प्रज्ञप्तिः । १३३. सा एषा भिक्षुणी पश्यति भिक्षुणीमरुणोद्गते दुष्ठुल्लामापत्तिमापद्यन्तीम् । नो तु च्छादनाचित्तं प्रतिलभते । सूर्यस्योद्गमनकालसमये छादनाचित्तं प्रतिलभित्वा अरुणमुद्घाते ति इयं भिक्षुणी पाराजिका भवति । एवं दो कालिका अष्ट परिवर्ता कर्तव्याः । यथा भिक्षुविनये छादनायाम् । सा एषा भिक्षुणी भिक्षुणीं पश्यति दुष्ठुल्लामापत्तिमध्याचरन्तीम् । ताय दानि अपराय आरोचयितव्यम् । अथ सा भोति अन्तेवासिणी वा सार्धविहारिणी वा पश्यति । यदि आरोचयिष्यामि इदानीं भिक्षुणीहि निस्कासिष्यतीति अनुनयसम्बन्धेन छादेति पाराजिका भोति । सा एषा भिक्षुणी पश्यति अपरां भिक्षुणीमापत्तिमापद्यन्तीम् । सा दानि अपराय आरोचेति दृष्टा मया इत्थन्नामा भिक्षुणी दुष्ठुल्लामापत्तिमध्याचरन्ती । अहं पश्यामि यदि आरोचयिष्यतीति दानी भिक्षुणीहि निर्धावयिष्यतीति मया पि च्छादितम् । सा पि पश्यति यदि अहमारोचयिष्यमुभये निर्धावयिष्यन्तीति च्छादेति । सा पि पारजिका भवति । एवं यत्तिकायो च्छादेन्ति सर्वायो पाराजिका भोन्ति । एषा भिक्षुणी भिक्षुणीं पश्यति दुष्ठुल्लामापत्तिमापद्यन्तीम् । सा अपरानारोचेति । इत्थन्नामा भिक्षुणी दुष्ठुल्लामापत्तिमापन्ना । सा दानाह । पापं कृतन् त्वया मम आरोचयन्तीय । मा अपराये पि आरोचयिष्यसीति थूल्ऽ-अच्च्यमासादयति । सा एषा भिक्षुणी पश्यति भिक्षुणीं दुष्थुल्लामापत्तिमध्याचरन्तीम् । ताय अपराये आरोचयितव्यम् । अथ दानि सा भोति रौद्रा वा साहसकारा पश्यति । मा से जीवितान्तरायं वा ब्रह्मचर्यान्तरायं वा करिष्यतीति उपेक्षा पर्तिलभति अनापत्तिः । तेन भगवानाह । या पुन भिक्षुणी जानन्ती भिक्षुणीये दुष्ठुल्लामापत्तिं कृतामध्याचीर्णां छादेय । सा न परेषामारोचयेत्कुवेगे महाजने संघमध्ये । यदा सा भिक्षुणी भिक्षुणीहि च्युता भवति मृता निषण्णा अवसण्णा अवक्रान्ता इमस्माद्धर्मविनयाद् । अथ भिक्षुणी भिक्षुणीनामेवं वदेय आज्ञासि वताहमार्ये इत्थन्नामाये भिक्षुणीये दुष्ठुल्ला-म्-आपत्ति कृतामध्याचीर्णा । साहं न परेषामारोचयेयम् । किन् ति इमाये मापरे जानन्तू ति । इयं पि भिक्षुणी पाराजिका भवत्यसम्वास्या । पाराजिकधर्म ८ उत्क्षिप्तानुवर्तिका १३४. भगवान् सम्यक्संबुद्धो यदर्थं समुदागतो तदर्थमभिसम्भावयित्वा । पेयालम् । यावत्तेहि तेहि विहारेहि विहरन् कौशाम्ब्यां विहरति घोषितारामे । आयुष्मान् दानि छन्दको पञ्चानामापत्तिकायानामन्यतरान्यतरामापत्तिमध्योमर्दति । सो भिक्षूहि वुच्चति आयुष्मन् छन्दक पश्यसि एतामापत्तिम् । सो दानाह । नाहं पश्यामि यूयमपि नं पश्यथ । भे च्यु[?]तं पश्यन्तु । किं पुन मम एताय दुष्टाय । एतं प्रकरणं भिक्षू भगवतो आरोचयेंसु । भगवानाह । यद्येषो भिक्षवश्छन्दको पञ्चानामापत्तिकायानामन्यतरान्यतरामापत्तिमध्योमर्दति । स तामापत्तिं न पश्यति । तेन संघो आपत्तीय अदर्शनेन उत्क्षेपनीयं कर्म करोतु । तस्य संघेन उत्क्षेपणीयं कर्म कृतम् । न संभुञ्जति धर्मसंभोगेन आमिषसंभोगेन । तस्य दानि माता अपरंहि भिक्षुणीविहारे आवासिनी । सो दानि तंहि गत्वा आह । सालोहिते संघेनाहमुत्क्षिप्तो । न संभुञ्जति मे धर्मसम्भोगेन आमिषसंभोगेन । सा दानाह । अपर्या आर्य च्छन्दक । अहन् ते संभुञ्जामि धर्मसम्भोगेन आमिषसम्भोगेन । सा दानि सम्भुञ्जति धर्मसंभोगेन आमिषसंभोगेन । सा दानि भिक्षुणीहि वुच्चति । आर्ये एषो हि आर्य छन्दको समग्रेण संघेन धर्मतो विन्यतो उत्क्षिप्तो अप्रतिकृतो । मा आर्ये एतं भिक्षुमनुवर्तेहि । भगवानाह । अपापाय आर्यमिश्रिका अहं च तावन्नेतं भिक्षुमनुवर्तिष्यम् । का अन्या अनुवर्तिष्यति । अनुवर्तिष्याम्यहमेतं भिक्षुम् । किमर्थमहमेतं किमर्थमहमेतं नानुवर्तिष्ये । एतत्प्रकरणं तायो भिक्षुणीयो महाप्रजापतीये आरोचयेंसुः । महाप्रजापती गौतमी भगवत आरोचयति । भगवानाह । यद्येषा भिक्षुणी छन्दकमाता छन्दकं भिक्षुं समग्रेण संघेन धर्मतो विनयतो उत्क्षिप्तमप्रतिकृतमनुवर्तति । तेन हि तं गच्छथ त्रिःक्खत्तो कुवेगे त्रिःक्खत्तो महाजने त्रिक्खत्तो संघमध्ये समनुग्राहथ एतस्य वस्तुस्य प्रतिनिःसर्गाय । सा दानि कुवेगे वुच्चति सत्यं त्वमार्ये छन्दकमाते आर्येछन्दकं समग्रेण संघेन धर्मतो विनयतो उत्क्षिप्तमप्रतिकृतमनुवर्तसि । आहो त्याह । सा त्वं कुवेगे वुच्यसि । मा आर्ये छन्दकमातो आर्यछन्दकं समग्रेण संघेन धर्मतो विनयतो उत्क्षिप्तमप्रतिकृतमनुवर्ताहि । यं खलु ते आर्ये छन्दकमाते मित्राय करणीयमर्थकामाय हितैषिणीय करोति ते तं मित्रा एका वाचा गच्छन्ति । द्वे वाचे अवशिष्टे प्रतिनिःसर न प्रतिनिःसरामीत्य आह । एवं द्विरपि त्रिरपि । एवं महाजने संघमध्ये अवलोकना कर्तव्या यावन्न प्रतिनिःसरामीत्याह । १३५. एतं प्रकरणं तायो भिक्षुणीयो भगवतः आरोचयेंसुः । अनुप्राप्ता भगवनार्या छन्दकमाता त्रिक्खत्तो कुवेगे त्रिक्खत्तो महाजने त्रिक्खत्तो संघमध्ये एतस्य वस्तुस्य प्रतिनिःसर्गाय न च प्रतिनिःसरति । भगवानाह । शब्दापयथ छन्दकमाताम् । सा दानि शब्दापिता । भगवानाह । सत्यं त्वं छन्दकमाते । एवन्नाम त्वं छन्दकं भिक्षुं समग्रेण संघेन धर्मतो विनयतो उत्क्षिप्तमप्रतिकृतं संभुञ्जसि । सा त्वं त्रिक्खुत्तो कुवेगे त्रिक्खुत्तो महाजने त्रिक्खुत्तो संघमध्ये अनुप्राप्ता एतस्य वस्तुस्य प्रतिनिःसर्गाय न च प्रतिनिःसरसि । आं भगवन् । भगवानाह । दुष्कृतन् ते छन्दकमाते । नन्वहं छन्दकमाते अनेकपर्यायेण दौर्वचनस्यं गर्हामि दौर्वचनस्य अवर्णवादि तत्र नाम त्वं खराखक्खटं वामा अप्रदक्षिनग्राहिणी । नैषश्छन्दकमाते धर्मो । नैष विनयो नैतं शास्तुः शासनम् । नैवं कर्तव्यं नैवं करणीयम् । नैवं करोन्तीये वृद्धिर्भवति कुशलेषु धर्मेषु । एवं च दानि त्वं जानन्ती भिक्षुं समग्रेण संघेन धर्मतो विनयतो उत्क्षिप्तमनुवर्तसि । तेन हि न क्षमति जानन्ती भिक्षुं समग्रेण संघेन धर्मतो विनयतो उत्क्षिप्तमप्रतिकृतमनुवर्तितुम् । अथ खलु भगवान्महाप्रजापतीं गौतमीमामन्त्रयति । सन्निपातय गौतमि भिक्षुणीयो यावतिका भिक्षुणीयो कौशाम्बिनगरीमुपनिश्राय विहरन्ति । यावच्छिक्षापदं प्रज्ञप्तम् । १३६. या पुन भिक्षुणीति उपसम्पन्ना । जानन्तीति स्वयं वा जानेय परतो वा श्रुणेय आकारवन्तेन दर्शनेन आकारवन्तेन श्रवणेन । समग्रेण संघेनेति अव्यग्रेण । धर्मविनयतो आपत्तीय अदर्शनेन आपत्तीय अप्रतिकर्मेण त्रयाणां दृष्टिगतानामप्रतिनिःसर्गेण । उत्क्षिप्तन् ति असंभोगं कृतम् । अप्रतिकृतं ति अप्रत्योसारितम् । अनुवर्तेया ति आमिषसंभोगेन वा धर्मसंभोगेन वा संभुञ्जेय । सा भिक्षुणी भिक्षुणीहि एवमस्य वचनीया । एषो हि आर्ये भिक्षुः समग्रेण संघेन । पेयालम् । यावत्तदेव वस्तुं प्रतिगृह्णेय न प्रतिनिःसरेय यं तमुत्क्षिप्तकं भिक्षुमनुवर्तति । सा भिक्षुणीति यथा छन्दकमाता । भिक्षुणीहीति संघेन महाजनेन एकपुद्गलेन यावत्तृतीयकं समनुग्राहितव्या समनुभाषितव्या इति त्रिक्खत्तो कुवेगे महाजने त्रिक्खत्तो संघमध्ये । सा कुवेगे वक्तव्या । सत्यं त्वमित्थंनामे इत्थंनामे भिक्षुसमग्रेण संघेन धर्मतो विनयतो उत्क्षिप्तमप्रतिकृतमनुवर्तसि । आमो त्याह । सा दानि वक्तव्या । मा आर्ये इत्थंनाम भिक्षुं समग्रेण संघेन धर्मतो विनयतो उत्क्षिप्तमनुवर्ताहि । यं खलु ते इत्थन्नामे मित्राय करणीयमर्थकामाय हितैषिनीय करोति । ते तं मित्रा एका वाचा अवशिष्टा प्रतिनिःसर न प्रतिनिःसरामीत्याह द्वितीयं तृतीयमपि । पेयालम् । संघमध्ये पि त्रैवाचिकं यावत्तं वस्तुं प्रतिनिःसरेय इत्येतं कुशलम् । नो च प्रतिनिःसरेय इयं पि भिक्षुणी पाराजिका भवत्यसम्वास्या । पाराजिकेति पाराजिकाये आपत्तीये संकाशना प्रकाशना विवरणा विभजना उत्तानीकर्मता प्रज्ञप्तिः । १३७. सा एषा भिक्षुणी त्रिक्खत्तो कुवेगे समनुग्राहियमाणा समनुभाषियमाणा प्रतिनिःसर्गार्हं वस्तुं न प्रतिनिःसरति वाचायां विनयातिक्रममासादयति । त्रिक्खत्तो महाजने समनुग्राहियंाणा वा समनुभाषियमाणा वा प्रतिनिःसर्गार्हं वस्तुं न प्रतिनिस्सरति वाचायां वाचायां विनयातिक्रममासादयति । संघमध्ये ज्ञप्तिमधिवासयति विनयातिक्रममासादयति । प्रथमायां वाचायामध्योरोपितायां विनयातिक्रममासादयति । व्योरोपितायां थूल्ऽ-अच्चयमासादयति । द्वितीयायां वाचायामध्योरोपितायां विनयातिक्रममासादयति । व्योरोपितायां वाचायां थूल्॰ऽ अच्चयमासादयति । तृतीयायां वाचायामध्योरोपितायां थूल्ऽ-अच्चयमासादयति । व्योरोपितायां पाराजिका भवति । यदा पाराजिकामापत्तिमापन्ना भवति । ये च कुवेगे महाजने ये च संघमध्ये विनयातिक्रमाश्च थूल्ऽ-अत्ययाश्च सर्वे ते प्रतिप्रश्रंभ्यन्ते एका आपत्तिर्गुरुका सन्थिहति । यदियं पाराजिका । अन्तरा प्रतिनिःसरति पञ्चास्थितासु आपत्तिषु कारापयितव्या । किन् ति दानि प्रतिनिःसर्गार्हं द्रष्टव्यम् । किमप्रतिनिःसर्गार्हमभूषिसि इत्थन्नामं भिक्षुमुत्क्षिप्तकमनुवर्तिष्यन् ति । नानुवार्तितमनुवर्तामि अनुवर्तिष्यामि चेति एवं प्रतिनिःसर्गार्हम् । किन् ति दानि अप्रतिनिःसर्गार्हमभूषिसि । इत्थन्नामं भिक्षुमुत्क्षिप्तकमनुवर्तिष्यन् ति । अनुवर्तितं दानि नानुवर्तामि अनुवर्तिष्यामि चेति एवमप्रतिनिःसर्गार्हं चेति एवमप्रतिनिःसार्गर्हं द्रष्टव्यम् । तेन भगवानाह । या पुन भिक्षुणी जानन्ती भिक्षुं समग्रेण संघेन धर्मतो विनयतो उत्क्षिप्तमप्रतिकृतमनुवर्तेय सा भिक्षुणी भिक्षुणीहि एवमस्य वचनीय । एषो हि आर्ये भिक्षुः समग्रेण संघेन धर्मतो विनयतो उत्क्षिप्तो अप्रतिकृतो । मा एतं भिक्षुमनुवर्तेय । एवं च सा भिक्षुणी भिक्षुणीभिरुच्यमाना तं वस्तुं प्रतिगृह्णेय । न प्रतिनिःसरेय सा भिक्षुनी भिक्षुणीहि यावत्तृतीयकं समनुग्राहितव्या समनुभाषितव्या तस्य वस्तुस्य प्रतिनिःसर्गाय । यावत्तृतीयकं समनुग्राहियमाणा वा समनुभाषियमाणा वा तं वस्तुं प्रतिनिःसरेय इत्येतं कुशलम् । नो च प्रतिनिःसरेय इयं पि भिक्षुणी पाराजिका भवत्यसम्वास्या । उद्दानं मैथुनमदत्तादानं वधो मृषा संसर्गोऽष्टवस्तुका । अवद्यप्रतिच्छादिका उत्क्षिप्तानुवर्तिका ॥ प्रपूर्यते वर्गः । पाराजिकाः समाप्ताः । संचरित्र १३८. संचरित्रकर्म यथा भिक्षूणां सर्वमन्वर्थं यावत्तेन भगवानाह । या पुन भिक्षुणी संचरित्रं समापद्येय स्त्रीमतं वा पुरुषस्योपसंहरेय पुरुषस्य वा मतं स्त्रियायोपसंहरेय जायत्ततेन वा जारत्ततेन वा अन्तमसतो तत्क्षणीकानि पि अयं धर्मो प्रथमापत्तिको संघातिशेषो [(वा?)] उपादिशेषो संघो संघमेवाधिपति कृत्य निःसरणीयो । संघातिशेषधर्म २ अमुलकः द्वे अभूते तथैव कर्तव्या यथा भिक्षूणाम् । यावत्तेन भगवानाह । या पुन भिक्षुणी दुष्टाद्दोषात्कुपिता अनात्तमना शुद्धां भिक्षुणीमनापत्तिकाममूलकेन पाराजिकेन धर्मेणानुध्वंसये अप्येव नाम्ऽ एनां ब्रह्मचर्यातो च्यावेयन् ति सा तदपरेण समयेन समनुग्राहियमाणा वा असमनुभाषियमाना वा अमूलकमेतमधिकरणं भवति भिक्षुणी च दोषे प्रतिष्ठिहति दोषा अवचामीति अयं पि वर्गे प्रथमापत्तिको संघातिशेषो यावत् । लेशमात्रकं तेन भगवानाह । या पुन भिक्षुणी दुष्टा दोषात्कुपिता अनात्तमना अन्यभागियस्य चाधिकरणस्य किञ्चि देशं लेशमात्रकं धर्ममुपादाय अपराजिकां भिक्षुणीं पाराजिकेन धर्मेणानुध्वंसये अप्येव नामैनां ब्रह्मचर्या च्यावेयन् ति सा तदपरेण समयेन समनुग्राहियमाणा वासमनुभाषियमाना वा अन्यभागीयमेव तमधिकरणं भवति अन्यभागीयस्य चाधिकरणस्य किञ्चि देश लेशमात्रको धर्मो उपादिन्नो भवति भिक्षुणी च दोषे प्रतिष्ठिहति दोषा अवचामीति संघातिशेषो । संघातिशेषधर्म ४ उस्सयवादा १३९. भगवाञ्छ्रावस्तीयं विहरति । तंहि दानि भिक्षुणीविहारो च तीर्थिकशय्या च । कन्थान्तरिका । सा कन्था पतिता । तंहि दानि भिक्षुणीविहारे । स्थूलनन्दा नाम भिक्षुणी आवासिकिनी । सा दानाह । तीर्थिका करोथैतां कन्थाम् । यूयमाह्रीकअनपत्रापिणो ह्रीरपत्राप्य निपन्नाः । आर्यमिश्रिकाः ह्रीरपत्राप्य सम्पन्नाः काले च विकाले च मर्मां प्रविशन्तां निष्क्रामन्तां दृष्ट्वा भविष्यति चित्तस्योपक्लेशो । ते दानाहंसुः । अयं वर्षारात्रो यदा वर्षा निर्गता भविष्यन्ति तदा करिष्यामः । सा दानाह । इदानीमेव करोथ । ते न कुर्वन्ति । सा दानि आक्रोशति भ्रष्टायूः नष्टायूः भग्नाशा सुराभ्रष्टा यानगर्दभा न करिष्यथ । कथं नग्नाः । आह्रीकअनोपत्रापिणो ह्रीरपत्राप्य विपन्ना मिथ्यादृष्टिका विनिपातिताः । करोथैतां कन्थाम् । ते दानाहंसुः इतिकितिकाय धीते वडडिङ्गरपुष्टे श्रमणिके यदि मरसि न करोम एतां कन्थाम् । १४०. ताय दानि गत्वा आसने निवेदितम् । एतदेव सर्वमारोचयित्वाह दीर्घायु यथा सा कन्था क्रियते तथा करोथ । आसनिका श्राद्धा प्रसन्ना । ते दानाहंसुः शब्दापयथ मिश्रस्थान् । ते दानि शब्दापिताः । ते आसनिका आहंसुः । हे इतिकितिकाय पुत्राः तीर्थिनग्नाः सुराभ्रष्टा यानगर्दभाः मिथ्यादृष्टीक विनिपातिताः । गच्छथ तां कन्थां करोथ । यूयमह्रीका अनोत्रापिणो आर्यमिश्रिका ह्रीरपत्राप्य सम्पन्नाः । तेषां युष्माकं काले च विकाले च निष्क्रामन्तां प्रविशन्तां दृष्ट्वा आर्यमिश्रिकाणां ब्रह्मचारिणीनां भविष्यति चित्तस्यान्यथात्वं तेहि दानि आसनिकेहि नियुक्ताः अकामका कार्यन्ते । ते दिवसतो कन्थामुत्थापयन्ति । रात्रौ च वर्षेण पातीयति । तेषां दानि त्रेमासं कर्म कुर्वन्तानां गतम् । ते दानाहंसुः । इमाय इतिकितिकाय धीतरे वडडिङ्गरपुष्टाय श्रमणिकाय मृत्तिकाकर्म करियामः । उपासककुलेहि अवध्यायन्ति पश्यथ गृहपतयो युष्माकं दक्षिणीय श्रमणिकाय अस्ति मे चलन् ति कृत्वा त्रेमासमकामका कर्म कारापिता । एतं प्रकरणमुपासका कुलोपिकानां भिक्षुणीनामारोचयन्ति । भिक्षुणीयो पि महाप्रजापतीये गौतमीये आरोचयन्ति । महाप्रजापती गौतमी भगवतो आरोचयति । भगवानाह । शब्दापयथ नन्दाम् । सा दानि शब्दापिता । सत्यन्नन्दे ति । पेयालम् । यावत्पर्यवदातानि भविष्यन्ति । या पुन भिक्षुणी उत्सयवादा विहरेया आगारिकपरिव्राजकेहि दिवसं वा मुहूर्तं वा अन्तमसतो आरामिकश्रमण्ऽउद्देशेहि सार्धमयं पि धर्मो प्रथमापत्तिको । या पुनर्भिक्षुणीति उपसम्पन्ना । उत्सयवादा विहरेया ति कलहं करेय । आगरिकेहीति गृहिकेहि । परिव्राजिकेहीति गौतमजटिलकपर्यन्तेहि । दिवसं ति सुर्याकं दिवसम् । मुहूर्तं ति तत्क्षणं तन्मुहूर्तम् । अन्तमसतो आरामिकेहीति संघोपस्थायकेहि । श्रमण्ऽउद्देशकेहीति पञ्चदशवर्षानुपादाय यत सप्ततिकाः । सार्धं विहरेय । अयं पि धर्म प्रथमापत्तिको संघातिशेषो । संघो ता नाम वुच्चन्ति अष्ट पाराजिका धर्माः । तेषामियमापत्तिः सावशेषा सप्रतिकर्मा । संघातिशेषन् ति संघातिशेषाये आपत्तीये संकाषना प्रकाशना विवरणा विभजना उत्तानीकर्मता प्रज्ञप्तिः । सा एषा भिक्षुणी राजाकुले वा आसने वा निवेदयति थूल्ऽ-अच्चयम् । आकार्षापयति संघातिशेषः । उपासककुले वा श्राद्धकुले वा निवेदयति विनयातिक्रमः । उज्झापयति सम्वरगामिवि । भिक्षुरपि राजकुले निवेदयति विनयातिक्रममासादयति । ओज्झापयति सम्वरगामिवि । तेन भगवानाह । या पुन भिक्षुणी उत्सयवादा विहरेय आगारिकपरिव्राजकेहि दिवसं वा मुहूर्तं वा अन्तमसतो आरामिकश्रमण्ऽउद्देशेहि सार्धमापत्तिः धर्मो प्रथमापत्तिको ॥ संघातिशेषधर्म ५ ग्रामान्तरं १४१. भगवां च्छ्रावस्तीयं विहरति । तंहि दानि राष्ट्रा नाम भिक्षुणी । तस्या एव राष्ट्रपाला नाम भगिनी कुग्रामके वूढा । सा तावदनज्जिका । सा प्रेषयति । आर्ये राष्ट्रे आगच्छ यदि मामिच्छसि जीवन्तीं पश्यितुम् । सा तहिं गता । सा च कालगता । सो दानि भगिनीपतिको परिदेवति । आर्ये राष्ट्रे यन् ते भगिनी कालगता का तावदिमं दारकं परिहरिष्यति का तावदिमं मम गृहं प्रतिजागरिष्यति । आर्याय राष्ट्राय वयं प्रतिजागृतव्याः । ताये दानि भवति पापकाः खलु वाता वायन्तीति । सा निष्क्रमित्वा स्रावस्तीमागता । सा भिक्षुणीनामाह । आर्यमिश्रिकायो मनास्मि ब्रह्मचर्यातो च्याविता । आहंसुः । किं वा कथं वा । एतदेव विस्तरेणारोचयति । एतं प्रकरणं भिक्षुणीयो महाप्रजापतीये गौतमीये आरोचयन्ति । महाप्रजापती पि गौतमी भगवत आरोचयति । भगवानाह । शब्दापयथ राष्ट्राम् । सा दानि शब्दापिता । तदेव सर्वं विस्तरेण पृच्छीयते । यावदां भगवन् । भगवानाह । एवं च नाम त्वं भिक्षुणीय विना अध्वानमार्गं प्रतिपद्यसि । तेन हि न क्षमति यावच्छिक्षापदं प्रज्ञप्तम् । १४२. एषा एवार्थोत्पत्तिः । भिक्षुणीयो अध्वानमार्गं गच्छन्ति । अपरा दानि भिक्षुनी प्रासादिका दर्शनीया तरुणी उच्छ्वासकारी वा प्रश्वासकारि वा मार्गातो उत्क्रमित्वा उपविष्टा । पुरुषसार्थो च आगच्छति । सा तेहि परिवारिता । ते दानाहंसुः । आर्या प्रासादिका दर्शनीया तरुणी प्रत्यग्रयौवने वर्तसि । कामाः । परिभोक्तव्याः । सा त्वं किं प्रव्रजिता । को वा ते निर्वेद इति । आह । प्रव्रजितास्मि । आहंसुः । आचक्ष्व तावत्यावत्ते तदनन्तरं परिवारिय धारेन्ति । तावत्तायो भिक्षुणीयो ग्रामान्तरङ्गताः । ताये दानि कौकृत्यमुत्पन्नम् । सा महाप्रजापतीये गौतमीये आरोचयति । महाप्रजापती गौतमी भगवत आरोचयति । भगवानाह । तेन हि आपत्तिः अकामिकायेति । १४३. एषैवार्थोत्पत्तिः । भिक्षुणीयो अध्वानमार्गं गच्छन्ति । अपरा दानि भिक्षुणी ग्लाना । सा विना भिक्षुणीहि ग्रामान्तरमुत्क्रान्त । ताये दानि कौकृत्यं कृतं कौकृत्येन महाप्रजापतीये आरोचयति । महाप्रजापती गौतमी भगवत आरोचयति । भगवानाह । अनापत्तिः ग्लानायेति । अथ खलु भगवान्महाप्रजापतीं गौतमीमामन्त्रयति । सन्निपातय गौतमीति । पेयालम् । या पुन भिक्षुणी भिक्षुणीय विना अध्वानमार्गं प्रतिपद्येय अन्तमसतो ग्रामान्तरं पि अन्यत्रसमये तत्रायं समयो अकामिका भिक्षुणी भवति ग्लानिका वा । अयमत्र समयो । अयं पि धर्मो प्रथमापत्तिको । या पुन भिक्षुणीति । पेयालम् । भिक्षुणीय विनेति अद्वितीया । अध्वानमार्ग त्रियोजनं द्वियोजनं त्रियोजनम् । अन्तमसतो ग्रामान्तरं वा । अकामिका ति हस्ति कडेवरेण अश्वकडेवरेण गोकडेवरेण वा मनुष्यकडेवरेण वा आवृता भवति । ग्लानिकेति जरादुर्बला वा व्याधिदुर्बला वा भवति । प्रत्युद्धृतं भगवता पदमनापत्ती ग्लानाय । अयमत्र समयो । एता दानि भिक्षुणीयो अध्वानमार्गङ्गच्छन्ति यावता अन्तोसीमाङ्गच्छन्ति किञ्चापि दूरं दूरं गच्छन्ति अनापत्तिः । अथ दानि ग्रामान्तरं वा नगरान्तरं वा गच्छन्ति कान्तारमार्गं वा अतिक्रामन्ति । अन्तो हस्तपाशस्थिताहि अतिक्रामितव्यम् । परं हस्तपाशं गच्छन्ति । अन्तमसतो चतुरङ्गुलं पि देशनागामिविनयातिक्रममासादयति । अध्यर्धं वा द्विहस्तं वा गच्छन्ति थूल्ऽ-अच्चयमासादयति । अथ दानि एका भिक्षुनी आगत्वा सीमान्तरे तिष्ठति थूल्ऽ-अच्चयमासादयति । अपरा आगत्वा अतिक्रामति इमं सीमान्तरन् ति एवं यत्तिका अतिक्रामन्ति सर्वासां थूल्ऽ-अच्चयम् । तेन भगवानाह । या पुन भिक्षुणी भिक्षुणीय विना अध्वानमार्गं प्रतिपद्येय अन्तमसतो ग्रामान्तरं पि अन्यत्रसमये । तत्रायं समयो अकामिका भिक्षुणी भवति । ग्लानिका वा । अयमत्र समयो । अयं पि धर्मो प्रथमापत्तिको । ग्रामान्तरमेकरात्रं पि १४४. भगवान् राजगृहे विहरति । तत्र दानि कर्मकारपुत्रः श्रद्धाप्रसन्नः । तस्य भार्या शुक्ला नाम कर्मारधीता प्रासादिका दर्शनीया । अथ भगवान् कालस्यैव निवासयित्वा पात्रचीवरमादाय राजगृहं पिण्डाय प्रविष्तः । सावदानं पिण्डाय चरन्तो तस्य गृहं गतो उद्देशे स्थितः । सो दानि भुञ्जति । सा परिविशन्ती आवृत्य स्थिता । मा भगवन्तं दृष्ट्वा विप्रकृत उत्थास्यतीति । तस्य दानि भवति किन् तावदियमावृत्य तिष्ठति । भगवता पि वैनेयवशेन प्रभा ते उत्सृष्टा । तेन चावलोकितम् । तेन भगवान् दृष्टो । सो दानाह । अये हि अस्ति नाम त्वं मम भगवन्तमावारयसि । अनर्थकामा त्वम् । मम न त्वमर्थकामा । सा दानाह नाहमार्यपुत्रस्य अनर्थकामा । भगवन्तमाराधयामि । अपि तु मा विप्रकृतो भगवन्तं दृष्ट्वा उत्थास्यसीति । ताये दानि भवति धिगस्तु मम गृहावासस्य । यत्र हि नाम प्रियं करिष्यामीति । अप्रियमुक्ता । सा दानाह आर्यपुत्र गच्छाम्यहम् । पर्व्रजामि । सो दानाह । कस्मिन् प्रवचने । आह । बौद्धे । आह । प्रव्रजाहीति । १४५. सा दानि उत्पलवर्णाय प्रव्रजिता उपसम्पादिता । ताय दानि अष्टाहेन प्रव्रजिताय युञ्जन्तीय व्यटयन्तीय व्यासयन्तीय तिस्रो विद्याः षडभिज्ञाः । बलवशीभावः साक्षीकृतो । सा दानि बलवशीभावप्राप्ता । अन्यतरं वृक्षमूलं निश्रयोपनिषण्णा । ताये दानि शक्रोऽमरसंघपरिवृत्तो पादवन्दो आगतो । आह । इमां पश्यथ धर्मस्थां शुक्लां कर्मारधीतरम् । अद्य अष्टाहप्रव्रजिता कृतकृत्या निराश्रवा ॥ [१] ॥ सुविनीतोत्पलवर्णा मार्गे आर्य प्रविशते । त्रैविद्या ऋद्धि च प्राप्ता चेतोपर्यायकोविदा ॥ [२] ॥ महर्द्धिका भिक्षुणी ता विजिता इन्द्रियाणी च । निषण्णा वृक्षतलंमि अनिञ्जेन समाधिना ॥ [३] ॥ तां शक्रोऽमरसंघेन उपसंक्रम्य वासवो । नमस्यत्यञ्जलीभूतो शुक्लां कर्मारधीतरम् ॥ [४] ॥ सा मधुरभाषिणी गृहेण गृहं नीयते । अपरेण दानि उपासकेन महार्हेण पटेन छादिता । अन्तरीक्षाद्देवता वाचं निश्चारयन्ति । लक्ष्मीवानयमुपासको पुण्यं प्रभूतमनल्पकम् । सर्वग्रन्थप्रहीणाये शुक्लाये अदासि चीवरम् ॥ [५] ॥ किं राजगृहे मनुष्या मधुमत्तावतिष्ठन्ति । ये शुक्लान्न पर्युपासन्ति दैवसिकान् धर्मानुत्तमा ॥ [६] ॥ तमासेचनकं शान्तं ते वै अप्रतिवाणीयम् । आज्ञेयरूपो विज्ञेहि बालेहि अविजानियो ॥ [७] ॥ सा दानि गृहेण गृहं भाषणाय नीयति । ताये दानि लाभसत्कारश्लोकोऽभ्युद्गतः । ताये दानि भिक्षुणीयो इर्ष्यापत्तिः । लाभसत्कारमसहमाना ता दानाहंसुः । भञ्जनमेताय कृतम् । ततोऽस्याः सर्वो जनकायो श्रोतव्यं श्रद्धातव्यं मन्यति । तायो दानि भगवतो अल्लीना । एताय भगवन् जम्भनं साधितम् । भगवानाह । सत्यं शुक्ले एवं नाम त्वया जम्भनं साधितम् । तेन ते जनो श्रोतव्यं मन्यति । आह । अहं भगवान् जम्भनं न जानामि । कुतो जम्भनं साधयि ष्यामि । भगवानाह । न एताय जम्भनं साधितम् । अपि तु अस्याः प्रणिधानमिदम् । १४६. भूतपूर्वमतीतेऽध्वानं नगरे वाराणसीयं भगवति काश्यपे तत्र दानि राजा कृकी नामाभूत् । तस्य सप्त धीतरो अभूषि । श्रमणा [१] श्रमणिमित्रा [२] भिक्षुणी [३] भिक्षुणीदासिका [४] । धर्मा चैव [५] सुधर्मा च [६] संघदासी च सप्तमा [७] ॥ [१] ॥ चतुर्दशीं पञ्चदशीं या च पक्षस्य अष्टमी । प्रातिहारकपक्षञ्च अष्टाङ्गं सुसमाहिता ॥ [२] ॥ पोषधमुपोषधन् ति सदा शिलेन संवृता ॥ काशिनाञ्च मनापो आसि भद्रको नाम मानवो ॥ [३] ॥ कुशलो नृत्त गीतस्मिं तन्त्रीनृत्तप्रबोधने । क्रीडायेति रमायेति जनन् तत्र समागतम् ॥ [४] ॥ तं च कालगतं ज्ञात्वा सर्वास्ताः सप्त कुमारियो । प्रासादिका दर्शनीयाः राज कन्याः समागताः ॥ [५] ॥ राजानमुपसंक्रम्य इदं वचनमब्रवीत् ॥ [६] ॥ आपृच्छाम वयं तात कशीनां राष्ट्रवर्धन । अनुजानातु मो देव श्मशानं यामं प्रेक्षितुम् ॥ [७] ॥ अद्य पञ्चदशी देव दिव्या नक्षत्र मालिनी । अनुजानातु मो नाथ श्मशानं यामं पश्यितुम् ॥ [८] ॥ उत्रासनभीषणके दुर्गन्धे लोमहर्षणे । आरोदने मनुष्यानां श्मशाने किं करिष्यथ ॥ [९] ॥ यत्र भे अपेतविज्ञाना परभक्षा अचेतना । अपविद्धा मृता शेन्ति श्मशाने बहुभीषणे ॥ [१०] ॥ यत्र गृध्रा शृगालाश्च काकोलूकास्तथा वृकाः । अङ्गमङ्गानि खादन्ति श्मशाने बहुभीषणे ॥ [११] ॥ < यत्र गृध्रा शृगालाश्च काकोलूकास्तथा वृकाः> । अस्त्रानादाय गच्छन्ति श्मशाने किं करिष्यथ ॥ [१२] ॥ यत्र अस्थीनि दृश्यन्ते विक्षिप्तानि दिशोदिशम् । तिष्ठन्ति शङ्खवर्णानि श्मशाने किं करिष्यथ ॥ [१३] ॥ शूलायुतानि दृश्यन्ते अशुचि खेटगन्धिका । केशानामाकरे रौद्रे श्मशाने किं करिष्यथ ॥ [१४] ॥ धूर्ताचारिकविकीर्णे चौरव्यालनिषेविते । दुर्मनुष्यान आवासे श्मशाने बहुभीषणे ॥ [१५] ॥ अमनुष्यान आवासे राक्षसानान्निवेशने । सर्वप्रेतान आवासे । श्मशाने बहुभीषणे ॥ [१६] ॥ ते सुकुमाल्याभरणा मणिकेयूरधारिणो । बाहं प्रगृह्य क्रन्दन्ति श्मशाने बहुभीषणे ॥ [१७] ॥ ते सुकुमाल्याभरणा मणिकेयूरधारिनो । केशा प्रकीर्य क्रन्दन्ति श्मशाने भयभैरवे ॥ [१८] ॥ यत्र माता पिता भ्राता भगिनी ज्ञातिबान्धवाः । दुर्मना यत्र निवर्तन्ते श्मशाने भयभयानके ॥ [१९] ॥ यत्र माता पिता भ्राता भगिनीज्ञातिबान्धवाः । अनापृच्छति वर्तन्ते श्मशानेऽतिभयानके ॥ [२०] ॥ पाणिय हाह निर्घोषे ज्ञातीनां परिदेवने । पूतिविकन्थिते घोरे श्मशानेऽतिभयानके ॥ [२१] ॥ व्यजनीतालवृन्तानि विक्षिप्तानि दिशोदिशम् । चिताधूमाकुले रौद्रे श्मशाने किं करिष्यथ ॥ [२२] ॥ अयं प्रासादवरो कूटागारो सुनिर्मितो । [२२ ] यत्र अन्नञ्च पानञ्च रतीयो च उपस्थिताः । अत्र रमथ कन्यायो श्मशाने किं करिष्यथ ॥ [२३] ॥ इमां पुष्किरिणीं रम्यां चक्रवाकोपशोभिताम् । पुण्डरीकैः सुसंछन्नां कुमुदसौगन्धिकेहि च ॥ [२४] ॥ नानाद्विजगणाकीर्णा नाना स्वरनिकूजिताः । अत्र रमथ कन्यायो श्मशाने किं करिष्यथ ॥ [२५] ॥ कुमार्यो आहंसुः । वयं पि तात जानामो श्मशाने भयभैरवे दुर्गन्धं कुणपं चैव कोविदारं च पुष्पितम् ॥ [१] ॥ वयमपि तातं जहिष्यामो ततोऽप्यस्मां जहिष्यति । नानाभावो विना भावो न चिरेण भविष्यति ॥ [२] ॥ राजा आह । दुःखसंज्ञा कुमारीयो [.........................] । अवव्याबाध्येन चित्तेन प्रविशेषातिमुक्तकम् ॥ [३] ॥ अनुज्ञाता कृकिणा राज्ञा निर्याताः काशीनां पुरात् । सर्वास्ताः रथमारुह्य गताः श्मशानप्रेक्षिकाः ॥ [४] ॥ तायो अद्दशंसु मार्गस्मिं [उत्सृष्टं ?] उज्झितं शवम् । दुर्गन्धिमशुचिं [ः] विधवस्तञ्च विनीलकम् ॥ [५] ॥ तायो यानादवतरित्वान सर्वाः सप्त कुमारियो समन्तात्परिवारेत्वा इदं वचनमब्रवीत् । सर्वासां वो अयन् धर्मः सर्वीषा एष धर्मता । एष अस्य शरीरस्य सर्वा गाथां करोमहे ॥ [६] ॥ अयं पुरा चन्दनलिप्तगात्रो अवदातावस्त्रो वशितानुचारि । छायं कुलञ्च अवेक्षमानो सो खज्जते शिवपथिकाय मध्ये ॥ [७] ॥ अस्थिकङ्कालनगरं मांसशोणितलेपनम् । यत्र रागस्य दोषस्य मोहस्यापि समूह यः ॥ [८] ॥ इमं नगरमुत्सृज्य नागरीशो कहिं गतः ॥ [९] ॥ यो द्विचक्रं द्विअरञ्च इमं परिहरेद्रथम् । इमं रथं समुत्सृज्य शारथी सो कहिं गतः ॥ [१०] ॥ ऊर्ध्वशाखमधो मूलं य इमं परिहरे ध्वजम् । इमं ध्वजं समुत्सृज्य धवजहारो सो कहिं गतः ॥ [११] ॥ य इमं परिहरेत्कायमश्वं भद्रं च वाणिजो । इमं कायं समुत्सृज्य वाणिजो सो कहिं गतः ॥ [१२] ॥ य इमां परिहरेन्नावमस्मिमाने महार्णवे । इमान्नावं समुत्सृज्य नाविको सो कहिं गतः ॥ [१३] ॥ योऽयमस्मिनागारे वासं कल्पेय अध्वगः । इममागारं समुत्सृज्य अध्वगो सो कहिं गतः ॥ [१४] ॥ मम गाथा सुभणिता मम गाथा सुभणिता । ता अन्योन्यं विवर्तन्ति श्मशाने अतिमुक्तके ॥ [१५] ॥ ततश्च मघवान् छक्रो देवराजः शचीपतिः । सम्वेगजातास्ताः कन्याः दृष्ट्वा ता उपसंक्रमेत् ॥ [१६] ॥ सर्वासां वो सुभाषितं सर्वासां वो सुभणितम् । वरं वरेथ कन्यायो यत्किञ्चिन्मनसेप्सितम् ॥ [१७] ॥ को नु दिव्येन वर्णेन अन्तरीक्षस्मि तिष्ठति । को वा त्वं कस्य वा पुत्रः कथं जानाम ते वयम् ॥ [१८] ॥ अहं शक्रः सहस्राक्षो मघवान् देवकुञ्जरः । यां देवसंघा वन्दन्ति सुधर्मायां समागताः ॥ [१९] ॥ अहं शक्रः सहस्राक्षो देवराजा शचीपतिः । वरं वरेथ कन्यायो यत्किञ्चिन्मनसेप्सितम् ॥ [२०] ॥ शक्रश्च वो वरं दद्यात्त्रयस्त्रिंशेश्वरः प्रभूः । वरं वरेथ कन्यायो क्षिप्रं व्याहरतो मम ॥ [२१] ॥ १४८. कुमार्यो आहंसुः । यस्य मूले छविर्नास्ति पत्रन्नास्ति कुतो लता । यो धीरो बन्धनान्मुक्तः तन्मे शक्र वरं दद ॥ [१] ॥ पांसु कूलधरं भिक्षुं कृशन् धर्मनिमन्त्रितम् । ध्यायन्तं वृक्षमूलस्मि तन्मे शक्र वरं दद ॥ [२] ॥ यस्य रागश्च दोषश्च अविद्या च प्रदालिता । क्षीणास्रवमर्हन्तं (!) तन्मे शक्र वरं दद ॥ [३] ॥ यस्य शैलोपमं चित्तं स्थितन्न अनुकम्पति । यो विमुक्तिं संजानेया तन्मे शक्र वरं दद ॥ [४] ॥ यस्या उरे च पारे च मध्ये नास्ति न किञ्चन । अकिञ्चनमदानं च तन्मे शक्र वरं दद ॥ [५] ॥ वारि पुष्करपत्रे वा आराग्रे इव सर्षपः । यो न लिप्यति कामेषु तन्मे शक्र वरं दद ॥ [६] ॥ बहुश्रुतं चित्रकथं बुद्धस्य परिचारकम् । पर्णभारविसंयुक्तं तन्मे शक्र वरं दद ॥ [७] ॥ शक्र आह । नाहमर्हन्तमीशेमि नाहमर्हन्तेष्वीश्वरः । अन्यं वरेथ कन्यायो अपि चन्द्रमसूर्ययोः ॥ [८] ॥ कुमार्यो आहुः । अस्वामिको स्वामिकामो अवरं वरदायको । अस्वामिको वरं दत्त्वा कथं शक्र करिष्यसि ॥ [९] ॥ उभौ कूलौ असंप्राप्तः अतीर्थे प्रतरेन्नदीम् । एष शक्र विषण्णो सि पण्केवासि जरद्गवः ॥ [१०] ॥ शक्र आह । उपासिका वो कन्यायो अपि च ये उपासका । धर्मेण वो अहं भ्राता अनुजानामि वो वरम् ॥ [११] ॥ कुमार्यो आहंसुः । नैव ते शक्र याचामो नापि उन्नोदयाम ते । स्वयमेव शक्र जानाहि किं वरेण कुमारिणाम् ॥ [१२] ॥ १४९.अथ भगवान् तासां भिक्षुणीनां पूर्वे निवासप्रतिसंयुक्तां प्रतिज्ञाकथां व्याकार्षीत् । कदाहं वीणां वा मधुरां सप्ततन्त्रीयुतां मनोरमाम् । धर्मं प्रव्याहरिष्यामि तत्कदा नु भविष्यति ॥ [१] ॥ समन्वाहरसि शुक्ले । एवं ह्येतद्भगवन् । एषापि तत्रैवासि । एताये प्रणिधानमभूषि । अपरापि तत्रैवासि । तामपि भगवान् व्याकार्षीत् । कदाहं गङ्गायमुनाय च पातालपथोदकम् । अमज्जमाना गमिष्याम तत्कदा नु भविष्यति ॥ [२] ॥ समन्वाहरस्युत्पलवर्णे । एवं ह्येतद्भगवनेषापि तत्रैवासि । एतस्याप्येतं प्रणिधानमभूषि । अपरापि तत्रैवासि । तामपि भगवान् व्याकार्षीत् । कदाहं पांसुकुलानि संहरित्वा मया पथे । संघाटीं कृत्वा धारयिष्यं तत्कदा नु भविष्यति ॥ [३] ॥ कदाहं गिरिदुर्गेषु प्रहीणभयभैरवा । चित्तमृजुं करिष्यामि तत्कदा नु भविष्यति ॥ [४] ॥ समन्वाहरसि पटच्चरे । एवं ह्येतद्भगवन् । एषापि तत्रैवासि । एतस्याप्येतं प्रणिधानमभूषि । अपरापि तत्रैवासि । तामपि भगवान् व्याकार्षीत् । कदाहं मुण्डकं शीर्षं क्षुरधारानिषेवितम् । पाणिना परिमार्जिष्यं तत्कदा नु भविष्यति ॥ [५] ॥ कदाहं हेमन्तिकां रात्रिमोवृष्टआर्द्रचिवरा । पिण्डपातं चरिष्यामि कदा नस्तद्भविष्यति ॥ [६] ॥ समन्वाहरसि कृशगौतमि । एवमेतद्भगवन् । एषापि तत्रैवासि । एतस्या प्रेतं प्रणिधानमभूषि । अपरापि तत्रैवासि । तामपि भगवान् व्याकार्षीत् । कदाहं तारकराजा व (!) नक्षत्रपरिवारिता । संघं परिहरिष्यामि तत्कदा नु भविष्यति ॥ [७] ॥ कदाहं चन्द्रो च विमलो विप्रसन्नो अनाविलो । शुद्धं चित्तमधिष्ठिहिष्यं तत्कदा नु भविष्यति ॥ [८] ॥ समन्वाहरसि महाप्रजापति । एवं ह्येतद्भगवन् । एषापि तत्रैवासि । एतस्याप्येतत्प्रणिधानमभूषि । अपरापि तत्रैवासि । तां भगवान् व्याकार्षीत् । कदाहं विहारं शरण्यं [.......] साधु निष्ठितम् । संघे दानानि दास्यामि तत्कदा नु भविष्यति ॥ [९] ॥ कदाहं मञ्चं वा पीठं वा बिसि चतुरस्रकाणि वा । संघे दानानि दास्यामि तत्कदा नु भविष्यति ॥ [१०] ॥ कदाहं कासिकं वस्त्रं क्षौमकोटुम्बकानि च । संघे दानानि दास्यामि तत्कदा नु भविष्यति ॥ [११] ॥ कदाहं सुम्भकं पात्रं सुकृतं साधु निष्ठितम् । संघे दानानि दास्यामि तत्कदा नु भविष्यति ॥ [१२] ॥ कदाहं विविधान् भक्षान्नानारसानुसेवितान् । संघे दानानि दास्यामि तत्कदा नु भविष्यति ॥ [१३] ॥ कदाहं शालिनामोदनं शुचिमांसोपसेवनम् । संघे दानानि दास्यामि तत्कदा नु भविष्यति ॥ [१४] ॥ १५०. तत्र तासां भिक्षुणीनां चक्षुर्गोचरं नास्ति । यां जानेसुः । तायो आहंसुः । का पुन सा भगवनासि । भगवानाह । विशाखा मृगारमाता । तेन कालेन तेन समयेन अपरा ह्येता भिक्षुणीयो कृकिणो राज्ञः सप्त धीतरो अभूषि । अथ शुक्ला भिक्षुणी गृहेण गृहं भाषणाय नीयति । सा दानि अपरेण गृहभाषणाय नीता भिक्षुणीहि विप्रवुस्ता । एतं प्रकरणं भिक्षुणीयो महाप्रजापतीये गौतमीये आरोचयेंसुः महाप्रजापती गौतमी भगवतो आरोचयति । भगवानाह । शब्दापयथ शुक्लाम् । सा दानि शब्दापिता । भगवान् । आह । सत्यं शुक्ले । एवं नाम त्वं भिक्षुणीभिर्विना विप्रवससि । तेन हि न क्षमति भिक्षुणीहि विना विप्रवसितुमेकां रात्रिं पि । १५१. एषैवार्थोत्पत्तिः । भगवाञ्छ्रावस्तीयं विहरति । विस्तरेण निदानं कृत्वा । भिक्षुणीयो दानि अध्वानं गच्छन्ति । तहिन् दानि अपरा भिक्षुणी जरादुर्बला व्याधिदुर्बला सार्थात्परिहीणा । सा रात्रिं विप्रवुस्ता । ताय दानि कौकृत्यं कृतम् । कौकृत्येन भिक्षुणीनां विस्तरेणारोचयति । यावत्महाप्रजापती पि गौतमी भगवतो आरोचयति । भगवानाह । तेन हि अनापत्तिः ग्लानाय । १५२. एषैवार्थोत्पत्तिः । भगवान् श्रावस्तीयं विहरति । विस्तरेण निदानं कृत्वा । कापिलवास्तव्येहि शाकियेहि संस्थागारः कारापितः । न चो अचिरनिष्ठितः । तेहि दानि तहिं रक्षपालाः स्थापिताः । न कस्यचित्प्रवेशो दातव्यो ति भगवान् प्रथमं परिभोक्ष्यति । पश्चाद्वयं परिभोक्ष्यामो ति । अथ राज्ञः प्रसेनजितः कोशलस्य पुत्रो विरूढको नाम कुमारः कपिलवस्तुं गतको मातुलानामन्तिके शिक्षामाणाय । सो दानि तेहि रक्षपालेहि प्रमत्तेहि संस्थागारं प्रविष्टः क्रीडनाय । सो दानि तेहि रक्षपालेहि अन्येहि च शाकियेहि दृष्टो । ते दानि रुषिता इतिकितिकाय पुत्र दासीपुत्र कहिं प्रविष्टोऽसि ति । ओचपेटितः । एकेन हस्तेन बाहायां गृहीत्वा द्वितीयेन हस्तेन ग्रीवायां संस्थागाराद्बहिश्छोरितः । विरूढको उत्कण्ठितः । तं दानि तेहि शाकियेहि संस्थागार पुरुषमात्राभूमिं खानापयित्वा नवेन पांसुना पूरयित्वा गन्धोदकेन सिक्तः । विरूढकेन श्रुतम् । स सुतरां रुषितः । आघातचित्तमुत्पादितवान् । यद्यहं राज्यं प्रतिलभेयं शाकियानां निधनं करिष्ये । सो दानि श्रावस्तीयमागतः । तस्य दुःखशायी नाम बटुकः सेवको । सो दानि तस्याह । यदाहं राज्ये प्रतिष्ठितो भवेयं तदा मे स्मारयिष्यसि शाकियानामन्तं गमिष्यम् । रात्रि त्रिवन्तमेव वैरमनुविचितयति । कदाचि दानि राजा प्रसेनजित्कोशलो उद्यानभूमिन्निर्गतः । तञ्च विरूढकेन नगरद्वारं बन्धापितम् । शङ्खा आध्मास्यन्ति घुष्यन्ति । विरूढको राजा विरूढकस्य राज्यमिति । राजा प्रसेनजित्कोशलो न भूयः प्रवेशं लभति । विरूढकेनामात्यानां दूतो प्रचितो । यस्य भवन्तो गृहेणार्थः पुत्रदारेण चार्थः स प्रविशतु नगरम् । एवमक्रियमाणे युष्माकं पुत्रदारं व्यसनमापादयिष्यामीति । अमात्या राजानं पृच्छन्ति । किमाज्ञापयति देवो युध्यामः । राजा ब्रवीति । मा युध्यन्तु भवन्तः । इदानिं वा पश्चाद्वा एतस्यैव एतं राज्यं गच्छथ । एतस्यैव आजानथ । मा पश्चाद्युष्माकं दुःखमुत्पादयिष्यति । ते एकद्विकाय नगरं प्रविष्टाः । राजा दानि आत्मतृतीयो, उद्यानभूमीयं संस्थितो पानीयपालो मल्ली च राजा दृष्टसत्यो न परितस्यति । वस्तु विस्तरेण कर्तव्यम् । यावत्विरूढको मात्यानामन्त्रयति । यो दानि भणे राजानं क्षत्रियं जुगुप्सेय तस्य किं दण्डः । आमात्या आहंसुः । वधो महाराज । राज आह । पूर्वमहं कुमारभूतः शाकियानां संस्थागारं प्रविष्टः तेहि मम जुगुप्साय संस्थागारं पुरुषसंस्थागारं पुरुषमात्रं खानापयित्व पांसुना पूरयित्वा क्षीरगन्धोदकेन भित्तियो तायो धोवितायो? मया तेषां वैरं प्रतिकर्तव्यं यदि भगवांस्तेषां नानुकम्पति । अथ भगवाननुकम्पति । नाहं शक्ष्यामि किञ्चित्प्रतिकर्तुम् । आमात्या आहंसुः । श्रूयते महाराज । श्रमणो गौतमो वीतरागः । वीतरागश्च ज्ञातीनां निरपेक्षा भवन्ति । उद्युज्यन्तु महाराज । शक्ष्याम वयं तेषां निग्रहीतुम् । भगवान् दानि विरूढकस्य इममेवं रूपं चेतः परिवितर्कमाज्ञाय कालस्यैव निवासयित्वा पात्रचीवरमादाय श्रावस्तीये नगरीये पिण्डाय चरित्वा अन्यतरं शाखोटवृक्षं निश्राय निषीदति स्म । अथ खलु राजा विरूढको चतुरङ्गबलकायं सन्नाहयित्वा हस्तिकायमश्वकायं रथकायं पत्तिकायं श्रावस्त्यां नगर्यां निर्याति कपिलवस्तुं नगरं संप्रस्थितः । अद्राक्षीद्राजा विरूढको भगवन्तं शाखोटकवृक्षं निश्राय निषण्णं दृष्ट्वा च पुन येन भगवांस्तेन हस्तिनागं प्रेरयति । अथ खलु राजा विरूढको यावदेव यानस्य भूमिस्तावद्यानेन गत्वा हस्तिनागात्प्रत्यारुह्य भगवतः पादौ शिरसा वन्दित्वा भगवन्तमेतदवोचत् । सन्ति भगवन्नन्ये वृक्षाः । अश्वत्थन्यग्रोधसप्तपर्णाद्याः शोभनाश्च शीतलाश्च तानुत्सृज्य इतरस्य प्रत्यवरस्य विरलपत्रस्य शाखोटकवृक्षस्याधस्तान्निषण्णः । भगवानाह । शीतला महाराज ज्ञातीनां च्छाया । अथ खलु राज्ञो विरूढकस्य एतदभवत् । अनुकम्पति भगवान् ज्ञातीनिति । ततो येव प्रतिनिवर्तयित्वा श्रावस्तीन्नगरमनुप्रविष्टः । भगवान् दानि श्रावस्तीयं यथाभिरम्यं विहरित्वा कपिलवस्तुं नगरं प्रक्रामि । यावच्छाक्यान् विनयति । विनयित्वा तत्रैव विहरति न्यग्रोधारामे । विरूढकीयं सूत्रं विस्तरेण कर्तव्यम् । १५३. एषा एवार्थोत्पत्तिः । भगवान् श्रावस्तीयं विहरति । राजा दानि विरूढको शाकीयान् वधित्वा शाकियकन्यायो आदाय श्रावस्तीं प्रतिगतः तद्यथा । चारू च नाम । उपचारू च नाम । सुमना च नाम । मनोहरा । सालवती । अभया च नाम । सो दानि सार्धं क्रीडन्तो रमन्तो परिचारयन्तः अभिक्ष्णं वदति । निहता मे ग्रामकण्टकाः । शाकियजनपदकण्टकाः । निहता मे प्रत्यर्थिकाः प्रत्यमित्राः । यदिदं शाकियाः शाक्यपुत्रा इति । अथ खल्वभया राजधीता राजानं विरूढकमेतदवोचत् । मा देव एवं वद निहता मे ग्रामकण्टकाः शाकिया इति । सन्ति देव शाकियाः क्षान्तिसम्पन्नाः । सौरत्यसम्पन्नाः । एवं शीलश्रुतत्यागसमाधिप्रज्ञासम्पन्नाः । एवं बुद्धं शरणं गताः । धर्मं शरणं गताः । बुद्धे अवेत्य प्रसादेन समन्वागताः । धर्मे संघे अवेत्य प्रसादेन समन्वागताः । प्राणातिपातात्प्रतिविरताः । यावदार्यकान्तेः शीलेः समन्वागताः । सन्ति देव शाकियाः श्रोतआपन्नाः सकृदागामिनो नागामिनस्ते देवेन अदूषका अनपराधिनो जीविताद्व्यवरोपिताः । तत्ते दुःखं वेदनीयं भविष्यति । बहु ते पापकं कर्म कृतम् । बहु ते अपुण्यं प्रसूतम् । १५४. अथ राजा विरूढकः कुपितः यावत्कारणान्तिकं महामात्रमामन्त्रयति । त्वं हि भणे पुरुष मम भोगेहि जाययसि । मम सुखेन जीवसि । कन्यायो शाकियायिनीयो मम प्रत्यर्थिकायो प्रत्रसितायो । मम जीवितं नेच्छन्ति । मम सुखं नाभिनन्दन्ति । सोऽहमन्तःपुरमध्यगतो पि एतासामविश्वस्तः । शयनगतो पि शय्यां कल्पयन्तो पि । तेन हि भणे महामात्र इमायो शाकियायिनीयो दण्डहतायो कृत्वा कर्णनासाहस्तपादच्छिन्नायो कृत्वा तप्तेन तेलेन कायं परिषिञ्चित्वा जीवन्तिकायो एवं परिखायां च्छोरया । अथ कारणान्तिकस्य एतदभवत् । यन् दानि अहं शाकियायिनीनामासि दर्शनं पि न लभमानो तायो एतायो मम हस्तगतायो यन्नूनमहमेताहि सह क्रीडेयं रमेयं परिचारयेयम् । सो दानि ताहि सार्धं स्वके गृहे प्रविचारयति । अश्रौषीद्राजा विरूढको कारणान्तिकस्ताहि सार्धं क्रीडति यावन्न च पि यथोक्तं करोतीति । अथ खलु विरूढकः कारणान्तिकमामन्त्रयति । गच्छ तासां शाकियायिनीनां यथोक्तं कुरु । मा ते जीविताद्व्यवरोपयिष्यामीति । अथ कारणान्तिकः यथोक्तमकार्षीत् । यावत्परिखायां जीवन्तीयो एव छोरितायो । तायो तत्र दुःखं तीव्रां कटुकां वेदनां वेदयन्ति । अन्वेन्ति क्रन्दन्ति एवन् तानेन्ति त्रातेन्ति । भगिनीज्ञातिकाप्रियं शाकिय मण्डलम् । रमणीया भवति तो जन्म भूमिः । हा रमणीयो जम्बुद्वीपः । सूक्तवादी भगवानिति परिदेवन्ति । तहि दानि महाजनकायो सन्निपतितो । अथ खलु भगवान् कालस्यैव निवासयित्वा पात्रचीवरमादाय श्रावस्तीन्नगरीं पिण्डाय प्रविष्टः । यावदायुष्मन्तमानन्दमामन्त्रयति । कस्यैषा गौतमी माता । महतो जनकायस्य निर्घोषो यावद्राज्ञा विरूढकेन षण्णां शाकियायिनीनां यावत्तस्य कृपणेन यावन् सूक्तवादी भगवानिति क्रन्दन्ति । साधु भगवानर्थकामो ज्ञातीनामनुकम्प्यार्थमुपसंक्रामतु । अप्येव नाम भगवतः सम्मुखाद्धर्मं श्रुणित्वा अपि स्वर्गोपिगा भवेंसुः । १५५. अथ खलु भगवां शक्रं देवानामिन्द्रं समन्वाहरति स्म । अथ खलु शक्रो देवानामिन्द्रः शचिमामन्त्रयति । एष शचि भगवान् ज्ञातीनामुपसंक्रमति अनुकम्पार्थम् । गच्छ शचि तायो शाकियायिनीयो परिखाया उद्धरित्वा संप्रजानं निषीदापेहि वस्त्रेणाच्छादेहि भगवानुपसंक्रमिष्यति । अथ खलु शची तायो शाकियायिनीयो परिखाया उद्धरित्वा संप्रजानन्निषीदापयित्वा वस्त्रेणाच्छादिता । अथ खलु भगवान् यावत्तायोमैन्द्र्या स्फरित्वा यत्किञ्चित्कायिकं चैतसिकं च दुःखवेदनागतं सर्वं तं प्रतिप्रस्रंभेति । भिक्षूनामन्त्रयति । तृप्यतां भिक्षवो भगवतीषु को भिक्षवो भवमभिनन्देय को उपादियेय अन्यत्र बालपृथग्जनानामन्धानामचक्षुकानां पश्यथ । भिक्षवः एतायो शाकियायिनीयो मनुष्यकेहि पञ्चहि कामगुणेहि क्रीडित्वा रमित्वा प्रविचारयित्वा एतर्हि ज्ञातिक्षये च भोगक्षये च कर्मस्य च सम्मुखीभावाद्दुःखां वेदनां वेदयन्ति । अथ भगवांस्तायो शाकियायिनीयो आमन्त्रयति । सचेन्मन्यथ भगिनीयो यदिदं युष्माकं हस्तो च पादो च छिन्नो अपि तु ते वेदयन्ति वा न वा । नो हीदं भगवन् । अस्ति च तत्प्रत्यया दुःखा वेदना । एवं ह्येतद्भगवन् सचेन्मन्यथ भगिनीयो चक्षुः स्वभावं वेदयति । यावदस्ति च तत्प्रत्यया दुःखा वेदना । एवं ह्येतद्भगवन् । एवमशिष्टान्यायतनानि । एवं स्कन्धधातवः । एवं केशा रोमा नखा । एवं सर्वा अशुभपाली । एवं च पुनर्दुःखा वेदना पराधीना परप्रतिबद्धा प्रत्ययाधीना प्रत्ययप्रतिबद्धा इति विदित्वा द्वा त्रिंशतीहि आकारेहि प्रकृति भिन्नः । संस्कारपुञ्जः परिज्ञेयः । अतश्च भगिनीयो आर्य श्रावक इमेसां पञ्चोपादानस्कन्धानां नात्मानं समनुपश्यति । आत्मीयान् यावत्प्रत्यात्ममेव परिनिर्वाति । इदमवोचत्भगवान् । यावत्तायो पट शाकियायिनीयो धीतामनागामितां साक्षात्कुर्युः । पञ्चानाञ्च भिक्षुशतानमनुपादायास्रवेभ्यश्चित्तानि विमुच्येयुः । अनेकेषाञ्च देवताशतसहस्राणां धर्मेषु धर्मचक्षु विशुद्धम् । १५६. अथायुष्मान् वागीशस्तस्यामेव पर्षदि यावद्भगवानाह । प्रतिभातु ते वागीश यावदध्याभाषि । प्रतीयं शत्कारगतं हि शून्यं यत्र विहन्यते विपरीतग्राही । अहं ममेति तथा हि मन्यमानो ते वर्धयन्ति कटसीं पुनः पुनः ॥ [१] ॥ शून्यमसारं कञ्च कायं विदित्वा निरोधक्षयधर्मकं तथा । संभूता विभूता च भवगतीती को भवगतीषु रमेत युक्तयोगी ॥ [२] ॥ इदञ्च दुःखं वेदयित्वा तस्य मूलं दृष्ट्वा च उत्पद्यति । दुःखमूले कायचित्तञ्च एतमनुश्रोतगामिनं मुक्तञ्च चित्तं विहनेन्ति मारम् ॥ [३] ॥ अथ खल्वायुष्मानानन्दो भगवन्तमेतदवोचत् । किं भगवन्निमाहि शाकियायिनीहि पुरा पापं कर्म कृतं येन एतायो एवं दुःखां वेदनां वेदयन्ति । भगवानाह । भूतपूर्वमानन्द एतायो शाकियायिनीयो इहैव श्रावस्त्यां षड्गणिकायो अभूवन् । इहैव श्रावस्तीयं कालो नाम प्रत्येकभुद्धो अभूषि । सो दानि पिण्डाय चरन्तो ताहि गणिकाहि उक्तो । अयं दानि श्रमणो स्वयं कामान् परिभुञ्जति । कामानां चावर्णं भाषति । ताहि हास्याभिप्रायाहि विहेठनाभिप्रायाहि अन्येहि दुरुक्तेहि वचनपथेहि ओभर्त्सितो अङ्गारमल्लकेहि चावकीर्णः । सो दानि आनन्द प्रत्येकबुद्धो दुःखाय वेदनाय स्पृष्टः खरां कटुकां वेदनां वेदयन्तो कायेन च जीवितेन च अर्दियन्तो तत्रैव विहाय समभ्युद्गम्य अनुपादाय परिनिवृतः । पूर्वाधिष्ठितेन च स्वकेन तेजोधातुना तस्य शरीरं व्यापिनम् । तायो दानि गणिकायो भीतयो पापकमस्माभिः कर्मोपचितम् । बहु अपुण्यं प्रसूतम् । ईदृशो महाभागो ऋषिर्विहेठितः । तदस्माकं दुःखं वेदनीयं भविष्यति । ताहि दानि विप्रतिसारं जानाहि । तस्य शरीरं परिगृह्य स्तूपमकरेंसुः । छत्रध्वजपताकाहि च पूजयेंसुः । पुष्पधूपगन्धेहि च पूजयेंसुः । एवं च प्रणिधेंसुः । अनागतमध्वानं वयमेतादृशं शास्तारमारागयेमः । येषां पाञ्चधर्माणामयं लाभी । तान् वयमपि लप्स्याम इति । तायो एतायो तेन पापेन कर्मेण कृतेन यावन्नरकेषूपपन्नायो एतायो तहिं बहूनि वर्षसहस्राणि दुःखमनुभवेंसुः । एताहि आनन्द बालपृथग्जनाहि हसन्तीहि पापकर्म कृतम् । यस्य अश्रुमुखा पि पापकं प्रतिसम्वेदयन्ति । यमेताहि सा पूजा कृता विप्रतिसारश्चोत्पादितः । यं च प्रणिधानमनागतमध्वानमेतादृशं शस्तारमारागयेमः । येषान् धर्माणामयं लाभी । तान् वयमपि लप्स्याम इति । यावत्पञ्चानामवरभागीयानां संयोजनानां यावत्तत्र परिनिर्वायिन्यः । को नामायं भगवन् धर्मपर्यायः । कथं चैनां धारयामि । भगवानाह । तस्मात्त्वमानन्द इमं धर्मपर्यायं कारणवैपुल्यन्नाम धारय इदमवोचत् । १५७. भिक्षुणीयो दानि कपिलवस्तुनगरे रुद्धे विरूढकेन । काश्चिदन्तो नगरे निलीनाः काश्चिद्बहिर्निर्गताः । भिक्षुणीयो भिक्षुणीहि विप्रवुस्तायो । तासां कौर्कृत्यम् । यावद्भगवानाह । तेन हि अनापत्तिः अकामिकाये नगररुद्धाये । भगवां श्रावस्तीयं विहरति । भिक्षुणीयो अध्वानं गच्छन्ति । तत्र दानि भिक्षुणी जरादुर्बला । व्याधिदुर्बला । सार्थातो परिहीणा ति । भिक्षुणीयो अतिक्रान्तायो । तायो दानि कौकृत्यम् । कौकृत्येन महाप्रजापतीये गौतमीये आरोचयेंसुः । महप्रजापती गौतमी भगवन्तमारोचयति । भगवानाह । तेन हि अनापत्तिः । अकामिकाय । अथ खलु भगवान्महाप्रजापतीं गौतमीमामन्त्रयति । सन्निपातय गौतमि भिक्षुणीयो यावत्पर्यवदातानि भविष्यन्ति । या पुन भिक्षुणी भिक्षुणीय विना एकरात्रं पि विप्रवसेय अन्यत्रसमयेन । तत्रायं समयो ग्लाना भिक्षुणी भवति । नगरोपरोधे वा रुद्धा भवति । अयमत्र समयो । या पुन भिक्षुणीति उपसंपन्ना । भिक्षुणीभिर्विना ति अद्वितीयम् । एकं रात्रं पि विप्रवसेया ति अरुणमुदगमे च अन्यत्रसमये । तत्रायं समयो अकामिका भिक्षुणी भवति । जराबुर्बला वा व्याधिदुर्बला वा नगरोपरोधो वा । एतं ताव नगरं परचक्रेणोवरुद्धं भवति । किञ्चापि भिक्षुणी अन्तो नगरतो बहिर्धा निर्धावति बहिर्धातो वा अन्तो नगरं प्रविशति । किञ्चापि प्रविशति अनापत्तिः । सा एषा भिक्षुणी ससूर्ये विना भूता भिक्षुणीहि विप्रवुस्ता अरुणमुद्घातेति संघातिशेषो । अस्तमिते सूर्ये विना भूता अरुणमुद्घातयति थूल्ऽ-अच्चयम् । भिक्षुणीविहारे अन्यत्र वा सर्वाहि अन्तो हस्तपाशस्य प्रतिक्रमितव्यम् । त्रिक्खत्तो रात्रीय अन्यमन्यसमवधानं दातव्यम् । हस्तेन परामृषितव्यम् । न खलु सकृदेव । अथ खलु यामे यामे पुरिमे यामे समवधानं न देति विनयातिक्रममासादयति । मध्यमे यामे न देति विनयातिक्रममासादयति । पश्चिमे यामे न देति विनयातिक्रममासादयति । सर्वत्र ददाति अनापत्तिः । अथ दानि द्विभूमकं भवति एका हेष्ठिमे प्रतिक्रमति अपरा उपरिमे । त्रिक्खत्तो रात्रौ अवतरितव्यम् । तेन भगवानाह । या पुनभिक्षुणी भिक्षुणीभि विना एकरात्रं पि विप्रवसिय अन्यत्रसमये । तत्रायं समयो ग्लाना भिक्षुणी भवति । नगरो परोधे वा रुद्धा भवति अयमत्र समयो । अयं पि धर्मो प्रथमापत्तिको संघातिशेषो । संघातिशेषधर्म ७ अननुज्ञाता १५८. भगवान् श्रावस्त्यां विहरति । राजगृहे दानि अपरस्य अभटगणस्य सुदिन्निका नाम भार्या तरुणी । प्रासादिका दर्शनीया । सो दानि कालगतो । सा स्त्री पुरुषेणार्थिका । स देवरो संकलेतुकामो । सा स्त्री स्त्रिणामाह । आर्यमिश्रिका अहं पुरुषेण अनर्थिका । अयं च देवरो मम संकलेतुकामो । अपरा स्त्री आह । इच्छसि मुच्चितुम् । सा दानाह । इच्छामि । सा आह । गच्छ श्रावस्तीम् । तंहि दानि काली नाम भिक्षुणी प्रतिवसति । सा ते प्रव्राजयिष्यति । सा दानि निर्धाविता । श्रावस्तीं गता । सा भिक्षुणीविहारं गत्वा पृच्छति । कतममार्याये कालीये परिवेणम् । अपराहि दर्षितः दर्शितः एषो ति । सा तामुपसंक्रमित्वा आह । इच्छामि आर्ये प्रव्रजितुम् । सा ताय प्रव्रजिता उपसंपादिता । सो दानि मनुष्यो मार्गति संकलेष्यामीति । न लभति । सो दानि शृणोति । श्रावस्तीयं काली नाम श्रामणिका । ताये प्रव्राजितेति । सो दानि पुरुषो अनुपूर्वेण श्रावस्तीं गत्वा पृच्छति । कतमोऽत्र भिक्षुणीविहारः । अपराहि दर्शित एषो ति । सो तहिं प्रविशेतिवा । पृच्छति यावादाह कतमा आर्या कालीति सा दानाह । अहम् । सो दानाह । प्राप्तकालन्नाम आर्याये मम भार्यामनोत्सृष्टां प्रव्राजयितुम् । सा दानाह । कुतः पुनस्त्वं दीर्घायुः । सो दानाह । राजगृहातो । सा दानाह । चण्डायुषो नस्त्वं नगरं प्रविष्टः । सान्तेवासिनी नामाह । आनेथ संघाटिं यावदिमं चण्डायुं धरे चाटिकं बन्धापयामि । सो दानि पुरुषो भीतः पश्यति । यावदियं श्रमणिका धृष्टा च मुखरा च बन्धापयेय इति । सो मनुष्यो ओज्झायति च ओसक्कति च यावद्बहिर्गत्वा भिक्षुणीनां महाजनकायस्यारोचयति । पश्यथ भणे श्रमणिका भार्यां च मे अनोत्सृष्टां प्रव्राजयति मम च भन्धनेन सन्तर्जेति । एतं प्रकरणं भिक्षुणीयो महाप्रजापतीये गौतमीये आरोचयन्ति । महाप्रजापती गौतमी भगवतो आरोचयति । भगवानाह । शब्दापयथ कालिम् । सा दानि शब्दापिता । एतदेव सर्वं पृच्छीयति । यावदां भगवन् । भगवानाह । दुष्कृतं ते कालि । एवन्नाम त्वमनुज्ञापकेहि अननुज्ञातामुपस्थापयसि । तेन हि न क्षमति अनुज्ञापकेहि अननुज्ञातामुपस्थापयितुम् । भिक्षुणीयो आहंसुः । पश्य भगवन् कथमियं कालीय प्रत्युत्पन्नप्रतिभानताय मोचिता । स च पुरुषो भीतः प्रपलानः । भगवानाह । न चेषा भिक्षुणीयो कालीय एतर्ह्येव प्रत्युत्पन्नप्रतिभानताय मोचिता । एष च पुरुषो भीतः प्रपलानः । अन्यदाप्येषा एताय प्रत्युत्पन्नप्रतिभानताय मोचिता । एष च पुरुषो भीतः प्रपलानः । भूतपूर्वं भिक्षुणीयो इयमेव नगरी वाराणसी । इयं स्त्री रात्रौ दारिकां स्कन्धेनादाय गच्छति । सिंहो च पुरतः प्रत्युपस्थितो । सा दानि दारिका दृष्ट्वा रुदिता । ताय स्त्रियाय सा दारिका चपेटाय आहता । एको ते सिंहो खादितो एतं पि खादितुकामासि । सिंहः पश्यति । यादृशी एषा स्त्री ध्वाङ्क्षा च मुखरा च खादत्य् । एषा ममायीति । भीतः प्रपलायति । पुरतो मर्कटः आगत्वा सिंहं पृच्छति । मृगराजपुत्र कहिं गमिष्यसि । सिंहो जल्पति । भयं मे उपतन्नम् । वानरः पृच्छति । कीदृशं भयम् । सिंहो विस्तरेणाचिक्षति । सो जल्पति । नैवं वक्तव्यम् । सिंहस्त्वं मृगराज । कस्त्वां प्रहरिष्यति । आगच्छाहि निवर्ताहि । स नेच्छति । सिंहो वानरेण केशेहि गृहीतः । आगच्छाहीति । सा दारिका दृष्ट्वा प्ररुदिता । सा स्त्री जल्पति मा रोदाहि दारिके । एषो तव मातुः केनानीतो केशेहि गृहीत्वा । इदानिं यन्नमिच्छसि तं से खादाहीति । सिंहः पश्यति । मा हैवं संकेतकृतं भविष्यति । एवमेवानीयानीय देति । एषापि खादति । यत्तावदहमेकं वारं प्रपलानः किं भूयो निवर्तितः । सो दानि तस्य मर्कटस्य अवधुनित्वा प्रपलानः । देवता गाथां भाषते । प्रत्युत्पन्ना इयं बुद्धिर् नेयं चिरसमुत्थिता । पश्य सिंहभयं जातं प्रतिभानान्निवर्तितम् ॥ भगवानाह । स्याद्भिक्षुणीयो युष्माकमेवमस्यादन्या सा स्त्री अभूषि । नैतदेवं द्रष्टव्यम् । इयमेव सा काली स्त्री अभूषि । स्याद्भिक्षुणीयो युष्माकमेवमस्यादन्या सा दारिका ति । नैतदेवं द्रष्टव्यम् । इयमेव सा सुदिन्निका दारिका अभूषि । स्याद्भिक्षुणीयो युष्माकमेवमस्यादन्यो सो सिंहो अभूषीति । नैतदेवं द्रष्टव्यम् । एषो सो मनुष्यो सिंहो अभूषि । तदाप्येषा एताय प्रत्युत्पन्नप्रतिभानताय मोचिता । एष च पुरुषो भीतः प्रपलानः । १५९. अथ खलु भगवान्महाप्रजापतीं गौतमीमामन्त्रयति । सन्निपातय गौतमि भिक्षुणीयो यावत्पर्यवदातानि भविष्यन्ति । या पुन भिक्षुणी अनुज्ञापकेहि अननुज्ञातामुपस्थापयेदयं पि धर्मो प्रथमापत्तिको संघातिशेषो । या पुन भिक्षुणीति उपसंपन्ना । अनुज्ञापकेहि अननुज्ञातामिति अवूढाय दारिकाय मातापितरौ अनुज्ञापका । वूढाय श्वश्रुश्वशुरौ पतिदेवरौ । उपस्थापयेदिति उपसंपादयेत् । सा एषा भिक्षुणी अनुज्ञापकेहि अननुज्ञातां प्रव्राजयति विनयातिक्रममासाद्यति । शिक्षां देति थूल्ऽ-अच्चयमासादयति । उपसंपादेति संघातिशेषो एषा काचित्प्रव्रज्यापेक्षा आगच्छति प्रष्टव्या । अनुज्ञातासि अनुज्ञापकेहि । यदि तावदाह नहीति । अवूढा वक्तव्या । मातापितरौ अनुजानापयित्वा आगच्छाहीति । वूढा वक्तव्या पतिदेवरौ श्वश्रुश्वशुरावनुजानापयित्वा आगच्छाहीति । तेन भगवानाह । या पुन भिक्षुणी अनुज्ञापकेहि अननुज्ञातामुपस्थापयेदयं पि धर्मो प्रथमापत्तिको संघातिशेषो । संघातिशेषधर्म ८ वध्या १६०. भगवान् श्रावस्तीयं विहरति । मल्ला नामा मल्लकल्यो नाम निगमो । तंहि दानि अपरस्य मल्लस्य भार्या परपुरुषेण सार्धमभिचरति । सो दानाह । असुके विरम । अतो दोषो ।ऽतो मा ते अहमेवञ्च एवञ्च असत्करिष्यम् । सा दानि दुष्टा न विरमति । मरिष्याम्यहम् । न पुनरहमतो दोषतो विरमिष्यम् । तेन सा सहोढं गृहीत्वा आसने उपनामिता । इच्छेयमहं भवन्तो इमां स्वधर्मेण लम्भियमानाम् । कः पुनस्तेषां स्वधर्मः मल्लानाम् । या स्त्री अन्येन पुरुषेण सार्धमभिचरति । सा सप्तदिवसानि दानविसर्गं कारपेत्वा उभयतो ज्ञातिसंघस्य पुरतो गोपाटिकाय पाटीयति । आसनिका आहंसुः । दिन्ना भवतु स्वधर्मे लभेहि । तेन दानि पुरुषेण गृहं नयित्वा उक्ता । इतिकितिकाय धीते दद यत्ते अस्ति च नास्ति च । सप्त दिवसानि अहं ते उभयतो ज्ञातिसंघस्य पुरतो गोपाटिकाय पाटयिष्यम् । सा दानि उभयतो ज्ञातिसंघं सन्निपातेत्वा अन्नं पानं खाद्यं भोज्यं समुदानीय रोदति । स्त्रियो आहंसुः । किं रुदितेन त्वयैव तथा चेष्टितं येन त्वमेवं दुःखमनुभविष्यसि । सा दानाह । नाहं करोमि । मरिष्यन् ति । अपि तु उभयतो ज्ञातिसंघस्य पुरतो गोपाटिकाय पाटयिष्यन् ति । एवं रोदामि । अपरा आह । इच्छसि त्वं मुच्चितुम् । सा दानाह । इच्छामि । आह । गच्छ श्रावस्तीम् । तहिं काली नाम भिक्षुणी । सा ते प्रव्राजयिष्यति । सा तस्या वचनं श्रुत्वा जनस्य खाद्यन्तस्य पिबन्तस्य प्रमत्तस्य यथा वा तथा वा निर्धावित्वा अनुपूर्वेण पृच्छपृच्छिकाय श्रावस्तीमागता । पृच्छति । कतमोऽत्र भिक्षुणीविहारो । अपराहि दर्शितः । सा दानि प्रविशित्वा पृच्छति । कतमा आर्यकाली । अपराहि आख्याता । एषा ति । सा तामुपसंक्रम्य आह । इच्छाम्यार्याय प्रव्राजीयमानाम् । सा दानाह । अनुज्ञातासि अनुज्ञापकेहि । सा दानाह । के पुन आर्ये अनुज्ञापकाः । आह । अवूढाये दारिकाये मातापितरौ । वूढाय श्वश्रुश्वशुरौ पतिदेवराः । आह । तदा एषाहमनुज्ञाता । यदाहं गोपाटिकाय निसृष्टा सुनिसृष्टा । आह । पुत्रिणि या त्वं निसृष्टा सुनिसृष्टा या त्वं गोपाटिकायां निसृष्टा । सा ताय प्रव्राजिता उपसंपादिता । सो मनुष्यो मार्गयति । गोपाटिकाय पाटिष्यामीति न लभसि । सो दानि शृणोति । श्रावस्तीयं काली नाम भिक्षुणी । ताय प्रव्राजिता । श्रावस्तीमागत्वा पृच्छति । कतमोऽत्र भिक्षुणीविहारो । अपरेहि आख्यातो एषो ति यावत् । स तहिं प्रविशित्वा । आर्या काली नाम । आह । किं कर्तव्यम् । प्राप्तन्नामार्याय मम भार्यामनोत्सृष्टां प्रव्राजयितुम् । सा दानाह । कुतस्त्वम् । आह । आमलककल्यतो । आह । चण्डायु चोरस्त्वमोचोरकस्त्वमोचरितुकामो त्वं श्रावस्तीयं प्रविष्टः । न त्वं जानासि नित्यविरुद्धाः श्रावस्तेयाः आमलककल्याश्च । सा दानि अन्तेवासिनीं शब्दापयति । आनेहि ताव समघाटिं यावदिमं चण्डायुं धरे चाटिकं राजकुले भन्धापेमि । सो मनुष्यो पश्यति । यादृशी इयं श्रमणिका धृष्टा च मुखरा च प्रगल्भा च । भन्धापेयंसि । एष सो दानि पुरुषो ओज्झायति च ओसक्कति च । सो दानि पुरुषो भिक्षुणी नां महाजनकायस्य च पुरो ओज्झायति । पश्यथ भणे श्रमणिका भार्याञ्च मे अनोत्सृष्टां प्रव्राजेति । मम च बन्धनेन तर्जयति । एतं प्रकरणं भिक्षुणीयो महाप्रजापतीये गौतमीये आरोचयन्ति । यावद्भगवानाह । दुष्कृतं ते कालि । एवन्नाम त्वं जानन्ती वध्यां विदितां ज्ञातिदण्डप्राप्तामुपस्थापयसि । तेन हि न क्षमति जानन्ती वध्यां विदितां ज्ञातिदण्डप्राप्तामुपस्थापयितुम् । १६१. एषैवार्थोत्पत्तिः । शाक्यानां शाक्यावानो नाम निगमः । एवमेव विस्तरेण कर्तव्यम् । यावदन्या ताव मया ईदृशी येव प्रव्राजिता । तत्र मया दण्डकर्म लद्भम् । गच्छ नोत्सहामि प्रव्राजयितुम् । सा दानि अपरापरासां भिक्षुणीनामल्लीना न काचित्प्रव्राजेति । यावत्तीर्थिकेहि प्रव्राजिता । सो मनुष्यो मार्गति । गोपाटिकाय पाटिष्यन् ति । न लभति । तेन श्रुतं श्रावस्त्यां तीर्थिकेहि प्रव्राजिता । सो दानाह । इदानीं सा इतिकितिकाय धीता सुमहता दृष्टधार्मिकेन च वधेन । यमुपासकधीता तिर्थिकेहि प्रव्राजिता । सो पुनर्न गवेषति न पृच्छति । सा पि दानि तेन तीर्थिकभावेन तीर्थिकभावेनार्तीयति । ते दानि तीर्थिका दुराख्याता अधर्माणाः । तण्डुलोदकञ्च पिबन्ति । स्थालीधोवनञ्च पिबन्ति । नग्ना अह्रीका अनोत्रापिणो इस्त्रिकामा पि दूषेन्ति । सा स्त्री भिक्षुणीनामाह । मोह भागिनी अस्माकं प्रव्रज्या गर्तस्मि पतिता । निरयस्मि पतिता । प्रपातस्मि पतिता । उत्तरयाथ माम् । अनुकम्पयथ माम् । उद्धरथ माम् । अनुकम्पयथ माम् । प्रव्राजेथ माम् । ता दानि नेच्छन्ति । सा दानि महाप्रजापतीये गौतमीये अल्लीना । महाप्रजापती गौतमी च भगवतो आरोचेति । भगवानाह । लभ्या । यस्तत्रावर्णः स तीर्थिकेषु गतः । अथ खलु भगवान्महाप्रजापतीं गौतमीमामन्त्रयति । सन्निपातय गौतमि तावत्पर्यवदातानि भविष्यन्ति । या पुन भिक्षुणी जानन्ती वध्यां विदितां ज्ञातिदण्डप्राप्तामुपस्थापयेदन्यत्र समये । तत्रायं समयः अन्यतीर्थिकपूर्वा भवति । अयं पि धर्मो प्रथमापत्तिको संघातिशेषो । १६२. या पुन भिक्षुणीति उपसम्पन्ना । जानन्तीति स्वयं वा जानेय परतो वा श्रुणेय । वध्यामिति घात्याम् । विदितान् ति उभयतो ज्ञातिसंघस्य मातृपक्षस्य पितृपक्षस्य च । ज्ञाति दण्डप्राप्तां ति । ज्ञातयो नाम क्षत्रियाङ्ब्राह्मणाः वैश्याः शूद्राः अम्बष्ठवैदेहाः भटनाः कुङ्कुमालाः । यावत्केषाञ्चित्गोपाटिकाय पाटीयति । केषाञ्चित्कीटेन वा कालिञ्जेन वा वेठयित्वा दह्यति । केषाञ्चित्वालुकाघटकं कण्ठे बध्वा उदके प्रवेशियति । केषाञ्चिच्छीर्षं प्रधमीयति । केषाञ्चित्कर्णनासा छिद्यन्ति । केषाञ्चित्तप्तं फालं व्रणमुखे अनुश्रोतं प्रक्षिपीयति । मल्लानां शाक्यानां च गोपाटिकाय पाटीयति । क्षत्रियाणां पलालेन शरेहि च वेठयित्वा दह्यति । अभीराणां वालुकाय घटं कण्ठे भध्वा उदके प्रक्षिपति । शकयवनानां शीर्षं प्रधमीयति । कर्णनासा वा छिद्यन्ति । तप्तं वा फालमनुश्रोते व्रणमुखे प्रक्षिपीयन्ति । उपस्थापयेदिति प्रव्राजयेदुपसम्पादयेद् । अन्यत्र समये ति प्रत्युद्धृतं भगवता पदमनापत्तिः । अन्यत्र समये तत्रायं समयः । अन्यतीर्थिकपूर्वा भवति । अन्यतीर्थिका नाम । चरकपरिव्राजकनिर्ग्रन्थाजीवकत्रेदण्डिकाः माकन्दिकाः गुदुगुदुकाः गौतमधर्मचिन्तकाः वृद्धश्रावकः दकतृतीयकाः यावत्प्रज्ञप्तिः । सा एषा भिक्षुणी जानन्ती वध्यां विदितां ज्ञाति दण्डप्राप्तां प्रव्रजयति विनयातिक्रममासादयति । शिक्षां देति थूल्ऽ-अच्चयमासादयति । उपसम्पादेति संघातिशेषा । तेन भगवानाह । या पुन भिक्षुणी जानन्ती वध्यां विदितां ज्ञातिदण्डप्राप्तामुपस्थापयेत् । अन्यत्र समये । तत्रायं समयः । अन्यतीर्थिकपूर्वा भवति । अयं पि धर्मो प्रथमापत्तिको । संघातिशेषधर्म ९ एका नदिन् तरेय १६३ भगवान् श्रावस्तीयं विहरति । अथ संबहुला स्त्रियो नदीयमजिरावतीयं स्नायन्ति । स्थूलनन्दा भिक्षुणी तत्रैव स्थाय गता । सा तावदेकान्ते चीवरकाणि निक्षिप्य बाहुभ्यां प्रतीर्णा । ता दानि स्त्रियो आहंसुः । एषा आर्या स्थूलनन्दा आगच्छतीति । सा कयधानके मुहूर्तं विश्रमित्वा पुनरेवागता । स्त्रियो आहंसुः । एषा आर्या स्थूलनन्दा आगता । अतिचापलमार्याय कृतम् । कथं त्वं बाहुभ्यां तरसि । ता दानि स्त्रियो ओज्झायिताः । एतं प्रकरणं भिक्षुणीहि श्रुतम् । भिक्षुणीयो महाप्रजापतीये गौतमीये आरोचेन्ति । महाप्रजापती गौतमि भगवतो आरोचेति यावद्भगवानाह । दुष्कृतं ते नन्दे । एवं च नाम त्वमेकाकिनी नदीं तरसि । तेन हि न क्षमति भिक्षुणीय विना नदीन् तरितुम् । अथ खलु भगवान्महाप्रजापतीं गौतमीमामन्त्रयति । सन्निपातय गौतमि भिक्षुणीयो यावत्पर्यवदातानि भविष्यन्ति । या पुन भिक्षुणी भिक्षुणीय विना नदीन् तरे अयं पि धर्मो प्रथमापत्तिको । या पुन भिक्षुणीति उपसम्पन्ना । भिक्षुणीय विना ति अद्वितीया । नदीति या बहिः सीमातो प्रवहन्ती बहिः सीमामुपेति । तरेया ति अपरात्पारं गच्छेय । अयं पि धर्मो प्रथमापत्तिको । यावता च एतायो भिक्षुणीयो नदीन् तरन्ति अन्तो हस्तपाशे तरितव्यम् । परं हस्ते पाशे तरन्ति थूल्ऽ-अच्चयम् । दूरेण दूरं भवन्ति संघातिशेषो । अथवैका मध्ये तिष्ठति अपरा तरन्ति थूल्ऽ-अच्चयम् । यावदेवमपरापरन्ति सर्वाः थूल्ऽ-अच्चयमासादयन्ति । एतायो भिक्षुणीयो नद्यां स्नायन्ति अन्ते हस्तपाशेन स्नातव्यम् । परं हस्तपाशा स्नायन्ति विनयातिक्रममासादयन्ति । तेन भगवानाह । या पुन भिक्षुणी भिक्षुणीय विना नदीन् तरेय । अयं पि धर्मो प्रथमापत्तिको संघातिशेषो ॥ संघातिशेषधर्म १० उत्क्षिप्तका १६४. भगवान् श्रावस्तीयं विहरति । तहिं काली नाम भिक्षुणी ग्रामचारिकां गता । तस्या गताय अन्तेवासिनीये भिक्षुणीसंघेन उत्क्षेपनीयकर्म कृतम् । सा ग्रामचारिकां चरित्वा आगता । सा दानाह । आर्ये संघेन उत्क्षेपनीयं कर्म कृतम् । नैवमेव धर्मसंभोगेन संभुञ्जन्ति नामिषसंभोगेन । सा दानाह । तूष्णीका भव यावत्भिक्षुणीयो सन्निपातयन्ति । सा दानाह । सन्निपातेथ आर्यमिश्रिकायो । सा दानि अन्यदा चान्यदा च यदा ग्रामचारिकां चरित्वा आगता भवति । ततो भिक्षुणीनां वैभङ्गिकं ददाति । तायो भिक्षुणीयो सन्निपतथेत्युक्ता शीघ्रं शीघ्रं सन्निपतिताः किञ्चिद्वैभङ्गिकं दास्यतीति । सा दानाह । शृणोतु मे आर्यमिश्रिका संघो । इयमित्थन्नामा भिक्षुणी । तस्याः संघेन उत्केषेपनीयं कर्म कृतम् । यदि संघस्य प्राप्तकालं संघो इत्थन्नामां भिक्षुणीं प्रत्योसरेय । ओवयिका एषा ज्ञप्तिः । शृणोतु मे आर्यमिश्रिका संघो । इयमित्थन्नामा भिक्षुणी । तस्याः संघेन उत्क्षेपनीयं कर्म कृतम् । संघो तामित्थन्नामां भिक्षुणीं प्रत्योसारयति । यस्या आर्यमिश्रिकानां क्षमति इत्थन्नामां भिक्षुणीं प्रत्योसार्यमाणां संघेन सा तूष्णीमस्य यस्या न क्षमति सा भाषेतु । इयं प्रथमा कर्मवाचना । एवं त्रैवाचिकं प्रत्योसारिता आर्यमिश्रिका इयमित्थन्नामा भिक्षुणी । उत्क्षेपनीयं कर्म कृतं संघेन । क्षमति तं संघस्य यस्मात्तूष्णीमेवमेतं धारयामि । अथ सा धृष्टा च मुखरा च प्रगल्भा चेति न काचित्प्रतिक्षिपति । अथ ता भिक्षुण्यो पीडिता आहुः । किन् तावदिमन् ति । अपरा आहुः । वयमपि न जानीमः । एतं प्रकरणं भिक्षुण्यो महाप्रजापत्या गौतम्या आरोचयेयुः । महाप्रजापती गौतमी भगवतः आरोचयति । भगवानाह । शब्दापयथ कालिम् । यावदेतमेवार्थं पृच्छिता । आह । आं भगवन् । भगवानाह । दुष्कृतं ते कालि एवन्नाम त्वं जानन्ती भिक्षुणीं समग्रेण संघेन धर्मतो विनयतो उत्क्षिप्तामप्रतिकृताम् । अकृत्वा पूर्वकृत्यम् । अनवलोकयित्वा भिक्षुणीसंघं प्रत्योसारयसि । तेन हि न क्षमति । पेयालम् । अथ खलु भगवान्महाप्रजापतीं गौतमीमामन्त्रयति । सन्निपातय यावत्पर्यवदातानि भविष्यन्ति । या पुन भिक्षुणी जानन्ती भिक्षुणीं समग्रेण संघेन धर्मतो विनयतो उत्क्षिप्तामप्रतिकृताम् । अकृत्वा पूर्वकृत्यम् । अनवलोकयित्वा भिक्षुणीसंघम् । स्वयमेव प्रत्योसारयति । अयं पि धर्मो प्रथमापत्तिको । या पुन भिक्षुणीति उपसम्पन्ना यावदुभयतः संघेन । सा एषा भिक्षुणी जानन्तीति । स्वयं वा जाने परतो वा श्रुत्वा । भिक्षुणीं समग्रेण संघेनेति अव्यग्रेण । धर्मतो विनयतो ति । सति आपत्या अदर्शनेन । अप्रतिधर्मेण । त्रयाणां दृष्टीनामप्रतिनिस्सर्गाय । उत्क्षिप्तं ति असंभोगकृतम् । अप्रतिकृतन् ति अप्रत्योसारितम् । अकृत्वा पूर्वकृत्यं ति प्रकृतिस्था भिक्षुणीयो असंज्ञापयित्वा । अनवलोकयित्वा भिक्षुणीसंघं ति । संघमध्ये अवलोकनामकृत्वा स्वयमेव प्रत्योसारयेत् । अयमपि धर्मः यावत्प्रज्ञप्तिः । सा एषा भिक्षुणी जानन्ती भिक्षुणीं समग्रेण संघेन धर्मतो विनयतो उत्क्षिप्ताम् । अप्रतिकृताम् । अकृत्वा पूर्वकृत्यम् । अनवलोकयित्वा भिक्षुणीसंघं स्वयमेव प्रत्योसारयति । संघातिशेषमासादयति । सा एषा भिक्षुणी समग्रेण संघेन उत्क्षिप्ता भवति । या तस्या उपाध्यायी वा आचार्यायिणी वा च या प्रकृतिस्था भिक्षुण्याः ता संज्ञापयितव्याः । कस्यात्ययाः न विद्यन्ते को नरो नापराध्यति । को न गच्छति सम्मोहं कस्य बुद्धिर्ध्रुवा स्थिता ॥ एवं तया अज्ञानतया कृतम् । न पुनरेवं करिष्यति । यदा संज्ञप्ता भवन्ति तदावलोकना कर्तव्या । शृणोतु मे आर्यमिश्रिका संघः । इयमित्थन्नामा भिक्षुणी । तस्याः संघेन अमुकस्मिन् वस्तुनि उत्क्षेपनीयं कर्म कृतम् । सा वर्तं वर्तयति । लोमं पातयति । निःसरणं प्रवर्तयति । यदि संघस्य प्राप्तकालं संघमित्थन्नामा प्रत्योसारणां याचेय । याचिष्यति इत्थन्नामा संघं प्रत्योसारणाम् । क्षमते तं संघस्य यस्मात्तूष्णीम् । एवमेतं धारयामि । ताय याचयितव्यम् । पेयालम् । अथ तत्र काचित्पृअतिहति कर्मक्रियमाणे प्रकृतिस्थाभिर्भिक्षुणीभिः संज्ञापयितव्याः । अस्माकं भणन्तीनां क्षमस्वेति । भिक्षुरपि जानन् भिक्षुं समग्रेण संघेन धर्मतो विनयतो उत्क्षिप्तं स्वयमेव प्रत्योसारयति स्थूलात्ययमासादयति । तेन भगवानाह । या पुन भिक्षुणी जानन्ति भिक्षुणीं समग्रेण संघेन धर्मतो विनयतो उत्क्षिप्तामप्रतिकृतामकृतामकृत्वा पूर्वकृत्यमनवलोकयित्वा भिक्षुणीसंघं स्वयमेव प्रत्योसारयति । अयमपि धर्मो प्रथमापत्तिको संघातिशेषो ॥ संघातिशेषधर्म ११ अनवश्रुता अवश्रुता १६५. भगवान् राजगृहे विहरति । तत्र जेता नाम भिक्षुणी । तामपरः पुरुषो रक्तचित्तः । भक्तेनोपनिमन्त्रयति । पात्रचीवरेण भक्ष्यभोज्येन ग्लानप्रत्ययभैषज्यपरिष्कारैः । सो आह । जानासि आर्ये कस्य वयमर्थाय आर्याय ददामः । सा आह । जानामि । सो आह । कस्यार्थाय । सा आह । पुण्यं ते भविष्यति सो आह । एवमेतत्पुण्यं भविष्यति । अयं त्वहमार्याय अर्थिकः आर्याय ददामि । सा तावद्विगतरागा । नैव प्रतिक्षिपति । नाधिवासयति । एतं प्रकरणं भिक्षुण्यो महप्रजापत्या गौतम्या आरोचयेयुः । महाप्रजापती गौतमी भगवतः आरोचयति । भगवानाह । शब्दापयथ जेताम् । सा शब्दापिता । एतदेवं सर्वं पृच्छीयति । यावदां भगवन् । भगवानाह । दुष्कृतं ते जेते । ननु ते पश्चिमा नाम जनता अवलोकयितव्या । नैष धर्मो नैष विनयः । अथ खलु भगवान्महाप्रजापतीं गौतमीमामन्त्रयति । सन्निपातय गौतमी यावत्पर्यवदातानि भविष्यन्ति । या पुन भिक्षुणी जानन्ती अनवश्रुता अवश्रुतस्य पुरुषस्य प्रतिगृह्णीयात्पात्रं वा चीवरं वा भक्ष्यं वा भोज्यं वा ग्लानप्रत्ययभैषज्यपरिष्कारं वा अयमपि धर्मः । या पुन भिक्षुणीति यावदुपसम्पन्ना उभयतः संघेन । एषा भिक्षुणी अनवश्रुता ति अरक्तचित्ता । अवश्रुतस्य पुरुषस्येति रक्तचित्तस्य । प्रतिगृह्णेया ति प्रतिच्छेय । पात्रमिति ज्येष्ठं मध्यमं कन्यसं वा । चीवरमिति संघाटिउत्तरासङ्गमन्तर्वासकं कण्ठप्रतिच्छादनमुदकशाटिका । खाद्यमिति खादनीयम् । भोज्यमिति भोजनीयम् । अन्तशः ग्लानभैषज्यमिति सप्ताहिकं वा यावज्जीविकं वा । अयमपि धर्म । यावत्प्रज्ञप्तिः । एषो तावन्मनुष्यो भिक्षुणीय ददाति पात्रं वा चीवरम् । भक्ष्यभोज्यं वा । ग्लानभैषज्यं वा । तां पुरुषो आह । आर्याय वयमर्थिका । आर्याय वयं ददाम इति । न क्षमति प्रतीच्छितुम् । स वक्तव्यः । तवैव भवतु दीर्घायुः लभिष्यामः वयमन्यतो पि । अथ प्रतीच्छति संघातिशेषम् । अथ वाचं न भाषति हस्तविकारं वा पादविकारं वा अक्षिविकारं वा करोति । हष्तं वा प्रस्फोटयति । अङ्गुलीं वा अक्षिं वा निपातयति । भूमिं वा विलिखति विनमति वा । जानाति रक्तचित्तो ति । न क्षमति प्रतीच्छितुम् । प्रतीच्छति स्थूलात्ययम् । अथ खलु देनं देति प्रसन्नैरिन्द्रियैः । अथ खलु तया भिक्षुण्या आशयेन प्रतीच्छितव्यं प्रतीच्छति अनापत्तिः । एवं भिक्षोरपि रक्तचित्ता स्त्री ददाति । न जानं गृह्णाति स्थूलात्ययम् । निमित्तं करोति । जानाति रक्तचित्ता इति । नं प्रतीच्छति विनयातिक्रमनासादयति । तेन भगवानाह । या पुन भिक्षुणी अवश्रुता अवश्रुतस्य पुरुषस्य पात्रं चीवरं वा भक्ष्यं वा भोज्यं वा ग्लानभैषज्यं वा प्रतिगृह्णेय अयमपि धर्मो प्रथमापत्तिको । किं ते वदेति त्वं प्रतिगृह्ण १६६. भगवान् राजगृहे विहरति । भगवता शिक्षापदं प्रज्ञप्तम् । न क्षमति अवश्रुतस्य पुरुषस्य पात्रं वा यावत्प्रतिगृह्णातुम् । सा जेता तस्य पुरुषस्य न प्रतिच्छति । स्थूलनन्दा भिक्षुणी आह । प्रतिगृह्ण त्वमार्ये एतस्य पुरुषस्य । किं ते परो करिष्यति । अवश्रुतो वा अनवश्रुतो वा । यतो च त्वमनवश्रुता । दायकदानपतीनां सकाशात्प्रतिगृह्णीत्वा यथाप्रत्ययं करोहि । सा भिक्षुणीभिरुच्यते । मा आर्ये एतां भिक्षुणीमेवं वद । प्रतिगृह्ण त्वमार्ये एतस्य पुरुषस्य । किन् ते परो करिष्यति अवश्रुतो वा अनवश्रुतो वा । यतो च त्वमनवश्रुता । दायकदानपतीनां सकाशात्प्रतिगृह्णीत्वा यथाप्रत्ययं करोहि । एवं सकृदुक्ता न प्रतिक्रमति । द्वितीयं तृतीयमप्युक्ता न प्रतिक्रमति । एतं प्रकरणं भिक्षुण्यो महाप्रजापत्या गौतम्या आरोचयन्ति । महाप्रजापती गौतमी भगवतः आरोचयति । भगवानाह । शब्दापयथ नन्दां यावदां भगवन् । भगवानाह । दुष्कृतं ते नन्दे । नैष धर्मो नैष विनयः । अथ खलु भगवान्महाप्रजापतीं गौतमीमामन्त्रयति । सन्निपातय यावत्पर्यवदातानि । या पुन भिक्षुणी भिक्षुणीमेवं वदेय । प्रतिगृह्ण त्वमार्ये एतस्य पुरुषस्य । किं ते परः करिष्यति । अवश्रुतो वा अनवश्रुतो वा । या त्वमनवश्रुता । दायकदानपतीनां सकाशात्प्रतिगृह्णीत्वा यथाप्रत्ययं करोहि । सा भिक्षुणी भिक्षुणीभिः उच्यमाना एतदेव वस्तुं प्रतिगृह्य तिष्थेय न प्रतिनिस्सरेत् । सा भिक्षुणी भिक्षुणीभिर्यावत्तृतीयकं समनुग्राहितव्या समनुभाषितव्या तस्य वस्तुस्य प्रतिनिःसर्गाय यावत्तृतीयकं समनुग्राह्यमाणा वा समनुभाष्यमाणा वा तं वस्तुं प्रतिनिःसरेय इत्येतत्कुशलम् । नो च प्रतिनिःसरेय । अयमपि धर्मो यावत्तृतीयकः । या पुन भिक्षुणीति यथा स्थूलनन्दा भिक्षुणी । तां भिक्षुणीमिति यथा तां जेताम् । भिक्षुणीमेवं वदेत् । सा भिक्षुणी भिक्षुणीभि एवमस्य वचनीया । पेयालम् । एवं च सा भिक्षुणी भिक्षुणीभिरुच्यमाना तदेवं वस्तुं समादाय प्रतिगृह्य तिष्ठेय । अयमपि धर्मो यावत्तृतीयकः यथा भिक्षुविनये । पेयालम् । यावत्प्रज्ञप्तिः । तेन भगवानाह । या पुन भिक्षुणी भिक्षुणीमेवं वदेय । प्रतिगृह्ण त्वमार्ये एतस्य पुरुषस्य । किं ते परो करिष्यति अवश्रुतो वा अनवश्रुतो वा । या त्वमनवश्रुता । दायकदानपतीनां देयधर्मं प्रतिगृह्णीत्वा यथाप्रत्ययं करोहि । सा भिक्षुणी भिक्षुणीभिरेवमस्य वचनीया । मा आर्ये एतां भिक्षुणीमेवं वदे । प्रतिगृह्ण त्वमार्ये एतस्य पुरुषस्य । किन् ते परो करिष्यति अवश्रुतो वा अनवश्रुतो वा । या त्वमनवश्रुता । दायकदानपतीनां देयधर्मं परितिगृह्णित्वा यथाप्रत्ययं करोहि । एवं च सा भिक्षुणी भिक्षुणीभिरुच्यमाना तमेव वस्तुं समादाय प्रतिगृह्य तिष्ठेय । न प्रतिनिःसरेय । सा भिक्षुणी भिक्षुणीभिर्यावत्तृतीयकं समनुग्राहितव्या समनुशासितव्या तस्य वस्तुस्य प्रतिनिःसर्गाय । यावत्तृतीयकं समनुग्राह्यमाणा समनुभाष्यमाणा तं वस्तुं प्रतिनिःसरेय इत्येतत्कुशलम् । नो च प्रतिनिःसरेय तमेव वस्तुं समादाय प्रतिगृह्य तिष्ठेय । अयन् धर्मो यावत्तृतीयकः । संघभेदःद्वेय भेदेन १६७. भगवान् राजगृहे विहरति । द्वौ भेदेन तथैव कर्तव्यो यावत्तेन भगवानाह । या पुन भिक्षुणी समग्रस्य संघस्य भेदाय पराक्रमेय भेदनसम्वर्तनीयं वा अधिकरणं समादाय प्रतिगृह्य तिष्ठेय । सा भिक्षुणी भिक्षुणीभिरेवमस्य वचनीया । मा आर्ये समग्रस्य संघस्य भेदाय पराक्रमेय । भेदनसम्वर्तनीयं वा अधिकरणं समादाय प्रतिगृह्य तिष्ठाहि । समेतु आर्या संघेन । समग्रो हि संघो सहितो सम्मोदयमान अविवदमानो । एक्ऽउद्देशो क्षीरोदकीभूतो शास्तुः शासनं दीपयमानः सुखञ्च फासुञ्च विहरति । एवं च सा भिक्षुणी भिक्षुणीभिरुच्यमाना तमेव वस्तुं समादाय प्रतिगृह्य तिष्ठेय । न प्रतिनिःसरेय । सा भिक्षुणी भिक्षुणीभिर्यावत्तृतीयकं समनुग्राहितव्या समनुभाषितव्या तस्य वस्तुस्य प्रतिनिःसर्गाय । यावत्तृतीयकं समनुग्राह्यमाणा वा समनुभाष्यमाणा वा तं वस्तुं न प्रतिनिःसरेय । अयमपि धर्मो यावत्तृतीयकः । संघातिशेषधर्म १४(३) तदनुवर्तकाः तस्याः खलु भिक्षुण्या भिक्षुण्यो भवन्ति सहायिका । एका वा द्वौ वा त्रयो वा संबहुला वा । वर्गवादिनीयो अनुवर्तिकाः समनुज्ञाः संघभेदाय । ता भिक्षुण्यः भिक्षुण्यो एवमाहुः । मा आर्यमिश्रिकाः एतां भिक्षुणीं किञ्चिदववदित्थ । कल्याणं वा पापकं वा । धर्मवादिनी चैषा भिक्षुणी विनयवादिनी चैषा भिक्षुणी । अस्माकं चैषा भिक्षुणी छन्दञ्च रुचिं च समादाय प्रगृह्य व्यवहरति । यञ्चैतस्याः भिक्षुण्याः क्षमते च रोचते च अस्माकमपि तं क्षमते च रोचते च । जानन्ती चैषा भिक्षुणी भाषते नो अजानन्ति । ता भिक्षुण्यो भिक्षुणीभिरेवमस्य वचनीयाः । मा आर्यमिश्रिकाय एवमवोचत् । नैषा भिक्षुणी धर्मवादिनी । नैषा भिक्षुणी विनयवादिनी । मार्यमिश्रिकाः संभेदं रोचयन्तु । संघसामग्रीमेवार्यमिश्रिका रोचयन्तु । समग्रो हि संघो । सहितो सम्मोदयमानो अविवदमानो एक्ऽउद्देशो क्षीरोदकीभूतो शास्तुः शासनं दीपयमानः । सुखाञ्च फासुञ्च विहरति । एवञ्च ता भिक्षुण्यो भिक्षुणीभिः उच्यमाना तं वस्तुं प्रतिनिःसरेंसुः इत्येतत्कुशलम् । नो चे प्रतिनिःसरेंसुः ता भिक्षुण्यो भिक्षुणीभिः यावत्तृतीयकं समनुग्राहितव्या समनुभाषितव्या तस्य वस्तुस्य प्रतिनिःसर्गाय । यावत्तृतीयकं समनुग्राहियमाणा वा समनुभाषियमाणा वा तं वस्तुं प्रतिनिःसरेंसुः इत्येतत्कुशलम् । नो च प्रतिनिःसरेंसुः । तदेव वस्तुं समादाय प्रगृह्य तिष्ठेयुः । अयमपि धर्मो यावत्तृतीयकः । संघातिशेषधर्म १५(४) आक्रोशो १६८. भगवान् श्रावस्तीयं विहरति । तत्र स्थूलनन्दा नाम भिक्षुणी अधिकरणान्युत्पादयति । तस्या संघेन उत्क्षेपनीयं कर्म कृतम् । सा संघमाक्रोशति संघमगतिगमनेन प्रापयति । छन्दगामी चार्या संघो । दोषगामी चार्या संघो । भयगामी चार्या संघो । मोहगामी चार्या संघो । छन्दन्निश्राय । दोषन्निश्राय । मोहन्निश्राय मम आक्रोषितव्यम् । परिभाषितव्यं मन्यति । भिक्षुणी भिक्षुणीभिरुच्यते । मा आर्ये नन्दे संघमगतिगमनेन प्रापय । न संघो छन्दगामी । पेयालम् । यावन्न मोहन्निश्राय यावदार्या एवं छन्दगामी । मा आर्ये छन्दन्निश्राय संघमाक्रोषितव्यं मन्यसि परिभाषितव्यं मन्यसि । सा त्वमेवमुच्यमानी न प्रतिक्रमसि द्वितीयं तृतीयमध्युच्यमानि न प्रतिक्रमसि । एतं प्रकरणं यावद्भगवानाह । तेन हि गच्छथ । त्रिष्कृत्वा कुवेगे । त्रिष्कृत्वा महाजने । तृष्कृत्वा संघमध्ये समनुग्राहथ समनुभाषथ एतस्य वस्तुस्य प्रतिनिःसर्गाय । सा कुवेगे उच्यते । सत्यं त्वमार्ये नन्दे संघमगतिगमनेन प्रापयसि । अलमार्ये नन्दे संघमगतिगमनेन प्रापयितुम् । यावत्खलु ते आर्ये मित्राय करणीयमर्थकामाय हितैषिणीय करोति । ते तन्मित्रा एकवाचा गच्छन्ति । द्वे वाचे अवशिष्टे । प्रतिनिःसर न प्रतिनिस्सरामीत्याह । एवं महाजने संघमध्ये अवलोकना कर्तव्या । सत्यं त्वमार्ये नन्दे संघमगतिगमनेन प्रापयसि । पेयालम् । याव आमो त्याह । सा ताव संघमध्ये पि वक्तव्या पेयालम् । एतं प्रकरणं भिक्षुण्यो आरोचयेयुः । अनुभाष्टा भगवनार्या नन्दा त्रिष्कृत्वा कुवेगे त्रिष्कृत्वा महाजने त्रिष्कृत्वा संघमध्ये एतस्य वस्तुनः प्रतिनिःसर्गाय । न प्रतिनिःसरति । भगवानाह शब्दापयथ नन्दाम् । पेयालम् । यावदेवं चैवञ्च पृष्टा । पेयालम् । आं भगवन् । भगवानाह । दुष्कृतं ते नन्दे । नन्वहं नन्दे अनेकपर्यायेण दौर्वचस्यं विगर्हामि यावन्नैवं कुर्वतो वृद्धिर्भवति कूशलेषु धर्मेषु अथ खलु भगवान्महाप्रजापतीं गौतमीमामन्त्रयति । सन्निपातय । पेयालम् । यावत्पर्यवदातानि भविष्यन्ति । भिक्षुणी खलु पुनः संघाक्रोशिका भवति । सा एवमाह । छन्दगामी च संघो । दोषगामी च । भयगामी च । मोहगामी च । संघो छन्दन्निश्राय । दोषन्निश्राय । भयन्निश्राय । मोहन्निश्राय । समाक्रोशितव्यं परिभाषितव्यं मन्यति । सा भिक्षुणी भिक्षुणीभिरेवमस्य वचनीया । मा आर्ये एवं वद । न संघो छन्दगामी । न संघो दोषगामी । न संघो भयगामी । न संघो मोहगामी । न च संघो छन्दन्निश्राय । दोषभयमोहन्निश्राय आक्रोशितव्यम् । परिभाषितव्यं मन्यति । आर्ये च छन्दन्निश्राय दोषं भयं मोहन्निश्राय संघमाक्रोशितव्यं मन्यति । एवं च सा भिक्षुणी भिक्षुणीभिरुच्यमान तदेव वस्तुं समादाय प्रगृह्य तिष्ठेय । सा भिक्षुणी भिक्षूणीभिः यावत्तृतीयकं समनुग्राहितव्या समनुभाषितव्या तस्य वस्तुस्य प्रतिनिस्सर्गाय । यावत्तृतीयकं समनुग्राहियमाना वा समनुभाषियमाणा वा तं वस्तुं प्रतिनिस्सरेय इत्येतत्कुश्लम् । नो च प्रतिनिस्सरेंसुः । अयमपि धर्मो यावत्तृतीयकः । पेयालम् । यावदेषा भिक्षुणी त्रिष्कृत्वा कुवेगे समनुग्राहियमाना समनुभाषियमाणा प्रतिनिःसर्गार्हं वस्तुं न प्रतिनिःसरति । वाचायां वाचायां विनयातिक्रममासादयति । एवं महाजने संघमध्ये ज्ञप्तिमधिवासयति विनयातिक्रममासादयति । प्रथमायां वाचायामव्यवरोपितायां विनयातिक्रमः । व्यवरोपितायां स्थूलात्ययः । एवं द्वितीयातृतीयां वा वाचायां यावद्व्यवरोपितायां संघातिशेषम् । यदा संघातिशेषामापत्तिमापन्ना । ये च कुवेगे । ये च महाजने । ये च संघमध्ये विनयातिकरमाः । स्थूलात्ययाः सर्वे ते प्रतिप्रस्रभ्यन्ति स्थापयित्वा अष्टौ स्थूलात्ययाः । न संघमगतिगमनेन प्रापयन्ती । अन्तरा प्रतिनिःसरति यथास्थितासु आपत्तिषु कारयितव्या । कथं तावत्प्रतिनिः सर्गार्हं कथमप्रतिनिःसर्गार्हम् । अभूषि मे संघमगतिगमनेन प्रापयिष्यन् ति प्रापयामि प्रापयिष्यामि चेति एवं प्रतिनिःसर्गार्हम् । कथं प्रतिनिःसर्गार्हम् । अभूषि मे संघमगतिगमनेन प्रापयिष्यन् ति प्रापितञ्च । न खल्विदानीं प्रापयामि न च प्रापयिष्यामीत्यप्रतिनिःसर्गार्हम् । तेन भगवानाह । भिक्षुणी खलु पुनः संघाक्रोशिका भवति । सा एवमाह । छन्दगामी । चार्यमिश्रिकायो । संघो दोषगामी च भयगामी च संघो । मोहगामी च संघो । छन्दन्निश्राय दोषं भयं मोहं निश्राय समाक्रोशितव्यां परिभाषितव्यां मन्यति । सा भिक्षुणी भिक्षुणीभिरेवमस्य वचनीया । मा आर्ये संघआक्रोशिका भवाहि । न संघो छन्दगामी । न संघो दोषगामी । न संघो भयगामी । न संघो मोहगामी । न च संघो छन्दन्निश्राय दोषं भयं मोहं निश्राय आर्यामाक्रोशितव्यां परिभाषितव्यां मन्यति । आर्या एवं छन्दगामिनी दोषगामिनी भयगामिनी मोहगामिनी । आर्या एव छन्दन्निश्राय दोषं भयं मोहन्निश्राय संेघमाक्रोशितव्यं रोषितव्यं परिभाषितव्यं मन्यति । विरमार्य संघाक्रोशनातो । एवं च सा भिक्षुणी भिक्षुणीभिरुच्यमाना तमेवि वस्तुं समादाय प्रतिगृह्य तिष्ठेत् । न पर्तिनिःसरेय । सा भिक्षुण्भिक्षुनीभिर्यावत्तृतीयकं समनुग्राहितव्या समनुभाषितव्या तस्य वस्तुस्य प्रतिनिःसर्गाय । यावत्तृतीयकं समनुग्राह्यमाना वा समनुभाषियमाना । तं वस्तुं प्रतिनिःसरेय इत्येतत्कुशलम् । नो चेत्प्रतिनिःसरेय । अयमपि धर्मो यावत्तृतीयको । संघातिशेषधर्म १६(५) दौर्वचस्यंदुर्वचकजातियो १६९. भगवान् कौशाम्बीयां विहरति । छन्दकमाता नाम भिक्षुणी । सा उद्देशपर्यवसानेहि शिक्षापदेहि भिक्षुणीहि शिक्षायां सह धर्मेण सह विनयेन वुच्यमाना । पेयालम् । यथैव छन्दकस्य तथैवं विस्तरेण कर्तव्यम् । तेन भगवानाह । भिक्षुणी खलु पुनर्दुर्वचकजातीय भवति । सा उद्देशपर्यापन्नेहि शिक्षापदेहि भिक्षुणीहि शिक्षायां सह धर्मेण सह विनयेन वुच्यमाना आत्मानमवचनीयं करोति । सा एवमाह । मा मे आर्यमिश्रिकायो किञ्चिद्वदथ कल्याणं वा पापकं वा । अहमप्यार्यमिश्रिकाणान्न किञ्चिद्वक्ष्यामि कल्याणं वा पापकं वा । विरमन्त्वार्यमिश्रिकायो मम वचनाय । सा भिक्षुणी भिक्षुणीहि एवमस्य वचनीया । मा आर्ये उद्देशपर्यापन्नेहि शिक्षापदेहि भिक्षुणीहि शिक्षायां सह धर्मेण सह विनयेन वुच्यमाना आत्मानमवचनीयं करोहि । वचनीयमेवार्यात्मानं करोतु । आर्या पि भिक्षुणीयो वदन्तु शिक्षायां सह धर्मेण सह विनयेन । आर्यमपि भिक्षुणीयो वक्ष्यन्ति शिक्षायां सह धर्मेण सह विनयेन । एवं संवृद्धा खलु पुनरार्ये तस्य भगवतस्तथागतस्य अर्हतः सम्यक्सम्बुद्धस्य पर्षा यदिदमन्यमन्यवचनीया अन्यमन्यापत्तिव्युत्थापनीया । एवं च सा भिक्षुणीहि वुच्यमाना तमेव वस्तुं समादाय प्रगृह्य तिष्ठेय । न प्रतिनिःसरेय । सा भिक्षुणी भिक्षुणीहि यावत्तृतीयकं समनुग्राहितव्या समनुभाषितव्या तस्य वस्तुस्य प्रतिनिःसर्गाय । यावात्तृतीयकं समनुग्राहियमाणा वा समनुभाषियमाण वा तं वस्तुं प्रतिनिःसरेय इत्येवं कुशलम् । नो च प्रतिनिःसरेय तमेव वस्तुं समादाय प्रगृह्य तिष्ठेय । अयमपि धर्मो यावत्तृतीयको । द्वे संसृष्टा विहरन्ति १७०. भगवां च्छ्रावस्त्यां विहरति । एता दानि भिक्षुणीयो नन्दा च शाक्यकन्या उत्तरा च मासोरकधीता कायिकेन संसर्गेण संसृष्टा हि विहरन्ति । वाचिकेन संसर्गेण संसृष्टा विहरन्ति । कायिकवाचिकेन संसर्गेण संसृष्टा विहरन्ति । अन्यमन्यस्यावद्यानि प्रतिच्छादयन्ति । किन्ति दानि कायिकेन संसर्गेण संसृष्टा विहरन्ति । पेयालम् । किन् ति दानि अन्यमन्यस्यावद्यानि प्रतिच्छादयन्ति । एकाये अवद्यमपराच्छादेति । अपरात्वद्यमपरा च्छादेति । तायो भिक्षुणीयो भिक्षुणीहि वुच्चन्ति । मार्यमिश्रिकायो कायिकेन संसर्गेण संसृष्टा विहरथ मा वाचिकेन मा कायिकवाचिकेन । मा अन्यमन्यस्यावद्यानि च्छादेथ । तायो सकृदुक्तायो न प्रतिक्रमन्ति । द्वितीयं तृतीयमप्युक्ता न प्रतिक्रमन्ति । एतं प्रकरणं ता भिक्षुणीयो महाप्रजापतीये गौतमीये आरोचयेंसुः । महाप्रजापती गौतमी भगवतो आरोचयेत् । विस्तरेण । पेयालम् । भिक्षुणीयो खलु पुनर्द्वे संसृष्टा विहरन्ति । अन्यमन्यस्यावद्यप्रतिच्छादिका । ता भिक्षुणीयो भिक्षुणीहि एवमस्य वचनीया । मा आर्येमिश्रिकायो संसृष्टा विहरथ अन्यमन्यस्यावद्यप्रतिच्छादिका । नाना आर्यमिश्रिकायो विहरथ । नाना वो विहरन्तीनां वृद्धिरेव प्रतिकाङ्क्षितव्या कुशलेहि धर्मेहि । न परिहाणिः । एवं च तायो भिक्षुणीयो भिक्षुणीहि वुच्यमानास्तं वस्तुं प्रतिनिस्सरेंसुः । इत्येतं कुशलम् । नो च प्रतिनिस्सरेंसुः ता भिक्षुणीयो भिक्षुणीहि यावत्तृतीयकं समनुग्राहितव्याः समनुभाषितव्याः तस्य वस्तुस्य प्रतिनिस्सर्गाय । यावत्तृतीयकं समनुग्राहियमाणा वा समनुभाषियमाणा वा तं वस्तुं प्रतिनिस्सरेंसुः इत्य एतं कुशलम् । नो च प्रतिनिस्सरेंसुः तमेवं वस्तुं समादाय प्रतिगृह्य तिष्ठेंसुः । अयमपि धर्मो यावत्तृतीयको । भिक्षुणीयो खलु पुन द्वे संसृष्टा विहरन्ति यथा नन्दा च शाक्यकन्या उत्तरा च माशोरकधीता । संसृष्टा विहरन्ति कायिकेन वाचिकेन कायिकवाचिकेन । अवद्यप्रतिच्छादिका ति आपत्तिप्रतिच्छादिका । ता भिक्षुणीयो यथा नन्दा च शाक्यकन्या उत्तरा च माशोरकधीता । भिक्षुणीहीति संघेन महाजनेन एकभिक्षुणीय । एवं स्युर्वचनीया । मा आर्यमिश्रिकायो संसृष्टा विहरथ । अन्यमन्यस्यावद्यप्रतिच्छादिका । पेयालम् । यावत्तमेव वस्तुं समादाय प्रगृह्य तिष्ठेंसुः । यं तं वस्तुं संसृष्टा विहरन्ति अन्यमन्यस्यावद्यानि प्रतिच्छादयन्ति । ता भिक्षुणीयो ति यथा नन्दा च शाक्यकन्या उत्तरा च माशोरकधिता । भिक्षुणीहीति संघेन महाजनेन एकपुद्गलेन यावत्तृतीयकं समनुग्राहितव्या समनुभाषितव्या । त्रिक्खुत्तो कुवेगे त्रिक्खुत्तो महाजने त्रिक्खुत्तो संघमध्ये समनुग्राहितव्या समनुभाषितव्या तस्य वस्तुस्य प्रतिनिःसर्गाय । यावत्तृतीयकं समनुग्राहियमाणा वा समनुभाषियमाणा वा तं वस्तुं प्रतिनिःसरेय इत्येतं कुशलम् । नो च प्रतिनिःसरेंसुः अयमपि धर्मो यावत्तृतीयको संघातिशेषो । पेयालम् । यावत्प्रज्ञप्तिः । सा एषा भिक्षुणी त्रिक्खत्तो कुवेगे समनुग्राहियमाणा वा समनुभाषियमाणा वा प्रतिनिःसर्गार्हं वस्तुन्न प्रतिनिःसरति वाचायां वाचायां विनयातिक्रममासादयति । एवं महाजने संघमध्ये ज्ञप्तिमधिवासयति विनयातिक्रममासादयति । प्रथमायां वाचायामध्योरोपितायां विनयातिक्रममासादयति । व्योरोपितायां थूल्ऽ-अच्चयम् । एवं द्वितीयायां तृतीयायां वाचायामध्योरोपितायां थूल्ऽ-अच्चयम् । अध्योरोपितायां संघातिशेषं । किन् ति दानि प्रतिनिःसर्गार्हं द्रष्टव्यम् । किमप्रतिनिःसर्गार्हम् । अभूषि खलु मो संसृष्टा विहरिष्यामो । अन्योन्यसावद्यप्रतिच्छादिका ति विहरामो विहरिष्यामो । नो च खलु विहृतम् । एवं प्रतिनिःसर्गार्हं द्रष्टव्यम् । किन् ति दानि अप्रतिनिःसर्गार्हं द्रष्टव्यम् । अभूषि खलु मो संसृष्टा विहरिष्यामो अन्योन्यस्यावद्यप्रतिच्छादिका ति ते दानीं विहरामो विहरिष्यामो न विहृतम् । मो ति एतं प्रतिनिःसर्गार्हं द्रष्टव्यम् । तेन भगवानाह । भिक्षुणीयो खलु पुन द्वे संसृष्टायो विहरन्ति अन्योन्यस्यावद्यप्रतिच्छादिका । पेयालम् । विस्तरेण । संघातिसेषधर्म १८(७) तासाञ्चानुविचारिका १७१. भगवां च्छ्रावस्त्यां विहरति । भगवानाह । शिक्षापदं प्रज्ञप्तम् । न क्षमति भिक्षुणीहि संसृष्टा विहरितुन् ति । नन्दा च शाक्यकन्या उत्तरा च माशोरकधीता भिक्षुणीयो नाना विहरन्ति । स्थूलनन्दा भिक्षुणी तासामाह । संसृष्टा एव यूयमार्यमिश्रिकायो विहरथ । अन्यमन्यस्यावद्यप्रतिच्छादिका । तासां संसृष्टानां वो विहरन्तीनां वृद्धिरेव प्रतिकाङ्क्षितव्या कुशलेहि धर्मेहि । न परिहानिः । किं यूयमेव एवंरूपा संघे । सन्त्यन्या अप्येवंरूपा संघे । न च संघो तासां किञ्चिदाह । युष्मानेव संघो अवज्ञाय परिभवेन ओमर्दितव्यां परिमर्दितव्यां मन्यति । सा भिक्षुणीहि वुच्चति । मा आर्ये नन्दे एतायो भिक्षुणीयो एवं वद संसृष्टा एव आर्यमिश्रिकायो विहरथ । पेयालम् । यावत्परिमर्दितव्यां मन्यति । सा सकृदुक्ता न प्रतिक्रमति । एवं द्वितीयं तृतीयमप्युक्ता न प्रतिक्रमति । एतं प्रकरणं भिक्षुणीयो महाप्रजापतीये गौतमीये आरोचेन्ति । महाप्रजापती पि गौतमी भगवतो आरोचेति । भगवानाह । यद्येषा स्थूलनन्दा नाम भिक्षुणी नन्दां शाक्यकन्यामुत्तरां च माशोरकधीतामेवमाह । संसृष्टा एव आर्यमिश्रिकायो विहरथ । पेयालम् । यावत्सकृदुक्ता न प्रतिक्रमति । द्वितीयं पि तृतीयं पि उक्ता न प्रतिक्रमति । तेन हि गच्छथ नन्त्रिक्खत्तो कुवेगे त्रिक्खत्तो महाजने त्रिक्खत्तो संघमध्ये समनुग्राहयथ समनुभाषथ एतस्य वस्तुस्य प्रतिनिःसर्गाय । सा कुवेगे वक्तव्या । सत्यं त्वमार्ये नन्दे एता भिक्षुणीयो एवं वदसि यावदामो त्याह । सा त्वं कुवेगे वुच्चति । मा आर्ये नन्दे एता भिक्षुणीयो एवं वद । पेयालम् । यं खलु ते आर्ये नन्दे मित्राय करणीयमर्थकामाये हितैषिणीये अनुकम्पिकाय अनुकम्पामुपादाय करोति । तं मित्रा एका वाचा गच्छति द्वे वाचा अवशिष्टा प्रतिनिःसरामित्याह । एवं द्वितीया तृतीया । एवं महाजने संघमध्ये अवलोकना कर्तव्या । एवमेव यावदनुभाष्टा न प्रतिनिःसरति । पेयालम् । एतं प्रकरणं भिक्षुणीयो महाप्रजापतीये गौतमीये आरोचयेंसुः । महाप्रजापती गौतमी भगवत आरोचयेत् । भगवानाह शब्दापयथ नन्दाम् । सा दानि शब्दापिता । एतदेव सर्वं पृच्छीयति । यावदां भगवन् । भगवानाह । दुष्कृतं ते नन्दे यावत्सन्निपातय गौतमि भिक्षुणीयो यावत्पर्यवदातानि भविष्यन्ति । या पुन भिक्षुणी भिक्षुणीयो नाना विहरन्तीयो एवं वदेय । संसृष्टा एव आर्यमिश्रिकायो विहरथ अन्यमन्यसावद्यप्रतिच्छादिका । संसृष्टानां वो विहरन्तीनां वृद्धिरेव प्रतिकाङ्क्षितव्या कुशलेहि धर्मेहि । न परिहाणिः । किं पुनर्यूयमेव एवंरूपा संघे । सन्त्यन्या प्येवंरूपा संघे । न च तासां संघो किञ्चिदाह । युष्मानेव संघो अवज्ञाय परिभावेन ओमर्दितव्यां परिमर्दितव्यां मन्यति । सा भिक्षुणी भिक्षुणीहि एवमस्य वचनीया । मा आर्ये नन्दे इत्थन्नामां च इत्थन्नामां च भिक्षुणीं नाना विहरन्तीमनुविचारेहि । संसृष्टा एव यूयमार्यमिश्रिकायो विहरथ । अन्यमन्यस्यावद्यप्रतिच्छादिका । नानासंसृष्टानां वो विहरन्तीनां वृद्धिरेव प्रतिकाङ्क्षितव्या कुशलेहि धर्मेहि । न परिहानिः । किं पुनर्यूयमेव एवंरूपा संसृष्टा संघे । सन्त्यन्या अपि एवंरूपा संघे । न च संघो तासां किञ्चिदाह । युष्माकमेव संघो अवज्ञाय परिभवेन ओमर्दितव्यां परिमर्दितव्यां मन्यति । एवं च सा भिक्षुणी भिक्षुणीहि वुच्यमाना तमेव वस्तुं समादाय प्रगृह्य तिष्ठेय न प्रतिनिस्सरेय । सा भिक्षुणी भिक्षुणीहि यावत्तृतीयकं समनुग्राहितव्या समनुभाषितव्या तस्य वस्तुस्य प्रतिनिःसर्गाय । यावत्तृतीयकं समनुग्राहियमाणा वा समनुभाषियमाणा वा तं वस्तुं प्रतिनिःसरेय इत्येतं कुशलम् । नो च प्रतिनिस्सरेय । अयं पि धर्मो यावत्तृतीयको । या पुन भिक्षुणीति यथा स्थूलनन्दा । ता भिक्षुणीयो ति यथा नन्दा च शाक्यकन्या उत्तरा च मासोरकधीता । एवं वदेय । संसृष्टा एव यूयमार्यमिश्रिकायो विहरथ अन्यमन्यस्यावद्यप्रतिच्छादिका ति कायिकेन वाचिकेन कायिकवाचिकेन संसर्गेण । मा नानां संसृष्टानां वोऽधिविहरन्तीनां वृद्धिरेव प्रतिकाङ्क्षितव्या कुशलेहि धर्मेहि न परिहाणिः । पेयालम् । सा भिक्षुणीति यथा स्थूलनन्दा भिक्षुणी । भिक्षुणीहीति संघेन महाजनेन एकपुद्गलेन एवमस्य वचनीया । आर्येमिश्रान्नामे । पेयालम् । यावन्न प्रतिनिस्सरेय । सा भिक्षुणी भिक्षुणीहि यावत्तृतीयकं ति त्रिक्खत्तो कुवेगे त्रिक्खत्तो महाजने त्रिक्खत्तो संघमध्ये । सा कुवेगे वक्तव्या । सत्यं त्वमार्ये इत्थन्नामे इत्थन्नामां च इत्थन्नामां च भिक्षुणीं यावदामो त्याह । सा कुवेगे वुच्चति । मा आर्ये इत्थन्नामाञ्च इत्थन्नामाञ्च भिक्षुणीं नाना विहरन्तीमनुविचारेहि । पेयालम् । अयमपि धर्मो यावत्तृतीयको । पेयालम् । सा एषा भिक्षुणी त्रिक्खत्तो कुवेगे समनुग्राहियमाणा वा समनुभाषियमाणा वा प्रतिनिःसर्गार्हं वस्तुं न प्रतिनिःसरति वाचायां वाचायां विनयातिक्रममासादयति । एवं महाजने संघमध्ये ज्ञप्तिमधिवासयति विनयातिक्रममासादयति । यावत्तृतीयायां वाचायामध्योरोपितायां संघातिशेषम् । पेयालम् । यावत्किन् ति दानि प्रतिनिःसर्गार्हं द्रष्टव्यं किमप्रतिनिःसर्गार्हम् । अभूषि खलु इमे इत्थन्नामायो भिक्षुणीयो वदिष्यम् । संसृष्टा एवार्यमिश्रिकायो विहरथ । अन्योन्यसावद्यप्रतिच्छादिका वदामि वदिष्यामि । न खलु वदितमेवं प्रतिनिःसर्गार्हम् । किन् ति दानि अप्रतिनिःसर्गार्हम् । अभूषि खलु मे इत्थन्नामायो भिक्षुणीयो वदिष्यम् । संसृष्टा एवार्यमिश्रिकायो विहरथ । अन्योन्यसावद्यप्रतिच्छादिका ति । वदितं खलु मे इदानीं वदामि न वदिष्यामि चेति एवमप्रतिनिःसर्गार्हं द्रष्टव्यम् । तेन भगवानाह । या पुन भिक्षुणी भिक्षुणीयो नाना विहरन्तीयो एवं वदेय । विस्तरेण । यावदयं पि धर्मो यावत्तृतीयको । संघातिशेषधर्म१९(८) शिक्षाप्रत्याख्यायिका १७२. भगवान् शाक्येषु विहरति । शाक्यानां कपिलवस्तुस्मिं न्यग्रोधारामे । तहिं दानी द्वे माताधीतरे अगारस्यानगारिकां प्रव्रजिते । धीता शाक्येहि प्रव्रजिता माता तीर्थिकेहि । सा दानि माता धीतरमाह । पुत्रिणि । किं वयं जीवन्तिका एव अन्यमन्यं न पश्यामः । इहैव चागच्छ । सा दानाह । आगच्छामी । न मया यथा वा तथा वा शक्यमागन्तुम् । यावत्किञ्चिदधिकरणमुत्पादयामि । सा भिक्षुणी भिक्षुणीहि सह वाचो वाचिकं करोति । सा यदा पर्यादिन्ना भवति तदा आह । बुद्धं प्रत्याख्यामि । एवं धर्मं संघं शिक्षामुद्देशं सम्वासं सम्भोगं शास्तृपदं भिक्षुणीभावं प्रत्याख्यामि । शाक्यपुत्रीय भावं प्रत्याख्यामि । किमेता एव श्रमणिका शाक्यपुत्रीया । सन्त्यन्यान्यपि पृथुतीर्थ्यायतनानि । तत्र ब्रह्मचर्यं चरिष्यम् । सा दानि भिक्षुणीहि वुच्चति । मा आर्ये बुद्धं प्रत्याख्याहि यावत्मा शाक्यपुत्रीय भावं प्रत्याख्याहि । असाधु आर्ये बुद्धप्रत्याख्यानं यावदसाधु शाक्यपुत्रीय भावप्रत्याख्यानम् । सा सकृदुक्ता न प्रतिक्रमति । द्वितीयं तृतीयं पि उक्ता न प्रतिक्रमति । एतं प्रकरणं भिक्षुणीयो महाप्रजापतीये गौतमीये आरोचयेंसुः । महाप्रजापती पि गौतमी भगवतो आरोचयेति । भगवानाह । तेन हि भिक्षुण्यो । यद्येषा इत्थन्नामा भिक्षुणी शिख्याप्रत्याख्यायिका । सा एवमाह । बुद्धं प्रत्याख्यामि । पेयालम् । यावत्तत्र ब्रह्मचर्यञ्चरिष्यम् । सा सकृदुक्ता न प्रतिक्रमति । द्वितीयं तृतीयमप्युक्ता न प्रतिक्रमति । तेन हि गच्छथ । तां त्रिक्खत्तो कुवेगे त्रिक्खत्तो महाजने त्रिक्खत्तो संघमध्ये समनुग्राहथ समनुभाषथ एतस्य वस्तुस्य प्रतिनिःसर्गाय । सा दानि कुवेगे वक्तव्या । सत्यं त्वमार्ये इत्थन्नामे शिक्षां प्रत्याख्यासि । सा त्वमेवं वदसि बुद्धं प्रत्याख्यामि । पेयालम् । यावत्किं पुनरेता एव श्रमणिका शाक्यपुत्रीयाः । सन्त्यन्यान्यपि पृथुतीर्थ्यायतनानि । तत्र ब्रह्मचर्यं चरिष्यन् ति । आमो त्याह । सा त्वं कुवेगे वुच्चसि मा त्वमार्ये इत्थन्नामे बुद्धं प्रत्याख्याहि यावच्छाक्यपुत्रीय भावं प्रत्याख्याहि । असाधु आर्ये बुद्धप्रत्याख्यानम् । यावदसाधु शाक्यपुत्रीय भावप्रत्याख्यानम् । यं खलु ते आर्ये इत्थन्नामाय मित्राय करणीयमर्थकामाय हितैषीणीये करोति । तेन मित्रा एकवाचा गच्छति । द्वे वाचा अवशिष्टा प्रतिनिःसर न प्रतिनिस्सरामीत्याह । एवं द्वितीयं पि तृतीयं पि । एवं महाजने संघमध्ये अवलोकना कर्तव्या यावदेतं प्रकरणं भिक्षुणीयो भगवतो आरोचयेंसुः । भगवानाह । शब्दापयथ तां भिक्षुणीम् । सा दानि शब्दापिता । सत्यन् ति । तदेवं पृच्छीयति । यावदां भगवन् । भगवानाह दुष्कृतं ते । पेयालम् । अथ खलु भगवान्महाप्रजापतीं गौतमीमामन्त्रयति । सन्निपातय गौतमि यावत्पर्यवदातानि भविष्यन्ति । भिक्षुणी खलु पुनः शिख्याप्रत्याख्यायिका भवति । सा दानाह । बुद्धं प्रत्याख्यामि । धर्मं संघं शिक्षामुद्देशं सम्वासं संभोगं शास्तृपदं भिक्षुणीभावं श्रमणीभावं शाक्यपुत्रीय भावं प्रत्याख्यामि । किमेता एव श्रमणिका शाक्यपुत्रीया । सन्त्यन्यान्यपि पृथुतीर्थ्यायतानानि । तत्र ब्रह्मचर्यं चरिष्यम् । सा भिक्षुणी भिक्षुणीहि एवमस्य वचनीया । मा आर्ये शिख्याप्रत्याख्यायिका भोहि । मा बुद्धं प्रत्याख्याहि । मा धर्मं संघं शिक्षामुद्देशं सम्वासं संभोगं शास्तृपदं भिक्षुणीभावं श्रमणिभावं शाक्यपुत्रीय भावं प्रत्याख्याहि । असाधु आर्ये बुद्धप्रत्याख्यानम् । असाधु धर्मप्रत्याख्यानम् । असाधु संघप्रत्याख्यानम् । शिक्षाउद्देशसम्वाससंभोगशास्तृपदभिक्षुणीभावश्रमणीभावप्रत्याख्यानम् । असाधु आर्ये शाक्यपुत्रीय भावप्रत्याख्यानम् । एवञ्च सा भिक्षुणी भिक्षुणीहि वुच्यमाना तमेव वस्तुं समादाय प्रतिगृह्य तिष्ठेय न प्रतिनिःसरेय । सा भिक्षुणी भिक्षुणीहि यावत्तृतीयकं समनुग्राहितव्या समनुभाषितव्या तस्य वस्तुस्य प्रतिनिःसर्गाय । यावत्तृतीयकं समनुग्राहियमाणा वा समनुभाषियमाणा वा तं वस्तुं प्रतिनिःसरेय इत्येतं कुशलम् । नो च प्रतिनिःसरेय । अयमपि धर्मो यावत्तृतीयको संघातिशेषो । संघमेवाधिपतिं कृत्वा निःसरणीयो । या पुन भिक्षुणीति यथा सा भिक्षुणी । शिक्षाप्रत्याख्यायिका ति सा एवमाह बुद्धं प्रत्याख्यामि । पेयालम् । यावच्छाक्यपुत्रीय भावं प्रत्याख्यामि । किमेता एव श्रमणिका शाक्यपुत्रीयाः । सन्त्यन्यान्यपि पृथुतीर्थ्यायतनानि । तत्र ब्रह्मचर्यं चरिष्यम् । सा भिक्षुणी भिक्षुणीहि एवमस्य वचनीया । मा आर्ये बुद्धं प्रय्ताख्याहि यावदसाधु आर्ये शाक्यपुत्रीय भावप्रत्याख्यानम् । एवं च सा भिक्षुणी भिक्षुणीहि वुच्यमाना तमेव वस्तुं समादाय प्रगृह्य तिष्ठेय न प्रतिनिःसरेय । या सा भिक्षुणी शिक्षाप्रत्याख्यायिका । सा भिक्षुणीहीति संघेन महाजनेन एकपुद्गलेन यावत्तृतीयकं समनुग्राहितव्या समनुभाषितव्या त्रिक्खत्तो कुवेगे त्रिक्खत्तो महाजने त्रिक्खतो संघमध्ये । सा दानि कुवेगे वक्तव्या । सत्यं त्वमित्थन्नामे एवं वदसि बुद्धं प्रत्याख्यामि यावच्छाक्यपुत्रीय भावं प्रत्याख्यामि । आम इत्याह । सा कुवेगे वुच्चति । मा आर्ये इत्थन्नामे बुद्धं प्रत्याख्याहि । यावदसाधु आर्ये शाक्यपुत्रीय भावप्रत्याख्यानम् । यं खलु ते आर्ये इत्थन्नामाय मित्राय करणीयम् । अर्थकामाय हितैषिणीये करोति । ते तं मित्रा एकवाचा गच्छति । द्वे वाचा अवशिष्टा प्रतिनिःसर न प्रतिनिःसरामीत्याह । एवं महाजने संघमध्ये अवलोकना कर्तव्या । विस्तरेण । यावत्तृतीयकं समनुग्राहियमाणा वा समनुभाषियमाणा वा तं वस्तुं प्रतिनिःसरेय इत्येतं कुशलम् । नो च प्रतिनिःसरेय अयमपि धर्मो यावत्प्रज्ञप्तिः । सा एषा भिक्षुणी त्रिक्खत्तो कुवेगे त्रिक्खत्तो महाजने त्रिक्खत्तो संघमध्ये समनुग्राहियमाणा वा समनुभाषियमाणा वा प्रतिनिःसर्गार्हं वस्तुं न प्रतिनिःसरति वाचायां वाचायां विनयातिक्रममासादयति । एवं महाजने संघमध्ये ज्ञप्तिमधिवासयति विनयातिक्रममासादयति । प्रथमायां वाचायामध्योरोपितायां विनयातिक्रमम् । अध्योरोपितायां थूलच्चयम् । एवं द्वितीयायां तृतीयायां वाचायामध्योरोपितायां थूल्ऽ-अच्चयम् । अध्योरोपितायां संघातिशेषम् । यदा संघातिषेशमापत्तिमापन्ना भवति तदा ये च कुवेगे ये च महाजने ये च संघमध्ये थूल्ऽ-अच्चया च विनयातिक्रमा च सर्वे ते प्रतिप्रस्रभ्यन्ते । एका गुरुका आपत्तिः संस्थिहति यदिदं संघातिशेषो । अन्तरा प्रतिनिःसरति यथास्थितासु आपत्तिषु कारापयितव्या । किन् ति दानि प्रतिनिःसर्गार्हं द्रष्टव्यं किमप्रतिनिःसर्गार्हम् । अभूषि खलु मे शिक्षां प्रत्याख्यास्यामि । न खलु मे प्रत्याख्यानं प्र्तिनिःसर्गार्हं द्रष्टव्यम् । किन् ति दानि अप्रतिनिःसर्गार्हं द्रष्टव्यम् । अभूषि खलु मे शिक्षां प्रत्याख्यास्यन् ति । प्रत्याख्यातं दानि न प्रत्याख्यासि प्रत्याख्यामि चेति । एवमप्रतिनिःसर्गार्हं द्रष्टव्यम् । तेन भगवानाह । भिक्षुणी खलु पुनः शिक्षाप्रत्याख्यायिका भवति । सा एवमाह । बुद्धं प्रत्याख्यामि धर्मं प्रत्याख्यामि । संघं प्रत्याख्यामि । शिक्षां प्रत्याख्यामि । उद्देशं सम्वासं संभोगं शास्तृपदं भिक्षुणीभावं श्रमणीभावं शाक्यपुत्रीय भावं प्रत्याख्यामि । किमेता एव श्रमणिका शाक्यपुत्रीयाः । सन्त्यन्यान्यपि पृथुतीर्थ्यायतनानि । तत्र ब्रह्मचर्यं चरिष्यम् । सा भिक्षुणी भिक्षुणीहि एवमस्य वचनीया । मा आर्ये शिक्षाप्रत्याख्यायिका भोहि । मा धर्मप्रत्याख्यायिका भोहि । मा संघप्रत्याख्यायिका भोहि । मा शिक्षां प्रत्याख्याहि । मा उद्देशं सम्वासं सम्भोगं शास्तृपदं भिक्षुणीभावं श्रमणीभावं शाक्यपुत्रीय भावं प्रत्याख्याहि । तत्कस्य हेतोः । असाधु आर्ये बुद्धप्रत्याख्यानम् । असाधु धर्मप्रत्याख्यानम् । असाधु संघप्रत्याख्यानम् । असाधु शिक्षाप्रत्याख्यानम् । उद्देशसंवाससंभोगशास्तृपदभिक्षुणीभावश्रमणीभाव प्रत्याख्यानम् । असाधु शाक्यपुत्रीय भावप्रत्याख्यानम् । एवं च सा भिक्षुणी भिक्षुणीहि वुच्चमाना तमेव वस्तुं समादाय प्रगृह्य तिष्ठेय । न प्रतिनिःसरेय । सा भिक्षुणी भिक्षुणीहि यावत्तृतीयकं समनुग्राहितव्या समनुभाषितव्या तस्य वस्तुस्य प्रतिनिःसर्गाय । यावत्तृतीयकं समनुग्राहियमाणा वा समनुभाषियमाना वा तं वस्तुं प्रतिनिःसरेय । इत्येतं कुशलम् । नो च प्रतिनिःसरेय । अयं पि धर्मो यावत्तृतीयको संघातिशेषो । संघमेवाधिपतिं कृत्वा निःसरणीयो । उद्दिष्टा मे आर्यमिश्रिकायो एकूनविंशति संघातिशेषा धर्माः । तत्र एकदश प्रथमापत्तिकाः अष्टौ यावत्तृतीयकाः । येषां भिक्षुणी इत्यन्यतरान्यतरामापत्तिमापद्यित्वा अर्धमासमुभयतो संघे मानत्वं चरितव्यम् । चीर्णमानत्वा भिक्षुणी कृतानुधर्मा । आह्वयनप्रतिबद्धा यत्र स्याद्विंशतिगणो उभयतो संघो तत्र सा भिक्षुणी आह्वयितव्या । एकेनापि चेदूनोविंशतिगणो उभयतो संघो तां भिक्षुणीमाह्वेय । सा च भिक्षुणी अनाहूता । ते च भिक्षवो ताश्च भिक्षुणीयो गर्ह्याः । इयमत्र सामीची । तत्रार्यमिश्रिकायो पृच्छामि । कच्चित्थ परिशुद्धा । द्वितीयतृतीयं पि आर्यमिश्रिकायो पृच्छामि । कच्चिच्थ परिशुद्धा । परिशुद्धा अत्रार्यमिश्रिकायो यस्मात्तूष्णीमेवमेतन् धारयामि । उद्दानम् । संचरित्रं [१] द्वे अभूते [२,३] । उतसदवादो [४] द्वे विना [५,६] । अननुज्ञाता च [७] । वध्या [८] । च एका नदीन् तरेय [९] । उत्क्षिप्तका सह धर्मेण [१०] । भिक्षुणी च अनवश्रुता [११] ॥ वदेति त्वं प्रतिगृह्णे [१२] । द्वे य भेदेन [१३,१४] आक्रोशो [१५] । दुर्वचकजातीयो [१६] । द्वे संसृष्टा विहरन्ति [१७] । तासाञ्चानुविचारिका [१८] । शिक्षाप्रत्याख्यायिका चैव [१९] । ॥ अष्टौ यावत्तृतीयकाः संघातिशेषाः समाप्ताः ॥ णिःसर्गिकपाच्त्तिकधर्माः ११० १७३. त्रिंशानामादिः । दशाहं [१] । विप्रवासो [२] । अकाले च [३] । जातरूप [४] । क्रयविक्रयो [५] । याचते [६] । सान्तरोत्तरं [७] । द्वे विकल्पेन [८, ९] राजा च [१०] ॥ एतानि साधारणानि । निःसर्गिकपाचत्तिकधर्म ११ शय्यासनस्यार्थाय १७४. भगवां च्छ्रावस्त्यां विहरति । स्थूलनन्दा भिक्षुणी अपरंहि भिक्षुणीविहारे शय्यासनप्रतिग्राहका । सा दानि शय्यासनं याचेति । आह । प्रजापती देहि मञ्चम् । देहि संघस्य पीठम् । बिसि चतुरश्रकम् । कुच्चं बिम्बोहनम् । ता दानि स्त्रियो काचिन्माञ्चस्य मूल्यन् देन्ति । काचित्पीठस्य यावत्काचिद्बिम्बोहनस्य । सा खादति च पिबति च । पात्रं च जानापेति । चीवरं च जानापेति । भिक्षुणीयो पिण्डपातमण्वन्तीयो कुलोपगगृहेहि प्रविशन्ति । ता दानि स्त्रियो पृच्छन्ति । आर्याये नन्दाये मया मञ्चस्य मूल्यं दत्तम् । किञ्चित्ताय जानापितम् । ता दानाहंसुः । किं सा भद्रायिणी जानापयिष्यति । खादति च पिबति च पात्रं च जानापेति । चीवरं जानापेति । स्वके मल्लके वर्षति । एतं प्रकरणं भिक्षुणीयो महाप्रजापतीये गौतमीये आरोचयेंसुः । महाप्रजापती पि गौतमी भगवतो आरोचेति । भगवानाह । शब्दापयथ नन्दाम् । सा दानि शब्दापिता । भगवानाह । सत्यं त्वं नन्दे शय्यासनस्यार्थाय याचित्वा अन्यं चेतापेति । आह । आं भगवन् । भगवानाह । दुष्कृतं ते नन्दे । पेयालम् । तेन हि न क्षमति । शय्यासनस्यार्थाय याचयित्वा अन्यञ्चेतापयित्वा । अथ खलु भगवान्महाप्रजापतीं गौतमीमामन्त्रयति । सन्निपातय गौतमि भिक्षुणीयो यावत्पर्यवदातानि । या पुन भिक्षुणी शय्यासनस्यार्थाय याचयित्वा आत्मनो पात्रं वा चीवरं वा भक्तं वा भोज्यं वा ग्लानभैषज्यं वा चेतापयेन्निस्सर्गिकपाचत्तिकम् । या पुन भिक्षुणीति उपसम्पन्ना । शय्यासनस्यार्थायेति । शय्यासनं नाम मञ्चं पीठं बिसि चतुरस्रं कुच्चं बिम्बोहनम् । याचित्वा ति विज्ञापेत्वा समादापेत्वा । अन्यं चेतापये ति जानापयेत् । पात्रं वा चीवरं वा भक्ष्यं वा भोज्यं वा चेतापयेन्निस्सर्गिकपाचत्तिकम् । निस्सर्गिकपाचत्तिकं ति संघे निस्सरिय पाचतिकं देशयितव्यम् । अनिःसरिय देशेति विनयातिक्रममासादयति । अथ दानि शयनासनं प्रहीणमातृकं भवति । वस्तु प्रदर्शयितव्यम् । इमं मया अमुकातो मञ्चमूल्यं लब्धम् । इमन् तस्य मञ्चं संजानथ । यावद्बिम्बोयधानस्य । तं वस्तुं न दर्शेति विनयातिक्रममासादयति । खण्डं प्रलुग्नं वा वा लेपनिकां वा कर्तुं कुम्भियो उपस्थापयितुं भिक्षुरपि शयनासनस्यार्थाय याचयित्वा अन्यं चेतापेति विनयातिक्रममासादयति । वस्तुन् दर्शेत्वा लभ्यं खण्डं प्रलुग्नादि कर्तुम् । तेन भगवानाह । या पुन भिक्षुणी शय्यासनस्यार्थाय याचित्वा आत्मनो पात्रं वा चीवरं वा भक्ष्यं वा भोज्यं वा ग्लानभैषज्यं वा चेतापये निःसर्गिकपाचत्तिकम् ॥ निःसर्गिकपाचत्तिकधर्म १२ अन्योद्देशिक १७४ . भगवान् श्रावस्त्यां विहरति । स्थूलनन्दा नाम भिक्षुणी ओमलिनमलिनेहि चीवरेहि पाटितविपाटितेहि खण्डेन पात्रेण छिद्रविछिद्रेण पिण्डपातमण्वति । स्त्रियो आहंसुः । नास्त्यार्याये पात्रम् । आह । नास्ति । आह । अहन् ते आर्ये पात्रस्य मूल्यं देमि । पात्रमार्ये जानापेतु । अपरा आह । नास्त्यार्याये चीवरम् । आह नास्ति । आह । अहमार्याये चीवरस्य मूल्यं देमि । चीवरमार्या जानापयितु । सा खादति च पिबति च नैव पात्रं न चीवरं जानापेति । भिक्षुणीयो पिण्डपातमण्वन्तीयो कुलोपगगृहाणी प्रविशन्ति । ता दानि स्त्रियो आहंसुः । मया आर्याये नन्दाये पात्रस्य मूल्यन् दत्तम् । किञ्चित्ताय पात्रं जानापितम् । ता दानि भिक्षुणीयो आहंसुः । किं सा भद्रायणी जानापयिष्यति । सा खादति च पिबति च । एतं प्रकरणं भिक्षुणीयो महाप्रजापतीये गौतमीये आरोचेन्ति । महाप्रजापती पि गौतमी भगवतो आरोचेति । भगवानाह । शब्दापयथ नन्दाम् । सा दानि शब्दापिता । सत्यं नन्दे एवन्नाम त्वं नन्दे अन्योद्देशिकेनान्यं चेतापयसि । आह । आम भगवन् । भगवानाह । दुष्कृतं ते नन्दे यावदेवं नाम त्वमन्योद्देशिकेन अन्यं चेतापयसि । तेन हि न क्षमति अन्योद्देशिकेनान्यं चेतापयितुम् । अथ खलु भगवान्महाप्रजापतीं गौतमीमामन्त्रयति । या पुन भिक्षुणी अन्योद्देशिकेन अन्यं चेतापयेत्निःसर्गिकपाचत्तिकम् । या पुन भिक्षुणीति उपसम्पन्ना । अन्योद्देशिकेनेति पात्रमूल्येन वा चीवरमूल्येन वा । अन्यं चेतापयेदिति भक्ष्यं वा भोज्यं वा निःसर्गिकपाचत्तिकम् । यावत्प्रज्ञप्तिः । एषो दानि भिक्षुणीयो काचित्पात्रं वा चीवरं वा घृतं वा तैलं वा चेतापयितुं मूल्यन् देति ।यस्यार्थाय देति तमेव चेतापयितव्यम् । पात्रमूल्येन पात्रं यावद्घृतमूल्येन घृतम् । अन्यं चेतापयति । निःसर्गिकपाचतिकम् । अथ अनियतं देति यमिच्छति तं जानापेति अनापत्तिः । अथ दानाह । यमिच्छसि तं गृह्णाहीति । यमिच्छति तं जानापेति अनापत्तिः । भिक्षवोरप्येवमेव आपत्तिस्तु विनयातिकरमः । अविवक्षिते अनापत्तिः । यं वा इच्छसि तं गृह्णाहीति तं गृह्णाति अनापत्तिः । तेन भगवानाह । या पुन भिक्षुणी अन्योद्देशकेनान्यं चेतापयति निःसर्गिकपाचत्तिकम् । निःसर्गिकपाचत्तिकधर्म १३ अन्येषां १७५. भगवान् श्रावस्त्यां विहरति । स्थूलनन्दा नाम भिक्षुणी संघस्य भक्तकानि समादायेति । सा छन्दकमण्वन्ती आह । प्रजापति देथ छन्दकम् । आर्यमिश्रिकाणां भक्तं करिष्यामीति । ता दानि स्त्रियो छन्दकं प्रजन्तीन्तीयो जल्पन्ति । आर्ये यस्मिन् दिवसे परिवेषणं भवति । वयं पि परिवेषिका गमिष्यामो ति । अथ सा खादति च पिबति च पात्रं च जानापेति । ताय खादितावशेषेण यादृशं वा भक्तं कृतम् । ता दानि स्त्रियो परिवेषिका आगतः । आहंसुः । आर्ये अस्माभिर्बहुको छन्दको दिन्नो । इमन् दानि भक्तं लूहविलूहम् । भिक्षुणीयो आहंसुः । किमेषा भद्रायणी तं करिष्यति । खादति चैषा पिबति च । पात्रं चीवरं चैषा जानापेति । स्वके चैषा मल्लके वर्षति । एतं प्रकरणं भिक्षुणीयो महाप्रजापतीये गौतमीये आरोचयेंसुः । महाप्रजापती गौतमी भगवतो आरोचयति । भगवानाह । शब्दापयथ नन्दाम् । सा दानि शब्दापिता । सत्यं नन्दे एवन्नाम त्वमन्येषामर्थाय याचित्वा अन्यं चेतापयसि । आं भगवन् । भगवानाह । दुष्कृतं ते नन्दे । अथ खलु भगवान्महाप्रजपतीं गौतमीमामन्त्रयति । सन्निपातय गौतमि भिक्षुणीयो यावत्पर्यवदातानि भविष्यन्ति । या पुन भिक्षुणी अन्येषामर्थाय याचयित्वा आत्मनो पात्रं वा चीवरं वा भक्ष्यं वा भोज्यं वा ग्लानप्रत्ययभैषज्यपरिष्कारान् वा चेतापयति । निःसर्गिकपाचत्तिकम् । या पुन भिक्षुणीति उपसम्पन्ना । अन्येषामर्थाय याचयित्वा संघस्य भक्तस्य वा तर्पणस्य वा य्वागूपानस्य वा याचित्वा आत्मनो पात्रं वा चीवरं वा भक्तं वा भोज्यं वा ग्लानप्रत्ययभैषज्यपरिष्कारान् वा चेतापयेन्निस्सर्गिकपाचत्तिकम् । अथ खलु यस्यार्थाय याचति तमेव जानापयितव्यम् । अथ दानि वस्त्रं विप्रणामेति भक्तस्य वा तर्पणस्य वा य्वागूपानस्य वा अर्थाय याचयित्वा वैभङ्गिकं ददाति । शय्यासनं वा उपस्थापेति वार्षिकं वा हेमन्तिकं वा देति । विनयातिक्रममासादयति । सा एषा भिक्षुणी संघस्य भक्तं दापेति । त्यक्तमुक्तमनवगृहीतं दातव्यम् । यदि तहिं किञ्चिच्छेषं भवति ओदनं वा सूपं वा यावद्भक्ष्यं वा भोज्यं वा उपदर्शयितव्यम् । यद्यादाय गच्छति अध्युपेक्षितव्यम् । अथ दानाह । आर्याय देमीति । वक्तव्यम् । न हि । संघस्य देहि । अथाह दिन्नं मया संघस्य । आर्याय देमीती । प्रतीच्छति । अनापत्तिः । भिक्षोरपि एवमेव आपत्तिस्तु विन्यातिक्रमः । तेन भगवानाह । या पुन भिक्षुणी अन्येषामर्थाय याचयित्वा आत्मनो पात्रं वा चीवरं वा भक्ष्यं वा भोज्यं वा ग्लानप्रत्ययभैषज्य परिष्कारान् वा चेतापयेन्निःसर्गिकपाचत्तिकम् । निःसर्गिकपाचत्तिकधर्म १४ पात्राणां सन्निचयः १७६. भगवान् श्रावस्तीयं विहरति । भिक्षुणीयो आगन्तुका आगताः । तायो भिक्षुणीयो यथावृद्धिकाय उत्थापयन्ति । ता दानाहंसुः याव पात्राणि संक्रामयेमः । तायो दानि अनस्तमिते सूर्ये प्रवृत्ताः संक्रामयितुम् । चन्द्रश्चोद्गतः न चाशेषतः संक्रामितानि । आगन्तुका आहंसुः । आर्ये रिक्तो विहारको । आहंसुः यावत्पात्राणि संक्रामयेमः । ता दानाहंसुः । कियन्त्यार्यमिश्रिकाणां पात्राणि । किमार्यमिश्रिका पात्रापणं प्रसारयिष्यन्ति । का वा जातिः । एतं प्रकरणं भिक्षुणीयो महाप्रजापतीये गौतमीये आरोचेन्ति । महाप्रजापती पि गौतमी भगवतो आरोचेति । भगवानाह । शब्दापयथ तायो भिक्षुणीयो । ता दानि शब्दापिताः । सत्यं भिक्षुणीयो ति । भगवांस्तदेव सर्वं पृच्छीयति । यावदां भगवन् । भगवानाह । एवञ्च नाम यूयं पात्रसन्निचयं करोथ । तेन हि न क्षमति पात्रसन्निचयं कर्तुम् । अथ खलु भगवान्महाप्रजापतीं गौतमीमामन्त्रयति । सन्निपातय गौतमि भिक्षुणीयो यावत्पर्यवदातानि भविष्यन्ति । या पुन भिक्षुणी पात्रसन्निचयं कुर्यान्निःसर्गिकपाचत्तिकम् । या पुन भिक्षुणीति उपसम्पन्ना । पात्रसन्निचयन् ति पात्रन्नाम सुम्भकमुपसम्भकम् । उक्तटेयकं वङ्केटकं तिङ्खिनिपात्रम् । ज्येष्ठकं मध्यमकं कन्यसकम् । अपात्रमतिपात्रं परिष्कारपात्रम् । सन्निचयं कुर्यादिति संग्रहं कुर्यान्निस्सर्गिकं यावत्प्रज्ञप्तिः । भिक्षुणीय षोदष पात्राणि उपस्थापयितव्यानि । एकं पात्रमधिष्ठिहितव्यम् । त्रीणि पात्राणि मित्राणां विकल्पयितव्यानि । चत्वारि अपात्राणि । चत्वारि अतिपात्राणी । चत्वारि परिष्कारपात्राणि । तदुत्तरिमुपस्थापयन्ति निःसर्गिकपाचत्तिकम् । एतं दानि भिक्षुणीये परिमाणं बद्धं पात्रधारणम् । किञ्चापि भिक्षुः बहुकान्यपि पात्राणि विकल्पेत्वा परिभुञ्जाति अनापत्तिः । तेन भगवानाह । या पुन भिक्षुणी पात्रसन्निचयं कुर्यान्निःसर्गिकपाचत्तिकं निःसर्गिकपाचत्तिकधर्म १५ चीवरसन्निचयः १७६ . भगवान् श्रावस्तीयं विहरति । भिक्षुणीयो आगन्तुकाः आगता । ता भिक्षुणीयो यथावृद्धिकाय उपस्थापयन्ति । ता दानाहंसुः यावच्चीवराणि संक्रामेमः । तायो दानि अनस्तमिते सूर्ये प्रवृत्ताः संक्रामयितुम् । चन्द्रोद्गतः न चाशेषतो संक्रामितानि । आगन्तुकायो आहंसुः । आर्ये रिक्तो विहारको । आहंसुः । यावच्चीवरानी संक्रामेमः । ता दानाहंसुः । कियन्त्यार्यमिश्रिकाणां चीवराणि । किमार्यमिश्रिकाः प्रावरिकापणं प्रसारयिष्यथ । का वा जातिः । एतं प्रकरणं भिक्षुणीयो महाप्रजापतीये गौतमीये आरोचयेंसुः । महाप्रजापती पि गौतमी भगवतो आरोचेति । यावद्भगवानाह । या पुन भिक्षुणी या तावदेकं पञ्चचीवरमधिष्ठिहितव्यम् । त्रीणि पञ्च चीवराणि मित्राणां विकल्पयितव्यानि । एवमेतानि विंशति चीवराणि । अतो उत्तरि उपस्थापयेन्निस्सर्गिकपाचत्तिकम् । एतं दानि भिक्षुणीये परिमाणं बद्धञ्चीवरधारणम् । किञ्चापि भिक्षु बहुकानि चीवराणि मित्राणां विकल्पयित्वा परिभुञ्जाति अनापत्तिः । तेन भगवानाह । या पुन भिक्षुणीचीवरसन्निचयं कुर्यात्निस्सर्गिकपाचत्तिकम् ॥ निःसर्गिकपाचत्तिकधर्म १६ निःशृजाति १७७. भगवान् श्रावस्तीयं विहरति । स्थूलनन्दा नाम भिक्षुणी चीवराणि नैव धोवति न सीवेति न रञ्जेति । ताये दानि ओमलिनमलिना संघाटी पाटितविपाटिता । उपाश्रये निक्षिप्ता या इच्छति सा उपादीयतू ति । अथापरा भिक्षुणी जेता नाम लूहचीवरधरा । सा भिक्षुणीहि वुच्चति । आर्ये एतां संघाटिं धोविय सीविय फोषिय प्रावृता । सा दानि स्थूलनन्दा आह । आनेहि आर्ये एतां संघाटिं मह्यमेषा संघाटी । पश्यथ आर्यमिश्रिकायो न किञ्चिच्छक्यते उपाश्रये निक्षिपितुम् । लब्धोत्क्षिप्तिकाहि पूरो संघारामो ताव । धृष्टा च मुखरा च प्रगल्भा च सा दानि ताय संघाटी आच्छिन्ना । एतं प्रकरणं भिक्षुणीयो महाप्रजापतीये गौतमीये आरोचयेंसुः । महाप्रजापती पि गौतमी भगवतो आरोचेति । यावद्भगवानाह । या पुन भिक्षुणी भिक्षुण्युपाश्रये पुराणसंघाटिं निक्षिपेत्वा वा निक्षिपायेत्वा वा या इच्छति सा उपादीयतू ति । उक्त्वा पश्चात्स्वयमेव उपादियेय निस्सर्गिकपाचत्तिकम् । या पुन भिक्षुणीति उपसम्पन्ना । पेयालम् । भिक्षुण्युपाश्रये ति भिक्षुणीविहारे । संघाटीति चीवरम् । निक्षिपेत्वा ति स्वयम् । निक्षिपायेत्वा ति परेण । या इच्छति सा उपादीयतू ति पश्चात्स्वयमेव उपादीयेत निःसर्गिकपाचत्तिकम् । सा एषा भिक्षुणी भिक्षुणीउपाश्रये चीवरं निक्षिपेत्वा वा निक्षिपायेत्वा वा या इच्छति सा उपादीयतू ति यदि काचि उपादिन्नं भवति न क्षमति आच्छिन्दितुम् । आच्छिन्दति निःसर्गिकं भवति । अथ दानि न कायचि उपादिन्नं भवति तस्या एव च ताय अर्थो भवति किञ्चापि गृह्णाति अनापत्तिः । अथ दानि क्षुद्रानुक्षुद्रकं परिष्कारं निक्षिप्तं भवति यदि कायचि उपादिन्नं भवति न क्षमति आच्छिन्दितुम् । आच्छिन्दति विनयातिक्रममासदयति । भिक्षुरपि भिक्षुविहारे पात्रं वा चीवरं वा उपानहं वा क्षुद्रानुक्षुद्रकं वा परिष्कारं निक्षिपित्वा यो इच्छति सो उपादीयतू ति । यदि केनचिदुपादिन्नं भवति न क्षमति आच्छिन्चितुम् । आच्छिन्दति विनयातिक्रममासादयति । अथ न केनचिद्गृहीतं भवति सो एव तेनार्थिको भवति किञ्चापि गृह्णाति अनापत्तिः । तेन भगवानाह । या पुन भिक्षुणी भिक्षुण्युपाश्रये पुराणसंघाटिं निक्षिपेत्वा वा निक्षिपायेत्वा वा या इच्छति सा उपादीयतू ति उक्त्वा पश्चात्स्वयमेव उपादीयेय निःसर्गिकपाचत्तिकम् । निःसर्गिकपाचत्तिकधर्म १७ निःसीवेति १७८. भगवान् श्रावस्तीयं विहरति । अपराय दानि भिक्षुणीय पुराणसंघाटी ओमलिनमलिना धोवित्वा निःसीवित्वा आतपे दत्त्वा वातो च प्रवापितो । अग्निश्च उत्थितः । संघाटी दग्धा । एतं प्रकरणं भिक्षुणीयो महाप्रजापतीये गौतमीये आरोचेन्ति । पेयालं यावद्भगवानाह । एवन्नाम त्वं पुराणसंघाटीं निःसीवित्वा न प्रतिसंधैसि न प्रतिसन्धापयसि । तेन हि प्रतिसन्धेतव्यं प्रतिसन्धापेतव्यम् । एषा चार्थोत्पत्तिः । ता दानि भिक्षुणीयो शाकियकन्यायो मल्लकन्यायो लेच्छवि कन्यायो सुकुमारायो भारिकां संघाटिं धोवन्तीयो किलम्यन्ति । एतं प्रकरणं भिक्षुणीयो महाप्रजापतीये गौतमीये आरोचयेंसुः । महाप्रजापती पि गौतमी भगवतो आरोचेति । यावद्भगवानाह । तेन हि अनुजानामि षट्पञ्चरात्रम् । अथ खलु भगवान्महाप्रजापतीं गौतमीमामन्त्रयति । यावद्भगवानाह । या पुन भिक्षुणी पुराणसंघाटिं निःसीवित्वा निःसिवापेत्वा वा उत्तरि षट्पञ्चरात्रमगिलाना न प्रतिसन्धाये न प्रतिसन्धापयेन निःसर्गिकपाचत्तिकम् । या पुन भिक्षुणीति उपसम्पन्ना । पुराणसंघाटीति पुराणचीवरम् । संघाटीति द्विपुटा । निःसीवित्वा ति स्वयम् । निःसीवापेत्वा ति परेण । उत्तरीति षट्पञ्चरात्रमिति न दानि षट्पञ्च च । अथ खलु परमं षट्रात्रन्न प्रतिसन्धेयैति स्वयं न प्रतिसन्धापेया ति परेण । न प्रतिसन्धापेयन्निस्सर्गिकपाचत्तिकम् । पेयालम् । यावत्प्रज्ञप्तिः । एषा दानि भिक्षुणीये संघाटी मलिना भवति । यदि ताव लहुका भोति तथा येव धोवितव्या । न क्षमति निःसीवयितुम् । अथ दानि सारिका भोति निःसीवेत्वा निःसीवित्वा धोवितव्या । प्रत्यर्गलकानि दत्त्वा आतपे दातव्या । साहरित्वा गोपिटके वा कुण्डके वा पटलके वा स्थापयित्वा काष्ठखण्डेन वा उपलखण्डेन वा आक्रमितव्या । न क्षमति प्रकीर्णमोसारयितुम् । अथ दानि भाजनन्न भवति एकस्थाने आक्रमिय इष्टकेन वा उपलखण्डेन वा स्थापयितव्या । पश्चादन्तेवासिणीय वा समानोपाध्यायिनीया वा भिक्षुणीय प्रतिसन्धापयितव्या स्वयं वा प्रतिसन्धेतव्या । अथ दानि जरादुर्बला व्याधिदुर्बला वा भवति किञ्चापि चिरेण प्रतिसन्धेति अनापत्तिः । तेन भगवानाह । या पुन भिक्षुणी पुराणसंघाटीन्निःसीवित्वा वा निःसीवापेत्वा वा उत्तरि षट्पञ्चरात्रमग्लाना न प्रतिसन्धे वा न प्रतिसन्धापेय वा निःसर्गिकपाचत्तिकम् । निःसर्गिकपाचत्तिकधर्म १८ उक्त्वा शिक्षमाणां १७९. भगवान् श्रावस्तीयं विहरति । अपरा दानि शिक्षमाना उपसम्पाद्या । सा दानि स्थूलनन्दां भिक्षुणीमाह । आर्ये नन्दे उपसम्पादय माम् । सा आह । यदि चीवरं देसि ततो हमुपसम्पादेमि । ताय दानि तस्याश्चीवरं दत्तम् । सा दानाह । आर्ये उपसम्पादय माम् । सा विलक्षेति । सा भिक्षुणीनामाह । एवमेव याव सा विलक्षेति नोपसम्पादेति । एतं प्रकरणं भिक्षुणीयो महाप्रजापतीये गौतमीये आरोचयेंसुः । पेयालम् । यावद्भगवानाह । या पुन भिक्षुणी शिक्षमाणामेवमुक्त्वा यदि मे चीवरं देसि ततो हमुपसम्पादयिष्यामीति ताये चीवरं गृह्य नोपसम्पादयेन्निःसर्गिकपाचत्तिकम् । या पुन भिक्षुणीति उपसम्पन्ना । शिक्षमाणा ति देशितशिक्षा । यदि मे चीवरं देसि ततो हमुपसम्पादयिष्यन् ति । चीवरन् ति चीवरं नाम कम्बलं कर्पासं यावत्संकक्षिका । उपस्थापयिष्यन् ति उपसंपादयिष्यम् । सा तं चीवरं गृह्णित्वा ति यथा स्थूलनन्दा भिक्षुणी न उपसम्पादयेदिति स्वयन्न उपसम्पादयेत्निःसर्गिकपाचत्तिकम् । यावत्प्रज्ञप्तिः । एषा ताव भिक्षुणी शिक्ष्यमाणाया चीवरं गृह्णाति । अहन् ते उपसम्पादयिष्यामीति । ताय उपसंस्थापयितव्या । अथ दानि अप्रतिबला भवति जरादुर्बला व्याधिदुर्बला वा अन्या अध्येषितव्या । वक्तव्या एतस्या मया चीवरं गृहीत्वा इमामुपस्थापेहि । अथ सा नेच्छति तं चीवरं प्रतिदातव्यम् । गच्छ यत्रेच्छसि तत्र उपसंपद्याहीति । सा एषा भिक्षुणी चीवरं गृहीत्वा न उपस्थापेति न चीवरं प्रतिददाति निःसर्गिकपाचत्तिकम् । भिक्षुरपि विनयातिक्रमः । तेन भगवानाह । या पुन भिक्षुणी शिक्षमानामेवं वदित्वा यदि मे चीवररं देसि ततो हमुपसंपादयिष्यन् ति तस्याश्चीवरं प्रतिगृह्णीत्वा न उपसंपादयेन्निःसर्गिकपाचत्तिकम् । निःसर्गिकपाचत्तिकधर्म १९ गुरुप्रावरणं १८०. भगवान् वैशालीयं विहरति । अपरो दानि वाणिजको शतसहस्रमूल्यं कम्बलरतनमादाय उत्तरा पथातो आगतो । सो दानि अपरेहि पृच्छितो किमस्य मूल्यम् । आह । शतसहस्रमूल्यन् ति । नैव राजा क्रीणाति न राजपुत्राः न वणिजाः न सार्थवाहाः । सो दानि वाणिजको वीथीमभिरुहित्वा चिन्तासागरमनुप्रविष्टो आसति । इमं महार्घं मूल्यं भाण्डं बहुशुल्कं न विक्रायति । अपरो दानि पृच्छति । विक्रीतं ते भाण्डम् । आह । नहि इच्छसि विक्रीणितुम् । आह । इच्छामि । आह । गच्छ एषा भद्रा नाम श्रमणिका सा क्रीणीष्यति । सो दानि तं चेटकस्य स्कन्धे आरोपयित्वा भिक्षुणी विहारं गत्वा पृच्छति । कतममार्याये भद्राये परिवेणम् । अपराहि भिक्षुणीहि आख्यातम् । सो दानि प्रविश्य आह । वन्दाम्यार्ये आर्या भद्रानाम आह । बाढम् । किं कर्तव्यम् । आह । इमं कम्बलरतनं विक्रेयं विक्रीणामि । आह । किमेतस्य मूल्यम् । आह । शतसहस्रम् । सा दानि न पणेति न पणापेति । अन्तेवासिनीये आह । गच्छ सालोहितं जल्पाहि इमस्य शतसहस्रं वीथीकातो दापेहीति । सो दानि अपरेहि पृच्छितो । विक्रीतं ते भाण्डम् । आह । विक्रीतम् । आह । केन क्रीतम् । आह । एषा भद्रा नाम श्रमणिका । ताय क्रीतम् । ते दानि ओज्झायन्ति । अद्याप्येषा प्रव्रजिता पि महच्छन्दा । एतं प्रकरणं भिक्षुणीयो महाप्रजापतीये गौतमीये आरोचयेंसुः । महाप्रजापती पि गौतमी भगवतो आरोचेति । भगवानाह । शब्दापयथ भद्राम् । सा दानि शब्दापिता । तदेव सर्वं यावदां भगवन् । भगवानाह । ननु भद्रे पश्चिमा पि नाम जनता अवलोकयितव्या । तेन हि न क्षमति उत्तरि चतुष्कर्षेण गुरुप्रावरणं चेतापयितुम् । यावद्भगवानाह । या पुन भिक्षुणी उत्तरि चतुष्कर्षेण गुरुप्रावरणं चेतापयति ङिस्सर्गिकपाचत्तिकम् । उत्तरि चतुष्कर्षेणेति कर्षो नाम चत्वारः पुराणाः । चत्वारः कार्षाः षोडषकार्षापणाः । गुरुप्रावरणमिति कम्बलरत्नम् । चेतापयेदिति जानापयेत् । तदुत्तरिं परं षोडषेहि पुराणेहि चेतापयति निःसर्गिकपाचत्तिकम् । यावत्प्रज्ञप्तिः । सा एषा भिक्षुणी गुरुप्रावरणं चेतापयितुकामा भवति चतुष्कर्षमूल्यं जानापयितव्यम् । प्रत्यवरो वा तदुत्तरिं न क्षमति । अथ दानि कोचिदयाचितो अविज्ञप्तो महार्घमूल्यं पि ददाति प्रतिगृह्णात्यनापत्तिः । तदेवं भिक्षुणीये परिमाणबद्धम् । किञ्चापि भिक्षुर्महार्घमूल्यं पि जानापयित्वा परिभुञ्जात्यनापत्तिः । तेन भगवानाह । या पुन भिक्षुणी उत्तरि चतुष्कर्षमूल्यातो गुरुप्रावरणं चेतापयेन्निःसर्गिकपाचत्तिकम् । निःसर्गिकपाचत्तिकधर्म २० सुखुमं १८१. भगवान् वैशालीयं विहरति । अपरो दानि वाणिजको दक्षिणपथातो आगतो । दशसहस्रमूल्यं हंसलक्षणपटमादाय । सो दानि अपरेहि पृच्छितो । किं मूल्यम् । आह । दशपुराणसहस्राणि । नैव राजा क्रीणाति । पेयालम् । यावदत्र भद्रा नाम श्रमणिका । सा क्रीणिष्यति । सो दानि तमादाय भिक्षुणीविहारं गतो । पृच्छति । कतममार्याये भद्राये परिवेणम् । अपराहि आख्यातम् । सो दानि प्रविश्य आह । वन्दाम्यार्ये आर्या भद्रा नाम । आह । बाढम् । किं कर्तव्यम् । आह । अयं हंसलक्षणो पटो विक्रायति । आह । किमेतस्य मूल्यम् । आह दशपुराण सहस्राणि । सा न स्वयं पणेति न पणापेति । अन्तेवासिनीमाह । गच्छ सालोहितं जल्पाहि इमस्य पीठिकातो दशपुराणसहस्राणि देहीति । सो दानि अपरेहि पृच्छितो विक्रीतं ते भाण्डम् । आह । विक्रीतम् । आह । केन क्रीतम् । एषा तु भद्रा नाम श्रमणिका । ताय क्रीतम् । ते दानि ओज्झायन्ति । अद्याप्येषा प्रव्रजिता पि महच्छन्दा । एतं प्रकरणं भिक्षुणीयो महाप्रजापतीये गौतमीये आरोचयेंसुः । महाप्रजापती पि गौतमी भगवतो आरोचयति । यावद्भगवानाह । ननु भद्रे पश्चिमा पि नाम जनता अवलोकयितव्या । तेन हि न क्षमति उत्तरि अड्ढातिय कर्षमूल्यातो सुखुमं चीवरं चेतापयितुम् । अथ खलु भगवान्महाप्रजापतीं गौतमीमामन्त्रयति सन्निपातय गौतमि भिक्षुणीयो यावत्पर्यवदातानि भविष्यन्ति । या पुन भिक्षुणी उत्तरि अड्ढातियकर्षमूल्यातो सूक्ष्मं चीवरं चेतापयेन्निस्सर्गिकपाचत्तिकम् । या पुन भिक्षुणीति उपसम्पन्ना । उत्तरिन् ति अतिरेक । अड्ढातियकर्षन् ति । कर्षो नाम चत्वारः पुराणाः । चतापयेदिति जानापयेन् । निःसर्गिक पाचत्तिकं यावत्या पुन भिक्षुणी सुखुमं चीवरं जानापयति दशपुराणमूल्यं जानापयितव्यम् । प्रत्यवरं वा । एतं भिक्षुणीये परिमाणबद्धम् । अथ दानी कोचिदयाचितो अविज्ञप्तो महार्घमूल्यं पि ददाति शतिकं वा साहस्रिकं वा यदि किञ्चापि परिभुञ्जाति अनापत्तिः । किञ्चापि भिक्षु शतसहस्रमूल्यं पि जानापयत्यनापत्तिः । तेन भगवानाह । या पुन भिक्षुणी उत्तरि अड्ढातियकर्षमूल्यातो सुखुमं चीवरं चेतापयेन्निःसर्गिकपाचत्तिकम् । उद्दानम् । शय्यासनस्यार्थाय [११] । अन्योद्देशिको [१२] । अन्येषां [१३] । पात्राणां सन्निचयो [१४] । ऽथ चीवरं [१५] । निःशृजाति [१६] । निःसीवेति [१७] उक्त्वा शिक्षमाणां [१८] । गुरुप्रावरणं [१९] । सुखुमं [२०] ॥ द्वितीयो वर्गः । निःसर्गिकपाचत्तिकधर्म २९ परोपगतं १८२. भगवान् श्रावस्तीयं विहरति । अपरो दानि मनुष्यो काष्ठवाणिज्यां करोति । सो दानि काष्ठवाहमादाय अन्तरापणमोकस्तो । आपणिको आह । किं काष्ठवाहस्य मूल्यम् । आह । कार्षापणं गच्छ गृहद्वारे अवतारिया गच्छाहि । इतो येव कार्षापणं गृहीत्वा यास्यसीति । भवति च शेषं व्यवहारकाले । सो दानि काष्ठवाहमादाय गच्छति । स्थूलनन्दा नाम भिक्षुणी उपाश्रयातो निःक्रमति । तया च दृष्टो । आह । दीर्घायु विक्रयो काष्ठवाहो । आह । विक्रीतो । आह । कथं विक्रीतो । आह । कार्षापणेन । अहं द्वौ कार्षापणा दास्यामि । सो दानि मनुष्य पश्यति यद्यहं द्वौ कार्षापणा लभामि मह्ऽअर्घं मया विक्रीतं भविष्यति । सो तमधिकरित्वा काष्ठवाहमूल्यं गृह्णिय शकटमारुहित्वा तस्यापणिकस्याग्रतेनोपयाति । सो दानाह । आगच्छ कार्षापणं गृह्णाहि । सो दानाह । मया अन्यंहि विक्रीतो । सो दानाह । कथम् । विक्रीतो । आह । द्वाभ्यां कार्षापणाभ्याम् । केन क्रीतो । आह । एषात्र नन्दा नाम श्रमणिका । तया क्रीतो । सो दानि ओज्झायति । कियन्तो ताये श्रमणिकाये कार्षापनाः । मया कार्षापणेन पणितम् । सा द्विहि कार्षापणेहि पणेति । एतं प्रकरणं भिक्षुणीयो महाप्रजापतीये गौतमीये आरोचेन्ति यावद्भगवानाह । या पुन भिक्षुणी जानन्ती परोपगतं चेतापयेन्निःसर्गिकपाचत्तिकम् । या पुन भिक्षुणीति उपसम्पन्ना । जानन्तीति स्वयं वा जानेय परतो वा श्रुणेय आकारवन्तेन दर्शनेन आकारवन्तेन श्रमणेन । परोपगतं ति परेण गृहीतम् । चेतापयेदिति जानापयेत् । निस्सर्गिकपाचतिकम् । पेयालम् । एतं दानि आपणिकस्य वा प्रावरिकस्य वा किञ्चिद्भाण्डमुपगतं भवति । तेन च भिक्षुणी अर्थीका भवति न दानि क्षमति तहिमन्तराययितुम् । यतति निस्सर्गिकं भवति । अथ खु एका श्च स्थित्वा प्रतिपालयितव्यम् । यदानेन प्रतिमुक्तम् । भवति ततो सो पृच्छितव्यो वक्तव्यो । किं त्वया मुक्तो । यदि तावदाह । परिमण्डाम्यहं मे भन्ते । न क्षमति जानापयितुम् । अथ दानाह । जानापयतु आर्ये नाहमर्थिको एतेनेति । जानापयति अनापतिः । अथ दानि भिक्षुणीये किञ्चिदुपक्रेयं भवति पात्रं वा चीवरं वा न क्षमति अन्तरा यतितुम् । यतति विनयातिक्रमः । अथ दानि संघमध्ये वड्ढो वड्ढिकाय जानापयति अनापत्तिः । भिक्षुरपि परोपगतं चेतापयति विनयातिक्रममासादयति । तेन भगवानाह । या पुन भिक्षुणी जानन्ती परोपगतं चेतापयेन्निस्सर्गिकपाचत्तिकम् । शेषा साधारणा । उद्दानम् । पात्र [२१] । बन्धन] [२२] । भैषज्यं [२३] । आच्छेदो [२४] । विकृति [२५] । सूत्रेण । तन्त्र वायेन] द्वे [२६, २७] । द] शाहानागतं [२८] । पर] [२९] । परिणामनेन [३०] ॥ तृतीयो वर्गः । तत्र त्रयो न मत वर्गात् । स्वहस्तं क्रयविक्रयो विकृतिश्च । वर्गावशेषाः । चतुर्थं च भिक्षुणीनां प्रतिग्रहमुद्धरित्वा न जातरूपं समोदहेत् । धोवनामुद्धरित्वा न क्रयविक्रयम् । तत्र निर्दिष्टम् । शाटिकामुद्धरित्वा न विकृतिम् । विज्ञः समोदहे । तत्र उत्क्षिप्य अरण्यवासं न परोपगतम् । तत्र निर्दिष्टा त्रिंशद्दश च अनूनाः कारणे समुत्पन्ने नैःसर्गिक भगवता निर्दिष्टा भिक्षुणीसूत्रे ॥ समाप्ता त्रिंशन्नैस्सर्गिकाः ॥ पाचत्तिका धर्मा १७० १८३. इमे खो पुनरार्येमिश्रिकायो एकचत्तालं शतं शुद्धपाचत्तिका धर्माः । अन्वर्धमासं सूत्रे प्रातिमोक्षे उद्देशमुद्दानम् । मृष [१] । उष्ट्रस्य [२] । पैशुन्यम् [३] । उद्घाटनं [४] । संचिन्त्य तिर्यग्योनि [५] । पदशो [६] । उत्तरि मनुधर्मे [७] । आरोचनाय [८] । यथासंस्तुत [९] विगर्हणाय च [१०] ॥ प्रथमो वर्गः । उद्दानम् । बीजं [११] अन्यवादम् [१२] । ओध्यापन [१३] । मञ्च [१४] शय्या [१५] निकड्ढनं [१६] । पूर्वोपगतं [१७] । वैहायसं [१८] । उदके [१९] । कौकृत्येन [२०] ॥ द्वितीयो वर्गः ॥ उद्दानम् । अवसथो [२१] । परंपर [२२] । प्रावरणा [२४] । अप्रत्युद्धारम् [२३] । अदिन्नं [२५] । विकालो [२६] । सन्निधि [२७] । मच्छा (मन्थ) [२८] । अपनिहे [२९] । गणभोजनेन [३०] ॥ तृतीयो वर्गः ॥ उद्दानम् । ज्योतिः [३१] । सहकार (सहगार) [३२] । च्छन्दम् [३३] । उद्योजना [३४] । त्रयो न्तरायिका [३५] । [३६] । [३७] । [अ]कृतकल्प [३८] । रतन [३९] । भीषनेन [४०] ॥ चतुर्थो वर्गः ॥ उद्दानम् । सप्राणकम् [४१] । अचेलके [४२] । अनुपखज्ज [४३] । प्रतिच्छन्नासनं [४४] । त्रयो सेनायां [४५] । [४६] । [४७] । प्रहरति [४८] । तलशक्तिका [४९] । उदकहास्येन [५०] ॥ पञ्चमो वर्गः ॥ उद्दानम् । अङ्गुलिप्रतोद [५१] । स्तेयसार्थो [५२] । पृथिवी [५३] । प्रवारणा [५४] । न शिक्षिष्यं [५५] । मद्यपानं [५६] । नादर्य [५७] । उपश्रोत्र [५८] । विनिश्चय [५९] । संमोहेन [६०] ॥ षष्ठो वर्गः ॥ उद्दानम् । सभक्तो [६१] । राज्ञः [६२] । सूचीगृहं [६३] । मञ्च [६४] । तूल [६५] । निषीदनं [६६] । कण्डुप्रतिच्छादनं [६७] । सुगतचीवरं [६८] । अभ्याख्यानं [६९] । परिणामनेन [७०] ॥ सप्तमो वर्गः ॥ एते सप्त वर्गाः साधारणाः । यथा येव भिक्षुणा तथा येव कर्तव्याः । पाचत्तिकधर्म ७१ संक्रमणं १८४. भगवान् वैशालीयं विहरति । अथ भद्रा कापिलेयी अन्तेवासिनीये अप्रतिसंविदिता संघाटिं प्रावरित्वा ज्ञातिकुलं गता । भिक्षुणीयो गोचरं प्रस्थितायो । ता दानाहंसुः । एह्यार्ये पिण्डपातं गच्छामः । आह । यावत्संघाटीं गृह्णामि । सा दानि मार्गयति आत्मनः संघाटिन्न पश्यति । ताये दानि भवति अवश्यमार्याय संघाटी प्रावरिता । अर्हति आर्या मम संघाटीं प्रावरित्वा गन्तुम् । सा दानाह । गच्छथ यूयमार्यमिश्रिकायो नाहं गच्छामि किमर्थम् । आर्या संघाटीं प्रावरित्वा गता । ता दानाहंसुः । आर्याये संघाटीं प्रावरित्वा आगच्छाहीति । सा दानाह । नोत्सहामि आर्या मम गुरुवरभावनीया चेति । न गता । सा छिन्नभक्ता संवृता । एतं प्रकरणं भिक्षुणीयो महाप्रजापतीये गौतमीये आरोचयेंसुः । महाप्रजापती पि गौतमी भगवत आरोचयेत् । यावद्भगवानाह । शब्दापयथ भद्राम् । सा दानि शब्दपिता यावत्सत्यं भद्रेति । एतदेव सर्वम् । भगवान् विस्तरेण पृच्छति । यावदेवन्नाम त्वं चीवरसंक्रमणं करोषि । दुष्कृतन् ते भद्रे । तेन हि न क्षमति चीवरसंक्रमणं कर्तुम् । अथ खलु भगवान्महाप्रजापतीं गौतमीमामन्त्रयति । पेयालम् । यावत् । या पुन भिक्षुणी चीवरसंक्रमणं कुर्यात्पाचत्तिकम् । या पुन भिक्षुणीति । पेयालं चीवरन् ति चीवरं नाम संघाटि यावत्दकशाटिका । संक्रमणन् ति अन्या अन्याय । पाचत्तिकं यावत्प्रज्ञप्तिः । न दानि क्षमति अन्तेवासिनीये अप्रतिसंविदिता संघाटीं प्रावरितुम् । अथ दानि प्रावरति वक्तव्या इयं मया संघाटी प्रावरिता । यदि प्रविशेषि मम संघाटीं प्रावरित्वा प्रविशेसि । अथातिरेकं चीवरं भवति वक्तव्या । इयं मया तव संघाटी प्रावरिता । यदि प्रविशेसि इमिना चीवरेण प्रविशेसीति । अथ दानि भिक्षुणी संघाटिं धोवेति वा सीवेति वा रञ्जेति वा । यदि प्रतिबला भवति तस्या अपि संविभागं कर्तव्यम् । वक्तव्या । तिष्ठ त्वमिहेव अहन् तव पिण्डपातसंविभागं करिष्यामीति । भिक्षुणाप्येवं वक्तव्यम् । न वदति विनयातिक्रममासादयति । तेन भगवानाह । या पुन भिक्षुणी चीवरसंक्रमणं कुर्यात्पाचत्तिकम् । पाचत्तिकधर्म ७२ श्रमणचीवरं १८५. भगवान् श्रावस्तीयं विहरति । राष्ट्रपाला भागिनेय । यस्यार्थोत्पत्ति विस्तरेण कर्तव्या । एषा एवार्थोत्पत्तिः । भगवान् श्रावस्तीयं विहरति । गर्तोदरो च गर्तोदरमाता च गर्तोदरपिता च आगरस्यानागरियं प्रव्रजिताः । गर्तोदरपिता गर्तोदरमाता च शाक्येहि प्रव्रजिता गर्तोदरो तीर्थिकेहि । सो दानि हस्तकम्बलेन प्रावृतो शीतेन खणखणायन्तो दन्तवीणिकां वादयन्तो विहारमागतो । स्नेहचरितो मातृग्रामो । सो दानाह । पुत्र गर्तोदर शीत कितो सि । सो दानाह । आम । ताय तस्य उत्तरासङ्गो सुरभो सुफोषितो दिन्नो प्रावरणाय । सो दानि प्रावरित्वा पानागारं गत्वा पिबन्तो आसति । जनो दनि ओज्झायति किमेषां मिथ्यादृष्टिकानां विनिपतितानां यानगर्दभानां सुराभ्रष्टानामृषिध्वजनेन दिन्नेन भिक्षुणीहि श्रुतम् । एतं प्रकरणं भिक्षुणीयो महाप्रजापतीये गौतमीये आरोचयेंसुः । पेयालम् । यावद्भगवानाह । शब्दापयथ गर्तोदरमाताम् । सा दानि शब्दापिता । तदेव सर्वम् । भगवान् विस्तरेण पृच्छति । यावदां भगवन् । भगवानाह दुष्कृतं ते गर्तोदरमाते । तेन हि न क्षमति आगारिकस्य वा परिव्राजकस्य वा स्वहस्तं श्रमणचीवरं दातुम् । अथ खलु भगवान्महाप्रजापतीं गौतमीमामन्त्रयति । पेयालं यावत्पर्यवदातानि भविष्यन्ति । या पुन भिक्षुणी आगारिकस्य वा परिव्राजकस्य वा स्वहस्तं प्रमाणचीवरं दद्यात्पाचत्तिकम् । या पुन भिक्षुणीति उपसम्पन्ना । आगारिकस्येति गृहिणः । परिव्राजकस्येति गौतमजटिलकपर्यन्तं कृत्वा । स्वहस्तन् ति हस्तेन हस्तम् । श्रमणचीवरन् ति ऋषिध्वजम् । दद्यात्पाचत्तिकं यावत्प्रज्ञप्तिः । न क्षमति आगारिकस्य वा परिव्राजकस्य वा स्वहस्तं श्रमणचीवरं दातुम् । अथ दानि भिक्षुणी भवति कृतपुण्या स्त्रियो दानि मङ्गलार्थाय दारकस्य दारिकाये वा काषाय खण्डं याचन्ति । न क्षमति स्वहस्तं दातुं कल्पियकारिकाय दातव्यम् । भिक्षुरपि आगारिकस्य वा परिव्राजकस्य वा स्वहस्तं श्रमणचीवरं देति विनयातिक्रममासादयति । अथ दानि भिक्षुः कृतपुण्यो भवति यावत्कल्पियकारकेण दातव्यम् । न क्षमति महान्तं पटं दातुम् । अथ खु पोत्तिखण्डं दातव्यम् । तेन भगवानाह । या पुन भिक्षुणी आगारिकस्य वा परिव्राजकस्य वा स्वहस्तं श्रमणचीवरं दद्यात्पाचत्तिकम् । १८६. भगवान् श्रावस्तीयं विहरति । भिक्षुणीयो दानि कुमारीनिवस्तं निवासेन्ति । जनो दानि ओज्झायति । एतं प्रकरणं भिक्षुणीहि श्रुतम् । भिक्षुणीयो महाप्रजापतीये गौतमीये आरोचयेंसुः । पेयालम् । यावद्भगवानाह । तेन हि न क्षमति कुमारीनिवस्तेन अन्तरगृहं प्रविशितुम् । भगवता दानि अन्तरवासोऽनुज्ञातो । भिक्षुणीयो दानि यथागतान् पटान्नवान् तन्त्रोद्गतान् पुष्पदशानन्तरवासं कुर्वन्ति । भगवानाह । प्रामाणिको कर्तव्यो । अथ खलु भगवान्महाप्रजापतीं गौतमीमामन्त्रयति । सन्निपात्य गौतमीये यावत् । अन्तर्वासं भिक्षुणीय कारापयन्तीय प्रामाणिको कारापयितव्यो तत्रेदं प्रमाणं दीर्घसो चत्वारि वितस्तियो । सुगत वितस्तिना । तिर्यग्द्वे तदुत्तरिं कारापेय च्छेदनपाचत्तिकम् । पाचत्तिकधर्म ७३, ७४ अन्तर्वासन् ति यत्तद्भगवतानुज्ञातम् । भिक्षुणीय कारापयन्तीयेति स्वयं वा कुर्यात्परेण वा कारापयेत् । तत्रेदं प्रमाणं दीर्घशो ति आयामो । विस्तरो ति तिर्यग्चत्वारि वितस्तियो । सुगतवितस्तिना ति तथागतोऽर्हन् सम्यक्सम्बुद्धो तस्य यो वितस्ति सो द्व्यर्धो मञ्चकपादो तदुत्तरिं कारापयेदिति परं प्रमाणतो च्छेदनपाचत्तिकम् । यावत्प्रज्ञप्तिः । सा एषा भिक्षुणी दीर्घशो करोति प्रामाणिकं तिर्यक्करोति अतिरेकम् । एवं करोति कारापेति निष्ठापनान्तिकमापत्तिः । कृतं लभति परिभोगान्तिकं विनयातिक्रममासादयति । एवं तिर्यक्करोति प्रामाणिकं दीर्घशो करोति अतिरेकम् । अन्ते करोति प्रामाणिकं मध्ये करोति अतिरेकम् । मध्ये करोति प्रामाणिकमन्ते करोति अतिरेकम् । द्विगुणं मापेति उदकेन संकुचति संकुचितं मापेति उदकेन फोषेति शुष्कं वड्ढिष्यतीति पाचत्तिकमासादयति । तेन भगवानाह । अन्तर्वासं भिक्षुणीय कारापयन्तीय प्रामाणिकं कारापयितव्यं तत्रेदं प्रमाणम् । दीर्घशो चत्वारि वितस्तियो । सुगतवितस्तिना । तिर्यग्द्वे तदुत्तरिं कारापेय च्छेदनपाचत्तिकम् ॥ पाचत्तिकधर्म ७४ संकक्षिका १८७. भगवान् श्रावस्तीयं विहरति । अपरा दानि भिक्षुणी प्रासादिका दर्शनीया । ताये दानि पीनेहि स्तनेहि चीवरमुत्क्षिप्तम् । सा मनुष्येहि उच्चग्घीयति । पश्यथ भणे श्रमणिकाय कीदृशं चीवरमुत्क्षिप्तम् । एतं प्रकरणं भिक्षुणीयो महाप्रजापतीये गौतमीये आरोचयेंसुः । पेयालम् । यावद्भगवानाह । तेन हि संकक्षिका नाम कर्तव्या । भगवता दानि संकक्षिका अनुज्ञाता । भिक्षुणीयो तथागतान् पटान् पुष्पदशान् संकक्षिकां कुर्वन्ति । यावत्तेन हि न क्षमति तथागतान् पटान् पुष्पदशान् संकक्षिकां कर्तुम् । यावत्तेन हि प्रामाणिका कर्तव्या । यथान्तर्वासे तथैव कर्तव्यम् । यावत्तेन भगवानाह । संकक्षिकां भिक्षुणीय कारापयन्तीय प्रामाणिका कारापयितव्या तत्रेदं प्रमाणम् । दीर्घशो चत्वारि वितस्तियो । सुगतवितस्तिना । तिर्यग्द्वे । तदुत्तरिं कारापेय च्छेदनपाचत्तिकम् । ण्क ॥ दकशाटिका १८८. वैशाल्यां निदानम् । भद्रा दानि कापिलेयी सर्पिणिकां नदीं स्नानाय गता । चीवरन्निक्षिपित्वा अवतीर्णा स्नानाय । पञ्च लिच्छविकुमाराः ताये प्रतिबद्धचित्ताः नदीतीरे स्थिताः । भद्राये अङ्गयष्टिं पश्यितुकामाः । सा दानाह दीर्घायुः गच्छथ गच्छथ यावदहमुत्तरामि । ता दानाहंसुः । नहि । आर्याये वयमङ्गयष्टिं पश्यितुकामाः । सा दानाह । दिर्घायुः किमनेन पूतिकायेन नवद्वारेणाशुचिप्रघरन्तेन दृष्टेन । प्रक्रमथ यावदहमुत्तरामि । ते दानाहंसुः । नहि नहि । आर्याये वयमङ्गयष्टिं पश्यितुकामाः । ते दानि यदा न गच्छन्ति चिरञ्च भवति । सा दानि अन्धो बालजनो ति कृत्वा एकं हस्तमग्रतो कृत्वा अपरं पृष्ठतः कृत्वा उत्तीर्णा । ते तां विवसनां दृष्ट्वा मूर्च्छिताः पतिताः । उष्णं शोणितं मुखादागतम् । कालगतं कालगताः । एतं प्रकरणम् । पेयालम् । यावद्भिक्षुणीयो भगवन्तमाहंसुः । पश्य भगवन् कथमिय पञ्च लिच्छविकुमाराः प्रतिबद्धचित्ताः भद्रायां मूर्च्छिताः पतिताः । भगवानाह । नैतर्हि येव एते भद्रायां प्रतिबद्धचित्ताः मूर्च्छिताः पतिताः । अन्यदाप्येते भद्रायां प्रतिबद्धचित्ताः अन्यदापि भगवनन्यदापि भिक्षुणीयो । भूतपूर्वं भिक्षुणीयो अतीतमध्वानं यावत्त्रिंशभवने । अन्यतरस्मिं भवने भरणी नाम अप्सरा उपपन्ना । प्रासादिका दर्शनीया अतिरिवान्यासामप्सराणामभिभूय भासते । अतिरिवान्यासामप्सराणामभिभूय भासते तपति विराजते । तस्याः पञ्च देवपुत्राः प्रतिबद्धचित्ताः । शक्रश्च नाम देवानामिन्द्रः । मातलिसंग्राहको । जयो । विजयो । खाणु देवपुत्रो पञ्चमः । ते दानाहंसुः । न तावदेषा शक्या अस्माभिः पञ्चधा कर्तुम् । एष गाथां कुर्मः । योऽत्र सर्वसुष्ठु अध्यवसितो भविष्यति स ग्रहीष्यतीति । शक्रो देवानामिन्द्रो गाथां भाषते । उत्थितो वा निषण्णो वा आसने न लभते सुखम् । शयितो च सुखं लभे यदा कामा जहन्ति मा ॥ [१] ॥ मातलि संग्राहको गाथां भाषयति । सुखं त्वमसि देवेन्द्र यं सुप्तो लभसे सुखम् । भेर्या संग्रामशीर्षे वा सदा कामा हनन्ति माम् ॥ [२] ॥ जयो देवपुत्रो गाथां भषते । भेर्यास्तु हन्यमानाया भवेद्वीची मुहुर्मुहुः । काष्ठस्रोता उपपन्नं वा सदा कामा हनन्ति मे ॥ [३] ॥ विजयो देवपुत्रो गाथां भाषते । काष्ठस्य वुह्यमानस्य भोति संगोजातु तहिम् । पतङ्गस्येव अक्षीणि नित्यमुन्मिलिता मम ॥ [४] ॥ खाणु देवपुत्रो गाथां भाषते । सर्वे भवन्तो सुखिता येषां गाथा प्रतिभान्ति । अहं खलु न जानामि किं जीवामि मरामि वा ॥ [५] ॥ ते देवपुत्रा आहंसुः । त्वं सुष्ठु अध्यवसितो तथैव एषा भरणी । युष्माकं भवतु देवी या सर्वअङ्गशोभना ॥ [६] ॥ भगवानाह । स्याद्वो भिक्षुणियो युष्माकमेवमस्यादन्या सा भरणी नाम अप्सरा अभूषि । नैतदेवं द्रष्टव्यम् । एषा सा भद्रा अप्सरा अभूषि । अन्ये ते देवपुत्राः एतदेव ते पञ्च लिच्छविकुमाराः । तदाप्येते एताय प्रतिबद्धचित्ताः । एतर्ह्यप्येते एताय प्रतिबद्धचित्ताः । भिक्षुणीयो आहंसुः । कस्य भगवन् कर्मणो विपाकेन भद्रा प्रासादिका दर्शनीया महाकुलीना महेशाख्या महाभोगा क्षिप्राधिगमा च । अथ खलु भगवान् भद्रां कापिलेयीमामन्त्रयति । प्रतिभातु ते भद्रे भिक्षुणीनामात्मोपनायिकां पूर्वेनिवासप्रतिसंयुक्तां कथाम् । अथ खलु भद्रा अनेकविधं पूर्वेनिवासमनुस्मरन्ती भिक्षुणीयो आमन्त्रेति । भूतपूर्वं भगिन्यः अतीतमध्वानं नगरं वाराणसी काशीजनपदो । तत्र दानि स्त्री अभूषि दरिद्रा । सा दानि अन्यतराय श्रेष्ठिभार्याय शब्दापिता केशान् प्रसाधनाय । सा ताये श्रेष्ठिभार्याये केशान् प्रसाधयति । बुद्धानां भगवतामनुत्पादात्प्रत्येकबुद्धा उत्पद्यन्ते । अथ शुण्ठीक नाम प्रत्येकबुद्धो पिण्डपाताय चरन्तो तस्मिन् गृहे पिण्डाय प्रविष्टो । प्रत्येकबुद्धस्तूष्णीमेव तिष्ठति । न कोचिदालापिय देति । सा दानि स्त्री तां श्रेष्ठिभार्यामाह । देहि एतस्य भिक्षाम् । सा श्रेष्ठिभार्या ऊर्ध्वमवलोकयित्वा आह । का इमस्यैवं दुर्वर्णस्य अल्पेशाख्यस्य भिक्षान् दास्यति । सा जल्पति । न एते कायप्रासादिका इच्छीयन्ति । चित्तप्रासादिका एते इच्छीयन्ति । सा दानाह । नो तस्य देमि । सा दानि दरिद्रा स्त्री आह । आर्यधीते देहि मे यन्ममाद्यभक्तं त्वया दातव्यं तमहमिमस्य ददामि । ताय दानि आज्ञप्तम् । यन् तवाद्यभक्तं प्रापुणति तं गृहीत्वा उदके प्रक्षिपाहि एतस्य वा देहीति । ताय तं भक्तं प्रतिलद्भम् । हस्तस्यैवं कृत्वा प्रसादेन तस्य प्रत्येकबुद्धस्य दत्तम् । स प्रत्येकबुद्धस्वत एव वैहायसे प्रक्रान्तः । सा दानि दृष्ट्वा तुष्टा उदग्रा आत्तमना गृहं प्रविष्टा । श्रेष्ठिना च दृष्टो गृहातो ऋषी वैहायसेन प्रक्रान्तो । ततः श्रेष्ठि गृहं प्रविष्टो पृच्छति । कोचिदिह ऋषिः प्रविष्टः । आह । प्रविष्टो । आह । किञ्चित्तस्य दत्तम् । आह । नहि । इमाय दरिद्रस्त्रियाय दत्तं श्रेष्ठी उत्कण्ठितो ईदृशो दक्षिणीयो मम गृहं प्रविष्टो न च संमानितो । सो दानि श्रेष्ठी तां स्त्रियमाह । देहि मे एतं पुण्यं यं त्वया अद्य सञ्चितम् । ददामि ते प्रभूतं हिरण्यं सुवर्णम् । सा दानाह । क्षीयति सर्वं धनधान्यं जातरूपं रजतं च । न क्षीयन्ते पुण्येफलं दत्तं मुनीनां सर्वथा । [७] ॥ यदहमेवं दरिद्रा पर वक्तव्या अन्यथा । एतादृशानामदर्शनातसंविभागाच्च भोगानाम् । [८] । दुर्वर्णताय मुच्ये हमवैकल्यता च भोगेहि । मा परदत्तजीविनी आवशा परकुलेहि । [९] ॥ एवं चङ्क्रमेयं न भे यथा चङ्क्रमसे वीर । एवं सीया वीतरागा भवबन्धनविमुक्ता । [१०] ॥ पारत्रिकं सुनिहितमवैकल्यता हृष्टा । भवामि मुदिता [ः ः] दत्त्वा ऋषिस्य आहारम् । [११] ॥ इतो च्यवित्वा उपपद्यिष्यं नन्दने रम्ये तत्र प्रविचारिष्यं देवगणसमाकुले । ॥ भक्तं समये दानं दत्तं मया सुविहितस्य दुःखप्रहाणाय ॥ [१२] ॥ अथ श्रेष्ठिना सा भार्या अवसादिता । सा दरिद्रा स्त्री भट्टारिका स्थापिता । स्याद्वो भगिन्यः अन्या सा दरिद्रा स्त्री नैतदेवं द्रष्टव्यम् । अहमेव सा दरिद्रा स्त्री । यं सो मया प्रत्येकबुद्धो पिण्डपातेन प्रतिमानितो प्रसन्नचित्ताय तस्य कर्मणो विपाकेनाहं प्रासादिका । पेयालम् । अपि तु भगिन्यः नैतदेवं मया कुशलमूलमवरोपितं येनाहं प्रासादिका दर्शनीया । क्षिप्राधिगमा च । अन्यदा पि मया कुशलमूलमवरोपितम् । १८९. भूतपूर्वं भगिन्योऽतीतेऽध्वनि वाराणसीयं नगरे कायचि स्त्रियाय लोहचक्रं पटलके कृत्वा पुष्पेहि ओकिरित्वा काशिकेन वस्त्रेण प्रतिच्छादेयित्वा भगवतो काश्यपस्य दत्तम् । दत्त्वा च प्रणिधानमकार्षीत् । रथस्य चक्रं सनाभिनेमिकं वस्त्रोत्तमेन प्रतिच्छादयित्वा ये मुनिवरसाक्षिकृता हि धर्मा अहमपि तं साक्षिकरोमि धर्मम् । सा दानि केनचित्कार्येण अपराधिनी स्वामिना अवसादिता । सा दानि उत्कण्ठिता । आह । धिगस्तु स्त्रीभावः । परिभूतो मातृग्रामः । गच्छामि उद्बन्धिष्यम् । सा रज्जुमादाय निर्गता । तत्र च नातिदूरे भगवतो काश्यपस्य स्तूपं दृष्ट्वा प्रसादजाता । अलङ्कारविभूषिता काशिकवस्त्रप्रावृता चन्दानुलिप्तगात्रा सा चिन्तयति । अहं मरिष्यम् । भगवतो काश्यपस्य स्तूपे पूजां करिष्यम् । सा प्रसन्नचित्ता तानि अलङ्काराणि मुञ्चित्वा स्तूपे अवकिरित्वा काशिकेन वस्त्रेणाच्छादयित्वा चन्दनेनानुलिम्पित्वा प्रणिधानमकार्षीत् । अनागतेऽध्वनि एवम्विधं शास्तारमारागीयेयम् । स च मे धर्मन् देशेय तस्याहं धर्मन् देशितमाजानेयन् ति । सा तहिमुद्बन्धित्वा कालगता । तावत्त्रिंशभवने उपपन्ना । अप्सरसहस्रपरिवृता सा तहिं यावदायुः स्थित्वा ततश्च्यवित्वा मनुष्येषूपपन्नाः । वैशलीयं कापिलस्य गोत्रस्य ब्राह्मणकुले उपपन्ना । ताये दानि ज्ञातिकेहि भद्रेति नाम कृतम् । अनर्थिका कामगुणेहि पञ्चहि या निष्क्रमित्वा प्रव्रजिता सर्वास्रवक्षयमकार्षीत् । काशिकानि वस्त्राणि प्रत्यग्रं चानुलेपनं भगवतो काश्यपस्य या प्रसन्नाभिरोपयेत् । सा कापिलेयी भगवतो पादां वन्दति शास्तुनो । यावद्भगवानाह । तेन हि दकशाटिका नाम कर्तव्या । भिक्षुणीयो आहंसुः । पश्य भगवन् कथमियं भद्रा स्थविरमहाकाश्यपेन सार्धं प्रव्रजिता । भगवानाह । न एतर्हि येव एते उभये प्रव्रजिता । अन्यदाप्येते उभये प्रव्रजिताः । अन्यदापि भगवनन्यदापि भिक्षुणीयो । भूतपूर्वं भिक्षुणीयो अतीतमध्वानं चत्वारो राजऋषयः कुम्भकारकुले वासमुपगताः । खाणुवर्णः कलिङ्गानां गन्धारानाञ्च भार्गवो । निमी राजा विदेहानामुग्रसेनश्च क्षत्रियः ॥ [१३] ॥ एते चत्वारो राजऋषयः उग्रतेजा महाबला कुम्भकारकुले वास एकरात्रमुपागमत् । कुम्भकारमुपसम्क्रम्य तानेव परिपृच्छति । किं दृष्ट्वा श्रुत्वा वा प्रव्रज्यामारोचथ । खाणुवर्णः महाराजा कलिङ्गानां नरऋषभः । पृच्छितो कुम्भकारेण इदं वचनमब्रवीत् ॥ [१४] ॥ शङ्खां सुवर्णोत्तरनिष्ठितान्नारि । पिनन्धन पिनन्धति शब्द द्वितीया तु समागता यतो रमागता यतो संसर्गदोषं दृष्ट्वा श्रुत्वा च भिक्षुचर्याञ्चरामि ॥ [१५] ॥ भार्गवो पि महाराजा गन्धाराणां नरर्षभः । पृच्छितो कुम्भकारेण इदं वचनमब्रवीत् ॥ [१६] ॥ द्विजा तु कुणपस्य कारणा । एकस्यास्ति बहुका पतन्ति । आहारहेतोः परिधावन्ति । तां दृष्ट्वा भिक्षुचर्याञ्चरामि ॥ [१७] ॥ निमी अपि महाराजा वैदेहो मिथिलाधिपः । पृच्छितो कुम्भकारेण इदं वचनमब्रवीत् ॥ [१८] ॥ अहदृशी मेघसमानवर्णाम् । तेलापकांश च्छुरितान् समानान् । तामेव फलहेतोर्विभग्नगतां दृष्ट्वा संविग्नो भिक्षुचर्याञ्चरामि ॥ [१९] ॥ उग्रसेनो पि महाराजा क्षत्रियाणां नरर्षभो । पृच्छितो कुम्भकारेण इदं वचनमब्रवीत् ॥ [२०] ॥ र्षभस्तादृशाय शोभाय मध्ये । चलत्ककुदवर्णेन वपुषा उपेतो । तमदृशासि कामहेतोर्विभग्न । भग्नं तं दृष्ट्वा भिक्षुचर्यां चरामि ॥ [२१] ॥ सर्वे इमे देवसमा समागताः । अग्निर्यथा प्रज्वलितो निशाय । अहमपि प्रव्रजिष्यं ..... । अपहाय कामानि मनोरमाणि ॥ [२२] ॥ कुम्भकारभार्या कथयति । अयमेव कालो नहि अन्यदस्ति । अनुशासको नास्ति इतो बहिर्धा । अहमपि प्रव्रजिष्यम् । पुत्रका मह्यं कहिं गमिष्यन्ति ॥ [२३] ॥ आमं पक्वन्न जानन्ति अथ लोणमलोणकम् । शकुनीव मुक्ता पुरुषस्य हस्तात् । अजातपक्षा बाला पुत्रका अजानकाः ॥ [२४] ॥ प्रव्रजितमनुप्रव्रजामि चरन्तमनुचराम्यहम् ॥ [२५] ॥ निमी राजा बोधिसत्त्वः कलिङ्ग पि शारिसुतः । उग्रसेनश्च मौद्गल्यो आनन्दो आसि भार्गवो । कुम्भकारः काश्यपो आसि भद्रा सा कुम्भकारिका ॥ [२६] ॥ तदाप्येते उभये प्रव्रजिताः । एतर्ह्यप्येते उभय प्रव्रजिताः ॥ [२७] ॥ भगवता दानि भिक्षुणीनामुदकशाटिका अनुज्ञाता । भिक्षुणीयो दानि तथागतान् पटान् दकशाटिकां कुर्वन्ति । भगवानाह । तेन हि न क्षमति यथागतं पटं दकशाटिकां कर्तुम् । यावच्छिक्षापदं प्रज्ञप्तम् । दकेशाटिकां भिक्षुणीय कारापयन्तीय प्रामाणिका कारापयितव्या । तत्रेदं प्रमाणन् । दीर्घशो चत्वारि वितस्तियो । सुगतवितस्तिना । तिर्यग्द्वे तदुत्तरिं कारापये च्छेदनपाचत्तिकम् । दकशाटिका ति या सा भगवता अनुज्ञाता । कारापयन्तीये ति स्वयं कुर्यात्परेण वा कारापये । प्रामाणिकन् ति तत्रेदं प्रमाणं चत्वारि वितस्तियो । सुगतवितस्तिना ति सुगतो नाम तथागतोऽर्हन् सम्यक्सम्बुद्धो तस्य यो वितस्ति सो द्व्यर्धो मञ्चकपादो तिर्यग्द्वे तदुत्तरिं कारापये पाचत्तिकम् । अथ दानि एकान्ते निकुञ्जे प्रदेशे स्नायन्ति विना दकशाटिकाय अनापत्तिः । भिक्षुरपि विना दकशाटिकाय स्नायति विनयातिक्रममासादयति । अथ निकुञ्जप्रदेशे स्नायति विना दकशाटिकाय अनापत्तिः । तेन भगवानाह । दकशाटिकां भिक्षुणीय कारापयन्तीय प्रामाणिका कारापयितव्या । तत्रेदं प्रमाणम् । दीर्घशो चत्वारि वितस्तियो । सुगतवितस्तिना । तिर्यग्द्वे । तदुत्तरिं कारापये च्छेदनपाचत्तिकम् ॥ पाचत्तिकधर्म ७६ कठिन १९०. भगवान् श्रावस्तीयं विहरति । स्थूलनन्दा नाम भिक्षुणी भिक्षुणीसंघेन अध्येष्टा । शक्यसि आर्ये संघस्य कृतेन पटान् याचितुम् । सा दानाह । शक्यम् । सा दानि दुर्बलकुलेषु गत्वा आह । महापुण्यो शक्यसि संघस्य पटं दातुम् । आहंसुः । आर्ये आज्ञास्यामः पुनरप्यागमिष्यसि । सा पुनः पुनरागच्छति । आहंसुः । ज्ञास्यामः ज्ञास्याम इति । सा दानि जल्पति । यदि यूयं दातुकामा ददथ । अयं संघस्य चीवरकालो अतिक्रमति । किं ज्ञास्याम इति वदथ । तेहि दानि न दत्तम् । चीवरकालोऽतिक्रान्तो । एतं प्रकरणं भिक्षुणीयो महाप्रजापतीये गौतमीये आरोचयेंसुः यावद्भगवानाह । या पुन भिक्षुणी दुर्बलाय चीवरप्रत्याशाय संघस्य कठिनास्तारं व्यतिनामयेत्पाचत्तिकम् । या पुन भिक्षुणीति उपसम्पन्ना । दुर्बलायेति अप्रतिबलाय । चीवरप्रत्याशायेति चीवरं नाम कालं यावत्क्षौमुनिका । संघस्य कठिनास्तारिकम् । व्यतिनामयेदिति अतिक्रामयेत्पाचत्तिकं यावत्प्रज्ञप्तिः । एषा दानि भिक्षुणी उत्साहीयति । आर्ये शक्ष्यसि संघस्य कठिनं याचितुम् । यदि प्रतिबला भवति उत्सहितव्यम् । उत्सहित्वा न दुर्बलकुलानि याचितव्यानि । अथ खलु ये प्रतिबलाः पिता पुत्रा वा भ्रातरौ वा भगिनीयो वा ज्ञातिसम्बन्धा वा गोत्रसम्बन्धा वा ते याचितव्या । ते प्रतिबला दातुं ते याचित्वारोचयितव्याः । अथ दानाहंसुः ज्ञास्याम ज्ञास्याम इति वक्तव्या । देथ वा प्रत्याख्याथ वा चीवरकालोऽतिक्रमति । अथ दानि अप्रतिबला भवति उत्साहयितव्या सा एषा भिक्षुणी संघस्य कठिनविवरार्थाय । उत्सहयित्वा नैव याचति नैव यावयेति न भिक्षुणीसंघस्यारोचयति न लभ्यतीति पाचत्तिकमासादयति । फु । भिक्षुरपि दुर्बलाय चीवरप्रत्याशाय संघस्य कठिनास्तारं व्यतिनामयेति विनयातिक्रममासादयति । तेन भगवानाह । या पुन भिक्षुणी दुर्बलाय चीवरप्रत्याशाय संघस्य कठिनास्तारं व्यतिनामयेत्पाचत्तिकम् । फु ॥ पाचत्तिकधर्म ७७ चीवरपारिहारिकं १९१. भगवान् श्रावस्तीयं विहरति । ता दानि भिक्षुणीयो सान्तररोत्तरेण प्रावृता भगवतो पादवन्दिका आगता तासां निर्गतानामग्निदाह उत्पन्नः । तासां दग्धानि चीवराणि । एतं प्रकरणं भिक्षुणीयो महाप्रजापतीये गौतमीये आरोचयेंसुः । पेयालम् । यावदाम भगवन् । भगवानाह । एतं व त दानि यूयं पारिहारिकं चीवरं न परिहरथ । तेन हि पारिहारिकं चीवरं परिहरितव्यम् । एषा येवार्थोत्पत्तिः । भगवान् श्रावस्तीयं विहरति । ता दानि भिक्षुणीयो शाकीयकन्यायो च मल्लकन्यायो च कोलितकन्यायो च सुकुमारप्रव्रजिता च । भारिकां संघाटिं परिहरन्तीयो किलम्यन्ती । एतं प्रकरणं भिक्षुणीयो महाप्रजापतीये गौतमीये आरोचयेंसुः । पेयालम् । यावद्भगवानाह । तेन हि अनुजानामि ग्लानाये । अथ खलु भगवान्महाप्रजापतीं गौतमीमामन्त्रयति । सन्निपातय गौतमि । पेयालम् । यावत् । या पुन भिक्षुणी अगिलाना पारिहारिकं चीवरं न परिहरति पाचत्तिकम् । या पुन भिक्षुणीति उपसम्पन्ना । पारिहारिकं चीवरन् ति संघाटी यावत्दकशाटिका । परिहरतीति येन गच्छेय तहिं नेतव्या । अगिलाना ति प्रत्युद्धृतं पदं भगवता अनापत्तिः गिलानाय । सा एषा भिक्षुणी अगिलाना पारिहारिकं चीवरं न परिहरति पाचत्तिकमासादयति । अथ दानि चेतियं वन्दति चङ्क्रमति वा अन्तो सीमं वा गच्छति अनापत्तिः । भिक्षुरपि पारिहारिकं चीवरं न परिहरति विनयातिक्रममासादयति । तेन भगवानाह । या पुन भिक्षुणी अगिलाना पारिहारिकं चीवरं न परिहरति पाचत्तिकम् । पाचत्तिकधर्म ७८ पचति १९२. भगवान् वैशालीयं विहरति । भद्राये दानि कापिलेयीये ज्ञातिकुलातो देवसिकं भक्तमानीयति । सा तं विहारके पचित्वा खादति । ताये दानि पुत्रभ्रातृका आगताः । भद्राये अवलोकनाय गताः । सान्येषामाह भुञ्जिष्यथ । ते दानाहंसुः भुञ्जिष्यम् । ताये ततो दिन्नम् । आह । मृष्टं खल्विमम् । कुतो इमम् । सा दानाह । युष्माकं गृहातो आनीतम् । आहंसुः । अस्माकं गृहे न एवं मृष्टं पच्यति । आह । किं युष्माकं भद्रायिणीयो चेटियो जानिष्यन्ति । कथं परितव्यन् ति । एवमेवोपकरणानि अस्फातिका कुर्वन्ति । ते दानि गृहं गत्वा ता दासीयो दण्डकशाहतायो कृतायो । इतिकितिकाये धीतरो एवमेत्तकमुपकरणं ददामो यूयमस्फातिकं करोथ । ता रोदमाना आहंसुः । आर्यधीता अस्माकं हनायेति । भिक्षुणीहि श्रुतम् । एतं प्रकरणम् । पेयालम् । यावद्भगवानाह । दुष्कृतं ते भद्रे । तेन हि न क्षमति पराहृतं खादनीयं वा भोजनीयं वा पचितुं वा पचायितुं वा भृज्जितुं वा भृज्जापयितुं वा । एषा एवार्थोत्पत्तिः । भगवां च्छ्रावस्तीयं विहरति । ता दानि भिक्षुणीयो शाकियकन्यायो च कोलितकन्यायो च पिण्डाय चरन्तीयो । पर्युपासितं भोजनं लभन्ति । पर्युपासितमोदनम् । पर्युपासितं सूपम् । पर्युपासितं शाकम् । पर्युपासितं कुल्माषम् । तायो भुक्त्वा भुक्त्वा वमन्ति । एतं प्रकरणं भिक्षुणीयो महाप्रजापतीये गौतमीये आरोचयेंसुः । पेयालम् । यावत्लभ्यं भगवन् भिक्षुणीय तूष्णीं कृत्वा भोक्तुम् । भगवानाह लभ्यम् । अथ खलु भगवान्महाप्रजापतीं गौतमीमामन्त्रयति । यावत्पर्यवदातानि भविष्यन्ति । या पुन भिक्षुणी पराहृतं खादनीयं वा भोजनीयं वा पुनो पुनो पचित्वा वा पचापेत्वा वा भृज्जित्वा वा भृज्जापेत्वा वा कठित्वा वा कठापेत्वा वा अगिलाना खादये वा भुञ्जेय वा पाचत्तिकम् ॥ या पुन भिक्षुणीति । पेयालम् । पराहृतन् ति ग्रामतो वा आनीतं नगरतो वा आनीतम् । खादनीयन् ति खादनीयं भोजनीयन् ति भोजनीयम् । पचित्वा ति स्वयम् । पचापयित्वा ति परेहि । भृज्जित्वा ति स्वयम् । भृज्जापयित्वा ति परेहि । कठित्वा ति स्वयम् । कठापयित्वा ति परेहि । अगिलाना ति प्रत्युद्धृतं भगवता पदमनापत्तिर्गिलानाये । किन् दानि अत्र गैलान्यमभिप्रेतम् । जरादुर्बला वा भोति व्याधिदुर्बला वा भुक्त्वा वा वमति । अफासुं वा भोति इदमत्र गैलान्यमभिप्रेतम् । सा एषा भिक्षुणी रसगृध्या पराहृतं पिण्डपातं पुनो पुनो पचेय वा पचापेय वा पाचात्तिकमासादयति । अथ दानि शीतलं भवति लभ्या उष्णीकर्तुम् । न दानि थालिकाय वा पिठरिकाय वा । अथ खलु ताम्रपात्रेण वा कुपात्रेण वा कांसिकाय वा उष्णीकर्तव्यम् । भिक्षुरपि स्वयं पचति विनयातिक्रममासादयति । अथ दानि कल्पियकारेण पचापेति अनापत्तिः । अथ दानि शीतलो भवति पिण्डपातो उष्णीकरोति अनापत्तिः । तेन भगवानाह । या पुन भिक्षुणी पराहृतं खादनीयं वा भोजनीयं व पुनो पचित्वा वा पचापेत्व वा भृज्जित्वा वा भृज्जापयित्वा वा कठित्वा वा कठापयित्वा वा अगिलाना खादेय वा भुञ्जेय वा पाचत्तिकम् । ह्रा ॥ पाचत्तिकधर्म ७९ दकविजनेन १९३. भगवान् श्रावस्तीयं विहरति । गर्तोदरो च गर्तोदरमाता च गर्तोदरपिता च अगारस्यानगारियं प्रव्रजिताः । गर्तोदरपिता च गर्तोदरमाता च शाक्येहि प्रव्रजिता गर्तोदर तिर्थकेषु । गतोदरपिता भुञ्जति गर्तोदरमाता वीजयन्ती अग्रतो तिष्ठति पानीयमल्लकं धारेति । सो दानि ताये कानिचित्कानिचित्पूर्वचरितानि जल्पति । यानि ताये अमनआपानि । ताय तस्य पानीयमल्लकं मस्तके आपिट्टितम् । वीजनदण्डेन च मस्तके आहतो । अखल्लमहल्लअकुशलअप्रकृतिज्ञः । अद्यापि त्वमजल्पितव्यानि जल्पसि । सा भिक्षुणीहि दृष्टा । ता दानाहंसुः । मा आर्ये एवं करोहि । अग्रपरिषा एषा न लभ्या एवं कर्तुम् । सा दानाह । अयं खलु अखल्ल अकुशलो अप्रकृतिज्ञो अद्यापि यानि तानि अजल्पितव्यानि जल्पति । एतं प्रकरणं भिक्षुणीयो महाप्रजापतीये गौतमीये आरोचयेंसुः । यावद्भगवानाह । दुष्कृतं ते गर्तोदरमाते । नैष धर्मो नैष विनयो । एवं च दानि भिक्षुं भुञ्जन्तं दकवीजनेन उपस्थिहसि । तेन हि न क्षमति दकवीजनेन उपस्थिहितुम् । यावद्भगवानाह । या पुन भिक्षुणी भिक्षुं भुञ्जन्तं दकवीजनेन उपस्थिहेय पाचत्तिकम् । या पुन भिक्षुणीति उपसम्पन्ना । पेयालम् । भिक्षुन् ति उपसम्पन्नम् । पे । भुञ्जन्तं ति पञ्चजातकं वा पञ्चजातकसंसृष्तं वा यद्वा किञ्चित्खाद्यं भोज्यम् । दकवीजनेन उपस्थिहेया ति पानीयमल्लकं धारयेत् । वीजनवातं वा दद्यात्पाचत्तिकम् । यावत्प्रज्ञप्तिः । सा एषा भिक्षुणी उदकमल्लकन् धारयति नीवीजनं विनयातिक्रममासादयति । वीजयति न उदकमल्लकन् धारेति विनयातिक्रममासादयति । उभयं करोति पाचत्तिकम् । नोभयमनापत्तिः । सा एषा आपत्तिः एकस्य भिक्षुस्य एकभिक्षुणीये । अथ दानि संबहुला भिक्षू भवन्ति अनापत्तिः । अथ दानि भिक्षुणीये पिता वा भ्राता वा भिक्षुर्भवति किञ्चापि वीजयत्यनापत्तिः । तेन भगवानाह । या पुन भिक्षुणी भिक्षुं भुञ्जन्तं दकवीजनेन उपस्थिहेय पाचत्तिकम् ॥ ० ॥ पाचत्तिकधर्म ८० लशुनञ्च खादति १९४. भगवान् राजगृहे विहरति । मेघीयो नाम लशुनवाणिजको । तेन भिक्षुणीसंघो लशुनेन उपनिमन्त्रितो । ता दानि षड्वर्गिणीयो खादन्ति पि मर्देन्ति पि उज्झेन्ति पि विश्राणेन्ति पि आदाय पि गच्छन्ति । सो दानि कदाचित्वाटं प्रत्यवेक्षितुङ्गतः । तेन दानि सो दृष्टो वाटो विध्वस्तो । सो दानाह । केनायं वाटो विध्वस्तो । आह त्वया आर्यमिश्रिका उपनिमन्त्रिताः । लशुनेन तायो दानि खादन्ति मर्देन्ति पि उज्झेन्ति पि विश्राणेन्ति पि आदाय पि गच्छन्ति । तस्य दानि अप्रसादो जातो । आह । यदि खादन्ति किं मर्देन्ति । पेयालम् । एतं प्रकरणं भिक्षुणीयो महाप्रजापतीये गौतमीये आरोचयेंसुः । यावद्भगवानाह । या पुन भिक्षुणी लशुनं खादेय पाचत्तिकम् ॥ लशुनन् ति लशुनं नाम जातिमं सेविमं नागरं कच्छरुहं पार्वतेयं ब्रह्मदेयमावरन्तकं मागधकं कोसलकम् । यं चा पुनरन्य पि किञ्चिल्लशुनं सर्वं लशुनं न क्षमति । आमन्न क्षमति पक्वन्न क्षमति । यकृन्न क्षमति । कापि कापि न क्षमति अभ्यन्तरपरिभोगाय । अथ दानि भिक्षुणीय गण्डं वा पिटकं वा क्षतं वा उपहतं वा भवति लभ्यन् तं म्रक्षितुम् । म्रक्षयित्वा न क्षमति अभ्यागमे प्रदेशे स्थातुम् । अथ खु प्रतिगुप्ते प्रदेशे स्थातव्यं यावद्वर्त्ता भवति । +++++ धोविय निष्क्रमितव्यम् । तेन भगवानाह । या पुन भिक्षुणी लशुनं खादेय पाचत्तिकम् ॥ १ ॥ उद्दानम् । संक्रमणं [७१] श्रमणचीवरम् [७२] । अन्तर्वासं [७३] । संकक्षिका [७४] । दकशाटिका [७५] कठिन [७६] । चीवरपारिहारिकं [७७] । पचति [७८] । दकवीजनेन [७९] । लशुनञ्च खादति [८०] । अष्टमो वर्गः ॥ पाचत्तिकधर्म ८१ देति १९५. भगवान् श्रावस्तीयं विहरति । राष्ट्रपालाय भिक्षुणीय भगिनी कालगता । सा दानि तासां भागिनेयकानां नानाप्रकारं खज्जं भोज्जं भक्षयित्वा देति । जनो दानि ओज्झायति । पश्यथ भणे श्रमणिका श्रद्धादेयं गृहिणान् ददाति । एतं प्रकरणं भिक्षुणीयो महाप्रजापतीये गौतमीये आरोचयेंसुः । यावच्छब्दापयथ राष्त्रपालाम् । सा दानि शब्दापिता । तदेव सर्वं भगवान् विस्तरेण पृच्छति । आह । आं भगवन् । भगवानाह । तेन हि न क्षमति आगारिकस्य स्वहस्तं खादनीयं भोजनीयं दातुम् । एषा एवार्थोत्पत्तिः । गर्तोदरो च गर्तोदरपिता च गर्तोदरमाता च अगारस्यानगारियं प्रव्रजिता । गर्तोदरपिता गर्तोदरमाता च शाक्येहि प्रव्रजिताः । गर्तोदर तीर्थिकेहि प्रव्रजितः । यावत्स गर्तोदरमातुः सकाशमुपसंक्रान्तो ताय गर्तोदरमाताय तस्य नानाप्रकारस्य खज्जकस्य पूरं पात्रं दिन्नम् । सो दानि तं गृह्य पानागारं गत्वा आत्मना च खादति पारांश्च छन्देति । ते दानाहंसुः । कहिं त्वया इमं लब्धम् । सो दानाह । मा शब्दम् । शाकियायिनानां श्रमणीयो दक्षिणीयायो । तासां पि वयं दक्षिणीयायो । तासां पि वयं दक्षिणीयाः । जनो दानि ओज्झायति । भिक्षुणीहि श्रुतम् । एतं प्रकरणम् । पेयालम् । यावद्भगवानाह । दुष्कृतन् ते गर्तोदरमाते । तेन हि न क्षमति आगारिकस्य वा परिव्राजकस्य वा खादनीयं वा भोजनीयं वा दातुम् । अथ खलु भगवान् । पेयालम् । यावत् । या पुन भिक्षुणी आगारिकस्य वा परिव्राजकस्य वा स्वहस्तं खादनीयं वा भोजनीयं वा दद्यात्पाचत्तिकम् । या पुन भिक्षुणीति उपसम्पन्ना । आगारिकस्येति गृहिणः । परिव्राजकस्येति गौतमजटिलकपर्यन्तस्य । स्वहस्तन् ति हस्तेन हस्तम् । भाजनेन वा भाजनम् । खादनीयन् ति यं खादनीयम् । भोजनीयन् ति यं भोजनीयम् । दद्यात्पाचत्तिकम् । एष दानि भिक्षुणीय कोचिदागच्छति । सालोहितो वा भ्राता वा । यदि तावदस्य किञ्चिद्दातुं भवति न क्षमति स्वहस्तं दातुम् । कल्पियकारिकाय दातव्यम् । अथ दानि कल्पियकारी न भवति वक्तव्यम् । अतो स्वयं गृह्णीय खादथ । अथ दानि पश्यति । रसगृद्धी य एषो सर्वं खादतीति । यत्तकं परित्यक्तं तत्तकं प्रतिग्राहयित्वा शेषम् । वक्तव्यो । गोपेहीति । ततो भूमीयन्निक्षिपिय वक्तव्यो । गृह्णीय खादथ । अथ दानि प्रव्रजितको आगच्छति न क्षमति स्वहस्तं खादनीयं वा भोजनीयं वा दातुम् । कल्पियकारीय दातव्यम् । अथ दानि कल्पियकारी न भवति अतो येव गृह्णीय खादाहीति । अथ दानाह । सालोहिते किमस्माकं चण्डालेहि विय प्रवर्तसि । वक्तव्यम् । तथा यूयं दुराख्याते प्रवचने प्रव्रजिताः । अथ दानि ग्रामान्तरं गच्छति लभ्यन् तेन कल्पियकृत्यं कारापयितुम् । अतो आत्मा च खादथ अस्माकञ्च प्रतिग्राहथ । अथ दानि जानाति । रसगृध्रा इति शेषं पूर्ववत् । तेन भगवानाह । या पुन भिक्षुणी आगारिकस्य वा परिव्राजकस्य वा स्वहस्तं खादनीयं वा भोजनीयं वा दद्यात्पाचत्तिकम् ॥ पाचत्तिकधर्म८२, ८३ चिकितसति १९६. भगवान् कौशाम्बीयं विहरति । छन्दकमाता भिक्षुणी राज्ञोऽनतःपुरं प्रविशति । कुशला मूलभैषज्यानां पत्रभैषज्यानां फलभैषज्यानाम् । सा दानि राजकुलेहि अमात्यकुलेहि आपणिककुलेहि श्रेष्ठिकुलेहि स्त्रीणां बस्तिं स्थपेति । मूढग्रभां चिकित्सति । अञ्जनं प्रत्यञ्जनं वमनं विरेचनं स्वेदकर्म नस्तकर्म शस्त्रकर्म भैषज्यामनुप्रयच्छति । सा उपसर्पणं भवति खज्जं भोज्जं लभति । ता दानि भिक्षुणीयो ओज्झायन्ति । नेयं प्रव्रज्या वैद्यिका इयम् । एतं प्रकरणं भिक्षुणीयो महाप्रजापतीये गौतमीये आरोचयेंसुः । यावद्भगवानाह । शब्दापयथ छन्दकमाताम् । सा दानि शद्बापिता । भगवानाह । सत्यं छन्दकमाते चिकित्सितविद्यया जीविकां कल्पयसि । आं भगवन् । भगवानाह । दुष्कृतं छन्दकमाते । तेन हि न क्षमति चिकित्सितविद्यया जीविकां कल्पयितुम् । अथ खलु भगवान् । पेयालम् । यावत् । या पुन भिक्षुणी चिकित्सितविद्यया जीविकां कल्पयेत्पाचत्तिकम् । चिकित्सितविद्या नाम अहिविद्या विषविद्या यावद्ग्रहचरितम् । तेन जीविकां कल्पयति पाचत्तिकम् । यावत्प्रज्ञप्तिः । न क्षमति भिक्षुणीय चिकित्सितुम् । लभ्यमुपदिशितुम् । भिक्षुरपि चिकित्सितविद्यया जीविकां कल्पयति विनयातिक्रममासादयति । तेन भगवानाह । या पुन भिक्षुणी चिकित्सितविद्यया जीविकां कल्पयेत्पाचत्तिकम् ॥ पाचत्तिकधर्म ८३ वाचयति १९७. भगवान् कौशाम्बीयं विहरति । भगवता शिक्षापदं प्रज्ञप्तम् । न क्षमति चिकित्सितुन् ति । छन्दकमाता न भूयो चिकित्सति । जनो दानि आगच्छति । साध्वार्ये चिकित्साहि । सा दानाह । न क्षमति चिकित्सितुं भगवता शिक्षापदं प्रज्ञप्तम् । अपि तु एष देथ मम किञ्चिद्वाचिष्यम् । सा आगारिकांश्च परिव्राजकांश्च चिकित्सितविद्यां वाचयति । भिक्षुणीयो दानि ओज्झायन्ति । नेयं किञ्चित्प्रव्रज्या वैद्यकवाचिका इयम् । यावद्भगवानाह । या पुन भिक्षुणी आगारिकं वा परिव्राजकं वा चिकित्सितविद्यां वाचयेत्पाचत्तिकम् । या पुन भिक्षुणीति । पे । आगारिक इति गृहिणः । परिव्राजक इति गौतमजटिलकपर्यन्तं कृत्वा । चिकित्सितविद्यामिति अहिविद्या विषविद्या यावद्ग्रहचरितम् । कायं चिकित्सितं वाचयेदिति उद्दिशेत् । यावत्प्रज्ञप्तिः । न क्षमति भिक्षुणीये आगारिकं वा परिव्राजकं वा चिकित्सितविद्यां वाचयितुम् । लभ्यमुपदिशितुम् । भिक्षुरपि चिकित्सितविद्यां वाचयति विनयातिक्रममासाद्यति । तेन भगवानाह । या पुन भिक्षुणी आगारिकं वा परिव्राजकं वा चिकित्सितविद्यां वाचयेत्पाचत्तिकम् ॥ पाचत्तिकधर्म ८४ गृहिवैयापृत्यं १९८. भगवान् श्रावस्तीयं विहरति । विशाखाय दानि मृगारमाताय उभयतो संघो भक्तेनोपनिमन्त्रितो । ता दानि भिक्षुणीयो कल्यतो येवागत्वा आहंसुः । उपासिके यं दानि त्वया उभयतो संघो भक्तेनोपनिमन्त्रितो किन् दानि वयमुपासिकाय उपकारं करोम । सा दानाह । किमार्यमिश्रिका उपकारं करिष्यन्ति । उद्दिशथ स्वाध्यायथ । योनिशो मनसि करोथ । एवं ममोपकारो कृतो भविष्यति । एवमेतदपि तु उपकारं करिष्यामः । तायो दानि तलकमभिरुहित्वा कर्पासं गृहीत्वा अन्याहि चिकित्सितम् । अन्याहि विलोपितम् । अन्याहि पिञ्जितम् । अन्याहि विहतम् । अन्याहि कर्तितम् । तायो सूत्रपिण्डकं गृह्णीय उपासिकामुपसंक्रान्ताः । उपासिके उपकारः कृतः । आह । नैष मम उपकारो यं ममार्यमिश्रिका पिञ्जेयुर्वा लोढेयुर्वा विकड्ढेयुर्वा कर्तेयुर्वा । एषो ममोपकारो यमार्यमिश्रिका मत्सकाशाद्भुक्त्वा उद्दिशथ स्वाध्यायेथ यावद्बुद्धानां शासने योगमापद्येथ । यत्ताय उपासिकाय अवध्यापितं तं दानि भिक्षुणीहि श्रुतम् । एतं प्रकरणं भिक्षुणीयो महाप्रजापतीये गौतमीये आरोचयेंसुः । पेयालम् । यावद्भगवानाह । दुष्कृतं वो भिक्षुणीयो । तेन हि न क्षमति गृहिवैयापृत्यं कर्तुम् । यावत् । या पुन भिक्षुणी गृहिवैयापृत्यं कुर्यात्पाचत्तिकम् । या पुन भिक्षुणीति उपसम्पन्ना । गृहीति आगारिको । वैयापृत्यमिति कर्तेय वा पिञ्जेय वा यावत् । ओहनेय वा पीषेय वा पचेय वा सीवेय वा । या पुनरन्य पि किञ्चिद्गृहिवैयापृत्यं कुर्यात्पाचत्तिकम् । यावत्प्रज्ञप्तिः । न क्षमति भिक्षुणीय गृहिवैयापृत्यं कर्तुम् । अथ दानि माल्योपहारो भवति । गन्धारोपणं वा । सा आह । आर्यमिश्रिकाहि साहाय्यं कर्तव्यमिति किञ्चापि गन्धं वा पीषयति । सुमनां वा ग्रन्थयति अनापत्तिः । भिक्षुरपि गृहिवैयापृत्यं करोति विनयातिक्रममासादयति । तेन भगवानाह । या पुन भिक्षुणी गृहिवैयापृत्यं कुर्यात्पाचत्तिकम् ॥ ४ ॥ पाचत्तिकधर्म ८५ संभोजनीयं १९९. भगवां च्छ्रावस्तीयं विहरति । स्थूलनन्दा नाम भिक्षुणी मध्याह्ने विघने अपरं कुलमुपसंक्रान्ता । तहिन् दानि द्वे भार्यापतिका क्लेषोत्पीडिता रहो संज्ञिनो मैथुनं प्रतिषेतुकामाः । सा दानि अप्रतिसंविदिता सहसा तहिं प्रविष्टा । सो दानि मनुष्यो उद्धावितो उत्कण्ठितो कर्मण्येनां राजा तेन परिवातेति । इमान् तावदितिकितिकाय धीतां श्रमणिकां विट्टालयिष्यन् ति । सा दानि भीता । प्रपलाना भिक्षुणीनां कथयति । मनास्मि आर्यमिश्रिकायो ब्रह्मचर्यातो च्याविता यावदेतं प्रकरणं भिक्षुणीयो महाप्रजापतीये गौतमीये आरोचयेंसुः । पेयालम् । यावद्भगवानाह । दुष्कृतं ते नन्दे एवन्नाम त्वं जानन्ती सम्भोजनीयं कुलन् दिवा पूर्वे अप्रतिसंविचिता उपसंक्रामसि । अथ खलु भगवान्महाप्रजापतीं गौतमीमामन्त्रयति । सन्निपातय गौतमि भिक्षुणीयो । पेयालम् । यावत् । या पुन भिक्षुणी जानन्ती संभोजनीयं कुलं दिवा पूर्वे अप्रतिसंविदिता उपसंक्रमेय पाचत्तिकम् । या पुन भिक्षुणीति उपसम्पन्ना । जानन्तीति स्वयं वा जानेय परतो वा श्रुणेय । कुलं ति ब्राह्मणादि कुलम् । यहिं स्त्रीपुरुषकं स्थालीपिठरकं कण्टिकामुसलकं सूपेल्लकं यवप्रस्थकमिमं पश्चिमकं कुलम् । सम्भोजनीयन् ति स्त्री पुरुषस्य भोजनं पुरुषस्यापि स्त्री भोजनम् । यदि विगते मध्याह्ने पूर्वे अप्रतिसंविदिता ति अशब्दकर्णिकाय । अनाहूता उपसंक्रमेया ति प्रविशेत्पाचत्तिकं यावत्प्रज्ञप्तिः । यं दानि ज्ञायते एतं संभोजनीयं कुलन् ति नहि क्षमति तहिं पूर्वे अप्रतिसंविदितमनाहूताय उपसंक्रमितुम् । यदि ताव दौवारिको भवति वक्तव्यम् । प्रविशामीति । यद्याह । मा प्रविशेहीति न प्रविशितव्यम् । अथ दानाह । प्रतिपालेहि तावत्यावत्प्रतिसंविदायामीति । यदि प्रविशित्वा न निष्क्रामति न क्षमति प्रविशितुम् । अथ दानि तुणुतुणा शब्दो भवति अच्छटिका दातव्या उत्काशितव्यं वा । यदि ताव तूष्णीका भवति न क्षमति प्रविशितुम् । अथ दानि प्रत्युद्गच्छन्ति स्वागतमार्यायेति प्रविशेति प्रवेष्टव्यम् । भिक्षुरपि संविदितो उपसम्क्रमति विनयातिक्रममासादयति । तेन भगवानाह । या पुन भिक्षुणी जानन्ती संभोजनीये कुले दिवा उपसंक्रमेय पूर्वे अप्रतिसंविदिता अनाहूता पाचत्तिकम् ॥ पाचत्तिकधर्म ८६ संसर्गो २००. भगवान् वैशालीयं विहरति । या दानि सा कालीयन् त्रियन्तरा लिच्छविधीता प्रव्राजिता । सा दानि आगारिकेहि च प्राव्राजकेहि च सार्धं संसृष्टा विहरति । एतं प्रकरणं भिक्षुणीयो महाप्रजापतीये गौतमीये आरोचयेंसुः । यावद्भगवानाह । दुष्कृतं ते कालि । अथ खलु भगवान्महाप्रजापतीं गौतमीमामन्त्रयति । सन्निपातय गौतमि भिक्षुणीयो । पेयालम् । या पुन भिक्षुणी आरामिकैर्वा परिव्राजिकैर्वा संसृष्टा विहरेय दिवसं वा मुहूर्तं वा अन्तमसतो आरामिकश्रमणोद्देशेहि पाचत्तिकम् ॥ या पुन भिक्षुणीति उपसम्पन्ना । पेयालम् । यावत् । आगारिकेहीत् । गृहीभिः । परिव्राजिकेहीति गौतमजटिलकपर्यन्तेहि तीर्थिकेहि । संसृष्टा विहरेदिति कायिकेन संसर्गेण वाचिकेन संसर्गेण । कायिकवाचिकेन संसर्गेण । दिवसं वा मुहूर्तं वा अन्तमसतो तत्क्षणन्तल्लवं तन्मुहूर्तं वा अन्तमसतो । आरामिकश्रमणोद्देशेहीति । आरामिकाः संघोपस्थायकाः । श्रमण्ऽउद्देशा इति पञ्चदशवर्षानुपादाय यावत्सप्ततिकाः । सा एषा भिक्षुणी आरामिकेहि वा परिव्राजकेहि वा संसृष्टा विहरति पाचत्तिकम् । अथ दानि भिक्षुणीयो अन्यमन्यं संसृष्टा विहरन्ति विहरन्त्यभिरता विवेचयितव्याः । वीचीकारापयितव्याः । त्रिरपि भिक्षुणा सार्धं संसृष्टा विहरति विनयातिक्रममासादयति । तेन भगवानाह । या पुन भिक्षुणी आरामिकैर्वा परिव्राजिकैर्वा सार्धं संसृष्टा विहरेत्दिवसं वा मुहूर्तं वा अन्तमसतो आरामिकश्रमण्ऽउद्देशकैः सार्धं पाचत्तिकम् ॥ ६ ॥ पाचत्तिकधर्म ८७ उपशपति २०१. भगवान् श्रावस्तीयं विहरति । स्थूलनन्दा नाम भिक्षुणी भिक्षुणीहि सार्धं कलहं करोति । सा दानि यादा पराजीता भवति तदा उपसम्पति । नमो भगवतो भगवतः पादेहि शपामि । काषायेहि शपामि । दुःखस्यान्तेन शपामि । यद्यहमेवं ब्रवीमि । मा काषायेहि कालं करोमि । मा दुःखस्यान्तं करोमि । मातृघातिकस्य गतिङ्गच्छामि । पिट्र्घातिकस्य गतिङ्गच्छामि । अर्हन्तघातिकस्य गतिङ्गच्छामि । यावदकृतज्ञस्य गतिङ्गच्छामि । मित्रद्रोहस्य गतिङ्गच्छामि । आर्यापवादकस्य गतिङ्गच्छामि । नैरयिकीभवामि । तिर्यग्योनिगतिं गच्छामि । प्रेती भवामि । या पि भद्रायणी मामेवमाह सा प्येवं भवतु । एतं प्रकरणं भिक्षुणीयो महाप्रजापतीये गौतमीये आरोचयेंसुः । यावत्शब्दापयथ नन्दाम् । एतदेव सर्वं भगवां विस्तरेणाचोचयति । यावताम भगवन् । भगवानाह । दुष्कृतं ते नन्दे यावद्भगवानाह । या पुन भिक्षुणी उपशपन्ती विहरेतात्मानं सन्धाय परां वा सन्धाय पाचत्तिकम् । या पुन भिक्षुणीति उपसम्पन्ना । पे । उपशपन्ती विहरेया ति शपथं कुर्यात् । नम भगवतो भगवतः पादेहि शपामि । सर्वं पूर्ववत् । यावत्सा एषा भिक्षुणी आत्मानं सन्धाय परं वा उपशपति पाचत्तिकम् । भिक्षुरपि उपशपति विनयातिक्रममासादयति । तेन भगवानाह । या पुन भिक्षुणी उपशपन्ती विहरेदात्मानं वा सन्धाय परं वा पाचत्तिकम् ॥ पाचत्तिकधर्म ८८ रोदति २०२. भगवान् श्रावस्तीयं विहरति । स्थूलनन्दा नाम भिक्षुणी भिक्षुणीहि सार्धं कलहं करोति । सा यदा पराजिता भवति तदा आत्मानं खटचपेटमुस्तकेहि पिट्टायति । उदरमाहनयति । बलबलाय रोदति । एतं प्रकरणं भिक्षुणीयो महाप्रजापतीये गौतमीये आरोचयेंसुः । यावद्भगवानाह । सत्यं त्वं नन्दे एवं नाम भिक्षुणीहि सार्धं कलहं करोषि । पेयालम् । यावद्बलबलाय रोदसि । आम भगवन् । भगवानाह । दुष्कृतं ते नन्दे नैष धर्मो यावत्तेन हि न क्षमति आत्मानं हनित्वा रोदितुम् । अथ खलु भगवान् यावत्पर्यवदातानि भविष्यन्ति । या पुन भिक्षुणी आत्मानं हनित्वा रोदेय पाचत्तिकम् ॥ या पुन भिक्षुणीति । पेयालम् । आत्मानं हनित्वा ति खटेहि वा पाषाणेहि वा यावदन्येन वा केनचित् । रोदेया ति अश्रुणि वा प्रवर्तयेत्पाचत्तिकम् । यावत्प्रज्ञप्तिः । सा एषा भिक्षुणी आत्मानं हन्ति न रोदयति विनयातिक्रममासादयति । रोदति न हनति विनयातिक्रममासादयति । हनति च रोदति च पाचत्तिकमासादयति । नैव हनति न रोदति अनापत्तिः । भिक्षुरपि आत्मानं हनित्वा रोदति विनयातिक्रममासादयति । तेन भगवानाह । या पुन भिक्षुणी आत्मानं हनित्वा रोदेय पाचत्तिकम् ॥ ८ ॥ पाचत्तिकधर्म ८९ क्षियति २०३. भगवान् श्रावस्तीयं विहरति । स्थूलनन्दाय दानि भिक्षूणीय जेता भिक्षुणी कुलेहि संवर्णिता । सा जेता भिक्षुणी भद्रिका कुलान्युपसंक्रमति प्रासादिकेनातिक्रान्तेन प्रतिक्रान्तेनावलोकितेन व्यवलोकितेन संमिञ्जितेन प्रसारितेन संघाटीपात्रचीवरधारणेन अनुद्धता अनुन्नडा अचपला अमुखरा अप्रकीर्णा वाचा । सा प्रासादिका ति प्रसन्ना देवमनुष्याः । ते तेहिं कारा कुर्वन्ति । प्रत्यालपन्ति प्रत्युत्थिहिन्ति । निमन्त्रयन्ति पात्रेण चीवरेण ग्लानप्रत्ययभैषज्यपरिष्कारेहि । स्थूलनन्दा भिक्षुणी अनाकल्पसम्पन्ना अनीर्यापथसम्पन्ना ओमलिनमलिनेहि चीवरेहि पाटितविपटितेहि वड्डडिङ्गरपुष्टालंबेहि स्तनेहि वड्डेहि स्फिचकेहि उद्धता उन्नडा चपला मुखरा प्रकीर्णा वाचा । ते तस्या न गौरवं कुर्वन्ति न निमन्त्रयन्ति । सा दानि भिक्षुणीनामाह । पश्यथ आर्यमिश्रिकायो ममैवार्या जेता कुलेहि संवर्णिता मह्य्ऽएवावर्णं ब्रवीति । सा दानाह । नास्त्येतमार्ये । नाहमार्याये अवर्णं भाषामि । एतं प्रकरणं भिक्षुणीयो महाप्रजापतीये गौतमीये आरोचयेंसुः । यावद्भगवानाह ।दुष्कृतं ते नन्दे । पेयालम् । यावदेव नाम त्वं दुःश्रुतेन दुरवधारितेन क्षियाधर्ममापद्यसि । तेन हि न क्षमति दुःश्रुतेन दुरवधारितेन क्षियाधर्ममापद्यसि । अथ खलु भगवान्महाप्रजापतीं गौतमीमामन्त्रयति । सन्निपातये गौतमि यावत्पर्यवदातानि भविष्यन्ति । या पुन भिक्षुणी भिक्षूणीनामेवं वदेय । यदाहमार्ये अमुकं कुलमुपसंक्रामि । ततो इत्थन्नामाये भिक्षुणीये भगवत्याघातो अप्रत्यय इति दुःश्रुतेन दुरवधारितेन क्षियाधर्ममापद्येय पाचत्तिकम् ॥ या पुन भिक्षुणीति उपसम्पन्ना । भिक्षुणीनामेवं वदेया ति यथा स्थूलनन्दा भिक्षुणी यावदाहमार्ये अमुकं कुलन् ति कुलन्नाम क्षत्रियकुलं कुलन्नाम क्षत्रियकुलं ब्राह्मणकुलं राजन्यकुलं यानि च पुनरन्यानि कुलानि । ततो इत्थन्नामाये ति यथा जेता पि भिक्षुणीये । भगवत्याघात इति न च आघातवस्तूनि अस्थानप्रकोपदशमानि । अप्रत्यय इति दुःश्रुतेन दुरवधारितेनेति न आकारवन्तेन दर्शनेन न आकारवन्तेन श्रमणेन क्षियाधर्ममापद्येया ति अवध्यापेय पाचत्तिकम् । यावत्प्रज्ञप्तिः न क्षमति भिक्षुणीये दुःश्रुतेन दुरवधारितेन क्षियाधर्ममापद्यितुम् । आपद्यति पाचत्तिकमासादयति । भिक्षुरपि दुःश्रुतेन दुरवधारितेन क्षियाधर्ममापद्यति विनयातिक्रममासादयति । तेन भगवानाह । या पुन भिक्षुणी भिक्षुणीनामेवं वदेय यदाहमार्ये अमुकं कुलमुपसम्क्रमामि । ततो इत्थन्नामाये भिक्षुणीये भगवत्याघातोऽप्रत्यय इति दुःश्रुतेन दुरवधारितेन क्षियाधर्ममापद्येय पाचत्तिकम् ॥ ९ ॥ पाचत्तिकधर्म ९० कुलमात्सर्येण २०४. भगवान् श्रावस्तीयं विहरति । स्थूलनन्दा नाम भिक्षुणी कालस्यैव निवासयित्वा पात्रचीवरमादाय महात्मेहि कुलेहि द्वारकोष्ठकेहि तिष्ठति । भिक्षूणां प्रविशन्तानामाह । प्रविशन्तु आर्याः प्रविशन्तु आर्यमिश्राः अस्माकं कृतेन सिध्यति । अग्रपिण्डन् तावद्दत्त्वा युष्माकं प्रथमानामेव पश्चादात्मना परिभुञ्जिष्यन् ति । मा अन्यानि कुलानि उपसंक्रमथ । नहि अन्येहि सिध्यति । ते दानि व्रीडिताः प्रत्योसक्षन्ति । भिक्षुणीनामप्येवं कर्तव्यम् । एवं चरकपरिव्राजकाजीवकनिर्ग्रन्थाः यावद्धर्मचिन्तकाः प्रविशन्ति । सा दानि तेषां प्रविशन्तानामाक्रोशति । चण्डायू नष्टाशा भग्नाशाः । सुराभ्रस्ता याना गर्दभाः नग्नाः अह्रीकाः अनोत्रापिणो मिथ्यादृष्टिकाः विनिपतिताः प्रविशथ युष्माकं कृतेन सिध्यति । युष्माकमग्रपिण्डन् तावद्दत्त्वा प्रथमानामेव पश्चादात्मानं परिभोक्ष्यन् ति । मा अन्यानि कुलान्युपसंक्रमथ । नहि अन्येहि क्लेशेहि सिध्यति । ते दानि व्रीडिताः प्रत्योसक्षन्ति । एवं सर्वभिक्षाचरणामावरणं करोति । एतं प्रकरणं भिक्षुणीयो महाप्रजापतीये गौतमीये आरोचयेंसुः । पेयालम् । यावद्भगवानाह । शब्दापयथ नन्दाम् । सा दानि शब्दापिता । तदेव सर्वम् । भगवान् विस्तरेण पृच्छति । यावदाम भगवन् । भगवानाह । दुष्कृतन् ते नन्दे यावदेवन्नाम त्वं कुलमात्सर्यं करोषि । तेन हि न क्षमति कुलमात्सर्यं करोषि । तेन हि न क्षमति कुलमात्सर्यं कर्तुम् । अथ खलु भगवान्माहाप्रजापतीं गौतमीमामन्त्रयति । सन्निपातय गौतमि । पेयालम् । यावत् । या पुन भिक्षुणी कुलमात्सर्यं कुर्यात्पाचत्तिकम् । या पुन भिक्षुणीति उपसम्पन्ना । कुलमात्सर्यन् ति आवरणं कुर्यात्पाचत्तिकं यावत्प्रज्ञप्तिः । न क्षमति भिक्षुणीय कुलमात्सर्यं कर्तुम् । करोति पाचत्तिकमासादयति । यदि तावद्भिक्षुर्वा भिक्षुणी वा पृच्छति भूतो गुणो वक्तव्यो । अथ दानि अन्यतीर्थिका पृच्छन्ति मा एते मिथ्यादृष्टिं ग्राहयिष्यन्तीति भृकुटिं करोति अनापत्तिः । भिक्षुरपि कुलमात्सर्यं करोति विनयातिक्रममासादयति । तेन भगवानाह । या पुन भिक्षुणी कुलमात्सर्यं कुर्यात्पाचत्तिकम् । ळम् ॥ उद्दानम् । देति [८१] । चिकित्सिति [८२] । वाचयति [८३] । गृहिवैयावृत्तः [८४] । सम्भोजनीयं [८५] । संसर्गो [८६] । उपशपति [८७] । रोदति [८८] । क्षियति [८९] । कुलमात्सर्येण [९०] ॥ पूर्यते नवमो वर्गः । पाचत्तिकधर्म ९१ सम्मुखं २०५. भगवान् श्रावस्तीयं विहरति । गर्तोदरो च गर्तोदरमाता च गर्तोदरपिता च आगारस्यानगारियं प्रव्रजिताह् । पे । यावत्सो महल्लको भुञ्जाति । सा गर्तोदरमाता परिविषति । सो दानि ताये कानिचित्पूर्वचरितानि जल्पति स्त्रीउत्सददौष्ठुल्यानि यानि तस्या अमनआपानि । सा दानाह । चण्डायुः । अखल्लमहल्लः । अव्यक्तअकुशलअप्रक्र्तिज्ञ । अद्यापि त्वमजल्पितव्यानि जल्पसि । एतं प्रकरणं भिक्षुणीयो महाप्रजापतीये गौतमीये आरोचयेंसुः । पेयालम् । यावदाम भगवन् । भगवानाह । दुष्कृतं ते गर्तोदरमाते । पेयालम् । तेन हि न क्षमति भिक्षुं सम्मुखमाक्रोशितुं परिभाषितुम् । अथ भगवान् यावत्पर्यवदातानि भविष्यन्ति । या पुन भिक्षुणी भिक्षुणीभिक्षुं सम्मुखमाक्रोशयेद्रोषयेद्परिभाषयेत्पाचत्तिकम् । या पुन भिक्षुणीति उपसम्पन्ना । सम्मुखन् ति चातुरक्षम् । आक्रोशयेदिति अकारशकारएकारैः रोषयेत्परिभाषयेत्चण्डालु । अखल्लमहल्लअकुशलअप्रकृतिज्ञ ति पाचत्तिकं यावत्प्रज्ञप्तिः । न क्षमति भिक्षुणीये भिक्षुणीय भिक्षुं सम्मुखमाक्रोशितुं रोषितुं परिभाषितुम् । आक्रोशति रोषति परिभाषति पाचत्तिकम् । अथ भिक्षुण्या पिता वा भ्राता ज्ञातिको वा प्रव्रजितको भवति । सो च भवति उद्धतो उन्नडो असमाहितो लभ्या दानि सो वक्तुम् । न दानि क्षमति धर्षिय वक्तुम् । अथ खलु प्रज्ञया सम्ज्ञापयितव्यो । यदि तावत्तरुणको भवति वक्तव्यो । सालोहित इदानीं त्वं न शिक्षसि कदा त्वं शिक्षिष्यसि । यदा जीर्णो वृद्धो भविष्यसि । अथ दानि महल्लको भवति वक्तव्यो । इदानीं त्वं न शिक्षसि कदा शिक्षिष्यसि यदा मण्डलद्वारमनुप्राप्तो भविष्यसि । भिक्षुणापि भिक्षुणीयो न क्षमति सम्मुखमाक्रोशितुं मुण्डस्त्री वेश्यस्त्री ति । पे । सा एषा भिक्षुणी भिक्षुं समुखमाक्रोशति पाचत्तिकम् ॥१ ॥ पाचत्तिकधर्म ९२ ऊनद्वादशवर्षा २०६. भगवान् श्रावस्तीयं विहरति । भिक्षुणीयो दानि एकवर्षा द्विवर्षा यावत्षट्वर्षा उपस्थापेन्ति । ते नैव ओवदन्ति नानुशासन्ति । ता इन्द्रगवा इव वर्धन्ति शिवच्छगला विय वर्धन्ति । अनाकल्पसम्पन्ना अनीर्यपथसम्पन्ना न जानन्ति कथमुपाध्यायिनीये प्रतिपत्तव्यम् । कथमाचार्याये प्रतिपत्तव्यम् । कथं वृद्धातरकाणां भिक्षुणीनां प्रतिपत्तव्यम् । कथं ग्रामे । कथमरण्ये । कथं संघमध्ये । कथं संघाटीपात्रचीवरधारणे प्रतिपत्तव्यम् । एतं प्रकरणं भिक्षुणीयो महाप्रजापतीये गौतमीये आरोचयेंसुः । पे । यावद्भगवानाह । शब्दापयथ तायो भिक्षुणीयो । ता दानि शब्दापिताः । एतदेव सर्वं भगवान् विस्तरेण पृच्छति । यावदाम भगवन् । भगवानाह । तेन हि न क्षमति ऊनद्वादशोदकवर्षाय उपस्थापयितुम् । अथ खलु भगवान्महाप्रजापतीं गौतमीमामन्त्रयति । सन्निपातय गौतमि भिक्षुणीयो यावत्पर्यवदातानि भविष्यन्ति । या पुन भिक्षुणी ऊनद्वादशवर्षा उपस्थापयेत्पाचत्तिकम् ॥ या पुन भिक्षुणीति उपसम्पन्ना । ऊनद्वादशवर्षा ति ऊनद्वादशवर्षा नाम ऊनद्वादशोदकवर्षो ऊनद्वादशो सम्वत्सरो ऊनद्वादशवर्षा भिक्षुणी । ऊनद्वादशोदकवर्षो पूरद्वादशो सम्वत्सरो ऊनद्वादशवर्षा भिक्षुणी । ऊनद्वादशोदकवर्षो अतिरेको द्वादशो सम्वत्सरो ऊनद्वादशवर्षा भिक्षुणी । हेमन्ते उपसम्पन्ना तेन द्वादशमेन उपसम्पादिति । अकृतायां प्रवारणायामूनद्वादशवर्षा भिक्षुणी । एवं ग्रीष्मे वर्षासु उपसम्पन्ना । एवं पुरिमिकायां वर्षोपनायिकायामुपसम्पन्ना । अकृतायां प्रवारणायामुपसम्पादेति । पश्चिमिकायां वर्षोपनायिकायामुपसम्पन्ना । अकृताहि द्विहि प्रवारणाहि उपसम्पादेति ऊनद्वादशवर्षा भिक्षुणी । पूरद्वादशोदकवर्षो ऊनद्वादशो सम्वत्सरो पूरद्वादशवर्षा भिक्षुणी । पूरद्वादशोदकवर्षो पूरद्वादशो सम्वत्सरो पूरद्वादशवर्षा भिक्षुणी । पूरद्वादशोदकवर्षो अतिरेकद्वादशो सम्वत्सरो पूरद्वादशवर्षा भिक्षुणी । हेमन्ते उपसम्पन्ना तेन द्वादशमेन उपसम्पादेति कृतायां प्रवारणायां पूरद्वादशवर्षा भिक्षुणी । एवं ग्रीष्मे वर्षासु उपसम्पन्ना । एवं पुरिमिकायां वर्षोपनायिकायामुपसम्पन्ना कृतायां प्रवारणायामुपसम्पादेति पूरद्वादशवर्षा भिक्षुणी । पश्चिमिकायां वर्षोपनायिकायामुपसम्पन्ना तेन द्वादशमेन उपसम्पादेति कृताहि द्विहि प्रवारणाहि पूरद्वादशवर्षा भिक्षुणी । ऊनद्वादशवर्षा उपसम्पादयेत्पाचत्तिकम् । सा एषा भिक्षुणी ऊनद्वादशवर्षा उपस्थापयति पाचत्तिकं प्रव्राजयति विनयातिक्रममासादयति । भिक्षुरपि ऊनद्वादशवर्षो उपसम्पादयति विनयातिक्रममासादयति । तेन भगवानाह । या पुन भिक्षुणी ऊनद्वादशवर्षा उपस्थापयेत्पाचत्तिकम् ॥ पाचत्तिकधर्म ९३ अनङ्गोपेता २०७. भगवान् श्रावस्तीयं विहरति । भगवता शिक्षापदं प्रज्ञप्तम् । न क्षमति ऊनद्वादशवर्षाय उपस्थापयितुम् । तेन दानि कालेन तेन समयेन षड्वर्गिणीयो भिक्षुणीयो पूरद्वादशवर्षा भवन्ति । तायो दानि प्रव्राजेन्ति उपस्थापेन्ति । ता नैव त्-ओवदन्ति नानुशासन्ति । पेयालम् । यावत्कथं संघाटीपात्रधारणे प्रतिपत्तव्यम् । एतं प्रकरणं भिक्षुणीयो महाप्रजापतीये गौतमीये आरोचयेंसुः । पे । यावच्छब्दापिता । तदेव सर्वं भगवान् विस्तरेण पृच्छति । यावदाम भगवन् । भगवानाह । तेन हि न क्षमति अनङ्गोपेताय उपस्थापयितुम् । अथ खलु भगवान्महाप्रजापतीं गौतमीमामन्त्रयति । यावत्पर्यवदातानि भविष्यन्ति । पूरद्वादशवर्षा पि च भवति सा च अनङ्गोपेता उपस्थापयेत्पाचत्तिकम् । पूरद्वादशवर्षा ति यथा प्रथमके शिक्षापदे । सा च अनङ्गोपेता इति अङ्गोपेता नाम यस्या दशाङ्गानि सम्विद्यन्ते संयथईदम् । प्रातिमोक्षसम्वरसंवृता भवति ॥ [१] ॥ बहुश्रुता भवत्यभिधर्मे ॥ २ ॥ बहुश्रुता भवत्यभिविनये ॥ ३ ॥ प्रतिबला भवत्यधिशीलशिक्षायां निवेशयितुम् ॥ ४ ॥ प्रतिबला भवत्यधिचित्तशिक्षायान्निवेशयितुम् ॥ ५ ॥ प्रतिबला भवत्यधिप्रज्ञशिक्षायां निवेशयितुम् ॥ ६ ॥ प्रतिबला भवत्यापत्तिमापन्नां व्युत्थापयितुं वा व्युत्थापाययितुं वा ॥ ७ ॥ प्रतिबला भवत्यापदासु व्युपकर्षयितुं वा व्युपकर्षापयितुं वा ॥ ८ ॥ प्रतिबला भवति गिलानमुपस्थिहितुं वा उपस्थापयितुं वा ॥ ० ॥ द्वादशवर्षा भवति सातिरेकद्वादशवर्षा वा ॥ ळम् ॥ यस्या इमानि दशाङ्गानि सम्विद्यन्ते इयमुच्यते अङ्गोपेता । विपर्ययादनङ्गोपेता । सा एषा अनङ्गोपेता उपस्थापयेत्पाचत्तिकम् । पेयालम् । यावत्प्रज्ञप्तिः । सा एषा अनङ्गोपेता प्रव्राजयति विनयातिक्रममासादयति । उपसम्पादयति पाचत्तिकम् । भिक्षुरपि अनङ्गोपेतो प्रव्राजयति उपसम्पादयति विनयातिक्रममासादयति । तेन भगवानाह । पूरद्वादशवर्षा पि च भवति सा च अनङ्गोपेता उपस्थापयेत्पाचत्तिकम् ॥ ३ ॥ पाचत्तिकधर्म ९४ असंमता २०८. भगवान् श्रावस्तीयं विहरति । भगवता शिक्षापदं प्रज्ञप्तम् । द्वादशवर्षाये अङ्गोपेताय उपस्थापयितव्येति । ता दानि भिक्षुणीयो द्वादशवर्षा अङ्गोपेतायो उपस्थापयन्ति । भिक्षुणीयो दानि ओज्झायन्ति । अस्त्येषा द्वादशवर्षा न पुनर्ज्ञायते । अङ्गोपेता वा अनङ्गोपेता वा ति । एतत्प्रकरणं भिक्षुणीयो महाप्रजापतीये गौतमीये आरोचयंसुः । यावद्भगवानाह । उपस्थापनासंमुती ताय याचितव्या । कर्मकारिकाय कर्म कर्तव्यम् । शृणोतु मे आर्या संघो । यदि संघस्य प्राप्तकालमियमित्थन्नामा भिक्षुनी द्वादशवर्षा अङ्गोपेता । सा संघमुपस्थापना संमुतिं याचेया । यचिष्यति आर्यमिश्रिका इत्थन्नामा भिक्षुणी द्वादशवर्षा अङ्गोपेता उपस्थापनासंमुतिं संघम् । क्षमते तं संघस्य यस्मात्तूष्णीमेवमेतन् धारयामि । ताय दानि याचितव्यम् । वन्दाम्यार्या संघम् । अहमित्थन्नामा भिक्षुणी द्वादशवर्षा अङ्गोपेता । साहं संघमुपस्थापनासंमुतिं यचामि । साधु बत मे आर्या संघो उपस्थापनासम्मुतिन् देतु । एवं भिक्षुत्तो याचयितव्यम् ॥ कर्म । शृणोतु मे आर्या संघो । इयमित्थन्नामा भिक्षुणी द्वादशवर्षा अङ्गोपेता । सा संघमुपस्थापनासंमुतिं याचति । यदि संघस्य प्राप्तकालं संघो इत्थन्नामाये भिक्षुणीये द्वादशवर्षाये अङ्गोपेताये उपस्थापनासंमुतिं दद्यात् । ओवयिका एषा ज्ञप्तिः । शृणोतु मे आर्या संघो । इयमित्थन्नामा भिक्षुणी द्वादशवर्षा अङ्गोपेता । सा संघमुपस्थापनासंमुतिं याचति । ताये संघो इत्थन्नामाये भिक्षुणीये द्वादशवर्षाये अङ्गोपेताये उपस्थापनासंमुतिन् देति । यासामार्यमिश्रिकाणां क्षमति इत्थन्नामाये भिक्षुणीये द्वादशवर्षाये अङ्गोपेताये उपस्थापनासम्मुतिन् दीयमानां संघेन । सा तूष्णीमस्य । यस्या न क्षमति सा भाषतु । इयं प्रथमा कर्मवाचना । एवं द्वितीया तृतीया कर्मवाचनेति । दिन्ना अर्यमिश्रिकायो इत्थन्नामाये भिक्षुणीये द्वादशवर्षाये अङ्गोपेताये उपस्थापनासम्मुति संघेन । क्षमति तं संघस्य यस्मात्तूष्णीमेवमेतं धारयामि । अथ खलु भगवान् यावत्पर्यवदातानि भविष्यन्ति । पूरद्वादशवर्षा पि च भवति अङ्गोपेता सा च असम्मता उपस्थापयेत्पाचत्तिकम् । अङ्गोपेता इति दशभिरङ्गेहि भिक्षुणी अङ्गोपेता भवति । शेषं पूर्ववत् । असम्मता इति असम्मता एव असम्मता । अनङ्गोपेता च असम्मता तं च से कर्म कुर्वन्ति ज्ञप्तिविपन्नं गणविपन्नमनुश्रावणाविपन्नमन्यतरान्यतरेण कर्मोपक्लेशेन उपक्लिष्टमेवमेषा असम्मता । उपस्थापयेदिति उपसम्पादयेत्पाचत्तिकम् । सा एष भिक्षुणी असम्मता उपस्थापयति पाचत्तिकम् । प्रव्राजयति विनयातिक्रममासादयति । तेन भगवानाह । पूर द्वादशवर्षा पि च भवति अङ्गोपेतासा च असम्मता उपस्थापयेत्पाचत्तिकम् ॥४ ॥ पाचत्तिकधर्म ९५ दुःशिला २०९. भगवान् वैशालीयं विहरति । या सा कालीय भिक्षुणीय त्रियन्तरा लेच्छविधीता प्रव्राजिता । सा देशितशिक्षा । प्रतितालकेहि प्रतिकुञ्चिकाहि च परविहारानुद्घाटिय आगारिकेहि परिव्राजकेहि च सह तिष्थति । सा ताय उपसंपादिता । भिक्षुणीयो दानि ओज्झायन्ति । किमिमाय दुःशीलाय प्रतितालकिनीय पुरुषसहायिकाय उपस्थापिताय । एतं प्रकरणं भिक्षुणीयो महाप्रजापतीये गौतमीये आरोचयेंसुः । यावत्शब्दापयथ कालीम् । सा दानि शब्दापिता । भगवान् विस्तरेण पृच्छति यावदाम भगवन् । भगवानाह । दुष्कृतन् ते कालि । नैष कालि धर्मो यावदेव नामा त्वं दुःशीलां प्रतितालकिनीं पुरुषसहायिकामुपस्थापयसि । तेन हि न क्षमति जानन्ती दुःशीलां प्रतितालकिनीं पुरुषसहायिकामुपस्थापयितुम् । अथ खलु भगवान् यावत्पर्यवदातानि भविष्यन्ति । या पुन भिक्षुणी जानन्ती दुःशीलां प्रतितालकिनीं पुरुषसहायिकामुपस्थापयेत्पाचत्तिकम् । या पुन भिक्षुणीति उपसम्पन्ना । जानन्तीति स्वयं वा जानेय परतो वा श्रुणेय । दुःशीलेति शीलविपन्ना शीलातिक्रान्ता । प्रतितालकिनीति प्रतितालकेहि प्रतिकुञ्चिकाहि च अन्यातकान् विहारकानुद्घाटयति । पुरुषसहायिनीति । आगारिकेहि च परिव्राजकेहि च सार्धं संसृष्टा विहरति । उपस्थापयेदिति उपसम्पादयेत्पाचत्तिकं यावत्प्रज्ञप्तिः या दानि एषा आगारिकेहि परिव्राजकेहि च सार्धं संसृष्टा विहरति सा न क्षमति उपस्थापयितुम् । अथ दानि शक्नोति ब्रह्मचर्यं संपादयितुं लभ्या ततो संसर्गातो विवेचयित्वा उपस्थापयितुम् । भिक्षुरपि जानन् दुःशीलं श्रामणेरं स्त्रीसंसृष्टमप्रत्योसारायेत्वा उपसम्पादेति विनयातिक्रममासादयति । तेन भगवानाह । या पुन भिक्षुणी जानन्ती दुःशिलां प्रतितालकिनीं पुरुषसहायिकामुपस्थापयेत्पाचत्तिकम् ॥५ ॥ पाचत्तिकधर्म ९६ ऊनविंशतिवर्षा कुमारिभूता २१०. भगवान् श्रावस्तीयं विहरति । भिक्षुणीयो दानि दशद्वादशवर्षां कुमारीभूतामुपसम्पादयन्ति । अप्रतिसंख्यानवर्तिन्यो भवन्ति अनाकल्पसम्पन्ना । न जानन्ति कथमुपाध्यायीये प्रतिपद्यितव्यं यावत्संघाटीपात्रचीवरधारणे प्रतिपद्यितव्यम् । एतं प्रकरणं भिक्षुणीयो महाप्रजापतीये गौतमीये आरोचयेंसुः । यावद्भगवानाह । शब्दापयथ ता भिक्षुणीयो । ता दानि शब्दापिताः । तदेव सर्वं भगवान् विस्तरेण पृच्छति यावदाम भगवन् । भगवानाह । तेन हि न क्षमति ऊनविंतिवर्षां कुमारीभूतामुपस्थापयितुम् । अथ खलु भगवान् यावत्पर्यवदातानि भविष्यन्ति । या पुन भिक्षुणी ऊनविंशतिवर्षां कुमारीभूतामुपस्थापयेत्पाचतिकम् । ऊनविंशतिवर्षा ति ऊनविंशोदकवर्षो ऊनविंशो सम्वत्सरो ऊनविंशतिवर्षा । ऊनविंशोदकवर्षो पूरविंशो सम्वत्सरो ऊनविंशतिवर्षा । ऊनविंशोदकवर्षो अतिरेकविंशो सम्वत्सरो ऊनविंशतिवर्षा । हेमन्ते जाता तेन विंशेन उपसंपादेति अकृतायां प्रवारणायामूनविंशतिवर्षा । एवं ग्रीष्मे जाता । एवं पुरिमिकायां वर्षोपनायिकायां जाता तेन विंशेन उपसंपादेति ऊनविंशतिवर्षा । पश्चिमिकायां वर्षोपनायिकायां जाता तेन विंशेन उपसंपादेति । अकृताहि द्विहि प्रवारणाहि । ऊनविंशतिवर्षा । कुमारीभूतामेतामूनविंशतिवर्षां सर्वा ऊनविंशतिवर्षसम्ज्ञिनीयो उपसम्पादेन्ति सर्वायो पाचत्तिकमासादयन्ति । सा च अनुपसम्पन्ना । तामेतामूनविंशतिवर्षां कुमारीभूतामेक ऊनविंशतिवर्षसम्ज्ञिनीयो उपसम्पादेन्ति एका पूरसम्ज्ञिनीयो । या ऊनसंज्ञिनीयो उपसम्पादेन्ति तायो पाचत्तिकमासादयन्ति । पूरसंज्ञिनामनापत्तिः । सा चानुपसम्पन्ना । ऊनविंशतिवर्षां सर्वायो ऊनविंशतिवर्षसम्ज्ञिनीयो उपसम्पादेन्ति सर्वासामनापत्तिः । सा च सूपसम्पन्ना । पूरविंशतिवर्षां सर्वायो ऊनविंशतिवर्षसंज्ञिनीयो उपसम्पादेन्ति सर्वा विनयातिक्रममासादयन्ति । सा च सूपसम्पन्ना । पूरविंशतिवर्षामेका ऊनविंशतिवर्षसंज्ञिनीयो एका पूरविंशतिवर्षसंज्ञिनीयो उपसम्पादेन्ति । या ऊनविंशतिवर्षसंज्ञिनीयो ता विनयातिक्रममासादयन्ति । या पूरविंशतिवर्षसंज्ञिनीयो तासामनापत्तिः । सा च सूपसम्पन्ना । पूरविंशतिवर्षां सर्वा पूरसंज्ञिनीयो उपसम्पादेन्ति सर्वासामनापत्तिः । सा च सूपसम्पन्ना । कुमारीभूता ति कुमारीभूता अविकोपितब्रह्मचर्या । उपस्थापयेदिति उपसम्पादयेत्पाचत्तिकम् । पे । यावत्प्रज्ञप्तिः । या एषा कुमारीभूता आकाङ्क्षति तथागतप्रवेदिते धर्मविनये उपसम्पदं सा दानि समनुग्रहितव्या । कदा त्वं जाता । अथ न जानाति जन्मपद्धिका निशामयितव्या । जन्मपद्धिका न भवन्ति मातापितरौ पृच्छितव्यौ । अथ दानि ते पि न जानन्ति पृच्छितव्या । कतरस्मिं राज्ये जाता । केत्तिका वा तदा त्वमभूषि । सुदृष्टिर्दुर्दृष्टिर्वा । पृच्छितव्या । न उद्धिकस्य वा चित्रिकस्य वा वशेन गन्तव्यम् । अथ खु हस्तपादा निशामेतव्याः । तेन भगवानाह । या पुन भिक्षुणी ऊनविंशतिवर्षां कुमारीभूतामुपस्थापयेत्पाचत्तिकम् ॥६ ॥ पाचत्तिकधर्म ९७ अदेशितशिक्षा २११. भगवान् श्रावस्तीयं विहरति । भगवता दानि शिक्षापदं प्रज्ञप्तम् । न क्षमति ऊनविंशतिवर्षां कुमारीभूतामुपस्थापयितुन् ति । ता दानि भिक्षुणीयो पूरविंशतिवर्षां कुमारीभूतामदेशितशिक्षामुपस्थापयन्ति । भिक्षुणीयो दानि ओज्झायन्ति । को जानाति पूरविंशतिवर्षा वा एषा न वा ति । एतं प्रकरणं भिक्षुणीयो महाप्रजापतीये गौतमीये आरोचयेंसुः । पेयालम् । यावद्भगवानाह । या एषा कुमारीभूता आकाङ्क्षति । तथागतप्रवेदिते धर्मविनये उपसंपदां भिक्षुणीभावम् । ताय संघो द्वे वर्षाणि शिक्षादेशनासम्मुतिं याचितव्यो । कर्मकारिकाय कर्म कर्तव्यम् । शृणोतु आर्या संघो । इयमित्थन्नामा अष्टादशवर्षा कुमारीभूता आकाङ्क्षति तथागतप्रवेदिते धर्मविनये उपसंपदं भिक्षुणीभावम् । यदि संघस्य प्राप्तकालमियमित्थन्नामा संघं द्वेवर्षाणि शिक्षादेशनासम्मुतिं याचेय्या । याचिष्यति आर्यमिश्रिका अष्टादशवर्षा कुमारीभूता द्वेवर्षाणि शिक्षादेशनासम्मुतिं संघम् । क्षमते तं संघस्य यस्मात्तूष्णीमेवमेतं धारयामि । ताय दानि याचितव्यम् । वन्दाम्यार्या संघम् । अहमित्थन्नामा अष्टादशवर्षा कुमारीभूता आकाङ्क्षामि तथागतप्रवेदिते धर्मविनये उपसंपदं भिक्षुणीभावम् । साहं द्वे वर्षाणि शिक्षादेशनासम्मुतिं याचामि । साधु वत मे आर्या संघो द्वे वर्षाणि शिक्षापदानि सम्मुतिं देतु । एवं त्रिख्हत्तो याचितव्यं । कर्म । शृणोतु मे आर्या संघो । इयमित्थन्नमा अष्टादशवर्षा कुमारीभूता आकाङ्क्षति तथागतप्रवेदिते धर्मविनये उपसंपदं भिक्षुणीभावम् । सा संघं द्वे वर्षाणि शिक्षादेशनासम्मुतिं याचति । यदि संघस्य प्राप्तकालं संघो इत्थन्नामाये अष्टादशवर्षाये कुमारीभूताये द्वे वर्षाणि शिक्षादेशनासम्मुतिं दद्यात् । ओवयिका एषा ज्ञप्तिः । शृणोतु मे आर्या संघो । इयमित्थन्नामा अष्टादशवर्षा कुमारीभूता आकाङ्क्षति तथागतप्रवेदिते धर्मविनये उपसंपदं भिक्षुणीभावम् । सा संघं द्वे वर्षाणी शिक्षादेशनासम्मुतिं याचति । तस्याः संघो इत्थन्नामाये अष्टादशवर्षाये कुमारीभूताये द्वे वर्साणी शिक्षादेशनासम्मुतिं देति । यस्या आर्यमिश्रिकाणां क्षमति इत्थन्नामाये अष्टादशवर्षाये कुमारीभूताये द्वे वर्षाणि शिक्षादेशनासम्मुतिं दीयमानां संघेन । सा तूष्णीमस्य । यस्या न क्षमति सा भाषितु । इयं प्रथमा कर्मवाचना । एवं द्वितीया तृतीया कर्मवाचनेति । दिन्ना आर्यमिश्रिकायो इत्थन्नामाये अष्टादशवर्षाये कुमारीभूताये द्वे वर्षाणि शिक्षादेशनासम्मुतिः सम्घेन । क्षमते तं संघस्य यस्मात्तूष्णीमेवमेतद्धारयामि । अथ खलु भगवान्महाप्रजापतीं गौतमीमामान्त्रयति । सन्निपातय गौतमि भिक्षुणीयो यावत्पर्यवदातानि भविष्यन्ति । पूरविंशतिवर्षा पि च भवति कुमारीभूता । तां चादेशितशिक्षामुपस्थापयेत्पाचत्तिकम् । पूरविंशतिवर्षा ति पूरविंशोदकवर्षा । पूरविंशो सम्वत्सरो । पूरविंशो सम्वत्सरो । पूरविंशतिवर्षा । कुमारीभूता ति अविरोपितब्रह्मचर्या । अदेशितशिक्षा ति अदेशितशिक्षैव अदेशितशिक्षा । तं च से कर्म कुर्वन्ति ज्ञप्तिविपन्नं गणविपन्नमनुश्रावणाविपन्नमन्यतरान्यतरेण कर्मोपक्लेशेन उपक्लिष्टम् । एवमप्येषा अदेशितशिक्षा । उपस्थापयेदिति उपसंपादयेत्पाचत्तिकम् । यावत्प्रज्ञप्तिः । तेन भगवानाह । पूरविंशतिवर्षा पि च भवति कुमारीभूता । तञ्चादेशितशिक्षामुपस्थापयेत्पाचत्तिकम् ॥७ ॥ पाचत्तिकधर्म ९८ अपरिपूरशिक्षा २१२. भगवान् श्रावस्तीयं विहरति । भिक्षुणीयो दानि देशित शिक्षामुपस्थापयन्ति । भिक्षुणीयो दानि ओज्झायन्ति । अस्त्येषा देशितशिक्षा न ज्ञायते परिपूरशिक्षा वा न वेति । एतं प्रकरणं भिक्षुणीयो महाप्रजापतीये गौतमीये आरोचयेंसुः । यावद्भगवानाह । तेन हि न क्षमति देशितशिक्षामपि अपरिपूरशिक्षामुपस्थापयितुम् । अथ खलु भगवान्महाप्रजापतीं गौतमीमामन्त्रयति । यावत्पर्यवदातानि भविष्यन्ति । देशितशिक्षा पि च भवति कुमारीभूता तां चापरिपूरशिक्षामुपस्थापयेत्पाचत्तिकम् । देशितशिक्षा ति देशितशिक्षैव देशितशिक्षा अनङ्गोपेताये । देशितशिक्षा तञ्च से कर्म कुर्वन्ति । ज्ञप्तिसम्पन्नं गणसम्पन्नमनुश्रावणासम्पन्नमन्यतरान्यतरेण कर्मोपक्लेशेन अनुपक्लिष्टम् । एवमेषा देशितशिक्षा । अपरिपूरशिक्षा ति अष्टादशहि वर्त्तेहि द्वे वर्षाणि अशिक्षितशिक्षा । कतमेहि अष्टादशहि सर्वभिक्षुणीनां नविकेत्यादि पूर्ववत्यथा गुरुधर्मेषु । न च ताये क्षमति एकाकिनीय ग्रामं पिण्डाय प्रविशितुम् । अथ खु भिक्षुणीय वा श्रमणेरीय वा सह पिण्डाय प्रविशितव्यम् । न क्षमति एकाकिनीय अध्वानं गन्तुम् । यदि सा अष्टानामन्यतरान्यरापत्तिमापद्यति पुनः शिक्षा देशितव्या । एकान्नविंशतिमारभ्य सर्वं दुष्कृतेन कारापयितव्या यानि ऊनकानि द्वे वर्षाणि शिक्षति सापरिपूरशिक्षा । उपस्थापयेदिति उपसंपादयेत्पाचत्तिकम् । तेन भगवानाह । देशितशिक्षा पि च भवति कुमारीभूता । तां चापरिपूरशिक्षामुपस्थापयेत्पाचत्तिकम् ॥८ ॥ पाचत्तिकधर्म ९९ असंमता २१३. भगवान् श्रावस्तीयं विहरति । भगवता दानि शिक्षापदं प्रज्ञप्तम् । न क्षमति अपरिपूरशिक्षामुपस्थापयितुम् । ता दानि भिक्षुणीयो विंशतिवर्षां कुमारीभूतां देषितशिक्षां परिपूरशिक्षामुपस्थापयन्ति । भिक्षुणीयो दानि ओज्झायन्ति । अस्त्येषा देशितशिक्षा । नो तु जानाम परिपूरशिक्षा वा न वा ति । एतं प्रकरणं भिक्षुणीयो महाप्रजापतीये गौतमीये आरोचयेंसुः । पेयालम् । यावद्भगवानाह । तेन हि या एषा विंशतिवर्षा कुमारीभूता आकाङ्क्षति तथागतप्रवेदिते धर्मविनये भिक्षुणीभावं ताय संघो उपथापनासम्मुतिं याचितव्यो । शृणोतु मे आर्य संघो । इयमित्थन्नामा विंशतिवर्षा कुमारीभूता देशितशिक्षा आकाङ्क्षति तथागतप्रवेदिते धर्मविनये उपसंपदं भिक्षुणीभावम् । यदि संघस्य प्राप्तकालमियमित्थन्नामा संघमुपस्थापनासम्मुतिं याचेय्या । याचिष्यति आर्या संघो इयमित्थन्नामा संघमुपस्थापनासम्मुतिम् । क्षमते तं संघस्य यस्मात्तूष्णीमेवमेतद्धारयामि । ताय दानि याचितव्यम् । वन्दाम्यार्या संघम् । अहमित्थन्नामा विंशतिवर्षा कुमारीभूता देसितशिक्षा परिपूरशिक्षा आकाङ्क्षामि तथागतप्रवेदिते धर्मविनये उपसंपदं भिक्षुणीभावम् । साहं संघमुपस्थापनासम्मुतिं याचामि । साधु वत मे आर्या संघो उपस्थापनासम्मुतिं देतु । एवं द्विरपि त्रिरपि याचितव्यम् । कर्म । शृणोतु मे आर्या संघो । इयमित्थन्नामा विंशतिवर्षा कुमारीभूता देशितशिक्षा परिपूरशिक्षा आकाङ्क्षति तथागतप्रवेदिते धर्मविनये उपसंपदं भिक्षुणीभावम् । सा संघमुपस्थापनासम्मुतिं याचति । यदि संघस्य प्राप्तकालं सम्घो इत्थन्नामाये उपस्थापनासम्मुतिं दद्यात् । ओवयिका एषा ज्ञप्तिः । शृणोतु मे आर्या संघो । इयमित्थन्नामा विंशतिवर्षा कुमारीभूता देशितशिक्षा परिपूरशिक्षा आकाङ्क्षति तथागतप्रवेदिते धर्मविनये उपसंपदं भिक्षुणीभावम् । सा संघमुपस्थापनासम्मुतिं याचति । तस्या सम्घो इत्थन्नामाये उपस्थापनासम्मुतिं देति । यस्या आर्यमिश्रिकाणां क्षमति इत्थन्नामाये विंशतिवर्षाये उपस्थापनासम्मुतिं दीयमानां संघेन । सा तूष्णीमस्य । यस्या न क्षमति सा भाषतु । एवं द्वितीया तृतीया कर्मवाचना । दिन्ना आर्यमिश्रिकायो इत्थन्नामाये विंशतिवर्षाये कुमारीभूताये देशितशिक्षाये परिपूर्णशिक्षाय उपस्थापनासम्मुतिः संघेन । क्षमते तं संघस्य यस्मात्तूष्णीमेवमेतद्धारयामि । अथ खलु भगवान्महाप्रजापतीं गौतमीमामन्त्रयति । सन्निपातय गौतमि भिक्षुणीयो यावत्पर्यवदातानि भविष्यन्ति । [१] परिपूरशिक्षा पि च भवति तां चासंमतामुपस्थापयेत्पाचत्तिकम् । परिपूरशिक्षा पि च भवतीति अष्टादशवर्त्तेहि द्वे वर्षाणि देशितशिक्षा । तां चासंमतामिति असंमता एवमसंमता अपरिपूरशिक्षा पि असंमता तं च से कर्म करोन्ति प्रज्ञप्तिविपन्नं गणविपन्नमनुश्रावणाविपन्नमन्यतरान्यतरेण कर्मोपक्लेशेन उपक्लिष्टम् । एवं पि एषा असंमता । उपस्थापयेदिति उपसम्पादयेत्पाचत्तिकम् । यावत्प्रज्ञप्तिः । तेन भगवानाह । । [२] पूरविंशतिवर्षा पि च भवति कुमारीभूता देशितशिक्षा च परिपूरशिक्षा च । तां चासंमतामुपस्थापयेत्पाचत्तिकम् ॥९ ॥ पाचत्तिकधर्म १०० ऊनद्वादशवर्षा गृहिचरिता २१४. भगवान् श्रावस्तीयं विहरति । ता दानि शाकियकन्यायो मल्लकन्यायो कोलीयकन्यायो गृहिचरितायो प्रव्रजितायो पटु कायो उच्चक्षुकायो क्षिप्रनिशान्तिकायो । महाप्रजापती गौतमी भगवन्तं पृच्छति । लभ्या दानि भगवनूनविंशतिवर्षां गृहिचरितामुपस्थापयितुम् । भगवानाह । लभ्या । तायो अष्टवर्षां नववर्षां गृहिचरितामुपस्थापयन्ति । ता अप्रतिसंख्यानवर्तिन्यो भवन्ति । यथा ऊनविंशतिवर्षाः । यावद्भगवानाह । न क्षमति ऊनद्वादशवर्षां गृहिचरितामुपस्थापयितुम् । अथ खलु भगवान्महाप्रजापतीं गौतमीमामन्त्रयति । सन्निपातय गौतमि भिक्षुणीयो यावत्पर्यवदातानि भविष्यन्ति । या पुन भिक्षुणी ऊनद्वादशवर्षां गृहिचरितामुपस्थापयेत्पाचत्तिकम् । गृहिचरिता ति विकोपितब्रह्मचर्या । उपस्थापयेदिति उपसंपादयेत्पाचत्तिकम् । यावत्प्रज्ञप्तिः । या एषा गृहिचरिता आकाङ्क्षति तथागतप्रवेदिते धर्मविनये उपसंपदं भिक्षुणीभावं सा ताय अनुग्राहितव्या । पेयालम् । यावथस्तपादा निवासयितव्याः । तेन भगवानाह । या पुन भिक्षुणी ऊनद्वादशवर्षां गृहिचरितामुपस्थापयेत्पाचत्तिकम् ॥१० ॥ उद्दानम् । सम्मुखम् [९१] । ऊनद्वादशवर्षा [९२] । अनङ्गोपेता [९३] । असम्मता [९४] । दुःशीला [९५] । ऊनविंशतिवर्षा कुमारीभूता [९६] । अदेशितशिक्षा [९७] । अपरिपूरशिक्षा [९८] । असम्मता [९९] । ऊनद्वादशवर्षा गृहिचरिताय [१००] पूर्यते दशमो वर्गः ॥ पाचत्तिकधर्म १०१ अदेशितशिक्षा २१५. भगवान् श्रावस्तीयं विहरति । भगवता शिक्षापदं प्रज्ञप्तम् । न क्षमति ऊनद्वादशवर्षां गृहिचरितामुपस्थापयितुन् ति । तायो दानि भिक्षुणीयो पूरद्वादशवर्षां गृहिचरितामुपस्थापयन्ति । भिक्षुणीयो दानि ओज्झायन्ति । को जानाति पूरद्वादशवर्षा वा न वेति । एतं प्रकरणं भिक्षुणीयो महाप्रजापतीये गौतमीये आरोचयेंसुः । पे । यथा कुमारिभूताय अष्टादशवर्षाय द्वे वर्षाणि शिक्षादेशनासम्मुतिर्याचितव्या । विस्तरेण । तेन भगवानाह । पूरद्वादशवर्षा पि च भवति गृहिचरिता तां चादेशितशिक्षामुपस्थापयेत्पाचत्तिकम् ॥१ ॥ पाचत्तिकधर्म १०२ अपरिपूरशिक्षा २१६. भगवान् श्रावस्तीयं विहरति । सुदिन्ना नाम अभटगणकभार्या प्रव्रजिता । ताय कल्याये शिक्षा देशिता । ताय दानि गृहिभूताय कुक्षि प्रतिलब्धो । सो पि वृद्धो । भिक्षुणीयो दानि ओज्झायन्ति । इयन् ताव देशितशिक्षा । इयं च कुक्षिवती । स निर्वेठेति । आर्यमिश्रिकायो यतो हं प्रव्रजिता नामभिजानाम्यहमेतद्धर्मं प्रतिषेवितुम् । एतं प्रकरणं भिक्षुणीयो महाप्रजापतीये गौतमीये आरोचयेंसुः । पेयालं यावद्भगवानाह । यतो दानि एषा प्रव्रजिता । न एषा जानात्येतं धर्म प्रतिषेवितुम् । गृहिभूताय एताय कुक्षिः प्रतिलब्धो । या दानि एषा ईदृशी भवति न क्षमति उपस्थापयितुम् । अथ खलु यदि तावद्दारिकां जनयति यदा स्तनिका गृहान्निर्गता भवति ततो उपस्थापयितव्या । अथ दारकं जनयति यदा अयं स्तनीभूतो भवति ततो उपस्थापयितव्या । अथ दानि ताये सालोहितो भवति ज्ञातिको वा आहंसुः । वयमेतन् दारकमुपस्थास्याम इति उपसंपादयितव्या । अथ खलु भगवान्महाप्रजापतीं गौतमीमामन्त्रयति । तथैव कर्तव्यं यथा कुमारीभूताये । तेन भगवानाह । देशितशिक्षा पि च भवति गृहिचरिता नामपरिपूरशिक्षामुपस्थापयेत्पाचत्तिकम् ॥२ ॥ पाचत्तिकधर्म १०३ असम्मता २१७. भगवान् श्रावस्तीयं विहरति । भगवता शिक्षापदं प्रज्ञप्तम् । न क्षमति ऊनद्वादशवर्षां गृहिचरितामुपस्थापयितुन् ति । ता दानि भिक्षुणीयो पूरद्वादशवर्षां गृहिचरितां देशितशिक्षामुपस्थापयन्ति । ता दानि भिक्षुणीयो ओज्झायन्ति । अस्त्येषा देशितशिक्षा न तु जानाम परिपूरशिक्ष वा न वेति । एतं प्रकरणं भिक्षुणीयो महाप्रजापतीये गौतमीये आरोचयेंसुः । पेयालम् । यथा कुमारीभूताये यावत्तेन भगवानाह । परिपूरशिक्षा पि च भवति गृहिचरिता । तां चासम्मतामुपस्थापयेत्पाचत्तिकम् ॥३ ॥ पाचत्तिकधर्म १०४ नानुशासेत् २१८. भगवान् श्रावस्तीयं विहरति । तायो दानि भिक्षुणीयो उपस्थापिय उपस्थापिय नाववदन्ति नानुशासन्ति । तायो दानि इन्द्रगवा इव वर्धन्ति यावत्कथं संघाटीपात्रचीवरधारणे प्रतिपत्तव्यम् । पेयालम् । यावद्भगवानाह । दुष्कृतं वो भिक्षुणीयो एवञ्च नामा यूयमुपस्थापयित्वा नाववदथ नानुशासथ । तेन हि द्वे वर्षाणि ओवदितव्या अनुशासितव्या । अथ खलु भगवान्महाप्रजापतीं गौतमीमामन्त्रयति । सन्निपातय गौतमि यावत्पर्यवदातानि भविष्यन्ति । या पुन भिक्षुणी उपस्थायिका उपस्थापितां द्वे वर्षाणि नाववदेय नानुशासयेत्पाचत्तिकम् । या पुन भिक्षुणीति उपसम्पन्ना । पेयालम् । उपस्थायिका ति उपाध्यायिनी । उपस्थापितान् ति सार्धं विहारिणी । द्वे वर्षाणीति द्वे दकवर्षाणि । नाववदेदिति अभिधर्मे वा अभिविनये वा । अभिधर्मो नाम नवविधः सूत्रान्तः । अभिविनयो नाम प्रातिमोक्षः विस्तरप्रभेदेन । नानुशासेदिति आचारमकुर्वन्तीमनाचारं कुर्वन्तीं न निर्द्धमेया न दण्डकर्म दद्यात्पाचत्तिकम् । अथ दानि सा उपस्थापिता दुर्वचा भवति शैथिलिका वा बाहुलिका वा अशिक्षाकामा निर्द्धमितव्या । भिक्षुरपि सार्धं विहारिनं नावावदति नानुशासति विनयातिक्रममासादयति । तेन भगवानाह । या पुन भिक्षुणी उपस्थायिका उपस्थापितां द्वे वर्षाणि नाववदेन्नानुशासेत्पाचत्तिकम् ॥४ ॥ पाचत्तिकधर्म १०५ नोपस्थिहेत् २१९. भगवान् श्रावस्तीयं विहरति । ता दानि भिक्षुणीयो उपस्थापिताः अन्येन गच्छन्ति । ता दानि उपाध्यायिनीयो ओज्झायन्ति । अस्माकं भगवता दण्डकर्म प्रज्ञप्तम् । इमा सामोक्तिका । या दानि उपस्थापिता अन्येन गच्छन्ति । कथमिमाः अस्माभिरववदितव्यायो अनुशासितव्यायो । एतं प्रकरणं भिक्षुणीयो महाप्रजापतीये गौतमीये आरोचयेंसुः । पेयालम् । यावच्छब्दापिता । तदेव सर्वं पृच्छीयन्ति । आम भगवन् । भगवानाह । दुष्कृतं वो भिक्षुणीयो एवं नाम यूयमुपस्थापिताः अन्येन गच्छथ । तेन हि उपस्थापिताय उपस्थायिका द्वे वर्षाणि अनुबन्धितव्या । अथ खलु भगवान्महाप्रजापतीं गौतमीमामन्त्रयति । सन्निपातय गौतमि भिक्षुणीयो यावत्पर्यवदातानि भविष्यन्ति । या पुन भिक्षुणी उपस्थापिता उपस्थायिकां द्वे वर्षाणि नोपस्थिहेन्नानुबन्धेत्पाचत्तिकम् । या पुन भिक्षुणीति उपसम्पन्ना । उपस्थापितेति सार्धविहारिणी । उपस्थायिकामिति उपाध्यायिनी । द्वे वर्षाणीति द्वे वर्षाणी । नोपस्थिहेदिति कायपरिचर्यां कुर्यात् । नानुबन्धेदिति येन गच्छति तेन न गच्छति पाचत्तिकम् । यावत्प्रज्ञप्तिः । अथ दानि सा उपस्थायिका अशिक्षाकामा भवति शैथिलिका वा बाहुलिका वा । भिक्षुणी पश्यति । सा मे ब्रह्मचर्यान्तरायो भवेय दृष्ट्वानुकृतिमापद्यन्तीयेति अन्येन गच्छति अनापत्तिः । भिक्षुणी उपस्थायिकां नोपस्थिहति नानुबन्धति पाचत्तिकम् । भिक्षुरपि उपाध्यायं द्वे वर्षान्नोपस्थिहति नानुबन्धति विनयातिक्रममासादयति । तेन भगवानाह । या पुन भिक्षुणी उपस्थापिता उपस्थायिकां द्वे वर्षाणी नोपस्थिहेन्नानुबन्धेत्पाचत्तिकम् ॥५ ॥ पाचत्तिकधर्म १०६ अनुवर्षम् २२०. भगवान् श्रावस्तीयं विहरति । ता दानि भिक्षुणीयो अनुवर्षमुपस्थापयन्ति । तासां दानि कौकृत्यम् । किन्नु खल्वेतं लभ्यं कर्तुम् । उताहो न लभ्यम् । पेयालम् । यावद्भगवानाह । तेन हि न क्षमति अनुवर्षमुपस्थापयितुम् । अथ खलु वीचिः कर्तव्या । या पुन भिक्षुणी अनुवर्षमुपस्थापयेत्पाचत्तिकम् । या पुन भिक्षुणीति उपसम्पन्ना । अनुवर्षन् ति अनुसम्वत्सरम् । उपस्थापयेदिति उपस्थापयेत्पाचत्तिकम् । यावत्प्रज्ञप्तिः । सा एषा भिक्षुणी अनुवर्षमुपस्थापयेति पाचत्तिकम् । एकं वर्षमुपस्थापयितव्यम् । अपरवर्षे वीचिः कर्तव्या । अथ दानि भिक्षुणी कृतपुण्या भवति एकं वर्षं शिक्षा देशयितव्या । अपरं वर्षमुपस्थापयितव्या । किञ्चापि भिक्षुः अनुवर्षमुपस्थापयेदनापत्तिः । तेन भगवानाह । या पुन भिक्षुणी अनुवर्षमुपस्थापयेत्पाचत्तिकम् ॥६ ॥ पाचत्तिकधर्म १०७ एकतो विशुद्धां २२१. भगवान् राजगृहे विहरति । तहिं दानि जेता नाम भिक्षुणी । सा अन्तेवासिनीं भिक्षुणीहि उपसंपादीयान स्थूलनन्दां भिक्षुणीमाह । आर्ये मम अन्तेवासिनी उपसम्पाद्या साधु आर्ये आर्यमिश्रिकानां गणं पर्येषेहि । ताय गत्वा षद्वर्गिका भिक्षू आनीता । सा दानाह । नाहमेतेहि उपसंपादयेयम् । ताय दानि अपरं दिवसं भद्रकाणां भिक्षुणां गणं समुदानयित्वा उपसंपादयित्वा । एतं प्रकरणं भिक्षुणीयो मजाप्रजापतीये गौतमीये आरोचयेंसुः । यावद्भगवानाह । दुष्कृतं ते जेते एवन्नाम त्वमेकतो विशुद्धां परिवासिकिनीमुपस्थापयसि । एवन्नाम त्वं गणमवजानासि । तेन हि न क्षमति गणमवजानितुम् । पेयालम् । यावद्भगवानाह । या पुन भिक्षुणी एकतो विशुद्धां परिवासिकिनीमुपस्थापयेत्पाचत्तिकम् । या पुन भिक्षुणीति उपसम्पन्ना । एकतो विशुद्धामिति भिक्षुणीगणेनोपसम्पन्नाम् । पारिवासिकिनीमिति परिवसितरात्रिम् । उपस्थापयेदिति उपसम्पादयेन्न भिक्षुगणेन पाराजिकम् । यावत्प्रज्ञप्तिः । न क्षमति एकतो पारिवासिकिनीमुपस्थापयितुम् । नापि क्षमति अपरिशुद्धेन उपसंपादयितुम् । अथ खलु प्रतिकृत्येव ताव भद्रकाणां भिक्षूणां गणो समुदानयितव्यो । अथ दानि अन्ये भद्रकाः अन्ये अभद्रकाः तथा कर्तव्यं यथा भद्रोत्तराणि कर्माणि भवन्ति । भिक्षुणा पि भद्रोत्तराणि कर्माणि कर्तव्यानि । अथ दानि गणमवजानाति विनयातिक्रममासादयति । अथ दानि सेनाभयं वा भवति परचक्रभयं वा नगरोपरोधो वा किञ्चापि पारिवासिकिनीमुपस्थापयेत्यनापत्तिः । तेन भगवानाह । या पुन भिक्षुणी एकतो विशुद्धां पारिवासिकीनीमुपस्थापयेत्पाचत्तिकम् ॥७ ॥ पाचत्तिकधर्म १०८ षट्पञ्च योजना २२२. भगवान् वैशालीयं विहरति । या सा कालीय त्रियन्तरा लेच्छविधीता उपस्थापिता । सा दानि आगारिकेहि च सार्धं संसृष्टा विहरति । सा भिक्षुणीहि वुच्चति । आर्ये कालि या दानि उपस्थापिता त्वं जानासि आगारिकेहि च परिव्राजकेहि च संषृष्टाम् । किमर्थं न व्यपकर्षसि न व्यपकर्षापयसि । एतं प्रकरणं भिक्षुणीयो महाप्रजापतीये गौतमीये आरोचयेंसुः । यावद्भगवानाह । दुष्कृतं ते कालि यावत्पर्यवदातानि भविष्यन्ति या पुन भिक्षुणी उपस्थायिका उपस्थापितां तथारूपासु आपदासु न व्यपकर्षेन्न व्यपकर्षापयेदन्तशः षट्पञ्च योजना ति पाचत्तिकम् । या पुन भिक्षुणीति उपसम्पन्ना । उपस्थायिका ति उपाध्यायिनी । उपस्थापिता ति सार्धेविहारिणी । तथारूपासु आपदासू ति स्वयं वा प्रत्योधावितुकामा ज्ञातिका वा प्रत्योधावयितुकामा अन्येहि वा संसृष्टा भवति । न व्युपकर्षतीति स्वयं न व्युपकर्षापयतीति परेहि । अन्तमसतो षट्पञ्च योजना ति न दानि षट्पञ्च च परमम् । षडेव पाचत्तिकम् । यावत्प्रज्ञप्तिः । एषा दानि भिक्षुणीये सार्धं विहारिणी वा अन्तेवासिनी वा संसृष्टा भवति व्यपकर्षितव्या वा व्यपकर्षापयितव्या वा चारिकाय वर्णो भाषितव्यः । अथ दानि जरादुर्बलावा व्याधिदुर्बला वा भोति अन्याहि भिक्षुणीहि व्यक्पकर्षयितव्या । वक्तव्या । चेतीय वन्दना भविष्यति । भिक्षुदर्शनं भविष्यति । यदा वयं तरुणीयो आसि एवमस्माभिरटितम् । भिक्षुरपि सार्धं विहारिमुत्कण्ठितन्न व्यपकर्षयति न व्यपकर्षापयति विनयातिक्रममासादयति । तेन भगवानाह । या पुन भिक्षुणी उपस्थायिका उपस्थापितां तथारूपास्वापदासु न व्यपकर्षयेत्न व्यपकर्षापयेतन्तमसतो षट्पञ्च योजना ति पाचत्तिकम् ॥८१ ॥ पाचत्तिकधर्म १०९ किं पुनः २२३. भगवान् श्रावस्तीयं विहरति । स्थूलनन्दा नाम भिक्षुणी अनङ्गोपेता उपस्थापयति । सा नाववदति नानुशासति । ता इन्द्रगवा विय वर्धन्ति शिवच्छगला विय वर्धन्ति । पेयालम् । यावत्कथं संघाटीपात्रचीवरधारणे प्रतिपद्यितव्यम् । सा दानि भिक्षुणीहि वुच्चति किं पुनरार्याये अनङ्गोपेताये उपस्थापितेन यमार्यामेवं वक्तव्या अनुशासितव्या । सा दानाह । किं भद्रायिणीयो इर्ष्यापथा मम पर्षामुपस्थापयन्तीयो । एतं प्रकरणं भिक्षुणीयो महाप्रजापतीये गौतमीये आरोचयेंसुः । यावद्भगवानाह । दुष्कृतं ते नन्दे एवन्नाम त्वं क्षियाधर्ममापद्येसि । तेन हि न क्षमति क्षियाधर्ममापद्यितुम् । अथ खलु भगवान्महाप्रजापतीं गौतमीमामन्त्रयति । सन्निपातय गौतमि । यावत्पर्यवदातानि भविष्यन्ति । या पुन भिक्षुणी भिक्षुणीहि एवमुच्यमाना । हिं पुनरार्याये अनङ्गोपेताये उपस्थापितेन । यमार्या एवं वक्तव्या अनुशासितव्येत्युक्ता समाना क्षियाधर्ममापद्येय पाचत्तिकम् । या पुन भिक्षुणीति उपसम्पन्ना । भिक्षुणीहीति संघेन महाजनेन एकपुद्गलेन । किं पुनरार्याये अनङ्गोपेताये ति दशहि अङ्गेहि समन्वागता अङ्गोपेता । प्रातिमोक्षसम्वरसम्वृता भवति [१] । बहुश्रुता भवत्यभिधर्मे [२] । बहुश्रुता भवत्यभिविनये [३] । यावत् । द्वादश वर्षा च भवति [१०] । यस्या इमानि दशाङ्गानि न सम्विद्यन्ते सा भवति अनङ्गोपेता । क्षियाधर्ममापद्येय ति विवाचयेत्पाचत्तिकं यावत्प्रज्ञप्तिः । सा एषा भिक्षुणी भिक्षुणीहि युच्यमाना किं पुनरार्याये अनङ्गोपेताये उपस्थापितेनेति क्षियाधर्ममापद्येय पाचत्तिकम् । भिक्षुरपि भिक्षूहि वुच्यमानो किं पुनरायुष्मतो अनङ्गोपेतस्य उपस्थापितेनेति क्षियाधर्ममापद्येय विनयातिक्रममासादयति । तेन भगवानाह । या पुन भिक्षुणी भिक्षुणीहि एवं वुच्यमाना किं पुनरार्याये अनङ्गोपेताये उपस्थापितेनेति उक्ता क्षियाधर्ममापद्येय पाचत्तिकम् ॥९ ॥ पाचत्तिकधर्म ११० न विसर्जयेत् २२४. भगवान् वैशालीयं विहरति । अपरा दानि शिक्षमाणा स्थूलनन्दामाह । साधु मे आर्ये नन्दे उपसंपादय माम् । सा दानाह । बाढमहं ते उपसंपादयिष्यन् ति । सा विलक्षेति । नैवोपसंपादेति न विसर्जयति । एतं प्रकरणं भिक्षुणीयो महाप्रजापतीये गौतमीये आरोचयेंसुः । पेयालम् । यावत्शब्दापयथ नन्दाम् । सा दानि शब्दापिता । तदेव सर्वं पृच्छीयति । यावदाम भगवन् । भगवानाह । दुष्कृतं ते नन्दे । या पुन भिक्षुणी शिक्षमाणामेवं वादेत् । यदा पूरशिक्षा भविष्यसि ततो हमुपस्थापयिष्यन् ति वदित्वा नैवोपसंपादयेन्न विसर्जयेत्पाचत्तिकम् । या पुन भिक्षुणीति उपसम्पन्ना । पेयालम् । शिक्षमाणेति अष्टादशेहि वर्त्तेहि द्वे वर्षाणि देश्तितशिक्षा । एवं वदेया ति यथा स्थूलनन्दा भिक्षुणी । अहन् ते उपस्थापयिष्यन् ति उपस्थापयितव्या । अथ दानि न प्रतिबला भवति अन्या अध्येषितव्या । अथ दानि नैवात्मना उपस्थापयति नाप्यन्यामध्येषयति न विसर्जयति । गच्छ यत्रेच्छसि तहिमुपसम्पद्याहीति । सा एषा भिक्षुणी शिक्षमाणामुक्त्वा अहन् ते उपस्थापयिष्यन् ति पश्चान्नोपसम्पादयेन्न विसर्जयेत्पाचत्तिकम् ॥१० ॥ पाचत्तिकधर्म १११ यानम् २२५. भगवान् वैशालीयं विहरति । अथ भद्रा कापिलेयी चतुर्युक्तं यानमभिरुहित्वा ज्ञातिकुलं गच्छति । जनो दानि ओज्झायति । पश्यथ भणे श्रमणिका महच्छन्दा । एतं प्रकरणं भिक्षुणीयो महाप्रजापतीये गौतमीये आरोचयेंसुः । यावत्पर्यवदातानि भविष्यन्ति । या पुन भिक्षुणी यानमभिरुह्येत्पाचत्तिकम् । एषैवार्थोत्पत्तिः । भगवान् श्रावस्तीयं विहरति । ता दानि शाकीयकन्याः कोलीयकन्याः लेच्छविकन्याश्च प्रकृतिसुकुमाराः प्रव्रजिताः । पादेहि गच्छन्तीयो किलम्यन्ति । एतं प्रकरणं भिक्षुणीयो महाप्रजापतीये गौतमीये आरोचयेंसुः । यावद्भगवानाह । तेन हि अनुजानामि गिलानाये । अथ खलु भगवान्महाप्रजापतीं गौतमीमामन्त्रयति यावत् । या पुन भिक्षुणी अगिलाना यानमभिरुहेत्पाचत्तिकम् । या पुन भिक्षुणीति उपसम्पन्ना । अगिलाना ति प्रत्युद्धृतं भगवता पदमनापत्तिः गिलानाये । ग्लान्यं नाम जरादुर्बला वा व्याधिदुर्बला वा प्रकृतिसुकुमारा वा न शक्नोति पद आगच्छन्तु इदमत्र गैलान्यमभिप्रेतम् । यानन्नाम हस्तियानमश्वयानमुष्ट्रयानं गोयानं गर्दभयानं नावायानं शिविकायानं यानयानमेव अष्टमम् । अभिरुह्येत्पाचत्तिकम् । न क्षमति भिक्षुण्या यानमभिरुहितुम् । यत्र उष्ट्रा वा गोणा वा युक्ता भवन्ति । अथ खलु स्त्रीयानमभिरुहितव्यम् । यहिमुष्ट्रीयो वा गोणीयो वा युक्ता भवन्ति तहिमारुहितव्यम् । अथ दानि असंज्ञिका भवति न स्त्रीं न पुरुषं जानाति अनापत्तिः । अथ दानि नावाय अपरात्परमुत्तरत्यनापत्तिः । ऊर्ध्वङ्गामिनीयं वा अधोगामिनीयं वा प्रत्ययो अधिष्ठिहितव्यो मा मरिष्यामीति । भिक्षुरपि अगिलानो यानमभिरुहति विनयातिक्रममासादयति । प्रत्ययमधिष्ठिहति अनापत्तिः । तेन भगवानाह । या पुन भिक्षुणी अगिलाना यानमभिरुहेत्पाचत्तिकम् ।रा ॥ पाचत्तिकधर्म ११२ छत्र २२६. भगवान् वैशालीयं विहरति । भद्रा कापिलेयी छत्रेण गृहीतेन उपानहाभ्यामाबद्धाभ्यां ज्ञातिकुलं गच्छति । जनो दानि ओज्झायति । पश्यथ भणे श्रमणिका अद्यापीयं प्रव्रजिता पि महच्छन्दा । एतं प्रकरणं भिक्षुणीयो महाप्रजापतीये गौतमीये आरोचयेंसुः । यावद्भगवानाह । तेन हि न क्षमति छत्रोपानहम् । एषैवार्थोत्पत्तिः । भगवान् श्रावस्तीयं विहरति । ता दानि शाकीयकन्याः लेच्छविकुमाराः प्रव्रजिता गच्छन्तीयो आतपेन दह्यन्ते । एतं प्रकरणं भिक्षुणीयो महाप्रजापतीये गौतमीये आरोचयेंसुः । पेयालं यावद्भगवानाह । तेन हि अनुजानामि गिलानाये । यावात् । या पुन भिक्षुणी अगिलाना छत्रोपानहं धारयेत्पाचत्तिकम् । या पुन भिक्षुणी ति उपसम्पन्ना । अगिलाना ति प्रत्युद्धृतं भगवता पदमनापत्तिर्गिलानाये । किन् तावदत्र गैलान्यमभिप्रेतम् । जरादुर्बला वा व्याधिदुर्बला व प्रकृतिसुकुमारा वा । शक्नोति गन्तुमातपेन दह्यते । छत्रोपानह इति छत्रन्नाम भूर्जछत्रं तालछत्रं वेणुछत्रं पर्णछत्रं चैलछत्रम् । उपानहा नाम एकपलासिका संपुटा वा । धारयेदिति परिभुञ्जेत्पाचत्तिकम् । यावत्प्रज्ञप्तिः । सा एषा भिक्षुणी अगिलाना छत्रन् धारेति न उपानहां विनयातिक्रममासादयति । उपानहान् धारेय न छत्रं विनयातिक्रममासादयति । उभयन् धारेति पाचत्तिकम् । नोभयमनापत्तिः । भिक्षुरपि पिचुमस्तकादि छत्रं धारेति संपुटां वा अनिर्मोकां विनयातिक्रममासादयति । तेन भगवानाह । या पुन भिक्षुणी अगिलाना छत्रोपानहं धारयेत्पाचत्तिकम् । पाचत्तिकधर्म ११३ मञ्च २२७. भगवान् वैशालीयं विहरति । भद्रा दानि कापिलेयी ज्ञातिकुलं गच्छति । तेषां शय्या आस्तृतप्रत्यास्तृता द्विकडेवर त्रिकडेवरेहि निश्रेणीय आरुह्यति । चरकपरिव्राजका भिक्षुणीयो च भिक्षार्थं प्रविशन्ति । ते तां दृष्ट्वा ओज्झायन्ति । पश्यथ भणे श्रमणिका अद्यापीयं महच्छन्दा । एतं प्रकरणं भिक्षुणीयो महाप्रजापतीये गौतमीये आरोचयेंसुः । यावच्छब्दापयथ भद्राम् । सा दानि शब्दापिता । तदेव सर्वं भगवान् विस्तरेण पृच्छति । यावदाम भगवन् । भगवानाह । एवं नाम त्वमतिरेकप्रामाणिके मञ्चे वा पीठे वा अभिनिषीदसि अभिनिपद्यसि । तेन हि न क्षमति अतिरेकप्रामाणिके मञ्चे वा पीठे वा अभिनिषीदितुं वा अभिनिपद्यितुं वा । अथ खलु भगवान् यावत्पर्यवदातानि भविष्यन्ति । या पुन भिक्षुणी अतिरेकप्रामाणिके मञ्चे वा पीठे वा अभिनिषीदेय वा अभिनिपद्येय वा पाचत्तिकम् । या पुन भिक्षुणीति उपसम्पन्ना । अतिरेकप्रामाणिके इति सुगताष्टाङ्गुलप्रमाणतो उत्तरि । मञ्चे वा पीठे वा ति चतुर्दश मञ्चाः चतुर्दश पीठाः । अभिनिषीदेय वा ति आसेय । अभिनिपद्येय वा ति शय्यां कल्पयेत्पाचतिकम् । यावत्प्रज्ञप्तिः । सा एषा भिक्षुणी सकृन्निषण्णा दिवसं पि निषीदति एकं पाचत्तिकमासादयति । अथ पुनो पुनो निषीदति तावत्यः पाचत्तिकाः । अतिरेकप्रमाणं भूमौ निखनित्वा उपविशति वा निपद्यति वा अनापत्तिः । भिक्षुरपि अतिरेकप्रामाणिके मञ्चे वा पीठे वा निषीदति वा अभिनिपद्यति वा विनयातिक्रममासादयति । तेन भगवानाह । या पुन भिक्षुणी अतिरेकप्रामाणिके मञ्चे वा पीठे वा अभिनिषीदेय वा अभिनिपद्येय वा पाचत्तिकम् ॥२ ॥ पाचत्तिकधर्म ११४ एकास्तरणा २२८. भगवान् श्रावस्तीयं विहरति । ता दानि षड्वर्गिणीयो भिक्षुणीयो एकास्तरणप्रावरणां शय्यां कल्पयन्ति । तायो मञ्चां भञ्जन्ति बिशिकां पाटेन्ति चतुरस्रकां पाटेन्ति । एतं प्रकरणं भिक्षुणीयो महाप्रजापतीये गौतमीये आरोचयेंसुः । यावत्ता दानि शब्दापिताः पृच्छीयन्ति । यावदाम भगवन् । भगवानाह । दुष्कृतं वो भिक्षुणीयो यावत् । या पुन भिक्षुणी एकास्तरणप्रावरणां सहशय्यां कल्पयेत्पाचत्तिकम् । या पुन भिक्षुणीति उपसम्पन्ना । एकास्तरणा ति एकमञ्चास्तरणा । एकप्रावरणा ति एकचेला । शेय्या ति पङ्गुलमञ्चो पङ्गुलपीठो यावत्कटकिलञ्जादयो । कल्पयेदिति कुर्यात् । पाचत्तिकं यावत्प्रज्ञप्तिः । न क्षमति भिक्षुणीये सहशय्यां कल्पयितुम् । अथ खलु मञ्चे एकाकिनीय शयितव्यम् । त्रिहि पीठेहि द्विहि जनाहीति पादां प्रासारयन्तीहि तथा प्रसारयितव्याः यथा अन्यमन्यस्य जानुका नाक्रमेयुः । बिस्यामेकाकिन्या शयितव्या । तिर्यक्प्रज्ञप्ताया तृहि जनेहि शयितव्यं पाटियकपाटियकेहि प्रत्यास्तरणेहि यथा चतुरस्रके यथा पीठे । अथ दानि तृणादि संस्तरो भवति न क्षमति अतिबहुमाक्रमितुम् । अथ खु निर्मुष्टिकं समं प्रज्ञापयितव्यं पाटियकपाटियकेहि प्रत्यास्तरणेहि । अथ दानि शीतं भवति स्वकस्वकान्यन्तरीकरणानि कृत्वा एकं संचेली कर्तव्या । भिक्षुरपि सहशय्यां कल्पयति विनयातिक्रममासादयति । तेन भगवानाह । या पुन भिक्षुणी सहशय्यां कल्पयेत्पाचत्तिकम् ॥३ ॥ पाचत्तिकधर्म ११५ प्रक्रमति २२९. भगवान् श्रावस्तीयं विहरति । स्थूलनन्दा नाम भिक्षुणी सांघिके विहारे शय्यासनं रुन्धित्वा चारिकां प्रक्रान्ता । भिक्षुणीयो आगन्तुकायो आगतायो । तायो भिक्षुणीयो यथावृद्धिकाय उत्थापीयन्ति तस्मिन् विहारे सांघिकं शय्यासनम् । ता भिक्षुणीयो दानि ओज्झायन्ति । किमस्य दानि सांघिकं शयनासनं निरुन्धिय चारिकां प्रक्रमीयति । न शयनासनमनिःसरित्वा गन्तव्यम् । एतं प्रकरणं भिक्षुणीयो महाप्रजापतीये गौतमीये आरोचयेंसुः । यावच्छब्दापयथ नन्दाम् । सा दानि शब्दापिता । एतदेव पृच्छियति यावदाम भगवन् । भगवानाह । दुष्कृतं ते नन्दे एवं च नाम त्वं सांघिकं शयनासनमनिःसरित्वा चारिकां प्रकरमसि । तेन हि न क्षमति सांघिकं शयनासनमनिःसरिव्ता चारिकां प्रक्रमितुम् । अथ खलु भगवान् यावत्पर्यवदातानि भविष्यन्ति । या पुन भिक्षुणी सांघिकं शयनासनमनिःसरित्वा चारिकां प्रक्रामेय पाचत्तिकम् । या पुन भिक्षुणीति उपसम्पन्ना । सांघिकं शयनासनन् ति मञ्चं वा पीठं वा बिसिकां वा चतुरस्रकां वा कुच्चं वा बिम्बोहनं वा । अनिःसरित्वा ति अनिर्यातयित्वा । चारिकां प्रक्रमेया ति अन्यत्र गच्छेत्पाचत्तिकं यावत्प्रज्ञप्तिः । न क्षमति भिक्षुणीये सांघिकं शयनासनमनिःसरित्वा चारिकां प्रक्रमितुम् । प्रक्रमन्तीय वक्तव्यं यथा पलिगुद्धं शयनासनं निःसरामीति । अनिःसरित्वा प्रक्रामति पाचत्तिकमासादयति । अथ दानि एकवस्तुको संघारामो भवति अनिःसरित्वा चारिकां प्रक्रमति विनयातिक्रममासादयति । तेन भगवानाह । या पुन भिक्षुणी सांघिकं शयनासनमनिःसरित्वा चारिकां प्रक्रमेय पाचत्तिकम् ।ण्…क ॥ पाचत्तिकधर्म ११६ प्रविशति २३०. भगवान् श्रावस्तीयं विहरति । सो दानि गर्तोदरपिता स्वविहारे स्नापयति । गर्तोदरमाता अप्रतिसम्विदिता विहारं गच्छति । प्रविशित्वा पृष्ठिमस्य मर्दति । तेनावलोकिता । सो दानाह । अये हि स्त्री ति । सा दानाह । अपापा गर्तोदरपिता । कस्तावदत्र दोषोऽयं दानि अहमन्यदापि अन्यदापि स्नापयामि । सो दानाह । अन्यदाहं गृही आसि इदानीं प्रव्रजितो । एतं प्रकरणं भिक्षुणीयो महाप्रजापतीये गौतमीये आरोचयेंसुः । यावच्छब्दापयथ गर्तोदरमाताम् । सा दानि शब्दापिता तदेव सर्वम् । भगवान् विस्तरेण पृच्छति । यावदाम भगवन् । भगवानाह । अन्यदापि स्नापयामि । सो दानाह । दुष्कृतन् ते गर्तोदरमाते यावदेवन्नाम त्वं जानन्ती पूर्वे अप्रतिसम्विदिता अनाहूता उपसम्क्रमसि । तेन हि न क्षमति यावद्भगवानाह । या पुन भिक्षुणी जानन्ती सभिक्षुकं संघारामं पूर्वे अप्रतिसम्विदिता अनाहूता उपसम्क्रमेय पाचत्तिकम् । या पुन भिक्षुणीति उपसम्पन्ना । सभिक्षुकन् ति अन्तमसतो यहिमेकभिक्षुरपि भवति । संघारामन् ति आरण्यकं वा ग्राम्ऽअन्तिकं वा । पूर्वे अप्रतिसम्विदिता ति अनिवेदिता । अनाहूता ति अशब्दापिता । उपसम्क्रमेया ति प्रविशेय । यथा गर्तोदरमाता भिक्षुणी । पाचत्तिकं पेयालं यावत्प्रज्ञप्तिः । एता दानि यो भिक्षुणीयो परिवेणं गच्छन्ति द्वारकोष्ठके स्थित्वा निवेदयितव्यम् । वन्दाम्यार्य प्रविशामः । तेनापि दानि भिक्षुणा भिक्षवो जानापयितव्या मा दानि भिक्षू विप्रकटा भवेंसू ति । यदि विप्रकटा भोन्ति मृत्तिकाकर्मेण वा इष्टकाकर्मेण वा । अपलिगुद्धा भवन्ति वक्तव्यम् । आगमेथ तावद्भगिनीयो । तेन ते भिक्षू उपसंक्रामित्वा वक्तव्याः । आयुष्मन्तो निवासेथ प्रावरथ भिक्षुणीयो प्रविशन्ति । न च अकुशलेन अप्रकृतिज्ञेन वक्तव्यम् । सहसा मा प्रविशथेति । अथ खलु वक्तव्यम् । विप्रकटा भिक्षवो मा प्रविशथ । अथ दानि अप्रतिसंविदिता प्रविशन्ति पाचत्तिकम् । एकं पादं प्रवेशयति विनयातिक्रममासादयति । द्वितीयपादं प्रवेशयति पाचत्तिकम् । तत एव प्रत्योशक्कति विनयातिक्रममासादयति । भिक्षुरपि अप्रतिसंविदितो भिक्षुनीउपाश्रयं प्रविशति विनयातिक्रममासादयति । अथ खु द्वारकोष्ठके स्थित्वा अच्छटिका कर्तव्या । तेन भगवानाह । या पुन भिक्षुणी जानन्ती सभिक्षुकं संघारामं पूर्वे अप्रतिसंविदिता अनाहूता उपसंक्रमेय पाचत्तिकम् ॥तृ ॥ पाचत्तिकधर्म ११७ समनुष्य २३१. भगवान् श्रावस्तीयं विहरति । भिक्षुणीयो दानि कोशलेहि जनपदेहि चारिकां चरन्तीयो ग्रामवासके वासमुपगताः । तेहि दानि अपरा स्त्री विप्रवस्तपतिका उक्ता । प्रजापति देहि अस्माकं प्रतिश्रयम् । सा दानाह । आर्ये कुटुम्बिको मम विप्रवुस्तो । मा सहसा आगमिष्यति । ता दानाहंसुः । कः पुनरेवं ज्ञास्यति आगमिष्यति वा न वेति । ताय दिन्नो प्रतिश्रयो तासान् दानि भिक्षुणीनां प्रतिक्रान्तानाम् । सो पुरुषो विकाले आगतो । सो दानि खादित्वा पिबित्वा क्लेशे पीडितो भार्याय सार्धं म्श्रीभूतो । ता दानि भिक्षुणीयो तेन शब्देन प्रतिबुद्धाः । या दानि अविगतरागाः तासामस्पर्शसंज्ञा उत्पन्ना । एतं प्रकरणं भिक्षुणीयो महाप्रजापतीये गौतमीये आरोचयेंसुः । पे । यावद्भगवानाह । शब्दापयथ तायो दानि भिक्षुणीयो । तायो शब्दापितायो तदेव सर्वम् । भगवान् विस्तरेण पृच्छति । यावदाम भगवन् । भगवानाह । एवं च नाम यूयं जानन्तीयो संभोजनीये कुले अनुपखज्जासनं शय्यां कल्पयथ । तेन हि न क्षमति । एषैवार्थोत्पत्तिः । भगवान् श्रावस्तीयं विहरति । भिक्षुणीयो दानि कोशलेहि जनपदेहि चारिकां चरन्तीयो अन्यतरस्मिं ग्रामवासके वासमुपगताः । तायो दानि सर्वग्राममण्विताः न कहिञ्चिदपुरुषं गृहं लभन्ति । ता दानि रथ्यायां प्रतिक्रान्ताः रात्रौ वातवृष्टिरुत्थिताः । विहेठिता दुःखिताः संवृत्ताः । एतं प्रकरणं भिक्षुणीयो महाप्रजापतीये गौतमीये आरोचयेंसुः । यावद्भगवानाह । तेन हि अनुजानामि वातसमये वृष्टिसमये । एषैवार्थोत्पत्तिः । भगवान् श्रावस्तीयं विहरति । यावत्रथ्यायां वा सोपगता भिक्षुणीयो । स्त्रियो आरोचयेंसुः । इमं गृहंसुः इमं गृहं प्रविशथ धूर्तकानामिह भयम् । भिक्षुणीयो आहंसुः । नहि । भगवता शिक्षापदं प्रज्ञप्तम् । न क्षमति सपुरुषके गृहे शय्यां कारयितुम् । तायो तहिं रात्रौ धूर्तकेहि विहेठिताः तत्रान्यतरा ब्रह्मचर्यातो च्याविताः । एतं प्रकरणं भिक्षुणीयो महाप्रजापतीये गौतमीये आरोचयेंसुः । यावद्भगवानाह । तेन हि अनुजानामि पुरुषाशङ्कितसमयं यावत् । या पुन भिक्षुनी जानन्ती संभोजनीये कुले अनुपखज्जेशय्यां कल्पयेदन्यत्र समये पाचत्तिकम् । तत्रायं समयो वातसमयो वृष्टिसमयो पुरुषाशङ्कितसमयो अयमत्र समयो ॥ या पुन भिक्षुणीति उपसम्पन्ना । जानन्तीति स्वयं वा जानेय परतो वा श्रुणेय । संभोजनीयन् ति स्त्रीया पुरुषो भोजनं पुरुषस्यापि स्त्री भोजनम् । कुलन् ति ब्राह्मकुलं यावद्राजकुलं यानि वा पुनरन्यान्यपि काञ्चित्कुलानि । अनुपखज्ज नाम वासवस्तु यहिं भार्यापतिका प्रतिक्रमन्ति । शय्यां कल्पयन् ति पार्श्वन् दद्यात् । अन्यत्र समय इति प्रत्युद्धृतं भगवता पदमनापत्तिः । समयो वातसमयो वृष्टिसमयो पुरुषाशङ्कितसमयो । तत्र वातसमयो नातीतो नानागतो । अथ खु वर्तमानो येव । एवं वृष्टिसमयो । पुरुषाशङ्कितसमयो नाम मा ब्रह्मचर्यान्तरायो भविष्यतीति । सो एषो पुरुषाशङ्कितसमयो नातीतो नानागतो । अथ खु वर्तमानो येव । पाचत्तिकं यावत्प्रज्ञप्तिः । न क्षमति भिक्षुणीये जानन्तीये संभोजनीये कुले अनुपखज्जे शय्यां कल्पयितुम् । अथ दानि ज्ञायते अयं मनुष्यः श्राद्धो आलप्तको वा किञ्चापि अनुपखज्जो शय्यां कल्पयन्ति अनापखज्जो शय्यां कल्पयति अनापत्तिः । तेन भगवानाह । या पुन भिक्षुणी जानन्ती संभोजनीये कुले अनुपखज्जे शय्यां कल्पयेदन्यत्र समये पाचत्तिकम् । तत्रायं समयो वातसमयो वृष्तिसमयो पुरुषाशङ्कितसमयो । अयमत्र समयो ।रा ॥ पाचत्तिकधर्म ११८ अध्वानं २३२. भगवान् श्रावस्तीयं विहरति । भिक्षू दानि वैशालीयं वर्षोषिताः श्रावस्तीं प्रस्थिताः भगवतो पादावन्दाः । भिक्षुणीहि श्रुतं भिक्षू किल भगवतो पादवन्दा गमिष्यन्तीति । तायो परिवेणं गत्वा आहंसुः । वन्दाम्यार्य श्रुणोमः आर्यमिश्राः श्रावस्तीयं गमिष्यन्ति भगवतः पादवन्दा । आहंसुः । आम किङ्कर्तव्यम् । आहंसुः । वयमपि गमिष्यामः । आहंसुः । भगवता शिक्षापदं प्रज्ञप्तं न क्षमति भिक्षुणीये सह अध्वानमार्गं प्रतिपद्यितुम् । तायो दानि आहंसुः । कदा पुनरार्यमिश्रा गमिष्यन्ति । आहंसुः । अमुकं दिवसम् । तायो एकद्विकाय दिवसानि गणयन्ति तदहो गमिष्यन्तीति । तायो दानि प्रकृत्येव कृतभक्तकृत्याः निवासयित्वा प्रावरित्वा पात्रचीवरमादाय मार्गे स्थिताः । ते च भिक्षवो तां वेलां प्रस्थिताः । ते तां दृष्ट्वा आहंसुः । आयुष्मन्तो इमायो तायो भगिनीयो शीघ्रशीघ्रं गच्छन्ति । ता अपि भिक्षुणीयो शीघ्रशीघ्रं गच्छन्ति । ते दानि भिक्षू प्रधाविताः । ता अपि भिक्षुणीयो प्रधावितायो । तहिं दानि या भिक्षुणीयो तरुणीयो बलवन्तीयो ताहि ते भिक्षू अनुजविताः । या तंहि जरादुर्बलायो व्याधिदुर्बलायो प्रकृतिसुकुमारायो तायो चे एहि मुषिताः परिपिट्टिताश्च । एतं प्रकरणं भिक्षुणीयो महाप्रजापतीये गौतमीये आरोचयेंसुः । यावद्भगवानाह । एवं च नाम तवे तिरोराज्यन् तिरोजनपदमसार्थिका प्रक्रमथ । तेन हि न क्षमति तिरोराज्यां तिरोजनपदमसार्थिका चारिकां प्रक्रमितुं । यावत्पर्यवदातानि भविष्यन्ति । या पुन भिक्षुणी तिरोराज्यं तिरोजनपदमसार्थिका चारिकां प्रक्रमेय पाचत्तिकम् । या पुन भिक्षुणीति उपसम्पन्ना । तिरोराज्यन् ति परराज्यम् । तिरोजनपदन् ति परजनपदम् । असार्थिका ति सालो नाम गृहि सार्थो वा प्रव्रजितसार्थो वा शकटसार्थो वा पर्येषितव्यो । चारिका ति अन्यत्र प्रक्रमति । पाचत्तिकं यावत्प्रज्ञप्तिः । सा एषा भिक्षुणी असार्थिका चारिकां प्रक्रमति । यदा मार्गो निस्तीर्णो भवति पाचत्तिकम् । अथ दानि सार्थेण सार्धं गच्छन्ति । समं प्रस्थिताः विषमं प्रविशन्ति विनयातिक्रममासादयन्ति । विषमं प्रस्थिताः समं प्रविशन्ति विनयातिक्रममासादयन्ति । समं प्रस्थिताः समं प्रविशन्ति अनापत्तिः । विषमं प्रस्थिताः विषमं प्रविशन्ति पाचत्तिकमासादयन्ति । भिक्षुरपि असार्थिको सभयं सप्रतिभयं साशङ्कसम्मतं मार्ग प्रतिपद्यति विनयातिक्रममासादयति । तेन भगावनाह । या पुन भिक्षुणी तिरोराज्यन् तिरोजनपदमसार्थिका चारिकां प्रक्रमेय पाचत्तिकम् ॥ ग्रा ॥ पाचत्तिकधर्म ११९ उद्यानं २३३. भगवान् श्रावस्तीयं विहरति । भिक्षुणीयो दानि स्त्रीभिः सह उद्यानभूमिं निर्गताः । स्त्रियो खादन्ति च पिबन्ति च । तत्र भिक्षुण्यः स्त्रीवेषेण चङ्क्रमन्ति आरामगृहकानि वनगृहकानि चित्रगृहकानि नीरीक्षन्तीयो । तायो दानि गूढे प्रदेशे पुरुषेहि विहेठिताः । एतं प्रकरणं भिक्षुणीयो महाप्रजापतीये गौतमीये आरोचयेंसुः । यावद्भगवानाह । अन्तोराज्यं कं पि च भवति अन्तोराष्ट्रम् । तत्र च भिक्षुणी आरामगृहकानि वा वनगृहकानि वा चित्रगृहकानि वा दर्शनाय गच्छेत्पाचत्तिकम् । अन्तोराज्यं कंपि भवतीति स्वराज्यम् । अन्तोराष्ट्रकमपीति स्वराष्ट्रम् । तत्र च भिक्षुणी आरामगृहकानीति एते दानि भवन्ति । चंपकारामा वा पनसारामा वा अतिमुक्तकारामा वा । वनगृहकानीति एते भवन्ति । न्यग्रोधवना वा द्राक्षावना वा कदलीवना वा दाडिमवना वा मातुलुङ्गवना वा । चित्रगृहकानीति एते भवन्ति सभा वा कूटागारा वा । दर्शनाय गच्छेदिति प्रेक्षणाय । पाचत्तिकम् । यावत्प्राज्ञप्तिः । न क्षमति आरामगृहं वा वनगृहं वा चित्रगृहं वा दर्शनाय गन्तुम् । गच्छति विनयातिक्रममासादयति । यदागता भवति तदा पाचत्तिकमासादयति । अथ दानि तत्रैव स्त्रीभिः सह चञ्चूर्यते अनापत्तिः । भिक्षुरपि आरामगृहं वा वनगृहं वा चित्रगृहं वा दर्शनाय गच्छति यत्र कामोपभोगिनः क्रीडन्ति विनयातिक्रममासादयति । तेन भगवानाह । अन्तोराज्यं कंपि च भवति अन्तोराष्ट्रं पि । तत्र च भिक्षुणी आरामगृहकानि वा वनगृहकानि वा चित्रगृहकानि वा दर्शनाय गच्छेत्पाचत्तिकम् ॥८ ॥ पाचत्तिकधर्म १२० रहो २३४. भगवान् वैशालीयं विहरति । सुजाता नाम भिक्षुणी आयुष्मतो उदायिष्य पुराणद्वितीया । ताय दानि तस्य दूतेन प्रेषितो । एहि त्वं मम ओहेय्यकवारो भविष्यति । सहितका आसिष्यामः । यदा तायो भिक्षुणीयो गोचरं प्रविष्टाः तदायुष्मानुदायी कालस्यैव निवासयित्वा प्रावरित्वा पात्रचीवरमादाय तहिं प्रविष्टो । ते दानि विहारस्य पश्चात्वस्तुके अम्बरीयकेण निषण्णा रक्तचित्ता कर्मण्येनाङ्गजातेन अन्यमन्यस्य अङ्गजातानि निध्यायत्ता आसन्ति । अपरा दानि भिक्षुणी महल्लिका उच्चारकर्माय वा प्रस्रावकर्माय वा पश्चाद्वस्तुकं गता । ताय दृष्टो । सा दानि व्रीडिता प्रत्योसक्किता । एतं प्रकरणं भिक्षुणीयो महाप्रजापतीये गौतमीये आरोचयेंसुः । पेयालम् । यावदाम भगवन् । भगवानाह । दुष्कृतन् ते सुजातिके यावत्पर्यवदातानि भविष्यन्ति । या पुन भिक्षुणी भिक्षुणा सार्धमेका एकेन रहो निषद्यां कल्पयेत्पाचत्तिकम् । या पुन भिक्षुणीति उपसम्पन्ना । एका एकेनेति सा च भवति अन्यो च तत्र भोति । सुप्तो मत्तो उन्मत्तोत्क्षिप्तचित्तो वेदनाभिन्नो उत्तानशय्याको अमानुषो तिर्यग्योनिगतो । एवमप्येषा एका एकेन । रहो ति मिथो । निषद्यां कल्पयति । सहितका आसेयुः । पाचत्तिकम् । पेयालम् । यावत्प्रज्ञप्तिः । सा एषा भिक्षुणी भिक्षुणा सार्धं सकृन्निसण्णा दिवसं पि निषीदति एकं पाचत्तिकमासादयति । अथ दानि पुनो पुनो उच्छति च निषीदति च तत्तिका पाचत्तिकमासादयति । अथ दानि द्वे जना भवन्ति एको विहारं प्रविशति कस्यचिदर्थाय भिक्षुणीय शीघ्रमुत्थिहितव्यम् । नापि दानि सहस्रामाजानेय मामेषा विहेठयितुकामा ति । अथ खु प्रतिसंवेदितव्यम् । उत्थास्याम्यहम् । आह । कस्यार्थाय । वक्तव्यम् । एकाये एकेन स्थातुम् । सो एषो ऊनसप्तवर्षो चेल्लको भवति । सो आसादनाय न मोचनाय केत्तावता अन्तरेणापत्तिर्भवति । येनान्तरेणानभिसंस्कृता भिक्षा दीयते । अथ दानि आकीर्णजनमनुष्यो भिक्षुणी उपाश्रयो भवति निष्क्रमन्ति च प्रविशन्ति च स्थपतिवर्धकिचित्रकराः किञ्चापि तेहि कल्पियकारेहि आसति अनापत्तिः । अथ दानि रथ्यामुखं द्वारं भवति अवीचिः स्त्रियो च पुरुषा च गच्छन्ति अकिञ्चापि तेहि कल्पियकारेहि आसति अनापत्तिः । अथ दानि अन्तरावीचिः छिन्ना भवति पाचत्तिकम् । कल्पियकारो प्रवलायति अच्छटिकाय बोधयितव्यो । अथ दानि द्वे भूमके कल्पियकारो तिष्ठति त्रयाणामन्यतमान्यतरं पश्यत्यनापत्तिः । तत्र वायो वा वेमान्तरेण त्रयाणामन्यतमान्यतरं पश्यत्यनापत्तिः । अस्ति दर्शनोपविचारो न श्रमणोपविचारो । अस्ति श्रमणोपविचारो न दर्शनोपिविचारो । अस्ति दर्शनोपविचारो च श्रमणोपविचारो च । अस्ति नैव दर्शनोपविचारो न श्रमणोपविचारः । किन् ति दानि अस्ति दर्शनोपविचारो न श्रमणोपविचारः । प्राकृतेन चक्षुषा पश्यति भिक्षुरेषो आसति भिक्षुणी वेति नो तु प्राकृतेन श्रोत्रेण तयोरायं शृणोति । एवं चतुष्को योजयितव्यः । यावदेषा आपत्तिः । ग्रामे वारण्ये वा रात्रौ वा दिवा वा छन्ने वा अभ्यवकशे वा एकस्य न महाजने सन्तिके न दूरे । तेन भगवानाह । या पुन भिक्षुणी भिक्षुणा सार्धमेका एकेन रहो निषद्यां कल्पयेत्पाचत्तिकम् ॥० ॥ पाचत्तिकधर्म १२१ पुरुष २३५. भगवान् श्रावस्तीयं विहरति । भद्रा दानि कापिलेयी ज्ञातिकुलं गता भ्रातृकेहि भ्रातृपुत्रकेहि मातुलेहि मातुलपुत्रकेहि सार्धमेका एकेन सह तिष्ठति । भिक्षुणीयो दानि पिण्डपातमण्वन्तीयो दृष्ट्वा ओज्झायन्ति । किन् तावदिमाये प्रव्रजिताये पुरुषेण सार्धमेकाय एकेन रहो निषीदितुम् । एतं प्रकरणं भिक्षुणीयो महाप्रजापतीये गौतमीये आहंसुः । यावद्भगवानाह । शब्दापयथ भद्राम् । सा दानि शब्दापिता । तदेव सर्वं पृच्छीयति । यावदाम भगवन् । भगवानाह । तेन हि न क्षमति । एकाये एकेन पुरुषेण सार्धं रहो निषीदितुं यावद्भगवानह । या पुन भिक्षुणी पुरुषेण सार्धमेका एकेन रहो निषद्यां कल्पेय पाचत्तिकम् । या पुन भिक्षुणी उपसम्पन्ना । पुरुषेण सार्धमेका एकेनेति सा च भवति यावदेवमप्येषा एका एकेन । रहो ति मिथ्या । निषद्यां कल्पेया ति सहितका आसेयुः । पाचत्तिकं यावत्प्रज्ञप्तिः सा एषा भिक्षुणी पुरुषेण सार्धं सन्निषण्णा दिवसन्निषीदति एकं पाचत्तिकमासादयति । एवं विस्तरेण यथैव भिक्षुणा । तेन भगवानाह । या पुन भिक्षुणी पुरुषेण सार्धमेका एकेन रहो निषद्यां कल्पेय पाचत्तिकम् ॥लृम् ॥ पाचत्तिकधर्म १२२ उपकर्णकेन २३६. भगवान् श्रावस्तीयं विहरति । अथ भद्रा दानि कापिलेयी ज्ञातिकुलं गता । भ्रातृदुहितृपुत्रेहि मातुलपुत्रेहि सह अन्तो हस्तपाशस्य तिष्ठति संलपति उपकर्णकं जल्पति । भिक्षुणीयो दानि ओज्झायन्ति । किन् तावदिमाये प्रव्रजिताये उपकर्णकं जल्पितेन । अवश्यमेषा अस्माकमर्थाय जल्पति । एतं प्रकरणं भिक्षुणीयो महाप्रजापतीये गौतमीये आहंसुः यावत् । या पुन भिक्षुणी पुरुषेन सार्धमन्तो हस्तपाशस्य संतिष्ठेय वा संलपेय वा उपकर्णं वा जल्पेय पाचत्तिकम् । या पुन भिक्षुणीति उपसम्पन्ना । पुरुषेण सार्धमिति गृहस्थेन वा प्रव्राजितेन वा । अन्तो हस्तपाशं ति व्यायामाभ्यन्तरे तिष्ठेय । संलपतीति किञ्चि जल्पेय । उपकर्णकं जल्पेया ति कर्णकल्पिकं जल्पेय । पाचत्तिकं यावत्प्रज्ञप्तिः । न क्षमति भिक्षुणीय पुरुषेण सार्धमन्तो हस्तपाशस्य तिष्ठतुं वा सम्लपितुं वा उपकर्णकं वा जल्पितुं वा । अथ दानि किं जल्पितव्यं भवति । परं हस्तपादा स्थिताय जल्पयितव्यम् । अथ दानि गुह्यं जल्पितव्यं भवति भित्तिं वा कुड्यं वा स्तम्भं वा वृक्षं वा यमनिकां वा अन्तरीकृत्वा जल्पयितव्यम् । सा एषा भिक्षुणी पुरुषेण सार्धमन्तो हस्तपाशस्य तिष्ठति वा संलपति वा उपकर्णकं वा जल्पति पाचत्तिकम् । भिक्षुरपि स्त्रिया सार्धमन्तो हस्तपाशस्य तिष्ठति वा संलपति वा उपकर्णं वा जल्पति विनयातिक्रममासादयति । तेन भगवानाह । या पुन भिक्षुणीपुरुषेण सार्धमन्तो हस्तपाशस्य सन्तिष्ठेय वा संलपेय वा उपकर्णं वा जल्पेय पाचत्तिकम् ॥१ ॥ उद्दानम् । छत्र [१(११२)], मञ्च [२(११३)], एकास्तरणा [३(११४)] । प्रक्रमति [४(११५)], प्रविशति [५(११६)] । समनुष्य [६(११७)], अध्वानं [७(११८)], उद्यानम् [८(११९)] । रहो [९(१२०)], पुरुष [१०(१२१)], उपकर्णकेन [११(१२२)] ॥ द्वादशमो मा (व)र्गः ॥ पाचत्तिकधर्म १२३ उपसंक्रमति २३७. भगवान् वैशालीयं विहरति । अथ भद्रा दानि कापिलेयी ज्ञातिकुलं गत्वा पुत्रभ्रातृभागिनेयानां रहो गतानामन्धकारे अप्रतिसम्विदिता सहसा छत्ति प्रविशति । ते दानि तहिं वेडा भवन्ति । एतं प्रकरणं भिक्षुणीयो महाप्रजापतीये गुअतमीये आरोचयेंसुः । पेयालम् । यावदाम भगवन् । भगवानाह । एवं नाम त्वं जानन्ती सपुरुषमावासमन्धकारे अप्रदीपिका उपसंक्रमसि । तेन हि न क्षमति एतदेव यावत्पर्यवदातानि भविष्यन्ति या पुन भिक्षुणी जानन्ती सपुरुषमावासमन्धकारे अप्रदीपिका उपसंक्रमेय पाचत्तिकम् । या पुन भिक्षुणीति उपसम्पन्ना । जानन्तीति स्वयं वा जानेय परतो वा श्रुणेय । सपुरुषो ति यहिं पुरुसो ति यहिं पुरुषो भवेय अन्धकारे अप्रदीपिकेति यहिन्न स्यात्तैलप्रदीपो वा कण्डोल्का वा । उपसंक्रमेय ति प्रविशेत पाचत्तिकं यावत्प्रज्ञप्तिः । न क्षमति भिक्षुणीय सपुरुषमावासमन्धकारे अप्रदीपिकाय उपसंक्रमितुम् । अथ दानि किञ्चित्कार्यं भवति यदि तहिमुच्चशब्दो भवति प्रविशत्यनापत्तिः । अथ दानि अग्निर्न भवति प्रतिसंवेदयितव्यो । अच्छटिका वा कर्तव्या उक्कासितव्यं वा । यद्याह प्रविशेति प्रविशितव्यम् । स एषा भिक्षुणी नैव प्रतिसंवेदयति नाच्छटिकां करोति उपसंक्रमति पाचत्तिकमासादयति । भिक्षुरपि सस्त्रीकमावासमन्धकारे अप्रतिसंविदितो उपसंक्रमति विनयातिक्रममासादयति । तेन भगवानाह । या पुन भिक्षुणी जानन्ती सपुरुषमावासमन्धकारे अप्रदीपिका उपसंक्रमेय पाचत्तिकम् ॥ पाचत्तिकधर्म १२४ विशोको २३८. भगवान् राजगृहे विहरति । तायो दानि षड्वर्गिणो भिक्षुणीयो गिर्यग्रसमाजं गच्छन्ति । ता दानि तहिं गत्वा पृथग्मञ्च गृह्णन्ति नटो नाटयति सप्रहासं वस्तुपदा नाटितं भवति । सर्वो जनो हसति । तायो दानि तूष्णीकास्तिष्ठन्ति योगाचरा इव । यदा प्रशान्तं भवति नाटकमवतारितं भवति । ततो तायो अट्टहासं मुञ्चन्ति । सर्वो जनो ततो सुखो भोति । जनो दानि ओज्झायति । अतिहास्यमिमासां श्रमणिकानाम् । ते दानि विचक्षु कृता नेलाटिकं न प्रयच्छन्ति । ओज्झायन्ति । इमासां श्रमणिकानां बाहनेलाटिकं न लभामः । एतं प्रकरणं भिक्षुणीयो महाप्रजापतीये गौतमीये आरोचयेंसुः । यावदाम भगवन् भगवानाह । तेन हि न क्षमति विशोकदर्शनाय गन्तुम् । अथ खलु भगवान् यावत्पर्यवदातानि भविष्यन्ति । या पुनर्भिक्षुणी विशोकदर्शनाय गच्छेत्पाचत्तिकम् । या पुन भिक्षुणीति उपसम्पन्ना । विशोकमिति नटनर्तनकसल्लमल्लपाणिस्वरिकाः कुम्भभूमीराः अन्तमसतो यहिं चत्वारो पि जनाः सन्निपतन्ति क्रीड्यार्थं तहिं दर्शनाय गच्छन्ति । पाचत्तिकं यावत्प्रज्ञप्तिः । न दानि क्षमति विशोकदर्शनाय गन्तुम् । अथ दानि भिक्षुणी पिण्डचारमण्वति पश्यति देवयानं निष्क्रमन्तं राज्ञोऽन्तःपुरं निष्क्रान्तं दानि शक्यमक्षीणि निमीलयितुं किञ्चापि पश्यति अनापत्तिः । अथ दानि आभोगं करोति इमे पश्यामि इतो पश्यामीति पाचत्तिकम् । अथ दानि भगवतो माल्यारोपणं भवति उपासकोपासिका आहंसुः । आर्यमिश्रिकाहि शोभा भावयितव्यम् । सामग्री दातव्येति लभ्या सामग्री दातुम् । अथ दानि तहिं कोचिच्चित्तस्य विकारो भवति न क्षमति स्थातुम् । भिक्षुरपि विशोकदर्शनाय गच्छति विनयातिक्रममासादयति । तेन भगवानाह । या पुन भिक्षुणी विशोकदर्शनाय गच्छेत्पाचत्तिकम् ॥ पाचत्तिकधर्म १२५ कलहो २३९. भगवान् श्रावस्तीयं विहरति । अथ खलु महाप्रजापती गौतमी भिक्षुणीनां कलहजातानां भण्डनजातानां विग्रहविवादमापन्नानां विहरन्तीनां वृषभी समाना अधिकरणानि न व्युपशमयति न व्युपशमापयति न व्युपशमनायौत्सुक्यं करोति । एतं प्रकरणं भिक्षुणीयो भगवतो आरोचयेम्सुः । यावद्भगवान् सर्वं पृच्छति । यावदाम भगवन् । भगवानाह । एवं नाम त्वं भिक्षुणीनां कलहजातानां भण्डनजातानां विग्रहविवादमापन्नानां वृषभी समाना अधिकरणानि न व्युपसमयसि न व्युपसमापयसि न व्युपसमनायौत्सुक्यं करोसि । तेन हि न क्षमति । अथ खलु यावत्पर्यवदातानि भविष्यन्ति । या पुन भिक्षुणी भिक्षुणीनां कलहजातानां भण्डनजातानां विग्रहविवादमापन्नानां विहरन्तीनां वृषभी समना अधिकरणानि न व्युपशमयेन्न व्युपसमापयेन्न व्युपसमनायौत्सुख्यं कुर्यात्पाचत्तिकम् । या पुन भिक्षुणीति उपसम्पन्ना । कलहजातानामिति वाचाकलहं कुर्वन्तीनां वातयुक्तं मम युक्तमित्यादि । भण्डनजातानामिति अन्यमन्यं मम घटनं कुर्वन्तीनाम् । विग्रहविवादमापन्नानां विहरन्तीनामिति तद्यथा । धर्मो अधर्मो विनयो अविनयो । आपत्तिरनापत्तिः । गुरुका लघुका सप्रतिकर्मा अप्रतिकर्मा सावशेषा निरवशेषा । धर्मकर्म अधर्मकर्म समग्रकर्म व्यग्रकर्म यावत्स्थानार्हं कर्म इति विहरन्तीनाम् । वृषभी समाना ति प्रभू समाना । अधिकरणानि न व्युपसमयेदिति स्वयन् । न व्युपसमापयेदिति परेहि । न व्युपसमानायौत्सुक्यं कुर्यात्पाचत्तिकं यावत्प्रज्ञप्तिः । एता दानि भिक्षुणीयो कलहजाता भण्डनजाता विग्रहविवादमापन्ना विहरन्ति न दानि क्षमति तायो अद्युपेक्षितुम् । अथ खु व्युपसमितव्याः व्युपसमापयितव्याः । औत्सुक्यं कर्तव्यमुपसमनाय प्रत्याशंसितव्यं परस्परं क्षमापयितव्याः प्राप्तकालं यथारूपं परिभाषयितव्याः समग्रीकर्त्व्याः । अथ दानि न शक्नोति अन्या भिक्षुणी अध्येसितव्या उद्योजयितव्या उपासकोपासिकायो भिक्षुभिक्षुणीयो । अथ तान्यधिकरणानि कर्क्कशानि भवन्ति दुर्व्युपसमानि तेषामेव अधिकरणानां कालमागमयति समयमागमयति परिपाकमागमयति । कालं च समयं च परिपाकं चागम्य व्युपशमयत्यनापत्तिः भिक्षुरपि भिक्षूणां कलहजातानां भण्डणजातानां विग्रहविवादमापन्नानां विहरन्तानां वृषभो समानो अधिकरणानि न व्युपशमयति न व्युपसमापयति न व्युपसमानायौत्सुक्यं करोति विनयातिक्रममासादयति । तेन भगवानाह । या पुन भिक्षुणी भिक्षुणीनां कलहजातानां भण्डनजातानां विग्रहविवादमापन्नानां विहरन्तीनां वृषभी समाना अधिकरणानि न व्युपसमयेन्न व्युपसमापयेन्न व्युपसमानायौत्सुक्यं कुर्यात्पाचत्तिकम् ॥३ ॥ पाचत्तिकधर्म १२६ उद्वर्तनं २४०. भगवान् वैशालीयं विहरति । भद्रा दानि कापिलेयी ज्ञातिकुलं नीयते उद्वर्तनाय स्नापनाय गृहपतिनीहि नीयते । वयमार्यामुद्वर्तयामः स्नापयिष्यामः अस्माकं पुण्यं भविष्यति । केचित्प्रसादेन केचिदङ्गयष्टिं पश्यितुकामाः । सा दानि प्रासादिका दर्शनीया । कौतूहलजातिको मातृग्रामः । वर्णलोलामुद्वर्तयन्ति कालेयकेन तुङ्गेयकेन स्वङ्गकेन पद्मकेन गन्धचूर्णेहि । सा पि दानि अधिवासयति । भिक्षुणीयो दानि ओज्झायन्ति । पश्य्थार्यमिश्रिकायो अद्यापीयं प्रव्रजिता महच्छन्दा । एतं प्रकरणं भिक्षुणीयो महाप्रजापतीये गौतमीये आरोचयेंसुः । पे । यावदाम भगवन् । भगवानाह । एवन्नाम त्वं गृहिणीनामुद्वर्त्नपरिमर्दनस्नापनसम्मतेन उद्वर्तापयसि । तेन हि न क्षमति । अथ खलु भगवान् यावत्पर्यवदातानि भविष्यन्ति । यानि खलु पुनरिमानि गृहिणीनामुद्वर्तनपरिमर्दनस्नापनसम्मतानि तथारूपेहि भिक्षुणी अगिलाना उद्वर्तापयेत्परिमर्दापयेत्पाचत्तिकम् । यानि खलु पुनरिमानि गृहिणीनमिति क्षत्रियकन्यकानां ब्राह्मणकन्यकानां गृहपतिकन्यकानाम् । उद्वर्तनपरिमर्दनस्नापनसम्मतानीति कालेयकं वा तुङ्गेयकं वा चिक्कसं वा । यद्येको वा तेहि भिक्षुणीहि अगिलाना उद्वर्तापयेत् । किन् तावदत्र गैलान्यमभिप्रेतं जरादुर्बला वा व्याधिदुर्बला वा भवति उद्वर्तापयत्यनापत्तिः । उद्वर्तापयेदिति परिमर्दापयेत्पाचत्तिकम् । अथ दानि गण्डं वा पिटकं वा भवति लभ्या भैषज्येहि उद्वर्तापयितुं परिमर्दापयितुम् । अथ दानि पित्तसंक्षोभो भवति लभ्या चिक्कसेनालिंपितुम् । अथ दानि वातसंक्षोभो भवति लभ्या गोधूमचिक्कसेनालिंपितुम् । अथ दानि सन्निपातो भवति संयुक्तेहि भैषज्येहि उद्वर्तापयितव्यं परिमर्दापयितव्यमालिंपितव्यम् । ताय पि दानि आलिंपिय न क्षमति अभ्यागमे प्रदेशे स्थातुम् । अथ खलु प्रतिगुप्ते प्रदेशे स्थातव्यम् । यदावर्त भवति तदा उद्वर्तयित्वा निष्क्रमितव्यम् । भिक्षुरपि अगिलानो चिक्कसेनोद्वर्तापयेत्परिमर्दापयेद्विनयातिक्रममासादयति । तेन भगवानाह । या पुन भिक्षुणी गृहिणीनामुद्वर्तनपरिमर्दनस्नानसम्मतेहि उद्वर्तापयेत परिमर्दापयेत पाचत्तिकम् ॥ पाचत्तिकधर्म १२७ भिक्षुणी २४१. भगवान् वैशालीयं विहरति । भगवता दानि शिक्षापदं प्रज्ञप्तं न क्षमति गृहिणीनामुद्वर्तनपरिमर्दनस्नानसम्मतेहि उद्वर्तापयितुं परिमर्दापयितुम् । सा दानि भद्रा भिक्षुणीहि उद्वर्तापयति परिमर्दापयति । भिक्षुणीयो दानि ओज्झायन्ति । पेयालम् । यावद्भगवानाह । या पुन भिक्षुणी अगिलाना भिक्षुणीय उद्वर्तापयेत्परिमर्दापयेत्पाचत्तिकम् । या पुन भिक्षुणीति उपसम्पन्ना । भिक्षुणीयेति उपसम्पन्नाय । अगिलाना ति किन् तावदत्र गैलान्यमभिप्रेतं जरादुर्बला वा व्याधिदुर्बला वा भोति । प्रत्युद्धृतं भगवता अनापत्तिः गिलानाय । उद्वर्तापयेत्परिमर्दापयेत्पाचत्तिकं यावत्प्रज्ञप्तिः । सा एषा भिक्षुणी अगिलाना भिक्षुणीय उद्वर्तापयति न परिमर्दापयति विनयातिक्रमः । परिमर्दापयति नोद्वर्तापयति विनयातिक्रमः । उभयं करोति पाचत्तिकम् । नोभयमनापत्तिः । भिक्षुरपि अगिलानो भिक्षुणा उद्वर्तापयति परिमर्दापयति विनयातिक्रमः । तेन भगवानाह । या पुन भिक्षुणी अगिलाना भिक्षुणीय उद्वर्तापयेत्परिमर्दापयेत्पाचत्तिकम् ॥ फु ॥ पाचत्तिकधर्म १२८ श्रामणेरि एवमेव श्रामणेर्या नास्ति नानाकरणम् । तेन भगवानाह । या पुन भिक्षुणी अगिलाना श्रामणेरीय उद्वर्तापयेत्परिमर्दापयेत्पाचत्तिकम् ॥ फु ॥ पाचत्तिकधर्म १२९ शिक्षमाणा एतदेव शिक्षमाणायाः । शिक्षमाणा नाम अष्टादशहि वर्तेहि द्वे वर्षाणि शिक्षमाणा यावत् । तेन भगवानाह । या पुन भिक्षुणी अगिलाना शिक्षमाणाय उद्वर्तापयेत्परिमर्दापयेत्पाचत्तिकम् ॥ग्रा ॥ पाचत्तिकधर्म १३० गृहिणी एतदेव गृहिणीय । नास्ति नानाकरणम् । गृहिणीति गृहस्था । तेन भगवानाह । या पुन भिक्षुणी अगिलाना गृहिणीय उद्वर्तापयेत्परिमर्दापयेत्पाचत्तिकम् ॥ ह्रा ॥ पाचत्तिकधर्म १३१ विशुद्धिसंवासेन २४२. भगवान् श्रावस्तीयं विहरति । भिक्षुणीयो दानि सन्निपतिताः पोषध कर्माय । जेता नाम भिक्षुणी । सा नागच्छति । ताये दूतोऽनुप्रेषितो । आर्ये आगच्छाहि भिक्षुणीयो सन्निपतिताः पोषधकर्माय । सा दानाह । भगवता विशुद्धस्य विशुद्धिपोषधः प्रज्ञप्तः । यावतिका का विशुद्धा अहन् तासामन्यतमासां तत्र नागच्छामि । एतं प्रकरणं भिक्षुणीयो महाप्रजापतीये गौतमीये आरोचयेंसुः । पे । यावदाम भगवन् । भगवानाह । दुष्कृतं ते जेते । त्वञ्च नाम पोषधन्न सत्करोषि । का अन्या सत्करिष्यति को च पोषधस्य सत्कारो । अगिलानाय उपसंक्रमितव्यम् । गिलानाय छन्दो दातव्यो । अथ खलु भगवान् यावत्पर्यवदातानि भविष्यन्ति । या पुन भिक्षुणी अन्वर्धमासंगिलाना विशुद्धिसंवासं न सत्करेय पाचत्तिकम् । या पुन भिक्षुणीति उपसम्पन्ना । अन्वर्धमासं विशुद्धिसंवासं ति चातुर्दशिकेन वा चातुर्दशिकं पाञ्चदशिकेन वा पाञ्चदशिकम् । अगिलाना पोषधन्न सत्कारोति । किन् दानि अत्र गैलान्यमभिप्रेतम् । एषा भवति जरादुर्बला वा व्याधिदुर्बला वा शिराविद्धिका वा भवति असुखा भैषज्यं वा पीतं भवति । घृतं वा पीतं भवति । छन्दो दातव्यो । सा एषा भिक्षुणी अगिलाना पोषधन्न गच्छति । गिलाना वा छन्दन्न देति पाचत्तिकम् । भिक्षुरपि अगिलानो नैव पोषधं गच्छति न च्छन्दन् देति विनयातिक्रममासादयति । तेन भगवानाह । या पुन भिक्षुणी अन्वर्धमासमगिलाना विशुद्धिसंवासन्न सत्करेय पाचत्तिकम् । उद्दानम् । उपसंक्रमति [१(१२३)] । कलहो [३(१२४)] । विशोको [२(१२५)] । उद्वर्तनं [४(१२६)] । भिक्षुणी [५(१२७)] । श्रामणेरी [६(१२८)] । शिक्षमाणा [७(१२९)] । गृहिणीय [८(१३०)] । विशुद्धिसंवासेन [९(१३१)] ॥ पूर्यते त्रयोदशमो वर्गः ॥ पाचत्तिकधर्म १३२ ओवादोपसंक्रमणं विशुद्धिपोषधं २४३. भगवान् श्रावस्तीयं विहरति । थेरभिक्षू पर्यायेण भिक्षुणीयो ओवदन्ति । ते दानि आयुष्मन्तो षड्वर्गिकाः ओवादकवारं न लभन्ति । ते दानाहंसुः । न एते युष्माकमोवादकवारं दास्यन्ति । कस्य दानि वयमोवादकवारं गच्छामः । ते दानाहंसुः । आयुष्मां च्छारिपुत्रः स खिलो च मृदुको च । विस्तारेण यावद्भगवता शिक्षापदं प्रज्ञप्तम् । न क्षमति असम्मतेन भिक्षुणा भिक्षुणीयो ओवदितुम् । एष निःसीमं गत्वा परस्परं सम्मन्यामः । ते दानि निःसीमं गत्वा अन्यमन्यं संमन्यित्वा कल्यतो येव निवासयित्वा प्रावरित्वा च भिक्षुणी उपाश्रयं गत्वा आहंसुः । सन्निपतथ भगिनीयो ओवादो भविष्यति । यायो षड्वर्गिणीयो तायोऽच्छन्ति सन्निपतिताः । यायो योगाचारायो भिक्षुणीयो तायो न सन्निपतन्ति । आहंसुः । किमर्थं वयमेषामविनीतानामववादं गमिष्यामः । ते दानि ताहि सह मुहूर्तमन्तरं काकवंहा भञ्जित्वा गताः । आयुष्मान् दानि शारिपुत्रो कालस्यैव निवासयित्वा पात्रचीवरमादाय आयुष्मता आनन्देन पश्चाच्छ्रमणेन सार्धं विस्तरेण । यावदाह । सन्निपतथ भगिनीयो ओवादो भविष्यति । यायो भिक्षुणीयो योगाचाराः तायोऽच्छन्ति सन्निपतितायो । षड्वर्गिणीयो भिक्षुणीयो नागच्छन्ति । थेरो पृच्छति । समग्रो हि भिक्षुणीसंघो । आहंसुः । नहि को नागच्छति । आहंसुः षड्वर्गिणीयो । तासान् दूतः प्रेषितो । आगच्छथ भगिनीयो ओवादो भविष्यति । ता दानाहंसुः । न वयमागमिष्यामः । ओवदिता वयमार्यमिश्रकेहि षड्वर्गिकेहि अन्यविहितकेन ओवादेन । अथायुष्मान् शारिपुत्रो व्यग्रो भिक्षुणीसंघो ति कृत्वा उत्थायासनातो प्रक्रान्तो । भगवान् जानन्तो येव पृच्छति किन् दानि गौतमी माता शीघ्रमागतो सि । ओवदिता भिक्षुणीयो । आह । अहं भगवन् कालस्यैव निवासयित्वा यावद्भिक्षुणीउपाश्रयं प्रविष्टो ओवदितुं मयोक्तं सन्निपतथ भगिनीयो ओवादो भविष्यति । यायो योगाचारायो भिक्षुणीयो तायोऽच्छन्ति सन्निपतितायो । यायो षड्वर्गिणीयो भिक्षुणीयो ता न सन्निपतन्ति । अहं जल्पामि समग्रो भिक्षुणीसंघो । आहंसुः । नहि । को नागच्छति । आहंसुः षड्वर्गिणीयो । तासान् दूतः प्रेषितः । आगच्छथ भगिनियो ओवादो भविष्यति । आहंसुः । न वयमागमिष्यामः ओवदिता वयमार्यमिश्रिकेहि षड्वर्गिकेहि अन्यविहितकेन ओवादेन । अहं पि भगवन् व्यग्रो भिक्षुणीसंघो ति कृत्वा उत्थायासनातो सन्निर्गतो । भगवानाह । शब्दापयथ षड्वर्गिणीयो भिक्षुणीयो । ता दानि शब्दापिताः । तदेव सर्वं भगवान् विस्तरेण पृच्छति । यावदाम भगवन् । भगवानाह । दुष्कृतं वो षड्वर्गिणीयो यावत्पर्यवदातानि भवन्ति । या पुन भिक्षुणी अन्वर्ध मासं भिक्षुसंघे ओवादोपसंक्रमणं न सत्करेय पाचत्तिकम् । या पुन भिक्षुणीति उपसम्पन्ना । अन्वर्धमासन् ति चातुर्दशिकेन वा चातुर्दशिकम् । पाञ्चदशिकेन वा पाञ्चदशिकम् । भिक्षुसंघे ओवदोपसंक्रमणं न सत्करेय पाचत्तिकं यावत्प्रज्ञप्तिः । अथ दानि जरादुर्बला वा व्याधिदुर्बला वा घृतपीतिका वा भवति वक्तव्यम् । ओवादस्य छन्दन् देमि त्रिक्खत्तो । सा एषा भिक्षुणी अगिलाना ओवादोपसंक्रमणं न गच्छति गिलाना वा छन्दन्न देति पाचत्तिकमासादयति । यदा पोषधो भवति तदा च्छन्दहारिकाहि भिक्षुविहारङ्गत्वा वक्तव्यम् । समग्रो भिक्षुणीसंघो समग्रस्य भिक्षुसंघस्य पादां च्छिरसा वन्दति पोषधञ्च प्रतीच्छति अववादं च याचति एवं त्रिक्खत्तो याचितव्यम् । यदि तावत्कोचिद्भिक्षुणीओवादको भवति वक्तव्यम् । एष भगिनीयो ओवादको आगमिष्यति । अथ न कोचिद्भवति यो तंहि अङ्गोपेतो भवति सो संमन्यितव्यो । अथ न कोचिद्वक्तव्यम् । नास्ति भगिनीयो भिक्षुणीओवादको अप्रमादेन संपादेथ आपत्तिञ्च पोषधं प्रतिजाग्रथ सगौरवा च भवथ स्थविरेहि भिक्षूहि मध्येहि नवकेहीति । तेन भगवानाह । या पुन भिक्षुणी अन्वर्धमासं विशुद्धिपोषधं न सत्करेय पाचत्तिकम् ॥ पाचत्तिकधर्म १३३ गण्डं वा पिटकं वा २४४. भगवान् राजगृहे विहरति । जेताये भिक्षुणीये संबाधे प्रदेशे गण्डमुत्पन्नम् । ताये अन्तेवासिनीयो गोचरञ्गतायो । हिण्डिकवैद्यो आगतो । सा दानाह । दीर्घायुः शक्यसि मम शस्त्रकर्म कर्तुम् । सो दानाह । बाढम् । सो दानि पाटयित्वा धोवायित्वा उपनाहयित्वा गतो । तायो भिक्षुणीयो आगतायो । ताहि दानि सो प्रदेशो दृष्टो पूयम्रक्षितो । ता दानाहंसुः । आर्ये किमिदम् । आह । शस्त्रकर्म कारितम् । आहंसुः । साहसमार्याय कृतं संबाधे प्रदेशे शस्त्रकर्म कारयन्तीय । एतं प्रकरणं भिक्षुणीयो महाप्रजापतीये गौतमीये आरोचयेंसुः । पे । यावदाम भगवन् । भगवानाह । एवं च नाम त्वमुपरि जानुमण्डलाभ्यामधो कक्षाभ्यां गण्डं वा पिटकं वा क्षतं वा उपहतं वा अकृत्वा पूर्वकृत्यमनवलोकयित्वा संघं शस्त्रकर्म कारापयसि । तेन हि न क्षमति । पेयालम् । यावत् । या पुन भिक्षुणी उपरि जानुमण्डलाभ्यामधो कक्षाभ्यां गण्डं वा पिटकं वा क्षतं वा उपहतं वा अकृत्वा पूर्वकृत्यमनवलोकयित्वा संघं पुरुषेण पातापयेद्वा धोवापयेद्वा उपनाहापयेद्वा पाचत्तिकम् ॥ या पुन भिक्षुणीति उपसम्पन्ना । उपरि जानुमण्डलाभ्यामिति ऊरुनाभिभ्याम् । अधो कक्षाभ्यामिति स्तनोदरस्य । गण्डं वा पिटकं वा क्षतं वा उपहतं वा अकृत्वा पूर्वकृत्यन् ति भिक्षुणी वक्तव्यो शस्त्रकर्म कारापयिष्यन् ति । अनवलोकयित्वा संघा ति संघमध्ये अवलोकना कर्तव्या । शृणोतु मे आर्या संघो यदि संघस्य प्राप्तकालमित्थन्नामा भिक्षुणी शस्त्रकर्म कारापेय । कारापयिष्यति आर्या संघो इत्थन्नामा भिक्षुणी शस्त्रकर्म । क्षमते तं संघस्य यस्मात्तूष्णीमेवमेतद्धारयामि । पुरुषेणेति गृहस्थेन वा प्रव्रजितेन वा पाटापयेद्वा धोवापयेद्वा उपनाहापेय वा ति यथा जेता भिक्षुणीति पाचत्तिकं यावत्प्रज्ञप्तिः । अथ दानि संबाधे प्रदेशे गण्डं वा पिटकं वा क्षतं वा उपहतं वा भवति अन्तेवासिनीये वा समानोपाध्यायिनीये वा समानाचार्याये वा यस्या विश्वासो ताय आख्यातव्यम् । कण्टकेन वा नखेन वा भेदापयितव्यं भैषज्येन वा आलिम्पापेयतव्यमथ दानि अधो जानुमण्डलाभ्यामुपरि कक्षाभ्यां भवति गण्डं वा पिटकं वा क्षतं वा पुरुषेण पाटापयति वा धोवापयति वा उपनाहापयति वा एवं शिरां वा वेधापयति नेलाटिकं वा बाहुशिरां वा गुल्फशिरां वा अपराय भिक्षुणीय आक्रमितव्या तेन भगवानाह । या पुन भिक्षुणी उपरि जानुमण्डलाभ्यामधो कक्षाभ्यां गण्डं वा पिटकं वा क्षतं वा उपहतं वा अकृत्वा पूर्वकृत्यमनवलोकयित्वा संघं पुरुषेण पाटापयेद्वा धोवापयेद्वा उपनाहापयेद्वा पाचत्तिकम् ॥ पाचत्तिकधर्म १३४ वर्षोपगता २४५. भगवान् श्रावस्तीयं विहरति । अथ काली नाम भिक्षुणी वर्षोपगता सांघिकं विहारं बन्धित्वा चारिकां प्रक्रान्ताः । एतं प्रकरणं भिक्षुणीयो महाप्रजापतीये गौतमीये आरोचयेंसुः । पे । यावदाम भगवन् । भगवानाह । दुष्कृतं ते कालि एवन्नाम त्वं वर्षोपगतानां चारिकां प्रक्रमसि । तेन हि न क्षमति वर्षोपगताय चारिकां प्रक्रमितुम् । अथ खलु भगवान् यावत्पर्यवदातानि भविष्यन्ति । या पुन भिक्षुणी वर्षोपगता चारिकां प्रक्रामेय पाचत्तिकम् । या पुन भिक्षुणीति उपसम्पन्ना । वर्षा ति वर्षारात्रम् । उपगता ति पुरिमिकां पश्चिमिकां वा वर्षोपनामयिकामुपगता । चारिकां प्रक्रामेया ति अन्यत्र गच्छेय ग्रामान्तरं पि पाचत्तिकं यावत्प्रज्ञप्तिः । सा एषा भिक्षुणी एकरात्रं पि विप्रवसति पाचत्तिकम् । अथ दानि राजभयं वा सेनाभयं वा परचक्रभयं वा जीवितान्तरायो वा ब्रह्मचर्यान्तरायो वा भवेय किञ्चापि गच्छति अनापत्तिः । नास्ति भिक्षुण्या अवलोकनाकर्म सप्ताहं वा किञ्चापि भिकुः अवलोकनाकर्म कृत्वा सप्ताहं वा अधिष्ठिहेय गच्छत्यनापत्तिः । तेन भगवानाह । या पुन भिक्षुणी वर्षोपगता चारिकां प्रक्रमेय पाचत्तिकम् ॥३ ॥ पाचत्तिकधर्म १३५ वर्षावुस्ता २४६. भगवान् श्रावस्तीयं विहरति । भिक्षुणीयो दानि श्रावस्तीयं वर्षोषिताः वैशालीमागताः । तायो भद्राये कापिलेयीये ज्ञातिकुलं प्रविष्टाः । ता स्त्रियो आहंसुः । कहिमार्यमिश्रिका वर्षोषिताः । ता दानाहंसुः । श्रावस्तीयम् । आहंसुः । कीदृशी श्रावस्ती । आहंसुः । इदृशी च इदृशी च एवमारामरमणीया । एवम् । जेतवनम् । एवं गन्धकुटी । एवं भगवान् विहरति । एवमार्यमिश्रिका शारिपुत्रमौद्गल्यायनाः । यदि प्रव्रज्या एषा प्रव्रज्या इयं पुनरस्माकमार्यधीता इहैव जाता । इहैव सम्वृद्धा । नैव कहिञ्चि गच्छति कूपमण्डूक इव तिष्ठति अनिःक्रमा । एतं प्रकरणं भिक्षुणीयो महाप्रजापतीये गौतमीये आरोचयेंसुः । यावद्भगवानाह । तेन हि वर्षावुस्ताया भिक्षुणीय चारिका प्रक्रमितव्या । यावद्भगवानाह । या पुन भिक्षुणी वर्षावुस्ता चारिकां न प्रक्रमेय पाचत्तिकम् । या पुन भिक्षुणीति उपसम्पन्ना । वर्षोषितेति वार्षिकां त्रयो मासान् चारिकां न प्रक्रमेया ति अन्तमसतो ग्रामान्तरं पि वा पाचत्तिकं यावत्प्रज्ञप्तिः । सा एषा भिक्षुणी एवं रात्रं पि प्रक्रमति पाचत्तिकम् । अथ दानि जरादुर्बला वा व्याधिदुर्बला वा भोति न प्रतिबला गन्तुं किञ्चापि गच्छति अनापत्तिः । भिक्षुरपि वर्षावुस्तो चारिकां न प्रक्रमति विनयातिक्रममासादयति । तेन भगवानाह । या पुन भिक्षुणी वर्षावुस्ता चारिकां न प्रक्रमेय पाचत्तिकम् ॥ ण्क ॥ पाचत्तिकधर्म १३६ उद्वहेय २४७. भगवान् श्रावस्तीयं विहरति । स्थूलनन्दाय भिक्षुणीय जेता भिक्षुणी राजगृहं गच्छमानी निवारिता । इहार्याय वर्षा वसितव्या ताय सा कुलेहि सम्वर्णिता । आर्या जेता भद्रिका गुणवती अनुबद्धा ता संवृता च । एताय अधिकारं करोथ सा दानि कुलानि उपसंक्रमति प्रासादिकेन अतिक्रान्तेन प्रतिक्रान्तेन अवलोकितेन व्यवलोकितेन सम्मिञ्जितप्रसारितेन संघाटीपात्रचीवरधारणेन अनुबद्धा अनुन्नडा अचपला अमुखरा अप्रकीर्णवाचा । सा प्रासादिका ति प्रसन्ना देवमनुष्याः । ते तंहि कारां कुर्वन्ति । प्रत्यालपन्ति प्रत्युत्थिहेन्ति निमन्त्रयन्ति पात्रेण चीवरेण ग्लानप्रत्ययभैषज्य परिष्कारेहि । स्थूलनन्दा भिक्षुणि अनाकल्पसंपन्ना अनीर्यापथसम्पन्ना ओमलिनमलिनेहि चीवरेहि पाटितविपाटितेहि वड्डडिङ्गरपुष्टालंबेहि स्तनेहि वड्ढेहि स्फिचकेहि उद्धता उन्नडा चपला मुखरा प्रकीर्णवाचा । ते तस्या न गौरवं कुर्वन्ति न निमन्त्रयन्ति । सा दानि तामुद्वहति कायेन वाचा । एतं प्रकरणं भिक्षुणीयो महाप्रजापतीये गौतमीये आरोचयेंसुः । यावद्भगवानाह । शब्दापयथ नन्दां सा दानि शब्दापिता तदेव सर्वं पृच्छीयतीति यावदाम भगवन् । भगवानाह दुष्कृतं ते नन्दे यावत् । या पुन भिक्षुणी भिक्षुणीमेवमुक्त्वा इहार्ये वर्षं वसितव्यमित्युक्त्वा पश्चादुद्वहेय वा उद्वहापेय वा पाचत्तिकम् । या पुन भिक्षुणीति उपसम्पन्ना । भिक्षुणीमेवं वदे इहार्ये वर्षां वसितव्यमिति त्रयो मासामुक्त्वेति निवारयित्वा पश्चादुद्वहेय वा ति कायेन वा वाचा वा स्वयमुद्वहति । उद्वाहापेय वा ति परेण कायेन वा वाचाय पाचत्तिकम् । यावत्प्रज्ञप्तिः । न क्षमति निवारयित्वा पश्चादुद्वहितुमथ भवति शिथिलिका वा बाहुलिका वा अशिक्षाकामा वा कलहकारिका वा पश्यति यदीह वशिष्यति आश्रयमुत्पादयिष्यतीति । किञ्चापि उद्वहति अनापत्तिः । सा एषा भिक्षुणी भिक्षुणीमुद्वहति पाचत्तिकम् । श्रामणेरीं वा शिक्षमाणां वा उद्वहति विनयातिक्रमः । अन्तमसतो गृहिणी पि उद्वहति सम्वरगामीविनयातिक्रममासादयति । या पुन भिक्षुणी येवं वदित्वा इहार्ये वर्षं वसितव्यन् ति उक्त्वा पश्चादुद्वहेय वा उद्वहापेय वा पाचत्तिकम् ॥ तृ ॥ पाचत्तिकधर्म १३७ पूर्वोपगतं २४८. भगवान् श्रावस्तीयं विहरति । अथ काली नाम भिक्षुणी । सा उपगच्छति । ता कालं ग्रामान्तरं गता । सा भिक्षुणीहि उपगताहि आगता । तत्र च भिक्षुणीहि विहारोद्देशः शयनासनोद्देशः कृतः । सा दानाह । आर्ये मह्यं विहारं देथ । सा विहारं न लभति । आहंसुः । कहिमार्या वर्षोपनायिका कालङ्गता । सा कलहं करोति । अपरा दानि भिक्षुणी योगाचारा । सा दानाह । आर्ये अयं मम विहारो । अत्र मञ्चकं प्रवेशेहि सहितिका वसिष्यामः । तया तहिं मञ्चको प्रवेशितो । सा काष्ठखण्डा ति यत्र शाखानि प्रवेशयति । सा दानाह । आर्ये मा विहारे ओविलयं करेहि । सा दानाह । भद्रायणि किन् त्वया विहारो कृतो किं विक्रीतो । सांघिको विहारो किमर्थं न प्रवेशयिष्यम् । सा उद्वहति कायेनापि वाचाये पि । एतं प्रकरणं भिक्षुणीयो महाप्रजापतीये गौतमीये आरोचयेंसुः । यावत्शब्दापयथ कालिं सा दानि शब्दापिता । एतदेव सर्वं पृच्छीयति । यावदाम भगवन् । भगवानाह । दुष्कृतं ते कालि । या पुन भिक्षुणी जानन्ती भिक्षुणीं पूर्वोपगतां पश्चादागत्वा उद्वहेय वा उद्वहापेय वा कायेन वा वाचाय वा पाचत्तिकम् । या पुन भिक्षुणीति उपसम्पन्ना । जानन्तीति स्वयं वा जानेय परतो वा श्रुणेय । भिक्षुणीं पूर्वोपगतामिति पुरिमिकायां वर्षोपनायिकायाम् । पश्चादागत्वेति पश्चिमिकायाम् । उद्वहेय वा ति स्वयम् । उद्वहापेय । वा ति परेण कायेण वा वाचा वा पाचत्तिकं यावत्प्रज्ञप्तिः । सा एषा भिक्षुणीमुद्वहति पाचत्तिकम् । श्रामणेरीं वा शिक्षमाणां वा उद्वहति देशनागामिविनयातिक्रममासादयति । अन्तमसतो गृहिणीं पि उद्वहति सम्वरगामिविनयातिक्रमः । तेन भगवानाह । या पुन भिक्षुणी जानन्ती भिक्षुणीं पूर्वोपगतां पश्चादागत्वा उद्वहेय वा उद्वहापेय वा कायेन वा वाचा वा पाचत्तिकम् ॥ फु ॥ पाचत्तिकधर्म १३८ विघसं २४९. भगवान् काशिषु विहरति । अपराय दानि भिक्षुणीय उच्चारमल्लकमप्रत्यवेक्षित्वा रथ्यायां छोरितम् । तहिं दानि अपरो ब्राह्मणो शीर्षस्नातो आहतवस्त्रनिवस्त्रो ताय रथ्याय अतिक्रमति । उच्चारमल्लकं तस्य शीर्षे पतितम् । तस्य शीर्षं वस्त्राणि च विनाशितानि । जनेन चोपहासितं ब्राह्मण सुस्नातः सुविलिप्तस्त्वमिति । सो दानि तामाक्रोशति । आह । इतिकितिकाय धीते श्रमणिके न पश्यसि मम शीर्षं वस्त्राणि च विष्ठेन विनाशितानि । एतं प्रकरणं भिक्षुणीयो महाप्रजापतीये गौतमीये आरोचयेंसुः । पे । यावदाम भगवन् । भगवानाह । दुस्कृतन् ते एवन्नाम त्वमप्रत्यवेक्षिय छोरेसि । तेन हि न क्षमति अप्रत्यवेक्षिय छोरयितुम् । अथ खलु भगवान् यावत्पर्यवदातानि भविष्यन्ति । या पुन भिक्षुणी तिरोकुड्यमुच्चारं वा प्रास्रावं वा खेटकं वा सिंघाणकं वा विघसं वा संकारं वा अप्रत्यवेक्षित्वा छोरयेत्पाचत्तिकम् । या पुन भिक्षुणीति उपसम्पन्ना । तिरोकुड्यन् ति तिरःप्रकारमुच्चारं वा प्रस्रावं वा खेटं वा सिंघाणकं वा विघसं वा संकारं वा वस्त्रधोवनं वा भाण्डधोवनं वा केशान् वा नखान् वा । अप्रत्यवेक्षित्वेति अनिरीक्ष्य । छोरेया ति उज्झेय । पाचत्तिकं यावत्प्रज्ञप्तिः । यदि किञ्चितुज्झितुकामो भवति प्रत्यवेक्षितव्यम् । यदि तावदाकीर्णबहुजनमनुष्या रथ्या भवन्ति आरामयितव्यम् । अथ दानि अनाकीर्णा भवन्ति किञ्चापि छोरयत्यनापत्तिः । तं पि दानि न क्षमति अशब्दकर्णिकाये छोरयितुमपि तु अच्छटिका दातव्या उक्कासितव्यं वा । सा एषा भिक्षुणी नैव प्रत्यवेक्षति नापि अच्छटिकां दत्त्वा छोरयति पाचत्तिकमासादयति । भिक्षुरपि अप्रत्यवेक्ष्य अच्छटिकामकृत्वा छोरयति विनयातिक्रममासादयति । तेन भगवानाह । या पुन भिक्षुणी तिरोकुड्यमुच्चारं वा प्रस्रावं वा खेटं वा सिंघाणकं वा विघसं वा संकारं वा अप्रत्यवेक्ष्य छोरेय पाचत्तिकम् ॥ ग्रा ॥ पाचत्तिकधर्म १३९, १४० हरित तृणे उदक २५०. भगवान् श्रावस्तीयं विहरति । राज्ञो दानि प्रसेनजितस्य कोशलस्य पूर्वकोष्ठकं नाम उद्यानं पुष्किरिणीसम्पन्नम् । अनावृतं भिक्षूनां भिक्षुणीनामावृतमितराये जनताये । राजा दानि आरामिकस्याह । हो भणे आरामिक पूर्वकोष्ठकमुद्यानं सिक्तसंसृष्टं करेहि । श्वो हं सान्तःपुरो निर्यास्यम् । तं दानि षड्वर्गिणीहि श्रुतम् । श्वो राजा सान्तःपुरो उद्यानभूमिन्निर्यास्यतीति । तायो दानि प्रतिकृत्येव गत्वा तहिं हरितशाद्वलोपस्तराणायां पक्वखेटेन च पक्वसिंघाणकेन च विनाशयित्वा पदुमपत्रेहि उच्चारस्य पुटकानि बन्धित्वा पुष्किरिणीयं प्रवाहयेंसुः । तायो दानि दिवसं तहिं काकावाहां भञ्जिय सायाह्नसमये नगरं प्रविष्टाः राजा दानि प्रसेनजित कोशलो अपरेज्जुकातो निरगतो सान्तःपुरो । तायो दानि अन्तःपुरिकायो कथञ्चिदेव सम्रोधादवमुक्ता रन्धनमोक्षमिव मन्यमानाः चञ्चूर्यन्ते । काश्चिन्निषण्णाः काश्चिन्निपन्नाः । काश्चिदितो च इतो च धावन्ति अवकाशं गृह्णन्ति शाद्वलोपस्तरणे परिभ्रामन्ति । तासां दानि पक्वखेटेन पक्वसिंघाणकेन वस्त्राणि विनाशितानि । पुष्किरिणीमोतीर्णाः स्नानाय । तायो पश्यन्ति पुटकान् प्लवमानान् । तासां भवति कुलपुत्रकेहि श्रुतं श्वो राजा सान्तःपुरो उद्यानं प्रवेक्ष्यतीति तेहि एते गन्धपुटकाः प्रवाहिता इति कृत्वा तायो गृह्णन्ति । ते उदकेन क्लिन्ना उच्चारेण चा खादिताः प्रकृतिसुकुमारं च पद्मपत्रम् । गृहीतमात्रमेव विलीनम् । ही ही विष्ठं ता दानि राज्ञो उपसंक्रान्ता आहंसु । महाराज एष तावदीदृशी अवस्था राजा आह शब्दापयथ आरामिकम् । सो दानि शब्दापितो । राजा आह । हो भणे आरामिक केन उद्यानं विट्टालितम् । आह षड्वर्गिणीयो श्रमणीयो एव दिवसं काकवाहा भञ्जित्वा गताः । राजा हसित्वा आह । तासामविनीतानां कर्म भविष्यति । एतं प्रकरणं भिक्षुणीयो महाप्रजापतीये गौतमीये आरोचयेंसुः । महाप्रजापती पि गौतमी भगवतो आरोचयेत् । यावद् या पुन भिक्षुणी हरिते तृणे उच्चारं वा प्रस्रावं वा खेटं वा सिंघाणकं वा कुर्यात्पाचत्तिकम् ॥ या पुन भिक्षुणी उदके उच्चारं वा प्रस्रावं वा खेटं वा सिंघाणकं वा कुर्यात्पाचत्तिकम् ॥ या पुन भिक्षुणीति उपसम्पन्ना । उच्चारन् ति गूथम् । प्रस्रावन् ति मूत्रम् । खेटमिति श्लेष्मा । सिंघाणकन् ति पक्वसिंघाणकम् । हरिते तृणे इति शाद्वले अच्छिन्नालूनस्मिमुदन् ति उदकानि नाम दश । नादिकं ताडागमौदुपानिकं श्वभ्रोदकं प्रघारिमं वृष्टिस्थितमुच्छोदकमन्तरीक्षपानीयं हिमविलीनं सामुद्रं वा उच्चारं वा प्रस्रावं वा कुर्यात्पाचत्तिकं यावत्प्रज्ञप्तिः । अथ दानि प्रावृषेण्या से सर्वभुमिः शाद्वलोपस्तरेणा भवति यहिं प्रदेशे स्वल्पहरितं भवति तहिं कर्तव्यम् । अथ दानि अल्पहरितं न भवति कटाहके वा इष्टकायं वा उपले वा शुष्कतृणे वा काष्ठखण्डे वा यत्र वा अन्येन उच्चारो कृतो भवति बलीवर्देन वा । यत्र वा अन्येन मनुष्येन कृतो तहिं कर्तव्यमथ दानि एवं न भवति अन्तमसतो कनीयसिं पि अङ्गुलिमुपद्राहयित्वा कर्तव्यम् । तथा कर्तव्यं यथा तहिं प्रथमं निपतति । अथ दानि चङ्क्रमति न क्षमति हरितशाद्वले श्लेष्मं छोरयितुम् । अथ खु कटे वा पत्रपुटिकायां वा छोरयितव्यम् । तेन भगवानाह । या पुन भिक्षुणी हरिते तृणे उच्चारं वा प्रस्रावं वा खेटं वा सिंघाणकं वा कुर्यात्पाचत्तिकम् । या पुन भिक्षुणी उदके उच्चारं वा प्रस्रावं वा खेटं वा सिंघाणकं वा कुर्यात्पाचत्तिकम् ॥ पाचत्तिकधर्म १४१ गणलाभ २५१. भगवान् श्रावस्तीयं विहरति । तायो दानि षड्वर्गिणीयो छन्दकमण्वन्ति । आहंसुः । प्रजापति देथ च्छन्दकमार्यमिश्रिकाणां भक्तं करिष्यामः । ता दानि स्त्रियो प्रयच्छन्ति । ता दानाहंसुः आर्या यं दिवसं संघभक्तं करिष्यथ तदास्माकमपि आरोचयेथ । वयमपि परिवेषका आगमिष्यामो ति । ताहि दानि निमन्त्रिताः । आयुष्मन्तो शारिपुत्रमौद्गल्यायनौ अनिरुद्धो रेवतः कप्फिणो श्रोणकोटीविंश उपवानो आयुष्मान् राहुलो षड्वर्गिकाश्च । ताहि दानि द्वेआसनप्रज्ञप्ती कृता । एका स्थविराणामपरा षड्वर्गिकाणाम् । तहिं दानि भिक्षू कालस्यैव निवासयित्वा प्रावरित्वा च प्रविष्टाः । ततो आयुष्मतो शारिपुत्रस्य दातुं शालिनामोदनं मुद्गानां सूपो घृतं दधि च । आयुष्मतो मौद्गल्यायनस्य यवकोदनो माषसूपो तैलं च । अपरेषां षष्टिकोदनो सूपो च । अपरेषां कोद्रवोदनो । अपरेषां व्यञ्जनानि दिन्नानि ओदनो न दीयते । अपरेषां शाकं दिन्नमोदनो न दीयते । अपरेषां वाटिकोदनो व्यञ्जनं न दीयते । आयुष्मतो राहुलस्य पि श्याकशाकं ता दानि स्त्रियो भक्ष्यभोज्यमादाय गताः पृच्छन्ति । कहिन् ते आर्यमिश्रिकाः । तायो दानि स्थविरान् भिक्षूनावरित्वा षड्वर्गिकान् दर्शेन्ति । ततस्तेषान् दीयते शालिना मोदनं मुद्गानां सूपो घृतम् । नवनीतमम्बु मधुराणि गौडन् दधि श्वेतं दधि क्षीरं समितासमितं यस्यार्थं यावर्थं दीयति । यत्किञ्चित्प्रणीतसम्मतं भक्ष्यभोज्यं पेयं चोष्मं तं षड्वर्गिकाणान् दापयन्ति । इमे ते आर्यमिश्रिकाः भिक्षू पि भुक्तविभुक्तकाः उत्थायोत्थाय भगवतः पादवन्दा उपसंक्रान्ता । भगवान् जानन्तो येव पृच्छति । अपि तु शारिपुत्र शोभने मासि मृष्टं वा प्रणीतं वा प्रभूतं वा । स्थविरो आह । कृतं भगवनाहारेणाहारकृत्यम् । द्वितीयं पि तृतीयं पि । भगवानाह । थेरो आह । लब्धो भगवन् शालिनामोदनं मुद्गानां सूपो नवनीतमम्बु मधुराणि व्यञ्जननि गौडन् दधि क्षीरं यस्यार्थं यावदर्थं दीयति यथापीदं भगिनीनां श्रद्धाप्रसन्नानां परिग्रहे । भगवानाह । के तहिं संघस्थविरो भूत । आयुष्मां च्छारिपुत्रो । भगवानाह । सत्यं शारिपुत्र आह । आम भगवन् । भगवानाह । दुर्भुक्तं ते शारिपुत्र एवं च नाम त्वं भिक्षुसंघं विहेठयन्तमध्युपेक्षसि । यस्य भगवान् दुर्भुक्तमित्याह तस्य तं कल्पं वा कल्पावशेषं वा तिष्ठेय नैव जरा गच्छेय । स्थविरेण काकपोटं दत्त्वा सर्व दरदराय वान्तम् । भगवानाह । शब्दापयथ भिक्षुणीयो तायो शब्दापिताः । एतदेव पृच्छीयन्ति । आहंसुः । आम भगवन् । भगवानाह दुष्कृतं वो भिक्षुणीयो एवं च नाम यूयं जानन्तीयो गणलाभं गणस्य परिणामयथ । तेन हि न क्षमति । अथ खलु भगवान् यावत्पर्यवदातानि भविष्यन्ति । या पुन भिक्षुणी जानन्ती गणलाभं गणस्य परिणतं गणस्य परिणामयेत्पाचत्तिकम् । या पुन भिक्षुणीति उपसम्पन्ना । जानन्तीति स्वयं वा जानेय परतो वा श्रुणेय । गणलाभमिति भिक्षुगणस्य भिक्षुणीगणस्य । लाभमिति अष्ट लाभाः यावत्कालिको यामयामिको यावत्कल्पिकाकल्पिको परिणतन् ति परिनिष्पन्नम् । गणस्य परिणामयेत्पाचत्तिकं यावत्प्रज्ञप्तिः । एष दानि कोचिदागच्छति देयधर्मं दातुकामो । आह । आर्ये इच्छामि परिगृह्यमाणन् ति परिगृह्णीतव्यम् । प्रातिदेशनिका धर्मा १८ सर्पिस्तैलमेत्च् २५२. ति । ते दानि भिक्षू षड्वर्गिकाः सर्पिकेहि सर्पि तैलकेहि तैलं गौडकेहि गुडं माधुकेहि मधुं मात्सिकेहि मत्स्यं मांसिकेहि मांसं दुग्धिकेहि दुग्धं दोधिकेहि दधिं विज्ञपिय खादन्ति । जनो दानि ओज्झायति । पश्यथ भणे श्रमणो गौतमोऽनेकपर्यायेणाल्पेच्छताय वर्णवादी यावच्छिक्षापदं प्रज्ञप्तम् । तस्मादिह गौतमि भिक्षुणीभिरवि अत्रैव शिक्षितव्यम् । एषैवार्थोत्पत्तिः । एकमिदं गौतमि समयं तथागतो शाक्येषु विहरति । यावद्भगवान्महाप्रजापतीं गौतमीमामन्त्रयति । सन्निपातय गौतमि भिक्षुणीयो यावत्पर्यवदातानि भविष्यन्ति । या पुन भिक्षुणी आत्मार्थाय अगिलाना कुलेहि सर्पिं विज्ञापेत्वा वा विज्ञापायेत्वा वा खादेय वा भुञ्जेय वा प्रतिदेशयितव्यं ताय भिक्षुणीय असंप्रेयं मे आर्यमिश्रिका प्रातिदेशनिकं धर्ममापन्ना तन् धर्मं प्रतिदेशयामि । अयन् धर्मो प्रातिदेशनिको । एवं सर्पिस्[१] । तैलं [२] । मधु [३] । फाणितं [४] । दुग्धं [५] । दधि [६] । मत्स्यं [७] । मांसं [८] । या पुन भिक्षुणीति उपसम्पन्ना । आत्मार्थायेति आत्मानं सन्धाय आत्मानमुपनिध्याय । अगिलाना ति प्रत्युद्धृतं भगवता पदमनापत्ति गिलानाय । किन् तावदत्र गैलान्यमभिप्रेतम् । जरादुर्बला वा व्याधिदुर्बला ता विरेचनपीता वा शिराविद्धा वा श्लेष्मा वा सन्निपाता वा । कुलेहीति क्षत्रियकुलानि वा ब्राह्मणकुलानि वा यानि वा पुनरन्यान्यपि कानिचित्कुलानि । सर्पीति सर्पिन्नाम गाविय माहिषीये अजाये एडकाय उष्ट्रीय । विज्ञपेत्वा ति स्वयं विज्ञापेत्वा । विज्ञपायेत्वा ति परेण विज्ञपायेत्वा । खादेया ती यं खादनीयम् । भोजनीयन् ति यं भोजनीयम् । प्रतिदेशयितव्यं ताय भिक्षुणीय यावदयं धर्मो प्रातिदेशनिको । अथ दानि पित्तसंक्षोभो भवति लभ्या सर्पि विज्ञापेतुं पेयालम् । अथ दानि पिण्डपातमण्वन्ति पश्यति घृतं विक्रायन्तं न दानि वक्तव्यम् । "दिर्घायुः लाभो लभ्यतु बहुञ्च भवतु ।" लब्धो च स्थावरो भवतु । अथ दानाह । केनार्थो आर्याये । वक्तव्यं पिण्डचारमण्वामि । अथ दानाह । अर्थो आर्याय सर्पिणा यद्यर्थिका भोति । वक्तव्यमर्थो । यदि पूरं पि पात्रं लभति अनापत्तिः । अथ दानि अपरा पि काचिद्भवति लभ्या प्रत्युत्पन्नप्रायेण (!) वक्तुमिमाये पि देहीति । एवं तैलम् । यदि वातविकारो भवति लभ्या तैलं विज्ञपयितुं तं पि दानि न तैलपीडकानां तेन विज्ञपयितव्यम् । अथ दानि पिण्डचारमण्वन्ति पश्यति तैलं मापियन्तं यावत्पूरं पि पात्रं लभति अनापत्तिः । यावत्लभ्या प्रत्युत्पन्नप्रयोगेण वक्तुमिमाये पि देहीति । एवं मधु । यदि श्लेष्मविकारो भवति लभ्यं मधु विज्ञपयितुम् । तं पि दानि ना क्षमति मधुघातकानां तेन विज्ञपयितुम् । एवं फाणितम् । यदि गिलाना भवति वैद्यो आह आर्ये गुडप्रयोगं करोहीति लभ्यं गुडं विज्ञपयितुम् । एवं दुग्धम् । लभ्यं दुग्धं पिययितुम् । अथ दानि पिण्डचारमण्वति पश्यति यो कुलेहि गावो दुह्यन्तां न दानि वक्तव्यम् । बहुलाभो लभ्यतु क्षेमेण गावो चरन्तु । आहंसुः । केन आर्याये अर्थो । वक्तव्यम् । पिण्डचारमण्वामि । आहंसुः । अर्थो आर्याये दुग्धेनापूरं पि पात्रं प्रतीच्छत्यनापत्तिः यावत्प्रत्युत्पन्नप्रयोगेन लभ्या वक्तुमिमाय पि देहीति । अथ दानि श्वेतमयं सिक्षति । नास्ति श्वेतमयम् । इच्छसि दुग्धम् । आह । इच्छामि । पूरं पि पात्रं लभति अनापत्तिः । अथ दानि प्रतिश्यायो भवति । वैद्यो आह दधिकृत्यं करोहीति लभ्यं दधि विज्ञपयितुम् । अथ दानि पिण्डचारमण्वति पश्यति दधि मापीयमानं लभ्या मस्तु विज्ञपयितुम् । अथ दानाह । नास्ति मस्तु इच्छसि दधिम् । आह इच्छामि । पूरं पि पात्रं प्रतिगृह्णाति अनापत्तिः । अथ दानि भिक्षुणी वमनं विरेचनं वा कर्तुकामा भवति वैद्यो जल्पति आर्ये अभिष्यन्देहि मत्स्यरसेहीति । यावन्न क्षमति कैवर्तानां विज्ञपयितुम् । अथ दानि पिण्डचारमण्वति लभ्यमाम्बूकाञ्जिकं विज्ञपयितुम् । अथ दानि सिराविद्धिका भवति । विरेचनपीतिका भवति । वैद्यो आह । आर्ये मांसरसं प्रतिसेवाहि । लभ्यं मांसरसं विज्ञपयितुम् । न क्षमति ओरोभ्रिकानां तेन । अथ दानि पिण्डचारमण्वति लभ्यं शाकरसं विज्ञपयितुम् । अथ दानाह । नास्ति आर्ये शाकरसो इच्छसि मांसरसम् । आह । इच्छामि । पूरं पि पात्रं लभति अनापत्तिः । अथ दानि जानाति अमुकस्मिं काले कदाचिद्गैलान्यं भविष्यति इमानि भैषज्यानि दुर्लभानि भविष्यन्तीति प्रतिकृत्येव याचति अनापत्तिः । ग्लाना विज्ञपिय अगिलाना खादति विनयातिक्रमः । अगिलाना विज्ञपिय ग्लाना खादति अनापत्तिः । अग्लाना विज्ञापिय अग्लाना खादति प्रतिदेशयितव्यम् । असंप्रेयं सिद्धं संप्रेयं खादति अनापत्तिः । संप्रेयं सिद्धम् । असंप्रेयं सिद्धम् । असंप्रेयं खादति विनयातिक्रमः । संप्रेयं सिद्धं संप्रेयं खादति अनापत्तिः । परप्रतिबद्धाय जीविकाय अनापत्तिः । तेन भगवानाह । यानि खो पुनरिमानि प्रणीतसम्मतानि भोजनानि भवन्ति सय्यथ्ऽ ईदं सर्पिः एवंरूपं तं भिक्षुणी अगिलाना कुलेहि विज्ञपेत्वा वा विज्ञापायेत्वा वा खादेय वा भुञ्जेय वा प्रतिदेशयितव्यं ताय भिक्षुणीय । असंप्रेयं मे आर्ये गार्ह्यं प्रातिदेशनिकं धर्ममापन्ना तं धर्मं प्रतिदेशयामि । अयं धर्मो प्रातिदेशनिको । एवं तैलेन कर्तव्यम् । मधुफाणितं दुग्धं दधि मत्स्यं मांसम् । यानि खो पुनरिमानि प्रणीतसम्मतानि भोजनानि भवन्ति सय्यथ्ऽ ईदं मांसमेवंरूपं भिक्षुणी अगिलाना कुलेहि विज्ञपेत्वा वा विज्ञपायेत्वा वा खादेय वा भुञ्जेय वा प्रतिदेशयितव्यं ताय भिक्षुणीय । असंप्रेयं मे आर्ये गार्ह्यं प्रातिदेशनिकं धर्मपर्यायं वा तन् धर्मं प्रतिदेशयामि । अयं पि धर्मो प्रातिदेशनिको ॥ उद्दानम् । सरिपिस्[१] । तैलं [२] । मधु [३] । फाणितं [४] । दुग्धम् [५] दधि [६] । मत्स्य [७] । मांसं [८] । इदमष्टमम् । भिक्षुणीनां प्रातिदेशनिकाम् ॥ शैक्षा धर्मा १६६ २५३. शैक्षा विस्तरेण कर्तव्या यथा भिक्षुणां सर्वे षड्वर्गाह्स्थापयित्वा हरितोदके । उद्दानम् । निवासनं [१] । प्रावरणं [२] । सुसंवृतं [३] । चक्षुः [४] । शब्दं [५] । नोच्चग्घिका [६] । नोगुण्ठिका [७] । नोत्क्षिप्तिका [८] । न उत्कुटुके [९] । न खम्भ [१०] । न काय [११] । न शीर्ष [१२] । न बाहुकेन [१३] ॥ प्रथमो वर्गः ॥ उद्दानम् । सुसंवृता [१४] । चक्षुः [१५] । न शब्द [१६] । उच्चग्घयिका [१७] । न ओगुण्ठिका [१८] । नोत्क्षिप्तिका [१९] । न ओसक्तिका [२०] । न पल्लत्थिका [२१] । न खम्भ [२२] । न हस्तपादकौकृत्येन [२३] । द्वितीयो वर्गः ॥ उद्दानम् । द्वे सत्कृत्य [२४, २५] । समसूप [२६] । न स्तूप [२७] । नावकीर्ण [२८] । नावगण्ड [२९] । न जिह्वा [३०] । नातिमहन्त [३१] । नानागत [३२] । न कवडोत्क्षेपक [३३] । न कवडच्छेदक [३४] । न सकवडेन [३५] । तृतीयो वर्गः ॥ उद्दानम् ॥ त्रयो निर्लेहा [३६, ३७, ३८] । चुच्चु [३९] । सुरुसुरु [४०] । गुलुगुलु [४१] । न हस्त [४२] । न सित्थ [४३] । नोध्यायन [४४] । पात्रसंज्ञी [४५] । विज्ञप्ति [४६] । छादयति [४७] । न पात्रोदके [४८] । न ससित्थेन [४९] । चतुर्थो वर्गः ॥ उद्दानम् । न स्थिता [५०] । न निषण्णा [५१] । न उच्चासना [५२] । उपनह [५३] । न पादुका [५४] । न ओगुण्ठिका [५५] । न संमुख [५६] । न ओसक्तिका [५७] । न पल्लत्थिका [५८] । पूर्यते पञ्चमो वर्गः ॥ उद्दानम् । न शस्त्रायुध [५९, ६०] । दण्ड [६१] । छत्र [६२] । उत्पथ [६३] । पृष्ठतो [६४] । यान [६५] । स्थितकेन [६६] । षष्ठो वर्गः ॥ सप्त अधिकरणसमथा धर्मा धर्मा अनुधर्मा २५४. सप्ताधिकरणसमथा धर्मा यथा भिक्षूणाम् । सम्मुख [१] । स्मृति [२] । अमूढ [३] । प्रतिज्ञा [४] । तस्य पापेयशिक [५] । यो भुयसिक [६] । तृणप्रस्तारको [७] च सप्तमः ॥ धर्मश्चानुधर्मश्च यथा भिक्षूणाम् । समाप्तो भिक्षुणीनां प्रातिमोक्षविभङ्गः ॥ भिक्षुणी प्रकीर्णक १ निषद्याप्रतिसंयुक्तं २५५. आर्यमहासांघिकानां लोकोत्तरवादिनां भिक्षुणीप्रकीर्णकस्यादिः । भगवान् श्रावस्तीयं विहरति । तायो दानि भिक्षुणीयो पश्चिमं प्रहाणं स्वस्तिकपर्यङ्केन निषीदन्ति । अथापराये दानि भिक्षुणीये व्रणमुखेन दीर्घकोऽनुस्रोतेन प्रविष्टो । एतं प्रकरणं भिक्षुणीयो महाप्रजापतीये गौतमीये आरोचयेंसुः । महाप्रजापती गौतमी भगवतो आरोचयेत् । भगवानाह । गच्छथ ताये अमुकं भैषज्यं देथ ततो सो दीर्घको निष्क्रमिष्यति । ताये दानि तं भैषज्यं दिन्नं पिबनाये । सो दीर्घको अनुस्रोतमागतो न च मृतो । भगवानाह । एवं च नामा यूयं स्वस्तिकपर्यङ्केन निषीदथ । तेन हि न क्षमति स्वस्तिकपर्यङ्केन निषीदितुम् । निषद्याप्रतिसंयुक्तम् । न क्षमति भिक्षुणीये पर्यङ्केन निषीदितुम् । अथ खल्वेकिना पदेन पर्यङ्को बद्धव्यः । अपराय पार्ष्णिकाय व्रणमुखं पिथयितव्यम् । सा एषा भिक्षुणी स्वस्तिकपर्यङ्केन निषीदति विनयातिक्रममासादयति । इदमुच्यते निषद्याप्रतिसंयुक्तम् ॥ भिक्षुणीप्रकिर्णक २ कठिनप्रतिसंयुक्तं २५६. भगवान् श्रावस्तीयं विहरति । ता दानि भिक्षुणीयो कठिने चीवरं निक्षिपिय सीवन्ति । अपराये भिक्षुणीये वंसविदलिकाय व्रणमुखेन कृतं रुधिरमुत्पादितम् । एतं प्रकरणम् । पेयालम् । भगवानाह । तेन हि न क्षमति कठिने निषीदितुम् । कठिनप्रतिसंयुक्तम् । एता दानि भिक्षुणीयो चीवर निषीदितुकामा भवन्ति । न क्षमति कठिने निषीदितुम् । अथ खु उपस्थानशालायां वा प्रासादे वा प्रहाणशालायां वा आकार्षान् दत्त्वा चीवरकं प्रज्ञपिय सीवितव्यम् । अथ एवं पि न भवति । पीठस्य वा मञ्चस्य वा उपरि प्रज्ञपयित्वा सीवितव्यम् । अथैवं पि न भवति जानुकानामुपरि स्थापय्यित्वा सीवितव्यम् । सा एषा भिक्षुणी कठिने निषीदति विनयातिक्रममासादयति । इदमुच्यते कठिनप्रतिसंयुक्तम् ॥२ ॥ भिक्षुणीप्रकीर्णक ३ वेठकप्रतिसंयुक्तं २५७. भगवान् श्रावस्तीयं विहरति । स्थूलनन्दा दानि भिक्षुणी संबहुलानि स्त्रीहि सार्धं नदीमजिरावतीङ्गत्वा एकान्ते चीवरकाणी निक्षिपिय स्नानायावतीर्णा । सा दानि प्रतिकृत्येवोत्तरित्वा वेठकेन कायं वेठयित्वा स्त्रीणामाह । प्रजापति निध्यापयथ माम् । किमहं शोभामि न शोभामीति । ता दानाहंसुः । किं पुनरार्याय मुण्डाय पिण्डिलिकाय एतेन कार्यम् । वयं कामोपभोगनीया मानार्थाय एवं करोमः । कुटुम्बिकानां प्रियतरिका भविष्यामो ति । आर्ये किमेतेन । यं ताहि स्त्रीहि अवध्यापितं तं दानि भिक्षुणीहि श्रुतम् । एतं प्रकरणम् । पे । यावदाम भगवन् । भगवानाह । दुष्कृतं ते नन्दे यावत्तेन हि न क्षमति वेठकेन कायं वेठयितुम् । वेठकप्रतिसंयुक्तम् । सा एषा भिक्षुणी वेठकेन पट्टकेन वा कायं वेठयति विनयातिक्रममासादयति । अथ दानि पट्टिकाय वा लोहकेन वा कायं वेठयति । न क्षमति द्विरपि वेल्लकं त्रिरपि वेल्लकं वेठयितुम् । अथ खु एक परिवेल्लकं वेठयितव्यम् । अथ दानि वातेन पार्श्वं गृहीतं भवति । गण्डं वा पिटकं वा क्षतं वा उपहतं वा भवति किञ्चापि पट्टकेन कायं वेठयत्यनापत्तिः । इदमुच्यते वेठकप्रतिसंयुक्तम् ॥३ ॥ भिक्षुणी प्रकीर्णक ४ श्रोणिभण्डकप्रतिसंयुक्तं २५८. भगवान् श्रावस्तीयं विहरति । यथैव वेठकस्य एवमेवार्थोत्पत्तिः कर्तव्या । सा प्रतिकृत्य्ऽ एव उत्तरित्वा श्रोणीभण्डकमाबन्धित्वा आह । प्रजापती प्रजापति निध्यायथ मां किमहं शोभामि न शोभामीति । ता दानाहंसुः । किमार्याय । पेयालम् । यावदाम भगवन् । भगवानाह तेन हि न क्षमति श्रोणीभण्डम् । श्रोणीभण्डकप्रतिसंयुक्तम् । श्रोणीभण्डकन्नाम एते भवन्ति । शङ्खावर्त्तका वा शिरिका वा पीलुका वा विद्रुमा वा अक्षरक्षा वा सुवर्णरूप्यमया वा मणिमया वा प्रकालका वा अन्तमसतो सूत्रमणिका वा बन्धति । तेन च श्रोणीभण्डकछन्दं विनोदयति विनयातिक्रममासादयति । इदमुच्यते श्रोणीभण्डकप्रतिसंयुक्तम् ॥ ण्क ॥ भिक्षुणीप्रकिर्णक ५ गृहिणिभण्डकप्रतिसंयुक्तं २५९. भगवान् श्रावस्तीयं विहरति । एषैवार्थोत्पत्तिः यावद्गृहिणीभण्डकमाबन्धित्वा यावद्भगवानाह । तेन हि न क्षमति गृहिणीभण्डकम् । गृहिणीभाण्डकन्नाम एते भवन्ति । मूर्धापिधानका वा । वलया वा । कर्णिका वा । टिक्का वा । वेठका वा । हर्षका वा । हारा वा । अर्धहारा वा अपरञ्जग वा । कटका वा । शङ्खका वा । नूपुरा वा । अङ्गुलीयका वा । यद्वा पुनरन्यदपि किञ्चिद्गृहिणीभाण्डं सर्वन्न क्षमति । सा एषा भिक्षुणी गृहिणीभण्डकमाबन्धयति विनयातिक्रममासादयति । अथ दानि भैषज्यभण्डकमाबन्धति ज्वरसूत्रकं वा अनापत्तिः । इदमुच्यते गृहिणीभाण्डकप्रतिसंयुक्तम् ॥ तृ ॥ भिक्षूणीप्रकिर्णक ६ गृहिणीअलङ्कारप्रतिसंयुक्तं २६०. भगवान् श्रावस्तीयं विहरति । तायो दानि शाकियकन्यायो कोलितकन्यायो मल्लकन्यायो महान्तेहि कुलेहि प्रव्रजिता अलङ्कारिकान्यादाय । कुमारिकानां वुह्यन्तीनामुत्सवसमये तिथि पर्वण्या देवयात्रादिषु कृतकानि भाण्डकानि ददन्ती । जनो दानि ओज्झायति । नेयं प्रव्रज्या वाणिजेयम् । एतं प्रकरणम् । पेयालं यावद्भगवानाह । तेन हि न क्षमति गृहिणीअलङ्कारं धारयितुम् । यदि काचिद्गृहिणी प्रव्रजति यदि ताय किञ्चिदलङ्कारं भवति वक्तव्या विसर्जेहि । अथ दानि पश्यति दुर्भिक्ष वा भवेय पिण्डपातो वा न लभ्येत जरादुर्बला वा भवति व्याधिदुर्बला वा गैलान्यं वा किञ्चिद्भविष्यति अल्पलाभो मातृग्रामो मा विहन्येया ति । पिण्डं कारयित्वा पर्व्राजयितव्या । सा एषा भिक्षुणी अलङ्कारमपरित्याजयित्वा प्रव्रजेति विनयातिक्रममासादयति । भिक्षोरप्येष एवं विधिर् । इदमुच्यते गृहिणीअलङ्कारप्रतिसंयुक्तम् ॥ फु ॥ भिक्षुणीप्रकिर्णक ७ वेश्याप्रतिसंयुक्तं २६१. भगवान् श्रावस्तीयं विहरति । तायो दानि भिक्षुणीयो शाकीयकन्यायो कोलियकन्यायो मल्लकन्यायो महाकुलेहि प्रव्रजिता चेटिकामादाय प्रव्रजन्ति । तायो चेटिकायो प्रासादिकायो दर्शनीयायो वेश्यं (!) वाहयन्ति । जनो दनि ओज्झायति । नेयं प्रव्रज्या गणिका इमा । एतं प्रकरणं भिक्षुणीहि श्रुतम् । यावदाम भगवन् । भगवानाह । एवं च नाम यूयं वेश्यामुपस्थापयथ । तेन हि न क्षमति वेश्याम् (!) उपस्थापयितुम् । सा एषा भिक्षुणी वेश्यामुपस्थापयति तेन जीविकां कल्पयति विनयातिक्रममासादयति । इदमुच्यते वेश्याप्रतिसंयुक्तम् ॥ ग्रा ॥ भिक्षुणीप्रकीर्णक ८ आरामिकिनिप्रतिसंयुक्तं २६२.भगवान् श्रावस्तीयं विहरति । भगवता दानि शिक्षापदं प्रज्ञप्तम् । न क्षमति वेश्यामुपस्थापयितुं ति । तायो दानि शाकियकन्यायो मल्लकन्यायो कोलितकन्यायो महाकुलेहि प्रव्रजन्ति । तायो दानि पौद्गलिकामारामिकिनीमुपस्थापेन्ति । तायो दानि आरामिकिनीयो प्रासादिकायो जनो दानि ओज्झायति । नेयं प्रव्रज्या गणिका इयम् । एतं प्रकरणं भिक्षुणीहि श्रुतं यावदाम भगवन् । भगवानाह । तेन हि न क्षमति पौदगलिकामारामिकिनीमुपस्थापयितुम् । न क्षमति आरामिकिनी । ना क्षमति चेटी । न क्षमति कल्पियकारी । सा एषा भिक्षूणी या पौद्गलिकामारामिकिनीमुपस्थापयति विनयातिक्रममासादयति । इदमुच्यते आरामिकिनीप्रतिसंयुक्तम् ॥ ह्रा ॥ भिक्षूणीप्रकीर्णक ९ संकक्षिकाप्रतिसंयुक्तं २६३. भगवान् श्रावस्तीयं विहरति । अपरा दानि भिक्षुणी प्रासादिका दर्शनीया । ताये दानि पीनेहि स्तनेहि गच्छन्तीय चीवरमुत्क्षिपीयति । सा दानि जनेन उच्चग्घीयति । एतं प्रकरणं भिक्षुणीहि श्रुतम् । पेयालम् । यावदाम भगवन् । भगवानाह तेन संकक्षिका नाम कर्तव्या । सम्कक्षिकां प्रावरन्तीय तथा प्रावरितव्यं यथा दानि स्तनापीडिता भवन्ति । सा एषा भिक्षुणी संकक्षिकान्नोपस्थापयति विनयातिक्रममासादयति । सन्ती न प्रावरयति विनयातिक्रमः इदमुच्यते संकक्षिकाप्रतिसंयुक्तम् ॥ ० ॥ भिक्षुणीप्रकीर्णक १० दकशाटिकाप्रतिसंयुक्तं २६४. भगवान् वैशालीयं विहरति । भद्राय दानि कापिलेय्या अर्थोत्पत्तिः कर्तव्या । यावद्भगवानाह । तेन हि न क्षमति नग्निकाया स्नातुम् । दकशाटिकाय स्नापितव्यम् । दकशाटिकाप्रतिसंयुक्तम् । न क्षमति नदीयं वा ओघे वा पुष्किरिणीयं वा तडागे वा नग्निकाय स्नापितुम् । दकशाटिकाय स्नापितव्यम् । नग्निका स्नायति विनयातिक्रमः । अथ दानि विहारे गुप्ते प्रदेशे नग्निका स्नायत्यनापत्तिः । इदमुच्यते दकशाटिकाप्रतिसंयुक्तम् ॥ ळ ॥ ॥ प्रथमो वर्गः ॥ भिक्षुणीप्रकीर्णक ११ तलघातप्रतिसंयुक्तं २६५. भगवान् श्रावस्तीयं विहरति । भिक्षुणीविहारो च गृहिकुलं च कच्छान्तरिता । तायो दानि भिक्षुणीयो कामरागेण खज्जन्ति । तायो दानि हस्ततलेनाङ्गजातं प्रस्फोटयन्ति । सो मनुष्यो पुनो पुनो शब्दं शृणोति । सो दानाह । किमेतन् ति । सा दानि स्त्री आह । भवतु आर्यपुत्र अहमेतं जानामि किन् तवानेन ज्ञानेन । आह । नहि आचिक्षाहि । आह । एता आर्यमिश्रिकायो ब्रह्मचारिणीयो कामरागेन खज्जन्तीयो हस्ततलेन आस्फोटयन्ति आङ्गजातम् । तेन दानि मनुष्येण ओज्झापितम् । एतं प्रकरणं भिक्षूणीहि श्रुतम् । यावद्भगवानह । तेन हि न क्षमति तलघातकम् । तलघातप्रतिसंयुक्तम् । सा एषा भिक्षुणी हस्ततलेनाङ्गजातमास्फोटयति पात्रेण वा कुपात्रेण वा कंसिकाय वा विडल्लाय वा अन्येन वा पुन केनचित्तेन च कामरागं विनोदयति विनयातिक्रममासादयति । इदमुच्यते तलघातकप्रतिसंयुक्तम् ॥ [१] ॥ भिक्षूणी प्रकीर्णक १२ जतुमट्ठकप्रतिसंयुक्तं २६६. भगवान् श्रावस्तीयं विहरति । अपराय दानि भिक्षुणीय कामरागेण खज्जन्तीय जतुमट्ठकं मञ्चकं यन्त्रितम् । अत्र विप्रतिपद्यिष्यन् ति । तदनन्तरमग्निरुत्थितो । ताय दानि संभ्रान्ताय असमन्वाहरित्वा स मञ्चको बहिन्निष्कासितो । मनुष्यो दानि प्रत्यवेक्षमाणा अण्वन्ति । कहिमग्निरुत्थितो कस्य गृहादुत्थितो । तेहि दानि सो दृष्टो । ते दानि ओज्झायन्ति । एतं प्रकरणं भिक्षुणीहि श्रुतम् । पे । यावद्भगवानाह । तेन हि न क्षमति जतुमट्ठकम् । जतुमट्ठकप्रतिसंयुक्तम् । जतुमट्ठकं नाम जतुस्य वा लोहस्य वा त्रपुस्य वा नाग्रस्य वा हारकूटस्य वा दन्तस्य वा चोडकस्य वा मृत्तिकाय वा अङ्गजातकाकारं कृत्वा स्वे अङ्गजाते प्रवेशेति तेन च काम रागं विनोदेति थुल्ऽ-अच्चयमासादयति । इदमुच्यते जतुमट्ठकप्रतिसंयुक्तम् ॥ २ ॥ भिक्षुणीप्रकीर्णक १३, १४ धोवनाप्रतिसंयुक्तं प्रवेशनाप्रतिसंयुक्तं २६७. भगवान् श्रावस्तीयं विहरति । अथ खलु महाप्रजापती गौतमी येन भगवांस्तेनोपसंक्रमित्वा भगवतः पादौ शिरसा वन्दित्वा एकान्ते अस्थासि । एकान्तस्थिता महाप्रजापती गौतमी भगवन्तं याचति । भगवन्तं वन्दित्वा आह । मातृग्रामस्य भगवनङ्गजातं दुर्गन्धमुपवायति । लभ्यम् । भगवन् धोवितुम् । भगवानाह । लभ्या । तायो दानि भिक्षुणीयो बाहिरबाहिरेण धोवन्ति तथैव दुर्गन्धं वायति । एतं प्रकरणं महाप्रजापती गौतमी भगवन्तं पृच्छति । लभ्या भगवन् प्रवेशिय धोवितुम् । भगवानाह । लभ्या धोवनाप्रतिसंयुक्तं प्रवेशनाप्रतिसंयुक्तम् । भिक्षुणीय धोवन्तीय एकमङ्गुलिवेठकं प्रवेशयित्वा धोवितव्यम् । न क्षमति अतिदूरं प्रवेशयितुम् । अतिदूरं प्रवेशेति तेन च कामरागं विनोदेति थूल्ऽ-अच्चयमासादयति । इदमुच्यते धोवनाप्रतिसंयुक्तं प्रवेशनाप्रतिसंयुक्तम् ॥ ण्क ॥ भिक्षुणिप्रकीर्णक १५, १६, १७ आनिचोलकप्रतिसंयुक्तं २६८. भगवान् श्रावस्तीयं विहरति । तासान् दानि भिक्षुणीनामनुमासमनुमासमृतुरागच्छति । लोहितं शय्यासनं नाशीयति । एतं प्रकरणं महाप्रजापती गौतमी भगवतो आरोचेति । लभ्या भगवन् शयनासनगुप्त्यर्थमानीचोलं धारयितुम् । भगवानाह । लभ्यमानीचोलकप्रतिसंयुक्तम् । यस्या एष ऋतुरागच्छति शोणितं स्रवति तया आनीचोलकं धारयितव्यम् । लेण्टकखण्डानि । नापि क्षमति गाढं नापि क्षमति अतिदूरं प्रवेशयितुं यथा तेनैव कामरागं विनोदयेत् । अथ खलु प्रशिथिलं व्रणमुखस्य प्रवेशयितव्यम् । सा एषा भिक्षुणी अतिदूरं वा प्रवेशेति गाढं वा प्रवेशेति यथा तेनैव कामरागं विन्दोदेति स्थूल्ऽ-अच्चयमासादयति । इदमुच्यते आनीचोलकप्रतिसंयुक्तम् ॥ तृ ॥ भिक्षुणीप्रकीर्णक १६ स्त्रीतीर्थप्रतिसंयुक्तं २६९. भगवान् श्रावस्तीयं विहरति । तायो दानि भिक्षुणीयो स्त्रीतीर्थे आनीचोलं धोवन्ति । स्त्रियो दानि ओज्झायन्ति । सर्वमिदं तीर्थं रुधिरेण विट्टालितम् । एतं प्रकरणम् । पेयालम् । यावद्भगवानाह । तेन हि न क्षमति स्त्रितीर्थे आनीचोलकं धोवितुम् । स्त्रीतीर्थप्रतिसंयुक्तम् । सा एषा भिक्षुणी आनीचोलकं स्त्रीतीर्थे धोवति विनयातिक्रममासादयति । इदमुच्यते स्त्रीतीर्थप्रतिसंयुक्तम् ॥ फु ॥ भिक्षुणीप्रकीर्णक १७ पुरुषतीर्थप्रतिसंयुक्तं २७०.भगवान् श्रावस्तीयं विहरति । भगवता शिक्षापदं प्रज्ञप्तम् । न क्षमति स्त्रीतीर्थे आनीचोलकं धोवितुम् । तायो दानि भिक्षुणीयो पुरुषतीर्थे आनीचोलकं धोवन्ति । पेयालम् । यावत्सा एषा भिक्षुणी आनीचोलकं पुरुषतीर्थे धोवति विनयातिक्रममासादयति । इदमुच्यते पुरुषतीर्थप्रतिसंयुक्तम् ॥ ग्रा ॥ भिक्षुणीप्रकीर्णक १८ रजकतीर्थप्रतिसंयुक्तं २७१. भगवान् श्रावस्तीयं विहरति । एवमेव रजकतीर्थे कर्तव्यम् । भगवानाह । तेन हि न क्षमति रजकतीर्थे धोवितुम् । अथ खु कुण्डालके वा कटाहके वा मल्लके वा दकानके वा उदकं गृह्य एकान्ते धोवितव्यम् । यहिं पर्यादानं गच्छेय । अथ दानि बाहिरोदकं भवति यहिं निर्वाहो तहिन् धोवितव्यम् । तानि लेण्टकानि शोषयितव्यानि यदा पुनो ऋतु नागच्छति तदा पुनो दातव्यानि । सा एषा भिक्षुणी रजकतीर्थे आनीचोलं धोवति विनयातिक्रममासादयति । इदमुच्यते रजकतीर्थप्रतिसंयुक्तम् ॥ ह्रा ॥ भिक्षुणीप्रकीर्णक १९ उदकधाराप्रतिसंयुक्तं २७२. भगवान् श्रावस्तीयं विहरति । अपराय दानि भिक्षुणीय रक्तचित्ताय अङ्गजातमुदके धारितम् । तस्याशुचिर्मुक्तम् । ताये दानि कौकृत्यम् । कौकृत्येन भिक्षुणीनामारोचयति । यावद्भगवानाह । सा एषा भिक्षुणी उदकधारायां वा कुण्डिकधारायां वा उदकचोडेन वा आलुकवेण्टिकायां वा प्रणाल्यां वा अङ्गजातं धारेति तेन च कामरागं विनोदेति थूल्ऽ-अच्चयमासादयति । अथ दानि स्नायति तडागे वा प्रस्रवणे वा प्रणालियं वा न दानि अग्रतो उदकधारां कृत्वा स्नायितव्यं यथा पृष्ठीय वा शीर्षेण वा उदकधारां प्रतिच्छेय तथा स्नायितव्यम् । सा एषा भिक्षुणी अग्रतो मुखामुदकधारां कृत्वा स्नायति ताय च कामरागं विनोदेति थूल्ऽ-अच्चयमासादयति । इदमुच्यते उदकधाराप्रतिसंयुक्तम् ॥० ॥ भिक्षुणिपरिकीर्णक २० उदकस्रोतप्रतिसंयुक्तं २७३. भगवान् श्रावस्तीयं विहरति । अपराय दानि भिक्षुणीय रक्तचित्ताय उदकस्रोते अङ्गजातं धारितम् । ताये अशुचिरागतो यथा उदकधाराय यावत् । तेन हि न क्षमति उदकस्रोते अङ्गजातं धारयितुम् । उदकस्रोतप्रतिसंयुक्तम् । या दानि तायो भवन्ति गिरिनदीयो शीघ्रस्रोतायो तहिमङ्गजातं धारेति तेन च कामरागं विनोदेति थूल्ऽ-अच्च्यमासादयति । अथ दानि स्नायति न क्षमति अग्रतोमुखं स्रोतं कृत्वा स्नायितुं पृष्ठतोमुखं स्रोतं कृत्वा स्नायितव्यम् । सा एषा भिक्षुणी अग्रतोमुखं स्रोतं कृत्वा स्नायति विनयातिक्रममासादयति । इदमुच्यते उदकस्रोतप्रतिसंयुक्तम् ॥ ळ ॥ ॥ द्वितीयो वर्गः ॥ भिक्षुणीप्रकीर्णक २१ विकृतिप्रतिसंयुक्तं २७४. भगवान् श्रावस्तीयं विहरति । तायो दानि भिक्षुणीयो नानाप्रकारेहि मोचयन्ति मूलकेन पलाण्डूकेबुकाये सोभञ्जनकेन लतिकाय । एतं प्रकरणं यावद्भगवन् । भगवानाह । तेन हि न क्षमति विकृतीहि मोचयितुम् । विकृतिप्रतिसंयुक्तम् । सा एषा भिक्षुणी मूलकेन वा पलाण्डूय वा केबुकाय वा सोभञ्जनकेन वा लतिकाय वा इल्लादुकाय वा त्रपुसेन वा अल्लाबूय वा कक्षारुकेन वा अन्येन वा पुन केनचिन्मोचयति तेन च कामरागं विनोदेति थूल्ऽ-अच्चयमासादयति । इदमुच्यते विकृतिप्रतिसंयुक्तम् ॥ भिक्षुणीप्रकीर्णक २२ कर्मप्रतिसंयुक्तं २७५. भगवान् श्रावस्तीयं विहरति । अपरस्य दानि भिक्षुस्य उत्क्षेपनीयं कर्म क्रियते । तहिं नास्ति कोचि परिकुशलो कर्मकारको । भिक्षुणीय कर्म कृतम् । ताये दानि कौकृत्यम् । किन्नु खलु लभ्या एतं कर्तुमुताहो न लभ्यम् । कौकृत्येन भिक्षुणीनामारोचयति । भिक्षुणीयो महाप्रजापतीये गौतमीये आरोचयेंसुः । यावद्भगवानाह । अग्रपरिषा एषा । न क्षमति भिक्षुणीय भिक्षुस्य कर्म कर्तुम् । कर्मप्रतिसंयुक्तं न क्षमति भिक्षुणीय भिक्षुस्य कर्म कर्तुं (!) । अथ दानि न कोचित्परिकुशलो कर्मकारको भवति लभ्यं भिक्षुणीये भिक्षुस्य उद्देशितुम् । अथ दानि कर्मकरेन्तस्य विस्मरति लभ्या भिक्षुणीय अनुप्रदातुम् । सा एषा भिक्षुणी भिक्षुस्य कर्म करोति विनयातिक्रमः । किञ्चापि भिक्षुः भिक्षुणीये कर्म करोति अनापत्तिः । इदमुच्यते कर्मप्रतिसंयुक्तम् ॥ भिक्षुणीप्रकीर्णक २३ कौशेयप्रतिसंयुक्तं २७६. भगवान् श्रावस्तीयं विहरति । भद्रा दानि कापिलेयी कौशेयचीवरेण प्रावृता ज्ञातिकुलं गच्छति स्थूलवृषितो देवो ओवृष्टो कौशेयचीवरमोवृष्टं कायेश्लिष्टं स्फटिकप्रत्युष्टो विय कायोदृश्यति जनो सन्निपातितो भद्राये अङ्गयष्टिं पश्यितुकामो । सा दानि उत्कुटुका उपविष्टा अन्तेवासिनीहि परिवृता । एतं प्रकरणम् । यावदाम भगवन् । भगवानाह । तेन हि न क्षमति कौशेयम् । कौशेयप्रतिसंयुक्तम् । कौशेयन्नाम जातिमं कर्त्तिमं च । सा एषा भिक्षुणी जातिमं प्रावरति । देशनागामीविनयातिक्रमः । कर्त्तिमं प्रावरति सम्वरगामीविनयातिक्रमः किञ्चापि भिक्षुरुभयं प्रावरति अनापत्तिः । इदमुच्यते कौशेयप्रतिसंयुक्तम् ॥३ ॥ भिक्षुणिप्रकीर्णक २४ गण्डप्रतिच्छादनप्रतिसंयुक्तं २७७. भगवान् श्रावस्तीयं विहरति । स्थूलनन्दा नाम भिक्षुणी विहारस्याकाशतलके एकसंकक्षिकाय चङ्क्रमति । ताये दानि । स्तनावड्डाश्चङ्क्रमन्तीय उत्पतन्ति । जनेन उच्चग्घायति पश्यथ भणे श्रमणिका अलाबुतुम्बकेन विय नदीं तरतीति । एतं प्रकरणं भिक्षुणीहि श्रुतम् । पेयालम् । यावद्भगवानाह । तेन हि गण्डप्रतिच्छादनन्नाम कर्तव्यम् । गण्डप्रतिच्छादनप्रतिसंयुक्तम् । संकक्षिकाये उपरिटो ओसारयितव्यो यथा गण्डा प्रतिच्छन्ना भवेंसुः सा एषा भिक्षुणी गण्डप्रतिच्छादनं पटं न प्रावरति विनयातिक्रममासादयति । न दानि क्षमति प्राकटे प्रदेशे एकसंकक्षिकाय आसादयति । न दानि क्षमति प्राकते प्रदेशे एकसंकक्षिकाय चङ्क्रमितुम् । अथ दानि विहारस्य गुप्ते प्रदेशे चङ्क्रमति एकसंकक्षिकाय अनापत्तिः । इदमुच्यते गण्डप्रतिच्छादनप्रतिसंयुक्तम् ॥ भिक्षुणीप्रकीर्णक २५ स्त्रीअलङ्कारप्रतिसंयुक्तं २७८. भगवान् श्रावस्तीयं विहरति । तायो दानि शाकियकन्यायो महाकुलेहि प्रव्रजिताः । अभिज्ञायो अलंकरितुम् । या दानि कुमारियो वुह्यन्ति नववधुकायो वा आनीयन्ति तायो अलङ्करेन्ति गृहेण गृहन्नीयन्ति । अलङ्करितुं खज्जभोज्जं लभन्ति तेन वृत्तिं कल्पेन्ति । जनो दानि ओज्झायति । नेयं प्रव्रज्या अलङ्कारिका एताः । एतं प्रकरणं भिक्षुणीहि श्रुतम् । पेयालं यावद्भगवानाह । तेन हि न क्षमति अलङ्कर्तुम् । स्त्रीअलङ्कारप्रतिसंयुक्तम् । सा एषा भिक्षुणी शीर्षं वा प्रसाधेति अक्षिणी वा अञ्जेति चूर्णकेन वा मुखमोचूर्णेति तेन च जीविकां कल्पेति विनयातिक्रममासादयति । अथ दानि अक्षिणीदुःखं ति शिरोवेदना वा भवति । अर्धावभेदका वा लभ्या अक्षिणी अञ्जयितुं शीर्षं वा मार्जयितुम् । इदमुच्यते स्त्रीअलङ्कारप्रतिसंयुक्तम् ॥तृ ॥ भिक्षुणी प्रकीर्णक २६ उत्पलवापकप्रतिसंयुक्तं २७९. भगवान् श्रावस्तीयं विहरति । तायो दानि शाकियकन्यायो कोलितकन्यायो मल्लकन्यायो महाकुल प्रव्रजितायो उत्पलानि वापेन्ति विक्रीणन्ति च । तेन च जीविकां कल्पयन्ति । जनो दानि ओज्झायति । नेयं प्रव्रज्या उत्पलवापिका इयम् । एतं प्रकरणं यावत्पेयालम् । यावद्भगवानाह । तेन हि न क्षमति उत्पलानि वापयितुमुत्पलवापकप्रतिसम्युक्तम् । सा एषा भिक्षुणी वापेति विक्रीणाति च तेन च जीविकां कल्पेति विनयातिक्रममासादयति । अथ दानि चैत्यार्थाय वापेति भगवतः पूजाकर्माय वापेति अनापत्तिः । इदमुच्यते उत्पलवापकप्रतिसंयुक्तम् ॥ भिक्षुणीप्रकीर्णक २७ सुमनावापनाप्रतिसंयुक्तं २८०. भगवान् श्रावस्तीयं विहरति । एवमेव सुमनावापनाय कर्तव्यं यावतिदमुच्यते सुमनावापनाप्रतिसंयुक्तम् ॥ग्रा ॥ भिक्षुणीप्रकीर्णक २८ उत्पलग्रन्थिका प्रतिसंयुक्तं २८१. भगवान् श्रावस्तीयं विहरति । भगवता दानि शिक्षापदं प्रज्ञप्तम् । न क्षमति सुमनां वापयितुं ति । तायो दानि शाकियकन्यायो कोलितकन्यायो मल्लकन्यायो लिच्छविकन्यायो उत्पलानि ग्रन्थयित्वा विक्रीणन्ति । जनो दानि ओज्झायति । नेयं प्रव्रज्या कारिका इयम् । एतं प्रकरणं भिक्षुणीहि श्रुतम् । पेयालम् । यावदाम भगवन् । भगवानाह । तेन हि न क्षमति उत्पलानि ग्रन्थयितुम् । उत्पलग्रन्थिकाप्रतिसंयुक्तम् । सा एषा भिक्षुणी उत्पलदामां वामल्लिकादामां वा आरङ्गणदामां वा कृत्वा विक्रीणन्ति । तेन च जीविकां कल्पयन्ति विनयातिक्रमः । अथ दानि माल्योपहारो भवति जातिमहा वा बोधिमहा वा धर्मचक्रमहा वा आनन्दमहा वा राहुलमहा वा पञ्चवार्षिका वा । महापञ्चवार्षिका । जनो दानि आह । आर्यमिश्रिकाहि शोभापयितव्यम् । किञ्चापि भिक्षुणी मुत्पलमालां वा मल्लिकामालां वा आरङ्गणमालां वा ग्रन्थयत्यनापत्तिः । इदमुच्यते उत्पलग्रन्थिकाप्रतिसंयुक्तम् ॥ ह्र ॥ भिक्षुणी प्रकीर्णक २९ सुमनाग्रन्थिकाप्रतिसंयुक्तं एवमेव सुमनाग्रन्थिकाय नानाकरणं ग्रन्थिगुणं वा मालागुणं वा पुष्पकञ्चुकं वा कृत्वा विक्रीणाति । तेन जीविकां कल्पयति विनयातिक्रमः । इदमुच्यते सुमनाग्रन्थिकाप्रतिसंयुक्तम् ॥ ० ॥ भिक्षुणीप्रकीर्णक ३० कर्तनाप्रतिसंयुक्तं २८२. भगवान् श्रावस्तीयं विहरति । तायो दानि भिक्षुणीयो शाकियकन्यायो यावन्महाकुलप्रव्रजितायो संज्ञिकाः सूत्रं कर्तयित्वा विक्रीणन्ति । जनो दानि ओज्झायति । नेयं प्रव्रज्या पिचुकारिका इयम् । एतं प्रकरणं भिक्षुणीहि श्रुतम् । पेयालम् । यावद्भगवानाह । तेन हि न क्षमति कर्तितुम् । कर्तनाप्रतिसंयुक्तम् । सा एषा भिक्षुणी कम्बलं वा कर्पासं वा क्षौमं वा कौशेयं वा शाणं वा भङ्गं वा अन्यं वा कर्तयित्वा विक्रीणाति तेन जीविकां कल्पयति विनयातिक्रममासादयति । अथ दानि भिक्षुणीये चीवरं परिश्रामणं वा क्षीनं वा भवति लभ्यं सी भिक्षुणीप्रकीर्णक ३१ आचारविकोपनाप्रतिसंयुक्तं २८३. मनास्मि । ब्रह्मचर्यातो च्याविता । आह । केन । आह । सो मे देवरो परिपातेति । सो मे नयितुकामो । आह । उपविश माता याहि । वयं ते रक्षिष्यामः सा दानाह गमिष्यामि आर्याये मूलमार्या मे रक्षिष्यति । ताहि ताये नूपुराणि आबद्धानि कर्णिका आबद्धा वलयानि आविद्धानि अलङ्कृता रक्षोपरक्तेहि वस्त्रेहि परिहिता वावागुण्ठिता च । चतुहि पञ्चहि चेटिकाहि परिवृता । सो दानि मनुष्यो तान् द्वारे स्थित्वा अवलोकेति । यां वेलां निष्क्रमिष्यति ततो हं गृह्णीष्यामीति । तेन सा दृष्टा निष्क्रमन्ती । तस्य भवति अर्हति कुटुम्बिकभार्या एषा । न एषासा सा दानि भिक्षुणी । सा दानि भिक्षुणी उपाश्रयं गता भिक्षुणीहि दृष्टा । आहंसुः । आर्ये इयं सुदिन्ना प्रत्योधावित । आह । नाहं प्रत्योधाविता अपि तु मम देवरो प्रत्योधावयितुकामो । तस्य भयादारक्षाभिप्राया एवं कृतम् । पेयालं यावतेतदेव । भगवान् सर्वं पृच्छति । आं भगवन् । भगवानाह । एवञ्च नाम त्वमाचारं विकोपयसि । तेन हि न क्षमति आचारं विकोपयितुम् । सा एषा भिक्षुणी त्यक्तमुक्तेन चित्तेन आचारं विकोपयति अभिक्षुणी भवति । अथ रक्षाभिप्राया आचारं विकोपयति विनयातिक्रमः । न च अभिक्षुणी भवति । भिक्षुरपि अत्यक्तमुक्तेन चित्तेन रक्षार्थमाचारं विकोपयति अनापत्तिः । इदमुच्यते आचारविकोपनाप्रतिसंयुक्तम् ॥१ ॥ भिक्षुणीप्रकीर्णक ३२ पात्रप्रतिच्छादनाप्रतिसंयुक्तं २८४. भगवान् श्रावस्तीयं विहरति । स्थूलनन्दा भिक्षुणी पिण्डचारमण्वन्ती । सा दानि अपरं महान्तं कुलं पिण्डाय प्रविष्टा । तंहि स्त्रियाय लोलगर्भो दारको । सा दानाह । आर्ये इमं दारकमुज्झेहि । आह । उज्झेतु आर्या । अहमार्याये किञ्चिद्दास्यामि । आह । नाहमेनमुज्झामि । आह । आर्याय अहमेत्तकं चैत्तकं च दास्ये । ताय लुब्धाय उक्तम् । इह पात्रे देहि । सा तं प्रतिच्छादयित्वा निष्क्रमति । थेरो दानि महाकाश्यपो पिण्डचारं प्रविष्टो । थेरस्यापि समदानम् । या प्रथमा भिक्षा लक्षति तां भिक्षुस्य वा भिक्षुणीये वा प्रतिष्ठाये ति । थेरेण दानि सा दृष्टा । आह । आहर पात्रम् । सा संकुसायति प्रतिच्छादेति न दर्शयेति । थेरो आह । आहर पात्रम् । सा महेशाख्येन शास्तृकल्पेन थेरेणाभिगर्जिता । ताय दानि भीताय थरथरापन्तीय पात्रं प्रणामितम् । थेरेण दृष्टम् । आह । हि हीयाय धर्मो । एतं प्रकरणमायुष्मान्महाकश्यपो भिक्षुणामारोचयति । भिक्षू भगवतो आरोचयेंसुः । भगवानाह । शब्दापयथ नन्दाम् । सा दानि शब्दापिता । एतदेव पृच्छीयति । यावदाम भगवन् । भगवानाह । दुष्कृतन् ते नन्दे नैष धर्मो नैष विनयो यावत् । एवञ्च नाम त्वं पात्रं प्रतिच्छादेसि । तेन हि न क्षमति पात्रं प्रतिच्छादयितुम् । पात्रप्रतिच्छादनाप्रतिसंयुक्तम् । न क्षमति भिक्षुणीय प्राकटेन पात्रेण पिण्डाय अटितुं प्रतिच्छादयित्वा अटितव्यम् । यदा भिक्षां प्रतिच्छति तदा उग्घाटिय प्रतिच्छितव्यम् । यदि भिक्षुं रथ्यायां पश्यति उग्घाटिय उपदर्शयितव्यम् । सा एषा भिक्षुणी प्राकटेन पात्रेण अटति विनयातिक्रममासादयति । भिक्षुं दृष्ट्वा न उग्घाटिय दर्शेति विनयातिक्रममासादयति । इदमुच्यते पात्रप्रतिच्छादनाप्रतिसंयुक्तम् ॥ भिक्षुणीप्रकीर्णक ३३ वर्चकुटिप्रतिसंयुक्तं २८५. भगवान् श्रावस्तीयं विहरति । ता दानि भिक्षुणीयो ओनद्धवर्चे वर्चकुटीये उपविशन्ति । वर्चकुटीये स्त्रियाय लोलगर्भो प्रतिक्षिप्तो । चण्डालाश्चित्रघटकेहि उच्चारं छोरयन्ति । तेहि सो दारको दृष्टो । ते तं दारकमेकायां बाहायां गृहीत्वा ओज्झायन्ति । श्रमणिका वर्चकुटीयं प्रसूता हि । एतं प्रकरणं भिक्षुणीहि श्रुतम् । पेयालम् । यावत्तेन हि न क्षमति ओनद्धवर्चे उपविशितुम् । वर्चकुटीप्रतिसंयुक्तम् । न दानि क्षमति भिक्षुणीय ओनद्धवर्चकुटिं कारापयितुम् । अथ खु विवृतपादका कारापयितव्या । न क्षमति आगतोदकं कारापयितुम् । निःसीमा कारापयितवया । सा एषा भिक्षुणी ओनद्धवर्चकुटीयमागतोदकायं वा उपविशति विनयातिक्रममासादयति । इदमुच्यते वर्चकुटीप्रतिसंयुक्तम् ॥ भिक्षुणीप्रकीर्णक ३४ जेन्ताकप्रतिसंयुक्तं २८६. भगवान् श्रावस्तीयं विहरति । ताय दानि भिक्षुणीय शाकियकन्यायो लिच्छविकन्यायो मल्लकन्यायो जेन्ताके स्नायन्ति । कुलपुत्रकेहि अनुप्रविश्य ब्रह्मचर्यातो च्याविताः । एतं प्रकरणं भिक्षुणीहि श्रुतम् । पेयालम् । यावत्तेन हि न क्षमति भिक्षुणीये जेन्ताके स्नायितुम् । अथ दानि गिलाना भवति लभ्या विहारे स्वेदयित्वा तैलेन अङ्गानि म्रक्षयित्वा स्नायितुम् । सा एसा भिक्षुणी जेन्ताके स्नायति विनयातिक्रममासादयति । इदमुच्यते जेन्ताकप्रतिसंयुक्तम् ॥३ ॥ भिक्षुणीप्रकीर्णक ३५ आरण्यकशयनासनप्रतिसंयुक्तं २८७. भगवान् श्रावस्तीयं विहरति । तेन कालेन तेन समयेन भिक्षुणीनामारङ्यकानि शयनासनानि न प्रतिक्षिप्तानि ग्रामान्तिकानि च अकृतानि । तेन खलु पुनः समयेन पञ्चमात्राणि भिक्षुणीशतानि महाप्रजापतीप्रमुखानि राजकारामे विहरन्ति । तायो दानि शाकियकन्यायो लिच्छविकन्यायो कोलितकन्यायो प्रासादिकायो दर्शनीयायो । तायो दानि कुलपुत्रकेहि ओचरितायो । तायो पुरिमं यामं प्रहाणमुपविष्टा । कुलपुत्रकाश्च अल्लीना ग्रहेष्यामो ति । ताः स्रत्ति वैहायसमभ्युद्गताः । ते कुलपुत्राः प्रत्योसक्किताः । तायो पुनो मध्यमयाममेवं पश्चिमं यामं प्रहाणमुपविष्टाः । कुलपुत्रकाश्च अल्लीना ग्रहेष्यामो ति । तंहि तदा नीयाः क्षिप्रसमापत्तिकाः । याहि च मिद्धमनोक्रान्तं ताः स्रत्ति वैहायसमभ्युद्गताः । यावन्त समापत्तिका याहि च मिद्धमवक्रान्तं तायो कुलपुत्रकेहि गृह्य विहेठिताः । एतं प्रकरणम् । पेयालम् । यावत्तेन हि न क्षमति आरण्यके शयनासने वस्तुम् । अथ दानि चातुष्पथिका सर्वरात्रिका भवति उपासकोपासिका गच्छन्ति लभ्यं वस्तुम् । तहिं पि न क्षमति प्रतिगुप्ते प्रदेशे वस्तुम् । सा एषा भिक्षुणी आरण्यके शयनासने वासमुपगच्छति वर्षं वा वसति विनयातिक्रममासादयति । इदमुच्यते आरण्यकशयनासनप्रतिसंयुक्तम् ॥ तृ ॥ भिक्षुणीप्रकीर्णक ३६४१ भिक्षुणीप्रकीर्णक ३६, ३७ २८८. यो भिक्षूणामास्तारो अनास्तारो सो भिक्षुणीनाम् । यो भिक्षुणीनामास्तारो अनास्तारो सो भिक्षूणाम् ॥ ग्रा ॥ भिक्षुणीप्रकीर्णक ३८, ३९ यो भिक्षूणामुद्धारो अनुद्धारो सो भिक्षुणीनाम् । ग्रा । यो भिक्षुणीनामुद्धारो अनुद्धारो सो भिक्षूणाम् ॥ ० ॥ भिक्षुणीप्रकीर्णक ४०, ४१ यो भिक्षूणामभिहारो अनभिहारो सो भिक्षुणीनाम् ॥ ळ ॥ यो भिक्षुणीनामभिहारो अनभिहारो सो भिक्षूनाम् ॥ ळ ॥ ॥ चतुर्थो वर्गः ॥ भिक्षुणीप्रकीर्णक ४२४८ भिक्षुणीप्रकीर्णक ४२, ४३ २८९. यं भिक्षूणामामिषमकल्पियम् । अकल्पियं तं भिक्षुणीनाम् ॥ यं भिक्षुणीनामामिषमकल्पियं कल्पियं तं भिक्षूणाम् ॥ २ ॥ भिक्षुणीप्रकीर्णक ४४, ४५ लभ्यं भिक्षुस्य भिक्षुणीय प्रतिग्रहयितुं स्थापयित्वा जतरूपरजतमग्निकल्पियञ्च ॥ ३ ॥ लभ्यं भिक्षुणीये भिक्षूणा प्रतिग्राहापयितुं स्थापयित्वा जातरूपं रजतमग्निकल्पियञ्च ॥ ण्क ॥ भिक्षुणीप्रकीर्णक ४६ २९०. त्रीणि भिक्षुस्य अभिक्षुकरणानि । कतमानि त्रीणि । त्यक्तमुक्तेन चित्तेन शिक्षां प्रत्याख्याति [१] । संघो वासति वस्तुस्मिन्नाशेति [२] । स्त्रीलिङ्गं वा सा प्रादुर्भवति [३] । इमानि त्रीणि भिक्षुष्य अभिक्षुकरणानि । तेन भिक्षुणा भिक्षुणीविहारं गन्तव्यम् । न क्षमति भिक्षुणीनामेकपिटके एके पि विचारे वस्तुम् । अथ खु च्छिन्नोपविचारे वस्तव्यम् । यदास्य भूयो भिक्षु लिङ्गं प्रादुर्भवति तदा भिक्षुविहारमागन्तव्यम् । सा एवास्योपसम्पदा तदेव वर्षाग्रम् ॥ तृ ॥ भिक्षुणीप्रकीर्ंक ४७ त्रीणि भिक्षुणीये अभिक्षुणीकरणानि । कतमानि त्रीणि । त्यक्तमुक्तेन चित्तेन आचारं विकोपयति । [१] । संघो वासति वस्तुस्मिन्नाशेति । [२] । पुरुषलिङ्गं वास्य प्रादुर्भवति [३] । इमानि त्रीणि भिक्षुणीये अभिक्षुणीकरणानि । तथैव यथा भिक्षोः ॥ फु ॥ भिक्षुणीप्रकीर्णक ४८, नास्ति भिक्षुणीये अतिरिक्तकर्म ॥ ग्र ॥ भिक्षुणीप्रकीर्णक ४९ रतनप्रतिसंयुक्तं २९१. भगवान् श्रावस्तीयं विहरति । अपरं दानि कुलं राजकुलेन उपहतम् । राजभटाः परिवारि वारिय रक्षन्ति । स्थूलनन्दा नाम भिक्षुणी पिण्डचारमन्वण्टी तंहि प्रविष्टा । सा स्त्री तामाह ॥ आर्ये इदं कुलं राजकुलेनोपहतमुत्कचप्रकचो । इममार्ये निष्क्रामेतु यदि जीवन्तीयो मुच्चिष्यामो अस्माकं भविष्यति आर्याये वृत्तिं दास्यामो आर्याये एतं भविष्यति । ताय तस्याः पात्रमुपनामितमिमंहि देहीति । नानाकाराणां रत्नानां पात्रं पूरयित्वा दिन्नं मुक्तायाः मणीनां स्फोटिकस्य मुसारगल्वस्य लोहिकायाः । सा दानि प्रतिच्छादयित्वा निष्क्रमति । भटेहि च दृष्टा ते दानाहंसुः । आहर किमिदम् । सा संकुसायति न दर्शेति । थरथरापन्तीय भीतभीताय दर्शितम् । भिक्षुणीहि श्रुतम् । एतं प्रकरणं भिक्षुणीयो महाप्रजापतीये गौतमीये आरोचयेंसुः । यावद्छब्दापिता । तदेव पृच्छीयति । आह । आम भगवन् । भगवानाह । तेन हि न क्षमति रतनं प्रतिच्छादयितुम् । रतनप्रतिसंयुक्तम् । एतं दानि महान्तं कुलं राजकुले नोफतं भवति यावन्न लेख्यं कृतं भवति । न सारज्यं कृतं भवति । यदि किञ्चिद्ददन्ति लभ्यं निष्कासयितुम् । अथ दानि लेख्यं कृतं भवति रक्षा वा कृता भवति भटेहि परिवारितं भवति । आह । इमं गृहं राजकुलेनोपहतं यदि तावज्जीवन्तीयो मुच्यामः अस्माकं भविष्यति आर्याया एव भविष्यतीति न क्षमति निष्कासयितुम् । वक्तव्यम् । भगवता शिक्षापदं प्रज्ञप्तं न क्षमति निष्कासयितुम् । अथ दानाह । चैत्यस्य देमः संघस्य वा देमः आर्याये एव देमो ति गृह्णीतव्यम् । गृह्णीत्वा न क्षमति प्रतिच्छादयित्वा निष्कासयितुम् । प्राकटं कृत्वा निष्कास्यितव्यम् । अथ पृच्छीयति कस्येदन् ति चैत्यस्य संघस्य ममेति । यदि मुच्यते नन्दं भद्रम् । अथाछिद्यति दातव्यम् । सा एषा भिक्षुणी रतनपूर्णपात्रं प्रतिच्छादेति विनयातिक्रममासादयति । इदमुच्यते रतनप्रतिसंयुक्तम् ॥ ह्रा ॥ भिक्षुणीप्रकीर्णक ५० यथावृद्धिकाय २९२. भगवान् श्रावस्तीयं विहरति । नदीये अजिरावतीये पारे उभयतो सांघिकं भक्तम् । तहिं भिक्षवो गच्छन्ति नावाय । भिक्षुणीयो न लभन्ति अभिरुहितुम् । भिक्षू आहंसुः । मा भगिनीयो अभिरुहथ । भगवता शिक्षापदं प्रज्ञप्तम् । न क्षमति भिक्षुस्य भिक्षुणीय सह एकनावामभिरुहितुं ति । ते दानि भिक्षू ओसरन्तिकाय उत्तरन्ति । एकभिक्षुणापि नावा पलिगुद्धा भवति द्विहि त्रिहि एवं पलिगुद्धा भवति । यदा ते भिक्षू उत्तरिताः तदा भिक्षुणीयो एकनावापरिपूरकेन तारिताः । तासां वर्षाग्रं परिग्राहन्तीनामकालिभूतम् । अथ खो महाप्रजापती गौतमी सायाह्नसमये परिकिलन्तेहि महाभूतेहि भगवतो पादवन्दीकामुपसंक्रान्ता । भगवान् जानन्तो येव पृच्छति । केन भे गौतमि परिकिलन्तानि महाभूतानि । अथ महाप्रजापती गौतमी भगवतो तदेव सर्वमारोचेति । भगवानाह । तेन हि अष्टाहि भिक्षुणीहि यथावृद्धिकाय उपवेष्टव्यम् । शिष्टाहि यथागतिकाय । एते दानि भवन्ति भक्ता वा तर्पणा वा यवागुपाना वा परं वार्षिका वा महापञ्चवार्षिका वा अष्टानां भिक्षुणीनामासनानि स्थापयितव्यानि यथावृद्धिकाय । अष्ट वा निर्मुष्टिका हस्ताः प्रतिकृत्य्ऽ एव गन्तव्यम् । ता एता भिक्षुणीयो अष्टानामासनानि स्थापयित्वा निषीदन्ति विनयातिक्रममासादयन्ति । तेन भगवानाह । अष्टाभिर्भिक्षुणीभिर्यथावृद्धिकाय उपवेष्टव्यमु शिष्टाभि यथागतिकाय ॥ ० ॥ ।पञ्चमो वर्गः ॥ भिक्षुणीप्रकीर्णक (चोन्च्लुदिन्ग्सुप्प्लेमेन्त्) २९३. परिवासो [१] । लशुनं [२] । छत्त्रं [३] । यानं [४] । तथैव शस्त्रकर्माणि [५] । उपानहो [६] । शय्या [७] । निषद्या [८] । नवमं प्रेक्षणं [९] । इमे नव पदा प्रकीर्णकातो समुद्धृताः । सर्वे अन्ये नव पदा अनूना प्रतिषितव्या पुन तहिम् । यत्रासि परिवासो सत्त्वविकृतिन् तहिं समोदहे । यत्रासि उपानहो वृक्षविकृतिं तहिं समोदहेत् । यत्रासि लशुनं काष्ठविकृतिं तहिं समोदहे । यत्रासि शय्या निर्दिशेत्तहिं पुष्पविकृतिम् । यत्रासि यानं फलविकृतिं निर्दिशेत्तहिं विज्ञः । यत्रासि सहनिषद्या एकोर्त्तकं तहिं समादिशेत्छत्रम् । यत्रासि आपत्तिं तत्र निर्देशेद्विज्ञः । यत्रासि शस्त्रकर्म निर्दिशेत्तहिमन्दापत्तिः । यत्रासि विशोकदर्शनमापत्तिप्रतिकर्म तत्र निर्दिशेद्विज्ञः । एतावता उद्धाराः प्रकीर्णके ये च ओवृषाः वर्गं समुद्धरिय द्वादशमम् । नव पदानि पुनरेव भिक्षुणीनां प्रकीर्णके सर्वं प्रतिक्षिप्तं भिक्षुप्रकीर्णकतो वर्गास्त्रयोदश कार्याः । अन्ये च पञ्च वर्गायुतका यथा भिक्षुणीसूत्रे । आरण्यकम् । जेन्ताकं वर्च कठिनमुद्धरित्वा अवशेषा तथैव कार्याः । अभिसमाचारिका धर्माः । तं सर्वं सङ्कले पुन वर्गा अष्टादश प्रकीर्णके स्वयंभुना निर्दिष्टा । भिक्षुणीसूत्रे उभेसूत्रे संकलेत्वान शिक्षापदसंग्रहो यथाभूतम् । पञ्चशतानि अनूनानि अपरे च पदा चतुस्त्रिंशत् । समाप्तं भिक्षुणीप्रकीर्णकमार्यमहासांघिकानां लोकोत्तरवादिनाम् ॥ भिक्षुप्रकीर्णक १-२३ २९४. प्रकीर्णकोद्दानम् । तत्र उपसंपदा [१] । अनुपसम्पदा [२] । उपसम्पाद्यो [३] । अनुपसम्पाद्यो [४] । कर्म [५] । कर्मवस्तु [६] । तर्जनीयं [७] । निघर्षणीयं [८] प्रव्राजनीयं [९] । प्रतिसारणीयं [१०] ॥ ॥ प्रथमो वर्गः ॥ उद्दानम् । उत्क्षेपनीयं कर्म [११] । परिवासदानं [१२] । मानत्वदानं [१२] । आह्वयनं [१४] । स्थानार्हं कर्म [१५] । अस्थानार्हं कर्म [१६] । निषृतवर्तं [१७] । स्थलस्थवर्तं [१८] । नानासम्वासवर्तं [१९] । पाराजिकाय आपत्तीये [२०] । शिक्षाये [१२] । दिन्नवर्तं [२२] । तस्य पापेयसिक शमथ [२३] । दिन्नवर्तम् ॥ ॥ द्वितीयो वर्गः ॥ भिक्षुप्रकिर्णक २४-५४ उद्दानम् । चोदनावस्तु [२४] । कारणावस्तु [२५] । नाशनावस्तु [२६] । नानासम्वासवस्तु [२७] । अर्थसामीची [२८] । सम्मुतिप्रतिसंयुक्तं [२९] । वस्तुप्रतिसंयुक्तं [३०] । विहारवस्तुप्रतिसंयुक्तं [३१] । नवकर्मिकप्रतिसंयुक्तं [३२] । शय्यासनप्रतिसंयुक्तं [३३] । सामीचीकर्मप्रतिसंयुक्तं [३४] ॥ ॥ तृतीयो वर्गः ॥ उद्दानम् । पोषधप्रतिसंयुक्तं [३५] । छन्ददानप्रतिसंयुक्तं [३६] । पारिशुद्धिप्रतिसंयुक्तं [३७] । वर्षोपनायिकाप्रतिसंयुक्तं [३८] । प्रवारणाप्रतिसंयुक्तं [३९] । अस्तारो अनस्तारो [४०] । उद्धारो अनुद्धारो [४१] चीवरप्रतिसंयुक्तं [४२] ॥ चतुर्थो वर्गः ॥ उद्दानम् । ग्लानप्रतिसंयुक्तं [४३] । भैषज्यप्रतिसंयुक्तं [४४] । उपाध्यायप्रतिसंयुक्तं [४५] । सार्धेविहारिप्रतिसंयुक्तं [४६] । आचार्यप्रतिसंयुक्तं [४७] । अन्तेवासिप्रतिसंयुक्तं [४८] । श्रामणेरप्रतिसंयुक्तं [४९] । पात्रप्रतिसंयुक्तं [५०] यवागुप्रतिसंयुक्तं [५१] । यूषप्रतिसंयुक्तं [५२] । पानकप्रतिसंयुक्तं [५३] । सौवीरकप्रतिसंयुक्तं [५४] । ॥ पञ्चमो वर्गः ॥ भिक्षुप्रकीर्णक ५५-८४ २९५. उद्दानम् । अकर्माणि विनीतानि [५५] । अन्तरायिकप्रतिसंयुक्तं [५६] । अनन्तरायिकप्रतिसंयुक्तं [५७] । भिक्षुणीप्रतिसंयुक्तं [५८] । अन्तोवुस्तं [५९] । अन्तोपक्वं [६०] । आमधान्यप्रतिग्रहप्रतिषेधः [६१] । आममांसप्रतिग्रहप्रतिषेधः [६२] । उद्गृहीतप्रतिगृहीतं [६३] ॥ ॥ षष्ठो वर्गः ॥ उद्दानम् ॥ गुरुपरिष्कारो [६४] । मृतपरिष्कारो [६५] । उन्मत्तकसम्मुतिप्रतिसंयुक्तं [६६] । दृष्ट्वा त्रिकर्मप्रतिसंयुक्तं [६७] । श्रद्धादेयविनिपातनाप्रतिसंयुक्तं [६८] । उपानहप्रतिसंयुक्तं [६९] । पादुकप्रतिसंयुक्तं [७०] । अष्टनप्रतिसंयुक्तं [७१] । वृन्तप्रतिसंयुक्तं [७२] । दण्डशिक्यप्रतिसंयुक्तं [७३] । ॥ सप्तमो वर्गः ॥ उद्दानम् । लशुनप्रतिसंयुक्तं [७४] । पात्रनिकुब्जना [७५] । सम्मुतिप्रतिसंयुक्तं [७६] । गन्ठीपाशकप्रतिसंयुक्तं [७७] । कायबन्धनप्रतिसंयुक्तं [७८] । वीडाप्रतिसंयुक्तं [७९] । यानप्रतिसंयुक्तं [८०] । सहशय्या [८१] । सहनिषद्या [८२] । सहभोजन [८३] । भक्तोपधानप्रतिसंयुक्तं [८४] ॥ ॥ अष्टमो वर्गः ॥ भिक्षुप्रकिर्णक ८५-१२१ उद्दानम् । उद्दिश्य कृतप्रतिसंयुक्तं [८५] । मानुषमांसप्रतिसंयुक्तं [८६] । चर्मप्रतिसंयुक्तं [८७] कतकप्रतिसंयुक्तं [८८] । अञ्जनप्रतिसम्युक्तं [८९] । अञ्जनीप्रतिसंयुक्तं [९०] । अञ्जनिशलाकाप्रतिसंयुक्तं [९१] । छत्रप्रतिसंयुक्तं [९२] । व्यञ्जनप्रतिसंयुक्तं [९३] । वालवीजनीप्रतिसंयुक्तं [९४] ॥ ॥ नवमो वर्गः ॥ उद्दानम् । शस्त्रकर्म [९५] । वस्तिकर्म [९६] । मुण्डकर्म [९७] । केशारोपणप्रतिसंयुक्तं [९८] । नापितकुञ्चीरप्रतिसंयुक्तं [९९] । संघभेदः संघसामग्री [१००] । पञ्चशतानि नयसंगीतिः [१०१] । सप्तशतानि नयसंगीतिः [१०२] । विनयसमुत्कर्षो [१०३] ॥ ॥ दशमो वर्गः ॥ २९६. उद्दानम् । क्षेपनप्रतिसंयुक्तं [१०४] । महासमाजविहरणप्रतिसम्युक्तं [१०५] । गन्धमाल्यप्रतिसंयुक्तं [१०६] । आदर्शप्रतिसंयुक्तं [१०७] । वृक्षारोहणप्रतिसंयुक्तं [१०८] । ज्योतिः प्रतिसंयुक्तं [१०९] । कांसभाजनप्रतिसंयुक्तं [१०१] । कायप्रतिसंयुक्तं [१११] । सम्मीलीप्रतिसंयुक्तं [११२] । परिणामनाप्रतिसंयुक्तं [११३] ॥ ॥ एकादशमो वर्गः ॥ उद्दानम् । सत्त्वविकृतिप्रतिसंयुक्तं [११४] । वृक्षविकृतिप्रतिसंयुक्तं [११५] । काष्ठविकृतिप्रतिसंयुक्तं [११६] । पुष्पविकृति[प्रति]सम्युक्तं [११७] । फलविकृतिप्रतिसंयुक्तं [११८] । एकर्तुविकृति[प्रति]सम्युक्तं [११९] । आपत्तिप्रतिसंयुक्तं [१२०] । अनापत्तिप्रतिसंयुक्तं [१२१] ॥ ॥ द्वादशमो वर्गः ॥ भिक्षुप्रकीर्णक १२२-१४१ उद्दानम् । समथो [१२२] । शमथवस्तु [१२३] । दमथो [१२४] । दमथवस्तु [१२४] । अनुज्ञातप्रतिक्षिप्तप्रतिसंयुक्तं [१२६] । मुखतैलकप्रतिसंयुक्तं [१२७] । मुखचूर्णकप्रतिसंयुक्तं [१२८] । कुच्चप्रतिसंयुक्तं [१२९] । कङ्कत प्रतिसंयुक्तं [१३०] । वीजनीप्रतिसंयुक्तं [१३१] । ॥ त्रयोदशमो वर्गः ॥ उद्दानम् । स्तूपप्रतिसंयुक्तं [१३२] । स्तूपवस्तुप्रतिसंयुक्तं [१३३] । स्तूपगृहप्रतिसंयुक्तं [१३४] । स्तूपरामप्रतिसंयुक्तं [१३५] । स्तूपपुष्किरिणीप्रतिसंयुक्तं [१३६] । चेतियप्रतिसंयुक्तं [१३७] । चेतियालङ्कारप्रतिसंयुक्तं [१३८] । नटनर्तकप्रतिसंयुक्तं [१३९] । साहरणाप्रतिसंयुक्तं [१४०] । आपदाप्रतिसंयुक्तं [१४१] ॥ ॥ चतुर्दशमो वर्गः ॥ भिक्षुप्रकिर्णक (एन्द्) वर्गोद्दानम् । उपसम्पदा [१] । वा उत्क्षेपश्[२] । चोदना च [३] । पोषधो [४] । ग्लानश्च [५] । अकर्माणि [६] । गुरुकं [७] । लशुनोद्दिश्य [८, ९] । शस्त्रकर्म [१०] । च क्षेपः [११] । सत्त्व [१२] । समथः [१३] । स्तूपवर्गेण पूर्यते [१४] ॥ समाप्तो भिक्षुप्रकीर्णकविनयः आर्यमहासांघिकानां लोकोत्तरवादिनाम् ॥ ये धर्मा हेतुप्रभवा । हेतुन् तेषान् तथागतो ह्यवदत् । तेषाञ्च यो निरोध । एवंवादी महाश्रमणः ॥ श्रीः ॥ श्रीः ॥ श्रीः ॥ .......थ ॥ थ ॥ थ........ ॥ ऽफग्स्प द्गेऽदुन्फल्छेन् पैऽजिग्र्तेन्लस्ऽदस्पर्स्म्रबै द्गे स्लोङ्गिऽदुल्ब सिल्बु र्द्शोग्स्सो ॥ अद्देन्द १ (प्. इइइ) पाचत्तिक-धर्म १४१ शु भि-विन् (मा-ल्),  २५१ fओल्. ७१ अथाह आर्ये कहिं दानन् दातव्यम् । यहिंचित्तं प्रसीदति । अथाह । कहिं दानं दिन्नं महाफलं भवति । वक्तव्यं संघे दिन्नं महाफलम् । अथाह । कहिं दानि संघो शीलवान् गुणवान् भद्रको शिक्षाकामो वक्तव्यम् । नास्ति संघो दुःशीलो नाम । अथ दानाह । कहिं दानि अभियुक्ता भिक्षुभिक्षुणीयो वा क्रियायां वा । खण्डप्रलुग्गे वा उद्देशे स्वाध्याये योगे मनसिकारे कहिं वा शीघ्रं परिसमाप्येत् । चिरं च दृश्येत सम्पक्वो परिभुंज्येत । लभ्यं सम्यग्मती कर्म दातुम् । अमुकंहि भिक्षू वा भिक्षुणीयो वा अभियुक्ता इत्यादि । सा एषा भिक्षुणी सांघिकं लाभमात्मनो परिणामयेन्निःसर्गिक । सांघिकं लाभं पुद्गलस्य परिणामयेत्पाचत्तिकम् ॥ गणलाभं गणस्य परिणामयेत्पाचत्तिकम् । पर्षलाभं परिलाभं परिषाय परिणामयेत्पाचत्तिकम् । पौद्गलिकं पुद्गलस्य परिणामयति विनयातिक्रमः । भिक्षुरपि गणलाभं गणस्य परिणामयति विनयातिक्रमः । तेन भगवानाह । या पुन भिक्षुणी जानन्ती गणलाभं परिणतं गणस्य परिणामयेत्पाचत्तिकम् ॥ लृ ॥ उद्दानम् । ओवादो [१(१३२)] गण्डञ्च [२(१३३)] । उपगतवुस्ता द्वे च [३(१३४), ४(१३५)] । उद्वाहो [५(१३६), ६(१३७)] । भित्ति (तिरो-कुड्यं) [७(१३८)] हरितमुदकम् [८(१३९), ९(१४०)] गणस्य परिनामयेत्[१०(१४१)] चतुर्द्दशमो वर्गः ॥ ः ॥ अद्देन्द १ (प्. इव्) वर्गावशेषाः देशना च विहारो च भिक्षुणीनाञ्च ये दश प्रणीतसम्मतं मात्रम् । यावत्वासादना इह छदना सहशय्या च । सम्विधानञ्च वुच्चति । निषद्या ऊनविंशो च । अरण्यायां च शाटिका द्वाविंशति शुद्धेकेहि उद्धारा भिक्षुणीनां प्रवुच्चति । देशनामुद्धरित्वान संचिन्त्यं समोदहे पुनो चात्र ॥ अथ पुनो विहारमुद्धरिय भणेय को कुच्चम् । आसादनम् । अपनेत्वा समोदहे चीवरं पुनो तत्र विज्ञप्तिमुद्धरित्वान अपरिहता चतु निर्दिष्टा । अपकर्षिय स्नानम् । भीषणां समोदहे । तत्र छादना उद्धरित्वान उदकहास्यं च निर्दिष्टम् । उत्क्षिप्य ऊनविंशति निर्दिष्टम् । अङ्गुलिप्रतोदो उद्धरिय अरण्यवासम् । समोहो पुनो भवति तत्र एव तावता च । अद्देन्द १ (प्. व्) उद्धारा ते भूषाः । पण्डितेन विज्ञेयाः । वर्गं समुद्धरित्वा सप्तमकम् । यते ते भूषाः पुरिमा च सप्त वर्गाः । सप्तति शिक्सापदा समाख्याताः । अन्ये च सप्त वर्गाह् । युतं यन् भिक्षुणीसूत्रे तं सर्वं संकलेत्वान शतं भवति । पिण्डेनैकचत्तालं पाचत्तिका निर्दिष्टाः भिक्षुणीसूत्रे ॥ उद्दिष्टा आर्यमिश्रिकायो एकचत्तालं शतं शुद्धपाचत्तिका धर्माः । तत्रार्यमिश्रिकायो पृच्छामि कच्चित्थ परिशुद्धाः । द्वितीयं पि तृतीयं पि पृच्छामि । कच्चित्थ परिशुद्धाः । परिशुद्धा अत्रार्यमिश्रिकायो । यस्मात्तूष्णीमेवमेतद्धारयामि ॥ ः ॥ २५२. भगवान् श्रावस्तीयं विहरति । अथ खलु भगवान्महाप्रजापतीं गौतमीमामन्त्रेति । एकमिदं गौतमि समयं तथागतो इहैव श्रावस्तीयं विहरति ।