अष्टादशसाहस्रिका प्रज्ञापारमिता, परिवर्त ५५ - ७० परिवर्त ५५ । [f । २१५ ] अथ भगवानयुष्मन्तं सुभूतिमेतदवोचत्: सचेत्पुनः सुभूते बोधिसत्त्वो महासत्त्वः स्वप्नान्तरगतोऽपि श्रावकभूमये वा प्रत्येकबुद्धभूमये वा त्रैधातुकाय वा न स्पृहयते, न अनुशम्साचित्तमुत्पादयति, स्वप्नोपमानेव सर्वधर्मन् व्यवलोकयति, प्रतिश्रुत्कोपमान् यावन्निर्मितोपमानेव सर्वधर्मान् व्यवलोकयति, न च साक्षात्करोति । इदं सुभूते अवैवर्तिकस्य बोधिसत्त्वस्य महासत्त्वस्यावैवर्तिकलक्षणं वेदितव्यम् । पुनरपरं सुभूते सचेद्बोधिसत्त्वो महासत्त्वः स्वप्नान्तरगतोऽप्यनेकशतपरिवारमनेकसहस्रपरिवारमनेकशतसहस्रपरिवारमनेककोटीपरिवारमनेककोटीसहस्रपरिवारमनेककोटीशतसहस्रपरिवारमनेककोटीनियुतशतसहस्रपरिवारं भिक्षुभिक्षुण्युपासकोपासिकाभिर्देवनागयक्षगन्धर्वासुरगरुडकिन्नरमहोरगैः परिवृतं पुरस्कृतं तथागतमर्हन्तं सम्यक्संबुद्धं धर्मन् देशयन्तं पश्यति, स तन् धर्मं श्रुत्वा तस्य धर्मस्य अर्थमाज्ञास्यामि इति इति, धर्मानुधर्मप्रतिपन्नो विहरति, सामीचीप्रतिपन्नोऽनुधर्मचारी । इदमपि सुभूते अवैवर्तिकस्य बोधिसत्त्वस्य महासत्त्वस्यैव अवैवर्कलक्षणं वेदितव्यम् । पुनरपरं सुभूते बोधिसत्त्वो महासत्त्वः स्वप्नान्तरगतोऽपि तथागतमर्हन्तं सम्यक्संबुद्धं पश्यति, वैहायसमभ्युद्गम्य भिक्षुसंघाय धर्मं देशयन्तं द्वात्रिंशता महापुरुषलक्षणैः (अद्स्प्गि ४) समन्वागतं व्यामप्रभामृद्धिप्रातिहार्याणि सन्दर्शयन्तं निर्मितानि च निर्मिमाणं यानि निर्मितान्यन्येषु लोकधातुषु बुद्धकर्याणि कुर्वन्ति । इदमपि सुभूते अवैवर्तिकस्य बोधिसत्त्वस्य महासत्त्वस्य अवैवर्तिकलक्षणं वेदितव्यम् । पुनरपरं सुभूते सचेत्स्वप्नान्तरगतो बोधिसत्त्वो महासत्त्वो नोत्त्रस्यति न सन्त्रस्यति न सन्त्रासमापद्यते, ग्रामघाते वा वर्तमाने नगरघाते वा वर्तमाने अग्निदाहे वा वर्तमाने, व्यादमृगान् वा दृष्ट्वा तदन्यानि वा चाण्डालमृगजातानि दृष्ट्वा, शिर्षच्छेदं वा प्रत्युपस्थितं दृष्ट्वा, यान् वा तदन्यां भयभैरवां संत्रासां दृष्ट्वा, दुःखदौर्मनस्योपायासां दृष्ट्वा, जिघत्सितं वा पिपासितं वा दृष्ट्वा, मातृमरणं वा पितृमरणं वा भ्रातृमरणं वा भगिनीमरणं वा दृष्ट्वा, मित्रज्ञातिसालोहितमरणं वा दृष्ट्वा न शोकभयै भैरवः संत्रास उत्पाद्यते । ततश्च स्वप्नात्समनन्तरप्रतिविबुद्धस्य सत एवं भवति: स्वप्नोपमं वतेदं सर्वत्रैधातुकं, मयाप्यनुत्तरां सम्यक्संबोधिमभिसंबुध्य स्वप्नोपमाः सर्वत्रैधातुकधर्मा देशयितव्याः । इदमपि सुभूते अवैवर्तिकस्य बोधिसत्त्वस्य महासत्त्वस्य अवैवर्तिकलक्षणं वेदितव्यम् । पुनरपरं सुभूते कथं विज्ञायते, यदवैवर्तिकस्य बोधिसत्त्वस्य महासत्त्वस्य अनुत्तरां सम्यक्संबोधिमभिसंबुद्धस्य तत्र बुद्धक्षेत्रे सर्वेण सर्वं सर्वथा सर्वं त्रयोऽपाया न भविष्यन्ति? सचेत्स्वप्नान्तरगतोऽपि बोधिसत्त्वो [f । २१६ ?] महासत्त्वो नैरयिकान् वा सत्त्वान् दृष्ट्वा तिर्यग्योनिकान् वा सत्त्वान् दृष्ट्वा यमलौकिकान् वा सत्त्वान् दृष्ट्वा एवं स्मृतिं प्रतिलभते, स्मृतिप्रतिलब्धस्यैवं भवति तथा करिष्यामि तथा प्रतिपत्स्ये यथा मेऽनुत्तरां सम्यक्संबोधिमभिसंबुद्धस्य तत्र बुद्धक्षेत्रे (अद्स्प्गि ५) सर्वेण सर्वं सर्वथा सर्वं त्रयोऽपाया न भविष्यन्ति, तत्कस्य हेतोस्? तथा हि यश्च स्वप्नो यश्च स्वप्नान्तः सर्वमेतदद्वयमद्वैधीकारम् । इदमपि सुभूते अवैवर्तिकस्य बोधिसत्त्वस्य महासत्त्वस्य अवैवर्तिकलक्षणं वेदितव्यम् । पुनरपरं सुभूते सचेद्बोधिसत्त्वो महासत्त्वः स्वप्नान्तरगतो वा विबुद्धो वा नगरदाहे वा वर्तमाने एवं समन्वाहरति: ये मया स्वप्नानतरगतेन वा विबुद्धेन वा आकारा यानि लिङ्गानि यानि निमित्तानि दृष्टानि, यैराकारैर्यैर्लिङ्गैर्यैर्निमित्तैः समन्वागतो बोधिसत्त्वो महासत्त्वोऽवैवर्तिको वेदितव्यः, सचेत्मे ते आकारास्तानि लिङ्गानि तानि निमित्तानि संविद्यन्ते, अनेन सत्येन सत्यवचनेन अयं नगरदाह उपशाम्यतु शीतीभवत्वस्तं गच्छतु, सचेत्प्रतिशाम्यति शीतीभवत्यस्तं गच्छति, वेदितव्यं सुभूते, व्याकृतोऽयं बोधिसत्त्वो महासत्त्वोऽनुत्तरायाः सम्यक्संबोधेरवैवर्तिकतायाम् । सचेत्पुनः सुभूते सोऽग्निस्कन्धस्तत्सत्यवचनमतिक्रम्य गृहाद्गृहं दहत्य्, रथ्याया रथ्यायां दहत्य्, अन्यानि गृहानि दहत्यन्यानि गृहानि न दहत्य्, अन्याः रथ्या दहत्यन्याः रथ्या न दहति, वेदितव्यं सुभूते तेन बोधिसत्त्वेन महासत्त्वेन धर्मप्रत्याख्यानसंवर्तनीयमेभिः सत्त्वैः कर्मोपचितं येनैषां सत्त्वानामेकत्यानि गृहानि दह्यन्त एकत्यानि गृहानि न दह्यन्ते । तेषामेतद्दृष्टधार्मिकं कर्म विपच्यते । तत एवैतद्धर्मप्रत्याख्यानात्सावशेषं कर्म विपच्यते । अयं सुभूते हेतुरयं प्रत्यय अवैवर्तिकस्य बोधिसत्त्वस्य महासत्त्वस्य, यैर्हेतुभिर्यैः प्रत्ययैरवैवर्तिको बोधिसत्त्वो महासत्त्वो वेदितव्यः । पुनरपरं सुभूते यैराकारैर्यैर्लिङ्गैर्यैर्निमित्तैरवैवर्तिको बोधिसत्त्वो महासत्त्वो वेदितव्यः, तान्य्(अद्स्प्गि ६) आकारास्तानि लिङ्गानि तनि निमित्तानि देशयिष्यामि । सचेत्सुभूते काचिदेव स्त्री वा पुरुषो वा अमनुष्येण अधिष्ठितो भवेत्, तत्र बोधिसत्त्वेन महासत्त्वेनैवं समन्वाहर्तव्यं: सचेदहं व्याकृतस्तैः पौर्वकैस्तथागतैरर्हद्भिः सम्यक्संबुद्धैरनुत्तरायां सम्यक्संबोधौ परिसम्यक्संबुद्धैरनुत्तरायां सम्यक्संबोधौ परिशुद्धो मेऽध्याशयो यथा अहमनुत्तरां सम्यक्संबोधिमभिसंबोद्धुकामो यथा अहमनुत्तरां सम्यक्संबोधिमभिसंबोद्धुकामो यथा अहमनुत्तरां सम्यक्संबोधिमभिसंभोत्स्ये परिशुद्धश्च मे मनसिकारोऽनुत्तरायां सम्यक्संबोधौ, अपगतं मे श्रावकचित्तमपगतं मे प्रत्येकबुद्धचित्तम्, अपगतश्रावाकप्रत्येकबुद्धचित्तेन अनुत्तरा सम्यक्संबोधिरभिसंबोद्धव्या, न अहं न अनुत्तरां सम्यक्संबोधिमभिसंभोत्स्ये, अभिसंभोत्स्य एव अहमनुत्तरां सम्यक्संबोधिम् । ये तेऽपि ते असंख्येयाप्रमेयेषु लोकधातुषु बुद्धा भगवन्तस्तिष्ठन्ति धृयन्ते यापयन्ति धर्मञ्च देशयन्ति, न तेषां तथागतानामर्हतां सम्यक्संबुद्धानां किंचिदज्ञातमदृष्टमविदितमसाक्षात्कृतमनभिसंबुद्धम् । यथा मे ते बुद्धा भगवन्तो जानन्त्याशयमिति हि [f । २१६ ] अहमनुत्तरां सम्यक्संबोधिमभिसंभोत्स्ये । अनेन सत्येन सत्यवचनेन इयं स्त्री वा पुरुषो वा येन अमनुष्येण गृहीतो वा विहेठितो वा सोऽमनुष्योऽपक्रामतु । सचेत्सुभूते सोऽमनुष्यस्ततो न अपक्रामति, तस्य बोधिसत्त्वस्य महासत्त्वस्यैवं भाषमाणस्य, वेदितव्यं सुभूते न अयं बोधिसत्त्वो महासत्त्वो व्याकृतस्तैः पौर्वकैस्तथागतैरर्हद्भिः सम्यक्संबुद्धैरनुत्तरायां सम्यक्संबोधौ । सचेत्(अद्स्प्गि ७) पुनः सुभूते बोधिसत्त्वस्य महासत्त्वस्यैवं भाषमाणस्य सोऽमनुष्यभूतोऽपक्रामति, वेदितव्यं सुभूते व्याकृतो वतायं बोधिसत्त्वो महासत्त्वस्तैः पौर्वकैस्तथागतैरर्हद्भिः सम्यक्संबुद्धैरनुत्तरस्यां सम्यक्संबोधौ । एभिः सुभूते आकारैरेभि लिङ्गैरेभि निमित्तैः समन्वागतो बोधिसत्त्वो महासत्त्वः अवैवर्तिको वेदितव्यः । पुनरपरं सुभूते बोधिसत्त्वस्य महासत्त्वस्य षट्सु पारमितास्वचरितस्य, उपायकौशलविरहितस्य, अचरिताविनश्चतुर्षु स्मृत्युपस्थानेषु यावच्छून्यतानिमित्ताप्रणिहितेषु विमोक्षमुखेषु, बोधिसत्त्वन्याममनवक्रान्तस्य सत्याधिष्ठानेन मारः पापीयानुपसंक्रमिष्यति । सचेत्सुभूते बोधिसत्त्वो महासत्त्वः सत्याधिष्ठानं करिष्यति: येन सत्येन सत्यवचनेन अहं व्याकृतोऽनुत्तरस्यां सम्यक्संबोधौ तैः पौर्वकैस्तथागतैरर्हद्भिः सम्यक्संबुद्धैः, अनेन सत्येन सत्यवचनेन अयममनुष्यभूतोऽपक्रामतु । तत्र मारः पापीयानौत्सुक्यमापत्स्यते, किमित्ययममनुष्यभूतोऽपक्रामेत् । तत कस्य हेतोस्? तथा हि मारः पापीयान् बलवत्तरं च तेजोवत्तरं च तत्र औत्सुक्यमापत्स्यते, कथमयममनुष्य इतोऽपक्रामेदिति । एवं स मार अधिष्ठानेन ततोऽपक्रमिष्यति । एवं च तस्य बोधिसत्त्वस्य महासत्त्वस्य भविष्यति: ममैषोऽनुभावेन अमनुष्योऽपक्रान्तो । न पुनरेवं ज्ञास्यति: मारानुभावेनैषोऽमनुष्योऽपक्रान्त इति । स तेन अन्यान् बोधिसत्त्वान्महासत्त्वानवमंस्यते उल्लपिष्यति उच्चग्घिष्यति कुत्सयिष्यति पंसयिष्यत्य्: अहं व्याकृतोऽनुत्तरस्यां सम्यक्संबोधौ तैः पौर्वकैस्तथागतैरर्हद्भिः सम्यक्संबुद्धैर्, एते पुनरन्ये न व्याकृता अनुत्तरस्यां सम्यक्संबोधौ, (अद्स्प्गि ८) स तावन्मात्रकेण मानं वर्धयिष्यति मानमुत्पादयिष्यति, दूरीकरिष्यति सर्वाकारज्ञतां दूरीकरिष्यत्यनुत्तरं बुद्धज्ञानम् । स तथारूपो सत्त्वस्तावता अनुपायकुशलोऽधिमानमुत्पादयिष्यति, तस्य द्वे भूमी प्रतिकाङ्क्षितव्ये । कतमे द्वे भूमी? यदुत श्रावकभूमिर्वा प्रत्येकबुद्धभूमिर्वा । एवं सत्याधिष्ठानेन तस्य बोधिसत्त्वस्य महासत्त्वस्य मारकर्मोत्पत्स्यते । तत्र कल्याणमित्राणि न सेविष्यति न प्रतिसेविष्यति न भक्षिष्यति न पर्युपासिष्यते । तदेव मारबन्धनं गाढीकरिष्यति । तत्कस्य हेतोस्? तथापि च षट्पारमितास्वचरित्वातुपायकौशलेन च अपरिगृहीतत्वात् । एवमपि सुभूते बोधिसत्त्वेन महासत्त्वेन मारकर्म वेदितव्यम् । कथं च सुभूते बोधिसत्त्वं षट्पारमितास्वचरिताविनं यावदनवक्रान्तन्यामं नामाधिष्ठानेन मारः पापीयानुपसंक्रमिष्यति? इह सुभूते मारः पापीयानन्यतरान्यतरेण वेषेणोपसंक्रम्य बोधिसत्त्वमेवं वक्ष्यति: व्याकृतस्त्वं कुलपुत्र तथागतेन अर्हता सम्यक्संबुद्धेन अनुत्तरस्यां सम्यक्संबोधौ [f । २१७ ?] इदन् ते नामधेयमिदन् ते मातुर्नामधेयमिदन् ते पितुर्नामधेयमिदन् ते भ्रातुर्नामधेयमिदन् ते भगिन्या नामधेयमिमानि ते मित्रामात्यज्ञातिसालोहितानां नामधेयानि । यावदा सप्तमस्य मातापितृयुगस्य नामधेयमुपदेक्ष्यत्य्, अमुष्मात्त्वं जनपदादमुष्या दिशोऽमुष्मिं त्वं जनपदे जातोऽमुष्मिं नगरे वा ग्रामे वा । स सचेत्प्रकृत्या मृदुको भविष्यति, स एनमेवं वक्ष्यति: पूर्वान्ततोऽपि त्वमेवं मृदुकोऽभूः । सचेत्तीक्ष्णो भविष्यति, स एनमेवं वक्ष्यति: पूर्वान्ततोऽपि त्वमेवं तीक्ष्णोऽभूः । सचेदारण्यको भविष्यति सचेत्पिण्डपातिको भविष्यति (अद्स्प्गि ९) सचेत्पांसुकूलिको भविष्यति सचेत्खलु पश्चाद्भक्तिको भविष्यति सचेदेकासनिको भविष्यति सचेत्प्राप्तपिण्डिको भविष्यति सचेच्च्छ्माशानिको भविष्यति सचेदाभ्यवकाशिको भविष्यति सचेत्वृक्षमूलिको भविष्यति सचेन्नैषद्यिको भविष्यति सचेद्याथासंस्तरिको भविष्यति सचेत्त्रैचीवरिको भविष्यति सचेदल्पेच्छः सचेत्संतुष्टः सचेत्प्रविविक्तः यावत्प्रज्ञः सचेदपगतपादम्रक्षणः सचेन्मन्दभाष्यो भविषति, स एनमेवं वक्ष्यति: पूर्वान्ततोऽपि त्वं मन्दभाष्योऽभूः । सचेन्मन्दमन्त्रो भविष्यति, स एनमेवं वक्ष्यति: पूर्वान्ततोऽपि त्वं मन्दमन्त्रोऽभूः । तत्कस्य हेतोस्? तथा हि ते इमे एवंरूपा धुतगुणाः संविद्यन्ते, निश्चयेन ते पूर्वान्ततोऽप्येत एव धुतगुणसंलेखा अभूवन्, सोऽप्यनेन पौर्वकेण नामापदेशेन गोत्रापदेशेन अनेन च प्रत्युत्पन्नेन धुतगुणसंलेखापदेशेन मननामुत्पादयिष्यति । तमेनं मारः पापीयान् संमूढमिति विदित्वा उपसंक्रयैवं वक्ष्यति: व्याकृतस्त्वं कुलपुत्र तथागतेन अर्हता सम्यक्संबुद्धेन अनुत्तरस्याः सम्यक्संबोधेरवैवर्तिकतायाम् । तथा ते गुणाः संविद्यन्ते । स कदाचिद्भिक्षुवेषेणोपसंक्रमिष्यति, स कदाचिद्भिक्षुणीवेषेण कदाचिद्गृहपतिवेषेण कदाचिन्मातृवेषेण कदाचित्पितृवेषेणोपसंक्रम्य एवं वक्ष्यति: व्याकृतस्त्वं कुलपुत्र तथागतेन अर्हता सम्यक्संबुद्धेन अनुत्तरस्यां सम्यक्संबोधौ । तत्कस्य हेतोस्? तथा हि तवैते गुणाः संविद्यन्ते, ये अवैवर्तिकानां बोधिसत्त्वानां महासत्त्वानाम् । ये च ते मया सुभूते अवैवर्तिकानां बोधिसत्त्वानां महासत्त्वानामाकारा लिङ्गानि निमित्तान्याख्यातानि तानि तस्य बोधिसत्त्वस्य न (अद्स्प्गि १०) संविद्यन्ते । वेदितव्यं सुभूते तदन्यैर्बोधिसत्त्वैर्महासत्त्वैर्माराधिष्ठितो वतायं बोधिसत्त्वः । तत्कस्य हेतोस्? तथा हि सुभूते यान्याकारा लिङ्गानि निमित्तान्यवैवर्तिकस्य बोधिसत्त्वस्य महासत्त्वस्य तानि तस्य न संविद्यन्ते । अनेन च नामापदेशेन तदन्यान् बोधिसत्त्वान्महासत्त्वानतिमंस्यते उच्चग्घिष्यत्युल्लपिष्यति कुत्सयिष्यति पंसयिष्यति । इदमपि सुभूते नामाधिष्ठानेन बोधिसत्त्वेन महासत्त्वेन मारकर्म वेदितव्यम् । पुनरपरं सुभूते नामाधिष्ठानेन बोधिसत्त्वेन महासत्त्वेन मारकर्म वेदितव्यम् । तत्कस्य हेतोस्? तथा हि सुभूते बोधिसत्त्वः षट्सु पारमितास्वचरितावी स्कन्धमारं न जानाति, रूपं न जानाति, वेदनासंज्ञासंस्कारान् विज्ञनं न जानाति । [f । २१७ ?] तं च मारः पापीयान्नामाधिष्ठानेन व्याकरिष्यति: यावदनुत्तरां सम्यक्संबोधिमभिसंबुद्धस्येति इदं नाम भविष्यति इति । यदि च तेन बोधिसत्त्वेन नामधेयमनुवितर्कितमनुविचिन्तितमनुविचारितं भविष्यति, तत्र दुष्प्रज्ञजातीयस्य बोधिसत्त्वस्य अनुपायकुशलस्यैवं भविष्यति: यत्तन्मया नामधेयं मनसा अनुवितर्कितमनुविन्चिन्तितमनुविचारितम्, इदं मेऽनुत्तरां सम्यक्संबोधिमभिसंबुद्धस्य नामधेयं भविष्यति । यथा यथा मारः पापीयान्निर्देक्ष्यति, मारकायिका देवता माराधिष्ठितो वा भिक्षुस्, तथा तथास्यैवं भविष्यति: यथा च मे चित्तोत्पाद उत्पन्नो, यथा च मे नामधेयमनेन भिक्षुणा निर्दिष्टं समेति नाम नाम्ना अहन् तेन तथागतेन अर्हता सम्यक्संबुद्धेन व्याकृतोऽनुत्तरस्यां सम्यक्संबोधाविति । ये च ते मया सुभूते अवैवर्तिकस्य बोधिसत्त्वस्य (अद्स्प्गि ११) महासत्त्वस्य आकार लिङ्गानि निमित्तान्याख्यातानि तानि तस्य बोधिसत्त्वस्य न संविद्यन्ते । तेन चासौ नाम्ना तेन च व्याकरणापदेशेन अन्यान् बोधिसत्त्वान्महासत्त्वानतिमंस्यते । स तया अतिमननतया दूरिभविष्यत्यनुत्तरस्याः सम्यक्संबोधेः । तस्योपायकौशलविरहितस्य प्रज्ञापारमिताविरहितस्य कल्याणमित्रविरहितस्य पापमित्रपरिगृहीतस्य द्वे भूमी प्रतिकाङ्क्षितव्ये, यदुत श्रावकभूमिर्वा प्रत्येकबुद्धभूमिर्वा, अथ वा चिरं सुचिरं संधाव्य संसृत्य कल्याणमित्राणि सेवित्वा भजित्वा पर्युपास्य इमामेव प्रज्ञापारमितामागम्य अनुत्तरां सम्यक्संबोधिमभिसंभोत्स्यते । सचेत्पुनः सुभूते बोधिसत्त्वः कल्याणमित्राणि न अभीक्ष्णं लप्स्यते दर्शनाय वन्दनाय पर्युपासनाय, सचेत्तेनैव च आत्मभावप्रतिलंभेन तान् पौर्विकांश्चित्तोत्पादान्न विगर्हिष्यति न प्रतिदेशयिष्यति, तस्य द्वे भूमी प्रतिकाङ्क्षितव्ये, यदुत श्रावकभूमिर्वा प्रत्येकबुद्धभूमिर्या । तद्यथापि नाम सुभूते श्रावकयानीयो भिक्षुश्चतसृणां मूलापत्तीनामन्यतरान्यतरामापत्तिमध्यापद्य अभिक्षुर्भवत्यश्रमणो भवत्यशाक्यपुत्रीयः सोऽभव्यस्तेनैव आत्मभावेन चतुर्णां श्रामण्यफलानामन्यतरान्यतरञ्च्छ्रामण्यफलमनुप्राप्तुम् । एवमेव सुभूते गुरुतरोऽयं चित्तोत्पादो यो नामापदेशेन बोधिसत्त्वस्य मन्यनासहगतश्चित्तोत्पाद उत्पन्नस्, तेन च नामधेय मात्रेण अन्यान् बोधिसत्त्वान्महासत्त्वान् विमंस्यते अवमंस्यते अतिमंस्यते अयन् तेन गुरुतरश्चित्तोत्पादो वेदितव्यः । (अद्स्प्गि १२) इति हि सुभूते इमानि नामव्यपदेशेन उत्पत्स्यन्ते मारकर्माणि सूक्ष्माणि । तिष्ठन्तु सुभूते चतस्रो गुरुका मूलापत्तयः । पञ्चभ्यः आनन्तर्येभ्यो गुरुतरोऽयं चित्तोत्पादः योऽयं बोधिसत्त्वस्य नामापदेशेन मन्यनासहगतश्चित्तोत्पाद उत्पन्नः । अयन् तेन गुरुतरश्चित्तोत्पादो वेदितव्यः । पुनरपरं सुभूते विवेकगुणापदेशेन बोधिसत्त्वं महासत्त्वं मारः पापीयानुपसंक्रमिष्यत्युपसंक्रम्यैवं वक्ष्यति: विवेकस्य तथागतो [f । २१८ ?] वर्णवादी न च अहं सुभूते एवं विवेकं वदामि बोधिसत्त्वस्य महासत्त्वस्य यदुत आरण्यानि वनप्रस्थानि प्रान्तानि शय्यासनानि । आह: कः पुनर्भगवं बोधिसत्त्वस्य महासत्त्वस्य अन्यो विवेको यदि न आरण्यानि वनप्रस्थानि प्रान्तानि शय्यासनानि कीदृग्रूपः स भगवन्नन्यो विवेको बोधिसत्त्वस्य महासत्त्वस्य? भगवानाह: सचेत्सुभूते बोधिसत्त्वो महासत्त्वो विविक्तो भवति श्रावकप्रत्येकबुद्धप्रतिसंयुक्तैर्मनसिकारैर्विविक्तो भवति बोधिसत्त्वो महासत्त्वः आरण्येषु वनप्रस्थेषु प्रान्तेषु शय्यासनेषु विहरति विविक्त एव विहरति बोधिसत्त्वो महासत्त्वः । अयं सुभूते विवेको मया अनुज्ञातो बोधिसत्त्वस्य महासत्त्वस्य अनेन चेद्विवेकेन रात्रिं दिवं च विहरति विविक्त एव विहरति बोधिसत्त्वो (अद्स्प्गि १३) महासत्त्वः यश्च मया सुभूते विवेकोऽनुज्ञातो बोधिसत्त्वानां महासत्त्वानां, यं च पुनरेनं मारः पापीयान् विवेकमुपदेक्षत्यारण्येषु वनप्रस्थेषु प्रान्तेषु शय्यासनेषु विहरेत्स तेन विवेकेन संकीर्ण एव सन् श्रावकप्रत्येकबुद्धभूमिप्रतिसंयुक्तैर्मनसिकारैरविरहित प्रज्ञापारमिता अनभिसंयुक्तो सर्वाकारज्ञतां न परिपूरयिष्यति । एवं सोऽनेन विहारेण विहरन्न परिशुद्धमनसिकार एव संस्तदन्यान् बोधिसत्त्वान्महासत्त्वानतिमंस्यते । ये ग्रामान्ते विहरन्ति । परिशुद्धचित्त मनसिकाराः श्रावकचित्तेन असंकीर्णाः प्रत्येकबुद्धचित्तेन असंकीर्णास्तदन्यैर्वा पापकैश्चित्तोत्पादैरसंकीर्णाः ध्यानविमोक्षसमाधिसमापत्तीनामभिज्ञापरिज्ञापरिपूरिं गताः । अथ च पुनः सोऽनुपायकुशलो बोधिसत्त्वः किञ्चापि योजनशतिकेष्वटवीकान्तारेष्वनपगतव्याडमृगपक्षिष्वनपगतचौरचण्डालेष्वनपगतदंष्टृव्याडराक्षसानुविचरितेषु (अद्स्प्गि १४) तत्र मध्यगतः वा संकल्पयति वर्षं वा वर्षशतं वा वर्षसहस्रं वा वर्षशतसहस्रं वा वर्षकोटीं वा वर्षकोटीशतं वा वर्षकोटीसहस्रं व वर्षकोटीशतसहस्रं वा वर्षकोटीनियुतशतसहस्रं वा ततो वोत्तरि इमञ्च विवेकं न जानीयाद्येन विवेकेन बोधिसत्त्वा महासत्त्वा अध्याशयसंप्रस्थिता विहरन्ति, संकीर्ण एव विहरति बोधिसत्त्वो महासत्त्वः, संक्लिष्ठ एव तत्र विवेके निश्रित आलीनोऽध्यवसितोऽइध्यवसितवान्, न मे स तावता चित्तमभिराधयति । यश्च मया विवेक आख्यातो बोधिसत्त्वानां महासत्त्वानां तेन विवेकेन समन्वागतस्तस्मिन्नपि स विवेके न संदृश्यते । तत्कस्य हेतोस्? तथा हि स विरहितस्तेन विवेकेन । तमेनं मारः पापीयानुपसंक्रम्य उपर्यन्तरीक्षे स्थित्वैवं वक्ष्यति: साधु साधु कुलपुत्र एष स भूतो विवेकस्तथागतेन आख्यातः एतेन त्वं विवेकेन विहर । एवं त्वं क्षिप्रमनुत्तरां सम्यक्संबोधिमभिसंभोत्स्यसे । स ततो विवेकात्तं विवेकं प्रधानतमं मान्यमानः पुनरपि ग्रामान्तमवतीर्य तदन्यान् बोधिसत्त्वयानिकान् भिक्षून् परिशुद्धचित्तमनसिकारान् यावत्पेशलान् कल्याणधर्माणोऽवमंस्यते । संकीर्णविहारेणेमे आयुष्मन्तो विहरन्ति, ये ते विविक्तं विहरिष्यन्ति बोधि<सत्त्वा महासत्त्वा>स्[f । २१८ ] ता<न्> संकीर्णविहरिणश्चोदयिष्यत्याकीर्णविहरिणश्चोदयिष्य्<अत्यतिमंस्यते । ये च ते संकीर्णविहरिणो विहरिष्यन्ति, तान् विविक्तविहारेण समुदाचरिष्यति, तत्र च गौरवमुत्पाद>यिष्यति । यत्र च गौरवमुत्पादयितव्यं तत्र मानमुत्पादयिष्यति । तत्कस्य <हेतो? तथा हि स मंस्यते, अहममनुष्यैश्चोद्ये अहममनुष्यैः स्मार्ये । > (अद्स्प्गि १५) <एष सुभूते विहारो येन विहारेण अहं विहरामि । को ग्रामा>न्तविहरिणश्चोदयिष्यति । को ग्रामान्तविहारिण<ः> स्मारयिष्यति? ए<वं स बोधिसत्त्वो बोधिसत्त्वयानिकान् कुलपुत्रानतिमंस्यते । अयं सुभूते पुद्गलो बोधिसत्त्वश्चण्डा>लो वेदितव्यो बोधिसत्त्वदूषी वेदितव्यो बोधिसत्त्वप्रतिवर्णिको वेदितव्यः चौरः सदेवमानुषासुरे लोके चौरो वेदितव्यः । स च पुनः बोधिसत्त्वयानिकैः कुलपुत्रैः कुलदुहितृभिर्वा तादृग्जातीयः <पुद्गलो न सेवितव्यो न भक्षितव्यो न पर्युपासितव्यः । तत्कस्य हेतोर्? आधिमानिका हि सुभूते ते तथारूपाः पु>द्गला वेदितव्य<ः> । यस्य खलु पुनर्बोधिसत्त्वस्य महासत्त्वस्य अपरित्य<क्ता सर्वाकारज्ञता अपरित्यक्ता च अनुत्तरा सम्यक्संबोधिस्, तेन बोधिसत्त्वेन महासत्त्वेन अध्याशयेन अनुत्तरां> सम्यक्संबोधिमभिसंबोद्धुकामेन, सर्वसत्त्वानामर्थं कर्तुकामेन ता<दृग्जातीयाः पुद्गला न सेवितव्या न भजितव्या न पर्युपासितव्याः । अपि तु खलु स्वार्थयोगमनुयुक्तेन> भवितव्यम् । नित्यमुद्विग्नमानसेन । संसारादुत्त्रस्तमानसेन । असं<सृष्टेन त्रैधातुके । तत्रैव च बोधिसत्त्वचण्डालैः मैत्र्युत्पादयितव्या तत्रैव अनुकम्पामुपादाय कारुण्यता उत्पाद>यितव्या । मुदितोपेक्षोत्पादयितव्या । एवं च चित्तमुत्पादयितव्यं, तथा <करिष्यामि यथैते मम दोषाः सर्वथा सर्वं सर्वेण सर्वं न भविष्यन्ति, नोत्पत्स्यन्ते । सचेदुत्पत्स्यन्ते, क्षि>पृष्ठरमेतां प्रहास्यामि इति शिक्षा करणीया । अयं सुभूते बोधिसत्त्वानां महासत्त्वानाम् <स्वयमभिज्ञापराक्रमो वेदितव्यः । पुनरपरं सुभुते> (अद्स्प्गि १६)< बोधिसत्त्वेन महासत्त्वेन अध्याशयेन अनुत्त>रां सम्यक्संबोधिमभिसंबोद्धुकामेन कल्याणमित्राणि सेवितव्यानि <भजितव्यानि> पर्युपा<सितव्यानि । आह: कानि पुनर्भगवन् बोधिसत्त्वानां महासत्त्वानां कल्याणमित्राणि वेदितव्यानि? भगवानाह: बुद्धा> भगवन्तः सुभूते बोधिसत्त्वानां महासत्त्वानां कल्याणमित्राणि <वेदितव्यानि, बोधिसत्त्वा अपि सुभूते महासत्त्वा बोधिसत्त्वानां महासत्त्वानां कल्याणमित्राणि वेदितव्यानि, श्रावका अपि सुभूते> बोधिसत्त्वानां महासत्त्वानां कल्याणमित्राणि वेदितव्य्<आनि, ये च षट्पारमितानाख्यायन्ति देशयन्ति प्रकाशय्>अन्ति । [f । २१९ ] <प्र>स्थ्<आपयन्ति> विवरन्ति <विभजन्ति> उत्ता<नीकुर्वन्ति संप्रकाशयन्ति, इमेऽपि सुभूते बोधि>सत्त्वानां महासत्त्वानां कल्य्<आणमित्राणि वेदितव्यानि । पुनरपरं सुभूते षट्पारमिता बोधिसत्त्वानां महा>सत्त्वानां कल्याणमित्राणि वेदितव्यानि, चत्वारि स्मृत्युपस्थाना<नि यावदष्टादशावेणिका बुद्धधर्मा बोधिसत्त्वानां महासत्त्वानां कल्याणमित्राणि वेदितव्यानि, तथता भूतकोटिर्धर्मधातुर्बोधि>सत्त्वानां महासत्त्वानां कल्याणमित्राणि वेदितव्यानि । पुनरपरं सुभूते षट्पारमिता बोधिसत्त्वानां महासत्त्वानां शास्तारो वेदितव्याः, षट्पारमि<ता मार्गः, षट्पारमिता आलोकः । षट्पार>मिता उल्का अवभासो बुद्धिर्मेधा प्रज्ञा, षट्पारमितास्त्राणं, षट्परमिताः शरणं, षट्पारमिता परायणं, षट्पारमिता माता । चत्वारि <स्मृत्युपस्थानानि यावत्सर्वाकारज्ञता सर्ववासना>नुसन्धि प्रहाणाय संवर्तते । तत्कस्य हेतोः? तथा हि सुभूते येऽपि तेऽभूवन्न् (अद्स्प्गि १७) अतीतेऽध्वनि तथागता अर्हन्तः सम्यक्संबुद्धास्, तेषामपि बुद्धाना<ं भगवतामिम एव बोधिपक्ष्या धर्माः> मातापितरौ भूवन् । येऽपि ते सुभूते भविष्यन्त्यनागतेऽध्वनि तथागता अर्हन्तः सम्यक्संबुद्धास्तेषामपि सुभूते बुद्धानां भगवतामिम ए<व बोधिपक्ष्या धर्माः मातापितरौ भविष्य्>अन्ति । येऽपि ते सुभूते एतर्हि दशसु दिक्षु लोकधातुषु बुद्धा भगवन्तस्तिष्ठन्ति धृयन्ते यापयन्ति धर्मञ्च देशयन्ति, तेषामपि बुद्धा<नां भगवतामिम एव बोधिपक्ष्या ध>र्मा मातापितरौ । तत्कस्य हेतोः? तथा हि सुभूते अतो निइयाता अतीतानागत प्रत्युत्पन्ना बुद्धा भगवन्तस् । तस्मात्तर्हि सुभूते बोधिसत्त्वेन म<हासत्त्वेन अनुत्तरां सम्यक्संबोधिम>भिसंबोद्धुकामेन, बुद्धक्षेत्रं परिशोधयितुकामेन, सत्त्वां परिपाचयितुकामेन, चतुर्भिः संग्रहवस्तुभिः सत्त्वाः संगृहीत<व्याः । कतमैश्चतुर्भिर्? यदुत दानेन प्रियवचने> न अर्थचर्यया समानार्थतया । इममप्यहं सुभूते अर्थवशं संपश्यन्नेवं वदामि: एते बोधिसत्त्वानां महासत्त्वानां शास्तारो मा<तापितरौ लयनं त्राणं द्वीपं शरणं पराय>णं यदुतेषा एव बोधिपक्ष्या धर्मा । <तस्मात्तर्हि सु>भूते बोधिसत्त्वेन महासत्त्वेन अपरप्रणेयतां गन्तुकामेन अपरप्रणेयतायां <स्थातुकामेन, सर्वसत्त्वानां संशयांच्छेतुकामे>न, बुद्धक्षेत्रं परिशोधयितु<कामेन, सत्त्वांश्च परिपा>चयितुकामेन इहैव प्रज्ञापारमितायां शिक्षितव्यम् । तत्कस्य हेतोः? <अत्र हि प्रज्ञापारमितायां ते धर्मा विस्तरेणोपदिष्टा यत्र बोधिसत्त्वेन महासत्त्वेन शिक्षितव्यम् । सुभूतिराह:> किंलक्षणा भगवं प्रज्ञापारमिता? भगवानाह: आकाशासंगलक्षणा (अद्स्प्गि १८) सुभूते प्रज्ञापरमिता । न सुभूते प्रज्ञापारमिता [f । २१९ ] <लक्षणं, न प्रज्ञापारमितायाः किं लक्षणम् । आह: स्या>द्भगवं पर्यायो येन लक्षणेन प्रज्ञा<पारमिता संविद्यते तेन लक्षणेन सर्वधर्माः संविद्येरन्? भगवानाह: एवमेतत्सुभूते एवमेतत्येन लक्षणेन प्रज्ञापारमिता सं>विद्यते तेनैव लक्षणेन सर्वधर्माः संविद्यन्ते । तत्कस्य हेतोः? सर्वध<र्मा हि सुभूते विविक्तस्वभावाः सर्वधर्माः स्वभावशून्याः> । अनेन सुभूते पर्यायेण <येन लक्षणेण प्रज्ञापार>मिता संविद्यते, तेन लक्षणेन सर्वधर्माः संविद्यन्ते । यदुत शून्यताल<क्षणेन विविक्तलक्षणेन । आह: यदि भग>वं सर्वधर्माः सर्वधर्मैर्विविक्ताः सर्वधर्म्<आः सर्वधर्मै>ः शून्यास्, तत्कथं भगवं सत्त्वानां संक्लेशव्यवदानं प्रज्ञायते । न हि भगवं विविक्तम् <संक्लिश्यते न व्यवदायते, न सून्यता संक्लिश्य>ते न व्यवदायते । न विविक्तं <न? >शून्यता अनुत्तरां सम्यक्संबोध्<इम्> अभिसंबुध्यते । न विविक्तेन शून्यतायां कश्चिद्धर्म उपलभ्यते । न विविक्तेन शून्यताया<ं सत्त्व उपलभ्यते यो बोधिमभिसं>बुध्येत अस्य भगवं वयं भाषितस्य कथमर्थन् <आ>जानीयाम? भगवानाह: तत्किं मन्यसे सुभूते दीर्घरात्रं सत्त्वा अहंकारमम<कारे चरन्ति? आह: एवमेतद्भ्>अगवन्नेवमेतत्सुगतः । दीर्घरत्रं सत्त्वा अहंकारममकारे चरन्ति । भगवानाह: तत्किं मन्यसे सुभूते अपि न्वहंकारममकारौ वि<विक्तौ शून्यौ? अह: शून्यौ भगवंच्> छून्यौ सुगतः । भगवानाह: तत्किं मन्यसे सुभूते अपि न्वहंकारममकारेण सत्त्वाः संसरन्ति संधावन्ति । आह: एवमेतद्भगवन्नेवमेतत्सु<गतः । अहंकारममकारेण> सत्त्वाः संधावन्ति संसरन्ति । भगवानाह: एवं खलु सुभूते सत्त्वसंक्लेशः प्रज्ञायते: यत्र न अहंकारो न ममकारः तत्र नोद्ग्राह्<अः,> (अद्स्प्गि १९) <नोद्ग्रहः न तत्र सत्त्वा>ः सन्धावन्ति न संसरन्ति, न तत्र संक्लेशः । एवं खलु सुभूते सत्त्वानां व्यवदानं प्रज्ञायते । आह: एवं चरं भगवं बोधिसत्त्वो महासत्त्वो न रूपे <चरलि, न वेदनायां न संज्ञायां> न संस्कारेषु न विज्ञाने चरति । न चतुर्षु स्मृत्युपस्थानेषु चरति यावन्न अष्टादशेष्वावेणिकेषु बुद्धर्मेषु चरति । तत्कस्य हेतोः? तथा हि ते धर्मा नोप<लभ्यन्ते यश्चरेद्यत वा चरेद्> यत्र वा चरेद् । एवं चरं भगवं बोधिसत्त्वो महासत्त्वो अनवमर्दनीयो भवति । सदेवमानुषासुरेण लोकेन । एवं चरं पुनर्भगवं बोधिसत्त्वो महासत्त्वः <सर्वश्रावकप्रत्येकबुद्धैर्न शक्यम>भिभवितुम् । तत्कस्य हेतोः? तथा हि सोऽ<न>भिभूतस्था<ने स्थितो यदुत> बोधिसत्त्वन्यामे, अनभिभूतो हि भगवं बोधिसत्त्वो महा<सत्त्व सर्वाकारज्ञातामनसिकारेण अविरहित एवं चरं भगवं बोधिसत्त्वो महासत्त्व सर्वाकारज्ञतया अभ्याशी भवति । भगवानाह: तत्किं मन्यसे सुभूते> [f । २२० ] <यावत्यो जांब्>उद्वी<पका सत्त्वास्ते सर्वे मानुष्यकमात्मभावं प्रतिलभेरन्, मानुष्यकमात्मभावं प्रतिलभ्य अनुत्तरां सम्यक्संबोधिमभिसंबुध्येरन्, तान् च कश्चिदेव कुलपुत्रो वा कुल>दुहिता वा । या<वज्जीवं तिष्ठन्तो सत्कुर्यात्गुरु>कुर्यात्मान<येत्पूजयेत्, तच्च कुशलमूलमनुत्तरायां सम्यक्संबोधौ परिणामयेत्, तत्किं मन्यसे सुभूते अपि नु स कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहु पुण्यं प्रसवेद्? अहा: बहु भगवन् बहु सुगत । भगवानाह: अतः सुभूते स कुलपुत्रो> (अद्स्प्गि २०)< वा कुलदुहि>ता वा ततोनिदानं बहुतरं पुण्यं प्रसवेद्यः प्रज्ञापारमितां <परेषामाचक्षीत देशयेत्प्रकाशयेत्प्रस्थापयेद्विवरेद्विभजेदुत्तानिकुर्यात्संप्रकाशयेत्प्रज्ञापारमिताप्रतिसंयुक्तै>श्च मनसिकारैर्विहरेत्, एवं यावन्तस्त्रिसाहस्रमहासाह<स्रे लोकधातौ सत्त्वांस्ते सर्वे मानुष्यकमात्मभावं प्रतिलभेरंस्, तान् कश्चिदेव कुलपुत्रो वा कुलदु>हिता वा दशसु कुशलेषु कर्मपथेषु प्रतिष्ठापयेत्, चतु<र्षु ध्यानेषु चतुर्षु अप्रमाणेषु चतस्रिष्वारूप्यसमापत्तीषु यावत्स्रोतआपत्तिफले सकृदागमीफले अनागामीफ>ले अर्हत्त्वे प्रत्येकबोधौ प्रतिष्ठापयेद्, अनुत्तरस्यां सम्यक्संबोधौ <प्रतिष्ठापयेत्ताञ्च कुशलमूलाननुत्तरायै सम्यक्संबोधये परिणामयेत्, तत्किं मन्यसे सुभूते अपि नु स कुल>पृष्ठौत्रो वा कुलदुहिता वा ततोनिदानं बहु पुण्यं प्रसवेत्? आह: <बहु भगवन् बहु सुगत । भगवानाह: अतः सुभूते स कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेद्, य> इमां प्रज्ञापारमितां परेषामाचक्षीत देशयेत्प्रकाशयेत्प्र<स्थापयेद्विवरेद्विभजेदुत्तानीकुर्यात्संप्रकाशयेत्सर्वाकारज्ञताप्रतिसंयुक्तैश्च मनसिकारैर्विहरेत्, स सुभूते> बोधिसत्त्वो महासत्त्व<ः> सर्वसत्त्वानां दक्षिणीयतां गच्छति । तत्कस्य <हेतोस्? तथा हि न कस्यचित्सत्त्वस्य तादृशो विहारो यादृशो बोधिसत्त्वस्य महासत्त्वस्य, स्थापयित्वा तथागतमर्हन्तं सम्यक्सं>बुद्धम् । तत्कस्य हेतो<स्>? तथा हि ते कुलपुत्रा प्रज्ञापारमितायां चरन्<तो महामैत्रीमभिनिर्हरन्ति, सर्वसत्त्वान् वध्यगतानिव समनुपश्यन्ति, ते महाकरुणामभिनिर्हरन्ति>, ते तेन विहारेण विहरंतो मुदितया प्रमोदन्तोऽभिप्रमोद<न्ति । ते> (अद्स्प्गि २१) <महामुदितामभिनिर्हरन्ति । ते तेन निमित्तेन सार्धं न संवसन्ति । ते महोपेक्षां प्रतिलभन्ते । अयं सुभूते बो>धिसत्त्वानां महासत्त्वनां महां प्रज्ञालोको यदुत दानपा<रमितालोकः शीलपारमितालोकाः क्षान्तिपारमितालोकः वीर्यपारमितालोकः ध्यानपारमितालोकः प्रज्ञापारमि>तालोकः । अनभिसंबुद्धा अपि ते कुलपुत्राः सर्वसत्त्वानां <दक्षिणीयतां गच्छन्ति, न च विवर्तन्तेऽनुत्तरायाः सम्यक्संबोधेः । यस्य च ते परिभुञ्जते चीवरपिण्डपात>शय्यासनग्लानप्रत्यय<भैषज्यपरि>ष्कार्<आन्> [f । २२० ]< ते> प्रज्ञापार<मिताप्रतिसंयुक्तैर्मनसिकारैर्विहरन्तो दायकदानपतीनां दक्षिणां शोधयन्ति, सर्वाकारज्ञतायाश्च अभ्यासी भवन्ति । तस्मात्तर्हि> सुभूते बोधिसत्त्वेन महासत्त्वेन अमोघं राष्ट्रपिण्डं परिभोक्तुका<मेन सर्वसत्त्वानां मार्गमुपदेशयितुकामेन, विपुलमवभासं कर्तुकामेन, त्रैधातुकबन्धनगतान् सत्त्वान् परिमोचयितु>कामेन, सर्वसत्त्वानामनुत्तरां प्रज्ञाचक्षुरुत्पादयितुका<मेन, प्रज्ञापारमिताप्रतिसंयुक्तैर्मनसिकारैर्सततसमितं विहर्तव्यम् । सचेत्सुभूते बोधिसत्त्वो महासत्त्वः तैर्प्रज्ञापारमि>ताप्रतिसमुय्क्तैर्मनसिकारैर्विहरेत्तेन प्रज्ञापारमिता<प्रतिसंयुक्ता एव कथा कथितव्या । तेन प्रज्ञापारमिताप्रतिसंयुक्तान् एव कथान् कथित्वा प्रज्ञापारमिताप्रति>संयुक्तैरेव मनसिकारैर्विहर्तव्यं । तेन प्रज्ञापारमिता <प्रतिसंयुक्तमनसिकारेण विहरता अन्येषां मनसिकाराणामवकाशो न दातव्यः, तथा च कर्तव्यं यथा तैरेव प्रज्ञापार>मिताप्रतिसंयुक्तैर्मनसिकारैर्रात्रिं दिवम् <अनिक्षिप्तधुरो> (अद्स्प्गि २२) <विहरेत् । तद्यथापि नाम सुभूते केनचिदेव पुरुषेण मणिरत्नमप्रतिलब्धपूर्वं भवेत् । सो येन समयेन प्रतिलभेत तन्मणि>रत्नं प्रतिलभ्य उदारेण प्रीतिप्रामोद्यसौमनस्येन समन्वाग<तो भवेत् । तस्य सहप्रतिलम्भमेव तन्मणिरत्नं पुनः प्रणश्येत्स ततोनिदानं महता दुःखदौर्मनस्येन सं>युक्तो भवेत् । <स? >तस्य सततसमित<ं> रत्नप्रतिसंयुक्ता एव <मनसिकाराः प्रवर्तेरन्न्: अहो वताहं तेन मनोरमेन मणिरत्नेन विसंयुक्त इति । एवमेव सुभूते बोधिसत्त्वेन> महासत्त्वेन रत्नमिदमिति सर्वाकारज्ञताप्रतिसंयुक्तै<र्मनसिकारैरविरहितेन भवितव्यम् । न च तत्सर्वाकारज्ञतारत्न नामितव्यमेव सततं सुखसौमनस्य बहुलो भविष्य>ति । आह: <यत्> पुनर्भगवं सर्वमनसिकारा स्वभावेन विरहि<ताः सर्वमनसिकाराः स्वभावेन शून्या, तत्कथं भगवन् बोधिसत्त्वो महासत्त्वः सर्वाकारज्ञताप्रतिसंयुक्तैर्मनसिका>रैरविरहितो भवति? न हि विरहिते बोधिसत्त्व उपलभ्य<ते, न मनसिकारो न सर्वाकारज्ञता । भगवानाह: सचेत्पुनः सुभूते बोधिसत्त्वो महासत्त्व एवं जानाति: विरहिताः स>र्वधर्माः स्वभावेन । <ते> न श्रावाकैः <कृता> न प्रत्येकबुद्धैर्<कृता न च बुद्धैर्भगवद्भिर्कृता स्थितैवैषां धर्माणां धर्मता धर्मस्थितिता धर्मनियामता तथता अवितथता अनन्यतथता> धर्मधातुर्भूतकोटिः । अविरहितो बोधिसत्त्वो महास<त्त्वो प्रज्ञापारमिताया भवति । तत्कस्य हेतोर्? >[f । २२१ ] <एषा हि सु>भूते प्रज्ञापारमिता स्वभावेन विविक्ता, स्वभावेन शून्या, <सा नैव विवर्धते न च> परिहीयते । आह: सचेद्भगवन् प्रज्ञापारमिता स्वभावेन विविक्ता स्वभावेन शू<न्या, कथं बोधिसत्त्वो म>हासत्त्व प्रज्ञापारमितायां समुदगम्य (अद्स्प्गि २३) अनुत्तरां सम्यक्संबोधिमभिसंबुध्यते? भगवानाह: न सुभूते बोधिसत्त्वो महासत्त्वो प्रज्ञापारमितायां समुदा<गम्य विवर्धते वा परिहीयते वा>, न भूतकोटिर्विवर्धते वा परिहीयते वा, न धर्मधातुर्विवर्धते वा परिहीयते वा । तत्कस्य हेतोः? न हि प्रज्ञापारमिता एकं न द्वे, सचेत्सुभूते बोधिसत्त्वस्य म<हासत्त्वस्य एवं भाष्यमाणे चित्तं> न अवलीयते न संलीयते नोत्त्रस्यति न सन्त्रस्यति न संत्रासमापद्यते, निष्ठा तत्र गन्तव्यास्<स्थितो>ऽयं बोधिसत्त्वो महासत्त्वः अवैवर्त्यधातौ । चरत्ययं बो<धिसत्त्वो महासत्त्वः प्रज्ञापार>मितायां । सुभूतिराह: किं पुनर्भगवन् येयं प्रज्ञापारमिता शून्यता रिक्तता वशिकता असारकता सा प्रज्ञापारमितायां चरति? भगवानाह: नो <हीदं सुभूते । आह: ततोऽन्यत्र भ>गवन् प्रज्ञापारमिताया कश्चिद्धर्म उपलभ्यते यः प्रज्ञापारमितायां चरति? भगवानाह: <नो हीदं सुभूते । आह: कच्चित्पुनर्भगवन् प्रज्ञापारमिता प्रज्ञापारमितायां चर>ति? भगवानाह: नो हीदं सुभूते । आह: कच्चित्पुनर्भगवंच्छून्यता शून्यतायां चरति? भगवानाह : नो हीदं सुभूते । आह: कच्चित्पु<नर्भगवनन्यत्र शून्यतायाः शून्यतायां> चरति? भगवानाह: नो हीदं सुभूते । आह: किं पुनर्भगवन् रूपं प्रज्ञापारमितायां चरति । वेदनासंज्ञासंस्कारविज्ञानं प्र<ज्ञापारमितायां चरति? भगवानाह:> नो हीदं सुभूते । आह: किं पुनर्भगवन् षट्पारमिता प्रज्ञापारमितायां चरन्ति, यावदष्टादशावेणिका बुद्धधर्माः प्रज्ञापार<मितायां चरन्ति? भगवानाह: नो हीदं सु>भूते । आह: किं पुनर्भगवन् या रूपशून्यतारिक्ततातुच्छतासारकतातथतावितथतानन्यतथता, धर्मता धर्मधातु धर्मनिया<मता भूतकोटिः> (अद्स्प्गि २४) <सा प्रज्ञापारमितायां> चरति? भगवनाह: नो हीदं सुभूते । आह: किं पुनर्भगवन् यावदष्टादशावेणिकानां बुद्धधर्माणां शून्यतारिक्ततातुच्छतासा<रकतातथतावितथतानन्यत>थता धर्मता धर्मधातु धर्मनियामता भूतकोटिः सा प्रज्ञापारमितायां चरति? भगवानाह: नो हीदं सुभू<ते । आह: सचेत्पुनर्भगवन्नेते धर्मा न चरन्ति> प्रज्ञापारमितायां, तत्कथं पु<नर्बोधि>सत्त्वो महासत्त्वश्च<रति> प्रज्ञापारमितायां? भगवानाह: तत्किं मन्यसे <सुभूते समनुपश्यसि त्वं तं धर्मं यत्प्रज्ञापा>रमितायां [f । २२१ ] चरति? आह: नो ही<दं भगवन् । भग>वानाह: तत्किं मन्यसे सुभूते समनुपश्यसि त्वम् <तां प्रज्ञापारमितां> यत्र बोधि<सत्त्वेन चरितव्यम्? आह: नो हीदं भगवन् । भग>वानाह: तत्किं मन्यसे सुभूते <यद्धर्म यं त्वं न> समनुपश्यसि । कश्चित्स धर्म उपलभ्यते? आह: नो <हीदं भग>वन् । भगवानाह: <तत्किं मन्यसे सुभूते यो धर्मो नोपलभ्>यते अपि नु स धर्म उत्पत्स्यते वा निरोत्स्यते वा? आह: नो हीदं भगवन् । भगवानाह: इयं सुभूते बोधिसत्त्वानां महासत्त्वानाम् <अनुत्पत्तिकेषु धर्मेषु क्षान्तिः । एवंरू>पृष्ठअया सुभूते क्षान्त्या समन्वागतो । बोधिसत्त्वो महासत्त्वो व्याकृयते बुद्धैर्भगवद्भिरनुत्तरस्यां सम्यक्संबोधौ । इयमुच्य<ते सुभूते दशबलवैशारद्यप्र>तिसंविन्महामैत्र्या महाकरुणा अष्टादशावेणिकबुद्धधर्मा प्रतिसंविदेर्तां । <यां> प्रतिपद्यमानो बोधिसत्त्वो महासत्त्व । एवं चरनेवं घटमाणः (अद्स्प्गि २५) <एवं व्यायच्छमानो अनुत्तरसम्यक्संबुद्धज्ञानं> महाज्ञानं सर्वाकारज्ञताज्ञानं नानुप्राप्स्यतीति । नेदं स्थानं विद्यते । तत्कस्य हेतोः? तथा हि तेन बोधिसत्त्वेन महासत्त्वेन अनुत्पत्तिकेषु <धर्मेषु क्षान्तिः प्रतिलब्धा । तस्य न कदाचित्> तेषां धर्माणां हानिर्भविष्यति, यावदनुत्तरां सम्यक्संबोधिमभिसंभोत्स्यते । सुभूतिराह: किं पुनर्भगवन् सर्वधर्माणामुत्पाद्<आय व्याकृयते बोधिसत्त्वो महासत्त्वो अनुत्तरस्यां सम्यक्संबोधौ? भगवानाह: नो हीदं सुभूते । आह: किं पुनर्भगवन् सर्वधर्माणामनुत्पत्तिकताय व्याकृयते बोधि>सत्त्वो महासत्त्वोऽनुत्तरस्यां सम्यक्संबोधौ? भगवानाह: नो हीदं सुभूते । आह: तत्किं भगवन्नैवोत्पत्तितो नानुत्पत्तितो व्याकृय<ते बोधिसत्त्वो महासत्त्वोऽनुत्तरस्यां> सम्यक्संबोधौ? भगवानाह: नो हीदं सुभूते । आह: सचेत्पुनर्भगवन्नैवोत्पत्तितो नानुत्पत्तितो बोधिसत्त्वो व्याकृयतेऽनुत्तरस्यां सम्यक्संबोध्<औ, तत्कथमिदानीं व्याकरणं भवति बोधि>सत्त्वस्य महासत्त्वस्य अनुत्तरस्यां सम्यक्संबोधौ? भगवानाह: तत्किं मन्यसे सुभूते समनुपश्यसि त्वं तद्धर्मं यो व्याकृयतेऽनुत्तरस्यां सम्यक्सम्<बोधौ? आह: नो हीदं भगवन् । न> नहन् तद्धर्मं समनुपश्यामि यो धर्मो व्याकृयतेऽनुत्तरस्यां सम्यक्संबोधौ । तमप्यहं भगवन् धर्मं न समनुपश्यामि यो धर्मोऽभिसंबुध्यते येन वा <धर्मेण अभिसंबुध्यते ।> । । । । ता । भगवानाह: एवमेतत्सुभूते एवमेतत् । सर्वधर्माननुपलंभमानस्य (अद्स्प्गि २६) बोधिसत्त्वस्य महासत्त्वस्य नैवं भवत्य् । अहमभिसंभोत्स्ये । अनेन अभिसं<भोत्स्यते> इदमभिसंभोत्स्यते । तत्कस्य हेतोः? तथा हि सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतः स<र्व एते विकल्पा न संविद्यन्ते । त>त्[f । २२२ ] कस्य हेतोः? अविकल्पा हि सुभूते प्रज्ञापारमिता । [५५] (अद्स्प्गि २७) परिवर्त ५६ । अथ शक्रो देवानामिन्द्रो भगवन्तमेतदवोचत्: गंभीरा भगवन् प्रज्ञापारमिता दुद्<ऋश्या दुरनुबोधा अतर्क्या अ>तर्का अवचरा यावत्सूक्ष्मा निपुणा पण्डितविज्ञावेदनीया भगवन् प्रज्ञापारमिता अत्यन्तिविविक्त्<अत्>आमुपादाय । न ते भगवन् सत्त्वा अवरकेण कुश<लमूलेन समन्वा>गता भविष्यन्ति, य इमां गंभीरां प्रज्ञापारमितां श्रोष्यन्ति धारयिष्यन्ति वाचयिष्यन्ति पर्यवाप्स्यन्ति तथात्वाय च प्रतिपत्स्यन्ते न च अन्येषां चित्तचै<तसिकानां धर्माणामवका>शं दास्यन्ति यावदनुत्तरां सम्यक्संबोधिमभिसंभोत्स्जन्ते । भगवानाह: एवमेतत्कौशिक एवमेतत् । न ते सत्त्वा अवरकेण कुशलमूलेन समन्वा<गता भविष्यन्ति य> इमां गंभीरां प्रज्ञापारमितां श्रोष्यन्ति धारयिस्यन्ति वाचयिष्यन्ति । तथात्वाय च प्रतिपत्स्यन्ते न च अन्येषां चित्तचैतसिकानां धर्माणामवकाशं दास्यन्ति । <यावदनुत्तरां सम्यक्संबोधिमभि>संभोत्स्यन्ते । तत्किं मन्यसे कौशिक ये च यावन्त्यो जांबुद्वीपका सत्त्वास्ते सर्वे दशभिः कुशलै<ः> कर्मपथै<ः> समन्वागता भवेयुश्चतुर्भिर्ध्यानैश्चतुर्भिर्<अप्र्>अमाणैश्च<तसृभिरारूप्यसमापत्तिभिः> पंचभिरभिज्ञाभिः, यश्च कलुपुत्रो वा कुलदुहिता वा इमां गंभीरां प्रज्ञापारमितामुद्गृह्णीयाद्धारयेद्वाचयेत्पर्यवाप्नुयातुद्गृह्य धारयित्वा वाच<यित्वा पर्यवाप्य तथात्वाय प्रति>पृष्ठअद्येत । (अद्स्प्गि २८) अस्य कौशिक कुशलमूलस्य <एतत्> पौर्वकं कुशलमूलं शततमीमपि कलां नोपैति, सहस्रतमीमपि शतसहस्रतमीमपि । कोति<तमीमपि यावत्कोटिनियुतशतसहस्रतमीमपि कलां नोपैति । संख्याम>पृष्ठै कलामपि गणनामप्युपनिशामपि न क्षमते । अथ अन्यतरो भिक्षु । शक्रं देवानामिन्द्रमेतदवोचत्: अभिभूता कौभिक्षु (सिच्) । शक्रं देवानामिन्द्रमेतदवोचत्: अभिभूता कौशिक तेन कुलपुत्रेण वा कुलदुहित्रा वा ते सर्वजांचतुर्ध्यानसमन्वागताश्(सिच्) चतुरप्रमाणसमन्वागताश्चतुरारूप्यसमापत्तिसमन्वागताः पंचाभि<ज्ञासमन्वागता य इमां प्र>ज्ञापारमि<तामवि>क्षिप्तेन चित्तेन उद्ग्रहीष्यति धारयिष्यति वाचयिष्यति पर्यवाप्स्यति तथात्वाया च प्रतिपत्स्यते । न चान्येषां चित्तचैतसिकानां धर्माणामव<काशं दास्यति, यावदनुत्तरां सम्यक्सं>बोध्<इमभिसंभो>त्स्यते । एवमुक्ते शक्रो देवानामिन्द्रस्तं भिक्षुमेतदवोचत्: एकचित्तोत्पादेन भिक्षोस्तेन बोधिसत्त्वेन महासत्त्वेन ते सर्वजांबुद्वीपका सत्त्वा <दशकुशलकर्मपथसमन्वागताश्चतुर्ध्यानसम>न्वागताश्चतुरप्रमाणसमन्वागता<श्> चतुरारूप्यसमापत्तिसमन्वागता<ः> पंचाभिज्ञासमन्वागता अभिभूताः । कः पुनर्वादो य इमां <गंभीरां प्रज्ञापारमितामुद्ग्रहीष्यति धारयिष्यति> [f । २२२ ] पर्यवाप्स्यति उद्गृह्या धारयि<त्वा वाचयित्वा> पर्यवाप्य तथात्वाय प्रतिपत्स्यते । तेन सदेवमानुषासुरो लोको अभिभूतो भविष्यति सदेवमा<नुषासुरं लोकमभिभवं गमिष्यति । न> केवलं सदेवमानुषासुरं लोकमभिभवं गमिष्यति बोधिसत्त्व महासत्त्वो । येऽपि ते स्रोतआपन्नाः सकृदागामिनोऽनागामिनो (अद्स्प्गि २९)ऽर्हन्तः <प्रत्येकबुद्धास्तानपि सर्वानभिभवं गमिष्यति बोधिसत्त्वो महासत्त्वः । न केवलं स्रोतआपन्ना यावत्प्रत्येकबुद्धा, येऽपि ते बोधिसत्त्वा महासत्त्वा दानपार>मितायां चरंत्युपायकौशलविरहिता प्रज्ञापारमिताविरहितास्तानपि सर्वानभिभवं गमिष्यति बोधिसत्त्वो महासत्त्वः । न केवलं ये <दानपारमितायां चरन्ति, येऽपि ते बोधि>सत्त्वा महासत्त्वा<ः> शीलपारमितायां चरन्त्युपायकौशलविरहिताः प्रज्ञापारमिता<विरहिता>स्तानप्यभिभवं गमिष्यति बोधिसत्त्वो महासत्त्व । न केवलं ये क्षान्ति पारमि<तायां चरन्ति, येऽपि ते बोधिसत्त्वा महासत्त्वा> वीर्यपारमितायां चरन्त्युपायकौशलविर<हि>तास्प्रज्ञापारमितया विरहितास्तानप्यभिभवं गमिष्यति बोधिसत्त्वो महासत्त्व । न केवलं ये वीर्यपारमितायां चरन्ति, <येऽपि ते बोधिसत्त्वा महासत्त्वा ध्यानपार>मितायां चरन्त्युपायकौशलविरहिताः प्रज्ञापारमिताविरहितास्तानप्यभिभवं गमिष्यति बोधिसत्त्वो महासत्त्वाः । ये ते बोधिसत्त्वा महासत्त्वा यथोपदिष्टायां <प्रज्ञापारमितायां चरन्ति, ते सदेवमा>नुषासुरेण लोकेन न शक्यमभिभवितुम् । प्रज्ञापारमितायां यश्चरति बोधिसत्त्वो महासत्त्वो यथोपदिष्टां प्रज्ञापारमितामनुवर्तते, अयं बोधिसत्त्वो महास<त्त्वः सर्वाकारज्ञातावंशस्य अनुपच्छेदाय स्थि>त<ः> । अयं बोधिसत्त्वो महासत्त्वस्तथागता<न्> न दूरीकरोति । अयं बोधिसत्त्वो महासत्त्वः एवं प्रतिपद्यमानो न विरागयति बोधिमण्डम् । अयं बोधिसत्त्वो महासत्त्वः <सत्त्वान् संसीदानुद्धर्तुकामः । अयं> बोधिसत्त्वो महासत्त्वः एवं शिक्षमाणो बोधिसत्त्वशिक्षायां न श्रावकशिक्षायां शिक्षते । न प्रत्येकबुद्धशिक्षायां शिक्षते । एवं (अद्स्प्गि ३०) शिक्षमाणस्य बोधिसत्त्वस्य महा<सत्त्वस्य चत्वारो महराजानो उपसंक्र>मितव्यं मंस्यंते, उपसंक्रम्यैवं वक्ष्यन्ति: शीघ्रं भो महापुरुष शिक्षस्व लघु शिक्षस्व इमानि तानि चत्वारि पात्राणि यानि त्वया परिगृहीतव्यानि बोधिमण्डनिषण्णे <ऽनुत्तरां सम्यक्संबोधिमभिसं>बुद्ध्य यानि परिग्रहीतानि पौर्वकैस्तथागतैरर्हद्भिः सम्यक्संबुद्धै । एवं शिक्षमाणं बोधिसत्त्वं महासत्त्वं प्रज्ञापरमितायामुपसंक्रमितव्यं मंस्यन्ते चत्वारो <महाराजकायिकाः देवराजा । सार्धं महारा>जकायिकैर्देवपुत्रै पुनर्त्रायस्त्रिंश देवपुत्रा अप्येनमुप्संक्रमितव्यं मंस्यंते । सार्धं त्रायस्त्रिंशैर्देवपुत्रैः सुयामोऽपि देवराजा उपसंक्रमितव्यं मंस्य<ं>ते, सार्धं यामैर्देवपु<त्रै संतुषितोऽपि देवराजा उपसंक्र>मितव्यं मंस्यंते, सार्धं तुषितैर्देवपुत्रैः निर्मितोऽपि देवराजा उपसंक्रमितव्यं मंस्य<ं>ते । सार्धं निर्माणारतिभिर्देवपुत्रैः वशवर्त्यपि देवराजा उपसंक्रमि<तव्यं मंस्यन्ते, सार्धं व>शवर्तिभिर्देवपुत्रैः ब्रह्मापि सहंपतिरुपसंक्रमितव्यं मंस्यते । सार्धं ब्रह्मकायिकैर्देवपुत्रैः आभास्वरा अपि देवा उपसंक्रमितव्यं मंस्य<ं>ते । शुभकृ<त्स्नाः बृहत्फलाः अवृहाः अतपाः> [f । २२३ ] सुदृशाः सुदर्शनाः शुद्धावासकायिका देवा उपसंक्रमितव्यं मंस्यन्ते । यो बोधिसत्त्वो महासत्त्व इह गंभीरायां प्रज्ञापारमितायां यथोपदिष्ठाया<ं> च<रति, तथागतैरर्हद्भिः सम्यक्संबुद्धैर्स बोधि>सत्त्वो महासत्त्वो नित्य<ं> समन्वाहृतो भविष्यति य इह गंभीरायां प्रज्ञापारमितायां चरिष्यति । एवं चरतो बोधिसत्त्वस्य महासत्त्वस्य इह गंभीरायां प्रज्ञापारमि<तायां यानि कानिचिल्लौकिकानि दुःखा>नि परोपक्रमाणि (अद्स्प्गि ३१) काये उत्पत्स्यन्ते तानि सर्वेण सर्वं काये नोत्पत्स्यन्ते । न निपतिष्यन्ति । इमे भिक्षोर्दृष्टधार्मिका गुणा भविष्यन्ति तस्य बोधिसत्त्वस्य महासत्त्वस्येह गंभीरायां प्रज्ञापारमितायां चरतः । तस्मिन् समये यानि तानि सन्निपातिकानि ग्लान्यानि, तद्यथा चक्षुरोगः श्रोत्ररोगः जिह्वारोगो दन्तशूलं कायशूलं चित्तशूलं यावत्तानि सर्वाणि काये नोत्पत्स्यन्ते न निपति<ष्यन्ति । इमे बोधिसत्त्वस्य महा>सत्त्वस्य दृष्टधार्मिका गुणाः प्रतिकांक्षितव्या इह गंभीरायां प्रज्ञापारमितायां चरतः । अथायुष्मतः आनन्दस्यैतदभूत्: किमयं शक्रो देवानामिन्द्र आ<त्मीयेन स्वकेन प्रतिभानेन प्रज्ञापारमि>तामुपदिशति । प्रज्ञापारमितायाश्च गुणानुशंसान उताहो बुद्ध अनुभावेन? अथ शक्रो देवानामिन्द्र आयुष्मत आनन्दस्य चेतस्यैव चेतःपरिवितर्कमा<ज्ञाय आयुष्मन्तमानन्दमेतदवोचत्: बु>द्ध अनुभाव एष भदन्त आनन्द वेदितव्यो योऽहं प्रज्ञापारमितामुपदिशामि । प्रज्ञापारमितायश्च गुणानुशंसां । अथ भगवानायुष्मन्तमा<नन्दमेतदवोचत्: एवमेततानन्द एव>मेतत्, तथागतस्यैषोऽनुभाव तथागतस्यैतदधिष्ठानम् । यच्छक्रो देवानामिन्द्रः प्रज्ञापारमितामुपदिशति । अस्याश्च प्रज्ञापारमिताया <गुणानुशंसान् । यस्मिन् खलु पुनर्समये> आनन्द बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां शिक्षते प्रज्ञापारमितायां योगमापद्यते प्रज्ञापारमितां भावयति, तस्मिं समये ये <त्रिसाहस्रमहासाहस्रे लोकधातौ मारा>ः पापीयांस्ते सर्वे संशयप्राप्ता भवंति: किमयं बोधिसत्त्वो महासत्त्वो भूतकोतिं साक्षात्कृत्य श्रोतआपत्तिफलमनुप्राप्स्यति (अद्स्प्गि ३२) सकृदागामिफ<लमनागामिफलमर्हत्वं प्रत्येकबुद्धत्व>मनुप्राप्स्यति, उताहोऽनुत्तरां सम्यक्संबोधिमभिसंभोत्स्यते? पुनरपरमानन्द यस्मिन् समये बोधिसत्त्वो महासत्त्व प्रज्ञापारमिताया अविरहितो भ<वति तस्मिन् समये मारः पापीयांच्छोकश>ल्यविद्धो भवति । पुनरपरमानन्द बोधिसत्त्वस्य महासत्त्वस्य मारः पापीयानुल्कपातानवसृजति । भयं जनयत्यप्येव नाम बोधिसत्त्व्<अस्य महासत्त्वस्य अवलीनता भवेत्रोमहर्षो> वा भवेदवलीनचित्तता वा भवेदेकचित्तविक्षेपो वा भवेत्सर्वाकारज्ञतामनसिकारात् । अथायुष्मानानन्दो भगवन्तमेतदवोचत्: किन पुनर्भग<वन् सर्वान् बोधिसत्त्वान्महासत्त्वान्मारः पापीया>नुपसंक्रामति विहेठनाभिप्राय<ः>? भगवानाह: न खल्वानन्द सर्वां बोधिसत्त्वां महासत्त्वान्मारः पापीयानुपसंक्रामति विहेठनाभिप्रायः । आनन्द आह: कियद्रूपान् पुरुषानुपसंक्रामति? [f । २२३ ] भगवानाह: येषामानन्द बोधिसत्त्वानां महासत्त्वानां <पूर्वान्ततः> इह गंभीरायां प्रज्ञापारमितायां भाष्यमाणाया<ं> चित्तं नाधिमुक्तं तां मार पापीयानुपसंक्रामति विहे<ठनाभिप्रायः । पुनरपरमानन्द य इह गंभ्>ईरायां प्रज्ञापारमितायाम् <भाष्यमाणायां> बोधिसत्त्वा संशयप्राप्ताऽभूवन् स्याद्वेयं प्रज्ञापारमिता न वा स्यादियं प्रज्ञापारमिता, एतानानन्द मारः पापीयानुपसंक्रामति विहेठना<भिप्रायः । पुनर्> (अद्स्प्गि ३३)< अपरमानन्द बोधि>सत्त्वः कल्याणमित्रविरहितो भवति । सोऽपश्यं कल्याणमित्रमिमां गंभीरां प्रज्ञापारमितां न शृणोति । अशृण्वन्न जानाति, अजानं न तथात्वाया प्रतिपद्यते । कथं <प्रज्ञापारमिता भावयितव्येति । पुनरपर>मानन्द बोधिसत्त्वः प्रज्ञापारमितया विरहितः असद्धर्मपरिग्राहं करोत्यस्याप्यानन्द बोधिसत्त्वस्य महासत्त्वस्य मारः पापीयानवकाशं लभते । पुनर<परमानन्द प्रज्ञापारमितया विरहितो बो>धिसत्त्वो महासत्त्व<ः> असद्धर्मस्य वर्णां भाषते, तत्र मारस्य पापीयस एवं भवति: सहायकोऽयं मम यो असद्धर्मस्य वर्णं भाषते, बहूनामप्येष बोधिसत्<त्त्वयानिकानां सहायको लब्धो योऽस>द्धर्मस्य वर्णां भाषते । अयं मम अभिप्रायं परिपूरयिष्यति, यत्ते बोधिसत्त्वयानिका द्वयो<र्> भूम्यो स्थास्यन्ति । यदुत श्रावकभूमौ वा प्रत्येकबुद्धबूमौ वा । पुनरप<रमानन्द कियद्रूपस्य बोधिसत्त्व>स्य मारोऽवतारं लभते? यो बोधिसत्त्व इह गंभीरायां प्रज्ञापारमितायाम् <भाष्यमणायाम्> एवं वदति: गंभीरेयं प्रज्ञापारमिता किन् तेऽनया गंभीरया प्रज्ञापारमितया श्रुतया <भाषितया धारितया वाचितया पर्यवा>पृष्ठतया? अहमेव तावद्गाधं नोपलभे । कुतस्त्वं लप्स्यसे? अस्याप्यानन्द बोधिसत्त्वस्य मारः पापियानवतारं लभते । पुनरपरमानन्द यस्मिं समये <बोधिसत्त्वोऽन्यतरान् बोधिसत्त्वान्महा>सत्त्वान् अवमन्यते: अहं दानपारमितायां चरामि यावदहं प्रज्ञापारमितायां चरामि न त्वं दानपारमितायां चरसि यावन्न त्वं प्रज्ञापारमितायां चरसि, अस्याप्य्(अद्स्प्गि ३४) आनन्द बोधिसत्त्वस्य मारः पापीयानवतारं लप्स्यते । पुनरपरमानन्द यस्मिं समये बोधिसत्त्व आत्मानमुत्कृष्टं मन्यते तस्मिन्नानन्द समये मारः पापीयान् तुष्टो भवत्युदग्र <आत्तमनः प्रमुदितः प्रीतिसौमनस्यजातो भवति> तस्याप्यानन्द बोधिसत्त्वस्य मारः पापीयानवतारं लभते । पुनरपरमानन्द यस्मिन् समये बोधिसत्त्वस्य महासत्त्वस्य नामग्रहणं वा गोत्रग्रहणं वा परिकीर्तित<ं> भव<ति, स तेन नामग्रहनेन वा> गोत्रग्रहणेन वा तदन्यान् बोधिसत्त्वा<न्> महासत्त्वान् <पेशलान्> यावत्कल्याणधर्माणोऽभिमन्यते । आत्मानमुत्कर्षयति । परं पंसयति । ते चास्य गुणा न संविद्यन्ते, यान्यवैवर्तिकाना<ं> बोधिसत्त्व<नां महासत्त्वानामाकारा लिङ्गानि> निमित्तानि । स तैराकारलिङ्गनिमित्तैरसंविद्यमानै क्लेशमुत्पादयत्यात्मानं चोत्कर्षयति परं<श्च> पंसयति । <एवं च वदति:> न त्वमत्र बोधिसत्त्वयाने सन्दृश्यसे न बोधिसत्त्वगोत्रे सन्दृश्य<से, यथाहमत्र बोधिसत्त्व>याने बोधिसत्त्वगोत्रे स<ं>दृश्ये, स तेन तां बोधिसत्त्वयानिका<न्> पुद्गलां कुत्सयति पंसयति । तत्र मारस्य पापीयस एवं भवत्य्: अशून्यं मे भवनं भविष्यत्युत्सदा भवि<ष्यन्ति महानरकास्तिर्यग्योनिर्य>मलोक<ः> [f । २२४ ] प्रेतविषयश्च । तथा तथा च मारः पापीयांस्तं बोधिसत्त्वमधिष्ठास्यति । यथा आदेयवचनो भविष्यति । तस्य <तया आदेय>वचनतया बहुजनः श्रोतव्यं श्र<द्धतव्यं मंस्यन्ते । तस्य ते श्रुत्वा दृष्टा>नुगीतमापत्स्यन्ते । ते दृष्टानुगीतमापद्यमानास्तथात्वाय (अद्स्प्गि ३५) शिक्षिष्यन्ते: <ते> तथात्वाय शिक्षमाणास्तथात्वाय प्रतिपद्यमाना<ः> क्लेशं वर्धयिष्यन्ति, <एवं> ते विपर्यस्तया सन्तत्या यद्यदेव क<र्म आरप्स्यन्ते कायेन वा वाचा वा> मनसा वा सर्वं तदनिष्ठत्वाय अकान्तत्वाय अमन्<अ> आपत्वाय संवर्तिष्यते । एवं ते महानरका उत्सदा भविष्यन्ति तिर्यग्योनिर्यमलोकः प्रेतविषय उत्सदो भविष्यति । मारभवनमुत्सदो भ<विष्यति । इममानन्द अर्थवशं सं>पृष्ठअश्यं मारः पापीयानात्तमना भविष्यति, प्रमुदित<ः> प्रीतिसौमनस्यजातः । पुनरपरमानन्द सचेद्बोधिसत्त्वयानिकः पुद्गलः श्रावकयानिकेन कुलपुत्रेण सार्धं <विवदति अहं प्रधानतरो न त्वं, तत्र मारस्य पापी>यस एवं भवति: दूरीकरिष्यति वतायं कुलपुत्र<ः> सर्वाकारज्ञाताम् । न स अभ्याशि भविष्यति सर्वाकारज्ञतायाः । तत्कस्य हेतोः? नैते कलह<भण्डन>विग्रहविवादा सर्वाकारज्ञताया <मार्गः नरकमार्ग एष> तिर्यग्योनिमार्ग एष यमलोकमार्ग एष नैष मार्ग<ः> सर्वाकारज्ञतायाः । पुनरपरमानन्द सचेद्बोधिसत्त्वयानिकः पुद्गलोऽपरेण बोधिसत्त्वयानिकेन पुद्ग<लेन सार्धं कलहभण्डनविग्र>हविवादं करोति तत्र मारस्य पापीयस एवं भवति: उभावेतौ दूरीकरिस्यत<स्> सर्वाकारज्ञताम् । उभावेतौ नाभिसंभोत्स्येतेऽनुत्तरां सम्यक्संबोधिम् । तत्कस्य हेतोः? <तथा हि> नैष (अद्स्प्गि ३६) <मार्गः नैष प्रतिपत्सर्वाकारज्ञताया य आभ्यां कुलपुत्राभ्यामारब्धः, नरकतिर्यग्योनियमलोकमार्ग एष य आभ्यां> कुलपुत्राभ्यामारब्धः । पुनरपरमानन्द सचेदव्याकृतो बोधिसत्त्वो व्याकृतस्य बोधिसत्त्वस्य अन्तिके चित्तमाघातयेत्कलहभण्डनविग्रहविवादं कुर्या<त्>, तेन पुन<रेव तावत एव कल्पान् सन्नाहः सन्न>द्धव्यः यावन्तोऽस्य ते चित्तोत्पादाः पापका उत्पन्ना<ः> कलहभण्डनविग्रहविवादान् कुर्वतः । सचेदस्य सर्वाकारज्ञता अपरित्यक्ता भवति । आनन्द आह: अ<स्ति पुनर्भगवन्नेषां चित्तोत्पादानां निःसरणता> उताहो तावत एव कल्पा<ं>स्तेन संनाह<ः> सन्नद्धव्य<ः>? भगवानाह: सन्नि<ः>सरणो मया आनन्द धर्मो देशितः श्रावकयानिकानां प्रत्येकबुद्धयानिकानां बोधि<सत्त्वयानिकानां च पुद्गलानाम् । तत्र आनन्द यो>ऽयं बोधिसत्त्वयानिकः पुद्गलो बोधिसत्त्वयानिकेन पुद्गलेन सार्धं कलहेत्वा विवदेत वा आक्रोशेद्वा परिभाषेत वा कलहित्वा विवद्य आक्रुष्य परिभाष्य <न प्रतिदेशयेदनुशयं वहेदनुबद्धोऽनु>शयेन विहरेन्, न अहमानन्द तस्य पुद्गलस्य निःसरणं वदामि, अवश्यमेव तेन पुद्गलेन तावत एव कल्पां सन्नाह सन्नद्धव्यः, सचेदस्य अपरित्यक्ता <भवति सर्वाकारज्ञता । यः पुनरानन्द बो>धिसत्त्वो महासत्त्व<ः> कलहित्वा विवद्य आक्रुश्य परिभाष्य प्रतिदेशयति । नानुशयं वहत्यायत्यां संवरमापद्यते, दुर्लब्धा मे लाभा यन्मया सर्वस<त्त्वानां दुःखमपहर्तव्यं तदहं मन्त्रि>ते प्रतिमन्त्रयामि । यन्मया सर्वसत्त्वानां संक्रमभूतेन भवितव्यम् । सोऽहं परस्य अप्रियं (अद्स्प्गि ३७) वदामि प्रतिवचनं ददामि । एवमपि मे न कर्तव्यम् । <जडैडमूकसदृशेन मे भवितव्यं, अध्याशय>श्[f । २२४ ] च मे न विकोपयितव्यः, यत्मयैते सत्त्वा<ः> परिनिर्वापयितव्याः अनुत्तरां सम्यक्संबोधिमभिसंबुद्ध्य <तदहमत्रैव व्यापद्ये> तदहमत्रैव क्षुभ्यामि न मयात्र व्यापत्तव्यं <न मयात्र क्षुभितव्यम् । अस्य आनन्द बोधिसत्त्वस्य महासत्त्वस्य सन्निःसरणं वदामि, अस्य बोधिसत्त्व>स्य महासत्त्वस्य मारः पापीयानवतारं न लभते । पुनरपरमानन्द बोधिसत्त्वेन महासत्त्वेन श्रावकयानिकैः पुद्गलैः सार्धं संसर्गो न क<र्तव्यम् । सचेत्तिष्ठन्ते> न कस्यचिदन्तिके व्यापत्तव्यं न क्षुभितव्यम् । तत्कस्य हेतोः? तथा हि नैतन्मम प्रतिरूपं स्याद्यदहमेषामन्तिके व्यापद्येय<ं> वा क्षुभ्येयं वा । तत्कस्य हेतोः? त<था ह्येते मया अनुत्तरां सम्यक्संबोधिमभि>संबुद्ध्य सर्वदुःखेभ्यः परिमोचयितव्या<ः> । आनन्द आह: कथं भगवं बोधिसत्त्वेन महासत्त्वेन बोधिसत्त्वयानिकानां पुद्गलानामन्तिके स्थातव्यम्? भगवा<नाह: तद्यथापि नाम आनन्द शास्तुः । एवं> बोधिसत्त्वेन महासत्त्वेन बोधिसत्त्वयानिकस्य पुद्गलस्य अन्तिके स्थातव्यम् । तत्कस्य हेतोर्? एष मे सहायक एकनौ समारूढो यथैवानेन शिक्षितव्यं <तथैव मे शिक्षितव्यं । यत्रैव अनेन शि>क्षितव्यं । तत्रैव मया शिक्षितव्यं । दानपारमितायां (अद्स्प्गि ३८) यावत्सर्वाकारज्ञतायां । एवं च तेन चित्तमुत्पादयितव्यं । संबोधिमार्गदेशक एष मे । सचेत्पु<नरेष व्यवकीर्णे विहरेदपग>तसर्वाकारज्ञताप्रतिसंयुक्तैर्मनसिकारैर्न मयात्र शिक्षितव्यं । सचेत्पुनरेष बोधिसत्त्वो महासत्त्व<ः> अविरहितो विहरेत्सर्वाकारज्ञताप्रतिसं<युक्तैर्मनसिकारैर्मयाऽप्येवं> शिक्षितव्यं । एवं शिक्षमाणो बोधिसत्त्वो महासत्त्वः समशिक्षो भवति । ((५६)) (अद्स्प्गि ३९) परिवर्त ५७ । अथायुष्मान् सुभूतिर्भगवन्तमेतदवोचत्: कतमा भगवं बोधि<सत्त्वानां महासत्त्वानां सम>ता यत्र समतायां बोधिसत्त्वेन महासत्त्वेन शिक्षितव्यं? भगवानाह: अध्यात्मशून्यता सुभूते बोधिसत्त्वानां महासत्त्वानां समता, बहिर्धाशून्यता सु<भूते बोधिसत्त्वानां महासत्त्वानां> समता, अध्यात्मबहिर्धाशून्यता सुभूते बोधिसत्त्वानां महासत्त्वानां समता । यावदभावस्वभावशून्यता सुभूते बोधिसत्त्वानां महासत्त्वानां समता । रूपं रू<पेण शून्यं वेदनासंज्ञासंस्का>रा विज्ञानं विज्ञानेन शून्यं यावद्बोधि<र्> बोध्या शून्या, इयं सुभूते बोधिसत्त्वानां महासत्त्वानां समता यत्र समतायां बोधिसत्त्वो महासत्त्व<ः> स्थित्वा अनुत्तरां सम्यक्सं<बोधिमभिसंबुध्यते । आह:> किं पुनर्भगवं बोधिसत्त्वो महासत्त्वो यद्रूपस्य क्षयाय शिक्षते शिक्षते सर्वाकारज्ञतायां, यद्रूपस्य विरागाय शिक्षते शिक्षते सर्वाकारज्ञतायां । यद्रू<पस्य निरोधाय शिक्षते शिक्ष>ते सर्वाकारज्ञतायां । य<द्> रूपस्य अनुत्पादाय शिक्षते शिक्षते सर्वाकारज्ञतायां । यावद्यद्बोधेः क्षयाय शिक्षते शिक्षते सर्वाकारज्ञतायां । एवं यावद्बोधे<र्> वि<रागाय निरोधाय अनुत्पादाय> [f । २२५ ] शिक्षते शिक्षते सर्वाकारज्ञातायां । भगवानाह: यत्सुभूति<ः> स्थविर एवमाह: यद्रूपस्य क्षयाय शिक्षते शिक्षते सर्वाकारज्ञतायां । यावद्यद्रूपस्य अनुत्पादाय शिक्षते <शिक्षते सर्वाकारज्ञतायां । यावद्यद्वेदनायाः संज्ञायाः संस्काराणां विज्ञानस्य क्षयाय शिक्षते शिक्षते सर्वाकारज्ञतायां । या>वद्यद्वेदनाया<ः> संज्ञा<याः> संस्काराणां विज्ञानस्य (अद्स्प्गि ४०) अनुत्पादाय शिक्षते शिक्षते सर्वाकारज्ञतायां, यावद्यद्बोधेः क्षयाय शिक्षते शिक्षते सर्वाकारज्ञतायां । एवं यद्बोधेर्विरागा<य निरोधाय अनुत्पादाय शिक्ष>ते शिक्षते सर्वाकारज्ञतायां । विस्तरेण कर्तव्यं । तत्किं मन्यसे सुभूते या रूपस्य तथता या वेदनाया<ः> संज्ञाया<ः> संस्काराणां विज्ञानस्य तथता, यावद्या बोधेस्तथता <यावद्या तथागतस्य तथता> यया तथतया तथागत<ः> प्रज्ञप्यते । अपि नु सा तथता क्षीयते वा निरुध्यते वा प्रहीयते वा? आह: नो हीदं भगवं नो हीदं सुगत । भगवानाह: एवं शिक्ष<माणः सुभूते बोधिसत्त्वो महा>सत्त्वः तथतायां शिक्षते शिक्षते सर्वाकारज्ञताया<ं> । न तथता क्षीयते वा निरुध्यते वा प्रहीयते वा । एवं शिक्षमाणः सुभूते बोधिसत्त्वो महासत्त्वः तथता<यां शिक्षते शिक्षते सर्वाकारज्ञ>तायां । एवं शिक्षमाण<ः> सुभूते बोधिसत्त्वो महासत्त्व<ः> षट्सु पारमितासु शिक्षते । यावा<च्> चतुर्षु स्मृत्युपस्थानेषु, यावदष्टादशस्वावेणिकेषु बुद्धधर्मेषु शि<क्षते शिक्षते सर्वाकारज्ञतायां । ए>वं शिक्षमाणः सुभूते बोधिसत्त्वो महासत्त्वः सर्वशिक्षापारमितामनुप्राप्नोति । एवं शिक्षमाणः सुभूते बोधिसत्त्वो महासत्त्वो न शक्यते मारैर्वा मारका<यिकाभिर्वा देवताभिर्धर्षयितुम् । ए>वं शिक्षमाण<ः> सुभूते बोधिसत्त्वो महासत्त्व क्षिप्रमेव अवैवर्त्यभूमिमनुप्राप्नोति । एवं शिक्षमाण<ः> सुभूते बोधिसत्त्वो महासत्त्व<ः> स्वके पैतृके तथागतगोचरे (अद्स्प्गि ४१) <चरति । एवं शिक्षमाणः सुभूते बो>धिसत्त्वो महासत्त्वो नाथकरणेषु धर्मेषु शिक्षते । एवं शिक्षमाणः सुभूते बोधिसत्त्वो महासत्त्वो महामैत्र्यां शिक्षते । महाकरुणायां शिक्षते । बुद्धक्षेत्रपरि<शोधनाय शिक्षते । सत्त्वपरिपाकाय> शिक्षते । एवं शिक्षमाणः सुभूते बोधिसत्त्वो महासत्त्वस्त्रिपरिवर्तद्वादशाकारधर्मचक्रप्रवर्तनाय शिक्षते । एवं शिक्षमाणः सुभूते बोधिसत्त्वो <महासत्त्वो सर्वसत्त्वान् परिनिर्वापयि>ष्यामि इति शिक्षते । एवं शिक्षमाण<ः> सुभूते बोधिसत्त्वो महासत्त्वस्तथागतवंशस्य अनुपच्छेदाय शिक्षते । एवं शिक्षमाण<ः> सुभूते बोधिसत्त्वो महा<सत्त्वः अमृतस्य द्वारं विवरिष्यामीति शिक्ष>ते, असंस्कृतधातुं <सन्>दर्शयिष्यामीति शिक्षते । न सुभूते शक्यं हीनसत्त्वैरिहोदारशिक्षायां शिक्षितुं । सर्वसत्त्वा<न्> संसारादुद्धर्तुकामः स बोधि<सत्त्वो महासत्त्वः य इह शिक्षायां शिक्ष>ते । एवं शिक्षमाणः सुभूते बोधिसत्त्वो महासत्त्वो न नरकेषु उपपद्यते । न तिर्यग्योनौ न यमलोके न प्रत्यंतिमेषु जनपदेषु उपपद्यते न पुक्कसचण्डालकुलेषु उपपद्यते । न काणो भवति । न कुब्जो भवति । न लंगो भवति । नोनाण्गो भवति । न बधिरो भवति । न पङ्कपतितो भवति । न विकलेन्द्रियो <भवति । परिपूर्णेन्द्रियो भवति, न अपरिपूर्णेन्द्रियः । न प्राणातिपातिको भवति । नाद>त्तादायी [f । २२५ ] न काममिथ्याचा<रि>को (अद्स्प्गि ४२) न मृषावादी न पैशुनिको न पारुषिक<ः> न संभिन्नप्रलापी न अभिध्यालुर्न व्यापन्नचित्तो न मिथ्या<दृष्टिको भवति, न मिथ्याजीविकया जीवितां संकल्पयति । न अभूत परिग्रा>हको भवति न दुःशीलपरिग्राहको भवति । एवं शिक्षमाण<ः> सुभूते बोधिसत्त्वो महासत्त्वो न दीर्घायुष्केषु देवेषु उपपद्यते । <तत्कस्य हेतोर्? अस्त्यस्योपायकौशलं येनोपायकौशल>समन्वागतो बोधिसत्त्वो महासत्त्वो न दीर्घायुष्केषु देवेषु उपपद्यते । तत्पुन<ः> कतमद्? यदुत इहैव प्रज्ञापारमितायामुपाय<कौशलमुपदिष्टं । येन उपायकौशलेन समन्वागतो ध्याना>नि समापद्यते । अप्रमाणानि समापद्यते । आरूप्यसमापत्तीश्च समापद्यते, न ध्यानानामप्रमाणानामारूप्यासमा<पत्तीनां च वशेन उपपद्यते । एवं शिक्षमाणः सुभूते बोधि>सत्त्वो महासत्त्व<ः> सर्व<बुद्ध>धर्मबलपरिशुद्धिमधिगच्छति । यदुत श्रावकप्रत्येकाबुद्धभूमिपरिशुद्धित<ः> । आह: यद्भगवं <सर्वधर्माः प्रकृतिपरिशुद्धास्, तत्कतमस्य धर्मस्य बोधि>सत्त्वो महासत्त्वः परिशुद्धिमधिगच्छति? भगवानाह: एवमेतत्सुभाते एवमेतत्तथा यथा वदसि । सर्वधर्माः सुभूते प्र<कृतिपरिशुद्धाः, एवं परिशुद्धेषु सुभूते सर्वधर्मेषु बो>धिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो या चित्तस्य असंसीदनता, अनवलीनता, इयं सुभूते प्रज्ञापारमिता । तत्सर्वबालपृ<थग्जना एतां धर्मतां न जानन्ति न पश्यन्ति, तेषां> (अद्स्प्गि ४३) सत्त्वानां <कृते> बोधिसत्त्वा महासत्त्वा दानपारमितायां चरन्ति यावत्प्रज्ञापारमितायां चरन्ति यावत्सर्वाकारज्ञतायां चरन्ति । एवं शिक्षमाणः सु<भूते बोधिसत्त्वो महासत्त्वाः सर्वधर्मबल>वैशारद्यतां प्रतिलभते <न च श्रावकप्रत्येकबुद्धभूमौ पतति> एवं शिक्षमाण<ः> सुभूते बोधिसत्त्वो महासत्त्व<ः> सर्वसत्त्वचित्तचरितविस्पन्दितानां पारं गच्छति । तद्यथापि नाम <सुभूते अल्पकास्ते महापृथिवीप्रदे>शा यत्र जा<ं>बूनदं सुर्वर्णं जातरूपमुत्पद्यते । एवमेव सुभूते अल्पकास्ते सत्त्वा य इह शिक्षायां शिक्षन्ते, यदुत प्रज्ञापारमिताशिक्षायां । अतो बहुतराः <ते सत्त्वाः ये श्रावकभूमये वा प्र>त्येकबुद्धभूमये वा संप्रतिष्ठन्ते । तद्यथापि नाम सुभूते अल्पकास्ते सत्त्वा ये चक्रवर्तिराजसंवर्तनीयं कर्म समादाय वर्तन्ते । अतो बहुतरास्<ते स>त्त्वा<ः> ये कोट्ट<राजसंवर्तनीयं कर्म समादाय> वर्तन्ते । एवमेव सुभूते अल्पकास्ते सत्त्वा ये इमं सर्वज्ञतामार्गं समारोहन्ति । अतो बहुतराः सत्त्वा<ः> ये श्रावाकप्रत्येकबुद्धमार्गं समारोह्<अन्ति । येऽपि ते सुभूते बोधिसत्त्वा महासत्त्वा अ>नुत्तरस्यै सम्यक्संबोधये संप्रस्थिताः, अतोऽल्पतरकास्ते बोधिसत्त्वा महासत्त्वा ये तथात्वाय प्रतिपद्यन्ते, अतो बहुतरा ये श्रावकत्वाय वा प्रत्येकबुद्धत्वाय <वा तिष्ठन्ति । येऽपि ते सुभूते बो>धिसत्त्वयानिका<ः> कुलपुत्रा<ः> प्रज्ञापारमितायां विहरन्तः <निःसंशयेन> (अद्स्प्गि ४४) अवैवर्तिकभूमिमाक्रामन्ति । अतः प्रभूततरा ये न अवैवर्तिकभूमिमवक्रामन्ति । तस्मात्तर्हि सु<भूते बोधिसत्त्वेन महासत्त्वेन> [f । २२६ ] <अ>वैवर्तिकभूमिमैम्प्राप्तुका<मेन> अवैवर्तिकभूमौ गणनां दान्तुकामेनेहैव प्रज्ञापारमितायां शि<क्षितव्यं> । पुनरपरं सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापा<रमितायां चरत न मात्सर्य>सहगतं चित्तमुत्पद्यते, न दौ<ः>शील्यसहगतं चित्तमुत्पद्यते, न क्षोभसहगतं चित्तमुत्पद्यते । न कौसीद्यसहगतं चित्तमुत्पद्यते । न विक्षेपसहगतं चित्तमुत्पद्यते । <न दौष्प्रज्ञसहगतं> चित्तमुत्पद्यते । न रागसहगतं चित्तमुत्पद्यते । न द्वेषसहगतं चित्तमुत्पद्यते । न मोहसहगतं चित्तमुत्पद्यते । न खिलसहगतं चित्तमुत्पद्यते । न रूपसहग<तं चित्तमुत्पद्यते, न वेद>नासंज्ञासंस्कारविज्ञानसहगतं चित्तमुत्पद्यते । यावन् <न> बोधिसहगतं चित्तमुत्पद्यते । तत्कस्य हेतो<स्>? तथा हि सुभूते बोधिसत्त्वो महासत्त्व इह गंभीरायां प्रज्ञापार<मितायां> चरन्न <कंचि>द्धर्ममुपलभते । अनुपलभमानो न क्वचिद्धर्मे चित्तमुत्पादयति । एवं खलु सुभूते इह गंभीरायं प्रज्ञापारमितायां शिक्षमाणेन बोधिसत्त्वेन <महासत्त्वेन सर्वषट्पारमिताः परि>गृहीता भवन्ति सर्वषट्पारमिता<ः> समुदानिता भवन्ति <सर्वषट्पारमिताः अनुगता भवन्ति> । तत्कस्य हेतोः? तथा हि सुभूते इह गंभीरायां प्रज्ञापारमितायाम् ६ र्वपारमिता अन्तर्<गता भवन्ति । तद्यथापि नाम सुभूते स>त्कायदृष्टौ द्वाषष्टिदृष्टिगतान्यन्तर्गतानि भवन्ति । (अद्स्प्गि ४५) एवमेव सुभूते इह गंभिरायां प्रज्ञापारमितायां सर्वपारमिता अन्तर्गता भवन्ति । <तद्यथापि नाम सुभूते पुरुषस्य का>लगतस्य जीवितेन्द्रिये निरुद्धे सर्वेन्द्रियाणि नि<रु>द्धानि भवन्ति । एवमेव सुभूते बोधिसत्त्वस्य महासत्त्वस्यैह गंभीरायां प्रज्ञापारमितायां च<रतः सर्वपारमिता अन्तर्गता भव>न्ति । तस्मात्तर्हि सुभूते बोधिसत्त्वेन महासत्त्वेन सर्वपारमितानां पारंगन्तुकामेन इह गंभीरायां प्रज्ञापारमितायां शिक्षितव्यं । इह पुनः <सुभूते गंभीरायां प्रज्ञापार>मितायां शिक्षमाणो बोधिसत्त्वो महासत्त्वः सर्वसत्त्वानामग्र्यतायां शिक्षते । तत्किं मन्यसे सुभूते ये त्रिसाहस्रमहासाहस्रे लोकधातौ सत्त्वाः अ<पि नु ते बहवः? आह: बहवो भ>गवं बहव<ः> सुगत । जाम्बूद्वीपका एव तावद्भगवं सत्त्वा बहवः कः पुनर्वादो ये त्रिसाहस्रमहासाहस्रे लोकधातौ सत्त्वा<ः> । भगवानाह: या<वन्तः सुभूते त्रिसाहस्रमहासा>हस्रे लोकधातौ सत्त्वास्ते सर्वे अनुपूर्वचरम<ं> मानुष्यकमात्मभावं प्रतिलभ्य अनुत्तरां सम्यक्संबोधिमभिसंबुध्येरंस् । तेषां सर्वेषामेकैकं बो<धिसत्त्वो महासत्त्वो यावज्जीवं तिष्ठन् तं चीवर>पृष्ठैण्डपातशय्यासनग्लानप्रत्ययभैषज्यपरिष्कारैरुपत्तिष्ठेत्, तत्किं मन्यसे सुभूते अपि नु स बोधिसत्त्वो महासत्त्वस्ततोनिदानं बहुपुण्यं <प्रसुचीत? आह: बहु भगवन् बहु सुगत । भ>गवान् [f । २२६ ] आह: अत<ः> स सुभूते कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसविष्यति (अद्स्प्गि ४६) य इमां गंभीरां प्रज्ञापारमितामुद्ग्रहीष्यति धारयिष्यति <वाचयिष्यति पर्यवाप्स्यति योनिशश्च म>नसिकरिष्यति । तथात्वाय च प्रतिपत्स्यते । तत्कस्य हेतोः? एवं महार्थिका हि सुभूते बोधिसत्त्वानां महासत्त्वानां प्रज्ञापारमिता । अनुत्तरस्याः सम्यक्संबोधेर्<आहर्त्री । तस्मात्तर्हि सुभूते बोधि>सत्त्वेन महासत्त्वेन सर्वसत्त्वानामनुत्तरेण । भवितुकामेन सर्वसत्त्वानामनाथानां नाथेन भवितुकामेन । अशरणानां श<र>णेन भवितुका<मेन । अपरायणानां परायणे>न भवितुकामेन । अन्धानां चक्षुषा भवितुकामेन अविद्यान्धकारप्रक्षिप्तानां दीपेन भवितुकामेन । बुद्धत्वमनुप्राप्तुकामेन बुद्धविषयमनुगन्तुकामे<न बुद्धविक्रीडितं विक्रीडितुकामे>न । बुद्धसिंहनादं नदितुकामेन बुद्धभेरी<ं> पराहन्तुकामेन बुद्धशंखं प्रवातुकामेन बुद्धसांकथ्यं कर्तुकामेन इहैव गंभिरायां प्रज्ञापारमितायां शिक्षित<व्यं । तत्कस्य हेतोर्? प्रज्ञापारमितायां सुभूते शिक्ष>माणो बोधिसत्त्वो महासत्त्वो न सा काचित्संपत्तिर्यां न प्रतिलभते । या अनेन <न> प्रतिलब्धव्या । सुभूतिर् आह: श्रावकसंपत्तिरपि भगवन्ननेन प्रतिलभ्दव्या<ः>, प्रत्येकबुद्धसंपत्तिरप्यनेन प्रतिलब्धव्याः? भगवानाह: श्रावकसंपत्तिरप्यनेन सुभूते प्रतिलब्धव्या, प्रत्येकबुद्धसंपत्तिरप्यनेन प्रतिलब्धव्याः, तत्र च न स्थातव्यं <न प्रतिष्ठातव्यं । ज्ञानेन च दर्श>नेन च तां दृष्ट्वा अतिक्रमितव्या । बोधिसत्त्वन्यामोऽवक्रमितव्य<ः> । एवं शिक्षमाणः सुभूते बोधिसत्त्वो महासत्त्वः सर्वाकारज्ञताया (अद्स्प्गि ४७) अभ्याशी भवत्यनुत्त<रां च सम्यक्संबोधिमभिसंबुध्यते ।> एवं शिक्षमाणः सुभूते बोधिसत्त्वो महसत्त्वः सदेवमानुषासुरे लोके दक्षिणीयतां गच्छति । एवं शिक्षमाण<ः> सुभूते बोधिसत्त्वो महासत्त्वो ये <तदन्ये दक्षिणीयाः । श्रावकप्रत्येकबुद्धास्> तान् सर्वानभिभूय गच्छति । सर्वाकारज्ञतायाश्च अभ्याशी भवत्य् । एवं शिक्षमाण<ः> सुभूते बोधिसत्त्वो महासत्त्वो न रिञ्चति प्रज्ञापारमितां चरति च प्र<ज्ञापारमितायामविरहितश्च प्रज्ञापा>रमिताया । एवं चरन् सुभूते बोधिसत्त्वो महासत्त्व इह गंभीरायां प्रज्ञापारमितायामपरिहाणधर्म वेदितव्यः सर्वाकारज्ञताया, दूरीकरो<ति श्रावकप्रत्येकबुद्धभूमी अभ्याशी> भवत्यनुत्तरस्याः सम्यक्संबोधेः । सचेत्पुनरस्यैवं भवति । इयं प्रज्ञापारमिता, इह प्रज्ञापारमिता, अनया प्रज्ञापारमितया <सर्वाकारज्ञातामाहरिष्यामि इति, सचेदेवं जा>नाति <न चरति> प्रज्ञापारमितायां । अथ तां प्रज्ञापारमितां न जानाति । इयं प्रज्ञापारमिता इह प्रज्ञापारमिता, तमपि न जानाति <न पश्यति । यस्य प्रज्ञापारमिता येन वा प्रज्ञापारमिता यो वा प्रज्ञापारमितया> [f । २२७ ] निर्याय अनुत्तरां सम्यक्संबोधिमभिसंबुध्यते । सचेत्पुनरस्यैवं भवति: नेयं प्रज्ञापारमि<ता नेह प्रज्ञापारमिता, न अनया प्रज्ञापारमितया कश्चिद्धर्मो निर्याति> स्थितत्वाद्धर्म<धातोस्तथताया> भूतकोटेः । एवं चरन् सुभूते बोधिसत्त्वो महासत्त्व<श्चरति> प्रज्ञापारमिताया<ः> । ((५७)) (अद्स्प्गि ४८) परिवर्त ५८ । अथ खलु शक्रस्य देवानामिन्द्रस्यैतदभूच्: चरन्नपि इह बोधिसत्त्वो महासत्त्वः दानपारमितायां शिलपारमितायां क्षान्तिपारमितायां वीर्यपारमितायां <ध्यानपारमितायां प्रज्ञापारमितायां> यावदष्टादशस्वावेणिकेषु बुद्धधर्मेषु सर्वसत्त्वानभिभवति । कः पुनर्वादोऽनुत्तरां सम्यक्संबोधिमभिसंबु<ध्य । सुलब्धाः तैः सत्त्वैल्लाभाः सुजीवितां च तेषां स>त्त्वानां जीवितं येषां सर्वाकारज्ञतायां चित्तं क्रामति । कः पुनर्वादो येऽनुत्तरायै सम्यक्संबोधये चित्तमुत्पादयन्ति । स्पृहणीया<स्ते सत्त्वा यैरनुत्तरस्यै सम्यक्संबोधये चित्तमु>त्पादितमुत्पादयिष्यन्ति इमां च प्रज्नापारमितां शृण्वन्तः । अथ शक्रो देवानामिन्द्रो मान्दारवाणि पुष्पाणि गृहीत्वा येन भगवांस्तेनोपसंक्रान्त उ<पसंक्रम्य तैर्मान्दारवैः पुष्पैस्> तथागतमर्हन्तं सम्यक्संबुद्धमवकिरन्ति स्म अभ्यवकिरन्ति स्म अभिप्रकिरन्ति स्म । अवकीर्य अभ्य<वकीर्य> अभिप्रकीर्यैवं वचमभाषत: ये बोधिसत्त्वयानिकाः <पुद्गला अनुत्तरां सम्यक्सं>बोधिमध्यालम्बन्ते, तेषामनेन कुशलमूलेन बुद्धधर्माणां परिपूरिर्भवतु सर्वाकारज्ञताधर्माणां परिपूरिर्भवतु । एसामेव स्वयंभूधर्माणां <परिपूरिर्भवतु, एषामेव अना>स्रवधर्माणां परिपूरिर्भवतु । न हि मे भगवन्नेकचित्तोत्पादोऽप्युत्पद्यते । यद्बोधिसत्त्वयानिकः पुद्गलोऽनुत्तरस्यै (अद्स्प्गि ४९) सम्यक्संबोधये संप्र<स्थितो विवर्तेत । न मे भगवन्नेकचित्त्>ओत्पादोऽप्युत्पद्यते यद्बोधिसत्त्वो महासत्त्वो विवर्त्य श्रावक्<अत्व्>ए वा प्रत्येकबोधौ वा पतेत् । अपि तु खलु जनयेच्छन्दमनुत्तरस्यां सम्यक्संबोधौ । भूय<स्या मात्रया प्रणिधिं कुर्यादनुत्तर>स्यै सम्यक्संबोधये । इमानि संसारावचराणि दुःखानि दृष्ट्वा अर्थकामो हितकाम<ः> सुखकामो योगक्षेमकाम<ः> सदेवमानुषासुर<स्य लोकस्यैभिश्चित्तोत्पादैः समन्वागतो बोधिसत्त्वो महासत्त्व> एवं विचुनुयात् । किमिति वयं तीर्णा अतीर्णान् सत्त्वांस्तारयेम, किमिति वयं मुक्ता अमुक्तान् सत्त्वान्मोचयेम । <किमिति वयमाश्वास्ता अनाश्वास्तान् सत्त्वानाश्वासयेम>, [f । २२७ ] किमिति वयं परिनिर्वृता अपरिनिर्वृतान् सत्त्वान् परिनिर्वापयेम । कियत्स भगवं कुलपुत्रो वा कुलदुहिता वा पुण्यं प्रसवेद् । यः <प्रथमयानसंप्रस्थितानां बोधिसत्त्वानां महा>सत्त्वानां <तां>श्चित्तोत्पादा<न>नुमोदेत । चिरचरितानामपि बोधिसत्त्वानां महासत्त्वानां तांश्चित्तोत्पादा<न>नुमोदेत अवैवर्तिकानामपि बोधिसत्त्व्<आनां महासत्त्वानां तांश्चित्तोत्पादाननुमो>देत एकजातिप्रतिबद्धानामपि बोधिसत्त्वानां महासत्त्वानां तांश्चित्तोत्पादाननुमोदेत? एवमुक्ते भगवांच्छक्रं देवानामिन्द्रमेतदवोचत्: <स्यात्कौशिक चातुर्महाद्वीपके लोकधात्>औ पलाग्रप्रमाणेन परिमाणां, न त्वेव तेषामनुमोदनासहगतानांश्चित्तोत्पादानां पुण्यस्य प्रमाणं । स्यात्कौशिक त्रिसाहस्रमहा<साहस्रे लोकधातौ पलाग्रप्रमा>णेन परिमाणां । न त्वेव तेषामनुमोदनासहगतानां (अद्स्प्गि ५०) चित्तोत्पादानां पुण्यस्य प्रमाणं । स्यात्पुन<ः> कौशिक त्रिसाहस्रमहासाहस्रे लोकधातौ म<हासमुद्रेषु यः अप्स्कन्धस्तस्य अ>पृष्ठस्कन्धस्य शतधाभिन्नया बालाग्रकोट्या उदकबिन्दूनामुत्क्षिप्यमाणानां प्रमाणं । न त्वेव तेषामनुमोदनासहगतानां चित्तोत्पादानां पुण्यस्य प्रमाणं । <एवमुक्ते शक्रो देवानामिन्द्रो भग>वन्तमेतदवोचत्: माराधिष्ठिता भगवंस्ते सत्त्वा भविष्यन्ति य इमांश्चित्तोत्पादान्न अनुमोदिष्यन्ते, मारपक्षिका भगवंस्ते सत्त्वा भविष्यन्ति य इमांश्चित्तो<त्पादान्न अनुमोदिष्यन्ते, मारभवनाद्भ>गवंस्ते सत्त्वाश्च्युता भविष्यन्ति य इमांश्चित्तोत्पादान्न अनुमोदिष्यन्ते । तत्कस्य हेतोः? मारभवनविध्वंसनकरा हि भगवंस्ते सत्त्वा य इमांश्चित्तोत्पादानभिनि<र्हृत्य अनुत्तरस्यां सम्यक्संबोधौ परिणामयन्ति । अनुमो>दितव्यास्ते चित्तोत्पादा येऽनुत्तरस्यै सम्यक्संबोध्<अय्>ए चित्तोत्पादा उत्पादिता । येषामपरित्यक्तो बुद्ध<ः> अपरित्यक्तो धर्म<ः> अपरित्यक्तः सं<घस्, तैरिमे चित्तोत्पादा अनुमोदितव्याः, अनुमोद्य अनुत्तरस्यां> सम्यक्संबोधौ परिणामयितव्या<ः> । यथा न द्वयसंज्ञा न अद्वयसंज्ञा । भगवानाह: एवमेतत्कौशिक एवमेतत् । तथा यथा वदसि । <य इमान् कौशिक चित्तोत्पादाननुमोदिष्यन्ते, ते क्षिप्रमेव तथा>गतानर्हतः सम्यक्संबुद्धानारागयिष्यन्ति, आराग्य न विरागयिष्यन्ति । एवं ते एभिरनुमोदनासहगतैश्चित्तोत्पादकुश<लमूलैः समन्वागता यत्र यत्रोपपत्स्यन्ते तत्र तत्र सत्>कृता भविष्यन्ति, गुरुकृता मानिता<ः> पूजिता भविष्यन्ति, न च ते जात्वमनआपं रूपं द्रक्ष्यन्ति । न अमनआपाञ्च्छब्दांच्छ्रोष्यन्ति । (अद्स्प्गि ५१) न अम<नआपान् गन्धान् घ्रास्यन्ति न अमनआपान् रसानास्वादयिष्यन्ति> न अमनआपान् स्पर्शान् स्प्रक्ष्यन्ति । न अमनआपान् धर्मान् विज्ञास्यन्ति, न च ते जातु बुद्धैर्भगवद्भिर्विरहि<ता भविष्यन्ति । बुद्धक्षे>त्राद्[f । २२८ ] बुद्धक्षेत्रं संक्रमिष्यन्ति । तांश्च बुद्धान् भगवतः पर्युपासिष्यन्ते, कुशलमूलान् च अवरोप्<अय्>इष्यन्ति । तत्कस्य हेतोस्? तथा हि कौशिक तैः कुलपुत्रैश्च कुलदुहितृभिश्च <असंख्येयानां बोधिसत्त्वानां> महासत्त्वानां प्रथमयानसंप्रस्थितानां कुशलमूलान्यनुमोदितानि द्वितीयभूमिस्थितानां तृतीयभूमिस्थितानां यावद्दशमीभूमीस्थितानां यावदेकजाति<प्रतिब>द्धानां बोधिसत्त्वानां महासत्त्वानां तानि कुशलमूलान्यनुमोदितानि । तैश्च कुशलमूलैर्विवर्धमानैरनुत्तरस्याः सम्यक्संबोधेरभ्याशीभवन्ति । तेऽनुत्तरां सम्यक्संबोधिमभिसंबुध्य अप्रमेयासंख्येयापरिमाणान् सत्त्वान् परिनिर्वापयिष्यन्ति । तदनेन अपि कौशिक पर्यायेण तेन कुलपुत्रेण वा कुलदुहित्रा वा प्रथमयानसंप्रस्थितानां बोधिसत्त्वानां महासत्त्वानां कुशलमूलान्यनुमोद्य अनुत्तरस्यां सम्यक्संबोधौ परिणामयितव्यानि यथा न चित्तं न अन्यत्र चित्तेन । चारिकां चरतामवैवर्तिकानामेकजातिप्रतिबद्धानां तानि कुशल<मूलान्य्> अनुमोद्य अनुत्तरस्यां सम्यक्संबोधौ परिणामयितव्यानि यथा न चित्तं न अन्यत्र चित्तेन । अथायुष्मान् सुभूतिर्भगवन्तमेतद्(अद्स्प्गि ५२) अवोचत्: कथं भगवं मायोपमं चित्तमनुत्तरां सम्यक्संबोधिमभिसंभोत्स्यते? भगवानाह: तत्किं मन्यसे सुभूते समनुपश्यसि त्वं तन्मायोपमं चित्तं? आह: नो हीदं भगवन्न अहं भगवन्मायां न मायोपमं चित्तं समनुपश्यामि । भगवानाह: तत्किं मन्यसे सुभूते । यत्र न माया न मायोपमं चित्तं समनुपश्य<सि> त्वं तच्चित्तं <यच्चित्तमनुत्तरां सम्यक्संबोधिमभिसंबुध्यते? >आह: नो हीदं भगवं । भगवानाह: तत्किं मन्यसे सुभूते अन्यत्र <मायाया> मायोपमाद्वा चित्तात्त<ं> धर्मं समनुपश्यसि । यो धर्मोऽनुत्तरां सम्यक्संबोधिमभिसंभोत्स्यते? आह: नो हीदां भगवं न अहं भगवन्नन्यत्र मायाया नान्यत्र मायोपमाच्चित्ता<त्> तद्धर्मं समनुपश्यामि । यो धर्मोऽनुत्तरां सम्यक्संबोधिमभिसंभोत्स्यते । सोऽहं भगवन्नन्यन् धर्म<म्> असमनुपश्यन्, कतमन् धर्ममुपदेक्ष्याम्यस्तिता वा नास्तिता वा वेति? यो धर्मोऽत्यन्ततया विविक्तो न सोऽस्तितां वा नास्तितां वोपैति । यो धर्मोऽत्यन्ततया विविक्तो न सो धर्मोऽनुत्तरां सम्यक्संबोधिमभिसंभोत्स्यते, न च असंविद्यमानो धर्मोऽनुत्तरां सम्यक्संबोधिमभिसंबुध्यते । तत्कस्य हेतोः? तथा हि भगवं सर्वधर्मा न संविद्यन्ते । ये संक्लिश्येरन् वा व्यवदायेरन् वा । तत्कस्य हेतोस्? तथा हि भगवं प्रज्ञापारमिता अत्यन्ततया विविक्ता ध्यानपारमिता अत्यन्ततया विविक्ता वीर्यपारमिता< अत्य्>अन्ततया विविक्ता क्षान्तिपारमिता अत्यन्ततया विविक्ता शीलपारमिता अत्यन्ततया विविक्ता । दानपारमिता (अद्स्प्गि ५३) अत्यन्ततया विविक्ता यावद्बोधिरत्यन्ततया विविक्त । यश्च अत्यन्ततया विविक्तो धर्मो [f । २२८ ] <न स भावयितव्यो न वि>भावयितव्य<ः> । नापि सा कस्यचिद्धर्मस्य आहर्त्री प्रज्ञापारमिता अत्यन्तविशुद्धत्वात् । अत्यन्तविविक्ता प्रज्ञापारमिता । कथं प्रज्ञापारमितामागम्य बोधिसत्त्वो महासत्त्वोऽनुत्तरां सम्यक्संबोधिमभिसंबुध्यते? अनुत्तरापि सम्यक्संबोधिरत्यन्ततया विविक्ता, तत्कथं विविक्तेन विविक्तस्य अनुबोधो भवति? भगवानह: <साधु साधु सुभूते> एवमेतत्सुभूते एवमेतत् । अत्यन्तविविक्ता हि सुभूते प्रज्ञापारमिता । अत्यन्तविव्<क्ता> हि ध्यानपारमिता अत्यन्तविविक्ता हि वीर्यपारमिता अत्यन्तविविक्ता हि क्षान्तिपारमिता अत्यन्तविविक्ता हि शीलपारमिता अत्यन्तविविक्ता हि दानपारमिता अत्यन्तविविक्ता हि यावद्बोधिः अत्यन्तविविक्ता हि यावत्सर्वाकारज्ञता । यथा सुभूते अत्यन्तविविक्ता प्रज्ञापारमिता । यावत्सर्वाकारज्ञता तथा अत्यन्तविविक्ता अनुत्तरा सम्यक्संबोधिरभिसंबुध्यते । सचेत्सुभूते प्रज्ञापारमिता <न> अत्यन्तविविक्ता स्याद्यावत्सर्वाकारज्ञता न अत्यन्तविविक्ता स्यात्न सा स्यात्प्रज्ञापारमिता यावन्न सा स्यात्सर्वाकारज्ञता, तस्मात्तर्हि सुभूते यथा प्रज्ञापारमिता अत्यन्तविविक्ता यथा यावत्सर्वाकारज्ञता अत्यन्तविविक्ता । एवं हि सुभूते न प्रज्ञापारमितामनागम्य अनुत्तरा सम्यक्संबोधिरभिसंबुध्यते । न च विवेकेन विवेकोऽभिसंबुध्यते । अभिसंबुध्यते च अनुत्तरा सम्यक्संबोधिः, न च अनागम्य प्रज्ञापारमितामभिसंबुध्यते । आह: गंभीरे भगवन्नर्थे चरति बोधिसत्त्वो महासत्त्वः । <भगवानाह:> एवमेतत्सुभूते एवमेतत्, गंभीरे सुभूते अर्थे चरति बोधिसत्त्वो महासत्त्वः । दुष्करकारकः सुभूते बोधिसत्त्वो (अद्स्प्गि ५४) महासत्त्व यद्गंभीरेऽर्थे चरति । तं च अर्थं न साक्षात्करोति । यदुत श्रावकभूमिं वा प्रत्येकबुद्धभूमिं वा । आह: यथा अहं भगवतो भाषितस्य अर्थमाजानामि । न किंचि<द्> दुष्करं करोति । कथं दुष्करकारको बोधिसत्त्वो महासत्त्वः? तत्कस्य हेतोस्? तथा हि भगवं सोऽर्थो नोपलभ्यते । यः साक्षात्कृयेत, सापि प्रज्ञापारमिता नोपलभ्यते । यया साक्षत्कृयेत, सोऽपि धर्मो नोपलभ्यते यः साक्षात्कुर्यात् । अनुपलभ्यमानेषु भगवं सर्वधर्मेषु कत्<अम्>ओऽर्थ<ः> साक्षात्करिष्यति । कतमया वा प्रज्ञापारमितया साक्षात्करिष्यते । कतमो वा धर्म<ः> साक्षात्करिष्यते । यं साक्षात्कृत्य नोत्त्रस्यति । न संत्रस्यति न सं<त्रासमाप>द्य भगवन्ननुपलंभचरिर्बोधिसत्त्वचरिर्यत्र चरं <बोधिसत्त्वो म>हासत्त्वः सर्वधर्मेष्वनन्धकारतामनुप्राप्नोति । सचेद्भगवन्नेवं भाष्यमाणे बोधिसत्त्वस्य महासत्त्वस्य । चित्तं न अवलीयते न संलीयते नोत्त्रस्यति । न संत्रस्यति न सं<त्रासमाप>द्यते । एवं चरं भगवन् बोधिसत्त्वो महासत्त्वश्चरति प्रज्ञापारमितायां । स चरामि इति न समनुपश्यति । प्रज्ञापारमितामपि न समनुपस्यति । अनुत्तरां सम्यक्संबोधिम् <अभिसंभो>त्स्य इत्यपि न समनुपश्यति । तस्य खलु पुनर्भगवं बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो नैवं भवति: दूरीकरिष्यामि श्रावकप्रत्येकभूमी आसन्नोऽस्मिन् [f । २२९ ] सर्वा<कारज्ञतायाः> । तद्यथापि नाम भगवं न अभ्यवकाशस्यैवं भवति: कस्यचिदहं दूरे वाऽभ्याशे वा । तत्कस्य हेतोर्? अभदत्वादचलत्वाद्भगवन्नभ्यवकाशस्य अविकल्पत्वाद्भगवन्नभ्यवकाशस्य । एवमेव भगवन् (अद्स्प्गि ५५) बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो नैवं भवति: श्रावकभूमिर्वा प्रत्येकबुद्धभूमिर्वा मम दूरे अनुत्तरा सम्यक्संबोधिर्मम अभ्याशे । तत्कस्य हेतोर्? अविकल्पत्वाद्भगवन् प्रज्ञापारमितायाः । तद्यथापि नाम भगवं मायापुरुषस्य नैवं भवति: माया मे दूरे, मायाकारो मेऽभ्याशे, यः पुनरयं जनकायः सन्निपतित, एष मे दूरे वाऽभ्याशे वा । तत्कस्य हेतोर्? अविकल्पत्वाद्भगवन्मायापुरुषस्य । एवमेव भगवन् बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो नैवं भवति: श्रावकभूमिर्वा प्रत्येकबुद्धभूमिर्वा मम दूरे अनुत्तरा सम्यक्संबोधिर्मम अभ्याशे । तद्यथापि नाम भगवन्न प्रतिबिम्बस्यैवं भवति: येन आरंबणेन प्रतिबिम्बमुत्पन्नं तत्मम अभ्याशे, ये पुनरत्र उपसंक्रान्ता आदर्शे वा उदकपात्रे वा ते मे दूरे । तत्कस्य हेतोर्? अविकल्पत्वाद्भगवन् प्रतिबिम्बस्य । एवमेव भगवं बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो नैवं भवति: श्रावकभूमिर्वा प्रत्येकबुद्धभूमिर्वा मम दूरे, अनुत्तरा सम्यक्संबोधिर्मम अभ्याशे । तत्कस्य हेतोर्? अविकल्पत्वात्पुनर्भगवं प्रज्ञापारमिताया । न हि भगवं प्रज्ञापारमिताया<ः> प्रियो वा अप्रियो वा अस्ति । तत्कस्य हेतोस्? तथा ह्यस्या<ः> स्वभावो नोपलभ्यते, यस्य प्रियो वा अप्रियो वा भवेत् । तद्यथापि नाम भगवंस्तथागतस्य अर्हतः सम्यक्संबुद्धस्य न कश्चित्प्रियो वा अप्रियो वा संविद्यते, एवमेव भगवं प्रज्ञापारमिताया न कश्चित्प्रियो वा अप्रियो वा संविद्यते । तद्यथापि नाम भगवंस्तथागतोऽर्हन् सम्यक्संबुद्धः सर्वकल्पविकल्पप्रहीणः, एवमेव भगवं प्रज्ञापारमिता (अद्स्प्गि ५६) सर्वकल्पविकल्पप्रहीणा, अविकल्पतामुपदाय । तद्यथापि नाम भगवन्न तथागतनिर्मितस्यैवं भवति: श्रावकभूमिर्वा प्रत्येकबुद्धभूमिर्वा मम दूरे, अनुत्तरा सम्यक्संबोधिर्मम अभ्याशे । तत्कस्य हेतोः? अविकल्पत्वाद्भगवंस्तथागतस्य तथागतनिर्मितस्य च । एवमेव भगवन्न बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरत एवं भवति: श्रावकभूमिर्वा प्रत्येकबुद्धभूमिर्वा मम दूरे, अनुत्तरा सम्यक्संबोधिर्मम अभ्याशे । तद्यथापि नाम भगवंस्तथागतो निर्मितं निर्मिमीत स यस्य कार्यस्य कृते निर्मितस्तत्कार्यं करोति, स च निर्मित<ः> अविकल्पो निर्विकल्प<ः>, एवमेव भगवन् यस्य कार्यस्य कृते प्रज्ञापारमिता भाव्यते तच्च कार्यं करोति, सा च प्रज्ञापारमिता अविकल्पा निर्विकल्पा । तद्यथापि नाम भगवन् दक्षेण पलगण्डेन वा पलगण्डान्तेवसिना वा यन्त्रं युक्तं स्यात्स्त्रिविग्रहो वा पुरुषविग्रहो वा, हस्तिविग्रहो वा, बलीवर्दविग्रहो वा । तच्च यदृशस्य कार्यस्य कृते कृतं तत्कार्यं करोति । तच्च यन्त्रमविकल्पं, एवमेव भगवन् यस्य कृत्यस्य कृते प्रज्ञापारमिता भाव्यते, तत्कार्यं करोति । सा च प्रज्ञापारमिता अविकल्पा । अथायुष्माञ्च्छारद्वतीपुत्र आयुष्मन्तं सुभूतिमेतदवोचत्: [f । २२९ ] किं पुनरायुष्मं सुभूते प्रज्ञापारमिताइव अविकल्पा उताहो ध्यानपारमिता अपि, यावद्दानपारमिता अप्यविकल्पा? सुभूतिराह: ध्यानपारमिता अप्यायुष्मञ्च्छारद्वातीपुत्र अविकल्पा । यावद्दानपारमिता अप्यविकल्पा । आह: किं पुनरायुष्मं सुभूते रूपमप्यविकल्पं यावद्विज्ञानमप्यविकल्पं? चक्षुरप्यविकल्पं यावद्मनोऽप्यविकल्पं? किं पुनर्रूपमप्यविकल्पं (अद्स्प्गि ५७) यावद्धर्ममप्यविकल्पं? चक्षुर्विज्ञानमप्यविकल्पं यावद्मनोविज्ञानमप्यविकल्पं? चक्षुःसंस्पर्शोऽप्यविकल्पो यावन्मनःसंपर्शोऽप्यविकल्पः? चक्षुःसंस्पर्शजा अपि वेदना अविकल्पा यावन्मनह्संस्पर्शजा अपि वेदना अविकल्पाः? किं पुनर्ध्यानान्यप्रमाणान्यारूप्यसमापत्तयोऽप्यविकल्पा? स्मृत्युपस्थानान्यपि यावन्मार्गोऽपि शून्यता आनिमित्तमप्रणिहितमप्यविकल्पं? किं पुनर्दशतथागतबलानि । चत्वारि वैशारद्यानि चतस्रः प्रतिसंविदो महामैत्री महाकरुणा अप्यविकल्पाः यावदष्टादशावेणिका बुद्धर्मा अप्यविकल्पा बोधिरप्यविकल्पा संस्कृतधातुर्<असंकृतधातुर्> अप्यविकल्पाः? सुभूतिराह: सर्वधर्मा अप्यायुष्मञ्च्छारद्वतीपुत्र अविकल्पाः । आह: यद्यायुष्मं सुभूते सर्वधर्मा अप्यविकल्पाः, कुतोऽयं पंचगतिकः संसार इति भेद आगतः नरकतिर्यग्योनियमलोकदेवमनुष्याः, कुत इयं <प्रभावना> श्रोतआपन्नानां सकृदागामिनामनागामिनामर्हतां प्रत्येकबुद्धानां बोधिसत्त्वानां बुद्धानां भगवतां? सुभूतिराह: ये ते आयुष्मञ्च्छारद्वतीपुत्र सत्त्वा विपर्याससमुत्थितं कर्म अभिसंस्कुर्वन्ति कायेन वाचा मनसा, तेषां तथारूपाण्यायतनान्यभिनिर्वर्तन्ते । च्छन्दमूलकं कर्म<विपाकं> परिगृह्य विकल्पसमुत्थितं नरकतिर्यग्योनियमलोकदेवमनुष्यगतीरभिनिर्वर्तयन्ति । यत्पुनरायुष्मञ्च्छारद्वतीपुत्र एवमाह: कुतः पुनः श्रोतआपन्ना प्रभाव्यन्ते सकृदागामिनोऽनागामिनोऽर्हन्तः प्रत्येकबुद्धा, कुतोऽपि बोधिसत्त्वा महासत्त्वा<ः>, कुतस्तथागता अर्हन्तः सम्यक्संबुद्धा<ः> प्रभाव्यन्त इति? अविकल्प<तः> आयुष्मञ्च्छारद्वतीपुत्र श्रोतआपन्नाः प्रभाव्यन्ते (अद्स्प्गि ५८) अविकल्पतः श्रोतआपत्तिफलं यावदविकल्पतोऽर्हन्तः अविकल्पतोऽर्हत्वं, अविकल्पत<ः> प्रत्येकबुद्धाः अविकल्पतः प्रत्येकबोधिः, अविकल्पतो बुद्धाः अविकल्पतो बोधिः । येऽपि ते आयुष्मञ्च्छारद्वतीपुत्र अभूवन्नतीतेऽध्वनि तथागता अर्हन्तः सम्यक्संबुद्धास्, तेऽप्यायुष्मञ्च्छारद्वतीपुत्र बुद्धा भगवन्त<ः> अविकल्पा विकल्पप्रहीना<ः>, एवमनागता अप्यविकल्पा भविष्यन्ति । येऽपि ते शारद्वतीपुत्र एतर्हि दशसु दिक्षु लोकधातुषु प्रत्युत्पन्नेऽध्वनि बुद्धा भगवन्तोऽनुत्तरां सम्यक्संबोधिमभिसंबुद्धास्तेऽप्यायुष्मञ्च्छारद्वतीपुत्र बुद्धा भगवन्तः अविकल्पा विकल्पप्रहीणाः । तदनेन ते आयुष्मञ्च्छारद्वतीपुत्र पर्यायेण एवं वेदितव्यं, सर्वधर्मा अविकल्पा अविकल्पतथतां प्रमाणीकृत्य भूतकोटितथतान् धर्मधातुतथतां प्रमाणिकृत्य । एवं खल्वायुष्मञ्च्छारद्वतीपुत्र बोधिसत्त्वेन महासत्त्वेन अविकल्पायां प्रज्ञापारमितायां चरितव्यं, अविकल्पायां प्रज्ञापारमितायां चरन्नविकल्पान् सर्वधर्मानभिसंबुध्यते । ((५८)) (अद्स्प्गि ५९) परिवर्त ५९ । अथ आयुष्मञ्च्छरद्वतीपुत्र अयुष्मन्तं सुभूतिमेतदवोचत्: सारे वतायम् [f । २३० ] आयुष्मं सुभूते चरति बोधिसत्त्वो <महासत्त्वो> यः प्रज्ञापारमितायां चरति । सारे वतायं चरति बोधिसत्त्वो महासत्त्वः । एवमुक्ते आयुष्मां सुभूतिरायुष्मन्तं शारद्वतीपुत्रमेतदवोचत्: असारे वतायं चरत्यायुष्मञ्च्छारद्वतीपुत्र बोधिसत्त्वो महासत्त्वो यः प्रज्ञापारमितायां चरति । तत्कस्य हेतोः? तथा ह्यायुष्मञ्च्छारद्वतीपुत्र असारिका प्रज्ञापारमिता यावदसारिका सर्वाकारज्ञता । तत्कस्य हेतोस्? तथा हि बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्नसारमेव नोपलभते न समनुपश्यति । कुतः पुनः सारमुपलप्स्यते । यावदसारिकां सर्वाकारज्ञतां नोपलभते । कुतः पुनः सारमुपलप्स्यते । अथ संबहुलानां कामावचराणां रूपावचराणां च देवपुत्राणामेतदभून्: नमस्करणीयास्ते कुलपुत्राश्च कुलदुहितरश्च यैरनुत्तरस्यै सम्यक्संबोधये चित्तमुत्पादितं ये चेह गंभिरायां प्रज्ञापारमितायां यथोपदिष्टायां चरन्ति । अत्र च अर्थे चरन्ति । न च भूतकोटिं साक्षात्कुर्वन्ति । यां साक्षात्कृत्य श्रावकभूमौ वा प्रत्येकबुद्धभूमौ वा अवतिष्ठेरन् । अनेन अपि पर्यायेण नमस्करणीयास्ते बोधिसत्त्वा महासत्त्वा य इमान् धर्मतां न साक्षात्कुर्वन्ति । अथायुष्मां सुभूतिस्तान् देवपुत्रानेतदवोचत्: नेदं देवपुत्रा दुष्करं (अद्स्प्गि ६०) बोधिसत्त्वानां महासत्त्वानां य इमान् धर्मतां न साक्षात्कुर्वन्ति यय साक्षात्कृयया श्रावकभूमौ वा प्रत्येकबुद्धभूमौ वा अवतिष्ठेरन्न् । इदं तेषां देवपुत्रा दुष्करतरं यदप्रमेय असंख्येय अपरिमाणान् सत्त्वान् परिनिर्वापयिष्याम इति सन्नाहं सन्नह्यन्ति । ते च सत्त्वा अत्यन्ततया नोपलभ्यन्ते यां परिनिर्वापयेयुः । एवं चारन् बोधिसत्त्वो महासत्त्वः संप्रस्थितो भवत्यनुत्तरस्यै सम्यक्संबोधये सर्वसत्त्वान् विनेष्यामि इति । आकाशं स विनेतव्यं मन्येत, यः सत्त्वान् विनेतव्यं मन्येत । तत्कस्य हेतोर्? आकाशविविक्ततया सत्त्वविविक्तता द्रष्टव्या, आकाशशून्यतया सत्त्वशून्यता द्रष्टव्या । आकाशासारतया सत्त्वासारता द्रष्टव्या, आकाशतुच्छतया सत्त्वतुच्छता द्रष्टव्या । अनेन अपि देवपुत्रा<ः> पर्यायेण दुष्करकारका बोधिसत्त्वा महासत्त्वाः ये अविद्यमानानां सत्त्वानां कृते सन्नाहं सन्नह्यन्ति । आकाशेन ते सार्धं विवदितुकामा ये सत्त्वानां कृते सन्नाहं सन्नह्यन्ति । स च सन्नाहो बोधिसत्त्वेन महासत्त्वेन सन्नद्धस्ते च सत्त्वा नोपलभ्यन्ते येषां सत्त्वानामर्थाय बोधिसत्त्वेन महासत्त्वेन सन्नाहः सन्नद्धस् । तत्कस्य हेतोः? सत्त्वविविक्ततया सन्नाहविविक्तता द्रष्टव्या । सचेदेवं भाष्यमाणे बोधिसत्त्वो महासत्त्वो न संसीदति, चरति बोधिसत्त्वो महासत्त्व प्रज्ञापारमितायां । तत्कस्य हेतो<ः>? रूपविविक्ततया सत्त्वविविक्तता । वेदनासंज्ञासंस्कार <विज्ञान>विविक्ततया सत्त्वविविक्तता । रूपविविक्ततया प्रज्ञापारमिताविविक्तता । रूपविविक्ततया यावत्सर्वाकारज्ञाताविविक्तता । सचेत्पुनः (अद्स्प्गि ६१) सुभूते बोधिसत्त्वस्य महासत्त्वस्य सर्व<धर्म>विविक्ततायां भाष्यमाणायां चित्त<ं> न अवलीयते न संलीयते न चास्य मानसं संत्रासमापद्यते, चरति बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां । अथ भगवानायुष्मन्तं सुभूतिमेतदवोचत्: केन कारणेन सुभूते बोधिसत्त्वो महासत्त्वो न [f । २३० ] संसीदति प्रज्ञापारमितायां? आह: असत्त्वाद्भगवं <सर्वधर्माणां> न संसीदति बोधिसत्त्वो महासत्त्वाः प्रज्ञापारमितायां, विविक्तत्वाच्छान्तत्वाद्<अनुत्पादत्वाद्> भगवं न संसीदति बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां । अनेन भगवन् कारणेन बोधिसत्त्वो महासत्त्वो न संसीदति प्रज्ञापारमितायां । तत्कस्य हेतो<स्>? तथा हि <स> भगवं नोपलभ्यते यः संसीदेद्येन वा संसीदेद्यत्र वा संसीदेत् । सर्व एते धर्मा न संविद्यन्ते । सचेद्भगवं बोधिसत्त्वो महासत्त्वः एवं भाष्यमाणे न संसीदति न विषीदति । न लीयते न अवलीयते न संलीयते, नोत्त्रस्यति न संत्रस्यति न संत्रासमापद्यते । चरति प्रज्ञापारमितायां । तत्कस्य हेतोस्? तथा हि भगवन् सर्व एते धर्मा न संविद्यन्ते यो वा संसीदेद्<येन वा संसीदेद्> यत्र वा संसीदेत् । एवं चरन् भगवन् बोधिसत्त्वो महासत्त्वः सेन्द्रकैर्देवाइः सब्रह्मकै<ः> सप्रजापतिकैर्नमस्यते । भगवानाह: न केवलं सुभूते सेन्द्रकैर्देवैः सब्रह्मकै<ः> सप्रजा<प>तिकैर्नमस्यते । बोधिसत्त्वो महासत्त्वो य एवं प्रज्ञापारमितायां चरति । येऽपि ते अभिक्रान्ता अभिक्रान्तवर्णा<ः> शुभकृत्स्ना वृहत्फला<ः> यावच्छुद्धावासकायिका देवपुत्रास्तेऽपि तं बोधिसत्त्वं (अद्स्प्गि ६२) महासत्त्वं नमस्यंति य एवं प्रज्ञापरमितायां चरति । येऽपि ते सुभूते तथागता अर्हन्त<ः> सम्यक्संबुद्धा असंख्येयाप्रमेयेषु लोकधातुषु तिष्ठन्ति धृयन्ते यापयन्ति, तेऽपि तं बोधिसत्त्वं महासत्त्वं प्रज्ञापारमितायां चरन्तं समन्वाहरन्ति । अयं बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् दानपारमितां परिपूरयिष्यति । यावत्सर्वाकारज्ञतां परिपूरयिष्यति । यं पुनः सुभूते बोधिसत्त्वं महासत्त्वं प्रज्ञापारमितायां चरन्तं बुद्धा भगवन्त<ः> समन्वाहरन्ति । स बोधिसत्त्वो महासत्त्वो बुद्धत्वप्रतिपन्नको धारयितव्यः । यावन्तः सुभूते गङ्गानदीवालुकोपमेषु लोकधातुषु सत्त्वास्ते सर्वे माराः पापीयांसो भवेयुर्, एकैकश्च मार<ः> पापीयांस्तावन्तो मारा<न्> पापीयांसोऽभिनिर्मिमीत, ते सर्वे अप्रतिबलास्तस्य बोधिसत्त्वस्य महासत्त्वस्य अन्तरायं कर्तुं । द्वाभ्यां सुभूते धर्माभ्या<ं> समन्वागतो बोधिसत्त्वो महासत्त्वो दुर्धर्षो भवति मारैः पापीयोभिः । कतमाभ्यां द्वाभ्यां? सर्वधर्मश्च अनेन सून्यता व्यवलोकिता भवन्ति । सर्वसत्त्वाश्च अस्य अपरित्यक्ता भवन्ति । आभ्यां सुभूते द्वाभ्यां धर्माभ्यां समन्वागतो बोधिसत्त्वो माहसत्त्वो दुर्धर्षो भवति मारैः पापीयोभिः । अपराभ्यां सुभूते द्वाभ्यां धर्माभ्यां <समन्वागतो> बोधिसत्त्वो महासत्त्व<ः> प्रज्ञापारमितायां चरन् दुर्धर्षो भवति मारैः पापीयोभि<ः> । कतमाभ्यां द्वाभ्यां? यथावादी च भवति तथाकारी, बुद्धैश्च भगवद्भिः समन्वाहृयते । आभ्यां सुभूते द्वाभ्यां धर्माभ्यां समन्वागतो बोधिसत्त्वो महाससत्त्व<ः> प्रज्ञापारमितायां चरन् दुर्धर्षो भवति मारैः पापीयोभिः । एवं (अद्स्प्गि ६३) चरन्तः सुभूते बोधिसत्त्वस्य महासत्त्वस्य ते देवपुत्रा उपसंक्रमितव्यं मंस्यन्ते । पर्युपासिष्यन्ते परिप्रक्ष्यन्ति परिप्रश्नयिष्यन्ति, उत्साहं च दास्यन्ति: क्षिप्रं त्वं कुलपुत्र बुद्धबोधिमनुप्राप्स्यसि । तस्मात्तर्हि त्वं कुलपुत्र अनेनैव विहारेण विहर यदुत शून्यताविहारेण अनिमित्तविहारेण अप्रणिहितविहारेण । [f । २३१ ] तत्कस्य हेतोर्? अनेन त्वं कुलपुत्र विहारेण विहरन्ननाथानां सत्त्वानां नाथो भविष्यस्यशरणानां सत्त्वानां शरणं भविष्यस्यत्राणानां सत्त्वानां त्राणां भविष्यस्यपरायणानां सत्त्वानां परायणं भविष्यस्यलयनानां सत्त्वानां लयनं भविष्यस्यद्वीपानां सत्त्वानां द्वीपो भविष्यस्यन्धभूतानां सत्त्वानामालोकभूतो भविष्यसि इति । तत्कस्य हेतोस्? तथा ह्यनेन प्रज्ञापारमिताविहारेण विहरतो बोधिसत्त्वस्य महासत्त्वस्य येऽपि ते अप्रमेयासंखेयेयेषु लोकधातुषु बुद्धा भगवन्तस्तिष्ठंति धृयंते यापयन्ति धर्मञ्च देशयंति भिक्षुसंघपरिवृता योऽसौ प्रज्ञापारमितायां चरत्येभिर्गुणैः समन्वागतो यदुत प्रज्ञापारमितागुणैस्तस्य बोधिसत्त्वस्य महासत्त्वस्य नामं च गोत्रं च परिकीर्त<य>मानरूपा धर्मं देशयन्त्युदानं च उदानयंति । तद्यथापि नाम सुभूते अहमेतर्हि रत्नकेतोर्बोधिसत्त्वस्य महासत्त्वस्य नामधेयं परिकीर्तयमानरूपो धर्मं देशयाम्युदानं चोदानयामि । सिखिनश्च बोधिसत्त्वस्य महासत्त्वस्य नामधेयं परिकीर्तयमानरूपो धर्मं देशयाम्युदानं चोदानयामि । येऽपि ते बोधिसत्त्वा महासत्त्वाः अक्षोभ्यस्य तथागतस्य अर्हतः (अद्स्प्गि ६४) सम्यक्संबुद्धस्य अन्तिके ब्रह्मचर्यं चरन्त्यनया प्रज्ञापारमितया अविरहितास्तेषामप्यहं बोधिसत्त्वानां महासत्त्वानां नामधेयं परिकीर्तयमानरूपो धर्मं देशयाम्युदानं चोदानयामि । येऽपि ते पूर्वस्यान् दिशि बुद्धा भगवंत<स्> तिष्ठंति धृयंते यापयंति धर्मं च देशयंति, तत्र ये बोधिसत्त्वा महासत्त्वा एवं ब्रह्मचर्यं चरन्त्यनया प्रज्ञापारमितया अविरहितास्तेषां ते बुद्धा भगवंतः संहर्षयमाणरूपा धर्मं देशयन्त्युदानं चोदानयन्ति । एवं येऽपि ते दक्षिणस्यां <दिशि> पश्चिमायामुत्तरस्यामधस्तादुपरिष्टाद्यावत्समंताद्दशसु दिक्षु बुद्धा भगवंतस्तिष्ठन्ति धृयन्ते यापयन्ति धर्मं च देशयंति, तत्र ये बोधिसत्त्वा महासत्त्वा ब्रह्मचर्यं चरन्त्यनया प्रज्ञापारमितया अविरहितास्तेषां ते बुद्धा भगवंतः संहर्षयमाणरूपा धर्मन् देशयन्त्युदानं चोदानयंति । येऽपि ते सुभूते बोधिसत्त्वा महासत्त्वा<ः> प्रथमचित्तोत्पादमुपादाय बोधिमार्गं च परिशोधयंति, यावत्सर्वाकारज्ञतामनुप्राप्स्यन्ति, तेषामपि ते बुद्धा भगवन्त<ः> संहर्षयमाणरूपा धर्मन् देशयंत्युदानं चोदानयंति । तत्कस्य हेतोः? एवं दुष्क<र>कारका हि सुभूते बोधिसत्त्वा महासत्त्वा भवन्ति, ये बुद्धनेत्र्या अव्यवच्छेदाय प्रतिपन्नाः । आह: कतमेषां भगवं बोधिसत्त्वानां महासत्त्वानां नामधेयं परिकीर्तयमानरूपाश्ते बुद्धा भगवंतो धर्मन् देशयंति । अवैवर्तिकानामथ वैवर्तिकानां? भगवानह: अस्ति सुभूते [f । २३१ ] बोधिसत्त्वा महासत्त्वा अवैवर्तिका ये प्रज्ञापारमितायां चरंति । अस्त्यव्याकृतका बोधिसत्त्वा (अद्स्प्गि ६५) महासत्त्वा ये प्रज्ञापारमितायां चरंति । तेषां ते बुद्धा भगवंत<ः> संहर्षयमाणरूपा धर्मन् देशयंत्युदानं चोदानयंति । आह: ते पुनर्भगवं कतमे? भगवानाह: ये अक्षोभ्यस्य तथागतस्य अर्हत<ः> सम्यक्संबुद्धस्य बोधिसत्त्वचारिकां चरंतेऽनुशिक्षमाणरूपा विहरन्ति । इमे ते सुभूते अवैवर्तिका बोधिसत्त्वा महासत्त्वा येषां ते बुद्धा भगवन्त<ः> संहर्षयमाणरूपा धर्मन् देशयन्त्युदानं चोदानयंति । येऽपि ते सुभूते रत्नकेतोर्बोधिसत्त्वस्य महासत्त्वस्य अनुशिक्षमाणरूपा बोधिसत्त्वचारिकां चरंति । तेषामपि ते बुद्धा भगवन्तः संहर्षयमाणरूपा धर्मन् देशयन्त्युदानं चोदानयंति । पुनरपरं सुभूते ये ते बोधिसत्त्वा महासत्त्वाः प्रज्ञापारमितायां चरन्ति, सर्वधर्माणामनुत्पत्तिकतायामधिमुक्ता न च अनुत्पत्तिकेषु धर्मेषु क्षान्ति<ः> प्रतिलब्धा । सर्वधर्मा<ः> शून्या इत्यधिमुक्ता न च अनुत्पत्तिकेषु धर्मेषु क्षान्ति<ः> प्रतिलब्धा । सर्वधर्मा<ः> शान्ता इत्यधिमुक्ता न च अनुत्पत्तिकेषु धर्मेषु क्षान्तिः प्रतिलब्धा । सर्वधर्मा रिक्तका इति तुच्छका इति वशिका इत्यसारका इत्यधिमुक्ता न च अनुत्पत्तिकेषु धर्मेषु क्षान्तिः प्रतिलब्धा । एषामपि सुभूते बोधिसत्त्वानां महासत्त्वानां ते बुद्धा भगवन्तः संहर्षयमाणरूपा धर्मं देशयन्त्युदानं चोदानयंति । येषामपि सुभूते बोधिसत्त्वानां महासत्त्वानां बुद्धा भगवंतो नामधेयं परिकीर्तयमानरूपा धर्मन् देशयन्त्युदानं चोदानयंति । तेषामपि सुभूते बोधिसत्त्वानां महासत्त्वानां प्रहीणाः श्रावकभूमि प्रत्येकबुद्धभूमिश्च व्याकृयंते तेऽनुत्तरायां सम्यक्संबोधौ । यस्य सुभूते बोधिसत्त्वस्य (अद्स्प्गि ६६) महासत्त्वस्य प्रज्ञापारमितायां चरतो बुद्धा भगवंतो नामधेयं परिकीर्तयमानरूपा धर्मन् देशयन्त्युदानं चोदानयंति । स बोधिसत्त्वो महासत्त्वः अवैवर्तिकतायां स्थास्यति । यत्र स्थित्वा सर्वाकारज्ञतामनुप्राप्स्यति । पुनरपरं सुभूते बोधिसत्त्वो महासत्त्वो गंभीरां प्रज्ञापारमितां भाष्यमाणां श्रुत्वा न कांक्षिष्यति । न विचिकित्सिष्यति न धन्धायिष्यते, एवमेतद्यथा तथागतेन अर्हता सम्यक्संबुद्धेन भाषितमिति । स पुनरेव विस्तरेण श्रोष्यत्यक्षोभ्यस्य तथागत<स्यार्हत>ः सम्यक्संबुद्धस्य अन्तिका<त्> तेषां च बोधिसत्त्वयानिकानां कुलपुत्राणामन्तिकात् । अयमपि बोधिस्सत्त्वयानिकः कुलपुत्र इमां प्रज्ञापारमितामधिमोक्ष्यते, इमां गंभीरां प्रज्ञापारमितां यथा तथागतेन भाषितां तथा अधिमुच्यमान अवैवर्तिकतायां स्थास्यति । एवं बहुकरो हि सुभूते बोधिसत्त्वानां महासत्त्वानां प्रज्ञापारमिता श्रवः कः पुनर्वादो येऽधिमोक्ष्यंते अधिमुच्य तथत्वाय स्थास्यन्ति । तथात्वाय प्रतिपत्स्यन्ते तथात्वाय स्थित्वा तथात्वाय प्रतिपद्य स्थास्यन्ति सर्वाकारज्ञातायां । आह: यत्पुनर्भगयं तथात्वाय [f । २३२ ] स्थित्वा यत्प्रतिपद्य न कश्चिद्धर्ममुपलप्स्यते । कथं स्थास्यति सर्वाकारज्ञतायां? यद्भगवंस्तथागतनिर्मितो न कंचिद्धर्ममुपलभ्यते कोऽयं तथतायां स्थास्यति को वा तथतायां स्थित्वा अनुत्तरां सम्यक्संबोधिमभिसंभोत्स्यते को वा तथतायां स्थित्वा धर्मन् देशयिष्यति? तथतैव तावं नोपलभ्यते कः पुनर्वादो यः तथतायां स्थास्यति । तथतायां स्थित्वा (अद्स्प्गि ६७) अनुत्तरां सम्यक्संबोधिमभिसंभोत्स्यते । तथतायां स्थित्वा धर्मन् देशयिष्यति । नेदं स्थानं विद्यते । भगवानाह: यत्सुभूतिरेवमाह । न च तथागतनिर्मितोऽन्यं किंचिद्धर्ममुपलभते यस्तथतायां तिष्ठेत्तथतायां स्थित्वा अनुत्तरां सम्यक्संबोधिमभिसंभोत्स्यते । तथतायां स्थित्वा धर्मन् देशये<त्> । तथतैव तावन्नोपलभ्यते । कः पुनर्वादो यस्तथतायां स्थास्यति । तथतायां स्थित्वा अनुत्तरां सम्यक्संबोधिमभिसंभोत्स्यते । तथतायां स्थित्वा धर्मन् देशयिष्यति । नेदं स्थानं विद्यते । एवमेतत्सुभूते एवमेतत्तथा यथा वदसि । न सुभूते तथागतनिर्मितोऽन्यं कंचिद्धर्ममुपलभते । यस्तथतायां तिष्ठेत्तथतायां स्थित्वा अनुत्तरां सम्यक्संबोधिमभिसंबुध्येत, तथतायां स्थित्वा धर्मन् देशयेत् । तथतैव तावन्नोपलभ्यते कः पुनर्वादो यस्तथतायां स्थास्यति तथतायां स्थित्वा अनुत्तरां सम्यक्संबोधिमभिसंभोत्स्यते । तथतायां स्थित्वा धर्मन् देशयिष्यति । नेदं स्थानं विद्यते । तत्कस्य हेतोः? उत्पादाद्वा सुभूते तथागतानामनुत्पादाद्वा तथागताना<ं> स्थितैवैषा धर्माणां तथता अवितथता अनन्यतथता । धर्मता स्थित एवैषा धर्माणां धर्मधातुर्धर्मस्थित्<इत्>आ धर्मनियामता भूतकोटिः । नेह सुभूते तथतायां कश्चित्स्थास्यति । न तथतायां स्थित्वा अनुत्तरां सम्यक्संबोधिमभिसंभोत्स्यते । न तथतायां स्थित्वा धर्मन् देशयिष्यति । तत्कस्य केतोः? तथा ह्यत्र तथतायां नोत्पाद उपलभ्यते न व्ययो न स्थितस्यान्यथात्वं । तद्यस्य धर्मस्य नाप्युत्पाद उपलभ्यते न व्ययो न स्थितस्यान्यथात्वं (अद्स्प्गि ६८) न तत्र कश्चित्स्थास्यति । नापि तत्र स्थित्वा अनुत्तरां सम्यक्संबोधिमभिसंभोत्स्यते । कुतः पुनस्तत्र स्थित्वा धर्मन् देशयिष्यति । नेदं स्थानं विद्यते । अथ शक्रो देवानामिन्द्रो भगवन्तमेतदवोचत्: गंभीरेयं भगवं । प्रज्ञापारमिता । दुष्करकारका भगवं बोधिसत्त्वा महासत्त्वा येऽनुत्तरां सम्यक्संबोधिमभिसंबोद्धुकामाः । तत्कस्य हेतोर्? न च नाम भगवं कश्चिद्धर्म उपलभ्यते नापि कश्चित्तथतायां स्थास्यति नापि कश्चिदनुत्तरां सम्यक्संबोधिमभिसंबुद्ध्यते नापि कश्चिद्धर्मन् देशयति । तत्र च नावलीयन्ते न चैषां कांक्षयितत्वं वा धन्धायितत्वं वा भवति । अथ सुभूति स्थविरः शक्रं देवानामिन्द्रमेतदवोच<त्>: यत्कौशिकैवं वदसि दुष्करकारका बोधिसत्त्वा महासत्त्वा येषामिह गंभीरेषु धर्मेषु न भवति कांक्षयितत्वं वा धंधायितत्वं वेति । शून्येषु कौशिक सर्वधर्मेषु कस्यात्र कांक्षयितत्वं वा धन्धायितत्वं वा भविष्यति? शक्र आह: यद्सुभूति<र्> स्थविरो निर्दिशति । तत्सर्वं शून्यतामेव आरभ्य निर्दिशति । न क्वचित्सज्जति । तद्यथापि नाम इषुरन्तरीक्षे क्षिप्तो न क्वचित्सज्जत्येवमेव सुभूते स्थविरस्य [f । २३२ ] धर्मदेशना न क्वचित्सज्जति । ((५९)) (अद्स्प्गि ६९) परिवर्त ६० । अथ शक्रो देवनामिन्द्रो भगवन्तमेतदवोचत्: कचेइदहं भगवन्नेवं भाषमाण एवमुपदिशन्नुक्तवादी च भगवतो धर्मवादी च धर्मस्य चानुधर्मतां सम्यक्व्याकुर्वं व्याकरोमि? भगवानाह: स खलु त्वं कौशिकैवं भाषमाण एवमुपदिशंस्तथागतस्योक्तवादी च धर्मवादी च धर्मस्य चानुधर्मतां व्याकरोषि । शक्र आह: आश्चर्यं भगवन् यावदिदं सुभूते स्थविरस्य प्रतिभाति । सर्वं तंच्छून्यतामेवारभ्य प्रतिभात्यानिमित्तमेव अप्रणिहितमेवारभ्य प्रतिभाति । स्मृत्युपस्थानान्येवारभ्य प्रतिभाति यावन्मार्गमेवारभ्य प्रतिभाति । अध्यात्मशून्यतामेवारभ्य प्रतिभाति यावदभावस्वभावशून्यतामेवारभ्य प्रतिभाति । यावद्बोधिमेवारभ्य प्रतिभाति । भगवानाह: सुभूतिः कौशिक स्थविर शून्यतया विहरन् दानपारमितामेव नोपलभते । कः पुनर्वादो यः दानपारमितायां चरति । शीलपारमितामेव नोपलभते । कः पुनर्वादो यः शीलपारमितायां चरति । एवं क्षान्तिपारमितां वीर्यपारमितां ध्यानपारमितां प्रज्ञापारमितामेव नोपलभते । कः पुनर्वादो यः प्रज्ञापारमितायां चरति । स्मृत्युपस्थानान्येव नोपलभते कः पुनर्वादो य स्मृत्युपस्थानानि भावयति । यावन्मार्गमेव नोपलभते । कः पुनर्वादो यो मार्गं भावयति । अध्यात्मशून्यतामेव नोपलभते । कः पुनर्वादो योऽध्यात्मशून्यतां (अद्स्प्गि ७०) भवयति । यावदभावस्वभावशून्यतामेव नोपलभते । कः पुनर्वादो योऽभावस्वभाशून्यतां भावयति । आर्यसत्यान्येव नोपलभते कः पुनर्वादो यो आर्यसत्यानि भावयति । एवं ध्यानविमोक्षसमाधिसमापत्तीरेव नोपलभते कः पुनर्वादो यो ध्यानविमोक्षसमाधिसमापत्तीन् भावयति । बलान्येव नोपलभते । कः पुनर्वादो यो बलानि भावयति । वैशारद्यान्येव नोपलभते । कः पुनर्वादो यो वैशारद्यान्यभिनिर्हरति । प्रतिसंविद एव नोपलभते कः पुनर्वादो यः प्रतिसांविदोऽभिनिर्हरति । महाकरुणामेव नोपलभते । कः पुनर्वादो यो महाकरुणाविहारी भवति । आवेणिकबुद्धधर्मानेव नोपलभते कः पुनर्वादो य आवेणिकबुद्धधर्मानभिनिर्हरति । बोधिमेव नोपलभते, कः पुनर्वादो यो बोधिमभिसंबुध्यते । सर्वाकारज्ञतामेव नोपलभते । कः पुनर्वादो यस्सर्वाकारज्ञतामनुप्राप्नोति । तथा<गत>मेव नोपलभते कः पुनर्वादो यस्तथागतो भवति । अनुत्पादमेव नोपलभते । कः पुनर्वादो योऽनुत्पादं साक्षात्करोति । लक्षणान्येव नोपलभते कः पुनर्वादो यस्य लक्षणानि काये भवंति । अनुव्यंजनान्येव नोपलभते । कः पुनर्वादो यस्य अनुव्यंजनानि काये भवन्ति । तत्कस्य हेतोः? सर्वधर्मविविक्तविहारी हि कौसिक सुभूति स्थविर अनुपलम्भविहारि शून्यताविहारी आनिमित्तविहारी अप्रणिहितविहारी । य एष कौशिक सुभूते स्थविरस्य विहार<ः> स बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायं चरतो विहारस्य शततमीमपि कलां नोपैति । सहस्रतमीम् <अपि शतसहस्रतमीमपि कोटीशत>सहस्रतमीम् [f । २३३ ] अपि संख्यामपि कलाम् (अद्स्प्गि ७१) अपि गणनामप्युपमामप्युपनिशामपि न क्षमते । तत्कस्य हेतोः? तथागतविहारं स्थापयित्वा बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो <यो> विहारो यश्च श्रावकानां विहारो यश्च प्रत्येकबुद्धानां <विहार एषां> विहाराणामयमेव बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो विहारोऽग्र्य आख्यायते ज्येष्ठ<ः> श्रेष्ठ आख्यायते वरः प्रवरः प्रणीत आख्यायाते अनुत्तरो निरुत्तर आख्यायते । तस्मात्तर्हि कौशिक बोधिसत्त्वेन महासत्त्वेन सर्वसत्त्वानामग्र्यतां गन्तुकामेन अनेन विहारेण विहर्तव्यं । यदुत प्रज्ञापारमिताविहारेण, तत्कस्य हेतोर्? अत्र हि कौशिक प्रज्ञापारमितायां चरन् बोधिसत्त्वो महासत्त्वः श्रावकप्रत्येकबुद्धबूमिमतिक्रामति । बोधिसत्त्वन्याममवक्रामति । बोधिसत्त्वन्याममवक्रम्य बुद्धधर्मान् परिपूरयति । बुद्धधर्मान् परिपूर्य सर्वाकारज्ञताज्ञानमनुप्राप्नोति । सर्वाकारज्ञताज्ञानमनुप्राप्नुवन्तस्तथागतस्य अर्हत<ः> सम्यक्संबुद्धस्य सर्ववासनानुसन्धिक्लेशप्रहाणं भवति । अथ तस्यामेव पर्षदि देवास्त्रयस्त्रिंशा मान्दरवाणि पुष्पाणि गृहीत्वा भगवन्तमवकिरन्ति स्म अभ्यवकिरन्ति स्म अभिप्रकिरन्ति स्म । षष्ट्यधिकं च भिक्षुशतमुत्थायसनादेकांसं चीवरं प्रावृत्य दक्षिणां जानुमण्डलं पृथिव्यां प्रतिष्ठाप्य येन भगवांस्तेनाञ्जलिं प्रणमय्य अनिमिषाभ्यां चक्षुर्भ्यां भगवन्तं <प्रेक्षमाणा> नमस्यन्ति स्म । अथ बुद्धानुभावेन तेषां भिक्षूणां तेऽञ्जलयः <प्रणमयन्तो> माण्डारवै<ः> पुष्पै<ः> परिपूर्णा अभूवन् । ते तैर्मान्दारवैः पुष्पैस्(अद्स्प्गि ७२) तथागतमर्हन्तं सम्यक्संबुद्धमवकिरन्ति स्म अभ्यवकिरन्ति स्म अभिप्रकिरन्ति स्म । अवकिरन्तोऽभ्यवकिरन्तोऽभिप्रकिरन्तः एवं <च्>) वाचं भाषन्ते स्म: वयं भगवन्ननेन कुशलमूलेन <अनेन> उत्तमविहारेण विहरेम । यत्र अगति<ः> । सर्वश्रावकप्रत्येकबुद्धानां । अथ भगवांस्तेषां भिक्षूणामाशयं विदित्वा तस्यां वेलायां स्मितं प्रादुरकर्षीद् । धर्मता खलु <पुनर्> बुद्धानां भगवतां यदा स्मितमाविष्कुर्वन्ति, अथ तावदेव अनेकवर्णा नानावर्णा अर्चिषो मुखद्वारान्निश्चरन्ति, तद्यथा नीलपीतलोहितावदातमञ्जिष्ठस्फटिकरजतवर्णास्, ते त्रिसाहस्रमहासाहस्रं लोकधातुमवभासेन स्फरित्वा पुनरेव आगम्य भगवन्तं <त्रिः> प्रदक्षिणीकृत्य भगवतो मूर्धन्यन्तर्धीयन्ते स्म । अथायुष्मानानन्द उत्थायासनादेकांसमुत्तरासंगं कृत्वा दक्षिणं जानुमण्डलं पृथिव्यां प्रतिष्ठाप्य येन भगवांस्तेनांजलिं प्रणमय्य भगवन्तमेतदवोचत्: को भगवन् हेतु<ः> कः प्रत्यय<ः> स्मितस्याविष्कुरणे, न अहेतु न अप्रत्ययं तथागता अर्हन्तः सम्यक्संबुद्धा<ः> स्मितमाविष्कुर्वन्ति । एवमुक्ते भगवानायुष्मन्तमानन्दमेतदवोचत्: इदमानन्द षष्ट्यधिक<ं> शतं भिक्षूणां तारकोपमे कल्पेऽनुत्तरां सम्यक्संबोधिमभिसंभोत्स्यन्ते । अवकीर्णकुसुमनामानस्तथागता अर्हन्त<ः> सम्यक्संबुद्धा लोके भविष्यन्ति । तेषां खलु पुनरानन्द अवकीर्णकुसुमनामकानां तथागतानामर्हतां सम्यक्संबुद्धानां समो (अद्स्प्गि ७३) भिक्षुसंघो भविष्यति । समं बुद्धक्षेत्रं भविष्यति । समायुष्प्रमाणं भविष्यति । यदुत वर्षसहस्रं । यतो यतोऽभिनिष्क्रमिष्यन्त्य्[f । २३३ ] अभिनिष्क्रम्य प्रव्रजिष्यन्ति । प्रव्रज्य अनुत्तरां सम्यक्संबोधिमभिसंभोत्स्यन्ते । तत्र तत्र पञ्चवर्णिकानां कुसुमानां कुसुमवर्षमभिप्रवर्षिष्यति । तस्मात्तर्ह्यानन्द उत्तमविहारेण विहर्तुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरितव्यं । तथागतविहारेण विहर्तुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरितव्यं । यो हि कश्चिदानन्द कुलपुत्रो वा कुलदुहिता वा इह गंभीरायां प्रज्ञापारमितायां चरिष्यति । निष्ठा तेन आनन्द कुलपुत्रेण वा कुलदुहित्रा वा गन्तव्या, मनुष्येभ्य एव अहं च्युत्वेहोपपन्नस्, तुषितेभ्यो वा देवनिकायेभ्यश्च्युत्वा इह उपपन्नो । मनुष्येष्वेवेयं गंभीरा प्रज्ञापारमिता विस्तरेण श्रुता भविष्यति । तुषितेषु वा देवनिकायेष्वियं गंभीरा प्रज्ञापारमिता <विस्तरेण> श्रुता भविष्यति । तथागतव्यवलोकितास्ते आनन्द बोधिसत्त्वा महासत्त्वा द्रष्टव्या य इह गंभीरायां प्रज्ञापारमितायां चरिष्यन्ति । यो हि कश्चिदानन्द कुलपुत्रो वा कुलदुहिता वा इमां गंभीरां प्रज्ञापारमितां श्रोष्यन्ति <श्रुत्वा च> उद्ग्रहीष्यन्ति धारयिष्यन्ति । वाचयिष्यन्ति पर्यवाप्स्यन्ति योनिशश्च मनसिकरिष्य<न्>ति, बोधिसत्त्वयानिकांश्<च पुद्गलांश्> चेह गंभीरायां प्रज्ञापारमितायामववदिष्यत्यनुशासिष्यति निष्ठा तेन आनन्द बोधिसत्त्वयानिकेन पुद्गलेन गन्तव्या, संमुखं मया तेषां तथागतानामर्हतां सम्यक्संबुद्धानामन्तिकादियं (अद्स्प्गि ७४) गंभिरा प्रज्ञापारमिता श्रुता भविष्यत्युद्गृहीता च धारिता च वा चिता च पर्यवाप्ता च भविष्यति, तत्र <च> तथागतेष्वर्हत्सु सम्यक्संबुद्धेषु कुशलमूलान्यवरोपितानि भविष्यन्ति । वेदितव्यमानन्द तेन कुलपुत्रेण वा कुलदुहित्रा वा, न मया श्रावकाणामन्तिके कुसलमूलान्यवरोपितानि, न श्रावकाणामन्तिकादियं गंभीरा प्रज्ञापारमिता <श्रुता । यो हि कश्चिदानन्द कुलपुत्रो वा कुलदुहिता वा इमां गंभीरां प्रज्ञापारमितां> उद्ग्रहीष्यति धारयिष्यति वाचयिष्यति, पर्यवाप्स्यति, अर्थतश्च धर्मतश्च व्यञ्जनतश्च अनुगमिष्यति, निष्ठा आनन्द तेन कुलपुत्रेण वा कुलदुहित्रा वा गन्तव्या, संमुखीभूतो मे तथागतोऽर्हन् सम्यक्संबुद्धः । यो हि कश्चिदानन्द कुलपुत्रो वा कुलदुहिता वा इमां गंभीरां प्रज्ञापारमितां भाष्यमाणां श्रुत्वा न प्रतिक्रोक्ष्यन्ति न प्रतिवक्ष्यन्ति श्रुत्वा च प्रसादं प्रतिलप्स्यन्ते, पूर्वजिनकृताधिकारः स आनन्द कुलपुत्रो वा कुलदुहिता वा वेदितव्यः । अवरोपितकुशलुमूलः कल्याणमित्रपरिगृहिता<ः> । किं चाप्यानन्द येन कुलपुत्रेण वा कुलदुहित्रा वा तथागतानामर्हता<ं> सम्यक्संबुद्धानामन्तिके कुशलमूलमवरोपितं, न तद्विसंवदिष्यति । श्रावकत्वे वा प्रत्येकबुद्धत्वे वा । अपि तु खलु पुनरानन्द सुप्रतिविद्धेन बोधिसत्त्वेन महासत्त्वेन भवितव्यं, दानपारमितायां चरता, शिलक्षान्तिवीर्यध्यानप्रज्ञापारमितायां चरता, यावत्सर्वाकारज्ञतायां [f । २३४ ] चरता । सुप्रतिविद्धो ह्यानन्द बोधिसत्त्वो महासत्त्वो दानपारमितायां चरंच्, छीलपारमितायां क्षान्तिपारमितायां वीर्यपारमितायां ध्यानपारमितायां प्रज्ञापारमितायां चरन्, यावत्सर्वाकारज्ञतायां (अद्स्प्गि ७५) चरन्न श्रावकत्वे वा प्रत्येकबुद्धत्वे वा स्थास्यति । तस्मात्तर्ह्यानन्द अनुपरिन्दामि ते इमां गंभीरां प्रज्ञापारमितां । सचेत्त्वमानन्द यो मया धर्मो देशित<ः> प्रज्ञापारमितां स्थापयित्वा सर्वां तां धर्मदेशनामुद्गृह्य पर्यवाप्स पुनरेव नाशये<ः>, पुनरेवोत्सृजे<र्>, न मे त्वमानन्द तावतापराध्ये । सचेन् त्वमानन्द इमां प्रज्ञापारमितामुद्गृह्य एकपदमपि नाशयेस्तावता <मे> त्वमानन्द अपराध्ये । सचेत्त्वमानन्द इमां गंभीरां प्रज्ञापारमितामुद्गृह्य पुनरेव <न> नाशये पुनरेव नोत्सृजेश्तावता मे त्वमानन्द नापराध्ये । तस्मात्तर्ह्यानन्द, अनुपरिन्दामि ते इमां गंभीरां प्रज्ञापारमितां यथोद्गृह्य धारये । वाचयेत्पर्यवाप्नुया सुमनसिकृता च कर्तव्या सुपरिगृहिता च सुपर्यवाप्ता च स्वाधारिता च कर्तव्या सुसनाप्तैरक्षरपदव्यञ्जनै सुनिरुक्ता च सूद्गृहीता च कर्तव्या । यो हि कश्चिदानन्द कुलपुत्रो वा कुलदुहिता वा इमां गंभीरां प्रज्ञापारमितामुद्ग्रहीष्यति धारयिष्यति वाचयिष्यति पर्यवाप्स्यत्यतीतानागतप्रत्युत्पन्नानां बुद्धानां भगवतां तेन बोधिर्धारिता भविष्यति । यो हि कश्चिदानन्द कुलपुत्रो वा कुलदुहिता वा इमां गंभीरां प्रज्ञापारमितामुद्ग्रहीष्यत्यतीतानागतप्रत्युत्पन्नानां बुद्धानां भगवतां तेन बोधिरनुपरिगृहीता भविष्यति । य इच्छेत्मम आनन्द संमुखीभूतं सत्कर्तुं गुरुकर्तुं मानयितुं पूजयितुं । (अद्स्प्गि ७६) पुष्पैर्माल्यैर्गन्धै<र्> विलेपनैश्चूर्णैश्चीवरैश्छत्त्रैर्ध्वजैः पताकाभि । तेनेयं प्रज्ञापारमितोद्ग्रहीतव्या धारयितव्या वाचयितव्या पर्यवाप्तव्या उद्गृह्य धारयित्वा वाचयित्वा पर्यवाप्येयं प्रज्ञापारमिता सत्कर्तव्या गुरुकर्तव्या मानयितव्या पूजयितव्या, पुष्पैर्माल्यैर्गन्धैर्विलेपनैश्चूर्णैश्चीवरैश्छत्त्रैर्ध्वजैः पताकाभिः । प्रज्ञापारमितां सत्कुर्वतां गुरुकुर्वतां मानयतां पूजयता<म्> अहं च तेन पूजितो भविष्याम्य्, अतीतानागतप्रत्युत्पन्नाश्च बुद्धा भगवन्तः पूजिता भविष्यन्ति । यो हि कश्चिदानन्द अस्यां गंभीरायां प्रज्ञापारमितायां भाष्यमाणायां गौरवं च प्रेम<ं> च प्रसादं च उत्पादयिष्यति अतीतानागतप्रत्युत्पन्नानां बुद्धानां भगवतामन्तिके तेन प्रेम<श्> च प्रसादश्च गौरवं चोत्पादितं भविष्यति । यदि ते आनन्द अहं प्रियश्च मनआपश्च अपरित्यक्तश्च, तन् ते आनन्द इयं प्रज्ञापारमिता प्रिया च मनआपा च अपरित्यक्ता च भवतु । यथैकपदमपि ते इतो गंभीरायाः प्रज्ञापारमिताया न नाशयितव्यं । सुबह्वपि ते आनन्द भाषेयं प्रज्ञापारमिताया परिन्दानामारभ्य । संक्षिप्तेन आनन्द यादृश एव अहं <ते> शास्तास्तादृशस्ते [f । २३४ ] इयं प्रज्ञापारमिता शास्ता, तस्मात्तर्ह्यानन्द अप्रमाण्<अय्>आ परिन्दानया तेऽहमिमां प्रज्ञापारमितामनुपरिन्दामि । तस्मात्तर्ह्यानन्द सदेवमानुषा<सु>रस्य लोकस्य पुरत आरोचयामि । यस्यापरित्यक्तो बुद्धः अपरित्यक्तो धर्मः अपरित्यक्तः संघः अपरित्यक्ता च अतीतानागतप्रत्युत्पन्ना बुद्धा भगवन्त । अपरित्यक्ता च अतीतानागतप्रत्युत्पन्नानां बुद्धानां भगवतां बोधिस्, तस्येयं प्रज्ञापारमिता अपरित्यक्ता भवतु । इयमस्माकमनुशासनी । यो हि कश्चिदानन्द (अद्स्प्गि ७७) कुलपुत्रो व कुलदुहिता वा इमं गंभिरां प्रज्ञापारमितामुद्ग्रहीष्यति । धारयिष्यति वाचयिष्यति पर्यवाप्स्यति पत्तीयेष्यति योनिशश्च मनसिकरिष्यति । परेषां चेमां गंभीरां प्रज्ञापारमितामनेकपर्यायेण विस्तरेण आख्यास्यति देशयिष्यति प्रज्ञापयिष्यति, प्रस्थापयिष्यति विवरिष्यति विभजिष्यति उत्तानीकरिष्यति संप्रकाशयिष्यति स खलु पुनरानन्द कुलपुत्रो वा कुलदुहिता वा क्षिप्रमेव अनुत्तरां सम्यक्संबोधिमभिसंभोत्स्यते । अभ्याशी भविष्यति सर्वाकारज्ञताया । तत्कस्य हेतोः? प्रज्नापारमितानिर्याता ह्यानन्द बुद्धानां भगवतामनुत्तरा सम्यक्संबोधि<र्> । येऽपि ते आनन्द अभूवन्नतीतेऽध्वनि तथागता अर्हन्तः सम्यक्संबुद्धास्तेषामपि बुद्धानां भगवतां प्रज्ञापारमितानिर्जातैव अनुत्तरा सम्यक्संबोधिः । येऽपि ते आनन्द भविष्यन्त्यनागातेऽध्वनि तथागता अर्हन्तः सम्यक्संबुद्धास्तेषामपि बुद्धानां भगवतां प्रज्ञापारमितानिर्जातैव अनुत्तरा सम्यक्संबोधिः । ये <ऽपि> ते आनन्द एतर्हि पूर्वस्यान् दिशि दक्षिणस्यां पश्चिमायामुत्तरस्यामधस्तादुपरिष्टाद्यावत्समन्ता<द्> दशसु दिक्षु <लोकधातुषु> तथागता अर्हन्तः सम्यक्संबुद्धास्तिष्ठन्ति धृयन्ते यापयन्ति धर्मं च देशयन्ति तेषामपि बुद्धानां भगवतां प्रज्ञापारमितानिर्जातैव अनुत्तरा सम्यक्संबोधिः । तस्मात्तर्ह्यानन्द अनुत्तरां सम्यक्संबोधिमभिसंबोद्धुकामेन बोधिसत्त्वेन महासत्त्वेन । षट्सु पारमितासु चरितव्यं । तत्कस्य हेतोर्? एषा ह्यानन्द बोधिसत्त्वानां महासत्त्वानां जनेत्री यदुत प्रज्ञापारमिता । ये हि केचिद्(अद्स्प्गि ७८) आनन्द बोधिसत्त्वा महासत्त्वा षट्सु पारमितासु शिक्षिष्यन्ति । सर्वे ते निर्यास्यन्त्यनुत्तरस्यां सम्यक्संबोधौ । तस्मात्तर्ह्यानन्द इमाः षट्पारमिताः भूयस्या मात्रया परिन्दाम्यनुपरिन्दामि । तत्कस्य हेतोर्? एषा ह्यानन्द तथागतानामर्हतां सम्यक्संबुद्धानां धर्मकोशः, अक्षयो ह्येष धर्मकोशो यदुत षट्पारमिताकोशः । येऽपि ते आनन्द पूर्वस्यां दिशि दक्षिणस्यां पश्चिमायामुत्तरस्यामधस्तादुपरिष्टाद्यावत्समन्ताद्दशसु दिक्षु लोकधातुषु तथागता अर्हन्तः सम्यक्संबुद्धास्तिष्ठन्ति धृयन्ते यापयन्ति धर्मं च देशयन्ति । तेऽप्यानन्द बुद्धा भगवन्त इह एव षट्पारमिताकोशाद्<धर्मं> देशयन्ति । येऽपि ते आनन्द अभूवन्नतीतेऽध्वनि तथागता अर्हन्तः सम्यक्संबुद्धास्तेऽप्यत्रैव षट्सु पारमितासु शिक्षित्वा अनुत्तरां सम्यक्संबोधिमभिसंबुद्धा धर्मन् देशयन्त । येऽपि ते आनन्द भविष्यन्त्यनागातेऽध्वनि तथागता अर्हन्तः सम्यक्संबुद्धास्तेऽप्यत्रैव षट्सु पारमितासु शिक्षित्वा अनुत्तरां सम्यक्संबोधिमभिसंभोत्स्यन्ते । धर्मन् देशयन्ति । [f । २३५ ] येऽपि ते अनन्तातीतानागतप्रत्युत्पन्नानां बुद्धानां भगवतां श्रावकाः सर्वे ते इहैव प्रज्ञापारमितायां शिक्षित्वा परिनिर्वृताश्च परिनिर्वान्ति च परिनिर्वापयिष्यन्ति च । सचेत्त्वमानन्द श्रावकयानिकानां पुद्गलानां श्राववकभूमिमारभ्य धर्मन् देशयेस्तया च धर्मदेशनया ये त्रिसाहस्रमहासाहस्रे लोकधातौ सत्त्वास्ते सर्वे अर्हत्व<ं> साक्षात्कुर्युः अद्यापि त्वया मे श्रावकेण श्रावककृत्य<ं न> कृतं भवेत् । सचेत्मे (अद्स्प्गि ७९) त्वमानन्द बोधिसत्त्वस्य महासत्त्वस्यैकपदमपि प्रज्ञापारमिताप्रतिसंयुक्तं देशयेः प्रकाशयेः, एवमहं त्वया <मे? >श्रावकेण आराधितो भवेयं, श्रावकेण श्रावककृत्यं कृतं भवेत् । या च पौर्विकया धर्मदेशनया ये त्रिसाहस्रमहासाहस्रे लोकधातौ सत्त्वास्ते सर्वेऽनुपूर्वचरममर्हत्वं साक्षात्कुर्युस्तेषां च अर्हतां यद्दानमयं पुण्यक्रियावस्तु शीलमयं भावनामयं पुण्यक्रियावस्तु । तत्किं मन्यसे आनन्द अपि नु तद्बहु भवेत्? आह: बहु भगवन् बहु सुगत । भगवानाह: अतः स आनन्द बहुतरं पुण्यं प्र<स>वेद्यः श्रावकयानिकः पुद्गलो बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमिताप्रतिसंयुक्तं धर्मन् देशयेदन्तश एकदिवसमपि, तिष्ठत्वानन्दैकदिवसः सचेदानन्द अर्धदिवसमपि, तिष्ठत्वानन्द अर्धदि<व>सः । सचेदानन्द यावत्पुरोभक्तमपि, सचेद्याव<न्> नाडिकान्तरं वा सचेद्यावदच्छटान्तरं वा, सचेद्यावत्क्षणं वा लवं वा मुहूर्त्तं वा । अयमेव आनन्द बहुतरं पुण्यं प्रसवेति यः श्रावकयानिकः पुद्गलो बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमिताप्रतिसंयुक्तं धर्मन् देशयेत्<स> सर्वश्रावकप्रत्येकबुद्धयानिकानां कुलपुत्राणां कुलदुहितृणां च कुशलमूलमभिभवति । सचेत्पुनरानन्द बोधिसत्त्वो महासत्त्वो बोधिसत्त्वयानिकानां पुद्गलानां प्रज्ञापारमिताप्रतिसंयुक्त<ं> धर्मन् देशयेतन्तश एकदिवसमप्यर्धदिवसमपि पुरोभक्तमपि नाडिकान्तरमपि क्षणं वा लवं वा मुहूर्त्तं वा, अयमानन्द बोधिसत्त्वो महासत्त्व<ः> सर्वश्रावकप्रत्येकबुद्धयानिकानां कुलपुत्राणां कुलदुहितृणां च कुशलमूलमभिभवति । तत्कस्य हेतो<ः>? तथा हि स (अद्स्प्गि ८०) आत्मना च अनुत्तरां सम्यक्संबोधिमभिसंबोद्धुकाम<ः> परं च अनुत्तरस्यां सम्यक्संबोधौ समादापयति संहर्षयति समुत्तेजयति निवेशयति प्रतिष्ठापयति । एवमानन्द बोधिसत्त्वो महासत्त्वः षट्सु पारमितासु चरंश्चतुर्षु स्मृत्युपस्थानेषु, यावन्मार्गाकारज्ञतायां चरं कुशलमुलैर्विवर्धमानः अस्थानम् <आनन्द अन्>अवकाशो यदनुत्तरस्याः सम्यक्संबोधेः परिहीयेत नेदं स्थानं विद्यते । अस्यां खलु पुन<ः> प्रज्ञापारमितायां भाष्यमाणायां भगवांश्चतसृणां पर्षदां देवनागयक्षगन्धर्वासुरगरुडकिन्नरमहोरगाणां तथा स्थितानामेव पुरतस्तथारूपमृद्ध्यभिसंस्कारमभिसंस्कृतवान् यथारूपेणर्द्ध्यभिसंस्कारेण अभिसंस्कृतेन सर्वे <ते> अक्षोभ्यं तथागतमर्हन्तं सम्यक्संबुद्धं पश्यन्ति भिक्षुसंघपरिवृतं भिक्षुसंघपुरस्कृतं धर्मन् देशयन्तं सागरोपमया पर्षदा अक्षोभ्यया, सर्वैरर्हद्भिः क्षीणास्रवैर्निष्क्लेशैर्वशीभूतैः सुविमुक्तचित्तैः सुविमुक्तप्रज्ञैराजानेयैर्महानागै<ः> [f । २३५ ] कृतकृत्यै<ः> कृतकरणीयैरपहृतभारैरनुप्राप्तस्वकार्थैः परिक्षीणभवसंयोजनैः सम्यगाज्ञासुविमुक्तचित्तैः सर्वचेतोवशितापरपारमिप्राप्तैर्बोधिसत्त्वैश्च महासत्त्वैः सागरोपमबुद्धिभिः । अथ भगवान् पुनरेव तमृद्ध्यभिसंस्कारं प्रतिसंहृतवान् प्रतिसंहृते च तस्मिनृद्ध्यभिसंस्कारे ताश्चतस्र<ः> पर्षदो न भूयः पश्यन्ति तमक्षोभ्यं तथागतमर्हन्तं सम्यक्संबुद्धं, श्रावकान् वा बोधिसत्त्वयानिकान् वा पुद्गलंस्, तच्च (अद्स्प्गि ८१) बुद्धक्षेत्रमक्षोभ्यस्य तथागतस्य अर्हतः सम्यक्संबुद्धस्य न भूय<ः> पश्यन्ति, न भूयो बुद्धप्रमुखो भिक्षुसंघश्चक्षुष आभासमागच्छति । तत्कस्य हेतोः? प्रतिसंहृतो हि तथागतेन अर्हता सम्यक्संबुद्धेन स ऋद्ध्यभिसंस्कार<स्> । ते<न ते>न भूय<ः> पश्यन्ति । अथ भगवानायुष्मन्तमानन्दमामन्त्रयत: पश्यसि त्वमानन्द तदक्षोभ्यस्य तथागतस्य बुद्धक्षेत्रं <तं> च अक्षोभ्यं तथागतं तं च भिक्षुसंघं बोधिसत्त्वसंघं च? आह: चक्षुषोऽपि भगवंस्तद्बुद्धक्षेत्रं नाभासमागच्छति । नापि स तथागतो नापि स भिक्षुसंघो नापि स बोधिसत्त्वसंघ<ः> । भगवानाह: एवमेव आनन्द सर्वधर्मा <न> चक्षुष आभासमागच्छन्ति । न धर्मो धर्मस्य आभासमागच्छति । न धर्मो धर्मं पश्यति । न धर्मो धर्मं जानाति । यथा पुनरेव अक्षोभ्यस्तथागतोऽर्हन् सम्यक्संबुद्धस्ते च श्रावकास्ते च बोधिसत्त्वयानिकाः पुद्गलास्तच्च बुद्धक्षेत्रं <न> चक्षुष आभासमागच्छति । एवं ह्यानन्द सर्वधर्मा न चक्षुष आभासमागच्छन्ति । न धर्मो धर्मस्य आभासमागच्छति । न धर्मो धर्मं पश्यति । न धर्मो धर्मं जानाति । सर्वधर्मा ह्यानन्द अजानका<ः> अपश्यकाः अक्रियासमर्थाः । तत्कस्य हेतोः? निरीहका अग्राह्या <ह्य्> आनन्द सर्वधर्मा आकशनिरीहकतया, अचिन्त्या ह्यानन्द सर्वधर्माः मायापुरुषोपमाः, अवेदका ह्यानन्द सर्वधर्माश्चित्तविगतत्वात् । विठपनप्रत्युपस्थानलक्षणत्वादसारकतां चोपादाय । एवं चरन् बोधिसत्त्वो महासत्त्वश्(अद्स्प्गि ८२) चरति प्रज्ञापारमितायां न च किंचिद्धर्ममभिनिविशते । एवं शिक्षमाण आनन्द बोधिसत्त्वो महासत्त्व<ः> शिक्षते प्रज्ञापारमितायां । सर्वपारमिताः परिपूरयितुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं । एषा शिक्षा अग्र्या आख्यायते ज्येष्ठा श्रेष्ठा वरा प्रवरा प्रणीता आख्यायते अनुत्तरा निरुत्तरा आख्यायते, सर्वलोकहिताय सर्वलोकसुखाय । अनाथानां नाथकरी हुद्धानुज्ञाता बुद्धप्रशस्ता । यत्र स्थित्वा तथागता अर्हन्तः सम्यक्संबुद्धा इमन् त्रिसाहस्रमहासाहस्रं लोकधातुं दक्षिणेन पाणिनाभ्युत्क्षिप्य पुनरेव निक्षिपेयुः न च तेषां सत्त्वानामेवं भवेद्, उत्क्षिप्तो वायं त्रिसाहस्रमहासाहस्रो लोकधातुर्निक्षिप्तो वा । तत्कस्य हेतोः? इयं सा आनन्द प्रज्ञापारमिता यत्र शिक्षित्वा बुद्धानां भगवतामतीतानागतप्रत्युत्पन्नेषु धर्मेष्वसंगं ज्ञानदर्शनमुत्पन्नं । यावन्त्य आनन्द शिक्षा सर्वासां शिक्षाणामियं प्रज्ञापारमिता<शिक्षा> अग्र्या आख्यायते ज्येष्ठा श्रेष्ठा आख्यायते वरा प्रवरा आख्यायते । प्रणीता आख्यायते अनुत्तरा निरुत्तरा आख्यायते । आकाशस्य स आनन्द [f । २३६ ] प्रमाणं वा पर्यन्तं वोद्ग्रहीतव्यं मन्येत । यः प्रज्ञापारमितायाः प्रमाणं वा पर्यन्तं वोद्ग्रहीतव्यं मन्येत । तत्कस्य हेतो<ः>? अप्रमाणा ह्यानन्द प्रज्ञापारमिता । न मया आनन्द प्रज्ञापारमितायाः प्रमाणमाख्यातं, नामकायपदकायव्यञ्जनकाया ह्यानन्द प्रमाणबद्धा न प्रज्ञापारमिता प्रमाणबद्धा । आनन्द आह: केन कारणेन भगवं प्रज्ञापारमिता अप्रमाणबद्धा? भगवानाह: अक्षयत्वादानन्द (अद्स्प्गि ८३) प्रज्ञापारमिता अप्रमाणबद्धा, विविक्तत्वादानन्द प्रज्ञापारामिता अप्रमाणबद्धा । येऽपि ते आनन्द <अभूवन्न>तीतेऽध्वनि तथागता अर्हन्त<ः> सम्यक्संबुद्धास्तेऽपि इत एव प्रज्ञापारमितायाः प्रभाविता । न च प्रज्ञापारमिता क्षयं गता । येऽपि ते आनन्द भविष्यन्त्यनागतेऽध्वनि तथागताः अर्हन्त<ः> सम्यक्संबुद्धास्तेऽपि इत एव प्रज्ञापारमिताया<ः> प्रभावयिष्यन्ति । न च प्रज्ञापारमिता क्षेष्यते । ये पिऽते आनन्दैतर्हि दशसु दिक्षु लोके तथागता अर्हन्तः सम्यक्संबुद्धास्तिष्ठन्ति धृयन्ते यापायन्ति धर्मं च देशयन्ति, तेऽपि बुद्ध भगवन्त इत एव प्रज्ञापारमिताया<ः> प्रभाव्यन्ते न च प्रज्ञापारमिता क्षियते । तत्कस्य हेतोर्? आकाशं स आनन्द क्षपयितव्यं मन्येत यः प्रज्ञापारमितां क्षपयितव्यं मन्येत । न च प्रज्ञापारमिता क्षीणा न क्षीयते न क्षेष्यते । एवं न ध्यानपारमिता वीर्यपारमिता <क्षान्तिपारमिता> शीलपारमिता दानपारमिता क्षीणा न क्षीयते न क्षेष्यते । न ह्येषां धर्माणामुत्पादोऽस्ति, येषामुत्पादो नास्ति कुतस्तेषां क्षयः प्रज्ञास्यते? अथ भगवान् जिह्वेन्द्रियम् <अभि>निर्मापय्य सर्वान्तं मुखमण्डलं जिह्वेन्द्रियेण संच्छाद्य आयुष्मन्तमानन्दमामन्त्रयत: तस्माद्तर्ह्यानन्द इमां प्रज्ञापारमितां चतसृणां पर्षदा<ं> विस्तरेण चक्षीथा देशयेः संप्रकाशये<ः> प्रज्ञपयेः प्रस्थापयेः विवरेर्विवरेरुत्तानीकुर्याद्विस्तरेण (अद्स्प्गि ८४) संप्रकाशये<ः> । इह ह्यानन्द गंभीरायां प्रज्ञापारमितायां सर्वधर्मा विस्तरेणोपदिष्टा यत्र श्रावकयानिकैर्वा प्रत्येकबुद्धयानिकैर्वा <बोधिसत्त्सयानिकैर्वा> पुद्गलैः शिक्षितव्यं । यत्र यथानुशिष्टा शिक्षमाणा स्वसु स्वसु भूमिषु स्थास्यंति । इयं पुनरानन्द गंभीरा प्रज्ञापारमिता सर्वाक्षराणां प्रवेशः, इयमानन्द गंभीरा प्रज्ञापारमिता सर्वधारणीनां मुखं यत्र धारणीमुखे बोधिसत्त्वेन महासत्त्वेन शिक्षितव्यं । इमान् धारणीन् धारयतां बोधिसत्त्वानां महासत्त्वानां सर्वप्रतिभानप्रतिसंविद आमुखीभवन्ति । इयमानन्द प्रज्ञापारमिता अतीतानागतप्रत्युत्पन्नानां बुद्धानां भगवताम् <अक्षयः> सद्धर्म<कोशः> उक्तो मया । तस्मात्तर्ह्यानन्द आरोचयामि ते प्रतिवेदयामि <ते> य इमां गंभीरां प्रज्ञापारमितामुद्ग्रहीष्यति धारयिष्यति वाचयिष्यति । पर्यवाप्ष्यति । सोऽतीतानागतप्रत्युत्पन्नानां बुद्धानां भगवतां बोधिं धारयिष्यति । [f । २३६ ] इयं सा आनन्द प्रज्ञापारमिता धारण्युक्ता मया । यान् त्वं प्रज्ञापारमिताधारणीन् धारय<न्> सर्वधर्मान् धारयिष्यसि । ((६०)) (अद्स्प्गि ८५) परिवर्त ६१ । अथायुष्मत<ः> सुभूतेरेतदभूत्: गंभिरा वतेयं तथागतानां सम्यकम्बुद्धानां बोधिः । यन्न्वहं तथागतमर्हन्तं सम्यक्संबुद्धं परिपृच्छेयं । अथायुष्मां सुभूतिर्भगवन्तमेतदवोचत्: अक्षया हि भगवं प्रज्ञापारमिता । भगवानाह: आकाश अक्षयत्वात्सुभूते अक्षया प्रज्ञापारमिता । आह: कथं भगवं प्रज्ञापारमिता अभिनिर्हर्तव्या? भगवानाह: रूप अक्षयत्वात्सुभूते प्रज्ञापारमिता अभिनिर्हर्तव्या । वेदनासंज्ञासंस्कारविज्ञानाक्षयत्वात्सुभूते प्रज्ञापारमिता अभिनिर्हर्तव्या । दानपारमिता अक्षयत्वा<त्> सुभूते प्रज्ञापारमिता अभिनिर्हर्तव्या । यावत्सर्वाकारज्ञता अक्षयत्वात्सुभूते प्रज्ञापारमिता अभिनिर्हर्तव्या । पुनरपरं सुभूते रूपाकाशाक्षयत्वेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमिता अभिनिर्हर्तव्या । वेदनासंज्ञासंस्कारविज्ञानाकाशाक्षयत्वेन सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमिता अभिनिर्हर्तव्या । दानपारमिता आकाशाक्षयत्वेन प्रज्ञापारमिता अभिनिर्हर्तव्या । शीलपारमिता आकाशाअक्षयत्वेन प्रज्ञापारमिता अभिनिर्हर्तव्या । क्षान्तिपारमिता आकाशाक्षयत्वेन प्रज्ञापारमिता अभिनिर्हर्तव्या । वीर्यपारमिता आकाशाक्षयत्वेन प्रज्ञापारमिता अभिनिर्हर्तव्या । ध्यानपारमिता आकाशाक्षयत्वेन प्रज्ञापारमिता अभिनिर्हर्तव्या । यावत्सर्वाकारज्ञताकाशाक्षयत्वेन प्रज्ञापारमिता अभिनिर्हर्तव्या । पुनरपरं सुभूते अविद्याकाशाक्षयत्वेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमिता अभिनिर्हर्तव्या । संस्काराकाशाअक्षयत्वेन सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमिता (अद्स्प्गि ८६) अभिनिर्हर्तव्या । विज्ञानाकशाक्षयत्वेन सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमिता अभिनिर्हर्तव्या । नामरूपाकाशाक्षयत्वेन सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्नापारमिता अभिनिर्हर्तव्या । षडायतनाकाशाक्षयत्वेन सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमिता अभिनिर्हर्तव्या । स्पर्शाकाशाक्षयत्वेन सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमिता अभिनिर्हर्तव्या । वेदनाकाशाक्षयत्वेन सुभूते बोधिसत्त्वेन प्रज्ञापारमिता अभिनिर्हर्तव्या । तृष्णाकाशाक्षयत्वेन सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमिता अभिनिर्हर्तव्या । उपादानाकाशाअक्षयत्वेन सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमिता अभिनिर्हर्तव्या । भवाकाशाक्षयत्वेन सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमिता अभिनिर्हर्तव्या । जात्याकाशाक्षयत्वेन सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमिता अभिनिर्हर्तव्या । जरामरणशोकपरिदेवदुःखदौर्मनस्योपायासाकाशाक्षयत्वेन सूभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञपारमिता [f । २३७ ] अभिनिर्हर्तव्या । एवं खलु सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमिता अभिनिर्हर्तव्या । इयं सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रतीत्यसमुत्पादव्यवलोकनतान्तविवर्जनता । आवेणिकोऽयं बोधिसत्त्वस्य महासत्त्वस्य धर्मो बोधिमण्डनिषण्नस्य यदेवं प्रतीत्यसमुत्पादं व्यवलोकयति । एवं व्यवलोकयं प्रतीत्यसमुत्पादं सर्वज्ञताज्ञानं प्रतिलभते । य कश्चित्सुभूते अनेन आकाश्<आक्षया>भिनिर्हारेण प्रज्ञापारमितायां चरं प्रतीत्यसमुत्पादं व्यवलोकयति । स न श्रावकभूमौ वा प्रत्येकबुद्धभूमौ (अद्स्प्गि ८७) वा स्थास्यति । स्थास्यति सोऽनुत्तरस्यां सम्यक्संबोधौ । येऽपि केचित्सुभूते बोधिसत्त्वयानिका पुद्गला विवर्तन्ते, सर्वे ते इमां प्रज्ञापारमितामनसिकाराननागम्य विवर्तन्ते । न च जानंति कथं प्रज्ञापारमितायां चरता बोधिसत्त्वेन महासत्त्वेनाकाशाक्षयाभिनिर्हारेण प्रतीत्यसमुत्पादो व्यवलोकितव्यः । येऽपि केचित्सुभूते बोधिसत्त्वयानिका पुद्गला विवर्तन्ते सर्वे ते इदमुपायकौशलमनागम्य विवर्तंतेऽनुत्तरस्याः सम्यक्संबोधे । येऽपि केचित्सुभूते बोधिसत्त्वा महासत्त्वा न विवर्तंतेऽनुत्तरस्या सम्यक्संबोधेः सर्वे ते इमां प्रज्ञापारमितामागम्य न विवर्तन्तेऽनुत्तरस्याः सम्यक्संबोधे । उपायकौशलेन चैवं प्रज्ञापारमितायां चरता बोधिसत्त्वेन महासत्त्वेनाकाशाक्षयाभिनिर्हारेण प्रज्ञापारमिता व्यवलोकितव्या अभिनिर्हर्तव्या । एवं खलु सुभूते बोधिसत्त्वो महासत्त्वः प्रतीत्यसमुत्पादं व्यवलोकयन्न कंचिद्धर्मं पश्यत्यहेतुकमुत्पद्यमानं न कंचिद्धर्मं नित्यं समनुपश्यति न निरुध्यमानं । न कंचिद्धर्ममात्मतः समनुपश्यति । न सत्त्वतो न जीवतो न जंतुतो न मनुजतो न मानवतो न पोषतो न पुद्गलतो न कारकतो न कारापकतो न उत्थापकतो न समुत्थापकतो न वेदकतो न वेदयित्रीकतो न जानकतो न पश्यकतः, न नित्यतः समनुपश्यति न अनित्यतो न सुखतो न दुःखतो न आत्मतो न अनात्मतो न शान्ततो न अशान्ततः । एवं खलु सुभूते बोधिसत्त्वेन महासत्त्वेन प्रतीत्यसमुत्पादो व्यवलोकयितव्यः प्रज्ञापारमितायां चरता । यस्मिं सुभूते समये बोधिसत्त्वो महासत्त्व (अद्स्प्गि ८८) प्रज्ञापारमितायां चरति, तस्मिं समये न रूपं समनुपश्यति, नित्यं वा अनित्यं वा सुखं वा दुःखं वा आत्मानं वा अनात्मानं वा शान्तं वा अशान्तं वा यावत्सर्वाकारज्ञतां न समनुपश्यति नित्यं वा अनित्यं वा सुखं वा दुःखं वा, आत्मानं वा अनात्मानं वा, शान्तं वा अशान्तं वा । यस्मिं सुभूते समये बोधिसत्त्वो महासत्त्व प्रज्ञापारमितायां चरति, तस्मिम् [f । २३७ ] समये प्रज्ञापारमितायां चरं प्रज्ञापारमितां न समनुपश्यति । तमपि धर्मं न समनुपश्यति । येन प्रज्ञापारमितां समनुपश्येत् । एव<ं> ध्यानपारमितां न समनुपश्यति । वीर्यपारमितां न समनुपश्यति । क्षान्तिपारमितां न समनुपश्यति । शीलपारमितां न समनुपश्यति । दानपारमितां न समनुपश्यति । यावद्बोधिं न समनुपश्यति । तमपि धर्मं न समनुपश्यति । येन धर्मेण बोधिं समनुपश्येत् । येन च धर्मेण सर्ववासनानुसन्धिप्रहाणं कुर्यात्तमपि न समनुपश्यति । एवं खलु सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरितव्यं । सर्वधर्म अनुपलंभयोगेन । यस्मिं सुभूते समये बोधिसत्त्वो महासत्त्वः सर्वधर्म अनुपलभमानः प्रज्ञापारमितायाञ्चरति तस्मिन् समये मारः पापीयां छोकशल्यसमर्पितो भवति । तद्यथापि नाम सुभूते पुरुषो मातापित्रोः कालगतयो शोकशल्यसमर्पितो भवति । परमेण शोकशल्येन समन्वागतः, एवमेव सुभूते मारः पापीयान् बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतः सर्वधर्म अनुपलभमानस्य शोकशल्यसमर्पितो भवति । परमेण शोकशल्येन समन्वागतः । सुभूतिराह: किमेक एव भगवं मारः पापीयां परमेण शोकशल्येन समर्पितो भवति । उताहो ये त्रिसाहस्रमहासाहस्रे लोकधातु मारा पापियांसस्(अद्स्प्गि ८९) ते सर्वे परमेण शोकशल्येन समर्पिता भवंति? भगवानाह: येऽपि ते सुभूते त्रिसाहस्रमहासाहस्रे लोकधातौ माराः पापीयांसस्ते सर्वे परमेण शोकशल्येन समन्वागता भवंति । स्वकस्वकेषु च आसनेषु न रमन्ते । यदा बोधिसत्त्वो महासत्त्वः प्रज्ञापारमिताविहारेण अविरहितो भवति । एवं विहरतो बोधिसत्त्वस्य महासत्त्वस्य सदेवमानुषासुरो लोकोऽवतारं न लभते गाधं न लभते । यत्र गृहीत्वा विवर्तयेत् । तस्मात्तर्हि सुभूते बोधिसत्त्वेन महासत्त्वेन क्षिप्रमनुत्तरां सम्यक्संबोधिम् <अभि>संबोद्धुकामेन प्रज्ञापारमिताविहारेण विहर्तव्यं । प्रज्ञापारमिताविहारेण विहरतो बोधिसत्त्वस्य महासत्त्वस्य दानपारमिता भावनापरिपूरिं गच्छति । एवं शीलपारमिता क्षान्तिपारमिता । वीर्यपारमिता ध्यानपारमिता प्रज्ञापारमिता भावनापरिपूरिं गच्छति । प्रज्ञापारमिताविहारेण विहरतो बोधिसत्त्वस्य महासत्त्वस्य सर्वपारमिता <भावना>पृष्ठअरिपूरिं गच्छ<ं>ति । अथायुष्मां सुभूतिर्भगवंतमेतदवोचत्: कथं भगवं बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो दानपारमिता भावनापरिपूरिं गच्छति, एवं शीलपारमिता क्षान्तिपारमिता वीर्यपारमिता ध्यानपारमिता । प्रज्ञापारमिता <कथं> भावनापरिपूरिं गच्छति? <भगवानाह: इह सुभूते बोधिसत्त्वो महासत्त्वः दानं ददन् सर्वाकारज्ञतायां परिणामयंस्तद्दानं ददाति । एवं खलु सुभूते बोधिसत्त्वस्य महासत्त्वस्य दानपारमिता भावनापरिपूरिं गच्छति ।> कथं च सुभूते बोधिसत्त्वस्य महासत्त्वस्य शीलपारमिता [f । २३८ ] भावनापरिपूरिं गच्छति? इह सुभूते बोधिसत्त्वो महासत्त्व शीलं रक्ष<न्> सर्वाकारज्ञतायां परिणामयंस्तच्छीलं रक्षति । एवं (अद्स्प्गि ९०) खलु सुभूते बोधिसत्त्वस्य महासत्त्वस्य शीलप्रमिता भावनापरिपूरिं गच्छति । कथं च सुभूते बोधिसत्त्वस्य महासत्त्वस्य क्षान्तिपारमिता भावनापरिपूरिं गच्छति? इह सुभूते बोधिसत्त्वो महासत्त्वः क्षांत्या संपादयं । सर्वाकारज्ञतायां । परिणामयंस्तां क्षान्तिं भावयति । एवं खलु सुभूते बोधिसत्त्वस्य महासत्त्वस्य क्षान्तिपारमिता भावनापरिपूरिं गच्छति । कथं च सुभूते बोधिसत्त्वस्य महासत्त्वस्य वीर्यपारमिता भावनापरिपूरिं गच्छति? इह सुभूते बोधिसत्त्वो महासत्त्वः वीर्यमारभमाणः सर्वाकारज्ञतायां परिणामयंस्तद्वीर्यमारभते । एवं खलु सुभूते बोधिसत्त्वस्य महासत्त्वस्य वीर्यपारमिता भावनापरिपूरिं गच्छति । कथं च सुभूते बोधिसत्त्वस्य महासत्त्वस्य ध्यानपारमिता भावनापरिपूरिं गच्छति? इह सुभूते बोधिसत्त्वो महासत्त्वो ध्यानानि समापद्यमानः सर्वाकारज्ञतायां परिणामयंस्तानि ध्यानानि समापद्यते । एवं खलु सुभूते बोधिसत्त्वस्य महासत्त्वस्य ध्यानपारमिता भावनापरिपूरिं गच्छति । कथं च सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमिता भावनापरिपूरिं गच्छति? इह सुभूते बोधिसत्त्वो महासत्त्व प्रज्ञां भावयन् सर्वाकारज्ञतायां परिणामयंस्तां प्रज्ञां भावयति । एवं खलु सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमिता भावनापरिपूरिं गच्छति । अथायुष्माञ्च्सुभूतिर्भगवन्तमेतदवोचत्: कथं भगवं बोधिसत्त्वो महासत्त्वो दानपारमितायां स्थितः शीलपारमितां परिगृह्णाति? भगवानाह: इह सुभूते बोधिसत्त्वस्य महासत्त्वस्य दानन् ददतः सर्वाकारज्ञतायां परिणामयतः <सर्व>सत्त्वेषु मैत्रं कायकर्म मैत्रं वाक्<क्>अर्म मैत्रं (अद्स्प्गि ९१) मनस्कर्म प्रत्युपस्थितं <भ>वति । शीलपारमितां तस्मिं समये बोधिसत्त्वो महासत्त्व परिगृह्णाति । आह: कथं भगवं बोधिसत्त्वो महासत्त्वो दानपारमितायां स्थितः क्षान्तिपारमितां परिगृह्णाति? भगवानाह: इह सुभूते बोधिसत्त्वस्य महासत्त्वस्य दानं ददतः यन् ते परिग्राहका आक्रोशंति वा परिभाषन्ति वा असह्याभिर्<वा परुषाभिर्> वाग्भिः समुदाचरंति स न तेषामन्तिके चित्तमाघातयति । एवं खलु सुभूते बोधिसत्त्वो महासत्त्वो दानपारमितायां स्थितः क्षान्तिपारमितां परिगृह्णाति । आह: कथं भगवं बोधिसत्त्वो महासत्त्वो दानपारमितायं स्थितो वीर्यपारमितां परिगृह्णाति? भगवानाह: इह सुभूते बोधिसत्त्वस्य महासत्त्वस्य दानं ददतः <यन्> ते परिग्राहका अक्रोशन्ति <वा> परिभाषन्ते वा असह्याभिर्वा परुषाभिर्वाग्भिः समुदाचरंति तस्याक्रुश्यमानस्य <वा> परिभाष्यमानस्य वा असह्याभिर्वा परुषाभिर्वाग्भिः समुदाचर्यमाणस्य <वा> दानबुद्धिरेव भवति परित्यागबुद्धिरेव भवति । दातव्यमेव <मया> दानं न मया दानं न दातव्यं, स कायिकं चैतसिकं च वीर्यं संजनयति । एवं खलु सुभूते बोधिसत्त्वो महासत्त्वो दानपारमितायां स्थितो वीर्यपारमितां [f । २३८ ] परिगृह्णाति । आह: कथं भगवं बोधिसत्त्वो महासत्त्वो दानपारमितायां स्थितो ध्यानपारमितां परिगृह्णाति? भगवानह: इह सुभूते बोधिसत्त्वो महासत्त्वो दानं ददन्न श्रावकभूमौ वा प्रत्येकबुद्धभूमौ वा परिणामयत्य्, अन्यत्र सर्वाकारज्ञातायामेव अस्य चित्तं <न> प्रवर्तते । एवं खलु सुभूते बोधिसत्त्वो महासत्त्वो (अद्स्प्गि ९२) दानपारमितायां स्थितो ध्यानपारमितां परिगृह्णाति । आह: कथं भगवं बोधिसत्त्वो महासत्त्वो उपायकौशलेन दानन् ददन् प्रज्ञापारमितां परिगृह्णाति? भगवानाह: इह सुभूते बोधिसत्त्वस्य महासत्त्वस्य दानं ददतो दानं परित्यजतो मायाबुद्धिर्सदा दाने प्रत्युपस्थिता भवति । तेन च दानेन न कस्यचिद्सत्त्वस्य उपकारं वा अपकरं वा पश्यति । एवं खलु सुभूते बोधिसत्त्वो महासत्त्वो दानपारमितायां स्थित । उपायकौशलेन प्रज्ञापरमितां परिगृह्णाति । ((६)) (अद्स्प्गि ९३) परिवर्त ६२ । अथायुष्मन् सुभूतिर्भगवन्तमेतदवोचत्: <कथं भगवान्> बोधिसत्त्वो महासत्त्व शीलपारमितायां स्थितो दानपारमितां परिगृह्णाति? भगवानाह: इह सुभूते बोधिसत्त्वो महासत्त्वः शीलपारमितायां स्थितो यः कायिको वा वाचिको वा चैतसिको वा संचरस्तेन संचरेण श्रावकभूमिं । वा प्रत्येकबुद्धभूमिं वा न परामृशति । <स> तत्र च शीलपारमितायां स्थितो न सत्त्वान् जीविताद्व्यवरोपयति नादत्तमाददाति । न कामेषु मिथ्याचरति न मृषावाचं भाषते । न पिशुनां वाचां भाषते । न परुषां वाचां भाषते । न स<ं>भिन्नप्रलापी भवति, न अभिध्यालुर्भवति न व्यापन्नचित्तो भवति । न मिथ्यादृष्टिको भवति । स तत्र शीलपारमितायां स्थितो यद्दानं ददात्यन्नमन्नार्थकेभ्यः पानं पानार्थकेभ्यो यानं यानार्थकेभ्यो वस्त्रं वस्त्रार्थकेभ्यः पुष्पाणि पुष्पार्थकेभ्यो माल्यं माल्यार्थकेभ्यो गन्धान् गन्धार्थकेभ्यो विलेपनां विलेपनार्थकेभ्यः शयनासनं शयनासनार्थकेभ्यः उपाश्रयमुपाश्रयार्थकेभ्यः प्राजीविकं प्राजीविकार्थकेभ्यः उपकरणमुपकरनार्थकेभ्यः यावदन्यतरान्यतरान्मानुष्यकान् परिष्कारान् ददाति । तच्च दानं सर्वसत्त्वै सार्धं साधारणं कृत्वा अनुत्तरस्यां सम्यक्संबोधौ परिणामयति । तथा च परिणामयति । यथा परिणामो न श्रावकभूमौ वा प्रत्येकबुद्धभूमौ वा परिणामयति । एवं खलु सुभूते बोधिसत्त्वो महासत्त्वः (अद्स्प्गि ९४) शीलपारमितायां स्थितो दानपारमितां परिगृह्णति । अह: कथं भगवन् बोधिसत्त्वो महासत्त्वः शीलपारमितायां स्थितः क्षान्तिपारमितां परिगृह्णाति? भगवानाह: इह सुभूते बोधिसत्त्वस्य महासत्त्वस्य शीलपारमितायां स्थितस्य सचेत्सर्वसत्त्वागम्यांगप्रत्यङ्गानि च्छित्त्वा <च्छित्त्वा> गच्छेयु<स्> तत्र बोधिसत्त्वस्य महासत्त्वस्य एकचित्तोत्पादोऽपि न क्षुभ्यति न व्यापद्यते अन्यत्रास्यैवं भवति, सुलब्धा मे लाभा यत्र हि नाम मम सर्वसत्त्वा अङ्गप्रत्यङ्गानि च्छित्त्वा च्छित्त्वा गच्छन्ति । अनेन च अहं कायपरित्यागेन । दिव्यं वज्रमयं तथागतकायं प्रतिलप्स्ये । एवं खलु सुभूते बोधिसत्त्वो महासत्त्वः शीलपारमितायां स्थितः क्षान्तिपारमितां [f । २३९ ] परिगृह्णाति । आह: कथं भगवं बोधिसत्त्वो महासत्त्वः शीलपारमितायां स्थितो वीर्यपारमितां परिगृह्णाति? भगवानाह: इह सुभूते बोधिसत्त्वो महासत्त्व कायेन च चित्तेन च वीर्यं न स्रंसयति । सर्वसत्त्वा मया उत्तारयितव्या संसारादमृते धातौ प्रतिष्ठापयितव्या । एवं खलु सुभूते बोधिसत्त्वो महासत्त्वः शीलपारमितायां स्थितो वीर्यपारमितां परिगृह्णाति । आह: कथं भगवं बोधिसत्त्वो महासत्त्व शीलपारमितायां स्थितो ध्यानपारमितां परिगृह्णाति? भगवानाह: यदा सुभूते बोधिसत्त्वो महासत्त्वः प्रथमं ध्यानं समापद्यते । द्वितीयं तृतीयं चतुर्थं यावन्निरोधं समापद्यते । न च श्रावकभूमिं वा प्रत्येकबुद्धभूमिमध्यालम्बते । अन्यत्रास्यैवं भवति । इह मया समाधिपारमितायां (अद्स्प्गि ९५) स्थित्वा सर्वसत्त्वा संसारात्परिमोचयितव्या इति । एवं खलु सुभूते बोधिसत्त्वो महासत्त्वः शीलपारमितायां स्थितो ध्यानपारमितां परिगृह्णाति, आह: कथं भगवं बोधिसत्त्वो महासत्त्वः शीलपारमितायां स्थितः प्रज्ञापारमितां परिगृह्णाति? भगवानाह: इह सुभूते बोधिसत्त्वो महासत्त्वः शीलापारमितायां स्थितो न कंचिद्धर्मं संस्कृतं पश्यति न असंस्कृतं पश्यति । न भावं संस्कृतं पश्यति । न अभावमसंस्कृतं पश्यति । न निमित्तं संस्कृतं पश्यति । न अनिमित्तमसंस्कृतं पश्यति । न कस्यचिद्धर्मस्य अस्तितां वा नास्तितां वा समनुपश्यति । अन्यत्र सर्वधर्मतथतां न व्यतिवर्तंते । तया च प्रज्ञापारमितया उपायकौशलेन च न श्रावकभूमौ वा प्रत्येकबुद्धभूमौ वा पतति । एवं खलु सुभूते बोधिसत्त्वो महासत्त्वः शीलपारमितायां स्थित प्रज्ञापारमितां परिगृह्णाति । आह: कथं भगवं बोधिसत्त्वो महासत्त्वः क्षान्तिपारमितायां स्थितो दानपारमितां परिगृह्णाती? भगवानाह: इह सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रथमचित्तोत्पादमुपादाय दानन् ददतो यावद्बोधिमण्डनिषण्णस्य सर्वसत्त्वा आक्रोशेयु<ः> परिभाषेरन्नङ्गप्रत्यङ्गानि वा च्छिन्त्युश्त<स्य> बोधिसत्त्वस्य महासत्त्वस्य क्षान्तिपारमितायां स्थितस्यैवं भवति: दातव्यमेव मयैतेभ्य सत्त्वेभ्य न मया दानं न दातव्यं । स तेषां सत्त्वानामन्नमन्नार्थिकेभ्यो ददाति । पानं पानार्थिकेभ्यो ददाति । यावदन्यतरान्यतरान्मानुष्यकां परिष्कारां ददाति । स तानि कुशलमूलानि सर्वसत्त्वैः सार्धं साधारणां कृत्वा सर्वाकारज्ञतायां परिणामयति । यथा परिणामयतस्त्रिषु बुद्धिषु (अद्स्प्गि ९६) न प्रवर्तते । कः परिणामयति किं वा परिणामयति । क्व वा परिणामयति । एवं खलु सुभूते बोधिसत्त्वो महासत्त्वः क्षान्तिपारमितायां स्थितो दानपारमितां परिगृह्णाति । आह: कथं भगवं बोधिसत्त्वो महासत्त्वः क्षान्तिपारमितायां स्थितः शीलपारमितां परिगृह्णाति? भगवानाह: इह सुभूते बोधिसत्त्वो महासत्त्वः प्रथमचित्तोत्पादमुपादाय यावद्बोधिमण्डनिषण्ण न कंचित्सत्त्वं जीविताद्व्यवरोपयति । नादत्तमाददाति न कामेषु मिथ्याचरति न मृषावदति न पैशुन्यं [f । २३९ ] वदति । न पारुष्यं वदति । न संभिन्नप्रलापी भवति । न अभिध्यालुर्भवति न व्यापन्नचित्तो भवति न मिथ्यादृष्टिको भवति । न च अस्य श्रावकभूमौ वा । प्रत्येकबुद्धभूमौ वा चित्तं क्रामति । तानि च कुशलमूलानि सर्वसत्त्वैः सार्धं साधारणानि कृत्वा अनुत्तरस्यां सम्यक्संबोधौ परिणामयति । तथा च परिणामयति । यथा त्रिविधा बुद्धिर्न प्रवर्तते । कः परिणामयति किं वा परिणामयति । क्व वा परिणामयति । एवं खलु सुभूते बोधिसत्त्वो महासत्त्वः क्षान्तिपारमितायां स्थितः शीलपारमितां परिगृह्णाति । आह: कथं भगवं बोधिसत्त्वो महासत्त्वः क्षान्तिपारमितायां स्थितो वीर्यपारमितां परिगृह्णाति? भगवानाह: इह सुभूते बोधिसत्त्वो महासत्त्व क्षान्तिपारमितायां स्थितो एवं वीर्यं संजनयति । गत्वाहं योजनशतं <वा> गत्वा यावद्योजनसहस्रं वा यावद्योजनशतसहस्रं वा गत्वा यावल्लोकधातुं वा गत्वा लोकधातुकोटीशतसहस्रं वा गत्वा तत्र अन्ततः एकसत्त्वमपि शरणगमने शिक्षापदेषु वा प्रतिष्ठापयेयं (अद्स्प्गि ९७) क्षान्तौ वा श्रोतआपत्तिफले वा यावदर्हत्त्वे वा प्रत्येकबोधौ वा यावदनुत्तरस्यां सम्यक्संबोधौ प्रतिष्ठापयेयमिति वीर्यमारब्धव्यं तानि च कुशलमूलानि सर्वसत्त्वैः सार्धं साधारणानि कृत्वानुत्तरस्यां सम्यक्संबोधौ परिणामयति । एवं खलु सुभूते बोधिसत्त्वो महासत्त्व क्षान्तिपारमितायां स्थितो वीर्यपारमितां परिगृह्णाति । आह: कथं भगवं बोधिसत्त्वो महासत्त्वः क्षान्तिपारमितायां स्थितो ध्यानपारमितां परिगृह्णाति? भगवानाह: इह सुभूते बोधिसत्त्वो महासत्त्वः क्षान्तिपारमितायां स्थितो विविक्तमेव कामैर्विविक्तं पापकैरकुशलै<ः> धर्मैः सवितर्कं सविचारं विवेकजं प्रीतिसुखं प्रथमं ध्यानमुपसंपद्य विहरति । यावच्चतुर्थं ध्यानमुपसंपद्य विहरति, यावन्निरोधं समापद्य विहरति । उत्पन्नोऽनुत्पन्नांश्च चित्तचैतसिकान् धर्मान् कुशलोपसंहितान् सर्वाकारज्ञतायां परिणामयति । तथा च परिणामयति । यथा ध्यानानि च ध्यानाङ्गानि च तस्मिं समये नोपलभते । नेवं खलु सुभूते बोधिसत्त्वो महासत्त्वः क्षान्तिपारमितायां स्थितो ध्यानपारमितां परिगृह्णाति, आह: कथं भगवं बोधिसत्त्वो महासत्त्वः क्षान्तिपारमितायां स्थितो प्रज्ञापारमितां परिगृःणाति? भगवानाह: इह सुभूते बोधिसत्त्वो महासत्त्वः क्षन्तिपारमितायां स्थितो यस्मिं समये धर्मेषु धर्मानुपश्यी विहरति, विविक्ताकारेण वा शान्ताकारेण वा अक्षयाकारेण वा, न च तान् धर्मतां साक्षात्करोति, यावन्न बोधिमण्डनिषण्णो भवति । तत्र च निषद्य । सर्वाकारज्ञतामनुप्राप्नोति । उत्थाय च धर्मचक्रं प्रवर्तयति । एवं खलु सुभूते बोधिसत्त्वो (अद्स्प्गि ९८) महासत्त्वः क्षान्तिपारमितायां स्थितः प्रज्ञापारमितां परिगृह्णाति । तथा च परिगृह्णाति यथा नोत्सृजति । न परिगृह्णाति । आह: कथं भगवं बोधिसत्त्वो महासत्त्वो । वीर्यपारमितायां स्थितो दानपारमितां [f । २४० ] परिगृह्णाति? भगवानाह: इह सुभूते बोधिसत्त्वो महासत्त्वो वीर्यपारमितायां स्थितः कायेन च चित्तेन च धुरं न निक्षिपति, अवश्यमेव मया अनुत्तरा सम्यक्संबोधिरभिसंबोद्धव्या । न मया न अभिसंबोद्धव्या अनुत्तरा सम्यक्संबोधिः । स सत्त्वानां कृते योजनं वा यावद्योजनशतं वा योजनसहस्रं वा योजनशतसहस्रं <वा> । लोकधातुं वा यावल्लोकधातुकोटिं वा लोकधातुकोटीशतं वा लोकधातुकोटीशतसहस्रं वा गत्वा वीर्यपारमितायां स्थितोऽन्तश एकसत्त्वमपि बोधौ प्रतिष्ठापयति । सचेद्बोधिसत्त्वयानिकं पुद्गलं न लभेत तत्र श्रवकयानिकं पुद्गलं श्रावकत्वे प्रतिष्ठापयति । प्रत्येकबुद्धयानिकं पुद्गलं प्रत्येकबुद्धत्वे प्रतिष्ठापयति । अन्तश एकसत्त्वमपि दशसु कुशलेषु कर्मपथेषु प्रतिष्ठापयति । स तद्धर्मदानं दत्त्वा आमिषदानेन सत्त्वा<न्> संतर्पयति । तच्च कुशलमूलं न श्रावकभूमौ वा प्रत्येकबुद्धभूमौ वा परिणामयति । अन्यत्र सर्वसत्त्वैः सार्धं साधारणं कृत्वा अनुत्तरस्यां सम्यक्संबोधौ परिणामयति । एवं खलु सुभूते बोधिसत्त्वो महासत्त्वो । वीर्यपारमितायां स्थितो दानपारमितां परिगृह्णाति । आह: कथं भगवं बोधिसत्त्वो महासत्त्वो वीर्यपारमितायां स्थितः शीलपारमितां परिगृह्णाति? भगवानाह: इह सुभूते बोधिसत्त्वो महासत्त्वः प्रथमचित्तोत्पादमुपादाय यावद्बोधिमण्डनिषण्ण आत्मना च प्राणातिपातात्प्रतिविरतो भवति । परं च प्राणातिपातवैरमण्यां समादापयति । प्राणातिपातवैरमण्यस्य च वर्णं भाषते ये च अन्ये प्राणातिपातात्प्रतिविरता भवन्ति तेषामपि च <वर्ण>वादी भवति समनुज्ञः । यावदात्मना एअ मिथ्यादृष्टेः (अद्स्प्गि ९९) प्रतिविरतो भवति परं च मिथ्यादृष्टिवैरमण्यां समादापयति । मिथ्यादृष्टिवैरमण्यस्य च वर्णं भाषते । ये च अन्ये मिथ्यादृष्टेः प्रतिविरतास्तेषामपि वर्णवादी भवति । समनुज्ञः । स तया शीलपारमितया न कामधातौ प्रतितिष्ठति । न रूपधातौ न अरूप्यधातौ प्रतितिष्ठति । न श्रावकभूमौ न प्रत्येकबुद्धभूमौ प्रतितिष्ठति । नान्यत्र तानि कुशलमूलानि सर्वसत्त्वै सार्धं साधारणानि कृत्वानुत्तरस्यां सम्यक्संबोधौ परिणामयति । तथा च परिणामयति । यथा अस्य त्रिविधा बुद्धिर् न प्रवर्तते । कः परिणामयति किं वा परिणामयति । क्व वा परिणामयति । एवं खलु सुभूते बोधिसत्त्वो महासत्त्वो वीर्यपारमितायां स्थितः शीलपारमितां परिगृह्णाति । आह: कथं भगवं बोधिसत्त्वो महासत्त्वो वीर्यपारमितायां स्थितः क्षान्तिपारमितां परिगृह्णाति? भगवानाह: इह सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रथमचित्तोत्पादमुपादाय यावद्बोधिमण्डनिषण्णस्य <सचेत्> मनुष्यभूतो वा अमनुष्यभूतो वा चित्तविक्षेपं कुर्यातङ्गप्रत्यङ्गानि वा छित्त्वा च्छित्वा आदाय गच्छेत्तत्र बोधिसत्त्वस्य महासत्त्वस्य वीर्यपारमितायं स्थितस्य नैवं भवति, कश्चित्मे छिन्नत्ति वा भिन्नत्ति वा हरति वा । अ<पि त्व>स्यैवं भवति, सुलब्धा [f । २४० ] मे लाभा येषामेव कृते कायं परिहरामि । त एवागम्य ममाङ्गप्रत्यङ्गानि छित्त्वा छित्त्वा आदाय गच्छन्ति । धर्माणां वा तेन प्रकृति<ः> सुमनसिकृता भवति । तानि <च कु>शलमूलानि न श्रावकभूमौ वा प्रत्येकबुद्धभूमौ वा परिणामयत्यन्यत्र सर्वसत्त्वैः सार्धं साधरणानि कृत्वानुत्तरस्यां सम्यक्संबोधौ परिणामयति । एवं खलु सुभूते (अद्स्प्गि १००) बोधिसत्त्वो महासत्त्वो वीर्यपारमितायां स्थित क्षान्तिपारमितां परिगृह्णाति । आह: कथं भगवं बोधिसत्त्वो महासत्त्वो वीर्यपारमितायां स्थितो ध्यानपारमितां परिगृह्णाति? भगवानाह: इह सुभूते बोधिसत्त्वो महासत्त्वो विविक्तमेव कामैर्विविक्तं पापकैरकुशलैर्धर्मैः सवितर्कं सविचारं विवेकजं प्रितिसुखं प्रथमं ध्यानमुपसंपद्य विहरति । यावच्चतुर्थं ध्यानमुपसंपद्य विहरति । स मैत्रीसहगतेन चित्तेन यावत्सर्वावन्तं लोकं स्फरित्वा उपसंपद्य विहरति । एवं करुणासहगतेन मुदितासहगतेन उपेक्षासहगतेन चित्तेन यावत्सर्वावन्तं लोकं स्फरित्वा उपसंपद्य विहरति । यावन्नैवसंज्ञानासंज्ञायतनसमापत्तिमुपसंपद्य विहरति । स तेषां ध्यानानां च अप्रमाणानां च आरूप्यसमापत्तीनां । विपाकं <न> परिगृह्णाति । अन्यत्र यत्र <सर्व>सत्त्वानामर्थः कर्तव्यस्तत्रोपपद्यते । स तान् सत्त्वान् षट्सु पारमितासु परिपाचयति । दानपारमितायां शीलपारमितायां क्षान्तिपारमितायां वीर्यपारमितायां ध्यानपारमितायां प्रज्ञापारमितायां, बुद्धक्षेत्राद्बुद्धक्षेत्रं संक्रामति बुद्धान् भगवतः पर्युपासीनः कुशलमूलानामवरोपनतायै । एवं खलु सुभूते बोधिसत्त्वो महासत्त्वो वीर्यपारमितायां स्थितो ध्यानपारमितां परिगृह्णाति । आह: कथं भगवं बोधिसत्त्वो महासत्त्वो वीर्यपारमितायां स्थितः प्रज्ञापारमितां परिगृह्णाति? भगवानाह: इह सुभूते बोधिसत्त्वो महासत्त्वो वीर्यपारमितायां स्थितो दानपारमितां न द्रव्यतः समनुपश्यति । न भावतो न निमित्ततः । शीलपारमितां न द्रव्यत<ः> समनुपश्यति । न भावतो न निमित्ततः, क्षान्तिपारमितां न द्रव्यतः समनुपश्यति न भावतो न निमित्ततः, <वीर्यपारमितां न द्रव्यतः समनुपश्यति> (अद्स्प्गि १०१)< न भावतो न निमित्ततः>, ध्यानपारमितां न द्रव्यतः समनुपश्यति <न भावतो न निमित्ततः> । एवं यावत्स्मृत्युपस्थानानि यावत्सर्वाकारज्ञतां न द्रव्यतः समनुपश्यति । न भावतो न निमित्ततः । स सर्वधर्मानद्रव्यतः समनुपश्यन्नभावतः अनिमित्ततः समनुपश्यन्, न कश्चिद्धर्मे निकेतं करोति । स यथावादि तथाकारी भवति । एवं खलु सुभूते बोधिसत्त्वो महासत्त्वो वीर्यपारमितायां स्थितः प्रज्ञापारमितां परिगृह्णाति । आह: कथं भगवं बोधिसत्त्वो महासत्त्वो ध्यानापारमितायां स्थितो दानपारमितां परिगृह्णाति? भगवानाह: इह सुभूते बोधिसत्त्वो महासत्त्वो विविक्तमेव कामैर्विविक्तं पापकैरकुसलैर्धर्मै सवितर्कं सविचारं विवेकजं प्रीतिसुखं प्रथमध्यानमुपसंपद्य विहरति । यावन्नैवसंज्ञानासंज्ञायतनसमापत्तिमुपसंपद्य विहरति । स तत्र ध्यानपारमितायां स्थित अविक्षिप्तमनस्[f । २४१ ] तेभ्य सत्त्वेभ्य आमिषदानं <च> धर्मदानं च ददाति । स आत्मना च आमिषदानं <च धर्मदानं> च ददाति । परांश्च आमिषदानेन च धर्मदानेन च समादापयति । आमिषदानधर्मदानस्य च वर्णं भाषते । ये च अन्ये सत्त्वा आमिषदानं च धर्मदानं च ददन्ति तेषामपि वर्णवादी भवति समनुज्ञः । तानि च कुशलमूलानि न श्रावाकभूमौ वा प्रत्येकबुद्धभूमौ वा परिणामयत्यन्यत्र सर्वसत्त्वै सार्धं साधारणानि कृत्वा अनुत्तरस्यां सम्यक्संबोधौ परिणामयति । एवं खलु सुभूते बोधिसत्त्वो महासत्त्वो ध्यानपारमितायां स्थितो दानपारमितां परिगृह्णाति । आह: कथं भगवन् बोधिसत्त्वो महासत्त्वो ध्यानपारमितायां स्थित शीलपारमितां परिगृह्णाति? भगवानाह: इह सुभूते बोधिसत्त्वस्य महासत्त्वस्य ध्यानपारमितायां स्थितस्य न रागसहगतं चित्तमुत्पद्यते न दोषसहगतं न मोहसहगतं, न विहिंसा सहगतं चित्तमुत्पद्यते । (अद्स्प्गि १०२) <न? >अन्यत्र सर्वाकारज्ञताप्रतिसंयुक्तैर्मनसिकारैर्विहरति, तानि च कुशलमूलं न श्रावकभूमौ वा प्रत्येकबुद्धभूमौ वा परिणामयत्यन्यत्र सर्वसत्त्वैः सार्धं साधारणं कृत्वा अनुत्तरस्यां सम्यक्संबोधौ परिणामयति । एवं खलु सुभूते बोधिसत्त्वो महासत्त्वो ध्यानपारमितायां स्थितः शीलपारमितां परिगृह्णाति । आह: कथं भगवं बोधिसत्त्वो महासत्त्वो ध्यानपारमितायां स्थितः क्षान्तिपारमितां परिगृह्णाति? भगवानाह: इह सुभूते बोधिसत्त्वो महासत्त्वो ध्यानपारमितायां स्थितः फेनपिण्डोपमं रूपं प्रत्यवेक्षते । बुद्बुदोपमां वेदनां मरीच्युपमां संज्ञां कदल्युपमां संस्कारान्मायोपमं विज्ञानं प्रत्यवेक्षते । तस्यैवं प्रत्यवेक्षमाणस्य पञ्चसु उपादानस्कन्धेष्वसारकसंज्ञ प्रत्युपस्थिता भवति । तस्यैवं प्रत्यवेक्षमाणस्यैवं भवति । च्छिद्यमानेष्वङ्गप्रत्यङ्गेषु कोऽत्र छिन्नन्ति किं वेह च्छिद्यते । कस्य वा कायः कस्य वा वेदना कस्येयं संज्ञा कस्य वा संस्कारा कस्य वा विज्ञानं? तस्यैवं प्रत्येवेक्षमाणस्यैवं भवति । कोऽत्राक्रुश्यते वा परिभाष्यते वा यत्र आक्रुश्यमानस्य वा परिभाष्यमाणस्य वा व्यापाद उत्पद्यते? एवं खलु सुभूते बोधिसत्त्वो महासत्त्वो ध्यानपारमितायां स्थितः क्षान्तिपारमितां परिगृह्णाति । आह: कथं भगवं बोधिसत्त्वो महासत्त्वो ध्यानपारमितायां स्थितो वीर्यपारमितां परिगृह्णाति? भगवानाह: इह सुभूते बोधिसत्त्वो महासत्त्वो ध्यानपारमितायां स्थित्वा विविक्तमेव कामैर्विविक्तं पापकैरकुशलैः धर्मैः सवितर्कं सविचारं विवेकजं प्रीतिसुखं प्रथमध्यानम् (अद्स्प्गि १०३) उपसंपद्य विहरति । यावच्चतुर्थं ध्यानमुपसंपद्य विहरति । स ध्यानानां ध्यानाङ्गानां च निमित्तमुद्गृह्य अनेकविधमृद्धिविधिं प्रत्यनुभवति । यावद्विस्तरेण कर्तव्यं, यावद्दिव्येन श्रोत्रधातुना उभयांच्छब्दांच्छृणोति । दिव्यांश्च मानुषांश्च, परसत्त्वानां परपुद्गलानां चेतसैव चित्तं <यथाभूतं> प्रजानाति । यावदनुत्तरं चित्तमनुत्तरं चित्तमिति यथाभूतं प्रजानाति । सोऽनेकविधं पूर्वे निवासमनुस्मरति । यावद्विस्तरेण कर्तव्यं । यावत्स दिव्येन चक्षुषा अतिक्रान्तमानुषेण यावद्, यथाकर्मोपगान् सत्त्वान् पश्यति । स इमाः [f । २४१ ] पञ्चाभिज्ञा । प्रतिष्ठाय बुद्धक्षेत्राद्बुद्धक्षेत्रं संक्रामति । बुद्धान् भगवतः पर्युपासीनः कुशलमूलान्यवरोपयन् सत्त्वान् परिपावयन् बुद्धक्षेत्रं परिशोधयंस् । तानि च कुश्<अलमू>लानि न श्रावकभूमौ वा प्रत्येकबुद्धभूमौ वा परिणामयत्यन्यत्र सर्वसत्त्वैः सार्धं साधरणं कृत्वा अनुत्तरस्यां सम्यक्संबोधौ परिणामयति । एवं खलु सुभूते बोधिसत्त्वो महासत्त्वो ध्यानपारमितायां स्थितो वीर्यपारमितां परिगृह्णाति । आह: कथं भगवं बोधिसत्त्वो महासत्त्वो ध्यानपारमितायां स्थितः प्रज्ञापारमितां परिगृह्णाति? भगवानाह: इह सुभूते बोधिसत्त्वो महासत्त्वो ध्यानपारमितायां स्थितो रूपं नोपलभते । वेदनासंज्ञासंस्काराविज्ञानं नोपलभते । दानपारमितां नोपलभते शीलपारमितां क्षान्तिपारमितां वीर्यपारमितां ध्यानपारमितां प्रज्ञापारमिता<ं> नोपलभते । स्मृत्युपस्थानानि नोपलभते सम्यक्प्रहाणानि नोपलभते । ऋद्धिपादां नोपलभते इन्द्रियाणि नोपलभते बलानि नोपलभते । बोध्यंगानि नोपलभते । आर्याष्टाङ्गं मार्गं (अद्स्प्गि १०४) नोपलभते, यावत्सर्वाकारज्ञतां नोपलभते । संस्कृतधातुं नोपलभते असंस्कृतधातुं नोपलभते । अनुपलभमानो न अभिसंस्करोति । अनभिसंस्कुर्वन्नोत्पादयति । न निरोधयति । तत्कस्य हेतोस्? तथा हि सुभूते उत्पादाद्वा तथागतानामनुत्पादाद्वा तथागतानां स्थितैवैषां धर्माणां धर्मस्थितिता स्थित एव धर्मधातु स नैवोत्पद्यते न निरुध्यते । सोऽविक्षिप्तचित्त सर्वाकारज्ञताप्रतिसंयुक्तैर्मनसिकारैरविरहितो भवति । एवं खलु सुभूते बोधिसत्त्वो महासत्त्वो ध्यानपारमितायां स्थितः प्रज्ञापारमितां परिगृह्णाति । आह: कथं भगवं बोधिसत्त्वो महासत्त्वाः प्रज्ञापारमितायां स्थितो दानपारमितां परिगृह्णाति? भगवानाह: इह सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञपारमितायां चर<ं> सर्वधर्मांच्छून्या इति समनुपश्यति । आह: कथं भगवं बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् सर्वधर्मांच्छून्या इति समनुपश्यति? भगवानाह: इह सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्नध्यात्मशून्यतायां चरन्नध्यात्मशून्यतामध्यात्मशून्यतेति नोपलभते । बहिर्द्धाशून्यतां बहिर्द्धासून्यतेति नोपलभते । अध्यात्मबहिर्द्धाशून्यता<म्> अध्यात्मबहिर्द्धाशून्यतेति नोपलभते । शून्यताशून्यता<ं> शून्यताशून्यतेति नोपलभते । महाशून्यतां महाशून्यतेति नोपलभते । परमार्थशून्यतां परमार्थशून्यतेति नोपलभते । संस्कृतशून्यतां संस्कृतशून्यतेति नोपलभते । असंस्कृतशून्यतामसंस्कृतशून्यतेति नोपलभते । अत्यंशून्यता<म्> अत्यन्तशून्यतेति नोपलभते । अनवराग्रशून्यतामनवराग्रशून्यतेति नोपलभते । अवकारशून्यतामवकारशून्यतेति नोपलभते । प्रकृतिशून्यतां प्रकृतिशून्यतेति नोपलभते सर्वधर्मशून्यतां सर्वधर्मशून्यतेति नोपलभते, स्वलक्षणशून्यतां स्वलक्सणशून्य्<अत्>एति (अद्स्प्गि १०५) नोपलभते । स इह चतुर्दशसु शून्यतासु स्थित्वा बोधिसत्त्वो महासत्त्वो रूपं नोपलभते [f । २४२ ] शून्यमिति वा अशून्यमिति वा । वेदनां संज्ञां संस्कारान् विज्ञानं नोपलभते । शून्यमिति वा अशून्यमिति वा । स्मृत्युपस्थानानि नोपलभते शून्यमिति वा अशून्यमिति वा । यावदष्टादशावेणिकां बुद्धधर्मां नोपलभते शून्या इति वा अशून्या इति वा । यावद्बोधिमपि नोपलभते शून्येति वा अशून्येति वा । संस्कृतधातुं नोपलभते शून्य इति वा अशून्य इति वा । असंस्कृतधातुं नोपलभते शून्य इति वा अशून्य इति वा । स इह प्रज्ञापारमितायां चरं बोधिसत्त्वो महासत्त्वो यद्यदेव दानं ददात्यन्नं वा पानं वा यावदन्यतरान्यतरान्मानुष्यकां परिष्करांस्तद्दानं शून्यमिति <न> समनुपश्यति । यो वा ददाति । यस्मै वा ददाति तमपि शून्यमिति न समनुपश्यति । तस्य मात्सर्यचित्तस्य वा आग्रहचित्तस्य वा अवकाशो न भवति । तत्कस्य हेतो? सर्व एते प्रज्ञापारमितायां चरतो बोधिसत्त्वस्य महासत्त्वस्य विकल्पान भवंति । प्रथमचित्तोत्पादमुपादाय । यावद्बोधिमण्डनिषण्णस्य । यथैव तथागतस्य अर्हत सम्यक्संबुद्धस्य अनुत्तरां सम्यक्संबोधिमभिसंबुद्धस्य न मात्सर्यचित्तं वा आग्रहचित्तं वा उत्पद्यते, तथैव बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो न मात्सर्यचित्तं वा आग्रहचित्तं वा उत्पद्यते । एष एव बोधिसत्त्वस्य महासत्त्वस्य शास्ता यदुत प्रज्ञापारमिता । एवं खलु सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां स्थितो दानपारमितां परिगृह्णाति । आह: कथं भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां स्थितः शीलपारमितां परिगृह्णाति? भगवानाह: इह सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां स्थितः (अद्स्प्गि १०६) श्रावकप्रत्येकबुद्धचित्तानामवकाशं न ददाति । तत्कस्य हेतोः? तथा हि स श्रावाकप्रत्येकबुद्धभूमीं नोपलभते । तच्च चित्तं नोपलभते । यच्छ्रावकभूमौ वा प्रत्येकबुद्धभूमौ वा परिणामयेत् । स प्रथमचित्तोत्पादमुपादय । यावद्बोधिमण्डं प्राणातिपातं प्रहाणाय धर्मन् देशयति । आत्मना च प्राणातिपातात्प्रतिविरतो भवति । परं <च> प्राणातिपातवैरमण्यां समादापयति । प्राणातिपातवैरमण्यस्य च वर्णं भाषते । ये च अन्ये प्राणातिपातात्प्रतिविरता भवंति तेषामपि वर्णवादी भवति । समनुज्ञः । यावदात्मना च मिथ्यादृष्टेः प्रतिविरतो भवति । परं च मित्यादृष्टिवैरमण्ये समादापयति मिथ्यादृष्टिवैरमण्यस्य च वर्णं भाषते । ये च अन्ये मिथ्यादृष्टिविरतास्तेषामपि वर्णवादी भवति सम<नु>ज्ञः । तेन च शीलेन न कंचिद्धर्मं परामृशति । श्रावकत्वं वा प्रत्येकबुद्धत्वं वा बुद्धत्वं वा प्रागेव अन्ये केचित् । एवं खलु सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां स्थित<ः> शीलपारमितानि परिगृह्णाति । आह: कथं भगवं बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां स्थित<ः> क्षान्तिपारमितां परिगृह्णाति? भगवानाह: इह सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां स्थितस्य आनुलोमिकी क्षान्तिरुत्पद्यते । तस्यैवं भवति । नेह कश्चिद्धर्म उत्पद्यते वा निरुध्यते वा । जायते वा जीर्यते वा मृयते वा, आक्रोश्यते वा परिभाष्यते वा, च्छिद्यते वा भिद्यते वा । [f । २४२ ] हन्यते वा । तस्य प्रथमचित्तोपादमुपादाय यावद्बोधिमण्डमत्रान्तरात्सचेत्सर्वसत्त्वा आगम्य आक्रोशेयु परिभाषेरल्लोष्टदण्ड मुष्टिशस्त्रप्रहारान् दद्युश्च्छिन्द्युर्भिद्युर्वा तत्रास्यैवं भवति । अहो धर्माणां धर्मता (अद्स्प्गि १०७) न च नामेह कश्चिद्धर्म आक्रोश्यते वा परिभाष्यते वा च्छिद्यते वा भिद्यते वा हन्यते वा बध्यते वा । एवं खलु सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां स्थितः क्षान्तिपारमितां परिगृह्णाति । आह: कथं भगवं बोधिसत्त्वो महासत्त्व प्रज्ञापारमितायां स्थितो वीर्यपारमितां परिगृह्णाति? भगवानाह: इह सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां स्थितः चतुर्षु ऋद्धिपादेषु स्थित उपायकौशलेन समन्वागतः कायिकं चैतसिकं च वीर्यं संजनय्य लोकधातुमपि गत्वा लोकधातुशतमपि गत्वा लोकधातुसहस्रमपि गत्वा यावल्लोकधातुकोटीनियुतशतसहस्र<ं> अप्<इ> गत्वा सत्त्वानां धर्मन् देशयति । दानपारमितायां प्रतिष्ठापयति शीलपारमितायां वा क्षान्तिपारमितायां वा वीर्यपारमितायां वा ध्यानपारमितायां वा प्रज्ञापारमितायां वा । प्रतिष्ठापयति । स बोधिपक्ष्येषु धर्मेषु प्रतिष्ठापयति । श्रोतआपत्तिफले प्रतिष्ठापयति । सकृदागामीफले अनागामीफले अर्हत्त्वे प्रत्येकबोधौ यावदनुत्तरस्यां सम्यक्संबोधौ प्रतिष्ठापयति । तथा च प्रतिष्ठापयति । यथा न संस्कृते धातौ प्रतिष्ठापयति । न असंस्कृते धातौ प्रतिष्ठापयति । एवं खलु सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां स्थितो वीर्यपारमितां परिगृह्णाति । आह: कथं भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां स्थितो ध्यानपारमितां परिगृह्णाति? भगवानाह: इह सुभूते होधिसत्त्वो महासत्त्वाः प्रज्ञापारमितायां स्थितस्तथागतसमाधिं स्थापयित्वा यावन्तः केचित्समाधयः श्रावकसमाधयो वा प्रत्येकबुद्धसमाधयो वा बोधिसत्त्वसमाधयो वा तान् सर्वान् समापद्यते । तत्र समाधिषु स्थित्वा अष्टौ विमोक्षाननुलोमप्रतिलोमं समापद्यते च व्युत्थिष्ठते च । कतमानष्टौ? इह सुभूते बोधिसत्त्वो महासत्त्वो रूपी रूपाणि पश्यत्य्, अयं प्रथमो विमोक्षः । अध्यात्मरूपसंज्ञी बहिर्द्धारूपाणि पश्यत्य्, अयं (अद्स्प्गि १०८) द्वितीयो विमोक्षः । शुभं चाधिमुक्तो भवत्य्, अयं त्रितीयो विमोक्षः । स सर्वशो रूपसंज्ञानां समतिक्रमात्प्रतिघसंज्ञानामस्त<ं>गमान्नानात्वसंज्ञानाममनसिकारादनन्तमाकाशमित्याकाशानान्त्यायतनमुपसंपद्य विहरत्य्, अयं चतुर्थो विमोक्षः । स सर्वश आकाशानान्त्यायतन समतिक्रमादनन्तं विज्ञानमिति विज्ञाननन्त्यायतनमुपसंपद्य विहरत्य्, अयं पंचमो विमोक्षः । स सर्वशो विज्ञानानन्त्यायतनसमतिक्रमान्नास्ति किंचिदित्याकिंचन्यायतनमुपसंपद्य विहरत्य्, अयं षष्ठो विमोक्षः । स सर्वश आकिंचन्यायतनसमतिक्रमान्नैवसंज्ञानासंज्ञायतनमुपसंपद्य विहरत्य्, अयं सप्तमो विमोक्षः । स सर्वशो नैवसंज्ञानासंज्ञायतनसमतिक्रमात्संज्ञावेदयितनिरोधम् [f । २४३ ] उपसंपद्य विहरत्य्, अयमष्टमो विमोक्षः । इमानष्टौ विमोक्षाननुलोमप्रतिलोमं समापद्यते च व्युत्थिष्ठते च । नव च अनुपूर्वसमापत्तीरनुलोमप्रतिलोमं समापद्यते च व्युत्थिष्ठते च । कतमा नव? इह सुभूते बोधिसत्त्वो महासत्त्वः विविक्तमेव कामैर्विविक्तं पापकैरकुशलैर्धर्मैः सवितर्कं सविचारं विवेकजं प्रीतिसुखं प्रथमं ध्यानमुपसंपद्य विहरति । यावच्चथुर्थं ध्यानमुपसंपद्य विहरति । यावत्नैवसंज्ञानासंज्ञायतनसमतिक्रमात्संज्ञावेदयितनिरोधमुपसंपद्य विहरति । इह नव अनुपूर्वसमापत्तीरनुलोमप्रतिलोमं समापद्यते च व्युत्थिष्ठते च । <स> एषामष्टानां विमोक्षाणामासां च नवानामनुपूर्वसमापत्तीनां विभङ्गं कृत्वा इमं सिंहविजृंभितं समाधिं समापद्यते । कतमश्च सुभूते बोधिसत्त्वस्य महासत्त्वस्य (अद्स्प्गि १०९) सिंहविजृंभितः समाधिः? इह सुभूते बोधिसत्त्वो महासत्त्वो विविक्तमेव कामैर्विविक्तं पापकैरकुशलैर्धर्मैः सवितर्कं सविचारं विवेकजं प्रीतिसुखं प्रथमं ध्यानमुपसंपद्य विहरति । यावन्नैवसंज्ञानासंज्ञायतनाद्व्युत्थाय निरोधं समापद्यते । निरोधसमापत्तेर्व्युत्थाय नैवसंज्ञानासंज्ञायतनं समापद्यते । नैवसंज्ञानासंज्ञायतनाद्व्युत्थाय प्रथमध्यानं समापद्यते । स इमं सिंहविजृंभितं समाधिं विपाकीकृत्य विष्कन्दकसमाधिं समापद्यते । कतमश्च सुभूते बोधिसत्त्वस्य महासत्त्वस्य विष्कन्दकसमाधि? इह सुभूते बोधिसत्त्वो महासत्त्वो विविक्तमेव कामैर्विविक्तं पापकैरकुशलैर्धर्मै सवितर्कं सविचारं विवेकजं प्रीतिसुखं प्रथमध्यानमुपसंपद्य विहरति । प्रथमध्यानाद्व्युत्थाय यावन्नैवसंज्ञानासंज्ञायतनम् उपसंपद्य विहरति । नैवसंज्ञानासंज्ञायतनाद्व्युत्थाय निरोधसमापत्तिं समापद्यते । निरोधसमापत्तेर्व्युत्थाय द्वितीयं ध्यान<मुप>संपद्य विहरति । द्वितीया<द्> ध्यानाद्व्युत्थाय निरोधसमापत्तिं समापद्यते । निरोधसमापत्तेर्व्युत्थाय त्रितीयं ध्यानमुपसंपद्य विहरति । तृतीया<द्> ध्यानाद्व्युत्थाय निरोधसमापत्तिं समापद्यते । निरोधसमापत्तेर्व्युत्थाय चतुर्थं ध्यानमुपसंपद्य विहरति । चतुर्था<द्> ध्यानाद्व्युत्थाय निरोधसमापत्तिं समापद्यते । निरोधसमापत्तेर्व्युत्थाय आकाशानन्त्यायतनं समापद्यते । आकाशनन्त्यायतनाद्व्युत्थाय निरोधसमापत्तिं समापद्यते । निरोधसमापत्तेर्व्युत्थाय विज्ञाननन्त्यायतनं समापद्यते । विज्ञानानन्त्यायतनाद्व्युत्थाय निरोधसमापत्तिं समापद्यते । निरोधसमापत्तेर्व्युत्थाय (अद्स्प्गि ११०) अकिंचन्यायतनं समापद्यते । आकिंचन्यायतनाद्व्युत्थाय निरोधसमापत्तिं समापद्यते । निरोधसमापत्तेर्व्युत्थाय नैवसंज्ञानासंज्ञायतनं समापद्यते । नैवसंज्ञानासंज्ञा<य>तनाद्व्युत्थाय निरोधसमापत्तिं समापद्यते । निरोधसमापत्तेर्व्युत्थाय नैवसंज्ञानासंज्ञायतनं समापद्यते । नैवसंज्ञानासंज्ञायतनाद्व्युत्थाय असमहितचित्तेऽवतिष्ठते । [f । २४३ ] असमहितचित्ता<न्> निरोधसमापत्तिं समापद्यते । निरोधसमापत्तेर्व्युत्थाय । असमहितचित्तेऽवतिष्ठते । असमहितचित्ता<न्> नैवसंज्ञानासंज्ञायतनं समापद्यते । नैवसंज्ञानासंज्ञायतनाद्व्युत्थाय असमहितचित्तेऽवतिष्ठते । असमहितचित्ता<द्> आकिंचन्यायतनं समापद्यते । आकिंचन्यायतनाद्व्युत्थाय । असमहितचित्तेऽवतिष्ठते । असमहितचित्ता<द्> विज्ञानानन्त्यायतनं समापद्यते । विज्ञानानन्त्यायतनाद्व्युत्थाय असमहितचित्तेऽवतिष्ठते । असमहितचित्तादाकाशानन्त्यायतनं समापद्यते । आकाशानन्त्यायतनाद्व्युत्थाय असमहित [f । २४३ ] चित्तेऽवतिष्ठते । असमहितचित्ताच्चतुर्थं ध्यानं समापद्यते । चतुर्थध्यानाद्व्युत्थाय असमहितचित्तेऽवतिष्ठते । असमहितचित्तात्तृतीयं ध्यानं समापद्यते । तृतीयध्यानाद्व्युत्थाय असमहितचित्तेऽवतिष्ठते । असमहितचित्ताद्द्वितीयं ध्यानं समापद्यते । द्वितीयाद्ध्यानाद्व्युत्थाय असमहितचित्तेऽवतिष्ठते । असमहितचित्तात्प्रथमं ध्यानं समापद्यते । प्रथमध्यानाद्व्युत्थाय असमहितचित्तेऽवतिष्ठते । स इह अवस्कन्दकसमाधौ स्थित्वा सर्वधर्मसमतामनुप्राप्नोति । एवं खलु सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां स्थितो ध्यानपारमितां परिगृह्णाति । ((६)) (अद्स्प्गि १११) परिवर्त ६३ । अथ खल्वायुष्मन् सुभूतिर्भगवन्तमेतदवोचत्: कियच्चिरं संप्रस्थितो वतायं भगवन् बोधिसत्त्वो महासत्त्वः योऽनेनोपायकौशलेन समन्वागतः? भगवानाह: असंख्येयकल्पकोटीनियुतसंप्रस्थितोऽयं सुभूते बोधिसत्त्वो महासत्त्वः योऽनेनोपायकौशलेन समन्वागतः । आह: कियन्तो बुद्धान् भगवन्तः पर्युपासितोऽयं भगवं बोधिसत्त्वो महासत्त्वो योऽनेनोपायकौशलेन समन्वागतः? भगवानाह: गङ्गानदीवालुकोपमान् बुद्धान् भगवन्तः पर्युपासितो स बोधिसत्त्वो महासत्त्वो वेदितव्यः योऽनेनोपायकौशलेन समन्वागतः । आह: किन् तेन भगवन् बोधिसत्त्वेन महासत्त्वेन कुशलमूलमवरोपितम योऽनेनोपायकौशलेन समन्वागतः? भगवानाह: प्रथमचित्तोत्पादमुपादाय सुभूते न सा काचिद्दानपारमिता या तेन बोधिसत्त्वेन महासत्त्वेन न परिपूरिता योऽनेनोपायकौशलेन समन्वागतः । न सा काचिच्छीलपारमिता क्षान्तिपारमिता वीर्यपारमिता ध्यानपारमिता प्रज्ञापारमिता या तेन बोधिसत्त्वेन महासत्त्वेन न परिपूरिता योऽनेनोपायकौशलेन समन्वागतः । आह: आश्चर्यमेतद्भगवन् बोधिसत्त्वानां महासत्त्वानां येऽनेनोपायकौशलेन समन्वागताः । भगवानाह: एवमेतत्सुभूते एवमेतत् । आश्चर्यमेतद्बोधिसत्त्वानां महासत्त्वानां येऽनेनोपायकौशलेन समन्वागताः तद्यथापि नाम सुभूते सूर्यचन्द्रमण्डलं चतुरो (अद्स्प्गि ११२) द्वीपानवभासयति, चलुरश्च द्वीपाननुगच्छत्यनुपरिवर्तते, एवमेव सुभूते प्रज्ञापारमिता पञ्चसु पारमितासु कर्म करोति, पञ्चपारमिता अनुगच्छत्यनुपरिवर्तते । प्रज्ञापारमिता अविरहितत्वात्पञ्चपारमिताः पारमितानामधेयं लभन्ते, प्रज्ञापारमिताविरहितत्वान्न पारमितानामधेयं लभन्ते । तद्यथापि नाम सुभूते यथा राजा चक्रवर्ती विरहितः सप्तभी रत्नैर्न राजा चक्रवर्तीति नामधेयं लभते, एवमेव सुभूते पञ्चपारमिता प्रज्ञापारमिताविरहितत्वान्न पारमितानामधेयं लभन्ते । तद्यथापि नाम सुभूते अपुरुषा स्त्री सुधर्षणा भवति धूर्तकैः, एवमेव सुभूते प्रज्ञापारमिताविरहितत्वात्पञ्चपारमिताः सुधर्षणा भवन्ति मारेण वा मारकायिकाभिर्वा देवताभिः । तद्यथापि नाम सुभूते संग्रामावचरः पुरुषः सर्वसन्नाहसन्नद्धः संग्रामे वर्तमाने दुराधर्षो भवति प्रतिराजानैर्वा प्रत्यर्थिकैर्वा प्रत्यमित्रैर्वा, एवमेव सुभूते पञ्चपारमिताः प्रज्ञापारमिता अविरहितत्वाद्दुराधर्षा भवन्ति मारेण वा मारकायिकाभिर्वा देवताभिर्, आधिमानिकैर्वा पुद्गलैर्वा, यावन् बोधिसत्त्वचण्डालैर्वा । तद्यथापि नाम सुभूते कोट्टराजानो राज्ञा चक्रवर्तिना अनुविधेया भवन्ति, सायम्प्रातरुपस्थानाय गच्छन्ति, एवमेव सुभूते पञ्चपारमिताः प्रज्ञापारमितापरिगृहीता येन सर्वाकारज्ञता तेन अनुगच्छन्ति । तद्यथापि नाम सुभूते याः काचित्कुनद्यः सर्वास्ता येन गङ्गानदी तेन अनुगच्छन्ति, (अद्स्प्गि ११३) ता गङ्गानद्या सार्धं महासमुद्रमुपयान्ति, एवमेव सुभूते पञ्चपारमिताः प्रज्ञापारमितापरिगृहीताः येन सर्वाकारज्ञता तेन अनुगच्छन्ति । तद्यथापि नाम सुभूते पुरुषस्य दक्षिणहस्तः सर्वकृत्याणि करोत्य्, एवमेव सुभूते प्रज्ञापारमिता द्रष्टव्या । यथा वामहस्तः एवं पञ्चपारमिता द्रष्टव्या । तद्यथापि नाम सुभूते यत्कुनदीषु यच्च महानदीषु उदकं सर्वं तन्महासमुद्रमनुप्रविष्टमेकरसं भवत्य्, एवमेव सुभूते पञ्चपारमिताः प्रज्ञापारमितापरिगृहीताः सर्वाकारज्ञतामनुप्रविष्टा पारमितानामधेयं लभन्ते । तद्यथापि नाम सुभूते राज्ञाश्चक्रवर्तिनश्चतुरङ्गस्य बलकायस्य चक्ररत्नमग्रतो गच्छति, तिष्ठति च । यत्र राजा चक्रवर्त्यन्नहेतोस्तिष्ठति, तत्र राज्ञश्चक्रवर्तिनो बलकायान् संतर्पयति, न च तच्चक्ररत्नं स्थानतश्चलति, एवमेव सुभूते आसां पञ्चानां पारमितानां प्रज्ञापारमिता परिणायिका, येन सर्वाकारज्ञता तेन अनुगच्छन्ति, तत्र स्थास्यन्ति, तत्र स्थित्वा ततः स्थानतो नातिक्रामन्ति, तद्यथापि नाम सुभूते राज्ञश्चक्रवर्तिनश्तच्चक्ररत्नं तच्च परिणायकरत्नं तच्च गृहपतिरत्नं तच्च स्त्रीरत्नं तच्च मणिरत्नं तच्च हस्तिरत्नं तच्च अश्वरत्नं चतुरङ्गस्य बलकायस्य अग्रतो गच्छत्य्, एवमेव सुभूते आसां पञ्चानां पारमितानां प्रज्ञापारमिता अग्रतो गच्छत्य्, अग्रतो गत्वा येन सर्वाकारज्ञता तेन तिष्ठति, न च प्रज्ञापारमिताया एवं भवति: दानपारमिता मम [f । २४३ ] अनुगच्छेत् । एवं शीलपारमिता क्षान्तिपारमिता वीर्यपारमिता ध्यानपारमिता अनुगच्छेत् । न दानपारमिताया एवं भवत्य्: अहं प्रज्ञापारमितामनुगच्छेयं । एवं न शीलपारमिताया न क्षान्तिपारमिताया न वीर्यपरमिताया न ध्यानपारमिताया (अद्स्प्गि ११४) एवं भवत्य्: अहं प्रज्ञापारमितामनुगच्छेयं । तत्कस्य हेतो<ः>? स्वभावो ह्यासामेषः अकिंचित्समर्थः स्वभावशून्या तुच्छा मरीचिसमा । अथायुष्मान् सुभूतिर्भगवन्तमेतदवोचत्: यदि भगवं सर्वधर्मा स्वभावशून्यास्, तत्कथं भगवं बोधिसत्त्वो महासत्त्वो दानपारमितायां चरञ्च्छीलपारमितायं क्षान्तिपारमितायां वीर्यपारमितायां ध्यानपारमितायां प्रज्ञापारमितायां चरन्ननुत्तरां सम्यक्संबोधिमभिसंबुध्यते? भगवानाह: इह सुभूते बोदिसत्त्वस्य महासत्त्वस्य षट्पारमितासु चरतः एवं भवति: विपर्यस्तचित्तो वतायं लोकसन्निवेशः । स न शक्यमनुपायकौशलेन संसारात्परिमोचयितुं । अहं तेषां सत्त्वानामर्थाय दानपारमितायां चरिष्यामि । शीलपारमितायां चरिष्यामि क्षान्तिपारमितायां चरिष्यामि । वीर्यपारमितायां चरिस्यामि । ध्यानपारमितायां चरिष्यामि । प्रज्ञापारमितायां चरिष्यामि । <स> तेषां सत्त्वानामर्थाय आध्यत्मिकबह्यानि वस्तूनि परित्यजति, तस्यैवं परित्यजत एवं भवति: न मे किंचित्परित्यक्तं । तत्कस्य हेतो<स्>? तथा ह्येतद्वस्तु स्वभावशून्यं । एवं खलु सुभूते बोधिसत्त्वो महासत्त्व उपपरीक्षमाणो दानपारमितां परिपूरयति । तेषामेव सत्त्वानामर्थाय <दौः>शीलस्य अवकाशं न ददाति । तत्कस्य हेतोः? <तथा ह्यस्यैवं भवति:> नैतद्मे प्रतिरूपं स्याद्यदहमनुत्तरस्यां सम्यक्संबोधये संप्रस्थितः प्राणातिपातं कुर्यां यावन्मिथ्यादृष्टिको भवेयं विषयान् वा प्रार्थयेय<ं> । देवत्वं वा ब्रह्मत्वं वा श्रावकभूमिं वा प्रत्येकबुद्धभूमिं वा प्रार्थयेयं । एवं खलु सुभूते बोधिसत्त्वो (अद्स्प्गि ११५) महासत्त्वः उपपरीक्षमाणः शीलपारमितायां चरति । तेषामेव सत्त्वानामर्थाय सततमाक्रुश्यमानः परिभाष्यमाणः कटुकै<ः> कर्कशैर्वचनैर्न क्षोभचित्तमुत्पादयति । नापि लोष्टदण्डशस्त्रपाषाणप्रहारैस्ताड्यमानो नापि शारिरा वयवेषु भिद्यमानेषु नाप्यङ्गप्रत्यङ्गावयवेषु च्छिद्यमानेषु दुष्टचित्तमुत्पादयति । तत्कस्य हेतोः? तथा हि स सर्वशं तां प्रतिश्रुत्क्रोपमानुपपरीक्षते । रूपं फेनपिण्डोपमं <यावत्विज्ञानं मायोपममुपपरीक्षते ।> [f । २४४ ] <एवं खलु सुभूते बोधिसत्त्वो म>हासत्त्व उपपरीक्षमाणः क्षान्तिपारमितायां चरति, तेषामेव सत्त्वानामर्थाय न कौसीद्यचित्तमुत्पादयति । सर्वकुशलपर्येष्ट्यां यावन्न अनुत्तरां सम्यक्संबोधि<मभिसंबुद्धो भवति । तत्कस्य> हेतोः? तथा हि तस्यैवं भवति, न कुसीदेन शक्यं सत्त्वानामर्थः कर्तुमनुत्तरां वा सम्यक्संबोधिमभिसंबोद्धुं । एवं खलु सुभूते बोधिसत्त्वो महासत्त्व उपपरीक्ष<माणः वीर्यपारमितायां चरति ।> तेषामेव सत्त्वानामर्थाय न विक्षिप्तचित्तो भवति यावन्न अनुत्तरां सम्यक्संबोधिमभिसंबुद्धो भवति । एवं खलु सुभूते बोधिसत्त्वो महासत्त्वः उपपरीक्षमाणो <ध्यानपारमितायां चरति । ते>षामेव सत्त्वानामर्थाय न जातु प्रज्ञाविरहितो भवति । तत्कस्य हेतोः? नाप्यन्यथा शक्यं सत्त्वान् परिपाचयितुम् <अन्यत्र प्रज्ञापारमिताप्रवेशात्, तस्मात्मयैकमपि दौष्प्रज्ञसहगतं> (अद्स्प्गि ११६)< चित्तं नोत्पादयितव्यमि>ति । एवं खलु सुभूते बोधिसत्त्वो महासत्त्वः सत्त्वानामेवार्थाय प्रज्ञापारमितायां चरति । आह: यदि भगवन् पारमितानां नास्ति नानात्वं, कुतः इ<यं प्रज्ञापारमिता पञ्चानां पा>रमितानामग्र्या आख्यायते ज्येष्ठा श्रेष्ठा वरा प्रवरा प्रणीता अनुत्तरा निरुत्तरा असमसमा आख्यायते । भगवानाह: एवमेतत्सुभूते एवमेतत्, न सुभूते <पारमितानां किंचिन्नानात्वां । यदि पु>नः प्रज्ञापारमिता न भवेन्नेमाः पंचपारमिता<ः> पारमितानामधेयं लभेरन्, प्रज्ञापारमितां पुनरागम्य इमाः पंचपारमिताः पारमितानामधेयं <लभन्ते । तद्यथापि नाम सुभूते> नानाप्रकारा आत्मभावाः सुमेरुं पर्वतराजमुपसंक्रान्ता एकवर्णा भवन्ति, एवमेव सुभूते प्रज्ञापारमितामागम्येमाः पंचपारमिताः पा<रमितानामधेयं लभन्ते ता>ः सर्वाकारज्ञतामनुप्रविष्टा एकवर्णा भवन्ति । यदुत प्रज्ञापारमितावर्णा, न विशेषः कश्चित्प्रज्ञायते इयन् दानपारमिता इयं शीलपारमि<ता इयं क्षान्तिपारमिता इयं वीर्यपा>रमिता इयं ध्यानपारमिता इयं प्रज्ञापारमिता । तत्कस्य हेतोस्? तथा ह्यासां स्वभावो नास्ति, अनेन कारणेन विशेसो न प्रज्ञायते । आह: <यदि भगवं नार्थप्राप्तौ कस्यचिद्ध>र्मस्य विशेषो वा नानाकरणं वा प्रज्ञायते, कुत इयं प्रज्ञापारमिता आसां पंचानां पारमितानामग्र्याख्यायते । ज्येष्ठाख्यायते श्रेष्ठाख्याय<ते वरा प्रवरा प्रणीता आ>ख्यायते । अनुत्तरा निरुत्तरा असमसमा आख्यायते । भगवानाह: एवमेतत्सुभूते एवमेतत् । नार्थप्राप्तौ कस्यचिद्धर्मस्य विशेषो वा <नानाकरणं वा प्रज्ञायते, अपि तु ख>लु लोकव्यवहारसंकेतमुपादाय दानपारमिता प्रज्ञायते शीलपारमिता (अद्स्प्गि ११७) क्षान्तिपारमिता वीर्यपारमिता ध्यानपारमिता प्रज्ञापारमिता प्र<ज्ञायते । सत्त्वानां संसारत परिमोचनतया । स>र्वे ते च सत्त्वा न जायंते न मृयंते न च्यव्यंते नोपपद्यन्ते । सत्त्वासत्तया सर्वधर्मासत्ता वेदितव्या । अनेन सुभूते पर्यायेण आसां पंचानां पारमितानां <प्रज्ञापारमिता अग्र्याख्याते ज्येष्ठाख्यायते श्रे>ष्ठाख्यायते । [f । २४४ ] वराख्यायते प्रवराख्यायते प्रणीताख्यायते । अनुत्तराख्यायते निरुत्तराख्यायते असमसमाख्यायते । तद्यथापि नाम सुभूते या का<श्चन स्त्रियस्ताषां स्त्रिरत्नानामग्रमा आख्यायते> यावदसमसमाख्यायते । एवमेव सुभूते आसां पंचानां पारमितानां प्रज्ञापारमिता अग्र्याख्यायते यावदसमसमा आख्यायते । आह: क एष भग<वन्नभिप्रायो यत्प्रज्ञापारमिता अग्र्या आख्यायते> यावदसमसमाख्यायते? भगवानाह: तथा हि इयं प्रज्ञापारमिता सर्वकुशलधर्मा<न्> परिगृह्य येन सर्वाकारज्ञता तेन स्थास्यत्यस्थानयोगेन । आह: <किं पुनर्भगवं प्रज्ञापारमिता कंचिद्धर्मं गृह्णा>ति वा मुंचति वा? भगवानाह: नो हीदं सुभूते न प्रज्ञापारमिता कंचिद्धर्मं गृह्णाति वा मुंचति वा । तत्कस्य हेतो<स्>? तथा हि सुभूते । ते सर्वधर्मा अगृहीता <अमुक्ताः । आह: कतमान् भगवं प्र>ज्ञापारमिता सर्वधर्मां न गृह्णाति न मुंचति? भगवानाह: रूपं सुभूते प्रज्ञापारमिता न गृह्णाति न मुञ्चति । वेदनां संज्ञां संस्कारा<न्> विज्ञानं सुभूते प्रज्ञापारमिता न गृह्णाति न मुञ्चति, यावद्बोधिं सुभूते प्रज्ञापारमिता न गृह्णाति न मुञ्चति । आह: कथं भगवं रूपमपरिगृहीतं भवति, कथं वेदनासंज्ञासंस्काराविज्ञानम् (अद्स्प्गि ११८) अपरिगृहीतं भवति । <कथं यावत्सर्वाकारज्ञता अपरिगृही>ता भवति? भगवानाह: रूपस्य सुभूते अमनसिकारतो रूपमपरिगृहीतं भवति, वेदनाया संज्ञाया संस्काराणां विज्ञानस्य अमनसिकारतो वि<ज्ञानमपरिगृहीतं भवति, यावत्स>र्वाकारज्ञताया अमनसिकारतो बोधिरपरिगृहीता भवति । एवं खलु सुभूते रूपमपरिगृहीतं भवति । यावद्बोधिरपरिगृहीता भवति । आह: यदि भ<गवं रूपं न मनसिकर्तव्यं वेद>ना संज्ञा संस्कारा विज्ञानं न मनसिकर्तव्यं यावत्सर्वाकारज्ञता न मनसिकर्तव्या, तत्कथं भगवन्नमनसिकुर्वतो रूपं यावदमनसिकुर्वतः सर्वाकारज्ञतां <कुशलमूलानि विवर्धन्ते, कुशल>मूलैरविवर्धमानै कथं षट्पारमिता परिपूरयिष्यन्ते, षड्भिः पारमिताभिरपरिपूर्यमाणाभिः कथं सर्वाकारज्ञता अनुप्राप्स्यते? भगवानाह: यदा सुभूते <रूपं न मनसिकरिष्यति वेद>नासंज्ञासंस्काराविज्ञानं न मनसिकरिष्यति, यावद्बोधिं न मनसिकरिष्यति तदा बोधिसत्त्वस्य महासत्त्वस्य कुशलमूलं विवर्धिष्यन्ते, कुशलमूलैर्विवर्ध<मानै षट्पारमिताः परिपू>रयिष्यति षट्पारमिता परिपूर्य सर्वाकारज्ञामनुप्राप्स्यति । तत्कस्य हेतो? अमनसिकृत्य रूपममनसिकृत्य वेदनां संज्ञासंस्काराविज्ञानममनसिकृत्य बोधिमनुत्तरां सम्यक्संबोधिमभिसंभोत्स्यते । आह: किमत्र भगवं कारणां यद्<अमनसिकृत्य रूपं, अमनसिकृत्य वेदनां संज्ञा संस्कारविज्ञानं> अमनसिकृत्य बोधिं सर्वाकारज्ञतामनुप्राप्स्यति? भगवानाह: <अ>मनसिकारेण न श्लेष्यते, <कामधातौ न श्लेस्यते रू>पृष्ठअधातौ न श्लेष्यते अरूप्यधातौ अमनसिकारेण न क्वचिच्च्छ्लिष्यते । एवं खलु सुभूते बोदिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता न (अद्स्प्गि ११९) क्वचिद्धर्मेषु श्लेष्टव्यं । <आह: एवञ्चरन् भगवं बोधि>सत्त्वो [f । २४५ ] महासत्त्वः प्रज्ञापारमिताया<ं> क्व स्थास्यति? भगवानाह: एवं चरन् सुभूते बोधिसत्त्वो महासत्त्वो रूपे न स्थास्यति वेदनाया<ं> संज्ञाया<ं> संस्कारेषु विज्ञाने न स्थास्यति । या<वत्सर्वाकारज्ञतायां न स्थास्यति> । आह: केन कारणेन भगवंस्तत्र अपि सर्वाकारज्ञातायान्न स्थास्यति? भगवानाह: अनभिनिवेशेन न क्वचित्स्थास्यति । तत्कस्य हेतोस्? तथा हि सर्वधर्मान्न समनु<पश्यति यत्र अभिनिविशेदव>तिष्ठेद्वा । एवं खलु सुभूते बोधिसत्त्वो महासत्त्व प्रज्नापारमितायां चरत्यनभिनिवेशेन अस्थानयोगेन । सचेत्पुनर्बोधिसत्त्वस्य महासत्त्वस्यैवं भवति, य एवं च<रति एवं भावयति स प्रज्ञापार्मितायां चरति, स प्रज्ञापार>मितां भावयति । अहं प्रज्ञापारमितायां चराम्यहं प्रज्ञापारमितां भावयामि । सचेदेवं संजानाति दूरिकरोति प्रज्ञापारमितां । स प्रज्ञापारमिताया<ः दूरिभवति ध्यानपारमितायाः> दूरीभवति, वीर्यपारमिताया क्षान्तिपारमिताया शीलपारमिताया दानपारमिताया दूरीभवति । यावत्सर्वाकारज्ञताया दूरीभवति । तत्कस्य हेतो<ः>? न हि <प्रज्ञापारमिता कंचिद्धर्ममभिनिविश>ते । न हि प्रज्ञापारमिताया कश्चिदभिनिवेश । तत्कस्य हेतो<स्>? तथा ह्यस्या<ः> स्वभावो नास्ति यत्र अभिनिविशेत । सचेत्पुनः सुभूते बोधिसत्त्वो महासत्त्व प्रज्ञापा<रमितामपि संजानाति च्यवते बो>धिसत्त्वो महासत्त्व प्रज्ञापारमितायाः । यः प्रज्ञापारमितायाश्च्यवते स सर्वधर्मेभ्यश्च्यवते । सचेत्पुनरस्यैवं भवति प्रज्ञापारमिता पंचपारमिता<न्> (अद्स्प्गि १२०) परिगृ<ह्णाति यवत्सर्वाकारज्ञतां परिगृ>ह्णाति, च्युतो बोधिसत्त्वो महासत्त्वः प्रज्ञापारमिताया । न खलु पुनः प्रज्ञापारमिताविहीनेन शक्यमनुत्तरां सम्यक्संबोधिरभिसंबोद्धुं । सचेत्पुनरस्यैवं भवति<: इह प्रज्ञापारमितायां स्थित व्याकरि>ष्यतेऽनुत्तरस्यां सम्यक्संबोधौ च्युतो बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायाः । न हि प्रज्ञापारमितायाश्च्युतो व्याक्रियतेऽनुत्तरस्यां सम्यक्संबोधौ । सचेत्पुनरस्यैवं भवति: य इह प्रज्ञापारमितायां स्थित्वा बोधिसत्त्वो महासत्त्वो दानपारमितामभिनिर्हरति यावत्महाकरुणामभिनिर्हरति । च्युतो बोधिसत्त्वो महासत्त्वः प्रज्ञापारमिताया । तत्कस्य हेतो? न हि प्रज्ञा<पारमितायाश्च्युतस्य शक्यं दानपारमितामभि>निर्हर्तुं यावन्न शक्यं महाकरुणामभिनिर्हर्तुं । सचेत्पुनरस्यैवं भवति: परिगृहीतास्तथागतेन सर्वधर्मा स्वयमभिसंबुध्य आख्याता । देशिता प्रकाशिता <च्युतो बोधिसत्त्वो महासत्त्वः प्रज्ञापा>रमितायाः । तत्कस्य हेतोः? न हि तथागतेन कश्चिद्धर्मोऽभिसंबुद्धः । तत्कस्य हेतो? तथा हि सुभूते तथागत न कंचिद्धर्मं प्रज्ञपयति । कुतः पुन किंचि<द्धर्ममभिसंभोत्स्यते नेदं स्थानं विद्यते । अ>थ खल्वायुष्मांस्सुभूतिर्भगवन्तमेतदवोचत्: कथं भगवं बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतः इमे दोषाः न भवन्ति? भगवानाह: य<दा सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापा>रमितायां चरन्नेवं संजानात्यसंतः सर्वधर्मा अपरिगृहीता अशक्यमभिसंबोद्धुं । सचेद्(अद्स्प्गि १२१) एवं चरति चरति प्रज्ञापारमितायां । सचेत्पुनरेवमपरिगृ<हीतं धर्ममभिनिविशते, विरहितो बोधिस>त्त्वो [f । २४५ ] महासत्त्वः प्रज्ञापारमिताया<ः> । तत्कस्य हेतोः? न हि प्रज्ञापारमिता अभिनिवेशतो वक्तव्या । आह: किं पुनर्भगवं प्रज्ञापारमिता प्रज्ञापारमिता<या अविरहिता यावद्दानपारमिता दान>पृष्ठआरमितया अविरहिता यावत्सर्वाकारज्ञता सर्वाकारज्ञतया अविरहिता? सचेत्प्रज्ञापारमिता प्रज्ञापारमितया अविरहिता । यावद्दानपारमिता दान<पारमितया अविरहिता यावत्सर्वाकारज्ञ>ता सर्वाकारज्ञतया अविरहिता । कथं प्रज्ञापारमिता अभिनिर्हृयते । कथं यावत्सर्वाकारज्ञता अभिनिर्हृयते? भगवानाह: इह सुभूते बोधिसत्त्वो महासत्त्वः <प्रज्ञापारमितायां चरन् रूपमिति न अभिनि>विशते इदं रूपमस्य रूपमिति । एवं वेदना<ं> संज्ञां संस्कारान् विज्ञानमिति न अभिनिविशते, इदं विज्ञानमस्य विज्ञानमिति, यावत्सर्वाकारज्ञतेति न अभि<निविशते इदं सर्वाकारज्ञता अस्य सर्वा>कारज्ञतेति । रूपं नित्यतो वा अनित्यतो वा न अभिनिविशते । वेदनासंज्ञासंस्काराविज्ञानं नित्यतो वा अनित्यतो वा नाभिनिविशते । यावत्सर्वाकारज्ञतां नित्यतो वा <अनित्यतो वा नाभिनिविशते । रूपं सुख>तो वा दुःखतो वा नाभिनिविशते । वेदनां संज्ञां संस्कारान् विज्ञानं सुखतो वा दुःखतो वा नाभिनिविशते । यावत्सर्वाकारज्ञतां सुखतो वा दुःखतो वा नाभिनिविश<ते । रूपमात्मतो वा अनात्मतो वा नाभिनि>विशते, वेदना<ं> संज्ञा<ं> संस्कारान् विज्ञानमात्मतो वा अनात्मतो वा नाभिनिविशते । यावत्सर्वाकारज्ञतामात्मतो वा अनात्मतो वा नाभिनिविशते । रूपं शान्ततो वा अशान्ततो वा <नाभिनिविशते । वेदनां संज्ञां संस्कारा>न् विज्ञानं शान्ततो वा अशान्ततो वा नाभिनिविशते । यावत्सर्वाकारज्नतां शान्ततो वा अशान्ततो वा नाभिनिविशते । रूपं शून्यतो वा अशून्यतो वा नाभिनिविशते । वेदनां सं<ज्ञां संस्कारान् विज्ञानं शून्यतो वा अशू>न्यतो वा नाभिनिविशते । यावत्सर्वाकारज्ञतां (अद्स्प्गि १२२) शून्यतो वा अशून्यतो वा नाभिनिविशते । रूपं निमित्ततो वा अनिमित्ततो वा नाभिनिविशते । वेदनां संज्ञां संस्कारा<न् विज्ञानं निमित्ततो वा अनिमित्ततो वा> नाभिनिविशते । यावत्सर्वाकारज्ञतां निमित्ततो वा अनिमित्ततो वा नाभिनिविशते । रूपं प्रणिहिततो वा अप्रणिहिततो वा नाभिनिविशते । वेदना<ं> संज्ञा<ं> संस्कारा<न्> विज्ञा<नं प्रणिहिततो वा अप्रणिहिततो> वा नाभिनिविशते । यावत्सर्वाकारज्ञतां प्रणिहिततो वा अप्रणिहिततो वा नाभिनिविशते । रूपं विविक्ततो वा अविविक्ततो वा नाभिनिविशते, वेदनां संज्ञा<ं> संस्कारा<न् विज्ञानं विविक्ततो वा अविविक्ततो वा> नाभिनिविशते । यावत्सर्वाकारज्ञतां विविक्ततो वा अविविक्ततो वा नाभिनिविशते । तत्कस्य हेतोः? न ह्यस्वभावो धर्मो नित्य इति वा अनित्य इति वा सुखमिति वा दुःखमिति व आ<त्म इति वा अनात्म इति वा शान्त इति वा> अशान्त इति वा शून्य इति वा अशून्य इति वा निमित्तमिति वा अनिमित्तमिति वा प्रणिहितमिति वा अप्रणिहितमिति वा विविक्त इति वा अविविक्त इति वा शक्यमभिनिर्हर्तुं । स्वभावं स्वभावेन शून्यमिति न शक्यमभिनिर्हर्तुं । स खलु पुनः सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमिताया<ं> चरन् ध्यानपारमितायं वीर्यपारमितायां क्षान्तिपारमितायां शीलपारमितायां <दानपारमितायां चरन् सर्वाका>रज्ञतायां [f । २४६ ] स्थास्य<ति । त>द्यथापि नाम सुभूते राज्ञश्चक्रवर्तिनश्चतुरंगो बलकायो । येन येन राजा चक्रवर्ती गच्छति । तेन तेन चतुरंग्<ओ ब>लकायो गच्छति । एव<मेव सुभूते ये>न येनैव प्रज्ञापारमिता गच्छति । तेन तेनेमा पञ्चपारमिता अनुवर्तन्ते । येन सर्वाकारज्ञता तेन स्थास्य<न्>ति । तद्यथापि नाम सुभूते सारथिश्चतुर्युगमश्(अद्स्प्गि १२३) च रथ<मभिरुह्य समेन मार्गेण ग>च्छति । एवमेव आसां पञ्चानां पारमितानां प्रज्ञापारमिता सारथी । समेन मार्गेण येन सर्वाकारज्ञता तेन गच्छति । आह: कतमो भगवन् बोधिसत्त्वानां महास<त्त्वानां मार्गः कतमः अमार्ग>ः? भगवानाह: श्रवकमार्गो बोधिसत्त्वानां महासत्त्वानाममार्गः, प्रत्येकबुद्धमार्गो बोधिसत्त्वानां महासत्त्वानाममार्गः, सर्वाकारज्ञतामार्गः <बोधिसत्त्वानां> महासत्त्वानां मार्गः । अयं बोधिसत्त्वानां महासत्त्वानां मार्गः अय<ममार्गः । आह: महाकृत्येन भ>गवन् प्रज्ञापारमिता बोधिसत्त्वानां महासत्त्वानां प्रत्युपस्थिता यैवं प्रणयत्ययं मार्गोऽयममार्गः । भगवानाह: एवमेतत्सुभूते एवमेतत् । महाकृत्येन प्रज्ञापारमि<ता प्रत्युपस्थिता बोधिसत्त्वानां महा>सत्त्वानां या मार्गं वा अमार्गं वा प्रदर्शयति । अप्रमेयकृत्येन प्रज्ञापारमिता बोधिसत्त्वानां महासत्त्वानां प्रत्युपस्थिता । असंख्येयकृत्येन प्रज्ञापारमिता <बोधिसत्त्वानां महासत्त्वानां प्रत्युप>स्थिता । प्रज्ञापरमिता सुभूते तच्च कृत्यं वर्णयति । न च रूपं परिगृह्णाति । न वेदनां न संज्ञां न संस्कारान्न विज्ञानं परिगृह्णाति न श्रावकत्वस्य न प्रत्येकबुद्धत्व<स्य परिग्रहाय प्रत्युपस्थिता । सा खलु> पुनरियं प्रज्ञापारमिता बोधिसत्त्वस्य महासत्त्वस्य परिणायिका अनुत्तरस्याः सम्यक्संबोधेः श्रावकभूमेश्(अद्स्प्गि १२४) च प्रत्येकबुद्धभूमेश्च अपरिणायिका, सर्वा<कारज्ञतायाश्च उपनायिका एवमियं प्र>ज्ञापारमिता न कस्यचिद्धर्मस्य उत्पादयित्री न निरोधयित्री धर्मस्थित्<इत्>आं प्रमाणीकृत्य । आह: यदि भगवन्नियं प्रज्ञापारमिता न कस्यचिद्धर्मस्य उत्पादयि<त्री न निरोधयित्री, तत्कथं भगवं बोधिस>त्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता दानं दातव्यं कथं शीलं रक्षितव्यं कथं क्षान्तिर्भावयितव्याः कथं वीर्यमारब्धव्यं कथं ध्यानानि समापत्तव्यानि । <कथं प्रज्ञा भावयितव्या? भगवानाह: सर्वा>कारज्ञतामारंबणीकृत्य दानन् दातव्यां सर्वाकारज्ञतामारंबणीकृत्य सीलं रक्षितव्यं सर्वाकारज्ञतामारंबनीकृत्य क्षान्तिर्भावयितव्या सर्वाकारज्ञ<तामारंबणीकृत्य वीर्यमारब्धव्यं सर्वाकारज्ञ>तामारंबणीकृत्य ध्यानानि समापत्तव्यानि । सर्वाकारज्ञतामारंबणीकृत्य प्रज्ञा भावयितव्या । तेन तानि कुशलमूलं सर्वसत्त्वैः सार्धं साधारणानि <कृत्वा अनुत्तरस्यां सम्यक्संबोधौ परिणाम>यितव्यानि । एवं बोधिसत्त्वस्य महासत्त्वस्य तानि कुशलमूलान्यनुत्तरस्यां सम्यक्संबोधौ परिणामयतः षट्पारमिता भावनापरिपूरिं गच्छंति याव<द्> बोधि<सत्त्वस्य महासत्त्वस्य स>र्वाकारज्ञता [f । २४६ ] <भावनापरिपूरिं गच्छति> । यश्च कश्चिद्बोधिसत्त्वो महासत्त्वः षड्भिः पारमिताभिरविरहितः <स> सर्वाकारज्ञताय अविरहितः । तस्माद्बोधिसत्त्वेन महासत्त्वेन अनुत्तरां सम्यक्संबो<धिमभिसंबोद्धुकामेन षट्सु पारमितासु> शिक्षितव्यं । षट्सु पारमितासु चरन् बोधिसत्त्वो महासत्त्वो सर्वकुशलमूलानि परिपूर्य सर्वाकारज्ञतामनुप्राप्स्यति । तस्मात्तर्हि सुभूते बोधि<सत्त्वेन महासत्त्वेना षट्सु पारमितासु योगः क>रणीयः । आह: कथं भगवन् बोधिसत्त्वेन महासत्त्वेन षट्सु पारमितासु (अद्स्प्गि १२५) योगः करणीयः? भगवानाह: इह सुभूते बोधिसत्त्वेन महासत्त्वेन <एवं प्रत्यवेक्षितव्यं । रूपं न संयुक्तं न वि>संयुक्तं । वेदनासंज्ञासंस्कार विज्ञानं स संयुक्तं न विसंयुक्तं यावत्सर्वाकारज्ञता न संयुक्ता न विसंयुक्ता । एवं खलु सुभूते बोधिसत्त्वेन महास<त्त्वेन षट्सु पारमितासु योगः करणीय>ः । पुनरपरं सुभूते बोधिसत्त्वेन महासत्त्वेन न रूपे स्थास्यामि इति योग करणीयः, न वेदनायां न संज्ञायां न संस्कारेषु न विज्ञाने स्थास्यामि इति यो<गः करणीयः, यावन्न सर्वाकारज्ञता> यां स्थास्यामि इति योग करणीयः । तत्कस्य हेतोः? न हि रूपं क्वचि<त्> स्थितं, न वेदना न संज्ञा न संस्कारा न विज्ञानं क्वचित्स्थितं । यावन्न सर्वाकारज्ञता क्वचित्स्थिता<, एवमस्थानयोगेन बोधिसत्त्वेन म>हासत्त्वेन अनुत्तरा सम्यकम्बोधिरभिसंबोद्धव्या । तद्यथापि नाम सुभूते पुरुष आम्रफलानि वा पनसफलानि वा खादितुकामो भवेत् । तेन आम्रफल<ं वा पनसफलं वा अवरोपितव्य>ं । अवरोप्य कालेन कालमुदकं दातव्यं केलयितव्यं, तस्य अनुपूर्वेण वर्धमाने स्तंभे सामग्रीमासाद्य आम्रफलैर्वा पनसफलैर्वा सामग्री भविष्यति । स ता<न्याम्रफलानि वा पनसफलानि वा> खादिष्यति । एवमेव सुभूते बोधिसत्त्वेन महासत्त्वेन अनुत्तरां सम्यक्संबोधिमभिसंबोद्धुकामेन षट्सु पारमितासु शिक्षित्वा सत्त्वान् दानेन अनुग्रहीतव्या शी<लेन क्षान्त्या वीर्येण ध्यानेन प्रज्ञया अनुग्र>हीतव्याः सत्त्वां संसारात्परिमोचयितव्याः । तस्मात्तर्हि सुभूते बोधिसत्त्वेन महासत्त्वेन अपरप्रणेयतां गन्तुकामेन बुद्धक्षेत्रं परिशोधयितुकामेन बो<धिमण्डनिषीदितुकामेन धर्मचक्रं> प्रवर्तयितुकामेन (अद्स्प्गि १२६) षट्सु पारमितासु शिक्षितव्यं । आह: प्रज्ञापारमितया भगवन् प्रज्ञापारमितायां शिक्षितव्यमिति वदसि? भगवानाह: प्रज्ञापारमि<तया सुभूते प्रज्ञापारमितायां> शिक्षितव्यमिति वदामि । सर्वधर्मवशिताभावनामनुप्राप्तुकामेन प्रज्ञापारमितायां शिक्षितव्यमिति वदामि । तत्कस्य हेतोः? एषा हि प्रज्ञापारमिता । यया <सर्वधर्मवशिताभूमिरनुप्राप्य>ते । एषा हि प्रज्ञापारमिता सर्वधर्माणां मुखं । तद्यथापति नाम महासमुद्रः सर्वनदीनां मुखम्, एवमेव प्रज्ञापारमिता सर्वधर्माणां मुखं । श्रावाकया<निकैर्वा प्रत्येकबुद्धयानिकैर्वा> बोधिसत्त्वयानिकैर्वा पुद्गलैरिहैव प्रज्ञापारमितायां शिक्षितव्यं । तस्मात्तर्हि सुभूते बोधिसत्त्वेन महासत्त्वेन दानपारमितायं शिक्षितव्यं । शिलपारमि<तायां क्षान्तिपारमितायां वीर्यपारमि>तायां [f । २४७ ] ध्यानपारमितयां प्रज्ञापारमितायां शिक्षितव्यं यावत्सर्वाकारज्ञतायां शिक्षितव्यं । तद्यथापि नाम सुभूते इष्वस्त्राचार्यो य<थानुरूपं धनुर्गृहीत्वा दुराधर्षो भ>वति प्रत्यर्थिकैर्वा प्रत्यमित्रैर्वा । एवमेव सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् दुराधर्षो भवति मारेण वा मारकायिकाभिर्वा देवताभिः । तस्मात्त<र्हि सुभूते बोधिसत्त्वे>न महासत्त्वेन अनुत्तरां सम्यक्संबोधिमभिसंबोद्धुकामेन प्रज्ञापारमितायां शिक्षितव्यं । तं <च> प्रज्ञापारमितायां चरन्तमतीतानागतप्रत्युत्पन्ना बुद्धा भगवन्तः समन्वाहरन्ति । आह: कथं भगवन् बुद्धा भगवन् (अद्स्प्गि १२७) तस्तं बोधिसत्त्वं महासत्त्वं दानपारमितायां चरन्तं समन्वाहरन्ति? कथं शीलपारमितायां क्षान्तिपारमितायां वीर्यपारमितायां ध्यानपारमितायां <प्रज्ञापारमितायां चरन्तं> समन्वाहरन्ति? कथमध्यात्मशून्यतायां यावदभावसभावशून्यतायां चरन्तं समन्वाहरन्ति? यावत्कथं सर्वाकारज्ञतायां चरन्तं समन्वाहरन्ति? भगवाना<ह: इह सुभूते अतीतानागतप्रत्युत्पन्ना बुद्धा भ>गवन्तो बोधिसत्त्वं महासत्त्वं दानपारमितायां चरन्तं समन्वाहरन्ति । शीलपारमितायां क्षान्तिपारमितायां वीर्यपारमितायां ध्यानप्रमितायां प्रज्ञ्<आपारमितायां चरन्तं स>मन्वाहरन्ति । तथा पुनः समन्वाहरन्ति यथा नैव दानं न शीलं न क्षान्तिं न वीर्यं न ध्यानं न प्रज्ञामुपलभते । एवम् <अन्>उपलभमानं बोधिसत्त्वं महा<सत्त्वं समन्वाहरन्ति । एवं बोधिसत्त्वं महासत्त्वं> सर्वाकारज्ञतायां चरन्तं समन्वाहरन्ति । तथा च पुनः समन्वाहरन्ति, यथा नैव सर्वाकारज्ञतामुपलभते । एवम् <अन्>उपलभमानं बोधिसत्त्वं महास<त्त्वं समन्वाहरन्ति । पुनरप>रं सुभूते बुद्धा भगवन्तो बोधिसत्त्वं महासत्त्वं न रूपतः समन्वाहरन्ति । न वेदनातो न संज्ञातो न संस्कारतो न विज्ञनतः समन्वाहरन्ति । यावन्न सर्वाकारज्ञ<तातः समन्वाहरन्ति । आह:> बहुषु भगवंस्स्थानेषु बोधिसत्त्येन महासत्त्वेन शिक्षितव्यं, न क्वचिच्छिक्षितव्यं? भगवानाह: एवमेतत्सुभूते एवमेतद् । बहुषु स्थानेषु बोधिस<त्त्वेन मनासत्त्वेन शिक्षितव्यं । न क्वचिच्छिक्षितव्य>ं । तत्कस्य हेतोः? तथा हि ते धर्मा नोपलभ्यन्ते, यत्र बोधिसत्त्वेन महासत्त्वेन शिक्षितव्यं । आह: यत्पुनर्भगवंस्तथागतेनेमे धर्मा संक्षिप्ते<ण च विस्तरेण च भाषितास्,> (अद्स्प्गि १२८) <तत्र बोधिसत्त्वेन> महासत्त्वेन अनुत्तरां सम्यक्संबोधिमभिसंबोद्धुकामेनेमाः षट्पारमिताः संक्षिप्तेन च विस्तरेण च पर्यवाप्तव्या पर्यवाप्य वाचा सुपरिचित्<आः कृत्वा मनसा अ>नुप्रेक्षितव्यास्, तथा च अनुप्रेक्षितव्या यथा चित्तचैतसिकधर्मा न प्रवर्तेरन् । भगवानाह: एवमेतत्सुभूते एवमेतत् । आसु संक्षिप्तविस्तरेण षट्सु पारमितासु शिक्षमाणो बोधिसत्त्वो [f । २४७ ] महासत्त्वः सर्वधर्माणां<श्च> संक्षिप्तविस्तरं ज्ञास्यति । आह: कथं भगवं बोधिसत्त्वो महासत्त्वाः <सर्वधर्माणां संक्षि>पृष्ठतविस्तरं ज्ञास्यति? भगवानाह: <रूपस्य वा वेदनाया वा संज्ञाया वा संस्कराणां> वा विज्ञानस्य वा तथतां जानान<ः> । यावत्सर्वाकारज्ञतायास्तथतां जानान<ः> । सर्वधर्माणां संक्षिप्तविस्तरं ज्ञास्यति । आह: कथं पुनर्भगव<ं> रूपस्य तथता? <भगवानाह: यस्या तथताया नोत्पादः प्रज्ञा>यते न व्ययः प्रज्ञायते न स्थितस्यान्यथात्वं प्रज्ञायते । इयं रूपतथता यत्र बोधिसत्त्वेन महासत्त्वेन शिक्षितव्यं । आह: कथं भगवं वेदनाया संज्ञाया संस्कराणां विज्ञानस्य तथता यावत्सर्वाकारज्ञतायास्तथता? भगवानाह: यस्या तथताया नोत्पाद प्रज्ञायते न व्यय<ः> प्रज्ञायते न स्थितस्यान्यथात्वन् प्रज्ञायते इयं वेदनासंज्ञासं<स्कारविज्ञानतथता यावत्सर्वाकारज्ञ>तातथता । यत्र बोधिसत्त्वेन महासत्त्वेन शिक्षितव्यं । भूतकोटिं जानान<ः बोधिसत्त्वो महासत्त्वः> सर्वधर्माणां संक्षिप्तविस्तरं ज्ञास्यति । आह: कतमा सा भगवं भूतकोटिः? भग<वानाह: अकोटिर्भूतकोटिर् । अत्र को>ट्यां (अद्स्प्गि १२९) शिक्षमाणो बोधिसत्त्वो महासत्त्व सर्वधर्माणां संक्षिप्तविस्तरं ज्ञास्यति । धर्मधातुं जानानो बोधिसत्त्वो महासत्त्वः सर्वधर्माणां संक्षिप्तविस्तरं ज्ञास्यति । आह: <कतमासौ भगवं धर्मधातुः? >भगवानाह: अधातुर्धर्मधातुः, यस्य धर्मधातोर्नोच्छेदः प्रज्ञायते न परिच्छेदः । एवं चरं धर्मधातुं जानानन् बोधिसत्त्वो महासत्त्वः सर्वधर्माणां संक्षिप्त<विस्तरं ज्ञास्यति । आह: क>थं भगवं सर्वधर्माणां संक्षिप्तविस्तरं ज्ञातव्यं? भगवानाह: यथा सर्वधर्मा न संयुक्ता न विसंयुक्ताः । आह: कतमे ते भगवं सर्वधर्मा ये न संयुक्ता न वि<संयुक्ताः? भगवानहा: रूपं> न संयुक्तं न विसंयुक्तं वेदनासंज्ञासंस्कारविज्ञानं न संयुक्तं न विसंयुक्तं यावत्संस्कृतधातुरसंस्कृतधातुर्न संयुक्तो न विसंयुक्तः । तत्कस्य हेतोः? न ह्यस्य स्व<भावोऽस्ति यः संयुज्येत वा विसंयु>ज्येत वा, यश्च अस्वभावः स अभावः, यश्च अभावः स अभावेन सार्द्धं न संयुक्तो न विसंयुक्तः । एवं सर्वधर्मा ज्ञातव्याः । अयं पुनः सुह्हूते अभिसंक्षेपो बोधिसत्त्वानां महासत्त्व्<आनां । अत्र हि सुभूते>ऽभिसंक्षेपपारमितायामादिकर्मिकेण बोधिसत्त्वेन महासत्त्वेन शिक्षितव्यं, यावद्दशम्यां भूमौ स्थित्वा इहैव अभिसंक्षेपे शिक्षितव्यं । इह पुनरभिसंक्षेपे शिक्षमाणो <बोधिसत्त्वो महासत्त्वः> सर्वधर्माणां संक्षेपविस्तरं ज्ञास्यति । आह: तीक्ष्णेन्द्रियस्य भगवं बोधिसत्त्वस्य महासत्त्वस्य अयं प्रवेशः? भगवानाह: मृद्वेन्द्रियस्य अपि सुभूते बोधिसत्त्वस्य महासत्त्वस्य अयं प्रवेशो, मध्येन्द्रियस्य (अद्स्प्गि १३०) अपि बोधिसत्त्वस्य महासत्त्वस्य अयं प्रवेशः <अ>समाहितेन्द्रियस्य अपि बोधिसत्त्वस्य महासत्त्वस्य अयं प्रवेशः । न अयं कस्यचिद्यन्न प्रवेशः शिक्षितुकामस्य बोधिसत्त्वस्य महासत्त्वस्य, न कुसीदस्य अयं प्रवेशो न हीनवीर्यस्य न मुषितस्मृतेर्न विक्षिप्तचित्तस्य, आरब्ध<वीर्यस्याकुसीदस्य उपस्थितस्मृतेरयं> प्रवेशः, शिक्षितुकामस्य अवैवर्तिकभूमौ सर्वाकारज्ञतामनुप्राप्तुकामस्य अयं प्रवेशः । सचेद्यथोपदिष्टायां प्रज्ञापारमितायां शिक्षिष्य<ते शिक्षित्वा दानापारमितायां शीलपार>मितायां [f । २४८ ] क्षान्तिपारमितायां वीर्यपारमितायां ध्यानपारमितायां प्रज्ञापारमितायां सर्वाकारज्ञतामनुप्राप्स्यति । तस्य खलु पुनर्बोधिसत्त्वस्य म<हासत्त्वस्य प्रज्ञापारमितायां चरतो यानि कानिचिन्> मारकर्माण्युत्पत्स्यन्ते, स उत्पद्यमानान्येव प्रहास्यन्ते । तस्मादुपायकौशलं परिगृहीतुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्य्<अं । यस्मिन् समये बोधिसत्त्वो महास>त्त्व प्रज्ञापारमितायां चरति प्रज्ञापारमितां भावयति प्रज्ञापारमितायां योगमापद्यते । तस्मिं समये असंख्येयेषु लोकधातुषु ये बुद्धा भगवन्तस्तिष्ठन्ति धृय<न्ते यापयन्ति सद्धर्मं देश>यंति । ते तं बोधिसत्त्वं महासत्त्वं समन्वाहरन्ति । प्रज्ञापारमितायां चरन्तं । तत्कस्य हेतोः? अतो निर्याता ह्यतीतानागतप्रत्युत्पन्ना बुद्धा भगवंत । यदुत ष<ट्पा>रमितेभ्यः । तस्मात्तर्हि बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरतैवं प्रतिकांक्षितव्यमहमप्येतान् धर्माननुप्राप्स्यामि । येऽतीतानागतप्रत्युत्पन्नैर्बुद्धैर्भगवद्भिरनुप्रा<प्ता> अनुप्राप्यन्ते । अनुप्राप्स्यन्ते च । एवं खलु सुभूते बोधिसत्त्वेन (अद्स्प्गि १३१) महासत्त्वेन प्रज्ञापारमितायां चरत योग<ं> आपत्तव्यं । एवं युज्यमानो बोधिसत्त्वो महासत्त्व क्षिप्रमनुत्तरां सम्यक्संबो<धिमभि>संभोत्स्यते । तस्मात्तर्हि बोधिसत्त्वेन महासत्त्वेन सर्वाकारज्ञतामनसिकारैरविरहितेन भवितव्यं । सचेत्पुनर्बोधिसत्त्वो महासत्त्व एवं चरन् सर्वाकारज्ञतायामन्तशोऽच्छटासं<घातमा>त्रमपि प्रज्ञापारमितां भावयिष्यति । स खलु पुनर्बोधिसत्त्वो महासत्त्व बहुतरं पुण्यं प्रसविष्यति । न त्वेव त्रिसाहस्रमहासाहस्रे लोकधातौ ये सत्त्वास्तान् दानेन संतर्पये<त्शीले प्रति>ष्ठापयेत्समाधौ प्रतिष्ठापये<त्> प्रज्ञायां प्रतिष्ठापयेद्विमुक्तौ प्रतिष्ठापयेद्विमुक्तिज्ञानदर्शने प्रतिष्ठापये<त्> श्रोतआपत्तिफले प्रतिष्ठापयेद्यावदर्हत्त्वे प्रतिष्ठापयेत्प्रत्येक<बोधौ प्रति>ष्ठापयेद्, अयमेव बहुतरं पुण्यं प्रसवेद्य इमां गंभीरां प्रज्ञापारमितामच्छटासंघातमात्रमपि भावयेत् । तत्कस्य हेतोः? अतो निर्यातं हि तद्दानशीलसमाधिप्रज्ञाविमुक्तिवि<मुक्ति>ज्ञानदर्शन<स्रोत>आपत्तिफलं यावदर्हत्त्वं प्रत्येकबोधि<ः> । येऽपि ते बुद्धा भगवन्तो दशसु दिक्षु लोकधातुषु तिष्ठन्ति धृयन्ते यापयन्ति धर्मं च देशयन्ति तेऽप्यतो निर्याताः प्रज्ञापारमितायाः । येऽपि तेऽतीतानाग<तप्रत्युत्पन्ना> बुद्धा भगवन्तस्तेऽप्यत एव प्रभाविता । प्रज्ञापारमितायाः । पुनरपरं सुभूते यो मुहूर्तं वा दिवसं वा दिवसशतं वा संवत्सरं व संवत्सरशतं वा । कल्पं वा कल्पशतं वा यावदसं<ख्येयान्यपि कल्प>शतानि इमां प्रज्ञापारमितां सर्वाकारज्ञतारंबणमनसिकारैर्भावयिष्यति । स प्रभूततरं पुण्यं प्रसविष्यति । न त्वेव ये गंगानदीवालुकोपमेषु लोकधातुषु सत्त्वास्तान् सर्वा<न् दानेन संतर्पयेत्श्>ईले प्रतिष्ठापयेत्समाधौ प्रज्ञायां विमुक्तौ विमुक्तिज्ञानदर्शने प्रतिष्ठापयेत्स्रोतआपत्तिफले यावदर्हत्त्वे प्रतिष्ठापये<त्> प्रत्येकबोधौ (अद्स्प्गि १३२) प्रतिष्ठापयेत् । <तत्कस्य हेतोः? अतो निर्याता> [f । २४८ ] हि ते बुद्धा भगवन्तो यैरेतद्दानमयं पुण्यक्रियावस्तु प्रज्ञाप्तं यावदर्हत्त्वं प्रज्ञप्तं प्रत्येकबोधिः प्रज्ञप्ता । यः पुनर्बोधिसत्त्वो महासत्त्वः एवमुपदिष्टायां प्र<ज्ञपारमितायां स्था>स्यति । स खलु पुनर्बोधिसत्त्वो महासत्त्वः अवैवर्तिक प्रतिकाण्क्षितव्यः । तथागतसमन्वागत स बोधिसत्त्वो महासत्त्वः प्रतिकाङ्क्षितव्यो योऽनेनोपायकौशलेन समन्वागतः <बहुबुद्धकोटिनि>युतशतसहस्रपर्युपासितः स बोधिसत्त्वो महासत्त्वः प्रतिकाङ्क्षितव्यः अवरोपितकुशलमूलः स बोधिसत्त्वो महासत्त्वः प्रतिकाङ्क्षितव्यः, कल्याणामित्रपरिगृहीतः स बो<धिसत्त्वो> महासत्त्वः प्रतिकाङ्क्षितव्यः, षट्पारमिताचीर्णः स बोधिसत्त्वो महासत्त्वः प्रतिकाङ्क्षितव्यः, चतुर्दशशून्यताभावितः स बोधिसत्त्वो महासत्त्वः प्रतिकाङ्क्षितव्यः यावत्चतुःप्रतिसंवि<दभावितः> स बोधिसत्त्वो महासत्त्वः प्रतिकाङ्क्षितव्यः, षडभिज्ञः स बोधिसत्त्वो महासत्त्वः प्रतिकाङ्क्षितव्यः, कुमारभूतः स बोधिसत्त्वो महासत्त्वः प्रतिकाङ्क्षितव्यः, अभिप्रायपरिपूर्णा<ः> स बो<धिसत्त्वो> महासत्त्वः प्रतिकाङ्क्षितव्यः, बुद्धदर्शन अविरहितः स बोधिसत्त्वो महासत्त्वः प्रतिकाङ्क्षितव्यः, कुशलमूल अविरहितः स बोधिसत्त्वो महासत्त्वः प्रतिकाङ्क्षितव्यः । बुद्धक्षेत्र अविरहि<तः स> बोधिसत्त्वो महासत्त्वः प्रतिकाङ्क्षितव्यः, अनाच्छेद्यप्रतिभानः स बोधिसत्त्वो महासत्त्वः प्रतिकाङ्क्षितव्यः, धाराणीप्रतिलब्ध<ः> स बोधिसत्त्वो महासत्त्वः प्रतिकाङ्क्षितव्यः, रूपपरिनि<ष्पत्ति>श्तस्य बोधिसत्त्वस्य महासत्त्वस्य प्रतिकाङ्क्षितव्यः, व्याकरणसंपन्नः स बोधिसत्त्वो महासत्त्व<ः> प्रतिकाङ्क्षितव्यः, संचिन्त्य भवप्रतिकांक्षी (अद्स्प्गि १३३) स बोधिसत्त्वो महासत्त्वः प्रतिकाङ्क्षितव्यः अ<क्षरप्र>वेशकुशलः स बोधिसत्त्वो महासत्त्वः प्रतिकाङ्क्षितव्यः, अनक्षरप्रवेशकुशलः स बोधिसत्त्वो महासत्त्वः <प्रतिकाङ्>क्षितव्यः बोधिसत्त्वविहारकुसलः स बोधिसत्त्वो महासत्त्वः प्रतिकाङ्क्षितव्यः, व्याहारकुशलः स बोधिसत्त्वो महासत्त्वः प्रतिकाङ्क्षितव्यः, अव्याहारकुशलः स बोधिसत्त्वो महासत्त्वः <प्रतिकाङ्क्षितव्यः>, नेकाधिवचनकुशलो द्व्यधिवचनकुशलो बह्वाधिवचनकुशलः स बोधिसत्त्वो महासत्त्वः प्रतिकाङ्क्षितव्यः, स्त्र्यधिवचनुकुशलो पुरुषाधिवचनकुशलो नपुंसकाधिवचन<कुशलो स बोधिसत्त्वो म>हासत्त्वः प्रतिकाङ्क्षितव्यः, अतीतानागातप्रत्युत्पन्नकुशलः स बोधिसत्त्वो महासत्त्वः प्रतिकाङ्क्षितव्यः, रूपकुशलो वेदनाकुशलः संज्ञाकुशलः संस्कार<कुशलः विज्ञानकुशलः यावत्निर्वाण>कुशलो धर्मधातुलक्षणकुशलः संस्कृतलक्सणकुशलः असंस्कृतलक्षणकुशलः, भावकुशलः अभावकुशलः स्वभावकुशलः परभावकु<शलः, सं>पृष्ठरयुक्तकुशलो विप्रयुक्तकुशल<ः> संप्रयुक्तविप्रयुक्तकुशलः न संप्रयुक्तविप्रयुक्तकुशलः, तथताकुशलः अवितथताकुशलः अनन्यतथताकुशलः [f । २४९ ] धर्मधातुकुशलो धर्मनियामताकुशलः हेतुप्रत्ययकुशलः अप्रत्ययकुशलः स्कन्धकुशलो धातुकुशलः आयतनकुशलः सत्यकुशलः प्रतीत्यसमुत्पादकुशलः <ध्यानकुशलः> अप्रमाणकुशलः आरूप्यसमापत्तिकुशलः षट्पारमिताकुशलः (अद्स्प्गि १३४) चतुस्मृत्युपस्थानकुशलो यावत्सर्वकारज्ञाताकुशलः संस्कृतधातुकुशलः असंस्कृतधातुकुशलः धातुकुशलः अधातुकुशलः रूपमनसिकारकुशलः यावत्विज्ञानमनसिकारकुशलः यावत्सर्वाकारज्ञतामनसिकारकुशलः रूपं रूपेण सून्यमिति कुशलः यावत्विज्ञानं विज्ञानेन शून्यमिति कुशलः यावद्बोधि बोध्या शून्येति कुशलः प्रश्रब्धिमार्गकुशलः अप्रश्रब्धिमार्गकुशलः उत्पादनिरोधकुशलः स्थित्वन्यथात्वकुशलः रागकुशलः द्वेषकुशलो मोहकुशलः अरागकुशल<ः> अद्वेषकुशल<ः> अमोहकुशलः दृष्टिकुशलः अदृष्टिकुशलः मिथ्यादृष्टिकुशलः अमिथ्यादृष्टिकुशलः यावत्सर्वदृष्टिकुशलः नामकुशलो नामरूपकुशलः आरंबणकुशलः अधिपतिकुशलः आकारकुशलः लक्षणकुशलः दुःखकुशलः समुदयकुशलः निरोधकुशलः मार्गकुशलः नरककुशलः तिर्यग्योनिकुशलो यमलोककुशलः मनुष्यकुशलः मनुष्यमार्गकुशलः देवकुशलो देवमार्गकुशलः स्रोतआपत्तिफलकुशलः स्रोतआपत्तिफलमार्गकुशलः सकृदागामीकुशलः सकृदागामीफलमार्गकुशलः अनागामीफलमार्गकुशलः अर्हत्त्वकुशलः अर्हत्त्वमार्गकुशलः प्रत्येकबोधिकुशलः प्रत्येकबोधिमार्गकुशलः मार्गाकारज्ञताकुशलो मार्गाकारज्ञतामार्गकुशलः सर्वाकारज्ञताकुशलः सर्वाकारज्ञतामार्गकुशलः इन्द्रियकुशलः इन्द्रियपरिपूरिकुशलः आशुप्रज्ञकुशलः तीक्ष्णप्रज्ञकुशलः जवनप्रज्ञकुशलः नैर्वेधिकप्रज्ञकुशलः पृथुप्रज्ञकुशलः असमप्रज्ञकुशलः अतीताध्वकुशलोऽनागताध्वकुशलः प्रत्युत्पन्नाध्वकुशलः उपायाकुशलः सत्त्वाशयकुशलः आशयकुशलः अध्याशयकुशलः (अद्स्प्गि १३५) अर्थकुशलो व्यञ्जनकुशलः यानत्रयावस्थानकुसलः स बोधिसत्त्वो महासत्त्वः प्रतिकाङ्क्षितव्यः । एतेऽनुशांसा<ः> सुभूते तस्य बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतः प्रज्ञापारमितामभिनिर्ह<र>तः प्रज्ञापारमितां भावयतः प्रतिकाङ्क्षितव्याः । आह: कथं भगवं प्रज्ञापारमितायां चरितव्यं कथं प्रज्ञापारमिता अभिनिर्हर्तव्या कथं प्रज्ञापारमिता भावयितव्या? भगवानाह: रूपशान्ततया रूपवशिकतया रूपतुच्छ<कतया रूपा>सारकतया प्रज्ञापारमिताया<ं> चरितव्यं । वेदनासंज्ञासंस्कारविज्ञानशान्ततया विज्ञानवशिकतया विज्ञानतुच्छकतया । विज्ञान असारकतया प्रज्ञापारमितायां चरितव्यं । यत्<पुनर्सुभूते एवं वदसि,> कथं प्रज्ञापारमिता अभिनिर्हर्तव्येति? आकाशशून्यताभिनिर्हरेण प्रज्ञापारमिता अभिनिर्हर्तव्या । यत्पुनरेवं वदसि, कथं प्रज्ञापारमिता <भा>वयितव्येति? [f । २४९ ] भावनाविभावनत<या प्रज्ञा>पृष्ठआरमिता भावयितव्या । आह: कियच्चिरं भगवं बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरतः प्रज्ञापारमितायां चीर्णां भवति? भगवानाह: प्रथमचित्तोत्पादमुपादाय यावद्बोधिमण्डनि<षण्ण> प्रज्ञापारमितायां चरितव्यं । एवमभिनिर्हर्तव्या भावयितव्या । आह: किं पुनर्भगवंस्चित्तानन्तर्यताविरहितेन भवितव्यं? भगवानाह; अन्येषा<ं> मनसिकाराणामवकाशमदद<ता प्रज्ञा>पृष्ठआरमितायां चरितव्यं, सर्वाकारज्ञतामनसिकारमनुत्सृजता प्रज्ञापारमितायां चरितव्यं प्रज्ञापारमिता अभिनिर्हर्तव्या प्रज्ञापारमिता भावयितव्या । तथा पुनश्चरितव्यं तथा भावयितव्यं तथा अभिनिर्हर्तव्या यथा चित्तचैतसिका धर्मा न प्रवर्तन्ते । आह; किं पुनर्भगवन् प्रज्ञापारमितायां चरता प्रज्ञापारमितामभिनिर्हरता प्रज्ञापारमितां भावयता सर्वाकारज्ञता अनुप्राप्यते? भगवानाह: नो हि इति । आह: तत्किम् (अद्स्प्गि १३६) अभावयता? भगवानाह: नो हीति । आह: तत्किं भावयता च अभावयता च? भगवानाह: नो हीति । आह: तत्किं नैव भावयता ना भावयता? <भगवानाह:> नो हीति । आह: कथमिदानीं भगवं सर्वाकारज्ञतामनुप्राप्यते? भगवानाह: यथा तथता । आह: कथं तथता? भगवानाह: यथा भूतकोटि । आह: कथं भूतकोटिः? भगवानाह: यथा धर्मधातुः । आह: कथं धर्मधातुः? भगवानाह: यथा आत्मधातुः सत्त्वधातुर्जीवधातुः पुद्गलधातु<ः> । आह: कथं भगवन्नात्मधातुः सत्त्वधातुर्जीवधातुः पुद्गलधातु? भगवानाह: तत्किं मन्यसे सुभूते अपि न्वात्मा वा सत्त्वो वा जीवो वा पुद्गलो वा उपलभ्यते? आह: नो हीदं भगवं । भगवानाह: अनुपलभमानः सुभूते आत्मानं वा सत्त्वं वा जिवं वा पुद्गलं वा, कथमात्मधातुं सत्त्वधातुं जीवधातुं पुद्गलधातुं प्रज्ञपयिष्यामः? एवमप्रज्ञपयन् प्रज्ञापारमितामेव<ं> अप्रज्ञपयं सर्वधर्मान् सर्वाकारज्ञातमनुप्राप्स्यति । आह: किं पुनर्भगवन्नप्रज्ञपनीया प्रज्ञापारमिता । अप्रज्ञपनीया ध्यानपारमिता अप्रज्ञपनीया वीर्यपारमिता अप्रज्ञपनीया क्षान्तिपारमिता अप्रज्ञपनीया शीलपारमिता अप्रज्ञपनीया दानपारमिता? भगवानाह: अप्रज्ञपनीया सुभूते प्रज्ञापारमिता अप्रज्ञपनीया यावत्सर्वधर्माः संस्कृता वा असंस्कृता वा श्रावकधर्मा वा प्रत्येकबुद्धधर्मा वा । आह: यदि भगवन्नप्रज्ञपनीया सर्वधर्मा कुतः पुनर्भगवन्नरकाः प्रज्ञायन्ते । तिर्यग्योनिर्वा यमलोको वा प्रज्ञायते । देवा वा मनुष्या वा प्रज्ञायन्ते श्रोतआपन्नो वा सकृदागामी वा अनागामी वा अर्हन् वा प्रत्येकबुद्धो वा बोधिसत्त्वो वा (अद्स्प्गि १३७) सम्यक्संबुद्धो वा प्रज्ञायते? भगवानाह: तत्किं मन्यसे सुभूते अपि नु सत्त्वप्रज्ञप्तिरुपलभ्यते? आह: नो हीदं भगवन् । भगवानाह: अनुपलभमानः सुभूते सत्त्वान् कुतो नरकं प्रज्ञपयिष्यामि । तिर्यग्योनिं वा यमलोकं वा देवान् वा मनुष्यन् वा श्रोतआपन्नं वा सकृदागामिनं वा अनागामिनं वा अर्हत्त्वं वा प्रत्येकबुद्धं वा सम्यक्संबुद्धं वा प्रज्ञपयिष्यामि? एवं खलु सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता अप्रज्ञपनीयेषु धर्मेषु शिक्षितव्यं । आह: न पुनर्भगवन् बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता रूपे शिक्षितव्यं वेदनायां संज्ञायां [f । २५० ] यां संस्कारेषु विज्ञाने शिक्षितव्यं यावन्न सर्वाकारज्ञतायां शिक्षितव्यं । भगवानाह: रूपे शिक्षितव्य<ं> अनुत्क्षेपाप्रक्षेपतया । वेदनायां संज्नायां संस्कारेषु विज्ञाने शिक्षितव्यमनुत्क्षेपाप्रक्षेपतया । यावत्सर्वाकारज्ञतायां शिक्षितव्यमनुत्क्षेपाप्रक्षेपतया । आह: कथं भगवं रूपे शिक्षितव्यमनुत्क्षेपाप्रक्षेपतया । कथं वेदनायां संज्ञायां संस्कारेषु कथं विज्ञाने शिक्षितव्यमनुत्क्षेपाप्रक्षेपतया? भगवानाह; अनुत्पादानिरोधतः शिक्षितव्यं । आह: कथं भगवं यावत्सर्वाकारज्ञतायां शिक्षितव्यमनुत्क्षेपाप्रक्षेपतया? भगवानाह: अनुत्पादानिरोधतः शिक्षितव्यं । आह: कथं भगवन्ननुत्पादानि<रो>धतायां शिक्षितव्यं? भगवानाह: अनभिसंस्कारतायां, संस्काराणां न भावनायां न विभावनायां । आह: कथं भगवन्ननभिसंस्कारतायां शिक्षितव्यं? भगवानाह; स्वलक्षणशून्यतां सर्वधर्मां पश्यता (अद्स्प्गि १३८) अनभिसंस्कारतायां शिक्षितव्यं । आह: कथं भगवं स्वलक्षणशून्या <सर्व>धर्मा द्रष्टव्या? भगवानाह: रूपं रूपेण शून्यं द्रष्टव्यं । वेदना वेदनया शून्या द्रष्टव्या । संज्ञा संज्ञया शून्या द्रष्टव्या संस्कारा संस्करै शून्या द्रष्टव्या विज्ञानं विज्ञानेन शून्यं द्रष्टव्यं चक्षुश्चक्सूषा शून्यं द्रष्टव्यं । यावत्मनो मनसा शून्यं द्रष्टव्यमध्यात्मशून्यता अध्यात्मशून्यतया शून्या द्रष्टव्या यावत्स्वलक्षणशून्यता स्वलक्षणशून्यतया शून्या द्रष्टव्या ध्यानानि ध्यानै शून्यानि द्रष्टव्यानि । यावन्निरोधसमापत्तिर्निरोधसमापत्त्या शून्या द्रष्टव्या स्मृत्यूपस्थानानि स्मृत्युपस्थानै शून्यानि द्रष्टव्यानि यावद्बोधिर्बोध्या शून्या द्रष्टव्या । एवं खलु सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता स्वलक्षणशून्येषु सर्वधर्मेषु शिक्षितव्यं । आह: यदि भगवं रूपं रूपेण शून्यं यावद्बोधिर्बोध्या शून्या द्रष्टव्या तत्कथं भगवं बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतश्चर्या भवति? भगवानाह: अचर्या सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमिताचर्या । आह: केन कारणेन भगवन्नचर्या प्रज्ञापारमिताचर्या? भगवानाह: तथा हि सुभूते प्रज्ञापारमिता नोपलभ्यते बोधिसत्त्वोऽपि नोपलभ्यते । चर्या अपि नोपलभ्यते । यश्चरति येन वा चरति यत्र वा चरति तदपि नोपलभ्यते । इयं सुभूते अचर्या बोधिसत्त्वस्य माहसत्त्वस्य प्रज्ञापारमिताचर्या यत्रैते सर्वप्रपंचा नोपलभ्यन्ते । आह: यदि भगवन्नचर्या प्रज्ञापारमिताचर्या तत्कथमादिकर्मिकेण बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरितव्यं? भगवानाह: इह सुभूते आदिकर्मिकेण बोधिसत्त्वेन महासत्त्वेन प्रथमचित्तोत्पादमेवारभ्य अनुपलंभेषु सर्वधर्मेषु शिक्षितव्यं । तेन दानं ददता अनुपलंभयोगेन दानं दातव्यं, शीलं रक्षता अनुपलंभयोगेन शीलं (अद्स्प्गि १३९) रक्षितव्यं क्षान्त्या संपादयता अनुपलंभयोगेन क्षान्त्या संपादयितव्यं । वीर्यमारभमाणेन अनुपलंभयोगेन वीर्यमारब्धव्यं । समाधिं समापद्यमानेन अनुपलंभयोगेन समाधिः समापत्तव्यः प्रज्ञां भावयता । अनुपलंभयोगेन [f । २५० ] प्रज्ञा भावयितव्या । यावत्सर्वाकारज्ञतां भावयता अनुपलंभयोगेन सर्वाकारज्ञता भावयितव्या । आह: कियता भगवन्ननुपलंभो भवति । कियतोपलंभो भवति? भगवनाह: याव<द्> द्वयं तावदुपलंभ । अद्वयमनुपलंभ । आह: किमिति भगवन् द्वयं? भगवानाह: यावत्चक्षूरूपाणि यावद्यावन्मनोधर्माश्च यावद्यावद्बोधिर्बुद्धाश्च इदं सुभूते द्वयं । आह: किं पुनर्भगवन्नुपलभ्योऽनुपलंभः अथ अनुपलभ्योऽनुपलंभ? भगवानाह: न सुभूते अनुपलंभ्योऽनुपलंभ । न अनुपलभ्योऽनुपलंभः । अपि तु खलु पुनः सुभूते उपलंभ अनुपलंभसमता अनुपलंभः । एवं खलु सुभूते बोधिसत्त्वेन महासत्त्वेन उपलंभस<म>तायां शिक्षितव्यं । एवं शिक्षमाणो बोधिसत्त्वो महासत्त्व प्रज्ञापारमितायामनौपलंभिको भवति । आह: यदि भगवं बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्नैवोपलंभे सज्जते नैवानुपलंभे, कथं बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता भूमेर्भूमि<ः> परिपूरयितव्यं, भूमेर्भूमि<ं> परिपूर्य सर्वाकारज्ञता अनुप्राप्तव्या? भगवानाह: न सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्नुपलंभे स्थित्वा भूमे<र्> भूमि<ं> परिपूरयति । न ह्युपलंभे स्थित्वा शक्यं बोधिसत्त्वेन महासत्त्वेन प्रज्नापारमितायां चरता भूमेर्भूमि परिपूरयितुं । तत्कस्य हेतो? अनुपलंभो हि प्रज्ञापारमिता अनुपलंभो बोधि सोऽपि नोपलभ्यते । यः प्रज्ञापारमितायां चरति । एवं खलु सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां (अद्स्प्गि १४०) चरितव्यं । आह: यदि भगवं प्रज्ञापारमिता नोपलभ्यते <बोधिरपि नोपलभ्यते> योऽपि बोधौ चरति सोऽपि नोपलभ्यते । तत्कथमिदानीं बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता सर्वधर्मेषु प्रविचयः कर्तव्यः इदं रूपम् <इयं> वेदना इयं संज्ञा इमे संस्कारा इदं विज्ञानं यावदियं बोधिः? भगवानाह: न हि सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरंस्तथा धर्मेषु प्रविचयं करोति । यथा कुर्वन् रूपमुपलभेत वेदनां <संज्ञां> संस्कारान् विज्ञानमुपलभेत । यावद्बोधिमुपलभेत । आह: यदि भगवन् बोधिसत्त्वो महासत्त्व<ः> प्रज्ञापारमितायां चरन् रूपं नोपलभते । वेदनां संज्ञा<ं> संस्कारा<न्> विज्ञानं नोपलभते । यावद्बोधिं नोपलभते, कथमिदानीं दानपारमिता<ं> परिपूर्य शीलपारमितां क्षन्तिपारमितां वीर्यपारमितां ध्यानपारमितां प्रज्ञापारमितां परिपूर्य बोधिसत्त्वन्याममवक्रामति । बोधिसत्त्वन्याममवक्रम्य बुद्धक्षेत्रं परिशोधयति । बुद्धक्षेत्रं परिशोध्य सत्त्वान् परिपाचयति । सत्त्वान् परिपाच्य सर्वाकारज्ञतामनुप्राप्नोति । सर्वाकारज्ञतामनुप्राप्य धर्मचक्रं प्रवर्तयति । धर्मचक्रं प्रवर्त्य बुद्धकार्यं करोति । बुद्धकार्यं कृत्वा सत्त्वान् संसारात्परिमोचयति? भगवानाह: न सुभूते बोधिसत्त्वो महासत्त्वो रूपस्य कृते प्रज्ञापारमितायां चरति । न वेदनाया न संज्ञाया न संस्काराणां न विज्ञानस्य कृते यावन्न बोधेः [f । २५ अ] कृते प्रज्ञापारमितायां चरति । आह: कस्य भगवन् कृते बोधिसत्त्वो महासत्त्वः (अद्स्प्गि १४१) प्रज्ञापारमितायां चरति? भगवनाह: न कस्यच्<इत्> कृते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरति । तत्कस्य हेतोस्? तथा ह्यकृताः सर्वधर्माः अनभिसंस्कृताः सर्वधर्माः, सापि प्रज्ञापारमिता <अकृता> अनभिसंस्कृता, बोधिरप्यकृता अनभिसंस्कृता । बोधिसत्त्वोऽप्यकृतोऽनभिसंस्कृतः । एवं खलु सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरितव्यमकृत अनभिसंस्कृतयोगेन । आह: यदि भगवन्नकृता अनभिसंस्कृताः सर्वधर्मा, तत्कथमेषां त्रयाणां यानानां व्यवस्थानं भवति । श्रावाकयानस्य वा प्रत्येकबुद्धयानस्य वा महायानस्य वा? भगवानाह: न सुभूते अकृतानभिसंस्कृतानां धर्माणां किंचिद्व्यवस्थानमुपलभ्यते । अभिसंस्कृतानामभिसंचेतयितानां धर्माणां व्यवस्थानमुपलभ्यते । तत्कस्य हेतोस्? तथा हि बालोऽश्रुतवान् पृथग्जनोऽभिनिविश्य पञ्चसु स्कन्धेषु रूपे यावद्विज्ञाने । यावत्सर्वाकारज्ञातायामभिनिविश्य रूपं मन्यते रूपमुपलभते । यावद्विज्ञानं मन्यते विज्ञानमुपलभते । यावद्बोधिं मन्यते बोधिमुपलभते । तस्यैवं भवत्य्: अहं बोधिमभिसंभोत्स्ये अहं सत्त्वान्मोचयिष्ये संसारात्स एवमसत्कल्पयति । तत्कस्य हेतो<स्>? तथा हि सुभूते यद्बुद्धैः पंचभिश्चक्षुभिर्नोपलब्धं रूपं यावद्बोधिः, तत्ते मोहपुरुषा अन्धा अचक्षुष्का सत्त्वांच्छिन्नन्ति संसारात्परिमोचयितुं । आह: यदि भगवंस्तथागतेन अर्हता सम्यक्संबुद्धेन पंचभिश्चक्षुभिर्नोपलभ्दाः सत्त्वा ये संसारात्परिमुच्येरन्, कथमिदानीं भगवाननुत्तरां सम्यक्संबोधिमभिसंबुध्य सत्त्वांस्तृषु राशिषु व्याकर्षीत्, सम्यक्त्वनियते अनियते मिथ्यात्वनियते? भगवानाह; (अद्स्प्गि १४२) न मे सुभूते अनुत्तरां सम्यक्संबोधिमभिसंबुध्य कश्चित्सत्त्व उपलब्धः, सम्यक्त्वनियतो वा अनियतो वा मिथ्यात्वनियतो वा । अपि तु खलु सुभूते य इमे सत्त्वा अद्रव्ये द्रव्यसंज्ञिन । अभूतग्राहाद्वारयामि, लोकव्यवहारेण न पुनः परमार्थेन । <आह:> ननु भगवता परमार्थे स्थित्वा अनुत्तरा सम्यक्संबोधिरभिसंबुद्धा? भगवानाह: नेति । आह: तद्विपर्यासे स्थित्वा अनुत्तरा सम्यक्संबोधिरभिसंबुद्धा? भगवानाह: नेति । आह: तद्यदि भगवन्नापि परमार्थे स्थित्वा अनुत्तरा सम्यक्संबोधिरभिसंबुद्धा <नापि विपर्यासे स्थित्वा> तन्मा हैव न तथागतेन अनुत्तरा सम्यक्संबोधिरभिसंबुद्धा भवेत् । भगवानाह: अभिसंबुद्धा सुभूते तथागतेन अर्हता सम्यक्संबुद्धेन अनुत्तरा सम्यक्संबोधिः, सा न क्वचित्स्थित्वा संस्कृते वा धातावसंस्कृते वा धातौ । तद्यथापि नाम सुभूते तथागतनिर्मितो न क्वचित्स्थितः संस्कृते वा धातौ वा असंस्कृते वा धातौ । स तथागतनिर्मितो गच्छति च आगच्छति च, तिष्ठति च निषीदति च, स दानपारमितायां चरेच्छीलपारमितायां क्षान्तिपारमितायां वीर्यपारमितायां ध्यानपारमितायां प्रज्ञापारमितायां चरेत्, यावच्चत्वारि ध्यानान्युपसंपद्य विहरेत्चत्वार्यप्रमाणानि चतस्र आरूप्यसमापत्ती । पञ्चाभिज्ञा चत्वारि स्मृत्युपस्थानानि भावयेद्यावदार्याष्टांगं [f । २५१ ] <मा>र्गं शून्यतां समाधिम् <आनिमित्तं> समाधिमप्रणिहितं समाधिमध्यात्मशून्यतां यावत्स्वलक्षणशून्यतामष्टौ विमोक्षा<न्> नवानुपूर्वसमापत्तीर्दशतथागतबलानि चत्वान् वैशारद्यानि चतस्र प्रतिसंविदो महामैत्रीं महाकरुणाम् (अद्स्प्गि १४३) अष्टादशावेणिकान् बुद्धधर्मान् धर्मचक्रप्रवर्तनायै । स च निर्मितः अप्यप्रमाणान् सत्त्वान्निर्माय त्रिषु राशिषु व्याकुर्या<त्>, तत्किं मन्यसे सुभूते । अपि नु तेन निर्मितेन कश्चित्सत्त्वो व्याकृतो भवेत्? आह: नो हीदं भगवन् । भगवानाह: एवमेव सुभूते तथागतेन निर्मितोपमा सर्वधर्मा ज्ञाता गणिता अज्ञाननिर्मितां ज्ञात्वा न कश्चित्सत्त्व उपलब्धो नापि विनीतः । एवं खलु सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरितव्यं । तद्यथापि नाम सुभूते तथागतनिर्मित । आह: यदि भगवं सर्वधर्मा निर्मितोपमास्, तथागतस्य च निर्मितस्य च को विशेषः किं नानाकरणं कोऽभिप्रायः? भगवानाह: तथागतस्य सुभूते निर्मितस्य च <न> किंचिद्विशेषो न किंचिन्नानाकरणमुपलभ्यते । निर्विशेषो हि सुभूते तथागतश्च निर्मितश्च । तत्कस्य हेतोः? तथा हि य<त्त>थागतः कर्म करोति । तं निर्मितः कर्म करोति । आह: किं पुनर्भगवन् सति तथागते निर्मितः कर्म करोति? भगवानाह; करोति सुभूते । आह: अथ कथं पुनर्भगवन्नसति तथागते निर्मित कर्म करोति? भगवानाह: तद्यथापि नाम सुभूते शान्तमतिस्तथागतोऽर्हन् सम्यक्संबुद्धो बोधिसत्त्वमनुपलभमानस्तथागतविग्रहं निर्माय परिनिर्वृत, तेन च निर्मितेनोर्ध्वं कल्प<ं बुद्ध>कार्यं कृतं, स च पश्चाद्बोधिसत्त्वो महासत्त्व<ः> व्याकृत्य परिनिर्वृत इति संज्ञातः, न च निर्मितस्य कश्चिदुत्पादो न परिनिर्वाणं । एवं खलु सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरितव्यं यदुत निर्मितोपमान् सर्वधर्मानधिमुच्य । (अद्स्प्गि १४४) आह: यदि निर्मितस्य च तथागतस्य च विशेषो नास्ति, दक्षिणापरिशुद्धिः कथं भविष्यति । य इमे भगवं सत्त्वा पुण्यार्थिका निर्वानार्थिकास्तथागते <ऽर्हे सम्यक्>संबुद्धे दक्षिणां प्रतिष्ठापयन्ति । न च जातु सा क्षीयते यावन्न ते सर्वेऽनुपधिशेषे निर्वाणधातौ परिनिर्वृता भवन्ति । एवमेव निर्मिते दक्षिणा प्रतिष्ठापिता । न जातु क्षीयते या<वन्न ते स>र्वेऽनुपधिशेषे निर्वाणधातौ परिनिर्वृता भवन्ति? भगवानाह: यया सुभूते धर्मतया तथागत सदेवमानुषासुरस्य लोकस्य दक्षिणीयः तथैव धर्मतया निर्मितः सदेवमानुषासुरस्य लोकस्य दक्षिणीयः । तिष्ठतु तावत्सुभूते तथागतप्रतिष्ठापिता दक्षिणा । तिष्ठतु तथागतनिर्मितप्रतिष्ठापिता दक्षिणा । येऽपि केचित्सुभूते कुलपुत्रा वा कुलदुहितरो वा तथा तथागतं मैत्रावता <मनसिकारेण मनसि>करिष्यन्ति, सर्वे ते तस्य कुशलमूलस्य पर्यन्तमधिगम्य दुःखस्यान्तं करिष्यन्ति । तिष्ठतु मैत्रावान्मनसिकारः, ये पि केचित्सुभूते कुलपुत्रा वा कुलदुहितरो वा आकाशे पुष्पं क्षे<प्स्यन्ति तथाग>तं मनसिकृत्य, सर्वे ते तस्य कुशलमूलस्य पर्यन्तमनधिगम्य, दुःखस्यान्तं करिष्यन्ति । तिष्ठतु सुभूते मैत्रावान्मनसिकारः तिष्ठत्वाकाशे पुष्पं, ये केचित्<सुभूते कुलपुत्रा वा कुलदुहितरो वा बुद्धं नमस्करिष्यन्ति, सर्वे ते> [f । २५२ ]ऽनुपूर्वेण दुःखस्यान्तं करिष्यन्ति । एवं महार्थिका वत सुभूते तथागतप्रतिष्ठापिता दक्षिणा । एवं महानुशंसा । तदने<न पर्यायेण सुभूते वेदितव्यं । , तथागतस्य> च निर्मितस्य च नास्ति किंचिन्नानाकरणं, धर्माणां धर्मतां प्रमाणीकृत्य (अद्स्प्गि १४५) एवं खलु सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरि<तव्यं, धर्माणां धर्मतायामवतीर्य । सा च> धर्माणां धर्मता न विकोपयितव्या इयं प्रज्ञापारमिता इयं प्रज्ञापारमिताया धर्मतेति न विकोपयितव्यं । इयन् ध्यान पारमिता, इयं ध्यानपारमिताया धर्मतेति न विकोपयितव्यं । यावतियन् दानपारमिता इयन् दानपारमिताया धर्मतेति न विकोपयितव्यं । एवं यावत्सर्वधर्मेषु कर्तव्यं । आह: यदि भग<वन् सर्वधर्माणां धर्मता न विकोपयितव्या, तद्यत्पुनर्भगवंस्> तथागतेन <विकोपितमिदं रूपं यावदिदं विज्ञानं । एवमध्यात्मिका बाह्या धर्मा निर्दिष्टाः, एवं कुशला अकुशलाः सास्रवा अनास्रवाः लौकिका लोकोत्तराः साधारणा असाधारणाः संस्कृत असंस्कृता धर्मा निर्दिष्टाः, तन्मा हैव भगवता धर्माणां धर्मता> विकोपिता भवति? भगवानाह: नो हीदं सुभूते । नामनिमित्तैश्<च मया> ते धर्मा निर्दिष्टा<ः> धर्माणां सूचना कृता, कथं परोऽवतरेतिति । <न पुनर्धर्माणां धर्मता विकोपिता भवति ।> आह: यदि भगवं नामनि मित्तं निर्दिष्टं परेषामवतरणार्थं, तत्कथं भगवन्ननामका अनिमित्ता धर्मा नामनिमित्तेन व्याहृता<ः> भगवानाह: व्याहा<रः सुभूते न नामनिमित्तं न अभिनि>वेशो वा, नान्यत्र सुभूते दुःखमेव व्याहरामि न नाम्नि न निमित्ते वा अभिनिवेशे । न हि सुभूते तथागतो वा तथागतश्रावको वा नामनिमित्ते (अद्स्प्गि १४६)ऽभिनिविशते । यदि सु<भूते नाम नाम्न्यभिनिविशेत, निमित्तं> निमित्तेऽभिनिविशेत, शून्यता शून्यताया<म>भिनिविशेत, आनिमित्तमानिमित्तेऽभिनिविशेत, अप्रणिहितमप्रणिहितेऽभिनिविशेत । तथता तथताया<म्> अभिनिविशेत, भूतकोटिः भूतकोट्या<म्> अभिनिविशेत, धर्मधातुर्धर्मधातावभिनिविशेत, असंस्कृतमसंस्कृतेऽभिनिविशेत । अभिनिविशेत तथागतो वा तथागतश्रावको वा नामनिमित्ते । एते च <सर्वधर्मा नाममात्रं । न चैते ना>ममात्रेऽप्यवतिष्ठन्ते । एवं खलु सुभूते बोधिसत्त्वेन महासत्त्वेन नामनिमित्तमात्रे स्थित्वा प्रज्ञापारमितायाञ्चरितव्यं । तत्र च न अभिनिवेष्टव्यं । आह: यदि भगवं <नामनिमित्तमात्रमेव सर्वं> संस्कृतं, तत्कस्येदानीं <कृते> बोधिसत्त्वो महासत्त्वो बोधये चित्तम् <उत्पादयति, बोधये चित्तं> उत्पाद्य अनेकविधान् संस्काराविप्रकारान् प्रत्यनुभवति । बोधिसत्त्वचारिकां चरति । बोधिसत्त्वचारिकां चरन् <विचित्राणि> दानानि <ददाति । शीलञ्च रक्षति क्षान्त्या> च संपादयति । वीर्यं च आरभते । समाधिं च समापद्यते । प्रज्ञां च भावयति । शून्यतायां च चरति । ध्यानाप्रमाणैश्च अरूप्यसमापत्तिभिश्च चरति । स्मृत्युपष्ठा<नैश्च विहरति सम्यक्प्रहाणैश्च विहरति ।> यावच्छून्यतानिमित्ताप्रणिहितैश्च विमोक्षमुखैर्विहरति, दशभिश्च तथागतबलैर्विहरति <यावन्> महामैत्रीं महाकरुणां च <परिपूरयति? भगवानाह: यत्> सुभूतिरेवमाह: यदि नामनिमित्तमात्रमेव सर्वं संस्कृतं, <तत्कस्य> इदानिं कृते बोधिसत्त्वो महासत्त्वो बोधिसत्त्वचारिकां चरति? यस्मात्(अद्स्प्गि १४७) तर्हि सुभू<ते नामनिमित्तमात्रमेव सर्वं संस्कृतं, तच्च नाम नाम्ना> [f । २५२ ] शून्यं, निमित्तं निमित्तेन शून्यं । तस्माद्बोधिसत्त्वो महासत्त्वो बोधिसत्त्वचारिकां चरं सर्वाकारज्ञतामनुप्राप्नोति । सर्वकारज्ञतामनुप्राप्य धर्मचक्र<ं प्रवर्तयति । धर्मचक्रं प्रवर्त्य सत्त्वांस्त्रि>भिर्यान्<ऐः परि>निर्वापयति । तस्य च नामनिमित्तस्य नोत्पादो न व्ययो न स्थितस्यान्यथात्वं प्रज्ञायते । आह: सर्वाकारज्ञता सर्वाकारज्ञतेति भगवन् वद्<असि । भगवानाह: सर्वाकारज्ञता सर्वा>कारज्ञतेति वदमि । आह: यत्पुनर्भगवं सर्वाकारज्ञता तथागतेन निर्दिष्टा, मार्गाकारज्ञता <अपि> तथागतेन निर्दिष्टा, सर्वज्ञतापि तथागतेन <निर्>दिष्टा । आसां भगवंस्तिसृणां सर्वज्ञतानां । को विशेष किन्नानाकरणं? भगवानाह: सर्वज्ञता सुभूते श्रावकप्रत्येकबुद्धानां मार्गाकारज्ञता बोधिसत्त्वा<नां महासत्त्वानां सर्वाकारज्ञता तथागता>नामर्हतां सम्यक्संबुद्धानं । आह: केन कारणेन भगवं सर्वज्ञता श्रावकप्रत्येकबुद्धानां । केन कारणेन मार्गाकारज्ञता बोधिसत्त्वानां महासत्त्वानां । <केन कारणेन सर्वाकारज्ञता तथागतानामर्हतां सम्यक्संबुद्धानां? भगवानाह: एतावदेव सुभूते> सर्वं यावदेव अध्यात्मिकाश्च बाह्याश्च धर्माः ते श्रावकप्रत्येकबुद्धैरपि ज्ञाता न पुनः सर्वमार्गाणि न सर्वाकारेण । यत्पुन<ः> सुभूतिरेवमाह: केन कारणेन मार्गाका<रज्ञता बोधिसत्त्वानां महासत्त्वानामि>ति? सर्वमार्गाः सुभूते बोधिसत्त्वेन महासत्त्वेनौत्पादयितव्याः, सर्वमार्गाः ज्ञातव्या, (अद्स्प्गि १४८) ये च श्रावकप्रत्येकबुद्धमार्गा । ये च बोधिसत्त्वमार्गाः, <ते च मार्गाः परिपूरयितव्याः, तैश्च मार्गैर्मार्ग>करणीयं कर्तव्यं । न च भूतकोटि प्रतिवेद्धव्या । आह: यत्पुनर्भगवं बोधिसत्त्वेन महासत्त्वेन बुद्धमार्गः परिपूरयितव्यो ननु तेन भू<तकोटि न? साक्षात्कर्तव्या? भगवानाह: न अपरिशो>ध्य सुभूते बुद्धक्षेत्रं न अपरिपाच्य सत्त्वांस्तेन बोधिसत्त्वेन महासत्त्वेन भूतकोटिः साक्षात्कर्तव्या । आह: किं पुनर्भगवं बोधिसत्त्वेन महासत्त्वेन <मार्गे स्थित्वा भूतकोटिः साक्षात्कर्तव्या? भगवानाह: नेति । आह: तदमार्गे स्थित्वा? >भगवानाह: नेति । <आह:> तन्मार्गे च अमार्गे च स्थित्वा? भगवानाह: नेति । आह: तन्नैव मार्गे न अमार्गे स्थित्वा? भगवानाह: नेति । <आह: तत्कथं भगवं बोधिसत्त्वेन महासत्त्वेन भूतकोटिः साक्षात्कर्तव्या? भगवानाह:> तत्किं मन्यसे सुभूते मार्गे ते स्थितस्य अनुपादायास्रवेभ्यश्चित्तं विमुक्तं? आह: नो हीदं भगवन् । भगवानाह: अमार्गे स्थितस्य? आ<ह: नो हीदं भगवन् । भगवानाह: तन्मार्गे च अमार्गे स्थितस्य? >आह: नो हीदं भगवन् । भगवनाह: तन्नैव मार्गे न अमार्गे स्थितस्य <अनुपादाय> आस्रवेभ्यश्चित्तं विमुक्तं? आह: नो हीदं भगवन् । <न> मे भगव<ं क्वचित्स्थितस्य अनुपादायास्रवेभ्यस्चित्तं विमुक्तं, विमुक्तं च मे भगवंश्> चित्तं यथा न क्वचित्स्थितस्य । भगवानाह: एवमेव सुभूते बोधिसत्त्वेन महासत्त्वेन न क्वचित्स्थित्वा भूतकोटिः साक्षात्क<र्तव्या । यत्पुनः सुभूते सर्वाकारज्ञता सर्वाकारज्ञतेत्य्> (अद्स्प्गि १४९)< उच्यते ।> एकेन आकारेण सर्वाकारज्ञतेत्युच्यते । यदुत शान्ताकारेण । अपि तु खलु पुनः सुभूते यैराकारैर्यैर्लिङ्गैर्यैर्निमित्तैर्[f । २५३ ] धर्मा सूच्यन्ते, <सर्वाणि तान्याकारास्तानि लिङ्गानि तानि निमित्तानि तथागतेन अनुबुद्धानि, तस्मात्> सर्वाकारज्ञतेत्युच्यते । आह: यत्पुनर्भगवं सर्वाकारज्ञता <च> मार्गाकारज्ञता च सर्वज्ञता च, कच्चिद्भगवन्नासां तिसृणां सर्वज्ञ<तानां क्ले>शप्रहाणस्य नानात्वमस्ति, अस्य सावशेषप्रहाणमस्य अनवशेषप्रहाणमिति? भगवानाह: न सुभूते क्लेशप्रहाणस्य नानात्वमस्ति । अस्ति पुनस्तथागतस्य सर्ववासनानुसन्धि<प्रहाणं न पुनः स्रावकस्य प्रत्येकबुद्धस्य च सर्वासना>नुसन्धिक्लेशप्रहानं । आह: किं पुनर्भगवन्नेभिरनुप्राप्तमसंस्कृतं । किं वा पुनर्भगवन्नसंस्कृतस्य नानात्वमुपलभ्यते? भगवानाह: नेति । आह: यद्यसंस्कृतस्य नानात्वं नोपलभ्यते, कुतो भगवन्नेवं निर्दिशत्य्: अस्य सर्ववासनानुसन्धिप्रहाणमस्य न सर्ववासनानुसन्धिप्रहाणं? भागवानाह: न सुभूते वासनानुसन्धिक्लेशोऽस्ति । अपि त्वस्ति तेषां श्रावाकप्रत्येकबुद्धानां रागदोषमोहप्रहाणं <कश्चित्> तु कायविकारास्<प्रवर्तन्ते> ते बालपृथग्जनानाम् <अन्>अर्थाय सनिवर्तन्ते । <न तु श्रावकानां> ते तथागतस्य नास्ति । अथायुष्मां सुभूतिर्भगवन्तमेतदवोचत्: यद्यभावो (अद्स्प्गि १५०) भगवं <मार्गः अभावो निर्वाणं, तत्कुतः भगवन्निर्दिश्य>ते । अयं श्रोतआपन्न अयं सकृदागामी । अयमनागामी अयमर्हन्नयं प्रत्येकबुद्ध्होऽयं बोधिसत्त्वो महासत्त्वोऽयं तथागतोऽर्हन् सम्य<क्संबुद्धः? भगवानाह: सर्व एते सुभूते> असंस्कृतप्रभाविता । यश्च श्रोतआपन्नो यश्च सकृदागामी यश्च अनागामी यश्च अर्हन् यश्च प्रत्येकबुद्धो यश्च बोधिसत्त्वो महासत्त्वो यश्च <तथागतोऽर्हन् सम्यक्संबुद्धः ।> आह: कच्चित्पुनर्भगवन्नसंस्कृतं प्रभावयत्ययं श्रोतआपन्नोऽयं यावदर्हन्नयं प्रत्येकबुद्धोऽयं बोधिसत्त्वो महासत्त्वो <ऽयं तथागत्>ओऽर्हन् सम्यक्सं<बुद्ध इति>? भगवानाह: न खलु सुभूते असंस्कृतं प्रभावयत्य्<अपि> तु खलु वचनं प्रमाणीकृत्य जल्प्यते । न पुनः परमार्थेन शक्यं प्रभावितुं । तत्कस्य हेतो<ः>? नास्ति <तत्र वाक्पथप्रज्ञप्तिर् । आह: कथं भगवन् पश्चिमा कोटिर्प्रज्ञप्यते? भगवानाह: लोकव्यवहारं सुभूते प्रमाणीकृत्य यैर्यैरन्तः उच्छिन्नस्तेषां> पश्चिमा कोटिः प्रज्ञप्यते । <अपि तु खलु पुनर्यैः पूर्वान्तो व्यवच्छिन्नस्तेषां पश्चिमा कोटिर्प्रज्ञप्ता । आह: स्वलक्षणशून्यानां भगवन् सर्वधर्माणां कुतः पुनः पूर्वकोटिः प्रज्ञायते, कुतः पुनः पश्चिमा कोटिः प्रज्ञायते? भगवनाह: एवमेतत्सुभूते एवमेतत् ।> स्वलक्षणशून्यानां सुभूते सर्वधर्माणां पूर्वकोटिर्न प्रज्ञायते, कुतः पुनः पश्चिमा कोटिः प्रज्ञप्यते <नेदं स्थानं विद्यते । अपि तु खलु सुभूते ये ते> सत्त्वा स्वलक्षणशुन्यान् धर्मान्न जानन्ति, तेषामेवं निर्दिष्टमियं <सा> पूर्वकोटिरियं <सा> पश्चिमा कोटिरिति, न पुनः स्वलक्षणशून्येषु स<र्वधर्मेषु> (अद्स्प्गि १५१)< पूर्वकोटिर्न पश्चिमा कोटिरुपलभ्यते ।> एवं खलु सुभूते बोधिसत्त्वेन महासत्त्वेन स्वलक्षणशून्येषु सर्वधर्मेषु प्रज्ञापारमितायां चरितव्यं । स्वलक्षणशून्येषु सर्वध<र्मेषु चरन्न क्वचिदभिनिविशते । अध्यात्मिकेषु वा बाह्ये>षु वा, संस्कृतेषु वा असंस्कृतेषु वा, श्रावकधर्मेषु वा प्रत्येकबुद्धधर्मेषु वा । एवमुक्ते आयुष्मान् सुभूतिर्भगवन्तमेतदवोचत्: प्रज्ञापार<मिता प्रज्ञापारमितेति भगवन्नुच्यते, केनार्थेन प्रज्ञापा>रमितेत्युच्यते? भगवानाह: परमपारमिप्राप्तैषा सुभूते प्रज्ञापारमिता सर्वधर्माणां, तेनार्थेन प्रज्ञापारमितेत्युच्यते । <अपि तु खलु पुनः सुभूते अनया प्रज्ञापारमितया स>र्वश्रावकप्रत्येकबुद्धा [f । २५३ ] बोधिसत्त्वाश्च महासत्त्वा तथागताश्च अर्हन्तः सम्यक्संबुद्धा पारं गता गच्छन्ति गमिष्यन्ति, तेनार्थेन प्रज्ञापारमितेत्युच्य<ते । अपि तु खलु पुनः सुभूते परमार्थेन योऽर्थः सर्वधर्माणां> अभिन्नः <स । इह> प्रज्ञापारमितयाः तैश्च <तथागतैरर्हद्भिः सम्यक्संबुद्धैः> सर्वधर्मेषु पारो नोपलब्धस्, तेनार्थेन प्रज्ञापारमितेत्युच्यते । अपि तु खलु पुनः सुभूते इह प्रज्ञापार<मितायां तथता अन्तर्गता भूतकोटिरन्तर्गता धर्मधातुरन्तर्ग>तास्, तेनार्थेनोच्यते प्रज्ञापारमितेत्य् । अपि तु खलु पुनः सुभूते इयं प्रज्ञापारमिता न के<न>चिद्धर्मेण संयुक्ता वा विसंयुक्ता वा सनिदर्शना वा <अनिदर्शना वा प्रतिघा वा अप्रतिघा वा । तत्कस्य हेतो>ः? तथा हि इयं प्रज्ञापारमिता अरूपिण्यनिदर्शना अप्रतिघा एकलक्षणा यदुतालक्षणा । अपि तु खलु पुन<ः> सुभूते इयं प्रज्ञापारमिता स<र्वधर्माणां> (अद्स्प्गि १५२)< चारिका, दात्री सर्वप्रतिभानानां सर्वालोकानानामन>च्छेद्येयं सुभूते प्रज्ञापारमिता असंहार्या मारैर्वा मारकायिकाभिर्देवताभिः श्रावकप्रत्येकबुद्धयानिकैर्वा पुद्गलै<र्> यावन्न कैश्चिदन्यतीर्थि<कैः पापमित्रैरियं प्रज्ञापारमिता शक्यमाच्छे>तुं बोधिसत्त्वस्य महासत्त्वस्य । तत्कस्य हेतोस्? तथा हि ते सर्वेऽत्र प्रज्ञापारमितायां नोपलभ्यन्ते स्वलक्षणशून्यतामुपादाय । एवं खलु सुभूते बोधिस<त्त्वेन महासत्त्वेन इह प्रज्ञापारमितायां चरितव्यं । पुन>रपरं सुभूते बोधिसत्त्वेन महासत्त्वेन इह गंभीरायां प्रज्ञापारमितायामर्थे चरता अनित्यार्थे चरितव्यं दुःखार्थे अनात्मार्थे च<रितव्यं । दुःखज्ञानार्थे समुदयज्ञानार्थे निरोधज्ञानार्थे मार्ग>ज्ञानार्थे । क्षयज्ञानार्थे । अनुत्पादज्ञानार्थे । धर्मज्ञानार्थे । अन्वयज्ञानार्थे । संवृतिज्नानार्थे, परमार्थज्ञानार्थे । यावद्यथाव<ज्>ज्ञानार्थे चरि<तव्यं । एवं खलु सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमि>तायार्थे <च>रितव्यं । आह: यदि भगवन्निह गंभीरायां प्रज्ञापारमितायामर्थश्च अनर्थश्च नोपलभ्यते । कथं बोधिसत्त्वेन महा<सत्त्वेन प्रज्ञापारमितायार्थे चरितव्यं? भगवानाह: इह सुभूते बो>धिसत्त्वेन महासत्त्वेन गंभीरे प्रज्ञापारमितार्थे चरता एवं चरितव्यं । रागो मेऽर्थोऽनर्थ इति <न> वरितव्यं दोशो मेऽर्थोऽनर्थ इति न चरितव्यं मोहो मेऽर्थोऽनर्थ इति न चरितव्यं मिथ्यादृष्टिर्मेऽर्थोऽनर्थ इति न चरितव्यं यावत्सर्वदृष्टिगतानि मे (अद्स्प्गि १५३)ऽर्थोऽनर्थ इति न चरितव्यं । तत्कस्य हेतोः? न <हि रागदोषमोहानां तथता यावन्न नानादृष्टिगतानां तथता क>स्यचिदर्थं करोति न अनर्थं करोति । रूपं मे अर्थ इति न चरितव्यं । रूपं मेऽनर्थ इति न चरितव्यं, विज्ञानं मे अर्थ <इति न चरितव्यं विज्ञानं मेऽनर्थ इति न चरितव्यं । यावद्: बोधि मेऽर्थ इति न चरितव्य>ं बोधि मेऽनर्थ इति न चरितव्यं । तत्कस्य हेतोः? तथा हि सुभूते तथागतेन अर्हता सम्यक्संबुद्धेन अनुत्तरां सम्यक्संबोधिम् <अभिसंबुध्य न कश्चिद्धर्मो उपलब्धो योऽर्थं वा कुर्यादनर्थं वा । अपि तु खलु सुभूते उ>त्पादाद्वा तथागतानामनुत्पादाद्वा तथागतानां स्थितैव धर्माणां <धर्मता> धर्मस्थितिता स्थितैव धर्मधातु । स नैव कस्यचिदर्थं करोति न अ<नर्थं । एवं खलु सुभूते बोधिसत्त्वेन महासत्त्वेन अर्थ अनर्थान् वर्जितेन प्रज्ञापारमि>तायां चरितव्यं । आह: केन कारणेन भगवन् प्रज्ञापारमिता न अर्थं करोति न अनर्थं करोति? भगवानाह: तथा हि सुभूते <संस्काराणामसंस्कृतधर्मता याश्च करणीया प्रज्ञापारमिता, अनेन कारणेन प्रज्ञापारमि>ता [f । २५४ ] न कस्यचिदर्थकरा न अनर्थकरा । आह: ननु भगवन्नसंस्कृतोऽर्थ सर्वार्याणां बुद्धानां च बुद्धश्रावकानां च? <भगवानाह: असंस्कृतोऽर्थः सुभूते सर्वार्याणां बुद्धानां च बुद्धश्रावकानां च? न पुनर्कस्यचिदुपकारेण वा> अनुपकारेण वा प्रत्युपस्थितः । तद्यथापि नाम सुभूते आकाशस्य तथता <न> कस्यचिदुपकारेण वा अनुपकारेण वा प्रत्युपस्थिता, एवमेव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमिता (अद्स्प्गि १५४) न कस्यचिद्धर्मस्य उपकारेण वा अनुपकारेण वा प्रत्युपस्थिता । आह: ननु भगवं बोधिसत्त्वो महासत्त्व्<ओऽसंस्कृतायां प्रज्ञापारमितायां शिक्षित्वा सर्वाकारज्ञतामनुप्राप्नोति? >भगवानाह: एवमेतत्सुभूते एवमेतत् । बोधिसत्त्वो महासत्त्वः इह गंभीरायामसंस्कृतायां प्रज्ञापारमिताया<ं शिक्षित्वा सर्वाकारज्ञतामनुप्राप्नोति, न पुनर्द्वययोगेन । आह:> किं पुनर्भगवन्नद्वयो धर्म अद्वयं धर्ममनुप्राप्नोति? भगवानाह: नेति । आह: तत्किं द्वयो धर्म द्वयं धर्ममनुप्राप्नोति? भगवानाह: नेति । आह: तत्किं द्वयो धर्म अद्वयं धर्ममनुप्राप्नोति? भगवानाह: नेति । आह: तत्किमद्वयो धर्म द्वयं धर्ममनुप्राप्नोति? भगवानाह: नेति । आह: तत्कथमिदानीं प्राप्यते? भगवानाह: यदा न द्वयन् धर्मो नाद्वयन् धर्म उपलभ्यते । तत्कस्य हेतोः? <अनुपलंभो हि प्राप्ति सा न अनुपलंभेन प्राप्यते न पुनरुपलंभेन> प्राप्यते । (६३) (अद्स्प्गि १५५) परिवर्त ६४ । अथायुष्मान् सुभूतिर्भगवन्तमेतदवोचत्: गंभीरा भगवं प्रज्ञापारमिता दुष्करकारका भ<गवं बोधिसत्त्वाः महासत्त्वाः येऽनुत्तरस्यै सम्यक्संबोधये संप्रतिष्ठन्ते> न च नाम <कश्चित्> सत्त्व उपलभ्यते न च सत्त्वप्रज्ञप्तिस्, ते च सत्त्वानां कृते अनुत्तरस्यै सम्यक्संबोधये संप्रतिष्ठ<न्>ते । तद्यथापि नाम <भगवं कश्चिदेव पुरुष आकाश अप्रतिष्ठाने स्तम्बमिच्छेद्वापयितुम्> एवमेव भगवं बोधिसत्त्वा महासत्त्वा<ः> सत्त्वानां कृते सर्वाकारज्ञतामिच्छन्त्यनुप्राप्तुं । भगवानाह: एवमेतत्सुभूते एव<मेतत्, दुष्करकारका बोधिसत्त्वा महासत्त्वाः ये सत्त्वानां कृतेऽनुत्तरस्यै सम्यक्सं>बोधये संप्रतिष्ठ<न्>ते । तां च सर्वाकारज्ञतामभिसंबुध्य सत्त्वां सत्त्वग्राहात्परिमोचयन्ति । तद्यथापि नाम सुभूते <कश्चिदेव पुरुषः स्तम्बमिच्छेद्वापयितुं । स च पुरुषस्तस्य स्तम्बस्य न> मूलं जानीया<न्>) न शाखा<न्> न गण्डं न पत्त्रान्न पुष्पं <न फलं> जानीयात्, स तस्य स्तम्बस्य गण्डं वापयित्वा कालेन कालं गोपयेत्<उदकं दद्यात्> तस्य स ग<ण्डमनुपूर्वेण शाखासंपन्नश्च भवेत्पत्त्रसंपन्नश्च भवेत्पुष्पसंपन्नश्च> (अद्स्प्गि १५६) भवेत्फलसंपन्नश्च भवेत् । स तस्य स्तम्बस्य पत्त्राणि च अनुभुंजीत पुष्पाणि च फलानि च अनुभुंजीत । एवमेव सुभूते <ये बोधिसत्त्वाः महासत्त्वाः सर्वसत्त्वानां कृतेऽनुत्तरस्यै सम्यक्संबोध>ये संप्रतिष्ठन्ते तेऽनुपूर्वेण षट्पारमितासु चरंत<ः> सर्वाकारज्ञतामनुप्राप्नुवन्ति । ते सर्वसत्त्वानां पत्त्रपुष्पफलो<पजीव्या भवन्ति । तत्रेदं सुभूते पत्त्रं यद्बोधिसत्त्वं महासत्त्वमागम्य सत्त्वाः त्रिभ्यो अपा>येभ्य<ः> [f । २५४ ] परिमुच्यन्ते । पुष्पं यद्बोधिसत्त्वं महासत्त्वमागम्य क्षत्रियमहासालकुलेषु ब्राह्मणमहासालकुलेषु गृहपतिमहा<सालकुलेषु उपपद्यन्ते चातुर्महाराजकायिकेषु देवेषु उपपद्यन्ते याव>न्नैवसंज्ञानासंज्ञायतनोपगेषु देवेषु उपपद्य<न्>ते । फलं यद्बोधिसत्त्वो महासत्त्वः सर्वाकारज्ञतामनुप्राप्य तां सत्त्वां स्रोतआ<पत्तिफले प्रतिष्ठापयति सकृदागामीफले प्रतिष्ठापयति अनागा>मीफले प्रतिष्ठापयति । अर्हत्त्वे प्रतिष्ठापयति । प्रत्येकबोधौ प्रतिष्ठापयति । तमेव बोधिसत्त्वं महासत्त्वमागम्य स<र्वाकारज्ञतामनुप्राप्नुवन्ति, सर्वाकारज्ञतामनुप्राप्य तेऽपि सर्वसत्त्वानां पत्त्रपुष्प>पृष्ठहलोपजीव्या भवंति । तत्र ये दक्षिणां प्रतिष्ठापयंति ते सर्वे <ऽनुपूर्वेण> त्रिभिर्यानै<ः> परिनिर्वान्ति, यदुत श्रावकयानेन वा प्रत्येकबु<द्धयानेन वा महायानेन वाऽनुत्तरां सम्यक्संबोधिमभिसंबुध्यन्ते । न च तत्र> सत्त्वं प्रज्ञपयंति । न सत्त्वप्रज्ञप्तिं तांश्च सत्त्वां सत्त्वग्राहां परिमोचयंति । एवं खलु सुभूते बोधिसत्त्वेन महासत्त्वे<न> (अद्स्प्गि १५७)< प्रज्ञापारमितायं चरितव्यं । न चेह कश्चित्सत्त्वो न सत्त्वप्रज्ञप्तिरुपल>भ्यते । येषां कृते सर्वाकारज्ञतामनुप्राप्स्यामि । सुभूतिराह: तथागत एव भगवं बोधिसत्त्वो महासत्त्वो वेदितव्यः । <तत्कस्य हेतोस्? तथा हि भगवन् बोधिसत्त्वं महासत्त्वमागम्य सर्वनरका उच्छि>द्यन्ते, सर्वतिर्यग्योनय सर्वयमलोका उच्छिद्यन्ते सर्वाक्षणापाया उच्छिद्यन्ते सर्वदारिद्र्यान्<य्> उच्छिद्यन्ते सर्वहीनगतय उच्छि<द्यन्ते सर्वकामधातुरुच्छिद्यते सर्वरूपधातुरुच्छिद्यते सर्व आरूप्यधा>तुरुच्छिद्यते । भगवानाह: एवमेतत्सुभूते एवमेतत्, तथागत एव बोधिसत्त्वो महासत्त्वो वेदितव्यः । सचेत्खलु पुनः <सुभूते बोधिसत्त्वो महासत्त्वो नाभविष्यन्, नातीतानागतप्रत्युत्पन्नानां बुद्धा>नां भगवतामनुत्तरां सम्यक्संबोधि<ं> प्रज्ञास्यतन्, न प्रत्येकबुद्धानां लोके प्रादुर्भावोऽभविष्यन्न अर्हतां लोके प्रादुर्भावोऽभविष्यन्न अना<गामिनां न सकृदागामिनां न स्रोतआपन्नानां लोके प्रादुर्भावोऽभविष्यत् ।> न पुनर्यावत्सर्वनरका उदच्छेत्स्यंत न सर्वतिर्यग्योनयो न सर्वयमलोका उदच्छेत्स्यन्त । न सर्वकामधातु<र्> उदच्छेत्स्यन्त न सर्वरूपधातुरुदच्छेत्स्यन्त न सर्वारूप्यधातुरुदच्छेत्स्यन्त । । । । । । । अपि तु खलु पुनर्सुभूते यदेवं वदसि, तथागत एव बोधिसत्त्वो महासत्त्वो वेदितव्य इति । ए<वमेतत्सुभूते एवमेतत् । तथागत एव बोधिसत्त्वो महासत्त्वः वेदितव्यः । तत्कस्य> [f । २५५ ] हेतोः? यया सुभूते तथतया तथागतः प्रज्ञप्यते, यया तथतया (अद्स्प्गि १५८) प्रत्येकबुद्धः प्रज्ञप्यते । यया तथतया सर्वार्याः प्र<ज्ञप्यन्ते । यया तथतया रूपं प्रज्ञप्यते यया तथतया यावद्विज्ञानं प्रज्ञप्यते> यया तथतया यावत्संस्कृतधातुः प्रज्ञप्यते । असंस्कृतधातु प्रज्ञप्यते । सर्वा सा तथतैव, तस्मात्तथता इत्युच्यते । तस्यां तथतायां <बोधिसत्त्वो महासत्त्वः स्थित्वा सर्वाकारज्ञतामनुप्राप्स्यति । तस्मात्तथागत इत्यु>च्यते । अनेन सुभूते <पर्यायेण> बोधिसत्त्वो महासत्त्वस्तथागत एव वेदितव्यः तथतां प्रमाणीकृत्य । एवं खलु सुभूते बोधिसत्त्वेन <महासत्त्वेन> तथता <प्रज्ञापारमितायां शिक्षितव्यं । तथताप्रज्ञापारमितायां सुभूते बोधिसत्त्वो म>हासत्त्वः शिक्षित्वा सर्वधर्मतथतायां शिक्षते । महासत्त्वः शिक्षित्वा सर्वधर्मतथतायां शिक्षते । सर्वधर्मतथतायां शिक्षित्वा सर्वधर्मतथतां परिपूरयिष्यति । सर्वधर्मतथ<तां परिपूर्य सर्वधर्मतथतावशीभावनतामनुप्राप्स्यति, सर्वधर्मतथता>वशीभावनतामनुप्राप्य सर्वसत्त्वेन्द्रियकुशलो भविष्यति इन्द्रियकुशलो भूत्वा । इन्द्रियपरिपूरीकुशलतामनुप्राप्स्यति । इन्द्रि<यपरिपूरीकुशलतामनुप्राप्य सत्त्वानां कर्मस्वकतां ज्ञास्यति, सत्त्वानां> कर्मस्वकतां ज्ञात्वा प्रणिधिज्ञानं परिपूरयिष्यति, प्रणिधिज्ञानं परिपूर्य त्रिध्वसुज्ञानं विशोधयिष्यति । त्रिध्वसुज्ञानं विशोध्य <बोधिसत्त्वचारिकां चरन् सत्त्वानामर्थं करिष्यति, सत्त्वानामर्थं कुर्वन् बुद्धक्षे>त्रं परिशोधयिष्यति । बुद्धक्षेत्रं परिशोध्य सर्वाकारज्ञतामनुप्राप्स्यति, सर्वाकारज्ञतामनुप्राप्य धर्मचक्रं प्रवर्तयिष्यति । ध<र्मचक्रं प्रवर्त्य सत्त्वान् त्रिषु यानेषु> (अद्स्प्गि १५९) <प्रतिष्ठापयिष्यति, सत्त्वान् त्रिषु याने>षु प्रतिष्ठाप्य अनुपधिशेषे निर्वाणधातौ परिनिर्वास्यति । एवं खलु सुभूते बोधिसत्त्वेन महासत्त्वेन सर्वां गुणानुशंसान् पश्यता <आत्मना च अनुत्तरायै सम्यक्संबोधये चित्तमुत्पादयितव्यं, परे च अनुत्तरस्यै> सम्यक्संबोधये चित्तमुत्पादयितव्य<ं> । सुभूतिराह: नमस्करणीयास्ते भगवं बोधिसत्त्वा महासत्त्वा<ः> सदेवमानुषासुरेण लो<केन ये इह गंभीरायां प्रज्ञापारमितायां यथोपदिष्ठायां चरन्ति । भगव्>आनाह: एवमेतत्सुभूते एवमेतत्, नमस्करणीयास्ते बोधिसत्त्वा महासत्त्वा<ः> सदेवमानुषासुरेण लोकेन । य इह गं<भीरायां प्रज्ञापारमितायां यथोपदिष्ठायां चरन्ति । आ>ह: कियद्भगवं प्रथमचित्तोत्पादिको बोधिसत्त्वो महासत्त्व<ः> पुण्यं प्रसविष्यति यः सर्वसत्त्वानां कृतेऽनुत्तरां सम्यक्संबोधिमभि<संबोद्धुकामः? भगवानाह: सचेत्सुभूते यावन्तस्त्रिसाहस्रमहासा>हस्रे लोकधातौ सत्त्वास्ते सर्वे श्रावकभूमौ प्रतितिष्ठेयु प्रत्येकबुद्धभूमौ प्रतितिष्ठेयु । अपि नु ते सत्त्वा बहुपुण्यं <प्रसवेयुः? आह: बहु भगवन् बहु सुगत । अप्रमेयं भगवन्न>पृष्ठरमेयं सुगत । भगवानाह: यच्च खलु पुनः सुभूते त्रिसाहस्रमहासाहस्रे लोकधातौ सर्वसत्त्वानां सर्वश्रा<वकयानिकानां प्रत्येकबुद्धयानिकानां वा पुण्यं, यच्च प्रथमचित्तोत्पा>दिकस्य बोधिसत्त्वस्य महासत्त्वस्य पुण्यं, अस्य प्रथमचित्तोत्पादिक<स्य> बोधिसत्त्व<स्य> पुण्यसंभारस्य एवं (अद्स्प्गि १६०) त्रिसाहस्रमहा<साहस्रे लोकधातौ सर्वसत्त्वानां श्रावकयानिकानां प्रत्येकबुद्धयानिकानां वा> [f । २५५ ] पुण्यं शततमीमपि कलां नोपैति । यावत्कोटीशतसहस्रतमीमपि <कलां नोपैति> यावदुपनिशामपि न क्षमते । तत्कस्य हेतो<ः? बोधिसत्त्वप्रसूता हि श्रावकप्रत्येकबुद्धयानिका पुद्गला न पुनः श्रावकप्रत्येक>बुद्धप्रसूता बोधिसत्त्वा महासत्त्वा । तिष्ठन्तु त्रिसाहस्रमहासाहस्रे लोकधातौ सर्वसत्त्वाः श्रावकयानिका <वा> प्रत्येकबुद्धयानिका <वा, सचेत्ये त्रिसाहस्रमहासाहस्रे लोकधातौ सत्त्वास्ते सर्वे श्रावकगुण>समन्वागता प्रत्येकबुद्धगुणसमन्वागता भवेयुस्तेषां यत्पुण्यं तत्प्रथमचित्तोत्पादिकबोधिसत्त्वपुण्यस्य शततमीमपि <कलां नोपैति । यावत्कोटीशतसहस्रतमीमपि कलां नोपैति । यावदुपनिशामपि न क्षमते । तत्कस्य हेतोर्? बोधिसत्त्वप्र>सूता हि श्रावकप्रत्येकबुद्धगुणा न श्रावकप्रत्येकबुद्धप्रसूता बोधिसत्त्वा महासत्त्वा । एवं सचेद्ये त्रिसाहस्रमहासाहस्रे <लोकधातौ सत्त्वास्ते सर्वे शुक्लविदर्शनाभूमौ प्रतिष्ठिता भवेयुः ते>षां यत्पुण्यं तत्प्रथमचित्तोत्पादिकबोधिसत्त्वपुण्यस्य शततमीमपि कला<ं> नोपैति यावदुपनिशाम<पि> न क्षमते । सचेत्पुनः <ये त्रिसाहस्रमहासाहस्रे लोकधातौ सत्त्वास्ते सर्वे गोत्रभूमौ प्रतिष्ठिता भवेयुः, ते>षां यत्पुण्यं तत्प्रथमचित्तोत्पादिकबोधिसत्त्वपुण्यस्य शततमीमपि कलां नोपैति यावदुपनिशामपि न क्षमते । यावत्<सचेदष्टमकभूमौ प्रतिष्ठिता भवेयुर् । दर्शनभूमौ प्रतिष्ठिता भवेयुः तनुभूमौ> प्रतिष्ठिता भवेयु । वीतरागभूमौ प्रतिष्ठिता भवेयुः कृतावीभूमौ प्रतिष्ठिता भवेयुः प्रत्येकबुद्धभूमौ प्रतिष्ठिता भ<वेयुः> (अद्स्प्गि १६१) <तेषां यत्पुण्यं तत्प्रथमचित्तोत्पदिकबोधिसत्त्वपुण्यस्य शततमीमपि> कलां नोपैति यावत्कोटीशतसहस्रतमीमपि कलान्नोपैति । यावदुपनिशामपि न क्षमते । तत्कस्य हेतोः? बोधिसत्त्व<प्रसूता हि श्रवकप्रत्येकबुद्धगुणा न श्रावकप्रत्येकबुद्धप्रसूता बोधिसत्त्वा म>हासत्त्वा । सचेत्पुनर्ये त्रिसाहस्रमहासाहस्रे लोकधातौ सत्त्वास्ते सर्वे बोधिसत्त्वन्याममवक्रान्ता भवेयुस्, तेषां यत्पुण्यं तद्<बोधिसत्त्वस्य महासत्त्वस्य पुण्यस्य शततमीमपि कलां नोपैति यावदु>पृष्ठअनिशामपि न क्षमते । सचेत्पुनर्ये त्रिसाहस्रमहासाहस्रे लोकधातौ सत्त्वास्ते सर्वे बोधिप्रतिपन्नका भवेयुस्तेषां <यत्पुण्यं तथागतस्य अर्हतः सम्यक्संबुद्धस्य पुण्यस्य शततमीमपि> कलान्नोपैति यावत्कोटीशतसहस्रतमीमपि कलां नोपैति । यावदुपनिशामपि <न> क्समते । आह: प्रथमचित्तो<त्पादिकेन भगवं बोधिसत्त्वेन महासत्त्वेन सर्वाकारज्ञता मनसिकर्तव्या? भगवानाह: प्रथमचित्तोत्पादिकेन सुभूते बोधिसत्त्वेन महासत्त्वेन सर्वाकारा>ज्ञता मनसिकर्तव्या । आह: सर्वाकारज्ञताया भगवं को भाव किमारंबणं किमाधिपतेयं क आकार किं लक्षणं? <भगवानाह: सर्वाकारज्ञतेति सुभूतेऽभावः अलक्सणमनिमित्तम>नाभोगमनुत्पाद अप्रादुर्भाव<ः> । यत्पुन<र्> सुभूतिरेवमाह: सर्वाकारज्ञताया<ः> किमारंबणमिति? सर्वाकार<ज्ञताया किमाधिपतेयं क आकार किं लक्षणमिति? सर्वाकारज्ञताया सुभूते अभाव आरंबणं,> (अद्स्प्गि १६२) <स्मृतिराधिपतेयं, शान्तिराकारो, अलक्षणं लक्षणं ।> सर्वाकारज्ञताया<ः> सुभूते इदमारंबणमिदमाधिपतेयमिदं लक्षणमयमाकार । आह: <किं पुनर्सर्वाकारज्ञतैव अभावः, उताहो रूपमप्यभावः, वे>दनासंज्ञासंस्कारविज्ञानम् [f । २५६ ] अप्यभावः, एवमाध्यात्मिकबाह्या धर्माः अभावाः, चत्वारि ध्यानानि चत्वार्यप्रमाणानि <चतस्र आरूप्यसमापत्तयः चत्वारि स्मृत्युपस्थानानि च>त्वारि सम्यक्प्रहाणानि चत्वारर्द्धिपादा पञ्चेन्द्रियाणि पञ्चबलानि सप्तबोध्यङ्गान्यार्याष्टाण्गो मार्ग शून्यतासमाधिः आनिमि<त्तसमाधिः अप्रणिहित समाधिः अष्टौ विमोक्षाः नवा>नुपूर्वसमापत्तयः दशतथागतबलानि चत्वारि वैशारद्यानि चतस्रः प्रतिसंविदोऽष्टादशावेणिका बुद्धधर्मा महामैत्री <महाकरुणा महामुदिता महोपेक्षा प्रथमाभिज्ञा द्वितीयाभिज्ञा तृ>तीया चतुर्थी पञ्चम्यभिज्ञा षष्ट्यभिज्ञा संस्कृतधातुरसंस्कृतधातुरप्यभावः? भगवानाह: रूपमपि सुभूते अभाव वेदना<संज्ञासंस्कारविज्ञानमप्यभावः यावत्संस्कृतधातुरप्यभावः असंस्कृतधा>तुरप्यभावः । तत्कस्य हेतोस्? तथा हि सुभूते सर्वाकारज्ञताया स्वभावो नास्ति । यस्य खलु पुनः सुभूते स्वभावो नास्ति <स अभावः । आह: केन कारणेन भगवं सर्वाकारज्ञताया स्वभावो ना>स्ति? <भगवान्> आह: नास्ति सुभूते सांयोगिक<ः> स्वभावः । यस्य सांयोगिकः स्वभावो नास्ति स अभावः । अनेन सुभूते पर्याय्<एण अभावस्वभावाः सर्वधर्माः । अपि तु खलु पुनर्सुभूते शून्यतास्वभावाः> सर्वधर्माः आनिमित्तस्वभावाः सर्वधर्माः अप्रणिहितस्वभावाः सर्वधर्मा । अपि तु खलु सुभूते । तथतास्वभावः (अद्स्प्गि १६३) <सर्वधर्माः भूतकोटिस्वभावाः सर्वधर्माः धर्मधातुस्वभावाः सर्वध>र्माः । अनेनापि सुभूते पर्यायेणैवं वेदितव्यमभावस्वभावाः सर्वधर्माः । आह: यदि भगवन् सर्वधर्माः अभावस्वभा<वास्, तत्कतमेनोपायकौशलेन समन्वागतः प्रथमचित्तोत्पादिको> बोधिसत्त्वो महासत्त्वो दानपारमितायां चरन् बुद्धक्षेत्रं परिशोधयति । सत्त्वांश्च परिपाचयति । एवं शीलपारमि<तायां क्षान्तिपारमितायां वीर्यपारमितायां ध्यानपारमितायां प्रज्ञा>पृष्ठआरमितायां चरन् बुद्धक्षेत्रं परिशोधयति सत्त्वांश्च परिपाचयति । एवं प्रथमे ध्याने चरन् यावत्चतुर्थे <ध्याने> मैत्र्यां यावदुपेक्षायां, आकाशानन्त्यायतनसमापत्तौ <यावन्नैवसंज्ञानासंज्ञायतनसमापत्तौ, अ>ध्यात्मशून्यताया<ं> यावदभावस्वभावशून्यतायां, चतुर्षु स्मृत्युपस्थानेषु यावदार्याष्टाङ्गे मार्गे, शून्यतायां समाधौ आ<निमित्तसमाधौ अप्रणिहितसमाधौ, ध्यानेषु अप्रमाणेषु यावत्नवा>नुपूर्वसमापत्तीषु दशसु तथागतबलेषु चतुर्षु वैशारद्येषु । चतसृषु प्रतिसंवि<त्>स्वष्टादशेष्वावेणिके<षु बुद्धधर्मेषु, महामैत्र्यां महाकरुणायां (यावत्? ) सर्वाकारज्ञतायां चरन्> बुद्धक्षेत्रं परिशोधयति सत्त्वांश्च परिपाचयति । भगवानाह: एतदेव <सुभूते> बोधिसत्त्वस्य महासत्त्वस्य उपाय<कौशलं वेदितव्यं, यदभावस्वभावेषु धर्मेषु परिचयं करोति, बुद्धक्षेत्रं च> [f । २५६ ] परिशोधयति । सत्त्वांश्च परिपाचयति । तच्च बुद्धक्षेत्रं तांश्च सत्त्वानभावस्वभावां जानाति । स खलु पुनर्बोधि<सत्त्वो महासत्त्वो दानपारमितायां चरं बोधिमार्गे परिचयं> (अद्स्प्गि १६४)< करोति । शील>पृष्ठआरमितायां चरं बोधिमार्गे परिचयं करोति । क्षान्तिपारमितायां चरं बोधिमार्गे परिचयं करोति । वीर्यपारमितायां <चरं बोधिमार्गे परिचयं करोति । ध्यानपारमितायां चरं बोधिमार्गे परि>चयं करोति । प्रज्ञापारमितायां चरन् बोधिमार्गे परिचयं करोति । यावत्सर्वाकारज्ञतायां चरं बोधिमार्गे परिचयं <करोति, तन् च बोधिमार्गमभावस्वभावं जानाति । स खलु पुनर्सुभूते बोधिसत्त्वो> महासत्त्वः षट्सु पारमितासु चरंस्तावत्तस्मिन् बोधिमार्गे परिचयं करोति । यावन्न दशभिस्तथागतबलैः समन्वा<गतो भवति । न चतुर्भिर्वैशारद्यैः समन्वागतो भवति । न चतसृभिः प्रतिसंविद्भिः समन्वागतो भवति न> आवेणिकैर्बुद्धधर्मैर्महामैत्र्या महाकरुणया च समन्वागतो भवति । अयं <सुभूते> स बोधिमार्गो यत्र मार्गे स्थित्वा पारमितान् परिपूरयति । पारमिता<न् परिपूर्य एकक्षणसमायुक्तया प्रज्ञया सर्वाका>रज्ञतामनुप्राप्स्यति । तस्य तत्र अवस्थायां सर्ववासनानुसन्धिक्लेशन् प्रहास्यति अनुत्पत्तिकप्रह्<आण्>एन । स बुद्धचक्षुष्<आ त्रिसाहस्रमहासाहस्रं लोकधातुं व्यवलोकयन्नभाव इत्यपि न उपल>पृष्ठस्यते प्रागेव भावं । एवं खलु सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरितव्यमभावस्वभावसर्व्<अधर्मेषु । एतदेव सुभूते बोधिसत्त्वस्य महासत्त्वस्य उपायकौशलं> यदभाव इति नोपलभते प्रागेव भावं । स खलु पुनर्सुभूते बोधिसत्त्वो महासत्त्व<ः> प्रज्ञापारमितायां चरन् दानं (अद्स्प्गि १६५) ददाति, स तन् दानन् ददन्न कल्पयति, न निमित्तीकरोति नैव भावतो न अभावतो मनसिकरोति । प्रतिग्राहकमपि न कल्पयति, न निमित्तीकरोति, नैव भावतो नाभावतो मनसिकरोति । दायकमपि न कल्पयति । न निमित्तीकरोति । नैव भावतो नाभवतो मनसिकरोति । तदपि बोधिचित्तं नोपलभते । न निमित्तीकरोति, नालम्बनीकरोति । न समनुपश्यति । । । यावत् । । । प्रज्ञापारमितां न कल्पयति, न निमित्तीकरोति, नैव भावतो न अभावतो मनसिकरोति । योऽपि तां प्रज्ञापारमितां भावयति, तमपि न समनुपश्यति न निमित्तीकरोति, नैव भावतो नाभावतो मनसिकरोति, येषामपि सत्त्वानां कृतशस्तां प्रज्ञापारमितां भावयति तां न कल्पयति न निमित्तीकरोति, नैव भावतो नाभावतो मनसिकरोति । तत्कस्य हेतोस्? तथा हि यदि त एव सर्वधर्मा अभावास्ते न बुद्धैः कृता न श्रावकैर्न प्रत्येकबुद्धैः कृता । अकारकाः <हि सर्वधर्मा कारकविरहिताः आह: ननु भगवं धर्मैरेव धर्मा> विरहिता? भगवानाह: एवमेतत्सुभूते एवमेतत् । धर्मैरेव धर्मा विरहिता । आह: यदि भगवं धर्मैरेव धर्मा विर<हितास्, तत्कथं विरहितो धर्मो विरहितं धर्मं संजानाति, भाव इति वा> अभाव इति वा । न हि भगवन्नभावो धर्मो अभावं धर्मं जानाति । न भावो धर्मोऽभावं धर्मं जानाति । न अभावो धर्मोऽभावन् धर्मं जा<नाति । न भावो धर्मो भावं धर्मं जानाति । एवमसंजानं सर्वध>र्मेषु कुतः एवं भवति । बोधिसत्त्वस्य महासत्त्वस्य भाव इति वा अभाव इति वा? भगवानाह: लोकसंवृतिमुपादा<य बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां> (अद्स्प्गि १६६)< चरन् भाव इति वा अभाव इति वा निर्दिशति, न> पुनः परमार्थेन । आह: किं पुनर्भगवन्नन्या लोकसंवृतिरन्य<ः> परमार्थः? भगवानाह: <न> अन्य सुभूते इओकसंवृतिरन्यः परमार्थः । येन लोकसंवृतेस्तथता सैव <परमा>र्थस्य [f । २५७ ] तथता, तत्ते सत्त्वा विपर्यस्ता एतां तथतां न जानन्ति न पश्यन्ति । तेषामर्थाय बोधिसत्त्वो महासत्त्वो लोकसंवृत्<या निर्दिशति, भाव इति वा अभाव इति वा । अपि तु खलु सुभूते य> एते सत्त्वाः <पञ्चस्कन्धेषु भाव>संज्ञिनः अभाव इति न जानन्ति । तेषामर्थायैवं तं निर्दिश्यते, धर्माणामप्रभेदतामुपा<दाय, कथमभाव जानीयुरिति । एवं खलु सुभूते बोधिसत्त्वे>न महासत्त्वेन प्रज्ञापारमितायां चरितव्यं । ((६४)) (अद्स्प्गि १६७) परिवर्त ६५ । अथायुष्मान् सुभूतिर्भगवन्तमेतदवोचत्: बोधिसत्त्व <चारिका बोधिसत्त्वचारिकेत्युच्यते, कस्यैतदधिवचनं य>दुत बोधिस<त्त्व>चारि<केति>? भगवानाह: बोधिसत्त्वचारिका बोधिसत्त्वचारिकेति सुभूते उच्यते बोधये एसा चारिका तस्मा<द्बोधिसत्त्वचारिकेत्युच्यते । आह: क्व भगवं सा बोधिसत्त्वस्य म>हासत्त्वस्य चारिका? भगवानाह: रूपं शून्यमिति चरति । वेदनासंज्ञासंस्कारविज्ञानं शून्यमिति चरति । एवमाध्यात्मिकबाह्यै<रायतनैर्दानपारमितायां चरति शीलपा>रमितायां क्षान्तिपारमितायां वीर्यपारमितायां ध्यानपारमितायां प्रज्ञापारमितायां । आध्यात्मशून्यतायां चरति । बहिर्द्धा<शून्यतायामाध्यात्मबहिर्द्धाशून्यतायां शून्यताशून्यतायां म>हाशून्यतायां परमार्थशून्यतायां संस्कृतशून्यतायामसंस्कृतशून्यतायामत्यंतशून्यतायामनवराग्रशून्यताया<मनवकारशून्यतायां प्रकृतिशून्यतायां सर्वधर्मशून्य>तायां चरति स्वलक्षणशून्यतायां चरति । अनुपलंभशून्यतायामभावशून्यतायां चरति । स्वभावशून्यतायान चरति । अभावस्वभाशून्यताया<ं चरति । प्रथमे ध्याने चरति । द्वितीये तृतीये एअतुर्थे ध्याने चर>ति मैत्र्यां चरति । करुणाया<ं> मुदितायामुपेक्षायां चरति । आकाशानन्त्यायतने चरति । विज्ञानन्त्यायतने आकिंचन्या<यतने, नैव> (अद्स्प्गि १६८)< संज्ञानासंज्ञायतने चरति । चतुर्षु स्मृत्युपस्थानेषु च>रति । चतुर्षु सम्यक्प्रहाणेषु चतुर्षु ऋद्धिपादेषु पंचस्विन्द्रियेषु । पंचसु बलेषु । सप्तबोध्यङ्गेष्व् । आर्याष्टांगे मा<र्गे चरति । शून्यतायां समाधौ चरत्यानिमित्ते समाधौ च अप्रणिहिते समा>धौ चरति । अष्टसु विमोक्षेषु नवस्वनुपूर्वसमापत्तिषु चरति । दशसु तथागतबलेषु चरति । चतसृषु <वैशारद्येषु चतसृषु> प्रतिसंवि<त्सु महामैत्र्या महाकरुणायामष्टादशस्वावेणिकेषु बुद्धधर्मेषु> चरति । बुद्धक्षेत्रपरिशुद्धये चरति । सत्त्वपरिपाके चरति । प्रतिभाने चरत्यक्षराभिनिर्हारेषु चरति । अक्षरप्रवेशे<षु चरति । अनक्षरप्रवेशे चरति । धारनीषु चरति । संस्कृतधातौ च>रत्य् । असंस्कृतधातौ चरति । तथा पुनर्चरति यथा बुद्धिर्न द्विधी भवति । एवं खलु सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञा<पारमितायां चरन् बोधौ चरति । अथायुष्मान् सुभूतिर्भगवन्तम्> एतदवोचत्: बुद्धो बुद्ध इति भगवम्<न्> उच्यते । कस्यैतदधिवचनं बुद्ध इति? भगवानाह: भूतोऽर्थो बुद्ध इत्युच्यते । अपि तु खलु सुभूते भूतोऽनेन धर्मोऽभिसंबुद्धस्, तस्माद्बुद्ध इत्युच्यते । भूतो [f । २५७ ]ऽनेनार्थ<ः> प्रतिविद्धस्तस्माद्बुद्ध इत्युच्यते । अपि तु खलु सुभूते सर्वधर्मा<ः> अनेन यथावदभिसंबुद्धास्, तस्माद्बुद्ध इत्युच्यते । <आह: बोधि बोधिरिति भगवन्नुच्यते, कस्यैतद्भगवन्नधिवचनं बोधिरिति? भगवानाह: बोधिरिति> सुभूते शून्यताया एतदधिवचनं, तथताया एतदधिवचनं, भूतकोटेरेतदधिवचनं, धर्मधातो<रेतदधिवचनं । अपि तु खलु सुभूते बोधिरिति तथत अवितथ>ता (अद्स्प्गि १६९) अनन्यतथता अनन्यथाभावस्, तस्माद्बोधिरित्युच्यते । अपि तु खलु सुभूते नामधेयनिमित्तमात्रमेतद्यदुत बोधिस्, तस्माद्बोधि<रित्युच्यते । अपि तु खलु सुभूते अभेदार्थो बोध्यर्थः । अपि तु खलु सुभूते> बुद्धानामेषा भगवतां बोधिस्, तस्माद्बोधिरित्युच्यते । अपि तु खलु सुभूते बुद्धैरेषा भगवद्भिरभिसंबुद्धास्, तस्माद्बोधिरित्युच्य<ते । आह: यो भगवं बोधिसत्त्वो महासत्त्व इह बोधये चरति, स किं षड्भिः पार>मिताभिर्चरति यावत्सर्वाकारज्ञताया<ं> विहरति, कतमेषां भगवं कुशलमूलानामाचयो भवत्यपचयो वा हानिर्वा <वृद्धिर्वा उत्पादो वा निरोधो वा संक्लेशो वा व्यवदानं वा? भगवानाह: यः सु>भूते बोधिसत्त्वो महासत्त्व<ः> इह बोधौ चरति षड्भिः पारमिताभिर्चरति यावत्सर्वाकारज्ञतया चरति । तस्य न कस्यचि<द्धर्मस्य आचयो भवत्यपचयो वा हानिर्वा वृद्धिर्वा उत्पादो वा निरोधो वा> संक्लेशं वा व्यवदानं वा । तत्कस्य हेतो? न हि सुभूते बोधिसत्त्वस्य महासत्त्वस्य बोधिः प्रज्ञापारमितायां चरतः कस्यचिद्ध<र्मस्य आरंबणयोगेन प्रत्युपस्थिता, आचये वा अपचये> वा हानये वा वृद्धये वा उत्पादाय वा निरोधाय वा संक्लेशाय वा व्यवदानाय वा । आह: यदि भगवं बोधिसत्त्वस्य महास<त्त्वस्य प्रज्ञापारमितायां चरतः बोधिर्न कस्यचिद्धर्मस्य आरंब>णयोगेन प्रत्युपस्थिता । तत्कथमिदानीं भगवं बोधिसत्त्वो महासत्त्वो दानपारमितां परिगृह्णाति । शीलपारमितां क्षान्तिपारमितां <वीर्यपारमितां ध्यानपारमितां प्रज्ञापारमितां परिगृह्णाति>, कथमध्यात्मशून्यतायां चरति । बहिर्द्धाशून्यतायामध्यात्मबहिर्द्धाशून्यताया<ं> यावत्स्वलक्षणशून्यतायां (अद्स्प्गि १७०) चरति, <कथं> ध्यानेषु अप्र<मणेषु आरूप्यसमापत्तिषु यावतनुपूर्वविहारसमापत्तिषु> चरति । कथं शून्यतानिमित्ताप्रणिहितेषु विमोक्षमुखेषु चरति । कथं दशसु तथागतबलेषु चरति चतुर्षु वैशारद्येषु <चतसृषु प्रतिसंवित्सु अष्टादशष्वावेणिकेषु बुद्धधर्मेषु> महामैत्र्यां महाकरुणायां चरति । कथं दशसु बोधिसत्त्वभूमिषु चरति । श्रावकप्रत्येकब्बुद्धभूमिमतिक्रामति । <बोधिसत्त्वन्यामं च अवक्रामति? भगवानाह: न हि सुभूते बोधि>सत्त्वस्य महासत्त्वस्य द्वयचारिणी बुद्धिः । न हि सुभूते बोधिसत्त्वो महासत्त्वो द्वयेन दानपारमितायां चरति । <न द्वयेन शीलपारमितायां चरति, न द्वयेन क्षान्तिपारमितायां> चरति, न द्वयेन वीर्यपारमितायां चरति । न द्वयेन समाधिपारमितायां चरति । न द्वयेन प्रज्ञापारमितायां <चरति । एवं सुभूते बोधिसत्त्वो महासत्त्वः दानपारमितां परिगृह्णाति यावत्प्रज्ञापारमितां परिगृह्णाति यावत्सर्वाकारज्ञतामनुप्राप्नोति । आह: यदि भगवं न द्वयेन> [f । २५८ ] दानपारमितायां चरति, न द्वयेन शीलपारमितायां क्षान्तिपारमि<तायां वीर्यपारमितायां ध्यानपारमितायां प्रज्ञापारमितायां चरति, तत्> कथमिदानीं बोधिसत्त्वो महासत्त्वः कुशलमूलैर्विवर्धमानै प्रथमचित्तोत्पादमुपादाय । यावत्पश्चि<मकश्चित्तोत्पादः कुशलमूलैर्विवर्धते? भगवानाह: ये सुभूते द्वयेन चरन्ति, न ते विवर्ध>न्ते कुशलमूलैः । तत्कस्य हेतोः? द्वयनिश्रिता हि सुभूते सर्वबालपृथग्जनास्, ते न विवर्धंते कुशलमूलैः । <बोधिसत्त्वो महासत्त्वः पुनरद्वयेन चरति, स प्रथमचित्तोत्पादमुपादाय> कुशलमूलैर्विवर्धते । यावत्पश्चिमकश्चित्तोत्पाद कुशलमूलैर्विवर्धते । तेन (अद्स्प्गि १७१) न शक्यतेऽभिभवितुं । सदेवमानुषासुरेण लोकेन, यै<रकुशलमूलैरवमर्दितः श्रावकभूमौ वा प्रत्येकबुद्धभूमौ वा पत्>एत्, <त्>अदन्यैर्वा अकुशलैर्धर्मैः संहृयेत, यै<ः> संहृयमानो दानपारमितायां चरन् कुशलैर्मूलैर्न विवर्धेत, यावत्सर्वाकार<ज्ञतायां चरन् कुशलमूलैर्न विवर्धेत । एवं खलु सुभूते बो>धिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरितव्यं । आह: किं पुनर्भगवं बोधिसत्त्वेन महासत्त्वेन कुसलमूलानां कृते प्रज्ञा<पारमितायां चरितव्यं? भगगवानाह: नो हीदं सुभूते, न बोधि>सत्त्वो महासत्त्वो कुशलमूलानां कृते प्रज्ञापारमितायां चरति, नाप्यकुशलमूलानां कृते प्रज्ञापारमितायां चरति, न च अपर्युपा<स्य बुद्धान् भगवतो, न अपरिपूर्य कुशलमूलानि । न कल्याणमित्रैरप>रिगृहीतो बोधिसत्त्वो महासत्त्वः शक्तः सर्वाकारज्ञतामनुप्राप्तुं । आह: कथं भगवं पर्युपास्य बुद्धां भगवतः कुशल<मूलैः परिगृहीतः कल्याणमित्रैर्परिगृहीतो बोधिसत्त्वो म>हासत्त्वः सर्वाकारज्ञतामनुप्राप्नोति? भगवानाह: इह सुभूते बोधिसत्त्वो महासत्त्वः प्रथमचित्तोत्पादमुपादाय <बुद्धान् भगवतः पर्युपास्ते, यच्च ते बुद्धा भगवन्तो भाषन्ते, सूत्रं> गेयं व्याकरणं गाथोदाननिदानेत्युक्तकजातकवैपुल्याद्भुतधर्मापदानापदेशस्तत्सर्वमुद्गृह्णात्युद्गृह्य वाचा सुपरिचि<तं कृत्वा मनसा च अनुप्रेक्षितं कृत्वा दृष्ट्या सुप्रतिविद्धं कृत्वा धारणीं प्रतिल>भते । धारण्याप्रतिलब्धया प्रतिसंविद उत्पादयति । प्रतिसंविद्भिरुत्पादिताभिस्(अद्स्प्गि १७२) तस्य जातिव्यतिवृत्तस्यापि ते धर्मा न जातु <विप्रणश्यति यावत्सर्वाकारज्ञतामनुप्राप्नोति । तत्र च तथागतेष्वर्ह्>अत्सु सम्यक्संबुद्धेषु कुशलमूलान्यवरोपयति, यैः कुशलमूलैः परिगृहीतो न जात्वपायेष्वक्षणेषु चोपपद्यते । <तैश्च कुशलैः मूलैः आश्रयपरिशुद्धिं परिगृह्णाति, यैराश्रयैर्> बुद्धक्षेत्रं परिशोधयति सत्त्वांश्च परिपाचयति, तैश्च कुशलमूलैः परिगृहीतः कल्याणमित्रैर्न जातु विरहितो भवति बुद्धैश्च <भगवद्भिः बोधिसत्त्वैर्महासत्त्वैः श्रावकैश्च ये बुद्धयानस्य वर्णां भाष>न्ते । एवं खलु सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता बुद्धा भगवन्तः पर्युपासितव्याः, कुशलमूला<नि> च अवरो<पयितव्यानि कल्याणमित्राणि च सेवितव्यानि ।> ((६५)) [f । २५८ ] (अद्स्प्गि १७३) परिवर्त ६६ । <अथ्>आयुष्मां सुभूतिर्भगवन्तमेतदवोचत्: य<ः> पुनर्भगवं बोधिसत्त्वो महासत्त्वो नैव बुद्धां भगवतः पर्युपास्ते, न कुशलमूलानि परिपूर<यति, न कल्याणमित्रपरिगृहीतो भवेत्, मा हैव बोधिसत्त्वो महा>सत्त्वः सर्वाकारज्ञतामनुप्राप्नुयात्? भगवानाह: नास्ति सुभूते बोधिसत्त्वो महासत्त्वो यो बुद्धां भगवतोऽपर्युपास्य कुशलमूलान्यपरि<पूर्य कल्याणमित्रैरपरिगृहीतः सर्वाकारज्ञतामनुप्राप्नुयात् । तत्क>स्य हेतो<र्>? बुद्धानेव तावत्पर्युपास्य कुशलमूलान्यवरोप्य कल्याणमित्राणि । सेवित्वा आद्यपि तावत्सर्वाकारज्ञता न शक्यतेऽनुप्राप्तुं । <प्रागेव अपर्युपास्य बुद्धान् भगवतः अपरिपूर्य कुशलमूलान्यसेवि>त्वा कल्याणमित्राणि सर्वाकारज्ञतामनुप्राप्नुयादिति नेदं स्थानं विद्यते । तस्मात्तर्हि सुभूते बोधिसत्त्वेन महासत्त्वेन सत्ये बोधि<ं निष्ठातुकामेन, क्षिप्रं च अनुत्तरां सम्यक्संबोधिमभिसंबोद्धुकामेन> बुद्धान् ब्नगवतः पर्युपासितव्या कुशलमूलान्यवरोपयितव्यानि कल्याणमित्राणि सेवितव्यानि । आह: केन कारणेन भगवं <बोदिसत्त्वो महासत्त्वो बुद्धान् भगवतः पर्युपास्य कुशलमूला>न्यवरोप्य कल्याणमित्राणि सेवित्वा सर्वाकारज्ञतां न अनुप्राप्नोति? भगवानाह: उपायकौशलविरहितत्वात्, सोऽनेनोपायो न श्रु<तो भवति तेषां बुद्धानां भगवतामन्तिकात्, तानि च कुशलमूलानि न अव>रोपितानि । (अद्स्प्गि १७४) तानि च कल्याणमित्राणि न सेवितानि । येऽस्योपायमुपदिशन्ति । आह: कतमद्भगवांस्तदुपायकौशलं येनोपा<यकौशलेन समन्वागतो बोधिसत्त्वो महासत्त्वः सर्वाकारज्ञतामनु>पृष्ठराप्नोति? भगवानाह: इह सुभूते बोधिसत्त्वो महासत्त्व प्रथमचित्तोत्पादमुपादाय दानपारमितायां चरं सर्वाकारज्ञता<प्रतिसंयुक्तैर्मनसिकारैर्दानं ददाति, बुद्धेभ्यो भगवद्भ्यस्प्र>त्येकबुद्धेभ्य<ः> श्रावकेभ्यो मनुष्यभूतेभ्यः अमनुष्यभूतेभ्यः । स तैः सर्वाकारज्ञताप्रतिसंयुक्तैर्मनसिकारैर्समन्वागतो न च अस्य दाने <दानसंज्ञा भवति, न प्रतिग्राहके प्रतिग्राहकसंज्ञा भवति, न दा>यके दायकसंज्ञा भवति । तत्कस्य हेतोः? तथा हि सुभूते स्वलक्षणशून्यान् सर्वधर्मान् जानात्यसतोऽसंभूतानपरिनिष्पन्नाननभिनिर्वृत्तान् सर्व<धर्मान् पश्यति । धर्माणां च धर्मलक्षणमवतरत्यकिञ्चित्समर्थाः स>र्वधर्मा इत्यसंस्कारलक्षणेन अवतरति । सोऽनेनोपायकौशलेन समन्वागत कुशलमूलैर्विवर्धते, स कुशलमूलैर्विवर्धमानो दान<पारमितायां चरति, दानपारमितायां चरन् सत्त्वांश्च परिपाचय>ति बुद्धक्षेत्रं च परिशोधयति । न च दानफलमाशंसते यद्दानफलं संसारे परिभुंजीत अन्यत्र सत्त्वपरित्राणतायै सत्त्वप<रिमोचनतायै दानपारमितायां चरति । उपायकौशल्यनिर्देशप>रिवर्तः । ((६६)) (अद्स्प्गि १७५) पतिवर्त ६७ । पुनरपरं सुभूते बोधिसत्त्वो महासत्त्वः शीलपारमितायां चरं प्रथमचित्तोत्पाद्<अमुपादाय सर्वाकारज्ञताप्रतिसंयुक्तैर्मनसिकारैः शीलं रक्षति । तस्य> नैव राग चित्तमावृनोति न दोषो न मोहो न अनुशया न पर्युत्थानानि न अन्येऽप्यकुश्<अला धर्मा ये बोधेः परिपन्थकरा, तद्यथा मात्सर्यं वा दौशील्यं वा क्षोभणचित्तं वा कौसीद्यचित्तं वा हीन> [f । २५९ ] वीर्यचित्तं वा विभ्रान्त<चित्तं वा> दौष्प्रज्ञचित्तं वा मानो वा अवमानो वा अधिमानो <वा>स्मिमानो वा । श्रावकप्रत्येकबुद्धचित्तं वा । तत्कस्य हेतोः? तथा हि <स स्वलक्षणशून्यान् सर्वधर्मान् जानात्य्, असतोऽसंभूतानपरिनिष्पन्नान्> अनभिनिर्वृत्तांश्च सर्वधर्मान् पश्यति । धर्माणां च धर्मलक्षणमवतरत्यकिञ्चित्समर्था<त्> सर्वधर्मा इत्यसंस्कृतलक्षणेन अवतरति । <सोऽनेनोपायकौशलेन समन्वागतः कुशलमूलैर्विवर्धते । स कुश>लमूलैर्विवर्धमानः शीलपारमितायां चरति । स शीलपारमितायां चरं सत्त्वांश्च परिपाचयति । बुद्धक्षेत्रं च परि<शोधयति । न च शीलफलमाकाण्क्षते, यच्छीलफलं संसारे परि>भुंजीत अन्यत्र सत्त्वपरित्राणतायै सत्त्वपरिपाचनतायै शीलपारमितायां चरति । ((६७)) (अद्स्प्गि १७६) परिवर्त ६८ । एवं क्षान्तिपार्<अमिता वीर्यपारमिता ध्यानपारमिता कर्तव्या । पुनरपरं> सुभूते बोधिसत्त्वो महासत्त्व प्रज्ञापारमितायां चरं प्रथमचित्तोत्पादमुपादाय सर्वाकारज्ञताप्रतिसंयुक्तैर्मनसिका<रैः प्रज्ञां भावयति । तस्य नैव राग चित्तमावृणोति, न दोषो यावन्न श्राव>कप्रत्येकबुद्धचित्तं वा । तत्कस्य हेतोः? तथा हि स सुभूते स्वलक्षणशून्यान् सर्वधर्मान् जानात्यसतोऽसंभूतानपरिनिष्पन्नाननभि<निर्वृत्तांश्च सर्वधर्मान् पश्यति । धर्माणां च धर्मलक्षणमवतरत्य्> अकिञ्चित्<अ>समर्थाः सर्वधर्मा इत्यसंस्कृतलक्षणेन अवतरति । सोऽनेनोपायकौशलेन समन्वागत<ः> कुशलमूलैर्विवर्धते स <कुशलमूलैर्विवर्धमानः प्रज्ञापारमितायां चरति । स प्रज्ञापा>रमितायां चरं सत्त्वांश्च परिपाचयति, बुद्धक्षेत्रं च परिशोधयति । न च प्रज्ञाफलमाकांक्षते यत्प्रज्ञाफलं संसारे <परिभुंजीतान्यत्र सत्त्वपरित्राणतायै सत्त्वपरिमोचनतायै प्र>ज्ञापारमितायां चरति । ((६८)) (अद्स्प्गि १७७) परिवर्त ६९ । पुनरपरं सुभूते बोधिसत्त्वो महासत्त्वः प्रथमध्यानं समापद्यते यावत्चतुर्थं <ध्यानं समापद्यते, मैत्रिं यावदुपेक्षां समापद्यते, आकाशानन्त्यायतनसमापत्तिं यावन्नैवसंज्ञानासंज्ञायतनसमापत्तिं स>मापद्यते । न च विपाकं परिगृह्णाति । तत्कस्य हेतोः? तथा हि स उपायकौश<लेन समन्वागतो येनोपायकौशलेन तान् ध्यान अप्रमाणआरूप्यसमापत्तीन् स्वलक्षणशून्यान्> जानाति यावदनभिनिर्वृत्ता<न्> जानाति । पुनरपरं सुभूते बोधिसत्त्वो महासत्त्व प्रथमचित्तोत्पादमुपादाय उपायकौशले<न समन्वागतो दर्शनभावनाप्रहातव्ये च मार्गे चरति, न च स्रोतआ>पृष्ठअत्तिफलमनुप्राप्नोति न सकृदागामीफलं न अनागामीफलं न अर्हत्त्वमनुप्राप्नोति । तत्कस्य हेतोः? तथा हि स स्वलक्ष<णशून्यान् सर्वधर्मान् जानाति यावदनभिनिर्वृत्तान् जानाति । तेषु च> बोधिपक्षिकेषु धर्मेषु चरंच्छ्रावकप्रत्येकबुद्धभूमिमतिक्रामति । इयं सुभूते बोधिसत्त्वस्य महासत्त्वस्य अनुत्पत्तिके<षु धर्मेषु क्षान्ति । पुनरपरं सुभूतेऽबोधिसत्त्वो महासत्त्वः प्रज्ञा>पृष्ठआरमितायां चरन्नष्टौ विमोक्षान् समापद्यते नवानुपूर्वसमापत्तीन् <समापद्यते> न च स्रोतआपत्तिफलमनुप्राप्नोति यावन्न अर्हत्त्व<मनुप्राप्नोति । तत्> (अद्स्प्गि १७८)< कस्य हेतोः? तथा हि स्वलक्षणशून्यान् सर्वधर्मान्> [f । २५९ ] जानाति यावदनभिनिर्वृत्तां सर्वधर्मान् जानाति । पुनरपरं सुभूते बोधिसत्त्वो महासत्त्वो दशसु तथागतबलेषु परिचयं <करोति, चतुर्षु वैशारद्येषु चतसृषु प्रतिसंवित्सु अष्टादशावेणिकेषु बुद्ध>धर्मेषु महामैत्र्यां महाकरुणायां च परिचयं करोति । न च तावत्सर्वाकारज्ञतामनुप्राप्नोति यावन्न बुद्धक्षेत्रं परिशोधितं <भवति सत्त्वाश्च परिपाचिता भवन्ति । एवं सुभूते बोधिसत्त्वेन> महासत्त्वेन प्रज्ञापारमितायां चरितव्यं । आह: परमबुद्धिमां खलु भगवन् बोधिसत्त्वो महासत्त्वो भवति, य एवं गंभीरेषु <धर्मेषु चरति न च विपाकं परिगृह्णाति । भगवानाह: एवमेतत्सुभू>ते एवमेतत् । परमबुद्धिमान् बोधिसत्त्वो महासत्त्वो य एवं गंभीरेषु धर्मेषु चरति, न च विपाकं परिगृह्णाति । तत्कस्य हेतोः? <तथा हि सुभूते बोधिसत्त्वो महासत्त्वः स्वभावतो न चलति । आह: कस्य> स्वभावतो न चलति? भगवानाह: अभावान्न चलति । यत्पुनः सुभूतिरेवमाह: कस्य स्वभावान्न चलति? रूपस्य स्वभावां न च<लति, वेदनाया संज्ञाया संस्काराणां विज्ञानस्य स्वभावान्न चलति,> दानपारमिताया स्वभावान्न चलति, शीलपारमिताया स्वभावान्न चलति, क्षान्तिपारमिताया वीर्यपारमिताया ध्यान<पारमिताया प्रज्ञापारमिताया स्वभावान्न चलति । ध्यानस्वभावान्> न चलत्यप्रमाणस्वभावान्न चलत्यारूप्यसमापत्तिस्वभावान्न चलति । स्मृत्युपस्थानानां स्वभावान्न चलति । यावदार्याष्टाङ्ग<स्य मार्गस्य स्वभावान्न चलति । शून्यतासमाधेरा>निमित्तस्य समाधेरप्रणिहितस्य समाधेः स्वभावान्न चलत्यष्टविमोक्षनवानुपूर्वसमापत्तिस्वभावान् (अद्स्प्गि १७९) न चलति । <दशानां तथागतबलानां स्वभावान्न चलति यावदष्टादशानामावे>णिकानां बुद्धधर्माणां स्वभावान्न चलति । महामैत्र्या महाकरुणाया स्वभावान्न चलति । तत्कस्य हेतोः? तथा हि सुभूते य <एषां धर्माणां स्वभावः सोऽभावः । न हि सुभूते अभावेन अभावः शक्य्>अमभिसंबोद्धुं । आह: किं पुनर्भगवन् भावेन भावः शक्यमभिसंबोद्धुं? भगवानाह: नो हीदं सुभूते । आह: तदभावेन भा<वः शक्यमभिसंबोद्धुं? भगवानाह: नो हीदं सुभूते । आह: तदभावेन अभावः शक्यमभिसंबोद्धुं? भगवानाह: नो हीदं सुभूते । आह: तद्भावेन अ>भाव सक्यमभिसंबोद्धुं? भगवानाह: नो हीदं सुभूते । आह: तन्मा हैव भगवन्न प्राप्तिर्न अभिसमयो भविष्यति, य<दि न अभावेन अभावस्य अभिसमयो> न भावेन भावस्य अभिसमयः न अभावेन भावस्य अभिसमयो न भावेन अभावस्य अभिसमयः । भगवानाह: अस्त्यभिसम<यो, न पुनरनेन चतुष्क अभिनिर्हारेण । आह: कथमिदानिं भगवन्नभि>समय<ः>? भगवानाह: यत्र नैव भावो न अभावः स तादृशोऽभिसमयः यत्रैते प्रपंचा न संविद्यन्ते, अप्रपंच्यो<निस्प्रपञ्चोऽभिसमयः । आह: कः पुनर्भगवं बोधिसत्त्वस्य म>हासत्त्वस्य प्रपञ्चः? भगवानाह: रूपं नित्यमित्यनित्यमिति वा बोधिसत्त्वस्य महासत्त्वस्य प्रपञ्च । वेदनासंज्ञ<संष्कारविज्ञानं नित्यमित्यनित्यमिति वा प्रपञ्चः । रूपं सुखमिति> [f । २६० ] वा दुःखमिति वा प्रपञ्च । वेदनासंज्ञासंस्कारविज्ञानं सुखमिति वा दुःखमिति वा प्रपञ्च । रूपमात्मेत्यनात्मेति वा प्रपञ्च । <वेदनासंज्ञासंस्कारविज्ञानमात्मेत्यनात्मेति> (अद्स्प्गि १८०)< वा प्रपञ्च । रूपं शा>न्तमित्यशान्तमिति वा प्रपञ्च । वेदनासंज्ञासंस्कारविज्ञानं शान्तमित्यशान्तमिति वा प्रपञ्च । रूपं परिज्ञेयमपरिज्ञेयमिति <वा प्रपञ्च । वेदनासंज्ञासंस्कारविज्ञानं परिज्ञेयमपरिज्ञेयमिति वा प्रपञ्>च । दुःखमार्यसत्यं परिज्ञेयमिति प्रपञ्च, समुदय प्रहातव्य इति प्रपञ्च, निरोधः साक्षात्कर्तव्य इति प्रपञ्चः, <मार्गो भावयितव्य इति प्रपञ्चः । चत्वारि ध्यानानि भावयितव्यानि इति प्रपञ्>चः चत्वार्यप्रमाणानि भावयितव्यानि इति प्रपञ्चः चतस्रः आरूप्यसमापत्तयो भावयितव्या इति प्रपञ्चः । चत्वारि <स्मृत्युपस्थानानि चत्वारि सम्यक्प्रहाणानि भा>वयिष्यामि इति प्रपञ्चः चत्वाररिद्धिपादा भावयितव्या इति प्रपञ्चः । एवं पञ्चेन्द्रियाणि पञ्चबलानि सप्तबोध्यङ्गान्यार्याष्टाङ्गो मार्गो भावयितव्या इति प्रपञ्चः । शून्यताविमोक्षमुखमानिमित्तं विमोक्षमुखमप्रणिहितं विमोक्षमुखं भावयितव्यमिति प्रपञ्चः अष्टौ विमोक्षा नवानुपूर्वसमापत्तयो भावयितव्या इति प्र<पञ्चः, श्रोतआपत्तिफलं सकृदा>गामीफलमनागामीफलमर्हत्त्वं समतिक्रामिष्यामि इति प्रपञ्चः । प्रत्येकबुद्धभूमिं समतिक्रामिष्यामि इति प्रपञ्चः दशबोधिसत्त्वभूमीन् परिपूरयिष्यामि इति प्रपञ्चः बोधिसत्त्वन्याममवक्रामिष्यामि इति प्रपञ्चः, बुद्धक्षेत्रं परिशोधयिष्यामि इति प्रपञ्चः, सत्त्वान् परिपाचयिष्यामि इति प्रपञ्चः । <दशतथागतबलान्युत्पादयिस्यामि इति प्रपञ्चः, चत्वारि वैशार>द्यानि चतस्रः प्रतिसंविदोऽष्टादशावेणिकान् बुद्धधर्मानुत्पादयिष्यामि इति प्रपञ्चः । सर्वाकारज्ञतामनुप्राप्स्यामि इति प्रपञ्चः <सर्ववासनानुसन्धिक्लेशं प्रहास्यामि इति प्रपञ्चः । तस्माद्बोधिसत्त्वो> महासत्त्वः प्रज्ञापारमितायां चरन् रूपं नित्यमित्यनित्यमित्यप्रपञ्च्यन्न प्रपञ्चयति (अद्स्प्गि १८१) वेदनासंज्ञासंस्कारविज्ञानं नित्यमि<त्यनित्यमित्यप्रपञ्च्यन्न प्रपञ्चयति> । । । न्नित्यमित्यनित्यमित्यप्रपञ्च्यन्न प्रपञ्चयति । यावत्सर्वाकारज्ञातामनुप्राप्स्यामि इत्यप्रपञ्च्यन्न प्रपञ्चयति । सर्ववास्<अनानुसन्धिक्लेशं प्रहास्यामि इत्यप्रपञ्च्यन्न प्रपञ्चयति । तत्कस्य हेतोर्? >न हि स्वभावः स्वभावं प्रपञ्चयति । न अभाव अभावं प्रपञ्चयति । न <च> स्वभाव अभावौ स्थापयित्वा अन्य<ः> कश्चिद्धर्म उपल<भ्यते, यः प्रपञ्चयेद्येन वा प्रपञ्चयेद्यत्र वा प्रपञ्चयेत् । तस्मात्> तर्हि सुभूते निष्प्रपञ्च्यं रूपं । निष्प्रपञ्च्या वेदनासंज्ञासंस्कारा निष्प्रपञ्च्य<ं> विज्ञानं । यावन्निष्प्रपञ्च्या सर्वाकारज्ञता । ए<वं खलु सुभूते बोधिसत्त्वेन महासत्त्वेन निष्प्रपञ्च्यायां प्रज्ञापारमि>तायां चरितव्यं । अपि तु खलु सुभूते नास्ति रूपस्य स्वभावो नास्ति वेदनायाः संज्ञाया संस्काराणां नास्ति विज्ञानस्य <स्वभावः । यावन्नास्ति सर्वाकारज्ञताया स्वभावः । यस्य स्वभावो नास्ति तद्निष्प्र>पृष्ठअञ्च्यं । [f । २६० ] अनेन सुभूते कारणेन निष्प्रपञ्च्यं रूपं निष्प्रपञ्च्या वेदनासंज्ञासंस्कारा निष्प्रपञ्च्यं विज्ञानं । यावन्निष्प्रपञ्च्या सर्वाकारज्ञता । एव<ं खलु सुह्हूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् बोधिसत्त्वन्याम>मवक्रामति । आह: यदि भगवन्न कस्यचिद्धर्मस्य स्वभाव उपलभ्यते । कतमेन मार्गेण बोधिसत्त्वो महासत्त्वो बोधिसत्त्वन्याममव<क्रामति, श्रावकमार्गेण वा प्रत्येकबुद्धमार्गेण वा बुद्धर्मार्गेण वा? >भगवानाह: न सुभूते श्रावकमार्गेण बोधिसत्त्वो महासत्त्वो बोधिसत्त्वन्याममवक्रामति । न (अद्स्प्गि १८२) प्रत्येकबुद्धमार्गेण न बुद्धमार्गेण । अ<पि तु खलु सुभूते बोधिसत्त्वो महासत्त्वः सर्वमार्गेषु शिक्षित्वा बोधिसत्त्वन्याम>मवक्रामति । तद्यथापि नाम अष्टमकः सर्वमार्गेषु शिक्षित्वा सम्यक्त्वन्याममवक्रामति । न च तावत्फलमनुप्राप्नोति यावन्न फल<मार्गमुत्पादयति, एवमेव सुभूते बोधिसत्त्वो महासत्त्वः सर्वमार्गानु>त्पाद्य बोधिसत्त्वन्याममवक्रामति । न च तावत्सर्वाकारज्ञतामनुप्राप्नोति । यावन्न वज्रोपमः समाधिः प्रतिलब्धो भवति । स <तस्य समाधेः प्रतिलंभादेकक्षणसमायुक्तया प्रज्ञया सर्वाकारज्ञतामनुप्राप्नोति । आह:> यदि भगवन् बोधिसत्त्वेन महासत्त्वेन सर्वमार्गान् परिपूर्य बोधिसत्त्वन्यामोऽवक्रामितव्यः, ननु भगवन्नन्य एव अष्टमकस्य मार्गः <अन्यः स्रोतआपन्नस्य अन्यः सकृदागामितायै प्रतिपन्नकस्य अन्यः स>कृदागामिनः अन्योऽनागामितायै प्रतिपन्नकस्य अन्योऽनागामिनः अन्योऽर्हत्<त्व>पृष्ठरतिपन्नकस्य अन्योऽर्हतो मार्गः अन्यः प्रत्येकबुद्धस्य अन्य<ः तथागतस्य अर्हतः सम्यक्संबुद्धस्य मार्गः । यदि भगवन्नन्य एषां मार्गस्, तत्क>थं बोधिसत्त्वेन महासत्त्वेन सर्वमार्गान् परिपूर्य बोधिसत्त्वन्यामोऽवक्रमितव्यः? यदि भगवन् बोधिसत्त्वेन महासत्त्वेन सर्वमार्गाः <परिपूरयितव्याः, तन्मा हैव भगवन् बोधिसत्त्वो महासत्त्वोऽष्टमकमार्गमुत्पाद्>य अष्टमको भवेद्, दर्शनमार्गमुत्पाद्य स्रोतआपन्नो भवेद्, भावनामार्गमुत्पाद्य सकृदागामीप्रतिपन्नको भवेत् । सकृदागामी भवेद्<अनागामीप्रतिपन्नको भवेदनागामी भवेदर्हत्त्वप्रतिपन्नको भ>वेद्(अद्स्प्गि १८३) अर्हन् भवे<त्> प्रत्येकबुद्धमार्गमुत्पाद्य प्रत्येकबुद्धो भवेद्, अस्थानं च भगवन्न् <अन्>अवकाशो यद्बोधिसत्त्वो महासत्त्वोऽष्टमको भूत्वा बोधिसत्त्वन्याम<मवक्रामेन्नेदं स्तानं विद्यते यद्बोधिसत्त्वन्याममवक्रामन् सर्वाकारज्ञतामनु>पृष्ठराप्नुयान्नेदं स्थानं विद्यते । एवं श्रोतआपत्तिफलमनुप्राप्य सकृदागामीफलमनुप्राप्य अनागामीफलमनुप्राप्य <अर्हत्त्वमनुप्राप्य> प्रत्येकबो<धिमनुप्राप्य बोधिसत्त्वन्याममवक्रामेत्बोधिसत्त्वन्या>ममवक्राम<न्> सर्वाकारज्ञतामनुप्राप्नुयान्नेदं स्थानं विद्यते । तत्कथं भगवन् जानीयाम बोधिसत्त्वो महासत्त्वः सर्वमार्गान् परिपूर्य <बोधिसत्त्वन्याममवक्रामति, बोधिसत्त्वन्याममवक्रम्य सर्वाकार>ज्ञतामनुप्राप्नोति । सर्ववासनानुसन्धिं च प्रजहाति? भगवानाह: एवमेतत्सुभूते एवमेतत् । अस्थानं सुभूते अनवकाशो य<द्बोधिसत्त्वो महासत्त्वोऽष्टमको भूत्वा श्रोतआपत्तिफलं च अनुप्राप्य>यावदर्हत्त्वं च अनुप्राप्य प्रत्येकबोधिं च अनुप्राप्य बोधिसत्त्वन्याममवक्रामेन् <न्>एदं स्थानं विद्यते । बोधिसत्त्वन्याममनवक्रम्य <सर्वाकारज्ञतामनुप्राप्नुयान्नेदं स्थानं विद्यते । अपि तु खलु सुभूते> [f । २६१ ] बोधिसत्त्वो महासत्त्वो प्रथमचित्तोत्पादमु<पादाय षट्सु पारमितासु चरन्नष्टौ भूमीञ्> ज्ञानेन च दर्शनेन च अतिक्रामति । कतमा अ<ष्टौ? शूक्लविदर्शनभूमि गोत्रभूमिरष्टमकभूमि दर्शनभूमिस्> तनुभूमि<र्वीतरागभूमिः> कृतावीभूमिः प्रत्येकबुद्धभूमिः <ईदृशः स> इमा अष्टौ भूमीञ्ज्ञानेन च दर्शनेन च अतिक्रम्य मार्गाकारज्ञ<तया बोधिसत्त्वन्याममवक्रामति । बोधिसत्त्वन्याममवक्रम्य सर्व्>आकारज्ञताज्ञानेन सर्ववासनानुसन्धिक्लेशं (अद्स्प्गि १८४) प्रजहा<ति> । तत्र सुभूते । यदष्टमकस्य ज्ञानं सा बोधिसत्त्वस्य महासत्त्वस्य क्षान्ति<ः>, य<च्छ्रोतआपन्नस्य ज्ञानं च प्रहाणं च सा बोधिसत्त्वस्य महासत्त्वस्य> क्षान्ति<ः> । यत्सकृदागामिनो ज्ञानं च प्रहाणं च सा बोधिसत्त्वस्य महासत्त्वस्य क्षान्ति<ः> । यदनागामिनो ज्ञानं च प्रहाणं च सा बोधिसत्त्व<स्य महासत्त्वस्य क्षान्तिः । यदर्हतः ज्ञानं च प्रहानं च सा बोधि>सत्त्वस्य महासत्त्वस्य क्षान्ति<ः>, यत्प्रत्येकबुद्धस्य ज्ञानं च प्रहाणं च सा बोधिसत्त्वस्य महासत्त्वस्य क्षान्ति<ः> । तद्बोधिसत्त्वो महासत्त्वो श्राव<कप्रत्येकबुद्धमार्गान् परिपूर्य मार्गाकारज्ञताज्ञानेन बोधिस>त्त्वन्याममवक्रामति । बोधिसत्त्वन्याममवक्रम्य सर्वाकारज्ञताज्ञानेन सर्ववासनानुसन्धिक्लेशं प्रजहाति । ए<वं खलु सुभूते बोधिसत्त्वो महासत्त्वः सर्वमार्गान् परिपूर्य अनुत्त>रां सम्यक्संबोधिमभिसंबुध्य <सर्व>सत्त्वानां फलोपाजीव्यो भवति । आह: य इमे भगवन्मार्गाः, श्रावकमार्गः प्रत्येकबुद्धमार्गो बु<द्धमार्गस्, तत्कतमात्र भगवन् मार्गाकारज्ञतामार्गः? भगवानाह:> इह सुभूते बोधिसत्त्वेन महासत्त्वेन मार्गाकारज्ञताविशुद्धिरुत्पादयितव्या । तत्रेयं सुभूते मार्गाकारज्ञताविशुद्धिः, यै<र्> यै<राकारैर्यैर्यैर्लिङ्गैर्यैर्यैर्निमित्तैर्मार्गः सूच्यते । तत्र तानाकारान् तानि लि>ङ्गानि तानि निमित्तानि बोधिसत्त्वेन महासत्त्वेन अभिसंबोद्धव्यान्यभिसंबुद्ध्य परेषामाख्यातव्यानि । देशयितव्यानि <प्रकाशयितव्यानि, प्रज्ञापयितव्यानि प्रतिष्ठापयितव्यानि, परस्य> विनयनार्थं यथा परो जानीया<त्>, तत्र बोधिसत्त्वेन महासत्त्वेन सर्वरुतसंकेतघोषा (अद्स्प्गि १८५) अभ्युदीरयितव्याः आधारयितव्या<ः> यादृशैस्त्रिसाहस्रमहासाहस्रं लोकधातुं विज्ञापयेन् प्रतिश्रुत्का आज्ञानन अर्थेन । तदनेन अपि सुभूते पर्यायेण बोधिसत्त्वेन महासत्त्वेन सर्वमार्गाः परिपूरयितव्याः मार्गाकारज्ञ<तां परिपूर्य सत्त्वानामाशया ज्ञातव्याः । नैरयिकानां सत्त्वानां मा>र्गो ज्ञातव्यः हेतुर्ज्ञातव्यः फलं ज्ञातव्यं, ततश्च नैरयिका मार्गतो निवारयितव्याः हेतुतो निवारयितव्या फलतो निवारयित<व्याः, तिर्यग्योनिका मार्गतो निवारयितव्याः हेतुतो निवारयितव्या> फलतो निवारयितव्याः, यमलौकिका मार्गतो निवारयितव्याः हेतुतो निवारयितव्या फलतो निवारयितव्याः, किन्नराणां महोर<गानां नागानां यक्षाणां मनुष्यानां मार्गो ज्ञातव्यः हेतुर्ज्ञातव्यः फ>लं ज्ञातव्यं । देवानां मार्गो ज्ञातव्यो हेतुर्ज्ञातव्यः फलं ज्ञातव्यं । ब्रह्मणानां मार्गो ज्ञातव्यो हेतुर्ज्ञातव्य फलं ज्ञातव्य<ं> । आभास्वराणां <देवानां मार्गो ज्ञातव्यो हेतुर्ज्ञातव्य फलं ज्ञातव्यं । शुभकृत्स्नानां वृहत्फलानामसंज्ञिसत्त्वानामवृहाणामतपानां सुदृशा>नां [f । २६१ ] सुदर्शनानामकनिष्ठानां देवानां मार्गो ज्ञातव्यो हेतुर्ज्ञातव्यः फलं ज्ञातव्यं । आकाशानन्त्यायतनानां देवानां मार्गो ज्ञातव्यो <हेतुर्ज्ञातव्यः फलं ज्ञातव्यं । यावत्नैवसंज्ञाना>संज्ञायतननं देवानां मार्गो ज्नातव्यो हेतुर्ज्नातव्य फलं ज्ञातव्यं । चत्वारि स्मृत्युपस्थानानि ज्ञातव्यानि चत्वारि सम्यक्प्रहाणानि चत्वारि ऋद्धि<पादा पञ्चेन्द्रियाणि पञ्चबलानि सप्तबोध्यङ्गानि ज्ञातव्यानि यावच्> शून्यताविमोक्षमुखमानिमित्तं विमोक्षमुखमप्रणिहितं विमोक्षमुखं (अद्स्प्गि १८६) ज्ञातव्यं दशतथागतबलानि ज्ञातव्यानि चत्वारि वैशार<द्यानि ज्ञातव्यानि चतस्रः प्रतिसंविदो ज्ञातव्याः अष्टादशावेणिका बुद्धधर्मा ज्ञातव्याः महामैत्री ज्ञातव्या महाक>रुणा ज्ञातव्या । यैश्च मार्गैर्ये सत्त्वा स्रोतआपत्तिफले प्रतिष्ठापयितव्यास्तां स्रोतआपत्तिफले प्रतिष्ठापयति । यावद्ये <ऽर्हत्त्वे प्रतिष्ठापयितव्यास्तानर्हत्त्वे प्रतिष्ठापयति । ये प्रत्येकबो>धौ प्रतिष्ठापयितव्यास्तां प्रत्येकबोधौ प्रतिष्ठापयति । ये बोधौ प्रतिष्ठापयितव्यास्तां बोधौ प्रतिष्ठापयति । इयं सु<भूते बोधिसत्त्वस्य महासत्त्वस्य मार्गाकारज्ञता यत्र बोधिसत्त्वो> महासत्त्व शिक्षित्वा सत्त्वाशयतामवतरति । सत्त्वाशयतामवतीर्य । तथैव धर्मं देशयति । सा च अस्य धर्मदेशना अक्षू<णा अमोघाश्च भवति । तत्कस्य हेतोस्? तथा ह्यनेन परेषामिन्द्रियाणि प्रभावितान्>इ भवन्ति । स सत्त्वानां गतिं <चागतिञ्च> च्युतिमुपपत्तिं च प्रजानाति । एवं खलु सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां <चरितव्यं । अत्र प्रज्ञापारमितायां सर्वमार्गा अन्तर्गता । ये केचिद्बोधि>पृष्ठअक्षिका धर्मा यत्र बोधिसत्त्वेन महासत्त्वेन चरितव्यं श्रावकैर्वा प्रत्येकबुद्धैर्वा चरितव्यं । आह: यदि भगवन् ये च बोधिपक्षि<का धर्मा या च बोधिः सर्व एते धर्मा न संयुक्ता न विसंयुक्ता अरूपि>णोऽनिदर्शना अप्रतिघा एकलक्षणा यदुतालक्षणा । कथं भगवं बोधिपक्षिका धर्मा बोधेराहारका भवन्ति । न हि भगवन <न संयुक्तो न विसंयुक्तः अरूपिणोऽनिदर्शनोऽप्रतिघो एक>लक्षणो यदुतालक्षणो धर्म कस्यचिद्धर्मस्य आहारको (अद्स्प्गि १८७) वा अपहारको वा । तद्यथापि नाम भगवन्न आकाशं कस्य<चिद्धर्मस्य आहारको वा अपहारको वा, एवमेव भगवन्न स्वलक्ष>णशून्यो धर्मः कस्यचिद्धर्मस्य आहारको वा अपहारको वा । भगवानाह: एवमेतत्सुभूते एवमेतन् । न सुभूते स्वलक्षणशून्यो <धर्मः कस्यचिद्धर्मस्य आहारको वा अपहारको वा । ये पुनः सुभूते सत्त्वाः स्वल>क्षणशून्यान् धर्मान्न जानन्ति तेषामर्थायैवं निर्दिश्यते । इमे बोधिपक्षिका धर्मा बोधेरुपनायका भवन्ति इति । अपि तु खलु <पुनर्सुभूते यच्र रूपं या च वेदना या च संज्ञा ये च संस्कारा यच्च> विज्ञानं या च दानपारमिता या च शीलपारमिता या च क्षान्तिपारमिता या च वीर्यपारमिता । या च ध्यानपारमिता या एअ प्र<ज्ञापारमिता या च आध्यात्मशून्यता या च> बहिर्द्धाशून्यता यावद्या च स्वलक्षण<शून्यता यच्च प्रथमध्यानं> या च यावन्नैवसंज्ञानासंज्ञायतनसमा<पत्तिर्ये च चत्वारि स्मृत्युपस्थानानि यो च यावदार्याष्टाङ्गो मार्गो ये च यावत्त्रिविमोक्षमुखानि ये> [f । २६२ ] च यावदष्टौ विमोक्षा यावन्नवानु<पूर्वविहारसमापत्तयः ये च यावद्दशतथागतबलानि चत्वरि वैशारद्यानि चतस्रः प्रतिसंविदः अष्टादशावेणिका बुद्धधर्मा या च महामै>त्री या च महाकरुणा या च यावत्सर्वाकारज्ञता अस्मिन्नार्ये धर्मविनये स<र्व एते धर्मा न संयुक्ता न विसंयुक्ता अरूपिणोऽनिदर्शना अप्रतिघा एकलक्षणा यदुतालक्षणाः । ते च खलु पुनः सुभूते तथा>गतेन सत्त्वानामवतरणार्थमेवं लोकव्यवहारेण व्याहृता न पुनः <परमार्थेन । तत्र सुभूते बोधिसत्त्वेन महासत्त्वेन सर्वत्र ज्ञानेन च दर्शनेन शिक्षितव्यं, ज्ञानेन दर्शनेन> शिक्षित्वा केचिद्धर्मा<ः> प्रतिवेद्धव्याः (अद्स्प्गि १८८) केचिद्धर्मा न प्रतिवेद्धव्याः । कतमे धर्मा बोधिस<त्त्वेन महासत्त्वेन ज्ञानेन दर्शनेन शिक्षित्वा प्रतिवेद्धव्याः, कतमे धर्मा ज्ञानेन दर्शनेन शिक्षित्वा न प्र>तिवेद्धव्याः? श्रावकप्रत्येकबुद्धधर्माः शिक्षित्वा<ज्ञानेन दर्शनेन च न प्रतिवेद्धव्याः, सर्वाकारज्ञताज्ञानेन सर्वाकारैः सर्वधर्मा प्रतिवेद्धव्याः । एवं खलु सुभूते बोधिसत्त्वेन महासत्त्वेन आर्य>धर्मविनये प्रज्ञापारमितायां शिक्षितव्यं । आह: <आर्यो धर्म>विनयो आर्यो धर्मविनय इति भगवन्नु<च्यते । कियता भगवन्नार्यो धर्मविनय इत्युच्यते? भगवानाह: इह सुभूते श्राव>काः प्रत्येकबुद्धा बोधिसत्त्वा महासत्त्वाश्<च> तथागता <अर्हन्तः> सम्यक्संबुद्धा रागेण न संयुक्ता न विसंयुक्ताः <दोषेण न संयुक्ता न विसंयुक्ताः मोहेन न संयुक्ता न विसंयुक्ताः सत्कायदृष्ट्या न संयुक्ता न विसंयुक्ता>ः विचि<कि>त्सया न संयुक्ता न विसंयुक्ताः शीलव्रतपरामर्शेन न संयुक्ता न विसंयुक्ताः कामरागव्यापादे<न न संयुक्ता न विसंयुक्ताः रूपरागारूपरागेण न संयुक्ता न विसंयुक्ताः अ>विद्यया न संयुक्ता न विसंयुक्ताः मनौद्धत्ये<न> न संयुक्ता न विसंयुक्ताः प्रथमेन ध्यानेन न संयुक्ता न विसं<युक्ताः यावत्चतुर्थेन ध्यानेन न संयुक्ता न विसंयुक्ताः मैत्र्या न संयुक्ता न विसं>युक्ताः करुणया न संयुक्ता न विसंयुक्ताः मुदितया न संयुक्ता न विसंयुक्ताः उपेक्षया न <स>ंयुक्ता न विसंयुक्ताः <यावत्नैवसंज्ञानासंज्ञायतनेन न संयुक्ता न विसंयुक्ताः चतु>र्भिः स्मृत्युपस्थानैर्न संयुक्त न विसंयुक्ताः यावन्महामैत्र्या महाकरुणया न संयुक्ता न विसंयुक्ताः, संस्कृत<धातुना न> (अद्स्प्गि १८९)< संयुक्ता न विसंयुक्ताः असंस्कृतधातुना न संयुक्ता न विसंयुक्ता> इति । <ते>न ते आर्या इत्युच्यन्ते । तेषां चायं धर्मो विनयश्च, तस्मादार्यो धर्मविनय इत्युच्यते । तत्कस्य हेतोः? तथा हि ते <सर्वधर्मा अरूपिणोऽनिदर्शना अप्रतिघा एकलक्षणा यदु>तालक्षणाः । ते अरूपिणः अरूपिणाः सार्धं न संयुक्ता न विसंयुक्ताः, अनिदर्शना अनिदर्शनेन सार्धं न संयुक्ता <न विसंयुक्ताः, अप्रतिघा अप्रतिघेन सार्धं न संयुक्ता न वि>संयुक्ताः, अलक्षणा अलक्षणेन सार्धं न संयुक्ता न विसंयुक्ताः । इयं सुभूते अरूप्यनिदर्शना अप्रतिघा <एकलक्षणा अलक्षणा पारमिता बोधिसत्त्वानां> [f । २६२ ] <महासत्त्वानां यत्र बोधिसत्त्वेन म>हासत्त्वेन शिक्षितव्यं, योऽत्र शिक्षित्वा न कस्यचिद्धर्मस्य <लक्ष>णमुपलभते । <सुभूतिराह:> न पुनर्भगवन् रूपलक्ष<णे शिक्षितव्यं, न वेदना संज्ञा संस्कारा विज्ञानलक्ष>णे शिक्षितव्यं । न चक्षुर्लक्षणे शिक्षितव्यं न यावत्मनोलक्षणे शिक्षितव्यं, न रूपशब्दगन्धरसस्प्रष्टव्यधर्मलक्षणे <शिक्षितव्यं, न पृथिवीधातोरब्धातोर्तेजोधातोर्वायुर्धातोर्> आकाशधातोर्विज्ञानधातोर्लक्षणे शिक्षितव्यं, न दानपारमिताया लक्षणे शिक्षितव्यं, न शीलपारमिताया न क्षान्तिपारमि<ताया न वीर्यपारमिताया न ध्यानपारमिताया न प्रज्ञापारमिताया लक्ष>णे शिक्षितव्यं, नाध्यात्मशून्यतालक्षणे शिक्षितव्य<ं> यावन्न स्वलक्षणशून्यतालक्षणे शिक्षितव्यं, न प्रथ <मध्यानलक्षणे शिक्षितव्यं यावन्न चतुर्थध्यानलक्षणे शिक्षितव्यं> न मैत्र्या लक्षणे शिक्षितव्यं न यावन्नैवसांज्ञानासंज्ञायतनलक्षणे शिक्षितव्यं न स्मृत्युपस्थानानां लक्षणे <शिक्षितव्यं यावन्न आर्याष्टाङ्गमार्गस्य लक्षणे> (अद्स्प्गि १९०)< शिक्षितव्यं, न शुन्यता> समाधेर्नानिमित्तस्य समधेर्नाप्रणिहितस्य समाधेर्लक्सने शिक्षितव्य<ं>, न विमोक्षाणां न अनुपूर्वसमापत्तीनां <लक्षणे शिक्षितव्यं, न दशबलानां न चतुर्णां वैशारद्यानां च चत>सृणां प्रतिसंविदां न अष्टादशानामावेणिकानां बुद्धधर्माणां लक्षणे शिक्षितव्यं, न महामैत्र्या न महाकरु<णाय लक्षणे शिक्षितव्यं न दुःखार्यसत्यानां लक्षणे शिक्षितव्यं, न समुदयलक्ष>णे शिक्षितव्यं न निरोधलक्षणे शिक्षितव्यं न मार्गलक्षणे शिक्षितव्यं नार्यलक्षणे शिक्षितव्यं नानु<लोमप्रतिलोमप्रतीत्यसमुत्पादलक्षणे शिक्षितव्यं, न संस्कृतधातुलक्षणे शि>क्षितव्यं न असंस्कृतधातुलक्षणे शिक्षितव्यं । यदि भगवन्नत्रापि धर्मलक्षणेषु न शिक्षितव्यं, कथं भ<गवन्नशिक्षित्वा बोधिसत्त्वो महासत्त्वः सर्वधर्मलक्सणे संस्कारलक्षणे च श्रावकप्र>त्येकबुद्धभूमिमतिक्रामिष्यत्य् । अनतिक्रम्य श्रावकप्रत्येकबुद्धभूमिं कथं बोधिसत्त्वन्याममवक्रमिष्य<ति, बोधिसत्त्वन्याममनवक्रम्य कथं सर्वाकारज्ञतामनुप्राप्नोति, सर्वाकारज्ञतामननुप्राप्य> कथं धर्मचक्रं प्रवर्तयिष्यति, धर्मचक्रमप्रवर्त्य कथं सत्त्वान् संसारात्परि<मोचयिष्यति, श्रावकयानेन वा प्रत्येकबुद्धयानेन वा महयानेन वा? भगवानाह: यदि सुभूते कस्यचिद्ध>र्मस्य लक्सणं भवेत्<त्>अद्बोधिसत्त्वेन महासत्त्वेन तत्र लक्षणेषु शिक्षितव्य<ं । यस्मात्तर्हि सुभूते सर्वधर्माः अलक्षणा अरूपिणो अनिदर्शना अप्रतिघा एकलक्षणा यदुतालक्षणा । तस्माद्बोधि>सत्त्वेन महासत्त्वे<न नैव> लक्षणे शिक्षितव्य<ं ना>लक्षणे । तत्कस्य हे<तोर्? न हि पूर्वमलक्षणा अभूवन् पश्चात्सलक्षणा भूताः, यस्मात्तर्हि> (अद्स्प्गि १९१)< सुभूते पूर्वमप्येते धर्मा एतर्>ह्यप्यलक्षणास्तस्माद्बोधिसत्त्वेन महासत्त्वेन नैव लक्षणे <शिक्षितव्यं, न अलक्षणे । तत्कस्य हेतोर्? उत्पादाद्वा अनुत्पदाद्वा तथागतानां स्थित एवायमलक्षणधातुर्> । [f । २६३ ] <आह: यदि> भगव<न्नलक्षणाः सर्वधर्माः न विलक्षणस्, तत्कथं बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितभावना भविष्यति? न च भगवन्नभावयित्वा प्रज्ञापारमितां बोधिसत्त्वेन महासत्त्वेन> शक्त श्रावाकभूमिर्वा प्रत्येकबुद्धभूमिर्वा <अतिक्रमितुं, अनतिक्रम्य श्रावकभूमिं प्रत्येकबुद्धभूमिं न च शक्यं बोधिसत्त्वेन महासत्त्वेन बोधिसत्त्वन्यामोऽवक्रमितुं, अनवक्रम्य बोधिसत्त्वन्यामं न शक्यं बो>धिसत्त्वेन महासत्त्वेन अनुत्पत्तिकेषु धर्मेषु क्षान्तिमुत्पाद्<अयितुं, अनुत्पत्तिकेषु धर्मेषु क्षान्तिर्नोत्पाद्य न शक्यमभिज्ञा उत्पादयितुं, बोधिसत्त्वोऽभिज्ञा अनुत्पदे न शक्यं बुद्धक्षेत्रं परिशोधयितुं> सत्त्वांश्च परिपाचयितुं, बुद्धक्षेत्रमपरिशोध्य सत्त्वांश्च अपरिपाच्य न शक्यं <सर्वाकारज्ञतामनुप्राप्तुं, अननुप्राप्य सर्वाकारज्ञतां न शक्यं द्गर्मचक्रं प्रवर्तयितुं, धर्मचक्रमप्रवर्त्य न शक्यं स>त्त्वां स्रोतआपत्तिफले प्रतिष्ठापयितुं न सकृदागामिफले न अनागामिफले न अर्ह<त्त्वे न प्रत्येकबोधौ प्रतिष्ठापयितुं, नापि शक्यं सत्त्वान् दानमये पुण्यक्रियावस्तुनि प्र>तिष्ठापयितुं <न> शीलमये भावनामये पुण्यक्रियावस्तुनि प्रतिष्ठापयितुं । भगवानाह: <एवमेतत्सुभूते एवमेतत् । अलक्षणा सुभूते सर्वधर्मा न विलक्षणाः । आह: त क>थमलक्षणेषु धर्मेषु प्रज्ञापारमिताभावना भवति? भगवान् (अद्स्प्गि १९२) आह: न सुभूते प्रज्ञापारमिता<भावना बोधिसत्त्वस्य महासत्त्वस्य विलक्षणा नैवलक्षणा । अलक्षणभावना सुभूते बोधिसत्त्व>स्य महासत्त्वस्य प्रज्ञापारमिताभावना । <आह: तत्कथमलक्षणा प्रज्ञापारमिताभवना भवति? भगवानाह: सर्वधर्मविभावना प्रज्ञापारमिताभावना । आह: तत्कथं भगवं सर्वधर्मविभावना? >भगवानाह: रूपविभावनाभावना प्रज्ञापारमिता<भावना । वेदनासंज्ञासंस्काराविज्ञानविभावनाभावना प्र>ज्ञापारमिताभावना । चक्षुश्रोत्रघ्राणजिह्वाकायमनोविभावनाभावना प्रज्ञापारमिताभावना । रू<पशब्दगन्धरसस्प्रष्टव्यधर्मविभावनाभावना प्रज्ञापारमिताभा>वना । आयूहविभावनाभावना प्रज्ञापारमिताभावना । निर्यूहविभावनाभावना प्रज्ञा<पारमिताभावना । प्रथमध्यानविभावनाभावना प्रज्ञापारमिताभावना । द्वितीयध्यानतृतीयध्यानचतुर्थध्यानवि>भावनाभावना प्रज्ञापारमिताभावना । मैत्रीविभावनाभावना प्रज्ञापारमिताभावना । क<रुणामुदिता उपेक्षाविभावनाभावना प्रज्ञापारमिताभावना । आकासानन्त्यायतनविभावनाभावना प्रज्ञा>पृष्ठआरमिताभावना । विज्ञानानन्त्यायतनाकिंचन्यायतननैवसंज्ञाना<संज्ञायतनविभावनाभावना प्रज्ञापारमिताभावना । बुद्धानुस्मृतिविभावनाभावना प्रज्ञापारमिताभावना । धर्मानुस्मृति>संघानुस्मृतिशीलानुस्मृतित्यागानुस्मृतिदेवतानुस्मृत्युद्वेगा<नुस्मृत्यानापानानुस्मृतिमरणानुस्मृतिकायगतानुस्मृतिविभावनाभावना प्रज्ञापारमिताभावना । अनित्यसंज्ञादुःखसं>ज्ञानात्मसंज्ञाशुभसंज्ञावि<भावनाभाव>ना प्रज्ञा<पारमिताभावना । प्रतीत्यसमुत्पादविभावनाभावना प्रज्ञापारमिताभावना । आत्मसंज्ञाविभावनाभावना प्रज्ञापारमिताभावना । सत्त्वसंज्ञजीवसंज्ञाजन्तुसंज्ञामनुजसंज्ञा मानवसंज्ञा> [f । २६३ ] (अद्स्प्गि १९३) <पोष>संज्ञापुद्गल<संज्ञाकारकसंज्ञाकारपकसंज्ञाविभावनाभावना प्रज्ञापारमिताभावना । नित्यसंज्ञासुखसंज्ञाशुभसंज्ञात्मसंज्ञा>विभावनाभावना प्रज्ञापारमिताभावना । स्मृत्युपस्थानविभाव्<अनाभावना प्रज्ञापारमिताभावना । सम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गार्याष्टाङ्गमार्गविभावनाभावना प्रज्ञापारमिताभावना । शून्यतासमाधिविभाव>नाभावना प्रज्ञापारमिताभावना । आनिमित्तसमाध्यप्रणिहित<समाधिविभावनाभावना प्रज्ञापारमिताभावना । अष्टविमोक्षविभावनाभावना प्रज्ञापारमिताभावना । नवानुपूर्वसमापत्तिविभावना>भावना प्रज्ञापारमिताभावना । सवितर्कसविचारसमाधिविभावनाभावना प्रज्ञापारमिताभा<वना । अवितर्कसविचारमात्रसमाधिविभावनाभावना प्रज्नापारमिताभावना । अवितर्काविचारसमाधिविभावनाभावना प्रज्ञापारमिताभाव>ना । दुःखार्यसत्यविभावनाभावना प्रज्ञापारमिताभावना । समुदयनिरोधमार्गार्यसत्य<विभावनाभावना प्रज्ञापारमिताभावना । दुःखज्ञानसमुद>यज्ञाननिरोधज्ञानमार्गज्ञानविभावनाभावना प्रज्ञापारमिताभावना । क्षयज्ञानविभावनाभाव<ना प्रज्ञापारमिताभावना । अनुत्पादज्ञानधर्मज्ञानान्वयज्ञानसंवृतिज्ञानपरिचयज्ञानयथावज्>ज्ञानविभावनाभावना प्रज्ञापारमिताभावना । दानपारमिताविभावनाभावना प्रज्ञापारमिता<भावना । शीलपारमिताक्षान्तिपारमितावीर्यपारमिताध्यानपारमिताप्रज्ञापारमिताविभावनाभावना प्र>ज्ञापारमिताभावना । अध्यात्मशून्यताविभावनाभावना प्रज्ञापारमिताभावना । बहिर्द्धाशून्य<ता अध्यात्मबहिर्द्धाशून्यताशून्यताशून्यतामहाशून्यतापरमार्थशून्यता> (अद्स्प्गि १९४)< संस्कृतशून्यतासंस्कृतशून्यतात्यन्तशुन्यता>नवराग्रशून्यता<अन्>अवकारशून्यताप्रकृतिशून्यतासर्वधर्मशून्यतास्वलक्षणशून्यताभाव<शून्यतास्वभावशून्यताभावस्वभावशून्यताविभावनाभावना प्रज्ञापारमिताभावना । दशतथागतब>लविभावनाभावना प्रज्ञापारमिताभावना । चतुर्वैशारद्यचतुप्रतिसंविदष्टादशावेणि<कबुद्धधर्माविभावनाभावना प्रज्ञापारमिताभावना । महामैत्रिमहाकरुणाविभावनाभावना प्रज्ञापारमिताभावना । स्रोतआपत्तिफलविभावनाभा>वना प्रज्ञापारमिताभावना । सकृदागामिफलानागामिफलार्हत्वप्रत्येकबोधिवि<भावनाभावना प्रज्ञापारमिताभावना । सर्वाकारज्ञताविभावनभावना प्रज्ञापारमिताभावना । सर्ववासनानुसन्धिप्रहा>णविभावनाभावना प्रज्ञापारमिताभावना । सुभूतिराह: कथं पुनर्भ<गवं रूपविभावनाभावना प्रज्ञापारमिताभावना> यावत्<कथं> सर्ववासनानुसन्धिप्रहानविभावनाभावना प्रज्ञापारमि<ताभावना? भगवानाह: इह सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् रूपं भाव इति न भावयति यावद्वि>ज्ञानं भाव इति न भावयति । <यावत्सर्वाकरज्ञतां भाव इति न भावयति यावत्सर्ववासनानु>सन्धिप्रहाणं [f । २६४ ] भाव इति न भावयति । तत्कस्य हेतोः? नास्ति सुभू<ते भावसंज्ञिनः दानपारमिताभावना, नास्ति शिलपारमिताभावना क्षान्तिपारमिताभावना वीर्यपारमिताभावना ध्यानपारमिताभावना नास्ति> सुभूते भावसंज्ञिन<ः> प्रज्ञापारमिताभावन । (अद्स्प्गि १९५) नास्ति भावसंज्ञिन<ः यावत्सर्वाकारज्ञताभावना । तत्कस्य हेतोस्? तथा हि सुभूते तस्ज भावे सक्तस्य दानेन> शीलेन क्षान्त्या वीर्येण ध्यानेन प्रज्ञायामेष संगः । यस्तथा सक्तस्तस्य नास्ति मोक्ष<ः> । नास्ति सुभू<ते भावसंज्ञिनः स्मृत्युपस्थानभावना, न सम्यक्प्रहाणभावना ऋद्धिपादाभावना इन्द्रियभावना बलभा>वना, न बोध्यङ्गभावना न मार्गभावना न शून्यताभावना न अनिमित्तभावना न अप्रणिहितभावना, यावन्नास्ति सर्वाकारज्ञता<भावना । तत्कस्य हेतोस्? तथा हि सुभूते स भावे सक्तः । एवमुक्ते आयुष्मान् सुभूतिर्भगवन्तमेतदवोचत्: किमिति भगवन् भावः? किमित्य>भावः? भगवानाह: द्वयं सुभूते भावः, अद्वयमभावः । आह: किमिति भगवन् द्वयं? भगवानाह: रूपसंज्ञा सु<भूते द्वयं, वेदनासंज्ञासंस्काराविज्ञानसंज्ञा द्वयं, चक्षुःसंज्ञा यावत्मनोसंज्ञा द्वयं,> रूपसंज्ञा यावद्धर्मसंज्ञा यावद्बुद्धसंज्ञा बोधिसंज्ञा संस्कृतधातुसंज्ञा असंस्कृतधातुसंज्ञा यावत्सुभूते सर्वसंज्ञा <यावच्च असंज्ञा सर्वमेतद्द्वयं । यावद्द्वयं तावद्भावः, यावद्भावस्तावत्संस्क्ष्रो, या>वत्संस्कारस्तावत्सत्त्वा न परिमुच्यन्ते जातिजराव्याधिमरणशोकपरिदेवदुःखदौर्मनस्योपायासेभ्यः (अद्स्प्गि १९६) तदनेन अपि सुभू<ते पर्यायेणैवं वेदितव्यम्: नास्ति द्वयसंज्ञिनो दानं नास्ति शीलं नास्ति क्षान्तिर्> नास्ति वीर्यं नास्ति ध्यानं नास्ति प्रज्ञा, नास्ति मार्गो नास्ति प्राप्तिर्नास्त्यभिसमयो, नास्त्यन्तशः आनुलोमिक्यपि क्षान्तिः, कुत<ः> पुन<र्> रूप<स्य परिज्ञा यावद्विज्ञानस्य परिज्ञा, यावत्सर्वाकारज्ञतायाः परिज्ञा? यस्य नास्ति मार्गभावना,> कुतस्तस्य स्रोतआपत्तिफलं कुतो यावदर्हत्वं कुतः प्रत्येकबोधिः, कुतो यावत्सर्ववासनानुसन्धिप्र<हाणं? >((६९)) (अद्स्प्गि १९७) परिवर्त ७० । <अथायुष्मान् सुभूतिर्भगवन्तमेतदवोचत्: यदि भगवन् भावसंज्ञिनः> अनुलोमिक्यपि क्षान्तिर्नास्ति, कुतः पुनः प्राप्तिः कुतोऽभिसमयः? किं पुनरभावसंज्ञिनः अनु<लोमिकी क्षान्तिः नास्ति, शुक्लविदर्शनभूमिर्वा गोत्रभूमिर्वा अष्टमकभूमिर्वा दर्शनभूमिर्> वा तनुभूमिर्वा वीतरागभूमिर्वा कृतावीभूमिर्वा प्रत्येकबुद्धभूमिर्वा बोधिसत्त्वभूमिर्वा बुद्धभूमिर्वा । <मार्गभावना वा यां मार्गभावनामागम्य क्लेशान्न प्रजहाति श्रावकप्रतिसंयुक्तान् वा प्रत्येकबुद्ध>पृष्ठरतिसंयुक्तां वा, यैः क्लेशैरावृतो बोधिसत्त्वन्यामं न अवक्रामेत्, बोधिसत्त्वन्याममनवक्रमन् सर्वाकारज्ञतां न अ<नुप्राप्नुयात्, सर्वाकारज्ञतां न अनुप्राप्नुवन् सर्ववासनानुसन्धिक्लेशान्न प्रजहीत? यदि भगवन्नास्ति क>स्यचिद्धर्मस्य उत्पद्यमानस्य उत्पादः न च अनुत्पाद्य इमान् धर्मांच्छक्यं सर्वाकारज्ञता<ं> अनुप्राप्तुं? भगवानाह: एवमे<तत्सुभूते एवमेतत् । न अभावसंज्ञिन आनुलोमिकी क्षान्तिरस्ति यावन्नास्ति सर्ववासनानुसन्धिक्लेश>पृष्ठरहानं । आह: किं पुनर्भगवं बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो भावसंज्ञा भ<वत्यभावसंज्ञा वा, रूपसंज्ञा वा यावत्विज्ञानसंज्ञा वा, यावत्सर्वाकारज्ञतासंज्ञा वा, रागसंज्ञा वा रागप्रहाणसंज्ञा वा, द्वेषसंज्ञा वा द्वे>षप्रहाणसंज्ञा [f । २६४ ] वा, मोहसंज्ञा वा मोहप्रहाणसंज्ञा (अद्स्प्गि १९८) वा, अविद्यासंज्ञा वा अविद्याप्रहाणसंज्ञ वा, सं<स्कारसंज्ञा वा संस्कारप्रहाणसंज्ञा वा, विज्ञानसंज्ञा वा विज्ञानप्रहानसंज्ञा वा, नामरूप>संज्ञा वा नामरूपप्रहानसंज्ञा वा, षडायतनसंज्ञा वा षडायतनप्रहाणसंज्ञा वा, स्पर्शसंज्ञा वा स्पर्शप्र<हाणसंज्ञा वा, वेदनासंज्ञा वा वेदनाप्रहाणसंज्ञा वा, तृष्णासंज्ञा वा तृष्णाप्रहानसंज्ञा वा, उपादान>संज्ञा वा उपादानप्रहाणसंज्ञा वा, भवसंज्ञा वा भवप्रहाणसंज्ञा वा, जातिसंज्ञा वा जातिप्रहाणसंज्ञा वा, जराम<रणसंज्ञा वा जरामरणप्रहाणसंज्ञा वा, शोकपरिदेवसंज्ञा वा शोकपरिदेवप्रहाणसंज्ञा> वा, दुःखसंज्ञा वा दुःखप्रहाणसंज्ञा वा, समुदयसंज्ञा वा समुदयप्रहाणसंज्ञा वा, निरोधसंज्ञा वा निरोध<प्रहाणसंज्ञा वा, मार्गसंज्ञा वा मार्गप्रहाणसंज्ञा वा, यावत्सर्वाकारज्ञतासंज्ञा वा सर्ववास>नानुसन्धिक्लेशप्रहानप्रहाणसंज्ञा वा? भगवानाह: नो हीदं सुभूते । न सुभूते बोधिसत्त्वो महासत्त्वः प्र<ज्ञापारमितायां चरन् क्वचिद्धर्मे भावसंज्ञी वा अभावसंज्ञी वा भवति । एषैव बोधिसत्त्वस्य महासत्त्व>स्य आनुलोमिकी क्षान्तिर्यत्र नास्ति भावसंज्ञा न अभावसंज्ञा । एषैवास्य मार्गभावना यत्र नास्ति भावसंज्ञा न अभाव<संज्ञा । एतदेव अस्य फलं यत्र नास्ति भावसंज्ञा न अभावसंज्ञा । अभावः खलु पुनः> सुभूते बोधिसत्त्वस्य महासत्त्वस्य मार्गः, अभाव एव अभिसमय<स्> । तदनेन अपि ते सुभूते पर्यायेणैवं वेदितव्यम्: अभा<वस्वभावाः सर्वधर्माः । आह: यदि भगवन्नभावस्वभावाः सर्वधर्माः,> तत्कथं भगवन्नभावस्वभावा<ः> सर्वधर्मास्तथागतेन अभिसंबुद्धा<ः>, येषामभिसंबोधा<य> सर्वधर्मविषयवशवर्त्तिता (अद्स्प्गि १९९) अनुप्राप्ता? <एवमुक्ते भगवानायुष्मन्तं सुभूतिमेतदवोचत्: इह अहं सुभूते पूर्वं बो>धिसत्त्वचारिकां चरं, षट्सु पारमितासु चरन्, विविक्तमेव कामैर्विविक्तं पापकैरकुशलैः धर्मै<ः> सवितर्कं सविचारं विवेकजं प्री<तिसुखं प्रथमं ध्यानं यावद्चतुर्थं ध्यानमुपसं>पृष्ठअद्य विहरामि । सोऽहं तेषान् ध्यानानां ध्यानाङ्गानाञ्च निमित्तमनुद्गृह्णंस्, तैर्ध्यानैर्न मन्ये, ध्यानानि न आस्वादयामि, ध्यानानि नोपलभे । <सोऽहं तानि ध्यानान्याकारविशुद्धानि समापद्ये, सोऽहं तानि ध्यानानि विपाकी>कृत्वा विविधज्ञानसाक्षात्क्रियायै चित्तमभिनिर्णामयामि, याव<द्> दिव्यश्रोत्रज्ञानसाक्षात्क्रियायै चित्तपर्यायज्ञानसाक्षात्क्रि<यायै पूर्वनिवासानुस्मृतिज्ञानसाक्षात्क्रियायै दिव्यचक्षुर्ज्ञानसाक्षात्क्रियायै चि>त्तमभिनिर्णामयामि । तासां साक्षात्क्रियायां निमित्तमनुद्गृह्णंस्ताभिरभिज्ञभिर्न मन्ये न आस्वादयामि नोपलभे । सोऽहं ताः पञ्चाभिज्ञाः आकाशसमाः पश्यामि समापद्ये । <सोऽहं सुभूते एकलक्षणसमायुक्त>या प्रज्ञया अनुत्तरां सम्यक्संबोधिमभिसंबुध्य इदं दुःखं, अयं दुःखसमुदयो, <अयं दुःखनिरोधः, इयं दुःखनिरोधगमिनीप्रतिपदिति यथाभूतमाज्ञातवान्, सोऽहं दशभिः तथाग>तबलैः समन्वागतश्चतुर्भिर्वैशारद्यैश्चतसृभिः <प्रतिसंविद्भिः महामैत्र्या महाकरुणयाऽष्टादशभिरावेणिकैर्बुद्धधर्मैः समन्वागतः सत्त्वांस्त्रिषु राशिषु व्याकरोमि ।> (अद्स्प्गि २००)< आह: कथं भग>वंस्[f । २६५ ] तथागतेन अर्हता सम्यक्संबुद्धेन अभावस्वभावा<नि चत्वारि ध्यानानि उत्पादितानि, कथमभास्वभावा षडभिज्ञा उत्पादिता, कथं सत्त्वासत्त्वा त्रिषु राशिषु व्याकृताः? भगवानाह: सचेत्सु>भूते कामानां वा पापकानां वा अकुशलानां धर्माणां स्वभावोऽभविष्यद्भावो वा<भविष्यत्पर> भावो वाभविष्यन्, न अहं सुभूते <पूर्वं बोधिसत्त्वचारिकां चरन्नभावस्वभावान् कामान् विदित्वा अभावस्वभावान् पापकानकुशलान् धर्मान् विदित्वा> चत्वारि ध्यानान्युपसंपद्य व्याहर्षं । यस्मात्तर्हि सुभूते न कामानां <पापकानां च अकुशलानां धर्माणां> स्वभावोऽस्ति न भावो न परभावः अन्यत्र अभावस्व<भावत्वातेव, तस्मादहं पूर्वं बोधिसत्त्वचारिकां चरन् विविक्तं कामैर्विविक्तं पापकैरकु>शलैर्धर्मैः सवितर्कं सविचारं विवेकजं प्रीतिसुखं प्रथमध्यानमुपसंपद्य व्याहर्षं । एवं यावत्चतुर्थं <ध्यानमुपसंपद्य व्याहर्षं । सचेत्सुभूते अभिज्ञानां भावो वा स्वभावो वा परभावो वा अभविष्यन्, न अहं सुभू>ते सर्वाभिज्ञा अभावस्वभावा विदित्वा अनुत्तरां सम्यक्संबोधिमभिसंभोत्स्ये । यस्मात्तर्हि सुभूते सर्वा<भिज्ञानां न भावो न स्वभावो न परभावोऽस्ति, अन्यत्र अभावस्वभावातेव, तस्मात्तथागतोऽर्हन् सम्यक्संबुद्धः सर्वाभिज्ञा> अभावस्वभावा विदित्वा अनुत्तरां सम्यक्संबोधिमभिसंबुद्धः ।  अष्टादशसाहस्रिका प्रज्ञापारमिता, परिवर्त ७० - ८२ वि । अभिसमय (विअ) [f । २६५ ] सुभूतीराह: यदि भगवं बोधिस<त्त्वो महासत्त्वोऽभावस्वभावेषु सर्वधर्मेष्वनुत्तरां सम्यक्संबोधि>मभिसंबुध्यते । तत्कथं भगवन्नभावस्वभावेषु सर्वधर्मेषु बोधिसत्त्वस्य महासत्त्वस्य अनुपू<र्वक्रिया प्रज्ञायतेऽनुपूर्वशिक्षा अनुपूर्वप्रतिपत्प्रज्ञायते यया अनुपूर्वक्रियया अनुपूर्वशिक्षया अनुपूर्व>पृष्ठरतिपदा अनुत्तरां सम्यक्संबोधिमभिसंबुध्यते? भगवानाह: इह सुभूते बोधिसत्त्वेन महा<सत्त्वेन पूर्वमेवैवं श्रुतं भवति । बुद्धानां भगवतामन्तिकाद्बोधिसत्त्वानां महासत्त्वानां बुद्धधर्मैः पर्यु>पृष्ठआसितानामर्हतां वा अन्तिकादनागामिनां वा सकृदागामिनां वा । स्रोतआपन्ननां वा । अभाव<स्वभावत्वं बुद्धानां भगवतामभावस्वभावत्वमभावस्वभावत्वं बोधिसत्त्वानां महासत्त्वानां प्रत्येकबु>द्धानामभावस्वभावत्वमर्हतामभावस्वभावत्वमनागामिनामभावस्वभावत्वम् <स्रोतआपन्नानामभावस्वभावत्वं सर्वार्याणां । नास्ति सर्वसंस्काराणां स्वभावः । अन्तशावाला>ग्रकोटिस्थानमात्रमपि: तस्य खलु पुनर्बोधिसत्त्वस्य महासत्त्वस्य एवं भव<ति> ॥। यावत्स्रोतआपन्नानां, यद्यहमनुत्तरां सम्यक्संबोधिमभिसंभोत्स्ये यदि वा न अभि<संभोत्स्ये, अभाव एव सर्वधर्माः । यन्वहमनुत्तरां सम्यक्संबोधिमभिसंबुध्य सत्त्वान् भावसंज्ञायां चरतः अभा> ॥। वे प्रतिष्ठापयेयं, स खलु पुनः सुभूते बोधिसत्त्वो महासत्त्वोऽनुत्तरस्यै सम्यक्संबोध<ये संप्रतिष्ठत सर्वसत्त्वानां परिनिर्वाणाय स अनुपूर्वक्रियायामारभते अनुपूर्वशिक्षा अनु>पृष्ठऊर्वप्रतिपदं (अद्स्प्गिइ २) यत्र शिक्षित्वा पौर्वका बोधिसत्त्वा महासत्त्वा अनुत्तरां सम्यक्संबोधिमभिसं<बुद्धाः ।> (वि, १-६) <स प्रथममेव षट्सु पारमितासु चरति यदुत दानपारमितायां शीलपारमितायां क्षान्तिपा>रमितायां [f । २६५ ] वीर्यपारमितायां ध्यानपारमितायां <प्र>ज्ञापारमितायां । (वि १) स दानपारमितायां चर<न्नात्मना च दानं ददाति परं च दानपारमितायां प्रतिष्ठापयति, दानस्य च वर्णं भाषते, ये च अन्ये दानपारमितायां चरन्ति> तेषामपि च वर्णवादी भवति समनुज्ञः । स तेन दानेन महाभोगस्कन्धं प्रतिलभते । स दानं त्यजति दानं <ददाति विगतमत्सरेण चित्तेन । अन्नमन्नार्थिकेभ्यो पानं पानार्थिकेभ्यो> ॥। केभ्यो गन्धं गन्धार्थिकेभ्यो माल्यं माल्यार्थिकेभ्यो विलेपनं विलेपनार्थिकेभ्यः शयनं शयनार्थिके<भ्यो> ॥। ति । स तेनैव दानेन शीलस्कन्धं रक्षति । देवमाहन्त्यं च मनुष्यमाहन्त्यं च प्रतिलभ<ते ॥। शीलस्कन्धं प्रतिलभते समाधिस्कन्धं प्रतिलभते प्रज्ञास्कन्धं प्रतिलभते> विमुक्तिस्कन्धं प्रतिलभते । विमुक्तिज्ञानदर्शनस्कन्धं प्रतिलभते । स तेनैव दाने<न समन्वागतः श्रावकप्रत्येकबुद्धभूमी अतिक्रामति, श्रावकप्रत्येकबुद्धभूमी अतिक्रम्य बोधिसत्त्व>न्याममवक्रामति । बोधिसत्त्वन्याममवक्रम्य बुद्धक्षेत्रं परिशोध्य सत्त्वां परिपाच्य सर्वाकारज्ञ<तामनुप्राप्नोति । सर्वाकारज्ञतामनुप्राप्य धर्मचक्रं प्रवर्तयति, धर्मचक्रं प्रवर्त्य सत्त्वांस्त्रिषु या>नेषु प्रतिष्ठाप्य <तां? >संसारात्परिमोचयति । एवं खलु सुभूते बोधिसत्त्वस्य महासत्त्वस्य दानेन अनु<पूर्वक्रिया प्रज्ञायते अनुपूर्वशिक्षा अनुपूर्वप्रतिपत्प्रज्ञायते । तच्च सर्वं नोपलभ्यते । तत्कस्य हेतोः? तथा ह्यस्य स्वभावो नास्ति ।> (वि २) <पुनरपर>ं सुभूते बोधिसत्त्वो महासत्त्व प्रथमचित्तोत्पादमुपादाय आत्मना च शीलपारमितायां चरति । परं च <शीलपारमितायां प्रतिष्ठापयति, शीलस्य च वर्णं भाषते, ये च अन्ये शीलपारमिता>यां चरन्ति तेषामपि वर्णवादी भवति समनुज्ञः । स तेन शीलेन देवमाहन्त्यं च मनुष्यमाहन्त्यं <च प्रतिलभते । स तेन शीलेन सत्त्वांस्शीले प्रतिष्ठापयति समाधौ प्रतिष्ठापयति प्र>ज्ञायां प्रतिष्ठापयति विमुक्तौ प्रतिष्ठापयति । विमुक्तिज्ञानदर्शने प्रतिष्ठापयति । स तेन शी<लेन समन्वागतः श्रावकप्रत्येकबुद्धभूमी> (अद्स्प्गिइ ३)< अतिक्रामति> श्रावकप्रत्येकबुद्धभूमी अतिक्रम्य तेनैव शीलस्कन्धेन समाधिस्कन्धेन प्रज्ञास्कन्धेन विमुक्तिस्कन्ध्<एन विमुक्तिज्ञानदर्शनस्कन्धेन ॥। सत्त्वांस्त्रिषु यानेषु प्रतिष्ठा>पृष्ठय संसारात्परिमोचयति । एवं खलु सुभूते बोधिसत्त्वस्य महासत्त्वस्य शीलेन अनुपूर्वक्रिया प्रज्ञायते । <अनुपूर्वशिक्षा अनुपूर्वप्रतिपत्प्रज्ञायते । तच्च सर्वं नोपलभ्यते । तत्कस्य हेतोः? तथा ह्यस्य स्वभावो नास्ति ।> (वि ३) <पुनरपरं सुभूते बो>धिसत्त्वो महासत्त्व प्रथमचित्तोत्पादमुपादाय आत्मना च क्षान्तिपारमितायां चरति । परांश्च क्षान्तिपारमितायां <प्रतिष्ठापयति, क्षान्त्या च वर्णं भाषते, ये च अन्ये क्षान्तिपारमितायां चरन्ति> तेषामपि वर्णवादी भवति समनुज्ञः । स क्षान्तिपारमि<त् ॥। शीले प्रतिष्ठापयति समाधौ प्रतिष्ठापयति प्रज्ञायां प्रतिष्ठापयति विमुक्तौ प्रतिष्ठाप>यति [f । २६६ ] विमुक्तिज्ञानदर्शने प्रतिष्ठापयति । स तेन शीलस्कन्धेन च समाधिस्कन्धेन च प्रज्ञास्कन्धेन च विमु<क्तिस्कन्धेन च विमुक्तिज्ञानदर्शनस्कन्धेन च ॥। शीलस्कन्धेन> समाधिस्कन्धेन प्रज्ञास्कन्धेन विमुक्तिस्कन्धेन विमुक्तिज्ञानदर्शनस्कन्धेन च बोधिसत्त्वन्याममवक्राम<ति सत्त्वान् त्रिषु यानेषु प्रतिष्ठाप्य संसारात्परिमोचयति । एवं खलु सुभूते बोधिसत्त्वस्य> महासत्त्वस्य क्षान्त्यानुपूर्वक्रिया प्रज्ञायते । तच्च सर्वं नोपलभ्यते । तत्कस्य हेतोः? तथा ह्यस्य स्वभावो नास्ति । (वि ४) पुनर<परं सुभूते> ॥। ते । कुशलेषु धर्मेषु । परं च वीर्ये समादापयति । वीर्यस्य च वर्णं भाषते, ये च अन्ये वीर्यमारभन्ते तेषामपि वर्णवादी <भवति समनुज्ञः । ॥। शीले प्रति>ष्ठापयति समाधौ प्रतिष्ठापयति । प्रज्ञायां प्रतिष्ठापयति । विमुक्तौ प्रतिष्ठापयति । विमुक्तिज्ञानदर्शने प्र<तिष्ठापयति शीलस्कन्धेन च समाधिस्कन्धेन च प्रज्ञास्कन्धेन च विमुक्तिस्क>न्धेन च विमुक्तिज्ञानदर्शनस्कन्धेन च श्रावकप्रत्येकबुद्धभूमी अतिक्रम्य तेनैव शीलस्कन्धेन समाधिस्कन्धे<न प्रज्ञास्कन्धेन विमुक्तिस्कन्धेन विमुक्तिज्ञानदर्शनस्कन्धेन> ॥। चत्? सत्त्वां त्रिषु यानेषु प्रतिष्ठाप्य संसारात्परिमोचयति । एवं (अद्स्प्गिइ ४) खलु सुभूते बोधिसत्त्वस्य महासत्त्वस्य <वीर्येण अनुपूर्वक्रिया प्रज्ञायते अनुपूर्वशिक्षा अनुपूर्वप्रतिपत्प्रज्ञायते । तच्च सर्वं नोपलभते । तत्कस्य हेतोः? तथा ह्यस्य स्वभावो नास्ति ।> (वि ५) पुनरपरं सुभूते बोधिसत्त्वो महासत्त्वः प्रथमचित्तोत्पादमुपादाय आत्मना च ध्यानानि स<मापद्यते> ॥। म्य समापत्तिषु प्रतिष्ठापयति । ध्यानानां च वर्णां भाषते । अप्रमाणानामारूप्यसमापत्तिनाम् ॥।ऽपि वर्णवादी भवति समनुज्ञः । स तत्र ध्यानेषु स्थित्वा अप्रमाणेष्वारूप्यसमापत्तिषु च स्थित्वा । ॥। <शीले प्रतिष्ठापयति समाधौ प्रतिष्ठापयति प्रज्ञायां प्रतिष्ठापय>न्ति । विमुक्तौ प्रतिष्ठापयति । विमुक्तिज्ञानदर्शने प्रतिष्ठापयति । स तेन शीलस्कन्धेन च समाधिस्क<न्धेन प्रज्ञास्कन्धेन विमुक्तिस्कन्धेन च विमुक्तिज्ञानदर्शनस्कन्धेन च श्रावकप्रत्येकबुद्धभूमी> अतिक्रम्य तेनैव च शीलस्कन्धेन समाधिस्कन्धेन प्रज्ञास्कन्धेन विमुक्तिस्कन्धेन विमुक्तिज्ञानदर्शन<स्कन्धेन> ॥। एवं खलु सुभूते बोधिसत्त्वस्य महासत्त्वस्य ध्यानेन अनुपूर्वक्रिया प्रज्ञायते, तच्च सर्वं नोपलभते । <तत्कस्य हेतोः? तथा ह्यस्य स्वभावो नास्ति ।> (वि ६) <पुनरपरं सुभूते बोधिसत्त्वो महासत्त्वः प्रथमचित्तोत्पाद>मुपादाय प्रज्ञापारमितायां चरं सत्त्वा<न् दाने प्रतिष्हाप>यति । शीले प्रतिष्ठापयति । समाधौ प्रति<ष्ठापयति प्रज्ञायां प्रतिष्ठापयति विमुक्तौ प्रतिष्ठापयति विमुक्तिज्ञानदर्शने प्रतिष्ठाप>यति । [f । २६६ ] प्रज्ञापारमितायां चरत आत्मन्<आ> ॥। क्षान्त्या संपादयति । वीर्यमारभते । ध्य्<आन्> ॥। प्रतिष्ठापयति । दानस्य च वर्णं भाषते शीलस्य क्षान्त्या वीर्यस्य ध्यानानां प्रज्ञायाश्च वर्णं भाषते । ये <च अन्ये ॥। भा>वयन्ति तेषामपि वर्णवादी भवति । समनुज्ञः । स तया दानपारमितयाः शीलपारमितया क्षा<न्तिपारमितया वीर्यपारमितया ध्यानपारमितया प्रज्ञापारमितया स्रावकप्रत्येकबुद्धभूमी अतिक्रामति> श्रावकप्रत्येकबुद्धभूमी अतिक्रम्य बोधिसत्त्वन्याममवक्रामति । बुद्धक्षेत्रं परिशोध्य सत्त्वां प<रिपाच्य सर्वाकारज्ञातामनुप्राप्नोति । सत्त्वांस्त्रिषु यानेषु> प्रतिष्ठाप्य संसारात्परिमोचयति । तच्च सर्वं नोपलभते । तत्कस्य हेतोस्? तथा ह्यस्य स्वभाव ना<स्ति । > (अद्स्प्गिइ ५) (वि ७-१२) पुनरपरं सुभूते बोधिसत्त्वो महासत्त्वोऽनुपूर्वक्रियां शिक्षतेऽनुपूर्वशिक्षायामनुपूर्वप्रस्थाने< । स प्रथमचित्तोत्पादमुपादाय सर्वाकारज्ञताप्रतिसंयुक्तैर्मनसिकारैरभावस्वभावान् सर्वधर्मानधि>मुच्यते । स बुद्धानुस्मृतिं भावयति । धर्मानुस्मृतिं भावयति संघानुस्मृतिं । शीलानुस्मृतिं त्या<गानुस्मृतिं देवतानुस्मृतिं भावयति ।> (वि ७) <कथञ्च सुभूते बोधिसत्त्वो महासत्त्वः बुद्धानुस्मृतिं भावयति? इह सुभू>ते बोधिसत्त्वो महासत्त्वः तथागतमर्हन्तं सम्यक्संबुद्धं न रूपतो मनसिकरोति । न वेदनातो ॥। <तत्कस्य हेतोः? तथा हि रूपस्य स्वभावो नास्ति, य>स्य स्वभावो नास्ति सोऽभावः, वेदनायाः संज्ञायाः संस्काराणां विज्ञानस्य स्वभावो नास्ति यस्य स्वभावो ना<स्ति सोऽभावः । तत्कस्य हेतोः? अस्मृत्यमनसिकारो हि बुद्धानुस्मृतिः । पुनरपरं सुभूते> तथागतोऽर्हन् सम्यक्संबुद्धो न द्वातृंशता महापुरुषलक्सणैर्मनसिकर्तव्य न: सुवर्ण<वर्ण? >कायतो मन<सिकर्त्व्य ॥। तत्कस्य> हेतोस्? तथा हि कायस्य प्रभाया अनुव्यञ्जनानां च स्वभावो नास्ति यस्य स्वभावो नास्ति सः अभावः । तत्कस्य हेतोः? <अस्मृत्यमनसिकारो हि बुद्धानुस्मृतिः । पुनरपरं सुभूते तथागतोऽर्हन् सम्यक्सं>बुद्धो न शीलस्कन्धतो मनसिकर्त्व्यो न समाधिस्कन्धतो न प्रज्ञास्कन्धतो न विमुक्तिस्कन्धतो न विमुक्तिज्ञानदर्शनस्कन्धतो <मनसिकर्त्व्यः । तत्कस्य हेतोः? तथा हि शीलस्कन्धस्य समाधिस्कन्धस्य प्रज्ञास्कन्धस्य विमुक्तिस्कन्धस्य विमुक्तिज्ञानदर्शन>स्कन्धस्य स्वभावो नास्ति यस्य स्वभावो नास्ति सः अभावः । तत्कस्य हेतोः? अस्मृत्यमनसिकारो हि बुद्धानुस्मृतिः । पु<नरपरं सुभूते तथागतोऽर्हन् सम्यक्संबुद्धो न दशभिस्तथागतबलैर्मन>सिकर्तव्यः । न चतुर्भ्यो वैशारद्येभ्यो न चतसृभ्य प्रतिसंविद्यो न महामैत्र्या न महाकरु<णया न अष्टादशभिरावेणिकैर्बुद्धधर्मैर्मनसिकर्त्व्यः । तत्कस्य हेतोः? तथा हि तेषां स्वभावो ना>स्ति [f । २६७ ] यस्य स्वभवो नास्ति स अभावः । तत्कस्य <हेतोः? अस्मृत्यम>नसिकारो हि बुद्धा<नुस्मृतिः । पुनरपरं सुभूते तथागतोऽर्हन् सम्यक्संबुद्धो न प्रतीत्यसमुत्पादाद्मनसिकर्तव्यो । तत्कस्य हेतोः? तथा ह्यस्य स्वभा>वो नास्ति यस्य स्वभावो नास्ति । सः अभावः । तत्कस्य हेतोः? अस्मृत्यमनसिकारो हि <बुद्धानुस्मृतिः ।> (अद्स्प्गिइ ६) <एवं खलु सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता बुद्धानुस्मृतिर्मनसिकर्त्व्या । एवं खल्व>स्य अनुपूर्वक्रिया प्रज्ञायतेऽनुपूर्वशिक्षा अनुपूर्वप्रस्थानं, स इह अनुपूर्वक्रियया<मनुपूर्वशिक्षायामनुपूर्वप्रस्थाने शिक्षमाण अनुपूर्वप्रस्थानैश्चत्वारी स्मृत्युपस्थानानि परिपूरयति> ॥। प्रहाणानि चतुरर्द्धिपादान् पञ्चेन्द्रियाणि पञ्चबलानि सप्तबोध्यङ्गान्यार्याष्टांगं मार्गम् ॥। <सर्वाकारज्ञतार्ण्परि>पृष्ठऊरयत्यभावस्वभावयोगेन । स अभावत एव सर्वधर्मानभिसंबुध्यते । यत्र स्व<भावसंज्ञाऽपि नास्ति ।> (वि ८) <कथञ्च सुभूते बोधिसत्त्वेन महावत्त्वेन धर्मानुस्मृतिर्भावयितव्या? इह> सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता न कुशलधर्मा मनसिकर्त<व्या न अकुशला धर्मा मनसिकर्तव्या न व्याकृता न अव्याकृता न लौकिका न लोकोत्तरा न सामिषा न निरामिषा न आर्या न अना>र्या न सास्रवा ना अनास्रवा न कामधातुपर्यापन्ना न रूपधातुपर्यापन्ना न आरूप्यधातु<पर्यापन्ना ॥। तथा हि तेषां धर्माणां स्वभावो नास्ति> यस्य स्वभावो नास्ति । सः अभावः । अभाव स्मृत्यमनसिकारो हि धर्मानुस्मृति । इह <अ? >धर्म ॥। <अ>भिसंबुध्यते । यत्र स्वभावसंज्ञास्य भावसंज्ञापि नास्ति । एवं खलु सुभूते बोधिसत्त्वेन <महासत्त्वेन प्रज्ञापारमितायां चरता धर्मानुस्मृतिर्भावयितव्या ।> (वि ९) <कथञ्च सुभू>ते बोधिसत्त्वेन महासत्त्वेन संघानुस्मृतिर्भावयितव्या? इह सुभूते बोधिसत्त्वेन महासत्त्वेन ॥। विमुक्तिविमुक्तिज्ञानदर्शनसंपन्नाश्चत्वारि पुरुषयुगानि अष्टौ पुरुषपुद्गलास्त<त्कस्य हेतोः?> ॥। एवमन(? ) पि कर्तव्यः । तत्कस्य हेतोः? तथा हि तस्य स्वभावो नास्ति सः अभावः । अस्मृत्यमन<सिकारो हि संघानुस्मृतिः ।> ॥। ष्राप्नोत्य्[?] अस्मृत्यमनसिकारेण । एवं खलु सुभूते बोधिसत्त्वेन महासत्त्वेन संघानुस्मृत्<इर्भावयितव्या ।> (वि १०) <कथञ्च सुभूते बोधिसत्त्वेन महासत्त्वेन शीला>नुस्मृतिर्भावयितव्या? इह सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता प्रथमचित्तो<त्पादमुपादाय ॥। स>माधिसंवर्तनीयै [f । २६७ ] शीलैः समन्वागतेन तानि शीलान्यभावस्वभावतो मनसिकर्तव्यानि यत्राञ्चापि <स्मृतिकर्म नास्ति कः पुनर्> (अद्स्प्गिइ ७) <स्मृतिविगमः । तत्कस्य हेतोस्? ॥। यत्र स्वभाव>संज्ञापि नास्ति । (वि ११) कथं च सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायानि चरता त्यागानुस्मृतिर्भा<वयितव्या? ॥। सामि>ष त्यागो यदि वा धर्मत्यागः यत्र परित्यज्<य्>अता चित्तमेव नोत्पादयितव्यं । ददामि वा न ददामि वा । परित्यजा<मि वा न परित्यजामि वा ॥। तत्कस्य हेतोः? तथा> हि तेषां स्वभावो नास्ति, स एवं त्यागानुस्मृत्यां चरंच्छिक्षमाणोऽनुपूर्वेण यावत्सर्वाकारज्ञता<मनुप्रापयति ।> (वि १२) कथञ्च सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता देवतानुस्मृतिर्भावयितव्या? ॥। चातुर्महाराजकायिकेषु देवेषु उपपन्ना यावत्परनिर्मितवशवर्तिषु देवेषु उपपन्नास्ते अभाव<स्वभावतो मनसिकर्तव्याः ।> ॥। गेन ता देवता । मनसिकर्तव्याः । यत्राञ्चापि स्मृतिकर्म नास्ति, स एवं मनसिकुर्वन्ननु<पूर्वेण यावत्सर्वाकारज्ञतां मनसिकरोति ।> ॥। [वा आरूप्य व च म द?] अनागामिनस्ते अभावतो मनसिकर्तव्याः । तत्कस्य हेतोः? तथा हि ते<षां स्वभावो नास्ति । येषां स्वभावो नास्ति तेऽभावा । ॥। यत्राञ्चा>पृष्ठै स्मृतिकर्म नास्ति, स एवं मनसिकुर्वन्ननुपूर्वेण यावत्सर्वाक्रारज्ञतां मनसिकरोति । ॥। पुनर्मनसिकुर्वतोऽअनुपूर्वक्रिया प्रज्ञायते अनुपूर्वशिक्षा अनुपूर्वप्रस्थानं प्रज्ञायते । ॥। (वि १३) <पुनरपरं सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता अनुपूर्वक्रिया अ>नुपूर्वशिक्षा अनुपूर्वप्रस्थानमभावस्वभावयोगेन आध्यात्मशून्यतायां शिक्षितव्यं । ॥। <महाकरु>णायां शिक्षितव्यं । स च बोधिमार्गे शिक्षमाण अभावस्वभावां धर्मानभिसंभो<त्स्यते । ॥। एवं खलु सुभूते बोधिसत्त्व>स्य महासत्त्वस्य प्रज्ञापारमितायां चरतोऽनुपूर्वक्रिया प्रज्ञायतेऽनुपूर्वशिक्षा<नुपूर्वप्रस्थानं प्रज्ञायते ॥। ? ॥।> (अद्स्प्गिइ ८) <सुभूतिराह: यदि भगवन्नभावस्वभा> वा सर्वधर्मा तन्नास्ति रूपं नास्ति यावद्विज्ञानं नास्ति स्कन्धा नास्ति धातवो ना<स्ति> ॥। नास्ति संक्लेशो नास्ति व्यवदानं नास्ति प्राप्तिर्नाप्यभिसमयो नास्ति यावत्स<र्वधर्मा इति । भगवानाह: अपि नु सुभूते अभावस्वभावेषु धर्मेष्वस्तिता वा नास्तिता वोपलभ्यते? सुभूतिराह: नो ही>दं भगवं न अभावस्वभावेषु सर्वधर्मेष्वस्तिता वा नास्तिता वोपलभ्यते । भगवानाह: तत्कथं सुभूते इदं सुभूते [f । २६८ ] एवं भवति, यद्यभावस्वभावाः सर्वधर्माः तन्नास्ति रूपं नास्ति यावद्विज्ञानं नास्ति यावत्प्राप्तिर्नाप्यभि<समयो> नास्ति यावत्सर्वधर्मा इति? आह: न अहं भगवन्नत्र धर्मेषु काङ्क्षामि न विचिकित्सामि । अपि तु खलु पुन<र्भगवं> भविष्यन्त्यनागातेऽध्वनि भिक्षवः श्रावकयानिकाः वा । प्रत्येकबुद्धयानिका वा बोधिसत्त्वयानिका वा । एवं वक्ष्यन्ति । यद्यभावस्वभावा । सर्वधर्माः तदभावस्वभावेषु सर्वधर्मेषु कोऽत्र संक्लिश्यते वा व्यवदायते वा, ते संक्लेशव्यवदानमजानाना शीलविपन्नाश्च भविश्यन्ति । दृष्टिविपन्नाश्च भविष्यन्त्याचारविपन्नाश्च भविष्यन्ति । तेषां शीलविपन्नाना<ं> दृष्टिविपन्नानामाचारविपन्नानां तिसृणां गतीनामन्यतरान्यतरा गति<ः> प्रतिकाङ्क्षितव्या नरका वा तिर्यग्योनिर्वा यमलोका वा, इदमप्यहं भगवन्ननागतभयं संपश्यंस्तथागतमर्हन्तं सम्यक्संबुद्धमेतमर्थं परिपृच्छामि । अपि तु खलु भगवन्नह<ं> अत्र धर्मेषु <न> काङ्क्षमि न विचिकित्सामि । भगवनाह: साधु साधु सुभूते एवमेतद्यथा वदसि । ((७०)) परिवर्त ७ । अथायुष्मान् सुभूतिर्भगवन्तमेतदवोचत्: यदि भगवन्नभावस्वभावा सर्वधर्माः, कमर्थवशं संपश्यन् बोधिसत्त्वो महासत्त्व सत्त्वानामर्थाय अनुत्तरस्यै सम्यक्संबोधये संप्रतिष्ठते? भगवानाह: यथैव सुभूते अभावस्वभावाः सर्वधर्मास्(अद्स्प्गिइ ९) तथैव बोधिसत्त्वो महासत्त्वोऽनुत्तरस्यै सम्यक्संबोधये संप्रतिष्ठते । तत्कस्य हेतोः? क्षुद्रक सुभूते उपलंभः, न उपलंभसंज्ञिनः प्राप्तिर्न अभिसमयो <न अ>नुत्तरां सम्यक्संबोधिः । आह: किं पुनर्भगवन्ननुपलंभस्य प्राप्तिर्वा अभिसमयो वा अनुत्तरा <वा> सम्यक्संबोधिः? भगवानाह: अनुपलंभ एव सुभूते प्राप्तिरनुपलंभोऽभिसमयः अनुपलंभ एव अनुत्तरा सम्यक्संबोधि<ः> धर्मधात्वविकोपितत्वामुपादाय । धर्मधातुं स इच्छेद्विकोपयितुं योऽनुपलंभस्य प्राप्तिं वा अभिसमयो वा अनुत्तरां वा सम्यक्संबोधिमिच्छेत् । आह: यदि भगवन्ननुपलंभस्य न प्राप्तिर्न अभिसमयो न अनुत्तरा सम्यक्संबोधिः, अनुपलंभ एव प्राप्तिरनुपलंभ एव अभिसमयोऽनुपलंभ एव अनुत्तरा सम्यक्संबोधिः, तत्कुतः पुनर्भगवं बोधिसत्त्वस्य महासत्त्वस्य प्रथमा भूमि<ः>, कुतो दिवितीया कुतस्त्रितीया कुतो यावद्दशमी भूमि कुतोऽनुत्पत्तिकधर्मक्षान्ति । कुतो विपाकीया अभिज्ञा कुतो विपाकीयं दानं कुतो विपाकीयं शीलं कुतो विपाकीया क्षान्ति कुतो विपाकीयं वीर्यं कुतो विपाकीयं ध्यानं कुतो विपाकीया प्रज्ञा, यत्र स्थित्वा विपाकीयेषु धर्मेषु सत्त्वान् परिपाचयति । बुद्धक्षेत्रं च परिशोधयति । बुद्धांश्च भगव<त> उपतिष्ठति अन्नेन पानेन वस्त्रैर्गन्धैर्माल्यै शयनेनासनेन उपाश्रयेण प्राजीविकेण यावदन्यतराभिर्मानुषिकीभिः संपत्तिभिः ताश्च अस्य नाच्छेद्यन्ते । यावत्परिनिर्वृतस्य शरीरेषु श्रावकेषु च विपाक कृत्वा न क्षीयते । भगवानाह: यत एव सुभूते अनुपलंभस्तत एव प्रथमा भूमिर्याव<द्> दशमी भूमिः तत एव विपाकीयाः पञ्च अभिज्ञाः तत एव विपाकीयन् दानं शीलं क्षान्ति वीर्यं ध्यानं प्रज्ञा तत एव (अद्स्प्गिइ १०) विपाकीयानि कुशलमूलानि यैः कुशलमूलै । सत्त्वानामर्थं करोति । यावत्परिनिर्वृतस्य अपि पूजा: प्रवर्तन्ते । आह: अनुपलंभस्य च भगवन् दानस्य च शीलस्य च क्षन्त्याश्<च वीर्यस्य> च समाधेश्च प्रज्ञायाश्च अभिज्ञानां च को विशेषः किं नानाकरणं? भगवानाह: अनुपलंभस्य च सुभूते दानस्य च शीलस्य च क्षन्तेश्[f । २६८ ] च वीर्यस्य च समाधेश्च प्रज्ञायाश्च अभिज्ञानां च न किंचिन्नानाकरणं । यत्पुनः सुभूते अनुपलिप्तं दानं शीलं क्षान्ति वीर्यं ध्यानं प्रज्ञाभिज्ञा च, तेषां नानाकरणं निर्दिष्टं । आह: कथं पुनर्भगवन्ननुपलिप्तस्य दानस्य यावदभिज्ञानां नानाकरणं निर्दिश्यते? भगवानाह: इह सुभूते बोधिसत्त्वो महासत्त्व प्रज्ञापारमितायां चरन्ननुपलभ्य दानमनुपलभ्य त्यागमनुपलभ्य दायकमनुपलभ्य प्रतिग्राहकं दानं ददाति अनुपलभ्य शीलं शीलं रक्षति । अनुपलभ्य क्षान्तिं क्षान्तौ चरति । अनुपलभ्य वीर्यं वीर्ये चरति । अनुपलभ्य समाधिं समाधौ चरति । अनुपलभ्य प्रज्ञां प्रज्ञायां चरति । अनुपलभ्य अभिज्ञा अभिज्ञाषु चरति अनुपलभ्य स्मृत्युपस्थानानि स्मृत्युपस्थानेषु चरति । यावदनुपलभ्य मार्गं मार्गे चरति । यावदनुपलभ्य शून्यतां शून्यतायां चरति । अनुपलभ्य आनिमित्तनानिमित्ते चरति । अनुपलभ्य अप्रणिहितमप्रणिहिते चरति । अनुपलभ्य सत्त्वान् सत्त्वान् परिपाचयति । अनुपलभ्य बुद्धक्षेत्रं बुद्धक्षेत्रं परिशोधयति । अनुपलभ्य बुद्धधर्मान् बोधिमभिसंबुध्यते । एवं हि सुभूते बोधिसत्त्वो महासत्त्वोऽनुपलंभप्रज्ञापारमितायां चरति । एवं खलु सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चर<ति> । एवं खलु सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् दुराधर्षो भवति मारेण पापीयसा मारकायिकाभिर्वा देवताभि<ः> । (अद्स्प्गिइ ११) विइ । अभिसमय (विइ अ) एवमुक्ते आयुष्मान् सुभूतिर्भगवन्तमेतदवोचत्: कथं भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्नेकचित्तेन षट्पारमिताः परिगृह्णाति । चत्वारि ध्यानानि चत्वार्यप्रमाणानि चतस्रः आरूप्यसमापत्तीश्चत्वारि स्मृत्युपस्थानानि चत्वारि सम्यक्प्रहाणानि चतुरर्द्धिपादान् पञ्चेन्द्रियाणि पञ्चबलानि सप्तबोध्यङ्गान्यार्याष्टाङ्गं मार्गं त्रीणि विमोक्षमुखानि चत्वार्यार्यसत्यानि अष्टौ विमोक्षा नवानुपूर्वसमापत्ती पञ्चाभिज्ञा अध्यात्मशून्यतां । यावदभावस्वभावशून्यतां दशतथागतबलानि चत्वारि वैशारद्यानि । चतस्र प्रतिसंविदो महामैत्रि<ं> महाकरुणामष्टादशावेणिका<न्> बुद्धधर्मान् द्वातृंशन्महापुरुषलक्षणान्यशीतिमनुव्यञ्जनानि परिगृह्णाति? भगवानाह: इह सुभूते बोधिसत्त्वो महासत्त्व<ः> यद्दानं ददाति तन्नान्यत्र प्रज्ञापारमितया परिगृहीतः । यच्छीलं रक्षति त<न्> नान्यत्र प्रज्ञापारमितया परिगृहीतः । य ॥। क्षान्ति<ं> भावयति त<न्> नान्यत्र प्रज्ञापारमितया परिगृहीतः । यद्वीर्यमारभते तन्नान्यत्र प्रज्ञापारमितया परिगृहीतः यन् समाधिं समापद्यते तन्नान्यत्र प्रज्ञापारमितया परिह्गृहीतः । यत्प्रज्ञां भावयति तन्नान्यत्र प्रज्ञापारमितया परिगृहीतः । यद्ध्यानानि समापद्यते तन्नान्यत्र प्रज्ञापारमितया परिगृहीतः । यदप्रमाणानि समापद्यते तन्नान्यत्र प्रज्ञापारमितया परिगृहीतः । यावदारू<प्य>समापत्ती<न्> समापद्यते तन्नान्यत्र प्रज्ञापारमितया परिगृहीतः । य<त्> स्मृत्युपस्थानानि समापद्यते तन्नान्यत्र प्रज्ञापारमितया परिगृहीतः । यावद्यदार्याष्टाङ्गं मार्गं भावयति तन्नान्यत्र प्रज्ञापारमितया परिगृहीतः । यद्विमोक्षमुखानि भावयति । तन्नान्यत्र प्रज्ञापारमितया परिगृहीतः । यच्चत्वार्यार्यसत्यानि भावयति तन्नान्यत्र प्रज्ञापारमितया परिगृहीतः । यदष्टौ विमोक्षान्न<वानुपूर्वस>मापत्तीन् भावयति तन्नान्यत्र प्रज्ञापारमितया परिगृहीतः । यत्(अद्स्प्गिइ १२) पञ्चाभिज्ञा भावयति [f । २६९ ] तन्नान्यत्र प्रज्ञापारमितया परिगृहीतः । यदध्यात्मशून्यतां यावदभावस्वभावशून्यतां भावयति तन्नान्यत्र प्रज्ञापारमितया परिगृहीतः । यद्दशतथागतबलानि भावयति तन्नान्यत्र प्रज्ञापारमितया परिगृहीतः । यावद्यदष्टादशावेणिका<न्> बुद्धधर्मान् भावयति । तन्नान्यत्र प्रज्ञापारमितया परिगृहीतः । य<ल्> लक्षणानि यदशीतिमनुव्यञ्जनानि अभिनिर्हारति तन्नान्यत्र प्रज्ञापारमितया परिगृहीतः । एवं हि सुभूते बोधिसत्त्वो महासत्त्व प्रज्ञापारमितायां चरन्नेकचित्तोत्पादेन षट्पारमिता<न्> परिगृह्णाति । यावदशीत्यनुव्यञ्जनानि परिगृह्णाति । आह: कथं भगवन् प्रज्ञापारमितया परिगृहीतो बोधिसत्त्वो महासत्त्वो एकचित्तोत्पादेन षट्पारमिता परिगृह्णाति । यावदशीतिमनुव्यञ्जनानि परिगृह्णाति? भगवानाह: इह सुभूते बोधिसत्त्वो महासत्त्व प्रज्ञापारमितायां चरन् यद्दानं ददाति तत्प्रज्ञापारमितया परिगृहीतः तत्र न द्वयसंज्ञी भवति । यच्छीलं रक्षति तत्र न द्वयसंज्ञी भवति । यत्क्षान्तिं भावयति तत्र न द्वयसंज्ञी भवति । यद्वीर्यमारभते तत्र न द्वयसंज्ञी भवति । यद्समाधिं भावयति तत्र न द्वयसंज्ञी भवति । यत्प्रज्ञां भावयति तत्र न द्वयसंज्ञी भवति । यावद्यदशीतिमनुव्यञ्जनान्यभिनिर्हारते । तत्र न द्वयसंज्ञी भवति । आह: कथं भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् दानं ददाति । तत्र च न द्वयसंज्ञी भवति । यावदशीतिमनुव्यञ्जनान्यभिनिर्हारति । तत्र च न द्वयसंज्ञी भवति? भगवानाह: इह सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायाञ्चरन् दानपारमितां परिपूरयति । स तत्र दानपारमितायां सर्वाः षट्पारमिता अन्तर्गता कृत्वा दानन् ददाति । एवं सर्वबोधिपक्ष्यान् धर्मान् परिपूरयति यावत्स तत्र मार्गे सर्वाः षट्पारमिता अन्तर्गता कृत्वा मार्गं भावयति । तत्पुनः कथमिति? यस्मिन् समये बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् दानन् ददाति । सोऽनास्रवे चित्ते स्थित्वा दानं ददाति । स तत्र अनास्रवे चित्ते स्थितो निमित्तं न समनुपश्यति । को ददाति कस्मै वा ददाति । केन वा ददाति को वा ददामि । स निमित्तापगतेन चित्तेन दानं ददात्यनास्रवेण विगततृष्णेन विगताविद्येन, स त<च्> चित्तं न समनुपश्यति । त<द्> दानं न समनुपश्यति । यावत्सर्वबुद्धधर्मे<षु> कर्तव्यं । पुनरपरं सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चर<न्> निमित्तापगतेन चित्तेन शीलं रक्षति । तच्च शीलं न समनुपश्यति । यावत्सर्वबुद्धधर्मेषु कर्तव्यं । एवं निमित्तापगतेन (अद्स्प्गिइ १३) चित्तेन क्षान्तिं भावयति । तां च क्षान्तिं न समनुपश्यति । यावत्सर्वबुद्धधर्मेषु कर्तव्यं । निमित्तापगतेन चित्तेन वीर्यमारभते । तच्च वीर्यं न समनुपश्यति । यवात्सर्वबुद्धधर्मेषु कर्तव्यं । निमित्तापगतेन चित्तेन समाधिं समापद्यते । तं च समाधिं न समनुपश्यति । यावत्सर्वबुद्धधर्मेषु कर्तव्यं । निमित्तापगतेन चित्तेन प्रज्ञां भावयति तां च प्रज्ञा<ं> न समनुपश्यति । यावत्सर्वबुद्धधर्मेषु कर्तव्यं । निमित्तापगतेन चित्तेन चत्वारि स्मृत्युपस्थानानि भावयति यावदशीत्यनुव्यञ्जनेषु कर्तव्यं । आह: कथं भगवन्न् <अनि>मित्तेष्वनभिसंस्कारेषु सर्वधर्मेषु दानपारमितापरिपूरिर्भवति । शीलपारमिताक्षान्तिपारमितावीर्यपारमिताध्यानपारमिताप्रज्ञापारमितापरिपूरिर्भवति? चतुर्णां स्मृत्युपस्थानानां चतुर्णां सम्यक्प्रहणानां चतुर्णांसृद्धिपादानां पञ्चानामिन्द्रियाणां पञ्चानां बलानां सप्ताना<ं> बोध्यङ्गानामार्याष्टांगस्य मार्गस्य परिपूरिर्भवति । शून्यताया आनिमित्तस्य [f । २६९ ] अप्रणिहितस्य समाधे । परिपूरिर्भवति । दशतथागतबलानां चतुर्णां वैशारद्यानां चतसृणां प्रतिसंविदानां महामैत्र्या महाकरुणाया अष्टादशानामावेणिकानां बुद्धधर्माणां परिपूरिर्भवति? भगवानाह: इह सुभूते बोधिसत्त्वो महासत्त्वो निमित्तापगतेन चित्तेन दानं ददात्यन्नमन्नार्थिकेभ्यः पानं पानार्थिकेभ्यो यानं यानार्थिकेभ्य याव<द्> अन्यतरान्यतरान्मानुष्यकान् परिष्कारान्नाध्यात्मिकं वा अङ्गप्रत्यङ्गानि बाह्यं वा भार्यपुत्रदुहित्रीराय्जं वालंकृत्यालंकृत ददाति । याचनकेभ्यस्, तस्य कश्चिदेवागम्य्<अ> एवं वदेत्किमनेनेदृशेन दानेन दत्तेनैवं निरुपकारेण, तस्य खलु पुनर्बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतः एवं भवति । किं चापि मे सत्त्वा एवं परिभाषन्ते । अनेनेदृशेन दानेनैवमस्थिरेण दत्तेन इति । अथ च पुनर्दातव्यमेव मया दानं, न मया दानं <न? >दातव्यं । स तद्दानं सर्वसत्त्वै साधारणं कृत्वा अनुत्तरस्यै सम्यक्संबोधौ परिणामयति । स तथा परिणामयति यथा परिणामयन्निमित्तं न समनुपश्यति । किं वा दानमेकस्मै वा ददामि, केन वा ददामि को वा ददाति । (अद्स्प्गिइ १४) किं वा परिणामयामि । क्व वा परिणामयामि । केन वा परिणामयामि । को वा परिणामयति । स तद्वस्तुन्न समनुपश्यति । यद्वा दद्याद्यत्र वा दत्त्वा अनुत्तरस्यां सम्यक्संबोधौ परिणामये<त्> । तत्कस्य हेतोः? सर्वं वस्त्वध्यात्मशून्यतया शून्यं बहिर्द्धाशून्यतया शून्यमध्यात्मबहिर्द्धाशून्यतया शून्यं शून्यताशून्यतया शून्यं महाशून्यतया शून्यं संस्कृतशून्यतया शून्यमसंस्कृतशून्यतया शून्यमत्यन्तशून्यतया शून्यमनवराग्रशून्यतया शून्यं । अवकारशून्यतया शून्यं प्रकृतिशून्यतया शून्यं सर्वधर्मशून्यतया शून्यं । स्वलक्षणशून्यतया शून्यं । स एवं संपश्य<ति> क्व वा परिणामयिष्यति । किं वा परिणामयिष्यति । केन वा परिणामयिष्यति, तेनैवं परिणामयता परिणामितं भवति । स सत्त्वांस्च परिपाचयति । बुद्धक्षेत्रं च परिगृह्णाति । दानपारमितां च परिपूरयति । शीलपारमितां क्षान्तिपारमितां वीर्यपारमितां ध्यानपारमितां प्रज्ञापारमितां यावत्सप्ततृंशतो बोधिपक्ष्यान् धर्मान् शून्यतामानिमित्तमप्रणिहितं समाधिं यावदष्टादशावेणिकान् बुद्धधर्मान् परिपूरयति । स आददेव दानपारमितां परिपूरयति । विपाकं च न परिगृह्णाति । तद्यथापि नाम परनिर्मितवशवर्त्तिनां देवानां मनस एव सर्वोपकरणसंपदः प्रादुर्भवन्त्य्, एवमेव तस्य बोधिसत्त्वस्य महासत्त्वस्य मनस एव सर्वोपकरणसंपदः प्रादुर्भवन्ति । स तेन दानेन बुद्धांश्च भगवत उपतिष्ठति । स देवमानुष्य असुरं च लोकं संतर्पयति । स तान् सत्त्वांश्तया दानपारमितया परिगृह्य उपायकौशलेन च त्रिषु यानेषु प्रतिष्ठापयति । एवं खलु सुभूते बोधिसत्त्वो महासत्त्व प्रज्ञापारमितायां चरन्निमित्तापगतेन चित्तेन दानपारमितां परिपूरयति । कथं च सुभूते बोधिसत्त्वो महासत्त्वो यावच्छीलपारमितां परिपूरयति? इह सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरंच्छीलपारमितां परिपूरयति । स आर्यमनास्रवं मार्गपर्यापन्नं धर्मताप्रातिलंभिकं शीलं प्रतिलभते । तत्पुनरस्य शीलमखण्डं भवत्यच्छिद्रमकल्माषमपरामृष्टं भुजिष्यं सुसमाहितं विज्ञप्रशस्तं, तेन च शीलेन न कंचिद्धर्मं परामृशति । रूपं वा वेदनां वा संज्ञां वा संस्कारान् वा विज्ञानं वा (अद्स्प्गिइ १५) द्वातृंशतां वा महापुरुषलक्सणानि क्षत्रियमहासालकुलानि वा ब्राह्मणमहासालकुलानि वा [f । २७० ] गृहपतिमहासालकुलानि चातुर्महाराजिकां वा देवास्त्रयस्त्रिंशत्कायिकान् वा यामान् वा तुषितां वा निर्मणरतीं वा परनिर्मितवशवर्त्तिनो वा ब्रह्मकायिकां वा ब्रह्मपुरोहितां वा ब्रह्मपारिषद्यां वा परीत्तां वा अप्रमाणां वा आभास्वरां वा परिशुभान् वा अप्रमाणशुभान् वा शुभकृत्स्णान् वा बृहत्फलान् वा असंज्ञिकान् वा अस्पृहान् वा अतपान् वा सुदृशान् वा सुदर्शनान् वा अघनिष्ठान् वा आकाशानंत्यायतनं वा । विज्ञानंत्यायतनं वा आकिंच<न्यान>न्त्यायतनं वा । नैवसंज्ञानासंज्ञायतनं वा । स्रोतआपत्तिफलं वा । सकृदागामिफलं वा अनागामिफलं वा अर्हत्त्वं वा । प्रत्येकबुद्धं वा चक्रवर्तीराज्याधिपत्यं वा कारयेयमित्य्, अन्यत्र सर्वसत्त्वैः सार्धं साधारणानि कृत्वा सर्वाकारज्ञातायां परिणामयत्य्, आनिमित्तानुपलंभाद्वयपरिणामेन, लोकव्यवहारेण न पुनः परमार्थेन । तया च शीलपारमितया परिपूरितया उपायकौशलेन च चत्वारि ध्यानान्युत्पादयत्यनास्वादययोगेन । दिव्यं च चक्षुरभिनिर्हारति । येन दिव्येन चक्षुषा वैनयिकेन <ये> पूर्वस्यान् दिशि बुद्धा भगवन्तस्तिष्ठन्ति धृयन्ते यापयन्ति धर्मं च देशयन्ति तांश्च पश्यति । तस्यास्य दर्शनं न नश्यति । यावदनुत्तरां सम्यक्संबोधिमभिसंबुद्धः । एवं दक्षिणस्यां दिशि पश्चिमायामुत्तरस्यां यावद्ये समन्ताद्दशसु दिक्षु बुद्धा भगवन्तस्तिष्ठन्ति धृयन्ते यापयन्ति धर्मं च देशयन्ति तांश्च पश्यति । तच्चास्य दर्शनं न नश्यति । यावदनुत्तरां सम्यक्संबोधिमभिसंबुद्धः । स दिव्येन श्रोत्रधातुना विशुद्धेन अतिक्रान्त मानुषेण तेषां बुद्धानां भगवतां भाषमणानां शब्दं शृणोति । तच्च श्रुतं तावन्न नश्यति । यावन्न तेन श्रुतेन आत्मनः च परस्य च अर्थः कृतो भवति । चेतःपर्यायज्ञानेन च तेषां बुद्धानां भगवतां चेतसैव चित्तं प्रजानाति । तेन च चेतःपर्यायज्ञानेन सर्वसत्त्वानामर्थं करोति, पूर्वेनिवासानुस्मृतिज्ञानेन च तेषां सत्त्वानामतीतानि कुशलमूलान्याज्ञाय तै कुशलमूलैस्तां सत्त्वा<ं> संदर्शयति समादापयति समुत्तेजयति संप्रहर्षयति, ते तथा समादापिताया च त्<अथा> संप्रहर्षिता<या> विशेषगामिनो भवन्त्य्, आस्रवक्षयज्ञानेन च सत्त्वान् स्रोतआपत्तिफले प्रतिष्ठापयति यावदर्हत्त्वे प्रतिष्ठापयति । प्रत्येकबोधौ प्रतिष्ठापयति । (अद्स्प्गिइ १६) <अनुत्तरायां सम्यक्सं>बोधौ प्रतिष्ठापयति । एवं यावद्यत्र यत्र सत्त्वाः प्रतिबला<ः> भवन्ति कुशलेषु धर्मेषु तत्र तत्र प्रतिष्ठापयति । एवं खलु सुभूते बोधिसत्त्वो महासत्त्वो निमित्तापगतेन चित्तेन शीलपारमितां परिपूरयति । कथं च सुभूते आनिमित्तेष्वनाभोगेष्वनुपलंभेष्वनभिसंस्कारेषु धर्मेषु क्षान्तिपारमितां परिपूरयति? इह <सुभूते बोधिसत्त्वस्य महासत्त्व्>अस्य प्रथमचित्तोत्पादमुपादाय यावद्बोधिमण्डनिषण्णस्य सचेत्सर्वसत्त्वा आगम्य आगम्य लोष्टदण्डशस्त्रप्रहारान् दद्युस्तत्र बोधिसत्त्वेन महासत्त्वेन एकचित्तोत्पादस्य अपि क्षोभसहगतस्य अवकाशो न दातव्यः । तत्र बोधिसत्त्वेन महासत्त्वेन द्वे क्षान्ती भावयितव्ये । कतमे <द्वे? >यच्च सर्वसत्त्वानां मया क्षान्तव्यमाक्रोशपरिभाषलोष्टदण्डशस्त्रप्रहारमिति । या च अनुत्पत्तिकेषु धर्मेषु क्षान्तिरुत्पादयितव्या । तत्र बोधिसत्त्वेन महासत्त्वेन आक्रुश्यमानेन वा परिभाष्यमाणेन <वा> लोष्टदण्डशस्त्रप्रहारेषु दीयमानेष्वेवं प्रत्यवेक्षितव्यं । को मे आक्रोर्शति वा परिभाष्यते वा लोष्टदण्डशस्त्रप्रहारान् वा ददाति । कस्य वा ददाति । तेन धर्माणां स्वभावः प्रत्यवेक्षितव्यः, सर्वधर्माणां स्वभावं प्रत्यवेक्षमाणो धर्मानेव नोपलप्स्यते कुतः पुनर्धर्मः । [f । २७ ब्] स्वभावं, तस्य धर्मस्वभावं प्रत्यवेक्षमाणस्य एवं भवति । <को मे छिन्नत्ति> वा भिन्नत्ति वा । स एवं प्रत्यवेक्षमाणो धर्मस्वभावमनुत्पत्तिकेषु धर्मेषु क्षान्ति<ं> प्रतिलप्स्यते । तत्र अनुत्पत्तिकेषु धर्मेषु क्षान्ति । किमिति: क्लेशानुत्पत्तिकता च ज्ञानानाच्छेद्यता च । सोऽनयो द्वयो क्षान्त्यौ स्थित्वा <चत्वारि> ध्यानानि परिपूरयिष्यति । चत्वार्यप्रमाणानि चतस्र आरूप्यसमापत्तीश्चत्वारि स्मृत्युपस्थानानि यावदार्याष्टाङ्गं मार्गं त्रिनि विमोक्षमुखानि दशतथागतबलानि चत्वारि वैशारद्यानि चतस्रः प्रतिसंविदो महामैत्री महाकरुणामष्टादशावेणिकां बुद्धधर्मान् । स एषु धर्मेषु स्थित्वा आर्येष्वनास्रवेषु लोकोत्तरेष्वसाधारणेषु सर्वश्रावकप्रत्येकबुद्धैः सार्धं ततः आर्या अभिज्ञा परिपूरयिष्यति । याभिरभिज्ञाभिः परिपूर्णाभि<ः> षड्भिश्च पारमिताभिः <समुदागच्छति, अनास्>रवे<षु> च पञ्चस्वभिज्ञासु (अद्स्प्गिइ १७) स्थित्वा दिव्येन चक्षुषा पूर्वस्यां दिशि बुद्धा<न्> भगव<न्>तो द्रक्ष्यति । तांश्च बुद्धान् भगवतो दृष्ट्वा बुद्धानुस्मृतिं प्रतिलप्स्यते । तस्य सा बुद्धानुस्मृतिर्नोच्छेत्स्यते यावदनुत्तरां सम्यक्संबोधिमभिसंभोत्स्यते । एवं यावत्समन्ताद्दशसु दिक्षु, स दिव्येन श्रोत्रधातुना यन् तेषां बुद्धानां भगवतां भाषितं तत्सर्वमुद्ग्रहीष्यत्यु<द्>गृह्य तथत्वाय <सत्त्वा>नान् धर्मन् देशयिष्यति । स तेषां बुद्धानां भगवतां चेतसैव चित्तमाज्ञास्यति । स तेन चित्तपर्यायज्ञानेन सर्वसत्त्वानां चेतसैव चित्तमाज्ञायत तथत्वाय धर्मन् देशयिष्यति । पूर्वेनिवासानुस्मृतिज्ञानेन । तेषा<ं> सत्त्वानां कुशलमूलानाज्ञाय तां पौर्वकेण कुशलमूलेन संहर्षयिष्यति समादापयिष्यति आस्रवक्षयज्ञानेन च तां सत्त्वांस्त्रिषु यानेषु निवेषयिष्यति प्रतिष्ठापयिष्यति । स खलु पुनर्बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्नुपायकौशलेन सत्त्वान् परिपाच्य बुद्धक्षेत्रं परिशोध्य सर्वाकारज्ञतायां चरन् सर्वाकारज्ञतां परिपूर्य अनुत्तरां सम्यक्संबोधिमभिसंबुध्य धर्मचक्रं प्रवर्तयिष्यति । एवं खलु सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतः क्षान्तिपारमिता परिपूर्यते । कथं च सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्नानिमित्तेष्वनाभोगेष्वनुपलंभेष्वप्रादुर्भावेष्वनभिसंस्कारेषु धर्मेषु वीर्यपारमितां परिपूरयति? इह सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् कायिकेन एव वीर्येण समन्वागतो भवति । स प्रथमं ध्यानमुपसंपद्य विहरति । याव<च्> चतुर्थं ध्यानमुपसंपद्य विहरति । स चतुर्थं ध्यान<ं> समापन्नः अनेकविधमृद्धिविधिं प्रत्यनुभवति, यावत्सूर्यचन्द्रमसौ पाणिना परामृशत्या ब्रह्मलोकं कायेन वशवर्त्तयति । तेन कायिकेन वीर्येण समन्वागतो ये पूर्वस्यां दिशि बुद्धा भगवन्तो विहरन्त्यनेकशतसातसाहस्रेषु लोकधातुषु सर्द्ध्या गत्वा बुद्धान् भगवतः उपतिष्ठति । चीवरपिण्डपातशय्यासनग्लानप्रत्ययभैषय्ज्यपरिष्कारैः । तस्य ते चीवरपिण्डपातशय्यासनग्लानप्रत्ययभैषज्यपरिष्कारास्तावन्न क्षीयन्ते यावदनुत्तरां सम्यक्संबोधिमभिसंबुद्ध्यते । अभिसंबुद्धबोधेश्(अद्स्प्गिइ १८) च सदेवमानुषासुरो लोकः सुखी भवति । चीवरपिण्डपातशय्यनासनग्लानप्रल्ययभैषज्यपरिष्कारैः, परिनिर्वृतस्य च शर्<ईर्>एषु शरीरपूजाः प्रवर्तन्ते । तेनैव चर्<द्>ध्यभिसंस्कारेण गत्वा तेषां बुद्धानां भगवतामन्तिकाद्धर्मं शृणोति । सो च यथा श्रुतो न जातु विप्रनश्यति । यावदनुत्तरां सम्यक्संबोधिमभिसंबुद्ध्यते । सत्त्वांश्च परिपाचयति बुद्धक्षेत्रं च परिगृह्णाति सर्वाकारज्ञताया चरन् । एवं खलु सुभूते [f । २७१ ] बोधिसत्त्वो महासत्त्व कायिकेन वीर्येण समन्वागतो वीर्यपारमितां परिपूरयति । कथं च सुभूते बोधिसत्त्वो महासत्त्वः चैतसिकेन वीर्येण समन्वागतः आर्येण अनास्रवेण मार्गेण मार्गपर्यापन्नेन वीर्यपारमितां परिपूरयति? इह सुभूते बोधिसत्त्वो महासत्त्व प्रज्ञापारमितायां चरंश्चैतसिकेन वीर्येण समन्वागतः अकुशलस्य कायकर्मणोऽवकाशं न ददात्यकुशलस्य वाक्कर्मणोऽवकासं न ददाति । न परामृशति । नित्यमिति वा अनित्यमिति वा सुखमिति वा दुःखमिति वा आत्मेति वा अनात्मेति वा संस्कृतमिति वा असंस्कृतमिति वा । कामधातुं वा रूपधातुं वा आरूप्यधातुं वा । सास्रवधातुं वा अनास्रवधातुं वा । प्रथमध्यानं वा यावच्चतुर्थ<ं> ध्यानं वा । मैत्रिं वा करुणां वा मुदितां वा उपेक्षां वा आकाशानन्त्यायायतनं वा । याव<न्> नैवसंज्ञानासंज्ञायतनं वा स्मृत्युपस्थानानि वा सम्यक्प्रहाणानि वा ऋद्धिपादान् वा इन्द्रियाणि वा बलानि वा बोध्यङ्गानि वा आर्याष्टङ्गं मार्गं वा शून्यतां वा आनिमित्तं वा अप्रणिहितं वा यावद्बुद्धधर्मान् वा न परामृशति । नित्या इति वा अनित्या इति वा सुखमिति वा दुःखमिति वा आत्मेति वा अनात्मेति वा स्रोतआपत्तिफलं वा सकृदागामिफलं वा अनागामिफलं वा अर्हत्त्वं वा प्रत्येकबोधिं वा बोधिसत्त्वत्वं वा न परामृशति । इमे सत्त्वा दर्शनप्रभाविता इमे तनुभूमिप्रभाविता इमे अवरभागीयप्रभाविता इमे ऊर्ध्वंभागीयप्रभाविता । इमे प्रत्येकबुद्धप्रभाविता इमे मार्गाकारज्ञताप्रभाविता इमे सर्वाकारज्ञताप्रभाविता इत्येवमपि न परामृशति । तत्कस्य हेतो<ः>? तथा हि तेषां स्वभावो न संविद्यते । येन स्वभावेन प्रभाव्येरन् । स तेनैव चैतसिकेन (अद्स्प्गिइ १९) वीर्येण समन्वागतो मरणमुखेऽपि समाने सत्त्वानामर्थं करोति । तांश्च सत्त्वान्नोपलभते । वीर्यपारमितां च परिपूरयति । तां च वीर्यपारमितां नोपलभते । बुद्धधर्मांश्च परिपूरयति तांश्च बुद्धधर्मान्नोपलभते । बुद्धक्षेत्रं च परिशोधयति तच्च बुद्धक्षेत्रं नोपलभते । स तेन कायिकेन च चैतसिकेन च वीर्येण समन्वागतः सर्वकुशलधर्मान् परिपूरयति । तत्र च न सज्जति । सोऽसज्जमानो बुद्धक्षेत्रेण बुद्धक्षेत्रं संक्रामति । सत्त्वानामर्थं कुर्वन्, येन येनर्धिप्रातिहार्येणेच्छति विकुर्वितुम् । तेनर्धिप्रातिहार्येण विकुर्वति । यदि वा पुष्पवर्षेण यदि वा गन्धविमुञ्चनेन । यदि वा गीतवाद्यारंभेण यदि वा भूमिचालेन । यदि वा अवभासेन: यदि वा सप्तरत्नमयलोकधातुसन्दर्शनेन । यत्र यत्र वा यौवनार्थानां सत्त्वाना<ं> कृते आत्मानमवसृजति । यदि वा ज्योतिरन्धानां सत्त्वानामर्थे आत्मनोऽवसृजति । यदि वा गन्धमवसृजति । यदि वा महायज्ञानवसृजति । यत्र न प्राणातिपात प्रवर्तते । यदि वा अनन्तां सत्त्वान्मार्गेऽवतारयति । यावत्प्राणातिपाताद्विरमयति । यावन्मिथ्यादृष्टे परिमोचयति, कांश्चिद्दानेन अनुगृह्णाति । कांश्चिच्छीलेन । केसांचित्कृते अङ्गप्रत्यङ्गानि परित्यजति । केषांचित्पुत्रदारा केषांचिद्राज्यं केषांचिदर्थे आत्मानमवसृजाति । एवें येन येनोपायेन सत्त्वानामर्थः कर्तव्य तेन तेनोपायेन सत्त्वानामर्थ<ं> करोति । एवं खलु सुभूते बोधिसत्त्वो महासत्त्व प्रज्ञापारमितायां चरन्नानिमित्तेषु धर्मेषु चैतसिकेन वीर्येण समन्वागतो वीर्यपारमितां परिपूरयति । कथं च सुभूते बोधिसत्त्वो महासत्त्व प्रज्ञापारमितायां चरन्ननामनिमित्तेषु धर्मेषु स्थित्वा समाधिपारमितां परिपूरयति? (अद्स्प्गिइ २०) इह सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् स्थापयित्वा तथागतसमाधिं ततन्यात्सर्वसमाधीन् [f । २७ ब्] परिपूरयति । स विविक्तमेव कामैर्विविक्तं पापकैरकुशलैर्धर्मै<ः> । सवितर्कं सविचारं विवेकजं प्रीतिसुखं प्रथमं ध्यानमुपसंपद्य विहरति । स मैत्रिसहगतेन चित्तेन यावदुपेक्षासहगतेन चित्तेन यावत्सर्वावन्तं लोकं स्फरित्वोऽपसंपद्य विहरति । यावन्नैवसंज्ञानासंज्ञायत<न>मुपसंपद्य विहरति । स तत्र समाधिपारमितायां स्थित्वाष्टौ विमोक्षाननुलोमप्रतिलोमं समापद्यते च व्युत्तिष्ठते च । नवानुपूर्वसमापत्ती<ं> शून्यतां समाधिमानिमित्तं समाधिमप्रणिहितं समाधिमुपसंपद्य विहरति । आनन्तर्यांश्च समाधिमुपसंपद्य विहरति । विद्यु<तो>पृष्ठअमं समाधिं सम्यक्समाधिं वज्रोपमं समाधिमुपसंपद्य विहरति । स इह समाधिपारमितायां स्थित्वा सप्ततृंशतं बोधिपक्ष्यान् धर्मानुपसंपद्य विहरति । स इह समाधिपारमितायां स्थित्वा मार्गाकारज्ञताज्ञानेन यावन्मार्गाकारज्ञतायां सर्वसमाधीनन्तर्गतान् दृष्ट्वा शुक्लविपश्यनाभूमिमतिक्रम्य गोत्रभूमिमष्टमकभूमि<ं> दर्शनभूमिं तनुभूमिं वीतरागभूमिं कृताविभूमिं प्रत्येकबुद्धभूमिमतिक्रम्य बोधिसत्त्वन्याममवक्रामति । बुद्धभूमिं परिपूरयति । सोऽत्र च भूमिषु चरति । न च अन्तरेण फलं च अनुप्राप्नोति । यावन्न सर्वाकारज्ञताज्ञानमनुप्राप्नोति । सोऽत्र समाधिपारमितायां स्थित्वा बुद्धक्षेत्रेण बुद्धक्षेत्रं संक्रामति । बुद्धान् भगवतः पर्युपासिन<ः> । स तान् बुद्धान् भगवत । पर्युपास्ते तेषां च बुद्धानां भगवतामन्तिके कुशलमूलमवरोपयति । सत्त्वांश्च परिपाचयति । बुद्धक्षेत्रं च परिशोधयति । लोकधातौश्च लोकधातुं संक्रामति । सत्त्वानां च अर्थं करोति । कांश्चित्सत्त्वान् दानेन अनुगृह्णाति । कांश्चिच्छीलेन, कांश्चित्क्षान्त्या कांश्चिद्वीर्येण कांश्चि<त्> समाधिना कांश्चित्प्रज्ञया कांश्चिद्विमुक्त्या कांश्चिद्विमुक्तिज्ञानदर्शने<न>, कांश्चित्सत्त्वान् स्रोतआपत्तिफले प्रतिष्ठापयति । कांश्चित्सकृदागामिफले कांश्चिदनागामिफले कांश्चिदर्हत्त्वे प्रतिष्ठापयति । कांश्चित्प्रत्येकबोधौ प्रतिष्ठापयति । कांश्चिद्बोधौ प्रतिष्ठापयति । यैर्यै<ः> कुशलमूलैर्धर्मै<ः> सत्त्वा उद्गच्छन्ति तत्र नियोजयति । स इह समाधिपारमितायां स्थित्वा सर्वधारणीमुखान्य्(अद्स्प्गिइ २१) अभिनिर्हरति । चतस्रः प्रतिसंविद प्रतिलभते । विपाकीयानाञ्च अभिज्ञानां लाभी भवति, स न जातु मातु<ः> कुक्षावुपपद्यते । न जातु कामान् प्रतिसेवते, न च काचिदुपपत्तिर्यां न प्रतिगृह्णाति । न चोपपत्तिदोषेण लिप्यते । तत्कस्य हेतोः? तथा ह्यनेन मायोपमा धर्माः सुदृष्टा भवन्ति । स मायोपमान् सर्वसंस्कारान् विदित्वा सर्वसत्त्वानामर्थं करोति । न च तत्र सत्त्वान्न सत्त्वप्रज्ञप्तिरुपलभ्यते । सोऽनुपलभमान सर्वधर्मा अनुपलंभ एव सत्त्वान् प्रतिष्ठापयति लोकव्यवहारतामुपादाय न पुनः परमार्थेन । स इह समाधिपारमितायां स्थित्वा सर्वध्यानविमोक्षसमाधिसमापत्तिषु चरति । न च जातु समाधिपारमिताया विरहितो भवति । यावदनुत्तरां सम्यक्संबोधिं परिपूरयति । स इह मार्गाकारज्ञतायां स्थित्वा सर्वाकारज्ञतामभिनिर्हरति । यत्र स्थित्वा सर्ववासनानुसन्धिं प्रजहाति । सर्ववासनानुसन्धिं प्रहाय आत्मनश्च <परस्य च> अर्थं करोति । स आत्मनश्च परस्य च अर्थं <कुर्वन् स>देवमानुषासुरस्य लोकस्य दक्षिणीयो भवति । एवं खलु सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् समाधिपारमितां परिपूरयति । (विइ २) कथं च सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरता आनिमित्तेषु धर्मेषु प्रज्ञापारमिता भावनापरिपूरिं गच्छति? इह [f । २७२ ] सुभूते बोधिसत्त्वो महासत्त्व प्रज्ञापारमितायां चरन्न क<ं>चिद्धर्मं सद्भूततापरिनिष्पन्नं समनुपश्यति, स रूपस्य सधूततां प<रिनिष्पन्नतां च न> समनुपश्यति । वेदनायाः संज्ञायाः संस्काराणां विज्ञानस्य सद्भूततां परिनिष्पन्नतां च न समनुपश्यति । रूपस्योत्पादं न समनुपश्यति । वेदनायाः संज्ञाया संस्काराणां विज्ञानस्योत्पादं न समनुपश्यति । स रूपस्योत्पादमसमनुपश्यन् वेदनायाः संज्ञायाः संस्काराणां विज्ञानस्योत्पादमसमनुपश्यन् रूपस्यायंद्वारं न समनुपश्यति । वेदनाया संज्ञाया संस्काराणां विज्ञानस्य आयंद्वारं न समनुपश्यति । रूपस्य सन्निचयं न समनुपश्यति । वेदनायाः संज्ञायाः संस्काराणां विज्ञानस्य सन्निचयं न समनुपश्यति । (अद्स्प्गिइ २२) एवं यावत्सास्रवाणां धर्माणामनास्रवाणां धर्माणामायद्वारं न समनुपश्यति । तुच्छकामेव रिक्तकतामेव समनुपश्यति । स एवं प्रत्यवेक्षमाणो रूपस्य स्वभावं नोपलभते । वेदनायाः संज्ञाया संस्काराणां विज्ञानस्य स्वभावं नोपलभते । यावत्सास्रवाणामनास्रवाणां धर्माणां स्वभावं नोपलभते, स प्रज्ञापारमितायां चरन्नभावस्वभावान् सर्वधर्मानधिमुच्यते, स एवमधिमुच्यमान अध्यात्मशून्यतायां चरन् यावत्स्वलक्षणशून्यतायां चरन्न क्वचिद्धर्मेष्वभिनिविशते । रूपे वा वेदनायां वा संज्ञायां वा संस्कारेषु वा विज्ञाने वा यावद्बोधौ वा, सोऽभावस्वभावायां प्रज्ञापारमितायां चरन् बोधिसत्त्वमार्गं परिपूरयति । यदुत षट्पारमिता<न्> । यावत्सप्ततृंशतं बोधिपक्ष्यधर्मान् दशतथागतबलानि चत्वारि वैशारद्यानि चतस्र प्रतिसंविदो महामैत्री<ं> महाकरुणामष्टादशावेणिकान् बुद्धधर्मान् द्वातृंशन्महापुरुषलक्षणान्यशीतिमनुव्यञ्जनानि परिपूरयति, स विपाकधर्मणि बोधिमार्गे स्थित्वाषट्सु पारमितासु परिपूर्णासु यावत्सप्ततृंशति बोधिपक्ष्येषु धर्मेषु परिपूर्णेषु यावद्विपाकीयास्वभिज्ञासु परिपूर्णासु, ये सत्त्वा दानेन अनुग्रहीतव्यास्तान् दानेन अनुगृह्णाति । येऽशीलेन अनुग्रहीतव्यास्तान् शीलेन अनुगृह्णाति । ये क्षान्त्या अनुग्रहीतव्यास्तान् क्षान्त्या अनुगृह्णाति । ये वीर्येण अनुग्रहीतव्यास्तान् वीर्येण अनुगृह्णाति । ये समाधिना अनुग्रहीतव्यास्तान् समाधिना अन्तिगृह्णाति । ये प्रज्ञया अनुग्रहीतव्यास्तान् प्रज्ञया अनुगृह्णाति । ये विमुक्त्या अनुग्रहीतव्यास्तान् विमुक्त्या अनुगृह्णाति । ये विमुक्तिज्ञानदर्शनेन अनुग्रहीतव्यास्तान् विमुक्तिज्ञानदर्शनेन अनुगृह्णाति । ये स्रोतआपत्तिफले प्रतिष्ठापयितव्यास्तान् स्रोतआपत्तिफले प्रतिष्ठापयति । ये सकृदागामिफले प्रतिष्ठापयितव्यास्तान् सकृदागामिफले प्रतिष्ठापयति । येऽनागामिफले प्रतिष्ठापयितव्यास्ताननागामिफले प्रतिष्ठापयति । येऽर्हत्त्वे प्रतिष्ठापयितव्यास्तानर्हत्त्वे प्रतिष्ठापयति । ये प्रत्येकबोधौ प्रतिष्ठापयितव्यास्तान् प्रत्येकबोधौ प्रतिष्ठापयति । ये बोधौ प्रतिष्ठापयितव्यास्तान् बोधौ प्रतिष्ठापयति । एष सर्वत्र पेयाल । सोऽनेकविधमृध्या विकुर्वन् गङ्गानदीवालुकोपमान् लोकधातून् गच्छति, स आकांक्संस्तान् गङ्गानदीवालुकोपमा<न्> (अद्स्प्गिइ २३) लोकधातून् यादृशाना रत्नानामाकांक्षिष्यति तादृशाना रत्नानामभिनिर्हास्यति । स सत्त्वानामभिप्रायान् परिपूरयन् लोक<धातोर्> [f । २७२ ] लोकधातुं संक्रमिष्यति, स तान् लोकधातून् दृष्ट्वा यथाभिप्रेतं बुद्धक्षेत्रं परिग्रहीष्यति । तद्यथापि नाम परनिर्मितवशवर्तिषु देवेषु उपभोगपरिभोगा, येऽप्यन्येषु बुद्धक्षेत्रेषु <अ>पृष्ठअगतपर्येष्टिषु ते तत्र भविष्यन्ति । स तया <विपाकीयेन> दानपारमितया शीलपारमितया क्षान्तिपारमितया वीर्यपारमितया ध्यानपारमितया प्रज्ञापारमितया विपाकीयाभिरभिज्ञाभिर्विपाकीयेन बोधिमार्गेण मार्गाकारज्ञतायां चरन् सर्वधर्मपरिपूरिप्राप्त सर्वाकारज्ञतामनुप्राप्स्यति । यावत्सचेद्रूपमपरिगृहीतं वेदना संज्ञा संस्कार विज्ञानमपरिगृहीतं यावत्सर्वधर्मा कुशला वा अकुशला वा लौकिका वा लोकोत्तरा वा । सास्रवा वा अनास्रवा वा संस्कृता वा असंस्कृता वा । अपरिगृहीतास्, तथैव अनुत्तरा<ं> सम्यक्संबोधिमभिसंबुद्धस्य तत्र बुद्धक्षेत्रे सर्वोपभोगपरिभोगा अपरिगृहीता भविष्यन्ति । तत्कस्य हेतोः? तथा हि सर्वधर्मा अपरिगृहीता अनुपलंभयोगेन, सर्वधर्मा अपरिग्रहाय वा सत्त्वानां धर्मो देशितः । एवं खलु सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्नानिमित्तयोगेन प्रज्ञापारमितां परिपूरयति । ((७)) परिवर्त ७२ । अथ खल्वायुष्मान् सुभूतिर्भगवन्तमेतदवोचत्: कथं भगवन्नसंभिन्नेषु सर्वधर्मेष्वानिमित्तेषु सर्वधर्मेषु स्वलक्षणशून्येषु षण्णां पारमितानां भावनापरिपूरिर्भवति । दानपारमिताया शीलपारमिताया क्षान्तिपारमिताया वीर्यपारमितायाः समाधिपारमिताया । प्रज्ञापारमितायाः । कथमेषां सास्रवाणामनास्रवाणां (अद्स्प्गिइ २४) धर्माणां नानाकरणं प्रज्ञायते, कथं दानपारमिता अन्तर्गता भवति प्रज्ञापारमितायां, कथं शीलपारमिता क्षान्तिपारमिता वीर्यपारमिता ध्यानपारमिता कथं यावदष्टादशावेणिका बुद्धधर्मा अन्तर्गता भवन्ति प्रज्ञापारमितायां । कथं भगवन्नेवं विलक्षणानां धर्माणामेकलक्षणानां यदुत अलक्षणानां । प्रज्ञप्तिर्भवति? एवमुक्ते भगवानायुष्मन्तं सुभूतिमेतदवोचत्: इह सुभूते बोधिसत्त्वो महासत्त्व प्रज्ञापारमितायां चरन् । स्वप्नोपमेषु पञ्चसु स्कन्धेषु स्थित्वा दानं ददाति शीलं रक्षति क्षान्तिं भावयति वीर्यमारह्हते समाधिं भावयति प्रज्ञां भावयति, प्रतिश्रुत्कोपमेषु पञ्चसु स्कन्धेषु स्थित्वा । दानं ददाति <शीलं रक्षति> क्षान्तिं भावयति वीर्यमारभते समाधिं भावयति प्रज्ञां भावयति । एवं प्रतिभासोपमेषु मरीच्युपमेषु मायोपमेषु निर्मितोपमेषु पञ्चसु स्कन्धेषु स्थित्वा दानं ददाति शीलं रक्षति क्षान्तिं भावयति वीर्यमारभते समाधिं भावयति प्रज्ञां भावयति । स्वप्नोपमा पञ्चस्कन्धा अलक्षणा प्रतिश्रुत्कोपमा प्रतिभासोपमा मरीच्युपमा मायोपमा निर्मितोपमा पञ्चस्कन्धाः अलक्षणाः । तत्कस्य हेतोः? न हि स्वप्नस्य कश्चित्स्वभावः न प्रतिभासस्य कश्चित्स्वभावः न मरीचिकायाः कश्चित्स्वभावः न मयाया कश्चित्स्वभावः न निर्मितस्य कश्चित्स्वभावः । यस्य स्वभावो नास्ति तस्य लक्सणं नास्ति, यस्य लक्सणं नास्ति तदेकलक्षणं यदुत अलक्षणं । तदनेन अपि ते सुभूते पर्यायेण एवां वेदितव्यम्: अलक्षणं दानमलक्षणो दायकः अलक्षण प्रतिग्राहकः । य एवं ज्ञात्वा दानं ददाति स दानपारमितां [f । २७३ ] परिपूरयंच्छीलपारमितया न विवर्तते । क्षान्तिपारमितया वीर्यपारमितया समाधिपारमितया प्रज्ञापारमितया न विवर्तते । स इह षट्सु पारमितासु स्थित्वा चत्वारि ध्यानानि परिपूरयति । चत्वार्यप्रमाणां चतस्रः आरूप्यसमापत्ती परिपूरयति । चत्वारि स्मृत्युपस्थानानि परिपूरयति । चत्वारि सम्यक्प्रहाणानि । चतुरर्धिपादा पञ्चेन्द्रियाणि पञ्चबलानि सप्तबोध्यङ्गान्यार्याष्टाङ्गं मार्गं परिपूरयति । आध्यात्मशून्यतां परिपूरयति बहिर्द्धाशून्यतमध्यात्मबहिर्द्धाशून्यतां । अभावशून्यतां स्वभावशून्यतामभावस्वभावशून्यतां यावत्स्वलक्षणशून्यतां परिपूरयति । शून्यतां समाधिं परिपूरयत्यानिमित्तं समाधिमप्रणिहितं समाधिं परिपूरयति । अष्टौ विमोक्षान् परिपूरयति । नवानुपूर्वसमापत्ती परिपूरयति । पञ्चाभिज्ञापरिपूरयति । पञ्चधारणीमुखशतानि परिपूरयति । चतस्रः प्रतिसंविदः (अद्स्प्गिइ २५) परिपूरयति । दशतथागतबलानि चत्वारि वैशारद्यानि महामैत्री<ं> महाकरुणामष्टादशावेणिका<ं> बुद्धधर्मान् परिपूरयति । स इह विपाकीयेष्वनास्रवेषु धर्मेषु स्थित्वा पूर्वस्यान् दिशि लोकधातूनृध्या गत्वा बुद्धान् भगवतः पर्युपास्ते । ता<ं>श्च उपतिष्ठते । यावदुपभोगपरिभोगैश्च सत्त्वानामर्थं कुर्वति । ये दानेन संग्रहीतव्यास्तान् दानेन संगृह्णाति । ये शीलेन संग्रहीतव्यास्तांच्छीलेन संगृह्णाति । ये क्षान्त्या संग्रहीतव्यास्तान् क्षान्त्या संगृह्णाति । ये वीर्येण संग्रहीतव्यास्तान् वीर्येण संगृह्णाति । ये समाधिना संग्रहीतव्यास्तान् समाधिना संगृह्णाति । ये प्रज्ञया संग्रहीतव्यास्तान् प्रज्ञया संगृह्णाति । यावद्ये सर्वकुशलैः धर्मैः संग्रहीतव्यास्तान् सर्वकुशलैर्धर्मै संगृह्णाति । स तैः कुशलमूलै समन्वागतः सर्वधर्मेश्वरः संसारं चोपाददाति । न च संसारावचरै । दुःखैर्लिप्यते । सत्त्वानां कृते देवमानुष्यिकी संपत्तिरुपाददाति । याभिः संपत्तिभिः सत्त्वान् संगृह्णाति: सोऽलक्षणान् सर्वधर्मान् जानाति । स्रोतआपत्तिफलं च जानाति । न च तत्र अवतिष्ठते । सकृदागामिफलं च जानाति न च तत्र अवतिष्ठते । अनागामिफलं च जानाति न च तत्र अवतिष्ठते । अर्हत्वं च जानाति न च तत्र अवतिष्ठते । प्रत्येकबोधिं च जानाति न च तत्र अवतिष्ठते । तत्कस्य हेतोह्स्? तथा हि तेन सर्वधर्मा ज्ञात्वा सर्वाकारज्ञता अनुप्राप्तव्या: या असाधारना सर्वश्रावकप्रत्येकबुद्धै<ः> । एवं खलु सुभूते बोधिसत्त्वो महासत्त्व अलक्षणा सर्वधर्मा ज्ञात्वा षट्पारमिता अलक्षणान् जानाति । यावत्सर्व<बुद्ध>धर्मानलक्षणान् जानाति । पुनरपरं सुभूते बोधिसत्त्वो महासत्त्व प्रज्ञापारमितायां चरन् स्वप्नोपमेषु पञ्चसु उपादानस्कन्धेषु स्थित्वा शीलपारमितां परिपूरयति । प्रतिश्रुत्कोपमेषु प्रतिभासोपमेषु मायोपमेषु मरीचिकोपमेषु निर्मितोपमेषु पञ्चसूपादानस्कन्धेषु स्थित्वा शिलपारमितां परिपूरयति । स खलु पुनः सुभूते बोधिसत्त्वो महासत्त्व स्वप्नोपमा<न्> पञ्चोपादानस्कन्धान् ज्ञात्वा प्रतिश्रुत्कोपमा<न्> प्रतिभासोपमान्मायोपमान्मरीच्युपमान्निर्मितोपमान् पञ्चोपादानस्कन्धान् ज्ञात्वा अलक्षणशीलपारमितां परिपूरयति । अखण्डामच्छिद्रामशबलामकल्माषामपरामृष्टां भुजिष्यां विज्ञप्रशस्तां सुसमाप्तामार्यामनास्रवानि मार्गपर्यापन्नां (अद्स्प्गिइ २६) लोकोत्तरां, यत्र स्थित्वा समादानसांकेतिकं शीलं रक्षति । धर्म<ता>पृष्ठरतिलंभिकशीलं च संवरशीलं च विज्ञप्तिसीलं च [f । २७३ ] समुदाचारशीलं च असमुदाचारसीलं च । स एवंरूपै शीलै समन्वागतो न परामृशत्यनेन अहं क्षत्रियमहाशालकुलानां सहभागतायै उपपद्येय<ं> । ब्राह्मणमहासालकुलानं वा सहभागतायै गृहपतिमहासालकुलानं वा सहभागतायै उपपद्येयं राजा वा भवेयं चक्रवर्ती कोट्टराजा वा चातुर्महाराजकायिकानां वा देवानां सहभागतायै उपपद्येय<ं> । त्रायंस्त्रिंशानां वा यामानां वा तुषितानां वा निर्माणरतिनां वा परनिर्मितवशवर्तिनां वा देवानां सहभागतायै उपपद्येय<ं> । स्रोतआपत्तिफलं वा अनुप्राप्नुया<ं> सकृदागामीनां वा अनागामिनां वा अर्हत्वं वा । प्रत्येकबोधिं वा बोधिं वा अनुप्राप्नुयामिति । तत्कस्य हेतोः? तथा ह्यलक्षणाः सर्वधर्माः एकलक्षणा यदुत अभावस्वभावलक्षणाः । न ह्यलक्षणो धर्म अलक्षणं धर्ममनुप्राप्नोति । नापि विलक्षणो धर्मो विलक्षणं धर्मं प्राप्नोति । नाप्यविलक्षणा वा अलक्षणा वा धर्मा अविलक्षणान् व अलक्षणान् वा धर्मा<न्> प्राप्नुवन्ति । एवं खलु सुभूते बोधिसत्त्वो महासत्त्व प्रज्ञापारमितायां चरन्नलक्षणशीलपारमितां परिपूर्य बोधिसत्त्वन्याममवक्रामति । बोधिसत्त्वन्याममवक्रमन्ननुत्पत्तिकेषु धर्मेषु क्षान्तिं प्रतिलभते । मार्गाकारज्ञतायां चरन् पञ्चाभिज्ञा विपाकीया प्रतिलभ्य पञ्चसु धारणीमुखशतेषु पञ्चसु समाधिमुखशतेषु स्थित्वा चतस्रः प्रतिसंविद प्रतिलभ्य बुद्धक्षेत्राद्बुद्धक्षेत्रं संक्रमिष्यति । बुद्धान् भगवतः प्रयुपासिन सत्त्वांश्च परिपाचयति बुद्धक्षेत्रं च परिग्रहीष्यति । पञ्चगतिके संसारे संसरिष्यति न च संसारावचरेण कर्मणा न विपाकेन लेप्स्यते । तद्यथापि नाम निर्मितश्चंक्रम्यते तिष्ठति निषादति शय्यं कल्पयति, न च अस्य आगमनं संदृष्यते न गमनं न स्थानं न निषद्या न शय्यान, सत्त्वानां च अर्थं करोति न च सत्त्वमुपलभ्यते न (अद्स्प्गिइ २७) सत्त्वप्रज्ञप्तिं । तद्यथापि नाम सुभूते शान्तो नाम तथागतोऽर्हन् सम्यक्संबुद्धोऽनुत्तरां सम्यकसंबोधिमभिसंबुद्धोऽनुत्तरां सम्यक्संबोधिमभिसंबुध्य धर्मचक्रं प्रवर्त्य अपरिमाणां सत्त्वां द्वाभ्यां यानाभ्यां परिनिर्वाप्य न कश्चिद्बोधिसत्त्वमुपलभते यमनुत्तरस्यां सम्यक्संबोधौ व्याकार्षीत् । स आयुसंस्कारानुत्सृज्य निर्मितं निर्माय अनुपधिशेषे निर्वाणधातौ परिनिर्वृत, स खलु पुनः सुभूते निर्मितः कल्पस्यात्ययेन बोधिसत्त्वं महासत्त्वं व्याकृत्य अनुत्तरायां सम्यक्संबोधौ परिनिर्वाति । तस्य च परिनिर्वृतस्य न किञ्चिद्वस्तु उपलभ्यते । रूपं वा वेदना वा संज्ञा वा संस्कारा वा विज्ञानं वा । एवमेव सुभूते बोधिसत्त्वो महासत्त्वो न सत्त्वमुपलभते न सत्त्वप्रज्ञप्तिं, सत्त्वाना<ं> च अर्थं करोति । एवं खलु सुभूते बोधिसत्त्वो महासत्त्व प्रज्ञापारमितायां चरंच्छीलपारमितां परिपूरयति । यस्या परिपूर्णत्वादन्तर्गता सर्वधर्मा भवन्ति । पुनरपरं सुभूते बोधिसत्त्वो महासत्त्व प्रज्ञापारमितायां चरं । स्वप्नोपमेषु पञ्चसूपादानस्कन्धेषु स्थित्वा प्रतिश्रुत्कोम्पमेषु प्रतिभासोपमेषु मायोपमेषु मरीच्युपमेषु निर्मितोपमेषु पञ्चसूपादानस्कन्धेषु स्थित्त्वा अलक्षणक्षान्तिपारमितां परिपूरयति? कथं च सुभूते बोधिसत्त्वो महासत्त्वः अलक्षणेषु धर्मेषु स्थित्वा क्षान्तिपारमितां परिपूरयति? इह सुभूते बोधिसत्त्वो महासत्त्वो द्वाभ्यां क्षान्तिभ्यां क्षान्तिपारमितां परिपूरयति । कतमाभ्यां द्वाभ्यां क्षान्तिभ्यां? अधिवासनक्षान्त्या धर्मावबोधक्षान्त्या च । तत्र कतमा अधिवासनक्षान्तिर्? यत्प्रथमचित्तोत्पादम् [f । २७४ ] उपादाय यावद्बोधिमण्डनिषदनादन्त्रान्तराद्बोधिसत्त्वस्य महासत्त्वस्य सचेत्सर्वसत्त्वा आगम्य आगम्य आक्रोशेयु परिभाषेरन् वा । असत्याभिर्वा परुषाभिर्वाग्भिः समुदाचरेयुर्लोष्टदण्डशस्त्रप्रहारान् दद्युस्, तत्र बोधिसत्त्वेन महासत्त्वेन क्षान्तिपारमितां परिपूरयितुकामेन एकचित्तोत्पादोऽपि क्षोभसहगतो व्यापादसहगतो वा नोत्पादयितव्यः । तेष्वेव सत्त्वेष्वतीव कर्तव्याः क्लेशरुजार्ता बतेमे सत्त्वा, ते मया अपापचित्तमुत्पादियतव्या । अपि तु मयैते शत्रुभूता स्कन्धा परिगृहीता । यद्यैवं प्रत्यवेक्षते मैत्रावान् करुणायति इयमुच्यते अधिवासनक्षान्तिः । तत्र कतमा धर्मावबोधक्षान्तिः? यत्तान्यपि सत्त्वा<न्> परमार्थतो नोपलभते । (अद्स्प्गिइ २८) को मा आक्रोशते परिभाषते वा असत्याभिर्वा परुषाभिर्वाग्भिः समुदाचरति लोष्टदण्डशस्त्रप्रहारान् वा ददाति, मायोपमा सर्वसंस्कारा रिक्तास्तुच्छा वशिका गगनकल्पा आत्मसत्त्वजीवजन्तुपुरुषपुद्गलमनुजमानवविरहितापरिकल्पसमुत्थितास्, ते सर्वे विकल्पा को मा आक्रोशते वा परिभाषते वा असत्याभिर्वा परुषाभिर्वाग्भिः समुदाचरति । लोष्टदण्डशस्त्रप्रहारान् वा ददाति, अहं पुनर्नैवं विकल्पयिष्यामि । स्वभावशून्यतामुपादाय परमार्थशून्यतामुपादायैयमुच्यते धर्मावबोधक्षान्तिः । स एवमुपपरीक्षमाण क्षान्तिपारमितां परिपूरयति, सोऽनया क्षान्तिपारमितया परिपूर्णया अनुत्पत्तिकेषु धर्मेषु क्षान्ति<ं> प्रतिलभते । सुभूतिराह: कैषा भगवन्ननुत्पत्तिकधर्मक्षान्ति । किं वा अस्य प्रमाणं । किं वा ज्ञानं? भगवानाह: अणुरपि सुभूते यद्धर्मो नोत्पद्यते । तदुच्यते अनुत्पत्तिकमिति । तत्र य<ज्> ज्ञानं तदुच्यते क्षान्ति, येन ज्ञानेन अनुत्पत्तिकेषु धर्मेषु क्षान्तिं प्रतिलभते । आह: या च भगवंच्छ्रावकाणां या च प्रत्येकबुद्धानाममित्पत्तिकधर्मक्षान्तिः या च बोधिसत्त्वस्य महासत्त्वस्य अनुत्पत्तिकधर्मक्षान्ति । आसां क्षान्तीनां किन्नानाकरणं? भगवानाह: यच्च सुभूते स्रोतआपन्नस्य ज्ञानं यच्च प्रहाणं सा बोधिसत्त्वस्य महासत्त्वस्य क्षान्ति । यत्सकृदागामिनो ज्ञानं च प्रहाणां च सा बोधिसत्त्वस्य महासत्त्वस्य क्षान्ति । यदनागामिनो ज्ञानं च प्रहाणं च सा बोधिसत्त्वस्य महासत्त्वस्य क्षान्ति । यदर्हतो ज्ञानं च प्रहाणं च सा बोधिसत्त्वस्य महासत्त्वस्य क्षान्ति । यत्प्रत्येकबुद्धस्य ज्ञानं च प्रहाणं च सा बोधिसत्त्वस्य महासत्त्वस्य क्षान्ति । इदं सुभूते नानाकरणं श्रावकप्रत्येकबुद्धक्षान्त्याश्च बोधिसत्त्वक्षान्त्याश्च, स खलु पुनः सुभूते बोधिसत्त्वो महासत्त्वोऽनयैवंरूपया क्षान्त्या समन्वागत सर्वश्रावकप्रत्येकबुद्धानभिभवति । स एवैषा क्षान्त्यामनुत्पत्तिकधर्मक्षान्त्यां स्थित्वा बोधिसत्त्वमार्गे चरन्मार्गाकारज्ञतां परिपूरयति । यया परिपूर्णया अविरहितो भवति । सप्ततृंशता बोधिपक्ष्यैर्धर्मैः शून्यतानिमित्ताप्रणिहितैः समाधिभिः । स आभि पञ्चभिरभिज्ञाभिरविरहितो भव<ति> । सोऽविरहितत्वात्सत्त्वान् परिपाचयति । बुद्धक्षेत्रं च परिशोधयति । सत्त्वांश्च परिपाच्य (अद्स्प्गिइ २९) बुद्धक्षेत्रं च परिशोध्य एकक्षणसमायुक्तया [f । २७४ ] प्रज्ञया सर्वाकारज्ञतामनुप्राप्नोति । एवं खलु सुभूते बोधिसत्त्वो महासत्त्वो प्रज्ञापारमितायां चरन्नलक्षणक्षान्तिपारमितां परिपूरयति । पुनरपरं सुभूते बोधिसत्त्वो महासत्त्वो स्वप्नोपमेषु पञ्चसूपादानस्कन्धेषु स्थित्वा प्रतिश्रुत्कोपमेषु प्रतिभासोपमेषु मायोपमेषु मरीच्युपमेषु निर्मितोपमेषु पञ्चसूपादानस्कन्धेष्वलक्षणेषु स्थित्वा कायिकं चैतसिकं च वीर्यमारभते, स कायिकेन वीर्येण <बो>धिमभिनिर्हरति । स दशदिक्षु लोकधातून् गत्वा । बुद्धान् भगवतः पर्युपास्ते सत्त्वानां च अर्थं करोति । स तेन कायिकेन वीर्येण सत्त्वान् परिपाच्य त्रिषु यानेषु निवेशयति । प्रतिष्ठापयति । एवं खलु सुभूते बोधिसत्त्वो महासत्त्व प्रज्ञापारमितायां चरन्नलक्षणवीर्यपारमितां परिपूरयति । स चैतसिकेन वीर्येण अनास्रवेण मार्गेण मार्गपर्यापन्नेन वीर्यपारमितां परिपूरयति । यत्र पर्यापन्ना सर्वकुशलधर्मा तद्यथा चत्वारि स्मृत्युपस्थानानि चत्वारि सम्यक्प्रहणानि चत्वारर्धिपादा पञ्चेन्द्रियाणि पञ्चबलानि सप्तबोध्यङ्गान्यार्याष्टांगो मार्गः त्रिणि विमोक्षमुखानि चत्वारि ध्यानानि चत्वार्यप्रमाणानि चतस्रः आरूप्यसमापत्तयोऽष्टौ विमोक्षा नवानुपूर्वसमापत्तयो दशतथागतबलानि चत्वारि वैशारद्यानि चतस्र प्रतिसंविदो महामैत्रिं महाकरुणामष्टादशावेणिका बुद्धधर्मा, यत्र बोधिसत्त्वेन महासत्त्वेन चरता सर्वाकारज्ञता परिपूरयितव्या यस्या परिपूर्या सर्ववासनानुसन्धिं प्रहास्यति, स प्रहाय लक्षणपरिनिष्पत्तिं परिपूर्य समन्तप्रभतां च आराग्य धर्मचक्रं प्रवर्तयति । द्वादशाकारं त्रिपरिवर्तं, यस्य प्रवर्ततेन त्रिसाहस्रमहासाहस्रो लोकधातु<ः> षड्विकारं कम्पिष्यते प्रकम्पिष्यते संप्रकम्पयिष्यते चलिष्यति प्रचलिष्यति संप्रचलिष्यति । वेधिष्यति प्रवेधिष्यति संप्रवेधिष्यति । सर्वोऽयं त्रिसाहस्रमहासाहस्रो इओकधातुरुदारेण अवभासेन स्फरिष्यति । तस्य खलु पुनस्तथागतस्य अर्हतः सम्यक्संबुद्धस्य यत्र शब्दो निश्चरिष्यति यो सोऽनुश्रावयिष्यते, तत्र ये त्रिसाहस्रमहासाहस्रे लोकधातौ सत्त्वास्तनि शब्दं श्रोष्यन्ति । ते सर्वे नियता भविष्यन्ति तृषु यानेषु, एवं बहुकरा हि सुभूते बोधिसत्त्वस्य (अद्स्प्गिइ ३०) महासत्त्वस्य वीर्यपारमिता । वीर्यपारमितायां स्थित्वा बोधिसत्त्वेन महासत्त्वेन सर्वबुद्धधर्मा परिपूरयितव्याः सर्वाकारज्ञता अनुप्राप्तव्याः । पुनरपरं सुभूते बोधिसत्त्वो महासत्त्व प्रज्ञापारमितायां चरन् स्वप्नोपमेषु पञ्चसूपादानस्कन्धेषु स्थित्वा प्रतिश्रुत्कोपमेषु प्रतिभासोपमेषु मायोपमेषु मरीच्युपमेषु निर्मितोपमेषु पञ्चसूपादानस्कन्धेषु स्थित्वा समाधिपारमितां परिपूरयति? कथं च सुभूते बोधिसत्त्वो महासत्त्व प्रज्ञापारमितायां चरन् । स्वप्नोपमेषु पञ्चसूपादानस्कन्धेषु स्थित्वा प्रतिश्रुत्कोपमेषु प्रतिभासोपमेषु मायोपमेषु मरीच्युपमेषु निर्मितोपमेषु पञ्चसूपादानस्कन्धेषु स्थित्वा समाधिपारमितां परिपूरयति? इह सुभूते [f । २७५ ] बोधिसत्त्वो महासत्त्व प्रथमं ध्यानमुपसंपद्य विहरति । यावच्चतुर्थं ध्यानमुपसंपद्य विहरति । मैत्रीमुपसंपद्य विहरति । करुणां मुदितामुपेक्षामुपसंपद्य विहरति । आकाशानन्त्यायतनमुपसंपद्य विहरति । विज्ञानानन्त्यायतनमाकिञ्चन्यातनं नैवसंज्ञानासंज्ञायतनमुपसंपद्य विहरति । शून्यतानिमित्ताप्रणिहितान् समाधीन् भावयति । विद्यु<तो>पृष्ठअमं समाधिं भावयति । सम्यक्समाधिं भावयति । वज्रोपमे समाधौ स्थित्वा तथागतसमाधिं स्थापयित्वा यावन्तः केचनः समाधयः श्रावकसाधारणाः वा प्रत्येकबुद्धसाधारणाः वा येऽप्यन्ये समाधिसमापत्तिगणास्तान् सर्वान् कायेन स्फरित्वा उपसंपद्य विहरति । न च तान् समाधीनास्वादयति । न समापत्तिफलं । तत्कस्य हेतोः? तथा हि स बोधिसत्त्वो महासत्त्वः तान् समाधीनलक्षणान् जानात्यभावस्वभावान्, तत्कथमलक्षणो धर्म अलक्षणन् धर्ममास्वादयति । कथमभावो धर्म अभावं धर्ममास्वादयति? सोऽनास्वादयन्न कस्यचित्समाधेर्वशेन उपपद्यते । रूपधातौ वा आरूप्यधातौ वा । तत्कस्य हेतोः? तथा हि स तौ धातौ नोपलभते । योऽपि समापद्येत येनापि समापद्येत तदपि नोपलभते । सोऽनुपलभमानः अलक्षणसमाधिपारमितां परिपूरयति । सोऽनया समाधिपारमितया श्रावकप्रत्येकबुद्धभूमी<न्> अतिक्रामति । सुभूतिराह: कथं भगवं बोधिसत्त्वो महासत्त्व समाधिपारमितां परिपूर्य श्रावकप्रत्येकबुद्धभूमी अतिक्रामति? (अद्स्प्गिइ ३१) भगवानाह: तथा हि सुभूते बोधिसत्त्वो महासत्त्वोऽध्यात्मशून्यतायां सुशिक्षितः यावत्स्वलक्षणशून्यतायां सुशिक्षितः, न चेह शून्यतासु कश्चिद्धर्म उपलब्ब्यते । यत्र प्रतिष्ठेत् । स्रोतआपत्तिफलं वा सकृदागामिफलं वा अनागामिफलं वा अर्हत्त्वं वा प्रत्येकबोधिं वा, यापि सा सर्वाकारज्ञता सापि शून्या शून्यताभिः । स आभिः शून्यताभिः बोधिसत्त्वो महासत्त्वः श्रावकप्रत्येकबुद्धभूमी अतिक्रम्य बोधिसत्त्वन्याममवक्रामति । आह: कतमो भगवन् बोधिसत्त्वस्य महासत्त्वस्य आम कतमो न्यामः? भगवानाह: सर्वः सुभूते बोधिसत्त्वस्य महासत्त्वस्य उपलंभः । आमः, सर्वोनुपलंभो न्यामः । आह: कतमो भगवन्नुपलंभः कतमोऽनुपलंभः? भगवानाह: रूपं बोधिसत्त्वस्य महासत्त्वस्य उपलंभः । वेदनासंज्ञासंस्का<रविज्ञा>नं सुभूते बोधिसत्त्वस्य महासत्त्वस्य उपलंभः । चक्षुरूपणि च श्रोत्रं शब्दांश्च घ्राणं गन्धांश्च जिह्वरसाश्च कायः स्प्रष्टव्यानि च । मनो धर्मांश्च उपलंभः । यावत्सर्वाकारज्ञता उपलंभः । आमः । नियामः पुनः सुभूते यत्रैषां धर्माणां प्रव्याहारोऽपि नोपलभ्यते । रूपस्य यावत्सर्वाकारज्ञताया । तत्कस्य हेतोः? थथा हि सुभूते यो रूपस्य स्वभाव सोऽप्रव्याहारः, यावद्यः सर्वाकारज्ञताया स्वभावः सोऽप्रव्याहारः । अयं सुभूते बोधिसत्त्वस्य महासत्त्वस्य नियामः, स नियामावक्रान्तो बोधिसत्त्वो महासत्त्वः सर्वसमाधिः परिपूर्णः समाधिवशेन अपि नोपपद्यते । प्रागेव रागं वा दोषं वा मोहं वा उत्पादयेद्यत्र स्थित्वा तत्कर्माभिसंस्कुर्यद्येन कर्माभिसंस्कारेण पञ्चगतिके संसारे पतेतिति नेदं स्थानं विद्यते । अन्यत्र मायोपमेषु धर्मेषु स्थित्वा सर्वसत्त्वानामर्थं करोति । न च सत्त्वमुपलभते (अद्स्प्गिइ ३२) न मायां, सोऽनुपलभमान सत्त्वांश्च परिपाचयति । बुद्धक्षेत्रं च परिगृह्णाति । [f । २७५ ] एवं खलु सुभूते बोधिसत्त्वो महासत्त्वः समाधिपारमितां परिपूर्य यावद्धर्मचक्रं प्रवर्तयति । यदुत अनुपलंभचक्रशून्यतानिमित्ताप्रणिहितचक्रं । पुनरपरं सुभूते बोधिसत्त्वो महासत्त्व प्रज्ञापारमितायां चरन् स्वप्नोपमा<ं> सर्वधर्मान् परिजानाति । प्रतिश्रुत्कोपमान् प्रतिभासोपमान्मायोपमान्मरीच्युपमान्निर्मितोपमान् सर्वधर्मान् परिजानाति । (विइ ४) आह: कथं पुनर्भगवन् बोधिसत्त्वो महासत्त्व प्रज्ञापारमितायां चरन् स्वप्नोपमान् सर्वधर्मान् परिजानाति । प्रतिश्रुत्कोपमान् प्रतिभासोपमान्मायोपमान्मरीच्युपमान्निर्मितोपमान् सर्वधर्मान् परिजानाति? भगवानाह: इह सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्नापि स्वप्नमद्राक्षी<न्> न स्वप्नदर्शिनं । न प्रतिश्रुत्कमद्राक्षी<न्> न प्रतिश्रुत्कश्रोतारं, न प्रतिभासमद्राक्षी<न्> न प्रतिभासदर्शिनं । न मायानद्राक्षी<न्> न मायादर्शिनं । न मरीचिकमद्राक्षीन्न मरीचिकदर्शिनं । न निर्मितमद्राक्षी<न्> न निर्मितदर्शिनं । तत्कस्य हेतोः? तथा हि विपर्यासः स्वप्न प्रतिश्रुत्क प्रतिभासो माया मरीचिका विपर्यासो निर्मितो, बालपृथग्जनानां । अर्हत्पुनर्न स्वप्नं पश्यति न स्वप्नदर्शिनं । यावन्न निर्मितं पश्यति न निर्मितदर्शिनं । एवं यावत्प्रत्येकबुद्धो बोधिसत्त्वो महासत्त्व तथागतोऽर्हन् सम्यक्संबुद्धो नैव स्वप्नं पश्यति न स्वप्नदर्शिनं । यावन्न निर्मितं पश्यति न निर्मितदर्शिनं । तत्कस्य हेतो<स्>? तथा ह्यभावस्वभावाः सर्वधर्माः परिनिर्वाणसमा असद्भूततयाः । अपरिनिष्पन्नाः सर्वधर्माः असंभूततया । तत्किं बोधिसत्त्वो महासत्त्व प्रज्ञापारमितायां चरन् भावसंज्ञी भविष्यति परिनिष्पन्नसंज्ञी वा भूतसंज्ञी वा नेदं स्थानं विद्यते । तत्कस्य हेतोः? न सा प्रज्ञापारमिता स्याद्यदि कस्यचिद्धर्मस्य स्वभाव उपलभ्येत परिनिष्पत्तिर्वा सद्भूतता वा, एवं च बोधिसत्त्वो महासत्त्व प्रज्ञापारमितायां <चरन्> रूपे न सज्जते । यावद्विज्ञाने न सज्जते, कामधातौ न सज्जते । रूपधातौ न सज्जते । आरूप्यधातौ न सज्जते । ध्यानविमोक्षसमाधिसमापत्तिषु न सज्जते । चतुर्षु स्मृत्युपस्थानेषु न सज्जते यावदार्याष्टाङ्गे मार्गे न सज्जते । शून्यतायां न सज्जते । आनिमित्तसमाधावप्रणिहिते समाधौ न सज्जते । दानपारमितायां (अद्स्प्गिइ ३३) न सज्जते । शीलपारमितायां क्षान्तिपारमितायां वीर्यपारमितायां समाधिपारमितायां न सज्जते । स इह प्रज्ञापारमितायां स्थित प्रथमं भूमिं परिपूरयति । तत्र च च्छन्दरागं नोत्पादयति । तत्कस्य हेतो<ः>? तथा हि स तान् भूमीन्नोपलभते । तत्किं तत्र च्छन्दरागमुत्पादयिष्यति, यावद्दशमी<ं> भूमिं परिपुरयति । तत्र च च्छन्दरागं नोत्पादयति । तत्कस्य हेतो<स्>? तथा हि स तान् भूमीन्नोपलभते । तत्किं तत्र च्छन्दरागमुत्पादयिष्यति । स प्रज्ञापारमितायां चरति । तां च प्रज्ञापारमितां नोपलभते । सोऽनुपलंभायां चरन् सर्वधर्मांश्च तत्र प्रज्ञापारमितायामन्तर्गतान् पश्यति । तांश्च धर्मान्नोपलभते । तत्कस्य हेतो<स्>? तथा हि ते च धर्मा सा च प्रज्ञापारमिता अद्वयमद्वैधीकारं । तत्कस्य हेतो<स्>? तथा हि तेषां धर्माणां न कश्चिद्भेदोऽस्ति । धर्मधातुनिर्देशेन तथतानिर्देशेन [f । २७६ ] भूतकोटिनिर्देशेन । अ<सं>भिन्नाः सर्वधर्माः । <आह>: असंभिन्नानां भगवन् सर्वधर्माणां कथं कुशलाकुशलानां धर्माणां निर्देशो भवति । कथं लौकिकलोकोत्तराणां धर्माणां निर्देशो भवति । कथं सास्रवानास्रवाणां धर्माणां निर्देशो भवति । कथं संस्कृतासंस्कृतानां धर्माणां निर्देशो भवति? भगवानाह: तत्किं मन्यसे सुभूते या धर्माणां धर्मता । अपि नु तत्र कस्यचिद्धर्मस्य । प्रव्याहारोऽस्ति । संस्कृतस्य वा असंस्कृतस्य वा । स्रोतआपत्तिफलस्य वा सकृदागामिफलस्य वा । अनागामिफलस्य वा अर्हत्त्वस्य वा । प्रत्येकबोधेर्वा बोधेर्वा । आह: नो हीदं भगवन् । भगवानाह: तदनेन अपि ते सुभूते पर्यायेण एवं वेदितव्यं । असंभिन्नाः सर्वधर्माः अलक्षणा अनुत्पादोऽप्रादुर्भावाः सर्वधर्मा, न मे सुभूते पूर्वं बोधिसत्त्वचारिकां चरता कस्यचिद्धर्मस्य स्वभाव उपलब्धो रूपमिति वा वेदनेति वा संज्ञेति वा संस्कार इति वा । विज्ञानमिति वा । यावत्संस्कृतमिति वा असंकृतमिति वा । यावत्स्रोतआपत्तिफलमिति वा । यावद्बोधिरिति वा । एवं खलु सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां <चरति> प्रथमचित्तोत्पादमुपादाय । यावदनुत्तरां सम्यक्संबोधिमभिसंभोत्स्यते । अनुपलंभयोगेन । सर्वधर्माणां च स्वभावकुशलेन भवितव्यं । सर्वधर्मस्वभावकुशलो हि बोधिसत्त्वो महासत्त्व बोधिमार्गं (अद्स्प्गिइ ३४) च परिपूरयति । सत्त्वांश्च परिपाचयति । बुद्धक्षेत्रं च परिगृह्णाति । यत्र स्थित्वा अनुत्तरां सम्यक्संबोधिमभिसंबुद्ध्य <तथा> सत्त्वान् विनयति । यथा विनीतास्तृषु भवेषु न दृश्यन्ते । एवं खलु सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरितव्यमलक्षणयोगेन । ((७२)) (अद्स्प्गिइ ३५) विइइ धर्मकाय अभिसमय परिवर्त ७३ । (विइइ ४) अथ आयुष्मान् सुभूतिर्भगवन्तमेतदवोचत्: कथं भगवन् स्वप्नोपमानां सर्वधर्माणामवस्तुकानामभावस्वभावानां स्वलक्षणशून्यानां व्यवस्थानं भवति । इमे कुशला धर्मा इमे अकुशला धर्मा इमे लौकिका इमे लोकोत्तरा इमे सास्रवा इमे अनास्रवा इमे संस्कृता इमे असंस्कृता इमे स्रोतआपत्तिफलसाक्षात्क्रियायै संवर्तन्ते । इमे सकृदागामिफलसाक्षात्क्रियायै इमेऽनागामिफलसाक्षात्क्रियायै इमेऽर्हत्फलसाक्षात्क्रियायै संवर्तन्ते । इमे प्रत्येकबोधये संवर्तन्ते । इमेऽनुत्तरस्यै सम्यक्संबोधये संवर्तन्ते? एवं कथं प्रतिश्रुत्कोप्मानां प्रतिभासोपमानांमायोपमानां मरीच्युपमानां निर्मितोपमानामवस्तुकानामभावस्वभावानां स्वलक्सणशून्यानां व्यवस्थानं भवति । इमे कुशला धर्मा इमे अकुशला यावदिमेऽनुत्तरस्यै सम्यक्संबोधये संवर्तन्ते? भगवानाह: इह सुभूते बालोऽश्रुतवान् पृथग्जनः । स्वप्नमुपलभते । स्वप्नदर्शिनमप्युपलभते । यावन्निर्मितमुपलभते निर्मित<दर्शिन>मप्युपलभते । स स्वप्नमुपलभ्य स्वप्नदर्शिनमप्युपलभ्य: यावन्निर्मितमुप<ल>भ्य निर्मितदर्शिनमप्युपलभ्य कुशलसंस्कारानभिसंस्करोति । कायेन वाचा मनसा, अकुशलसंस्कारानभिसंस्करोति । कायेन वाचा मनसा, आनेञ्ज्यानभिसंस्कारान् [f । २७६ ] अभिसंस्करोति कायेन वाचा मनसा, तद्बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् द्वयो शून्यतयो स्थित्वा, अत्यन्तशून्यतायामनवराग्रशून्यतायां च, सत्त्वानां धर्मन् देशयति । शून्यं त्रैधातुकमेत<न्>, नास्त्यत्र रूपं वा वेदना वा संज्ञा वा । संस्कारा वा विज्ञानं वा, स्कन्धा वा धातवो वा आयतनानि वा, स्वप्न एष प्रतिश्रुत्कैषा प्रतिभाष एष मायैषा मरीचिकैषा (अद्स्प्गिइ ३६) निर्मितमेतत् । नास्ति स्कन्धा वा धातवो वा आयतनानि वा । नास्त्यत्र स्वप्नो न स्वप्नदर्शी न प्रतिश्रुत्का न प्रतिश्रुत्का श्रोता । न प्रतिभासो न प्रतिभासदर्शी । न माया न माया<दर्शी>, न मरीचिक <न> मरीचिकदर्शी । न निर्मितं न निर्मिता । अपि तु खलु सर्व एते धर्मा अवस्तुका अभावस्वभावास्, तद्यूयमस्कन्धेषु स्कन्धदर्शिन । अधातुषु धातुसंज्ञिन । अनायतनेष्वायतनसंज्ञिन । अपि तु खलु प्रतीत्यसमुत्पन्ना एते सर्वधर्मा विपर्याससमुत्थिता कर्मविपाकपरिगृहीता । किं पुनर्यूयमत्र अवस्तुकेषु धर्मेषु वस्तुसंज्ञिनो भवत । तद्बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्नुपायकौशलेन ये मत्सरिणः सत्त्वास्तान्मत्सर्याद्विनिवर्त्य दानपारमितायां नियोजयति । तेषां च दानपरित्यागो महाभोगतायै संवर्तते । स तांश्ततः उच्चाल्य शीलपारमितायां नियोजयति । तेषां तच्छीलसमादानं स्वर्गोपपत्तये संवर्तते । स ततः उच्चाल्य समाधौ नियोजयति । तेषां समाधिब्रह्मलोकोप<प>त्तये संवर्तते । एवं प्रथमा ध्याना द्वितीये ध्याने द्वितीया ध्याना तृतीये ध्याने । तृतीया ध्याना चतुर्थे ध्याने । चतुर्थाद्ध्यानादाकाशानन्त्यायतनसमापत्तौ । विज्ञानन्त्यायतनसमापत्तौ । आकिंचन्यायतनसमापत्तौ नैवसंज्ञानासंज्ञायतनसमापौऔ नियोजयति । स ततो हीनाद्दानाद्दानफलाच्च अनेकपर्यायेण विवेच्य अनुपधिशेषे निर्वाणधातवाश्वासयति निवेशयति प्रतिष्ठापयति । स ततः शीला<च्> च शीलफलाच्च अनेकपर्यायेण विवेच्य अनुपधिशेषे निर्वाणधातौ प्रतिष्ठापयति । स ततः समाधेश्च समाधिफलाच्च अनेकपर्यायेण विवेच्य अनुपधिशेषे निर्वाणधातौ प्रतिष्ठापयति । चतुर्षु स्मृत्युपस्थानेषु चतुर्षु सम्यक्प्रहाणेषु चतुर्ष्विद्धिपादेषु पञ्चस्विन्द्रियेषु पञ्चसु बलेषु सप्तसु बोध्यङ्गेषु आर्याष्टाङ्गे मार्गे त्रिषु विमोक्षमुखेष्वष्टासु विमोक्षेषु नवस्वनुपूर्वसमापत्तिषु दशसु तथागतबलेषु चतुर्षु वैशारद्येषु चतसृषु प्रतिसंवित्सु महामैत्र्यां महाकरुणायामष्टादशष्वावेणिकेषु बुद्धधर्मेष्वश्वासयति निवेशयति विनयति प्रतिष्ठापयति । स एभिरनास्रवैर्धर्मैररूपिभिरनिदर्शनैरप्रतिघैर्ये स्रोतआपत्तिफलं प्रार्थयन्ति तान् (अद्स्प्गिइ ३७) स्रोतआपत्तिफले प्रतिष्ठापयति । यावद्येऽर्हत्त्वं प्रार्थयन्ति तानर्हत्त्वे प्रतिष्ठापयति । ये प्रत्येकबोधिं प्रार्थयन्ति तान् प्रत्येकबोधौ प्रतिष्ठापयति । येऽनुत्तरांसम्यक्संबोधिं प्रार्थयन्ति तेषां बोधिमार्गमाचष्टे उपदिशति समुत्तेजयति । संप्रहर्षयति । प्रतिष्ठापयति, एवं खलु सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् स्वप्नोपमानां [f । २७७ ] सर्वधर्माणामवस्तुकानामभावस्वभावानां स्वलक्षणशून्यानां व्यवस्थानं करोति । एवमुक्ते आयुष्मान् सुभूतिर्भगवन्तमेतदवोचत्: आश्चर्यमिदं भगवन्नद्भुतधर्मो यत्र हि नाम बोधिसत्त्वो महासत्त्व इह गंभीरायां प्रज्ञापारमितायां चरन्नभावस्वभावानांसर्वधर्माणामत्यन्तशून्यानाम् <अन्>अवराग्रशून्यानां सर्वधर्माणां व्यवस्थानं करोति, इमे कुशला धर्मा इमे अकुशला धर्मा इमे सास्रवा धर्मा इमे अनास्रवा धर्माः यावदिमे संस्कृता धर्मा इमे असंस्कृता धर्माः । भगवानाह: एवमेतत्सुभूते एवमेतत् । आश्चर्यमिदं बोधिसत्त्वानां महासत्त्वानामब्धुतधर्मो यदि इह गंभीरायां प्रज्ञापारमितायां चरन्तो धर्माणां व्यवस्थान<ं> कुर्वन्ति । सचेत्पुनस्त्वं सुभूते जनीयाये बोधिसत्त्वस्य महासत्त्वस्य आश्चर्याद्भुतो धर्मस्तत्सर्वश्रावकप्रत्येकबुद्धैस्तस्य बोधिसत्त्वस्य महासत्त्वस्य न सुकरः प्रत्युपकारः कर्तुं । न युष्माभिः सर्वैरपि बोधिसत्त्वस्य महासत्त्वस्य शक्यं स धर्मोऽभिभवितुं । सुभूतिराह: कतमो भगवन् बोधिसत्त्वस्य महासत्त्वस्य अब्धुतधर्म यः सर्वश्रावक<प्रत्येक>बुद्धानां न संविद्यते? भगवानाह: तेन हि सुभूते शृणु साधु च सुष्टु च मनसिकुरु, भाषिष्ये <ऽहं ते> । इह सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् विपाकीयासु षट्सु पारमितासु स्थित्वा पञ्चसु च अभिज्ञासु सप्ततृंशति च बोधिपक्ष्येषु धर्मेषु धारणीमुखेषु समाधिमुखेषु च दशसु तथागतबलेषु चतुर्षु वैशारद्येषु चतसृषु प्रतिसंवित्सु महामैत्र्यां महाकरुणायामष्टादशष्वावेणिकेषु बुद्धधर्मेषु स्थित्वा दिश्विदिक्षु लोकधातूं गत्वा ये सत्त्वा दानेन (अद्स्प्गिइ ३८) अनुग्रहीतव्यास्तान् दानेन अनुगृह्णाति । ये शीलेन ये क्षान्त्या ये वीर्येण ये समाधिना ये प्रज्ञया ये प्रथमेन ध्यानेन ये द्वितीयेन ये तृ<ती>येन ये चतुर्थेन ये आकाशानन्त्यायतनसमापत्त्या विज्ञानान<न्त्यायतन>समापत्त्या आकिंचन्यायतनसमापत्त्या नैवसंज्ञानासंज्ञायतनसमापत्त्या अनुग्रहीतव्यास्तांस्तथैव अनुगृह्णाति । ये मैत्र्यानुग्रहीतव्यास्तां मैत्र्यानुगृह्णाति ये करुणया ये मुदितया ये उपेक्षयानुग्रहीतव्यास्तानुपेक्षयानुगृह्णाति । ये चतुर्षु स्मृत्युपस्थानैश्चतुर्भिः सम्यक्प्रहाणैश्चतुर्भिरिद्धिपादैः पञ्चभिरिन्द्रियैः पञ्चभिर्बलैः सप्तभिर्बोध्यङ्गैरार्याष्टांगेन मार्गेणानुग्रहीतव्या ये शून्यतया समाधिना ये आनिमित्तेन समाधिना ये अप्रणिहितेन समाधिना अनुग्रहीतव्यास्तानप्रणिहितेन समाधिना अनुगृह्णाति । सुभूतिराह: कथं भगवन् बोधिसत्त्वो महासत्त्वो दानेन सत्त्वाननुगृह्णाति? भगवानाह: इह सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् दानं ददात्य्, अन्नमन्नार्थिकेभ्यः पानं पानार्थिकेभ्यो माल्यं माल्यार्थिकेभ्यः गन्धं गन्धार्थिकेभ्यो विलेपनं विलेपनार्थिकेभ्यो: वस्त्रं वस्त्रार्थिकेभ्यः शय्यासनं शय्यासनार्थिकेभ्यो यावदन्यतरान्यतरां मनुष्यकां परिष्कारान् ददाति । यथैव तथागतया अर्हते सम्यक्संबुद्धाय ददाति । तथैव प्रत्येकबुद्धेभ्योऽर्हद्भ्योऽनागामिभ्यः सकृदागामिभ्यः स्रोतआपन्नेभ्यः सम्यग्गतेभ्यः सम्यक्प्रतिपन्नेभ्यः तथैव मनुष्यभूतेभ्य । तथैव तिर्यग्योनिगतेभ्यः सर्वेभ्यः अनानात्वसंज्ञामुपस्थाप्य दानं ददाति । तत्कस्य हेतोः? तथाप्यनानात्वं सर्वधर्माः, सोऽनानात्वं दानं दत्त्वा अनानात्वस्य धर्मस्य लाभी भविष्यति । यदुत सर्वाकारज्ञताया । सचेत्पुनर्सुभूते बोधिसत्त्वस्य महासत्त्वस्य तिर्यग्योनिगतं [f । २७७ ] प्राणिकमदक्षिणीयं दृष्ट्वा एवं चित्तमुत्पद्येत, सम्यक्संबुद्धो मे दक्षिणीयो न तिर्यग्योनिगत इति । न बोधिसत्त्वधर्मो भवेत् । तत्कस्य हेतो<ः>? न हि बोधिसत्त्वो महासत्त्वो बोधये चित्तमुत्पाद्येवमनुत्तरस्यै सम्यक्संबोधये संप्रस्थित, इमे मया (अद्स्प्गिइ ३९) सत्त्वा दानेन अनुग्रहीतव्या इमे न अनुग्रहीतव्या ते दानेन अनुगृहीता क्षत्रियमहासालकुलेषु उपपत्स्यन्ते ब्राह्मणमहासालकुलेषु उपपत्स्यन्ते गृहपतिमहासालकुलेषु उपपत्स्यन्ते । ते तेनैव दानेन अनुगृहीता अनुपूर्वेण त्रिभिर्यानैरनुपधिशेषे निर्वाणधातौ परिनिर्वास्यन्ति । सचेद्बोधिसत्त्वं महासत्त्वं सर्वो जनकायोर्वाध्यं याचेत, तत्र बोधिसत्त्वेन महासत्त्वेन नान्यं चित्तं नोत्पादयितव्यं । दातव्यं वा न दातव्यमित्य्, अविकोपितमानसेन । दातव्यमेव तस्मै जनपदकायायः । तत्कस्य हेतो<स्>? तथा हि स जनपदकायस्य अर्थेऽनुत्तरस्यै सम्यक्संबोधये संप्रस्थितः । सचेत्पुनः विकल्पयेद्गर्ह्यो भवेत्तेषां बुद्धानां भगवतां तेषां च बोधिसत्त्वानां महासत्त्वानां प्रत्येकबुद्धानामर्हतां शैक्षाणां सदेवमानुष्यासुरस्य च लोकस्य, केन किलाध्यीष्ट: सर्वसत्त्वानां त्राणं भव लयनं शरणं परायणमिति । पुनरपरं सुभूते सचेद्बोधिसत्त्वस्य महासत्त्वस्य मनुष्यभूतो वा अमनुष्यभूतो वा आगम्य अङ्गप्रत्यङ्गानि च्छेतुं याचेत तं तदा तेन न द्वितीयं चित्तमुत्पादयितव्यं । दास्ये वा न दास्ये वा । तत्कस्य हेतोः? तथा हि तेन बोधिसत्त्वेन महासत्त्वेन सत्त्वानामर्थाय संचिन्त्य आश्रयः परिग्रहीतः । अनेन मे आत्मभावेन सर्वसत्त्वानामर्थः कर्तव्यः । तेनैवं चित्तमुत्पादयितव्यं, येषामर्थे मया आत्मभावः उपादत्तस्ते अयाचितमेव गृहीत्वा गच्छतुं । एवं खलु सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं । पुनरप्रं सुभूते बोधिसत्त्वेन महासत्त्वेन याचनकं दृष्ट्वैवं चित्तमुत्पादयितव्यं, को वेह ददाति कस्मै वा दीयते किं वा दीयते, सर्वेषामेषां धर्माणां स्वभावो नोपलभ्यते । (अद्स्प्गिइ ४०) तत्कस्य हेतोः? तथा ह्येते धर्मा अत्यन्तशून्यतया शून्या । न हि शून्यता कश्चिद्ददाति वा आहरते वा । एवं खलु सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं । यदुत अध्यात्मशून्यतायां वा बहिर्धासून्यतायां वा । अध्यात्मबहिर्धाशून्यतायां वा शून्यताशून्यतायां वा परमार्थशून्यतायां वा प्रकृतिशून्यतायां वा सर्वधर्मशून्यतायां वा यावत्स्वलक्षणशून्यतायां वा, स इह शून्यतायां स्थित्वा यद्दानं दास्यति । तस्य सततसमितं दानपारमितापरिपूरिर्भविष्यति । सोऽनया दानपारमितया परिपूर्या न अध्यात्मिकबाह्येषु धर्मेषु च्छिद्यमानेषु वा भिद्यमानेषु वा एवं चित्तमुत्पादयिष्यति । न कश्चित्छिनत्ति वा भिनत्ति वा । (विइइ ५,१ ) । इह अहं सुभूते अद्राक्षं बुद्धचक्षुषा लोकं व्यवलोकयति पूर्वस्यां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु बोधिसत्त्वान्महासत्त्वान् संचिन्त्य महानरकात्प्रपत्य तानि महानरकदुःकान्युपशमय्य त्रिभिः प्रातिहार्यैस्तेषां नारकाणां सत्त्वानां धर्मन् देशयन्ति । ऋद्धिप्रातिहार्येण आदेशनाप्रातिहार्येण अनुशासनीप्रातिहार्येण च । तानि नरकदुःखान्युपशमय्य आदेशनाप्रातिहार्येण धर्मन् देशयन्त्यनुशासनी [f । २७८ ] प्रातिहार्येण च । ते बोधिसत्त्वा महासत्त्वा महामैत्र्या च महाकरुणया च महामुदितया च महोपेक्षया च धर्मन् देशय<न्>ति । ततस्ते नैरयिका सत्त्वास्तेषां बोधिसत्त्वानां महासत्त्वानामन्तिके चित्तं प्रसाद्य ततो महानरकेभ्यो व्युत्थिस्थन्ते । ते ततो महानरकेभ्यो व्युत्थाय देवमनुष्याणां सभागतायै उपपद्यन्ते । अनुपूर्वेण च त्रिभिः प्रातिहार्यैर्दुःखस्य अन्तं कुर्वन्ति । एवं दक्षिणस्यां पश्चिमायामुत्तरस्यामधस्तादुपरिष्टादनुविदिक्षु लोकधातुषु कर्तव्यं । (विइइ ५,१ ) यावदिह अहं सुभूते बुद्धचक्षुषा लोकं व्यवलोकयन्नद्राक्षं गङ्गान्दीवालुकोपमेषु लोकधातुषु बोधिसत्त्वान्महासत्त्वान् बुद्धान्<आं> भगवतामुपस्थायकानि, तांस्ते बोधिसत्त्वा महासत्त्वा बुद्धा<न्> भगवत उपतिष्ठन्ति तीव्रया भक्त्या प्रियेण न अप्रियेण मनापेन न अमनापेन गौरवेण न अगौरवेण । (अद्स्प्गिइ ४१) यच्च ते बुद्धा भगवन्तो धर्मं भाषन्ते <तन् ते> बोधिसत्त्वा महासत्त्वा उद्गृह्णन्ति । उद्गृह्य धारयन्ति । न जातु विप्रणाशयन्ति । यावदनुत्तरां सम्यक्संबोधिमभिसंबुद्ध्यन्ते । एवं दक्षिणस्यां पश्चिमायामुत्तरस्यामधस्तादुपरिष्टादनुविदिक्षु लोकधातूसु । इह पुनरहं सुभूते बुद्धचक्षुषा लोकं व्यवलोकयन्नद्राक्षं पूर्वस्यां दिशि गङ्गानदीवालुकोपंच्षु लोकधातुषु बोधिसत्त्वा महासत्त्वास्तैर्यग्योनिकानां सत्त्वानामर्थाय आत्मपरित्यागान् कुर्वतः । तत्र ते बोधिसत्त्वा महासत्त्वा अङ्गप्रत्यङ्गानि च्छित्वा च्छित्वा दशसु दिक्षु विक्षिपन्ति । तद्ये तैर्यग्योनिगताः सत्त्वास्तेषां बोधिसत्त्वानां महासत्त्वानां मांसानि खदन्ति । ते तेषां बोधिसत्त्वानां महासत्त्वानामन्तिके मैत्रिं प्रतिलभन्ते । ते तेन मैत्रीप्रतिलंभेन ततस्तिर्यग्योने व्युत्थिष्ठन्ते । व्युत्थाय देवमनुष्येषु उपपद्यन्ते । तत्र उपपन्ना बुद्धा<न्> भगवतः आरागयन्ति । ते तान् । बुद्धा<न्> भगवतः उपतिष्ठन्ति । ते तेषां बुद्धानां भगवतामन्तिका<द्> धर्मं श्रुत्वा तथात्वाय प्रतिपद्यन्ते । तेऽनुपूर्वेण अनुपधिशेषे निर्वाणधातौ परिनिर्वान्ति । त्रिभिर्यानैः श्रावकयानेन वा प्रत्येकबुद्धयानेन वा महायानेन वा । एवं बहुकरा हि सुभूते बोधिसत्त्वा महासत्त्वा येऽनुत्तरस्यै सम्यक्संबोधये चित्तमुत्पादयन्ति । उत्पाद्य तथत्वाय प्रतिपद्यन्ते । एवं दक्षिणस्यां पश्चिमायामुत्तरस्यामधष्टादुपरिष्टादनुविदिक्षु यावदनुपधिशेषे निर्वाणधातौ परिनिर्वास्यति । (विइइ ५,१ ) इ<ह अ>हं सुभूते बुद्धचक्षुषा लोकं व्यवलोकयन्नद्राक्षं पूर्वस्या<ं> दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु बोधिसत्त्वान्महासत्त्वान् प्रेतवैषयिकानां सत्त्वानां तेषु प्रेतविषयेषु यानि दुःखानि तानि सर्वाणि प्रतिप्रश्रंभयन्ति । तत्र ते प्रेतवैषयिकाः सत्त्वास्तेषां बोधिसत्त्वानां महासत्त्वानामन्तिके मैत्रं चित्तमुत्पाद्य तत<ः> प्रेतयोने<र्> व्युत्थिष्ठन्ते । ते ततः प्रेतयोनेर्व्युत्थाय देवलोके मनुष्यलोके च उपपद्यन्ते । न च कदाचिद्बुद्धैर्भगवद्भिर्विरहिता भवन्ति यावन्न अनुपधिशेषे निर्वाणधातौ परिनिर्वृता भवन्ति । एवं समन्ता<द्> दशसु दिक्षु कर्तव्यं । एवं महाकरुणाविहारि सुभूते बोधिसत्त्वो महासत्त्वः सत्त्वानामर्थाय प्रत्युपस्थितो यदुत परिनिर्वापनार्थाय । (विइइ ५,१ ) इह पुनरहं सुभूते बुद्धचक्षुषा लोकं व्यवलोकयन्न् (अद्स्प्गिइ ४२) अद्राक्षन् [f । २७८ ] पूर्वस्यान् दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु बोधिसत्त्वान्महासत्त्वांश्चातुर्महाराजकायिकानान् देवानान् धर्मन् देशयन्तस्त्रायस्त्रिंशानां देवानां यामानां तुषितानां निर्माणरतीनां परिनिर्मितवशवर्त्तिनां देवानां धर्मन् देशयन्तः, तत्ते देवपुत्रास्तेषां बोधिसत्त्वानां महासत्त्वानामन्तिकाद्धर्मं श्रुत्वा अनुपूर्वेण त्रिभिर्यानै<र्> परिनिर्वृताश्च परिनिर्वान्ति च परिनिर्वास्यन्ति च । तत्र सुभूतेत्ये देवपुत्रा उदारिकैः पञ्चभिः कामगुणैरधिमूर्च्छितास्, तेषां तानि विमानान्यादीप्य धर्मन् देशयन्ति, अनित्या खलु मार्ष<ः> सर्वसंस्कारा दुःखा अनात्मानो ध्रुवा अनाश्वासिका विपरिणामधर्मणः, कः संस्<क्>आरेषु विश्वस्तमना विहरेत् । एवं समस्तदशदिक्षु कर्तव्यं । इह पुनरहं सुभूते बुद्धचक्षुषा लोकं व्यवलोकयन्नद्राक्षं बोधिसत्त्वान्महासत्त्वान् पूर्वस्यां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु ये ब्रह्मदृष्टावभिनिविष्टास्तांस्तेभ्यो दृष्टिगतेभ्यो विवेचयन्ति । कथं भो मार्षा शून्येषु सर्वधर्मेषु दृष्टीरुत्पादयथ । रिक्तकेषु तुच्छकेषु सर्वधर्मेषु दृष्टीरुत्पादयथ: एवं सुभूते बोधिसत्त्वा महासत्त्वा महाकरुणायां स्थित्वा सत्त्वानां धर्मन् देशयन्ति । आश्चर्यमिदं सुभूते बोधिसत्त्वानां महासत्त्वानामब्धुतधर्मः । एवं दक्षिणस्यां पश्चिमायामुत्तरस्यामधस्तादुपरिष्टादनुविदिक्षु । (विइइ ५,ले) इह आहं सुभूते बुद्धचक्षुषा लोकं व्यवलोकयन्नद्राक्सं बोधिसत्त्वान्महासत्त्वान् पूर्वस्यान् दिशि गङ्गानादीवलुकोपमेषु लोकधातुषु मनुष्यांस्चतुर्भिः संग्रहवस्तुभिः संगृह्णतः । कतमैश्चतुर्भिः? (इ) दानेन, (इइ) प्रियवद्यतया, (इइइ) अर्थचर्यया, (इव्) समनार्थतया । [सेए ओन् प्प् । ४३-४ । ए ।च् ।] (इ) कथं च सुभूते बोधिसत्त्वो महासत्त्व दानेन सत्त्वान् संगृह्णाति? इह सुभूते बोधिसत्त्वो महासत्त्वो द्वाभ्यां दानाभ्यां सत्त्वान् संगृह्णाति । कतमाभ्यां द्वाभ्यां? यदुत (ल) आमिषदानेन च (इब्) धर्मदानेन च । (अद्स्प्गिइ ४३) (ल) कथं च सुभूते बोधिसत्त्वो महासत्त्वः आमिषदानेन सत्त्वान् संगृह्णाति? इह सुभूते बोधिसत्त्वो महासत्त्व प्रज्ञापारमितायां चरन् । सुवर्णं वा रूप्यं वा मनिं वा मुक्ता वा । शङ्खा वा शिलान् वा प्रवाडं वा रजतं वा जातरूपं वा । अन्नं वा पानं वा यानं वा वस्त्रं वा गन्धं वा माल्यं वा विलेपनं वा शयनं वा आसनं वा प्राजीविकं वा स्त्रियो वा पुरुषान् वा अश्वान् वा हस्तिनो वा वा आत्म [न्नईवन्यतन्नैवम्] अनुश्रावयति: एत भो सत्त्वा यथा (अद्स्प्गिइ ४४) तानवकमेव मया चितकमेव गृहीत्वा गच्छतः हारथ स तद्दानं दत्त्वा बुद्धं शरणं गमयति । धर्मं शरनं गमयति । संघं शरणं गमयति । कांश्चित्पञ्चशिक्षापदानि ग्राहयति । कांश्चिदष्टाङ्गसमन्वागतमुपवषमुपवसति । कांश्चिद्दशकुशलेषु कर्मपथेषु प्रतिष्ठापयति कांश्चित्प्रथमे ध्याने । यावन्नैवसंज्ञानासंज्ञायतनसमापत्तौ समादापयति । कांश्चि<न्> मैत्र्यां करुणायां मुदितायामुपेक्षायां समादापयति । कांश्चिद्बुद्धानुस्मृत्यां धर्मानुस्मृत्यां संघानुस्मृत्यां शिलानुस्मृत्यां त्यागानुस्मृत्यां देवतानुस्मृत्यां समादापयति । कांश्चि शुभादिकासु संज्ञासु समुत्थाय प्रत्यवेक्सणा<ं> समादापयति । कांश्चिदाकारेषु । कांश्चि<च्> चतुर्षु स्मृत्युपस्थानेषु । कांश्चि<च्> चतुर्षु सम्यक्प्रहाणेषु । कांश्चि<च्> चतुर्ष्वृद्धिपादेषु । कांश्चि पञ्चस्विन्द्रियेषु । कांश्चि पञ्चसु बलेषु । कांश्चित्सप्तसु बोध्यङ्गेषु कांश्चिदार्याङ्गे मार्गे । कांश्चिच्छून्यतानिमित्ताप्रणिहितेषु समाधिविमोक्षमुखेषु कांश्चिदष्टासु विमोक्षेषु कांश्चिन्नवस्वनुपूर्वसमापत्तिषु । कांश्चि<द्> दशसु तथागतबलेषु । कांश्चिच्चतुर्षु [f । २७९ ] वैशारद्येषु कांचि<च्> चतस्रसु प्रतिसंवित्सु कांचिन्महामैत्र्यां महाकरुणायां कांश्चिदष्टादशस्वावेणिकेषु बुद्धधर्मेषु कांश्चिद्द्वातृंशमहापुरुषलक्सणपरिनिष्पत्तौ कांश्चिदशीत्यनुव्यञ्जने<षु कांश्चि>त्स्रोतआपत्तिफले कांश्चित्सकृदागामिफले । कांश्चिदनागमीफले कांश्चिदर्हत्त्वे कांश्चित्प्रत्येकबोधौ (अद्स्प्गिइ ४५) प्रतिष्ठापयति । एवं खलु सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् सर्वसत्त्वानाम् <आमिष>दानं ददात्युत्तरे च योगक्षेमे प्रतिष्ठापयति । अयं सुभूते बोधिसत्त्वस्य महासत्त्वस्य आश्चर्याद्भुतधर्मः । (इब्) कथं च सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् सत्त्वान् धर्मदानेन अनुगृह्णाति? द्वे इमे सुभूते धर्मदाने (इब) लौकिकं च (इब्ब्) लोकोत्तरं च । (इब) तत्र कतरत्सुभूते लौकिकन् धर्मदानं? या लौकिकानां धर्माणामाचक्षणा देशना संप्रकाशना । तद्यथा अशुभपरिवर्तकस्य, चतुर्णा<ं> ध्यानानां चतुर्णां ब्रह्मविहाराणाञ्चतसृणामारूप्यसमापत्तीना<ं>, येऽपि केचिदन्ये लौकिका धर्मा साधारणा । बालपृथग्जनै<र्>, इदं सुभूते लौकिकन् धर्मदानं । स खलु पुनः सुभूते बोधिसत्त्वो महासत्त्व इदं लौकिकं धर्मदानं दत्त्वा अनेकपर्यायेण ततः समादानाद्विवेचयति । विचेव्य उपायकौशलेन आर्यधर्मेषु प्रतिष्ठापयत्यार्यधर्माणाञ्च फले । कतमे च आर्यधर्मा कतमच्च आर्यधर्माणां फलं? आर्यधर्मा उच्यन्ते सप्ततृंशद्बोधिपक्ष्या धर्मास्त्रीणि विमोक्षमुखानि, आर्यधर्माणां फलं स्रोतआपत्तिफलं । यावदर्हत्वं । अपि तु खलु सुभूते बोधिसत्त्वस्य महासत्त्वस्य आर्यधर्मा यत्स्रोतआपत्तिफले ज्ञानं यावदर्हत्त्वे ज्ञानं । प्रत्येकबोधौ ज्ञानं । यावत्सप्ततृंशति बोधिपक्ष्येषु धर्मेषु ज्ञानं याव<द्> दशसु तथागतबलेषु ज्ञानं । यावन्महामैत्र्यां महाकरुणायां महामुदितायां महोपेक्षायां ज्ञानं । येऽप्यन्ये लौकिकलोकोत्तरा धर्मा सास्रवानास्रवा संस्कृता असंस्कृता धर्मास्तत्र य<ज्> ज्ञानं यावत्सर्वाकारज्ञता इम उच्यन्ते बोधिसत्त्वस्य महासत्त्वस्य आर्यधर्माः । कतमच्च बोधिसत्त्वस्य महासत्त्वस्य आर्यधर्माणां फलं? यावत्सर्ववासनानुसन्धिप्रहाणमिदमुच्यते बोधिसत्त्वस्य महासत्त्वस्य आर्यधर्माणां फलं । अथायुष्मान् सुभूतिर्भगवन्तमेतदवोचत्: किं पुनर्भगवन् बोधिसत्त्वो महासत्त्वः सर्वाकारज्ञतामनुप्राप्नोति? भगवानाह: एवमेतत्सुभूते एवमेतद्, बोधिसत्त्वो महासत्त्वः सर्वाकारज्ञतामनुप्राप्नोति । (अद्स्प्गिइ ४६) आह: यदि भगवन् बोधिसत्त्वो महासत्त्व सर्वाकारज्ञतामनुप्राप्नोति । तद्बोधिसत्त्वस्य महासत्त्वस्य तथागतस्य च किं नानाकरणं? भगवानाह: अस्ति नानाकरणं । आह: कतमन्नानाकरणमिति? भगवानाह: बोधिसत्त्वो महासत्त्वः सर्वाकारज्ञतामनुप्राप्नोति । तथागतः पुनः प्राप्तज्ञान उच्यते । तत्कस्य हेतोः? न ह्यन्यद्बोधिसत्त्वस्य चित्तमुपलभ्यतेऽन्यस्तथागतस्य अर्हतः सम्यक्संबुद्धस्य यत्र स्थित्वा सर्वधर्मेष्वनन्धकारता अनुप्राप्ता । इदं सुभूते बोधिसत्त्वस्य महासत्त्वस्य लौकिकन् धर्मदानं, यदुत निश्रय भवति । लोकोत्तरधर्मदानं । एवं खलु सुभूते बोधिसत्त्वो महासत्त्वः सत्त्वा<न्> लौकिके धर्मदाने नियोज्य उपायकौशलेन यावत्सर्वाकारज्ञतायां प्रतिष्ठापयति । (विइइ ५,२) (इब्ब्) कतमच्च सुभूते बोधिसत्त्वस्य महासत्त्वस्य लोकोत्तरं धर्मदानमसाधारणं सर्वबालपृथग्जनैः । तद्यथा (ल) चत्वारि स्मृत्युपस्थानानि (१ ) चत्वारि सम्यक्प्रहाणानि, [f । २७९ ] (१ ) चत्वार ऋद्धिपादाः, (१ ) पञ्चेन्द्रियाणि (१ )पञ्चबलानि, (१ ) सप्त बोध्यङ्गानि, (ल्ग्) आर्याष्टाङ्गो मार्गः, (अ) त्रिणि विमोक्षमुखानि, (३) अष्टौ विमोक्षा, (४) नव अनुपूर्वसमापत्तयः, (१३) दश तथागतबलानि, (१४) चत्वारि वैशारद्यानि, (१०)चतस्रः प्र<तिसं>विदो, (ब्) महामैत्री (१९) महाकरुणा, (२०) अष्टादशावेणिका बुद्धधर्माः, (च्) द्वातृंशन्महापुरुषलक्षणान्य्, (द्) अशीतिमनुव्यञ्जनानि, (ए) पञ्चधारणीमुखशतानि, (f) समाधिमुखशतानि । इदमुच्यते लोकोत्तरं धर्मदानं <न> लौकिकं । (ल) कतमानि च सुभूते चत्वारि स्मृत्युपस्थानानि? यदुत (इ) अध्यात्मकाये कायानुपश्<य्>ई विहरति । बहिर्द्धाकाये कायानुपश्यी विहरत्य्, अध्यात्मबहिर्द्धा काये कायानुपश्यी विहरत्य्, आतापी संप्रजान<न्> स्मृतिमान् विनीय लोकेऽभिद्ध्यादौर्मनस्ये, समुदयानुपश्यी च काये विहरति । व्ययानुपपश्यी च काये विहरति । समुदयव्ययानुपश्यी च काये विहरत्य्, अनिश्रितश्च विहरति । [न च जातु] लोके उपाददाति । एवं (इइ) वेदनास्वेवं (इइइ) चित्ते एवं (इव्) धर्मेषु । (१ ) कतमानि च सुभूते सम्यक्प्रहाणानि? (इ) अनुत्पन्नानां पापकानामकुशलानान् धर्माणामनुत्पादाय च्छन्दं जनयत्य्, (इइ) उत्पन्नानां प्रहाणाय व्यायच्छते, (इइइ) अनुत्पन्नानां कुशलानां धर्माणाम् (अद्स्प्गिइ ४७) उत्पादाय च्छन्दं जनयति वीर्यमारभते । (इव्) उत्पन्नाना<ं> वृद्धये वैपुल्यतायै भावनापारिपूर्यै च्छन्दं जनयति । (ल्च्) कतमे च सुभूते ऋद्धिपादाः? च्छन्दसमाधिप्रहाणसंस्कारसमन्वागतश्चित्तवीर्यमीमांसासमाधिप्रहाणसंस्कारसमन्वागतमृद्धिपादः । (ल्द्) कतमानि च पञ्चेन्द्रियाणि? श्रद्धेन्द्रियं वीर्येन्द्रियं <स्मृतीन्द्रियं> समाधीन्द्रियं प्रज्ञेन्द्रियमिमान्युच्यन्ते पञ्चेन्द्रियाणि । (ले) कतमानि च पञ्चबलानि? श्रद्धाबलं वीर्यबलं स्मृतिबलं समाधिबलं प्रज्ञाबलं, इमान्युच्यन्ते पञ्चबलानि । (१ ) कतमानि च सुभूते सप्तबोध्यङ्गानि? स्मृतिसंबोध्यङ्गं धर्मविचयसंबोध्यङ्गं, वीर्यसंबोध्यङ्गं प्रितिसंबोध्यङ्गं प्रश्रब्धिसंबोध्यङ्गं समाधिसंबोध्यङ्गमुपेक्षासंबोध्यङ्गं, इमान्युच्यन्ते सप्तबोध्यङ्गानि । (ल्ग्) कतमश्च सुभूते आर्याष्टांगो मार्गः? तद्यथा सम्यग्दृष्टिः सम्यक्संकल्प सम्यग्वाक्सम्य<क्>कर्मान्तः सम्यगाजीवः सम्यग्व्यायामः सम्यक्स्मृतिः सम्यक्समाधिः, अयमुच्यते आर्याष्टाङ्गो मार्गः । (अ) तत्र कतमे त्रयस्समाधयः? शून्यतासमाधिरानिमित्तसमाधिरप्रणिहितसमाधिः, कतमश्च शून्यतासमाधिः? या शून्याकारेण विविक्ताकारेण च चित्तस्यैकग्रता अयमुच्यते शुन्यतासमाधिः । तत्र कतमश्च आनिमित्तसमाधिः? या शान्ताकारेण चित्तस्यैकग्रता अयमुच्यते आनिमित्तसमाधिः । कतमश्च अप्रणिहितः समाधिः? या अनित्याकारेण दुःखाकारेण च । चित्तस्यैकाग्रता अयमुच्यते अप्रणिहितसमाधिः । (३) कतमेऽष्टौ विमोक्षा? (इ) <रूपी>रूपाणि पश्यत्ययं प्रथमो विमोक्षः । (इइ) अध्यात्मरूपसंज्ञी बहिर्धारूपाणि पश्यत्ययं द्वितीयो विमोक्षः । (इइइ) शुभत्वमप्यधिमुक्तो भवत्ययं त्रितीयो विमोक्षः । (इव्) स सर्वशो रूपसंज्ञानांसमतिक्रमात्प्रतिघसंज्ञानामस्तङ्गमा<त्> नानात्वसंज्ञानाममनसिकारादनन्तमाकाशमित्याकाशानन्त्यायतनमुपसंपद्य विहरत्ययं चतुर्थो विमोक्षः । (व्) स सर्वश आकाशानन्त्यायतनसमतिक्रमादनन्तं विज्ञानमिति विज्ञानानन्त्यायतनमुपसंपद्य विहरत्य् । <अयं पञ्चमो> [f । २८० ] विमोक्षः । (वि) स सर्वशो विज्ञानानन्त्यायतनसमतिक्रमान्नास्ति किंचिदित्याकिंचन्यायतनमुपसनिपद्य विहरत्ययं षष्टो विमोक्षः । (विइ) स सर्वश आकिंचन्यायतनसमतिक्रमान्नैवसंज्ञानासंज्ञायतनमुपसंपद्य विहरत्ययं सप्तमो विमोक्षः । (विइइ) स सर्वशो नैवसंज्ञानासणिज्ञायतनसमतिक्रमात्संज्ञावेदयितनिरोधम् (अद्स्प्गिइ ४८) उपसंपद्य विहरत्ययमष्टमो विमोक्षः । इम उच्यन्तेऽष्टौ विमोक्षाः । (४) कतमा<नि> च नवानुपूर्वसमापत्तयः? इहैकत्यो (इ) विविक्तमेव कामैर्विविक्तं पापकैरकुशलैर्धर्मै<र्> सवितर्कं सविचारं विवेकजं । प्रीतिसुखं प्रथमन् ध्यानमुपसंपद्य विहरति । यावन् (विइइ) नैवसंज्ञानासंज्ञायतन<समापत्ति>मुपसंपद्य विहरति । (इx) स सर्वशो नैवसंज्ञानासंज्ञायतनसमतिक्रमात्संज्ञावेदयितनिरोधमुपसंपद्य विहरति । इमा<न्य्> उच्यन्ते नवानुपूर्वसमापत्तय । (१३) कतमानि च सुभूते दशतथागतबलानि? इह सुभूते तथागत (इ) स्थानं च स्थानतो यथाभूतं प्रजानाति । अस्थानं च अस्थानतो यथाभूतं प्रजानाति । (इइ) अतीतानागतप्रत्युत्पन्नानां कर्माणां कर्मसमादानां स्थानशो हेतुशो विपाकं यथाभूतं प्रजानाति । (विइ) इन्द्रियबलबोध्यङ्ग । ध्यानसमाधिसमापत्ति । संक्लेशव्यवदानं यथाभूतं प्रजानाति । (व्) परसत्त्वानां परपुद्गलानांमिन्द्रियपरापरज्ञता यथाभूतं प्रजानाति । (इव्) परसत्त्वानां परपुद्गलानां नानाधिमुक्तिकतां यथाभूतं प्रजानाति । (वि) सर्वत्रागमिनीं प्रतिपदं यथाभूतं प्रजानाति । (इइइ) नानाधातुं लोकमनेकधातुं यथाभूतं प्रजानाति । (विइइ) अनेकविधं पूर्वेनिवासमनुस्मरति: एकं वा जातिं यावत्साकारं सोद्देशमनेकविधं पूर्वनिवासमनुस्मरति । (इx) दिव्येन चक्षुषा विशुद्धेन अतिक्रान्त मानुषेन सत्त्वान् पश्यति । यावत्सुगतौ स्वर्गलोके देवेषु उपपद्यमानान् । (x) आस्रवाणां क्षयादनास्रवं चेतोविमुक्तिं प्रज्ञाविमुक्तिं यथाभूतं प्रजानाति । इमानि दशतथागतबलानि । (१४) कतमानि च सुभूते तथागतस्य चत्वारि वैशारद्यानि? (इ) सम्यक्संबुद्धस्य मे प्रतिजानत इमे धर्मा अनभिसंबुद्धा इत्यत्र वत मे कश्चित्सदेवके लोके समारके सब्रह्मके सब्रह्मण [ब्राणिकाया]प्रजायां सह धर्मेण चोदयेतिति । निमित्तमेतन्न समनुपश्यामि । निमित्तमेतदसमनुपश्यन् क्षेमप्राप्तो विहराम्यभयप्राप्त, आर्षभं स्थानं प्रतिजानामि: पर्षद्गतः सम्यक्षिंहनादं नदामि ब्रह्मं चक्रं प्रवर्तयाम्यप्रवर्तनीयं श्रमणेन वा ब्राह्मणेन वा देवेन वा मारेण वा ब्रह्मणा वा केनचिद्धा पुनर्लोके सह धर्मेण । (इइ) क्षीणास्रवस्य वत मे प्रतिजानत । इमे आस्र<वाः> अपरिक्षीणा<ः>, यावद्(इइइ) ये खलु पुनर्मया अन्तरायिका धर्मा आख्यातास्तां प्रतिषेवमाणो नालमन्तरायेति । (अद्स्प्गिइ ४९) यावद्(इव्) या मे प्रतिपदाख्याता आर्यो नैर्याणिक्यो नैर्वेधिक्यस्, तत्करस्य सम्यग्दुःखक्षयाय ताः प्रतिसेवमाणो न निर्याया<त्> सम्यग्दुःखक्षयाय, यावदिमानि चत्वारि वैशारद्यानि । (१०) कतमाश्च तथागतस्य चतस्रः प्रतिसंविद<ः>? तद्यथा अर्थप्रति<संविद्ध>र्मप्रतिसंविन्निरुक्तिप्रतिसंवित्प्रतिभानप्रतिसंवित् । ताः पुनः कतमाः? अर्थारंबणा धर्मारंबणा निरुक्त्यारंबणा प्रतिभानारंबणा । (२०) कतमे च सुभूते [f । २८० ] तथागतस्य अष्टादशावेणिका बुद्धधर्माः? (इ) नास्ति तथागतस्य स्खलितं, (इइ) नास्ति रवितं, (इइइ) नास्ति मुषितस्मृतिता, (व्) <ना>स्त्यसमाहितं चिउअं, (इव्) नास्ति नानात्वसंज्ञा, (वि) नास्त्यप्रतिसंख्यायोपेक्षा, (विइ) नास्ति च्छन्दस्य हानिः, (विइइ) <नास्ति> वीर्यस्य हानिः, (इx) नास्ति स्<मृतेर्हा>निः, (x) नास्ति समाधेर्हानिः, (xइ) नास्ति प्रज्ञाया हानिर्, (xइइ) नास्ति विमुक्तेर्हानिर्, नास्ति विमुक्तिज्ञानदर्शनस्य हानिः । (xइइइ) सर्वं कायकर्म ज्ञानपूर्वंगमं ज्ञानानुपरिवर्त्ति । (xइव्) सर्वं वाक्कर्म ज्ञानानुपूर्वंगमं ज्ञानानुपरिवर्त्ति । (xव्) सर्वं मनस्कर्म ज्ञानपूर्वंगमं ज्ञानानुपरिवर्त्ति । (xवि) अतीतेऽध्वन्यप्रतिहतमसङ्गं ज्ञानदर्शनं प्रवर्तते । (xविइ) अनागतेऽध्वन्यप्रतिहतमसङ्गं ज्ञानदर्शनं प्रवर्तते । (xविइइ) प्रत्युत्पन्नेऽध्वन्यप्रतिहतमसङ्गं ज्ञानदर्शनं प्रवर्तते । इमेऽष्टादशावेणिका बुद्धधर्माः । (च्) कतमानि च सुभूते तथागतस्य द्वातृंशन्महापुरुषलक्षणां? (१) सुप्रतिष्ठितपादः स भगवां । तत्रैदं सुप्रतिष्ठितपादता । सर्ववद्भ्यां पादतलाभ्यां समं पृथिवीं स्पृशति । तद्यथापि नाम समुद्गाभ्यां । सपि चाभ्योन्नतावनमति । निंमौन्नमति । (२) चक्र अङ्कपादतलः स भगवान् । तत्रेयं चक्राङ्कपादतलता । पादयोरस्य चक्रे जाते सहस्रारे सनाभिके सनेमिके सर्वाकारपरिपूर्णे । (३) मृदुतरुणहस्तपादतलः स भगवान् । मृद्वस्य हस्तपादं यथा न अन्येषां । (४) दीर्घ अङ्गुलीकः स भगवान् । तत्रेयं दीर्घाङ्गुलीकता । दीर्घमस्य अङ्गुलयो हस्तपादे यथा न अन्येषां । (५) जालहस्तपाद स भगवान् । तत्रेयं जालहस्तपादता । हंसराजस्यैव अस्य सजालं हस्तपादं । (६) आयतनपार्ष्णि स भगवान् । तत्रेयमायतनपार्ष्णिता । आयते अस्य पार्ष्णी अतिरेकेण यथा न अन्येषां । (७) उच्छङ्खपाद स भगवान् । तत्रेयमुच्छङ्खपादता । उच्चैरस्य जातौ गुल्फौ भवतः । (८) ऐणेयजंघः स भगवान् । त्रत्रेयमैणेयजंघता । अनुपूर्वसमुद्गते अस्य जंघे तद्यथापि (अद्स्प्गिइ ५०) नाम ऐणेयस्य मृगराजस्य । (९) प्रभूतऋजुसुजातगात्रः स भगवान् । तत्रेयं प्रभूतऋजुसुजातगात्रता । अकुब्जमभग्नं सुजातं सर्वाकारै सप्त अरत्न्युच्छ्रायेण अनुरूपविस्तरमस्य गात्रं भवति । (१ ) आजानुबाहु स भगवान् । तत्रेयमाजानुबाहुता । स्थितोऽनवनमन् यदा आकाङ्क्षति तदा द्वाभ्यां पाणितलाभ्यामुभे जानुमण्डले परामृशति । संपरामार्ष्टि: (११) कोशाहितवस्तिगुह्य स भगवान् । तत्रेयं कोशाहितवस्तिगुह्यता । तद्यथा अभिजातस्य हस्त्याजानेस्यस्य अश्वाजानेयस्य वा । (१२) एकैकलोमा स भगवान् । तत्रेयमेकैकलोमता । सर्वरोमकूपेष्वेकैकं लोम<ं> जातं मृदु कुण्डलकजातं । प्रदक्षिणावर्तं । (१३) ऊर्ध्वांगलोमा स भगवान् । तत्रेयमूर्ध्वांगलोमता । ऊर्ध्वमुखान्यस्य केशलोमानि जातानि । नीलानि मृदूनि कुण्डलकजा<ता>नि प्रदक्षिणावर्तानि । (१४) श्लक्ष्णसूक्ष्मच्छविः स भगवान् । तत्रेयं श्लक्ष्णसूक्ष्मच्छविता । न अस्य जलं वा रजो वा काये श्लिष्यति । (१५) सुवर्णवर्ण स भगवान् । अभिरूप प्रासादिकः । तत्रेयं सुवर्णवर्णच्छविता । तया सुवर्णवर्णतया कांचनपट्टसन्निकाशोऽस्य कायोऽत्यर्थं भ्राजते । (१६) सप्तोत्सद स भगवान् । तत्रेयं सप्तोत्सदता । अधस्तात्पादतलयोर्द्वावुत्सदौ जातावभिरूपौ प्रासादिकौ दर्शनीयावुपचितमा<ं>सशोणितेन । द्वयो पाण्यो द्वावुत्सदौ जातावभिरूपौ प्रासादिकौ [f । २८१ ] दर्शनीयावुपचितमांसशोणितेन । द्वयोरंसकूटयोर्द्वावुत्सदौ जातावभिरूपौ प्रासादिकौ दर्शनीयावुपचितमांसशोणितेन । पृष्टतो ग्रीवायामेक उत्सदो जातोऽभिरूपः प्रासादिको दर्शनीय उपचितत्वङ्मांसशोणितेन । (१७) सिंहपूर्वार्धकायः स भगवान् । तत्रेयं सिंहपूर्वार्धकायता । सिंहस्यैव अस्य मृगराजस्य विस्तीर्णः पूर्वोर्धकायो भवति । (१८) संवृत्तस्कन्ध स भगवान् । तत्रेयं संवृत्तस्कन्धता । पीनाचस्य सर्वतः उपचितौ स्कन्धौ बृहवतः । (१९) चितान्तरांसस्स भगवान् । तत्रेयं चितान्तरांसता । उरो विस्तारोपचयाच्चितोऽस्य भवन्त्यन्तरांसः । (२०) न्यग्रोधपरिमण्डल स भगवान् । तत्रेय<ं> न्यग्रोधपरिमण्डलता । यावदस्य आरोहस्तावत्परिणाह यावत्परिणाहस्तावदारोह । (२१) सिंहहनुस्स भगवान् । तत्रेयं सिंहहनुता । सिंहस्यैव अस्य वृत्तौ हनू भवतः । (२२) चत्वारिंशद्दन्तः स भगवान् । तत्रेयं चत्वारिंशद्दन्तता । अधस्तादस्य विंशतिर्दन्ता उपरिष्टा( विंशति । (२३) अविरलदन्त स भगवान् । तत्रेयमविरलदन्तता । सहिता अस्य दन्ता भवन्ति । (२४) समदन्त स भगवान् । तत्रेयं समदन्तता । अनुन्नत अवनता अस्य दन्ता भवन्ति । (२५) शुक्लदन्त स भगवान् । तत्रेयं शुक्लदन्तता । (अद्स्प्गिइ ५१) ज्यो<ति>ष्मन्तोऽस्य दन्ता भवन्ति । (२६) रसरसाग्रताहारस्स भगवान् । तत्रेयं रसरसाग्रहारता । रिज्योऽस्य कण्ठे रसाहारिन्यो जाता भवन्त्य्, जिह्व अवक्<र्>आ । अविवर्णास्, ताभिः सुप्रतिष्ठिताभिः सिराभिः कायोऽत्यर्थं शोभते । (२७) प्रभूतजिह्व स भगवान् । तत्रेयं प्रभूतजिह्वता । यदा आकांक्स<ति> जिह्वायोभे कर्णे स्रोतसि परामृशति संपरामार्ष्टि: उभे चक्षुः स्रोतसि सर्वङ्ककेशपर्यन्तं मुखमण्डलं जिह्वाया आच्छादयति । (२८) ब्रह्मस्वरः स भगवान् । तत्रेयं ब्रह्मस्वरता । यदस्य के? साहस्र्यां पर्षदो स्वरो यथा अभ्यन्तरे श्रुयते, मनोज्ञश्च ते कलविङ्क भानीति । (२९) अभिनीलनेत्र स भगवान् । तत्रेयमभिनीलनेत्रता । यदस्य नेत्रयोर्नीलमेव तत्सुविशुद्धं । यदवदातमवदातमेव तत्सुविशुद्धं भवति । (३०) गोपक्ष्म स भगवान् । तत्रेयं गोपक्ष्मता । महार्षभस्य इव अस्य अक्षिपक्ष्माणि भवन्ति । यान्यधस्ता<त्> तान्यधस्तादेव । यान्युपरिष्टात्तान्युपरिस्तादेव असंलुडितानि । (३१) ऊर्णान्तरभ्रुक स भगवान् । तत्रेयमूर्णान्तरभ्रुकता । ऊर्णा भ<ग>वन्तो भ्रुवोरन्तरे जाता अव<दा>ता मृदुस्तूलसन्निभा अस्पृष्टा भ्रुवोऽन्तरे प्रदक्षिणाकुण्डलावर्ता । (३२) उष्णीसशीर्ष स भगवान् । तत्रेयमुष्णीषशीर्षता: वृत्<त्>अमस्य शीर्षं भवत्युष्णीषया सुपरिणत्<हत्>अया अत्यर्थं शोभते । इमानि तस्य भगवतो द्वातृंशन्महापुरुषलक्सणानि, तैस्त्रिसाहस्रमहासाहस्रं लोकधातुमव<भा>सेन स्फरति प्रकृतिप्रभया आकाङ्क्षन्नसंख्येयलोकधातून्, तं तथागतः सत्त्व अनुकम्पया व्यामप्रभयामधितिष्ठति । न खलु पुनः सूर्यचन्द्रमसोः प्रभा प्रज्ञायेत । न मासार्धमास <न संव>त्स<र> वा प्राकृतेन च स्वरेण त्रिसाहस्रमहासाहस्रं लोकधातुं विज्ञापयति । उत्तरे च यावदाकांक्सति तावत्स्वरेण विज्ञापयति । (अद्स्प्गिइ ५२) एवं खलु सुभूते [f । २८१ ] बोधिसत्त्वो महासत्त्वः सत्त्वान् द्वाभ्यां दा<नाभ्यां संगृह्णाति यदुत आमिष>दानेन च धर्मदानेन च । अयं सुभूते बोधिसत्त्वस्य महासत्त्वस्य आश्चार्याद्भुतो धर्मः । (इइ) कथं च सुभूते बोधिसत्त्वो महासत्त्वः प्रियवादितया सत्त्वान् संगृह्णाति? पारमिताभिः । दानपारमितया शीलपारमितया । क्षान्तिपारमितया वीर्यपारमितया ध्यानपारमितया । प्रज्ञापारमितया । आभिः षड्भि पारमिताभिर्बोधिसत्त्वो महासत्त्व प्रियवादितया सत्त्वान् संगृह्णाति । तत्कस्य हेतोः? इमासु पारमितासु सर्वकुशलधर्मा संगृहिता । (इइइ) कथं च बोधिसत्त्वो महासत्त्वोऽर्थक्रियया सत्त्वान् संगृह्णाति? आभिरेव षड्भिः पारमिताभिः दीर्घरात्रं सत्त्वान् संगृहीत यदुत दानेन च प्रियवादितया <अर्थक्रि>यया च समानार्थतया च । (द्) स सत्त्वानामशीतिमनुव्यञ्जननानि देशयति । कतमानि च सुभूते अशीतिरनुव्यञ्जनानि तथागतस्य? तद्यथा १ । ताम्रनखाश्च बुद्धा भगवन्तो भवन्ति, २ । स्निग्धपुष्पितानखाश्च बुद्धा भगवन्तो भवन्ति, ३ । तुङ्गनखास्च बुद्धा भगवन्तो भवन्ति, ४ । वृत्ताङ्गुलयश्च बुद्धा भगवन्तो भवन्ति, ५ । दीर्घाङ्गुलयश्च भवन्ति, ६ । चिताङ्गुलयश्च भवन्ति, ७ । अनुपूर्वाङ्गुलश्च, ८ । गूढशिराश्च भवन्ति, ९ । निर्ग्रन्थिशिराश्च भवन्ति, १० । गूढगुल्फाश्च भवन्ति, ११ । अविषमपादाश्च भवन्ति, १२ । सिंहविक्रान्तगामिनश्च भवन्ति, १३ । नागविक्रान्तगामिनश्च भवन्ति, १४ । हंसविक्रान्तगामिनश्च भवन्ति, १५ । वृसविक्रान्तगामिनश्च भवन्ति, ६ । प्रदक्षिणगामिनश्च भवन्ति, १७ । चारुगामिनश्च भवन्ति, १८ । अवक्रगामिनश्च भवन्ति, १९ । वृत्तगामिनश्च भवन्ति, २० । मृष्टगात्राश्च भवन्ति, २१ । अनुपूर्वगात्राश्च भवन्ति, २२ । सुपरिणतजातमण्डलाश्च भवन्ति, २३ । परिपूर्णव्यञ्जनास्च भवन्ति, २४ । ईर्यापथसंपन्नाश्च भवन्ति, २५ । अस्थानसंपन्नाश्च भवन्ति, २६ । समक्रमाश्च भवन्ति, २७ । शुचिगात्राश्च भवन्ति, २८ । मृदुगात्राश्च भवन्ति, २९ । विशुद्धगात्राश्च भवन्ति, ३० । अवलोकनीयाश्च भवन्ति, ३१ । न दीर्घमुखाश्चभवन्ति, (अद्स्प्गिइ ५३) ३२ । उदारमुखाश्च भवन्ति, ३३ । बिंबोष्टाश्च भवन्ति, ३४ । परिपूर्णमुखमण्डलाश्च भवन्ति, ३५ । गंभीरयोषाश्च भवन्ति, ३६ । गंभीरनाभाश्च भवन्ति, ३७ । प्रदक्षिणावर्त्तनाभाश्च भवन्ति, ३८ । सुकुमारगात्राश्च भवन्ति, ३९ । अदीनगात्राश्च भवन्ति, ४० । उत्सदगात्राश्च भवन्ति, ४१ । सुसंहतनाश्च भवन्ति, ४२ । सुविभक्तप्रत्यङ्गाश्च भवन्ति, ४३ । परिपूर्णहस्तपादाश्च भवन्ति, ४४ । वृत्तकुक्षयश्च भवन्ति, ४५ । मृष्टकुक्षयश्च भवन्ति, ४६ । अभग्नकुक्षयश्च भवन्ति, ४७ । च्छादोदराश्च भवन्ति, ४८ । समन्तप्रासादिकाश्च भवन्ति, ४९ । शुचिसमाचाराश्च भवन्ति, ५० । व्यपगततीलकाश्च भवन्ति, ५१ । तूलसदृशसुकुमारपानयश्च भवन्ति, ५२ । गंभीरपानिलेखाश्च भवन्ति, ५३ । आयतपाणिलेखास्च भवन्ति, ५४ । अच्छिन्नपाणिलेखाश्च भवन्ति, ५५ । रक्तपाणिलेखाश्च भवन्ति, ५६ । प्रसन्नवदनाश्च भवन्ति, ५७ । चन्द्रमुखाश्च भवन्ति, ५८ । तनुजिह्वाश्च भवन्ति, ५९ । ताम्रजिह्वाश्च भवन्ति, ६० । सर्वाकारपरिपूर्णस्वराश्च भवन्ति, ६१ । मधुरवल्गुस्वराश्च भवन्ति, ६२ । वृत्तदंष्ट्राश्च भवन्ति, ६३ । तीक्ष्णदंष्ट्राश्च भवन्ति, ६४ । शुक्लदंष्ट्राश्च भवन्ति, ६५ । तुङ्गनासाश्च भवन्ति, ६६ । विशालनयनाश्च भवन्ति, ६७ । अंजितपक्ष्मणश्च भवन्ति, ६८ । आयतभ्रुवश्च भवन्ति, [f । २८२ ] ६९ । श्लक्ष्णभ्रुवश्च भवन्ति, ७० । समस्निग्धलोमभ्रुवश्च भवन्ति, ७ । पीनायतसमकर्णाश्च भवन्ति, ७२ । सुपरिणतललाटाश्च भवन्ति, ७३ । पृथुललाटाश्च भवन्ति, ७४ सु<परिपूर्णोत्तमाण्गा च भवन्ति सचे>त्खलु पुनर्देवमुष्याश्चक्षुषा पश्यन्ति । सर्वं समं पश्यन्ति । न चातिमन्यमाना अववदन्ति । अनुपरिचैषां स्वर<ं> स्मरति । बहिर्द्धा निश्चरति ७५ । समन्तव्यामप्रभया च अवभासिता भवन्ति । ७६ । सूक्ष्ममृदुस्निग्धकेशाश्च भवन्ति, ७७-७८ । असंलुडितासितसंरजितवत्रित केशाश्च भवन्ति, ७९-८० । सुरभिश्रीस्वस्तिककेशाश्च बुद्धा भगवन्तो भवन्ति । एभि सुभूते अशीत्यनुव्यञ्जनैस्तथागतस्य कायः समन्वागतो छवति । (विइइ ५,३) (ए) पुनरपरं सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् बोधिसत्त्वानेव<ं> अवदति । एत यूयं कुलपुत्रा अक्षराभिनिर्हारकुशला भवतः । एकाक्षरे कुशला भवतः । द्वयोरक्षरयोर्याव<द्> द्वाचत्वारिंशत्यक्षरेषु कुशला भवत । एकाक्षरेण सर्वं व्यपगतमनुगच्छत । द्वितीयेन अक्षरेण सर्वं व्यपगतमनुगच्छतः । यावद्द्वाचत्वारिंशताक्षरै । सर्वं व्यपगतमनुगच्छतः, एकस्मिन्नक्षरे द्वाचत्वारिंशतमक्षराण्य्(अद्स्प्गिइ ५४) अन्तर्गतानि भावयतः, द्वाचत्वारिंशत्यक्षरेष्वेकाक्षरमन्तर्गतं भावयतः, स खलु पुन<र्> सुभूते बोधिसत्त्वो महासत्त्वो द्वाचत्वारिंशत्यक्षरेषु कुशलो भवति । द्वाचत्वारिंशत्यक्षराण्येकस्मिन्नक्षरे कुशलो भावयितुं । एकस्मिन्नक्षरे द्वाचत्वारिंशतमक्षराणि कुशलो भावयितुं । अक्षराभिनिर्हारकौशलं भावयित्वा अक्षराभिनिर्हारकुशलो भवति । तद्यथापि नाम सुभूते तथागतोऽर्हन् सम्यक्संबुद्धो धर्मकुशलोऽक्षरकुशलः, स धर्मकुशल अक्षरकुशलश्च धर्मन् देशयति । अक्षरैरनक्षरं धर्मन् देशयति । न च अक्षर आकारनिर्मुक्त सुभूते स धर्मः । अथ खल्वायुष्मान् सुभूतिर्भगवन्तमेतदवोचत्: यदि भगवन्नत्यन्त<त>या सत्त्वो नोपलभ्यते । <ध>र्माश्च नोपलभ्यन्ते । धर्मस्वभावश्च नोपलभ्यते । अत्यन्त अनवराग्रशून्यतामुपादाय । कथं भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् ध्यानपारमितायां वीर्यपारमितायां क्षान्तिपारमितायां शीलपारमितायां दानापारमितायां चरंश्चतुर्षु ध्यानेषू चरंश्चतुर्ष्वप्रमाणेषु चतसृष्वारूप्यसमापत्तिषु । सप्तविंशतिबोधिपक्ष्येषु धर्मेषु चरन् चतुर्दशसु शून्यतासु <शू>न्यतायां समाधौ चरन्नानिमित्ते समाधावप्रणिहिते समाधौ चरन्नष्टासु विमोक्षेषु नवस्वनुपूर्वसमापत्तिषु दशसु तथागतबलेषु चतुर्षु वैशारद्येषु चतसृषु प्रतिसंवित्सु अष्टादशस्वावेणिके<षु बुद्ध> धर्मेषु द्वात्रिंशतिमहापुरुषलक्षणेष्वशीत्यामनुव्यञ्जनेषु चरन् । षट्स्वभिज्ञासु विपाकीयासु स्थित्वा सत्त्वानान् धर्मन् देशयति । न च तत्र सत्त्वमुपलभते न सत्त्वप्रज्ञप्तिं । सत्त्वानुप<ल>ब्ध्या च रूपानुपलब्धिर्, यावद्विज्ञानानुपलब्धिह्र्याव<त्> षट्पारमितानुपलब्धिः यावदशीत्यामनुव्यञ्जनानुपुलब्धिह्रष्टादशावेणिकबुद्धधर्म अनुपलब्धिः, न च सत्त्वानुपलब्धौ सत्त्वप्रज्ञ<प्तिर्> प्रज्ञायते न यावदशीतिरनुव्यञ्जनानि न अष्टादशावेणिका बुद्धधर्माः प्रज्ञायन्ते । कथमेतद्भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमिता<यां> [f । २८२ ] चरन् सत्त्वानान् धर्मन् देशयति? माहैव (अद्स्प्गिइ ५५) स भगवन् बोधि<स>त्त्वो महासत्त्वः असत्सु धर्मेषु सत्त्वान् समादापयति । विपर्यासे नियोजयति । तत्कस्य हेतोः? तथा हि भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् बोधिसत्त्वमेव तावन्नोपलभते प्रागेव बोधिपक्ष्यान् धर्मान् । भगवानाह: एवमेतत्सुभूते एवमेतत्तथा यथा वदसि, सत्त्वानुपलब्धितः अध्यात्मशून्यता वेदितव्या । बहिर्धाशून्यता वेदितव्या अध्यात्मबहिर्धाशून्यता वेदितव्या शून्यताशून्यता वेदितव्या महाशून्यता वेदितव्या परमार्थशून्यता वेदितव्या । संस्कृतशून्यता वेदितव्या असंस्कृतशून्यता वेदितव्या अत्यन्तशून्यता वेदितव्या । अनवराग्रशून्यता वेदितव्या । अवकारशून्यता वेदितव्या । प्रकृतिशून्यता वेदितव्या । स्वलक्षणशून्यता वेदितव्या सर्वधर्मशून्यता वेदितव्या अनुपलंभशून्यता वेदितव्या: अभावशून्यता वेदितव्या स्वभावशून्यता वेदितव्या: अभावस्वभावशून्यता वेदितव्या । स्कन्धशून्यता वेदितव्या । धातुशून्यता वेदितव्या । आयतनशून्यता वेदितव्या । अत्यन्तशून्यता वेदितव्या प्रतीत्यसमुत्पादशून्यता वेदितव्या । आत्मशून्यता वेदितव्या सत्त्वशून्यता वेदितव्या । जीवशून्यता वेदितव्या जन्तुशून्यता वेदितव्या । मनुजशून्यता पोषशून्यता पुद्गलशून्यता कारककारापकोत्थापकसमुत्थापकवेदकवेदयित्रीजानकपश्यकशून्यता वेदितव्या ध्यानशून्यता वेदितव्या अप्रमाणशून्यता आरूप्यसमापत्तिशून्यता: स्मृत्युपस्थानशून्यता यावत्सप्ततृंशन्बोधिपक्ष्यधर्मशून्यता शून्यताशून्यता आनिमित्ताप्रणिहितशून्यता वेदितव्या । अष्टविमोक्षशून्यता नवानुपूर्वसमापत्तिशून्यता । दशतथागतबलशून्यता । चतुर्वैशारद्यशून्यता चतुःप्रतिसंविच्छून्यता । महामैत्रीमहाकरुणाशून्यता वेदितव्या । अष्टादशावेणिकबुद्धधर्मशून्यता वेदितव्या । स्रोतआपत्तिफलशून्यता यावदर्हशून्यता प्रत्येकबोधिशून्यता मार्गाकारज्ञताशून्यता बोधिशून्यता बुद्धक्षेत्रशून्यता वेदितव्या । बोधिसत्त्वः पुनः सुभूते प्रज्ञापारमितायां चरन्निमे सर्वधर्मा शून्या इति दृष्ट्वा <विपर्यासगतानां सत्त्वानां> धर्मन् देशयति । तथा च देशयति यथा स्वपि शून्यतासु न वर्तते । स एवं पश्यन् सर्वधर्माननावरणतो ज्ञात्वा न कंचिद्धर्मं विकोपयति । न द्विधीकरोति, यथाभूतं च देशयति । तद्यथापि नाम तथागत निर्मितः अनेका<नि> निर्मितकोटी निर्माय कांश्चिद्दानपारमितायां नियोजयति । कांश्चिच्छीलपारमितायां कांश्चि क्षान्तिपारमितायां कांश्चिद्वीर्यपारमितायां कांश्चित्समाधिपारमितायां । (अद्स्प्गिइ ५६) कांश्चित्प्रज्ञापारमितायां नियोजयति । कांश्चिच्चतुर्षु ध्यानेषु । कांश्चिच्चतुर्ष्वप्रमाणेषु । कांश्चि<च्> चतसृस्वारूप्यसमापत्तिषु कांश्चिच्चतुर्षु स्मृत्युपस्थानेषु । कांश्चिद्यावत्सप्ततृंशति बोधिपक्ष्येषु धर्मेषु नियोजयति । कांश्चिद्यावत्सर्वाकारज्ञतायां नियोजयति । कांश्चित्स्रोतआपत्तिफले नियोजयति । कांश्चिद्यावद्बोधौ नि<योज>यति । तत्किं मन्यसे सुभूते अपि नु तेन निर्मितेन कस्य<चि>द्धर्मस्य प्रभेद<ः> कृतः? आह: नो हीदं भवन् । भगवानाह: तदनेन ते सुभूते पर्यायेणैवं वेदितव्यं, यथा बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् सत्त्वानान् धर्मन् देशयति । तांश्च यथाभूतं प्रतिष्ठापयति । विपर्यासेभ्य<ः> परिमोचयत्यबद्धामुक्तयोगेन । तत्कस्य हेतोः? [f । २८३ ] तथा हि सुभूते रूपमबद्धममुक्तं, वेदना संज्ञा संस्कारा विज्ञानमबद्धममुक्तं, या रूपस्य अबद्धामुक्तता न तद्रूपं । या वेदनाया संज्ञायाः संस्काराणां विज्ञानस्य अबद्धामुक्तता न तद्विज्ञानं <यावत्या> संस्कृतासंस्कृतानामबद्धामुक्तता न ते संस्कृतासंस्कृता धर्माः । तत्कस्य हेतोः? अत्यन्तविशुद्धं हि रूपं यावदत्यन्तविशुद्धं विज्ञानं । यावत्संस्कृतासंस्कृता धर्मा कर्तव्य । एवं खलु सुभूते बोधिसत्त्वो महासत्त्वो प्रज्ञापारमितायां चरन् सत्त्वानां धर्मन् देशयति । न च सत्त्वमुपलभते । अनुप<ल>ब्धौ सर्वद्धर्माणां बोधिसत्त्वो महासत्त्वो स्थितस्तच्च अस्थानयोगेन । रूपशून्यतया अस्थानयोगेन । यावद्विज्ञानशून्यतया अस्थानयोगेन । यावत्संस्कृतासंस्कृतानां धर्माणां शून्यतया अस्थानयोगेन । न हि संस्कृतासंस्कृता धर्माः क्वचित्स्थिताः । तत्कस्य हेतोः? तथा हि तेषां स्वभावो नोपलभ्यते । यत्र प्रतितिष्ठेयुः, न ह्यभावः अभावे स्थास्यति । न स्वभावः स्वभावे स्थास्यति । न परभावः परभावे स्थास्यति । तत्कस्य हेतो<ः>? तथा हि ते सर्वे नोपलभ्यन्ते । या च सा अनुपलब्धिः सा न क्वचित्स्थास्यति । एवं खलु सुभूते बोधिसत्त्वो महासत्त्व प्रज्ञापारमितायां चरन्निमान् धर्मान् प्रभावयत्याभिः सर्वशून्यताभिः, एवं खलु सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां (अद्स्प्गिइ ५७) चरन्न् <अन्>अपराधि भवति बुद्धानां भगवतां बोछिसत्त्वानां च महासत्त्वानां प्रत्येकबुद्धानां च श्रावकाणां च सर्वेषां च आर्याणां । तत्कस्य हेतोः? तथा हि बुद्धैश्च भगवद्भिर्बोधिसत्त्वैश्च महासत्त्वै प्रत्येकबुद्धैश्च श्रावकैश्च एषैव धर्मता अनुबुद्धा । अनुभुध्य सर्वसत्त्वानान् धर्मन् देशयन्ति । तां ते धर्माणां धर्मतां न व्यतिवर्त<न्>ते । तत्कस्य हेतोःर्? न हि धर्मता व्यतिवर्तते । न तथता न भूतकोटिर्व्यतिवर्तते । तत्कस्य हेतो<ः>? तथा हि तेषां स्वभावो न संविद्यते । यो व्यतिवर्तेत । अथ खल्वायुष्मान् सुभूतिर्भगवन्तमेतदवोचत्: यदि भगवन् धर्मधातुर्न व्यतिवर्तते न तथता न भूतकोटिर्व्यतिवर्तते । किं पुनर्भगवन्नन्यद्रूपमन्यो धर्मधातुरन्या तथता अन्या भूतकोटिः यावदन्यद्विज्ञानमन्यो धर्मधातुरन्या तथता अन्या भूतकोटिः यावदन्ये संस्कृतासंस्कृता धर्मा लौकिकलोकोत्तरा सास्रवानास्रवा धर्माः अन्यो धर्मधातुरन्या तथता अन्या भूतकोटिः? भगवानाह: नो हीदं सुभूते, न सुभूते अन्यो रूपमन्यो धर्मधातुरन्या तथता अन्या भूतकोटिः यावन्नान्यद्विज्ञानमन्यो धर्मधातुरन्या तथता अन्या भूतकोटिः यावन्न अन्ये सर्वधर्मा अन्यो धर्मधातुरन्या तथता अन्या भूतकोटिः । आह: यदि भगवन्न अन्यद्रूपमन्यो धर्मधातुरन्या तथता अन्या भूतकोटिः यावन्न अन्यद्विज्ञानमन्यो धर्मधातुरन्या तथता अन्या भूतकोटिः यावन्न अन्ये सर्वधर्मा अन्यो धर्मधातुरन्या तथता अन्या भूतकोटिः, तत्कथं भगवन् व्यवस्थानं भवति । कृष्णानां धर्माणां कृष्णो विपाकः, नरका वा तिर्यग्योनिर्वा यमलोको वा: शुक्लानान् धर्माणा<ं> शुक्लो विपाकः, देवमनुष्याः, कृष्णशुक्लानान् धर्माणां कृष्णशुक्लो विपाकः, सुखदुःखप्रतिसंवेदन । अकृष्णशुक्लानां धर्माणामकृष्णशुक्लो विपाकः, स्रोतआपत्तिफलं सकृदागामिफलमनागामिफलमर्हत्त्वं प्रत्येकबोधिः यावदनुत्तरा सम्यक्संबोधिः । भगवानाह: संवृतिसत्यं सुभूते प्रमाणीकृत्य फलव्यवस्थानं निर्दिश्यते, न पुनः परमार्थसत्येन फलव्यवस्थानं शक्यं निर्देष्टुं । तत्कस्य हेतोः? अविकल्पो हि स धर्मः अप्रव्याहरो, (अद्स्प्गिइ ५८) यदुत नामसत्यं रूप<स>त्यमनुत्पाद अनिरोधः असंक्लेशः अव्यवदानं, इयमत्यन्तशून्यता । अनवराग्रशून्यता । आह: यदि भगवन् संवृतिसत्यमुपादाय फलव्य<वस्था>नं भवति । न परमार्थसत्येन । ननु भगवं । सर्वबालपृथग्जनानां स्रोतआपत्तिफलं भविष्यति । सकृदागामिफलमनागामिफलमरहत्त्वं । [f । २८३ ] प्रत्येकबोधि सम्यक्संबोधिर्भविष्यति? भगवानाह: किं पुनः सुभूते बालपृथग्जनाः संवृतिसत्यं वा परमार्थसत्यं वा प्रजानान्ति । यदि प्रजानंति तेषामपि फलव्यवस्थानं भविष्यति । स्रोतआपत्तिफलं वा सकृदागामिफलं वा अनागामिफलं वा अर्हत्त्वं वा प्रत्येकबोधिर्वा सम्यक्संबोधिर्वा । यः पुनः सुभूते बालपृथग्जनानां न मार्गो न मार्गव्यवस्थानं न मार्गभावना, तत्कुतो बालपृथग्जनानां फलव्यवस्थानं भविष्यति? आर्यपुद्गलानां पुनर्मार्गश्च मार्गभावना च । तस्मादार्यपुद्गलानां फलव्यवस्थानं भविष्यति । आह: किं पुनर्भगवन्मार्गभावनाया फलप्राप्तिर्भवति । फलं वा प्राप्यते? भगवानाह: नो हीदं सुभूते, न मार्गभावनाया फलप्राप्तिर्भवति । फलं वा प्राप्यते । न पुनः सुभूते अभावितमार्गस्य फलप्राप्तिर्न मार्गेण फलं प्राप्स्यते । एवं हि सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् सत्त्वानां फलव्यवस्थानं करोति । न च भागच्छेदेन संस्कृतधातोर्वा असंस्कृतधातोर्वा फलव्यवस्थानम् । आह: यदि भगवन्न भागच्छेदेन संस्कृतधातोर्वा असंस्कृतधातोर्वा फलव्यवस्थानं भवति, न निर्देष्टं पुनर्भग<वता, इदं> स्रोतआपत्तिफलं त्रयाणां संयोजनानां प्रहाणात्, सकृदागामिफलं कामरागव्यापादतनुत्वात्, अनागामिफलं पञ्चानामधोभागीयानां संयोजनानां प्रहाणात्, अर्हत्वं पञ्चानामूर्द्धंभागीयानां (अद्स्प्गिइ ५९) संयोजनानां प्रहाणात्, प्रत्येकबोधिर्यत्किंचित्समुदयधर्म सर्वन् त<ं> निरोधधर्मेति सम्यक्संबोधिः सर्ववासनानुसन्धिप्रहाणात् । अस्य वयं भगवन् भाषितस्य कथमर्थमाजानीयाम, न संस्कृतानां वा असंस्कृतानां वा धर्माणां भागच्<छ्>एदेन फलव्यवस्थानं भवति? भगवानाह: किं पुनः सुभूते स्रोतआपत्तिफलं वा सकृदागामिफलं वा अनागामिफलं वा अर्हत्त्वं वा <प्रत्येकबोधिर्वा अनुत्तरा> सम्यक्संबोधिर्वा संस्कृतमेतदुताहोऽसंस्कृतं? आह: असंस्कृतमेतद्भगवन्न संस्कृतं सुगतः । भगवानाह: किं पुनः सुभूते असंस्कृतस्य धर्मस्य भागच्छेदोऽस्ति? आह: नो हीदं भगवन् । भगवानाह: तत्किं मन्यसे सुभूते यस्मिन् समये कुलपुत्रो वा कुलदुहिता वा । संस्कृतासंस्कृतान् धर्मानेकलक्षणान् प्रतिविध्यति । यदुत अलक्षणान् । अपि नु तस्मिन् समये कस्यचिद्धर्मस्य भागच्<छ्>एदं करोति । संस्कृतमिति वा असंस्कृतमिति वा? आह: नो हीदं भगवन् । भगवानाह: एवं खलु सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् सत्त्वानां धर्मन् देशयत्यभागच्छेदतामुपादाय । यदुत अध्यात्मशून्यतामुपादाय । यावत्स्वलक्षणशून्यतामुपादाय । आत्मना च न क्वचिद्धर्मेऽभिनिविशते । परं च न क्वचिदभिनिवेशयति । दानपारमितायां वा शीलपारमितायां वा क्षान्तिपारमितायां वा वीर्यपारमितायां वा ध्यानपारमितायां वा प्रज्ञापारमितायां वा, प्रथमे वा ध्याने यावच्चतुर्थे वा ध्याने । मैत्र्यां वा करुणायां वा मुदितायां वा उपेक्षायां वा यावन्नैवसंज्ञानासंज्ञायतनसमापत्तौ वा स्मृत्युपस्थानेषु वा । यावदार्याष्टाङ्गे मार्गे । यावत्सर्वाकारज्ञतायां वा, सोऽनभिनिविष्टो न क्वचित्सज्जते । तद्यथापि नाम तथागतनिर्मितो दानं च ददाति न च दानफले सज्जते । न दानफलं प्रत्यनुभवत्यन्यत्र सर्वसत्त्वानां परिनिर्वापनार्थं । यावत्षट्सु पारमितासु यावत्सास्रवानास्रवेषु धर्मेषु लौकिकलोकोत्तरेषु संस्कृतासंस्कृतेषु न क्वचित्तिष्ठति । एवमेव सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् सर्वधर्मेषु चरति । न क्वचिद्धर्मे तिष्ठति न सज्जते । तत्कस्य हेतोः? तथा ह्यस्य धर्माणां धर्मलक्षणं सुप्रतिविद्धं । ॥ लक्षणानुव्यञ्जनाक्षराभिनिर्हारनिर्देशपारमितापरिवर्त्तः । ७३ ॥ (अद्स्प्गिइ ६०) परिवर्त ७४ । अथ खल्वायुष्मान् सुभूतिर्भगवन्तमेतदवोचत्: कथं भगवन् धर्माणां धर्मलक्षणं सुप्रतिविद्धं भवति? भगवानाह: यथा सुभूते निर्मितस्य असमुदाचारो रागद्वेषमोहेषु असमुदाचारो रूपेष्वसमुदाचारो यावद्विज्ञाने । ए<वमस>मुदाचार [f । २८४ ] आध्यात्मिकबाह्येषु धर्मेषु असमुदाचार अनुशयपर्य्<उ>त्थानेषु असमुदाचारः सास्रवानास्रवेषु धर्मेष्वसमुदाचार लौकिकलोकोत्तरेषु संस्कृतासंस्कृतेषु असमुदाचारो मार्गे असमुदाचारो फले । एवं सुभूते धर्माणां धर्मनयः सुप्रतिविद्धं भवति । आह: कथं भगवन्निर्मितस्य मार्गभावना? <भगवानाह>: यां मार्गभावनामागम्य नैव संक्लिश्यते न व्यवदायते <वा>, नैव पञ्चगतिके संसारे दृश्यते । <आह: कथं भगवन् बोधिसत्त्वो महासत्त्वोऽवस्तुकान् सर्वधर्मान् प्रतिविध्यति?> भगवानाह: तत्किं मन्यसे सुभूते, अपि नु तथागतनिर्मितस्य किंचिद्वस्त्वस्ति यद्वस्त्वागम्य संक्लिश्यते वा व्यवदायते वा, पञ्चगतिके वा संसारे संदृश्येत? आह: नो हीदं भगवन्, न भगवंस्तथागतनिर्मितस्य किंचिद्वस्त्वस्ति यद्वस्त्वागम्य संक्लिश्येत वा व्यवदायेत वा । पञ्चगतिके वा संसारे संदृश्येत । भगवानाह: एवं खलु सुभूते धर्माणां धर्मनयः सुप्रतिविद्धो भवति । आह: किं पुनर्भगवं । सर्वं रूपं तथागतनिर्मितोपमं । सर्वा वेदनासंज्ञासंस्कारा सर्वं विज्ञानं तथागतनिर्मितोपमं? भगवानाह: सर्वं सुभूते रूपं निर्मितोपमं सर्वा वेदनासंज्ञासंस्कारा सर्वं विज्ञानं निर्मितोपमं । आह: कथं भगवन् बोधिसत्त्वस्य महासत्त्वस्य पुरुषकारो भवति, यदि सर्वं रूपं निर्मितोपमं यावत्सर्वं विज्ञानं निर्मितोपमं, निर्मितस्य भगवन्न रूपं न वेदना न संज्ञा (अद्स्प्गिइ ६१) न संस्कारा न विज्ञानं । न संक्लेशो न व्यवदानं नापि पञ्चगतिकः संसारो यतो सत्त्वान् परिमुच्येत । भगवानाह: तत्किं मन्यसे सुभूते अपि नु बोधिसत्त्वेन महासत्त्वेन बोधिसत्त्वचारिकां चरता कश्चित्सत्त्व उपलभ्दो यन्नरकात्परिमोचयेत्तिर्यग्योनेर्वा यमलोकाद्वा देवेभ्यो वा मनुष्येभ्यो वा? आह: नो हीदं भगवन् । भगवानाह: एवमेतत्सुभूते एवमेतत् । न बोधिसत्त्वेन महासत्त्वेन कश्चित्सत्त्वो उपलब्धो यं त्रैधातुकात्परिमोचयेत् । तथा ह्यनेन सर्वधर्मा मायोपमा ज्ञाता दृष्टा विदिता । निर्मितोपमा ज्ञाता दृष्टा विदिता । आह: यदि भगवन् बोधिसत्त्वेन महासत्त्वेन सर्वधर्मा मायोपमा निर्मितोपमाज्ञाता दृष्टा विदिता । कस्य पुनरर्थाय बोधिसत्त्वो महासत्त्वः षट्सु पारमितासु चरति । चतुर्षु ध्यानेषु चतुर्ष्वप्रमाणेषु चतसृष्वारूप्यसमापत्तिषु पञ्चस्वभिज्ञासु सप्तत्रिंशतिबोधिपक्ष्येषु धर्मेषु बोधिमार्गे चरति । बुद्धक्षेत्रं च परिशोधयति । सत्त्वांश्च परिपाचयति? भगवानाह: यदि सुभूते सत्त्वा स्वयमेव निर्मितोपमा सर्वधर्माञ्जानीयुर्, न बोधिसत्त्वो महासत्त्वः सत्त्वानामर्थाय असंख्येयान् कल्पान् बोधिसत्त्वचारिकां चरेत् । यस्मात्तर्हि सुभूते सत्त्वा स्वयमेव निर्मितोपमान् सर्वधर्मा<न्> न जानन्ति, तस्माद्बोधिसत्त्व महासत्त्व<ः> असंख्येयान् कल्पान् षट्सु पारमितासु चरति । सत्त्वांश्च परिपाचयति । बुद्धक्षेत्रं च परिशोधयति । सुभूतिराह: यदि भगवन् सर्वधर्मा स्वप्नोपमाः प्रतिश्रुत्कोपमाः । मरीच्युपमाः प्रतिभासोपमाः मायोपमा निर्मि<तो>पृष्ठअमाः । क्व भगवन् । सत्त्वाः प्रतिष्ठिता यतो बोधिसत्त्वो महासत्त्व प्रज्ञापारमितायां चरन्नुच्चालयति? भगवानाह: नामनिमित्तेषु सुभूते सत्त्वाः प्रतिष्ठिताः असत्परिकल्पे तद्बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्नामनिमित्तादुच्चालयति । आह: कतमद्भगवन्नाम <कतमं> निमित्तं? (अद्स्प्गिइ ६२) भगवानाह: आगन्तुकमेतत्सुभूते नामधेयं प्रक्षिप्तं यदुत नामेति वा निमित्तमिति वा । कृतृममेतन्नामधेयं यदुत नामेति वा निमित्तमिति वा । रूपमिति वा वेदनेति वा । संज्ञेति वा संस्काराः इति वा । विज्ञानमिति वा । स्त्री वा पुरुष इति वा । दारक इति वा दारकेति वा । नारका इति वा तैर्यग्योनिका इति वा यामलौकिक इति वा । देव इति वा । मनुष्य इति वा । संस्कृता धर्मा इति वा असंस्कृता धर्मा इति वा । स्रोतआपतिफलमिति वा । सकृदागामिफलमिति वा । अनागामिफलमिति वा । अर्हत्त्वमिति वा प्रत्येकबोधिमिति वा । [f । २८४ ] सम्यक्संबोधिरिति वा । अपि तु खलु सुभूते प्रज्ञप्तिधर्म सर्वं त<न्> नाम नामार्थेन । नाममात्रमिदं सर्वं संस्कृतं यत्र बालपृथग्जना<ः> सक्ताः, तद्बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्नुपायकौशलेन समन्वागतो विवेचयति । परिकल्पसमुत्थितं सर्वं <एतन्> नाम, मा यूयं परिकल्पे सज्जध्वं । असति वस्तुनि स्वभावशून्ये, न हि शून्येषु धर्मेषु पण्डिता अभिनिविशन्ते, एवं खलु सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्नुपायकौशलेन सत्त्वानां धर्मं देशयति । कतमत्सुभूते निमित्तं? द्वे इमे सुभूते निमित्ते यत्र बालपृथग्जनाः सक्ताः, कतमे द्वे? यदुत रूपनिमित्तं च आरूप्यनिमित्तं च । कतमञ्च सुभूते रूपनिमित्तं? यत्किंचित्सुभूते रूपमौदारिकं वा सूक्ष्मं वा हीनं वा प्रणीतं वा यदत्र क्षणिकेषु धर्मेषु परिकल्पनया ग्रहणमेति । इदमुच्यते रूपनिमित्तं । कतमच्च सुभूते आरूप्यनिमित्तं? यत्किंचिदरूपिणां धर्माणाम्० इमित्तग्राहेण परिकल्प्य क्लेशो जायते, इदमुच्यते आरूप्यनिमित्तं । तद्बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्नुपायकौशलेन ततो निमित्ताद्विवेच्य आनिमित्ते धातौ निवेशयति प्रतिष्ठापयति, तथा उच निवेशयति । तथा प्रतिष्ठापयति यथा न द्वये पतति । इदं निमित्तमिदमानिमित्तमिति । एवं खलु सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां (अद्स्प्गिइ ६३) चरन्नुपायकौशलेन सत्त्वा<न्> निमित्ताद्विवेच्य आनिमित्ते धातौ प्रतिष्ठापयति । आह: यदि भगवन्नियत्परमा एते सर्वधर्मा यदुत नामनिमित्तपरमाः प्रज्ञप्तिमात्राः परिकल्पसमुत्थिताः, कथं भगवं बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्नात्मना च विशेषमधिगच्छति । कुशलेषु धर्मेषु । परं च विशेष अधिगमे प्रतिष्ठापयति कुशलेषु धर्मेषु । यै<ः> कुशलैर्धर्मैर्भूम्याभूमिं परिपूरयति । सत्त्वांश्च त्रिषु यानेषु नियोजयति । भगवानाह: सचेत्सुभूते वस्त्वभविष्यन्न अवस्तु निमित्तं । नेदं सुभूते प्रज्ञापारमितायां चरन् बोधिसत्त्वो महासत्त्वो <कुशलेषु धर्मेषु> विशेषमध्यगमिष्यन् <न> परं च विशेषाधिगमे नियोजयिष्यत् । यस्मात्तर्ह्यवस्तु निमित्तं न वस्तु, तस्मात्सुभूते बोधिसत्त्वो महासत्त्व प्रज्ञापारमितायां चरन् ध्यानपारमितां परिपूरयत्यानिमित्तयोगेन वीर्यपारमितां क्षान्ति<पारमितां> शीलपारमितां दानपारमितां परिपूरयत्यानिमित्तयोगेन । चत्वारि ध्यानानि परिपूरयत्यानिमित्तयोगेन । चत्वार्यप्रमाणानि परिपूरयत्यानिमित्तयोगेन । चतस्र आरूप्यसमापत्ती<न्> परिपूरयत्यानिमित्तयोगेन । चत्वारि स्मृत्युपस्थानानि परिपुरयत्यानिमित्तयोगेन । यावदार्याष्टांगं मार्गं परिपूरयत्यानिमित्तयोगेन । अध्यात्मशून्यतां परिपूरयत्यानिमित्तयोगेन । बहिर्द्धाशून्यतां परिपूरयत्यानिमित्तयोगेन । अध्यात्मबहिर्द्धाशून्यतांपरिपूरयत्यानिमित्तयोगेन । यावत्स्वलक्षणशून्यतां परिपूरयत्यानिमित्तयोगेन । अष्टौ विमोक्षान् परिपूरयत्यानिमित्तयोगेन । नवानुपूर्वसमापत्ती<न्> परिपूरयत्यानिमित्तयोगेन । दशतथागतबलानि परिपूरयत्यानिमित्तयोगेन । यावदष्टादशावेणिकान् बुद्धधर्मान् परिपूरयत्यानिमित्तयोगेन । स इमान् कुशलान् धर्मान् [f । २८५ ] परिपूर्य परानत्रैव कुशलेषु धर्मेषु नियोजयत्यानिमित्तयोगेन । सचेत्पुनः सुभूते धर्म निमित्तमभविष्यदन्तशो वालाग्रकोटिनिक्षेपमात्रमपि, नेदं सुभूते बोधिसत्त्वो महासत्त्व प्रज्ञापारमितायां (अद्स्प्गिइ ६४) चरन्नानिमित्तमस्मृतिममनसिकारं धर्ममभिसंभोत्स्यत । सत्त्वांश्च तथात्वे प्रत्युपस्थापयिष्यति अनास्रवेषु धर्मेषु, सर्वे हि सुभूते अनास्रवा धर्मा आनिमित्तमस्मृतिरमनसिकारः । एवं खलु सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् सर्वसत्त्वानामर्थं करोत्यनास्रवैर्धर्मैः । आह: यदि भगवन् सर्वधर्मा आनिमित्तमस्मृतिरमनसिकारः, कुतो भगवं । गणनां करिष्यामि; इमे सास्रवा धर्मा इमे अनास्रवा धर्मा इमे साधारणा धर्मा इमे असाधारणा धर्मा इमे श्रावकधर्मा इमे प्रत्येकबुद्धधर्मा इमे बोधिसत्त्वधर्मा इमे बुद्धधर्मा? भगवानाह: तत्किं मन्यसे सुभूते अन्यदानिमित्तमन्ये श्रावकधर्माः? आह: नो हीदं भगवन् । भगवानाह: तत्किं मन्यसे सुभूते अन्यदानिमित्तमन्ये प्रत्येकबुद्धधर्माः अन्यदानिमित्तमन्ये बोधिसत्त्वधर्मा अन्यदानिमित्तमन्ये बुद्धधर्माः? आह: नो हीदं भगवन् । भगवानाह: ननु सुभूते आनिमित्तमेव स्रोतआपत्तिफलं । सकृदागामिफलं । अनागामिफलमर्हत्त्वं । प्रत्येकबोधिर्बोधिसत्त्वधर्मा बुद्धधर्माः? आह: एवमेतद्भगवनेवमेतत्सुगत । भगवानाह: तदनेन ते सुभूते पर्यायेणैवं वेदितव्यम्: यदुत आनिमित्तं सर्वधर्माः । अत्र हि सुभूते शिक्षमाणो बोधिसत्त्वो महासत्त्वः आनिमित्तेषु सर्वधर्मेषु विवर्धते कुशलैर्धर्मैः, यदुत षड्भिः पारमिताभिश्चतुर्भिर्ध्यानैश्चतुर्भिरप्रमाणैश्चतसृभिरारूप्यसमापत्तिभिः चतुर्भिः स्मृत्युपस्थानैश्चतुर्भिः सम्यक्प्रहाणैश्चतुर्भिरृद्धिपादैः पञ्चभिरिन्द्रियै । पञ्चभिर्बलैः । षड्भिरनुस्मृतिभिः । सप्तभिर्बोध्यङ्गैर् । आर्याष्टाङ्गेन मार्गेण: यावत्सर्वबुद्धधर्मैः । तत्कस्य हेतोः? न ह्यन्यत्र शिक्षितव्यं बोधिसत्त्वेन महासत्त्वेन अन्यत्र शून्यता आनिमित्त अप्रणिहितेषु धर्मेषु शिक्षितव्यं । तत्कस्य हेतोः? अत्र हि त्रिषु विमोक्षमुखेषु सर्वकुशलधर्मा अन्<त>र्गताः । तथा हि स्वलक्षणशून्यं शून्यताविमोक्षमुखं । निमित्तापगम आनिमित्तं विमोक्षमुखं । अनभिसंस्कारमप्रणिहितं विमोक्षमुखं । (अद्स्प्गिइ ६५) स इह तृषु विमोक्षमुखेषु शिक्षमाणो बोधिसत्त्वो महासत्त्व पञ्चसु स्कन्धेषु शिक्षते । द्वादशस्वायतनेषु शिक्षते । अष्टादशसु धातुषु शिक्षते । चतुर्ष्वार्यसत्येषु शिक्षते । द्वादशांगिके प्रतीत्यसमुत्पादे शिक्षते । अध्यात्मशून्यतायां शिक्षते । बहिर्द्धासून्यतायां शिक्षते । अध्यात्मबहिर्द्धाशून्यतायां शिक्षते । यावदभावस्वभावशून्यतायां शिक्षते । <एवं यावत्> षट्सु पारमितासु शिक्षते । चतुर्षु स्मृत्युपस्थानेषु शिक्षते । यावदार्याष्टांगे मार्गे शिक्षते । दशसु तथागतबलेषु शिक्षते । चतुर्षु वैशारद्येषु चतसृषु प्रतिसंवित्सु महामैत्र्यां महाकरुणायामष्टादशस्वावेणिकेषु बुद्धधर्मेषु शिक्षते । सुभूतिराह: यथा कथं पुनर्भगवं बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् पञ्चसु उपादानस्कन्धेषु शिक्षते? भगवानाह: इह सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् रूपं प्रजानाति । यथा च रूपमुत्पद्यते । यथा रूपं निरुध्यते । यथा रूपस्य तथता । कथं रूपं प्रजानाति इति? अत्यन्तच्छिद्रतश्च अत्यन्तसुषिरतश्च । तद्यथापि नाम फेनपिण्ड असारकः एवं रूपं प्रजानाति । कथं च [f । २८५ ] रूपस्य उत्पादं प्रजानाति? न रूपं कुतश्चिदागच्छ<ति नापि रूपं क्वचिद्> गच्छति इत्यकुतश्चिदागमनतश्च अक्वचिद्गमनतश्च रूपस्य उत्पादं प्रजानाति । यन्न कुतश्चिदागत<ं> न क्वचिद्गतं, एवं हि सुभूते बोधिसत्त्वो महासत्त्व रूपस्य उत्पादव्ययं प्रजानाति । कथं च रूपस्य तथतां प्र<जानाति>? न तथता उत्पद्यते वा निरुध्यते वा न आगच्छति न गच्छति । न संक्लिष्यते न व्यवदायते । नि हीयते न वर्धते । एवं तथतां प्रजानाति । अवितथता सुभूते तथता तस्मात्तथताइत्युच्यते । न सा वित<त>था तेन तथातेत्युच्यते । एवं रूपस्य तथतां प्रजानाति । कथं च वेदनां प्रजानाति? कथं वेदनाया उत्पादं कथं वेदनाया व्ययं कथं वेदनायांस्तथतां प्रजानाति? तद्यथापि नाम उदकबुद्बुदा रिक्तका उत्पद्यन्ते च निरुध्यन्ते च । एवं वेदनां प्रजानाति । न कुतश्चिदागच्छति न क्वचिद्गच्छति । एवं वेदनाया उत्पादव्ययं प्रजानाति । कथं च वेदनायास्तथतां प्रजानाति? अवितथतातथता । एवं वेदनायांस्तथतां प्रजानाति । कथं च संज्ञां प्रजानाति? तद्यथा (अद्स्प्गिइ ६६) मरीचिकायामुदकमत्यन्ततया नोपलभ्यते । एवं संज्ञां प्रजानाति । न कुतश्चिदागच्छति न क्वचिद्गच्छति । एवं संज्ञाया उत्पादव्ययं प्रजानाति । कथं च संज्ञातथतां प्रजानाति? यथैव वेदनातथता एवं संज्ञातथतां प्रजानाति । कथं संस्कारान् प्रजानाति तद्यथापि नाम कदल्याः सारमसारतया पत्र पत्रं कृत्वा नोपलभ्यते एवं संस्कारान् प्रजानाति । कथं संस्काराणामुत्पादव्ययं प्रजानाति? अकुतश्चिदागमनतया अक्वचिद्गमनतया संस्काराणामुत्पादव्ययं प्रजानाति । कथं च संस्काराणां तथतां प्रजानाति? वेदनातथतया संस्कारतथतां प्रजानाति । कथं विज्ञानं प्रजानाति? तद्यथापि नाम मायाकारनिर्मितश्चतुरङ्गो बलकाय । एवं विज्ञानं प्रजानाति । न कुतश्चिदागच्छति न क्वचिद्गच्छति । एवं विज्ञानस्य उत्पादव्ययं प्रजानाति । कथं विज्ञानस्य तथतां प्रजानाति? वेदनातथतया विज्ञानतथतां प्रजानाति । कथं च धातून् प्रजानाति? चक्षुर्धातुश्चक्षुर्धातुस्वभावेन शून्यं । रूपधातुर्रूपधातुस्वभावेन शून्यं । चक्षुविज्ञानधातुश्चक्षुविज्ञानधातुस्वभावेन शून्यं । एवं यावन्मनोधातुर्धर्मधातुर्मनोविज्ञानधातुः कर्तव्यः । कथं च आयतनानि प्रजानाति? आध्यात्मिका धर्मा आध्यात्मिकैर्धर्मै शून्याः, बाह्या धर्माः बाह्यैर्धर्मैः शून्याः । एवमायतनानि प्रजानाति । कथं च आर्यसत्यं प्रजानाति दुःखं प्रजानाति । सत्यं प्रजानाति । आर्यसत्यं प्रजानाति । द्वयताविनिर्मुक्तमार्यसत्यमद्वयं हि आर्याणां सत्यमिति प्रजानाति । एवं समुदयं निरोधं निरोधगामिनीप्रतिपदमार्यसत्यं प्रजानाति । कथं दुःखतथतां प्रजानाति? तथ्<अत्?>ऐव दुःखस्य तथतेति प्रजानाति । एवं समुदयस्य निरोधस्य मार्गस्य । तथतां प्रजानाति । कथं च प्रतीत्यसमुत्पादं प्रजानाति? अनुत्पादतो प्रतीत्यसमुत्पादं प्रजानाति । एवमनिरोधतोऽनुच्छेदतोऽशाश्वततोऽनेकार्थतोऽनानार्थतोऽनागमतो न निर्गमतः प्रपञ्चोपरमतः शिवं प्रतीत्यसमुत्पादं प्रजानाति । एवं प्रतीत्यसमुत्पादं प्रजानाति । अथ खल्वायुष्मान् सुभूतिर्भगवन्तमेतदवोचत्: यदि भगवं बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्निमे परस्परभिन्नान् (अद्स्प्गिइ ६७) धर्मानेवं प्रजानाति । ननु भगवन् धर्मधातुर्विकोपितो भवति? भगवानाह: विकोपित सुभूते स्याद्यदि धर्मधातुर्विनिर्मुक्तः <+अन्यः?> कश्चिद्धर्मः स्याद् । न सुभूते धर्मधातुविनिर्मुक्तोऽन्यः कश्चिद्धर्म उपलभ्यते । यद्युपलभ्येत स्याद्धर्मधातोर्विकोपना । तत्कस्य हेतोः? न हि सुभूते तथागतेन वा बोधिसत्त्वेन वा । प्रत्येकबुद्धेन वा तथागतश्रावकेण वा धर्म [f । २८६ ] धातुर्विनिर्मुक्तोऽन्यः कश्चिद्धर्म उपलब्धः । अनुपलभ्य न प्रज्ञपयति । धर्मधातुर्विनिर्मुक्तोऽन्यः कश्चिद्धर्म उपलभ्यत इति । एवं खलु सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता धर्मधातौ शिक्षितव्यं । सुभूतिराह: धर्मधातौ भगवंच्छिक्षमाणेन बोधिसत्त्वेन महासत्त्वेन क्वचिच्छिक्षितं भवति? भगवानाह: धर्मधातौ सुभूते शिक्षमाणेन बोधिसत्त्वेन महासत्त्वेन सर्वधर्मेषु शिक्षितं भवति । तत्कस्य हेतोः? तथा हि सुभूते सर्वधर्मा धर्मधातु<ः> । आह: केन कारणेन भगवं सर्वधर्मा धर्मधातुः? भगवानाह: तथा हि सुभूते उत्पादाद्वा तथागतानामनुत्पादाद्वा तथागतानां स्थित एव धर्माणां धर्मधातुरभेदयोगेन । यदुत संस्कृतधातुर्<असंस्कृतधातुर्च> धर्मधातुः । एवं यावत्सर्वधर्मेषु कर्तव्यं । एवं खलु सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षमाणेन धर्मधातौ शिक्षितं भवति । आह: यदि भगवन् सर्वधर्मा धर्मधातुः, कथं पुनर्बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं? समाधिपारमितायां वीर्यपारमितायां क्षा<न्ति>पृष्ठआरमितायां शीलपारमितायां दानपारमितायां शिक्षितव्यं? कथं बोधिसत्त्वेन महासत्त्वेन प्रथमे ध्याने शिक्षितव्यं? कथं द्वितीये त्रितीये चतुर्थे ध्याने शिक्षितव्यं? कथं मैत्र्यां करुणायां मुदितायामुपेक्षायामाकाशानन्यायतने यावन्नैवसंज्ञानासंज्ञायतने शिक्षितव्यं? कथं चतुर्षु स्मृत्युपस्थानेषु यावदार्याष्टाङ्गे मार्गे शिक्षितव्यं? कथं (अद्स्प्गिइ ६८) शून्यतानिमित्ताप्रणिहितेषु शिक्षितव्यं? कथमष्टादशसु विमोक्षेषु नवस्वनुपूर्वसमापत्तिषु शिक्षितव्यं? कथं दशसु तथागतबलेषु चतुर्षु वैशारद्येषु चतसृषु प्रतिसंवित्सु महामैत्र्यां महाकरुणायां महामुदितायां महोपेक्षायामष्टादशस्वावेणिकेषु बुद्धधर्मेषु शिक्षितव्यं? कथं पञ्चाभिज्ञासु शिक्षितव्यं? कथं द्वातृंशद्महापुरुषलक्षणपरिनिष्पत्तौ शिक्षितव्यं? कथमशीत्यनुव्यञ्जनपरिनिष्पत्तौ शिक्षितव्यं? कथं क्षत्रियमहासालकुलोपपत्तौ ब्राह्मणमहासालकुलोपपत्तौ गृहपतिमहासालकुलोपपत्तौ शिक्षितव्यं? कथं चातुर्महाराजकायिकानां देवानामुपपत्तौ त्रायस्त्रिंशानां यामानां तुषितानां निर्माणरतीनां परनिर्मितवशवर्तिनां ब्रह्मकायिकानामाभास्वराणां शुभकृत्स्नानां वृहणां परीत्तवृहनां वृहत्फलानां देवानामुपपत्तौ शिक्षितव्यं? कथमसंज्ञीसत्त्वोपपत्तौ शुद्धावासदेवनिकयोपपत्तौ शिक्षितव्यं कथं प्रथमे चित्तोत्पादे शिक्षितव्यं । कथं द्वितीये त्रितीये चतुर्थे पञ्चमे षष्टे सप्तमे अष्ठमे नवमे दशमे चित्तोत्पादे शिक्षितव्यं । कथं श्रावकभूमौ प्रत्येकबुद्धभूमौ बोधिसत्त्वनियामे शिक्षितव्यं? कथं सत्त्वपरिपाके बुद्धक्षेत्रपरिशुद्धौ <सर्व>धारणीमुखसमाधिमुखेषु शिक्षितव्यं? कथं प्रतिभाने शिक्षितव्यं? कथं बोधिमार्गे शिक्षितव्यं यत्र शिक्षमाणेन सर्वधर्माः सर्वाकारैर्ज्ञातव्याः? यदि भगवन् धर्मधाताविमे विकल्पा <न सन्ति>, माहैव भगवन् बोधिसत्त्वो महासत्त्वो विपर्यासे चरेत् । अप्रपञ्च्यं प्रपञ्चयेत् । तत्कस्य हेतोः? न हि भगवन् धर्मधाताविमे विकल्पाः । न हि धर्मधातु<र्> रूपं न वेदना न संज्ञा न संस्कारा न धर्मधातुर्विज्ञानं । नान्यत्र रूपा<द्> धर्मधातुर्नान्यत्र वेदनाया संज्ञायाः संस्कारेभ्यो नान्यत्र विज्ञानाद्धर्मधातुर् । रूपमेव धर्मधातुर्धर्मधातुरेव रूपं । यावद्विज्नानमेव धर्मधातुर्धर्मधातुरेव विज्ञानं । एवं सर्वधर्मा ज्ञातव्याः । भगवानाह: एवमेतत्सुभूते एवमेतत्, तथा यथा वदसि । रूपमेव धर्मधातुर्[f । २८६ ] धर्मधातुरेव रूपं । वेदनासंज्ञासंस्का<रविज्ञानमेव धर्म>धातुर्धर्मधातुरेव विज्ञानं । यदि पुनः सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायाञ्(अद्स्प्गिइ ६९) चरन् कंचिद्धर्मं धर्मधातुविनिर्मुक्तं पश्येन्न अनुत्तरस्यै सम्यक्संबोधयं प्रतिष्ठित । यस्मात्सर्वधर्मा धर्मधातुस्तस्माद्बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् सर्वधर्मान् धर्मधातुरिति ज्ञात्वा अनामकानि सर्वधर्मा<न्> नामसंकेतेन देशयति । इदं रूपमित्यियं वेदना इति इयं संज्ञा इति इमे संस्कारा इति <इदं> विज्ञानमिति । यावदियं बोधिरिति । (विइइ ५,४) तद्यथापि नाम सुभूते दक्षो मायाकारो मायाकारन्तेवासी वा यत्किंचिदेव द्रव्यजातमधिष्ठाय विविधं रूपगतं सन्दर्शयेत् । यदुत हस्तिविग्रहं वा अश्वविग्रहं वा बलीवर्दविग्रहं वा पुरुषस्त्रिदारकदारिकविग्रहं वा । उद्यानविमानपोवन(?)आरामरमणीयकानि । पुष्करणी<रमणी>यकानि वा वनरमणीयकानि वा, यत्र विविधास्तरणोपस्तररिअप्रत्यास्तरनानि । पुष्पमाल्यगुणां वा खादनीयभोजनीयानि वा दर्शयेद्, गीतवादितेन वा जनं रमये<त्> । दानं वा ददंच्छीलं वा रक्षन् क्षान्त्या वा संपादयन् वीर्यं वा आरभमाणः समाधिर्वा विक्रीनुन् प्रज्ञां वा भावयन् । स तत्रैभिराकारैर्जनं रमयेत्, क्षत्रियमहासालकुलानि वा दर्शयेत्ब्राह्मणमहासालकुलानि वा गृहपतिमहासालकुलानि वा दर्शयेत् । चातुर्महाराजकायिकान् वा देवान् वा दर्शयेत्, सुमेरुं वा दर्शयेत्, त्रयस्त्रिंशान् वा यामान् वा तुषितान् वा निर्मणरतीं वा परनिर्मितवशवर्तिनो वा देवान् यावन्नैवसंज्ञानासंज्ञायतनोपगात्वा देवान् दर्शयेद्, अरूपिण स्रोतआपन्नं वा सकृदागामिनो वा अनागामिनो वा अर्हन्तो वा प्रत्येकबुद्धान् वा । येऽपि ते बोधिसत्त्वा महासत्त्वाः प्रथमचित्तोत्पादमुपादाय दानपारमितायां चरन्ति । शीलपारमितायां क्षान्तिपारमितायां वीर्यपारमितायां ध्यानपारमितायां प्रज्ञापारमितायां चरन्ति । प्रथमायां भूमौ चरन्ति । याव<द्> दशम्यां महाभूमौ चरन्ति । बोधिसत्त्वन्याममवक्रामन्त्यभिज्ञामभिनिर्हरन्ति । ताभि<रभि>ज्ञाभिर्विक्रीडन्ति सत्त्वांश्(अद्स्प्गिइ ७०) च परिपाचयन्ति । बुद्धक्षेत्रं च परिशोधयन्ति । ध्यानविमोक्षसमाधिसमापत्तिभिर्विक्रीडन्ति । अङ्गप्रत्यङ्गानि वा परित्यजन्ति । दुष्करचर्यान् वा चरन्ति । तथागतबलानि वा निष्पादयन्ति । वैशारद्यानि वा प्रतिसंविदो वा महामैत्रीं महाकरुणां वा तानपि दर्शयेत् । सर्वाङ्गप्रत्यङ्गपरिपूर्णं बुद्धविग्रहं वा आदर्शयेत् । तत्र बालजतीया सत्त्वा एवं जानीयुह्: अहो यावत्सुशिक्षितोऽयं मनुष्यः कथं शोभनं करोति । यदिमं जनमेवं रमयत्येवं विविधानि च रूपाण्यादर्शयति । यावद्बुद्धविग्रहं वा । ये खलु पुनस्तत्र मनुष्या भवन्ति पण्डिता व्यक्ता मेधाविनः तद्रूपया मीमांसया समन्वागता तेषामेवं भवत्य् । आश्चर्यमिदमद्भुतधर्मो न चात्र कश्चिद्धर्म उपलभ्यते । अयं च मनुष्य इमां जनतामेवमसद्भिर्धर्मै<र्> रमयति । तां च सत्त्वसंज्ञान्नोपलभते । अद्रव्ये वतेमे सत्त्वा द्रव्यसंज्ञिन इति । एवमेव सुभूते बोधिसत्त्वो महासत्त्वो न कश्चिद्धर्मन् धर्मधातुविनिर्मुक्तं पश्यति । प्रज्ञापारमितायां चरन्नुपायकौशलेन न च सत्त्वमुपलभते न सत्त्वप्रज्ञप्तिं । (विइइ ५,५) । स आत्मना च दानं ददाति परं च दाने समादापयति । दानस्य च वर्णं भाषते । येऽप्यन्ये सत्त्वा दानं ददन्ति तेषां च वर्णवादी भवति समनुज्ञः । आत्मना च शीलं रक्षति । परं च शीले समादापयति । शीलस्य च वर्णं भाषते येऽप्यन्ये शीलं र<क्ष>न्ति । तेषां च वर्णवादी [f । २८७ ] भ<व>ति समनुज्ञः । एवमात्मना च क्षान्तिं भावय<ं>ति । परं च क्षान्तौ समादापयति । क्षान्तेश्च वर्णं भाषते । येऽप्यन्ये क्षान्तिं भावयन्ति तेषां च वर्णवादी भवति समनुज्ञः । आत्मना च वीर्यमारभते । परं च वीर्ये समादापयति । वीर्यस्य च वर्णं भाषते । येऽप्यन्ये वीर्यमारभन्ते तेषां च वर्णवादी भवति समनुज्ञः । आत्मना च समाधिं समापद्यन्ते । परं च समाधौ समादापयति । समाधेश्च वर्णं भाषते येऽप्यन्ये समाधिं समापद्यन्ते तेषां च वर्णवादी भवति समनुज्ञः । आत्मना च प्रज्ञानि भावयति । परं च प्रज्ञायां समादापयति प्रज्ञायाश्च वर्णं भाषते । येऽप्यन्ये प्रज्ञां भावयन्ति । तेषां च वर्णवादी भवति: समनुज्ञः । (विइइ ५,६) आत्मना च दशकुशलान् कर्मपथान् समादाय वर्तन्ते परं च दशसु कुशलेषु कर्मपथेषु समादापयति । दशानां च कुशलानां कर्मपत्ः आनां च वर्णं भाषते । येऽप्यन्ये (अद्स्प्गिइ ७१) सत्त्वा दशकुशलान् कर्मपथान् समादाय वर्तन्ते तेषां च वर्णव्<आदी भव>ति समनुज्ञः । आत्मना च अष्टाङ्गसमन्वागतं पोषधमुपवसन्ति । परं च अष्टाङ्गसमन्वागते पोषधे समादापयति: अष्टाङ्गसमन्वागतस्य च पो<ष>धस्य वर्णं भाषते । ये च अन्ये सत्त्वा अष्टाङ्गस<म>मन्वागतं पोषधमुपवसन्ति । तेषां च वर्णवादी भवति समनुज्ञः । आतमना च पञ्चशिक्षापदानि समादाय वर्तन्ते । परं च पञ्चसु शिक्षापदेषु समादापयन्ति । पञ्चानां च शिक्षापदानां वर्णं भाषते । ये च अन्ये सत्त्वा पञ्चशिक्षापदानि समादाय वर्तन्ते तेषांच वर्णवादी भवति समनुज्ञः । एवमात्मना च प्रथमं ध्यानं समापद्यते याव चतुर्थं मैत्रीं करुणां मुदितामुपेक्षामाकाशानन्त्यायतनसमापत्तिं यावन्नैवसंज्ञनासंज्ञायतनसमापत्तिं । आत्मना च स्मृत्युपस्थानानि भावयति । यावदार्याष्टांगं मार्गं त्रीणि विमोक्षमुखानि अष्टौ विमोक्षान्नवानुपूर्वसमापत्तीर्दशतथागतबलानि । चत्वारि वैशारद्यानि चतस्रः प्रतिसंविदो महामैत्रीं महाकरुणामष्टादशावेणिका<न्> बुद्धधर्मानशीतिमनुव्यञ्जनानि भावयति । परं च अशीत्यामनुव्यञ्जनेषु समादापयति । अशीतिरनुव्यञ्जनानां वर्णं भाषते येऽप्यन्ये सत्त्वा अशीतिमनुव्यञ्जनानि भावयन्ति । तेषां च वर्णवादी भवति समनुज्ञः । (विइइ ५,७) यदि सुभूते धर्मधातुर्यथा पूर्वं तथा पश्चात्<त>था मध्ये नाभविष्यत् । न बोधिसत्त्वो महासत्त्व उपायकौशलेन सत्त्वानां धर्मधातुं सूचयति । सत्त्वांश्च परिपाचयिष्यति । यस्मात्तर्हि सुभूते धर्मधातुर्यथा पूर्वं तथा पश्चात्तथा मध्ये, तस्माद्बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्नुपायकौशलेन सत्त्वानां धर्मधातुं सूचयति । सत्त्वानामर्थाय बोधिसत्त्वचारिकां चरति । सत्त्वांश्च परिपाचयति । ॥ सर्वधर्मसमतानिर्देशपरिवर्त्तः । ॥ ७४ ॥ परिवर्त ७५ । अकोप्यनिर्देश अथायुष्मान् सुभूतिर्भगवन्तमेतदवोचत्: यदि भगवन्नत्य<न्त>तया सत्त्वो नोपलभ्यते, न सत्त्वप्रज्ञप्तिः, कस्य अर्थाय बोधिसत्त्वो महासत्त्व प्रज्ञापारमितां भावयति? एवमुक्ते भगवानायुष्मन्तं सुभूतिमेतदवोचत्: भूतकोटिं सुभूते प्रमाणीकृत्य बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरति । यदि सुभूते अन्या भूतकोटिर्भवेदन्या सत्त्वकोटि<र्> (अद्स्प्गिइ ७२) न बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरेत् । यस्मात्तर्हि सुभूते न अन्या भूतकोटिरन्या सत्त्वकोटिस्, तस्माद्बोधिसत्त्वो महासत्त्व सत्त्वानामर्थे प्रज्ञापारमितायां चरति । प्रज्ञापारमितायां सु<भूते चरन् बोधिसत्त्वो महासत्त्वो> भूतकोट्यविकोपनतया सत्त्वान् भूतकोट्यां प्रतिष्ठापयति । आह: यदि भगवन् भुतकोटिः सत्त्वकोटिस्, तत्किं भूतकोटिर्भूतकोट्यां प्रतिष्ठापय<ति>? [f । २८७ ] यदि भगवं भूतकोटिर्भूतकोट्यां प्रति<तिष्ठेत्, ततः स्वभावः स्वभावे प्रति>तिष्ठेत् । न च भगवं स्वभाव स्वभावे प्रतितिष्ठति । कथं भगवन् बोधिसत्त्वो महासत्त्व प्रज्ञापारमितायां चरन् सत्त्वान् भूतकोट्यां प्रतिष्ठापयति? भगवानाह: न सुभूते भूतकोटिर्भूतकोट्यां प्रतितिष्ठते । न स्वभाव स्वभावे प्रतितिष्ठते । अपि तु खलु सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्नुपायकौशलेन सत्त्वकोटिर्भूतकोट्यां प्रतिष्ठापयति । न च अन्या भूतकोटिरन्या सत्त्वकोटि<र्>, इति हि सत्त्वकोटिश्च भूतकोटिश्च अद्वयमेतदद्वैधीकारं । आह: कतमद्भगवन् बोधिसत्त्वानां महासत्त्वानामुपायकौशलं येन उपायकौशलेन समन्वागतो बोधिसत्त्वो महासत्त्व प्रज्ञापारमितायां चरन् सत्त्वान् भूतकोट्यां प्रतिष्ठापयति न च भूतकोटिं विकोपयति? भगवानाह: इह सुभूते बोधिसत्त्वो महासत्त्व प्रज्ञापारमितायां चरन् प्रथमचित्तोत्पादमुपादाय सत्त्वान् दाने प्रतिष्ठापयति । दाने प्रतिष्ठाप्य तस्य दानस्य पूर्वान्तापरान्तमध्यमाचष्टे । यथैव तद्दानं पूर्वान्ततः शून्यमपरान्ततः । शून्यं मधयतः शून्यं, तथैव दानफलमपि शून्यं । दानपतिरपि शून्यः । प्रतिग्राहकोऽपि शून्यः । एवं कुलपुत्रा: सर्व एतेऽर्था भूतकोट्यां न संविद्यन्ते । मा च अन्यद्दानं मंस्यसेऽन्यद्दानफलं मा च अन्य<द्> दानपतिं मंस्यसेऽन्यं प्रतिग्राहकं । यदा त्वं कुलपुत्र न अन्यद्दानं मंस्यसेऽन्यद्दानफलं । नान्यद्(अद्स्प्गिइ ७३) दानपतिं मंस्यसेऽन्यं प्रतिग्राहकं । तदा तवेदं दानममृतं भविष्यत्यमृतफलपर्यवसानम् । अनेन च दानेन मा रूपं परिग्रहीर्मा वेदनां संज्ञां मा संस्कारान्मा विज्ञानं परिग्रही । तत्कस्य हेतो<र्>? यथा ह्येतद्दानं शून्यं दानेन । अस्य फलं शून्यं फलेन । दानपतिरपि शून्यो दानपतिना । प्रतिग्राहकोऽपि शून्य प्रतिग्राहकेण, न शून्यतायां दानमुपलभ्यते । न दानफलं न दानपतिर्न प्रतिग्राहकः उपलभ्यते । तत्कस्य हेतोः? तथा ह्यत्यन्ततया एते धर्मा स्वभावेन शून्या । पुनरपरं सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्नुपायकौशलेन सत्त्वान् शीले प्रतिष्ठापयति । एहि त्वं कुलपुत्र प्राणातिपातं प्रहाय प्राणातिपातात्प्रतिविरम । यावत्मिथ्यादृष्टिं प्रहाय: मिथ्यादृष्टि<ं> प्रतिविरम । नैषा<ं> कुलपुत्र धर्माणांकश्चित्स्वभावः संविद्यते: यथा ते परिकल्पितः, हन्त तावत्कुलपुत्र व्युपपरीक्षस्व: कतम एष धर्मः प्राणीनामयं जीवितान् व्यपरोपयिष्यसि । येन वा व्यपरोपयिष्यसि । यावन्मिथ्यादृष्टे कर्तव्यं । अनेन च सुभूते उपायकौशलेन समन्वागतो बोधिसत्त्वो महासत्त्व प्रज्ञापारमितायां <चरन्> सत्त्वान् परिपाचयति । स तस्य दानस्य च शीलस्य च फलमाचष्टे । तदपि दानफलं च शीलफलं च स्वभावेन शून्यं । ततः स कुलपुत्रो दानस्य च शीलस्य च फलं शून्यमिति विदित्वा तत्र न अभिनिविशते । अनभिनिविशमान अविक्षेपमुत्पाद्य प्रज्ञामुत्पादयति । यया प्रज्ञया सर्व अनुशयपर्युत्थनानि च्छित्वा अनुपधिशेषे निर्वाणधातौ परिनिर्वाति । लोकव्यवहारेण न पुनः परमार्थेन, तत्कस्य हेतोः? न हि शून्यतायां कश्चिद्धर्म उपलभ्यते । य<ः> परिनिर्वायाद्वा परिनिर्वापितो वा । अपि तु खलु तदेव अस्य परिनिर्वाणं यदुत [f । २८८ ] अत्यन्तशून्यता । पुनरपरं सुभूते बोधिसत्त्वो महासत्त्वः परसत्त्वान् परपुद्गलान् क्षुभितान् व्य्<आपन्नचि>त्तान् दृष्ट्वा एवमववदत्येवमनुशास्ति । एहि त्वं कुलपुत्र क्षान्त्या संपादय क्षान्तिञ्च भावय (अद्स्प्गिइ ७४) अधिवासनजातीयो भव, यो वा व्यापद्यते । येन वा व्यापद्यसे । यत्र वा व्यापद्यसे: सर्व एते धर्माः प्रकृतिशून्या, हन्त तावत्कुलपुत्र व्यु<प>पृष्ठअरीक्ष्व कोऽत्र व्यापद्यते । कस्मिं व्यापद्ये । केन वा व्यापद्ये: सर्व एते धर्माः प्रकृतिशून्या । या च प्रकृतिशून्यता न सा जातु न शून्यता, सा न तथागतैः कृता न प्रत्येकबुद्धैर्न श्रावकैर्न बोधिसत्त्वैर्न देवैर्न नागैर्न यक्षैर्न गन्धर्वैर्न किन्नरैर्न महोरगैर्न चातुर्महाराजकायिकैर्देवैर्यावन् <न> परनिर्मितवशवर्तिभिः न ब्रह्माभिर्यावन् <न> शुभकृत्स्नैर्न शुद्धावासैर्यावन्न नैवसंज्ञा<नासंज्ञा>यतनोपगैर्देवैः । तधन्त तावत्कुलपुत्र <व्युपपपरीक्षस्व कोऽत्र> व्यापद्यते कस्य वा व्यापद्ये । केन वा व्यापद्ये: सर्व एते धर्माः प्रकृतिशून्याः । न हि शून्यता कस्यचिदन्तिके व्यापद्यते । एवं खलु सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरं सत्त्वानुपायकौशलेन प्रकृतिशून्यतायां नियोजयत्य् । अपि हेतावपि फले । प्रकृतिशून्यतायां नियोजयन्ननुपूर्वेण अनुत्तरस्यां सम्यक्संबोधौ संहर्षयति समादापयति निवेशयति । प्रतिष्ठापयति । तत्पुनर्लोकव्यवहारेण न पुनः परमार्थेन । तत्कस्य हेतो<र्>? न हि प्रकृतिशून्यतायां कश्चिदस्ति यः प्राप्नुयाद्येन वा प्राप्नुयाद्यद्वा प्राप्नुयात् । इयं सुभूते भूतकोटिः प्रकृतिशून्यता यत्र बोधिसत्त्वो महासत्त्व प्रज्ञापारमितायां चरति । सत्त्वानां कृते, न च तत्र सत्त्वमुपलभते न सत्त्वप्रज्ञप्तिं । तत्कस्य हेतोः? सत्त्वविविक्ता हि सर्वधर्माः । पुनरपरं सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्नुपायकौशलेन सत्त्वां ही<न>वीर्यान् कुसीदान् दृष्ट्वा एवं कायिके चैतसिके वीर्ये समादापयति । न हि कुलपुत्र: प्रकृतिशून्यतायां कस्यचिद्धर्मस्य संसीदना विद्यते । यत्र संसीदेद्येन वा संसीदेद्यो वा संसीदे<त्>, सर्व एते धर्माः प्र<कृ>तिशून्यता<या> न व्यतिवर्तन्ते । हन्तेदानिं कायिकं चैतसिकं च वीर्यं संजनय्य कौसीद्यमुत्सृज्य कुशलेषु धर्मेषु प्रयुज्यस्व: यदि वा दाने यदि वा शीले यदि वा क्षान्तौ यदि वा वीर्ये । यदि वा ध्याने यदि वा प्रज्ञायां । यदि वा ध्यानविमोक्षसमाधिसमापत्तिषु यदि वा स्मृत्युपस्थानेषु यदि वा यावदार्याष्टाङ्गे मार्गे (अद्स्प्गिइ ७५) यदि वा शून्यतायां यदि वा आनिमित्ते यदि वा अप्रणिहिते: यदि वा सर्वबुद्धधर्मेषु: सर्वानेतान् कुलपुत्र धर्माननावरणान् प्रेक्षस्व शून्यताया, न ह्यनावरणेषु धर्मेषु कस्यचि<द्> धर्मस्य संसीदना संविद्यते । एवं खलु सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्नुपायकौशलेन प्रकृतिशून्यतायां सत्त्वां समादापयति । निवेशयति । प्रतिष्ठापयति । तथा पुनः प्रतिष्ठापयति । यत्र द्वयन्न विद्यते । तत्कस्य हेतोः? अद्वया हि प्रकृतिशून्यता अद्वैधीकारा, न ह्यद्वयो धर्मः न क्वचित्संसीदति । पुनरपरं सुभूते बोधिसत्त्वो महासत्त्वः प्रज्नापारमितायां चरन् प्रकृतिशून्यत्<अय्>आ वीर्ये सत्त्वानववदत्यनुशास्ति । एहि त्वं कुलपुत्र वीर्यमारभस्व यदि वा दाने यदि वा शीले यदि वा क्षान्तौ । यदि वा वीर्ये यदि वा ध्याने यदि वा प्रज्ञे । यदि वा स्मृत्युपस्थानेषु यदि वा यावदार्याष्टाङ्गे मार्गे । यदि वा अष्टासु विमोक्षेषु यदि वा नवस्वनुपूर्वसमापत्तिषु । यदि वा दशसु तथागतबलेषु यदि <वा> चतुर्षु वैशारद्येषु । यदि वा चतसृ<षु प्रतिसंवित्सु य>दि वा महामैत्र्यां यदि वा महाकरुणायां यदि वा अष्टादशस्वावेणिकेषु बुद्धधर्मेषु, मा चैतान् धर्मान् द्वयतो मनसिकार्षीर्मा अद्वयत, तत्कस्य हेतोः? [f । २८८ ] प्रकृतिशून्यतैते धर्माः, न च प्रकृतिशू<न्यता द्वयतो मनसिक>र्तव्या न अद्वयतः । एवं खलु सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्नुपायकौशलेन बोधिसत्त्वचारिकां चरं सत्त्वां परिपाचयति । सत्त्वां परिपाच्य अनुपूर्वेण स्रोतआपत्तिफले प्रतिष्ठापयति । <सकृ>दागामिफले अनागामिफले अर्हत्त्वे प्रत्येकबोधौ यावदनुत्तरस्यां सम्यक्संबोधौ प्रतिष्ठापयति । पुनरपरं सुभूते बोधिसत्त्वो महासत्त्व प्रज्नापारमितायां चरन्नुपायकौशलेन विक्षिप्तचित्तान् सत्त्वानेवमववदति । एवमनुशास्ति, एहि त्वं कुलपुत्र समाधिं भावय, मा विक्षेपसंज्नी मा समाधिसंज्ञी भूः । तत्कस्य हेतोः? प्रकृतिशून्यतैते धर्म, न च प्रकृतिशून्यतायां कश्चिद्धर्म उपलभ्यते यो विक्षिप्यते एकाग्रि भवति वा । स त्वमत्र समाधौ <स्थि>त्वा यद्यदेव कुशलमूलं करिष्यसि कायेन वा । वाचा वा मनसा वा । यदि वा दानं दास्यसि । यदि वा शीलं रक्षस्यसि । यदि वा क्षान्त्या संपादयिष्यसि । यदि वा वीर्यमारप्स्यसे, यदि वा समाधिमुत्पादयिष्यसि । यदि वा प्रज्ञां <भा>वयिष्यसि । यदि वा स्मृत्युपस्थानेषु चरिष्यसि । (अद्स्प्गिइ ७६) यदि वा यावदार्याष्टाङ्गे मार्गे । यदि वा त्रिषु विमोक्षमुखेषु यदि वा अष्टासु विमोक्षेषु यदि वा नवस्वनुपूर्वसमापत्तिषु । यदि वा दशसु तथागतबलेषु । यदि वा चतुर्षु वैशारद्येषु यदि वा चतसृषु प्रतिसंवित्सु: यदि वा महामैत्र्यां यदि वा महाकरुणायां महामुदितायां महोपेक्षायां यदि वा अष्टादशस्वावेणिकेषु बुद्धधर्मेषु: यदि वा द्वातृंशतिमहापुरुषलक्षणेषु यदि वा अशीत्यामनुव्यंजनेषु । यदि वा श्रावकमार्गे यदि वा प्रत्येकबुद्धमार्गे । यदि वा बोधिसत्त्वमार्गे । यदि वा बुद्धमार्गे । यदि वा स्रोतआपत्तिफले यदि वा सकृदागामिफले । यदि वा अनागामिफले । यदि वा अर्हत्त्वे । यदि <वा प्र>त्येकबोधौ । यदि वा सर्वाकारज्ञतायां । यदि वा सत्त्वपरिपाके यदि वा बुद्धक्षेत्रपरिशुद्धौ, तस्य ते । इमे कुशला धर्मा अल्पकृच्छ्रेण प्रादुर्भविष्यन्ति प्रकृतिशून्यतायां चरतह्: एवं खलु सुभूते बोधिसत्त्वो महासत्त्व प्रज्ञापारमितायां चरन्नुपायकौशलेन सत्त्वानामर्थं करोति, प्रथमचित्तोत्पादमुपादायज्न जात्वकर्मको भवति । किं कुशलगवेषी सत्त्वानामर्थं कुर्वं । बुद्धक्षेत्राद्बुद्धक्षेत्रं <स>ततसमितं संक्रामति । बुद्धां भगवतः पर्युपासिनह्: यञ्च तेशां बुद्धानां भगवतामन्तिकाद्धर्मं शृणोति । तस्य जातिव्यतिवृत्तस्य अपि न जातु विप्रणश्यति । यावदनुत्तरां सम्यक्संबोधिमभिसंबुध्यते । धारणीप्रतिलब्धश्च सततसमितं भवति । अहीनेन्द्रियो । यदि वा कायेन्द्रियेण यदि वा वागिन्द्रियेण: यदि वा मनैन्द्रियेण । तत्कस्य हेतोः? तथा हि सर्वाकारज्ञता सततसमितं सुभावि<ता>, तेन अ<नया स>र्वाकारज्ञतया सुभावितया सर्वमार्गा । सुभाविता भवन्ति: यदि वा श्रावकमार्गो यदि वा प्रत्येकबुद्धमार्गो यदि वा बोधिसत्त्वमार्गः । तस्य अभिज्ञा बोधिसत्त्वस्य महासत्त्वस्य सततसमितमुपकारीभूता भवन्त्यविप्रणाशयोगेन । स तासु विपाकीयास्वभिज्ञासु स्थित्वा सत्त्वानामर्थं करोति । न च परिहीयते पंचगतिके संसारे संसरन् । एवं खलु सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् प्रकृतिशून्यतायां स्थितो उपायकौशलेन सत्त्वानामर्थं करोति । स तया प्रज्ञापारमितया सुभावितया सत्त्वानेवमववदत्य्<एवं> अनुशास्ति । एहि त्वं कुलपुत्र यद्यदेव कर्म करोषि । कायेन वा वाचा वा मनसा वा तत्सर्वं प्रकृतिशून्यम् (अद्स्प्गिइ ७७) एवं प्रत्यवेक्षस्व, तस्य ते सर्वं कर्मामृतफलं भविष्यत्यमृतपर्यवासनं । न च प्रकृतिशून्यतायां कश्चिद्धर्म उपलभ्यते । यो विनश्येद्यो वा परि<हीयेत ।> [f । २८९ ] <तत्कस्य हेतोः?> न हि प्रकृतिशून्यता परिहीयते नापि प्रकृतिशून्यताया कश्चिद्धर्मः परिहीयते । तत्कस्य हेतोः? तथा हि प्रकृतिशून्यता न भावो न अभावः । तत्किमभावस्वभावेषु धर्मेषु परिहास्यते । एवं खलु सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्नुपायकौशलेन सत्त्वानववदत्यनुशास्ति । एवमववदन्नेवमनुशासन्न जात्वकर्मको भवति । स आत्मना च दशकुशलेषु कर्मपथेषु सततसमितं वर्तते । परं च दशकुशलेषु कर्मपथेषु समादापयति । एवं पंचसु शिक्षापदेष्वष्टाङ्गसमन्वागते उपवासे, आत्मना च । प्रथमध्यानं समापद्यते परं च प्रथमे ध्याने समादापयति । एवं यावच्चतुर्थे ध्याने । आत्मना च सततसमितं मैत्रीविहारी भवति परं च सततसमित<ं> मैत्रीभावनायां समादापयति । एवं करुणाया<ं> मुदितायामुपेक्षायां यावन् । नैवसंज्ञानासंज्ञायतनसमापत्तौ, आत्मना च स्मृत्युपस्थानं भावयति । परं च स्मृत्युपस्थानेषु समादापयति । एवं यावदार्याष्टाङ्गे मार्गे । आत्मना च दशसु तथागतबलेषु शिक्षते । परं च दशसु तथागतबलेषु समादापयति । निवेशयति विनयति प्रतिष्ठापयति । एवं यावदशीत्यामनुव्यञ्जनेषु, आत्मना च स्रोतआपत्तिफलज्ञानमुत्पादयति । न च तत्र अवतिष्ठते । परं च स्रोतआपत्तिफले प्रतिष्ठापयति । एवं यावदर्हत्त्वे प्रत्येकबोधौ, आत्मना च अनुत्तरस्याम्: सम्यक्संबोधेर्मार्गमुत्पादयति । परं च तत्र मार्गेऽवदत्यनुशास्ति निवेशयति । विनयति प्रतिष्ठापयति । एवं खलु सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्नुपायकौशलेन न कदाचि<त्> कर्म <न> करोति । आह: यदि भगवं । प्रकृतिशून्याः सर्वधर्माः न च प्रकृतिशून्यतायां सत्त्वमुपलभ्यते, न धर्मो न <अ>धर्मस्, तत्कथं भगवं बोधिसत्त्वो महासत्त्व सर्वाकारज्ञतायैः संप्रतिष्ठते? भगवानाह: एवमेतत्सुभूते एवमेतत्, तथा यथा वदसि, प्रकृतिशून्याः सर्वधर्माः, न च प्रकृतिशुन्यतायां सत्त्वमुपलभ्यते, (अद्स्प्गिइ ७८) न धर्मो न अधर्मः, यदि पुनः सुभूते नप्रकृतिशून्या सर्वधर्माः भवेयुर्न बोधिसत्त्वो महासत्त्वः प्रकृतिशून्यतायां प्रतितिष्ठेत् । न अस्य <अ>नुत्तरां सम्यक्संबोधिमभिसंबुध्य प्रकृतिशून्यान् धर्मान् देशयेत् । रूपं सुभूते प्रकृतिशून्यं, वेदनासंज्ञासंस्काराविज्ञानं सुभूते प्रकृतिशून्यं । <त>द्बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चर<न्> पञ्चस्कन्धाः प्रकृतिशून्या इति धर्मन् देशयति । अष्टादशधातवो द्वादशायतनानि प्रकृतिशून्या इति धर्मन् देशयति । चत्वारि ध्यानानि चत्वार्यप्रमाणानि चतस्रः आरूप्यसमापत्तीश्चत्वारि स्मृत्युपस्थानानि यावदार्याष्टाङ्गो मार्ग प्रकृतिशून्य इति धर्मन् देशयति । त्रीणि विमोक्षमुखान्यष्टौ विमोक्षा नवानुपूर्वसमापत्तयो । दशतथागतबलानि चत्वारि वैशारद्यानि । चतस्रः प्रतिसंविदो महामैत्री महाकरुणा महामुदिता महोपेक्षा अष्टादशावेणिका बुद्धधर्मा द्वातृंशन्महापुरुषलक्षणानि अशीतिरनुव्यञ्जनानि प्र<कृतिशून्यानिति ध>र्मन् देशयति । स्रोतआपत्तिफलं सकृदागामिफलम् <अनागामिफलं ।> अर्हत्त्वं प्रत्येकबोधिः सर्वाकारज्ञता सर्ववासनानुसन्धि<क्लेश>पृष्ठरहाणं प्रकृतिशून्य्[f । २८९ ] अमिति धर्मन् देशयति । यदि पुनः सुभू<तेऽध्यात्मशून्यता न> प्रकृतिशून्याभविष्यन्न बोधिसत्त्वो महासत्त्वः प्रकृतिशून्याः सर्वधर्मा इति धर्मन् देशयिष्यन् । एवं बहिर्द्धाशून्यता आध्यात्मबहिर्द्धाशून्यता शून्यताशून्यता परमार्थशून्यता संस्कृतशून्यता असंस्कृतशून्यता अत्यन्तशून्यता अनवराग्रशून्यता अवकारशून्यता प्रकृतिशून्यता सर्वधर्मशून्यता स्वलक्षणशून्यता न प्रकृतिशून्या भवेत्? तद्विनाशिता <प्रकृति>शून्य्<अत्>आ भवेन्, न च प्रकृतिशून्यता विनश्यति । न कूटस्थो भवति । नापि सा पुनरवक्रामति । तत्कस्य हेतो<ः>? न हि सा देशस्था न प्रदेशस्था, न हि सा कुतश्चिदागच्छति न क्वचिद्गच्छति । एषा सा धर्मस्थि<ति>ता यत्र न कस्यचिद्धर्मस्य आचयो वा अपचयो वा उपलभ्यते । हानिर्वा वृद्धिर्वा उत्पादो वा निरोधो वा संक्लेशो वा वयवदानं वा । एषा सा प्रकृतिर्धर्माणां यत्र स्थित्वा बोधिसत्त्वा महासत्त्वा अनुत्तरस्यै सम्यक्संबोधये संप्रतिष्ठन्ते । न च कस्यचिद्धर्मस्य (अद्स्प्गिइ ७९) प्रस्थानं समनुपश्यति न अप्रस्थानं । असंप्रस्थिता । अस्थिता हि सर्वधर्माः । एषा सा धर्माणां धर्मस्थिता, तद्बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् सर्वधर्मान् प्रकृतिशून्यान् दृष्ट्वा न प्रत्युदावर्त्ततेऽनुत्तरस्याः सम्यक्संबोधेः । तत्कस्य हेतोस्? तथा हि स न कस्यचिद्धर्मस्य आवरणं समनुपश्यति । अनावरणान् सर्वधर्मान् समनुपश्यति । तत्किं विचिकित्सिष्यत्यनुत्तरस्या सम्यक्संबोधेः । यत्र प्रकृतिशून्यताया<ं> <न> सत्त्व उपलभ्यते न सत्त्वप्रज्ञप्तिं न आत्मा न जीवो न पोषो न पुद्गलो न जन्तुर्न मनुजो न मानवो न कारको न कारापको न वेदको न वेदयिता न उत्थापको न जनको न पश्यक उपलभ्यते । न रूपं न वेदना न संज्ञा न संस्कारा न विज्ञानमुपलभ्यते । एवमाध्यात्मिकबाह्या धर्माः कर्तव्याः यावदशीतिरनुव्यञ्जनानि । (विइइ ५,८) तद्यथापि नाम सुभूते तथागतनिर्मितो निर्मितस्य भिक्षोर्भिक्षुण्या वा उपासकस्य वा उपासिकाया वा अनुप्रबन्धं कल्पनियुतं धर्मन् देशयेत्, तत्किं मन्यसे सुभूते अपि नु ते निर्मिता भव्या स्रोतआपत्तिफलमनुप्राप्तुं सकृदागामिफलमनागामिफलं वा अर्हत्त्वं वा प्रत्येकबोधिं वा अनुत्तरां वा सम्यक्संबोधिमनुप्राप्तुं? आह: नो हीदं भगवन् । तत्कस्य हेतो<स्>? तथा हि तेषां वस्तु नास्ति । भगवानाह: एवमेतत्सुभूते एवमेतत् । अवस्तुकानां सर्वधर्माणां कतम स सत्त्वो यं बोधिसत्त्वो महासत्त्वो निवेशयेत्स्रोतआपत्तिफले वा सकृदागामिफले वा अनागामिफले वा अर्हत्त्वे वा प्रत्येकबोधौ वा अनुत्तरायां वा सम्यक्संबोधौ, अन्यत्र विपर्यासपर्यवनद्धः प्रज्ञा अविपर्यासे निवेशयति प्रतिष्ठापयति । य एव विपर्यास स एव अविपर्यास । कल्पनिष्यन्दमुपादाय । अविकल्पश्च अविपर्यास, यत्र विपर्यासो नास्ति तत्र न आत्मा न सत्त्वो यावन्न जनको न पश्यकः, तत्र न रूपं न वेदना न संज्ञा न संस्कारा न विज्ञानं यावन्न बोधिः, यत्र न रूपं न वेदना न संज्ञा न संस्कारा न विज्ञानं । यावन्न बोधिः, एषा सा प्रकृतिशून्यता । यत्र स्थित्वा बोधिसत्त्वो महासत्त्वः प्रज्ञापारमि<तायां> चरन् विपर्यासां सत्त्वा<न्> सत्त्वसंज्ञायां मोचयति । एवं रूपसंज्ञाया<त्> अरूपसंज्ञायान्मोचयति । यावत्सर्वेभ्यः सास्रवेभ्यो धर्मेभ्यो मोचयति । (अद्स्प्गिइ ८०) येऽपि ते [f । २९० ] अनास्रवा धर्मास्तद्यथा चत्वारि स्मृत्युपस्थानानि । चत्वारि सम्यक्प्रहाणानि चत्वारर्द्धिपादा पञ्चेन्द्रियाणि पञ्चबलानि सप्तबोध्यंगान्यार्याष्टांगो मार्ग त्रिणि विमोक्षमुखानि यावदष्टादशावेणिका बुद्धधर्माः, तदपि न तथा परमार्थः, यदुत असंस्कृतमनुत्पादः अभावः अप्रादुर्भावः एषा सा प्रकृतिशून्यता, एषा सा बुद्धानां भगवतां बोधिः, यत्र न सत्त्वो यावन्न जनको न पश्यकः, न रूपं न वेदना स संज्ञा न संस्कारा न विज्ञानं । एवं विस्तरेण कर्तव्यं । यावदशीतिरनुव्यञ्जनानि । न हि बोधिसत्त्वो महासत्त्वो मार्गस्य कृतेऽनुत्तरस्यै सम्यक्संबोधयेऽभिप्रतिष्ठते । अन्यत्रप्रकृतिशून्यता<परिज्ञान अर्थे> । सा अपि प्रकृतिशून्यता पूर्वे वा सा प्रकृतिशून्यता, पश्चाद्वा <सा> प्रकृतिशून्यता । मध्ये वा सा प्रकृतिशून्यता, न सा जातु न प्रकृतिशून्यता । तद्बोधिसत्त्वो महासत्त्वः प्रकृतिशून्यतापारमितासु चरं सत्त्वानां सत्त्वसंज्ञीनां सर्वसंज्ञाप्रमोक्षण अर्थं मार्गाकारज्ञातायां चरति । स मार्गाकारज्ञतायां चरन् सर्वमार्गेषु चरति । यदुत श्रावकमार्गे प्रत्येकबुद्धमार्गे बोधिसत्त्वमार्गे । स खलु पुनर्बोधिसत्त्वो महासत्त्व सर्वमार्गान् परिपूर्य सत्त्वां परिपाच्य बुद्धक्षेत्रं परिशोध्य आयुह्संस्कारानधिष्टाय अनुत्तरां सम्यक्संबोधिमभिसंबुध्यते । बुद्धनेत्रिं न व्यवच्छिन्नत्ति यदुत प्रकृतिशून्यतां । एषा सा बुद्धानां भगवतां बुद्धनेत्रि, येऽपि तेऽभूवन्नतीतेऽध्वनि बुद्धा भगवन्तस्तेषामपि बुद्धानां भगवतामियं बुद्धनेत्री यदुत प्रकृतिशून्यता, येऽपि ते अनागतेऽध्वनि भविष्यन्ति बुद्धा भगवन्तस्तेषामपि बुद्धानां भगवतामियं बुद्धनेत्री यदुत प्रकृतिशून्यता: येऽपि ते एतर्हि दशसु दिक्षु लोकधातुषु बुद्धा भगवन्तस्तिष्ठन्ति धृयन्ते यापयन्ति तेषामपि बुद्धानां भगवतामियं बुद्धनेत्रि यदुत प्रकृतिशून्यता । न ह्यन्यतः प्रकृतिशून्यताया लोकप्रादुर्भावो भवत्यन्यत्र बुद्धानां भगवतामन्तिकात्, तथा बोधिसत्त्वेन महासत्त्वेन प्रकृतिशून्यतापारमितासु चरितव्यं, यत्र चरं बोधिसत्त्वो महासत्त्वो न परिहीयते सर्वाकारज्ञतया । (अद्स्प्गिइ ८१) सुभूतिराह: आश्चर्यमिदं भगवं । बोधिसत्त्वानां महासत्त्वानां यत्र हि नाम एवं प्रकृतिशून्येषु सर्वधर्मेषु चरन्ति । तां च प्रकृतिशून्यतां न विकोपयन्त्य्, अन्यद्रूपमन्या प्रकृतिशून्यता । एवमन्या वेदनासंज्ञासंस्काराविज्ञानमन्या प्रकृतिशून्यता । एवं विस्तरेण सर्वधर्माणां कर्तव्यं । यावदन्या बोधिरन्या प्रकृतिशून्यता, रूपमेव प्रकृतिशून्यता प्रकृतिशून्यतैव रूपं, वेदनैव प्रकृतिशून्यता प्रकृतिशून्यतिव वेदना । संज्ञैव प्रकृतिशून्यता प्रकृतिशून्यतैव संज्ञा, संस्कारा एव प्रकृतिशून्यता प्रकृतिशून्यतैव संस्कारा, विज्ञानमेव प्रकृतिशून्यता प्रकृतिशून्यतैव विज्ञानं । यावद्बोधिरेव प्रकृतिशून्यता प्रकृतिशून्यतैव बोधिः । भगवानाह: यदि सुभूते अन्यद्रूपं भवेदन्या प्रकृतिशून्यता । अन्या वेदनासंज्ञासंस्काराविज्ञानं भवेदन्या प्रकृतिशून्यता । यावदन्या बोधिर्भवेदन्या प्रकृतिशून्यता । यदि सुभूते रूपं न प्रकृतिशून्यं भवेन्न बोधिसत्त्वो महासत्त्वोऽनुत्तरांसम्यक्संबोधिमभि<संबु>द्ध्येत । एवं वेदनासंज्ञासंस्कारा, यदि विज्ञानं न प्रकृतिशून्यं भवेन्न बोधिसत्त्वो महासत्त्वोऽनुत्तरां सम्यक्संबोधिमभिसंबुध्येत, यावद्यदि बोधिर्न प्रकृति [f । २९० ] शून्यता भवेन्न बोधिसत्त्वो महासत्त्वोऽन्य्त्त<रां सम्यक्संबोधि>मभिसंबुध्येत । यस्मात्तर्हि सुभूते रूपं प्रकृतिशून्यं वेदनासंज्ञासंस्काराविज्ञानं प्रकृतिशून्यं, यावद्बोधिः प्रकृतिशून्या: तस्माद्बोधिसत्त्वो महासत्त्वः प्रकृतिशून्या<न्> सर्वधर्मा<न्> विदित्वा अनुत्तरां सम्यक्संबोधिमभिसंबुध्यते । तत्कस्य हेतोः? न ह्यत्र कश्चिद्धर्मो विनश्यति वा कूटस्थो वा भवत्यवक्रामति वा, अन्यत्र स<दे>वको लोकः समारकः सब्रह्मकः सो मूढः इदं रूपमहं रूपं मम रूपं । यावदिदं विज्ञानमहं विज्ञानं मम विज्ञानं, ते रूपमभिनिविश्य यावद्विज्ञानमभिनिविश्य अहंकारममकारयोश्चरन्ति । अहंकारममकारयोरभिनिविश्य अध्यात्मिकबाह्येषु (अद्स्प्गिइ ८२) वस्तुष्वभिनिविश्यन्ते, अभिनिविश्य उपपद्य आयतनेषु उपाददाते । रूपं वेदनां संज्ञां संस्कारान् विज्ञानं, ते न परिमुच्यन्ते जातिजराव्याधिमरणशोकपरिदेवदुःखदौर्मनस्योपायासेभ्यो, <न> परिमुच्यन्ते । पञ्चगतिकात्संसारात्, तद्बोधिसत्त्वो महासत्त्व प्रकृतिशून्यतापारमितासु चरन् रूपं न विकोपयति । शून्यं वा न वाशून्यमिति । वेदनासंज्ञासंस्कारान्, विज्ञानं न विकोपयति । शून्यं वा न वाशून्यमिति । यावद्बोधिं न विकोपयति शून्यं वा न वाशून्यमिति । तत्कस्य हेतोः? न हि रूपशून्यता रूपं विकोपयति । इदं रूपमियं रूपशून्यता यावदियं विज्ञानमियं विज्ञानशून्यता यावदियं बोधिरियं बोद्धिशून्यता । तद्यथापि नाम सुभूते न आकाशमाकाशं विकोपयति । नाध्यात्मिकमाकाशं बाह्यमाकाशं विकोपयति । न बाह्यमाकाशमाध्यात्मिकमाकाशं विकोपयति । एवमेव सुभूते न रूपं शून्यतां विकोपयति । न वेदनासंज्ञासंस्काराविज्ञानं शून्यतां विकोपयति । न शून्यता विज्ञानं विकोपयति । यावन्न बोधिः शून्यतां विकोपयति । न शून्यता बोधिं विकोपयति । तत्कस्य हेतोः? न ह्येषां स्वभावोऽस्ति य एवं विकोपयेद् । इदं रूपमियं शून्यता इयं वेदनासंज्ञासंस्काराविज्ञानमियं शून्यता यावदियं बोधिरियं शून्यता । सुभूतिराह: यदि भगवन्नभेदः सर्वधर्माः, कुतो बोधिसत्त्वो महासत्त्व संप्रस्थितोऽनुत्तरां सम्यक्संबोधिमभिसंभोत्स्य इति? न च भगवन् द्वैधीकारो बोधिर्न च द्विधीकुर्वता शक्यमनुत्तरां सम्यक्संबोधिमभिसंबोद्धुं । भगवानाह: एवमेतत्सुभूते एवमेतद्, न द्वये चरतो बोधिर्न द्वैधीकारो बोधि, अद्वयं हि सुभूते बोधिरद्वैधीकारा, न सुभूते बोधिसत्त्वस्य महासत्त्वस्य बोधि<र्> द्वैधीकारे चरति <बोधिरिति> बोधिसत्त्व इति <वा> । सा च बोधिसत्त्वस्य महासत्त्वस्य बोधिर्न रूपे चरति । न वेदनायां न संज्ञायां न संस्कारेषु न विज्ञाने चरति । यावन्न बोधौ चरति । तत्कस्य हेतो<ः>? न हि बोधिरहमिति वा ममैति वा, अहं रूपे चरेयं मम रूपं, अहं वेदनायां संज्ञायां संस्कारेष्वहं विज्ञाने चरेयं मम विज्ञानं, (अद्स्प्गिइ ८३) यावद्<अह>ं बोधौ चरेयं मम बोधि<ः> । न च बोधिसत्त्वस्य महासत्त्वस्य बोधिरुगृह्णे वा अनुद्गृह्णे वा चरति । सुभूतिराह: यदि भगवं बोधिसत्त्वस्य महासत्त्वस्य बोधिर्न उद्गृह्णे चरति न अनुद्गृह्णे । कुह बोधिसत्त्वस्य महासत्त्वस्य बोधिश्चरति? भगवानाह: तत्किं मन्यसे सुभूते कुह तथागतस्य निर्मितस्य बोधिश्चरति । उद्गृह्णे वा अनुद्गृह्णे वा चरति? आह: नो हीदं भगवन् । भगवानाह: तत्किं मन्यसे सुभूते अर्हतः स्वप्नान्तरगतस्य बुद्धि । कुह चरति । उद्गृह्णे वा अनुद्गृह्णे वा? आह: नो हीदं भगवन्न्, अपि तु खलु भगवन् यद्यत्यन्ततोऽर्हन्न स्वपिति कुत पुनरस्य स्वप्ने बुद्धिश्चरिष्यत्युद्गृह्णे वा अनुद्गृह्णे वा? भगवानाह: एवमेव सुभूते न बोधिसत्त्वस्य महासत्त्वस्य बोधिश्चरत्युद्गृह्णे व अनुद्गृह्णे वा । आह: यदि भगवं बोधिसत्त्वस्य महासत्त्वस्य बोधिर्न उद्गृह्णे चरति न अनुद्गृह्णे चरति । न रूपे चरति । यावन्न सर्वाकारज्ञातायां चरति, न पुनर्भगवन् [f । २९१ ] बोधिसत्त्वो महासत्त्वो दशभूमिषु चरति । षट्सु पारमितासु सप्तत्रिंशति बोधिपक्ष्येषु धर्मेषु त्रिषु विमोक्षमुखेषु चतुर्दशसु शून्यतासु ध्यानविमोक्षसमाधिसमापत्तिषु दशसु तथागतबलेषु यावदशीत्यानुव्यंजनेषु पञ्चस्वभिज्ञासु स्थित्वा बुद्धक्षेत्रं च परिशोधयति सत्त्वांश्च परिपाचयति । सर्वाकारज्ञतामभिसंबुध्यते । न च भगवन्नस्थित्वा दशसु भूमिषु षट्सु पारमितासु यावत्पञ्चस्वभिज्ञासु, बोधिसत्त्वन्यामम् <अन्>अवक्रम्य बुद्धक्षेत्रमपरिशोध्य सत्त्वानपरिपाच्य शक्यमनुत्तरा सम्यक्संबोधिरभिसंबोद्धुं । भगवानाह: एवमेतत्सुभूते एवमेतद्यथा वदसि, न षक्यम<प>रिपूर्य दशभूमी षट्पारमिताश्चत्वारि ध्यानानि चत्वार्यप्रमाणानि चतस्रः आरूप्यसमापत्तीश्चत्वारि स्मृत्युपस्थानानि यावदार्याष्टङ्गं मार्गं । शून्यतानिमित्ताप्रणिहितानि विमोक्षमुखानि । चतुर्दशशून्यता दशतथागतबलानि । यावदशीतिमनुव्यञ्जनानि पञ्चाभिज्ञा शक्यमपरिपूर्य असंप्रमोषधर्मतां सदोपेक्षविहारितां सर्वाकारज्ञतामभिसंबोद्धुं । तत्खलु पुनः सुभूते रूपप्रकृतौ (अद्स्प्गिइ ८४) स्थित्वा वेदनासंज्ञासंस्काराविज्ञानप्रकृतौ स्थित्वा यावद्बोधिप्रकृतौ स्थित्वा । सा च प्रकृतिरुपशान्त । न कस्यचिद्धर्मस्य आचयं वा करोत्यपचयं वा । उत्पादं वा निरोधं वा संक्लेशं वा व्यवदानं वा प्राप्तिं वा अभिसमयं वा । (विइइ ५,९) तत्खलु पुन<ः> सुभूते लोकव्यवहारप्रज्ञप्तिधर्मतामुपादाय बोधिसत्त्वो महासत्त्वोऽनुत्तरां सम्यक्संबोधिमभिसंबुध्यते । न पुनः परमार्थेन किंचिदस्ति रूपं वा वेदना वा संज्ञा वा संस्कारा वा विज्ञानं वा यावद्बोधिर्वा, यो वा बोधौ चरेत्, सर्व एते धर्मा लोकव्यवहारतामुपादाय प्रज्ञप्ता न पुनः परमार्थेन । तत्तु बोधिसत्त्वो महासत्त्व । प्रथमचित्तोत्पादमु<पा>दाय बोधाय चरति, न पुनस्तानि चित्तान्युपलभते । न सत्त्वान्न बोधिं न बुद्धं न बोधिसत्त्वं । तत्किं मन्यसे सुभूते यस्मिन् समये सुभूतिना सत्कायदृष्टिप्रहाणायेन्द्रियाणि प्रतिलब्धान्या<न>न्तर्यो वा समाधिः स्रोतआपत्तिफलं वा प्राप्तं । सकृदागामिफलं वा अनागामिफलं वा अर्हत्त्वं वा प्राप्तं । अपि नु तस्मिन् समये स्वप्नो वा उपलब्धश्चित्तं वा मार्गो वा फलं वा । आह: नो हीदं भगवं । भगवानाह: तत्कथं पुनस्ते आज्ञाव्याकृता सुभूतिना अर्हत्त्वं प्राप्तमिति? आह: लोकव्यवहारतामुपादाय । भगवानाह: एवमेतत्सुभूते लोकव्यवहारेण बोधिसत्त्वः प्रज्ञप्तो, लोकव्यवहारेण रूपं प्रज्ञप्तं, वेदनासंज्ञासंस्काराविज्ञानं प्रज्ञप्तं, याव<ल्> लोकव्यवहारेण सर्वाकारज्ञता प्रज्ञप्ता । न पुनर्बोधिसत्त्वेन महासत्त्वेन कश्चिद्धर्मो उपलब्धो यस्य धर्मस्य आचयं वा कुर्यादपचयं वा उपकारं वा कुर्यादपकारं वा धर्मप्रकृतिमुपादाय । सापि धर्माणां धर्मप्रकृतिर्नोपलब्धाः, कः पुनर्वाद<ः>, प्रथमचित्तोत्पादमुपलप्स्यते । याव<द्> दशमी<ं> भूमिं षट्पारमिता सप्तत्रिंशतं बोधिपक्ष्यान् धर्मानुपलप्स्यते । शून्यतासमाधिम् <आ>निमित्तं <समाधिं> अप्रणिहितं (अद्स्प्गिइ ८५) समाधिमुपलप्स्यते । यावद्बुद्धधर्मानुपलप्स्यत इति । नेदं स्थानं विद्यते । एवं खलु सुभूते बोधिसत्त्वो महासत्त्वो [f । २९१ ]ऽनुत्तरस्यां सम्यक्संबोधौ चरित्वा अनुत्तरां सम्य<क्संबोधिमभिसंबुध्य सत्त्वा>नामर्थं करोति । ((७५)) परिवर्त ७६ । सत्त्वपरिपाकसन्नाह (विइइ ५,१०) अथायुष्मान् सुभूतिर्भगवन्तमेतदवोचत्: यदि भगवन् बोधिसत्त्वो महासत्त्वः षट्सु पारमितासु चरन् सप्तत्रिंशति बोधिपक्ष्येषु धर्मेषु तृषु विमोक्षमुखेष्वष्टासु वि<मोक्षे>षु नवस्वनुपूर्वेषु समापत्तिषु । दशसु तथागतबलेषु चतुर्षु वैशारद्येषु चतसृषु प्रतिसंवित्सु महामैत्र्यां महाकरुणायामष्टादशस्वावेणिकेषु बुद्धधर्मेषु चरंश्चतुर्दशसु शून्यतासु चरं बोधिमार्गं परिपूर्याभव्योऽनुत्तरां सम्यक्संबोधिमभिसंबोद्धुम्: कथं पुनर्भगवं बोधिसत्त्वो महासत्त्वोऽनुत्तरां सम्यक्संबोधिमभिसंबुध्यते? भगवानाह: यदा सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्नुपायकौशलेन दानपारमितायां चरति । न च दानमुपलभते न दानपतिं न प्रतिग्राहकं । नाप्यन्यत्रैतेभ्यो धर्मेभ्यश्चरति । तदा बोधिसत्त्वो महासत्त्वः आसादयति बोधिमार्गं । एवं खलु सुभूते बोधिसत्त्वो महासत्त्व प्रज्ञापारमितायां चरन्नुपायकौशलेन अनुत्तरां सम्यक्संबोधिमभिसंभोत्स्यते । पुनरपरं सुभूते <यदा> बोधिसत्त्वो महासत्त्व प्रज्ञापारमितायां चरण्च्छीलपारमितायां चरति । न च शीलमुपलभते न शीलवन्तं । नाप्यन्यत्रैताभ्यां धर्माभ्यां चरति । तदा बोधिसत्त्वो महासत्त्व आसादयिष्यति बोधिमार्गं । एवं खलु सुभूते बोधिसत्त्वो महासत्त्व उपायकौशलेन अनुत्तरां सम्यक्संबोधिमभिसंबुध्यते । पुनरपरं सुभूते यदा बोधिसत्त्वो महासत्त्वो प्रज्ञापारमितायां चरन् क्षान्तिपारमितायां चरति । न च क्षान्तिमुपलभते न क्षमिणं । नाप्यन्यत्रैताभ्यां धर्माभ्यां चरति, तदा बोधिसत्त्वो महासत्त्व आसादयिष्यति बोधिमार्गं । एवं खलु सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्नुपायकौशलेन अनुत्तरां सम्यक्संबोध्<इमभि>संभोत्यते । पुनरपरं सुभूते बोधिसत्त्वो महासत्त्व प्रज्ञापारमितायां चरन् वीर्यपारमितायां चरति । न च वीर्यमुपलभते न वीर्यवन्तं । नाप्यन्यत्रैताभ्यां धर्माभ्यां चरति, तदा बोधिसत्त्वो महासत्त्व आसादयिष्यति बोधिमार्गं । एवं खलु सुभूते बोधिसत्त्वो महासत्त्व प्रज्ञापारमितायाञ्चरन्नुपायकौशलेन अनुत्तरां सम्यक्संबोधिमभिसंभोत्स्यते । पुनरपरं सुभूते यदा बोधिसत्त्वो महासत्त्व प्रज्ञापारमितायां चरन् ध्यानपारमितायां चरति । न च ध्यानमुपलभते न ध्यायिनं नाप्य्(अद्स्प्गिइ ८६) अन्यत्रैताभ्यां धर्माभ्याञ्चरति । तदा बोधिसत्त्वो महासत्त्व आसादयिष्यति बोधिमार्गं । एवं खलु सुभूते बोधिसत्त्वो महासत्त्व प्रज्ञापारमितायां चरन्नुपायकौशलेन अनुत्तरां सम्यक्संबोधिमभिसंभोत्स्यते । पुनरपरं सुभूते यदा बोधिसत्त्वो महासत्त्व प्रज्ञापारमितायां चरन् प्रज्ञापारमितां भावयति, न च प्रज्ञामुपलभते न प्राज्ञं । नाप्यन्यत्रैताभ्यां धर्माभ्यां चरति । तदा बोधिसत्त्वो महासत्त्व आसादयिष्यति बोधिमार्गं । एवं खलु सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्नुपायकौशलेन अनुत्तरां सम्यक्संबोधिमभिसंभोत्स्यते । एवं यावदष्टादशस्वावेणिकेषु बुद्धधर्मेषु कर्तव्यं । अथायुष्माञ्च्छार<द्वती>पृष्ठौत्रो भगवन्तमेतदवोचत्: कथं भगवं बोधिसत्त्वो महासत्त्व प्रज्ञापारमितायां चरन् योगमापद्यते? भगवानह: इह शारद्वतीपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्नुपायकौशलेन [f । २९२ ] रूपं <न> योजयति न वियोजयति । तत्कस्य हेतो<ः>? <तथा हि> रूपस्य स्वभावो नास्ति यं योजयेद्वा वियोजयेद्वा, याव<न्> न विज्ञानं योजयति न वियोजयति । तत्कस्य हेतो<ः>? तथा हि विज्ञानस्य स्वभावो नास्ति यं योजयेद्वा वियोजयेद्वा, यावन्न दानपारमितां योजयति न वियोजयति । तत्कस्य हेतो<ः>? तथा हि दानपारमितायां स्वभावो नास्ति यं योजयेद्वा वियोजयेद्वा, यावन्न प्रज्ञापारमितां योजयति न वियोजयति । तत्कस्य हेतो<ः>? तथा हि प्रज्ञापारमितायाः स्वभावो नास्ति यं योजयेद्वा वियोजयेद्वा । यावन्नावेणिकबुद्धधर्मान् योजयति न वियोजयति । तत्कस्य हेतोः? तथा ह्यावेणिकबुद्धधर्माणां स्वभावो नास्ति यं योजयेद्वा वियोजयेद्वा । आह: यदि भगवन्न कस्यचि<द्> धर्मस्य स्वभावः संविद्यते यं योजयेद्वा वियोजयेद्वा । तत्कथं प्रज्ञापारमिताया अभिनिर्हारो भवति । यत्र बोधिसत्त्वेन महासत्त्वेन शिक्षितव्यं? न च अशिक्षित्वा प्रज्ञापारमितायां शक्यं बोधिसत्त्वेन महासत्त्वेन अनुत्तरं सम्यक्संबोधिमभिसंबोद्धुं । (अद्स्प्गिइ ८७) भगवानाह: एवमेतच्छारद्वतीपुत्र एवमेतत्, तथा यथा वदसि, न शक्यं प्रज्ञापारमितायामशिक्षित्वा बोधिसत्त्वेन महासत्त्वेन अनुत्तरां सम्यक्संबोधिरभिसंबोद्धुम् । तं तु उपायकौशलेन न अनुपायकौशलेन । यदि शारद्वतीपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् कस्यचिद्धर्मस्य स्वभावमुपलभेत तदुद्गृह्णीयात् । अथ नोपलभते । तत्किं ग्रहीष्यति । इयं प्रज्ञापारमिता इयं समाधिपारमिता इयं वीर्यपारमिता इयं क्षान्तिपारमिता इयं शीलपारमिता इयं दानपारमिता इदं रुपं यावदिदं विज्ञानं यावदिमे बुद्धधर्माः, यावद्बोधिसत्त्वमपि नोपलभते । तत्किं ग्रहीस्यति, अग्राह्या शारद्वतीपुत्र प्रज्ञापारमिता । यावदग्राह्याः बुद्धधर्माः । इयं शारद्वतीपुत्र पारमिता अग्राह्या पारमिता यदुत प्रज्ञापारमिता । अत्र बोधिसत्त्वेन महासत्त्वेन शिक्षितव्यं । यत्र शिक्षमाणो बोधिसत्त्वो महासत्त्व शिक्षामपि नोपलप्स्यते । कुतो बोधिं । कुतः प्रज्ञापारमितां कुतो बोधिसत्त्वधर्मा<न्> कुतो बुद्धधर्मान् कुतः प्रत्येकबुद्धधर्माः कुतः श्रावकधर्मा<न्> कुतः पृथग्जनधर्मान् । तत्कस्य हेतोः? तथा हि शारद्वतीपुत्र न कस्यचिद्धर्मस्य स्वभावः संविद्यते । एवमस्वभावानां सर्वधर्माणां कतमः पृथग्जनः कतमः स्रोतआपन्न । कतमः सकृदागामी कतमोऽनागमी कतमोऽर्हन् कतम प्रत्येकबुद्धः कतमो बोधिसत्त्वः कतमस्तथागतोऽर्हन् सम्यक्संबुद्धः । यदि इमे पुद्गला नोपलभ्यन्ते । कुतस्तेषान् धर्माणां प्रादुर्भावो भविष्यति । यै धर्मैर्निर्दिश्यते । पृथग्जनो वा स्रोतआपन्नो वा यावदर्हन् वा प्रत्येकबुद्धो वा बोधिसत्त्वो वा तथागतो वाऽर्हन् सम्यक्संबुद्ध । आह: अवस्तुकाना<ं> भगवं सर्वधर्माणा<ं> कुतः आगमः प्रज्ञास्यते । अयं पृथग्जनो यावदयं तथागतोऽर्हन् सम्यक्संबुद्धः? भगवानाह: किं शारद्वतीपुत्र रूपस्य वस्त्वस्ति? भूतो भावो यत्र बालपिथग्जना अभिनिविष्टाः? (अद्स्प्गिइ ८८) आह: नो हीदं भगवन्नन्यत्र विपर्यासात् । भगवानाह: किं पुनः शारद्वतीपुत्र वेदनाया सं<ज्ञाया सं>स्काराणां विज्ञानस्य वस्त्वस्ति भूतो भावो यत्र बालपृथग्जना अभिनिविष्टा? आह: नो हीदं भगवन्नन्यत्र विपर्यासात् । भगवानाह: किं पुनः [f । २९२ ] शारद्वतीपुत्र यावद्बुद्धधर्माणां वस्त्वस्ति भूतो भावो यत्र बालपृथग्जना अभिनिविष्टाः? आह: नो हीदं भगवन्<न्> अन्यत्र विपर्यासात् । भगवानाह: एवमेतच्छारत्वतीपुत्र एवमेतत् । विपर्यासेन सत्त्वा अवस्तुकान् सर्वधर्मान् भावतः कल्पयन्ति । तद्बोधिसत्त्वो महासत्त्व प्रज्ञापारमितायां चरन्नुपायकौशलेन अवस्तुकान् सर्वधर्मान् पश्यन्ननुत्तरस्यै सम्यक्संबोधये संप्रतिष्ठति । (विइइ ५,११) आह: कतमद्भगवं बोधिसत्त्वस्य महासत्त्वस्य उपायकौशलं येन उपायकौशलेन बोधिसत्त्वो महासत्त्वः अवस्तुकान् सर्वधर्मान् पश्यन्ननुत्तरस्यै सम्यक्संबोधये संप्रतिष्ठति? भगवानाह: इह शारद्वतीपुत्र बोधिसत्त्वो महासत्त्व प्रज्ञापारमितायां चरन्न कस्यचिद्धर्मस्य वस्तु समनुपश्यति । यत्र वस्तुनि प्रतिहन्येत, यत्र वा प्रतिहन्यमानोऽवलीयेत: अवलीयमानः संसीदेत्संसीदन् विसीदेद्विसीदं कौसीद्यमापद्येत: यस्मात्तर्हि शारद्वतीपुत्र अवस्तुका अजीवा निर्जीवा । अभावस्वभावा प्रकृतिशून्याः स्वलक्षणशून्या । सर्वधर्माः, अन्यत्र संमोहे न सत्त्वा अभिनिविष्टा स्कन्धा इति वा धातव इति वा आयतनानि इति वा, तद्बोधिसत्त्वो महासत्त्वः अभावस्वभावान् सर्वधर्मान् संपश्यन् प्रकृतिशून्यान् स्वलक्षणशून्यान् प्रज्ञापारमितायां चरन् । मायाकारसदृशमात्मभावमधिष्ठाय सत्त्वानां धर्मं देशयति । ये सत्त्वा मत्सरिणो भवन्ति । तेषान् दानकथां करोति, दुश्शीलानां शीलकथां व्यापन्नचित्तानां क्षान्तिकथां कुसीदानां वीर्यकथां विक्षिप्तचित्तानां समाधिकथां दुष्प्रज्ञानां प्रज्ञाकथां करोति । यदा ते सत्त्वा दाने प्रतिष्ठापिता भवन्ति । यावद्प्रज्ञापारमितायां प्रतिष्ठापिता भवन्ति । तदा तेषां (अद्स्प्गिइ ८९) सत्त्वानामुत्तरिकथां करोति । आर्यां नैर्याणिकीं नैर्वेधिकीं यया कथया स्रोतआपत्तिफलमनुप्राप्नुवन्ति । यावदर्हत्त्वमनुप्राप्नुवन्ति प्रत्येकबोधिमनुप्राप्नुवन्ति । यावत्सर्वाकारज्ञतामनुप्राप्नुवन्ति । आह: कथं भगवं बोधिसत्त्वो महासत्त्व प्रज्ञापारमितायां चरन्नौपलंभिको भवति य असतोऽसंविद्यमाना<न्> सत्त्वान् दाने नियोजयति । यावत्प्रज्ञायां नियोजयति । उत्तरि च <आर्यां> नैर्याणिकीं कथां करोति । यया कथया स्रोतआपत्तिफलमनुप्राप्नुवन्ति । यावत्सर्वाकारज्ञतामनुप्राप्नुवन्ति? भगवानाह: न खलु पुनः शारद्वतीपुत्र बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतः कश्चिदुपलंभः । तत्कस्य हेतोः? तथा हि स बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न कंचित्सत्त्वमुपलभते । अन्यत्र संवृतिसंकेतेन व्यवहारति । तत्र शारद्वतीपुत्र बोधिसत्त्वो महासत्त्वः द्वयो सत्ययो स्थित्वा सत्त्वानां धर्मन् देशयति । यदुत संवृतिपरमार्थसत्ययो, न हि शारद्वतीपुत्र द्वयो सत्ययोः सत्त्वमुपलभ्यते न सत्त्वप्रज्ञप्ति<ः> । अपि तु खलु पुनरुपायकौशलेन बोधिसत्त्वो महासत्त्व प्रज्ञापारमितायां चरन् । सत्त्वानान् धर्मन् देशयति । तत्ते सत्त्वा दृष्ट एव धर्मे आत्मानं नोपलभन्ते, प्रागेव यत्प्राप्स्यन्ति येन वा प्राप्स्यन्ति । एवं खलु शारद्वतीपुत्र बोधिसत्त्वो महासत्त्वः [f । २९३ ] प्रज्ञापारमितायां चरन्नुपायकौशलेन सत्त्वानां धर्मन् देशयति । आह: महोत्पादो वतायं भगवन् यदुत बोधिसत्त्वो महासत्त्वः, न च नाम भगवं कस्यचिद्धर्मस्य एकत्वं वा नानात्वं वा । नापि पृथक्त्वमुपलभ्यते । एवंरूपं च सन्नाहं सन्नह्यति येन सन्नाहेन सन्नद्धेन न कामधातौ स<ं>दृश्यते । न रूपधातौ । नारूप्यधातौ न संस्कृतधातौ न असंस्कृतधातौ स<ं>दृश्यते । सत्त्वांश्च त्रैधातुकां । परिमोचयति । न च सत्त्वो न सत्त्वप्रज्ञप्तिरुपलभ्यते: सत्त्वाप्रज्ञप्तितः सत्त्व अबद्धः अमुक्तः, सत्त्व अबद्ध <अ>मोक्षया असंक्लेशाव्यवदानं, असंक्लेशाव्यवदानेन न गतिसंभेदः प्रज्ञायते । गत्यसंभेदतायां न (अद्स्प्गिइ ९०) च कर्म न क्लेशः, अकर्माक्लेशस्य कुतो विपाको भविष्यति । येन विपाकेन आत्मा वा सत्त्वो वा पञ्चगतिके संसारे संदृश्येत । भगवानाह: एवमेतच्छारद्वतीपुत्र एवमेतद्यथा वाचं भाषसे । सचेत्पूर्वं सत्त्वोऽभविष्य<त्> पश्चान्न अभविष्यत्, <त>त्स्यादेष दोषो, बोधिसत्त्वस्य अपि तथागतस्य अपि । एवं पूर्वं भाव पश्चादभाव इति । तत्स्यादेष दोषः, पञ्चगतिको वा संसारो <पूर्वं भावो>ऽभविष्यत्<पश्चाद्> अभावो वा, <तत्स्यादेष दोषो> । यस्मात्तर्हि शारद्वतीपुत्र उत्पादाद्वा तथागतानामनुत्पादाद्वा तथागतानां स्थितैवैषा धर्माणां धर्मता तथता अवितथता यत्र न आत्मा न सत्त्वो न जीवो न पुद्गलो न कारको न कारापकः, तत्र कुतो रूपं भविष्यति कुतो वेदना संज्ञा संस्कारा कुतो विज्ञानं भविष्यति । असस्त्वेतेषु धर्मेषु कुतः पञ्चगतिकः संसारो भविष्यति । यतः सत्त्वाः परिमोचयितव्याः स्यु<र्>, यस्मात्तर्हि शारद्वतीपुत्र इमे धर्मा ईदृशाः स्वभावशून्या तद्बोधिसत्त्वो महासत्त्वः पौर्वकानां बुद्धानां भगवतामन्तिकाच्छ्रुत्वा अनुत्तरस्यै सम्यक्संबोधयेऽभिप्रतिष्ठते, न ह्यत्र कश्चिद्धर्मो यं वयमुपलभेमहि । यं वोपलभमानान शक्नुयामधिमोक्तुं । यत्र सत्त्वा अभिनिविष्टाः अन्यत्र विपर्यासेन । तद्बोधिसत्त्वो महासत्त्वो महासन्नाहं सन्नह्यति । येन सन्नाहेन सन्नद्धेन <न> प्रत्युदावर्ततेऽनुत्तरस्यै सम्यक्संबोधे<ः> । न मया अनभिसंबो<द्>धव्या अनुत्तरा सम्यक्संबोधिः, अभिसंबोद्धव्या एव मया अनुत्तरा सम्यक्संबोधिः, अभिसंबुध्य सत्त्वानामर्थं करिष्यामि । येन अर्थेन सत्त्वां विपर्यासं परिमोचयिष्यामि । तद्यथापि नाम मायाकारनिर्मितः पुरुषः बहूनि प्राणिकोटिनियुतशतसहस्राणि निर्माय प्रभूतेन खादनीयभोजनीयेन संतर्पयेत्संतर्प्य उदानमुदानयेद्बहुमे<व> पुण्यं प्रसूतं बहुमे<व> पुण्यं प्रसूतमिति । तत्किं मन्यसे शारद्वतीपुत्र कश्चितत्र भोजितो वा संतर्पितो वा? आह: नो हीदं भगवन् । (अद्स्प्गिइ ९१) भगवानाह: एवमेव शारद्वतीपुत्र बोधिसत्त्वो महासत्त्व प्रथमचित्तोत्पादमुपादाय षट्सु पारमितासु चरंश्चतुर्षु ध्यानेषु चतुर्ष्वप्रमाणेषु चतसृष्वारूप्यसमापत्तिषु । चतुर्षु स्मृत्युपस्थानेषु चतुर्षु सम्यक्प्रहाणेषु । चतुर्ष्विद्धिपादेषु पञ्चस्विन्द्रियेषु पञ्चसु बलेषु सप्तसु बोध्यङ्गेष्वार्याष्टांगे मार्गे चतुर्दशसु शून्यतासु त्रिषु विमोक्षमुखेषु अष्टसु विमोक्षेषु नवस्वनुपूर्व<समापत्ति>षु, दशसु तथागतबलेषु चतुर्षु वैशारद्येषु चतसृषु प्रतिसंवित्सु महामैत्र्यां महाकरुणायामष्टादशस्वावेणिकेषु बुद्धधर्मेषु चरन् बोधिमार्गं [f । २९३ ] परिपूरयन् बुद्धक्षेत्रं परिषोधय<ति सत्त्वाञ्च परिपाच>यति, न च कंचिद्सत्त्वमुपल्<अभ>ते । यमुपलभ्य विनयेदिति । (विइइ ५,१२) अथायुष्मान् सुभूतिर्भगवन्तमेतदवोचत्: कतमो भगवन् बोधिसत्त्वस्य महासत्त्वस्य बोधिमार्ग यत्र बोधिसत्त्वेन महासत्त्वेन चरता सत्त्वाः परिपाचयितव्या बुद्धक्षेत्रं च परिशोधयितव्यं? भगवानाह: इह सुभूते बोधिसत्त्वो महासत्त्व प्रथमचित्तोत्पादमुपादाय दानपारमितायां चरंच्छीलपारमितायां क्षान्तिपारमितायां । वीर्यपारमितायां ध्यानपारमितायां प्रज्ञापारमितायां चरन् यावदष्टादशस्वावेणिकेषु बुद्धधर्मेषु चरं सत्त्वांश्च परिपाचयति बुद्धक्षेत्रं च परिशोधयति । आह: कथं भगवन् बोधिसत्त्वो महासत्त्वो दानपारमितायां चरन् सत्त्वान् परिपाचयति? भगवानाह: इह सुभूते बोधिसत्त्वो महासत्त्व सत्त्वेभ्यो दानन् ददाति । दानन् दत्त्व्<आ> एवमववदत्येवमनुशास्ति, इह कुलपुत्र मा दान<ं> ग्राहतो गृहीतः, मा दानग्राहेण गृहीतेन आत्मभावोऽभिनिर्वर्तयिष्यथ, येन आत्मभावेन अभिनिर्वृत्तेन बहूनि दुःखानि प्रत्यनुभविष्यथ । नेह कुलपुत्र पर्मार्थेन दानं न दानफलं, न दानपतिर्न प्रतिग्राहकः, सर्व एते धर्माः प्रकृतिशून्याः, न प्रकृतिशून्यो धर्मः <धर्मं> प्रतिगृह्णाति । अग्राह्या च प्रकृतिशून्यता । एवं खलु सुभूते बोधिसत्त्वो महासत्त्वो दानपारमितायां चरन् सत्त्वेभ्यो दानन् ददाति न च तत्र दानमुपलभते । न दानपतिं न प्रतिग्राहकं, अनुपलंभपारमितैषा यदुत (अद्स्प्गिइ ९२) दानपारमिता । स इमान् सर्वांस्त्रीन् धर्माननुपलभमानः सत्त्वान् स्रोतआपत्तिफले प्रतिष्ठापयति । सकृदागामिफले । अनागामिफले अर्हत्त्वे प्रत्येकबोधावनुत्तरस्यां सम्यक्संबोधौ नियोजयति । एवं खलु सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् सत्त्वान् परिपाचयति । स आत्मना च दानन् ददाति परांश्च दाने समादापयति । दानस्य च वमं भाषते, ये च अन्ये सत्त्वा दानन् ददन्ति तेषामपि वर्णवादी भवति समनुज्ञः । तद्बोधिसत्त्वो महासत्त्वः एवंरूपं महादानन् दत्त्वा क्सत्रियमहासालकुलानां वा सभागतायै उपपद्यते । ब्राह्मणमहासालकुलानां वा सभागतायै उपपद्यते । गृहपतिमहासालकुलानां वा सभागतायै उप<प>द्यते । कोट्टराजा वा भवति चक्रवर्तिर्वा भवति । चक्रवर्तिराज्यं वा प्रतिलभते । तत्र तान् सत्त्वांश्चतुर्भिः संग्रहवस्तुभिः संगृह्णाति । कतमैश्चतुर्भिः? दानेन प्रियवचनेन अर्थक्रियया समानार्थतया च । सत्त्वान् दानेन संगृहीताननुपूर्वेण शीले प्रतिष्ठापयति । समाधौ प्रज्ञायां, चतुर्ष्वप्रमाणेषु चतसृस्वारूप्यसमापत्तिषु चतुर्षु स्मृत्युपस्थानेषु । यावत्सप्तत्रिंशति बोधिपक्ष्येषु धर्मेषु शून्यतायामानिमित्ते अप्रणिहिते समाधौ प्रतिष्ठापयति । सम्यक्त्वनियाममवक्रामति । यावदर्हत्त्वं प्रापयति प्रत्येकबोधिं प्रापयत्यनुत्तरस्यां सम्यक्संबोधौ समादापयति । हंत भो पुरुषा स्वभिसंबोधानुत्तरा सम्यक्संबोधिः, तत्र न कश्चिद्धर्म । स्वभावेन संविद्यते । यत्रसत्त्वाः सत्त्वाः अन्यत्र विपर्यासेभ्यः, तस्मात्सर्वविपर्यासग्राहाच्[f । २९४ ] छिन्द: आत्मानं च मोचयतः संसारात्, परां च मोचयत, एवं यूयमात्मनश्च महान्तमर्थं करिष्यथ, परं च महत्यर्थे नियोजयिष्यथः । एवं खलु सुभूते बोधिसत्त्वेन महासत्त्वेन दानपारमितायां चरितव्यं । यथा चरं प्रथमचित्तोत्पादमुपादाय । न कदाचि<द्> दुर्गतिं प्रपतति । न जातु चक्रवर्तिराज्यं न कारयति । तत्कस्य हेतोः? यादृशं बीजं तादृशं फलं । तस्य खलु पुनश्चक्रवर्तिनो ये याचनका (अद्स्प्गिइ ९३) ये याचनका आगच्छन्ति तस्य चक्रवर्तिराज्यस्यैवं भवति, नान्यस्य मया कृते चक्रवर्त्तित्वं परिगृहीतमन्यत्र सत्त्वानामर्थाय । स ब्रवीति यस्य येन अर्थस्तद्युष्मद्भ्यं दत्तं भवतु, युष्माकमेव तन्न मम । अनेनाप्यनर्थिकोऽस्म्यध्यात्मिकेन रूपेण प्रागेव अन्येन । अन्यत्र मया सत्त्वानामर्थाय संसार उपादत्तः, स करुणायमानो महाकरुणां परिपूर्य यावन्महाकरुणया सत्त्वानामर्थं करोति । तांश्च सत्त्वान्नोपलभते । ये परिनिष्पन्ना भवेयुः । अन्यत्र संज्ञासमज्ञासंकेतेन व्यवहारति । स च व्यवहारः प्रतिश्रुत्कोपमः अव्यवहारो वेदितव्यं । एवं खलु सुभूते बोधिसत्त्वेन महासत्त्वेन दानपारमितायां चरितव्यं, यथा चरतो न किंचित्सत्त्वानामन्तिके अपरित्यक्तं भवत्य्<अन्त>शः आत्मनः मांसान्यपि, प्रागेव बाह्यान्युपकरणानि । यैरुपकरणैः सत्त्वाः संसारात्परिमोचयितव्या । आह: कतमान्युपकरणानि? भगवानाह: दानपारमिता उपकरणं शीलपारमिता क्षान्तिपारमिता वीर्यपारमिता ध्यानपारमिता प्रज्ञापारमिता उपकरणं । यावदष्टादशावेणिकबुद्धधर्मा उपकरणं । इमानि तान्युपकरणानि यैरुपकरणैरनुगृ<ही>ता सत्त्वाः संसारात्परिमुच्यन्ते । पुनरपरं सुभूते बोधिसत्त्वो महासत्त्वो दानपारमितायां स्थित्वा सत्त्वेभ्यो दानं ददाति । स तद्दानन् ददन्नेवं वाच<ं> भाषते । एत यूयं शीलं रक्षत, अहं युष्माकमवैकल्यं करिष्याम्य्, अन्नेन वा पानेन वा यावदन्यतरान्यतरैः परिष्कारैः, येन यूयं वैकल्येन दौशील्यं कुरुथ । तद्युष्माकमवैकल्यं करिष्याम्य्, अन्नेन वा पानेन वा यावत्सप्तभि<र्> रत्नैः । तद्यूयं संवरशीले स्थित्वा अनुपूर्वेण दुःखस्य अन्तं करिष्यथः । तृभिर्यानैः, श्रावकयानेन वा प्रत्येकबुद्धयानेन वा सर्वाकारज्ञताज्ञानेन६ आ । एवं खलु सुभूते बोधिसत्त्वो महासत्त्वो दानपारमितायां (अद्स्प्गिइ ९४) स्थित्वा शीलपारमिताया सत्त्वान् संगृह्णाति । पुनरपरं सुभूते बोधिसत्त्वो महासत्त्वो दानपारमितायां स्थित्वा ये सत्त्वा कुप्यन्ति व्यापद्यन्ते तेषां सत्त्वानामेवं वाचं भाषते । केन यूयं <कारणेन> कुलपुत्रा व्यापद्यध्वे तेन यूयं वैकल्येन व्यापद्यध्वे तद्ममान्तिकाद्गृह्णीतः, अहं युष्माकमवैकल्यं करिष्ये, अन्नेन वा पानेन वा यावदन्यतरान्यतरैः परिष्कारै<र्>, येन न कोपिष्यथ [f । २९४ ] न व्यापत्स्यध्वे, तत्र बोधिसत्त्वो म<हासत्त्वो दानपा>रमितायां स्थित्वा तान् सत्त्वान् क्षान्तौ नियोजयति । नात्र कश्चिद्भावोऽस्ति योऽत्र सार ये<न> युष्माकं क्रोध उत्पद्यते, अभूतपरिकल्प एष क्रोध, नैवात्र <किंचिद्वस्त्वस्ति> यस्य यूयं वस्तुन<ः> । कृते अभियुज्यथ । कुप्यथ व्यापद्यध्वे । अभिषज्य कुपित्वा व्यापद्य दण्डेन वा प्रहारथ शस्त्रेण वा प्रहारथ । अन्योन्यं जीविताद्व्यवरोपयथ । तद्यूयमभूतपरिकल्पेन क्षुभिता नरकं वा प्रपतिष्यथ । तिर्यग्योनिं वा । यमकोकं वा, या अपि कश्चिदन्या दुर्गतयः । यत्र यूयं दुःखास्तीव्रा खरा कटुका वेदना वेदयिष्यथ । हं भो पुरुषा <मा> अवस्तुकानां धर्माणां कृते । तत्कर्म परिग्रहीष्यथ । येन कर्मणा परिगृहीतेन मनुष्यप्रतिलंभो न भविष्यति । प्रागेव बुद्धोत्पादमासादयिष्यथ । दुह्र्लभ खलु मार्ष बुद्धोत्पाद दुर्लभो मनुष्यप्रतिलंभः । मा इमं क्षणं विरागयिष्यथ । मा विचिकित्सा भविष्यथ । तत्र बोधिसत्त्वो महासत्त्व (अद्स्प्गिइ ९५) आत्मना च क्षान्त्या संपादयति । परञ्च क्षान्तौ नियोजयति क्षान्त्याश्च वर्णं भाषते, येऽप्यन्ये क्षान्तिं भावयन्ति । तेषां च वर्णवादी भवति समनुज्ञः । तत्र तान् सत्त्वान् क्षान्त्या नियोज्य क्षान्तौ स्थापयित्वा अनुपूर्वेण त्रिभिर्यानैः परिनिर्वापयति । एवं खलु सुभूते बोधिसत्त्वो महासत्त्वो दानपारमितायां स्थित्वा क्षान्तिपारमितायां सत्त्वान् संगृह्णाति । कथं च सुभूते बोधिसत्त्वो महासत्त्वो दानपारमितायां चरन् सत्त्वान् वीर्यपारमितायां नियोजयति? इह सुभूते बोधिसत्त्वो महासत्त्व सत्त्वान् कुसीदान् विदित्वा एवं ब्रवीति, कस्य यूयं कृते कौसीद्यमापध्यद्वे । त एवं ब्रूवन्ति, प्रत्ययवैकल्येन । तत्र बोधिसत्त्वो महासत्त्वो दानपारमितायांचरंस्तान् सत्त्वानेवं ब्रवीति । हं भो पुरुष अहं युष्माकं सर्वप्रत्ययानुपसंहरिष्यामि । यदि वा दानप्रत्ययान् यदि वा शीलप्रत्ययान् यदि वा क्षान्तिप्रत्ययान् यैर्वा यैराकारै<र्> वीर्यमारप्स्यध्वे । ताम्न् युष्माकनुपसंहरिष्यामि, तत्र ते सत्त्वा बोधिसत्त्वस्य महासत्त्वस्योपकरणै<र्> वीर्यमारभन्ते । कायिकं वा चैतसिकं वा, तेन कायिकेन चैतसिकेन वीर्येण सर्वकुशलधर्मान् परिपूरयन्ति । यैः कुशलैर्धर्मैः आर्याननास्रवान् धर्मान् भावयन्ति । यान् भावयन्तः स्रोतआपत्तिफलं वा प्राप्नुवन्ति सकृदागामिफलं वा अनागामिफलमर्हत्त्वं प्रत्येकबोधिं प्राप्नुवन्ति । अनुत्तरां सम्यक्संबोधिमभिसंबुध्यन्ते । एवं खलु सुभूते बोधिसत्त्वो महासत्त्वो दानपारमितायां स्थित्वा वीर्यपारमितायां सत्त्वान् संगृह्णाति । कथं च सुभूते बोधिसत्त्वो महासत्त्वो दानपारमितायां चरन् ध्यानपारमितायां सत्त्वान्नियोजयति? इह सुभूते बोधिसत्त्वो महासत्त्व सत्त्वान् विक्षिप्तचित्तान् दृष्ट्वा एवमववदति । किमिति भोः सत्त्वा ध्यानानि न समापद्यध्वे । त एवं ब्रूवन्ति । प्रत्ययवैकल्येन, तानेतां बोधिसत्त्वो महासत्त्वो एवं ब्रविति । अहं भोः सत्त्वास्तान् प्रत्ययानुपसंहरिष्ये । यैः प्रत्ययैर्न वितर्कयिष्यथ । अध्यात्मं वा बहिर्धा वा । तत्र बोधिसत्त्वो महासत्त्वस्तेषां सत्त्वानांस्तान् प्रत्ययानुपसंहरति । यैः प्रत्ययैरुपसंहृतै<र्> न वितर्कयन्ति । ते च सत्त्वा वितर्कैश्च्छिन्नैः प्रथमं ध्यानं समापद्यन्ते । द्वितीयं तृतीयं चतुर्थं ध्यानं समापद्यन्ते । मैत्रीं [f । २९५ ] समापद्यन्ते करुणां मुदितामुपेक्षां समापद्यन्ते । ते तै<र्> ध्यानैर्यावदार्याष्टाङ्गमार्गं भावयन्ति । यं (अद्स्प्गिइ ९६) भावयन्तोऽनुपूर्वेण त्रिभिर्यानैः परिनिर्वान्ति । तत्रापरे बोधिमार्गा<न्> न परिहीयन्ते । यावदनुत्तरा सम्यक्संबोधिः । एवं खलु सुभूते बोधिसत्त्वो महासत्त्वो दानपारमितायां स्थित्वा समाधिपारमितायां सत्त्वान् संगृह्णाति । कथं च सुभूते बोधिसत्त्वो महासत्त्वो दानपारमितायां चरन् प्रज्ञापारमितायांसत्त्वा<न्> संगृह्णाति? इह सुभूते बोधिसत्त्वो महासत्त्वः सत्त्वानेवं ब्रवीति । किमिद<ं> भोः सत्त्वा यूयं न प्रज्ञापारमितां भावयत? त एवं ब्रूवन्ति, प्रत्ययवैकल्येन । तत्र बोधिसत्त्वो महासत्त्वो दानपारमितायां स्थित्वा सत्त्वानेवमववदति । ममान्तिकादुपकरणानि परिगृह्णीत । ममान्तिकादुपकरणानि परिगृह्य दानानि ददध्वं शीलं रक्षतः क्षान्तिं भावयत वीर्यमारभध्वं समाधिं समापद्यध्वं । तत्रैमानाकारान् परिपूर्य एवं मीमांसध्वमस्ति कश्चिद्धर्मो यः प्रज्ञापारमितायां भाष्यमानायामुपलभ्यते । आत्मा वा सत्त्वो वा यावत्कारको वा कारपको वा रूपं वा वेदना वा संज्ञा वा संस्कारा वा विज्ञानं वा कामधातुर्वा रूपधातुर्वा आरूप्यधातुर्वा सर्वपारमिता सप्ततृंशद्वा बोधिपक्ष्या धर्माः स्रोतआपत्तिफलं वा । सकृदागामिफलं वा । अनागामिफलं वा अर्हत्त्वं वा । प्रत्येकबोधिर्वा । यावदनुत्तरा सम्यक्संबोधिः । तत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न कंचिद्धर्ममुपलभते । यमुपलभ्य अभिनिविशेत, सोऽनभिनिविशमानो न कस्यचिद्धर्मस्य उत्पादं वा निरोधं वा संक्लेशं वा व्यवदानं वा समनुपश्यति । सोऽनुपलभमानो न विकल्पयति अयं नैरयिको वा तैर्यग्योनिको वा यामलौकिको वा अयमसुरकायिको वा देवो वा मनुष्यो वा अयं शीलवान् दुःशीलो वा अयं स्रोतआपन्नोऽयं सकृदागामी अयमनागामी अयमर्हन्नयं प्रत्येकबुद्धोऽयं तथागतोऽर्हन् सम्यक्संबुद्धः । एवं खलु सुभूते बोधिसत्त्वो महासत्त्वो दानपारमितायां स्थित्वा सत्त्वान् प्रज्ञापारमिताया संगृह्णाति । कथं च सुभूते बोधिसत्त्वो महासत्त्वो दानपारमितायां स्थित्वा शीलपारमितायां क्षान्तिपारमितायां वीर्यपारमितायां ध्यानपारमितायां प्रज्ञापारमितायां स्थित्वा यावत्सप्ततृंशतं बोधिपक्ष्यान् धर्मान् परिगृह्णाति? इह सुभूते बोधिसत्त्वो महासत्त्व सत्त्वानामुपकरणान्युपनामयति । यैरुपकरणै<र्> परिगृहीता सत्त्वाश्चत्वारि स्मृत्युपस्थानानि भावयन्ति । चत्वारि सम्यक्प्रहाणानि । चत्वारर्द्धिपादाः पञ्चेन्द्रियाणि पञ्चबलानि । सप्तबोध्यङ्गान्यार्याष्टाङ्गं मार्गं (अद्स्प्गिइ ९७) भावयन्ति । येन मार्गेण परिगृहीता संसारां मुच्यन्ते । एवं खलु सुभूते बोधिसत्त्वो महासत्त्व सत्त्वानार्यैरनास्रवैर्धर्मैः संगृह्णाति । पुनरपरं सुभूते बोधिसत्त्वो महासत्त्वो दानपारमितायां चरन् सत्त्वाननर्थान् दुःखितानशनवसनविप्रहीणान् दृष्ट्वा एवं परिपाचयति । एत यूयं कुलपुत्रा ममान्तिकादन्नं वा पानं वा यानं वा वस्त्रं वा माल्यगन्धविलेपनशय्यासनग्लानप्रत्ययभैषय्जपरिष्कारान् गृहीतः, यावत्सप्तभि<र्> रत्नै । सत्त्वाननुगृह्णीत, तद्युष्माकं भवि<ष्यति दीर्घरात्र्>अमर्थाय हिताय सुखाय, मा च एवं चिन्तयत, अस्यै सोऽर्थो नास्माकमिति । दीर्घरात्रमेषोऽर्थो मया सत्त्वानां कृते । अर्जित । तद्यूयमात्मीयमेव चिन्तयित्वा [f । २९५ ] सत्त्वेभ्यो ददत । तेन च दानेन शीले नियो<जयति क्षान्तौ वी>र्ये समाधौ प्रज्ञायां नियोजयति यावत्सप्ततृंशति बोधिपक्ष्येषु धर्मेषु नियोजयति त्रिषु विमोक्षमुखेषु यावदष्टादशस्वावेणिकेषु बुद्धधर्मेषु निय्<ओजयति> । मा च तावता तुष्टिमापद्यध्वं । उत्तरि वा <आर्या>नास्रवेषु धर्मेषु प्रतिष्ठापयतः । स्रोतआपत्तिफले सकृदागामिफले अनागामिफले अर्हत्त्वे प्रत्येकबोधौऽनुत्तरस्यां सम्यक्संबोधौ । एवं खलु सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता सत्त्वाः परिपाचयितव्या । यथा परिपाच्यमानास्त्रिभ्योपायेभ्यः परिमुच्यन्ते । यावत्संसारात्परिमुच्यन्ते । पुनरपरं सुभूते बोधिसत्त्वेन महासत्त्वेन शीलपारमितायां स्थित्वा एवं सत्त्वाः परिपाचयितव्या, येन प्रत्ययवैकल्येन दौःशील्यमापद्यध्वं । तां प्रत्ययान् युष्माकमुपसंहरिष्यामि । अन्नं वा पानं वा यावदन्यतरान्यतरान्मानुष्यकां परिष्कारान्, स तान् सत्त्वांच्छीलपारमितायां स्थित्वा तथारूपेण अनुग्रहेण अनुगृह्णाति । यथारूपेण अनुग्रहेण अनुगृहीता (अद्स्प्गिइ ९८) सत्त्वो दशकुशलान् कर्मपथान् समादाय वर्त<न्>ते । तानखण्डशीलान् यावदपरामृष्टशीलान् संवरशीले प्रतिष्ठाप्य, यावन् षट्सु पारमितासु कर्तव्यं । ((७६)) परिवर्त ७७ । अथ आयुष्<ं>अत सुभूतेरेतदभूत्: कतमः स बोधिसत्त्वस्य महासत्त्वस्य मार्गो यत्र स्थित्वा बोधिसत्त्वेन महासत्त्वेन अयमीदृशः सन्नाहः सन्नद्धव्यः? अथ खलु भगवानायुष्मतः सुभूतेश्चेतसैव चेतः पङ्वितर्कमाज्ञाय आयुष्मन्तं सुभूतिमेतदवोचत्: षट्पारमिता सुभूते बोधिसत्त्वस्य महासत्त्वस्य मार्गः, सप्ततृंशद्बोधिपक्ष्या धर्मा बोधिसत्त्वस्य महासत्त्वस्य मार्गः त्रीणि विमोक्षमुखानि चतुर्दशशून्यता अष्टौ विमोक्षा नवानुपूर्वसमापत्तयो दशतथागतबलानि । यावदष्टादशावेणिका बुद्धधर्मा, अपि तु खलु सुभूते सर्वधर्मा बोधिसत्त्वस्य महासत्त्वस्य मार्ग<ः> । तत्किं मन्यसे सुभूते अस्ति कश्चिद्धर्मो यत्र बोधिसत्त्वेन महासत्त्वेन न शिक्षितव्यं, यत्र शिक्षित्वा अनुत्तरां सम्यक्संबोधिमभिसंबुध्येत? नास्ति सुभूते कश्चिद्धर्मो यत्र बोधिसत्त्वेन महासत्त्वेन न शिक्षितव्यं । अशिक्षित्वा बोधिसत्त्वो महासत्त्वो न शक्तः सराकारज्ञातामनुप्राप्तुं । आह: यदि भगवं सर्वधर्मा शून्या । कथं बोधिसत्त्वो महासत्त्वः सर्वधर्मेषु शिक्षते? न नु भगवन्नप्रपंच्यं प्रपंचयेति । इयन्त इति वा इम इति वा, इमे धर्मा लौकिका इमे लोकोत्तरा । एवं सास्रवा वा अनास्रवा वा । संस्कृता वा असंस्कृता वा । पृथग्जनधर्मा वा यावदर्ह<न्>धर्मा वा प्रत्येकबुद्धधर्मा वा बुद्धधर्मा वा । भगवानाह: एवमेतत्सुभूते एवमेतत् । सर्वधर्माः शून्याः । यदि पुन<ः> सुभूते सर्वधर्माः शून्या न अभविष्यन्न बोधिसत्त्वो महासत्त्वोऽनुत्तरां सम्यक्संबोधिमभिसंभोत्स्यत: यस्मात्तर्हि सुभूते सर्वधर्माः शून्यास्तस्माद्बोधिसत्त्वो महासत्त्वोऽनुत्तरां सम्यक्संबोधिमभिसंबुध्यते । अपि तु खलु सुभूते तदेवं वदसि: यदि सर्वधर्माः शून्याः कथं बोधिसत्त्वो महासत्त्वो धर्मनानात्वं करोति । इयन्त इति वा इम इति वा यावत्पृथग्जनधर्मा वा यावदर्हद्धर्मा वा । प्रत्येकबुद्धधर्मा वा । (अद्स्प्गिइ ९९) बुद्धधर्मा वा । इति । तत्कच्चित्पुनः सुभूते एते सत्त्वा एवं जानंति सर्वधर्माः शून्या इति । यदि जानीयुर्नै [f । २९६ ] व बोधिसत्त्वो महासत्त्वो सर्वधर्मेषु शिक्षित्वा सर्वाकारज्ञतामनुप्राप्नुयात् । यस्मात्तर्हि सुभूते एते सत्त्वा न जानन्ति सर्वधर्माः शून्या इति । तस्माद्बोधिसत्त्वो महासत्त्वोऽनुत्तरां सम्यक्संबोधिमभिसंबुध्य <सर्व>धर्मव्यवस्थानं कृत्वा सत्त्वानान् धर्मं देशयति । (विइइ ५,१३) तत्र सुभूते बोधिसत्त्वेन महासत्त्वेन बोधिमार्गे चरता प्रथमत एव एवमुपपरीक्षितव्यं । न अत्र कश्चिद्धर्मः स्वभावेन उपलभ्यते । अन्यत्र अभिसंस्कारात् । तत्र एवं सर्वधर्माणां स्वभावमुपपरीक्षेत । उपपरीक्ष्य न क्वचिदभिनिविशते । यदि वा पारमितासु यदि वा सप्ततृंशति बोधिपक्ष्येषु धर्मेषु यदि वा स्रोतआपत्तिफले । यदि वा सकृदागामिफले यदि वा अनागामिफले यदि वा अर्हत्त्वे यदि वा प्रत्येकबोधौ यदि वा अनुत्तरस्यां सम्यक्संबोधौ । तत्कस्य हेतो<ः>? तथा हि स्वभावेन सर्वधर्माः शून्या, न हि शून्यताया शून्यतायामभिनिविशते । शून्यतैव तावन्नोपलभते । प्रागेव यः शून्यतायामभिनिवेक्ष्यते । एवं हि बोधिसत्त्वो महासत्त्वः अनभिनिविष्टः सर्वधर्मेषु विहरति । यत्र शिक्षायां स्थित्वा सर्वाश्चर्या अवलोकयति क्वेमे सत्त्वाश्चरंति असद्ग्राहे, तत्र बोधिसत्त्वस्य महासत्त्वस्य एवं भवति, सुमोच्या वतेमे सत्त्वा असद्ग्राहादिति । ततोपायकौशलेन प्रज्ञापारमितायां स्थित्वा एवमववदति । एत यूयं भोः सत्त्वा दानं ददध्वं । तद्युष्माकमवैकल्यं भविष्यति । भोगैः, तैश्च भोगैर्मा मंस्यध्वे, न तत्र किंचित्सारमस्ति । एवं शीले अववदति । एत यूयं भोः सत्त्वाः शीलं रक्षत । तेन च शीलेन मा मंस्यध्वे । न तत्र किंचित्सारमस्ति । एवं क्षान्तौ वीर्ये समाधावववदति एत यूयं भोः सत्त्वा समाधिं समापद्यध्वं । तेन समाधिना मा मंस्यध्वे, न तत्र किनिचित्सारमस्ति । एवं प्रज्ञायामववदति । एत (अद्स्प्गिइ १००) भोः सत्त्वाः प्रज्ञां भावयतः, तया च प्रज्ञया मा मंस्यध्वे, न तत्र किंचित्सारमस्ति । एवं स्रोतआपत्तिफले एवं सकृदागामिफले एवमनागामिफले एवमर्हत्त्वे एवं प्रत्येकबोधौ एवं बुद्धधर्मेष्वववदति । एत यूयं भोः सत्त्वाः बुद्धधर्मां भावयतः, तैश्च बुद्धधर्मैर्मा मंस्यध्वे, न तत्र किंचित्सारमस्ति । स एवमेव अववदन्नेवमनुशासन् बोधिसत्त्वमार्गे चरति । न च क्वचितभिनिविशते । तत्कस्य हेतोः? अनभिनिविष्टा हि स्<अर्वधर्मा>, तथा ह्येषां स्वभावो नास्ति येन अभिनिविश्येत । शून्यतास्वभावतामुपादाय: तत्र सुभूते बोधिसत्त्वो महासत्त्वो बोधिमार्गे चरन्न क्वचि<त्> प्रति<तिष्ठ>ति । सोऽप्रतिष्ठानयोगेन दानपारमितायां चरति । न च तत्र प्रतितिष्ठति । शीलपारमितायां चरति न च तत्र प्रतितिष्ठति । क्षान्तिपारमितायां चरति न च तत्र प्रतितिष्ठति । वीर्यपारमितायां चरति न च तत्र प्रतितिष्ठति । ध्यानपारमितायां चरति न च तत्र प्रतितिष्ठति । प्रज्ञापारमितायां चरति न च तत्र प्रतितिष्ठति । स प्रथमं ध्यानं समापद्यते न च तत्र प्र<तितिष्ठति । तत्क>स्य हेतोः? तथा हि प्रथमं ध्यानं ध्यानेन शून्यं योऽपि समापद्येत सोऽपि शून्यः यैरप्याकारैः समापद्यते । तेऽप्याकारा शून्या । एवं द्वितीयम् [f । २९६ ] तृतीयं चतुर्थमेवं मैत्रिं करुणां <मुदितामुपेक्सामारू>पृष्ठयसमापत्तीमष्टौ विमोक्षान्नवानुपूर्वसमापत्तीं स्रोतआपत्तिफलं प्रतिलभते । न च तत्र प्रतितिष्ठति । सकृदागामिफलं प्रतिलभते । न च तत्र प्रतितिष्ठति । अनागामिफलं प्रतिलभते न च तत्र प्रतितिष्ठति । अर्हत्त्वं प्रतिलभते न च तत्र प्रतितिष्ठति । प्रत्येकबोधिं प्रतिलभते । न च तत्र प्रतितिष्ठति । आह: केन कारणेन न प्रतितिष्ठति? भगवानाह: द्वाभ्यां कारणाभ्यां न प्रतितिष्ठति । कतमाभ्यां द्वाभ्यां? स्वभावश्च तेषां फलानां नास्ति यत्र प्रतितिष्ठेत् । येन वा प्रतितिष्ठेत् । यो वा प्रतितिष्ठेत् । न च तन्मात्रकेण तुष्टिमापद्यते । न मया स्रोतआपत्तिफलं न प्राप्तव्यं । न च तत्र स्थातव्यं । यावन्न मया अर्हत्त्वं न प्राप्तव्यं । न च तत्र स्थातव्यं । न मया प्रत्येकबुद्धभूमिर्न प्राप्तव्या, न च तत्र स्थातव्यं । यावदनुत्तरां सम्यक्संबोधिमभिसंभोत्स्ये । तत्कस्य हेतोः? तथा हि मया प्रथमचित्तोत्पादमुपादाय नान्यं चित्तं प्रतिलब्धमन्यत्र अनुत्तरस्या सम्यक्संबोधेः । तत्कस्य (अद्स्प्गिइ १०१) हेतोः? तथा हि मया प्रथमं भूमिमुपादाय न अन्य<ं> चित्तमुत्पादितमन्यत्र अनुत्तरस्या सम्यक्संबोधेः । एवं याव<द्> दशमी भूमिर्यावद्बोधिसत्त्वन्याममवक्रान्तः न अन्यः कश्चि चित्तोत्पाद उत्पादितोऽन्यत्र अनुत्तरस्याः सम्यक्संबोधेः । अविक्षिप्तमन्<अस्>आ, सुभूते बोधिसत्त्वो महासत्त्वो यावदेव कायेन पराक्रमते । वाचा मनसा नान्यत्र बोधिचित्तेन, तद्बोधिसत्त्वो महासत्त्वो बोधिचित्ते स्थित्वा अविक्षिप्तम । न्<अस्>आ बोधिमार्गमुत्पादयति । आह: यदि भगवं सर्वधर्मा अनुत्पन्नास्तत्कथं बोधिसत्त्वो महासत्त्वो बोधिमार्गमुत्पादयति? भगवानाह: एवमेतत्सुभूते एवमेतत् । सर्वधर्मा अनुत्पन्ना, तत्पुनः कथमिति । येऽनाभिसंस्कुर्वन्ति तेषां सर्वधर्मा अनुत्पन्नाः? आह: न नु पुनर्भगवन्नुत्पादाद्वा तथागतानामनुत्पादाद्वा तथागतानां स्थितैव धर्माणान् धर्मस्थिति? भगवानाह: एवमेतत्सुभूते एवमेतत् । उत्पादाद्वा तथागतानामनुत्पादाद्वा तथागतानां स्थितैव धर्माणान् धर्मस्थि<ति>ः, ये पुनरिमां धर्मस्थितिं न जानन्ति तेषामर्थाय बोधिसत्त्वो महासत्त्वो बोधिमार्गमुत्पादयति । येन बोधिसत्त्वमार्गेण सत्त्वान्मोचयति संसारात् । (विइइ ५,१४) आह: किं पुनर्भगवन्नुत्पन्नेन मार्गेण बोधिः प्राप्यते? भगवानाह: नो हीति । आह: <त>दनुत्पन्नेन मार्गेण बोधिः प्राप्यते? भगवानाह: नो हीति । आह: तदुत्पन्नेन अनुत्पन्नेन च मार्गेण बोधिः प्राप्यते? भगवानाह: नो हीति । आह: तन्नैवोत्पन्नेन नैवानुत्पन्नेन मार्गेण बोधिः प्राप्यते? भगवानाह: नो हीति । आह: तत्कथं पुनर्भगवं । बोधिः प्राप्यते । भगवानाह: न सुभूते मार्गेण बोधिः प्राप्यते । न अमार्गेण । बोधिरेव मार्गो मार्ग एव बोधिः । (अद्स्प्गिइ १०२) आह: यदि भगवं बोधिरेव मार्गो मार्ग एव बोधिः, तत्प्राप्तैव भवति बोधिसत्त्वेन महासत्त्वेन बोधिः, तत्कथं तथागतोऽर्हन् सम्यक्संबुद्धो निर्दिश्यते । द्वातृंशता महापुरुषलक्षणैर्दशभिस्तथागतबलैश्चतुर्भिर्वैशारद्यैश्चतसृभिः प्रतिसंविद्भिर्यावदष्टादशभिरावेणिकैर्बुद्धधर्मैः? भगवानाह: [f । २९७ ] तत्किं मन्यसे सुभूते बुद्धो बोधिं प्राप्नोति? आह: नो हीदं भगवं, न बुद्धो बोधिं प्राप्नोति । बुद्ध एव बोधिर्बोधिरेव बुद्धः । भगवानाह: यत्पुनः सुभूतिरेवमाह । तत्प्राप्तैव भवति बोधिसत्त्वेन महासत्त्वेन बोधिरिति । इह सुभूते बोधिसत्त्वो महासत्त्वः षट्पारमिता<ं> परिपूर्य सप्ततृंशतं बोधिपक्ष्यां धर्मान् परिपूर्य दशतथागतबलानि । चत्वारि वैशारद्यानि चतस्रः प्रतिसंविदो: महामैत्रीं महाकरुणामष्टादशावेणिकां बुद्धधर्मान् परिपूर्य वज्रोपमेन समाधिना एकचित्तक्षणसमायुक्तया प्रज्नया अनुत्तरां सम्यक्संबोधिमभिसंबुध्यते । अनुत्तरां सम्यक्संबोधिमभिसंबुद्धः तदा तथागत इति निर्दिश्यते । सर्वदर्शी सर्वधर्मवशवर्ती । (विइइ ५,१५) अथायुष्मान् सुभूतिर्भगवन्तमेतदवोचत्: कथं भगवन् बोधिसत्त्वो महासत्त्वो बुद्धक्षेत्रं परिशोधयति? भगवानाह: इह सुभूते बोधिसत्त्वो महासत्त्व प्रथमचित्तोत्पा<द>मुपादाय । कायदौष्टुल्यं वाग्दौष्टुल्यं मनोदौष्टुल्यमात्मनश्च परस्य च परिशोधयति । यै<ः> परिशुद्धैर्बुद्धक्षेत्रं परिशोधयति । आह: कतमद्भगवन् कायदौष्टुल्यं बोधिसत्त्वस्य महासत्त्वस्य, कतमद्वाग्दौष्टुल्यं कतमो मनोदौष्टुल्यं? भगवानाह: यत्कायकर्माकुशलं प्राणातिपातः आदत्तदानं काममिथ्याचारः इदं कायदौष्टुल्यं बोधिसत्त्वस्य महासत्त्वस्य । यद्वाक्कर्माकुशलं मृषावादः पैशुन्यं पारुष्यं संभिन्नप्रलापः, इदं वाग्दौष्टुल्यं बोधिसत्त्वस्य महासत्त्वस्य । यन्मनस्कर्माकुशले अभिध्या व्यापदो मिथ्यादृष्टि इदं मनोदौष्टुल्यं (अद्स्प्गिइ १०३) बोधिसत्त्वस्य महासत्त्वस्य । पुनरपरं सुभूते यन्मत्सर्यचित्तमिदं मनोदौष्टुल्यं बोधिसत्त्वस्य महासत्त्वस्य, य<द्> दौशील्यचित्तं क्षोभनाचित्तं कौसीद्यचित्तं विक्षेपचित्त<म्> असमहितचित्तं दौष्प्रज्ञचित्तमिदमपि मनोदौष्टुल्यं बोधिसत्त्वस्य महासत्त्वस्य । पुनरपरं सुभूते यच्छीलापरिशुद्धिमिदमपि दौष्टुल्यं बोधिसत्त्वस्य महासत्त्वस्य । पुनरपरं सुभूते यच्चतु<र्भिर्> स्मृत्युपस्थानैर्विरहित इदमपि दौष्टुल्यं बोधिसत्त्वस्य महासत्त्वस्य । एवं चतुर्भिः सम्यक्प्रहाणैश्चतुर्भि ऋद्धिपादैः पञ्चभिरिन्द्रियैः पञ्चभिर्बलै सप्तभिर्बोध्यङ्गैरार्याष्टाङ्गेन मार्गेण । शून्यतायाः समाधिना आनिमित्तेन समाधिना अप्रणिहितेन समाधिना विरहित इदमपि दौष्टुल्यं बोधिसत्त्वस्य महासत्त्वस्य । पुनरपरं सुभूते यत्स्रोतआपत्तिफलसाक्षात्क्रिया तत्र च अस्पृहणता इदमपि दौष्टुल्यं बोधिसत्त्वस्य महासत्त्वस्य । एवं यावदर्हत्त्वे प्रत्येकबोधौ वा । स्पृह<णता इद>मपि दौष्टुल्यं बोधिसत्त्वस्य महासत्त्वस्य । पुनरपरं सुभूते रूपसंज्ञा दौष्टुल्यं वेदनासंज्ञा संज्ञासंज्ञा संस्कारसंज्ञा विज्ञानसंज्ञा दौष्टुल्यं, चक्षुसंज्ञा स्रोत्रसंज्ञा घ्राणसंज्ञा जि<ह्वसंज्ञा काय>संज्ञा मनःसंज्ञा इदमपि दौष्टुल्यं बोधिसत्त्वस्य महासत्त्वस्य । रूपसंज्ञा यावद्धर्मसंज्ञा । चक्षुर्धातुसंज्ञा यावन्मनोधातुसंज्ञा । [f । २९७ ] स्त्रिसंज्ञा पुद्ग<ल>संज्ञा । कामधातु<संज्ञा रूपधातुसंज्ञा अरूपधातुसंज्ञा> कुशलसंज्ञा अकुशलसंज्ञा यावत्संस्कृतसंज्ञा असंस्कृतसंज्ञा इदमपि कायदौष्टुल्यं वाग्दौष्टुल्यं मनोदौष्टुल्यं, त<द्> बोधिसत्त्वो महासत्त्वो प्रज्ञापारमितायां चरन् <सर्वाणि तानि दौष्टु>ल्यानि विवर्ज्य आत्मना च दानं ददाति परां<श्> च दाने समादापयति । सोऽन्नमन्ना<र्थिकेभ्यो> ददाति । पानं पानार्थिकेभ्यो, यावदन्यतरान्यतराण्युपकरणार्थिकेभ्यो ददाति । परं च उपकरणदाने समादा<पय>ति । प्रतिष्ठापयति । <त>तश्च यत्कुशलमूलं तत्सर्वसत्त्वसाधारणं कृत्वा बुद्धक्षेत्रपरिशुद्धये परिणामयति । एवं शीले क्षान्तौ वीर्ये ध्याने प्रज्ञायां, यावत्स आत्मना च त्रिसाहस्रमहासाहस्रं लोकधातुं सप्तभि<र्> रत्नैः परिपूर्य तृभ्यो रत्नेभ्यो दानं ददाति, तस्यैवं भवत्य्, अनेन मे कुशलमूलेन सप्तरत्नमयं बुद्धक्षेत्रं (अद्स्प्गिइ १०४) भवतु । पुनरपरं सुभूते बोधिसत्त्वो महासत्त्वो दिव्यानि वाद्यानि वादयति । बुद्धेषु वा बुद्धचैत्येषु वा । तस्व्यैवं भवत्य्, अनेन कुशलमूलेन तत्र मे बुद्धक्षेत्रे दिव्याश्शब्दाः मनोज्ञा सततसमितं वाद्यन्ता<ं> । पुनरपरं सुभूते बोधिसत्त्वो महासत्त्वस्त्रिसाहस्रमहासाहस्रं लोकधातुं दिव्यगन्धपरिपूर्णं कृत्वा बुद्धेभ्यो वा बुद्धचैत्येभ्यो वा ददाति । तस्यैवं भवत्य्, अनेन कुशलमूलेन तत्र मे बुद्धक्षेत्रे दिव्या गन्धा प्रवान्तु । पुनरपरं सुभूते बोधिसत्त्वो महासत्त्वः शतरसानि भोजनानि तथागतेभ्यो वा तथागतश्रावकेभ्यो वा ददाति । तस्यैवं भवत्य्, अनेन कुशलमूलेन तत्र मे बुद्धक्षेत्रेऽनुत्तरां सम्यक्संबोधिमभिसंबुद्धस्य श्रावकसंघस्य शतरसानि भोजनान्यभिनिर्वर्तंतां । पुनरपरं सुभूते बोधिसत्त्वो महासत्त्वो दिव्यान्यनुलेपनानि ददाति । तथागतेषु वा तथागतचैत्येषु वा । तस्यैवं भवत्य्, अनेन कुशलमूलेन अनुत्तरां सम्यक्संबोधिमभिसंबुद्धस्य तत्र मे बुद्धक्षेत्रे सर्वसत्त्वानि दिव्याः स्पर्शा अभिनिर्वर्तन्ताम् । पुनरपरं सुभूते बोधिसत्त्वस्य महासत्त्वस्य एवं भवति । मनोरथसंकल्पैरेव इष्टान् पञ्चकामगुणां बुद्धाना<ं> भगवतां श्रावकानां सर्वसत्त्वानां च उपनामयेयं । तस्यैवं जानतः एवं भवत्य्, अनेन कुशलमूलेन तत्र बुद्धक्षेत्रेऽनुत्तरां सम्यक्संबोधिमभिसंबुद्धस्य स<र्व>श्रावक<संघ>स्य सर्वसत्त्वानां च मनोरथसंकल्पेनैव इष्टाः पञ्चकामगुणाः प्रादुर्भवन्ति । पुनरपरं सुभूते बोधिसत्त्वो महासत्त्वः सर्वसत्त्वैः सार्धं बुद्धेभ्यो वा श्रावकेभ्यो वा पञ्चकामगुणान् दानन् ददाति । पुनरपरं सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरत एवं भवति । यन्वहमात्मना च प्रथमं ध्यानं समापद्येय । सर्वसत्त्वांश्च प्रथमे ध्याने निवेशयेयं । एवं याव चतुर्थे ध्याने निवेशयेयं । प्रतिष्ठापयेयं । मैत्र्यां करुणाया<ं> मुदितायामुपेक्षया<ं> यावत्सप्ततृंशति बोधिपक्ष्येषु धर्मेषु । तस्य मेऽनुत्तरसम्यक्संबोधिमभिसंबुद्धस्य सर्वसत्त्वाश्चतुर्भिर्ध्यानैरविरहिता भवेयुश्चतुर्भिरप्रमाणैश्चतुर्भिर्स्मृत्युपस्थानैर्यावत्सप्ततृंशति बोधिपक्ष्यैर्धर्मैरविरहिता भवेयु । एवं खलु सुभूते [f । २९८ ] बोधिसत्त्वो महासत्त्वो बुद्धक्षेत्रं परिशोधयति, (अद्स्प्गिइ १०५) स तावदनुत्तरां सम्यक्संबोधिं न अभिसंबुध्यते । यावन्नेमे सर्व अभिप्राया परिपूर्यन्ते । स आत्मना च सर्वकुशलमूलसमन्वागतो भवति । तांश्च सर्वसत्त्वान् कुशलमूलसमन्वागतान् करोति । तस्य अभिरूपः कायो भवत्यप्यात्मनः अपि तेषां सत्त्वानां ये तेन बोधिसत्त्वेन महासत्त्वेन परिपाचिता । तेषां सोऽभिरूपो दर्शनीयः प्रासादिक । कायोऽभिनिर्वर्तते । यदुत पुण्यपरिगृहीतत्वात् । एवं खलु सुभूते बोधिसत्त्वो महासत्त्वो बुद्धक्षेत्रं परिशोधयति । तथा च परिशोधयति । यथा त्रयाणामपायानां प्रज्ञप्तिरपि न भविष्यति । दृष्टिगतानामपि प्रज्ञप्तिर्न भविष्यति । रागदोषमोहानां प्रज्ञप्तिर्न भविष्यति । स्त्रिपुरुषप्रज्ञप्तिर्न भविष्यति । द्वयोर्यानयो प्रज्ञप्तिर्न भविष्यति । अनित्यदुःख अनात्मप्रज्ञप्तिर्न भविष्यति । परिग्राहप्रज्ञप्तिर्न भविष्यति । अहंकारममकारप्रज्ञप्तिर्न भविष्यति । अनुशयपर्युत्थानप्रज्ञप्तिर्न भविष्यति । विपर्यासप्रज्ञप्तिर्न भविष्यति । फलव्यवस्थानप्रज्ञप्तिर्न भविष्यति । अन्यत्र शून्यतानिमित्ताप्रणिहित<स्य समाधेर्> घोषो निश्चरिष्यति । त्यागेच्छताया । सर्वेषां तेषां धर्माणां घोषो निश्चरिष्यति । यदि वाध्यात्मिकानां यदि वा बाह्यानां वारितानामेवं घोषो निश्चरिष्यति । शून्यता इति वा आनिमित्तमिति वा अप्रणिहितमिति वा । यथैवैषान् धर्माणां स्वभावस्तथैव शब्दो निश्चरिष्यति । <सर्वधर्माः सर्वधर्मैः शून्या इति, यथा तेषां धर्माणां स्वभावस्तथैव शब्दो निश्चरिष्यति ।> उत्पादाद्वा तथागतानामनुत्पादाद्वा तथागतानां सर्वधर्माः सर्वधर्मैः शून्याः, यच्छून्यं तत्र निमित्तं नास्ति । यत्र निमित्तं नास्ति तदप्रणिहितं । एषा सा एवंरूपा धर्मदेशना निश्चरिष्यति । रात्रौ वा दिवा वा स्थितानां वा निषण्णानां वा । शयानां वा चंक्रम्यमाणानां वा । ईदृशी धर्मदेशना निश्चरिष्यति । तत्र बुद्धक्षेत्रेऽनुत्तरां सम्यक्संबोधिमभिसंबुद्धस्य । तस्य खलु पुनस्तथागतस्य अर्हत सम्यक्संबुद्धस्य ये दशसु दिक्षु लोकधातुषु बुद्धा भगवन्तस्ते सर्वे वर्णं भाषन्ते । ये खलु पुनस्तस्य तथागतस्य नामधेयं श्रोष्यन्ति । सर्वे ते नियता भविष्यन्त्यनुत्तरस्यां सम्यक्संबोधौ । तस्य खलु पुनस्तथागतस्य अर्हतः सम्यक्संबुद्धस्य अनुत्तरां (अद्स्प्गिइ १०६) सम्यक्संबोधिमभिसंबुद्धस्य धर्मन् देशयतो न कस्यचित्सत्त्वस्य संशयो भविष्यत्ययं धर्मोऽयं न धर्म इति । तत्कस्य हेतोः? या खलु पुनर्<सर्व>धर्माणां धर्मता न तत्र कश्चिदधर्मः सर्व स धर्मः, तत्र ये सत्त्वा अकुशलमूलग्रस्ता अनवरुप्तकुशलमूला बुद्धेषु वा बुद्धश्रा<वकेषु> वा । अकल्याणमित्रपरिगृहीता आत्मदृष्टिमालीयन्ते । यावत्सर्वदृष्टिगतान्यालीयन्ते । अन्तेषु तिष्ठन्ति । उच्छेदे शाश्वते वा, ते मिथ्याग्राहेण <गृहीता> असम्यक्संबुद्धेषु सम्यक्सं<बुद्धसंज्ञिनः> सम्यक्संबुद्धेषु वा असम्यक्संबुद्धसंज्ञिनः । ते अधर्मं धर्म इति वदन्ति । धर्मं वा अधर्म इति वदन्ति । ते धर्मं प्रतिक्षिपन्ति, प्रतिक्षिप्य कायस्य भेदात्परं मरणादपायदुर्गतिविनिपा<तान्नरकेषु उपपद्यन्ते>, तत्र बुद्धा भगवन्तोऽनुत्तरां सम्यक्संबोधिमभिसंबुध्य <स>त्त्वान् संसारपर्यापन्नान् ततः पापका<द्> दृष्टिगतान् विवेचयन्ति । विवेच्य अनियते [f । २९८ ] राशौ प्रतिष्ठापयन्ति । तत्र <प्रतिष्ठापिता पुनर्> अपायेषु उपपद्यन्ते । एवं खलु सुभूते बोधिसत्त्वो महासत्त्वो बुद्धक्षेत्रं <परिशोधयति, य>स्य परिशोधनात्सत्त्वानां न क्वचिन्निकेतो भवति । लौकिकेषु वा धर्मेषु लोकोत्तरेषु वा धर्मेषु <सास्रवेषु वा> धर्मेष्वनास्रवेषु वा धर्मेषु संस्कृतेषु वा धर्मेष्वसंस्कृतेषु वा धर्मेषु, यावत्स<र्वसत्त्वा नियता भ>वन्त्यनुत्तरस्यां सम्यक्संबोधौ । ((७७)) परिवर्त ७८ । (विइइ ५,१६) अथ खल्वायुष्मान् सुभूतिर्भगवन्तमेतदवोचत्: किं पुनर्<भगवन्> बोधिसत्त्वो महासत्त्वो नियतः अथ अनियतः? भगवानाह: नियतः सुभूते बोधिसत्त्वो <महासत्त्वो न अ>नियतः । (अद्स्प्गिइ १०७) आह: कतमत्र राशौ नियत । श्रावकराशौ वा प्रत्येकबुद्धराशौ वा बुद्धराशौ वा? भगवानाह: न सुभूते बोधिसत्त्वो महासत्त्वः श्रावकभूमौ वा नियतः प्रत्येकबुद्धभूमौ वा, बुद्धभूमौ सुभूते बोधिसत्त्वो महासत्त्वो नियतः । आह: किं पुनर्भगवन् प्रथमचित्तोत्पादिको बोधिसत्त्वो महासत्त्वो नियत उताहोऽवैवर्तिकः उताहो चरमभविकः? भगवानाह: प्रथमचित्तोत्पादिको बोधिसत्त्वो महासत्त्वो नियत अवैवर्तिको नियतश्चरमभविको नियतः । आह: किं पुनर्भगवन्नियतो बोधिसत्त्वो महासत्त्वो अपायेषु उपपद्यते? भगवानाह: नो हीदं सुभूते । तत्किं मन्यसे सुभूते अपि न्वष्टमको वा स्रोतआपन्नो वा सकृदागामी वा अनागामी वा अर्हन् वा प्रत्येकबुद्धो वा अपायेषु उपपद्यते? आह: नो हीदं भगवन् । भगवानाह: एवमेव सुभूते यो बोधिसत्त्वो महासत्त्व प्रथमचित्तोत्पादमुपादाय दानं दद<ञ्>च्छीलं रक्षन् क्षान्त्या संपादयन् वीर्यं वारभमाणः समाधिं समापद्यमानः प्रज्ञां भावयं । मैत्रीकरुणामुदितोपेक्षां <सर्व>सत्त्वेषु भावयति सर्व अकुशलधर्मप्रहाणाय तिष्ठति । सोऽपायेषु उपपद्येत इति नेदं स्थानं विद्यते । दीर्घायुष्केषु वा देवेषु उपपद्येत इति नेदं स्थानं विद्यते । यत्र वा अप्रचारः कुशलधर्माणामेडमूकेषु वा जनपदेषु उपपद्येत इति । नेदं स्थानं विद्यते । दस्युषु म्लेच्छेषु प्रत्यन्तेषु वा जनपदेषु उपपद्येत इति । यत्र अगतिश्चतसृणां पर्षदन्नेदं स्थानं विद्यते । मिथ्यादृष्टिकेषु वा कुलेषु उपपद्येत इति नेदं स्थानं विद्यते । तत्र च उपपद्येत यत्र न बुद्धशब्दो न धर्मशब्दो न संघशब्द इति नेदं स्थानं (अद्स्प्गिइ १०८) विद्यते । अक्रियादृष्टिं वा पतेदिति नेदं स्थानं विद्यते । अपि तु खलु सुभूते प्रथमचित्तोत्पादमुपादाय बोधिसत्त्वो महासत्त्वोऽनुत्तरस्यै सम्यक्संबोधये संप्रस्थितः अध्याशयेन, दसाकु<श>लाः कर्मपथानध्यापद्येत इति नेदं स्थानं विद्यते । आह: यदि भगवं बोधिसत्त्वो महासत्त्वः एवं कुशलमूलसमन्वागतः यदुत अप्रतिरूपेषु स्थानेषु नोपपद्यते । तद्यानि इमानि तथागतेन आत्मनस्तिर्यग्गतिजातकानि निर्दिष्टानि । इमानि पुनस्तत्र कुशलमूलं क्व गतानि? भगवानाह: न पुनः सुभूते बोधिसत्त्वो महासत्त्वोऽशुभेनकर्मणा तिर्यग्गतावुपदद्यते । अपि तु येन येन आत्मभावेन सत्त्वानामर्थः कर्तव्यंस्तं तमेव आत्मभावं संचिन्त्य सत्त्वानामर्थाय परिगृह्णाति । किं पुनः सुभूते अस्त्यर्हतां वा प्रत्येकबुद्धानां वा तदुपायकौशलं येन उपायकौशलेन [f । २९९ ] समन्वागतस्तिर्यग्योनिगतौ६(उपपन्नः स्यात्? <आह: नो भगवन् ।> <भगवानाह: तथागतस्य तदुपायकौशलमस्ति येन तत्र उपपन्नः स्याद् ।> येऽस्य वधाय पराक्रमन्ति <ताननुत्तरायां क्षान्तौ समादापयति विनयति प्रतिष्ठापयति । तेषां सत्त्वानामेव अर्थाय> आत्मानं च परित्यजति । न च तेषां सत्त्वानां विहेठं करोति । तदनेन ते सुभूते पर्यायेणैवं वेदितव्यं । यथा बोधिसत्त्वो महासत्त्वः सत्त्वानामर्थाय महाकरुणां परिपूरयन्ननुत्तरस्यै सम्यक्संबोधये तिर्यग्योना<व्> व्युपपद्यते । न च तिर्यग्योनिगतैर्दोसैर्लिप्यते । आह: कतमेषु भगवं कुशलेषु <धर्मेषु> स्थित्वा बोधिसत्त्वो महासत्त्व इमानेवंरूपानात्मभावान् परिगृह्णाति? भगवानाह: कतमं सुभूते कुशलो धर्मो यो बोधिसत्त्वेन (अद्स्प्गिइ १०९) महासत्त्वेन न परिपूरयितव्याः? सर्वकुशलधर्मपरिपूरिरनुत्तरा सम्यक्संबोधि । तेन बोधिसत्त्वेन महासत्त्वेन प्रथमचित्तोत्पादमुपादाय यावद्बोधिमण्डनिषण्णेन न कश्चित्कुशलो धर्मो यो न परिपूरयितव्यः । न हि स कश्चित्कुशलो धर्मो येन अपरिपूरितेन अनुत्तरां सम्यक्संबोधिरभिसंबुध्येत नेदं स्थानं विद्यते । तस्मात्तर्हि सुभूते बोधिसत्त्वेन महासत्त्वेन प्रथमचित्तोत्पादमुपादाय सर्वकुशलधर्मपरिपूर्यैः शिक्षितव्यं । यत्र शिक्षित्वा सर्वाकारज्ञतामनुप्राप्नोति । सर्ववासनानुसन्धिं प्रहास्यति । आह: कथं पुनर्भगवन् बोधिसत्त्वो महासत्त्वस्तावच्छुक्लधर्मसमन्वागतः आर्येण अनास्रवेण धर्मेण अपायेषु उपपद्यते । तिर्यग्योनौ वा? भगवानाह: किं पुन<र्> । सुभूते तथागत आर्योऽनास्रवः? आह: एवमेतद्भगवन्नेवमेतत्सुगतः । आर्योऽनास्रवस्तथागतः । भगवानाह: किं पुनस्तथागतस्तैर्यग्योनिकं प्राणिनमभिनिर्मिमीतः यमभिनिर्माय बुद्धकार्यं कुर्यात्? आह: कुर्याद्भगवन् । भगवानाह: किं पुनस्तथागतस्तैर्यग्योनिको भवेत्? आह: नो हीदं भगवन् । भगवानाह: किं पुनस्तथागतस्तैर्यग्योनिकं दुःखं प्रत्यनुभवेत्? आह: नो हीदं भगवन् । भगवानाह: एवमेव सुभूते आर्येण अनास्रवेण धर्मेण समन्वागतो बोधिसत्त्वो महासत्त्वः संचिन्त्य तथारूपमात्मभावं परिगृह्णाति । येन आत्मभावेन सत्त्वान् परिपाचयति । यथार्हं यथायोग्यं । आह: किं पुनर्भगवन्नर्हन्निर्मितमभिनिर्मिणोति । योऽभिनिर्मितोऽर्हन्कर्म कुर्याद्, येन कर्मणा परस्य प्रीतिं जानयेत्? भगवानाह: एवमेतत्सुभूते एवमेतत् । एवमेव बोधिसत्त्वो महासत्त्वः आर्येण अनास्रवेण धर्मेण समन्वागतः संचिन्त्य (अद्स्प्गिइ ११०) तथारूपमात्मभावं परिगृह्णाति । येन आत्मभावेन सत्त्वानां बुद्धकार्यं करोति । न च तेन तथारूपेण आत्मभावेन दुःखितो भवति । न दुःखा<ं> वेदना<ं> प्रत्यनुभवति । तत्किं मन्यसे सुभूते यां मायाकारो मायान् दर्शयति । हस्तिविग्रहां वा अश्वविग्रहां वा बलीवर्दविग्रहां वा अन्यां वा विविधां मायां दर्शयति । अपि नु ते हस्तिविग्रहा भवन्त्यश्वविग्रहा वा वलीवर्दविग्रहा वा अन्या वा विविधा प्राणिजातय? आह: नो हीदं भगवं । भगवानाह: एवमेव सुभूते बोधिसत्त्वो महासत्त्व आर्येण अनास्रवेण धर्मेण समन्वागतो भवति । <संचि>न्त्य तथारूपमात्मभावं परिगृह्णाति । यथारूपेण आत्मभावेन सत्त्वानामर्थं करोति । <न च तथारूपां> वेदना<ं> प्रत्यनुभवति । अथायुष्मान् सुभूतिर्भगवन्तमेतदवोचत्: महोपायकौशलं भगवं बोधिसत्त्वस्य महासत्त्वस्य यो हि नाम भगवन्नार्येण ज्ञानेन समन्वा<गतो येन येन आत्मभाव्>एन शक्नोति सत्त्वानामर्थः कर्तुं तं तमेव आत्मभावं परिगृह्णाति । (विइइ ५,१७) कतमेषु भगवंच्छुक्लेषु धर्मेषु स्थित्वा बोधिसत्त्वो महासत्त्वो [f । २९९ ] इमान्येवंरूपान्युपायकौशला<नि करोति न च तैर्> लिप्स्यते? भगवानाह: प्रज्ञापारमितायां सुभूते स्थित्वा बोधिसत्त्वो महासत्त्वः <इमान्येवंरूपान्यु>पृष्ठआयकौशलानि करोति । यैरुपायकौशलै पूर्वस्यान् दिशि दक्षिणायां पश्चिमाया<मुत्तरस्याम>ध<स्तात्> तिर्यक्समन्ताद्दशसु दिक्ष्वैकैकस्यान् दिशि गङ्गानदीवालुकोपमेषु लोकधा<तुषु सत्त्वानां कृत्यं क>रोति । न च तेन तत्र किंचित्संस्पृश्यते । तत्कस्य हेतो<ः>? तथा हि स बोधिसत्त्वो महासत्त्व सर्व<थैव धर्मं नो>पृष्ठअलभते । यो वा संस्पृश्येत येन वा संपृश्येत यत्र वा संस्पृश्येत । तत्कस्य हेतोः? तथा हि <सर्व एते त्रयो धर्माः> स्वभावेन शून्या<ः> । न च <शून्यता> शून्यतां संस्पृशति । न अपि शून्यतां कश्चिद्धर्म संस्पृशति । न अपि शून्यता संस्पृश्यते । तत्कस्य हेतोः? तथा हि शून्यता शून्यतायां नोपलभ्यते । इयं (अद्स्प्गिइ १११) सा अनुपलंभशून्यता <यत्र> स्थित्वा बोधिसत्त्वो महासत्त्वोऽनुत्तरां सम्यक्संबोधिमभिसंबुध्यते । आह: किं पुनर्भगवन् प्रज्ञापारमितायामेव स्थित्वा न अन्येषु <धर्मेषु>? भगवानाह: अस्ति पुनः सुभूते कश्चिद्धर्मो यो न प्रज्ञापारमितायामन्तर्गतः? आह: यदि भगवं । प्रज्ञापारमिता स्वभावेन शून्या कथं प्रज्ञापारमितायां सर्वधर्मा अन्तर्गता? न च भगवंच्छून्यतायां कश्चिद्धर्मोऽन्तर्गतो वा न वा अन्तर्गतः । भगवानाह: न पुनः सुभूते सर्वधर्मा सर्वधर्मैः शून्याः? आह: शून्या भगवं । भगवानाह: यदि सुभूते सर्वधर्माः सर्वधर्मैः शून्या, न नु सर्वधर्मा शून्यतायामन्तर्गता? आह: एवमेतद्भगवन् । भगवानाह: तदनेन सुभूते पर्यायेण एवं वेदितव्यं, यत्प्रज्ञापारमितायां स्थित्वा बोधिसत्त्वो महासत्त्व इदमेवंरूपमुपायकौशलं कुरुते । (विइइ ५,१८) अथायुष्मान् सुभूतिर्भगवन्तमेतदवोचत्: कथं भगवं बोधिसत्त्वो महासत्त्व प्रज्ञापारमितायां चरन् सर्वधर्मशून्यतायां स्थित्वा अभिज्ञापारमितामभिनिर्माति? यास्वभिज्ञासु स्थित्वा पूर्वस्यान् दिशि गङ्गानदीवालुकोपमान् लोकधातून् गच्छति । तत्र लोकधातुषु ये बुद्धा भगवन्तस्तिष्ठन्ति धृयन्ते यापयन्ति धर्मञ्च देशयन्ति तां । पर्युपास्ते धर्मं च शृणोति । तत्र च बुद्धेषु भगवत्सु कुशलमूलान्यवरोपयति? एवमुक्ते भगवानायुष्मन्तं सुभूतिमेतदवोचत्: इह सुभूते बोधिसत्त्वो महासत्त्व प्रज्ञापारमितायां चरन् ये पूर्वस्यान् दिशि गङ्गानदीवालुकोपमान् लोकधातवस्तां सर्वां शून्या इति पश्यति । येऽपि तत्र बुद्धा भगवन्तस्तेऽपि बुद्धा भगवन्त<स्> स्वभावशुन्या४ अ अन्यत्र नामसंकेतेन प्रज्ञप्तिमुपादाय निर्दिश्यन्ते । सर्वाः प्रज्ञप्ति स्वभावेन शून्याः, यदि ते लोकधातवो न स्वभावेन शून्याः अभविष्यंस्, तेऽपि बुद्धा भगवन्तो न स्वभावेन शून्या अभविष्यंस्, तेऽपि प्रज्ञप्तिसमुदाचारा न स्वभावेन शून्या (अद्स्प्गिइ ११२) अभविष्यंस्, तत्प्रादेसिकी शून्यताभविष्यत् । यस्मान्न प्रादेशिकी शून्यता तस्मात्सर्वधर्माः सर्वधर्मैः शून्याः, तद्बोधिसत्त्वो महासत्त्व उपायकौशलेन प्रज्ञापारमितायां चरन्नभिज्ञापारमितामभिनिर्हरति । यास्वभिज्ञासु स्थित्वा दिव्यं चक्षुरभिनिर्ह<र>ति । दिव्यश्रोत्रमृद्धिं परचित्तज्ञानं । पूर्वे निवासं च्युतोपपत्तिं, न च विना अभिज्ञाभिर्बोधिसत्त्वेन महासत्त्वेन शक्यमनुत्तरा सम्यक्संबोधिरभिसंबोद्धुं । ॥। [३०० ब्मिस्सिन्ग्] ॥। [f । ३०१ ] <तस्माद्बोधिसत्त्वस्य महासत्त्वस्य अभिज्ञापारमितायां बोधिरन्तर्गता; तेभिरेव अभिज्ञाभिर्बोधिर्मार्गयितव्या; स मार्गयमाणो> दिव्येन चक्षुषा आत्मनस्तान् कुशलान् धर्मान् पश्यति । परं च कुशलेषु धर्मेषु नियोजयति । <न च तेषु कुशलेषु धर्मेषु अभिनिवेष्ठते> । तत्कस्य हेतोः? तथा हि ते सर्वे कुशला धर्माः स्वभावेन शून्या । न हि शून्यताया क्वचिदभिनिविशते । यदभिनिविश्य आस्वादयेत् । निरास्वादा हि शून्यता । तद्बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चर<न्> दिव्यं चक्षुरभिनिर्हरति । येन दिव्येन चक्षुषा सर्वधर्मांच्छून्या इति पश्यति, तत्पुनर्बोधिसत्त्वो महासत्त्वस्तान् धर्मतामागम्य कर्म अभिनिरोपयति । यया कर्माभिनिरुप्त्या सत्त्वानान् धर्मन् देशयति । न पुनः सत्त्वं न सत्त्वप्रज्ञप्तिमुपलभते । इत्यनुपलंभयोगेन बोधिसत्त्वो महासत्त्वः अभिज्ञापारमितामभिनिर्माति । याभिरभिज्ञाभिर्येऽभिज्ञाकरणीयान् धर्मान् तान् करोति । तत्र बोधिसत्त्वो महासत्त्वो दिव्येन चक्षुषा विशुद्धेन अतिक्रान्तमानुष्यकेण पूर्वस्या<ं> दिशि दक्षिणस्यां पश्चिमायामुत्तरस्यामधस्ताद्दिशि विदिक्ष्वूर्ध्वम् [**] तिर्यग्लोकधातूं पश्यति । स तत्र ऋध्या गत्वा सत्त्वानामर्थं (अद्स्प्गिइ ११३) करोति । यदि वा दानेन यदि वा शीलेन यदि वा क्षान्त्या यदि वा वीर्येण यदि वा समाध्मा यदि वा प्रज्ञाया यदि वा सप्ततृंशता बोधिपक्ष्यैर्धर्मैः यदि वा ध्यानाप्रमाणारूप्यविमोक्षसमाधिसमापत्तिभिर्यदि वा श्रावकधर्मैर्यदि वा । प्रत्येकबुद्धधर्मैर्यदि वा बोधिसत्त्वधर्मैर्यदि वा बुद्धधर्मैस्तेषां सत्त्वानां कृत्यकरो भवति । तत्र ये सत्त्वा मत्सरिणस्तेषामेवन् धर्मन् देशयति । ददध्वद्दानन्, दुःखं हि दारिद्र्यं, न हि दारिद्र्येण शक्यमात्मनोऽप्यर्थः कर्तुं । प्रागेव परस्य, तद्यूयमात्मना च दुःकिता भविष्यथः परं च दुःखयिष्यथ, मा दारिद्र्येण अभिभूता अन्योन्य मांसानि खादन्तो न परिमोक्ष्यध्वे तृभ्योऽपायेभ्यः, ये दु<ः>शीला सत्त्वास्तेषामेवन् धर्मन् देशयति । दुःखं हि भोः पुरुषा दौःशील्यं, न हि दुःशीलेन शक्यमात्मनोऽप्यर्थः कर्तुं, प्रागेव परस्य । दौःशील्यस्य यो विपाकः स नरका वा तिर्यग्योनिर्वा यमलोको वा, तद्यूयं तृष्वपायेषु प्रपतिता । आत्मानमेव न शक्या अर्थं कर्तुं प्रागेव परम्, तद्युष्माभिरेकदौःशील्यस्य चित्तस्य अप्यवकाशो न दातव्यो, मा पश्चात्तापिनोऽभूत् । ये सत्त्वास्परस्परं व्यापन्नचित्तास्तेषामेवन् धर्मन् देशयति । मा यूयमन्योन्यं व्यापद्यध्वं । क्षुभितचित्तानां सतां न कश्चित्कुशलो धर्मः प्रादुर्भवति, तद्युष्माकमन्योन्यक्षुभितचित्तानां सतां स्थानमेतद्विद्यते । यन्नरकोपपत्तिर्भवे<द्वा तिर्यग्योनि>र्वा यमलोको वा, हंत युष्माभिरेकचित्तमपि न क्षोभयितव्यं, प्रागेव <अन्येषां> अकुशलानां चित्तानामवकाशो न दातव्यः इति । ये कुसीदास्तां वीर्ये नियोजयति, एवं यावद्ये <विक्षिप्तचित्तास्तान् समा>धौ नियोजयति । ये दुष्प्रज्ञास्तान् प्रज्ञायां नियोजयति । ये रागचरितास्तानशुभायां नियोजयति । ये द्वेषचरितास्तां मैत्र्यां नियोजयति । [f । ३०१ ] ये मोहचरितास्तां प्रतीत्यसमुत्पा<दे नियोजयति । ये> कुमार्गे प्रस्थितास्तान्मार्गे नियोजयति । यदि वा श्रावकमार्गे यदि वा प्रत्येकबुद्धमार्गे नियोजयति । तेषामेवन् धर्मन् देशयति, यत्र यूयमभिनिविष्टास्ते धर्माः स्वभावेन शून्या, न हि स्व<भावेन शून्ये>षु धर्मेषु शक्यमभिनिवेष्टुं । अनभिनिविष्टा च (अद्स्प्गिइ ११४) शून्यता । एवं खलु सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्नभिज्ञासु स्थित्वा सत्त्वानामर्थं करोति । नास्ति सुभूते बोधिसत्त्वो महासत्त्वो येन शक्यमभिज्ञास्वस्थित्वा सत्त्वानां धर्मन् देशयितुं, उत्पथप्रस्थिता वा सत्त्वा मार्गमवतारयितुं नेदं स्थानं विद्यते । यथा सुभूते पक्षी शकुनिरपक्षको न शक्नोत्याकाशेन क्रामितुमेवमेव सुभूते बोधिसत्त्वो महासत्त्व अनागम्य <अ>भिज्ञा न शक्नोति । धर्मन् देशयितुं । तस्मात्तर्हि सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता अभिज्ञा अभिनिर्हर्तव्याः । स आभिरभिज्ञाभिरभिनिर्हर्ताभिर्यमाकाङ्क्षिश्यति सत्त्वानामर्थं कर्तुं तं सुखिन करिष्यति । दिव्येन चक्षुषा गङ्गानादीवालुकोपमान् लोकधातून् द्रक्ष्यति । तांश्च तत्र सत्त्वानुपपन्नान् द्रक्ष्यति । दृष्ट्वा च तान् सत्त्वानृध्या गत्वा चेतसैव चित्तं प्रज्ञास्यति, प्रज्ञाय तथैव धर्मन् देशयिष्यति । यदि वा दानकथां यदि वा याव<न्> नैर्यानिकीं कथां । स दिव्येन श्रोत्रधातुना उभौ शब्दौ श्रोष्यति । यदुत दिव्यांश्च मानुष्यकांश्च । तत्र ये पूर्वस्यां दिशि यावत्समन्ताद्दशसु दिक्ष्वेकैकस्यान् दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु बुद्धा भगवन्तो धर्मं देशयन्ति । स तेन दिव्येन श्रोत्रधातुना तान् धर्मान् श्रोष्यति । श्रुत्वा च तथात्वाय उद्ग्रहीष्यति । तथात्वाय उद्गृह्य <अन्>अन्<य्>अथात्वाय धर्मन् देशयिष्यति । दानकथां यावन्नैर्याणिककथां । तस्य चेतःपर्यायज्ञानं सुविशुद्धं भविष्यति । स तेन चेतःपर्यायज्ञानेन सत्त्वानां चित्तं प्रज्ञास्यति । तेषान् तथात्वाय धर्मन् देशयिष्यति । दानकथां यावन्नैर्याणिककथां । सोऽनेकविधं पूर्वेनिवासमनुस्मरिष्यति अन्य आत्मनोऽपि परस्य <अपि> । स तेन पूर्वेनिवासानुस्मृतिज्ञानेन एवं ज्ञास्यत्येवंनामकास्तेऽभूवन् । पौर्वकास्तथागता अर्हन्तः सम्यक्संबुद्धा सश्रावकास्, तत्र ये सत्त्वा पूर्वेनिवासानुस्मृत्यधिमुक्ता भविष्यन्ति । तेषां तथात्वाय धर्मन् देशयिष्यति । दानकथां यावन्नैर्याणिककथां । स ऋद्ध्या अनेकान् विविधां लोकधातूं गत्वा बुद्धां भगवतः पर्युपासिष्यते पर्युपास्य अभिज्ञानेन सत्त्वानां धर्मन् देशयिष्यति । दानकथां यावन्नैर्याणिककथां । स आस्रवक्षयज्ञानेन सुविदितेन सत्त्वानान् धर्मन् देशयिष्यति । यदि वा दानकथां यदि वा नैर्याणिककथां । एवं खलु सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमिता<यां च> (अद्स्प्गिइ ११५) <रता अ>भिज्ञा अभिनिर्हर्तव्या । स <ए>भिरभिज्ञाभिः सुपरिचिताभि यं यमेव आत्मभावं परिगृहीतुमाकाङ्क्षिष्यति । तं तमेव आत्मभावं परिग्रहीस्यति । स <न> च तेन सुखेन वा दुःखेन <वा सुमना वा दुर्मना वा भविष्यति । नैव अस्य अनुनयप्रतिघौ भविष्यथ ।> तद्यथापि नाम तथाग<तनिर्मितः> [f । ३०२ ] <पुरुषः सर्वकृत्यानि क>रोति । न च तेन सुखेन वा दुःखेन वा क्लिश्यते । एवमेव सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता अभिज्ञाविक्रीडितेन भवितव्यं । यथा विक्रीडमानो बुद्धक्षेत्रं च परिशोधयिष्यति । सत्त्वांश्च परिपाचयिष्यति । न पुनः सुभूते बोधिसत्त्वेन महासत्त्वेन अपरिशोधिते बुद्धक्षेत्रे अपरिपाचितेषु सत्त्वेषु शक्यमनुत्तरा सम्यक्संबोधिरभिसंबोद्धुं । तत्कस्य हेतोः? नास्ति सुभूते मार्गाङ्गविकलस्य बोधिसत्त्वस्य महासत्त्वस्य अनुत्तरा सम्यक्संबोधिः । (विइइ ५,१९) अथायुष्मान् सुभूतिर्भगवन्तमेतदवोचत्: कतमानि भगवन् बोधिसत्त्वस्य महासत्त्वस्य मार्गाङ्गानि । यानि यानि बोधिसत्त्वो महासत्त्वः परिपूर्य अनुत्तरा<ं> सम्यक्संबोधिमभिसंबुध्यते? एवमुक्ते भगवानायुष्मन्तं सुभूतिमेतदवोचत्: सर्वकुशलधर्माः सुभूते बोधिसत्त्वस्य महासत्त्वस्य मार्गाङ्गानि । आह: ते पुनर्भगवन् कतमे कुशलधर्मा मार्गाङ्गानि । यैरनुत्तरा सम्यक्संबोधिरभिसंबुध्यते? भगवानाह: प्रथमचित्तोत्पादमुपादाय दानपारमिता कुशलो धर्मस्तत्र या अकल्पना य<द्> ददन्न कलप्यति । इदं दाननस्मै ददाम्यहन् ददामि इत्येतत्त्रयं न कल्पयति । स्वभावशुन्यतामुपादाय, यया पारमितया आत्मना च तरति परं च तारयति संसारार्णवात् । इमे ते कुशलधर्मा बोधिसत्त्वस्य महासत्त्वस्य अनुत्तरस्या सम्यक्संबोध्<अय्>ए मार्गो येन मार्गेन अतीतानागतप्रत्युत्पन्ना बोधिसत्त्वा महासत्त्वास्तीर्णास्तरन्ति तरिष्यन्ति च (अद्स्प्गिइ ११६) संसारार्णवात् । एवं शीलपारमिता क्षान्तिपारमिता वीर्यपारमिता समाधिपारमिता प्रज्ञापारमिता चत्वारि ध्यानानि चत्वार्यप्रमाणानि: चतस्रः आरूप्यसमापत्तयः चत्वारि स्मृत्युपस्थानानि चत्वारि सम्यक्प्रहाणानि । चत्वारर्द्धिपादाः पञ्चेन्द्रियाणि पञ्चबलानि सप्तबोध्यङ्गान्यार्याष्टाङ्गो मार्गः त्रीणि विमोक्षमुखानि । चतुर्दशशून्यता अष्टौ विमोक्षा नवानुपूर्वसमापत्तयो धारणीमुखानि समाधिमुखानि । प्रतिसंविदो यावदष्टादशावेणिका बुद्धधर्माः, यावन्तः केचिद्बोधिमार्गा इमे ते कुशला धर्मा ये बोधिसत्त्वेन महासत्त्वेन परिपूरयितव्या यां परिपूर्य सर्वाकारज्ञतामनुप्राप्नोति । यामनुप्राप्य धर्मचक्रं प्रवर्तयति । ((७८)) परिवर्त ७९ (विइइ ५,२०) अथायुष्मान् सुभूतिर्भगवन्तमेतदवोचत्: यदि भगवन्निमे धर्मा बोधिसत्त्वधर्मास्तद्बुद्धधर्मास्पुनर्कतमे? भगवानाह: यत्पुनः सुभूतिरेवमाह । यदि इमे धर्मा बोधिसत्त्वधर्मास्तद्बुद्धधर्माः पुनः कतम इति । इम एव सुभूते बुद्धधर्मा यदेमान् धर्मान् सर्वाकारैरभिसंबुध्यते । तस्य सर्वाकारज्ञताप्राप्तस्य सर्ववासनानुसन्धिः प्रहीयते, तद्बोधिसत्त्वो <महासत्त्वो>ऽभिसंबुध्यते, तथागतोऽर्हन् सम्यक्संबुद्धः सर्वधर्मानेकलक्षणसमायुक्तया प्रज्ञया अभिसंबुद्धः, अयं विशेषो बोधिसत्त्वस्य च तथागतस्य च अर्हतः सम्यक्संबुद्ध<स्य । तद्यथापि नाम सु>भूते अन्य एव प्रतिपन्नको अन्य एव फलस्तः, न च न तावुभावार्यपुद्गलौ, एवमेव सुभूते (अद्स्प्गिइ ११७) बोधिसत्त्वो महासत्त्व आनन्तर्यमार्गे [f । ३०२ ] प्रतिपन्नकस्तः, <त>थागतस्पुनरर्हन् सम्यक्सं<बुद्धः सर्वधर्मेष्वन>न्धकारता प्राप्त, इयं सुभूते विशेसो बोधिसत्त्वस्य महासत्त्वस्य तथागतस्य च अर्हत सम्यक्संबुद्धस्य । अथायुष्मान् सुभूतिर्भगवन्तमेतदवोचत्: यदि पुनर्भगवन्निमे धर्माः स्वलक्षणशून्याः, स्वलक्स<णशून्ये>षु धर्मेषु कुतो विशेषो नाना<करण>ं वा उपलभ्यते? अयं नैरयिकोऽयं तैर्यग्योनिकोऽयं यमलौकिकः अयं देवोऽयं मनुष्य अयं गोत्रभूरयमष्टमक अयं स्रोतआपन्नोऽयं सकृदागाम्ययमनागाम्ययमर्हन्नयं प्रत्येकबुद्धोऽयं बोधिसत्त्वोऽयं तथागतोऽर्हन् सम्यक्संबुद्धः । यथैव भगवन्निमे पुद्गला नोपलभ्यन्ते । तथैव भगवं । कर्म नोपलभ्यते । यथैव कर्म नोपलभ्यते तथैव कर्मविपाको नोपलभ्यते । एवमुक्ते भगवानायुष्मन्तं सुभूतिमेतदवोचत्: एवमेतत्सुभूते एवमेतत्तथा यथा वदसि । स्वलक्सणशून्येषु धर्मेषु न कर्म न विपाक उपलभ्यते । ये पुनः सुभूते स्वलक्षणशून्यान् धर्मा<न्न जानन्ति ते कर्म> अभिसंस्कुर्वन्ति । दुश्चरितं वा सुचरितं वा सास्रवं वा अनास्रवं वा । ते दुश्चरितेन कर्मणा त्रिष्वपायेषु प्रपतन्ति । सुचरितेन देवमनुष्येषु उपपद्यन्ते । अच्छिद्रेण कर्मणा रूपधातौ वा अरूप्यधातौ वा चोपपयन्ते । तद्बोधिसत्त्वो महासत्त्वो दानपारमितायां चरन् यावदष्टादशस्वावेणिकेषु बुद्धधर्मेषु चरन्नच्छिद्रचारि इमान् बोधिसत्त्वधर्मानुत्पादयति । यानुत्पाद्य बोध्यङ्गपरिवारसहगतं वज्रोपमं समाधिं समापन्नोऽनुत्तरां सम्यक्संबोधिमभिसंबुध्यते । अभिसंबुध्य सत्त्वानामर्थणि करोति । योऽर्थ । कृतो न पुन<र्> विप्रणश्यति । यस्य विप्रणाशात्पञ्चगतिके संसारे प्रपतेत् । अह: किं पुनर्भगवता अनुत्तरां सम्यक्संबोधिमभिसंबुध्य पञ्चगतिकः संसार उपलब्धः? भगवानाह: नो हीति । आह: किं पुनस्तथागतेन कृष्णा वा शुक्ला वा अकृष्णाशुक्ला वा धर्माः उपलब्धाः? भगवानाह: नो हीति । (अद्स्प्गिइ ११८) आह: यदि नोपलब्धा । कुतो नरका वा तिर्यग्योनिर्वा यमलोका वा प्रज्ञप्ताः कुतो देवमनुष्याः प्रज्ञप्ताः कुतः स्रोतआपन्नः सकृदागाम्यनागाम्यर्हन् प्रत्येकबुद्धः कुतो बोधिसत्त्वः कुतस्तथागतोऽर्हन् सम्यक्संबुद्धः प्रज्ञप्तः? भगवानाह: किं पुन<ः> सुभूते एते सत्त्वा स्वलक्षणशून्यां । सर्वधर्मां जानन्ति? आह: नो हीति । भगवानाह: यदि पुनः सुभूते सत्त्वा एवं जानीयु<ः> स्वलक्षणशून्या धर्मा इति । तन्न बोधिसत्त्वो महासत्त्वोऽनुत्तरस्यै सम्यक्संबोधयेऽसंप्रतिष्ठमानो न सत्त्वां मोचये<त्> त्रिभ्योऽपायेभ्यो यावत्संसारगतिभ्यः । यस्मात्तर्हि सुभूते सत्त्वा न जानन्ति स्वलक्षणशून्यान् धर्मास्ते अप्रजानन्तो न परिमुच्यन्ते पञ्चगतिकात्संसारात् । तद्बोधिसत्त्वो महासत्त्वस्तेषां बुद्धानां भगवतामन्तिकाच्छ्रुत्वा स्वलक्षणशून्यान् धर्मान् सत्त्वानामर्थाय अनुत्तरस्यै सम्यक्संबोधये संप्रतिष्ठते । नेमे धर्मास्तथा संविद्यन्ते यथा बालपृथग्जना अभिनिविष्टा, तदिमे सत्त्वाः असतः असंविद्यमानान् ध<र्मान् स्व>तः कल्पयित्वा उपलभ्य: असत्त्वे सत्त्वसंज्ञिनः अरूपे रूपसंज्ञिन । अवेदनायां वेदनासंज्ञिनः असंज्ञायां संज्ञासंज्ञिनः असंस्कारेषु संस्कारसंज्ञिनः अविज्ञाने विज्ञानसंज्ञिनः [f । ३०३ ] यावदसंस्कृतधर्मानसतोऽसंविद्यमाना कल्पयित्वा, विपर्यासैर्विपर्यस्तचित्ता । कायेन वाचा म<नसा क>र्म अभिसंस्कुर्वन्ति । ते पञ्चगतिका<त्> संसारान्न परिमुच्यन्ते । तद्बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरं सर्वानन्तर्गतान् कुशलान् धर्मान् कृत्वा बोधिसत्त्वचारिकां चरति । यां चारिकां चरन्ननुत्तरां सम्यक्संबोधिमभिसंबुध्यते । (विइइ ५,२१) । अभिसंबुध्य दुःखं च दुःखसमुदयं च दुःखनिरोधं च दुःखनिरोधगामिनीं च प्रतिपादमाचष्टे (अद्स्प्गिइ ११९) देशयति । प्रज्ञपयति प्रस्थापयति । विवरति विभजति उत्तानीकरोति संप्रकाशयति । तत्र चतुर्ष्वार्यसत्येषु सर्वेऽन्तर्गता कुशला धर्मा ये केचिद्बोधिपक्ष्या <धर्मा>यै<र्> बोधिपक्ष्यैर्धर्मैस्त्रयाणां रत्नानां व्यवस्थानं भवति । कतमेषां त्रयाणां? बुद्धरत्नस्य धर्मरत्नस्य संघरत्नस्य, एषां त्रयाणां रत्नानां प्रादुर्भावात्सत्त्वाः परिमुच्यन्ते पञ्चगतिका<त्> संसारात् । अथायुष्मान् सुभूतिर्भगवन्तमेतदवोचत्: किं पुनर्भगवन् दुःखज्ञानेन परिनिर्वाणं भवत्यथ दुःखेन, समुदयज्ञानेन परिनिर्वाणं भवत्यथ समुदयेन, दुःखनिरोधज्ञानेन परिनिर्वाणं भवत्यथ दुःखनिरोधेन: मार्गज्ञानेन परिनिर्वाणं भवत्यथ मार्गेण । एवमुक्ते भगवानायुष्मन्तं सुभूतिमेतदवोचत्: न सुभूते दुःखज्ञानेन परिनिर्वाणं भवति न दुःखेन, न समुदयज्ञानेन पर्मिर्वाणं भवति । न समुदयेन । न दुःखनिरोधज्ञानेन परिनिर्वाणं भवति । न दुःखनिरोधेन । न मार्गज्ञानेन परिनिर्वाणं भवति न मार्गेण । या पुनः सुभूते चतुर्णामार्यसत्यानां समता तत्परिनिर्वाणमुक्तं मया, न पुन दुःखज्ञानेन परिनिर्वाणं भवति । न दुःखेन न समुदयज्ञानेन न समुदयेन न दुःखनिरोधज्ञानेन न दुःखनिरोधेन न मार्गज्ञानेन न मार्गेण परिनिर्वाणं भवति । आह: कतमा एष<ं> भगवंस्चतुर्णामार्य<सत्यानां स>मता? भगवानाह: यत्र सुभूते न दुःखं न दुःखज्ञानं न समुदयो न समुदयज्ञानं न निरोधो न निरोधज्ञानं न मार्गो न मार्गज्ञानं । यैषां चतुर्णामार्यसत्यानां तथता अवितथता धर्मता । धर्मधातुर्धर्मनियामता धर्मस्थिता । यदुत्पादाद्वा तथागतानामनुत्पादाद्वा तथागतानां स्थित एव धातुर्यदुत धर्मधातुः असंप्रमोषाय अपरिहाणाय संवर्तते । तद्बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् सत्यानुबोधाय चरति । न च सत्यान्यनुबोधव्यानि । (अद्स्प्गिइ १२०) एवमुक्ते आयुष्मान् सुभूतिर्भववन्तमेतदवोचत्: कथं पुनर्भगवं बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् सत्यानुबोधाय चरति । यथा चरं सत्यान्यनुबुध्यते । अ<भि>संबुध्य तथात्वं प्रतिविध्यति । यथा प्रतिविध्यन्नैव श्रावकभूमौ पतति न प्रत्येकबुद्धभूमौ पतति । बोधिसत्त्वन्याममवक्रामति? एवमुक्ते भगवानायुष्मन्तं सुभूतिमेतदवोचत्: इह सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न तान् धर्मांस्तथा पश्यति । यथा पश्यं किंचिद्धर्ममुपलभेत । अनुपलभमानः सर्वधर्मांच्छून्या इति पश्यति । सत्यपर्यापन्नांश्च असत्यपर्या<पन्नाञ्च तान् सर्वान् शून्या इति पश्यति । स एवं प>श्यन्नवक्रान्तनियामो बोधिसत्त्वो महासत्त्वो बोधिसत्त्वगोत्रभूभूमौ स्थितो भवति । स बोधिसत्त्वगोत्रभूभूमौ स्थित्वा न मूर्ध्न निपातं पतति । येन [f । ३०३ ] मूर्ध्न निपातेन श्रावकभूमौ वा प्रत्ये<कबुद्धभूमौ वा पतति> । स इह बोधिसत्त्वगोत्रभूमौ स्थित्वा चत्वारि ध्यानान्युत्पादयति चत्वार्यप्रमाणानि चतस्रः आरूप्यसमापत्तीः । स इह शमथभूमौ स्थित्वा सर्वधर्मान् प्रविचिनोति । चत्वार्यार्यसत्यानि प्रतिविबुध्यति । <स च दुःखञ्च> परिजानाति । न च दुःखारम्बणां चित्तमुत्पादयति । समुदयं च प्रजाहति । न च समुदयारम्बणं चित्तमुत्पादयति । निरोधं च साक्षात्करोति । न च निरोधारम्बणं चित्तमुत्पादयति । मार्गं च भावयति न च मार्गारम्बणं चित्तमुत्पादयति । <अन्यत्र> बोधिनिम्नेन चित्तेन सर्वधर्मा<न्> यथावत्वं पश्यति । आह: कतमा भगवन् सर्वधर्माणा<ं> यथावत्ता? भगवानाह: शून्यता । आह: कतमा शून्यता? भगवानाह: स्वलक्सणशून्यता । सोऽनयैवंरूपया विपश्यनया सर्वधर्मांच्छून्या इति विपश्यति । न कस्यचिद्धर्मस्य स्वभावं पश्यति । यत्र भावे स्थित्वा बोधिमभिसंबुध्येत । <आह: एवं सति भगवन्नभावश्च बोधिः? भगवानाह: एवमेतत्सुभूते एवमेतद् । यथा वदसि ।> अभावश्(अद्स्प्गिइ १२१) च बोधिः, सा न बुद्धैः कृता न प्रत्येकबुद्धैर्न अर्हद्भिर्नापि तै<र्> बोधिसत्त्वैर्महासत्त्वैर्, य इह बोधाय चरन्ति । अन्यत्र सत्त्वा न जानन्ति न पश्यन्ति यथात्वं । तद्बोधिसत्त्वो महासत्त्व प्रज्ञापारमि<तायां च>रन्नुपायकौशलेन सत्त्वानां धर्मं देशयति । ((७९)) परिवर्त ८० । (विइइ ५,२२) अथायुष्मान् सुभूतिर्भगवन्तमेतदवोचत्: यदि भगवन्नभावस्वभावा सर्वधर्मास्, ते न बुद्धै कृता न प्रत्येकबुद्धैर्न अर्हद्भिर्न अनागामिभिर्न सकृदागामिभिर्न स्रोतआपन्नैर्न प्रतिपन्न्<अक्>ऐर्नापि तैर्बोधिसत्त्वैर्महासत्त्वैः कृता य इह बोधाय चरन्ति । तत्कुत एसान् धर्माणां नानाकरणं <वा व्यव>स्थानं वा प्रज्ञायते, इमे <नै>रयि<का इ>मे तैर्यग्योनिका इमे यामलौकिका इमे देवा इमे मनुष्याः, अनेन वा कर्मणा नरकास्तिर्यग्योनिर्यमलोकः अनेन कर्मणा देवाः अनेन कर्मणा मनुष्याः अनेन <कर्मणा> ब्रह्मकायिका <देवाः या>वन्नैवसंज्ञानासंज्ञायतना <देवाः> । अनेन कर्मणा स्रोतआपन्नाः सकृदागाम्यनागाम्यर्हन् प्रत्येकबुद्धाः अनेन कर्मणा बोधिसत्त्वो महासत्त्वोऽनेन कर्मणा तथागतोऽर्हन् सम्यक्संबुद्धः । अभावस्य हि भगवन्न काचित्क्रिया यया क्रिया नरकं वा गच्छे<त्> तिर्यग्योनिं वा यमलोकं वा देवमानुष्यं वा यावन्नैवसंज्ञानासंज्ञायतनेषु वा देवेषु उपपद्येत । स्रोतआपत्तिफलं वा अनुप्राप्नुया<त्स>कृदागामिफलं वा अनागामिफलं वा अर्हत्त्वं वा प्रत्येकबोधिं वा, बोधिसत्त्वो वा महासत्त्वो बोधिमार्गे चरेत्<तथागतो वाऽर्हन् सम्यक्संबुद्धः> सर्वाकारज्ञतां वा अनुप्राप्नुयाद्यामनुप्राप्य सत्त्वां संसारां मोचयेद् । भगवानाह: एवमेतत्सुभूते एवमेतत्तथा यथा वदसि, अभावस्य हि सुभूते न कर्म न क्रिया <न> फलं । बालो हि सुभूते (अद्स्प्गिइ १२२) अश्रुतवान् पृथग्जनः आर्यधर्मेष्वकोविदः अभावस्वभावान् धर्मान्न प्रजानाति । स विपर्याससमुत्थितेन चित्तेन विविधं कर्माभिसंस्करोति । तस्य तादृश एव आत्मभावो अभिनि<र्>वर्तते । यदि वा नरकेषु यदि वा तिर्यग्योनौ यदि वा यमलोके यदि वा यावन्नैवसंज्ञानासंज्ञाय<तनेषु> [f । ३०४ ] <देवेषु । यावद्> अभावस्य <न> कर्म <न क्रि>या न फलं । यः पुनरभावः अभाव एव सः । यत्पुन<र्> सुभूतिरेवमाह । अभावस्य हि न काचित्क्रिया यया क्रियया यावत्स्रोतआपत्तिफलं वा अनुप्राप्नुयात् । सकृदागामिफलं वा अनागामिफलं वा अर्हत्त्वं वा प्रत्येकबोधिं वा, बोधिसत्त्वो वा महासत्त्वो मार्गाकारज्ञतायाञ्च्चरे<त्> तथागतो वार्हन् सम्यक्संबुद्धः सर्वाकारज्ञतामनुप्राप्नुयादिति । यामनुप्राप्य सत्त्वान् संसारान्मोचये<त्> । तत्किं मन्यसे सुभूते न अभावो मार्गः अभावः स्रोतआपत्तिफलमभावः सकृदागामिफलमभावोऽनागामिफलमभावोऽर्हत्त्वमभावः प्रत्येकबोधिह्रभावो यावत्सर्वाकारज्ञता । आह: अभावो भगवन्मार्गः अभाव स्रोतआपत्तिफलमभावः सकृदागामिफलमभावोऽनागामिफलमभावोऽर्हत्वमभावः प्रत्येकबोधिरभावो यावत्सर्वाकारज्ञता । भगवानाह: तत्किं मन्यसे सुभूते अभावो धर्मः अभावन् धर्ममनुप्राप्नोति? आह: नो भगवन् । भगवानाह: इति हि सुभूते । यश्च अभावो यश्च मार्ग उभावेतौ धर्मौ न संयुक्तौ न विसंयुक्तौवरूपिणावनिदर्शनावप्रतिघावेकलक्षणौ यदुत अलक्सणौ, तत्र सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्नुपायकौशलेन सत्त्वांश्चतुर्भिर्विपर्यासैरभिनिविष्टां पञ्चस्कन्धेषु अनित्ये नित्यसंज्ञीनो दुःखे सुखसंज्ञीनः अनात्मान्यात्मसंज्ञिन<ः> । अशुभे शुभसंज्ञीनो भावाभिविनिष्टास्ततो भावाद्विवेचयति । (विइइ ५,२३) अथायुष्मान् सुभूतिर्भगवन्तमेतदवोचत्: कच्चिद्भगवन् वस्त्वस्ति भूतं भावंस्तथ्<अत्>आ अवितथता यत्र स्थित्वा बालपृथग्जना वस्त्वित्यभिनिविशन्ते । भूतं भावस्तथ्<अत्>आ अवितथता । (अद्स्प्गिइ १२३) यदि नास्ति कथं <कर्म> अभिसंस्कुर्वन्ति । येन कर्मणा पञ्चगतिकात्संसारान्न परिमुच्यन्ते? भगवानाह: नास्ति सुभूते अन्तशो बलाग्रकोटीनिक्षेपमात्रमपि वस्तु यत्र स्थित्वा बालपृथग्जना कर्माभिसंस्कुर्वन्ति अन्यत्र विपर्यासेन । तेन हि सुभूते उपमान् ते करिष्यामि यावदेव अस्यैवार्थस्य भूयस्यामात्रया परिपूरये यथापण्डिताजानीयुः । तत्किं मन्यसे सुभूते कच्चि<त्> स्वप्नदर्शिनो वस्त्वस्ति । यत्र स्थित्वा स्वप्नदर्शी पञ्चभिः कामगुणैः परिचारयेत्? आह: स्वप्न एव ताव<न्> नास्ति । कुतः पुनः स्वप्नदर्शी, तत्र स्थित्वा पञ्चभिः कामगुणैः परिचारयेत् । भगवानाह: तत्किं मन्यसे सुभूते कच्चित्पुनर्धर्मोऽस्ति संस्कृतो वा असंस्कृतो वा सास्रवो वा अनास्रवो वा यो न स्वप्नोपमः? आह: नास्ति भगवं । कश्चिद्धर्म संस्कृतो वा असंस्कृतो वा सास्रवो वा अनास्रवो वा यो न स्वप्नोपम<ः> । भगवानाह: कच्चित्पुनः स्वप्ने पञ्च<गतिक>ः संसारोऽस्ति? आह: नो हीदं भगवन् । भगवानाह: तत्किं मन्यसे सुभूते स्वप्ने मार्गभावना अस्ति, यां मार्गभावनामागम्य न संक्लिश्येत न व्यवदायेत? आह: नो हीदं भगवन्न्, अवस्तुकः स भ<गव>न् धर्मः अप्रज्ञप्तिकः अप्रज्ञपनीयः सर्वव्याहारपदव्यञ्जनैः । भगवानाह: तत्किं मन्यसे सुभूते यदा आदर्शमण्डले प्रतिबिम्बन् दृश्यते कच्चित्तस्य वस्त्व्<अस्ति यत्क>र्माभिसंस्कुर्यात्यत्<कर्माभिसंस्कृत्य नर>कं वा गच्छे<त्> तिर्यग्योनिं वा यमलोकं वा देवमनुष्यान् वा? आह: नो हीदं भगवन्न्, अवस्तुकं भगवन् प्रतिबिम्बमन्यत्र बाल्<आन्>आमुल्लापकं, तत्कुतोऽस्य [f । ३०४ ] कर्म <भवि>स्यति । (अद्स्प्गिइ १२४) यत्कर्माभिसंस्कृ<त्य नरकं वा गच्छेत्> तिर्यग्योनिं वा यमलोकं वा । देवमनुष्यान् वा? भगवानाह: तत्किं मन्य<से> सुभूते कच्चित्तस्य मार्गभावना अस्ति । यां मार्गभावनामागम्य नैव संक्लिश्येत न व्यवदायेत? आह: नो हीदं भगवन्नवस्तुकंश्च <भगवन् प्र>तिबिम्बं तत्कुतोऽस्य मार्गभावना भविष्यति । यां मार्गभावनामागम्य न संक्लिश्येत न व्यवदायेत । भगवानाह: तत्किं मन्यसे सुभूते या सा प्रतिश्रुत्का वनगहनपर्वतकन्दरप्राग्भारतो निश्चरति । कच्चित्<त्>अस्या प्रतिश्रुत्काया वस्त्वस्ति यत्कर्माभिसंस्कुर्यात्, यत्कर्माभिसंस्कृत्य । नरकं वा गच्छे<त्> तिर्यग्योनिं वा यमकोकं वा? आह: नो हीदं भगवमवस्तुका भगवं । सा प्रतिश्रुत्का कुतस्तस्याः कर्म भविष्यति । यत्कर्माभिसंस्कृत्य नरकं वा गच्छे<त्> तिर्यग्योनिं वा यमलोकं वा देवमनुष्येषु वा उपपद्येत । यावन्नैवसंज्ञानासंज्ञायतनेषु वा देवेषु उपपद्येत । भगवानाह: तत्किं मन्यसे सुभूते कच्चित्तस्याः प्रतिश्रुत्काया मार्गभावना अस्ति: यां मार्गभावनामागम्य नैव संक्लिश्येत न व्यवदायेत? आह: अत्यन्ततया भगवन् सैव प्रतिष्रुत्का नास्ति । कुतः पुनस्तस्या मार्गभावना भविष्यति । यां मार्गभावनामागम्य नैव संक्लिश्येत न व्यवदायेत । भगवानाह: तत्किं मन्यसे सुभूते येयं मरीचिकायामनुदके उदकसंज्ञा । अनद्यां नदीसंज्ञा । अनगरे नगरसंज्ञा । अनुद्याने उद्यानसंज्ञा तत्किं तस्यां मरी<चि>काया संज्ञा<या>ं कर्म अस्ति य<त्> कर्माभिसंस्कृत्य नरकं वा गच्छेत्तिर्यग्योनिं वा यमलोकं वा देवमनुष्येषु वा उपपद्येत यावन्नैवसंज्ञानासंज्ञायतनेषु वा देवेषु उपपद्येत? आह: अत्यन्ततया भगवं मरीचिकायामुदकन्नास्ति । न नदी, न नगर उद्यानमन्यत्र संज्ञाविपर्यासश्चक्षुषो मोह । कुतस्तस्या कर्म भविष्यति । यत्कर्माभिसंस्कृत्य नरकं वा गच्छेत्तिर्यग्योनिं वा यमलोकं वा देवमनुष्येषु वा उपपद्येत । यावन्नैवसंज्ञानासंज्ञायतनेषु वा देवेषु उपपद्येत । भगवानाह: तत्किं मन्यसे सुभूते कच्चित्तस्या विपर्यस्तसंज्ञाया मार्गभावना अस्ति । यान्मार्गभावनामागम्य नैव संक्लिश्येत न व्यवदायेत? आह: न भगवन् विपर्यस्तायाः संज्ञाया मार्गभावना अस्ति । यां मार्गभावनामागम्य नैव संक्लिश्येत न व्यवदायेत । (अद्स्प्गिइ १२५) भगवानाह: तत्किं मन्यसे सुभूते यां मायाकारो विविधान्मायामभिनिर्मिनोति । यदि वा हस्तिकायं यदि वा अश्वकायं यदि वा बलीवर्दकायं । यदि वा पत्तिकायं । यदि वा रथकायं यदि वा स्त्रिकायं यदि वा पुरुषकायं, अपि नु तस्या मायाया वस्त्वस्ति । यत्कर्माभिसंस्कृत्य <न>रकं वा गच्छेत्तिर्यग्योनिर्वा यमलोकं वा देवमनुष्येषु वा उपपद्येत । यावन्नैवसंज्ञानासंज्ञायतनेषु देवेषु उपपद्येत? आह: नो हीदं भगवं, न हि तस्या मायाया वस्त्वस्त्यन्तशो बलाग्रकोटिनिक्षेपमात्रमपि । यत्र स्थित्वा कर्माभिसंस्कुर्यात् । यत्कर्माभिसंस्कृत्य नरकं वा गच्छेत्तिर्यग्योनिर्वा यमलोकं वा देवमनुष्येषु वा उपपद्येत । यावन्नैवसंज्ञानासंज्ञायतने<षु देवेषु उपप>द्येत । भगवानाह: तत्किं मन्यसे सुभूते कश्चित्तस्या मायाया मार्गभावना अस्ति । यां मार्गभावनामागम्य नैव संक्लिश्येत न व्यवदायेत? आह: नो हीदं भगवन्नवस्तुकस्य [f । ३०५ ] <धर्मस्य मार्गभावना कु>तो भविष्यति । संक्लेशो वा व्यवदानं वा? भगवानाह: तत्किं मन्यसे सुभूते यः पुनस्तथागतो निर्मितं निर्मिणोति कच्चित्तस्य निर्मितस्य वस्त्वस्ति । यत्कर्माभिसंस्कृत्य <न>रकं वा गच्छेत्तिर्यग्योनिर्वा यमलोकं वा देवमनुष्येषु वा उपपद्येत । यावन्नैवसंज्ञानासंज्ञायतेनेषु देवेषु उपपद्येत? आह: नो हीदं भगवन्नवस्तुकः स भगवं निर्मितः । भगवानाह: तत्किं मन्यसे सुभूते । कच्चित्तस्य निर्मितस्य मार्गभावना अस्ति । यां मार्गभावनामागम्य नैव संक्लिश्येत न ववदायेत? आह: नो हीदं भगवं । भगवानाह: तत्किं मन्यसे सुभूते कश्चिदत्र संक्लिश्यते वा व्यवदायते वा? आह: नो हीदं भगवं । भगवानाह: यथैव सुभूते कश्चि<न्> न संक्लिश्यते न व्यवदायते तथैव नास्ति संक्लेशो न व्यवदानं । तत्कस्य हेतो<र्>? अहंकारममकारयो स्थित्वा: सत्त्वाः संक्लिश्यन्ते वा व्यवदायन्ते वा, न च भूतदर्शी संक्लिश्यते वा व्यवदायते वा । यथैव भूतदर्शी न संक्लिश्यते न व्यवदायते तथैव नास्ति संक्लेशो न व्यवदानं । ((८०)) (अद्स्प्गिइ १२६) परिवर्त ८१ । (विइइ ५,२४) अथायुष्मान् सुभूतिर्भगवन्तमेतदवोचत्: भूतदर्शी भगवं न संक्लिश्यते न व्यवदायते ।ऽभूतदर्श्यपि न संक्लिश्यते न व्यवदायते । तथा ह्यभावस्वभावाः सर्वधर्माः, अभावस्य च भगवं न संक्लेशो न व्यवदानं । भावस्य अपि भगवन्न संक्लेशो न व्यवदानम्, स्वभावस्य अपि भगवन्न संक्लेशो न व्यवदानं । अभावस्वभावस्य अपि भगवन्न संक्लेशो न व्यवदानं । तद्यदेतद्भगवता व्यवदानं निर्दिष्टं, तत्कथमिदं भगवन्? भगवानाह: या एषां सर्वधर्माणां समता तन्मयोक्तं व्यवदानं? आह: सा पुनः सर्वधर्माणां समता कतमा? भगवानाह: तथता अवितथता अनन्यतथता धर्मता धर्मधातुर्धर्मस्थितिता । धर्मनियामता भूतकोटिः योऽसावुत्पादाद्वा तथागतानामनुत्पादाद्वा तथागतानां स्थित एव धर्मस्थितिताधातुर्यदुत धर्मधातुरिदं सुभूते व्यवदानं, तत्पुनर्लोकव्यवहारेण व्यवहृयते । अनभिलाप्यं पुनस्तदप्रव्याहारं । सर्वगीर्घोषवाक्पथातीतं । (विइइ ५,२५) आह: यदि भगवन् सर्वधर्माः स्वप्नोपमाः प्रतिश्रुत्कोपमा । प्रतिभासोपमाः मरीच्युपमाः मायोपमा निर्मितोपमास्, तत्कथं बोधिसत्त्वो महासत्त्वः स्वप्नोपमेषु सर्वधर्मेषु प्रतिश्रुत्कोपमेषु प्रतिभासोपमेषु मरीच्युपमेषु मायोपमेषु सर्वधर्मेष्ववस्तुकेष्वद्रव्येष्वनुत्तरस्यै सम्यक्संबोधये चित्तमुत्पादयत्यहं दानपारमितां परिपूरयिष्यामि । शीलपारमितां परिपूरयिष्यामि । क्षान्तिपारमितां परिपूरयिष्यामि । वीर्यपारमितां परिपूरयिष्यामि । ध्यानपारमितां परिपूरयिष्यामि । अभिज्ञापारमितां परिपूरयिष्यामि । चत्वारि ध्यानानि चत्वार्यप्रमाणानि । चतस्रः आरूप्यसमापत्तीश्च<त्वारि स्मृत्युप>स्थानानि । यावदार्याष्टाङ्गं मार्गं त्रीणि विमोक्षमुखानि अष्टौ विमोक्षान्नवानुपूर्वसमापत्तीन् दशतथागतबलानि । चत्वारि वैशारद्यानि चतस्रः प्रतिसंविदो महामैत्रीं महाकरुणाम् <धारणीमु>खानि समाधिमुखानि यावदष्टादशावेणिका बुद्धधर्मा । द्वातृंशन्महापुरुषलक्षणानि । अशीतिम् (अद्स्प्गिइ १२७) अनुव्यञ्जनानि महाभासं <परिनिष्पादयति यत्त्रिसाहस्रमहासाहस्रलोकधातूनवभासेन स्फरति>, ब्रह्मस्वरतां <परिनिष्पादयति> । यदेक स्वरेण [f । ३०५ ] <द>शदिग्लोकधातुषु यथाधि<मुक्तानां सत्त्वानां चेतसैव चेतः>पृष्ठअरिवितर्कमज्ञाय धर्मं देशयिष्यामि इति । भगवानाह: तत्किं मन्यसे सुभूते न त्वेते धर्माः स्वप्नोपमाः प्रतिश्रुत्कोपमाः प्रतिभासोपमा । मरीच्युपमाः मायोपमा निर्मितोपमाह्<ये त्व>या परिकीर्तिता? आह: यद्येते भगवन् धर्माः स्वप्नोपमाः प्रतिश्रुत्कोपमाः प्रतिभासोपमा । मरीच्युपमा मायोपमा निर्मितोपमा, तत्कथं बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरति, <न हि> भगवन् स्वप्नो भूतो न यावन्निर्मितः । न हि भगवन्नभूतेन शक्यं दानपारमितायां चरता शीलपारमितायां क्षान्तिपारमितायां वीर्यपारमितायां ध्यानपारमितायां । प्रज्ञापारमितायां यावदस्तादशस्वावेणिकेषु बुद्धधर्मेषु चरता अनुत्तरा सम्यक्संबोधिरभिसंबोद्धुं । भगवानाह: एवमेतत्सुभूते एवमेत<त्> । न ह्यभूतेन शक्यं दानपारमितायां चरता । शीलपारमितायां क्षान्तिपारमितायां वीर्यपारमितायां ध्यानपारमितायां प्रज्ञापारमितायां । यावदष्टादशस्वावेणिकेषु बुद्धधर्मेषु चरता अनुत्तरा सम्यक्संबोधिरभिसंबोद्धुं । सर्व एते धर्मा अभिसंस्कृता अभिसंचेतयिता । न हि शक्यमभिसणिष्कृतैरभिसंचेतयितैर्धर्मैः सर्वाकारज्ञताम् (अद्स्प्गिइ १२८) अनुप्राप्तुं । अपि तु खलु सुभूते सर्व एते धर्मा मार्गाहरणताय संवर्तन्ते मार्गोत्पाद्<आय्>अ न पुन फलस्य अधिगमाय, य एषां धर्माणामनुत्पाद अप्रादुर्भाव अलक्षणोऽपि सः । तद्बोधिसत्त्वो महासत्त्व प्रथमचित्तोत्पादमुपादाय यावत्तमेव कुशलन् धर्ममारभते । यदि वा दानपारमितां यदि वा शीलपारमितां यदि वा क्षान्तिपारमितां । यदि वा वीर्यपारमितां यदि वा ध्यानपारमितां यदि वा प्रज्ञापारमितां यदि वा ध्यानानि यदि वा अप्रमाणानि यदि वा आरूप्यसमापत्तीर्यदि वा स्मृत्युपस्थानानि यावन्मार्गं । यदि वा आध्यात्मशून्यतां यावदभावस्वभावशून्यतां । यदि वा विमोक्षा नवानुपूर्वसमापत्ती यदि वा यावदावेणिकबुद्धधर्मान् । तत्सर्वं मायागतमिति जानाति । न शक्यमि<मा>न् धर्मानपरिपूर्य दानपारमितां शीलपारमितां क्षान्तिपारमितां वीर्यपारमितां ध्यानपारमितां प्रज्ञापारमितां यावदष्टादशावेणिकान् बुद्धधर्मान् <अपरिपूर्य> सत्त्वान् परिपाचयितुं । तद्बोधिसत्त्वो महासत्त्व प्रज्ञापारमितायां चरन् यं यमेव कुशलन् धर्ममारभते सर्वं तं स्वप्नोपमं जानाति । यावन्निर्मितोपमं जानाति । स प्रज्ञापारमितायां चरन् यावत्सर्वाकारज्ञतां स्वप्नोपमां जानाति । यावन्निर्मितोपमां जानाति । ते सर्वसत्त्वा स्वप्ने चरन्ति इति जानाति । यावन्निर्मिते चरन्ति इति जानाति । तद्बोधिसत्त्वो महासत्त्व प्रज्ञापारमितायाञ्चरन् । स्वप्नोपमान् धर्मानभावतो गृह्णाति । यावन् गृहीत्वा सर्वाकारज्ञतामनुप्राप्नोति । यावन्निर्मितोपमान् धर्मानभावतो गृह्णाति । यावन् गृहीत्वा सर्वाकारज्ञतामनुप्राप्नोति । अग्राह्या च प्रज्ञापारमिता । अग्राह्या यावदष्टादशावेणिका बुद्धधर्माः । तद्बोधिसत्त्वो महास<त्त्व अग्राह्याः स>र्वधर्मा इति विदित्वा अनुत्तरां सम्यक्संबोधिं प्रार्थयति । तत्कस्य हेतोः? तथा ह्यग्राह्याः सर्वधर्मा अवस्तुकाः स्वप्नोपमाः यावन्निर्मितोपमा, न च अग्राह्येण । [f । ३०६ ] <धर्मेण अग्रा>ह्यो धर्मः शक्य्<अमनुप्राप्तुं>, अन्यत्र सत्त्वा इमान् धर्मान्न जानन्ति न प<श्यन्ति> । (अद्स्प्गिइ १२९) तद्बोधिसत्त्वो महासत्त्व सर्वसत्त्वानामर्थाय अनुत्तरस्यै सम्यक्संबोधये <संप्रतिष्ठते, स च प्रथमचित्तोत्पादमुपादाय यद्दानं द>दाति । तत्सर्वसत्त्वानां कृते । यच्छीलं रक्षति यां क्षान्तिं भावयति यन् वीर्यमारभते यद्ध्यानं समापद्यते यां प्रज्ञां भावयति तत्सर्वसत्त्वानां कृते, न पुनरात्मार्थं, न च बोधिसत्त्वो महासत्त्वोऽन्यस्य कृतेऽनुत्तरस्यै सम्यक्संबोधये संप्रतिष्ठतेऽन्यत्र <सर्व>सत्त्वानां कृते, स प्रज्ञापारमितायां चरन् ये असत्त्वे सत्त्वसंज्ञया स्थितासनात्मान्यात्मसंज्ञया स्थिता एवं जन्तुमनुजमानवपोषपुद्गलकारककारापकसमुत्थापकवेदकवेदयित्रिषु । यावदजानके जानकसंज्ञया स्थिता अपश्यके पश्यकसंज्ञया स्थितास्तां विपर्यासान् विवेचयति । विपर्यासा<द्> विवेच्य । अमृते धातौ प्रतिष्ट्<ः>आपयति । यत्र प्रतिष्ठापितानां नेमे समुदाचाराः प्रवर्तन्ते । आत्मसंज्ञा यावत्कारककारापकसंज्ञा वा, स सर्वाणि इमानि <निमिञ्>जितमन्यितस्पन्दितप्रपञ्चितानि त्यक्त्वा अमन्यमानेन चेतसा बहुलमुपसंपद्य विहरति । अनेन सुभूते उपायेन बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्नात्मना च न क्वचिद्धर्मेऽभिनिविशते । सर्वसत्त्वांश्च अनभिनिवेशे प्रतिष्ठापयति । लोकव्यवहारेण । न पुन परमार्थेन । आह: यो भगवंस्तथागतेन धर्मोऽभिसंबुद्धः, किं पुनः स लोकव्यवहारेण अभिसंबुद्धः उतः परमार्थेन? भगवानाह: लोकव्यवहारेण व्यवहृयते । अयं तथागतेन धर्मोऽभिसंबुद्ध इति । न पुनरत्र कश्चिल्लभ्यते । अयन् धर्मोऽनेन धर्मेण अभिसंबुद्ध इति । तत्कस्य हेतो<र्>? उपलंभो ह्येष यदुत अने<न> धर्मेण अयन् धर्मोऽभिसंबुद्ध इति । न च द्वयेन काचि<त्> प्राप्तिर्न अभिसमय । आह: यदि भगवन्न द्वयेन प्राप्तिरभिसमयश्च, किं पुनर्<अ>द्वयेन प्राप्तिरभिसमयश्च? भगवानाह: न द्वयेन प्राप्तिर्न अभिसमयो न अद्वयेन प्राप्तिरभिसमयश्च, यथैवात्र प्राप्तिरभिसमयश्च । यत्र न द्वयं न अद्वयं । तत्कस्य हेतोः? प्रपञ्च एष यदैष प्राप्तिरेसोऽभिसमय । न च धर्मसमतायां प्रपञ्चोऽस्ति । निष्प्रपञ्च हि धर्मता । (अद्स्प्गिइ १३०) आह: अभावस्वभावानां भगवन् सर्वधर्माणां का धर्मसमता? भगवानाह: एषैवात्र धर्मसमता यत्र न भावो न अभावो न स्वभावो न परिकीर्तना, न धर्मसमता परिकीर्त्यते, न च अन्यः कश्चिद्धर्म उप<लभ्यते ध>र्मसमता<या>ं । स्थापयित्वा सर्वधर्मव्यतिवृत्ता धर्मसमता, अगतिरविषयो धर्मसमता । कस्यचिद्बालस्य वा आर्यस्य वा । आह: किं पुनर्भगवं धर्मसमता । तथागतस्य अप्यविषय<ः>? <भगवानाह>: अविषयः सुभूते । धर्मसमता । सर्वार्याणां स्रोतआपन्नानां वा सकृदागामिनां वा अनागामिनां वा । अर्हतां वा । प्रत्येकबुद्धानां वा बोधिसत्त्वानां [f । ३०६ ] वा तथागतस्य अप्यविषय । <आह: न पुनर्भग>वं सर्वधर्मविषयवशवर्त्ती तथागतोऽर्हन् सम्यक्संबुद्धः? भगवानाह: स्यात्सर्वधर्मविषयवशवर्त्ती तथागतोऽर्हन् सम्यक्संबुद्धो, यद्यन्या धर्मसमता स्यादन्यस्तथागतोऽर्हन् सम्यक्संबुद्ध्<ओ, या च> सुभूते पृथग्जनानां धर्मसमता या च स्रोतआपन्नानां या च सकृदागामिनां या च अनागामिनां या च अर्हतां या च प्रत्येकबुद्धानां या च बोधिसत्त्वानां या च तथागतानां धर्मसमता एकसमता सा, स<मता>या<ं>श्च न किञ्चिन्नानाकरणं, या च पृथग्जनानां समता या च सर्वार्याणां समता एकसमता सा, नैकसमतायां द्वयमस्त्ययं पृथग्जनोऽयं यावत्तथागतोऽर्हन् सम्यक्संबुद्ध इति । सर्व एते धर्मा । समतायां नोपलभ्यन्ते । आह: <यदि> भगवन् सर्वधर्मसमतायां सर्व एते धर्मा नोपलभ्यन्ते । अयं पृथग्जनोऽयं स्रोतआपन्नोऽयं सकृदागाम्ययमनागाम्ययमर्हन्नयं प्रत्येकबुद्धः अयं बोधिसत्त्वोऽयं तथागतो <ऽर्हन् सम्यक्संबुद्ध>ः । एवं सत्यविशेषो भविष्यति । पृथग्जनानां स्रोतआपन्नानां च सकृदागामिनां च अनागामिनां च अर्हतां च प्रत्येकबुद्धानां च बोधिसत्त्वानां च तथागतानां च अर्हतां सम्यक्संबुद्धानां । भगवानाह: एवमेत सुभूते एवमेतद् । अविशेषः सर्वधर्मसमतायां (अद्स्प्गिइ १३१) पृथग्जनानां यावत्तथागतानां च अर्हतां सम्यक्संबुद्धानां । आह: यदि भगवन्नविशेषः पृथग्जनानां यावत्तथागतानां च अर्हतां सम्यक्संबुद्धानां, तत्कुत एषां भगवंस्त्रयाणां रत्नाना<ं> लोके प्रादुर्भावो भवति । बुद्धरत्मस्य धर्मरत्नस्य संघरत्नस्य? भगवानाह: तत्किं मन्यसे सुभूते अन्यद्बुद्धरत्नमन्यद्धर्मरत्नमन्य<त्> संघरत्नमन्या धर्मसमता? आह: यथा अहं भगवतो भाषितस्य अर्थमाजानामि न अन्यद्बुद्धरत्नमन्यद्धर्मरत्नमन्य<त्> संघरत्नमन्या धर्मसमता । यदेव भगवं बुद्धरत्नं यदेव धर्मरत्नं यदेव संघरत्नं सैव धर्मसमता, सर्व एते धर्मा न संयुक्ता न विसंयुक्ता अरूपिणोऽनिदर्शना अप्रतिघा एकलक्सणा । यदुत अलक्षणास्, तत्पुनर्कथं भगवनेषामलक्षणानां धर्माणां व्यवस्थानं करोत्ययं पृथग्जनो अयं स्रोतआपन्नः अयं सकृदागामी अयमनागामी अयमर्हन्नयं प्रत्येकबुद्धः अयं बोधिसत्त्वोऽयं तथागतोऽर्हन् सम्यक्संबुद्धः? भगवानाह: एवमेतत्सुभूते एवमेतत्, तथागतस्यैष विषयः तथागतस्यैष पुरुषकारो यदलक्सणानां धर्माणां व्यवस्थानं करोति । तत्किं मन्यसे सुभूते यदि तथागतोऽर्हन् सम्यक्संबुद्धो <बोधिं न> अभिसंभोत्स्यत । अनभिसंबुध्य धर्माणां व्यवस्थानं नाकरिष्याद्, अपि नु नरका <वा> प्रज्ञा<स्यन्ते> तिर्यग्योनिर्वा यमलो<क> वा । देवा वा मनु<ष्या वा । चातुर्म>हाराजकायिका वा यावत्परनिर्मित<वश>वर्त्तिनो वा ब्रह्म<कायिका वा> यावन्नैवसंज्ञानासंज्ञायतनसमापत्तिर्वा स्मृत्युपस्थानानि वा यावदार्याष्टाङ्गो मार्गः त्रीणि विमोक्षमुखान्यष्टौ वि<मोक्षा नवानुपू>र्वसमापत्तय अध्यात्मशून्यता बहिर्धाशून्यता । अध्य्<आत्मबहि>र्धाशून्यता यावत्स्वलक्षणशून्यता यावदष्टादशावेणिका बुद्धधर्माः प्रज्ञास्य<न्ते>? <आह: नो> प्रज्ञास्यन्ते भगवन् । [f । ३०७ ] (अद्स्प्गिइ १३२) <भगवानाह: तस्>मात्तर्हि सुभूते तथागतस्यैष पुरु<ष>कारो यो धर्मसमता<या च न चलति> धर्माणां च व्यवस्थानं करोति । आह: किं पुनर्भगव<ं यथा चैव तथा>गतो धर्म<समतायाश्च न चलति । त>थैव पृथग्जना न चलन्ति । तथैव स्रोतआपन्ना न चलन्ति । तथैव यावत्प्रत्येकबुद्धा न चलन्ति । त<थैव याव>द्बोधिसत्त्वा न चलन्ति । <भगवानाह: एवमेतत्सुभूते एवमेतत् । सर्वधर्मा सुभूते धर्मसमताया न चलन्ति । न विवन्तन्ते । तत्कस्य हेतोः? यैव तथागतानामर्हतां सम्यक्संबुद्धानां तथता अवितथता अनन्यतथता धर्मता धर्मधातुर्धर्मस्थितिता धर्मनियामता भूतकोटिर्, सैव बालपृथग्जनानां तथता यावद्भूतकोटिर्, सैव श्रद्धानुसारिणां धर्मानुषारिणामष्टमकानां स्रोतआपन्नानां यावद्बोधिसत्त्वानां महासत्त्वानां तथता यावद्भूतकोटिर् । सर्व एते धर्मा धर्मसमतां न व्यतिवर्त्तन्ते । तत्कस्य हेतोः? तथा हि या तेषां तथता यावद्भूतकोटि नान्या तेषां धर्मसमताया । आह:> यदि भगवन् यैव धर्मसमता पृथग्जनानां सैव स्रोतआपन्नानां सकृदागामिनामनागामिनामर्हतां प्रत्येकबुद्धानां बोधिसत्त्वानां सैव धर्मसमता तथागतानामर्हतां सम्यक्संबुद्धानां, य इमे भगवं विलक्षणास्धर्मास्तद्यथेदं रूपं वेदना संज्ञा संस्कारा विज्ञानं, अन्या रूपस्य धर्मता अन्या वेदनाया अन्या संज्ञाया अन्या संस्काराणामन्या विज्ञानस्य अन्या चक्षुषो धर्मता अन्या स्रोत्रस्य अन्या घ्राणस्य अन्या जिव्हाया अन्या कायस्य अन्या मनसः, अन्या पृथिवीधातोरन्या अब्धातोरन्या तेजोधातोरन्या वायुधातोरन्या आकाशधातोरन्या विज्ञानधातोरन्या रागस्य धर्मता अन्या द्वेषस्य अन्या मोहस्य अन्या दृष्टिकृतानामन्या ध्यानानामन्या अप्रमाणानामन्या आरूप्यसमापत्तीनामन्या स्मृत्युपस्थानानामन्या यावदार्याष्टाङ्गस्य मार्गस्य अन्या शून्यताया अन्या आनिमित्तस्य अन्या अप्रणिहितस्य अन्या आध्यात्मशून्यताया अन्या यावदभावस्वभावशून्यताया अन्या विमोक्षाणामन्या अनुपूर्वसमापत्तीनामन्या बलानामन्या वैशारद्यानामन्या प्रतिसंविदामन्या महामैत्र्यामन्या महाकरुणाया अन्या आवेणिकबुद्धधर्माणां (अद्स्प्गिइ १३३) धर्मता अन्या संस्कृतधातोरन्या असंस्कृतधातोर्धर्मता, कथं भगवन्नेव<ं> विलक्सणानां धर्माणां धर्मता एकलक्षणा भवति? कथं पुनर्धर्माणां व्यवस्थानं भवति? कुत्र व्यवस्थाय बोधिसत्त्वो महासत्त्व प्रज्ञापारमितायां चरन् धर्माणां नानात्वं करोति? न च अकृत्वा धर्मनानात्वं शक्यं बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरितुं । <कथं च> प्रज्ञापारमितायां चरन् बोधिसत्त्वो महासत्त्वो भूमेर्भूमिं संक्रामति न्यामं च अवक्रामति । यया न्यामावक्रन्त्या श्रावकप्रत्येकबुद्धभूमी अतिक्रामति । अतिक्रम्य अभिज्ञा परिपूरयति । याभिरभिज्ञाभि<र्> विक्रीडमानो दानपारमितां परिपूरयेच्छीलपारमितां क्षान्तिपारमितां वीर्यपारमितां समाधिपारमितां परिपूरयेद्विक्रीडन् बुद्धक्षेत्राद्बुद्धक्षेत्रं संक्रामति बुद्धान् भगवत<ः> पर्युपासिनः, <तेषु च कुश>ल<मूल>मवरोपयति । येन कुशलमूलेन सर्वसत्त्वान् परिपाचयति । बुद्धक्षेत्रं च परिगृह्णाति । एवमुक्ते भगवानायुष्मन्तं सुभूतिमेतदवोचत्: यत्पुनः सुभूतिरेवमाह । यदि यैव सर्वधर्माणां समता सैव पृथग्जनानां धर्मसमता सैव स्रोतआपन्नानां धर्मसमता यावत्सै<व तथागता>नामर्हतां सम्यक्संबुद्धानां धर्मसमता । विलक्सणानां धर्माणां धर्मसमता कथमेकलक्षणा युक्तेति? तत्किं मन्यसे सुभूते या रूप<स्य> [f । ३०७ ] धर्मता ननु शून्यतैव सा । या तथाग<तानां ध>र्मता ननु शून्यतैव सा? आह: शून्यतैव भगवं । भगवानाह: तत्किं मन्यसे सुभूते शून्यतायां <विलक्षणा धर्मा उपलभ्यन्ते, यत्रूपस्य विलक्सणं वेद>नाया संज्ञाया यत्संस्काराणां यद्विज्ञानस्य यावद्यत्तथागतस्य लक्षणं? आह: नो भगवं । भगवानाह: तदनेन ते सुभूते पर्यायेणैवं वेदितव्यं । या धर्माणां धर्मता तत्र न पृथग्जना नान्यत्र पृथग्जनेन । यावन्न तथागतो नान्यत्र <तथाग>तेन । (विइइ ५,२६) आह: किं पुनरेषा धर्मता संस्कृता अथ असंस्कृता? भगवानाह: न संस्कृता न असंस्कृता, न च संस्कृत । व्यतिरिकेण (अद्स्प्गिइ १३४) असंस्कृतं लभ्यते । <न च असंस्कृतव्यतिरिकेण संस्कृतमुपलभ्यते> । इति हि सुभूते यश्च संस्कृतधातुर्यश्च असंस्कृतधातुरुभावेतौ धर्मौ न संयुक्तौ न विसंयुक्तावरूपिणाव्निदर्शनावप्रतिघावेकलक्षणौ यदुत अलक्षणौ, तत्पुनस्तथागतो लोकव्यवहारेण व्याहारति । न पुनः परमार्थेन । न च परमार्थे कश्चित्कायसंस्कारो वाक्संस्कारो वा मनःसंस्कारो वा । न च अन्यत्र कायसंस्कारान्न अन्यत्र वाक्संस्कारान्न अन्यत्र मनःसंस्कारात्परमार्थ उपलभ्यते । यैषान् धर्माणां संस्कृत असंस्कृतानां समता स परमार्थः, तद्बोधिसत्त्वो महासत्त्व प्रज्ञापारमितायां चरन् परमार्था च न चलति । बोधिसत्त्वकार्यं च करोति । ((८१)) परिवर्त ८२ । अथायुष्मान् सुभूतिर्भगवन्तमेतदवोचत्: यदि भगवं सर्वधर्मसमता प्रकृतिशून्या, तन्न कस्यचि<द्> धर्मस्य किंचित्करोति । आकिंचनेषु वा निष्किंचनेषु वा धर्मेषु कथं बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् परमार्थाच्च न चलति । सर्वसत्त्वानां च कार्यं करोति । दानेन प्रियवचनेन अर्थक्रियया समानार्थतया च? भगवानाह: एवमेतत्सुभूते एवमेतत्तथा यथा भाषसे । यच्छून्यता न सा कस्यचित्किंचित्करोति । नाकिंचि<त्> । <यदि सुभूते ये ते सत्त्वाः स्वय>म् <ए>व शून्यता<ं> जानीयुर्नेयन् तथागतस्य तथागतवृषभिता भवेत् । यच्छून्यतायाश्च न चलति । सत्त्वांश्च आत्मसंज्ञाया विवेचयति विवेच्य शून्यताया मोचयति संसारात् । एवं सत्त्वसंज्ञाया यावत्कारकसंज्ञाया रूपसंज्ञाया यावद्विज्ञानसंज्ञाया चक्षुःसंज्ञाया यावन्मनःसंज्ञाया पृथिवीधातुसंज्ञाया यावद्विज्ञानधातुसंज्ञाया संस्कृतधातुसंज्ञाया विवेचयति । विवेच्य असंस्कृतधातौ प्रतिष्ठापयति । स च असंस्कृतधातुः शून्यः । (अद्स्प्गिइ १३५) (विइइ ५,२७) आह: केन शून्यः? भगवानाह: सर्वसंज्ञाभिः शून्यः । अपि तु खलु सुभूते यो निर्मितो <ऽन्यन्निर्मितं> निर्मीयेत अपि नु तस्य किंचिद्वस्त्वस्ति यन्न शून्यता? आह: नो हीदं भगवं यन्न निर्मितस्य । किंचिद्वस्त्वस्ति यन्न शून्यता । या च शून्यता यश्च निर्मित उभावेतौ धर्मौ न संयुक्तौ न विसंयुक्तावुभावेतौ शून्यताया शून्यौ । तत्किं विनिगूहितमियं शून्यता अयं निर्मितः । तत्कस्य हेतो<ः>? तथाप्युभयमेतच्छून्यतायां नोपलभ्यन्ते इयं शून्यता अयं निर्मित इति । भगवानाह: नास्ति सुभूते रूपं वा वेदना वा संज्ञा वा संस्कारा वा विज्ञानं वा यावन्निर्मितं । यन्न अनिर्मितं । <आह: यदि भगवन्निमे> लौकिका धर्मा निर्मिता, अपि <न्विमे> लोकोत्तरा धर्माः निर्मिता यदुत चत्वारि स्मृत्युपस्थानानि चत्वान् सम्यक्प्रहाणानि । चत्वारर्धिपादा । पञ्चेन्द्रियाणि पञ्चबलानि । [f । ३०८ ] ॥। <त्रीणि विमोक्षमुखानि> दशतथागतबलानि चत्वारि वैशारद्यानि चत<स्रः प्र>तिसंविदो महामैत्री महाकरुणा<मष्टादशावेणिक बुद्धधर्मा, तेषां च फलं येन तेषां पुद्गला>नां प्रज्ञप्तिः, स्रोतआपन्नः सकृदागाम्यनागाम्यर्हन् प्रत्येकबुद्धःस्तथागतोऽर्हन् सम्यक्संबुद्धः अपि न्विमे धर्मा निर्मिता? भगवानाह: यत्पुनः सुभूते सर्वधर्मा निर्मिता, तत्र कश्चिच्छ्रावक निर्मितः कश्चित्प्रत्येकबुद्ध निर्मितः कश्चिद्बोधिसत्त्व निर्मितः कश्चित्तथागत निर्मितः कश्चित्क्लेश निर्मितः (अद्स्प्गिइ १३६) कश्चित्कर्म निर्मितः, अनेन सुभूते पर्यायेण सर्वधर्मा निर्मितोपमा । आह: यत्पुनरिदं भगवन् प्रहाणं । स्रोतआपत्तिफलं यावदर्हत्त्वं, अपि न्वेते धर्मा । निर्मिताः, प्रत्येकबुद्धभूमिर्वा बुद्धभूमिर्वा सर्ववासनानुसन्धिप्रहाणां । अपि न्वेते धर्मा निर्मिता? भगवानाह: केचित्सुभूते धर्मा, उट्ठापिता वा निरोधिता वा, सर्वेऽते निर्मिता । आह: कतमो भगवन् धर्मो यो <न> निर्मितः? भगवानाह: यस्य नोत्पादो न निरोधः स <न> निर्मितः । आह: स पुनः कतमः? भगवानाह: असंमोषधर्मनिर्वाणसमयं धर्मो न निर्मितः । आह: यत्पुनर्भगवतोक्तं शून्यतायाश्च न चलति । न च द्वयेनोपलभ्यते न च कश्चिद्धर्मो <यो> न शून्यता । तस्माद्भगवन्नसंमोषधर्मनिर्वाणं निर्मितं भविष्यति । भगवानाह: एवमेतत्सुभूते एवमेतत्, सर्वधर्माः सुभूते स्वभावशून्याः, ते न श्रावकैः कृता न प्रत्येकबुद्धैर्न बोधिसत्त्वैर्महासत्त्वैर्न तथागतैरर्हद्भिः सम्यक्संबुद्धैः कृताः, या च स्वलक्षणशून्यता तन्निर्वा<णं> । सुभूतिराह: आदिकर्मिको भगवं पुद्गलः कथमववदितव्यः कथमनुशातिव्यः यत्स्वभावशून्य्<अत्>आं जानीयात्? भगवानाह: किं पुनः सुभूते पूर्वं भावोऽभूत्पश्चादभावो भविष्यति इति । <नात्र सुभूते भावो न अभावो न स्वभावो न परभावः । कुत एव स्वभावशून्यता भविष्यति?> ॥ प्रज्ञापारमितायामकोप्यधर्मतानिर्देशपरिवर्तः द्व्याशीतमः समाप्तः ॥