असङ्ग: त्रिशतिकायाः प्रज्ञापारमितायाः कारिकासप्ततिः परमोऽनुग्रहो ज्ञेयः शारीरः सपरिग्रहः । प्राप्ताप्राप्ताविहानौ च परमा स्यात्परीन्दना ॥ १ विपुलः परमोऽत्यन्तोऽविपर्यस्तश्<च> चेतसि । उपकाराशयः स्थानं यानेऽस्मिन् गुणपूरितः ॥ २ दानं पारमिताषत्कमामिषाभयधर्मतः । एकद्वयत्रयेणेह प्रतिपत्साऽप्रतिष्ठिता ॥ ३ आत्मभावे प्रतिकृतौ विपाके चाप्यसक्तता । अप्रवृत्तितदन्यार्थप्रवृत्तिपरिवर्जने ॥ ४ प्रग्रहो मण्डले त्रेधा निमित्ताच्चित्तवारणम् । उत्तरोत्तरसंदेहजन्मतश्च निवारणा ॥ ५ संस्कृतत्वेन संकल्प्य संपत्प्राप्तौ निवार्यते । त्रैलक्षण्यान्यथाभावात्तदभावात्तथागतः ॥ ६ सहेतुफलगाम्भीर्यदेशनास्मिन् युगाधमे । न निष्फला यतः सन्ति बोधिसत्त्वास्त्रयान्विताः ॥ ७ शिक्षयोपासानात्पूर्वं कुशलस्यावरोपणात् । शीलवन्तोऽन्यबुद्धेषु गुणवन्तश्च कीर्तिताः ॥ ८ सपुद्गलेषु धर्मेषु संज्ञाया विप्रहाणतः । प्रज्ञावन्तश्च संज्ञाया अष्टधाष्टार्थभेदतः ॥ ९ पृथग्भावेन संतत्या वृत्तेराजीवितस्थितेः । पुनश्च गतिलीनत्वादात्मसंज्ञा चतुर्विधा ॥ १० सर्वाभावादभावस्य सद्भावान्नाभिलाप्यतः । अभिलापप्रयोगाच्च धर्मसंज्ञा चतुर्विधा ॥ ११ अधिमुक्तिवशात्तेषां भूतसंज्ञा प्रसादतः । यथारुताग्रहात्संयग्देशितत्वस्य चोद्ग्रहात् ॥ १२ फलतो न मिता बुद्धैः प्रणिधिज्ञानलक्षिताः । इआभसत्कारकामानां तद्वादविनिवृत्तये ॥ १३ अस्थानादानुकूल्याच्च धर्मेष्वधिगमस्य हि । कोलस्येव परित्यागो धर्मे संधिस्ततो मतः ॥ १४ नैर्माणिकेन नो बुद्धो धर्मो नापि च देशितः । देशितस्तु द्वयाग्राह्योऽवाच्योऽवाक्पथलक्षणात् ॥ १५ ग्रहणदेशणा चास्य नापार्था पु<ण्य>संग्रहात् । पुण्यं बोध्यनुपस्तंभाद्<उपस्>तंभाद्द्वयस्य च ॥ १६ स्वाभाविकाप्तिहेतुत्वात्तदन्यस्य च जन्मनः । कैवल्याद्बुद्धधर्माणामग्र्यत्वं पुण्यसाधनम् ॥ १७ अग्राह्यानभिलप्यत्वं स्वफलानामनुद्ग्रहात् । द्वयावरणनिर्मोक्षात्सुभूतावरणाद्वयम् ॥ १८ बुद्धदीपंकराग्राहाद्वक्येनाधिगमस्य हि । ततश्चाधिगमे सिद्धा अग्राह्यानभिलाप्यता ॥ १९ ज्ञाननिष्यन्दविज्ञप्तिमात्रत्वात्क्षेत्रनोद्ग्रहः । अविग्रहत्वादग्रत्वादव्यूह<ं> व्यूहता मता ॥ २० सुमेरोरिव राजत्वे संभोगे नास्ति चोद्ग्रहः । सास्रवत्वेन चाभावात्संस्कृतत्वेन चास्य हि ॥ २१ बहुत्वभेदख्यात्यर्थं विशेषस्य च सिद्धये । पौर्वापर्येण पुण्यस्य पुनर्दृष्टान्तदेशना ॥ २२ द्वयस्य पात्रीकरणान्निष्यन्दत्वमहत्वतः । असंक्लेशस्य हेतुत्वाद्धीनाभिभवनादपि ॥ २३ तत्फलश्रेष्ठदुःखत्वाद्दुर्लभार्थोत्तमार्थतः । ज्ञेयापारमितत्वाच्च परासाधारणत्वतः ॥ २४ गाढगंभीरभावाच्च परसूत्रविशिष्टतः । महाशुद्धान्वयत्वाच्च पुण्यात्पुण्यं विशिष्यते ॥ २५ सहिष्णुता च चर्यायां दुष्करायां शुभा यतः । तद्गुणापरिमाणत्वादग्रार्थेन निरुच्यते ॥ २६ आत्मव्यापादसंज्ञाया अभावाद्दुःखता न च । ससुखा करुणाभावाच्चर्यादुःखफला ततः ॥ २७ चित्तात्यागाभिनिर्हारे यत्न<ः> कार्यो दृढो यतः । क्षान्तिपारमिताप्राप्तौ तत्प्रायोगिक एव च ॥ २८ प्रतिपत्तिश्च सत्त्वार्था विज्ञेया हेतुभावतः । सत्त्ववस्तुनिमित्तात्तु विज्ञेया परिवर्जिता ॥ २९ नामस्कन्धाश्च तद्वस्तु तत्संज्ञापगमाज्जिने । तदभावो हि बुद्धानां तत्त्वदर्शनयोगतः ॥ ३० फलाप्रतिष्ठितो मार्गस्तत्फलस्यापि कारणम् । बुद्धानां भूतवादित्वात्तच्च ज्ञेयं चतुर्विधम् ॥ ३१ प्रतिज्ञा हीनयानस्य महायानस्य देशना । सर्वव्याकरणानां च न विसंवादिनी यतः ॥ ३२ अप्राप्तेरानुकुल्याच्च न सत्या न मृषा मता । यथारुतनिवेशस्य प्रतिपक्षेण देशना ॥ ३३ x x x x x x x x x x x x x .<अ>लाभता । अज्ञानात्सप्रतिष्ठेन ज्ञानादन्येन लाभता ॥ ३४ तमःप्रकाशमज्ञानं ज्ञानमालोकवन्मत<म्> । प्रतिपक्षविपक्षस्य लाभहान्यामुखत्वतः ॥ ३५ यादृश्या प्रतिप<त्त्या> x x x x x x x x x । यत्कर्मिका च सा धर्मे प्रतिपत्तिस्तदुच्यते ॥ ३६ व्यञ्जने त्रिविधा धर्मधरत्वे श्रुतविस्तरे । अर्थस्य परतोऽध्यात्ममाप्तौ श्रवणचिन्तनात् ॥ ३७ x x x x x x x x x x x x <परि>पृष्ठआचने । वस्तुकालमहत्वेन पुण्यात्पुण्यं विशिष्यते ॥ ३८ अगोचरत्वं कैवल्यं महात्माश्रितता तथा । दुर्लभश्रवता चैव धातुपुष्टिरनु<त्तरा> ॥ ३९ x x x x x x x x x x x <पात्र>ताश्रये । शोधनावरणानां च क्षिप्राभिज्ञात्वमेव च ॥ ४० विचित्रैओकसंपत्तिविपाकः सुमहान्नपि । कर्माणि एतानि धर्मे प्रतिपत्तेर्मता<नि> x ॥ ४१ x x x x x x x x x <बोधिसत्>त्वकल्पना । चित्तावरणमाख्यातं यच्चित्तमप्रतिष्ठितम् ॥ ४२ पश्चाद्व्याकरणान्नो च चर्या दीपंकरे परा । बोधिस्तच्चर्यया तुल्या न स x x x x x x ॥ ४३ x x x x x x x x न मृषा परिदीपिता । धर्मास्ततो बुद्धधर्माः सर्वेऽभावस्वलक्षणाः ॥ ४४ धर्मकायेन बुद्धस्तु मतः <सः> पुरुषोपमः । निरावरणतो x x x x x x x x x x x ॥ ४५ <गुणमहा>त्म्यतश्चापि महाकायः स एव हि । अभावकायभावाच्च अकायोऽसौ निरुच्यते ॥ ४६ धर्मधातावकुशलः सत्त्वनिर्वापणे मतिः । क्षेत्राणां शोधने चैव x x x x x x x x ॥ ४७ <सत्त्वानां बोधिसत्त्वा>नां धर्मान् यश्च नैरात्मकान् । बुद्ध्याधिमुच्यतेऽनार्य आर्यो धीमान् स कठ्यते ॥ ४८ नोपलम्भेऽपि धर्माणां चक्षुर्न हि न विद्यते । बुद्धानां पञ्चधा त्<अच्च वितथार्थस्य दर्शनात्> ॥ ४९ <नानाविथतवि>ज्ञप्तेः स्ंृत्युपस्थानवर्जनात् । निराधारप्रबन्धोऽस्या वितथातो निरुच्यते ॥ ५० ज्ञानस्याधारतो ज्ञेया पुण्ये वितथता न च । ततः पुण्यनिमित्तं हि पुन<र्दृष्टान्तकीर्तनम्> ॥ ५१ <न धर्मकायनिष्पत्तिरनु>व्यञ्जनमुच्यते । न च लक्षणसंपत्तिस्तदकायत्वतो मता ॥ ५२ धर्मकायाविनिर्भागान्न द्वयं न तथागतः । संपत्तिरुच्यते भूयो द्वयं नास्त्यस्तिता ततः ॥ ५३ x x x x x x x x x x x x x <क>ल्पिता । धर्मकायाविनिर्भागाद्देशनाप्यस्वलक्षणा ॥ ५४ देश्यदैशिकगांभीर्यश्रद्धा न च न सन्ति हि । न सत्त्वा नापि चासत्त्वास्तेऽनार्यार्य x x x x ॥ ५५ x x x x x x x x ज्ञेया बोधिरनुत्तरा । न वृद्ध्या धर्मधातौ हि शुद्धिसाम्यात्स्वल<क्ष>णात् ॥ ५६ उपायानुत्तरत्वाच्च सास्रवत्वादधर्मतः । शुभा न धर्मा x x x x x x x x x x x ॥ ५७ <नैव>? चाव्याकृतत्वेऽपि देशनाऽप्राप्तये मता । धर्मरत्नं ततश्चैकं रत्नादन्याद्विशिष्यते ॥ ५८ संख्याप्रभवजातीनां संबन्धस्य विशेषणे । x x x x x x x x x x x x x <लभ्>यते ॥ ५९ समत्वाद्धर्मधातोश्च न सत्त्वा मोचिता जिनैः । सहनाम्ना यतः स्कन्धा धर्मधात्वबहिर्गताः ॥ ६० आत्मग्राहसमो दोसस्त x x x x x x x । x x x x x ग्राहे हि अग्राहग्राहता मता ॥ ६१ न चैव रूपकायेन सोऽनुमेयस्तथागतः । धर्मकायो यतश्चक्रवर्ती माभूत्तथागतः ॥ ६२ न च लक्षणवैपाक्यपु<ण्य्>. x x x x x x । <धर्मकाय>स्य लाभो हि उपायो यद्विलक्षणः ॥ ६३ रूपानुश्रवमात्रेण न बुद्धज्ञः पृथग्जनः । तथताधर्मकायो हि यतोऽविज्ञानगोचरः ॥ ६४ न च पुण्यस्x x x x x x x x x x x x । क्षान्तिलाभेऽपि नोच्छेदो निर्मलस्यास्य लाभतः ॥ ६५ पुनः पुण्यनिमित्तं हि तस्माद्दृष्टान्तदेशना । तत्पुण्यस्याविपाकत्वान्नोद्ग्रहः सपरिग्रहः ॥ ६६ तन्निर्माणफलं तेषा<ं पुण्य> x x x x x x । अनाभोगेन यत्कर्म बुद्धाः कुर्वन्ति दिक्षु च ॥ ६७ गत्यादयस्तु निर्माणैर्बुद्धास्त्वविचलाः सदा । धर्मधातौ च तत्स्थानं नैकत्वान्यत्वतो मतम् ॥ ६८ रजोमषीक्रिया धातोर्दृ<ष्टान्तस्तस्य द्योत>कः । मषीकर<ण>ता क्लेशक्षयस्येह निदर्शनम् ॥ ६९ असंचयत्वापिण्डत्वमनेकत्वनिदर्शनम् । संहतस्थानता तस्मिन्नान्यत्वे च निदर्शनम् ॥ ७० व्यवहारमात्रताया <बाला>नामुद्ग्रहोऽन्यथा । द्वयाभावान्न बोध्याप्तिः प्रहाणादात्मधर्मयोः ॥ ७१ तस्माद्दृष्टिरदृष्टिश्च नैरर्थ्याभूतकल्पतः । सूक्ष्ममावरणं ह्येतत्तथा ज्ञानात्प्र<हीयते> ॥ ७२ ज्ञानद्वयसमाधानप्रहेयं तच्च देशितम् । निर्माणैः कशणात्पुण्यं तद्बुद्धानां न नाक्षयम् ॥ ७३ निर्मितोऽस्मीति चात्मानं काशयन्तस्तथागताः । प्रकाशयन्ति ना<त्मानं> तस्मात्सा काशना सती ॥ ७४ संस्कारो न तथा नान्यं निर्वाणं हि तथागते । नवधा संभूतस्येह संयग्ज्ञानपरीक्षणात् ॥ ७५ दृष्टिर्निमित्तं विज्ञानं प्रतिष्ठादेहभोगता । अतीतं वर्तमानं च परीक्ष्यं चाप्यनागतम् ॥ ७६ लक्षणस्योपभोगस्य प्रवृत्तेश्च परीक्षणात् । निर्मलां <तेषु> वशितां संस्कारेषु समाप्नुते ॥ ७७ त्रिशतिकायाः प्रज्ञापारमिता<याः> कारिकासप्ततिः समाप्ता ॥ ॥ कृतिरियमार्यासङ्गपादानामिति ॥ ॥