॥ अष्टसाहस्रिका प्रज्ञापारमिता ॥ ओं नमो भगवत्यै आर्यप्रज्ञापारमितायै । _______________________________________________________________ १: सर्वाकारज्ञताचर्या प्रथमः परिवर्तः । एवं मया श्रुतम् । एकस्मिन् समये भगवान् राजगृहे विहरति स्म गृधकूटे पर्वते महता भिक्षुसंघेन सार्धमर्धत्रयोदशभिर्भिक्षुशतैः, सर्वैरर्हद्भिः क्षीणास्रवैर्निःक्लेशैर्वशीभूतैः सुविमुक्तचित्तैः सुविमुक्तप्रज्ञैराज्ञैराजानेयैर्महानागैः कृतकृत्यैः कृतकरणीयैरपहृतभारैरनुप्राप्तस्वकार्थैः परिक्षीणभवसंयोजनैः सम्यगाज्ञासुविमुक्तचित्तैः सर्वचेतोवशिपरमपारमिप्राप्तैरेकं पुद्गलं स्थापयित्वा यदुत आयुष्मन्तमानन्दम् ॥ (वैद्य २) तत्र खलु भगवानायुष्मन्तं सुभूतिं स्थविरमामन्त्रयते स्म - प्रतिभातु ते सुभूते बोधिसत्त्वानां महासत्त्वानां प्रज्ञापारमितामारभ्य यथा बोधिसत्त्वा महासत्त्वाः प्रज्ञापारमिता निर्यायुरिति ॥ अथ खल्वायुष्मतः शारिपुत्रस्यैतदभवत्- किमयमायुष्मान् सुभूतिः स्थविर आत्मीयेन स्वकेन प्रज्ञाप्रतिभानबलाधानेन स्वकेन प्रज्ञाप्रतिभानबलाधिष्ठानेन बोधिसत्त्वानां महासत्त्वानां प्रज्ञापारमितामुपदेक्ष्यति उताहो बुद्धानुभावेनेति? अथ खल्वायुष्मान् सुभूतिर्बुद्धानुभावेन आयुष्मतः शारिपुत्रस्य इममेवरूपं चेतसैव चेतःपरिवितर्कमाज्ञाय आयुष्मन्तं शारिपुत्रमेतदवोचत्- यत्किंचिदायुष्मन् शारिपुत्र भगवतः श्रावका भाषन्ते देशयन्ति उपदिशन्ति उदीरयन्ति प्रकाशयन्ति संप्रकाशयन्ति, स सर्वस्तथागतस्य पुरुषकारो वेदितव्यः । तत्कस्य हेतोः? यो हि तथागतेन धर्मो देशितः, तत्र धर्मदेशनायां शिक्षमाणास्ते तां धर्मतां साक्षात्कुर्वन्ति धारयन्ति, तां धर्मतां साक्षात्कृत्य धारयित्वा यद्यदेव भाषन्ते, यद्यदेव देशयन्ति, यद्यदेव उपदिशन्ति, यद्यदेवोदीरयन्ति, यद्यदेव (वैद्य ३) प्रकाशयन्ति, यद्यदेव संप्रकाशयन्ति, सर्वं तद्धर्मतया अविरुद्धम् । तथागतधर्मदेशनाया एव आयुष्मन् शारिपुत्र एष निष्यन्दः यत्ते कुलपुत्रा उपदिशन्तस्तां धर्मतां धर्मतया न विरोधयन्ति ॥ अथ खल्वायुष्मान् सुभूतिर्बुद्धानुभावेन भगवन्तमेतदवोचत्- यद्भगवानेवमाह - प्रतिभातु ते सुभूते बोधिसत्त्वानां महासत्त्वानां प्रज्ञापारमितामारभ्य यथा बोधिसत्त्वा महासत्त्वाः प्रज्ञापारमितां निर्यायुरिति । बोधिसत्त्वो बोधिसत्त्व इति यदिदं भगवन्नुच्यते, कतमस्यैतद्भगवन् धर्मस्याधिवचनं यदुत बोधिसत्त्व इति? नाहं भगवंस्तं धर्मं समनुपश्यामि यदुत बोधिसत्त्व इति । तमप्यहं भगवन् धर्मं न समनुपश्यामि यदुत प्रज्ञापारमिता नाम । सोऽहं भगवन् बोधिसत्त्वं वा बोधिसत्त्वधर्मं वा अविन्दननुपलभमानोऽसमनुपश्यन्, प्रज्ञापारमितामप्यविन्दननुपलभमानोऽसमनुपश्यन् कतमं बोधिसत्त्वं कतमस्यां प्रज्ञापारमितायामववदिष्यामि अनुशासिष्यामि? अपि तु खलु पुनर्भगवन् सचेदेवं भाष्यमाणे देश्यमाने उपदिश्यमाने बोधिसत्त्वस्य चित्तं नावलीयते न संलीयते न विषीदति न विषादमापद्यते, नास्य विपृष्ठीभवति मानसम्, न भग्नपृष्ठीभवति, नोत्रस्यति न संत्रस्यति न संत्रासमापद्यते, एष एव बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायामनुशासनीयः । एषैवास्य बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमिता वेदितव्या । एषोऽववादः प्रज्ञापारमितायाम् । सचेदेवं तिष्ठति, एषैवास्याववादानुशासनी ॥ पुनरपरं भगवन् बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता प्रज्ञापारमितायां भावयता एवं शिक्षितव्यं यथा असौ शिक्ष्यमाणस्तेनापि बोधिचित्तेन न मन्येत । तत्कस्य हेतोः? तथा हि - तच्चित्तमचित्तम् । प्रकृतिश्चित्तस्य प्रभास्वरा ॥ अथ खल्वायुष्मान् शारिपुत्र आयुष्मन्तं सुभूतिमेतदवोचत्- किं पुनरायुष्मन् सुभूते अस्ति तच्चित्तं यच्चित्तमचित्तम्? एवमुक्ते आयुष्मान् सुभूतिरायुष्मन्तं शारिपुत्रमेतदवोचत्किं पुनरायुष्मन् शारिपुत्र या अचित्तता, तत्र अचित्ततायामस्तिता वा नास्तिता वा विद्यते वा उपलभ्यते वा? शारिपुत्र आह - न ह्येतदायुष्मन् सुभूते । सुभूतिराह - सचेदायुष्मन् शारिपुत्र तत्र अचित्ततायामस्तिता वा नास्तिता वा न विद्यते वा नोपलभ्यते वा, अपि नु ते युक्त एष पर्यनुयोगो भवति यदायुष्मान् शारिपुत्र एवमाह - अस्ति तच्चित्तं यच्चित्तमचित्तमिति? एवमुक्ते आयुष्मान् शारिपुत्र आयुष्मन्तं सुभूतिमेतदवोचत्- का पुनरेषा आयुष्मन् सुभूते अचित्तता? सुभूतिराह - अविकारा आयुष्मन् शारिपुत्र अविकल्पा अचित्तता ॥ अथ खल्वायुष्मान् शारिपुत्र आयुष्मते सुभूतये साधुकारमदात्- साधु साध्वायुष्मन् सुभूते । यथापि नाम त्वं भगवता अरणाविहारिणामग्रतायां निर्दिष्टो निर्दिशसि । अतश्च बोधिसत्त्वो महासत्त्वोऽविनिवर्तनीयोऽनुत्तरायाः सम्यक्संबोधेरुपपरीक्षितव्यः, अविरहितश्च बोधिसत्त्वो महासत्त्वः प्रज्ञापारमिताया वेदितव्यः । श्रावकभूमावपि शिक्षितुकामेन इयमेव (वैद्य ४) प्रज्ञापारमिता श्रोतव्या उद्ग्रहीतव्या धारयितव्या वाचयितव्या पर्यवाप्तव्या प्रवर्तयितव्या । इहैव प्रज्ञापारमितायां शिक्षितव्यं योगमापत्तव्यम् । प्रत्येकबुद्धभूमावपि शिक्षितुकामेन इयमेव प्रज्ञापारमिता श्रोतव्या उद्ग्रहीतव्या धारयितव्या वाचयितव्या पर्यवाप्तव्या प्रवर्तयितव्या । इहैव प्रज्ञापारमितायां शिक्षितव्यं योगमापत्तव्यम् । बोधिसत्त्वभूमावपि शिक्षितुकामेन इयमेव प्रज्ञापारमिता श्रोतव्या उद्ग्रहीतव्या धारयितव्या वाचयितव्या पर्यवाप्तव्या प्रवर्तयितव्या । इहैव प्रज्ञापारमितायामुपायकौशल्यसमन्वागतेन सर्वबोधिसत्त्वधर्मसमुदागमाय योगः करणीयः । तत्कस्य हेतोः? इहैव हि प्रज्ञापारमितायां विस्तरेण सर्वबोधिसत्त्वधर्मा उपदिष्टाः, यत्र बोधिसत्त्वेन महासत्त्वेन शिक्षितव्यं योगमापत्तव्यम् । अनुत्तरायामपि सम्यक्संबोधौ शिक्षितुकामेन इयमेव प्रज्ञापारमिता श्रोतव्या उद्ग्रहीतव्या धारयितव्या वाचयितव्या पर्यवाप्तव्या प्रवर्तयितव्या । इहैव प्रज्ञापारमितायामुपायकौशल्यसमन्वागतेन सर्वबुद्धधर्मसमुदागमाय योगः करणीयः । तत्कस्य हेतोः? इहैव हि प्रज्ञापारमितायां विस्तरेण सर्वबुद्ध धर्मा उपदिष्टाः, यत्र बोधिसत्त्वेन महासत्त्वेन शिक्षितव्यं योगमापत्तव्यम् ॥ अथ खल्वायुष्मान् सुभूतिर्भगवन्तमेतदवोचत्- योऽहं भगवनेतदेव बोधिसत्त्वनामधेयं न वेद्मि नोपलभे न समनुपश्यामि, प्रज्ञापारमितामपि न वेद्मि नोपलभे न समनुपश्यामि । सोऽहं भगवनेतदेव बोधिसत्त्वनामधेयमविन्दननुपलभमानोऽसमनुपश्यन् प्रज्ञापारमितामपि अविन्दननुपलभमानोऽसमनुपश्यन् कतमं बोधिसत्त्वं कतमस्यां प्रज्ञापारमितायामववदिष्यामि अनुशासिष्यामि? एतदेव भगवन् कौकृत्यं स्यात्, योऽहं वस्त्वविन्दननुपलभमानोऽसमनुपश्यन्नामधेयमात्रेण आयव्ययं कुर्यां यदुत बोधिसत्त्व इति । अपि तु खलु पुनर्भगवंस्तदपि नामधेयं न स्थितं नास्थितं न विष्ठितं नाविष्ठितम् । तत्कस्य हेतोः? अविद्यमानत्वेन तस्य नामधेयस्य । एवं तन्नामधेयं न स्थितं नास्थितं न विष्ठितं नाविष्ठितम् । सचेद्बोधिसत्त्वस्य महासत्त्वस्य एवं गम्भीरायां प्रज्ञापारमितायां भाष्यमाणायां देश्यमानायामुपदिश्यमानायां चित्तं नावलीयते न संलीयते न विषीदति न विषादमापद्यते, नास्य विपृष्ठीभवति मानसम्, न भग्नपृष्ठीभवति, नोत्रस्यति न संत्रस्यति न संत्रासमापद्यते । अधिमुच्यतेऽध्याशयेन अविरहितो बोधिसत्त्वो महासत्त्वः प्रज्ञापारमिताया वेदितव्यः, स्थितोऽविनिवर्तनीयायां बोधिसत्त्वभूमौ, सुस्थितोऽस्थानयोगेन । पुनरपरं भगवन् बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता प्रज्ञापारमितां भावयता न रूपे स्थातव्यं न वेदनायां न संज्ञायां न संस्कारेषु, न विज्ञाने स्थातव्यम् । तत्कस्य हेतोः? सचेद्रूपे तिष्ठति, रूपाभिसंस्कारे चरति, न चरति प्रज्ञापारमितायाम् । एवं सचेद्वेदनायां संज्ञायां संस्कारेषु । सचेद्विज्ञाने तिष्ठति, विज्ञानाभिसंस्कारे चरति, न चरति प्रज्ञापारमितायाम् । तत्कस्य हेतोः? न हि अभिसंस्कारे चरन् प्रज्ञापारमितां परिगृह्णाति, नापि प्रज्ञापारमितायां योगमापद्यते, नापि प्रज्ञापारमितां परिपूरयते । अपरिपूरयमाणः प्रज्ञापारमितां न निर्यास्यति (वैद्य ५) सर्वज्ञतायामपरिगृहीतं परिगृह्णन् । तत्कस्य हेतोः? रूपं हि अपरिगृहीतं प्रज्ञापारमितायाम् । एवं वेदना संज्ञा संस्काराः । विज्ञानं हि अपरिगृहीतं प्रज्ञापारमितायाम् । यश्च रूपस्यापरिग्रहः, न तद्रूपम् । एवं यो वेदनायाः संज्ञायाः संस्काराणाम् । यो विज्ञानस्यापरिग्रहः, न तद्विज्ञानम् । सापि प्रज्ञापारमिता अपरिगृहीता । एवं ह्यत्र बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरितव्यम् । अयं च बोधिसत्त्वस्य महासत्त्वस्य सर्वधर्मापरिगृहीतो नाम समाधिर्विपुलः पुरस्कृतः अप्रमाणनियतोऽसाधारणः । सर्वश्रावकप्रत्येकबुद्धैः सापि सर्वज्ञता अपरिगृहीता, न हि निमित्ततो ग्रहीतव्या । सचेन्निमित्ततो ग्रहीतव्या अभविष्यत्, न चेह श्रेणिकः परिव्राजकः श्रद्धामलप्स्यत । तत्र हि श्रेणिकः परिव्राजकः सर्वज्ञज्ञाने अधिमुच्य श्रद्धानुसारी प्रादेशिकेन ज्ञानेनावतीर्णः । सोऽवतीर्य न रूपं परिगृह्णीते । एवं न वेदनां न संज्ञां न संस्कारान् । न विज्ञानं परिगृह्णीते । नापि तत्र प्रीतिसुखेन तज्ज्ञानं समनुपश्यति । नाध्यात्मं रूपस्य तज्ज्ञानं समनुपश्यति । न वहिर्धा रूपस्य तज्ज्ञानं समनुपश्यति । नाध्यात्मबहिर्धा रूपस्य तज्ज्ञानं समनुपश्यति । नाप्यन्यत्र रूपात्तज्ज्ञानं समनुपश्यति । एवं नाध्यात्मं वेदनायाः संज्ञायाः संस्काराणाम् । नाध्यात्मं विज्ञानस्य तज्ज्ञानं समनुपश्यति । न वहिर्धा विज्ञानस्य तज्ज्ञानं समनुपश्यति । नाध्यात्मवहिर्धा विज्ञानस्य तज्ज्ञानं समनुपश्यति । नाप्यन्यत्र विज्ञानात्तज्ज्ञानं समनुपश्यति । अत्र पदपर्याये श्रेणिकः परिव्राजकोऽधिमुक्तः । सोऽत्र सर्वत्र श्रद्धानुसारी सर्वज्ञज्ञाने धर्मतां प्रमाणीकृत्य एवमधिमुक्त इति । तेन न कश्चिद्धर्मः परिगृहीतः । नापि स कश्चिद्धर्मो य उपलब्धः, यं गृह्णीयान्मुञ्चेद्वा । स निर्वाणमपि न मन्यते । इयमपि भगवन् बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमिता वेदितव्या यद्रूपं न परिगृह्णीते । एवं यद्वेदनां संज्ञां संस्कारान् । यद्विज्ञानं न परिगृह्णीते । न चान्तरा परिनिर्वाति, अपरिपूर्णैर्दशभिस्तथागतबलैश्चतुर्भिस्तथागतवैशारद्यैरष्टादशभिश्च आवेणिकैर्बुद्धधर्मैः । तस्मादियमपि भगवन् बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमिता वेदितव्या ॥ पुनरपरं भगवन् बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता प्रज्ञापारमितां भावयता एवमुपपरीक्षितव्यमेवमुपनिध्यातव्यम् - कतमैषा प्रज्ञापारमिता? कस्य चैषा प्रज्ञापारमिता? किं यो धर्मो न विद्यते नोपलभ्यते, सा प्रज्ञापारमितेति? सचेदेवमुपपरीक्षमाणः एवमुपनिध्यायन्नावलीयते न संलीयते न विषीदति न विषादमापद्यते, नास्य विपृष्ठीभवति मानसम्, न भग्नपृष्ठीभवति, नोत्रस्यति न संत्रस्यति न संत्रासमापद्यते, अविरहितो बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितया वेदितव्यः ॥ अथ खल्वायुष्मान् शारिपुत्र आयुष्मन्तं सुभूतिमेतदवोचत्- किं कारणमायुष्मन् सुभूते अविरहितो बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितया वेदितव्यः? यदा रूपमेव विरहितं रूपस्वभावेन, एवं यदा वेदनैव संज्ञैव संस्कारा एव, यदा विज्ञानमेव विरहितं विज्ञानस्वभावेन, यदा प्रज्ञापारमितैव विरहिता प्रज्ञापारमितास्वभावेन, यदा सर्वज्ञतैव विरहिता सर्वज्ञतास्वभावेन ॥ (वैद्य ६) एवमुक्ते आयुष्मान् सुभूतिरायुष्मन्तं शारिपुत्रमेतदवोचत्- एतमेतदायुष्मन् शारिपुत्र एवमेतत् । रूपमेवायुष्मन् शारिपुत्र विरहितं रूपस्वभावेन । एवं वेदनैव संज्ञैव संस्कारा एव । विज्ञानमेवायुष्मन् शारिपुत्र विरहितं विज्ञानस्वभावेन । प्रज्ञापारमितैव आयुष्मन् शारिपुत्र विरहिता प्रज्ञापारमितास्वभावेन । सर्वज्ञतैव आयुष्मन् शारिपुत्र विरहिता सर्वज्ञतास्वभावेन । प्रज्ञापारमितालक्षणेनापि प्रज्ञापारमिता विरहिता । लक्षणस्वभावेनापि लक्षणं विरहितम् । लक्ष्यस्वभावेनापि लक्ष्यं विरहितम् । स्वभावलक्षणेनापि स्वभावो विरहितः ॥ एवमुक्ते आयुष्मान् शारिपुत्र आयुष्मन्तं सुभूतिमेतदवोचत्- किं पुनरायुष्मन् सुभूते यो बोधिसत्त्वो महासत्त्वोऽत्र शिक्षिष्यते, स निर्यास्यति सर्वज्ञतायाम्? आयुष्मान् सुभूतिराह - एवमेतदायुष्मन् शारिपुत्र, एवमेतत् । यो बोधिसत्त्वो महासत्त्वोऽत्र शिक्षिष्यते, स निर्यास्यति सर्वज्ञतायाम् । तत्कस्य हेतोः? अजाता ह्यनिर्जाता ह्यायुष्मन् शारिपुत्र सर्वधर्माः । एवं चरत आयुष्मन् शारिपुत्र बोधिसत्त्वस्य महासत्त्वस्य सर्वज्ञता आसन्नीभवति । यथा यथा सर्वज्ञता आसन्नीभवति, तथा तथा सत्त्वपरिपाचनाय कायचित्तपरिशुद्धिर्लक्षणपरिशुद्धिः बुद्धक्षेत्रशुद्धिः । बुद्धैश्च समवधानं भवति । एवं च पुनरायुष्मन् शारिपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् सर्वज्ञताया आसन्नीभवति ॥ पुनरपरमायुष्मान् सुभूतिर्बोधिसत्त्वं महासत्त्वमारभ्यैवमाह - सचेद्रूपे चरति, निमित्ते चरति । सचेद्रूपनिमित्ते चरति, निमित्ते चरति । सचेद्रूपं निमित्तमिति चरति, निमित्ते चरति । स चेद्रूपस्योत्पादे चरति, निमित्ते चरति । सचेद्रूपस्य निरोधे चरति, निमित्ते चरति । सचेद्रूपस्य विनाशे चरति, निमित्ते चरति । सचेद्रूपं शून्यमिति चरति, निमित्ते चरति । अहं चरामीति चरति, निमित्ते चरति । अहं बोधिसत्त्व इति चरति, निमित्ते चरति । अहं बोधिसत्त्व इति ह्युपलम्भ एव स चरति । एवं सचेद्विदनायां संज्ञायां संस्कारेषु । सचेद्विज्ञाने चरति, निमित्ते चरति । सचेद्विज्ञाननिमित्ते चरति, निमित्ते चरति सचेद्विज्ञानं निमित्तमिति चरति, निमित्ते चरति । सचेद्विज्ञानस्योत्पादे चरति, निमित्ते चरति । सचेद्विज्ञानस्य निरोधे चरति, निमित्ते चरति । सचेद्विज्ञानस्य विनाशे चरति, निमित्ते चरति । सचेद्विज्ञानं शून्यमिति चरति, निमित्ते चरति । अहं चरामीति चरति, निमित्ते चरति । अहं बोधिसत्त्व इति चरति, निमित्ते चरति । अहं बोधिसत्त्व इति ह्युपलम्भ एव स चरति । सचेत्पुनरस्यैवं भवति - य एवं चरति, स प्रज्ञापारमितायां चरति, स प्रज्ञापारमितां भावयतीति, निमित्त एव स चरति । अयं बोधिसत्त्वोऽनुपायकुशलो वेदितव्यः ॥ अथ खल्वायुष्मान् शारिपुत्र आयुष्मन्तं सुभूतिमेतदवोचत्- कथं पुनरायुष्मन् सुभूते चरन् बोधिसत्त्वो महासत्त्वश्चरति प्रज्ञापारमितायाम्? एवमुक्ते आयुष्मान् सुभूतिरायुष्मन्तं शारिपुत्रमेतदवोचत्- सचेदायुष्मन् शारिपुत्र बोधिसत्त्वो महासत्त्वो न रूपे चरति, न रूपनिमित्ते चरति, न रूपं निमित्तमिति चरति, न रूपस्योत्पादे चरति, न रूपस्य निरोधे (वैद्य ७) चरति, न रूपस्य विनाशे चरति, न रूपं शून्यमिति चरति, नाहं चरामीति चरति, नाहं बोधिसत्त्व इति चरति । एवं सचेन्न वेदनायां न संज्ञायां न संस्कारेषु । सचेन्न विज्ञाने चरति, न विज्ञाननिमित्ते चरति, न विज्ञानं निमित्तमिति चरति, न विज्ञानस्योत्पादे चरति, न विज्ञानस्य निरोधे चरति, न विज्ञानस्य विनाशे चरति, न विज्ञानं शून्यमिति चरति, नाहं चरामीति चरति, नाहं बोधिसत्त्व इति चरति । सचेत्पुनर्नास्यैवं भवति - य एवं चरति, स प्रज्ञापारमितायां चरति, स प्रज्ञापारमितां भावयतीति । एवं चरन् बोधिसत्त्वो महासत्त्वश्चरति प्रज्ञापारमितायाम् । स हि चरंश्चरामीति नोपैति, न चरामीति नोपैति, चरामि च न चरामि चेति नोपैति, नैव चरामि न न चरामीति नोपैति, चरिष्यामीति नोपैति, न चरिष्यामीति नोपैति, चरिष्यामि च न चरिष्यामि चेति नोपैति, नैव चरिष्यामि न चरिष्यामीति नोपैति । तत्कस्य हेतोर्नोपैति? सर्वधर्मा ह्यनुपगता अनुपात्ताः । अयमुच्यते सर्वधर्मानुपादानो नाम समाधिर्बोधिसत्त्वस्य महासत्त्वस्य, विपुलः पुरस्कृतोऽप्रमाणनियतोऽसाधारणः सर्वश्रावकप्रत्येकबुद्धैः । अनेनैव समाधिना विहरन् बोधिसत्त्वो महासत्त्वः क्षिप्रमनुत्तरां सम्यक्संबोधिमभिसंबुध्यते ॥ बुद्धानुभावेन आयुष्मान् सुभूतिः स्थविर एवमाह - व्याकृतोऽयं भगवन् बोधिसत्त्वो महासत्त्वः पूर्वकैस्तथागतैरर्हद्भिः सम्यक्संबुद्धैरनुत्तरायां सम्यक्संबोधौ, योऽनेन समाधिना विहरति । स तमपि समाधिं न समनुपश्यति, न च तेन समाधिना मन्यते - अहं समाहितः, अहं समाधिं समापत्स्ये, अहं समाधिं समापद्ये, अहं समाधिसमापन्नः, इति, एवं तस्य सर्वेण सर्वं सर्वथा सर्वं न संविद्यते ॥ एवमुक्ते आयुष्मान् शारिपुत्र आयुष्मन्तं सुभूतिमेतदवोचत्- कतमेनायुष्मन् सुभूते समाधिना विहरन् बोधिसत्त्वो महासत्त्वस्तथागतैरर्हद्भिः सम्यक्संबुद्धैर्व्याक्रियतेऽनुत्तरायां सम्यक्संबोधौ? शक्यः स समाधिर्दर्शयितुम्? सुभूतिराह - नो हीदमायुष्मन् शारिपुत्र । तत्कस्य हेतोः? तमपि हि स कुलपुत्रः समाधिं न जानाति, न संजानीते । आयुष्मान् शारिपुत्र आह - न जानाति न संजानीते इत्यायुष्मन् सुभूते वदसि? आयुष्मान् सुभूतिराह - न जानाति न संजानीते इत्यायुष्मन् शारिपुत्र वदामि । तत्कस्य हेतोर्न जानाति न संजानीते? अविद्यमानत्वेन तस्य समाधेस्तं समाधिं न जानाति न संजानीते । अथ खलु भगवानायुष्मते सुभूतये साधुकारमदात्- साधु साधु सुभूते । एवमेतत्सुभूते, एवमेतत् । यथापि नाम तथागतानुभावेन ते प्रतिभाति, तथागताधिष्ठानेनोपदिशसि । एवं चात्र बोधिसत्त्वेन महासत्त्वेन शिक्षितव्यम् । तत्कस्य हेतोः? एवं हि शिक्षमाणो बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां शिक्षते ॥ अथ खल्वायुष्मान् शारिपुत्रो भगवन्तमेतदवोचत्- एवं शिक्षमाणो भगवन् बोधिसत्त्वो (वैद्य ८) महासत्त्वः प्रज्ञापारमितायां शिक्षते? एवमुक्ते भगवानायुष्मन्तं शारिपुत्रमेतदवोचत्- एवं शिक्षमाणः शारिपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां शिक्षते ॥ एवमुक्ते आयुष्मान् शारिपुत्रो भगवन्तमेतदवोचत्- एवं शिक्षमाणो भगवन् बोधिसत्त्वो महासत्त्वः कतमस्मिन् धर्मे शिक्षते? एवमुक्ते भगवानायुष्मन्तं शारिपुत्रमेतदवोचतेवं शिक्षमाणः शारिपुत्र बोधिसत्त्वो महासत्त्वो न कस्मिंश्चिद्धर्मे शिक्षते । तत्कस्य हेतोः? न हि ते शारिपुत्र धर्मास्तथा संविद्यन्ते यथा बालपृथग्जना अश्रुतवन्तोऽभिनिविष्टाः । आयुष्मान् शारिपुत्र आह - कथं तर्हि ते भगवन् संविद्यन्ते? भगवानाह - यथा शारिपुत्र न संविद्यन्ते, तथा संविद्यन्ते एवमविद्यमानाः । तेनोच्यन्ते अविद्येति । तान् बालपृथग्जना अश्रुतवन्तोऽभिनिविष्टाः । तैरसंविद्यमानाः सर्वधर्माः कल्पिताः । ते तान् कल्पयित्वा द्वयोरन्तयोः सक्ताः तान् धर्मान्न जानन्ति न पश्यन्ति । तस्मात्तेऽसंविद्यमानान् सर्वधर्मान् कल्पयन्ति । कल्पयित्वा द्वावन्तावभिनिविशन्ते अभिनिविश्य तन्निदानमुपलम्भं निश्रित्य अतीतान् धर्मान् कल्पयन्ति, अनागतान् धर्मान् कल्पयन्ति, प्रत्युत्पन्नान् धर्मान् कल्पयन्ति ते कल्पयित्वा नामरूपेऽभिनिविष्टाः । तैरसंविद्यमानाः सर्वधर्माः कल्पिताः । ते तानसंविद्यमानान् सर्वधर्मान् कल्पयन्तो यथाभूतं मार्गं न जानन्ति न पश्यन्ति । यथाभूतं मार्गमजानन्तोऽपश्यन्तो न निर्यान्ति त्रैधातुकात्, न बुध्यन्ते भूतकोटिम् । तेन ते बाला इति संज्ञां गच्छन्ति । ते सत्यं धर्मं न श्रद्धधति । न खलु पुनः शारिपुत्र बोधिसत्त्वा महासत्त्वा कंचिद्धर्ममभिनिविशन्ते ॥ एवमुक्ते आयुष्मान् शारिपुत्रो भगवन्तमेतदवोचत्- एवं शिक्षमाणो भगवन् बोधिसत्त्वो महासत्त्वः सर्वज्ञतायां शिक्षते? भगवानाह - एवं शिक्षमाणः शारिपुत्र बोधिसत्त्वो महासत्त्वः सर्वज्ञतायामपि न शिक्षते । एवं शिक्षमाणः शारिपुत्र बोधिसत्त्वो महासत्त्वः सर्वधर्मेषु शिक्षते । एवं शिक्षमाणः शारिपुत्र बोधिसत्त्वो महासत्त्वः सर्वज्ञतायां शिक्षते, सर्वज्ञताया आसन्नीभवति, सर्वज्ञतायां निर्यास्यति ॥ अथ खल्वायुष्मान् सुभूतिर्भगवन्तमेतदवोचत्- यो भगवनेवं परिपृच्छेत्- किमयं मायापुरुषाः सर्वज्ञतायां शिक्षिष्यते, सर्वज्ञताया आसन्नीभविष्यति, सर्वज्ञतायां निर्यास्यतीति? तस्य भगवनेवं परिपृच्छतः कथं निर्देष्टव्यं स्यात्? एवमुक्ते भगवानायुष्मन्तं सुभूतिमेतदवोचत्- तेन हि सुभूते त्वामेवात्र प्रतिप्रक्ष्यामि । यथा ते क्षमते, तथा व्याकुर्याः । साधु भगवन्नित्यायुष्मान् सुभूतिर्भगवतः प्रत्यश्रौषीत् । भगवानेतदवोचत्- तत्किं मन्यसे सुभूते अन्या सा माया, अन्यत्तद्रूपम्, अन्या सा माया, अन्या सा वेदना । अन्या सा संज्ञा, अन्ये ते संस्काराः । अन्या सा माया, अन्यत्तद्विज्ञानम्? सुभूतिराह - न ह्येतद्भगवन् । न हि भगवनन्या सा माया अन्यत्तद्रूपम् । रूपमेव भगवन्माया, मायैव रूपम् । न हि भगवनन्या सा माया अन्या सा वेदना, अन्या सा संज्ञा अन्ये ते संस्काराः । वेदना संज्ञा (वैद्य ९) संस्कारा एव भगवन्माया, मायैव वेदनासंज्ञासंस्काराः । न भगवनन्या सा माया अन्यत्तद्विज्ञानम् । विज्ञानमेव भगवन्माया, मायैव विज्ञानम् ॥ भगवानाह - तत्किं मन्यसे सुभूते अत्रैषां संज्ञा समज्ञा प्रज्ञप्तिर्व्यवहारः पञ्चसूपादानस्कन्धेषु यदुत बोधिसत्त्व इति? एवमुक्ते आयुष्मान् सुभूतिर्भगवन्तमेतदवोचत्- एवमेतद्भगवन्, एवमेतत्सुगत । तेन हि भगवन् बोधिसत्त्वेन महासत्त्वेन प्रज्ञपारमितायां शिक्षमाणेन मायापुरुषेणेव शिक्षितव्यं भवत्यनुत्तरायां सम्यक्संबोधौ । तत्कस्य हेतोः? स एव हि भगवन्मायापुरुषो धारयितव्यो यदुत पञ्चोपादानस्कन्धाः । तत्कस्य हेतोः? तथा हि भगवन्मायोपमं रूपमुक्तं भगवता । यच्च रूपं तत्षडिन्द्रियं ते पञ्च स्कन्धाः । तथा हि भगवन्मायोपमा वेदनासंज्ञासंस्कारा उक्ताः । तथा हि भगवन्मायोपमं विज्ञानमुक्तं भगवता । यच्च विज्ञानं तत्षडिन्द्रियं ते पञ्च स्कन्धाः । मा भगवन्नवयानसंप्रस्थिता बोधिसत्त्वा महासत्त्वा इमं निर्देशं श्रुत्वा उत्रसिषुः संत्रसिषुः संत्रासमापत्स्यन्ते । भगवानाह - यदि सुभूते नवयानसंप्रस्थिता बोधिसत्त्वा महासत्त्वाः पापमित्रहस्तगता भविष्यन्ति, उत्रसिष्यन्ति संत्रसिष्यन्ति संत्रासमापत्स्यन्ते । अथ चेत्सुभूते नवयानसंप्रस्थिता बोधिसत्त्वा महासत्त्वाः कल्याणमित्रहस्तगता भविष्यन्ति, नोत्रसिष्यन्ति न संत्रसिष्यन्ति न संत्रासमापत्स्यन्ते ॥ एवमुक्ते आयुष्मान् सुभूतिर्भगवन्तमेतदवोचत्- कानि पुनर्भगवन् बोधिसत्त्वस्य महासत्त्वस्य कल्याणमित्राणि वेदितव्यानि? भगवानाह - य एनं पारमितासु अववदन्ति अनुशासति । येऽस्मै मारकर्माण्युपदिशन्ति । एवं मारदोषा बोद्धव्याः - इमे मारदोषाः । एवं मारकर्माणि बोद्धव्यानि - इमानि मारकर्माणि । तानि त्वया बुद्ध्वा विवर्जयितव्यानीति । इमानि सुभूते बोधिसत्त्वस्य महासत्त्वस्य महासंनाहसंनद्धस्य महायानसंप्रस्थितस्य महायानसमारूढस्य कल्याणमित्राणि वेदितव्यानि । एवमुक्ते आयुष्मान् सुभूतिर्भगवन्तमेतदवोचत्- यद्भगवानेवमाह - इमानि सुभूते बोधिसत्त्वस्य महासत्त्वस्य महासंनाहसंनद्धस्य महायानसंप्रस्थितस्य महायानसमारूढस्य कल्याणमित्राणि वेदितव्यानीति । यच्च बोधिसत्त्वो महासत्त्व इति भगवन्नुच्यते, तत्र बोधिसत्त्व इति भगवन् कः पदार्थ? एवमुक्ते भगवानायुष्मन्तं सुभूतिमेतदवोचत्- अपदार्थः सुभूते बोधिसत्त्वपदार्थः । तत्कस्य हेतोः? सर्वधर्माणां हि सुभूते बोधिसत्त्वो महासत्त्वोऽसक्ततायां शिक्षते । सर्वधर्माणां हि सुभूते बोधिसत्त्वो महासत्त्वोऽनुबोधनार्थेन असक्ततायामनुत्तरां सम्यक्संबोधिमभिसंबुध्यते । बोध्यर्थेन तु सुभूते बोधिसत्त्वो महासत्त्व इत्युच्यते । सुभूतिराह - यत्पुनर्भगवानेवमाह - बोधिसत्त्वो महासत्त्व इति, केन कारणेन भगवन् बोधिसत्त्वो महासत्त्व इत्युच्यते? भगवानाह - महतः सत्त्वराशेर्महतः सत्त्वनिकायस्य अग्रतां कारयिष्यति, तेनार्थेन बोधिसत्त्वो महासत्त्व इत्युच्यते ॥ अथ खल्वायुष्मान् शारिपुत्रो भगवन्तमेतदवोचत्- ममापि भगवन् प्रतिभातियेनार्थेन बोधिसत्त्वो महासत्त्व इत्युच्यते । भगवानाह - प्रतिभातु ते शारिपुत्र यस्येदानीं कालं मन्यसे । आयुष्मान् शारिपुत्र आह - महत्या आत्मदृष्ट्याः सत्त्वदृष्ट्याः जीवदृष्ट्याः पुद्गलदृष्ट्याः (वैद्य १०) भवदृष्ट्याः विभवदृष्ट्याः उच्छेददृष्ट्याः शाश्वतदृष्ट्याः स्वकायदृष्ट्याः, एतासामेवमाद्यानां दृष्टीनां प्रहाणाय धर्मं देशयिष्यतीति, तेनार्थेन बोधिसत्त्वो महासत्त्व इत्युच्यते । अथ खल्वायुष्मान् सुभूतिर्भगवन्तमेतदवोचत्- ममापि भगवन् प्रतिभाति येनार्थेन बोधिसत्त्वो महासत्त्व इत्युच्यते । भगवानाह - प्रतिभातु ते सुभूते यस्येदानीं कालं मन्यसे । सुभूतिराह - बोधिसत्त्वो महासत्त्व इति भगवन्नुच्यते । यदपि तद्भगवन् बोधिचित्तं सर्वज्ञताचित्तमनास्रवं चित्तमसमं चित्तमसमसमं चित्तमसाधारणं सर्वश्रावकप्रत्येकबुद्धैः, तत्रापि चित्ते असक्तोऽपर्यापन्नः । तत्कस्य हेतोः? तथा हि तत्सर्वज्ञताचित्तमनास्रवमपर्यापन्नं तत्, यदपि तत्सर्वज्ञताचित्तमनास्रवमपर्यापन्नम् । तत्रापि चित्ते असक्तोऽपर्यापन्नः । तेनार्थेन बोधिसत्त्वो महासत्त्व इति संख्यां गच्छति ॥ अथ खल्वायुष्मान् शारिपुत्र आयुष्मन्तं सुभूतिमेतदवोचत्- केन कारणेन आयुष्मन् सुभूते तत्रापि चित्ते असक्तोऽपर्यापन्नः? सुभूतिराह - अचित्तत्वादायुष्मन् शारिपुत्र तत्रापि चित्ते असक्तोऽपर्यापन्नः ॥ शारिपुत्र आह - किं पुनरायुष्मन् सुभूते अस्ति तच्चित्तं यच्चित्तमचित्तम्? सुभूतिराह - किं पुनरायुष्मन् शारिपुत्र तत्र अचित्ततायामस्तिता वा नास्तिता वा विद्यते वा उपलभ्यते वा? शारिपुत्र आह - नो हीदमायुष्मन् सुभूते । सुभूतिराह - तद्यदि आयुष्मन् शारिपुत्र तत्र अचित्ततायामस्तिता वा नास्तिता वा न विद्यते वा नोपलभ्यते वा, तत्कथमायुष्मान् शारिपुत्र एवमाह - अस्ति तच्चित्तं यच्चित्तमचित्तमिति? शारिपुत्र आह - साधु साधु आयुष्मन् सुभूते । यथापि नाम त्वं भगवता अरणाविहारिणामग्रतायां निर्दिष्टो निर्दिशसि ॥ अथ खल्वायुष्मान् पूर्णो मैत्रायणीपुत्रो भगवन्तमेतदवोचत्- महासत्त्वो महासत्त्व इति यदिदं भगवन्नुच्यते, महासंनाहसंनद्धः स सत्त्वः । महायानसंप्रस्थितो महायानसमारूढश्च स सत्त्वः । तस्मात्स महासत्त्वो महासत्त्व इति संख्यां गच्छति ॥ अथ खल्वायुष्मान् सुभूतिर्भगवन्तमेतदवोचत्- महासंनाहसंनद्धो महायानसंनद्ध इति यदिदं भगवन्नुच्यते, कियता भगवन् बोधिसत्त्वो महासत्त्वो महासंनाहसंनद्धो भवति ? भगवानाह - इह सुभूते बोधिसत्त्वस्य महासत्त्वस्यैवं भवति - अप्रमेया मया सत्त्वाः परिनिर्वापयितव्या इति । असंख्येया मया सत्त्वाः परिनिर्वापयितव्या इति । न च ते सन्ति यैर्ये परिनिर्वापयितव्या इति । स तांस्तावतः सत्त्वान् परिनिर्वापयति । न च स कश्चित्सत्त्वो यः परिनिर्वृतो येन च परिनिर्वापितो भवति । तत्कस्य हेतोः? धर्मतैषा सुभूते धर्माणां मायाधर्मतामुपादाय स्यात् । यथापि नाम सुभूते दक्षो मायाकरो वा मायाकारान्तेवासी वा चतुर्महापथे महान्तं जनकायमभिनिर्मिमीते । अभिनिर्माय तस्यैव महतो जनकायस्यान्तर्धानं कुर्यात् । तत्किं मन्यसे सुभूते अपि नु तत्र केनचित्कश्चिद्धतो वा मृतो वा नाशितो वा अन्तर्हितो वा? सुभूतिराह - नो हीदं भगवन् । भगवानाह - एवमेव सुभूते बोधिसत्त्वो (वैद्य ११) महासत्त्वोऽप्रमेयानसंख्येयान् सत्त्वान् परिनिर्वापयति । न च स कश्चित्सत्त्वो यः परिनिर्वृतो येन च परिनिर्वापितो भवति । सचेद्बोधिसत्त्वो महासत्त्व इमं निर्देशमेवं निर्दिश्यमानं श्रुत्वा नोत्रस्यति न संत्रस्यति न संत्रासमापद्यते, इयता अयं सुभूते बोधिसत्त्वो महासत्त्वो महासंनाहसंनद्धो वेदितव्यः ॥ अथ खल्वायुष्मान् सुभूतिर्भगवन्तमेतदवोचत्- यथाहं भगवन् भगवतो भाषितस्यार्थमाजानामि, तथा असंनाहसंनद्धो बतायं भगवन् बोधिसत्त्वो महासत्त्वो वेदितव्यः । भगवानाह - एवमेतत्सुभूते, एवमेतत् । असंनाहसंनद्धो बतायं बोधिसत्त्वो महासत्त्वो वेदितव्यः । तत्कस्य हेतोः? अकृता हि सुभूते सर्वज्ञता अविकृता अनभिसंस्कृता । तेऽपि सत्त्वा अकृता अविकृता अनभिसंस्कृताः, येषां सत्त्वानामर्थाय अयं संनाहसंनद्धः ॥ एवमुक्ते आयुष्मान् सुभूतिर्भगवन्तमेतदवोचत्- एवमेतद्भगवन्, एवमेतत्सुगत । तत्कस्य हेतोः? तथा हि भगवन् रूपमबद्धममुक्तम् । एवं वेदनासंज्ञासंस्काराः । तथा हि भगवन् विज्ञानमबद्धममुक्तम् । रूपतथतापि भगवनबद्धा अमुक्ता । एवं वेदनातथतापि संज्ञातथतापि संस्कारतथतापि । विज्ञानतथतापि भगवनबद्धा अमुक्ता ॥ अथ खल्वायुष्मान् पूर्णो मैत्रायणीपुत्र आयुष्मन्तं सुभूतिमेतदवोचत्- रूपमायुष्मन् सुभूते अबद्धममुक्तमिति वदसि । एवं वेदनासंज्ञासंस्काराः । विज्ञानमायुष्मन् सुभूते अबद्धममुक्तमिति वदसि । रूपतथतापि आयुष्मन् सुभूते अबद्धा अमुक्तेति वदसि । एवं वेदनातथतापि संज्ञातथतापि संस्कारतथतापि । विज्ञानतथताप्यायुष्मन् सुभूते अबद्धा अमुक्तेति वदसि । अथ कतमत्तदायुष्मन् सुभूते रूपं यद्रूपमबद्धममुक्तमिति वदसि? एवं कतमा सा वेदना, कतमा सा संज्ञा, कतमे ते संस्काराः? कतमत्तदायुष्मन् सुभूते विज्ञानं यद्विज्ञानमबद्धममुक्तमिति वदसि? कतमा सा आयुष्मन् सुभूते रूपतथता या रूपतथताप्यबद्धा अमुक्तेति वदसि? एवं कतमा सा वेदनातथता संज्ञातथता संस्कारतथता? कतमा सा आयुष्मन् सुभूते विज्ञानतथता या विज्ञानतथताप्यबद्धा अमुक्तेति वदसि? एवमुक्ते आयुष्मान् सुभूतिरायुष्मन्तं पूर्णं मैत्रायणीपुत्रमेतदवोचत्- यदायुष्मन् पूर्ण मायापुरुषस्य रूपं तदबद्धममुक्तम् । एवं या मायापुरुषस्य वेदना, या मायापुरुषस्य संज्ञा, ये मायापुरुषस्य संस्काराः । यदायुष्मन् पूर्ण मायापुरुषस्य विज्ञानं तदबद्धममुक्तम् । या आयुष्मन् पूर्ण मायापुरुषस्य रूपतथता सा अबद्धा अमुक्ता । एवं या मायापुरुषस्य वेदनातथता संज्ञातथता संस्कारतथता । या आयुष्मन् पूर्ण मायापुरुषस्य विज्ञानतथता सा अबद्धा अमुक्ता । तत्कस्य हेतोः? असद्भूतत्वादबद्धा अमुक्ता, विविक्तत्वादबद्धा अमुक्ता, अनुत्पन्नत्वादबद्धा अमुक्ता । अयं स बोधिसत्त्वस्य महासत्त्वस्य महासंनाहसंनद्धस्य महायानसंप्रस्थितस्य महायानसमारूढस्य महासंनाहोऽसंनाहः । एवमुक्ते आयुष्मान् पूर्णो मैत्रायणीपुत्रस्तूष्णीमभूत् ॥ अथ खल्वायुष्मान् सुभूतिर्भगवन्तमेतदवोचत्- एवं भगवन् बोधिसत्त्वो महासत्त्वो (वैद्य १२) महासंनाहसंनद्धः सन्महायानसंप्रस्थितो महायानसमारूढो भवति । कतमच्च तन्महायानम्? कथं वा तत्संप्रस्थितो वेदितव्यः? कुतो वा तन्महायानं निर्यास्यति? केन वा तन्महायानं संप्रस्थितम्? क्व वा तन्महायानं स्थास्यति? को वा अनेन महायानेन निर्यास्यति? एवमुक्ते भगवानायुष्मन्तं सुभूतिमेतदवोचत्- महायानमिति सुभूते अप्रमेयताया एतदधिवचनम् । अप्रमेयमिति सुभूते अप्रमाणत्वेन । यदपि सुभूते एवं वदसि - कथं वा तत्संप्रस्थितो वेदितव्यः? कुतो वा तन्महायानं निर्यास्यति? केन वा तन्महायानं संप्रस्थितम्? क्व वा तन्महायानं स्थास्यति? को वा अनेन महायानेन निर्यास्यतीति? पारमिताभिः संप्रस्थितः । त्रैधातुकान्निर्यास्यति । येनारम्बणं तेन संप्रस्थितम् । सर्वज्ञतायां स्थास्यति । बोधिसत्त्वो महासत्त्वो निर्यास्यति, अपि तु खलु पुनर्न कुतश्चिन्निर्यास्यति । न केनापि संप्रस्थितम् । न क्वचित्स्थास्यति । अपि तु स्थास्यति सर्वज्ञतायामस्थानयोगेन । नापि कश्चित्तेन महायानेन निर्यातो नापि निर्यास्यति नापि निर्याति । तत्कस्य हेतोः? यश्च निर्यायात्, येन च निर्यायात्, उभावेतौ धर्मौ न विद्येते नोपलभ्येते । एवमविद्यमानेषु सर्वधर्मेषु कतमो धर्मः कतमेन धर्मेण निर्यास्यति? एवं हि सुभूते बोधिसत्त्वो महासत्त्वो महायानसंनद्धो महायानसंप्रस्थितो महायानसमारूढो भवति ॥ एवमुक्ते आयुष्मान् सुभूतिर्भगवन्तमेतदवोचत्- महायानं महायानमिति भगवन्नुच्यते । सदेवमानुषासुरं लोकमभिभवन्निर्यास्यति आकाशसमतया अतिमहत्तया तन्महायानम् । यथा आकाशे अप्रमेयाणामसंख्येयानां सत्त्वानामवकाशः, एवमेव भगवनस्मिन् याने अप्रमेयाणामसंख्येयानां सत्त्वानामवकाशः । अनेन भगवन् पर्यायेण महायानमिदं बोधिसत्त्वानां महासत्त्वानाम् । नैवास्यागमो दृश्यते, नैवास्य निर्गमो दृश्यते, नाप्यस्य स्थानं संविद्यते । एवमस्य भगवन्महायानस्य नैव पूर्वान्त उपलभ्यते, नाप्यपरान्त उपलभ्यते, नापि मध्य उपलभ्यते । अथ समं भगवंस्तद्यानम् । तस्मान्महायानं महायानमित्युच्यते । अथ खलु भगवानायुष्मते सुभूतये साधुकारमदात्- साधु साधु सुभूते । एवमेतत्सुभूते, एवमेतत् । एवं महायानमिदं बोधिसत्त्वानां महासत्त्वानाम् । अत्र शिक्षित्वा बोधिसत्त्वैर्महासत्त्वैः सर्वज्ञता अनुप्राप्ता, अनुप्राप्स्यते अनुप्राप्यते च ॥ अथ खल्वायुष्मान् पूर्णो मैत्रायणीपुत्रो भगवन्तमेतदवोचत्- अयं भगवन् सुभूतिः स्थविरः प्रज्ञापारमितायाः कृतशोऽधीष्टो महायानमुपदेष्टव्यं मन्यते । अथ खल्वायुष्मान् सुभूतिर्भगवन्तमेतदवोचत्- नाहं भगवन् प्रज्ञापारमितां व्यतिक्रम्य महायानमवोचम् । भगवानाह - नो हीदं सुभूते । अनुलोमत्वं सुभूते प्रज्ञापारमिताया महायानमुपदिशसि । एवमुक्ते आयुष्मान् सुभूतिर्भगवन्तमेतदवोचत्- बुद्धानुभावाद्भगवन् । अपि नु खलु पुनर्भगवन् पूर्वान्ततो बोधिसत्त्वो नोपैति, अपरान्ततो बोधिसत्त्वो नोपैति, मध्यतो बोधिसत्त्वो नोपैति । तत्कस्य हेतोर्नोपैति? रूपापर्यन्ततया हि बोधिसत्त्वापर्यन्तता वेदितव्या, एवं वेदनासंज्ञासंस्काराः । (वैद्य १३) विज्ञानापर्यन्ततया हि बोधिसत्त्वापर्यन्तता वेदितव्या । रूपं बोधिसत्त्व इति नोपैति । इदमपि न विद्यते नोपलभ्यते । एवं वेदनासंज्ञासंस्काराः । विज्ञानं बोधिसत्त्व इति नोपैति, इदमपि न विद्यते नोपलभ्यते । एवं भगवन् सर्वेण सर्वं सर्वथा सर्वं बोधिसत्त्वधर्ममनुपलभमानो नाहं भगवन् तं धर्मं समनुपश्यामि यस्यैतन्नामधेयं यदुत बोधिसत्त्व इति । प्रज्ञापारमितामपि न समनुपश्यामि नोपलभे । सर्वज्ञतामपि न समनुपश्यामि नोपलभे । सोऽहं भगवन् सर्वेण सर्वं सर्वथा सर्वं तं धर्ममनुपलभमानोऽसमनुपश्यन् कतमं धर्मं कतमेन धर्मेण कतमस्मिन् धर्मेऽववदिष्यामि अनुशासिष्यामि? बुद्ध इति भगवन्नामधेयमात्रमेतत् । बोधिसत्त्व इति भगवन्नामधेयमात्रमेतत् । प्रज्ञापारमितेति भगवन्नामधेयमात्रमेतत् । तच्च नामधेयमनभिनिर्वृत्तम् । यथा आत्मा आत्मेति च भगवन्नुच्यते, अत्यन्ततया च भगवन्ननभिनिर्वृत्त आत्मा । एवमस्वभावानां सर्वधर्माणां कतमत्तद्रूपं यदग्राह्यमनभिनिर्वृत्तम्? कतमे ते वेदनासंज्ञासंस्काराः? कतमत्तद्विज्ञानं यदग्राह्यमनभिनिर्वृत्तम्? एवमेतेषां सर्वधर्माणां या अस्वभावता, सा अनभिनिर्वृत्तिः । या च सर्वधर्माणामनभिनिर्वृत्तिर्न ते धर्माः । तत्किमनभिनिर्वृत्तिमनभिनिर्वृत्त्यां प्रज्ञापारमितायामववदिष्याम्यनुशासिष्यामि? न चान्यत्र भगवननभिनिर्वृत्तितः सर्वधर्मा वा बुद्धधर्मा वा बोधिसत्त्वधर्मा वा उपलभ्यन्ते, यो वा बोधाय चरेत् । सचेद्भगवनेवं भाष्यमाणे एवं देश्यमाने एवमुपदिश्यमाने बोधिसत्त्वस्य महासत्त्वस्य चित्तं नावलीयते न संलीयते न विषीदति न विषादमापद्यते, नास्य विपृष्ठीभवति मानसं न भग्नपृष्ठीभवति नोत्रस्यति न संत्रस्यति न संत्रासमापद्यते, एवं वेदितव्यम् - चरत्ययं बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायाम् । भावयत्ययं बोधिसत्त्वो महासत्त्वः प्रज्ञापारमिताम् । उपपरीक्षतेऽयं बोधिसत्त्वो महासत्त्वः प्रज्ञापारमिताम् । उपनिध्यायत्ययं बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितामिति । तत्कस्य हेतोः? यस्मिन् हि समये भगवन् बोधिसत्त्वो महासत्त्वः इमान् धर्मान् प्रज्ञापारमितायां व्युपपरीक्षते, तस्मिन् समये न रूपमुपैति, न रूपमुपगच्छति, न रूपस्योत्पादं समनुपश्यति, न रूपस्य निरोधं समनुपश्यति । एवं न वेदनां न संज्ञां न संस्कारान् । न विज्ञानमुपैति, न विज्ञानमुपगच्छति, न विज्ञानस्योत्पादं समनुपश्यति, न विज्ञानस्य निरोधं समनुपश्यति । तत्कस्य हेतोः? तथा हि यो रूपस्यानुत्पादो न तद्रूपम् । यो रूपस्याव्ययो न तद्रूपम् । इत्यनुत्पादश्च रूपं च अद्वयमेतदद्वैधीकारम् । इत्यव्ययश्च रूपं च अद्वयमेतदद्वैधीकारम् । यत्पुनरेतदुच्यते रूपमिति, अद्वयस्यैषा गणना कृता । एवं तथा हि यो वेदनायाः संज्ञायाः संस्काराणाम् । तथा हि यो विज्ञानस्यानुत्पादो न तद्विज्ञानम्, यो विज्ञानस्याव्ययो न तद्विज्ञानम् । इत्यनुत्पादश्च विज्ञानं च अद्वयमेतदद्वैधीकारम् । इत्यव्ययश्च विज्ञानं च अद्वयमेतदद्वैधीकारम् । यत्पुनरेतदुच्यते विज्ञानमिति, अद्वयस्तैषा गणना कृता । एवं भगवन् प्रज्ञापारमितायां सर्वाकारं सर्वधर्मान् व्युपपरीक्षमाणः तस्मिन् समये न रूपमुपैति, न रूपमुपगच्छति, न रूपस्योत्पादं समनुपश्यति, न रूपस्य निरोधं समनुपश्यति । एवं न वेदनां न संज्ञां न संस्कारान् । न विज्ञानमुपैति, (वैद्य १४) न विज्ञानमुपगच्छति, न विज्ञानस्योत्पादं समनुपश्यति, न विज्ञानस्य निरोधं समनुपश्यति । तत्कस्य हेतोः? तथा हि यो रूपस्यानुत्पादो न तद्रूपम् । यो रूपस्याव्ययो न तद्रूपम् । इत्यनुत्पादश्च रूपं च अद्वयमेतदद्वैधीकारम् । इत्यव्ययश्च रूपं च अद्वयमेतदद्वैधीकारम् । यत्पुनरेतदुच्यते रूपमिति, अद्वयस्यैषा गणना कृता । एवं तथा हि यो वेदनायाः संज्ञायाः संस्काराणाम् । तथा हि यो विज्ञानस्यानुत्पादो न तद्विज्ञानम्, यो विज्ञानस्याव्ययो न तद्विज्ञानम् । इत्यनुत्पादश्च विज्ञानं च अद्वयमेतदद्वैधीकारम् । इत्यव्ययश्च विज्ञानः च अद्वयमेतदद्वैधीकारम् । यत्पुनरेतदुच्यते विज्ञानमिति, अद्वयस्यैषा गणना कृता ॥ अथ खल्वायुष्मान् शारिपुत्र आयुष्मन्तं सुभूतिमेतदवोचत्- तेन हि यथाहमायुष्मतः सुभूतेर्भाषितस्यार्थमाजानामि, तथा बोधिसत्त्वोऽप्यनुत्पादः । यदि च आयुष्मन् सुभूते बोधिसत्त्वोऽप्यनुत्पादः किं बोधिसत्त्वो दुष्करचारिकां चरति? यानि वा तानि सत्त्वानां कृतशो दुःखान्युत्सहते प्रत्यनुभवितुम्? एवमुक्ते आयुष्मान् सुभूतिरायुष्मन्तं शारिपुत्रमेतदवोचत्- नाहमायुष्मन् शारिपुत्र इच्छामि बोधिसत्त्वं महासत्त्वं दुष्करचारिकां चरन्तं नापि स बोधिसत्त्वो महासत्त्वो यो दुष्करसंज्ञया चरति । तत्कस्य हेतोः? न हि आयुष्मन् शारिपुत्र दुष्करसंज्ञां जनयित्वा शक्योऽप्रमेयाणामसंख्येयानां सत्त्वानामर्थः कर्तुम् । अपि तु सुखसंज्ञामेव कृत्वा । सर्वसत्त्वानामन्तिके मातृसंज्ञां पितृसंज्ञां पुत्रसंज्ञां दुहितृसंज्ञां कृत्वा स्त्रीपुरुषेषु । एवमेताः संज्ञाः कृत्वा बोधिसत्त्वो महासत्त्वो बोधिसत्त्वचारिकां चरति । तस्मान्मातृसंज्ञा पितृसंज्ञा पुत्रसंज्ञा दुहितृसंज्ञा बोधिसत्त्वेन महासत्त्वेन सर्वसत्त्वानामन्तिके यावदात्मसंज्ञा उत्पादयितव्या । यथा आत्मा सर्वेण सर्वं सर्वथा सर्वं सर्वदुःखेभ्यो मोचयितव्यः, एवं सर्वसत्त्वाः सर्वेण सर्वं सर्वथा सर्वं सर्वदुःखेभ्यो मोचयितव्या इति । एवं च सर्वसत्त्वेषु संज्ञा उत्पादयितव्या - मयैते सर्वसत्त्वा न परित्यक्तव्याः । मयैते सर्वसत्त्वाः परिमोचयितव्या अपरिमाणतो दुःखस्कन्धात् । न च मयैतेषु चित्तप्रदोष उत्पादयितव्य अन्तशः शतशोऽपि छिद्यमानेनेति । एवं हि बोधिसत्त्वेन महासत्त्वेन चित्तमुत्पादयितव्यं सचेदेवंचित्तो विहरिष्यति, न दुष्करसंज्ञी चरिष्यति, न दुष्करसंज्ञी विहरिष्यति । पुनरपरमायुष्मन् शारिपुत्र बोधिसत्त्वेन महासत्त्वेन एवं चित्तमुत्पादयितव्यम् - यथा सर्वेण सर्वं सर्वथा सर्वमात्मा न विद्यते नोपलभ्यते, एवं सर्वेण सर्वं सर्वथा सर्वं सर्वधर्मा न संविद्यन्ते नोपलभ्यन्ते । एवमाध्यात्मिकबाह्येषु सर्वधर्मेषु संज्ञा उत्पादयितव्या । सचेदेवंचित्तश्चरिष्यति, न दुष्करसंज्ञी चरिष्यति, न दुष्करसंज्ञी विहरिष्यति । यदप्यायुष्मन् शारिपुत्र एवमाह - अनुत्पादो बोधिसत्त्वो इति । एवमेतदायुष्मन् शारिपुत्र, एवमेतत् । अनुत्पादो बोधिसत्त्व इति ॥ शारिपुत्र आह - किं पुनरायुष्मन् सुभूते बोधिसत्त्व एवानुत्पादः, उताहो बोधिसत्त्वधर्मा अप्यनुत्पादः? सुभूतिराह - बोधिसत्त्वधर्मा अपि आयुष्मन् शारिपुत्र अनुत्पादः शारिपुत्र आह - किं पुनरायुष्मन् सुभूते बोधिसत्त्वधर्मा एवानुत्पादः, उताहो सर्वज्ञताप्यनुत्पादः? सुभूतिराह - सर्वज्ञताप्यायुष्मन् शारिपुत्र अनुत्पादः । आह - किं पुनरायुष्मन् सुभूते (वैद्य १५) सर्वज्ञतैवानुत्पादः, उताहो सर्वज्ञताधर्मा अप्यनुत्पादः? आह - सर्वज्ञताधर्मा अप्यायुष्मन् शारिपुत्र अनुत्पादः । आह - किं पुनरायुष्मन् सुभूते सर्वज्ञताधर्मा एवानुत्पादः, उताहो पृथग्जनोऽप्यनुत्पादः? आह - पृथग्जनोऽप्यायुष्मन् शारिपुत्र अनुत्पादः । आह - किं पुनरायुष्मन् सुभूते पृथग्जन एवानुत्पादः, उताहो पृथग्जनधर्मा अप्यनुत्पादः? आह - पृथग्जनधर्मा आप्यायुष्मन् शारिपुत्र अनुत्पादः । एवमुक्ते आयुष्मान् शारिपुत्र आयुष्मन्तं सुभूतिमेतदवोचत्- यद्यायुष्मन् सुभूते बोधिसत्त्वोऽप्यनुत्पादः, बोधिसत्त्वधर्मा अप्यनुत्पादः, सर्वज्ञताप्यनुत्पादः, सर्वज्ञताधर्मा अप्यनुत्पादः, पृथग्जनोऽप्यनुत्पादः, पृथग्जनधर्मा अप्यनुत्पादः, नन्वायुष्मन् सुभूते अनुप्राप्तैव अयत्नेन बोधिसत्त्वेन महासत्त्वेन सर्वज्ञता भवति । एवमुक्ते आयुष्मान् सुभूतिरायुष्मन्तं शारिपुत्रमेतदवोचत्- नाहमायुष्मन् शारिपुत्र अनुत्पन्नस्य धर्मस्य प्राप्तिमिच्छामि, नाप्यभिसमयम् । नाप्यनुत्पन्नेन धर्मेण अनुत्पन्ना प्राप्तिः प्राप्यते । आह - किं पुनरायुष्मन् सुभूते अनुत्पन्नेन धर्मेण अनुत्पन्ना प्राप्तिः प्राप्यते, उताहो उत्पन्नेन धर्मेण अनुत्पन्ना प्राप्तिः प्राप्यते? आह - किं पुनरायुष्मन् शारिपुत्र अनुत्पन्नो धर्म उत्पन्नः, उताहो अनुत्पन्न एव धर्मोऽनुत्पन्नः? आह - किं पुनरायुष्मन् सुभूते उत्पाद एव धर्मोऽनुत्पादः, उताहो अनुत्पादो धर्म उत्पादः? आह - उत्पादो धर्मोऽनुत्पादो धर्म इत्यायुष्मन् शारिपुत्र न प्रतिभाति जल्पितुम् । आह - अनुत्पादोऽपि ते आयुष्मन् सुभूते प्रतिभाति जल्पितुम् । आह - अनुत्पाद एवायुष्मन् शारिपुत्र जल्पः । अनुत्पाद एव आयुष्मान् शारिपुत्र प्रतिभाति । अनुत्पाद एव आयुष्मन् शारिपुत्र प्रतिभानम् । एवमेवायुष्मन् शारिपुत्र अत्यन्तं प्रतिभाति ॥ एवमुक्ते आयुष्मान् शारिपुत्र आयुष्मन्तं सुभूतिमेतदवोचत्- धार्मकथिकानामायुष्मान् सुभूतिरग्रतायां स्थापितव्यः । तत्कस्य हेतोः? तथा ह्यायुष्मान् सुभूतिः स्थविरो यतो यत एव परिप्रश्नीक्रियते, ततस्तत एव निःसरति, धर्मतायाश्च न चलति, तां च धर्मतां न विरोधयति । एवमुक्ते आयुष्मान् सुभूतिरायुष्मन्तं शारिपुत्रमेतदवोचत्- धर्मतैषा आयुष्मन् शारिपुत्र भगवतः श्रावकाणामनिश्रितधर्माणाम् । ते यतो यत एव परिप्रश्नीक्रियन्ते, ततस्तत एव निःसरन्ति, धर्मतां च न विरोधयन्ति, धर्मतायाश्च न व्यतिवर्तन्ते । तत्कस्य हेतोः? यथापि नाम अनिश्रितत्त्वात्सर्वधर्माणाम् । एवमुक्ते आयुष्मान् शारिपुत्र आयुष्मन्तं सुभूतिमेतदवोचत्- साधु साधु आयुष्मन् सुभूते । कतमैषा सर्वधर्मानिश्रितपारमिता बोधिसत्त्वानां महासत्त्वानाम्? सुभूतिराह - प्रज्ञापारमितैव आयुष्मन् शारिपुत्र सार्वयानिकी, सर्वधर्मानिश्रिततया सर्वधर्मानिश्रितपारमिता च । इति हि यस्य बोधिसत्त्वस्य महासत्त्वस्य एवं गम्भीरायां प्रज्ञापारमितायां भाष्यमाणायामेवं देश्यमानायामेवमुपदिश्यमानायां न भवति चित्तस्य अवलीनत्वम्, न भवति काङ्क्षायितत्वम्, न भवति धंधायितत्वम्, न भवति चित्तस्यान्यथात्वम्, वेदितव्यमयं बोधिसत्त्वो महासत्त्वो विहरत्यनेन प्रज्ञापारमिताविहारेण अविरहितश्चानेन मनसिकारेणेति ॥ (वैद्य १६) अथ खल्वायुष्मान् शारिपुत्र आयुष्मतं सुभूतिमेतदवोचत्- कथमायुष्मन् सुभूते अविरहितो बोधिसत्त्वो महासत्त्वोऽविरहितो मनसिकारेण भवति, यः प्रज्ञापारमिताविहारेण विहरति? यदि ह्यायुष्मन् सुभूते बोधिसत्त्वो महासत्त्वोऽविरहितो मनसिकारेण भवति, एवं स विरहितः प्रज्ञापारमिताविहारेण भवति । यदि च आयुष्मन् सुभूते अविरहितो बोधिसत्त्वो महासत्त्वः प्रज्ञापारमिताविहारेण भवति, एवं स विरहितो मनसिकारेण भवति । यदि च आयुष्मन् सुभूते मनसिकारेणाविरहितो बोधिसत्त्वो महासत्त्वः, अविरहित एव प्रज्ञापारमिताविहारेण भवति । एवं सति सर्वसत्त्वा अप्यविरहिता भविष्यन्ति प्रज्ञापारमिताविहारेण । तत्कस्य हेतोः? सर्वसत्त्वा अपि ह्यविरहिता मनसिकारेण विहरन्ति ॥ एवमुक्ते आयुष्मान् सुभूतिरायुष्मन्तं शारिपुत्रमेतदवोचत्- साधु साधु आयुष्मन् शारिपुत्र । अपि तु उपालप्स्ये त्वा । अर्थ एव त्वायुष्मता शारिपुत्रेण भूतपदाभिधानेन परिगृहीतः । तत्कस्य हेतोः? सत्त्वास्वभावतया आयुष्मन् शारिपुत्र मनसिकारास्वभावता वेदितव्या । सत्त्वासद्भावतया आयुष्मन् शारिपुत्र मनसिकारासद्भावता वेदितव्या । सत्त्वविविक्ततया आयुष्मन् शारिपुत्र मनसिकारविविक्तता वेदितव्या । सत्त्वाचिन्त्यतया आयुष्मन् शारिपुत्र मनसिकाराचिन्त्यता वेदितव्या । सत्त्वानभिसंबोधनतया आयुष्मन् शारिपुत्र मनसिकारानभिसंबोधनता वेदितव्या । सत्त्वायथाभूतार्थाभिसंबोधनतया आयुष्मन् शारिपुत्र मनसिकारायथाभूतार्थाभिसंबोधनता वेदितव्या । अनेन आयुष्मन् शारिपुत्र एवंरूपेण मनसिकारेण इच्छामि बोधिसत्त्वं महासत्त्वं विहरन्तमनेन विहारेणेति ॥ आर्याष्टसाहस्रिकायां प्रज्ञापारमितायां सर्वाकारज्ञताचर्यापरिवर्तो नाम प्रथमः ॥ _______________________________________________________________ (वैद्य १७) २: शक्रपरिवर्तो द्वितीयः । तेन खलु पुनः समयेन शक्रो देवानामिन्द्रस्तस्यामेव पर्षदि संनिपतितः संनिषण्णोऽभूत्चत्वारिंशता त्रायस्त्रिंशत्कायिकैर्देवपुत्रसहस्रैः सार्धम् । चत्वारश्च लोकपाला विंशत्या चातुर्महाराजकायिकैर्देवपुत्रसहस्रैः सार्धम् । ब्रह्मापि सहापतिर्दशभिर्ब्रह्मकायिकैर्देवपुत्रसहस्रैः सार्धम् । पञ्च च शुद्धावासानां देवपुत्राणां सहस्राणि तस्यामेव पर्षदि संनिपतितानि संनिषण्णान्यभूवन् । योऽपि च देवानां स्वकर्मविपाकजोऽवभासः, सोऽपि सर्वो बुद्धानुभावेन बुद्धतेजसा बुद्धाधिष्ठानेनाभिभूतोऽभूत् ॥ अथ खलु शक्रो देवानामिन्द्र आयुष्मन्तं सुभूतिं स्थविरमेतदवोचत्- इमान्यार्य सुभूते संबहुलानि देवपुत्रसहस्राणि अस्यां पर्षदि संनिपतितानि संनिषण्णानि आर्यस्य सुभूतेरन्तिकात्प्रज्ञापारमितां श्रोतुकामानि बोधिसत्त्वानां महासत्त्वानामुपदेशमववादानुशासनीं च । तत्कथं बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां स्थातव्यम्, कथं शिक्षितव्यम्, कथं योगमापत्तव्यम्? स्थविरः सुभूतिराह - तेन हि कौशिक उपदेक्ष्यामि ते बुद्धानुभावेन बुद्धतेजसा बुद्धाधिष्ठानेन । यैर्देवपुत्रैरनुत्तरायां सम्यक्संबोधौ चित्तं नोत्पादितम्, तैरुत्पादयितव्यम् । ये त्ववक्रान्ताः सम्यक्त्वनियामम्, न ते भव्या अनुत्तरायां सम्यक्संबोधौ चित्तमुत्पादयितुम् । तत्कस्य हेतोः? बद्धसीमानो हि ते संसारस्रोतसः । अभव्या हि ते पुनः पुनः संसरणाय अनुत्तरायां सम्यक्संबोधौ चित्तमुत्पादयितुम् । अपि नु खलु पुनस्तेषामप्यनुमोदे । सचेत्तेऽप्यनुत्तरायां सम्यक्संबोधौ चित्तान्युत्पादयेरन्, नाहं कुशलमूलस्यान्तरायं करोमि । विशिष्टेभ्यो हि धर्मेभ्यो विशिष्टतमा धर्मा अध्यालम्बितव्याः ॥ अथ खलु भगवानायुष्मन्तं सुभूतिमामन्त्रयते स्म - साधु साधु सुभूते, साधु खलु पुनस्त्वं सुभूते, यस्त्वं बोधिसत्त्वानां महासत्त्वानामुत्साहं ददासि । एवमुक्ते आयुष्मान् सुभूतिर्भगवन्तमेतदवोचत्- कृतज्ञैरस्माभिर्भगवन् भगवतो भवितव्यं नाकृतज्ञैः । तत्कस्य हेतोः? पौर्वकाणां हि भगवंस्तथागतानामर्हतां सम्यक्संबुद्धानामन्तिकेऽस्मदर्थे भगवान् यथा ब्रह्मचर्यं बोधाय चरन् पूर्वं बोधिसत्त्वभूत एव सन्, यैः श्रावकैरववदितोऽनुशिष्टश्च पारमितासु, तत्र भगवता चरता अनुत्तरं ज्ञानमुत्पादितम् । एवं भगवनस्माभिरपि बोधिसत्त्वा महासत्त्वा अनुपरिग्रहीतव्या अनुपरिवारयितव्याश्च, संपरिग्रहीतव्याः संपरिवारयितव्याश्च । तत्कस्य हेतोः? अस्माभिरपि हि भगवन् बोधिसत्त्वा महासत्त्वा अनुपरिगृहीता अनुपरिवारिताश्च, संपरिगृहीताः संपरिवारिताश्च क्षिप्रमनुत्तरां सम्यक्संबोधिमभिसंबुध्यन्ते ॥ अथ खल्वायुष्मान् सुभूतिः शक्रं देवानामिन्द्रमामन्त्रयते स्म - तेन हि कौशिक शृणु, साधु च सुष्ठु च मनसि कुरु, भाषिष्येऽहं ते यथा बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां स्थातव्यम् । शून्यतायां कौशिक तिष्ठता बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां स्थातव्यम् । तेन हि कौशिक (वैद्य १८) बोधिसत्त्वेन महासत्त्वेन महासंनाहसंनद्धेन भवितव्यम् । न रूपे स्थातव्यम् । न वेदनायां न संज्ञायां न संस्कारेषु । न विज्ञाने स्थातव्यम् । न चक्षुषि स्थातव्यम् । न रूपे स्थातव्यम् । न चक्षुर्विज्ञाने स्थातव्यम् । न चक्षुःसंस्पर्शे स्थातव्यम् । न चक्षुःसंस्पर्शजायां वेदनायां स्थातव्यम् । एवं न श्रोत्रघ्राणजिह्वाकायमनःसु स्थातव्यम् । न शब्दगन्धरसस्प्रष्टव्यधर्मेषु, न श्रोत्रविज्ञाने, यावन्न मनोविज्ञाने । न मनःसंस्पर्शे, न मनःसंस्पर्शजायां वेदनायां स्थातव्यम् । न पृथिवीधातौ स्थातव्यम् । नाब्धातौ, न तेजोधातौ, न वायुधातौ, नाकाशधातौ, न विज्ञानधातौ स्थातव्यम् । न स्मृत्युपस्थानेषु स्थातव्यम् । न सम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गेषु, न मार्गाङ्गेषु स्थातव्यम् । न स्रोतआपत्तिफले स्थातव्यम् । न सकृदागामिफले, न अनागामिफले, नार्हत्त्वे स्थातव्यम् । न प्रत्येकबुद्धत्वे स्थातव्यम् । न बुद्धत्वे स्थातव्यम् । इति हि रूपमिति न स्थातव्यम् । इति हि वेदनेति, संज्ञेति, संस्कारा इति । इति हि विज्ञानमिति न स्थातव्यम् । इति हि चक्षुरिति, यावन्मनःसंस्पर्शजा वेदनेति न स्थातव्यम् । इति हि पृथिवीधातुरिति, यावद्विज्ञानधातुरिति न स्थातव्यम् । इति हि स्मृत्युपस्थानानीति न स्थातव्यम् । इति हि सम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गानीति, इति हि मार्गाङ्गानीति न स्थातव्यम् । इति हि स्रोतआपत्तिफलमिति न स्थातव्यम्, इति हि सकृदागामिफलमिति, अनागामिफलमिति, अर्हत्त्वमिति न स्थातव्यम् । इति हि प्रत्येकबुद्धत्वमिति न स्थातव्यम् । इति हि बुद्धत्वमिति न स्थातव्यम् । रूपं नित्यमनित्यमिति न स्थातव्यम् । एवं वेदनासंज्ञासंस्काराः । विज्ञानं नित्यमनित्यमिति न स्थातव्यम् । रूपं सुखं दुःखमिति न स्थातव्यम् । एवं वेदनासंज्ञासंस्काराः । विज्ञानं सुखं दुःखमिति न स्थातव्यम् । रूपं शून्यमशून्यमिति न स्थातव्यम् । एवं वेदनासंज्ञासंस्काराः । विज्ञानं शून्यमशून्यमिति न स्थातव्यम् । रूपमात्मानात्मेति न स्थातव्यम् । एवं वेदनासंज्ञासंस्काराः । विज्ञानमात्मानात्मेति न स्थातव्यम् । रूपं शुभमशुभमिति न स्थातव्यम् । एवं वेदनासंज्ञासंस्काराः । विज्ञानं शुभमशुभमिति न स्थातव्यम् । रूपं शून्यमुपलभ्यते वेति न स्थातव्यम् । एवं वेदनासंज्ञासंस्काराः । विज्ञानं शून्यमुपलभ्यते वेति न स्थातव्यम् । स्रोतआपत्तिफलमसंस्कृतप्रभावितमिति न स्थातव्यम् । एवं सकृदागामिफलमनागामिफलमर्हत्त्वमसंस्कृतप्रभावितमिति न स्थातव्यम् । प्रत्येकबुद्धत्वमसंस्कृतप्रभावितमिति न स्थातव्यम् । स्रोतआपन्नो दक्षिणीय इति न स्थातव्यम् । स्रोतआपन्नाः सप्तकृतो भवपरमा इति न स्थातव्यम् । सकृदागामी दक्षिणीय इति न स्थातव्यम् । सकृदागाम्यपरिनिष्ठितत्त्वात्सकृदिमं लोकमागम्य दुःखस्यान्तं करिष्यतीति न स्थातव्यम् । अनागामी दक्षिणीय इति न स्थातव्यमनागामी अनागम्य इमं लोकं तत्रैव परिनिर्वास्यतीति न स्थातव्यम् । अर्हन् दक्षिणीय इति न स्थातव्यम् । अर्हन्निहैव अनुपधिशेषे निर्वाणधातौ परिनिर्वास्यतीति न स्थातव्यम् । प्रत्येकबुद्धो दक्षिणीय इति न स्थातव्यम् । प्रत्येकबुद्धोऽतिक्रम्य श्रावकभूमिमप्राप्य बुद्धभूमिं परिनिर्वास्यतीति न स्थातव्यम् । बुद्धो दक्षिणीय इति न स्थातव्यम् । बुद्धोऽतिक्रम्य (वैद्य १९) पृथग्जनभूमिमतिक्रम्य श्रावकभूमिमतिक्रम्य प्रत्येकबुद्धभूमिमप्रभेयाणामसंख्येयानां सत्त्वानामर्थं कृत्वा अप्रमेयाण्यसंख्येयानि सत्त्वकोटीनियुतशतसहस्राणि परिनिर्वाप्य अप्रमेयानसंख्येयान् सत्त्वान् श्रावकप्रत्येकबुद्धसम्यक्संबुद्धत्वनियतान् कृत्वा बुद्धभूमौ स्थित्वा बुद्धकृत्यं कृत्वा अनुपधिशेषे निर्वाणधातौ बुद्धपरिनिर्वाणेन परिनिर्वास्यति इत्येवमप्यनेन न स्थातव्यम् ॥ अथ खल्वायुष्मतः शारिपुत्रस्यैतदभवत्- यदि बुद्धोऽतिक्रम्य पृथग्जनभूमिमतिक्रम्य श्रावकभूमिमतिक्रम्य प्रत्येकबुद्धभूमिमप्रमेयाणामसंख्येयानां सत्त्वानामर्थं कृत्वा अप्रमेयाण्यसंख्येयानि सत्त्वकोटीनियुतशतसहस्राणि परिनिर्वाप्य अप्रमेयानसंख्येयान् सत्त्वान् श्रावकप्रत्येकबुद्धसम्यक्संबुद्धत्वनियतान् कृत्वा बुद्धभूमौ स्थित्वा बुद्धकृत्यं कृत्वा अनुपधिशेषे निर्वाणधातौ बुद्धपरिनिर्वाणेन परिनिर्वास्यति इत्येवमप्यनेन न स्थातव्यम्, तत्कथं पुनरनेन स्थातव्यं, कथं शिक्षितव्यमिति? अथ खल्वायुष्मान् सुभूतिर्बुद्धानुभावेन आयुष्मतः शारिपुत्रस्य चेतसैव चेतःपरिवितर्कमाज्ञाय आयुष्मन्तं शारिपुत्रमेतदवोचत्- तत्किं मन्यसे आयुष्मन् शारिपुत्र क्व तथागतोऽर्हन् सम्यक्संबुद्धः स्थितः? आयुष्मान् शारिपुत्र आह - न क्वचिदायुष्मन् सुभूते तथागतोऽर्हन् सम्यक्संबुद्धः स्थितः । तत्कस्य हेतो? अप्रतिष्ठितमानसो हि तथागतोऽर्हन् सम्यक्संबुद्धः । स नैव संस्कृते धातौ स्थितो नाप्यसंस्कृते धातौ स्थितो न च ततो व्युत्थितः ॥ अथ खल्वायुष्मान् सुभूतिरायुष्मन्तं शारिपुत्रमेतदवोचत्- एवमेव आयुष्मन् शारिपुत्र बोधिसत्त्वेन महासत्त्वेन स्थातव्यम्, एवं शिक्षितव्यम् - यथा तथागतोऽर्हन् सम्यक्संबुद्धो न क्वचित्स्थितो नास्थितो न विष्ठितो नाविष्ठितः, तथा स्थास्यामीत्येवमनेन शिक्षितव्यम् । यथा तथागतस्थानं तथा स्थास्यामीति, तथा शिक्षिष्ये इति, यथा तथागतस्थानं तथा स्थास्यामीति, तथा शिक्षिष्ये इति, यथा तथागतस्थानं तथा स्थास्यामीति सुस्थितोऽस्थानयोगेनेति एवमत्र बोधिसत्त्वेन महासत्त्वेन स्थातव्यमेवं शिक्षितव्यम् । एवं हि शिक्षमाणो बोधिसत्त्वो महासत्त्वो विहरत्यनेन प्रज्ञापारमिताविहारेण अविरहितश्चानेन मनसिकारेणेति ॥ अथ खलु तत्र पर्षदि केषांचिद्देवपुत्राणामेतदभूत्- यानि तानि यक्षाणां यक्षभाषितानि यक्षरुतानि यक्षपदानि यक्षमन्त्रितानि यक्षप्रव्याहृतानि, तानि विज्ञायन्ते जल्प्यमानानि । न पुनरिदं विज्ञायते यत्सुभूतिः स्थविरो भाषते प्रव्याहरति देशयत्युपदिशति । अथ खल्वायुष्मान् सुभूतिर्बुद्धानुभावेन तेषां देवपुत्राणामिममेवंरूपं चेतसैव चेतःपरिवितर्कमाज्ञाय तान् देवपुत्रानामन्त्रयते स्म - न विज्ञायते न विज्ञायते इदं देवपुत्राः । तथा हि नात्र किंचित्सूच्यते, नात्र किंचित्श्रूयते ॥ अथ खलु तेषां देवपुत्राणां पुनरेवैतदभूत्- उत्तानीकरिष्यति बत अयमार्यसुभूतिः । उत्तानीकरिष्यति बतायमार्यसुभूतिरिति । दूराद्दूरतरमार्यसुभूतिः प्रविशति, सूक्ष्मात्सूक्ष्मतरम् । गम्भीराद्गम्भीरतरमार्यसुभूतिः प्रविशति देशयति भाषत इति । अथ खल्वायुष्मान् सुभूतिर्बुद्धानुभावेन पुनरपि तेषामेव देवपुत्राणां चेतसैव चेतःपरिवितर्कमाज्ञाय तान् देवपुत्रानामन्त्रयते (वैद्य २०) स्म - तेन हि देवपुत्राः यः स्रोतआपत्तिफलं प्राप्तुकामः स्रोतआपत्तिफले स्थातुकामः, स नेमां क्षान्तिमनागम्य....पेयालम् । यः सकृदागाभिफलं प्राप्तुकामः, सकृदागामिफले स्थातुकामः, योऽनागामिफलं प्राप्तुकामोऽनागामिफले स्थातुकामः, योऽर्हत्त्वं प्राप्तुकामोऽर्हत्त्वे स्थातुकामः, यः प्रत्येकबोधिं प्राप्तुकामः प्रत्येकबोधौ स्थातुकामः, स नेमां क्षान्तिमनागम्य..... । योऽनुत्तरां सम्यक्संबोधिं प्राप्तुकामोऽनुत्तरायां सम्यक्संबोधौ स्थातुकामः, स नेमां क्षान्तिमनागम्य............. ॥ अथ खलु पुनरपि तेषां देवपुत्राणामेतदभवत्- किंरूपा अस्य आर्यसुभूतेर्धार्मश्रवणिका एष्टव्याः? अथ खल्वायुष्मान् सुभूतिर्बुद्धानुभावेन तेषां देवपुत्राणां चेतसैव चेतःपरिवितर्कमाज्ञाय तान् देवपुत्रानामन्त्रयते स्म - मायानिर्मितसदृशा हि देवपुत्रा मम धार्मश्रवणिका एष्टव्याः । तत्कस्य हेतोः? तथा हि ते नैव श्रोष्यन्ति न च साक्षात्करिष्यन्ति ॥ अथ खलु ते देवपुत्रा आयुष्मन्तं सुभूतिमेतदवोचन् - किं पुनरार्य सुभूते मायोपमास्ते सत्त्वा न ते माया? एवमुक्ते आयुष्मान् सुभूतिस्तान् देवपुत्रानेतदवोचत्- मायोपमास्ते देवपुत्राः सत्त्वाः । स्वप्नोपमास्ते देवपुत्राः सत्त्वाः । इति हि माया च सत्त्वाश्च अद्वयमेतदद्वैधीकारम्, इति हि स्वप्नश्च सत्त्वाश्च अद्वयमेतदद्वैधीकारम् । सर्वधर्मा अपि देवपुत्रा मायोपमाः स्वप्नोपमाः । स्रोतआपन्नोऽपि मायोपमः स्वप्नोपमः । स्रोतआपत्तिफलमपि मायोपमं स्वप्नोपमम् । एवं सकृदागाम्यपि सकृदागामिफलमपि, अनागाम्यपि अनागामिफलमपि, अर्हन्नपि अर्हत्त्वमपि मायोपमं स्वप्नोपमम् । प्रत्येकबुद्धोऽपि मायोपमः स्वप्नोपमः । प्रत्येकबुद्धत्वमपि मायोपमं स्वप्नोपमम् । सम्यक्संबुद्धोऽपि मायोपमः स्वप्नोपमः । सम्यक्संबुद्धत्वमपि मायोपमं स्वप्नोपमम् । अथ खलु देवपुत्रा आयुष्मन्तं सुभूतिमेतदवोचन् - सम्यक्संबुद्धोऽप्यार्य सुभूते मायोपमः स्वप्नोपम इति वदसि? सम्यक्संबुद्धत्वपि मायोपमं स्वप्नोपममिति वदसि? सुभूतिराह - निर्वाणमपि देवपुत्रा मायोपमं स्वप्नोपममिति वदामि, किं पुनरन्यं धर्मम् । ते देवपुत्रा आहुः - निर्वाणमप्यार्य सुभूते मायोपमं स्वप्नोपममिति वदसि? आयुष्मान् सुभूतिराह - तद्यदि देवपुत्रा निर्वाणादप्यन्यः कश्चिद्धर्मो विशिष्टतरः स्यात्, तमप्यहं मायोपमं स्वप्नोपममिति वदेयम् । इति हि देवपुत्रा माया च निर्वाणं च अद्वयमेतदद्वैधीकारम् । इति हि स्वप्नश्च निर्वाणं च अद्वयमेतदद्वैधीकारम् ॥ अथ खल्वायुष्मान् शारिपुत्रः, आयुष्मांश्च पूर्णो मैत्रायणीपुत्रः, आयुष्मांश्च महाकोष्ठिलः, आयुष्मांश्च महाकात्यायनः, आयुष्मांश्च महाकाशपः, अन्ये च महाश्रावका अनेकैर्बोधिसत्त्वसहस्रैः सार्धमायुष्मन्तं सुभूतिं स्थविरमामन्त्रयन्ते स्म - केऽस्या आयुष्मन् सुभूते प्रज्ञापारमिताया एवं निर्दिश्यमानायाः प्रत्येषका भविष्यन्ति? अथ खल्वायुष्मानानन्दस्तान् स्थविरानेतदवोचत्- ते खल्वायुष्मन्तो वेदितव्या अविनिवर्तनीया बोधिसत्त्वा (वैद्य २१) महासत्त्वाः, दृष्टिसंपन्ना वा पुद्गलाः, अर्हन्तो वा क्षीणास्रवाः, येऽस्याः प्रज्ञापारमिताया एवं निर्दिश्यमानायाः प्रत्येषका भविष्यन्ति ॥ अथ खल्वायुष्मान् सुभूतिः स्थविरस्तान् स्थविरानेतदवोचत्- नास्या आयुष्मन्तः प्रज्ञापारमिताया एवं निर्दिश्यमानायाः केचित्प्रत्येषका भविष्यन्ति । तत्कस्य हेतोः? तथा हि - अत्र न कश्चिद्धर्मः सूच्यते, न कश्चिद्धर्मः परिदीप्यते, न कश्चिद्धर्मः प्रज्ञप्यते । तद्यथैवात्र न कश्चिद्धर्मः सूच्यते, न कश्चिद्धर्मः परिदीप्यते, न कश्चिद्धर्मः प्रज्ञप्यते, तथैवास्याः प्रज्ञापारमिताया एवं निर्दिश्यमानाया न कश्चित्प्रत्येषको भविष्यति ॥ अथ खलु शक्रस्य देवानामिन्द्रस्यैतदभूत्- अस्य धर्मपर्यायस्य आर्येण सुभूनिता भाष्यमाणस्य पूजार्थं यन्न्वहं पुष्पाण्यभिनिर्माय आर्यं सुभूतिमभ्यवकिरेयमिति । अथ खलु शक्रो देवानामिन्द्रस्तस्यां वेलायां पुष्पाण्यभिनिर्माय आयुष्मन्तं सुभूतिमभ्यवाकिरत् । अथ खल्वायुष्मतः सुभूतेः स्थविरस्य शक्रं देवानामिन्द्रमनुव्याहरणायैतदभूत्- न खलु पुनरिमानि पुष्पाणि मया त्रायस्त्रिंशेषु देवेषु प्रचरन्ति दृष्टपूर्वाणि, यानीमानि शक्रेण देवानामिन्द्रेण अभ्यवकीर्णानि । निर्मितान्येतानि पुष्पाणि । नैतानि पुष्पाणि वृक्षगुल्मलतानिर्जातानि, यानि शक्रेण देवानामिन्द्रेणाभ्यवकीर्णानि, मनोमयान्येतानि पुष्पाणीति । अथ खलु शक्रो देवानामिन्द्र आयुष्मतः सुभूतेश्चेतसैव चेतःपरिवितर्कमाज्ञाय आयुष्मन्तं सुभूतिमेतदवोचत्- अनिर्जातान्येतान्यार्य सुभूते पुष्पाणि । तत्कस्य हेतोः? न हि मनोनिर्जातानि कानिचित्पुष्पाणि, नापि वृक्षगुल्मलतानिर्जातानि । अथ खल्वायुष्मान् सुभूतिः शक्रं देवानामिन्द्रमेतदवोचत्- यत्त्वं कौशिक एवं वदसि - अनिर्जातान्येतानि पुष्पाणि, नैतानि मनोनिर्जातानि, नापि वृक्षगुल्मलतानिर्जातानीति । यत्कौशिक अनिर्जातं न तत्पुष्पम् । अथ खलु शक्रस्य देवानामिन्द्रस्यैतदभूत्- गम्भीरप्रज्ञो बतायमार्यः सुभूतिः । तां च नाम पदप्रज्ञप्तिं निर्दिशति, तां च न विरोधयति, तां चोत्तानीकरोति, तामेव चोपदिशति । अथ खलु शक्रो देवानामिन्द्र आयुष्मतं सुभूतिमेतदवोचत्- एवमेतदार्य सुभूते, एवमेतत् । एवं चात्र बोधिसत्त्वेन महासत्त्वेन शिक्षितव्यं यथा आर्यसुभूतिरुपदिशति । एवमुक्ते आयुष्मान् सुभूतिः शक्रं देवानामिन्द्रमेतदवोचत्- एवमेतत्कौशिक, एवमेतत् । एवमत्र बोधिसत्त्वेन महासत्त्वेन शिक्षितव्यम् । एवं शिक्षमाणः कौशिक बोधिसत्त्वो महासत्त्वो न स्रोतआपत्तिफले शिक्षते, न सकृदागामिफले, न अनागामिफले, नाहर्त्वे शिक्षते, न प्रत्येकबुद्धत्वे शिक्षते, न बुद्धत्वे शिक्षते । यो नासु भूमिषु शिक्षते, स बुद्धत्वे सर्वज्ञत्वे वा शिक्षते । यो बुद्धत्वे सर्वज्ञत्वे वा शिक्षते, सोऽप्रमेयेष्वसंख्येयेषु बुद्धधर्मेषु शिक्षते । योऽप्रमेयेष्वसंख्येयेषु बुद्धधर्मेषु शिक्षते, स न रूपस्य विवृद्धये शिक्षते, न परिहाणाय । एवं स न वेदनाया न संज्ञाया न संस्काराणाम् । स न विज्ञानस्य विवृद्धये शिक्षते, न परिहाणाय । यो न रूपस्य विवृद्धये शिक्षते न परिहाणाय । एवं न वेदनाया न संज्ञाया न संस्काराणाम् । यो न विज्ञानस्य विवृद्धये शिक्षते न परिहाणाय, स न रूपस्य परिग्रहाय शिक्षते नोत्सर्गाय । (वैद्य २२) एवं स न वेदनाया न संज्ञाया न संस्काराणाम् । स न विज्ञानस्य परिग्रहाय शिक्षते, नोत्सर्गाय, नापि कस्यचिद्धर्मस्य परिग्रहाय शिक्षते, नोत्पादाय नान्तर्धानाय शिक्षते । यो न कस्यचिद्धर्मस्य परिग्रहाय शिक्षते, नोत्पादाय नान्तर्धानाय शिक्षते, स न सर्वज्ञताया अपि परिग्रहाय शिक्षते, नोत्पादाय नान्तर्धानाय शिक्षते । एवं शिक्षमाणो बोधिसत्त्वो महासत्त्वः सर्वज्ञतायां शिक्षते, सर्वज्ञतायां निर्यास्यति ॥ अथ खल्वायुष्मान् शारिपुत्र आयुष्मन्तं सुभूतिमेतदवोचत्- य आयुष्मन् सुभूते बोधिसत्त्वो महासत्त्वो न कस्यचिद्धर्मस्य परिग्रहाय शिक्षते, नोत्पादाय नान्तर्धानास्य शिक्षते, स न सर्वज्ञताया अपि परिग्रहाय शिक्षते, नोत्पादाय नान्तर्धानाय शिक्षते । एवं शिक्षमाण आयुष्मान् सुभूते बोधिसत्त्वो महासत्त्वः सर्वज्ञतायां शिक्षते, सर्वज्ञतायां निर्यास्यति ॥ आयुष्मान् सुभूतिराह - एवमेतदायुष्मन् शारिपुत्र, एवमेतत् । य आयुष्मन् शारिपुत्र बोधिसत्त्वो महासत्त्वो न कस्यचिद्धर्मस्य परिग्रहाय शिक्षते, नोत्पादाय नान्तर्धानाय शिक्षते, स न सर्वज्ञताया अपि परिग्रहाय शिक्षते, नोत्पादाय नान्तर्धानाय शिक्षते । सर्वबुद्धधर्माणामपि न परिग्रहाय शिक्षते, नोत्पादाय नान्तर्धानाय शिक्षते । एवं चायुष्मन् शारिपुत्र शिक्षमाणो बोधिसत्त्वो महासत्त्वः सर्वज्ञतायां शिक्षते, सर्वज्ञतायां निर्यास्यति ॥ अथ खलु शक्रो देवानामिन्द्र आयुष्मन्तं शारिपुत्रमेतदवोचत्- प्रज्ञापारमिता आर्य शारिपुत्र बोधिसत्त्वेन महासत्त्वेन कुतो गवेषितव्याः? शारिपुत्र आह - प्रज्ञापारमिता कौशिक बोधिसत्त्वेन महासत्त्वेन आयुष्मतः सुभूतेः परिवर्ताद्गवेषितव्या । एवमुक्ते शक्रो देवानामिन्द्र आयुष्मन्तं शारिपुत्रमेतदवोचत्- कस्यैष आर्य शारिपुत्र अनुभावो वेदितव्यः? कस्यैतदधिष्ठानं वेदितव्यं यदार्यसुभूतिः प्रज्ञापारमितां भाषते? आयुष्मान् शारिपुत्र आह - तथागतस्यैष कौशिक अनुभावो वेदितव्यः । तथागतस्यैतदधिष्ठानं वेदितव्यं यदायुष्मान् सुभूतिः प्रज्ञापारमितां भाषते । अथ खल्वायुष्मान् सुभूतिः शक्रं देवानामिन्द्रमेतदवोचत्- यत्कौशिक एवं वदसि - कस्यैषोऽनुभावो वेदितव्यः, कस्यैतदनुष्ठानं वेदितव्यं यदार्यसुभूतिः प्रज्ञापारमितां भाषते इति? तथागतस्यैष कौशिक अनुभावो वेदितव्यः । तथागतस्यैतदधिष्ठानं वेदितव्यं यदहं प्रज्ञापारमितां भाषे । यदपि कौशिक एवं वदसि - प्रज्ञापारमिता बोधिसत्त्वेन महासत्त्वेन कुतो गवेषितव्येति? प्रज्ञापारमिता कौशिक बोधिसत्त्वेन महासत्त्वेन न रूपाद्गवेषितव्या नाप्यन्यत्र रूपाद्गवेषितव्या । एवं न वेदनाया न संज्ञाया न संस्कारेभ्यः न विज्ञानाद्गवेषितव्याः, नाप्यन्यत्र विज्ञानाद्गवेषितव्या । तत्कस्य हेतोः? तथा हि न रूपं प्रज्ञापारमिता, नाप्यन्यत्र रूपात्प्रज्ञापारमिता । एवं न वेदना न संज्ञा न संस्काराः । न विज्ञानं प्रज्ञापारमिता, नाप्यन्यत्र विज्ञानात्प्रज्ञापारमिता ॥ एवमुक्ते शक्रो देवानामिन्द्र आयुष्मन्तं सुभूतिमेतदवोचत्- महापारमितेयमार्य सुभूते यदुत प्रज्ञापारमिता । अप्रमाणपारमितेयमार्य सुभूते यदुत प्रज्ञापारमिता । अपरिमाणपारमितेयमार्य (वैद्य २३) सुभूते यदुत प्रज्ञापारमिता । अनन्तपारमितेयमार्य सुभूते यदुत प्रज्ञापारमिता । स्थविरः सुभूतिराह - एवमेतत्कौशिक, एवमेतत् । महापारमितेयं कौशिक यदुत प्रज्ञापारमिता । अप्रमाणपारमितेयं कौशिक यदुत प्रज्ञापारमिता । अपरिमाणपारमितेयं कौशिक यदुत प्रज्ञापारमिता । अनन्तपारमितेयं कौशिक यदुत प्रज्ञापारमिता । तत्कस्य हेतोः? रूपमहत्तया हि कौशिक महापारमितेयं यदुत प्रज्ञापारमिता । एवं वेदनासंज्ञासंस्काराः । विज्ञानमहत्तया हि कौशिकमहापारमितेयं यदुत प्रज्ञापारमिता । रूपाप्रमाणतया कौशिक अप्रमाणपारमितेयं यदुत प्रज्ञापारमिता । एवं वेदनासंज्ञासंस्काराः । विज्ञानाप्रमाणतया कौशिक अप्रमाणपारमितेयं यदुत प्रज्ञपारमिता । रूपापरिमाणतया कौशिक अपरिमाणपारमितेयं यदुत प्रज्ञापारमिता । एवं वेदनासंज्ञासंस्काराः । विज्ञानापरिमाणतया कौशिक अपरिमाणपारमितेयं यदुत प्रज्ञपारमिता । रूपानन्ततया कौशिक अनन्तपारमितेयं यदुत प्रज्ञापारमिता । एवं वेदनासंज्ञासंस्काराः । विज्ञानानन्ततया कौशिक अनन्तपारमितेयं यदुत प्रज्ञापारमिता । एवं महापारमितेति कौशिक नाभिनिविशते । एवमप्रमाणपारमितेति, एवमपरिमाणपारमितेति, एवमनन्तपारमितेति नाभिनिविशते । तस्मात्कौशिक महापारमितेयम्, अप्रमाणपारमितेयम्, अपरिमाणपारमितेयम्, अनन्तपारमितेयं यदुत प्रज्ञापारमिता ॥ आरम्बणानन्ततया कौशिक अनन्तपारमितेयं यदुत प्रज्ञापारमिता । सत्त्वानन्ततया कौशिक अनन्तपारमितेयं यदुत प्रज्ञापारमिता । कथं पुनः कौशिक आरम्बणानन्ततया अनन्तपारमितेयं यदुत प्रज्ञापारमिता? सर्वधर्माणां हि कौशिक यतो नान्तो न मध्यं न पर्यवसानमुपलभ्यते, ततः कौशिक अनन्तपारमितेयं यदुत प्रज्ञापारमिता । अनेन कौशिक पर्यायेण आरम्बणानन्ततया अनन्तपारमितेयं यदुत प्रज्ञापारमिता । पुनरपरं कौशिक यस्मात्सर्वधर्मा अनन्ता अपर्यन्ताः, न तेषामन्तो वा मध्यं वा पर्यवसानं वा उपलभ्यते, तस्मात्कौशिक अनन्तपारमितेयं यदुत प्रज्ञापारमिता । तत्कस्य हेतोः? रूपस्य हि कौशिक नान्तो न मध्यं न पर्यवसानमुपलभ्यते । एवं वेदनायाः संज्ञायाः संस्काराणाम् । विज्ञानस्य हि कौशिक नान्तो न मध्यं न पर्यवसानमुपलभ्यते । अनेनापि कौशिक पर्यायेण आरम्बणानन्ततया अनन्तपारमितेयं यदुत प्रज्ञापारमिता ॥ पुनरपरं कौशिक सत्त्वोऽनन्तोऽपर्यन्तः । तत्कस्य हेतोः? न हि सत्त्वस्यान्तो वा मध्यं वा पर्यवसानं वोपलभ्यते । तस्मात्कौशिक सत्त्वानन्ततया अनन्तपारमितेयं यदुत प्रज्ञापारमिता । अथ खलु शक्रो देवानामिन्द्र आयुष्मन्तं सुभूतिमेतदवोचत्- कथमायुष्मन् सुभूते सत्त्वानन्ततया अनन्तपारमितेयं यदुत प्रज्ञापारमिता? स्थविरः सुभूतिराह - न हि कौशिक गणनायोगेन वा गणनाबहुत्वेन वा सत्त्वानन्ततया अनन्तपारमितेयं यदुत प्रज्ञापारमिता ॥ शक्र आह - कथं तर्हीदानीमार्य सुभूते सत्त्वानन्ततया अनन्तपारमितेयं यदुत (वैद्य २४) प्रज्ञापारमिता? स्थविरः सुभूतिराह - तत्कं मन्यसे कौशिक कतमस्यैतद्धर्मस्याधिवचनं यदुत सत्त्वः सत्त्व इति? शक्र आह - नैतदार्य सुभूते धर्मस्याधिवचनं न अधर्माधिवचनं यदुत सत्त्वः सत्त्व इति । आगन्तुकमेतन्नामधेयं प्रक्षिप्तम् । अवस्तुकमेतन्नामधेयं प्रक्षिप्तम् । अनात्मीयमेतन्नामधेयं प्रक्षिप्तम् । अनारम्बणमेतन्नामधेयं प्रक्षिप्तं यदुत सत्त्वः सत्त्व इति । स्थविरः सुभूतिराह - तत्किं मन्यसे कौशिक काचिदत्र सत्त्वपरिदीपना कृता? शक्र आह - नो हीदमार्य सुभूते । सुभूतिराह - यत्र कौशिक न काचित्सत्त्वपरिदीपना कृता, तत्र का सत्त्वानन्तता? सचेत्कौशिक तथागतोऽर्हन् सम्यक्संबुद्धोऽनन्तविज्ञप्तिघोषेण गम्भीरनिर्घोषेण स्वरेण गङ्गानदीवालुकोपमान् कल्पानपि वितिष्ठमानः सत्त्वः सत्त्व इति वाचं भाषेत, अपि नु तत्र कश्चित्सत्त्व उत्पन्नो व उत्पत्स्यते वा उत्पद्यते वा, निरुद्धो वा निरोत्स्यते वा निरुध्यते वा? शक्र आह - नो हीदमार्य सुभूते । तत्कस्य हेतोः? आदिशुद्धत्वादादिपरिशुद्धत्वात्सत्त्वस्य । सुभूतिराह - अनेनापि कौशिक पर्यायेण एवं सत्त्वानन्ततया अनन्तपारमितेयं यदुत प्रज्ञापारमिता । एवं च पुनः कौशिक सत्त्वानन्ततया प्रज्ञापारमितानन्तता वेदितव्या ॥ अथ खलु सेन्द्रका देवाः सब्रह्मकाः सप्रजापतिकाः सर्षिनरनारीगणास्त्रिरुदानमुदानयन्ति स्म - अहो धर्मः, अहो धर्मः, अहो धर्मस्य धर्मता । यस्तथागतस्य प्रादुर्भावः, स आर्येण सुभूतिना स्थविरेण सुभाषितेनेह सूच्यते देश्यते प्रकाश्यते प्रभाव्यते । तथागतं तं वयं भगवन् बोधिसत्त्वं महासत्त्वमद्याग्रेण धारयिष्यामो योऽनया प्रज्ञापारमितया अविरहितो भविष्यति, योऽपि च अनेन बोधिसत्त्वो महासत्त्वः प्रज्ञापारमिताविहारेण विहरिष्यति ॥ अथ खलु भगवांस्तान् सेन्द्रकान् सब्रह्मकान् सप्रजापतिकान् सर्षिनरनारीगणानामन्त्रयते स्म - एवमेतद्देवपुत्राः, एवमेतत् । यदाहं देवपुत्रा दीपंकरस्य तथागतस्यार्हतः सम्यक्संबुद्धस्यान्तिके दीपवत्यां राजधान्यामन्तरायणमध्यगतोऽनया प्रज्ञापारमितया अविरहितोऽभूवम्, तदाहं दीपंकरेण तथागतेनार्हतां सम्यक्संबुद्धेन व्याकृतोऽनुत्तरायां सम्यक्संबोधौ - भविष्यसि त्वं माणव अनागतेऽध्वनि असंख्येयैः कल्पैः शाक्यमुनिर्नाम तथागतोऽर्हन् सम्यक्संबुद्धो विद्याचरणसंपन्नः सुगतो लोकविदनुत्तरः पुरुषदम्यसारथिः शास्ता देवानां च मनुष्यानां च बुद्धो भगवानिति । अथ खलु ते देवपुत्रा भगवन्तमेतदवोचन् - आश्चर्यं भगवन्, परमाश्चर्यं सुगत । यावदियं प्रज्ञापारमिता बोधिसत्त्वानां महासत्त्वानां सर्वज्ञताया आहारिका अनुपरिग्राहिका चेति ॥ आर्याष्टसाहस्रिकायां प्रज्ञापारमितायां शक्रपरिवर्तो नाम द्वितीयः ॥ _______________________________________________________________ (वैद्य २५) ३: अप्रमेयगुणधारणपारमितास्तूपसत्कारपरिवर्तस्तृतीयः । अथ खलु भगवान् ये तत्र देवपुत्राः पर्षदि संनिपतिताः संनिषण्णाश्चाभूवन्, याश्च भिक्षुभिक्षुण्युपासकोपासिकाः संनिपतिताः संनिषण्णाश्चाभूवन्, तान् देवपुत्रान् संनिपतितान् संनिषण्णांश्च विदित्वा, ताश्च सर्वाश्चतस्रः पर्षदः संनिपतिताः संनिषण्णाश्च विदित्वा, कामावचरान् रूपावचरांश्च देवपुत्रान् ब्रह्मकायिकांश्च देवपुत्रानाभास्वरांश्च परीत्तशुभांश्च अकनिष्ठांश्च देवपुत्रान् साक्षिणः स्थापयित्वा, शक्रदेवेन्द्रप्रमुखान् कामावचरान् देवपुत्रान्महाब्रह्मप्रमुखांश्च ब्रह्मकायिकान् देवपुत्रानाभास्वरांश्च देवपुत्रानामन्त्रयते स्म - यो हि कश्चिद्देवपुत्राः कुलपुत्रो वा कुलदुहिता वा इमां प्रज्ञापारमितामुद्ग्रहीष्यति धारयिष्यति वाचयिष्यति पर्यवाप्स्यति प्रवर्तयिष्यति, न तस्य मारो वा मारकायिका वा देवता अवतारप्रेक्षिण्योऽवतारगवेषिण्योऽवतारं लप्स्यन्ते । नापि तस्य कुलपुत्रस्य वा कुलदुहितुर्वा मनुष्या वा अमनुष्या वा अवतारप्रेक्षिणोऽवतारगवेषिणोऽवतारं लप्स्यन्ते । नापि स कुलपुत्रो वा कुलदुहिता वा विषमापरिहारेण कालं करिष्यति ॥ पुनरपरं देवपुत्राः ये देवपुत्रा अनुत्तरायां सम्यक्संबोधौ संप्रस्थिताः, यैश्च देवपुत्रैरियं प्रज्ञापारमिता नोद्गृहीता न धारिता न वाचिता न पर्यवाप्ता न प्रवर्तिता, ते देवपुत्रास्तं कुलपुत्र वा कुलदुहितरं वा उपसंक्रमितव्यं मंस्यन्ते, तस्य च कुलपुत्रस्य वा कुलदुहितुर्वा इमां प्रज्ञापारमितामुद्गृह्णतो धारयतो वाचयतः पर्यवाप्नुवतः प्रवर्तयमानस्यान्तिकाच्छ्रोष्यन्ति, श्रुत्वा चोद्ग्रहीष्यन्ति धारयिष्यन्ति वाचयिष्यन्ति पर्यवाप्स्यन्ति प्रवर्तयिष्यन्ति । न च खलु पुनर्देवपुत्रास्तस्य कुलपुत्रस्य वा कुलदुहितुर्वा इमां प्रज्ञापारमितामुद्गृह्णतो धारयतो वाचयतः पर्यवाप्नुवतः प्रवर्तयमानस्य अरण्यगतस्य वा वृक्षमूलगतस्य वा शून्यागारगतस्य वा अभ्यवकाशगतस्य वा पथि गतस्य वा उत्पथगतस्य वा अटवीगतस्य वा महासमुद्रगतस्य वा तत्र तत्रोपसंक्रामतो वा चंक्रम्यमाणस्य वा स्थितस्य वा निषण्णस्य वा विपन्नस्य वा भयं वा भविष्यति, स्तम्भितत्वं वा भविष्यति, उत्पत्स्यते वा ॥ अथ खलु चत्वारो महाराजानो भगवन्तमेतदवोचन् - आश्चर्यं भगवन् यदिमां प्रज्ञापारमितामुद्गृह्णन् धारयन् वाचयन् पर्यवाप्नुवन् प्रवर्तयन् स कुलपुत्रो वा कुलदुहिता वा यानत्रये सत्त्वान् विनयति, न च सत्त्वसंज्ञामुत्पादयति । वयं भगवंस्तस्य कुलपुत्रस्य वा कुलदुहितुर्वा रक्षावरणगुप्तिं संविधास्यामः, य इमां प्रज्ञापारमितामुद्ग्रहीष्यति धारयिष्यति वाचयिष्यति पर्यवाप्स्यति प्रवर्तयिष्यति ॥ अथ खलु शक्रो देवानामिन्द्रो भगवन्तमेतदवोचत्- अहमपि भगवंस्तस्य कुलपुत्रस्य वा कुलदुहितुर्वा रक्षावरणगुप्तिं संविधास्यामि, य इमां प्रज्ञापारमितामुद्ग्रहीष्यति धारयिष्यति वाचयिष्यति पर्यवाप्स्यति प्रवर्तयिष्यति ॥ ब्रह्मापि सहापतिः सार्धं ब्रह्मकायिकैर्देवपुत्रैर्भगवन्तमेतदवोचत्- अहमपि भगवंस्तस्य कुलपुत्रस्य वा कुलदुहितुर्वा रक्षावरणगुप्तिं संविधास्यामि, य इमां प्रज्ञापारमितामुद्ग्रहीष्यति धारयिष्यति वाचयिष्यति पर्यवाप्स्यति प्रवर्तयिष्यति ॥ (वैद्य २६) अथ खलु शक्रो देवानामिन्द्रो भगवन्तमेतदवोचत्- आश्चर्यं भगवन् यदिमां प्रज्ञापारमितामुद्गृह्णन् धारयन् वाचयन् पर्यवाप्नुवन् प्रवर्तयन् स कुलपुत्रो वा कुलदुहिता वा इमान् यतो दृष्टधार्मिकान् गुणान् प्रतिलभते परिगृह्णाति, किं पुनर्भगवन् प्रज्ञापारमितायामुद्गृहीतायां सर्वाः षट्पारमिता उद्गृहीता भवन्ति? एवमुक्ते भगवान् शक्रं देवानामिन्द्रमेतदवोचत्- एवमेतत्कौशिक, एवमेतत् । प्रज्ञापारमितायां कौशिक उद्गृहीतायां सर्वाः षट्पारमिता उद्गृहीता भवन्ति । पुनरपरं कौशिक प्रज्ञापारमितायामुद्गृहीतायां धारितायां वाचितायां पर्यवाप्तायां प्रवर्तितायां स कुलपुत्रो वा कुलदुहिता वा दृष्टधार्मिकान् गुणान् परिगृह्णाति । तान् कौशिक्सर्वान् शृणु, साधु च सुष्ठु च मनसि कुरु, भाषिष्येऽहं ते । साधु भगवन्निति शक्रो देवानामिन्द्रो भगवतः प्रत्यश्रौषीत् । भगवानेतदवोचत्- तत्र कौशिक ये मम धर्मं विग्रहीतव्यं मंस्यन्ते, विवदितव्यं मंस्यन्ते, विरोधयितव्यं मंस्यन्ते, तेषां विग्रहीतुकामानां विवदितुकामानां विरोधयितुकामानामुत्पन्नोत्पन्ना विग्रहा विवादा विरोधाः, पुनरेवान्तर्धास्यन्ति, न स्थास्यन्ति । तेषां विग्रहीतुकामानां विवदितुकामानां विरोधयितुकामानां न तेऽभिप्रायाः परिपूरिं गमिष्यन्ति । तत्कस्य हेतोः? एवं ह्येतत्कौशिक भवति - य इमां प्रज्ञापारमितां कुलपुत्रो वा कुलदुहिता वा उद्ग्रहीष्यति धारयिष्यति वाचयिष्यति पर्यवाप्स्यति प्रवर्तयिष्यति देशयिष्यति उपदेक्ष्यति उद्देक्ष्यति स्वाध्यास्यति, तस्यैवं तान्युत्पन्नोत्पन्नान्यधिकरणानि पुनरेवान्तर्धास्यन्ति, न स्थास्यन्ति । तेषां विग्रहीतुकामानां विवदितुकामानां विरोधयितुकामानां न तेऽभिप्रायाः परिपूरिं गमिष्यन्ति । इममपि स कौशिक कुलपुत्रो वा कुलदुहिता वा दृष्टधार्मिकं गुणं परिगृह्णाति, य इमां प्रज्ञापारमितामुद्गृह्णाति धारयति वाचयति पर्यवाप्नोति प्रवर्तयति देशयति उपदिशति उद्दिशति स्वाध्यायति । तद्यथापि नाम कौशिक मघी नामौषधी सर्वविषप्रशमनी । तत्र आशीविषेण जन्तुना बुभुक्षितेन आहारार्थिना आहारगवेषिणा कश्चिदेव प्राणकजातो जन्तुर्दृष्टो भवेत् । स आशीविषस्तं प्राणकजातं गन्धेनानुबध्नीयादनुगच्छेदाहारहेतोर्भक्षयितुकामः । अथ स प्राणकजातो येन सा मधी नामौषधी तेनोपसंक्रमेत्, तेनोपसंक्रम्य तिष्ठेत् । अथ स आशीविषस्तस्या ओषध्या गन्धेनैव प्रत्युदावर्तेत । तत्कस्य हेतोः? तथा हि तस्या ओषस्या भैषज्यगुणः स तादृशो यस्तस्याशीविषस्य तद्विषमभिभवति । एवं बलवती हि सा ओषधी । एवमेव कौशिक यः कुलपुत्रो वा कुलदुहिता व इमां प्रज्ञापारमितामुद्ग्रहीष्यति धारयिष्यति वाचयिष्यति पर्यवाप्स्यति प्रवर्तयिष्यति देशयिष्यति उपदेक्ष्यति उद्देक्ष्यति स्वाध्यास्यति, तस्य कौशिक यानि तान्युत्पन्नोत्पन्नान्यधिकरणानि विग्रहा विवादा विरोधा भविष्यन्ति, ते प्रज्ञापारमितायास्तेजसा बलेन स्थामतः प्रज्ञापारमिताबलाधानेन क्षिप्रं तत एवोपरंस्यन्ति उपशमिष्यन्ति अन्तर्धास्यन्ति न विवर्धिष्यन्ते । यतो यत एवोत्पत्स्यन्ते, तत्र तत्रैव निरोत्स्यन्ते अन्तर्धास्यन्ति, न विवर्धिष्यन्ते न स्थास्यन्ति । तत्कस्य हेतोः? प्रज्ञापारमिता हि रागादीनां यावन्निर्वाणग्राहस्योपशमयित्री, न विवर्धिकेति । चत्वारश्च तस्य महाराजानः (वैद्य २७) शक्रश्च देवानामिन्द्रो ब्रह्मा च सहापतिः सर्वे च बुद्धा भगवन्तो बोधिसत्त्वाश्च रक्षावरणगुप्तिं संविधास्यन्ति, य इमां प्रज्ञापारमितामुद्ग्रहीष्यति धारयिष्यति वाचयिष्यति पर्यवाप्स्यति प्रवर्तयिष्यति देशयिष्यति उपदेक्ष्यतिः उद्देक्ष्यति स्वाध्यास्यति । अयं तेन कुलपुत्रेण वा कुलदुहिता वा दृष्टधार्मिको गुणः परिगृहीतो भविष्यति ॥ पुनरपरं कौशिक यः कुलपुत्रो वा कुलदुहिता वा इमां प्रज्ञापारमितामुद्ग्रहीष्यति धारयिष्यति वाचयिष्यति पर्यवाप्स्यति प्रवर्तयिष्यति देशयिष्यति उपदेक्ष्यति उद्देक्ष्यति स्वाध्यास्यति, स आदेयवचनश्च भविष्यति, मृदुवचनश्च भविष्यति, मितवचनश्च भविष्यति, अप्रकीर्णवचनश्च भविष्यति, न च क्रोधाभिभूतो भविष्यति, न च मानाभिभूतो भविष्यति । तत्कस्य हेतोः? तथा हि तं प्रज्ञापारमिता परिदमयति, प्रज्ञापारमिता परिणमयति, न क्रोधं वर्धयति, न मानं वर्धयति । स नोपनाहं परिगृह्णाति, न व्यापादं परिगृह्णाति, नानुशयं धारयति । एवं चरतोऽस्य कुलपुत्रस्य वा कुलदुहितुर्वा स्मृतिर्मैत्री चोत्पद्यते । तस्यैवं भवति - सचेदहं व्यापादमुत्पादयिष्यामि, तेनेन्द्रियाणि मे परिभेत्स्यन्ते, मुखवर्णश्च मे धक्ष्यते । अयुक्तं चैतन्मम यदहमनुत्तरायां सम्यक्संबोधौ संप्रस्थितः, तत्र शिक्षितुकामः, क्रोधस्य वशं गच्छेयम् । इत्येवं स क्षिप्रमेव स्मृतिं प्रतिलभते । इममपि स कौशिक कुलपुत्रो वा कुलदुहिता वा दृष्टधार्मिकं गुणं परिगृह्णाति, य इमां प्रज्ञापारमितामुद्ग्रहीष्यति धारयिष्यति वाचयिष्यति पर्यवाप्स्यति प्रवर्तयिष्यति देशयति उपदेक्ष्यति उद्देक्ष्यति स्वाध्यास्यति । एवमुक्ते शक्रो देवानामिन्द्रो भगवन्तमेतदवोचत्- आश्चर्यं भगवन् यथेयं प्रज्ञापारमिता परिदमनाय प्रत्युपस्थिता अनुनामाय बोधिसत्त्वानां महासत्त्वानाम् ॥ भगवानाह - पुनरपरं कौशिक य इमां प्रज्ञापारमितां कुलपुत्रो वा कुलदुहिता वा उद्ग्रहीष्यति धारयिष्यति वाचयिष्यति पर्यवाप्स्यति प्रवर्तयिष्यति देशयिष्यति उपदेक्ष्यति उद्देक्ष्यति स्वाध्यास्यति, सचेत्कुलपुत्रो वा कुलदुहिता वा इमां प्रज्ञापारमितामेवमुद्गृह्णन् धारयन् वाचयन् पर्यवाप्नुवन् प्रवर्तयन् देशयनुपदिशयनुद्दिशन् स्वाध्यायन् संग्रामे वर्तमाने संग्रामशिरसि समारूढः स्यात् । तस्य संग्राममवतरतो वा अवतीर्णस्य वा अतिक्रामतो वा संग्राममध्यगतस्य वा तिष्ठतो वा निषण्णस्य वा अस्थानमेतत्कौशिक अनवकाशो यत्तस्य कुलपुत्रस्य वा कुलदुहितुर्वा इमां प्रज्ञापारमितां मनसि कुर्वतो वा उद्गृह्णतो वा धारयतो वा वाचयतो वा पर्यवाप्नुवतो वा प्रवर्तयतो वा देशयतो वा उपदिशतो वा उद्दिशतो वा स्वाध्यायतो वा जीवितान्तरायो वा भवेत् । परोपक्रमेण जीवितान्तरायं सोऽनुप्राप्नुयात्, नैतत्स्थानं विद्यते । सचेत्पुनस्तस्य कश्चित्कौशिक तत्र शस्त्रं वा दण्डं वा लोष्टं वा अन्यद्वा क्षिपेत्, नैतत्तस्य शरीरे निपतेत् । तत्कस्य हेतोः? महाविद्येयं कौशिक यदुत प्रज्ञापारमिता । अप्रमाणेयं कौशिक विद्या यदुत प्रज्ञापारमिता । अपरिमाणेयं कौशिक विद्या यदुत प्रज्ञापारमिता । अनुत्तरेयं कौशिक विद्या यदुत प्रज्ञापारमिता । असमेयं कौशिक विद्या यदुत प्रज्ञापारमिता । असमसमेयं कौशिक विद्या यदुत प्रज्ञापारमिता । तत्कस्य हेतोः? अत्र हि कौशिक (वैद्य २८) विद्यायां शिक्षमाणः कुलपुत्रो वा कुलदुहिता वा नात्मव्याबाधाय चेतयते, न परव्याबाधाय चेतयते, नोभयव्याबाधाय चेतयते । अत्र हि कौशिक विद्यायां शिक्षमाणो बोधिसत्त्वो महासत्त्वोऽनुत्तरां सम्यक्संबोधिमभिसंभोत्स्यते, सर्वज्ञज्ञानं च प्रतिलप्स्यते । तेन सोऽनुत्तरां सम्यक्संबोधिमभिसंबुध्य सर्वसत्त्वानां चित्तानि व्यवलोकयिष्यति । तत्कस्य हेतोः? अत्र हि कौशिक विद्यायां शिक्षमाणस्य बोधिसत्त्वस्य महासत्त्वस्य न तत्किंचिदस्ति, यन्न प्राप्तं वा न ज्ञातं वा न साक्षात्कृतं वा स्यात् । तस्मात्सर्वज्ञज्ञानमित्युच्यते । अयमपि कौशिक तेन कुलपुत्रेण वा कुलदुहित्रा वा दृष्टधार्मिको गुणः परिगृहीतो भविष्यति, य इमां प्रज्ञापारमितामुद्ग्रहीष्यति धारयिष्यति वाचयिष्यति पर्यवाप्स्यति प्रवर्तयिष्यति देशयिष्यति उपदेक्ष्यति उद्देक्ष्यति स्वाध्यास्यति ॥ पुनरपरं कौशिक यत्रेयं प्रज्ञापारमिता अन्तशो लिखित्वा पुस्तकगतां कृत्वा पूजापूर्वंगमं स्थापयित्वा न सत्करिष्यते, नोद्ग्रहीष्यते, न धारयिष्यते, न वाचयिष्यते, न पर्यवाप्स्यते, न प्रवर्तयिष्यते, न देशयिष्यते, नोपदेक्ष्यते, नोद्देक्ष्यते, न स्वाध्यास्यते, न तत्र कौशिक सत्त्वानां मनुष्यो वा अमनुष्यो वा अवतारार्थिकोऽवतारगवेषी अवतारं लप्स्यते स्थापयित्वा पूर्वकर्मविपाकम् । इममपि स कौशिक कुलपुत्रो वा कुलदुहिता वा दृष्टधार्मिकं गुणं परिगृह्णाति ॥ पुनरपरं कौशिक तद्यथापि नाम ये बोधिमण्डगता वा बोधिमण्डपरिसामन्तगता वा बोधिमण्डाभ्यन्तरगता वा बोधिवृक्षमूलगता वा मनुष्या वा अमनुष्या वा, तिर्यग्योनिगतानप्युपादाय, यावन्न ते शक्या मनुष्यैर्वा अमनुष्यैर्वा विहेठयितुं वा व्यापादयितुं वा आवेशयितुं वा स्थापयित्वा पूर्वकर्मविपाकम् । तत्कस्य हेतोः? तत्र हि अतीतानागतप्रत्युत्पन्नास्तथागता अर्हन्तः सम्यक्संबुद्धा अभिसंबुद्धा अभिसंभोत्स्यन्ते अभिसंबुध्यन्ते च, ये सर्वसत्त्वानामभयमवैरमनुत्रासं प्रभावयन्ति प्रकाशयन्ति । एवमेव कौशिक यत्र कुलपुत्रो वा कुलदुहिता वा इमां प्रज्ञापारमितामुद्ग्रहीष्यति धारयिष्यति वाचयिष्यति पर्यवाप्स्यति प्रवर्तयिष्यति देशयिष्यति उपदेक्ष्यति उद्देक्ष्यति स्वाध्यास्यति, तत्र हि कौशिक सत्त्वा न शक्या मनुष्यैर्वा अमनुष्यैर्वा विहेठयितुं वा व्यापादयितुं वा आवेशयितुं वा, स्थापयित्वा पूर्वकर्मविपाकम् । तत्कस्य हेतोः? अनयैव हि कौशिक प्रज्ञापारमितया पृथिवीप्रदेशः सत्त्वानां चैत्यभूतः कृतो वन्दनीयो माननीयः पूजनीयोऽर्चनीयोऽपचायनीयः सत्करणीयो गुरुकरणीयः, त्राणं शरणं लयनं परायणं कृतो भविष्यति तत्रोपगतानां सत्त्वानाम् । इममपि स कौशिक कुलपुत्रो वा कुलदुहिता वा दृष्टधार्मिकं गुणं परिगृह्णाति ॥ एवमुक्ते शक्रो देवानामिन्द्रो भगवन्तमेतदवोचत्- यो भगवन् कुलपुत्रो वा कुलदुहिता वा इमां प्रज्ञापारमितां लिखित्वा पुस्तकगतां कृत्वा स्थापयेत्, एनां च दिव्याभिः पुष्पधूपगन्धमाल्यविलेपनचूर्णचीवरच्छत्रध्वजघण्टापताकाभिः समन्ताच्च दीपमालाभिः, बहुविधाभिश्च पूजाभिः सत्कुर्यात्गुरुकुर्यात्मानयेत्पूजयेतर्चयेतपचायेत्, यश्च (वैद्य २९) तथागतस्यार्हतः सम्यक्संबुद्धस्य परिनिर्वृतस्य शरीराणि स्तूपेषु प्रतिष्ठापयेत्परिगृह्णीयात्धारयेद्धा, तांश्च तथैव दिव्याभिः पुष्पधूपगन्धमाल्यविलेपनचूर्णचीवरच्छत्रध्वजघण्टापताकाभिः, समन्ताच्च दीपमालाभिः, बहुविधाभिश्च पूजाभिः सत्कुर्यात्गुरुकुर्यात्मानयेत्पूजयेतर्चयेतपचायेत्, कतरस्तयोः कुलपुत्रयोः कुलदुहित्रोर्वा बहुतरं पुण्यं प्रसवेत्? एवमुक्ते भगवान् शक्रं देवानामिन्द्रमेतदवोचत्- तेन हि कौशिक त्वामेवात्र प्रतिप्रक्ष्यामि । यथा ते क्षमते, तथा व्याकुर्याः । तत्किं मन्यसे कौशिक योऽयं तथागतस्यार्हतः सम्यक्संबुद्धस्य सर्वज्ञतात्मभावोऽभिनिर्वर्तितः, स कतमस्यां प्रतिपदि शिक्षमाणेन तथागतेनार्हता सम्यक्संबुद्धेन अनुत्तरा सम्यक्संबोधिः सर्वज्ञता प्रतिलब्धा अभिसंबुद्धा? एवमुक्ते शक्रो देवानामिन्द्रो भगवन्तमेतदवोचत्- इहैव भगवन् भगवता प्रज्ञापारमितायां शिक्षमाणेन तथागतेनार्हता सम्यक्संबुद्धेन अनुत्तरा सम्यक्संबोधिः सर्वज्ञता प्रतिलब्धा अभिसंबुद्धा । भगवानाह - तस्मात्तर्हि कौशिक नानेनात्मभावशरीरप्रतिलम्भेन तथागतस्तथागत इति संख्यां गच्छति । सर्वज्ञतायां तु प्रतिलब्धायां तथागतस्तथागत इति संख्यां गच्छति । येयं कौशिक सर्वज्ञता तथागतस्यार्हतः सम्यक्संबुद्धस्य, प्रज्ञापारमितानिर्जातैषा । एष च कौशिक तथागतस्यात्मभावशरीरप्रतिलम्भः प्रज्ञापारमितोपायकौशल्यनिर्जातः सन् सर्वज्ञज्ञानाश्रयभूतो भवति । एनं ह्याश्रयं निश्रित्य सर्वज्ञज्ञानस्य प्रभावना भवति, बुद्धशरीरप्रभावना भवति, धर्मशरीरप्रभावना भवति, संघशरीरप्रभावना भवति । इत्येवं सर्वज्ञज्ञानहेतुकोऽयमात्मभावशरीरप्रतिलम्भः सर्वज्ञज्ञानाश्रयभूतत्वात्सर्वसत्त्वानां चैत्यभूतो वन्दनीयः सत्करणीयो गुरुकरणीयो माननीयः पूजनीयोऽर्चनीयोऽपचायनीयः संवृत्तो भवति । एवं च मम परिनिर्वृतस्यापि सतः एषां शरीराणां पूजा भविष्यति । तस्मात्तर्हि कौशिक यः कश्चित्कुलपुत्रो वा कुलदुहिता वा इमां प्रज्ञापारमितां लिखित्वा पुस्तकगतां वा कृत्वा स्थापयेत्, एनां च दिव्याभिः पुष्पधूपगन्धमाल्यविलेपनचूर्णचीवरच्छत्रध्वजघण्टापताकाभिः सत्कुर्यात्गुरुकुर्यात्मानयेत्पूजयेतर्चयेतपचायेत्, अयमेव कौशिक तयोः कुलपुत्रयोः कुलदुहित्रोर्वा बहुतरं पुण्यं प्रसवेत् । तत्कस्य हेतोः? सर्वज्ञज्ञानस्य हि कौशिक तेन कुलपुत्रेण वा कुलदुहित्रा वा पूजा कृता भविष्यति, यः कुलपुत्रो वा कुलदुहिता वा इह प्रज्ञापारमितायां लिख्यमानायां पुस्तकगतायां वा सत्कारं गुरुकारं माननां पूजनामर्चनामपचायनां पूजां च विविधां कुर्यात्, अयमेव ततो बहुतरं पुण्यं प्रसवेत् । तत्कस्य हेतोः? सर्वज्ञज्ञानस्य हि कौशिक तेन पूजा कृता भविष्यति, यः प्रज्ञापारमितायै पूजां करिष्यति ॥ एवमुक्ते शक्रो देवानामिन्द्रो भगवन्तमेतदवोचत्- य इमे भगवन् जाम्बूद्वीपका मनुष्या इमां प्रज्ञापारमितां न लिखिष्यन्ति, नोद्ग्रहीष्यन्ति न धारयिष्यन्ति, न वाचयिष्यन्ति न पर्यवाप्स्यन्ति न प्रवर्तयिष्यन्ति न देशयिष्यन्ति नोपदेक्ष्यन्ति नोद्देक्ष्यन्ति न स्वाध्यास्यन्ति, तां चैनां प्रज्ञापारमितां पुष्पधूपगन्धमाल्यविलेपनचूर्णचीवरच्छत्रध्वजघण्टापताकाभिः, समन्ताच्च दीपमालाभिः, बहुविधाभिश्च पूजाभिर्न सत्करिष्यन्ति, न गुरुकरिष्यन्ति, न (वैद्य ३०) मानयिष्यन्ति, न पूजयिष्यन्ति, नार्चयिष्यन्ति, नापचायिष्यन्ति, किं नु ते भगवन्न ज्ञास्यन्ति एवं महार्थिका भगवतोक्ता प्रज्ञापारमितायाः पूजा कृता भविष्यतीति? किं नु ते भगवन्न वेत्स्यन्ति - एवं महानुशंसा एवं महाफला एवं महाविपाका भगवतोक्ता प्रज्ञापारमितायाः पूजा कृता भविष्यतीति? न च ते वेदयिष्यन्ति, उत ज्ञास्यन्ति वेत्स्यन्ति, वेदयिष्यन्ति, न च पुनः श्रद्धास्यन्ति? एवमुक्ते भगवान् शक्रं देवानामिन्द्रमेतदवोचत्- तत्किं मन्यसे कौशिक कियन्तस्ते जाम्बूद्वीपका मनुष्या ते बुद्धेऽवेत्य प्रसादेन समन्वागताः, ये धर्मेऽवेत्य प्रसादेन समन्वागताः, ये संघेऽवेत्य प्रसादेन समन्वागताः? एवमुक्ते शक्रो देवानामिन्द्रो भगवन्तमेतदवोचत्- अल्पकास्ते भगवन् जाम्बूद्वीपका मनुष्या ये बुद्धेऽवेत्य प्रसादेन समन्वागताः, ये धर्मेऽवेत्य प्रसादेन समन्वागताः, ये संघेऽवेत्य प्रसादेन समन्वागताः । एवमुक्ते भगवान् शक्रं देवानामिन्द्रमेतदवोचत्- एवमेतत्कौशिक, एवमेतत् । अल्पकास्ते जाम्बूद्वीपका मनुष्या ये बुद्धेऽवेत्य प्रसादेन समन्वागताः, ये धर्मेऽवेत्य प्रसादेन समन्वागताः, ये संघेऽवेत्य प्रसादेन समन्वागताः । तेभ्यः कौशिक अल्पेभ्योऽल्पतरकास्ते, ये स्रोतआपत्तिफलं प्राप्नुवन्ति, ततः सकृदागामिफलमनागामिफलम् । तेभ्योऽप्यल्पेभ्योऽल्पतरकास्तेयेऽर्हत्त्व प्राप्नुवन्ति । तेभ्योऽप्यल्पेभ्योऽल्पतरकास्ते ये प्रत्येकबोधिं साक्षात्कुर्वन्ति । तेभ्योऽप्यल्पेभ्योऽल्पतरकास्ते येऽनुत्तरायां सम्यक्संबोधौ चित्तान्युत्पादयन्ति । तेभ्योऽप्यल्पेभ्योऽल्पतरकास्ते येऽनुत्तरायां सम्यक्संबोधौ चित्तान्युत्पाद्य तं चित्तोत्पादं बृंहयन्ति । तेभ्योऽप्यल्पेभ्योऽल्पतरकास्ते येऽनुत्तरायां सम्यक्संबोधौ चित्तान्युत्पाद्य उपबृंहयित्वा च आरब्धवीर्या विहरन्ति । तेभ्योऽप्यल्पेभ्योऽल्पतरकास्ते ये प्रज्ञापारमितायां योगमापद्यन्ते । तेभ्योऽप्यल्पेभ्योऽल्पतरकास्ते ये प्रज्ञापारमितायां चरन्ति । तेभ्योऽप्यल्पेभ्योऽल्पतरकास्ते ये प्रज्ञापारमितायां चरन्तो घटमाना अविनिवर्तनीयायां बोधिसत्त्वभूमाववतिष्ठन्ते । तेभ्योऽप्यल्पेभ्योऽल्पतरकास्ते ये प्रज्ञापारमितायां चरन्तो घटमाना अनुत्तरां सम्यक्संबोधिमभिसंभोत्स्यन्ते । तेभ्योऽप्यल्पेभ्योऽल्पतरकास्ते ये प्रज्ञापारमितायां चरन्तो घटमाना अनुत्तरां सम्यक्संबोधिमभिसंबुध्यन्ते । ते ते कौशिक बोधिसत्त्वा महासत्त्वा ये अविनिवर्तनीयायां बोधिसत्त्वभूमौ स्थित्वा अनुत्तरां सम्यक्संबोधिमभिसंबुध्य अन्येषामध्याशयसंपन्नानां कुलपुत्राणां कुलदुहितॄणां च प्रज्ञापारमितायां शिक्षमाणानां घटमानानां प्रज्ञापारमितामुपदिशन्ति च उद्दिशन्ति । ते चोद्गृह्णन्ति धारयन्ति वाचयन्ति पर्यवाप्नुवन्ति प्रवर्तयन्ति उपदेशयन्ति उपदिशन्ति उद्दिशन्ति स्वाध्यायन्ति । तां चैनां प्रज्ञापारमितां पुष्पैर्धूपैर्गन्धैर्माल्यैर्विलेपनैश्चूर्णैर्वस्त्रैश्छत्रैर्ध्वजैर्घण्टाभिः पताकाभिः समन्ताच्च दीपमालाभिः, बहुविधाभिश्च पूजाभिः, सत्कुर्वन्ति गुरुकुर्वन्ति मानयन्ति पूजयन्ति अर्चयन्ति अपचायन्ति । सन्ति खलु पुनः कौशिक अप्रमेया असंख्येयाः सत्त्वाः, ये बोधिचित्तमुत्पादयन्ति, बोधिचित्तमुत्पाद्य बोधिचित्तमुपबृंहयन्ति, बोधिचित्तमुपबृंहयित्वा बोधाय चरन्ति । तेषां खलु पुनः कौशिक अप्रमेयाणामसंख्येयानां सत्त्वानां बोधाय चरतामपि यद्येको वा द्वौ वा अविनिवर्तनीयायां (वैद्य ३१) बोधिसत्त्वभूमाववतिष्ठेयाताम् । तत्कस्य हेतोः? दुरभिसंभवा हि कौशिक अनुत्तरा सम्यक्संबोधिर्हीनवीर्यैः कुसीदैर्हीनसत्त्वैर्हीनचित्तैर्हीनसंज्ञैर्हीनाधिमुक्तिकैर्हीनप्रज्ञैः । तस्मात्तर्हि कौशिक कुलपुत्रेण वा कुलदुहित्रा वा क्षिप्रं चानुत्तरां सम्यक्संबोधिमभिसंबोद्धुकामेन इयमेव प्रज्ञापारमिता सुखमभीक्ष्णं श्रोतव्या उद्ग्रहीतव्या धारयितव्या वाचयितव्या पर्यवाप्तव्या प्रवर्तयितव्या देशयितव्या उपदेष्टव्या उद्देष्टव्या स्वाध्यातव्या परिप्रष्टव्या । तत्कस्य हेतोः? तथा हि स एवं ज्ञास्यति - अत्र प्रज्ञापारमितायां तथागतोऽर्हन् सम्यक्संबुद्धः पूर्वं बोधिसत्त्वचर्यां चरन् शिक्षितः । अस्माभिरप्यत्र शिक्षितव्यम् । एषोऽस्माकं शास्तेति । तिष्ठतो वा कौशिक परिनिर्वृतस्य वा तथागतस्यार्हतः सम्यक्संबुद्धस्य बोधिसत्त्वैर्महासत्त्वैः प्रज्ञापारमितैव प्रतिसर्तव्या । तस्मात्तर्हि कौशिक यः कश्चित्कुलपुत्रो वा कुलदुहिता वा तथागतस्यार्हतः सम्यक्संबुद्धस्य परिनिर्वृतस्य पूजायै कोटिशः सप्तरत्नमयांस्तथागतधातुगर्भान् स्तूपान् कारयेत् । कारयित्वा च तान् यावज्जीवं दिव्यैः पुष्पैर्दिव्यैर्धूपैर्दिव्यैर्गन्धैर्दिव्यैर्माल्यैर्दिव्यैर्विलेपनैर्दिव्यैश्चूर्णैर्दिव्यैर्वस्त्रैर्दिव्यैश्छत्रैर्दिव्यैर्ध्वजैर्दिव्याभिर्घण्टाभिः, दिव्याभिः पताकाभिः, समन्ताच्च (वैद्य ३२) दीपमालाभिः, बहुविधाभिश्च दिव्याभिः पूजाभिः सत्कुर्यात्गुरुकुर्यात्मानयेत्पूजयेतर्चयेतपचायेत्, तत्किं मन्यसे कौशिक अपि नु स कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहु पुण्यं प्रसवेत्? शक्र आह - बहु भगवन्, बहु सुगत । भगवानाह - अतः स कौशिक कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवति, य इमां प्रज्ञापारमितामभिश्रद्दधदवकल्पयन्नधिमुच्य प्रसन्नचित्तो बोधाय चित्तमुत्पाद्य अध्याशयतः शृणुयादुद्गृह्णीयाद्धारयेद्वाचयेत्पर्यवाप्नुयात्प्रवर्तयेद्देशयेदुपदिशेदुद्दिशेत्स्वाध्यायेत्, परेभ्यश्च विस्तरेण संप्रकाशयेत्, अर्थमस्या विवृणुयात्, मनसान्ववेक्षेत, यथाधिकया च प्रज्ञया अत्र परिमीमांसामापद्येत, अन्तशः पुस्तकगतामपि कृत्वा धारयेत्स्थापयेत् सद्धर्मचिरस्थितिहेतोः - मा बुद्धनेत्रीसमुच्छेदो भूत्, मा सद्धर्मान्तर्धानम् । बोधिसत्त्वानां महासत्त्वानां चानुग्रहोपसंहारः कृतो भविष्यति नेत्र्यवैकल्येनेति । तां चैनां प्रज्ञापारमितां सत्कुर्यात्गुरुकुर्यात्मानयेत्पूजयेतर्चयेतपचायेत्पुष्पैर्धूपैर्गन्धैर्माल्यैर्विलेपनैश्चूर्णैर्वस्त्रैश्छत्रैर्ध्वजैर्घण्टाभिः पताकाभिः, समन्ताच्च दीपमालाभिः, बहुविधाभिश्च पूजाभिः पूजयेत्, अयमेव ततः स कौशिक कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवति । तिष्ठतु खलु पुनः कौशिक अयं जम्बूद्वीपः सप्तरत्नमयानां तथागतधातुगर्भाणां स्तूपानां परिपूर्णः । सचेत्कौशिक यावन्तश्चातुर्महाद्वीपके लोकधातौ सर्वसत्त्वाः, तेषामेकैकः सत्त्व एकैकं सप्तरत्नमयं तथागतधातुगर्भं स्तूपं कारयेत्, तं च यावज्जीवं दिव्यैः पुष्पैर्दिव्यैर्धूपैर्दिव्यैर्गन्धैर्दिव्यैर्माल्यैर्दिव्यैश्चूर्णैदिव्यैर्वस्त्रैर्दिव्यैश्छ - त्रैर्दिव्यैर्ध्वजैर्दिव्याभिर्घण्टाभिर्दिव्याभिः पताकाभिः, समन्ताच्च दिव्यदीपमालाभिः, बहुविधाभिश्च दिव्याभि, पूजाभिः, सत्कुर्यात्गुरुकुर्यात्मानयेत्पूजयेतर्चयेतपचायेत्, तत्किं मन्यसे कौशिक अपि नु ते सर्वसत्त्वास्ततोनिदानं बहु पुण्यं प्रसवेयुः? शक्र आह - बहु भगवन, बहु सुगत । भगवानाह - अतः स कौशिक कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवति, य इमां प्रज्ञापारमितामभिश्रद्दधदवकल्पयन्नधिमुच्य प्रसन्नचित्तो बोधाय चित्तमुत्पाद्य अध्याशयतः शृणुयादुद्गृह्णीयाद्धारयेत्वाचयेत्पर्यवाप्नुयात्प्रवर्तयेत्देशयेतुपदिशेतुद्दिशेत्स्वाध्यायेत्, परेभ्यश्च विस्तरेण संप्रकाशयेत्, अर्थमस्या विवृणुयात्, मनसान्ववेक्षेत, यथाधिकया च प्रज्ञया अत्र परिमीमांसामापद्येत, अन्तशः पुस्तकगतामपि कृत्वा धारयेत्स्थापयेत्सद्धर्मचिरस्थितिहेतोः - मा बुद्धनेत्रीसमुच्छेदो भूत्, मा सद्धर्मान्तर्धानम् । बोधिसत्त्वानां चानुग्रहोपसंहारः कृतो भविष्यति नेत्र्यवैकल्येनेति । तां चैनां प्रज्ञापारमितां सत्कुर्याद्गुरुकुर्यान्मानयेत्पूजयेदर्चयेदपचायेत्पुष्पैर्धूपैर्गन्धैर्माल्यैर्विलेपनैश्चूर्णैर्वस्त्रैश्छत्रैर्ध्वजैर्घण्टाभिः पताकाभिः समन्ताच्च दीपमालाभिः, बहुविधाभिश्च पूजाभिः पूजयेत्, अयमेव ततः स कौशिक कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहुतरं पुण्यं प्रसवति । तिष्ठन्तु खलु पुनः कौशिक चातुर्महाद्वीपके लोकधातौ सर्वसत्त्वाः । यावन्तः कौशिक साहस्रे चूलिकायां लोकधातौ सर्वसत्त्वाः, तेषामेकैकः सत्त्व एकैकं सप्तरत्नमयं (वैद्य ३३) तथागतधातुगर्भं स्तूपं कारयेत्, तं च यावज्जीवं दिव्यैः पुष्पैर्दिव्यैर्धूपैर्दिव्यैर्गन्धैर्दिव्यैर्माल्यैर्दिव्यैर्विलेपनैर्दिव्यैश्चूर्णैर्दिव्यैर्वस्त्रैर्दिव्यैश्छत्रैर्दिव्यैर्ध्वजैर्दिव्याभिर्घण्टाभिर्दिव्याभिः पताकाभिः, समन्ताच्च दीपमालाभिः, बहुविधाभिश्च पूजाभिः सत्कुर्याद्गुरुकुर्यान्मानयेत्पूजयेदर्चयेदपचायेत्, तत्किं मन्यसे कौशिक अपि नु सर्वसत्त्वास्ततोनिदानं बहुपुण्यं प्रसवेयुः? शक्र आह - बहु भगवन्, बहु सुगत । भगवानाह - अतः स कौशिक कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवति य इमां प्रज्ञापारमितामभिश्रद्दधदवकल्पयन्नधिमुच्य प्रसन्नचित्तो बोधाय चित्तमुत्पाद्य अध्याशयतः शृणुयादुद्गृह्णीयाद्धारयेद्वाचयेत्पर्यवाप्नुयात्प्रवर्तयेद्देशयेदुपदिशेदुद्दिशेत्स्वाध्यायेत्, परेभ्यश्च विस्तरेण संप्रकाशयेत्, अर्थमस्या विवृणुयात्, मनसान्ववेक्षेत, यथाधिकया च प्रज्ञया अत्र परिमीमांसामापद्येत, अन्तशः पुस्तकगतामपि कृत्वा धारयेत्स्थापयेत्सद्धर्मचिरस्थितिहेतोः - मा बुद्धनेत्रीसमुच्छेदोऽभूत्, मा सद्धर्मान्तर्धानम् । बोधिसत्त्वानां महासत्त्वानां च अनुग्रहोपसंहारः कृतो भविष्यति नेत्र्यवैकल्येनेति । तां चैनां प्रज्ञापारमितां सत्कुर्याद्गुरुकुर्यान्मानयेत्पूजयेदर्चयेदपचायेत्पुष्पैर्धूपैर्गन्धैर्माल्यैर्विलेपनैश्चूर्णैर्वस्त्रैश्छत्रैर्ध्वजैर्घण्टाभिः पताकाभिः, समन्ताच्च दीपमालाभिः, बहुविधाभिश्च पूजाभिः पूजयेत्, अयमेव ततः स कौशिक कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहुतरं पुण्यं प्रसवति । तिष्ठन्तु खलु पुनः कौशिक साहस्रे चूलिकायां लोकधातौ सर्वसत्त्वाः, यावन्तः कौशिक द्विसाहस्रे मध्यमे लोकधातौ सर्वसत्त्वाः, तेषामेकैकः सत्त्व एकैकं सप्तरत्नमयं तथागतधातुगर्भं स्तूपं कारयेत्, तं च यावज्जीवं दिव्यैः पुष्पैर्दिव्यैर्धूपैर्दिव्यैर्गन्धैर्दिव्यैर्माल्यैर्दिव्यैर्विलेपनैर्दिर्व्यैश्चूर्णैर्दिव्यैश्छत्रैर्दिव्यैर्ध्वजैर्दिव्याभिर्घण्टाभिर्दिव्याभिः पताकाभिः, समन्ताच्च दिव्यदीपमालाभिः, बहुविधाभिश्च दिव्याभिः, पूजाभिः, सत्कुर्याद्गुरुकुर्यान्मानयेत्पूजयेदर्चयेदपचायेत्, तत्किं मन्यसे कौशिक अपि नु ते सर्वसत्त्वास्ततोनिदानं बहुपुण्यं प्रसवेयुः? शक्र आह - बहु भगवन्, बहु सुगत । भगवानाह - अतः स कौशिक कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवति, य इमां प्रज्ञापारमितामभिश्रद्धधदवकल्पयन्नधिमुच्य प्रसन्नचित्तो बोधाय चित्तमुत्पाद्य अध्याशयतः शृणुयादुद्गृह्णीयाद्धारयेद्वाचयेत्पर्यवाप्नुयात्प्रवर्तयेद्देशयेदुपदिशेदुद्दिशेत्स्वाध्यायेत्, परेभ्यश्च विस्तरेण संप्रकाशयेत्, अर्थमस्या विवृणुयात्, मनसान्ववेक्षेत, यथाधिकया च प्रज्ञया अत्र परिमीमांसामापद्येत, अन्तशः पुस्तकगतामपि कृत्वा धारयेत्स्थापयेत्सद्धर्मचिरस्थितिहेतोः - मा बुद्धनेत्रीसमुच्छेदो भूत्, मा सद्धर्मान्तर्धानम् । बोधिसत्त्वानां महासत्त्वानां च अनुग्रहोपसंहारः कृतो भविष्यति नेत्र्यवैकल्येनेति । तां चैनां प्रज्ञापारमितां सत्कुर्याद्गुरुकुर्यान्मानयेत्पूजयेदर्चयेदपचायेत्पुष्पैर्धूपैर्गन्धैर्माल्यैर्विलेपनैश्चूर्णैर्वस्त्रैश्छत्रैर्ध्वजैर्घण्टाभिः पताकाभिः, समन्ताच्च दीपमालाभिः, बहुविधाभिश्च पूजाभिः पूजयेत्, अयमेव ततः स कौशिक कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहुतरं पुण्यं प्रसवति । तिष्ठन्तु खलु पुनः कौशिक द्विसाहस्रे मध्यमे लोकधातौ सर्वसत्त्वाः, यावन्तः कौशिक त्रिसाहस्रमहासाहस्रे लोकधातौ सर्वसत्त्वाः, तेषामेकैकः सत्त्व एकैकं सप्तरत्नमयं तथागतधातुगर्भं स्तूपं कारयेत्, तं च (वैद्य ३४) यावज्जीवं दिव्यैः पूष्पैर्दिव्यैर्धूपैर्दिव्यैर्गन्धैर्दिव्यैर्माल्यैर्दिव्यैश्चूर्णैर्दिव्यैर्वस्त्रैर्दिव्यैश्छत्रैर्दिव्यैर्ध्वजैर्दिव्याभिर्घण्टाभिर्दिव्याभिः पताकाभिः, समन्ताच्च दिव्यदीपमालाभिः, बहुविधाभिश्च दिव्याभिः पूजाभिः सत्कुर्याद्गुरुकुर्यान्मानयेत्पूजयेदर्चयेदपचायेत्, तत्किं मन्यसे कौशिक अपि नु ते सर्वसत्त्वास्ततोनिदानं बहुपुण्यं प्रसवेयुः? शक्र आह - बहु भगवन्, बहु सुगत । भगवानाह - अतः स कौशिक कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवति, य इमां प्रज्ञापारमितामभिश्रद्दधदवकल्पयन्नधिमुच्य प्रसन्नचित्तो बोधाय चित्तमुत्पाद्य अध्याशयतः शृणुयादुद्गृह्णीयाद्धारयेद्वाचयेत्पर्यवाप्नुयात्प्रवर्तयेद्देशयेदुपदिशेदुद्दिशेत्स्वाध्यायेत्परेभ्यश्च विस्तरेण संप्रकाशयेत्, अर्थमस्या विवृणुयात्, मनसान्ववेक्षेत्, यथाधिकया च प्रज्ञया अत्र परिमीमांसामापद्येत, अन्तशः पुस्तकगतामपि कृत्वा धारयेत्स्थापयेत्सद्धर्मचिरस्थितिहेतोः - मा बुद्धनेत्रीसमुच्छेदो भूत्, मा सद्धर्मान्तर्धानम् । बोधिसत्त्वानां महासत्त्वानां च अनुग्रहोपसंहारः कृतो भविष्यति नेत्र्यवैकल्येनेति । तां चैनां प्रज्ञापारमितां सत्कुर्याद्गुरुकुर्यान्मानयेत्पूजयेदर्चयेदपचायेत्पुष्पैर्धूपैर्गन्धैर्माल्यैर् विलेपनैश्चूर्णैर्वस्त्रैश्छत्रैर्ध्वजैर्घण्टाभिः पताकाभिः समन्ताच्च दीपमालाभिः, बहुविधाभिश्च पूजाभिः पूजयेत्, अयमेव ततः स कौशिक कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहुतरं पुण्यं प्रसवति । तिष्ठन्तु खलु पुनः कौशिक त्रिसाहस्रमहासाहस्रे लोकधातौ सर्वसत्त्वाः, येषामेकैकः सत्त्व एकैकं सप्तरत्नमयं तथागतधातुगर्भं स्तूपं कारयेत्, तं च यावज्जीवं दिव्याभिः पुष्पधूपगन्धमाल्यविलेपनचूर्णचीवरच्छत्रध्वजघण्टापताकाभिः समन्ताच्च दीपमालाभिः, बहुविधाभिश्च पूजाभिः सत्कुर्याद्गुरुकुर्यान्मानयेत्पूजयेदर्चयेदपचायेत्, येऽपि केचित्कौशिक त्रिसाहस्रमहासाहस्रे लोकधातौ सत्त्वाः, सचेत्पुनस्ते सर्वे अपूर्वाचरमं मानुष्यकमात्मभावं प्रतिलभेरन् परिकल्पमुपादाय, तत एकैकः सत्त्व एकैकं सप्तरत्नमयं तथागतधातुगर्भं स्तूपं कारयेत्, एकैकश्च सत्त्वस्तान् सर्वान् स्तूपान् कारयेत्, कारयित्वा च तान् प्रतिष्ठाप्य कल्पं वा कल्पावशेषं वा सर्ववाद्यैः सर्वगीतैः सर्वनृत्यैः सर्वतूर्यतालावचरैर्दिव्यैः सर्वपुष्पैः सर्वधूपैः सर्वगन्धै सर्वमाल्यैः सर्वविलेपनैः सर्वचूर्णैः सर्ववस्त्रैर्दिव्याभिः सर्वच्छत्रध्वजघण्टापताकाभिः समन्ताच्च सर्वदीपमालाभिः, बहुविधाभिश्च दिव्यमानुषिकीभिः सर्वपूजाभिः सत्कुर्याद्गुरुकुर्यान्मानयेत्पूजयेदर्चयेदपचायेत्, एते एवंरूपया पुण्यक्रियया ते सर्वे सत्त्वास्तानप्रमेयानसंख्येयान् स्तूपान् प्रतिष्ठाप्य एवंरूपां पूजां कारयेयुः, तत्किं मन्यसे कौशिक अपि नु ते सर्वे सत्त्वास्ततोनिदानं बहुपुण्यं प्रसवेयुः? शक्र आह - बहु भगवन्, बहु सुगत । भगवानाह - अतः स कौशिक कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवति, य इमां प्रज्ञापारमितामभिश्रद्दधदवकल्पयन्नधिमुच्य प्रसन्नचित्तो बोधाय चित्तमुत्पाद्य अध्याशयतः शृणुयादुद्गृह्णीयाद्धारयेद्वाचयेत्पर्यवाप्नुयात्प्रवर्तयेद्देशयेदुपदिशेदुद्दिशेत्स्वाध्यायेत्, परेभ्यश्च विस्तरेण संप्रकाशयेत्, अर्थमस्या विवृणुयात्, मनसान्ववेक्षेत, यथाधिकया च प्रज्ञया अत्र परिमीमांसामापद्येत, अन्तशः पुस्तकगतामपि कृत्वा धारयेत्स्थापयेत्सद्धर्मचिरस्थितिहेतोः - मा बुद्धनेत्रीसमुच्छेदो (वैद्य ३५) भूत्, मा सद्धर्मान्तर्धानम् । बोधिसत्त्वानां महासत्त्वानां च अनुग्रहोपसंहारः कृतो भविष्यति नेत्र्यवैकल्येनेति । तां चैनां प्रज्ञापारमितां सत्कुर्याद्गुरुकुर्यान्मानयेत्पूजयेदर्चयेदपचायेत्पूष्पैर्धूपैर्गन्धैर्माल्यैर्विलेपनैश्चूर्णैर्वस्त्रैश्छत्रैर्ध्वजैर्घण्टाभिः पताकाभिः, समन्ताच्च दीपमालाभिः, बहुविधाभिश्च पूजाभिः पूजयेत्, अयमेव ततः स कौशिक कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहुतरं पुण्यं प्रसवति ॥ एवमुक्तो शक्रो देवानामिन्द्रो भगवन्तमेतदवोचत्- एवमेतद्भगवन्, एवमेतत्सुगत । प्रज्ञापारमितां हि भगवन् सत्कुर्वता गुरुकुर्वता मानयता पूजयता अर्चयता अपचायता कुलपुत्रेण वा कुलदुहित्रा वा अतीतानागतप्रत्युत्पन्ना बुद्धा भगवन्तो बुद्धज्ञानपरिज्ञातेषु सर्वलोकधातुषु अत्यन्ततया सत्कृता गुरुकृता मानिताः पूजिता अर्चिता अपचायिताश्च भवन्ति । तिष्ठन्तु खलु पुनर्भगवननेन पर्यायेण त्रिसाहस्रमहासाहस्रे लोकधातौ सर्वसत्त्वाः, येऽपि ते भगवन् गङ्गानदीवालुकोपमेषु त्रिसाहस्रमहासाहस्रेषु लोकधातुषु सर्वसत्त्वाः, तत्र एकैकः सत्त्वः एकैकं सप्तरत्नमयं तथागतधातुगर्भं स्तूपं कारयेत्, एकैकश्च सत्त्वस्तान् सर्वान् स्तूपान् कारयेत्, कारयित्वा च तान् प्रतिष्ठाप्य कल्पं वा कल्पावशेषं वा सर्ववाद्यैः सर्वगीतैः सर्वनृत्यैः सर्वतूर्यतालावचरैर्दिव्यैः सर्वपुष्पैः सर्वधूपैः सर्वगन्धैः सर्वमाल्यैः सर्वविलेपनैः सर्वचूर्णैः सर्ववस्त्रैर्दिव्याभिः सर्वच्छत्रध्वजघण्टापताकाभिः समन्ताच्च सर्वदीपमालाभिः, बहुविधाभिश्च दिव्यमानुषिकीभिः सर्वपूजाभिः सत्कुर्याद्गुरुकुर्यान्मानयेत्पूजयेदर्चयेदपचायेत्, अयमेव तेभ्यः स भगवन् सर्वसत्त्वेभ्य कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवति, य इमां प्रज्ञापारमितामभिश्रद्दधदवकल्पयन्नधिमुच्य प्रसन्नचित्तो बोधाय चित्तमुत्पाद्य अध्याशयतः शृणुयादुद्गृह्णीयाद्धारयेद्वाचयेत्पर्यवाप्नुयात्प्रवर्तयेद्देशयेदुपदिशेदुद्दिशेत्स्वाध्यायेत्, परेभ्यश्च विस्तरेण संप्रकाशयेत्, अर्थमस्या विवृणुयात्, मनसान्ववेक्षेत, यथाधिकया च प्रज्ञया अत्र परिमीमांसामापद्येत, अन्तशः पुस्तकगतामपि कृत्वा धारयेत्स्थापयेत्सद्धर्मचिरस्थितिहेतोः - मा बुद्धनेत्रीसमुच्छेदो भूत्, मा सद्धर्मान्तर्धानम् । बोधिसत्त्वानां महासत्त्वानां च अनुग्रहोपसंहारः कृतो भविष्यति नेत्र्यवैकल्येनेति । तां चैनां प्रज्ञापारमितां सत्कुर्याद्गुरुकुर्यान्मानयेत्पूजयेदर्चयेदपचायेत्पुष्पैर्धूपैर्गन्धैर्माल्यैर्विलेपनैश्चूर्णैर्वस्त्रैश्छत्रैर्ध्वजैर्घण्टाभिः पताकाभिः, समन्ताच्च दीपमालाभिः, बहुविधाभिश्च पूजाभिः पूजयेत् ॥ अथ खलु भगवान् शक्रं देवानामिन्द्रमेतदवोचत्- एवमेतत्कौशिक, एवमेतत् । बहुतरं स कौशिक कुलपुत्र वा कुलदुहिता वा ततोनिदानं बहुतरं पुण्यं प्रसवति । अप्रमेयं स कौशिक कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहुतरं पुण्यं प्रसवति । असंख्येयं स कौशिक कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहुतरं पुण्यं प्रसवति । अचिन्त्यं स कौशिक कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहुतरं पुण्यं प्रसवति । अतुल्यं स कौशिक कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहुतरं पुण्यं प्रसवति । अपरिमाणं स कौशिक (वैद्य ३६) कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहुतरं पुण्यं प्रसवति । तत्कस्य हेतोः? प्रज्ञापारमितानिर्जाता हि कौशिक तथागतानामर्हतां सम्यक्संबुद्धानां सर्वज्ञता । सर्वज्ञतानिर्जाता च तथागतशरीराणां पूजा । तस्मात्तर्हि कौशिक यः कुलपुत्रो वा कुलदुहिता वा इमां प्रज्ञापारमितामभिश्रद्दधदवकल्पयन्नधिमुच्य प्रसन्नचित्तो बोधाय चित्तमुत्पाद्य अध्याशयतः शृणुयादुद्गृह्णीयाद्धारयेद्वाचयेत्पर्यवाप्नुयात्प्रवर्तयेद्देशयेदुपदिशेदुद्दिशेत्, स्वाध्यायेत्, परेभ्यश्च विस्तरेण संप्रकाशयेत्, अर्थमस्या विवृणुयात्, मनसान्ववेक्षेत, यथाधिकया च प्रज्ञया अत्र परिमीमांसामापद्येत, अन्तशः पुस्तकगतामपि कृत्वा धारयेत्स्थापयेत्सद्धर्मचिरस्थितिहेतोः - मा बुद्धनेत्रीसमुच्छेदो भूत्, मा सद्धर्मान्तर्धानम् । बोधिसत्त्वानां महासत्त्वानां च अनुग्रहोपसंहारः कृतो भविष्यति नेत्र्यवैकल्येनेति । तां चैनां प्रज्ञापारमितां सत्कुर्याद्गुरुकुर्यान्मानयेत्पूजयेदर्चयेदपचायेत् पुष्पैर्धूपैर्गन्धैर्माल्यैर्विलेपनैश्चूणैर्वस्त्रैश्छत्रैर्ध्वजैर्घण्टाभिः पताकाभिः समन्ताच्च दीपमालाभिः, बहुविधाभिश्च पूजाभिः पूजयेत्, अस्य कौशिक पुण्याभिसंस्कारस्य असौ पूर्वकस्तथागतधातुगर्भः सप्तरत्नमयः स्तूपसंस्कारजपुण्याभिसंस्कारः शततमीमपि कलां नोपैति, सहस्रतमीमपि, शतसहस्रतमीमपि, कोटीतमीमपि, कोटीशततमीमपि, कोटीसहस्रतमीमपि, कोटीशतसहस्रतमीमपि, कोटीनियुतशतसहस्रतमीमपि कलां नोपैति । संख्यामपि कलामपि गणनामपि उपमामपि औपम्यमपि उपनिसामपि उपनिषदमपि न क्षमते ॥ अथ खलु यानि तानि चत्वारिंशद्देवपुत्रसहस्राणि शक्रेण देवानामिन्द्रेण सार्धं संनिपतितानि तस्यामेव पर्षदि संनिपतितान्यभूवन्, तानि शक्रं देवानामिन्द्रमेतदवोचन् - उद्गृह्णीष्व मार्ष प्रज्ञापारमिताम् । उद्ग्रहीतव्या मार्ष प्रज्ञापारमिता । धारयितव्या मार्ष प्रज्ञापारमिता । वाचयितव्या मार्ष प्रज्ञापारमिता । पर्यवाप्तव्या मार्ष प्रज्ञापारमिता । प्रवर्तयितव्या मार्ष प्रज्ञापारमिता । देशयितव्या मार्ष प्रज्ञापारमिता । उपदेष्टव्या मार्ष प्रज्ञापारमिता । उद्देष्टव्या मार्ष प्रज्ञापारमिता । स्वाध्यातव्या मार्ष प्रज्ञापारमिता । अथ खलु भगवान् शक्रं देवानामिन्द्रमामन्त्रयते स्म - उद्गृहाण त्वं कौशिक प्रज्ञापारमिताम् । धारय त्वं कौशिक प्रज्ञापारमिताम् । वाचय त्वं कौशिक प्रज्ञापारमिताम् । पर्यवाप्नुहि त्वं कौशिक प्रज्ञापारमिताम् । प्रवर्तय त्वं कौशिक प्रज्ञापारमिताम् । देशय त्वं कौशिक प्रज्ञापारमिताम् । उपदिश त्वं कौशिक प्रज्ञापारमिताम् । उद्दिशय त्वं कौशिक प्रज्ञापारमिताम् । स्वाध्याय त्वं कौशिक प्रज्ञापारमिताम् । तत्कस्य हेतो? यदा हि कौशिक असुराणामेवंरूपाः समुदाचारा उत्पत्स्यन्ते - देवांस्रायस्त्रिंशान् योधयिष्याम इति, देवैस्त्रायस्त्रिंशैः सार्धं संग्रामयिष्याम इति, तदा त्वं कौशिक इमां प्रज्ञापारमितां समन्वाहरेः, स्वाध्यायेः, एवं तेषामसुराणां ते समुदाचाराः पुनरेवान्तर्धास्यन्ति ॥ एवमुक्ते शक्रो देवानामिन्द्रो भगवन्तमेतदवोचत्- महाविद्येयं भगवन् यदुत प्रज्ञापारमिता । अप्रमाणेयं भगवन् विद्या यदुत प्रज्ञापारमिता । अपरिमाणेयं भगवन् (वैद्य ३७) विद्या यदुत प्रज्ञापारमिता । निरुत्तरेयं भगवान् विद्या यदुत प्रज्ञापारमिता । अनुत्तरेयं भगवन् विद्या यदुत प्रज्ञापारमिता । असमेयं भगवन् विद्या यदुत प्रज्ञापारमिता । असमसमेयं भगवन् विद्या यदुत प्रज्ञापारमिता । एवमुक्ते भगवान् शक्रं देवानामिन्द्रमेतदवोचत्- एवमेतत्कौशिक, एवमेतत् । महाविद्येयं कौशिक यदुत प्रज्ञापारमिता । अप्रमाणेयं कौशिक विद्या यदुत प्रज्ञापारमिता । अपरिमाणेयं कौशिक विद्या यदुत प्रज्ञापारमिता । निरुत्तरेयं कौशिक विद्या यदुत प्रज्ञापारमिता । अनुत्तरेयं कौशिक विद्या यदुत प्रज्ञापारमिता । असमेयं कौशिक विद्या यदुत प्रज्ञापारमिता । असमसमेयं कौशिक विद्या यदुत प्रज्ञापारमिता । तत्कस्य हेतोः?इमां हि कौशिक विद्यामागम्य पौर्वकास्तथागता अर्हन्तः सम्यक्संबुद्धा अनुत्तरां सम्यक्संबोधिमभिसंबुद्धाः, यदुत प्रज्ञापारमिताम् । येऽपि ते कौशिक भविष्यन्त्यनागतेऽध्वनि तथागता अर्हन्तः सम्यक्संबुद्धाः, अनुत्तरां सम्यक्संबोधिमभिसंभोत्स्यन्ते, तेऽपि कौशिक इमामेव विद्यामागम्य अनुत्तरां सम्यक्संबोधिमभिसंभोत्स्यन्ते यदुत प्रज्ञापारमिता । येऽपि केचित्कौशिक एतर्हि अप्रमेयेष्वसंख्येयेषु त्रिसाहस्रमहासाहस्रेषु लोकधातुषु बुद्धा भगवन्तोऽनुत्तरां सम्यक्संबोधिमभिसंबुध्यन्ते, तेऽपि कौशिक इमामेव विद्यामागम्य अनुत्तरां सम्यक्संबोधिमभिसंबुध्यन्ते यदुत प्रज्ञापारमिताम् । अहमपि कौशिक इमामेव विद्यामागम्य अनुत्तरां सम्यक्संबोधिमभिसंबुद्धो यदुत प्रज्ञापारमिताम् । इमामेव कौशिक विद्यामागम्य दश कुशलाः कर्मपथा लोके प्रभाव्यन्ते, चत्वारि ध्यानानि बोध्यङ्गसंप्रयुक्तानि लोके प्रभाव्यन्ते, चत्वार्यप्रमाणानि बोध्यङ्गसंप्रयुक्तानि लोके प्रभाव्यन्ते, चतस्र आरूप्यसमापत्तयो बोध्यङ्गपरिगृहीता लोके प्रभाव्यन्ते, षडभिज्ञा बोध्यङ्गसंप्रयुक्ता लोके प्रभाव्यन्ते, सप्तत्रिंशद्बोधिपक्षा धर्मा लोके प्रभाव्यन्ते, संक्षेपेण चतुरशीतिधर्मस्कन्धसहस्राणि लोके प्रभाव्यन्ते, बुद्धज्ञानं स्वयंभूज्ञानमचिन्त्यज्ञानं लोके प्रभाव्यन्ते, इमामेव कौशिक विद्यामागम्य यदुत प्रज्ञापारमिताम् । यदापि कौशिक तथागता अर्हन्तः सम्यक्संबुद्धा लोके नोत्पद्यन्ते, तदापि कौशिक बोधिसत्त्वा महासत्त्वाः पूर्वश्रुतेन प्रज्ञापारमितानिष्यन्देन ये उपायकौशल्यसमन्वागता भवन्ति, तेऽपि कौशिक सत्त्वानामनुकम्पकाः अनुकम्पामुपादाय इमं लोकमागम्य दश कुशलान् कर्मपथान् लोके प्रभावयन्ति, चत्वारि ध्यानानि बोध्यङ्गविप्रयुक्तानि लोके प्रभावयन्ति, चत्वार्यप्रमाणानि बोध्यङ्गविप्रयुक्तानि लोके प्रभावयन्ति । चतस्र आरूप्यसमापत्तीर्बोध्यङ्गवियुक्ता लोके प्रभावयन्ति । पञ्चाभिज्ञा बोध्यङ्गविप्रयुक्ता लोके प्रभावयन्ति । तद्यथापि नाम कौशिक चन्द्रमण्डलमागम्य सर्वा ओषधीः तारा यथाबलं यथास्थाममवभासयन्ति, नक्षत्राणि च यथाबलं यथास्थाममवभासयन्ति, एवमेव कौशिक तथागतस्यार्हतं सम्यक्संबुद्धस्य अत्ययेन सद्धर्मस्यान्तर्धाने तथागतानामर्हतां सम्यक्संबुद्धानामनुत्पादात्या काचिद्धर्मचर्या समचर्या असमचर्या कुशलचर्या लोके प्रज्ञायते प्रभाव्यते, सर्वा सा बोधिसत्त्वनिर्जाता बोधिसत्त्वप्रमाविता (वैद्य ३८) बोधिसत्त्वोपायकौशल्यप्रवर्तिता । तच्च बोधिसत्त्वानामुपायकौशल्यं प्रज्ञापारमितानिर्जातं वेदितव्यम् ॥ पुनरपरं कौशिक इमां प्रज्ञापारमितामुद्गृह्णंतां धारयतां वाचयतां पर्यवाप्नुवतां प्रवर्तयतां देशयतामुपदिशतामुद्दिशतां स्वाध्यायतां लिखतां मनसि कुर्वतां समन्वाहरतां च कुलपुत्राणां कुलदुहितॄणां वा तन्निदानं बहवो दृष्टधार्मिका गुणाः प्रतिकाङ्क्षितव्याः । एवमुक्ते शक्रो देवानामिन्द्रो भगवन्तमेतदवोचत्- कतमैः पुनर्भगवन् दृष्टधार्मिकैर्गुणैः समन्वागतास्ते कुलपुत्राः कुलदुहितरश्च भविष्यन्ति ? भगवानाह - न ते कौशिक कुलपुत्रा वा कुलदुहितरो वा विषमापरिहारेण कालं करिष्यन्ति, न विषेण कालं करिष्यन्ति, न शस्त्रेण कालं करिष्यन्ति, नाग्निना कालं करिष्यति, नोदकेन कालं करिष्यन्ति, न दण्डेन कालं करिष्यन्ति, न परिपक्रमेण कालं करिष्यन्ति । उत्पन्नोत्पन्नाश्चैषामुपद्रवा राजतो वा राजपुत्रतो वा राजमन्त्रितो वा राजमहामात्रतो वा इमां प्रज्ञापारमितां समन्वाहरतां वा स्वाध्यायतां वा पुनरेवान्तर्धास्यन्ति । तेषां च एनां प्रज्ञापारमितां पुनः पुनः समन्वाहरतां वा स्वाध्यायतां वा ये तत्रोपसंक्रामेयुरवतारप्रेक्षिणोऽवतारगवेषिणो राजानो वा राजपुत्रा वा राजमन्त्रिणो वा राजमहामात्रा वा, न तेऽवतारं लप्स्यन्ते यथापि नाम प्रज्ञापारमितापरिगृहीतत्वात् । उपसंक्रान्तानां च तेषां राज्ञां वा राजपुत्राणां वा राजमन्त्रिणां वा, राजमहामात्राणां वा आलपितुकामता भविष्यति, अभिभाषितुकामता भविष्यति, प्रतिसंमोदितव्यं च ते मंस्यन्ते । तत्कस्य हेतोः? इयं हि कौशिक प्रज्ञापारमिता सर्वसत्त्वानामन्तिके मैत्रोपसंहारेण मैत्रचित्ततया करुणोपसंहारेण करुणचित्ततया प्रत्युपस्थिता । तस्मात्तर्हि कौशिक येऽपि ते व्यालसरीसृपकान्तारमध्यगताः, तेषां कुलपुत्राणां कुलदुहितॄणां वा मनुष्या वा अमनुष्या वा अवतारप्रेक्षिणोऽवतारगवेषिणः, तेऽपि तेषां कौशिक अवतारं न लप्स्यन्ते स्थापयित्वा पूर्वकर्मविपाकम् ॥ अथ खल्वन्यतीर्थ्यानां परिव्राजकानामुपालम्भाभिप्रायाणां शतं तस्यां वेलायां येन भगवांस्तेनोपसंक्रामति स्म । अथ खलु शक्रो देवानामिन्द्रो दूरत एव आगच्छतस्तानन्यतीर्थ्यान् परिव्राजकान् दृष्ट्वा तेषां चित्तानि व्यवलोक्य एवं चिन्तयामास - इमे खलु अन्यतीर्थ्याः परिव्राजका उपालम्भाभिप्राया येन भगवांस्तेनोपसंक्रामन्ति स्म । यन्न्वहं यावन्मात्रो मयां भगवतोऽन्तिकादस्याः प्रज्ञापारमितायाः प्रदेश उद्गृहीतः, तावन्मात्रं स्मृत्या समन्वाहरेयं स्वाध्यायेयं प्रवर्तयेयम्, यथैतेऽन्यतीर्थाः परिव्राजका भगवन्तं नोपसंक्रामेयुः । एवमस्याः प्रज्ञापारमिताया भाष्यमाणाया नान्तरायः स्यादिति । अथ खलु शक्रो देवानामिन्द्रो यावन्मात्रो भगवतोऽन्तिकादस्याः प्रज्ञापारमितायाः प्रदेशः उद्गृहीतः, तावन्मात्रं स्मृत्या समन्वाहरति स्म, स्वाध्यायति स्म, प्रवर्तयति स्म । अथ तेऽन्यतीर्थाः परिव्राजका दूराद्दूरतरं भगवन्तं प्रदक्षिणीकृत्य तेनैव द्वारेण तेनैव मार्गेण पुनरेव निष्क्रान्ताः । अथ खल्वायुष्मतः शारिपुत्रस्यैतदभूत्(वैद्य ३९) - किमत्र कारणं येन इमेऽन्यतीर्थ्याः परिव्राजका दूराद्दूरतरं भगवन्तं प्रदक्षिणीकृत्य तेनैव द्वारेण तेनैव मार्गेण पुनरेव निष्क्रान्ताः? अथ खलु भगवानायुष्मतः शारिपुत्रस्य इममेवंरूपं चेतसैव चेतःपरिवितर्कमाज्ञाय आयुष्मन्तं शारिपुत्रमेतदवोचत्- शक्रेण शारिपुत्र देवानामिन्द्रेण तेषामन्यतीर्थ्यानां परिव्राजकानामुपालम्भाभिप्रायाणां चित्तानि व्यवलोक्य इयं प्रज्ञापारमिता स्मृत्या समन्वाहृता स्वाध्यायिता प्रवर्तिता, तेषामन्यतीर्थ्यानां परिव्राजकानां विग्रहीतुकामानां विवदितुकामानां विरोधयितुकामानां निवर्तनार्थम्, यथा अस्याः प्रज्ञापारमिताया भाष्यमाणाया एतेऽन्यतीर्थ्याः परिव्राजका नोपसंक्रामेयुरिति, मान्तरायं कार्षुः प्रज्ञापारमिताया भाष्यमाणाया इति । मया च शक्रस्य देवानामिन्द्रस्याभ्यनुज्ञातम् । तत्कस्य हेतोः? नाहं शारिपुत्र तेषामन्यतीर्थ्यानां परिव्राजकानामेकस्यापि शुक्लं धर्मं समनुपश्यामि । सर्वे ते शारिपुत्र उपालम्भाभिप्रायाः प्रतिहतचित्ता उपसंक्रमितुकामा अभूवन् ॥ अथ खलु मारस्य पापीयस्य एतदभूत्- इमास्तथागतस्यार्हतः सम्यक्संबुद्धस्य चतस्रः पर्षदः संनिपतिताः संनिषण्णास्तथागतस्य संमुखीभूताः । इमे च कामावचरा रूपावचराश्च देवपुत्राः संमुखीभूताः । नियतमत्र बोधिसत्त्वा महासत्त्वा व्याकरिष्यन्तेऽनुत्तरायां सम्यक्संबोधौ । यन्न्वहमुपसंक्रामेयं विचक्षुःकरणायेति । अथ खलु मारः पापीयांश्चतुरङ्गबलकायमभिनिर्माय येन भगवांस्तेनोपसंक्रामति स्म । अथ खलु शक्रस्य देवानामिन्द्रस्यैतदभूत्- मारो बतायं पापीयांश्चतुरङ्गबलकायमभिनिर्माय येन भगवांस्तेनोपसंक्रामति स्म । यश्चायं चतुरङ्गस्य बलकायस्य व्यूहः, नायं राज्ञो बिम्बिसारस्य चतुरङ्गस्य बलकायस्य व्यूहः, नापि राज्ञः प्रसेनजितश्चतुरङ्गस्य बलकायस्य व्यूहः, नापि शाक्यानां चतुरङ्गस्य बलकायस्य व्यूहः, नापि लिच्छवीनां चतुरङ्गस्य बलकायस्य व्यूहः, योऽयं मारेण पापीयसा अभिनिर्मितः । समनुबद्धो दीर्घरात्रं मारः पापीयान् भगवतोऽवतारप्रेक्षी अवतारगवेषी, सत्त्वानां च विहेठनाभिप्रायः । यन्न्वहमिमामेव प्रज्ञापारमितां स्मृत्या समन्वाहरेयं स्वाध्यायेयं प्रवर्तयेयमिति । अथ खलु शक्रो देवानामिन्द्र इमामेव प्रज्ञापारमितां स्मृत्या समन्वाहरति स्म स्वाध्यायति स्म प्रवर्तयति स्म । यथा यथा च शक्रो देवानामिन्द्र इमां प्रज्ञापारमितां स्मृत्या समन्वाहरति स्म स्वाध्यायति स्म प्रवर्तयति स्म, तथा तथा मारः पापीयांस्तेनैव मार्गेण पुनरेव प्रत्युदावृत्तः ॥ अथ खलु त्रायस्त्रिंशत्कायिका देवपुत्रा दिव्यानि मान्दारपुष्पाण्यभिनिर्माय विहायसा अन्तरीक्षगता येन भगवांस्तेनाभ्यवकिरन्ति स्म, येन भगवांस्तेन तानि दिव्यानि मान्दारवपुष्पाण्यभिप्रकिरन्ति स्म, एवं चोदानमुदानयन्ति स्म - चिरस्य बतेयं प्रज्ञापारमिता जाम्बूद्वीपकानां मनुष्याणामुपावृत्तेति । पुनरेव च दिव्यानि मान्दारवाणि पुष्पाणि गृहीत्वा येन भगवांस्तेनाभ्यवकिरन्ति स्म, अभिप्रकिरन्ति स्म । एवं चावोचन् - ये केचिद्भगवन् सत्त्वाः प्रज्ञापारमितां भाषिष्यन्ते भावयिष्यन्ति, प्रज्ञापारमितायां चरिष्यन्ति, न तेषां मारो वा मारकायिका वा देवता अवतारं लप्स्यन्ते । न ते भगवन् सत्त्वा अवरकेण कुशलमूलेन (वैद्य ४०) समन्वागता भविष्यन्ति, ये इमां प्रज्ञापारमितां श्रोष्यन्ति, श्रुत्व चोद्ग्रहीष्यन्ति, धारयिष्यन्ति वाचयिष्यन्ति पर्यवाप्स्यन्ति प्रवर्तयिष्यन्ति देशयिष्यन्ति, उपदेक्ष्यन्ति उद्देक्ष्यन्ति स्वाध्यास्यन्ति । पूर्वजिनकृताधिकारास्ते भगवन् सत्त्वा भविष्यन्ति, येषामियं प्रज्ञापारमिता श्रोत्रावभासमागमिष्यति । कः पुनर्वादो ये एनामुद्ग्रहीष्यन्ति धारयिष्यन्ति वाचयिष्यन्ति पर्यवाप्स्यन्ति प्रवर्तयिष्यन्ति देशयिष्यन्ति उपदेक्ष्यन्ति उद्देक्ष्यन्ति स्वाध्यास्यन्ति, तथत्वाय शिक्षिष्यन्ते, तथत्वाय प्रतिपत्स्यन्ते, तथत्वाय योगमापत्स्यन्ते, तथागतपर्युपासितास्ते भगवन् सत्त्वा भविष्यन्ति । तत्कस्य हेतोः? अतो हि सर्वज्ञता गवेषितव्या यदुत प्रज्ञापारमितातः । तद्यथापि नाम भगवन् यानि कानिचिद्रत्नानि महारत्नानि, सर्वाणि तानि महासमुद्रप्रभावितानि, सर्वाणि तानि महासमुद्राद्गवेषितव्यानि, एवमेव भगवन् सर्वज्ञतामहारत्नं तथागतानामर्हतां सम्यक्संबुद्धानां प्रज्ञापारमितामहासमुद्राद्गवेषितव्यम् । एवमुक्ते भगवान् शक्रं देवानामिन्द्रमेतदवोचत्- एवमेतत्कौशिक, एवमेतत् । अतोनिर्जातं तथागतानामर्हतां सम्यक्संबुद्धानां सर्वज्ञतामहारत्नं यदुत प्रज्ञापारमितामहासमुद्रात् ॥ अथ खल्वायुष्मानानन्दो भगवन्तमेतदवोचत्- न भगवन् दानपारमिताया वर्णं भाषते, न नामधेयं परिकीर्तयति । न शीलपारमितायाः, न क्षान्तिपारमितायाः, न वीर्यपारमितायाः । न भगवन् ध्यानपारमिताया वर्णं भाषते, न नामधेयं परिकीर्तयति । अपि तु प्रज्ञापारमिताया एवैकस्या भगवान् वर्णं भाषते, नामधेयं च परिकीर्तयति । भगवानाह एवमेतदानन्द, एवमेतत् । प्रज्ञापारमिताया एवाहमानन्द वर्णं भाषे नामधेयं च परिकीर्तयामि, नान्यासां पारमितानाम् । तत्कस्य हेतोः? प्रज्ञापारमिता हि आनन्द पूर्वंगमा पञ्चानां पारमितानाम् । तत्किं मन्यसे आनन्द अपरिणामितं दानं सर्वज्ञतायां दानपारमितानामधेयं लभते? आयुष्मानानन्द आह - नो हीदं भगवन् । भगवानाह - तत्किं मन्यसे आनन्द अपरिणामितं शीलमपरिणामिता क्षान्तिरपरिणामितं वीर्यमपरिणामितं ध्यानम्? तत्किं मन्यसे आनन्द अपरिणामिता प्रज्ञा सर्वज्ञतायां प्रज्ञापारमितानामधेयं लभते? आनन्द आह - नो हीदं भगवन् । भगवानाह - तत्किं मन्यसे त्वमानन्द अचिन्त्या सा प्रज्ञा या कुशलमूलानि सर्वज्ञतापरिणामेन परिणामयति? आनन्द आह - एवमेतद्भगवन्, एवमेतत्सुगत । अचिन्त्या सा भगवन् प्रज्ञा, परमाचिन्त्या सा भगवन् प्रज्ञा, या कुशलमूलानि सर्वज्ञतापरिणामेन परिणामयति भगवानाह - तस्मात्तर्हि आनन्द परमत्वात्सा प्रज्ञा पारमितानामधेयं लभते, यया सर्वज्ञतायां परिणामितानि कुशलमूलानि पारमितानामधेयं लभन्ते । तस्मात्तर्हि आनन्द सर्वज्ञतापरिणामितकुशलमूलत्वात्प्रज्ञापारमिता पञ्चानां पारमितानां पूर्वंगमा नायिका परिणायिका । अनेन योगेन अन्तर्गताः पञ्च पारमिताः प्रज्ञापारमितायामेव आनन्द षट्पारमितापरिपूर्णाधिवचनमेतद्यदुत प्रज्ञापारमितेति । तस्मात्तर्हि आनन्द प्रज्ञापारमितायां परिकीर्तितायां सर्वाः षट्पारमिताः परिकीर्तिता भवन्ति । तद्यथापि नाम आनन्द महापृथिव्यां बीजानि प्रकीर्णानि सामग्रीं लभमानानि विरोहन्ति । महापृथिवी च तेषां बीजानां प्रतिष्ठा । (वैद्य ४१) महापृथिवीप्रतिष्ठितानि च तानि बीजानि विरोहन्ति । एवमेव आनन्द प्रज्ञापारमितासंगृहीताः पञ्च पारमिताः सर्वज्ञतायां प्रतिष्ठन्ते । प्रज्ञापारमिताप्रतिष्ठिताः पञ्च पारमिता विरोहन्ति । प्रज्ञापारमितापरिगृहीतत्वाच्च पारमितानामधेयं लभन्ते । तस्मात्तर्हि आनन्द प्रज्ञापारमितैव पञ्चानां पारमितानां पूर्वंगमा नायिका परिणायका ॥ अथ खलु शक्रो देवानामिन्द्रो भगवन्तमेतदवोचत्- न तावदिमे भगवंस्तथागतेनार्हता सम्यक्संबुद्धेन प्रज्ञापारमितायाः सर्वे गुणाः परिकीर्तिताः, यान् गुणान् स कुलपुत्रो वा कुलदुहिता वा परिगृह्णीते प्रज्ञापारमितामुद्गृह्य धारयित्वा वाचयित्वा पर्यवाप्य प्रवर्त्य देशयित्वा उपदिश्य उद्दिश्य स्वाध्याय्य । अथ हि मया यो भगवतोऽन्तिकादस्याः प्रज्ञापारमितायाः प्रदेश उद्गृहीतः, स प्रवर्तितः । भगवानाह - साधु साधु कौशिक । न खलु पुनः कौशिक केवलं यः प्रज्ञापारमितामुद्ग्रहीष्यति धारयिष्यति वाचयिष्यति पर्यवाप्स्यति प्रवर्तयिष्यति देशयिष्यत्युपदेक्ष्यत्युद्देक्ष्यति स्वाध्यास्यति, तस्यैव केवलममी गुणा भविष्यन्ति । योऽपि कौशिक कुलपुत्रो वा कुलदुहिता वा इमां प्रज्ञापारमितां लिखित्वा पुस्तकगतां कृत्वा धारयिष्यति स्थापयिष्यति सद्धर्मचिरस्थितिहेतोः - मा बुद्धनेत्रीसमुच्छेदो भूत्, मा सद्धर्मान्तर्धानम् । बोधिसत्त्वानां महासत्त्वानां चानुग्रहोपसंहारः कृतो भविष्यति नेत्र्यवैकल्येनेति । तां चैनां प्रज्ञापारमितां सत्करिष्यति गुरुकरिष्यति मानयिष्यति पूजयिष्यति अर्चयिष्यति अपचायिष्यति पुष्पैर्धूपैर्गन्धैर्माल्यैर्विलेपनैश्चूर्णैर्वस्त्रैश्छत्रैर्ध्वजैर्घण्टाभिः पताकाभिः, समन्ताच्च दीपमालाभिः, बहुविधाभिश्च पूजाभिः पूजयिष्यति, तस्याप्यहं कौशिक कुलपुत्रस्य वा कुलदुहितुर्वा एनान् दृष्टधार्मिकान् गुणान् वदामि ॥ एवमुक्ते शक्रो देवानामिन्द्रो भगवन्तमेतदवोचत्- अहमपि भगवंस्तस्यापि कुलपुत्रस्य वा कुलदुहितुर्वा रक्षावरणगुप्तिं संविधास्यामि, य इमां प्रज्ञापारमितां लिखित्वा पुस्तकगतां कृत्वा धारयिष्यति स्थापयिष्यति सद्धर्मचिरस्थितिहेतोः - मा बुद्धनेत्रीसमुच्छेदो भूत्, मा सद्धर्मान्तर्धानम् । बोधिसत्त्वानां महासत्त्वानां चानुग्रहोपसंहारः कृतो भविष्यति नेत्र्यवैकल्येनेति । तां चैनां प्रज्ञापारमितां सत्करिष्यति गुरुकरिष्यति मानयिष्यति पूजयिष्यति अर्चयिष्यति अपचायिष्यति पुष्पैर्धूपैर्गन्धैर्माल्यैर्विलेपनैश्चूर्णैर्वस्त्रैश्छत्रैर्ध्वजैर्घण्टाभिः पताकाभिः, समन्ताच्च दीपमालाभिः, बहुविधाभिश्च पूजाभिः पूजयिष्यति । कः पुनर्वादो यः एनां प्रज्ञापारमितां लिखिष्यति उद्ग्रहीष्यति धारयिष्यति वाचयिष्यति पर्यवाप्स्यति प्रवर्तयिष्यति देशयिष्यत्युपदेक्ष्यत्युद्देक्ष्यति स्वाध्यास्यति सत्करिष्यति गुरुकरिष्यति मानयिष्यति पूजयिष्यति अर्चयिष्यति अपचायिष्यति पुष्पैर्धूपैर्गन्धैर्माल्यैर्विलेपनैश्चूर्णैर्वस्त्रैश्छत्रैर्ध्वजैर्घण्टाभिः पताकाभिः, समन्ताच्च दीपमालाभिः, बहुविधाभिश्च पूजाभिः पूजयिष्यति ॥ भगवानाह - साधु साधु कौशिक । तस्य खलु पुनः कौशिक कुलपुत्रस्य कुलदुहितुर्वा इमां प्रज्ञापारमितां स्वाध्यायतो बहूनि देवपुत्रशतान्युपसंक्रमिष्यन्ति । बहूनि देवपुत्रसहस्राणि (वैद्य ४२) बहूनि देवपुत्रशतसहस्राणि धर्मश्रवणायोपसंक्रमिष्यन्ति । ते च देवपुत्रा धर्मं शृण्वन्तस्तस्य धर्मभाणकस्य प्रतिभानमुपसंहर्तव्यं मंस्यन्ते । यदापि स धर्मभाणको न जल्पितुकामो भविष्यति, तदापि तस्य ते देवपुत्रास्तेनैव धर्मगौरवेण प्रतिभानमुपसंहर्तव्यं मंस्यन्ते, यथा तस्य कुलपुत्रस्य वा कुलदुहितुर्वा भाषितुमेव छन्दो भविष्यति । इममपि स कौशिक कुलपुत्रो वा कुलदुहिता वा दृष्टधार्मिकं गुणं परिगृह्णाति, य इमां प्रज्ञापारमितामुद्ग्रहीष्यति धारयिष्यति वाचयिष्यति पर्यवाप्स्यति प्रवर्तयिष्यति देशयिष्यत्युपदेक्ष्यत्युद्देक्ष्यति स्वाध्यास्यति ॥ पुनरपरं कौशिक तस्य कुलपुत्रस्य कुलदुहितुर्वा इमां प्रज्ञापारमितां भाषमाणस्य चतसॄणां पर्षदामग्रतो नावलीनचित्तता भविष्यति - मा खलु मां कश्चित्पर्यनुयुञ्जीत उपालम्भाभिप्राय इति । तत्कस्य हेतोः? तथा हि तस्य प्रज्ञापारमिता रक्षावरणगुप्तिं करोति । स उपालम्भानपि प्रज्ञापारमिताविहारी न समनुपश्यति, उपालम्भकरानपि प्रज्ञापारमिताविहारी न समनुपश्यति, योऽप्युपालभ्येत तमपि न समनुपश्यति, तामपि प्रज्ञापारमितां न समनुपश्यति । एवं प्रज्ञापारमितापरिगृहीतस्य कुलपुत्रस्य वा कुलदुहितुर्वा अनेन पर्यायेण न कश्चित्पर्यनुयोगो भविष्यति । स च नोत्रसिष्यति, न संत्रसिष्यति, न संत्रासमापत्स्यते । इमानपि स कौशिक कुलपुत्रो वा कुलदुहिता वा दृष्टधार्मिकान् गुणान् परिगृह्णाति, य इमां प्रज्ञापारमितामुद्ग्रहीष्यति धारयिष्यति वाचयिष्यति पर्यवाप्स्यति प्रवर्तयिष्यति देशयिष्यत्युपदेक्ष्यत्युद्देक्ष्यति स्वाध्यास्यति ॥ पुनरपरं कौशिक स कुलपुत्रो वा कुलदुहिता वा प्रियो भविष्यति मातापितॄणां मित्रामात्यज्ञातिसालोहितश्रमणब्राह्मणानां हितानां च, प्रतिबलश्च भविष्यति, शक्तश्च भविष्यति उत्पन्नोत्पन्नानां परप्रवादिनां सहधर्मेण निग्रहाय, परैश्च प्रत्यनुयुज्यमानः प्रत्यनुयोगव्याकरणसमर्थो भविष्यति । इमानपि स कौशिक कुलपुत्रो वा कुलदुहिता वा दृष्टधार्मिकान् गुणान् परिगृह्णाति, यः कुलपुत्रो वा कुलदुहिता वा इमां प्रज्ञापारमितामुद्ग्रहीष्यति धारयिष्यति वाचयिष्यति पर्यवाप्स्यति प्रवर्तयिष्यति देशयिष्यत्युपदेक्ष्यत्युद्देक्ष्यति स्वाध्यास्यति ॥ यत्र खलु पुनः कौशिक कुलपुत्रो वा कुलदुहिता वा इमां प्रज्ञापारमितां लिखित्वा पुस्तकगतां कृत्वा पूजापूर्वंगमं स्थापयिष्यति पूजयिष्यति, तत्र कौशिक ये केचिच्चातुर्महाराजकायिकेषु देवेषु देवपुत्रा अनुत्तरायां सम्यक्संबोधौ संप्रस्थिताः, तेऽपि तत्र आगन्तव्यं मंस्यन्ते । तेऽपि तत्रागत्य एनां प्रज्ञापारमितां पुस्तकगतां प्रेक्षिष्यन्ते वन्दिष्यन्ते नमस्करिष्यन्त्युद्ग्रहीष्यन्ति धारयिष्यन्ति वाचयिष्यन्ति पर्यवाप्स्यन्ति प्रवर्तयिष्यन्ति देशयिष्यन्त्युपदेक्ष्यन्युद्देक्ष्यन्ति स्वाध्यास्यन्ति । प्रेक्ष्य वन्दित्वा नमस्कृत्य धारयित्वा वाचयित्वा पर्यावाप्य प्रवर्त्य देशयित्वोपदिश्योद्दिश्य (वैद्य ४३) स्वाध्याय्य पुनरेव प्रक्रमितव्यं मंस्यन्ते । एवं ये केचित्कौशिक त्रायस्त्रिंशेषु देवेषु देवपुत्रा अनुत्तरायां सम्यक्संबोधौ संप्रस्थिताः, तेऽपि तत्रागन्तव्यं मंस्यन्ते । तेऽपि तत्रागत्य एनां प्रज्ञापारमितां पुस्तकगतां प्रेक्षिष्यन्ते वन्दिष्यन्ते नमस्करिष्यन्त्युद्ग्रहीष्यन्ति धारयिष्यन्ति वाचयिष्यन्ति पर्यवाप्स्यन्ति प्रवर्तयिष्यन्ति देशयिष्यन्त्युपदेक्ष्यन्त्युद्देक्ष्यन्ति स्वाध्यास्यन्ति । प्रेक्ष्य वन्दित्वा नमस्कृत्योद्गृह्य धारयित्वा वाचयित्वा पर्यवाप्य प्रवर्त्य देशयित्वोपदिश्य उद्दिश्य स्वाध्याय्य पुनरेव प्रक्रमितव्यं मंस्यन्ते । येऽपि केचित्कौशिक यामेषु देवेषु देवपुत्रा अनुत्तरायां सम्यक्संबोधौ संप्रस्थिताः, ते ऽपि तत्रागन्तव्यं मंस्यन्ते । तेऽपि तत्रागत्य एनां प्रज्ञापारमितां पुस्तकगतां प्रेक्षिष्यन्ते वन्दिष्यन्ते नमस्करिष्यन्त्युद्ग्रहीष्यन्ति धारयिष्यन्ति वाचयिष्यन्ति पर्यवाप्स्यन्ति प्रवर्तयिष्यन्ति देशयिष्यन्त्युपदेक्ष्यन्त्युद्देक्ष्यन्ति स्वाध्यास्यन्ति । प्रेक्ष्य वन्दित्वा नमस्कृत्योद्गृह्य धारयित्वा वाचयित्वा पर्यवाप्य प्रवर्त्य देशयित्वोपदिश्योद्दिश्य स्वाध्याय्य पुनरेव प्रक्रमितव्यं मंस्यन्ते । येऽपि केचित्कौशिक तुषितेषु देवेषु देवपुत्रा अनुत्तरायां सम्यक्संबोधौ संप्रस्थिताः, तेऽपि तत्रागन्तव्यं मंस्यन्ते । तेऽपि तत्रागत्य एनां प्रज्ञापारमितां पुस्तकगतां प्रेक्षिष्यन्ते वन्दिष्यन्ते नमस्करिष्यन्त्युद्ग्रहीष्यन्ति धारयिष्यन्ति वाचयिष्यन्ति पर्यवाप्स्यन्ति प्रवर्तयिष्यन्ति देशयिष्यन्त्युपदेक्ष्यन्त्युद्देक्ष्यन्ति स्वाध्यास्यन्ति । प्रेक्ष्य वन्दित्वा नमस्कृत्योद्गृह्य धारयित्वा वाचयित्वा पर्यवाप्य प्रवर्त्य देशयित्वोपदिश्योद्दिश्य स्वाध्याय्य पुनरेव प्रक्रमितव्यं मंस्यन्ते । येऽपि केचित्कौशिक निर्माणरतिषु देवेषु देवपुत्रा अनुत्तरायां सम्यक्संबोधौ संप्रस्थिताः, तेऽपि तत्रागन्तव्यं मंस्यन्ते । तेऽपि तत्रागत्य एनां प्रज्ञापारमितां पुस्तकगतां प्रेक्षिष्यन्ते वन्दिष्यन्ते नमस्करिष्यन्त्युद्ग्रहीष्यन्ति धारयिष्यन्ति वाचयिष्यन्ति पर्यवाप्स्यन्ति प्रवर्तयिष्यन्ति देशयिष्यन्त्युपदेक्ष्यन्त्युद्देक्ष्यन्ति स्वाध्यास्यन्ति । प्रेक्ष्य वन्दित्वा नमस्कृत्योद्गृह्य धारयित्वा वाचयित्वा पर्यवाप्य प्रवर्त्य देशयित्वोपदिश्योद्दिश्य स्वाध्याय्य पुनरेव प्रक्रमितव्यं मंस्यन्ते । येऽपि केचित्कौशिक परनिर्मितवशवर्तिषु देवेषु देवपुत्रा अनुत्तरायां सम्यक्संबोधौ संप्रस्थिताः, तेऽपि तत्रागन्तव्यं मंस्यन्ते । तेऽपि तत्रागत्य एनां प्रज्ञापारमितां पुस्तकगतां प्रेक्षिष्यन्ते वन्दिष्यन्ते नमस्करिष्यन्ति उद्ग्रहीष्यन्ति धारयिष्यन्ति वाचयिष्यन्ति पर्यवाप्स्यन्ति प्रवर्तयिष्यन्ति देशयिष्यन्ति उपदेक्ष्यन्ति उद्देक्ष्यन्ति स्वाध्यास्यन्ति । प्रेक्ष्य वन्दित्वा नमस्कृत्योद्गृह्य धारयित्वा वाचयित्वा पर्यवाप्य प्रवर्त्य देशयित्वोपदिश्योद्दिश्य स्वाध्याय्य पुनरेव प्रक्रमितव्यं मंस्यन्ते । एवं येऽपि केचित्कौशिक रूपावचरेषु देवेषु देवपुत्रा यावन्तो ब्रह्मलोके ब्रह्मकायिका देवपुत्रा अनुत्तरायां सम्यक्संबोधौ संप्रस्थिताः, तेऽपि तत्रागन्तव्यं मंस्यन्ते । तेऽपि तत्रागत्य एनां प्रज्ञापारमितां पुस्तकगतां प्रेक्षिष्यन्ते वन्दिष्यन्ते नमस्करिष्यन्ति उद्ग्रहीष्यन्ति धारयिष्यन्ति वाचयिष्यन्ति पर्यवाप्स्यन्ति प्रवर्तयिष्यन्ति देशयिष्यन्ति उपदेक्ष्यन्ति उद्देक्ष्यन्ति स्वाध्यास्यन्ति । प्रेक्ष्य वन्दित्वा नमस्कृत्योद्गृह्य धारयित्वा वाचयित्वा पर्यवाप्य प्रवर्त्य देशयित्वोपदिश्योद्दिश्य स्वाध्याय्य पुनरेव प्रक्रमितव्यं मंस्यन्ते । मा तेऽत्र कौशिक एवं भूद्यथा ब्रह्मकायिका एवेति । यथा ब्रह्मकायिकाः, एवं येऽपि केचित्कौशिक ब्रह्मपुरोहितेषु देवेषु (वैद्य ४४) देवपुत्रा..........पेयालम् । एवं येऽपि केचित्कौशिक महाब्रह्मासु परीत्ताभेष्वप्रमाणाभेष्वाभास्वरेषु परीत्तसुभेष्वप्रमाणशुभेषु शुभकृत्स्नेष्वनभ्रकेषु पुण्यप्रसवेषु बृहत्फलेष्वसंज्ञिसत्त्वेष्वबृहेष्वतपेषु सुदृशेषु सुदर्शनेषु । येऽपि केचित्कौशिक अकनिष्ठेषु देवेषु देवपुत्रा अनुत्तरायां सम्यक्संबोधौ संप्रस्थिताः, तेऽपि तत्रागन्तव्यं मंस्यन्ते । तेऽपि तत्रागत्य एनां प्रज्ञापारमितां पुस्तकगतां प्रेक्षिष्यन्ते वन्दिष्यन्ते नमस्करिष्यन्त्युद्ग्रहीष्यन्ति धारयिष्यन्ति वाचयिष्यन्ति पर्यवाप्स्यन्ति प्रवर्तयिष्यन्ति देशयिष्यन्त्युपदेक्ष्यन्त्युद्देक्ष्यन्ति स्वाध्यास्यन्ति । प्रेक्ष्य वन्दित्वा नमस्कृत्योद्गृह्य धारयित्वा वाचयित्वा पर्यवाप्य प्रवर्त्य देशयित्वोपदिश्योद्दिश्य स्वाध्याय्य पुनरेव प्रक्रमितव्यं मंस्यन्ते । एवं च कौशिक तेन कुलपुत्रेण वा कुलदुहित्रा वा चित्तमुत्पादयितव्यम् - ये केचिद्दशसु दिक्षु अप्रमेयेष्वसंख्येयेषु लोकधातुषु देवा नागा यक्षा गन्धर्वा असुरा गरुडाः किन्नरा महोरगा मनुष्या अमनुष्याः, ते इतः पुस्तकात्प्रज्ञापारमितां पश्यन्तु वन्दन्तां नमस्कुर्वन्तु उद्गृह्णन्तु धारयन्तु पर्यवाप्नुवन्तु प्रवर्तयन्तु देशयन्तु उपदिशन्तु उद्दिशन्तु स्वाध्यायन्तु । प्रेक्ष्य वन्दित्वा नमस्कृत्योद्गृह्य धारयित्वा वाचयित्वा पर्यवाप्य प्रवर्त्य देशयित्वा उपदिश्योद्दिश्य स्वाध्याय्य पुनरेव स्वभवनानि गच्छन्तु - तेषामिदं धर्मदानमेव दत्तं भवत्विति । मा तेऽत्र कौशिक एवं भूत्- ये अस्मिन्नेव चातुर्महाद्वीपके लोकधातौ कामावचरा रूपावचराश्च देवपुत्रा अनुत्तरां सम्यक्संबोधिमभिसंप्रस्थिताः, ते एव केवलं तत्रागन्तव्यं मंस्यन्त इति । न ते कौशिक एवं द्रष्टव्यम् । अपि तु खलु पुनः कौशिक यावन्तस्त्रिसाहस्रमहासाहस्रे लोकधातौ कामावचरा रूपावचराश्च देवपुत्रा अनुत्तरां सम्यक्संबोधिमभिसंप्रस्थिताः, तेऽपि तत्रागन्तव्यं मंस्यन्ते । तेऽपि तत्रागत्य एनां प्रज्ञापारमितां पुस्तकगतां प्रेक्षिष्यन्ते वन्दिष्यन्ते नमस्करिष्यन्त्युद्ग्रहीष्यन्ति धारयिष्यन्ति वाचयिष्यन्ति पर्यवाप्स्यन्ति प्रवर्तयिष्यन्ति देशयिष्यन्त्युपदेक्ष्यन्त्युद्देक्ष्यन्ति स्वाध्यास्यन्ति । प्रेक्ष्य वन्दित्वा नमस्कृत्योद्गृह्य धारयित्वा वाचयित्वा पर्यवाप्य प्रवर्त्य देशयित्वोपदिश्योद्दिश्य स्वाध्याय्य पुनरेव प्रक्रमितव्यं मंस्यन्ते । तस्य खलु पुनः कौशिक कुलपुत्रस्य वा कुलदुहितुर्वा गृहं वा लयनं वा प्रासादो वा सुरक्षितो भविष्यति । न च तस्य कश्चिद्विहेठको भविष्यति स्थापयित्वा पूर्वकर्मविपाकेन । इममपि स कौशिक कुलपुत्रो वा कुलदुहिता वा दृष्टधार्मिकं गुणं परिग्रहीष्यति - यत्र हि नाम एवं महौजस्का देवा नागा यक्षा गन्धर्वा असुरा गरुडाः किन्नरा महोरगा मनुष्या अमनुष्या वा आगन्तव्यं मंस्यन्ते ॥ एवमुक्ते शक्रो देवानामिन्द्रो भगवन्तमेतदवोचत्- कथं पुनर्भगवन् स कुलपुत्रो वा कुलदुहिता वा एवं जानीयात्- इह देवा वा नागा वा यक्षा वा गन्धर्वा वा असुरा वा गरुडा वा किन्नरा वा महोरगा व मनुष्या वा अमनुष्या वा आगच्छन्ति इमां प्रज्ञापारमितां श्रोतुं द्रष्टुं वन्दितुं नमस्कर्तुमुद्ग्रहीतुं धारयितुं वाचयितुं पर्यवाप्तुं प्रवर्तयितुं देशयितुमुपदेष्टुमुद्देष्टुं स्वाध्यातुमिति? एवमुक्ते भगवान् शक्रं देवानामिन्द्रमेतदवोचत्- सचेत्कौशिक कुलपुत्रो वा कुलदुहिता वा तत्र उदारमवभासं संजानीते, निष्ठा तेन कुलपुत्रेण वा (वैद्य ४५) कुलदुहित्रा वा तत्र गन्तव्या - इह देवो वा नागो वा यक्षो वा गन्धर्वो वा असुरो वा गरुडो वा किन्नरो वा महोरगो वा मनुष्यो वा अमनुष्यो वा आगत इति, उपसंक्रान्त इति । पुनरपरं सचेत्कौशिक कुलपुत्रो वा कुलदुहिता वा तत्र अमानुषं गन्धं घ्रास्यत्यनाघ्रातपूर्वम्, घ्रात्वा च तद्गन्धं निष्ठा तेन कुलपुत्रेण वा कुलदुहित्रा वा तत्र गन्तव्या - इह देवो वा नागो वा यक्षो वा गन्धर्वो वा असुरो वा गरुडो वा किन्नरो वा महोरगो वा मनुष्यो वा अमनुष्यो वा आगत इति, उपसंक्रान्त इति ॥ पुनरपरं सचेत्कौशिक कुलपुत्रो वा कुलदुहिता वा तत्र अमानुषं गन्धं घ्रास्यति अनाघ्रातपूर्वम्, घ्रात्वा च तद्गन्धं निष्ठा तेन कुलपुत्रेण वा कुलदुहित्रा तत्र गन्तव्याः, - इह देवो वा नागो वा यक्षो वा गन्धर्वो वा असुरो वा गरुडो व किन्नरो वा महोरगो वा मनुष्यो वा[अमनुष्यो वा]आगत इति, उपसंक्रान्त इति । पुनरपरं सचेत्कौशिक कुलपुत्रो व कुलदुहिता वा चौक्षसमुदाचारो भविष्यति, शुचिसमुदाचारो भविष्यति, तस्य तया चौक्षसमुदाचारतया शुचिसमुदाचारतया ते देवा नागा यक्षा गन्धर्वा असुरा गरुडाः किन्नरा महोरगा मनुष्या अमनुष्या वा आगन्तव्यं मंस्यन्ते । ये च तत्र देवनागयक्षगन्धर्वासुरगरुडकिन्नरमहोरगा मनुष्या अमनुष्या वा आगता भविष्यन्ति, ते तस्य तया चौक्षसमुदाचारतया शुचिसमुदाचारतया आत्तमनस्काः प्रमुदिताः प्रीतिसौमनस्यजाता भविष्यन्ति । याश्च तत्र अल्पौजस्का अल्पौजस्का देवता अध्युषिता भविष्यन्ति, तास्ततोऽपक्रमितव्यं मंस्यन्ते । तत्कस्य हेतोः? तेषामेव हि महौजस्कानां महौजस्कानां देवानां नागान यक्षाणां गन्धर्वाणामसुराणां गरुडानां किन्नराणां महोरगाणां मनुष्याणां ममनुष्याणां वा श्रियं च तेजश्च गौरवं च असहमाना एव ता अल्पौजस्का अल्पौजस्का देवता ततोऽपक्रमितव्यं मंस्यन्ते । यथा यथा खलु पुनः कौशिक ते महौजस्का महौजस्का देवा नागा यक्षा गन्धर्वा असुरा गरुडाः किन्नरा महोरगा मनुष्या अमनुष्या वा अभीक्ष्णमुपसंक्रमितव्यं मंस्यन्ते, तथा तथा स कुलपुत्रो वा कुलदुहिता वा प्रसादबहुलो भविष्यति । इममपि स कौशिक कुलपुत्रो वा कुलदुहिता वा दृष्टधार्मिकं गुणं परिग्रहीष्यति । तेन खलु पुनः कौशिक कुलपुत्रेण वा कुलदुहित्रा वा तस्य धर्मनेत्रीस्थानस्य परिसामन्तकेऽशुचिरचौक्षसमुदाचारो न प्रचारयितव्यः तस्यां गुरुगौरवतापरिपूरिमुपादाय ॥ पुनरपरं कौशिक तस्य कुलपुत्रस्य वा कुलदुहितुर्वा न कायक्लमथो न चित्तक्लमथ उत्पत्स्यते । स सुखमेव शय्यां कल्पयिष्यति, सुखं च प्रक्रमिष्यति, सुप्तश्च सन्न पापकान् स्वप्नान् द्रक्षति, पश्यंश्च पुनस्तथागतानेवार्हतः सम्यक्संबुद्धान् द्रक्ष्यति, स्तूपानेव द्रक्ष्यति, बोधिसत्त्वानेव द्रक्ष्यति, तथागतश्रावकानेव द्रक्ष्यति । शब्दांश्च शृण्वन् पारमिताशब्दानेव श्रोष्यति, बोधिपक्षानेव धर्मान् द्रक्ष्यति, बोधिवृक्षानेव द्रक्ष्यति, तेषु च तथागतानेवार्हतः (वैद्य ४६) सम्यक्संबुद्धानभिसंबुध्यमानान् द्रक्ष्यति । तथा अभिसंबुद्धानां च धर्मचक्रप्रवर्तनं द्रक्ष्यति, बहूंश्च बोधिसत्त्वानेव द्रक्ष्यति इमामेव प्रज्ञापारमितां संगायमानान् प्रज्ञापारमितासंगीतिरतान् - एवं सर्वज्ञता परिग्रहीतव्या, एवं बुद्धक्षेत्रं विशोधयितव्यम्, इत्युपायकौशलं च उपदिशतः । उदारं च बुद्धानां भगवतामभिसंबोधिशब्दं श्रोष्यति - अमुष्यां दिशि अमुष्मिन् दिग्भागे अमुष्मिन् लोकधातौ अमुकोऽसौ नाम्ना तथागतोऽर्हन् सम्यक्संबुद्धो बहुभिर्बोधिसत्त्वश्रावकाणां शतैर्बहुभिर्बोधिसत्त्वश्रावकसहस्रैर्बहुभिर्बोधिसत्त्वश्रावकशतसहस्रैर्बहुभिर्बोधिसत्त्वश्रावककोटीभिर्बहुभिर्बोधिसत्त्वश्रावककोटीशतैर्बहुभिर्बोधिसत्त्वश्रावककोटीसहस्रैः बहुभिर्बोधिसत्त्वश्रावककोटीशतसहस्रैर्बहुभिर्बोधिसत्त्वश्रावककोटीनियुतशतसहस्रैः परिवृतः पुरस्कृतो धर्मं देशयतीति । यश्च खलु पुनः कौशिक कुलपुत्रो वा कुलदुहिता वा इमानेवंरूपान् स्वप्नान् द्रक्ष्यति, स सुखमेव स्वप्स्यति, सुखं च प्रतिभोत्स्यते, ओजःप्रक्षिप्तं च कायं सुखं च प्रतिसंवेदयिष्यति, लघु लध्वेव च प्रतिसंवेदयिष्यति । न चास्य अधिमात्रया आहारगृद्ध्या चित्तसंततिरुत्पत्स्यते । मृदुका च अस्य आहारसंज्ञा भवति । तद्यथापि नाम कौशिक भिक्षोर्योगाचारस्य समाधेर्व्युत्थितस्य मनसिकारपरिष्यन्दितेन चित्तेन न बलवत्याहारे गृद्धिर्भवति, मृदुका चास्य आहारसंज्ञा भवति, एवमेव कौशिक तस्य कुलपुत्रस्य वा कुलदुहितुर्वा न बलवत्याहारे गृद्धिर्भविष्यति । मृदुका चास्य आहारसंज्ञा भविष्यति । तत्कस्य हेतोः? एवं ह्येतत्कौशिक भवति - यथापि नाम प्रज्ञापारमिताभावनायोगानुयुक्तत्वात्तस्य कुलपुत्रस्य वा कुलदुहितुर्वा तथा ह्यस्य अमनुष्याः काये ओज उपसंहर्तव्यं मंस्यन्ते । इमानपि स कौशिक कुलपुत्रो वा कुलदुहिता वा दृष्टधार्मिकान् गुणान् परिगृह्णाति ॥ पुनरपरं कौशिक यः कुलपुत्रो वा कुलदुहिता वा इमां प्रज्ञापारमितां लिखित्वा पुस्तकगतां कृत्वा पूजापूर्वंगमं स्थापयेत्पूजयेन्नोद्गृह्णीयान्न धारयेन्न वाचयेन्न पर्यवाप्नुयात्न प्रवर्तयेन्न देशयेन्नोपदिशेन्नोद्दिशेन्न स्वाध्यायेत्, अयमेव ततः स कौशिक कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवति । यः कुलपुत्रो वा कुलदुहिता वा इमां प्रज्ञापारमितामभिश्रद्दधदवकल्पयन्नधिमुच्य प्रसन्नचित्तो बोधाय चित्तमुत्पाद्य अध्याशयतः शृणुयादुद्गृह्णीयाद्धारयेद्वाचयेत्पर्यवाप्नुयात्प्रवर्तयेद्देशयेदुपदिशेदुद्दिशेत्स्वाध्यायेत्, परेभ्यश्च विस्तरेण संप्रकाशयेत्, अर्थमस्या विवृणुयात्, मनसान्ववेक्षेत, यथाधिकया च प्रज्ञया अत्र परिमीमांसामापद्येत, अन्तशः पुस्तकगतामपि कृत्वा धारयेत्स्थापयेत्सद्धर्मचिरस्थितिहेतोः - मा बुद्धनेत्रीसमुच्छेदो भूत्, मा सद्धर्मान्तर्धानम् । बोधिसत्त्वानां महासत्त्वानां चानुग्रहोपसंहारः कृतो भविष्यति नेत्र्यवैकल्येनेति । तां चैनां प्रज्ञापारमितां सत्कुर्याद्गुरुकुर्यान्मानयेत्पूजयेदर्चयेदपचायेत्पुष्पैर्धूपैर्गन्धैर्माल्यैर्विले - पनैश्चूर्णैर्वस्त्रैश्छत्रैर्ध्वजैर्घण्टाभिः पताकाभिः, समन्ताच्च दीपमालाभिः बहुविधाभिश्च पूजाभिः पूजयेत्, अयमेव ततः स कौशिक कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहुतरं पुण्यं प्रसवति । तस्मात्तर्हि कौशिक इमान् दृष्टधार्मिकान् विशिष्टान् गुणान् परिगृहीतुकामेन कुलपुत्रेण वा कुलदुहित्रा वा इयमेव प्रज्ञापारमिता अभिश्रद्धातव्या (वैद्य ४७) अवकल्पयितव्या अधिभोक्तव्या । प्रसन्नचित्तेन बोधाय चित्तमुत्पाद्य सत्कृत्य अध्याशयेन श्रोतव्या उद्ग्रहीतव्या धारयितव्या वाचयितव्या पर्यवाप्तव्या प्रवर्तयितव्या देशयितव्या उपदेष्टव्या उद्देष्टव्या स्वाध्यातव्या, परेभ्यश्च विस्तरेण संप्रकाशयितव्या, अर्थतो विवरितव्या, मनसान्ववेक्षितव्या, यथाधिकया च प्रज्ञया अत्र परिमीमांसामापद्येत । अन्तशः पुस्तकगतामपि कृत्वा स्थापयितव्या पूजयितव्या सद्धर्मचिरस्थितिहेतोः - मा बुद्धनेत्रीसमुच्छेदो भूत्, मा सद्धर्मान्तर्धानम् । बोधिसत्त्वानां महासत्त्वानां चानुग्रहोपसंहारः कृतो भविष्यति नेत्र्यवैकल्येनेति । अर्थिकानां च कुलपुत्राणां कुलदुहितॄणां च संविभागं करिष्यामि, मम च परेषां च कल्याणसत्त्वानां बुद्धनेत्रीमहाचक्षुरवैकल्यता भविष्यतीति । सदा च सत्कर्तव्या गुरुकर्तव्या मानयितव्या पूजयितव्या अर्चयितव्या अपचायितव्या पुष्पैर्धूपैर्गन्धैर्माल्यैर्विलेपनैश्चूर्णैर्वस्त्रैश्छत्रैर्ध्वजैर्घण्टाभिः पताकाभिः, समन्ताच्च दीपमालाभिः, बहुविधाभिश्च पूजाभिः पूजयितव्येति ॥ आर्याष्टसाहस्रिकायां प्रज्ञापारमितायामप्रमेयगुणधारणपारमितास्तूपसत्कारपरिवर्तो नाम तृतीयः ॥ _______________________________________________________________ (वैद्य ४८) ४: गुणपरिकीर्तनपरिवर्तश्चतुर्थः । पुनरपरं भगवान् शक्रं देवानामिन्द्रमामन्त्रयते स्म - सचेत्कौशिक अयं ते जम्बूद्वीपः परिपूर्णश्चूलिकाबद्धस्तथागतशरीराणां दीयेत, इयं च प्रज्ञापारमिता लिखित्वोपनाम्येत, तत एकतरेण भागेन प्रवार्यमाणोऽनयोर्द्वयोर्भागयोः स्थापितयोः कतमं त्वं कौशिक भागं गृह्णीयाः? शक्र आह - सचेन्मे भगवनयं जम्बूद्वीपः परिपूर्णश्चूलिकाबद्धस्तथागतशरीराणां दीयेत, इयं च प्रज्ञापारमिता लिखित्वोपनाम्येत, तत एकतरेण भागेन प्रवार्यमाणोऽनयोर्द्वयोर्भागयोः स्थापितयोरिमामेवाहं भगवन् प्रज्ञापारमितां परिगृह्णीयाम् । तत्कस्य हेतोः? यथापि नाम तथागतनेत्रीचित्रीकारेण । एतद्धि तथागतानां भूतार्थिकं शरीरम् । तत्कस्य हेतोः? उक्तं ह्येतद्भगवता - धर्मकाया बुद्धा भगवन्तः । मा खलु पुनरिमं भिक्षवः सत्कायं कायं मन्यध्वम् । धर्मकायपरिनिष्पत्तितो मां भिक्षवो द्रक्ष्यथ । एष च तथागतकायो भूतकोटिप्रभावितो द्रष्टव्यो यदुत प्रज्ञापारमिता । न खलु पुनर्मे भगवंस्तेषु तथागतशरीरेष्वगौरवम् । गौरवमेव मे भगवंस्तेषु तथागतशरीरेषु । अपि तु खलु पुनर्भगवनितः प्रज्ञापारमितातो निर्जातानि तथागतशरीराणि पूजां लभन्ते । तस्मात्तर्हि भगवननयैव प्रज्ञापारमितया पूजितया तेषामपि तथागतशरीराणां परिपूर्णा पूजा कृता भवति । तत्कस्य हेतोः? प्रज्ञापारमितानिर्जातत्त्वात्तथागतशरीराणाम् । तद्यथापि नाम भगवन् सुधर्मायां देवसभायामहं यस्मिन् समये दिव्ये स्वके आसने निषण्णो भवामि, तदा मम देवपुत्रा उपस्थानायागच्छन्ति । यस्मिन् समये न निषण्णो भवामि, अथ तस्मिन् समये यन्ममासनं तत्र देवपुत्रा मम गौरवेण तदासनं नमस्कृत्य प्रदक्षिणीकृत्य पुनरेव प्रक्रामन्ति । तत्कस्य हेतोः? इह हि किल आसने निषद्य शक्रो देवानामिन्द्रो देवानां त्रायस्त्रिंशानां धर्मं देशयतीति । एवमेव भगवन्महेशाख्यहेतुप्रत्ययभूता प्रज्ञापारमिता । तथागतस्यार्हतः सम्यक्संबुद्धस्य सर्वज्ञताया आहारिका । सर्वज्ञतायाश्च तथागतशरीराण्याश्रयभूतानि । न तु तानि प्रत्ययभूतानि, न कारणभूतानि ज्ञानस्योत्पादाय । एवमेव भगवन् सर्वज्ञज्ञानहेतुका तथागतशरीरेषु पूजा कृता भवति । तस्मात्तर्हि भगवननयोर्द्वयोर्भागयोः स्थापितयोरिमामेवाहं भगवन् प्रज्ञापारमितां परिगृह्णीयाम् । न खलु पुनर्मे भगवंस्तेषु तथागतशरीरेष्वगौरवम् । गौरवमेव मे भगवंस्तेषु तथागतशरीरेषु । अपि तु खलु पुनर्भगवंस्तानि तथागतशरीराणि प्रज्ञापारमितापरिभावितत्वात्पूजां लभन्ते । तिष्ठतु खलु पुनर्भगवनयं जम्बूद्वीपस्तथागतशरीराणां परिपूर्णश्चूलिकाबद्धः । तिष्ठतु चातुर्महाद्वीपको लोकधातुस्तथागतशरीराणां परिपूर्णश्चूलिकाबद्धः । तिष्ठतु साहस्रो लोकधातुस्तथागतशरीराणां परिपूर्णश्चूलिकाबद्धः । तिष्ठतु भगवन् द्विसाहस्रो मध्यमो लोकधातुस्तथागतशरीराणां परिपूर्णश्चूलिकाबद्धः । अयमेव भगवंस्त्रिसाहस्रमहासाहस्रो लोकधातुस्तथागतशरीराणां परिपूर्णश्चूलिकाबद्धः, एको भागः कृत्वा स्थाप्येत, इयं च प्रज्ञापारमिता लिखित्वा द्वितीयो भागः स्थाप्येत । अनयोर्द्वयोर्भागयोः स्थापितयोरेकतरेण भागेन प्रवार्यमाणोऽनयोर्द्वयोर्भागयोः स्थापितयोर्यस्ते भागोऽभिप्रेतस्तमेकं भागं गृहाणेति, तत्र इमामेवाहं भगवन् प्रज्ञापारमितां परिगृह्णीयाम् । न खलु (वैद्य ४९) पुनर्भगवंस्तेषु तथागतशरीरेष्वगौरवम् । गौरवमेव मे भगवंस्तेषु तथागतशरीरेषु । अपि तु खलु पुनर्भगवंस्तानि तथागतशरीराणि प्रज्ञापारमितापरिभावितानि पूजां लभन्ते । तथागतशरीराणि हि सर्वज्ञज्ञानाश्रयभूतानि । तदपि सर्वज्ञज्ञानं प्रज्ञापारमितानिर्जातम् । तस्मात्तर्हि भगवननयोर्द्वयोर्भागयोः स्थापितयोरिमामेवाहं भगवन् प्रज्ञापारमितां परिगृह्णीयाम् । न खलु पुनर्भे भगवंस्तेषु तथागतशरीरेष्वगौरवम् । गौरवमेव मे भगवंस्तेषु तथागतशरीरेषु । अपि तु खलु पुनर्भगवनितः प्रज्ञापारमितातो निर्जातानि तानि तथागतशरीराणि पूजां लभन्ते यदुत प्रज्ञापारमितापरिभावितत्वात् । तद्यथापि नाम भगवननर्घं मणिरत्नमेभिरेवंरूपैर्गुणैः समन्वागतं स्यात् । तद्यथा - तद्यत्र यत्र स्थाप्येत, तत्र तत्र मनुष्या वा अमनुष्या वा अवतारं न लभेरन् । यत्र यत्र वा अमनुष्यगृहीतः कश्चिद्भवेत्पुरुषो वा स्त्री वा, तत्र तत्र तस्मिन्मणिरत्ने प्रवेशितमात्रे सोऽमनुष्यस्ततोऽपक्रामेत् । वातेनापि बाध्यमानस्य धम्यमाने शरीरे तन्मणिरत्नं स्थाप्येत । तस्य तं वातं निगृह्णीयात्, न विवर्धयेत्, उपशमयेत् । पित्तेनापि दह्यमाने शरीरे स्थाप्येत । तस्य तदपि पित्तं निगृह्णीयात्, न विवर्धयेत्, उपशमयेत् । श्लेष्मणापि परिगृद्धे सर्वतो बाध्यमाने शरीरे स्थाप्येत, तस्य तमपि श्लेष्माणं निगृह्णीयात्, न विवर्धयेत्, उपशमयेत् । सांनिपातिकेनापि व्याधिना दुःखितस्य शरीरे स्थाप्येत, तस्य तमपि सांनिपातिकं व्याधिं निगृह्णीयात्, न विवर्धयेत्, उपशमयेत् । अन्धकारतमिस्रायां च रात्रावप्यवभासं कुर्यात् । उष्णे चापि वर्तमाने यस्मिन् पृथिवीप्रदेशे स्थाप्येत, स पृथिवीप्रदेशः शीतलो भवेत् । शीते चापि वर्तमाने यस्मिन् पृथिवीप्रदेशे स्थाप्येत, स पृथिवीप्रदेश उष्णो भवेत् । यस्मिंश्च पृथिवीप्रदेशे आशीविषा अनुविचरेयुः, तथा अन्येऽपि क्षुद्रजन्तवः, तत्रापि पृथिवीप्रदेशे धार्येत, स्थापितं वा भवेत्, तेऽप्याशीविषास्ते च क्षुद्रजन्तवस्ततोऽपक्रामेयुः । सचेद्भगवन् स्त्री वा पुरुषो वा आशीविषेण दष्टो भवेत्, तस्य तन्मणिरत्नं दश्येत, तस्य सहदंशनेनैव मणिरत्नस्य तद्विषं प्रतिहन्येत विगच्छेत् । एभिश्चान्यैश्च भगवनेवंरूपैर्गुणैः समन्वागतं तन्मणिरत्नं भवेत् । येषामपि केषांचिद्भगवनक्षिष्वर्बुदं वा तिमिरं वा अक्षिरोगो वा पटलं वा भवेत्, तेषां च तन्मणिरत्नमक्षिषु स्थाप्येत, तेषां स्थापितमात्रेणैव तेऽक्षिदोषा निर्घातं प्रशमं गच्छेयुः । एतैश्च अन्यैश्च भगवनेवंरूपैर्गुणैः समन्वागतं तन्मणिरत्नं भवेत् । यत्र चोदके स्थाप्येत, तदप्युदकमेकवर्णं कुर्यात्स्वकेन वर्णेन । सचेत्पाण्डरेण वस्त्रेण परिवेष्ट्य उदके प्रक्षिप्येत, तदुदकं पाण्डरीकुर्यात् । एवं सचेन्नीलेन पीतेन लोहितेन माञ्जिष्ठेन एतेषामन्येषां वा नानाप्रकाराणां वस्त्राणामन्यतमेन वस्त्रेण तन्मणिरत्नं वेष्टयित्वा वा बद्ध्वा वा उदके प्रक्षिप्येत, तेन तेन वस्त्ररागेण तत्तत्स्वभाववर्णं तदुदकं कुर्यात् । योऽपि तस्योदकस्य कलुषभावस्तमपि प्रसादयेत् । एभिरपि भगवनेवंरूपैर्गुणैः समन्वागतं तन्मणिरत्नं भवेत् ॥ अथ खल्वायुष्मानानन्दः शक्रं देवानामिन्द्रमेतदवोचत्- किं पुनः कौशिक देवलोक (वैद्य ५०) एव तानि मणिरत्नानि सन्ति, उत जाम्बूद्वीपकानामपि मनुष्याणां तानि मणिरत्नानि सन्ति? शक्र आह - देवेष्वार्यानन्द तानि मणिरत्नानि सन्ति । अपि तु खलु पुनर्जाम्बुद्वीपकानामपि मनुष्याणां मणिरत्नानि सन्ति । तानि तु गुरुकाणि अल्पानि परीत्तानि गुणविकलानि, न तैस्तथारूपैर्गुणैः समन्वागतानि । तत्तेषां दिव्यानां मणिरत्नानां शततमीमपि कलां नोपयान्ति, सहस्रतमीमपि, शतसहस्रतमीमपि, कोटीतमीमपि, कोटीशततमीमपि, कोटीसहस्रतमीमपि, कोटीशतसहस्रतमीमपि, कोटीनियुतशतसहस्रतमीमपि कलां नोपयान्ति, संख्यामपि कलामपि गणनामपि उपमामपि औपम्यमपि उपनिसामपि उपनिषदमपि न क्षमन्ते नोपयान्ति । यानि खलु पुनर्देवेषु, तानि लघूनि सर्वाकारगुणपरिपूर्णानि । यत्र च करण्डके तन्मणिरत्नं प्रक्षिप्तं भवति उत्क्षिप्तं वा, तत उद्धृतेऽपि तस्मिन्मणिरत्ने करण्डकात्स्पृहणीय एव स करण्डको भवति । तैर्मणिरत्नगुणैः परा तत्र करण्डके स्पृहोत्पद्यते । एवमेव भगवन् प्रज्ञापारमिताया एते गुणाः सर्वज्ञज्ञानस्य च । येन परिनिर्वृतस्यापि तथागतस्यार्हतः सम्यक्संबुद्धस्य तानि तथागतशरीराणि पूजां लभन्ते - सर्वज्ञज्ञानस्येमानि तथागतशरीराणि भाजनभूतान्यभूवन्निति । यथा च भगवन् सर्वलोकधातुषु बुद्धानां भगवतां धर्मदेशना प्रज्ञापारमितानिर्जातत्वात्पूज्या, एवं धर्मभाणकस्य धर्मदेशना प्रज्ञापारमितानिर्जातत्वात्पूज्या । यथा च भगवन् राजपुरुषो राजानुभावान्महतो जनकायस्य अकुतोभयः पूज्यः, एवं स धर्मभाणको धर्मकायानुभावान्महतो जनकायस्य अकुतोभयः पूज्यः । यथा च धर्मदेशना धर्मभाणकाश्च पूजां लभन्ते, एवं तानि तथागतशरीराणि पूजां लभन्ते । तस्मात्तर्हि भगवन् तिष्ठतु त्रिसाहस्रमहासाहस्रो लोकधातुस्तथागतशरीराणां परिपूर्णश्चूलिकाबद्धः, येऽपि भगवन् गङ्गानदीवालुकोपमा लोकधातवः, तेऽपि सर्वे तथागतशरीराणां परिपूर्णाश्चूलिकाबद्धा एको भागः स्थाप्येत, इयं च प्रज्ञापारमिता लिखित्वा द्वितीयो भागः स्थाप्येत । तत्र चेन्मां भगवन् कश्चिदेव प्रवारयेदन्यतरेण भागेन, प्रवार्यमाणोऽनयोर्भागयोः स्थापितयोः - यस्ते भागोऽभिप्रेतः तमेकं भागं परिगृह्णीष्वेति, तत्र इमामेवाहं भगवंस्तयोर्द्वयोर्भागयोः स्थापितयोर्भागं गृह्णीयां यदुत प्रज्ञापारमिताम् । न खलु पुनर्भगवन्मम तेषु तथागतशरीरेष्वगौरवम् । गौरवमेव भगवंस्तेषु तथागतशरीरेषु । अपि तु खलु पुनर्भगवन् प्रज्ञापारमितापरिभाविता सर्वज्ञता, सर्वज्ञतानिर्जाता च तथागतशरीराणां पूजा भवति । तस्मात्तर्हि भगवन् प्रज्ञापारमितायां पूजितायामतीतानागतप्रत्युत्पन्नानां बुद्धानां भगवतां पूजा कृता भवति ॥ पुनरपरं भगवन् येऽप्रमेयेष्वसंख्येषु लोकधातुषु बुद्धा भगवन्त एतर्हि तिष्ठन्ति ध्रियन्ते यापयन्ति, तान् धर्मतया द्रष्टुकामेन कुलपुत्रेण वा कुलदुहित्रा वा प्रज्ञापारमितायां चरितव्यम्, प्रज्ञापारमितायां योगमापत्तव्यम् । प्रज्ञापारमिता भावयितव्या ॥ एवमुक्ते भगवान् शक्रं देवानामिन्द्रमेतदवोचत्- एवमेतत्कौशिक, एवमेतत् । येऽपि ते कौशिक अभूवन्नतीतेऽध्वनि तथागता अर्हन्तः सम्यक्संबुद्धा अनुत्तरां सम्यक्संबोधिमभिसंबुद्धाः, तेऽपि कौशिक इमामेव प्रज्ञापारमितामागम्य अनुत्तरां सम्यक्संबोधिमभिसंबुद्धाः । (वैद्य ५१) येऽपि ते कौशिक भविष्यन्त्यनागतेऽध्वनि तथागता अर्हन्तः सम्यक्संबुद्धाः, तेऽपि कौशिक इमामेव प्रज्ञापारमितामागम्य अनुत्तरां सम्यक्संबोधिमभिसंभोत्स्यन्ते । येऽपि ते कौशिक एतर्हि अप्रमेयेष्वसंख्येयेषु लोकधातुषु बुद्धा भगवन्तस्तिष्ठन्ति ध्रियन्ते यापयन्ति, तेऽपि कौशिक बुद्धा भगवन्तः इमामेव प्रज्ञापारमितामागम्य अनुत्तरां सम्यक्संबोधिमभिसंबुद्धाः । अहमपि कौशिक एतर्हि तथागतोऽर्हन् सम्यक्संबुद्धः इमामेव प्रज्ञापारमितामागम्य अनुत्तरां सम्यक्संबोधिमभिसंबुद्धः ॥ एवमुक्ते शक्रो देवानामिन्द्रो भगवन्तमेतदवोचत्- महापारमितेयं भगवन् यदुत प्रज्ञापारमिता । सर्वसत्त्वानां हि भगवंस्तथागतोऽर्हन् सम्यक्संबुद्धश्चित्तचरितानि सम्यक्प्रजानाति संपश्यति । भगवानाह - एवमेतत्कौशिक, एवमेतत् । तथा हि कौशिक बोधिसत्त्वो महासत्त्वो दीर्घरात्रं प्रज्ञापारमितायां चरति, तेन सर्वसत्त्वानां चित्तचरितानि प्रज्ञापारमितायां सम्यक्प्रजानाति संपश्यति ॥ अथ खलु शक्रो देवानामिन्द्रो भगवन्तमेतदवोचत्- किं भगवन् प्रज्ञापारमितायामेव बोधिसत्त्वो महासत्त्वश्चरति नान्यासु पारमितासु? भगवानाह - सर्वासु कौशिक षट्सु पारमितासु बोधिसत्त्वो महासत्त्वश्चरति । अपि तु खलु पुनः कौशिक प्रज्ञापारमितैव अत्र पूर्वंगमा बोधिसत्त्वस्य महासत्त्वस्य दानं वा ददतः, शीलं वा रक्षतः, क्षान्त्या वा संपादयमानस्य, वीर्यं वा आरभमाणस्य, ध्यानं वा समापद्यमानस्य, धर्मान् वा विपश्यतः बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितैवात्र पूर्वंगमा । न च कौशिक आसां षण्णां पारमितानामुपायकौशल्यपरिगृहीतानां प्रज्ञापारमितापरिणामितानां सर्वज्ञतापरिणामितानां विशेषः, न च नानाकरणमुपलभ्यते । तद्यथापि नाम कौशिक जम्बुद्वीपे नानावृक्षा नानावर्णा नानासंस्थाना नानापत्रा नानापुष्पा नानाफला नानारोहपरिणाहसंपन्नाः, न च तेषां वृक्षाणां छायाया विशेषो वा नानाकरणं वा प्रज्ञायते, अपि तु छाया छायेत्येवं संख्यां गच्छति, एवमेव कौशिक आसां षण्णां पारमितानामुपायकौशल्यपरिगृहीतानां प्रज्ञापारमितापरिणामितानां सर्वज्ञतापरिणामितानां न विशेषः, न च नानाकरणमुपलभ्यते । एवमुक्ते शक्रो देवानामिन्द्रो भगवन्तमेतदवोचत्- महागुणसमन्वागतेयं भगवन् यदुत प्रज्ञापारमिता । अप्रमेयगुणसमन्वागतेयं भगवन् यदुत प्रज्ञापारमिता । अपर्यन्तगुणसमन्वागतेयं भगवन् यदुत प्रज्ञापारमितेति ॥ आर्याष्टसाहस्रिकायां प्रज्ञापारमितायां गुणपरिकीर्तनपरिवर्तो नाम चतुर्थः ॥ _______________________________________________________________ (वैद्य ५२) ५: पुण्यपर्यायपरिवर्तः पञ्चमः । अथ खलु शक्रो देवानामिन्द्रो भगवन्तमेतदवोचत्- यो भगवन् कुलपुत्रो वा कुलदुहिता वा इमां प्रज्ञापारमितामभिश्रद्दधदवकल्पयन्नधिमुच्य प्रसन्नचित्तो बोधाय चित्तमुत्पाद्य अध्याशयतः शृणुयादुद्गृह्णीयाद्धारयेद्वाचयेत्पर्यवाप्नुयात्प्रवर्तयेद्देशयेदुपदिशेदुद्दिशेत्स्वाध्यायेत्, परेभ्यश्च विस्तरेण संप्रकाशयेत्, अर्थमस्या विवृणुयात्, मनसान्ववेक्षेत, यथाधिकया च प्रज्ञया अत्र परिमीमांसामापद्येत, अन्तशः पुस्तकगतामपि कृत्वा धारयेत्स्थापयेत्सद्धर्मचिरस्थितिहेतोः - मा बुद्धनेत्रीसमुच्छेदो भूत्, मा सद्धर्मान्तर्धानम् । बोधिसत्त्वानां महासत्त्वानां च अनुग्रहोपसंहारः कृतो भविष्यति नेत्र्यवैकल्येनेति । एवमिमं निर्देशं श्रुत्वा एवंमहार्थिका बतेयं प्रज्ञापारमिता, एवंमहानुशंसा, एवंमहाफला, एवंमहाविपाका बतेयं प्रज्ञापारमिता, एवं बहुगुणसमन्वागतेयं प्रज्ञापारमिता, अपरित्यजनीया मया प्रज्ञापारमिता, रक्षितव्या मम प्रज्ञापारमिता, गोपायितव्या मम प्रज्ञापारमिता, परमदुर्लभा हीयं प्रज्ञापारमितेत्यधिमुञ्चेत् । स्वयमेव चैनां प्रज्ञापारमितां सत्कुर्याद्गुरुकुर्यान्मानयेत्पूजयेदर्चयेदपचायेत्पुष्पैर्धूपैर्गन्धैर्माल्यैर्विलेपनैश्चूर्णैर्वस्त्रैश्छत्रैर्ध्वजैर्घण्टाभिः पताकाभिः, समन्ताच्च दीपमालाभिः, बहुविधाभिश्च पूजाभिः यो वा अन्यः संपूज्य परस्मै चार्थिकाय छन्दिकाय कुलपुत्राय कुलदुहित्रे वा याचमानाय दद्यादुपनामयेन्निर्यातयेत्परित्यजेत्, अन्तशः पुस्तकगतामपि कृत्वा । कतरस्तयोर्भगवन् कुलपुत्रयोः कुलदुहित्रोर्वा बहुतरं पुण्यं प्रसवेत्- यो वा परित्यागबुद्धिर्यो वा न परित्यागबुद्धिः? एवमुक्ते भगवान् शक्रं देवानामिन्द्रमेतदवोचत्- तेन हि कौशिक त्वामेवात्र प्रतिप्रक्ष्यामि । यथा ते क्षमते व्याकुर्याः । तत्किं मन्यसे कौशिक यः कुलपुत्रो वा कुलदुहिता वा तथागतस्य परिनिर्वृतस्य शरीरं सत्कृत्य परिचरेद्धारयेत्सत्कुर्याद्गुरुकुर्यान्मानयेत्पूजयेदर्चयेदपचायेत्स्वयमेव । यो वा अन्यः कुलपुत्रो वा कुलदुहिता वा तथागतशरीरं स्वयं च सत्कुर्याद्गुरुकुर्यान्मानयेत्पूजयेदर्चयेदपचायेत्, परेभ्यश्च विस्तरेण संप्रकाशयेत्, दद्यात्संविभजेत्वैस्तारिकी पूजा भविष्यतीति सत्त्वानां चानुकम्पामुपादाय । कतरस्तयोर्द्वयोः कुलपुत्रयोः कुलदुहित्रोर्वा बहुतरं पुण्यं प्रसवेत्? किं यः स्वयं च पूजयेत्परेभ्यश्च विस्तरेण संप्रकाशयेद्दद्यात्संविभजेत्, किं वा यः स्वयमेव प्रत्यात्मं पूजयेत्? शक्र आह - यो भगवन् कुलपुत्रो वा कुलदुहिता वा स्वयं च तथागतशरीरं सत्कुर्याद्गुरुकुर्यान्मानयेत्पूजयेदर्चयेदपचायेत्, परेभ्यश्च विस्तरेण संप्रकाशयेद्दद्यात्संविभजेत्वैस्तारिकी पूजा भविष्यतीति सत्त्वानां चानुकम्पामुपादाय, अयमेवानयोर्द्वयोः कुलपुत्रयोः कुलदुहित्रोर्वा बहुतरं पुण्यं प्रसवति । भगवानाह - एवमेतत्कौशिक, एवमेतत् । एवमेतत्कौशिक यः कुलपुत्रो वा कुलदुहिता वा इमां प्रज्ञापारमितां लिखित्वा पुस्तकगतां कृत्वा उद्गृह्णीयाद्धारयेद्वाचयेत्पर्यवाप्नुयात्प्रवर्तयेद्देशयेदुपदिशेदुद्दिशेत्स्वाध्यायेत्, परस्मै चार्थिकाय छन्दिकाय कुलपुत्राय कुलदुहित्रे वा याचमानाय दद्यादुपनामयेन्निर्यातयेत्परित्यजेदन्तशः पुस्तकगतामपि कृत्वा । अयमेव कौशिक तयोर्द्वयोः कुलपुत्रयोः (वैद्य ५३) कुलदुहित्रोर्वा परानुग्रहकरः कुलपुत्रो वा कुलदुहिता वा परित्यागबुद्धिस्तन्निदानं बहुतरं पुण्यं प्रसवति ॥ पुनरपरं कौशिक यः कुलपुत्रो वा कुलदुहिता वा यत्र यत्र भाजनीभूताः कुलपुत्रा वा कुलदुहितरो वा स्युः अस्याः प्रज्ञापारमितायाः, तत्र तत्र गत्वा तेभ्यः इमां प्रज्ञापारमितां दद्यात्संविभागं कुर्यात्, अयमेव कौशिक ततः कुलपुत्रात्कुलदुहितुर्वा सकाशाद्बहुतरं पुण्यं प्रसवेत् ॥ पुनरपरं कौशिक यः कुलपुत्रो वा कुलदुहिता वा ये जम्बूद्वीपे सत्त्वास्तान् सर्वान् दशसु कुशलेषु कर्मपथेषु समादापयेत्प्रतिष्ठापयेत्, तत्किं मन्यसे कौशिक अपि नु स कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहु पुण्यं प्रसवेत्? शक्र आह - बहु भगवन्, बहु सुगत । भगवानाह - अतः स कौशिक कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेत्, यः इमां प्रज्ञापारमितामन्तशः पुस्तकगतामपि कृत्वा अभिश्रद्दधदभिश्रद्दधते, अवकल्पयन्न्वकल्पयते, अधिमुञ्चन्नधिमुच्यते, प्रसन्नचित्तः प्रसन्नचित्ताय अध्याशयसंपन्नोऽध्याशयसंपन्नाय बोधाय चित्तमुत्पाद्य समुत्पादितबोधिचित्ताय बोधिसत्त्वाय अध्याशयेन दद्यात्, अन्तशो लिखनायापि वाचनायाप्यकिलासितया संपादयेत्- उद्युक्तोऽमुं ग्राहयेत्संदर्शयेत्समादापयेत्समुत्तेजयेत्संप्रहर्षयेत्, वाचा नेष्यति विनेष्यति, अर्थमस्या अस्मै संप्रकाशयिष्यति, एवं चास्य चित्तं विशोधयिष्यति, निर्विचिकित्सं करिष्यति, एवं चैनं वक्ष्यति - एहि त्वं कुलपुत्र अस्मिन्नेव बोधिसत्त्वमार्गे शिक्षस्व । अत्र हि त्वं शिक्षमाणश्चरन् व्यायच्छमानः क्षिप्रमेवानुत्तरां सम्यक्संबोधिमभिसंभोत्स्यसे । अभिसंबुध्य च अपरिमितं सत्त्वधातुमनुत्तरे उपधिसंक्षयेऽभिविनेष्यसि यदुत भूतकोटिप्रभावनतायामिति । अयं कौशिक कुलपुत्रो वा कुलदुहिता वा परित्यागबुद्ध्या ततः पौर्वकात्कुलपुत्रात्कुलदुहितुर्वा सकाशाद्बहुतरं पुण्यं प्रसवेत् । तिष्ठन्तु खलु पुनः कौशिक जम्बूद्वीपे सर्वसत्त्वाः, एतेन कौशिक पर्यायेण येऽपि ते कौशिक चातुर्महाद्वीपके लोकधातौ सत्त्वाः, तानपि सर्वान् कश्चिदेव कुलपुत्रो वा कुलदुहिता वा दशसु कुशलेषु कर्मपथेषु समादापयेत्प्रतिष्ठापयेत् । तिष्ठन्तु खलु पुनः कौशिक चातुर्महाद्वीपके लोकधातौ सर्वसत्त्वाः, एतेन पर्यायेण येऽपि ते कौशिक साहस्रे चूलिके लोकधातौ सत्त्वाः, तानपि सर्वान् कश्चिदेव कुलपुत्रो वा कुलदुहिता वा दशसु कुशलेषु कर्मपथेषु समादापयेत्प्रतिष्ठापयेत् । तिष्ठन्तु खलु पुनः कौशिक साहस्रे चूलिके लोकधातौ सर्वसत्त्वाः, एतेन पर्यायेण येऽपि ते कौशिक द्विसाहस्रे मध्यमे लोकधातौ सत्त्वाः, तानपि सर्वान् कश्चिदेव कुलपुत्रो वा कुलदुहिता वा दशसु कुशलेषु कर्मपथेषु समादापयेत्प्रतिष्ठापयेत् । तिष्ठन्तु खलु पुनः कौशिक द्विसाहस्रे मध्यमे लोकधातौ सर्वसत्त्वाः, एतेन पर्यायेण येऽपि ते कौशिक त्रिसाहस्रमहासाहस्रे लोकधातौ सत्त्वाः, तानपि सर्वान् कश्चिदेव कुलपुत्रो वा कुलदुहिता वा दशसु कुशलेषु कर्मपथेषु समादापयेत्प्रतिष्ठापयेत् । तिष्ठन्तु खलु पुनः कौशिक त्रिसाहस्रमहासाहस्रे लोकधातौ सर्वसत्त्वाः, एतेन कौशिक पर्यायेण यावन्तो गङ्गानदीवालुकोपमेषु (वैद्य ५४) त्रिसाहस्रमहासाहस्रेषु लोकधातुषु सत्त्वाः, तानपि सर्वान् कश्चिदेव कुलपुत्रो वा कुलदुहिता वा दशसु कुशलेषु कर्मपथेषु समादापयेत्प्रतिष्ठापयेत् । तत्किं मन्यसे कौशिक अपि नु स कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहु पुण्यं प्रसवेत्? शक्र आह - बहु भगवन्, बहु सुगत ॥ भगवानाह - अतः खलु पुनः स कौशिक कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेत्, य इमां प्रज्ञापारमितामन्तशः पुस्तकगतामपि कृत्वा अभिश्रद्दधदभिश्रद्दधते, अवकल्पयन्नवकल्पयते, अधिमुञ्चन्नधिमुच्यते, प्रसन्नचित्तः प्रसन्नचित्ताय अध्याशयसंपन्नोऽध्याशयसंपन्नाय बोधाय चित्तमुत्पाद्य समुत्पादितबोधिचित्ताय बोधिसत्त्वाय अध्याशयेन दद्यात्, अन्तशः लिखनायापि वाचनायापि अकिलासितया संपादयेत्, उद्युक्तोऽमुं ग्राहयेत्संदर्शयेत्समादापयेत्समुत्तेजयेत्संप्रहर्षयेत्, वाचा नेष्यति, विनेष्यति, अर्थमस्या अस्मै संप्रकाशयिष्यति, एवं चास्य चित्तं विशोधयिष्यति, निर्विचिकित्सं करिष्यति, एवं चैनं वक्ष्यति - एहि त्वं कुलपुत्र अस्मिन्नेव बोधिसत्त्वमार्गे शिक्षस्व । अत्र हि त्वं शिक्षमाणश्चरन् व्यायच्छमानः क्षिप्रमेवानुत्तरां सम्यक्संबोधिमभिसंभोत्स्यसे । अभिसंबुध्य च अपरिमितं सत्त्वधातुमनुत्तरे उपधिसंक्षयेऽभिविनेष्यसि, यदुत भूतकोटिप्रभावनतायामिति । अयं कौशिक कुलपुत्रो वा कुलदुहिता वा परित्यागबुद्ध्या ततः पौर्वकात्कुलपुत्रात्कुलदुहितुर्वा सकाशाद्बहुतरं पुण्यं प्रसवेत् ॥ पुनरपरं कौशिक यावन्तो जम्बूद्वीपे सत्त्वाः, तानपि सर्वान् कश्चिदेव कुलपुत्रो वा कुलदुहिता वा चतुर्षु ध्यानेषु प्रतिष्ठापयेत् । तत्किं मन्यसे कौशिक अपि नु स कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहु पुण्यं प्रसवेत्? शक्र आह - बहु भगवन् बहु, सुगत ॥ भगवानाह - अतः खलु पुनः स कौशिक कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेत्, य इमां प्रज्ञापारमितामन्तशः पुस्तकगतामपि कृत्वा अभिश्रद्दधदभिश्रद्दधते अवकल्पयन्नवकल्पयते, अधिमुञ्चन्नधिमुच्यते, प्रसन्नचित्तः प्रसन्नचित्ताय अध्याशयसंपन्नोऽध्याशयसंपन्नाय बोधाय चित्तमुत्पाद्य समुत्पादितबोधिचित्ताय बोधिसत्त्वाय अध्याशयेन दद्यातन्तशो लिखनायापि वाचनायापि अकिलासितया संपादयेत्, उद्युक्तोऽमुं ग्राहयेत्संदर्शयेत्समादापयेत्समुत्तेजयेत्संप्रहर्षयेत्, वाचा नेष्यति, विनेष्यति, अर्थमस्या अस्मै संप्रकाशयिष्यति, एवं चास्य चित्तं विशोधयिष्यति, निर्विचिकित्सं करिष्यति, एवं चैनं वक्ष्यति - एहि त्वं कुलपुत्र अस्मिन्नेव बोधिसत्त्वमार्गे शिक्षस्व । अत्र हि त्वं शिक्षमाणश्चरन् व्यायच्छमानः क्षिप्रमेवानुत्तरां सम्यक्संबोधिमभिसंभोत्स्यसे । अभिसंबुध्य च अपरिमितं सत्त्वधातुमनुत्तरे उपधिसंक्षयेऽभिविनेष्यसि, यदुत भूतकोटिप्रभावनतायामिति । तिष्ठन्तु खलु पुनः कौशिक जम्बुद्वीपे सर्वसत्त्वाः, एतेन पर्यायेण येऽपि ते कौशिक चातुर्महाद्वीपके लोकधातौ सत्त्वाः, तानपि सर्वान् कश्चिदेव कुलपुत्रो वा कुलदुहिता वा चतुर्षु ध्यानेषु प्रतिष्ठापयेत् । तिष्ठन्तु खलु पुनः कौशिक चातुर्महाद्वीपके लोकधातौ सर्वसत्त्वाः, एतेन पर्यायेण ये ऽपि ते कौशिक साहस्रे चूलिके लोकधातौ सत्त्वाः, तानपि सर्वान् कश्चिदेव कुलपुत्रो वा कुलदुहिता वा (वैद्य ५५) चतुर्षु ध्यानेषु प्रतिष्ठापयेत् । तिष्ठन्तु खलु पुनः कौशिक साहस्रे चूलिके लोकधातौ सर्वसत्त्वाः, एतेन पर्यायेण येऽपि ते कौशिक द्विसाहस्रे मध्यमे लोकधातौ सत्त्वाः तानपि सर्वान् कश्चिदेव कुलपुत्रो वा कुलदुहिता वा चतुर्षु ध्यानेषु प्रतिष्ठापयेत् । तिष्ठन्तु खलु पुनः कौशिक द्विसाहस्रे मध्यमे लोकधातौ सर्वसत्त्वाः, एतेन पर्यायेण येऽपि ते कौशिक त्रिसाहस्रमहासाहस्रे लोकधातौ सत्त्वाः, तानपि सर्वान् कश्चिदेव कुलपुत्रो वा कुलदुहिता वा चतुर्षु ध्यानेषु प्रतिष्ठापयेत् । तिष्ठन्तु खलु पुनः कौशिक त्रिसाहस्रमहासाहस्रे लोकधातौ सर्वसत्त्वाः, एतेन कौशिक पर्यायेण यावन्तो गङ्गानदीवालुकोपमेषु त्रिसाहस्रमहासाहस्रेषु लोकधातुषु सत्त्वाः, तानपि सर्वान् कश्चिदेव कुलपुत्रो वा कुलदुहिता वा चतुर्षु ध्यानेषु प्रतिष्ठापयेत् । तत्किं मन्यसे कौशिक अपि नु स कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहु पुण्यं प्रसवेत्? शक्र आह - बहु भगवन् बहु सुगत ॥ भगवानाह - अतः खलु पुनः स कौशिक कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेत्, य इमां प्रज्ञापारमितामन्तशः पुस्तकगतामपि कृत्वा अभिश्रद्दधदभिश्रद्दधते, अवकल्पयन्नवकल्पयते, अधिमुञ्चन्नधिमुच्यते, प्रसन्नचित्तः प्रसन्नचित्ताय अध्याशयसंपन्नोऽध्याशयसंपन्नाय बोधाय चित्तमुत्पाद्य समुत्पादितबोधिचित्ताय बोधिसत्त्वाय अध्याशयेन दद्यात्, अन्तशो लिखनायापि वाचनायापि अकिलासितया संपादयेत्, उद्युक्तोऽमुं ग्राहयेत्संदर्शयेत्समादापयेत्समुत्तेजयेत संप्रहर्षयेत्, वाचा नेष्यति, विनेष्यति अनुनेष्यति, अर्थमस्या अस्मै संप्रकाशयिष्यति, एवं चास्य चित्तं विशोधयिष्यति, निर्विचिकित्सं करिष्यति, एवं चैनं वक्ष्यति - एहि त्वं कुलपुत्र अस्मिन्नेव बोधिसत्त्वमार्गे शिक्षस्व । अत्र हि त्वं शिक्षमाणश्चरन् व्यायच्छमानः क्षिप्रमेवानुत्तरां सम्यक्संबोधिमभिसंभोत्स्यसे । अभिसंबुध्य च अपरिमितं सत्त्वधातुमनुत्तरे उपधिसंक्षयेऽभिविनेष्यसि यदुत भूतकोटिप्रभावनतायामिति । पुनरपरं कौशिक यावन्तो जम्बुद्वीपे सत्त्वाः, तान् सर्वान् कश्चिदेव कुलपुत्रो वा कुलदुहिता वा चतुर्षु अप्रमाणेषु प्रतिष्ठापयेत्, एवं पेयालेन कर्तव्यम् । यथा चतुर्ष्वप्रमाणेषु, एवं चतसृष्वारूप्यसमापत्तिषु, पञ्चस्वभिज्ञासु, यावत्समस्तासु ध्यानाप्रमाणारूप्यसमापत्त्यभिज्ञासु प्रतिष्ठापयेत् । तत्किं मन्यसे कौशिक अपि नु स कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहु पुण्यं प्रसवेत्? शक्र आह - बहु भगवन् बहु सुगत ॥ भगवानाह - अतः खलु पुनः स कौशिक कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेत्, य इमां प्रज्ञापारमितामन्तशः पुस्तकगतामपि कृत्वा अभिश्रद्दधदभिश्रद्दधते अवकल्पयन्नवकल्पयते, अधिमुञ्चन्नधिमुच्यते, प्रसन्नचित्तः प्रसन्नचित्ताय अध्याशयसंपन्नोऽध्याशयसंपन्नाय बोधाय चित्तमुत्पाद्य समुत्पादितबोधिचित्ताय बोधिसत्त्वाय अध्याशयेन दद्यात्, अन्तशो लिखनायापि वाचनायापि अकिलासितया संपादयिष्यति, उद्युक्तोऽमुंग्राहयिष्यति, संदर्शयिष्यति समादापयिष्यति समुत्तेजयिष्यति संप्रहर्षयिष्यति, वाचा नेष्यति विनेष्यति अनुनेष्यति, अर्थमस्या (वैद्य ५६) अस्मै संप्रकाशयिष्यति, एवं चास्य चित्तं विशोधयिष्यति, निर्विचिकित्सं करिष्यति, एवं चैनं वक्ष्यति - एहि त्वं कुलपुत्र अस्मिन्नेव बोधिसत्त्वमार्गे शिक्षस्व । अत्र हि त्वं शिक्षमाणश्चरन् व्यायच्छमानः क्षिप्रमेवानुत्तरां सम्यक्संबोधिमभिसंभोत्स्यसे । अभिसंबुध्य च अपरिमितं सत्त्वधातुमनुत्तरे उपधिसंक्षयेऽभिविनेष्यसि यदुत भूतकोटिप्रभावनतायामिति । तिष्ठतु खलु पुनः कौशिक जाम्बूद्वीपकान् सर्वसत्त्वान् ध्यानाप्रमाणारूप्यसमापत्त्यभिज्ञासु प्रतिष्ठाप्य पुण्याभिसंस्कारः, अनेन पर्यायेण येऽपि ते कौशिक चातुर्महाद्वीपके लोकधातौ सत्त्वाः, तानपि सर्वान् कश्चिदेव कुलपुत्रो वा कुलदुहिता वा ध्यानाप्रमाणारूप्यसमापत्त्यभिज्ञासु प्रतिष्ठापयेत् । तिष्ठतु खलु पुनः कौशिक चातुर्महाद्वीपके लोकधातौ सर्वसत्त्वान् ध्यानाप्रमाणारूप्यसमापत्त्यभिज्ञासु प्रतिष्ठाप्य पुण्याभिसंस्कारः, येऽपि ते कौशिक साहस्रे चूलिके लोकधातौ सत्त्वाः, तानपि सर्वान् कश्चिदेव कुलपुत्रो वा कुलदुहिता वा ध्यानाप्रमाणारूप्यसमापत्त्यभिज्ञासु प्रतिष्ठापयेत् । तिष्ठतु खलु पुनः कौशिक साहस्रे चूलिके लोकधातौ सर्वसत्त्वान् ध्यानाप्रमाणारूप्यसमात्त्यभिज्ञासु प्रतिष्ठाप्य पुण्याभिसंस्कारः, येऽपि ते कौशिक द्विसाहस्रे मध्यमे लोकधातौ सत्त्वाः, तानपि सर्वान् कश्चिदेव कुलपुत्रो वा कुलदुहिता वा ध्यानाप्रमाणारूप्यसमापत्त्यभिज्ञासु प्रतिष्ठापयेत् । तिष्ठतु खलु पुनः कौशिक द्विसाहस्रे मध्यमे लोकधातौ सर्वसत्त्वान् ध्यानाप्रमाणारूप्यसमापत्त्यभिज्ञासु प्रतिष्ठाप्य पुण्याभिसंस्कारः, येऽपि ते कौशिक त्रिसाहस्रमहासाहस्रे लोकधातौ सत्त्वाः, तानपि सर्वान् कश्चिदेव कुलपुत्रो वा कुलदुहिता वा ध्यानाप्रमाणारूप्यसमापत्त्यभिज्ञासु प्रतिष्ठापयेत् । तिष्ठतु खलु पुनः कौशिक त्रिसाहस्रमहासाहस्रे लोकधातौ सर्वसत्त्वान् ध्यानाप्रमाणारूप्यसमापत्त्यभिज्ञासु प्रतिष्ठाप्य पुण्याभिसंस्कारः, अनेन पर्यायेण येऽपि केचित्कौशिक गङ्गानदीवालुकोपमेषु त्रिसाहस्रमहासाहस्रेषु लोकधातुषु सत्त्वाः, तानपि सर्वान् कश्चिदेव कुलपुत्रो वा कुलदुहिता वा ध्यानाप्रमाणारूप्यसमापत्त्यभिज्ञासु प्रतिष्ठापयेत् । तत्किं मन्यसे कौशिक अपि नु स कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहु पुण्यं प्रसवेत्? शक्र आह - बहु भगवन् बहु सुगत ॥ भगवानाह - अतः खलु पुनः स कौशिक कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेत्, य इमां प्रज्ञापारमितामन्तशः पुस्तकगतामपि कृत्वा अभिश्रद्दधदभिश्रद्दधते, अवकल्पयन्नवकल्पयते, अधिमुञ्चन्नधिमुच्यते, प्रसन्नचित्तः प्रसन्नचित्ताय अध्याशयसंपन्नोऽध्याशयसंपन्नाय बोधाय चित्तमुत्पाद्य समुत्पादितबोधिचित्ताय बोधिसत्त्वाय अध्याशयेन दद्यात्, अन्तशो लिखनायापि वाचनायापि अकिलासितया संपादयिष्यति, उद्युक्तोऽमुं ग्राहयिष्यति, संदर्शयिष्यति समादापयिष्यति समुत्तेजयिष्यति संप्रहर्षयिष्यति, वाचा नेष्यति विनेष्यति अनुनेष्यति, अर्थमस्या अस्मै संप्रकाशयिष्यति, एवं चास्य चित्तं विशोधयिष्यति, निर्विचिकित्सं करिष्यति, एवं चैनं वक्ष्यति - एहि त्वं कुलपुत्र अस्मिन्नेव बोधिसत्त्वमार्गे शिक्षस्व । अत्र हि त्वं शिक्षमाणश्चरन् व्यायच्छमानः क्षिप्रमेवानुत्तरां सम्यक्संबोधिमभिसंभोत्स्यसे । अभिसंबुध्य च अपरिमितं सत्त्वधातुमनुत्तरे उपधिसंक्षयेऽभिविनेष्यसि, यदुत भूतकोटिप्रभावनतायामिति ॥ (वैद्य ५७) पुनरपरं कौशिक यः कुलपुत्रो वा कुलदुहिता वा इमां प्रज्ञापारमितां लिखित्वा स्वयं च वाचयेत्, परेभ्यश्च लिखित्वा पूर्ववद्दद्यात्, अयत्नतः कौशिक पूर्वकात्कुलपुत्रात्कुलदुहितुर्वा सकाशाद्बहुतरं पुण्यं प्रसवेत् । पुनरपरं कौशिक यः कुलपुत्रो वा कुलदुहिता वा इमां प्रज्ञापारमितामर्थकुशलो वाचयेत्, परेभ्यश्च लिखित्वा पूर्ववद्दद्यात्, सार्थां सव्यञ्जनामुपदिशेत्परिदीपयेत्, अयत्नतः कौशिक स कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेत् ॥ अथ खलु शक्रो देवानामिन्द्रो भगवन्तमेतदवोचत्- इयमपि भगवन् प्रज्ञापारमिता उपदेष्टव्याः? एवमुक्ते भगवान् शक्रं देवानामिन्द्रमेतदवोचत्- इयमपि कौशिक प्रज्ञापारमिता उपदेष्टव्या अबुध्यमानस्य कुलपुत्रस्य वा कुलदुहितुर्वा । तत्कस्य हेतोः? उत्पत्स्यते हि कौशिक अनागतेऽध्वनि प्रज्ञापारमिताप्रतिवर्णिका । तत्र अबुध्यमानः कुलपुत्रो वा कुलदुहिता वा अनुत्तरां सम्यक्संबोधिमभिसंबोद्धुकामो मा प्रणंक्षीत्तां प्रज्ञापारमिता प्रतिवर्णिकां श्रुत्वा ॥ अथ खलु शक्रो देवानामिन्द्रो भगवन्तमेतदवोचत्- कथं भगवननागतेऽध्वनि प्रज्ञापारमिताप्रतिवर्णिका वेदितव्या - इयं सा प्रज्ञापारमिताप्रतिवर्णिकोपदिश्यत इति? एवमुक्ते भगवान् शक्रं देवानामिन्द्रमेतदवोचत्- भविष्यन्ति कौशिक अनागतेऽध्वनि एके भिक्षवः अभावितकाया अभावितशीला अभावितचित्ता अभावितप्रज्ञा एडमूकजातीया प्रज्ञापरिहीणाः । ते प्रज्ञापारमितामुपदेक्ष्याम इति तस्याः प्रतिवर्णिकामुपदेक्ष्यन्ति । कथं च कौशिक प्रज्ञापारमिताप्रतिवर्णिकामुपदेक्ष्यन्ति? रूपविनाशो रूपानित्यतेत्युपदेक्ष्यन्ति । एवं वेदनासंज्ञासंस्काराः । विज्ञानविनाशो विज्ञानानित्यतेत्युपदेक्ष्यन्ति । एवं चोपदेक्ष्यन्ति - य एवं गवेषयिष्यति, स प्रज्ञापारमितायां चरिष्यतीति । इयं सा कौशिक प्रज्ञापारमिताप्रतिवर्णिका वेदितव्या । न खलु पुनः कौशिक रूपविनाशो रूपानित्यता द्रष्टव्या । एवं वेदनासंज्ञासंस्काराः । न खलु पुनः कौशिक विज्ञानविनाशो विज्ञानानित्यता द्रष्टव्या । सचेदेवं पश्यति, प्रज्ञापारमिताप्रतिवर्णिकायां चरति । तस्मात्तर्हि कौशिक कुलपुत्रेण वा कुलदुहित्रा वा प्रज्ञापारमिताया अर्थ उपदेष्टव्यः । प्रज्ञापारमिताया अर्थमुपदिशन् कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेत् ॥ पुनरपरं कौशिक यावन्तो जम्बूद्वीपे सत्त्वाः, तान् सर्वान् कश्चिदेव कुलपुत्रो वा कुलदुहिता वा स्रोतआपत्तिफले प्रतिष्ठापयेत् । तत्किं मन्यसे कौशिक अपि नु स कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहु पुण्यं प्रसवेत्? शक्र आह - बहु भगवन्, बहु सुगत । भगवानाह - अतः खलु पुनः स कौशिक कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेत्, य इमां प्रज्ञापारमितामन्तशः पुस्तकगतामपि कृत्वा अभिश्रद्दधदभिश्रद्दधते, अवकल्पयन्नवकल्पयते, अधिमुञ्चन्नधिमुञ्चते, प्रसन्नचित्तः प्रसन्नचित्ताय, अध्याशयसंपन्नोऽध्याशयसंपन्नाय बोधाय चित्तमुत्पाद्य समुत्पादितबोधिचित्ताय बोधिसत्त्वाय अध्याशयेन दद्यात्, अन्तशो लिखनायापि वाचनायापि अकिलासितया संपादयिष्यति, उद्युक्तोऽमुं ग्राहयिष्यति, संदर्शयिष्यति समादापयिष्यति (वैद्य ५८) समुत्तेजयिष्यति संप्रहर्षयिष्यति, वाचा नेष्यति विनेष्यति अनुनेष्यति, अर्थमस्या अस्मै संप्रकाशयिष्यति, एवं चास्य चित्तं विशोधयिष्यति, निर्विचिकित्सं करिष्यति, एवं चैनं वक्ष्यति - एहि त्वं कुलपुत्र अस्मिन्नेव बोधिसत्त्वमार्गे शिक्षस्व । अत्र हि त्वं शिक्षमाणश्चरन् व्यायच्छमानः क्षिप्रमेवानुत्तरां सम्यक्संबोधिमभिसंभोत्स्यसे, अभिसंबुध्य च अपरिमितं सत्त्वधातुमनुत्तरे उपधिसंक्षयेऽभिविनेष्यसि यदुत भूतकोटिप्रभावनतायामिति । एवं च वाचं भाषेत - एतेषामेव त्वं कुलपुत्र धर्माणां लाभी भव यदुत प्रज्ञापारमिताप्रतिसंयुक्तानामिति । अयमेव कौशिक ततः पौर्वकात्कुलपुत्रतः कुलदुहितृतो वा सकाशाद्बहुतरं पुण्यं प्रसवेत् । तत्कस्य हेतोः? अतो हि कौशिक स्रोतआपत्तिफलं प्रभाव्यते ॥ तिष्ठतु खलु पुनः कौशिक जाम्बूद्वीपकान् सर्वसत्त्वान् स्रोतआपत्तिफले प्रतिष्ठाप्य पुण्याभिसंस्कारः, यावन्तः कौशिक चातुर्महाद्वीपके लोकधातौ सत्त्वाः, तानपि सर्वान् कश्चिदेव कुलपुत्रो वा कुलदुहिता वा स्रोतआपत्तिफले प्रतिष्ठापयेत् ॥ तिष्ठतु खलु पुनः कौशिक चातुर्महाद्वीपके लोकधातौ सर्वसत्त्वान् स्रोतआपत्तिफले प्रतिष्ठाप्य पुण्याभिसंस्कारः, यावन्तः कौशिक साहस्रे चूलिके लोकधातौ सत्त्वाः, तानपि सर्वान् कश्चिदेव कुलपुत्रो वा कुलदुहिता वा स्रोतआपत्तिफले प्रतिष्ठापयेत् ॥ तिष्ठतु खलु पुनः कौशिक साहस्रे चूलिके लोकधातौ सर्वसत्त्वान् स्रोतआपत्तिफले प्रतिष्ठाप्य पुण्याभिसंस्कारः, यावन्तः कौशिक द्विसाहस्रे मध्यमे लोकधातौ सत्त्वाः, तानपि सर्वान् कश्चिदेव कुलपुत्रो वा कुलदुहिता वा स्रोतआपत्तिफले प्रतिष्ठापयेत् ॥ तिष्ठतु खलु पुनः कौशिक द्विसाहस्रे मध्यमे लोकधातौ सर्वसत्त्वान् स्रोतआपत्तिफले प्रतिष्ठाप्य पुण्याभिसंस्कारः, यावन्तः कौशिक त्रिसाहस्रमहासाहस्रे लोकधातौ सत्त्वाः, तानपि सर्वान् कश्चिदेव कुलपुत्रो वा कुलदुहिता वा स्रोतआपत्तिफले प्रतिष्ठापयेत् ॥ तिष्ठतु खलु पुनः कौशिक त्रिसाहस्रमहासाहस्रे लोकधातौ सर्वसत्त्वान् स्रोतआपत्तिफले प्रतिष्ठाप्य पुण्याभिसंस्कारः, यावन्तः कौशिक गङ्गानदीवालुकोपमेषु त्रिसाहस्रमहासाहस्रेषु लोकधातुषु सत्त्वाः, तानपि सर्वान् कश्चिदेव कुलपुत्रो व कुलदुहिता वा स्रोतआपत्तिफले प्रतिष्ठापयेत् । तत्किं मन्यसे कौशिक अपि नु स कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहु पुण्यं प्रसवेत्? शक्र आह - बहु भगवन्, बहु सुगत ॥ भगवानाह - अतः खलु पुनः स कौशिक कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेत्, य इमां प्रज्ञापारमितामन्तशः पुस्तकगतामपि कृत्वा अभिश्रद्दधदभिश्रद्दधते, अवकल्पयन्नवकल्पयते, अधिमुञ्चन्नधिमुञ्चते, प्रसन्नचित्तः प्रसन्नचित्ताय, अध्याशयसंपन्नोऽध्याशयसंपन्नाय बोधाय चित्तमुत्पाद्य समुत्पादितबोधिचित्ताय बोधिसत्त्वाय अध्याशयेन दद्यात्, अन्तशो लिखनायापि वाचनायापि अकिलासितया संपादयिष्यति, उद्युक्तोऽमुं ग्राहयिष्यति, संदर्शयिष्यति समादापयिष्यति समुत्तेजयिष्यति संप्रहर्षयिष्यति, वाचा नेष्यति विनेष्यति अनुनेष्यति, अर्थमस्या अस्मै संप्रकाशयिष्यति, एवं चास्य चित्तं विशोधयिष्यति, निर्विचिकित्सं करिष्यति, एवं (वैद्य ५९) चैनं वक्ष्यति - एहि त्वं कुलपुत्र अस्मिन्नेव बोधिसत्त्वमार्गे शिक्षस्व । अत्र हि त्वं शिक्षमाणश्चरन् व्यायच्छमानः क्षिप्रमेवानुत्तरां सम्यक्संबोधिमभिसंभोत्स्यसे । अभिसंबुध्य च अपरिमितं सत्त्वधातुमनुत्तरे उपधिसंक्षयेऽभिविनेष्यसि यदुत भूतकोटिप्रभावनतायामिति । एवं च वाचं भाषेत - एतेषामपि त्वं कुलपुत्र धर्माणां लाभी भव यदुत प्रज्ञापारमिताप्रतिसंयुक्तानामिति । अयमेव कौशिक ततः पौर्वकात्कुलपुत्रतः कुलदुहितृतो वा सकाशाद्बहुतरं पुण्यं प्रसवेत् । तत्कस्य हेतोः? अतो हि कौशिक स्रोतआपत्तिफलं प्रभाव्यते ॥ पुनरपरं कौशिक यो हि कश्चिदेव कुलपुत्रो वा कुलदुहिता वा यावन्तो जम्बूद्वीपे सत्त्वाः, तान् सर्वान् सकृदागामिफले प्रतिष्ठापयेत् । तत्किं मन्यसे कौशिक अपि नु स कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहु पुण्यं प्रसवेत्? शक्र आह - बहु भगवन्, बहु सुगत । भगवानाह - अतः खलु पुनः स कौशिक कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेत्, य इमां प्रज्ञापारमितामन्तशः पुस्तकगतामपि कृत्वा अभिश्रद्दधदभिश्रद्दधते, अवकल्पयन्नवकल्पयते, अधिमुञ्चन्नधिमुञ्चते, प्रसन्नचित्तः प्रसन्नचित्ताय, अध्याशयसंपन्नोऽध्याशयसंपन्नाय बोधाय चित्तमुत्पाद्य समुत्पादितबोधिचित्ताय बोधिसत्त्वायाध्यशयेन दद्यात्, अन्तशो लिखनायापि वाचनायापि अकिलासितया संपादयिष्यति, उद्युक्तोऽमुं ग्राहयिष्यति, संदर्शयिष्यति समदापयिष्यति समुत्तेजयिष्यति संप्रहर्षयिष्यति, वाचा नेष्यति विनेष्यति अनुनेष्यति, अर्थमस्या अस्मै संप्रकाशयिष्यति, एवं चास्य चित्तं विशोधयिष्यति, निर्विचिकित्सं करिष्यति, एवं चैनं वक्ष्यति - एहि त्वं कुलपुत्र अस्मिन्नेव बोधिसत्त्वमार्गे शिक्षस्व । अत्र हि त्वं शिक्षमाणश्चरन् व्यायच्छमानः क्षिप्रमेवानुत्तरां सम्यक्संबोधिमभिसंभोत्स्यसे । अभिसंबुध्य च अपरिमितं सत्त्वधातुमनुत्तरे उपधिसंक्षयेऽभिविनेष्यसि यदुत भूतकोटिप्रभावनतायामिति । एवं च वाचं भाषेत - एतेषामेव त्वं कुलपुत्र धर्माणां लाभी भव यदुत प्रज्ञापारमिताप्रतिसंयुक्तानामिति । अयमेव कौशिक ततः पौर्वकात्कुलपुत्रतः कुलदुहितृतो वा सकाशाद्बहुतरं पुण्यं प्रसवेत् । तत्कस्य हेतोः? अतो हि कौशिक सकृदागामिफलं प्रभाव्यते । तिष्ठतु खलु पुनः कौशिक जाम्बूद्वीपकान् सर्वसत्त्वान् सकृदागामिफले प्रतिष्ठाप्य पुण्याभिसंस्कारः, यावन्तः कौशिक चातुर्महाद्वीपके लोकधातौ सत्त्वाः, तानपि सर्वान् कश्चिदेव कुलपुत्रो वा कुलदुहिता वा सकृदागामिफले प्रतिष्ठापयेत् । तिष्ठतु खलु पुनः कौशिक चातुर्महाद्वीपके लोकधातौ सर्वसत्वान् सकृदागामिफले प्रतिष्ठाप्य पुण्यभिसंस्कारः, यावन्तः कौशिक साहस्रे चूलिके लोकधातौ (वैद्य ६०) सत्त्वाः, तानपि सर्वान् कश्चिदेव कुलपुत्रो वा कुलदुहिता वा सकृदागामिफले प्रतिष्ठापयेत् । तिष्ठतु खलु पुनः कौशिक साहस्रे चूलिके लोकधातौ सर्वसत्त्वान् सकृदागामिफले प्रतिष्ठाप्य पुण्याभिसंस्कारः, यावन्तः कौशिक द्विसाहस्रे मध्यमे लोकधातौ सत्त्वाः, तानपि सर्वान् कश्चिदेव कुलपुत्रो वा कुलदुहिता वा सकृदागामिफले प्रतिष्ठापयेत् । तिष्ठातु खलु पुनः कौशिक द्विसाहस्रे मध्यमे लोकधातौ सर्वसत्त्वान् सकृदागामिफले प्रतिष्ठाप्य पुण्याभिसंस्कारः, यावन्तः कौशिक त्रिसाहस्रमहासाहस्रे लोकधातौ सत्त्वाः, तानपि सर्वान् कश्चिदेव कुलपुत्रो वा कुलदुहिता वा सकृदागामिफले प्रतिष्ठापयेत् । तिष्ठतु खलु पुनः कौशिक त्रिसाहस्रमहासाहस्रे लोकधातौ सर्वसत्त्वान् सकृदागामिफले प्रतिष्ठाप्य पुण्याभिसंस्कारः, यावन्तः कौशिक गङ्गानदीवालुकोपमेषु त्रिसाहस्रमहासाहस्रेषु लोकधातुषु सत्त्वाः, तानपि सर्वान् कश्चिदेव कुलपुत्रो वा कुलदुहिता वा सकृदागामिफले प्रतिष्ठापयेत् । तत्किं मन्यसे कौशिक अपि नु स कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहु पुण्यं प्रसवेत्? शक्र आह - बहु भगवन्, बहु सुगत ॥ भगवानाह - अतः खलु पुनः स कौशिक कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेत्, य इमां प्रज्ञापारमितामन्तशः पुस्तकगतामपि कृत्वा अभिश्रद्दधदभिश्रद्दधते, अवकल्पयन्नवकल्पयते, अधिमुञ्चन्नधिमुञ्चते, प्रसन्नचित्तः प्रसन्नचित्ताय, अध्याशयसंपन्नोऽध्याशयसंपन्नाय बोधाय चित्तमुत्पाद्य समुत्पादितबोधिचित्ताय बोधिसत्त्वाय अध्याशयेन दद्यात्, अन्तशो लिखनायापि वाचनायापि अकिलासितया संपादयिष्यति, उद्युक्तोऽमुं ग्राहयिष्यति, संदर्शयिष्यति समादापयिष्यति समुत्तेजयिष्यति संप्रहर्षयिष्यति, वाचा नेष्यति विनेष्यति अनुनेष्यति, अर्थमस्या अस्मै संप्रकाशयिष्यति, एवं चास्य चित्तं विशोधयिष्यति, निर्विचिकित्सं करिष्यति, एवं चैनं वक्ष्यति - एहि त्वं कुलपुत्र अस्मिन्नेव बोधिसत्त्वमार्गे शिक्षस्व । अत्र हि त्वं शिक्षमाणश्चरन् व्यायच्छमानः क्षिप्रमेवानुत्तरां सम्यक्संबोधिमभिसंभोत्स्यसे । अभिसंबुध्य च अपरिमितं सत्त्वधातुमनुत्तरे उपधिसंक्षयेऽभिविनेष्यसि यदुत भूतकोटिप्रभावनतायामिति । एवं च वाचं भाषेत - एतेषामेव त्वं कुलपुत्र धर्माणां लाभी भव यदुत प्रज्ञापारमिताप्रतिसंयुक्तानामिति । अयमेव कौशिक ततः पौर्वकात्कुलपुत्रतः कुलदुहितृतो वा सकाशाद्बहुतरं पुण्यं प्रसवेत् । तत्कस्य हेतोः? अतो हि कौशिक सकृदागामिफलं प्रभाव्यते ॥ पुनरपरं कौशिक यो हि कश्चिदेव कुलपुत्रो वा कुलदुहिता वा यावन्तो जम्बूद्वीपे सत्त्वाः, तान् सर्वाननागामिफले प्रतिष्ठापयेत् । तत्किं मन्यसे कौशिक अपि नु स कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहु पुण्यं प्रसवेत्? शक्र आह - बहु भगवन् बहु सुगत ॥ भगवानाह - अतः खलु पुनः स कौशिक कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेत्, य इमां प्रज्ञापारमितामन्तशः पुस्तकगतामपि कृत्वा अभिश्रद्दधदभिश्रद्दधते, अवकल्पयन्नवकल्पयते, अधिमुञ्चन्नधिमुञ्चते, प्रसन्नचित्तः प्रसन्नचित्ताय, अध्याशयसंपन्नोऽध्याशयसंपन्नाय बोधाय चित्तमुत्पाद्य समुत्पादितबोधिचित्ताय बोधिसत्त्वाय अध्याशयेन दद्यात्, अन्तशो लिखनायापि वाचनायापि अकिलासितया संपादयिष्यति, उद्युक्तोऽमुं ग्राहयिष्यति, संदर्शयिष्यति समादापयिष्यति समुत्तेजयिष्यति संप्रहर्षयिष्यति, वाचा नेष्यति विनेष्यति अनुनेष्यति, अर्थमस्या अस्मै संप्रकाशयिष्यति, एवं चास्य चित्तं विशोधयिष्यति, निर्विचिकित्सं करिष्यति, एवं चैनं वक्ष्यति - एहि त्वं कुलपुत्र अस्मिन्नेव बोधिसत्त्वमार्गे शिक्षस्व । अत्र हि त्वं शिक्षमाणश्चरन् व्यायच्छमानः क्षिप्रमेवानुत्तरां (वैद्य ६१) सम्यक्संबोधिमभिसंभोत्स्यसे । अभिसंबुध्य च अपरिमितं सत्त्वधातुमनुत्तरे उपधिसंक्षयेऽभिविनेष्यसि यदुत भूतकोटिप्रभावनतायामिति । एवं च वाचं भाषेत - एतेषामेवं त्वं कुलपुत्र धर्माणां लाभी भव, यदुत प्रज्ञापारमिताप्रतिसंयुक्तानामिति । अयमेव ततो बहुतरं पुण्यं प्रसवेत् । तत्कस्य हेतोः? अतो हि कौशिक अनागामिफलं प्रभाव्यते । तिष्ठतु खलु पुनः कौशिक जम्बूद्वीपकान् सर्वसत्त्वाननागामिफले प्रतिष्ठाप्य पुण्याभिसंस्कारः, यावन्तः कौशिक चतुर्महाद्वीपके लोकधातौ सत्त्वाः, तानपि सर्वान् कश्चिदेव कुलपुत्रो वा कुलदुहिता वा अनागामिफले प्रतिष्ठापयेत् । तिष्ठतु खलु पुनः कौशिक चातुर्महाद्वीपके लोकधातौ सर्वसत्त्वाननागामिफले प्रतिष्ठाप्य पुण्याभिसंस्कारः, यावन्तः कौशिक साहस्रे चूलिके लोकधातौ सत्त्वाः, तानपि सर्वान् कश्चिदेव कुलपुत्रो वा कुलदुहिता वा अनागामिफले प्रतिष्ठापयेत् । तिष्ठतु खलु पुनः कौशिक साहस्रे चूलिके लोकधातौ सर्वसत्त्वाननागामिफले प्रतिष्ठाप्य पुण्याभिसंस्कारः, यावन्तः कौशिक द्विसाहस्रे मध्यमे लोकधातौ सत्त्वाः, तानपि सर्वान् कश्चिदेव कुलपुत्रो वा कुलदुहिता वा अनागामिफले प्रतिष्ठापयेत् । तिष्ठतु खलु पुनः कौशिक द्विसाहस्रे मध्यमे लोकधातौ सर्वसत्त्वाननागामिफले प्रतिष्ठाप्य पुण्याभिसंस्कारः, यावन्तः कौशिक त्रिसाहस्रमहासाहस्रे लोकधातौ सत्त्वाः, तानपि सर्वान् कश्चिदेव कुलपुत्रो वा कुलदुहिता वा अनागामिफले प्रतिष्ठापयेत् । तिष्ठतु खलु पुनः कौशिक त्रिसाहस्रमहासाहस्रे लोकधातौ सर्वसत्त्वाननागामिफले प्रतिष्ठाप्य पुण्याभिसंस्कारः, यावन्तः कौशिक गङ्गानदीवालुकोपमेषु त्रिसाहस्रमहासाहस्रेषु लोकधातुषु सत्त्वाः, तानपि सर्वान् कश्चिदेव कुलपुत्रो वा कुलदुहिता वा अनागामिफले प्रतिष्ठापयेत् । तत्किं मन्यसे कौशिक अपि नु स कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहु पुण्यं प्रसवेत्? शक्र आह - बहु भगवन्, बहु सुगत ॥ भगवानाह - अतः खलु पुनः स कौशिक कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहुतरं पुण्यं प्रसवेत्, य इमां प्रज्ञापारमितामन्तशः पुस्तकगतामपि कृत्वा अभिश्रद्दधदभिश्रद्दधते, अवकल्पयन्नवकल्पयते, अधिमुञ्चन्नधिमुञ्चते, प्रसन्नचित्तः प्रसन्नचित्ताय, अध्याशयसंपन्नोऽध्याशयसंपन्नाय बोधाय चित्तमुत्पाद्य समुत्पादितबोधिचित्ताय बोधिसत्त्वाय अध्याशयेन दद्यात्, अन्तशो लिखनायापि वाचनायापि अकिलासितया संपादयिष्यति, उद्युक्तोऽमुं ग्राहयिष्यति, संदर्शयिष्यति समादापयिष्यति समुत्तेजयिष्यति संप्रहर्षयिष्यति, वाचा नेष्यति विनेष्यति अनुनेष्यति, अर्थमस्या अस्मै संप्रकाशयिष्यति, एवं चास्य चित्तं विशोधयिष्यति, निर्विचिकित्सं करिष्यति, एवं चैनं वक्ष्यति - एहि त्वं कुलपुत्र अस्मिन्नेव बोधिसत्त्वमार्गे शिक्षस्व । अत्र हि त्वं शिक्षमाणश्चरन् व्यायच्छमानः क्षिप्रमेवानुत्तरां सम्यक्संबोधिमभिसंभोत्स्यसे । अभिसंबुध्य च अपरिमितं सत्त्वधातुमनुत्तरे उपधिसंक्षयेऽभिविनेष्यसि यदुत भूतकोटिप्रभावनतायामिति । एवं च वाचं भाषेत - एतेषामेव त्वं कुलपुत्र धर्माणां लाभी भव, यदुत प्रज्ञापारमिताप्रतिसंयुक्तानामिति । अयमेव ततो बहुतरं पुण्यं प्रसवेत् । तत्कस्य हेतोः? अतो हि कौशिक अनागामिफलं प्रभाव्यते ॥ (वैद्य ६२) पुनरपरं कौशिक यो हि कश्चिदेव कुलपुत्रो वा कुलदुहिता व यावन्तो जम्बूद्वीपे सत्त्वाः, तानपि सर्वानर्हत्त्वे प्रतिष्ठापयेत् । तत्किं मन्यसे कौशिक अपि नु स कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहु पुण्यं प्रसवेत्? शक्र आह - बहु भगवन्, बहु सुगत । भगवानाह - अतः खलु पुनः स कौशिक कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेत्, य इमां प्रज्ञापारमितामन्तशः पुस्तकगतामपि कृत्वा अभिश्रद्दधदभिश्रद्दधते, अवकल्पयन्नवकल्पयते, अधिमुञ्चन्नधिमुञ्चते, प्रसन्नचित्तः प्रसन्नचित्ताय, अध्याशयसंपन्नोऽध्याशयसंपन्नाय बोधाय चित्तमुत्पाद्य समुत्पादितबोधिचित्ताय बोधिसत्त्वाय अध्याशयेन दद्यात्, अन्तशो लिखनायापि वाचनायापि अकिलासितया संपादयिष्यति, उद्युक्तोऽमुं ग्राहयिष्यति, संदर्शयिष्यति समादापयिष्यति समुत्तेजयिष्यति संप्रहर्षयिष्यति, वाचा नेष्यति विनेष्यति अनुनेष्यति, अर्थमस्या अस्मै संप्रकाशयिष्यति, एवं चास्य चित्तं विशोधयिष्यति, निर्विचिकित्सं करिष्यति, एवं चैनं वक्ष्यति - एहि त्वं कुलपुत्र अस्मिन्नेव बोधिसत्त्वमार्गे शिक्षस्व । अत्र हि त्वं शिक्षमाणश्चरन् व्यायच्छमानः क्षिप्रमेवानुत्तरां सम्यक्संबोधिमभिसंभोत्स्यसे । अभिसंबुध्य च अपरिमितं सत्त्वधातुमनुत्तरे उपधिसंक्षयेऽभिविनेष्यसि यदुत भूतकोटिप्रभावनतायामिति । एवं च वाचं भाषेत - एतेषामेव त्वं कुलपुत्र धर्माणां लाभी भव यदुत प्रज्ञापारमिताप्रतिसंयुक्तानामिति । अयमेव ततो बहुतरं पुण्यं प्रसवेत् । तत्कस्य हेतोः? अतो हि कौशिक अर्हत्त्वं प्रभाव्यते । एवं चास्य उत्साहं वर्धयिष्यति - यथा यथा हि त्वं कुलपुत्र प्रज्ञापारमितायां शिक्षिष्यसे, तथा तथा त्वमनुपूर्वेण बुद्धधर्माणां लाभी भविष्यसि, आसन्नश्च भविष्यस्यनुत्तरायाः सम्यक्संबोधेः । अत्र हि त्वं शिक्षायां शिक्षमाणश्चरन् व्यायच्छमानः स्रोतआपत्तिफलं प्रभावयिष्यसि, सकृदागामिफलं प्रभावयिष्यसि, अनागामिफलं प्रभावयिष्यसि, अर्हत्त्वं प्रभावयिष्यसि, प्रत्येकबुद्धत्वं प्रभावयिष्यसि, सम्यक्संबुद्धत्वं प्रभावयिष्यसीति । तिष्ठतु खलु पुनः कौशिक जाम्बूद्वीपकान् सर्वसत्त्वानर्हत्वे प्रतिष्ठाप्य पुण्याभिसंस्कारः, यावन्तः कौशिक चातुर्महाद्वीपके लोकधातौ सत्त्वाः, तानपि सर्वान् कश्चिदेव कुलपुत्रो वा कुलदुहिता वा अर्हत्त्वे प्रतिष्ठापयेत् । तिष्ठतु खलु पुनः कौशिक चातुर्महाद्वीपके लोकधातौ सर्वसत्त्वानर्हत्त्वे प्रतिष्ठाप्य पुण्याभिसंस्कारः, यावन्तः कौशिक साहस्रे चूलिके लोकधातौ सत्त्वाः, तानपि सर्वान् कश्चिदेव कुलपुत्रो वा कुलदुहिता वा अर्हत्त्वे प्रतिष्ठापयेत् । तिष्ठतु खलु पुनः कौशिक साहस्रे चूलिके लोकधातौ सर्वसत्त्वानर्हत्त्वे प्रतिष्ठाप्य पुण्याभिसंस्कारः, यावन्तः कौशिक द्विसाहस्रे मध्यमे लोकधातौ सत्त्वाः, तानपि सर्वान् कश्चिदेव कुलपुत्रो वा कुलदुहिता वा अर्हत्त्वे प्रतिष्ठापयेत् । तिष्ठतु खलु पुनः कौशिक द्विसाहस्रे मध्यमे लोकधातौ सर्वसत्त्वानर्हत्त्वे प्रतिष्ठाप्य पुण्याभिसंस्कारः, यावन्तः कौशिक त्रिसाहस्रमहासाहस्रे लोकधातौ सत्त्वाः, तानपि सर्वान् कश्चिदेव कुलपुत्रो वा कुलदुहिता वा अर्हत्त्वे प्रतिष्ठापयेत् । तिष्ठतु खलु पुनः कौशिक त्रिसाहस्रमहासाहस्रे लोकधातौ सर्वसत्त्वानर्हत्त्वे प्रतिष्ठाप्य पुण्याभिसंस्कारः, यावन्तः कौशिक गङ्गानदीवालुकोपमेषु (वैद्य ६३) त्रिसाहस्रमहासाहस्रेषु लोकधातुषु सत्त्वाः, तानपि सर्वान् कश्चिदेव कुलपुत्रो वा कुलदुहिता वा अर्हत्त्वे प्रतिष्ठापयेत् । तत्किं मन्यसे कौशिके अपि नु स कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहु पुण्यं प्रसवेत्? शक्र आह - बहु भगवन्, बहु सुगत । संख्या अपि भगवंस्तस्य पुण्यस्कन्धस्य न सुकरा कर्तुम् । गणनापि उपमापि औपम्यमपि उपनिसापि उपनिषदपि भगवंस्तस्य पुण्यस्कन्धस्य न सुकरा कर्तुम् ॥ भगवानाह - अतः खलु पुनः स कौशिक कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेत्, य इमां प्रज्ञापारमितामन्तशः पुस्तकगतामपि कृत्वा अभिश्रद्दधदभिश्रद्दधते, अवकल्पयन्नवकल्पयते, अधिमुञ्चन्नधिमुञ्चते, प्रसन्नचित्तः प्रसन्नचित्ताय, अध्याशयसंपन्नोऽध्याशयसंपन्नाय बोधाय चित्तमुत्पाद्य समुत्पादितबोधिचित्ताय बोधिसत्त्वाय अध्याशयेन दद्यात्, अन्तशो लिखनायापि वाचनायापि अकिलासितया संपादयिष्यति, उद्युक्तोऽमुं ग्राहयिष्यति, समादापयिष्यति समुत्तेजयिष्यति संप्रहर्षयिष्यति, वाचा नेष्यति विनेष्यति अनुनेष्यति, अर्थमस्या अस्मै संप्रकाशयिष्यति, एवं चास्य चित्तं विशोधयिष्यति, निर्विचिकित्सं करिष्यति, एवं चैनं वक्ष्यति - एहि त्वं कुलपुत्र अस्मिन्नेव बोधिसत्त्वमार्गे शिक्षस्व । अत्र हि त्वं शिक्षमाणश्चरन् व्यायच्छमानः क्षिप्रमेवानुत्तरां सम्यक्संबोधिमभिसंभोत्स्यसे । अभिसंबुध्य च अपरिमितं सत्त्वधातुमनुत्तरे उपधिसंक्षयेऽभिविनेष्यसि यदुत भूतकोटिप्रभावनतायामिति । एवं च वाचं भाषेत - एतेषामेव त्वं कुलपुत्र धर्माणां लाभी भव, यदुत प्रज्ञापारमिताप्रतिसंयुक्तानामिति । अयमेव ततो बहुतरं पुण्यं प्रसवेत् । तत्कस्य हेतोः? अतो हि कौशिक अर्हत्त्वं प्रभाव्यते । एवं च अस्योत्साहं वर्धयिष्यति - यथा यथा हि त्वं कुलपुत्र प्रज्ञापारमितायां शिक्षिष्यसे, तथा तथा त्वमनुपूर्वेण बुद्धधर्माणां लाभी भविष्यसि, आसन्नश्च भविष्यस्यनुत्तरायाः सम्यक्संबोधेः । अत्र हि त्वं शिक्षायां शिक्षमाणश्चरन् व्यायच्छमानः स्रोतआपत्तिफलं प्रभावयिष्यसि, सकृदागामिफलं प्रभावयिष्यसि, अनागामिफलं प्रभावयिष्यसि, अर्हत्त्वं प्रभावयिष्यसि, प्रत्येकबुद्धत्वं प्रभावयिष्यसि, सम्यक्संबुद्धत्वं प्रभावयिष्यसि । इति ॥ पुनरपरं कौशिक यावन्तो जम्बूद्वीपे सत्त्वाः, तानपि सर्वान् कश्चिदेव कुलपुत्रो वा कुलदुहिता वा प्रत्येकबुद्धत्वे प्रतिष्ठापयेत् । तत्किं मन्यसे कौशिक अपि नु स कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहु पुण्यं प्रसवेत्? शक्र आह - बहु भगवन्, बहु सुगतः । भगवानाह - अतः खलु पुनः स कौशिक कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेत्य इमां प्रज्ञापारमितामन्तशः पुस्तकगतामपि कृत्वा अभिश्रद्दधदभिश्रद्दधते, अवकल्पयन्नवकल्पयते, अधिमुञ्चन्नधिमुञ्चते, प्रसन्नचित्तः प्रसन्नचित्ताय, अध्याशयसंपन्नोऽध्याशयसंपन्नाय बोधाय चित्तमुत्पाद्य समुत्पादितबोधिचित्ताय बोधिसत्त्वाय अध्याशयेन दद्यात्, अन्तशो लिखनायापि वाचनायापि अकिलासितया संपादयिष्यति, उद्युक्तोऽमुं ग्राहयिष्यति, संदर्शयिष्यति (वैद्य ६४) समादापयिष्यति समुत्तेजयिष्यति संप्रहर्षयिष्यति, वाचा नेष्यति विनेष्यति अनुनेष्यति, अर्थमस्या अस्मै संप्रकाशयिष्यति, एवं चास्य चित्तं विशोधयिष्यति, निर्विचिकित्सं करिष्यति, एवं चैनं वक्ष्यति - एहि त्वं कुलपुत्र अस्मिन्नेव बोधिसत्त्वमार्गे शिक्षस्व । अत्र हि त्वं शिक्षमाणश्चरन् व्यायच्छमानः क्षिप्रमेवानुत्तरां सम्यक्संबोधिमभिसंभोत्स्यसे । अभिसंबुध्य च अपरिमितं सत्त्वधातुमनुत्तरे उपधिसंक्षयेऽभिविनेष्यसि यदुत भूतकोटिप्रभावनतायामिति । एवं च वाचं भाषेत - एतेषामेव त्वं कुलपुत्र धर्माणां लाभी भव यदुत प्रज्ञापारमिताप्रतिसंयुक्तानामिति । अयमेव ततो बहुतरं पुण्यं प्रसवेत् । तत्कस्य हेतोः? अतो हि कौशिक प्रत्येकबुद्धत्वं प्रभाव्यते । एवं चास्योत्साहं वर्धयिष्यति - यथा यथा हि त्वं कुलपुत्र प्रज्ञापारमितायां शिक्षिष्यसे, तथा तथा त्वमनुपूर्वेण बुद्धधर्माणां लाभी भविष्यसि, आसन्नश्च भविष्यस्यनुत्तरायाः सम्यक्संबोधेः । अत्र हि त्वं शिक्षायां शिक्षमाणश्चरन् व्यायच्छमानः क्षिप्रमेव स्रोतआपत्तिफलं प्रभावयिष्यसि, सकृदागामिफलं प्रभावयिष्यसि, अनागामिफलं प्रभावयिष्यसि, अर्हत्त्वं प्रभावयिष्यसि, प्रत्येकबुद्धत्वं प्रभावयिष्यति, सम्यक्संबुद्धत्वं प्रभावयिष्यसीति । तिष्ठतु खलु पुनः कौशिक जम्बूद्वीपकान् सर्वसत्त्वान् प्रत्येकबुद्धत्वे प्रतिष्ठाप्य पुण्याभिसंस्कारः, यावन्तः कौशिक चातुर्महाद्वीपके लोकधातौ सत्त्वाः, तानपि सर्वान् कश्चिदेव कुलपुत्रो वा कुलदुहिता वा प्रत्येकबुद्धत्वे प्रतिष्ठापयेत् । तिष्ठतु खलु पुनः कौशिक चातुर्महाद्वीपके लोअकधातौ सर्वसत्त्वान् प्रत्येकबुद्धत्वे प्रतिष्ठाप्य पुण्याभिसंस्कारः, यावन्तः कौशिक साहस्रे चूलिके लोकधातौ सत्त्वाः, तानपि सर्वान् कश्चिदेव कुलपुत्रो वा कुलदुहिता वा प्रत्येकबुद्धत्वे प्रतिष्ठापयेत् । तिष्ठतु खलु पुनः कौशिक साहस्रे चूलिके लोकधातौ सर्वसत्त्वान् प्रत्येकबुद्धत्वे प्रतिष्ठाप्य पुण्याभिसंस्कारः, यावन्तः कौशिक द्विसाहस्रे मध्यमे लोकधातौ सत्त्वाः, तानपि सर्वान् कश्चिदेव कुलपुत्रो वा कुलदुहिता वा प्रत्येकबुद्धत्वे प्रतिष्ठापयेत् । तिष्ठतु खलु पुनः कौशिक द्विसाहस्रे मध्यमे लोकधातौ सर्वसत्त्वान् प्रत्येकबुद्धत्वे प्रतिष्ठाप्य पुण्याभिसंस्कारः, येऽपि केचित्कौशिक त्रिसाहस्रमहासाहस्रे लोकधातौ सत्त्वाः, तानपि सर्वान् कश्चिदेव कुलपुत्रो वा कुलदुहिता वा प्रत्येकबुद्धत्वे प्रतिष्ठापयेत् । तिष्ठतु खलु पुनः कौशिक त्रिसाहस्रमहासाहस्रे लोकधातौ सर्वसत्त्वान् प्रत्येकबुद्धत्वे प्रतिष्ठाप्य पुण्याभिसंस्कारः, यावन्तः कौशिक गङ्गानदीवालुकोपमेषु त्रिसाहस्रमहासाहस्रेषु लोकधातुषु सत्त्वाः, तानपि सर्वान् कश्चिदेव कुलपुत्रो वा कुलदुहिता वा प्रत्येकबुद्धत्वे प्रतिष्ठापयेत् । तत्किं मन्यसे कौशिक अपि नु स कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहु पुण्यं प्रसवेत्? शक्र आह - बहु भगवन्, बहु सुगत ॥ भगवानाह - अतः खलु पुनः स कौशिक कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेत्, य इमां प्रज्ञापारमितामन्तशः पुस्तकगतामपि कृत्वा अभिश्रद्दधदभिश्रद्दधते, अवकल्पयन्नवकल्पयते, अधिमुञ्चन्नधिमुञ्चते, प्रसन्नचित्तः प्रसन्नचित्ताय, अध्याशयसंपन्नोऽध्याशयसंपन्नाय बोधाय चित्तमुत्पाद्य समुत्पादितबोधिचित्ताय बोधिसत्त्वायाध्याशयेन दद्यात्, (वैद्य ६५) अन्तशो लिखनायापि वाचनायापि अकिलासितया संपादयिष्यति, अद्युक्तोऽमुं ग्राहयिष्यति, संदर्शयिष्यति समादापयिष्यति समुत्तेजयिष्यति संप्रहर्षयिष्यति, वाचा नेष्यति विनेष्यति अनुनेष्यति, अर्थमस्या अस्मै संप्रकाशयिष्यति, एवं चास्य चित्तं विशोधयिष्यति, निर्विचिकित्सं करिष्यति, एवं चैनं वक्ष्यति - एहि त्वं कुलपुत्र अस्मिन्नेव बोधिसत्त्वमार्गे शिक्षस्व - अत्र हि त्वं शिक्षमाणश्चरन् व्यायच्छमानः क्षिप्रमेवानुत्तरां सम्यक्संबोधिमभिसंभोत्स्यसे । अभिसंबुध्य च अपरिमितं सत्त्वधातुमनुत्तरे उपधिसंक्षयेऽभिविनेष्यसि यदुत भूतकोटिप्रभावनतायामिति । एवं च वाचं भाषेत - एतेषामेव त्वं कुलपुत्र धर्माणां लाभी भव यदुत प्रज्ञापारमिताप्रतिसंयुक्तानामिति । अयमेव ततो बहुतरं पुण्यं प्रसवेत् । तत्कस्य हेतोः? अतो हि कौशिक प्रत्येकबुद्धत्वं प्रभाव्यते । एवं चास्य उत्साहं वर्धयिष्यसि - यथा यथा हि त्वं कुलपुत्र प्रज्ञापारमितायां शिक्षिष्यसे, तथा तथा त्वमनुपूर्वेण बुद्धधर्माणां लाभी भविष्यसि, आसन्नश्च भविष्यस्यनुत्तरायाः सम्यक्संबोधेः । अत्र हि त्वं शिक्षायां शिक्षमाणश्चरन् व्यायच्छमानः स्रोतआपत्तिफलं प्रभावयिष्यसि, सकृदागामिफलं प्रभावयिष्यसि, अनागामिफलं प्रभावयिष्यसि, अर्हत्त्वं प्रभावयिष्यसि, सम्यक्संबुद्धत्वं प्रभावयिष्यसीति ॥ पुनरपरं कौशिक यावन्तो जम्बूद्वीपे सत्त्वाः, तेषां सर्वेषां कश्चिदेव कुलपुत्रो वा कुलदुहिता वा अनुत्तरायां सम्यक्संबोधौ चित्तं समुत्पादयेत्, यश्चान्यः कश्चित्कौशिक कुलपुत्रो वा कुलदुहिता वा तेषां सर्वेषामनुत्तरायां सम्यक्संबोधौ चित्तमुत्पाद्य तेभ्य इमां प्रज्ञापारमितां लिखित्वा दद्यात् । यो वा कौशिक कुलपुत्रो वा कुलदुहिता वा अविनिवर्तनीयाय बोधिसत्त्वाय महासत्त्वाय एनां प्रज्ञापारमितां लिखित्वा उपनामयेत्, अत्रैव प्रज्ञापारमितायां शिक्षिष्यते, योगमापत्स्यते । अत्रैव प्रज्ञापारमितां भावयन् वृद्धिं विरूढिं विपुलतां गतः परिपूरयिष्यति बुद्धधर्मानिति । अयं तस्मात्पौर्वकात्कुलपुत्रतः कुलदुहितृतो वा सकाशाद्बहुतरं पुण्यं प्रसवेत् । तत्कस्य हेतोः? नियतमेषोऽनुत्तरां सम्यक्संबोधिमभिसंबुध्य सत्त्वानां दुःखस्यान्तं करिष्यतीति । तिष्ठतु खलु पुनः कौशिक जाम्बूद्वीपकानां सर्वसत्त्वानामनुत्तरायां सम्यक्संबोधौ चित्तमुत्पाद्य पुण्याभिसंस्कारः, यावन्तः कौशिक चातुर्महाद्वीपके लोकधातौ सत्त्वाः, तेषामपि सर्वेषां कश्चिदेव कुलपुत्रो वा कुलदुहिता वा अनुत्तरायां सम्यक्संबोधौ चित्तमुत्पादयेत् । तिष्ठतु खलु पुनः कौशिक चातुर्महाद्वीपके लोकधातौ सर्वसत्त्वानामनुत्तरायां सम्यक्संबोधौ चित्तमुत्पाद्य पुण्याभिसंस्कारः, यावन्तः कौशिक साहस्रे चूलिके लोकधातौ सत्त्वाः, तेषामपि सर्वेषां कश्चिदेव कुलपुत्रो वा कुलदुहिता वा अनुत्तरायां सम्यक्संबोधौ चित्तमुत्पादयेत् । तिष्ठतु खलु पुनः कौशिक साहस्रे चूलिके लोकधातौ सर्वसत्त्वानामनुत्तरायां सम्यक्संबोधौ चित्तमुत्पाद्य पुण्याभिसंस्कारः, यावन्तः कौशिक द्विसाहस्रे मध्यमे लोकधातौ सत्त्वाः, तेषामपि सर्वेषां कश्चिदेव कुलपुत्रो वा कुलदुहिता वा अनुत्तरायां सम्यक्संबोधौ चित्तमुत्पादयेत् । तिष्ठतु खलु पुनः कौशिक द्विसाहस्रे मध्यमे लोकधातौ सर्वसत्त्वानामनुत्तरायां सम्यक्संबोधौ चित्तमुत्पाद्य पुण्याभिसंस्कारः, यावन्तः कौशिक त्रिसाहस्रमहासाहस्रे लोकधातौ सत्त्वाः, तेषामपि सर्वेषां (वैद्य ६६) कश्चिदेव कुलपुत्रो वा कुलदुहिता वा अनुत्तरायां सम्यक्संबोधौ चित्तमुत्पादयेत् । तिष्ठतु खलु पुनः कौशिक त्रिसाहस्रमहासाहस्रे लोकधातौ सर्वसत्त्वानामनुत्तरायां सम्यक्संबोधौ चित्तमुत्पाद्य पुण्याभिसंस्कारः, यावन्तः कौशिक गङ्गानदीवालुकोपमेषु त्रिसाहस्रमहासाहस्रेषु लोकधातुषु सत्त्वाः, तेषामपि सर्वेषां कश्चिदेव कुलपुत्रो वा कुलदुहिता वा अनुत्तरायां सम्यक्संबोधौ चित्तमुत्पादयेत् । यश्चान्यः कश्चित्कौशिक कुलपुत्रो वा कुलदुहिता वा तेषां सर्वेषामनुत्तरायां सम्यक्संबोधौ चित्तमुत्पाद्य तेभ्य इमां प्रज्ञापारमितां लिखित्वा दद्यात् । यो वा कौशिक कुलपुत्रो वा कुलदुहिता वा अविनिवर्तनीयाय बोधिसत्त्वाय महासत्त्वाय एनां प्रज्ञापारमितां लिखित्वा दद्यात्, उपनामयेत्, अत्रैव प्रज्ञापारमितायां शिक्षिष्यते, योगमापत्स्यते । एवमस्येयं प्रज्ञापारमिता भूयस्या मात्रया भावनां वृद्धिं विरूढिं विपुलतां परिपूरिं गमिष्यतीति । अयं कौशिअक ततः पौर्वकात्कुलपुत्रतः कुलदुहितृतो वा सकाशाद्बहुतरं पुण्यं प्रसवेत् । तत्कस्य हेतोः? नियतमेषोऽनुत्तरां सम्यक्संबोधिमभिसंबुध्य सत्त्वानां दुःखस्यान्तं करिष्यतीति ॥ पुनरपरं कौशिक यावन्तो जम्बूद्वीपे सत्त्वाः, ते सर्वे अविनिवर्तनीया भवेयुरनुत्तरायाः सम्यक्संबोधेः । तेभ्यः कश्चिदेव कुलपुत्रो वा कुलदुहिता वा अनुत्तरां सम्यक्संबोधिमभिसंप्रस्थितेभ्य इमां प्रज्ञापारमितां पुस्तकलिखितां कृत्वा दद्यादुपनामयेत् । यश्च तेभ्यः कश्चिदेव कुलपुत्रो वा कुलदुहिता वा इमां प्रज्ञापारमितां पुस्तकलिखितां कृत्वा दद्यादुपनामयेत्, सार्थां सव्यञ्जनामुपदिशेत् । तत्किं मन्यसे कौशिक अपि नु स कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहु पुण्यं प्रसवेत्? शक्र आह - बहु भगवन्, बहु सुगत । संख्यापि भगवंस्तस्य पुण्यस्कन्धस्य न सुकरा कर्तुम् । गणनापि उपमापि औपम्यमपि उपनिसापि उपनिषदपि भगवंस्तस्य पुण्यस्कन्धस्य न सुकरा कर्तुम् ॥ भगवानाह - अतः खलु पुनः स कौशिक कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेत्, यस्तेषामविनिवर्तनीयानां बोधिसत्त्वानां महासत्त्वानां क्षिप्रतरमनुत्तरां सम्यक्संबोधिमभिसंबोद्धुकामेभ्य इमां प्रज्ञापारमितां पुस्तकलिखितां कृत्वा दद्यात्, उपनामयेत्, सार्थां सव्यञ्जनामुपदिशेत्, इह च तान् प्रज्ञापारमितायामववदेदनुशिष्यात्तिष्ठतु खलु पुनः कौशिक जाम्बूद्वीपकेभ्यः सर्वसत्त्वेभ्योऽविनिवर्तनीयेभ्य इमां प्रज्ञापारमितामुपनाम्य पुण्याभिसंस्कारः, यावन्तः कौशिक चातुर्महाद्वीपके लोकधातौ सत्त्वाः, तेऽपि सर्वेऽविनिवर्तनीया भवेयुरनुत्तरायाः सम्यक्संबोधेः । तेभ्योऽपि कश्चिदेव कुलपुत्रो वा कुलदुहिता वा इमां प्रज्ञापारमितां पुस्तकलिखितां कृत्वा दद्यादुपनामयेत्, सार्थां सव्यञ्जनामुदिशेत् । तिष्ठतु खलु पुनः कौशिक चातुर्महाद्वीपके लोकधातौ सर्वसत्त्वेभ्योऽविनिवर्तनीयेभ्य इमां प्रज्ञापारमितामुपनाम्य पुण्याभिसंस्कारः, यावन्तः कौशिक साहस्रे चूलिके लोकधातौ सत्त्वाः, तेऽपि सर्वेऽविनिवर्तनीया भवेयुरनुत्तरायाः सम्यक्संबोधेः । तेभ्योऽपि कश्चिदेव कुलपुत्रो वा कुलदुहिता वा इमां प्रज्ञापारमितां पुस्तकलिखितां कृत्वा (वैद्य ६७) दद्यादुपनामयेत्, सार्थां सव्यञ्जनामुपदिशेत् । तिष्ठतु खलु पुनः कौशिक साहस्रे चूलिके लोकधातौ सर्वसत्त्वेभ्योऽविनिवर्तनीयेभ्य इमां प्रज्ञापारमितामुपनाम्य पुण्याभिसंस्कारः, यावन्तः कौशिक द्विसाहस्रे मध्यमे लोकधातौ सत्त्वाः, तेऽपि सर्वेऽविनिवर्तनीया भवेयुरनुत्तरायाः सम्यक्संबोधेः । तेभ्योऽपि कश्चिदेव कुलपुत्रो वा कुलदुहिता वा इमां प्रज्ञापारमितां पुस्तकलिखितां कृत्वा दद्यादुपनामयेत्, सार्थां सव्यञ्जनामुपदिशेत् । तिष्ठतु खलु पुनः कौशिक द्विसाहस्रे मध्यमे लोकधातौ सर्वसत्त्वेभ्योऽविनिवर्तनीयेभ्य इमां प्रज्ञापारमितामुपनाम्य पुण्याभिसंस्कारः, यावन्तः कौशिक त्रिसाहस्रमहासाहस्रे लोकधातौ सत्त्वाः, तेऽपि सर्वेऽविनिवर्तनीया भवेयुरनुत्तरायाः सम्यक्संबोधेः । तेभ्योऽपि कश्चिदेव कुलपुत्रो वा कुलदुहिता वा इमां प्रज्ञापारमितां पुस्तकलिखितां कृत्वा दद्यादुपनामयेत्, सार्थां सव्यञ्जनामुपदिशेत् । तिष्ठतु खलु पुनः कौशिक त्रिसाहस्रमहासाहस्रे लोकधातौ सर्वसत्त्वेभ्योऽविनिवर्तनीयेभ्य इमां प्रज्ञापारमितामुपनाम्य पुण्याभिसंस्कारः, यावन्तः कौशिक गङ्गानदीवालुकोपमेषु त्रिसाहस्रमहासाहस्रेषु लोकधातुषु सत्त्वाः, तेऽपि सर्वेऽविनिवर्तनीया भवेयुरनुत्तरायाः सम्यक्संबोधेः । तेभ्योऽपि कश्चिदेव कुलपुत्रो वा कुलदुहिता वा इमां प्रज्ञापारमितां पुस्तकलिखितां कृत्वा दद्यादुपनामयेत्, सार्थां सव्यञ्जनामुपदिशेत् । तत्किं मन्यसे कौशिक अपि नु स कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहु पुण्यं प्रसवेत्? शक्र आह - बहु भगवन्, बहु सुगत । संख्यापि भगवंस्तस्य पुण्यस्कन्धस्य न सुकरा कर्तुम् । गणनापि उपमापि औपम्यमपि उपनिसापि भगवंस्तस्य पुण्यस्कन्धस्य न सुकरा कर्तुम् ॥ भगवानाह - अतः खलु पुनः स कौशिक कुलपुत्रो व कुलदुहिता वा बहुतरं पुण्यं प्रसवेत्, यस्तेषामविनिवर्तनीयानां बोधिसत्त्वानां महासत्त्वानां क्षिप्रतरमनुत्तरां सम्यक्संबोधिमभिसंबोद्धुकामेभ्य इमां प्रज्ञापारमितां पुस्तकलिखितां कृत्वा दद्यादुपनामयेत्, सार्थां सव्यञ्जनामुपदिशेत्, इह च तान् प्रज्ञापारमितायामववदेदनुशिष्यात् । अथापरः कौशिक बोधिसत्त्वो महासत्त्व उत्पद्येत, स एवं वदेत्- अहमेतेषां क्षिप्रतरमनुत्तरां सम्यक्संबोधिमभिसंभोत्स्य इति । यस्तं कौशिक कुलपुत्रो वा कुलदुहिता वा क्षिप्राभिज्ञतरं बोधिसत्त्वं महासत्त्वं प्रज्ञापारमितायामववदेदनुशिष्यात्, अयं ततः पौर्वकात्कुलपुत्रात्कुलदुहितुर्वा सकाशाद्बहुतरं पुण्यं प्रसवेत् ॥ अथ खलु शक्रो देवानामिन्द्रो भगवन्तमेतदवोचत्- यथा यथा भगवन् बोधिसत्त्वो महासत्त्व आसन्नीभवत्यनुत्तरायाः सम्यक्संबोधेः, तथा तथा प्रज्ञापारमितायामववदितव्योऽनुशासितव्यः, तथा तथा प्रज्ञापारमितायामवोद्यमानोऽनुशिष्यमाणस्तथताया आसन्नीभवति । तथताया आसन्नीभवन् येषां परिभुङ्के चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्कारान्, तेषां तान् कारान् कृतान्महाफलान् करोति महानुशंसान् । अतः स बहुतरं पुण्यं प्रसवति । (वैद्य ६८) तत्कस्य हेतोः? एवं ह्येतद्भगवन् भवति - यद्बोधिसत्त्वो महासत्त्व आसन्नीभवत्यनुत्तरायाः सम्यक्संबोधेः ॥ अथ खल्वायुष्मान् सुभूतिः शक्रं देवानामिन्द्रमेतदवोचत्- साधु साधु कौशिक यस्त्वं बोधिसत्त्वयानिकानां पुद्गलानामुत्साहं ददासि अनुगृह्णीषे अनुपरिवारयसि । एवं च कौशिक त्वया करणीयम् - य आर्यश्रावकः सर्वसत्त्वानामनुग्रहं कर्तुकामः, स बोधिसत्त्वानां महासत्त्वानामनुत्तरायां सम्यक्संबोधावुत्साहं वर्धयति अनुगृह्णीतेऽनुपरिवारयति, एवमेतत्करणीयम् । तत्कस्य हेतोः? अतःप्रसूता हि बोधिसत्त्वानां महासत्त्वानामनुत्तरा सम्यक्संबोधिः । यदि हि बोधिसत्त्वा महासत्त्वा एतद्बोधिचित्तं नोत्पादयेरन्, न चैते बोधिसत्त्वा महासत्त्वा अनुत्तरायां सम्यक्संबोधौ शिक्षेरन्, न षट्पारमितासु शिक्षेरन्, अशिक्षमाणा अनुत्तरां सम्यक्संबोधिं नाभिसंबुध्येरन् । यस्मात्तर्हि बोधिसत्त्वा महासत्त्वा बोधिसत्त्वशिक्षायामासु षट्पारमितासु शिक्षन्ते, तस्मादेतद्बोधिचित्तमुत्पादयन्ते, तस्मादनुत्तरां सम्यक्संबोधिमभिसंबुध्यन्त इति ॥ आर्याष्टसाहस्रिकायां प्रज्ञापारमितायां पुण्यपर्यायपरिवर्तो नाम पञ्चमः ॥ _______________________________________________________________ (वैद्य ६९) ६: अनुमोदनापरिणामनापरिवर्तः षष्ठः । अथ खलु मैत्रेयो बोधिसत्त्वो महासत्त्व आयुष्मन्तं सुभूतिं स्थविरमामन्त्रयते स्म - यच्च खलु पुनः आर्य सुभूते बोधिसत्त्वस्य महासत्त्वस्य अनुमोदनापरिणामनासहगतं पुण्यक्रियावस्तु, यच्च सर्वसत्त्वानां दानमयं पुण्यक्रियावस्तु, शीलमयं पुण्यक्रियावस्तु, भावनामयं पुण्यक्रियावस्तु, इदमेव ततो बोधिसत्त्वस्य महासत्त्वस्य अनुमोदनापरिणामनासहगतं पुण्यक्रियावस्तु अग्रमाख्यायते, श्रेष्ठमाख्यायते, ज्येष्ठमाख्यायते, वरमाख्यायते, प्रवरमाख्यायते, प्रणीतमाख्यायते, उत्तममाख्यायते, अनुत्तममाख्यायते, निरुत्तममाख्यायते, असममाख्यायते, असमसममाख्यायते ॥ एवमुक्ते आयुप्यान् सुभूतिः स्थविरं मैत्रेयं बोधिसत्त्वं महासत्त्वमेतदवोचत्- यत्पुनरयं मैत्रेय बोधिसत्त्वो महासत्त्वो दशदिशि लोके सर्वतः सर्वत्र गतया अप्रमेयाप्रमेयेषु असंख्येयासंख्येषु अपरिमाणापरिमाणेषु अचिन्त्याचिन्त्येषु अनन्तापर्यन्तेषु त्रिसाहस्रमहासाहस्रेषु लोकधातुषु अतीतेऽध्वनि एकैकस्यां दिशि एकैकस्मिंस्त्रिसाहस्रमहासाहस्रे लोकधातौ अप्रमेयाप्रमेयाणायामसंख्येयासंख्येयानामपरिमाणापरिमाणानामचिन्त्याचिन्त्यानामनन्तापर्यन्तानामनुपधिशेषे निर्वाणधातौ परिनिर्वृतानां तथागतानामर्हतां सम्यक्संबुद्धानां छिन्नवर्त्मनां छिन्नवर्त्मनीनां छिन्नप्रपञ्चभवनेत्रीकाणां पर्यात्तबाष्पाणां मर्दितकण्टकानां स्वपहृतभाराणामनुप्राप्तस्वकार्थानां परिक्षीणभवसंयोजनानां सम्यगाज्ञासुविमुक्तचित्तानां सर्वचेतोवशिपरमपारमिप्राप्तानां यावत्प्रथमचित्तोत्पादमुपादाय यावच्च अनुत्तरां सम्यक्संबोधिमभिसंबुद्धानां यावच्च अनुपधिशेषे निर्वाणधातौ परिनिर्वृतानां यावच्च सद्धर्मो नान्तर्हितः, एतस्मिन्नन्तरे यस्तेषां बुद्धानां भगवतां शीलस्कन्धः समाधिस्कन्धः प्रज्ञास्कन्धो विमुक्तिस्कन्धो विमुक्तिज्ञानदर्शनस्कन्धश्च, यानि च षट्पारमिताप्रतिसंयुक्तानि कुशलमूलानि, बुद्धगुणसंपत्प्रतिसंयुक्तानि कुशलमूलानि, बलवैशारद्यपारमिताप्रतिसंयुक्तानि कुशलमूलानि, एवमभिज्ञापारमिताप्रतिसंयुक्तानि परिज्ञापारमिताप्रतिसंयुक्तानि प्रणिधानपारमिताप्रतिसंयुक्तानि सर्वज्ञज्ञानसंपत्प्रतिसंयुक्तानि कुशलमूलानि, या च हितैषिता, या च महामैत्री, या च महाकरुणा, ये च अप्रमेयासंख्येया बुद्धगुणाः, या च अनुत्तरा सम्यक्संबोधिः, यच्च अनुत्तरं सम्यक्संबोधिसुखम्, या च सर्वधर्मैश्वर्यपारमिता, यश्च अपरिमेयोऽनभिभूतः सर्वाभिभूतः परमऋद्ध्यभिसंस्कारः, यच्च अनावरणमसङ्गमप्रतिहतमसममसमसममनुपममपरिमेयं तथागतयथाभूतज्ञानबलम्, यद्बुद्धज्ञानबलम्, बलानां यद्बुद्धज्ञानदर्शनम्, या च दशबलपारमिता, यश्च चतुर्वैशारद्यपरमसुखपरिपूर्णोऽधिगमः, यश्च सर्वधर्माणां परमार्थाभिनिर्हारेण धर्माधिगमः, यच्च धर्मचक्रप्रवर्तनम्, धर्मोल्काप्रग्रहणम्, धर्मभेरीसंप्रताडनम्, धर्मशङ्खप्रपूरणम्, धर्मशङ्खप्रव्याहरणम्, धर्मखड्गप्रहरणम्, धर्मवृष्टिप्रवर्षणम्, धर्मयज्ञयजनम्, धर्मदानेन सर्वसत्त्वसंतर्पणम्, धर्मदानसंप्रवारणम्, ये च तत्र धर्मदेशनासु बुद्धधर्मेषु प्रत्येकबुद्धधर्मेषु (वैद्य ७०) श्रावकधर्मेषु वा विनीताः शिक्षिता अधिमुक्ता नियताः संबोधिपरायणाः, तेषां च सर्वेषां यानि कुशलमूलानि, ये च तैर्बुद्धैर्भगवद्भिर्बोधिसत्त्वा महासत्त्वा व्याकृता अनुत्तरायां सम्यक्संबोधौ, तेषां च सर्वेषां यानि कुशलमूलानि षट्पारमिताप्रतिसंयुक्तानि, ये च प्रत्येकबुद्धयानिकाः पुद्गला व्याकृताः प्रत्येकबोधौ, तेषां च सर्वेषां यानि कुशलमूलानि, यच्च श्रावकयानिकानां पुद्गलानां दानमयं पुण्यक्रियावस्तु, शीलमयं पुण्यक्रियावस्तु, भावनामयं पुण्यक्रियावस्तु, यानि च शैक्षाण्यनास्रवाणि कुशलमूलानि, यानि च अशैक्षाण्यनास्रवाणि कुशलमूलानि, यैश्च पृथग्जनैस्तत्र धर्मकुशलमूलान्यवरोपितानि, तेषां च बुद्धानां भगवतां चतसृणां पर्षदां भिक्षूणां भिक्षुणीनामुपासकानामुपासिकानाम्, यच्च दानमयं पुण्यक्रियावस्तु, शीलमयं पुण्यक्रियावस्तु, भावनामयं पुण्यक्रियावस्तु, यैश्च तत्र तेषां बुद्धानां भगवतां धर्मं देशयतां देवैर्नागैर्यक्षैर्गन्धर्वैरसुरैर्गरुडैः किन्नरैर्महोरगैर्मनुष्यामनुष्यैर्वा यैश्च तिर्यग्योनिगतैरपि सत्त्वैः कुशलमूलान्यवरोपितानि, यैश्च तेषां बुद्धानां भगवतां परिनिर्वापयतामपि कुशलमूलान्यवरोपितानि, यैश्च तत्र तेषां बुद्धानां भगवतां परिनिर्वृतानामपि कुशलमूलान्यवरोपितानि, बुद्धं च भगवन्तमागम्य धर्मं चागम्य संघं चागम्य मनोभावनीयांश्च पुद्गलानागम्य तेषां च सर्वेषां यानि कुशलमूलानि, तत्सर्वं कुशलमूलं निरवशेषानिरवशेषमनवशेषमैकध्यमभिसंक्षिप्य पिण्डयित्वा तुलयित्वा अग्रया अनुमोदनया अनुमोदेत, श्रेष्ठया ज्येष्ठया वरया प्रवरया प्रणीतया उत्तमया अनुत्तमया निरुत्तरया असमया असमसमया अनुमोदनया अनुमोदेत । एवमनुमोद्य अनुमोदनासहगतं पुण्यक्रियावस्तु अनुत्तरायां सम्यक्संबोधौ परिणामयामीति वाचं भाषेत - अनुत्तरायाः सम्यक्संबोधेराहारकं भवत्विति । तत्र बोधिसत्त्वयानिकः पुद्गलो यैर्वस्तुभिरनुमोदेत, यैरारम्बणैर्यैराकारैस्तच्चित्तमुत्पादयेत्, अपि नु तानि वस्तूनि तानि वा आरम्बणानि ते वा आकारास्तथोपलभ्येरन् यथा निमित्तीकरोति? एवमुक्ते मैत्रेयो बोधिसत्त्वो महासत्त्व आयुष्मन्तं सुभूतिं स्थविरमेतदवोचत्- न तानि भदन्त सुभूते वस्तूनि तानि वा आरम्बणानि ते वा आकारास्तथोपलभ्यन्ते यथा निमित्तीकरोति । एवमुक्ते आयुष्मान् सुभूतिः स्थविरो मैत्रेयं बोधिसत्त्वं महासत्त्वमेतदवोचत्- यदि सोऽसंविद्यमानं वस्तु असंविद्यमानमारम्बणमारम्बणीकुर्यात्, निमित्तीकुर्यात्तत्कथमस्य संज्ञाविपर्यासश्चित्तविपर्यासो दृष्टिविपर्यासो न भवेत्? तत्कस्य हेतोः? तथा हि रागोऽप्यसंविद्यमानं वस्तु अनित्ये नित्यमिति दुःखे सुखमिति अनात्मन्यात्मेति अशुभे शुभमिति विकल्प्य संकल्प्य उत्पद्यते, संज्ञाविपर्यासश्चित्तविपर्यासो दृष्टिविपर्यासः । अथापि यथा वस्तु यथा आरम्बणं यथा आकारस्तथा बोधिस्तथा चित्तम्, एवं सर्वधर्माः सर्वधातवः । यदि च यथा वस्तु यथा आरम्बणं यथा आकारस्तथा बोधिस्तथा चित्तम्, तत्कतमैर्वस्तुभिःकतमैरारम्बणैः कतमैराकारैः कतमं चित्तमनुत्तरायां सम्यक्संबोधौ परिणामयति? कतमद्वा अनुमोदनासहगतं पुण्यक्रियावस्तु क्व अनुत्तरायां सम्यक्संबोधौ परिणामयति? (वैद्य ७१) अथ खलु मैत्रेयो बोधिसत्त्वो महासत्त्व आयुष्मन्तं सुभूतिं स्थविरमेतदवोचत्- नेदमार्य सुभूते नवयानसंप्रस्थितस्य बोधिसत्त्वस्य महासत्त्वस्य पुरतो भाषितव्यं नोपदेष्टव्यम् । तत्कस्य हेतोः? यदपि हि स्यात्तस्य श्रद्धामात्रकं प्रेममात्रकं प्रसादमात्रकं गौरवमात्रकम्, तदपि तस्य सर्वमन्तर्धीयेत । अविनिवर्तनीयस्येदमार्य सुभूते बोधिसत्त्वस्य महासत्त्वस्य पुरतो भाषितव्यमुपदेष्टव्यम् । यो वा कल्याणमित्रोपस्तब्धो सत्त्वो महासत्त्वो भवेत्, सोऽत्र नावलेष्यते न संलेष्यते न विपत्स्यति न विषादमापत्स्यते, न विपृष्ठीकरिष्यति मानसम्, न भग्नपृष्ठीकरिष्यति, नोत्रसिष्यति न संत्रसिष्यति न संत्रासमापत्स्यते । एवं च बोधिसत्त्वेन महासत्त्वेन अनुमोदनासहगतं पुण्यक्रियावस्तु सर्वज्ञतायां परिणामयितव्यम् ॥ अथ खल्वायुष्मान् सुभूतिः स्थविरो मैत्रेयं बोधिसत्त्वं महासत्त्वमेतदवोचत्- येन मैत्रेय चित्तेनानुमोद्य यत्परिणामयति, तच्चित्तं क्षीणं निरुद्धं विगतं विपरिणतम् । तत्कतमत्तच्चित्तं येन परिणामयति अनुत्तरायै सम्यक्संबोधये? कतमद्वा तच्चित्तमनुमोदनासहगतं पुण्यक्रियावस्तु यत्परिणामयत्यनुत्तरायै सम्यक्संबोधये? कथं वा शक्यं चित्तेन चित्तं परिणामयितुं यदा द्वयोश्चित्तयोः समवधानं नास्ति, न च तच्चित्तस्वभावता शक्या परिणामयितुम्? अथ खलु शक्रो देवानामिन्द्र आयुष्मन्तं सुभूतिं स्थविरमेतदवोचत्- मा खल्वार्य सुभूते नवयानसंप्रस्थिता बोधिसत्त्वा महासत्त्वा इमं निर्देशं श्रुत्वा उत्रसिषुः संत्रसिषुः संत्रासमापत्स्यन्ते? कथं चार्य सुभूते बोधिसत्त्वेन महासत्त्वेन तदनुमोदनासहगतं पुण्यक्रियावस्तु अनुत्तरायै सम्यक्संबोधये परिणामयितव्यम्? कथं च अनुमोदनासहगतं पुण्यक्रियावस्तु परिगृह्णता अनुमोदनासहगतं चित्तं परिणामयता तदनुमोदनासहगतं चित्तं सुपरिगृहीतं सुपरिणामितं भवति? अथ खल्वायुष्मान् सुभूतिः स्थविरो मैत्रेयं बोधिसत्त्वं महासत्त्वमारभ्य मैत्रेयं बोधिसत्त्वं महासत्त्वमधिष्ठानं कृत्वा मैत्रेयं बोधिसत्त्वं महासत्त्वमामन्त्रयते स्म - इह मैत्रेय बोधिसत्त्वो महासत्त्वस्तेषामतीतानां बुद्धानां भगवतां छिन्नवर्त्मनां छिन्नवर्त्मनीनां छिन्नप्रपञ्चभवनेत्रीकाणां पर्यात्तबाष्पाणां मर्दितकण्टकानामपहृतभाराणामनुप्राप्तस्वकार्थानां परिक्षीणभवसंयोजनानां सम्यगाज्ञासुविमुक्तचित्तानां सर्वचेतोवशिपरमपारमिताप्राप्तानां दशसु दिक्षु अप्रमेयासंख्येयेषु त्रिसाहस्रमहासाहस्रेषु लोकधातुषु एकैकस्यां दिशि एकैकस्मिंश्च त्रिसाहस्रमहासाहस्रे लोकधातौ अप्रमेयासंख्येयानां बुद्धानां भगवतां परिनिर्वृतानां यावत्प्रथमचित्तोत्पादमुपादाय यावच्च अनुत्तरां सम्यक्संबोधिमभिसंबुद्धानां यावच्च अनुपधिशेषे निर्वाणधातौ परिनिर्वृतानां यावच्च सद्धर्मो नान्तर्हितः, एतस्मिन्नन्तरे यानि तेषां बुद्धानां भगवतां कुशलमूलानि पारमिताप्रतिसंयुक्तानि, यश्च तेषां बुद्धानां भगवतां पुण्याभिसंस्कारः कुशलमूलाभिसंस्कारः, यश्च तेषां बुद्धानां भगवतां शीलस्कन्धः समाधिस्कन्धः प्रज्ञास्कन्धो विमुक्तिस्कन्धो विमुक्तिज्ञानदर्शनस्कन्धः, (वैद्य ७२) या च हितैषिता, या च महामैत्री, या च महाकरुणा, ये च अप्रमेयासंख्येया बुद्धगुणाः, यश्च तैर्बुद्धैर्भगवद्भिर्धर्मो देशितः, ये च तस्मिन् धर्मे शिक्षिता अधिमुक्ताः प्रतिष्ठिताः, तेषां च यानि कुशलमूलानि, ये च तैर्बुद्धैर्भगवद्भिर्बोधिसत्त्वा महासत्त्वाव्याकृता अनुत्तरायां सम्यक्संबोधौ, तेषां च यानि कुशलमूलानि षट्पारमिताप्रतिसंयुक्तानि, ये च प्रत्येकबुद्धयानिकाः पुद्गला व्याकृताः प्रत्येकबोधौ, तेषां च यानि कुशलमूलानि, यानि च श्रावकयानिकानां पुद्गलानां दानमयानि कुशलमूलानि शीलमयानि कुशलमूलानि भावनामयानि कुशलमूलानि, यानि च शैक्षाण्यनास्रवाणि कुशलमूलानि, यानि च अशैक्षाण्यनास्रवाणि कुशलमूलानि, यैश्च तस्मिन् धर्मे पृथग्जनैः कुशलमूलान्यवरोपितानि, यैश्च देवनागयक्षगन्धर्वासुरगरुडकिन्नरमहोरगमनुष्यामनुष्यैर्वा स धर्मः श्रुतः, श्रुत्वा च कुशलमूलान्यवरोपितानि, यैश्च तिर्यग्योनिगतैरपि सत्त्वैः स धर्मः श्रुतः, श्रुत्वा च कुशलमूलान्यवरोपितानि, यैश्च तेषु बुद्धेषु भगवत्सु परिनिर्वापयत्सु परिनिर्वृतेषु च कुशलमूलान्यवरोपितानि, तेषां च सर्वेषां यानि कुशलमूलानि, तानि सर्वाण्येकतोऽभिसंक्षिप्य पिण्डयित्वा तुलयित्वा निरवशेष्य निरवशेषमनुमोदेत । अनुमोद्य अनुमोदनासहगतं पुण्यक्रियावस्तु अनुत्तरायां सम्यक्संबोधौ परिणामयते, परिणामयतो बोधिसत्त्वस्य महासत्त्वस्य कथं न संज्ञाविपर्यासो न चित्तविपर्यासो न दृष्टिविपर्यासो भवति? एवमुक्ते मैत्रेयो बोधिसत्त्वो महासत्त्व आयुष्मन्तं सुभूतिं स्थविरमेतदवोचत्- सचेदार्य सुभूते बोधिसत्त्वो महासत्त्वो येन चित्तेन यत्परिणामयति, तस्मिंश्चित्ते न चित्तसंज्ञी भवति । एवं बोधिसत्त्वेन महासत्त्वेन अनुमोदनासहगतं पुण्यक्रियावस्तु अनुत्तरायै सम्यक्संबोधये परिणामितं भवति, यथा तच्चित्तं न संजानीते इदं तच्चित्तमिति । एवं बोधिसत्त्वस्य महासत्त्वस्य न संज्ञाविपर्यासो न चित्तविपर्यासो न दृष्टिविपर्यासो भवति । अथ येन चित्तेन यत्परिणामयति, तच्चित्तं संजानीते इदं तच्चित्तमिति चित्तसंज्ञी भवति । एवं बोधिसत्त्वस्य महासत्त्वस्य संज्ञाविपर्यासश्चित्तविपर्यासो दृष्टिविपर्यासो भवति । सचेत्पुनर्बोधिसत्त्वो महासत्त्वो यच्चित्तं परिणामयति, तच्चित्तमेवं संजानीते, एवं समन्वाहरति । तच्चित्तं समन्वाह्रियमाणमेव क्षीणं क्षीणमित्येवं संजानीते, निरुद्धं विगतं विपरिणतमित्येवं संजानीते । यच्च क्षीणं न तच्छक्यं परिणामयितुम् । येनापि चित्तेन परिणाम्यते, तस्यापि चित्तस्य सैव धर्मता । यैरपि धर्मैः परिणाम्यते, तेषामपि धर्माणां सैव धर्मता । येष्वपि धर्मेषु परिणाम्यते, तेषामपि धर्माणां सैव धर्मतेति । सचेदेवं परिणामयति, सम्यक्परिणामयति, न मिथ्या परिणामयति । एवं च बोधिसत्त्वेन महासत्त्वेन परिणामयितव्यम् ॥ पुनरपरमार्य सुभूते बोधिसत्त्वेन महासत्त्वेन यथा अतीतानामेवमनागतानां बुद्धानां भगवतां छिन्नवर्त्मनां छिन्नवर्त्मनीनां छिन्नप्रपञ्चभवनेत्रीकाणामप्रमेयाणामसंख्येयानां (वैद्य ७३) यावत्प्रथमचित्तोत्पादमुपादाय यावच्च अनुत्तरां सम्यक्संबोधिमभिसंभोत्स्यन्ते, यावच्च अनुपधिशेषे निर्वाणधातौ परिनिर्वास्यन्ति, यावच्च सद्धर्मो नान्तर्धास्यति, एतस्मिन्नन्तरे यानि तेषां बुद्धानां भगवतां पारमिताप्रतिसंयुक्तानि कुशलमूलानि, यश्च तेषां बुद्धानां भगवतां शीलस्कन्धः समाधिस्कन्धः प्रज्ञास्कन्धो विमुक्तिस्कन्धो विमुक्तिज्ञानदर्शनस्कन्धः, या च हितैषिता, या च महामैत्री, या च महाकरुणा, ये च अप्रमेयासंख्येया बुद्धगुणाः, ये च ते बुद्धा भगवन्तो धर्मं देशयिष्यन्ति, ये च तस्मिन् धर्मे शिक्षिष्यन्तेऽधिमोक्षयिष्यन्ति प्रतिष्ठास्यन्ति, तेषां च यानि कुशलमूलानि यांश्च ते बुद्धा भगवन्तो बोधिसत्त्वान्महासत्त्वान् व्याकरिष्यन्ति अनुत्तरायां सम्यक्संबोधौ, तेषां च यानि षट्पारमिताप्रतिसंयुक्तानि कुशलमूलानि, यांश्च ते बुद्धा भगवन्तः प्रत्येकबुद्धयानिकान् पुद्गलान् व्याकरिष्यन्ति प्रत्येकबोधौ, तेषां च यानि कुशलमूलानि, यानि च श्रावकयानिकानां पुद्गलानां दानमयानि कुशलमूलानि शीलमयानि कुशलमूलानि भावनामयानि कुशलमूलानि, यानि च शैक्षाण्यनास्रवाणि कुशलमूलानि, यानि च अशैक्षाण्यनास्रवाणि कुशलमूलानि, ये च तस्मिन् धर्मे पृथग्जनाः कुशलमूलान्यवरोपयिष्यन्ति, ये च देवनागयक्षगन्धर्वासुरगरुडकिन्नरमहोरगमनुष्यामनुष्याः कुशलमूलान्यवरोपयिष्यन्ति, ये च तिर्यग्योनिगता अपि सत्त्वास्तं धर्मं श्रोष्यन्ति, श्रुत्वा च कुशलमूलान्यवरोपयिष्यन्ति, ये च सत्त्वास्तेषु बुद्धेषु भगवत्सु परिनिर्वायत्सु परिनिर्वृतेषु च कुशलमूलान्यवरोपयिष्यन्ति, तेषां च सर्वेषां यानि कुशलमूलानि, तानि सर्वाण्येकतोऽभिसंक्षिप्य पिण्डयित्वा तुलयित्वा निरवशेष्य निरवशेषमनुमोदितव्यानि । अनुमोद्य अनुमोदनासहगतं पुण्यक्रियावस्तु अनुत्तरायै सम्यक्संबोधये परिणामयतो बोधिसत्त्वस्य महासत्त्वस्य कथं न संज्ञाविपर्यासो न चित्तविपर्यासो न दृष्टिविपर्यासो भवति? सचेद्बोधिसत्त्वो महासत्त्वो येन चित्तेन यत्परिणामयति, तस्मिंश्चित्ते न चित्तसंज्ञी भवति । एवं बोधिसत्त्वेन महासत्त्वेन अनुमोदनासहगतं पुण्यक्रियावस्तु अनुत्तरायै सम्यक्संबोधये परिणामितं भवति । स यथा तच्चित्तं न संजानीते इदं चित्तमिति, एवं बोधिसत्त्वस्य महासत्त्वस्य न संज्ञाविपर्यासो न चित्तविपर्यासो न दृष्टिविपर्यासो भवति । अथ येन चित्तेन यत्परिणामयति तच्चित्तं संजानीते - इदं तच्चित्तमिति चित्तसंज्ञी भवति । एवं बोधिसत्त्वस्य महासत्त्वस्य संज्ञाविपर्यासश्चित्तविपर्यासो दृष्टिविपर्यासो भवति । सचेत्पुनर्बोधिसत्त्वो महासत्त्वो यच्चित्तं परिणामयति तच्चित्तमेवं संजानीते एवं समान्वाहरति, तच्चित्तं समन्वाह्रियमाणमेव क्षीणं क्षीणमित्येवं संजानीते, निरुद्धं विगतं विपरिणतमित्येवं संजानीते । यच्च क्षीणं न तच्छक्यं परिणामयितुम् । येनापि चित्तेन परिणाम्यते, तस्यापि चित्तस्य सैव धर्मता । यैरपि धर्मैः परिणाम्यते, तेषामपि धर्माणां सैव धर्मता । येष्वपि धर्मेषु परिणाम्यते, तेषामपि धर्माणां सैव धर्मतेति । सचेदेवं परिणामयति, सम्यक्परिणामयति, न मिथ्या परिणामयति । एवं च बोधिसत्त्वेन महासत्त्वेन परिणामयितव्यम् ॥ (वैद्य ७४) पुनरपरमार्य सुभूते बोधिसत्त्वेन महासत्त्वेन प्रत्युत्पन्नानां बुद्धानां भगवतां छिन्नवर्त्मनां छिन्नवर्त्मनीनां छिन्नप्रपञ्चभवनेत्रीकाणामप्रमेयाणामसंख्येयानामप्रमेयासंख्येयेषु त्रिसाहस्र महासाहस्रेषु लोकधातुषु तिष्ठतां ध्रियमाणानां यापयतां यावत्प्रथमचित्तोत्पादमुपादाय यावच्च अनुत्तरां सम्यक्संबोधिमभिसंबुध्यन्ते, यावच्च निरुपधिशेषे निर्वाणधातौ परिनिर्वान्ति, यावच्च सद्धर्मो नान्तर्दधाति, एतस्मिन्नन्तरे यानि तेषां बुद्धानां भगवतां पारमिताप्रतिसंयुक्तानि कुशलमूलानि, यश्च तेषां बुद्धानां भगवतां शीलस्कन्धः समाधिस्कन्धः प्रज्ञास्कन्धो विमुक्तिस्कन्धो विमुक्तिज्ञानदर्शनस्कन्धः, या च हितैषिता, या च महामैत्री, या च महाकरुणा, ये च अप्रमेयासंख्येया बुद्धगुणाः, यं च ते बुद्धा भगवन्तो धर्मं देशयन्ति, ये च तस्मिन् धर्मे शिक्षन्तेऽधिमोक्षयन्ति प्रतितिष्ठन्ति, तेषां च यानि कुशलमूलानि, यांश्च ते बुद्धा भगवन्तो बोधिसत्त्वान्महासत्त्वान् व्याकुर्वन्ति अनुत्तरायां सम्यक्संबोधौ, तेषां च यानि षट्पारमिताप्रतिसंयुक्तानि कुशलमूलानि, यांश्च ते बुद्धा भगवन्तः प्रत्येकबुद्धयानिकान् पुद्गलान् व्याकुर्वन्ति प्रत्येकबोधौ, तेषां च यानि कुशलमूलानि, यानि च श्रावकयानिकानां पुद्गलानां दानमयानि कुशलमूलानि शीलमयानि कुशलमूलानि भावनामयानि कुशलमूलानि, यानि च शैक्षाण्यनास्रवाणि कुशलमूलानि, यानि च अशैक्षाण्यनास्रवाणि कुशलमुलानि, ये च तस्मिन् धर्मे पृथग्जनाः कुशलमूलान्यवरोपयन्ति, ये च देवानागयक्षगन्धर्वासुरगरुडकिन्नरमहोरगा मनुष्यामनुष्या वा तं धर्मं शृण्वन्ति, श्रुत्वा च कुशलमूलान्यवरोपयन्ति, ये च तिर्यग्योनिगता अपि सत्त्वास्तं धर्मं शृण्वन्ति, श्रुत्वा च कुशलमूलान्यवरोपयन्ति, ये च तेषु बुद्धेषु भगवत्सु परिनिर्वायत्सु परिनिर्वृतेषु च कुशलमूलान्यवरोपयन्ति, तेषां च सर्वेषां यानि कुशलमुलानि, तानि सर्वाण्येकतोऽभिसंक्षिप्य पिण्डयित्वा तुलयित्वा निरवशेष्य निरवशेषमनुमोदितव्यानि । अनुमोद्य अनुमोदनासहगतं पुण्यक्रियावस्तु अनुत्तरायै सम्यक्संबोधये परिणामयतो बोधिसत्त्वस्य महासत्त्वस्य कथं न संज्ञाविपर्यासो न चित्तविपर्यासो न दृष्टिविपर्यासो भवति? सचेद्बोधिसत्त्वो महासत्त्वो येन चित्तेन यत्परिणामयति, तस्मिंश्चित्ते न चित्तसंज्ञी भवति । एवं बोधिसत्त्वेन महासत्त्वेन अनुमोदनासहगतं पुण्यक्रियावस्तु अनुत्तरायै सम्यक्संबोधये परिणामितं भवति - यथा तच्चित्तं न संजानीते इदं तच्चित्तमिति । एवं बोधिसत्त्वस्य महासत्त्वस्य न संज्ञाविपर्यासो न चित्तविपर्यासो न दृष्टिविपर्यासो भवति । अथ येन चित्तेन यत्परिणामयति तच्चित्तं संजानीते इदं तच्चित्तमिति चित्तसंज्ञी भवति । एवं बोधिसत्त्वस्य महासत्त्वस्य संज्ञाविपर्यासश्चित्तविपर्यासो दृष्टिविपर्यासो भवति । सचेत्पुनर्बोधिसत्त्वो महासत्त्वो यच्चित्तं परिणामयति, तच्चित्तमेवं संजानीते एवं समन्वाहरति - तच्चित्तं समन्वाह्रियमाणमेव क्षीणं क्षीणमित्येवं संजानीते, निरुद्धं विगतं विपरिणतमित्येवं संजानीते । यच्च क्षीणं न तच्छक्यं परिणामयितुम् । येनापि चित्तेन परिणाम्यते, तस्यापि चित्तस्य सैव धर्मता । यैरपि धर्मैः परिणाम्यते, तेषामपि धर्माणां (वैद्य ७५) सैव धर्मता । येष्वपि धर्मेषु परिणाम्यते, तेषामपि धर्माणां सैव धर्मतेति । सचेदेवं परिणामयति, सम्यक्परिणामयति, न मिथ्या परिणामयति । एवं च बोधिसत्त्वेन महासत्त्वेन परिणामयितव्यम् ॥ पुनरपरमार्य सुभूते बोधिसत्त्वो महासत्त्वोऽतीतानागतप्रत्युत्पन्नानां बुद्धानां भगवतां छिन्नवर्त्मनां छिन्नवर्त्मनीनां छिन्नप्रपञ्चभवनेत्रीकाणामप्रमेयाणामसंख्येयानां यावत्प्रथमचित्तोत्पादमुपादाय यावच्च अनुत्तरां सम्यक्संबोधिमभिसंबुद्धा अभिसंभोत्स्यन्ते अभिसंबुध्यन्ते च, यावच्च निरुपधिशेषे निर्वाणधातौ परिनिर्वृताः परिनिर्वास्यन्ति परिनिर्वान्ति च, यावच्च सद्धर्मो नान्तर्हितो नान्तर्धास्यति नान्तर्दधाति च, एतस्मिन्नन्तरे यानि तेषां बुद्धानां भगवतां षट्पारमिताप्रतिसंयुक्तानि कुशलमूलानि, यश्च तेषां बुद्धानां भगवतां शीलस्कन्धः समाधिस्कन्धः प्रज्ञास्कन्धो विमुक्तिस्कन्धो विमुक्तिज्ञानदर्शनस्कन्धः, या च हितैषिता, या च महामैत्री, या च महाकरुणा, ये च अप्रमेयासंख्येया बुद्धगुणाः, यैश्च तैर्बुद्धैर्भगवद्भिर्धर्मो देशितो देशयिष्यते देश्यते च, ये च तस्मिन् धर्मे शिक्षिताः शिक्षिष्यन्ते शिक्षन्ते च, अधिमुक्ता अधिमोक्षयिष्यन्ति अधिमोक्षयन्ति च, स्थिताः स्थास्यन्ति तिष्ठन्ति च, तेषां च सर्वेषां यानि कुशलमूलानि, ये च तैर्बुद्धैर्भगवद्भिर्बोधिसत्त्वा महासत्त्वा व्याकृता व्याकरिष्यन्ते व्याक्रियन्ते च अनुत्तरायां सम्यक्संबोधौ, तेषां च सर्वेषां यानि कुशलमूलानि, ये च प्रत्येकबुद्धयानिकाः पुद्गला व्याकृता व्याकरिष्यन्ते व्याक्रियन्ते च प्रत्येकबोधौ, तेषां च सर्वेषां यानि कुशलमूलानि, यानि च श्रावकयानिकानां पुद्गलानां दानमयानि कुशलमूलानि शीलमयानि कुशलमूलानि भावनामयानि कुशलमूलानि, यानि च शैक्षाण्यनास्रवाणि कुशलमूलानि, यानि च अशैक्षाण्यनास्रवाणि कुशलमूलानि, यैश्च तस्मिन् धर्मे पृथग्जनैः कुशलमूलान्यवरोपितानि अवरोपयिष्यन्तेऽवरोप्यन्ते च, यैश्च देवनागयक्षगन्धर्वासुरगरुडकिन्नरमहोरगैर्मनुष्यामनुष्यैर्वा स धर्मः श्रुतः श्रोष्यते श्रूयते च, श्रुत्वा च कुशलमूलान्यवरोपितानि अवरोपयिष्यन्तेऽवरोप्यन्ते च, यैश्च तिर्यग्योनिगतैरपि सत्त्वैः स धर्मः श्रुतः श्रोष्यते श्रूयते च, श्रुत्वा च कुशलमूलानि अवरोपितान्यवरोपयिष्यन्तेऽवरोप्यन्ते च, यैश्च सत्त्वैस्तेषु बुद्धेषु भगवत्सु परिनिर्वृतेषु परिनिर्वास्यत्सु परिनिर्वायत्सु च कुशलमूलान्यवरोपितानि अवरोपयिष्यन्तेऽवरोप्यन्ते च, तेषां च सर्वेषां यानि कुशलमूलानि, तानि सर्वाण्यकतोऽभिसंक्षिप्य पिण्डयित्वा तुलयित्वा निरवशेष्य निरवशेषमग्रया अनुमोदनया अनुमोदेत, श्रेष्ठया ज्येष्ठया वरया प्रवरया प्रणीतया उत्तमया अनुत्तमया निरुत्तमया असमया असमसमया अनुमोदनया अनुमोदेत । एवमनुमोद्य अनुमोदनासहगतं पुण्यक्रियावस्तु अनुत्तरायै सम्यक्संबोधये परिणामयामीति वाचं भाषेत - अनुत्तरायाः सम्यक्संबोधेराहारकं भवत्विति । तस्य कथं बोधिसत्त्वस्य महासत्त्वस्य न संज्ञाविपर्यासो न चित्तविपर्यासो न दृष्टिविपर्यासो भवति? सचेत्परिणामयनेवं समन्वाहरति - ते धर्माः क्षीणा निरुद्धा विगता विपरिणताः, स च धर्मोऽक्षयो यत्र परिणाम्यते इत्येवं परिणामितं भवत्यनुत्तरायां (वैद्य ७६) सम्यक्संबोधौ । सचेत्पुनरेवमुपपरीक्षते - न धर्मो धर्मं परिणामयति, इत्यपि परिणामितं भवत्यनुत्तरायां सम्यक्संबोधौ । एवं भदन्तं सुभूते परिणामयतो बोधिसत्त्वस्य महासत्त्वस्य न संज्ञाविपर्यासो न चित्तविपर्यासो न दृष्टिविपर्यासो भवति । तत्कस्य हेतोः? तथा हि स तां परिणामनां नाभिनिविशते । सचेत्पुनरेवं संजानीते - न चित्तं चित्तं जानाति, न धर्मो धर्मं जानाति, इत्यपि परिणामितं भवत्यनुत्तरायै सम्यक्संबोधये । अयं बोधिसत्त्वस्य महासत्त्वस्यानुत्तरः परिणामः । सचेत्पुनर्बोधिसत्त्वस्तं पुण्याभिसंस्कारं संजानीते, न परिणामयत्यनुत्तरायां सम्यक्संबोधौ । तत्कस्य हेतोः? तथा हि स तां परिणामनामभिनिविशते । सचेत्पुनरस्यैवं भवति - सोऽपि पुण्याभिसंस्कारो विविक्तः शान्तः, यदप्यनुमोदनासहगतं पुण्यक्रियावस्तु तदपि विविक्तं शान्तमिति परिणामयत्यनुत्तरायां सम्यक्संबोधौ । सचेदेवमपि न संजानीते - सर्वसंस्काराः शान्ता विविक्ता इति, एवमियं तस्य बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमिता यदपि तत्तेषां बुद्धानां भगवतां परिनिर्वृतानां कुशलमूलम् । यादृश एव स परिणामस्तादृशमेव तत्कुशलमूलम्, येनापि तत्परिणामितं तदपि तज्जातिकं तल्लक्षणं तन्निकायं तत्स्वभावम् । सचेदेवं संजानीते, न परिणामयत्यनुत्तरायां सम्यक्संबोधौ । तत्कस्य हेतोः? न हि बुद्धा भगवन्तो निमित्तयोगेन परिणामनामभ्यनुजानन्ति । यच्चातीतं तत्क्षीणं निरुद्धं विगतं विपरिणतम्, यदप्यनागतं तदप्यसंप्राप्तम्, प्रत्युत्पन्नस्य स्थितिर्नोपलभ्यते, यच्च नोपलभ्यते तन्नैव निमित्तं न विषयः । सचेदेवं निमित्तीकरोति, न समन्वाहरति न परिणामयत्यनुत्तरायां सम्यक्संबोधौ । अथ स्मृतिवैकल्येन न निमित्तीकरोति न समन्वाहरति न मनसि करोति स्मृतिवैकल्यादनवबोधाद्वा, एवमपि न परिणामयत्यनुत्तरायां सम्यक्संबोधौ । अथ तन्निमितं समन्वाहरति, न च निमित्तीकरोति, एवं परिणामितं भवति तत्कुशलमूलं बोधिसत्त्वेन महासत्त्वेनानुत्तरायां सम्यक्संबोधौ । एवमत्र बोधिसत्त्वेन महासत्त्वेन शिक्षितव्यम् - इदं तद्बोधिसत्त्वस्य महासत्त्वस्योपायकौशलं वेदितव्यम् । येनोपायकौशलेन कुशलमूलं परिणामयति, स आसन्नः सर्वज्ञतायाः । अत्र चोपायकौशलं शिक्षितुकामेन बोधिसत्त्वेन महासत्त्वेन इयमेव प्रज्ञापारमिता अभीक्ष्णं श्रोतव्या उद्ग्रहीतव्या धारयितव्या वाचयितव्या पर्यवाप्तव्या प्रवर्तयितव्या देशयितव्या उपदेष्टव्या उद्देष्टव्या स्वाध्यातव्या परिप्रश्नीकर्तव्या । तत्कस्य हेतोः? न हि प्रज्ञापारमितामनागम्य शक्येयमश्रुतवता प्रज्ञापारमितापरिणामनाक्रिया प्रवेष्टुम् । तत्र य एवं वदेत्- शक्यमनागम्य प्रज्ञापारमितां तत्पुण्यक्रियावस्तु अनुत्तरायां सम्यक्संबोधौ परिणामयितुमिति, स मैवं वोचदिति स्याद्वचनीयः । तत्कस्य हेतोः? निरुद्धा हि ते आत्मभावाः, निरुद्धा हि ते संस्काराः, शान्ता विविक्ता विरहिता उपलब्धिनः । अपि तु खलु पुनः स पुद्गलो निमित्तीकृत्य विकल्प्य च यथाभूतमयथाभूते यथाभूतसंज्ञी उपलम्भमनुपलम्भे परिणामयेत्, तस्य कुशलमूलं बुद्धा भगवन्त एवं परिणामितमनुत्तरायां सम्यक्संबोधौ नाभ्यनुजानन्ति । तत्कस्य हेतोः? एष एव हि तस्य (वैद्य ७७) महानुपलम्भो भवति, यत्स परिनिर्वाणमपि बुद्धानां भगवतां निमित्तीकरोति विकल्पयति च । आकारतश्च निर्वाणमुपलभते । न चोपलम्भसंज्ञिनस्तथागता अर्हन्तः सम्यक्संबुद्धाः परिणामनां महार्थकरीं वदन्ति । तत्कस्य हेतोः? सविषः सशल्यो ह्येषः परिणामः । तद्यथापि नाम प्रणीतं भोजनं सविषं भवेत्, किं चापि तद्वर्णतश्च गन्धतश्च रसतश्च स्पर्शतश्च अभिलषणीयं भवति, अपि तु खलु पुनः सविषत्वात्परिवर्जनीयं भवति पण्डितानाम्, न परिभोगाय । तदेव बालजातीयो दुष्प्रज्ञजातीयः पुरुषः परिभोक्तव्यं मन्येत । तस्य तद्भोजनं परिभुञ्जानस्य वर्णतस्य गन्धतश्च रसतश्च स्पर्शतश्च स्वादेषु सुखकरं परिणामे चास्य दुःखविपाकं भवति । स ततोनिदानं मरणं वा निगच्छेत्, मरणमात्रकं वा दुःखम् । एवमेव आर्य सुभूते इहैके दुर्गृहीतेन दुरुपलक्षितेन दुःस्वाध्यातेन सुभाषितस्यार्थमजानाना यथाभूतमर्थमनवबुध्यमाना एवमववदिष्यन्ति, एवमनुशासिष्यन्ति - एहि त्वं कुलपुत्र अतीतानागतप्रत्युत्पन्नानां बुद्धानां भगवतां शीलस्कन्धं समाधिस्कन्धं प्रज्ञास्कन्धं विमुक्तिस्कन्धं विमुक्तिज्ञानदर्शनस्कन्धम् । तेषां च श्रावकाणां यैस्तत्र तेष्वतीतानागतप्रत्युत्पन्नेषु बुद्धेषु भगवत्सु कुशलमूलान्यवरोपितानि अवरोपयिष्यन्तेऽवरोप्यन्ते च, यावच्च सद्धर्मो नान्तर्हितो नान्तर्धास्यति नान्तर्दधाति च, एतस्मिन्नन्तरे तेषां बुद्धानां भगवतां यावत्प्रथमचित्तोत्पादमुपादाय यावच्च अनुत्तरां सम्यक्संबोधिमभिसंबुद्धानां भगवतां यावच्च अनुपधिशेषे निर्वाणधातौ परिनिर्वृतानाम्, ये च तैर्बुद्धैर्भगवद्भिर्बोधिसत्त्वा महासत्त्वा अनुत्तरायां सम्यक्संबोधौ व्याकृता व्याकरिष्यन्ते व्याक्रियन्ते च, तेषां च यानि कुशलमूलान्यवरोपितानि अवरोपयिष्यन्तेऽवरोप्यन्ते च, ये च प्रत्येकबुद्धयानिकाः पुद्गला व्याकृता व्याकरिष्यन्ते व्याक्रियन्ते च प्रत्येकबोधौ, तेषां च यानि कुशलमूलान्यवरोपितानि अवरोपयिष्यन्तेऽवरोप्यन्ते च, ये च श्रावकयानिकाः पुद्गला व्याकृता व्याकरिष्यन्ते व्याक्रियन्ते च श्रावकबोधौ, तेषां च यानि कुशलमूलान्यवरोपितानि अवरोपयिष्यन्तेऽवरोप्यन्ते च, यानि च पृथग्जनानामप्रमेयासंख्येयेषु लोकधातुषु अतीतानागतप्रत्युत्पन्नानां बुद्धानां भगवतां सर्वलोकधातुषु तत्सर्वं कुशलमूलमेकतोऽभिसंक्षिप्य पिण्डयित्वा तुलयित्वा निरवशेष्य निरवशेषमनुमोद्य अनुमोदनासहगतं पुण्यक्रियावस्तु अनुत्तरायां सम्यक्संबोधौ परिणामयति । एवं स परिणामो निमित्तयोगेन परिणाम्यमानो विषत्वाय संप्रवर्तते, तद्यथापि नाम तत्सविषं भोजनमेव । नास्त्युपलम्भसंज्ञिनः परिणामना । तत्कस्य हेतोः? सविषत्वादुपलम्भस्य । तस्माद्बोधिसत्त्वयानिकेन पुद्गलेन नैवं शिक्षितव्यम् । कथं पुनरनेन शिक्षितव्यम्? कथमतीतानागतप्रत्युत्पन्नानां बुद्धानां भगवतां कुशलमूलं परिग्रहीतव्यम्? कथं च परिगृहीतं सुपरिगृहीतं भवति? कथं च परिणामयितव्यम्? कथं च परिणामितं सुपरिणामितं भवत्यनुत्तरायां सम्यक्संबोधौ? इहानेन बोधिसत्त्वयानिकेन कुलपुत्रेण वा कुलदुहित्रा वा तथागतमनभ्याख्यातुकामेन एवं तत्सर्वं कुशलमूलमनुमोदितव्यमेवं परिणामयितव्यं यथा ते (वैद्य ७८) तथागता अर्हन्तः सम्यक्संबुद्धा बुद्धज्ञानेन बुद्धचक्षुषा जानन्ति पश्यन्ति तत्कुशलमूलं यज्जातिकं यन्निकायं यादृशं यत्स्वभावं यल्लक्षणम् । यया धर्मतया संविद्यते तथा अनुमोदे तत्कुशलमूलम्, यथा च ते तथागता अर्हन्तः सम्यक्संबुद्धा अभ्यनुजानन्ति परिणाम्यमानं तत्कुशलमूलमनुत्तरायां सम्यक्संबोधौ, तथाहं परिणामयामीति । एवमनुमोदमान एवं परिणामयन् बोधिसत्त्वो महासत्त्वोऽनपराद्धो भवति । बुद्धानां भगवतां सम्यक्त्वानुमोदितं परिणामितं च भवति तत्कुशलमूलमनुत्तरायै सम्यक्संबोधये, न च तांस्तथागतानर्हतः सम्यक्संबुद्धानभ्याख्याति । एवं चास्य परिणामो निर्विषः परिणामो महापरिणामो धर्मधातुपरिणामः परिपूर्णः सुपरिपूर्णो भवति अध्याशयेन अधिमुक्त्या परिणामयतः ॥ पुनरपरं बोधिसत्त्वयानिकेन कुलपुत्रेण वा कुलदुहित्रा वा एवं परिणामयितव्यम् - यच्छीलं यः समाधिर्या प्रज्ञा या विमुक्तिर्यद्विमुक्तिज्ञानदर्शनं तद्यथा अपर्यापन्नं कामधातौ अपर्यापन्नं रूपधातौ अपर्यापन्नमारूईप्यधातौ नाप्यतीतं न अनागतं न प्रत्युत्पन्नम् । तत्कस्य हेतोः? त्र्यध्वत्रैधातुकापर्यापन्नत्वात् । तथैव परिणामोऽप्यपर्यापन्नः । यत्रापि धर्मे स परिणामः परिणाम्यते, सोऽपि धर्मोऽपर्यापन्नः । सचेदेवमधिमुञ्चति, एवं परिणामयतस्तस्य बोधिसत्त्वस्य महासत्त्वस्य अविनष्टः परिणामो भवत्यपर्यापन्नो निर्विषः परिणामो महापरिणामो धर्मधातुपरिणामः परिपूर्णः सुपरिपूर्णो भवति । अथ तं परिणामयति निविशते निमित्तीकरोति, मिथ्या परिणामयति । तत्र योऽयं परिणामो बोधिसत्त्वस्य महासत्त्वस्य, अनया धर्मधातुपरिणामनया यथा बुद्धा भगवन्तो जानन्ति, यथा चाभ्यनुजानन्ति तत्कुशलमूलमनुत्तरायां सम्यक्संबोधौ परिणामितमेवं सुपरिणामितं भवतीति, तथाहं परिणामयामि इत्ययं सम्यक्परिणामः । एवं च परिणामितं सुपरिणामितं भवत्यनुत्तरायां सम्यक्संबोधौ ॥ अथ खलु भगवानायुष्मते सुभूतये साधुकारमदात्- साधु साधु सुभूते । शास्तृकृत्यं त्वं सुभूते करोषि, यस्त्वं बोधिसत्त्वानां महासत्त्वानां धर्मं देशयसि । तत्कस्य हेतोः? यो ह्ययं सुभूते परिणामः, धर्मधातुपरिणामोऽयं बोधिसत्त्वस्य महासत्त्वस्य । अस्यामेव धर्मतायां यथा बुद्धा भगवन्तो जानन्ति पश्यन्ति, तत्कुशलमूलं यज्जातिकं यन्निकायं यादृशं यत्स्वभावं यल्लक्षणं यया धर्मतया संविद्यते, तथा अनुमोदे । यथा च अभ्यनुजानन्ति, तथाहं परिणामयामीति । अत्र यः पुण्यस्कन्धो यश्च गङ्गानदीवालुकोपमेषु त्रिसाहस्रमहासाहस्रेषु लोकधातुषु ये सत्त्वाः, तान् सर्वान् कश्चिदेव कुलपुत्रो वा कुलदुहिता वा दशसु कुशलेषु कर्मपथेषु समादापयेत्प्रतिष्ठापयेत्, तस्य यः पुण्याभिसंस्कारः, ततोऽयमेव बोधिसत्त्वस्य महासत्त्वस्य धर्मधातुपरिणामजः पुण्यस्कन्धोऽग्र आख्यायते, श्रेष्ठ आख्यायते, ज्येष्ठ आख्यायते, वर आख्यायते, प्रवर आख्यायते, प्रणीत आख्यायते, उत्तम आख्यायते, अनुत्तम आख्यायते, निरुत्तम आख्यायते, असम आख्यायते, असमसम आख्यायते । तिष्ठतु खलु पुनः सुभूते गङ्गानदीवालुकोपमेषु त्रिसाहस्रमहासाहस्रेषु लोकधातुषु सर्वसत्त्वान् दशसु कुशलेषु (वैद्य ७९) कर्मपथेषु प्रतिष्ठाप्य पुण्याभिसंस्कारः, यावन्तः सुभूते गङ्गानदीवालुकोपमेषु त्रिसाहस्रमहासाहस्रेषु लोकधातुषु सत्त्वाः, ते सर्वे चतुर्णां ध्यानानां लाभिनो भवेयुः, तेषां च यः पुण्याभिसंस्कारः, ततोऽयमेव बोधिसत्त्वस्य महासत्त्वस्य परिणामनासहगतः पुण्यस्कन्धोऽग्र आख्यायते, श्रेष्ठ आख्यायते, ज्येष्ठ आख्यायते, वर आख्यायते, प्रवर आख्यायते, प्रणीत आख्यायते, उत्तम आख्यायते, अनुत्तम आख्यायते, निरुत्तम आख्यायते, असम आख्यायते, असमसम आख्यायते । तिष्ठतु खलु पुनः सुभूते गङ्गानदीवालुकोपमेषु त्रिसाहस्रमहासाहस्रेषु लोकधातुषु सर्वसत्त्वानां चतुर्ध्याननिष्पादनसंभूतः पुण्याभिसंस्कारः, ये सुभूते गङ्गानदीवालुकोपमेषु त्रिसाहस्रमहासाहस्रेषु लोकधातुषु सत्त्वाः, ते सर्वे चतुर्णामप्रमाणानां लाभिनो भवेयुः । तिष्ठतु खलु पुनः सुभूते गङ्गानदीवालुकोपमेषु त्रिसाहस्रमहासाहस्रेषु लोकधातुषु चतुरप्रमाणलाभिनां सर्वसत्त्वानां पुण्याभिसंस्कारः, ये सुभूते गङ्गानदीवालुकोपमेषु त्रिसाहस्रमहासाहस्रेषु लोकधातुषु सत्त्वाः, ते सर्वे चतसृणामारूप्यसमापत्तीनां लाभिनो भवेयुः । तिष्ठतु खलु पुनः सुभूते गङ्गानदीवालुकोपमेषु त्रिसाहस्रमहासाहस्रेषु लोकधातुषु चतुरारूप्यसमापत्तिलाभिनां सर्वसत्त्वानां पुण्याभिसंस्कारः, ये सुभूते गङ्गानदीवालुकोपमेषु त्रिसाहस्रमहासाहस्रेषु लोकधातुषु सत्त्वाः, ते सर्वे पञ्चानामभिज्ञानां लाभिनो भवेयुः । तिष्ठतु खलु पुनः सुभूते गङ्गानदीवालुकोपमेषु त्रिसाहस्रमहासाहस्रेषु लोकधातुषु पञ्चाभिज्ञानां सर्वसत्त्वानां पुण्याभिसंस्कारः, ये सुभूते गङ्गानदीवालुकोपमेषु त्रिसाहस्रमहासाहस्रेषु लोकधातुषु स्रोतआपन्ना भवेयुः । तिष्ठतु खलु पुनः सुभूते गङ्गानदीवालुकोपमेषु त्रिसाहस्रमहासाहस्रेषु लोकधातुषु सर्वसत्त्वानां स्रोतआपन्नानां पुण्याभिसंस्कारः, ये सुभूते गङ्गानदीवालुकोपमेषु त्रिसाहस्रमहासाहस्रेषु लोकधातुषु सत्त्वाः, ते सर्वे सकृदागामिनो भवेयुः । तिष्ठतु खलु पुनः सुभूते गङ्गानदीवालुकोपमेषु त्रिसाहस्रमहासाहस्रेषु लोकधातुषु सर्वसत्त्वानां सकृदागामिनां पुण्याभिसंस्कारः, यावन्तः सुभूते गङ्गानदीवालुकोपमेषु त्रिसाहस्रमहासाहस्रेषु लोकधातुषु सत्त्वाः, ते सर्वे अनागामिनो भवेयुः । तिष्ठतु खलु पुनः सुभूते गङ्गानदीवालुकोपमेषु त्रिसाहस्रमहासाहस्रेषु लोकधातुषु सर्वसत्त्वानामनागामिनां पुण्याभिसंस्कारः, यावन्तः सुभूते गङ्गानदीवालुकोपमेषु त्रिसाहस्रमहासाहस्रेषु लोकधातुषु सत्त्वाः ते सर्वे अर्हन्तो भवेयुः । तिष्ठतु खलु पुनः सुभूते गङ्गानदीवालुकोपमेषु त्रिसाहस्रमहासाहस्रेषु लोकधातुषु सर्वसत्त्वानामर्हतां पुण्यस्कन्धः, ये सुभूते गङ्गानदीवालुकोपमेषु त्रिसाहस्रमहासाहस्रेषु लोकधातुषु सत्त्वाः, ते सर्वे प्रत्येकबुद्धा भवेयुः । तिष्ठतु खलु पुनः सुभूते गङ्गानदीवालुकोपमेषु त्रिसाहस्रमहासाहस्रेषु लोकधातुषु सर्वसत्त्वानां प्रत्येकबुद्धानां पुण्यस्कन्धः, ये सुभूते गङ्गानदीवालुकोपमेषु त्रिसाहस्रमहासाहस्रेषु लोकधातुषु सत्त्वाः, ते सर्वे अनुत्तरायां सम्यक्संबोधौ संप्रस्थिता भवेयुः । ये सर्वे अन्येष्वन्येषु गङ्गानदीवालुकोपमेषु त्रिसाहस्रमहासाहस्रेषु लोकधातुषु ये सत्त्वाः, तान् सर्वानेकैको बोधिसत्त्वश्चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्कारैर्गङ्गानदीवालुकोपमान् (वैद्य ८०) कल्पानुपतिष्ठेत्सर्वसुखोपधानैः, सर्वैः सुखस्पर्शविहारैः, तच्च दानमुपलम्भसंज्ञिनो दद्युः । एतेन पर्यायेण तान् सर्वसत्त्वानेकैकं परिकल्प्य तांश्च सर्वबोधिसत्त्वानेकैको बोधिसत्त्वो गङ्गानदीवालुकोपमान् कल्पानुपतिष्ठेच्चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्कारैः सर्वसुखोपधानैः, सर्वैः सुखस्पर्शविहारैः सत्कुर्याद्गुरुकुर्यान्मानयेत्पूजयेदर्चयेदपचायेत् । एवमेकैकस्तेषां सर्वेषां बोधिसत्त्वानामनेन पर्यायेण दानं दद्यात्, एवं सर्वेऽपि ते दानं दद्युः । तत्किं मन्यसे सुभूते अपि नु ते बोधिसत्त्वास्ततोनिदानं बहु पुण्यं प्रसवेयुः? सुभूतिराह - बहु भगवन्, बहु सुगत । अप्रमेयं भगवन्, अप्रमेयं सुगत । संख्यापि भगवंस्तस्य पुण्यस्कन्धस्य न सुकरा कर्तुम्, गणनापि उपमापि औपम्यमपि उपनिसापि उपनिषदपि भगवंस्तस्य पुण्यस्कन्धस्य न सुकरा कर्तुम् । सचेद्भगवन् रूपी भवेत्, स पुण्यस्कन्धो गङ्गानदीवालुकोपमेष्वपि त्रिसाहस्रमहासाहस्रेषु लोकधातुषु न मायेत् ॥ एवमुक्ते भगवानायुष्मतं सुभूतिं स्थविरमेतदवोचत्- एवमेतत्सुभूते, एवमेतत् । यत्र खलु पुनः सुभूते बोधिसत्त्वयानिकः पुद्गलः प्रज्ञापारमितोपायकौशल्यपरिगृहीतोऽनेन धर्मधातुपरिणामेन तत्कुशलमूलमनुत्तरायां सम्यक्संबोधौ परिणामयेत्, पुण्यं प्रसवति । अस्य सुभूते पुण्यस्कन्धस्य धर्मधातुपरिणामजस्य असौ पूर्वक उपलम्भसंज्ञिनां बोधिसत्त्वानां दानमयः पुण्याभिसंस्कारः शततमीमपि कलां नोपैति, सहस्रतमीमपि शतसहस्रतमीमपि कोटीतमीमपि कोटीशततमीमपि कोटीसहस्रतमीमपि कोटीशतसहस्रतमीमपि कोटीनियुतशतसहस्रतमीमपि कलां नोपैति, संख्यामपि कलामपि गणनामपि उपमामपि औपम्यमपि उपनिसामपि उपनिषदमपि न क्षमते । तत्कस्य हेतोः? तथा हि तेषां पौर्वकाणामुपलम्भसंज्ञिनां बोधिसत्त्वानां सुबह्वपि दानं दत्तं सुबह्वित्यपि परिसंख्यातं भवति ॥ अथ खलु चातुर्महाराजकायिकानां देवपुत्राणां विंशतिसहस्राणि प्राञ्जलीनि नमस्यन्ति भगवन्तमेतदवोचन् - महापरिणामोऽयं भगवन् बोधिसत्त्वानां महासत्त्वानां यदुत प्रज्ञापारमितोपायकौशल्यपरिगृहीतानां कुशलमूलपरिणामः सर्वज्ञतायै, यत्र हि नाम तेषामौपलम्भिकानां बोधिसत्त्वानां तावन्तं दानमयं पुण्याभिसंस्कारमभिभवति । अथ खलु त्रायस्त्रिंशकायिकानां देवपुत्राणां शतसहस्राणि दिव्यपुष्पधूपगन्धमाल्यविलेपनचूर्णवर्षैर्दिव्यै रत्नवर्षैर्दिव्यैश्च वस्त्रवर्षैर्भगवन्तमभ्यवाकिरन्नभिप्राकिरन् । दिव्यैश्छत्रैर्दिव्यैर्ध्वजैर्दिव्याभिर्घण्टाभिर्दिव्याभिः पताकाभिः समन्ताच्च दिव्यदीपमालाभिर्बहुविधाभिश्च दिव्याभिः पूजाभिर्भगवन्तं सत्कुर्वन्ति स्म, गुरुकुर्वन्ति स्म मानयन्ति स्म पूजयन्ति स्म अर्चयन्ति स्म अपचायन्ति स्म, दिव्यानि च वाद्यान्यभिप्रवादयामासुः । एवं च वाचमभाषन्त - महापरिणामो बतायं भगवन् बोधिसत्त्वस्य महासत्त्वस्य योऽयं धर्मधातुपरिणामः, यत्र हि नाम तत्तेषामौपलम्भिकानां बोधिसत्त्वानां महासत्त्वानां दानमयं पुण्याभिसंस्कारस्कन्धमभिभवति यथापि नाम प्रज्ञापारमितोपायकौशल्यपरिगृहीतत्वादस्य महापरिणामस्य । एवमन्येभ्योऽपि देवनिकायेभ्यो देवपुत्रा आगत्य (वैद्य ८१) भगवन्तं परमेण सत्कारेण परमेण गुरुकारेण परमया माननया परमया पूजनया परमया अर्चनया परमया अपचायनया सत्कृत्य गुरुकृत्य मानयित्वा पूजयित्वा अर्चयित्वा अपचाय्य एवमेव शब्दमुदीरयन्ति स्म, घोषमनुश्रावयन्ति स्म । एवं पेयालेन कर्तव्यम् । यामास्तुषिता निर्माणरतयः परनिर्मितवशवर्तिनो ब्रह्मकायिका ब्रह्मपुरोहिता ब्रह्मपार्षद्या महाब्रह्माणः परीत्ताभा अप्रमाणाभा आभास्वराः परीत्तशुभा अप्रमाणशुभाः शुभकृत्स्ना अनभ्रकाः पुण्यप्रसवा बृहत्फला असंज्ञिसत्त्वा अबृहा अतपाः सुदृशाः सुदर्शना अकनिष्ठाश्च देवाः, तेऽप्येवमेवाञ्जलिं कृत्वा भगवन्तं नमस्यन्त एतदवोचन् - आश्चर्यं भगवन् यावदयं बोधिसत्त्वानां महासत्त्वानां प्रज्ञापारमितोपायकौशल्यपरिगृहीतानां कुशलमूलपरिणामः, यस्तेषामुपलम्भसंज्ञिनां बोधिसत्त्वानां तावच्चिररात्रसंचितममपि तथा महाविस्तरसमुदानीतमपि पुण्यस्कन्धमभिभवति ॥ अथ खलु भगवांस्तान् शुद्धावासकायिकान् देवपुत्रानादीन् कृत्वा सर्वांस्तान् देवपुत्रानामन्त्रयते स्म - तिष्ठतु खलु पुनर्देवपुत्रा गङ्गानदीवालुकोपमेषु त्रिसाहस्रमहासाहस्रेषु लोकधातुषु सर्वसत्त्वानामनुत्तरां सम्यक्संबोधिमभिसंप्रस्थितानामनुत्तरायाः सम्यक्संबोधेः प्रतिलम्भाय दानं ददतां पुण्याभिसंस्कारः अनेन पर्यायेण, येऽपि ते देवपुत्रा अन्येष्वन्येषु गङ्गानदीवालुकोपमेषु त्रिसाहस्रमहासाहस्रेषु लोकधातुषु सत्त्वाः, तेऽपि सर्वे अनुत्तरायां सम्यक्संबोधौ प्रणिधानं कृत्वा बोधाय चित्तमुत्पाद्य अन्येष्वन्येषु गङ्गानदीवालुकोपमेषु त्रिसाहस्रमहासाहस्रेषु लोकधातुषु सर्वसत्त्वानां चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्कारैः सर्वसुखोपधानैः सर्वैः सुखस्पर्शविहारैरेकैको बोधिसत्त्वो गङ्गानदीवालुकोपमान् कल्पांस्तिष्ठन् दानं दद्यात्, एवं सर्वेऽपि यावत्ते चोपलम्भसंज्ञिनो दानं दद्युः । एतेन पर्यायेण तान् सर्वसत्त्वानेकैकं परिकल्प्य तांश्च सर्वबोधिसत्त्वानेकैको बोधिसत्त्वो यावत्सर्वे ते बोधिसत्त्वा गङ्गानदीवालुकोपमान् कल्पांस्तिष्ठन्तस्तान् सर्वसत्त्वांश्चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्कारैः सर्वसुखोपधानैः सर्वैः सुखस्पर्शविहारैरुपतिष्ठेयुः, तच्च दानमुपलम्भसंज्ञिनो दद्युः । यश्च बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितोपायकौशल्यपरिगृहीतोऽतीतानागतप्रत्युत्पन्नानां बुद्धानां भगवतां शीलस्कन्धं समाधिस्कन्धं प्रज्ञास्कन्धं विमुक्तिस्कन्धं विमुक्तिज्ञानदर्शनस्कन्धं तेषां च बोधिसत्त्वप्रत्येकबुद्धश्रावकयानिकानां पुद्गलानां यैश्च तत्र अन्यैरपि सत्त्वैः कुशलमूलान्यवरोपितान्यवरोपयिष्यन्तेऽवरोप्यन्ते च, तत्सर्वमेकतोऽभिसंक्षिप्य पिण्डयित्वा तुलयित्वा निरवशेष्य निरवशेषमग्रया अनुमोदनया अनुमोदते । श्रेष्ठया ज्येष्ठया वरया प्रवरया प्रणीतया उत्तमया अनुत्तमया निरुत्तमया उत्तरोत्तरया असमया असमसमया अप्रतिसमया अचिन्त्यया अनुमोदनया अनुमोदते । अनुमोद्य अनुमोदनासहगतं पुण्यक्रियावस्तु अनुत्तरायां सम्यक्संबोधौ परिणामयति - अनुत्तरायाः सम्यक्संबोधेराहारकं भवत्विति । अस्यानुमोदनापरिणामनासहगतस्य पुण्यक्रियावस्तुनः सोऽपि पौर्वक औपलम्भिकानां बोधिसत्त्वानां पुण्याभिसंस्कारः शततमीमपि कलां नोपैति, सहस्रतमीमपि शतसहस्रतमीमपि कोटीतमीमपि कोटीशततमीमपि कोटीसहस्रतमीमपि कोटीशतसहस्रतमीमपि कोटीनियुतशतसहस्रतमीमपि कलां नोपैति, संख्यामपि कलामपि (वैद्य ८२) गणनामपि उपमामपि औपम्यमपि उपनिसामपि उपनिषदमपि न क्षमते । तत्कस्य हेतोः? तथा हि ते बोधिसत्त्वाः सर्वेऽप्युपलम्भसंज्ञिनो दानं ददति ॥ अथ खल्वायुष्मान् सुभूतिर्भगवन्तमेतदवोचत्- यद्भगवानेवमाह - अतीतानागतप्रत्युत्पन्नानां सर्वेषां बुद्धानां भगवतां बोधिसत्त्वप्रत्येकबुद्धश्रावकसंघानां सर्वसत्त्वानां च अतीतानागतप्रत्युत्पन्नं यन्नाम कुशलमूलं तत्सर्वमेकतोऽभिसंक्षिप्य पिण्डयित्वा तुलयित्वा निरवशेष्य निरवशेषमनुमोदते अग्रया अनुमोदनया । श्रेष्ठया ज्येष्ठया वरया प्रवरया प्रणीतया उत्तमया अनुत्तमया निरुत्तमया उत्तरोत्तरया असमया असमसमया अप्रतिसमया अचिन्त्यया अनुमोदते इति । तत्र कियता भगवनग्रानुमोदना भवति? एवमुक्ते भगवानायुष्मन्तं सुभूतिमेतदवोचत्- यदि सुभूते बोधिसत्त्वयानिकः पुद्गलोऽतीतागतप्रत्युत्पन्नान् गृह्णीते न मन्यते नोपलभते न कल्पयति न विकल्पयति न पश्यति न समनुपश्यति, एवं चैनान् धर्मानुपपरीक्षते - कल्पनाविठपिताः सर्वधर्माः, अजाता अनिर्जाता अनागतिका अगतिकाः । नात्र कश्चिद्धर्म उत्पन्नो नापि कश्चिद्धर्म उत्पत्स्यते नापि कश्चिद्धर्म उत्पद्यते, नापि कश्चिद्धर्मो निरुद्धो नापि कश्चिद्धर्मो निरुत्स्यते नापि कश्चिद्धर्मो निरुध्यते । इत्येवमेतान् धर्मानुपपरीक्ष्य यथैषां धर्माणां धर्मता तथानुमोदते । अनुमोद्य तथैव परिणामयत्यनुत्तरायां सम्यक्संबोधौ । इयता सुभूते बोधिसत्त्वस्य महासत्त्वस्य अग्रा अनुमोदना भवति । अस्य सुभूते कुशलमूलपरिणामस्य तेषां पौर्वकाणां बोधिसत्त्वानामुपलम्भसंज्ञिनामुपलम्भदृष्टिकाणां तद्दानमयं पुण्यक्रियावस्तु शततमीमपि कलां नोपैति, सहस्रतमीमपि शतसहस्रतमीमपि कोटीतमीमपि कोटीशततमीमपि कोटीसहस्रतमीमपि कोटीशतसहस्रतमीमपि कोटीनियुतशतसहस्रतमीमपि कलां नोपैति, संख्यामपि कलामपि गणनामपि उपमामपि औपम्यमपि उपनिसामपि उपनिषदमपि न क्षमते ॥ पुनरपरं सुभूते बोधिसत्त्वयानिकेन पुद्गलेन अतीतानागतप्रत्युत्पन्नानां सर्वेषां बुद्धानां भगवतां दानमनुमोदितुकामेन शीलमनुमोदितुकामेन क्षान्तिमनुमोदितुकामेन वीर्यमनुमोदितुकामेन ध्यानमनुमोदितुकामेन प्रज्ञामनुमोदितकामेन एवमनुमोदितव्यम् - यथा विमुक्तिस्तथा दानम्, यथा विमुक्तिस्तथा शीलं, यथा विमुक्तिस्तथा क्षान्तिः, यथा विमुक्तिस्तथा वीर्यम्, यथा विमुक्तिस्तथा ध्यानम्, यथा विमुक्तिस्तथा प्रज्ञा, यथा विमुक्तिस्तथा विमुक्तिज्ञानदर्शनम्, यथा विमुक्तिस्तथा अनुमोदना, यथा विमुक्तिस्तथा अनुमोदनासहगतं पुण्यक्रियावस्तु, यथा विमुक्तिस्तथा परिणामना, यथा विमुक्तिस्तथा बुद्धा भगवन्तः प्रत्येकबुद्धाश्च, यथा विमुक्तिस्तथा तेषां श्रावका ये परिनिर्वृताः, यथा विमुक्तिस्तथा ते धर्मा येऽतीता निरुद्धाः, यथा विमुक्तिस्तथा ते धर्मा येऽनागता अनुत्पन्नाः, यथा विमुक्तिस्तथा ते धर्मा ये एतर्हि प्रत्युत्पन्ना वर्तमानाः, यथा विमुक्तिस्तथा तेऽतीता बुद्धा भगवन्तस्तेषां च श्रावकाः, यथा विमुक्तिस्तथा तेऽनागता बुद्धा भगवन्तस्तेषां च श्रावकाः, यथा विमुक्तिस्तथा ते प्रत्युत्पन्ना बुद्धा भगवन्तस्तेषां च श्रावकाः, ये एतर्ह्यप्रमेयेष्वसंख्येयेषु लोकधातुषु तिष्ठन्ति ध्रियन्ते यापयन्ति, यथा विमुक्तिस्तथातीतानागत प्रत्युत्पन्ना बुद्धा भगवन्तः । एवमेतेषां धर्माणामबद्धानाममुक्तानामसक्तानां या धर्मता, तामनुत्तरया अनुमोदनया अनुमोदे । अनुमोद्य अनुमोदनासहगतं पुण्यक्रियावस्तु अनुत्तरायं (वैद्य ८३) सम्यक्संबोधौ परिणामयामि अपरिणामनायोगेन असंक्रान्तितोऽविंनाशत इति । इयता सुभूते बोधिसत्त्वस्य महासत्त्वस्य अग्रा अनुमोदना भवति । तिष्ठन्तु खलु पुनः सुभूते ते ऽपि येऽन्येष्वन्येषु गङ्गानदीवालुकोपमेषु त्रिसाहस्रमहासाहस्रेषु लोकधातुषु सर्वसत्त्वा अनुत्तरायां सम्यक्संबोधौ संप्रस्थिताः, अनुत्तरायां सम्यक्संबोधौ संप्रस्थाय अन्येष्वन्येषु गङ्गानदीवालुकोपमेषु त्रिसाहस्रमहासाहस्रेषु लोकधातुषु सर्वसत्त्वानां बोधाय चित्तमुत्पाद्य सर्वेऽप्येकैको बोधिसत्त्वः एकैकस्मै बोधिसत्त्वाय गङ्गानदीवालुकोपमान् कल्पांस्तिष्ठन् दानं दद्यादुपलम्भसंज्ञी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्कारैः सर्वसुखोपधानैः सर्वसुखस्पर्शविहारैरुपतिष्ठन्, अनेन पर्यायेण सर्वेऽपि ते सर्वेभ्य उपतिष्ठन्तः उपलम्भसंज्ञिनो दानं दद्युः । ये सुभूते गङ्गानदीवालुकोपमेषु त्रिसाहस्रमहासाहस्रेषु लोकधातुषु सत्त्वाः, ते सर्वेऽनुत्तरां सम्यक्संबोधिमभिसंप्रतिष्ठेरन् । अनुत्तरां सम्यक्संबोधिमभिसंप्रस्थाय गङ्गानदीवालुकोपमान् कल्पान् कायसुचरितं वाक्सुचरितं मनःसुचरितमुपलम्भसंज्ञिनः शीलं समादाय वर्तेरन् । अनेन पर्यायेण सर्वेऽपि ते बोधिसत्त्वा एकैको बोधिसत्त्वो गङ्गानदीवालुकोपमान् कल्पांस्तिष्ठन् गङ्गानदीवालुकोपमान् कल्पान् कायसुचरितं वाक्सुचरितं मनःसुचरितमुपलम्भसंज्ञी शीलं समादाय वर्तेत । एतेन पर्यायेण सर्वेऽपि ते बोधिसत्त्वा उपलम्भसंज्ञिनः शीलं समादाय वर्तेरन् । यश्च बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितोपायकौशल्यपरिगृहीतोऽतीतानागतप्रत्युत्पन्नानां बुद्धानां भगवतां शीलसमाधिप्रज्ञाविमुक्तिविमुक्तिज्ञानदर्शनस्कन्धांस्तेषां च प्रत्येकबुद्धानां शीलसमाधिप्रज्ञाविमुक्तिज्ञानदर्शनस्कन्धांस्तेषां च श्रावकाणां शीलसमाधिप्रज्ञाविमुक्तिविमुक्तिज्ञानदर्शनस्कन्धान् सर्वसत्त्वानां च अतीतानागतप्रत्युत्पन्नं कुशलमूलं सर्वमेकतोऽभिसंक्षिप्य पिण्डयित्वा तुलयित्वा निरवशेष्य निरवशेषमनुमोदतेऽग्रया अनुमोदनया । श्रेष्ठया ज्येष्ठया वरया प्रवरया प्रणीतया उत्तमया अनुत्तमया निरुत्तमया उत्तरोत्तरया असमया असमसमया अप्रतिसमया अचिन्तया अनुमोदनया अनुमोदते । अनुमोद्य अनुमोदनासहगतं पुण्यक्रियावस्तु अनुत्तरायां सम्यक्संबोधौ परिणामयति । अस्य सुभूते अनुमोदनासहगतस्य पुण्यक्रियावस्तुनोऽसौ पौर्वक औपलम्भिकानां बोधिसत्त्वान शीलमयः पुण्याभिसंस्कारः शततमीमपि कलां नोपैति, सहस्रतमीमपि शतसहस्रतमीमपि कोटीतमीमपि कोटीशततमीमपि कोटीसहस्रतमीमपि कोटीशतसहस्रतमीमपि कोटीनियुतशतसहस्रतमीमपि कलां नोपैति, संख्यामपि कलामपि गणनामपि उपमामपि औपम्यमपि उपनिसामपि उपनिषदमपि न क्षमते । तत्कस्य हेतोः? तथा हि ते बोधिसत्त्वा उपलम्भसंज्ञिनः शीलं समादाय वर्तन्त इति । तिष्ठन्तु खलु पुनः सुभूते गङ्गानदीवालुकोपमेषु त्रिसाहस्रमहासाहस्रेषु लोकधातुषु सर्वसत्त्वा अनुत्तरां सम्यक्संबोधिमभिसंप्रस्थिताः, अनुत्तरां सम्यक्संबोधिमभिसंप्रस्थाय गङ्गानदीवालुकोपमान् कल्पान् कायसुचरितं वाक्सुचरितं मनःसुचरितं शीलं समादाय वर्तमाना उपलम्भसंज्ञिनः, ये सुभूते गङ्गानदीवालुकोपमेषु त्रिसाहस्रमहासाहस्रेषु लोकधातुषु सत्त्वाः, ते सर्वे अनुत्तरां सम्यक्संबोधिमभिसंप्रतिष्ठेरन् । अनुत्तरां सम्यक्संबोधिमभिसंप्रस्थाय गङ्गानदीवालुकोपमान् कल्पांस्तिष्ठन्तोऽन्येष्वन्येषु गङ्गानदीवालुकोपमेषु (वैद्य ८४) त्रिसाहस्रमहासाहस्रेषु लोकधातुषु सर्वैरेकैको बोधिसत्त्व आक्रुष्टोऽभिहतः परिभाषितः समान एव, सर्वेऽपि ते उपलम्भसंज्ञिनः क्षान्तिं समादाय वर्तेरन्, यावत्सर्वे ते बोधिसत्त्वाः क्षान्तिं समादाय वर्तमानाः, एतेन पर्यायेण सर्वे ते बोधिसत्त्वा एकैको बोधिसत्त्वो गङ्गानदीवालुकोपमान् कल्पांस्तिष्ठन् गङ्गानदीवालुकोपमान् कल्पानन्येष्वन्येषु गङ्गानदीवालुकोपमेषु त्रिसाहस्रमहासाहस्रेषु लोकधातुषु सर्वैराक्रुष्टोऽभिहतः परिभाषितः समानः उपलम्भसंज्ञी क्षान्तिं समादाय वर्तेत । एवं सर्वेऽपि ते सर्वैराक्रुष्टा अभिहताः परिभाषिताः समाना उपलम्भसंज्ञिनः क्षान्तिं समादाय वर्तेरन् । यश्च बोधिसत्त्वो महासत्त्वोऽनया प्रज्ञापारमितया उपायकौशल्येन च परिगृहीतोऽतीतानागतप्रत्युत्पन्नानां बुद्धानां भगवतां शीलस्कन्धं समाधिस्कन्धं प्रज्ञास्कन्धं विमुक्तिस्कन्धं विमुक्तिज्ञानदर्शनस्कन्धं तेषां च प्रत्येकबुद्धानां शीलसमाधिप्रज्ञाविमुक्तिविमुक्तिज्ञानदर्शनस्कन्धांस्तेषां च श्रावकाणां शीलसमाधिप्रज्ञाविमुक्तिविमुक्तिज्ञानदर्शनस्कन्धान् सर्वसत्त्वानां च अतीतानागतप्रत्युत्पन्नं कुशलमूलं सर्वमेकतोऽभिसंक्षिप्य पिण्डयित्वा तुलयित्वा निरवशेष्य निरवशेषमनुमोदते अग्रया अनुमोदनया । श्रेष्ठया ज्येष्ठया वरया प्रवरया प्रणीतया उत्तमया अनुत्तमया निरुत्तमया उत्तरोत्तरया असमया असमसमया अप्रतिसमया अचिन्तया अनुमोदनया अनुमोदते । अनुमोद्य अनुमोदनासहगतं पुण्यक्रियावस्तु अनुत्तरायां सम्यक्संबोधौ परिणामयति । अस्य सुभूते अनुमोदनासहगतस्य पुण्यक्रियावस्तुनोऽसौ पौर्वकाणामौपलम्भिकानां बोधिसत्त्वानां क्षान्तिसहगतः पुण्याभिसंस्कारः शततमीमपि कलां नोपैति, सहस्रतमीमपि शतसहस्रतमीमपि कोटीतमीमपि कोटीशततमीमपि कोटीसहस्रतमीमपि कोटीशतसहस्रतमीमपि कोटीनियुतशतसहस्रतमीमपि कलां नोपैति, संख्यामपि कलामपि गणनामपि उपमामपि औपम्यमपि उपनिसामपि उपनिषदमपि न क्षमते । तत्कस्य हेतोः? तथा हि ते बोधिसत्त्वा उपलम्भसंज्ञिनः क्षान्तिं समादाय वर्तन्ते । तिष्ठन्तु खलु पुनः सुभूते गङ्गानदीवालुकोपमेषु त्रिसाहस्रमहासाहस्रेषु लोकधातुषु सर्वसत्त्वाः अनुत्तरां सम्यक्संबोधिमभिसंप्रस्थिताः । अनुत्तरां सम्यक्संबोधिमभिसंप्रस्थाय अन्येष्वन्येषु गङ्गानदीवालुकोपमेषु त्रिसाहस्रमहासाहस्रेषु लोकधातुषु सर्वैराक्रुष्टा अभिहताः परिभाषिताः समानाः उपलम्भसंज्ञिनो गङ्गानदीवालुकोपमान् कल्पान् क्षान्तिं समादाय वर्तमानाः । ये सुभूते गङ्गानदीवालुकोपमेषु त्रिसाहस्रमहासाहस्रेषु लोकधातुषु सत्त्वाः, ते सर्वे ऽनुत्तरायां सम्यक्संबोधौ संप्रस्थिता भवेयुः, अनुत्तरायां सम्यक्संबोधौ संप्रस्थाय गङ्गानदीवालुकोपमान् कल्पांस्तिष्ठन्तश्चंक्रमाभिरूढा गङ्गानदीवालुकोपमान् कल्पानविषीदन्तोऽनभीभूताः स्त्यानमिद्धेनोपलम्भसंज्ञिनो वीर्यं समादाय वर्तेरन् । यश्च बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितोपायकौशल्यपरिगृहीतोऽतीतानागतप्रत्युत्पन्नानां बुद्धानां भगवतां शीलसमाधिप्रज्ञाविमुक्तिविमुक्तिज्ञानदर्शनस्कन्धांस्तेषां च प्रत्येकबुद्धानां शीलसमाधिप्रज्ञाविमुक्तिविमुक्तिज्ञानदर्शनस्कन्धांस्तेषां च श्रावकाणां शीलसमाधिप्रज्ञाविमुक्तिविमुक्तिज्ञानदर्शनस्कन्धान् (वैद्य ८५) सर्वसत्त्वानां च अतीतानागतप्रत्युत्पन्नानान् कुशलमूलाभिसंस्कारान् सर्वानेकतोऽभिसंक्षिप्य पिण्डयित्वा तुलयित्वा निरवशेष्य निरवशेषमनुमोदते अग्रया अनुमोदनया । श्रेष्ठया ज्येष्ठया वरया प्रवरया प्रणीतया उत्तमया अनुत्तमया निरुत्तरया उत्तरोत्तरया असमया असमसमया अप्रतिसमया अचिन्त्यया अनुमोदनया अनुमोदते । अनुमोद्य अनुमोदनासहगतं पुण्यक्रियावस्तु अनुत्तरायां सम्यक्संबोधौ परिणामयति । अस्य सुभूते अनुमोदनासहगतस्य पुण्यक्रियावस्तुनोऽसौ पौर्वक औपलम्भिकानां बोधिसत्त्वानां वीर्यमयः पुण्याभिसंस्कारः शततमीमपि कलां नोपैति, सहस्रतमीमपि शतसहस्रतमीमपि कोटीतमीमपि कोटीशततमीमपि कोटीसहस्रतमीमपि कोटीशतसहस्रतमीमपि कोटीनियुतशतसहस्रतमीमपि कलां नोपैति, संख्यामपि कलामपि गणनामपि उपमामपि औपम्यमपि उपनिसामपि उपनिषदमपि न क्षमते । तत्कस्य हेतोः? तथा हि ते बोधिसत्त्वाः सर्वेऽप्युपलम्भसंज्ञिनो वीर्यं समादाय वर्तन्ते । तिष्ठन्तु खलु पुनः सुभूते गङ्गानदीवालुकोपमेषु त्रिसाहस्रमहासाहस्रेषु लोकधातुषु सर्वसत्त्वा अनुत्तरायां सम्यक्संबोधौ संप्रस्थिताः, अनुत्तरायां सम्यक्संबोधौ संप्रस्थाय गङ्गानदीवालुकोपमान् कल्पांस्तिष्ठन्तश्चंक्रमाभिरूढा गङ्गानदीवालुकोपमान् कल्पानविषीदन्तोऽनभिभूताः स्त्यानमिद्धेनोपलम्भसंज्ञिनो वीर्यं समादाय वर्तमानाः । येऽपि ते सुभूते गङ्गानदीवालुकोपमेषु त्रिसाहस्रमहासाहस्रेषु लोकधातुषु सत्त्वाः, ते सर्वेऽनुत्तरायां सम्यक्संबोधौ संप्रस्थिता भवेयुः । ते सर्वेऽनुत्तरायां सम्यक्संबोधौ संप्रस्थाय गङ्गानदीवालुकोपमान् कल्पानुपलम्भसंज्ञिनश्चत्वारि ध्यानानि समापद्येरन् । यश्च बोधिसत्त्वो महासत्त्वोऽनया प्रज्ञापारमितया उपायकौशल्येन च परिगृहीतोऽतीतानागतप्रत्युत्पन्नानां सर्वेषां बुद्धानां भगवतां शीलसमाधिप्रज्ञाविमुक्तिविमुक्तिज्ञानदर्शनस्कन्धांस्तेषां च प्रत्येकबुद्धानां शीलसमाधिप्रज्ञाविमुक्तिविमुक्तिज्ञानदर्शनस्कन्धांस्तेषां च श्रावकाणां शीलसमाधिप्रज्ञाविमुक्तिविमुक्तिज्ञानदर्शनस्कन्धान् सर्वसत्त्वानां च अतीतानागतप्रत्युत्पन्नान् कुशलमूलाभिसंस्कारान् सर्वानेकतोऽभिसंक्षिप्य पीण्डयित्वा तुलयित्वा निरवशेष्य निरवशेषमनुमोदते अग्रया अनुमोदनया । श्रेष्ठया ज्येष्ठया वरया प्रवरया प्रणीतया उत्तमया अनुत्तमया निरुत्तरया उत्तरोत्तरया असमया असमसमया अप्रतिसमया अचिन्त्यया अनुमोदनया अनुमोदते । अनुमोद्य अनुमोदनासहगतं पुण्यत्रियावस्तु अनुत्तरायां सम्यक्संबोधौ परिणामयति । अस्य सुभूते अनुमोदनासहगतस्य पुण्यक्रियावस्तुनोऽसौ पौर्वक औपलम्भिकानां बोधिसत्त्वानां चतुर्ध्यानमयः पुण्याभिसंस्कारः शततमीमपि कलां नोपैति, सहस्रतमीमपि शतसहस्रतमीम् अपि कोटीतमीमपि कोटीशततमीमपि कोटीसहस्रतमीमपि कोटीशतसहस्रतमीमपि कोटीनियुतशतसहस्रतमीमपि कलां नोपैति, संख्यामपि कलामपि गणनामपि उपमामपि औपम्यमपि उपनिसामपि उपनिषदमपि न क्षमते । तत्कस्य हेतोः? तथा हि ते बोधिसत्त्वा उपलम्भसंज्ञिनो ध्यानानि समापद्यन्ते इति ॥ आर्याष्टसाहस्रिकायां प्रज्ञापारमितायामनुमोदनापरिणामनापरिवर्तो नाम षष्ठः ॥ _______________________________________________________________ (वैद्य ८६) ७: निरयपरिवर्तः सप्तमः । अथ खल्वायुष्मान् शारिपुत्रो भगवन्तमेतदवोचत्- सर्वज्ञज्ञानपरिनिष्पत्तिर्भगवन् प्रज्ञापारमिता, सर्वज्ञत्वं भगवन् प्रज्ञापारमिता । भगवानाह - एवमेतच्छारिपुत्र, एवमेतद्यथा वदसि । शारिपुत्र आह - अवभासकरी भगवन् प्रज्ञापारमिता । नमस्करोमि भगवन् प्रज्ञापारमितायै । नमस्करणीया भगवन् प्रज्ञापारमिता । अनुपलिप्ता भगवन् प्रज्ञापारमिता । सर्वलोकनिरुपलेपा भगवन् प्रज्ञापारमिता । आलोककरी भगवन् प्रज्ञापारमिता । सर्वत्रैधातुकवितिमिरकरी भगवन् प्रज्ञापारमिता । सर्वक्लेशदृष्ट्यन्धकारापनेत्री भगवन् प्रज्ञापारमिता । आश्रयणीया भगवन् प्रज्ञापारमिता । अग्रकरी भगवन् प्रज्ञापारमिता बोधिपक्षाणां धर्माणाम् । क्षेमकरी भगवन् प्रज्ञापारमिता । अन्धानां सत्त्वानामालोककरी भगवन् प्रज्ञापारमिता । सर्वभयोपद्रवप्रहीणालोककरी भगवन् प्रज्ञापारमिता । पञ्चचक्षुःपरिग्रहं कृत्वा सर्वसत्त्वानां मार्गदर्शयित्री भगवन् प्रज्ञापारमिता । चक्षुर्भगवन् प्रज्ञापारमिता । मोहतमस्तिमिरविकरिणी भगवन् प्रज्ञापारमिता । सर्वधर्माणामकरणी भगवन् प्रज्ञापारमिता । उत्पथप्रयातानां सत्त्वानां मार्गावतारणी भगवन् प्रज्ञापारमिता । सर्वज्ञतैव भगवन् प्रज्ञापारमिता । सर्वक्लेशज्ञेयावरणवासनानुसंधिप्रहीणतामुपादाय अनुत्पादिका भगवन् सर्वधर्माणां प्रज्ञापारमिता । अनिरोधिका भगवन् सर्वधर्माणां प्रज्ञापारमिता । अनुत्पन्नानिरुद्धा भगवन् प्रज्ञापारमिता । स्वलक्षणशून्यतामुपादाय माता भगवन् बोधिसत्त्वानां महासत्त्वानां प्रज्ञापारमिता । सर्वबुद्धधर्मरत्नदात्रीत्वाद्दशबलकरी भगवन् प्रज्ञापारमिता । अनवमर्दनीया भगवन् प्रज्ञापारमिता । चतुर्वैशारद्यकरीत्वादनाथानां सत्त्वानां नाथकरी भगवन् प्रज्ञापारमिता । संसारप्रतिपक्षा भगवन् प्रज्ञापारमिता । अकूटस्थतामुपादाय सर्वधर्मस्वभावविदर्शनी भगवन् प्रज्ञापारमिता । परिपूर्णत्रिपरिवर्तद्वादशाकारधर्मचक्रप्रवर्तनी भगवन् बुद्धानां भगवतां प्रज्ञापारमिता । कथं भगवन् बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां स्थातव्यम्? कथं मनसि कर्तव्या भगवन् प्रज्ञापारमिता? कथं भगवन्नमस्कर्तव्या प्रज्ञापारमिता? एवमुक्ते भगवानायुष्मन्तं शारिपुत्रमेतदवोचत्- यथा शारिपुत्र शास्तरि, तथा प्रज्ञापारमितायां स्थातव्यम् । तथैव मनसि कर्तव्या शारिपुत्र प्रज्ञापारमिता यथा शास्ता । तथैव नमस्कर्तव्या शारिपुत्र प्रज्ञापारमिता यथा शास्ता ॥ अथ खलु शक्रस्य देवानामिन्द्रस्यैतदभूत्- कुतो नु बतेयमार्यस्य शारिपुत्रस्य पृच्छा जाता? किंनिदाना बतेयमार्यस्य शारिपुत्रस्य पृच्छा जाता? अथ खलु शक्रो देवानामिन्द्र आयुष्मन्तं शारिपुत्रमेतदवोचत्- कुत इयमार्यस्य शारिपुत्रस्य पृच्छा जाता? किंनिदाना बतेयमार्यस्य शारिपुत्रस्य पृच्छा जाता? एवमुक्ते आयुष्मान् शारिपुत्रः शक्रं देवानामिन्द्रमेतदवोचत्- प्रज्ञापारमितोपायकौशल्यपरिगृहीतः कौशिक बोधिसत्त्वो महासत्त्वोऽनुमोदनासहगतं पुण्यक्रियावस्तु सर्वज्ञतायां परिणामयंस्तेषां पौर्वकाणामौपलम्भिकानां बोधिसत्त्वानां यश्च (वैद्य ८७) दानमयः पुण्याभिसंस्कारः, यश्च शीलमयो यश्च क्षान्तिमयो यश्च वीर्यमयो यश्च ध्यानमयः पुण्याभिसंस्कारः, तं सर्वमभिभवतीति । ममेयमेतन्निदाना पृच्छा जाता । अपि नु खलु पुनः कौशिक प्रज्ञापारमितैव पूर्वंगमा पञ्चानां पारमितानां सर्वज्ञतामार्गावताराय । तद्यथापि नाम कौशिक जात्यन्धानां शतं वा सहस्रं वा शतसहस्रं वा अपरिणायकमभव्यं मार्गावताराय, अभव्यं ग्रामं वा नगरं वा निगमं वा गन्तुम्, एवमेव कौशिक दानं शीलं क्षान्तिवीर्यं ध्यानं च प्रज्ञापारमितानामधेयं लभते । जात्यन्धभूतं भवति विना प्रज्ञापारमितया अपरिणायकत्वात् । अभव्यं सर्वज्ञतामार्गावताराय । कुतः पुनः सर्वज्ञतामनुप्राप्स्यति? यदा पुनः कौशिक दानं शीलं क्षान्तिर्वीयं ध्यानं च प्रज्ञापारमितापरिगृहीतं भवति, तदा पारमितानामधेयं पारमिताशब्दं लभते । तदा ह्यासां चक्षुःप्रतिलम्भो भवति पञ्चानां पारमितानां सर्वज्ञतामार्गावताराय सर्वज्ञतानुप्राप्तये ॥ अथ खल्वायुष्मान् शारिपुत्रो भगवन्तमेतदवोचत्- कथं भगवन् बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमिता अभिनिर्हर्तव्या? एवमुक्ते भगवानायुष्मन्तं शारिपुत्रमेतदवोचत्- रूपस्य शारिपुत्र अभिनिर्हारो द्रष्टव्यः । एवं वेदनायाः संज्ञायाः संस्काराणाम् । विज्ञानस्य शारिपुत्र अभिनिर्हारो द्रष्टव्यः । यः शारिपुत्र पञ्चानां स्कन्धानामभिनिर्हारः, अयं शारिपुत्र प्रज्ञापारमिताया अभिनिर्हार इत्युच्यते । एवमभिनिर्हारेण पञ्चानां स्कन्धानामभिनिर्हारः प्रज्ञापारमिताया अभिनिर्हारोऽभिनिर्हार इत्युच्यते ॥ एवमुक्ते आयुष्मान् शारिपुत्रो भगवन्तमेतदवोचत्- एवमभिनिर्हारेण अभिनिर्हृता भगवन् प्रज्ञापारमिता कतमं धर्ममर्पयति? भगवानाह - एवमभिनिर्हृता शारिपुत्र प्रज्ञापारमिता न कंचिद्धर्ममर्पयति । यदा सा शारिपुत्र न कंचिद्धर्ममर्पयति, तदा प्रज्ञापारमितेति संख्यां गच्छति ॥ अथ खलु शक्रो देवानामिन्द्रो भगवन्तमेतदवोचत्- किमियं भगवन् प्रज्ञापारमिता सर्वज्ञतामपि नार्पयति? भगवानाह - यत्कौशिक एवं वदसि - किमियं प्रज्ञापारमिता सर्वज्ञतामपि नार्पयतीति? न यथोपलम्भस्तथा अर्पयति, न यथा नाम तथार्पयति, न यथाभिसंस्कारस्तथार्पयति । शक्र आह - कथं तर्हि भगवन्नर्पयति? भगवानाह - यथा कौशिक नार्पयति तथार्पयति । शक्र आह - आश्चर्यं भगवन् यावदियं प्रज्ञापारमिता न कंचिद्धर्ममुत्पादयति, न कंचिद्धर्मं निरोधयति । सर्वधर्माणामनुत्पादाय अनिरोधाय प्रत्युपस्थिता अनुपस्थिता प्रज्ञापारमिता ॥ अथ खल्वायुष्मान् सुभूतिर्भगवन्तमेतदवोचत्- सचेदेवमपि भगवन् बोधिसत्त्वो महासत्त्वो संज्ञास्यते, दूरीकरिष्यति इमां प्रज्ञापारमिताम्, रिक्तीकरिष्यति इमां प्रज्ञापारमिताम्, तुच्छीकरिष्यति इमां प्रज्ञापारमिताम्, न करिष्यति इमां प्रज्ञापारमिताम् । एवमुक्ते भगवानायुष्मन्तं सुभूतिमेतदवोचत्- एवमेतत्सुभूते, एवमेतत् । अस्त्येष सुभूते पर्यायो येन (वैद्य ८८) पर्यायेण दूरीकरिष्यतीमां प्रज्ञापारमिताम्, रिक्तीकरिष्यतीमां प्रज्ञापारमिताम्, तुच्छीकरिष्यतीमां प्रज्ञापारमिताम्, न करिष्यतीमां प्रज्ञापारमिताम् । तत्कस्य हेतोः? प्रज्ञापारमितायां हि सुभूते परिदीपितायां न रूपं परिदीपितं भवति । न वेदना न संज्ञा न संस्काराः । न विज्ञानं परिदीपितं भवति । न स्रोतआपत्तिफलं परिदीपितं भवति । न सकृदागामिफलं परिदीपितं भवति । न अनागामिफलं परिदीपितं भवति । नार्हत्त्वं परिदीपितं भवति । न प्रत्येकबुद्धत्वं परिदीपितं भवति । न बुद्धत्वं परिदीपितं भवति ॥ स्थविरः सुभूतिराह - महापारमितेयं भगवन् यदुत प्रज्ञापारमिता । भगवानाह - तत्किं मन्यसे सुभूते कतमेन पर्यायेण महापारमितेयं यदुत प्रज्ञापारमिता? स्थविरः सुभूतिराह - न भगवन् रूपं महत्करोति नाल्पीकरोति, न रूपं संक्षिपति न विक्षिपति । एवं न वेदनां न संज्ञां न संस्कारान् । न भगवन् विज्ञानं महत्करोति नाल्पीकरोति, न विज्ञानं संक्षिपति न विक्षिपति । यान्यपि तानि तथागतस्य तथागतबलानि, तान्यपि न बलीकरोति न दुर्बलीकरोति, न संक्षिपति न विक्षिपति । यापि सा सर्वज्ञता, तामपि न महत्करोति नाल्पीकरोति, न संक्षिपति न विक्षिपति । तत्कस्य हेतोः? असंक्षिप्ताविक्षिप्ता हि भगवन् सर्वज्ञता । सचेदेवमपि भगवन् बोधिसत्त्वो महासत्त्वः संजानीते, चरति प्रज्ञापारमितायाम् । किं पुनरेवं संजानानः - एवमहं सर्वज्ञज्ञानसमन्वागत सत्त्वेभ्यो धर्मं देशयिष्यामि, एवमिमान् सत्त्वान् परिनिर्वापयिष्यामीति । तत्कस्य हेतोः? न ह्येष प्रज्ञापारमितानिष्यन्दो य इमान् सत्त्वान् परिनिर्वापयिष्यामीति सत्त्वोपलम्भः । एष एवास्य महानुपलम्भः स्यात् । तत्कस्य हेतोः ? सत्त्वास्वभावजातिका हि प्रज्ञापारमितावेदितव्या । सत्त्वास्वभावतया प्रज्ञापारमितास्वभावता वेदितव्या । सत्त्वविविक्ततया प्रज्ञापारमिताविविक्तता वेदितव्या । सत्त्वाचिन्त्यतया प्रज्ञापारमिताचिन्त्यता वेदितव्या । सत्त्वाविनाशधर्मतया प्रज्ञापारमिताविनाशधर्मता वेदितव्या । सत्त्वानभिसंबोधनतया प्रज्ञापारमितानभिसंबोधनता वेदितव्या । सत्त्वयथाभूतार्थानभिसंबोधनतया प्रज्ञापारमितायथाभूतार्थानभिसंबोधनता वेदितव्या । सत्त्वबलसमुदागमनतया तथागतबलसमुदागमनता वेदितव्या । अनेन भगवन् पर्यायेण महापारमितेयं यदुत प्रज्ञापारमिता ॥ अथ खल्वायुष्मान् शारिपुत्रो भगवन्तमेतदवोचत्- यो भगवनिह गम्भीरायां प्रज्ञापारमितायां बोधिसत्त्वो महासत्त्वोऽधिमोक्षयिष्यति न काङ्क्षिष्यति न विचिकित्सिष्यति न धन्धायिष्यति, कुतः स भगवंश्च्युत इहोपपन्नो वेदितव्यः, कियच्चिरचरितावी च स भगवन् बोधिसत्त्वो महासत्त्वो वेदितव्यः, य इमां प्रज्ञापारमितामर्थतश्च धर्मतश्च अर्थनयतश्च धर्मनयतश्च अनुगमिष्यति अनुभोत्स्यतेऽनुबोधयिष्यति च? एवमुक्ते भगवानायुष्मन्तं शारिपुत्रमेतदवोचत्- स शारिपुत्र बोधिसत्त्वो महासत्त्वोऽन्येभ्यो लोकधातुभ्यश्च्युतो बुद्धान् भगवतः पर्युपास्य परिपृच्छ्य इहोपपन्नो वेदितव्यः । तत्कस्य हेतोः? यः कश्चिच्छारिपुत्र बोधिसत्त्वो महासत्त्वोऽन्येभ्यो लोकधातुभ्यश्च्युतो बुद्धान् भगवतः पर्युपास्य परिपृच्छय (वैद्य ८९) इहोपपन्नो भवति, स इमां गम्भीरां प्रज्ञापारमितां भाष्यमाणां देश्यमानामुपदिश्यमानामुद्दिश्यमानां शृणुयात्, इमां प्रज्ञापारमितां श्रुत्वा अत्र शास्तृसंज्ञां प्रज्ञापारमितायामुत्पादयेत्- शास्ता मे संमुखीभूतिति, शास्ता मे दृष्ट इति चित्तमुत्पादयति । प्रज्ञापारमितायां भाष्यमाणायां देश्यमानायामुपदिश्यमानायामुद्दिश्यमानायां श्रोत्रमवदधाति, सत्कृत्य शृणोति, कथां नोपच्छिनत्ति । चिरचरितावी स शारिपुत्र तथारूपो बोधिसत्त्वो महासत्त्वो वेदितव्यः । बहुबुद्धपर्युपासितः स शारिपुत्र तथारूपो बोधिसत्त्वो महासत्त्वो वेदितव्यः ॥ अथ खल्वायुष्मान् सुभूतिर्भगवन्तमेतदवोचत्- शक्या पुनर्भगवन् प्रज्ञापारमिता श्रोतुं वा उपलक्ष्ययितुं वा समन्वाहर्तुं वा उपपादयितुं वा उपधारयितुं वा? इयं सा प्रज्ञापारमिता, इह वा सा प्रज्ञापारमिता, अमुत्र वा सा प्रज्ञापारमिता, अनेन वा आकारेण लिङ्गेन निमित्तेनेति शक्या निर्देष्टुं वा श्रोतुं वा? भगवानाह - नो हीदं सुभूते । नेयं सुभूते प्रज्ञापारमिता स्कन्धशो वा धातुशो वा आयतनशो वा शक्या निर्देष्टुं वा श्रोतुं वा उपलक्षयितुं वा समन्वाहर्तुं वा उपपादयितुं वा उपधारयितुं वा । तत्कस्य हेतोः? सर्वधर्मविविक्तत्वात्सुभूते, अत्यन्तविविक्तत्वात्सुभूते सर्वधर्माणां न शक्या प्रज्ञापारमिता निर्देष्टुं वा श्रोतुं वा उपलक्षयितुं वा समन्वाहर्तुं वा उपपादयितुं वा उपधारयितुं वा । न चान्यत्र स्कन्धधात्वायतनेभ्यः प्रज्ञापारमिता अवबोद्धव्या । तत्कस्य हेतोः? स्कन्धधात्वायतनमेव हि सुभूते शून्यं विविक्तं शान्तम् । इति हि प्रज्ञापारमिता च स्कन्धधात्वायतनं च अद्वयमेतएदद्वैधीकारं शून्यत्वाद्विविक्तत्वात् । एवं शान्तत्वान्नोपलभ्यते । योऽनुपलम्भः सर्वधर्माणाम्, सा प्रज्ञापारमितेत्युच्यते । यदा न भवति संज्ञा समज्ञा प्रज्ञप्तिर्व्यवहारः, तदा प्रज्ञापारमितेत्युच्यते ॥ स्थविअरः सुभूतिराह - कियच्चिरचरितावी स भगवन् बोधिसत्त्वो महासत्त्वो वेदितव्यो य इह गम्भीरायां प्रज्ञापारमितायां योगमापत्स्यते? भगवानाह - विभज्य व्याकरणीयमेतत्सुभूते बोधिसत्त्वानां महासत्त्वानामिन्द्रियाधिमात्रतया । स्यात्खलु पुनः सुभूते पर्यायो येन पर्यायेण बोधिसत्त्वा बहूनि बुद्धशतानि बहूनि बुद्धसहस्राणि बहूनि बुद्धशतसहस्राणि दृष्ट्वा तेषामन्तिके ब्रह्मचर्यं चरित्वा इमां प्रज्ञापारमितां न श्रद्दध्युर्नाधिमुञ्चेयुः । तत्कस्य हेतोः? पूर्वमपि तेषां बुद्धानां भगवतामन्तिकादस्यां गम्भीरायां प्रज्ञापारमितायां भाष्यमाणायां देश्यमानायामुपदिश्यमानायामगौरवता अभूत् । अगौरवतया अशुश्रूषणता, अशुश्रूषणतया अपर्युपासनता, अपर्युपासनतया अपरिपृच्छनता, अपरिपृच्छनतया अश्रद्दधानता, अश्रद्दधानतया ततः पर्षद्ध्योऽपक्रान्ताः, ते ततोनिदानं धर्मव्यसनसंवर्तनीयेन कर्मणा कृतेन संचितेन आचितेन उपचितेन एतर्ह्यपि गम्भीरायां प्रज्ञापारमितायां भाष्यमाणायां देश्यमानायामुपदिश्यमानायामपक्रामन्ति । अगौरवतया अश्रद्दधाना अनधिमुञ्चन्तो न कायेन न चित्तेन सामग्रीं ददति । ते सामग्रीमददाना इमां प्रज्ञापारमितां न जानन्ति न पश्यन्ति न बुध्यन्ते न वेदयन्ते । एवं ते प्रज्ञापारमितां न श्रद्दधति । अश्रद्दधाना न शृण्वन्ति । (वैद्य ९०) अशृण्वन्तो न जानन्ति । अजानन्तो न पश्यन्ति । अपश्यन्तो न बुध्यन्ते । अबुध्यमाना धर्मव्यसनसंवर्तनीयं कर्म कुर्वन्ति, संचिन्वन्ति आचिन्वन्ति उपचिन्वन्ति । ते तेन धर्मव्यसनसंवर्तनीयेन कर्मणा कृतेन संचितेन आचितेन उपचितेन दुष्प्रज्ञसंवर्तनीयं कर्माभिसंस्करिष्यन्ति । तेन ते दुष्प्रज्ञसंवर्तनीयेन कर्मणा अभिसंस्कृतेन संचितेनाचितेनोपचितेन इमां प्रज्ञापारमितां भाष्यमाणां देश्यमानामुपदिश्यमानां प्रत्याख्यास्यन्ति प्रतिक्षेप्स्यन्ति प्रतिक्रोक्ष्यन्ति, प्रतिक्षिप्य च अपक्रमिष्यन्ति । अस्याः खलु पुनः सुभूते प्रज्ञापारमितायाः प्रत्याख्यानेन प्रतिक्षेपेण प्रतिक्रोशेन अतीतानागतप्रत्युत्पन्नानां बुद्धानां भगवतां सर्वज्ञता प्रत्याख्याता भवति, प्रतिक्षिप्ता भवति, प्रतिक्रुष्टा भवति । ते स्वसंतानानुपहत्य दग्धाः परेषामप्यल्पबुद्धिकानामल्पप्रज्ञानामल्पपुण्यानामल्पकुशलमूलानां पुद्गलानां श्रद्धामात्रकसमन्वागतानां प्रेममात्रकसमन्वागतानां प्रसादमात्रकसमन्वागतानां छन्दमात्रकसमन्वागतानामादिकर्मिकाणामभव्यरूपाणां तदपि श्रद्धामात्रकं प्रेममात्रकं प्रसादमात्रकं छन्दमात्रकं विच्छन्दयिष्यन्ति विवेचयिष्यन्ति विवर्तयिष्यन्ति, नात्र शिक्षितव्यमिति वक्ष्यन्ति, नैतद्बुद्धवचनमिति वाचं भाषिष्यन्ते । एवं ते आत्मसंतानानुपहत्य विवेच्य परसंतानानप्युपहत्य विवेच्य प्रज्ञापारमितामभ्याख्यास्यन्ति । प्रज्ञापारमितायामभ्याख्यातायां सर्वज्ञता अभ्याख्याता भवति । सर्वज्ञतायामभ्याख्यातायामतीतानागतप्रत्युत्पन्ना बुद्धा भगवन्तोऽभ्याख्याता भवन्ति । ते बुद्धानां भगवतामन्तिकादपक्रान्ता भविष्यन्ति, धर्मात्परिमुक्ता भविष्यन्ति, संघात्परिबाह्या भविष्यन्ति । एवं तेषां सर्वेण सर्वं सर्वथा सर्वं त्रिरत्नात्परिबाह्यभावो भविष्यति । ते सत्त्वानां हितसुखोपच्छेदक्रियया महानिरयविपाकसंवर्तनीयं कर्म उपचेष्यन्ति । ते अनेनैवंरूपेण कर्माभिसंस्कारेणोपस्थापितेन समुत्थापितेन धर्मव्यसनसंवर्तनीयेन दुष्प्रज्ञसंवर्तनीयेन कर्मणा बहूनि वर्षशतानि बहूनि वर्षसहस्राणि बहूनि वर्षशतसहस्राणि बहूनि वर्षकोटीशतानि बहूनि वर्षकोटीसहस्राणि बहूनि वर्षकोटीशतसहस्राणि बहूनि वर्षकोटीनियुतशतसहस्राणि महानिरयेषूपपत्स्यन्ते । ते महानिरयान्महानिरयं संक्रमिष्यन्ति । तेषां तथा सुचिरं महानिरयान्महानिरयं संक्रामतां तेजःसंवर्तनी प्रादुर्भविष्यति । तेजःसंवर्तन्यां प्रादुर्भूतायां येऽन्येषु लोकधातुषु महानिरयाः, तत्र ते क्षेप्स्यन्ते । ते तेषु महानिरेयषु उपपत्स्यन्ते । ते तत्र विक्षिप्तास्तेषु महानिरयेषूपपन्नाः समानास्तत्रापि महानिरयान्महानिरयं संक्रमिष्यन्ति । तेषां तत्रापि महानिरयान्महानिरयं संक्रामतां तत्रापि पुनरेव तथैव तेजःसंवर्तनी प्रादुर्भविष्यति । ते तस्यां तेजःसंवर्तन्यां प्रादुर्भूतायां ततश्च्युताः समानाः पुनरेव अन्येषु लोकधातुषु ये महानिरयास्तत्र क्षेप्स्यन्ते । ते तेषु महानिरयेषूपपत्स्यन्ते । ते तत्रापि तथैव महानिरयान्महानिरयं संक्रमिष्यन्ति । तेषां तत्रापि सुचिरं महानिरयान्महानिरयं संक्रामतां तत्रापि तथैव तेजःसंवर्तनी प्रादुर्भविष्यति । ते तस्यां तेजःसंवर्तन्यां प्रादुर्भूतायां पुनरेव ततश्च्युतास्तेनैव अक्षीणेन सावशेषेण कर्मणा इहैव लोकधातौ पुनः क्षेप्स्यन्ते । क्षिप्ताः सन्तो महानिरयेषूपपत्स्यन्ते । ते पुनरेव तानि महानिरयेषु महान्ति महानिरयदुःखानि (वैद्य ९१) प्रत्यनुभविष्यन्ति । तावत्प्रत्यनुभविष्यन्ति, यावत्पुनरेव तेजःसंवर्तनी प्रादुर्भविष्यति । एवं ते बहुदुःखवेदनीयं कर्म प्रत्यनुभविष्यन्ति । तत्कस्य हेतोः? यथापि नाम दुर्भाषितत्वाद्वाचः ॥ अथ खल्वायुष्मान् शारिपुत्रो भगवन्तमेतदवोचत्- पञ्च भगवनानन्तर्याणि कर्माणि कृतान्युपचितानि अस्य मनोदुश्चरितस्य वाग्दुश्चरितस्य च न प्रतिवर्णिकान्यपि न अनुरूपाण्यपि न प्रतिरूपाण्यपि भवन्ति । भगवानाह - एवमेतच्छारिपुत्र, एवमेतत् । पञ्चानन्तर्याणि शारिपुत्र कर्माणि कृतान्युपचितान्यस्य मनोदुश्चरितस्य च वाग्दुश्चरितस्य च न प्रतिवर्णिकान्यपि न अनुरूपाण्यपि न प्रतिरूपाण्यपि अस्य कर्मणः कृतस्य संचितस्य आचितस्य उपचितस्य । ये केचिदिमां गम्भीरा प्रज्ञापारमितां भाष्यमाणां देश्यमानामुपदिश्यमानामुद्दिश्यमानां प्रतिबाधितव्यां मंस्यन्ते, प्रतिक्षेप्स्यन्ति, प्रतिक्रोक्ष्यन्ति, नात्र शिक्षितव्यमिति वक्ष्यन्ति, नेयं तथागतभाषितेति वाचं भाषिष्यन्ते, ततोऽन्यानपि सत्त्वान् विवेचयिष्यन्ति । ते स्वसंतानानुपहत्य परसंतानानुपहनिष्यन्ति । ते स्वसंतानान् सविषान् कृत्वा परसंतानान् सविषान् करिष्यन्ति । स्वयं नष्टाः परानपि नाशयिष्यन्ति । स्वयं गम्भीरां प्रज्ञापारमितामजानाना अनवबुध्यमानाः परानपि ग्राहयिष्यन्ति, नात्र शिक्षितव्यमिति वाचं भाषिष्यन्ते । नाहं शारिपुत्र एवंरूपाणां पुद्गलानां दर्शनमप्यभ्यनुजानामि, कुतस्तैः सह संवासं कुतो वा लाभसत्कारं कुतः स्थानम्? तत्कस्य हेतोः? धर्मदूषका हि ते शारिपुत्र तथारूपाः पुद्गला वेदितव्या इति । कसम्बकजातास्ते शारिपुत्र तथारूपाः पुद्गला वेदितव्याः । कृष्णानिर्जातिकाः कृष्णाहिजातिकास्ते शारिपुत्र तथारूपाः पुद्गला वेदितव्याः । तेषां शारिपुत्र तथारूपाणां पुद्गालानां ये श्रोतव्यं मंस्यन्ते, सर्वे ते अनयेन व्यसनमापत्स्यन्ते । ये च शारिपुत्र प्रज्ञापारमितां दूषयन्ति, इमे ते शारिपुत्र धर्मदूषकाः पुद्गला वेदितव्याः । शारिपुत्र आह - न भगवता तस्य पुद्गलस्य तत्रोपपन्नस्य महानिरयगतस्यात्मभावस्य प्रमाणमाख्यातम् । भगवानाह - तिष्ठतु शारिपुत्र तस्य पुद्गलस्य तत्रोपपन्नस्य महानिरयगतस्यात्मभावस्य प्रमाणम् । तत्कस्य हेतोः? मा तथारूपस्य पुद्गलस्य तदात्मभावस्य प्रमाणं श्रुत्वा उष्णं रूधिरं मुखादागच्छेत्, मरणं वा निगच्छेत्, मरणमात्रकं वा दुःखमागाढमाबाधं स्पृशेत्, दह्येत वा, शोकशल्यो वा अस्याविशेत्, महाप्रपातं वा प्रपतेत्, उपशुष्येत वा म्लायेत वा । मैव महाप्रतिभयं तस्यात्मभावस्य प्रमाणमश्रौषीद्यस्येमे दोषाः संविद्यन्ते ॥ न भगवानायुष्मतः शारिपुत्रस्यावकाशं करोति - इयत्तस्यात्मभावस्य प्रमाणं भविष्यतीति । द्वितीयकमपि तृतीयकमप्यायुष्मान् शारिपुत्रो भगवन्तमेतदवोचत्- आख्यातु मे भगवांस्तस्य पुद्गलस्यात्मभावस्य प्रमाणम् । पश्चिमाया जनताया आलोकः कृतो भविष्यतिअनेन वाङ्भनःकर्मणा कृतेन संचितेनोपचितेनोपचितेन एवं महान्तं महानिरयेष्वात्मभावं परिगृह्णीतेति । भगवानाह - एष एव शारिपुत्र पश्चिमाया जनताया आलोकः कृतो भविष्यति, यदनेन वाङ्भनोदुश्चरितेन अकुशलेन कर्माभिसंस्कारेण अभिसंस्कृतेन संचितेनाचितेनोपचितेन इयच्चिरदुःखं प्रत्यनुभविष्यतीति । या एतस्यैव शारिपुत्र दुःखस्याप्रमेयता बहुदुःखता (वैद्य ९२) व्याख्याता, एष एव शुक्लांशिकस्य कुलपुत्रस्य कुलदुहितुर्वा संवेगो भविष्यति । ततः स तेभ्यो धर्मव्यसनसंवर्तनीयेभ्यः कर्मभ्यो विनिवृत्य पुण्याभिसंस्कारमेव कुर्यात्, जीवितहेतोरपि सद्धर्मं न प्रतिक्षेप्स्यति - मा भूदस्माकमपि तादृशैर्दुःखै समवधानमिति ॥ अथ खल्वायुष्मान् सुभूतिर्भगवन्तमेतदवोचत्- सुसंवृतकायकर्मवाक्कर्ममनस्कर्मणा भगवन् कुलपुत्रेण वा कुलदुहित्रा वा भवितव्यम् । तत्कस्य हेतोः? यत्र हि नाम भगवनेवंरूपेण वाग्दुर्भाषितेन इयान्महापुण्यस्कन्धः प्रसूयते । कतमेन पुनर्भगवन् कर्मणा इयान्महापुण्यस्कन्धः प्रसूयते । भगवानाह - एवंरूपेण सुभूते वाग्दुर्भाषितेन इयान्महापुण्यस्कन्धः प्रसूयते । इहैव ते सुभूते मोहपुरुषाः स्वाख्याते धर्मविनये प्रव्रजिता भविष्यन्ति, य इमां गम्भीरां प्रज्ञापारमितां दूषयितव्यां मंस्यन्ते, प्रतिक्षेप्तव्यां मंस्यन्ते, प्रतिबाधितव्यां मंस्यन्ते । प्रज्ञापारमितायां च प्रतिबाधितायां बुद्धानां भगवतां बुद्धबोधिः प्रतिबाधिता भवति । बुद्धबोधौ प्रतिबाधितायामतीतानागतप्रत्युत्पन्नानां बुद्धानां भगवतां सर्वज्ञता प्रतिबाधिता भवति । सर्वज्ञतायां प्रतिबाधितायां सद्धर्मः प्रतिबाधितो भवति । सद्धर्मे प्रतिबाधिते तथागतश्रावकसंघः प्रतिबाधितो भवति । तथागतश्रावकसंघेऽपि प्रतिबाधिते एवं तस्य सर्वेण सर्वं सर्वथा सर्वं त्रिरत्नात्परिबाह्यभावो भवति, अप्रमेयासंख्येयतरश्च महानकुशलकर्माभिसंस्कारः परिगृहीतो भवति ॥ एवमुक्ते आयुष्मान् सुभूतिर्भगवन्तमेतदवोचत्- कोऽत्र भगवन् हेतुः कः प्रत्ययो यत्स कुलपुत्रो वा कुलदुहिता वा इमां प्रज्ञापारमितां प्रतिबाधितव्यां मंस्यते? भगवानाह - माराधिष्ठितो वा सुभूते स कुलपुत्रो वा कुलदुहिता वा भविष्यति । दुष्प्रज्ञसंवर्तनीयेन वा कर्मणा गम्भीरेषु धर्मेषु नास्य श्रद्धा, नास्य प्रसादः । आभ्यां सुभूते द्वाभ्यां पापाभ्यां धर्माभ्यां समन्वागतः स कुलपुत्रो वा कुलदुहिता वा इमां प्रज्ञापारमितां प्रतिबाधिष्यते । पुनरपरं सुभूते स कुलपुत्रो वा कुलदुहिता वा पापमित्रहस्तगतो वा भविष्यति, अनभियुक्तो वा भविष्यति, स्कन्धाभिनिविष्टो वा भविष्यति, आत्मोत्कर्षी परेषां पंसको दोषान्तरप्रेक्षी वा भविष्यति । एभिरपि सुभूते चतुर्भिराकारैः स कुलपुत्रो वा कुलदुहिता वा समन्वागतो भविष्यति, य इमां प्रज्ञापारमितां भाष्यमाणां देश्यमानामुपदिश्यमानां प्रतिबाधितव्यां मंस्यते इति ॥ आर्याष्टसाहस्रिकायां प्रज्ञापारमितायां निरयपरिवर्तो नाम सप्तमः ॥ _______________________________________________________________ (वैद्य ९३) ८: विशुद्धिपरिवर्तोऽष्टमः । अथ खल्वायुष्मान् सुभूतिर्भगवन्तमेतदवोचत्- दुरधिमोचा भगवन् प्रज्ञापारमिता अनभियुक्तेन कुशलमूलविरहितेन पापमित्रहस्तगतेन । भगवानाह - एवमेतत्सुभूते, एवमेतत् । दुरधिमोचा सुभूते प्रज्ञापारमिता अनभियुक्तेन परीत्तकुशलमूलेन दुर्मेधसा अनर्थिकेन अल्पश्रुतेन हीनप्रज्ञेन पापमित्रोपस्तब्धेन अशुश्रूषणापरिपृच्छकजातीयेन कुशलेषु धर्मेष्वनभियुक्तेन ॥ सुभूतिराह - कियद्गम्भीरा बतेयं भगवन् प्रज्ञापारमिता दुरधिमोचतया? भगवानाह - रूपं सुभूते अबद्धममुक्तम् । तत्कस्य हेतोः? रूपास्वभावत्वात्सुभूते रूपमबद्धममुक्तम् । एवं वेदना संज्ञा संस्काराः । विज्ञानं सुभूते अबद्धममुक्तम् । तत्कस्य हेतोः? विज्ञानास्वभावत्वात्सुभूते विज्ञानमबद्धममुक्तम् । रूपस्य सुभूते पूर्वान्तोऽबद्धोऽमुक्तः । तत्कस्य हेतोः? पूर्वान्तास्वभावं हि सुभूते रूपम् । रूपस्य सुभूते अपरान्तोऽबद्धोऽमुक्तः । तत्कस्य हेतोः? अपरान्तास्वभावं हि सुभूते रूपम् । प्रत्युत्पन्नं सुभूते रूपमबद्धमुक्तम् । तत्कस्य हेतोः? प्रत्युत्पन्नास्वभावं हि सुभूते प्रत्युत्पन्नं रूपम् । एवं वेदना संज्ञां संस्काराः । विज्ञानस्य सुभूते पूर्वान्तोऽबद्धोऽमुक्तः । तत्कस्य हेतोः? पूर्वान्तास्वभावं हि सुभूते विज्ञानम् । विज्ञानस्य सुभूते अपरान्तोऽबद्धोऽमुक्तः । तत्कस्य हेतोः? अपरान्तास्वभावं हि सुभूते विज्ञानम् । प्रत्युत्पन्नं सुभूते विज्ञानमबद्धममुक्तम् । तत्कस्य हेतोः? प्रत्युत्पन्नास्वभावं हि सुभूते प्रत्युत्पन्नं विज्ञानम् ॥ सुभूतिराह - दुरधिमोचा भगवन् प्रज्ञापारमिता, परमदुरधिमोचा भगवन् प्रज्ञापारमिता अनभियुक्तेन अनवरोपितकुशलमूलेन पापमित्रहस्तगतेन मारवशगतेन कुसीदेन हीनवीर्येण मुषितस्मृतिना दुष्प्रज्ञेन । भगवानाह - एवमेतत्सुभूते, एवमेतत् । दुरधिमोचा सुभूते प्रज्ञापारमिता, परमदुरधिमोचा सुभूते प्रज्ञापारमिता अनभियुक्तेन अनवरोपितकुशलमूलेन पापमित्रहस्तगतेन मारवशगतेन कुसीदेन हीनवीर्येण मुषितस्मृतिना दुष्प्रज्ञेन । तत्कस्य हेतोः? या सुभूते रूपविशुद्धिः, सा फलविशुद्धिः, या फलविशुद्धिः, सा रूपविशुद्धिः । इति हि सुभूते रूपविशुद्धिश्च फलविशुद्धिश्च अद्वयमेतदद्वैधीकारमभिन्नमच्छिन्नम् । इति हि सुभूते फलविशुद्धितो रूपविशुद्धी रुपविशुद्धितः फलविशुद्धिः । एवं वेदनासंज्ञासंस्काराः । या सुभूते विज्ञानविशुद्धिः, सा फलविशुद्धिः, या फलविशुद्धिः सा विज्ञानविशुद्धिः । इति हि सुभूते विज्ञानविशुद्धिश्च फलविशुद्धिश्च अद्वयमेतदद्वैधीकारमभिन्नमच्छिन्नम् । इति हि सुभूते फलविशुद्धितो विज्ञानविशुद्धिर्विज्ञानविशुद्धितः फलविशुद्धिः । पुनरपरं सुभूते या रूपविशुद्धिः सा सर्वज्ञताविशुद्धिः, या सर्वज्ञताविशुद्धिः सा रूपविशुद्धिः । इति हि सुभूते रूपविशुद्धिश्च सर्वज्ञताविशुद्धिश्च अद्वयमेतदद्वैधीकारमभिन्नमच्छिन्नम् । इति हि सुभूते सर्वज्ञताविशुद्धितो रूपविशुद्धिः, रूपविशुद्धितः सर्वज्ञताविशुद्धिः । एवं वेदनासंज्ञासंस्काराः । या सुभूते विज्ञानविशुद्धिः सा सर्वज्ञताविशुद्धिः । या सर्वज्ञताविशुद्धिः (वैद्य ९४) सा विज्ञानविशुद्धिः । इति हि सुभूते विज्ञानविशुद्धिश्च सर्वज्ञताविशुद्धिश्च अद्वयमेतदद्वैधीकारमभिन्नमच्छिन्नम् । इति हि सुभूते सर्वज्ञताविशुद्धितो विज्ञानविशुद्धिः, विज्ञानविशुद्धितः सर्वज्ञताविशुद्धिः ॥ अथ खल्वायुष्मान् शारिपुत्रो भगवन्तमेतदवोचत्- गम्भीरा भगवन् प्रज्ञापारमिता । भगवानाह - विशुद्धत्वाच्छारिपुत्र । आह - अवभासकरी भगवन् प्रज्ञापारमिता । भगवानाहविशुद्धत्वाच्छारिपुत्र । आह - आलोको भगवन् प्रज्ञापारमिता । भगवानाह - विशुद्धत्वाच्छारिपुत्र । आह - अप्रतिसंधिर्भगवन् प्रज्ञापारमिता । भगवानाह - विशुद्धत्वाच्छारिपुत्र । आह - असंक्लेशो भगवन् प्रज्ञापारमिता । भगवानाह - विशुद्धत्वाच्छारिपुत्र । आह - अप्राप्तिरनभिसमयो भगवन् प्रज्ञापारमिता । भगवानाह - विशुद्धत्वाच्छारिपुत्र । आह - अनभिनिर्वृत्तिर्भगवन् प्रज्ञापारमिता । भगवानाह - विशुद्धत्वाच्छारिपुत्र । आह - अत्यन्तानुपपत्तिर्भगवन् प्रज्ञापारमिता कामधातुरूपधात्वारूप्यधातुषु । भगवानाह - विशुद्धत्वाच्छारिपुत्र । आह - न जानाति न संजानीते भगवन् प्रज्ञापारमिता । भगवानाह - विशुद्धत्वाच्छारिपुत्र । आह - किं भगवन् प्रज्ञापारमिता न जानाति न संजानीते? भगवानाह - रूपं शारिपुत्र प्रज्ञापारमिता न जानाति न संजानीते । तत्कस्य हेतोः? विशुद्धत्वाच्छारिपुत्र । एवं वेदनासंज्ञासंस्काराः । विज्ञानं शारिपुत्र प्रज्ञापारमिता न जानाति न संजानीते । तत्कस्य हेतोः? विशुद्धत्वाच्छारिपुत्र । आह - प्रज्ञापारमिता भगवन् सर्वज्ञताया नापकारं करोति, नोपकारं करोति? भगवानाह - विशुद्धत्वाच्छारिपुत्र । आह - प्रज्ञापारमिता भगवन्न कंचिद्धर्मं परिगृह्णाति, न परित्यजति? भगवानाह - विशुद्धत्वाच्छारिपुत्र । अथ खल्वायुष्मान् सुभूतिर्भगवन्तमेतदवोचत्- आत्मविशुद्धितो भगवन् रूपविशुद्धिः? भगवानाह - अत्यन्तविशुद्धत्वात्सुभूते । आह - आत्मविशुद्धितो भगवन् वेदनासंज्ञासंस्कारविशुद्धिः । आत्मविशुद्धितो भगवन् विज्ञानविशुद्धिः? भगवानाह - अत्यन्तविशुद्धत्वात्सुभूते । आह - आत्मविशुद्धितो भगवन् फलविशुद्धिः? भगवानाह - अत्यन्तविशुद्धत्वात्सुभूते । आह - आत्मविशुद्धितोभगवन् सर्वज्ञताविशुद्धिः? भगवानाह - अत्यन्तविशुद्धत्वात्सुभूते । आह - आत्मविशुद्धितो भगवन्न प्राप्तिर्नाभिसमय? भगवानाह - अत्यन्तविशुद्धत्वात्सुभूते । आह - आत्मापर्यन्ततया भगवन् रूपापर्यतन्ता? भगवानाह - अत्यन्तविशुद्धत्वात्सुभूते । आह - आत्मापर्यन्ततया भगवन् वेदनासंज्ञासंस्कारविज्ञानापर्यन्तता? भगवानाह - अत्यन्तविशुद्धत्वात्सुभूते । आह - य एवमस्य बोधिसत्त्वस्य महासत्त्वस्य भगवनवबोधः, इयमस्य प्रज्ञापारमिता? भगवानाह - अत्यन्तविशुद्धत्वात्सुभूते । आयुष्मान् सुभूतिराह - सा खलु पुनरियं भगवन् प्रज्ञापारमिता नापरे तीरे, न परे तीरे, नाप्युभयमन्तरेण विप्रकृता स्थिता । भगवानाह - अत्यन्तविशुद्धत्वात्सुभूते ॥ आयुष्मान् सुभूतिराह - एवमपि भगवन् संज्ञास्यते बोधिसत्त्वो महासत्त्वो रिञ्चिष्यतीमां प्रज्ञापारमितां दूरीकरिष्यतीमां प्रज्ञापारमिताम् । भगवानाह - साधु साधु सुभूते । एवमेतत्(वैद्य ९५) सुभूते, एवमेतत् । तत्कस्य हेतोः? नामतोऽपि हि सुभूतो सङ्गो निमित्ततोऽपि सङ्गः । एवमुक्ते आयुष्मान् सुभूतिर्भगवन्तमेतदवोचत्- आश्चर्यं भगवन् यावदियं प्रज्ञापारमिता स्वाख्याता सुनिर्दिष्टा सुपरिनिष्ठिता, यत्र हि नाम भगवता इमेऽपि सङ्गा आख्याताः । अथ खल्वायुष्मान् शारिपुत्र आयुष्मन्तं सुभूतिमेतदवोचत्- कतमे ते आयुष्मन् सुभूते सङ्गाः? सुभूतिराह - रूपमायुष्मन् शारिपुत्र शून्यमिति सङ्गः । एवं वेदनासंज्ञासंस्काराः । विज्ञानमायुष्मन् शारिपुत्र शून्यमिति सङ्गः । अतीतेषु धर्मेष्वतीता धर्मा इति संजानीते, सङ्गः । अनागतेषु धर्मेष्वनागता धर्मा इति संजानीते, सङ्गः । प्रत्युत्पन्नेषु धर्मेषु प्रत्युत्पन्ना धर्मा इति संजानीते, सङ्गः । इयन्तं पुण्यस्कन्धं प्रसूयते बोधिसत्त्वयानिकः पुद्गलः प्रथमेन चित्तोत्पादेनेति संजानीते, सङ्गः ॥ अथ खलु शक्रो देवानामिन्द्र आयुष्मन्तं सुभूतिमेतदवोचत्- कतमेन आर्य सुभूते पर्यायेण सङ्गः? सुभूतिराह - सचेत्कौशिक तद्बोधिचित्तं संजानीते - इदं तत्प्रथमं बोधिचित्तमिति, अनुत्तरायां सम्यक्संबोधौ परिणामयामीति परिणामयति । न च चित्तप्रकृतिः शक्या परिणामयितुं तेन कुलपुत्रेण वा कुलदुहित्रा वा महायानसंप्रस्थितेन । तस्मात्तर्हि कौशिक परं संदर्शयता समादापयता समुत्तेजयता संप्रहर्षयता अनुत्तरायां सम्यक्संबोधौ भूतानुगमेन संदर्शयितव्यं समादापयितव्यं समुत्तेजयितव्यं संप्रहर्षयितव्यम् । एवमात्मानं च न क्षिणोति, बुद्धानुज्ञातया च समादापनया परं समादापयति स कुलपुत्रो वा कुलदुहिता वा । इमाश्चास्य सर्वाः सङ्गकोट्यो विवर्जिता भवन्ति ॥ अथ खलु भगवानायुष्मते सुभूतये साधुकारमदात्- साधु साधु सुभूते, यस्त्वं बोधिसत्त्वान्महासत्त्वानिमाः सङ्गकोटीर्बोधयसि । तेन हि सुभूते अन्यानपि सूक्ष्मतरान् सङ्गानाख्यास्यामि, तान् शृणु, साधु च सुष्ठु च मनसि कुरु । भाषिष्येऽहं ते । साधु भगवनित्यायुष्मान् सुभूतिर्भगवतः प्रत्यश्रौषीत् ॥ भगवानेतदवोचत्- इह सुभूते श्राद्धः कुलपुत्रो वा कुलदुहिता वा तथागतमर्हन्तं सम्यक्संबुद्धं निमित्ततो मनसि करोति । यावन्ति खलु पुनः सुभूते निमित्तानि, तावन्तः सङ्गाः । तत्कस्य हेतोः? निमित्ततो हि सुभूते सङ्गः । इति हि सोऽतीतानागतप्रत्युत्पन्नानां बुद्धानां भगवतां ये अनास्रवा धर्मास्ताननुमोदे इत्यनुमोद्य अनुमोदनासहगतं कुशलमूलमनुत्तरायां सम्यक्संबोधौ परिणामयामीति परिणामयति । या खलु पुनः सुभूते धर्माणां धर्मता, न सा अतीता वा अनागता वा प्रत्युत्पन्ना वा । या नातीता नानागता न प्रत्युत्पन्ना, सा त्र्यध्वनिर्मुक्ता । या त्र्यध्वनिर्मुक्ता, न सा शक्या परिणामयितुं न निमित्तीकर्तुं नारम्बणीकर्तुम् । नापि सा दृष्टश्रुतमतविज्ञाता ॥ सुभूतिराह - गम्भीरा भगवन् प्रकृतिर्धर्माणाम् । भगवानाह - विविक्तत्वात्सुभूते । आह - प्रकृतिगम्भीरा भगवन् प्रज्ञापारमिता । भगवानाह - प्रकृतिविशुद्धत्वात्सुभूते । प्रकृतिविविक्तत्वात्प्रकृतिगम्भीरा (वैद्य ९६) प्रज्ञापारमिता । सुभूतिराह - प्रकृतिविविक्ता भगवन् प्रज्ञापारमिता । नमस्करोमि भगवन् प्रज्ञापारमितायै ॥ भगवानाह - सर्वधर्मा अपि सुभूते प्रकृतिविविक्ताः । या च सुभूते सर्वधर्माणां प्रकृतिविविक्तता, सा प्रज्ञापारमिता । तत्कस्य हेतोः? तथा हि सुभूते अकृताः सर्वधर्मास्तथागतेनार्हता सम्यक्संबुद्धेनाभिसंबुद्धाः । सुभूतिराह - तस्मात्तर्हि भगवन् सर्वधर्मा अनभिसंबुद्धास्तथागतेनार्हता सम्यक्संबुद्धेन? भगवानाह - तथाहि सुभूते प्रकृत्यैव न ते धर्माः किंचित् । या च प्रकृतिः, सा अप्रकृतिः, या च प्रकृतिः, सा प्रकृतिः सर्वधर्माणामेकलक्षणत्वाद्यदुत अलक्षणत्वात् । तस्मात्तर्हि सुभूते सर्वधर्मा अनभिसंबुद्धास्तथागतेनार्हता सम्यक्संबुद्धेन । तत्कस्य हेतोः? न हि सुभूते द्वे धर्मप्रकृती । एकैव हि सुभूते सर्वधर्माणां प्रकृतिः । या च सुभूते सर्वधर्माणां प्रकृतिः, सा अप्रकृतिः, या च अप्रकृतिः, सा प्रकृतिः । एवमेताः सुभूते सर्वाः सङ्गकोट्यो विवर्जिता भवन्ति ॥ सुभूतिराह - गम्भीरा भगवन् प्रज्ञापारमिता । भगवानाह - आकाशगम्भीरतया सुभूते गम्भीरा प्रज्ञापारमिता । सुभूतिराह - दुरनुबोधा भगवन् प्रज्ञापारमिता । भगवानाह - तथा हि सुभूते न कश्चिदभिसंबुध्यते । आह - अचिन्त्या भगवन् प्रज्ञापारमिता । भगवानाह - तथा हि सुभूते प्रज्ञापारमिता न चित्तेन ज्ञातव्या न चित्तगमनीया । आह - अकृता भगवन् प्रज्ञापारमिता । भगवानाह - कारकानुपलब्धितः सुभूते अकृता प्रज्ञापारमिता ॥ आह - तेन हि भगवन् बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां कथं चरितव्यम्? भगवानाह - सचेत्सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न रूपे चरति, चरति प्रज्ञापारमितायाम् । एवं सचेन्न वेदनायां न संज्ञायां न संस्कारेषु । सचेन्न विज्ञाने चरति, चरति प्रज्ञापारमितायाम् । सचेद्रूपमनित्यमिति न चरति, चरति प्रज्ञापारमितायाम् । एवं वेदनासंज्ञासंस्काराः । सचेद्विज्ञानमनित्यमिति न चरति, चरति प्रज्ञापारमितायाम् । सचेद्रूपं शून्यमिति न चरति, चरति प्रज्ञापारमितायाम् । एवं वेदनासंज्ञासंस्काराः । सचेद्विज्ञानं शून्यमिति न चरति, चरति प्रज्ञापारमितायाम् । सचेद्रूपमप्रतिपूर्णं प्रतिपूर्णमिति न चरति, चरति प्रज्ञापारमितायाम् । या च रूपस्याप्रतिपूर्णता प्रतिपूर्णता वा, न तद्रूपम् । एवं वेदनासंज्ञासंस्काराः । सचेद्विज्ञानमप्रतिपूर्णं प्रतिपूर्णमिति न चरति, चरति प्रज्ञापारमितायाम् । या च विज्ञानस्याप्रतिपूर्णता प्रतिपूर्णता वा, न तद्विज्ञानम् । सचेदेवमपि न चरति, चरति प्रज्ञापारमितायाम् ॥ एवमुक्ते आयुष्मान् सुभूतिर्भगवन्तमेतदवोचत्- आश्चर्यं भगवन् यावद्यदेवं बोधिसत्त्वानां महासत्त्वानां ससङ्गता च असङ्गता च ख्याताः । भगवानाह - रूपं ससङ्गमसङ्गमिति सुभूते न चरति, चरति प्रज्ञापारमितायाम् । एवं वेदनासंज्ञासंस्काराः । विज्ञानं ससङ्गमसङ्गमिति सुभूते न चरति, चरति प्रज्ञापारमितायाम् । चक्षुः ससङ्गमसङ्गमिति न चरति, (वैद्य ९७) चरति प्रज्ञापारमितायाम् । एवं यावन्मनःसंस्पर्शजा वेदना ससङ्गासङ्गेति न चरति, चरति प्रज्ञापारमितायाम् । पृथिवीधातुः ससङ्गोऽसङ्ग इति न चरति, चरति प्रज्ञापारमितायाम् । यावद्विज्ञानधातुः ससङ्गोऽसङ्ग इति न चरति, चरति प्रज्ञापारमितायाम् । दानपारमिता ससङ्गासङ्गेति न चरति, चरति प्रज्ञापारमितायाम् । एवं शीलपारमिता क्षान्तिपारमिता वीर्यपारमिता ध्यानपारमिता । प्रज्ञापारमिता ससङ्गासङ्गेति न चरति, चरति प्रज्ञापारमितायाम् । एवं सप्तत्रिंशद्बोधिपक्षा धर्मा बलानि वैशारद्यानि प्रतिसंविदो अष्टादशावेणिका बुद्धधर्माः ससङ्गासङ्गा इति न चरति, चरति प्रज्ञापारमितायाम् । स्रोतआपत्तिफलं ससङ्गमसङ्गमिति न चरति, चरति प्रज्ञापारमितायाम् । एवं सकृदागामिफलमनागामिफलमर्हत्त्वं ससङ्गमसङ्गमिति न चरति, चरति प्रज्ञापारमितायाम् । प्रत्येकबुद्धत्वं ससङ्गमसङ्गमिति न चरति, चरति प्रज्ञापारमितायाम् । बुद्धत्वं ससङ्गमसङ्गमिति न चरति, चरति प्रज्ञापारमितायाम् । सर्वज्ञतापि सुभूते ससङ्गासङ्गेति न चरति, चरति प्रज्ञापारमितायाम् । एवं चरन् सुभूते बोधिसत्त्वो महासत्त्वो न रूपे सङ्गं जनयति, न वेदनायां न संज्ञायां न संस्कारेषु । न विज्ञाने सङ्गं जनयति । न चक्षुषि सङ्गं जनयति । यावन्न मनःसंस्पर्शजायां वेदनायां सङ्गं जनयति । न पृथिवीधातौ सङ्गं जनयति, यावन्न विज्ञानधातौ सङ्गं जनयति, न दानपारमितायां सङ्गं जनयति, न शीलपारमितायां न क्षान्तिपारमितायां न वीर्यपारमितायां न ध्यानपारमितायां न प्रज्ञापारमितायां सङ्गं जनयति, न बोधिपक्षेषु धर्मेषु, न बलेषु, न वैशारद्येषु, न प्रतिसंवित्सु, नाष्टादशस्वावेणिकेषु बुद्धधर्मेषु सङ्गं जनयति, न स्रोतआपत्तिफले सङ्गं जनयति, न सकृदागामिफले न अनागामिफले न अर्हत्त्वे सङ्गं जनयति, न प्रत्येकबुद्धत्वे सङ्गं जनयति, न बुद्धत्वे सङ्गं जनयति, नापि सर्वज्ञतायां सङ्ग जनयति । तत्कस्य हेतोः? असक्ता अबद्धा अमुक्ता असमतिक्रान्ता हि सुभूते सर्वज्ञता । एवं हि सुभूते सर्वसङ्गसमतिक्रमाय बोधिसत्त्वैर्महासत्त्वैः प्रज्ञापारमितायां चरितव्यम् ॥ सुभूतिराह - आश्चर्यं भगवन्, यावद्गम्भीरोऽयं भगवन् धर्मः प्रज्ञापारमिता नाम । या देश्यमानापि न परिहीयते, अदेश्यमानापि न परिहीयते । देश्यमानापि न वर्धते । अदेश्यमानापि न वर्धते । एवमुक्ते भगवानायुष्मन्तं सुभूतिमेतदवोचत्- साधु साधु सुभूते । एवमेतत्सुभूते, एवमेतत् । तद्यथापि नाम सुभूते तथागतोऽर्हन् सम्यक्संबुद्धो यावज्जीवं तिष्ठन्नाकाशस्य वर्णं भाषेत, नाकाशस्य वृद्धिर्भवेत् । अभाष्यमाणेऽपि वर्णे नैवाकाशस्य परिहानिर्भवेत् । तद्यथापि नाम सुभूते मायापुरुषो भाष्यमाणेऽपि वर्णे नानुनीयते न संक्लिश्यते, अभाष्यमाणेऽपि वर्णे न प्रतिहन्यते, न संक्लिश्यते । एवमेव सुभूते या धर्माणां धर्मता, सा देश्यमानापि तावत्येव, अदेश्यमानापि तावत्येव ॥ स्थविरः सुभूतिराह - दुष्करकारको भगवन् बोधिसत्त्वो महासत्त्वो यो गम्भीरायां प्रज्ञापारमितायां चरन् प्रज्ञापारमितां भावयन्न संसीदति नोत्प्लवते । अत्र च नाम योगमापद्यते, न च प्रत्युदावर्तते । आकाशभावनैषा भगवन् यदुत प्रज्ञापारमिताभावना । (वैद्य ९८) नमस्कर्तव्यास्ते भगवन् बोधिसत्त्वा महासत्त्वाः, यैरयं संनाहः संनद्धः । तत्कस्य हेतोः? आकाशेन सार्धं स भगवन् संनद्धुकामो यः सत्त्वानां कृतशः संनाहं बध्नाति । महासंनाहसंनद्धो भगवन् बोधिसत्त्वो महासत्त्वः । शूरो भगवन् बोधिसत्त्वो महासत्त्वो य आकाशसमानां सत्त्वानां धर्मधातुसमानां सत्त्वानां कृतशः संनाहं संनद्धुकामोऽनुत्तरां सम्यक्संबोधिमभिसंबोद्धुकामः । आकाशं स भगवन् परिमोचयितुकामः । आकाशं स भगवनुत्क्षेप्तुकामः । महावीर्यपारमितासंनाहप्राप्तः स भगवन् बोधिसत्त्वो महासत्त्वो य आकाशसमानां धर्मधातुसमानां सत्त्वानां कृतशः संनाहं संनह्यते ॥ अथ खल्वन्यतमो भिक्षुर्येन भगवांस्तेनाञ्जलिं प्रणम्य भगवन्तमेतदवोचत्- नमस्करोमि भगवन् प्रज्ञापारमितायै । तथा हि भगवन् प्रज्ञापारमिता न कंचिद्धर्ममुत्पादयति, न कंचिद्धर्मं निरोधयति ॥ अथ खलु शक्रो देवानामिन्द्र आयुष्मन्तं सुभूतिमेतदवोचत्- य आर्य सुभूते अत्र प्रज्ञापारमितायामेव योगमापत्स्यते, क्व स योगमापत्स्यते? सुभूतिराह - आकाशे स कौशिक योगमापत्स्यते, यः प्रज्ञापारमितायां योगमापत्स्यते । अभ्यवकाशे स कौशिक योगमापत्स्यते, यः प्रज्ञापारमितायां शिक्षितव्यं योगमापत्तव्यं मंस्यते ॥ अथ खलु शक्रो देवानामिन्द्रो भगवन्तमेतदवोचत्- आज्ञापयतु भगवान् । तस्य कुलपुत्रस्य वा कुलदुहितुर्वा रक्षावरणगुप्तिं करोमि य इमां प्रज्ञापारमितां धारयति । अथ खल्वायुष्मान् सुभूतिः शक्रं देवानामिन्द्रमेतदवोचत्- समनुपश्यसि त्वं कौशिक तं धर्मं यस्य धर्मस्य रक्षावरणगुप्तिं करिष्यसि? शक्र आह - नो हीदमार्य सुभूते । सुभूतिराह - एवं कौशिक सचेद्बोधिसत्त्वो महासत्त्वो यथानिर्दिष्टायां प्रज्ञापारमितायां स्थास्यति, सैव तस्य रक्षावरणगुप्तिर्भविष्यति । अथ विरहितो भविष्यति प्रज्ञापारमितया, लप्स्यन्तेऽस्य अवतारप्रेक्षिणोऽवतारगवेषिणो मनुष्याश्च अमनुष्याश्च अवतारम् । अपि च कौशिक आकाशस्य स रक्षावरणगुप्तिं संविधातव्यां मन्येत, यो बोधिसत्त्वस्य महासत्त्वस्य रक्षावरणगुप्तिं संविधातव्यां मन्येत प्रज्ञापारमितायां चरतः । तत्किं मन्यसे कौशिक प्रतिबलस्त्वं प्रतिश्रुत्काया रक्षावरणगुप्ति संविधातुम्? शक्र आह - न ह्येतदार्य सुभूते । सुभूतिराह - एवमेव कौशिक बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् विहरन् प्रतिश्रुत्कोपमाः सर्वधर्मा इति परिजानाति । स च तान्न मन्यते, न समनुपश्यति, न जानाति न संजानीते । ते च धर्मा न विद्यन्ते न संदृश्यन्ते न संविद्यन्ते नोपलभ्यन्ते इति विहरति । सचेदेवं विहरति, चरति प्रज्ञापारमितायाम् ॥ अथ खलु बुद्धानुभावेन ये त्रिसाहस्रमहासाहस्रे लोकधातौ चत्वारो महाराजानः, सर्वे च शक्रा देवेन्द्राः, सर्वे च महाब्रह्माणः, सहापतिश्च महाब्रह्मा, ते सर्वे येन भगवांस्तेनोपसंक्रान्ताः । (वैद्य ९९) उपसंक्रम्य भगवतः पादौ शिरसाभिवन्द्य भगवन्तं त्रिः प्रदक्षिणीकृत्य एकान्तेऽतिष्ठन् । एकान्ते स्थिताश्च ते महाराजानः, सर्वे च शक्रा देवेन्द्राः, सर्वे च ब्रह्मकायिका देवा महाब्रह्माणश्च, सहापतिश्च महाब्रह्मा बुद्धानुभावेन बुद्धाधिष्ठानेन बुद्धसहस्रं समान्वाहरन्ति स्म । एभिरेव नामभिरेभिरेव पदैरेभिरेवाक्षरैः सुभूतिनामधेयैरेव भिक्षुभिरियमेव प्रज्ञापारमितोपदिष्टा, अयमेव प्रज्ञापारमितापरिवर्तः । तत्रापि शक्रा एव देवेन्द्राः परिपृच्छन्ति स्म, परिप्रश्नयन्ति स्म - अस्मिन्नेव पृथिवीप्रदेशे इयमेव प्रज्ञापारमिता भाषिता । मैत्रेयोऽपि बोधिसत्त्वो महासत्त्वोऽनुत्तरां सम्यक्संबोधिमभिसंबुध्य अस्मिन्नेव पृथिवीप्रदेशे एनामेव प्रज्ञापारमितां भाषिष्यते इति ॥ आर्याष्टसाहस्रिकायां प्रज्ञापारमितायां विशुद्धिपरिवर्तो नामाष्टमः ॥ _______________________________________________________________ (वैद्य १००) ९: स्तुतिपरिवर्तो नवमः । अथ खल्वायुष्मान् सुभूतिर्भगवन्तमेतदवोचत्- प्रज्ञापारमितेति भगवन्नामधेयमात्रमेतत् । तच्च नाम इदमिति नोपलभ्यते । वाग्वस्त्वेव नामेत्युच्यते । सापि प्रज्ञापारमिता न विद्यते नोपलभ्यते । यथैव नाम, तथैव प्रज्ञापारमिता । यथा प्रज्ञापारमिता तथा नाम । धर्मद्वयमेतन्न विद्यते नोपलभ्यते । किं कारणं भगवन्मैत्रेयो बोधिसत्त्वो महासत्त्वोऽनुत्तरां सम्यक्संबोधिमभिसंबुध्य एभिरेव नामभिः एभिरेव पदैः एभिरेवाक्षरैः अस्मिन्नेव पृथिवीप्रदेशे प्रज्ञापारमितां भाषिष्यते? एवमुक्ते भगवानायुष्मन्तं सुभूतिमेतदवोचत्- तथा हि सुभूते मैत्रेयो बोधिसत्त्वो महासत्त्वो न रूपं नित्यं नानित्यं न रूपं बद्धं न मुक्तम्, अत्यन्तविशुद्धमित्यभिसंभोत्स्यते । एवं ना वेदनां न संज्ञां न संस्कारान् । न विज्ञानं नित्यं नानित्यम्, न विज्ञानं बद्धं न मुक्तम्, अत्यन्तविशुद्धमित्यभिसंभोत्स्यते । अनेन सुभूते कारणेन मैत्रेयो बोधिसत्त्वो महासत्त्वः अनुत्तरां सम्यक्संबोधिमभिसंबुध्य एभिरेव नामभिरेभिरेव पदव्यञ्जनैरस्मिन्नेव पृथिवीप्रदेशे इमामेव प्रज्ञापारमितां भाषिष्यते ॥ एवमुक्ते आयुष्मान् सुभूतिर्भगवन्तमेतदवोचत्- परिशुद्धा बतेयं भगवन् प्रज्ञापारमिता? भगवानाह - रूपविशुद्धितः सुभूते परिशुद्धा प्रज्ञापारमिता । एवं वेदनासंज्ञासंस्काराः । विज्ञानविशुद्धितः सुभूते परिशुद्धा प्रज्ञापारमिता । रूपानुत्पादानिरोधासंक्लेशाव्यवदानविशुद्धितः सुभूते परिशुद्धा प्रज्ञापारमिता । एवं वेदनासंज्ञासंस्काराः । विज्ञानानुत्पादानिरोधासंक्लेशाव्यवदानविशुद्धितः सुभूते परिशुद्धा प्रज्ञापारमिता । आकाशविशुद्धितः सुभूते परिशुद्धा प्रज्ञापारमिता । रूपनिरुपलेपापरिग्रहतया सुभूते परिशुद्धा प्रज्ञापारमिता । एवं वेदनासंज्ञासंस्काराः । विज्ञाननिरुपलेपापरिग्रहतया सुभूते परिशुद्धा प्रज्ञापारमिता । आकाशप्रतिश्रुत्कावचनीयप्रव्याहारनिरुपलेपतया सुभूते परिशुद्धा प्रज्ञापारमिता । सर्वोपलेपानुलेपधर्मानुपलेपतया सुभूते परिशुद्धा प्रज्ञापारमिता ॥ एवमुक्ते आयुष्मान् सुभूतिर्भगवन्तमेतदवोचत्- सुलब्धा बत लाभास्तेषां भगवन् कुलपुत्राणां कुलदुहितॄणां च, येषामियं प्रज्ञापारमिता श्रोत्रावभासमप्यागमिष्यति, प्रागेव य उद्ग्रहीष्यन्ति धारयिष्यन्ति वाचयिष्यन्ति पर्यवाप्स्यन्ति प्रवर्तयिष्यन्ति देशयिष्यन्त्युपदेक्ष्यन्त्युद्देक्ष्यन्ति स्वाध्यास्यन्ति । न तेषां चक्षूरोगो भविष्यति, न श्रोत्ररोगो न घ्राणरोगो न जिह्वारोगो न कायरोगो भविष्यति । न धन्धायितता भविष्यति, न ते विषमापरिहारेण कालं करिष्यन्ति । बहूनि चैषां देवतासहस्राणि पृष्ठतः पृष्ठतोऽनुबद्धानि भविष्यन्ति । अष्टमीं चतुर्दशीं पञ्चदशीं च स धर्मभाणकः कुलपुत्रो वा कुलदुहिता वा यत्र यत्र प्रज्ञापारमितां भाषिष्यते, तत्र तत्र बहुतरं पुण्यं प्रसविष्यति । एवमुक्ते भगवानायुष्मन्तं सुभूतिमेतदवोचत्- एवमेतत्सुभूते, एवमेतत् । बहूनि सुभूते तस्य कुलपुत्रस्य वा कुलदुहितुर्वा देवतासहस्राणि (वैद्य १०१) पृष्ठतः पृष्ठतोऽनुबद्धानि भविष्यन्ति । बहूनि च देवतासहस्राणि तत्रागमिष्यन्ति सर्वाणि धर्मश्रवणार्थिकानि । तानि च रक्षावरणगुप्तिं संविधास्यन्ति तस्य धर्मभाणकस्य इमां प्रज्ञापारमितां भाषमाणस्य । तत्कस्य हेतोः? सदेवमानुषासुरस्य हि सुभूते लोकस्य प्रज्ञापारमिता अनुत्तरं रत्नम् । अतोऽपि सुभूते कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहुतरं पुण्यं प्रसविष्यति । अपि तु खलु पुनः सुभूते बहवोऽन्तराया भविष्यन्ति अस्या गम्भीरायाः प्रज्ञापारमिताया लिख्यमानाया उद्गृह्यमाणाया धार्यमाणाया वाच्यमानायाः पर्यवाप्यमानायाः प्रवर्त्यमानाया उपदिश्यमानाया उद्दिश्यमानायाः स्वाध्याय्यमानायाः । तत्कस्य हेतोः? तथा हि सुभूते बहुप्रत्यर्थिकानि महारत्नानि भवन्ति । यथासारं च गुरुतरप्रत्यर्थिकानि भवन्ति । अनुत्तरं चेदं सुभूते महारत्नं लोकस्य यदुत प्रज्ञापारमिता । हिताय सुखाय प्रतिपन्ना लोकस्य । सर्वधर्माणामनुत्पादायानिरोधायासंक्लेशायाविनाशयोगेन प्रत्युपस्थिता । न च सुभूते प्रज्ञापारमिता कंचिद्धर्ममालीयते, न कंचिद्धर्मं संक्लिश्यते, न कंचिद्धर्मं परिगृह्णाति । तत्कस्य हेतोः? तथा हि सुभूते सर्वे ते धर्मा न संविद्यन्ते नोपलभ्यन्ते । अनुपलब्धितः सुभूते अनुपलिप्ता प्रज्ञापारमिता । अनुपलिप्तेति सुभूते इयं प्रज्ञापारमिता । तथा हि सुभूते रूपनिरुपलेपतया अनुपलिप्तेयं प्रज्ञापारमिता । एवं वेदनासंज्ञासंस्काराः । विज्ञाननिरुपलेपतया सुभूते अनुपलिप्तेयं प्रज्ञापारमिता । सचेदेवमपि सुभूते बोधिसत्त्वो महासत्त्वो न संजानीते, चरति प्रज्ञापारमितायाम् । सा खलु पुनरियं सुभूते प्रज्ञापारमिता न कस्यचिद्धर्मस्यावेशिका वा निवेशिका वा संदर्शिका वा निदर्शिका वा आवाहिका वा निर्वाहिका वा ॥ अथ खलु संबहुलानि देवपुत्रसहस्राणि अन्तरीक्षे किलकिलाप्रक्ष्वेडितेन चैलविक्षेपानकार्षुः, द्वितीयं बतेदं धर्मचक्रप्रवर्तनं जम्बूद्वीपे पश्याम इति चावोचन् । अथ खलु भगवानायुष्मन्तं सुभूतिं स्थविरमेतदवोचत्- नेदं सुभूते द्वितीयं धर्मचक्रप्रवर्तनं नापि कस्यचिद्धर्मस्य प्रवर्तनं वा निवर्तनं वा । एवमियं सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमिता ॥ एवमुक्ते आयुष्मान् सुभूतिर्भगवन्तमेतदवोचत्- महापारमितेयं भगवंस्तस्य बोधिसत्त्वस्य महासत्त्वस्य, यस्यासङ्गता सर्वधर्मेषु, योऽसावनुत्तरां सम्यक्संबोधिमभिसंबोद्धुकामो न च कंचिद्धर्ममभिसंबुध्यते, धर्मचक्रं च प्रवर्तयिष्यति, न च कंचिद्धर्मं संदर्शयिष्यति । तत्कस्य हेतोः? न हि कश्चिद्धर्मो य उपलभ्यते, यो वा धर्मः सूच्यते । नापि कश्चिद्धर्मं प्रवर्तयिष्यति । तत्कस्य हेतोः? अत्यन्तानभिनिर्वृत्ता हि भगवन् सर्वधर्माः । नापि कंचिद्धर्मं निवर्तयिष्यति । तत्कस्य हेतोः? आद्यनभिनिर्वृत्ता हि भगवन् सर्वधर्माः, प्रकृतिविविक्तत्वात्सर्वधर्माणाम् ॥ एवमुक्ते भगवानायुष्मन्तं सुभूतिमेतदवोचत्- एवमेतत्सुभूते, एवमेतत् । न हि सुभूते शून्यता प्रवर्तते वा निवर्तते वा । नापि सुभूते आनिमित्तं प्रवर्तते वा निवर्तते वा । नापि सुभूते अप्रणिहितं प्रवर्तते वा निवर्तते वा । या सुभूते एवं देशना, इयं सा सर्वधर्माणां देशना । (वैद्य १०२) नैव च केनचिद्देशिता, नापि केनचिच्छ्रुता, नापि केनचित्प्रतीच्छिता, नापि केनचित्साक्षात्कृता, नापि केनचित्साक्षात्क्रियते, नापि केनचित्साक्षात्करिष्यते । नाप्यनया धर्मदेशनया कश्चित्परिनिर्वृतो नापि परिनिर्वास्यति नापि परिनिर्वाति । नाप्यनया धर्मदेशनया कश्चिद्दक्षिणीयः कृतः ॥ एवमुक्ते आयुष्मान् सुभूतिर्भगवन्तमेतदवोचत्- असत्पारमितेयं भगवनाकाशसत्तामुपादाय । असमसमतापारमितेयं भगवन् सर्वधर्मानुपलब्धितामुपादाय । विविक्तपारमितेयं भगवनत्यन्तशून्यतामुपादाय । अनवमृद्यपारमितेयं भगवन् सर्वधर्मानुपलब्धितामुपादाय । अपदपारमितेयं भगवननामाशरीरतामुपादाय । अस्वभावपारमितेयं भगवननागतिमगतिमुपादाय । अवचनपारमितेयं भगवन् सर्वधर्माविकल्पतामुपादाय । अनामपारमितेयं भगवन् स्कन्धानुपलब्धितामुपादाय । अगमनपारमितेयं भगवन् सर्वधर्मागमनतामुपादाय । असंहार्यपारमितेयं भगवन् सर्वधर्माग्राह्यतामुपादाय । अक्षयपारमितेयं भगवनक्षयधर्मयोगतामुपादाय । अनुत्पत्तिपारमितेयं भगवन् सर्वधर्मानभिनिर्वृत्तितामुपादाय । अकारकपारमितेयं भगवन् कारकानुपलब्धितामुपादाय । अजानकपारमितेयं भगवन् सर्वधर्माणामनात्मतामुपादाय । असंक्रान्तिपारमितेयं भगवन् च्युत्युपपत्त्यनुपत्तितामुपादाय । अविनयपारमितेयं भगवन् पूर्वान्तापरान्तप्रत्युत्पन्नार्थानुपलब्धितामुपादाय । स्वप्नप्रतिश्रुत्काप्रतिभासमरीचिमायापारमितेयं भगवननुत्पादविज्ञापनतामुपादाय । असंक्लेशपारमितेयं भगवन् रागद्वेषमोहास्वभावतामुपादाय । अव्यवदानपारमितेयं भगवनाश्रयानुपलब्धितामुपादाय । अनुपलेपपारमितेयं भगवनाकाशानुपलेपतामुपादाय । अप्रपञ्चपारमितेयं भगवन् सर्वधर्ममननसमतिक्रमतामुपादाय । अमननपारमितेयं भगवननिञ्जनतामुपादाय । अचलितपारमितेयं भगवन् धर्मधातुस्थितितामुपादाय । विरागपारमितेयं भगवन् सर्वधर्मावितथतामुपादाय । असमुत्थानपारमितेयं भगवन् सर्वधर्मनिर्विकल्पतामुपादाय । शान्तपारमितेयं भगवन् सर्वधर्मनिमित्तानुपलब्धितामुपादाय । निर्दोषपारमितेयं भगवन् गुणपारमितामुपादाय । निःक्लेशपारमितेयं भगवन् परिकल्पासत्तामुपादाय । निःसत्त्वपारमितेयं भगवन् भूतकोटितामुपादाय । अप्रमाणपारमितेयं भगवन् सर्वधर्मसमुत्थानासमुत्थानतामुपादाय । अन्तद्वयाननुगमपारमितेयं भगवन् सर्वधर्मानभिनिवेशनतामुपादाय । असंभिन्नपारमितेयं भगवन् सर्वधर्मासंभेदनतामुपादाय । अपरामृष्टपारमितेयं भगवन् सर्वश्रावकप्रत्येकबुद्धभूम्यस्पृहणतामुपादाय । अविकल्पपारमितेयं भगवन् विकल्पसमतामुपादाय । अप्रमेयपारमितेयं भगवनप्रमाणधर्मतामुपादाय । असङ्गपारमितेयं भगवन् सर्वधर्मासङ्गतामुपादाय । अनित्यपारमितेयं भगवन् सर्वधर्मासंस्कृततामुपादाय । दुःखपारमितेयं भगवनाकाशसमधर्मतामुपादाय । शून्यपारमितेयं भगवन् सर्वधर्मानुपलब्धितामुपादाय । अनात्मपारमितेयं भगवन् सर्वधर्मानभिनिवेशनतामुपादाय । अलक्षणपारमितेयं भगवन् सर्वधर्मानभिनिर्वृत्तितामुपादाय (वैद्य १०३) । सर्वशून्यतापारमितेयं भगवननन्तापर्यन्ततामुपादाय । स्मृत्युपस्थानादिबोधिपक्षधर्मपारमितेयं भगवंस्तेषामनुपलब्धितामुपादाय । शून्यतानिमित्ताप्रणिहितपारमितेयं भगवन् त्रिविमोक्षमुखानुपलब्धितामुपादाय । अष्टविमोक्षपारमितेयं भगवंस्तेषामनुपलब्धितामुपादाय । नवानुपूर्वविहारपारमितेयं भगवन् प्रथमध्यानादीनामनुपलब्धितामुपादाय । चतुःसत्यपारमितेयं भगवन् दुःखादीनामनुपलब्धितामुपादाय । दशपारमितेयं भगवन् दानादीनामनुपलब्धितामुपादाय । बलपारमितेयं भगवननवमृद्यतामुपादाय । वैशारद्यपारमितेयं भगवनत्यन्तानवलीनतामुपादाय । प्रतिसंवित्पारमितेयं भगवन् सर्वज्ञतासङ्गाप्रतिघातितामुपादाय । सर्वबुद्धधर्मावेणिकपारमितेयं भगवन् गणनासमतिक्रमतामुपादाय । तथागततथतापारमितेयं भगवन् सर्वधर्मावितथतामुपादाय । स्वयंभूपारमितेयं भगवन् सर्वधर्मास्वभावतामुपादाय । सर्वज्ञज्ञानपारमितेयं भगवन् यदुत प्रज्ञापारमिता सर्वधर्मस्वभावसर्वाकारपरिज्ञानतामुपादायेति ॥ आर्याष्टसाहस्रिकायां प्रज्ञापारमितायां स्तुतिपरिवर्तो नाम नवमः ॥ _______________________________________________________________ (वैद्य १०४) १०: धारणगुणपरिकीर्तनपरिवर्तो दशमः । अथ खलु शक्रस्य देवानामिन्द्रस्यैतदभूत्- पूर्वजिनकृताधिकारास्ते कुलपुत्राः कुलदुहितरश्च भविष्यन्ति बहुबुद्धावरोपितकुशलमूलाः, कल्याणमित्रपरिगृहीताश्च भविष्यन्ति, येषामियं प्रज्ञापारमिता श्रोत्रावभासमप्यागमिष्यति । कः पुनर्वादो य एनामेवं गम्भीरां प्रज्ञापारमितामुद्ग्रहीष्यन्ति धारयिष्यन्ति वाचयिष्यन्ति पर्यवाप्स्यन्ति प्रवर्तयिष्यन्ति देशयिष्यन्त्युपदेक्ष्यन्त्युद्देक्ष्यन्ति स्वाध्यास्यन्ति । उद्गृह्य धारयित्वा वाचयित्वा पर्यवाप्य प्रवर्त्य देशयित्वोपदिश्योद्दिश्य स्वाध्याय्य तथत्वाय शिक्षिष्यन्ते, तथत्वाय प्रतिपत्स्यन्ते, तथत्वाय योगमापत्स्यन्ते । न ते अवरमात्रकेण कुशलमूलेन समन्वागता भविष्यन्ति । बहुबुद्धपर्युपासितास्ते कुलपुत्राः कुलदुहितरश्च भविष्यन्ति । परिपृष्टाः परिप्रश्नीकृताश्च ते बुद्धा भगवन्तो भविष्यन्ति कुलपुत्रैः कुलदुहितृभिश्चैनामेव प्रज्ञापारमिताम् । श्रुता चेयं पौर्वकाणामपि तथागतानामर्हतां सम्यक्संबुद्धानामन्तिकात्, य एनां प्रज्ञापारमितामेतर्ह्यपि श्रोष्यन्ति । श्रुत्वा चोद्ग्रहीष्यन्ति धारयिष्यन्ति वाचयिष्यन्ति पर्यवाप्स्यन्ति प्रवर्तयिष्यन्ति देशयिष्यन्त्युपदेक्ष्यन्त्युद्देक्ष्यन्ति स्वाध्यास्यन्ति, तथत्वाय शिक्षिष्यन्ते, तथत्वाय प्रतिपत्स्यन्ते, तथत्वाय योगमापत्स्यन्ते । बहुबुद्धावरोपितकुशलमूलास्ते कुलपुत्राः कुलदुहितरश्च वेदितव्याः, य एतस्यामेव गम्भीरायां प्रज्ञापारमितायां भाष्यमाणायां देश्यमानायामुपदिश्यमानायामुद्दिश्यमानायां स्वाध्याय्यमानायां नावलेष्यन्ते न संलेष्यन्ते, न विषत्स्यन्ति न विषादमापत्स्यन्ते, न विपृष्ठीकरिष्यन्ति मानसम्, न भग्नपृष्ठीकरिष्यन्ति, नोत्रसिष्यन्ति न संत्रसिष्यन्ति न संत्रासमापत्स्यन्ते ॥ अथ खल्वायुष्मान् शारिपुत्रः शक्रस्य देवानामिन्द्रस्य इममेवंरूपं चैतसैव चेतःपरिवितर्कमाज्ञाय भगवन्तमेतदवोचत्- यो भगवनिहैवं गम्भीरायां प्रज्ञापारमितायां भाष्यमाणायां देश्यमानायामुपदिश्यमानायां कुलपुत्रो वा कुलदुहिता वा अभिश्रद्दधदवकल्पयन्नधिमुच्य प्रसन्नचित्तो बोधाय चित्तमुत्पाद्य एनां प्रज्ञापारमितामुद्ग्रहीष्यति धारयिष्यति वाचयिष्यति पर्यवाप्स्यति प्रवर्तयिष्यति देशयिष्यत्युपदेक्षत्युद्देक्ष्यति स्वाध्यास्यति, तथत्वाय शिक्षिष्यते, तथत्वाय प्रतिपत्स्यते, तथत्वाय योगमापत्स्यते, यथाविनिवर्तनीयो बोधिसत्त्वो महासत्त्वस्तथा स धारयितव्यः । तत्कस्य हेतोः? गम्भीरा भगवनियं प्रज्ञापारमिता । न हि भगवन् परीत्तकुशलमूलेनापरिपृच्छकजातीयेन अश्रुत्वा बुद्धानां भगवतां संमुखीभावतः पूर्वमचरितवता इहैवेयमेवं गम्भीरा प्रज्ञापारमिता अधिमोक्तुं शक्या । ये पुनरनधिमुच्य एनामनवबुध्यमानाः प्रतिक्षेप्तव्यां मंस्यन्ते, पूर्वान्ततोऽपि भगवंस्तैः कुलपुत्रैः कुलदुहितृभिश्चेयं गम्भीरा प्रज्ञापारमिता भाष्यमाणा प्रतिक्षिप्ता । तत्कस्य हेतोः? यथापि नाम परीत्तत्वात्कुशलमूलानाम् । न हि भगवनचरितवद्भिः पूर्वान्तत इयं गम्भीरा प्रज्ञापारमिता शक्या अधिमोक्तुम् । येऽपि च प्रतिक्षेप्स्यन्ति एनां गम्भीरां प्रज्ञापारमितां भाष्यमाणाम्, तेऽप्येवं वेदितव्याः - पूर्वान्ततोऽप्येभिरियं गम्भीरा प्रज्ञापारमिता भाष्यमाणा प्रतिक्षिप्ता । तथा ह्येषामस्यां गम्भीरायां प्रज्ञापारमितायां भाष्यमाणायां नास्ति श्रद्धाः, नास्ति क्षान्तिर्नास्ति रुचिर्नास्ति च्छन्दो नास्ति वीर्यं (वैद्य १०५) नास्त्यप्रमादो नास्त्यधिमुक्तिः, न चैभिः पूर्वं बुद्धा भगवन्तो बुद्धश्रावका वा परिपृष्टाः, न च परिप्रश्नीकृता इति ॥ अथ खलु शक्रो देवानामिन्द्र आयुष्मन्तं शारिपुत्रमेतदवोचत्- गम्भीरा आर्य शारिपुत्र प्रज्ञापारमिता । किमत्राश्चर्यं स्याद्यदस्यां गम्भीरायां प्रज्ञापारमितायां भाष्यमाणायां पूर्वमचरितावी बोधिसत्त्वो महासत्त्वो नाधिमुच्येत? अथ खलु शक्रो देवानामिन्द्रो भगवन्तमेतदवोचत्- नमस्करोमि भगवन् प्रज्ञापारमितायै । सर्वज्ञज्ञानस्य स भगवन्नमस्कारं करोति, यः प्रज्ञापारमितायै नमस्कारं करोति । भगवानाह - एवमेव कौशिक, एवमेतत् । सर्वज्ञज्ञानस्य स कौशिक नमस्कारं करोति यः प्रज्ञापारमितायै नमस्कारं करोति । तत्कस्य हेतोः? अतोनिर्जाता हि कौशिक बुद्धानां भगवतां सर्वज्ञता । सर्वज्ञज्ञाननिर्जाता च पुनः प्रज्ञापारमिता प्रभाव्यते । एवमस्यां प्रज्ञापारमितायां चरितव्यम् । एवमस्यां प्रज्ञापारमितायां स्थातव्यम् । एवमस्यां प्रज्ञापारमितायां प्रतिपत्तव्यम् । एवमस्यां प्रज्ञापारमितायां योगमापत्तव्यम् ॥ अथ खलु शक्रो देवानामिन्द्रो भगवन्तमेतदवोचत्- कथं भगवन् प्रज्ञापारमितायां चरन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां स्थितो भवति? कथं प्रज्ञापारमितायां चरन् प्रज्ञापारमितायां योगमापद्यते? एवमुक्ते भगवान् शक्रं देवानामिन्द्रमेतदवोचत्- साधु साधु कौशिक । साधु खलु पुनस्त्वं कौशिक यस्त्वं तथागतमर्हन्तं सम्यक्संबुद्धमेनमर्थं परिप्रष्टव्यं परिप्रश्नीकर्तव्यं मन्यसे । इदमपि ते कौशिक बुद्धानुभावेन प्रतिभानमुत्पन्नम् । इह कौशिक बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् रूपे न तिष्ठति, रूपमिति न तिष्ठति । यतः कौशिक बोधिसत्त्वो महासत्त्वो रूपे न तिष्ठति, रूपमिति न तिष्ठति, एवं रूपे योगमापद्यते । एवं वेदनायां संज्ञायां संस्कारेषु । विज्ञाने न तिष्ठति, विज्ञानमिति न तिष्ठति । यतः कौशिक बोधिसत्त्वो महासत्त्वो विज्ञाने न तिष्ठति, विज्ञानमिति न तिष्ठति, एवं विज्ञाने योगमापद्यते । रूपमिति कौशिक न योजयति, यतः कौशिक रूपमिति न योजयति, एवं रूपमिति न तिष्ठति । एवं वेदनासंज्ञासंस्काराः । विज्ञानमिति कौशिक न योजयति, यतः कौशिक विज्ञानमिति न योजयति, एवं विज्ञानमिति न तिष्ठति । एवं प्रज्ञापारमितायां स्थितो भवति । एवं योगमापद्यते ॥ अथ खल्वायुष्मान् शारिपुत्रो भगवन्तमेतदवोचत्- गम्भीरा भगवन् प्रज्ञापारमिता । दुरवगाहा भगवन् प्रज्ञापारमिता । दुरुद्ग्रहा भगवन् प्रज्ञापारमिता । अप्रमाणा भगवन् प्रज्ञापारमिता । भगवानाह - एवमेतच्छारिपुत्र, एवमेतत् । रूपं गम्भीरमिति शारिपुत्र न तिष्ठति । यतः शारिपुत्र रूपं गम्भीरमिति न तिष्ठति, एवं रूपे योगमापद्यते । एवं वेदनासंज्ञासंस्काराः । विज्ञानं शारिपुत्र गम्भीरमिति न तिष्ठति । यतः शारिपुत्र विज्ञानं गम्भीरमिति न तिष्ठति, एवं विज्ञाने योगमापद्यते । रूपं शारिपुत्र गम्भीरमिति न योगमापद्यते (वैद्य १०६) । यतः शारिपुत्र रूपं गम्भीरमिति न योगमापद्यते, एवं रूपं गम्भीरमिति न तिष्ठति । एवं वेदनासंज्ञासंस्काराः । विज्ञानं शारिपुत्र गम्भीरमिति न योगमापद्यते । यतः शारिपुत्र विज्ञानं गम्भीरमिति न योगमापद्यते, एवं विज्ञानं गम्भीरमिति न तिष्ठति ॥ एवमुक्ते आयुष्मान् शारिपुत्रो भगवन्तमेतदवोचत्- गम्भीरा भगवन् प्रज्ञापारमिता अविनिवर्तनीयस्य व्याकृतस्य बोधिसत्त्वस्य महासत्त्वस्य पुरतो भाषितव्या । तत्कस्य हेतोः? स हि भगवन्न काङ्क्षिष्यति, न विचिकित्सिष्यति न धंधायिष्यति न विवदिष्यति ॥ अथ खलु शक्रो देवानामिन्द्र आयुष्मन्तं शारिपुत्रमेतदवोचत्- सचेत्पुनरार्य शारिपुत्र अव्याकृतस्य बोधिसत्त्वस्य महासत्त्वस्य पुरत इयं प्रज्ञापारमिता भाष्येत, को दोषो भवेत्? एवमुक्ते आयुष्मान् शारिपुत्रः शक्रं देवानामिन्द्रमेतदवोचत्- दूरतः स कौशिक बोधिसत्त्वो महासत्त्व आगतो वेदितव्यः । चिरयानसंप्रस्थितः परिपक्वकुशलमूलः स कौशिक बोधिसत्त्वो महासत्त्वो वेदितव्यः, योऽव्याकृत इमां प्रज्ञापारमितां लप्स्यते दर्शनाय वन्दनाय पर्युपासनाय श्रवणाय । श्रुत्वा च नोत्रसिष्यति न संत्रसिष्यति न संत्रासमापत्स्यते । न चेदानीमसौ चिरेण व्याकरणं प्रतिलप्स्यतेऽनुत्तरायाः सम्यक्संबोधेः । आसन्नं तस्य व्याकरणं वेदितव्यम् । स बोधिसत्त्वो महासत्त्वो नैकं वा द्वौ वा त्रीन् वा तथागतानर्हतः सम्यक्संबुद्धानतिक्रमिष्यति, ततो व्याकरणं प्रतिलप्स्यतेऽनुत्तरायां सम्यक्संबोधौ । अपि तु तानारागयिष्यति, आरागयित्वा तांस्तथागतानर्हतः सम्यक्संबुद्धान्न विरागयिष्यति । तथागतदर्शनं च व्याकरणेनावन्ध्यं करिष्यति, तथागतदर्शनाच्च ततो व्याकरणं प्रतिलप्स्यतेऽनुत्तरायां सम्यक्संबोधौ । यावच्च व्याकरणं प्रतिलप्स्यतेऽनुत्तरायां सम्यक्संबोधौ, तावदवन्ध्यं करिष्यति तथागतदर्शनवन्दनपर्युपासनोपस्थानं यावन्नानुत्तरां सम्यक्संबोधिमभिसंबुद्ध इति ॥ अथ खल्वायुष्मान् शारिपुत्रो भगवन्तमेतदवोचत्- दूरतः स भगवन् बोधिसत्त्वो महासत्त्व आगतो भविष्यति । चिरयानसंप्रस्थितः । परिपक्वकुशलमूलो हि भगवन् स बोधिसत्त्वो महासत्त्वो वेदितव्यः, य इमां गम्भीरां प्रज्ञापारमितां लप्स्यते दर्शनाय वन्दनाय पर्युपासनाय श्रवणाय । कः पुनर्वादोऽत्र यः श्रुत्वा चोद्ग्रहीष्यति धारयिष्यति वाचयिष्यति पर्यवाप्स्यति प्रवर्तयिष्यति देशयिष्यत्युपदेक्ष्यत्युद्देक्ष्यति स्वाध्यास्यति ॥ अथ खलु भगवानायुष्मन्तं शारिपुत्रमेतदवोचत्- एवमेतच्छारिपुत्र, एवमेतत् । दूरतः स शारिपुत्र बोधिसत्त्वो महासत्त्व आगतो वेदितव्यः । चिरयानसंप्रस्थितः । परिपक्वकुशलमूलो हि स शारिपुत्र बोधिसत्त्वो महासत्त्वो भविष्यति, य इमां गम्भीरां प्रज्ञापारमितां लप्स्यते दर्शनाय वन्दनाय पर्युपासनाय श्रवणाय । कः पुनर्वादोऽत्र यः श्रुत्वा चोद्ग्रहीष्यति धारयिष्यति वाचयिष्यति पर्यवाप्स्यति प्रवर्तयिष्यति देशयिष्यत्युपदेक्ष्यत्युद्देक्ष्यति स्वाध्यास्यति ॥ अथ खल्वायुष्मान् शारिपुत्रो भगवन्तमेतदवोचत्- प्रतिभाति मे भगवन्, प्रतिभाति मे सुगत औपम्योदाहरणम् । तद्यथापि नाम भगवन् योऽयं बोधिसत्त्वयानिकः कुलपुत्रो वा कुलदुहिता वा स्वप्नान्तरगतोऽपि बोधिमण्डे निषीदेत्, वेदितव्यमेतद्भगवन्, अयं बोधिसत्त्वो (वैद्य १०७) महासत्त्व आसन्नोऽनुत्तरायां सम्यक्संबोधेरभिसंबोधायेति । एवमेव भगवन् यः कुलपुत्रो वा कुलदुहिता वा इमां गम्भीरां प्रज्ञापारमितां लप्स्यते दर्शनाय वन्दनाय पर्युपासनाय श्रवणाय, कः पुनर्वादः श्रुत्वा चोद्ग्रहीतुं धारयितुं वाचयितुं पर्यवाप्तुं प्रवर्तयितुं देशयितुमुपदेष्टुमुद्देष्टुं स्वाध्यापनाय । वेदितव्यमेतद्भगवन् दूरतोऽयं बोधिसत्त्वयानिकः पुद्गल आगतश्चिरयानसंप्रस्थितः । आसन्नोऽयं बोधिसत्त्वयानिकः पुद्गलो व्याकरणस्य । व्याकरिष्यन्त्येनं बुद्धा भगवन्तो बोधिसत्त्वं महासत्त्वमनुत्तरायाः सम्यक्संबोधेरभिसंबोधायेति । चिरयानसंप्रस्थितः परिपक्वकुशलमूलो हि स बोधिसत्त्वो महासत्त्वो वेदितव्यः, यस्येयं गम्भीरा प्रज्ञापारमिता उपपत्स्यतेऽन्तशः श्रवणायापि । कः पुनर्वादोऽत्र भगवन् यः कुलपुत्रो वा कुलदुहिता वा एनां गम्भीरां प्रज्ञापारमितामुद्ग्रहीष्यति धारयिष्यति वाचयिष्यति पर्यवाप्स्यति प्रवर्तयिष्यति देशयिष्यत्युपदेक्ष्यत्युद्देक्ष्यति स्वाध्यास्यति । तत्कस्य हेतोः? भूयस्त्वेन हि भगवन् धर्मव्यसनसंवर्तनीयैः सत्त्वाः कर्मोपचयैरविहिताः, तेषां भूयस्त्वेन अस्यां गम्भीरायां प्रज्ञापारमितायां चित्तानि प्रतिकूलानि भविष्यन्ति, चित्तानि परिवेल्लयिष्यन्ति । न ह्यनुपचितकुशलमूलाः सत्त्वा अस्यां भूयस्त्वेन भूतकोट्यां प्रस्कन्दन्ति प्रसीदन्ति । उपचितकुशलमूलाः खलु पुनस्ते भगवन् सूपचितकुशलमूलाः कुलपुत्राः कुलदुहितरश्च वेदितव्याः, येषामस्यां भूतकोट्यां चित्तं प्रस्कन्दति प्रसीदति । तद्यथापि नाम भगवन् पुरुषो योजनशतिकादटवीकान्ताराद्द्वियोजनशतिकाद्वा त्रियोजनशतिकाद्वा चतुर्योजनशतिकाद्वा पञ्चयोजनशतिकाद्वा दशयोजनशतिकाद्वा अटवीकान्तारान्निष्क्रामेत् । स निष्क्रम्य पश्येत्पूर्वनिमित्तानि गोपालकान् वा पशुपालकान् वा सीमा वा आरामसंपदो वा वनसंपदो वा, ततोऽन्यापि व निमित्तानि, यैर्निमित्तैर्ग्रामो वा नगरं वा निगमो व सूच्येत । तस्य तानि पूर्वनिमित्तानि दृष्टैवं भवति - यथेमानि पूर्वनिमित्तानि दृश्यन्ते, तथा आसन्नो मे ग्रामो वा नगरं वा निगमो वा इति । स आश्वासप्राप्तो भवति । नास्य भूयश्चोरमनसिकारो भवति । एवमेव भगवन् यस्य बोधिसत्त्वस्य महासत्त्वस्येयं गम्भीरा प्रज्ञापारमिता उपवर्तते, वेदितव्यं तेन भगवनभ्यासन्नोऽस्म्यनुत्तरायाः सम्यक्संबोधेः, नचिरेण व्याकरणं प्रतिलप्स्येऽनुत्तरायाः सम्यक्संबोधेरिति । नापि तेनोत्रसितव्यं न संत्रसितव्यं न भेतव्यं श्रावकभूमेर्वा प्रत्येकबुद्धभूमेर्वा । तत्कस्य हेतोः? तथा हि अस्येमानि पूर्वनिमित्तानि संदृश्यन्ते यदुतेमां गम्भीरां प्रज्ञापारमितां लभते दर्शनाय वन्दनाय पर्युपासनाय श्रवणाय । एवमुक्ते भगवानायुष्मन्तं शारिपुत्रमेतदवोचत्- एवमेतच्छारिपुत्र, एवमेतत् । प्रतिभातु ते शारिपुत्र पुनरप्येतत्स्थानम्, यथापि नामैतद्बुद्धानुभावेन व्याहरसि व्याहरिष्यसि च ॥ एवमुक्ते आयुष्मान् शारिपुत्रो भगवन्तमेतदवोचत्- तद्यथापि नाम भगवनिह कश्चिदेव पुरुषो महासमुद्रं द्रष्टुकामो भवेत् । स गच्छेन्महासमुद्रं दर्शनाय । यथा यथा च स गच्छेन्महासमुद्रं दर्शनाय, तथा तथा सचेत्पश्येत्स्तम्बं वा स्तम्बनिमित्तं वा पर्वतं वा (वैद्य १०८) पर्वतनिमित्तं वा, तेनैवं वेदितव्यं दूरे तावदितो महासमुद्र इति । सचेन्न भूयः पश्येत्स्तम्बं वा स्तम्बनिमित्तं वा पर्वतं वा पर्वतनिमित्तं वा, तेनैवं वेदितव्यम् - अभ्यासन्न इतो महासमुद्र इति । तत्कस्य हेतोः? अनुपूर्वनिम्नो हि महासमुद्रः, न महासमुद्रस्याभ्यन्तरे कश्चित्स्तम्बो वा स्तम्बनिमित्तं वा पर्वतो वा पर्वतनिमित्तं वेति । किंचापि स न महासमुद्रं साक्षात्पश्यति चक्षुषा, अथ च पुनः स निष्ठां गच्छति - अभ्यासन्नोऽस्मि महासमुद्रस्य, नेतो भूयो दूरे महासमुद्र इति । एवमेव भगवन् बोधिसत्त्वेन महासत्त्वेनेमां गम्भीरां प्रज्ञापारमितां शृण्वता वेदितव्यम् - किंचाप्यहं तैस्तथागतैरर्हद्भिः सम्यक्संबुद्धैर्न संमुखं व्याकृतः, अथ च पुनरभ्यासन्नोऽस्म्यनुत्तरायाः सम्यक्संबोधेर्व्याकरणस्य । तत्कस्य हेतोः? तथा ह्येनां गम्भीरां प्रज्ञापारमितां लभते दर्शनाय वन्दनाय पर्युपासनाय श्रवणायेति । तद्यथापि नाम भगवन् वसन्ते प्रत्युपस्थिते शीर्णपर्णपलाशेषु नानावृक्षेषु नानापल्लवाः प्रादुर्भवन्ति । पल्लवेषु प्रादुर्भूतेष्वात्तमनस्का भवन्ति जाम्बूद्वीपका मनुष्याः तानि पूर्वनिमित्तानि वनेषु दृष्ट्वा नचिराद्वनपुष्पाणि च फलानि च प्रादुर्भविष्यन्ति । तत्कस्य हेतो? तथा हि इमानि पूर्वनिमित्तानि स्तम्बेषु दृश्यन्त इति । एवमेव भगवन् यदा बोधिसत्त्वो महासत्त्वो लभते इमां गम्भीरां प्रज्ञापारमितां दर्शनाय वन्दनाय पर्युपासनाय श्रवणाय, उपवर्तते तस्येयं गम्भीरा प्रज्ञापारमिता । तदा परिपक्वकुशलः स बोधिसत्त्वो महासत्त्वो वेदितव्यः - तेनैव पूर्वकेण कुशलमूलेनोपनामितेयं तस्मै गम्भीरा प्रज्ञापारमिता । तत्र या देवताः पूर्वबुद्धदर्शिन्यः, ताः प्रमुदिता भवन्ति प्रीतिसौमनस्यजाताः - पौर्वकाणामपि बोधिसत्त्वानां महासत्त्वानामिमान्येव पूर्वनिमित्तान्यभूवन्ननुत्तरायाः सम्यक्संबोधेर्व्याकरणाय । नचिरेण बतायं बोधिसत्त्वो महासत्त्वो व्याकरणं प्रतिलप्स्यतेऽनुत्तरायाः सम्यक्संबोधेरिति । तद्यथापि नाम भगवन् स्त्री गुर्विणी गुरुगर्भा । तस्या यदा कायो वेष्टते, अधिमात्रं वा कायक्लमथो जायते, न च सा चंक्रमणशीला भवति । अल्पाहारा च भवति । अल्पस्त्यानमिद्धा च भवति । अल्पभाष्या च भवति । अल्पस्थामा च भवति । वेदनाबहुला च भवति । क्रन्दन्ती च बहुलं विहरति । न च संवासशीला भवति । पौर्वकेणायोनिशोमनसिकारेणासेवितेन निषेवितेन भावितेन बहुलीकृतेन इमामेवंरूपां कायेन वेदनां प्रत्यनुभवामीति, तदा वेदितव्यमिदं भगवन् - यथास्याः पूर्वनिमित्तानि संदृश्यन्ते, तथा नचिरेण बतेयं स्त्री प्रसोष्यते इति । एवमेव भगवन् यदा बोधिसत्त्वस्य महासत्त्वस्येयं गम्भीरा प्रज्ञापारमिता उपवर्तते दर्शनाय वन्दनाय पर्युपासनाय श्रवणाय, शृण्वतश्चैनां रमते चित्तमस्यां प्रज्ञापारमितायाम्, अर्थिकतया चोत्पद्यते, तदा वेदितव्यमिदं भगवन् - नचिरेण बतायं बोधिसत्त्वो महासत्त्वो व्याकरणं प्रतिलप्स्यतेऽनुत्तरायाः सम्यक्संबोधेरिति ॥ एवमुक्ते भगवानायुष्मन्तं शारिपुत्रमेतदवोचत्- साधु साधु शारिपुत्र । इदमपि ते शारिपुत्र बुद्धानुभावेन प्रतिभाति । अथ खल्वायुष्मान् सुभूतिर्भगवन्तमेतदवोचत्- आश्चर्यं भगवन् यावत्सुपरिगृहीताश्च सुपरीत्ताश्च सुपरीन्दिताश्च इमे बोधिसत्त्वा महासत्त्वास्तथागतेनार्हता सम्यक्संबुद्धेन । भगवानाह - तथा हि ते सुभूते बोधिसत्त्वा महासत्त्वा बहुजनहिताय (वैद्य १०९) प्रतिपन्ना बहुजनसुखाय लोकानुकम्पायै महतो जनकायस्यार्थाय हिताय सुखाय देवानां च मनुष्याणां च । अनुकम्पका अनुकम्पामुपादाय अनुत्तरां सम्यक्संबोधिमभिसंबोद्धुकामाः । अनुत्तरां सम्यक्संबोधिमभिसंबुध्यानुत्तरं धर्मं देशयितुकामाः ॥ सुभूतिराह - इह भगवन् बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतः कथं प्रज्ञापारमिताभावना परिपूरिं गच्छति? भगवानाह - यदि सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न रूपस्य वृद्धिं समनुपश्यति, चरति प्रज्ञापारमितायाम् । एवं न वेदनाया न संज्ञाया न संस्काराणाम् । न विज्ञानस्य वृद्धिं समनुपश्यति, चरति प्रज्ञापारमितायाम् । न रूपस्य परिहाणिं समनुपश्यति, चरति प्रज्ञापारमितायाम् । एवं न वेदनाया न संज्ञाया न संस्काराणाम् । न विज्ञानस्य परिहाणिं समनुपश्यति, चरति प्रज्ञापारमितायाम् । धर्मं न समनुपश्यति, चरति प्रज्ञापारमितायाम् । अधर्ममपि न समनुपश्यति, चरति प्रज्ञापारमितायाम् । एवमस्य प्रज्ञापारमिताभावना परिपूरिं गच्छति ॥ सुभूतिराह - अचिन्त्यमिदं भगवन् देश्यते । भगवानाह - रूपं हि सुभूते अचिन्त्यम् । एवं वेदनासंज्ञासंस्काराः । विज्ञानं हि सुभूते अचिन्त्यम् । रूपमचिन्त्यमित्यपि सुभूते न संजानीते, चरति प्रज्ञापारमितायाम् । एवं वेदनासंस्काराः । विज्ञानमचिन्त्यमित्यपि सुभूते न संजानीते, चरति प्रज्ञापारमितायाम् ॥ अथ खल्वायुष्मान् शारिपुत्रो भगवन्तमेतदवोचत्- कोऽत्र भगवनधिमोक्षयिष्यति एवंगम्भीरायां प्रज्ञापारमितायाम्? भगवानाह - यः शारिपुत्र चरितावी बोधिसत्त्वो महासत्त्वो भविष्यति प्रज्ञापारमितायाम्, सोऽत्र प्रज्ञापारमितायामधिमोक्षयिष्यति । आयुष्मान् शारिपुत्र आह - कथं भगवन् चरितावी बोधिसत्त्वो महासत्त्वो भविष्यति, कथं चरितावीति नामधेयं लभते? भगवानाह - इह शारिपुत्र बोधिसत्त्वो महासत्त्वो बलानि न कल्पयति, वैशारद्यानि न कल्पयति, बुद्धधर्मानपि न कल्पयति, सर्वज्ञतामपि न कल्पयति । तत्कस्य हेतोः? बलानि हि शारिपुत्र अचिन्त्यानि, वैशारद्यान्यप्यचिन्त्यानि, बुद्धधर्मा अप्यचिन्त्याः सर्वज्ञताप्यचिन्त्या, सर्वधर्मा अप्यचिन्त्याः । एवं चरितावी शारिपुत्र बोधिसत्त्वो महासत्त्वो न क्वचिच्चरति, चरति प्रज्ञापारमितायाम् । एवं स चरितावीत्युच्यते, चरितावीति नामधेयं लभते ॥ अथ खलु आयुष्मान् सुभूतिर्भगवन्तमेतदवोचत्- गम्भीरा भगवन् प्रज्ञापारमिता । रत्नराशिर्भगवन् प्रज्ञापारमिता । शुद्धराशिर्भगवन् प्रज्ञापारमिता आकाशशुद्धतामुपादाय । आश्चर्यं भगवन् स्याद्यदेनां प्रज्ञापारमितामुद्गृह्णतां धारयतां वाचयतां पर्यवाप्नुवतां प्रवर्तयतां देशयतामुपदिशतामुद्दिशतां स्वाध्यायतां लिखतां च कुलपुत्राणां कुलदुहितॄणां च बहवोऽन्तराया उत्पद्येरन् । एवमुक्ते भगवानायुष्मन्तं सुभूतिमेतदवोचत्- एवमेतत्सुभूते, एवमेतत् । बहवः सुभूते अन्तराया इमां प्रज्ञापारमितामुद्गृह्णतां धारयतां वाचयतां पर्यवाप्नुवतां प्रवर्तयतां देशयतामुपदिशतामुद्दिशतां स्वाध्यायतां लिखतां च कुलपुत्राणां कुलदुहितॄणां च (वैद्य ११०) भविष्यति । तत्कस्य हेतोः? तथा हि सुभूते इमां प्रज्ञापारमितामुद्गृह्णतां धारयतां वाचयतां पर्यवाप्नुवतां प्रवर्तयतां देशयतामुपदिशतामुद्दिशतां स्वाध्यायतां लिखतां च कुलपुत्राणां कुलदुहितॄणां च मारः पापीयानौत्सुक्यमापत्स्यतेऽन्तरायं कर्तुम् । तत्र शीघ्रं लिखता सचेन्मासेन वा मासद्वयेन वा मासत्रयेण वा लिख्येत, लिखितव्यैव भवेत् । सचेत्संवत्सरेण ततो वापरेण लिखिता भवेत्, तथापि लिखितव्यैव खलु पुनः सुभूते भवति तेन कुलपुत्रेण कुलदुहित्रा वा इयं प्रज्ञापारमिता । तत्कस्य हेतोः? एवं ह्येतत्सुभूते भवति यन्महारत्नानां बहवोऽन्तराया उत्पद्यन्ते ॥ एवमुक्ते आयुष्मान् सुभूतिर्भगवन्तमेतदवोचत्- इह भगवन् प्रज्ञापारमितायामुद्गृह्यमाणायां धार्यमाणायां वाच्यमानायां पर्यवाप्यमानायां प्रवर्त्यमानायां देश्यमानायामुपदिश्यमानायामुद्दिश्यमानायां स्वाध्याय्यमानायां लिख्यमानायां च मारः पापीयान् बहुप्रकारमौत्सुक्यमापत्स्यते, अन्तरायकर्मण उद्योगं च करिष्यति । भगवानाह - किंचापि सुभूते मारः पापीयानुद्योगमापत्स्यते अन्तरायकर्मणः अस्यां प्रज्ञापारमितायामुद्गृह्यमाणायां धार्यमाणायां वाच्यमानायां पर्यवाप्यमानायां प्रवर्त्यमानायां देश्यमानायामुपदिश्यमानायामुद्दिश्यमानायां स्वाध्याय्यमानायां लिख्यमानायां च, अथ च पुनर्न प्रसहिष्यतेऽच्छिद्रसमादानस्य बोधिसत्त्वस्य महासत्त्वस्यान्तरायं कर्तुम् ॥ अथ खल्वायुष्मान् शारिपुत्रो भगवन्तमेतदवोचत्- यदा भगवनिमां प्रज्ञापारमितामुद्गृह्णतां धारयतां वाचयतां पर्यवाप्नुवतां प्रवर्तयतां देशयतामुपदिशतामुद्दिशतां स्वाध्यायतां लिखतां च कुलपुत्राणां कुलदुहितॄणां च मारः पापीयानौत्सुक्यमापत्स्यते अन्तरायकरणाय, तदा कथमेतर्हि भगवन् कुलपुत्राः कुलदुहितरश्च इमां प्रज्ञापारमितामुद्ग्रहीष्यन्ति धारयिष्यन्ति वाचयिष्यन्ति पर्यवाप्स्यन्ति प्रवर्तयिष्यन्ति देशयिष्यन्त्युपदेक्ष्यन्त्युद्देक्ष्यन्ति स्वाध्यास्यन्ति लिखिष्यन्ति च? कस्य चानुभावेन भगवंस्ते कुलपुत्राः कुलदुहितरश्च इमां प्रज्ञापारमितामुद्ग्रहीष्यन्ति धारयिष्यन्ति वाचयिष्यन्ति पर्यवाप्स्यन्ति प्रवर्तयिष्यन्ति देशयिष्यन्त्युपदेक्ष्यन्त्युद्देक्ष्यन्ति स्वाध्यास्यन्ति लिखिष्यन्ति च? एवमुक्ते भगवानायुष्मन्तं शारिपुत्रमेतदवोचत्- बुद्धानां शारिपुत्र भगवतां तथागतानामर्हतां सम्यक्संबुद्धानामनुभावेन ते कुलपुत्राः कुलदुहितरश्च इमां प्रज्ञापारमितामुद्ग्रहीष्यन्ति धारयिष्यन्ति वाचयिष्यन्ति पर्यवाप्स्यन्ति प्रवर्तयिष्यन्ति देशयिष्यन्त्युपदेक्ष्यन्त्युद्देक्ष्यन्ति स्वाध्यास्यन्ति लिखिष्यन्ति च, तथत्वाय शिक्षिष्यन्ते, तथत्वाय प्रतिपत्स्यन्ते, तथत्वाय योगमापत्स्यन्ते । तत्कस्य हेतोः? एषा हि शारिपुत्र धर्माणां धर्मता, ये तेऽप्रमेयेष्वसंख्येयेषु लोकधातुषु बुद्धा भगवन्तस्तिष्ठन्ति ध्रियन्ते यापयन्ति, ते इमां प्रज्ञापारमितां समन्वाहरिष्यन्ति परिग्रहीष्यन्ति भाष्यमाणामुद्गृह्यमाणां धार्यमाणां वाच्यमानां पर्यवाप्यमानां प्रवर्त्यमानां देश्यमानामुपदिश्यमानामुद्दिश्यमानां स्वाध्याय्यमानां लिख्यमानां च । ये चैनां प्रज्ञापारमितां कुलपुत्राः कुलदुहितरश्चोद्ग्रहीष्यन्ति (वैद्य १११) धारयिष्यन्ति वाचयिष्यन्ति पर्यवाप्स्यन्ति प्रवर्तयिष्यन्ति देशयिष्यन्त्युपदेक्ष्यन्त्युद्देक्ष्यन्ति स्वाध्यास्यन्ति च, तथत्वाय शिक्षिष्यन्ते, तथत्वाय प्रतिपत्स्यन्ते, तथत्वाय योगमापत्स्यन्ते, तांश्च ते बुद्धा भगवन्तः समन्वाहरिष्यन्ति परिग्रहीष्यन्ति च । न हि शारिपुत्र बुद्धसमन्वाहृतानां बुद्धपरिगृहीतानां च कुलपुत्राणां कुलदुहितॄणां च शक्यमन्तरायं कर्तुम् ॥ एवमुक्ते आयुष्मान् शारिपुत्रो भगवन्तमेतदवोचत्- येऽपि ते भगवन् बोधिसत्त्वा महासत्त्वा इमां गम्भीरां प्रज्ञापारमितां श्रोष्यन्ति उद्ग्रहीष्यन्ति धारयिष्यन्ति वाचयिष्यन्ति पर्यवाप्स्यन्ति प्रवर्तयिष्यन्ति देशयिष्यन्त्युपदेक्ष्यन्त्युद्देक्ष्यन्ति स्वाध्यास्यन्ति लिखिष्यन्ति च, तथत्वाय शिक्षिष्यन्ते, तथत्वाय प्रतिपत्स्यन्ते, तथत्वाय योगमापत्स्यन्ते, सर्वे ते भगवन् बुद्धानुभावेन बुद्धाधिष्ठानेन बुद्धपरिग्रहेण च इमां प्रज्ञापारमितां श्रोष्यन्ति उद्ग्रहीष्यन्ति धारयिष्यन्ति वाचयिष्यन्ति पर्यवाप्स्यन्ति प्रवर्तयिष्यन्ति देशयिष्यन्त्युपदेक्ष्यन्त्युद्देक्ष्यन्ति स्वाध्यास्यन्ति लिखिष्यन्ति च, तथत्वाय च शिक्षिष्यन्ते, तथत्वाय प्रतिपत्स्यन्ते, तथत्वाय योगमापत्स्यन्ते, एवं च संपादयिष्यन्ति ॥ एवमुक्ते भगवानायुष्मन्तं शारिपुत्रमेतदवोचत्- एवमेतच्छारिपुत्र, एवमेतत् । सर्वे ते शारिपुत्र बोधिसत्त्वा महासत्त्वा बुद्धानुभावेन बुद्धाधिष्ठानेन बुद्धपरिग्रहेण च इमां गम्भीरां प्रज्ञापारमितां श्रोष्यन्ति उद्ग्रहीष्यन्ति धारयिष्यन्ति वाचयिष्यन्ति पर्यवाप्स्यन्ति प्रवर्तयिष्यन्ति देशयिष्यन्त्युपदेक्ष्यन्त्युद्देक्ष्यन्ति स्वाध्यास्यन्ति लिखिष्यन्ति च, तथत्वाय शिक्षिष्यन्ते, तथत्वाय प्रतिपत्स्यन्ते, तथत्वाय योगमापत्स्यन्ते । ज्ञातास्ते शारिपुत्र तथागतेन । अधिष्ठितास्ते शारिपुत्र तथागतेन । दृष्टास्ते शारिपुत्र तथागतेन । व्यवलोकितास्ते शारिपुत्र तथागतेन बुद्धचक्षुषा । ये ते बोधिसत्त्वा महासत्त्वा इमां प्रज्ञापारमितां श्रोष्यन्ति उद्ग्रहीष्यन्ति धारयिष्यन्ति वाचयिष्यन्ति पर्यवाप्स्यन्ति प्रवर्तयिष्यन्ति देशयिष्यन्त्युपदेक्ष्यन्त्युद्देक्ष्यन्ति स्वाध्यास्यन्ति लिखिष्यन्ति च, तथत्वाय च शिक्षिष्यन्ते, तथत्वाय प्रतिपत्स्यन्ते, तथत्वाय योगमापत्स्यन्ते, श्रुत्वो उद्गृह्य धारयित्वा वाचयित्वा पर्यवाप्य प्रवर्त्य देशयित्वोपदिश्योद्दिश्य स्वाध्याय्य लिखित्वा तथत्वाय शिक्षमाणास्तथत्वाय प्रतिपद्यमानास्तथत्वाय योगमापद्यमाना आसन्नीभविष्यन्त्यनुत्तरायाः सम्यक्संबोधेः, तथत्वाय स्थास्यन्त्यनुत्तरायै सम्यक्संबोधये । येऽपि शारिपुत्र एनां प्रज्ञापारमितां लिखित्वा धारयिष्यन्ति वाचयिष्यन्ति पर्यवाप्स्यन्ति देशयिष्यन्त्युपदेक्ष्यन्त्युद्देक्ष्यन्ति स्वाध्यास्यन्ति लिखिष्यन्ति, न च तथत्वाय शिक्षिष्यन्ते, न च तथत्वाय प्रतिपत्स्यन्ते, न च तथत्वाय योगमापत्स्यन्ते, ते न तथत्वाय शिक्षमाणा न तथत्वाय प्रतिपद्यमाना न तथत्वाय योगमापद्यमाना न तथतायां स्थास्यन्त्यनुत्तरायां सम्यक्संबोधौ, तेऽपि शारिपुत्र तथागतेन ज्ञाताः । तेऽपि तथागतेनाधिष्ठिताः । तेऽपि तथागतेन दृष्टाः । तेऽपि तथागतेन व्यवलोकिता बुद्धचक्षुषा । तेषामपि शारिपुत्र महार्थिको महानुशंसो महाफलो महाविपाकश्च स परिश्रमः परिस्पन्दश्च भविष्यति । तत्कस्य हेतोः? तथा हि प्रज्ञापारमिता परमार्थोपसंहिता सर्वधर्माणां यथाभूतप्रतिवेधाय प्रत्युपस्थिता सर्वसत्त्वानाम् । (वैद्य ११२) इमे खलु पुनः शारिपुत्र षट्पारमिताप्रतिसंयुक्ताः सूत्रान्तास्तथागतस्यात्ययेन दक्षिणापथे प्रचरिष्यन्ति, दक्षिणापथात्पुनरेव वर्तन्यां प्रचरिष्यन्ति, वर्तन्याः पुनरुत्तरपथे प्रचरिष्यन्ति । नवमण्डप्राप्ते धर्मविनये सद्धर्मस्यान्तर्धानकालसमये समन्वाहृतास्ते शारिपुत्र तथागतेन कुलपुत्राः कुलदुहितरश्च । तस्मिन् काले य इमां प्रज्ञापारमितामुद्ग्रहीष्यन्ति धारयिष्यन्ति, वाचयिष्यन्ति पर्यवाप्स्यन्ति प्रवर्तयिष्यन्ति देशयिष्यन्त्युपदेक्ष्यन्त्युद्देक्ष्यन्ति स्वाध्यास्यन्ति, अन्तशो लिखित्वा पुस्तकगतामपि कृत्वा धारयिष्यन्ति, ज्ञातास्ते शारिपुत्र तथागतेन । अधिष्ठितास्ते शारिपुत्र तथागतेन । दृष्टास्ते शारिपुत्र तथागतेन । व्यवलोकितास्ते शारिपुत्र तथागतेन बुद्धचक्षुषा ॥ शारिपुत्र आह - इयमपि भगवन् प्रज्ञापारमिता एवंगम्भीरा पश्चिमे काले पश्चिमे समये वैस्तारिकी भविष्यत्युत्तरस्यां दिशि उत्तरे दिग्भागे? भगवानाह - ये तत्र शारिपुत्र उत्तरस्यां दिश्युत्तरे दिग्भागे इमां गम्भीरां प्रज्ञापारमितां श्रुत्वा अत्र प्रज्ञापारमितायां योगमापत्स्यन्ते, ते वैस्तारिकीं करिष्यति । चिरयानसंप्रस्थितास्ते शारिपुत्र बोधिसत्त्वा महासत्त्वा वेदितव्याः, य इमां प्रज्ञापारमितां श्रोष्यन्ति लिखिष्यन्ति उद्ग्रहीष्यन्ति धारयिष्यन्ति वाचयिष्यन्ति पर्यवाप्स्यन्ति प्रवर्तयिष्यन्ति देशयिष्यन्त्युपदेक्ष्यन्त्युद्देक्ष्यन्ति स्वाध्यास्यन्ति, तथत्वाय शिक्षिष्यन्ते, तथत्वाय प्रतिपत्स्यन्ते, तथत्वाय योगमापत्स्यन्ते ॥ शारिपुत्र आह - कियन्तस्ते भगवन् बोधिसत्त्वा महासत्त्वा भविष्यन्ति उत्तरस्यां दिशि उत्तरे दिग्भागे, बहव उताहो अल्पकाः? य इमां गम्भीरां प्रज्ञापारमितां श्रोष्यन्ति लिखिष्यन्ति उद्ग्रहीष्यन्ति धारयिष्यन्ति वाचयिष्यन्ति पर्यवाप्स्यन्ति प्रवर्तयिष्यन्ति देशयिष्यन्ति उपदेक्ष्यन्त्युद्देक्ष्यन्ति स्वाध्यास्यन्ति, तथत्वाय शिक्षिष्यन्ते, तथत्वाय प्रतिपत्स्यन्ते, तथत्वाय योगमापत्स्यन्ते? भगवानाह - बहवस्ते शारिपुत्र सुबहवः उत्तरापथे उत्तरस्यां दिश्युत्तरे दिग्भागे बोधिसत्त्वा महासत्त्वा भविष्यन्ति । किंचापि शारिपुत्र बहवस्ते, तेभ्योऽपि बहुभ्योऽल्पकास्ते बोधिसत्त्वा महासत्त्वा भविष्यन्ति, य इमां गम्भीरां प्रज्ञापारमितां श्रोष्यन्ति लिखिष्यन्त्युद्ग्रहीष्यन्ति धारयिष्यन्ति वाचयिष्यन्ति पर्यवाप्स्यन्ति प्रवर्तयिष्यन्ति देशयिष्यन्ति उपदेक्ष्यन्त्युद्देक्ष्यन्ति स्वाध्यास्यन्ति, तथत्वाय शिक्षिष्यन्ते, तथत्वाय प्रतिपत्स्यन्ते, तथत्वाय योगमापत्स्यन्ते, प्रज्ञापारमितायां च भाष्यमाणायां नावलेष्यन्ते न संलेष्यन्ते, न विषत्स्यन्ति न विषादमापत्स्यन्ते, न विपृष्ठीकरिष्यन्ति मानसम्, न भग्नपृष्ठीकरिष्यन्ति, नोत्रसिष्यन्ति न संत्रसिष्यन्ति न संत्रासमापत्स्यन्ते, चिरयानसंप्रस्थितास्ते बोधिसत्त्वा महासत्त्वा वेदितव्याः । अनुबद्धास्तैः पौर्वकास्तथागता अर्हन्तः सम्यक्संबुद्धाः, परिपृष्टाः परिपृच्छिताः परिप्रश्नीकृताः । पूजिताश्च तैः पौर्वकास्तथागता अर्हन्त सम्यक्संबुद्धाः कुलपुत्रैः कुलदुहितृभिश्च बोधिसत्त्वयानिकैः पुद्गलैः । शीलेषु च ते परिपूर्णकारिणो भविष्यन्ति, बहुजनस्य च तेऽर्थं करिष्यन्ति, यदुत इमामेवानुत्तरां सम्यक्संबोधिमारभ्य । तत्कस्य हेतोः? तथा हि तेषां (वैद्य ११३) कुलपुत्राणां कुलदुहितॄणां च मयैव सर्वज्ञताप्रतिसंयुक्तैव कथा कृता । तेषां जातिव्यतिवृत्तानामपि एत एव सर्वज्ञताप्रतिसंयुक्ताः प्रज्ञापारमिताप्रतिसंयुक्ताः समुदाचारा भविष्यन्ति । एनामेव च ते कथां करिष्यन्ति, एनामेव च कथामभिनन्दिष्यन्ति, यदुत अनुत्तरां सम्यक्संबोधिमारभ्य । तेषु च सुस्थिताः समाहिताश्च भविष्यन्ति अस्यां प्रज्ञापारमितायाम् । मारेणापि ते न शक्या भेदयितुम्, कुतः पुनरन्यैः सत्त्वैः, यदुत च्छन्दतो वा मन्त्रतो वा । तत्कस्य हेतोः? यथापि नाम तद्दृढस्थामत्वादनुत्तरायां सम्यक्संबोधौ । ते च कुलपुत्राः कुलदुहितरश्च श्रुत्वा एनां प्रज्ञापारमितामुदारं प्रीतिप्रामोद्यप्रसादं प्रतिलप्स्यन्ते । बहुजनस्य च ते कुशलमूलान्यवरोपयिष्यन्ति यदुतानुत्तरायां सम्यक्संबोधौ । तत्कस्य हेतोः? एवं हि तैः कुलपुत्रैः कुलदुहितृभिश्च ममान्तिके संमुखं वाग्भाषिता - बहूनि प्राणिशतानि बहूनि प्राणिसहस्राणि बहूनि प्राणिशतसहस्राणि बहूनि प्राणिकोटीशतानि बहूनि प्राणिकोटीसहस्राणि बहूनि प्राणिकोटीशतसहस्राणि बहूनि प्राणिकोटीनियुतशतसहस्राणि बोधिसत्त्वचर्यां चरन्तो वयमनुत्तरायां सम्यक्संबोधौ प्रस्थापयिष्यामः संदर्शयिष्यामः समादापयिष्यामः समुत्तेजयिष्यामः संप्रहर्षयिष्यामः संप्रभावयिष्यामः संबोधये प्रतिष्ठापयिष्याम इति, अविनिवर्तनीयान् करिष्याम इति । तत्कस्य हेतोः? अनुमोदितं हि शारिपुत्र मया तेषां बोधिसत्त्वयानिकानां कुलपुत्राणां कुलदुहितॄणां च चित्तेन चित्तं व्यवलोक्य यैरियं वाग्भाषिता - बोधाय चरन्तो वयं बहूनि प्राणिशतानि बहूनि प्राणिसहस्राणि बहूनि प्राणिशतसहस्राणि बहूनि प्राणिकोटीशतानि बहूनि प्राणिकोटीसहस्राणि बहूनि प्राणिकोटीशतसहस्राणि बहूनि प्राणिकोटीनियुतशतसहस्राणि अनुत्तरायां सम्यक्संबोधौ प्रस्थापयिष्यामः संदर्शयिष्यामः समादापयिष्यामः समुत्तेजयिष्यामः संप्रहर्षयिष्यामः संप्रभावयिष्यामः, संबोधये प्रतिष्ठापयिष्याम इति, अविनिवर्तनीयान् करिष्याम इति । एवं च ते कुलपुत्राः कुलदुहितरश्च उदाराधिमुक्तिका भविष्यन्ति, यदन्यान्यपि ते बुद्धक्षेत्राण्यध्यालम्बितव्यानि मंस्यन्ते । यत्र संमुखीभूतास्तथागता अर्हन्तः सम्यक्संबुद्धा धर्मं देशयिष्यन्ति, तत्र संमुखीभूतानां तथागतानामर्हतां सम्यक्संबुद्धानामन्तिकात्पुनरेवैनां गम्भीरां प्रज्ञापारमितां विस्तरेण श्रोष्यन्ति । तेष्वपि ते बुद्धक्षेत्रेषु बहूनि प्राणिशतानि बहूनि प्राणिसहस्राणि बहूनि प्राणिशतसहस्राणि बहूनि प्राणिकोटीशतानि बहूनि प्राणिकोटीसहस्राणि बहूनि प्राणिकोटीशतसहस्राणि बहूनि प्राणिकोटीनियुतशतसहस्राणि अनुत्तरायां सम्यक्संबोधौ प्रस्थापयिष्यन्ति संदर्शयिष्यन्ति समादापयिष्यन्ति समुत्तेजयिष्यन्ति संप्रहर्षयिष्यन्ति संप्रभावयिष्यन्ति, संबोधये प्रतिष्ठापयिष्यन्ति, अविनिवर्तनीयान् करिष्यन्ति ॥ एवमुक्ते आयुष्मान् शारिपुत्रो भगवन्तमेतदवोचत्- आश्चर्यं भगवन् यावदिदं तथागतेनार्हता सम्यक्संबुद्धेन अतीतानागतप्रत्युत्पन्नेषु धर्मेषु नास्ति किंचिददृष्टं वा अश्रुतं वा अविदितं वा अविज्ञातं वा । न स कश्चिद्धर्मो यो न ज्ञातो न स काचिच्चर्या सत्त्वानां या न विज्ञाता, यत्र हि नाम अनागतानामपि बोधिसत्त्वानां महासत्त्वानां चर्यां ज्ञाता बोधिच्छन्दिकानामध्याशयसंपन्नानामारब्धवीर्याणाम् । (वैद्य ११४) ये तस्मिन् काले इमां गम्भीरां प्रज्ञापारमितामुद्ग्रहीष्यन्ति धारयिष्यन्ति वाचयिष्यन्ति पर्यवाप्स्यन्ति प्रवर्तयिष्यन्ति देशयिष्यन्ति उपदेक्ष्यन्त्युद्देक्ष्यन्ति स्वाध्यास्यन्ति लिखिष्यन्ति च, ये च तस्मिन् काले आसां षण्णां पारमितानां कृतशः सर्वसत्त्वानामर्थाय उद्योगमापद्य अन्वेषिष्यन्ते पर्येषिष्यन्ते, गवेषिष्यन्ते, तेषां च कुलपुत्रानां कृलदुहितॄणां च अन्वेषमाणानां पर्येषमाणानां केचिद्गवेषमाणा बोधिसत्त्वा लप्स्यन्ते, केचिन्न लप्स्यन्ते, केचिदगवेषयन्तोऽपि लप्स्यन्ते एनां गम्भीरां प्रज्ञापारमिताम् । किमत्र भगवन् कारणम्? एवमुक्ते भगवानायुष्मन्तं शारिपुत्रमेतदवोचत्- एवमेतच्छारिपुत्र, एवमेतत् । नास्ति किंचित्तथागतस्य अतीतानागतप्रत्युत्पन्नेषु धर्मेष्वदृष्टं वा अश्रुतं वा अविदितं वा अविज्ञातं वा । तस्मिन् खलु पुनः शारिपुत्र काले तस्मिन् समये केचिद्बोधिसत्त्वा मार्गयमाणा पर्येषमाणा गवेषमाणा अपि लप्स्यन्ते इमां प्रज्ञापारमिताम् । केचिद्बोधिसत्त्वा अमार्गयमाणा अपर्येषमाणा अगवेषयन्तोऽपि लप्स्यन्ते । तत्कस्य हेतोः? तथा हि तैर्बोधिसत्त्वैर्महासत्त्वैरियं प्रज्ञापारमिता पूर्वान्ततोऽपि अनिक्षिप्तधुरैर्मार्गिता च पर्यन्विष्टा च । ते तेनैव पूर्वकेण कुशलमूलच्छन्देन एनां प्रज्ञापारमिताममार्गयन्तोऽपि अपर्येषमाणा अपि अगवेषयन्तोऽपि लप्स्यन्ते । यान्यपि च ततोऽन्यान्यपि सूत्राणि एनामेव प्रज्ञापारमितामभिवदन्ति, तानि चैषां स्वयमेवोपगमिष्यन्ति उपपत्स्यन्ते उपनंस्यन्ते च । तत्कस्य हेतोः? एवमेतच्छारिपुत्र भवति - य एनां प्रज्ञापारमितां बोधिसत्त्वो महासत्त्वोऽनिक्षिप्तधुरो मार्गयति च पर्येषते च, स जातिव्यतिवृत्तोऽपि जन्मान्तरव्यतिवृत्तोऽपि एनां प्रज्ञापारमितां लप्स्यते । ततोऽन्यानि च सूत्राणि प्रज्ञापारमिताप्रतिसंयुक्तानि तस्य स्वयमेवोपगमिष्यन्ति, उपपत्स्यन्ते उपनंस्यन्ते चेति ॥ एवमुक्ते आयुष्मान् शारिपुत्रो भगवन्तमेतदवोचत्- इमे एव केवलं भगवंस्तेषां कुलपुत्राणां कुलदुहितॄणां च षट्पारमिताप्रतिसंयुक्ताः सूत्रान्ता उपपत्स्यन्ते उपनंस्यन्ते, नान्ये? भगवानाह - ये चान्येऽपि शारिपुत्र गम्भीरा गम्भीराः सूत्रान्ता भविष्यन्ति, तेऽपि तेषां कुलपुत्राणां कुलदुहितॄणां च स्वयमेवोपपत्स्यन्ते स्वयमेवोपनंस्यन्ते च । तत्कस्य हेतोः? एवं ह्येतच्छारिपुत्र भवति - ये बोधिसत्त्वा महासत्त्वा अनुत्तरायां सम्यक्संबोधौ प्रस्थापयिष्यन्ति संदर्शयिष्यन्ति समादापयिष्यन्ति समुत्तेजयिष्यन्ति संप्रहर्षयिष्यन्ति प्रभावयिष्यन्ति, संबोधये प्रतिष्ठापयिष्यन्ति, अविनिवर्तनीयान् करिष्यन्ति, स्वयं च तत्र शिक्षिष्यन्ते, तेषां शारिपुत्र जातिव्यतिवृत्तानामपि इमे गम्भीरा गम्भीरा अनुपलम्भप्रतिसंयुक्ताः शून्यताप्रतिसंयुक्ताः षट्पारमिताप्रतिसंयुक्ताश्च सूत्रान्ताः स्वयमेवोपगमिष्यन्ति, स्वयमेवोपपत्स्यन्ते स्वयमेवोपनंस्यन्ते चेति ॥ आर्याष्टसाहस्रिकायां प्रज्ञापारमितायां धारणगुणपरिकीर्तनपरिवर्तो नाम दशमः ॥ _______________________________________________________________ (वैद्य ११५) ११: मारकर्मपरिवर्त एकादशः । अथ खलु आयुष्मान् सुभूतिर्भगवन्तमेतदवोचत्- गुणा इमे भगवंस्तेषां कुलपुत्राणां कुलदुहितॄणां च भगवता परिकीर्तिताः । केचित्पुनर्भगवंस्तेषामन्तराया उत्पत्स्यन्ते? एवमुक्ते भगवानायुष्मन्तं सुभूतिमेतदवोचत्- बहूनि सुभूते तेषां मारकर्माण्यन्तरायकराण्युत्पस्यन्ते । सुभूतिराह - कियद्रूपाणि भगवंस्तेषां बहूनि मारकर्माण्यन्तरायकराण्युत्पत्स्यन्ते? भगवानाह - तेषां सुभूते बोधिसत्त्वानां महासत्त्वानां प्रज्ञापारमितां भाषमाणानां चिरेण प्रतिभानमुत्पत्स्यते । इदं सुभूते प्रथमं मारकर्म वेदितव्यम् । तदपि च प्रतिभानं जायमानमेव विक्षेप्स्यते । इदमपि सुभूते मारकर्म वेदितव्यम् । ते विजृम्भमाणा हसन्त उच्चग्घयन्तो लिखिष्यन्ति । इदमपि सुभूते मारकर्म वेदितव्यम् । विक्षिप्तचित्ताः पर्यवाप्स्यन्ति । इदमपि सुभूते मारकर्म वेदितव्यम् । अन्योन्यविज्ञानसमङ्गिनो लिखिष्यन्ति । इदमपि सुभूते मारकर्म वेदितव्यम् । स्मृतिं न प्रतिलप्स्यन्ते । इदमपि सुभूते मारकर्म वेदितव्यम् । परस्परमुपहसन्तो लिखिष्यन्ति । इदमपि सुभूते मारकर्म वेदितव्यम् । परस्परमुच्चग्घयमाना लिखिष्यन्ति । इदमपि सुभूते मारकर्म वेदितव्यम् । विक्षिप्तचक्षुषो लिखिष्यन्ति । इदमपि सुभूते मारकर्म वेदितव्यम् । लिखतामन्योन्यं विसामग्री भविष्यति । इदमपि सुभूते मारकर्म वेदितव्यम् । न वयमत्र गाधं नास्वादं लभामहे इत्युत्थायासनात्प्रक्रमिष्यन्ति । इदमपि सुभूते मारकर्म वेदितव्यम् । न वयमत्र व्याकृताः प्रज्ञापारमितायामित्यप्रसन्नचित्ता उत्थायासनात्प्रक्रमिष्यन्ति । इदमपि सुभूते मारकर्म वेदितव्यम् । न नो ऽत्र ग्रामस्य वा नगरस्य वा निगमस्य वा नामधेयं परिगृहीतं यत्र नो जन्म, न नोऽत्र नाम गोत्रं वा गृहीतम्, न मातापित्रोर्नाम गोत्रं वा गृहीतम्, नापि कुलस्य यत्र नो जन्मेति, ते प्रज्ञापारमितां न श्रोतव्यां मंस्यन्ते, ततोऽपक्रमितव्यं मंस्यन्ते । यथा यथा च अपक्रमिष्यन्ति, तैर्यावद्भिश्चित्तोत्पादैस्तथा तथा तावतः कल्पान् संसारस्य पुनः पुनः परिग्रहीष्यन्ति, यत्र तैः पुनरेव योगमापत्तव्यं भविष्यति । तत्कस्मात्? इमां हि सुभूते प्रज्ञापारमितामशृण्वन्तो बोधिसत्त्वा महासत्त्वा लौकिकलोकोत्तरेषु धर्मेषु न निर्जायन्ते । इदमपि सुभूते तेषां मारकर्म वेदितव्यम् । पुनरपरं सुभूते बोधिसत्त्वयानिकाः पुद्गला इमां प्रज्ञापारमितां सर्वज्ञज्ञानस्याहारिकां विवर्ज्य उत्सृज्य ये ते सूत्रान्ता नैव सर्वज्ञज्ञानस्याहारिकास्तान् पर्येषितव्यान्मंस्यन्ते । इदमपि सुभूते तेषां मारकर्म वेदितव्यम् । यथा खलु पुनः सुभूते न लौकिकलोकोत्तरेषु शिक्षितुकामा न लौकिकलोकोत्तरेषु धर्मेषु निर्यातुकामा इह प्रज्ञापारमितायां न शिक्षन्ते । प्रज्ञापारमितायामशिक्षमाणा न लौकिकलोकोत्तरेषु धर्मेषु निर्यान्ति । एवं ते परीत्तबुद्धयो लौकिकलोकोत्तराणां यथाभूतपरिज्ञाया मूलं प्रज्ञापारमितां विवर्ज्य उत्सृज्य प्रशाखामध्यालम्बितव्यां मंस्यन्ते । तद्यथापि नाम सुभूते कुक्कुरः स्वामिनोऽन्तिकात्पिण्डांश्छोरयित्वा कर्मकरस्यान्तिकात्कवलं पर्येषितव्यं मन्येत, एवमेव सुभूते भविष्यन्त्यनागते ऽध्वनि एके बोधिसत्त्वयानिकाः, पुद्गलाः, ये इमां प्रज्ञापारमितां सर्वज्ञज्ञानस्य मूलं छोरयित्वा शाखापत्रपलालभूते श्रावकप्रत्येकबुद्धयाने (वैद्य ११६) सारं वृद्धत्वं पर्येषितव्यं मंस्यन्ते । इदमपि सुभूते तेषां मारकर्म वेदितव्यम् । तत्कस्य हेतोः? न हि तेऽल्पबुद्धयो ज्ञास्यन्ति - प्रज्ञापारमिता आहारिका सर्वज्ञज्ञानस्येति । ते प्रज्ञापारमितां विवर्ज्य उत्सृज्य छोरयित्वा ततोऽन्ये सूत्रान्ता ये श्रावकभूमिमभिवदन्ति, प्रत्येकबुद्धभूमिमभिवदन्ति, तानधिकतरं पर्यवाप्तव्यान्मंस्यन्ते । शाखापत्रपलालोपमाः प्रतिपन्नास्ते तथारूपा बोधिसत्त्वा वेदितव्याः । तत्कस्य हेतोः? न हि सुभूते बोधिसत्त्वेन महासत्त्वेनैवं शिक्षितव्यं यथा श्रावकयानिकाः प्रत्येकबुद्धयानिका वा पुद्गलाः शिक्षन्ते । कथं च सुभूते श्रावकयानिकाः प्रत्येकबुद्धयानिका वा पुद्गलाः शिक्षन्ते? तेषां सुभूते एवं भवति - एकमात्मानं दमयिष्यामः, एकमात्मानं शमयिष्यामः, एकमात्मानं परिनिर्वापयिष्यामः, इत्यात्मदमशमथपरिनिर्वाणाय सर्वकुशलमूलाभिसंस्कारप्रयोगानारभन्ते । न खलु पुनः सुभूते बोधिसत्त्वेन महासत्त्वेनैवं शिक्षितव्यम् । अपि तु खलु पुनः सुभूते बोधिसत्त्वेन महासत्त्वेनैवं शिक्षितव्यम् - आत्मानं च तथतायां स्थापयिष्यामि सर्वलोकानुग्रहाय, सर्वसत्त्वानपि तथतायां स्थापयिष्यामि, अप्रमेयं सत्त्वधातुं परिनिर्वापयिष्यामीति । सर्वकुशलमूलाभिसंस्कारप्रयोगा बोधिसत्त्वेन महासत्त्वेनैवमारब्धव्याः, न च तैर्मन्तव्यम् । तद्यथापि नाम सुभूते कश्चिदेव पुरुषो हस्तिनमपश्यन् हस्तिनो वर्णसंस्थाने पर्येषेत । सोऽन्धकारे हस्तिनं लब्ध्वा येन प्रकाशं तेनोपनिध्यायेत । तेनोपनिध्यायन् हस्तिपदं पर्येषितव्यं मन्येत । हस्तिपदाच्च हस्तिनो वर्णसंस्थाने ग्रहीतव्ये मन्येत । तत्किं मन्यसे सुभूते अपि नु स पण्डितजातीयः पुरूषो भवेत्? सुभूतिराह - नो हीदं भगवन् । भगवानाह - एवमेव सुभूते तथारूपास्ते बोधिसत्त्वयानिकाः पुद्गला वेदितव्याः, य इमां प्रज्ञापारमितामजानाना अपरिपृच्छन्तस्तां छोरयित्वा अनुत्तरां सम्यक्संबोधिमभिसंबोद्धुकामा ये ते सूत्रान्ताः श्रावकभूमिमभिवदन्ति, प्रत्येकबुद्धभूमिमभिवदन्ति, तान् पर्येषितव्यान्मंस्यन्ते । इदमपि सुभूते तेषां मारकर्म वेदितव्यम् । तद्यथापि नाम सुभूते रत्नार्थिकः पुरुषो महासमुद्रं दृष्ट्वा नावगाहेत, रत्नानि न निध्यायेत्नाध्यालम्बेत । स रत्नहेतोर्गोष्पदं पर्येषितव्यं मन्येत । स गोष्पदोदकेन महासमुद्रं समीकर्तव्यं मन्येत । तत्किं मन्यसे सुभूते - अपि नु स पण्डितजातीयः पुरुषो वेदितव्यः? सुभूतिराह - नो हीदं भगवन् । भगवानाह - एवमेव सुभूते तथारूपास्ते बोधिसत्त्वयानिकाः पुद्गला वेदितव्याः, य इमां गम्भीरां प्रज्ञापारमितां लब्ध्वाप्यनवगाहमाना अविजानन्तस्तक्ष्यन्ति । ये च सूत्रान्ताः श्रावकभूमिमभिवदन्ति, प्रत्येकबुद्धभूमिमभिवदन्ति अल्पोत्सुकविहारितया तान् पर्येषितव्यान्मंस्यन्ते । यत्र बोधिसत्त्वयानं न संवर्ण्यते, केवलमात्मदमशमथपरिनिर्वाणमेव इत्यपि प्रतिसंलयनमिति । स्रोतआपत्तिफलं प्राप्नुयामिति, सकृदागामिफलमित्यनागामिफलमित्यर्हत्त्वं प्राप्नुयामिति, प्रत्येकबोधिं प्राप्नुयामिति, दृष्ट एव धर्मे अनुपादाय आस्रवेभ्यश्चित्तं विमोच्य परिनिर्वापयामिति । इदमुच्यते श्रावकप्रत्येकबुद्धभूमिप्रतिसंयुक्तमिति । नात्र बोधिसत्त्वैर्महासत्त्वैरेवं चित्तमुत्पादयितव्यम् । तत्कस्य हेतोः? महायानसंप्रस्थिता हि सुभूते बोधिसत्त्वा महासत्त्वा महासंनाहसंनद्धा भवन्ति । न तैः (वैद्य ११७) कदाचिदल्पोत्सुकतायां चित्तमुत्पादयितव्यम् । तत्कस्य हेतोः? लोकपरिणायका हि भवन्ति ते सत्पुरुषा लोकार्थकराः । तस्मात्तैर्नित्यकालं सततसमितं षट्पारमितासु शिक्षितव्यम् । ये च खलु पुनः सुभूते अपरिपक्वकुशलमूलाः परीत्तकुबुद्धिका मृदुकाध्याशया बोधिसत्त्वयानिकाः पुद्गलाः, ते षट्पारमिताप्रतिसंयुक्तान् सूत्रान्तानजानाना अनवबुद्ध्यमाना इमां प्रज्ञापारमितां छोरयित्वा ये ते सूत्रान्ताः श्रावकप्रत्येकबुद्धभूमिमभिवन्दन्ति, तान् पर्येषितव्यान्मंस्यन्ते । इदमपि सुभूते मारकर्म वेदितव्यं तेषां तथारूपाणां बोधिसत्त्वयानिकानां पुद्गलानां तद्यथापि नाम सुभूते पलगण्डो वा पलगण्डान्तेवासी वा वैजयन्तस्य प्रासादस्य प्रमाणेन प्रासादं कर्तुकामो निर्मातुकामः स्यात् । स सूर्याचन्द्रमसोर्विमानप्रमाणं मण्डलं पर्येषेत । पर्येषमाणः स सूर्याचन्द्रमसोर्विमानं पश्येत् । स ततः प्रमाणं ग्रहीतव्यं मन्यते । तत्किं मन्यसे सुभूते वैजयन्तप्रासादप्रमाणं प्रासादं कर्तुकामेन निर्मातुकामेन सूर्याचन्द्रमसोर्विमानात्प्रमाणं ग्रहीतव्यं भवति? सुभूतिराह - नो हीदं भगवन् । भगवानाह - एवमेव सुभूते भविष्यन्त्यनागतेऽध्वनि एके बोधिसत्त्वयानिकाः पुद्गलाः, ये प्रज्ञापारमितां श्रुत्वा प्रज्ञापारमितां लब्ध्वा प्रज्ञापारमितां रिञ्चित्वा प्रज्ञापारमितामुत्सृज्य श्रावकप्रत्येकबुद्धभूमिप्रतिसंयुक्तैः सूत्रान्तैः सर्वज्ञतां पर्येषितव्यां मंस्यन्ते, ये ते सूत्रान्ता एवमभिवदन्ति - एकमात्मानं दमयिष्यामः, एकमात्मानं शमयिष्यामः, एकमात्मानं परिनिर्वापयिष्याम इति । केवलमात्मदमशमथपरिनिर्वाणमेवोपनयन्ति, तथारूपान् सूत्रान्तान् पर्येष्यन्ते, तथा च शिक्षितव्यं मंस्यन्ते । तत्किं मन्यसे सुभूते अपि नु ते पण्डितजातीयाः बोधिसत्त्वा वेदितव्याः? सुभूतिराह - नो हीदं भगवन् । भगवानाह - इदमपि सुभूते तेषां मारकर्म वेदितव्यम् । तद्यथापि नाम सुभूते कश्चिदेव पुरुषो राजानं च चक्रवर्तिनं भ्रष्टुकामो भवेत्, स राजानं चक्रवर्तिनं पश्येत् । दृष्ट्वा च ईदृशो राजा चक्रवर्ती वर्णेन संस्थानेन तेजसा ऋद्ध्या चेति निमित्तं गृहीत्वा कोट्टराजं पश्येत् । स तस्य कोट्टराजस्य वर्णं संस्थानं तेज ऋद्धिं च निमित्तं च गृहीत्वा अप्रतिबलो विशेषग्रहणं प्रति एवं वदेत्- ईदृश एव स राजा चक्रवर्ती वर्णेन संस्थानेन तेजसा ऋद्ध्या च निमित्तेन चेति । तत्किं मन्यसे सुभूते अपि नु स पण्डितजातीयः पुरुषो वेदितव्यो यश्चक्रवर्तिनं कोट्टराजेन समीकर्तव्यं मन्येत? सुभूतिराह - नो हीदं भगवन् । भगवानाह - एवमेव सुभूते भविष्यन्त्यनागतेऽध्वनि एके बोधिसत्त्वयानिकाः पुद्गलाः, य इमां प्रज्ञापारमितां श्रुत्वा प्रज्ञापारमितां लब्ध्वा प्रज्ञापारमितां रिञ्चित्वा प्रज्ञापारमितामुत्सृज्य श्रावकप्रत्येकबुद्धभूमिप्रतिसंयुक्तैः सूत्रान्तैः सर्वज्ञतां पर्येषितव्यां मंस्यन्ते । इदमपि सुभूते तेषां मारकर्म वेदितव्यम् । न खलु पुनरहं सुभूते एभिरेवंरूपैः श्रावकप्रत्येकबुद्धभूमिप्रतिसंयुक्तैः सूत्रान्तैर्बोधिसत्त्वस्य महासत्त्वस्य सर्वज्ञतां पर्येषितव्यां वदामि । अपि तु खलु पुनः सुभूते यत्तथागतेन प्रज्ञापारमितायां बोधिसत्त्वानां महासत्त्वानामुपायकौशल्यमाख्यातम्, तत्राशिक्षित्वा बोधिसत्त्वो महासत्त्वो न निर्यास्यत्यनुत्तरायां सम्यक्संबोधौ । तत्कस्य हेतोः? (वैद्य ११८) धन्धको ह्यन्येषु सूत्रान्तेषु बोधिसत्त्वसमुदागमः । तस्मात्तर्हि सुभूते तथागत एनामनुशंसां प्रज्ञापारमितायां पश्यननेकपर्यायेण बोधिसत्त्वान्महासत्त्वानस्यां प्रज्ञापारमितायां संदर्शयति समादापयति समुत्तेजयति संप्रहर्षयति संनिवेशयति प्रतिष्ठापयति - एवं बोधिसत्त्वा महासत्त्वा अविनिवर्तनीया भवेयुरनुत्तरायाः सम्यक्संबोधेरिति । तत्किं मन्यसे सुभूते अपि नु पण्डितजातीयास्ते बोधिसत्त्वाः प्रतिभान्ति, ये अविनिवर्तनीययानं महायानमवाप्य समासाद्य पुनरेव तद्विवर्ज्य विवर्त्य हीनयानं पर्येषितव्यं मंस्यन्ते? सुभूतिराह - नो हीदं भगवन् । भगवानाह - तद्यथापि नाम सुभूते बुभुक्षितः पुरुषः शतरसं भोजनं लब्ध्वा हितविपाकं सुखविपाकं यावदायुःपर्यन्तं क्षुत्पिपासानिवर्तकम्, तदपास्य षष्टिकोदनं पर्येषितव्यं मन्येत । षष्टिकोदनं लब्ध्वा शतरसं भोजनमुत्सृज्य विवर्ज्य तं षष्टिकोदनं परिभोक्तव्यं मन्येत । तत्किं मन्यसे सुभूते अपि नु स पुरुषः पण्डितजातीयो भवेत्? सुभूतिराह - नो हीदं भगवन् । भगवानाह - एवमेव सुभूते भविष्यन्त्यनागतेऽध्वनि एके बोधिसत्त्वाः, य इमां प्रज्ञापारमितां श्रुत्वा प्रज्ञापारमितां लब्ध्वा प्रज्ञापारमितां रिञ्चिष्यन्ति, प्रज्ञापारमितामुत्स्रक्ष्यन्ति प्रज्ञापारमितां छोरयिष्यन्ति, प्रज्ञापारमितां दूरीकरिष्यन्ति, प्रज्ञापारमितां रिञ्चित्वा प्रज्ञापारमितामुत्सृज्य प्रज्ञापारमितां छोरयित्वा प्रज्ञापारमितां दूरीकृत्य ततः श्रावकप्रत्येकबुद्धयानप्रतिसंयुक्तान् सूत्रान्तान् पर्येषितव्यान्मंस्यन्ते । ये ते सूत्रान्ताः श्रावकप्रत्येकबुद्धभूमिमभिवदन्ति, तैः सर्वज्ञतां पर्येषितव्यां मंस्यन्ते । तत्किं मन्यसे सुभूते अपि नु पण्डितजातीयास्ते बोधिसत्त्वा वेदितव्याः? सुभूतिराह - नो हीदं भगवन् । भगवानाह - इदमपि सुभूते तेषां मारकर्म वेदितव्यम् । तद्यथापि नाम सुभूते कश्चिदेव पुरुषोऽनर्ध्यं मणिरत्नं लब्ध्वा अल्पार्ध्येण अल्पसारेण मणिरत्नेन सार्धं समीकर्तव्यं मन्येत । तत्किं मन्यसे सुभूते अपि नु स पण्डितजातीयः पुरुषो वेदितव्यः? सुभूतिराह - नो हीदं भगवन् । भगवानाह - एवमेव सुभूते भविष्यन्त्यनागतेऽध्वनि एके बोधिसत्त्वयानिकाः पुद्गलाः, य इदं गम्भीरं प्रभास्वरं प्रज्ञापारमितारत्नं लब्ध्वा श्रुत्वा श्रावकप्रत्येकबुद्धयानेन समीकर्तव्यं मंस्यन्ते, श्रावकप्रत्येकबुद्धभूमौ च सर्वज्ञतामुपायकौशल्यं च पर्येषितव्यं मंस्यन्ते । तत्किं मन्यसे सुभूते अपि नु पण्डितजातीयास्ते बोधिसत्त्वा वेदितव्याः? सुभूतिराह - नो हीदं भगवन् । भगवानाह - इदमपि सुभूते तेषां बोधिसत्त्वानां महासत्त्वानां मारकर्म वेदितव्यम् । पुनरपरं सुभूते अस्यां गम्भीरायां प्रज्ञापारमितायां भास्यमाणायां देश्यमानायामुपदिश्यमानायामुद्दिश्यमानायामुद्गृह्यमाणायां वाच्यमानायां स्वाध्याय्यमानायामन्तशो लिख्यमानायामपि बहूनि प्रतिभानान्युत्पत्स्यन्ते, यानि चित्तविक्षेपं करिष्यन्ति । इदमपि सुभूते तेषां बोधिसत्त्वानां महासत्त्वानां मारकर्म वेदितव्यम् ॥ एवमुक्ते आयुष्मान् सुभूतिर्भगवन्तमेतदवोचत्- शक्या पुनर्भगवन् प्रज्ञापारमिता लिखितुम्? भगवानाह - नो हीदं सूभूते । ये केचित्सुभूते प्रज्ञापारमितां लिप्यक्षरैर्लिखित्वा प्रज्ञापारमिता लिखितेति मंस्यन्ते, असतीति वा अक्षरेषु प्रज्ञापारमितामभिनिवेक्ष्यन्ते, अनक्षरेति वा, इदमपि सुभूते तेषां मारकर्म वेदितव्यम् ॥ (वैद्य ११९) पुनरपरं सुभूते प्रज्ञापारमितायां लिख्यमानायां देशमनसिकारा उत्पत्स्यन्ते, ग्रामनगरनिगमजनपदराष्ट्रराजधानीमनसिकारा उत्पत्स्यन्ते, उद्यानमनसिकारा उत्पत्स्यन्ते, गुरुमनसिकारा उत्पत्स्यन्ते, आख्यानमनसिकारा उत्पत्स्यन्ते, चौरमनसिकारा उत्पत्स्यन्ते, गुल्मस्थानमनसिकारा उत्पत्स्यन्ते, विशिखामनसिकारा उत्पत्स्यन्ते, शिबिकामनसिकारा उत्पत्स्यन्ते, सुखमनसिकारा उत्पत्स्यन्ते, दुःखमनसिकारा उत्पत्स्यन्ते, भयमनसिकारा उत्पत्स्यन्ते, स्त्रीमनसिकारा उत्पत्स्यन्ते, पुरुषमनसिकारा उत्पत्स्यन्ते, नपुंसकमनसिकारा उत्पत्स्यन्ते, प्रियाप्रियव्यत्यस्तमनसिकारा उत्पत्स्यन्ते, मातापितृप्रतिसंयुक्ता मनसिकारा उत्पत्स्यन्ते, भ्रातृभगिनीप्रतिसंयुक्ता मनसिकारा उत्पत्स्यन्ते, मित्रबान्धवसालोहितामात्यप्रतिसंयुक्ता मनसिकारा उत्पत्स्यन्ते, प्रजापतिपुत्रदुहितृप्रतिसंयुक्ता मनसिकारा उत्पत्स्यन्ते, गृहभोजनपानप्रतिसंयुक्ता मनसिकारा उत्पत्स्यन्ते, चैलमनसिकारा उत्पत्स्यन्ते, शयनासनमनसिकारा जीवितमनसिकारा इतिकर्तव्यतामनसिकारा रागमनसिकारा द्वेषमनसिकारा मोहमनसिकारा ऋतुमनसिकारा सुकालमनसिकारा दुष्कालमनसिकारा गीतमनसिकारा वाद्यमनसिकारा नृत्यमनसिकारा काव्यनाटकेतिहासमनसिकाराः शास्त्रमनसिकारा व्यवहारमनसिकारा हास्यमनसिकारा लास्यमनसिकाराः शोकमनसिकारा आयासमनसिकारा आत्ममनसिकाराः, इत्येतांश्चान्यांश्च सुभूते मनसिकारान्मारः पापीयानुपसंहरिष्यति अस्यां प्रज्ञापारमितायां भाष्यमाणायां देश्यमानायामुपदिश्यमानायामुद्गृह्यमाणायां वाच्यमानायामुद्दिश्यमानायां स्वाध्याय्यमानायामन्तशो लिख्यमानायामन्तरायं करिष्यति, चित्तविक्षेपं करिष्यति बोधिसत्त्वानां महासत्त्वानाम् । तत्र बोधिसत्त्वेन महासत्त्वेन मारकर्माणि बोद्धव्यानि । बुद्ध्वा च विवर्जयितव्यानि । पुनरपरं सुभूते उत्पत्स्यन्ते राजमनसिकाराः कुमारमनसिकाराहस्तिमनसिकारा अश्वमनसिकारा रथमनसिकारा गुल्मदर्शनमनसिकाराः । इदमपि सुभूते तेषां मारकर्म वेदितव्यम् । पुनरपरं सुभूते उत्पत्स्यन्ते अग्निमनसिकारा इच्छामनसिकारा धनधान्यसमृद्धिमनसिकाराः । इदमपि सुभूते बोधिसत्त्वानां महासत्त्वानां मारकर्म वेदितव्यम् ॥ पुनरपरं सुभूते बोधिसत्त्वानां महासत्त्वानामुत्पत्स्यन्ते लाभसत्कारचीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणामन्तराया इमां प्रज्ञापारमितां भाषमाणानां देशयतामुपदिशतामुद्दिशतां स्वाध्यायतामन्तशो लिखतां लाभसत्कारश्लोकस्वादाश्चित्तोत्पीडा वा । इदमपि सुभूते बोधिसत्त्वैर्महासत्त्वैर्मारकर्म वेदितव्यम् । एतानि तैः सर्वाणि मारकर्माणि बोद्धव्यानि, बुद्ध्वा च विवर्जयितव्यानि ॥ पुनरपरं सुभूते बोधिसत्त्वानां महासत्त्वानामिमां प्रज्ञापारमितां भाषमाणानां देशयतामुपदिशतामुद्दिशतां स्वाध्यायतामन्तशो लिखतां ये ते गम्भीरा गम्भीराः सूत्रान्ता भविष्यन्ति श्रावकप्रत्येकबुद्धभूमिप्रतिसंयुक्ताः, तान्मारः पापीयान् भिक्षुवेषणोपसंक्रम्य उपसंहरिष्यति - इह शिक्षस्व, इदं लिख, इदमुद्दिश, इदं स्वाध्याय, इतः सर्वज्ञता निष्पत्स्यते इति । न खलु पुनः सुभूते बोधिसत्त्वेन महासत्त्वेन उपायकुशलेन तेभ्यः स्पृहोत्पादयितव्या । तत्कस्य हेतोः? किं चापि सुभूते तेषु सूत्रान्तेषु शून्यतानिमित्ताप्रणिहितानि भाषितानि, (वैद्य १२०) न खलु पुनरुपायकौशल्यं तत्र बोधिसत्त्वानां महासत्त्वानामाख्यातम् । तत्र येऽनभिज्ञा भविष्यन्ति बोधिसत्त्वा उपायकौशल्यज्ञानविशेषस्य, ते इमां गम्भीरां प्रज्ञापारमितां रिञ्चितव्यां मंस्यन्ते । ते इमां गम्भीरां प्रज्ञापारमितां रिञ्चित्वा श्रावकप्रत्येकबुद्धभूमिप्रतिसंयुक्तेषु सूत्रान्तेषु उपायकौशल्यं पर्येषितव्यं मंस्यन्ते । इदमपि सुभूते बोधिसत्त्वेन महासत्त्वेन मारकर्म वेदितव्यम् ॥ पुनरपरं सुभूते धार्मश्रवणिकश्छन्दिको भविष्यति प्रज्ञापारमितामुद्ग्रहीतुकामः, धर्मभाणकश्च किलासी भविष्यति न धर्मं देशयितुकामः । इदमपि सुभूते बोधिसत्त्वेन महासत्त्वेन विसामग्रीमारकर्म वेदितव्यम् । पुनरपरं सुभूते धर्मभाणकश्च अकिलासी भविष्यति प्रज्ञापारमितां दातुकामः, धार्मश्रवणिकश्च किलासी वा बहुकृत्यो वा भविष्यति । इदमपि सुभूते बोधिसत्त्वेन महासत्त्वेन विसामग्रीमारकर्म वेदितव्यम् । पुनरपरं सुभूते धार्मश्रवणिकश्छन्दिको भविष्यति प्रज्ञापारमितामुद्ग्रहीतुकामो धारयितुकामो वाचयितुकामः पर्यवाप्तुकामः प्रवर्तयितुकामोऽन्तशो लिखितुकामोऽपि भविष्यति, गतिमांश्च मतिमांश्च स्मृतिमांश्च भविष्यति । धर्मभाणकश्चान्यद्देशान्तरं क्षेप्स्यते नोद्धट्टितज्ञो वा न वा विपञ्चितज्ञः, अनभिज्ञो वा भविष्यति । इयमपि सुभूते तत्र विसामग्री भविष्यति प्रज्ञापारमितायां भाष्यमाणायां देश्यमानायामुपदिश्यमानायामुद्दिश्यमानायां स्वाध्याय्यमानायां शिक्ष्यमाणायामन्तशः लिख्यमानायाम् । इदमपि सुभूते बोधिसत्त्वेन महासत्त्वेन विसामग्रीमारकर्म वेदितव्यम् । पुनरपरं सुभूते धर्मभाणकश्च अकिलासी भविष्यत्यभिज्ञो दातुकामो वाचयितुकाम इमां प्रज्ञापारमिताम्, धार्मश्रवणिकश्च देशान्तरं प्रस्थितो भविष्यति नोद्धट्टितज्ञो वा न वा विपञ्चितज्ञोऽनभिज्ञो वा भविष्यति । इदमपि सुभूते बोधिसत्त्वेन महासत्त्वेन विसामग्रीमारकर्म वेदितव्यम् । पुनरपरं सुभूते धर्मभाणकश्च आमिषगुरुको लाभसत्कारचीवरगुरुको भविष्यति । धार्मश्रवणिकाश्च अल्पेच्छः संतुष्टः प्रविविक्तोऽर्थं वा न दातुकामो भविष्यति । इयमपि सुभूते तत्र विसामग्री भविष्यति प्रज्ञापारमितायां शिक्ष्यमाणायां लिख्यमानायाम् । इदमपि सुभूते बोधिसत्त्वेन महासत्त्वेन मारकर्म वेदितव्यम् । पुनरपरं सुभूते धार्मश्रवणिकश्च श्राद्धो भविष्यति इमां प्रज्ञापारमितां श्रोतुकामोऽर्थमवबोद्धुकामोऽर्थं दातुकामोऽर्थं परित्यक्तुकामः । धर्मभाणकश्च अश्राद्धो भविष्यति अल्पेच्छो वा न वा भाषितुकामः । अतोऽपि सुभूते विसामग्रीमारकर्म वेदितव्यम् । पुनरपरं सुभूते धार्मश्रवणिकश्च श्राद्धो भविष्यति श्रोतुकामोऽर्थमवबोद्धुकामः । धर्मभाणकस्य च तानि सूत्राणि धर्मान्तरायिकतया न संभविष्यन्ति नावतरिष्यन्ति । अतोऽपि सुभूते धार्मश्रवणिकस्याप्राप्तधर्मभाणिनः प्रतिवाणी भविष्यति । इयमपि सुभूते तत्र विसामग्री भविष्यति प्रज्ञापारमितामुद्गृह्णतां धारयतां वाचयतां पर्यवाप्नुवतां प्रवर्तयतामन्तशो लिखताम् । इदमपि सुभूते बोधिसत्त्वेन महासत्त्वेन मारकर्म वेदितव्यम् । पुनरपरं सुभूते धर्मभाणकश्च भाषितुकामो भविष्यति । धार्मश्रवणिकश्च अच्छन्दिको भविष्यति श्रवणाय । इयमपि सुभूते तत्र विसामग्री भविष्यति प्रज्ञापारमितामुद्ग्रहीतुं (वैद्य १२१) धारयितुं वाचयितुं पर्यवाप्तुं प्रवर्तयितुमन्तशो लिखितुम् । इदमपि सुभूते बोधिसत्त्वेन महासत्त्वेन मारकर्म वेदितव्यम् । पुनरपरं सुभूते धार्मश्रवणिको मिद्धगुरुको भविष्यति, कायगुरुको भविष्यति । स तेन मिद्धगुरुकत्वेन समन्वागतः कायक्लमथेन समन्वागतो न श्रोतुकामो भविष्यति । धर्मभाणकश्च भाषितुकामो भविष्यति । इदमपि सुभूते बोधिसत्त्वेन महासत्त्वेन विसामग्रीमारकर्म वेदितव्यम् । पुनरपरं सुभूते धर्मभाणको मिद्धगुरुको भविष्यति, कायगुरुको भविष्यति । स तेन मिद्धगुरुकत्वेन समन्वागतः कायक्लमथेन समन्वागतो न भाषितुकामो भविष्यति । धार्मश्रवणिकश्च श्रोतुकामो भविष्यति । इयमपि सुभूते तत्र विसामग्री भविष्यति लिखनाय वाचनाय पर्यवाप्तये वा । इदमपि सुभूते बोधिसत्त्वेन महासत्त्वेन मारकर्म वेदितव्यम् ॥ पुनरपरं सुभूते प्रज्ञापारमितायां लिख्यमानायां भाष्यमाणायां शिक्ष्यमाणायां कश्चिदेव तत्रागत्य निरयाणामवर्णं भाषिष्यते, तिर्यग्योनेरवर्णं भाषिष्यते, प्रेतविषयस्यावर्णं भाषिष्यते, असुरकायानामवर्णं भाषिष्यते - एवंदुःखा निरयाः, एवंदुःखा तिर्यग्योनिः, एवंदुःखः प्रेतविषयः, एवंदुःखा आसुराः कायाः, एवंदुःखाः संस्काराः । इहैव दुःखस्यान्तः करणीय इति । इदमपि सुभूते बोधिसत्त्वेन महासत्त्वेन विसामग्रीमारकर्म वेदितव्यम् ॥ पुनरपरं सुभूते प्रज्ञापारमितायां लिख्यमानायां भाष्यमाणायां शिक्ष्यमाणायां वा कश्चिदेव तत्रागत्य देवानां वर्णं भाषिष्यते - एवंसुखिता देवाः, एवंसुखाः स्वर्गाः, एवं कामधातौ कामाः सेवितव्याः, एवं रूपधातौ ध्यानानि समापत्तव्यानि, एवमारूप्यधातौ तत्समापत्तयः समापत्तव्याः । तदपि च सर्वं प्रज्ञता विमृश्य सर्वैव दुःखोपपत्तिरिति । उक्तं हीदं भगवता - अच्छटासंघातमात्रकमप्यहं भिक्षवो भवाभिनिर्वृत्तिं न वर्णयामि । सर्वं हि संस्कृतमनित्यं सर्वं भयावगतं दुःखं सर्वं त्रैधातुकं शून्यं सर्वधर्मा अनात्मानः । तदेवं सर्वमशाश्वतमनित्यं दुःखं विपरिणामधर्मकं विदित्वा पण्डितैरिहैव स्रोतआपत्तिफलं प्राप्तव्यम्, सकृदागामिफलमनागामिफलम्, इहैवार्हत्त्वं प्राप्तव्यम् । मा नो भूयस्ताभिः संपत्तिविपत्तिभिर्दुःखभूयिष्ठाभिः समवधानं भूदिति । तत्रैके बोधिसत्त्वाः संवेगमापत्स्यन्ते । इदमपि सुभूते बोधिसत्त्वेन महासत्त्वेन विसामग्रीमारकर्म वेदितव्यम् ॥ पुनरपरं सुभूते येऽपि ते भिक्षवो धर्मभाणकाः, ते एकाकिताभिरता भविष्यन्ति । येऽपि धार्मश्रवणिकास्तेऽपि पर्षुद्गुरुका भविष्यन्ति । तेऽपि धर्मभाणका एवं वक्ष्यन्ति - ये मामनुवर्त्स्यन्ति, तेभ्योऽहमिमां प्रज्ञापारमितां दास्यामि । ये मां नानुवर्त्स्यन्ति, तेभ्यो न दास्यामीति । एवं ते कुलपुत्राः कुलदुहितरश्च अर्थिकतया छन्दिकतया धर्मगौरवेण तं धर्मभाणकमनुवर्त्स्यन्ति, न चावकाशं दास्यन्ति, स च धर्मभाणक आमिषकिंचित्काभिलाषी, ते च न दातुकामाः । स च तेन तेन गमिष्यति, येन येन दुर्भिक्षश्च अयोगक्षेमश्च जीवितान्तरायश्च भविष्यति । ते च धार्मश्रवणिकाः परेभ्यः श्रोष्यन्ति - असौ प्रदेशो (वैद्य १२२) दुर्भिक्षश्च अयोगक्षेमश्च । तस्मिंश्च प्रदेशे जीवितान्तरायो भवेदिति । स च धर्मभाणकस्तान् कुलपुत्रानेवमभिव्याहरिष्यति - अमुष्मिन् कुलपुत्राः प्रदेशे दुर्भिक्षभयम् । कच्चित्कुलपुत्रा यूयमागमिष्यथ मा पश्चाद्विप्रतिसारिणो भविष्यथ दुर्भिक्षभयं प्रविष्टाः? एवं ते तेन धर्मभाणकेन सूक्ष्मेणोपायेन प्रतिक्षेप्स्यते । ते च निर्विण्णरूपा एवं ज्ञास्यन्ति - प्रत्याख्याननिमित्तान्येतानि, नैतानि दातुकामतानिमित्तानीति । नायं दातुकाम इति विदित्वा नानुवर्त्स्यन्ति । इयमपि सुभूते तत्र विसामग्री भविष्यति प्रज्ञापारमितायां लिख्यमानायां शिक्ष्यमाणायां देश्यमानायामुपदिश्यमानायामुद्दिश्यमानायां स्वाध्याय्यमानायाम् । इदमपि सुभूते बोधिसत्त्वेन महासत्त्वेन मारकर्म वेदितव्यम् ॥ पुनरपरं सुभूते धर्मभाणको येन जन्तुभयं येन व्यालभयं येनामनुष्यभयं तेन संप्रस्थितो भविष्यति । स तेन चरन् विहरन् येन व्यालकान्तारं सरीसृपकान्तारं चोरकान्तारं पानीयकान्तारं दुर्भिक्षकान्तारं तेन प्रक्रमिष्यति । स तान् धार्मश्रवणिकानेवं वक्ष्यति - यत्खलु कुलपुत्रा जानीध्वं यस्मिन् प्रदेशे जन्तुभयं व्यालभयं क्रव्यादभयं सरीसृपकान्तारं चोरकान्तारं पानीयकान्तारं दुर्भिक्षकान्तारं तेन वयं संप्रस्थिताः । जानीध्वं कुलपुत्राः - शक्यथ यूयमेतानि दुःखानि प्रत्यनुभवितुम्? एवं तान् सूक्ष्मेणोपायेन प्रत्याख्यास्यति । ततस्ते निर्वेत्स्यन्ते । निर्विण्णाः सन्तो नानुवर्त्स्यन्ति । ते पुनरेव प्रत्युदावर्त्स्यन्ते । अयमपि सुभूते प्रज्ञापारमितायामन्तराय उत्पत्स्यते उद्दिश्यमानायाः स्वाध्याय्यमानायाः यावल्लिख्यमानायाः । इदमपि सुभूते बोधिसत्त्वेन महासत्त्वेन विसामग्रीमारकर्म वेदितव्यम् ॥ पुनरपरं सुभूते धर्मभाणको भिक्षुर्मित्रकुलभिक्षादकुलगुरुको भविष्यति । स तया मित्रकुलभिक्षादकुलगुरुकतया अभीक्ष्णं मित्रकुलभिक्षादकुलान्यवलोकयितव्यान्युपसंक्रमितव्यानि मंस्यते । स तया अभीक्ष्णावलोकनतया बहुकृत्यतया तान् धार्मश्रवणिकान् प्रत्याख्यास्यति - अस्ति तावन्मे किंचिदवलोकयितव्यम्, अस्ति तावन्ममोपसंक्रमितव्यमिति । इयमपि सुभूते तत्र विसामग्री भविष्यति प्रज्ञापारमितायां लिख्यमानायां पर्यवाप्यमाणायाम् । इदमपि सुभूते बोधिसत्त्वेन महासत्त्वेन मारकर्म वेदितव्यम् ॥ इति हि सुभूते मारः पापीयांस्तैस्तैः प्रकारैस्तथा तथा चेष्टिष्यते, यथेमां प्रज्ञापारमितां न कश्चिदुद्ग्रहीष्यति, न धारयिष्यति, न वाचयिष्यति, न पर्यवाप्स्यति, न प्रवर्तयिष्यति, न देशयिष्यति, नोपदेक्ष्यति, नोद्देक्ष्यति, न स्वाध्यास्यति, न लेखयिष्यति, न लिखिष्यति । तस्मात्तर्हि सुभूते यावन्तोऽन्तराया विसामग्र्यां संवर्तन्ते, तानि सर्वाणि बोधिसत्त्वेन महासत्त्वेन मारकर्माणीति बोद्धव्यानि, बुद्ध्वा च विवर्जयितव्यानीति ॥ एवमुक्ते आयुष्मान् सुभूतिर्भगवन्तमेतदवोचत्- किमत्र भगवन् कारणं यदिह मारः पापीयानेवं महान्तमुद्योगमापत्स्यते? तथा तथा चोपायेन चेष्टिष्यते, यथेमां प्रज्ञापारमितां (वैद्य १२३) न कश्चिदुद्ग्रहीष्यति न धारयिष्यति न वाचयिष्यति न पर्यवाप्स्यति न प्रवर्तयिष्यति न देशयिष्यति नोपदेक्ष्यति नोद्देक्ष्यति न स्वाध्यास्यति न लेखयिष्यति न लिखिष्यति? एवमुक्ते भगवानायुष्मन्तं सुभूतिमेतदवोचत्- प्रज्ञापारमितानिर्जाता हि सुभूते बुद्धानां भगवतां सर्वज्ञता । सर्वज्ञतानिर्जातं च तथागतशासनम् । तथागतशासननिर्जातं च अप्रमेयाणामसंख्येयानां सत्त्वानां क्लेशप्रहाणम् । प्रहीणक्लेशानां च मारः पापीयानवतारं न लभते । अलभमानो दुःखार्तो दुर्मनाः शोकशल्यपरिगतो भवति । अतः स प्रज्ञापारमितायां लिख्यमानायां पर्यवाप्यमाणायां महता संवेगेन महान्तमुद्योगमापद्यते । स महतोद्योगेन तथा तथोपायेन चेष्टते, यथा न कश्चिदिमां प्रज्ञापारमितां लिखेद्वा पर्यवाप्नुयाद्वेति ॥ पुनरपरं सुभूते मारः पापीयान् श्रमणवेषेणागत्य भेदं प्रक्षेप्स्यति । एवं च नवयानसंप्रस्थिताः कुलपुत्रा विवेचयिष्यन्ति नैषा प्रज्ञापारमिता यामायुष्मन्तः शृण्वन्ति । यथा पुनर्मम सूत्रागतं सूत्रपर्यापन्नम्, इयं सा प्रज्ञापारमिता । इत्येवं सुभूते मारः पापीयान् संशयं प्रक्षेप्स्यति । एवं च पुनः सुभूते मारः पापीयान् श्रमणवेषेणागत्य भेदं प्रक्षिप्य नवयानसंप्रस्थितान् बोधिसत्त्वानल्पबुद्धिकान्मन्दबुद्धिकान् परीत्तबुद्धिकानन्धीकृतानव्याकृताननुत्तरायां सम्यक्संबोधौ संशयं पातयिष्यति । ते संशयप्राप्ता इमां प्रज्ञापारमितां नोद्ग्रहीष्यन्ति न धारयिष्यन्ति न वाचयिष्यन्ति न पर्यवाप्स्यन्ति न प्रवर्तयिष्यन्ति न देशयिष्यन्ति नोपदेक्ष्यन्ति नोद्देक्ष्यन्ति न स्वाध्यास्यन्ति न लेखयिष्यन्ति न लिखिष्यन्ति । इदमपि सुभूते बोधिसत्त्वेन महासत्त्वेन मारकर्म वेदितव्यम् ॥ पुनरपरं सुभूते मारः पापीयान् भिक्षून्निर्माय बुद्धवेषेणागत्य एवं मारकर्मोपसंहरिष्यति - यो बोधिसत्त्वो गम्भीरेषु धर्मेषु चरति, स भूतकोटिं साक्षात्करोति । स श्रावको भवति, न बोधिसत्त्वो यथायं बोधिसत्त्व इति । इदमपि सुभूते बोधिसत्त्वेन महासत्त्वेन मारकर्म वेदितव्यम् ॥ एवं सुभूते मारः पापीयानेवमादिकानि सुबहूनि अन्यान्यपि मारकर्माण्युत्पादयिष्यति अस्यां प्रज्ञापारमितायां लिख्यमानायां पर्यवाप्यमाणायाम् । तानि बोधिसत्त्वेन महासत्त्वेन बोद्धव्यानि । बुद्ध्वा च विवर्जयितव्यानि । न भक्तव्यानि । आरब्धवीर्येण स्मृतिमता संप्रजानता च भवितव्यम् ॥ एवमुक्ते आयुष्मान् सुभूतिर्भगवन्तमेतदवोचत्- एवमेतद्भगवन्, एवमेतत्सुगत । यानि तानि भगवन्महारत्नानि, तानि बहुप्रत्यर्थिकानि भवन्ति । तत्कस्य हेतोः? यदुत दुर्लभत्वान्महार्घत्वाच्च । अग्राणि हि तानि भगवन् भवन्ति । तस्मात्तानि च बहुप्रत्यर्थिकानि भवन्ति । एवमेव भगवनस्याः प्रज्ञापारमितायाः प्रायेण बहवोऽन्तराया उत्पत्स्यन्ते । तत्र येऽन्तरायवशेन कुसीदा भविष्यन्ति, वेदितव्यमिदं भगवन्माराधिष्ठितास्ते बोधिसत्त्वा भविष्यन्ति, नवयानसंप्रस्थिताश्च ते भगवन् भविष्यन्ति, अल्पबुद्धयश्च ते भगवन् भविष्यन्ति, (वैद्य १२४) मन्दबुद्धयश्च ते भगवन् भविष्यन्ति, परीत्तबुद्धयश्च ते भगवन् भविष्यन्ति, विपर्यस्तबुद्धयश्च ते भगवन् भविष्यन्ति । नापि तेषामुदारोदारेषु धर्मेषु चित्तं प्रक्रमिष्यति, ये इमां प्रज्ञापारमितां नोद्ग्रहीतव्यां मंस्यन्ते, न धारयितव्यां न वाचयितव्यां न पर्यवाप्तव्यां न प्रवर्तयितव्यां न देशयितव्यां नोपदेष्टव्यां नोद्देष्टव्यां न स्वाध्यातव्यां न लेखयितव्यामन्तशो न लिखितव्यामपि मंस्यन्ते ॥ एवमुक्ते भगवानायुष्मन्तं सुभूतिमेतदवोचत्- एवमेतत्सुभूते, एवमेतत् । माराधिष्ठितास्ते सुभूते बोधिसत्त्वा वेदितव्याः । नवयानसंप्रस्थिताश्च ते सुभूते बोधिसत्त्वा भविष्यन्ति, अल्पबुद्धयश्च ते भविष्यन्ति, मन्दबुद्धयश्च ते भविष्यन्ति, परीत्तबुद्धयश्च ते भविष्यन्ति, विपर्यस्तबुद्धयश्च ते भविष्यन्ति । न च तेषामुदारोदारेषु धर्मेषु चित्तं प्रक्रमिष्यति, य इमां प्रज्ञापारमितां नोद्ग्रहीतव्यां मंस्यन्ते, न धारयितव्यां न वाचयितव्यां न पर्यवाप्तव्यां न प्रवर्तयितव्यां नोपदेष्टव्यां नोद्देष्टव्यां न स्वाध्यातव्यां न लेखयितव्यामन्तशो न लिखितव्यामपि मंस्यन्ते ॥ किंचापि सुभूते इमानि मारकर्माण्युत्पत्स्यन्ते, सुबहवश्चात्र मारदोषा अन्तरायकरा उत्पत्स्यन्ते । अथ च सुभूते य इमां प्रज्ञापारमितामुद्ग्रहीतव्यां मंस्यन्ते धारयितव्यां वाचयितव्यां पर्यवाप्तव्यां प्रवर्तयितव्यामुपदेष्टव्यामुद्देष्टव्यां स्वाध्यातव्यां लेखयितव्यामन्तशो लिखितव्यामपि मंस्यन्ते, वेदितव्यमेतत्सुभूते बुद्धानुभावेन बुद्धाधिष्ठानेन ते मंस्यन्ते । बुद्धपरिग्रहेणोद्ग्रहीष्यन्ति धारयिष्यन्ति वाचयिष्यन्ति पर्यवाप्स्यन्ति प्रवर्तयिष्यन्ति देशयिष्यन्त्युपदेक्ष्यन्त्युद्देक्ष्यन्ति स्वाध्यास्यन्ति लेखयिष्यन्त्यन्तशो लिखिष्यन्तीति । तत्कस्य हेतोः? मारोऽपि ह्यत्र पापीयान्महान्तमुद्योगमापत्स्यते अन्तरायकरणाय । तथागतोऽप्यर्हन् सम्यक्संबुद्ध उद्योगमापत्स्यतेऽनुपरिग्रहायेति ॥ आर्याष्टसाहस्रिकायां प्रज्ञापारमितायां मारकर्मपरिवर्तो नामैकादशः ॥ _______________________________________________________________ (वैद्य १२५) १२: लोकसंदर्शनपरिवर्तो द्वादशः । अथ खलु भगवान् पुनरप्यायुष्मन्तं सुभूतिमामन्त्रयते स्म - तद्यथापि नाम सुभूते स्त्रिया बहवः पुत्रा भवेयुः, पञ्च वा दश वा विंशतिर्वा त्रिंशद्वा चत्वारिंशद्वा पञ्चाशद्वा शतं वा सहस्रं वा । सर्वे ते मातुर्ग्लानाया उद्योगमापद्येरन् - कथमस्माकं मातुर्जीवितान्तरायो न भवेदिति, कथमस्माकं माता चिरं जीवेत्, कथमस्माकं मातुः कायो न विनश्येत्, कथमस्माकं माता चिरस्थितिका भवेत्, कथमस्माकं मातुर्नाम अविनष्टं भवेत्, कथमस्माकं मातुर्न दुःखा वेदनोत्पद्येत, न चास्या अस्पर्शविहारः अमनआपः काये उत्पद्येत । तत्कस्य हेतोः? एतया हि वयं जनिताः । दुष्करकारिकैषा अस्माकं जीवितस्य दात्री लोकस्य च संदर्शयित्री । इति ते पुत्रास्तां मातरं सर्वसुखोपधानैः सुधृतां धारयेयुः, सुगोपायितां गोपायेयुः, सुकेलायितां केलायेयुः - मा खल्वस्याः काचिद्दुःखा वेदना दुःखो वा स्पर्श उत्पद्येत, चक्षुषो वा श्रोत्रतो वा घ्राणतो वा जिह्वातो वा कायतो वा मनस्तो वा वाततो वा पित्ततो वा श्लेष्मतो वा संनिपाततो वा दंशतो वा मशकतो वा सरीसृपतो वा मनुष्यतो वा अमनुष्यतो वा आपाततो वा उत्पाततो वा अनिष्टनिपातः शरीरे निपतेत् । एवं ते पुत्रास्तां मातरं सर्वसुखोपधानैः समन्वाहृत्य केलायेयुर्ममायेयुर्गोपायेयुः - एषास्माकं माता जनयित्री, दुष्करकारिकैषा अस्माकं जीवितस्य दात्री, लोकस्य च संदर्शयित्रीति । एवमेव सुभूते तथागता अर्हन्तः सम्यक्संबुद्धा इमां प्रज्ञापारमितां समन्वाहरन्ति । येऽपि ते लिखन्ति उद्गृह्णन्ति धारयन्ति वाचयन्ति पर्यवाप्नुवन्ति प्रवर्तयन्ति देशयन्त्युपदिशन्त्युद्दिशन्ति स्वाध्यायन्ति, सर्वे ते तथागतस्यार्हतः सम्यक्संबुद्धस्यानुभावेन अधिष्ठानेन समन्वाहारेण । येऽपि तेऽन्येषु लोकधातुषु तथागता अर्हन्तः सम्यक्संबुद्धा एतर्हि तिष्ठन्ति ध्रियन्ते यापयन्ति बहुजनहिताय बहुजनसुखाय लोकानुकम्पायै महतो जनकायस्यार्थाय, हिताय सुखाय देवानां च मनुष्याणां च, सर्वसत्त्वानां चानुकम्पका अनुकम्पामुपादाय, तेऽपि सर्वे इमां प्रज्ञापारमितां समन्वाहरन्ति, औत्सुक्यमापद्यन्ते - किमितीयं प्रज्ञापारमिता चिरस्थितिका भवेत्, किमित्यस्याः प्रज्ञापारमिताया नाम अविनष्टं भवेत्, किमित्यस्याः प्रज्ञापारमिताया भाष्यमाणाया लिख्यमानायाः शिक्ष्यमाणाया मारः पायीयान्मारकायिका वा देवता अन्तरायं न कुर्युरिति । एवं हि सुभूते तथागता अर्हन्तः सम्यक्संबुद्धा एनां प्रज्ञापारमितां केलायन्ति ममायन्ति गोपायन्ति । तत्कस्य हेतोः? एषा हि माता जनयित्री तथागतानामर्हतां सम्यक्संबुद्धानाम् । अस्याः सर्वज्ञताया दर्शयित्री लोकस्य च संदर्शयित्री । अतोनिर्जाता हि सुभूते तथागता अर्हन्तः सम्यक्संबुद्धाः । प्रज्ञापारमिता हि सुभूते तथागतानामर्हतां सम्यक्संबुद्धानामस्य सर्वज्ञज्ञानस्य जनयित्री दर्शयित्री, एवमस्य लोकस्य संदर्शयित्री । अतोनिर्जाता हि सुभूते तथागतानामर्हतां सम्यक्संबुद्धानां सर्वज्ञता । येऽपि केचित्सुभूते अतीतेऽध्वनि तथागता अर्हन्तः सम्यक्संबुद्धा अनुत्तरां सम्यक्संबोधिमभिसंबुद्धाः, तेऽपि सर्वे एनामेव प्रज्ञापारमितामागम्य अनुत्तरां सम्यक्संबोधिमभिसंबुद्धाः । येऽपि ते सुभूते भविष्यन्त्यनागतेऽध्वनि तथागता अर्हन्तः (वैद्य १२६) सम्यक्संबुद्धा अनुत्तरां सम्यक्संबोधिमभिसंभोत्स्यन्ते, तेऽपि सर्वे एनामेव प्रज्ञापारमितामागम्य अनुत्तरां सम्यक्संबोधिमभिसंभोत्स्यन्ते । येऽपि ते सुभूते एतर्हि अप्रमेयेष्वसंख्येयेषु लोकधातुषु तथागता अर्हन्तः सम्यक्संबुद्धा दशदिशि लोके तिष्ठन्ति ध्रियन्ते यापयन्ति बहुजनहिताय बहुजनसुखाय लोकानुकम्पायै महतो जनकायस्यार्थाय, हिताय सुखाय देवानां च मनुष्याणां च, अनुकम्पका अनुकम्पामुपादाय अनुत्तरां सम्यक्संबोधिमभिसंबुद्धाः, तेऽपि सर्वे एनामेव प्रज्ञापारमितामागम्य अनुत्तरां सम्यक्संबोधिमभिसंबुद्धाः । अहमपि सुभूते एतर्हि तथागतोऽर्हन् सम्यक्संबुद्ध एनामेव प्रज्ञापारमितामागम्य अनुत्तरां सम्यक्संबोधिमभिसंबुद्धः । एवमियं सुभूते प्रज्ञापारमिता तथागतानामर्हतां सम्यक्संबुद्धानां जनयित्री, एवमस्य लोकस्य संदर्शयित्री ॥ अथ खल्वायुष्मान् सुभूतिर्भगवन्तमेतदवोचत्- यद्भगवानेवमाह - प्रज्ञापारमिता तथागतानामर्हतां सम्यक्संबुद्धानामस्य लोकस्य संदर्शयित्रीति, कथं भगवन् प्रज्ञापारमिता तथागतानामर्हतां सम्यक्संबुद्धानामस्य लोकस्य संदर्शयित्री? कतमश्च भगवन् लोकस्तथागतैरर्हद्भिः सम्यक्संबुद्धैराख्यातः? एवमुक्ते भगवानायुष्मन्तं सुभूतिमेतदवोचत्- पञ्च सुभूते स्कन्धाः तथागतेन लोक इत्याख्याताः । कतमे पञ्च? यदुत रूपं वेदना संज्ञा संस्कारा विज्ञानम् । इमे सुभूते पञ्च स्कन्धास्तथागतेन लोक इत्याख्याताः ॥ सुभूतिराह - कथं भगवंस्तथागतानां प्रज्ञापारमितया पञ्च स्कन्धा दर्शिताः? किं वा भगवन् प्रज्ञापारमितया दर्शितम्? एवमुक्ते भगवानायुष्मन्तं सुभूतिमेतदवोचत्- न लुज्यन्ते न प्रलुज्यन्ते इति सुभूते पञ्च स्कन्धा लोक इति तथागतानां प्रज्ञापारमितया दर्शिताः । तत्कस्य हेतोः न लुज्यन्ते न प्रलुज्यन्ते इति दर्शिताः? शून्यतास्वभावा हि सुभूते पञ्च स्कन्धाः, अस्वभावत्वात् । न च सुभूते शून्यता लुज्यते वा प्रलुज्यते वा । एवमियं सुभूते प्रज्ञापारमिता तथागतानामर्हतां सम्यक्संबुद्धानामस्य लोकस्य संदर्शयित्री । न च सुभूते आनिमित्तं वा अप्रणिहितं वा अनभिसंस्कारो वा अनुत्पादो वा अभावो वा धर्मधातुर्वा लुज्यते वा प्रलुज्यते वा । एवमियं सुभूते प्रज्ञापारमिता तथागतानामर्हत सम्यक्संबुद्धानामस्य लोकस्य संदर्शयित्री ॥ पुनरपरं सुभूते तथागत इमां प्रज्ञापारमितामागम्य अप्रमेयाः सत्त्वाः, असंख्येयाः सत्त्वा इति यथाभूतं प्रजानाति । कथं च सुभूते तथागत इमां प्रज्ञापारमितामागम्य अप्रमेयाः सत्त्वाः, असंख्येयाः सत्त्वा इति यथाभूतं प्रजानाति? सत्त्वास्वभावतया सुभूते अप्रमेयाः सत्त्वा असंख्येयाः सत्त्वा इति यथाभूतं प्रजानाति । एवं हि सुभूते तथागत इमां प्रज्ञापारमितामागम्य अप्रमेयाः सत्त्वा असंख्येयाः सत्त्वा इति यथाभूतं प्रजानाति । यान्यपि तानि सुभूते अप्रमेयाणामसंख्येयानां सत्त्वानां चित्तचरितानि, तान्यपि सुभूते तथागतः सत्त्वासद्भावतयैव प्रजानाति । एवं खलु सुभूते प्रज्ञापारमितामागम्य तथागतोऽप्रमेयाणामसंख्येयानां सत्त्वानामप्रमेयाण्यसंख्येयानि चित्तचरितानि च यथाभूतं प्रजानाति । एवं हि सुभूते प्रज्ञापारमिता तथागतानामर्हतां सम्यक्संबुद्धानामस्य लोकस्य संदर्शयित्री ॥ (वैद्य १२७) पुनरपरं सुभूते तथागत इमां प्रज्ञापारमितामागम्य अप्रमेयाणामसंख्येयानां सत्त्वानां संक्षिप्तानि चित्तानि संक्षिप्तानि चित्तानीति यथाभूतं प्रजानाति । कथं च सुभूते तथागत इमां प्रज्ञापारमितामागम्य अप्रमेयाणामसंख्येयानां सत्त्वानां संक्षिप्तानि चित्तानि संक्षिप्तानि चित्तानीति यथाभूतं प्रजानाति? स संक्षेपं क्षयतः क्षयं च अक्षयतो यथाभूतं प्रजानाति । एवं हि सुभूते तथागत इमां प्रज्ञापारमितामागम्य अप्रमेयाणामसंख्येयानां सत्त्वानां संक्षिप्तानि चित्तानि संक्षिप्तानि चित्तानीति यथाभूतं प्रजानाति ॥ पुनरपरं सुभूते तथागता इमां प्रज्ञापारमितामागम्य अप्रमेयाणामसंख्येयानां सत्त्वानां विक्षिप्तानि चित्तानि विक्षिप्तानि चित्तानीति यथाभूतं प्रजानाति । कथं च सुभूते तथागत इमां प्रज्ञापारमितामागम्य अप्रमेयाणामसंख्येयानां सत्त्वानां विक्षिप्तानि चित्तानि विक्षिप्तानि चित्तानीति यथाभूतं प्रजानाति? धर्मतातः सुभूते तानि चित्तानि विक्षिप्तानि । अलक्षणानि हि तानि चित्तानि अक्षीणान्यविक्षीणान्यविक्षिप्तानि तानि चित्तानीति यथाभूतं प्रजानाति । एवं हि सुभूते तथागता इमां प्रज्ञापारमितामागम्य अप्रमेयाणामसंख्येयानां सत्त्वानां विक्षिप्तानि चित्तानि विक्षिप्तानि चित्तानीति यथाभूतं प्रजानाति ॥ पुनरपरं सुभूते तथागत इमां प्रज्ञापारमितामागम्य अप्रमेयाणामसंख्येयानां सत्त्वानामप्रमेयाक्षयाणि चित्तान्यप्रमेयाक्षयाणि चित्तानीति यथाभूतं प्रजानाति । कथं च सुभूते तथागत इमां प्रज्ञापारमितामागम्य अप्रमेयाणामसंख्येयानां सत्त्वानामप्रमेयाक्षयाणि चित्तानि अप्रमेयाक्षयाणि चित्तानीति यथाभूतं प्रजानाति? तस्य सुभूते तथागतस्याधिष्ठितं भवति तच्चित्तम्, अनिरोधमनुत्पादमस्थितमनाश्रयमसममप्रमेयमसंख्येयम्, येनैव यथाभूतं प्रजानाति आकाशाप्रमेयाक्षयतया चित्ताप्रमेयाक्षयतेति । एवं हि सुभूते तथागत इमां प्रज्ञापारमितामागम्य अप्रमेयाणामसंख्येयानां सत्त्वानामप्रमेयाक्षयाणि चित्तान्यप्रमेयाक्षयाणि चित्तानीति यथाभूतं प्रजानाति ॥ पुनरपरं सुभूते तथागत इमां प्रज्ञापारमितामागम्य अप्रमेयाणां सत्त्वानां संक्लिष्टानि चित्तानि संक्लिष्टानि चित्तानीति यथाभूतं प्रजानाति । कथं च सुभूते तथागत इमां प्रज्ञापारमितामागम्य अप्रमेयाणां सत्त्वानां संक्लिष्टानि चित्तानि संक्लिष्टानि चित्तानीति यथाभूतं प्रजानाति? असंक्लेशसंक्लिष्टानि सुभूते तानि चित्तानि असंकेतानि । एवं हि सुभूते तथागत इमां प्रज्ञापारमितामागम्य अप्रमेयाणां सत्त्वानां संक्लिष्टानि चित्तानि संक्लिष्टानि चित्तानीति यथाभूतं प्रजानाति ॥ पुनरपरं सुभूते तथागत इमां प्रज्ञापारमितामागम्य अप्रमेयाणां सत्त्वानामसंक्लिष्टानि चित्तान्यसंक्लिष्टानि चित्तानीति यथाभूतं प्रजानाति । कथं च सुभूते तथागत इमां प्रज्ञापारमितामागम्य अप्रमेयाणां सत्त्वानामसंक्लिष्टानि चित्तान्यसंक्लिष्टानि चित्तानीति यथाभूतं प्रजानाति? प्रकृतिप्रभास्वराणि सुभूते तानि चित्तानि । एवं हि सुभूते तथागत इमां (वैद्य १२८) प्रज्ञापारमितामागम्य अप्रमेयाणां सत्त्वानामसंक्लिष्टानि चित्तान्यसंक्लिष्टानि चित्तानीति यथाभूतं प्रजानाति ॥ पुनरपरं सुभूते तथागत इमां प्रज्ञापारमितामागम्य अप्रमेयाणां सत्त्वानां लीनानि चित्तानि लीनानि चित्तानीति यथाभूतं प्रजानाति । कथं च सुभूते तथागत इमां प्रज्ञापारमितामागम्य अप्रमेयाणां सत्त्वानां लीनानि चित्तानि लीनानि चित्तानीति यथाभूतं प्रजानाति? अनालयलीनानि सुभूते तानि चित्तानि । एवं हि सुभूते तथागत इमां प्रज्ञापारमितामागम्य अप्रमेयाणां सत्त्वानां लीनानि चित्तानि लीनानि चित्तानीति यथाभूतं प्रजानाति ॥ पुनरपरं सुभूते तथागत इमां प्रज्ञापारमितामागम्य अप्रमेयाणां सत्त्वानां प्रगृहीतानि चित्तानि प्रगृहीतानि चित्तानीति यथाभूतं प्रजानाति । कथं च सुभूते तथागत इमां प्रज्ञापारमितामागम्य अप्रमेयाणां सत्त्वानां प्रगृहीतानि चित्तानि प्रगृहीतानि चित्तानीति यथाभूतं प्रजानाति? अग्राह्याणि सुभूते तानि चित्तानि प्रग्रहीतव्यानि । एवं हि सुभूते तथागत इमां प्रज्ञापारमितामागम्य अप्रमेयाणां सत्त्वानां प्रगृहीतानि चित्तानि प्रगृहीतानि चित्तानीति यथाभूतं प्रजानाति ॥ पुनरपरं सुभूते तथागत इमां प्रज्ञापारमितामागम्य अप्रमेयाणां सत्त्वानां सास्रवाणि चित्तानि सास्रवाणि चित्तानीति यथाभूतं प्रजानाति । कथं च सुभूते तथागत इमां प्रज्ञापारमितामागम्य अप्रमेयाणां सत्त्वानां सास्रवाणि चित्तानि सास्रवाणि चित्तानीति यथाभूतं प्रजानाति? अस्वभावानि सुभूते तानि चित्तानि असत्संकल्पानि । एवं हि सुभूते तथागत इमां प्रज्ञापारमितामागम्य अप्रमेयाणां सत्त्वानां सास्रवाणि चित्तानि सास्रवाणि चित्तानीति यथाभूतं प्रजानाति ॥ पुनरपरं सुभूते तथागत इमां प्रज्ञापारमितामागम्य अप्रमेयाणां सत्त्वानामनास्रवाणि चित्तान्यनास्रवाणि चित्तानीति यथाभूतं प्रजानाति । कथं च सुभूते तथागत इमां प्रज्ञापारमितामागम्य अप्रमेयाणां सत्त्वानामनास्रवाणि चित्तान्यनास्रवाणि चित्तानीति यथाभूतं प्रजानाति? अभावगतिकानि सुभूते तानि चित्तानि अनाभोगानि । एवं हि सुभूते तथागत इमां प्रज्ञापारमितामागम्य अप्रमेयाणां सत्त्वानामनास्रवाणि चित्तान्यनास्रवाणि चित्तानीति यथाभूतं प्रजानाति ॥ पुनरपरं सुभूते तथागत इमां प्रज्ञापारमितामागम्य अप्रमेयाणां सत्त्वानां सरागाणि चित्तानि सरागाणि चित्तानीति यथाभूतं प्रजानाति । कथं च सुभूते तथागत इमां प्रज्ञापारमितामागम्य अप्रमेयाणां सत्त्वानां सरागाणि चित्तानि सरागाणि चित्तानीति यथाभूतं प्रजानाति? या सुभूते चित्तस्य सरागता, न सा चित्तस्य यथाभूतता । या चित्तस्य यथाभूतता, न सा चित्तस्य सरागता । एवं हि सुभूते तथागत इमां प्रज्ञापारमितामागम्य अप्रमेयाणां सत्त्वानां सरागाणि चित्तानि सरागाणि चित्तानीति यथाभूतं प्रजानाति ॥ (वैद्य १२९) पुनरपरं सुभूते तथागत इमां प्रज्ञापारमितामागम्य अप्रमेयाणां सत्त्वानां वीतरागाणि चित्तानि वीतरागाणि चित्तानीति यथाभूतं प्रजानाति । कथं च सुभूते तथागत इमां प्रज्ञापारमितामागम्य अप्रमेयाणां सत्त्वानां वीतरागाणि चित्तानि वीतरागाणि चित्तानीति यथाभूतं प्रजानाति? यः सुभूते चित्तस्य विगमः, न सा चित्तस्य सरागता । या वीतरागस्य चित्तस्य यथाभूतता, न सा चित्तस्या सरागता । एवं हि सुभूते तथागत इमां प्रज्ञापारमितामागम्य अप्रमेयाणां सत्त्वानां वीतरागाणि चित्तानि वीतरागाणि चित्तानीति यथाभूतं प्रजानाति ॥ पुनरपरं सुभूते तथागत इमां प्रज्ञापारमितामागम्य अप्रमेयाणां सत्त्वानां सदोषाणि चित्तानि सदोषाणि चित्तानीति यथाभूतं प्रजानाति । कथं च सुभूते तथागत इमां प्रज्ञापारमितामागम्य अप्रमेयाणां सत्त्वानां सदोषाणि चित्तानि सदोषाणि चित्तानीति यथाभूतं प्रजानाति? या सुभूते चित्तस्य सदोषता, न सा चित्तस्य यथाभूतता । या चित्तस्य यथाभूतता, न सा चित्तस्य सदोषता । एवं हि सुभूते तथागत इमां प्रज्ञापारमितामागम्य अप्रमेयाणां सत्त्वानां सदोषाणि चित्तानि सदोषाणि चित्तानीति यथाभूतं प्रजानाति ॥ पुनरपरं सुभूते तथागत इमां प्रज्ञापारमितामागम्य अप्रमेयाणां सत्त्वानां वीतदोषाणि चित्तानि वीतदोषाणि चित्तानीति यथाभूतं प्रजानाति । कथं च सुभूते तथागत इमां प्रज्ञापारमितामागम्य अप्रमेयाणां सत्त्वानां वीतदोषाणि चित्तानि वीतदोषाणि चित्तानीति यथाभूतं प्रजानाति? यः सुभूते चित्तस्य विगमः, न सा चित्तस्य सदोषता । या वीतदोषस्य चित्तस्य यथाभूतता, न सा चित्तस्य सदोषता । एवं हि सुभूते तथागत इमां प्रज्ञापारमितामागम्य अप्रमेयाणां सत्त्वानां वीतदोषाणि चित्तानि वितदोषाणि चित्तानीति यथाभूतं प्रजानाति ॥ पुनरपरं सुभूते तथागत इमां प्रज्ञापारमितामागम्य अप्रमेयाणां सत्त्वानां समोहानि चित्तानि समोहानि चित्तानीति यथाभूतं प्रजानाति । कथं च सुभूते तथागत इमां प्रज्ञापारमितामागम्य अप्रमेयाणां सत्त्वानां समोहानि चित्तानि समोहानि चित्तानीति यथाभूतं प्रजानाति? या सुभूते चित्तस्य समोहता, न सा चित्तस्य यथाभूतता । या चित्तस्य यथाभूतता, न सा चित्तस्य समोहता । एवं हि सुभूते तथागत इमां प्रज्ञापारमितामागम्य अप्रमेयाणां सत्त्वानां समोहानि चित्तानि समोहानि चित्तानीति यथाभूतं प्रजानाति ॥ पुनरपरं सुभूते तथागत इमां प्रज्ञापारमितामागम्य अप्रमेयाणां सत्त्वानां वीतमोहानि चित्तानि वीतमोहानि चित्तानीति यथाभूतं प्रजानाति । कथं च सुभूते तथागत इमां प्रज्ञापारमितामागम्य अप्रमेयाणां सत्त्वानां वीतमोहानि चित्तानि वीतमोहानि चित्तानीति यथाभूतं प्रजानाति? यः सुभूते चित्तस्य विगमः, न सा चित्तस्य समोहता । या वीतमोहस्य चित्तस्य यथाभूतता, न सा चित्तस्य समोहता । एवं हि सुभूते तथागत इमां (वैद्य १३०) प्रज्ञापारमितामागम्य अप्रमेयाणां सत्त्वानां वीतमोहानि चित्तानि वीतमोहानि चित्तानीति यथाभूतं प्रजानाति ॥ पुनरपरं सुभूते तथागत इमां प्रज्ञापारमितामागम्य अप्रमेयाणां सत्त्वानामविपुलानि चित्तान्यविपुलानि चित्तानीति यथाभूतं प्रजानाति । कथं च सुभूते तथागत इमां प्रज्ञापारमितामागम्य अप्रमेयाणां सत्त्वानामविपुलानि चित्तानि अविपुलानि चित्तानीति यथाभूतं प्रजानाति? असमुत्थानयोगानि सुभूते तानि चित्तानि असमुत्थानपर्यापन्नानि । एवं सुभूते तथागत इमां प्रज्ञापारमितामागम्य अप्रमेयाणां सत्त्वानामविपुलानि चित्तान्यविपुलानि चित्तानीति यथाभूतं प्रजानाति ॥ पुनरपरं सुभूते तथागत इमां प्रज्ञापारमितामागम्य अप्रमेयाणां सत्त्वानां विपुलानि चित्तानि विपुलानि चित्तानीति यथाभूतं प्रजानाति । कथं च सुभूते तथागत इमां प्रज्ञापारमितामागम्य अप्रमेयाणां सत्त्वानां विपुलानि चित्तानि विपुलानि चित्तानीति यथाभूतं प्रजानाति? न हीयन्ते सुभूते तानि चित्तानि, न विवर्धन्ते तानि चित्तानि, न विगच्छन्ति तानि चित्तानि, अविगमत्वादेव चित्तानाम् । एवं हि सुभूते तथागत इमां प्रज्ञापारमितामागम्य अप्रमेयाणां सत्त्वानां विपुलानि चित्तानि विपुलानि चित्तानीति यथाभूतं प्रजानाति ॥ पुनरपरं सुभूते तथागत इमां प्रज्ञापारमितामागम्य अप्रमेयाणां सत्त्वानामहद्गतानि चित्तान्यमहद्गतानि चित्तानीति यथाभूतं प्रजानाति । कथं च सुभूते तथागत इमां प्रज्ञापारमितामागम्य अप्रमेयाणां सत्त्वानाममहद्गतानि चित्तान्यमहद्गतानि चित्तानीति यथाभूतं प्रजानाति? अनागतिकानि सुभूते तानि चित्तानि अगतिकानि अपर्यापन्नानि । एवं हि सुभूते तथागत इमां प्रज्ञापारमितामागम्य अप्रमेयाणां सत्त्वानाममहद्गतानि चित्तान्यमहद्गतानि चित्तानीति यथाभूतं प्रजानाति ॥ पुनरपरं सुभूते तथागत इमां प्रज्ञापारमितामागम्य अप्रमेयाणां सत्त्वानां महद्गतानि चित्तानि महद्गतानि चित्तानीति यथाभूतं प्रजानाति । कथं च सुभूते तथागत इमां प्रज्ञापारमितामागम्य अप्रमेयाणां सत्त्वानां महद्गतानि चित्तानि महद्गतानि चित्तानीति यथाभूतं प्रजानाति? समतासमानि सुभूते तानि चित्तानि स्वभावसमानि । एवं हि सुभूते तथागत इमां प्रज्ञापारमितामागम्य अप्रमेयाणां सत्त्वानां महद्गतानि चित्तानि महद्गतानि चित्तानीति यथाभूतं प्रजानाति ॥ पुनरपरं सुभूते तथागत इमां प्रज्ञापारमितामागम्य अप्रमेयाणां सत्त्वानामप्रमाणानि चित्तान्यप्रमाणानि चित्तानीति यथाभूतं प्रजानाति । कथं च सुभूते तथागत इमां प्रज्ञापारमितामागम्य अप्रमेयाणां सत्त्वानामप्रमाणानि चित्तान्यप्रमाणानि चित्तानीति यथाभूतं प्रजानाति? अनिश्रयत्वात्सुभूते तानि चित्तान्यप्रमाणानि । एवं हि सुभूते तथागत इमां (वैद्य १३१) प्रज्ञापारमितामागम्य अप्रमेयाणां सत्त्वानामप्रमाणानि चित्तानि अप्रमाणानि चित्तानीति यथाभूतं प्रजानाति ॥ पुनरपरं सुभूते तथागत इमां प्रज्ञापारमितामागम्य अप्रमेयाणां सत्त्वानां सनिदर्शनानि चित्तानि सनिदर्शनानि चित्तानीति यथाभूतं प्रजानाति । कथं च सुभूते तथागत इमां प्रज्ञापारमितामागम्य अप्रमेयाणां सत्त्वानां सनिदर्शनानि चित्तानि सनिदर्शनानि चित्तानीति यथाभूतं प्रजानाति? समदर्शनानि सुभूते तानि चित्तानि चित्तस्वभावानि । एवं हि सुभूते तथागत इमां प्रज्ञापारमितामागम्य अप्रमेयाणां सत्त्वानां सनिदर्शनानि चित्तानि सनिदर्शनानि चित्तानीति यथाभूतं प्रजानाति ॥ पुनरपरं सुभूते तथागत इमां प्रज्ञापारमितामागम्य अप्रमेयाणां सत्त्वानामनिदर्शनानि चित्तान्यनिदर्शनानि चित्तानीति यथाभूतं प्रजानाति । कथं च सुभूते तथागत इमां प्रज्ञापारमितामागम्य अप्रमेयाणां सत्त्वानामनिदर्शनानि चित्तान्यनिदर्शनानि चित्तानीति यथाभूतं प्रजानाति? अलक्षणत्वादर्थविविक्तत्वात्सुभूते अदृश्यं तच्चित्तं त्रयाणां चक्षुषां सर्वेषां वा अनवभासगतम् । एवं हि सुभूते तथागत इमां प्रज्ञापारमितामागम्य अप्रमेयाणां सत्त्वानामनिदर्शनानि चित्तान्यनिदर्शनानि चित्तानीति यथाभूतं प्रजानाति ॥ पुनरपरं सुभूते तथागत इमां प्रज्ञापारमितामागम्य अप्रमेयाणां सत्त्वानां सप्रतिघानि चित्तानि सप्रतिघानि चित्तानीति यथाभूतं प्रजानाति । कथं च सुभूते तथागत इमां प्रज्ञापारमितामागम्य अप्रमेयाणां सत्त्वानां सप्रतिघानि चित्तानि सप्रतिघानि चित्तानीति यथाभूतं प्रजानाति? असत्संकल्पितानि सुभूते तानि चित्तानि, शून्यान्यारम्बणवशिकानि । एवं हि सुभूते तथागत इमां प्रज्ञापारमितामागम्य अप्रमेयाणां सत्त्वानां सप्रतिघानि चित्तानि सप्रतिघानि चित्तानीति यथाभूतं प्रजानाति ॥ पुनरपरं सुभूते तथागत इमां प्रज्ञापारमितामागम्य अप्रमेयाणां सत्त्वानामप्रतिघानि चित्तान्यप्रतिघानि चित्तानीति यथाभूतं प्रजानाति । कथं च सुभूते तथागत इमां प्रज्ञापारमितामागम्य अप्रमेयाणां सत्त्वानामप्रतिघानि चित्तान्यप्रतिघानि चित्तानीति यथाभूतं प्रजानाति? अद्वयभूतानि सुभूते तानि चित्तानि अभूतसंभूतानि । एवं हि सुभूते तथागत इमां प्रज्ञापारमितामागम्य अप्रमेयाणां सत्त्वानामप्रतिघानि चित्तान्यप्रतिघानि चित्तानीति यथाभूतं प्रजानाति ॥ पुनरपरं सुभूते तथागत इमां प्रज्ञापारमितामागम्य अप्रमेयाणां सत्त्वानां सोत्तराणि चित्तानि सोत्तराणि चित्तानीति यथाभूतं प्रजानाति । कथं च सुभूते इमां प्रज्ञापारमितामागम्य अप्रमेयाणां सत्त्वानां सोत्तरानि चित्तानि सोत्तराणि चित्तानीति यथाभूतं प्रजानाति? या सुभूते सोत्तरस्य चित्तस्य यथाभूतता, न तत्रास्ति मन्यमानता । एवं हि सुभूते तथागत इमां प्रज्ञापारमितामागम्य अप्रमेयाणां सत्त्वानां सोत्तराणि चित्तानि सोत्तराणि चित्तानीति यथाभूतं प्रजानाति ॥ (वैद्य १३२) पुनरपरं सुभूते तथागत इमां प्रज्ञापारमितामागम्य अप्रमेयाणां सत्त्वानामनुत्तराणि चित्तान्यनुत्तराणि चित्तानीति यथाभूतं प्रजानाति । कथं च सुभूते तथागत इमां प्रज्ञापारमितामागम्य अप्रमेयाणां सत्त्वानामनुत्तराणि चित्तान्यनुत्तराणि चित्तानीति यथाभूतं प्रजानाति? अण्वपि हि सुभूते चित्तमनुपलब्धम् । ततो निष्प्रपञ्चानि तानि चित्तानि । एवं हि सुभूते तथागत इमां प्रज्ञापारमितामागम्य अप्रमेयाणां सत्त्वानामनुत्तराणि चित्तान्यनुत्तराणि चित्तानीति यथाभूतं प्रजानाति ॥ पुनरपरं सुभूते तथागत इमां प्रज्ञापारमितामागम्य अप्रमेयाणां सत्त्वानामसमाहितानि चित्तान्यसमाहितानि चित्तानीति यथाभूतं प्रजानाति । कथं च सुभूते तथागत इमां प्रज्ञापारमितामागम्य अप्रमेयाणां सत्त्वानामसमाहितानि चित्तान्यसमाहितानि चित्तानीति यथाभूतं प्रजानाति? असमसमानि हि सुभूते तानि चित्तानि असमवहितानि, एवमसमाहितानि तानि चित्तानि । एवं हि सुभूते तथागत इमां प्रज्ञापारमितामागम्य अप्रमेयाणां सत्त्वानामसमाहितानि चित्तान्यसमाहितानि चित्तानीति यथाभूतं प्रजानाति ॥ पुनरपरं सुभूते तथागत इमां प्रज्ञापारमितामागम्य अप्रमेयाणां सत्त्वानां समाहितानि चित्तानि समाहितानि चित्तानीति यथाभूतं प्रजानाति । कथं च सुभूते तथागत इमां प्रज्ञापारमितामागम्य अप्रमेयाणां सत्त्वानां समाहितानि चित्तानि समाहितानि चित्तानीति यथाभूतं प्रजानाति? समसमानि हि सुभूते तानि चित्तानि समवहितानि । एवं समाहितानि चित्तान्याकाशसमानि । एवं हि सुभूते तथागत इमां प्रज्ञापारमितामागम्य अप्रमेयाणां सत्त्वानां समाहितानि चित्तानि समाहितानि चित्तानीति यथाभूतं प्रजानाति ॥ पुनरपरं सुभूते तथागत इमां प्रज्ञापारमितामागम्य अप्रमेयाणां सत्त्वानामविमुक्तानि चित्तान्यविमुक्तानि चित्तानीति यथाभूतं प्रजानाति । कथं च सुभूते तथागत इमां प्रज्ञापारमितामागम्य अप्रमेयाणां सत्त्वानामविमुक्तानि चित्तान्यविमुक्तानि चित्तानीति यथाभूतं प्रजानाति? स्वभावविमुक्तानि सुभूते तानि चित्तानि अभावस्वभावानि । एवं हि सुभूते तथागत इमां प्रज्ञापारमितामागम्य अप्रमेयाणां सत्त्वानामविमुक्तानि चित्तान्यविमुक्तानि चित्तानीति यथाभूतं प्रजानाति ॥ पुनरपरं सुभूते तथागत इमां प्रज्ञापारमितामागम्य अप्रमेयाणां सत्त्वानां विमुक्तानि चित्तानि विमुक्तानि चित्तानीति यथाभूतं प्रजानाति । कथं च सुभूते तथागत इमां प्रज्ञापारमितामागम्य अप्रमेयाणां सत्त्वानां विमुक्तानि चित्तानि विमुक्तानि चित्तानीति यथाभूतं प्रजानाति? चित्तः हि सुभूते तथागतेन न अतीतमुपलब्धं न अनागतम्, न प्रत्युत्पन्नमुपलब्धम्, असत्त्वाच्चित्तस्य । एवं हि सुभूते तथागत इमां प्रज्ञापारमितामागम्य अप्रमेयाणां सत्त्वानां विमुक्तानि चित्तानि विमुक्तानि चित्तानीति यथाभूतं प्रजानाति ॥ पुनरपरं सुभूते तथागत इमां प्रज्ञापारमितामागम्य अप्रमेयाणां सत्त्वानामदृश्यानि चित्तान्यदृश्यानि चित्तानीति यथाभूतं प्रजानाति । कथं च सुभूते तथागत इमां प्रज्ञापारमितामागम्य (वैद्य १३३) अप्रमेयाणां सत्त्वानामदृश्यानि चित्तान्यदृश्यानि चित्तानीति यथाभूतं प्रजानाति? असत्त्वात्सुभूते अदृश्यं तच्चित्तम् । अभूतत्वादविज्ञेयम्, अपरिनिष्पत्तितोऽग्राह्यं प्रज्ञाचक्षुषा दिव्येन चक्षुषा । कुतः पुनर्मांसचक्षुषा? सर्वेषामनवभासगतत्वात् । एवं हि सुभूते तथागत इमां प्रज्ञापारमितामागम्य अप्रमेयाणां सत्त्वानामदृश्यानि चित्तान्यदृश्यानि चित्तानीति यथाभूतं प्रजानाति । एवं हि सुभूते प्रज्ञापारमिता तथागतानामर्हतां सम्यक्संबुद्धानामस्य लोकस्य संदर्शयित्री ॥ पुनरपरं सुभूते तथागत इमां प्रज्ञापारमितामागम्य अप्रमेयाणासंख्येयानां परसत्त्वानां परपुद्गलानामुन्मिञ्जितनिमिञ्जितानि यथाभूतं प्रजानाति । कथं च सुभूते तथागत इमां प्रज्ञापारमितामागम्य अप्रमेयाणामसंख्येयाणां परसत्त्वानां परपुद्गलानामुन्मिञ्जितनिमिञ्जितानि यथाभूतं प्रजानाति? सर्वाणि तानि सुभूते रूपनिश्रितानि उत्पद्यमानान्युत्पद्यन्ते इति यथाभूतं प्रजानाति । एवं वेदना संज्ञा संस्काराः । सर्वाणि तानि विज्ञाननिश्रितानि उत्पद्यमानान्युत्पद्यन्ते इति यथाभूतं प्रजानाति । तत्र सुभूते कथं तथागतेन तान्युन्मिञ्जितनिमिञ्जितानि रूपनिश्रितानि विज्ञातानि भवन्ति? एवं वेदना संज्ञा संस्काराः? कथं तथागतेन तान्युन्मिञ्जितनिमिञ्जितानि विज्ञाननिश्रितानि विज्ञातानि भवन्ति? भवति तथागतः परं मरणादिति रूपगतमेतत् । न भवति तथागतः परं मरणादिति रूपगतमेतत् । भवति च न भवति च तथागतः परं मरणादिति रूपगतमेतत् । नैव भवति न न भवति तथागतः परं मरणादिति रूपगतमेतत् । एवं वेदना संज्ञा संस्काराः । भवति तथागतः परं मरणादिति विज्ञानगतमेतत् । न भवति तथागतः परं मरणादिति विज्ञानगतमेतत् । भवति च न भवति च तथागतः परं मरणादिति विज्ञानगतमेतत् । नैव भवति न न भवति तथागतः परं मरणादिति विज्ञानगतमेतत् । शाश्वत आत्मा अवलोकश्च इदमेव सत्यं मोहमन्यदिति रूपगतमेतत् । अशाश्वत आत्मा अवलोकश्च इदमेव सत्यं मोहमन्यदिति रूपगतमेतत् । शाश्वतश्च अशाश्वत आत्मावलोकश्च इदमेव सत्यं मोहमन्यदिति रूपगतमेतत् । नैव शाश्वतो नाशाश्वत आत्मा अवलोकश्च इदमेव सत्यं मोहमन्यदिति रूपगतमेतत् । एवं वेदना संज्ञा संस्काराः । शाश्वत आत्मावलोकश्च इदमेव सत्यं मोहमन्यदिति विज्ञानगतमेतत् । अशाश्वत आत्मा अवलोकश्च इदमेव सत्यं मोहमन्यदिति विज्ञानगतमेतत् । शाश्वतश्चाशाश्वत आत्मा अवलोकश्च इदमेव सत्यं मोहमन्यदिति विज्ञानगतमेतत् । नैव शाश्वतो नाशाश्वत आत्मा अवलोकश्च इदमेव सत्यं मोहमन्यदिति विज्ञानगतमेतत् । अन्तवानात्मा अवलोकश्च इदमेव सत्यं मोहमन्यदिति रूपगतमेतत् । अनन्तवानात्मा अवलोकश्च इदमेव सत्यं मोहमन्यदिति रूपगतमेतत् । अन्तवांश्च अनन्तवांश्चात्मा अवलोकश्च इदमेव सत्यं मोहमन्यदिति रूपगतमेतत् । नैवान्तवान्नानन्तवानात्मा अवलोकश्च इदमेव सत्यं मोहमन्यदिति रूपगतमेतत् । एवं वेदना संज्ञा संस्काराः । अन्तवानात्मा अवलोकश्च इदमेव सत्यं मोहमन्यदिति विज्ञानगतमेतत् । अनन्तवानात्मा अवलोकश्च इदमेव सत्यं मोहमन्यदिति विज्ञानगतमेतत् । अन्तवांश्च अनन्तवांश्चात्मा अवलोकश्च इदमेव (वैद्य १३४) सत्यं मोहमन्यदिति विज्ञानगतमेतत् । नैवान्तवान्नानन्तवानात्मा अवलोकश्च इदमेव सत्यं मोहमन्यदिति विज्ञानगतमेतत् । स जीवस्तच्छरीरमिदमेव सत्यं मोहमन्यदिति रूपगतमेतत् । अन्यो जीवोऽन्यच्छरीरमिदमेव सत्यं मोहमन्यदिति रूपगतमेतत् । एवं वेदना संज्ञा संस्काराः । स जीवस्तच्छरीरमिदमेव सत्यं मोहमन्यदिति विज्ञानगतमेतत् । अन्यो जीवोऽन्यच्छरीरमिदमेव सत्यं मोहमन्यदिति विज्ञानगतमेतत् । एवं हि सुभूते तथागतेनार्हता सम्यक्संबुद्धेन इमां प्रज्ञापारमितामागम्य अप्रमेयाणासंख्येयानां परसत्त्वानां परपुद्गलानां तान्युन्मिञ्जितनिमिञ्जितानि रूपनिश्रितानि विज्ञातानि भवन्ति । एवं वेदना संज्ञा संस्काराः । तान्युन्मिञ्जितनिमिञ्जितानि विज्ञाननिश्रितानि विज्ञातानि भवन्ति ॥ पुनरपरं सुभूते तथागत इमां प्रज्ञापारमितामागम्य अप्रमेयाणाममसंख्येयानां परसत्त्वानां परपुद्गलानां तान्युन्मिञ्जितनिमिञ्जितानि यथाभूतं प्रजानाति । इह सुभूते तथागतो रूपं जानाति । कथं च सुभूते तथागतो रूपं जानाति? तथा सुभूते तथागतो रूपं जानाति, यथा तथता । एवं हि सुभूते तथागतो रूपं जानाति । एवं वेदना संज्ञा संस्काराः । इह सुभूते तथागतो विज्ञानं जानाति । कथं च सुभूते तथागतो विज्ञानं जानाति? तथा सुभूते तथागतो विज्ञानं जानाति, यथा तथता । एवं हि सुभूते तथागतो विज्ञानं जानाति । एवं हि सुभूते तथागत इमां प्रज्ञापारमितामागम्य अप्रमेयाणामसंख्येयानां परसत्त्वानां परपुद्गलानां तान्युन्मिञ्जितनिमिञ्जितानि यथाभूतं प्रजानाति । एवं हि सुभूते तथागतस्तथागततथतया च स्कन्धतथतया च उन्मिञ्जितनिमिञ्जिततथतया च तथतां प्रज्ञपयति । यैव च सुभूते स्कन्धतथता, सैव लोकस्यापि तथता । तत्कस्य हेतोः? उक्तं ह्येतत्सुभूते तथागतेन - पञ्च स्कन्धा लोक इति संज्ञाताः इति । तस्मात्तर्हि सुभूते या स्कन्धतथता, सा लोकतथता । या लोकतथता, सा सर्वधर्मतथता । या सर्वधर्मतथता, सा स्रोतआपत्तिफलतथता । या स्रोतआपत्तिफलतथता, सा सकृदागामिफलतथता । या सकृदागामिफलतथता, सा अनागामिफलतथता । या अनागमिफलतथता, सा अर्हत्त्वफलतथता । या अर्हत्त्वफलतथता, सा प्रत्येकबुद्धत्वतथता । या प्रत्येकबुद्धत्वतथता, सा तथागततथता । इति हि तथागततथता च स्कन्धतथता च सर्वधर्मतथता च सर्वार्यश्रावकप्रत्येकबुद्धतथता च एकैवैषा तथता अनेकभावाभावापगता अनेकत्वादनानात्वादक्षयत्वादविकारत्वादद्वयत्वादद्वैधीकारत्वात् । एवमेषा सुभूते तथता तथागतेन प्रज्ञापारमितामागम्य अभिसंबुद्धा । एवं हि सुभूते प्रज्ञापारमिता तथागतानामर्हतां सम्यक्संबुद्धानामस्य लोकस्य संदर्शयित्री । एवं हि सुभूते तथागतोऽस्य लोकस्य लोकं संदर्शयति । एवं चास्य लोकस्य दर्शनं भवति - एवं हि सुभूते प्रज्ञापारमिता तथागतानामर्हतां सम्यक्संबुद्धानां माता जननी जनयित्री । एवं हि सुभूते तथागतस्तथतामभिसंबुध्य लोकस्य तथतां जानाति, अवितथतां जानाति, अनन्यतथतां जानाति । एवं च सुभूते तथागतस्तथतामभिसंबुद्धः संस्तथागत इत्युच्यते ॥ (वैद्य १३५) स्थविरः सुभूतिराह - गम्भीरा भगवंस्तथता । अतो भगवंस्तथतातो बुद्धानां भगवतां बोधिः प्रभाव्यते प्रकाश्यते । कोऽत्र भगवनन्योऽधिमोक्ष्यतेऽविनिवर्तनीयो बोधिसत्त्वो महासत्त्वोऽर्हन् वा परिपूर्णसंकल्पो दृष्टिसंपन्नो वा पुद्गलः? तथा हि भगवनिमानि स्थानानि परमगम्भीराणि तथागतेनाभिसंबुध्य आख्यातानि । एवमुक्ते भगवानायुष्मन्तं सुभूतिमेतदवोचत्- एवमेतत्सुभूते, एवमेतत् । परमगम्भीराणीमानि स्थानानि तथागतेनाभिसंबुध्य आख्यातानि । तथा हि सुभूते अक्षयैषा तथता, या तथागतेनाभिसंबुद्धा, अभिसंबुध्य अक्षयाक्षयैवाख्याता ॥ अथ खलु शक्रदेवेन्द्रप्रमुखाः कामावचरा रूपावराश्च देवपुत्रा ब्रह्मकायिकानां च विंशतिदेवपुत्रसहस्राणि येन भगवांस्तेनोपसंक्रम्य भगवतः पादौ शिरसाभिवन्द्य एकान्ते तस्थुः । एकान्तस्थिताश्च ते कामावचरा रूपावचराश्च देवपुत्रा भगवन्तमेतदवोचन् - गम्भीरा भगवन् धर्माः प्रकाश्यन्ते । कथं भगवनत्र लक्षणानि स्थाप्यन्ते? भगवानाह - शून्यमिति देवपुत्रा अत्र लक्षणानि स्थाप्यन्ते । आनिमित्तमिति अप्रणिहितमिति देवपुत्रा अत्र लक्षणानि स्थाप्यन्ते । अनभिसंस्कार इति अनुत्पाद इति अनिरोध इति असंक्लेश इति अव्यवदानमिति अभाव इति निर्वाणमिति धर्मधातुरिति तथतेति देवपुत्रा अत्र लक्षणानि स्थाप्यन्ते । तत्कस्य हेतोः? अनिश्रितानि हि देवपुत्रा एतानि लक्षणानि । आकाशसदृशानि हि देवपुत्रा एतानि लक्षणानि । नैतानि लक्षणानि तथागतेनार्हता सम्यक्संबुद्धेन स्थापितानि । नैतानि लक्षणानि रूपसंख्यातानि । एवं न वेदनासंज्ञासंस्कारविज्ञानसंख्यातानि । नैतानि लक्षणानि रूपनिश्रितानि, न वेदनासंज्ञासंस्कारविज्ञाननिश्रितानि । नैतानि लक्षणानि देवैर्वा नागैर्वा मनुष्यैर्वा अमनुष्यैर्वा स्थापितानि । नैतानि लक्षणानि सदेवमानुषासुरेण लोकेन शक्यानि चालयितुम् । तत्कस्य हेतोः? सदेवमानुषासुरोऽपि हि लोक एतल्लक्षण एव । नाप्येतानि लक्षणानि केनापि हस्तेन स्थापितानि । यो देवपुत्रा एवं वदेत्- इदमाकाशं केनापि स्थापितमिति, अपि नु स देवपुत्राः सम्यग्वदन् वदेत्? एवमुक्ते कामावचरा रूपावराश्च देवपुत्रा भगवन्तमेतदवोचन् - न भगवनाकाशं केनचित्स्थापितम् । तत्कस्य हेतोः? असंस्कृतत्वाद्भगवनाकाशस्य नाकाशं केनचित्स्थापितम् ॥ अथ खलु भगवांस्तान् कामावचरान् रूपावरांश्च देवपुत्रानामन्त्रयते स्म - एवमेतद्देवपुत्राः । उत्पादाद्वा तथागतानामनुत्पादाद्वा तथैवैतानि लक्षणानि स्थितानि । तत्कस्य हेतोः? यथैतानि हि स्थितानि, तथाभूतानि तथागतेनाभिसंबुध्य आख्यातानि । तस्माद्देवपुत्रास्तथागतस्तथागत इत्युच्यते ॥ (वैद्य १३६) अथ खल्वायुष्मान् सुभूतिर्भगवन्तमेतदवोचत्- गम्भीराणि भगवनिमानि लक्षणानि तथागतेनाभिसंबुद्धानि । तथागतानां चासङ्गज्ञानं यदुत प्रज्ञापारमिता । असङ्गज्ञानाय प्रज्ञापारमिता तथागतानां गोचरः । एवमुक्ते भगवानायुष्मन्तं सुभूतिमेतदवोचत्- एवमेतत्सुभूते, एवमेतत् । एवं हि सुभूते प्रज्ञापारमिता तथागतानामर्हतां सम्यक्संबुद्धानामस्य लोकस्य संदर्शयित्री । यथा सुभूते तथागता अर्हन्तः सम्यक्संबुद्धा इमां धर्मं प्रज्ञापारमितामुपनिश्रित्य विहरन्ति, तथैवैते धर्माः सदा स्थिताः, अस्थानतस्तथागतैरभिसंबुद्धाः । अतस्ते धर्ममेवोपनिश्रित्य विहरन्ति, धर्मं सत्कुर्वन्ति गुरुकुर्वन्ति मानयन्ति पूजयन्त्यर्चयन्त्यपचायन्ति । प्रज्ञापारमितैवैषा सुभूते धर्माणां धर्मतेति तथागता अर्हन्तः सम्यक्संबुद्धाः प्रज्ञापारमितां सत्कुर्वन्ति गुरुकुर्वन्ति मानयन्ति पूजयन्त्यर्चयन्त्यपचायन्ति । तत्कस्य हेतोः? अतो हि सुभूते प्रज्ञापारमितातस्तथागतानामर्हतां सम्यक्संबुद्धानां सर्वज्ञतायाः प्रभावना भवति । कृतज्ञाः कृतवेदिनश्च तथागता अर्हन्तः सम्यक्संबुद्धाः । यत्खलु सुभूते सम्यग्वदन्तो वदेयुः - कृतज्ञः कृतवेदीति, तत्तथागतं हि ते सम्यग्वदन्तो वदन्ति - कृतज्ञः कृतवेदीति । यत्खलु सुभूते तथागतोऽर्हन् सम्यक्संबुद्धो येन येन यानेनागतः, यया यया प्रतिपदा अनुत्तरां सम्यक्संबोधिमभिसंबुद्धः, तथागतस्तदेव यानं तामेव प्रतिपदमनुगृह्णीते अनुपरिपालयति, तयैव कृतज्ञतया कृतवेदितया । इयं सुभूते तथागतस्य कृतज्ञता कृतवेदिता द्रष्टव्या । पुनरपरं सुभूते तथागतेन सर्वधर्मा अकृता अकृता इत्यभिसंबुद्धाः, अविकृता अविकृता इत्यमिसंबुद्धाः, अनभिसंस्कृता अनभिसंस्कृता इत्यभिसंबुद्धाः । इयमपि सुभूते तथागतस्य कृतज्ञता कृतवेदिता द्रष्टव्या । प्रज्ञापारमितां ह्यागम्य सुभूते तथागतस्यार्हतः सम्यक्संबुद्धस्य एवं सर्वधर्मेषु ज्ञानं प्रवृत्तम् । अनेनापि सुभूते पर्यायेण प्रज्ञापारमिता तथागतानामर्हतां सम्यक्संबुद्धानामस्य लोकस्य संदर्शयित्री ॥ एवमुक्ते आयुष्मान् सुभूतिर्भगवन्तमेतदवोचत्- यदा भगवन् सर्वधर्मा अजानका अपश्यकाः, तदा कथं भगवन् प्रज्ञापारमिता तथागतानामर्हतां सम्यक्संबुद्धानामस्य लोकस्य संदर्शयित्री? एवमुक्ते भगवानायुष्मन्तं सुभूतिमेतदवोचत्- साधु साधु सुभूते, यस्त्वं तथागतमर्हन्तं सम्यक्संबुद्धमेतमर्थं परिप्रश्नीकर्तव्यं मन्यसे । सुभूतिरेवमाह - सर्वधर्मा अजानका अपश्यका इति । एवमेतत्सुभूते, एवमेतत् । सर्वधर्मा अजानका अपश्यकाः । कथं सुभूते सर्वधर्मा अजानका अपश्यकाः? सर्वधर्मा हि सुभूते शून्याः । सर्वधर्मा हि सुभूते अनिश्रिताः । एवं हि सुभूते सर्वधर्मा अजानका अपश्यकाः । एवमेते सुभूते सर्वधर्माः प्रज्ञापारमितामागम्य तथागतैरभिसंबुद्धाः । एवमपि सुभूते प्रज्ञापारमिता तथागतानामर्हतां सम्यक्संबुद्धानामस्य लोकस्य संदर्शयित्री रूपस्यादृष्टत्वात् । एवं वेदनायाः संज्ञायाः संस्काराणां विज्ञानस्यादृष्टत्वात्संदर्शयित्री । एवं हि सुभूते प्रज्ञापारमिता तथागतानामर्हतां सम्यक्संबुद्धानामस्य लोकस्य संदर्शयित्री भवति ॥ (वैद्य १३७) सुभूतिराह - कथं भगवन् रूपस्यादृष्टता भवति? कथं वेदनायाः संज्ञायाः संस्काराणाम्? कथं भगवन् विज्ञानस्यादृष्टता भवति? भगवानाह - यदि सुभूते न रूपारम्बणं विज्ञानमुत्पद्यते, एवं रूपस्यदृष्टता भवति । एवं वेदना संज्ञा संस्काराः । यदि सुभूते न विज्ञानारम्बणं विज्ञानमुत्पद्यते, एवं विज्ञानस्यादृष्टता भवति । या च सुभूते रूपस्यादृष्टता, या च वेदनायाः संज्ञायाः संस्काराणाम्, या च सुभूते विज्ञानस्यादृष्टता, सैव लोकस्य दृष्टता भवति । एवं हि सुभूते लोकस्तथागतेन दृष्टो भवति । एवं हि सुभूते प्रज्ञापारमिता तथागतानामर्हतां सम्यक्संबुद्धानामस्य लोकस्य संदर्शयित्री । कथं च सुभूते प्रज्ञापारमिता लोकं संदर्शयति? इति लोकः शून्य इति लोकं सूचयति, एवं प्रज्ञापयति, एवं लोकं संदर्शयति । इति लोकोऽचिन्त्य इति, लोकः शान्त इति, लोको विविक्त इति लोकविशुद्ध्या लोकं सूचयति । एवं लोकं प्रज्ञापयति, एवं संदर्शयतीति ॥ आर्याष्टसाहस्रिकायां प्रज्ञापारमितायां लोकसंदर्शनपरिवर्तो नाम द्वादशः ॥ _______________________________________________________________ (वैद्य १३८) १३: अचिन्त्यपरिवर्तस्त्रयोदशः । अथ खल्वायुष्मान् सुभूतिर्भगवन्तमेतदवोचत्- गम्भीरा भगवन् प्रज्ञापारमिता । महाकृत्येन बतेयं भगवन् प्रज्ञापारमिता प्रत्युपस्थिता । अचिन्त्यकृत्येनातुल्यकृत्येनाप्रमेयकृत्येनासंख्येयकृत्येनासमसमकृत्येन बतेयं भगवन् प्रज्ञापारमिता प्रत्युपस्थिता । भगवानाह - एवमेतत्सुभूते, एवमेतत् । महाकृत्येनेयं सुभूते प्रज्ञापारमिता प्रत्युपस्थिता । अचिन्त्यकृत्येनातुल्यकृत्येनाप्रमेयकृत्येनासंख्येयकृत्येनासमसमकृत्येनेयं सुभूते प्रज्ञापारमिता प्रत्युपस्थिता । कथं च सुभूते अचिन्त्यकृत्येनेयं प्रज्ञापारमिता प्रत्युपस्थिता? अचिन्त्यं हि सुभूते तथागतत्वं बुद्धत्वं स्वयंभूत्वं सर्वज्ञत्वम् । एवं हि सुभूते अचिन्त्यकृत्येनेयं प्रज्ञापारमिता प्रत्युपस्थिता । न हीदं शक्यं चित्तेन चिन्तयितुम् । तत्कस्य हेतोः? न हि चित्तं वा चेतना वा चैतसिको वा अत्र धर्मः प्रवर्तते । कथं च सुभूते अतुल्यकृत्येनेयं प्रज्ञापारमिता प्रत्युपस्थिता? न शक्यं सुभूते तथागतत्वं बुद्धत्वं स्वयंभूत्वं सर्वज्ञत्वं चिन्तयितुं वा तुलयितुं वा । एवं हि सुभूते अतुल्यकृत्येनेयं प्रज्ञापारमिता प्रत्युपस्थिता । कथं च सुभूते अप्रमेयकृत्येनेयं प्रज्ञापारमिता प्रत्युपस्थिता? अप्रमेयं हि सुभूते तथागतत्वं बुद्धत्वं स्वयंभूत्वं सर्वज्ञत्वम् । एवं हि सुभूते अप्रमेयकृत्येनेयं प्रज्ञापारमिता प्रत्युपस्थिता । कथं च सुभूते असंख्येयकृत्येनेयं प्रज्ञापारमिता प्रत्युपस्थिता? असंख्येयं हि सुभूते तथागतत्वं बुद्धत्वं स्वयंभूत्वं सर्वज्ञत्वम् । एवं हि सुभूते असंख्येयकृत्येनेयं प्रज्ञापारमिता प्रत्युपस्थिता । कथं च सुभूते असमसमकृत्येनेयं प्रज्ञापारमिता प्रत्युपस्थिता? नास्ति सुभूते तथागतस्यार्हतः सम्यक्संबुद्धस्य स्वयंभुवः सर्वज्ञस्य समः, कुतः पुनरुत्तरः? एवं हि सुभूते असमसमकृत्येनेयं प्रज्ञापारमिता प्रत्युपस्थिता ॥ स्थविरः सुभूतिराह - किं पुनर्भगवंस्तथागतत्वमेवाचिन्त्यमतुल्यमप्रमेयसंख्येयमसमसमम्? एवं बुद्धत्वमेव स्वयंभूत्वमेव सर्वज्ञत्वमेव अतुल्यमप्रमेयमसंख्येयमसमसमम्, उताहो रूपमप्यचिन्त्यमतुल्यमप्रमेयमसंख्येयमसमसमम्? एवं वेदनापि संज्ञापि संस्कारा अपिः? विज्ञानमप्यचिन्त्यमतुल्यमप्रमेयमसंख्येयमसमसमम्, उताहो सर्वधर्मा अप्यचिन्त्या अतुल्या अप्रमेया असंख्येया असमसमाः? एवमुक्ते भगवानायुष्मन्तं सुभूतिमेतदवोचत्- एवमेतत्सुभूते, एवमेतत् । रूपमपि सुभूते अचिन्त्यमतुल्यमप्रमेयमसंख्येयमसमसमम् । एवं वेदनापि संज्ञापि संस्कारा अपि । विज्ञानमपि सुभूते अचिन्त्यमतुल्यमप्रमेयमसंख्येयमसमसमम् । एवं सर्वधर्मा अपि सुभूते अचिन्त्या अतुल्या अप्रमेया असंख्येया असमसमाः । तत्कस्य हेतोः? रूपस्य हि सुभूते या धर्मता, न तत्र चित्तं न चेतना न चैतसिका धर्मा न तुलना । एवं वेदनायाः संज्ञायाः संस्काराणाम् । विज्ञानस्य हि सुभूते या धर्मता, न तत्र चित्तं न चेतना न चैतसिका धर्मा न तुलना । सर्वधर्माणां हि सुभूते या धर्मता, न तत्र चित्तं न चेतना न चैतसिका धर्मा न तुलना । एवं हि सुभूते रूपमप्यचिन्त्यमतुल्यम् । एवं वेदनापि संज्ञापि संस्कारा अपि । विज्ञानमप्यचिन्त्यमतुल्यम् । एवं सर्वधर्मा अप्यचिन्त्या अतुल्याः । रूपमपि (वैद्य १३९) सुभूते अप्रमेयम् । एवं वेदनापि संज्ञापि संस्कारा अपि । विज्ञानमपि सुभूते अप्रमेयम्, सर्वधर्मा अपि सुभूते अप्रमेयाः । तत्कस्य हेतोः? रूपस्य हि सुभूते प्रमाणं न प्रज्ञायते । एवं वेदनायाः संज्ञायाः संस्काराणाम् । विज्ञानस्य हि सुभूते प्रमाणं न प्रज्ञायते । सर्वधर्माणामपि हि सुभूते प्रमाणं न प्रज्ञायते । केन कारणेन सुभूते रूपस्य प्रमाणं न प्रज्ञायते? केन कारणेन वेदनायाः संज्ञायाः संस्काराणाम्? केन कारणेन सुभूते विज्ञानस्य प्रमाणं न प्रज्ञायते? केन कारणेन सुभूते सर्वधर्माणामपि प्रमाणं न प्रज्ञायते? रूपस्य हि सुभूते प्रमाणं न विद्यते । एवं वेदनायाः संज्ञायाः संस्काराणाम् । विज्ञानस्य हि सुभूते प्रमाणं न विद्यते । सर्वधर्माणामपि हि सुभूते प्रमाणं न विद्यते । केन कारणेन सुभूते रूपस्य प्रमाणं न विद्यते? एवं वेदनायाः संज्ञायाः संस्काराणाम्? केन कारणेन सुभूते विज्ञानस्य प्रमाणं न विद्यते? केन कारेणेन सुभूते सर्वधर्माणामपि प्रमाणं न विद्यते? अप्रमाणत्वात्सुभूते सर्वधर्माणाम् । रूपमपि सुभूते असंख्येयम् । एवं वेदना संज्ञा संस्काराः । विज्ञानमपि सुभूते असंख्येयम् । सर्वधर्मा अपि सुभूते असंख्येयाः, गणनासमतिक्रान्तत्वात् । रूपमति सुभूते असमसमम् । एवं वेदना संज्ञा संस्काराः । विज्ञानमपि सुभूते असमसमम् । एवं सर्वधर्मा अपि सुभूते असमसमाः, आकाशसमत्वात्सुभूते सर्वधर्माणाम् । तत्किं मन्यसे सुभूते अपि तु अस्त्याकाशस्य समो वा गणना वा प्रमाणं वा तुल्यं वा चित्तं वा चैतसिका वा धर्माः? सुभूतिराह - नो हीदं भगवन् । भगवानाह - एवमेव सुभूते अनेन पर्यायेण सर्वधर्मा अपि अचिन्त्या अतुल्या अप्रमेया असंख्येया असमसमाः । एते च सुभूते तथागतधर्मा अचिन्त्याश्चित्तोपरमत्वात्, अतुल्यास्तुलनासमतिक्रान्तत्वात् । अचिन्त्या अतुल्या इति सुभूते विज्ञानगतस्यैतद्धर्मस्याधिवचनम् । एवमप्रमेया असंख्येया असमसमा इति सुभूते समसंख्याप्रमाणोपरमत्वादप्रमेया असंख्येया असमसमास्तथागतधर्माः । आकाशसमासंख्येयाप्रमेयतया असमसमा असंख्येया अप्रमेया एते धर्माः । आकाशतुल्यतया अतुल्या असमवहिता बतेमे धर्माः । तस्मात्सुभूते अतुल्या एते धर्मा उच्यन्ते । आकाशाचिन्त्यतया अचिन्त्या एते धर्माः । आकाशातुल्यतया अतुल्या एते धर्माः । आकाशाप्रमेयतया अप्रमेया एते धर्माः । आकाशासंख्येयतया असंख्येया एते धर्माः । आकाशासमसमतया असमसमा एते धर्माः । अस्यां खलु पुनरचिन्त्यतायामतुल्यतायामप्रमेयतायामसंख्येयतायामसमसमतायां भाष्यमाणायां पञ्चानां भिक्षुशतानामनुपादाय आस्रवेभ्यश्चित्तानि विमुक्तानि, षष्टेश्चोपासकशतानां विरजो विगतमलं धर्मेषु धर्मचक्षुर्विशुद्धम्, त्रिंशतेश्चोपासिकानां विरजो विगतमलं धर्मेषु धर्मचक्षुर्विशुद्धम्, विंशत्या च बोधिसत्त्वैरनुत्पत्तिकेषु धर्मेषु क्षान्तिः प्रतिलब्धाभूत् । ते च भगवता इहैव भद्रकल्पे व्याकृता अनुत्तरायां सम्यक्संबोधौ । येऽपि ते उपासका उपासिकाश्च येषां विरजो विगतमलं धर्मेषु धर्मचक्षुर्विशुद्धम्, तेऽपि भगवता व्याकृताः । तेषामप्यनुपादायास्रवेभ्यश्चित्तं विमोक्ष्यते ॥ (वैद्य १४०) अथ खल्वायुष्मान् सुभूतिर्भगवन्तमेतदवोचत्- गम्भीरा भगवन् प्रज्ञापारमिता । महाकृत्येन बतेयं भगवन् प्रज्ञापारमिता प्रत्युपस्थिता । एवमुक्ते भगवानायुष्मन्तं सुभूतिमेतदवोचत्- एवमेतत्सुभूते, एवमेतत् । गम्भीरा सुभूते प्रज्ञापारमिता । महाकृत्येनेयं सुभूते प्रज्ञापारमिता प्रत्युपस्थिता । तत्कस्य हेतोः? अत्र हि सुभूते सर्वज्ञता समायुक्ता, अत्र प्रत्येकबुद्धभूमिः समायुक्ता, अत्र सर्वश्रावकभूमिः समायुक्ता । तद्यथापि नाम सुभूते राज्ञः क्षत्रियस्य मूर्धाभिषिक्तस्य जनपदस्थामवीर्यप्राप्तस्य यानि तानि राजकृत्यानि, यानि च नगरकृत्यानि, यानि च जनपदकृत्यानि, सर्वाणि तानि अमात्यसमायुक्तानि भवन्ति । अल्पोत्सुकस्ततो राजा भवत्यपहृतभारः । एवमेव सुभूते ये केचिद्बुद्धधर्मा वा प्रत्येकबुद्धधर्मा वा श्रावकधर्मा वा, सर्वे ते प्रज्ञापारमितासमायुक्ताः । प्रज्ञापारमिता तत्र कृत्यं करोति । अनेन सुभूते पर्यायेण महाकृत्येनेयं प्रज्ञापारमिता प्रत्युपस्थिता रूपस्यापरिग्रहाय अनभिनिवेशाय । एवं वेदनायाः संज्ञायाः संस्काराणाम् । विज्ञानस्यापरिग्रहाय अनभिनिवेशाय, स्रोतआपत्तिफलस्यापरिग्रहायानभिनिवेशाय, एवं सकृदागामिफलस्यानागामिफलस्यार्हत्त्वफलस्यापरिग्रहायानभिनिवेशाय, प्रत्येकबोधेरपरिग्रहायानभिनिवेशाय, सर्वज्ञताया अपरिग्रहायानभिनिवेशाय प्रज्ञापारमिता प्रत्युपस्थिता ॥ सुभूतिराह - कथं भगवन् सर्वज्ञताया अपरिग्रहायानभिनिवेशाय प्रज्ञापारमिता प्रत्युपस्थिता? भगवानाह - तत्किं मन्यसे सुभूते समनुपश्यसि त्वमर्हत्त्वं यत्र परिग्रहं वा अभिनिवेशं वा कुर्याः? सुभूतिराह - नो हीदं भगवन् । नाहं भगवंस्तं धर्मं समनुपश्यामि यं परिगृह्णीयामभिनिवेशेयं वा अर्हत्त्वमिति । भगवानाह - एवमेतत्सुभूते, एवमेतत् । अहमपि सुभूते तथागतत्वं न समनुपश्यामि । सोऽहं सुभूते तथागतत्वमसमनुपश्यन्न परिगृह्णामि नाभिनिवेशे । तस्मात्तर्हि सुभूते सर्वज्ञताप्यपरिग्रहा अनभिनिवेशा । सुभूतिराह - सर्वज्ञतापि भगवनपरिग्रहा अनभिनिवेशेति? मा भगवन्नवयानसंप्रस्थिताः परीत्तकुशलमूला बोधिसत्त्वा महासत्त्वा इमं निर्देशं श्रुत्वा उत्रसिषुः संत्रसिषुः संत्रासमापत्स्यन्ते । अपि तु खलु पुनर्भगवन् ये बोधिसत्त्वा महासत्त्वा हेतुसंपन्नाः पूर्वजिनकृताधिकारा दीर्घरात्रावरोपितकुशलमूला भविष्यन्ति, त इमां गम्भीरां प्रज्ञापारमितां श्रुत्वा अधिमोक्ष्यन्ति । भगवानाह - एवमेतत्सुभूते, एवमेतत् ॥ अथ खलु ते कामावचरा रूपावराश्च देवपुत्रा भगवन्तमेतदवोचन् - गम्भीरा भगवन् प्रज्ञापारमिता, दुर्दृशा दुरनुबोधा । पूर्वजिनकृताधिकारा दीर्घरात्रावरोपितकुशलमूलास्ते भगवन् सत्त्वा भविष्यन्ति, य एनां गम्भीरां प्रज्ञापारमितामधिमोक्ष्यन्ति । सचेद्भगवंस्त्रिसाहस्रमहासाहस्रे लोकधातौ ये सत्त्वाः, ते सर्वे श्रद्धानुसारिभूमौ कल्पं वा कल्पावशेषं वा चरेयुः यश्चेह गम्भीरायां प्रज्ञापारमितायामेकदिवसमपि क्षान्तिं रोचयेद्गवेषेत चिन्तयेत्तुलयेदुपपरीक्षेत उपनिध्यायेत्, अयमेव भगवंस्तेभ्यः श्रेयान् । एवमुक्ते भगवांस्तान् कामावचरान् (वैद्य १४१) रूपावचरांश्च देवपुत्रानामन्त्रयामास - यदि देवपुत्राः कश्चिदेव कुलपुत्रो वा कुलदुहिता वा इमां गम्भीरां प्रज्ञापारमितां शृणुयात्, यावदस्य देवपुत्राः क्षिप्रतरं निर्वाणं प्रतिकाङ्क्षितव्यम्, न त्वेव तेषां श्रद्धानुसारिभूमौ कल्पं वा कल्पावशेषं वा चरताम् । अथ खलु ते कामावचरा रूपावचराश्च देवपुत्रा भगवन्तमेतदवोचन् - महापारमितेयं भगवन् यदुत प्रज्ञापारमिता । इत्युक्त्वा भगवतः पादौ शिरसा अभिवन्द्य भगवन्तं त्रिः प्रदक्षिणीकृत्य भगवतोऽन्तिकाद्गमिष्याम इत्यारोच्य प्रक्रान्ताः । तेऽविदूरं गत्वा अन्तर्हिताः । कामावचराश्च देवपुत्राः कामधातौ प्रातिष्ठन्तः, रूपावचराश्च देवपुत्रा ब्रह्मलोके प्रातिष्ठन्तेति ॥ आर्याष्टसाहस्रिकायां प्रज्ञापारमितायामचिन्त्यपरिवर्तो नाम त्रयोदशः ॥ _______________________________________________________________ (वैद्य १४२) १४: औपम्यपरिवर्तश्चतुर्दशः । अथ खल्वायुष्मान् सुभूतिर्भगवन्तमेतदवोचत्- यो भगवन् बोधिसत्त्वो महासत्त्वः सहश्रवणेनैव अस्यां गम्भीरायां प्रज्ञापारमितायामधिमुच्यते नावलीयते न संलीयते नावतिष्ठते न धन्धायति न विचिकित्सति न काङ्क्षति, अभिनन्दति च प्रज्ञापारमिताम्, स भगवन् कुतश्च्युत्वा कुत्रोपपन्नः? भगवानाह - यः सुभूते बोधिसत्त्वो महासत्त्वः सहश्रवणेनैव अस्यां गम्भीरायां प्रज्ञापारमितायामधिमोक्ष्यते नावलेष्यते न संलेष्यते नावस्थास्यते न धन्धायिष्यति न विचिकित्सिष्यति न काङ्क्षिष्यति, अभिनन्दिष्यति च दर्शनं श्रवणं च, धारयिष्यति भावयिष्यत्येनां गम्भीरां प्रज्ञापारमिताम्, प्रज्ञापारमिताप्रतिसंयुक्तांश्च मनसिकारान्न विहास्यति, न विपृष्ठीकरिष्यति मानसम्, छन्दं जनयिष्यत्युद्ग्रहीतुं धारयितुं वाचयितुं पर्यवाप्तुं प्रवर्तयितुम्, करिष्यत्यनुबन्धम्, अनुगमिष्यति धर्मभाणकं नोत्स्रक्ष्यति । तद्यथापि नाम सुभूते तरुणवत्सा गौर्नोत्सृजति वत्सम्, एवमेव सुभूते यो बोधिसत्त्वो महासत्त्व एनां गम्भीरां प्रज्ञापारमितां श्रुत्वा तावन्न प्रहास्यति धर्मभाणकं यावदस्येयं प्रज्ञापारमिता कायगता वा भविष्यति पुस्तकगता वा, अयं सुभूते बोधिसत्त्वो महासत्त्वो मनुष्येभ्य एव च्युतो मनुष्येष्वेवोपपन्नः ॥ सुभूतिराह - स्याद्भगवनेतैरेव गुणैः समन्वागतो बोधिसत्त्वो महासत्त्वोऽन्येभ्यो बुद्धक्षेत्रेभ्यश्च्युत इहोपपन्नः? भगवानाह - स्यात्सुभूते बोधिसत्त्वो महासत्त्वोऽन्येभ्यो बुद्धक्षेत्रेभ्योऽन्यान् बुद्धान् भगवतः पर्युपास्य परिपृच्छ्य परिप्रश्नीकृत्य तेभ्यश्च्युत इहोपपन्नः, एतैरेव गुणैः समन्वागतो वेदितव्यः । पुनरपरं सुभूते यो बोधिसत्त्वो महासत्त्वस्तुषितेभ्यो देवेभ्यश्च्युत इहोपपन्नः, सोऽप्येतैरेव गुणैः समन्वागतो वेदितव्यः । येन मैत्रेयो बोधिसत्त्वो महासत्त्वः पर्युपासितः परिपृष्टः परिपृच्छितः परिप्रश्नीकृतः इमां प्रज्ञापारमितामारभ्य, सोऽप्येतैरेव गुणैः समन्वागतो वेदितव्यः । येन खलु पुनः सुभूते बोधिसत्त्वेन महासत्त्वेन पूर्वान्तत इयं गम्भीरा प्रज्ञापारमिता श्रुता, न तु परिपृष्टा भवेत्, न परिपृच्छिता न परिप्रश्नीकृता, तस्य पुनरपि मनुष्येष्वेवोपपन्नस्य अस्यां गम्भीरायां प्रज्ञापारमितायां भाष्यमाणायां भवति काङ्क्षायितत्वम्, भवति धन्धायितत्वम्, भवति चित्तस्यावलीनता, वेदितव्यमेतत्सुभूते, अयं बोधिसत्त्वः पूर्वान्ततोऽप्यपरिपृच्छकजातीयोऽभूत् । तत्कस्य हेतोः? तथा हि अस्यामस्यां गम्भीरायां प्रज्ञापारमितायां भाष्यमाणायां भवति काङ्क्षायितत्वम्, भवति धन्धायितत्वम्, भवति चित्तस्यावलीनतेति ॥ पुनरपरं सुभूते येन बोधिसत्त्वेन महासत्त्वेनेयं गम्भीरा प्रज्ञापारमिता पूर्वान्ततोऽपि श्रुता भवति, पर्युपासिता परिपृष्टा परिपृच्छिता परिप्रश्नीकृता च भवति, एकं वा दिनं द्वे वा त्रीणि वा चत्वारि वा पञ्च वा दिनानि, तस्य तावत्कालिकी श्रद्धा भवति, संह्रियते च, पुनरेवासंहार्या च भवति परिपृच्छया । तत्कस्य हेतोः? एवं ह्येतत्सुभूते भवति - येन पूर्वं न संपरिपृष्टा भवतीयं प्रज्ञापारमिता, न संपरिपृच्छिता, (वैद्य १४३) न संपरिप्रश्नीकृता, न चानुवर्तिता भवति, तस्य कंचित्कालं छन्दोऽनुवर्तते अस्यां गम्भीरायां प्रज्ञापारमितायां श्रवणाय, कंचित्कालं छन्दो न भवति । स पुनरेवोत्क्षिप्यतेऽवसीदति । तस्य चलाचला बुद्धिर्भवति । तूलपिचूपमश्च स भवति । सोऽयं बोधिसत्त्वोऽचिरयानसंप्रस्थितो वेदितव्यः । नवेन यानेनागतः स बोधिसत्त्वस्तां श्रद्धां तं प्रसादं तं छन्दं प्रहास्यति, यदुतैनां गम्भीरां प्रज्ञापारमितां नानुग्रहीष्यति नानुवर्तिष्यते नानुपरिवारयिष्यति । तस्य द्वयोर्भूम्योरन्यतरा भूमिः प्रतिकाङ्क्षितव्या - श्रावकभूमिर्वा प्रत्येकबुद्धभूमिर्वा । तद्यथापि नाम सुभूते महासमुद्रगतायां नावि भिन्नायां ते तत्र काष्ठं वा न गृह्णन्ति फलकं वा, मृतशरीरं वा नाध्यालम्बन्ते, वेदितव्यमेतत्- अप्राप्ता एवैते पारमुदके कालं करिष्यन्तीति । ये खलु पुनः सुभूते महासमुद्रगतायां नावि भिन्नायां तत्र काष्ठं वा गृह्णन्ति फलकं वा, मृतशरीरं वा अध्यालम्बन्ते, वेदितव्यमेतत्सुभूते - नैते उदके कालं करिष्यन्ति, स्वस्तिना अनन्तरायेण पारमुत्तरिष्यन्ति, अक्षताश्चानुपहताश्च स्थले स्थास्यन्तीति । एवमेव सुभूते यो बोधिसत्त्वः श्रद्धामात्रकेण प्रसादमात्रकेण प्रेममात्रकेण छन्दमात्रकेण समन्वागतः स च प्रज्ञापारमितां नाध्यालम्बते, वेदितव्यमेतत्सुभूते अन्तरैवैष व्यध्वनि व्यवसादमापत्स्यते, अप्राप्त एव सर्वज्ञतां श्रावकत्वे प्रत्येकबुद्धत्वे वा स्थास्यतीति । येषां खलु पुनः सुभूते बोधिसत्त्वानां महासत्त्वानामस्ति श्रद्धा, अस्ति क्षान्तिः, अस्ति रुचिः, अस्ति छन्दः, अस्ति वीर्यम्, अस्त्यप्रमादः, अस्त्यधिमुक्तिः, अस्त्यध्याशयः, अस्ति त्यागः, अस्ति गौरवम्, अस्ति प्रीतिः, अस्ति प्रामोद्यम्, अस्ति प्रसादः, अस्ति प्रेम, अस्त्यनिक्षिप्तधुरता अनुत्तरां सम्यक्संबोधिमभिसंबोद्धुम्, ते च प्रज्ञापारमितामध्यालम्बन्ते । एवं तेषां सा श्रद्धा सा क्षान्तिः सा रूचिः स च्छन्दः तद्वीर्यं सोऽप्रमादः साधिमुक्तिः सोऽध्याशयः स त्यागः तद्गौरवं सा प्रीतिः तत्प्रामोद्यं स प्रसादः तत्प्रेम सा अनिक्षिप्तधुरता अनुत्तरां सम्यक्संबोधिमभिसंबोद्धुम् । ते च प्रज्ञापारमितां प्राप्य सर्वज्ञतायां स्थास्यन्ति । तद्यथापि नाम सुभूते स्त्री व पुरुषो वा अपरिपक्वेन घटेनोदकं परिवहेत्, वेदितव्यमेतत्सुभूते - नायं घटश्चिरमनुवर्त्स्यते, क्षिप्रमेव परिभेत्स्यते, प्रविलेष्यते इति । तत्कस्य हेतोः? यथापि नाम तदपरिपक्वत्वाद्धटस्य, स भूमिपर्यवसान एव भविष्यतीति । एवमेव सुभूते किंचापि बोधिसत्त्वस्य अस्ति श्रद्धा अस्ति क्षान्तिः अस्ति रूचिः अस्ति छन्दः अस्ति वीर्यमस्त्यप्रमादः, अस्त्यधिमुक्तिः अस्त्यध्याशयः अस्ति त्यागः । अस्ति गौरवम्, अस्ति प्रीतिः अस्ति प्रामोद्यम्, अस्ति प्रसादः, अस्ति प्रेम, अस्त्यनिक्षिप्तधुरता अनुत्तरां सम्यक्संबोधिमभिसंबोद्धुम् । स च प्रज्ञापारमितया उपायकौशल्येन च अपरिगृहीतो भवति, वेदितव्यमेतत्सुभूते अयं बोधिसत्त्वोऽन्तरा व्यध्वनि व्यवसादमापत्स्यत इति । कश्च सुभूते बोधिसत्त्वस्यान्तरा व्यध्वनि व्यवसादः - श्रावकभूमिर्वा प्रत्येकबुद्धभूमिर्वा? तद्यथापि नाम सुभूते स्त्री वा पुरुषो वा सुपरिपक्वेन घटेन नदीतो वा सरस्तो वा तडागतो वा उदपानाद्वा ततोऽन्येभ्यो वा उदकाधारेभ्य उदकं परिवहेत्, तस्य तदुदकं परिवहतो वेदितव्यमेतत्सुभूते स्वस्तिना (वैद्य १४४) अनन्तरायेण अयं घटो गृहं गमिष्यतीति । तत्कस्य हेतोः? यथापि नाम सुपरिपक्वत्वाद्धटस्य । एवमेव सुभूते यस्य बोधिसत्त्वस्य अस्ति श्रद्धा अस्ति क्षान्तिः अस्ति रुचिः अस्ति छन्दः, अस्ति वीर्यम्, अस्त्यप्रमादः, अस्त्यधिमुक्तिः अस्त्यध्याशयः, अस्ति त्यागः, अस्ति गौरवम्, अस्ति प्रीतिः अस्ति प्रामोद्यम्, अस्ति प्रसादः, अस्ति प्रेमः अस्त्यनिक्षिप्तधुरता अनुत्तरां सम्यक्संबोधिमभिसंबोद्धुम् । स च प्रज्ञापारमितया उपायकौशल्येन च परिगृहीतो भवति । वेदितव्यमेतत्सुभूते नायं बोधिसत्त्वो महासत्त्वोऽन्तरा व्यध्वनि व्यवसादमापत्स्यते । अक्षतोऽनुपहतः सर्वज्ञतायां स्थास्यतीति । तद्यथापि नाम सुभूते दुष्प्रज्ञजातीयः पुरुषः सामुद्रिकां नावमनाकोटितामपरिकर्मकृतां चिरबन्धनबद्धामुदकेऽवतार्य समारोपितभाण्डां परिपूर्णां भारार्तामभिरूढः स्यात्, वेदितव्यमेतत्सुभूते - एवंधर्मेयं नौर्भविष्यति, यदुत उदकेऽसंतीर्णभाण्डैव संसत्स्यतीति । तस्यान्येन भाण्डं भविष्यति, अन्येन सा नौर्विपत्स्यते इति । एवं स सार्थवाहोऽनुपायकुशलो दौष्प्रज्ञेन महता अर्थवियोगेन समन्वागतो भविष्यति, महतश्च रत्नाकरात्परिहीणो भविष्यतीति । एवमेव सुभूते किंचापि बोधिसत्त्वस्य अस्ति श्रद्धा अस्ति क्षान्तिः, अस्ति रुचिः अस्ति छन्दः, अस्ति वीर्यम्, अस्त्यप्रमादः, अस्त्यधिमुक्तिः अस्त्यध्याशयः, अस्ति त्यागः, अस्ति गौरवम्, अस्ति प्रीतिः, अस्ति प्रामोद्यम्, अस्ति प्रसादः, अस्ति प्रेम, अस्त्यनिक्षिप्तधुरता अनुत्तरां सम्यक्संबोधिमभिसंबोद्धुम्, स च प्रज्ञापारमितया उपायकौशल्येन च विरहितो भवति, वेदितव्यमेतत्सुभूते अप्राप्त एवायं बोधिसत्त्वः सर्वज्ञतारत्नाकरमन्तरा संसत्स्यति, व्यवसादमापत्स्यते, महतः स्वार्थात्परिहीणो भविष्यति, महतश्च परार्थरत्नराशेः परिहीणो भविष्यति, यदुत सर्वज्ञतामहार्थरत्नाकरात्परिहीणत्वादिति । का पुनः सुभूते बोधिसत्त्वस्य अन्तरा व्यध्वनि संसीदना? यदुत श्रावकभूमिर्वा प्रत्येकबुद्धभूमिर्वा । तद्यथापि नाम सुभूते पण्डितजातीयः सार्थवाहः सामुद्रिकां नावं सुबद्धां बन्धयित्वा स्वाकोटितामाकोटयित्वा सुपरिकर्मकृतां कृत्वा उदके ऽवतार्य भाण्डमारोप्य पूर्णां कृत्वा समं योजयित्वा युक्तेन वातेनाभिप्रेतां दिशमनुपूर्वेण गच्छेत्, ततस्तद्यानमिति, वेदितव्यमेतत्सुभूते नेयं नौरुदके संसत्स्यति । गमिष्यतीयं नौस्तं प्रदेशं यत्रानया गन्तव्यम् । महालाभेन चायं सार्थवाहः संयोक्ष्यते यदुत लौकिकै रत्नैरिति । एवमेव सुभूते यस्य बोधिसत्त्वस्य महासत्त्वस्य अस्ति श्रद्धा अस्ति क्षान्तिः अस्ति रुचि छन्दः अस्ति वीर्यम्, अस्त्यप्रमादः अस्त्यधिमुक्तिः, अस्त्याध्याशयः, अस्ति त्यागः, अस्ति गौरवम्, अस्ति प्रीतिः अस्ति प्रामोद्यम्, अस्ति प्रसादः, अस्ति प्रेम, अस्त्यनिक्षिप्तधुरता अनुत्तरां सम्यक्संबोधिमभिसंबोद्धुम्, स च प्रज्ञापारमितया परिगृहीत उपायकौशल्येन चाविरहितो भवति, वेदितव्यमेतत्सुभूते नायं बोधिसत्त्वो महासत्त्वोऽन्तरा व्यध्वनि संसत्स्यति, न व्यवसादमापत्स्यते, स्थास्यत्ययं बोधिसत्त्वो महासत्त्वोऽनुत्तरायां सम्यक्संबोधौ । तत्कस्य हेतोः? एवं ह्येतत्सुभूते भवति - यतोऽस्य बोधिसत्त्वस्य महासत्त्वस्य अस्ति श्रद्धा, अस्ति क्षान्तिः, अस्ति रुचिः, अस्ति छन्दः, अस्ति वीर्यम्, अस्त्यप्रमादः, अस्त्यधिमुक्तिः अस्त्यध्याशयः, अस्ति त्यागः, अस्ति गौरवम्, अस्ति (वैद्य १४५) अस्ति प्रीतिः, अस्ति प्रामोद्यम्, अस्ति प्रसादः, अस्ति प्रेम, अस्त्यनिक्षिप्तधुरता अनुत्तरां सम्यक्संबोधिमभिसंबोद्धुम् । एते चास्य धर्माः प्रज्ञापारमितया परिगृहीता उपायकौशल्येन चाविरहिता न श्रावकभूमिं न प्रत्येकबुद्धभूमिं वा प्रतिपत्स्यन्ते । अपि तु येन सर्वज्ञता, तेनैते धर्मा अभिमुखाः संप्रस्थिताः ततोऽस्या अनुत्तरायाः सम्यक्संबोधेरभिसंबोधाय भविष्यन्तीति । तद्यथापि नाम सुभूते कश्चिदेव पुरुषो जीर्णो वृद्धो महल्लकः सविंशतिवर्षशतिको जात्या भवेत्, तस्य कश्चिदेव शरीरे व्याधिरुत्पद्येत वाततो वा पित्ततो वा श्लेष्मतो वा संनिपाततो वा । तकिं मन्यसे सुभूते अपि नु स पुरुषोऽपरिगृहीतो मञ्चादुत्तिष्ठेत्? सुभूतिराह - नो हीदं भगवन् । भगवानाह - सचेत्पुनः सुभूते स पुरुषो मञ्चादुत्तिष्ठेत्, अथ च पुनर्न प्रतिबलोऽर्धक्रोशान्तरमपि प्रक्रमितुम् । स तया जरया तेन च व्याधिना क्षपितो यद्यपि मञ्चादुत्तिष्ठेत्, तथापि पुनरप्रतिबलः स पुरुषः प्रक्रमणाय । एवमेव सुभूते किंचापि बोधिसत्त्वस्य अस्ति श्रद्धा, अस्ति क्षान्तिः, अस्ति रुचिः, अस्ति छन्दः, अस्ति वीर्यम्, अस्त्यप्रमादः, अस्त्यधिमुक्तिः, अस्त्यध्याशयः, अस्ति त्यागः, अस्ति गौरवम्, अस्ति प्रीतिः, अस्ति प्रामोद्यम्, अस्ति प्रेम, अस्त्यनिक्षिप्तधुरता अनुत्तरां सम्यक्संबोधिमभिसंबोद्धुम् । स च प्रज्ञापारमितया अपरिगृहीत उपायकौशल्येन च विरहितो भवति, किंचापि संप्रस्थितोऽनुत्तरां सम्यक्संबोधिमभिसंबोद्धुम् । अथ च पुनः सुभूते एवं वेदितव्यम् - अयं बोधिसत्त्वोऽन्तरा व्यध्वनि संसत्स्यति, व्यवसादमापत्स्यते, यदुत श्रावकभूमौ वा प्रत्येकबुद्धभूमौ वा स्थास्यतीति । तत्कस्य हेतोः? यथापि नाम प्रज्ञापारमितया अपरिगृहीतत्वादुपायकौशल्येन च विरहितत्वात् । तद्यथापि नाम सुभूते स एव पुरुषो जीर्णो वृद्धो महल्लकः सविंशतिवर्षशतिको जात्या भवेत्, तस्य शरीरे कश्चिदेव व्याधिरूत्पद्येत वाततो वा पित्ततो वा श्लेष्मतो वा संनिपाततो वा, स च मञ्चादुत्तिष्ठेत् । तमेनं द्वौ बलवन्तौ पुरुषौ वामदक्षिणाभ्यां पार्श्वाभ्यां स्वध्यालम्बितमध्यालम्ब्य सुपरिगृहीतं परिगृह्य एवं वदेताम् - गच्छ त्वं भोः पुरुष येनाकाङ्क्षसि यावच्चाकाङ्क्षसि गन्तुम्, अनुपरिगृहीतस्त्वमावाभ्याम्, न तवान्तरामार्गे पतनभयं भविष्यति, यावन्न त्वं तदधिष्ठानमनुप्राप्तो भविष्यसि, यत्र त्वया गन्तव्यमिति । एवमेव सुभूते यस्य बोधिसत्त्वस्य महासत्त्वस्य अस्ति श्रद्धा, अस्ति क्षान्तिः, अस्ति रुचिः अस्ति छन्दः, अस्ति वीर्यम्, अस्त्यप्रमादः, अस्त्यधिमुक्तिः, अस्त्यध्याशयः, अस्ति त्यागः, अस्ति गौरवम्, अस्ति प्रीतिः, अस्ति प्रामोद्यम्, अस्ति प्रसादः, अस्ति प्रेम अस्त्यनिक्षिप्तधुरता अनुत्तरां सम्यक्संबोधिमभिसंबोद्धुम्, स च प्रज्ञापारमितया अनुपरिगृहीतो भवति, उपायकौशल्यसमन्वागतश्च भवति । वेदितव्यमेतत्सुभूते नायं बोधिसत्त्वो महासत्त्वोऽन्तरा व्यध्वनि संसत्स्यति, न व्यवसादमापत्स्यते, प्रतिबलोऽयं बोधिसत्त्वो महासत्त्वस्तत्स्थानमनुप्राप्तुं यदुतानुत्तरं सम्यक्संबोधिस्थानमिति ॥ आर्याष्टसाहस्रिकायां प्रज्ञापारमितायामौपम्यपरिवर्तो नाम चतुर्दशः ॥ _______________________________________________________________ (वैद्य १४६) १५: देवपरिवर्तः पञ्चदशः । अथ खल्वायुष्मान् सुभूतिर्भगवन्तमेतदवोचत्- आदिकर्मिकेण भगवन् बोधिसत्त्वेन महासत्त्वेन कथं प्रज्ञापारमितायां स्थातव्यं कथं शिक्षितव्यम्? एवमुक्ते भगवानायुष्मन्तं सुभूतिमेतदवोचत्- इह सुभूते आदिकर्मिकेण बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितुकामेन कल्याणमित्राणि सेवितव्यानि भक्तव्यानि पर्युपासितव्यानि । यान्येनं प्रज्ञापारमितायामववदिष्यन्ति अनुशासिष्यन्ति, यानि चास्मै प्रज्ञापारमिताया अर्थमुपदेक्ष्यन्ति, तान्येव चास्य सुभूते बोधिसत्त्वस्य महासत्त्वस्य कल्याणमित्राणि वेदितव्यानि । एवं चास्मै प्रज्ञापारमिताया अर्थमुपदेक्ष्यन्ति - एहि त्वं कुलपुत्र दानपारमितायां योजमापद्यस्व, एवं शीलपारमितायां क्षान्तिपारमितायां वीर्यपारमितायां ध्यानपारमितायां प्रज्ञापारमितायां योगमापद्यस्व । यद्यदेव त्वं कुलपुत्र दानं ददासि, तत्सर्वमनुत्तरायां सम्यक्संबोधौ परिणामय । मा च त्वं कुलपुत्र अनुत्तरां सम्यक्संबोधिं रूपतः परामृक्षः, एवं मा वेदनातो मा संज्ञातो मा संस्कारेभ्यः । मा च त्वं कुलपुत्र अनुत्तरां सम्यक्संबोधिं विज्ञानतः परामृक्षः । तत्कस्य हेतोः? अपरामृष्टा हि कुलपुत्र सर्वज्ञता । एवं यद्यदेव त्वं कुलपुत्र शीलं रक्षसि..........पेयालं..............यद्यदेव त्वं कुलपुत्र क्षान्त्या संपादयसि, यद्यदेव त्वं कुलपुत्र वीर्यमारभसे, यद्यदेव त्वं कुलपुत्र ध्यानं समापद्यसे, यद्यदेव त्वं कुलपुत्र प्रज्ञायां परिजयं करोषि, तत्सर्वमनुत्तरायां सम्यक्संबोधौ परिणामय । मा च त्वं कुलपुत्र अनुत्तरां सम्यक्संबोधिं रूपतः परामृक्षः । एवं मा वेदनातो मा संज्ञातो मा संस्कारेभ्यः । मा च त्वं कुलपुत्र अनुत्तरां सम्यक्संबोधिं विज्ञानतः परामृक्षः । तत्कस्य हेतोः? अपरामृष्टा हि कुलपुत्र सर्वज्ञता । मा च त्वं कुलपुत्र श्रावकभूमौ वा प्रत्येकबुद्धभूमौ वा स्पृहां कार्षीरिति । एवं हि सुभूते आदिकर्मिको बोधिसत्त्वो महासत्त्वोऽनुपूर्वेण कल्याणमित्रैः प्रज्ञापारमितायामवतारयितव्यः ॥ सुभूतिराह - दुष्करकारका भगवन् बोधिसत्त्वाः महासत्त्वाः, येऽनुत्तरां सम्यक्संबोधिमभिसंबोद्धुं संप्रस्थिताः । एवंरूपं दानमागम्य, एवंरूपं शीलम्, एवंरूपां क्षान्तिम्, एवंरूपं वीर्यम्, एवंरूपं ध्यानम्, एवंरूपां प्रज्ञामागम्य स्वाधीनेऽपि परिनिर्वाणे नेच्छन्ति परिनिर्वातुम् । अपि तु परमदुःखितं सत्त्वधातुमभिसमीक्ष्य अनुत्तरां सम्यक्संबोधिमभिसंबोद्धुकामाः संसारान्नोत्रस्यन्ति । एवमुक्ते भगवानायुष्मन्तं सुभूतिमेतदवोचत्- एवमेतत्सुभूते, एवमेतत् । दुष्करकारकाः सुभूते बोधिसत्त्वा महासत्त्वाः ये लोकहिताय संप्रस्थिताः, लोकसुखाय लोकानुकम्पायै संप्रस्थिताः, लोकस्य त्राणं भविष्यामः, लोकस्य शरणं भविष्यामः, लोकस्य लयनं भविष्यामः, लोकस्य परायणं भविष्यामः, लोकस्य द्वीपां भविष्यामः, लोकस्यालोका भविष्यामः, लोकस्य परिणायका भविष्याम, अनुत्तरां सम्यक्संबोधिमभिसंबुध्य लोकस्य गतिर्भविष्यामः, इत्येवंरूपमनुत्तरायां सम्यक्संबोधौ वीर्यमारभन्ते । कथं च सुभूते बोधिसत्त्वा महासत्त्वा अनुत्तरां सम्यक्संबोधिमभिसंबुद्धाः सन्तो लोकस्य त्राणं भवन्ति? यानि तानि सुभूते संसारावचराणि दुःखानि लोकस्य, तत एनं (वैद्य १४७) त्रायन्ते, तेषां दुःखानां प्रहाणाय व्यायच्छन्ते, वीर्यमारभन्ते । एवं हि सुभूते बोधिसत्त्वा महासत्त्वा अनुत्तरां सम्यक्संबोधिमभिसंबुद्धाः सन्तो लोकस्य त्राणं भवन्ति । कथं च सुभूते बोधिसत्त्वा महासत्त्वा अनुत्तरां सम्यक्संबोधिमभिसंबुद्धा सन्तो लोकस्य शरणं भवन्ति? ये सुभूते सत्त्वा जातिधर्मिणो जराधर्मिणो व्याधिधर्मिणो मरणधर्मिणः शोकपरिदेवदुःखदौर्मनस्योपायासधर्मिणः सत्त्वाः तान् सर्वान् जातिजराव्याधिमरणशोकपरिदेवदुःखदौर्मनस्योपायासेभ्यः परिमोचयन्ति । एवं हि सुभूते बोधिसत्त्वा महासत्त्वा अनुत्तरां सम्यक्संबोधिमभिसंबुद्धाः सन्तो लोकस्य शरणं भवन्ति । कथं च सुभूते बोधिसत्त्वा महासत्त्वा अनुत्तरां सम्यक्संबोधिमभिसंबुद्धाः सन्तो लोकस्य लयनं भवन्ति? यत्सुभूते तथागता अर्हन्तः सम्यक्संबुद्धाः सत्त्वेभ्योऽश्लेषाय धर्मं देशयन्ति । एवं हि सुभूते बोधिसत्त्वा महासत्त्वा अनुत्तरां सम्यक्संबोधिमभिसंबुद्धाः सन्तो लोकस्य लयनं भवनति । सुभूतिराह - कथं भगवनश्लेषो भवति? भगवानाह - यः सुभूते रूपस्यासंबन्धः, स रूपस्याश्लेषः । यो रूपस्याश्लेषः, स रूपस्यासंबन्धः । यो रूपस्यासंबन्धः, स रूपस्यानुत्पादोऽनिरोधः । यो रूपस्यानुत्पादोऽनिरोधः, स रूपस्याश्लेषः । यो रूपस्याश्लेषः, अयं रूपस्यासंबन्धः, अयं रूपस्याश्लेषः । एवं वेदनायाः संज्ञायाः संस्काराणाम् । यः सुभूते विज्ञानस्यासंबन्धः, स विज्ञानस्याश्लेषः । यो विज्ञानस्याश्लेषः, स विज्ञानस्यासंबन्धः । यो विज्ञानस्यासंबन्धः, स विज्ञानस्यानुत्पादोऽनिरोधः । यो विज्ञानस्यानुत्पादोऽनिरोधः, स विज्ञानस्याश्लेषः । यो विज्ञानस्याश्लेषः अयं विज्ञानस्यासंबन्धः, अयं विज्ञानस्याश्लेषः । एवं हि सुभूते सर्वधर्मा असंश्लिष्टा असंबद्धा इति ज्ञानदर्शनादश्लेषो भवति । एवं हि सुभूते बोधिसत्त्वा महासत्त्वा अनुत्तरां सम्यक्संबोधिमभिसंबुद्धाः सन्तो लोकस्य लयनं भवन्ति । कथं च सुभूते बोधिसत्त्वा महासत्त्वा अनुत्तरां सम्यक्संबोधिमभिसंबुद्धाः सन्तो लोकस्य परायणं भवन्ति? यत्सुभूते रूपस्य पारं न तद्रूपम् । यथा च सुभूते पारं तथा रूपम् । एवं वेदना संज्ञा संस्काराः । यत्सुभूते विज्ञानस्य पारं न तद्विज्ञानम् । यथा च सुभूते पारं तथा विज्ञानम् । यथा च सुभूते रूपम्, एवं वेदना संज्ञा संस्काराः । विज्ञानं पारं तथा सर्वधर्माः । सुभूतिराह - यदि भगवन् यथा रूपम्, एवं वेदना संज्ञा संस्काराः विज्ञानं पारं तथा सर्वधर्माः, ननु भगवन् बोधिसत्त्वैर्महासत्त्वैरभिसंबुद्धा एवं भवन्ति सर्वधर्माः । तत्कस्य हेतोः? न ह्यत्र भगवन् कश्चिद्विकल्पः । भगवानाह - एवमेतत्सुभूते, एवमेतत् । यत्तत्पारं न तत्र कश्चिद्विकल्पः । अविकल्पत्वात्सुभूते बोधिसत्त्वैर्महासत्वैरभिसंबुद्धा एव भवन्ति सर्वधर्माः । इदमपि सुभूते परमदुष्करं बोधिसत्त्वानां महासत्त्वानाम्, य एवं च सर्वधर्मानुपनिध्यायन्ति, न च साक्षात्कुर्वन्ति, न चावलीयन्ते - एवमस्माभिरेते धर्मा अभिसंबोद्धव्याः, एवं च अनुत्तरां सम्यक्संबोधिमभिसंबुध्य एनान् धर्मान् देशयिष्यामः प्रकाशयिष्याम इत्युपनिध्यायन्ति । एवं हि सुभूते बोधिसत्त्वा महासत्त्वा अनुत्तरां सम्यक्संबोधिमभिसंबुद्धाः सन्तो लोकस्य परायणं भवन्ति । कथं च सुभूते बोधिसत्त्वा महासत्त्वा अनुत्तरां सम्यक्संबोधिमभिसंबुद्धाः (वैद्य १४८) सन्तो लोकस्य द्वीपा भवन्ति? तद्यथापि नाम सुभूते ये प्रदेशा उदकपरिच्छिन्ना भवन्ति नदीषु वा महोदधिषु वा, ते उच्यन्ते द्वीपा इति । एवमेव सुभूते पूर्वान्तापरान्तपरिच्छिन्नं रूपम् । एवं वेदना संज्ञा संस्काराः । एवमेव सुभूते पूर्वान्तापरान्तपरिच्छिन्नं विज्ञानम् । एतेन सुभूते परिच्छेदेन सर्वधर्माः पूर्वान्तापरान्तपरिच्छिन्नाः । यश्च सुभूते सर्वधर्माणां परिच्छेदः, एतच्छान्तम्, एतत्प्रणीतम्, एतत्परिनिर्वाणम्, एतद्यथावत्, एतदविपरीतम् । एवं खलु सुभूते बोधिसत्त्वा महासत्त्वा अनुत्तरां सम्यक्संबोधिमभिसंबुद्धाः सन्तो लोकस्य द्वीपा भवन्ति । कथं च सुभूते बोधिसत्त्वा महासत्त्वा अनुत्तरां सम्यक्संबोधिमभिसंबुद्धा सन्तो लोकस्य आलोका भवन्ति? इह सुभूते बोधिसत्त्वा महासत्त्वा अनुत्तरां सम्यक्संबोधिमभिसंबुद्धाः सन्तो दीर्घरात्रमविद्याण्डकोशपटलपर्यवनद्धानां सत्त्वानां तमोभिभूतानां प्रज्ञया अवभासयन्तः सर्वाज्ञानतमोन्धकारं विधुन्वन्ति । एवं खलु सुभूते बोधिसत्त्वा महासत्त्वा अनुत्तरां सम्यक्संबोधिमभिसंबुद्धाः सन्तो लोकस्य आलोका भवन्ति । कथं च सुभूते बोधिसत्त्वा महासत्त्वा अनुत्तरां सम्यक्संबोधिमभिसंबुद्धाः सन्तो लोकस्य परिणायका भवन्ति? इह सुभूते बोधिसत्त्वा महासत्त्वा अनुत्तरां सम्यक्संबोधिमभिसंबुद्धाः सन्तो रूपस्य प्रकृत्यनुत्पादानिरोधाय धर्मं देशयन्ति । एवं वेदनायाः संज्ञायाः संस्काराणाम् । विज्ञानस्य प्रकृत्यनुत्पादानिरोधाय धर्मं देशयन्ति । पृथग्जनधर्माणामपि प्रकृत्यनुत्पादानिरोधाय धर्मं देशयन्ति । श्रावकधर्माणामपि प्रकृत्यनुत्पादानिरोधाय धर्मं देशयन्ति । प्रत्येकबुद्धधर्माणामपि प्रकृत्यनुत्पादानिरोधाय धर्मं देशयन्ति । बोधिसत्त्वधर्माणामपि प्रकृत्यनुत्पादानिरोधाय धर्मं देशयन्ति । बुद्धधर्माणामपि प्रकृत्यनुत्पादानिरोधाय धर्मं देशयन्ति । सर्वधर्माणामपि प्रकृत्यनुत्पादानिरोधाय धर्मं देशयन्ति । एवं खलु सुभूते बोधिसत्त्वा महासत्त्वा अनुत्तरां सम्यक्संबोधिमभिसंबुद्धाः सन्तो लोकस्य परिणायका भवन्ति । कथं च सुभूते बोधिसत्त्वा महासत्त्वा अनुत्तरां सम्यक्संबोधिमभिसंबुद्धाः सन्तो लोकस्य गतिर्भगवन्ति? इह सुभूते बोधिसत्त्वा महासत्त्वा अनुत्तरां सम्यक्संबोधिमभिसंबुद्धाः सन्तो लोकस्य आकाशगतिकं रुपमिति धर्मं देशयन्ति । एवं वेदना संज्ञा संस्काराः । आकाशगतिकं विज्ञानमिति धर्मं देशयन्ति । एवमेव सुभूते सर्वधर्मा आकाशगतिका अनागतिका अगतिका आकाशसमाः । यथा आकाशमनागतमगतमकृतमविकृतमनभिसंस्कृतमस्थितमसंस्थितमव्यवस्थितमनुत्पन्नमनिरुद्धम्, एवमेव सुभूते सर्वधर्मा अनागता आगता आकृता अविकृता अनभिसंस्कृता अस्थिता असंस्थिता अव्यवस्थिता अनुत्पन्ना अनिरुद्धा आकाशकल्पत्वादविकल्पाः । तत्कस्य हेतोः? या सुभूते रूपस्य शून्यता, न सा आगच्छति वा गच्छति वा । एवं वेदनायाः संज्ञायाः संस्काराणाम् । या सुभूते विज्ञानस्य शून्यता, न सा आगच्छति वा गच्छति वा । एवमेव सुभूते या सर्वधर्माणां शून्यता, न सा आगच्छति वा गच्छति वा । तत्कस्य हेतोः? शून्यतागतिका हि सुभूते सर्वधर्माः । ते तां गतिं न व्यतिवर्तन्ते । आनिमित्तगतिका हि सुभूते सर्वधर्माः । ते तां गतिं न व्यतिवर्तन्ते । अप्रणिहितगतिका हि सुभूते सर्वधर्माः । ते तां गतिं न व्यतिवर्तन्ते । अनभिसंस्कारगतिका हि सुभूते (वैद्य १४९) सर्वधर्माः । ते तां गतिं न व्यतिवर्तन्ते । अनुत्पादगतिका हि सुभूते सर्वधर्माः । ते तां गतिं न व्यतिवर्तन्ते । अजातिगतिका हि सुभूते सर्वधर्माः । ते तां गतिं न व्यतिवर्तन्ते । अभावगतिका हि सुभूते सर्वधर्माः । ते तां गतिं न व्यतिवर्तन्ते । स्वप्नगतिका हि सुभूते सर्वधर्माः । ते तां गतिं न व्यतिवर्तन्ते । आत्मगतिका हि सुभूते सर्वधर्माः । ते तां गतिं न व्यतिवर्तन्ते । अपर्यन्तगतिका हि सुभूते सर्वधर्माः । ते तां गतिं न व्यतिवर्तन्ते । शान्तगतिका हि सुभूते सर्वधर्माः । ते तां गतिं न व्यतिवर्तन्ते । निर्वाणगतिका हि सुभूते सर्वधर्माः । ते तां गतिं न व्यतिवर्तन्ते । अप्रत्युद्धारगतिका हि सुभूते सर्वधर्माः । ते तां गतिं न व्यतिवर्तन्ते । अनागतिका हि सुभूते सर्वधर्माः । ते तां गतिं न व्यतिवर्तन्ते । अगतिका हि सुभूते सर्वधर्माः । ते तां गतिं न व्यतिवर्तन्ते । अचलगतिका हि सुभूते सर्वधर्माः । ते तां गतिं न व्यतिवर्तन्ते । रूपगतिका हि सुभूते सर्वधर्माः । ते तां गतिं न व्यतिवर्तन्ते । एवं वेदना संज्ञा संस्काराः । विज्ञानगतिका हि सुभूते सर्वधर्माः । ते तां गतिं न व्यतिवर्तन्ते । अर्हत्प्रत्येकबुद्धत्वानुत्तरसम्यक्संबोधिगतिका हि सुभूते सर्वधर्माः । ते तां गतिं न व्यतिवर्तन्ते । अतश्च बोधिसत्त्वा महासत्त्वा अनुत्तरां सम्यक्संबोधिमभिसंबुद्धा सन्त आकाशगतिकाः सर्वधर्मा इति धर्मं देशयन्ति । एवं खलु सुभूते बोधिसत्त्वा महासत्त्वा अनुत्तरां सम्यक्संबोधिमभिसंबुद्धाः सन्तो लोकस्य गतिर्भवन्ति ॥ सुभूतिराह - के भगवनिमां गम्भीरां प्रज्ञापारमितामाज्ञास्यन्ति? भगवानाह - ये सुभूते चरिताविनो बोधिसत्त्वा महासत्त्वा भविष्यन्ति पौर्वकाणां तथागतानामर्हतां सम्यक्संबुद्धानामन्तिके परिपक्वकुशलमूलाः, ते सुभूते बोधिसत्त्वा वेदितव्याः ये इमां गम्भीरां प्रज्ञापारमितामाज्ञास्यन्ति । सुभूतिराह - किंस्वभावा भगवंस्ते बोधिसत्त्वा महासत्त्वा भविष्यन्ति, ये इमां गम्भीरां प्रज्ञापारमितामाज्ञास्यन्ति? भगवानाह - वैनयिकविविक्तस्वभावस्ते सुभूते बोधिसत्त्वा महासत्त्वा भविष्यन्ति, य इमां गम्भीरां प्रज्ञापारमितामाज्ञास्यन्ति ॥ सुभूतिराह - किं भगवनेवंगतिका एव ते बोधिसत्त्वा महासत्त्वा भविष्यन्ति? एनामेव गतिमभिसंबुध्य सत्त्वानामेनामेव गतिं देशयिष्यन्ति? एवं ते सत्त्वानां गतिर्भविष्यन्ति? एवमुक्ते भगवानायुष्मन्तं सुभूतिमेतदवोचत्- एवमेतत्सुभूते, एवमेतत् । एवंगतिका एव ते सुभूते बोधिसत्त्वा महासत्त्वा भविष्यन्ति । एनामेव गतिमभिसंबुध्य सत्त्वानामेनामेव गतिं देशयिष्यन्ति । एवं ते सत्त्वानां गतिर्भविष्यन्ति । एवं हि सुभूते बोधिसत्त्वा महासत्त्वा अनुत्तरां सम्यक्संबोधिमभिसंबुद्धाः सन्तोऽप्रमेयाणामसंख्येयानां सत्त्वानां गतिर्भविष्यन्ति ॥ सुभूतिराह - दुष्करकारको भगवन् बोधिसत्त्वो महासत्त्वो येनायं संनाहः संनद्धः अप्रमेयानसंख्येयान् सत्त्वान् परिनिर्वापयिष्यामीति । एवमुक्ते भगवानायुष्मन्तं सुभूतिमेतदवोचत्- एवमेतत्सुभूते, एवमेतत् । दुष्करकारकः स सुभूते बोधिसत्त्वो महासत्त्वो येनायं संनाहः संनद्धः - अप्रमेयानसंख्येयान् सत्त्वान् परिनिर्वापयिष्यामीति । स खलु पुनरयं सुभूते (वैद्य १५०) संनाहो बोधिसत्त्वस्य महासत्त्वस्य महासंनाहसंनद्धस्य न रूपसंबद्धो न रूपस्यार्थाय संबद्धः । एवं वेदना संज्ञा संस्काराः । न विज्ञानसंबद्धो न विज्ञानस्यार्थाय संबद्धः । न श्रावकभूमिसंबद्धो न श्रावकभूमेरर्थाय संबद्धः । न प्रत्येकबुद्धभूमिसंबद्धो न प्रत्येकबुद्धभूमेरर्थाय संबद्धः । नापि बुद्धभूमिसंबद्धो नापि बुद्धभूमेरर्थाय संबद्धः । तत्कस्य हेतोः? सर्वधर्मासंनद्धो बतायं सुभूते संनाहो बोधिसत्त्वस्य महासत्त्वस्य महासंनाहसंनद्धस्य ॥ सुभूतिराह - अस्य भगवन् बोधिसत्त्वस्य महासत्त्वस्य एवं महासंनाहसंनद्धस्य एवं गम्भीरारायां प्रज्ञापारमितायां चरतस्त्रीणि स्थानानि न प्रतिकाङ्क्षितव्यानि । कतमानि त्रीणि? यदुत श्रावकभूमिर्वा प्रत्येकबुद्धभूमिर्वा बुद्धभूमिर्वा । एवमुक्ते भगवानायुष्मन्तं सुभूतिमेतदवोचत्- कतमं त्वं सुभूते अर्थवशं संपश्यन्नेवं वदसि - अस्य बोधिसत्त्वस्य महासत्त्वस्य एवंमहासंनाहसंनद्धस्य एवं गम्भीरायां प्रज्ञापारमितायां चरतस्त्रीणि स्थानानि न प्रतिकाङ्क्षितव्यानि । कतमानि त्रीणि? यदुत श्रावकभूमिर्वा प्रत्येकबुद्धभूमिर्वा बुद्धभूमिर्वेति? अस्थानं सुभूते ह्येतदनवकाशोऽस्य बोधिसत्त्वस्य महासत्त्वस्य एवंमहासंनाहसंनद्धस्य एवं गम्भीरायां प्रज्ञापारमितायां चरतः श्रावकभूमिर्वा प्रत्येकबुद्धभूमिर्वा । अपि तु बुद्धभूमिरेवास्य प्रतिकाङ्क्षितव्या येनायं सर्वसत्त्वानां कृतशः संनाहः संनद्धः ॥ सुभूतिराह - गम्भीरा भगवन् प्रज्ञापारमिता । सा न केनचिद्भावयितव्या । तां हि न कश्चिद्भावितवान्, नापि कश्चिद्भावयति, नापि कश्चिद्भावयिष्यति, नापिं किंचिद्भावयितव्यम्, न क्वचिद्भावयितव्यम् । तत्कस्य हेतोः? न हि भगवन् प्रज्ञापारमितायां न कश्चिद्धर्मः परिनिष्पन्नः । आकाशभावनैषा भगवन् यदुत प्रज्ञापारमिताभावना । सर्वधर्मभावनैषा भगवन् यदुत प्रज्ञापारमिताभावना । असङ्गभावनैषा भगवन् यदुत प्रज्ञापारमिताभावना । अनन्तभावनैषा भगवन् यदुत प्रज्ञापारमिताभावना । असद्भावनैषा भगवन् यदुत प्रज्ञापारमिताभावना । अपरिग्रहभावनैषा भगवन् यदुत प्रज्ञापारमिताभावना ॥ एवमुक्ते भगवानायुष्मन्तं सुभूतिमेतदवोचत्- एवमेतत्सुभूते, एवमेतत् । अतो हि सुभूते गम्भीरायाः प्रज्ञापारमिताया विहारेण विहरन् बोधिसत्त्वो महासत्त्वोऽविनिवर्तनीय उपपरीक्षितव्योऽनुत्तरायाः सम्यक्संबोधेः - कच्चित्सुभूते बोधिसत्त्वो महासत्त्वोऽस्यां गम्भीरायां प्रज्ञापारमितायां नाभिनिवेशं करोति । कच्चित्परभणितानि परमन्त्रितानि नाभिनिविशते । कच्चिद्बोधिसत्त्वो महासत्त्वो न परस्य श्रद्धया गच्छति । कच्चित्सुभूते बोधिसत्त्वो महासत्त्वोऽस्यां गम्भीरायां प्रज्ञापारमितायां भाष्यमाणायां नावलीयते न संलीयते न विपृष्ठीभवति नोत्रस्यति न संत्रस्यति न संत्रासमापद्यते, न काङ्क्षति न विचिकित्सति न धन्धायते अवगाहतेऽधिमुच्यतेऽभिनन्दति प्रज्ञापारमिताया दर्शनं श्रवणं च । वेदितव्यमिदं सुभूते पूर्वान्तेऽप्यनेन प्रज्ञापारमिता परिपृष्टा । तत्कस्य हेतोः? तथा हि सुभूते गम्भीरायां प्रज्ञापारमितायां भाष्यमाणायां नोत्रस्यति न संत्रस्यति न संत्रासमापद्यते ॥ (वैद्य १५१) सुभूतिराह - यो भगवन् बोधिसत्त्वो महासत्त्वो गम्भीरायां प्रज्ञापारमितायां भाष्यमाणायां नोत्रस्यति न संत्रस्यति न संत्रासमापद्यते, कतमेन भगवनाकारेण तेन प्रज्ञापारमिता व्यवचारिता भवति? भगवानाह - सर्वज्ञतानिम्नया सुभूते संतत्या तेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमिता व्यवचारिता भवति । सुभूतिराह - कथं भगवन् सर्वज्ञतानिम्ना संततिर्व्यवचारिता भवति? भगवानाह - आकाशनिम्नया सुभूते संतत्या आकाशप्रवणया आकाशप्राग्भारया सुभूते संतत्या सर्वज्ञतानिम्ना संततिर्व्यवचारिता भवति । या खलु पुनः सुभूते सर्वज्ञतानिम्नया संतत्या व्यवचारणा, इयं सा सुभूते व्यवचारणा । तत्कस्य हेतोः? अप्रमेया हि सुभूते सर्वज्ञता, अप्रमाणा हि सुभूते सर्वज्ञता । यत्सुभूते अप्रमेयमप्रमाणम्, न तद्रूपं न वेदना न संज्ञा न संस्कारा न विज्ञानं न प्राप्तिर्नाभिसमयो नाधिगमो न मार्गो न मार्गफलं न ज्ञानं न विज्ञानं नोत्पत्तिर्न विनाशो नोत्पादो न व्ययो न निरोधो न भावना न विभावना, नापि केनचित्कृतं नापि कुतश्चिदागतं नापि क्वचिद्गच्छति नापि क्वचिद्देशे नापि क्वचित्प्रदेशे स्थितम्, अपि तु अप्रमेयप्रमाणमित्येवं संख्यां गच्छति । आकाशाप्रमेयतया सर्वज्ञताप्रमेयता । या च अप्रमेयता, न सा शक्या केनचिदभिसंबोद्धुम् । न रूपेण न वेदनया न संज्ञया न संस्कारैर्न विज्ञानेन न दानपारमितया न शीलपारमितया न क्षान्तिपारमितया न वीर्यपारमितया न ध्यानपारमितया न प्रज्ञापारमितया शक्या अभिसंबोद्धुम् । तत्कस्य हेतोः? रूपमेव हि सुभूते सर्वज्ञता । एवं वेदनैव संज्ञैव संस्कारा एव । विज्ञानमेव हि सुभूते सर्वज्ञता । दानपारमितैव हि सुभूते सर्वज्ञता । शीलपारमितैव क्षान्तिपारमितैव वीर्यपारमितैव ध्यानपारमितैव प्रज्ञापारमितैव हि सुभूते सर्वज्ञता ॥ अथ खलु शक्रो देवानामिन्द्रः सार्धं कामावचरैर्देवपुत्रैर्ब्रह्मापि सहापतिः सार्धं रूपावचरैर्देवपुत्रैर्येन भगवांस्तेनोपसंक्रान्तः । उपसंक्रम्य भगवतः पादौ शिरसाभिवन्द्य भगवन्तं त्रिः प्रदक्षिणीकृत्य एकान्ते तस्थौ । एकान्ते स्थितश्च शक्रो देवेन्द्रः कामावचरैर्देवपुत्रैः सार्धं ब्रह्मापि सहापतिः रूपावचरैर्देवपुत्रैः सार्धं भगवन्तमेतदवोचत्- गम्भीरा भगवन् प्रज्ञापारमिता । दुरवगाहा भगवन् प्रज्ञापारमिता । दुर्दृशा भगवन् प्रज्ञापारमिता । दुरनुबोधा भगवन् प्रज्ञापारमिता । इदमप्यर्थवशं संपश्यतस्तथागतस्यार्हतः सम्यक्संबुद्धस्य अनुत्तरां सम्यक्संबोधिमभिसंबुद्धमात्रस्य बोधिमण्डे निषण्णस्य अल्पोत्सुकतायां चित्तमवनतं न धर्मदेशनायाम् ॥ एवमुक्ते भगवान् शक्रं देवानामिन्द्रं कामावचरांश्च देवपुत्रान् ब्रह्माणं च सहापतिं रूपावचरांश्च देवपुत्रानामन्त्रयते स्म - एवमेतद्देवपुत्राः, एवमेतत् । गम्भीरा बतेयं देवपुत्राः प्रज्ञापारमिता । दुरवगोहयं देवपुत्राः प्रज्ञापारमिता । दुर्दृशेयं देवपुत्राः प्रज्ञापारमिता । दुरनुबोधेयं देवपुत्राः प्रज्ञापारमिता । इदमप्यर्थवशं संपश्यतस्तथागतस्यार्हतः सम्यक्संबुद्धस्य (वैद्य १५२) अनुत्तरां सम्यक्संबोधिमभिसंबुद्धमात्रस्य बोधिमण्डे निषण्णस्य अल्पोत्सुकतायां चित्तमवनतं न धर्मदेशनायाम् - गम्भीरो बतायं मया धर्मोऽभिसंबुद्ध इति, यत्र न कश्चिदभिसंबुद्धो न कश्चिदभिसंभोत्स्यते न कश्चिदभिसंबुध्यते । इयं सा धर्मस्य गम्भीरता । आकाशगम्भीरतया गम्भीरोऽयं धर्मः । आत्मगम्भीरतया गम्भीरोऽयं धर्मः । सर्वधर्मानागमनतया गम्भीरोऽयं धर्मः । सर्वधर्मागमनतया गम्भीरोऽयं धर्मो मयाभिसंबुद्ध इति ॥ एवमुक्ते शक्रो देवानामिन्द्रः कामावचराश्च देवपुत्राः ब्रह्मापि सहापतिः रूपावचराश्च देवपुत्रा भगवन्तमेतदवोचन् - आश्चर्यं भगवन्, अद्भुतं सुगत । सर्वलोकविप्रत्यनीकोऽयं धर्मो देश्यते । अनुग्रहाय च भगवन् धर्माणामयं धर्मो देश्यते । उद्ग्रहे च लोकश्चरतीति ॥ आर्याष्टसाहस्रिकायां प्रज्ञापारमितायां देवपरिवर्तो नाम पञ्चदशः ॥ _______________________________________________________________ (वैद्य १५३) १६: तथतापरिवर्तः षोडशः । अथ खल्वायुष्मान् सुभूतिर्भगवन्तमेतदवोचत्- सर्वधर्मानुपलम्भो बतायं भगवन् धर्मो देश्यते । नायं भगवन् धर्मः क्वचित्प्रतिहन्यते । अप्रतिहतलक्षणो बतायं भगवन् धर्मः आकाशसमतया सर्वपदानुपलब्धितः । अप्रतिमलक्षणो बतायां भगवन् धर्मोऽद्वितीयत्वात् । अप्रतिलक्षणो बतायं भगवन् धर्मो निष्प्रत्यर्थिकत्वात् । अपदो बतायं भगवन् धर्मोऽनभिनिर्वृत्तत्वात् । अनुत्पादो बतायं भगवन् धर्मः सर्वोपपत्यनुपपत्तित्वात् । अपथो बतायं भगवन् धर्मः सर्वपथानुपलब्धित्वात् ॥ अथ खलु देवानामिन्द्रो ब्रह्मा सहापतिस्ते च कामावचरा रूपावचराश्च देवपुत्रा भगवन्तमेतदवोचन् - अनुजातो बतायं भगवन् भगवतः श्रावक आर्यसुभूतिः स्थविरः । तत्कस्य हेतोः? तथा हि भगवन् यं यमेव अयमार्यसुभूतिः स्थविरो धर्मं देशयति, तं तमेव धर्मं शून्यतामारभ्य देशयति ॥ अथ खल्वायुष्मान् सुभूतिः शक्रं देवानामिन्द्रं ब्रह्माणं च सहापतिं तांश्च कामावचरान् रूपावचरांश्च देवपुत्रानामन्त्रयते स्म - यद्देवपुत्रा एवं वदथ - अनुजातोऽयं सुभूतिः स्थविरस्तथागतस्येति । अजातत्वात्सुभूतिः स्थविरोऽनुजातस्तथागतस्य । अनुजातस्तथतां सुभूतिः स्थविरस्तथागतस्य । यथा तथागततथता अनागता अगता, एवं हि सुभूतितथता अनागता अगता । एवं हि सुभूतिः स्थविरस्तथागततथतामनुजातः । आदित एव सुभूतिः स्थविरस्तथागततथतामनुजातः । तत्कस्य हेतोः? या हि तथागततथता, सा सर्वधर्मतथता । या सर्वधर्मतथता, सा तथागततथता । या च तथागततथता, या च सर्वधर्मतथता, सैव सुभूतेः स्थविरस्य तथता । तां तथतामनुजातः सुभूतिः स्थविरः । अतोऽनुजातस्तथागतस्य । सापि च तथता अतथता । तां तथतामनुजातः । एवं हि सुभूतिः स्थविरस्तथागतमनुजातः । तथागतस्य या सा तथतायाः स्थितिता, तया स्थितितया सुभूतिः स्थविरस्तथागतमनुजातः । यथा तथागततथता अविकारा निर्विकारा, अविकल्पा निर्विकल्पा, एवं हि सुभूतितथता अविकारा निर्विकारा, अविकल्पा निर्विकल्पा । एवं हि सुभूतिः स्थविरस्तया तथतया अविकारो निर्विकारोऽविकल्पो निर्विकल्पस्तथागतस्यानुजातः । यथा च तथागततथता अविकारा निर्विकारा अविकल्पा निर्विकल्पा, न क्वचित्प्रतिहन्यते, एवं सर्वधर्मतथता अविकारा निर्विकारा अविकल्पा निर्विकल्पा, न क्वचित्प्रतिहन्यते । तत्कस्य हेतोः? या च तथागततथता, या च सर्वधर्मतथता, एकैवैषा तथता अद्वयाद्वैधीकारा अद्वयतथता । न क्वचित्तथता, न कुतश्चित्तथता, न कस्यचित्तथता । यतः सा न कस्यचित्तथता, ततः सा तथता अद्वयाद्वैधीकारा अद्वयतथता । एवं हि सुभूतिः स्थविरोऽनुजातस्तथागतस्याकृततथतया । या च अकृततथता, न सा कदाचिन्न तथता । यतश्च (वैद्य १५४) सा न कदाचिन्न तथता, ततः सा तथता अद्वयाद्वैधीकारा अद्वयतथता । एवं हि सुभूतिः स्थविरोऽनुजातस्तथागतम् । यथा तथागततथता सर्वत्र सर्वधर्मेष्वविकल्पा निर्विकल्पा, एवं सुभूतितथता सर्वत्र सर्वधर्मेष्वविकल्पा निर्विकल्पा । एवमेव च तथागततथतयाभिनिर्मितः सुभूतिश्चेति द्वयमप्यलुप्तमेतदभिन्नं भेदकानुपलब्धितः । एवं हि सुभूतिः स्थविरस्तथागतमनुजातः । यथा तथागततथता नान्यत्र सर्वधर्मतथतायाः, एवं हि सुभूतितथता नान्यत्र सर्वधर्मतथतायाः । या नान्यत्र सर्वधर्मतथतायाः, न सा कस्यचिन्न तथता । सैव सा तथता सर्वधर्मतथता । तां तथतां सुभूतिः स्थविरोऽनन्यतथतानुगमेनोपगतः । न चात्र कश्चिन्न क्वचिदनुगतिमुपगतः । एवं हि सुभूतिः स्थविरस्तथागतमनुजातः । यथा तथागततथता नातीता न अनागता न प्रत्युत्पन्ना, एवं सर्वधर्मतथता नातीता नानागता न प्रत्युत्पन्ना । एवं हि सुभूतिः स्थविरस्तां तथतामनुजातस्तथागतमनुजात इत्युच्यते । तथागततथतयापि ह्यनुगतस्तथतां तथागततथतया अतीततथतामनुगतः । अतीततथतया तथागततथतामनुगतः । तथागततथतया अनागततथतामनुगतः । अनागततथतया तथागततथतामनुगतः । तथागततथतया प्रत्युत्पन्नतथतामनुगतः । प्रत्युत्पन्नतथतया तथागततथतामनुगतः । तथागततथतया अतीतानागतप्रत्युत्पन्नतथतामनुगतः । अतीतानागतप्रत्युत्पन्नतथतया तथागततथतामनुगतः । इति हि सुभूतितथता च अतीतानागतप्रत्युत्पन्नतथता च तथागततथता च अद्वयमेतदद्वैधीकारम् । एवं सर्वधर्मतथता च सुभूतितथता च अद्वयमेतदद्वैधीकारम् । यैव च भगवतो बोधिसत्त्वभूतस्य तथता, सैव भगवतोऽनुत्तरां सम्यक्संबोधिमभिसंबुद्धस्य तथता । इयं सा तथता, यया तथतया बोधिसत्त्वो महासत्त्वोऽनुत्तरां सम्यक्संबोधिमभिसंबुद्धः सन् तथागत इति नामधेयं लभते । अस्यां खलु पुनस्तथातगतथतायां निर्दिश्यमानायामियं महापृथिवी तस्यां वेलायां षड्विकारमष्टादशमहानिमित्तमकम्पत्, प्राकम्पत्, संप्राकम्पत्, अचलत्प्राचलत्संप्राचलत्, अवेधत्प्रावेधत्संप्रावेधत्, अरणत्प्रारणत्संप्रारणत्, अक्षुभ्यत्प्राक्षुभ्यत्संप्राक्षुभ्यत्, अगर्जत्प्रागर्जत्संप्रागर्जत्तथागतस्यैवानुत्तरां सम्यक्संबोधिमभिसंबुध्यमानस्येति । पुनरपरं सुभूतिः स्थविरस्तान् देवपुत्रानामन्त्रयते स्म - एवं हि देवपुत्राः सुभूतिः स्थविरस्तथागतमनुजातः ॥ पुनरपरं सुभूतिः स्थविरो न रूपमनुजातो न वेदनां न संज्ञां न संस्कारान्न विज्ञानमनुजातो न स्रोतआपत्तिफलमनुजातो न सकृदागामिफलं न अनागामिफलं न अर्हत्त्वफलमनुजातो न प्रत्येकबुद्धत्वमनुजातो न बुद्धत्वमनुजातः । तत्कस्य हेतोः? तथा हि ते धर्मा न संविद्यन्ते नोपलभ्यन्ते यैरनुजायेत, ये चानुजायेरन् । एवं हि सुभूतिः स्थविरस्तथागतमनुजातः ॥ अथ खल्वायुष्मान् शारिपुत्रो भगवन्तमेतदवोचत्- गम्भीरचर्येयं भगवन् यदुत तथता । एवमुक्ते भगवानायुष्मन्तं शारिपुत्रमेतदवोचत्- एवमेतच्छारिपुत्र, एवमेतत् । (वैद्य १५५) गम्भीरचर्येयं शारिपुत्र यदुत यथता । अस्मिन् खलु पुनस्तथतानिर्देशे निर्दिश्यमाने त्रयाणां भिक्षुशतानामनुपादायास्रवेभ्यश्चित्तानि विमुक्तानि, पञ्चानां च भिक्षुणीशतानां विरजो विगतमलं धर्मेषु धर्मचक्षुर्विशुद्धम्, पञ्चभिश्च देवपुत्रसहस्रैः पूर्वपरिकर्मकृतैरनुत्पत्तिकेषु धर्मेषु क्षान्तिः प्रतिलब्धा, षष्टेश्च बोधिसत्त्वानामनुपादायास्रवेभ्यश्चित्तानि विमुक्तानि ॥ अथ खल्वायुष्मान् शारिपुत्रस्तेषां बोधिसत्त्वानामनुपादायास्रवेभ्यश्चित्तानि विमुक्तानि विदित्वा भगवन्तमेतदवोचत्- को भगवन् हेतुः कः प्रत्ययो यदेतेषां बोधिसत्त्वानामनुपादायास्रवेभ्यश्चित्तानि विमुक्तानि? भगवानाह - एतैः शारिपुत्र बोधिसत्त्वैः पञ्चबुद्धशतानि पर्युपासितानि, सर्वत्र च दानं दत्तं शीलं रक्षित्यं क्षान्त्या संपादितं वीर्यमारब्धं ध्यानान्युत्पादितानि । ते खलु पुनरिमे प्रज्ञापारमितया अपरिगृहीता उपायकौशल्येन च विरहिता अभूवन् । किंचापि शारिपुत्र एतेषां बोधिसत्त्वानामस्ति मार्गः शून्यता वा आनिमित्तचर्या वा अप्रणिहितमनसिकारता वा, अथ च पुनरेतैरुपायकौशल्यविकलत्वाद्भूतकोटिः साक्षात्कृता, श्रावकभूमौ निर्जाताः, न बुद्धभूमौ । तद्यथापि नाम शारिपुत्र पक्षिणः शकुनेर्योजनशतिको वा द्वियोजनशतिको वा त्रियोजनशतिको वा चतुर्योजनशतिको वा पञ्चयोजनशतिको वा आत्मभावो भवेत् । स त्रायस्त्रिंशेषु देवेषु वर्तमानो जम्बूद्वीपमागन्तव्यं मन्येत । स खलु पुनः शारिपुत्र पक्षी शकुनिरजातपक्षो वा भवेत्, शीर्णपक्षो वा भवेत्, छिन्नपक्षो वा भवेत् । स त्रायस्त्रिंशतो देवनिकायादात्मानमुत्सृजेत्- इह जम्बूद्वीपे प्रतिष्ठास्यामीति मन्येत । अथ तस्य पक्षिणः शकुनेस्ततः पततः आकाशे अन्तरीक्षे स्थितस्य अन्तरा चित्तस्यैवं भवेत्- अहो बताहं पुनरेव त्रायस्त्रिंशेषु देवेषु प्रतिष्ठेयमिति । तत्किं मन्यसे शारिपुत्र अपि नु स पक्षी शकुनिः प्रतिबलः पुनरेव त्रायस्त्रिंशेषु देवेषु प्रतिष्ठातुम्? आयुष्मान् शारिपुत्र आह - नो हीदं भगवन् । भगवानाह - सचेत्पुनरेवं चिन्तयेत्- अहो बताहमकृतोऽनुपहतो जम्बूद्वीपे प्रतिष्ठेयमिति । तत्किं मन्यसे शारिपुत्र अपि नु स पक्षी शकुनिरकृतोऽनुपहतो जम्बूद्वीपे प्रतिष्ठेत्? शारिपुत्र आह - नो हीदं भगवन् । कृतश्च स भगवनुपहतश्च भवेज्जम्बूद्वीपे च पतितः सन्मरणं वा निगच्छेत्मरणमात्रकं वा दुःखम् । तत्कस्य हेतोः? एवं ह्येतद्भगवन् भवति - यदस्य महांश्चात्मभावो भवति, पक्षौ चास्य न भवतः, उच्चाच्च प्रपतति ॥ एवमुक्ते भगवानायुष्मन्तं शारिपुत्रमेतदवोचत्- एवमेतच्छारिपुत्र, एवमेतत् । किं चापि शारिपुत्र बोधिसत्त्वो महासत्त्वोऽनुत्तरायां सम्यक्संबोधौ चित्तान्युत्पाद्य गङ्गानदीवालुकोपमान् कल्पांस्तिष्ठन् दानं दद्यात्, शीलं रक्षेत्, क्षान्त्या संपादयेत्, वीर्यमारभेत, ध्यानानि, समापद्येत, महच्चास्य प्रस्थानं भवेत्, महांश्चास्य चित्तोत्पादो भवेदनुत्तरां सम्यक्संबोधिमभिसंबोद्धुम् । सचेदयं प्रज्ञापारमितया अपरिगृहीत उपायकौशल्येन च विरहितो भवेत्, एवं श्रावकभूमिं वा प्रत्येकबुद्धभूमिं वा पतति ॥ (वैद्य १५६) पुनरपरं शारिपुत्र बोधिसत्त्वो महासत्त्वोऽतीतानागतप्रत्युत्पन्नानां बुद्धानां भगवतां तच्छीलं तं समाधिं तां प्रज्ञां तां विमुक्तिं तद्विमुक्तिज्ञानदर्शनं समन्वाहरति, आधारयति निमित्तयोगेन, न स तथागतानामर्हतां सम्यक्संबुद्धानां शीलं न जानाति न पश्यति । न समाधिं न प्रज्ञां न विमुक्तिं न विमुक्तिज्ञानदर्शनं तथागतानामर्हतां सम्यक्संबुद्धानां जानाति, न पश्यति । सोऽजानन्नपश्यन् शून्यतायाः शब्दं शृणोति । स तं शब्दं निमित्तीकरोति । तं शब्दं निमित्तीकृत्य अनुत्तरायां सम्यक्संबोधौ परिणामयितुमिच्छति । ततो वेदितव्यमेतत्- स्थास्यत्ययं श्रावकभूमौ वा प्रत्येकबुद्धभूमौ वेति । तत्कस्य हेतोः? एवं ह्येतच्छारिपुत्र भवति - यत्प्रज्ञापारमितया अपरिगृहीतः उपायकौशल्येन च विरहितो भवति ॥ शारिपुत्र आह - यथाहं भगवन् भगवतो भाषितस्यार्थमाजानामि - यो बोधिसत्त्वः प्रज्ञापारमितया अपरिगृहीतः उपायकौशल्येन च विरहितः, किंचापि स बहुनापि पुण्यसंभारेण युक्तः कल्याणमित्रविरहितश्च भवति, संशयस्तस्यानुत्तरां सम्यक्संबोधिं प्राप्तुम् । तस्मात्तर्हि भगवन् बोधिसत्त्वेन महासत्त्वेन अनुत्तरां सम्यक्संबोधिमभिसंबोद्धुकामेन प्रज्ञापारमिता भावयितव्या, उपायकुशलेन च भवितव्यम् । एवमुक्ते भगवानायुष्मन्तं शारिपुत्रमेतदवोचत्- एवमेतच्छारिपुत्र, एवमेतत् । यः शारिपुत्र बोधिसत्त्वः प्रज्ञापारमितया अपरिगृहीतः, उपायकौशल्येन च विरहितः, किंचापि स बहुना पुण्यसंभारेण युक्तः कल्याणमित्रविरहितश्च भवति, संशयस्तस्यानुत्तरां सम्यक्संबोधिं प्राप्तुम् । तस्मात्तर्हि शारिपुत्र बोधिसत्त्वेन महासत्त्वेन अनुत्तरां सम्यक्संबोधिमभिसंबोद्धुकामेन प्रज्ञापारमिता भावयितव्या, उपायकुशलेन च भवितव्यम् ॥ अथ खलु शक्रो देवानामिन्द्रः सार्धं कामावचरैर्देवपुत्रैः, ब्रह्मापि सहापतिः रूपावचरैर्देवपुत्रैः सार्धं भगवन्तमेतदवोचत्- गम्भीरा भगवन् प्रज्ञापारमिता, दुरभिसंभवा भगवननुत्तरा सम्यक्संबोधिः । परमदुरभिसंभवा भगवननुत्तरा सम्यक्संबोधिरभिसंबोद्धुम् । अथ खलु भगवांस्तान् शक्रदेवेन्द्रप्रमुखान् कामावचरान् देवपुत्रान् सहापतिमहाब्रह्मप्रमुखान् रूपावचरांश्च देवपुत्रानामन्त्रयते स्म - एवमेतद्देवपुत्राः, एवमेतत् । गम्भीरेयं देवपुत्राः प्रज्ञापारमिता । दुरभिसंभवा अनुत्तरा सम्यक्संबोधिः । परमदुरभिसंभवा अनुत्तरा सम्यक्संबोधिरभिसंबोद्धुं दुष्प्रज्ञैर्हीनवीर्यैर्हीनाधिमुक्तिकैरनुपायकुशलैः पापमित्रसंसेविभिः ॥ अथ खल्वायुष्मान् सुभूतिर्भगवन्तमेतदवोचत्- यद्भगवानेवमाह - दुरभिसंभवा अनुत्तरा सम्यक्संबोधिः । परमदुरभिसंभवा अनुत्तरा सम्यक्संबोधिरभिसंबोद्धुमिति, कथं भगवन् दुरभिसंभवा अनुत्तरा सम्यक्संबोधिः? परमदुरभिसंभवा अनुत्तरा सम्यक्संबोधिरभिसंबोद्धुम्, यत्र न कश्चिदभिसंबुध्यते? तत्कस्य हेतोः? शून्यत्वाद्भगवन् सर्वधर्माणाम् । न स कश्चिद्धर्मः संविद्यते यो धर्मः शक्योऽभिसंबोद्धुम् । तथा हि भगवन् सर्वधर्माः शून्याः । यस्यापि भगवन् धर्मस्य प्रहाणाय धर्मो देश्यते, सोऽपि धर्मो न संविद्यते । एवं यश्चाभिसंबुध्येत अनुत्तरां सम्यक्संबोधिम्, यच्चाभिसंबोद्धव्यम्, यश्च जानीयात्, यच्च ज्ञातव्यम्, (वैद्य १५७) सर्व एते धर्माः शून्याः । अनेनापि भगवन् पर्यायेण ममैवं भवति - स्वभिसंभवा अनुत्तरा सम्यक्संबोधिरभिसंबोद्धुं न दुरभिसंभवेति । एवमुक्ते भगवानायुष्मन्तं सुभूतिमेतदवोचत्- असंभवत्वात्सुभूते दुरभिसंभवा अनुत्तरा सम्यक्संबोधिः । असद्भूतत्वात्सुभूते दुरभिसंभवा अनुत्तरा सम्यक्संबोधिः । अविकल्पत्वात्सुभूते दुरभिसंभवा अनुत्तरा सम्यक्संबोधिः । अविठपित्वात्सुभूते दुरभिसंभवा अनुत्तरा सम्यक्संबोधिः । परमदुरभिसंभवा अनुत्तरा सम्यक्संबोधिरभिसंबोद्धुम् ॥ अथ खल्वायुष्मान् शारिपुत्र आयुष्मन्तं सुभूतिमेतदवोचत्- शून्यमित्यनेनाप्यायुष्मन् सुभूते पर्यायेण दुरभिसंभवा अनुत्तरा सम्यक्संबोधिः । परमदुरभिसंभवा अनुत्तरा सम्यक्संबोधिरभिसंबोद्धुम् । तत्कस्य हेतोः? न ह्यायुष्मन् सुभूते आकाशस्यैवं भवति - अहमनुत्तरां सम्यक्संबोधिमभिसंभोत्स्ये इति । एवं च आयुष्मन् सुभूते इमे धर्मा अभिसंबोद्धव्याः । तत्कस्य हेतोः? आकाशसमा ह्यायुष्मन् सुभूते सर्वधर्माः । यदि चायुष्मन् सुभूते स्वभिसंभवा भवेदनुत्तरा सम्यक्संबोधिः, न त्वेवं गङ्गानदीवालुकोपमा बोधिसत्त्वा विवर्तेरन्ननुत्तरायाः सम्यक्संबोधेः । यस्मात्तर्ह्यायुष्मन् सुभूते गङ्गानदीवालुकोपमा बोधिसत्त्वा विवर्तन्तेऽनुत्तरयाः सम्यक्संबोधेः, तस्मादायुष्मन् सुभूते एवं विज्ञायते - दुरभिसंभवा अनुत्तरा सम्यक्संबोधिः । परमदुभिसंभवा अनुत्तरा सम्यक्संबोधिरभिसंबोद्धुमिति ॥ एवमुक्ते आयुष्मन् सुभूतिरायुष्मन्तं शारिपुत्रमेतदवोचत्- किं पुनरायुष्मन् शारिपुत्र रूपं विवर्तते अनुत्तरायाः सम्यक्संबोधेः? शारिपुत्र आह - नो हीदमायुष्मन् सुभूते । सुभूतिराह - किं पुनरायुष्मन् शारिपुत्र अन्यत्र रूपात्स धर्मः, यो विवर्ततेऽनुत्तरायाः सम्यक्संबोधेः? आह - नो हीदमायुष्मन् सुभूते । सुभूतिराह - किं पुनरायुष्मन् शारिपुत्र वेदना संज्ञा संस्कारा विज्ञानं विवर्ततेऽनुत्तरायाः सम्यक्संबोधेः? आह - नो हीदमायुष्मन् सुभूते । सुभूतिराह - किं पुनरायुष्मन् शारिपुत्र अन्यत्र वेदनायाः संज्ञायाः संस्कारेभ्योऽन्यत्र विज्ञानात्स धर्मः, यो विवर्ततेऽनुत्तरायाः सम्यक्संबोधेः? आह - नो हीदमायुष्मन् सुभूते । सुभूतिराह - किं पुनरायुष्मन् शारिपुत्र या रूपतथता, सा विवर्ततेऽनुत्तरायाः सम्यक्संबोधेः? आह - नो हीदमायुष्मन् सुभूते । सुभूतिराह - किं पुनरायुष्मन् शारिपुत्र या वेदनातथता संज्ञातथता संस्कारतथता, या विज्ञानतथता, सा विवर्ततेऽनुत्तरायाः सम्यक्संबोधेः? आह - नो हीदमायुष्मन् सुभूते । सुभूतिराह - किं पुनरायुष्मन् शारिपुत्र अन्यत्र रूपतथतायाः स धर्मः, यो विवर्ततेऽनुत्तरायाः सम्यक्संबोधेः? आह - नो हीदमायुष्मन् सुभूते । सुभूतिराह - किं पुनरायुष्मन् शारिपुत्र अन्यत्र वेदनातथतायाः संज्ञातथतायाः संस्कारतथतायाः, अन्यत्र विज्ञानतथतायाः स धर्मः, यो विवर्ततेऽनुत्तरायाः सम्यक्संबोधेः? आह - नो हीदमायुष्मन् सुभूते । सुभूतिराह - किं पुनरायुष्मन् शारिपुत्र रूपमभिसंबुध्यते अनुत्तरां सम्यक्संबोधिम्? आह - नो हीदमायुष्मन् सुभूते । सुभूतिराह - किं पुनरायुष्मन् शारिपुत्र वेदना संज्ञा संस्कारा विज्ञानमभिसंबुध्यते अनुत्तरां सम्यक्संबोधिम्? आह - नो हीदमायुष्मन् सुभूते । सुभूतिराह - किं पुनरायुष्मन् (वैद्य १५८) शारिपुत्र अन्यत्र रूपात्स धर्मः, योऽनुत्तरां सम्यक्संबोधिमभिसंबुध्यते? आह - नो हीदमायुष्मन् सुभूते । सुभूतिराह - किं पुनरायुष्मन् शारिपुत्र अन्यत्र वेदनायाः संज्ञायाः संस्कारेभ्यः, अन्यत्र विज्ञानात्स धर्मः, योऽनुत्तरां सम्यक्संबोधिमभिसंबुध्यते? आह - नो हीदमायुष्मन् सुभूते । सुभूतिराह - किं पुनरायुष्मन् शारिपुत्र रूपतथता अनुत्तरां संबोधिमभिसंबुध्यते? आह - नो हीदमायुष्मन् सुभूते । सुभूतिराह - किं पुनरायुष्मन् शारिपुत्र वेदनातथता संज्ञातथता संस्कारतथता विज्ञानतथता अनुत्तरां सम्यक्संबोधिमभिसंबुध्यते? आह - नो हीदमायुष्मन् सुभूते । सुभूतिराह - किं पुनरायुष्मन् शारिपुत्र अन्यत्र रूपतथतायाः स धर्मः, योऽनुत्तरां सम्यक्संबोधिमभिसंबुध्यते? आह - नो हीदमायुष्मन् सुभूते । सुभूतिराह - किं पुनरायुष्मन् शारिपुत्र अन्यत्र वेदनातथतायाः संज्ञातथतायाः संस्कारतथतायाः, अन्यत्र विज्ञानतथतायाः स धर्मः, योऽनुत्तरां सम्यक्संबोधिमभिसंबुध्यते? आह - नो हीदमायुष्मन् सुभूते । सुभूतिराह - किं पुनरायुष्मन् शारिपुत्र रूपं बोद्धव्यमनुत्तरायां सम्यक्संबोधौ? आह - नो हीदमायुष्मन् सुभूते । सुभूतिराह - किं पुनरायुष्मन् शारिपुत्र वेदना संज्ञा संस्कारा विज्ञानं बोद्धव्यमनुत्तरायां सम्यक्संबोधौ? आह - नो हीदमायुष्मन् सुभूते । सुभूतिराह - किं पुनरायुष्मन् शारिपुत्र अन्यत्र रूपात्स धर्मः, यो बोद्धव्योऽनुत्तरायां सम्यक्संबोधौ? आह - नो हीदमायुष्मन् सुभूते । सुभूतिराह - किं पुनरायुष्मन् शारिपुत्र अन्यत्र वेदनायाः संज्ञायाः संस्कारेभ्यः, अन्यत्र विज्ञानात्स धर्मः यो बोद्धव्यो ऽनुत्तरायां सम्यक्संबोधौ ? आह - नो हीदमायुष्मन् सुभूते । सुभूतिराह - किं पुनरायुष्मन् शारिपुत्र रूपतथता बोद्धव्या अनुत्तरायां सम्यक्संबोधौ? आह - नो हीदमायुष्मन् सुभूते । सुभूतिराह - किं पुनरायुष्मन् शारिपुत्र वेदनातथता संज्ञातथता संस्कारतथता विज्ञानतथता बोद्धव्या अनुत्तरायां सम्यक्संबोधौ? आह - नो हीदमायुष्मन् सुभूते । सुभूतिराह - किं पुनरायुष्मन् शारिपुत्र अन्यत्र रूपतथतायाः स धर्मः, यो बोद्धव्योऽनुत्तरायां सम्यक्संबोधौ? आह - नो हीदमायुष्मन् सुभूते । सुभूतिराह - किं पुनरायुष्मन् शारिपुत्र अन्यत्र वेदनातथतायाः संज्ञातथतायाः संस्कारतथतायाः, अन्यत्र विज्ञानतथतायाः स धर्मः, यो बोद्धव्योऽनुत्तरायां सम्यक्संबोधौ? आह - नो हीदमायुष्मन् सुभूते । सुभूतिराह - तकिं मन्यसे आयुष्मन् शारिपुत्र तथता विवर्तते अनुत्तरायाः सम्यक्संबोधेः? आह - नो हीदमायुष्मन् सुभूते । सुभूतिराह - तत्किं मन्यसे आयुष्मन् शारिपुत्र तथतायां स धर्मः, यो विवर्तते अनुत्तरायाः सम्यक्संबोधेः? आह - नो हीदमायुष्मन् सुभूते । सुभूतिराह - तत्कतमः पुनरायुष्मन् शारिपुत्र स धर्मो यो विवर्तते अनुत्तरायाः सम्यक्संबोधेः? यस्तस्यामेव धर्मतायां स्थितः सर्वधर्मास्थानयोगेन? कतमो वा पुनः स शारिपुत्र धर्मो या तथता? कच्चिद्वा पुनरायुष्मन् शारिपुत्र तथता विवर्तिष्यते? आह - नो हीदमायुष्मन् सुभूते । सुभूतिराह - एवमायुष्मन् शारिपुत्र सत्यतः स्थितितोऽनुपलभ्यमानानां सर्वधर्माणां कतमः स धर्मः, यो विवर्तिष्यते अनुत्तरयाः सम्यक्संबोधेः? एवमुक्ते आयुष्मान् शारिपुत्र आयुष्मन्तं (वैद्य १५९) सुभूतिमेतदवोचत्- यया धर्मनयजात्या आयुष्मान् सुभूतिः स्थविरो निर्दिशति, तया न स कश्चिद्धर्मो यो विवर्ततेऽनुत्तरायाः सम्यक्संबोधेः । ये च खलु पुनरिमे आयुष्मन् सुभूते त्रयो बोधिसत्त्वयानिकाः पुद्गलास्तथागतेनाख्याताः, एषां त्रयाणां व्यवस्थानं न भवति । एकमेव हि यानं भवति यदुत बुद्धयानं बोधिसत्त्वयानं यथा आयुष्मतः सुभूतेर्निर्देशः ॥ अथ खल्वायुष्मान् पूर्णो मैत्रायणीपुत्र आयुष्मन्तं शारिपुत्रमेतदवोचत्- किं पुनरायुष्मन् शारिपुत्र आयुष्मान् सुभूतिः स्थविरः एकमपि बोधिसत्त्वं नाभ्युपगच्छति श्रावकयानिकं वा प्रत्येकबुद्धयानिकं वा महायानिकं वा । प्रष्टव्यस्तावदयमायुष्मान् सुभूतिः स्थविरः । अथ खल्वायुष्मान् शारिपुत्र आयुष्मन्तं सुभूतिमेतदवोचत्- किं पुनस्त्वमायुष्मन् सुभूते एकमपि बोधिसत्त्वं नाभ्युपगच्छसि श्रावकयानिकं वा प्रत्येकबुद्धयानिकं वा महायानिकं वा? सुभूतिराह - किं पुनरायुष्मन् शारिपुत्र या तथतायास्तथता, तत्र तथतायामेकमपि बोधिसत्त्वं समनुपश्यसि श्रावकयानिकं वा प्रत्येकबुद्धयानिकं वा महायानिकं वा? शारिपुत्र आह - न ह्येतदायुष्मन् सुभूते । तथतापि तावत्त्रिभिराकारैर्नोपलभ्यते, प्रागेव बोधिसत्त्वः । सुभूतिराह - किं पुनरायुष्मन् शारिपुत्र तथता एकेनाप्याकारेणोपलभ्यते? आह - न ह्येतदायुष्मन् सुभूते । सुभूतिराह - कच्चित्पुनस्त्वमायुष्मन् शारिपुत्र तथतायामेकमपि बोधिसत्त्वधर्मं समनुपश्यसि? आह - न ह्येतदायुष्मन् सुभूते । सुभूतिराह - एवमायुष्मन् शारिपुत्र सत्यतः स्थितितस्तस्य बोधिसत्त्वधर्मस्यानुपलभ्यमानस्य कुतस्तवैवं भवति - अयं श्रावकयानिकः, अयं प्रत्येकबुद्धयानिकः, अयं महायानिक इति? एवमेतेषामायुष्मन् शारिपुत्र बोधिसत्त्वानां तथतायां प्रविभाव्यमानानामविशेषतां निर्विशेषतां निर्नानाकरणतां श्रुत्वा यस्य बोधिसत्त्वस्य महासत्त्वस्य चित्तं नावलीयते न संलीयते न पृष्ठीभवति, वेदितव्यमेतत्- निर्यास्यत्ययं बोधिसत्त्वो महासत्त्वो बोध्या इति ॥ अथ खलु भगवानायुष्मन्तं सुभूतिमेतदवोचत्- साधु साधु सुभूते । एवमेतत्सुभूते, एवमेतत् । प्रतिभाति ते सुभूते यथापि नाम तथागतानुभावेन बुद्धाधिष्ठानेनेदं वदसि । एवमेतेषां बोधिसत्त्वानां तथतायां प्रविभाव्यमानानामविशेषतां निर्विशेषतां निर्नानाकरणतां श्रुत्वा यस्य बोधिसत्त्वस्य महासत्त्वस्य चित्तं नावलीयते न संलीयते न पृष्ठीभवति, वेदितव्यमेतत्- निर्यास्यत्ययं बोधिसत्त्वो महासत्त्वो बोध्या इति । अथ खल्वायुष्मान् शारिपुत्रो भगवन्तमेतदवोचत्- कतमया भगवन् बोध्या निर्यास्यत्ययं बोधिसत्त्वो महासत्त्वः? भगवानाह - अनुत्तरया शारिपुत्र सम्यक्संबोध्या निर्यास्यत्ययं बोधिसत्त्वो महासत्त्वः ॥ अथ खल्वायुष्मान् सुभूतिर्भगवन्तमेतदवोचत्- अनुत्तरायां भगवन् सम्यक्संबोधौ निर्यातुकामेन बोधिसत्त्वेन महासत्त्वेन कथं स्थातव्यं कथं शिक्षितव्यम्? भगवानाह - अनुत्तरायां सुभूते सम्यक्संबोधौ निर्यातुकामेन बोधिसत्त्वेन महासत्त्वेन सर्वसत्त्वेषु समं स्थातव्यम् । सर्वसत्त्वेषु समं चित्तमुत्पादयितव्यम् । न विषमचित्तेन परे आलम्बितव्याः । मैत्रचित्तेन परे आलम्बितव्याः । (वैद्य १६०) हितचित्तेन परे आलम्बितव्याः । कल्याणचित्तेन परे आलम्बितव्याः । निहतमानचित्तेन परे आलम्बितव्याः । अप्रतिहतचित्तेन परे आलम्बितव्याः । अविर्हिसाचित्तेन परे आलम्बितव्याः । अविहेठनाचित्तेन परे आलम्बितव्याः । सर्वसत्त्वेषु मातृसंज्ञामुपस्थाय पितृसंज्ञां पुत्रसंज्ञां दुहितृसंज्ञां चोपस्थाप्य परे आलम्बितव्याः । एवं हि सुभूते बोधिसत्त्वेन महासत्त्वेन अनुत्तरां सम्यक्संबोधिमभिसंबोद्धुकामेन सर्वसत्त्वानामन्तिके स्थातव्यम्, एवं शिक्षितव्यम् - सर्वसत्त्वानामहं नाथ इति । स्वयं च सर्वपापनिवृत्तौ स्थातव्यम् । दानं दातव्यं शीलं रक्षितव्यं क्षान्त्या संपादयितव्यं वीर्यमारब्धव्यं ध्यानं समापत्तव्यं प्रज्ञायां परिजयः कर्तव्यं, अनुलोमप्रतिलोमप्रतीत्यसमुत्पादो व्यवलोकयितव्यः, अन्येषामपि तत्र समादापकेन तद्वर्णवादिना तत्समनुज्ञेन च भवितव्यम् । एवं सत्येषु यावद्बोधिसत्त्वन्यामावक्रान्तौ सत्त्वपरिपाचने च स्थित्वा अन्येषामपि तत्र समादापकेन तद्वर्णवादिना तत्समनुज्ञेन च भवितव्यम् । तस्यैवं स्पृहयत एवं शिक्षमाणस्य अनावरणं रूपं यावद्धर्मस्थितिरनावरणा भविष्यतीति ॥ आर्याष्टसाहस्रिकायां प्रज्ञापारमितायां तथतापरिवर्तो नाम षोडशः ॥ _______________________________________________________________ (वैद्य १६१) १७: अविनिवर्तनीयाकारलिङ्गनिमित्तपरिवर्तः सप्तदशः । अथ खल्वायुष्मान् सुभूतिर्भगवन्तमेतदवोचत्- अविनिवर्तनीयस्य भगवन् बोधिसत्त्वस्य महासत्त्वस्य के आकाराः, कानि लिङ्गानि, कानि निमित्तानि? कथं वा भगवन् वयं जानीयाम अयमविनिवर्तनीयो बोधिसत्त्वो महासत्त्व इति? भगवानाह - या च सुभूते पृथग्जनभूमिः, या च श्रावकभूमिः, या च प्रत्येकबुद्धभूमिः, या च बुद्धभूमिः, इयं तथताभूमिरित्युच्यते । सर्वाश्चैतास्तथताया अद्वया अद्वैधीकारा अविकल्पा निर्विकल्पा इति तां तथतां तां धर्मतामवतरन्ति । तथतायां स्थितस्तथतां न कल्पयति न विकल्पयति, एवमवतरति । एवमवतीर्णो यथातथतां श्रुत्वापि ततोऽपि चापक्रम्य न काङ्क्षति न विमतिं करोति, न विचिकित्सति, नैवमिति न धन्धायति, अपि तु एवमेतत्तथतैवेत्यधिमुञ्चत्यवगाहते, न च यत्किंचनप्रलापी भवति, अर्थसंहितामेव वाचं भाषते नानर्थसंहिताम्, न च परेषां कृताकृतानि व्यवलोकयति । एभिः सुभूते आकारैरेभिर्लिङ्गैरेभिर्निमित्तैः समन्वागतो बोधिसत्त्वो महासत्त्वोऽविनिवर्तनीयोऽनुत्तरायाः सम्यक्संबोधेर्धारयितव्यः ॥ पुनरपरं सुभूते अविनिवर्तनीयो बोधिसत्त्वो महासत्त्वो नान्येषां श्रमणानां ब्राह्मणानां वा मुखमुल्लोकयति - इमे भगवन्तः श्रमणा ब्राह्मणा वा ज्ञेयं जानन्ति, दृश्यं पश्यन्तीति । न चान्यान् देवान्नमस्करोति, न चान्येभ्यो देवेभ्यः पुष्पं वा धूपं वा गन्धं वा माल्यं वा विलेपनं वा चूर्णं वा वस्त्रं वा छत्रं वा ध्वजं वा घण्टां वा पताकां वा दीपं वा दातव्यं मन्यते, न चान्यं देवं व्यपाश्रयते । एभिरपि सुभूते आकारैरेभिर्लिङ्गैरेभिर्निमित्तैः समन्वागतो बोधिसत्त्वो महासत्त्वोऽविनिवर्तनीयोऽनुत्तरायाः सम्यक्संबोधेर्धारयितव्यः । स खलु पुनः सुभूते अविनिवर्तनीयो बोधिसत्त्वो महासत्त्वो नापायेषूपपद्यते, न च स्त्रीभावं परिगृह्णाति ॥ पुनरपरं सुभूते अविनिवर्तनीयो बोधिसत्त्वो महासत्त्वो दशकुशलान् कर्मपथान् समादाय वर्तते । स आत्मना च प्राणातिपातात्प्रतिविरतो भवति, परानपि च प्राणातिपातविरमणाय समादापयति । आत्मना च अदत्तादानात्प्रतिविरतो भवति, परानपि च अदत्तादानविरमणाय समादापयति । आत्मना च काममिथ्याचारात्प्रतिविरतो भवति, परानपि च काममिथ्याचारविरमणाय समादापयति । आत्मना च सुरामैरेयमद्यप्रमादस्थानात्प्रतिविरतो भवति, परानपि सुरामैरेयमद्यप्रमादस्थानविरमणाय समादापयति । आत्मना च अनृतवचनात्प्रतिविरतो भवति, परानपि च अनृतवचनविरमणाय समादापयति । आत्मना च पिशुनवचनात्प्रतिविरतो भवति, परानपि च पिशुनवचनविरमणाय समादापयति । आत्मना च परुषवचनात्प्रतिविरतो भवति, परानपि च परुषवचनविरमणाय समादापयति । आत्मना च संभिन्नप्रलापात्प्रतिविरतो भवति, परानपि च संभिन्नप्रलापविरमणाय समादापयति । आत्मना च अभिध्यातः प्रतिविरतो भवति, परानपि च अभिध्यानविरमणाय समादापयति । (वैद्य १६२) आत्मना च व्यापादात्प्रतिविरतो भवति, परानपि च व्यापादविरमणाय समादापयति । आत्मना च मिथ्यादर्शनात्प्रतिविरतो भवति, परानपि च मिथ्यादर्शनविरमणाय समादापयति । एवं खलु सुभूते अविनिवर्तनीयो बोधिसत्त्वो महासत्त्वः स्वयं च दशकुशलान् कर्मपथान् समादाय वर्तते, परानपि च दशकुशलेषु कर्मपथेषु संदर्शयति समादापयति समुत्तेजयति संप्रहर्षयति प्रतिष्ठापयति दृढीकरोति । स स्वप्नान्तरगतोऽपि दशकुशलान् कर्मपथानेकैकतो वा बाहुल्यतो वा सर्वेण सर्वं सर्वथा सर्वं नाध्यापद्यते, चित्तेनापि न समुदाचरति । तस्य खलु पुनः सुभूते अविनिवर्तनीयस्य बोधिसत्त्वस्य महासत्त्वस्य स्वप्नान्तरगतस्यापि दशकुशलाः कर्मपथा आमुखीभवन्ति । एभिरपि सुभूते आकारैरेभिर्लिङ्गैरेभिर्निमित्तैः समन्वागतो बोधिसत्त्वो महासत्त्वोऽविनिवर्तनीयोऽनुत्तरायाः सम्यक्संबोधेर्धारयितव्यः ॥ पुनरपरं सुभूते अविनिवर्तनीयो बोधिसत्त्वो महासत्त्वो यं यं धर्मं पर्यवाप्नोति, ददाति च, तं तमेवंचित्तः पर्यवाप्नोति, ददाति च - इममहं धर्मं सर्वसत्त्वानामर्थाय पर्यवाप्नोमि ददामि च, हिताय सुखाय च । इति चैष भवतु, अनया धर्मदेशनया धार्मिका अभिप्रायाः सर्वसत्त्वानां परिपूर्यन्तामिति । तच्च धर्मदानं सर्वसत्त्वसाधारणं करोति । एभिरपि सुभूते आकारैरेभिर्लिङ्गैरेभिर्निमित्तैः समन्वागतो बोधिसत्त्वो महासत्त्वोऽविनिवर्तनीयोऽनुत्तरायाः सम्यक्संबोधेर्धारयितव्यः ॥ पुनरपरं सुभूते अविनिवर्तनीयो बोधिसत्त्वो महासत्त्वो गम्भीरेषु धर्मेषु भाष्यमाणेषु न काङ्क्षति, न विमतिं करोति, न विचिकित्सति न धन्धायति, हितवचनश्च भवति, मितवचनश्च भवति, स्निग्धवचनश्च भवति, अल्पस्त्यानमिद्धश्च भवति, निरनुशयश्च भवति । सोऽभिक्रामन् वा प्रतिक्रामन् वा न भ्रान्तचित्तोऽभिक्रामति वा, प्रतिक्रामति वा । उपस्थितस्मृतिरभिक्रामति, उपस्थितस्मृतिः प्रतिक्रामति । न विलम्बितं पादं भूमेरुत्क्षिपति, न विलम्बितं पादं भूमौ निक्षिपति । सुखमेवोत्क्षिपति, सुखं निक्षिपति । न च सहसा पादं भूमेरुत्क्षिपति, न च सहसा पादं भूमौ निक्षिपति, पश्यन्नैव भूमिप्रदेशमाक्रामति । तस्य खलु पुनः सुभूते अविनिवर्तनीयस्य बोधिसत्त्वस्य महासत्त्वस्य शरीरे चीवरपरिभोगो न यूकिलो भवति । स चौक्षसमुदाचारश्च भवति । अल्पाबाधश्च भवति । अल्पादीनवश्च भवति । यानि खलु पुनरन्येषां सत्त्वानामशीतिः कृमिकुलसहस्राणि काये संभवन्ति, तानि तस्य काये सर्वेण सर्वं सर्वथा सर्वं न संभवन्ति । तत्कस्य हेतोः? तथा हि तस्य तानि कुशलमूलानि सर्वलोकाभ्युद्गतानि भवन्ति ॥ यथा यथा च तस्य तानि कुशलमूलानि विवर्धन्ते, तथा तथा स बोधिसत्त्वो महासत्त्वः कायपरिशुद्धिं च परिगृह्णीते, वाक्परिशुद्धिं च परिगृह्णीते, चित्तपरिशुद्धिं च परिगृह्णीते । सुभूतिराह - का पुनर्भगवंस्तस्य बोधिसत्त्वस्य महासत्त्वस्य चित्तपरिशुद्धिर्वेदितव्या? (वैद्य १६३) भगवानाह - यथा यथा सुभूते तस्य बोधिसत्त्वस्य महासत्त्वस्य तानि कुशलमूलानि विवर्धन्ते, तथा तथा स बोधिसत्त्वो महासत्त्वश्चित्ताल्पकृत्यतां च परिगृह्णीते, चित्ताशाठ्यतां च चित्तामायावितां च चित्ताकुटिलतां चित्तावङ्कतां च परिगृह्णीते, यया च सुभूते चित्तपरिशुद्ध्या श्रावकप्रत्येकबुद्धभूमिमतिक्रान्तो भवति । इयं सुभूते तस्य बोधिसत्त्वस्य महासत्त्वस्य चित्तपरिशुद्धिर्वेदितव्या । एभिरपि सुभूते आकारैरेभिर्लिङ्गैरेभिर्निमित्तैः समन्वागतो बोधिसत्त्वो महासत्त्वोऽविनिवर्तनीयोऽनुत्तरायां सम्यक्संबोधेर्धारयितव्यः ॥ पुनरपरं सुभूते अविनिवर्तनीयो बोधिसत्त्वो महासत्त्वो न लाभसत्कारश्लोकगुरुको भवति, न चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्कारगुरुको भवति, नेर्ष्यामात्सर्यबहुलो भवति । न च गम्भीरेषु धर्मेषु भाष्यमाणेषु संसीदति । स्थिरबुद्धिश्च भवति, गम्भीरबुद्धिश्च भवति, सत्कृत्य च परतो धर्मं शृणोति । यं च सत्कृत्य परतो धर्मं शृणोति, तं सर्वं प्रज्ञापारमितायां संस्यन्दयति । यानि च लौकिकानि शिल्पस्थानकर्मस्थानानि, तानि सर्वाणि प्रज्ञापारमितामागम्य धर्मतया संस्यन्दयति । न च कंचिद्धर्म समनुपश्यति, यं न धर्मधातुना योजयति । सर्वमेव च तं प्रयुज्यमानं समनुपश्यति । एभिरपि सुभूते आकारैरेभिर्लिङ्गैरेभिर्निमित्तैः समन्वागतो बोधिसत्त्वो महासत्त्वः अविनिवर्तनीयोऽनुत्तरायाः सम्यक्संबोधेर्धारयितव्यः ॥ पुनरपरं सुभूते मारः पापीयानष्टौ महानिरयानभिनिर्माय तत्र एकैकस्मिन्महानिरये बहूनि बोधिसत्त्वशतानि बहूनि बोधिसत्त्वसहस्राणि बहूनि बोधिसत्त्वशतसहस्राण्यभिनिर्माय अविनिवर्तनीयं बोधिसत्त्वं महासत्त्वमेवं वदेत्- ये तथागतेन अविनिवर्तनीया बोधिसत्त्वा महासत्त्वा व्याकृताः, ते एतेषु महानिरयेषूपपन्नाः । त्वमप्येवं महानिरयेषु प्रपत्स्यसे, यतस्त्वमविनिवर्तनीयो व्याकृतः । पुनरेव त्वमेतद्बोधिचित्तं प्रतिदेशय, प्रतिनिःसृज । किं ते बुद्धत्वेन? एवं त्वं न निरयेषूपपत्स्यसे । एवं त्वं कुर्वन् स्वर्गोपगो भविष्यसीति । सचेदेवमपि बोधिसत्त्वस्य महासत्त्वस्य चित्तं न क्षुभ्यति, न चलति, एवं जानाति - अस्थानमेतदनवकाशः, यदविनिवर्तनीयो बोधिसत्त्वो महासत्त्वोऽपायेषूपपद्यते इति । एभिरपि सुभूते आकारैरेभिर्लिङ्गैरेभिर्निमित्तैः समन्वागतो बोधिसत्त्वो महासत्त्वोऽविनिवर्तनीयोऽनुत्तरायाः सम्यक्संबोधेर्धारयितव्यः ॥ पुनरपरं सुभूते मारः पापीयान् श्रमणवेषेण अविनिवर्तनीयं बोधिसत्त्वं महासत्त्वमुपसंक्रम्यैवं वक्ष्यति - यदेतत्त्वया पूर्वं श्रुतं तत्प्रतिदेशय, यत्त्वया पूर्वं परिगृहीतं तत्प्रतिनिःसृज । सचेत्त्वमेवं प्रतिदेशयिष्यसि, सचेत्त्वमेवं प्रतिनिःस्रक्ष्यसि, एवं वयं त्वां पुनः पुनरुपसंक्रमिष्यामः । यदेतत्त्वयेदानीं श्रुतम्, नैतद्बुद्धवचनम् । कविकृतं काव्यमेतत् । यत्पुनरिदमहं भाषे, एतद्बुद्धभाषितम्, एतद्बुद्धवचनमिति । एतच्छ्रुत्वा सचेद्बोधिसत्त्वः क्षुभ्यति चलति, वेदितव्यमेतत्सुभूते - नायं व्याकृतो बोधिसत्त्वस्तथागतैः । अनियतोऽयं (वैद्य १६४) बोधिसत्त्वोऽनुत्तरायां सम्यक्संबोधौ । नायमविनिवर्तनीयधातौ स्थित इति । सचेत्पुनः सुभूते बोधिसत्त्वो महासत्त्वो न क्षुभ्यति न चलति, श्रुत्वापि चेमां वाचं मारस्य पापीयसः धर्मतामेव प्रतिसरति, अनुत्पादमेवानिरोधमेवानभिसंस्कारमेव प्रतिसरति, न परस्य श्रद्धया गच्छति । तद्यथापि नाम सुभूते अर्हन् भिक्षुः क्षीणास्रवो न परस्य श्रद्धया गच्छति धर्मतायां प्रत्यक्षकारी । असंहार्यो भवति मारेण पापीयसा । एवमेव सुभूते अविनिवर्तनीयो बोधिसत्त्वो महासत्त्वोऽनवमर्दनीयः श्रावकयानिकैः पुद्गलैः प्रत्येकबुद्धयानिकैश्च । अप्रत्युदावर्तनीयधर्मा भवति, श्रावकभूमौ वा प्रत्येकबुद्धभूमौ वा नियतो भवति सर्वज्ञतायां सम्यक्संबोधिपरायणः । स खलु पुनः सुभूते बोधिसत्त्वो महासत्त्वो यदा अविनिवर्तनीयधातौ स्थितो भवति, तदा अपरप्रणेयो भवति । एभिरपि सुभूते आकारैरेभिर्लिङ्गैरेभिर्निमित्तैः समन्वागतो बोधिसत्त्वो महासत्त्वोऽविनिवर्तनीयोऽनुत्तरायाः सम्यक्संबोधेर्धारयितव्यः ॥ पुनरपरं सुभूते अविनिवर्तनीयं बोधिसत्त्वं महासत्त्वमुपसंक्रम्य कश्चिदेवं वक्ष्यतिसंसारचारिकैषा, नैषा बोधिसत्त्वचारिका । इहैव त्वं दुःखस्यान्तं कुरु । न भूयस्तानि संसारावचराणि दुःखदौर्मनस्यानि प्रत्यनुभविष्यसीति । अहो बत तवायमिहैव तावदात्मभावोऽनभिनिर्वृत्तो भविष्यति, कुतः पुनस्त्वमन्यमात्मभावं परिग्रहीतव्यं मन्यसे इति वा । सचेदेवमपि न क्षुभ्यति न चलति, तमेनं मारः पापीयान् स्वयमेवं वक्ष्यति - इच्छसि त्वं द्रष्टुं तान् बोधिसत्त्वान्महासत्त्वान् यैर्गङ्गानदीवालुकोपमान् कल्पान् बुद्धा भगवन्तः प्रत्युपस्थिताश्चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्कारैः, गङ्गानदीवालुकोपमानां बुद्धानां भगवतामन्तिकेषु ब्रह्मचर्यं चरितम्, गङ्गानदीवालुकोपमा एव बुद्धा भगवन्तः पर्युपासिताः परिपृष्टाः परिप्रश्नीकृताश्च अस्यैव बोधिसत्त्वयानस्यार्थाय कथं बोधिसत्त्वैर्महासत्त्वैः स्थातव्यमिति? यथा च बोधिसत्त्वैर्महासत्त्वैः स्थातव्यम्, तथा च तैस्तथागतैरेवाख्यातम् । तथापि स्थित्वा तथा चरित्वा तथैव योगमापद्य अद्यापि तैरेव तावन्न अनुत्तरा सम्यक्संबोधिरभिसंबुद्धा । तथा अववादानुशासन्यां स्थितैस्तथा शिक्षमाणैः सर्वज्ञता नानुप्राप्ता । कुतः पुनस्त्वमनुत्तरां सम्यक्संबोधिमनुप्राप्स्यसीति? सचेदेवमपि न क्षुभ्यति न चलति, तं मारः पापीयांस्तस्मिन्नेव पृथिवीप्रदेशे भिक्षूनभिनिर्मायैवं वक्ष्यति - एते भिक्षवोऽर्हन्तः क्षीणास्रवाः संवृत्ताः, ये बोधये संप्रस्थिता अभूवन्, तत्र तर्हि अर्हत्त्वमनुप्राप्ता अर्हत्त्वे स्थिताः । कुतः पुनस्त्वमनुत्तरां सम्यक्संबोधिमनुप्राप्स्यतीति? सचेत्खलु पुनरेवमपि भाष्यमाणे एवं निर्दिश्यमाने बोधिसत्त्वस्य महासत्त्वस्य चित्तं न क्षुभ्यति न चलति, अयं बोधिसत्त्वो महासत्त्वोऽविनिवर्तनीयोऽनुत्तरायाः सम्यक्संबोधेर्धारयितव्यः । सचेद्बोधिसत्त्वस्य महासत्त्वस्य चित्तं परतः श्रुत्वैवं विवेकपदानि धर्मताया न परिहीयते, न प्रत्युदावर्ततेऽस्य मानसम्, न चान्यथाभावश्चित्तस्य भवति, तानि च सर्वाणि मारकर्माणि तथा संजानाति - अस्थानं सुभूते अनवकाशः, यत्स बोधिसत्त्वो महासत्त्वस्तथा चरन् पारमितासु न सर्वज्ञतामनुप्राप्नुयात्-(वैद्य १६५) अस्थानमेतदनवकाशो यत्तथा चरतस्तथा शिक्षमाणस्य बोधिसत्त्वस्य महासत्त्वस्य यथा तथागतैराख्यातं तया चर्यया अविरहितस्य एभिः पारमिताप्रतिसंयुक्तैर्मनसिकारैर्विहरतो मारः पापीयान्नावतारं लप्स्यते । सचेद्बोधिसत्त्वो महासत्त्वो मारकर्माणि बुध्यते, परतश्च श्रुत्वा विवेकपदानि न परिहीयते, न प्रत्युदावर्ततेऽस्य मानसम्, न चास्य चित्तमन्यथा भवति, तानि च मारकर्माणि तथा संजानाति । एभिरपि सुभूते आकारैरेभिर्लिङ्गैरेभिर्निमित्तैः समन्वागतो बोधिसत्त्वो महासत्त्वोऽविनिवर्तनीयोऽनुत्तरायाः सम्यक्संबोधेर्धारयितव्यः ॥ पुनरपरं सुभूते अविनिवर्तनीयो बोधिसत्त्वो महासत्त्वो न रूपसंज्ञामभिसंस्कारोति, न रूपसंज्ञामुत्पादयति । एवं न वेदनासंज्ञां न संज्ञासंज्ञां न संस्कारसंज्ञाम् । न विज्ञानसंज्ञामभिसंस्करोति, न विज्ञानसंज्ञामुत्पादयति । तत्कस्य हेतोः? तथा हि अविनिवर्तनीयो बोधिसत्त्वो महासत्त्वः स्वलक्षणशून्यैर्धर्मैर्बोधिसत्त्वन्यामावक्रान्तः । तमपि धर्मं नोपलभते नाभिसंस्कारोति नोत्पादयति । तत उच्यते अनुत्पादज्ञानक्षान्तिको बोधिसत्त्वो महासत्त्वोऽविनिवर्तनीय इति । एभिरपि सुभूते आकारैरेभिर्लिङ्गैरेभिर्निमित्तैः समन्वागतो बोधिसत्त्वो महासत्त्वोऽविनिवर्तनीयोऽनुत्तरायाः सम्यक्संबोधेर्धारयितव्यः ॥ पुनरपरं सुभूते मारः पापीयान् भिक्षुवेषेणोपसंक्रम्य बोधिसत्त्वं महासत्त्वमेवं विच्छन्दयिष्यति - आकाशसमैषा यदुत सर्वज्ञता । असन्नेष धर्मो यदुत सर्वज्ञता । असंविद्यमान एष धर्मो यदुत सर्वज्ञता । कोऽत्राज्ञास्यति, कोऽत्राभिसंभोत्स्यते? नैतेन कश्चिन्निर्यास्यति - यश्चाभिसंबुध्येत, यच्चाभिसंबोद्धव्यम्, यश्च आजानीयात्, यच्च आज्ञातव्यम् । सर्वत्र ते धर्मा आकाशसमाः । निरर्थकं त्वं विहन्यसे । मारकर्मैर्वैतत्परिदीपितं यदुत अनुत्तरा सम्यक्संबोधिरभिसंबोद्धव्येति, नैतद्बुद्धभाषितमिति । तेन कुलपुत्रेण वा कुलदुहित्रा वा एवं ज्ञातव्यमेवं समन्वाहर्तव्यमेवं वेदितव्यम् - मारकर्मैवैतत्, येयं विवेचनता । एवं चिन्तयित्वा तत्र दृढचित्तेन भवितव्यम्, अप्रकम्प्यचित्तेनासंहार्यचित्तेन भवितव्यम् । एभिरपि सुभूते आकारैरेभिर्लिङ्गैरेभिर्निमित्तैः समन्वागतो बोधिसत्त्वो महासत्त्वोऽविनिवर्तनीयोऽनुत्तरायाः सम्यक्संबोधेर्धारयितव्यः ॥ पुनरपरं सुभूते अविनिवर्तनीयो बोधिसत्त्वो महासत्त्वः श्रावकप्रत्येकबुद्धभूमिनिर्वृत्तः सर्वज्ञतायां प्रवृत्तो भवति । स आकाङ्क्षन् प्रथमं ध्यानं समापद्यते । तथा द्वितीयं तथा तृतीयं तथा चतुर्थं ध्यानं समापद्यते । स एभिश्चतुर्भिर्ध्यानैर्विहरति, ध्यानपरिजयं च करोति, ध्यानानि च समापद्यते, न च ध्यानवशेनोपपद्यते । स पुनरेव कामावचरान् धर्मानध्यालम्बते । इदमपि सुभूते अविनिवर्तनीयस्य बोधिसत्त्वस्य महासत्त्वस्य अविनिवर्तनीयलक्षणं वेदितव्यम् ॥ पुनरपरं सुभूते अविनिवर्तनीयो बोधिसत्त्वो महासत्त्वो न नामगुरुको भवति, न कीर्तिशब्दश्लोकगुरुको भवति, न नाम्नि सज्जते । सोऽसंक्षुभितचित्तो भवति, सर्वसत्त्वेषु (वैद्य १६६) हितचित्तश्च भवति । सोऽभिक्रामन् वा प्रतिक्रामन् वा अभ्रान्तचित्तोऽभिक्रामति, अभ्रान्तचित्तः प्रतिक्रामति । स्मृतिमानेवाभिक्रामति, स्मृतिमानेव प्रतिक्रामति । सचेत्सोऽगारमध्यावसति, नास्य भवत्यधिमात्रः कामेषु कामाभिष्वङ्गो वा अभिप्रायो वा । स निर्वित्संज्ञ्येव कामान् परिभुङ्क्ते । स उत्रस्तसंज्ञ्येव कामान् परिभुङ्क्ते । तद्यथापि सुभूते चौरकान्तारमध्यगतः पुरुषः आहारकृत्यं कुर्वन्नुत्रस्तसंज्ञ्येवाहारं कुर्यात्, गमनसंज्ञ्येवाहारं कुर्यात्, कदा नु खलु नाम अहमितश्चौरकान्तारादतिक्रान्तो भविष्यामीत्येवंसंज्ञी अविश्रब्धमाहारमाहरति । एवमेव सुभूते अविनिवर्तनीया बोधिसत्त्वा महासत्त्वा अगारमध्यावसन्तो यान् यानेव कामान् परिभुञ्जते, तांस्ताननर्थिका एव अगृद्धा एव असक्ता एव कामान् परिभुञ्जते । अनर्थिका एव च ते भवन्ति प्रियरूपसातरूपैः पञ्चभिः कामगुणैः । तेऽगारमध्यावसन्तो न समविषमेण जीविकां कल्पयन्ति । धर्मेणैव जीविकां कल्पयन्ति नाधर्मेणापि । मरणमुपगच्छन्ति न त्वेव परेषामपमर्दनं कुर्वन्ति । तत्कस्य हेतोः? तथा हि तैः सत्पुरुषैर्महापुरुषैरतिपुरुषैः पुरुषप्रवरैः पुरुषशोभनैः पुरुषर्षभैः पुरुषोदारैः पुरुषशौटीरैः पुरुषपुंगवैः पुरुषधुर्यैः पुरुषपद्मैः पुरुषपुण्डरीकैः पुरुषाजानेयैः पुरुषनागैः पुरुषसिंहैः पुरुषदम्यसारथिभिः सर्वसत्त्वाः परमसुखे नियोजयितव्याः । एवं हि सुभूते अगारमध्यावसन्ति बोधिसत्त्वा महासत्त्वा यथापि नाम प्रज्ञापारमिताबलाधानप्राप्तत्वात् । एभिरपि सुभूते आकारैरेभिर्लिङ्गैरेभिर्निमित्तैः समन्वागता बोधिसत्त्वा महासत्त्वा अविनिवर्तनीया अनुत्तरायाः सम्यक्संबोधेर्धारयितव्याः ॥ पुनरपरं सुभूते अविनिवर्तनीयस्य बोधिसत्त्वस्य महासत्त्वस्य वज्रपाणिर्महायक्षो नित्यानुबद्धो भवति । स दुर्धर्षो भवति, अनतिक्रमणीयश्च भवति मनुष्यैर्वा अमनुष्यैर्वा, दुरासदः सर्वसत्त्वानाम् । स न विक्षिप्तचित्तो भवति, न विकलेन्द्रियो भवति, परिपूर्णैन्द्रियश्च भवति नापरिपूर्णेन्द्रियः । पुरुषवृषभेन्द्रियसमन्वागतश्च भवति नासत्पुरुषः । स यानीमानि स्त्रीणां वशीकरणानि मन्त्रजाप्यौषधिविद्याभैषज्यादीनि, तानि सर्वाणि सर्वेण सर्वं न प्रयोजयति । शुद्धाजीवश्च भवति न मिथ्याजीवः । न विग्रहविवादशीलः । ऋजुदृष्टिकश्च भवति । नात्मोत्कर्षी न परपंसकः । स एभिश्चान्यैश्च गुणैः समन्वागतो भवति । स न स्त्रियं न च पुरुषं व्याकरोति - पुत्रो वा ते भविष्यति, दुहिता वा ते भविष्यतीति । तस्यैवमादिका एवंरूपा आदेयतादोषा न भवन्ति । एभिरपि सुभूते आकारैरेभिर्लिङ्गैरेभिर्निमित्तैः समन्वागतो बोधिसत्त्वो महासत्त्वोऽविनिवर्तनीयोऽनुत्तरायाः सम्यक्संबोधेर्धारयितव्यः ॥ पुनरपरं सुभूते अविनिवर्तनीयस्य बोधिसत्त्वस्य महासत्त्वस्य ये आकारा यानि लिङ्गानि यानि निमित्तानि यैराकारैर्यैर्लिङ्गैर्यैर्निमित्तैः समन्वागतो बोधिसत्त्वो महासत्त्वोऽविनिवर्तनीयो वेदितव्योऽनुत्तरायाः सम्यक्संबोधेः, तानाकारांस्तानि लिङ्गानि तानि निमित्तानि देशयिष्यामि । ते पुनः कतमे? तद्यथा - न ते स्कन्धायतनधातुप्रतीत्यसमुत्पादयोगानुयोगमनुयुक्ता विहरन्ति, न संगणिकारामकथायोगानुयोगमनुयुक्ता विहरन्ति, न राजकथायोगानुयोगमनुयुक्ता विहरन्ति, न चौरकथायोगानुयोगमनुयुक्ता विहरन्ति, न सेनाकथायोगानुयोगमनुयुक्ता (वैद्य १६७) विहरन्ति, न युद्धकथायोगानुयोगमनुयुक्ता विहरन्ति, न ग्रामनगरनिगमजनपदराष्ट्रराजधानीकथायोगानुयोगमनुयुक्ता विहरन्ति, नात्मकथायोगानुयोगमनुयुक्ता विहरन्ति, नामात्यमहामात्रकथायोगानुयोगमनुयुक्ता विहरन्ति, न स्त्रीपुरुषनपुंसककथायोगानुयोगमनुयुक्ता विहरन्ति, न यानोद्यानविहारप्रासादह्रदसरस्तडागपुष्करिणीवनारामशैलकथायोगानुयोगमनुयुक्ता विहरन्ति, न यक्षराक्षसप्रेतपिशाचकटपूतनकुम्भाण्डकथायोगानुयोगमनुयुक्ता विहरन्ति, नान्नपानवस्त्राभरणगन्धमाल्यविलेपनकथायोगानुयोगमनुयुक्ता विहरन्ति, न वीथीचत्वरशृङ्गाटकविशिखापणशिबिकाकुटुम्बकथायोगानुयोगमनुयुक्ता विहरन्ति, न गीतनृत्याख्यायिकानटनर्तकचारणकथायोगानुयोगमनुयुक्ता विहरन्ति, न सागरनदीद्वीपकथायोगानुयोगमनुयुक्ता विहरन्ति, न धर्मविरुद्धकथायोगानुयोगमनुयुक्ता विहरन्ति, न पृथग्जनरतिकथायोगानुयोगमनुयुक्ता विहरन्ति, अपि तु प्रज्ञापारमिताकथायोगानुयोगमनुयुक्ता विहरन्ति । अविरहिताश्च भवन्ति सर्वज्ञताप्रतिसंयुक्तैर्मनसिकारैः । न च ते कलहभण्डनविग्रहविवादकथायोगानुयोगमनुयुक्ता विहरन्ति । धर्मकामा एव च ते भवन्ति, नाधर्मकामाः । अभेदवर्णवादिनश्च ते भवन्ति, न भेदवर्णवादिनः । मित्रकामाश्च ते भवन्ति, नामित्रकामाः । धर्मवादिनश्च ते भवन्ति, नाधर्मवादिनः । ते तथागतदर्शनमेवाकाङ्क्षन्त आकाङ्क्षन्ति अन्येषु लोकधातुषु ये तथागता अर्हन्तः सम्यक्संबुद्धास्तिष्ठन्ति ध्रियन्ते यापयन्ति, तेषामन्तिके उपपत्तये चित्तमुत्पादयन्ति । ते आकाङ्क्षन्तस्तत्रोपपद्यन्ते । एवं ते अविरहिता भवन्ति तथागतदर्शनेन तथागतपर्युपासनेन तथागतपर्युपस्थानेन च ॥ पुनरपरं सुभूते अविनिवर्तनीया बोधिसत्त्वा महासत्त्वाः कामावचरेभ्यो देवेभ्यश्च्युता रूपावचरेभ्य आरूप्यावचरेभ्यो वा देवेभ्यश्च्युताः सन्तः इहैव मध्यदेशे जम्बूद्वीपे प्रत्याजायन्ते । यत्र सत्त्वाः कलासु कोविदाः, काव्येषु कोविदाः, मन्त्रेषु कोविदाः, विद्यासु कोविदाः, शास्त्रेषु कोविदाः, निमित्तेषु कोविदाः, धर्मार्थकोविदाः । अल्पकाः प्रत्यन्तजनपदेषु प्रत्याजायन्ते, यद्भूयस्त्वेन मध्यदेशे प्रत्याजायन्ते । येऽपि प्रत्यन्तेषु जनपदेषु प्रत्याजायन्ते, तेऽपि महानगरेषु प्रत्याजायन्ते । एतेऽपि तेषां गुणाः संविद्यन्ते । एभिरपि सुभूते आकारैरेभिर्लिङ्गैरेभिर्निमित्तैः समन्वागतो बोधिसत्त्वो महासत्त्वोऽविनिवर्तनीयोऽनुत्तरायाः सम्यक्संबोधेर्धारयितव्यः ॥ पुनरपरं सुभूते अविनिवर्तनीयस्य बोधिसत्त्वस्य महासत्त्वस्य नैवं भवति - अविनिवर्तनीयो वाहम्, न वाहमविनिवर्तनीय इति । नास्यैवं विचिकित्सोत्पद्यते, न चास्य संशयो भवति, स्वस्यां भूमौ नाप्यस्य संसीदना भवति । तद्यथापि नाम सुभूते स्रोतआपन्नः स्रोतआपत्तिफले स्वकायां भूमौ न काङ्क्षति न विचिकित्सति । न चास्य संशयो भवति । स्वस्यां भूमौ नाप्यस्य संसीदना भवति । उत्पन्नोत्पन्नानि च मारकर्माणि क्षिप्रमेवाबुध्यते । न चोत्पन्नोत्पन्नानां मारकर्मणां वशेन गच्छति । तद्यथापि नाम सुभूते पुरुष आनन्तर्यकारी आनन्तर्यचित्तेन अविरहितो भवति, यावन्मरणावस्थायाम्, न तच्चित्तं शक्नोति प्रतिविनोदयितुं (वैद्य १६८) वा विष्कम्भयितुं वा । अनुवर्तत एवास्य तच्चित्तं यावन्मरणकालसमयेऽपि । एवमेव सुभूते अविनिवर्तनीयस्य बोधिसत्त्वस्य महासत्त्वस्य अविनिवर्तनीयचित्तं स्थितं भवति, स्वकायामविनिवर्तनीयायां भूमावविकम्प्यं भवति । सदेवमानुषासुरेणापि लोकेन न शक्यं चालयितुं वा कम्पयितुं वा । उत्पन्नोत्पन्नानि च मारकर्माण्येव बुध्यते । न चोत्पन्नोत्पन्नानां मारकर्मणां वशेन गच्छति । तस्य स्वस्यां भूमौ निष्काङ्क्षस्य निर्विचिकित्सस्य जातिव्यतिवृत्तस्यापि न श्रावकचित्तं न प्रत्येकबुद्धचित्तं वोत्पद्यते । जातिव्यतिवृत्तस्याप्येवं भवतिनाहं नाभिसंभोत्स्ये । अभिसंभोत्स्ये एवाहमनुत्तरां सम्यक्संबोधिं स्वस्यां भूमौ स्थितः । अपरप्रणेयो भवति, अनवमर्दनीयश्च भवति स्वस्यां भूमौ । तत्कस्य हेतोः? तथा हि स स्थितोऽसंहार्येण चित्तेन असंहार्येण ज्ञानेन समन्वागतो भवति । सचेत्खलु पुनर्मारः पापीयान् बुद्धवेषेणोपसंक्रामेत्, तमुपसंक्रम्यैवं वदेत्- इहैव त्वमर्हत्त्वं साक्षात्कुरु । न त्वं व्याकृतोऽनुत्तरायां सम्यक्संबोधौ । न तव ते आकारास्तानि लिङ्गानि तानि निमित्तानि वा संविद्यन्ते, यैराकारैर्यैर्लिङ्गैर्यैर्निमित्तैः समन्वागतो बोधिसत्त्वो महासत्त्वोऽनुत्तरां सम्यक्संबोधिमभिसंबुध्यते । किं वात्र त्वं चरसीति? सचेत्पुनर्बोधिसत्त्वस्य महासत्त्वस्य अन्यथा चित्तं भवति, वेदितव्यमेतत्सुभूते नायं बोधिसत्त्वो व्याकृतः पौर्वकैस्तथागतैरर्हद्भिः सम्यक्संबुद्धैरनुत्तरायां सम्यक्संबोधाविति । सचेत्पुनरेवं समन्वाहरति - मारो बतायं पापीयान् बुद्धवेषमभिनिर्मायोपसंक्रान्तः, माराधिष्ठितो वा मारनिर्मितो वेति, नायं तथागतः । यथोक्तं तथागतेनार्हता सम्यक्संबुद्धेन तथा तन्नान्यथा । सचेदेवं प्रत्यवेक्षते, एवं समन्वाहरति - मारो बतायं पापीयान् बुद्धाधिष्ठानं कृत्वा मां विवेचयितुकामोऽनुत्तरायाः सम्यक्संबोधित इति । सचेन्मारः प्रत्युदावर्तते, वेदितव्यमेतत्सुभूते व्याकृतोऽयं बोधिसत्त्वो महासत्त्वोऽनुत्तरायां सम्यक्संबोधौ पौर्वकैस्तथागतैरर्हद्भिः सम्यक्संबुद्धैः । स्थितोऽयं बोधिसत्त्वो महासत्त्वोऽविनिवर्तनीयायां बोधिसत्त्वभूमौ । सचेत्सुभूते बोधिसत्त्वस्य महासत्त्वस्य इमे आकारा इमानि लिङ्गानि इमानि निमित्तानि संविद्यन्ते, वेदितव्यमेतत्सुभूते यथा अस्येमे गुणाः । अद्धा बतायं बोधिसत्त्वो महासत्त्वो व्याकृतः पौर्वकैस्तथागतैरर्हद्भिः सम्यक्संबुद्धैः । स्थितोऽयं बोधिसत्त्वो महासत्त्वोऽविनिवर्तनीयायां बोधिसत्त्वभूमौ । तत्कस्य हेतोः? तथा ह्यस्य ते आकारास्तानि लिङ्गानि तानि निमित्तानि संविद्यन्ते, यानि अविनिवर्तनीयस्य बोधिसत्त्वस्य महासत्त्वस्य । एभिरपि सुभूते आकारैरेभिर्लिङ्गैरेभिर्निमित्तैः समन्वागतो बोधिसत्त्वो महासत्त्वोऽविनिवर्तनीयोऽनुत्तरायाः सम्यक्संबोधेर्धारयितव्यः ॥ पुनरपरं सुभूते अविनिवर्तनीयो बोधिसत्त्वो महासत्त्वः सद्धर्मपरिग्रहस्य कृतशः आत्मपरित्यागमपि करोति, जीवितपरित्यागमपि करोति । तस्माद्बोधिसत्त्वो महासत्त्वोऽविनिवर्तनीयः सद्धर्मपरिग्रहाय परमुद्योगमापद्यते अतीतानागतप्रत्युत्पन्नानां बुद्धानां भगवतां प्रेम्णा च गौरवेण च । धर्मकाया बुद्धा भगवन्त इति धर्मे प्रेम च गौरवं चोपादाय (वैद्य १६९) सद्धर्मपरिग्रहं करोति । नायं केवलमतीतानामेव बुद्धानां भगवतां सद्धर्मपरिग्रहः, प्रत्युत्पन्नानामपि बुद्धानां भगवतामेष एव सद्धर्मपरिग्रहः, अनागतानामपि बुद्धानां भगवतामेष एव सद्धर्मपरिग्रहः - अहमपि तत्र तेषामनागतानां बुद्धानां भगवतां संख्यां गणनां प्रविष्ट इति, अहमपि तत्र व्याकृतोऽनुत्तरायां सम्यक्संबोधौ, ममाप्येष एव सद्धर्मपरिग्रह इति । स इममप्यर्थवशं संपश्यन् सद्धर्मपरिग्रहस्य कृतश आत्मपरित्यागमपि करोति, जीवितपरित्यागमपि करोति । न च तत्र संसीदति, न च कौसीद्यमापद्यते । एभिरपि सुभूते आकारैरेभिर्लिङ्गैरेभिर्निमित्तैः समन्वागतो बोधिसत्त्वो महासत्त्वोऽविनिवर्तनीयोऽनुत्तरायाः सम्यक्संबोधेर्धारयितव्यः ॥ पुनरपरं सुभूते अविनिवर्तनीयो बोधिसत्त्वो महासत्त्वस्तथागतस्यार्हतः सम्यक्संबुद्धस्य धर्मं देशयतो न काङ्क्षति, न विचिकित्सति । सुभूतिराह - किं तथागतस्यैव भगवन् धर्मं देशयतो न काङ्क्षति न विचिकित्सति, न श्रावकस्य? भगवानाह - श्रावकस्यापि सुभूते धर्मं देशयतो न काङ्क्षति न विचिकित्सति । तत्कस्य हेतोः? तथा हि तेन बोधिसत्त्वेन महासत्त्वेन अनुत्पत्तिकेषु धर्मेषु क्षान्तिः प्रतिलब्धा । तेन सर्वधर्माणां धर्मतामविरुद्धां शृणोति । शृण्वंश्च न काङ्क्षति, न विचिकित्सति । एभिः सुभूते गुणैः समन्वागतो बोधिसत्त्वो महासत्त्वोऽविनिवर्तनीयो भवति । इमान्यपि सुभूते अविनिवर्तनीयस्य बोधिसत्त्वस्य महासत्त्वस्य आकारलिङ्गनिमित्तानि वेदितव्यान्यनुत्तरायाः सम्यक्संबोधेरिति ॥ आर्याष्टसाहस्रिकायां प्रज्ञापारमितायामविनिवर्तनीयाकारलिङ्गनिमित्तपरिवर्तो नाम सप्तदशः ॥ _______________________________________________________________ (वैद्य १७०) १८: शून्यतापरिवर्तोऽष्टादशः । अथ खल्वायुष्मान् सुभूतिर्भगवन्तमेतदवोचत्- आश्चर्यं भगवन्महागुणसमन्वागतो बोधिसत्त्वो महासत्त्वः । अप्रमाणगुणसमन्वागतो भगवन् बोधिसत्त्वो महासत्त्वः । अपरिमितगुणसमन्वागतो भगवन् बोधिसत्त्वो महासत्त्वः । एवमुक्ते भगवानायुष्मन्तं सुभूतिमेतदवोचत्- एवमेतत्सुभूते, एवमेतत् । तत्कस्य हेतोः? अविनिवर्तनीयेन हि सुभूते बोधिसत्त्वेन महासत्त्वेन अनन्तमपर्यन्तं ज्ञानं प्रतिलब्धमसंहार्यं सर्वश्रावकप्रत्येकबुद्धैः ॥ सुभूतिराह - प्रतिबलो भगवनविनिवर्तनीयस्य बोधिसत्त्वस्य महासत्त्वस्य गङ्गानदीवालुकोपमान् कल्पानाकारान् लिङ्गानि निमित्तानि निर्देष्टुम् । अत एव भगवन् बोधिसत्त्वस्य महासत्त्वस्य गम्भीराणि गम्भीराणि स्थानानि प्रज्ञापारमिताप्रतिसंयुक्तानि सूचयितव्यानि । एवमुक्ते भगवानायुष्मन्तं सुभूतिमेतदवोचत्- साधु साधु सुभूते यस्त्वं गम्भीराणि गम्भीराणि स्थानान्यारभ्य निगमयितुकामः । गम्भीरमिति सुभूते शून्यताया एतदधिवचनम् । आनिमित्तस्य अप्रणिहितस्य अनभिसंस्कारस्य अनुत्पादस्य अजातेरभावस्य विरागस्य निरोधस्य निर्वाणस्य विगमस्यैतत्सुभूते अधिवचनं यदुत गम्भीरमिति ॥ सुभूतिराह - एतेषामेव भगवन् केवलमेतद्धर्माणामधिवचनं न पुनः सर्वधर्माणाम्? भगवानाह - सर्वधर्माणामप्येतत्सुभूते अधिवचनं यदुत गम्भीरमिति । तत्कस्य हेतोः? रूपं हि सुभूते गम्भीरम् । एवं वेदना संज्ञा संस्काराः । विज्ञानं हि सुभूते गम्भीरम् । कथं च सुभूते रूपं गम्भीरम्? कथं वेदना संज्ञा संस्काराः? कथं च सुभूते विज्ञानं गम्भीरम्? यथा सुभूते तथता, तथा गम्भीरं रूपम् । एवं वेदना संज्ञा संस्काराः । यथा सुभूते तथता, तथा गम्भीरं विज्ञानम् । तत्र सुभूते यथा रूपतथता, तथा गम्भीरं रूपम् । यथा वेदनातथता संज्ञातथता संस्कारतथता । तत्र सुभूते यथा विज्ञानतथता, तथा गम्भीरं विज्ञानम् । यत्र सुभूते न रूपम्, इयं रूपस्य गम्भीरता । यत्र सुभूते न वेदना न संज्ञा न संस्कारा न विज्ञानम्, इयं वेदनासंज्ञासंस्काराणाम्, इयं विज्ञानस्य गम्भीरता ॥ सुभूतिराह - आश्चर्यं भगवन् यावत्सूक्ष्मेणोपायेन रूपतश्च निवारितो निर्वाणं च सुचितम् । एवं वेदना संज्ञा संस्काराः । यावत्सूक्ष्मेणोपायेन विज्ञानतश्च निवारितो निर्वाणं च सूचितम् । भगवानाह - इमानि सुभूते गम्भीराणि गम्भीराणि स्थानानि प्रज्ञापारमिताप्रतिसंयुक्तानि यश्चिन्तयिष्यन्ति तुलयिष्यति उपनिध्यास्यति - एवं मया स्थातव्यं यथा प्रज्ञापारमितायामाज्ञप्तम् । एवं मया शिक्षितव्यं यथा प्रज्ञापारमितायामाख्यातम् । एवं मया प्रतिपत्तव्यं यथा प्रज्ञापारमितायामुपदिष्टम् । तथा संपादयमानस्तथोपनिध्यायंस्तथोपपरीक्षमाणस्तथा प्रयुज्यमानस्तथा घटमानस्तथा व्यायच्छमान एकदिवसमप्यत्र योगमापद्यते । अयं बोधिसत्त्वो महासत्त्वस्तेनैकदिवसेन कियत्कर्म करोति? तद्यथापि नाम सुभूते कश्चिदेव पुरुषो रागचरितो वितर्कचरितः । तस्य पुरुषस्य रागचरितस्य वितर्कचरितस्य स्त्रिया अभिरूपया प्रासादिकया दर्शनीयया सह संकेतः कृतो भवेत् । सा खलु पुनः स्त्री (वैद्य १७१) परपरिगृहीता भवेत् । न वशयेदात्मानमगारान्निष्क्रमितुम् । तत्किं मन्यसे सुभूते किंप्रतिसंयुक्तास्तस्य पुरुषस्य वितर्काः प्रवर्तेरन्? सुभूतिराह - स्त्रीप्रतिसंयुक्ता एव भगवंस्तस्य पुरुषस्य वितर्काः प्रवर्तेरन् - इयमागच्छति, इयमागता । तया सार्धमेवं करिष्यामि, एवं रमिष्यामि, एवं क्रीडिष्यामि, एवं प्रविचारयिष्यामीति । भगवानाह - तत्किं मन्यसे सुभूते दिवसस्यात्ययेन तस्य पुरुषस्य कियन्तो वितर्का उत्पद्येरन्? सुभूतिराह - बहवो भगवन् दिवसस्यात्ययेन तस्य पुरुषस्य वितर्का उत्पद्येरन् । भगवानाह - यावन्तः सुभूते तस्य पुरुषस्य दिवसस्यात्ययेन वितर्का उत्पद्येरन्, इयतः सुभूते कल्पान् बोधिसत्त्वो महासत्त्वश्छोरयति विपृष्ठीकरोति संसाराद्व्यन्तीकरोति, य इह प्रज्ञापारमितायां यथाज्ञप्तं यथाख्यातं यथोपदिष्टं यथोद्दिष्टं यथानिर्दिष्टं तिष्ठति शिक्षते प्रतिपद्यते उपनिध्यायति योगमापद्यते, तांश्च दोषान् विवर्जयति, यैर्दोषैर्बोधिसत्त्वो महासत्त्वो विवर्ततेऽनुत्तरायाः सम्यक्संबोधेः । एवं हि सुभूते यश्च बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायोगमनुयुक्तः, अनेन विहारेण विहरन् यदुत प्रज्ञापारमिताप्रतिसंयुक्तैर्मनसिकारैः, एकदिवसेन तावत्कर्म करोति । यश्च प्रज्ञापारमिताविरहितो बोधिसत्त्वो गङ्गानदीवालुकोपमान् कल्पांस्तिष्ठन् दानं दद्यात्, अयमेव ततो विशिष्यते योऽयं बोधिसत्त्वो महासत्त्व एवमेकदिवसमपि प्रज्ञापारमितायां योगमापद्यते ॥ पुनरपरं सुभूते यश्च बोधिसत्त्वो महासत्त्वो गङ्गानदीवालुकोपमान् कल्पांस्तिष्ठन् स्रोतआपन्नेभ्यो दानं दद्यात्, प्रतिष्ठापयेत्, एवं सकृदागामिष्वनागामिष्वर्हत्सु दानं दद्यात्, प्रतिष्ठापयेत् । प्रत्येकबुद्धेषु दानं दद्यात्प्रतिष्ठापयेत् । तथागतेष्वर्हत्सु सम्यक्संबुद्धेषु दानं दद्यात्प्रतिष्ठापयेत्, विरहितश्च प्रज्ञापारमिताया । यश्च बोधिसत्त्वो महासत्त्वो यथोपदिष्टं यथोद्दिष्टं यथानिर्दिष्टं प्रज्ञापारमितायां तथैव योगमापद्येत एकदिवसमपि । अयं बोधिसत्त्वो महासत्त्वस्ततः पौर्वकाद्बोधिसत्त्वद्बहुतरं पुण्यं प्रसवति ॥ पुनरपरं सुभूते यो बोधिसत्त्वो गङ्गानदीवालुकोपमान् कल्पांस्तिष्ठन् स्रोतआपन्नेषु यावत्सम्यक्संबुद्धेषु दानं दद्यात्प्रतिष्ठापयेत्, शीलेषु च परिपूर्णकारी भवेत्, विरहितश्च प्रज्ञापारमितया भवेत् । यश्च बोधिसत्त्वो महासत्त्वः प्रज्ञापारमिताविहारी ततो मनसिकाराद्व्युत्थाय धर्मं देशयेत्, अयमेव सुभूते बोधिसत्त्वो महासत्त्वस्ततः पौर्वकाद्बोधिसत्त्वाद्बहुतरं पुण्यं प्रसवति ॥ पुनरपरं सुभूते यो बोधिसत्त्वो गङ्गानदीवालुकोपमान् कल्पांस्तिष्ठन् स्रोतआपन्नेषु यावत्सम्यक्संबुद्धेषु दानं दद्यात्प्रतिष्ठापयेत्, शीलेषु च परिपूर्णकारी भवेत्, क्षान्त्या च समन्वागतो भवेत्, विरहितश्च प्रज्ञापारमितया । यश्च बोधिसत्त्वो महासत्त्वः प्रज्ञापारमिताविहारी ततो मनसिकारद्व्युत्थाय धर्मदानं दद्यात्, अयमेव सुभूते बोधिसत्त्वो महासत्त्वो महासत्त्वस्ततः पौर्वकाद्बोधिसत्त्वाद्बहुतरं पुण्यं प्रसवति ॥ (वैद्य १७२) पुनरपरं सुभूते यो बोधिसत्त्वो महासत्त्वो गङ्गानदीवालुकोपमान् कल्पांस्तिष्ठन् स्रोतआपन्नेषु यावत्सम्यक्संबुद्धेषु दानं दद्यात्प्रतिष्ठापयेत्, शीलेषु परिपूर्णकारी क्षान्त्या च समन्वागतः, आरब्धवीर्यः सन् ध्यानेषु बोधिपक्षेषु च धर्मेषु योगमापद्येत, विरहितश्च प्रज्ञापारमितया । यश्च खलु पुनः सुभूते बोधिसत्त्वो महासत्त्वस्तथा धर्मदानं दत्वा अनुत्तरायां सम्यक्संबोधौ परिणामयेत्, अयमेव सुभूते बोधिसत्त्वो महासत्त्वस्ततः पौर्वकाद्बोधिसत्त्वाद्बहुतरं पुण्यं प्रसवति ॥ पुनरपरं सुभूते बोधिसत्त्वो महासत्त्वस्तथा धर्मदानं दत्वा प्रज्ञापारमितोक्तेन परिणामेन अनुत्तरायां सम्यक्संबोधौ परिणामयेत्, अयं ततो बहुतरं पुण्यं प्रसवति ॥ पुनरपरं सुभूते बोधिसत्त्वो महासत्त्वस्तथा धर्मदानं दत्वा प्रज्ञापारमितोक्तेन परिणामेन अनुत्तरायां सम्यक्संबोधौ परिणामयेत्, परिणाम्य च प्रतिसंलाने न पुनरेव योगमापद्येत । यश्च खलु पुनः सुभूते बोधिसत्त्वो महासत्त्वस्तथा धर्मदानमेव दद्यात्, न पुनः प्रतिसंलाने योगमापद्येत, स बोधिसत्त्वो महासत्त्वो न तावत्पुण्यं प्रसवति, यावद्य एवं धर्मदानं ददद्बोधिसत्त्वो महासत्त्वः प्रतिसंलाने च पुनरेव योगमापद्यमानः प्रज्ञापारमितया च परिगृहीतस्तत्प्रतिसंलानमविरहितं करोति प्रज्ञापारमितया, अयं बोधिसत्त्वो महासत्त्वो बहुतरं पुण्यं प्रसवति ॥ सुभूतिराह - यदा भगवनभिसंस्कारो विकल्प इत्युक्तं भगवता, तदा कथं बहुतरं पुण्यं प्रसवतीत्युच्यते? भगवानाह - सोऽपीदानीं सुभूते पुण्याभिसंस्कारो बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतः शून्यक इत्येवाख्यायते, रिक्तक इत्येवाख्यायते, तुच्छक इत्येवाख्यायते, असारक इत्येवाख्यायते । यथा यथा खलु पुनः सुभूते बोधिसत्त्वो महासत्त्व एवं सर्वधर्मान् प्रत्यवेक्षते, तथा तथा सुभूते बोधिसत्त्वो महासत्त्वोऽविरहितो भवति प्रज्ञापारमितया । यथा यथा च सुभूते बोधिसत्त्वो महासत्त्वोऽविरहितो भवति प्रज्ञापारमितया, तथा तथा अप्रमेयमसंख्येयं पुण्यं प्रसवति ॥ सुभूतिराह - अप्रमेयस्य च भगवनसंख्येयस्य च किं नानाकरणं वा, कः प्रतिविशेषो वा? भगवानाह - अप्रमेयमिति सुभूते यत्र प्रमाणान्युपरमन्ते । असंख्येयमिति सुभूते यन्न शक्यं संख्ययापि क्षपयितुम् ॥ सुभूतिराह - स्याद्भगवन् पर्यायो यद्रूपमप्रमेयं भवेत्, एवं वेदना संज्ञा संस्काराः । स्याद्भगवन् पर्यायो यद्विज्ञानमप्रमेयं भवेत्? भगवानाह - यत्सुभूतिरेवमाह - स्याद्भगवन् पर्यायो यद्रूपमप्रमेयं भवेत्, एवं वेदना संज्ञा संस्काराः । स्याद्भगवन् पर्यायो यद्विज्ञानमप्रमेयं भवेदिति । स्यात्सुभूते पर्यायो येन रूपमेवाप्रमेयं भवेत्, एवं वेदनैव संज्ञैव संस्कारा एव । स्यात्सुभूते पर्यायो येन विज्ञानमेवाप्रमेयं भवेत् । सुभूतिराह - कस्य पुनर्भगवनेतदधिवचनमप्रमेयमिति? भगवानाह - शून्यतायाः सुभूते एतदधिवचनमप्रमेयमिति । आनिमित्तस्यैतदधिवचनम् । अप्रणिहितस्य सुभूते एतदधिवचनमप्रमेयमिति ॥ (वैद्य १७३) सुभूतिराह - किं शून्यताया एव भगवन् केवलमेतदधिवचनमप्रमेयमिति, आनिमित्तस्यैव अप्रणिहितस्यैव भगवन् केवलमेतदधिवचनमप्रमेयमिति, नान्येषां धर्माणाम्? भगवानाह - तत्किं मन्यसे सुभूते ननु मया सर्वधर्माः शून्या इत्याख्याताः? सुभूतिराह - शून्या एव भगवन् सर्वधर्मास्तथागतेनाख्याताः । भगवानाह - ये च सुभूते शून्याः, अक्षया अपि ते । या च शून्यता, अप्रमेयतापि सा । तस्मात्तर्हि सुभूते एषां धर्माणामर्थतो विशेषो वा नानाकरणं वा नोपलभ्यते । अभिलापा एते सुभूते तथागतेनाख्याताः अभिलपिताः - अप्रमेयमिति वा, असंख्येयमिति वा, अक्षयमिति वा, शून्यमिति वा, आनिमित्तमिति वा, अप्रणिहितमिति वा, अनभिसंस्कार इति वा, अनुत्पाद इति वा, अजातिरिति वा अभाव इति वा, विराग इति वा, निरोध इति वा, निर्वाणमिति वा । देशनाभिनिर्हारनिर्देश एष सुभूते तथागतेनार्हता सम्यक्संबुद्धेनाख्यातः ॥ सुभूतिराह - आश्चर्यं भगवन् यावद्यदियं तथागतेनार्हता सम्यक्संबुद्धेन सर्वधर्माणां धर्मता देशिता, सा च सर्वधर्माणां धर्मता अनभिलाप्या । यथाहं भगवन् भगवतो भाषितस्यार्थमाजानामि, तथा सर्वधर्मा अपि भगवननभिलाप्याः । भगवानाह - एवमेतत्सुभूते, एवमेतत् । सर्वधर्मा अपि सुभूते अनभिलाप्याः । तत्कस्य हेतोः? या च सुभूते सर्वधर्माणां शून्यता, न सा शक्या अभिलपितुम् । सुभूतिराह - किं पुनर्भगवननभिलप्यस्यार्थस्य वृद्धिर्वास्ति, परिहाणिर्वा विद्यते? भगवानाह - नो हीदं सुभूते । सुभूतिराहसचेद्भगवननभिलप्यस्यार्थस्य न वृद्धिर्न परिहाणिः, दानपारमिताया अपि भगवन्न वृद्धिर्न परिहाणिर्भविष्यति । एवं शीलपारमिताया अपि, क्षान्तिपारमिताया अपि, वीर्यपारमिताया अपि, ध्यानपारमिताया अपि, प्रज्ञापारमिताया अपि भगवन्न वृद्धिर्न परिहाणिर्भविष्यति । सचेद्भगवनासां षण्णां पारमितानां न वृद्धिर्न परिहाणिः, कथं भगवन् विवर्धमानानां षण्णां पारमितानां बलेन बोधिसत्त्वो महासत्त्वोऽनुत्तरां सम्यक्संबोधिमभिसंबुध्यते? कथं च अनुत्तरायाः सम्यक्संबोधेरभ्यासन्नीभवति? न च भगवनप्रतिपूरयन् पारमितां बोधिसत्त्वो महासत्त्वोऽभ्यासन्नीभवत्यनुत्तरायाः सम्यक्संबोधेः । भगवानाह - एवमेतत्सुभूते, एवमेतत् । न खलु पुनः सुभूते पारमितार्थस्य काचिद्वृद्धिर्वास्ति परिहाणिर्वा विद्यते । अपि तु खलु पुनः सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतः प्रज्ञापारमितां भावयत उपायकुशलस्य नैवं भवति - इयं दानपारमिता विवर्धते, इयं दानपारमिता परिहीयते इति । अपि तु खलु पुनरस्यैवं भवति - नामधेयमात्रमेतद्यदुत दानपारमितेति । स दानं ददत्तान्मनसिकारांस्तांश्चित्तोत्पादांस्तानि कुशलमूलानि अनुत्तरायां सम्यक्संबोधौ परिणामयति । यथा अनुत्तरा सम्यक्संबोधिस्तथा परिणामयति ॥ पुनरपरं सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतः प्रज्ञापारमितां भावयतः उपायकुशलस्य नैवं भवति - इयं शीलपारमिता विवर्धते, इयं शीलपारमिता (वैद्य १७४) परिहीयते इति । अपि तु खलु पुनरस्यैवं भवति - नामधेयमात्रमेतद्यदुत शीलपारमितेति । स शीलं समादाय वर्तमानस्तान्मनसिकारांस्तांश्चित्तोत्पादांस्तानि कुशलमूलानि अनुत्तरायां सम्यक्संबोधौ परिणामयति । यथा अनुत्तरा सम्यक्संबोधिस्तथा परिणामयति ॥ पुनरपरं सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतः प्रज्ञापारमितां भावयतः उपायकुशलस्य नैवं भवति - इयं क्षान्तिपारमिता विवर्धते, इयं क्षान्तिपारमिता परिहीयते इति । अपि तु खलु पुनरस्यैवं भवति - नामधेयमात्रमेतद्यदुत क्षान्तिपारमितेति । स क्षान्त्या संपादयंस्तान्मनसिकारांस्तांश्चित्तोत्पादांस्तानि च कुशलमूलानि अनुत्तरायां सम्यक्संबोधौ परिणामयति । यथा अनुत्तरा सम्यक्संबोधिस्तथा परिणामयति ॥ पुनरपरं सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतः प्रज्ञापारमितां भावयत उपायकुशलस्य नैवं भवति - इयं वीर्यपारमिता विवर्धते, इयं वीर्यपारमिता परिहीयते इति । अपि तु खलु पुनरस्यैवं भवति - नामधेयमात्रमेतद्यदुत वीर्यपारमितेति । स वीर्यमारभमाणस्तान्मनसिकारांस्तांश्चित्तोत्पादांस्तानि च कुशलमूलानि अनुत्तरायै सम्यक्संबोधये परिणामयति । यथा अनुत्तरा सम्यक्संबोधिस्तथा परिणामयति ॥ पुनरपरं सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतः प्रज्ञापारमितां भावयतः उपायकुशलस्य नैवं भवति - इयं ध्यानपारमिता विवर्धते, इयं ध्यानपारमिता परिहीयते इति । अपि तु खलु पुनरस्यैवं भवति - नामधेयमात्रमेतद्यदुत ध्यानपारमितेति । स ध्यानानि समापद्यमानस्तान्मनसिकारांस्तांश्चित्तोत्पादांस्तानि च कुशलमूलानि अनुत्तरायां सम्यक्संबोधौ परिणामयति । यथा अनुत्तरा सम्यक्संबोधिस्तथा परिणामयति ॥ पुनरपरं सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतः प्रज्ञापारमितां भावयतः उपायकुशलस्य नैवं भवति - इयं प्रज्ञापारमिता विवर्धते, इयं प्रज्ञापारमिता परिहीयते इति । अपि तु खलु पुनरस्यैवं भवति - नामधेयमात्रमेतद्यदुत प्रज्ञापारमितेति । स प्रज्ञापारमितायां चरन् प्रज्ञापारमितां भावयंस्तान्मनसिकारांस्तांश्चित्तोत्पादांस्तानि च कुशलमूलानि अनुत्तरायां सम्यक्संबोधौ परिणामयति । यथा अनुत्तरा सम्यक्संबोधिस्तथा परिणामयति ॥ अथ खल्वायुष्मान् सुभूतिर्भगवन्तमेतदवोचत्- का पुनरेषा भगवननुत्तरा सम्यक्संबोधिः? भगवानाह - तथतैषा सुभूते अनुत्तरा सम्यक्संबोधिः । न च सुभूते तथता विवर्धते, वा, परिहीयते वा । सचेद्बोधिसत्त्वो महासत्त्वस्तत्प्रतिसंयुक्तैर्मनसिकारैरभीक्ष्णं बहूलं विहरति, एवं स आसन्नीभवत्यनुत्तरायाः सम्यक्संबोधेः, तैश्च मनसिकारैर्न परिहीयते । एवं खलु सुभूते अनभिलप्यस्यार्थस्य न वृद्धिर्न परिहाणिर्भवति । एवं पारमितानां न वृद्धिर्न परिहाणिर्भवति । एवं सर्वधर्माणामपि सुभूते न वृद्धिर्न परिहाणिर्भवति । एवं हि सुभूते बोधिसत्त्वो महासत्त्व एभिरेवंरूपैर्मनसिकारैर्विहरनासन्नीभवत्यनुत्तरायाः सम्यक्संबोधेरिति ॥ आर्याष्टसाहस्रिकायां प्रज्ञापारमितायां शून्यतापरिवर्तो नामाष्टादशः ॥ _______________________________________________________________ (वैद्य १७५) १९: गङ्गदेवीभगिनीपरिवर्त एकोनविंशः । अथ खल्वायुष्मान् सुभूतिर्भगवन्तमेतदवोचत्- किं पुनर्भगवन् प्रथमचित्तोत्पादेन बोधिसत्त्वो महासत्त्वोऽनुत्तरां सम्यक्संबोधिमभिसंबुध्यते, उताहो पश्चिमचित्तोत्पादेन बोधिसत्त्वो महासत्त्वोऽनुत्तरां सम्यक्संबोधिमभिसंबुध्यते? पौर्वको भगवंश्चित्तोत्पादः पश्चिमकेन चित्तोत्पादेन असमवहितः, पश्चिमकश्चित्तोत्पादः पौर्वकेण चित्तोत्पादेन असमवहितः । कथं भगवन् बोधिसत्त्वस्य महासत्त्वस्य कुशलमूलानामुपचयो भवति? एवमुक्ते भगवानायुष्मन्तं सुभूतिमेतदवोचत्- तत्किं मन्यसे सुभूते तैलप्रद्योतस्य ज्वलतोऽर्चिषा प्रथमाभिनिपातेन सा वर्तिर्दग्धा, उताहो पश्चिमाभिनिपातेनार्चिषा सा वर्तिर्दग्धा? सुभूतिराह - नो हीदं भगवन् । न हि भगवनर्चिषा प्रथमाभिनिपातेन सा वर्तिर्दग्धा । न च प्रथमाभिनिपातमनागम्य अर्चिषा सा वर्तिर्दग्धा । न च भगवन् पश्चिमाभिनिपातेनार्चिषा सा वर्तिर्दग्धा, न च पश्चिमाभिनिपातमनागम्य अर्चिषा सा वर्तिर्दग्धा । भगवानाह - तत्किं मन्यसे सुभूते अपि नु सा वर्तिर्दग्धा? सुभूतिराह - दग्धा भगवन्, दग्धा सुगत । भगवानाह - एवमेव सुभूते न च प्रथमचित्तोत्पादेन बोधिसत्त्वो महासत्त्वोऽनुत्तरां सम्यक्संबोधिमभिसंबुध्यते, न च प्रथमचित्तोत्पादमनागम्य अनुत्तरां सम्यक्संबोधिमभिसंबुध्यते । न च पश्चिमचित्तोत्पादेन अनुत्तरां सम्यक्संबोधिमभिसंबुध्यते, न च पश्चिमचित्तोत्पादमनागम्य अनुत्तरां सम्यक्संबोधिमभिसंबुध्यते । न च तैश्चित्तोपादैर्न चान्यत्र तेभ्यश्चित्तोत्पादेभ्योऽभिसंबुध्यते । अभिसंबुध्यते च बोधिसत्त्वो महासत्त्वोऽनुत्तरां सम्यक्संबोधिम् ॥ एवमुक्ते आयुष्मान् सुभूतिर्भगवन्तमेतदवोचत्- गम्भीरोऽयं भगवन् प्रतीत्यसमुत्पादः । न च नाम भगवन् प्रथमचित्तोत्पादेनैव बोधिसत्त्वो महासत्त्वोऽनुत्तरां सम्यक्संबोधिमभिसंबुध्यते, न च नाम प्रथमचित्तोत्पादमनागम्य अनुत्तरां सम्यक्संबोधिमभिसंबुध्यते । न च नाम पश्चिमचित्तोत्पादेनैव बोधिसत्त्वो महासत्त्वोऽनुत्तरां सम्यक्संबोधिमभिसंबुध्यते, न च नाम पश्चिमचित्तोत्पादमनागम्य अनुत्तरां सम्यक्संबोधिमभिसंबुध्यते, न च नाम तैश्चित्तोत्पादैर्न चान्यत्र तेभ्यश्चित्तोत्पादेभ्योऽभिसंबुध्यते । अभिसंबुध्यते च बोधिसत्त्वो महासत्त्वोऽनुत्तरां सम्यक्संबोधिम् ॥ एवमुक्ते भगवानायुष्मन्तं सुभूतिमेतदवोचत्- तत्किं मन्यसे सुभूते यच्चित्तं निरुद्धम्, अपि नु तत्पुनरुत्पत्स्यते? सुभूतिराह - नो हीदं भगवन् । भगवानाह - तक्तिं मन्यसे सुभूते यच्चित्तमनुत्पन्नम्, अपि नु तन्निरोधधर्मि? आह - निरोधधर्मि भगवन् । भगवानाह - तत्किं मन्यसे सुभूते यन्निरोधधर्मि, अपि नु तन्निरोत्स्यते? आह - नो हीदं भगवन् । भगवानाह - तत्किं मन्यसे सुभूते यच्चित्तमनुत्पन्नम्, अपि नु तन्निरोधधर्मि? आह - नो हीदं भगवन् । भगवानाह - तत्किं मन्यसे सुभूते यन्निरोधधर्मि, अपि नु तन्निरोत्स्यते? आह - नो हीदं भगवन् । भगवानाह - तत्किं मन्यसे सुभूते यच्चित्तमनुत्पादानिरोधधर्मि, (वैद्य १७६) अपि नु तन्निरोत्स्यते? आह - नो हीदं भगवन् । भगवानाह - तत्किं मन्यसे सुभूते यो धर्मः प्रकृत्या स्वभावनिरुद्ध एव, स धर्मो निरोत्स्यते? आह - नो हीदं भगवन् । भगवानाह - तत्किं मन्यसे सुभूते या धर्माणां धर्मता सा निरोत्स्यते? आह - नो हीदं भगवन् । भगवानाह - तत्किं मन्यसे सुभूते तथैव स्थास्यति यथा तथता? आह - तथैव भगवन् स्थास्यति यथा तथता । भगवानाह - तत्किं मन्यसे सुभूते यदि तथैव स्थास्यति यथा तथता, तदा मा कुटस्था भूत्? आह - नो हीदं भगवन् । भगवानाह - तत्किं मन्यसे सुभूते गम्भीरा तथता? आह - गम्भीरा भगवन् । भगवानाह - तत्किं मन्यसे तथतायां चित्तम्? आह - नो हीदं भगवन् । भगवानाह - तत्किं मन्यसे सुभूते चित्तं तथता? आह - नो हीदं भगवन् । भगवानाह - तत्किं मन्यसे सुभूते अन्यत्तथतायाश्चित्तम्? आह - नो हीदं भगवन् । भगवानाह - समनुपश्यसि त्वं सुभूते तथताम्? आह - नो हीदं भगवन् । भगवानाह - तत्किं मन्यसे सुभूते य एवं चरति स गम्भीरे चरति? आह - यो भगवनेवं चरति, स न क्वचिच्चरति । तत्कस्य हेतोः? तथा ह्यस्य ते समुदाचारा न प्रवर्तन्ते, न समुदाचरन्ति । भगवानाह - यः सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितां चरति, स क्व चरति? आह - चरति भगवन् परमार्थे । भगवानाह - तत्किं मन्यसे सुभूते यो बोधिसत्त्वो महासत्त्वः परमार्थे चरति, स निमित्ते चरति? आह - नो हीदं भगवन् । भगवानाह - तत्किं मन्यसे सुभूते अपि नु तस्य निमित्तमविभावितम्? आह - नो हीदं भगवन् । भगवानाह - तत्किं मन्यसे सुभूते अपि नु बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो निमित्तं विभावितं भवति? सुभूतिराह - न स भगवन् बोधिसत्त्वो महासत्त्व एवं प्रयुज्यते - कथमहं बोधिसत्त्वचर्यां चरन्निहैव निमित्तप्रहाणमनुप्राप्नुयामिति । सचेत्पुनरनुप्राप्नुयात्, अप्रतिपूर्णैः सर्वबुद्धधर्मैः श्रावको भवेत् । एतत्तद्भगवन् बोधिसत्त्वस्य महासत्त्वस्योपायकौशल्यं यत्, तच्च निमित्तं जानाति, यल्लक्षणं यन्निमित्तमानिमित्ते च परिजयं करोति ॥ अथ खल्वायुष्मान् शारिपुत्र आयुष्मन्तं सुभूतिमेतदवोचत्- य आयुष्मन् सुभूते बोधिसत्त्वो महासत्त्वः स्वप्नान्तरगतस्त्रीणि विमोक्षमुखानि भावयति - शून्यतामानिमित्तमप्रणिहितं च, अपि नु तस्य प्रज्ञापारमिता विवर्धते? सुभूतिराह - सचेदायुष्मन् शारिपुत्र दिवसभावनया विवर्धते, एवं स्वप्नान्तरगतस्यापि विवर्धते । तत्कस्य हेतोः? अविकल्पो हि आयुष्मन् शारिपुत्र स्वप्नश्च दिवसश्चोक्तो भगवता । सचेदायुष्मन् शारिपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितालाभी दिवसे दिवसे प्रज्ञापारमितायां चरति, ततोऽस्य प्रज्ञापारमिताभ्यासतः स्वप्नान्तरगतस्यापि बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितावैपुल्येन भवितव्यम् । शारिपुत्र आह - यत्पुनरयुष्मन् सुभूते स्त्री वा पुरुषो वा स्वप्नान्तरगतः कर्म शुभमशुभं वा करोति, किं भवति तस्य कर्मण आचयो वा उपचयो वा? सुभूतिराह - यथा स्वप्नोपमाः सर्वधर्मा उक्ता भगवता, तथा न तस्य कर्मणो भवत्याचयो वा उपचयो वा । अथ पुनरायुष्मन् शारिपुत्र स पुरुषः प्रतिविबुद्धः सन् विकल्पयन् हतसंज्ञामुत्पादयति, (वैद्य १७७) भवति तस्य कर्मण आचयो वा उपचयो वा । कथं च आयुष्मन् शारिपुत्र विकल्पयन् हतसंज्ञामुत्पादयति? सचेत्स्वप्नान्तरगतः प्राणातिपातं कृत्वा प्रतिविबुद्धः सन्नेवं विकल्पयति - अहो हतः, साधु हतः, सुष्ठु हतः, मया हतः, इत्येवं विकल्पयन् हतसंज्ञामुत्पादयति । शारिपुत्र आह - सचेदायुष्मन् सुभूते स पुरुषः प्रतिविबुद्धः सन् विकल्पयन् हतसंज्ञामुत्पादयति - अहो हतः, साधु हतः, सुष्ठु हतः, मया हत इति, भवति तस्य कर्मण आचयो वा उपचयो वा? बुद्धो भगवानपि विकल्पयन् क्षयसंज्ञामुत्पादयति । तस्यापि कर्मण आचयो वा उपचयो वा भवेत्? सुभूतिराह - नो हीदमायुष्मन् शारिपुत्र । तत्कस्य हेतोः? सर्वकल्पविकल्पप्रहीणो हि तथागतः । तद्यथापि नाम आकाशमेव आयुष्मन् शारिपुत्र नानारम्बणं कर्मोत्पद्यते, नानारम्बणं चित्तमुत्पद्यते । तस्मात्तर्ह्यायुष्मन् शारिपुत्र सारम्बणमेव कर्मोत्पद्यते, न अनारम्बणम् । सारम्बणमेव चित्तमुत्पद्यते, न अनारम्बणम् । दृष्टश्रुतमतविज्ञातेष्वायुष्मन् शारिपुत्र धर्मेषु बुद्धिः प्रवर्तते । तत्र काचिद्बुद्धिः संक्लेशं परिगृह्णाति, काचिद्बुद्धिर्व्यवदानं परिगृह्णाति । तस्मात्तर्हि आयुष्मन् शारिपुत्र सारम्बणैव चेतनोत्पद्यते न अनारम्बणा, सारम्बणमेव कर्मोत्पद्यते न अनारम्बणम् । शारिपुत्र आह - यदायुष्मन् सुभूते सर्वारम्बणानि विविक्तानि आख्यातानि भगवता, तदा कस्मादायुष्मन् सुभूते सारम्बणैव चेतनोत्पद्यते न अनारम्बणा? सुभूतिराह - निमित्तीकृत्य आयुष्मन् शारिपुत्र विद्यमानमेवारम्बणमारम्बणीकृत्य सारम्बणैव चेतनोत्पद्यते, न अनारम्बणा । चेतनाप्यायुष्मन् शारिपुत्र विविक्ता, निमित्तमपि विविक्तम् । एवमविद्याप्रत्ययाः संस्कारा अपि विविक्ताः, संस्कारप्रत्ययं विज्ञानमपि, यावज्जातिप्रत्ययं जरामरणमपि विविक्तम् । एवमेव आयुष्मन् शारिपुत्र सर्वारम्बणानि विविक्तानि । निमित्तेन विविक्ता चेतना लोकव्यवहारमुपादायोत्पद्यत इति ॥ शारिपुत्र आह - यदायुष्मन् सुभूते बोधिसत्त्वो महासत्त्वः स्वप्नान्तरगतो दानं दद्यात्, तच्च दानमनुत्तरायां सम्यक्संबोधौ परिणामयति । परिणामितं किं तद्दानं वक्तव्यम्? सुभूतिराह - अयमायुष्मन् शारिपुत्र मैत्रेयो बोधिसत्त्वो महासत्त्वः संमुखीभूतः । एष तथागतेन व्याकृतोऽनुत्तरायां सम्यक्संबोधौ । एषोऽत्रार्थे कायसाक्षी । एष प्रष्टव्यः । एष एनमर्थं विसर्जयिष्यति । अथ खल्वायुष्मान् शारिपुत्रो मैत्रेयं बोधिसत्त्वं महासत्त्वमेतदवोचत्- अयमायुष्मन्मैत्रेय सुभूतिः स्थविर एवमाह - मयं मैत्रेयो बोधिसत्त्वो महासत्त्वः । एष एनमर्थं विसर्जयिष्यतीति । विसर्जय आयुष्मन्नजित एनमर्थम् । अथ खलु मैत्रेयो बोधिसत्त्वो महासत्त्व आयुष्मन्तं सुभूतिमेतदवोचत्- यदायुष्मान् सुभूतिरेवमाह - अयं मैत्रेयो बोधिसत्त्वो महासत्त्वः । एष एनमर्थं विसर्जयिष्यतीति । किं पुनरायुष्मन् सुभूते यदेतन्नामधेयं मैत्रेय इति? एतदेनमर्थं विसर्जयिष्यति, उत रूपं विसर्जयिष्यति, उत वेदना संज्ञा संस्काराः, अथ विज्ञानं विसर्जयिष्यति, उताहो वर्णो विसर्जयिष्यति, अथ संस्थानं विसर्जयिष्यति, उताहो या रूपस्य शून्यता, सा विसर्जयिष्यति? एवं या वेदनायाः संज्ञायाः संस्काराणाम्, (वैद्य १७८) या विज्ञानस्य शून्यता, सा विसर्जयिष्यति? या खलु पुनरायुष्मन् सुभूते रूपस्य शून्यता, न सा प्रतिबला विसर्जयितुम् । एवं वेदनायाः संज्ञायाः संस्काराणाम् । या खलु पुनरायुष्मन् सुभूते विज्ञानस्य शून्यता, न सा प्रतिबला विसर्जयितुम् । तमप्यहमायुष्मन् सुभूते धर्मं न समनुपश्यामि, यो धर्मो विसर्जयेत् । तमप्यहं धर्मं न समनुपश्यामि, यो धर्मो विसर्जयितव्यः । तमप्यहं धर्मं न समनुपश्यामि, येन धर्मेण विसर्जयेत् । तमप्यहं धर्मं न समनुपश्यामि, यो धर्मो व्याकृतोऽनुत्तरायां सम्यक्संबोधौ ॥ अथ खल्वायुष्मान् शारिपुत्रो मैत्रेयं बोधिसत्त्वं महासत्त्वमेतदवोचत्- कच्चित्पुनरायुष्मन्मैत्रेय त्वया एते धर्मा एवं साक्षात्कृताः, यथैनान् वाचा भाषसे? मैत्रेय आह - न मया आयुष्मन् शारिपुत्र एते धर्मा एवं साक्षात्कृताः, यथैनान् वाचा भाषे । एवमप्यहमेनानायुष्मन् शारिपुत्र धर्मान्न वेद्मि, नोपलभे, न समनुपश्यामि, यथा वाचा भाषे, चित्तेन वा चिन्तयामि । अपि तु खलु पुनरायुष्मन् शारिपुत्र न कायेन स्पृश्येत, न वाचा भाष्येत, न मनसा समन्वाह्रियेत । एवंस्वभावाः सर्वे धर्मा अस्वभावत्वात् । अथ खल्वायुष्मतः शारिपुत्रस्यैतदभूत्- गम्भीरप्रज्ञो बतायं मैत्रेयो बोधिसत्त्वो महासत्त्वः, यथापि नाम दीर्घरात्रं प्रज्ञापारमितायां चरितावी निर्दिशति ॥ अथ खलु भगवानायुष्मन्तं शारिपुत्रमामन्त्रयते स्म - कुतस्ते शारिपुत्र एतदभूत्- गम्भीरप्रज्ञो बतायं मैत्रेयो बोधिसत्त्वो महासत्त्व इति? समनुपश्यसि त्वं शारिपुत्र तं धर्मं येन धर्मेण समन्वागतोऽर्हन्निति प्रभाव्यते? शारिपुत्र आह - न ह्येतद्भगवन् । भगवानाह - एवमेव शारिपुत्र बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो नैवं भवति - अयं धर्मो व्याकृतोऽनुत्तरायां सम्यक्संबोधौ, अयं धर्मो व्याकरिष्यतेऽनुत्तरायां सम्यक्संबोधौ, अयं धर्मो व्याक्रियतेऽनुत्तरायां सम्यक्संबोधौ, अयं धर्मोऽनुत्तरां सम्यक्संबोधिमभिसंभोत्स्यते । एवं चरन् बोधिसत्त्वो महासत्त्वश्चरति प्रज्ञापारमितायाम् । स चरन्नोत्रस्यति, न संत्रस्यति, न संत्रासमापद्यते । लब्धबलाधानत्वान्नाहं नाभिसंभोत्स्य इत्येवं योगमापद्यते । सचेदेवं चरति, चरति प्रज्ञापारमितायाम् ॥ पुनरपरं शारिपुत्र व्यालकान्तारमध्यगतेन बोधिसत्त्वेन महासत्त्वेन नोत्रसितव्यम्, न संत्रसितव्यम्, न संत्रासमापत्तव्यम् । तत्कस्य हेतोः? तथा हि तेन बोधिसत्त्वेन महासत्त्वेन सर्वं परित्यक्तव्यं सर्वसत्त्वानामर्थाय । तेनैवं चित्तमुत्पादयितव्यम् - यदि चेन्मां व्याला भक्षयेयुः, तेभ्य एव तद्दानं दत्तं भवतु । मम च दानपारमितापरिपूरिर्भविष्यति । अनुत्तरा च मे सम्यक्संबोधिरासन्नीभविष्यति । तथा च करिष्यामि, यथा मे अनुत्तरां सम्यक्संबोधिमभिसंबुद्धस्य सतः तिर्यग्योनिगताः सत्त्वाः सर्वेण सर्वं सर्वथा सर्वं सर्वत्र मे बुद्धक्षेत्रे न भविष्यन्ति, न प्रज्ञास्यन्ते, दिव्योपभोगपरिभोगाश्च भविष्यन्तीति ॥ पुनरपरं शारिपुत्र चोरकान्तारमध्यगतेन बोधिसत्त्वेन महासत्त्वेन नोत्रसितव्यम्, न संत्रसितव्यम्, न संत्रासमापत्तव्यम् । तत्कस्य हेतोः? सर्वस्वपरित्यागकुशलाभिरता हि (वैद्य १७९) बोधिसत्त्वा महासत्त्वा भवन्ति । उत्सृष्टकायेनापि च बोधिसत्त्वेन महासत्त्वेन भवितव्यं परित्यक्तसर्वपरिष्कारोपकरणेन । तेनैवं चित्तमुत्पादयितव्यम् - सचेन्मम सत्त्वाः सर्वपरिष्कारोपकरणानि हरेयुः, तेभ्य एव तद्दानं दत्तं भवतु । यदि चेन्मां केचिज्जीविताद्व्यपरोपयेयुः, तत्र न मया व्यापादक्रोधरोषा उत्पादयितव्याः । तेषामपि च मया न कायेन न वाचा न मनसा अपराद्धव्यम् । एवं च मे तस्मिन् समये दानपारमिता च शीलपारमिता च क्षान्तिपारमिता च परिपूरिं गमिष्यति । अनुत्तरा च मे सम्यक्संबोधिरभ्यासन्नीभविष्यति । तथा च करिष्यामि, तथा च प्रतिपत्स्ये, यथा अनुत्तरां सम्यक्संबोधिमभिसंबुद्धस्य सतश्चोरकान्ताराण्यपि तस्मिन् बुद्धक्षेत्रे सर्वेण सर्वं सर्वथा सर्वं न भविष्यन्ति, न प्रज्ञास्यन्ते । तथा च बुद्धक्षेत्रपरिशुद्धये व्यापत्स्ये, यथा मे अनुत्तरां सम्यक्संबोधिमभिसंबुद्धस्य सतस्तस्मिन् बुद्धक्षेत्रे एते चान्ये च दोषाः सर्वेण सर्वं सर्वथा सर्वं न भविष्यन्ति, न प्रज्ञास्यन्ते ॥ पुनरपरं शारिपुत्रं पानीयकान्तारमध्यगतेन बोधिसत्त्वेन महासत्त्वेन नोत्रसितव्यं न संत्रसितव्यं न संत्रासमापत्तव्यम् । तत्कस्य हेतोः? असंत्रस्तानुत्रस्तधर्माणो हि बोधिसत्त्वा महासत्त्वा भवन्ति । एवं चानेन चित्तमुत्पादयितव्यम् - सर्वसत्त्वानां मया सर्वतृष्णाच्छेदाय शिक्षितव्यम् । न च बोधिसत्त्वेन महासत्त्वेनोत्रसितव्यम्, न संत्रसितव्यम्, न संत्रासमापत्तव्यम् । सचेदहं तृष्णया कालं करिष्यामि, प्रेतलोके ममोपपत्तिर्भविष्यतीति । अपि तु खलु पुनः सर्वसत्त्वानामन्तिके महाकरुणाचित्तमुत्पादयितव्यम् - अहो बत अल्पपुण्या अमी सत्त्वाः, यदेतेषां लोके एवंरूपाणि पानीयकान्ताराणि प्रज्ञायन्ते । तथा पुनरहं करिष्यामि, तथा प्रतिपत्स्ये, यथा मे अनुत्तरां सम्यक्संबोधिमभिसंबुद्धस्य सतस्तस्मिन् बुद्धक्षेत्रे सर्वेण सर्वं सर्वथा सर्वं पानीयकान्ताराणि न भविष्यन्ति, न प्रज्ञास्यन्ते । तथा च सर्वसत्त्वान् पुण्यैः संनियोक्ष्ये, यथा अष्टाङ्गोपेतपानीयलाभिनोऽमी भविष्यन्ति । तथा च दृढं वीर्यमारप्स्ये सर्वसत्त्वानां कृतशः, यथा वीर्यपारमिता च मे तस्मिन् समये परिपूरिं गमिष्यतीति ॥ पुनरपरं शारिपुत्र बुभुक्षाकान्तारमध्यगतेन बोधिसत्त्वेन महासत्त्वेन नोत्रसितव्यं न संत्रसितव्यं न संत्रासमापत्तव्यम् । एवं चानेन संनाहः संनाह्यः - तथा दृढं वीर्यमारप्स्ये, तथा च स्वं बुद्धक्षेत्रं परिशोधयिष्यामि, यथा मे अनुत्तरां सम्यक्संबोधिमभिसंबुद्धस्य सतस्तस्मिन् बुद्धक्षेत्रे एवंरूपाणि बुभुक्षाकान्ताराणि सर्वेण सर्वं सर्वथा सर्वं न भविष्यन्ति, न प्रज्ञास्यन्ते । सुखिता एव ते सत्त्वा भविष्यन्ति सुखसमङ्गिनः सर्वसुखसमर्पिताः । तथा च करिष्यामि, यथा तेषां सत्त्वानां यो य एवाभिप्रायो भविष्यति, यद्यदेवाकाङ्क्षिष्यन्ति मनसा, तत्तदेव प्रादुर्भविष्यति तद्यथापि नाम देवानां त्रायस्त्रिंशानां मनसैव सर्वमुत्पद्यते, यथा तेषां सत्त्वानां मनसैव सर्वं प्रादुर्भविष्यति, मनसा सर्वमुत्पत्स्यते, तथा दृढं वीर्यमारप्स्ये । यथा तेषां सत्त्वानां धार्मिका अभिप्रायाः परिपूरिं गमिष्यन्ति, अवैकल्यं च जीवितपरिष्कारैः सर्वसत्त्वानां (वैद्य १८०) भविष्यति सर्वथा सर्वतः सर्वदा, तथा च स्वचित्तपरिशुद्धये व्यायंस्ये सर्वसत्त्वानां कृतशः, यथा ध्यानपारमिता च मे तस्मिन् समये परिपूरिं गमिष्यतीति ॥ पुनरपरं शारिपुत्र व्याधिकान्तारमध्यगतेन बोधिसत्त्वेन महासत्त्वेन नोत्रसितव्यं न संत्रसितव्यं न संत्रासमापत्तव्यम् । एवं चानेनोपपरीक्षितव्यं चिन्तयितव्यं तुलयितव्यम् - नेह स कश्चिद्धर्मो यो व्याध्या बाध्यते, नापि स कश्चिद्धर्मो यो व्याधिर्नाम । एवं तेन शून्यता प्रत्यवेक्षितव्या । न चोत्रसितव्यं न संत्रसितव्यं न संत्रासमापत्तव्यम् । न च शारिपुत्र बोधिसत्त्वेन महासत्त्वेनैवं चित्तमुत्पादयितव्यम् - चिरेणानुत्तरां सम्यक्संबोधिमभिसंभोत्स्ये इति नोत्रसितव्यं न संत्रसितव्यं न संत्रासमापत्तव्यम् । तत्कस्य हेतोः? यो हि चित्तक्षणः, इयती सैषा अपूर्वा कोटिर्यदुत अकोटिः । एवं तेन बोधिसत्त्वेन महासत्त्वेन न दुष्करसंज्ञोत्पादयितव्या - बह्वी दीर्घा चैषा अपूर्वा कोटिरिति, एकचित्तक्षणसमायुक्ता ह्येषा अपूर्वा कोटिर्यदुत अकोटिः । एवं शारिपुत्र बोधिसत्त्वेन महासत्त्वेन चिरेणानुत्तरां सम्यक्संबोधिमभिसंभोत्स्ये इति नोत्रसितव्यं न संत्रसितव्यं न संत्रासमापत्तव्यम् । यः खलु पुनः शारिपुत्र बोधिसत्त्वो महासत्त्व एभ्यश्चान्येभ्यश्च दृष्टश्रुतमतविज्ञातेभ्यो भयभैरवेभ्यो नोत्रस्यति न संत्रस्यति न संत्रासमापद्यते, ज्ञातव्यमिदं शारिपुत्र भव्योऽयं कुलपुत्रो वा कुलदुहिता वा अनुत्तरां सम्यक्संबोधिमभिसंबोद्धुमिति । एवं च शारिपुत्र बोधिसत्त्वेन महासत्त्वेन महासंनाहः संनद्धव्यः - तथा करिष्यामि, तथा दृढं वीर्यमारप्स्ये, यथा मे अनुत्तरां सम्यक्संबोधिमभिसंबुद्धस्य सतस्तस्मिन् बुद्धक्षेत्रे सर्वसत्त्वानां सर्वेण सर्वं सर्वथा सर्वं सर्वव्याधयो न भविष्यन्ति, न प्रज्ञास्यन्ते । तथा करिष्यामि, यथा तथागतानामुक्तवादी यथोक्तकारी च भविष्यामि । तथा च प्रज्ञापारमितायां परिजयं करिष्यामि सर्वसत्त्वानां कृतशः, यथा प्रज्ञापारमितापि मे तस्मिन् समये परिपूरिं गमिष्यतीति ॥ अथ खलु तत्र पर्षदि अन्यतरा स्त्री संनिपतिता संनिषण्णाभूत् । सा उत्थायासनादेकांसमुत्तरासङ्गं कृत्वा दक्षिणं जानुमण्डलं पृथिव्यां प्रतिष्ठाप्य येन भगवांस्तेनाञ्जलिं प्रणम्य भगवन्तमेतदवोचत्- अहं भगवनत्र स्थाने नोत्रसिष्यामि, न संत्रसिष्यामि, न संत्रासमापत्स्ये । अनुत्रस्ता च असंत्रस्ता च सर्वसत्त्वेभ्यो धर्मं देशयिष्यामीति । अथ खलु भगवांस्तस्यां वेलायां सुवर्णवर्णस्मितं प्रादुरकरोत् । तदनन्तापर्यन्तान् लोकधातूनाभया स्फरित्वा यावद्ब्रह्मलोकमभ्युद्गम्य पुनरेव प्रत्युदावृत्य भगवन्तं त्रिः प्रदक्षिणीकृत्य भगवत एव मूर्ध्नि अन्तरधीयत । समनन्तरं प्रादुष्कृते च भगवता तस्मिन् स्मिते अथ खलु सा स्त्री सुवर्णपुष्पाणि गृहीत्वा भगवन्तं सुवर्णपुष्पैरभ्यवाकिरदभिप्राकिरत् । अथ खलु तानि सुवर्णपुष्पाण्यसक्तानि अन्तरीक्षे विहायसि स्थितान्यभूवन् ॥ अथ खल्वायुष्मानानन्द उत्थायासनादेकांसमुत्तरासङ्गं कृत्वा दक्षिणं जानुमण्डलं पृथिव्यां प्रतिष्ठाप्य येन भगवांस्तेनाञ्जलिं प्रणम्य भगवन्तमेतदवोचत्- को भगवन् हेतुः, (वैद्य १८१) कः प्रत्ययः स्मितस्य प्रादुष्करणाय? नाहेतुकं नाप्रत्ययं तथागता अर्हन्तः सम्यक्संबुद्धाः स्मितं प्रादुष्कुर्वन्ति । एवमुक्ते भगवानायुष्मन्तमानन्दमेतदवोचत्- इयमानन्द गङ्गदेवा भगिनी अनागतेऽध्वनि सुवर्णपुष्पो नाम तथागतो भविष्यति अर्हन् सम्यक्संबुद्धो विद्याचरणसंपन्नः सुगतो लोकविदनुत्तरः पुरुषदम्यसारथिः शास्ता देवानां च मनुष्याणां च । बुद्धो भगवांल्लोक उत्पत्स्यते, तारकोपमे कल्पेऽनुत्तरां सम्यक्संबोधिमभिसंभोत्स्यते । सेयमानन्द गङ्गदेवा भगिनी स्त्रीभावं विवर्त्य पुरुषभावं प्रतिलभ्य इतश्च्युत्वा अक्षोभ्यस्य तथागतस्यार्हतः सम्यक्संबुद्धस्य बुद्धक्षेत्रे अभिरत्यां लोकधातावुपपत्स्यते । तत्र चोपपन्ना अक्षोभ्यस्य तथागतास्यार्हतः सम्यक्संबुद्धस्यान्तिके ब्रह्मचर्यं चरिष्यति । ततश्च्युता सती बुद्धक्षेत्राद्बुद्धक्षेत्रं संक्रमिष्यति अविरहिता तथागतदर्शनेन । ततोऽपि बुद्धक्षेत्राद्बुद्धक्षेत्राणि संक्रमिष्यति । यान्यविरहितानि भविष्यन्ति बुद्धैर्भगवद्भिस्तत्र तत्र संक्रमिष्यति । तद्यथापि नाम आनन्द राजा चक्रवर्तीं प्रासादात्प्रासादं संक्रामेत्, स यावज्जीवं पादतलाभ्यां धरणीतलं नाक्रामेत्, स यावन्मरणावस्थायां भूमितलं पभ्द्यामनाक्रम्य कालं कुर्यात्, एवमेव आनन्द इयं गङ्गदेवा भगिनी बुद्धक्षेत्रं संक्रमिष्यति । तत्र च अविरहिता भविष्यति बुद्धर्भगवद्भिर्यावन्नानुत्तरां सम्यक्संबोधिमभिसंबुध्यते ॥ अथ खल्वायुष्मत आनन्दस्यैतदभूत्- ये तत्राक्षोभ्यस्य तथागतास्यार्हतः सम्यक्संबुद्धस्यान्तिके बोधिसत्त्वा महासत्त्वा भविष्यन्ति, तथागतसंनिपात एव स वेदितव्यः । अथ खलु भगवानायुष्मत आनन्दस्य इममेवंरूपं चेतसैव चेतःपरिवितर्कमाज्ञाय आयुष्मन्तमानन्दमेतदवोचत्- एवमेतदानन्द, एवमेतत् । उत्तीर्णपङ्कास्ते बोधिसत्त्वा महासत्त्वाः, ये अक्षोभ्यस्य तथागतस्यार्हतः सम्यक्संबुद्धस्य बुद्धक्षेत्रे ब्रह्मचर्यं चरन्ति । बोधिपरिनिष्पत्युपगतास्ते आनन्द बोधिसत्त्वा महासत्त्वा वेदितव्याः । तस्य खलु पुनरानन्द सुवर्णपुष्पस्य तथागतस्यार्हतः सम्यक्संबुद्धस्य न प्रमाणबद्धः श्रावकसंघो भविष्यति । तत्कस्य हेतोः? तावन्तो ह्यानन्द तत्र श्रावका भविष्यन्ति येषां नास्ति प्रमाणम् । अपि त्वप्रमेया असंख्येया इत्येवं संख्यां गमिष्यन्ति । तेन खलु पुनरानन्द कालेन तेन समयेन तस्मिन् बुद्धक्षेत्रे न व्यालकान्ताराणि भविष्यन्ति, न चौरकान्ताराणि न पानीयकान्ताराणि न व्याधिकान्ताराणि न दुर्भिक्षकान्ताराणि भविष्यन्ति । एतानि चान्यानि च आनन्द असातकान्ताराणि तस्मिन् बुद्धक्षेत्रे सर्वेण सर्वं सर्वथा सर्वं न भविष्यन्ति, न प्रज्ञास्यन्ते । सुवर्णपुष्पस्य खलु पुनरानन्द तथागतस्यार्हतः सम्यक्संबुद्धस्य अनुत्तरां सम्यक्संबोधिमभिसंबुद्धस्य इमान्येवंरूपाणि भयभैरवकान्ताराणि सर्वेण सर्वं सर्वथा सर्वं तदानीं न भविष्यन्ति, न प्रज्ञास्यन्ते ॥ एवमुक्ते आयुष्मानानन्दो भगवन्तमेतदवोचत्- अनया भगवन् गङ्गदेवया भगिन्या कतमस्य तथागतस्यान्तिके प्रथमचित्तोत्पादकुशलमूलमवरोपितमनुत्तरायां सम्यक्संबोधौ? एवमुक्ते भगवानायुष्मन्तमानन्दमेतदवोचत्- अनया आनन्द गङ्गदेवया भगिन्या दीपंकरस्य (वैद्य १८२) तथागतस्यार्हतः सम्यक्संबुद्धस्यान्तिके प्रथमचित्तोत्पादकुशलमूलमवरोपितम्, अनुत्तरायां सम्यक्संबोधौ परिणामितं च । स च दीपंकरस्तथागतोऽर्हन् सम्यक्संबुद्धः सुवर्णपुष्पैरेवावकीर्णोऽनुत्तरां सम्यक्संबोधिं प्रार्थयमानया । यदा मया पञ्चभिरुत्पलैर्दीपंकरस्तथागतोऽर्हन् सम्यक्संबुद्धोऽवकीर्णः, अनुत्पत्तिकेषु च मया धर्मेषु क्षान्तिः प्रतिलब्धा, ततोऽहं दीपंकरेण तथागतेनार्हता सम्यक्संबुद्धेन व्याकृतोऽनुत्तरायां सम्यक्संबोधौ - भविष्यसि त्वं माणवक अनागतेऽध्वनि शाक्यमुनिर्नाम तथागतोऽर्हन् सम्यक्संबुद्धो विद्याचरणसंपन्नः सुगतो लोकविदनुत्तरः पुरुषदम्यसारथिः शास्ता देवानां च मनुष्याणां च बुद्धो भगवानिति । तदा एतस्या भगिन्या मम व्याकरणं श्रुत्वा एवं चित्तमुदपादि - अहो बत अहमप्येवं व्याक्रियेय अनुत्तरायां सम्यक्संबोधौ यथायं माणवको व्याकृतोऽनुत्तरायां सम्यक्संबोधौ । एवं च आनन्द एतस्या भगिन्या दीपंकरस्य तथागतस्यार्हतः सम्यक्संबुद्धस्यान्तिके प्रथमचित्तोत्पादकुशलमूलमवरोपितमभूदनुत्तरायां सम्यक्संबोधौ । एवमुक्ते आयुष्मानानन्दो भगवन्तमेतदवोचत्- कृतपरिकर्मा बतेयं भगवन् कृतपर्यन्ता गङ्गदेवा भगिनी व्याकृता अनुत्तरायां सम्यक्संबोधौ । एवमुक्ते भगवानायुष्मन्तमानन्दमेतदवोचत्- एवमेतदानन्द, एवमेतत्यथा वदसि - कृतपरिकर्मा बतेयं कृतपर्यन्ता गङ्गदेवा भगिनी व्याकृता अनुत्तरायां सम्यक्संबोधाविति ॥ आर्याष्टसाहस्रिकायां प्रज्ञापारमितायां गङ्गदेवीभगिनीपरिवर्तो नाम एकोनविंशतितमः ॥ _______________________________________________________________ (वैद्य १८३) २०: उपायकौशल्यमीमांसापरिवर्तो विंशतितमः । अथ खल्वायुष्मान् सुभूतिर्भगवन्तमेतदवोचत्- प्रज्ञापारमितायां भगवंश्चरता बोधिसत्त्वेन महासत्त्वेन कथं शून्यतायां परिजयः कर्तव्यः, कथं वा शून्यतासमाधिः समापत्तव्यः? भगवानाह - इह सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता रूपं शून्यमिति प्रत्यवेक्षितव्यम् । एवं वेदना संज्ञा संस्काराः । विज्ञानं शून्यमिति प्रत्यवेक्षितव्यम् । तथा च प्रत्यवेक्षितव्यमविक्षिप्तया चित्तसंतत्या यथा प्रत्यवेक्षमाणो रूपमिति तां धर्मतां धर्मतया न समनुपश्येत् । तां च असमनुपश्यन् धर्मतां न साक्षात्कुर्याद्भूतकोटिम् । एवमुक्ते आयुष्मान् सुभूतिर्भगवन्तमेतदवोचत्- यद्भगवानेवमाह - न बोधिसत्त्वेन महासत्त्वेन शून्यता साक्षात्कर्तव्येति । कथं भगवन् तस्मिन् समाधौ स्थितो बोधिसत्त्वो महासत्त्वः शून्यतां न साक्षात्करोति? भगवानाह - यतः सुभूते बोधिसत्त्वो महासत्त्वः सर्वाकारवरोपेतां शून्यतां प्रत्यवेक्षते, न च साक्षात्करिष्यामीति प्रत्यवेक्षते, न च साक्षात्कर्तव्येति प्रत्यवेक्षते, परिजयं करिष्यामीति प्रत्यवेक्षते, परिजयस्यायं कालः, नायं कालः साक्षात्क्रियाया इति प्रत्यवेक्षते, असमाहित एवारम्बणे चित्तमुपनिबध्नाति - प्रज्ञापारमिता च मे परिगृहीता भविष्यति, न च साक्षात्कृतेति । अत्रान्तरा बोधिसत्त्वो महासत्त्वो न परिहीयते बोधिपक्षैर्धर्मैः, न च आस्रवक्षयं करोति, अत्र च परिजयं करोति । यस्मिन् समये बोधिसत्त्वो महासत्त्वः शून्यतासमाधिविमोक्षमुखेन विहरति, तस्मिन् समये बोधिसत्त्वेन महासत्त्वेन आनिमित्तेन च समाधिना विहर्तव्यम्, न च आनिमित्तं साक्षात्कर्तव्यम् । तत्कस्य हेतोः? एवमारूढकुशलमूलधर्मसमन्वागतो हि बोधिसत्त्वो महासत्त्वः - परिपाकस्यायं कालः, नायं कालः साक्षात्क्रियाया इति प्रत्यवेक्षते । प्रज्ञापारमितया च परिगृहीतो भूतकोटिं न साक्षात्करोति । तद्यथापि नाम सुभूते कश्चिदेव पुरुषः परमशूरश्च भवेत्, परमवीर्यसमन्वागतश्च भवेत्, दृढप्रतिष्ठानश्च भवेत्, अभिरूपश्च भवेत्, प्रासादिकश्च भवेत्, परमदर्शनीयश्च भवेत्, बहुगुणसमन्वागतश्च भवेत्, परमगुणसमन्वागतश्च भवेत्, परमैश्वर्यशीलश्रुतत्यागादिगुणैश्च समन्वागतो भवेत्, मेधावी च भवेत्, वचनसमर्थश्च भवेत्, प्रतिभानसंपन्नश्च भवेत्, प्रतिपत्तिसंपन्नश्च भवेत्, कालज्ञश्च भवेत्, देशज्ञश्च भवेत्, स्थानज्ञश्च भवेत्, इष्वस्त्रे च परमगतिं गतो भवेत्, बहुप्रहरणावरणश्च भवेत्, सर्वासु च कलासु परमकुशलो भवेत्, सुपरिनिष्पन्नतया सर्वेष्वेव च शिल्पस्थानेषु परमगतिको भवेत्, स्मृतिमांश्च भवेत्, मतिमांश्च भवेत्, गतिमांश्च भवेत्, धृतिमांश्च भवेत्, नीतिमांश्च भवेत्, सर्वशास्त्रविशारदश्च भवेत्, मित्रवांश्च भवेत्, अर्थवांश्च भवेत्, बलवांश्च भवेत्, अहीनाङ्गश्च भवेत्, परिपूर्णेन्द्रियश्च भवेत्, सर्वोपकरणसंपन्नश्च भवेत्, बहुजनस्य च प्रियो मनआपश्च भवेत् । स यद्यदेव किंचित्कार्यमारभेत, तत्र तत्र सर्वत्र निस्तरणसमर्थो भवेत्, नयेन च व्यवहरेत्, सर्वत्र चास्य महालाभो भवेत् । तेन महालाभेन समन्वागतः सन् बहुजनं संविभजेत्, सत्कर्तव्यं च सत्कुर्यात्, गुरुकर्तव्यं च गुरुकुर्यात्, मानयितव्यं च मानयेत्, (वैद्य १८४) पूजयितव्यं च पूजयेत् । तत्किं मन्यसे सुभूते अपि नु स पुरुषस्ततोनिदानं भूयस्या मात्रया आत्तमनस्को भवेत्, प्रमुदितश्च भवेत्, प्रीतिसौमनस्यजातश्च भवेत्? सुभूतिराह एवमेतद्भगवन्, एवमेतत्सुगत । भगवानाह - स खलु पुनः सुभूते पुरुषस्तया महासंपत्त्या समन्वागतो मातापितृपुत्रदारान् गृहीत्वा केनचिदेव कारणसामग्रीयोगेन महाटवीकान्तारं प्रतिपन्नो भवेत्महाप्रतिभयं बालानां भीषणं रोमहर्षणम् । स तत्र प्रविष्टः संस्तान्मातापितृपुत्रदारानभयेनाभिनिमन्त्रयेत्- मा भैष्ट, मा भैष्ट, अहमितो युष्मान्महाभयभैरवादटवीकान्तारात्क्षेमेण स्वस्तिना शीघ्रमपक्रामयिष्यामि, शीघ्रं परिमोचयिष्यामीति । तत्र खलु पुनः सुभूते अटवीकान्तारे तस्य पुरुषस्य बहवः प्रत्यर्थिकाः बहवः प्रत्यमित्राः प्रत्युपस्थिता भवेयुः । तत्किं मन्यसे सुभूते अपि नु स शूरः पुरुषस्तैः प्रत्यर्थिकैः प्रत्यमित्रैरभ्युत्थितैरविनिवर्त्यो दृढवीर्यबलसमन्वागतः प्रज्ञावानतिस्निग्धः सानुक्रोशो धीरो महासंभारसमन्वागतस्तान्मातापितृपुत्रदारान् परित्यज्य ततो महाभयभैरवादटवीकान्तारादात्मानमेकमपक्रामयितव्यं मन्येत? सुभूतिराह - नो हीदं भगवन् । तत्कस्य हेतोः? तथा हि भगवंस्तस्य पुरुषस्य तन्मातापितृपुत्रदारमपरित्यक्तम्, आध्यात्मिकश्च बाह्यश्च बलवान् संभारः । तस्य तत्र अटवीकान्तारे बहुतरकाश्च शूरतरकराश्च दृढप्रहरणतरकराश्च तेषां प्रत्यर्थिकानां प्रत्यमित्राणामन्ये उदारतरकाः प्रत्यर्थिकाः प्रत्यमित्रास्तिष्ठन्ति रक्षन्ति । ते तस्य प्रत्यर्थिकाः प्रत्यमित्रा अवतारप्रेक्षिणोऽवतारगवेषिणोऽवतारं न लप्स्यन्ते । तेन स भगवन् प्रतिबलः पुरुषोऽक्षतोऽनुपहतस्तन्मातापितृपुत्रदारमात्मानं च ततो महाभयभैरवादटवीकान्ताराच्छक्तः क्षेमेण स्वस्तिना शीघ्रमपक्रामयितुं यावद्ग्रामं वा नगरं वा निगमं वा अनुप्राप्तः स्यात् ॥ एवमुक्ते भगवानायुष्मन्तं सुभूतिमेतदवोचत्- एवमेव सुभूते बोधिसत्त्वो महासत्त्वः सर्वसत्त्वहितानुकम्पी मैत्रीविहारी करुणाविहारी मुदिताविहारी उपेक्षाविहारी उपायकौशल्येन प्रज्ञापारमितया च परिगृहीतः कुशलमूलानि सम्यग्बुद्धानुज्ञातया परिणामनया परिणाम्य किंचापि शून्यतामानिमित्तमप्रणिहितं च समाधिविमोक्षमुखान्यवतरति, न त्वेव भूतकोटिं साक्षात्करोति, यदुत श्रावकभूमौ वा प्रत्येकबुद्धभूमौ वा । तत्कस्य हेतोः? तथा ह्यस्य बलवत्तमा दृढतमाश्च परिग्राहकाः, यदुत प्रज्ञापारमिता उपायकौशल्यं च । तेन अस्यापरित्यक्ताः सर्वसत्त्वाः, तेनैष प्रतिबलः स्वस्तिना क्षेमेण अनुत्तरां सम्यक्संबोधिमभिसंबोद्धुम् । यस्मिन् समये सुभूते बोधिसत्त्वो महासत्त्वः सर्वसत्त्वानामन्तिके मैत्रीचित्तमारम्बणीकृत्य तान् परमया मैत्र्या परिबध्नाति, अत्रान्तरे बोधिसत्त्वो महासत्त्वः क्लेशपक्षं मारपक्षं चातिक्रम्य श्रावकभूमिं प्रत्येकबुद्धभूमिं चातिक्रम्य तत्र समाधाववतिष्ठते । अप्राप्तश्च स सुभूते आस्रवक्षयं परमपारमितायां शून्यतायां परिजयं करोति । यस्मिन् समये सुभूते बोधिसत्त्वो महासत्त्वः शून्यतासमाधिविमोक्षमुखेन विहरति, अत्रान्तरे बोधिसत्त्वो महासत्त्वो न चेदानीं नानिमित्तेन समाधिना विहरति । न चानेन आनिमित्तः समाधिः साक्षात्कृतो (वैद्य १८५) भवति । तद्यथापि नाम सुभूते पक्षी शकुनिराकाशेऽन्तरीक्षे चरति, न च भूमौ पतति, न च कंचिन्निश्रयं निश्रित्य तिष्ठति, आकाश एवान्तरीक्षे विहरति, न च तत्रापि निश्रितो न प्रतिष्ठितः । एवमेव सुभूते बोधिसत्त्वो महासत्त्वः शून्यताविहारेण विहरति, शून्यतायां परिजयं करोति, आनिमित्तविहारेण च विहरति, आनिमित्ते च परिजयं करोति, अप्रणिहितविहारेण च विहरति, अप्रणिहिते च परिजयं करोति । न च शून्यतायां वा आनिमित्ते वा अप्रणिहिते वा पतत्यपरिपूर्णैर्बुद्धधर्मैः । तद्यथापि नाम सुभूते बलवानिष्वस्त्राचार्य इष्वस्त्रशिक्षायां सुशिक्षितः सुपरिनिष्ठितः । स ऊर्ध्वं काण्डं क्षिपेत् । ऊर्ध्वं काण्डं क्षिप्त्वा तदन्यैः काण्डैस्तत्काण्डं भूमौ पतत्प्रतिनिवारयेत्, वारयेत्, तस्य पौर्वकस्य काण्डस्य काण्डपरंपरया भूमौ पतनं न दद्यात्, तावत्तत्काण्डं भूमौ न पतत्, यावन्नाकाङ्क्षेत्- अहो बतेदं काण्डं भूमौ पतेदिति । एवमेव सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरनुपायकौशल्यपरिगृहीतः तावत्तां परमां भूतकोटिं न साक्षात्करोति, यावन्न तानि कुशलमूलान्यनुत्तरायां सम्यक्संबोधौ परिपक्वानि सुपरिपक्वानि । यदा तानि कुशलमूलान्यनुत्तरायां सम्यक्संबोधौ परिपक्वानि भवन्ति सुपरिपक्वानि, तदा तां परमां भूतकोटिं साक्षात्करोति । तस्मात्तर्हि सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता प्रज्ञापारमितां भावयता एवमेतेषां धर्माणां गम्भीरधर्मता प्रत्यवेक्षितव्या उपनिध्यातव्या, न च साक्षात्कर्तव्या ॥ एवमुक्ते आयुष्मान् सुभूतिर्भगवन्तमेतदवोचत्- दुष्करकारको भगवन् बोधिसत्त्वो महासत्त्वः । परमदुष्करकारको भगवन् बोधिसत्त्वो महासत्त्वः, यः शून्यतायां चरति, शून्यतया च विहरति, शून्यतां च समाधिं समापद्यते, न च भूतकोटिं साक्षात्करोति । अत्याश्चर्यमिदं भगवन्, परमाश्चर्यमिदं सुगत । एवमुक्ते भगवानायुष्मन्तं सुभूतिमेतदवोचत्- एवमेतत्सुभूते, एवमेतत् । दुष्करकारको बोधिसत्त्वो महासत्त्वः । परमदुष्करकारको बोधिसत्त्वो महासत्त्वः यः शून्यतायां चरति, शून्यतायां च विहरति, शून्यतां च समाधिं समापद्यते, न च भूतकोटिं साक्षात्करोति । तत्कस्य हेतोः? तथा हि सुभूते बोधिसत्त्वस्य महासत्त्वस्य सर्वसत्त्वा अपरित्यक्ताः । तस्येमे एवंरूपाः प्रणिधानविशेषा भवन्ति - मयैते सर्वसत्त्वाः परिमोचयितव्या इति । यदा बोधिसत्त्वो महासत्त्व एवं चित्तमभिनिर्हरति - सर्वसत्त्वा ममापरित्यक्ताः, मयैते परिमोचयितव्या इति, शून्यतां च समाधिविमोक्षमुखमभिनिर्हरति, आनिमित्तं च समाधिविमोक्षमुखमभिनिर्हरति, अप्रणिहितं च समाधिविमोक्षमुखमभिनिर्हरति, तदा उपायकौशल्यसमन्वागतो बोधिसत्त्वो महासत्त्वो वेदितव्यः - नायमन्तरा भूतकोटिं साक्षात्करिष्यत्यपरिपूर्णैर्बुद्धधर्मैः । तत्कस्य हेतोः? तथा हि अस्योपायकौशल्यं रक्षां करोति । स चैवास्य चित्तोत्पादो यत्तस्य सर्वसत्त्वा अपरित्यक्ताः । स एवमनेन चित्तोत्पादेनोपायकौशल्येन समन्वागतोऽन्तरा भूतकोटिं न साक्षात्करोति ॥ पुनरपरं सुभूते यदा बोधिसत्त्वो महासत्त्व इमानि गम्भीराणि स्थानानि प्रत्यवेक्षते, प्रत्यवेक्षितुकामो वा भवति - तद्यथा शून्यतां समाधिविमोक्षमुखम्, आनिमित्तं समाधिविमोक्षमुखम्, (वैद्य १८६) अप्रणिहितं समाधिविमोक्षमुखम्, तेनैवं चित्तमभिनिर्हर्तव्यम् - दीर्घरात्रममी सत्त्वाः सत्त्वसंज्ञया उपलम्भे चरन्ति । तेषां सत्त्वानामुपलम्भदृष्टिकानामुपलम्भदृष्टिप्रहाणाय अनुत्तरां सम्यक्संबोधिमभिसंबुध्य धर्मं देशयिष्यामि । इति संचिन्त्य शून्यतां समाधिविमोक्षमुखं समापद्यते, न च भूतकोटिं साक्षात्करोति । आनिमित्तं समाधिविमोक्षमुखं समापद्यते, न च भूतकोटिं साक्षात्करोति । अप्रणिहितं समाधिविमोक्षमुखं समापद्यते, न च भूतकोटिं साक्षात्करोति । एवं बोधिसत्त्वो महासत्त्वोऽनेन चित्तोत्पादेन अनेन चोपायकौशल्येन समन्वागतो नान्तरा भूतकोटिं साक्षात्करोति, न च परिहीयते मैत्रीसमाधितो न करुणामुदितोपेक्षासमाधितः । तत्कस्य हेतोः? उपायकौशल्यपरिगृहीतो हि बोधिसत्त्वो महासत्त्वो भूयस्या मात्रया विवर्धते शुक्लैर्धर्मैः । तीक्ष्णतराणि चास्य श्रद्धादीनीन्द्रियाणि भवन्ति, बलबोध्यमार्गं च प्रतिलभते ॥ पुनरपरं सुभूते बोधिसत्त्वस्य महासत्त्वस्यैवं भवति - दीर्घरात्रममी सत्त्वा धर्मसंज्ञया उपलम्भे चरन्ति । तेषामुपलम्भदृष्टिकानामुपलम्भदृष्टिप्रहाणाय अनुत्तरां सम्यक्संबोधिमभिसंबुध्य धर्मं देशयिष्यामीति । सोऽनेन चित्तोत्पादेन पौर्वकेण चोपायकौशल्येन समन्वागतः शून्यतां समाधिविमोक्षमुखं समापद्यते । न च भूतकोटिं साक्षात्करोति । न च परिहीयते मैत्रीकरुणामुदितोपेक्षासमाधितः । तत्कस्य हेतोः? उपायकौशल्यपरिगृहीतो बोधिसत्त्वो महासत्त्वो भूयस्या मात्रया विवर्धते शूक्लैर्धर्मैः । तीक्ष्णतराणि चास्य श्रद्धादीनीन्द्रियाणि भवन्ति । बलबोध्यङ्गानि मार्गं च प्रतिलभते ॥ पुनरपरं सुभूते बोधिसत्त्वस्य महासत्त्वस्यैवं भवति - दीर्घरात्रममी सत्त्वा निमित्तसंज्ञया निमित्ते चरन्ति । तेषां निमित्तसंज्ञाप्रहाणाय अनुत्तरां सम्यक्संबोधिमभिसंबुध्य धर्मं देशयिष्यामीति । स आनिमित्तं समाधिविमोक्षमुखं समापद्यते सत्त्वानां कृतशः । सोऽनेन चित्तोत्पादेन पौर्वकेण चोपायकौशल्येन समन्वागतः आनिमित्तं समाधिविमोक्षमुखं समापद्यते, न च भूतकोटिं साक्षात्करोति । न च परिहीयते मैत्र्याः करुणाया मुदिताया उपेक्षायाः सर्वसमाधितः । तत्कस्य हेतोः? उपायकौशल्यपरिगृहीतो हि बोधिसत्त्वो महासत्त्वो भूयस्या मात्रया विवर्धते शूक्लैर्धर्मैः । तीक्ष्णतराणि चास्य श्रद्धादीनीन्द्रियाणि भवन्ति । बलानि बोध्यङ्गानि मार्गं च प्रतिलभते ॥ पुनरपरं सुभूते बोधिसत्त्वस्य महासत्त्वस्यैवं भवति - दीर्घरात्रममी सत्त्वा नित्यसंज्ञया सुखसंज्ञया आत्मसंज्ञया शुभसंज्ञया च विपर्यस्ताः । तथा करिष्यामि यथा अनुत्तरां सम्यक्संबोधिमभिसंबुध्य नित्यसंज्ञायाः सुखसंज्ञायाः आत्मसंज्ञायाः शुभसंज्ञाया विपर्यासस्य प्रहाणाय धर्मं देशयिष्यामि - अनित्यमेतत्सर्वं न नित्यमिति । दुःखमेतत्सर्वं न सुखमिति । अनात्मकमेतत्सर्वं नैतत्सात्मकमिति । अशुभमेतत्सर्वं नैतच्छुभमिति । सोऽनेन चित्तोत्पादेन समन्वागतः पौर्वकेण चोपायकौशल्येन प्रज्ञापारमितया च परिगृहीतो नान्तरा भूतकोटिं साक्षात्करोति (वैद्य १८७) अपरिपूर्णेषु बुद्धधर्मेषु । एवमप्रणिहितं समाधिविमोक्षमुखमुपसंपद्य विहरति । न च भूतकोटिं साक्षात्करोति । न च परिहीयते मैत्रीतो वा करुणातो वा मुदितातो वा उपेक्षातो वा । तत्कस्य हेतोः? उपायकौशल्यपरिगृहीतो बोधिसत्त्वो महासत्त्वो भूयस्या मात्रया विवर्धते शूक्लैर्धर्मैः । तीक्ष्णतराणि चास्य श्रद्धादीनीन्द्रियाणि भवन्ति । बलानि बोध्यङ्गानि मार्गं च प्रतिलभते । यो हि कश्चित्सुभूते बोधिसत्त्वो महासत्त्व इमं चित्तोत्पादमुत्पादयति, इत्यपीमे सत्त्वा दीर्घरात्रमुपलम्भे चरिताविनः एतर्ह्युपलम्भे चरन्ति । निमित्तसंज्ञायां चरिताविनः एतर्ह्यपि निमित्तसंज्ञायां चरन्ति । विपर्यासे चरिताविनः एतर्ह्यपि विपर्यासे चरन्ति । पिण्डसंज्ञायां चरिताविनः एतर्ह्यपि पिण्डसंज्ञायां चरन्ति । अभूतसंज्ञायां चरिताविनः एतर्ह्यपि अभूतसंज्ञायां चरन्ति । मिथ्यादृष्टौ चरिताविनः एतर्ह्यपि मिथ्यादृष्टौ चरन्ति । तथा करिष्यामि यथैषामेते दोषाः सर्वेण सर्वं सर्वथा सर्वं न भविष्यन्ति, न प्रज्ञास्यन्ते । इत्येवं सर्वसत्त्वान् समन्वाहरति । एवं च बोधिसत्त्वो महासत्त्वोऽनेन स्मृतिसमन्वाहारेण अनेन चित्तोत्पादेन समन्वागतः उपायकौशल्येन च समन्वागतः प्रज्ञापारमितया च परिगृहीतः एवमेतेषां गम्भीराणां धर्माणां धर्मतां प्रत्यवेक्षमाणः शून्यतातो वा आनिमित्ततो वा अप्रणिहिततो वा अनभिसंस्कारतो वा अनुत्पादतो वा अजातितो वा अभावतो वा । अस्थानमेतत्सुभूतेऽनवकाशः, यत्स बोधिसत्त्वो महासत्त्व एवं ज्ञानसमन्वागतोऽनभिसंस्कारे वा पतेत्, त्रैधातुकेन वा सार्धं संवसेत्, नैतत्स्थानं विद्यते ॥ एवं हि सुभूते बोधिसत्त्वो महासत्त्वः परिप्रष्टव्यो बोधिसत्त्वेन महासत्त्वेन अनुत्तरां सम्यक्संबोधिमभिसंबोद्धुकामेन - कतमेषां धर्माणां परिजयः कर्तव्यः? कियद्रूपाणि च चित्तान्यभिनिर्हर्तव्यानि? यानि चित्तान्यभिनिर्हरन् बोधिसत्त्वो महासत्त्वो न शून्यतां साक्षात्करोति, न आनिमित्तं साक्षात्करोति, न अप्रणिहितं साक्षात्करोति, न अनभिसंस्कारं साक्षात्करोति, न अनुत्पादं साक्षात्करोति, न अजातिं साक्षात्करोति, न अभावं साक्षात्करोति, प्रज्ञापारमितां च भावयति । सचेत्सुभूते बोधिसत्त्वो महासत्त्वो बोधिसत्त्वेन महासत्त्वेनैवं पृष्ट एवं व्याकरोति - शून्यतैव बोधिसत्त्वेन महासत्त्वेन मनसि कर्तव्या । आनिमित्तमेव अप्रणिहितमेव अनभिसंस्कार एव अनुत्पाद एव अजातिरेव अभाव एव बोधिसत्त्वेन महासत्त्वेन मनसि कर्तव्य इति । सचेत्तं सर्वसत्त्वापरित्यागचित्तोत्पादं नोपदर्शयेत्, उपायकौशल्यं वा न व्याकुर्यात्, वेदितव्यमेतत्सुभूते नायं व्याकृतो बोधिसत्त्वो महासत्त्वोऽनुत्तरायां सम्यक्संबोधावविनिवर्तनीयत्वे तैः पौर्वकैस्तथागतैरर्हद्भिः सम्यक्संबुद्धैः । तत्कस्य हेतोः? यो ह्यसावविनिवर्तनीयस्य बोधिसत्त्वस्य महासत्त्वस्यावेणिको धर्मः, तं धर्मं न सूचयति, न प्रभावयति, नोपदर्शयति, न प्रजानाति, परिपृष्टो न व्याकरोति, न विसर्जयति, न तां भूमिमवक्रामयति, योऽविनिवर्तनीयस्य बोधिसत्त्वस्य महासत्त्वस्य भूमिरिति ॥ सुभूतिराह - स्यात्पुनर्भगवन् पर्यायो येन पर्यायेण बोधिसत्त्वो महासत्त्वोऽविनिवर्तनीयो (वैद्य १८८) भवेत्? भगवानाह - स्यात्सुभूते स पर्यायो येन पर्यायेण स बोधिसत्त्वो महासत्त्वोऽविनिवर्तनीयो भवेत् । सचेद्बोधिसत्त्वो महासत्त्व इमां प्रज्ञापारमितां श्रुत्वा वा अश्रुत्वा व एवं प्रतिपद्येत, एवं विसर्जयेत्- अविनिवर्तनीयो बोधिसत्त्वो महासत्त्वो वेदितव्यः । सुभूतिराह - तेन हि भगवन् बहवो बोधाय चरन्ति । अल्पकाः पुनर्य एवं विसर्जयन्ति । भगवानाह - तथा हि सुभूते अल्पकास्ते बोधिसत्त्वा महासत्त्वा ये व्याकृता अविनिवर्तनीयायां ज्ञानभूमौ । ये पुनस्ते व्याकृता भविष्यन्ति, ते एवं विसर्जयिष्यन्ति । ते ते बोधिसत्त्वा महासत्त्वा उत्तप्तावरोपितकुशलमूला वेदितव्याः । ते ते बोधिसत्त्वा महासत्त्वा असंहार्याः सदेवमानुषासुरेण लोकेन । सचेत्पुनः सुभूते बोधिसत्त्वो महासत्त्वः स्वप्नान्तरगतोऽपि स्वप्नोपमाः सर्वधर्मा इति व्यवलोकयति, न च साक्षात्करोति, इदमपि सुभूते अविनिवर्तनीयस्य बोधिसत्त्वस्य महासत्त्वस्य अविनिवर्तनीयलक्षणं वेदितव्यम् ॥ पुनरपरं सुभूते बोधिसत्त्वो महासत्त्वः स्वप्नान्तरगतोऽपि श्रावकभूमौ वा प्रत्येकबुद्धभूमौ वा त्रैधातुकाय च स्पृहामनुशंसाचित्तं नोत्पादयति, इदमपि सुभूते अविनिवर्तनीयस्य बोधिसत्त्वस्य महासत्त्वस्य अविनिवर्तनीयलक्षणं वेदितव्यम् ॥ पुनरपरं सुभूते बोधिसत्त्वो महासत्त्वः स्वप्नान्तरगतोऽप्यनेकशतायाः पर्षदोऽनेकसहस्राया यावदनेककोटीनियुतशतसहस्रायाः पर्षदो मध्यगतं मण्डलमाले निषण्णं भिक्षुसंघपरिवृतं बोधिसत्त्वसंघपुरस्कृतं धर्मं देशयन्तं तथागतमर्हन्तं सम्यक्संबुद्धमात्मानं पश्यति । इदमपि सुभूते अविनिवर्तनीयस्य बोधिसत्त्वस्य महासत्त्वस्याविनिवर्तनीयलक्षणं वेदितव्यम् ॥ पुनरपरं सुभूते बोधिसत्त्वो महासत्त्वः स्वप्नान्तरगतोऽपि वैहायसमभ्युद्गम्य सत्त्वेभ्यो धर्मं देशयति, तां च व्यामप्रभां संजानीते, तांश्च भिक्षूनभिनिर्मिमीते, येऽन्यासु दिक्षु गत्वा अन्येषु लोकधातुषु बुद्धकृत्यं कुर्वन्ति, धर्मं च देशयन्ति । एवमपि सुभूते स्वप्नान्तरगतोअऽविनिवर्तनीयो बोधिसत्त्वो महासत्त्वः संजानीते । इदमपि सुभूते अविनिवर्तनीयस्य बोधिसत्त्वस्य महासत्त्वस्य अविनिवर्तनीयलक्षणं वेदितव्यम् ॥ पुनरपरं सुभूते स्वप्नान्तरगतो बोधिसत्त्वो महासत्त्वो नोत्रस्यति, न संत्रस्यति, न संत्रासमापद्यते । ग्रामघाते वा नगरघाते वा निगमघाते वा जनपदघाते वा राष्ट्रघाते वा अग्निदाहे वा वर्तमाने व्यालमृगान् वा ततोऽन्यानपि वा क्षुद्रमृगजातीन् दृष्ट्वा शिरश्छेदे वा प्रत्युपस्थिते ततोऽन्यान्यपि वा महाभयभैरवाणि दुःखदौर्मनस्यानि वा प्राप्य ततोऽन्येषामपि वा सत्त्वानां महाभयभैरवाणि दुःखानि दृष्ट्वा नास्य भयभैरवमुत्पद्यते, नोत्रस्यति न संत्रस्यति न संत्रासमापद्यते । ततश्च स्वप्नान्तरात्प्रतिविबुद्धस्य समनन्तरव्युत्थितस्यैवं भवति - स्वप्नोपममिदं सर्वं त्रैधातुकम् । एवं च मया अनुत्तरां सम्यक्संबोधिमभिसंबुध्य सम्यग्देशयता धर्मो देशयितव्य इति । इदमपि सुभूते अविनिवर्तनीयस्य बोधिसत्त्वस्य महासत्त्वस्य अविनिवर्तनीयलक्षणं वेदितव्यम् ॥ (वैद्य १८९) पुनरपरं सुभूते अविनिवर्तनीयस्य बोधिसत्त्वस्य महासत्त्वस्य स्वप्नान्तरगतस्य नैरयिकान् सत्त्वान् दृष्ट्वा एवं भवति - तथा करिष्यामि यथा मेऽनुत्तरां सम्यक्संबोधिमभिसंबुद्धस्य बुद्धक्षेत्रे सर्वेण सर्वं सर्वथा सर्वं सर्वेऽप्यपाया न भविष्यन्तीति । इदमपि सुभूते अविनिवर्तनीयस्य बोधिसत्त्वस्य महासत्त्वस्य अपायपरिशुद्धिलक्षणं वेदितव्यम् ॥ तत्र सुभूते कथं विज्ञायेत अस्याविनिवर्तनीयस्य बोधिसत्त्वस्य महासत्त्वस्य अनुत्तरां सम्यक्संबोधिमभिसंबुद्धस्य बुद्धक्षेत्रे सर्वेण सर्वं सर्वथा सर्वं सर्वेऽप्यपाया न भविष्यन्तीति? सचेत्सुभूते बोधिसत्त्वो महासत्त्वः स्वप्नान्तरगतोऽपि निरयगतांस्तिर्यक्प्रेतगतान् वा सत्त्वान् दृष्ट्वा स्मृतिं प्रतिलभते । स तां स्मृतिं प्रतिलभ्य एवं चिन्तयति - तथा करिष्यामि यथा मेऽनुत्तरां सम्यक्संबोधिमभिसंबुद्धस्य बुद्धक्षेत्रे सर्वेण सर्वं सर्वथा सर्वं सर्वेऽप्यपाया न भविष्यन्तीति । एवं सुभूते बोधिसत्त्वस्य महासत्त्वस्य अपायपरिशुद्धिलक्षणं वेदितव्यम् । इदमपि सुभूते अविवर्तनीयस्य बोधिसत्त्वस्य महासत्त्वस्य अविनिवर्तनीयलक्षणं वेदितव्यम् ॥ पुनरपरं सुभूते स्वप्नान्तरगतो बोधिसत्त्वो महासत्त्वो नगरदाहे वा ग्रामदाहे वा वर्तमाने प्रतिविबुद्धः संस्ततः स्वप्नादेवं समन्वाहरति यथा - मया स्वप्नान्तरगतेन ये आकाराः यानि लिङ्गानि यानि निमित्तानि दृष्टानि, यैराकारैर्यैर्लिङ्गैर्यैर्निमित्तैरविवर्तनीयो बोधिसत्त्वो महासत्त्वो धारयितव्यः, ते आकारास्तानि लिङ्गानि तानि निमित्तानि मम संविद्यन्ते । एतेन सत्येन सत्यवचनेन अयं नगरदाहो वा ग्रामदाहो वा वर्तमान उपशाम्यतु, शीतिभवतु, अस्तं गच्छतु । सचेत्सुभूते ग्रामदाहो वा नगरदाहो वा उपशाम्यति, शीतीभवति, अस्तं गच्छति, वेदितव्यमेतत्सुभूते व्याकृतोऽयं बोधिसत्त्वो महासत्त्वस्तैः पौर्वकैस्तथागतैरर्हद्भिः सम्यक्संबुद्धैरविनिवर्तनीयोऽनुत्तरायाः सम्यक्संबोधेरिति । सचेन्नोपशाम्यति, न शीतीभवति, नास्तः गच्छति, वेदितव्यमेतत्सुभूते नायं व्याकृतो बोधिसत्त्वो महासत्त्वोऽनुत्तरायां सम्यक्संबोधाविति । सचेत्पुनः सुभूते सोऽग्निदाहोऽतिक्रम्य गृहाद्गृहं रथ्याया रथ्यामन्यतरान्यतरां रथ्यां वा गृहं वा गच्छति, दहति, नोपशाम्यति, न शीतीभवति, नास्तं गच्छति, वेदितव्यमेतत्सुभूते धर्मप्रत्याख्यानं दुष्प्रज्ञसंवर्तनीयं तेन बोधिसत्त्वेन महासत्त्वेन कर्मोपचितम् । ततोऽस्यैतद्दृष्टधर्मसंवर्तनीयमेव कर्म विपच्यते । तत एव धर्मप्रत्याख्यानात्सावशेषं कर्मैवं विपच्यते । इत्ययं सुभूते हेतुरयं प्रत्ययोऽस्य बोधिसत्त्वस्य महासत्त्वस्य अविनिवर्तनीयलक्षणताया इति । अयमपि सुभूते बोधिसत्त्वो महासत्त्वोऽविनिवर्तनीयोऽनुत्तरायाः सम्यक्संबोधेर्धारयितव्यः ॥ पुनरपरं सुभूते यैराकारैर्यैर्लिङ्गैर्यैर्निमित्तैरविनिवर्तनीयो बोधिसत्त्वो महासत्त्वो धारयितव्यः, तानाकारांस्तानि लिङ्गानि तानि निमित्तानि देशयिष्यामि । तत्साधु च सुष्ठु च शृणु, मनसि कुरु, भाषिष्येऽहं ते । साधु भगवन्नित्यायुष्मान् सुभूतिर्भगवतः प्रत्यश्रौषीत् । भगवानेतदवोचत्- सचेत्सुभूते कश्चिदेव पुरुषो वा स्त्री वा दारको वा दारिका वा (वैद्य १९०) अमनुष्येण गृहीतो भवेदाविष्टः । तत्र बोधिसत्त्वेन महासत्त्वेन उपसंक्रम्य एवमधिष्ठानं समन्वाहर्तव्यम् । सचेदहं हैः पौर्वकैस्तथागतैरर्हद्भिः सम्यक्संबुद्धैर्व्याकृतोऽनुत्तरायां सम्यक्संबोधौ, परिशुद्धो मेऽध्याशयः अनुत्तरां सम्यक्संबोधिमभिसंबोद्धुम् । यथाहमनुत्तरां सम्यक्संबोधिमभिसंबोद्धुकामः, परिशुद्धो मे मनसिकारोऽनुत्तरायां सम्यक्संबोधौ । अपगतं मे श्रावकचित्तं प्रत्येकबुद्धचित्तं च, तेन मया अनुत्तरा सम्यक्संबोधिरभिसंबोद्धव्या । नाहं नानुत्तरां सम्यक्संबोधिमभिसंभोत्स्ये । अभिसंभोत्स्य एवाहमनुत्तरां सम्यक्संबोधिम् । येऽपि ते अप्रमेयेष्वसंख्येयेषु लोकधातुषु बुद्धा भगवन्तस्तिष्ठन्ति ध्रियन्ते यापयन्ति, न तेषां तथागतानामर्हतां सम्यक्संबुद्धानां किंचिदज्ञातं वा अदृष्टं वा अविदितं वा असाक्षात्कृतं वा अनभिसंबुद्धं वा । यथा ते बुद्धा भगवन्तो जानन्तो ममाध्याशयम् - इत्यप्यहमनुत्तरां सम्यक्संबोधिमभिसंभोत्स्ये इति । अनेन सत्येन सत्यवचनेन इयं स्त्री वा पुरुषो वा दारको वा दारिका वा येन अमनुष्यग्रहेण गृहीतो वा आविष्टो वा, सोऽपक्रामतु । सचेत्सोऽमनुष्यः एवं भाषमाणेन बोधिसत्त्वेन महासत्त्वेन नापक्रामति, वेदितव्यमेतत्सुभूते नायं व्याकृतो बोधिसत्त्वो महासत्त्वस्तैः पौर्वकैस्तथागतैरर्हद्भिः सम्यक्संबुद्धैरनुत्तरायां सम्यक्संबोधाविति । सचेत्पुनः सुभूते एवं भाषमाणस्य बोधिसत्त्वस्य महासत्त्वस्य सोऽमनुष्योऽपक्रामति, वेदिंतव्यमेतत्सुभूते व्याकृतोऽयं बोधिसत्त्वो महासत्त्वस्तैः पौर्वकैस्तथागतैरर्हद्भिः सम्यक्संबुद्धैरनुत्तरायां सम्यक्संबोधाविति ॥ आर्याष्टसाहस्रिकायां प्रज्ञापारमितायामुपायकौशल्यमीमांसापरिवर्तो नाम विंशतितमः ॥ _______________________________________________________________ (वैद्य १९१) २१: मारकर्मपरिवर्त एकविंशतितमः । तत्र खलु पुनः सुभूते बोधिसत्त्वो महासत्त्व एवं भाषिष्यते - येन सत्येन सत्यवचनेन अहं व्याकृतः तैः पौर्वकैस्तथागतैरर्हद्भिः सम्यक्संबुद्धैरनुत्तरायां सम्यक्संबोधौ, तेन सत्येन सत्यवचेन अयममनुष्योऽपक्रामत्विति । तत्र सुभूते मारः पापीयानौत्सुक्यमापत्स्यते तस्य अमनुष्यस्यापक्रमणाय । तत्कस्य हेतोः? मारो ह्यत्र पापीयांस्तस्य बोधिसत्त्वस्य महासत्त्वस्य चिरयानसंप्रस्थितस्यान्तिके बलवत्तरं तेजोवत्तरं चोद्योगमापत्स्यते - कथमयममनुष्योऽपक्रामेदिति । एवं सोऽमनुष्यो माराधिष्ठानेनापक्रमिष्यति । एवं च तस्य बोधिसत्त्वस्य महासत्त्वस्य भविष्यति - ममैषोऽनुभावेन अमनुष्योऽपक्रान्त इति । न पुनः स एवं ज्ञास्यति - मारस्यैषोऽनुभावेन अमनुष्योऽपक्रान्त इति । स तेन तावन्मात्रकेणौत्सुक्यमापत्स्यते । स तेनौत्सुक्येन ततोऽन्यान् बोधिसत्त्वान्महासत्त्वानवमंस्यते उच्चग्धयिष्यति उल्लापयिष्यति कुत्सयिष्यति पंसयिष्यति - अहं व्याकृतस्तैः पौर्वकैस्तथागतैरर्हद्भिः सम्यक्संबुद्धैरनुत्तरायां सम्यक्संबोधाविति । स तेन तावन्मात्रकेण भूयो मानं जनयिष्यति, मानं संजनयिष्यति, मानं वर्धयिष्यति, मानं संवर्धयिष्यति, मानं स्तम्भयिष्यति, मानमुपस्तम्भयिष्यति, मानं बृंहयिष्यति, मानमुपबृंहयिष्यति, मानमुत्पादयिष्यति । स तेन मानेन अतिमानेन मानातिमानेन मिथ्यामानेन अभिमानेन दूरीकरिष्यति सर्वज्ञताम्, दूरीकरिष्यत्यनुत्तरं बुद्धज्ञानम्, स्वयंभूज्ञानम्, सर्वज्ञज्ञानम् । दूरीकरिष्यत्यनुत्तरां सम्यक्संबोधिम् । स तथारूपाणि कल्याणमित्राणि कल्याणधर्मण उदाराधिमुक्तिकानध्याशयसंपन्नानुपायकुशलानविनिवर्तनीयधर्मसमन्वागतांश्च बोधिसत्त्वान्महासत्त्वान् दृष्ट्वा अभिमानमुत्पाद्य अवमन्यमानस्तथारूपाणि कल्याणमित्राणि न सेविष्यते, न भजिष्यते, न पर्युपासिष्यते, न परिप्रक्ष्यति । तदेव मारबन्धनं गाढीकरिष्यति । तस्य द्वे भूमी प्रतिकाङ्क्षितव्ये - श्रावकभूमिर्वा प्रत्येकबुद्धभूमिर्वा । एवं सुभूते सत्याधिष्ठानेन मारः पापीयानचिरयानसंप्रस्थितस्य बोधिसत्त्वस्य महासत्त्वस्य अल्पश्रद्धस्य अल्पश्रुतस्य कल्याणमित्रविरहितस्य प्रज्ञापारमितया अपरिगृहीतस्य उपायकौशल्यविरहितस्य अन्तरायं करिष्यत्यनुत्तरायाः सम्यक्संबोधेः । इदमपि सुभूते बोधिसत्त्वस्य महासत्त्वस्य मारकर्म वेदितव्यम् ॥ पुनरपरं सुभूते बोधिसत्त्वस्य महासत्त्वस्य नामापदेशेनापि मारकर्म भविष्यति । कथं च सुभूते बोधिसत्त्वस्य महासत्त्वस्य नामापेदेशेनापि मारकर्म भविष्यति? इह सुभूते बोधिसत्त्वं महासत्त्वं नामापदेशेनापि नामाधिष्ठानेनापि मारः पापीयानुपसंक्रमिष्यति । अन्यतरान्यतरेण वेषेणोपसंक्रम्य एवं वक्ष्यति - तैर्व्याकृतस्त्वं पौर्वकैस्तथागतैरर्हद्भिः सम्यक्संबुद्धैरनुत्तरायां सम्यक्संबोधौ । तत्कस्य हेतोः? तव हीदं नामधेयम् । इदं ते मातुर्नामधेयम् । इदं ते पितुर्नामधेयम् । इदं ते भ्रातुर्नामधेयम् । इदं ते भगिन्या नामधेयम् । इदं ते मित्रामात्यज्ञातिसालोहितानां नामधेयम् । यावदासप्तमं मातामहपितामहयुगस्य नामधेयमुदीरयिष्यति - अमुष्यां दिशि त्वं जातः, अमुष्मिन् जनपदे अमुष्मिन् ग्रामे वा नगरे वा (वैद्य १९२) निगमे वा जात इति । सचेत्प्रकृत्वा मृदुको भविष्यति, तमेनमेवं वक्ष्यति - पूर्वमपि त्वमेव मृदुकोऽभूः । सचेत्प्रकृत्या तीक्ष्णेन्द्रियो भविष्यति, ततस्तमेवं वक्ष्यति - पूर्वमपि त्वं तीक्ष्णेन्द्रियोऽभूः । सचेदारण्यको भविष्यति, सचेत्पिण्डपातिको भविष्यति, सचेत्पांसुकूलिको भविष्यति, सचेत्खलुपश्चाद्भक्तिको भविष्यति, सचेदेकासनिको भविष्यति, सचेद्याथासंस्तरिको भविष्यति, सचेत्रैचीवरिको भविष्यति, सचेत्श्मशानिको भविष्यति, सचेद्वृक्षमूलिको भविष्यति, सचेन्नैषद्यिको भविष्यति, सचेदभ्यवकाशिको भविष्यति, सचेन्नामन्तिको भविष्यति, सचेदल्पेच्छः संतुष्टः प्रविविक्तो भविष्यति, सचेदपगतपादम्रक्षणो भविष्यति, सचेन्मृदुभाषी अल्पवाग्भविष्यति, तमेनं मारः पापीयांस्तेन तेन दृष्टधार्मिकेण गुणेनादेक्ष्यति - पूर्वमपि त्वमनेन चानेन च गुणेन समन्वागतोऽभूः । नियतस्तं व्याकृतस्तैः पौर्वकैस्तथागतैरर्हद्भिः सम्यक्संबुद्धैरनुत्तरायां सम्यक्संबोधौ अविनिवर्तनीयायां बोधिसत्त्वभूमौ । तत्कस्य हेतोः? तथा हि ते अमी एवंरूपा धुतगुणाः संविद्यन्ते । निश्चयेन त्वं पूर्वमप्येतैरेव धुतगुणैः समन्वागतोऽभूः । एवं स तेन पौर्वकेण नामापदेशेन नामाधिष्ठानेन प्रत्युत्पन्नधुतगुणसंलेखेन च मन्यनामुत्पादयिष्यति । तस्यैवं भविष्यति - व्याकृतोऽहं तैः पौर्वकैस्तथागतैरर्हद्भिः सम्यक्संबुद्धैरनुत्तरायां सम्यक्संबोधौ, यथा मे अमी गुणाः संविद्यन्ते । तं च मारः पापीयानेवं वक्ष्यति - अविनिवर्तनीयस्त्वं व्याकृतस्तथागतेनार्हता सम्यक्संबुद्धेन अनुत्तरायां सम्यक्संबोधौ । तत्कस्य हेतोः? तथा हि तव एते एवंरूपा धुतगुणा संविद्यन्ते । तस्य खलु पुनः सुभूते मारः पायीयान् कदाचिद्भिक्षुवेषेणोपसंक्रमिष्यति, कदाचिद्भिक्षुणीवेषेण, कदाचिदुपासकवेषेण, कदाचिदुपासिकावेषेण, कदाचिद्ब्राह्मणवेषेण, कदाचिद्गृहपतिवेषेण, कदाचिन्मातृवेषेण, कदाचित्पितृवेषेण, कदाचिद्भ्रातृवेषेण, कदाचिद्भगिनीवेषेण, कदाचिन्मित्रामात्यज्ञातिसालोहितवेषेण उपसंक्रमिष्यति । उपसंक्रम्यैवं वक्ष्यति - व्याकृतस्त्वं पौर्वकैस्तथागतैरर्हद्भिः सम्यक्संबुद्धैरनुत्तरायां सम्यक्संबोधौ अविनिवर्तनीयायां बोधिसत्त्वभूमौ । तत्कस्य हेतोः? तथा हि ते एवंरूपा धुतगुणाः संविद्यन्ते, येऽविनिवर्तनीयानां बोधिसत्त्वानां महासत्त्वानां गुणाः । ये खलु पुनः सुभूते मया अविनिवर्तनीयानां बोधिसत्त्वानां महासत्त्वानां गुणा आख्याताः आकारा लिङ्गानि निमित्तानि चाख्यातानि, तानि तस्य न भविष्यन्ति । वेदितव्यमेतत्सुभूते ततोऽन्यैर्बोधिसत्त्वैर्महासत्त्वैः - माराधिष्ठितो बतायं बोधिसत्त्वो महासत्त्व इति । तत्कस्य हेतोः? ये आकारा यानि लिङ्गानि यानि निमित्तानि अविनिवर्तनीयानां बोधिसत्त्वानां महासत्त्वानाम्, तानि तस्य न भविष्यन्ति । स खलु पुनः सुभूते बोधिसत्त्वो महासत्त्वोऽनेन नामाधिष्ठानेन अभिमानमुत्पादयिष्यति । अभिमानमुत्पाद्य मानाभिभूतः स्तम्भाभिभूतो माराधिष्ठानेनाभिभूतस्तदन्यान् बोधिसत्त्वान्महासत्त्वानवमंस्यते उच्चग्घयिष्यति उल्लापयिष्यति कुत्सयिष्यति पंसयिष्यति । इदमपि सुभूते बोधिसत्त्वेन महासत्त्वेन नामाधिष्ठानेन मारकर्म वेदितव्यम् ॥ (वैद्य १९३) पुनरपरं सुभूते बोधिसत्त्वेन महासत्त्वेन नामापदेशेन नामव्याकरणेन मारकर्म वेदितव्यम् । कथं च सुभूते बोधिसत्त्वेन महासत्त्वेन नामापदेशेन नामव्याकरणेन मारकर्म वेदितव्यम्? इह सुभूते मारः पापीयान् भिक्षुवेषेणोपसंक्रम्य बोधिसत्त्वं महासत्त्वमेवं व्याकरिष्यति - तवानुत्तरां सम्यक्संबोधिमभिसंबुद्धस्य सतः इदं नामधेयं भविष्यतीति यदेव तेन चित्तेनानुवर्तितमनुवितर्कितमनुविचारितं भवति - अहो बत मेऽनुत्तरां सम्यक्संबोधिमभिसंबुद्धस्य सतः इदमेवंरूपं नामधेयं भवेदिति, तदेव नामधेयं व्याकरिष्यति । तत्र दुष्प्रज्ञजातीयस्य अनुपायकुशलस्य बोधिसत्त्वस्यैवं भविष्यति - यथा मया नामधेयमनुवर्तितमनुवितर्कितमनुविचारितम्, अहो बत मेऽनुत्तरां सम्यक्संबोधिमभिसंबुद्धस्य सतः इदं नामधेयं भवेदिति, तथा तेन भिक्षुणा निर्दिष्टमिति । स एवं यच्च नामधेयं स्वयमनुविचिन्तितम्, यच्च तेन मारेण पापीयसा मारकायिकाभिर्वा देवताभिरभिनिर्मितेन माराधिष्ठितेन वा भिक्षुणा नामधेयमुदीरितम्, तदुभयं तुलयित्वा यथा च मम चित्तोत्पाद उत्पन्नः, यथा च अनेन भिक्षुणा निर्दिष्टं मम नामधेयं समेति नाम्ना, नामव्याकृतोऽहं तैः पौर्वकैस्तथागतैरर्हद्भिः सम्यक्संबुद्धैरनुत्तरायां सम्यक्संबोधाविति मंस्यते । यानि च मया सुभूते अविनिवर्तनीयानां बोधिसत्त्वानां महासत्त्वानामाकारा लिङ्गानि निमित्तानि आख्यातानि, तानि तस्य न भविष्यन्ति । स तैर्विरहितोऽनेन नामापदेशेन नामव्याकरणेन मन्यनामुत्पादयिष्यति । स मन्यनामुत्पाद्य ततोऽन्यान् बोधिसत्त्वान्महासत्त्वानवमंस्यते - अहं व्याकृतोऽनुत्तरायां सम्यक्संबोधौ, नैते व्याकृता अनुत्तरायां सम्यक्संबोधाविति । एवं स तेन मानेन अतिमानेन मानातिमानेन अभिमानेन मिथ्यामानेन च तदन्यान् बोधिसत्त्वान्महासत्त्वानवमन्यमानो दूरीकरिष्यति सर्वज्ञताम्, दूरीकरिष्यति बुद्धज्ञानम् । तस्य प्रज्ञापारमितया अपरिगृहीतस्य उपायकौशल्यविरहितस्य कल्याणमित्रविरहितस्य पापमित्रपरिगृहीतस्य द्वयोर्भूम्योरन्यतरा भूमिः प्रतिकाङ्क्षितव्या - श्रावकभूमिर्वा प्रत्येकबुद्धभूमिर्वा । सचेत्पुनश्चिरं सुचिरं संधाव्य संसृत्य एनामेव प्रज्ञापारमितामागम्य अनुत्तरां सम्यक्संबोधिमभिसंबोद्धुकामो भवेत्, यदि चासावुपसर्पेत्कल्याणमित्राणि, अभीक्ष्णं च तान्युपसंक्रमिष्यति, तेनैव चात्मभावप्रतिलम्भेन तावत्पूर्वकांश्चित्तोत्पादान् विगर्हिष्यति, वान्तीकरिष्यति, जुगुप्सिष्यति, प्रतिनिः - स्रक्ष्यति, प्रतिदेशयिष्यति, तथापि बुद्धभूमिस्तस्य दुर्लभा भविष्यति । तत्कस्य हेतोः? तावद्गुरुतरं हि सुभूते बोधिसत्त्वस्य महासत्त्वस्य मननापत्तिस्थानम् । तद्यथापि नाम सुभूते भिक्षोः श्रावकयानिकस्य श्रावकभूमौ चतस्रो मूलापत्तयो गुर्व्यो भवन्ति, यतोऽन्यतरान्यतरा मापत्तिमध्यापद्य अभिक्षुर्भवत्यश्रमणोऽशाक्यपुत्रीयः, इयमेव ताभ्यश्चतसृभ्य आपत्तिभ्यो गुरुतरा आपत्तिः, योऽयं मानचित्तोत्पादः, यदुत नामापदेशेन बोधिसत्त्वस्य महासत्त्वस्यावमाननया महानकुशलश्चित्तोत्पाद उत्पन्नः । अयं ताभ्यश्चतसृभ्य आपत्तिभ्यो गुरुतरश्चित्तोत्पादो वेदितव्यः ॥ तिष्ठन्तु सुभूते चतस्रो गुर्व्यो मूलापत्तयः । पञ्चभ्योऽपि सुभूते आनन्तर्येभ्यः (वैद्य १९४) कर्मभ्यो गुरुतरोऽयं चित्तोत्पादः, योऽयं बोधिसत्त्वस्य महासत्त्वस्य नामापदेशेन मानसहगतश्चित्तोत्पाद उत्पन्नः । अयं तेभ्यः पञ्चभ्य आनन्तर्येभ्यः कर्मभ्यो गुरुतरश्चित्तोत्पादो वेदितव्यः । इति हि सुभूते अनेनापि नामापदेशेन सूक्ष्मसूक्ष्माणि मारकर्माण्युत्पत्स्यन्ते । तानि बोधिसत्त्वेन महासत्त्वेन बोद्धव्यानि । अन्येभ्यश्चावबोधयितव्यानि, बुद्ध्वा च विवर्जयितव्यानि ॥ पुनरपरं सुभूते मारः पापीयान् विवेकगुणेन बोधिसत्त्वं महासत्त्वमुपसंक्रम्य चोदयिष्यति स्मारयिष्यति । कथं च सुभूते मारः पापीयान् विवेकगुणेन बोधिसत्त्वं महासत्त्वमुपसंक्रम्य चोदयिष्यति स्मारयिष्यति? इह सुभूते मारः पापीयान् बोधिसत्त्वं महासत्त्वमुपसंक्रमिष्यति, उपसंक्रम्यैवं वक्ष्यति - विवेकस्य तथागतो वर्णवादी अरण्यवनप्रस्थगिरिगुहाश्मशानपलालपुञ्जादिषु विहर्तव्यमिति । न चाहं सुभूते बोधिसत्त्वस्य महासत्त्वस्य एवंविधं विवेकं वदामि, यदुत आरण्यकानि प्रान्तानि शयनासनानि विजनपदानि विविक्तानि, विविधानि वनप्रस्थगिरिगुहाश्मशानपलालपुञ्जादीनि ॥ सुभूतिराह - कतमः पुनः स भगवन् बोधिसत्त्वस्य महासत्त्वस्य अन्यो विवेको यदि वा आरण्यकानि प्रान्तानि शयनासनानि विजनपदानि विविक्तानि विविधानि वनप्रस्थगिरिगुहाश्मशानपलालपुञ्जादीनि? यदि तानि नाध्यावसति, कियद्रूपः पुनर्भगवन् बोधिसत्त्वस्य महासत्त्वस्यान्यो विवेकः? एवमुक्ते भगवानायुष्मन्तं सुभूतिमेतदवोचत्- सचेत्सुभूते बोधिसत्त्वो महासत्त्वो विविक्तो भवति श्रावकप्रतिसंयुक्तैर्मनसिकारैः, विविक्तो भवति प्रत्येकबुद्धप्रतिसंयुक्तैर्मनसिकारैः, एवं स बोधिसत्त्वो महासत्त्वो विविक्तो विहरति । ग्रामान्तेऽपि हि विहरन् प्रज्ञापारमितोपायकौशल्यपरिगृहीतः सर्वसत्त्वमैत्रीमहाकरुणाविहारेण विहरेत् । अनेन विहारेण विहरन् विविक्त एव स विहरति । अयं खलु पुनः सुभूते मया बोधिसत्त्वस्य महासत्त्वस्य श्रावकप्रत्येकबुद्धप्रतिसंयुक्तमनसिकारविवेकोऽनुज्ञातः । अनेन विवेकेन विहरन् बोधिसत्त्वो महासत्त्वो रात्रिंदिवान्यतिनामयति, विविक्तो विहरति । सचेद्बोधिसत्त्वो महासत्त्वोऽरण्यवनप्रस्थगिरिगुहाश्मशानप्रान्तशयनासनेष्वनेन विहारेण विहरति, विविक्तो बोधिसत्त्वो महासत्त्वो विहरति । यं पुनः सुभूते मारः पापीयान् विवेकमुपदेक्ष्यति अरण्यवनप्रस्थगिरिगुहाश्मशानप्रान्तशयनासनविहारान्, स तेन विवेकेन श्रावकप्रत्येकबुद्धप्रतिसंयुक्तैर्मनसिकारैः संकीर्ण एव सन् प्रज्ञापारमितायामनभियुज्यमानो न सर्वज्ञज्ञानं परिपूरयति । एवं स संकीर्णविहारेण विहरन् सोऽपरिशुद्धेन मनसिकारेण विहरन् अपरिशुद्धकायवाङ्मनःकर्मान्तः एव भविष्यति । अपरिशुद्धकायवाङ्मनःकर्मान्त एव संस्ततोऽन्यानपि बोधिसत्त्वान्महासत्त्वान् ग्रामान्तविहारिणोऽसंकीर्णान् श्रावकप्रत्येकबुद्धप्रतिसंयुक्तैर्मनसिकारैः प्रज्ञोपायमहाकरुणाविहारविहारिणोऽवमंस्यते । अरण्येऽपि विहरन् सोऽपरिशुद्धकायवाङ्मनःकर्मान्तः सन् संकीर्णविहार्येव भवति, न विविक्तविहारी । स प्रज्ञोपायमहाकरुणाविहारविहारिणो (वैद्य १९५) ग्रामान्ते विहरतः परिशुद्धकायवाङ्मनःकर्मसमुदाचारान् श्रावकप्रत्येकबुद्धप्रतिसंयुक्तमनसिकारविविक्तानसंकीर्णान् श्रावकप्रत्येकबुद्धप्रतिसंयुक्तैर्मनसिकारैस्तांस्तावत्सोऽवमन्यमानो न ध्यानसमाधिसमापत्तिविमोक्षाभिज्ञानां लाभी भविष्यति । न चास्य ताः परिपूरिं गमिष्यन्ति । तत्कस्य हेतोः? तथा हि सोऽनुपायकुशलो भवति ॥ किंचापि सुभूते बोधिसत्त्वो महासत्त्वो योजनशतिकेष्वटवीकान्तारेषु विहरेदपगतव्यालमृगपक्षिसंघेषु अपगतक्षुद्रमृगव्यालयक्षराक्षसानुविचरितेषु अपगतचौरकान्तारभयभैरवोपद्रवेषु संतिष्ठेत्, वर्षं वा वर्षशतं वा वर्षसहस्रं वा वर्षशतसहस्रं वा वर्षकोटीं वा वर्षकोटीशतं वा वर्षकोटीसहस्रं वा वर्षकोटीशतसहस्रं वा वर्षकोटीनियुतशतसहस्रं वा, ततो वा उपरि । इमं च विवेकं मयोपदिष्टं न जानीयात्, येन विवेकेन बोधिसत्त्वो महासत्त्वोऽध्याशयसंप्रस्थितोऽध्याशयसंपन्नो विहरति । तं सोऽनुपायकुशलो बोधिसत्त्वो महासत्त्वोऽजानन्नरण्यपरमो विहरति । तत्र च विवेके निश्रितः आलीनोऽध्यवसितोऽध्यवसायमापन्नः । नैव मे सुभूते एतावता स बोधिसत्त्वश्चित्तमाराधयति । तत्कस्य हेतोः? यः सुभूते विवेको बोधिसत्त्वानां महासत्त्वानां मया आख्यातः, तेन विवेकेन विहरन्नस्मिन् विवेके न संदृश्यते । तमेनं मारः पापीयानुपसंक्रम्य उपर्यन्तरीक्षे विहायसि स्थित्वा एवं वक्ष्यति - साधु साधु कुलपुत्र, एष बोधिसत्त्वानां महासत्त्वानां तथागतेन विवेक आख्यातः । अनेनैव त्वं कुलपुत्र विवेकेन विहर । एवं त्वं क्षिप्रमनुत्तरां सम्यक्संबोधिमभिसंभोत्स्यसे । स ततो विवेकात्पुनरेव अरण्याद्ग्रामान्तमवतीर्य तदन्यान् बोधिसत्त्वान्महासत्त्वान् पेशलान् भिक्षून् सब्रह्मचारिणः कल्याणधर्मणोऽसंकीर्णान् श्रावकप्रत्येकबुद्धप्रतिसंयुक्तैर्मनसिकारैः परिशुद्धकायवाङ्मनःकर्मान्तान् जीवानवमंस्यते । स एवं वक्ष्यति - संकीर्णविहारेण बतेमे आयुष्मन्तो विहरन्ति, न विविक्तविहारेण । आकीर्णविहारेण बतेमे आयुष्मन्तो विहरन्ति, न विविक्तविहारेण विहरन्तीति । ये ते बोधिसत्त्वा महासत्त्वा विविक्तविहारेण विहरन्ति, तान् संकीर्णविहारेण चोदयिष्यति, आकीर्णविहारेण चोदयिष्यति । ये च ते संकीर्णविहारेण विहरन्ति, तान् स विविक्तविहारेण समुदाचरिष्यति, तत्र गौरवमुत्पादयिष्यति । यत्र च गौरवमुत्पादयितव्यम्, तत्र मानमुत्पादयिष्यति । तत्कस्य हेतोः? अहममनुष्यैश्चोद्ये, अहममनुष्यैः स्मार्ये । एष सुभूते विहारो येनाहं विहारेण विहरामि । कं ग्रामान्तविहारिणममनुष्याश्चोदयिष्यन्ति, कं ग्रामान्तरे विहरन्तममनुष्याः स्मारयिष्यन्ति, इत्येवं हि बोधिसत्त्वयानिकान् पुद्गलानवमंस्यते । अयं सुभूते बोधिसत्त्वचण्डालो वेदितव्यः, बोधिसत्त्वदूषी वेदितव्यः, बोधिसत्त्वप्रतिरूपको वेदितव्यः, बोधिसत्त्वप्रतिवर्णिको वेदितव्यः, बोधिसत्त्वकारण्डवको वेदितव्यः, चौरः श्रमणवेषेण, चौरो बोधिसत्त्वयानिकानां पुद्गलानाम्, चौरः सदेवकस्य लोकस्य । तज्जातीयः खलुः पुनः सुभूते पुद्गलो न सेवितव्यो न भक्तव्यो न पर्युपासितव्यः । तत्कस्य हेतोः? अभिमानपतिता हि ते तथारूपाः पुद्गला वेदितव्याः । अन्येषामपि तथारूपाणामल्प (वैद्य १९६) स्थामानाचिरयानसंप्रस्थितानां संदूषणं कुर्युः । अविशुद्धधर्माणो हि ते तथारूपाः पुद्गलाः वेदितव्याः । अनार्या हि ते तथारूपाः पुद्गला वेदितव्याः । अनार्यधर्माणो हि ते तथारूपाः पुद्गला वेदितव्याः । यस्य खलु पुनः सुभूते बोधिसत्त्वस्य महासत्त्वस्य अपरित्यक्ताः सर्वसत्त्वाः, अपरित्यक्ता सर्वज्ञता, अपरित्यक्ता अनुत्तरा सम्यक्संबोधिः, तेन बोधिसत्त्वेन महासत्त्वेन अध्याशयेन अनुत्तरां सम्यक्संबोधिमभिसंबोद्धुकामेन सर्वसत्त्वानामर्थं कर्तुकामेन तज्जातीयाः पुद्गला न सेवितव्याः, न भक्तव्याः, न पर्युपासितव्याः । अपि तु खलु पुनः सुभूते सर्वसत्त्वानामर्थाय अभ्युत्थितेन एतेषां च अन्येषां च मारकर्मणामवबोधाय नित्यमेवोद्विग्नचित्तेन भवितव्यं सर्वसत्त्वानां मार्गमप्रतिलभमानानामुपदेष्टुमुत्रस्तमानसेन असंसृष्टेन त्रैधातुकेन । तत्रापि तावन्मैत्रायमाणेन करुणायमानेन महाकरुणामुत्पाद्य अनुकम्पामुपादाय सम्यक्प्रतिपन्नेषु सत्त्वेषु मुदितचित्तेनानुपलब्धिधर्मतया धर्माणामुपेक्षकेण एवं चित्तमुत्पादयितव्यम् - तथा करिष्यामि यथा सर्वे मारकर्मदोषाः सर्वेण सर्वं सर्वथा सर्वं सर्वत्र सर्वदा च न भविष्यन्ति, नोत्पत्स्यन्ते । सचेदुत्पत्स्यन्ते, क्षिप्रमेव प्रतिगमिष्यन्ति, एवं शिक्षिष्ये इति । अयमपि बोधिसत्त्वानां महासत्त्वानां स्वयमभिज्ञाय पराक्रमो वेदितव्यः । इदमपि सुभूते बोधिसत्त्वेन महासत्त्वेन विवेकगुणेन मारकर्म वेदितव्यमिति ॥ आर्याष्टसाहस्रिकायां प्रज्ञापारमितायां मारकर्मपरिवर्तो नाम एकविंशतितमः ॥ _______________________________________________________________ (वैद्य १९७) २२: कल्याणमित्रपरिवर्तो द्वाविंशतितमः । अथ खलु भगवान् पुनरप्यायुष्मन्तं सुभूतिमामन्त्रयते स्म - इह सुभूते बोधिसत्त्वेन महासत्त्वेन अध्याशयसंप्रस्थितेन अनुत्तरां सम्यक्संबोधिमभिसंबोद्धुकामेन आदित एवं कल्याणमित्राणि सेवितव्यानि भक्तव्यानि पर्युपासितव्यानि । सुभूतिराह - कतमानि तानि पुनर्भगवन् बोधिसत्त्वस्य महासत्त्वस्य कल्याणमित्राणि वेदितव्यानि, यानि बोधिसत्त्वेन महासत्त्वेन अध्याशयसंप्रस्थितेन अनुत्तरां सम्यक्संबोधिमभिसंबोद्धुकामेन आदित एव कल्याणमित्राणि सेवितव्यानि भक्तव्यानि पर्युपासितव्यानि? एवमुक्ते भगवानायुष्मन्तं सुभूतिमेतदवोचत्- बुद्धा एव सुभूते भगवन्तः, ये च तेऽविनिवर्तनीया बोधिसत्त्वा महासत्त्वा बोधिसत्त्वचर्याकुशलाः, य एनं पारमितास्वववदन्ति अनुशासति, येऽस्मै प्रज्ञापारमितां देशयन्त्युपदिशन्ति । इमानि तानि सुभूते बोधिसत्त्वस्य महासत्त्वस्य कल्याणमित्राणि वेदितव्यानि । प्रज्ञापारमितैव सुभूते बोधिसत्त्वस्य महासत्त्वस्य कल्याणमित्रं वेदितव्यम् । सर्वा एव च सुभूते षट्पारमिता बोधिसत्त्वस्य महासत्त्वस्य कल्याणमित्राणि वेदितव्यानि । षडेव पारमिताः शास्ता, षट्पारमिता मार्गः, षट्पारमिता आलोकः, षट्पारमिता उल्का, षट्पारमिताः अवभासः, षट्पारमितास्त्राणम्, षट्पारमिताः शरणम्, षट्पारमिता लयनम्, षट्पारमिताः परायणम्, षट्पारमिताः द्वीपः, षट्पारमिता माता, षट्पारमिताः पिता, षट् पारमिता ज्ञानाय बोधाय अनुत्तरायै सम्यक्संबोधये संवर्तन्ते । तत्कस्य हेतोः? अत्र हि सुभूते प्रज्ञापारमिता परिनिष्ठिता भवति यदुत षट्पारमितासु । येऽपि ते सुभूते अतीतेऽध्वनि तथागता अर्हन्तः सम्यक्संबुद्धा अनुत्तरां सम्यक्संबोधिमभिसंबुध्य परिनिर्वृताः, तेषामपि बुद्धानां भगवतामितोनिर्जातैव सर्वज्ञता, यदुत षड्भ्यः पारमिताभ्यः । येऽपि ते सुभूते भविष्यन्त्यनागतेऽध्वनि तथागता अर्हन्तः सम्यक्संबुद्धा अनुत्तरां सम्यक्संबोधिमभिसंभोत्स्यन्ते, तेषामपि बुद्धानां भगवतामितोनिर्जातैव सर्वज्ञता, यदुत षड्भ्यः पारमिताभ्यः । येऽपि ते सुभूते अप्रमेयेष्वसंख्येयेष्वपरिमाणेष्वचिन्त्येषु लोकधातुषु तथागता अर्हन्तः सम्यक्संबुद्धा एतर्ह्यनुत्तरां सम्यक्संबोधिमभिसंबुद्धास्तिष्ठन्ति, ध्रियन्ते, यापयन्ति, धर्मं च देशयन्ति, तेषामपि बुद्धानां भगवतामितोनिर्जातैव सर्वज्ञता, यदुत षड्भ्यः पारमिताभ्यः । अहमपि सुभूते तथागतोऽर्हन् सम्यक्संबुद्ध एतर्ह्यनुत्तरां सम्यक्संबोधिमभिसंबुद्धः । ममापि हि सुभूते इतोनिर्जातैव सर्वज्ञता, यदुत षड्भ्यः पारमिताभ्यः । तत्कस्य हेतोः? आसु हि सुभूते षट्सु पारमितासु सप्तत्रिंशद्बोधिपक्षा धर्मा अन्तर्गताः, चत्वारो ब्रह्मविहाराः, चत्वापि संग्रहवस्तूनि । यावांश्च कश्चिद्बुद्धधर्मो बुद्धज्ञानं स्वयंभूज्ञानमचिन्त्यज्ञानमतुल्यज्ञानमप्रमेयज्ञानमसंख्येयज्ञानमसमज्ञानमसमसमज्ञानं सर्वज्ञज्ञानम्, सर्वं तत्षट्सु पारमितास्वन्तर्गतम् । तस्मात्तर्हि सुभूते बोधिसत्त्वस्य महासत्त्वस्य षट्पारमिता एव कल्याणमित्राणि वेदितव्यानि, षडेव पारमिताः शास्ता, षट्पारमिता मार्गः, षट्पारमिता आलोकः, षट्पारमिता उल्का, षट्पारमिता अवभासः, षट्पारमितास्त्राणम्, षट्(वैद्य १९८) पारमिताः शरणम्, षट्पारमिता लयनम्, षट्पारमिताः परायणम्, षट्पारमिता द्वीपः, षट्पारमिता माता, षट्पारमिताः पिता, षट्पारमिता ज्ञानाय बोधाय सर्वज्ञतायै अनुत्तरसम्यक्संबोधिप्राप्तये संवर्तन्ते । सर्वसत्त्वानामप्रत्युपकारिणामपि उपकारिभूतो भवति, यदा बोधिसत्त्वो महासत्त्वः षट्पारमितासु शिक्षते ॥ आसु खलु पुनः सुभूते षट्सु पारमितासु शिक्षितुकामेन बोधिसत्त्वेन महासत्त्वेन इयमेव प्रज्ञापारमिता श्रोतव्या उद्ग्रहीतव्या धारयितव्या वाचयितव्या पर्यवाप्तव्या प्रवर्तयितव्या देशयितव्या उपदेष्टव्या उद्देष्टव्या स्वाध्यातव्या, अर्थतश्च धर्मतश्च नयतश्चोपपरीक्षितव्या उपनिध्यातव्या परिप्रष्टव्या परिप्रश्नयितव्या । तत्कस्य हेतोः? एषा हि प्रज्ञापारमिता षण्णां पारमितानां पूर्वंगमा नायिका परिणायिका संदर्शिका अवदर्शिका जनयित्री धत्री । तत्कस्य हेतोः? प्रज्ञापारमिताविरहिता हि पञ्च पारमिता न प्रज्ञायन्ते, नापि पारमितानामधेयं लभन्ते । तस्मात्तर्हि सुभूते अपरप्रणेयतां गन्तुकामेन बोधिसत्त्वेन महासत्त्वेन अपरप्रणेयतायां स्थातुकामेन इहैव प्रज्ञापारमितायां शिक्षितव्यम् ॥ सुभूतिराह - किंलक्षणा भगवन् प्रज्ञापारमिता? एवमुक्ते भगवानायुष्मन्तं सुभूतिमेतदवोचत्- असङ्गलक्षणा सुभूते प्रज्ञापारमिता । सुभूतिराह - स्याद्भगवन् पर्यायो येन पर्यायेण येनैवासङ्गलक्षणेन प्रज्ञापारमिता संविद्यते, तेनैव असङ्गलक्षणेन सर्वधर्माः संविद्येरन्? भगवानाह - एवमेतत्सुभूते, एवमेतत् । स्यात्सुभूते पर्यायो येन पर्यायेण येनैव असङ्गलक्षणेन प्रज्ञापारमिता संविद्यते, तेनैव असङ्गलक्षणेन सर्वधर्माः संविद्यन्ते । तत्कस्य हेतोः? सर्वधर्मा हि सुभूते विविक्ताः । सर्वधर्मा हि सुभूते शून्याः । तस्मात्तर्हि सुभूते येनैव असङ्गलक्षणेन प्रज्ञापारमिता विविक्ता शून्या, तेनैव असङ्गलक्षणेन सर्वधर्मा विविक्ताः शून्याः । सुभूतिराह - यदि भगवन् सर्वधर्मा विविक्ताः, सर्वधर्माः शून्याः, कथं भगवन् सत्त्वानां संक्लेशः प्रज्ञायते, कथं भगवन् सत्त्वानां व्यवदानं प्रज्ञायते? न च भगवन् विविक्तं संक्लिश्यते, न भगवन् विविक्तं व्यवदायति । न च भगवन् शून्यं संक्लिश्यते, न च भगवन् शून्यं व्यवदायति । न च भगवन् विविक्तं वा शून्यं वा अनुत्तरां सम्यक्संबोधिमभिसंबुध्यते । अन्यत्रापि भगवन् शून्यतायाः सर्वधर्मो नोपलभ्यते, योऽनुत्तरां सम्यक्संबोधिमभिसंबुद्धो वा, अभिसंभोत्स्यते वा, अभिसंबुध्यते वा । कथं वा वयं भगवनस्य भाषितस्यार्थमाजानीमः? देशयतु भगवन्, देशयतु सुगत । एवमुक्ते भगवानायुष्मन्तं सुभूतिमेतदवोचत्- तत्किं मन्यसे दीर्घरात्रं सत्त्वा अहंकारे ममकारे चरन्ति? सुभूतिराह - एवमेतद्भगवन्, एवमेतत्सुगत । दीर्घरात्रं सत्त्वा अहंकारे ममकारे चरन्ति । भगवानाह - तत्किं मन्यसे सुभूते अपि नु अहंकारममकारौ शून्यौ? सुभूतिराह - शून्यौ भगवन्, शून्यौ सुगत । भगवानाह - तत्किं मन्यसे सुभूते अहंकारेण ममकारेण च सत्त्वाः संसारे संसरन्ति? सुभूतिराह - एवमेतद्भगवन्, एवमेतत्सुगत । अहंकारेण ममकारेण च सत्त्वाः संसारे संसरन्ति । भगवानाह - एवं खलु सुभूते सत्त्वानां संक्लेशः प्रज्ञायते । यथा सत्त्वानामुद्ग्रहोऽभिनिवेशः, तथा संक्लेशः । न चात्र (वैद्य १९९) कश्चित्संक्लिश्यते । यथा च सुभूते अनुद्गहोऽनभिनिवेशः, तथा नाहंकारममकारौ प्रज्ञायेते । एवं खलु सुभूते सर्वसत्त्वानां व्यवदानं प्रज्ञायते । यथा सत्त्वानामनुद्ग्रहोऽनभिनिवेशः, तथा व्यवदानम् । न चात्र कश्चिद्व्यवदायति । एवं खलु सुभूते चरन् बोधिसत्त्वो महासत्त्वश्चरति प्रज्ञापारमितायाम् । एवं खलु सुभूते सर्वधर्मेषु विविक्तेषु सर्वधर्मेषु शून्येषु सत्त्वानां संक्लेशो व्यवदानं च प्रज्ञायते । सुभूतिराह - आश्चर्यं भगवन् यावद्यदिदं सर्वधर्मेषु विविक्तेषु सर्वधर्मेषु शून्येषु सत्त्वानां संक्लेशो व्यवदानं च प्रज्ञायते । एवं च भगवंश्चरन् बोधिसत्त्वो महासत्त्वश्चरति प्रज्ञापारमितायाम् । एवं हि चरन् बोधिसत्त्वो महासत्त्वो न रूपे चरति, न वेदनायां न संज्ञायां न संस्कारेषु, न विज्ञाने चरति । एवं चरन् भगवन् बोधिसत्त्वो महासत्त्वोऽनवमर्दनीयो भवति सदेवमानुषासुरेण लोकेन । एवं चरन् भगवन् बोधिसत्त्वो महासत्त्वः सर्वेषां श्रावकयानिकानां प्रत्येकबुद्धयानिकानां च पुद्गलानां चर्यामभिभवति, अनभिभूतं च स्थानं प्रतिलभते । तत्कस्य हेतोः? अनभिभूतं हि भगवन् बुद्धत्वं तथागतत्वं स्वयंभूत्वं सर्वज्ञत्वम् । अनेनापि भगवन्मनसिकारेण प्रज्ञापारमिताप्रतिसंयुक्तेन विहारेण विहरन् बोधिसत्त्वो महासत्त्वो रात्रिंदिनान्यतिनामयेत्, आसन्नः स्यादनुत्तरायाः सम्यक्संबोधेः, क्षिप्रं चानुत्तरां सम्यक्संबोधिमभिसंबुध्येत । एवमुक्ते भगवानायुष्मन्तं सुभूतिमेतदवोचत्- एवमेतत्सुभूते, एवमेतत् । एवं चरन् सुभूते बोधिसत्त्वो महासत्त्वश्चरति प्रज्ञापारमितायाम् । एवं हि चरन् सुभूते बोधिसत्त्वो महासत्त्वो न रूपे चरति, न वेदनायां न संज्ञायां न संस्कारेषु, न विज्ञाने चरति । एवं चरन् सुभूते बोधिसत्त्वो महासत्त्वोऽनवमर्दनीयो भवति सदेवमानुषासुरेण लोकेन । एवं चरन् सुभूते बोधिसत्त्वो महासत्त्वः सर्वेषां श्रावकयानिकानां प्रत्येकबुद्धयानिकानां च पुद्गलानां चर्यामभिभवति, अनभिभूतं च स्थानं प्रतिलभते । तत्कस्य हेतोः? अनभिभूतं हि सुभूते बुद्धत्वं तथागतत्वं स्वयंभूत्वं सर्वज्ञत्वम् । अनेनापि सुभूते मनसिकारेण प्रज्ञापारमिताप्रतिसंयुक्तेन विहारेण विहरन् बोधिसत्त्वो महासत्त्वो रात्रिंदिनान्यतिनामयेत्, आसन्नः स्यादनुत्तरायाः सम्यक्संबोधेः, क्षिप्रं च अनुत्तरां सम्यक्संबोधिमभिसंबुध्येत ॥ सचेत्खलु पुनः सुभूते ये जम्बूद्वीपे सत्त्वाः, ते सर्वेऽपूर्वाचरमं मानुष्यकमात्मभावं प्रतिलभेरन्, मानुष्यकमात्मभावं प्रतिलभ्य अनुत्तरायां सम्यक्संबोधौ चित्तमुत्पादयेरन्, अनुत्तरायां सम्यक्संबोधौ चित्तमुत्पाद्य यावज्जीवं तिष्ठेयुः, यावज्जीवं तिष्ठन्तो यावज्जीवं सर्वतथागतान् सत्कुर्युर्गुरुकुर्युर्मानयेयुः पूजयेयुरर्चयेयुरपचायेयुः, एवं सर्वसत्त्वेभ्योऽपि दानं दद्युः, तच्च दानमनुत्तरायां सम्यक्संबोधौ परिणामयेयुः । तत्किं मन्यसे सुभूते अपि नु ते बोधिसत्त्वा महासत्त्वास्ततोनिदानं बहु पुण्यं प्रसवेयुः? सुभूतिराह - बहु भगवन्, बहु सुगत । भगवानाह - अतः खलु पुनः सुभूते स कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवति, यो बोधिसत्त्वो महासत्त्वोऽन्ततः एकदिवसमपि प्रज्ञापारमिताप्रतिसंयुक्तैर्मनसिकारैर्विहरति । (वैद्य २००) तत्कस्य हेतोः? यथा यथा हि सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमिताप्रतिसंयुक्तैर्मनसिकारै रात्रिंदिवं विहरति, तथा तथा सर्वसत्त्वानां दक्षिणीयतां गच्छति । तत्कस्य हेतोः? तथा हि सुभूते नास्ति तदन्येषां सत्त्वानां तादृशं मैत्रीसहगतं चित्तम्, यथा तस्य बोधिसत्त्वस्य महासत्त्वस्य, स्थापयित्वा बुद्धान् भगवतः । तत्कस्य हेतोः? अप्रतिपुद्गला हि सुभूते तथागताः । निरुपमा हि सुभूते तथागताः । अचिन्त्यधर्मसमन्वागता हि सुभूते तथागता अर्हन्तः सम्यक्संबुद्धाः ॥ कथं च सुभूते स कुलपुत्रो वा कुलदुहिता वा तावत्तत्पुण्यमभिनिर्हरति? तादृश्या सुभूते प्रज्ञया समन्वागतः स बोधिसत्त्वो महासत्त्वो भवति, यादृश्या प्रज्ञया समन्वागतो वध्यगतानिव सर्वसत्त्वान् पश्यति । तेन तस्यां वेलायां महाकरुणापरिगृहीतो भवति । स दिव्येन चक्षुषा व्यवलोकयनप्रमेयानसंख्येयानपरिमेयानपरिमाणान् सत्त्वानानन्तर्यकर्मसमन्वागतान् पश्यति, अक्षणप्राप्तांश्च विहन्यमानांश्च दृष्टिजालप्रतिच्छन्नांश्च मार्गमप्रतिलभमानान् । अपरांश्च क्षणप्राप्तान् पश्यति, क्षणांश्च विरागयतः पश्यति । तस्य तस्यां वेलायां महान् संवेग उत्पद्यते । ते चास्य सर्वसत्त्वास्तया महामैत्र्या तया च महाकरुणया स्फारित्वा मनसिकृता भवन्ति - अहमेतेषां सर्वेषां सत्त्वानां नाथो भविष्यामि, अहमेनान् सर्वसत्त्वान् सर्वदुःखेभ्यो मोचयिष्यामीति । न च तेन वा अन्येन वा निमित्तेन सार्धं संवसति । अयमपि सुभूते बोधिसत्त्वस्य महासत्त्वस्य महान् प्रज्ञालोकोऽनुत्तरां सम्यक्संबोधिमभिसंबोद्धुम् । अनेन हि सुभूते विहारेण विहरन्तो बोधिसत्त्वा महासत्त्वाः सर्वलोकस्य दक्षिणीयतां परिगृह्णन्ति, न च विवर्तन्तेऽनुत्तरायाः सम्यक्संबोधेः । येषां च दायकानां दानपतीनां च परिभुञ्जते चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्कारान्, अस्यां प्रज्ञापारमितायां सूपस्थितचित्ताः, तेषां दायकानां दानपतीनां च दानदक्षिणां विशोधयन्ति । सर्वज्ञता चैषामासन्नीभवति । तस्मात्तर्हि सुभूते बोधिसत्त्वेन महासत्त्वेन अमोघं राष्ट्रं पिण्डं परिभोक्तुकामेन सर्वसत्त्वानां मार्गमुपदेष्टुकामेन विपुलमवभासं कर्तुकामेन संसारगतान् सत्त्वान् संसारात्परिमोचयितुकामेन सर्वसत्त्वानां चक्षुर्विशोधयितुकामेन अनेन प्रज्ञापारमिताप्रतिसंयुक्तेन मनसिकारेण विहर्तव्यम् । सचेदनेन मनसिकारेण विहर्तुमिच्छति, तेन प्रज्ञापारमिताप्रतिसंयुक्ता मनसिकाराः समन्वाहर्तव्याः । तत्कस्य हेतोः? यो ह्येनान् समन्वाहर्तव्यान्मंस्यते, स एवास्य मनसिकारो भविष्यति । ततोऽन्येषां मनसिकाराणां प्रज्ञापारमिताविरहितानामवकाशो न दातव्यः । तथा च कर्तव्यं यथायं प्रज्ञापारमिताप्रतिसंयुक्तैर्मनसिकारै रात्रिंदिवानि क्षपयेत् । तद्यथापि नाम सुभूते केनचिदेव पुरुषेण मणिरत्नज्ञाने वर्तमानेन मणिरत्नजातिज्ञेन अप्रतिलब्धपूर्वं महामणिरत्नं प्रतिलब्धं भवेत् । स तन्महामणिरत्नं प्रतिलभ्य महतोदारेण प्रीतिप्रामोद्येन समन्वागतो भवेत् । तस्य तन्महामणिरत्नं पुनरेव प्रणश्येत् । स ततोनिदानं महता दुःखदौर्मनस्येन संयुज्येत । तस्य सततसमितं तन्महामणिरत्नं प्रति संयुक्ता एव मनसिकाराः प्रवर्तेरन् - अहो बताहं तेन (वैद्य २०१) महामणिरत्नेन विप्रयुक्त इति हि स पुरुषस्तस्य महामणिरत्नस्य न विस्मरेत्यावत्तद्वा अन्यद्वा तद्गुणं तज्जातिकं तेन महामणिरत्नं प्रतिलब्धं भवेत् । एवमेव सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितामहामणिरत्नपरिभ्रष्टेन महामणिरत्नपरिभ्रष्टेनेव महामणिरत्नेन रत्नसंज्ञिना प्रज्ञापारमितामनसिकाराविप्रयुक्तेन प्रज्ञापारमितामनसिकाराविरहितसर्वज्ञताचित्तेन तावदन्वेष्टव्या, यावत्सा वा अन्या वा प्रतिलब्धा भवति । तावत्तेन प्रज्ञापारमितामहामणिरत्नप्रतिलम्भप्रतिसंयुक्तैर्मनसिकारैः सर्वज्ञतामहामणिरत्नप्रतिलम्भप्रतिसंयुक्तैर्मनसिकारैरविरहितेन भवितव्यम् ॥ सुभूतिराह - यत्पुनर्भगवन् सर्वधर्माः सर्वमनसिकाराः स्वभावेन विरहिताः शून्या उक्ता भगवता, तत्कथं भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमिताप्रतिसंयुक्तैर्मनसिकारैः सर्वज्ञताप्रतिसंयुक्तैर्मनसिकारैरविरहितो भवति? एवमुक्ते भगवानायुष्मन्तं सुभूतिमेतदवोचत्- सचेत्सुभूते बोधिसत्त्वो महासत्त्व एवं मनसि करोति - सर्वधर्माः स्वभावेन विविक्ताः, सर्वधर्माः स्वभावेन शून्या इति, एवमेतन्मनसि कुर्वन् प्रज्ञापारमिताप्रतिसंयुक्तैर्मनसिकारैः सर्वज्ञताप्रतिसंयुक्तैर्मनसिकारैरविरहितो भवति । तत्कस्य हेतोः? प्रज्ञापारमिता हि सुभूते शून्या । सा नैव विवर्धते, न च परिहीयते । सुभूतिराह - सचेद्भगवन् प्रज्ञापारमिता शून्या, सा नैव विवर्धते न च परिहीयते, कथं भगवन् बोधिसत्त्वो महासत्त्वोऽविवर्धमानया प्रज्ञापारमितया बोधये समुदागच्छति, कथं च अनुत्तरां सम्यक्संबोधिमभिसंबुध्यते? एवमुक्ते भगवानायुष्मन्तं सुभूतिमेतदवोचत्- न खलु पुनः सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् विवर्धते वा परिहीयते वा । यथैव सुभूते प्रज्ञापारमिता शून्या, सा नैव विवर्धते न च परिहीयते, एवमेव सुभूते बोधिसत्त्वो महासत्त्वः शून्यः । स नैव विवर्धते, न च परिहीयते । यतः सुभूते यथैव प्रज्ञापारमिता शून्या, सा नैव विवर्धते न च परिहीयते, एवमेव सुभूते बोधिसत्त्वो महासत्त्वः शून्यः । स नैव विवर्धते, न च परिहीयते । ततो बोधिसत्त्वो महासत्त्वो बोधये समुदागच्छति, एवं च अनुत्तरां सम्यक्संबोधिमभिसंबुध्यते । सचेत्सुभूते बोधिसत्त्वो महासत्त्वः एवं भाष्यमाणे नोत्रस्यति न संत्रस्यति न संत्रासमापद्यते न संसीदति, वेदितव्यमेतत्सुभूते चरत्ययं बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायामिति ॥ सुभूतिराह - किं पुनर्भगवन् प्रज्ञापारमिता चरति प्रज्ञापारमितायाम्? भगवानाहनो हीदं सुभूते । आह - किं पुनर्भगवन् या प्रज्ञापारमितायाः शून्यता, सा चरति प्रज्ञापारमितायाम्? भगवानाह - नो हीदं सुभूते । आह - किं पुनर्भगवनन्यत्र प्रज्ञापारमिताशून्यतायाः स कश्चिद्धर्म उपलभ्यते, यश्चरति प्रज्ञापारमितायाम्? भगवानाह - नो हीदं सुभूते । आह - किं पुनर्भगवन् शून्यता चरति प्रज्ञापारमितायाम्? भगवानाह - नो हीदं सुभूते । आह - किं पुनर्भगवन् शून्यतायां स कश्चिद्धर्म उपलभ्यते यश्चरति प्रज्ञापारमितायाम्? भगवानाह - नो हीदं सुभूते । आह - किं पुनर्भगवन् शून्यता चरति शून्यतायाम्? भगवानाह - नो हीदं सुभूते । आह - किं पुनर्भगवन् रूपं चरति प्रज्ञापारमितायाम्? (वैद्य २०२) भगवानाह - नो हीदं सुभूते । आह - किं पुनर्भगवन् वेदना संज्ञा संस्काराः, किं पुनर्भगवन् विज्ञानं चरति प्रज्ञापारमितायाम्? भगवानाह - नो हीदं सुभूते । आह - किं पुनर्भगवनन्यत्र रूपात्स धर्मः कश्चिदुपलभ्यते, यश्चरति प्रज्ञापारमितायाम्? भगवानाह - नो हीदं सुभूते । आह - किं पुनर्भगवनन्यत्र वेदनायाः संज्ञायाः संस्कारेभ्यः, अन्यत्र विज्ञानात्स धर्मः कश्चिदुपलभ्यते, यश्चरति प्रज्ञापारमितायाम्? भगवानाह - नो हीदं सुभूते । सुभूतिराह - कथं पुनर्भगवन् बोधिसत्त्वो महासत्त्वश्चरति प्रज्ञापारमितायाम्? एवमुक्ते - भगवानायुष्मन्तं सुभूतिमेतदवोचत्- किं पुनः सुभूते समनुपश्यसि त्वं तं धर्मं यश्चरति प्रज्ञापारमितायाम्? सुभूतिराह - नो हीदं भगवन् । भगवानाह - समनुपश्यसि त्वं सुभूते तां प्रज्ञापारमितां यत्र प्रज्ञापारमितायां बोधिसत्त्वो महासत्त्वश्चरति? आह - नो हीदं भगवन् । भगवानाह - तत्किं मन्यसे सुभूते यो धर्मोऽनुपलम्भः, तं धर्मं समनुपश्यसि? अपि नु स एव धर्म उत्पन्नो वा उत्पत्स्यते वा उत्पद्यते वा, निरुद्धो वा निरोत्स्यते वा निरुध्यते वा? आह - नो हीदं भगवन् । भगवानाह - एवं खलु सुभूते बोधिसत्त्वस्य महासत्त्वस्य अनुत्पत्तिकेषु धर्मेषु क्षान्तिरेवंरूपा भवति । एवंरूपया च सुभूते क्षान्त्या समन्वागतो बोधिसत्त्वो महासत्त्वो व्याक्रियतेऽनुत्तरायां सम्यक्संबोधौ । इयं सुभूते तथागतस्य वैशारद्यप्रतिपद्यां प्रतिपद्यमानो बोधिसत्त्वो महासत्त्वः एवं चरनेवं घटमानः एवं व्यायच्छमानोऽनुत्तरं बुद्धज्ञानं सर्वज्ञज्ञानं महासार्थवाहज्ञानं नानुप्राप्स्यतीति नैतत्स्थानं विद्यते ॥ सुभूतिराह - या भगवन् सर्वधर्माणामनुत्पत्तिकधर्मता, सा व्याक्रियतेऽनुत्तरायां सम्यक्संबोधौ? भगवानाह - नो हीदं सुभूते । सुभूतिराह - कथमस्येदानीं भगवन् धर्मस्य व्याकरणं भवत्यनुत्तरायां सम्यक्संबोधौ? भगवानाह - किं पुनः सुभूते समनुपश्यसि त्वं तं धर्मं यस्य धर्मस्य व्याकरणं भवत्यनुत्तरायां सम्यक्संबोधौ? सुभूतिराह - नो हीदं भगवन् । नाहं भगवंस्तं धर्मं समनुपश्यामि यो धर्मो व्याकृतो व्याकरिष्यते व्याक्रियते वा अनुत्तरायां सम्यक्संबोधौ । तमप्यहं भगवन् धर्मं न समनुपश्यामि, यो धर्मोऽभिसंबुध्यते, यो धर्मोऽभिसंबोद्धव्यः, येन वा धर्मेणाभिसंबुध्यते । तत्कस्य हेतोः? सर्वधर्मेषु भगवननुपलभ्यमानेषु न मे एवं भवति - अयं धर्मोऽभिसंबुध्यते, अयं धर्मोऽभिसंबोद्धव्यः, अनेन वा धर्मेणाभिसंबुध्यते इति ॥ आर्याष्टसाहस्रिकायां प्रज्ञापारमितायां कल्याणमित्रपरिवर्तो नाम द्वाविंशतितमः ॥ _______________________________________________________________ (वैद्य २०३) २३: शक्रपरिवर्तस्त्रयोविंशतितमः । तेन खलु पुनः समयेन शक्रो देवानामिन्द्रस्तस्यामेव पर्षदि संनिपतितः संनिषण्णोऽभूत् । अथ खलु शक्रो देवानामिन्द्रो भगवन्तमेतदवोचत्- गम्भीरेयं भगवन् प्रज्ञापारमिता । दुर्द्दशा दुरनुबोधा बतेयं भगवन् प्रज्ञापारमिता । एवमुक्ते भगवान् शक्रं देवानामिन्द्रमेतदवोचत्- एवमेतत्कौशिक, एवमेतत् । गम्भीरेयं कौशिक प्रज्ञापारमिता । दुर्दृशा दुरनुबोधा बतेयं कौशिक प्रज्ञापारमिता । आकाशगम्भीरतया गम्भीरेयं प्रज्ञापारमिता । विविक्तत्वाद्दुर्दृशा । शून्यत्वाद्दुरनुबोधेयं प्रज्ञापारमिता । एवमुक्ते शक्रो देवानामिन्द्रो भगवन्तमेतदवोचत्- न ते भगवन् सत्त्वा अवरकेण कुशलमूलेन समन्वागता भविष्यन्ति य इमां गम्भीरां प्रज्ञापारमितां श्रोष्यन्ति । श्रुत्वा च उद्ग्रहीष्यन्ति धारयिष्यन्ति वाचयिष्यन्ति पर्यवाप्स्यन्ति प्रवर्तयिष्यन्ति देशयिष्यन्त्युपदेक्ष्यन्त्युद्देक्ष्यन्ति स्वाध्यास्यन्ति लिखिष्यन्ति । एवमुक्ते भगवान् शक्रं देवानामिन्द्रमेतदवोचत्- एवमेतत्कौशिक, एवमेतत् । न ते कौशिक सत्त्वा अवरकेण कुशलमूलेन समन्वागता भविष्यन्ति, य इमां गम्भीरां प्रज्ञापारमितां श्रोष्यन्ति । श्रुत्वा चोद्ग्रहीष्यन्ति धारयिष्यन्ति वाचयिष्यन्ति पर्यवाप्स्यन्ति प्रवर्तयिष्यन्ति देशयिष्यन्त्युपदेक्ष्यन्त्युद्देक्ष्यन्ति स्वाध्यास्यन्ति लिखिष्यन्ति । यावन्तः कौशिक जम्बूद्वीपे सत्त्वाः, ते सर्वे दशकुशलकर्मपथसमन्वागता भवेयुः, तत्किं मन्यसे कौशिक अपि नु ते सत्त्वास्ततोनिदानं बहु पुण्यं प्रसवेयुः? शक्र आह - बहु भगवन्, बहु सुगत । भगवानाह - अतः खलु पुनः स कौशिक कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवति, य इमां प्रज्ञापारमितां श्रोष्यति । श्रुत्वा च उद्ग्रहीष्यति धारयिष्यति वाचयिष्यति पर्यवाप्स्यति प्रवर्तयिष्यति देशयिष्यत्युपदेक्ष्यत्युद्देक्ष्यति स्वाध्यास्यति लिखिष्यति । अस्य कौशिक पुण्यस्कन्धस्य असौ पौर्वकाणां जाम्बूद्वीपकानां सर्वसत्त्वानां शीलमयः पुण्यस्कन्धः शततमीमपि कलां नोपैति । सहस्रतमीमपि शतसहस्रतमीमपि कोटीतमीमपि कोटीशततमीमपि कोटीसहस्रतमीमपि कोटीशतसहस्रतमीमपि कोटीनियुतशतसहस्रतमीमपि कलां नोपैति । संख्यामपि कलामपि गणनामपि उपमामपि औपम्यमपि उपनिसामपि उपनिषदमपि न क्षमते, येन कुशलमूलेन स कुलपुत्रो वा कुलदुहिता वा समन्वागतो भवति, य इमां गम्भीरां प्रज्ञापारमितां श्रोष्यति । श्रुत्वा चोद्ग्रहीष्यति धारयिष्यति वाचयिष्यति पर्यवाप्स्यति प्रवर्तयिष्यति देशयिष्यत्युपदेक्षत्युद्देक्ष्यति स्वाध्यास्यति लिखिष्यति ॥ अथ खल्वन्यतरो भिक्षुः शक्रं देवानामिन्द्रमेतदवोचत्- अभिभूतोऽसि कौशिक तेन कुलपुत्रेण वा कुलदुहित्रा वा य इमां गम्भीरां प्रज्ञापारमितां श्रोष्यति । श्रुत्वा चोद्ग्रहीष्यति धारयिष्यति वाचयिष्यति पर्यवाप्स्यति प्रवर्तयिष्यति देशयिष्यत्युपदेक्ष्यत्युद्देक्ष्यति स्वाध्यास्यति लिखिष्यति । एवमुक्ते शक्रो देवानामिन्द्रस्तं भिक्षुमेतदवोचत्- एकचित्तोत्पादेनैव अहमार्य तेन कुलपुत्रेण वा कुलदुहित्रा वा अभिभूतः । कः पुनर्वादो य इमां गम्भीरां प्रज्ञापारमितां श्रोष्यति । श्रुत्वा च उद्ग्रहीष्यति धारयिष्यति वाचयिष्यति पर्यवाप्स्यति प्रवर्तयिष्यति (वैद्य २०४) देशयिष्यत्युपदेक्ष्यत्युद्देक्ष्यति स्वाध्यास्यति लिखिष्यति । कः पुनर्वादो ये श्रुत्वा उद्गृह्य धारयित्वा वाचयित्वा पर्यवाप्य प्रवर्त्य देशयित्वोपदिश्योद्दिश्य स्वाध्याय्य लिखित्वा तथत्वाय शिक्षिष्यन्ते, तथत्वाय प्रतिपत्स्यन्ते, तथत्वाय योगमापत्स्यन्ते । ते सदेवमानुषासुरं लोकमभिभवन्तो गमिष्यन्ति बोधिसत्त्वा महासत्त्वाः । न केवलं ते सदेवमानुषासुरं लोकमभिभवन्तो गमिष्यन्ति, येऽपि ते स्रोतआपन्नाः सकृदागामिनोऽनागामिनोऽर्हन्तः सम्यक्संबुद्धाः, तानपि ते सर्वानभिभवन्तो गमिष्यन्ति बोधिसत्त्वा महासत्त्वाः । न केवलं स्रोतआपन्नान् सकृदागामिनोऽनागामिनोऽर्हतः प्रत्येकबुद्धानभिभवन्तो गमिष्यन्ति, येऽपि ते बोधिसत्त्वा महासत्त्वा महादानपतयः प्रज्ञापारमितोपायकौशल्यविरहिताः, तानपि ते सर्वानभिभवन्तो गमिष्यन्ति बोधिसत्त्वा महासत्त्वाः । न केवलं तान्महादानपतीन् बोधिसत्त्वानभिभवन्तो गमिष्यन्ति, येऽपि ते बोधिसत्त्वा महासत्त्वा परिशुद्धशीला अखण्डेन शीलस्कन्धेनाच्छिद्रेणाकल्मषेण परिपूर्णेन परिशुद्धेन अशबलेन शीलस्कन्धेन समन्वागताः प्रज्ञापारमितोपायकौशल्यविरहिताः, तानपि ते सर्वानभिभवन्तो गमिष्यन्ति बोधिसत्त्वा महासत्त्वाः । न केवलमखण्डेनाच्छिद्रेणाकल्मषेण परिपूर्णेन परिशुद्धेन अशबलेन शीलस्कन्धेन समन्वागतान् बोधिसत्त्वान्महासत्त्वानभिभवन्तो गमिष्यन्ति, येऽपि ते बोधिसत्त्वा महासत्त्वाः क्षान्तिसंपन्ना उपशमसंपन्ना अप्रतिहतचित्ता अन्ततो दग्धस्थूणायामप्याघातचित्तं नोत्पादयन्ति प्रज्ञापारमितोपायकौशल्यविरहिताः, तानपि ते सर्वानभिभवन्तो गमिष्यन्ति बोधिसत्त्वा महासत्त्वाः । न केवलं क्षान्तिसंपन्नानुपशमसंपन्नानप्रतिहतचित्तान् बोधिसत्त्वान्महासत्त्वानभिभवन्तो गमिष्यन्ति, येऽपि ते बोधिसत्त्वा महासत्त्वा आरब्धवीर्या अनिक्षिप्तधुरा अकुसीदा अनवलीनकायवाङ्मनःकर्मान्ताः प्रज्ञापारमितोपायकौशल्यविरहिताः, तानपि ते सर्वानभिभवन्तो गमिष्यन्ति बोधिसत्त्वा महासत्त्वाः । न केवलमारब्धवीर्याननिक्षिप्तधुरानकुसीदाननवलीनकायवाङ्मनःकर्मान्तान् बोधिसत्त्वान्महासत्त्वानभिभवन्तो गमिष्यन्ति, येऽपि ते बोधिसत्त्वा महासत्त्वा ध्यानारामा ध्यानरता ध्यानबलिनो ध्यानबलवन्तो ध्यानप्रतिष्ठिता ध्यानवशिनः प्रज्ञापारमितोपायकौशल्यविरहिताः, तानपि ते सर्वानभिभवन्तो गमिष्यन्ति बोधिसत्त्वा महासत्त्वाः । यथानिर्दिष्टायां हि प्रज्ञापारमितायां चरन् बोधिसत्त्वो महासत्त्वः सदेवमानुषासुरलोकं सर्वान् श्रावकप्रत्येकबुद्धयानिकाननुपायकुशलांश्च बोधिसत्त्वान्महासत्त्वानभिभवति, तेषां चानभिभूतो भवति । तत्कस्य हेतोः? यो हि बोधिसत्त्वो महासत्त्वो यथानिर्दिष्टायां प्रज्ञापारमितायां चरति, प्रज्ञापारमितामनुवर्तते, अयं बोधिसत्त्वो महासत्त्वः सर्वज्ञवंशस्यानुपच्छेदाय स्थितो भवति । अयं बोधिसत्त्वो महासत्त्वस्तथागतान्न दूरीकरिष्यति । अयं बोधिसत्त्वो महासत्त्व एवं प्रतिपद्यमानो नचिराद्गमिष्यति बोधिमण्डम् । अयं बोधिसत्त्वो महासत्त्व एवं शिक्षमाणः सत्त्वान् क्लेशपङ्के संसीदमानानुद्धरिष्यति । अयं बोधिसत्त्वो महासत्त्व एवं शिक्षमाणो बोधिसत्त्वशिक्षायां शिक्षते, न श्रावकशिक्षायां शिक्षते, न प्रत्येकबुद्धशिक्षायां शिक्षते । एवं शिक्षमाणं च प्रज्ञापारमितायां बोधिसत्त्वं महासत्त्वं (वैद्य २०५) चत्वारो लोकपाला महाराजान उपसंक्रम्यैवं वक्ष्यन्ति - क्षिप्रं त्वं कुलपुत्र अस्यां बोधिसत्त्वचर्यायां शिक्षस्व, लघु शिक्षस्व । इमानि ते चत्वारि पात्राणि यानि त्वया बोधिमण्डे निषद्य अनुत्तरां सम्यक्संबोधिमभिसंबुद्धेन प्रतिग्रहीतव्यानीति । एवं शिक्षमाणं बोधिसत्त्वं महासत्त्वं यथानिर्दिष्टायां प्रज्ञापारमितायां न केवलं चत्वारो लोकपाला महाराजान उपसंक्रमितव्यं मंस्यन्ते, अहमपि भगवंस्तं बोधिसत्त्वं महासत्त्वमुपसंक्रमिष्यामि, कः पुनर्वादस्तदन्ये देवपुत्राः । तथागतैरपि सोऽर्हद्भिः सम्यक्संबुद्धैर्नित्यमेव समन्वाहृतो भविष्यति बोधिसत्त्वो महासत्त्वः । एवं प्रज्ञापारमितायां चरतो बोधिसत्त्वस्य महासत्त्वस्य यानि कानिचिल्लौकिकानि दुःखानि परोपक्रमिकाणि वा अन्यानि वा उत्पद्येरन्, तान्यस्य सर्वेण सर्वं सर्वथा सर्वं नोत्पत्स्यन्ते । अयमपि भगवन् दृष्टधार्मिको गुणस्तस्य बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो भवति ॥ अथ खल्वायुष्मत आनन्तस्यैतदभवत्- किमयं शक्रो देवानामिन्द्रः स्वकेन प्रतिभानेन भाषते, उताहो बुद्धानुभावेनेति? अथ खलु बुद्धानुभावेन शक्रो देवानामिन्द्र आयुष्मत आनन्दस्य चेतसैव चेतःपरिवितर्कमाज्ञाय आयुष्मन्तमानन्दमेतदवोचत्- बुद्धानुभावोऽयमार्यानन्द वेदितव्यः, बुद्धाधिष्ठानमिदमपि आर्यानन्द वेदितव्यम्, अप्रतिबलो ह्यहमार्यानन्द बोधिसत्त्वान्महासत्त्वानारभ्य व्याहर्तुम् । अथ खलु भगवानायुष्मन्तमानन्दमामन्त्रयते स्म - एवमेतदानन्द, एवमेतत्यथा शक्रेण देवानामिन्द्रेण भाषितम् । तथागतस्यैषोऽनुभावः, तथागतस्यैतदधिष्ठानम्, यच्छक्रेण देवानामिन्द्रेण भाषितमिति ॥ आर्याष्टसाहस्रिकायां प्रज्ञापारमितायां शक्रपरिवर्तो नाम त्रयोविंशतितमः ॥ _______________________________________________________________ (वैद्य २०६) २४: अभिमानपरिवर्तश्चतुर्विंशतितमः । अथ खलु भगवान् पुनरप्यायुष्मन्तमानन्दमामन्त्रयते स्म - यस्मिन् खलु पुनरानन्द समये बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां शिक्षते, प्रज्ञापारमितायां योगमापद्यते, प्रज्ञापारमितां भावयति, तस्मिनानन्द समये ये त्रिसाहस्रमहासाहस्रे लोकधातौ माराः पापीयांसः, ते सर्वे संशयिता भवन्ति - किमयं बोधिसत्त्वो महासत्त्वोऽन्तरा भूतकोटिं साक्षात्करिष्यति श्रावकभूमौ वा प्रत्येकबुद्धभूमौ वा, उताहो अनुत्तरां सम्यक्संबोधिमभिसंभोत्स्यते इति । पुनरपरमानन्द तस्मिन् समये माराः पापीयांसः शोकशल्यविद्धा भवन्ति यस्मिन् समये बोधिसत्त्वो महासत्त्वः प्रज्ञापारमिताविहारेण विहरति । पुनरपरमानन्द यस्मिन् समये बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरति, प्रज्ञापारमितायां योगमापद्यते, प्रज्ञापारमितां भावयति, तस्मिन् समये माराः पापीयांसो बोधिसत्त्वस्य महासत्त्वस्य विहेठामुपसंहरन्ति, भयं संजनयन्ति, उल्कापातान् दिशि दिश्युत्सृजन्ति, दिग्दाहानुपदर्शयन्ति - अप्येव नाम अयं बोधिसत्त्वो महासत्त्वोऽवलीयेत वा रोमहर्षो वा अस्य भवेत्, येनास्यैकचित्तोत्पादोऽपि क्षीयेत अनुत्तरायां सम्यक्संबोधेरिति । तत्र आनन्द न सर्वस्य बोधिसत्त्वस्य महासत्त्वस्य मारः पापीयानुपसंक्रामति विहेठनाभिप्रायः, अपि तु कस्यचिदुपसंक्रामति, कस्यचिन्नोपसंक्रामति ॥ आनन्द आह - कियद्रूपस्य भगवन् बोधिसत्त्वस्य महासत्त्वस्य उपसंक्रामति मारः पापीयान् विहेठनाभिप्रायः? भगवानाह - येन आनन्द बोधिसत्त्वेन महासत्त्वेन पूर्वान्ततः प्रज्ञापारमितायां भाष्यमाणायामधिमुक्तिचित्तं नोत्पादितं भवति, अस्य आनन्द बोधिसत्त्वस्य महासत्त्वस्य मारः पापीयानुपसंक्रामति विहेठनाभिप्रायः, अवतारं चास्य लभते ॥ पुनरपरमानन्द यो बोधिसत्त्वो महासत्त्वो गम्भीरायां प्रज्ञापारमितायां भाष्यमाणायां संशयप्राप्तो भवति, विमतिमुत्पादयति - स्याद्वेयं प्रज्ञापारमिता, एवं न वा स्यादिति, अस्याप्यानन्द बोधिसत्त्वस्य महासत्त्वस्य मारः पापीयानुपसंक्रामति विहेठनाभिप्रायः, अवतारं चास्य लभते ॥ पुनरपरमानन्द यो बोधिसत्त्वो महासत्त्वः कल्याणमित्रविरहितो भवति, पापमित्रपरिगृहीतश्च भवति, स गम्भीराणि गम्भीराणि स्थानानि प्रज्ञापारमितायां भाष्यमाणायां न शृणोति, अशृण्वन्न जानाति, अजानन्न परिपृच्छति - कथं प्रज्ञापारमिता भावयितव्येति, अस्याप्यानन्द बोधिसत्त्वस्य महासत्त्वस्य मारः पापीयानुपसंक्रामति विहेठनाभिप्रायः, अवतारं चास्य लभते ॥ पुनरपरमानन्द यो बोधिसत्त्वो महासत्त्वोऽसद्धर्मपरिग्राहकमालीनो भवति - एष मम सहायकः, सर्वार्थेषु मां न परित्यजति, बहवोऽपि बोधिसत्त्वा महासत्त्वा ममान्येऽपि सहायकाः सन्ति । न च पुनस्ते ममाभिप्रायं परिपूरयन्ति । अयं तु मया प्रतिरूपः सहायो लब्धः । अयं ममाभिप्रायं परिपूरयिष्यति । अस्याप्यानन्द बोधिसत्त्वस्य महासत्त्वस्य मारः पापीयानुपसंक्रामति विहेठनाभिप्रायः, अवतारं चास्य लभते ॥ (वैद्य २०७) पुनरपरमानन्द यो बोधिसत्त्वो महासत्त्वोऽस्यां गम्भीरायां प्रज्ञापारमितायां भाष्यमाणायामन्यं बोधिसत्त्वमेवं वदेत्- गम्भीरा बतेयं प्रज्ञापारमिता । किं तवैनया श्रुतया? न ह्येवमत्र युज्यमानमन्येषु सूत्रान्तेषु यथा तथागतेन भाषितम् । अहमप्यस्यामगाधमास्वादं न लभे । किं तवैनया श्रुतया लिखितया वेति? एवमन्यानपि बोधिसत्त्वान्महासत्त्वान् विवेचयते । अस्याप्यानन्द बोधिसत्त्वस्य महासत्त्वस्य मारः पापीयानुपसंक्रामति विहेठनाभिप्रायः, अवतारं चास्य लभते ॥ पुनरपरमानन्द यस्मिन् समये बोधिसत्त्वो महासत्त्वोऽन्यान् बोधिसत्त्वानवमन्यते - अहं विवेकविहारेण विहरामि, नान्ये विवेकविहारेण विहरन्ति, नान्येषां विवेकविहाराः संविद्यन्ते इति । तस्मिन्नानन्द समये मारः पापीयांस्तुष्ट उदग्र आत्तमनाः प्रमुदितः प्रीतिसौमनस्यजातो भवति, संहर्षजातो हर्षितचित्तः प्रीतिप्रामोद्यजातो भवति । तत्कस्य हेतोः? दूरीकरोत्येषोऽनुत्तरां सम्यक्संबोधिमिति ॥ पुनरपरमानन्द यस्मिन् समये बोधिसत्त्वस्य महासत्त्वस्य नामग्रहणं वा गोत्रग्रहणं वा धुतगुणपरिकीर्तनं वा भवति, एवं स तावन्मात्रकेण ततोऽन्यान् बोधिसत्त्वान्महासत्त्वान् पेशलान् कल्याणधर्मणोऽवमन्यते । ते च तस्य गुणा न संविद्यन्ते, येऽविनिवर्तनीयानां बोधिसत्त्वानां महासत्त्वानां प्रज्ञापारमितायां चरतां गुणाः, ते आकारास्तानि लिङ्गानि तानि निमित्तानि तस्य न संविद्यन्ते । सोऽसंविद्यमानेष्वविनिवर्तनीयगुणेषु क्लेशमुत्पादयति, यदुत आत्मानमुत्क्रोशयति, परान् पंसयति - न खल्वेते तेषु धर्मेषु संदृश्यन्ते, यत्राहं संदृश्य इति । तत्र माराणां पापीयसामेवं भवति - न शून्यानि मारभवनानि भविष्यन्ति, उत्सदानि भविष्यन्ति । महानिरयास्तिर्यञ्चः प्रेतविषया आसुराश्च काया उत्सदा भविष्यन्तीति । तथा च मारः पापीयानधिष्ठास्यति, यथा ते बोधिसत्त्वा महासत्त्वा एवं प्रवृत्ता अध्याक्रान्ता लाभसत्कारेण भविष्यन्ति, आदेयवचनाश्च भविष्यन्ति । ते तया आदेयवचनतया बहुजनं ग्राहयिष्यन्ति । तेषां च स महाजनः श्रोतव्यं श्रद्धातव्यं मंस्यते । ते दृष्ट्वा श्रुत्वा च तेषामनुकृतिमापत्स्यन्ते । ते दृष्टश्रुतानुकृतिमापद्यमाना न तथत्वाय शिक्षिष्यन्ते, न तथत्वाय प्रतिपत्स्यन्ते, न तथत्वाय योगमापत्स्यन्ते । एवं ते न तथतायां शिक्षमाणा न तथतायां प्रतिपद्यमाना न तथतायां योगमापद्यमानाः संक्लेशं विवर्धयिष्यन्ति । एवं ते विपर्यस्तया चित्तसंतत्या यद्यदेव कर्म आरप्स्यन्ते कायेन वा वाचा वा मनसा वा, तत्सर्वमनिर्दिष्टत्वाय अकान्तत्वाय अप्रियत्वाय अमनआपत्वाय संवर्त्स्यते । एवं ते महानिरया उत्सदा भविष्यन्ति, तिर्यञ्चः प्रेतविषया आसुराश्च कायाः, मारभवनानि चोत्सदानि भविष्यन्ति । इममप्यानन्द अर्थवशं संपश्यन्मारः पापीयांस्तुष्ट उदग्र आत्तमनाः प्रमुदितः प्रीतिसौमनस्यजातो भवति ॥ पुनरपरमानन्द यस्मिन् समये बोधिसत्त्वो महासत्त्वः श्रावकयानिकेन पुद्गलेन सार्धं कलहायति विवदति विगृह्णीते आक्रोशेत्परिभाषेत व्यापद्येत दोषमुत्पादयति, तस्मिन् (वैद्य २०८) समये मारस्य पापीयस एवं भवति - दूरीकरिष्यति बतायं कुलपुत्रः सर्वज्ञताम्, अतिदूरे स्थास्यति सर्वज्ञतायाः सचेत्पुनर्बोधिसत्त्वयानिकः पुद्गलोऽन्येन बोधिसत्त्वयानिकेन पुद्गलेन सार्धं कलहायति विवदति विगृह्णीते आक्रोशति परिभाषते व्यापद्यते दोषमुत्पादयति, तत्र मारः पापीयान् भूयस्या मात्रया तुष्टो भवति, उदग्र आत्तमनाः प्रमुदितः प्रीतिसौमनस्यजातो भवति । एवं चास्य भवति - उभावप्येतौ बोधिसत्त्वौ दूरे स्थास्यतः सर्वज्ञताया इति ॥ पुनरपरमानन्द यो बोधिसत्त्वो महासत्त्वो व्याकृतोऽव्याकृतेन बोधिसत्त्वेन महासत्त्वेन सार्धं कलहायेत्विवदेत्विगृह्णीयाताक्रोशेत्परिभाषेत व्यापद्येत दोषमुत्पादयेत्, चित्तं चाघातयेत्, तेन बोधिसत्त्वेन महासत्त्वेन चित्तोत्पादे तावत एव कल्पान् संनाहः संनाह्यः, सचेदस्यापरित्यक्ता सर्वज्ञता ॥ एवमुक्ते आयुष्मानानन्दो भगवन्तमेतदवोचत्- अस्ति भगवंस्तेषां चित्तोत्पादानां किंचिन्निःसरणम्, उताहो तावत एव कल्पानवश्यं तेन बोधिसत्त्वेन महासत्त्वेन संनाहः संनह्यः? भगवानाह - सनिःसरणमानन्द मया धर्मो देशितः श्रावकयानिकानां प्रत्येकबुद्धयानिकानां बोधिसत्त्वयानिकानां च पुद्गलानाम् । तत्र आनन्द योऽयं बोधिसत्त्वयानिकः पुद्गलो बोधिसत्त्वयानिकेन पुद्गलेन सार्धं कलहायित्वा विवदित्वा विगृह्य आक्रुश्य परिभाष्य व्यापद्य दोषमुत्पाद्य न प्रतिदेशयति, नायत्यां संबराय प्रतिपद्यते, अनुशयं वहति, अनुशयबद्धो विहरति, नाहमानन्द तस्य पुद्गलस्य निःसरणं वदामि । अवश्यं तेन आनन्द पुद्गलेन पुनरेव तावत एव कल्पान् संनाहः संनह्यः । यः पुनरानन्द बोधिसत्त्वयानिकः पुद्गलो बोधिसत्त्वयानिकेन पुद्गलेन सार्धं कलहायित्वा विवदित्वा विगृह्य आक्रुश्य परिभाष्य व्यापद्य दोषमुत्पाद्य प्रतिदेशयति, प्रतिदेश्य आयत्यां संवराय प्रतिपद्यते, एवं च चित्तमुत्पादयति - येन मया सर्वसत्त्वानां विग्रहा विवादा विरोधा उत्सारयितव्या निध्यापयितव्याः प्रशमयितव्याः, सोऽहं नाम स्वयमेव विवदामि । लाभा मे दुर्लब्धा न सुलब्धाः, योऽहं जल्पिते प्रतिजल्पामि । येन मया सर्वसत्त्वानां संक्रमभूतेन भवितव्यम्, सोऽहं परेषु त्वमित्यपि वाचं भाषे, परुषं वा कर्कशं वा प्रतिवचो ददामि । इदमपि मया नैव वक्तव्यम् । जडसदृशेन एडमूकसमेन मया कलहविग्रहविवादेषु भवितव्यम्, परतो दुरुक्तानि दुरागतानि दुर्भाषितानि भाष्यमाणानि शृण्वता चित्तं नाघातयितव्यम् । परेषामन्तिके न ममैतत्साधु, न चैतन्ममां प्रतिरूपम्, योऽहं परस्य दोषान्तरं संजाने । एतदपि मे न प्रतिरूपम्, यदहं परेष दोषान्तरमपि श्रोतव्यं मन्ये । तत्कस्य हेतोः? न मया अध्याशयो विकोपयितव्यः, येन मया सर्वसत्त्वाः सर्वसुखोपधानैः सुखयितव्याः, परिनिर्वापयितव्याश्च अनुत्तरां सम्यक्संबोधिमभिसंबुध्य, स नामाहं व्यापद्ये । न च मया स्वपराद्धेष्वपि परेषु व्यापत्तव्यम् । स नामाहं क्षोभं गच्छामि । इदं मया न करणीयम् । दृढपराक्रमतया पराक्रान्तव्यम् । न च मया जीवितान्तरायेऽपि क्रियमाणे क्षोभः करणीयः, न भ्रुकुटिर्मुखे उत्पादयितव्येति । अस्याहमानन्द (वैद्य २०९) बोधिसत्त्वस्य महासत्त्वस्य निःसरणं वदामि । एवं चानन्द बोधिसत्त्वेन महासत्त्वेन श्रावकयानिकानामपि पुद्गलानामन्तिके स्थातव्यम्, यथा न कस्यचित्सत्त्वस्यान्तिके क्षुभ्येत, एवमेव च सर्वसत्त्वानामन्तिके स्थातव्यम् । कथं चानन्द बोधिसत्त्वेन महासत्त्वेन अपरेषां बोधिसत्त्वयानिकानां पुद्गलानामन्तिके स्थातव्यम्? तद्यथापि नाम आनन्द शास्तरि । एते मम बोधिसत्त्वा महासत्त्वाः शास्तार इत्येवं स्थातव्यम् । एकयानसमारूढा बतेमे मम बोधिसत्त्वा महासत्त्वाः, एकमार्गसमारूढा बतेमे मम बोधिसत्त्वा महासत्त्वाः, समानाभिप्राया बतेमे मम बोधिसत्त्वा महासत्त्वाः, समयानसंप्रस्थिता बतेमे मम बोधिसत्त्वा महासत्त्वाः । यत्रैभिः शिक्षितव्यम्, तत्र मया शिक्षितव्यम् । यथैव चैभिः शिक्षितव्यम्, तथैव मया शिक्षितव्यम् । सचेत्पुनरेषां कश्चिद्व्यवकीर्णविहारेण विहरिष्यति, न मया व्यवकीर्णविहारेण विहर्तव्यम् । सचेत्पुनरेतेऽव्यवकीर्णविहारेण विहरिष्यन्ति सर्वज्ञताप्रतिसंयुक्तैर्मनसिकारैः, मयाप्येवं शिक्षितव्यम् । एवं सर्वज्ञतायां शिक्षमाणस्य आनन्द बोधिसत्त्वस्य महासत्त्वस्य अन्तरायो न भवत्यनुत्तरायाः सम्यक्संबोधेः, क्षिप्रं च अनुत्तरां सम्यक्संबोधिमभिसंबुध्यते इति ॥ आर्याष्टसाहस्रिकायां प्रज्ञापारमितायामभिमानपरिवर्तो नाम चतुर्विंशतितमः ॥ _______________________________________________________________ (वैद्य २१०) २५: शिक्षापरिवर्तः पञ्चविंशतितमः । अथ खल्वायुष्मान् सुभूतिर्भगवन्तमेतदवोचत्- क्व पुनर्भगवन् शिक्षमाणो बोधिसत्त्वो महासत्त्वः सर्वज्ञतायां शिक्षते? भगवानाह - सचेत्सुभूते बोधिसत्त्वो महासत्त्वः क्षये शिक्षते, सर्वज्ञतायां शिक्षते । एवमनुत्पादेऽनिरोधेऽजातौ अभावे विवेके विरागे आकाशे धर्मधातौ । सचेत्सुभूते बोधिसत्त्वो महासत्त्वो निर्वाणे शिक्षते, सर्वज्ञतायां शिक्षते । सुभूतिराह - किं कारणं भगवन् बोधिसत्त्वो महासत्त्वः क्षये शिक्षमाणः शिक्षते सर्वज्ञतायाम्, एवमनुत्पादेऽनिरोधेऽजातौ अभावे विवेके विरागे आकाशे धर्मधातौ निर्वाणे शिक्षमाणः शिक्षते सर्वज्ञतायाम्? एवमुक्ते भगवानायुष्मन्तं सुभूतिमेतदवोचत्- यत्सुभूते एवं वदसि - किं कारणं बोधिसत्त्वो महासत्त्वः क्षये शिक्षमाणः शिक्षते सर्वज्ञतायाम् । एवमनुत्पादेऽनिरोधेऽजातौ अभावे विवेके विरागे आकाशे धर्मधातौ निर्वाणे शिक्षमाणः शिक्षते सर्वज्ञतायामिति? तत्किं मन्यसे सुभूते या तथागतस्य तथता यया तथतया तथागतस्तथागत इति प्रभाव्यते, अपि नु सा क्षीयते? सुभूतिराह - नो हीदं भगवन् । तत्कस्य हेतोः? न हि भगवन् क्षयः क्षीयते । अक्षयो हि भगवन् क्षयः । भगवानाह - तत्किं मन्यसे सुभूते या तथागतस्य तथता यया तथतया तथागतस्तथागत इति प्रभाव्यते, अपि नु सा उत्पद्यते वा निरुध्यते वा जायते वा भवति वा विभवति वा विविच्यते वा रज्यते वा विरज्यते वा आकाशीभवति वा धर्मीभवति वा? आह - नो हीदं भगवन् । भगवानाह - तकिं मन्यसे सुभूते या तथागतस्य तथता यया तथतया तथागतस्तथागत इति प्रभाव्यते, अपि नु सा निर्वाति? आह - नो हीदं भगवन् । भगवानाह - तस्मात्तर्हि सुभूते एवं शिक्षमाणो बोधिसत्त्वो महासत्त्वः न तथता क्षीयते इत्येवं शिक्षते । एवं शिक्षमाणः सुभूते बोधिसत्त्वो महासत्त्वः शिक्षते सर्वज्ञतायाम् । एवं शिक्षमाणः शिक्षते प्रज्ञापारमितायाम्, शिक्षते बुद्धभूमौ, शिक्षते बलेषु, शिक्षते वैशारद्येषु, शिक्षते सर्वबुद्धधर्मेषु, शिक्षते सर्वज्ञज्ञाने । एवं शिक्षमाणः सुभूते बोधिसत्त्वो महासत्त्वः सर्वशिक्षापारमितामनुप्राप्स्यति । एवं शिक्षमाणः सुभूते बोधिसत्त्वो महासत्त्वो न शक्यो मारेण वा मारपर्षदा वा मारकायिकाभिर्वा देवताभिरभिमर्दितुम् । एवं शिक्षमाणः सुभूते बोधिसत्त्वो महासत्त्वः क्षिप्रमविनिवर्तनीयधर्मतामनुप्राप्स्यति । एवं शिक्षमाणः सुभूते बोधिसत्त्वो महासत्त्वः क्षिप्रं बोधिमण्डे निषत्स्यति । एवं शिक्षमाणः सुभूते बोधिसत्त्वो महासत्त्वः स्वके गोचरे चरति । एवं शिक्षमाणः सुभूते बोधिसत्त्वो महासत्त्वः शिक्षते नाथकरकेषु धर्मेषु, शिक्षते महामैत्र्याम्, महाकरुणायां शिक्षते, महामुदितायां शिक्षते, महोपेक्षायां शिक्षते । एवं शिक्षमाणः सुभूते बोधिसत्त्वो महासत्त्वः शिक्षते त्रिपरिवर्तस्य द्वादशाकारस्य धर्मचक्रस्य प्रवर्तनाय । एवं शिक्षमाणः सुभूते बोधिसत्त्वो महासत्त्वः सर्वधातुं नोनीकरिष्यामीति शिक्षते । एवं शिक्षमाणः सुभूते बोधिसत्त्वो महासत्त्वस्तथागतवंशस्यानुपच्छेदाय शिक्षते । एवं शिक्षमाणः सुभूते बोधिसत्त्वो महासत्त्वोऽमृतधातुद्वारं विवरिष्यामीति शिक्षते । नेयं सुभूते उदारा (वैद्य २११) शिक्षा शक्या हीनसत्त्वेन शिक्षितुम् । न हि अल्पस्थाम्ना शक्यमस्यां शिक्षायां शिक्षितुम् । तत्कस्य हेतोः? सर्वसत्त्वसारा हि ते सुभूते, सर्वसत्त्वनाथकामा हि ते सुभूते, येऽस्यां शिक्षायां शिक्षन्ते । सर्वसत्त्वाभ्युद्गततां तेऽनुप्राप्तुकामाः, य इह शिक्षन्ते । एवं शिक्षमाणः सुभूते बोधिसत्त्वो महासत्त्वो न निरयेषूपपद्यते, न तिर्यग्योनिषूपपद्यते, न प्रेतविषयेषूपपद्यते, नासुरेषु कायेषूपपद्यते, न प्रत्यन्तजनपदेषूपपद्यते, न चण्डालकुलेषूपपद्यते, न शाकुनिककुलेषूपपद्यते, न निषादधीवरौरभ्रिककुलेषूपपद्यते, नाप्यन्येष्वेवंरूपेषु हीनजातिकेषु हीनकर्मसेविषु वा कुलेषूपपद्यते । एवं शिक्षमाणः सुभूते बोधिसत्त्वो महासत्त्वो नान्धो भवति, न बधिरो भवति, न काणो भवति, न कुण्ठो भवति, न कुब्जो भवति, न कुणिर्भवति, न लङ्गो भवति, न खञ्जो भवति, न जडो भवति, न लोलो भवति, न लोल्लो भवति, न कल्लो भवति, न हीनाङ्गो भवति, न विकलाङ्गो भवति, न विकृताङ्गो भवति, न दुर्बलो भवति, न दुर्वर्णो भवति, न दुःसंस्थानो भवति, न हीनेन्द्रियो भवति, न विकलेन्द्रियो भवति । सर्वाकारपरिपूर्णेन्द्रियो भवति, स्वरसंपन्नो भवति । एवं शिक्षमाणः सुभूते बोधिसत्त्वो महासत्त्वो न प्राणातिपाती भवति, नादत्तादायी भवति, न काममिथ्याचारी भवति, न मृषावादी भवति, न पिशुनवाग्भवति, न परुषवाग्भवति, न संभिन्नप्रलापी भवति, नाभिध्यालुर्भवति, न व्यापन्नचित्तो भवति, न मिथ्यादृष्टिको भवति, न मिथ्याजीवेन जीविकां कल्पयति । एवं शिक्षमाणः सुभूते बोधिसत्त्वो महासत्त्वो न दीर्घायुष्केषु देवेषूपपद्यते, न दुःशीलपरिग्राहको भवति, नाभूतधर्मपरिग्राहको भवति, न ध्यानसमापत्तिवशेनोपपद्यते । तत्कस्य हेतोः? अस्ति हि तस्योपायकौशल्यं येनोपायकौशल्येन समन्वागतो बोधिसत्त्वो महासत्त्वो न दीर्घायुष्केषु देवेषूपपद्यते । तत्पुनः सुभूते उपायकौशल्यं बोधिसत्त्वस्य महासत्त्वस्य कतमत्? यदुत इयमेव प्रज्ञापारमिता । तथा च अत्रोपायकौशल्ये योगमापद्यते, यथा अन्येनोपायकौशल्येन समन्वागतो बोधिसत्त्वो महासत्त्वो ध्यानानि च समापद्यते, न च ध्यानवशेनोपपद्यते । एवं शिक्षमाणः सुभूते बोधिसत्त्वो महासत्त्वो बलपरिशुद्धिं निगच्छति, वैशारद्यपरिशुद्धिं निगच्छति, सर्वबुद्धधर्मपरिशुद्धिं निगच्छति, तामनुप्राप्नोति ॥ आयुष्मान् सुभूतिराह - यदा भगवन् सर्वधर्मा एवं प्रकृतिपरिशुद्धाः, तत्कतमस्य भगवन् धर्मस्य बोधिसत्त्वो महासत्त्वो बलपरिशुद्धिं निगच्छति, वैशारद्यपरिशुद्धिं निगच्छति, सर्वबुद्धधर्मपरिशुद्धिं निगच्छति, तामनुप्राप्नोति? एवमुक्ते भगवानायुष्मन्तं सुभूतिमेतदवोचत्- एवमेतत्सुभूते, एवमेतत् । तत्कस्य हेतोः? सर्वधर्मा हि सुभूते प्रकृत्यैव परिशुद्धाः । एवं सुभूते प्रकृतिपरिशुद्धेषु सर्वधर्मेषु बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां शिक्षमाणस्य या असंसीदनता अनवलीनता, इयं सा सुभूते प्रज्ञापारमिता । एवं सुभूते बालपृथग्जना एनान् धर्मानजानन्तोऽपश्यन्तो धर्माणां धर्मतां न जानन्ति, न पश्यन्ति । तेषां सत्त्वानां (वैद्य २१२) कृतशः सुभूते बोधिसत्त्वा महासत्त्वा व्यायच्छन्ते, वीर्यमारभन्ते - वयमेवमजानकान् सत्त्वान् जानयिष्यामः, वयमेवमपश्यकान् सत्त्वान् पश्ययिष्यामः इत्यत्र शिक्षायां शिक्षन्ते । अत्र शिक्षायां शिक्षमाणा बोधिसत्त्वा महासत्त्वा बलान्यनुप्राप्नुवन्ति, वैशारद्यान्यनुप्राप्नुवन्ति । सर्वबुद्धधर्माननुप्राप्नुवन्ति । एवं शिक्षमाणाः सुभूते बोधिसत्त्वा महासत्त्वाः परसत्त्वानां परपुद्गलानां चित्तचरितविस्पन्दितानि यथाभूतं प्रजानन्ति । यथाभूतं प्रजानन्तः परचित्तचरितज्ञतायाः पारं गच्छन्ति । तद्यथापि नाम सुभूते अल्पकास्ते महापृथिव्यां पृथिवीप्रदेशाः येऽपगतपाषाणाः, यत्र सुवर्णं वा जातरूपं वा रजतं वोत्पद्यते । अथ खलु पुनर्बहुतरकास्ते महापृथिव्यां पृथिवीप्रदेशाः, य ऊषरा उज्जङ्गला विविधतृणकाण्डकण्टकाधानाः । एवमेव सुभूते अल्पकास्ते बोधिसत्त्वा महासत्त्वाः सत्त्वनिकाये संविद्यन्ते, येऽस्यां सर्वज्ञताशिक्षायां शिक्षन्ते यदुत प्रज्ञापारमिताशिक्षायाम् । अथ खलु बहुतरकास्ते सत्त्वाः सत्त्वनिकाये संविद्यन्ते, ये श्रावकप्रत्येकबुद्धशिक्षायां शिक्षन्ते ॥ पुनरपरं सुभूते तद्यथापि नाम अल्पकास्ते सत्त्वाः सत्त्वनिकाये संविद्यन्ते, ये चक्रवर्तिराज्यसंवर्तनीयं कर्म समादाय वर्तन्ते । अथ खलु बहुतरकास्ते सत्त्वाः सत्त्वनिकाये संविद्यन्ते, ये कोट्टराज्यसंवर्तनीयं कर्म समादाय वर्तन्ते । एवमेव सुभूते अल्पकास्ते बोधिसत्त्वा महासत्त्वाः सत्त्वनिकाये संविद्यन्ते, ये इमं मार्गमारूढा यदुत प्रज्ञापारमितामार्गम्, अनुत्तरां सम्यक्संबोधिमभिसंभोत्स्यामहे इति । अथ खलु बहुतरकास्ते सत्त्वाः सत्त्वनिकाये संविद्यन्ते, ये श्रावकप्रत्येकबुद्धमार्गमारूढाः ॥ पुनरपरं सुभूते तद्यथापि नाम अल्पकास्ते सत्त्वाः सत्त्वनिकाये संविद्यन्ते, ये शक्रसंवर्तनीयं कर्म समादाय वर्तन्ते । अथ खलु बहुतरकास्ते सत्त्वाः सत्त्वनिकाये संविद्यन्ते, ये देवलोकसंवर्तनीयं कर्म समादाय वर्तन्ते । एवमेव सुभूते अल्पकास्ते बोधिसत्त्वा महासत्त्वाः सत्त्वनिकाये संविद्यन्ते, येऽस्यां प्रज्ञापारमिताशिक्षायां शिक्षन्ते । अथ खलु बहुतरकास्ते बोधिसत्त्वा महासत्त्वाः सत्त्वनिकाये संविद्यन्ते, ये श्रावकप्रत्येकबुद्धशिक्षायां शिक्षन्ते ॥ पुनरपरं सुभूते तद्यथापि नाम अल्पकास्ते सत्त्वाः सत्त्वनिकाये संविद्यन्ते, ये ब्रह्मसंवर्तनीयं कर्म समादाय वर्तन्ते । अथ खलु बहुतरकास्ते सत्त्वाः सत्त्वनिकाये संविद्यन्ते, ये ब्रह्मपार्षद्यसंवर्तनीयं कर्म समादाय वर्तन्ते । एवमेव सुभूते अल्पकास्ते बोधिसत्त्वा महासत्त्वाः सत्त्वनिकाये संविद्यन्ते, येऽविनिवर्तनीया अनुत्तरायां सम्यक्संबोधेः । अथ खलु बहुतरकास्ते बोधिसत्त्वा महासत्त्वाः सत्त्वनिकाये संविद्यन्ते, ये विवर्तन्तेऽनुत्तरायाः सम्यक्संबोधेः । तस्मात्तर्हि सुभूते अल्पकास्ते सत्त्वाः सत्त्वनिकाये संविद्यन्ते, येऽनुत्तरायां सम्यक्संबोधौ संप्रस्थिताः । तेभ्योऽपि सुभूते अल्पेभ्योऽल्पतरकास्ते सत्त्वाः, ये तथत्वाय प्रतिपद्यन्ते । (वैद्य २१३) तेभ्योऽपि सुभूते अल्पतरकेभ्यस्तथत्वाय प्रतिपद्यमानेभ्योऽल्पतमास्ते ये प्रज्ञापारमितायां योगमापद्यन्ते । तेभ्योऽपि सुभूते अल्पतमेभ्यः प्रज्ञापारमितायां योगमापद्यमानेभ्योऽल्पतमास्ते बोधिसत्त्वा महासत्त्वाः, येऽविनिवर्तनीया अनुत्तरायां सम्यक्संबोधेः । तस्मात्तर्हि सुभूते बोधिसत्त्वेन महासत्त्वेन य एतेऽल्पतमेभ्योऽल्पतमा अविनिवर्तनीया बोधिसत्त्वा महासत्त्वाः, तेषु गणनां गन्तुकामेन इहैव प्रज्ञापारमितायां शिक्षितव्यम्, योगमापत्तव्यम् ॥ पुनरपरं सुभूते बोधिसत्त्वस्य महासत्त्वस्य एवं प्रज्ञापारमितायां शिक्षमाणस्य न खिलसहगतं चित्तमुत्पद्यते, न विचिकित्सासहगतं चित्तमुत्पद्यते, नेर्ष्यामात्सर्यसहगतं चित्तमुत्पद्यते, न दौःशील्यसहगतं चित्तमुत्पद्यते, न व्यापादसहगतं चित्तमुत्पद्यते, न कौसीद्यसहगतं चित्तमुत्पद्यते, न विक्षेपसहगतं चित्तमुत्पद्यते, न दौष्प्रज्ञसहगतं चित्तमुत्पद्यते । एवं हि सुभूते प्रज्ञापारमितायां शिक्षमाणेन बोधिसत्त्वेन महासत्त्वेन सर्वाः पारमिता संगृहीता भवन्ति, सर्वाः पारमिता उद्गृहीता भवन्ति, सर्वाः पारमिता अनुगता भवन्ति । सर्वाः पारमिता अन्तर्गता भवन्ति । तद्यथापि नाम सुभूते सत्कायदृष्टौ द्वाषष्टिदृष्टिगतान्यन्तर्गतानि भवन्ति, एवमेव सुभूते प्रज्ञापारमितायां शिक्षमाणस्य बोधिसत्त्वस्य महासत्त्वस्य तस्यां सर्वाः पारमिता अन्तर्गता भवन्ति । तद्यथापि नाम सुभूते पुरुषस्य जीवितेन्द्रिये प्रवर्तमाने सर्वाणीन्द्रियाण्यन्तर्गतानि भवन्ति, एवमेव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां शिक्षमाणस्य सर्वकुशला धर्मा अन्तर्गता भवन्ति । तद्यथापि नाम सुभूते पुरुषस्य जीवितेन्द्रिये निरुद्धे सर्वाणीन्द्रियाणि निरुद्धानि भवन्ति, एवमेव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां शिक्षमाणस्य अज्ञाने निरुद्धे सर्वेऽकुशला धर्मा निरुद्धा भवन्ति, सर्वाश्च तदन्याः पारमिता अन्तर्गताः परिगृहीता भवन्ति । तस्मात्तर्हि सुभूते बोधिसत्त्वेन महासत्त्वेन सर्वाः पारमिताः परिग्रहीतुकामेन प्रज्ञापारमितायां शिक्षितव्यम् । प्रज्ञापारमितायां शिक्षमाणः सुभूते बोधिसत्त्वो महासत्त्वः सर्वसत्त्वानामग्रतायां शिक्षते । तत्कस्य हेतोः? पुण्याग्रत्वात् । तत्किं मन्यसे सुभूते यावन्तस्त्रिसाहस्रमहासाहस्रे लोकधातौ सर्वसत्त्वाः सत्त्वसंग्रहेण संगृह्यमाणाः, अपि नु ते बहवो भवन्ति? सुभूतिराह - जाम्बूद्वीपका एव तावद्भगवन् बहवः सत्त्वा भवन्ति, कः पुनर्वादो ये त्रिसाहस्रमहासाहस्रे लोकधातौ सत्त्वाः । भगवानाह - यः सुभूते एको बोधिसत्त्वो महासत्त्वो यावज्जीवं तिष्ठंस्तान् सर्वसत्त्वान् चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्कारैः सर्वसुखोपधानैश्चोपतिष्ठेत्, तत्किं मन्यसे सुभूते अपि नु स बोधिसत्त्वो महासत्त्वस्ततोनिदानं बहुतरं पुण्यं प्रसवति? सुभूतिराह - बहु भगवन्, बहु सुगत । भगवानाह - अतः स सुभूते बोधिसत्त्वो महासत्त्वस्ततोनिदानं बहुतरं पुण्यं प्रसवति, य इमां प्रज्ञापारमितामन्तशोऽच्छटासंघातमात्रकमपि भावयेत् । तत्कस्य हेतोः? एवं महार्थिका हि सुभूते प्रज्ञापारमिता बोधिसत्त्वस्य महासत्त्वस्य अनुत्तरायाः सम्यक्संबोधेराहारिका । तस्मात्तर्हि सुभूते बोधिसत्त्वेन महासत्त्वेन अनुत्तरां सम्यक्संबोधिमभिसंबोद्धुकामेन सर्वसत्त्वानामनुत्तरतां गन्तुकामेन सर्वसत्त्वानामनाथानां नाथेन भवितुकामेन (वैद्य २१४) बुद्धविषयमनुप्राप्तुकामेन बुद्धवृषभितामनुगन्तुकामेन बुद्धविक्रीडितं विक्रीडितुकामेन बुद्धसिंहनादं नदितुकामेन बुद्धसंपत्तिमनुप्राप्तुकामेन त्रिसाहस्रमहासाहस्रे लोकधातौ धर्मसांकथ्यं कर्तुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यम् । प्रज्ञापारमितायां सुभूते शिक्षमाणस्य बोधिसत्त्वस्य महासत्त्वस्य नाहं तां संपत्तिं समनुपश्यामि, या तेन न शिक्षिता भवति । सुभूतिराह - किं पुनर्भगवन् श्रावकसंपत्तिरपि तेन बोधिसत्त्वेन महासत्त्वेन शिक्षिता भवति? भगवानाह - श्रावकसंपत्तिरपि सुभूते तेन बोधिसत्त्वेन महासत्त्वेन शिक्षिता भवति । न खलु पुनः सुभूते बोधिसत्त्वो महासत्त्वः श्रावकसंपत्यां स्थास्यामीति शिक्षते, श्रावकसंपत्तिर्वा मे भविष्यतीति नैवं शिक्षते । येऽपि ते सुभूते श्रावकगणाः, तानपि स जानाति, न च तत्रावतिष्ठते । एवं च व्यवचारयति, न च प्रतिवहति - मयाप्येते श्रावकगुणा देशयितव्याः प्रकाशयितव्या इति शिक्षते । एवं शिक्षमाणः सुभूते बोधिसत्त्वो महासत्त्वः सदेवमानुषासुरस्य लोकस्य दक्षिणीयतां गच्छति । एवं शिक्षमाणः सुभूते बोधिसत्त्वो महासत्त्वः सर्वांस्ततोऽन्यान् दक्षिणीयान् श्रावकप्रतिसंयुक्तान् प्रत्येकबुद्धप्रतिसंयुक्तांश्चाभिभवति, सर्वज्ञता चास्य आसन्नीभवति । एवं शिक्षमाणः सुभूते बोधिसत्त्वो महासत्त्वो न रिञ्चति, प्रज्ञापारमितां चरति प्रज्ञापारमितायामविरहितः प्रज्ञापारमिताविहारेण । एवं चरन् सुभूते बोधिसत्त्वो महासत्त्वोऽपरिहाणधर्मा अपरिहाणधर्मेति वेदितव्यः । सर्वज्ञताया दूरीकरोति श्रावकभूमिम्, प्रत्येकबुद्धभूमिं च, आसन्नीभवत्यनुत्तरायाः सम्यक्संबोधेः । सचेत्पुनरस्यैवं भवति - इयं सा प्रज्ञापारमिता इमां सर्वज्ञतामाहरिष्यति, इत्येवं संजानीते, चरति प्रज्ञापारमिताम् । अथ तामपि प्रज्ञापारमितां न संजानीते - इयं सा प्रज्ञापारमिता, अस्य वा प्रज्ञापारमिता सर्वज्ञतामाहरिष्यतीति वा, एवमपि सुभूते बोधिसत्त्वो महासत्त्वो न संजानीते, न समनुपश्यति । सचेदेवं चरति बोधिसत्त्वो महासत्त्वः, चरति प्रज्ञापारमितायामिति ॥ आर्याष्टसाहस्रिकायां प्रज्ञापारमितायां शिक्षापरिवर्तो नाम पञ्चविंशतितमः ॥ _______________________________________________________________ (वैद्य २१५) २६: मायोपमपरिवर्तः षड्विंशतितमः । अथ खलु शक्रस्य देवानामिन्द्रस्यैतदभूत्- चरन्नेव तावदयं बोधिसत्त्वो महासत्त्वः सर्वसत्त्वानभिभवति, कः पुनर्वादो यदा अनुत्तरां सम्यक्संबोधिमभिसंबुद्धो भविष्यति । लाभास्तेषां सत्त्वानां सुलब्धाः, सुजीवितं च ते सत्त्वा जीवन्ति, येषां सर्वज्ञतायां चित्तं क्रामति । कः पुनर्वादो यैरनुत्तरायां सम्यक्संबोधौ चित्तमुत्पादितम् । स्पृहणीयास्ते सत्त्वा ये सत्त्वसारा अनुत्तरां सम्यक्संबोधिमभिसंभोत्स्यन्ते ॥ अथ खलु शक्रो देवानामिन्द्रो मान्दारवाणि पुष्पाण्यभिनिर्माय पुष्पाणामञ्जलिं कृत्वा तथागतमर्हन्तं सम्यक्संबुद्धमभ्यवाकिरत्, एवं च वाचमभाषत - यैर्बोधिसत्त्वयानिकैः पुद्गलैरनुत्तरायां सम्यक्संबोधौ चित्तमुत्पादितम् - अनुत्तरां सम्यक्संबोधिमभिसंभोत्स्यामहे, अभिसंबुध्य सर्वसत्त्वान्महता संसारार्णवेनोह्यमानान् समे पारिमे तीरे प्रतिष्ठापयिष्याम इति, समृध्यन्तां तेषामभीप्सिताः परिचिन्तिताः, परिगृहीताश्चित्तोत्पादाः एतेषामेव बुद्धधर्माणां परिपूरणाय भवन्तु, एतेषामेव सर्वज्ञताप्रतिसंयुक्तानां धर्माणां परिपूरणाय भवन्तु, एतेषामेव स्वयंभूधर्माणां परिपूरणाय भवन्तु, एतेषामेव असंहार्यधर्माणां परिपूरणाय भवन्तु । न मे भगवनेकचित्तोत्पादोऽप्युत्पद्यते, यत्ते बोधिसत्त्वा महासत्त्वा महाकरुणया समन्वागता विवर्तेरननुत्तरायाः सम्यक्संबोधेरिति । न मे भगवनेकचित्तोत्पादोऽप्युत्पद्यते यत्ते बोधिसत्त्वयानिकाः पुद्गला अनुत्तरां सम्यक्संबोधिमभिसंबोद्धुं संप्रस्थिताः, ततो विवर्तेरन् । इति यद्भूयस्या मात्रया प्रणिधिं जनयिष्यन्त्यनुत्तरायां सम्यक्संबोधौ इमानि संसारावचराणि दुःखानि सत्त्वानां संपश्यन्तः । तत्कस्य हेतोः? तया महाकरुणया अर्थकामा हितकामा हि ते सदेवमानुषासुरस्य लोकस्यानुकम्पकाः, ये इमैरेवंरूपैश्चित्तोत्पादैः समन्वागताः किमिति वयं तीर्णाः सत्त्वांस्तारयेम, मुक्ता मोचयेम, आश्वस्ता आश्वासयेम, परिनिर्वृताः परिनिर्वापयेम, इत्येतैश्चित्तोत्पादैर्विहरन्ति । यस्तेषां भगवन् प्रथमयानसंप्रस्थितानां बोधिसत्त्वानां महासत्त्वानां चित्तोत्पादाननुमोदते, अविनिवर्तनीयानामप्यविनिवर्तनीयधर्मतामनुमोदते, एकजातिप्रतिबद्धानामपि बोधिसत्त्वानां महासत्त्वानामेकजातिप्रतिबद्धधर्मतामनुमोदते, कियत्स भगवन् कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवति? एवमुक्ते भगवान् शक्रं देवानामिन्द्रमेतदवोचत्- स्यात्खलु पुनः कौशिक शक्येत सुमेरोः पर्वतराजस्य पलाग्रेण तुल्यमानस्य प्रमाणं ग्रहीतुम्, न त्वेव कौशिक तस्य कुलपुत्रस्य वा कुलदुहितुर्वा बोधिसत्त्वस्य महासत्त्वस्यानुमोदनासहगतस्य चित्तोत्पादस्य पुण्यप्रमाणं ग्रहीतुम् । स्यात्खलु पुनः कौशिक शक्येत चातुर्महाद्वीपके लोकधातौ पलाग्रेण तुल्यमाने प्रमाणं ग्रहीतुम्, न त्वेव कौशिक तस्यानुमोदनासहगस्य चित्तोत्पादस्य पुण्यप्रमाणं ग्रहीतुम् । स्यात्खलु पुनः कौशिक शक्येत साहस्रे चूलिके लोकधातौ तुल्यमाने पलाग्रेण प्रमाणं ग्रहीतुम्, न त्वेव कौशिक तस्यानुमोदनासहगतस्य चित्तोत्पादस्य पुण्यप्रमाणं ग्रहीतुम् । स्यात्खलु पुनः कौशिक शक्येत (वैद्य २१६) द्विसाहस्रे मध्यमे लोकधातौ पलाग्रेण तुल्यमाने प्रमाणं ग्रहीतुम्, न त्वेव कौशिक तस्यानुमोदनासहगतस्य चित्तोत्पादस्य पुण्यप्रमाणं ग्रहीतुम् । स्यात्खलु पुनः कौशिक शक्येत त्रिसाहस्रमहासाहस्रे लोकधातौ तुल्यमाने पलाग्रेण प्रमाणं ग्रहीतुम्, न त्वेव कौशिक तस्य कुलपुत्रस्य वा कुलदुहितुर्वा बोधिसत्त्वस्य महासत्त्वस्यानुमोदनासहगतस्य चित्तोत्पादस्य पुण्यप्रमाणं ग्रहीतुम् ॥ एवमुक्ते शक्रो देवानामिन्द्रो भगवन्तमेतदवोचत्- माराधिष्ठितास्ते भगवन् सत्त्वा वेदितव्याः, ये बोधिसत्त्वानां महासत्त्वानां प्रथमचित्तोत्पादमुपादाय यावदनुत्तरां सम्यक्संबोधिमभिसंबुद्धानामेवमप्रमेयमनुमोदनासहगतस्य चित्तोत्पादस्य पुण्यमिति न शृण्वन्ति, न जानन्ति, न पश्यन्ति, तामनुमोदनां न समन्वाहरन्ति । मारपक्षिका भगवंस्ते सत्त्वा भविष्यन्ति, ये बोधिसत्त्वानां महासत्त्वानामिमांश्चित्तोत्पादान्नानुमोदिष्यन्ते । मारभवनेभ्यश्च ते भगवन् सत्त्वाश्च्युता भविष्यन्ति, य इमांश्चित्तोत्पादांस्तेषां बोधिसत्त्वानां महासत्त्वानां नानुमोदिष्यन्ते । तत्कस्य हेतोः? मारभवनविध्वंसनकरा हि तैर्भगवनिमे चित्तोत्पादा अभिनिर्हृताः, यैरमी चित्तोत्पादा अनुत्तरायां सम्यक्संबोधौ परिणामिताः, अनुमोदिता वा अमी चित्तोपादाः । अनुमोदितव्या भगवंस्तेषां बोधिसत्त्वानां महासत्त्वानाममी चित्तोत्पादाः, यैर्बोधिसत्त्वैर्महासत्त्वैरनुत्तरायां सम्यक्संबोधौ चित्तमुत्पादितम् । येषां भगवंस्तथागतोऽपरित्यक्तः, धर्मोऽपरित्यक्तः, संघोऽपरित्यक्तः, तैः कुलपुत्रैः कुलदुहितृभिश्चेमे चित्तोत्पादा अनुमोदितव्याः ॥ एवमुक्ते भगवान् शक्रं देवानामिन्द्रमेतदवोचत्- एवमेतत्कौशिक, एवमेतत् । येषां कौशिक तथागतोऽपरित्यक्तः, धर्मोऽपरित्यक्तः, संघोऽपरित्यक्तः, तैः कुलपुत्रैः कुलदुहितृभिश्चेमे चित्तोत्पादा अनुमोदितव्याः । यैः कौशिक कुलपुत्रैः कुलदुहितृभिश्चेमे चित्तोपादा अनुमोदिता बोधिसत्त्वयानिकैर्वा प्रत्येकबुद्धयानिकैर्वा श्रावकयानिकैर्वा, ते क्षिप्रं तथागतानर्हतः सम्यक्संबुद्धानारागयिष्यन्ति, न विरागयिष्यन्ति । एवमुक्ते शक्रो देवानामिन्द्रो भगवन्तमेतदवोचत्- एवमेतद्भगवन्, एवमेतत्सुगत । यैः कुलपुत्रैः कुलदुहितृभिश्चेमे चित्तोत्पादा अनुमोदिता बोधिसत्त्वयानिकैर्वा प्रत्येकबुद्धयानिकैर्वा श्रावकयानिकैर्वा, ते क्षिप्रं तथागतानर्हतः सम्यक्संबुद्धानारागयिष्यन्ति, न विरागयिष्यन्ति । एवं तैरनुमोदनासहगतैश्चित्तोत्पादकुशलमूलैर्यत्र यत्रोपपत्स्यन्ते, तत्र तत्र सत्कृताश्च भविष्यन्ति, गुरुकृताश्च भविष्यन्ति, मानिताश्च भविष्यन्ति, पूजिताश्च भविष्यन्ति, अर्चिताश्च भविष्यन्ति, अपचायिताश्च भविष्यन्ति । न च ते अमनआपानि रूपाणि द्रक्ष्यन्ति । न च ते अमनआपान् गन्धान् घ्रास्यन्ति । न च ते अमनआपान् रसान् परिभोक्ष्यन्ते । न च ते अमनआपानि स्प्रष्टव्यानि स्प्रक्ष्यन्ति । न च तेषामपायेषूपपत्तिः प्रतिकाङ्क्षितव्या । स्वर्गोपपत्तिस्तेषां प्रतिकाङ्क्षितव्या । तत्कस्य हेतोः? तथा हि तैः कुलपुत्रैः कुलदुहितृभिर्वा सर्वसत्त्वसुखावहान्यप्रमेयाणामसंख्येयानां सत्त्वानां कुशलमूलान्यनुमोदितानि यैरपि भगवंश्छन्दमुत्पाद्य बोधये बोधिसत्त्वयानिकानां पुद्गलानां ते चित्तोत्पादा अनुमोदिताः, तेषां ते चित्तोत्पादा (वैद्य २१७) विवर्धमाना अनुत्तरायाः सम्यक्संबोधेराहारका भविष्यन्ति । तेऽप्यनुत्तरां सम्यक्संबोधिमभिसंबुध्य अप्रमेयानसंख्येयान् सत्त्वान् परिनिर्वापयिष्यन्ति । भगवानाह - एवमेतत्कौशिकः, एवमेतत्, यथा त्वया वाग्भाषिता तथागतस्यैवानुभावेन । येन कौशिक कुलपुत्रेण वा कुलदुहित्रा वा बोधिसत्त्वयानिकानां पुद्गलानां ते चित्तोत्पादा अनुमोदिताः, अनेन कौशिक पर्यायेण तेन कुलपुत्रेण वा कुलदुहित्रा वा बोधिसत्त्वयानिकानां पुद्गलानां तांश्चित्तोत्पादाननुमोद्य अप्रमेयाणां सत्त्वानामसंख्येयानां सत्त्वानां कुशलमूलान्यनुमोदितानि भवन्ति, अवरोपितानि अभिनिर्हृतानि च भवन्ति ॥ सुभूतिराह - कथं च भगवन्मायोपमं चित्तमनुत्तरां सम्यक्संबोधिमभिसंबुध्यते? एवमुक्ते भगवानायुष्मन्तं सुभूतिमेतदवोचत्- तत्किं मन्यसे सुभूते समनुपश्यसि त्वं मायोपमं चित्तम्? सुभूतिराह - नो हीदं भगवन् । भगवानाह - तत्किं मन्यसे सुभूते समनुपश्यसि त्वं मायाम्? आह - नो हीदं भगवन् । नाहं भगवन्मायोपमं चित्तं नापि मायां समनुपश्यामि । भगवानाह - तत्किं मन्यसे सुभूते यन्न मायां नापि मायोपमं चित्तं समनुपश्यसि, तत्किं त्वमन्यत्र मायाया मायोपमाद्वा चित्तात्तं धर्मं समनुपश्यसि यो धर्मोऽनुत्तरां सम्यक्संबोधिमभिसंबुध्यते? आह - नो हीदं भगवन् । नाहं भगवनन्यत्र मायाया मायोपमाद्वा चित्तात्तं धर्मं समनुपश्यामि, यो धर्मोऽनुत्तरां सम्यक्संबोधिमभिसंबुध्यते । सोऽहं भगवनन्यत्र मायाया मायोपमाद्वा चित्तात्तं धर्मसमनुश्यन् कतमं धर्ममुपदेक्ष्यामि अस्तीति वा नास्तीति वा? यश्च अत्यन्तविविक्तो धर्मः, न सोऽस्तीति वा नास्तीति वा उपैति । योऽपि धर्मोऽत्यन्ततया विविक्तः, नासावनुत्तरां सम्यक्संबोधिमभिसंबुध्यते । तत्कस्य हेतोः? न हि भगवनसंविद्यमानो धर्मोऽनुत्तरां सम्यक्संबोधिमभिसंबुध्यते । तस्मात्तर्हि भगवनत्यन्तविविक्ता प्रज्ञापारमिता । यश्च धर्मोऽत्यन्तविविक्तः, नासौ धर्मो भावयितव्यः । नाप्यसौ कस्यचिद्धर्मस्यावाहको वा निर्वाहको वा । कथं भगवन् बोधिसत्त्वो महासत्त्वोऽत्यन्तविविक्तां प्रज्ञापारमितामागम्य अनुत्तरां सम्यक्संबोधिमभिसंबुध्यते? अनुत्तरापि नाम भगवन् सम्यक्संबोधिरत्यन्तविविक्ता । यदा भगवन् प्रज्ञापारमिताप्यत्यन्तविविक्ता, अनुत्तरापि सम्यक्संबोधिरत्यन्तविविक्ता, तदा कथं भगवन् विविक्तेन विविक्तमभिसंबुद्धं भवति? एवमुक्ते भगवानायुष्मन्तं सुभूतिमेतदवोचत्- साधु साधु सुभूते । एवमेतत्सुभूते, एवमेतत् । अत्यन्तविविक्ता सुभूते प्रज्ञापारमिता, अत्यन्तविविक्तैव अनुत्तरा सम्यक्संबोधिः । यत एव सुभूते अत्यन्तविविक्ता प्रज्ञापारमिता, अत एव अत्यन्तविविक्ता अनुत्तरा सम्यक्संबोधिरभिसंबुध्यते । सचेत्सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितामत्यन्तविविक्तामिति संजानीते, न सा प्रज्ञापारमिता स्यात् । एवं खलु सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितामागम्य अनुत्तरां सम्यक्संबोधिमभिसंबुध्यते, नापि सुभूते प्रज्ञापारमितामागम्य अनुत्तरां सम्यक्संबोधिमभिसंबुध्यते । न च विवेकेन विवेकमभिसंबुध्यते, अभिसंबुध्यते च बोधिसत्त्वो महासत्त्वोऽनुत्तरां सम्यक्संबोधिम् । न च प्रज्ञापारमितामनागम्याभिसंबुध्यते ॥ (वैद्य २१८) सुभूतिराह - यथाहं भगवन् भगवतो भाषितस्यार्थमाजानामि, तथा गम्भीरे भगवनर्थे चरति बोधिसत्त्वो महासत्त्वः । भगवानाह - एवमेतत्सुभूते, एवमेतत् । गम्भीरेऽर्थें सुभूते चरति बोधिसत्त्वो महासत्त्वः । दुष्करकारकः सुभूते बोधिसत्त्वो महासत्त्वः, यो गम्भीरेऽर्थे चरति, तं चार्थं न साक्षात्करोति यदुत श्रावकभूमौ वा प्रत्येकबुद्धभूमौ वा ॥ सुभूतिराह - यथाहं भगवन् भगवतो भाषितस्यार्थमाजानामि, तथा न कश्चिद्दुष्करकारको बोधिसत्त्वो महासत्त्वः । तत्कस्य हेतोः? तथा हि भगवन् स एव धर्मो नोपलभ्यते यः साक्षात्कुर्यात्, सोऽपि धर्मो नोपलभ्यते यः साक्षात्क्रियते, सोऽपि धर्मो नोपलभ्यते येन साक्षात्क्रियेत । सचेद्भगवनेवं भाष्यमाणो बोधिसत्त्वो महासत्त्वो न संसीदति, नावलीयते न संलीयते, न विपृष्ठीभवति, नोत्रस्यति न संत्रस्यति न संत्रासमापद्यते, चरति प्रज्ञापारमितायाम् । सचेच्चरामीति न समनुपश्यति, चरति प्रज्ञापारमितायाम् । आसन्ना मेऽनुत्तरा सम्यक्संबोधिरिति सचेदेवमति न समनुपश्यति, चरति प्रज्ञापारमितायाम् । दूरीकृता मे श्रावकभूमिः प्रत्येकबुद्धभूमिर्वेति सचेदस्यैवमपि न भवति, चरति प्रज्ञापारमितायाम् । तद्यथापि नाम भगवनाकाशस्य नैवं भवति - कस्यचिदहमासन्नः, कस्यचिद्वा दूर इति । तत्कस्य हेतोः? अविकल्पत्वाद्भगवनाकाशस्य । एवमेव भगवन् प्रज्ञापारमितायां चरतो बोधिसत्त्वस्य महासत्त्वस्य नैवं भवति - अनुत्तरां सम्यक्सबोधिर्ममासन्ना, श्रावकभूमिः प्रत्येकबुद्धभूमिश्च मम दूर इति । तत्कस्य हेतोः? निर्विकल्पत्वाद्भगवन् प्रज्ञापारमितायाः । तद्यथापि नाम भगवन्मायापुरुषस्य नैवं भवति - मायाकारो ममासन्नः, यः पुनरन्यो जनकायः संनिपतितः स मम दूर इति । तत्कस्य हेतोः? अविकल्पत्वाद्भगवन्मायापुरुषस्य । एवमेव भगवन् प्रज्ञापारमितायां चरतो बोधिसत्त्वस्य महासत्त्वस्य नैवं भवति - अनुत्तरा सम्यक्संबोधिर्ममासन्ना, श्रावकभूमिः प्रत्येकबुद्धभूमिश्च मम दूर इति । तत्कस्य हेतोः? अविकल्पत्वाद्भगवन् प्रज्ञापारमितायाः । तद्यथापि नाम भगवन् प्रतिभासस्य नैवं भवति - येनारम्बणेन प्रतिभास उत्पद्यते तन्ममासन्ने, ये तु खलु पुनरत्र नोपसंक्रान्ता आदर्शे वा उदकपात्रे वा ते मम दूर इति । तत्कस्य हेतोः? अविकल्पत्वाद्भगवन् प्रतिभासस्य । एवमेव भगवन् प्रज्ञापारमितायां चरतो बोधिसत्त्वस्य महासत्त्वस्य नैवं भवति - अनुत्तरा सम्यक्संबोधिर्ममासन्ना, श्रावकभूमिः प्रत्येकबुद्धभूमिश्च मम दूर इति । तत्कस्य हेतोः? अविकल्पत्वाद्भगवन् प्रज्ञापारमितायाः । तद्यथापि नाम भगवंस्तथागतस्य कश्चित्प्रियो वा अप्रियो वा न संविद्यते, तत्कस्य हेतोः? सर्वकल्पविकल्पप्रहीणत्वात्तथागतस्य, एवमेव भगवन् प्रज्ञापारमितायां चरतो बोधिसत्त्वस्य महासत्त्वस्य न कश्चित्प्रियो वा अप्रियो वा संविद्यते । तत्कस्य हेतोः? अविकल्पत्वाद्भगवन् प्रज्ञापारमितायाः । यथैव हि भगवन् सर्वकल्पविकल्पप्रहीणस्तथागतः, तथैव भगवन् प्रज्ञापारमितापि सर्वकल्पविकल्पप्रहीणा । तद्यथापि नाम भगवंस्तथागतेनार्हता सम्यक्संबुद्धेन यो निर्मितको निर्मितः, न तस्यैवं भवति - श्रावकभूमिः प्रत्येकबुद्धभूमिश्च मम दूरे, अनुत्तरा सम्यक्संबोधिर्ममासन्नेति । तत्कस्य (वैद्य २१९) हेतोः? अविकल्पत्वाद्भगवन्निर्मितस्य । एवमेव भगवन् बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितां चरतो नैवं भवति - श्रावकभूमिः प्रत्येकबुद्धभूमिश्च मम दूरे, अनुत्तरा सम्यक्संबोधिर्ममासन्नेति । तत्कस्य हेतोः? अविकल्पत्वादेव भगवन् प्रज्ञापारमितायाः । तद्यथापि नाम भगवन् स निर्मितको यस्य कृत्यस्य कृतशो निर्मितः, तत्कृत्यं करोति । स च निर्मितकोऽविकल्पः । तत्कस्य हेतोः? अविकल्पत्वादेव निर्मितस्य । एवमेव भगवन् बोधिसत्त्वो महासत्त्वो यस्य कृत्यस्य कृतश इमां प्रज्ञापारमितां भावयति, तच्च कृत्यं करोति, सा च प्रज्ञापारमिता अविकल्पा । तत्कस्य हेतोः? अविकल्पत्वादेव भगवन् प्रज्ञापारमितायाः । तद्यथापि नाम भगवन् दक्षेण पलगण्डेन वा पलगण्डान्तेवासिना वा दारुमयी स्त्री वा पुरुषो वा यन्त्रयुक्तः कृतो भवेत् । स यस्य कृत्यस्यार्थाय कृतः, तच्च कृत्यं करोति । स च दारुसंघातोऽविकल्पः । तत्कस्य हेतोः? अविकल्पत्वादेव भगवन् दारुसंघातस्य । एवमेव भगवन् बोधिसत्त्वो महासत्त्वो यस्य कृत्यस्य कृतश इमां प्रज्ञापारमितां भावयति, तच्च कृत्यं करोति, सा च प्रज्ञापारमिता अविकल्पा । तत्कस्य हेतोः? अविकल्पत्वादेव भगवनस्याः प्रज्ञापारमिताया इति ॥ आर्याष्टसाहस्रिकायां प्रज्ञापारमितायां मायोपमपरिवर्तो नाम षड्विंशतितमः ॥ _______________________________________________________________ (वैद्य २२०) २७: सारपरिवर्तः सप्तविंशतितमः । अथ खल्वायुष्मान् शारिपुत्र आयुष्मन्तं सुभूतिमेतदवोचत्- सारे बतायमायुष्मन् सुभूते बोधिसत्त्वो महासत्त्वश्चरति, यः प्रज्ञापारमितायां चरति । एवमुक्ते आयुष्मान् सुभूतिरायुष्मन्तं शारिपुत्रमेतदवोचत्- सारे बतायमायुष्मन् शारिपुत्र बोधिसत्त्वो महासत्त्वश्चरति, यः प्रज्ञापारमितायां चरति ॥ अथ खलु संबहुलानां कामावचराणां देवपुत्रसहस्राणामेतदभवत्- नमस्कर्तव्यास्ते सत्त्वाः, यैरनुत्तरायां सम्यक्संबोधौ चित्तान्युत्पादितानि अभिनिर्हृतानि । ये चेह गम्भीरायां प्रज्ञापारमितायां चरन्ति, तथा चरन्तो भूतकोटिं न साक्षात्कुर्वन्ति, यदुत श्रावकभूमौ वा प्रत्यकबुद्धभूमौ वा । अनेनापि पर्यायेण दुष्करकारका बोधिसत्त्वा महासत्त्वा वेदितव्याः, ये धर्माणां धर्मतायां चरन्ति, न च तां धर्मतां साक्षात्कुर्वन्ति । अथ खल्वायुष्मान् सुभूतिस्तेषां संबहुलानां कामावचराणां देवपुत्रसहस्राणां चेतसैव चेतःपरिवितर्कमाज्ञाय तानि संबहुलानि कामावचराणां देवपुत्राणां सहस्राण्यामन्त्रयन्ते स्म - नेदं देवपुत्रास्तेषां बोधिसत्त्वानां महासत्त्वानां दुष्करम्, यत्ते तां भूतकोटिं न साक्षात्कुर्वन्ति । इदं तु देवपुत्रास्तेषां बोधिसत्त्वानां महासत्त्वानां दुष्करं चैव परमदुष्करं चैव, यदप्रमेयानसंख्येयानप्रमाणान् सत्त्वान् परिनिर्वापयिष्याम इति संनाहं संनह्यन्ते । ते च सत्त्वा अत्यन्ततया न संविद्यन्ते, असंविद्यमाना नोपलभ्यन्ते, सत्त्वविविक्तत्वात् । एवं वैनयिका अयन्ततया न संविद्यन्ते । एवं च बोधिसत्त्वा महासत्त्वा अनुत्तरां सम्यक्संबोधिमभिसंबोद्धुं संप्रस्थिताः सत्त्वान् विनेष्याम इति, आकाशं स देवपुत्रा विनेतव्यं मन्येत यः सत्त्वान् विनेतव्यान्मन्येत । तत्कस्य हेतोः? आकाशविविक्ततया हि देवपुत्राः सत्त्वविविक्तता वेदितव्या । अनेन देवपुत्राः पर्यायेण दुष्करकारका बोधिसत्त्वा महासत्त्वाः, ये ऽसंविद्यमानानामनुपलभ्यमानानां सत्त्वानां कृतशः संनाहं संनह्यन्ते । आकाशेन न स देवपुत्राः सार्धं वेदितव्यं मन्येत, यः सत्त्वानां कृतशः संनाहं संनद्धव्यं मन्येत । अयं च संनाहो बोधिसत्त्वेन महासत्त्वेन सत्त्वानां कृतशः संनद्धः । सर्वात्यन्ततया सत्त्वानुपलब्धिरुक्ता तथागतेनार्हता सम्यक्संबुद्धेन । सा च सत्त्वविविक्ततयैव वेदितव्या, वैनयिकविवक्ततया च सत्त्वविविक्तता वेदितव्या । सचेदत्रैवं भाष्यमाणे बोधिसत्त्वो महासत्त्वो न संसीदति, वेदितव्यमेतद्देवपुत्राः - चरत्ययं बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायाम् । तत्कस्य हेतोः? सत्त्वविविक्ततया हि रूपविविक्तता वेदितव्या । एवं सत्त्वविविक्ततया वेदनासंज्ञासंस्कारविविक्तता वेदितव्या । सत्त्वविविक्ततया विज्ञानविविक्तता वेदितव्या । एवं यावत्सत्त्वविविक्ततया सर्वधर्मविविक्तता वेदितव्या । एवं देवपुत्राः सर्वधर्मविविक्तता द्रष्टव्या । एवं देवपुत्राः सर्वधर्मविविक्ततायां भाष्यमाणायां बोधिसत्त्वो महासत्त्वो न संसीदति । यतो न संसीदति, ततश्चरति प्रज्ञापारमितायाम् ॥ अथ खलु भगवान् जानन्नेव आयुष्मन्तं सुभूतिमेतदवोचत्- किं कारणं सुभूते बोधिसत्त्वो महासत्त्व एवं सर्वधर्मविविक्ततायां भाष्यमाणायां न संसीदति? सुभूतिराह - (वैद्य २२१) विविक्तत्वाद्भगवन्न संसीदति । अनेन भगवन् कारनेन बोधिसत्त्वो महासत्त्वः सर्वधर्मविविक्ततायां भाष्यमाणायां न संसीदति । नापि भगवन् कश्चिद्धर्मः संसीदति । तत्कस्य हेतोः? न हि भगवन् कश्चिद्धर्म उपलभ्यते, यः संसीदेत् । सोऽपि भगवन् धर्मो नोपलभ्येत, येन धर्मेण यो धर्मः संसीदेत् । भगवानाह - एवमेतत्सुभूते, एवमेतत् । अपि तु खलु पुनः सुभूते सचेदेवं भाष्यमाणे देश्यमाने निर्दिश्यमाने एवमुपदिश्यमाने बोधिसत्त्वो महासत्त्वो न संसीदति न विषीदति न विषादमापद्यते, नावलीयते न संलीयते, न विपृष्ठीकरोति मानसम्, न भग्नपृष्ठीकरोति, नोत्रस्यति न संत्रस्यति न संत्रासमापद्यते, चरति प्रज्ञापारमितायाम् । सुभुतिराह - एवमेतद्भगवन्, एवमेतत्सुगत । सचेद्भगवन् बोधिसत्त्वो महासत्त्व एवं चरति, चरति प्रज्ञापारमितायाम् । एवं चरन्तं बोधिसत्त्वं महासत्त्वं सेन्द्रका देवाः सब्रह्मकाः सप्रजापतिकाः सेशानाः सर्षिनरनारीगणा आरात्प्राञ्जलीभूता नमस्यन्ति । भगवानाह - न केवलं सुभूते एवं चरन्तं बोधिसत्त्वं महासत्त्वं सेन्द्रका देवाः सब्रह्मकाः सप्रजापतिकाः सेशानाः सर्षिनरनारीगणा आरात्प्राञ्जलीभूता नमस्यन्ति, येऽपि ते सुभूते ब्रह्मकायिका देवा ब्रह्मपुरोहिता ब्रह्मपार्षद्या महाब्रह्माणः परीत्ताभा अप्रमाणाभा आभास्वराः परीत्तशुभा अप्रमाणशुभाः शुभकृत्स्ना अनभ्रकाः पुण्यप्रसवा बृहत्फला असंज्ञिसत्त्वा अबृहा अतपाः सुदृशाः सुदर्शना अकनिष्ठाश्च देवाः, तेऽपि सुभूते तं बोधिसत्त्वं महासत्त्वं प्रज्ञापारमितायामेवं चरन्तं नमस्यन्ति । येऽपि ते सुभूते अप्रमेयेष्वसंख्येयेषु लोकधातुषु तथागता अर्हन्तः सम्यक्संबुद्धा एतर्हि तिष्ठन्ति ध्रियन्ते यापयन्ति, तेऽपि बुद्धा भगवन्तः प्रज्ञापारमितायामेवं चरन्तं बोधिसत्त्वं महासत्त्वं बुद्धचक्षुषा पश्यन्ति । ते च सुभूते बोधिसत्त्वं महासत्त्वां प्रज्ञापारमितायां चरन्तमनुगृह्णन्ति, समन्वाहरन्ति । ये च खलु पुनः सुभूते बोधिसत्त्वा महासत्त्वाः प्रज्ञापारमितायां चरन्तस्तथागतैरर्हद्भिः सम्यक्संबुद्धैरनुगृह्यन्ते समन्वाह्रियन्ते, ते ते सुभूते बोधिसत्त्वा महासत्त्वा अविनिवर्तनीया अनुत्तरायाः सम्यक्संबोधेर्धारयितव्याः । न च तेषामन्तराया उत्पत्स्यन्ते मारतो वा अन्यतो वा । तत्कस्य हेतोः? ये सुभूते त्रिसाहस्रमहासाहस्रे लोकधातौ सत्त्वाः, ते सर्वे माराः पापीयांसो भवेयुः । एकैकश्च मारः पापीयांस्तावतीरेव मारसेना अभिनिर्मिमीते । तेऽपि सुभूते माराः पापीयांसस्तस्य बुद्धसमन्वाहृतस्य बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो न प्रतिबला अन्तरायं कर्तुमनुत्तरायाः सम्यक्संबोधेः । तिष्ठन्तु खलु पुनः सुभूते त्रिसाहस्रमहासाहस्रे लोकधातौ सर्वसत्त्वा माराः पापीयांसः, यावन्त सुभूते गङ्गानदीवालुकोपमेषु त्रिसाहस्रमहासाहस्रेषु लोकधातुषु सत्त्वाः, तेऽपि सर्वे माराः पापीयांसो भवेयुः, एकैकश्च मारः पापीयांस्तावतीरेव मारसेना अभिनिर्मिमीते, तेऽपि सुभूते माराः पापीयांसस्तस्य बुद्धसमन्वाहृतस्य बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो न प्रतिबला अन्तरायं कर्तुमनुत्तरायाः सम्यक्संबोधेः । द्वाभ्यां सुभूते धर्माभ्यां समन्वागतो बोधिसत्त्वो महासत्त्वस्तस्मिन् समये दुर्धर्षो भवति मारैः पापीयोभिर्मारकायिकाभिर्वा देवताभिः । कतमाभ्यां द्वाभ्याम्? यदुत सर्वसत्त्वाश्चास्य अपरित्यक्ता भवन्ति, सर्वधर्माश्च अनेन शून्यतातो व्यवलोकिता भवन्ति । (वैद्य २२२) आभ्यां सुभूते द्वाभ्यां धर्माभ्यां समन्वागतो बोधिसत्त्वो महासत्त्वो दुर्घर्षो भवति मारैः पापीयोभिर्मारकायिकाभिर्वा देवताभिः । अपराभ्यां सुभूते द्वाभ्यां धर्माभ्यां समन्वागतो बोधिसत्त्वो महासत्त्वो दुर्घर्षो भवति मारैः पापीयोभिर्मारकायिकाभिर्वा देवताभिः । कतमाभ्यां द्वाभ्याम्? यदुत यथावादी तथाकारी च भवति, बुद्धैश्च भगवद्भिः समन्वाह्रियते । आभ्यां सुभूते द्वाभ्यां समन्वागतो बोधिसत्त्वो महासत्त्वो दुर्घर्षो भवति मारैः पापीयोभिर्मारकायिकाभिर्वा देवताभिः । एवं चरतः सुभूते बोधिसत्त्वस्य महासत्त्वस्य देवा अप्युपसंक्रमितव्यं मंस्यन्ते । उपसंक्रम्य च परिप्रष्टव्यं मंस्यन्ते, परिप्रश्नीकर्तव्यं मंस्यन्ते, पर्युपासितव्यं मंस्यन्ते, उत्साहं चास्य वर्धयिष्यन्ति - क्षिप्रं त्वं कुलपुत्र अनुत्तरां सम्यक्संबोधिमभिसंभोत्स्यसे । तस्मात्तर्हि कुलपुत्र अनेनैव विहारेण विहर यदुत प्रज्ञापारमिताविहारेण । तत्कस्य हेतोः? एतेनैव हि त्वं कुलपुत्र विहारेण विहरननाथानां सत्त्वानां नाथो भविष्यसि, अत्राणानां सत्त्वानां त्राता भविष्यसि, अशरणानां सत्त्वानां शरणं भविष्यसि, अलयनानां सत्त्वानां लयनं भविष्यसि, अपरायणानां सत्त्वानां परायणं भविष्यसि, अद्वीपानां सत्त्वानां द्वीपो भविष्यसि, अन्धानां सत्त्वानामालोको भविष्यसि, अपरिणायकानां सत्त्वानां परिणायको भविष्यसि, अगतिकानां सत्त्वानां गतिर्भविष्यसि, मार्गप्रनष्टानां सत्त्वानामप्रतिशरणानां मार्गप्रणेता प्रतिशरणं भविष्यसि । एवं ते देवपुत्रास्तस्य बोधिसत्त्वस्य महासत्त्वस्योत्साहं वर्धयिष्यन्ति । तत्कस्य हेतोः? एतेन हि सुभूते प्रज्ञापारमिताविहारेण विहरतो बोधिसत्त्वस्य महासत्त्वस्य ये तेऽप्रमेयेष्वसंख्येयेषु लोकधातुषु बुद्धा भगवन्तस्तिष्ठन्ति ध्रियन्ते यापयन्ति, तेऽपि भिक्षुसंघपरिवृता बोधिसत्त्वगणपुरस्कृताः प्रज्ञापारमितायां चरतो विहरतस्तस्य बोधिसत्त्वस्य महासत्त्वस्य एभिरेवंरूपैर्गुणैः समन्वागतस्य यदुत प्रज्ञापारमिताविहरणगुणैः, बुद्धा भगवन्तो नाम च गोत्रं च बलं च रूपं च परिकीर्तयमानरूपा धर्मं देशयन्ति, उदानं चोदानयन्ति तस्य बोधिसत्त्वस्य महासत्त्वस्य । तद्यथापि नाम सुभूते अहमेतर्हि रत्नकेतोर्बोधिसत्त्वस्य महासत्त्वस्य, शिखिनो बोधिसत्त्वस्य महासत्त्वस्य नाम च गोत्रं च बलं च वर्णं च रूपं च परिकीर्तयमानरूपो धर्मं देशयामि, उदानं चोदानयामि अपरेषां च बोधिसत्त्वानां महासत्त्वानाम्, य एतर्हि अक्षोभ्यस्य तथागतस्यार्हतः सम्यक्संबुद्धस्यान्तिके ब्रह्मचर्यं चरन्ति । एवमेव सुभूते तेऽपि बुद्धा भगवन्तो ये एतर्हि इह मम बुद्धक्षेत्रे बोधिसत्त्वा महासत्त्वा ब्रह्मचर्यं चरन्ति, अनेन च प्रज्ञापारमिताविहारेण विहरन्ति, तेषां च बोधिसत्त्वानां महासत्त्वानां नाम च गोत्रं च बलं च वर्णं च रूपं च परिकीर्तयमानरूपा धर्मं देशयन्ति, उदानं चोदानयन्ति ॥ सुभूतिराह - किं सर्वेषामेव भगवन् बोधिसत्त्वानां महासत्त्वानां नाम च गोत्रं च बलं च वर्णं च रूपं च परिकीर्तयमानरूपास्ते बुद्धा भगवन्तो धर्मं देशयन्ति, उदानं चोदानयन्ति? भगवानाह - नो हीदं सुभूते । न सुभूते सर्वेषां बोधिसत्त्वानां महासत्त्वानां नाम च गोत्रं च बलं च वर्णं च रूपं च परिकीर्तयमानरूपास्ते बुद्धा भगवन्तो धर्मं (वैद्य २२३) देशयन्ति, उदानं चोदानयन्ति, किं तर्हि सुभूते ये तेऽविनिवर्तनीया बोधिसत्त्वा महासत्त्वाः सर्वसङ्गविगताः, तेषां ते बुद्धा भगवन्तो नाम च गोत्रं च बलं च वर्णं च रूपं च परिकीर्तयमानरूपा धर्मं देशयन्ति, उदानं चोदानयन्ति ॥ सुभूतिराह - सन्ति भगवनविनिवर्तनीयान् बोधिसत्त्वान्महासत्त्वान् स्थापयित्वा ततोऽन्ये बोधिसत्त्वा महासत्त्वाः, येषां ते बुद्धा भगवन्तो नाम च गोत्रं च बलं वर्णं च रूपं च परिकीर्तयमानरूपा धर्मं देशयन्ति, उदानं चोदानयन्ति? भगवानाह - सन्ति सुभूते प्रतिपक्षबलिनो बोधिसत्त्वयानिकाः पुद्गलाः अविनिवर्तनीयान् बोधिसत्त्वान्महासत्त्वान् स्थापयित्वा, येषां ते बुद्धा भगवन्तो नाम च गोत्रं च बलं च वर्णं च रूपं च परिकीर्तयमानरूपा धर्मं देशयन्ति, उदानं चोदानयन्ति । ते पुनः कतमे? ये एतर्हि अक्षोभ्यस्य तथागतस्यार्हतः सम्यक्संबुद्धस्य बोधिसत्त्वचर्यामनुशिक्षमाणरूपा बोधिसत्त्वचारिकां चरन्ति, अनुशिक्षमाणरूपा विहरन्ति, इमे ते सुभूते बोधिसत्त्वयानिकाः पुद्गला अविनिवर्तनीयान् बोधिसत्त्वान्महासत्त्वान् स्थापयित्वा येषां ते बुद्धा भगवन्तो नाम च गोत्रं च बलं च वर्णं च रूपं च परिकीर्तयमानरूपा धर्मं देशयन्ति, उदानं चोदानयन्ति । येऽपि ते सुभूते रत्नकेतोर्बोधिसत्त्वस्य महासत्त्वस्य बोधिसत्त्वचर्यामनुशिक्षमाणरूपा बोधिसत्त्वचर्यां चरन्ति, अनुशिक्षमाणा विहरन्ति, इमेऽपि ते सुभूते बोधिसत्त्वा महासत्त्वा अविनिवर्तनीयान् बोधिसत्त्वान्महासत्त्वान् स्थापयित्वा येषां ते बुद्धा भगवन्तो नाम च गोत्रं च बलं च वर्णं च रूपं च परिकीर्तयमानरूपा धर्मं देशयन्ति, उदानं चोदानयन्ति ॥ पुनरपरं सुभूते ये बोधिसत्त्वा महासत्त्वाः प्रज्ञापारमितायां चरन्तः सर्वधर्मा अनुत्पत्तिका इत्यधिमुञ्चन्ति, न च तावदनुत्पत्तिकधर्मक्षान्तिप्रतिलब्धा भवन्ति । सर्वधर्माः शान्ता इत्यधिमुञ्चन्ति, न च सर्वधर्मेष्वविनिवर्तनीयवशिताप्राप्तिमवक्रान्ता भवन्ति । अनेनापि सुभूते विहारेण विहरतां तेषां बोधिसत्त्वानां महासत्त्वानां ते बुद्धा भगवन्तो नाम च गोत्रं च बलं च वर्णं च रूपं च परिकीर्तयमानरूपा धर्मं देशयन्ति, उदानं चोदानयन्ति । येषां खलु पुनः सुभूते बोधिसत्त्वानां महासत्त्वानां ते बुद्धा भगवन्तो नाम च गोत्रं च बलं च वर्णं च रूपं च परिकीर्तयमानरूपा धर्मं देशयन्ति, उदानं चोदानयन्ति, प्रहीणा तेषां श्रावकभूमिः प्रत्येकबुद्धभूमिश्च । बुद्धभूमिरेव तेषां प्रतिकाङ्क्षितव्या । तेऽपि व्याकरिष्यन्तेऽनुत्तरायां सम्यक्संबोधौ । तत्कस्य हेतोः? येषां हि सुभूते बोधिसत्त्वानां महासत्त्वानामेवं प्रज्ञापारमितायां चरतां ते बुद्धा भगवन्तो नाम च गोत्रं च बलं च वर्णं न रूपं च परिकीर्तयमानरूपा धर्मं देशयन्ति, उदानं चोदानयन्ति, तेऽप्यविनिवर्तनीयतायां स्थास्यन्ति ॥ पुनरपरं सुभूते ये बोधिसत्त्वा महासत्त्वा इमां गम्भीरां प्रज्ञापारमितां भाष्यमाणां श्रुत्वा अधिमोक्ष्यन्ति, न धन्धायिष्यन्ति, न काङ्क्षिष्यन्ति, न विचिकित्सिष्यन्ति, एवमेतद्यथा तथागतेनार्हता सम्यक्संबुद्धेन भाषितमित्यधिमुच्य विस्तरेण श्रोष्यन्ति, एवं च चित्तमुत्पादयिष्यन्ति - (वैद्य २२४) इमां वयं प्रज्ञापारमितामक्षोभ्यस्य तथागतस्यार्हतः सम्यक्संबुद्धस्यान्तिकाद्विस्तरेण शृणुयामेति, तेषां च बोधिसत्त्वयानिकानां पुद्गलानां ये चास्य बुद्धक्षेत्रे ब्रह्मचर्यं चरन्ति, तेषां चान्तिकादिमामेव प्रज्ञापारमितां श्रुत्वा अधिमोक्ष्यन्ति, तेऽप्येनां प्रज्ञापारमितामधिमुच्यमाना यथा तथागतेन भाषिता तथा चाधिमोक्ष्यन्ते, तथा चाधिमुच्यमाना अविनिवर्तनीयतायां स्थास्यन्ति । एवं सुभूते बहुकरं प्रज्ञापारमितायाः श्रवणमपि वदामि, कः पुनर्वादो य एनामधिमोक्ष्यन्ति । अधिमुच्य तथत्वाय स्थास्यन्ति । तथत्वाय प्रतिपत्स्यन्ते । तथत्वाय स्थित्वा तथत्वाय प्रतिपद्य तिष्ठन्ति तथतायाम् । तथतायां तिष्ठन्तः सर्वज्ञतायां च धर्मं देशयन्ति ॥ सुभूतिराह - यदा भगवंस्तथताविनिर्मुक्तो नान्यः कश्चिद्धर्म उपलभ्यते, तदा कोऽयं भगवन् धर्मः स्थास्यति तथतायाम्, को वा अयमनुत्तरां सम्यक्संबोधिमभिसंभोत्स्यते, को वा अयमिमं धर्मं देशयिष्यति? एवमुक्ते भगवानायुष्मन्तं सुभूतिमेतदवोचत्- यत्सुभूते एवं वदसि - यदा तथताविनिर्मुक्तो नान्यः कश्चिद्धर्म उपलभ्यते, तदा कोऽयं भगवन् धर्मस्तथतायां स्थास्यति, को वाचमनुत्तरां सम्यक्संबोधिमभिसंभोत्स्यते, को वायमिमं धर्मं देशयिष्यतीति । न सुभूते तथताविनिर्मुक्तोऽन्यः कश्चिद्धर्म उपलभ्यते, यो धर्मस्तथतायां स्थास्यति । तथतैव तावत्सुभूते नोपलभ्यते, कः पुनर्वादो यस्तथतायां स्थास्यति । न सुभूते तथता अनुत्तरां सम्यक्संबोधिमभिसंबुध्यते । सोऽपि सुभूते धर्मो न कश्चिदुपलभ्यते, योऽनुत्तरां सम्यक्संबोधिमभिसंबुद्धो वा, अभिसंभोत्स्यते वा, अभिसंबुध्यते वा । न सुभूते तथता धर्मं देशयति । सोऽपि सुभूते नोपलभ्यते, यो धर्मो देश्येत ॥ अथ खलु शक्रो देवानामिन्द्रो भगवन्तमेतदवोचत्- गम्भीरा भगवन् प्रज्ञापारमिता । दुष्करकारका भगवन् बोधिसत्त्वा महासत्त्वाः, येऽनुत्तरां सम्यक्संबोधिमभिसंबोद्धुकामाः । तत्कस्य हेतोः? न च नाम भगवन् कश्चिद्धर्मस्तथतायां तिष्ठति, नापि कश्चिद्धर्मोऽनुत्तरां सम्यक्संबोधिमभिसंबुध्यते, नापि कश्चिद्धर्मं देशयति । अत्र च ते नावलीयन्ते, नापि काङ्क्षन्ति, नापि धन्धायन्ते ॥ अथ खल्वायुष्मान् सुभूतिः शक्रं देवानामिन्द्रमेतदवोचत्- यत्कौशिक एवं वदसि - दुष्करकारका बोधिसत्त्वा महासत्त्वाः, येषामेवं गम्भीरेषु धर्मेषु भाष्यमाणेषु न भवति । काङ्क्षायितत्वं धन्धायितत्वं वेति । सर्वधर्मेषु कौशिक शून्येषु कस्यात्र काङ्क्षायितता वा भवति धन्धायितता वा भवति? शक्र आह - यद्यदेव आर्युसुभूतिर्निर्दिशति, तत्तदेव शून्यतामारभ्य निर्दिशति, न च क्वचित्सज्जति । तद्यथापि नाम अन्तरीक्षे इषुः क्षिप्तो नैव क्वचित्सज्जति, एवमेव आर्यसुभूतेर्धर्मदेशना न क्वचित्सज्जति ॥ अथ खलु शक्रो देवानामिन्द्रो भगवन्तमेतदवोचत्- कच्चिदहं भगवन् सुभूतिं स्थविरमारभ्य एवं भाषमाणमेवं निर्दिशंस्तथागतस्योक्तवादी भवामि धर्मवादी च, धर्मस्य चानुधर्मं व्याकुर्वन् व्याकरोमि? एवमुक्ते भगवान् शक्रं देवानामिन्द्रमेतदवोचत्- यत्खलु (वैद्य २२५) त्वं कौशिक एवं भाषसे - एवमेतत्कौशिक, एवमेतत् । एवं भाषमाणमेवं निर्दिशंस्तथागतस्योक्तवादी भवसि धर्मवादी च, धर्मस्य चानुधर्मं व्याकुर्वन् व्याकरोषि । तत्कस्य हेतोः? यद्यदेव हि कौशिक सुभूतेः स्थविरस्य प्रतिभाति, तत्तदेव कौशिक शून्यतामारभ्य प्रतिभाति । तत्कस्य हेतोः? सुभूतिर्हि कौशिक स्थविरः प्रज्ञापारमितामपि तावन्न समनुपश्यति, नोपलभते, कुतः पुनर्यः प्रज्ञापारमितायां चरति । बोधिमेव तावन्नोपलभते, किं पुनर्यो बोधिमभिसंभोत्स्यते । सर्वज्ञतामेव तावन्नोपलभते, कुतः पुनर्यः सर्वज्ञतामनुप्राप्स्यति । तथतामेव तावन्नोपलभते, कुतः पुनर्यस्तथागतो भविष्यति । अनुत्पादमेव तावन्नोपलभते, किं पुनर्योऽनुत्पादं साक्षात्करिष्यति । बोधिसत्त्वमेव तावन्नोपलभते, कुतः पुनर्यो बोधिमभिसंभोत्स्यते । बलान्येव तावन्नोपलभते, कुतः पुनर्यो बलसमङ्गी भविष्यति । वैशारद्यान्येव तावन्नोपलभते, कुतः पुनर्यो विशारदो भविष्यति । धर्ममेव तावन्नोपलभते, कुतः पुनर्यो धर्मं देशयिष्यति । सर्वधर्मविविक्तविहारेण सर्वधर्मानुपलम्भविहारेण हि कौशिक सुभूतिः स्थविरो विहरति । यः खलु पुनरयं कौशिक सुभूतेः स्थविरस्य सर्वधर्मविविक्तविहारः सर्वधर्मानुपलम्भविहारश्च, एष कौशिक विहारो बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो विहरतः शततमीमपि कलं नोपैति । सहस्रतमीमपि शतसहस्रतमीमपि कोटीतमीमपि कोटीशततमीमपि कोटीसहस्रतमीमपि कोटीशतसहस्रतमीमपि कोटीनियुतशतसहस्रतमीमपि कलां नोपैति । संख्यामपि कलामपि गणनामपि उपमामपि औपम्यमपि उपनिसामपि उपनिषदमपि न क्षमते । तथागतविहारं हि कौशिक स्थापयित्वा ततोऽन्यान् सर्वान् विहारानभिभवत्ययं विहारः, योऽयं बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो विहरतो विहारः । अयं कौशिक तेषां सर्वविहाराणामग्र आख्यायते, श्रेष्ठ आख्यायते, ज्येष्ठ आख्यायते, वर आख्यायते, प्रवर आख्यायते, प्रणीत आख्यायते, उत्तम आख्यायते, अनुत्तम आख्यायते, निरुत्तर आख्यायते, असम आख्यायते, असमसम आख्यायते । सर्वश्रावकप्रत्येकबुद्धविहारानयं विहारोऽभिभवति, योऽयं बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो विहरतो विहारः । तस्मात्तर्हि कौशिक सर्वसत्त्वानामग्रतां गन्तुकामेन श्रेष्ठतां गन्तुकामेन ज्येष्ठतां गन्तुकामेन वरतां गन्तुकामेन प्रवरतां गन्तुकामेन प्रणीततां गन्तुकामेन उत्तमतां गन्तुकामेन अनुत्तमतां गन्तुकामेन निरुत्तरतां गन्तुकामेन असमतां गन्तुकामेन असमसमतां गन्तुकामेन कौशिक कुलपुत्रेण वा कुलदुहित्रा वा अनेन विहारेण विहर्तव्यम्, योऽयं बोधिसत्त्वानां महासत्त्वानां प्रज्ञापारमितायां चरतां विहरतां विहार इति ॥ आर्याष्टसाहस्रिकायां प्रज्ञापारमितायां सारपरिवर्तो नाम सप्तविंशतितमः ॥ _______________________________________________________________ (वैद्य २२६) २८: अवकीर्णकुसुमपरिवर्तोऽष्टाविंशतितमः । अथ खलु तस्मिन् समयेऽन्यतरो देवपुत्रस्त्रायस्त्रिंशैर्देवपुत्रैः सार्धं मान्दारवाणि महामान्दारवाणि च पुष्पाणि गृहीत्वा येन भगवांस्तेनोपसंक्रान्तः । षष्ठं शतं च भिक्षूणां तस्मिन्नेव समये तस्यामेव पर्षदि संनिपतितं संनिषण्णं चाभूत् । ते उत्थायासनेभ्य एकांसान्युत्तरासङ्गानि कृत्वा दक्षिणानि जानुमण्डलानि पृथिव्यां प्रतिष्ठाप्य येन भगवांस्तेनाञ्जलिं प्रणमयामासुः । तेषा भिक्षूणां बुद्धानुभावेन तेऽञ्जलिप्रग्रहा मान्दारवमहामान्दारवाणां पुष्पाणां परिपूर्णा अभूवन् । ते तैर्मान्दारवैर्महामान्दारवैश्च पुष्पैस्तथागतमर्हन्तं सम्यक्संबुद्धमवाकिरन्, अभ्यवाकिरन्, अभिप्राकिरन्, एवं च वाचमभाषन्त - वयं भगवनस्यां प्रज्ञापारमितायां चरिष्यामः, वयं भगवननेन अनुत्तरेण प्रज्ञापारमिताविहारेण विहारिष्याम इति ॥ अथ खलु भगवांस्तस्यां वेलायां स्मितं प्रादुरकरोत् । धर्मता खलु पुनरेषां बुद्धानां भगवताम् - यदा स्मितं प्रादुष्कुर्वन्ति, अथ तदा नानावर्णा अनेकवर्णा रश्मयो भगवतो मुखद्वारान्निश्चरन्ति - तद्यथा नीलपीतलोहितावदातमाञ्जिष्ठस्फटिकरजतसुवर्णवर्णाः । ते निश्चर्य अनन्तापर्यन्तान् लोकधातूनाभया अवभास्य यावद्ब्रह्मलोकमभ्युद्गम्य पुनरेव प्रत्युदावृत्य भगवन्तं त्रिः प्रदक्षिणीकृत्य भगवतो मूर्धन्यन्तर्धीयन्ते ॥ अथ खल्वायुष्मानानन्द उत्थायासनादेकांसमुत्तरासङ्गं कृत्वा दक्षिणं जानुमण्डलं पृथिव्यां प्रतिष्ठाप्य येन भगवांस्तेनाञ्जलिं प्रणमय्य भगवन्तमेतदवोचत्- नाहेतुकं नाप्रत्ययं तथागता अर्हन्तः सम्यक्संबुद्धाः स्मितं प्रादुष्कुर्वन्ति । को भगवन् हेतुः, कः प्रत्ययः स्मितस्य प्रादुष्करणाय? एवमुक्ते भगवानायुष्मन्तमानन्दमेतदवोचत्- इदमानन्द भिक्षूणां षष्ठं शतमनागतेऽध्वनि तारकोपमे कल्पे अनुत्तरां सम्यक्संबोधिमभिसंभोत्स्यते, अभिसंबुध्य च सत्त्वेभ्यो धर्मं देशयिष्यति । सर्वे चैकनामानो भविष्यन्ति यदुत अवकीर्णकुसुमनामानः । तथागता अर्हन्तः सम्यक्संबुद्धाः शास्तारो लोके भविष्यन्ति । तेषां खलु पुनरानन्द अवकीर्णकुसुमनाम्नां तथागतानामर्हतां सम्यक्संबुद्धानां सर्वेषां समः श्रावकसंघो भविष्यति । सर्वेषां च तेषामवकीर्णकुसुमनाम्नां तथागतानामर्हतां सम्यक्संबुद्धानां सममेवायुःप्रमाणं भविष्यति विंशतिकल्पसहस्राणि । सर्वेषामेव चैकैकस्य वैस्तारिकं प्रवचनं भविष्यति पृथुवैपुल्यप्राप्तं देवमनुष्येषु । सर्वेषामेव च सद्धर्मः समं स्थास्यति, विंशतिमेव कल्पसहस्राण्येकैकस्य । सर्वे च ते यतो यत एव ग्रामनगरनिगमजनपदराष्ट्रराजधानीतोऽभिनिष्क्रमिष्यन्ति, अभिनिष्क्रम्य यत्र यत्र धर्मचक्रं प्रवर्तयिष्यन्ति, प्रवर्त्य च यत्र यत्र च विहरिष्यन्ति, यतो यतश्च यत्र यत्रैव च प्रवेक्षन्ति, येन येन च यतो यत एव चाभिनिष्क्रमिष्यन्ति, ततस्ततस्तत्र तत्र तेषां प्रविशतामभिनिष्क्रामतां विहरतां च पञ्चवर्णिकानां पुष्पाणां पुष्पवर्षाः प्रवर्तिष्यन्ते । तस्मात्तर्हि आनन्द बोधिसत्त्वैर्महासत्त्वैरुत्तमेन विहारेण विहर्तुकामैः प्रज्ञापारमिताविहारेण (वैद्य २२७) विहर्तव्यम् । तथागतविहारेण आनन्द विहर्तुकामैः प्रज्ञापारमिताविहारेण विहर्तव्यम् । ये हि केचिदानन्द बोधिसत्त्वा महासत्त्वाः प्रज्ञापारमितायां चरिष्यन्ति, निष्ठा तत्र गन्तव्या - मनुष्येभ्य एवैते च्युता भविष्यन्ति । ते इहोपपन्नास्तुषितेभ्य एव वा देवनिकायेभ्यश्च्युता भविष्यन्ति मनुष्येष्वेवोपपन्नाः । तत्कस्य हेतोः? तथा हि मनुष्येषु तुषितेषु च देवेषु इयं प्रज्ञापारमिता विस्तरेण प्रचरिष्यतीति । तथागतावलोकिताः खलु पुनरानन्द ते बोधिसत्त्वा महासत्त्वा वेदितव्याः, य इह प्रज्ञापारमितायां चरिष्यन्ति, य इमां प्रज्ञापारमितामुद्ग्रहीष्यन्ति, धारयिष्यन्ति वाचयिष्यन्ति पर्यवाप्स्यन्ति प्रवर्तयिष्यन्ति देशयिष्यन्त्युपदेक्ष्यन्त्युद्देक्ष्यन्ति स्वाध्यास्यन्ति, अन्तशो लिखिष्यन्ति, उद्गृह्य धारयित्वा वाचयित्वा पर्यवाप्य प्रवर्त्य देशयित्वोपदिश्योद्दिश्य स्वाध्याय्य अन्तशो लिखित्वा बोधिसत्त्वान्महासत्त्वानववदिष्यन्ति अनुशासिष्यन्ति संदर्शयिष्यन्ति समादापयिष्यन्ति समुत्तेजयिष्यन्ति संप्रहर्षयिष्यन्ति । अवरोपितकुशलमूलास्ते आनन्द बोधिसत्त्वा महासत्त्वा वेदितव्यास्तथागतेष्वर्हत्सु सम्यक्संबुद्धेषु । न केवलं श्रावकप्रत्येकबुद्धानामन्तिके तैः कुशलमूलान्यवरोपितानि इह प्रज्ञापारमितायां शिक्षितुम्, निःसंशयं खलु पुनरानन्द तथागतेष्वर्हत्सु सम्यक्संबुद्धेषु तैः कुशलमूलान्यवरोपितानि बोधिसत्त्वैर्महासत्त्वैः, य इह प्रज्ञापारमितायां शिक्षन्ते, न चोत्रासमापद्यन्ते । ये च आनन्द एनां प्रज्ञापारमितामुद्ग्रहीष्यन्ति धारयिष्यन्ति वाचयिष्यन्ति पर्यवाप्स्यन्ति प्रवर्तयिष्यन्ति देशयिष्यन्त्युपदेक्ष्यन्त्युद्देक्ष्यन्ति स्वाध्यास्यन्ति लिखिष्यन्ति च, अर्थतश्च धर्मतश्च नयतश्चानुगमिष्यन्ति, निष्ठा आनन्द तत्र गन्तव्या - संमुखीभूतास्ते अभूवन् बोधिसत्त्वा महासत्त्वास्तथागतानामर्हतां सम्यक्संबुद्धानामिति । ये चैनां प्रज्ञापारमितां न प्रतिक्रोशन्ति, न प्रतिवहन्ति, न प्रतिकोपयन्ति, न प्रतिसंहरन्ति, न प्रतिषेधयन्ति, न प्रतिक्षिपन्ति, न प्रतिबाधितव्यां मंस्यन्ते, तेऽप्यानन्द बोधिसत्त्वा महासत्त्वाः पूर्वजिनकृताधिकारा वेदितव्याः ॥ किंचाप्यानन्द बोधिसत्त्वेन महासत्त्वेन तथागतानामर्हतां सम्यक्संबुद्धानामन्तिके कुशलमूलमवरोपितम्, एवं हि तन्न श्रावकप्रत्येकबुद्धत्वाय दास्यति विपाकम् । सचेद्बोधिसत्त्वो महासत्त्वोऽनुत्तरायां सम्यक्संबोधौ न विसंवादयिष्यति प्रणिधानम्, अपि तु खलु पुनरानन्द प्रायेण तेन बोधिसत्त्वेन महासत्त्वेन कृतज्ञेन भवितव्यं प्रज्ञापारमितायां चरितवता । तस्मात्तर्हि ते आनन्द परीन्दामि अनुपरीन्दामि इमां प्रज्ञापारमितां भूयस्या मात्रया अक्षरसंनिपातादुद्ग्रहणाय धारणाय वाचनाय पर्यवाप्तये प्रवर्तनाय चिरस्थितये यथेयं नान्तर्धीयेत । सचेत्त्वमानन्द यो मया ते धर्मो देशितः साक्षात्स्थापयित्वा प्रज्ञापारमिताम्, तां सर्वां धर्मदेशनामुद्गृह्य पुनरेव विप्रणाशयेः, पुनरेवोत्सृजेः विस्मारयेः, न मे त्वमानन्द एतावता अपराद्धः स्याः । यत्खलु पुनस्त्वमानन्द प्रज्ञापारमिताप्रतिसंयुक्तं पदं वा पदसामन्तकं वा नाशयेः, उत्सृजेः, विस्मारयेः, तावता त्वमानन्द ममापराद्धः स्याः, न च मे त्वं चित्तमाराधयेः । सचेत्पुनस्त्वमानन्द प्रज्ञापारमितामुद्गृह्य पुनरेव नाशयेः, पुनरेवोत्सृजेः, विस्मारयेः, न त्वयाहं सत्कृतो गुरुकृतः स्याम्, न मानितो न पूजितो नार्चितो नापचायितः स्याम् । येऽपि (वैद्य २२८) ते आनन्द अतीतानागतप्रत्युत्पन्ना बुद्धा भगवन्तः, तेऽपि त्वया आनन्द न सत्कृता न गुरुकृता न मानिता न पूजिता नार्चिता नापचायिता भवन्ति । सचेत्पुनस्त्वमानन्द प्रज्ञापारमितामुद्गृह्य पुनरेव नाशयेः, पुनरेवोत्सृजेः, विस्मारयेः, तावता त्वमानन्द ममापराद्धः स्याः, न च मे त्वं चित्तमाराधयेः । तत्कस्य हेतोः? उक्तमेतदानन्द तथागतेन - प्रज्ञापारमिता अतीतानागतप्रत्युत्पन्नानां तथागतानामर्हतां सम्यक्संबुद्धानां माता जननी जनयित्री सर्वज्ञताया आहारिकेति । तस्मात्तर्हि आनन्द परीन्दामि अनुपरीन्दामि ते इमां प्रज्ञापारमिताम्, यथेयं नान्तर्धीयेत । उद्ग्रहीतव्येयमानन्द प्रज्ञापारमिता, धारयितव्येयमानन्द प्रज्ञापारमिता, वाचयितव्येयमानन्द प्रज्ञापारमिता, पर्यवाप्तव्येयमानन्द प्रज्ञापारमिता, प्रवर्तयितव्येयमानन्द प्रज्ञापारमिता, देशयितव्येयमानन्द प्रज्ञापारमिता, उपदेष्टव्येयमानन्द प्रज्ञापारमिता, उद्देष्टव्येयमानन्द प्रज्ञापारमिता, स्वाध्यातव्येयमानन्द प्रज्ञापारमिता, लिखितव्येयमानन्द प्रज्ञापारमिता, भावयितव्येयमानन्द प्रज्ञापारमिता । सुमनसिकृता च सुधृता च सुपर्यवाप्ता च सुप्रवर्तिता च त्वया आनन्द इयं प्रज्ञापारमिता कर्तव्या । सुपरिव्यक्तेनाक्षरपदव्यञ्जनेन सुनिरुक्ता चोद्ग्रहीतव्या । तत्कस्य हेतोः? अतीतानागतप्रत्युत्पन्नानां हि आनन्द तथागतानामर्हतां सम्यक्संबुद्धानां धर्मकायतेति तां धर्मतां प्रमाणीकृत्य । यथा तत्त्वमानन्द एतर्हि मे तथागतस्य तिष्ठतो ध्रियमाणस्य यापयतो हितैषितया प्रेमतो वा गौरवतो वा कल्याणतो वा स्पर्शविहारतो वा कर्तव्यं वा दातव्यं वा समन्वाहर्तव्यं वा मन्यसे, तथैव त्वया आनन्द इयं प्रज्ञापारमिता उद्ग्रहीतव्या धारयितव्या वाचयितव्या पर्यवाप्तव्या प्रवर्तयितव्या देशयितव्या उपदेष्टव्या उद्देष्टव्या स्वाध्यातव्या लिखितव्या भावयितव्या सत्कर्तव्या गुरुकर्तव्या मानयितव्या पूजयितव्या अर्चयितव्या अपचायितव्या, तया हितैषितया तेन प्रेम्णा तेन गौरवेण तया गुणवत्तया । एवं त्वया आनन्द अहं पूजितो भवामि, ते च बोधिसत्त्वा महासत्त्वाः । अतीतानागतप्रत्युत्पन्नानां च बुद्धानां भगवतामन्तिके प्रेम च प्रसादश्च गौरवं चोत्पादितं भवति । यदि ते आनन्द अहं प्रियो मनआपोऽपरित्यक्तस्तथागतः, ततस्ते आनन्द इयं प्रज्ञापारमिता प्रिया मनआपा अपरित्यजनीया भवतु, यथा ते एकपदमपि न प्रणश्येत्, यथा नान्तर्धीयेत । बह्वपि ते आनन्द अहं भाषेयं प्रज्ञापारमितायाः परीन्दनामारम्य कल्पं वा कल्पावशेषं वा कल्पशतं वा कल्पसहस्रं वा कल्पशतसहस्रं वा कल्पकोटीं वा कल्पकोटीशतं वा कल्पकोटीसहस्रं वा कल्पकोटीशतसहस्रं वा ततो वा उपरि । संक्षेपेण आनन्द यादृशस्तवाहं शास्ता, तादृशी ते प्रज्ञापारमिता शास्ता । यादृशास्ते अतीतानागतप्रत्युत्पन्ना बुद्धा भगवन्तः सदेवमानुषासुरस्य लोकस्य शास्तारः, तादृशी प्रज्ञापारमिता सदेवमानुषासुरस्य लोकस्य शास्ता । तस्मात्तर्हि आनन्द अपरिमाणा प्रज्ञापारमिता । अपरिमाणया परीन्दनया प्रज्ञापारमितां ते परीन्दाम्यनुपरीन्दामि सदेवमानुषासुरस्य लोकस्य हिताय सुखाय । यस्य आनन्द तथागतो न परित्यक्तः, धर्मो न परित्यक्तः, संघो न परित्यक्तः, अतीतानागतप्रत्युत्पन्नानां बुद्धानां भगवतां बोधिर्न परित्यक्ता, तस्य प्रज्ञापारमिता अपरित्यक्ता भवतु । इयमस्माकमनुशासनी । (वैद्य २२९) योऽपि कश्चिदानन्द एनां प्रज्ञापारमितामुद्गृह्णीयाद्धारयेत्पर्यद्वाचयेदाप्नुयात्प्रवर्तयेद्देशयेदुपदिशेदुद्दिशेत्स्वाध्यायेत्लिखेद्भावयेत्, अतीतानागतप्रत्युत्पन्नानां बुद्धानां भगवतां तेन बोधिरनुपरिगृहीता भवेत् । यो हि कश्चिदानन्द एनां प्रज्ञापारमितां प्रलुज्यमानामनुपरिगृह्णीते, अतीतानागतप्रत्युत्पन्नानां बुद्धानां भगवतां तेन बोधिरनुपरिगृहीता भवति । तत्कस्य हेतोः? प्रज्ञापारमितानिर्जाता हि आनन्द बुद्धानां भगवतां बोधिः । येऽपि ते आनन्द अभूवन्नतीतेऽध्वनि तथागता अर्हन्तः सम्यक्संबुद्धाः, तेषामप्यानन्द बुद्धानां भगवतां प्रज्ञापारमितानिर्जातैव अनुत्तरा सम्यक्संबोधिरभूत् । तेऽपि ते आनन्द अनागतेऽध्वनि भविष्यन्ति तथागता अर्हन्तः सम्यक्संबुद्धाः, तेषामप्यानन्द बुद्धानां भगवतां प्रज्ञापारमितानिर्जातैव अनुत्तरा सम्यक्संबोधिर्भविष्यति । येऽपि ते आनन्द अप्रमेयेष्वसंख्येषु लोकधातुषु तथागता अर्हन्तः सम्यक्संबुद्धा एतर्हि तिष्ठन्ति ध्रियन्ते यापयन्ति, तेषामप्यानन्द बुद्धानां भगवतां प्रज्ञापारमितानिर्जातैव अनुत्तरा सम्यक्संबोधिः । तस्मात्तर्हि आनन्द बोधिसत्त्वेन महासत्त्वेन अनुत्तरां सम्यक्संबोधिमभिसंबोद्धुकामेन षट्सु पारमितासु शिक्षितुकामेन इयमेव प्रज्ञापारमिता श्रोतव्या उद्ग्रहीतव्या धारयितव्या वाचयितव्या पर्यवाप्तव्या प्रवर्तयितव्या देशयितव्योपदेष्टव्योद्देष्टव्या स्वाध्यातव्या लिखितव्या । इहैव प्रज्ञापारमितायां शिक्षितव्यं योगमापत्तव्यम् । तत्कस्य हेतोः? एषा हि आनन्द प्रज्ञापारमिता बोधिसत्त्वानां महासत्त्वानां माता जननी जनयित्री । येऽपि केचिदानन्द बोधिसत्त्वा महासत्त्वाः षट्सु पारमितासु शिक्षित्वा निर्याताः, निर्यास्यन्ति निर्यान्ति च अनुत्तरायां सम्यक्संबोधौ, सर्वे ते आनन्द प्रज्ञापारमितामागम्य षट्सु पारमितासु शिक्षिताः । तेऽपि सर्वे एनामेव प्रज्ञापारमितामागम्य षट्सु पारमितासु निर्जाताः । तत्कस्य हेतोः? प्रज्ञापारमितानिर्जाता हि आनन्द सर्वाः पारमिताः आहारिका भवन्त्यनुत्तरायाः सम्यक्संबोधेः । तस्मात्तर्हि आनन्द भूयस्या मात्रया एनां प्रज्ञापारमितां द्वितीयकमपि तृतीयकमपि परीन्दाम्यनुपरीन्दामि ते, यथेयं नान्तर्धीयेत । एषा हि आनन्द तथागतानामर्हतां सम्यक्संबुद्धानामक्षयो धर्मकोषः, यदुत प्रज्ञापारमिता । तत्कस्य हेतोः? यो हि आनन्द अतीतेऽध्वनि अनवराग्रे संसारे सत्त्वानां बुद्धैर्भगवद्भिर्धर्मो देशितः, सर्वः स इत एव धर्मकोषात्, यदुत प्रज्ञापारमितातः । येऽपि ते आनन्द अनागतेऽध्वनि बुद्धा भगवन्तोऽपरिमिते संसारेऽनुत्तरां सम्यक्संबोधिमभिसंबुध्य सत्त्वानां धर्मं देशयिष्यन्ति, तेऽपि बुद्धा भगवन्त इत एव धर्मकोषात्, यदुत प्रज्ञापारमितातः । येऽपि ते आनन्द एतर्हि अप्रमेयेष्वसंख्येयेषु लोकधातुषु बुद्धा भगवन्तस्तिष्ठन्ति ध्रियन्ते यापयन्ति, धर्मं च देशयन्ति, तेषामप्यानन्द बुद्धानां भगवतामित एव धर्मकोषात्प्रभावना भवति, यदुत प्रज्ञापारमितातः । तस्मात्तर्हि आनन्द अक्षय एष धर्मकोषो यदुत प्रज्ञापारमिताकोषः । सचेत्त्वमानन्द श्रावकयानि - - - - गतमर्हन्तं सम्यक्संबुद्धं पश्यन्ति स्म भिक्षुसंघपरिवृतं बोधिसत्त्वगणपुरस्कृतं (वैद्य २३०) धर्मं देशयन्तं सागरोपमायां गम्भीरायामक्षोभ्यायां पर्षदि बोधिसत्त्वैर्महासत्त्वैरचिन्त्यगुणसमन्वागतैः परिवृतं पुरस्कृतं सर्वैश्चार्हद्भिः क्षीणास्रवैर्निःक्लेशैर्वशीभूतैः सुविमुक्तचित्तै सुविमुक्तप्रज्ञैराजानेयैर्महानागैः कृतकृत्यैः कृतकरणीयैरपहृतभारैरनुप्राप्तस्वकार्थैः परिक्षीणभवसंयोजनैः सम्यगाज्ञासुविमुक्तचितैः सर्वचेतोवशिपरमपारमिप्राप्तैः ॥ अथ खलु भगवांस्तमृद्ध्यभिसंस्कारं पुनरेव प्रतिसंहरति स्म । प्रतिसंहृते च भगवता तस्मिनृद्ध्यभिसंस्कारे न भूयः स भगवानक्षोभ्यस्तथागतोऽर्हन् सम्यक्संबुद्धः संदृश्यते स्म । ते च सर्वे बोधिसत्त्वा महासत्त्वाः, ते च महाश्रावकाः, तच्च बुद्धक्षेत्रं तासां चतसृणां गन्धर्वासुरगरुडकिन्नरमहोरगाणां मनुष्यामनुष्याणां च न चक्षुष आभासं भूय आगच्छन्ति स्म । तत्कस्य हेतोः? प्रतिसंहृतो हि तथागतेनार्हता सम्यक्संबुद्धेन स ऋद्ध्यभिसंस्कारः । तेन ते सर्वे सर्वेषां तेषां न भूयश्चक्षुष आभासमागच्छन्ति स्म ॥ अथ खलु भगवानायुष्मन्तमानन्दमामन्त्रयते स्म - एवमानन्द सर्वधर्मा न चक्षुषोऽप्याभासमागच्छन्ति, न धर्माधर्माणामाभासमागच्छन्ति, न धर्माधर्मान् पश्यन्ति, न धर्माधर्मान् जानन्ति । तत्कस्य हेतोः? सर्वधर्मा हि आनन्द अजानका अपश्यकाः, न कार्यसमर्थाः । तत्कस्य हेतोः? निरीहका हि आनन्द सर्वधर्मा अग्राह्या आकाशनिरीहकतया । अचिन्त्या ह्यानन्द सर्वधर्मा मायापुरुषोपमाः । अवेदका ह्यानन्द सर्वधर्मा असद्भावतामुपादाय । एवं चरन्त आनन्द बोधिसत्त्वा महासत्त्वाश्चरन्ति प्रज्ञापारमितायम् । न कंचिद्धर्ममभिनिविशन्ते । एवं शिक्षमाणा आनन्द बोधिसत्त्वा महासत्त्वाः शिक्षन्ते प्रज्ञापारमितायाम् । सर्वशिक्षापरमपारमितां महाबोधिं प्राप्तुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यम् । तत्कस्य हेतोः? एषा ह्यानन्द शिक्षा सर्वशिक्षाणामग्रा आख्यायते, श्रेष्ठा आख्यायते, ज्येष्ठा आख्यायते, वरा आख्यायते, प्रवरा आख्यायते, प्रणीता आख्यायते, उत्तमा आख्यायते, अनुत्तमा आख्यायते, निरुत्तरा आख्यायते, असमा आख्यायते, असमसमा आख्यायते, सर्वलोकहितावहा सर्वलोकसुखावहा अनाथानां नाथकरी बुद्धानुज्ञाता बुद्धप्रशस्ता । अस्यामानन्द प्रज्ञापारमितायां शिक्षित्वा अत्र शिक्षायां स्थित्वा तथागता अर्हन्तः सम्यक्संबुद्धा इमं त्रिसाहस्रमहासाहस्रं लोकधातुमेकेन पदाङ्गुष्ठेनोत्क्षिप्य पुनरेव निक्षिपेयुः । न च तेषां बुद्धानां भगवतामेवं स्यात्- उत्क्षिप्तो वायं त्रिसाहस्रमहासाहस्रो लोकधातुः निक्षिप्तो वेति । तत्कस्य हेतोः? अप्रमेयासंख्येयगुणसमन्वागता हि प्रज्ञापारमिता । अस्यामानन्द प्रज्ञापारमिताशिक्षायां शिक्षित्वा बुद्धा भगवन्तोऽतीतानागतप्रत्युत्पन्नेषु धर्मेष्वसङ्गतामनुप्राप्ताः । यावत्य आनन्द काश्चिच्छिक्षाः अतीतानागतप्रत्युत्पन्नेऽध्वनि, सर्वासां तासामानन्द शिक्षाणामियमेव प्रज्ञापारमिताशिक्षा अग्रा आख्यायते, श्रेष्ठा आख्यायते, ज्येष्ठा आख्यायते, वरा आख्यायते, प्रवरा आख्यायते, प्रणीता आख्यायते, उत्तमा आख्यायते, अनुत्तमा आख्यायते, निरुत्तरा आख्यायते, असमा आख्यायते, असमसमा आख्यायते । अप्रमाणा ह्यानन्द प्रज्ञापारमिता । अक्षया ह्यानन्द प्रज्ञापारमिता । अपर्यन्ता ह्यानन्द प्रज्ञापारमिता । तत्कस्य हेतोः ? असत्त्वादेव (वैद्य २३१) प्रज्ञापारमितायाः । आकाशस्य हि स आनन्द प्रमाणं वा क्षयं वा पर्यन्तं वा ग्रहीतव्यं मन्येतः, यः प्रज्ञापारमितायाः प्रमाणं वा क्षयं वा पर्यन्तं वा ग्रहीतव्यं मन्येत । तत्कस्य हेतोः? अप्रमाणा ह्यानन्द प्रज्ञापारमिता । अक्षया ह्यानन्द प्रज्ञापारमिता । अपर्यन्ता ह्यानन्द प्रज्ञापारमिता । न मया आनन्द प्रज्ञापारमितायाः प्रमाणं वा क्षयो वा पर्यन्तो वा आख्यातः । नामकायपदकायव्यञ्जनकायाः खलु पुनरानन्द प्रमाणबद्धाः । नेयमानन्द प्रज्ञापारमिता प्रमाणबद्धा । तत्कस्य हेतोः? न ह्यानन्द नामकायपदकायव्यञ्जनकायाः प्रज्ञापारमिता । न हि प्रमाणवतीयमानन्द प्रज्ञापारमिता । अपरिमाणा ह्यानन्द प्रज्ञापारमिता ॥ आनन्द आह - केन पुनः कारणेन भगवन् भगवता प्रज्ञापारमितायाः प्रमाणं नाख्यातम् ? भगवानाह - अक्षयत्वादानन्द प्रज्ञापारमितायास्तथागतः प्रमाणं न निर्दिशति । विविक्तत्वादानन्द प्रज्ञापारमितायाः प्रमाणं तथागतेन नाख्यातम् । न ह्यानन्द विविक्तस्य धर्मस्य विविक्तताप्युपलभ्यते, कुतः पुनरस्य प्रमाणं भविष्यति? एवमानन्द प्रज्ञापारमिता अप्रमेयत्वादप्रमाणा अपरिमाणा । येऽपि ते आनन्द अतीतेऽध्वन्यभूवंस्तथागता अर्हन्तः सम्यक्संबुद्धाः, तेऽप्यानन्द इत एव प्रज्ञापारमितातः प्रभाविताः । न चानन्द इयं प्रज्ञापारमिता क्षीणा वा परिक्षीणा वा । येऽपि ते आनन्द अनागतेऽध्वनि भविष्यन्ति तथागता अर्हन्तः सम्यक्संबुद्धाः, तेऽप्यानन्द इत एव प्रज्ञापारमितातः प्रभावयिष्यन्ते । न चानन्द इयं प्रज्ञापारमिता क्षेष्यते वा परिक्षेष्यते वा । येऽपि ते आनन्द एतर्ह्यप्रमेयेष्वसंख्येयेषु लोकधातुषु तथागता अर्हन्तः सम्यक्संबुद्धास्तिष्ठन्ति ध्रियन्ते यापयन्ति, तेऽप्यानन्द इत एव प्रज्ञापारमितातः प्रभाव्यन्ते । न चेयमानन्द प्रज्ञापारमिता क्षीयते वा परिक्षीयते वा । अहमप्यानन्द एतर्हि तथागतोऽर्हन् सम्यक्संबुद्धः । ममाप्यानन्द इत एव प्रज्ञापारमितातः प्रभावना । न चानन्द इयं प्रज्ञापारमिता क्षीयते वा परिक्षीयते वा । तत्कस्य हेतोः? आकाशं हि स आनन्द क्षययितव्यं मन्येत, यः प्रज्ञापारमितां क्षययितव्यां मन्येत । तस्मात्तर्ह्यानन्द अक्षयेयं प्रज्ञापारमिता ॥ अथ खल्वायुष्मतः सुभूतेरेतदभवत्- गम्भीरमिदं स्थानं तथागतेन भाषितम् । यन्न्वहं तथागतं पृच्छेयमेतत्स्थानम् । अथ खल्वायुष्मान् सुभूतिर्भगवन्तमेतदवोचत्- अक्षया भगवन् प्रज्ञापारमिता? भगवानाह - अक्षया हि सुभूते प्रज्ञापारमिता यदुत आकाशाक्षयत्वात्सर्वधर्मानुत्पादतः । सुभूतिराह - कथं भगवन् बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमिता अभिनिर्हर्तव्या? भगवानाह - रूपाक्षयत्वेन सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमिता अभिनिर्हर्तव्या । एवं वेदनासंज्ञासंस्काराः । विज्ञानाक्षयत्वेन सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमिता अभिनिर्हर्तव्या । एवं खलु सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमिता अभिनिर्हर्तव्या । अविद्याक्षयत्वेन सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमिता अभिनिर्हर्तव्या । एवं संस्काराक्षयत्वेन विज्ञानाक्षयत्वेन नामरूपाक्षयत्वेन षडायतनाक्षयत्वेन स्पर्शाक्षयत्वेन (वैद्य २३२) वेदनाक्षयत्वेन तृष्णाक्षयत्वेन उपादानाक्षयत्वेन भवाक्षयत्वेन जात्यक्षयत्वेन जरामरणाक्षयत्वेन शोकपरिदेवदुःखदौर्मनस्योपायासाक्षयत्वेन सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमिता अभिनिर्हर्तव्या । इयं सुभूते बोधिसत्त्वस्य महासत्त्वस्य अन्तद्वयविवर्जिता प्रतीत्यसमुत्पादव्यवलोकना । एवं व्यवलोकयन् सुभूते बोधिसत्त्वो महासत्त्वः प्रतीत्यनुत्पादमनाद्यन्तमध्यं तं व्यवलोकयति । अयं सुभूते बोधिसत्त्वस्य महासत्त्वस्यावेणिको धर्मो बोधिमण्डे निषण्णस्य, यदेवं प्रतीत्यसमुत्पादं व्यवलोकयति । एवं व्यवलोकयतः सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रतीत्यसमुत्पादः सर्वज्ञज्ञानप्रतिलम्भो भवति । यो हि कश्चित्सुभूते बोधिसत्त्वो महासत्त्वः अनेन अक्षयाभिर्निर्हारेण प्रज्ञापारमितायां चरन् प्रतीत्यसमुत्पादं व्यवलोकयति, स न श्रावकभूमौ वा प्रत्येकबुद्धभूमौ वा स्थास्यति, अपि तु स्थास्यति सर्वज्ञतायाम् । ये केचित्सुभूते बोधिसत्त्वा महासत्त्वा विवर्तन्तेऽनुत्तरायाः सम्यक्संबोधेः, सचेतिमान्मनसिकारानिदं चोपायकौशल्यमनागम्य न जानन्ति - कथं प्रज्ञापारमितायां चरता बोधिसत्त्वेन महासत्त्वेन अक्षयाभिनिर्हारेण प्रज्ञापारमिता अभिनिर्हर्तव्या, कथं च अक्षयाभिनिर्हारेण प्रज्ञापारमितायां प्रतीत्यसमुत्पादो व्यवलोकयितव्य इति । ये केचित्सुभूते बोधिसत्त्वा महासत्त्वा विवृत्ता विवर्तन्ते, विवर्त्स्यन्ते च अनुत्तरायाः सम्यक्संबोधेः, सर्वे ते इदमुपायकौशल्यमनागम्य विवृत्ता विवर्तन्ते विवर्त्स्यन्ते च । ये केचित्सुभूते बोधिसत्त्वा महासत्त्वा न विवृत्ता न विवर्तन्ते न विवर्त्स्यन्ते च, सर्वे ते इमां प्रज्ञापारमितामागम्य न विवृत्ता न विवर्तन्ते न विवर्त्स्यन्ते च अनुत्तरायाः सम्यक्संबोधेः । एवं प्रज्ञापारमितायां चरता बोधिसत्त्वेन महासत्त्वेन अक्षयाभिनिर्हारेण प्रज्ञापारमिता अभिनिर्हर्तव्या । एवं च अक्षयाभिनिर्हारेण प्रज्ञापारमितायां प्रतीत्यसमुत्पादो व्यवलोकयितव्यः । एवं खलु पुनः सुभूते बोधिसत्त्वो महासत्त्वः प्रतीत्यसमुत्पादं व्यवलोकयन्न कंचिद्धर्ममहेतुकमुत्पद्यमानं समनुपश्यति, न कंचिद्धर्मं नित्यं वा ध्रुवं वा शाश्वतं वा अविपरिणामधर्मकं वा समनुपश्यति । न कंचिद्धर्मं कारकं वा वेदकं वा समनुपश्यति । इयं सुभूते बोधिसत्त्वस्य महासत्त्वस्य इमां प्रज्ञापारमितामक्षयाभिनिर्हारेण अभिनिर्हरतोऽस्यां प्रज्ञापारमितायां चरतः प्रतीत्यसमुत्पादव्यवलोकना । यस्मिन् समये सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितामक्षयाभिनिर्हारेण अभिनिर्हरन् प्रतीत्यसमुत्पादं व्यवलोकयति, तस्मिन् समये सुभूते बोधिसत्त्वो महासत्त्वो न रूपं समनुपश्यति, न वेदनां न संज्ञां न संस्कारान्, न विज्ञानं समनुपश्यति, नाविद्यां समनुपश्यति । एवं न संस्कारान्न विज्ञानं न नामरूपं न षडायतनं न स्पर्शं न वेदनां न तृष्णां नोपादानं न भवं न जातिं न जरामरणं न शोकपरिदेवदुःखदौर्मनस्योपायासान् समनुपश्यति । इदं बुद्धक्षेत्रमिति न समनुपश्यति, अन्यद्बुद्धक्षेत्रमिति न समनुपश्यति । तमपि धर्मं न समनुपश्यति, येन धर्मेण इदं वा अन्यद्वा बुद्धक्षेत्रं समनुपश्येत् । इयं सा सुभूते बोधिसत्त्वानां महासत्त्वानां प्रज्ञापारमिता । यस्मिन् समये सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरति, तस्मिन् समये मारः पापीयान् परमशोकशल्यसमर्पितो भवति । (वैद्य २३३) तद्यथापि नाम सुभूते पुरुषो मातापितृषु कालगतेषु परमशोकशल्यसमर्पितो भवति, एवमेव सुभूते यस्मिन् समये बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरति, तस्मिन् समये मारः पापीयान् परमशोकशल्यसमर्पितो भवति ॥ सुभूतिराह - किमेक एव भगवन्मारः पापीयान् परमशोकशल्यसमर्पितो भवति, उताहो बहवो माराः पापीयांसः परमशोकशल्यसमर्पिता भवन्ति, उताहो ये त्रिसाहस्रमहासाहस्रे लोकधातौ माराः पापीयांसः तेऽपि सर्वे तस्मिन् समये परमशोकशल्यसमर्पिता भवन्ति? एवमुक्ते भगवानायुष्मन्तं सुभूतिमेतदवोचत्- यस्मिन् समये सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमिताविहारेण विहरति, तस्मिन् समये ये त्रिसाहस्रमहासाहस्रे लोकधातौ मारां पापीयांसः ते सर्वे परमशोकशल्यसमर्पिता भवन्ति, स्वकस्वकेष्वासनेषु न रमन्ते । तत्कस्य हेतोः? प्रज्ञापारमिताविहारेण हि विहरतोऽस्य सुभूते बोधिसत्त्वस्य महासत्त्वस्य सदेवमानुषासुरो लोकोऽवतारं न लभते ग्रहणाय, गाधं न लभते, यत्रैनं गृहीत्वा विहेठयेद्वा विवर्तयेद्वा अनुत्तरायाः सम्यक्संबोधेः । तस्मात्तर्हिः सुभूते बोधिसत्त्वेन महासत्त्वेन अनुत्तरां सम्यक्संबोधिमभिसंबोद्धुकामेन प्रज्ञापारमितायां चरितव्यम् । तत्कस्य हेतोः? प्रज्ञापारमितायां हि सुभूते चरतो बोधिसत्त्वस्य महासत्त्वस्य दानपारमिता भावनापरिपूरिं गच्छति, एवं शीलपारमिता क्षान्तिपारमिता वीर्यपारमिता ध्यानपारमिता भावनापरिपूरिं गच्छति । प्रज्ञापारमितायां हि सुभूते चरतो बोधिसत्त्वस्य महासत्त्वस्य सर्वाः षट्पारमिता भावनापरिपूरिं गच्छन्ति, सर्वाणि चोपायकौशल्यानि भावनापरिपूरिं गच्छन्ति । तस्य बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो यानि कानिचिन्मारकर्माण्युत्पद्येरन्, सर्वाणि तान्युत्पद्यमानान्येव स प्रज्ञास्यति, प्रजानन् विसर्जयिष्यति । सर्वोपायकौशल्यानि सुभूते परिग्रहीतुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरितव्यम्, प्रज्ञापारमिता भावयितव्या । यस्मिन् समये सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरति, प्रज्ञापारमितामभिनिर्हरति, तस्मिन् समये सुभूते न बोधिसत्त्वेन महासत्त्वेन येऽप्रमेयेष्वसंख्येयेषु लोकधातुषु बुद्धा भगवन्तस्तिष्ठन्ति ध्रियन्ते यापयन्ति, ते समन्वाहर्तव्याः । तेषामपि इतोनिर्जातैव सर्वज्ञता यदुत प्रज्ञापारमितातः । एवं समन्वाहृत्य तेन बोधिसत्त्वेन महासत्त्वेन पुनरेवं चित्तमुत्पादयितव्यम् - अहमप्येतान् धर्माननुप्राप्स्यामि ये तैर्बुद्धैर्भगवद्भिरनुप्राप्ता इति । एवं सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता इमे चित्तोत्पादा उत्पादयितव्या अभिनिर्हर्तव्या दिवसस्यात्ययेन, अन्तशोऽच्छटासंघातमात्रकमपि । यश्च सुभूते औपलम्भिको बोधिसत्त्वो महासत्त्वो गङ्गानदीवालुकोपमान् कल्पान् दानं दद्यात्, अयमेव तत औपलम्भिकाद्बोधिसत्त्वान्महासत्त्वाद्बहुतरं पुण्यं प्रसवति, योऽयं बोधिसत्त्वो महासत्त्वो दिवसस्यात्ययेन इमां प्रज्ञापारमितामभिनिर्हरेत्, अन्तशोऽच्छटासंघातमात्रकमपि । अयं बोधिसत्त्वो महासत्त्वोऽविनिवर्तनीयतायां स्थास्यति । तथागतसमन्वाहृतः स बोधिसत्त्वो महासत्त्वो वेदितव्यः, योऽस्यां प्रज्ञापारमितायां चरनिमांश्चित्तोत्पादानुत्पादयति दिवसस्यात्ययेन (वैद्य २३४) अन्तशोऽच्छटासंघातमात्रकमपि । कः पुनर्वादो यस्येमे चित्तोत्पादा दिवसमनुवर्तेरन् । तथागतसमन्वाहृतस्य हि सुभूते बोधिसत्त्वस्य महासत्त्वस्य का गतिः प्रतिकाङ्क्षितव्या? तथागतसमन्वाहृतस्य हि सुभूते बोधिसत्त्वस्य महासत्त्वस्य नान्या गतिः प्रतिकाङ्क्षितव्या अन्यत्रानुत्तरायाः सम्यक्संबोधेः । अभव्यश्चासावपायेषूपपत्तुम् । स्वर्गोपपत्तिरेव तस्य प्रतिकाङ्क्षितव्या । तत्रापि तथागतैरविरहितो भविष्यति, तथागताविरहितेषु च बुद्धक्षेत्रेषूपपत्स्यते, सत्त्वांश्च परिपाचयिष्यति । इमेऽपि सुभूते गुणाः, इमेऽप्यनुशंसा बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतः, प्रज्ञापारमितामभिनिर्हरतः, इमांश्चित्तोत्पादानुत्पादयतः अन्तशोऽच्छटासंघातमात्रकमपि । कः पुनर्वादो यस्येमे चित्तोत्पादा दिवसमनुवर्तेरन्, तद्यथापि नाम सुभूते गन्धहस्तिनो बोधिसत्त्वस्य महासत्त्वस्य य एतर्ह्यक्षोभ्यस्य तथागतस्यार्हतः सम्यक्संबुद्धस्यान्तिके ब्रह्मचर्यं चरतीति ॥ आर्याष्टसाहस्रिकायां प्रज्ञापारमितायामवकीर्णकुसुमपरिवर्तो नामाष्टाविंशतितमः ॥ _______________________________________________________________ (वैद्य २३५) २९: अनुगमपरिवर्त एकोनत्रिंशत्तमः । पुनरपरं सुभूते बोधिसत्त्वेन महासत्त्वेन एवं प्रज्ञापारमिता अनुगन्तव्या - सर्वधर्मासङ्गतः प्रज्ञापारमिता अनुगन्तव्या । सर्वधर्मासंभेदनतः प्रज्ञापारमिता अनुगन्तव्या । सर्वधर्मासंभवतः प्रज्ञापारमिता अनुगन्तव्या । सर्वधर्मानिर्विकारसमा इति प्रज्ञापारमिता अनुगन्तव्या । सर्वधर्माणामनात्मविज्ञप्तितः प्रज्ञानुबोधनतः प्रज्ञापारमिता अनुगन्तव्या । सर्वधर्माश्च नाममात्रेण व्यवहारमात्रेणाभिलप्यन्ते इति प्रज्ञापारमिता अनुगन्तव्या । व्यवहारश्च न क्वचिन्न कुतश्चिन्न कश्चिद्व्यवहारः । सर्वधर्मा अव्यवहारा अव्याहारा अव्यवहृता अव्याहृता इति प्रज्ञापारमिता अनुगन्तव्या । सर्वधर्माप्रमाणतः प्रज्ञापारमिता अनुगन्तव्या । रूपाप्रमाणतः प्रज्ञापारमिता अनुगन्तव्या । एवं वेदनाप्रमाणतः संज्ञाप्रमाणतः संस्काराप्रमाणतः । विज्ञानाप्रमाणतः प्रज्ञापारमिता अनुगन्तव्या । सर्वधर्मानिमित्ततः प्रज्ञापारमिता अनुगन्तव्या । सर्वधर्मनिर्वेधतः प्रज्ञापारमिता अनुगन्तव्या । सर्वधर्मप्रकृतिपरिशुद्धितः प्रज्ञापारमिता अनुगन्तव्या । सर्वधर्मावचनतः प्रज्ञापारमिता अनुगन्तव्या । सर्वधर्माणामनिरोधतः प्रहाणसमतया प्रज्ञापारमिता अनुगन्तव्या । सर्वधर्माणां निर्वाणप्राप्तितस्तथतासमतया प्रज्ञापारमिता अनुगन्तव्या । सर्वधर्मा नागच्छन्ति, न गच्छन्ति, अजानाना अजाता अत्यन्ताजातित इति प्रज्ञापारमिता अनुगन्तव्या । आत्मपरादर्शनतः प्रज्ञापारमिता अनुगन्तव्या । सर्वधर्मा आर्यार्हन्तः प्रकृतिपरिशुद्धा इति प्रज्ञापारमिता अनुगन्तव्या । अपहृतभाराः सर्वधर्माभारानारोपणतयेति प्रज्ञापारमिता अनुगन्तव्या । सर्वधर्मादेशाप्रदेशतः प्रज्ञापारमिता अनुगन्तव्या । तत्कस्य हेतोः ? रूपं हि सुभूते अदेशमप्रदेशं प्रकृतिस्वभावतः । एवं वेदना संज्ञा संस्काराः । विज्ञानं हि सुभूते अदेशमप्रदेशं प्रकृईतिस्वभावतः सर्वधर्मनिरोधप्रह्लादनत्वादिति प्रज्ञापारमिता अनुगन्तव्या । अरत्यविरतितः प्रज्ञापारमिता अनुगन्तव्या । अरक्ताविरक्ततया प्रज्ञापारमिता अनुगन्तव्या । तत्कस्य हेतोः? रूपं हि सुभूते सतत्त्वेन स्वभावेन न रज्यते न विरज्यते । एवं वेदना संज्ञा संस्काराः । विज्ञानं हि सुभूते सतत्त्वेन स्वभावेन न रज्यते न विरज्यते प्रकृतिपरिशुद्धत्वादिति प्रज्ञापारमिता अनुगन्तव्या । सर्वधर्मा असक्ताः सङ्गासङ्गविगता इति प्रज्ञापारमिता अनुगन्तव्या । बोधिः सर्वधर्मा बुद्धज्ञानावबोधनतयेति प्रज्ञापारमिता अनुगन्तव्या । सर्वधर्मशून्यानिमित्ताप्रणिहिततया प्रज्ञापारमिता अनुगन्तव्या । सर्वधर्मा भैषज्यमैत्रीपूर्वंगमतयेति प्रज्ञापारमिता अनुगन्तव्या । सर्वधर्मा मैत्रीविहारिणः करुणाविहारिणो मुदिताविहारिण उपेक्षाविहारिण इति प्रज्ञापारमिता अनुगन्तव्या । सर्वधर्मा ब्रह्मभूता दोषानुत्पादनतः सर्वदोषानुत्पादनत इति प्रज्ञापारमिता अनुगन्तव्या । सर्वधर्माणामप्रणिहिततोऽप्रतिहतित इति प्रज्ञापारमिता अनुगन्तव्या । समुद्रापर्यन्ततया प्रज्ञापारमितापर्यन्तता अनुगन्तव्या । गगनापर्यन्ततया प्रज्ञापारमितापर्यन्तता अनुगन्तव्या । मेरुविचित्रतया प्रज्ञापारमिताविचित्रता अनुगन्तव्या । रूपापर्यन्ततया प्रज्ञापारमितापर्यन्तता (वैद्य २३६) अनुगन्तव्या । एवं वेदना संज्ञा संस्काराः । विज्ञानापर्यन्ततया प्रज्ञापारमितापर्यन्तता अनुगन्तव्या । सूर्यरश्मिमण्डलापर्यन्तावभासनतया प्रज्ञापारमितापर्यन्तता अनुगन्तव्या । सर्वशब्दापर्यन्ततया प्रज्ञापारमितापर्यन्तता अनुगन्तव्या । सर्वबुद्धधर्मसमुदागमापर्यन्ततया प्रज्ञापारमितापर्यन्तता अनुगन्तव्या । सर्वसत्त्वधातुपुण्यज्ञानसंभारापर्यन्ततया प्रज्ञापारमितापर्यन्तता अनुगन्तव्या । पृथिवीधात्वपर्यन्ततया प्रज्ञापारमितापर्यन्तता अनुगन्तव्या । एवमब्धातुतेजोधातुवायुधात्वाकाशधातुविज्ञानधात्वपर्यन्ततया प्रज्ञापारमितापर्यन्तता अनुगन्तव्या । कुशलाकुशलधर्मसंचयाप्रमाणतया प्रज्ञापारमिताप्रमाणता अनुगन्तव्या । सर्वधर्मसंचयाप्रमाणतया प्रज्ञापारमिताप्रमाणता अनुगन्तव्या । सर्वधर्मसमाध्यपर्यन्तताप्रतिलम्भितया प्रज्ञापारमितापर्यन्तता अनुगन्तव्या । सर्वबुद्धधर्मापर्यन्ततया प्रज्ञापारमितापर्यन्तता अनुगन्तव्या । सर्वधर्मापर्यन्ततया प्रज्ञापारमितापर्यन्तता अनुगन्तव्या । शून्यतापर्यन्ततया प्रज्ञापारमितापर्यन्तता अनुगन्तव्या । चित्तचैतसिकापर्यन्ततया प्रज्ञापारमितापर्यन्तता अनुगन्तव्या । चित्तचरितापर्यन्ततया प्रज्ञापारमितापर्यन्तता अनुगन्तव्या । कुशलाकुशलधर्मापरिमाणतया प्रज्ञापारमितापरिमाणता अनुगन्तव्या । सिंहनादनदनतया प्रज्ञापारमितानदनता अनुगन्तव्या । सर्वधर्माकोप्यतया प्रज्ञापारमिताकोप्यता अनुगन्तव्या । तत्कस्य हेतोः ? रूपं हि सुभूते समुद्रसमम् । एवं वेदनां संज्ञा संस्काराः । विज्ञानं हि सुभूते समुद्रसमम् । रूपं हि गगनसमम् । एवं वेदना संज्ञा संस्काराः । विज्ञानं गगनसमम् । रूपं विचित्रमेरूसमम् । एवं वेदना संज्ञा संस्काराः । विज्ञानं विचित्रमेरुसमम् । रूपमपर्यन्तसमम् । एवं वेदना संज्ञा संस्काराः । विज्ञानमपर्यन्तसमम् । रूपं सूर्यमण्डलरश्म्युत्पादसमम् । एवं वेदना संज्ञा संस्काराः । विज्ञानं सूर्यमण्डलरश्म्युत्पादसमम् । रूपं सर्वशब्दापर्यन्तसमम् । एवं वेदना संज्ञा संस्काराः । विज्ञानं सर्वशब्दापर्यन्तसमम् । रूपं सर्वसत्त्वधात्वपर्यन्तसमम् । एवं वेदना संज्ञा संस्काराः । विज्ञानं सर्वसत्त्वधात्वपर्यन्तसमम् । रूपं सर्वबुद्धधर्मसमुदागमापर्यन्तसमम् । एवं वेदना संज्ञा संस्काराः । विज्ञानं सर्वबुद्धधर्मसमुदागमापर्यन्तसमम् । रूपं सर्वसत्त्वधातुपुण्यज्ञानसंभारापर्यन्तसमम् । एवं वेदना संज्ञा संस्काराः । विज्ञानं सर्वसत्त्वधातुपुण्यज्ञानसंभारापर्यन्तसमम् । रूपं पृथिवीसमम् । एवं वेदना संज्ञा संस्काराः । विज्ञानं पृथिवीसमम् । रूपमप्समम् । एवं वेदना संज्ञा संस्काराः । विज्ञानमप्समम् । रूपं तेजःसमम् । एवं वेदना संज्ञा संस्काराः । विज्ञानं तेजःसमम् । रूपं वायुसमम् । एवं वेदना संज्ञा संस्काराः । विज्ञानं वायुसमम् । रूपमाकाशसमम् । एवं वेदना संज्ञा संस्काराः । विज्ञानमाकाशसमम् । रूपं विज्ञानसमम् । एवं वेदना संज्ञा संस्काराः । विज्ञानं विज्ञानसमम् । रूपं कुशलाकुशलधर्मसंचयविगतम् । एवं वेदना संज्ञा संस्काराः । विज्ञानं कुशलाकुशलधर्मसंचयविगतम् । रूपं सर्वधर्मसंचयविगतम् । एवं वेदना संज्ञा संस्काराः । विज्ञानं सर्वधर्मसंचयविगतम् । रूपं सर्वधर्मसमाध्यपर्यन्ततासमम् । एवं वेदना संज्ञा संस्काराः । विज्ञानं सर्वधर्मसमाध्यपर्यन्ततासमम् । रूपं विगमः, रूपस्वभावो रूपतथता बुद्धधर्माः । एवं वेदना संज्ञा संस्काराः । विज्ञानं विगमः, (वैद्य २३७) विज्ञानस्वभावो विज्ञानतथता बुद्धधर्माः । रूपं सर्वधर्मापर्यन्तधर्मता । एवं वेदना संज्ञा संस्काराः । विज्ञानं सर्वधर्मापर्यन्तधर्मता । रूपं शून्यमपर्यन्तधर्मता । एवं वेदना संज्ञा संस्काराः । विज्ञानं शून्यमपर्यन्तधर्मता । रूपं चित्तचैतसिकापर्यन्तता । एवं वेदना संज्ञा संस्काराः । विज्ञानं चित्तचैतसिकापर्यन्तता । रूपं चित्तचरितोत्पत्तिः । एवं वेदना संज्ञा संस्काराः । विज्ञानं चित्तचरितोत्पत्तिः । रूपं कुशलमकुशलम्, यावदनुपलब्धिः । एवं वेदना संज्ञा संस्काराः । विज्ञानं कुशलमकुशलम्, यावदनुपलब्धिः । रूपं सिंहनादसमम् । एवं वेदना संज्ञा संस्काराः । विज्ञानं सिंहनादसमम् । रूपमकोप्यम् । एवं वेदना संज्ञा संस्काराः । विज्ञानमकोप्यम् । एवं हि सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमिता अनुगन्तव्या ॥ यदायं सुभूते बोधिसत्त्वो महासत्त्व एवमेनां प्रज्ञापारमितामनुगमिष्यति, व्यवचारयिष्यति अवतरिष्यति अवभोत्स्यते चिन्तयिष्यति तुलयिष्यति उपपरीक्षिष्यते भावयिष्यति सर्वमायाशाठ्यविवर्जितैर्मनसिकारैः, सर्वमन्यनाविवर्जितैर्मनसिकारैः, आत्मोत्कर्षणविवर्जितैर्मनसिकारैः, सर्वकौसीद्यविवर्जितैर्मनसिकारैः, परपंसनाविवर्जितैर्मनसिकारैः, आत्मसंज्ञाविवर्जितैर्मनसिकारैः, सत्त्वसंज्ञाविवर्जितैर्मनसिकारैः, लाभसत्कारश्लोकविवर्जितैर्मनसिकारैः, पञ्चनीवरणविवर्जितैर्मनसिकारैः, ईर्ष्यामात्सर्यविवर्जितैर्मनसिकारैः, सर्वेञ्जनाविवर्जितैर्मनसिकारैः, तदा नास्य दुर्लभा भविष्यति सर्वगुणानां परिपूरिः, बुद्धक्षेत्रस्यानुत्तराणां च बुद्धधर्माणां परिपूरिरिति ॥ आर्याष्टसाहस्रिकायां प्रज्ञापारमितायामनुगमपरिवर्तो नामैकोनत्रिंशत्तमः ॥ _______________________________________________________________ (वैद्य २३८) ३०: सदाप्ररुदितपरिवर्तस्त्रिंशत्तमः । पुनरपरं सुभूते तथेयं प्रज्ञापारमिता पर्येष्टव्या, यथा सदाप्ररुदितेन बोधिसत्त्वेन महासत्त्वेन पर्येषिता, य एतर्हि भीष्मगर्जितनिर्घोषस्वरस्य तथागतस्यार्हतः सम्यक्संबुद्धस्यान्तिके ब्रह्मचर्यं चरति । एवमुक्ते आयुष्मान् सुभूतिर्भगवन्तमेतदवोचत्- कथं भगवन् सदाप्ररुदितेन बोधिसत्त्वेन महासत्त्वेनेयं प्रज्ञापारमिता पर्येषिता? एवमुक्ते भगवानायुष्मन्तं सुभूतिमेतदवोचत्- सदाप्ररुदितेन सुभूते बोधिसत्त्वेन महासत्त्वेन पूर्वं प्रज्ञापारमितां पर्येषमाणेन कायेऽनर्थिकेन जीवितनिरपेक्षेण लाभसत्कारश्लोकेष्वनिश्रितेन पर्येषमाणेन पर्येषिता । तेन प्रज्ञापारमितां पर्येषमाणेन अरण्यगतेन अन्तरीक्षान्निर्घोषः श्रुतोऽभूत्- गच्छ त्वं कुलपुत्र पूर्वस्यां दिशि । ततः प्रज्ञापारमितां श्रोष्यसि । तथा च गच्छ, यथा न कायक्लमथमनसिकारमुत्पादयसि, न स्त्यानमिद्धमनसिकारमुत्पादयसि, न भोजनमनसिकारमुत्पादयसि, न पानीयमनसिकारमुत्पादयसि, न रात्रिमनसिकारमुत्पादयसि, न दिवसमनसिकारमुत्पादयसि, न शीतमनसिकारमुत्पादयसि, नोष्णमनसिकारमुत्पादयसि । मा च क्वचिच्चित्तं प्रणिधाः अध्यात्मं वा बहिर्धा वा । मा च कुलपुत्र वामेनालोकयन् गाः, मा दक्षिणेन, मा पूर्वेण, मा पश्चिमेन, मोत्तरेण, मोर्ध्वम्, माधः, मा च अनुविदिशमवलोकयन् गाः । तथा च कुलपुत्र गच्छ, यथा नात्मतो न सत्कायतश्चलसि । यथा न रूपतश्चलसि, यथा न वेदनातो न संज्ञातो न संस्कारतः, यथा न विज्ञानतश्चलसि । यो ह्यतश्चलति, स वितिष्ठते । कुतो वितिष्ठते? बुद्धधर्मेभ्यो वितिष्ठते । यो बुद्धधर्मेभ्यो वितिष्ठते, स संसारे चरति । यः संसारे चरति, स न चरति प्रज्ञापारमितायाम् । स प्रज्ञापारमितां नानुप्राप्नोतीति ॥ एवमुक्ते सदाप्ररुदितो बोधिसत्त्वो महासत्त्वस्तं निर्घोषमेतदवोचत्- एवं वै करिष्यामि । तत्कस्य हेतोः? अहं हि सर्वसत्त्वानामालोकं कर्तुकामो बुद्धधर्मान् समुदानेतुकाम इति । एवमुक्ते स निर्घोषः सदाप्ररुदितं बोधिसत्त्वं महासत्त्वमेतदवोचत्- साधु साधु कुलपुत्र सदाप्ररुदित ॥ अथ खलु सदाप्ररुदितो बोधिसत्त्वो महासत्त्वः पुनरपि शब्दमश्रौषीत् । एवं चाश्रौषीत्- शून्यतानिमित्ताप्रणिहितेषु च त्वया कुलपुत्र सर्वधर्मेष्वधिमुक्तिमुत्पाद्य प्रज्ञापारमिता पर्येष्टव्या । निमित्तपरिवर्जितेन भावपरिवर्जितेन सत्त्वदृष्टिपरिवर्जितेन च त्वया भवितव्यम् । पापमित्राणि च त्वया कुलपुत्र परिवर्जयितव्यानि । कल्याणमित्राणि च त्वया सेवितव्यानि भक्तव्यानि पर्युपासितव्यानि, यानि च शून्यतानिमित्ताप्रणिहितानुत्पादाजातानिरुद्धाभावाः सर्वधर्मा इति धर्मं देशयन्ति । एवं त्वं कुलपुत्र प्रतिपद्यमानो नचिरेण प्रज्ञापारमितां श्रोष्यसि पुस्तकगतां वा धर्मभाणकस्य भिक्षोः कायगताम् । यस्य च त्वं कुलपुत्र अन्तिकात्प्रज्ञापारमितां शृणुयाः शास्तृसंज्ञा त्वया तत्रोत्पादयितव्या । कृतज्ञेन च त्वया भवितव्यं कृतवेदिना च - एष मम कल्याणमित्रं यस्येमां प्रज्ञापारमितामन्तिकाच्छृणोमि । यामहं शृण्वन् (वैद्य २३९) क्षिप्रमेव अविनिवर्तनीयो भविष्याम्यनुत्तरायाः सम्यक्संबोधेः, आसन्नश्च भविष्यामि तथागतानामर्हतां सम्यक्संबुद्धानाम् । तथागताविरहितेषु बुद्धक्षेत्रेषूपपत्स्ये । अक्षणांश्च विवर्जयिष्यामि । क्षणसंपदं च आरागयिष्यामीति । इमास्त्वया कुलपुत्र अनुशंसाः परितुलयमानेन धर्मभाणके भिक्षौ शास्तृसंज्ञोत्पादयितव्या । न च त्वया कुलपुत्र लोकामिषप्रतिसंयुक्तया चित्तसंतत्या धर्मभाणको भिक्षुरनुबद्धव्यः । धर्मार्थिकेन च त्वया धर्मगौरवेण धर्मभाणको भिक्षुरनुबद्धव्यः । मारकर्माणि च त्वया अवबोद्धव्यानि । अस्ति हि कुलपुत्र मारः पापीयान् धर्मभाणकस्य बोधिसत्त्वस्य महासत्त्वस्य रूपशब्दगन्धरसस्पर्शानुपसंहरति सेवितुं भक्तुं पर्युपासितुम् । तांश्चासावभिभूय उपायकौशल्येन परिसेवते भजते पर्युपास्ते । तत्र च त्वया कुलपुत्र धर्मभाणके भिक्षौ नाप्रसादचित्तमुत्पादयितव्यम् । अपि त्वेवं चित्तमुत्पादयितव्यम् - नाहं तदुपायकौशल्यं जाने, यदेष उपायकौशल्यं प्रजानाति । एष सत्त्वविनयेन सत्त्वानां कुशलमूलपरिग्रहमुपादाय एनान् धर्मान् प्रतिसेवते भजते पर्युपास्ते । न हि क्वचिद्बोधिसत्त्वानां महासत्त्वानां सङ्गो वा आरम्बणं वा संविद्यते । तत्क्षणं च त्वया कुलपुत्र धर्माणां भूतनयः प्रत्यवेक्षितव्यः । कतमश्च कुलपुत्र धर्माणां भूतनयः? यदुत सर्वधर्मा असंक्लेशा अव्यवदानाः । तत्कस्य हेतोः? सर्वधर्मा हि स्वभावेन शून्याः । सर्वधर्मा हि निःसत्त्वा निर्जीवा निष्पोषा निष्पुरुषा निष्पुद्गला मायोपमाः स्वप्नोपमाः प्रतिश्रुत्कोपमाः प्रतिभासोपमाः । एवं त्वं कुलपुत्र सर्वधर्माणां भूतनयं प्रत्यवेक्षमाणो धर्मभाणकमनुबध्नन्नचिरेण प्रज्ञापारमितायां निर्यास्यसि । अपरमपि त्वं कुलपुत्र मारकर्म समन्वाहरेः । सचेत्कुलपुत्र धर्मभाणकः प्रज्ञापारमितार्थिकं कुलपुत्रमवसादयति, न समन्वाहरति, तत्र त्वया कुलपुत्र न प्रतिवाणिः कर्तव्या । अपि तु धर्मार्थिकेनैव धर्मगौरवेणैव अनिर्विण्णमानसेन धर्मभाणको भिक्षुरनुबद्धव्यः ॥ अथ खलु सदाप्ररुदितो बोधिसत्त्वो महासत्त्वस्तस्य निर्घोषस्यान्तिकादिमामनुशासनीं प्रतिगृह्य येन पूर्वा दिक्तेन प्रतिक्रामति स्म । अचिरप्रक्रान्तस्य चास्यैतदभूत्- न मया स निर्घोषः परिपृष्टः - कियद्दूरं मया गन्तव्यमिति । स तत्रैव पृथिवीप्रदेशे स्थितोऽभूत् । तत्र रुदन् क्रन्दन् शोचन् परिदेवमानः एवं चिन्तयति स्म - अस्मिन्नेव पृथिवीप्रदेशे एकं वा रात्रिंदिवमतिनामयिष्यामि, द्वे वा, त्रीणि वा, चत्वारि वा, पञ्च वा, षड्वा, सप्त वा रात्रिंदिवान्यतिनामयिष्यामि । न कायक्लमथमनसिकारमुत्पादयिष्यामि । न स्त्यानमिद्धमनसिकारमुत्पादयिष्यामि । न भोजनमनसिकारमुत्पादयिष्यामि । न पानीयमनसिकारमुत्पादयिष्यामि । न रात्रिमनसिकारमुत्पादयिष्यामि । न दिवसमनसिकारमुत्पादयिष्यामि । न शीतमनसिकारमुत्पादयिष्यामि । नोष्णमनसिकारमुत्पादयिष्यामि, यावन्न प्रज्ञापारमितां श्रोष्यामीति । तद्यथापि नाम सुभूते कश्चिदेव पुरुषः एकपुत्रके कालगते महता दुःखदौर्मनस्येन समन्वागतोऽभवत्, तस्य पुत्रशोकेन नान्यः कश्चिन्मनसिकारः प्रवर्तते, अपि त्वेकपुत्रकमनसिकार एव प्रवर्तते । एवमेव सुभूते सदाप्ररुदितस्य बोधिसत्त्वस्य महासत्त्वस्य तस्मिन् (वैद्य २४०) समये नान्यः कश्चिन्मनसिकारः प्रवर्तते स्म, अपि तु कदा नामाहं तां प्रज्ञापारमितां श्रोष्यामीति ॥ अथ खलु सुभूते सदाप्ररुदितस्य बोधिसत्त्वस्य महासत्त्वस्य तथोत्कण्ठितस्य तथागतविग्रहः पुरतः स्थित्वा साधुकारमदात्- साधु साधु कुलपुत्र, यस्त्वमेनां वाचं भाषसे । एवं हि कुलपुत्र पौर्वकैरपि तथागतैरर्हद्भिः सम्यक्संबुद्धैः पूर्वं बोधिसत्त्वचर्यां चरद्भिः प्रज्ञापारमिता पर्येषिता, यथा त्वमेतर्हि पर्येषसे । तेन हि त्वं कुलपुत्र एतेनैव वीर्येण एतेनैवोत्साहेनमेतयैवार्थिकतया एतयैव च्छन्दिकतया अनुबध्य पूर्वामेव दिशं गच्छ । अस्ति कुलपुत्र इतः पञ्चभिर्योजनशतैर्गन्धवती नाम नगरी सप्तरत्नमयी, सप्तभिः प्राकारैरनुपरिक्षिप्ता, सप्तभिः परिखाभिः सप्तभिस्तालपङ्क्तिभिरनुपरिक्षिप्ता, द्वादश योजनानि आयामेन, द्वादश योजनानि विस्तारेण, ऋद्धा च स्फीता च क्षेमा च सुभिक्षा च आकीर्णबहुजनमनुष्या च पञ्चभिरन्तरापणवीथिशतैरालेख्यविचित्रसदृशैर्दर्शनीयैर्निर्विद्धा असमसमैरनुत्पीडजनयुग्ययानसंक्रमणस्थानस्थापितैः सुमापिता । समन्ततः प्राकाराश्च तस्या नगर्याः सप्तरत्नमयाः । तेषां च सप्तरत्नमयानां प्राकाराणां जाम्बूनदस्य सुवर्णस्य खोडकशीर्षाणि प्रमाणवन्त्युपोद्गतानि । सर्वस्मिंश्च खोडकशीर्षे सप्तरत्नमयो वृक्षो जातो नानाविचित्रै रत्नमयैः फलैः फलवान् । सर्वतश्च खोडकवृक्षाद्रत्नमयं सूत्रं द्वितीयं खोडकवृक्षान्तरमवसक्तम् । सर्वावती च सा नगरी सौवर्णेन किङ्किणीजालेन प्रतिच्छन्ना । तस्य च किङ्किणीजालस्य वातेनेरितस्य वल्गुर्मनोज्ञो रञ्जनीयः शब्दो निश्चरति । तद्यथापि नाम पञ्चाङ्गिकस्य तूर्यस्य समेत्य संगीत्यां कुशलैर्गन्धर्वैः संप्रवादितस्य वल्गुर्मनोज्ञो रञ्जनीयो निर्घोषो निश्चरति, एवमेव तस्य किङ्किणीजालस्य वातेरितस्य वल्गुर्मनोज्ञो रञ्जनीयो निर्घोषो निश्चरति । तेन च शब्देन ते सत्त्वाः क्रीडन्ति रमन्ते परिचारयन्ति । समन्ताच्च तस्या नगर्याः परिखा वारिपरिपूर्णा अनुसारिवारिवाहिन्यो वारिणो नातिशीतस्य नात्युष्णस्य पूर्णाः । तस्मिंश्च वारिणि नावः सप्तानां रत्नानां विचित्रा दर्शनीयास्तेषामेव सत्त्वानां पूर्वकर्मविपाकेनाभिनिर्वृत्ताः, यासु ते सत्त्वा अभिरुह्य क्रीडन्ति रमन्ते परिचारयन्ति । सर्वं च तद्वारि उत्पलपद्मकुमुदपुण्डरीकसंछादितम्, अन्यैश्च अभिजाताभिजातैः सुगन्धगन्धिभिः पुष्पैः संछादितम् । नास्ति सा काचित्रिसाहस्रमहासाहस्रे लोकधातौ पुष्पजातिर्या तत्र नास्ति । समन्ताच्च तस्या नगर्याः पञ्चोद्यानशतानि । सर्वाणि तानि सप्तरत्नमयानि विचित्राणि दर्शनीयानि । एकैकस्मिंश्चोद्याने पञ्च पञ्च पुष्करिणीशतानि । क्रोशः क्रोशः प्रमाणं समन्तात्तत्पुष्करिणीनाम् । सर्वासु तासु पुष्करिणीषु सप्तरत्नमयानि विचित्राणि दर्शनीयानि उत्पलपद्मकुमुदपुण्डरीकाणि जातानि, यैस्तदुदकं संछादितम् । सर्वाणि च तान्युत्पलपद्मकुमुदपुण्डरीकानि शकटचक्रप्रमाणपरिणाहानि सुगन्धानि नीलानि नीलवर्णानि नीलनिदर्शनानि नीलनिर्भासानि, पीतानि पीतवर्णानि पीतनिदर्शनानि पीतनिर्भासानि, लोहितानि लोहितवर्णानि लोहितनिदर्शनानि लोहितनिर्भासानि, अवदातानि अवदातवर्णान्यवदातनिदर्शनान्यवदातनिर्भासानि । सर्वाश्च ताः पुष्करिण्यो हंससारसकारण्डवक्रौञ्चचक्रवाकोपनिकूजिताः । (वैद्य २४१) सर्वानि च तान्युद्यानानि अममान्यपरिग्रहाणि, तेषामेव सत्त्वानां पूर्वकर्मविपाकेनाभिनिर्वृत्तानि, यथापि नाम दीर्घरात्रं प्रज्ञापारमितायां चरितवतां बुद्धनेत्रीचित्रीकारानुगतसुगतश्रुतचित्तानां सत्त्वानां दीर्घरात्रं गम्भीरेषु धर्मेष्वधिमुक्तानाम् । तत्र च कुलपुत्र गन्धवत्यां नगर्यां मध्येशृङ्गाटकस्य धर्मोद्गतस्य बोधिसत्त्वस्य महासत्त्वस्य गृहं योजनं समन्तात् । सप्तानां रत्नानां चित्रं दर्शनीयम् । सप्तभिः प्राकारैः सप्तभिस्तालपङ्क्तिभिरनुपरिक्षिप्तम् । तस्मिंश्च गृहे चत्वार्युद्यानानि गृहपरिभोगोपभोगपरिभोगाय । नित्यप्रमुदितं च नामोद्यानम् । अशोकं च नाम शोकविगतं च नाम पुष्पचित्रं च नामोद्यानम् । एकैकस्मिंश्चोद्यानेऽष्टावष्टौ पुष्करिण्यो यदुत भद्रा च नाम, भद्रोत्तमा च नाम, नन्दा च नाम, नन्दोत्तमा च नाम, क्षमा च नाम, क्षमोत्तमा च नाम, नियता च नाम, अविवाहा च नाम । तासां च खलु पुष्करिणीनामेकं पार्श्वं सौवर्णमयं द्वितीयं पार्श्वं रूप्यमयं तृतीयं पार्श्वं वैदूर्यमयं चतुर्थं पार्श्वं स्फटिकमयम् । अधोभूमिः कर्केतनमयी, सुवर्णवालुकास्तीर्णा । एकैकस्यां च पुष्करिण्यामष्टावष्टौ सोपानानि नानाविचित्रै रत्नमयैः सोपानफलकैः प्रतिमण्डितानि । सर्वस्मिंश्च सोपानफलकविवरान्तरे जाम्बूनदस्य सुवर्णस्य कदलीवृक्षो जातः । सर्वाश्च ताः पुष्करिण्यो नानोत्पलपद्मकुमुदपुण्डरीकसंछादितसलिला हंससारसकारण्डवक्रौञ्चचक्रवाकोपकूजिताः । समन्ताच्च तासां पुष्करिणीनां नानाचित्राः पुष्पवृक्षा जाताः । तेषां पुष्पवृक्षाणां वातेनेरितानि पुष्पाणि पुष्करिणीषु पतन्ति । सर्वासु च तासु पुष्करिणीषु चन्दनगन्धिकं वारि, वर्णोपेतं रसोपेतं स्पर्शोपेतम् । तत्र च धर्मोद्गतो बोधिसत्त्वो महासत्त्वः सपरिवारोऽष्टषष्टया स्त्रीसहस्रैः सार्धं पञ्चभिः कामगुणैः समर्पितः समन्वङ्गीभूतः क्रीडति रमते परिचारयति । येऽपि तत्र नगरे अन्ये सत्त्वा वास्तव्याः, स्त्रियश्च पुरुषाश्च, तेऽपि सर्वे नित्यप्रमुदिता उद्यानेषु पुष्करिणीषु च पञ्चभिः कामगुणैः समर्पिताः समन्वङ्गीभूताः क्रीडन्ति रमन्ते परिचारयन्ति । स खलु पुनर्धर्मोद्गतो बोधिसत्त्वो महासत्त्वः सार्धं परिवारेण तावत्कालं क्रीडति रमते परिचारयति, ततस्त्रिकालं प्रज्ञापारमितां देशयति । येऽपि ते सत्त्वास्तत्र गन्धवत्यां नगर्यां वास्तव्याः तेऽपि मध्येनगरशृङ्गाटकस्य धर्मोद्गतस्य बोधिसत्त्वस्य महासत्त्वस्य आसनं प्रज्ञपयन्ति, सुवर्णपादकं वा रूप्यपादकं वा वैडूर्यपादकं वा स्फटिकपादकं वा, तूलिकास्तीर्णं वा, गोणिकास्तीर्णं वा, उपरिगर्भोलिकं वा, काशिकवस्त्रप्रत्यास्तरणं वा अर्धक्रोशमुच्चैस्त्वेन । उपरिष्टाच्चान्तरीक्षे चैलवितानं मुक्ताविचित्रितं समं सहिता निरताः किमयं संस्थित इति सुसंस्थितविचित्रविपाकतया धारयन्ति । समन्ताच्च तं पृथिवीप्रदेशं पञ्चवर्णिकैः कुसुमैरभ्यवकिरन्ति संप्रविकिरन्ति । नानागन्धधूपधूपितं च तं पृथिवीप्रदेशं कुर्वन्ति, यथापीदं धर्माशयविशुद्ध्या तस्य धर्मोद्गतस्य बोधिसत्त्वस्य महासत्त्वस्य धर्मगौरवेण च । तत्र धर्मोद्गतो बोधिसत्त्वो महासत्त्वो निषण्णः प्रज्ञापारमितां देशयति । एवंरूपेण कुलपुत्र धर्मगौरवेण धर्माणां संनिश्रयतया (वैद्य २४२) श्रद्धेयश्रद्दधानतया श्रद्धोत्पादनेन ते सत्त्वा धर्मोद्गतस्य बोधिसत्त्वस्य महासत्त्वस्यान्तिकात्प्रज्ञापारमितां शृण्वन्ति । तत्र च बहूनि प्राणिशतानि बहूनि प्राणिसहस्राणि बहूनि प्राणिशतसहस्राणि संनिपतितानि देवमनुष्याणां शृण्वन्ति । ततोऽन्ये केचिदुद्दिशन्ति, केचित्स्वाध्यायन्ति, केचिल्लिखन्ति, केचिद्योनिशोमनसिकारेणानुगच्छन्ति । सर्वं च ते सत्त्वा अविनिपातधर्माणोऽविनिवर्तनीया अनुत्तरायाः सम्यक्संबोधेः । तस्य त्वं कुलपुत्र धर्मोद्गतस्य बोधिसत्त्वस्य महासत्त्वस्यान्तिकं गच्छ । ततः श्रोष्यसि प्रज्ञापारमिताम् । स हि तव कुलपुत्र दीर्घरात्रं कल्याणमित्रं संदर्शकः समादापकः समुत्तेजकः संप्रहर्षकोऽनुत्तरायाः सम्यक्संबोधेः । तेनापि कुलपुत्र पूर्वमेवं प्रज्ञापारमिता पर्येषिता, यथा त्वमेतर्हि पर्येषसे । गच्छ त्वं कुलपुत्र रात्रिंदिवमधिष्ठितमनसिकारमुत्पादयमानो नचिरेण प्रज्ञापारमितां श्रोष्यसि ॥ अथ खलु सदाप्ररुदितो बोधिसत्त्वो महासत्त्वः इदं श्रुत्वा तुष्ट उदग्र आत्तमनस्कः प्रमुदितः प्रीतिसौमनस्यजातोऽभूत् । तद्यथापि नाम पुरुषः सविषेण शल्येन विद्धो नान्यं मनसिकारमुत्पादयति, अपि तु कदा नामाहं शल्यहर्तारं वैद्यं लप्स्ये यो ममेदं शल्यमुद्धरिष्यति, यो मामितो दुःखान्मोचयिष्यतीति । एवमेव सदाप्ररुदितो बोधिसत्त्वो महासत्त्वस्तस्मिन् समये नान्यं कंचिद्धर्मं मनसि करोति, अपि तु कदा नामाहं तं कुलपुत्रं द्रक्ष्यामि यो मां प्रज्ञापारमितां श्रावयिष्यति, यन्मम धर्मं श्रुत्वा उपलम्भमनसिकाराः प्रहास्यन्त इति ॥ अथ खलु सदाप्ररुदितो बोधिसत्त्वो महासत्त्वस्तस्मिन्नेव पृथिवीप्रदेशे स्थितः तस्य धर्मोद्गतस्य बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितां देशयतः शृणोति स्म । शृण्वंश्च सर्वधर्मेष्वनिश्रितसंज्ञामुत्पादयति स्म । तस्यानेकानि समाधिमुखान्यामुखीभूतान्यभूवन् । तद्यथासर्वधर्मस्वभावव्यवलोकनो नाम समाधिः । सर्वधर्मस्वभावानुपलब्धिर्नाम समाधिः । सर्वधर्मस्वभावज्ञाननिर्गमो नाम समाधिः । सर्वधर्मनिर्नानात्वो नाम समाधिः । सर्वधर्मनिर्विकारदर्शी नाम समाधिः । सर्वधर्मावभासकरो नाम समाधिः । सर्वधर्मतमोपगतो नाम समाधिः । सर्वधर्मज्ञानविध्वंसनो नाम समाधिः । सर्वधर्मविधूननो नाम समाधिः । सर्वधर्मानुपलब्धिर्नाम समाधिः । कुसुमाभिकीर्णो नाम समाधिः । सर्वधर्मात्मभावाभिनिर्हारो नाम समाधिः । मायाविवर्जितो नाम समाधिः । आदर्शमण्डलप्रतिभासनिर्हारो नाम समाधिः । सर्वसत्त्वरुतनिर्हारो नाम समाधिः । रजोपगतो नाम समाधिः । सर्वसत्त्वाभिप्रमोदनो नाम समाधिः । सर्वसत्त्वरुतकौशल्यानुगतो नाम समाधिः । नानारुतपदव्यञ्जनाभिनिर्हारो नाम समाधिः । अस्तम्भितो नाम समाधिः । प्रकृत्यव्यवहारो नाम समाधिः । अनावरणविमोक्षप्राप्तो नाम समाधिः । राजोपगतो नाम समाधिः । नामनिरुक्तिपदव्यञ्जनो नाम समाधिः । सर्वधर्मविपश्यनो नाम समाधिः । सर्वधर्मविषयापगतो नाम समाधिः । सर्वधर्मानावरणकोटिर्नाम समाधिः । गगनकल्पो नाम समाधिः । वज्रोपमो नाम समाधिः । आसन्नरूपराजो नाम समाधिः । असपत्नराजो नाम समाधिः । जयलब्धो नाम समाधिः । अविवर्त्यचक्षुर्नाम समाधिः । धर्मधातुनियतो नाम समाधिः । धर्मधातुनिर्गतो नाम समाधिः । आश्वासदाता नाम समाधिः । सिंहाभिगर्जितो (वैद्य २४३) नाम समाधिः । सर्वसत्त्वाभिभवनो नाम समाधिः । विगतरजो नाम समाधिः । असंक्लिष्टो नाम समाधिः । पद्मव्यूहो नाम समाधिः । काङ्क्षोच्छेदनो नाम समाधिः । सर्वसारानुगतो नाम समाधिः । सर्वधर्माभ्युद्गतो नाम समाधिः । अभिज्ञाबलवैशारद्यप्राप्तो नाम समाधिः । सर्वधर्मनिर्वेधको नाम समाधिः । सर्वधर्मविभवमुद्रा नाम समाधिः । सर्वधर्मविभवसमुद्रो नाम समाधिः । सर्वधर्मनिर्विशेषदर्शी नाम समाधिः । सर्वदृष्टिकृतगहनविवर्जितो नाम समाधिः । तमोपगतो नाम समाधिः । सर्वधर्मनिमित्तापगतो नाम समाधिः । सर्वसङ्गविमुक्तो नाम समाधिः । सर्वकौसीद्यापगतो नाम समाधिः । गम्भीरधर्मप्रभाकरो नाम समाधिः । मेरुकल्पो नाम समाधिः । असंहार्यो नाम समाधिः । मारमण्डलविध्वंसनकरो नाम समाधिः । त्रैलोक्यानभिनिविष्टो नाम समाधिः । रश्मिनिर्हारो नाम समाधिः । तथागतदर्शनो नाम समाधिः । सर्वतथागतदर्शी नाम समाधिः । स एषु समाधिषु स्थितः सन् दशदिशि लोके बुद्धान् भगवतः पश्यति स्म अप्रमेयानसंख्येयानिमामेव प्रज्ञापारमितां प्रकाशयतो बोधिसत्त्वेभ्यो महासत्त्वेभ्यः । ते च तथागताः साधुकारं ददति स्म, स्वासनं चास्य कुर्वन्ति स्म । एवं चावोचन् - अस्माभिरपि कुलपुत्र पूर्वं बोधिसत्त्वचर्यां चरद्भिरेवमेव प्रज्ञापारमिता परिगवेषिता । परिगवेषमाणैश्च एते एव समाधयः प्रतिलब्धाः, ये त्वयैतर्हि प्रतिलब्धाः । एनांश्च समाधीन् प्रतिलभ्य गतिंगताः संवृत्ताः, प्रज्ञापारमितायामविनिवर्तनीयेषु बुद्धधर्मेषु प्रतिष्ठिताः । ते वयमेतेषामेव समाधीनां प्रकृतिं स्वभावं व्यवलोकयन्तस्तं धर्मं न समनुपश्यामो यः समापद्यते वा व्युत्तिष्ठते वा, यो बोधाय चरेत्, यो वा अनुत्तरां सम्यक्संबोधिमभिसंबुध्येत । इयं सा कुलपुत्र प्रज्ञापारमिता, या न केनचिद्धर्मेण मन्यमानता । अमन्यमानतास्थितैरस्माभिरियमेवंरूपा कायस्य सुवर्णवर्णता प्रतिलब्धा । द्वात्रिंशच्च महापुरुषलक्षणानि । अशीतिश्चानुव्यञ्जनानि । व्यामप्रभता च । अचिन्त्यं च अनुत्तरं बुद्धज्ञानं बुद्धप्रज्ञा, अनुत्तरश्च बुद्धसमाधिः, सर्वबुद्धधर्मगुणपारमिता च अनुप्राप्ता यस्या गुणपारमिताया न शक्यं तथागतैरेव तावत्प्रमाणं ग्रहीतुं पर्यन्तो वा निदर्शयितुम्, किं पुनः श्रावकप्रत्येकबुद्धैः? तस्मात्तर्हि कुलपुत्र एतेष्वेव त्वया धर्मेषु गौरवमुत्पादयितव्यं भूयस्या मात्रया अर्थिकतया छन्दिकतया च । अर्थिकस्य हि कुलपुत्र छन्दिकस्य च न दुर्लभा भवत्यनुत्तरा सम्यक्संबोधिः । कल्याणमित्रेषु च त्वया कुलपुत्र तीव्रं गौरवमुत्पादयितव्यम्, प्रेम च करणीयम्, प्रसादश्च करणीयः । कल्याणमित्रपरिगृहीता हि बोधिसत्त्वा महासत्त्वाः क्षिप्रमेव अनुत्तरां सम्यक्संबोधिमभिसंबुध्यन्ते ॥ अथ खलु सदाप्ररुदितो बोधिसत्त्वो महासत्त्वस्तांस्तथागतानेतदवोचत्- कोऽस्माकं कल्याणमित्रमिति? त एनमेतदवोचन् - दीर्घरात्रं त्वं कुलपुत्र धर्मोद्गतेन बोधिसत्त्वेन महासत्त्वेन अनुत्तरायां सम्यक्संबोधौ परिपाचितः परिगृहीतश्च । प्रज्ञापारमितायामुपायकौशल्ये बुद्धधर्मेषु च शिक्षापितः । स तव कुलपुत्र परिग्राहकः कल्याणमित्रं च । तत्त्वया कृतज्ञतया कृतवेदितया च सत्कृत्य तत्कृतं धारयितव्यम् । सचेत्त्वं कुलपुत्र धर्मोद्गतं बोधिसत्त्वं (वैद्य २४४) महासत्त्वमेकं वा कल्पं द्वौ वा कल्पौ त्रीन् वा कल्पान् कल्पशतं वा कल्पसहस्रं वा कल्पशतसहस्रं वा ततो वा उत्तरे चैलोण्डुकमिव शिरसा परिकर्षेः, सर्वसत्त्वसुखोपस्थानं चास्योपस्थापयेः, यावन्तस्त्रिसाहस्रमहासाहस्रे लोकधातौ रूपशब्दगन्धरसस्पर्शाः, तान् सर्वानुपनामयेः । एवमपि त्वया कुलपुत्र तस्य कुलपुत्रस्य नैव कृतस्य प्रतिकृतं भवेत् । तत्कस्य हेतोः? तस्य हि कुलपुत्र कुलपुत्रस्य अनुभावेन तवैषामेवंरूपाणां समाधीनां प्रतिलम्भः संवृत्तः । प्रज्ञापारमितोपायकौशल्यश्रवश्च प्रज्ञापारमिताप्रतिलम्भश्च संवृत्तः ॥ अथ खलु ते तथागताः सदाप्ररुदितं बोधिसत्त्वं महासत्त्वं समाश्वास्य अन्तर्हिता अभूवन् । स च कुलपुत्रस्तेभ्यः समाधिभ्यो व्युदस्थात् । व्युत्थितस्य चास्य एतदभूत्- कुतस्ते तथागताः, क्व वा ते तथागता इति । स तांस्तथागतानपश्यन्महतीमुत्कण्ठां परितसनं चापन्नः । तस्यैतदभूत्- आर्यो धर्मोद्गतो बोधिसत्त्वो महासत्त्वो धारणीप्रतिलब्धः पञ्चाभिज्ञः पूर्वजिनकृताधिकारः मम संपरिग्राहकः कल्याणमित्रं च । दीर्घरात्रं च मम तेनार्थः कृतः । यन्न्वहमेतमर्थं धर्मोद्गतं बोधिसत्त्वं महासत्त्वमभिगम्योपसंक्रम्य परिपृच्छेयम् - कुतस्ते तथागता आगताः, क्व वा ते तथागता गता इति ॥ अथ खलु सदाप्ररुदितो बोधिसत्त्वो महासत्त्वो धर्मोद्गते बोधिसत्त्वे महासत्त्वे प्रेम च प्रसादं च चित्रीकारं च गौरवं च उपस्थापयति । उपस्थाप्य एवं प्राचिन्तयत्- कियद्रूपया नु खल्वहं सत्क्रियया तं धर्मोद्गतं बोधिसत्त्वं महासत्त्वमुपसंक्रामेयम्? दरिद्रश्चास्मि । न च मे किंचित्तथारूपं वस्त्रं वा रत्नं वा सुवर्णं वा मणयो वा मुक्ता वा वैदूर्यं वा शङ्खशिला वा प्रवालं वा रजतं वा पुष्पं वा धूपो वा गन्धो वा माल्यं वा विलेपनं वा चूर्णं वा चीवरं वा छत्रं वा ध्वजं वा घण्टा वा पताका वा संविद्यते । केनाहं धर्मोद्गतं बोधिसत्त्वं महासत्त्वं सत्कुर्यां गुरुकुर्याम्? न च ममैतत्प्रतिरूपं भवेत्, यदहमेवमेव धर्मोद्गतं बोधिसत्त्वं महासत्त्वमुपसंक्रामेयम् । दरिद्रश्चास्मि । न च मे प्रीतिर्वा प्रामोधं वोत्पद्यते ॥ अथ खलु सदाप्ररुदितो बोधिसत्त्वो महासत्त्व एवंरूपैर्गुणैर्गौरवमनसिकारैर्गच्छननुपूर्वेण अन्यतरं नगरमनुप्राप्तोऽभूत् । तत्र तस्यान्तरापणमध्यगतस्य एतदभूत्- यन्न्वहमिममात्मभावं विक्रीय तेन मूल्येन धर्मोद्गतस्य बोधिसत्त्वस्य महासत्त्वस्य सत्कारं कुर्याम् । दीर्घरात्रं हि ममात्मभावसहस्राणि भग्नानि क्षीणानि निरुद्धानि विक्रीतानि । पुनः पुनरपरिमाणे संसारे अपरिमाणानि च निरयदुःखानि मया कामहेतोः कामनिदानमनुभूतानि । न पुनरेवंरूपाणां धर्माणां कृतश एवंरूपाणां वा सत्त्वानां सत्कारायेति । अथ खलु सदाप्ररुदितो बोधिसत्त्वो महासत्त्वोन्तरापणमध्यगतः शब्दमनुश्रावयामास, घोषमुदीरयति स्म - कः पुरुषेणार्थिकः, कः पुरुषेणार्थिकः, कः पुरुषं क्रेतुमिच्छतीति ॥ अथ खलु मारस्य पापीयस एतदभूत्- अयं सदाप्ररुदितो बोधिसत्त्वो महासत्त्वो धर्मकामतया यद्यात्मानं विक्रीय धर्मोद्गतस्य बोधिसत्त्वस्य महासत्त्वस्य सत्कारं करिष्यति, (वैद्य २४५) प्रज्ञापारमितामुपायकौशल्यं च परिप्रक्ष्यति - कथं बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् क्षिप्रमनुत्तरायां सम्यक्संबोधौ परिनिष्पत्स्यते इति, तदा श्रुतसागरतां चानुप्राप्स्यति, अधृष्यश्च भविष्यति मारेण वा मारकायिकाभिर्वा देवताभिः, सर्वगुणपारमितां चानुप्राप्स्यति । तत्र च बहूनां सत्त्वानामर्थं करिष्यति । तांश्च मम विषयादतिक्रामयिष्यति अन्यांश्च अनुत्तरां सम्यक्संबोधिमभिसंबुध्य । यन्न्वहमस्यान्तरायं कुर्यामिति ॥ अथ खलु मारः पापीयांस्तान् ब्राह्मणगृहपतिकांस्तथा प्रत्युत्थापयामास, यथा ते तं घोषं नाश्रौषुः सदाप्ररुदितस्य बोधिसत्त्वस्य महासत्त्वस्य - कः पुरुषेणार्थिकः, कः पुरुषेणार्थिकः, कः पुरुषं क्रेतुमिच्छतीति । अथ खलु सदाप्ररुदितो बोधिसत्त्वो महासत्त्वो यदा आत्मनः क्रायकं न लभते, तदा एकान्तं गत्वा प्रारोदीत्, अश्रूणि प्रावर्तयत् । एवं चावोचत्- अहो बतास्माकं दुर्लब्धा लाभाः, ये वयमात्मभावस्यापि क्रायकं न लभामहे - यद्वयमात्मभावं विक्रीय धर्मोद्गतं बोधिसत्त्वं महासत्त्वं सत्कुर्यामेति ॥ अथ खलु शक्रस्य देवानामिन्द्रस्यैतदभूत्- यन्न्वहं सदाप्ररुदितं बोधिसत्त्वं महासत्त्वं तुलयेयम् - किं न्वयं सदाप्ररुदितो बोधिसत्त्वो महासत्त्वोऽध्याशयप्रतिपन्न आत्मभावपरित्यागं प्रति धर्मकामतया, उत नेति । अथ खलु शक्रो देवानामिन्द्रो माणवकवेषमभिनिर्माय येन सदाप्ररुदितो बोधिसत्त्वो महासत्त्वः, तेनोपसंक्रामति स्म । उपसंक्रम्य सदाप्ररुदितं बोधिसत्त्वं महासत्त्वमेतदवोचत्- किं त्वं कुलपुत्र दीनदीनमना उत्कण्ठितमानसोऽश्रूणि प्रवर्तयमानः स्थितः? सदाप्ररुदितस्तमेवमाह - अहं माणवक आत्मानं विक्रेतुकामः । अस्य चात्मभावस्य क्रायकं न लभे । तं माणवकरूपी शक्र आह - कस्य पुनस्त्वं कुलपुत्र अर्थाय आत्मानं विक्रेतुकामः? सदाप्ररुदितस्तमाह - अहं माणवक धर्मकामतया इममात्मानं विक्रीय धर्मपूजां कर्तुकामः, आर्यं धर्मोद्गतं बोधिसत्त्वं महासत्त्वं सत्कर्तुकामः । सोऽहमस्यात्मभावस्य क्रायकं न लभे । तस्य मे एतदभूत्- अहो बताहमत्यल्पपुण्यः, योऽहमस्यात्मभावस्यापि क्रायकं न लभे, येन तं विक्रीय प्रज्ञापारमितायाः पूजां कुर्याम्, आर्यं च धर्मोद्गतं बोधिसत्त्वं महासत्त्वं सत्कुर्यामिति । अथ खलु माणवकः सदाप्ररुदितं बोधिसत्त्वं महासत्त्वमेतदवोचत्- न खलु मम कुलपुत्र पुरुषेण कृत्यम् । अपि तु खलु पुनः पितुर्भे यज्ञो यष्टव्यः । तत्र मे पुरुषस्य हृदयेन कृत्यम्, लोहितेन च अस्थिमज्जया च । तद्दास्यसि त्वं क्रयेण? अथ खलु सदाप्ररुदितस्य बोधिसत्त्वस्य महासत्त्वस्यैतदभूत्- लाभा मे परमसुलब्धाः, परिनिष्पन्नं चात्मभावं जाने प्रज्ञापारमितोपायकौशल्ये बुद्धधर्मेषु च, यन्मयायं माणवकः क्रायको लब्धः हृदयस्य रुधिरस्य च अस्थिमज्जायाश्चेति । स हृष्टचित्तः कल्यचित्तः प्रमुदितचित्तस्तं माणवकमेतदवोचत्- दास्यामि माणवक येन येनैव ते इति आत्मभावादर्थः । स तमेतदवोचत्- किं ते कुलपुत्र मूल्यं ददामि? स तमेतदवोचत्- यत्ते माणवक परित्यक्तम्, तद्देहीति । अथ खलु सदाप्ररुदितो बोधिसत्त्वो महासत्त्वस्तीक्ष्णं शस्त्रं गृहीत्वा दक्षिणं बाहुं विद्ध्वा लोहितं निःस्रावयति स्म । दक्षिणं चोरुं विद्ध्वा निर्मांसं कृत्वा अस्थि भेत्तुं कुड्यमूलमुपसंक्रामति स्म । (वैद्य २४६) अथ खलु अन्यतरा श्रेष्ठिदारका उपरिष्टात्प्रासादतलगताभूत् । सा अद्राक्षीत्सदाप्ररुदितं बोधिसत्त्वं महासत्त्वं बाहुं विद्ध्वा रुधिरं निःस्राव्य ऊरुं निर्मांसं कृत्वा अस्थि भेत्तुं कुड्यमूलमुपसंक्रान्तम् । तस्या एतदभूत्- किं नु खल्वयं कुलपुत्र आत्मनैवात्मनः ईदृशीं कारणां कारयति? यन्न्वहमेनं कुलपुत्रमुपसंक्रम्य परिपृच्छेयम् । अथ खलु सा श्रेष्ठिदारिका येन सदाप्ररुदितो बोधिसत्त्वो महासत्त्वस्तेनोपसंक्रान्ता । उपसंक्रम्य सदाप्ररुदितं बोधिसत्त्वं महासत्त्वमेतदवोचत्- किं नु खलु त्वं कुलपुत्र एवंरूपामात्मनः प्राणहारिणीं कारणां कारयसि? किं चानेन रुधिरेण करिष्यसि त्वमस्थिमज्जाभ्यां च? सदाप्ररुदित आह - अस्य दारिके माणवकस्यान्तिके इदं विक्रीय प्रज्ञापारमितां पूजयिष्यामि, आर्यं च धर्मोद्गतं बोधिसत्त्वं महासत्त्वं सत्करिष्यामि ॥ अथ खलु सा श्रेष्ठिदारिका सदाप्ररुदितं बोधिसत्त्वं महासत्त्वतदवोचत्- का पुनस्ते कुलपुत्र ततो गुणजातिर्निष्पत्स्यते गुणविशेषो वा, यत्त्वमात्मनो हृदयं रुधिरं चास्थिमज्जानं च विक्रीय तं कुलपुत्रं सत्कर्तुकामः? स तां दारिकामेतदवोचत्- स दारिके कुलपुत्रोऽस्माकं प्रज्ञापारमितामुपायकौशल्यं चोपदेक्ष्यति । तत्र च वयं शिक्षिष्यामहे । तत्र वयं शिक्षमाणाः सर्वसत्त्वानां प्रतिशरणं भविष्यामः । अनुत्तरां सम्यक्संबोधिमभिसंबुध्य सुवर्णवर्णं च कायं प्रतिलप्स्यामहे । द्वात्रिंशच्च महापुरुषलक्षणानि अशीतिं चानुव्यञ्जनानि व्यामप्रभतां च अनन्तरश्मितां च महामैत्री च महाकरुणां च महामुदितां च महोपेक्षां च । चत्वारि वैशारद्यानि प्रतिलप्स्यामहे, चतस्रश्च प्रतिसंविदः प्रतिलप्स्यामहे, अष्टादश च आवेणिकबुद्धधर्मान् प्रतिलप्स्यामहे, पञ्च च अभिज्ञाः, अचिन्त्यां च शीलविशुद्धिम्, अचिन्त्यां च समाधिविशुद्धिम्, अचिन्त्यां च प्रज्ञाविशुद्धिम्, दश च तथागतबलानि प्रतिलप्स्यामहे । अनुत्तरं च बुद्धज्ञानमभिसंभोत्स्यामहे । अनुत्तरं च धर्मरत्नं प्रतिलप्स्यामहे, येन च सर्वसत्त्वानां संविभागं करिष्याम इति ॥ अथ खलु सा श्रेष्ठिदारिका सदाप्ररुदितं बोधिसत्त्वं महासत्त्वमेतदवोचत्- आश्चर्यं कुलपुत्र यावदुदाराः प्रणीताश्चामी त्वया धर्माः परिकीर्तिताः । एकैकस्यापि तावत्कुलपुत्र एवंरूपस्य धर्मस्यार्थाय गङ्गानदीवालुकोपमानपि कल्पानात्मभावाः परित्यक्तव्या भवेयुः, प्रागेव बहूनामर्थाय एकः । तथोदाराः प्रणीताश्चामी त्वया धर्माः परिकीर्तिताः, यथा ममाप्येते रोचन्ते क्षमन्ते च । अपि नु खलु पुनः कुलपुत्र येन येनैवार्थेन ते कृत्यम्, तत्तत्ते दास्यामि सुवर्णं वा मणीन् वा मुक्तां वा रजतं वा वैदूर्यं वा मुसारगल्वं वा लोहितार्कं वा स्फाटिकं वा पुष्पं वा धूपं वा गन्धं वा माल्यं व विलेपनं वा चूर्णं वा वस्त्रं वा छत्रं वा ध्वजं वा घण्टां वा पताकां वा दीपं वा । तेन त्वं तं धर्मोद्गतं बोधिसत्त्वं महासत्त्वं सत्करिष्यसि । मा च आत्मन इमामेवंरूपां कारणां कार्षीः । वयमपि त्वयैव सार्धं गमिष्यामः, येनार्यो धर्मोद्गतो बोधिसत्त्वो महासत्त्वः । वयमपि त्वयैव सार्धं कुशलमूलान्यवरोपयिष्यामः, यदुत एषामेवंरूपाणां धर्माणां प्रतिलम्भायेति ॥ (वैद्य २४७) अथ खलु शक्रो देवानामिन्द्रो माणवकवेषमन्तर्धापयित्वा स्वकेनात्मभावेन सदाप्ररुदितस्य बोधिसत्त्वस्य महासत्त्वस्य पुरतोऽस्थात्, इदं चावोचत्- साधु साधु कुलपुत्र, यस्य ते इयमेवंरूपा दृढसमादानता । एवंरूपया च धर्मार्थिकतया पूर्वकैरपि तथागतैरर्हद्भिः सम्यक्संबुद्धैः पूर्वं बोधिसत्त्वचर्यां चरद्भिः प्रज्ञापारमितामुपायकौशल्यं च परिपृच्छद्भिरनुत्तरा च सम्यक्संबोधिरभिसंबुद्धा, धर्मरत्नं च प्रतिलब्धम् । तन्न मम कुलपुत्र हृदयेन कार्यम्, न रुधिरेण, नास्थिमज्जाभ्याम्, अपि तु खलु पुनरहं त्वामेव मीमांसितुकाम इहागतः । वृणीष्व कुलपुत्र वरम् । कियद्रूपं ते वरं दास्यामीति? स तामाह - अनुत्तरान्मे शक्र बुद्धधर्मान् देहीति । देवेन्द्र आह - न ममात्र कुलपुत्र विषये विषयिता । बुद्धानां पुनर्भगवतामत्र विषये विषयिता । अन्यं वरं वृणीष्वेति । सदाप्ररुदित आह - अल्पोत्सुकस्त्वं देवेन्द्र भव अत्र स्थाने ममात्मभावपरिपूरिमुपादाय । स्वयमेवाहमत्र देवेन्द्र सत्याधिष्ठानं करिष्यामि । येनाहं सत्येन अविनिवर्तनीयोऽनुत्तरायाः सम्यक्संबोधेर्व्याकृतस्तथागतैरर्हद्भिः सम्यक्संबुद्धैः, ज्ञातश्चास्म्यशाठ्येनाध्याशयेन, तेन देवेन्द्र सत्येन सत्यवचनेन मम यथापौराणोऽयमात्मभावो भवतु । अथ खलु तत्क्षणं तल्लवं तन्मुहूर्तं सदाप्ररुदितस्य बोधिसत्त्वस्य महासत्त्वस्य बुद्धानुभावेन आशयपरिशुद्ध्या च यथापौराणोऽस्य कायः संस्थितोऽभूत्, अरोगो निरुपद्रवश्च । अथ खलु शक्रो देवानामिन्द्रो मारश्च पापीयान्निष्प्रतिभानः सदाप्ररुदितस्य बोधिसत्त्वस्य महासत्त्वस्योत्तरे प्रतिभानमप्रतिपद्यमानस्तत्रैवान्तर्हितोऽभूत् ॥ अथ खलु सा श्रेष्ठिदारिका सदाप्ररुदितं बोधिसत्त्वं महासत्त्वमेतदवोचत्- एहि त्वं कुलपुत्र । येनास्माकं निवेशनम्, तेनोपसंक्राम । अहं ते मातापितॄणामन्तिकात्तद्धनं दापयिष्यामि, येन त्वं तां प्रज्ञापारमितां पूजयिष्यसि, तं चार्यं धर्मोद्गतं बोधिसत्त्वं महासत्त्वं सत्करिष्यसि, यदुत धर्मकामतया । अथ खलु सदाप्ररुदितो बोधिसत्त्वो महासत्त्वः सार्धं तया श्रेष्ठदारिकया येनास्याः स्वकं निवेशनं तेनोपसंक्रामति स्म । उपसंक्रम्य द्वारमूलेऽस्थात् ॥ अथ खलु सा श्रेष्ठिदारिका स्वकं निवेशनं प्रविश्य स्वां मातरं पितरं चैतदवोचत्- अम्ब तात दद्ध्वं हिरण्यं सुवर्णं रत्नानि मणीन् वस्त्राणि पुष्पधूपगन्धमाल्यविलेपनचूर्णचीवरच्छत्रध्वजघण्टापताकाः । नानाविधाश्च दिव्या वाद्यप्रकृतीरुत्सृजत, मामपि सार्धमेभिः पञ्चभिर्दारिकाशतैर्या ममोपस्थायिका युष्मभिरेव दत्ताः । गमिष्याम्यहमपि सदाप्ररुदितेन बोधिसत्त्वेन महासत्त्वेन सार्धं धर्मोद्गतस्य बोधिसत्त्वस्य महासत्त्वस्यान्तिकं तस्य पूजार्थं च । सोऽस्माकं धर्मं देशयिष्यति । तेन वयं बुद्धधर्मान् प्रतिलप्स्यामहे । अथ खलु तौ तस्या दारिकाया मातापितरौ तां दारिकामेतदवोचताम् - कः पुनरेष दारिके सदाप्ररुदितो नाम बोधिसत्त्वो महासत्त्वः, क्व वा स एतर्हि तिष्ठति? दारिका आह - एष कुलपुत्रोऽस्माकमेव निवेशनद्वारमूलेऽवस्थितः । एष च कुलपुत्रोऽध्याशयेन अनुत्तरां सम्यक्संबोधिमभिसंबोद्धुं संप्रस्थितः, यदुत सर्वसत्त्वानपरिमाणतः संसारदुःखान्मोचयितुकामः, सर्वधर्मकामतयात्मानं (वैद्य २४८) विक्रीय प्रज्ञापारमितां पूजयितुकामः, आर्यं च धर्मोद्गतं बोधिसत्त्वं महासत्त्वं सत्कर्तुकामः । तस्य चात्मभावस्य कंचित्क्रायकं न लभते । अलभमानः सन् दुःखितो दुर्मनाः प्रध्यायन् दीनमना अश्रूणि प्रवर्तयमानः स्थितः । स शक्रेण देवानामिन्द्रेण माणवकरूपमभिनिर्मायोक्तः - किं त्वं कुलपुत्र दुःखी दुर्मनाः प्रध्यायन् दीनमानसोऽश्रूणि प्रवर्तयमानः स्थित इति? स तमाह - आत्मानं विक्रेतुकामोऽहम् । तस्य च क्रायकं न लभे । माणवकरूपी शक्रस्तमाह - कस्य पुनस्त्वं कुलपुत्र अर्थायात्मानं विक्रेतुकामः? सदाप्ररुदितेनोक्तः - प्रज्ञापारमितां पूजयिष्यामि, आर्यं च धर्मोद्गतं बोधिसत्त्वं महासत्त्वं सत्करिष्यामि यदुत धर्मकामतया । तत्र प्रतिबद्धाश्च मे बुद्धधर्मा इति । माणवकरूपी शक्रस्तमाह - न मम कुलपुत्र त्वयार्थः । अपि तु खलु पुनः पितुर्मे यज्ञो भविष्यति । तत्र मे पुरुषस्य हृदयेन रूधिरेण अस्थिमज्जाभ्यां च कृत्यमिति । तत एष कुलपुत्रोऽविषण्णमानस आह - दास्यामीति । स तीक्ष्णं शस्त्रं गृहीत्वा आत्मनो बाहुं विद्ध्वा लोहितं निःस्राव्य ऊरुं च निर्मांसं कृत्वा अस्थि भेत्तुं कुड्यमूलमुपसंक्रान्तः एकान्ते स्थित्वा अस्थि भित्त्वा मज्जानं च दास्यामीति । अहं चैनं कुलपुत्रमुपरिष्टात्प्रासादतलगता क्षरद्रुधिरमद्राक्षम् । तस्या ममैतदभूत्- किं नु खल्वयं पुरुष आत्मनैवात्मन एवंरूपां कारणां कारयतीति? तमेनमहमुपसंक्रम्यैवमवोचम् - किमर्थं त्वया कुलपुत्र आत्मनैवात्मन एवं क्षरद्रूधिरं शरीरं विकृतं कृतम्? तत एष मामेवमाह - अस्य दारिके माणवकस्य लोहितं हृदयमस्थि मज्जानं च दास्यामीति । तत्कस्य हेतोः? न ममान्यत्किंचिद्धनं संविद्यते । दरिद्रोऽस्मीति । तमेनमहमेवमवोचम् - किं पुनस्त्वं तेन धनेन करिष्यसीति? स एष मामेतदवोचत्- प्रज्ञापारमितां पूजयिष्यामि, तं चार्यं धर्मोद्गतं बोधिसत्त्वं महासत्त्वं सत्करिष्यामि यदुत धर्मकामतयेति । तमेनमहमेवमवोचम् - का पुनस्ते कुलपुत्र ततो गुणजातिर्भविष्यति गुणविशेषो वेति? ततः सोऽचिन्त्यान्मे बुद्धगुणान् वर्णयति संप्रकाशयति, अप्रमेयांश्च बुद्धधर्मान् - एषामेवंरूपाणां बुद्धधर्माणां मे तत आगमो भविष्यतीति । तस्य मे महत्तरं प्रीतिप्रामोद्यमुत्पन्नं तानचिन्त्यान् बुद्धगुणान् श्रुत्वा । एवं च मेऽभूत्- आश्चर्यं यावद्दुष्करकारकश्चायं कुलपुत्रोऽतीव धर्मकामश्च, योऽयमेवंरूपमात्मनः शरीरस्य पीडास्थानमुत्सहते । अयं हि नाम कुलपुत्रो धर्मकामतया आत्मानं परित्यजति । कस्मादस्माभिर्धर्मो न पूजयितव्यः? एवंरूपेषु च स्थानेषु प्रणिधानं न कर्तव्यं स्यात्, येषामस्माकं प्रभूता विपुलाश्च भोगाः संविद्यन्ते इति । साहमेनं कुलपुत्रमेतदवोचम् - मा मा त्वं कुलपुत्र इमामेवंरूपामात्मनः प्राणहारिणीं कारणां कार्षीः । अहं ते प्रभूतप्रभूतं धनमनुप्रदापयिष्यामि येन तवार्थः । तेन त्वं तमार्यं धर्मोद्गतं बोधिसत्त्वं महासत्त्वं सत्करिष्यसि गुरुकरिष्यसि । अहमपि त्वयैव सार्धं येन धर्मोद्गतो बोधिसत्त्वो महासत्त्वः तेनोपसंक्रमिष्यामि । अहमपि तस्य कुलपुत्रस्य पूजां करिष्यामि । वयमप्येवंरूपान् धर्मान्निष्पादयिष्यामो यदुत अनुत्तरान् बुद्धधर्मान् ये त्वया परिकीर्तिता इति । तन्मामम्ब तात अनुजानीत । प्रभूतप्रभूतं च मे धनस्कन्धं दद्ध्वम्, येनाहमेतेनैव कुलपुत्रेण सार्धं गत्वा आर्यं धर्मोद्गतं बोधिसत्त्वं महासत्त्वं पूजयिष्यामि ॥ (वैद्य २४९) अथ खलु तौ तस्या दारिकाया मातापितरौ तां दारिकामेतदवोचताम् - आश्चर्यं यावद्दुष्करं च त्वमेतस्य कुलपुत्रस्य स्थानमाचक्षे । एकांशेनैव ते धर्मा अचिन्त्याः, सर्वलोकविशिष्टाः सर्वसत्त्वसुखावहाश्च, येषामेष कृतशः कुलपुत्रो दुष्करं स्थानमेवमुत्सहते । अनुजानीव आवां त्वां दारिके । आवयोरप्यवकाशं कुरु, यदावामपि गच्छावस्त्वयैव सार्धं तं धर्मोद्गतं बोधिसत्त्वं महासत्त्वं द्रष्टुं वन्दितुं पर्युपासितुं पूजयितुं च ॥ अथ खलु सा श्रेष्ठिदारिका धर्मोद्गतस्य बोधिसत्त्वस्य महासत्त्वस्य पूजार्थं सत्कारार्थं च प्रस्थितां स्वां मातरं पितरं च विदित्वा एतदवोचत्- अम्ब तात एवं कुरुत, यथा वदत । नाहं कस्यचित्कुशलपक्षस्यान्तरायं करोमि । इत्युक्त्वा एवं सा श्रेष्ठिदारिका धर्मोद्गतस्य बोधिसत्त्वस्य महासत्त्वस्य पूजार्थं सत्कारार्थं च प्रस्थिता बभूव ॥ अथ खलु सा श्रेष्ठिदारिका पञ्च रथशतान्यलंकारयामास । तानि च पञ्च दारिकाशतान्यलंकारयामास । अलंकृत्य नानावर्णानि विचित्राणि पुष्पाणि गृहीत्वा नानारङ्गाणि वस्त्राणि पुष्पधूपगन्धमाल्यविलेपनचूर्णचीवरच्छत्रध्वजघण्टापताकाश्च गृहीत्वा नानारत्नानि च विचित्राणि नानारत्नमयानि च विचित्राणि पुष्पाणि गृहीत्वा प्रभूतप्रभूतं खादनीयं भोजनीयं स्वादनीयं च गृहीत्वा एकं रथं सदाप्ररुदितेन बोधिसत्त्वेन महासत्त्वेन सार्धमभिरुह्य तैः पञ्चभी रथशतैः पञ्चदारिकाशताभिरूढैः परिवृत्ता पुरस्कृता महता च परिवारेण मातापितृपूर्वंगमा येन पूर्वा दिक्तेन प्रक्रान्ता । अनुपूर्वेण च गच्छन् सदाप्ररुदितो बोधिसत्त्वो महासत्त्वोऽद्राक्षीद्दूरादेव तां गन्धवतीं नगरीं सप्तानां रत्नानां चित्रां दर्शनीयां सप्तभिः प्राकारैः सप्तरत्नमयैरनुपरिक्षिप्तां सप्तभिस्तोरणैः सप्तभिः परिखाभिः सप्तभिस्तालपङ्क्तिभिरनुपरिक्षिप्तां द्वादश योजनानि विस्तारेण द्वादश योजनान्यायामेन ऋद्धां स्फीतां च क्षेमां च सुभिक्षां च आकीर्णबहुजनमनुष्यां च पञ्चभिरन्तरापणवीथीशतैरालेख्यविचित्रचित्रसदृशैर्दर्शनीयैर्निर्विद्धां समसमैरनुत्पीडजनयुग्ययानसंक्रमणस्थानस्थापितैः सुमापितां च । मध्ये च नगरशृङ्गाटकस्य अद्राक्षीद्धर्मोद्गतं बोधिसत्त्वं महासत्त्वं धर्मासनगतमनेकशतया पर्षदा अनेकसहस्रया अनेकशतसहस्रया पर्षदा परिवृत्तं पुरस्कृतं धर्मं देशयन्तम् । सहदर्शनेनैव च तस्य एवंरूपं सुखं संप्रतिलभते स्म तद्यथापि नाम प्रथमध्यानसमापन्नो भिक्षुरेकाग्रेण मनसिकारेण । दृष्ट्वा चास्य एतदभूत्- न मम प्रतिरूपमेतद्भवेत्, यदहं रथगत एव धर्मोद्गतं बोधिसत्त्वं महासत्त्वमुपसंक्रामेयम् । यन्न्वहं रथादवतरेयम् । स ततो रथादवातरत् । तान्यपि पञ्च दारिकाशतानि श्रेष्ठिदारिकया सह रथेभ्योऽवतेरुः । अथ खलु सदाप्ररुदितो बोधिसत्त्वो महासत्त्वः श्रेष्ठिदारिकापूर्वंगमैः पञ्चभिर्दारिकाशतैः परिवृतः पुरस्कृतोऽपरिमाणपूजाव्यूहेन येन धर्मोद्गतो बोधिसत्त्वो महासत्त्वः तेनोपसंक्रामति स्म ॥ तेन खलु पुनः समयेन धर्मोद्गतेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायाः कृतशः सप्तरत्नमयं कूटागारं कारितमभूत्लोहितचन्दनालंकृतं मुक्ताजालपरिक्षिप्तम् । चतुर्षु कूटागारकोणेषु मणिरत्नानि स्थापितानि, यानि प्रदीपकृत्यं कुर्वन्ति स्म । चतस्रश्च धूपघटिका (वैद्य २५०) रूपमय्यश्चतुर्दिशमवसक्ताः, यत्र शुद्धं कृष्णागुरु धूप्यते स्म यदुत प्रज्ञापारमितायाः पूजार्थम् । तस्य च कूटागारस्य मध्ये सप्तरत्नमयः पर्यङ्कः प्रज्ञप्तोऽभूत् । चतुर्णां रत्नानां पेडा कृता, यत्र प्रज्ञापारमिता प्रक्षिप्ता सुवर्णपट्टेषु लिखिता विलीनेन वैदूर्येण । तच्च कूटागारं नानाचित्रपट्टदामभिः प्रलम्बमानैरलंकृतमभूत् ॥ अथ खलु सदाप्ररुदितो बोधिसत्त्वो महासत्त्वः सार्धं श्रेष्ठिदारिकापूर्वंगमैः पञ्चदारिकाशतैः तं कूटागारमद्राक्षीदपरिमाणेन पूजाव्यूहेन प्रतिमण्डितम् । अनेकानि च तत्र देवतासहस्राण्यद्राक्षीत्, शक्रं च देवानामिन्द्रं दिव्यैर्मान्दारवपुष्पैर्दिव्यैश्चन्दनचूर्णैर्दिव्यैश्च सुवर्णचूर्णैर्दिव्यैश्च रूप्यचूर्णैस्तं कूटागारमवकिरन्तमभ्यवकिरन्तमभिप्रकिरन्तम् । दिव्यानि च वाद्यान्यश्रौषीत् । दृष्ट्वा श्रुत्वा च सदाप्ररुदितो बोधिसत्त्वो महासत्त्वः शक्रं देवानामिन्द्रमेतदवोचत्- किमर्थं त्वं देवेन्द्र अनेकैर्देवतासहस्रैः सार्धमिदं रत्नमयं कूटागारं दिव्यैर्मान्दारवैः पुष्पैर्दिव्यैश्चन्दनचूर्णैर्दिव्यैः सुवर्णचूर्णैर्दिव्यैश्च रूप्यचूर्णैरवकिरसि अभ्यवकिरसि अभिप्रकिरसि? इमानि च दिव्यानि वाद्यानि देवैरुपर्यन्तरीक्षे प्रवादितानि? एवमुक्ते शक्रो देवानामिन्द्रः सदाप्ररुदितं बोधिसत्त्वं महासत्त्वमेतदवोचत्- न त्वं कुलपुत्र जानीषे? एषा हि सा प्रज्ञापारमिता बोधिसत्त्वानां महासत्त्वानां माता परिणायिका, यत्र शिक्षमाणा बोधिसत्त्वा महासत्त्वाः सर्वगुणपारमितानुगतान् सर्वबुद्धधर्मान् सर्वाकारज्ञतां च क्षिप्रमनुप्राप्नुवन्तीति । एवमुक्ते सदाप्ररुदितो बोधिसत्त्वो महासत्त्वः शक्रं देवानामिन्द्रमेतदवोचत्- क्वासौ कौशिक प्रज्ञापारमिता, या बोधिसत्त्वानां महासत्त्वानां माता परिणायिका? शक्र आह - एषा कुलपुत्र अस्य कूटागारस्य मध्ये सुवर्णपट्टेषु विलीनेन वैदूर्येण लिखित्वा आर्येण धर्मोद्गतेन बोधिसत्त्वेन महासत्त्वेन सप्तभिर्मुद्राभिर्मुद्रयित्वा स्थापिता । सा न सुकरा अस्माभिस्तव दर्शयितुम् । अथ खलु सदाप्ररुदितो बोधिसत्त्वो महासत्त्वः सार्धं श्रेष्ठिदारिकाप्रमुखै पञ्चभिर्दारिकाशतैः समग्रीभूतैः, यान्यनेन पुष्पाणि गृहीतानि माल्यदामानि च वस्त्ररत्नानि च धूपगन्धमाल्यविलेपनचूर्णचीवरच्छत्रध्वजघण्टापताकाश्च सुवर्णरूप्यमयानि च पुष्पाणि, तैः प्रज्ञापारमितायाः पूजामकार्षुः, अन्यतरान्यतरं च ततः प्रत्यंशं स्थापयामासुः यदुत धर्मोद्गतस्य बोधिसत्त्वस्य महासत्त्वस्य सत्काराय ॥ अथ खलु सदाप्ररुदितो बोधिसत्त्वो महासत्त्वस्तानि च श्रेष्ठिदारिकाप्रमुखानि पञ्च दारिकाशतानि पुष्पधूपमाल्यविलेपनचूर्णचीवरच्छत्रध्वजघण्टापताकाभिः सुवर्णरूप्यमयैश्च पुष्पैर्दिव्यैश्च वाद्यैः प्रज्ञापारमितां पूर्वं पूजयित्वा येन धर्मोद्गतो बोधिसत्त्वो महासत्त्वस्तेनोपसंक्रम्य धर्मोद्गतं बोधिसत्त्वं महासत्त्वं पुष्पधूपगन्धमाल्यविलेपनचूर्णचीवरच्छत्रध्वजघण्टापताकाभिश्चन्दनचूर्णैः सुवर्णरूप्यमयैश्च पुष्पैरवाकिरनभ्यवाकिरनभिप्राकिरन्, दिव्यानि च वाद्यानि संप्रवादयति स्म धर्मपूजामेवोपादाय ॥ अथ खलु तानि पुष्पाणि धर्मोद्गतस्य बोधिसत्त्वस्य महासत्त्वस्योपरिष्टान्मूर्ध्नि पुष्पकूटागारं प्रातिष्ठन् । तानि च नानावर्णानि पुष्पाणि सुवर्णरूप्यमयानि च पुष्पाणि (वैद्य २५१) विहायसि वितानमिव स्थितानि । तान्यपि चीवराणि वस्त्ररत्नानि च अन्तरीक्षे नानारत्नमयोऽभ्रमण्डप इव संस्थितोऽभूत् । अद्राक्षीत्खलु सदाप्ररुदितो बोधिसत्त्वो महासत्त्वस्तानि च पञ्च दारिकाशतानि श्रेष्ठिदारिकाप्रमुखानि धर्मोद्गतस्य बोधिसत्त्वस्य महासत्त्वस्येदमेवंरूपमृद्धिप्रातिहार्यम् । दृष्ट्वा च पुनरेषामेतदभूत्- आश्चर्यं यावन्महर्द्धिकश्चायं धर्मोद्गतो बोधिसत्त्वो महासत्त्वो यावन्महानुभावो यावन्महौजस्कः । बोधिसत्त्वचर्यामेव तावच्चरतोऽस्य कुलपुत्रस्यैवंरूपा ऋद्धिविकुर्वणा, किं पुनर्यदायमनुत्तरां सम्यक्संबोधिमभिसंबुद्धो भविष्यतीति ॥ अथ खलु तानि श्रेष्ठिदारिकापूर्वंगमानि पञ्च दारिकाशतानि धर्मोद्गते बोधिसत्त्वे महासत्त्वे स्पृहामुत्पाद्य सर्वास्ताः समग्रीभूता अध्याशयेन अनुत्तरायां सम्यक्संबोधौ चित्तमुत्पादयामासुः, एवं चावोचन् - अनेन वयं कुशलमूलेन अनागतेऽध्वनि तथागता अर्हन्तः सम्यक्संबुद्धा भवेम । बोधिसत्त्वचर्यां च वयं चरन्त्य एतेषामेव धर्माणां लाभिन्यो भवेम, येषां धर्माणामयं धर्मोद्गतो बोधिसत्त्वो महासत्त्वो लाभी । एवमेव च प्रज्ञापारमितां सत्कुर्याम गुरुकुर्याम, यथायं धर्मोद्गतो बोधिसत्त्वो महासत्त्वः सत्करोति गुरुकरोति । बहुजनस्य च संप्रकाशयेम यथायं धर्मोद्गतो बोधिसत्त्वो महासत्त्वः संप्रकाशयति । एवमेव च प्रज्ञापारमितया उपायकौशल्येन च समन्वागता भवेम । परिनिष्पद्येमहि च यथायं धर्मोद्गतो बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितया उपायकौशल्येन च समन्वागतः परिनिष्पन्नश्च ॥ अथ खलु सदाप्ररुदितो बोधिसत्त्वो महासत्त्वस्तानि च श्रेष्ठिदारिकाप्रमुखानि पञ्च दारिकाशतानि प्रज्ञापारमितां पूजयित्वा धर्मोद्गतं च बोधिसत्त्वं महासत्त्वं सत्कृत्य धर्मोद्गतस्य बोधिसत्त्वस्य महासत्त्वस्य पादौ शिरसाभिवन्द्य एकान्ते सगौरवाः सप्रतीक्षाः प्राञ्जलीन् कृत्वातिष्ठन् । एकान्ते स्थितश्च सदाप्ररुदितो बोधिसत्त्वो महासत्त्वो धर्मोद्गतं बोधिसत्त्वं महासत्त्वमेतदवोचत्- इहाहं कुलपुत्र प्रज्ञापारमितां गवेषमाणोऽरण्यगतो निर्घोषमश्रौषम् - गच्छ कुलपुत्र पूर्वां दिशम् । ततः प्रज्ञापारमितां श्रोष्यसीति । सोऽहं सम्यक्तं निर्घोषं श्रुत्वा येन पूर्वा दिक्तेन संप्रस्थितः । तस्य मे एतदभूत्- सम्यक्च मया निर्घोषः श्रुतः । न च मया स निर्घोषः परिपृष्टः - कियद्दूरं मया गन्तव्यम्, कस्य वा अन्तिकात्प्रज्ञापारमितां श्रोष्यामि लप्स्ये वेति । तस्य मे महद्दौर्मनस्यमभूत् । सोऽहं तेन दौर्मनस्येन महतीमुत्कण्ठां परितपनं चापन्नोऽभूवम् । तस्मिन्नेव पृथिवीप्रदेशे सप्तरात्रिंदिवान्यतिनामयामि उत्कण्ठितः । नाहारसमुदाचारमुत्पादयामि । अपि तु प्रज्ञापारमितामेव मनसि करोमि - कियद्दूरं मया गन्तव्यम्, कुतो वा प्रज्ञापारमितां लप्स्ये श्रवणाय? न च मया स निर्घोषः परिपृष्टः इति । ततो मे तथागतविग्रहः पुरतः प्रादुर्भूतः । स मामेवमाह - गच्छ कुलपुत्र इतः पञ्चभिर्योजनशतैरनुपूर्वेण गन्धवती नाम नगरी । तत्र द्रक्ष्यसि धर्मोद्गतं बोधिसत्त्वं महासत्त्वं प्रज्ञापारमितां देशयन्तं प्रकाशयन्तमिति । ततोऽहं महतोदारेण प्रीतिप्रामोद्येन समन्वागतः । सोऽहं तेनैव महतोदारेण प्रीतिप्रामोद्येन स्फुटस्ततः पृथिवीप्रदेशान्न चलितः, तव च प्रज्ञापारमितां देशयतः शृणोमि । तस्य मे शृण्वतो बहूनि समाधिमुखानि प्रादुर्भूतानि । (वैद्य २५२) तत्र स्थितं मां दशदिग्लोकधातुस्थिता बुद्धा भगवन्तः समाश्वासयन्ति, साधुकारं च ददति - साधु साधु कुलपुत्र, एते समाधयः प्रज्ञापारमितानिर्जाताः, यत्र स्थितैरस्माभिः सर्वबुद्धधर्माः परिनिष्पादिता इति । ते मां तथागताः साधु च सुष्ठु च संदर्श्य समादाप्य समुत्तेज्य संप्रहर्ष्य अन्तर्हिताः । अहं च ततः समाधेर्व्युत्थितः । तस्य मे एतदभूत्- कुतो नु ते तथागता आगताः, क्व वा ते तथागता गता इति? तस्य च मे एतदभूत्- आर्यो धर्मोद्गतो बोधिसत्त्वो महासत्त्वो धारणीप्रतिलब्धः पञ्चाभिज्ञः पूर्वजिनाकृताधिकारोऽवरोपितकुशलमूलः, प्रज्ञापारमितायामुपायकौशल्ये च सुशिक्षितः । स मे एनमर्थं यथावद्विचरिष्यति, यतस्ते तथागता आगता यत्र वा ते तथागता गता इति । सोऽहं तस्य तथागतविग्रहस्य निर्घोषं श्रुत्वा यथानुशिष्टं येन पूर्वां दिक्तेन संप्रस्थितः । आगच्छंश्चाहं दूरत एवार्यमद्राक्षं धर्मं देशयन्तम् । सहदर्शनाच्च ममेदृशं सुखं प्रादुरभूत्, तद्यथापि नाम प्रथमध्यानसमापन्नस्य भिक्षोरेकाग्रमनसिकारस्य । सोऽहं त्वां कुलपुत्र पृच्छामि - कुतस्ते तथागता आगताः, कुत्र ते तथागता गता इति? देशय मे कुलपुत्र तेषां तथागतानामागमनं गमनं च । यथा वयं तेषां तथागतानामागमनं गमनं च जानीम, अविरहिताश्च भवेम तथागतदर्शनेनेति ॥ आर्याष्टसाहस्रिकायां प्रज्ञापारमितायां सदाप्ररुदितपरिवर्तो नाम त्रिंशत्तमः ॥ _______________________________________________________________ (वैद्य २५३) ३१: धर्मोद्गतपरिवर्त एकत्रिंशत्तमः । एवमुक्ते धर्मोद्गतो बोधिसत्त्वो महासत्त्वः सदाप्ररुदितं बोधिसत्त्व महासत्त्वमेतदवोचत्- न खलु कुलपुत्र तथागताः कुतश्चिदागच्छन्ति वा गच्छन्ति वा । अचलिता हि तथता । या च तथता, स तथागतः । न हि कुलपुत्र अनुत्पाद आगच्छति वा गच्छति वा । यश्च अनुत्पादः, स तथागतः । न हि कुलपुत्र भूतकोट्या आगमनं वा गमनं वा प्रज्ञायते । या च भूतकोटिः, स तथागतः । न हि कुलपुत्र शून्यताया आगमनं वा गमनं वा प्रज्ञायते । या च शून्यता, स तथागतः । न हि कुलपुत्र यथावत्ताया आगमनं वा गमनं वा प्रज्ञायते । या च यथावत्ता, स तथागतः । न हि कुलपुत्र विरागस्यागमनं वा गमनं वा प्रज्ञायते । या च विरागता, स तथागतः । न हि कुलपुत्र निरोधस्यागमनं वा गमनं वा प्रज्ञायते । यश्च निरोधः, स तथागतः । न हि कुलपुत्र आकाशधातोरागमनं वा गमनं वा प्रज्ञायते । यश्च आकाशधातुः, स तथागतः । न हि कुलपुत्र अन्यत्र एभ्यो धर्मेभ्यस्तथागतः । या च कुलपुत्र एषामेव धर्माणां तथता, या च सर्वधर्मतथता, या च तथागततथता, एकैवैषा तथता । नास्ति कुलपुत्र तथताया द्वैधीकारः । एकैवैषा तथता कुलपुत्र । तथता न द्वे न तिस्रः । गणनाव्यतिवृत्ता कुलपुत्रा तथता यदुत असत्त्वात् । तद्यथापि नाम कुलपुत्र पुरुषो ग्रीष्माभितप्तो ग्रीष्माणां पश्चिमे मासेऽभिगते मध्याह्नकालसमये मरीचिकां पश्येत्स्यन्दमानाम् । स तेन तेन प्रधावेत्- अत्रोदकं पास्यामि, अपानीयं पास्यामीति । तत्किं मन्यसे कुलपुत्र कुत एतदुदकमागतं क्व वा तदुदकं गच्छति, पूर्वं वा महासमुद्रं दक्षिणं वा पश्चिमं वा उत्तरं वा? सदाप्ररुदित आह - न हि कुलपुत्र मरीचिकायामुदकं संविद्यते । किं पुनरस्यागमनं वा गमनं वा प्रज्ञायते? स खलु पुनः कुलपुत्र पुरुषो ग्रीष्माभितप्तो बालजातीयो दुष्प्रज्ञजातीयो मरीचिकां दृष्ट्वा अनुदके उदकसंज्ञामुत्पादयति । न पुनस्तत्रोदकं स्वभावतः संविद्यते । धर्मोद्गत आह - एवमेतत्कुलपुत्र, एवमेतत् । एवमेव कुलपुत्र ये केचित्तथागतरूपेण वा घोषेण वा अभिनिविष्टाः, ते तथागतस्यागमनं च गमनं च कल्पयन्ति । ये च तथागतस्यागमनं च गमनं च कल्पयन्ति, सर्वे ते बालजातीया दुष्प्रज्ञजातीया इति वक्तव्याः, तद्यथापि नाम स एव पुरुषो योऽनुदके उदकसंज्ञामुत्पादयति । तत्कस्य हेतोः? न हि तथागतो रूपकायतो द्रष्टव्यः । धर्मकायास्तथागताः । न च कुलपुत्र धर्मता आगच्छति वा गच्छति वा । एवमेव कुलपुत्र नास्ति तथागतानामागमनं वा गमनं वा । तद्यथापि नाम कुलपुत्र मायाकारनिर्मितस्य हस्तिकायस्य वा अश्वकायस्य वा रथकायस्य वा पत्तिकायस्य वा नास्त्यागमनं वा गमनं वा, एवमेव कुलपुत्र नास्ति तथागतानामागमनं वा गमनं वा । तद्यथापि नाम कुलपुत्र पुरुषः सुप्तः स्वप्नान्तरगत एकं वा तथागतं पश्येत्, द्वौ वा त्रीन् वा चतुरो वा पञ्च वा षड्वा सप्त वा अष्टौ वा नव वा दश वा विंशतिं वा त्रिंशद्वा चत्वारिंशद्वा पञ्चाशद्वा शतं वा सहस्रं वा, ततो वा उत्तरे । स प्रतिविबुद्धः सनेकमपि तथागतं न पश्येत् । तत्किं मन्यसे कुलपुत्र कुतस्ते तथागता आगताः क्व वा ते तथागता गता इति? सदाप्ररुदित आह - न खलु पुनः कुलपुत्र स्वप्ने कस्यचिद्धर्मस्य (वैद्य २५४) परिनिष्पत्तिः प्रज्ञायते । मृषावादो हि स्वप्नोऽभूत् । धर्मोद्गत आह - एवमेव कुलपुत्र सर्वधर्माः स्वप्नोपमा उक्ता भगवता । ये केचित्कुलपुत्र स्वप्नोपमान् सर्वधर्मांस्तथागतेन निर्देशितान् यथाभूतं न प्रजानन्ति, ते तथागतान्नामकायेन वा रूपकायेन वा अभिनिविश्य तथागतानामागमनं वा गमनं वा कल्पयन्ति । यथापि नाम धर्मतामप्रजानन्तो ये च तथागतानामागमनं वा गमनं वा कल्पयन्ति, सर्वे ते बालजातीयाः पृथग्जनाः । सर्वे ते षड्गतिकं संसारं गताः, गच्छन्ति गमिष्यन्ति च । सर्वे ते प्रज्ञापारमिताया दूरे । सर्वे ते बुद्धधर्माणां दूरे । ये खलु पुनः कुलपुत्र स्वप्नोपमान् सर्वधर्मान् स्वप्नोपमाः सर्वधर्मा इति तथागतेन देशितान् यथाभूतं प्रजानन्ति, न ते कस्यचिद्धर्मस्यागमनं वा गमनं वा कल्पयन्ति, उत्पादं वा निरोधं वा । ये च न कस्यचिद्धर्मस्यागमनं वा गमनं वा कल्पयन्ति, उत्पादं वा निरोधं वा, ते धर्मतया तथागतं प्रजानन्ति । ये च तथागतं धर्मतया प्रजानन्ति, न ते तथागतानामागमनं वा गमनं वा कल्पयन्ति । ये च तथागतस्येदृशीं धर्मतां प्रजानन्ति, ते आसन्ना अनुत्तरायाः सम्यक्संबोधेश्चरन्ति । ते च प्रज्ञापारमितायां चरन्ति । ते च भगवतः श्रावकाः अमोघं राष्ट्रपिण्डं परिभुञ्जते । ते च लोकस्य दक्षिणीयाः । तद्यथापि नाम कुलपुत्र महासमुद्रे रत्नानि न पूर्वस्या दिश आगच्छन्ति, न दक्षिणस्याः, न पश्चिमायाः, नोत्तरस्याः, न विदिग्भ्यो नाधस्तान्नोपरिष्टान्न कुतश्चिद्देशेभ्यो दिग्भ्य आगच्छन्ति, अपि तु खलु पुनः सत्त्वानां कुशलमूलान्युपादाय महासमुद्रे रत्नान्युत्पद्यन्ते । न व तान्यहेतुकान्युत्पद्यन्ते । हेतुप्रत्ययकारणाधीनानि प्रतीत्यसमुत्पन्नानि । निरुध्यमानानि च तानि रत्नानि च क्वचिद्दशदिशि लोके संक्रामन्ति । अपि तु खलु पुनर्येषां प्रत्ययानां सतां तानि रत्नानि प्रभाव्यन्ते, तेषां प्रत्ययानामसतां न तेषां रत्नानां प्रभावना भवति । एवमेव कुलपुत्र तेषां तथागतानां कायपरिनिष्पत्तिर्न कुतश्चिद्दशदिशि लोकादागता, नापि क्वचिद्दशदिशि लोके गच्छति । न च अहेतुको बुद्धानां भगवतां कायः । पूर्वचर्यापरिनिष्पन्नो हेतुप्रत्ययाधीनः कारणसमुत्पन्नः पूर्वकर्मविपाकादुत्पन्नः । स न क्वचिद्दशदिशि लोकेऽस्ति । अपि तु खलु पुनर्येषां प्रत्ययानां सतां कायाभिनिष्पत्तिर्भवति, तेषां प्रत्ययानामसतां कायाभिनिष्पत्तिर्न प्रज्ञायते । तद्यथापि नाम कुलपुत्र वीणायाः शब्द उत्पद्यमानो न कुतश्चिदागच्छति, निरुध्यमानोऽपि न क्वचिद्गच्छति, न क्वचित्संक्रामति, प्रतीत्य च हेतुप्रत्ययसामग्रीमुत्पद्यते हेत्वधीनः प्रत्ययाधीनः । तद्यथापि नाम द्रोणीं च प्रतीत्य चर्म च प्रतीत्य तन्त्रीश्च प्रतीत्य दण्डं च प्रतीत्य उपधानीश्च प्रतीत्य कोणं च प्रतीत्य पुरुषस्य च तज्जव्यायामं प्रतीत्य एवमयं वीणायाः शब्दो निश्चरति हेत्वधीनः प्रत्ययाधीनः । स च शब्दो न द्रोण्या निश्चरति, न चर्मणो न तन्त्रीभ्यो न दण्डान्नोपधानीभ्यो न कोणान्न पुरुषस्य तज्जव्यायामतः शब्दो निश्चरति, अपि तु खलु पुनः सर्वेषां समायोगाच्छब्दः प्रज्ञप्यते । निरुध्यमानोऽपि शब्दो न क्वचिद्गच्छति । एवमेव कुलपुत्र बुद्धानां भगवतां कायनिष्पत्तिर्हेत्वधीना प्रत्ययाधीना अनेककुशलमूलप्रयोगपरिनिष्पन्ना च । न चैकतो हेतुतो न चैकतः प्रत्ययतो न चैकतः कुशलमूलतो बुद्धकायप्रभावना । न च नैर्हेतुकी । (वैद्य २५५) बहुहेतुप्रत्ययसामग्र्यां समुत्पन्ना सा न कुतश्चिदागच्छति । हेतुप्रत्ययसामग्र्यामसत्यां न क्वचिद्गच्छति । एवं त्वया कुलपुत्र तेषां तथागतानामागमनं च गमनं च द्रष्टव्यम् । सर्वधर्माणामपि कुलपुत्र त्वया इयमेव धर्मता अनुगन्तव्या । यतः कुलपुत्र त्वमेवं तथागतांश्च सर्वधर्मांश्च अनुत्पन्नाननिरुद्धांश्च संप्रज्ञास्यसि, ततस्त्वं नियतो भविष्यस्यनुत्तरायां सम्यक्संबोधौ । प्रज्ञापारमितायामुपायकौशल्ये च नियतं चरिष्यसि ॥ अस्मिन् खलु पुनस्तथागतानामनागत्यगमननिर्देशे भाष्यमाणे महान् भूमिचालोऽभूत् । सर्वश्च त्रिसाहस्रमहासाहस्रो लोकधातुः षड्विकारमहादशमहानिमित्तं कम्पते प्रकम्पते संप्रकम्पते, चलति प्रचलति संप्रचलति, वेधते प्रवेधते संप्रवेधते, रणति प्ररणति संप्ररणति, क्षुभ्यति प्रक्षुभ्यति संप्रक्षुभ्यति, गर्जति प्रगर्जति संप्रगर्जति स्म । सर्वाणि च मारभवनानि संक्षोभितानि जिह्मीभूतानि चाभूवन् । ये केचन त्रिसाहस्रमहासाहस्रे लोकधातौ तृणगुल्मौषधिवनस्पतयः, ते सर्वे येन धर्मोद्गतो बोधिसत्त्वो महासत्त्वस्तेन प्रणता अभूवन् । अकालपुष्पाणि चोत्सृजन्ति स्म । उपरिष्टाच्च अन्तरीक्षान्महापुष्पवर्षः प्रावर्षत् । शक्रश्च देवानामिन्द्रश्चत्वारश्च महाराजानो धर्मोद्गतं बोधिसत्त्वं महासत्त्वं दिव्यैश्चन्दनचूर्णैर्दिव्यैश्च पुष्पैरवाकिरनभ्यवाकिरनभिप्राकिरन् । एवं च वाचमभाषन्त - साधु साधु कुलपुत्र । तव कुलपुत्र अनुभावेन अद्यास्माभिः परमार्थनिर्जाता कथा देश्यमाना श्रुता सर्वलोकविप्रत्यनीका, यत्राभूमिः सर्वसत्कायदृष्टिप्रतिष्ठितानां सर्वासद्दृष्ट्यभिविनिविष्टानां सत्त्वानाम् ॥ अथ खलु सदाप्ररुदितो बोधिसत्त्वो महासत्त्वो धर्मोद्गतं बोधिसत्त्वं महासत्त्वमेतदवोचत्- कः पुनः कुलपुत्र अत्र हेतुः, कः प्रत्ययोऽस्य महतः पृथिवीचालस्य लोके प्रादुर्भावाय? धर्मोद्गतो बोधिसत्त्वो महासत्त्व आह - इमं कुलपुत्र तथागतानामनागत्यगमननिर्देशं तव च पृच्छतो मम च निर्दिशतोऽष्टानां प्राणिसहस्राणामनुत्पत्तिकधर्मक्षान्तिप्रतिलम्भोऽभूत् । अशीतेश्च प्राणिनियुतानामनुत्तरायां सम्यक्संबोधौ चित्तान्युत्पन्नानि, चतुःषष्टेश्च प्राणिसहस्राणां विरजांसि विगतमलानि धर्मेषु धर्मचक्षूंषि विशुद्धानि ॥ अथ खलु सदाप्ररुदितो बोधिसत्त्वो महासत्त्वः परमोदारेण प्रीतिप्रामोद्येन समन्वागतोऽभूत्- लाभा मे परमसुलब्धाः, यस्य मे प्रज्ञापारमितामिमं च तथागतानामनागत्यगमननिर्देशं परिपृच्छतः इयतां सत्त्वानामर्थः कृतः । एतदेवास्माकं पर्याप्तं कुशलं भवेदनुत्तरायाः सम्यक्संबोधेः परिनिष्पत्तये । न च मे भूयो विचिकित्सा प्रवर्ततेऽनुत्तरायाः सम्यक्संबोधेः । निःसंशयमहं तथागतो भविष्याम्यर्हन् सम्यक्संबुद्धः । स तेनैव प्रीतिप्रामोद्येन समन्वागतः सप्ततालं विहायसमभ्युद्गम्य सप्तताले स्थित्वा एवं चिन्तयति स्म - केनाहमेतर्हि अन्तरीक्षे स्थितः धर्मोद्गतं बोधिसत्त्वं महासत्त्वं सत्कुर्यामिति? अथ खलु शक्रो देवानामिन्द्र सदाप्ररुदितं बोधिसत्त्वं महासत्त्वमभ्युद्गतं दृष्ट्वा चेतसैव चास्य चित्तमाज्ञाय दिव्यानि चास्मै मान्दारवाणि पुष्पाण्युपनामयति स्म, एवं चावोचत्- एभिस्त्वं कुलपुत्र दिव्यैः पुष्पैर्धर्मोद्गतं बोधिसत्त्वं (वैद्य २५६) महासत्त्वं सत्कुरु । सत्कर्तव्यो हि कुलपुत्र अस्माभिस्तव परिग्राहकः । तव हि कुलपुत्र अनुभावेन अद्य बहूनां प्राणिसहस्राणामर्थः कृतः । दुर्लभाः कुलपुत्र एवंरूपाः सत्त्वाः, ये सर्वसत्त्वानां कृतशोऽप्रमेयानसंख्येयान् कल्पानुत्सहन्ते महान्तं भारमुद्वोढुं यथा त्वया उत्सोढम् ॥ अथ खलु सदाप्ररुदितो बोधिसत्त्वो महासत्त्वः शक्रस्य देवानामिन्द्रस्यान्तिकान्मान्दारवाणि पुष्पाणि गृहीत्वा धर्मोद्गतं बोधिसत्त्वं महासत्त्वमवाकिरत्, अभ्यवाकिरत्, अभिप्राकिरत् । स्वकेन च कायेन धर्मोद्गतं बोधिसत्त्वं महासत्त्वमभिच्छादयति स्म । एवं च वाचमभाषत - एषोऽहं कुलपुत्र अद्याग्रेण तवात्मानं निर्यातयामि उपस्थानपरिचर्यायै । स आत्मानं निर्यात्य धर्मोद्गतस्य बोधिसत्त्वस्य महासत्त्वस्य पुरतः प्राञ्जलिं कृत्वास्थात् ॥ अथ खलु सा श्रेष्ठिदारिका तानि च पञ्च दारिकाशतानि सदाप्ररुदितं बोधिसत्त्वं महासत्त्वमेतदवोचत्- एता वयमपि कुलपुत्र तवात्मानं निर्यातयामः, वयमप्यनेन कुशलमूलेन एतेषामेव धर्माणां लाभिन्यो भवेम, त्वयैव च सार्धं पुनः पुनर्बुद्धांश्च भगवतो बोधिसत्त्वांश्च सत्कुर्याम गुरुकुर्याम । आसन्नीभूताश्च तवैव भवेम । अथ खलु सदाप्ररुदितो बोधिसत्त्वो महासत्त्वः श्रेष्ठिदारिकां तानि च पञ्च दारिकाशतान्येतदवोचत्- यदि मे यूयं दारिका अध्याशयमनुवर्तध्वम्, अध्याशयेन च मह्यमात्मानं निर्यातयत, एवमहं युष्मान् प्रतीच्छेयम् । दारिका आहुः - अनुवर्तिष्यामहे तव वयमाशयेनाध्याशयेन च । वयं तवात्मानं निर्यातयामो यथेच्छाकरणीयतायै । अथ खलु सदाप्ररुदितो बोधिसत्त्वो महासत्त्वस्तानि श्रेष्ठिदारिकाप्रमुखानि पञ्च दारिकाशतानि सर्वालंकारभूषितानि कृत्वा तानि च पञ्च रथशतान्यलंकृत्य सर्वाणि च तानि धर्मोद्गताय बोधिसत्त्वाय महासत्त्वाय निर्यातयति स्म उपस्थानपरिचर्यायैः - इमाः कुलपुत्र अहं तवोपस्थायिका निर्यातयामि, इमानि च पञ्च रथशतानि निर्यातयामि परिभोगायेति ॥ अथ खलु शक्रो देवानामिन्द्रस्तस्मै कुलपुत्राय साधुकारमदात्- साधु साधु कुलपुत्र । बोधिसत्त्वैर्महासत्त्वैः सर्वस्वपरित्यागिभिर्भवितव्यम् । एवंरूपेण च त्यागचित्तेन बोधिसत्त्वो महासत्त्वः क्षिप्रमनुत्तरां सम्यक्संबोधिमभिसंबुध्यते । एवं च धर्मभाणकाणां पूजां कृत्वा शक्यं प्रज्ञापारमितामुपायकौशल्यं च श्रोतुम् । तैरपि कुलपुत्र पौर्वकैस्तथागतैरर्हद्भिः सम्यक्संबुद्धैः पूर्वं बोधिसत्त्वचर्यां चरद्भिरेवंरूप एव त्यागे स्थित्वा अनुत्तरा सम्यक्संबोधिः समुदानीता प्रज्ञापारमितामुपायकौशल्यं च परिप्रश्नयद्भिरिति ॥ अथ खलु धर्मोद्गतो बोधिसत्त्वो महासत्त्वस्तानि श्रेष्ठिदारिकाप्रमुखानि पञ्च दारिकाशतानि पञ्च रथशतानि सदाप्ररुदितस्य बोधिसत्त्वस्य महासत्त्वस्य कुशलपरिपूरिमुपादाय प्रतिगृह्णीते स्म । प्रतिगृह्य च सदाप्ररुदितायैव कुलपुत्राय प्रतिनिर्यातयामास । अथ खलु धर्मोद्गतो बोधिसत्त्वो महासत्त्व उत्थायासनात्स्वकं गृहं प्राविक्षत्सूर्यस्य चास्तंगमनकालोऽभूत् ॥ अथ खलु सदाप्ररुदितस्य बोधिसत्त्वस्य महासत्त्वस्यैतदभूत्- नैतन्मम साधु प्रतिरूपं भवेत्, यदहं धर्मकामतया आगत्य निषीदेयम्, शय्यां च परिकल्पयेयम् । यन्न्वहं द्वाभ्यामेव (वैद्य २५७) ईर्यापथाभ्यां स्थित्वा स्थानेन चंक्रमेण च कालमतिनामयेयम्, यावद्धर्मोद्गतो बोधिसत्त्वो महासत्त्वः स्वकाद्गृहान्निर्गतो भविष्यति यदुत धर्मसंप्रकाशनायेति ॥ अथ खलु धर्मोद्गतो बोधिसत्त्वो महासत्त्वः सप्त वर्षाण्येकसमाधिसमापन्न एवाभूत् । अप्रमेयैरसंख्येयैर्बोधिसत्त्वसमाधिसहस्रैः प्रज्ञापारमितोपायकौशल्यनिर्जातैर्व्याहार्षीत् । सदाप्ररुदितोऽपि बोधिसत्त्वो महासत्त्व सप्त वर्षाणि द्वाभ्यामेव ईर्यापथाभ्यां कालमतिनामयन्न स्त्यानमिद्धमवक्रामयामास । सप्त वर्षाणि च कामवितर्कमुत्पादयामास, न व्यापादवितर्कं न विहिंसावितर्कमुत्पादयामास, न रसगृद्धिं न चित्तौद्बिल्यमुत्पादयामास । अपि तु कदा नाम धर्मोद्गतो बोधिसत्त्वो महासत्त्वोऽस्मात्समाधेर्व्युत्थास्यति, यन्नु वयं धर्मोद्गतस्य बोधिसत्त्व महासत्त्वस्य धर्मासनं प्रज्ञपयिष्यामः, यत्रासौ कुलपुत्रो निषद्य धर्मं देशयिष्यतीति । तं च पृथिवीप्रदेशं सुसिक्तं सुमृष्टं च करिष्यामो नानापुष्पाभिकीर्णम्, यत्र पृथिवीप्रदेशे धर्मोद्गतो बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितामुपायकौशल्यं च संप्रकाशयिष्यतीति चिन्तयामास । तान्यपि श्रेष्ठिदारिकाप्रमुखानि पञ्च दारिकाशतानि सदाप्ररुदितस्य बोधिसत्त्वस्य महासत्त्वस्यानुशिक्षमाणानि द्वाभ्यामेव ईर्यापथाभ्यां कालमतिनामयामासुः सर्वाः क्रियास्तस्यानुवर्तमानाः ॥ अथ खलु सदाप्ररुदितो बोधिसत्त्वो महासत्त्वो दिव्यं निर्घोषमश्रौषीत्- इतः सप्तमे दिवसे धर्मोद्गतो बोधिसत्त्वो महासत्त्वोऽस्मात्समाधेर्व्युत्थास्यति, व्युत्थाय च मध्येनगरस्य निषद्य धर्मं देशयिष्यतीति । अथ खलु सदाप्ररुदितो बोधिसत्त्वो महासत्त्वस्तं दिव्यं निर्घोषं श्रुत्वा तुष्ट उदग्र आत्तमनाः प्रमुदितः प्रीतिसौमनस्यजातस्तं पृथिवीप्रदेशं शोधयामास सार्धं श्रेष्ठिदारिकाप्रमुखैः पञ्चदारिकाशतैः, धर्मासनं च प्रज्ञपयामास सप्तरत्नमयम्, स्वकं चोत्तरासङ्गं कायादवतार्य तस्यासनस्योपरि प्रज्ञपयति स्म । अथ खलु ता दारिकाः स्वकस्वकानुत्तरासङ्गान् कायादवतार्य पञ्चोत्तरासङ्गशतानि तत्रासने प्रज्ञपयामासुः अत्रासने धर्मोद्गतो बोधिसत्त्वो महासत्त्वो निषद्य धर्मं देशयिष्यतीति । एवं ताश्च सर्वा दारिका धर्मोद्गतस्य बोधिसत्त्वस्य महासत्त्वस्य धर्मासनमास्तीर्य तुष्टा उदग्रा आत्तमनसः प्रमुदिताः प्रीतिसौमनस्य जाता अभूवन् ॥ अथ खलु सदाप्ररुदितो बोधिसत्त्वो महासत्त्वस्तं पृथिवीप्रदेशं सेक्तुकामः । न चोदकं समन्तात्पर्येषमाणोऽपि लभते, येन तं पृथिवीप्रदेशं सिञ्चेत् । यथापि नाम मारेण पापीयसा तत्सर्वमुदकमन्तर्धापितमभूत्, अप्येव नाम अस्य सदाप्ररुदितस्य बोधिसत्त्वस्य महासत्त्वस्योदकमलभमानस्य चित्तं खिद्येत, दुःखदौर्मनस्यं च भवेत्, चित्तस्य वा अन्यथात्वं भवेत्, येनास्य कुशलमूलस्यान्तर्धानं भवेत्, न वा पूजा भ्राजेरन् ॥ अथ खलु सदाप्ररुदितस्य बोधिसत्त्वस्य महासत्त्वस्यैतदभूत्- यन्न्वहमात्मनः कायं विद्ध्वा इमं पृथिवीप्रदेशं रुधिरेण सिञ्चेयम् । तत्कस्य हेतोः? अयं हि पृथिवीप्रदेश उद्धतरजस्कः । मा रजोधातुरितो भूप्रेदेशाद्धर्मोद्गतस्य बोधिसत्त्वस्य महासत्त्वस्य काये निपतेत् । किं वा अनेनात्मभावेनावश्यं भेदनधर्मिणा कुर्याम्? वरं खलु पुनर्ममायं काय (वैद्य २५८) एवंरूपया क्रियया विनश्यतु, न तु निःसामर्थ्यक्रियया । अपि च कामहेतोः कामनिदानं बहूनि मे आत्मभावसहस्राणि पुनः पुनः संसारे संसरतो भिन्नानि, न पुनरेवंरूपेषु स्थानेषु सद्धर्मपरिग्रहस्य कृतशः । यदि पुनर्भिद्यन्ते, काममेवंरूपेषु भिद्यन्तामिति । अथ खलु सदाप्ररुदितो बोधिसत्त्वो महासत्त्व इति प्रतिसंख्याय तीक्ष्णं शस्त्रं गृहीत्वा स्वकायं समन्ततो विद्ध्वा तं पृथिवीप्रदेशं स्वरुधिरेण सर्वमसिञ्चत् । तान्यपि श्रेष्ठिदारिकाप्रमुखानि पञ्चदारिकाशतानि सदाप्ररुदितस्य बोधिसत्त्वस्य महासत्त्वस्यानुशिक्षमाणानि सर्वाणि तानि तीक्ष्णानि शस्त्राणि गृहीत्वा स्वकस्वकानि शरीराणि विद्ध्वा तं पृथिवीप्रदेशं स्वकस्वकैर्लोहितैः सर्वमसिञ्चन् । न च सदाप्ररुदितस्य बोधिसत्त्वस्य महासत्त्वस्य तासां वा सर्वासां दारिकाणां चित्तस्यान्यथात्वमभूत्, यत्र स मारः पापीयानवतारं लभेत्कुशलमूलान्तरायकरणाय ॥ अथ खलु शक्रस्य देवानामिन्द्रस्यैतदभूत्- आश्चर्यं यावद्धर्मकामश्चायं सदाप्ररुदितो बोधिसत्त्वो महासत्त्वः, यावद्दृढसमादानश्च यावन्महासंनाहसंनद्धश्च अनपेक्षः काये जीवितेषु भोगेषु च, अनुत्तरायाः सम्यक्संबोधेरधिगमाय अध्याशयसंप्रस्थितः । यदुत सर्वसत्त्वान्मोचयिष्याम्यपरिमाणतः संसारदुःखादनुत्तरां सम्यक्संबोधिमभिसंबुध्येति । अथ खलु शक्रो देवानामिद्रस्तत्सर्वं लोहितोदकं दिव्यं चन्दनोदकमध्यतिष्ठत्, समन्ताच्च तस्य पृथिवीप्रदेशस्य अचिन्त्यं परमोदारं गन्धं यस्य दिव्यस्य चन्दनोदकस्य परिपूर्णम् । योजनशतं गन्धो वाति ॥ अथ शक्रो देवानामिन्द्रः सदाप्ररुदितं बोधिसत्त्वं महासत्त्वमेतदवोचत्- साधु साधु कुलपुत्र । साधु ते कुलपुत्र अचिन्त्यं वीर्यम्, साध्वी च ते अनुत्तरा धर्मकामता धर्मपरीष्टिश्च । एवंरूपेण कुलपुत्र अध्याशयेन एवंरूपेण वीर्येण एवंरूपया च धर्मकामतया तैः पौर्वकैस्तथागतैरर्हद्भिः सम्यक्संबुद्धैरनुत्तरा सम्यक्संबोधिः समुदानीता ॥ अथ खलु सदाप्ररुदितस्य बोधिसत्त्वस्य महासत्त्वस्यैतदभूत्- प्रज्ञप्तं मया धर्मोद्गतस्य बोधिसत्त्वस्य महासत्त्वस्य धर्मासनम् । अयं च पृथिवीप्रदेशः सुसिक्तः सुसंमृष्टश्च कृतः । कुतो नु खल्वहं पुष्पाणि लभेयम्, यैरहमिमं पृथिवीप्रदेशं पुष्पाभिकीर्णं कुर्याम्, धर्मोद्गतं च बोधिसत्त्वं महासत्त्वं धर्मं देशयन्तं धर्मासने निषण्णमभ्यवकिरेयम्? अथ खलु शक्रो देवानामिन्द्रः सदाप्ररुदितं बोधिसत्त्वं महासत्त्वमेतदवोचत्- इमानि ते कुलपुत्र प्रतिगृहाण दिव्यानि मान्दारवाणि पुष्पाणि । एभिस्त्वमिमं पृथिवीप्रदेशं पुष्पाभिकीर्णं कुरु, धर्मोद्गतं च बोधिसत्त्वं महासत्त्वं धर्मं देशयन्तं धर्मासने निषण्णमभ्यवकिर । स तस्मै दिव्यं खारीसहस्रं दिव्यानां मान्दारवपुष्पाणामुपनामयति स्म । अथ खलु सदाप्ररुदितो बोधिसत्त्वो महासत्त्वस्तानि पुष्पाणि गृहीत्वा अन्यतरैः पुष्पैस्तं पृथिवीप्रदेशं पुष्पाभिकीर्णमकार्षीत्, अन्यतरैश्च पुष्पैर्धर्मोद्गतं बोधिसत्त्वं महासत्त्वमभ्यवाकिरत् ॥ अथ खलु धर्मोद्गतो बोधिसत्त्वो महासत्त्वः सप्तानां वर्षाणामत्ययेन ततः समाधेर्व्युत्थाय येन धर्मासनं तेनोपसंक्रम्य प्रज्ञप्त एवासने न्यषीदत्, अनेकशतसहस्रया पर्षदा परिवृतः पुरस्कृतः प्रज्ञापारमितां देशयामास ॥ (वैद्य २५९) अथ खलु सदाप्ररुदितो बोधिसत्त्वो महासत्त्वः सहदर्शनेनैव धर्मोद्गतस्य बोधिसत्त्वस्य महासत्त्वस्य तादृशं सुखं प्रतिलभते स्म, तद्यथापि नाम प्रथमध्यानसमापन्न एकाग्रमनसिकारो भिक्षुः । तत्रेयं धर्मोद्गतस्य बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितादेशनायदुत सर्वधर्मसमतया प्रज्ञापारमितासमता । सर्वधर्मविविक्ततया प्रज्ञापारमिताविविक्तता । सर्वधर्माचलनतया प्रज्ञापारमिताचलनता । सर्वधर्मामननतया प्रज्ञापारमितामननता । सर्वधर्मास्तम्भिततया प्रज्ञापारमितास्तम्भितता । सवधर्मैकरसतया प्रज्ञापारमितैकरसता । सर्वधर्मापर्यन्ततया प्रज्ञापारमितापर्यन्तता । सर्वधर्मानुत्पादतया प्रज्ञापारमितानुत्पादता । सर्वधर्मानिरोधतया प्रज्ञापारमितानिरोधता । गगनापर्यन्ततया प्रज्ञापारमितापर्यन्तता । समुद्रापर्यन्ततया प्रज्ञापारमितापर्यन्तता । मेरुविचित्रतया प्रज्ञापारमिताविचित्रता । गगनाकल्पनतया प्रज्ञापारमिताकल्पनता । रूपापर्यन्ततया प्रज्ञापारमितापर्यन्तता । एवं वेदना संज्ञा संस्काराः । विज्ञानापर्यन्ततया प्रज्ञापारमितापर्यन्तता । पृथिवीधात्वपर्यन्ततता प्रज्ञापारमितापर्यन्तता । एवमब्धातुतेजोधातुवायुधात्वाकाशधात्वपर्यन्ततया प्रज्ञापारमितापर्यन्तता । विज्ञानधात्वपर्यन्ततया प्रज्ञापारमितापर्यन्तता । वज्रोपमधर्मसमतया प्रज्ञापारमितासमता । सर्वधर्मासंभेदनतया प्रज्ञापारमितासंभेदनता । सर्वधर्मानुपलब्धितया प्रज्ञापारमितानुपलब्धिता । सर्वधर्माभिभावनासमतया प्रज्ञापारमिताभिभावनासमता । सर्वधर्मनिश्चेष्टतया प्रज्ञापारमितानिश्चेष्टता । सर्वधर्माचिन्त्यतया प्रज्ञापारमिताचिन्त्यता वेदितव्येति ॥ अथ खलु सदाप्ररुदितस्य बोधिसत्त्वस्य महासत्त्वस्य तथानिषण्णस्यैव तस्यां बेलायां सर्वधर्मसमता नाम समाधिराजो जातः । यतः सर्वधर्मविविक्तश्च नाम समाधिः, सर्वधर्माचलनश्च नाम समाधिः, सर्वधर्मामननश्च नाम समाधिः, सर्वधर्मास्तम्भितश्च नाम समाधिः, सर्वधर्मैकरसश्च नाम समाधिः, सर्वधर्मापर्यन्तश्च नाम समाधि, सर्वधर्मानुत्पादश्च नाम समाधिः, सर्वधर्मानिरोधश्च नाम समाधिः, गगनापर्यतश्च नाम समाधिः, समुद्रापर्यन्तश्च नाम समाधिः, मेरुविचित्रश्च नाम समाधिः, गगनाकल्पश्च नाम समाधिः, रूपापर्यन्तश्च नाम समाधिः । एवं वेदना संज्ञा संस्काराः । विज्ञानापर्यन्तश्च नाम समाधिः, पृथिवीधात्वपर्यन्तश्व नाम समाधिः, एवमब्धातुतेजोधातुवायुधात्वाकाशधात्वपर्यन्तश्च नाम समाधिः, विज्ञानधात्वपर्यन्तश्च नाम समाधिः, वज्रोपमश्च नाम समाधिः, सर्वधर्मासंभेदश्च नाम समाधिः, सर्वधर्मानुपलब्धिश्च नाम समाधिः, सर्वधर्माविभावनासमता च नाम समाधिः, सर्वधर्मनिश्चेष्टश्च नाम समाधिः, सर्वधर्माचिन्त्यश्च नाम समाधिः । एवंप्रमुखानि षष्टिः समाधिमुखशतसहस्राणि सदाप्ररुदितेन बोधिसत्त्वेन महासत्त्वेन प्रतिलब्धान्यभूवन्निति ॥ आर्याष्टसाहस्रिकायां प्रज्ञापारमितायां धर्मोद्गतपरिवर्तो नामैकत्रिंशत्तमः ॥ _______________________________________________________________ (वैद्य २६०) ३२: परीन्दनापरिवर्तो द्वात्रिंशत्तमः । सहप्रतिलब्धानां च सुभूते षष्ट्याः समाधिमुखशतसहस्राणां सदाप्ररुदितो बोधिसत्त्वो महासत्त्वः पूर्वस्यां दिशि, दक्षिणस्यां पश्चिमायामुत्तरस्यां दिशि, विदिक्षु अध ऊर्ध्वं च दिशि दशसु दिक्षु गङ्गानदीवालुकोपमेषु त्रिसाहस्रमहासाहस्रेषु लोकधातुषु गङ्गानदीवालुकोपमान् बुद्धान् भगवतः पश्यति स्म भिक्षुसंघपरिवृतान् बोधिसत्त्वगुणपुरस्कृतानेतैरेव नयैरेभिरेव नामभिरेतैरेवाक्षरैरिमामेव प्रज्ञापारमितां भाषमाणान् । तद्यथापि नाम अहमेतर्हि अस्मिन्नेव त्रिसाहस्रमहासाहस्रे लोकधातौ धर्मं देशयामि भिक्षुसंघपरिवृतो बोधिसत्त्वगणपुरस्कृतः, एभिरेव नयैरेभिरेव नामभिरेभिरेवाक्षरैरिमामेव प्रज्ञापारमितां भाषे । सोऽचिन्त्येन बाहुश्रुत्येन श्रुतसागरतया च समन्वागतोऽभूत्, सर्वासु च जातिषु न जातु बुद्धविरहितोऽभूत् । यत्र यत्र बुद्धा भगवन्तः संमुखीभूता भवन्ति, तत्र तत्रोपपद्यते स्म । अविरहितश्च भवति स्म बुद्धैर्भगवद्भिः, अन्ततः स्वप्नान्तरगतोऽपि । सर्वे च अनेन अक्षणा विवर्जिताः, क्षणसंपच्चारागिता ॥ तत्र खलु पुनर्भगवानायुष्मन्तमानन्दमामन्त्रयते स्म - तदनेनापि ते आनन्द पर्यायेण एवं वेदितव्यम् - इत्यपीयं प्रज्ञापारमिता बोधिसत्त्वानां महासत्त्वानां सर्वज्ञज्ञानस्याहारिकेति । तस्मात्तर्हि आनन्द बोधिसत्त्वैर्महासत्त्वैः सर्वज्ञज्ञानं प्रतिलब्धुकामैरस्यां प्रज्ञापारमितायां चरितव्यम् । इयं प्रज्ञापारमिता श्रोतव्या उद्ग्रहीतव्या धारयितव्या वाचयितव्या पर्यवाप्तव्या प्रवर्तयितव्या देशयितव्योपदेष्टव्योद्देष्टव्या स्वाध्यातव्या लिखितव्या । तथागताधिष्ठानेन महापुस्तके प्रव्यक्तप्रव्यक्तैरक्षरैः सुलिखितां कृत्वा सत्कर्तव्या गुरुकर्तव्या मानयितव्या पूजयितव्या अर्चयितव्या अपचायितव्या पुष्पैर्धूपैर्गन्धैर्माल्यैर्विलेपनैश्चूर्णैश्चीवरैर्वाद्यैर्वस्त्रैश्छत्रैर्ध्वजैर्घण्टाभिः पताकाभिः, समन्ताच्च दीपमालाभिः, बहुविधाभिश्च पूजाभिः । इयमस्माकमन्तिकादानन्द अनुशासनी । तत्कस्य हेतोः? अत्र हि प्रज्ञापारमितायां सर्वज्ञज्ञानपरिनिष्पत्तिर्भविष्यति । तत्किं मन्यसे आनन्द शास्ता ते तथागतः? आनन्द आह - शास्ता मे भगवन्, शास्ता मे सुगत । एवमुक्ते भगवानायुष्मन्तमानन्दमेतदवोचत्- शास्ता ते आनन्द तथागतः । परिचरितोऽस्म्यानन्द त्वया मैत्रेण कायकर्मणा मनआपेन, मैत्रेण वाक्कर्मणा मनआपेन, मैत्रेण मनःकर्मणा मनआपेन । तस्मात्तर्हि आनन्द यथैव त्वया ममैतर्हि तिष्ठतो ध्रियमाणस्य यापयतोऽस्मिन् समुच्छ्रये प्रेम च प्रसादश्च गौरवं च कृतम्, तथैव त्वया आनन्द ममात्ययादस्यां प्रज्ञापारमितायां कर्तव्यम् । द्विरपि त्रिरपि ते आनन्द परीन्दामि अनुपरीन्दामि एनां प्रज्ञापारमिताम्, यथेयं नान्तर्धीयेत, यथा नास्यां त्वमन्यः पुरुषः स्याः । यावदानन्द इयं प्रज्ञापारमिता लोके प्रचरिष्यति, तावत्तथागतस्तिष्ठतीति वेदितव्यम् । तावत्तथागतो धर्मं देशयतीति वेदितव्यम् । अविरहितास्ते आनन्द सत्त्वा बुद्धदर्शनेन धर्मश्रवणेन संघोपस्थानेन च वेदितव्यम् । तथागतान्तिकावचरास्ते आनन्द सत्त्वा वेदितव्याः, य एनां प्रज्ञापारमित (वैद्य २६१) श्रोष्यन्त्युद्ग्रहीष्यन्ति धारयिष्यन्ति वाचयिष्यन्ति पर्यवाप्स्यन्ति प्रवर्तयिष्यन्ति देशयिष्यन्त्युपदेक्ष्यन्त्युद्देक्ष्यन्ति स्वाध्यास्यन्ति लिखिष्यन्ति सत्करिष्यन्ति गुरुकरिष्यन्ति मानयिष्यन्ति पूजयिष्यन्त्यर्चयिष्यन्त्यपचायिष्यन्ति पुष्पधूपगन्धमाल्यविलेपनचूर्णचीवरच्छत्रध्वजघण्टापताकाभिः, समन्ताच्च दीपमालाभिः, बहुविधाभिश्च पूजाभिरिति ॥ इदमवोचद्भगवानात्तमनाः । ते च मैत्रेयप्रमुखा बोधिसत्त्वा महासत्त्वाः आयुष्मांश्च सुभूतिरायुष्मांश्च शारिपुत्रः आयुष्मांश्चानन्दः शक्रश्च देवानामिन्द्रः सदेवमानुषासुरगरुडगन्धर्वश्च लोको भगवतो भाषितमभ्यनन्दन्निति ॥ आर्याष्टसाहस्रिकायां प्रज्ञापारमितायां परीन्दनापरिवर्तो नाम द्वात्रिंशत्तमः ॥ समाप्ता चेयं भगवत्या आर्याष्टसाहस्रिकायाः प्रज्ञापारमिता सर्वतथागतजननी बोधिसत्त्वप्रत्येकजिनश्रावकाणां माता, धर्ममुद्रा धर्मोल्का धर्मनाभिर्धर्मभेरी धर्मनेत्री धर्मरत्ननिधानमक्षयो धर्मः अचिन्त्याद्भुतदर्शननक्षत्रमाला सदेवमानुषासुरगन्धर्वलोकवन्दिता सर्वसुखहेतुरिति ॥ प्रज्ञापारमितां सम्यगुद्गृह्य पर्यवाप्य च धारयित्वा प्रवर्त्य एनां विहरन्तु सदार्थिन इति ॥ ये धर्मा हेतुप्रभावा हेतुस्तेषां तथागतो ह्यवदत् । तेषां च यो निरोध एवंवादी महाश्रमणः ॥ देयधर्मोऽयं प्रवरमहायानयायिन्याः परमोपासिकसौराज्रसुतलक्ष्मीधरस्य । यदत्र पुण्यं तद्भवत्वाचार्योपाध्यायमातापितृपूर्वंगमं कृत्वा सकलसत्त्वराशेरनुत्तरज्ञानावाप्तये इति ॥