महायानसूत्रालंकारः ॥ ओम् ॥ नमः सर्वबुद्धबोधिसत्त्वेभ्यः प्रथमोऽधिकारः अर्थज्ञोऽर्थविभावनां प्रकुरुते वाचा पदैश्चामलै- र्दुःखस्योत्तरणाय दुःखितजने कारुण्यतस्तन्मयः । धर्मस्योत्तमयानदेशितविधेः सत्त्वेषु तद्गामिषु श्लिष्टामर्थगतिं निरुत्तरगतां पञ्चात्मिकां दर्शयन् ॥ १.१ ॥ अर्थज्ञोऽर्थविभावनां प्रकुरुते.........[इत्यादि] कोषदेशमारभ्य कोऽलंकरोति । अर्थज्ञः । कमलंकारमलंकरोति अर्थविभावनां कुरुते । केन वाचा पदैश्चामलैः । अमलया वाचेतिष........[पौर्यादिना] अमलैः पदैरिति युक्तैः सहितैरिति विस्तरः । न हि विना वाचा पदव्यञ्जनैरर्थो विभावयितुं शक्यत इति । कस्मै दुःखस्योत्तरणाय दुःखितजने कारुण्यतस्तन्मयः । दुःखितजने यत्कारुण्यं तस्मात्कारुण्यतस्तन्मय इति कारुण्यमयः । कस्यालंकारं करोति । धर्मस्योत्तमयानदेशितविधेः । उत्तमयानस्य देशितो विधिर्यस्मिन्धर्मे तस्य धर्मस्य । कस्मिन्नलंकरोति । सत्त्वेषु तद्गामिषु । निमित्तसप्तम्येषा.........[महायान]गामिसत्त्वनिमित्तमित्यर्थः । कतिविधमलंकारं करोति । पञ्चविधम् । श्लिष्टामर्थगतिं निरुत्तरगतां पञ्चात्मिकां दर्शयन् । श्लिष्टामिति युक्ताम् । निरुत्तरगतामित्यनुत्तरज्ञान[यान]गताम् । तामिदानीं पञ्चात्मिकामर्थगतिं द्वितीयेन श्लोकेन दर्शयति । घटितमिव सुवर्णं वारिजं वा विबुद्धं सुकृतमिव सुभोज्यं भुज्यमानं क्षुधार्तैः । (२) विदित इव सुलेखो रत्नपेटेव मुक्ता विवृत इह स धर्मः प्रीतिमग्र्यां दधाति ॥ १.२ ॥ अनेन श्लोकेन पञ्चभिर्दृष्टान्तैः स हि धर्मः पञ्चविधमर्थमधिकृत्य देशितः साध्यं व्युत्पाद्यं चिन्त्यमचिन्त्यं परिनिष्पन्नं चाधिगमार्थं प्रत्यात्मवेदनीयं बोधिपक्षस्वभावम् । सोऽनेन सूत्रालंकारेण विवृतः प्रीतिमग्र्यां दधाति । यथाक्रमं घटितसुवर्णादिवत् । यदा स धर्मः प्रकृत्यैव गुणयुक्तः कथं सोऽलंक्रियत इत्यस्य चोद्यस्य परिहारार्थं तृतीयः श्लोकः । यथा बिम्बं भूषाप्रकृतिगुणवद्दर्पणगतं विशिष्टं प्रामोद्यं जनयति नृणां दर्शनवशात् । तथा धर्मः सूक्तप्रकृतिगुणयुक्तोऽपि सततं विभक्तार्थस्तुष्टिं जनयति विशिष्टामिह सताम् ॥ १.३ ॥ अनेन किं दर्शयति । यथा बिम्बं भूषया प्रकृत्यैव गुणवतादर्शगतं दर्शनवशाद्विशिष्टं प्रामोद्यं जनयत्येवं स धर्मः सुभाषितैः प्रकृत्यैव गुणयुक्तोऽपि सततं विभक्तार्थस्तुष्टिं विशिष्टां जनयति । बुद्धिमतामतस्तुष्टिविशेषोत्पादनादलंकृत इव भवतीति । अतः परं त्रिभिः श्लोकैस्तस्मिन्धर्मे त्रिविधमनुशंसं दर्शयत्यादरोत्पादनार्थम् । आघ्रायमाणकटुकं स्वादुरसं यथौषधं तद्वत् । धर्म[र्मो] द्वयव्यवस्था[स्थो] व्यञ्जनतोऽर्थो न च[र्थतश्च]ज्ञेयः ॥ १.४ ॥ राजेव दुराराधो धर्मोऽयं विपुलगाढगम्भीरः । आराधितश्च तद्वद्वरगुणधनदायको भवति ॥ १.५ ॥ रत्नं जात्यमनर्थं[र्घं]यथापरीक्षकजनं न तोषयति । धर्मस्तथायमबुघं विपर्ययात्तोषयति तद्वत् ॥ १.६ ॥ (३) त्रिविधोऽनुशंसः । आवरणप्रहाणहेतुत्वमौषधोपमत्वेन । द्वयव्यवस्थ इति व्यञ्जनार्थव्यवस्थः । विभुत्वहेतुत्वमभिज्ञादिवैशेषिकगुणैर्श्वर्यदानाद्राजोपमत्वेन । आर्यध[ज]नोपभोगहेतुत्वं च अनर्थ[र्घ]जात्यरत्नोपमत्वेन । परीक्षकजन आर्यजनो वेदितव्यः । नैवेदं महायानं बुद्धवचनं कुतस्तस्यायमनुशंसो भविष्यतीत्यत्र विप्रतिपन्नास्तस्य बुद्धवचनत्वप्रसाधनार्थं कारणविभाज्यमारभ्य श्लोकः । आदावव्याकरणात्समप्रवृत्तेरगोचरात्सिद्धेः । भावाभावेऽभावात्प्रतिपक्षत्वाद्रुतान्यत्वात् ॥ १.७ ॥ आदावव्याकरणात्यद्येतत्सद्धर्मान्तरायिपश्चात्केनाप्युत्पादितम् । कस्मादादौ भगवता न व्याकृतमनागतभय[भंग]वत् । समप्रवृत्तेः समकालं च श्रावकयानेन महायानस्य प्रवृत्तिरुपलभ्यते न पश्चादिति कथमस्याबुद्धवचनत्वं विज्ञायते । अगोचरान्नायमेवमुदारो गम्भीरश्च धर्मस्तार्किकाणां गोचरः । तीर्थिकशास्त्रेषु तत्प्रकारानुपलम्भादिति । नायमन्यैर्भाषितो युज्यते । उच्यमानेऽपि तदनधिमुक्तेः । सिद्धेरथान्येनाभिसंबुध्य भाषितः । सिद्धमस्य बुद्धवचनत्वम् । स एव बुद्धो योऽभिसंबुध्य एवं भाषते । भावाभावेऽभावाद्यदि महायानं किंचिदस्ति तस्य भाव[वे] सिद्धमिदं बुद्धवचनमतोऽन्यस्य महायानस्याभावात् । अथ नास्ति तस्याभावे श्रावकयानस्याप्यभावात् । श्रावकयानं बुद्धवचनं न महायानमिति न युज्यते विना बुद्धयानेन बुद्धानामनुत्पादात् । प्रतिपक्षत्वात् । भाव्यमानं च महायानं सर्वनिर्विकल्पज्ञानाश्रयत्वेन क्लेशानां प्रतिपक्षो भवति तस्माद्बुद्धवचनम् । रुतान्यत्वात् । न चास्य यथारुतमर्थस्तस्मान्न यथारुतार्थानुसारेणेदमबुद्धवचनं वेदितब्यम् । यदुक्तमादावव्याकरणादित्यनाभोगादेतदनागतां भगवता न व्याकृतमिति कस्यचित्स्यादत उपेक्षाया अयोगे श्लोकः । प्रत्यक्षचक्षुषो बुद्धाः शासनस्य च रक्षकाः । अध्मन्यनावृतज्ञाना उपेक्षातो न युज्यते ॥ १.८ ॥ अनेन किं दर्शयति । त्रिभिः कारणैरनागतस्य महतः शासनोपद्रवस्योपेक्षा न युज्यते । बुद्धानामयत्नतो ज्ञानप्रवृत्तेः प्रत्यक्षचक्षुष्कतया शासनरक्षायाश्च[यां च] यत्नवत्वात् । अनागतज्ञानसमर्थ्याच्च सर्वकालाव्याहतज्ञानतयेति । यदुक्तं भावाभावेऽभावादिति । एतदेव श्रावकयानं महायानमेतेनैव महाबोधिप्राप्तिरिति कस्यचित्स्यादतः श्रावकयानस्य महायानत्वायोगे श्लोकः । (४) वैकल्यतो विरोधादनुपायत्वात्तथाप्यनुपदेशात् । न श्रावकयानमिदं भवति महायानधर्माख्यम् ॥ १.९ ॥ वैकल्यात्परार्थोपदेशस्य । न हि श्रावकयाने कश्चित्परार्थ उपदिष्टः श्रावकाणामात्मनो निर्विद्विरागविमुक्तिमात्रोपायोपदेशात् । न च स्वार्थ एव परेषूपदिश्यमानः परार्थो भवितुमर्हति । विरोधात् । स्वार्थे हि परो नियुज्यमानः स्वार्थ एव प्रयुज्यते स आत्मन एव परिनिर्वाणार्थप्रयुक्तोऽनुत्तरां सम्यक्संबोधिमभिसंभोत्स्यत इति विरुद्धमेतत् । न च श्रावकयानेनैव चिरकालं बोधौ घटमानो बुद्धो भवितुमर्हति । अनुपायत्वात् । अनुपायो हि श्रावकयानं बुद्धत्वस्य न चानुपायेन चिरमपि प्रयुज्यमानः प्रार्थितमर्थं प्राप्नोति । श्रृङ्गादिव दुग्धं न भस्रया[भस्रायाः] । अथान्यथाप्यत्रोपदिष्टं यथा बोधिसत्त्वेन प्रयोक्तव्यम् । तथाप्यनुपदेशान्न श्रावकयानमेव महायानं भवितुर्महति । न हि स तादृश उपदेश एतस्मिन्नुपलभ्यते । विरुद्धमेव चान्योन्यं श्रावकयानं महायानं चेत्यन्योन्यविरोधे श्लोकः । आशयस्योपदेशस्य प्रयोगस्य विरोधतः । उपस्तम्भस्य कालस्य यथीनं हीनमेव तत् ॥ १.१० ॥ कथं विरुद्धम् । पञ्चभिर्विरोधैः । आशयोपदेशप्रयोगोपस्तम्भकालविरोधैः । श्रावकयाने ह्यात्मपरिनिर्वाणायैवाशयस्तदर्थमेवोपदेशस्तदर्थमेव प्रयोगः परीत्तश्च पुण्यज्ञानसंभारसंगृहीत उपस्तम्भः, कालेन चाल्पेन तदर्थप्राप्तिर्यावत्त्रिभिरपि जन्मभिः । महायाने तु सर्वं विपर्ययेण । तस्मादन्योन्यविरोधाद्यद्यानं हीनं हीनमेव तत् । न तन्महायानं भवितुमर्हति । बुद्धवचनस्येदं लक्षणं यत्सूत्रेऽवतरति विनये संदृश्यते धर्मतां च न विलोमयति । न चैवं महायानम्, सर्वधर्मनिःस्वभावत्वोपदेशात् । तस्मान्न बुद्धवचनमिति कस्यचित्स्यादतो लक्षणाविरोधे श्लोकः । स्वकेऽवतारात्स्वस्यैव विनये दर्शनादपि । औदार्यादपि गाम्भीर्यादविरुद्धैव धर्मता ॥ १.११ ॥ अनेन श्लोकेन किं दर्शयति । अवतरत्येवेदं स्वस्मिन्महायानसूत्रे स्वस्य च क्लेशस्य[क्लेशः?] विनयः[विनये]संदृश्यते । यो महायाने बोधिसत्त्वानां क्लेशः उक्तः । विकल्पक्लेशा हि बोधिसत्त्वाः । औदार्यगाम्भीर्यलक्षणत्वाच्च । न धर्मतां विलोमयत्यथैव हि धर्मता महाबोधिप्राप्तये तस्मान्नास्ति लक्षणविरोधः । (५) अगोचरादित्युक्तमतर्स्तकगोचरत्वायोगे श्लोकः । निश्रितोऽनियतोऽव्यापी सांवृतः खेदवानपि । बालाश्रयो मतस्तर्कस्तस्यातो विषयो न तत् ॥ १.१२ ॥ अदृष्टसत्याश्रयो हि तर्कः कश्चिदागमनिश्रितो भवति । अनियतश्च भवति कालान्तरेणान्यथाप्रत्यवगमात् । अव्यापी च न सर्वज्ञेयविषयः । संवृतिसत्यविषयश्च न परमार्थविषयः । खेदवांश्च प्रतिभानपर्यादानात् । महायानं तु न निश्रितं यावदखेदवत् । शतसाहस्रिकाद्यनेकसूत्रोपदेशात् । अतो न तर्कस्य तद्विषयः । अनुपायत्वात्श्रावकयाने न बुद्धत्वं प्राप्तमित्युक्तम्, अथ महायानं कथमुपायो युक्त इत्युपायत्वयोगे श्लोकः । औदार्यादपि गाम्भीर्यात्परिपाकोऽविकल्पना । देशनातो द्वयस्यास्मिन् स चोपायो निरुत्तरे ॥ १.१३ ॥ अनेन श्लोकेन किं दर्शयति । प्रभावौदार्यदेशनया सत्त्वानां परिपाकः प्रभावाधिमुक्तितो घटनात् । गाम्भीर्यदेशनया अविकल्पना, अत एतस्य द्वयस्यास्मिन्महायाने देशना । स चोपायो निरुत्तरे ज्ञाने, ताभ्यां यथाक्रमं सत्त्वानां परिपाचनादात्मनश्च बुद्धधर्मपरिपाकादिति । ये पुनरस्मात्त्रसन्ति तदर्थमस्थानत्रासादीनवे कारणत्वेन श्लोकः । तदस्थानत्रासो भवति जगतां दाहकरणो महापुण्यस्कन्धप्रसवकरणाद्दीर्घसमयम् । अगोत्रोऽसन्मित्रोऽकृतमतिरपूर्वाचित्तशुभ- स्त्रसत्यस्मिन् धर्मे पतति महतोऽर्थाद्गतिह ॥ १.१४ ॥ त्रासास्थाने त्रासस्तदस्थानत्रासः । दाहकरणो भवत्यपायेषु । किं कारणम् । महतः अपुण्यस्कन्धप्रसवस्य करणात् । कियन्तं कालमिति दीर्घसमयम् । एवं पश्चादादीनवः । येन च कारणेन यावन्तं च कालं तत्संदर्शयति । किं पुनः कारणे तु सतीति चतुर्विधं त्रासकारणं दर्शयति । गोत्रं चास्य न भवति सन्मित्रं वा अव्युत्पन्नमतिर्वा भवति महायानधर्मतायां पूर्वं वानुपचितशुभो भवति । पतति महतोऽर्थादिति महाबोधिसंभारार्थात् । अप्राप्तपरिहाणितोऽपरमादीनवं दर्शयति । (६) त्रासकारणमुक्तमत्रासकारणं वक्तव्यमित्यत्रासकारणत्वे श्लोकः । तदन्यान्या[न्यस्या?]भावात्परमगहनत्वादनुगमात् विचित्रस्याख्यानाद्ध्रुवकथनयोगाद्वहुमुखात् । यथाख्यानं नार्थाद्भगवति च भावातिगहनात् न धर्मेऽस्मिंस्त्रासो भवति विदुषां योनिविचयात् ॥ १.१५ ॥ तदन्यान्या[न्यस्या?]भावादिति ततोऽन्यस्य महायानस्याभावात् । अथ श्रावकयानमेव महायानं स्यादन्यस्य श्रावकस्य प्रत्येकबुद्धस्य वाभावः स्यात् । सर्व एव हि बुद्धा भवेयुः । परमगहनत्वाच्च । सर्वज्ञज्ञानमार्गस्यानुगमाच्च तुल्यकालप्रवृत्त्या । विचित्रस्याख्यानात् । विचित्रश्चात्र संभा[सा?]रमार्ग आख्यायते न केवलं शून्यतैव । तस्माद[आ]भिप्रायिकेनानेन भवितव्यमिति । ध्रुवकथनयोगाद्, बहुमुखादभीक्ष्णं चात्र शून्यता कथ्यते बहुमिश्च पर्यायैस्तेषु तेषु सूत्रान्तेषु तस्माद्भवितव्यमत्र महता प्रयोजनेन । अन्यथा हि सत्कृत्प्रतिषेधमात्रकृतमभबिष्यदिति । यथाख्यानं नार्थात्न चास्य यथारुतमर्थोऽस्मादपि त्रासो न युक्तः । भगवति च भावातिगहनादतिगहनश्च बुद्धानां भावो दुराज्ञेयस्तस्मान्नास्माभिस्तदज्ञानात्त्रसितव्यमिति । एवं योनिशः प्रविचयाद्विदुषां त्रासो न भवति । दूरानुप्रविष्टज्ञानगोचरत्वे श्लोकः । श्रुतं निश्रित्यादौ प्रभवति मनस्कार इह यो मनस्काराज्ज्ञानं प्रभवति च तत्त्वार्थविषयम् । ततो धर्मप्राप्तिः प्रभवति च तस्मिन्मतिरतो यदा प्रत्यात्मं सा कथमसति तस्मिन्व्यवसितिः ॥ १.१६ ॥ श्रुतं निश्रित्यादौ मनस्कारः प्रभवति यो योनिश इत्यर्थः । योनिशो मनस्कारात्तत्त्वार्थविषयं ज्ञानं प्रभवति लोकोत्तरा सम्यग्दृष्टिः, ततस्तत्फलस्य धर्मस्य प्राप्तिः, ततस्तस्मिन् प्राप्ते मतिर्विमुक्तिज्ञानं प्रादुर्भवति । एवं यदा प्रत्यात्मं सा मतिर्भवति, कथमसति तस्मिन्नेषा व्यवसितिर्निश्चयो भवति नैवेदं बुद्धवचनमितिए । अत्रासपदस्थानत्वे श्लोकः । अहं न बोद्धा न गभीरबोद्धा बुद्धौ गभीरं किमतर्कगम्यम् । कस्माद्गभीरार्थविदां च मोक्ष इत्येतदुत्त्रासपदं न युक्तम् ॥ १.१७ ॥ (७) यदि तावदहमस्य न बोद्धेत्युत्त्रासपदम्, तन्न युक्तम् । अथ बुद्धोऽपि गम्भी[भी?] रस्य पदार्थस्य न बोद्धा स किं गभीरं देशयिष्यतीत्युत्त्रासपदम्, तदयुक्तम् । अथ गम्भी[भी]रं कस्मादतर्कगम्यमित्युत्त्रासपदम्, तन्न युक्तम् । अथ कस्माद्गभीरार्थविदामेव मोक्षो न तार्किकाणामित्युत्त्रासपदम्, तन्न युक्तम् । अनधिमुक्तित एव तत्सिद्वौ श्लोकः । हीनाधिमुक्तेः सुनिहीनधातोर्ही नैः सहायैः परिवारितस्य । औदार्यगाम्भीर्यसुदेशितेऽस्मिन् धर्मेऽधिमुक्तिर्यदि नास्ति सिद्धम् ॥ १.१८ ॥ यस्य हीना चाधिक[चाधि]मुक्तिः, ततश्च हीन एव धातुः समुदागत आलयविज्ञानभावना । हीनैरेव सहायैः समानाधिमुक्तिधातुकैर्यः परिवारितस्तस्यास्मिन्नौदार्यगाम्भीर्यसुदेशिते महायानधर्मे यद्यधिमुक्तिर्नास्ति, अत एव सिद्धमुत्कृष्टमिदं महायानमिति । अश्रुतसूत्रान्तप्रतिक्षेपायोगे श्लोकः । श्रुतानुसारेण हि बुद्धिमत्तां लब्ध्वाश्रुते यः प्रकरोत्यवज्ञाम् । श्रुते विचित्रे सति चाप्रमेये शिष्टे कुतो निश्चयमेति मूढः ॥ १.१९ ॥ कामं तावदधिमुक्तिर्न स्यादश्रुतानां तु सूत्रान्तानामविशेषेण प्रतिक्षेपो न युक्तः । श्रुतानुसारेणैव हि बुद्धिमत्त्वं लब्ध्वा यः श्रुत एवावज्ञां करोति मूढः स सत्येवावशिष्टे श्रुते विचित्रे चाप्रमेये च कुतः कारणान्निश्चयमेति न तद्बुद्धवचनमिति । न हि तस्य श्रुतादन्यब्दलमस्ति तस्मादश्रुत्वा प्रतिक्षेपो न युक्तः । यदपि च श्रुतं तद्योनिशो मनसि कर्तव्यं नायोनिश इत्ययोनिशोमनसिकारादीनवे श्लोकः । यथारुतेऽर्थे परिकल्प्यमाने स्वप्रत्ययो हानिमुपैति बुद्धेः । स्वाख्याततां च क्षिपति क्षतिं च प्राप्नोति धर्मे प्रतिघावतीव[प्रतीघातमेव] ॥ १.२० ॥ (८) स्वप्रत्यय इति स्वयंदृष्टिपरामर्शको, न विज्ञानामन्तिकादर्थपर्येषी । हानिमुपैति बुद्धेरिति यथाभू[रु]तज्ञानादप्राप्तिपरिहानितः । धर्मस्य च स्वाख्याततां प्रतिक्षिपति तन्निदानं चापुण्यप्रभावात्क्षतिं प्राप्नोति । धर्मे च प्रतिघातमावरणं च धर्मव्यसनसंवर्तनीयं कर्मेत्ययमत्रादीनवः । अयथावतश्चा[अयथारुतञ्चा]र्थमविजानतोऽपि प्रतिघातो न युक्त इति प्रतिघातायोगे श्लोकः । मनः प्रदोषः प्रकृतिप्रदुष्टो [ऽयथारुते चापि]ह्ययुक्तरूपः । प्रागेव संदेहगतस्य धर्मे तस्मादुपेक्षैव वरं ह्यदोषा ॥ १.२१ ॥ प्रकृतिप्रदुष्ट इति प्रकृतिसावद्यः । तस्मादुपेक्षैव वरम् । कस्मात् । सा ह्यदोषा । प्रतिघातस्तु सदोषः । । महायानसूत्रालंकारे महायानसिद्ध्यधिकारः प्रथमः ॥ (९) द्वितीयोऽधिकारः शरणगमनविशेषसंग्रहश्लोकः । रत्नानि यो हि शरणप्रगतोऽत्र याने ज्ञेयः स एव परमः शरण[णं] गतानाम् । सर्वत्रगाभ्युपगमाधिगमाभिभूतिभेदैश्चतुर्विधमयार्थविशेषणेन ॥ २.१ ॥ स एव परमः शरणं गतानामिति । केन कारणेन । चतुर्विधस्वभावार्थविशेषणेन । चतुर्विधोऽर्थः सर्वत्रगाभ्युपगमाधिगमाभिभूतिभेदतो वेदितव्यः । सर्वत्रगार्थः । अभ्युपगमार्थः । अधिगमार्थः । अभिभवार्थः । ते पुनरुत्तरत्र निर्देक्ष्यन्ते । तथाप्यत्र शरणप्रगतानां बहुदुष्करकार्यत्वात्केचिन्नोत्सहन्ते । श्लोकः । यस्मादादौ दुष्कर एष व्यवसायो दुःसाधोऽसौ नैकसहस्रैरपि कल्पैः । सिद्धो यस्मात्सत्त्वहिताधानमहार्थस्तस्मादग्रे यान इहाग्रशरणार्थः ॥ २.२ ॥ एतेन तस्य शरणगमनव्यवसायस्य प्रणिधानप्रतिपत्तिविशेषाभ्यां यशोहेतुत्वं दर्शयति । फलप्राप्तिविशेषेण महार्थत्वम् । पूर्वाधिकृते सर्वत्रगार्थे श्लोकः । सर्वान् सत्त्वांस्तारयितुं यः प्रतिपन्नो याने ज्ञाने सर्वगते कौशल्ययुक्तः । यो निर्वाणे संसरणेऽप्येकरसोऽसौ [संसृतिशान्त्येकरसोऽसौ] ज्ञेयो धीमानेष हि सर्वत्रग एवम् ॥ २.३ ॥ एतेन चतुर्विधं सर्वत्रगार्थं........................... असांकेतिकं धर्मताअप्रातिलम्भिकं चेति प्रभेदलक्षणा प्रवृत्तिरौदारिकसूक्ष्मप्रभेदेन । (१०) शरणप्रतिपत्तिविशेषणे श्लोकः । शरणगतिमिमां गतो महार्थां गुणगणवृद्धिमुपैति सोऽप्रमेयाम् । स्फुरति जगदिदं कृपाशयेन प्रथयति चाप्रतिमं महा[र्य]धर्मम् ॥ २.४ ॥ अत्र शरणगमनस्थां महार्थतां स्वपरार्थप्रतिपत्तिभ्यां दर्शयति । स्वार्थप्रतिपत्तिः पुनर्बहुप्रकाराप्रमेयगुणवृद्ध्या । अप्रमेयत्वं तर्कसंख्याकालाप्रमेयतया वेदितव्यम् । न हि सा गुणवृद्धिस्तर्केण प्रमेया न संख्यया न कालेनात्यन्तिकत्वात् । परार्थप्रतिपत्तिराशयतश्च करुणास्फुरणेन प्रयोगतश्च महायानधर्मप्रथनेन । महायानं हि महार्यदृशां धर्मः । ॥ महायानसूत्रालंकारे शरणगमनाधिकारो द्वितीयः ॥ (११) तृतीयोऽधिकारः गोत्रप्रभेदसंग्रहश्लोकः सत्त्वाग्रत्वं स्वभावश्च लिङ्गं गोत्रप्रभेदता । आदीनवोऽनुशंसश्च द्विधौपम्यं चतुर्विधा ॥ ३.१ ॥ अनेन गोत्रस्यास्तित्वमग्रत्वं स्वभावो लिङ्गं भेद आदीनप्रवोऽनुशंसो द्विधौपम्यं चेत्येष प्रभेदः संगृहीतः । एते च प्रभेदाः प्रत्येकं चतुर्विधाः । अनेन गोत्रास्तित्वविभागे श्लोकः । धातूनामधिमुक्तेश्च प्रतिपत्तेश्च भेदतः । फलभेदोपलब्धेश्च गोत्रास्तित्वं निरूप्यते ॥ ३.२ ॥ नानाधातुकत्वात्सत्त्वानामपरिमाणो धातुप्रभेदो यथोक्तमक्षराशिसूत्रे । तस्मादेवंजातीयकोऽपि धातुभेदः प्रत्येतव्यः इति । अस्ति यानत्रये गोत्रभेदः । अधिमुक्तिभेदोऽपि सत्त्वानामुपलभ्यते । प्रथमत एव कस्यचित्क्वचिदेव यानेऽधिमुक्तिर्भवति । सोऽन्तरेण गोत्रभेदं न स्यात् । उत्पादितायामपि च प्रत्ययवशेनाधिमुक्तौ प्रतिपत्तिभेद उपलभ्यते कश्चिन्निर्बोढा भवति कश्चिन्नेति सोऽन्तरेण गोत्रप्रभेदं न स्यात् । फलभेदश्चोपलभ्यते हीनमध्यविशिष्टा बोधयः । सोऽन्तरेण गोत्रभेदं न स्यात्बीजानुरूपत्वात्फलस्य । अग्रत्वविभागे श्लोकः । उदग्रत्वेऽथ सर्वत्वे महार्थत्वेऽक्षयाय च । शुभस्य तन्निमित्तत्वात्गोत्रग्रत्वं विधीयते ॥ ३.३ ॥ अत्र गोत्रस्य चतुर्विधेन निमित्तत्वेनाग्रत्वं दर्शयति । तद्धि गोत्रं कुशलमूलानामुदग्रत्वे निमित्तं, सर्वत्वे, महार्थत्वे, अक्षयत्वे च । न हि श्रावकाणां तथोदग्राणि कुशलमूलानि, न च सर्वाणि सन्ति, बलवैशारद्याद्यभावात् । न च महार्थान्यपरार्थत्वात् । न चाक्षयाण्यनुपधिशेषनिर्वाणावसानत्वात् । लक्षणविभागे श्लोकः । प्रकृत्या परिपुष्टं च आश्रयश्चाश्रितं च तत् । सदसच्चैव विज्ञेयं गुणोत्तारणतार्थतः ॥ ३.४ ॥ (१२) एतेन चतुर्विधं गोत्रं दर्शयति । प्रकृतिस्थं समुदानीतमाश्रयस्वभावमाश्रितस्वभावं च तदेव यथाक्रमम् । तत्पुनर्हेतुभावेन सत्फलभावेनासत्गुणोत्तारणार्थेन गोत्रं वेदितव्यं गुणा उत्तरन्त्यस्मादुद्भवन्तीति कृत्वा । लिङ्गविभागे श्लोकः । कारुण्यमधिमुक्तिश्च क्षान्तिश्चादिप्रयोगतः । समाचारः शुभस्यापि गोत्रलिङ्गं निरूप्यते ॥ ३.५ ॥ चतुर्विधं लिङ्गं बोधिसत्त्वगोत्रे । आदिप्रयोगत एव कारुण्यं सत्त्वेषु । अधिमुक्तिर्महायानधर्मे । क्षान्तिर्दुष्करचर्यायां सहिष्णुतार्थेन । समाचारश्च पारमितामयस्य कुशलस्येति । प्रभेदविभागे श्लोकः । नियतानियतं गोत्रमहार्यं हार्यमेव च । प्रत्ययैर्गोत्रभेदोऽयं समासेन चतुर्विधः ॥ ३.६ ॥ समासेन चतुर्विधं गोत्रं नियतानियतं तदेव यथाक्रमं प्रत्ययैरहार्यं हार्यं चेति । आदीनवविभागे श्लोकः । क्लेशाभ्यासः कुमित्रत्वं विघातः परतन्त्रता । गोत्रस्यादीनवो ज्ञेयः समासेन चतुर्विधः ॥ ३.७ ॥ बोधिसत्त्वगोत्रे समासेन चतुर्विध आदीनवो येन गोत्रस्थोऽगुणेषु प्रवर्तते । क्लेशबाहुल्यम्, अकल्याणमित्रता, उपकरणविघातः, पारतन्त्र्यं च । अनुशंसविभागे श्लोकः । चिरादपायगमनमाशुमोक्षश्च तत्र च । तनुदुःखोपसंवित्तिः सोद्वेगा सत्त्वपाचना ॥ ३.८ ॥ चतुर्विधो बोधिसत्त्वस्य गोत्रेऽनुशंसः । चिरेणापायान् गच्छति । क्षिप्रं च तेभ्यो मुच्यते । मृदुकं च दुःखं तेषूपपन्नः प्रतिसंवेदयते । संविग्नचेतास्तदुपपन्नांश्च सत्त्वान्करुणायमानः परिपाचयति । महासुवर्णगोत्रौपम्ये श्लोकः । सुवर्णगोत्रवत्ज्ञेयममेयशुभताश्रयः । ज्ञाननिर्मलतायोगप्रभावाणां च निश्रयः ॥ ३.९ ॥ (१३) महासुवर्णगोत्रं हि चतुर्विधस्य सुवर्णस्याश्रयो भवति । प्रभूतस्य, प्रभास्वरस्य, निर्मलस्य, कर्मण्यस्य च । तत्साधर्म्येण बोधिसत्त्वगोत्रमप्रमेयकुशलमूलाश्रयः । ज्ञानाश्रयः । क्लेशनैर्मल्याप्राप्त्याश्रयः । अभिज्ञादिप्रभावाश्रयश्च । तस्मान्महासुवर्णगोत्रोपमं वेदितव्यम् । महारत्नगोत्रौपम्ये श्लोकः । सुरत्नगोत्रवज्ज्ञेयं महाबोधिनिमित्ततः । महाज्ञानसमाध्यार्यमहासत्त्वार्थनिश्रयात् ॥ ३.१० ॥ महारत्नगोत्रं हि चतुर्विधरत्नाश्रयो भवति । जात्यस्य वर्णसंपन्नस्य संस्थानसंपन्नस्य प्रमाणसंपन्नस्य च । तदुपमं बोधिसत्त्वगोत्रं वेदितव्यम्, महाबोधिनिमित्तत्वात्, महाज्ञाननिमित्तत्वात्, आर्यसमाधिनिमित्तत्वात्, चित्तस्य हि संस्थितिः समाधिः, महासत्त्वपरिपाकनिमित्तत्वाच्च बहुसत्त्वपरिपाचनात् । अगोत्रस्थविभागे श्लोकः । ऐकान्तिको दुश्चरितेऽस्ति कश्चित्कश्चित्समुद्घातितशुक्लधर्मा । अमोक्षभागीयशुभोऽस्ति कश्चिन्निहीनशुक्लोऽस्त्यपि हेतुहीनः ॥ ३.११ ॥ अपरिनिर्वाणधर्मक एतस्मिन्नगोत्रस्थोऽभिप्रेतः । स च समासतो द्विविधः । तत्कालापरिनिर्वाणधर्मा अत्यन्तं च । तत्कालापरिनिर्वाणधर्मा चतुर्विधः । दुश्चरितैकान्तिकः, समुच्छिन्नकुशलमूलः, अमोक्षभागीयकुशलमूलः, हीनकुशलमूलश्चापरिपूर्णसंभारः । अत्यन्तापरिनिर्वाणधर्मा तु हेतुहिनो यस्य परिनिर्वाणगोत्रमेव नास्ति । प्रकृतिपरिपुष्टगोत्रमाहात्म्ये श्लोकः । गाम्भीर्यौदार्यवादे परहितकरणायोदिते दीर्घधर्मे अज्ञात्वैवाधिमुक्तिर्भवति सुविपुला संप्रपत्तिक्षमा च । संपत्तिश्चावसाने द्वयगतपरमा यद्भवत्येव तेषां तज्ज्ञेयं बोधिसत्त्वप्रकृतिगुणवतस्तत्प्रपुष्टाच्च गोत्रात् ॥ ३.१२ ॥ यद्गाभी[म्भी]र्योदार्यवादिनि परहितक्रियार्थमुक्ते विस्तीर्णे महायानधर्मे गाम्भीर्यौदार्यार्थमज्ञात्वैवाधिमुक्तिर्विपुला भवति, प्रतिपत्तौ चोत्साहः [चाखेदः] संपत्तिश्चावसाने महाबोधिर्द्वयगतायाः (१४) संपत्तेः परमा, तत्प्रकृत्या गुणवतः परिपुष्टस्य च बोधिसत्त्वगोत्रस्य माहात्म्यं वेदितव्यम् । द्वयगता इति द्वये लौकिकाः श्रावकाश्च । परमेति विशिष्टा । फलतो गोत्रविशेषणे श्लोकः । सुविपुलगुणबोधिवृक्षवृद्ध्यै घनसुखदुःखशमोपलब्धये च । स्वपरहितसुखक्रिया फलत्वाद्भवति समुदग्र[समूलमुदग्र]गोत्रमेतत् ॥ ३.१३ ॥ स्वपरहितफलस्य बोधिवृक्षस्य प्रशस्तमूलत्वमनेन बोधिसत्त्वगोत्रं संदर्शितम् । ॥ महायानसूत्रालंकारे गोत्राधिकारस्तृतीयः ॥ (१५) चतुर्थोऽधिकारः चित्तोत्पादलक्षणे श्लोकः । महोत्साहा महारम्भा महार्थाथ महोदया । चेतना बोधिसत्त्वानां द्वयार्था चित्तसंभवः ॥ ४.१ ॥ महोत्साहा संनाहवीर्येण गम्भीरदुष्करदीर्घकालप्रतिपक्षोत्स[त्त्यु]त्सहनात् । महारम्भा यथासंनाहप्रयोगवीर्येण । महार्था आत्मपरहिताधिकारात् । महोदया महाबोधिसमुदागमत्वात् । सोऽयं त्रिविधो गुणः परिदीपितः, पुरुषकारगुणो द्वाभ्यां पदाभ्यामर्थक्रियागुणः फलपरिग्रहगुणश्च द्वाभ्याम् । द्वयार्था महाबोधिसत्त्वार्थक्रियालम्बनत्वात् । इति त्रिगुणा द्वयालम्बना च चतेना चित्तोत्पाद इत्युच्यते । चित्तोत्पादप्रभेदे श्लोकः । चित्तोत्पादोऽधिमोक्षोऽसौ शुद्धाध्याशयिकोऽपरः । वैपाक्यो भूमिषु मतस्तथावरणवर्जितः ॥ ४.२ ॥ चतुर्विधो बोधिसत्त्वानां चित्तोत्पादः । आधिमोक्षिकोऽधिमुक्तिचर्याभूमौ । शुद्धाध्याशयिकः सप्तसु भूमिषु । वैपाकिकोऽष्टम्यादिषु । अनावरणिको बुद्धभूमौ । चित्तोत्पादविनिश्चये चत्त्वारः श्लोकाः । करुणामूल इष्टोऽसौ सदासत्त्वहिताशयः । धर्माधिमोक्षस्तज्ज्ञानपर्येष्ट्यालम्बनस्तथा ॥ ४.३ ॥ उत्तरच्छन्दयानोऽसौ प्रतिष्ठाशीलसंवृतिः । उत्थापना विपक्षस्य परिपन्थोऽधिवासना ॥ ४.४ ॥ शुभवृद्ध्यनुसंसोऽसौ पुण्यज्ञानमयः स हि । सदापारमितायोगनिर्याणश्च स कथ्यते ॥ ४.५ ॥ भूमिपर्यवसानोऽसौ प्रतिस्वं तत्प्रयोगतः । विज्ञेयो बोधिसत्त्वानां चित्तोत्पादविनिश्चयः ॥ ४.६ ॥ तथायं विनिश्चयः । किंमूल एष चतुविर्धो बोधिसत्त्वानां चित्तोत्पादः किमाशयः किमधिमोक्षः किमालम्बनः किंयानः किंप्रतिष्ठः किमादीनवः किमनुशंसः किंनिर्याणः (१६) किंपर्यवसान इति । आह । करुणामूलः । सदासत्त्वहिताशयः । महायानधर्माधिमोक्षः । तज्ज्ञानपर्येष्ट्याकारेण तज्ज्ञानालम्बनात्[नः] । उत्तरोत्तरच्छन्दयानः । बोधिसत्त्वशीलसंवरप्रतिष्ठः । परिपन्थ आदीनवः । कः पुनस्तत्परिपन्थो विपक्षस्यान्ययानचित्तस्योत्थापनाधिवासना वा । पुण्यज्ञानमयकुशलधर्मवृद्ध्यनुशंसः । सदापारमिताभ्यासनिर्याणः । भूमिपर्यवसानश्च प्रतिस्वं भूमिप्रयोगात् । यस्यां भूमौ यः प्रयुक्तस्तस्य तद्भूमिपर्यवसानः । समादानसांकेतिकचित्तोत्पादे श्लोकः । मित्रबलाधेतुबलान्मूलबलाच्छ्रू तबलाच्छुभाभ्यासात् । अदृढदृढोदय उक्तश्चित्तोत्पादः पराख्यानात् ॥ ४.७ ॥ यो हि पराख्यानाच्चित्तोत्पादः परविज्ञापनात्स उच्यते समादानसांकेतिकः । स पुनर्मित्रबलाद्वा भवति कल्याणमित्रानुरोधात् । हेतुबलाद्वा गोत्रसामर्थ्यात् । कुशलमूलद्वातीत[तद्गोत्र]पुष्टितः । श्रुतबलाद्वा तत्र तत्र धर्मपर्याये भाष्यमाणे बहूनां बोधिचित्तोत्पादात् । शुभाभ्यासाद्वा दृष्ट इव धर्मे सततश्रवणोद्ग्रहणधारणादिभिः । स पुनर्मित्रबलाददृढोदयो वेदितव्यः । हेत्वादिबलाद्दृढोदयः । पारमार्थिकचित्तोत्पादे सप्त श्लोकाः । सूपासितसंबुद्धे सुसंभूतज्ञानपुण्यसंभारे । धर्मेषु निर्विकल्पज्ञानप्रसवात्परमतास्य ॥ ४.८ ॥ धर्मेषु च सत्त्वेषु च तत्कृत्येषूत्तमे च बुद्धत्वे । समचित्तोपा[त्तोप]लम्भात्प्रामोद्यविशिष्टता तस्य ॥ ४.९ ॥ जन्मौदार्यं तस्मिन्नुत्साहः शुद्धिराशयस्यापि । कौशल्यं परिशिष्टे निर्याणं चैव विज्ञेयम् ॥ ४.१० ॥ धर्माधिमुक्तिबीजात्पारमिताश्रेष्ठमातृतो जातः । ध्यानमये सुखगर्भे करुणा संवर्धिका धात्री ॥ ४.११ ॥ औदार्यं विज्ञेयं प्रणिधानमहादशाभिनिर्हारात् । उत्साहो बोद्धव्यो दुष्करदीर्घाधिकाखेदात् ॥ ४.१२ ॥ आसन्नबोधिबोधात्तदुपायज्ञानलाभतश्चापि । आशयशुद्धिर्ज्ञेया कौशल्यं त्वन्यभूमिगतम् ॥ ४.१३ ॥ (१७) निर्याणं विज्ञेयं यथाव्यवस्थानमनसिकारेण । तत्कल्पनताज्ञानादविकल्पनया च तस्यैव ॥ ४.१४ ॥ प्रथमेन श्लोकेनोपदेशप्रतिपत्त्यधिगमविशेषैः पारमार्थिकत्वं चित्तोत्पादस्य दर्शयति । स च पारमार्थिकश्चित्तोत्पादः प्रमुदितायां भूमाविति [प्रमुदिताभूमिः] । प्रामोद्यविशिष्टतायास्तत्र कारणं दर्शयति । तत्र धर्मेषु समचित्तता धर्मनैरात्म्यप्रतिबोधात् । सत्त्वेषु समचित्तता आत्मपरसमतोपगमात् । सत्त्वकृत्येषु समचित्तता आत्मन इव तेषां दुःखक्षयाकाङ्क्षणात् । बुद्धत्वे समचित्तता तद्धर्मधातोरात्मन्यभेदप्रतिबोधात् । तस्मिन्नेव च पारमार्थिकचित्तोत्पादे षडर्था वेदितव्याः । जन्म औदार्यमुत्साह आशयशुद्धिः परिशिष्टकौशल्यं निर्याणं च । तत्र जन्म बीजमातृगर्भधात्रीविशेषाद्वेदितव्यम् । औदार्यं दशमहाप्रणिधानाभिनिर्हारात् । उत्साहो दीर्घकालिकदुष्कराखेदात् । आशयशुद्धिरासन्नबोधिज्ञानात्तदुपायज्ञानलाभाच्च । परिशिष्टकौशल्यमन्यासु भूमिषु कौशल्यम् । निर्याणं यथाव्यवस्थानभूमिमनसिकारेण । कथं मनसिकारेण, तस्य भूमिव्यवस्थानस्य कल्पनाज्ञानात्कल्पनामात्रमेतदिति । तस्यैव च कल्पनाज्ञानस्याविकल्पनात् । औपम्यमाहात्म्ये षट्श्लोकाः । पृथिवीसम उत्पादः कल्याणसुवर्णसंनिभश्चान्यः । शुक्लनवचन्द्रसदृशो बह्निप्रख्योऽपरोच्छ्रायः [ज्ञेयः] ॥ ४.१५ ॥ भूयो महानिधानवदन्यो रत्नाकरो यथैवान्यः । सागरसदृशो ज्ञेयो वज्रप्रख्योऽचलेन्द्रनिभः ॥ ४.१६ ॥ भैषज्यराजसदृशो महासुहृत्संनिभोऽपरो ज्ञेयः । चिन्तामणिप्रकाशो दिनकरसदृशोऽपरो ज्ञेयः ॥ ४.१७ ॥ गन्धर्वमधुरघोषवदन्यो राजोपमोऽपरो ज्ञेयः । कोष्ठागारप्रख्यो महापथसमस्तथैवान्यः ॥ ४.१८ ॥ यानसमो विज्ञेयो गन्धर्वसमश्च वेतसग[चेतसः]प्रभवः । आनन्दशब्दसदृशो महानदीश्रोत[स्त्रोतः]सदृशश्च ॥ ४.१९ ॥ मेघसदृशश्च कथितश्चित्तोत्पादो जिनात्मजानां हि । तस्मात्तथा गुणाढ्यं चित्तं मुदितैः समुत्पाद्यम् ॥ ४.२० ॥ (१८) प्रथमचित्तोत्पादो बोधिसत्त्वानां पृथिवीसमः सर्वबुद्धधर्मतत्संभारप्रसवरस्य प्रतिष्ठाभूतत्वात् । आशयसहगतश्चित्तोत्पादः कल्याणसुवर्णसदृशो हितसुखाध्याशयस्य विकाराभजनात् । प्रयोगसहगतः शुक्लपक्षनवचन्द्रोपमः कुशलधर्मवृद्धिगमनात् । अध्याशयसहगतो बह्निसदृश इन्धनाकरविशेषेणेवाग्निस्तस्योत्तरोत्तरविशेषाधिगमनात् । विशेषाधिगमाशयो ह्यध्याशयः । दानपारमितासहगतो महानिधनोपम आमिषसंभोगेनाप्रमेयसत्त्वसंतर्पणादक्षयत्वाच्च । शीलपारमितासहगतो रत्नाकरोपमः सर्वगुणरत्नानां ततः प्रसवात् । क्षान्तिपारमितासहगतः सागरोपमः सर्वानिष्टोपरिपातैरक्षोभ्यत्वात् । वीर्यपारमितासहगतो वज्रोपमो दृढत्वादभेद्यतया । ध्यानपारमितासहगतः पर्वतराजोपमो निष्कम्पत्वादविक्षेपतः । प्रज्ञापारमितासहगतो भैषज्यराजोपमः सर्वक्लेशज्ञेयावरणव्याधिप्रशमनात् । अप्रमाणसहगतो महासुहृत्संनिभः सर्वावस्थं सत्वानुपेक्षकत्वात् । अभिज्ञासहगतश्चिन्तामणिसदृशो यथाधिमोक्षं तत्फलसमृद्धेः । संग्रहवस्तुसहगतो दिनकरसदृशो विनेयसस्यपरिपाचनात् । प्रतिसंवित्सहगतो गन्धर्वमधुरघोषोपमो विनेयावर्जकधर्मदेशकत्वात् । प्रतिशरणसहगतो महाराजोपमोऽविप्रणाशहेतुत्वात् । पुण्यज्ञानसंभारसहगतः कोष्ठागारोपमो बहुपुण्यज्ञानसंभारकोषस्थानत्वात् । बोधिपक्षसहगतो महाराजपथोपमः सर्वार्यपुद्गलयातानुयतत्वात् । शमथविपश्यनासहगतो यानोपमः सुखवहनात् । धारणा-प्रतिभानसहगतो गन्धर्वोपमः उदकधारणाक्षयोद्भेदसाधर्म्येण श्रुताश्रुतधर्मार्थधारणाक्षयोद्भेदतः । धर्मोद्दानसहगत आनन्दशब्दसदृशो मोक्षकामानां विनेयानां प्रियश्रावणात् । एकायनमार्गसहगतो नदीश्रो[स्रो]तः समः स्वरसवाहित्वात् । अनुत्पत्तिकधर्मक्षान्तिलाभे एकायनत्वं तद्भूमिगतानां बोधिसत्त्वानामभिन्नकार्यक्रियात्वात् । उपायकौशल्यसहगतो मेघोपमः सर्वसत्त्वार्थक्रियातदधीनत्वात्तुषितभवनवासादिसंदर्शनतः । यथा मेघात्सर्वभाजनलोकसंपत्त्यः । एष च द्वाविंशत्युपमश्चित्तोत्पाद आर्याक्षयमतिसूत्रेऽक्षगतानुसारेणानुगन्तव्यः । चित्तानुत्पादपरिभाषायां श्लोकः । परार्थचित्तात्तदुपायलाभतो महाभिसंध्यर्थसुतत्वदर्शनात् । महार्हचित्तोदयवर्जिता जनाः शमं गमिष्यन्ति विहाय तत्सुखम् ॥ ४.२१ ॥ तेन चित्तोत्पादेन वर्जिताः सत्त्वाश्चतुर्विधं सुखं न लभन्ते यद्बोधिसत्त्वानां परार्थचिन्तनात्सुखम् । (१९) यच्च परार्थोपायलाभात् । यच्च महाभिसंध्यर्थसंदर्शनात्गम्भीरमहायानस्वतो[सूत्रा]भिप्रायिकार्थविबोधतः । यच्च परमतत्त्वस्य धर्मनैरात्म्यस्य संदर्शनात्सुखम् । चित्तोत्पादप्रशंसायां दुर्गतिपरिखेदनिर्भयतामुपादाय श्लोकः । सहोदयाच्चित्तवरस्य धीमतः सुसंवृतं चित्तमनन्तदुष्कृतात् । सुखेन दुःखेन च मोदते सदा शुभी कृपालुश्च विवर्धन[यन्] द्वयम् ॥ ४.२२ ॥ तस्य चित्तवरस्य सहोदयाब्दोधिसत्त्वस्य सुसंवृतं चित्तं भवत्यनन्तसत्त्वाधिष्ठानाद्दुष्कृतादतोऽस्य दुर्गतितो भयं न भवति । स च द्वयं वर्धयन् शुभं च कर्म-कृपां च नित्यं च शुभी भवति कृपालुश्च तेन सदा मोदते । सुखेनापि शुभित्वात् । दुःखेनापि परार्थक्रियानिमित्तेन कृपालुत्वात् । अतोऽस्य बहुकर्त्तव्यतापरिखेदादपि भयं न भवति । अकरणसंवरलाभे श्लोकः । यदानपेक्षः स्वशरीरजीविते परार्थमभ्येति परं परिश्रमम् । परोपघातेन तथाविधः कथं स दुष्कृते कर्मणि संप्रवर्त्स्यति ॥ ४.२३ ॥ अस्य पिण्डार्थो यस्य पर एव प्रियतरो नात्मा परार्थं स्वशरीरजीविते निरपेक्षत्वात् । स कथमात्मार्थं परोपघातेन दुष्कृते कर्मणि प्रवर्त्स्यतीति । चित्ताव्यावृत्तौ श्लोकौ । मायोपमान्वीक्ष्य स सर्वधर्मानुद्यानयात्रामिव चोपपत्तीः । क्लेशाच्च दुःखाच्च बिभेति नासौ संपत्तिकालेऽथ विपत्तिकाले ॥ ४.२४ ॥ स्वका गुणाः सत्त्वहिताच्च मोदः संचिन्त्यजन्मर्द्धिविकुर्वितं च । विभूषणं भोजनमग्रभूमिः क्रीडारतिर्नित्यकृपात्मकानाम् ॥ ४.२५ ॥ मायोपमसर्वधर्मेक्षणात्स बोधिसत्त्वः संपत्तिकाले क्लेशेभ्यो न विभेति । उद्यानयात्रोपमोपपत्तीक्षणात्विपत्तिकाले दुःखान्न बिभेति । तस्य कुतो भयाब्दोधिचित्तं व्यावर्तिष्यते । अपि च स्वगुणा मण्डनं बोधिसत्त्वानाम् । परहितात्प्रीतिर्भोजनम् । संचिन्त्योपपत्तिरुद्यानभूमिः । ऋद्धिविकुर्वितं क्रीडारतिर्बोधिसत्त्वानामेवास्ति । नाबोधिसत्त्वानाम् । तेषां कथं चित्तं व्यावर्तिष्यते । दुःखत्रासप्रतिषेधे श्लोकः । परार्थमुद्योगवतः कृपात्मनो ह्यवीचिरप्येति यतोऽस्य रम्यताम् । कुतः पुनस्त्रस्यति तादृशो भवन् पराश्रयैर्दुःखसमुद्भवैर्भवे ॥ ४.२६ ॥ (२०) अपि च यस्य परार्थमुद्योगवतः करुणात्मकत्वादवीचिरपि रम्यः स कथं परार्थनिमित्तैर्दुःखोत्पादैर्भवे पुनस्त्रासमापत्स्यते । यतोऽस्य दुःखात्त्रासः स्याच्चित्तस्य व्यावृत्तिर्भवति । सत्त्वोपेक्षाप्रतिषेधे श्लोकः । महाकृपाचार्यसदोषितात्मनः परस्य दुःखैरुपतप्तचेतसः । परस्य कृत्ये समुपस्थिते पुनः परैः समादापनतोऽतिलज्जना ॥ ४.२७ ॥ यस्य महाकरुणाचार्येण नित्योषितः आत्मा परदुःखैश्च दुःखितं चेतस्तस्योत्पन्ने परार्थं करणीये यदि परैः कल्याणमित्रैः समादापना कर्तव्या भवति अतिलज्जना । कौशीद्यपरिभाषायां श्लोकः । शिरसि विनिहितोच्चसत्त्वभारः शिथिलगतिर्नहि शोभतेऽग्रसत्त्वः । स्वपरविविधबन्धनातिबद्धः शतगुणमुत्सहमर्हति प्रकर्त्तुम् ॥ ४.२८ ॥ शिरसि महान्तं सत्त्वभारं विनिधाय बोधिसत्त्वः शिथिलं पराक्रममाणो न शोभते । शतगुणं हि स वीर्यं कर्तुमर्हति श्रावकवीर्यात्तथा हि स्वपरबन्धनैर्विविधैरत्यर्थं बद्धः क्लेशकर्मजन्मस्वभावैः । ॥ महायानसूत्रालंकारे चित्तोत्पादाधिकारश्चतुर्थः ॥ (२१) पञ्चमोऽधिकारः प्रतिपत्तिलक्षणे श्लोकः । महाश्रयारम्भफलोदयात्मिका जिनात्मजानां प्रतिपत्तिरिष्यते । सदा महादानमहाधिवासना महार्थसंपादनकृत्यकारिका ॥ ५.१ ॥ तत्र महाश्रया चित्तोत्पादाश्रयत्वात् । महारम्भा स्वपरार्थारम्भात् । महाफलोदया महाबोधिफलत्वात् । अत एव यथाक्रमं महादाना सर्वसत्त्वोपादानात् । महाधिवासना सर्वदुःखाधिवासनात् । महार्थसंपादनकृत्यकारिका विपुलसत्त्वार्थसंपादनात् । स्वपरार्थनिर्विशेषत्वे श्लोकः । परत्रलब्ध्वात्मसमानचित्ततां स्वतोऽधि वा श्रेष्ठतरेष्टतां परे । तथात्मनोऽन्यार्थविशिष्टसंज्ञिनः स्वकार्थता का कतमा परार्थता ॥ ५.२ ॥ परत्रात्मसमानचित्ततां लब्ध्वाधिमुक्तितो वा सांकेतिकचित्तोत्पादलाभे ज्ञानतो वा पारमार्थिकचित्तोत्पादलाभे । आत्मतो वा पुनः परत्र विशिष्टतरामिष्टतां लब्ध्वा तेनैव च कारणेनात्मनः परार्थे विशिष्टसंज्ञिनो बोधिसत्त्वस्य कः स्वार्थः परार्थो वा । निर्विशेषं हि तस्योभयमित्यर्थः । परार्थविशेषणे श्लोकः । परत्र लोको न तथातिनिर्दयः प्रवर्तते तापनकर्मणारिपौ । यथा परार्थं भृशदुःखतापने कृपात्मकः स्वात्मनि संप्रवर्तते ॥ ५.३ ॥ यथा स्वात्मनः परार्थो विशिष्यते तत्साधयति परार्थमात्मनोऽत्यर्थं संतापनात् । परार्थप्रतिपत्तिविभागे द्वौ श्लोकौ । निकृष्टमध्योत्तमधर्मतास्थिते सुदेशनावर्जनतावतारणा । विनीतिरर्थे परिपाचना शुभे तथाववादस्थितिबुद्धिमुक्तयः ॥ ५.४ ॥ गुणैर्विशिष्टैः समुदागमस्तथा कुलोदयो व्याकरणाभिषिक्तता । तथागतज्ञानमनुत्तरं पदं परार्थ एष त्र्यधिको दशात्मकः ॥ ५.५ ॥ (२२) त्रिविधे सत्त्वनिकाये हीनमध्यविशिष्टगोत्रस्थेः त्रयोदशविधो बोधिसत्त्वस्य परार्थः । सुदेशनानुशासन्यादेशनाप्रतिहार्याभ्याम् । आवर्जना ऋद्धिप्रातिहायेर्ण । अवतारणा शासनाभ्युपगमनात् । विनीतिरर्थेऽवतीर्णानां संशयच्छेदनम् । परिपाचना कुशले । अववादश्चित्तस्थितिः प्रज्ञाविमुक्तिः, अभिज्ञादिभिर्विशेषकैर्गुणैः समुदागमः । तथागतकुले जन्म, अष्टभ्यां भूमौ व्याकरणं दशम्यामभिषेकश्च । सह तथागतज्ञानेनेत्येष त्रिषु गोत्रस्थेषु यथायोगं त्रयोदशविधः परार्थो बोधिसत्त्वस्य । परार्थप्रतिपत्तिसंपत्तौ श्लोकः । जनानुरूपाविपरीतदेशना निरुन्नता चाप्यममा विचक्षणा । क्षमा च दान्ता च सुदूरगाक्षया जिनात्मजानां प्रतिपत्तिरुत्तमा ॥ ५.६ ॥ यथासौ परार्थपतिपत्तिः संपन्ना भवति तथा संदर्शयति । कथं चासौ संपन्ना भवति । यदि गोत्रस्थजनानुरूपाविपरीता च देशना भवति । अनुन्नता चावर्जना । अममा चावतारणा । न ऋद्धया मन्यते न चावतारितान्सत्त्वान्ममायति । विचक्षणा चार्थे विनीतिप्रतिपत्तिर्भवति । क्षमा च शुभे परिपाचनाप्रतिपत्तिः । दान्ता चाववादादिप्रतिपत्तिः । न ह्यदान्तोऽववादादिषु परेषां समर्थः । सुदूरगा च कुलोदयादिप्रतिपत्तिः । न ह्यदूरगतया प्रतिपत्त्या कुलोदयादयः परेषां कर्तुं शक्याः । सर्वा चैषा, परार्थप्रतिपत्तिर्बोधिसत्त्वानामक्षया भवत्यभ्युपगतसत्त्वाक्षयत्वादतोऽपि संपन्ना वेदितव्या । प्रतिपत्तिविशेषणे द्वौ श्लोकौ । महाभये कामिजनः प्रवर्तते चले विपर्याससुखे भवप्रियः । प्रतिस्वमाधिप्रशमे शमप्रियः सदा तु सर्वाधिग[श]मे कृपात्मकः ॥ ५.७ ॥ जनो विमूढः स्वसुखार्थमुद्यतः सदा तदप्राप्य परैति दुःखताम् । सदा तु धीरो हि परार्थमुद्यतो द्वयार्थमाधाय परैति निर्वृतिम् ॥ ५.८ ॥ तत्र कामानां महाभयत्वं बहुकायिकचैतसिकदुःखदुर्गतिगमनहेतुत्वात् । चलं विपर्याससुखं रूपारूप्यभवप्रियाणामनित्यत्वात्परमार्थदुःखत्वाच्च संस्कारदुःखतया । आधयः क्लेशा वेदितव्या दुःखाधानात् । विमूढो जनः सदा स्वसुखार्थं प्रतिपन्नः सुखं नाप्नोति दुःखमेवाप्नोति । बोधिसत्त्वस्तु परार्थं प्रतिपन्नः स्वपरार्थं संपाद्य निर्वृतिसुखं प्राप्नोत्ययमस्यापरः प्रतिपत्तिविशेषः । (२३) गोचरपरिणामने श्लोकः । यथा यथा ह्यक्षविचित्रगोचरे प्रवर्तते चारगतो जिनात्मजः । तथा तथा युक्तसमानतापदैर्हिताया सत्त्वेष्वभिसंस्करोति तत् ॥ ५.९ ॥ येन येन प्रकारेण चक्षुरादीन्द्रियगोचरे विचित्रे बोधिसत्त्वः प्रवर्तते । ईर्यापथव्यापारचारे वर्तमानस्तेन तेन प्रकारेण संबद्धसादृश्यवचनैर्हितार्थं सत्त्वेषु तत्सर्वमभिसंस्करोति । यथा गोचरपरिशुद्धिसूत्रे विस्तरेण निर्दिष्टम् । सत्त्वेष्वक्षान्तिप्रतिषेधे श्लोकः । सदास्वतन्त्रीकृतदोषचेतने जने न संदोषमुपैति बुद्धिमान् । अकामकारेण हि विप्रपत्तयो जने भवन्तीति कृपाविवृद्धितः ॥ ५.१० ॥ सदा क्लेशैरस्वतन्त्रीकृतचेतने जने न संदोषमुपैति बोधिसत्त्वः । किं कारणम् । अकामकारेणैषां विप्रतिपत्तयो भवन्तीति विदित्वा करुणावृद्धिगमनात् । प्रतिपत्तिमाहात्म्ये श्लोकः । भवगतिसकलाभिभूयगन्त्री परमशमानुगता प्रपत्तिरेव । विविधगुणगणैर्विवर्धमाना जगदुपगु[गृ?]ह्य सदा कृपाशयेन ॥ ५.११ ॥ चतुर्विधं माहात्म्यं संदर्शयति । अभिभवमाहात्म्यं सकलं भवत्रयं गतिं च पञ्चविधामभिभूयगमनात् । यथोक्तं प्रज्ञापारमितायां, रूपं चेत्सुभूत[ते] भावोऽभविष्यन्नाभावो नेदं महायानं सदेवमानुषासुरलोकमभिभूय निर्यास्यतीति विस्तरः । निर्वृतिमाहात्म्यमप्रतिष्ठनिर्वाणानुगतत्वात् । गुणवृद्धिमाहात्म्यं सत्त्वापरित्यागमाहात्म्यं चेति । ॥ महायानसूत्रालंकारे प्रतिपत्त्यधिकारः पञ्चमः ॥ (२४) षष्ठोऽधिकारः परमार्थलक्षणविभागे श्लोकः । न सन्न चासन्न तथा न चान्यथा न जायते व्येति न चा[ना]वहीयते । न वर्धते नापि विशुध्यते पुनर्विशुध्यते तत्परमार्थलक्षणम् ॥ ६.१ ॥ अद्वयार्थो हि परमार्थः । तमद्वयार्थं पञ्चभिराकारैः संदर्शयति । न सत्परिकल्पितपरतन्त्रलक्षणाभ्यां, न चासत्परिनिष्पन्नलक्षणेन । न तथा परिकल्पितपरतन्त्राभ्यां परिनिष्पन्नस्यैकत्वाभावात् । न चान्यथा ताभ्यमेवान्यत्वाभावात् । न जायते न च व्येत्यनभिसंस्कृतत्वाद्धर्मधातोः । न हीयते न च वर्धते संक्लेशव्यवदानपक्षयोर्निरोधोत्पादे तद्[था]वस्थत्वात् । न विशुध्यति प्रकृत्यसंक्लिष्टत्वात्न च न विशुध्यति आगन्तुकोपक्लेशविगमात् । इत्येतत्पञ्चविभमद्वयलक्षणं परमार्थलक्षणं वेदितव्यम् । आत्मदृष्टिविपर्यासप्रतिषेधे श्लोकः । न चात्मदृष्टिः स्वयमात्मलक्षणा न चापि दुःसंस्थितता विलक्षणा । द्वयान्न चान्यद्भ्रम एषत[तू]दितस्ततश्च मोक्षो भ्रममात्रसंक्षयः ॥ ६.२ ॥ न तावदात्मदृष्टिरेवात्मलक्षणा । नापि दुःसंस्थितता । तथा हि सा विलक्षणा आत्मलक्षणात्परिकल्पितात् । सा पुनः पञ्चोपादानस्कन्धाः क्लेशदौष्ठुल्यप्रभावितत्वात् । नाप्यतो द्वयादन्यदात्मलक्षणमुपपद्यते । तस्मान्नास्त्यात्मा । भ्रम एष तूत्पन्नो येयमात्मदृष्टिस्तस्मादेव चात्माभावोन्मोक्षोऽपि भ्रममात्रसंक्षयो वेदितव्यः, न तु कश्चिन्मुक्तः । विपर्यासपरिभाषायां द्वौ श्लौकौ । कथं जनो विभ्रममात्रामाश्रितः परैति दुःखप्रकृतिं न संतताम् । अवेदको वेदक एव दुःखितो न दुःखितो धर्ममयो न तन्मयः ॥ ६.३ ॥ प्रतीत्यभावप्रभवे कथं जनः समक्षवृत्तिः श्रयतेऽन्यकारितम् । तमः प्रकारः कतमोऽयमीदृशो यतोऽविपश्यन्सदसन्निरीक्षते ॥ ६.४ ॥ कथं नामायं लोको भ्रान्तिमात्रमात्मदर्शनं निःश्रित्य सततानुबद्धं दुःखस्वभावं संस्काराणां न पश्यति । अवेदको ज्ञानेन तस्या दुःखप्रकृतेः । वेदकोऽनुभवेन (२५) दुःखस्या[स्य] दुःखितो दुःखस्याप्रहीणत्वात् । न दुःखिउतो दुःखयुक्तस्यात्मनोऽसत्वात् । धर्ममयो धर्ममात्रत्वात्पुद्गलनैरात्म्येन । न च धर्ममयो धर्मनैरात्म्येन । यदा च लोको भावानां प्रतीत्यसमुत्पादं प्रत्यक्षं पश्यति तं तं प्रत्ययं प्रतीत्य ते ते भावा भवन्तीति । तत्कथमेतां दृष्टिं श्रयतेऽन्यकारितं दर्शनादिकं न प्रतीत्यसमुत्पन्नमिति । कतमोऽयमीदृशस्तमः प्रकारो लोकस्य यद्विद्यमानं प्रतीत्यसमुत्पादमविपश्यन्नविद्यमानमात्मानं निरीक्षते । शक्यं हि नाम तमसा विद्यमानमद्रष्टुं स्यान्न त्वविद्यमानं द्रष्ठुमिति । असत्यात्मनि शमजन्मयोगे श्लोकः । त चान्तरं किंचन विद्यतेऽनयोः सदर्थवृत्त्या शमजन्मनोरिह । तथापि जन्मक्षयतो विधीयते शमस्य लाभः शुभकर्मकारिणाम् ॥ ६.५ ॥ न चास्ति संसारनिर्वाणयोः किंचिन्नानाकरणं परमार्थवृत्त्या नैरात्म्यस्य समतया । तथापि जन्मक्षयान्मोक्षप्राप्तिर्भवत्येव शुभकर्मकारिणां ये मोक्षमार्गं भावयन्ति । विपर्यासपरिभाषां कृत्वा- तत्प्रतिपक्षपारमार्थिकज्ञानप्रवेशे चत्वारः श्लोकाः । संभृत्य संभारमनन्तपारं ज्ञानस्य पुण्यस्य च बोधिसत्त्वः । धर्मेषु चिन्तासुविनिश्रि[श्चि]तत्वाज्जल्पान्वयामर्थगतिं परैति ॥ ६.६ ॥ अर्थान्स विज्ञाय च जल्पमात्रान् संतिष्ठते तन्निभचित्तमात्रे । प्रत्यक्षतामेति च धर्मधातुस्तस्माद्वियुक्तोद्वयलक्षणेन ॥ ६.७ ॥ नास्तीति चित्तात्परमेत्य बुद्ध्या चित्तस्य नास्तित्वमुपैति तस्मात् । द्वयस्य नास्तित्वमुपेत्य धीमान् संतिष्ठतेऽतद्गतिधर्मधातौ ॥ ६.८ ॥ अकल्पनाज्ञानबलेन धीमतः समानुयातेन समन्ततः सदा । तदाश्रयो गह्वरदोषसंचयो महागदेनेव विषं निरस्यते ॥ ६.९ ॥ एकेन संभृतसंभारत्वं धर्मचिन्तासुविनिश्रि[श्चि]तत्वं समाधि[धिं]निश्रित्यभावनान्मनोजल्पाच्च तेषां धर्माणामर्थप्रख्यानावगमात्तत्प्रवेशं दर्शयति । असंख्येयप्रभेदकालं पारमस्य (२६) परिपूरणमित्यनन्तपारम् । द्वितीयेन मनोजल्पमात्रानर्थान्विदित्वा तदाभासे चित्तमात्रेऽवस्थानमियं बोधिसत्त्वस्य निर्वेधभागीयावस्था । ततः परेण धर्मधातोः प्रत्यक्षतो[ऽव?] गमने द्वयलक्षणेन वियुक्तो ग्राह्यग्राहकलक्षणेन । इयं दर्शनमार्गावस्था । तृतीयेन यथासौ धर्मधातुः प्रत्यक्षतामेति तद्दर्शयति । कथं चासौ धर्मधातुः प्रत्यक्षतामेति । चित्तादन्यदालम्बनं ग्राह्यं नास्तीत्यवगम्य बुद्ध्या तस्यापि चित्तमात्रस्य नास्तित्वावगमनं ग्राह्य[आ]भावे ग्राहकाभावात् । द्वये चास्य [द्वयस्यास्य?] नास्तित्वं विदित्वा धर्मधाताववस्थानमतद्गतिर्ग्राह्यग्राहकलक्षणाभ्यां रहितमेवं धर्मधातुः प्रत्यक्षतामेति । चतुर्थेन भावनामार्गावस्थायामाश्रयपरिवर्तनात्पारमार्थिकज्ञानप्रवेशं दर्शयति । सदा सर्वत्र समतानुगतेनाविकल्पज्ञानबलेन यत्र तत्समतानुगतं परतन्त्रे स्वभावे तदाश्रयस्य दूरानुप्रविष्टस्य दोषसंचस्य दौष्ठुल्यलक्षणस्य महागदेनेव विषस्य निरसनात् । परमार्थज्ञानमाहात्म्ये श्लोकः । मुनिविहितसुधर्मसुव्यवस्थो मतिमुपधाय समूलधर्मधातौ । स्मृतिम[ग]तिमवगम्य कल्पमात्रां व्रजति गुणार्णवपारमाशुधीरः ॥ ६.१० ॥ बुद्धविहिते सुधर्मे सुव्यवस्थापिते स परमार्थज्ञानप्रविष्टो बोधिसत्त्वः संपिण्डितधर्मालम्बनस्य मूलचित्तस्य धर्मधातौ मतिमुपनिविधाय या स्मृतिरूपलभ्यते तां सर्वां स्मृतिप्रवृत्तिं कल्पनामात्रामवगच्छत्येवं गुणार्णवस्य पारंबुद्धत्वमाशु व्रजतीत्येतत्परमार्थज्ञानस्य माहात्म्यम् । ॥ महायानसूत्रालंकारे तत्त्वाधिकारः षष्ठः ॥ (२७) सप्तमोऽधिकारः प्रभावलक्षणविभागे श्लोकः । उत्पत्तिवाक्चित्तशुभाशुभाधि तत्स्थाननिःसारपदा परोक्षम् । ज्ञानं हि सर्वत्रगसप्रभेदेष्वव्याहतं धीरगतः प्रभावः ॥ ७.१ ॥ परेषामुपपत्तौ ज्ञानं च्युतोपपादाभिज्ञा । वाचि ज्ञानं दिव्यश्रोत्राभिज्ञायां[यया] वाचं तत्र गत्वोपपन्ना भाषन्ते । चित्ते ज्ञानं चेतः पर्यायाभिज्ञा । पूर्वशुभाशुभाधाने ज्ञानं पूर्वनिवासाभिज्ञा । यत्र विनेयास्तिष्ठन्ति तत्स्थानगमनज्ञानमृद्धिविषयाभिज्ञा । निःसरणे ज्ञानमास्रवक्षयाभिज्ञा, यथा सत्त्वा उपपत्तितो निःसरन्तीति । एषु षट्स्वर्थेषु सर्वत्र लौकधातौ सप्रभेदेषु पदापरोक्षमव्याहतं ज्ञानं स प्रभावो बोधिसत्त्वानां षडभिज्ञासंगृहीतः । प्रभावलक्षणविभागे स्वभावार्थमुक्तः । हेत्वर्थमारभ्य श्लोकः । ध्यानं चतुर्थं सुविशुद्धमेत्य निष्कल्पनाज्ञानपरिग्रहेण । यथाव्यवस्थानमनस्क्रियातः प्रभावसिद्धिं परमां परैति ॥ ७.२ ॥ येन निश्रयेण येन ज्ञानेन येन मनसिकारेण तस्य प्रभावस्य समुदागमस्तत्संदर्शयति । फलार्थमारभ्य श्लोकः । येनार्यदिव्याप्रतिमैर्विहारैर्ब्राह्मैश्च नित्यं विहरत्युदारैः । बुद्धांश्च सत्वांश्च स दिक्षु गत्वा संमानयत्यानयते विशुद्धिम् ॥ ७.३ ॥ त्रिविधं फलमस्य प्रभावस्य संदर्शयति । आत्मन आर्यादिसुखविहारमतुल्यं चोत्कृष्टं च लोकधात्वन्तरेषु गत्वा बुद्धानां पूजनं सत्त्वानां विशोधनं च । कर्मार्थं षड्विधमारभ्य चत्वारः श्लोकाः । दर्शनकर्म संदर्शनकर्म चारभ्य श्लोकः । मायोपमान्पश्यति लोकधातून्सर्वान्ससत्त्वान्सविवर्तनाशान् । संदर्शयत्येव च तान्यथेष्टं वशी विचित्रैरपि स प्रकारैः ॥ ७.४ ॥ (२८) स्वयं च सर्वलोकधातूनां ससत्त्वानां सविवर्तसंवर्तानां मायोपमत्वदर्शनात् । परेषां यथेष्टं तत्संदर्शनात् । अन्यैश्च विचित्रैः कम्पनज्वलनादिप्रकारैः । दशवशितालाभात् । यथा दशभूमिकेऽष्टम्यां भूमौ निर्दिष्टाः । रश्मिकर्मारभ्य श्लोकः । रश्मिप्रमोक्षैर्भृशदुःखितांश्च आपायिकान्स्वर्गगतान्करोति । मारान्वयान् क्षुब्धविमानशोभान् संकम्पयंस्त्रासयते समारान् ॥ ७.५ ॥ द्विविधं रश्मिकर्म संदर्शयति । अपायोपपन्नानां च प्रसादं जनयित्वा स्वर्गोपपादनम् । मारभवनानां च समारकाणां कम्पनोद्वेजनम् । विक्रीडनकर्म चारभ्य श्लोकः । समाधिविक्रीडितमप्रमेयं संदर्शयत्यग्रगणस्यमध्ये । सकर्मजन्मोत्तमनिर्मितैश्च सत्त्वार्थमातिष्ठति सर्वकालम् ॥ ७.६ ॥ अप्रमेयसमाधिविक्रीडितसंदर्शनात्बुद्धपर्षन्मण्डलमध्ये त्रिविधेन निर्माणेन सदा सत्त्वार्थकरणाच्च । त्रिविधं निर्माणं शिल्पकर्मस्थाननिर्माणम् । विनेयवशेनयथेष्टोपपत्तिनिर्माणम् । उत्तमनिर्माणं च तुषितभवनवासादिकम् । क्षेत्रपरिशुद्धिकर्म आरभ्य श्लोकः । ज्ञानवसित्वात्समुपैति शुद्धिं क्षेत्रं यथाकामनिदर्शनाय । अबुद्धनामेषु[?] च बुद्धनाम संश्रावणात्तन्क्षिपतेऽन्यधातौ ॥ ७.७ ॥ द्विविधपापविशोधनया । भाजनपरिशोधनया ज्ञानवशित्वाद्यथेष्टं स्फटिकवैदूर्यादिमयबुद्धक्षेत्रसंदर्शनतः । सत्त्वपरिशोधनया च बुद्धनामविरहितेषु लोकधातुषूपपन्नानां सत्त्वानां बुद्धनामसंश्रावणया प्रसादं ग्राहयित्वा तदविरहितेषु लोकधातुषूपपादनात् । (२९) योगार्थमारभ्य श्लोकः । शक्तो भवत्येव च सत्त्वपाके संजातपक्षः शकुनिर्यथैव । बुद्धात्प्रशंसां लभतेऽतिमात्रामादेयवाक्यो भवति प्रजानाम् ॥ ७.८ ॥ त्रिविधं योगं प्रदर्शयति । सत्त्वपरिपाचनशक्तियोगं प्रशंसायोगमादेयवाक्यतायोगं च । वृत्त्यर्थमारभ्य श्लोकः । षड्धाप्यभिज्ञा त्रिविधा च विद्या अष्टौ विमोक्षाभिभुवस्तथाष्टौ । दशापि कृत्स्नायतनान्यमेयाः समाधयो धीरगतः प्रभावः ॥ ७.९ ॥ षड्भिः प्रभेदैर्बोधिसत्त्वस्य प्रभावो वर्तते । अभिज्ञाविद्याविमोक्षाभिभ्वायतनकृत्स्नायतनाप्रमाणसमाधिप्रभेदैः । एवं षडर्थेन विभागलक्षणेन प्रभावं दर्शयित्वा तन्माहात्म्योद्भावनार्थं श्लोकः । स हि परमवशित्वलब्धबुद्धिर्जगदवशं स्ववशे विधाय नित्यम् । परहितकरणैकताभिरामश्चरति भवेषु हि सिंहवत्सुधीरः ॥ ७.१० ॥ त्रिविधं माहात्म्यं दर्शयति । वशितामाहात्म्यं स्वयं परमज्ञानवशित्वप्राप्त्या क्लेशास्ववशस्य जगतः स्ववशे स्थापनात् । अभिरतिमाहात्म्यं सदा परहितक्रियैकारामत्वात् । भवनिर्भयतामाहात्म्यं च । ॥ प्रभावाधिकारः महायानसूत्रालंकारे सप्तमः ॥ (३०) अष्टमोऽधिकारः बोधिसत्त्वपरिपाके संग्रहः श्लोकः । रूचिः प्रसादः प्रशमोऽनुकम्पना क्षमाथ मेधा प्रबलत्वमेव च । अहार्यताङ्गैः समुपेतता भृशं जिनात्मजे तत्परिपाकलक्षणम् ॥ ८.१ ॥ रूचिर्महायानदेशनाधर्मे, प्रसादस्तद्देशिके, प्रशमः क्लेशानाम्, अनुकम्पा सत्त्वेषु, क्षमा दुष्करचर्यायां, मेधा ग्रहणधारणप्रतिवेधेषु, प्रबलत्वमधिगमे, अहार्यता मारपरप्रवादिभिः, प्राहाणिकाङ्गैः समन्वागतत्वम् । भृशमिति रूच्यादीनामधिमात्रत्वं दर्शयति । एष समासेन बोधिसत्त्वानां नवप्रकार आत्मपरिपाको वेदितव्यः । रूचिपरिपाकमारभ्य श्लोकः । सुमित्रतादित्रयमुग्रवीर्यता परार्धनिष्ठोत्तमधर्मसंग्रहः । कृपालुसद्धर्ममहापरिग्रहे मतं हि सम्यक्परिपाकलक्षणम् ॥ ८.२ ॥ सुमित्रतादित्रयं सत्पुरुषसंसेवा सद्धर्मश्रवणं योनिशोमनसिकारश्च । उग्रवीर्यता अधिमात्रो वीर्यारम्भः । परार्धनिष्ठा सर्वाचिन्त्यस्थाननिर्विचिकित्सता । उत्तमधर्मसंग्रहो महायानधर्मरक्षा, तत्प्रतिपन्नानामुपद्रवेभ्यो रक्षणात् । बोधिसत्त्वस्य महायानधर्मपरिग्रहमधिकृत्येदं रूचिपरिपाकलक्षणं वेदितव्यम् । येन कारणेन परिपच्यते सुमित्रतादित्रयेण । यश्च तस्याः परिपाक उग्रवीर्यपरार्धनिष्ठायुक्तः स्वभावः । यत्कर्म चोत्तमधर्मसंग्रहकरणात्तदेतेन परिदीषितम् । प्रसादपरिपाकमारभ्य श्लोकः । गुणज्ञताथाशुसमाधिलाभिता फलानुभूतिर्मनसोऽध्यभेद[द्य?]ता । जीनात्मजे शास्तरि संप्रपत्तये मतं हि सम्यक्परिपाकलक्षणम् ॥ ८.३ ॥ (३१) तत्परिपाकोऽपि कारणतः स्वभावतः कर्मतश्च परिदीपितः । गुणज्ञता इत्यपि स भगवांस्तथागत इति विस्तरेण कारणम् । अवेत्यप्रभाव[साद]लाभादभेद्यचित्तता स्वभावः । आशुसमाधिलाभस्तत्फलस्य चाभिज्ञादिकस्य प्रत्यनुभवनं कर्म । प्रशमपरिपाकमारभ्य श्लोकः । सुसंवृतिः क्लिष्टवितर्कवर्जना निरन्तरायोऽथ शुभाभिरामता । जिनात्मजे क्लेशविनोदनायतन्मतं हि सम्यक्परिपाकलक्षणम् ॥ ८.४ ॥ क्लेशविनोदना बोधिसत्त्वस्य प्रशमः । तत्परिपाकोऽपि कारणतः स्वभावतः कर्मतश्च परिदीपितः । इन्द्रियाणां स्मृतिसंप्रजन्याभ्यां सुसंवृतिः कारणम् । क्लिष्टवितर्कवर्जना स्वभावः । प्रतिपक्षभावनायां निरन्तरायत्वं कुशलाभिरामता च कर्म । कृपापरिपाकलक्षणमधिकृत्य श्लोकः । कृपा प्रकृत्या परदुःखदर्शनं निहीनचित्तस्य च संप्रवर्जनम् । विशेषगत्वं जगदग्रजन्मता परानुकम्पापरिपाकलक्षणम् ॥ ८.५ ॥ स्वप्रकृत्या च गोत्रेण परदुःखदर्शनेन निहीनयानपरिवर्जनतया च परिपच्यत इतिकारणम् । विशेषगामित्वं परिपाकवृद्धिगमनात्स्वभावः । सर्वलोकश्रेष्ठात्मभावता कर्म अविनिवर्तनीयभूमौ । क्षान्तिपरिपाकलक्षणमारभ्य श्लोकः । घृतिः प्रकृत्या प्रतिसंख्यभावना सुदुःखशीताद्यधिवासना सदा । विशेषगामित्वशुभाभिरामता मतं क्षमायाः परिपाकलक्षणम् ॥ ८.६ ॥ धृतिः सहनं क्षान्तिरिति पर्यायाः ततत्परिपाके गोत्रं प्रतिसंख्यानं भावना च कारणम् । तीव्राणां शीतादिदुःखानामधिवासनास्वभावः । क्षमस्य विशेषगामित्वं कुशलाभिरामता च कर्म । (३२) मेधापरिपाकमारभ्य श्लोकः । विपाकशुद्धिः श्रवणाद्यमोषता प्रविष्टता सूक्तदुरूक्तयोस्तथा । स्मृतेर्महाबुद्ध्युदये च योग्यता सुमेधतायाः परिपाकलक्षणम् ॥ ८.७ ॥ तत्र मेधानुकूला विपाकविशुद्धिः कारणम् । श्रुतचिन्तितभावितचिरकृतचिरभाषितानामसंमोषता सुभाषितदुर्भाषितार्थसुप्रविष्टता च स्मृतेर्मेधापरिपाकस्वभावः । लोकोत्तरप्रज्ञोत्पादनयोग्यता कर्म । बलवत्वप्रतिलम्भपरिपाकमारभ्य श्लोकः । शुभद्वयेन द्वयधातुपुष्टता फलोदये चाश्रययोग्यता परा । मनोरथाप्तिर्जगदग्रभूतता बलोपलम्भे परिपाकलक्षणम् ॥ ८.८ ॥ तत्र पुण्यज्ञानद्वयेन तस्य पुण्यज्ञानद्वयस्य बीजपुष्टता तत्परिपाके कारणम् । अधिगमं प्रत्याश्रययोग्यता तत्परिपाकस्वभावः । मनोरथसंपत्तिर्जगदग्रभूतता च कर्म । अहार्यतापरिपाकमारभ्य श्लोकः । सुधर्मतायुक्तिविचारणाशयो विशेषलाभः परपक्षदूषणम् । पुनः सदा मारनिरन्तरायता अहार्यतायाः परिपाकलक्षणम् ॥ ८.९ ॥ तत्परिपाकस्य सद्धर्मे युक्तिविचारणाकृत आशयः कारणम् । मारनिरन्तरायता स्वभावो यदा मारो न पुनः शन्कोत्यन्तरायं कर्तुम् । विशेषाधिगमः परपक्षदूषणं च कर्म । प्राहाणिकाङ्गसमन्वागमपरिपाकमधिकृत्य श्लोकः । शुभाचयोऽथाश्रययत्नयोग्यता विवेकतोदग्रशुभाभिरामता । जिनात्मजे ह्यङ्गसमन्वये पुनर्मतं हि सम्यक्परिपाकलक्षणम् ॥ ८.१० ॥ (३३) तत्परिपाकस्य कारणं कुशलमूलोपचयः । आश्रयस्य वीर्यारम्भक्षमत्वं स्वभावः । विवेकोत्कृष्टता कुशलाभिरामता च कर्म । नवविधात्मपरिपाकमाहात्म्यमारभ्य श्लोकः । इति नवविधवस्तुपचितात्मा परपरिपाचनयोग्यतामुपेतः । शुभ[धर्म]मयसततप्रवर्धितात्मा भवति सदा जगतोऽग्रबन्धुभूतः ॥ ८.११ ॥ द्विविधं तन्माहात्म्यम् । परपरिपाके प्रतिशरणत्वम् । सततं धर्मकायवृद्धिश्च । तत एव जगतोऽग्रबन्धुभूतः । सत्त्वपरिपाकविभागे एकादश श्लोकाः । व्रणेऽपि भोज्ये परिपाक इष्यते यथैव तत्स्रावणभोगयोग्यता । तथाश्रयेऽस्मिन्द्वयपक्षशान्तता[तां]तथोपभोगत्वसुशान्तपक्षता[मुशन्तिपव्कताम्] ॥ ८.१२ ॥ अनेन परिपाकस्वभावं दर्शयति । यथा व्रणस्य स्रावणयोग्यता परिपाकः । भोजनस्य च भोगयोग्यता । एवं सत्त्वानामाश्रये व्रणभोजनस्थानीये स्रावणस्थानीयं विपक्षशमनम् । भोगस्थानीयश्च प्रतिपक्षोपभोगः । तद्योग्यता आश्रयस्य परिपाक इति । विपक्षप्रतिपक्षावत्र पक्षद्वयं वेदितव्यम् । द्वितीयश्लोकः । विपाचनोक्ता परिपाचना तथा परिपाचना चाप्यनुपाचनापरा । सुपाचना[चा]प्यधिपाचना मता निपाचनोत्पाचनना च देहिषु ॥ ८.१३ ॥ अनेन परिपाकप्रभेदं दर्शयति । क्लेशविगमेन पाचनना [पाचना?] विपाचना । सर्वतो यानत्रयेण पाचना परिपाचना । बाह्यपरिपाकविशिष्टत्वात्प्रकृष्टा पाचना प्रपाचना । यथाविनेयधर्मदेशनात्तदनुरूपा पाचना अनुपाचना । सत्कृत्य पाचना सुपाचना । अधिगमेन पाचना अधिपाचना अविपरीतार्थेन । नित्या पाचना निपाचना अपरिहाणीयार्थेन । क्रमेणोत्तरोत्तरपाचना उत्पाचना । इत्ययमष्टप्रकारः परिपरिपाकप्रभेदः । (३४) तृतीयचतुर्थौ श्लोकौ । हिताशयेनेह यथा जिनात्मजो व्यवस्थितः सर्वजगद्विपाचयन् । तथा न माता न पिता न बन्धवः सुतेषु बन्धुष्वपि सुव्यवस्थिताः ॥ ८.१४ ॥ तथाजनो नात्मनि वत्सलो मतः कुतोऽपि सुस्निग्धपराश्रये जने । यथा कृपात्मा परसत्त्ववत्सलो हिते सुखे चैव नियोजनान्मतः ॥ ८.१५ ॥ आभ्यां किं दर्शयति । यादृशेनाशयेन बोधिसत्त्वः सत्त्वान्परिपाचयति तमाशयं दर्शयति । मातापितृबान्धवाशयविशिष्टं लोकात्मवात्सल्यविशिष्टं च हितसुखसंयोजनात् । आत्मवत्सलस्तु लोक आत्मानं हिते च सुखे च संनियोजयति । अवशिष्टैः श्लोकैर्येन प्रयोगेण सत्त्वान्परिपाचयति तं पारमिता प्रतिपत्त्या संदर्शयति । यादृशेन दानेन यथा सत्त्वान्परिपाचयति तदारभ्य श्लोकः । न बोधिसत्त्वस्य शरीरभोगयोः परेष्वदेयं पुनरस्ति सर्वथा । अनुग्रहेण द्विविधेन पाचयन् परं समैर्दानगुणैर्न तृप्यते ॥ ८.१६ ॥ त्रिविधेन दानेन पाचयति । सर्वस्वशरीरभोगदानेन अविषमदानेन अतृप्तिदानेन च । कथं परिपाचयति दृष्टधर्मसंपरायानुग्रहेण । अविघातेनेच्छापरिपूर्णात्[पूरणात्] । अनागतेन [तेन] च संगृह्य कुशलप्रतिष्ठापनात् । यादृशेन शीलेन यथा सत्वान्परिपाचयति तदारभ्य श्लोकः । सदाप्रकृत्याध्यविहिंसकः स्वयं रतोऽप्रमत्तोऽत्र परं निवेशयन् । परंपरानुग्रहकृदूद्विधा परे विपाकनिष्यन्दगुणेन पाचकः ॥ ८.१७ ॥ पञ्चविधेन शीलेन । ध्रुवशीलेन प्रकृतिशीलेन परिपूर्णशीलेनाध्यविंहिंसकत्वात् । परिपूर्णो ह्यविहिंसकोऽध्यविहिंसको दशकुशलकर्मपथपरिपूरितः । यथोक्तं द्वितीयायां भूमौ । अधिगमशीलेन स्वयंरततया निरन्तरास्खलितशीलेन चाप्रमत्ततया । कथं च (३५) परिपाचयति । शीले संनिवेशनात् । द्विधानुग्रहक्रियया दृष्टधर्मे संपराये च । संपरायानुग्रहं परेषु विपाकनिष्यन्दगुणाभ्यां परंपरया करोति । तद्विपाकनिष्यन्दयोरन्योन्यानुकूल्येनाव्यवच्छेदात् । यादृश्या क्षान्त्या यथा सत्त्वान्परिपाचयति तदारभ्य श्लोकः । परेऽपकारिण्युपकारिबुद्धिमान् प्रमर्षयन्नुग्रमपि व्यतिक्रमम् । उपायचित्तैरपकारमर्षणैः शुभे समादापयतेऽपकारिणः ॥ ८.१८ ॥ अपकारिणि परे उपकारिबुद्ध्या प्रगाढापकारमर्षणक्षान्त्या परिपाचयति । उपकारिबुद्धित्वं पुनः क्षान्तिपारमितापरिपूर्यानुकूल्यवृत्तिता वेदितव्यम् । कथं परिपाचयति । दृष्टधर्मानुग्रहेण चापकारमर्षणात् । संपरायानुग्रहेण चोपायज्ञस्तैरपकारमर्षणैरावर्ज्यापकारिणां कुशले समादापनात् । यादृशेन वीर्येण यथा सत्त्वान्परिपाचयति तदारभ्य श्लोकः । पुनः स यत्नं परमं समाश्रितो न खिद्यते कल्पसहस्रकोटिभिः । जिनात्मजः स[त्त्व]गणं प्रपाचयन्परैकचित्तस्य शुभस्य कारणात् ॥ ८.१९ ॥ अधिमात्रदीर्घकालाखेदे वीर्येण दीर्घकालाखेदित्वमनन्तसत्त्वपरिपाचनात् । परैकचित्तस्य कुशलस्यार्थे कल्पसहस्रकोटिभिरखेदात् । अत एवोक्तं भवति यथा परिपाचयति । कुशलचित्तसंनियोजनात्दृष्टधर्मसंपरायानुग्रहेणेति । यादृशेन ध्यानेन यथा सत्त्वान्परिपाचयति तदारभ्य श्लोकः । वशित्वमागम्य मनस्यनुत्तरं परं समावर्जयतेऽत्र शासने । निहत्य सर्वामवमानकामतां शुभेन संवर्धयते च तं पुनः ॥ ८.२० ॥ प्राप्तानुत्तरवशित्वेन ध्यानेन निरामिषेण च निहतसर्वावमानाभिलाषेण परिपाचयति । बुद्धशासने परस्यावर्जनादावर्जितस्य च कुशलधर्मसंवर्धनात्परिपाचयति । (३६) यादृश्या प्रज्ञया यथा सत्त्वान्परिपाचयति तदारभ्य श्लोकः । स तत्त्वभावार्थनये सुनिश्चितः करोति सत्त्वान्सुविनीत संशयान् । ततश्च ते तज्जिनशासनादराद्विवर्धयन्ते स्वपरं गुणैः शुभैः ॥ ८.२१ ॥ स बोधिसत्त्वस्तत्त्वार्थनये चाभिप्रायार्थनये च सुविनिश्चितया प्रज्ञया परिपाचयति । कथं परिपाचयति सत्त्वानां संशयविनयनात् । ततश्च शासनबहुमानात्तेषामात्मपरगुणसंवर्धकत्वेन । निय[ग]मेन श्लोकः । इति सुगतिगतौ शुभत्रये वा जगदखिलं कृपया स बोधिसत्त्वः । तनुपरमविमध्यमप्रकारैर्विनयति लोकसमानभावगत्या ॥ ८.२२ ॥ अनेन यत्र च विनयति, सुगतिगमने यानत्रये वा । यच्च विनयति, जगदखिलम् । येन च विनयति, कृपया । यश्च विनयति बोधिसत्त्वः । यादृशैश्च परिपाचनप्रकारै तनुपरमविमध्यमप्रकारैः । यावन्तं च कालं, तत्परिदीपनात्समासेन परिपाकमाहात्म्यं दर्शयति । तत्र तनुः प्रकारोऽधिमुक्तिचर्याभूमौ बोधिसत्त्वस्य परमोऽष्टाम्यादिषु विमध्यमः सप्तसु वेदितव्यः । यावल्लोकस्य भावस्तत्समानया गत्या अत्यन्तमित्यर्थः । ॥ महायानसूत्रालंकारे परिपाकाधिकारोऽष्टमः ॥ (३७) नवमोऽधिकारः सर्वाकारज्ञतायां द्वौ श्लोकौ । तृतीयस्तयोरेव निर्देशभूतः । अमेयैर्दुष्करशतैरमेयैः कुशलाचयैः । अप्रमेयेण कालेन अमेयावरणक्षयात् ॥ ९.१ ॥ सर्वकारज्ञतावाप्तिः सर्वावरणनिर्मला । विवृता रत्नपेटेव बुद्धत्वं समुदाहृतम् ॥ ९.२ ॥ कृत्वा दुष्करमद्भुतं श्रमशतैः संचित्यसर्वंशुभं कालेनोत्तमकल्पयानमहता सर्वावृतीनां क्षयात् । सूक्ष्मस्यावरणस्य भूमिषु गतस्योत्पाटनाद्बुद्धता रत्नानामिव सा प्रभावमहतां पेटा समुद्धाति[टि?]ता ॥ ९.३ ॥ समुदागमतः स्वभावत औपम्यतश्च बुद्धत्वमुद्भावितम् । यावद्भिर्दुष्करशतैर्यावद्भिः कुशलसंभारैर्यावता कालेन यावतः क्लेशज्ञेयावरणस्य प्रहाणात्समुदागच्छति, अयं समुदागमः । सर्वाकारज्ञतावाप्तिः सर्वावरणनिर्मला स्वभावः । विवृतारत्नपेटा तदौपम्यम् । तस्यैव बुद्धत्वस्याद्वयलक्षणे सानुभावे द्वौ लोकौ । सर्वधर्माश्च बुद्धत्वं धर्मो नैव च कश्चन । शुक्लधर्ममयं तच्च न च तैस्तन्निरूप्यते ॥ ९.४ ॥ धर्मरत्ननिमित्तत्वाल्लब्धरत्नाकरोपमम् । शुभसस्यनिमित्तत्वाल्लब्धमेघोपमं मतम् ॥ ९.५ ॥ सर्वधर्माश्च बुद्धत्वं, तथताया अभिन्नत्वात्तद्विशुद्धिप्रभावितत्वाच्च । बुद्धत्वस्य न च कश्चिद्धर्मोऽस्ति । परिकल्पितेन धर्मस्वभावेन शुक्लधर्ममयं च बुद्धत्वं, पारमितादिनां कुशलानां तद्भावेन परिवृत्तेः । न च तैस्तन्निर्दिश्यते पारमितादीनां पारमितादिभावेनापरिनिष्पत्तेरिदमद्वयलक्षणम् । रत्नाकरमेघोपमत्वमनुभावः, देशनाधर्मरत्नानां तत्प्रभवत्वात्, कुशलसस्यानां च विनेयसंतानक्षेत्रेषु । बुद्धत्वं सर्वधर्मः समुदितमथ वा सर्वधर्मव्यपेतं प्रोद्भूतेर्धर्मरत्नप्रततसुमहतो धर्मत्नाकराभम् । भूतानां शुक्लसस्यप्रसवसुमहतो हेतुतो मेघभूतं दानाद्धर्माम्बुवर्षप्रततसुविहितस्याक्षयस्य प्रजासु ॥ ९.६ ॥ (३८) अनेन तृतीयेन श्लोकेन तमेवार्थं निर्दिशति । सुमहतः प्रततस्य धर्मरत्नस्य प्रोद्भूतेनिमित्तत्वाद्रत्नाकराभम्, भूतानां महतः शुक्लसस्यप्रसवहेतुत्वान्मेघभूतम् । महतः सुविहितस्याक्षयस्य धर्माम्बुवर्षस्य दानात्प्रजास्वित्ययमत्र पदविग्रहो वेदितव्यः । तस्यैव बुद्धत्वस्य शरणत्वानुत्तर्ये पञ्च श्लोकाः । परित्राणं हि बुद्धत्वं सर्वक्लेशगणात्सदा । सर्वदुश्चरितेभ्यश्च जन्ममरणतोऽपि च ॥ ९.७ ॥ अनेन संक्षेपतः क्लेशकर्मजन्मसंक्लेशपरित्राणार्थेन शरणत्वं दर्शयति । उपद्रवेभ्यः सर्वेभ्यो अपायादनुपायतः । सत्कायाद्धीनयानाच्च तस्माच्छरणमुत्तमम् ॥ ९.८ ॥ अनेन द्वितियेनोपद्रवादिपरित्राणाद्विस्तरेण । तत्र सर्वोपद्रवपरित्राणत्वं यद्बुद्धानुभावेन अन्धाश्चक्षूंषि प्रतिलभन्ते, बधिराः श्रोतं, विक्षिप्तचित्ताः स्वस्थचित्तमीतयः शाम्यन्तीत्येवमादि । अपायपरित्राणत्वं बुद्धप्रभया तद्गतानां मोक्षणात्, तदगमने च प्रतिष्ठापनात् । अनुपायपरित्राणत्वं तीर्थिकदृष्टिव्युत्थापनात् । सत्कायपरित्राणत्वं यानद्वयेन परिनिर्वापणात् । हीनयानपरित्राणत्वमनियतगोत्राणां महायानैकायनीकरणात् । शरणमनुपमं तच्छ्रेष्ठबुद्धत्वमिष्टं जननमरणसर्वक्लेशपापेषु रक्षा । विविधभयगतानां सर्वरक्षापयानं प्रततविविधदुःखापायनोपायगानाम् ॥ ९.९ ॥ अनेन तृतीयेन तस्यैव शरणत्वस्यानुपमश्रेष्ठस्य चानुत्तर्यं तेनैवार्थेन दर्शयति । बौद्धैर्धर्मैर्यच्च सुसंपूर्णशरीरं यत्सद्धर्मे वेत्ति च सत्त्वान्प्रविनेतुम् । यातं पारं यत्कृपया सर्वजगत्सु तद्बुद्धत्वं श्रेष्ठमिहत्यं[हेष्टं] शरणानाम् ॥ ९.१० ॥ अनेन चतुर्थेन यैः कारणैस्तत्तथानुत्तरं शरणं भवति तत्संदर्शयति । बौद्धैर्धर्मैर्बलवैशारद्यादिभिः सुसंपूर्णस्वभावत्वात्स्वार्थनिष्ठामधिकृत्य सद्धर्मसत्त्वविनयोपायज्ञानात्करुणापारगमनाच्च परार्थनिष्ठामधिकृत्य । आलोकात्[कालात्]सर्वसत्त्वानां बुद्धत्वं शरणं महत् । सर्वव्यसनसंपत्तिव्यावृत्त्यभ्युदये मतम् ॥ ९.११ ॥ (३९) अनेन पञ्चमेन श्लोकेन यावन्तं कालं यावतां सत्त्वानां यत्रार्थे शरणं भवति तत्समासेन दर्शयति । यत्रार्थे इति सर्वव्यसनव्यावृत्तौ संपत्त्यभ्युदये च । आश्रयपरावृत्तौ षट्श्लोकाः । क्लेशज्ञेयवृत्तीनां सततमनुगतं बीजमुत्कृष्टकालं यस्मिन्नस्तं प्रयातं भवति सुविपुलैः सर्वहानिप्रकारैः । बुद्धत्वं शुक्लधर्मप्रवरगुणयुता आ[चा]श्रयस्यान्यथाप्ति- स्तत्प्राप्तिर्निर्विकल्पाद्विषयसुमहतो ज्ञानमार्गात्सुशुद्धात् ॥ ९.१२ ॥ अनेन विपक्षबीजवियोगतः प्रतिपक्षसंपत्तियोगतश्चाश्रयपरिवृत्तिः परिदीपिता । यथा च तत्प्राप्तिर्द्विविधमार्गलाभात् । सुविशुद्धलोकोत्तरज्ञानमार्गलाभात् । तत्पृष्ठलब्धानन्तज्ञेयविषयज्ञानमार्गलाभाच्च । उत्कृष्टकालमित्यनादिकालम् । सुविपुलैः सर्वहानिप्रकारैरिति भूमिप्रकारैः । स्थितश्च तस्मिन्स तथागतो जगन्महाचलेन्द्रस्थ इवाभ्युदीक्षते । शमाभिरामं करूणायते जनमघा[भवा]भिरामेऽन्यजने तु का कथा ॥ ९.१३ ॥ अनेन द्वितीयेनान्याश्रयपरावृत्तिभ्यस्तद्विशेषं दर्शयति । तत्स्थो हि महाचलेन्द्रस्थ इव दूरान्तरनिकृष्टं लोकं पश्यति । दृष्ट्वा च करूणायते श्रावकप्रत्येकबुद्धानपि प्रागेव तदन्यान् । प्रवृत्तिरूद्वित्तिरवृत्तिराश्रयो निवृत्तिरावृत्तिरथो द्वयाद्वया । समाविशिष्टा अपि सर्वगात्मिका तथागतानां परिवृत्तिरिष्यते ॥ ९.१४ ॥ अनेन तृतीयेन तद्दशप्रभेदंदर्शयति । सा हि तथागतानां परिवृत्तिः परार्थवृत्तिरिति प्रवृत्तिः । सर्वधर्मविशिष्टत्वादुष्कृष्टा वृत्तिरित्युद्वृत्तिः । संक्लेशहेताववृत्तिः । आश्रय इति योऽसौ परिवृत्त्याश्रयस्तं दर्शयति । संक्लेशान्निवृत्तितो निवृत्तिः । आत्यन्तिकत्वादायता वृत्तिरित्यावृत्तिः । अभिसंबोधिपरिनिर्वाणदर्शनवृत्त्या द्वया वृत्तिः । संसारनिर्वाणाप्रतिष्ठितत्वात्संस्कृतासंस्कृतत्वेनाद्वया वृत्तिः । विमुक्तिसामान्येन श्रावकप्रत्येकबुद्धसमा वृत्तिः । बलवैशारद्यादिभिः बुद्धधर्मैरसमत्वाद्विशिष्टा वृत्तिः । सर्वयानोपदेशगतत्वात्सर्वगतावृत्तिः । यथाम्बरं सर्वगतं सदामतं तथैव तत्सर्वगतं सदामतम् । यथाम्बरं रूपगणेषु सर्वगं तथैव तत्सत्त्वगणेषु सर्वगम् ॥ ९.१५ ॥ (४०) अनेन चतुर्थेन तत्स्वभावस्य बुद्धत्वस्य सर्वगतत्वं दर्शयति । आकाशसाधर्म्येणौद्देशनिर्देशतः पूर्वापरार्धाभ्याम् । सत्त्वगणेषु सर्वगतत्वं बुद्धत्वस्यात्मत्वेन सर्वसत्त्वोपगमने परिनिष्पत्तितो वेदितव्यम् । यथोदभाजने भिन्ने चन्द्रबिम्बं न दृश्यते । तथा दुष्टेषु सत्त्वेषु बुद्धबिम्बं न दृश्यते ॥ ९.१६ ॥ अनेन पञ्चमेन सर्वगतत्वेऽप्यभाजनभूतेषु सत्त्वेषु अबुद्धबिम्बदर्शनं दृष्टान्तेन साधयति । यथाग्निर्ज्वलतेऽन्यत्र पुनरन्यत्रशाम्यति । बुद्धेष्वपि तथा ज्ञेयं संदर्शनमदर्शनम् ॥ ९.१७ ॥ अनेन षष्ठेन बुद्धविनेयेषु सत्सुबुद्धोत्पादात्तद्दर्शनम् । विनीतेषु परिनिर्वाणात्तददर्शनमग्निज्वलनशमनसाधर्म्येण साधयति । अनाभोगाप्रतिप्रस्रब्धबुद्धकार्यत्वे चत्वारः श्लोकाः । अघटितेभ्यस्तूर्येभ्यो यथा स्याच्छब्दसंभवः । तथा जिने विनाभोगं देशनायाः समुद्भवः ॥ ९.१८ ॥ यथा मणेर्विना यत्नं स्वप्रभाव[स]निदर्शनम् । बुद्धेष्वपि विनाभोगं तथा कृत्यनिदर्शनम् ॥ ९.१९ ॥ आभ्यां श्लोकाभ्यामनाभोगेन बुद्धकार्यं साधयत्यघटिततूर्यशब्दमणिप्रभाव[स]साधर्म्येण । यथाकाशे अविच्छिन्ना दृश्यन्ते लोकतः क्रियाः । तथैवानास्रवे धातौ अविच्छिन्ना जिनक्रियाः ॥ ९.२० ॥ यथाकाशे क्रियाणां हि हानिरभ्युदयः सदा । तथैवानास्रवे धातौ बुद्धकार्योदयव्ययः ॥ ९.२१ ॥ आभ्यामप्यप्रतिप्रस्रब्धबुद्धकार्यत्वं बुद्धकृत्यस्याविच्छेदात् । आकाश इव लोकक्रियाणामविच्छेदेऽपि चान्यान्यक्रियोदयव्ययस्तथैव । अनास्रवधातुगाम्भीर्ये षोडश श्लोकाः । पौर्वापर्य[आ]विशिष्टापि सर्वावरणनिर्मला । नशुद्धा नापि चाशुद्धा तथता बुद्धता मता ॥ ९.२२ ॥ (४१) पौर्वापर्येण[आ]विशिष्टत्वान्न शुद्धा । पश्चात्सर्वावरणनिर्मलत्वान्नाशुद्धा मलविगमात् । शून्यतायां विशुद्धायां नैरात्म्यान्मार्गलाभतः । बुद्धाः शुद्धात्मलाभित्वात्गता आत्ममहात्मताम् ॥ ९.२३ ॥ तत्र चानास्रवे धातौ बुद्धानां परमात्मा निर्दिश्यते । किं कारणम् । अग्रनैरात्म्यात्मकत्वात् । अग्रं नैरात्म्यं विशुद्धा तथता सा च बुद्धानामात्मा स्वभावार्थेन तस्यां विशुद्धायामग्रं नैरात्म्यमात्मानं बुद्धा लभन्ते शुद्धम् । अतः शुद्धात्मलाभित्वात्बुद्धा आत्ममाहात्म्यं प्राप्ता इत्यनेनाभिसंधिना बुद्धानामनास्रवे धातौ परमात्मा व्यवस्थाप्यते । न भावो नापि चाभावो बुद्धत्वं तेन कथ्यते । तस्माद्बुद्धतथाप्रश्ने अव्याकृतनयो मतः ॥ ९.२४ ॥ तेनैव कारणेन बुद्धत्वं न भाव उच्यते । पुद्गलधर्माभावलक्षणत्वात्तदात्मकत्वाच्च बुद्धत्वस्य । नाभाव उच्यते तथतालक्षणभावात् । अतो बुद्धस्य भावाभावप्रश्ने, भवति तथागतः परं मरणान्न भवतीत्येवमादिरव्याकृतनयोमतः । दाहशान्तिर्यथा लोहे दर्शने तिमिरस्य च । चित्तज्ञाने तथा बौद्धे भावाभावो न शस्यते ॥ ९.२५ ॥ यथा च लोहे दाहशान्तिर्दर्शने च तिमिरमेत[?]स्य शान्तिर्न भावो दाहतिमिरयोरभावलक्षणात् । नाभावः शान्तिलक्षणेन भावात् । एवं बुद्धानां चित्तज्ञाने च दाहतिमिरस्थानीययो रागाविद्ययोः शान्तिर्न भावः शस्यते तदभावप्रभावितत्वाच्चेतः प्रज्ञाविमुक्त्या नाभावस्तेन तेन विमुक्तिलक्षणेन भावात् । बुद्धानाममले धातौ नैकता बहुता न च । आकाशवददेहत्वात्पूर्वदेहानुसारतः ॥ ९.२६ ॥ बुद्धानामनास्रवधातौ नैकत्वं पूर्वदेहानुसारेण । न बहुत्वं देहाभावादाकाशवत् । बलादिबुद्धधर्मेषु बोधी रत्नाकरोपमा । जगत्कुशलसस्येषु महामेघोपमा मता ॥ ९.२७ ॥ पुण्यज्ञानसुपूर्णत्वात्पूर्णचन्द्रोपमा मता । ज्ञानालोककरत्वाच्च महादित्योपमा मता ॥ ९.२८ ॥ (४२) एतौ रत्नाकरमेघोपमत्वे पूर्णचन्द्रमहादित्योपमत्वे च श्लोकौ गतार्थौ । अमेया रश्मयो यद्वद्वयामिश्रा भानुमण्डले । सदैककार्या वर्तन्ते लोकमालोकयन्ति च ॥ ९.२९ ॥ तथैवानास्रवे धातौ बुद्धानामप्रमेयता । मिश्रैककार्या कृत्येषु ज्ञानालोककरामता ॥ ९.३० ॥ एकेन व्यामिश्ररश्म्येककार्यस्योपमतया साधारणकर्मतां दर्शयति । रश्मीनामेककार्यत्वं पाचनशोषणसमानकार्यत्वाद्वेदितव्यम् । द्वितीयेनानास्रवे धातौ मिश्रैककार्यत्वं निर्माणादिकृत्येषु । यथैकरश्मिनिःसारात्सर्वरश्मिविनिःसृतिः । भानोस्तथैव बुद्धानां ज्ञेया ज्ञानविनिःसृतिः ॥ ९.३१ ॥ एककाले सर्वरश्मिविनिःसृत्या स च [सह?]बुद्धानामेककाले ज्ञानप्रवृत्तिं दर्शयति । यथैवादित्यरश्मीनां वृत्तौ नास्ति ममायितम् । तथैव बुद्धज्ञानानां वृत्तौ नास्ति ममायितम् ॥ ९.३२ ॥ यथा सूर्यैकमुक्ताभै रश्मिभिर्भास्यते जगत् । सकृत्ज्ञेयं तथा सर्वं बुद्धज्ञानैः प्रभास्यते ॥ ९.३३ ॥ ममत्वाभावे जगज्ज्ञेयप्रभासेन[सने] च यथाक्रमं श्लोकौ गतार्थौ । यथैवादित्यरश्मीनां मेघाद्यावरणं मतम् । तथैव बुद्धज्ञानानामावृतिः सत्त्वदुष्टता ॥ ९.३४ ॥ यथा रश्मीनां मेघाद्यावरणमप्रभासेन । तथा बुद्धज्ञानानामावरणं सत्त्वानामा[म]भाजनत्वेन दुष्टता पञ्चकषायात्युत्सदतया । यथा पांशुवशाद्वस्त्रे रङ्गचित्राविचित्रता । तथावेधवशान्मुक्तौ ज्ञानचित्राविचित्रता ॥ ९.३५ ॥ यथा पांशुविशेषेण वस्त्रे रङ्गविचित्रता क्वचिदविचित्रता । तथैव पूर्वप्रणिधानचर्याबलाधानविशेषाद्बुद्धानां विमुक्तौ ज्ञानविचित्रता भवति । श्रावकप्रत्येकबुद्धानां विमुक्तावविचित्रता । (४३) गाम्भीर्यममले धातौ लक्षणस्थानकर्मसु । बुद्धानामेतदुदितं रङ्गैर्वाकाशचित्रणा ॥ ९.३६ ॥ एतदनास्रवधातौ बुद्धानां त्रिविधं गाम्भीर्यमेवमुत्तम् । लक्षणगाम्भीर्यं चतुर्भिः श्लोकैः । स्थानगाम्भीर्यंपञ्चमेनैकत्वपृथक्त्वाभ्यामस्थितत्वात् । कर्मगाम्भीर्यं दशभिः । तत्पुनर्लक्षणगाम्भीर्यं विशुद्धिलक्षणं परमात्मलक्षणमव्याकृतलक्षणं विमुक्तिलक्षणं चारभ्योक्तम् । कर्मगाम्भीर्यं बोधिपक्षादिरत्नाश्रयत्वकर्म सत्त्वपरिपाचनकर्म निष्ठागमनकर्म धर्मदेशनाकर्म निर्माणादिकृत्यकर्म ज्ञानप्रवृत्तिकर्म अविकल्पनकर्म चित्राकारज्ञानकर्म ज्ञानाप्रवृत्तिकर्म विमुक्तिसामान्यज्ञानविशेषकर्म चारभ्योक्तम् । सेयमनास्रवे धातौ निष्प्रपञ्चत्वादाकाशोपमे गाम्भीर्यप्रभेददेशना यथा रङ्गैराकाशचित्रणी वेदितव्या । सर्वेषामविशिष्टापि तथता शुद्धिमागता । तथागतत्वं तस्माच्च तद्गर्भाः सर्वदेहिनः ॥ ९.३७ ॥ सर्वेषां निर्विशिष्टा तथता तद्धिशुद्धिस्वभावश्च तथागतः । अतः सर्वे सत्त्वास्तथागतगर्भा इत्युच्यते । विभुत्वविभागे श्लोका एकादश । श्रावकाणां विभुत्वेन लौकिकस्याभिभूयते । प्रत्येकबुद्धेभ्यो मनः[बुद्धभौमेन] श्रावकस्याभिभूयते ॥ ९.३८ ॥ बोधिसत्त्वविभुत्वस्य तत्कलां नानुगच्छति । तथागतविभुत्वस्य तत्कलां नानुगच्छति ॥ ९.३९ ॥ आभ्यां तावद्द्वाभ्यां प्रभावोत्कर्षविशेषेण बुद्धानां विभुत्वं दर्शयति । अप्रमेयमचिन्त्यं च विभुत्वं बौद्धमिष्यते । यस्य यत्र यथा यावत्काले यस्मिन्प्रवर्तते ॥ ९.४० ॥ अनेन तृतीयेन प्रकारप्रभेदगाम्भीर्यविशेषाभ्यां कथमप्रमेयं कथं वा चिन्त्यमित्याह । यस्य पुद्गलस्यार्थे तत्प्रवर्त्तते यत्र लोकधातौ यथा तादृशैः प्रकारैर्यावदल्पं वा बहु वा यस्मिन्काले । अवशिष्टैः श्लोकैः मनो[परा]वृत्तिभेदेन विभुत्वभेदं दर्शयति । पञ्चेन्द्रियपरावृत्तौ विभुत्वं लभ्यते परम् । सर्वार्थवृत्तौ सर्वेषां गुणद्वादशशतोदये ॥ ९.४१ ॥ (४४) पञ्चेन्द्रियपरावृत्तौ द्विविधं विभुत्वं परमं लभ्यते । सर्वेषां पञ्चानामिन्द्रियाणां सर्वपञ्चार्थवृत्तौ । तत्र प्रत्येकं द्वादशगुणशतोत्पत्तौ । मनसोऽपि परावृत्तौ विभुत्वं लभ्यते परम् । विभुत्वानुचरे ज्ञाने निर्विकल्पे सुनिर्मले ॥ ९.४२ ॥ मनसः परावृत्तौ विभुत्वानुचरे निर्विकल्पे सुविशुद्धे ज्ञाने परमं विभुत्वं लभ्यते । येन सहितं सर्वं विभुत्वज्ञानं प्रवर्तते । सार्थोद्ग्रहपरावृत्तौ विभुत्वं लभ्यते परम् । क्षेत्रशुद्धौ यथाकामं भोगसंदर्शनाय हि ॥ ९.४३ ॥ अर्थपरावृत्तौ उद्ग्रहपरावृत्तौ च क्षेत्रविशुद्धिविभुत्वं परमं लभ्यते येन यथाकामं भोगसंदर्शनं करोति । विकल्पस्य परावृत्तौ विभुत्वं लभ्यते परम् । अव्याघाते सदाकालं सर्वेषां ज्ञानकर्मणाम् ॥ ९.४४ ॥ विकल्पपरावृत्तौ सर्वेषां ज्ञानानां कर्मणां च सर्वकालमव्याघाते परमं विभुत्वं लभ्यते । प्रतिष्ठायाः परावृत्तौ विभुत्वं लभ्यते परम् । अप्रतिष्ठितनिर्वाणं बुद्धानामचले[मले] पदे ॥ ९.४५ ॥ प्रतिष्ठापरावृत्तावप्रतिष्ठितनिर्वाणं परमं विभुत्वं लभ्यते । बुद्धानामनास्रवेधातौ । मैथुनस्य परावृत्तौ विभुत्वं लभ्यते परम् । बुद्धसौख्यबिहारेऽथ दारासंक्लेशदर्शने ॥ ९.४६ ॥ मैथुनस्य परावृत्तौ द्वयोर्बुद्धसुखविहारे च दारासंक्लेशदर्शने च । आकाशसंज्ञाव्यावृत्तौ विभुत्वं लभ्यते परम् । चिन्तितार्थसमृद्धौ च गतिरूपविभावने ॥ ९.४७ ॥ आकाशसंज्ञाव्यावृत्तौ द्वयोरेव चिन्तितार्थसमृद्धौ च येन गगनगर्भो भवति । गतिरूपविभावेन च यथेष्टगमनादाशवशी[काशी]करणाच्च । इत्यमेयपरावृत्तावमेयविभुता मता । अचिन्त्यकृत्यानुष्ठानाब्दुद्धानाममलाश्रये ॥ ९.४८ ॥ (४५) इत्यनेन मुखेनाप्रमेया परावृत्तिः । तत्र चाप्रमेयं विभुत्वमचिन्त्यकर्मानुष्ठानं बुद्धानामनास्रवे धातौ वेदितव्यम् । तस्यैव बुद्धस्य सत्त्वपरिपाकनिमित्तत्वे सप्त श्लोकाः । शुभे बृद्धो लोको व्रजति सुविशुद्धौ परमतां शुभे चानारब्ध्वा व्रजति शुभवृद्धौ परमताम् । व्रजत्येवं लोको दिशि दिशि जिनानां सुकथितै- रपक्वः पक्वो वा [न] च पुनरशेषं ध्रुवमिह ॥ ९.४९ ॥ अनेन यादृशस्य परिपाकस्य निमित्तं भवति तद्दर्शयति । उपचितकुशलमूलानां च विमुक्तौ परमतायामनुपचितकुशलमूलानां च कुशलमूलोपचये । अपक्वः शुभवृद्धौ परमतां व्रजन[न्] पाकं व्रजति पक्वः सुविशुद्धौ परमतां व्रजति । एवं च नित्यकालं व्रजति न च निःशेषं लोकस्यानन्तत्वात् । तथा कृत्वा चर्यां [कृच्छ्रावाप्यां] परमगुणयोगाद्भुतवतीं महाबोधिं नित्यां ध्रुवमशरणानां च शरणम् । लभन्ते यद्धीरा [दिशि दिशि] गसदा [सदा] सर्वसमयं तदाश्चर्यं लोके सुविधचरणान्नाद्भुतमपि ॥ ९.५० ॥ अनेन द्वितीयेन परिपव्कानां बोधिसत्त्वानां परिपाकस्याश्चर्यं नाश्चर्यं लक्षणम् । सदा सर्वसमयमिति नित्यं निरन्तरं च तदनुभूय[रूप]मार्गचरणं सुविधिचरणम् । क्वचिद्धर्माञ्चकं[धर्म्यं चक्रं] बहुमुखशतैर्दर्शयतिः यः क्वचिज्जन्मान्तर्धि क्वचिदपि विचित्रां जनचरीम् । क्वचित्कृत्स्नां बोधिं क्वचिदपि च निर्वाणमसकृत् न च स्थानात्तस्माद्विचलति स सर्वं च कुरुते ॥ ९.५१ ॥ अनेन तृतीयेन युगपद्बहुमुखपरिपाचनोपायप्रयोगे निमित्तत्वं दर्शयति । यथा यत्रस्थः सत्त्वान् विनयति । विचित्रा जनचरी जातकभेदेन । न च स्थानाच्चलतीत्यनास्रवाद्धातोः । न बुद्धानामेवं भवति ममपक्वोऽयमिति चाप्र- पाच्योऽयं देही अपि च अधुनापाच्यत इति । विना संस्कारं तु प्रपचमुपयात्येव जनता शुभैर्धर्मैर्नित्यं दिशि दिशि समन्तात्रयमुखम् ॥ ९.५२ ॥ (४६) अनेन चतुर्थेन तत्परिपाकप्रयोगनिमित्तत्वमनभिसंस्कारेण दर्शयति । त्रयमुखमिति यानत्रयेण । यथायत्नं भानुः प्रततविषदैरंशविसरैः प्रपाक[कं] सस्यानां दिशि [दिशि] समन्तात्प्रकुरूते । तथा धर्मार्कोऽपि प्रशमविधिधर्माशुविसरैः प्रपाकं सस्यानां दिशि दिशि समन्तात्प्रकुरूते ॥ ९.५३ ॥ अनेन पञ्चमेनानभिसंस्कारपरिपाचनदृष्टान्तं दर्शयति । यथैकस्माद्दीपाद्भवति सुमहान्दीपनिचयो ऽप्रमेयोऽसंख्येयो न च स पुनरेति व्ययमतः । तथैकस्माद्बुद्धाद्[पाका]द्भवति सुमहान् परिपाक[पाक]निचयो ऽप्रमेयोऽसंख्येयो न च स पुनरेति[पुनरुपैति] व्ययमतः ॥ ९.५४ ॥ अनेन षष्ठेन परंपरया परिपाचनम् । यथा तोयैस्तृप्तिं व्रजति न महासागर इव न वृद्धिं वा याति प्रततविषदाम्बु प्रविशनैः । तथा बौद्धो धातुः सततसमितैः शुद्धिविशनै- र्नतृप्तिं वृद्धिं वा व्रजति परमाश्चर्यमिह तत् ॥ ९.५५ ॥ अनेन सप्तमेन परिपव्कानां विमुक्तिप्रवेशे समुद्रोदाहरणेन धर्मधातोरतृप्तिं चावकाशदानादवृद्धिं ध्याना[चान]धिकत्वात् । धर्मधातुविशुद्धौ चत्वारः श्लोकाः । सर्वधर्मद्वयावारतथताशुद्धिलक्षणः । वस्तुज्ञानतदालम्बवशिताक्षयलक्षणः ॥ ९.५६ ॥ एष स्वभावार्थमारभ्यैकः श्लोकः । क्लेशज्ञेयावरणद्वयात्सर्वधर्मतथताविशुद्धिलक्षणश्च । वस्तुतदालम्बनज्ञानयोरक्षयवशिता लक्षणश्च । सर्वतस्तथताज्ञानभावना समुदागमः । सर्वसत्त्वद्वयाधानसर्वथाक्षयता फलम् ॥ ९.५७ ॥ एष हेत्वर्थं फलार्थं चारभ्य द्वितीयः श्लोकः । सर्वतस्तथताज्ञानभावना धर्मधातुविशुद्धिहेतुः । सर्वत इति सर्वधर्मपर्यायमुखैः । सर्वसत्त्वानां सर्वथा हितसुखद्वयाधानाक्षयता फलम् । (४७) कायवाक्चित्तनिर्माणप्रयोगोपायकर्मकः । समाधिधारणीद्वारद्वयामेयसमन्वितः ॥ ९.५८ ॥ एष कर्मार्थं योगार्थं चारभ्य तृतीयः श्लोकः । त्रिविधं कायादिनिर्माणं कर्म समाधिधारणीमुखाभ्यां द्वयेन चाप्रमेयेण पुण्यज्ञानसंभारेण समन्वागमो योगः । स्वभावधर्मसंभोगनिर्माणैर्भिन्नवृत्तिकः । धर्मधातुर्विशुद्धोऽयं बुद्धानां समुदाहृतः ॥ ९.५९ ॥ एष वृत्त्यर्थमारभ्य चतुर्थः श्लोकः । स्वाभाविकसांभोगिकनैर्माणिककायवृत्त्या भिन्नवृत्तिकः । बुद्धकायविभागे सप्तश्लोकाः । स्वाभाविकोऽथ सांभोग्यः कायो नैर्माणिकोऽपरः । कायभेदा हि बुद्धानां प्रथमस्तु द्वयाश्रयः ॥ ९.६० ॥ त्रिविधः कायो बुद्धानाम् । स्वाभाविको धर्मकाय आश्रयपरावृत्तिलक्षणः । सांभोगिको येन पर्षन्मण्डलेषु धर्मसंभोगं करोति । नैर्माणिको येन निर्माणेन सत्त्वार्थं करोति । सर्वधातुषु सांभोग्यो भिन्नो गणपरिग्रहैः । क्षेत्रैश्च नामभिः कायैर्धर्मसंभोगचेष्टितैः ॥ ९.६१ ॥ तत्र सांभोगिकः सर्वलोकधातुषु पर्षन्मण्डलबुद्धक्षेत्रनामशरीरधर्मसंभोगक्रियाभिर्भिन्नः । समः सूक्ष्मश्च तच्छिष्टः[च्छिलष्टः] कायः स्वाभाविको मतः । संभोगाविभुताहेतुर्यथेष्टं भोगदर्शने ॥ ९.६२ ॥ स्वाभाविकः सर्वबुद्धानां समो निर्विशिष्टतया । सूक्ष्मो दुर्ज्ञानतया । तेन संभोगिकेन कायेन संबद्धः संभोगविभुत्वे च हेतुर्यथेष्टं भोगदर्शनाय । अमेयं बुद्धनिर्माणं कायो नैर्माणिको मतः । द्वयोर्द्वयार्थसंपत्तिः सर्वाकारा प्रतिष्ठिता ॥ ९.६३ ॥ नैर्माणिकस्तु कायो बुद्धानामप्रमेयप्रभेदं बुद्धनिर्माणं सांभोगिकः स्वार्थसंपत्तिलक्षणः । नैर्माणिकः परार्थसंपत्तिलक्षणः । एवं द्वयार्थसंपत्तिर्यथाक्रमं द्वयोः प्रतिष्ठिता सांभोगिके च काये नैर्माणिके च । (४८) शिल्पजन्ममहाबोधिसदानिर्वाणदर्शनैः । बुद्धनिर्माणकायोऽयं महामायो[महोपायो] विमोचने ॥ ९.६४ ॥ स पुनर्निर्माणकायः सदा विनेयार्थं शिल्पस्य वीणावादनादिभिः । जन्मनश्चाभिसंबोधेश्च निर्वाणस्य च दर्शनैर्विमोचने महोपायत्वात्परार्थसंपत्तिलक्षणो वेदितव्यः । त्रिभिः कायैस्तु विज्ञेयो बुद्धानां कायसंग्रहः । साश्रयः स्वपरार्थो यस्त्रिभिः कायैर्निदर्शितः ॥ ९.६५ ॥ त्रिभिश्च कायैर्बुद्धानां सर्वकायसंग्रहो वेदितव्यः । एभिस्त्रिभिः कायैः साश्रयः स्वपरार्थो निदर्शितः । द्वयोः स्वपरार्थप्रभावितत्वात्द्वयोश्च तदाश्रितत्वाद्यथा पूर्वमुक्तम् । आश्रयेणाशयेनापि कर्मणा ते समा मताः । प्रकृत्यास्रंसनेनापि प्रबन्धेनैषु नित्यता ॥ ९.६६ ॥ ते च त्रयः कायाः सर्वबुद्धानां यथाक्रमं त्रिभिर्निर्विशेषाः, आश्रयेण धर्मधातोरभिन्नत्वात्, आशयेन पृथग्बुद्धाशयस्याभावात् । कर्मणा च साधारणकर्मकत्वात् । तेषु च त्रिषु कायेषु यथाक्रमं त्रिविधा नित्यता वेदितव्या येन नित्यकायास्तथागता उच्यन्ते । प्रकृत्या नित्यता स्वाभाविकस्य स्वभावेन नित्यत्वात् । अस्रंसनेन सांभोगिकस्य धर्मसंभोगाविच्छेदात् । प्रबन्धेन नैर्माणिकस्यान्तर्व्यये[र्धाय]पुनः पुनर्निर्माणदर्शनात् । बुद्धज्ञानविभागे दश श्लोकाः । आदर्शज्ञानमचलं त्रयज्ञानं तदाश्रितम् । समताप्रत्यवेक्षायां कृत्यानुष्ठान एव च ॥ ९.६७ ॥ चतुर्विधं बुद्धानां ज्ञानमादर्शज्ञानं समताज्ञानं प्रत्यवेक्षाज्ञानं कृत्यानुष्ठानज्ञानं च । आदर्शज्ञानमचलं त्रीणी ज्ञानानि तदाश्रितानि चलानि । आदर्शज्ञानममापरिच्छिन्नं सदानुगम् । सर्वज्ञेयेष्वसंमूढं न च तेष्वामुखं सदा ॥ ९.६८ ॥ आदर्शज्ञानममपरिच्छिन्नं देशतः सदानुगं कालतः । सएर्वज्ञेयेष्वसंमूढं सदावरणविगमात्, न च तेष्वामुखमनाकारत्वात् । सर्वज्ञाननिमित्तत्वान्महाज्ञानाकरोपमम् । संभोगबुद्धता ज्ञानप्रतिबिम्बोदयाच्च तत् ॥ ९.६९ ॥ (४९) तेषां च समतादिज्ञानानां सर्वप्रकाराणां हेतुत्वात्सर्वज्ञानानामाकरोपम् । संभोगबुद्धत्वतज्ज्ञानप्रतिबिम्बोदयाच्च तदादर्शज्ञानामित्युच्यते । सत्त्वेषु समताज्ञानं भावनाशुद्धितोऽमलं [मतम्] । अप्रतिष्ठस[श]माविष्टं समताज्ञानमिष्यते ॥ ९.७० ॥ यब्दोधिसत्त्वेनाभिसमयकालेषु [सत्त्वेषु] समताज्ञानं प्रतिलब्धं तद्भावनाशुद्धितो बोधिप्राप्तस्याप्रतिष्ठितनिर्वाणे निविष्टं समताज्ञानमिष्यते । महामैत्रीकृपाभ्यां च सर्वकालानुगं मतम् । यथाधिमोक्षं सत्त्वानां बुद्धबिम्बनिदर्शकम् ॥ ९.७१ ॥ महामैत्रीकरुणाभ्यां सर्वकालानुगं यथाधिमोक्षं च सत्त्वानां बुद्धबिम्बनिदर्शकम् । यतः केचित्सत्त्वास्तथागतं नीलवर्णं पश्यन्ति केचित्पीतवर्णमित्येवमादि । प्रत्यवेक्षणकं ज्ञाने [नं] ज्ञेयेष्वव्याहतं सदा । धारणीनां समाधीनां निधानोपममेव च ॥ ९.७२ ॥ परिषन्मण्डले सर्वविभूतीनां निदर्शकम् । सर्वसंशयविच्छेदि महाधर्मप्रवर्षकम् ॥ ९.७३ ॥ प्रत्यवेक्षणकं ज्ञानं यथाश्लोकम् । कृत्यानुष्ठानताज्ञानं निर्माणैः सर्वधातुषु । चित्राप्रमेयाचिन्त्यैश्च सर्वसत्त्वार्थकारकम् ॥ ९.७४ ॥ कृत्यानुष्ठानज्ञानं सर्वलोकधातुषु निर्माणैर्नानाप्रकारैरप्रमेयैरचिन्त्यैश्च सर्वसत्त्वार्थकम् । कृत्यनिष्पत्तिभिर्भेदैः संख्याक्षेत्रैश्च सर्वदा । अचिन्त्यं बुद्धनिर्माणं विज्ञेयं तच्च सर्वथा ॥ ९.७५ ॥ तच्च बुद्धनिर्माणं सदा सर्वथा चाचिन्त्यं वेदितव्यम् । कृत्यक्रियाभेदतः संख्यात [तः] क्षेत्रतश्च । धारणात्समचित्ताच्च सम्यग्धर्मप्रकाशनात् । कृत्यानुष्ठानतश्चैव चतुर्ज्ञानसमुद्भवः ॥ ९.७६ ॥ तत्र धारणात्श्रुतानां धर्माणाम् । समचित्तता सर्वसत्त्वेष्वात्मपरसमतया । शेषं गतार्थम् । (५०) बुद्धानेकत्वापृथक्त्वेश्लोकः । गोत्रभेदादवैयर्थ्यात्साकल्यादप्यनादितः । अभेदान्नैकबुद्धत्वं बहुत्वं चामलाश्रये ॥ ९.७७ ॥ एक एव बुद्ध इत्येतन्नेष्यते । किं कारणम् । गोत्रभेदात् । अनन्ता हि बुद्धगोत्राः सत्त्वाः । तत्रैक एवाभिसंबुद्धो नान्येऽभिसंमोत्स्यन्त इति कुत एतत् । पुण्यज्ञानसंभारवैयर्थ्यं च स्यादन्येषां बोधिसत्त्वानामनभिसंबोधान्न च युक्तं वैयर्थ्यम् । तस्मादवैयर्थ्यादपि नैक एव बुद्धः सत्त्वार्थक्रियासाकल्यं च न स्यात् । बुद्धस्य बुद्धत्वे कस्यचिदप्रतिष्ठापनादेतच्च न युक्तम् । न च कश्चिदादिबुद्धोऽस्ति विना संभारेण बुद्धत्वायोगाद्विना चान्येन बुद्धेन संस्थाना [संभारा]योगादित्यनादित्वादप्येको बुद्धौ न युक्तः । बहुत्वमपि नेष्यते बुद्धानां धर्मकायस्याभेदादनास्रवे धातौ । बुद्धत्वोपायप्रवेशे चत्वारः श्लोकाः । याविद्यमानता सैव परमा विद्यमानता । सर्वथानुपलम्भश्च उपलम्भः परो मतः ॥ ९.७८ ॥ या परिकल्पितेन स्वभावेनाविद्यमानता सैव परमा विद्यमानता परिनिष्पन्नेन स्वभावेन । यश्च सर्वथानुपलम्भः परिकल्पितस्य स्वभावस्य स एव परम उपलम्भः परिनिष्पन्न स्वभावस्य । भावना परमा चेष्टा भावनामविपश्यताम् । प्रतिलम्भः परश्चेष्टः प्रतिलम्भं न पश्यताम् ॥ ९.७९ ॥ सैव परमा भावना यो भावनाया अनुपलम्भः । स एव परमः प्रतिलम्भो यः प्रतिलम्भानुपलम्भः । पश्यतां गुरुत्वं [तां] दीर्घं निमित्तं वीर्यमात्मनः । मानिनां बोधिसत्त्वानांदु [दू]रे बोधिर्निरूप्यते ॥ ९.८० ॥ ये च गुरुत्वं बुद्धत्वं पश्यन्ति अद्भुतधर्मयुक्तम् । दीर्घं च कालं पश्यन्ति तत्समुदागमाय । निमित्तं च पश्यन्ति चित्तालम्बनम् । आत्मनश्च वीर्यं वयमारब्धवीर्या बुद्धत्वं प्राप्स्याम इति । तेषामेवंमानिनां बोधिसत्त्वानामौपलम्भिकत्वात्दूरे बोधिर्निरूप्यते । पश्यताम्, कल्पनामात्रं सर्वमेतद्यथोदितम् । अकल्पबोधिसत्त्वानां प्राप्ता बोधिर्निरूप्यते ॥ ९.८१ ॥ (५१) कल्यनामात्रं त्वेतत्सर्वमिति पश्यतां तस्यापि कल्पनामात्रस्याविकल्पनादकल्पबोधिसत्त्वानामनुत्पत्तिकधर्मक्षान्तिलाभावस्थायामर्थतः प्राप्तैव बोधिरित्युच्यते । बुद्धानामन्योन्यनै[न्यै]ककार्यत्वे चत्वारः श्लोकाः । भिन्नाश्रया भिन्नजलाश्च नद्यः अल्पोदकाः कृत्यपृथक्त्वकार्याः । जलाश्रितप्राणितनूपभोग्या भवन्ति पातालमसंप्रविष्टाः ॥ ९.८२ ॥ समुद्रविष्टाश्च भवन्ति सर्वा एकाश्रया एकमहाजलाश्च । मिश्रैककार्याश्च महोपभोग्या जलाश्रितप्राणिगणस्य नित्यम् ॥ ९.८३ ॥ भिन्नाश्रया भिन्नमताश्च धीराः स्वल्पावबोधाः पृथगात्मकृत्याः । परीत्तसत्त्वार्थसदोपभोग्या भवन्ति बुद्धत्वमसंप्रविष्टाः ॥ ९.८४ ॥ बुद्धत्वविष्टाश्च भवन्ति सर्वे एकाश्रया एकमहावबोधाः । मिश्रैककार्याश्च महोपभोग्याः सदा महासत्त्वगणस्य ते हि ॥ ९.८५ ॥ तत्र भिन्नाश्रया नद्यः स्वभाजनभेदात् । कृत्यपृथक्त्वकार्याः पृथक्त्वेन कृत्यकरणात् । तनूपभोग्या इत्यल्पानामुपभोग्याः । शेषं गतार्थम् । बुद्धत्वप्रोत्साहने श्लोकः । इतिनिरूपमशुक्लधर्मयोगाधितसुखहेतुतया च बुद्धभूमेः । शुभपरमसुखाक्षयकरत्वात्शुभमतिरर्हति बोधिचित्तमाप्तुम् ॥ ९.८६ ॥ निरूपमसुक्लधर्मयोगात्स्वार्थसंपत्तितः । हितसुखहेतुत्वाच्च बुद्धत्वस्य परार्थसंपत्तिः । अनवद्योत्कृष्टाक्षयसुखाकरत्वाच्च सुखविहारो विशेषतः । बुद्धिमानहीनबोधिचित्तमादातुं तत्प्रणिधानपरिग्रहात् । ॥ महायानसूत्रालंकारे बोध्यधिकारो नवमः ॥ (५२) दशमोधिकारः उद्दानम् । आदिः सिद्धिः शरणं गोत्रं चित्ते तथैव चोत्पादः । स्वपरार्थस्तत्वार्थः प्रभावपरिपाकबोधिश्च ॥ १०.१ ॥ एष च बोध्यधिकार आदिमारभ्य यावत्बोधिपटलानुसारेणानुगन्तव्यः । अधिमुक्तिप्रभेदलक्षणविभागे श्लोकौ । जाता-जाता ग्राहिका ग्राह्यभूता मित्रादात्ता स्वात्मतो भ्रान्तिका च । अभ्रान्तान्या आमुखा नैव चान्या घोषाचारा चैषिका चेक्षिका च ॥ १०.२ ॥ जाता अतीतप्रत्युत्पन्ना । अजाता अनागता । ग्राहिका आध्यात्मिका[की] ययालम्बनमधिमुच्यते । ग्राह्यभूता बाह्या याना[मा] लम्बनत्वेनाधिमुच्यते । मित्रादात्ता औदारिकी । स्वात्मतः सूक्ष्मा । भ्रान्तिका हीना विपरीताधिमोक्षात् । अभ्रान्तिका प्रशान्ता [प्रणीता] । आमुखा अन्तिके समवहितप्रत्ययत्वात् । अनामुखा दूरे विपर्ययात् । घोषाचारा श्रुतमयी । एषिका चिन्तामयी । ईक्षिका भावनामयी प्रत्यवेक्षणात् । हार्या कीर्णाव्यावकीर्णा विपक्षैर्हीनोदारा आवृतानावृता च । युक्तायुक्ता संभृतासंभृता च गाढं विष्टा दूरगा चाधिमुक्तिः ॥ १०.३ ॥ हार्या मृद्वी । व्यवकीर्णा मध्या । अव्यवकीर्णा विपक्षैरधिमात्रा । हिनान्ययाने । उदारामहायाने । आवृता सावरणा विशेषगमनाय । अनावृता निरावरणा । युक्ता सातत्यसत्कृत्यप्रयोगात् । अयुक्ता तद्विरहिता । संभृताधिगमयोग्या । असंभृता विपर्ययात् । गाढं विष्टा भूमिप्रविष्टा । दूरगा परिशिष्टासु भूमिषु । अधिमुक्तिपरिपन्थे त्रयः श्लोकाः । अमनस्कारबाहुल्यं कौशीद्यं योगविभ्रमः । कुमित्रं शुभदौर्बल्यमयोनिशोमनस्क्रिया ॥ १०.४ ॥ जाताया अमनसिकारबाहुल्यं परिपन्थः । अजातायाः कौशीद्यम्, ग्राह्यग्राहकभूताया योगविभ्रमः, तथैवाभिनिवेशात् । मित्रादात्तायाः कुमित्रम्, विपरीतग्राहणात् । स्वात्मतोऽधिमुक्तेः कुशलमूलदौर्बल्यम् । अभ्रान्ताया अयोनिशो अमनसिकारः [मनसिकारः] परिपन्थस्तद्विरोधित्वात् । (५३) प्रमादोऽल्पश्रुतत्वं च श्रुतचिन्ताल्पतुष्टता । शममात्राभिमानश्च तथापरिजयो मतः ॥ १०.५ ॥ आमुखायाः प्रमादः, तस्या अप्रमादकृतत्वात् । घोषाचाराया अल्पश्रुतत्वम्, नीतार्थसूत्रान्ताश्रवणात् । एषिकायाः श्रुतमात्रसंतुष्टत्वमल्पचिन्तासंतुष्टत्वं च । ईक्षिकायाश्चिन्तामात्रसंतुष्टत्वं शमथमात्राभिमानश्च । हार्याव्यवकीर्णयोरपरिजयः परिपन्थः । अनुद्वेगस्तथोद्वेग आवृत्तिश्चाप्ययुक्तता । असंभृतिश्च विज्ञेयाधिमुक्तिपरिपन्थता ॥ १०.६ ॥ हीनाया अनुद्वेगः संसारात् । उदाराया उद्वेगः अनावृतायाश्चावृतिः । युक्ताया अयुक्तता । संभृताया असंभृतिः परिपन्थः । अधिमुक्तावनुशंसे पञ्च श्लोकाः । पुण्यं महदकौकृत्यं सौमनस्यं सुखं महत् । अविप्रणाशः स्थैर्यं न विशेषगमनं तथा ॥ १०.७ ॥ धर्माभिसमयश्चाथ स्वपरार्थाप्तिरूत्तमा । क्षिप्राभिज्ञत्वमेते हि अनुशंसाधिमुक्तितः ॥ १०.८ ॥ जातायां प्रत्युत्पन्नायां पुण्यं महत् । अतीतायामकौकृत्यमविप्रतिसारात् । ग्राहिकायां ग्राह्यभूतायां च महत्सौमनस्यं समाधियोगात् । कल्याणमित्रजनितायामविप्रणाशः । स्वयमधिमुक्तौ स्थैर्यम् । भ्रा[अभ्रा]न्तिकायामामुखायां श्रुतमयादिकायां च यावत्मध्यायां विशेषगमनम् । अधिमात्रायां धर्माभिसमयः । हीनायां स्वार्थप्राप्तिः । उदारायां परार्थप्राप्तिः परमा । अनावृतयुक्तसंभृतादिषु शुक्लपक्षासु क्षिप्राभिज्ञत्वमनुशंसः । कामिनां सा श्वसदृशी कूर्मप्रख्या समाधिनाम् । भृत्योपमा स्वार्थिनां सा राजप्रख्या परार्थिनाम् ॥ १०.९ ॥ यथ श्वा दुःखार्तः सततमवितृप्तः क्षुधितको यथा कूर्मश्चासौ जलविवरके संकुचितकः । यथा भृत्यो नित्यमुपचकितमूर्तिर्विचरति । यथा राजा आज्ञाविषये वश[चक्र?]वर्ती विहरति । तथा कामिस्थातृस्वपरजनकृत्यार्थमुदिते विशेषो विज्ञेयः सततमधिमुक्त्या विविधया । महायाने तस्य विधिवदिह मत्वा परमतां भृशं तस्मिन् धीरः सततमिह ताभेव वृणुयात् ॥ १०.१० ॥ (५४) अपि खलु कामिनामधिमुक्तिः श्वसदृशी लौकिकसमाधिगतानां कूर्मप्रख्यास्वार्थवतां भृत्योपमा । राजप्रख्या परार्थवताम् । एतमेवार्थं परेणोपपाद्य महायानाधिमुक्तौ समादापयति । अधिमुक्तिलयप्रतिषेधे श्लोकाः[कः] । मनुष[ष्य]भूताः संबोधिं प्राप्नुवन्ति प्रतिक्षणम् । अप्रमेया यतः सत्त्वा लयं नातोऽधिवासयेत् ॥ १०.११ ॥ त्रिभिः कारणैर्लयो न युक्तः । यतो मनुष[ष्य]भूता बोधिं प्राप्नुवन्ति । नित्यं प्राप्नुवन्ति । अप्रमेयाश्च प्राप्नुवन्ति । अधिमुक्तिपुण्यविशेषणे द्वौ श्लोकौ । यथा पुण्यं प्रसवते परेषां भोजनं ददत् । न तु स्वयं स भुञ्जानस्तथा पुण्यमहोदयः ॥ १०.१२ ॥ सूत्रोक्तो लभ्यते धर्मात्परार्थाश्रयदेशितात् । न तु स्वार्थाश्रयाद्धर्माद्देशितादुपलभ्यते ॥ १०.१३ ॥ यथा भोजनं ददतः पुण्यमुत्पद्यते परार्थाधिकारात् । न तु स्वयं भुञ्जानस्य स्वार्थाधिकारात् । एवं परार्थाश्रयदेशितात्महायानधर्मात्तेषु तेषु [महायान] सूत्रेषूक्तः पुण्योदयो महांल्लभ्यते । न तु स्वार्थाश्रयदेशितात्श्रावकयानधर्मात् । अधिमुक्तिफलपरिग्रहे श्लोकः । इति विपुलगतौ महोघ[महार्य]धर्मे जनिय [परिजनयन्?] सदा मतिमान्महाधिमुक्तिम् । विपुलसततपुण्यतद्विवृद्धिं व्रजति गुणैरसमैर्महात्मतां च ॥ १०.१४ ॥ यत्र यादृश्याधिमुक्त्या यो यत्फलं परिगृह्णाति । विस्तीर्णे महायानधर्मेऽपरि[हा]णी[परिजननी?] ययोदाराधिमुक्त्या मतिमान् त्रिविधं फलं परिगृह्णाति । विपुलपुण्यवृद्धिं तस्या एवाधिमुक्तेर्वृद्धिं तद्धेतुकां चातुल्यगुणमहात्मतां बुद्धत्वम् । ॥ महायानसूत्रालंकारे अधिमुक्त्यधिकारो दशमः ॥ (५५) एकादशोऽधिकारः धर्मपर्येष्ट्यधिकारे आलम्बनपर्येष्टौ चत्वारः श्लोकाः । पिटकत्रयं द्वयं वा [च?]संग्रहतः कारणैर्नवभिरिष्टम् । वासनबोधनशमनप्रतिवेधैस्तद्विमोचयति ॥ ११.१ ॥ पिटकत्रयं सूत्रविनयाभिधर्माः । तदेव त्रयं हीनयानाग्र[महा?]यानभेदेन द्वयं भवति । श्रावपिटकंबोधिसत्त्वपिटकं च । तत्पुनस्त्रयं द्वयं वा [च?]केनार्थेन पिटकमित्याह । संग्रहतः सर्वज्ञेयार्थसंग्रहाद्वेदितव्यम् । केन कारणेन त्रयम् । नवभिः कारणैः, विचिकित्साप्रतिपक्षेण सूत्रम्, यो यत्रार्थे संशयितस्तस्य तन्निश्चयार्थं देशनात् । अन्तद्वयानुयोगप्रतिपक्षेण विनयः सावद्यपरिभोगप्रतिषेधतः कामसुखल्लिकानुयोगान्तस्य, अनवद्यपरिभोगानुज्ञानत आत्मक्लमथानुयोगान्तस्य । स्वयंदृष्टिपरामर्षप्रतिपक्षेणाभिधर्मोऽविपरीतधर्मलक्षणाभिद्योतनात् । पुनः शिक्षात्रयदेशना सूत्रेण अधिशीलाधिचित्तसंपादनता विनयेन शीलवतोऽविप्रतिसारादविप्रतिसारेण[दिक्रमेण] समाधिलाभात् । अधिप्रज्ञासंपादनाभिधर्मेणाविपरीतार्थप्रविचयात् । पुनर्धर्मार्थदेशना सूत्रेण । धर्मार्थमिप्पत्तिर्विनयेन क्लेशविनयसंयुक्तस्य तयोः प्रतिवेधात् । धर्मार्थसांकथ्यविनिश्चयकौशल्यमभिधर्मेणेति । एभिर्नवभिः कारणैः पिटकत्रयमिष्टम् । तच्च संसाराद्विमोचनार्थम् । कथं पुनस्तद्विमोचयति । वासनबोधनशमनप्रतिवेधैस्तद्विमोचयति । श्रूतेन चित्तवासनतः । चिन्तया बोधनतः । भावनया शमथेन शमनतः । विपश्यनया प्रतिवेधतः । सूत्राभिधर्मविनयाश्चतुर्विधार्था मताः समासेन । तेषां ज्ञानाद्धीमान्सर्वाकारज्ञतामेति ॥ ११.२ ॥ ते च सूत्रविनयभिधर्माः प्रत्येकं चतुर्विधार्थाः समासतस्तेषां ज्ञानाब्दोधिसत्त्वः सर्वज्ञतां प्राप्नोति । श्रावकस्त्वेकस्या अपि गाथाया अर्थमाज्ञायास्त्रवक्षयंप्राप्नोति । आश्रयतो लक्षणतो धर्मादर्थाच्च सूचनात्सूत्रम् । अभिमुखतोऽथामीक्ष्ण्यादभिभवगतितोऽभिधर्मश्च ॥ ११.३ ॥ (५६) कथं प्रत्येकं चतुर्विधार्थः । आश्रयलक्षणधर्मार्थसूचनात्सूत्रम् । तत्राश्रयो यत्र देशे देशितं येन यस्मै च । लक्षणं संवृत्तिसत्यलक्षणं परमार्थसत्यलक्षणं च । धर्माः स्कन्धायतनधात्वाहारप्रतीत्यसमुत्पादादयः । अर्थोऽनुसंधिः । अभिमुखत्वादभीक्ष्णत्वादभिभवनादभिगमनाच्चाभिधर्मो वेदितव्यः । निर्वाणाभिमुखो धर्मोऽभिधर्मः सत्यबोधिपक्षविमोक्षमु[सु?]खादिदेशनात् । अभीक्ष्णं धर्मोऽभिधर्म एकैकस्य धर्मस्य रूप्यरूपिसनिदर्शनादिप्रभेदेन बहुलनिर्देशात् । अभिभवतीत्यभिधर्मः परप्रवादाभिभवनाद्विवादाधिकरणादिभिः । अभिगम्यते सूत्रार्थ एतेनेत्यभिधर्मः । आपत्तेरूत्थानाद्व्युत्थानान्निःसृतेश्चविनयत्वम् । पुद्गलतः प्रज्ञप्तेः प्रविभागविनिश्चयाच्चैव ॥ ११.४ ॥ आपत्तितः समुत्थानतो व्युत्थानतो निसारणतश्च वेदितव्यः । तत्रापत्तिः पञ्चापत्तिनिकायाः । समुत्थानमापत्तीनामज्ञानात्प्रमादात्क्लेशप्राचुर्यादनादराच्च । व्युत्थानमाशयतो न दण्डकर्मतः । निःसरणं सप्तविधम् । प्रतिदेशना, अभ्युपगमः शिक्षादत्तकादीनाम्, दण्डकर्मणः[णाम्] । समवद्योतः [समवधातः], प्रज्ञप्ते शिक्षापदे पुनः पर्यायेण अ[णानु] ज्ञानात्, प्रस्रब्धिः समग्रेण संघेन शिक्षापदस्य प्रतिप्रस्रम्भणात् । आश्रयपरिवृत्तिर्भिक्षुभिक्षुण्योः स्त्रीपुरुषव्यञ्जनपरिवर्तनादसाधारणा वे[चे]दापत्तिः । भूतप्रत्यवेक्षा धर्मोद्दानाक[का]रैः प्रत्यवेक्षावशेषः । धर्मताप्रतिलम्भश्च सत्यदर्शनेन क्षुद्रानुक्षुद्रापन्ना[त्त्य]भावे धर्म [ता]प्रतिलम्भात् । पुनश्चतुर्विधेनार्थेन विनयो वैदितव्यः । पुद्गलतो यमागम्य शिक्षा प्रज्ञप्यते । प्रज्ञप्तितो यदारोचिते पुद्गलापराधे शास्ता संनिपात्य संघ[संघं?] शिक्षां प्रज्ञापयति । प्रविभागतो यः प्रज्ञप्ते शिक्षापदे तदुद्देशस्य विभागः । विनिश्चयतश्च तत्रापत्तिः कथं भवत्यनापत्तिर्वेति निर्धारणात् । आलम्बनलाभपर्येष्टौ त्रयः श्लोकाः । आलम्बनं मतो धर्मः अध्यात्मं बाह्यकं[द्वयम्?] । [लाभो द्वयोर्द्वयार्थेन द्वयोश्चानुपलम्भतः] ॥ ११.५ ॥ [धर्मालम्बनं यो देशितः कायादिकञ्चाध्यात्मिकं] बाह्यमाध्यात्मिकबाह्यञ्च । तत्र ग्राहकभूतं कायादिकमाध्यात्मिकं ग्राह्यभूतं बाह्यं तयोरेव तथता द्वयम् । तत्र द्वयोराध्यात्मिकबाह्ययोरालम्बनयोर्द्वयार्थेन लाभो यथाक्रमम् । यदि ग्राह्यार्थद्ग्राहकार्थमभिन्नं पश्यति ग्राहकार्थाच्च ग्राह्यार्थम्, द्वयस्य पुनः समस्तस्याध्यात्मिकबाह्यालम्बनस्य तथताया लाभस्तयोरेवद्वयोरनुपलम्भाद्वेदितव्यः । (५७) मनोजल्पैर्यथोक्तार्थप्रसन्नस्य प्रधारणात् । अर्थख्यानस्य जल्पाच्च नाम्नि स्थानाच्च चेतसः ॥ ११.६ ॥ धर्मालम्बनलाभः स्यात्त्रिभिर्ज्ञानैः श्रुतादिभिः । त्रिविधालम्बनलाभश्च पूर्वोक्तस्तत्समाश्रितः ॥ ११.७ ॥ धर्मालम्बनलाभः पुनस्त्रिभिर्ज्ञानैर्भवति श्रुतचिन्ताभावनामयैः । तत्र समाहितेन चेतसा मनोजल्पैर्यथोक्तार्थप्रसन्नस्य तत्प्रधारणात् । श्रुतमयेन ज्ञानेन तल्लाभः, मनोजल्पैरिति संकल्पैः । प्रसन्नस्येत्यधिमुक्तस्य निश्चितस्य । प्रधारणादिति प्रविचयात् । जल्पादर्थख्यानस्य प्रधारणाच्चिन्तामयेन तल्लाभः । यदि मनोजल्पादेवायमर्थः ख्यातीति पश्यति नान्यन्मनोजल्पाद्यथोक्तं द्वयालम्बनलाभे । चित्तस्य नाम्नि स्थानात्भावनामयेन ज्ञानेन तल्लाभो वेदितव्यो द्वयानुपलम्भाद्यथोक्तं द्वयालम्बनलाभे । अत एव च स पूर्वोक्तस्त्रिविधालम्बनलाभो धर्मालम्बनलाभसंनिश्रितो वेदितव्यः । मनसिकारपर्येष्टौ पञ्च श्लोकाः । त्रिधातुकः कृत्यकरः ससंबाधाश्रयोऽपरः । अधिमुक्तिनिवेशी च तीव्रच्छन्दकरोऽपरः ॥ ११.८ ॥ हीनपूर्णाश्रयो द्वेधा सजल्पोऽजल्प एव च । ज्ञानेन संप्रयुक्तश्च योगोपनिषदात्मकः ॥ ११.९ ॥ संभिन्नालम्बनश्चासौ विभिन्नालम्बनः स च । पञ्चधा सप्तध चैव परिज्ञा पञ्चधास्य च ॥ ११.१० ॥ चत्वारः सप्तत्रिंशच्च आकारा भावनागताः । मार्गद्वयस्वभावोऽसौ द्व्युनुशंसः प्रतीच्छकः ॥ ११.११ ॥ प्रयोगी वशवर्ती च परीत्तो विपुलात्मकः । योगिनां हि मनस्कार एष सर्वात्मको मतः ॥ ११.१२ ॥ अष्टादशविधो मनस्कारः । धातुनियतः कृत्यकर आश्रयविभक्तोऽधिमुक्तिनिवेशकश्च्छन्दजनकः समाधिसंनिश्रितो ज्ञानसंप्रयुक्तः संभिन्नालम्बनो विभिन्नालम्बनः परिज्ञानियतो भावनाकारप्रविष्टः शमथविपश्यनामार्गस्वभावोऽनुशंसमनस्कारः प्रतीच्छकः प्रायोगिकमनस्कारो वशवर्तिमनस्कारः परीत्तमनस्कारो विपुलमनस्कारश्च । तत्र धातुनियतो यः श्रावकादिगोत्रनियतः । कृत्यकरो यः संभृतसंभारस्य । आश्रयविभक्तो यः ससंवाधगृहस्थाश्रयोऽसंबाधप्रव्रजिताश्रयश्च । अधिमुक्तिनिवेशको यो बुद्धानुस्मृतिसहगतः । (५८) च्छन्दजनको यस्तत्संप्रत्ययसहगतः । समाधिसंनिश्रितो यः समन्तकमौलसमाधिसहगतः सवितर्कसविचार [रावितर्कविचार?] (निर्वितर्कसविचार?) मात्रावितर्काविचारसहगतश्च । ज्ञानसंप्रयुक्तो यो योगोपनिषद्योगसहगतः, स पुनर्यथाक्रमं श्रुतचिन्तामयो भावनामयश्च । संभिन्नालम्बनः पञ्चविधः सूत्रोद्दानगाथानिपातयावदुद्ग्रहीतयावद्देशितालम्बनः । विभिन्नालम्बनः सप्तविधो नामालम्बनः पदालम्बनो व्यञ्जनालम्बनः पुद्गलनैरात्म्यालम्बनो धर्म नैरात्म्यालम्बनो रूपिधर्मालम्बनोऽरूपिधर्मालम्बनश्च । तत्र रूपिधर्मालम्बनो यः कायालम्बनः । अरूपिधर्मालम्बनो यो वेदनाचित्तधर्मालम्बनः । परिज्ञानियतो यः परिज्ञेये वस्तुनि परिज्ञेयेऽर्थे परिज्ञायां परिज्ञाफले तत्प्रवेदनायां च । तत्र परिज्ञेयं वस्तु दुःखं परिज्ञेयोऽर्थस्तस्यैवानित्यदुःखशून्यानात्मता । परिज्ञा मार्गः । परिज्ञाफलं विमुक्तिः । तत्प्रवेदना विमुक्तिज्ञानदर्शनम् । भावनाकारप्रविष्टश्चतुराकारभावनः सप्तत्रिंशदाकारभावनश्च । तत्रचतुराकारभावनः पुद्गलनैरात्म्याकारभावनो धर्मनैरात्म्याकारभावनो दर्शनाकारभावनो ज्ञानाकारभावनश्च । तत्र सप्तत्रिंशदाकारभावनः । अशुभाकारभावनो दुःखाकारभावनोऽनित्याकारभावनोऽनात्माकारभावनः स्मृत्युपस्थानेषु । प्रतिलम्भाकारभावनो निसेवनाकारभावनो विनिर्धावना [निर्विर्घाटना] कारभावनः प्रतिपक्षाकारभावनः सम्यक्प्रहाणेषु । संतुष्टिप्रातिपक्षिकमनस्कारभावनो यदा च्छन्दं जनयति । विक्षेपसंशयप्रातिपक्षिकमनस्कारभावनो यदा व्यायच्छते वीर्यमारभते यथाक्रमम् । औद्धत्यप्रातिपक्षिकसमाध्याकारभावनो यदा चित्तं प्रदधाति[प्रगृह्णाति] । लयप्रातिपक्षिकसमाध्याकारभावनो यदा चित्तं प्रगृह्णाति [प्रदधाति] । एते यथाक्रमं चतुर्षु ऋद्धिपादेषु वेदितव्याः । स्थितचित्तस्य लोकोत्तरसंपत्तिसंप्रत्ययाकारभावनो यथा संप्रत्ययाकारभावन एवं व्यवसायाकारभावनो धर्मासंप्रमोषाकारभावनश्चित्तस्थित्याकारभावनः प्रविचयाकारभावन इन्द्रियेषु । एत एव पञ्च निर्लिखितविपक्षमनस्कारा बलेषु । संबोधिसंप्रख्यानाकारभावनस्तत्रैव विचयोत्साहसौमनस्यकर्मण्यताचित्तस्थितिसमताकारभावनाः सप्तसंबोध्यङ्गेषु । प्राप्तिनिश्चयाकारभावनः परिकर्मभूमिसंरक्षणाकारभावनः परसंप्राप्त्याकारभावन आर्यकान्तशीलप्रविष्टाकारभावनः संलिखितवृत्तिसमुदाचार[रा]कारभावनः पूर्वपरिभावितप्रतिलब्धमार्गाभ्यासाकारभावनो धर्मस्थितिनिमित्तासंप्रमोषाकारभावनोऽनिमित्तस्थित्याश्रयपरिवृत्त्याकारभावनश्च मार्गाङ्गेषु । शमथविपश्यनाभावनामार्गस्वभावयोर्न कश्चिन्निर्देशः । अनुशंसमनस्कारो द्विविधो दौष्ठुल्यापकर्षणो दृष्टिनिमित्तापकर्षणश्च । प्रतीच्छको यो धर्मस्त्रोतसि बुद्धबोधिसत्त्वानामन्तिकादववादग्राहकः । प्रायोगिकमनस्कारः पञ्चविधः समाधिगोचरे । संख्योपलक्षणप्रायोगिको येन सूत्रादिषु नामपदव्यञ्जनसंख्यामुपलक्षयते । (५९) वृत्त्युपलक्षणप्रायोगिको येन द्विविधां वृत्तिमुपलक्षयते परिमाणवृत्तिं च व्यञ्जनानामपरिमाणवृत्तिं च नामपदयोः । परिकल्पोपलक्षणप्रायोगिको येन द्वयमुपादाय द्वयपरिकल्पमुपलक्षयते । नामपरिकल्पमुपादायार्थपरिकल्पमर्थपरिकल्पमुपादाय नामपरिकल्पमपरिकल्पमक्षरम् । क्रमोपलक्षणप्रायोगिको येन नामग्रहणपूर्विकामर्थग्रहणप्रवृत्तिमुपलक्षयते । प्रतिवेधप्रायोगिकश्च । स पुनरेकादशविधो वेदितव्य, आगन्तुकत्वप्रतिवेधतः, संप्रख्याननिमित्तप्रतिवेधतः, अर्थानुपलम्भप्रतिवेधतः, उपलम्भानुपलम्भप्रतिवेधतः, धर्मधातुप्रतिवेधतः पुद्गलनैरात्म्यप्रतिवेधतः, धर्म नैरात्म्यप्रतिवेधतः, हीनाशयप्रतिवेधतः, उदारमाहात्म्याशयप्रतिवेधतः यथाधिगमधर्मव्यवस्थानप्रतिवेधतः, व्यवस्थापितधर्मप्रतिवेधतश्च । वशवर्तिमनस्कारस्त्रिविधः, क्लेशावरणसुविशुद्धः क्लेशज्ञेयावरणसुविशुद्धः, गुणाभिनिर्हारसुविशुद्धश्च । धर्मतत्त्वपर्येष्टौ द्वौ श्लोकौ । तत्त्वं यत्सततं द्वयेन रहितं, भ्रान्तेश्च संनिश्रयः, शक्यं नैव च सर्वथाभिलपितुं यच्चाप्रपञ्चात्मकम् । ज्ञेयं हेयमथो विशोध्यममलं यच्च प्रकृत्या मतम् । यस्याकाशसुवर्णवारिसदृशी क्लेशाद्विशुद्धिर्मता ॥ ११.१३ ॥ सततं द्वयेन रहितं तत्त्वं, परिकल्पितः स्वभावो ग्राह्यग्राहकलक्षणेनात्यन्तमसत्त्वात् । भ्रान्तेः संनिश्रयः परतन्त्रस्तेन तत्परिकल्पनात् । अनभिलाप्यमप्रपञ्चात्मकं च परिनिष्पन्नः स्वभावः । तत्र प्रथमं तत्त्वं परिज्ञेयं द्वितीयं प्रहेयं तृतीयं विशोध्यं चागन्तुकमलाद्विशुद्धं च प्रकृत्या, यस्य प्रकृत्या विशुद्धस्याकाशसुवर्णवारिसदृशी क्लेशाद्विशुद्धिः । न ह्याकाशादीनि प्रकृत्या अशुद्धानि न चागन्तुकमलापगमादेषां विशुद्धिर्नेष्यत इति । न खलु जगति तस्माद्विद्यते किंचिदन्य- ज्जगदपि तदशेषं तत्र संमूढबुद्धि । कथमयमभिरूढो लोकमोहप्रकारो । यदसदभिनिविष्टः सत्समन्ताद्विहाय ॥ ११.१४ ॥ न खलु तस्मादेवंलक्षणाद्धर्मधातोः किंचिदन्यल्लोके विद्यते धर्मताया धर्मस्याभिन्नत्वात् । शेषं गतार्थम् । तत्त्वे मायोपमपर्येष्टौ पञ्चदश श्लोकाः । यथा माया तथाभूतपरिकल्पो निरुच्यते । यथा मायाकृतं तद्वत्द्वयभ्रान्तिर्निरुच्यते ॥ ११.१५ ॥ (६०) यथा माया यन्त्र [मन्त्र]परिगृहीतं भ्रान्तिनिमित्तं काष्ठलोष्टादिकं तथाभूतपरिकल्पः परतन्त्रः स्वभावो [स्वभावाकारो] वेदितव्यः । यथा मायाकृतं तस्यां मायायां हस्त्यश्वसुवर्णाद्याकृतिस्तद्भावेन प्रतिभासिता, तथा तस्मिन्नभूतपरिकल्पे द्वयभ्रान्तिर्ग्राह्यग्राहकत्वेनप्रतिभासिता परिकल्पितस्वभावाकारा वेदितव्या । यथा[ऽ]तस्मिन्न तद्भावः परमार्थस्तथेष्यते । यथा तस्योपलब्धिस्तु तथा संवृतिसत्यता ॥ ११.१६ ॥ यथा[ऽ]तस्मिन्न तद्भावो मायाकृते हस्तित्वाद्यभावस्तथा तस्मिन्परतन्त्रे परमार्थ इष्यते परिकल्पितस्य द्वयलक्षणस्याभावः । यथा तस्य मायाकृतस्य हस्त्यादिभावेनोपलब्धिः, तथाभूतपरिकल्पस्य संवृतिसत्यतोपलब्धिः । तदभावे यथा व्यक्तिस्तन्निमित्तस्य लभ्यते । तथाश्रयपरावृत्तावसत्कल्पस्य लभ्यते ॥ ११.१७ ॥ यथा मायाकृतस्याभावे तस्य निमित्तस्य काष्ठादिकस्य व्यक्तिर्भूतार्थोपलभ्यते, तथाश्रयपरावृत्तौ द्वयभ्रान्त्यभावादभूतपरिकल्पस्य भूतोऽर्थ उपलभ्यते । तन्निमित्ते यथा लोको ह्यभ्रान्तः कामतश्चरेत् । परावृत्तावपर्यस्तः कामचारी तथा पतिः[यतिः] ॥ ११.१८ ॥ यथा तन्निमित्ते काष्ठादावभ्रान्तो लोकः कामतश्चरति स्वतन्त्रः तथाऽश्रयपरावृत्तावपर्यस्त आर्यः कामचारि भवति स्वतन्त्रः । तदाकृतिश्च तत्रास्ति तद्भावश्च न विद्यते । तस्मादस्तित्वनास्तित्वं मायादिषु विधीयते ॥ ११.१९ ॥ एष श्लोको गतार्थः । न भावस्तत्र चाभावो नाभावो भाव एव च । भावाभावाविशेषश्च मायादिषु विधीयते ॥ ११.२० ॥ न भावस्तत्र चाभावो यस्तदाकृतिभावो नासौ न भावः । नाभावो भाव एव च यो हस्तित्वाद्यभावो नासौ न [?]भावः । तयोश्च भावाभावयोरविशेषो मायादिषु विधीयते । य एव हि तत्र तदाकृतिभावः, स एव हस्तित्वाद्यभावः । य एव हस्तित्वाद्यभावः स एव तदाकृतिभावः । (६१) तथा द्वयाभ[भास?]तात्रास्ति तद्भावश्च न विद्यते । तस्मादस्तित्वनास्तित्वं रूपादिषु विधीयते ॥ ११.२१ ॥ तथात्राभूतपरिकल्पे द्वयाभासतास्ति द्वयभावश्च नास्ति । तस्मादस्तित्वनास्तित्वं रूपादिषु विधीयतेऽभूतपरिकल्पस्वभावेषु । न भावस्तत्र चाभावो नाभावो भाव एव च । भावाभावाविशेषश्च रूपादिषु विधीयते ॥ ११.२२ ॥ न भावस्तत्र चाभावः । या द्वयाभासता । नाभावो भाव एव च । या द्वयतानास्तिता । भावाभावाविशेषश्च रूपादिषु विधीयते । य एव हि द्वयाभासताया भावः स एव द्वयस्याभाव इति । समारोपापवादाभ[न्त?]प्रतिषेधार्थमिष्यते । हीनयानेन यानस्य प्रतिषेधार्थमेव च ॥ ११.२३ ॥ किमर्थं पुनरयं भावाभावयोरैकान्तिकत्वमविशेषश्चेष्यते । यथाक्रमम् । समारोपापवादाभ[न्तः?]प्रतिषेधार्थमिष्यते, हीनयानगमनप्रतिषेधार्थं च । अभावस्य ह्यभावत्वं विदित्वा समारोपं न करोति । भावस्य भावत्वं विदित्वापवादं न करोति । तयोश्चाविशेषं विदित्वा न भावादुद्विजते तस्मान्न हिनयानेन निर्याति । भ्रान्तेर्निमित्तं भ्रान्तिश्च रूपविज्ञप्तिरिष्यते । अरूपिणी च विज्ञप्तिरभावात्स्यान्न चेतरा ॥ ११.२४ ॥ रूपभ्रान्तेर्या निमित्तविज्ञप्तिः सा रूपविज्ञप्तिरिष्यते रूपाख्या । सा तु रूपभ्रान्तिररूपिणी विज्ञप्तिः । अभावाद्रूपविज्ञप्तेरितरापि न स्यादरूपिणी विज्ञप्तिः । काएरणाभावात् । मायाहस्त्याकृतिग्राहभ्रान्तेर्द्वयमुदाहृतम् । द्वयं तत्र यथा नास्ति द्वयं चैवोपलभ्यते ॥ ११.२५ ॥ बिम्बसंकलिकाग्राहभ्रान्तेर्द्वयमुदाहृतम् । द्वयं तत्र यथा नास्ति द्वयं चैवोपलभ्यते ॥ ११.२६ ॥ मायाहस्त्याकृतिग्राह्य[ह]भ्रन्तितो द्वयमुदाहृतम् । ग्राह्यं ग्राहकं च, तत्र यथा नास्ति द्वयं चैवोपलभ्यते । प्रतिबिम्बं[ब?] संकलिकां च मनसिकुर्वतः तद्ग्राहभ्रान्तेर्द्वयमुदाहृतं पूर्ववत् । (६२) तथा भावात्तथाभावाद्भावाभाव[वा?]विशेषतः । सदसन्तोऽथ मायाभा ये धर्मा भ्रान्तिलक्षणाः ॥ ११.२७ ॥ ये धर्मा भ्रान्तिलक्षणा विपक्षस्वभावास्ते सदसन्तो मायोपमाश्च । किं कारणम् । सन्तस्तथाभावादभूतपरिकल्पत्वेन । असन्तस्तथाभावात्ग्राह्यग्राहकत्वेन । तयोश्च भावाभावयोरविशिष्टत्वात्सन्तोऽप्यसन्तोऽपि मायापि चैवंलक्षणा स्त[त?]स्मान्मायोपमाः । तथाभावात्तथाभावात्तथाभावादलक्षणाः । मायोपमाश्च निर्दिष्टा ये धर्माः प्रातिपक्षिकाः ॥ ११.२८ ॥ येऽपि प्रातिपक्षिका धर्मा बुद्धेनोपदिष्टाः स्मृत्युपस्थानादयस्तेऽप्यलक्षणा मायाश्च निर्दिष्टाः । किं कारणम् । तथाभावाद्यथा बालैर्गृह्यन्ते । तथाभावाद्यथा देशिताः । तथाभावाद्यथा संदर्शिता बुद्धेन गर्भावक्रमणजन्माभिनिष्क्रमणाभिसंबोध्यादयः । एवमलक्षणा अविद्यमानाश्च ख्यान्ति तस्मान्मायोपमाः । मायाराजेव चान्येन मायाराज्ञा पराजितः । ये सर्वधर्मान् पश्यन्ति निर्मारास्ते जिनात्मजाः ॥ ११.२९ ॥ ये प्रातिपक्षिका धर्मास्ते मायाराजस्थानीयाः संक्लेशप्रहाणे व्यवदानाधिपत्त्यात् । येऽपि सांक्लेशिका धर्मास्तेऽपि राजस्थानीयाः संक्लेशनिर्वृत्तावाधिपत्यात् । अतस्तैः प्रातिपक्षिकैः संक्लेशपराजयो माया [?] राज्ञेव राज्ञः पराजयो द्रष्टव्यः । तज्ज्ञानाच्च बोधिसत्त्वा निर्मारा भवन्ति उभयपक्षे । औपम्यार्थे श्लोकः । मायास्वप्नमरीचिबिम्बसदृशाः प्रोद्भासश्रुत्कोपमा विज्ञेयोदकचन्द्रबिम्बसदृशा निर्माणतुल्याः पुनः । षट्षट्द्वौ च पुनश्च षट्द्वयमता एकैकशश्च त्रयः संस्काराः खलु तत्र तत्र कथिता बुद्धैर्विबुद्धोत्तमैः ॥ ११.३० ॥ यत्तूक्तं भगवता मायोपमा धर्मा यावन्निर्माणोपमा इति । तत्र मायोपमा धर्माः षडाध्यात्मिकान्यायतनानि । असत्यात्मजीवादित्वे तथा प्रख्यानात् । स्वप्नोपमाः षट्बाह्यान्यायतनानि तदुपभोगस्यावस्तुकत्वात् । मरीचिकोपमौ द्वौ धर्मौ चित्तं चैतसिकाश्च भ्रान्तिकरत्वात् । प्रतिबिम्बोपमाः पुनः षडेवाध्यात्मिकान्यायतनानि पूर्वकर्मप्रतिबिम्बत्वात् । प्रतिभासोपमाः षडेव बाह्यान्यायतनान्याध्यात्मिकानामायतनानां छायाभूतत्वात्तदाधिपत्योत्पत्तितः । (६३) षट्द्वयं मताः षट्द्वयमताः । प्रतिश्रुत्कोपमा देशनाधर्माः । उदकचन्द्रबिम्बोपमाः समाधिसंनिश्रिता धर्माः समाधेरूदकस्थानीयत्वादच्छतया । निर्माणोपमाः संचिन्त्यभवोपपत्तिपरिग्रहेऽसंक्लिष्टसर्वक्रियाप्रयोगत्वात् । ज्ञेयपर्येष्टौ श्लोकः । अभूतकल्पो न भूतो नाभूतोऽकल्प एव च । न कल्पो नापि चाकल्पः सर्वं ज्ञेयं निरुच्यते ॥ ११.३१ ॥ अभूतकल्पो यो न लोकोत्तरज्ञानानुकूलः कल्पः, न भूतो नाभूतो यस्तदनुकूलो यावन्निर्वेधभागीयः । अकल्पस्तथता लोकोत्तरं च ज्ञानम् । न कल्पो नापि चाकल्पो लोकोत्तरपृष्ठलब्धं लौकिकं ज्ञानम् । एतावच्च सर्वं ज्ञेयम् । संक्लेशव्यवदानपर्येष्टौ श्लोकद्वयम् । स्वधातुतो द्वयाभासाः साविद्याक्लेशवृत्तयः । विकल्पाः संप्रवर्तन्ते द्वयद्रव्यविवर्जिताः ॥ ११.३२ ॥ स्वधातुत इति भावाङ्गा [स्वबीजा?]दालयविज्ञानतः । द्वयाभासा इति ग्राह्यग्राहकाभासाः । सहाविद्यया क्लेशैश्च वृत्तिरेषां त इमे साविद्याक्लेशवृत्तयः । द्वयद्रव्यविवर्जिता इति ग्राह्यद्रव्येण ग्राहकद्रव्येण च । एवं क्लेशः पर्येषितव्यः । आलम्बनविशेषाप्तिः स्वधातुस्थानयोगतः । त एव ह्यद्वयाभासा वर्तन्ते चर्मकाण्डवत् ॥ ११.३३ ॥ आलम्बनविशेषाप्तिरिति यो धर्मालम्बनलाभः पूर्वमुक्तः । स्वधातुस्थानयोगत इति स्वधातुर्विकल्पानां तथता तत्र स्थानं नाम्नि स्थानाच्चेतसः । योगत इत्यभ्यासात् । भावनामार्गेण त एव विकल्पा अद्वयाभासा वर्तन्ते परावृत्ताश्रयस्य । चर्मवत्काण्डवच्च । यथा हि स्वरत्वापगमात्तदेव चर्म मृदु भवति । अग्निसंतापनया तदेव काण्डमृजु भवति । एवं शमथविपश्यनाभावनाभ्यां चेतः प्रज्ञाविमुक्तिलाभे परावृत्ताश्रयस्य त एव विकल्पा न पुनर्द्वयाभासाः प्रवर्तन्ते । इत्येव [वं?] व्यवदानं पर्येषितव्यम् । विज्ञप्तिमात्रतापर्येष्टौ द्वौ श्लोकौ । चित्तं द्वयप्रभासं रागाद्याभासमिष्यते तद्वत् । श्रद्धाद्याभासं न तदन्यो धर्मः क्लिष्टकुशलोऽस्ति ॥ ११.३४ ॥ (६४) चित्तमात्रमेव द्वयप्रतिभासमिष्यते ग्राह्यप्रतिभासं ग्राहकप्रतिभासं च । तथा रागादिक्लेशाभासं तदेवेष्यते । श्रद्धादिकुशलधर्माभासं वा । न तु तदाभासादन्यः क्लिष्टो धर्मोऽस्ति रागादिलक्षणः कुशलो वा श्रद्धादिलक्षणः । यथा द्वयप्रतिभासादन्यो न द्वयलक्षणः । इति चित्तं चित्राभासं चित्राकारं प्रवर्तते । तथाभासोभावाभावो न तु धर्माणां मतः ॥ ११.३५ ॥ तत्र चित्तमेव वस्तुतच्चि[श्चि]त्राभासं प्रवर्तते । पर्यायेण रागाभासं वा द्वेषाभासं वा । तदन्यधर्माभासं वा । चित्राकारं च युगपत्श्रद्धाद्याकारम् । भासो भावाभावः क्लिष्टकुशलावस्थे चेतसि । न तु धर्माणां [क्लिष्टानां?] कुशलानां [वा?] तत्प्रतिभासव्यतिरेकेण तल्लक्षणाभावात् । लक्षणपर्येष्टौ श्लोका अष्टौ । एकनोद्देशः शेषैर्निर्देशः । लक्ष्यं च लक्षणं चैव लक्षणा च प्रभेदतः । अनुग्रहार्थं सत्त्वानां संबुद्धैः संप्रकाशिता ॥ ११.३६ ॥ अनेनोद्देशः । सदृष्टिकं च यच्चित्तं तत्रावस्थाविकारिता । लक्ष्यमेतत्समासेन ह्यप्रमाणं प्रभेदतः ॥ ११.३७ ॥ तत्र चित्तं विज्ञानं रूपं च । दृष्टिश्चैतसिका धर्माः । तत्रावस्था चित्तविप्रयुक्ता वर्माः । अविकारिता असंस्कृतमाकाशादिकं तद्विज्ञप्तेर्नित्यं तथाप्रवृत्तेः । इत्येतत्समासेन पञ्चविधं लक्ष्यं प्रभेदेनाप्रमाणम् । यथाजल्पार्थसंज्ञाया निमित्तं तस्य वासना । तस्मादप्यर्थविख्यानं परिकल्पितलक्षणम् ॥ ११. ॥ ३८ ॥ लक्षणं समासेन त्रिविधं परिकल्पितादिलक्षणम् । तत्र परिकल्पितलक्षणं त्रिविधं यथा जल्पार्थसंज्ञाया निमित्तं तस्य जल्पस्य वासना तस्माच्च वासनाद्योऽर्थः ख्याति अव्यवहारकुशलानां विनापि यथाजल्पार्थसंज्ञया । तत्र यथाभिलापमर्थसंज्ञा चैतसिकी यथाजल्पार्थसंज्ञा । तस्या यदालम्बनं तन्निमित्तमेवं [व] यच्च परिकल्प्यते यतश्च कारणाद्वासन[ना]तस्तदुभयं परिकल्पितलक्षणमत्राभिप्रेतम् । यथा नामार्थमर्थस्य नाम्नः प्रख्यानता च या । असं[सत्?] कल्पनिमित्तं हि परिकल्पितलक्षणम् ॥ ११.३९ ॥ (६५) अपरपर्यायो यथा नाम चार्थश्च यथानामार्थमर्थस्य नाम्नश्च प्रख्यानता यथा नामार्थप्रख्यानता । यदि यथा नामार्थः ख्याति यथार्थं वा नाम इत्येतदभूतपरिकल्पालम्बनं परिकल्पितलक्षणमेतावद्धि परिकल्प्यते यदुत नाम वा अर्थो वेति । त्रिविधत्रिविधाभासो ग्राह्यग्राहकलक्षणः । अभूतपरिकल्पो हि परतन्त्रस्य लक्षणम् ॥ ११.४० ॥ त्रिविधस्त्रिविधश्चाभासोऽस्येति त्रिविधत्रिविधाभासः । तत्र त्रिविधाभासः पदाभासोऽर्थाभासो देहाभासश्च । पुनस्त्रिविधाभासो मनौद्ग्रहविकल्पाभासः । मनो यत्क्लिष्टं सर्वदा । उद्ग्रहः पञ्च विज्ञानकायाः । विकल्पो मनोविज्ञानम् । तत्र प्रथमत्रि[मस्त्रि-?] विधाभासो ग्राह्यलक्षणः । द्वितीयो ग्राहकलक्षणः । इत्ययमभूतपरिकल्पः परतन्त्रस्य लक्षणम् । अभावभावता या च भावाभावसमानता । अशान्तशान्ताकल्पा च परिनिष्पन्नलक्षणम् ॥ ११.४१ ॥ परिनिष्पन्नलक्षणं पुनस्तथता सा ह्यभावता च, सर्वधर्माणां परिकल्पिताना [नां?] भावता च तदभावत्वेन भावात् । भावाभावसमानता च तयोर्भावाभावयोरभिन्नत्वात् । अशान्ता चागन्तुकैरुपक्लेशैः, शान्ता च प्रकृतिपरिशुद्धत्वात् । अविकल्पा च विकल्पागोचरत्वात्निष्प्रपञ्चतया । एतेन त्रिविधं लक्षणं तथतायाः परिदीपितं स्वलक्षणं क्ले[सं]शव्यवदानलक्षणमविकल्पलक्षणं च उक्तं त्रिविधं लक्षणम् । निष्प[ष्य]न्दधर्ममालम्ब्य योनिशो मनसिक्रिया । चित्तस्य धातौ स्थानं च सदसत्तार्थपश्यना ॥ ११.४२ ॥ लक्षणा पुनः पञ्चविधा योगभूमिः । आधार आधानमादर्श आलोक आश्रयश्च । तत्राधारो निष्प[ष्य]न्दधर्मो यो बुद्धेनाधिगमो देशितः स तस्याधिगमस्य निष्प[ष्य]न्दः । आधानं योनिशो मनस्कारः । आदर्शः चित्तस्य धातौ स्थानं समाधिर्यदेतत्पूर्वं नाम्नि स्थानमुक्तम् । आलोकः सदसत्त्वेनार्थदर्शनं लोकोत्तरा प्रज्ञा, तथा[तया] सच्च सतो यथाभूतं पश्यत्यसच्चासतः । आश्रय आश्रयपरावृत्तिः । समतागमनं तस्मिन्नार्यगोत्रं हि निर्मलम् । समं विशिष्टमन्यूनानधिकं लक्षणा मता ॥ ११.४३ ॥ (६६) समतागमनमनास्रवधातौ आर्यगोत्रे तदन्यैरार्यैः । तच्च निर्मलमार्यगोत्रं बुद्धानाम् । समं विमुक्तिसमता श्रावकप्रत्येकबुद्धैः । विशिष्टं पञ्चभिर्विशेषैः । विशुद्धिविशेषेण सवासनक्लेशविशुद्धितः । परिशुद्धिविशेषेण क्षेत्रपरिशुद्धितः । कायविशेषण धर्मकायतया । संभोगविशेषेण पर्षन्मण्डलेष्वविच्छिन्नधर्मसंभोगप्रवर्तनतः । कर्मविशेषेण च तुषितभवनवासादिनिर्माणैः सत्त्वार्थक्रियानुष्ठानतः । न च तस्योनत्वं संक्लेशपक्षनिरोधे नाधिकत्वं व्यवदानपक्षोत्पाद इत्येषा पञ्चविधा योगभूमिर्लक्षणा । तया हि तल्लक्ष्यं लक्षणं च लक्ष्यते । विमुक्तिपर्येष्टौ षट्श्लोकाः । पदार्थदेहनिर्भासपरावृत्तिरनास्रवः । धातुर्बीजपरावृत्तेः स च सर्वत्रगाश्रयः ॥ ११.४४ ॥ बीजपरावृत्तेरित्यालयविज्ञानपरावृत्तितः । पदार्थदेहनिर्भासानां विज्ञानानां परावृत्तिरनास्रवो धातुर्विमुक्तिः । स च सर्वत्रगाश्रयः श्रावकप्रत्येकबुद्धगतः । चतुर्धा वशितावृतेर्मनसश्चोद्ग्रहस्य च । विकल्पस्याविकल्पे हि क्षेत्रे ज्ञानेऽथ कर्मणि ॥ ११.४५ ॥ मनसश्चोद्ग्रहस्य च विकल्पस्य चावृत्तेः परावृत्तेरित्यर्थः । चतुर्धा वशिता भवति यथाक्रममविकल्पे क्षेत्रे ज्ञानकर्मणोश्च । अचलादित्रिभूमौ च वशिता सा चतुर्विधा । द्विधैकस्यां तदन्यस्यामेकैका वशिता मता ॥ ११.४६ ॥ सा चेयमचलादिभूमित्रये चतुर्धा वशिता वेदितव्या । एकस्यामचलायां भूमौ द्विविधा । अविकल्पे न [?] चानभिसंस्कारनिर्विकल्पत्वात् । क्षेत्रे च बुद्धक्षेत्रपरिशोधनात् । तदन्यस्यां भूमावेकै[वै]का वशिता साधुमत्यां ज्ञानवशिता प्रतिसंविद्विशेषलाभात् । धर्ममेघायां कर्मण्यभिज्ञाकर्मणामव्याघातात् । विदित्वा नैरात्म्यं द्विविधमिह धीमान्भवगतं समं तच्च ज्ञात्वा प्रविशति स तत्त्वं ग्रहणतः । ततस्तत्र स्थानान्मनस इह न ख्याति तदपि तदख्यानं मुक्तिः परम उपलम्भस्य विगमः ॥ ११.४७ ॥ अपरो विमुक्तिपर्यायः । (६७) द्विविधं नैरात्म्यं विदित्वा भवत्रयगतं बोधिसत्त्वः समं तच्च ज्ञात्वा द्विविधनैरात्म्यं परिकल्पितपुद्गलाभावात्परिकल्पितधर्माभावात्, न तु सर्व थैवाभावतः । तत्त्वं प्रविशति विज्ञप्तिमात्रतां ग्रहणतो ग्रहणमात्रमेतदिति । ततस्तत्र तत्त्वविज्ञप्तिमात्रस्थानान्मनसस्तदपि तत्त्वं न ख्याति विज्ञप्तिमात्रम् । तदख्यानं मुक्तिः परम उपलम्भस्य यो विगमः पुद्गलधर्मयोरनुपलम्भात् । आधारे संभारादाधाने सति हि नाममात्रंपश्यन् । पश्यति हि नाममात्रं तत्पश्यंस्तच्च नैव पश्यति भूयः ॥ ११.४८ ॥ अपर[रः]पर्यायः आधार इति श्रुतौ संभारादिति संभृतसंभारस्य पूर्वसंभारलाभात् । आधाने सतीति योनिशोमनस्कारे नाममात्रं पश्यन्नित्यभिलापमात्रमर्थरहितम् । पश्यति हि नाममात्रमिति विज्ञप्तिमात्रं नाम अरूपिणश्चत्वारः स्कन्धा इति कृत्वा तत्पश्यंस्तदपि भूयो नैव पश्यत्यर्थाभावे तद्विज्ञप्त्यदर्शनादित्ययमनुपलम्भो विमुक्तिः । चित्तमेतत्सदौष्ठुल्यमात्मदर्शनपाशितम् । प्रवर्त्तते निवृत्तिस्तु तदध्यात्मस्थितेर्मता ॥ ११.४९ ॥ अपर[रः] प्रकारः चित्तमेतत्सदौष्ठुल्यं प्रवर्तते जन्मसु । आत्मदर्शनपाशितमिति दौष्ठुल्यकारणं दर्शयति । द्विविधेनात्मदर्शनेन पाशितमतः सदौष्ठुल्यमिति । निवृत्तिस्तु तदध्यात्मस्थितेरिति तस्य चित्तस्य चित्त एवावस्थानादालम्बनानुपलम्भतः । निःस्वभावतापर्येष्टौ श्लोकद्वयम् । स्वयं स्वेनात्मनाभावात्स्वभावे चानवस्थितेः । ग्राहवत्तदा[द]भावाच्च निःस्वभावत्वमिष्यते ॥ ११.५० ॥ स्वयमभावान्निःस्वभावत्वं धर्माणां प्रत्ययाधीनत्वात् । स्वेनात्मनाभावान्निःस्वभावत्वं निरुद्धानां पुनस्तेना [स्वेना?]त्मनानुत्पत्तेः । स्वभाव[वे]ऽनवस्थितत्वान्निःस्वभावत्वं क्षणिकत्वादित्येतत्त्रिविधं निःस्वभावत्वं संस्कृतलक्षणत्रयानुगं वेदितव्यम् । ग्राहवत्तदभावाच्च निःस्वभावत्वम् । तदभावादिति स्वाभावात् । यथा बालानां स्वभावग्राहो नित्यसुखशुच्यात्तो[त्मा] वान्येन वा परिकल्पितलक्षणेन तथासौ स्वभावो नास्ति तस्मादपि निःस्वभावत्वं धर्माणामिष्यते । .......... [निःस्वभावतया सिद्धा उत्तरोत्तरनिश्रयाः । अनुत्पन्ना निरोद्धादिशान्तप्रकृतिनिर्वृताः ॥ ११.५१ ॥] (६८) [सिद्धा] निःस्वभावतयानुत्पादादयः । यो हि निःस्वभावः सोऽनुत्पन्नः, योऽनुत्पन्नः सोऽनिरूद्धः, योऽनिरूद्धः स आदिशान्तः य आदिशान्तः स प्रकृतिपरिनिर्वृत इत्येवमुत्तरोत्तरनिश्रयैरेभिर्निःस्वभावता[दि]भिर्निःस्वभावतयानुत्पादादयः सिद्धा भवन्ति । अनुत्पत्तिधर्मक्षान्तिपर्येष्टावार्या । आदौ तत्त्वेऽन्यत्वे स्वलक्षणे स्वयमथान्यथाभावे । संक्लेशऽथ विशेषे क्षान्तिरनुत्पत्तिधर्मोक्ता ॥ ११.५२ ॥ अष्टास्वनुत्पत्तिधर्मेषु क्षान्तिरनुत्पत्तिकधर्मक्षान्तिः । आदौ संसारस्य, न हि तस्याद्युत्पत्तिरस्ति । तत्त्वेऽन्यत्वे च पूर्वपश्चिमानां, न हि संसारे तेषामेव धर्माणामुत्पत्तिः, ये पूर्वमुत्पन्नास्तद्भावेनानुत्पत्तेः । न चान्येषाम्, अपूर्वप्रकारानुत्पत्तेः । स्वलक्षणे परिकल्पितस्य स्वभावस्य, न हि तस्य कदाचिदुत्पत्तिः । स्वयमनुत्पत्तौ परतन्त्रस्य । अन्यथाभावे परिनिष्पन्नस्य न हि तदन्यथाभावस्योत्पत्तिरस्ति । संक्लेशे प्रहीणे, न हि क्षयज्ञानलाभिनः संक्लेशस्योत्पत्तिं पुनः पश्यन्ति । विशेषे बुद्धधर्मकायानाम्, न हि तेषां विशेषोत्पत्तिरस्ति । इत्येतेष्वनुत्पत्तिधर्मेषु क्षान्तिरनुत्पत्तिधर्मोक्ता । एकयानतापर्येष्टौ सप्त श्लोकाः । धर्मे नैरात्म्यमुक्तीनां तुल्यत्वात्गोत्रभेदतः । द्व्याशयाप्तेश्च निर्माणात्पर्यन्तादेकयानता ॥ ११.५३ ॥ धर्मतुल्यत्वादेकयानता, श्रावकादीनां धर्मधातोरभिन्नत्वात्यातव्यं यानमिति कृत्वा । नैरात्म्यस्य तुल्यत्वादेकयानता, श्रावकादीनामात्माभावतासामान्याद्याता यानमिति कृत्वा । विमुक्तितुल्यत्वादेकयानता, याति यानमिति कृत्वा । गोत्रभेदादेकयानता । अनियतश्रावकगोत्राणां महायानेन निर्याणात्यान्ति तेन यानमिति कृत्वा । द्व्याशयाप्ते रेकयानता । बुद्धानां च सर्वसत्त्वेष्वात्माशयप्राप्तेः, श्रावकाणां च तद्गोत्रनियतानां पूर्वं बोधिसंभारचरितादना[नामा]त्मनि बुद्धाशयप्राप्तेरभिन्नसंतानाधिमोक्षलाभतो बुद्धानुभावेन तथागतानुग्रहविशेषप्रदेशलाभाय इत्येकत्वाशयलाभेनैकत्वाद्बुद्धतच्छ्रावकाणामेकयानता । निर्माणादेकयानता, यथोक्तमनेकशतकृत्वोऽहं श्रावकयानेन परिनिर्वृत इति विनेयानामर्थे तथा निर्माणसंदर्शनात् । पर्यन्तादप्येकयानता यतः परेण यातव्यं नास्ति तद्यानमिति कृत्वा । बुद्धत्वमेकयानम्, एवं तत्रतत्र सूत्रे तेन तनाभिप्रायेणैकयानता वेदितव्या, न तु यानत्रयं नास्ति । (६९) किमर्थं पुनस्तेन तेनाभिप्रायेणैकयानता बुद्धैर्देशिता । आकर्षणार्थमेकेषामन्यसंघारणाय च । देशितानियतानां हि संबुद्धैरेकयानता ॥ ११.५४ ॥ आकर्षणार्थमेकेषामिति ये श्रावकगोत्रा अनियताः । अन्येषां च संधारणाय, ये बोधिसत्त्वगोत्रा अनियताः । श्रावकोऽनियतो द्वेधा दृष्टादृष्टार्थयानतः । दृष्टार्थो वीतरागश्चावीतरागोऽप्यसौ मृदुः ॥ ११.५५ ॥ श्रावकः पुनरनियतो द्विविधो वेदितव्यः । दृष्टार्थयानश्च यो दृष्टसत्यो महायानेन निर्याति, अदृष्टार्थयानश्च यो न दृष्टसत्यो महायानेन निर्याति । दृष्टार्थः पुनर्वीतरागश्चावीतरागश्च कामेभ्यः । असौ च मृदुर्धन्धगतिको वेदितव्यः । यो दृष्टार्थो द्विविध उक्तः । तौ च लब्धार्यमार्गस्य भवेषु परिणामनात् । अचिन्त्यपरिणामिक्या उपपत्त्या समन्वितौ ॥ ११.५६ ॥ तौ च दृष्टार्थौ लब्धस्यार्यमार्गस्य भवेषु परिणामनातचिन्त्यपरिणामिक्या उपपत्त्या समन्वागतौ वेदितव्यौ । अचिन्त्यो हि तस्यार्यमार्गस्य परिणाम उपपत्तौ तस्मादचिन्त्यपरिणामिकी । प्रणिधानवशादेक उपपत्तिं प्रपद्यते । एकोऽनागामितायोगान्निर्माणैः प्रतिपद्यते ॥ ११.५७ ॥ तयोश्चैकः प्रणिधानवशादुपपत्तिं गृह्णाति यथेष्टं यो न वीतरागः । एकोऽनागामितायोगबलेन निर्माणैः । निर्वाणाभिरतत्वाच्च तौ धन्धगतिकौ मतौ । पुनः पुनः स्वचित्तस्य समुदाचारयोगतः ॥ ११.५८ ॥ तौ च निर्वाणाभिरतत्वादुभावपि धन्धगतिकौ मतौ चिरतरेणाभिसंबोधतः । स्वस्य श्रावकचित्तस्य निर्वित्सहगतस्याभीक्ष्णं समुदाचारात् । सोऽकृतार्थो ह्यबुद्धे च जातो ध्यानार्थमुद्यतः । निर्माणार्थी तदाश्रित्य परां बोधिमवाप्नुते ॥ ११.५९ ॥ (७०) यः पुनरसाववीतरागो दृष्टसत्यः सोऽकृतार्थः शैक्षो भवन् बुद्धरहिते काले जातो ध्यानार्थमुद्यतो भवति निर्माणार्थी । तच्च निर्माणमाश्रित्य क्रमेण परां बोधिं प्राप्नोति । तमवस्थात्रयस्थं संधायोक्तं भगवता श्रीमालासूत्रे । श्रावको भूत्वा प्रत्येकबुद्धो भवति पुनश्च बुद्ध इति । अग्निदृष्टान्ते[न] च यदा च पूर्वं दृष्टसत्यावस्था[स्थो] यदा बुद्धरहिते काले स्वयं ध्यानमुत्पाद्य जन्मकायं त्यक्त्वा निर्माणकायं गृह्णाति यदा च परां बोधिं प्राप्नोतीति । विद्यास्थानपर्येष्टौ श्लोकः । विद्यास्थाने पञ्चविधे योगमकृत्वा सर्वज्ञत्वं नैति कथंचित्परमार्यः । इत्यन्येषां निग्रहणानुग्रहणाय स्वाज्ञार्थं वा तत्र करोत्येव स योगम् ॥ ११.६० ॥ पञ्चविधं विद्यास्थानम् । अध्यात्मविद्या हेतुविद्या शब्दविद्या चिकित्साविद्या शिल्पकर्मस्थानविद्या च । तद्यदर्थं बोधिसत्त्वेन पर्येषितव्यं तद्दर्शयति । सर्वज्ञत्वप्राप्त्यर्थमभेदेन सर्वम् । भेदेन पुनर्हेतुविद्यां शब्दविद्यां च पर्येषते निग्रहार्थमन्येषां तदनधिमुक्तानाम् । चिकित्साविद्यां शिल्पकर्मस्थानविद्यां चान्येषामनुग्रहार्थं तदर्थिकानाम् । अध्यात्मविद्यां स्वयमाज्ञार्थम् । धातुपुष्टिपर्येष्टौ त्रयोदश श्लोकाः । पारमितापरिपूरणार्थं ये पारमिताप्रतिसंयुक्ता एवं मनसिकारा धातुपुष्टये भवन्ति त एताभिर्गाथाभिर्देशिताः । हेतूपलब्धितुष्टिश्च निश्रयतदनुस्मृतिः । साधारणफलेच्छा च यथाबोधाधिमुच्यना ॥ ११.६१ ॥ ते पुनर्हेतूपलब्धितुष्टिउमनसिकारात्यावदग्रत्वात्मावधारणमनसिकारः । तत्र हेतूपलब्धितुष्टिमनसिकार आदित एव तावत् । गोत्रस्थो बोधिसत्त्वः स्वात्मनि पारमितानां गोत्रं पश्यन् हेतूपलब्धितुष्ट्या पारमिताधातुपुष्टिं करोति । गोत्रस्थोऽनुत्तरायां सम्यक्संबोधौ चित्तमुत्पादयतीत्यतोऽनन्तरं निश्रयतदनुस्मृतिमनसिकारः । स हि बोधिसत्त्वः स्वात्मनि पारमितानां संनिश्रयभूतं बोधिचित्तं समनुपश्यन्नेवं मनसिकरोति नियतमेताः पारमिताः परिपूरिं गमिष्यन्ति । तथा ह्यस्माकं बोधिचित्तं संविद्यते इति । उत्पादितबोधिचित्तस्य पारमिताभिः स्वपरार्थप्रयोगे साधरणफलेच्छामनसिकार, आसां पारमितानां परसाधारणं वा फलं भवत्वन्यथा वा मा भूदित्यभिसंस्करणात् । स्वपरार्थं प्रयुज्यमानोऽसंक्लेशोपायं तत्त्वार्थं प्रतिविध्यतीत्यतोऽनन्तरं यथाबोधाधिमुच्यनामनसिकारः । एवं सर्वत्रानुकमो वेदितव्यः । यथा बुद्धैर्भगवद्भिः पारमिता अभिसंबुद्धा अभिसंभोत्स्यन्तेऽभिसंबुध्यन्ते च तथाहमधिमुच्ये इत्यभिसंस्करणात् । (७१) चतुर्विधानुभावेन प्रीयणाखेदनिश्चयः । विपक्षे प्रतिपक्षे च प्रतिपत्तिश्चतुर्विधा ॥ ११.६२ ॥ अनुभावप्रीयणामनसिकारश्चतुर्विधानुभावदर्शनप्रीयणा, चतुर्विधानुभावो विपक्षप्रहाणं, संभारपरिपाकः, स्वपरानुग्रह, आयत्यां विपाकफलनिःष्यन्दफलदानता च । सत्त्वस्वबुद्धधर्मपरिपाकमारभ्याखेदनिश्चयमनसिकारः, सर्वसत्त्वविप्रतिपत्तिभिः सर्वदुःखापत्तिपातैश्चाखेदनिश्चयाभिसंस्करणात्परमबोधिप्राप्तये । विपक्षे पत्तिपक्षे च चतुर्विधप्रतिपत्तिमनसिकारः । दानादिविपक्षाणां च मात्सर्यादीनां प्रतिदेशना, प्रतिपक्षाणां च दानादीनामनुमोदना, तदधिपतेयधर्मदेशनार्थं च बुद्धाध्येषणा । तासां च बोधौ परिणामना । प्रसादः संप्रतीक्षा च दानच्छन्दः परत्र च । संनाहः प्रणिधानं च अभिनन्दमनस्क्रिया ॥ ११.६३ ॥ अधिमुक्तिबलाधानतामारभ्य पारमिताधिपतेयधर्मार्थे च प्रसादमनसिकारः । धर्मपर्येष्टिमारभ्य संप्रतीच्छनमनसिकारस्तस्यैव धर्मस्याप्रतिवहनयोगेन परिग्रहणतया । द[दे]शनामारभ्य दानच्छन्दमनसिकारो धर्मस्यार्थस्य च प्रकाशनार्थं परेषाम् । प्रतिपत्तिमारभ्य संनाहमनसिकारो दानादिपरिपूरिये संनहनात् । प्रणिधानमनसिकारस्तत्परिपूरिप्राप्तये[प्रत्यये] समवधानार्थम् । अभिनन्दमनसिकारोऽहो बत दानादिप्रतिपत्त्या सम्यक्संपादयेयमित्यभिनन्दनात् । एत एव त्रयो मनसिकारा अववादानुशासन्यां योजयितव्याः । उपायोपसंहितकर्ममनसिकारः संकल्पैः सर्वप्रकारदानादिप्रयोगमनसिकरणात् । शक्तिलाभे सदौत्सुक्यं दानादौ षड्विधेद्यनम् । परिपाकेऽथ पूजायां सेवायामनुकम्पना ॥ ११.६४ ॥ औत्सुक्यमनसिकारश्चतुर्विधः । शक्तिलाभे च दानादौ षड्विधे दानदाने यावत्प्रज्ञादाने । एवं शीलादिषु षड्विधेषु । पारमिताभिरेव संग्रहवस्तुप्रयोगेण सत्त्वपरिपाके । पूजायां च दानेन लाभसत्कारपूजया । शेषाभिश्च प्रतिपत्तिपूजया । अविपरीतपारमितोपदेशाप[र्थ]ञ्चकल्याणमित्रसेवायामौत्सुक्यमनसिकारो वेदितव्यः । अनुकम्पामनसिकारश्चतुर्भिरप्रमाणैर्दानाद्युपसंहारेण मैत्रायतः । मात्सर्यादिसमवधानेन सत्त्वेषु करुणायतः । दानादिसमन्वागतेषु मुदितायतः । तदसंक्लेशाधिमोक्षतश्च उपेक्षायतः अकृते कुकृते लज्जा कौकृत्यं विषये रतिः । अमित्रसंज्ञा खेदे च रचनोद्भावनामतिः ॥ ११.६५ ॥ (७२) हीधर्ममारभ्य लज्जामनस्कारः, अकृतेषु वा दानादिष्वपरिपूर्णमिथ्याकृतेषु वा लज्जा, लज्जायमानश्च प्रवृत्तिनिवृत्त्यर्थमनानुषङ्गिकं कौकृत्यायते । धृतिमारभ्य रतिमनस्कारो दानाद्यालम्बनेऽविक्षेपतश्चित्तस्य धारणात् । अखेदमनस्कारो दानादिप्रयोगपरिखेदे शत्रुसंज्ञाकरणात् । रचनाच्छन्दमनस्कारः पारमिताप्रतिसंयुक्तशास्ररचनाभिसंस्करणात् । लोकज्ञतामारभ्य उद्भावनामनस्कारस्तस्यैव शास्त्रस्य लोके यथाभाजनमुद्भावनाभिसंस्करणात् । दानादयः प्रतिसरणं सम्बोधौ नेश्वरादयः । दोषाणां च गुणानां च प्रतिसंवेदनाद्[?]द्वयोः ॥ ११.६६ ॥ प्रतिसरणमनस्कारो बोधिप्राप्तये दानादीनां प्रतिसरणान्नेश्वरादीनाम्, प्रतिसंविन्मनस्कारो मात्सर्यदानादि विपक्षप्रतिपक्षयोर्दोषगुणप्रतिसंवेदनात् । चयानुस्मरणप्रीतिर्माहार्थ्यस्य च दर्शनम् । योगेऽभिलाषोऽविकल्पे तद्धृत्यां प्रत्ययागमे ॥ ११.६७ ॥ चयानुस्मरणप्रीतिमनस्कारो दानाद्युपचये पुण्यज्ञानसंभारोपचयसंदर्शनात् । माहार्थ्यसंदर्शनमनस्कारो दानादीनां बोधिपक्षे भावार्थेन महाबोधिप्राप्त्यर्थसंदर्शनात् । अभिलाषमनस्कारः स पुनश्चतुर्विधः । योगाभिलाषमनस्कारः शमथविपश्यनायोगभावनाभिलाषात् । अविकल्पाभिलाषमनस्कारः पारमितापरिपूरणार्थमुपायकौशल्याभिलाषात् । धृत्यभिलाषमनस्कारः पारमिताधिपतेयधर्मार्थधारणाभिलाषात् । प्रत्ययाभिगमाभिलाषमनस्कारः सम्यक्प्रणिधानाभिसंस्करणात् । सप्तप्रकारासद्ग्राहव्युत्थाने शक्तिदर्शनम् । आश्चर्यं चाप्यनाश्चर्यं संज्ञा चैव चतुर्विधा ॥ ११.६८ ॥ सप्तप्रकारासद्ग्राहव्युत्थानशक्तिदर्शनमनस्कारः । सप्तविधोऽसद्ग्राहः । असति सद्ग्राहः, दोषवति गुणवत्वग्राहः, गुणवत्यगुणवत्वग्राहः, सर्वसंस्कारेषु च नित्यसुखासद्ग्राहौ, सर्वधर्मेषु चात्मासद्ग्राहः, निर्वाणे चाशान्तासद्ग्राहः । यस्य प्रतिपक्षेण शून्यता [दि]समाधित्रयं धर्मोद्दानचतुष्टयं च देश्यते । आश्चर्ये चतुर्विधसंज्ञामनस्कारः । पारमितासूदारसंज्ञा, आयतत्त्वसंज्ञा, प्रतिकारनिरपेक्षसंज्ञा, विपाकनिरपेक्षसंज्ञा च । अनाश्चर्येऽपि चतुर्विध[संज्ञा]मनस्कारः । चतुर्विधमनाश्चर्यमौदर्य आयतत्वे च सति पारमितानां बुद्धत्वफलाभिनिर्वर्तनात् । अस्मिन्नेव च द्वये सति स्वपरसमचित्तावस्थापनात्[वस्थापना?]तद्विशिष्टेभ्यश्च (७३) शरु[शक्रा]दिभ्यः पूजादिलाभे सति प्रतिकारनिरपेक्षता ..... [सर्वलोकेभ्यो विशिष्टशरीरभोग]लाभे सत्यपि विपाकनिरपेक्षता । समता सर्वसत्त्वेषु दृष्टिश्चापि महात्मिका । परगुणप्रतिकारस्रयाशास्तिर्निरन्तरः ॥ ११.६९ ॥ समतामनस्कारः सर्वसत्त्वेषु दानादिभिः समताप्रवृत्त्यभिसंस्करणात् । महात्मदृष्टिमनस्कारः सर्वसत्त्वोपकारतया पारमितासंदर्शनात् । प्रत्यय[प्रत्युप]काराशंसनमनस्कारो दानादिगुणप्रवृत्त्या परेभ्यः । आशास्तिमनस्कारः सत्त्वेषु त्रिस्थानाशंसनात्पारमितानां बोधिसत्त्वभूमिनिष्ठाया बुद्धभूमिनिष्ठायाः सत्त्वाव[र्थाच]रणाशंसनाच्च । निरन्तरमनस्कारो दानादिभिरबध्य[न्ध्य]कालकरणाभिसंस्करणात् । बुद्धप्रणीतानुष्ठानादर्वागस्थानचेतनात्[चेतना] । तद्धानिवृद्ध्या सत्त्वेषु अनामोदः प्रमोदना ॥ ११.७० ॥ सम्यक्प्रयोगमनस्कारोऽविपरीतानुष्ठानादर्वागस्थानमनसिकरणात् । अनामोदमनस्कारो दानादिभिर्हीयमानेषु । प्रमोदमनस्कारो दानादिभिर्वर्धमानेषु सत्त्वेषु । प्रतिवर्णिकायां[वर्णिका]भूतायां भावनायां च नारूचिः । नाधिवासमनस्कारो व्याकृतनियते स्पृहा ॥ ११.७१ ॥ अरूचिमनस्कारः पारमिताप्रतिवर्णिकाभावनायाम् । रूचिमनस्कारो भूतायाम् । अनधिवासनामनस्कारो मात्सर्यादिविपक्षविनयनाभिसंस्कारणात् । स्पृहामनस्कारो द्विविधः पारमितापरिपूरिव्याकरणलाभस्पृहामनस्कारः पारमितानियतभूम्यवस्थालाभस्पृहामनस्कारश्च । आयत्यां दर्शनाद्वृत्तिचेतना समतेक्षणा । अग्रधर्मेषु वृत्त्या च अग्रत्वात्मावधारणात्[धारणा] ॥ ११.७२ ॥ आयत्यां दर्शनाद्वृत्तिमनस्कारो यात्वा[यां यां] गतिं गत्वा बोधिसत्त्वेन सतावश्य करणीयताभिसंस्कारणात् । दानादीनां समतेक्षणामनस्कारस्तदन्यैर्बोधिसत्त्वैः सहात्मनः पारमितासातत्यकरणाधिमोक्षार्थम् । अग्रत्वात्मावधारणमनस्कारः पारमिताग्रधर्मप्रवृत्त्या स्वात्मनः प्रधानभावसंदर्शनात् । (७४) एते शुभमनस्कारा दशपारमितान्बयाः । सर्वदा बोधिसत्त्वानां धातुपुष्टौ भवन्ति हि ॥ ११.७३ ॥ इति निगमनश्लोको गतार्थः । धर्मपर्येष्टिभेदे द्वौ श्लोकौ । पुष्टेरध्याशयतो महती पर्येष्टिरिष्यते धीरे । सविवासा ह्यविवासा तथैव वैभुत्विकी तेषाम् ॥ ११.७४ ॥ असकाया लघु[लब्ध]काया प्रपूर्णकाया च बोधिसत्त्वानाम् । बहुमानसूक्ष्ममाना निर्माणा चैषणाभिमता ॥ ११.७५ ॥ त्रयोदशविधा पर्येष्टिः । पुष्टितः श्रुताधिमुक्तिपुष्ट्या । अध्याशयतो धर्ममुखस्त्रोतसा । महती चित्त[विभु]त्वलाभिनाम् । सबिप्रबासा प्रथमा । अविप्रवासा द्वितीया । वैभुत्विकी तृतीया । अकाया श्रुतचिन्तामयी धर्मकायरहितत्वात् । सकाया भावनामयी अधिमुक्तिचर्याभूमो । लघु[लब्ध]काया सप्तसु भूमिषु । परिपूर्णकाया शेषासु । बहुमानाधिमुक्तिचर्याभूमौ । सूक्ष्ममाना सप्तसु । निर्माणा शेषासु । धर्महेतुत्वपर्येष्टौ श्लोकः । रूपारूपे धर्मो लक्षणहेतुस्तथैव चारोग्यं[ग्ये] । ऐश्वर्येऽभिज्ञाभिस्तदक्षयत्वे च धीराणाम् ॥ ११.७६ ॥ रूपे लक्षणहेतुर्धर्मः । अरूपे आरोग्यहेतुः क्लेशव्याधिप्रशमनात् । ऐश्वर्यहेतुरभिज्ञाभिस्तदक्षयत्वहेतुश्चानुपधिशेषनिर्वाणेऽप्यनुपच्छेदात् । अत एवोक्तं ब्रह्मपरिपृच्छासूत्रे । चतुर्भिर्धर्मैः समन्वागता बोधिसत्त्वा धर्मं पर्येषन्ते । रत्नसंज्ञया दुर्लभार्थेन भैषज्यसंज्ञया क्लेशव्याधिप्रशमनार्थेन अर्थसंज्ञया अविप्रणाशार्थेन निर्वाणसंज्ञया सर्वदुःखप्रशमनार्थेन । रत्नभूतानि हि लक्षणानि शोभाकरत्वादतस्तद्धेतुत्वाद्धर्मरत्नसंज्ञा । आरोग्यहेतुत्वाद्भैषज्यसंज्ञा । अभिज्ञैश्चर्यहेतुत्वादर्थसंज्ञा । तदक्षयहेतुत्वान्निर्वाणसंज्ञाक्षयनिर्भयतार्थेन । विकल्पपर्येष्टौ श्लोकः । अभावभाबाध्यपवादकल्प एकत्वनानास्वविशेषकल्पाः । यथार्थनामाभिनिवेशकल्पाः जिनात्मजैः संपरिवर्जनीयाः ॥ ११.७७ ॥ दशविधविकल्पो बोधिसत्त्वेन परिवर्जनीयः । अभावविकल्पो यस्य प्रतिपक्षेणाह । प्रज्ञापारमितायामिह बोधिसत्त्वो बोधिसत्त्व एव सन्निति । भावविकल्पो यस्य प्रतिपक्षेणाह । (७५) बोधिसत्त्वं न समनुपश्यतीत्येवमादि । अध्यारोपविकल्पो यस्य प्रतिपक्षेणाह । रूपं शारिपुत्र स्वभावेन शून्यमिति । अपवादविकल्पो यस्य प्रतिपक्षेणाह । न शून्यतयेति । एकत्वविकल्पो यस्य प्रतिपक्षेणाह । या रूपस्य शून्यता न तद्रूपमिति । नानात्वविकल्पो यस्य प्रतिपक्षेणाह । न चान्यत्र शून्यताया रूपं रूपमेव शून्यता शून्यतैव रूपमिति । स्वलक्षणविकल्पो यस्य प्रतिपक्षेणाह । नाममात्रमिदं यदिदं रूपमिति । विशेषविकल्पो यस्य प्रतिपक्षेणाह । रूपस्य हि नोत्पादो न निरोधो न संक्लेशो न व्यवदानमिति । यथानामार्थाभिनिवेशविकल्पो यस्य प्रतिपक्षेणाह । कृत्रिमं नामेत्येवमादि । यथार्थनामाभिनिवेशविकल्पश्च यस्य प्रतिपक्षेणाह । तानि बोधिसत्त्वः सर्वनामानि न समनुपश्यत्यसमनुपश्यन्नाभिनिविशते यथार्थतयेत्यभिप्रायः । इति शुभमतिरेत्य यत्नमुग्रं द्वयपर्येषितधर्मतासतत्त्वा । प्रतिशरणमतः सदा प्रजानां भवति गुणैः स समुद्रवत्प्रपूर्णः ॥ ११.७८ ॥ अनेन निगमनश्लोकेन पर्येष्टिमाहात्म्यं त्रिविधं दर्शयति । उपायमाहात्म्यमुग्रवीर्यतया संवृत्तिपरमार्थसत्यधर्मतापर्येषणतश्च तत्त्वं सत्यमित्यर्थः । परार्थमाहात्म्यं प्रतिशरणीभावात्प्रजानाम् । स्वार्थमाहात्म्यं च गुणैः समुद्रवत्प्रपूर्णत्वात् । ॥ महायानसूत्रालंकारे धर्मपर्येष्ट्यधिकार एकादशः ॥ (७६) द्वादशोऽधिकारः धर्मदेशनायां मात्सर्यप्रतिषेधे श्लोकः । प्राणान्भोगांश्च धीराः प्रमुदितमनसः कृच्छ्रलब्धानसारान् सत्त्वेभ्यो दुःखितेभ्य सततमवसृजन्त्युच्चदानप्रकारैः । प्रागेवोदारधर्मं हितकरमसकृत्सर्वथैव प्रजानां कृच्छ्रे नैवोपलब्धं भृशमवसृजतां वृद्धिगं चाव्ययं च ॥ १२.१ ॥ कृच्छ्रलब्धानप्यसारान् क्षयित्वा[त्]प्राणान् भोगांश्च बोधिसत्त्वा दुःखितेभ्यः कारुण्यात्सततसमुदारैर्विसर्गैरुत्सृजन्ति प्रागेव धर्मं यो नैव कृच्छ्रेण वा भृशमपि वावसृजतां वृद्धिं गच्छति न क्षयम् । धर्म नैरर्थक्यसार्थक्ये श्लोकद्वयम् । धर्मो नैव च देशितो भगवता प्रत्यात्मवेद्यो यत आकृष्टा जनता च युक्त[युक्ति]विहितैर्धर्मैः स्वकीं धर्मतां स्वशान्त्यास्यपुटे विशुद्धिविपुले साधारणेऽथाक्षये लालेनेव कृपात्मभिस्त्वजगरप्रख्यैः समापादिता ॥ १२.२ ॥ तत्र बुद्धा अजगरोपमास्तेषां स्वशान्ति[शान्ते?]रास्यपुटं धर्मकायः । विशुद्धिविपुलं सवासनक्लेशज्ञेयावरणविशुद्धितः । साधारणं सर्वबुद्धैः अक्षयमात्यन्तिकत्वात् । तस्मान्नैव निरर्थिका भवति सा या भावना योगिनां तस्मान्नैव निरर्थिका भवति सा या देशना सौगती । दृष्टोऽर्थः श्रुतमात्रकाद्यदि भवेत्स्याद्भावनापार्थिका अश्रुत्वा यदि भावनामनुविशेत्स्याद्देशनापार्थिका ॥ १२.३ ॥ तस्मान्न निरर्थिका योगिनां भावना भवति प्रत्यात्मवेद्यस्य धर्मस्य तद्वशेनाभिगमात् । न निरर्थिका देशना भवति युक्तिविहितैर्धर्मैः स्वधर्मतायां जनताकर्षणात् । यथा पुनर्भावना सार्थिका भवेद्देशना वा तत्श्लोकार्धेन दर्शयति । शेषं गतार्थम् । देशनाविभागे श्लोकः । आगमतो अधिगमतो विभुत्वतो देशनाग्रसत्वानाम् । मुखतो रूपात्सर्वा[र्वतआ]काशादुच्चरणतापि ...... ॥ १२.४ ॥ तत्र विभुत्वतो या महाभूमिप्रविष्टानाम् । सर्वतो रूपाद्या वृक्षवादित्रादिभ्योऽपि निश्चरति । शेषं गतार्थम् । (७७) देशनासंपतौ श्लोकद्वयम् । विषदा संदेहजहा आदेया तत्त्वदर्शिका द्विविधा । संपन्नदेशनेयं विज्ञेयं[या] बोधिसत्त्वानाम् ॥ १२.५ ॥ अयं चतुष्कार्थनिर्देशेन श्लोकः । यदुक्तं ब्रह्मपरिपृच्छायाम् । चत्रुभिर्धर्मैः समन्वागता बोधिसत्त्वा महाधर्मदानं वितरन्ति सद्धर्मपरिग्रहणतया आत्मनः प्रज्ञोत्तापनतया सत्पुरूषकर्मकरणतया संक्लेशव्यवदानसंदेशनतया च । एकेन हि बाहुश्रुत्याद्विषदा देशना भवति । द्वितीयेन महाप्राज्ञत्वात् । संशयजहा परेषां संशयच्छेदात् । तृतीयेनानवद्यकर्मत्त्वादादेया । चतुर्थेन तत्त्वदर्शिका द्विविधा संक्लेशलक्षणस्य च तत्त्वस्य व्यवदानलक्षणस्य च द्वाभ्यां द्वाभ्यां सत्याभ्याम् । मधुरा मदव्यपेता न च खिन्ना देशनाग्रसत्त्वानाम् । स्फुटचित्रयुक्तगमिका निरामिषा सर्वगा चैव ॥ १२.६ ॥ अस्मिन्द्वितीये श्लोके मधुरा परेणाक्षिप्तस्यापरूषवचनात् । मदव्यपेता स्तुतौ सिद्धौ वा मदाननुगमनात् । अखिन्ना अकिलासिकत्वात् । स्फुटा निराचार्यमुष्टित्वात्कृत्स्नदेशनतः । चित्रा अपुनरुक्तत्वात् । युक्ता प्रमाणाविरुद्धत्वात् । गमिकाप्रतीतपदव्यञ्जनत्वात् । निरामिषा प्रसन्नाधिकारानधि[र्थि]कत्वात् । सर्वत्रगा यानत्रयगतत्वात् । वाक्संपत्तौ श्लोकः । अदीना मधुरा सूक्ता प्रतीता विषदा तथा [वाग्जिनात्मजे] । [यथार्हानामिषाचैव प्रमिता विषदा तथा] ॥ १२.७ ॥ अदीना पौरी पर्षत्पूरणात् । मधुरा वल्गुः । सूक्ता विस्पष्टा सुनिरूक्ताक्षरत्वात् । प्रतीता विज्ञेया प्रतीताभिधानत्वात् । यथार्हा श्रवणीया विनेयानुरूपत्वात् । अनामिषा अनिःश्रित[ता]लाभसत्कारालोके[रश्लोके] । प्रतता[प्रमिता] अप्रतिकूला परिमितायामखेदात् । विषदा अपर्यात्ता । व्यञ्जनसंपत्तौ श्लोकद्वयम् । उद्देशान्निर्देशात्तथैव यानानुलोमनात्श्लाक्ष्ण्यात् । प्रातीत्याद्याथार्हान्नैर्याण्यादानुकूल्यत्वात् ॥ १२.८ ॥ युक्तैः पदव्यञ्जनैरूद्देशात्प्रमाणाविरोधेन । सहितैर्निर्देशादुद्देशाविरोधेन । यानानुलोमनादानुलोमिकैर्यानत्रयाविरोधेन । श्लाक्ष्ण्याद[दा]नुच्छविकैरकष्टशब्दतया । प्रातीत्यादौपयिकैः (७८) प्रतीतार्थतया चार्थोपगमनात् । याथार्हात्प्रतिरूपैर्विनेयानुरूपतया । नैर्याण्यात्प्रदक्षिणैर्निर्वाणाधिकारतया । आनुकूल्यान्निपकस्याङ्गसंभारैः शैक्षस्यार्याष्टाङ्गमार्गानुकूल्यात् । व्यञ्जनसंपच्चैषा विज्ञेया सर्वथाग्रसत्त्वानाम् । षष्ट्यङ्गी साचिन्त्या घोषोऽनन्तस्तु सुगतानाम् ॥ १२.९ ॥ षष्ट्यङ्गी साचिन्त्या या गुह्यकाधिपतिनिर्देशे बुद्धस्य षष्ट्याकारा वाग्निर्दिष्टा । पुनरपरं शान्तमते तथागतस्य षष्ट्याकारोपेता वाग्निश्चरति स्निग्धा च मृदुका च मनोज्ञा च मनोरमा च शुद्धा चेति विस्तरः । तत्र स्निग्धा सत्त्वाधातुकुशलमूलोपस्तम्भिकत्वात् । मृदुका दृष्ट एव धर्मे सुखसंस्पर्शत्वात् । मनोज्ञा स्वर्थत्वात् । मनोरमा सुव्यञ्जनत्वात् । शुद्धा निरूत्तरलोकोत्तरपृष्ठलब्धत्वात् । विमला सर्वक्लेशानुशयवासनाविसंयुक्तत्वात् । प्रभास्वरा प्रतीतपदव्यञ्जनत्वात् । वल्गुः सर्वतीर्थ्यकुमतिदृष्टिविधातबलगुणयुक्तत्वात् । श्रवणीया प्रतिपत्तिनैर्याणिकत्वात् । अनन्ता[अनेला] सर्वपरप्रवादिभिरनाछेद्यत्वात् । कला रञ्जिकत्वात् । विनीता रागादिप्रतिपक्षत्वात् । अकर्कशा शिक्षाप्रज्ञप्तिसुखोपायत्वात् । अपरूषा तद्व्यतिक्रमसंपन्निःसरणोपदेशकत्वात् । सुविनीता यानत्रयनयोपदेशिकत्वात् । कर्णसुखा विक्षेपप्रतिपक्षत्वात् । कायप्रह्णादनकरी समाध्याबाहकत्वात् । चित्तौद्विल्यकरी विपश्यनाप्रामोद्यावाहफलकत्वात् । हृदयसंतुष्टिकरी संशयच्छेदिकत्वात् । प्रीतिसुखसंजननी मिथ्यानिश्चयापकर्षिकत्वात् । निःपरिदाहा प्रतिपत्तावविप्रतिसारत्वात् । आज्ञेया संपन्नश्रुतमयज्ञानाश्रयत्वात् । विज्ञेया संपन्नचिन्तामयज्ञानाश्रयत्वात् । विष्पष्टा अनाचार्यमुष्टिधर्मविहितत्वात् । प्रेमणीयानुप्राप्तस्वकार्थानां प्रेमकरत्वात् । अभिनन्दनीयाननुप्राप्तस्वकार्थानां स्पृहणीयत्वात् । आज्ञापनीया अचिन्त्यधर्मसम्यग्दर्शिकत्वात् । विज्ञापनीया चिन्त्यधर्मसम्यग्देशिकत्वात् । युक्ता प्रमाणाविरूद्धत्वात् । सहिता यथार्हविनेयदेशिकत्वात् । पुनरूक्तदोषजहा अवन्ध्यत्वात् । सिंहस्वरवेगा सर्वतीर्थ्यसंत्रासकत्वात् । नागस्वरशब्दा उदारत्वात् । मेघस्वरघोषा गम्भीरत्वात् । नागेन्द्ररुता आदेयत्वात् । किन्नरसंगीतिघोषा मधुरत्वात् । कलविङ्कस्वररूतरविताभी[ती]क्ष्णभङ्गुरत्वात् । ब्रह्मस्वररुतरविता दूरंगमत्वात् । जीवंजीवकस्वररुतरविता सर्वसिद्धिपूर्वंगममङ्गलत्वात् । देवेन्द्रमधुरनिर्घोषा अनतिक्रमणीयत्वात् । दुन्दुभिस्वरा सर्वमारप्रत्यर्थिकविजयपूर्वंगमत्वात् । अनुन्नता स्तुत्यसंक्लिष्टत्वात् । अनवनता निन्दासंक्लिष्टत्वात् । सर्वशब्दानुप्रविष्टा सर्वव्याकरणसर्वाकारलक्षणानुप्रविष्टत्वात् । अपशब्दविगता स्मृतिसंप्रमोषे तदनिश्चरणत्वात् । अविकला विनेयकृत्यसर्वकालप्रत्युपस्थितत्वात् । अलीना लाभसत्कारानिश्रितत्वात् । अदीना सावद्यापगत्वात् । प्रमुदिता अखेदित्वात् । प्रसृता सर्वविद्यास्थानकौशल्यानुगतत्वात् । अखिला[सखिला] सत्त्वानां (७९) तत्सकलार्थसंपादकत्वात् । सरिता प्रबन्धानुपच्छिन्नत्वात् । ललिता विचित्राकारप्रत्युपस्थानत्वात् । सर्वस्वरपूरणी एकस्वरनैकशब्दविज्ञप्तिप्रत्युपस्थापनत्वात् । सर्वसत्त्वेन्द्रियसंतोषणी एकानेकार्थविज्ञप्तिप्रत्युपस्थानत्वात् । अनिन्दिता यथाप्रतिज्ञत्वात् । अचञ्चला आगमितकालप्रयुक्तत्वात् । अचपला अत्वरमाणविहितत्वात् । सर्वपर्षदनुरविता दुरान्तिकपर्षत्तुल्यश्रवणत्वात् । सर्वाकारवरोपेता सर्वलौकिकार्थदृष्टान्तधर्मपरिणामिकत्वात् । देशनामाहात्म्ये चत्वारः श्लोकाः । वाचा पदैः सुयुक्तैरनुदेशविभागसंशयच्छेदैः । बहुलीकारानुगता ह्युद्धटितविपञ्चितज्ञेषु ॥ १२.१० ॥ आख्याति वाचा । प्रज्ञापयति पदैः सुयुक्तैः । प्रस्थापयति विभाजयति विवृणोति यथाक्रममुद्देशविभागसंशयच्छेदैः । उत्तानीकरोति उत्तानीकरणं बहुलीकारानुगता देशना निश्चयबलाधानार्थम् । देशयत्युद्धटितज्ञेषु । संप्रकाशयति विपञ्चितज्ञेषु । शुद्धा त्रिमण्डलेन हितेयं देशना हि बुद्धानाम् । दोषैर्विवर्जिता पुनरष्टभिरेषैव विज्ञेया ॥ १२.११ ॥ शुद्धा त्रिमण्डलेनेति । येन च देशयति वाचा पदैश्च । यथा चोद्देशादिप्रकारैः । येषु चोद्धटितविपञ्चितज्ञेषु । एषैव च देशना पुनरष्टदोषविवर्जिता वेदितव्या यथाक्रमम् । कौशीद्यमनवबोधो ह्यवकाशस्याकृतिर्ह्यनीतत्वम् । संदेहस्याच्छेदस्तद्विगमस्यादृढीकरणम् ॥ १२.१२ ॥ ते पुनरष्टौ दोषाः । कौशीद्यमनवसंबोधः अवकाशस्याकरणमनीतार्थत्वं संदेहस्याच्छेदना तद्विगमस्यादृढीकरणं निश्चयश्येत्यर्थः । खेदोऽथ मत्सरित्वं दोषा ह्येते मता कथायां हि । तदभावाद्बुद्धानां निरूत्तरा देशना भवति ॥ १२.१३ ॥ खेदो येनाभीक्ष्णं न देशयेत् । मत्सरित्वं [मत्सरित्वं] चाकृत्स्नप्रकाशनात् । अर्थसंपत्तौ श्लोकद्वयम् । कल्याणो धर्मोऽयं हेतुत्वाद्भक्तितुष्टिबुद्धीनाम् । द्विविधार्थः सुग्राह्यश्चतुर्गुणब्रह्मचर्यवदः ॥ १२.१४ ॥ परैसाधारणयोगकेवलं त्रिधातुकक्लेशविहानिपूरकम् । स्वभावशुद्धं मलशुद्धितश्च तच्चतुर्गुणब्रह्मविचर्यमिष्यते ॥ १२.१५ ॥ चतुर्गुणब्रह्मचर्यसंप्रकाशको धर्मः । आदिमध्यपर्यवसानकल्याणो यथाक्रमं श्रुतचिन्ताभावनाभिर्भक्तितुष्टिबुद्धिहेतुत्वात् । तत्र भक्तिरधिमुक्तिः संप्रत्ययः तुष्टिः प्रामोद्यं (८०) युक्तिनिध्यानाच्छक्यप्राप्तितां विदित्वा । बुद्धिः समाहितचित्तस्य यथाभूतज्ञानम् । द्विविधार्थ इत्यतः स्वर्थः संवृतिपरमार्थसत्ययोगात् । सुग्राह्य इत्यतः सुव्यञ्जनः प्रतीतपदव्यञ्जनत्वात् । चतुर्गुणं ब्रह्मचर्यम् । केवलं परैसाधारणात्वात्परिपूर्णं त्रिधातुक्लेशप्रहाणपरिपूरणात् । परिशुद्धं स्वभावविशुद्धितोऽनास्रवत्वात् । पर्यवदातं मलविशुद्धितः संतानविशुद्ध्या क्षीणास्रवाणाम् । अभिसंधिविभागे श्लोकद्वयम् । अवतारणसंधिश्च संधिर्लक्षणतोऽपरः । प्रतिपक्षाभिसंधिश्च संधिः परिणतावपि ॥ १२.१६ ॥ श्रावकेषु स्वभावेषु दोषाणां विनये तथा । अभिधानस्य गाम्भीर्ये संधिरेष चतुर्विधः ॥ १२.१७ ॥ चतुर्विधोऽभिसंधिर्देशनायां बुद्धस्य वेदितव्यः । अवतारणाभिसंधिर्लक्षणाभिसंधिः प्रतिपक्षाभिसंधिः परिणामनाभिसंधिश्च । तत्रावतारणाभिसंधिः श्रावकेषु द्रष्टव्यः । शासनावतारणार्थमनुत्रासाय रूपाद्यस्तित्वदेशनात् । लक्षणाभिसंधिस्त्रिषु परिकल्पितादिस्वभावेषु द्रष्टव्यो निःस्वभावानुत्पन्नादिसर्वधर्मदेशनात् । प्रतिपक्षाभिसंधिर्दोषाणां विनये द्रष्टव्यो यथाष्टावरणप्रतिपक्षाग्रयानसंभाषासानुशंसे[सं] गाथाद्वयं वक्ष्यति । परिणामनाभिसंधिरभिधानगाम्भीर्ये द्रष्टव्यो यथाह । असारे सारमतयो विपर्यासे च सुस्थिताः । क्लेशेन च सुसंक्लिष्टा लभन्ते बोधिमुत्तमाम् ॥ १२.इति । अयमत्राभिसंधिः । असारे सारमतय इत्यविक्षेपे येषां सारबुद्धिः प्रधानबुद्धिर्विक्षेपो हि विसारश्चेतसः । विपर्यासे च सुस्थिता इति नित्यसुखशुच्यात्मग्राहविपर्ययेणानित्यादिके विपर्यासे सुस्थिता अपरिहाणितः । क्लेशेन च स संक्लिष्टा इति दीर्घदुष्करव्यायामश्रमेणात्यर्थं परिक्लिष्टाः । अभिप्रायविभागे श्लोकः । समतार्थान्तरे ज्ञेयस्तथा कालान्तरे पुनः । पुद्गलस्याशये चैव अभिप्रायश्चतुर्विधः ॥ १२.१८ ॥ चतुर्विधोऽभिप्रायः । सत[म]ताभिप्रायो यदाह । अहमेव स तस्मिन्समये विपश्वी सम्यक्संबुद्धोऽभूवमित्यविशिष्टधर्मकायत्वात् । अर्थान्तराभिप्रायो यदाह । निः स्वभावाः सर्वधर्मा अनुत्पन्नाइत्येवमादि अयथारूतार्थत्वात् । कालन्तराभिप्रायो यदाह । ये (८१) सुखावत्यां प्रणिधानं करिष्यन्ति ते तत्रोपपत्स्यन्त इति कालान्तरेणेत्यभिप्रायः । पुद्गलाशयाभिप्रायो यत्तदेव कुशलमूलं कस्यचित्प्रशंसते कस्यचिद्विगर्हतेऽल्पमात्रसंतुष्टस्य वैपुल्यसंग्रहात्महायानसूत्रान्तसानुशंसं गाथाद्वयमुपादायाह । बुद्धे धर्मेऽवज्ञा कौशीद्यं तुष्टिरल्पमात्रेण । रागे माने चरितं कौकृत्यं चानियतभेदः ॥ १२.१९ ॥ सत्त्वानामावरणं तत्प्रतिपक्षोऽग्रयानसंभाषा । सर्वान्तरायदोषप्रहाणमेषां ततो भवति ॥ १२.२० ॥ यो ग्रन्थतोऽर्थतो वा गाथाद्वयधारणे प्रयुज्येत । स हि दशविधमनुशंसं लभते सत्त्वोत्तमो धीमान् ॥ १२.२१ ॥ कृत्स्नां च धातुपुष्टिं प्रामोद्यं चोत्तमं मरणकाले । जन्म च यथाभिकामं जातिस्मरतां च सर्वत्र ॥ १२.२२ ॥ बुद्धैश्च समवधानं तेभ्यः श्रवणं तथाग्रयानस्य । अधिमुक्तिं सह बुद्ध्या द्वयमुखतामाशुबोधिं च ॥ १२.२३ ॥ बुद्धे धर्मेऽवज्ञेति पञ्च गाथाः । तत्रानियतभेदो बोधिसत्त्वानामनियतानां महायानाद्भेदः । अग्रयानसंभाषा या महायानदेशना । बुद्धेऽवज्ञावरणस्य प्रतिपक्षसंभाषा । अहमेव स तेन कालेन विपश्वी सम्यक्संबुद्धोऽभूवमिति । धर्मेऽवज्ञावरणस्य प्रतिपक्षसंभाषा । इयतो गंगानदीवालिकासमानबुद्धान्पर्युपास्य महायानेऽवबोध उत्पद्यत इति । कौशीद्यावरणस्य प्रतिपक्षसंभाषा । ये सुखावत्यां प्रणिधानं करिष्यन्ति ते तत्रोपपत्स्यन्त इति । विमलचन्द्रप्रभस्य च तथागतस्य नामधेयग्रहणमात्रेण नियतो भवत्यनुत्तरायां सम्यक्संबोधाविति । अल्पमात्रसंतुष्ट्यावरणस्य प्रतिपक्षसंभाषा । यत्र भगवान् क्वचिद्दानादि विवर्णयति अन्यत्र वर्णितवान् । रागचरितस्य चावरणस्य प्रतिपक्षसंभाषा । यत्र भगवान् बुद्धक्षेत्रविभूतिं वर्णयति । मानचरितस्यावरणस्य प्रतिपक्षसंभाषा । यत्र भगवान् कस्यचिद्बुद्धस्याधिकां संपत्तिं वर्णयति । कौकृत्यावरणस्य प्रतिपक्षसंभाषा । ये बुद्धबोधिसत्त्वेष्व[ष्वप]कारं करिष्यन्ति ते सर्वे स्वर्गोपगा भविष्यन्तीति । अनियतभेदस्यावरणस्य प्रतिपक्षसंभाषा । महाश्रावकाणां बुद्धत्वे व्याकरणदेशना एकयानदेशना च । कृत्स्नधातुपुष्टिः सर्वमहायानाधिष्ठानाय धातुपुष्टिस्तदावरणविगमात्सर्वत्र महायानेऽधिमुक्तिलाभतः । द्वयमुखता समाधिमुखता धारणीमुखता च । दृष्टे धर्मे द्विविधोऽनुशंसः सांपरायिकेऽष्टविधः क्रमेणोत्तरोत्तरविशेषलाभाद्वेदितव्यः । (८२) देशनानुशंसेश्लोकः । इति सुग[म]तिरखेदवान् कृपालुः प्रथितयशाः सुविधिज्ञतामुपेतः । भवति सुकथिको हि बोधिसत्त्वस्तपति जने कथितैर्यथैव सूर्यः ॥ १२.२४ ॥ पञ्चभिः कारणैः सुकथिकत्वम् । सूर्यवत्प्रतपनं चानुशंसः । लोकावर्जनतो बहुमतत्वात् । पञ्च कारणानि सुकथिकत्वस्य येनाविपरीतं दर्शयति अभीक्ष्णं निरामिषचित्त आदेयवाक्यविनेयानुरूपं च । ॥ महायानसूत्रालंकारे देशनाधिकारो द्वादशः ॥ (८३) त्रयोदशोऽधिकारः प्रतिपत्तिविभागे षट्श्लोकाः । द्वेधा नैरात्म्यमाज्ञाय धीमान् पुद्गलधर्मयोः । द्वयमिथ्यात्वसम्यक्त्वं विवर्ज्येत त्रयेण हि ॥ १३.१ ॥ यथार्थमाज्ञाय धर्ममाज्ञाय धर्मानुधर्मप्रतिपन्नो भवति सामीचीप्रतिपन्नोऽनुधर्मचारी तत्संदर्शयति । तत्र द्विधा पुद्गलधर्म नैरात्म्यज्ञानं ग्राह्यग्राहकाभावतः । द्वयमिथ्यात्वसम्यक्त्त्वं विवर्ज्यं त्रयम् । अभावे च शून्यतासमाधिः परिकल्पितस्य स्वभावस्य । भावे चाप्रणीहितानिमित्तौ परतन्त्रनिष्पन्नयोः स्वभावयोः । एतत्समाधित्रयं लौकिकं न मिथ्यात्वं लोकोत्तरज्ञानावाहनात् । न सम्यक्त्वमलोकोत्तरत्वात् । अर्थज्ञः सर्वधर्माणां वेत्ति कोलसमानताम् । श्रुततुष्टिप्रहाणाय धर्मज्ञस्तेन कथ्यते ॥ १३.२ ॥ एवमर्थज्ञः सर्वधर्माणां सूत्रादीनां कोलोपमतां जानाति । श्रुतमात्रसंतुष्टिप्रहाणाय तेन धर्मज्ञो भवति । पार्थग्जनेन ज्ञानेन प्रतिविध्य द्वयं तथा । तज्ज्ञानपरिनिष्पत्तावनुधर्मं प्रपद्यते ॥ १३.३ ॥ एतेन द्विविधेन पार्थग्जनेनार्थधर्मज्ञानेन द्वयं नैरात्म्यभावं प्रतिविध्य यथाक्रमं [नैरात्म्यं तथा प्रतिविध्य यथोक्तं] तस्य ज्ञानस्य परिनिष्पत्त्यर्थं प्रतिपद्यते । एवमनुधर्मं प्रतिपद्यते । ततो ज्ञानं स लभते लोकोत्तरमनुत्तरम् । आदिभूमौ समं सर्वैर्बोधिसत्त्वैस्तदात्मभिः ॥ १३.४ ॥ ततो ज्ञानं स लभते लोकोत्तरमनुत्तरमिति । विशिष्टतरयानाभावात् । आदिभूमौ प्रमुदितायां भूमौ समं सर्वैर्बोधिसत्त्वैस्तदात्मभिरिति तद्भूमिकैरेवं सामीचीप्रतिपन्नो भवति तद्भूमिकबोधिसत्त्वसमतया । कृत्वा दर्शनज्ञेयानां[हेयानां] क्लेशानां सर्वसंक्षयम् । ज्ञेयावरणज्ञानाया[हानाय] भावनायां प्रयुज्यते ॥ १३.५ ॥ (८४) श्लोको गतार्थः । व्यवस्थानविकल्पेन ज्ञानेन सहचारिणा । अनुधर्मं चरत्येवं परिशिष्टासु भूमिषु ॥ १३.६ ॥ शेषेणानुधर्मचारित्वं दर्शयति । व्यवस्थानाविकल्पेनेति भूमिव्यवस्थानज्ञानेनाविकल्पेन च । सहचारिणेत्यनुसंबद्धचारिणा अन्योन्यनैरन्तर्येण । एतेन श्लोकद्वयेनानुधर्मचारित्वं दर्शितम् । प्रतिपत्तावप्रमादक्रियायां चत्वारः श्लोकाः । सुलाभोऽथ स्वधिष्ठानः सुभूमिः सुसहायकः । सुयोगो गुणवान् देशो यत्र धीमान् प्रपद्यते ॥ १३.७ ॥ चतुर्भिश्चक्रैरप्रमादक्रियां दर्शयति प्रतिरूपदेशवासादिभिः । तत्रानेन श्लोकेन प्रतिरूपदेशवासं दर्शयति । सुलाभश्चीवरपिण्डपातादीनां जीवितपरिष्काराणामकृच्छ्रेण लाभात् । स्वधिष्ठानो दुर्जनैर्दस्युप्रभृतिभिरनधिष्ठितत्वात् । सुभूमिरारोग्यभूमित्वात् । सुसहायकः सभागशीलदृष्टिसहायकत्वात् । सुयोगो दिवाल्पाकीर्णाभिलापकत्वात्रात्रौ चाल्पशब्दादिकत्वात् । बहुश्रुतो दृष्टसत्यो वाग्मी समनुकम्पकः । अखिन्नो बोधिसत्त्वश्च ज्ञेयः सत्पुरूषो महान् ॥ १३.८ ॥ अनेन द्वितीयेन सत्पुरूषं दर्शयति । आगमाधिगमवाक्करणनिरामिषचित्ताकिलासित्वगुणयोगात् । स्वालम्बना मुसंभरा [सुसंस्तब्धा] सुभावनैव [सुपायाचैव?] देशिता । सुनिर्याणप्रयोगा च आत्मसम्यक्प्रधानता ॥ १३.९ ॥ अनेन तृतीयेन योनिशोमनस्कारसंगृहीतमात्मनः सम्यक्प्रणीधानतां दर्शयति । सद्धर्मालम्बनतया सुसंभृतसंभारतया शमथादिनिमित्तानां कालेन कालं भावनातया अल्पमात्रासंतुष्टितया सत्युत्तरकरणीये सातत्यसत्कृत्यप्रयोगतया च । रतेः क्षणोपपत्तेश्च आरोग्यस्यापि कारणम् । समाधेर्विचयस्यापि पूर्वे हि कृतपुण्यता ॥ १३.१० ॥ अनेन चतुर्थेन पूर्वकृतपुण्यतां पञ्चविधेन हेतुत्वेन दर्शयति । रतिहेतुत्वेन यतः प्रतिरूपदेशवासेऽभिरमते । क्षणोपपत्तिहेतुत्वेन यतः सत्पुरूषायाश्रयं लभते । (८५) आरोग्यसमाधिप्रज्ञाहेतुत्वेन च यत आत्मनः सम्यक्प्रणिधानं सम्पद्यते । क्लेशत एव क्लेशनिःसरणे श्लोकास्त्रयः । धर्मधातुविनिर्मुक्तो यस्माद्धर्मो न विद्यते । तस्माद्रागादयस्तेषां बुद्धैर्निःसरणं मताः ॥ १३.११ ॥ यदुक्तं भगवता । नाहमन्यत्र रागाद्रागस्य निःसरणं वदाम्येवं द्वेषान्मोहादिति । तत्राभिसंधिं दर्शयति । यस्माद्धर्मधातुविनिर्मुक्तो धर्मो नास्ति धर्मताव्यतिरेकेण धर्माभावात् । तस्माद्रागादिधर्मतापि रागाद्याख्यां लभते स च निःसरणं रागादीनामित्येवं तत्राभिसंधिर्वेदितव्यः । धर्मधातुविनिर्मुक्तो यस्माद्धर्मो न विद्यते । तस्मात्संक्लेशनिर्देशे स संविद्[संधिर] धीमतां मतः ॥ १३.१२ ॥ यदुक्तम् । अविद्या च बोधिश्चैकमिति । तत्रापि सक्लेशनिर्देशे स एवाभिसंधिः । अविद्या बोधिधर्मता स्यात्तदुपचारात् । यतस्तानेव रागादीन्योनिशः प्रतिपद्यते । ततो विमुच्यते तेभ्यस्तेनैषां निःसृतिस्ततः ॥ १३.१३ ॥ तानेव रागादीन्योनिशः प्रतिपद्यमानस्तेभ्यो विमुच्यते तस्मात्परिज्ञातास्त एव तेषां निःसरणं भवतीत्ययमत्राभिसंधिः । श्रावकप्रत्येकबुद्धमनसिकारपरिवर्जने श्लोकद्वयम् । न खलु जिनसुतानां बाधकं दुःखमुग्रं नरकभवनवासैः सत्त्वहेतोः कथंचित् । शमभवगुणदोषप्रेरिता हीनयाने विविधशुभविकल्पा बाधका धीमतां तु ॥ १३.१४ ॥ न खलु नरकवासो धीमतां सर्वकालं विमलविपुलबोधेरन्तरायं करोति । स्वहितपरमशीतस्त्वन्ययाने विकल्पः परमसुखविहारेऽप्यन्तरायं करोति ॥ १३.१५ ॥ अनयोः श्लोकयोरेकस्य द्वितीयः साधकः । उभौ गतार्थौ । निःस्वभावताप्रकृतिपरिशुद्धित्रासप्रतिषेधे चत्वारः श्लोकाः । (८६) धर्माभावोपलब्धिश्च निःसंक्लेशविशुद्धिता । मायादिसदृशी ज्ञेया आकाशसदृशी तथा ॥ १३.१६ ॥ यथैव चित्रे विधिवद्विचित्रिते नतोन्नतं नास्ति च दृश्यतेऽथ च । अभूतकल्पेऽपि तथैव सर्वथा द्वयं सदा नास्ति स दृश्यतेऽथ च ॥ १३.१७ ॥ यथैव तोये लुति[टि]ते प्रसादिते न जायते सा पुनरच्छतान्यतः । मलापकर्षस्तु स तत्र केवलः स्वचित्तशुद्धौ विधिरेष एव हि ॥ १३.१८ ॥ मतं च चित्तं प्रकृतिप्रभास्वरं सदा तदागन्तुकदोषदूषितम् । न धर्मताचित्तमृतेऽन्यचेतसः प्रभास्वरत्वं प्रकृतौ विधीयते ॥ १३.१९ ॥ धर्माभावश्च धर्मोपलब्धिश्चेति त्रासस्थानं निःसंक्लेशता च धर्मधातोः प्रकृत्या विशुद्धता च पश्चादिति त्रासस्थानं बालानाम् । तद्यथाक्रमं मायादिसादृश्येनाकाशसादृश्येन च प्रसाधयंस्ततस्त्रासं प्रतिषेधयति । तथा चित्रे नतोन्नतसादृश्येन लुति[टि]तप्रसादिततोयसादृश्येन च यथाक्रमम् । चतुर्थेन श्लोकेन तोयसाधर्म्यं चित्ते प्रतिपादयति । यथा तोयं प्रकृत्या प्रसन्नमागन्तुकेन तु कालुष्येण लुति[टि]तं भवत्येवं चित्तं प्रकृत्या प्रभास्वरं मतमागन्तुकैस्तु दौषैर्दूषितमिति । न च धर्मताचित्तादृतेऽन्यस्य चेतसः परतन्त्रलक्षणस्य प्रकृतिप्रभास्वरत्वं विधीयते । तस्माच्चित्ततथतैवात्र चित्तं वेदितव्यम् । रागजापत्तिप्रतिषेधे चत्वारः श्लोकाः । बोधिसत्त्वस्य सत्त्वेषु प्रेम मज्जगतं महत् । यथैकपुत्रके तस्मात्सदा हितकरं मतम् ॥ १३.२० ॥ सत्त्वेषु हितकारित्वन्नैत्यापत्तिं स रागजाम् । द्वेषो विरुद्यते त्वस्य सर्वसत्त्वेषु सत्पथा[सर्वथा] ॥ १३.२१ ॥ यथा कपोती स्वसुतातिवत्सला स्वभावकांस्तानुपगुह्य तिष्ठति । तथाविधायां प्रतिघो विरुध्यते सुतेषु तद्वत्सकृपेऽपि देहिषु ॥ १३.२२ ॥ मैत्री यतः प्रतिघचित्तमतो विरुद्धं शान्तिर्यतो व्यसनचित्तमतो विरुद्धम् । अर्थो यतो निकृतिचित्तमतो विरुद्धं ल्हादो यतः प्रतिभयं न[च] ततो विरुद्धम् ॥ १३.२३ ॥ यत्सत्त्वेषु बोधिसत्त्वस्य प्रेम सोऽत्र रागोऽभिप्रेतस्तत्कृतामापत्तिं तेषां प्रतिषेधयति । सत्त्वहितक्रियाहेतुत्वात् । कपोतीमुदाहरति तब्दहुरागत्वातपत्यस्नेहाधिमात्रतया (८७) सकृपे बोधिसत्त्वे देहिषु सत्त्वेषु प्रतिघो विरुध्यते । बोधिसत्त्वानां सत्त्वेषु मैत्री भवति व्यसनशान्तिः अर्थदानं ल्हादश्च प्रीत्युत्पादात् । यत इमे मैत्र्यादयस्तत एव प्रतिघचित्तं विरुद्धम् । तत्पूर्वकाणि च व्यसनचित्तादीनि । प्रतिपत्तिभेदे पञ्च श्लोकाः । यथातुरः सुभैषज्ये संसारे प्रतिपद्यते । आतुरे च यथा वैद्यः सत्त्वेषु प्रतिपद्यते ॥ १३.२४ ॥ अनिष्पन्ने यथा चेटे स्वात्मनि प्रतिपद्यते । वणिग्यथा पुनः पण्ये कामेषु प्रतिपद्यते ॥ १३.२५ ॥ यथैव रजको वस्त्रे कर्मणे प्रतिपद्यते । पिता यथा सुते बाले सत्त्वाहेठे प्रपद्यते ॥ १३.२६ ॥ अग्न्यर्थी वाधरारण्यां सातत्ये प्रतिपद्यते । वैश्वासिको वानिष्पन्ने अधिचित्ते प्रपद्यते ॥ १३.२७ ॥ मायाकार इव ज्ञेये प्रज्ञया प्रतिपद्यते । प्रतिपत्तिर्यथा यस्मिन् बोधिसत्त्वस्य सा मता ॥ १३.२८ ॥ यथा यस्मिन्प्रतिपद्यते तदभिद्योतयति । यथेति सुभैषज्यादिष्विवातुरादयः । यत्रेति संसारादिषु प्रतिसंख्याय संसारनिषेवणात् । कारुण्येन क्लेशातुरसत्त्वापरित्यागात् । स्वप्रणिहितत्वचित्तकरणात् । दानादिपारमिताभिश्च यथाक्रमं भोगवृद्धिनयनात् । कायादिकर्मपरिशोधनात् । सत्त्वापकाराकोपात् । कुशलभावनानिरन्तराभियोगात् । समाध्यनास्वादनात् । ज्ञेयाविपर्यासाच्च । प्रतिपत्तित्रिमण्डलपरिशुद्धौ श्लोकः । इति सततमुदारयुक्तवीर्यो द्वयपरिपाचनशोधने सुयुक्तः । परमविमलनिर्विकल्पगुद्ध्या व्रजति स सिद्धिमनुत्तमां क्रमेण ॥ १३.२९ ॥ इति निर्विकल्पेन धर्म नैरात्म्यज्ञानेन प्रतिपत्तुः प्रतिपत्तव्यस्य प्रतिपत्तेश्चाविकल्पना त्रिमण्डलपरिशुद्धिर्वेदितव्या । द्वयपरिपाचनशोधनेषु [सु]युक्त इति सत्त्वानामात्मनश्च । ॥ महायानसूत्रालंकारे प्रतिपत्त्यधिकारस्त्रयोदशः ॥ (८८) चतुर्दशोऽधिकारः अववादानुशासनीविभागे श्लोका एकपञ्चाशत् । कल्पासंख्येयनिर्यातो ह्यधिमुक्तिं विवर्धयन् । संपूर्णः कुशलैर्धर्मैः सागरो वारिभिर्यथा ॥ १४.१ ॥ अधिमुक्तिं विवर्धयन्नित्यधिमात्रावस्थानयनात् । शेषं गतार्थम् । तथा संभृतसंभारो ह्यादिशुद्धो जिनात्मजः । सुविज्ञः कल्प[ल्य]चित्तश्च भावनायां प्रयुज्यते ॥ १४.२ ॥ आदिशुद्धो बोधिसत्त्वसंवरपरिशोधनान्महायाने दृष्टिऋज्जु[जु]करणाच्चाविपरीतार्थग्रहणतः । सुविज्ञो बहुश्रुतत्वात् । कल्प[ल्य]चित्तो विनिवरणत्वात् । धर्मस्त्रोतसि बुद्धेभ्योऽववादं लभते तदा । विपुलं शमथज्ञानवैपुल्यगमनाय हि ॥ १४.३ ॥ श्लोको गतार्थः । ततः सूत्रादिके धर्मे सोऽद्वयार्थविभावके । सूत्रादिनाम्नि बन्धीयाच्चित्तं प्रथमतो यतिः ॥ १४.४ ॥ ततः पदप्रभेदेषु विचरेदनुपूर्वशः । विचारयेत्तदर्थांश्च प्रत्यात्मयोनिशश्च सः ॥ १४.५ ॥ अवधृत्य च तानर्थान्धर्मे संकलयेत्पुनः ततः कुर्यात्समाशास्तिं तदर्थाधिगमाय सः ॥ १४.६ ॥ सूत्रगेयादिके धर्मे यत्सूत्रादिनाम दशभूमिकमित्येवमादि तत्र चित्तं प्रथमतो बध्नीयात् । एभिस्त्रिभिः श्लोकैः षट्चित्तान्युपदिष्टानि । मूलचित्तमनुचरचित्तं विचारणाचित्तमवधारणाचित्तं संकलनचित्तमाशास्तिचित्तं च । तत्र मूलचित्तं यत्सूत्रादीनां धर्माणां नामालम्बनम् । अववादं श्रुत्वा स्वयं वा कल्पयित्वा । तद्यथानित्यं दुःखं शून्यमनात्म्यं य योनिशो न चेत्यादि । अनुचरचित्तं येन सूत्रादीनां नामत आलम्बितानां पदप्रभेदमनुगच्छति । विचारणाचित्तं येनार्थं व्यञ्जनं च विचारयति । तत्रार्थं चतुर्भिराकारैर्विचारयति गणनया तुलनया मीमांसया प्रत्यवेक्षणया च । तत्र गणना संग्रहणं तद्यथा रूपं दशायतनान्येकस्य च प्रदेशो वेदना षड्वेदनाकाया इत्येवमादि । तुलना संख्यावतो (८९) धर्मस्य शमलक्ष[ण?]ग्रहणमनाध्यारोपानपवादतः । मीमांसा प्रमाणपरीक्ष । प्रत्यवेक्षणागणिततुलितमीमांसितस्यार्थस्यावलोकनम् । व्यञ्जनं द्वाभ्यामाकाराभ्यां विचारयति । सार्थतथा[या] च समस्तानां व्यञ्जनानां निरर्थतया च व्यस्तानाम् । अवधारणाचित्तं येन यथानुचरितं विचारितं वा तन्निमित्तमवधारयति । संकलनचित्तं तद्यथा विचारितमर्थं मूलचित्ते संक्षिप्यपरिपिण्डिताकारं वर्तते । आशास्तिचित्तं यदर्थं प्रयुक्तो भवति समा[ध्यर्थं वा?] तत्परिपूर्यर्थं वा श्रामण्यफलार्थं वा भूमिप्रवेशार्थं वा विशेषगमनार्थं वा तच्छन्दसहगतं वर्तते । चित्तमेव ह्यालम्बनप्रतिभासं वर्तते न चित्तादन्यदालम्बनमस्तीति जानतो वा चित्तमात्रमजानतो वा चित्तमेवालम्बनं नान्यत् । इति षड्विधं चित्तमालम्बनं व्यवस्थाप्यते । एषेत प्रत्यवेक्षेत मनोजल्पैः प्रबन्धतः । निर्जल्पैकरसैश्चापि मनस्कारैर्विचारयेत् ॥ १४.७ ॥ ज्ञेयः शमथमार्गोऽस्य धर्मनाम च पिण्डितम् । ज्ञेयो विपश्यनामार्गस्तदर्थानां विचारणा ॥ १४.८ ॥ युगनद्धश्च विज्ञेयो मार्गस्तत्पिण्डितं पुनः । लीनं चित्तस्य गृह्णीयादुद्धतं शमयेत्पुनः ॥ १४.९ ॥ श[स]मप्राप्तमुपेक्षेत तस्मिन्नालम्बने पुनः सातत्येनाथ सत्कृत्य सर्वस्मिन्योजयेत्पुनः ॥ १४.१० ॥ एभिश्चतुर्भिः श्लोकैरेकादश मनस्कारा उपदिष्टाः । सवितर्कः सविचारः । अवितर्को विचारमात्रः । अवितर्कोऽविचारः । शमथमनस्कारः । विपश्यना मनस्कारः । युगनद्धमनस्कारः । [प्रग्रहनिमित्तमनस्कारः] शमथनिमित्तमनस्कारः । उपेक्षानिमित्त मनस्कारः । सातत्यमनस्कारः । सत्कृत्यमनस्कारश्च । निबध्यालम्बने चित्तं तत्प्रवेधं[वाहं] न विक्षिपेत् । अवगम्याशु विक्षेपं तस्मिन् प्रतिहरेत्पुनः ॥ १४.११ ॥ प्रत्यात्मं संक्षिपेच्चित्तमुपर्युपरि बुद्धिमान् । ततश्चर [द]मयेच्चित्तं समाधौ गुणदर्शनात् ॥ १४.१२ ॥ अरतिं शमयेत्तस्मिन्विक्षेपदोषदर्शनात् । अभिध्यादौर्मनस्यादीन्व्युत्थितान् शमयेत्तथा ॥ १४.१३ ॥ ततश्च साभिसंस्कारां चित्ते स्वरसवाहिताम् । लभेतानभिसंस्कारान् [रां] तद्भ्यासात्पुनर्यतिः ॥ १४.१४ ॥ (९०) एभिश्चतुर्भिः श्लोकैर्नवाकारया चित्तस्थित्या स्थित्युपाय उपदिष्टः । चित्तं स्थापयति संस्थापयति अवस्थापयति उपस्थापयति दमयति शमयति व्युपशमयत्येकोतीकरोति चित्तं समादघातीति नवाकाराः । ततः स तनुकां लब्ध्वा प्रश्रब्धिं कायचेतसोः । विज्ञेयः समनस्कारः पुनस्तान्[स्तां]स विवर्धयन् ॥ १४.१५ ॥ वृद्धिदूरंगमत्वेन मौलीं स लभते स्थितिम् । तां शोधयन्नभिज्ञार्थमेति कर्मण्यतां पराम् ॥ १४.१६ ॥ ध्यानेऽभिज्ञाभिनिर्हाराल्लोकधातून्स गच्छति । पूजार्थमप्रमेयाणां बुद्धानां श्रवणाय च ॥ १४.१७ ॥ अप्रमेयानुपास्यासौ बुद्धान्कल्पैरमेयगैः । कर्मण्यतां परामेति चेतसस्तदुपासनात् ॥ १४.१८ ॥ इति कर्मण्यतां परां ध्याने इति संबन्धनीयम् । कल्पैरमेयगैरित्यप्रमेयसंख्यागतैः । शेषमेषां श्लोकानां गतार्थम् । ततोऽनुशंसान लभते पञ्च शुद्धैः स पूर्वगान् । विशुद्धिभाजनत्वं च ततो याति निरुत्तरम् ॥ १४.१९ ॥ कृत्स्नादौस्वल्प[दौष्ठुल्य]कायो हि द्रवतेऽस्य प्रतिक्षणम् । आपूर्यते च प्रश्रब्ध्या कायचित्तं समन्ततः ॥ १४.२० ॥ अपरिच्छिन्नमाभासं धर्माणां वेत्ति सर्वतः । अकल्पितानि संशुद्धौ निमित्तानि प्रपश्यति ॥ १४.२१ ॥ प्रपूरौ च विशुद्धौ च धर्मकायस्य सर्वथा । करोति सततं धीमानेवं हेतुपरिग्रहम् ॥ १४.२२ ॥ ततः शुद्धेः पूर्वंगमान्पञ्चानुशंसान् लभते । शुद्धेरिति शुद्ध्याशयभूमेः । तेषां च लाभाद्विशुद्धिभाजनत्वं प्राप्नोति । निरूत्तरं यानानन्तर्यात्[नुत्तर्यात्] । प्रपूरौ च विशुद्धौ च धर्मकायस्येति दशम्यां भूमौ परिपूरिर्बुद्धभूमौ विशुद्धिः । एतेषां पञ्चानामनुशंसानां त्रयः शमथपक्षा द्वौ विपश्यनापक्षौ वेदितव्यौ । अतो यावल्लौकिकः समुदागमः । ततश्चासौ तथाभूतो बोधिसत्त्वः समाहितः । मनोजल्पाद्विनिर्मुक्तान् सर्वार्थान्न प्रपश्यति ॥ १४.२३ ॥ (९१) धर्म[र्मा]लोकस्य वृध्द्यर्थ वीर्यमारभते दृढम् । धर्मालोकविवृध्द्या च चित्तमात्रेऽवतिष्ठते ॥ १४.२४ ॥ सर्वार्थप्रतिभासत्वं ततश्चित्ते प्रपश्यति । प्रहीनो ग्राह्यनि[वि]क्षेपस्तदा तस्य भवत्यसौ ॥ १४.२५ ॥ ततो ग्राहकविक्षेपः केवलोऽस्यावशिष्यते । आनन्तर्यसमाधिं च स्पृशत्याशु तदा पुनः ॥ १४.२६ ॥ अत ऊर्ध्वं निर्वेधभागीयानि । तथाभूतो बोधिसत्त्वः समाहितचित्तो मनोजल्पाद्विनिर्मुक्तान् सर्वधर्मान्न पश्यति स्वलक्षणसामान्यलक्षणाख्यान्मनोजल्पमात्रमेव ख्याति । सास्योष्मगतावस्था । अयं स आलोको यमधिकृत्योक्तं क्षारनद्याम् । आलोक इति धर्मनिध्यानक्षान्तेरेतदधिवचनमिति । स तस्यैव धर्मालोकस्य विवृध्द्यर्थमास्थितक्रियया दृढं वीर्यमारभते । सास्य मूर्धावस्था । धर्मालोकविवृध्द्या च चित्तमात्रेऽवतिष्ठते । चित्तमेतदिति प्रतिवेधात् । ततश्चित्त एव सर्वार्थप्रतिभासत्वं पश्यति । न चित्तादन्यमर्थम् । तदा चास्य ग्राह्यविक्षेपः प्रहीनो भवति । ग्राहकविक्षेपः केवलोऽवशिष्यते । सास्य क्षान्त्यवस्था । तदा च क्षिप्रमानन्तर्यसमाधिं स्पृशति । सास्य लौकिकाग्रधर्मावस्था । केन कारणेन स आनन्तर्य उच्यते । यतो ग्राहकविक्षेपो हीयते तदनन्तरम् । ज्ञेयान्युष्मगतादीनि एतानि हि यथाक्रमम् ॥ १४.२७ ॥ इत्येतान्युष्मगतादीनि निर्वेधभागीयानि । द्वयग्राहविसंयुक्तं लोकोत्तरमनुत्तरम् । निर्विकल्पं मलापेतं ज्ञानं स लभते पुनः ॥ १४.२८ ॥ अतः परेण दर्शनमार्गावस्था । द्वयग्राहविसंयुक्तं ग्राह्यग्राहग्राहकग्राहविसंयोगात् । अनुत्तरं यानानन्तर्येण[नुत्तर्येण] । निर्विकल्पं ग्राह्यग्राहकविकल्पविसंयोगात् । मलापेतं दर्शनज्ञे[हे]यक्लेशप्रहाणात् । एतेन विरजो विगतमलमित्युक्तं भवति । सास्याश्रयपरावृत्तिः प्रथमा भूमिरिष्यते । अमेयैश्चास्य सा कल्पैः सुविशुद्धिं निगच्छति ॥ १४.२९ ॥ श्लोको गतार्थः । धर्मधातोश्च समतां प्रतिविध्य पुनस्तदा । सर्वसत्त्वेषु लभते सदात्मसमचित्तताम् ॥ १४.३० ॥ (९२) निरात्मतायां दुःखार्थे कृत्ये निःप्रतिकर्मणि । सत्त्वेषु समचित्तोऽसौ यथान्येऽपि जिनात्मजाः ॥ १४.३१ ॥ धर्मनैरात्म्येन च धर्मसमतां प्रतिविध्य सर्वसत्त्वेषु सदा आत्मसमचित्ततां प्रत्तिलभते । पञ्चविधया समतया । नैरात्म्यसमतया दुःखसमतया स्वपरसंतानेषु नैरात्म्यदुःखतयोरविशेषात् । कृत्यसमतया स्वपरदुःखप्रहाणकामतासामान्यात् । निष्प्रतिकारसमतया । आत्मन इव परतः प्रतिकारानभिनन्दनात् । तदन्यबोधिसत्त्वसमतया च यथा तैरभिसमितं तथाभिसमयात् । त्रैधातुकात्मसंस्कारानभूतपरिकल्पतः । ज्ञानेन सुविशुद्धेन अद्धयार्थेन पश्यति ॥ १४.३२ ॥ स त्रैधातुकात्मसंस्कारानभूतपरिकल्पनामात्रान्पश्यति । सुविशुद्धेन ज्ञानेन लोकोत्तरत्वात् । अद्वयार्थेनेत्यग्राह्यग्राहकार्थेन । तदभावस्य भावं च विमुक्तं दृष्टिहायिभिः । लब्ध्वा दर्शनमार्गो हि तदा तेन निरूच्यते ॥ १४.३३ ॥ तस्य ग्राह्यग्राहकाभावस्य भावं धर्मधातून्दर्शनप्रहातव्यैः क्लेशैर्विमुक्तं पश्यति । अभावशून्यतां ज्ञात्वा तथाभावस्य शून्यताम् । प्रकृत्या शून्यतां ज्ञात्वा शून्यज्ञ इति कथ्यते ॥ १४.३४ ॥ स च बोधिसत्त्वः शून्यज्ञ इत्युच्यते । त्रिविधशून्यताज्ञानात् । अभावशून्यता परिकल्पितः स्वभावः स्वेन लक्षणेनाभावात् । तथाभावस्य शून्यता परतन्त्रस्य स हि न तथाभावो यथा कल्प्यते स्वेन लक्षणेन भावः । प्रकृतिशून्यता परिनिष्पन्नः स्वभावः शून्यतास्वभावत्वात् । अनिमित्तपदं ज्ञेयं विकल्पानां च संक्षयः । अभूतपरिकल्पश्च तदप्रणिहितस्य हि ॥ १४.३५ ॥ अनिमित्तपदं ज्ञेयं विकल्पानां च संक्षयः । अभूतपरिकल्पस्तदप्रणिधानस्य पदमालम्बनमित्यर्थः । तेन दर्शनमार्गेण सह लाभः सदा मतः । सर्वेषां बोधिपक्षाणां विचित्राणां जिनात्मजे ॥ १४.३६ ॥ (९३) तेन दर्शनमार्गेण सह बोधिसत्त्वस्य सर्वेषां बोधिपक्षाणां धर्माणां लाभो वेदितव्यः स्मृत्युपस्थानादीनाम् । संस्कारमात्रं जगदेत्य बुद्ध्या निरात्मकं दुःखिविरूढिमात्रम् । विहाय यानर्थमयात्मदृष्टिः महात्मदृष्टिं श्रयते महार्था ॥ १४.३७ ॥ विनात्मदृष्ट्या य इहात्मदृष्टिर्विनापि दुःखेन सुदुःखितश्च । सर्वार्थकर्ता न च कारकाङ्क्षी यथात्मनः स्वात्महितानि कृत्वा ॥ १४.३८ ॥ यो मुक्तचित्तः परया विमुक्त्या बद्धश्च गाढायतबन्धनेन । दुःखस्य पर्यन्तमपश्यमानः प्रयुज्यते चैव करोति चैव ॥ १४.३९ ॥ स्वं दुःखमुद्वोढुमिहासमर्थो लोकः कुतः पिण्डितमन्यदुःखम् । जन्मैकमालोकयते[गतं] त्वचिन्तो विपर्ययात्तस्य तु बोधिसत्त्वः ॥ १४.४० ॥ यत्प्रेम या वत्सलता प्रयोगः सत्त्वेष्वखेदश्च जिनात्मजानाम् । आश्चर्यमेतत्परमं भवेषु न चैव सत्त्वात्मसमानभावात् ॥ १४.४१ ॥ एभिः पञ्चभिः श्लोकैर्दर्शनमार्गलाभिनो बोधिसत्त्वस्य माहात्म्योद्भावनम् । अनर्थमयात्मदृष्टिर्या क्लिष्टा सत्कायदृष्टिः । महात्मदृष्टिरिति महार्था या सर्वसत्त्वेष्वात्मसमचित्तलाभात्मदृष्टिः । सा हि सर्वसत्त्वार्थक्रिंयाहेतुत्वात्महार्था । विनात्मदृष्ट्या अनर्थमय्यात्मदृष्टिर्महार्था या विनापि दुःखेन स्वसंतानजेन सुदुःखिता सर्वसत्त्वसंतानजेन । यो विमुक्तचित्तो दर्शनप्रहातव्येभ्यः परया विमुक्त्यानुत्तरेण यानेन । बद्धश्च गाढायतबन्धनेन सर्वसत्त्वसांन्तानिकेन दुःखस्य पर्यन्तं न पश्यति स्व[सत्त्व]धातोरनन्तत्वादाकाशवत्प्रयुज्यते च दुःखस्यान्तक्रियायै सत्त्वानां करोति चैव ताम[अर्थं] प्रमेयाणां सत्त्वानाम् । विपर्ययात्तस्य तु बोधिसत्त्वः स हि संपिण्डितसर्वसत्त्वदुःखं यावल्लोकगतमुद्वोढुं समर्थः । या सत्त्वेषु बोधिसत्त्वस्य प्रियता या च हितसुखैषिता यश्च तदर्थं प्रयोगो यश्चित्त[यश्चतत्]प्रयुक्तस्याखेद एतत्सर्वमाश्चर्यं परमं लोकेषु । न चैवाश्चर्यं सत्त्वानामात्मसमानत्वात् । ततोऽसौ भावनामार्गे परिशिष्टासु भूमिषु । ज्ञानस्य द्विविधस्येह भावनायै प्रयुज्यते ॥ १४.४२ ॥ निविर्कल्पं च तज्ज्ञानं बुद्धधर्मविशोधकम् । अन्यद्यथाव्यवस्थानं सत्त्वानां परिपाचकम् ॥ १४.४३ ॥ भावनायाश्च निर्याणं द्वयसंख्येयसमाप्तितः । पश्चिमां भावनामेत्य बोधिसत्त्वौऽभिषिक्तकः ॥ १४.४४ ॥ (९४) वज्रोपमं समाधानं विकल्पाभेद्यमेत्य च । निष्ठाश्रयपरावृत्तिं सर्वावरणनिर्मलाम् ॥ १४.४५ ॥ सर्वकारज्ञतां चैव लभतेऽनुत्तरं पदम् । यत्रस्थः सर्वसत्त्वानां हिताय प्रतिपद्यते ॥ १४.४६ ॥ एभिर्भावनामार्गः परिदीपितः द्विविधं ज्ञानम् । निर्विकल्पं च येनात्मनो बुद्धधर्मान् विशोधयति । यथाव्यवस्थानं च लोकोत्तरपृष्ठलब्धं लौकिकं येन सत्त्वान्परिपाचयति । असंख्येयद्वयस्य समाप्तौ पश्चिमां भावनामागम्यावसानगतामभिषिक्तो वज्रोपमं समाधिं लभते । विकल्पानुशयाभेद्यार्थेन वज्रोपमः । ततो निष्ठागतामाश्रयपरावृत्तिं लभते सर्वक्लेशज्ञेयावरणनिर्मलाम् । सर्वाकारज्ञतां चानुत्तरपदं यत्रस्थो यावत्संसारमभिसंबोधिनिर्वाणसंदर्शनादिभिः सत्त्वानां हिताय प्रतिपद्यते । कथं तथा दुर्लभदर्शने मुनौ भवेन्महार्थं न हि नित्यदर्शनम् । भृशं समाप्यायितचेतसः सदा प्रसादवेगैरसमश्रवोद्भवैः ॥ १४.४७ ॥ अ[प्र]चोद्यमानः सततं च संमुखं तथागतैर्धर्मसु[मु]खे व्यवस्थितः । निगृह्य केशेष्विव दोषगह्वरात्निकृष्य बोधौ च बलान्निवेश्यते ॥ १४.४८ ॥ स सर्वलोकं सुविशुद्धदर्शनैरकल्पबोधैरभिभूय सर्वथा । महान्धकारं विधमय्य भासते जगन्महादित्य इवात्युदारतः ॥ १४.४९ ॥ एभिस्त्रिभिः श्लोकैरववादमाहात्म्यं दर्शयति । यो हि धर्ममुखश्रोतस्यववादं लभते तस्य नित्यं बुद्धदर्शनं भवति । ततश्चासमं धर्मश्रवणम् । यतोऽस्यात्यर्थं प्रसादः प्रसादवेगैराप्यायितचेतसस्तन्नित्यदर्शनं बुद्धानां महार्थं भवति । शेषं गतार्थम् । बुद्धाः सम्यक्प्रशंसां विदधति सततं स्वार्थसम्यक्प्रयुक्ते, निन्दामीर्ष्याप्रयुक्ते स्थितिविचपरे चान्तरायानुकूलान् । धर्मान् सर्वप्रकारान्विधिवदिह जिना दर्शयन्त्यग्रसत्त्वे, यान् वर्ज्यासेव्य योगे भवति विपुलता सौगते शासनेऽस्मिम् ॥ १४.५० ॥ चतुर्विधामनुशासनीमेतेन श्लोकेन दर्शयति । अधिशीलमधिकृत्य सम्यक्स्वार्थप्रयुक्ते बोधिसत्त्वे प्रशंसाविधानतः । अधिचित्तमधिप्रज्ञं चाधिकृत्य स्थितिविचयपरे तदन्तरायाणां (९५) तदनुकूलानां च सर्वप्रकाराणां धर्माणां देशनतः । यान्वर्ज्यासेव्येत्यन्तरायाननुकूलांश्च यथाक्रमम् । योग इति शमथविपश्यनाभावनायाम् । इति सततशुभाचयप्रपूर्णः सुविपुलमेत्य स चेतसः समाधिम् । मुनिसततमहाववादलब्धो भवति गुणार्णवपारगोऽग्रसत्त्वः ॥ १४.५१ ॥ निगमनश्लोको गतार्थः । ॥ महायानसूत्रालंकारे अववादानुशासन्यधिकारश्चतुर्दशः ॥ (९६) पञ्चदशोऽधिकारः उद्दानम् अधिमुक्तेर्बहुलता धर्मपर्येष्टिदेशने प्रतिपत्तिस्तथा सम्यगववादानुशासनम् ॥ १५.१ ॥ उपायसहितकर्मविभागे चत्वारः श्लोकाः । यथा प्रतिष्ठा वनदेहिपर्वतप्रवाहिनीनां पृथिवी समन्ततः । तथैव दानादिशुभस्य सर्वतो बुधेषु कर्म त्रिविधं निरुच्यते ॥ १५.२ ॥ अनेन श्लोकेन समुत्थानोपायं दर्शयति । सर्वप्रकारस्य दानादिशुभस्य पारमिताबोधिपक्षादिकस्य कर्मत्रयसमुत्थितत्वात् । बुधेष्विति बोधिसत्त्वेषु । वनादिग्रहणमुपभोज्या स्थिरस्थिरवस्तुनिदर्शनार्थम् । सुदुष्करैः कर्मभिरुद्यतात्मनां विचित्ररूपैर्बहुकल्पनिर्गतैः । न कायवाक्चित्तमयस्य कर्मणो जिनात्मजानां भवतीह संनतिः ॥ १५.३ ॥ यथा विषाच्छस्रमहाशनाद्[ने] रिपोर्निवारयेदात्महितः स्वमाश्रयम् । निहीनयानाद्विविधाज्जिनात्मजो निवारयेत्कर्म तथा त्रयात्मकम् ॥ १५.४ ॥ आभ्यां श्लोकाभ्यां व्युत्थानोपायं दर्शयति । महायानखेदान्ययानपातव्युत्थानाद्यथाक्रमम् । संनतिः खेद इत्यर्थः । विषादिसाधर्म्यं हीनयानप्रतिसंयुक्तस्य कर्मणो हीनयानचित्तपरिणामनात्महायाने कुशलमूलसमुच्छेदनातनुत्पन्नकुशलमूलानुत्पादाय । उत्पन्न कुशलमूल[स?]स्य ध्वंसनात् । बुद्धत्वसंपत्प्राप्तिविबन्धनाच्च । न कर्मिणः कर्म न कर्मणः क्रियां सदाविकल्पः समुदीक्षते त्रिधा । ततोऽस्य तत्कर्म विशुद्धिपारगं भवत्यनन्तं तदुपायसंग्रहात् ॥ १५.५ ॥ अनेन श्लोकेन चतुर्थेन विशुद्ध्युपायं कर्मणो दर्शयति । मण्डलपरिशुद्धितः कर्तृकर्मक्रियाणामनुपलम्भात् । अनन्तमित्यक्षयम् । ॥ महायानसूत्रालंकार उपायसहितकर्माधिकारः पञ्चदशः ॥ (९७) षोडशोऽधिकारः पारमिताप्रभेदसंग्रहे उद्दानश्लोकः । सांख्याथ तल्ललक्षणमानुपूर्वी निरुक्तिरभ्यासगुणश्च तासाम् । प्रभेदनं संग्रहणं विपक्षो ज्ञेयो गुणोऽन्योन्यविनिश्चयश्च ॥ १६.१ ॥ संख्याविभागे षट्श्लोकाः । भोगात्मभावसंपत्परिचारारम्भसंपदभ्युदयः । क्लेशावशगत्वमपि च कृत्येषु सदाविपर्यासः ॥ १६.२ ॥ इति प्रथमः । तत्र चतसृभिः पारमिताभिश्चतुर्विधोऽभ्युदयः । दानेन भोगसंपत् । शीलेनात्मभावसंपत् । क्षान्त्या परिचारसंपत् । तथा हि तदासेवनादायत्याद्[त्यां] बहुजनसुप्रियो भवति । वीर्येणारम्भसंपत्सर्वकर्मान्तसंपत्तितः । पञ्चम्या क्लेशावशगत्वं ध्यानेन क्लेशविष्कम्भनात् । षष्ठ्या कृत्येष्वविपर्यासः सर्वकार्ययथाभूतपरिज्ञानात् । इत्यभ्युदयः तत्र चासंक्लेशमविपरीतकृत्यारम्भं चाधिकृत्य षट्पारमिता व्यवस्थिताः । सत्त्वार्थेषु सुयुक्तस्त्यागानुपघातमर्षणैः कुरुते । सनिदानस्थितिमुक्त्या आत्मार्थं सर्वथा चरति ॥ १६.३ ॥ इति द्वितीयः । सत्त्वार्थेषु सम्यक्प्रयुक्तो बोधिसत्त्वस्तिसृभिर्दानशीलक्षान्तिपारमिताभिर्यथाक्रमं त्यागेनानुपघातेनोपघातमर्षणेन च सत्त्वार्थं कुरुते । तिसृभिः सनिदानतया [सनिदानया] चित्तस्थित्या विमुक्त्या च सर्वप्रकारमात्मार्थं चरति । वीर्यं निश्रित्य यथाक्रमं ध्यानप्रज्ञाभ्यास[म]समाहितस्य चित्तस्य समवधानात्समाहितस्य मोचनात् । इति परार्थमात्मार्थं चारभ्य षट्पारमिताः । अविघातैरविहेठैर्विहेठसंमर्षणैः क्रियाखेदैः । आवर्जनैः सुलपितैः परार्थ आत्मार्थमेतस्मात् ॥ १६.४ ॥ इति तृतीयः । दानादिभिर्बोधिसत्त्वस्य सकलः परार्थो भवति । यथाक्रमं परेषामुपकरणाविधातैः । अविहेठैः विहेठनामर्षणैः । साहाय्य क्रियास्वखेदैः ऋद्ध्यादिप्रभावावर्जनैः सुभाषितसुलपितैश्च संशयच्छेदनात् । एतस्मात्परार्थात्बोधिसत्त्वस्यात्मार्थो भवति । पराकार्यस्वकार्यत्वान्महाबोधिप्राप्तितश्च । इति सकलपरार्थाधिकारात्षट्पारमिताः । (९८) भोगेषु चानभिरतिस्तीव्रा गुरुताद्वये अखेदश्च । योगश्च निर्विकल्पः समस्तमिदमुत्तमं यानम् ॥ १६.५ ॥ इति चतुर्थः । दानेन बोधिसत्त्वस्य भोगेष्वभि[ष्वनभि]रतिर्निरपेक्षत्वात् । शीलसमादानेन बोधिसत्त्वशिक्षासु तीव्रा गुरुता । क्षान्त्या वीर्येण चाखेदो द्वये यथाक्रमं दुःखे च सत्त्वासत्त्वकृते कुशलप्रयोगे च । ध्यानप्रज्ञायां[भ्यां] निर्विकल्पो योगः शमथविपश्यनासंगृहीतः । एतावच्च समस्त [महायानमिति?] महायानसंग्रहाधिकारात्षट्पारमिताः । विषयेष्वसक्तिमार्गस्तदाप्तिविक्षेपसंयमेष्वपरः । सत्त्वाविसृजनवर्धन आवरणविशोधनेष्वपरः ॥ १६.६ ॥ इति पञ्चमः । तत्र दानं विषयेष्वसक्तिमार्गस्त्यागाभ्यासेन तत्सक्तिविगमात् । शीलं तदाप्तिविक्षेपसंयमेषु भिक्षुसंवरस्थस्य विषयप्राप्तये सर्वकर्मान्तविक्षेपाणामप्रवृत्तेः । क्षान्तिः सत्त्वानुत्सर्गे सर्वो[वा]पकारदुःखानुद्वेगात् । वीर्यं कुशलविवर्धन आरब्धवीर्यस्य तद्बुद्धिगमनात् । ध्यानं प्रज्ञा चावरणविशोधनेषु मार्गस्ताभ्यां क्लेशज्ञेयावरणविशोधनात् । मार्ग इत्युपायः । एवं सर्वाकारमार्गाधिकारात्षट्पारमिताः । शिक्षात्रयमधिकृत्य च षष्ट्पारमिता जिनैः समाख्याताः । आद्या तिस्रो द्वेधा अन्त्यद्वयतस्तिसृष्वेका ॥ १६.७ ॥ इति षष्ठः । तत्राद्या अधिशीलं शिक्षा तिस्रः पारमिताः ससंभारसपरिवारग्रहणात् । दानेन हि भोगनिरपेक्षः शीलं समादत्ते समात्तं च क्षान्त्या रक्षत्याक्रुष्टाप्रत्याक्रोशनादिभिः । द्विधेत्यधिचित्तमधिप्रज्ञं च शिक्षा सा अन्तेन द्वयेन संगृहीता यथाक्रमं ध्यानेन प्रज्ञया च । तिसृष्वपि शिक्षास्वेका वीर्यपारमिता वेदितव्या । सर्वासां वीर्यसहायत्वात् । लक्षणविभागे श्लोकाः षट् । दानं विपक्षहीनं ज्ञानेन गतं च निर्विकल्पेन । सर्वेच्छापरिपूरकमपि सत्त्वविपाचकं त्रेधा ॥ १६.८ ॥ बोधिसत्त्वानां दानं चतुर्विधलक्षणम् । विपक्षहीनं ता[मा]त्सर्यस्य प्रहीणत्वात् । निर्विकल्पज्ञानसहगतं धर्म नैरात्म्यप्रतिवेधयोगात्सर्वेच्छापरिपूरकं यो यदिच्छति तस्मै तस्य दानात् । सत्त्वपरिपाचकं त्रेधा दानेन सत्त्वान् संगृह्य त्रिषु यानेषु यथाभव्यनियोजनात् । (९९) शीलं विपक्षहीनं ज्ञानेन गतं च निर्विकल्पेन । सर्वेच्छापरिपूरकमपि सत्त्वविपाचकं त्रेधा ॥ १६.९ ॥ क्षान्तिर्विपक्षहीना ज्ञानेन गता च निर्विकल्पेन । सर्वेच्छापरिपूरा अपि सत्त्वविपाचिका त्रेधा ॥ १६.१० ॥ वीर्यं विपक्षहीनं ज्ञानेन गतं च निर्विकल्पेन । सर्वेच्छपरिपूरकमपि सत्त्वविपाचकं त्रेधा ॥ १६.११ ॥ ध्यानं विपक्षहीनं ज्ञानेन गतं च निर्विकल्पेन । सर्वेच्छापरिपूरकमपि सत्त्वविपाचकं त्रेधा ॥ १६.१२ ॥ प्रज्ञा विपक्षहीना ज्ञानेन गता च निर्विकल्पेन । सर्वेच्छापरिपूरा अपि सत्त्वविपाचिका त्रेधा ॥ १६.१३ ॥ यथा दानलक्षणं चतुर्विधमेवं शीलादीनां वेदितव्यम् । एषां तु विपक्षा दौःशील्यं क्रोधः कौशीद्यं विक्षेपो दौष्प्रज्ञ्यं यथाक्रमम् । सर्वेच्छापरिपूरकत्वं शीलादिभिः परेषां सर्वकायवाक्संयमापराधमर्षणसाहाय्यमनोरथसंशयच्छेदनेच्छापरिपूरणात् । सत्त्वपरिपाचकत्वं शीलादिभिरावर्ज्य त्रिषु यानेषु परिपाचनात् । अनुक्रमविभागे श्लोकः । पूर्वोत्तरविश्रयतश्चोत्पत्तेस्तत्क्रमेण निर्देशः । हीनोत्कर्षस्थानादौदारिकसूक्ष्मतश्चापि ॥ १६.१४ ॥ त्रिभिः कारणैस्तेषां दानादीनां क्रमेण निर्देशः । पूर्वसंनिश्रयेणोत्तरस्योत्पत्तेः । भोगनिरपेक्षो हि शीलं समात्ते शीलवान् क्षमो भवति क्षमावान् वीर्यमारभते आरब्धवीर्यः समाधिमुत्पादयति समाहितचित्तो यथाभूतं प्रजानाति । पूर्वस्य च हीनत्वातुत्तरस्योत्कर्षस्थानत्वात् । हीनं हि दानमुत्कृष्टं शीलमेवं यावद्धीनं ध्यानमुत्कृष्टा प्रज्ञेति । पूर्वस्य चौदारिकत्वादुत्तरस्यसूक्ष्मत्वात् । औदारिकं हि दानं सुप्रवेशत्वात्सुकरत्वाच्च । सूक्ष्मं ज्ञीलं ततो दुष्प्रवेशत्वाद्दुष्करत्वाच्च । एवं यावदौदारिकं ध्यानं सूक्ष्मा प्रज्ञेति । निर्वचनविभागे श्लोकः । दारिद्यस्यापनयाच्छैत्यस्य च लम्भनात्क्षयात्क्रुद्धेः । वरयोगमनोधारणपरमाथज्ञानतश्चोक्तिः ॥ १६.१५ ॥ दारिद्यमपनयतीति दानम् । शैत्यं लम्भयतीति शीलं तद्वतो विषयनिमित्तक्लेशपरिदाहाभावात् । क्षयः क्रुद्धेरिति क्षान्तिस्तया क्रोधक्षयात् । वरेण योजयतीति वीर्यं कुशलधर्मयोजनात् । धारयत्यध्यात्मं मन इति ध्यानम् । परमार्थ[र्थं] जानात्यनयेति प्रज्ञा । (१००) भावनाविभागे श्लोकः । भावनोपधिमाश्रित्य मनस्कारं तथाशयम् । उपायं च विभुत्वं च सर्वासामेव कथ्यते ॥ १६.१६ ॥ पञ्चविधा पारमिताभावना । उपधिसंनिश्रिता । तत्रोपधिसंनिश्रिता चतुराकारा हेतुसंनिश्रिता यो गोत्रबलेन पारमितासु प्रतिपत्त्यभ्यासः । विपाकसंनिश्रिता च आत्मभावसंपत्तिबलेन । प्रणिधानसंनिश्रिता यः पूर्वप्रणिधानबलेन । प्रतिसंख्यानसंनिश्रता यः प्रज्ञाबलेन पारमितासु प्रतिपत्त्यभ्यासः । मनसिकारसंनिश्रिता पारमिताभावना चतुराकारा । अधिमुक्तिमनस्कारेण सर्वपारमिताप्रतिसंयुक्तं सूत्रान्तमधिमुच्यमानस्य । आस्वादनामनस्कारेण लब्धाः पारमिता आस्वादयतो गुणसंदर्शयोगेन । अनुमोदनामनस्कारेण सर्वलोकधातुषु सर्वसत्त्वानां दानादिकमनुमोदमानस्य । अभिनन्दनामनस्कारेणात्मनः सत्त्वानां चानागतं पारमिताविशेषमभिनन्दमानस्य । आशयसंनिश्रिता पारमिताभावना षडाकारा । अतृप्ताशयेन विपुलाशयेन मुदिताशयेन उपकाराशयेन निर्लेपाशयेन कल्याणाशयेन च । तत्र बोधिसत्त्वस्य दानेऽतृप्ताशयो यद्बोधिसत्त्व एकसत्त्वस्यैकक्षणे गंगानदीबालुकासमान् लोकधातून् सप्तरत्नपरिपूर्णान् कृत्वा प्रतिपादयेत् । गंगानदीबालिकासमांश्चात्मभावान् । एवं च प्रतिक्षणं गंगानदीवालिकासमान्कल्पान्प्रतिपादयेत् । यथा चैकस्य सत्त्वस्यैवं यावान् सत्त्वधातुरनुत्तरायां सम्यक्संबोधौ परिपाचयितव्यस्तमनेन पर्यायेण प्रतिपादयेत् । अतृप्त एव बोधिसत्त्वस्य दानाशय इति । य एवंरूप आशयोऽयं बोधिसत्त्वस्य दानेऽतृप्ताशयः । न च बोधिसत्त्व एवंरूपां दानपरंपरां क्षणमात्रमपि हापयति । न विच्छिनत्त्या बोधिमण्डनिषदनादिति । य एवंरूप आशयोऽयं बोधिसत्त्वस्य दाने विपुलाशय इति । मुदिततरश्च बोधिसत्त्वो भवति तान्सत्त्वान्दानेन तथानुगृह्णन् । न त्वेव ते सत्वास्तेन दानेनानुगृह्यमाणा इति । य एवंरूप आशयोऽयं बोधिसत्त्वस्य दाने मुदिताशयः । उपकारकतरांश्च स बोधिसत्त्वस्तान्सत्त्वानात्मनः समनुपश्यति । येषां तथा दानेनोपकरोति नात्मानम् । तेषामनुत्तरसम्यक्संबोध्युपस्तम्भतामुपादाय इति । य एवंरूप आशयोऽयं बोधिसत्त्वस्य दाने उपकाराशयः । न च बोधिसत्त्वः सत्त्वेषु तथा विपुलमपि दानमयं पुण्यमभिसंस्कृत्य प्रतिकारेण वा अर्थो[र्थी] भवति विपाकेन वा इति । य एवंरूप आशयोऽयं बोधिसत्त्वस्य दानपारमिताभावनायां निर्लेपाशयः । यद्बोधिसत्त्वस्तथा विपुलस्यापि दानस्कन्धस्य विपाकं सत्वेष्वभिनन्दति नात्मनः । सर्वसत्त्वसाधारणं च कृत्वानुत्तरायां सम्यक्संबोधौ परिणामयति इति । य एवंरूप आशयोऽयं बोधिसत्त्वस्य दानपारमिताभावनायां कल्याणाशयः । तत्र बोधिसत्त्वस्य (१०१) शीलपारमिताभावनायां यावत्प्रज्ञापारमिताभावनायामतृप्ताशयः । यद्वोधिसत्त्वो गंगानदीबालिकासमेष्वात्मभावेषु गंगानदीबालिकासमकल्पायुष्प्रमाणेषु सर्वोपकरणनिरन्तरविघाती त्रिसाहस्रमहासाहस्रलोकधातावग्निप्रतिपूर्णे चतुर्विधमीर्यापथं कल्पयन्नेकं शीलपारमिताक्षणं यावत्प्रज्ञापारमिताक्षणं भावयेदेतेन पर्यायेण यावांश्छीलस्कन्धो यावान् च प्रज्ञास्कन्धो येनानुत्तरां सम्यक्संबोधिमभिसंबुध्यते शीलस्कन्धं यावत्प्रज्ञास्कन्धं भावयेदतृप्त एव बोधिसत्त्वस्य शीलपारमिताभावनायामाशयो यावत्प्रज्ञापारमिताभावनायामाशय इति । य एवंरूप आशयोऽयं बोधिसत्त्वस्य शीलपारमिताभावनायामतृप्ताशयो यावत्प्रज्ञापारमिताभावनायामतृप्ताशयः । यद्बोधिसत्त्वस्तां शीलपारमिताभावनापरंपरां यावत्प्रज्ञापारमिताभावनापरंपरामाबोधिमण्डनिषदनान्न स्रंसयति न विच्छिनत्ति इति । य एवंरूप आशयोऽयं बोधिसत्त्वस्य शीलपारमिताभावनायां यावत्प्रज्ञापारमिताभावनायां विपुलाशयः । मुदिततरश्च बोधिसत्त्वो भवति तया शीलपारमिताभावनया यावत्प्रज्ञापारमिताभावनया सत्त्वाननुगृह्णन् । न त्वेव[वं] ते सत्त्वा अनुगृह्यमाणा इति । य एवंरूप आशयोऽयं बोधिसत्त्वस्य शीलपारमिताभावनायां यावत्प्रज्ञापारमिताभावनायां मुदिताशयः । उपकारकतरांश्च बोधिसत्त्वस्तान् सत्त्वानात्मनः समनुपश्यति । येषां तथा शीलपारमिताभावनया यावत्प्रज्ञापारमिताभावनया उपकरोति नात्मानम् । तेषामनुत्तरसम्यक्संबोध्युपस्तम्भतामुपादाय इति । य एवंरूप आशयोऽयं बोधिसत्त्वस्य शीलपारमिताभावनायां यावत्प्रज्ञापारमिताभावनायामुपकाराशयः । न च बोधिसत्त्वस्तथा विपुलमपि शीलपारमिताभावनामयं यावत्प्रज्ञापारमिताभावनामयं पुण्यमभिसंस्कृत्य प्रतिकारेण वार्थी भवति विपाके न वा इति । य एवंरूप आशयोऽयं बोधिसत्त्वस्य शीलापारमिताभावनायां यावत्प्रज्ञापारमिताभावनायां निर्लेपाशयः । तत्र यद्बोधिसत्त्व एवं शीलपारमिताभावनामयस्य यावत्प्रज्ञापारमिताभावनामयपुण्यस्कन्धस्य विपाकं सत्त्वेष्वेवाभिनन्दति नात्मनः । सर्वसत्त्वसाधारणं च कृत्वानुत्तरायां सम्यक्सम्बोधौ परिणामयतीति । य एवंरूप आशयोऽयं बोधिसत्त्वस्य शीलपारमिताभावनायां यावत्प्रज्ञापारमिताभावनायां कल्याणाशयः । उपायसंनिश्रिता भावना त्र्याकारा । निर्विकल्पेन ज्ञानेन त्रिमण्डलपरिशुद्धिप्रत्यवेक्षणतामुपादाय । तथा हि स उपायः सर्वमनसिकाराणामभिनिष्पत्तये । विभुत्वसंनिश्रिता पारमिताभावना त्र्याकारा । कायविभुत्वतः । चर्याविभुत्वतः । देशनाविभुत्वतश्च । तत्र कायविभुत्वं तथागते द्वौ कायौ द्रष्टव्यौ स्वाभाविकः सांभोगिकश्च । तत्र चर्याविभुत्वं नैर्माणिकः कायो द्रष्टव्यः । येन सर्वाकारां सर्वसत्त्वानां सहधार्मिकचर्यां दर्शयति । देशनाविभुत्वं षट्पारमितासर्वाकारदेशनायामव्याघातः । प्रभेदसंग्रहे द्वादशश्लोकाः । दानादीनां प्रत्येकं षडर्थप्रभेदतः । (१०२) षडर्थाः स्वभावहेतुफलकर्मयोगवृत्त्यर्थाः । तत्र दानप्रभेदे द्वौ श्लोकौ । प्रतिपादनमर्थस्य चेतना मूलनिश्चिता । भोगात्मभावसंपत्ती द्वयानुग्रहपूरकम् ॥ १६.१७ ॥ अमात्सर्ययुतं तच्च दृष्टधर्मामिषाभये । दानमेव[वं] परिज्ञाय पण्डितः समुदानयेत् ॥ १६.१८ ॥ अर्थप्रतिपादनं प्रतिग्राहकेषु दानस्य स्वभावः । अलोभादिसहजा चेतना हेतुः । भोगसंपत्तिरात्मभावसंपत्तिश्चायुरादिसंगृहीता फलं पञ्चस्थानसूत्रवत् । स्वपरानुग्रहो महाबोधिसंभारपरिपूरिश्च कर्म । अमात्सर्ययोगो अमत्सरिषु वर्तते । दृष्टधर्मामिषाभयप्रदानप्रभेदेन चेति वृत्तिः । शीलप्रभेदे द्वौ श्लोकौ । षडङ्ग[ङ्गं]शमभावान्तं सुगतिस्थितिदायकम् । प्रतिष्ठाशान्तनिर्भीतं पुण्यसंभारसंयुतम् ॥ १६.१९ ॥ संकेतधर्मतालब्धं संवरस्थेषु विद्यते । शीलमेवं परिज्ञाय पण्डितः समुदानयेत् ॥ १६.२० ॥ षडङ्गमिति स्वभावः । षडङ्गीति शीलवान् विहरति यावत्समादाय शिक्षते शिक्षापदेष्विति । शमभावान्तमिति हेतुः । निर्वाणाभिप्रायेण समादानात् । सुगतिस्थितिदायकमिति फलम् । शीलेन सुगतिगमनात् । अविप्रतिसारादिक्रमेण चित्तस्थितिलाभाच्च । प्रतिष्ठाशान्तनिर्भीतमिति कर्म । शीलं हि सर्वगुणानां प्रतिष्ठा भवति । क्लेशपरिदाहशान्त्या च शान्तम् । प्राणातिपातादिप्रत्ययानां च भयावद्यवैराणामप्रसवान्निर्भीतम् । पुण्यसंभारसंयुतमिति योगः सर्वकालं कायवाङ्मनस्कर्मसमाव[च]रणात् । संकेतधर्मतालब्धं संवरस्थेषु विद्यत इति वृत्तिस्तत्र संकेतलब्धं प्रातिमोक्षसंवरसंगृहीतम् । धर्मताप्रतिलब्धं ध्यानानास्रवसंवरसंगृहीतमेषास्य प्रभेदवृत्तिः त्रिविधेन प्रभेदेन वर्तनात् । संवरस्थेषु विद्यत इत्याचा[धा]रवृत्तिः । क्षान्तिप्रभेदे द्वौ श्लोकौ । मर्षाधिवासनज्ञानं कारुण्याद्धर्मसंश्रयात् । पञ्चानुशंसमाख्यातं द्वयोरर्थकरं च तत् ॥ १६.२१ ॥ तपः प्राबल्यसंयुक्तं तेषु तत्त्रिविधं मतम् । क्षान्तिमेवं परिज्ञाय पण्डितः समुदानयेत् ॥ १६.२२ ॥ (१०३) मर्षाधिवासज्ञानमिति त्रिविधायाः क्षान्तेः स्वभावः । अपकारमर्षणक्षान्तेर्मर्षणं मर्ष इति कृत्वा । दुःखाधिवासक्षान्तेर्धर्मनिध्यानक्षान्तेश्च यथाक्रमम् । कारूण्याद्धर्मसंश्रयादिति हेतुः । धर्मसंश्रयः पुनः । शीलसमादानं श्रुतपर्यवाप्तिश्च । पञ्चानुशंसमाख्यातमिति फलम् । यथोक्तं सूत्रे । पञ्चानुशंसाः क्षान्तौ । न वैरबहुलो भवति । न भेदबहुलो भवति । सुखसौमनस्यबहुलो भवति । अविप्रतिसारी कालं करोति । कायस्य च भेदात्सुगतौ स्वर्गलोके देवेषूपपद्यते इति । द्वयोरर्थकरं च तदिति मर्षाधिवासनमित्यधिकृतमिदं कर्म । यथोक्तम् । द्वयोरर्थं स कुरूते आत्मनश्च परस्य च । यः परं कुपितं ज्ञात्वा स्वयं तत्रोपशाम्यति ॥ इति ॥ तपः प्राबल्यसंयुक्तमिति योगः । यथोक्तम् । क्षान्तिः परमं तप इति । तेषु तदित्याधारवृत्तिः क्षमिषु तद्वृत्तेः । त्रिविधं मतमिति प्रभेदवृत्तिस्त्रिविधक्षान्तिप्रभेदेन यथोक्तं प्राक् । वीर्यप्रभेदे द्वौ श्लोकौ । उत्साहः कुशले सम्यक्श्रद्धाच्छन्दप्रतिष्ठितः । स्मृत्यादिगुणवृद्धौ च संक्लेशप्रातिपक्षिकः ॥ १६.२३ ॥ अलोभादिगुणोपेतस्तेषु सप्तविधश्च सः । वीर्यमेवं परिज्ञाय पण्डितः समुदानयेत ॥ १६.२४ ॥ उत्साहः कुशले सम्यगिति स्वभावः । कुशल इति तदन्यकृत्योत्साहव्युदासाथ[र्थं] सम्यगित्यन्यतीर्थिकमोक्षार्थोत्साहव्युदासार्थम् । श्रद्धाच्छन्दप्रतिष्ठित इति हेतुः श्रद्दधानो ह्यतीव[ह्यर्थिको] वीर्यमारभति । स्मृत्यादिगुणवृद्धाविति फलम् । आरब्धवीर्यस्य स्मृतिसमाध्यादिगुणोद्भवात् । संक्लेशप्रातिपक्षिक इति कर्म । यथोक्तम् । आरब्धवीर्यस्तु सुखं विहरत्यव्यवकीर्णः पापकैरकुशलैर्धर्मैरिति । अलोभादिगुणोपेत इति योगः । तेष्वित्यारब्धवीर्येषु इयमाधारवृत्तिः । सप्तविध इति प्रभेदवृत्तिः । स पुनरधिशीलादि शिक्षात्रये कायिकं चेतसिकं च सातत्येन सत्कृत्य च यद्वीर्यम् । ध्यानप्रभेदे द्वौ श्लोकौ । स्थितिश्चेतस अध्यात्मं स्मृतिवीर्यप्रतिष्ठितम् । सुखोपपत्तयेऽभिज्ञाविहारवशवर्तकम् ॥ १६.२५ ॥ (१०४) धर्माणां प्रमुखं तेषु विद्यते त्रिविधश्च सः । ध्यानमेवं परिज्ञाय पण्डितः समुदानयेत् ॥ १६.२६ ॥ स्थितिश्चेतस अध्यात्ममिति स्वभावः । स्मृतिवीर्यप्रतिष्ठितमिति हेतुः । आलम्बनासंप्रमोषे सति वीर्यं निश्रित्य समापत्त्यभिनिर्हारात् । सुखोपपत्तये इति फलं ध्यानस्याव्याबाधोपपत्तिफलत्वात् । अभिज्ञाविहारवशवर्तकमिति कर्म । ध्यानेनाभिज्ञावशवर्तनात् । आर्यदिव्यब्राह्मविहारवशवर्तनाच्च । धर्माणां प्रमुखमिति प्रामुख्येन योगः । यथोक्तम् । समाधिप्रमुखाः सर्वधर्मा इति । तेषु विद्यत इति ध्यायिष्वियमाधारवृत्तिः । त्रिविश्च स इति सवितर्कः सविचारः अवितर्को विचारमात्रः । अवितर्को अविचारः । पुनः प्रीतिसहगतः । सातसहगतः । उपेक्षासहगतश्च । इयं प्रभेदवृत्तिः । प्रज्ञाप्रभेदे द्वौ श्लोकौ । सम्यक्प्रविचयो ज्ञेयः श[स]माधानप्रतिष्ठितः । सुविमोक्षाय संक्लेशात्प्रज्ञाजीवसुदेशनः ॥ १६.२७ ॥ धर्माणामुत्तरस्तेषु विद्यते त्रिविधश्च सः । प्रज्ञामेवं परिज्ञाय पण्डितः समुदानयेत् ॥ १६.२८ ॥ सम्यक्प्रविचयो ज्ञेय इति स्वभावः । सम्यगिति न मिथ्या ज्ञेय इति लौकिककृत्यसम्यक्प्रविचयव्युदासार्थम् । समाधानप्रतिष्ठित इति हेतुः । समाहितचित्तो यथाभूतं प्रजानाति । यस्मात्सुविमोक्षाय संक्लेशादिति फलम् । तेन हि संक्लेशात्सु विमोक्षो भवति । लौकिकहीनलोकोत्तरमहालोकोत्तरेण प्रविचयेन । प्रज्ञाजीवसुदेशन इति प्रज्ञाजीवः सुदेशना चास्य कर्म । तेन ह्यनुत्तर[रः] प्रज्ञाजीवकानां जीवति । सम्यग्धर्मं देशयतीति । धर्माणामुत्तर इत्युत्तरत्वेन योगः । यथोक्तम् । प्रज्ञोत्तराः सर्वधर्मा इति । तेषु विद्यते त्रिविधश्च स इति वृत्तिः । प्राज्ञेषु वर्तनात्त्रिविधेन च प्रभेदेन । लौकिको हीनलोकोत्तरो महालोकोत्तरश्च । उक्तः प्रत्येकं दीनादीनां षडर्थप्रभेदेन प्रभेदः । संग्रहविभागे श्लोकः । सर्वे शुक्ला धर्मा विविप्तसमाहितोभया ज्ञेयाः । द्वाभ्यां द्वाभ्यां द्वाभ्यां पारमिताभ्यां परिगृहीताः ॥ १६.२९ ॥ सर्वे शुक्ला धर्मा दानादिधर्माः । तत्र विक्षिप्ता द्वाभ्यां पारमिताभ्यां संगृहीताः प्रथमाभ्यां दानसमादानशीलयोरसमाहितत्वात् । समाहिता द्वाभ्यां पश्चिमाभ्यां ध्यानयथाभूतप्रज्ञयोः (१०५) समाहितत्वात् । उभये द्वाभ्यां क्षान्तिवीर्याभ्याम् । तयोः समाहितासमाहितत्वात् । विपक्षविभागे श्लोकाः षट् । न च सक्तं न च सक्तं न च सक्तं सक्तमेव न च दानम् । न च सक्तं न च सक्तं न च सक्तं बोधिसत्त्वानाम् ॥ १६.३० ॥ सप्तविधा सक्तिर्दानस्य विपक्षः । भोगसक्तिः विलम्बनसक्तिः तन्मात्रसंतुष्टिसक्तिः पक्षपातसक्तिः[?] प्रतिकारसक्तिः विपाकसक्तिः । विपक्षसक्तिस्तु तद्विपक्षलाभानुशयासमुद्धातात् । विक्षेपसक्तिश्च । स पुनर्विक्षेपो द्विविधः । मनसिकारविक्षेपश्च हीनयानस्पृहणात् । विकल्पविक्षेपश्च दायकप्रतिग्राहकदानविकल्पनात् । अतः सप्तविधसक्तिमुक्तत्वात्सप्तकृत्वो दानस्यासक्तत्वमुक्तम् । न च सक्तं न च सक्तं न च सक्तं सक्तमेव न च शीलम् । न च सक्तं न च सक्तं न च सक्तं बोधिसत्त्वानाम् ॥ १६.३१ ॥ न च सक्ता न च सक्ता न च सक्ता सक्तिका न क्षान्तिः । न च सक्ता न च सक्ता न च सक्ता बोधिसत्त्वानाम् ॥ १६.३२ ॥ न च सक्तं न च सक्तं न च सक्तं सक्तमेव च न वीर्यम् । न च सक्तं न च सक्तं न च सक्तं बोधिसत्त्वानाम् ॥ १६.३३ ॥ न च सक्तं न च सक्तं न च सक्तं सक्तमेव न च ध्यानम् । न च सक्तं न च सक्तं न च सक्तं बोधिसत्त्वानाम् ॥ १६.३४ ॥ न च सक्ता न च सक्ता न च सक्ता सक्तिका न च प्रज्ञा । न च सक्ता न च सक्ता न च सक्ता बोधिसत्त्वानाम् ॥ १६.३५ ॥ यथा दानासक्तिरूक्ता एवं शीले यावत्प्रज्ञायां वेदितव्या । अत्र तु विशेषभोगसक्तिपरिवर्तेन दौःशील्याद्यासाक्तिर्वेदितव्या विपक्षसक्तिस्तद्विपक्षानुशया समुद्धातनात् । विकल्पविक्षेपश्च यथायोगं त्रिमण्डलपरिकल्पनात् । गुणविभागे त्रयोविंशतिः श्लोकाः । त्यक्तं बुद्धसुतैः स्वजीवितमपि प्राप्यार्थिनं सर्वदा । कारुण्यात्परतो न च प्रतिकृतिर्नेष्टं फलं प्रार्थितम् । दानेनैव च तेन सर्वजनता बोधित्रये रोपिता । दानं ज्ञानपरिग्रहेण च पुनर्लोकेऽज्ञयं स्थापितम् ॥ १६.३६ ॥ इति सुबोधः पदार्थः । आत्तं बुद्धसुतैर्यमोद्यममयं शीलत्रयं सर्वदा स्वर्गो नाभिमतः समेत्य च पुनः सक्तिर्न तत्राहिता । (१०६) शीलेनैव च तेन सर्वजनता बोधित्रये रोपिता । शीलं ज्ञानपरिग्रहेण च पुनर्लोकेऽक्षयं स्थापितम् ॥ १६.३७ ॥ त्रिविधं शीलम् । संघरशीलम् । कुशलधर्मसंग्राहकशीलम् । सत्त्वार्थक्रियाशीलं च । एकात्मकम्[एषामेकं] यमस्वभावम् । द्वे उद्यमस्वभावे । क्षान्तं बुद्धसुतैः सुदुष्करमथो सर्वापकारं नृणां न स्वर्गार्थमस[श]क्तितो न च भयान्नैवोपकारेक्षणात् । क्षान्त्यानुत्तरया च सर्वतनजा बोधित्रये रोपिता । क्षान्तिर्ज्ञानपरिग्रहेण च पुनर्लोकेऽक्षया स्थापिता ॥ १६.३८ ॥ इति । ज्ञान्त्यानुत्तरया चेति दुःखाधिवासनक्षान्त्या च परापकारमर्षणक्षान्त्या च यथाक्रमम् । वीर्यं बुद्धसुतैः कृतं निरूपमं संनाहयोगात्मकं हन्तुं क्लेशगणं स्वतोऽपि परत प्राप्तं च बोधिं पराम् । वीर्येणैव च तेन सर्वजनता बोधित्रये रोपिता । वीर्यं ज्ञानपरिग्रहेण च पुनर्लोकेऽक्षयं स्थापितम् ॥ १६.३९ ॥ इति । संनाहवीर्यं प्रयोगवीर्यं च । ध्यानं बुद्धसुतैः समाधिबहुलं संपादितं सर्वथा श्रेष्ठैर्ध्यानसुखैर्विहृत्य कृपया हीनापपत्तिः श्रिता । ध्यानेनैव च तेन सर्वजनता बोधित्रये रोपिता । ध्यानं ज्ञानपरिग्रहेण च पुनर्लोकेऽक्षयं स्थापितम् ॥ १६.४० ॥ इति । समाधिबहुलमिति अनन्तबोधिसत्त्वसमाधिसंगृहीतम् । ज्ञातं बुद्धसुतैः सतत्त्वमखिलं ज्ञेयं च यत्सर्वथा सक्तिर्नैव च निर्वृत्तौ प्रजनिता बुद्धैः[द्धेः] कुतः संवृत्तौ । ज्ञानेनैव च तेन सर्वजनता बोधित्रये रोपिता । ज्ञानं सत्त्वपरिग्रहेण पुनर्लोकेऽक्षयं स्थापितम् ॥ १६.४१ ॥ इति । सतत्त्वं पर्मार्थसंगृहीतं सामान्यलक्षणं पुद्गलधर्म नैरात्म्यम् । ज्ञेयं च यत्सर्वथेत्यनन्तस्वसंकेतादिलक्षणभेदभिन्नं यदज्ञे[यज्ज्ञे] (यदपरंज्ञेयं) । दानादीनां निर्विकल्पज्ञानपरिग्रहेणाक्षयत्वं निरुपधिशेषनिर्वाणेऽपि तदक्षयात् । ज्ञानस्य पुनः सत्त्वपरिग्रहेण करुणया सत्त्वानामपरित्यागात् । एषां पुनः षणां श्लोकानां पिण्डार्थः सप्तमेन श्लोकेन निर्दिष्टः । (१०७) औदार्यानामिषत्वं च महार्थाक्षयतापि च । दानादीनां समस्तं हि ज्ञेयं गुणचतुष्टयम् ॥ १६.४२ ॥ इति । तत्रदानादीनां प्रथमेन पादेनोदारता परिदीपिता । द्वितीयेन निरामिपता । तृतीयेन महार्थता महतः सत्त्वार्थस्य संपादनात् । चतुर्थेनाक्षयता इत्येषां गुणचतुष्टयमेभिः श्लोकैर्वेदितव्यम् । दर्शनपूरणतुष्टिं याचनकेऽतुष्टिमपि समाशास्तिम् । अभिभवति स तां दाता कृपालुराधिक्ययोगेन ॥ १६.४३ ॥ याचनके हि जने दायकदर्शनात्ततश्च यथेप्सितं लब्ध्वा मनोरथपरिपूरणाद्या तुष्टिरूत्पद्यते । अतुष्टिश्चादर्शनादपरिपूरणाच्च । आशास्तिश्च या तद्दर्शने मनोरथपरिपूरणे च । सा बोधिसत्त्वस्याधिकोत्पद्यते सर्वकालं याचनकदर्शनात्तन्मनोरथपरिपूरणाच्च । अदर्शनादपरिपूरणाच्चातुष्टिः । अतो दाता कृपालुस्तां सर्वमभिभवत्याधिक्ययोगात् । प्राणान्भोगान्दारान्सत्त्वेषु सदान्य[त्य]जनकृपालुत्वात् । आमोदते निकामं तद्विरतिं पालयेन्न कथम् ॥ १६.४४ ॥ तेभ्यो विरतिं तद्विरतिं परकीयेभ्यः प्राणभोगदारेभ्यः । एतेन त्रिविधात्कायदुश्चरिताद्विरतिशीलगुणं दर्शयति । निरपेक्षः समचित्तो निर्भीः सर्वप्रदः कृपाहेतोः । मिथ्यावादं ब्रूयात्परोपघाताय कथमार्यः ॥ १६.४५ ॥ एतेन मृषावादाद्विरतिगुणं दर्शयति । आत्महेतोर्मृषावाद उच्येत कायजीवितापेक्षया । परहेतोर्वा प्रियजनप्रेम्ना । भयेन वा राजादिभयात् । आमिषकिंचित्कहेतोर्वा लाभार्थम् । बोधिसत्त्वश्च स्वकायजीवितनिरपेक्षः । समचित्तश्च सर्वसत्त्वेष्वात्मसमचित्ततया । निर्भयश्च पञ्चभयसमतिक्रान्तत्वात् । सर्वप्रदश्चार्थिभ्यः सर्वसत्त्वपरित्यागात् । स केन हेतुना मृषावादं ब्रूयात् । संमहितकामः सकृपः परदुःखोत्पादनेऽतिभीरुश्च । सत्त्वविनये सुयुक्तः सुविदूरे त्रिविधवाग्दोषात् ॥ १६.४६ ॥ बोधिसत्त्वः सर्वसत्त्वेषु समं हितकामः स कथं परेषां मित्रभेदार्थं पैशुन्यं करिष्यतीति । सुकृपश्च परदुःखापनयाभिप्रायात् । परदुःखोत्पादने चात्यर्थं भीरूः स (१०८) कथं परेषां दुःखोत्पादनार्थं परूषं वक्ष्यति । सत्त्वानां विनये सम्यक्प्रयुक्तः स कथं संभिन्नप्रलापं करिष्यति तस्मादसौ सूविदूरे त्रिविधवाग्दोषात्पैशुन्यात्पारूष्यात्संभिन्नप्रलापाच्च । सर्वप्रदः कृपालुः प्रतीत्यधर्मोदये सुकुशलश्च । अधिवासयेत्कथमसौ सर्वाकारं मनः क्लेशम् ॥ १६.४७ ॥ अभिध्या व्यापादो मिथ्यादृष्टिर्वा यथाक्रमम् । एष दौःशील्यप्रतिपक्षधर्मविशेषयोगाच्छीलविशुद्धिगू[गु?]णो बोधिसत्त्वानां वेदितव्यः । उपकरसंज्ञामोदं ह्यपकारिणिपरहित संज्ञां[परहिते सदा] दुःखे । लभते यदा कृपालुः क्षमितव्यं ... [किं कुतस्तस्य] ॥ १६.४८ ॥ [अपकारिणि हि क्षमितव्यं भवति । तत्र च बोधिसत्त्व अपकारिसज्ञां लभते क्षान्तिसंभारनिमित्तत्वात्दुःखञ्च क्षमितव्यं भवति । तत्र च परहितहेतुभूते दुःखे बोधिसत्त्वः सदा मोदं लभते तस्य कुतः किं क्षमितव्यं] । यस्य नापकारिसंज्ञा प्रवर्तते न दुःखसंज्ञा । परपरसंज्ञापगमात्स्वतोऽधिकतरात्सदा परस्नेहात् । दुष्करचरणात्सकृपे ह्यदुष्करं वीर्यम् ॥ १६.४९ ॥ सकृपो बोधिसत्त्वः । तत्र सकृपे यत्परार्थं दुष्करचरणाद्वीर्यं तद्दुष्करं च सुदुष्करं च कथमदुष्करम् । परत्र परसंज्ञापगमात् । स्वतोऽधिकतराच्च सर्वदा परेषु स्नेहात् । कथं सुदुष्करम् । यदेवं परसंज्ञापगतं च स्वतोधिकतरस्नेहं च तद्वीर्यम् । अल्पसुखं ह्यात्मसुखं लीनं परिहाणिकं क्षयि समोहम् । ध्यानं मतं त्रयाणां विपर्ययाद्बोधिसत्त्वानाम् ॥ १६.५० ॥ अल्पसुखं ध्यानं लौकिकानामात्मसुखं श्रावकप्रत्येकबुद्धानाम् । लीनं लौकिकानां सत्काये श्रावकप्रत्येकबुद्धानां च निर्वाणे । परिहाणिकं लौकिकानां क्षयि श्रावकप्रत्येकबुद्धानां निरूपधिशेषनिर्वाणे तत्क्षयात् । समोहं सर्वेषां यथायोगक्लिष्टाक्लिष्टेन मोहेन । बोधिसत्त्वानां पुनर्ध्यान बहुसुखमात्मपरसुखमलीनमपरिहाणिकमक्षय्यसमोहं च । आमोषैस्तमसि यथा दीपैर्नुन्नं[श्छन्ने] तथा त्रयज्ञानम् । दिनकरकिरणौरिव तु ज्ञानमतुल्यं कृपालुनाम् ॥ १६.५१ ॥ (१०९) यथा हस्तामोषैस्तमसि ज्ञानं परीत्तविषयमप्रत्यक्षमव्यक्तं च तथा पृथग्जनानाम् । यथावचरके[गहवरके] दीपैर्ज्ञानं प्रादेशिकं प्रत्यक्षं नातिनिर्मलं तथा श्रावकाणां प्रत्येकबुद्धानां च । यथा दिनकरकिरणैर्ज्ञानं समन्तात्प्रत्यक्षं सुनिर्मलं च तथा बोधिसत्त्वानाम् । अत एव तदतुल्यम् । आश्रयाद्वस्तुतो दानं निमित्तात्परिणामनात् । हेतुतो ज्ञानतः क्षेत्रान्निश्रयाच्च परं मतम् ॥ १६.५२ ॥ तत्राश्रयो बोधिसत्त्वः । वस्तु आमिषदानस्याध्यात्मिकं वस्तु परमम् । अभयदानस्थापायसंसारभीतेभ्यस्तु तदभयम् । धर्मदानस्य महायानम् । निमित्तं करुणा । परिणामना तेन महाबोधिफलप्रार्थना । हेतुः पूर्वदानपारमिताभ्यासवासना । ज्ञानं निर्विकल्पं येन त्रिमण्डलपरिशुद्धं दानं ददाति दातृदेयप्रतिग्राहक्राविकल्पनात् । क्षेत्रं पञ्चविधम् । अर्थी दुःखितो निःप्रतिसरणो दुश्चरितचारी गुणवांश्च । चतुर्णामुत्तरं क्षेत्रं परम् । तदभावे पञ्चमम् । निश्रयस्त्रिविधो यं निश्रित्य ददाति । अधिमुक्तिर्मनसिकारः समाधिश्च । अधिमुक्तिर्यथा भावनाविभागेऽधिमुक्तिमनस्कार उक्तः । मनस्कारो यथा तत्रैवास्वादनाभिनन्दन[नौमोदनाभि] मनस्कार उक्तः । समाधिर्गगनगञ्जादिर्यथा तत्रैव विभुत्वमुक्तम् । एवमाश्रयादिपरसमयो दानं परमम् । सोऽयं चापदेशो वेदितव्यः । यश्च ददाति यच्च येन च यस्मै च यतश्च यस्य च परिग्रहेण यत्र च यावत्प्रकारं तद्दानम् । आश्रयाद्वस्तुतः शीलं निमित्तात्परिणामनात् । हेतुतो ज्ञानतः क्षेत्रान्निश्रयाच्च परं मतम् ॥ १६.५३ ॥ [आश्रयाद्वस्तुतः क्षान्तिनिमित्तात्परिणामनात् । हेतुतो ज्ञानतः क्षेत्रान्निश्रयाच्च परा मता ॥ आश्रयाद्वस्तुतो वीर्यं निमित्तात्परिणामनात् । हेतुतो ज्ञानतः क्षेत्रान्निश्रयाच्च परं मतम् ॥ १६.५४ ॥ आश्रयाद्वस्तुतो ध्यानं निमित्तात्परिणामनात् । हेतुतो ज्ञानतः क्षेत्रानिश्रयाच्च परं मतम् ॥ १६.५५ ॥ आश्रयाद्वस्तुतः प्रज्ञा निमित्तात्परिणामनात् । हेतुतो ज्ञानतः क्षेत्रान्निश्रयाच्च परा मता ॥ १६.५६ ॥ (११०) शीलस्य परमं वस्तु बोधिसत्त्वसंवरः । क्षान्तेः प्राणापहारिणौ हीनदुर्बलौ । वीर्यस्य पारमिताभावना तद्विपक्षप्रहाणं च । ध्यानस्य बोधिसत्त्वसमाधयः । प्रज्ञायास्तथता । सर्वेषां शीलादीनां क्षेत्रं महायानम् । शेषं पूर्वबद्धेदितव्यम् । एकसत्त्वसुखं दानं बहुकल्पविघातकृत । प्रियं स्यद्बोधिसत्त्वानां प्रागेव तद्विपर्ययात् ॥ १६.५७ ॥ यदि बोधिसत्त्वानां दानमेकस्यैव सत्त्वस्य सुखदं स्यादात्मनश्च बहुकल्पविघातकृत । तथापि तत्तेषां प्रियं स्यात्करुणाविशेषात्किं पुनर्यदनेकसत्त्वसुखं च भवत्यात्मनश्च बहुकल्पानुग्रहकृत् । यदर्थमिच्छन्ति धनानि देहिनस्तदेव धीरा विसृजन्ति देहिषु । शरीरहेतोर्धनमिष्यते जनैस्तदेव धीरः शतशो विसृज्यते ॥ १६.५८ ॥ अत्र पूर्वार्धमुत्तरार्धे व्याख्यातम् । शरीरमेवोत्सृजतो न दुःख्यते यदा मनः का द्रविणेऽवरे कथा । तदस्य लोकोत्तरमिति यन्मुदं स तेन तत्तस्य तदुत्तरं पुनः ॥ १६.५९ ॥ अत्र शरीरमेवोत्सृजतो यदा मनो न दुःख्यते तदस्य लोकोत्तरमिति संदर्शितम् । एति यन्मुदं स तेन दुःखेन तत्तस्य तदुत्तरमिति तस्माल्लोकोत्तरादुत्तरम् । प्रतिग्रहैरिष्टनिकामलब्धैर्न तुष्टिमायाति तथार्थिकोऽपि । सर्वास्तिदानेन यथेह धीमान् तुष्टिं व्रजत्यर्थिजनस्य तुष्ट्या ॥ १६.६० ॥ इष्टनिकामलब्धैरित्यभिप्रेतपर्याप्तलब्धैः । सर्वास्तिदानेनेति यावत्स्वजीवितदानेन । संपूर्णभोगो न तथास्तिमन्तमात्मानमन्वीक्षति याचकोऽपि । सर्वास्तिदानादधनोऽपि धीमानात्मानमन्वेति यथास्तिमन्तम् ॥ १६.६१ ॥ सुविपुलमपि वित्तं प्राप्य नैवोपकारं विगणयति तथार्थी दायकाल्लाभहेतोः । विधिवदिह सुदानैरर्थिनस्तर्पयित्वा महदुपकरसंज्ञा तेषु धीमान्यथैति ॥ १६.६२ ॥ करुणाविशेषाद् । गतार्थौ श्लोकौ । स्वयमपगतशोका देहिनः स्वस्थरूपा विपुलमपि गृहीत्वा भुञ्जते यस्य वित्तम् । पथि परमफलाढ्याद्भोगवृक्षाद्यथैव प्रविसृतिरतिभोगी बोधिसत्त्वान्न सोऽन्यः ॥ १६.६३ ॥ (१११) प्रविसृतिरतिभोगश्चास्येति प्रविसृतिरतिभोगी स च नान्यो बोधिसत्त्वाद्वेदितव्यः । शेषं गतार्थम् । प्राधान्यतत्कारणकर्मभेदात्प्रकारभेदाश्रयभेदतश्च । चतुर्विबन्धप्रतिपक्षभेदात्वीर्यं परिज्ञेयमिति प्रदिष्टम् ॥ १६.६४ ॥ षड्विधेन प्रभेदेन वीर्यं परिज्ञेयम् । प्राधान्यभेदेन । तत्कारणभेदेन । [कर्मभेदेन] प्रकारभेदेन । आश्रयभेदेन । चतुर्विबन्धप्रतिपक्षभेदेन च । अस्योद्देशस्योत्तरैः । श्लोकैर्निर्देशः । वीर्यं परं शुक्लगणस्य मध्ये तन्निश्रितस्तस्य यतोऽनुलाभः । वीर्येण सद्यः सुसुखो विहारो लोकोत्तरा लोकगता च सिद्धिः ॥ १६.६५ ॥ वीर्यं परं शुक्लगणस्य मध्ये इति सर्वकुशलधर्मप्राधान्यं वीर्यस्य निर्दिष्टम् । तन्निश्रितस्तस्य यतोऽनुलाभ इति प्राधान्यकारणं निर्दिष्टम् । यस्माद्वीर्याश्रितः सर्वकुशलधर्मलाभः । वीर्येण सद्यः सुसुखो विहारो लोकोत्तरा लोकगता च सिद्धिरिति कर्म निर्दिष्टं वीर्येण हि दृष्टधर्मे परमः सुखविहारः । सर्वा च लोकोत्तरा सिद्धिर्लौकिकी च क्रियते । वीर्यादवाप्तं भवभोगमिष्टं वीर्येण शुद्धिं प्रबलामुपेताः । वीर्येण सत्कायमतीत्य मुक्ता वीर्येण बोधिं परमां विबुद्धाः ॥ १६.६६ ॥ इति । पर्यायद्वारेण [पर्यायान्तरेण] वीर्यस्य कर्म निर्दिष्टम् । लौकिकलोकोत्तरसिद्धिभेदात् । तत्र प्रबला लौकिकी सिद्धिरनात्यन्तिकत्वात् । पुनर्मतं हानिविवृद्धिवीर्यं मोक्षाधिपं पक्षविपक्षमन्यत् । तत्त्वे प्रविष्टं परिवर्तकं च वीर्यं महार्थं च निरुक्तमन्यत ॥ १६.६७ ॥ संनाहवीर्यं प्रथमं ततश्च प्रयोगवीर्यं विधिवत्प्रहितम् । अलीनमक्षोभ्यमतुष्टिवीर्यं सर्वप्रकारं प्रवदन्ति बुद्धाः ॥ १६.६८ ॥ इत्येष प्रकारभेदः । तत्र हानिविवृद्धिवीर्यं सम्यक्प्रहाणेषु [द्वयोरकुशलधर्महानयेअपि?] च द्वयोः कुशलधर्माभिवृद्धये । मोक्षाधिपं वीर्यमिन्द्रियेषु । मोक्षाधिपत्त्यार्थेन यस्मादिन्द्रियाणि । पक्षविपक्षं बलेषु विपक्षानवमृद्यार्थेन यस्माद्बलानि । तत्त्वे प्रविष्टं बोध्यङ्गेषु दर्शनमार्गे तद्व्य१ थापनात् । परिवर्त्तकं मार्गाङ्गेषु भावनामार्गेऽन्तस्या[तस्या]श्रयपरिवृत्तिहेतुत्वात् । (११२) महार्थं वीर्यं पारमितास्वभावं स्वपरार्थाधिकारात् । संनाहवीर्यं प्रयोगाय संनह्यतः । प्रयोगवीर्यं तथा प्रयोगतः । अलीनवीर्यमुदारेऽप्यधिगन्तव्ये लयाभावतः । अक्षोभ्यवीर्यं शीतलोष्णादिभिर्दुःखैरविकोपनतः । असंतुष्टिवीर्यमल्पेनाधिगमेनासंतुष्टितः । एभिरेव संनाहवीर्यादिभिः सूत्रे । स्थामवान् वीर्यवानुत्साही दृढपराक्रमो अनिक्षिप्तधुरः कुशलेषु धर्मेष्वित्युच्यते यथाक्रमम् । निकृष्टमध्योत्तमवीर्यमन्यत्यानत्रये युक्तजनाश्रयेण । लीनात्युदाराशयबुद्धियोगात्वीर्यं तदल्पार्थमहार्थमिष्टम् ॥ १६.६९ ॥ अत्राश्रयप्रभेदेन वीर्यभेदो निर्दिष्टः । यानत्रये प्रयुक्तो यो जनस्तदाश्रयेण यथाक्रमं निकृष्टमध्योत्तमं वीर्यं वेदितव्यम् । किं कारणम् । लीनात्युदाराशयबुद्धियोगात् । लीनो हि बुद्ध्याशयो यानद्वये प्रयुक्तानां केवलात्मार्थाधिकारात् । अत्युदारो महायाने प्रयुक्तानां परार्थाधिकारात् । अत एव यथाक्रमं वीर्यं तदल्पार्थं महार्थमिव[ष्टम्] स्वार्थाधिकाराच्च [स्वपरार्थाधिकरणत्वाच्च ।] न वीर्यवान्भोगपराजितोऽस्ति नो वीर्यवान् क्लेशपराजितोऽस्ति । न वीर्यवान् खेदपराजितोऽस्ति नो वीर्यवान् प्राप्तिपराजितोऽस्ति ॥ १६.७० ॥ इत्ययं चतुर्विबन्धप्रतिपक्षभेदः । चतुर्विधो दानादीनां विबन्धो येन दानादिषु न प्रवर्तते । भोगसक्तिस्तदाग्रहतः । क्लेशसक्तिस्तत्परिभोगाध्यवसानतः । खेदो दानादिषु प्रयोगाभियोगपरिखेदतः । प्राप्तिरल्पमात्रदानादिसंतुष्टितः । तत्प्रतिपक्षभेदे नैतच्चतुर्विधं वीर्यमुक्तम् । अन्योन्यविनिश्चयविभागे श्लोकः । अन्योन्यं संग्रहतः प्रभेदतो धर्मतो निमित्ताच्च । षणां पारमितानां विनिश्चयः सर्वथा ज्ञेयः ॥ १६.७१ ॥ अन्योन्यसंग्रहतो विनिश्चयः । अभयप्रदानेन शीलक्षान्तिसंग्रहो यस्मात्ताभ्यामभयं ददाति । धर्मदानेन ध्यानप्रज्ञयोर्यस्मात्ताभ्यां धर्मं ददाति । उभाभ्यां वीर्यस्य यस्मात्तेनोभयं ददाति । कुशलधर्मसंग्राहकेण शीलेन सर्वेषां दानादीनां संग्रहः । एवं क्षान्त्यादिभिरन्योन्यसंग्रहो यथायोगं योज्यः । प्रभेदतो विनिश्चयः । दानं षड्विधं दानदानं शीलदानं यावत्प्रज्ञादानम् । परसंतानेषु शीलादिनिवेशनात् । धर्मतो विनिश्चयः । (११३) ये सूत्रादयो येषु दानादिष्वर्थेषु संदृश्यन्ते । ये च दानादयो येषु सूत्रादिषु धर्मेषु संदृश्यन्ते । तेषां परस्परं संग्रहो वेदितव्यः । निमित्ततो विनिश्चयः । दानं शीलादीनां निमित्तं भवति । भोगनिरपेक्षस्य शीलादिषु प्रवृत्तेः । शीलमपि दानादीनाम् । भिक्षुसंवरसमादानं सर्वस्वपरिग्रहत्यागाच्छीलप्रतिष्ठितस्य च क्षान्त्यादियोगात् । कुशलधर्मसंग्राहकशीलसमादानं च सर्वेषां दानादीनां निमित्तम् । एवं क्षान्त्यादीनामन्योन्यनिमित्तभावो यथा योज्यः [योगं] संग्रहवस्तुविभागे सप्त श्लोकाः । चत्वारि संग्रहवस्तूनि । दानं प्रियवादिता अर्थचर्या समानार्थता । तत्र । दानं समं प्रियाख्यानमर्थचर्या समार्थता । तद्देशना समादाय स्वानुवृत्तिभिरिष्यते ॥ १६.७२ ॥ दानं सममिष्यते यथा पारमितासु प्रियाख्यानं तद्देशना । अर्थचर्या तत्समादापना तच्छब्देन पारमितानां ग्रहणात्पारमितादेशना पारमितासमादापनेत्यर्थः । समानार्थता यत्र परं समादापयति तत्र स्वयमनुवृत्तिः । किमर्थं पुनरेतानि चत्वारि संग्रहवस्तूनीष्यन्ते । एष हि परेषाम् । उपायोऽनुग्रहकरो ग्राहकोऽथ प्रवर्तकः । तथानुवर्तको ज्ञेयश्चतुःसंग्रहवस्तुतः ॥ १६.७३ ॥ दानमनुग्राहक उपायः । आमिषदानेन कायिकानुग्रहोत्पादनात्प्रियवादिता ग्राहकः । अव्युत्पन्नसंदिग्धार्थग्राहणात् । अर्थचर्या प्रवर्तकः । कुशले प्रवर्तनात् । समानार्थतानुवर्तकः । यथावादितथाकारिणं हि समादापकं विदित्वा यत्र कुशले तेन प्रवर्तिताः परे भवन्ति तदनुवर्तन्ते । आद्येन भाजनीभावो द्वितीयेनाधिमुच्यना । प्रतिपत्तिस्तृतीयेन चतुर्थेन विशोधना ॥ १६.७४ ॥ आमिषदानेन भाजनीभवति धर्मस्य विधेयतापत्तेः । प्रियवादितया तं धर्ममधिमुच्यते तदर्थव्युत्पादनसंशयच्छेदनतः । अर्थचर्यया प्रतिपद्यते यथाधर्मम् । समानार्थतया तां प्रतिपत्तिं विशोधयति दीर्घकालानुष्ठानाद् । इदं संग्रहवस्तूनां कर्म । चतुः संग्रहवस्तुत्वं संग्रहद्वयतो मतम् । आमिषेणापि धर्मेण धर्मेणालम्बनादपि[दिना] ॥ १६.७५ ॥ (११४) यदप्यन्यत्संग्रहवस्तुद्वयमुक्तं भगवता आमिषसंग्रहो धर्मसंग्रहश्च । ताभ्यामेतान्येव चत्वारि संग्रहवस्तूनि संगृहीतानि । आमिषसंग्रहेण प्रथमे । धर्मसंग्रहेणावशिष्टानि । तानि पुनस्त्रिविधेन धर्मेण । आलम्बनधर्मेण प्रतिपत्तिधर्मेण तद्विशुद्धिधर्मेण च यथाक्रमम् । हीनमध्योत्तमः प्रायो वन्ध्योऽवन्ध्यश्च संग्रहः । अबन्ध्यः सर्वथा चैव ज्ञेयो ह्याकारभेदतः ॥ १६.७६ ॥ एष संग्रहस्य प्रकारभेदः । तत्र हीनमध्योत्तमः संग्रहो बोधिसत्त्वानां यानत्रयप्रयुक्तेषु वेदितव्यो यथाक्रमम् । प्रायेण वन्ध्योऽधिमुक्तिचर्याभूमौ । प्रायेणाबन्ध्यो भूमिप्रविष्टानाम् । अवन्ध्यः सर्वथा अष्टाम्यादिषु भूमिषु सत्त्वार्थस्यावश्यं संपादनात् । पर्षत्कर्षणप्रयुक्तैर्विधिरेष समाश्रितः । सर्वार्थसिद्धौ सर्वेषां सुखोपायश्च शस्यते ॥ १६.७७ ॥ ये केचित्पर्षत्कर्षणे प्रयुक्ताः सर्वैस्तैरयमेवोपायः समाश्रितो यदुत चत्वारि संग्रहवस्तूनि । तथा हि सर्वार्थसिद्धये सर्वेषां सुखश्चैष उपायः प्रशस्यते बुद्धैः । संगृहीता ग्रहीष्यन्ते संगृह्यन्ते च येऽधुना । सर्वे त एवं तस्माच्च वर्त्म तत्सत्त्वपाचने ॥ १६.७८ ॥ एतेन लोकत्रयेऽपि सर्वसत्त्वानां परिपाचने चतुर्णां संग्रहवस्तूनामेकायनमार्गत्वं दर्शयति । अन्यमार्गाभावात् । इति सततमसक्तभोगबुद्धिः शमयमनोद्यमपारगः स्थितात्मा । भवविषयनिमित्तनिर्विकल्पो भवति स सत्त्वगणस्य संगृहीता ॥ १६.७९ ॥ एतेन यथोक्तासु षट्सु पारमितासु स्थितस्य बोधिसत्त्वस्य संग्रहवस्तुप्रयोगं दर्शयति स्वपरार्थसंपादनात्पारमिताभिः संग्रहवस्तुभिश्च यथाक्रमम् । ॥ महायानसूत्रालंकारे पारमिताधिकारः [षोडशः] समाप्तः ॥ (११५) सप्तदशोऽधिकारः । बुद्धपूजाविभागे सप्त श्लोकाः । संमुखं विमुखं पूजा बुद्धानां चीवरादिभिः । गाढप्रसन्नचित्तस्य संभारद्वयपूरये ॥ १७.१ ॥ अबन्ध्यबुद्धजन्मत्वे प्रणिधानवतः सतः । त्रयस्यानुपलम्भस्तु निष्पन्ना बुद्धपूजना ॥ १७.२ ॥ सत्त्वानामप्रमेयानां परिपाकाय चापरा । उपधेश्चित्ततश्चान्या अधिमुक्तेर्निधानतः ॥ १७.३ ॥ अनुकम्पाक्षमाभ्यां च समुदाचारतोऽपरा । वस्त्वाभोगावबोधाच्च विमुक्तेश्च तथात्वतः ॥ १७.४ ॥ इत्येभिश्चतुर्भिः श्लोकैः । आश्रयाद्वस्तुतः पूजा निमित्तात्परिणामनात् । हेतुतो ज्ञानतः क्षेत्रान्निश्रयाच्च प्रदर्शिता ॥ १७.५ ॥ वेदितव्या । तत्राश्रयः समक्षपरोक्षा बुद्धाः । वस्तु चीवरादयः । निमित्तं प्रगाढप्रसादसहगतं चित्तम् । परिणामना पुण्यज्ञानसंभारपरिपूरये । हेतुरबन्ध्यो मे बुद्धोत्पादः स्यादिति पूर्वप्रणिधानम् । ज्ञानं निर्विकल्पं पूजकपूज्यपूजानुपलम्भतः । क्षेत्रमप्रमेयाः सत्त्वाः । तत्परिपाचनाय तैस्तत्प्रयोजता[ना]त्तेषु तद्रोपणतः । निश्रय उपधिश्चित्तं च । तत्रोपधिं निश्रित्य पूजाचीवरादिभिश्चित्तं निश्रित्यास्वादनानुमोदनाभिनन्दनमनस्कारैः । त [य]थोक्तैश्चाधिमुक्त्यादिभिर्यदुत महायानधर्माधिमुक्तितः बोधिचित्तोत्पादतः । प्रणिधानमेव हि निधानमत्रोक्तं श्लोकवत्त्वा[बन्धा]नुरोधात् । सत्त्वानुकम्पनतः । दुष्करचर्या दुःखक्षमणतः पारमितासमुदाचारतः । योनिशो धर्ममनसिकारतः । स ह्यविपर्ययस्तत्त्वाद्वस्त्वाभोगः । सम्यग्दृष्टितो दर्शनमार्गे । स हि यथाभूतावबोधाद्वस्त्ववबोधः । विमुक्तितः क्लेशविमोक्षाच्छ्रावकाणाम् । तथात्वतो महाबोधिप्राप्तेरित्ययं पूजायाः प्रकारभेदः । हेतुतः फलतश्चैव आत्मना च परैरपि । लाभसत्कारतश्चैव प्रतिपत्तेर्द्विधा च सा ॥ १७.६ ॥ (११६) परीत्ता महती पूजा समानामानिका च सा । प्रयोगाद्गतितश्चैव प्रणिधानाच्च सा मता ॥ १७.७ ॥ इत्ययमर्था[ध्वा]दिभेदेनापरः प्रकारभेदः । तत्रातीता हेतुः प्रत्युत्पन्ना फलं प्रत्युत्पन्ना हेतुरनागता फलमित्येवं हेतुफलतोऽतीतानागतप्रत्युत्पन्ना वेदितव्या । आत्मनेत्याध्यात्मिकी परैरिति बाह्या । लाभसत्कारतो औदारिकी । प्रतिपत्तितः सूक्ष्मा । परीत्ता हीना महती प्रणीता । पुनः समाना हीना निर्माना प्रणीता त्रिमण्डलाविकल्पनात् । कालान्तरप्रयोज्या दूरे । तत्कालप्रयोज्यान्तिके । पुनर्विछिन्नायां गतौ दूरे । समनन्तरायामन्तिके । पुनर्यां पूजामायत्यां प्रयोजयितुं प्रणिदधाति सा दूरे यां प्रणिहितः कर्तुं सान्तिके । कतमा पुनर्बुद्धपूजा परमा वेदितव्येत्याह । बुद्धेषु पूजा परमा स्वचित्तात्धर्माधिमुक्त्याशयतो विभुत्वात् । अकल्पनोपायपरिग्रहेण सर्वैककार्यत्वनिवेशतश्च ॥ १७.८ ॥ इत्येभिः पञ्चभिराकारैः स्वचित्तपूजा बुद्धेषु परमा वेदितव्या । यदुत पूजोपसंहितमहायानधर्माधिमुक्तितः । आशयतो नवभिराशयैः । आस्वादनानुमोदनाभिनन्दनाशयैः । अतृप्तविपुलमुदितोपकरनिर्लेपकल्याणाशयैश्च ये पारमिताभावनायां निर्दिष्टाः । विभुत्वतो गगनगञ्जादिसमाधिभिः । निर्विकल्पज्ञानोपायपरिग्रहतः । सर्वमहाबोधिसत्त्वैककार्यत्वप्रवेशतश्च मिश्रोपमिश्रकार्यत्वात् । कल्याणमित्रसेवाविभागे सप्त श्लोकाः । तत्रार्धपञ्चमैः श्लोकैः । आश्रयाद्वस्तुतः सेवा निमित्तात्परिणामनात् । हेतुतो ज्ञानतः क्षेत्रान्निश्रयाच्च प्रदर्शिता ॥ १७.९ ॥ मित्रं श्रयेद्दान्तशमोपशान्तं गुणाधिकं सोद्यममागमाढ्यम् । प्रबुद्धतत्वं वचसाभ्युपेतं कृपात्मकं खेदविवर्जितं च ॥ १७.१० ॥ इत्येवंगुणमित्रं सेवाया आश्रयः । दान्तं शीलयोगादिन्द्रियदमेन । शान्तं समाधियोगादध्यात्मं चेतः शमथेन । उपशान्तं प्रयोगा[प्रज्ञायोगा] (प्रज्ञात्वा)दुपस्थितक्लेशोपशमनतः । गुणैरधिकं न समं वा न्यूनं वा । सोद्यमं नोदसीनं परार्थे । आगमाढ्यं नाल्पश्रुतम् । प्रबुद्धतत्वं तत्वाधिगमात् । वचसाभ्युपेतं वाक्करणेनोपेतम् । कृपात्मकं निरामिषचित्तत्वात् । खेदविवर्जितं सातत्यसत्कृत्यधर्मदेशनात् । (११७) सत्कारलाभैः परिचर्यया च सेवेत मित्रं प्रतिपत्तितश्च । इति । सेवाया[व]स्तु । धर्मे तथाज्ञाशय एव धीमान्मित्रं प्रगच्छेत्समये नतश्च ॥ १७.११ ॥ इति त्रिविधं निमित्तम् । आज्ञातुकामता । कालज्ञता । निर्मानता च । सत्कारलाभेषु गतस्पृहोऽसौ प्रपत्तये तं परिणामयेच्च । इति परिणामना प्रतिपत्त्यर्थं सेवनान्न लाभसत्कारार्थम् । यथानुशिष्टप्रतिपत्तितश्च संराधयेच्चित्तमतोऽस्य धीरः ॥ १७.१२ ॥ इति । यथानुशिष्टप्रतिपत्तिः सेवाहेतुः । तया तच्चित्ताराधनात् । यानत्रये कौशलमेत्य बुद्ध्या स्वस्यैव यानस्य यतेत सिद्धौ । इति यानत्रयकौशलात्ज्ञानम् । सत्त्वानमेयान्परिपाचनाय क्षेत्रस्य शुद्धस्य च साधनाय ॥ १७.१३ ॥ इति द्विविधं क्षेत्रं तत्सेवायाः । अप्रमेयाश्च सत्त्वाः परिशुद्धं च बुद्धक्षेत्रम् । धर्मं श्रुत्वा येषु प्रतिष्ठापनात् । यत्र च स्थितेन । धर्मेषु दायादगुणेन युक्तो नैवामिषेण प्रवसेत्स मित्रम् । इति निश्रयः सेवायाः । धर्मदायादतां निश्रित्य कल्याणमित्रं सेवेत । नामिषदायादताम् । अत ऊर्ध्वमध्यर्धेन श्लोकेन प्रकारभेदः सेवाया वेदितव्यः । हेतोः फलाद्धर्ममुखानुयानात्सेवेत मित्रं बहितश्च धीमान् ॥ १७.१४ ॥ श्रुतश्रवाच्चेतसि योगतश्च समाननिर्मानमनोऽनुयोगात् । हेतोः फलादित्यतीतादिभेदतः पूर्ववत्धर्ममुखानुयानात्सेवेत मित्रं बहितश्च धीमानित्याध्यात्मिकबाह्यभेदः । धर्ममुखस्त्रोतो हि धर्ममुखानुयानं बहिर्धा बहितः श्रुतश्रवाच्चेतसि योगतश्चेत्यौदारिकसूक्ष्मभेदः । श्रवणं ह्यौदारिकं चिन्तनभावनं सूक्ष्मंम् । तदेव चेतसि योगः । समाननिर्मानमनोऽनुयोगादिति हीनप्रणीतभेदः । गतिप्रयोगप्रणिधानतश्च कल्याणमित्रं हि भजेत धीमान् ॥ १७.१५ ॥ इति दूरान्तिकभेदः पूर्ववद्योजयितव्यः । कतमा पुनः परमा सेवेति सप्तमः श्लोकः । सन्मित्रसेवा परमा स्वचित्ताद्धर्माधिमुक्त्याशयतो विभुत्वैः । अकल्पनोपायपरिग्रहेण सर्वैककार्यत्वनिवेशतश्च ॥ १७.१६ ॥ (११८) इति पूर्ववत् । अप्रमाणविभागे द्वादशश्लोकाः । ब्राह्म्या विपक्षहीना ज्ञानेन गताश्च निर्विकल्पेन । त्रिविधालम्बनवृत्ताः सत्त्वानां पाचका धीरे ॥ १७.१७ ॥ ब्राह्म्या विहाराश्चत्वार्यप्रमाणानि । मैत्री करुणा मुदितोपेक्षा च । ते पुनर्बोधिसत्त्वे चतुर्लक्षणा वेदितव्याः । विपक्षहानितः । प्रतिपक्षविशेषयोगतः । वृत्तिविशेषतस्त्रिविधालम्बनवृत्तित्वात् । तथा हि ते सत्त्वालम्बना धर्मालम्बनाश्च[धर्मालम्बना अनालम्बनाश्च] । कर्मविशेषतश्च । सत्त्वपरिपाचकत्वात् । सत्त्वधर्मालम्बनात् । पुनः कतमस्मिन् सत्त्वनिकाये धर्मे वा प्रवर्तन्ते । अनालम्बनाश्च कतमस्मिन्नालम्बने । सौख्यार्थिनि दुःखार्ते सुखिते क्लिष्टे च ते प्रवर्तन्ते । तद्देशिते च धर्मे तत्तथतायां च धीराणाम् ॥ १७.१८ ॥ सत्त्वालम्बनाः सुखार्थिनि यावत्क्लिष्टे सत्त्वनिकाये प्रवर्तन्ते । तथा हि मैत्री सत्त्वेषु सुखसंयोगाकारा । करुणा दुःखवियोगाकारा । मुदिता सुखवियोगाकारा । उपेक्षासु वेदनासु तेषां सत्त्वानां निःक्लेशतोपसंहाराकारा । धर्मालम्बनास्तद्देशिते धर्मे । यत्र ते विहारा देशिताः । अनालम्बनास्तत्तथतायाम् । ते ह्यविकल्पत्वादनालम्बना इवेत्यनालम्बनाः । अपि खलु । तस्याश्च तथतार्थत्वात्क्षान्तिलाभाद्विशुद्धितः । कर्मद्वयादनालम्बा मैत्री क्लेशक्षयादपि ॥ १७.१९ ॥ एभिश्चतुर्भिः कारणैरनालम्बना मैत्री वेदितव्या । तथतालम्बनत्वात् । अनुत्पत्तिकधर्मक्षान्तिलाभेनाष्टम्यां भूमौ । धातुपुष्ट्या तद्विशुद्धितः । कर्मद्वयतश्च । या मैत्री निष्पन्देन कायकर्मणा [वाक्कर्मणा?] च? संगृहीता क्लेशक्षयतश्च । तथा हि क्लेश आलम्बनमुक्तम् । मनोमयानां ग्रन्थानां प्रहाणादुच्छिद्यते आलम्बनमिति वचनात् । ते निश्चलाश्च चलाश्च कृपणैरास्वादिता न च ज्ञेयाः । ते च ब्राह्म्या विहाराश्चतुर्विधा वेदितव्याः । तत्र चला हानभागीयाः परिहाणीयत्वात् । अचलाः स्थितिविशेषभागीया अपरिहाणीयत्वात् । आस्वादिताः क्लिष्टाः अनास्वादिता अक्लिष्टाः । कृपणैरिति सुखलोलैरनुदारचित्तैः । एष ब्राह्म्यविहाराणां हानभागीयादिप्रकारभेदः । तेषु पुनः । अचलेषु बोधिसत्त्वाः प्रतिष्ठिताः सक्तिविगतेषु ॥ १७.२० ॥ (११९) न चलेषु नाप्यास्वादितेषु । असमाहितस्वभावा मृदुमध्या हीनभूमिका येऽपि । हीनाशयाः समाना हीनास्ते ह्यन्यथा त्वधिकाः ॥ १७.२१ ॥ एष मृद्वधिमात्रताभेदः । तत्र षड्विधा मृदुका असमाहितस्वभावाः । सर्वे समाहिता अपि । ये मृदुमध्याः । हीनभूमिका येऽपि उत्तरां बोधिसत्त्वभूमिमपेक्ष्य । हीनाशया अपि । श्रावकादीनां समाना अपि । येऽनुत्पत्तिकधर्मक्षान्तिरहिता हीनास्ते मृदुका इत्यर्थः । अन्यथा त्वधिका इति यथोक्तविपर्ययेणाधिमात्रता वेदितव्या । ब्राह्म्यैर्विहृतविहारः कामिषु संजायते यदा धीमान् । संभारान्पूरयते सत्त्वांश्च विपाचयति तेन ॥ १७.२२ ॥ सर्वत्र चाविरहितो ब्राह्म्यै रहितश्च तद्विपक्षेण । तत्प्रत्ययैरपि भृशैर्न याति विकृतिं प्रमत्तोऽपि ॥ १७.२३ ॥ हेतुफललिङ्गभेदः । तत्र ब्राह्म्यैर्विहृतो विहारैरिति हेतुः । कामिषु सत्त्वेषु संजायत इति विपाकफलम् । संभारान्पूरयत्यधिपतिफलम् । सत्त्वान्परिपाचयतीति पुरुषकारफलम् । सर्वत्र चाविरहितो ब्राह्म्यैर्विहारैर्जायत इति निष्पन्दफलम् । रहितश्च तद्विपक्षेणेति विसंयोगफलम् । भृशैरपि तत्प्रत्ययैरविकृतिगमनं लिङ्गम् । प्रमत्तोऽपीत्यसंमुखीभूतेऽपि प्रतिपक्षे । अन्येश्चतुर्भिः श्लोकैर्गुणदोषभेदः । व्यापादविहिंसाभ्यामरतिव्यापादकामरागैश्च । युक्तो हि बोधिसत्त्वो बहुविधमादीनवं स्पृशति ॥ १७.२४ ॥ इति दोषः । ब्राह्म्यविहाराभावे तद्विपक्षयोगात् । तत्र व्यापादादयो मैत्र्यादीनां यथाक्रमं विपक्षाः । व्यापादकामरागावुपेक्षायाः । कथं बहुविधादीनवं स्पृशतीत्याह । क्लेशैर्हन्त्यात्मानं सत्त्वानुपहन्ति शीलमुपहन्ति । सविलेखलाभहीनो रक्षाहीनस्तथा शास्त्रा[ता] ॥ १७.२५ ॥ साधिकरणोऽशयस्वी परत्र संजायतेऽक्षणेषु स च । प्राप्ताप्राप्तविहीनो मनसि महद्दुःखमाप्नोति ॥ १७.२६ ॥ तत्र प्रथमैस्त्रिभिः पदैरात्मव्याबाधाय चेतयते परव्याबाधायोभयव्याबाधायेत्येतमादीनवं दर्शयति । सविलेखादिभिः षड्भिः पदैर्दृष्टधार्मिकमवद्यं प्रसवतीति दर्शयति । कथं च प्रसवति । आत्मास्यापवदते । परेऽपि देवता अपि । शास्ताप्यन्येऽपि विज्ञाः (१२०) सब्रह्मचारिणो धर्मतया विगर्हन्ते । दिग्विदिक्षु चास्य पापकोऽवर्णशब्दश्लोको निश्चरतीत्येवं सविलेखो यावदयशस्वीत्येअनेन यथाक्रमं दर्शयति । शेषैस्त्रिभिः पदैर्यथाक्रमं सांपरायिकं दृष्टधर्मसांपरायिकमवद्यं प्रसवति । तज्जं चैतसिकं दुःख[खं] दौर्मनस्य प्रति संवेदयत इत्येतदादीनवं दर्शयति । एते सर्वे दोषा मैत्र्यादिषु सुस्थितस्य न भवन्ति । अक्लिष्टः संसारं सत्त्वार्थं नो च संत्यजति ॥ १७.२७ ॥ इति । ब्राह्मविहारयोगे त्रि[द्वि]विधं गुणं दर्शयति । यथोक्तदोषाभावमक्लिष्टस्य सत्त्वहेतोः संसारापरित्यागम् । न तथैकपुत्रकेष्वपि गुणवत्स्वपि भवति सर्वसत्त्वानाम् । मैत्र्यादिचेतनेयं सत्त्वेषु यथा जिनसुतानाम् ॥ १७.२८ ॥ इत्येते[न?] च बोधिसत्त्वमैत्रादीनां तीव्रतां दर्शयति । करूणाविभागे तदालम्बनप्रभेदमारभ्य द्वौ श्लोकौ । प्रदीप्तान् शत्रुवशगान् दुःखाक्रान्तांस्तमोवृतान् । दुर्गमार्गसमारूढान्महाबन्धनसंयुतान् ॥ १७.२९ ॥ महाशनविषाक्रान्तलोलान्मार्गप्रनष्टकान् । उत्पथप्रस्थितान् सत्त्वान्दुर्बलान् करुणायते ॥ १७.३० ॥ तत्र प्रदीप्ताः कामरागेण कामसुग्वभक्ताः । शत्रुवशगा मारकृतान्तरायाः कुशलेऽप्रयुक्ताः दुःखाक्रान्ताः दुःखा[भि?]भूता नरकादिषु । तमोवृता औरभ्रिकादयो दुश्चरितैकान्तिकाः । कर्मविपाकसंमूढत्वात् । दुर्गमार्गसमारूढा अपरिनिर्वाणधर्माणः संसारवर्त्मात्यन्तानुपच्छेदात् । महाबन्धनसंयुता अन्यतीर्थ्याः[र्थ्य]मोक्षसंप्रस्थिता नानाकुदृष्टिगाढबन्धनबद्धत्वात् । महाशनविषाक्रान्तलोलाः समापत्तिसुखसक्ताः । तेषां हि तत्क्लिष्टं समापत्तिसुखम् । यथा मृष्टमशनं विषाक्रान्तम् । ततः प्रच्यावनात् । मार्गप्रणष्टका अभिमानिका मोक्षमार्गभ्रान्तत्वात् । उत्पथप्रस्थिता हीनयानप्रयुक्ता अनियताः । दुर्बला अपरिपूर्णसंभारा बोधिसत्त्वाः । इत्येते दशविधाः सत्वा बोधिसत्त्वकरुणाया आलम्बनम् । पञ्चफलसंदर्शने करुणायाः श्लोकः । हेठापहं ह्युत्तमबोधिबीजं सुखावहं ताय[प]कमिष्टहेतुम् । स्वभावदं धर्ममुपाश्रितस्य बोधिर्न दूरे जिनात्मजस्य ॥ १७.३१ ॥ (१२१) ततः हेठापहत्वेन तद्विपक्षविहिंसाप्रहाणाद्विसंयोगफलं दर्शयति । उत्तमबोधिबीजत्वेनाधिपतिफलम् । परात्मनोर्यथाक्रमं सुखावहताय[प]कत्वेन पुरुषकारफलम् । इष्टहेतुत्वेन विपाकफलम् । स्वभावदत्वेन निष्पन्दफलमायत्यां विशिष्टकरुणाफलदानात् । एवं पञ्चविधां करुणामाश्रित्य बुद्धत्वमदूरे वेदितव्यम् । अप्रतिष्ठितसंसारनिर्वाणत्वे श्लोकः । विज्ञाय संसारगतं समग्रं दुःखात्मकं चैव निरात्मकं च । नोद्वेगमायाति न चापि दोषैः प्रबाध्यते कारुणिकोऽग्रबुद्धिः ॥ १७.३२ ॥ सर्वं संसारं यथाभूतं परिज्ञाय बोधिसत्त्वो नोद्वेगमायाति कारुणिकत्वात् । न दोषैर्बाध्यतेऽग्रबुद्धित्वात् । एवं निर्वाणे प्रतिष्ठितो भवति न संसारे यथाक्रमम् । संसारपरिज्ञाने श्लोकः । दुःखात्मकं लोकमवेक्षमाणो दुःखायते वेत्ति च तद्यथावत् । तस्याभ्युपायं परिवर्जने च न खेदमायात्यपि वा कृपालुः ॥ १७.३३ ॥ दुःखायत इति करुणायते । वेत्ति च तद्यथावदिति दुःखं यथाभूतं तस्य च दुःखस्य परिवर्जनेऽभ्युपायम् । वेत्ति येनास्य दुःखं निरुध्यते । एतेन जानन्नपि संसारदुःखं यथाभूतं तत्परित्यागोपायं च न खेदमापद्यते बोधिसत्त्वः करुणाविशेषादिति प्रदर्शयति । करूणाप्रभेदे द्वौ श्लोकौ । कृपा प्रकृत्या प्रतिसंख्यया च पूर्वं तदभ्यासविधानयोगात् । विपक्षहीना च विशुद्धिलाभात्चतुर्विधेयं करुणात्मकानाम् ॥ १७.३४ ॥ सेयं यथाक्रमं गोत्रविशेषतः गुणदोषपरीक्षणतः । जन्मान्तरपरिभावनतः । वैराग्यलाभतश्च वेदितव्याः । तद्विपक्षविहिंसाप्रहाणे सति विशुद्धिलाभत इति वैराग्यलाभतः । न सा कृपा या न समा सदा वा नाध्याशयाद्वा प्रतिपत्तितो वा । वैराग्यतो नानुपलम्भतो वा न बोधिसत्त्वो ह्यकृपस्तथा यः ॥ १७.३५ ॥ तत्र समा सुखितादिषु यत्किंचिद्वेदितमिदमत्र दुःखस्येति विदित्वा । सदा निरूपधिशेषनिर्वाणे तदक्षयात् । अध्याशयाद्भूमिप्रविष्टानामात्मपरसमताशयलाभात् । (१२२) प्रतिपत्तितो दुःखपरित्राणक्रियया । वैराग्यतस्तद्विपक्षविहिंसाप्रहाणात् । अनुपलम्भतोऽनुत्पत्तिकधर्मक्षान्तिलाभात् । करुणावृक्षप्रतिबिम्बके पञ्च श्लोकाः । करुणा क्षान्तिश्चिन्ता प्रणिधानं जन्मसत्त्वपरिपाकः । करुणातरुरेष महान्मूलादिः पुष्पपत्र[पश्चिमाग्र](पश्चिमान्त)फलः ॥ १७.३६ ॥ इत्येष मूलस्कन्धशाखापत्रपुष्पफलावस्थः करुणावृक्षो वेदितव्यः । एतस्य करुणा मूलम् । क्षान्तिः स्कन्धः । सत्त्वार्थचिन्ता शाखा । प्रणिधानं शोभनेषु जन्मसु पत्राणि । शोभनं जन्म पुष्पम् । सत्त्वपरिपाकः फलम् । मूलं करुणा न भवेद्दुष्करचर्यासहिष्णुता न भवेत् । दुःखाक्षमश्च धीमान् सत्वार्थं चिन्तयेन्नैव ॥ १७.३७ ॥ चिन्ताविहीनबुद्धिः प्रणिधानं शुक्लजन्मसु न कुर्यात् । शुभजन्माननुगच्छन्सत्त्वान्परिपाचयेन्नैव ॥ १७.३८ ॥ आभ्यां श्लोकाभ्यां पूर्वोत्तरप्रसवसाधर्म्यात्करुणादीनां मूलादिभावं साधयति । करुणासेको मैत्री तद्दुःखे सौख्यतो विपुलपुष्टिः । शाखावृद्धिर्विशदा योनिमनस्कारतो ज्ञेया ॥ १७.३९ ॥ पर्णत्यागादानं प्रणिधीनां संततेरनुच्छेदात् । द्विविधप्रत्ययसिद्धेः पुष्पमबन्ध्यं फलं चास्मात् ॥ १७.४० ॥ एताभ्यां श्लोकाभ्यां वृक्षमूलसेकादिसाधर्म्यं करुणावृक्षस्य दर्शयति । करुणा हि मूलवृक्षा[मूलमित्युक्ता] । तस्याः सेको मैत्री तया तदाप्यायनात् । मैत्रचित्तो हि परदुःखेन दुःखायते । ततश्च करुणोद्भव[करुणातो यद्]दुःखमुत्पद्यते बोधिसत्त्वस्यस्वा[सत्त्वा]र्थप्रयुक्तस्य तत्र सौख्योत्पादाद्विपुलपुष्टिः क्षान्तिपुष्टिरित्यर्थः । सा हि स्कन्ध इत्युक्ता । स्कन्धश्च विपुलः । योनिशोमनस्काराद्बहुविधा महायाने शाखावृद्धिः । चिन्ता हि शाखेत्युक्ता । पूर्वापरनिरोधोत्पादक्रमेण प्रणिधानसंतानस्यानुच्छेदात् । पर्णत्यागादानसाधर्म्यं प्रणीधानानां वेदितव्यम् । आध्यात्मिकप्रत्ययसिद्धितः स्वसंतानपरिपाकात्पुष्पमिव जन्माबन्ध्यं वेदितव्यम् । बाह्यप्रत्ययसिद्धितः परसंतानपरिपाकात्फलभूतः सत्त्वपरिपाको [ऽबन्ध्यो?] वेदितव्यः । करुणानुशंसे श्लोकः । कः कुर्वीत न करुणां सत्त्वेषु महाकृपागुणकरेषु । दुःखेऽपि सौख्यमतुलं भवति यदेषां कृपाजनितम् ॥ १७.४१ ॥ (१२३) अत्र महाकरुणागुण उत्तरार्धेन संदर्शितः । शेषो गतार्थः । करुणानिःसङ्गतायां श्लोकः । आविष्टानां कृपया न तिष्ठति मनः शमे कृपालूनाम् । कुत एव लोकसौख्ये स्वजीविते वा भवेत्स्नेहः ॥ १७.४२ ॥ सर्वस्य हि लोकस्य लौकिके सौख्ये स्वजीविते च स्नेहः । तत्रापि च निःस्नेहानां श्रावकप्रत्येकबुद्धानां सर्वदुःखोपशमे निर्वाणे प्रतिष्ठितं मनः । बोधिसत्त्वानां तु करुणाविष्टत्वान्निर्वाणेऽपि मनो न प्रतिष्ठितम् । कुत एव तयोः स्नेहो भविष्यति । करुणास्नेहवैशेष्ये त्रयः श्लोकाः । स्नेहो न विद्यतेऽसौ यो निरवद्यो न लौकिको यश्च । धीमत्सु कृपास्नेहो निरवद्यो लोकसमतीतः ॥ १७.४३ ॥ मातापितृप्रभृतीनां हि तृष्णामयः स्नेहः सावद्यः । लौकिककरूणाविहारिणां निरवद्योऽपि लौकिकः । बोधिसत्त्वानां तु करूणामयः । स्नेहो निरवद्यश्च लौकिकातिक्रान्तश्च । कथं च पुनर्निरवद्य इत्याह । दुःखाज्ञानमहौघे महान्धकारे च निश्रितं लोकम् । उद्धर्तुं य उपायः कथमिव न स्यात्स निरवद्यः ॥ १७.४४ ॥ दुःखमहौघ अज्ञानमहान्धकारे चेति योज्यम् । शेषं गतार्थम् । कथं लोकातिक्रान्त इत्याह । स्नेहो न सोऽत्स्यरिहतां लोके प्रत्येकबोधिबुद्धानाम् । प्रागेव तदन्येषां कथमिव लोकोत्तरो न स्यात् ॥ १७.४५ ॥ प्रत्येकां बोधिं बुद्धाः । शेषं गतार्थम् । त्रासाभिनन्दननिमित्तत्वे श्लोकः । दुःखाभावे दुःखं यत्कृपया भवति बोधिसत्त्वानाम् । संत्रासयति तदादौ स्पृष्टं त्वभिनन्दयति गाढम् ॥ १७.४६ ॥ दुःखाभावे इति दुःखाभावो निमित्तं सत्त्वेषु करुणया बोधिसत्त्वानां यद्दुःखमुत्पद्यते तदादौ संत्रासयति अधिमुक्तिचर्याभूमौ । आत्मपरसमतया दुःखस्य यथाभूतमस्पृष्टत्वात् । स्पृष्टं तु शुद्धाध्याशयभूमावभिनन्दयत्येवेत्यर्थः । करुणादुःखेन सुखाभिभवे श्लोकः । किमतः परमाश्चर्यं यद्दुःखं सौख्यमभिभवति सर्वम् । कृपया जनितं लौक्यं येन विमुक्तो अपि कृतार्थः ॥ १७.४७ ॥ (१२४) नास्यत आश्चर्यतरं यद्दुःखमेव करुणाजनितं बोधिसत्त्वानां तथा सुखं भवति । यत्सर्वं लौकिकं सुखमभिभवति । येन सुखेन विमुक्ता अर्हन्तोऽपि कृतार्थाः प्रागेवान्ये । कृपाकृतदानानुशंसे श्लोकः । कृपया सहितं दानं यद्दानसुखं करोति धीराणाम् । त्रैधातुकमुपभोगैर्न तत्सुखं तत्कलां स्पृशति ॥ १७.४८ ॥ यच्च त्रैधातुकं सुखमुपभोगै कृतं न तत्सुखं तस्य सुखस्य कलां स्पृशतीत्ययमुत्तरार्धस्यार्थः । शेषं गतार्थम् । कृपया दुःखाभ्युपगमे श्लोकः । दुःखमयं संसारं यत्कृपया न त्यजति सत्त्वार्थम् । परहितहेतोर्दुःखं किं कारुणिकैर्न समुपेतम् ॥ १७.४९ ॥ सर्वं हि दुःखं संसारदुःखेऽन्तर्भूतम् । तस्याभ्युपगमात्सर्वं दुःखमभ्युपगतं भवति । तत्र तत्फलवृद्धौ श्लोकः । करूणा दानं भोगाः सदा कृपालोर्विवुद्धिमुपयान्ति । स्नेहानुग्रहजनितं तच्छक्तिकृतं सुखं चास्मात् ॥ १७.५० ॥ त्रयं बोधिसत्त्वानां सर्वजन्मसु वर्धते करूणायोगात् । करूणा तदभ्यासात् । दानं करुणावशात् । भोगाश्च दानवशात् । तस्माच्च त्रयात्फलं त्रिविधं सुखं भवति । स्नेहजनितं करुणातः । सत्त्वानुग्रहजनितं दानात् । तदनुग्रहक्रियाशक्तिकृतं भोगेभ्यः । दानप्रोत्साहनायां श्लोकः । वर्धे च वर्धयामि च दाने परिपाचयामि सुखयामि । आकर्षामि नयामि च करुणा सन्नान्प्रवदतीव ॥ १७.५१ ॥ दाने सन्नानिति संबन्धनीयम् । षड्भिर्गुणैर्दानैऽवसन्नान् बोधिसत्त्वान्करुणा प्रोत्सहयतीव । स्वभाववृद्ध्या । भोगैस्तद्वर्धनया । दानेन सत्त्वपरिपाचनया । दातुश्च सुखोत्पादनात् । महाबोधिसंभारस्यान्यस्या[संभारस्या]कर्षणात् । महाबोधिसमीपनयनाच्च । परसौख्येन सुखा[नु?]भवे श्लोकः । दुःखे दुःखी कृपया सुखान्यनाधाय केन सुखितः स्यात् । सुखयत्यात्मानमतः कृपालुराधाय परसौख्यम् ॥ १७.५२ ॥ करुणया बोधिसत्त्वः परदुःखैर्दुःखितः सत्त्वेष्वनाधाय सुखं कथं सुखितः स्यात् । तस्मात्परेषु सुखमाधाय बोधिसत्व आत्मानमेव सुखयतीति वेदितव्यम् । कृपया दानसमनुशास्तौ षट्श्लोकाः । (१२५) स्वं दानं कारुणिकः शास्तीव सदैव निःस्वसुखकामः । भोगैः सुखय परं वा मामप्ययुतसौख्यम् ॥ १७.५३ ॥ न हि कारुणिकस्य विना परसुखेनास्ति सुखम् । तस्यायुतसौख्यत्वाद्वौधिसत्त्वस्तेन विना[त्म?]नो दानस्य फलं सुखं नेच्छति । सफलं दानं दत्तं तन्मे सत्त्वेषु तत्सुखसुखेन । फल तेष्वेव निकामं यदि मे कर्तव्यता तेऽस्ति ॥ १७.५४ ॥ दानं ददता दानं च दानफलं च तन्मया सत्त्वेषु दत्तम् । तत्सुखमेव मे सुखं यस्मात् । अतस्तेष्वेव यावत्फलितव्यं तावत्फलेति लोट् । बोधिसत्त्वः करूणया दानमनुशास्ति । भोगद्वेष्टुर्दातुर्भोगा बहुशुभतरोपसर्पन्ति । न हि तत्सुखं मतं मे दाने पारंपरोऽस्मि यतः ॥ १७.५५ ॥ भोगविमुखस्य दातुर्भोगा बहुतराश्चोपतिष्ठन्ते । शोभनतराश्च । धर्म तैवेयं चित्तस्योदारतरत्वात् । न हि तत्सुखं मतं मे यद्भोगास्तथोपतिष्ठन्ते । यस्मादहं दाने पारंपरस्तत्प्रबन्धकामत्वान्नसुखे । सर्वास्तिपरित्यागे यत्कृपया मां निरीक्षसे सततम् । ननु ते तेन ज्ञेयं न मत्फलेनार्थितास्येति ॥ १७.५६ ॥ योऽहं दानफलं सर्वमेव करुणया नित्यं परित्यजामि नन्वत एव वेदितव्यं नास्ति मे दानफलेनार्थित्वमिति बोधिसत्त्वो दानं समनुशास्ति । दानाभिरतो न स्यां प्राप्तं चेत्तत्फलं न विसृजेयम् । तथा हि । क्षणमपि दानेन विना दानाभिरतो भवति नैव ॥ १७.५७ ॥ इति गतार्थः श्लोकः । अकृतं न फलसि यस्मात्प्रतिकारापेक्षया न मे तुल्यम् । यस्त्वा करोति तस्य त्वं फलसि । तस्मात्त्वं प्रतिकारपेक्षया न मत्तुल्यम् । तथा ह्यहम् । प्रतिकारनिर्व्यपेक्षः परत्र फलदोऽस्य कामं ते ॥ १७.५८ ॥ (१२६) गतार्थमेतत् । कृपादानेन द्वौ श्लोकौ । निरवद्यं शुद्धपदं हितावहं चैव सानुरक्षं च । निर्मृग्यं निर्लेपं जिनात्मजानां कृपादानम् ॥ १७.५९ ॥ तत्र निरवद्यं परमनुपहृत्य दानात् । शुद्धपदं कल्पिकवसु[वस्तु]दानात् । विषशस्रमद्यादिविवर्जनतः । हितावहं दानेन संगृह्य कुशले नियोजनात् । सानुरक्षं परिजनस्याविघातं कृत्वा अन्यस्मै दानात् । निर्मृग्यमयाचमानेऽप्यर्थित्वं विघातं वावगम्य स्वयमेव दानात्दक्षिणीयापरिमार्गणाच्च । निर्लेपं प्रतिकारविपाकनिःस्पृहत्वात् । अपरः प्रकारः । सकलं विपुलं श्रेष्ठं सततं मुदितं निरामिषं शुद्धम् । बोधिनतं कुशलनतं जिनात्मजानां कृपादानम् ॥ १७.६० ॥ तत्र सकलमाध्यात्मिकबाह्यवस्तुदानात् । विपुलं प्रभूतवस्तुदानात् । श्रेष्ठं प्रणीतवस्तुदानात् । सततमभीक्ष्णदानात् । मुदीतमप्रतिसंख्याय प्रहृष्टदानात् । निरामिषं यथा निर्लेपम् । शुद्धं यथा शुद्धपदम् । बोधिनतं महाबोधिपरिणामनात् । कुशलनतं यथा हितावहम् । उपभोअगविशेषे श्लोकः । न तथोपभोगतुष्टिं लभते भोगी यथा परित्यागात् । तुष्टिमुपैति कृपालुः सुखत्रयाप्यायितमनस्कः ॥ १७.६१ ॥ तत्र सुखत्रयं दानप्रीतिः परानुग्रहप्रीतिः बोधिसंभारसंभरणप्रीतिश्च । शेषं गतार्थम् । पारमिताभिनिर्हारकरुणायां श्लोकः । कृपणकृपा रौद्रकृपा संक्षुब्धकृपा कृपा प्रमत्तेषु । विषयपरतन्त्रकरुणा मिथ्याभिनिविष्टकरुणा च ॥ १७.६२ ॥ तत्र कृपणा मत्सरिणः । रौद्रा दुःशीलाः परोपतापिनः । संक्षुब्धाः क्रोधनाः । प्रमत्ताः कुशीदाः । विषयपरतन्त्रा कामेषु विक्षिप्तचित्ताः । मिथ्याभिनिविष्टाः दुःप्रज्ञाः तीर्थिकादयः । एषु पारमिताविपक्षधर्मावस्थितेषु या करुणा सा कृपणादिकरुणा । सा च तद्विपक्षविदूषणात्पारमिताभिनिर्हाराय संपद्यते । तस्मात्पारमिताभिनिर्हारकरुणेत्युच्यते । करुणाप्रत्ययसंदर्शने श्लोकः । करुणा बोधिसत्त्वानां सुखाद्दुःखात्तदन्वयात् । करुणा बोधिसत्त्वानां हेतोर्मित्रात्स्वभावतः ॥ १७.६३ ॥ तत्र पूर्वार्धेनालम्बनप्रत्ययं करुणायाः संदर्शयति । त्रिविधां वेदनामालम्ब्य तिसृभिर्दुःखताभिः करुणायनात् । अदुःखासुखा हि वेदना सुखदुःखयोरन्वयः पुनस्तदावाहनात् । (१२७) उत्तरार्धेन यथाक्रमं हेतुमित्रस्वभावैः करुणाया हेत्वधिपतिसमनन्तरप्रत्ययान्संदर्शयति । महाकरुणत्वे श्लोकः । करुणा बोधिसत्त्वानां समा ज्ञेया तदाशयात् । प्रतिपत्तेर्विरागाच्च नोपलम्भाद्विशुद्धितः ॥ १७.६४ ॥ तत्र समा त्रिविधवेदनावस्थेषु यत्किंचिद्वेदितमिदमत्र दुःखस्येति विदित्वा । सा पुनराशयतोऽपि चित्तेन करुणायनात् । प्रतिपत्तितोऽपि तत्परित्राणात् । विरागतोऽपि तद्विपक्षविहिंसाप्रहाणात् । अनुपलम्भतोऽप्यात्मपरकरुणानुपलम्भात् । विशुद्धितोऽप्यष्टभ्यां भूमावनुत्पत्तिकधर्मक्षान्तिलाभात् । मैत्राद्रिभावनाग्रा स्वचित्ततो धर्मतोऽधिमोक्षाच्च । आशयतोऽपि विभुत्वादविकल्पादैक्यतश्चापि ॥ १७.६५ ॥ इति । पूर्वनिर्देशानुसारेणार्थोऽनुगन्तव्यः । इति भगवति जातुसुप्रसादो महदुपधिध्रुवसत्क्रियाधिपूजी । बहुगुणहितमित्रनित्यसेवो जगदनुकम्पक एति सर्वसिद्धिम् ॥ १७.६६ ॥ एतेन यथोक्तानां पूजासेवाप्रमाणानामनुक्रमं गुणं च समासेन संदर्शयति । महोपधिभिर्ध्रुवं सत्क्रिया[यया] चात्यर्थं पूजनान्महदुपधिध्रुवसत्क्रियाभिपूजी वेदितव्यः । सत्क्रिया पुनः सम्यक्प्रतिपत्तिर्वेदितव्या । एवं [लाभ?]सत्कारप्रतिपत्तिपूजी भवति । बहुगुणं मित्रं तदन्यैर्गुणैः । हितमनुकम्पकत्वेन वेदितव्यम् । एति सर्वसिद्धिमिति स्वपरार्थसिद्धिं प्राप्नोतीति । ॥ महायानसूत्रालंकारे पूजासेवाप्रमाणाधिकारः [सप्तदशः] समाप्तः ॥ (१२८) अष्टादशोऽधिकारः लज्जाविभागे षोडशः श्लोकाः । लज्जा विपक्षहीना ज्ञानेन गता च निर्विकल्पेन । हीनानवद्यविषया सत्त्वानां पाचिका धीरे ॥ १८.१ ॥ एतेन स्वभावसहायालम्बनकर्मसंपदा चतुर्विधं लक्षणं बोधिसत्त्वलज्जायाः संदर्शितम् । हीनानवद्यविषया । श्रावकप्रत्येकबुद्धानां [यानं?] तद्वि[द्धि]हीनं च महायानादनवद्यं च । तेन च बोधिसत्त्वो लज्जते । कथं सत्त्वानां पाचिका । तस्यामेव लज्जा[यां] परप्रस्थापनात् । षण्णां पारमितानां विपक्षे वृद्ध्या बोधिसत्त्वानाम् । प्रतिपक्षे हानितश्चाप्यतीव संपद्यते लज्जा । इयं बोधिसत्त्वानां बृद्ध्या परिहानितश्च लज्जा [?] पारमिताविषक्षवृद्ध्या तत्प्रतिपक्षपरिहाण्या चात्यर्थं लज्जोत्पादनात् । षण्णां पारमितानां निषेवणालस्यतो भवति लज्जा । क्वेशानुकूलधर्मप्रयोगतश्चैव धीराणाम् ॥ १८.२ ॥ इयमप्रयोग[प्रयोग?]लज्जा पारमिताभावनायामप्रयोगेन । क्लेशानुकूलेषु धर्मेष्विन्द्रियागुप्तद्वारत्वादिषु च प्रयोगेन लज्जोत्पादनात् । असमाहितस्वभावा मृदुमध्या हीनभूमिका लज्जा । हीनाशया समाना हीना हि तदन्यथा त्वधिका ॥ १८.३ ॥ इयं मृद्वधिमात्रा लज्जा । पूर्वनिर्देशानुसारेणास्य श्लोकस्यार्थोऽनुगन्तव्यः । अतः परं चतुर्भिस्त्रिभिश्च श्लोकैर्यथाक्रमं लज्जाविपक्षे लज्जायां च दोषगुणभेदं दर्शयति । लज्जारहितो धीमान् क्लेशानधिवासयत्ययोनिशतः । प्रतिघोपेक्षामानः सत्त्वानुपहन्ति शीलं च ॥ १८.४ ॥ इत्यत्र आत्मव्याबाधाय चेतयते परव्याबाधायोभयव्याबाधाय चेति संदर्शितम् । अयोनिशत इत्ययोनिशो मनस्कारेण । कथमुपेक्षया सत्त्वानुपहन्ति । सत्त्वार्थप्रमादतः । (१२९) कौकृत्यात्सविलेखो भवति स संमानहानिमाप्नोति । श्राद्धात्मा[मा]नुषसंघाच्छास्रा चोपेक्ष्यते तस्मात् ॥ १८.५ ॥ सहधार्मि कैर्जिनसुतैर्विनिन्द्यते लोकतोऽयशो लभते । दृष्टे धर्मे इत्यनेन दृष्टधार्मिकमवद्यं प्रसवतीति दर्शितम् । यथाक्रममात्मपरदेवताशास्तृभिरपवदनात् । विज्ञैः सब्रह्मचारिभिर्धर्मतया विगर्हणात् । दिग्विदिक्षु च पापकावर्णनिश्चरणात् । ऽन्यत्र क्षणरहितो जायते भूयः ॥ १८.६ ॥ इत्यनेन सांपरायिकमवद्यं प्रसवतीति संदर्शितमक्षणेषूपपत्तेः । प्राप्ताप्राप्तविहानिं शुक्लैर्धर्मैः समाप्नुते तेन । इत्यनेन दृष्टधर्मसांपरायिकमवद्यं प्रसवतीति संदर्शितम् । प्राप्तकुशलधर्मपरिहाणितः । अप्राप्तपरिहाणितश्च यथाक्रमम् । दुःखं विहरति तस्मान्मनसोऽप्यस्वस्थतामेति ॥ १८.७ ॥ इत्यनेन तज्जं चैतसिकं दुःखं दौर्मनस्यं प्रतिसंवेदयत इति संदर्शितम् । एते सर्वे दोषा हीमत्सु भवन्ति नो जिनसुतेषु । इत्यत उपादाय लज्जागुणो वेदितव्यः । यदेते च दोषा न भवन्ति । देवेषु च मनुजेषु च नित्यं संजायते च बुधः ॥ १८.८ ॥ इत्येतदस्य विपाकफलं भवति । संभारांश्च स बोधेः क्षिप्रं पूरयति लज्जया धीमान् । इत्येतदधिपतिफलम् । सत्त्वानां पाचनया न खिद्यते चैव जिनपुत्रः ॥ १८.९ ॥ इत्येतत्पुरुषकारफलम् । स विपक्षप्रतिपक्षै रहितोऽरहितश्च जायते सततम् । इत्येते विसंयोगनिष्पन्दफले । यदुत विपक्षरहितत्वं प्रतिपक्षारहितत्वं च । इत्येतमानुशंसं हीमानाप्नोति जिनपुत्रः ॥ १८.१० ॥ इति यथोक्तदोषाभावं गुणयोगं च प्राप्नोतीति संदर्शितम् । दोषमलिनो हि बालो हीविरहात्सुवसनैः सुगुप्तोऽपि । निर्वसनोऽपि जिनसुतो ह्रीवसनो मुक्तदोषमलः ॥ १८.११ ॥ एतेन वस्रविशेषणं ह्रियः । तदन्यवस्रप्रावृतस्यापि ह्रीरहितस्य दोषमलिनत्वात् । नग्नस्यापि न ह्रीमतो निर्मलत्वात् । आकाशमिव न लिप्तो ह्रीयुक्तो जिनसुतो भवति धर्मैः । धर्मैरिति लोकधर्मैः । (१३०) हीभूषितश्च शोभति संपर्कगतो जिनसुतानाम् ॥ १८.१२ ॥ एतेन श्लोकेन ह्रिय आकाशभूषणसमतां दर्शयति । मातुरिव वत्सलत्वं ह्रियो विनेयेषु बोधिसत्वानाम् । त्रातव्यसत्त्वोपेक्षाया लज्जनात् । आरक्षा चापि ह्रीः संसरतां सर्वदोषेभ्यः ॥ १८.१३ ॥ हस्त्यश्वकायादिभूतत्वात् । एभिर्वस्त्रादिदृष्टान्तैर्विहारे क्लेशप्रतिपक्षतां चारे लोकधर्मप्रतिपक्षताम् । सहधार्मिकसंवासानुकूलताम् । सत्त्वापरिपाकानुकूलताम् । अक्लिष्टसंसारानुकूलतां च ह्रियो दर्शयति । सर्वेषु नाधिवासा सर्वेष्वधिवासनाप्रवृत्तिश्च । सर्वेषु च प्रवृत्तिर्ह्रीविहितं हीमतो लिङ्गम् ॥ १८.१४ ॥ एतेन चतुर्विधं ह्रीकृतं लिङ्गं हीमतो दर्शयति । यदुत सर्वदोषेष्वनधिवासना चाप्रवृत्तिश्च । सर्वगुणेष्वधिवासना च प्रवृत्तिश्च । ह्रीभावना प्रधाना स्वचित्ततो धर्मतोऽधिमोक्षाच्च । आशयतोऽपि विभुत्वादकल्पनादैक्यतश्चापि ॥ १८.१५ ॥ इत्यस्य निर्देशो यथापूर्वम् । धृतिविभागे सप्त श्लोकाः । धृतिश्च बोधिसत्त्वानां लक्षणेन प्रभेदतः । दृढत्वेन स सर्वेभ्यस्तदन्येभ्यो विशिष्यते ॥ १८.१६ ॥ वीर्यं समाधिः प्रज्ञा च सत्त्वं धैर्यं धृतिर्मता । निर्भीतो बोधिसत्त्वो हि त्रयाद्यस्मात्प्रवर्तते ॥ १८.१७ ॥ एतेन धृतिलक्षणं सपर्यायं ससाधनं चोक्तम् । वीर्यादिकं लक्षणं सत्त्वादिकं पर्यायः । शेषं साधनम् । कतमस्मात्त्रयान्निर्भीतः प्रवर्तत इत्याह । लीनत्वाच्च चलत्वाच्च मोहाच्चोत्पद्यते भयम् । कृत्येषु तस्माद्विज्ञेया धृतिसंज्ञा निजे त्रये ॥ १८.१८ ॥ सर्वकार्येषु हि लीनचित्ततया वा भयमुत्पद्यते तदनुत्साहतः । चलचित्ततया वा चित्तानवस्थानतः । संमोहतो वा तदुपायज्ञानतः । तत्प्रतिपक्षाश्च यथाक्रमं वीर्यादयः । तस्मान्निजवीर्यादित्रये धृतिसंज्ञा वेदितव्या निज इत्यप्रतिसंख्यानकरणीये । प्रकृत्या प्रणिधाने च निरपेक्षत्व एव च । सत्त्वविप्रतिपत्तौ च गम्भीर्यौदार्यसंश्रवे ॥ १८.१९ ॥ (१३१) विनेयदुर्विनयत्वे कायाचिन्त्ये जिनस्य च । दुष्करेषु विचित्रेषु संसारात्याग एव च ॥ १८.२० ॥ निःसंक्लेशे च तत्रैव धृतिर्धीरस्य जायते । असमा च तदन्येभ्यः सोऽग्रे धृतिमतां यतः[मतः] ॥ १८.२१ ॥ एभिस्त्रिभिः श्लौकैर्धृतिप्रभेदः दर्शयति । यथाक्रमं गोत्रतः । चित्तोत्पादतः । स्वार्थतः । सत्वार्थतः [परार्थतः । तत्वार्थतः ।] प्रभावतः । सत्वपरिपाचनतः । परमबोधितश्च । तत्र निरपेक्षत्वं स्वार्थप्रयुक्तस्य कायजीवितनिरपेक्षत्वाद्वेदितव्यम् । पुनर्दुष्करचर्यातः । संचिन्त्यभवोपपत्तितः । तदसंक्लेशतोऽपि प्रभेदः । कुमित्रदुःखगम्भीरश्रवाद्वीरो न कम्पते । शलभैः पक्षवातैश्च समुद्रैश्च सुमेरुवत् ॥ १८.२२ ॥ एतेन बोधिसत्त्वधृतेर्दृढत्वं दर्शयति । उपमात्रयं त्रयेणाकम्पने[नं] यथाक्रमं वेदितव्यम् । अखेदविभागे द्वौ श्लौकौ । अखेदो बोधिसत्वानामसमस्त्रिषु वस्तुषु । श्रुतातृप्तिमहावीर्यदुःखे ह्रीधृतिनिश्रितः ॥ १८.२३ ॥ तीव्रच्छन्दो महाबोधावखेदो धीमतां मतः । अनिष्पन्नश्च निष्पन्नः सुनिष्पन्नश्च भूमिषु ॥ १८.२४ ॥ आभ्यां वस्तुतो निश्रयतः स्वभावतः प्रभेदतश्चाखेदो निर्दिष्टः । त्रिषु वस्तुषु । श्रुतातृप्तौ । दीर्घकालवीर्यारम्भे । संसारदुःखे च । ह्रियं धृतिं च निश्रित्य । ताभ्यां हि खेदोत्पत्तितो लज्जयते न चोत्पादयति । तीव्रच्छन्दो महाबोधाविति स्वभावः । छन्दे हि व्यावृत्ते खिन्नो भवति । अनिष्पन्नोऽधिमुक्तिचर्याभूमौ । निष्पन्नः सप्तभूमिषु । सुनिष्पन्नः परेण इत्येष प्रभेदः । शास्त्रज्ञतायां द्वौ श्लोकौ । वस्तुना चाधिकारेण कर्मणा च विशिष्यते । लक्षणेनाक्षयत्वेन फलस्योदागमेन च ॥ १८.२५ ॥ शास्त्रज्ञता हि धीराणां समाधिमुखधारणी । गृहीता सत्त्वपाकाय सद्धर्मस्य च धारणे ॥ १८.२६ ॥ तत्र शास्त्रज्ञतायाः पञ्च विद्यास्थानानि वस्तु । अध्यात्मविद्या हेतुविद्या शब्दविद्या चिकित्साविद्या शिल्पकर्मस्थानविद्या च । स्वपरार्थक्रिया अधिकारः । कर्म प्रथमवस्तुनि (१३२) स्वयं प्रतिपत्तिः परेभ्यश्च तत्समाख्यानम् । द्वितीये तद्दोषपरिज्ञानं परवादिनिग्रहश्च । तृतीये स्वयं सुनिरूक्ताभिधानं परसंप्रत्ययश्च । चतुर्थे परेषां व्याधिशमनम् । पञ्चमे परेभ्यस्तत्संविभागः । लक्षणं शास्त्रज्ञताया एतान्येव पञ्च वस्तूनि श्रुतानि भवन्ति । धृतानि । वचसा परिजितानि । मनसा अन्वीक्षितानि । दृष्ट्या सुप्रतिविद्धानि । श्रुत्वा यथाक्रमं तदुद्ग्रहणातः । स्वाध्यायतः । प्रसन्नेन मनसार्थचित्तनतो यथायोगं तद्दोषगुणावगमात्स्वाख्यातदुराख्यातावधारणतश्च । अक्षयत्वं निरुपधिशेषनिर्वाणेऽप्यक्षयात् । फलसमुदागमः सर्वधर्मसर्वाकारज्ञता । सा पुनरेषा शास्रज्ञता बोधिसत्त्वानां समाधिमुखैर्धारणीमुखैश्च संगृहीता । सत्त्वपरिपाकाय च भवति । समाधिमुखैस्तत्कृत्यानुष्ठानात् । सद्धर्मपारणाय च धारणीभिस्तद्धारणात् । लोकज्ञतायां चत्वारः श्लोकाः । कायेन वचसा चैव सत्यज्ञानेन चासमा । लोकज्ञता हि धीराणां तदन्येभ्यो विशिष्यते ॥ १८.२७ ॥ कथं कायेनेत्याह । कृतस्मितमुखा नित्यम् । कथं वाचेत्याह । धीराः पूर्वाभिभाषिणः । सा पुनः किमर्थमित्याह । सत्त्वानां भाजनत्वाय । कस्मिन्नर्थे भाजनत्वाय । सद्धर्मप्रतिपत्तये ॥ १८.२८ ॥ कथं सत्यज्ञानेनेत्याह । सत्यद्वयाद्यतश्चेष्टो लोकानामुदयोऽसकृत् । द्वयादस्तंगमस्तस्मात्तज्ज्ञो लोकज्ञ उच्यते ॥ १८.२९ ॥ द्वाभ्यां सत्याभ्यां लोकस्योदयः पुनः पुनः संसारो यश्चोदयो येन चेति कृत्वा । द्वाभ्यामस्तंगमो निरोधमार्गसत्याभ्याम् । यश्चास्तंगमो येन चेति कृत्वा । तस्मात्तज्ज्ञो लोकज्ञ उच्यते । लोकस्योदयास्तंगामिन्या प्रज्ञया समन्वागतत्वात् । शमाय प्राप्तये तेषां धीमान् सत्येषु युज्यते । सत्यज्ञानद्यतो धीमान् लोकज्ञो हि निरुच्यते ॥ १८.३० ॥ अनेन लोकज्ञतायाः कर्म निर्दिष्टम् । तत्र शमाय दुःखसमुदयसत्ययोः प्राप्तये निरोधमार्गसत्ययोः । (१३३) प्रतिसरणविभागे त्रयः श्लोकाः आर्षश्च देशनाधर्मो अर्थोऽभिप्रायिकोऽस्य च । प्रामाणिकश्च नीतार्थो निर्जल्पा प्राप्तिरस्य च ॥ १८.३१ ॥ इदं प्रतिसरणानां लक्षणम् । तत्र प्रामाणिकोऽर्थो यः प्रमाणभूतेन नीतो विभक्तः शास्त्रा वा तत्प्रमाणीकृतेन वा । निर्जल्पा प्राप्तिरधिगमज्ञानं लोकोत्तरम् । तस्यानभिलाप्यत्वात् । शेषं गतार्थम् । प्रतिक्षेप्तुर्यथोक्तस्य मिथ्यासंतीरितस्य च । साभिलाष[प]स्य च प्राप्तेः प्रतिषेधोऽत्र देशितः ॥ १८.३२ ॥ प्रथमे प्रतिसरणे आर्षधर्मप्रतिक्षेप्तुः पुद्नलस्य प्रतिषेधो देशितः । द्वितीये यथारुतार्थस्य व्यञ्जनस्य नाभिप्रायिकार्थेन । तृतीये मिथ्या चिन्तितार्थस्य विपरीतं नीयमानस्य । चतुर्थे साभिलाष[प]स्य ज्ञानस्य[आ]प्रत्यात्मवेदनीयस्य । अधिमुक्तेर्विचाराच्च यथावत्परतः श्रवात् । निर्जल्पादपि च ज्ञानादप्रणाशो हि धीमताम् ॥ १८.३३ ॥ अयं प्रतिसरणानुशंसः । प्रथमेन प्रतिसरणेनार्षधर्माधिमुक्तितो न प्रणश्यति । द्वितीयेन स्वयमाभिप्रायिकार्थविचारणात् । तृतीयेन परतस्तदविपरीतार्थनयश्रवात् । चतुर्थेन लोकोत्तरज्ञानात् । प्रतिसंविद्विभागे चत्वारः श्लोकाः । असमा बोधिसत्त्वानां चतस्रः प्रतिसंविदः । पर्याये लक्षणे वाक्ये ज्ञाने ज्ञानाच्च ता मताः ॥ १८.३४ ॥ प्रथमा पर्याये ज्ञानमेकैकस्यार्थस्य यावन्तो नामपर्यायाः । द्वितीया लक्षणे यस्यार्थस्य तन्नाम । तृतीया वाक्ये प्रत्येकं जनपदेषु या भाषाः । चतुर्था ज्ञाने स्वयं यत्प्रतिभानम् । इदं प्रतिसंविदांलक्षणम् । देशनायां प्रयुक्तस्य यस्य येन च देशना । धर्मार्थयोर्द्वयोर्वाचा ज्ञानेनैव च देशना ॥ १८.३५ ॥ धर्मस्योद्देशनिर्देशात्सर्वथा प्रापणाद्द्वयोः । परिज्ञाना[हाना]च्च चोद्यानां प्रतिसंविच्चतुष्टयम् ॥ १८.३६ ॥ (१३४) इति चतुष्ट्वे कारणम् । देशनायां हि प्रयुक्तस्य यस्य च देशना येन च । तत्र ज्ञानेन प्रयोजनम् । कस्य पुनर्देशना । धर्मस्यार्थस्य । केन देशना वचनेन ज्ञानेन च । तत्र धर्मार्थयोर्देशना । धर्मस्योद्देशनिर्देशात् । वाक्येन देशना तयोरेव द्वयोः सर्वथा प्रापणात् । ज्ञानेन देशना चोद्यानां परिहरणात् । अतो यच्च येन च देश्यते तज्ज्ञानात्चतस्रः प्रतिसंविदो व्यवस्थापिताः । प्रत्यात्मं समतामेत्य योत्तरत्र प्रवेदना । सर्वसंशयनाशाय प्रतिसंविन्निरुच्यते ॥ १८.३७ ॥ एतेन प्रतिसंविदां निर्वचनं कर्म च दर्शितम् । प्रत्यात्मं लोकोत्तरेण ज्ञानेन सर्वधर्मसमतां तथतामवेत्य उत्तरकालं तत्पृष्ठलब्धेन ज्ञानेन प्रवेदना पर्यायादीनां प्रतिसंविदिति निर्वचनम् । सर्वसंशयनाशाय परेषामिति कर्म । संभारविभागे चत्वारः श्लोकाः । संभारो बोधिसत्त्वानां पुण्यज्ञानमयोऽसमः । संसारेऽभ्युदयायैकः अन्योऽसंक्लिष्टसंसृतौ ॥ १८.३८ ॥ यश्च संभारो यदर्थं च तत्संदर्शितम् । द्विविधः संभारः । तत्र पुण्यसंभारः संसारेऽभ्युदयाय संवर्तते । ज्ञानसंभारोऽसंक्लिष्टसंसरणाय । दानं शीलं च पुण्यस्य प्रज्ञा ज्ञानस्य संभृतिः । त्रयं चान्यद्द्व्यस्यापि पञ्चापि ज्ञानसंभृतिः ॥ १८.३९ ॥ एतेन पारमिताभिस्तदुभयसंभारसंग्रहं दर्शयति । क्षान्तिवीर्यध्यानबलेन ह्युभयं क्रियते । तस्माद्द्वयसंभारस्रयं भवति । पुनः प्रज्ञायां परिणामनात्सर्वाः पञ्च पारमिता ज्ञानसंभारो वेदितव्यः । संतत्या भावनामेत्य भूयो भूयः शुभस्य हि । आहारो यः स संभारो वी[धी]रे सर्वार्थसाधकः ॥ १८.४० ॥ एतत्संभारनिर्वचनं कर्म च । समिति संतत्या । भा इति भावनामागम्य । र इति भूयो भूय आहारः । सर्वार्थसाधक इति कर्म । स्वपरार्थयोः साधनात् । (१३५) प्रवेशायानिमित्ताय अनाभोगाय संभृतिः । अभिषेकाय निष्ठायै धीराणामुपचीयते ॥ १८.४१ ॥ अयं संभारप्रभेदः । तत्राधिमुक्तिचर्याभूमौ संभारो भूमिप्रवेशाय । षट्सु भूमिष्वनिमित्ताय सप्तमीभूमिसंगृहीताय । तस्यां निमित्त-[आ] समुदाचारात् । सप्तम्यां भूमावनाभोगाय तदन्यभूमिद्वयसंगृहीताया । तयोः संभारा[रोऽ]भिषेकाय दशमीभूमिसंगृहीताय । तस्यां संभारो निष्ठागमनाय बुद्धभूमिसंगृहीताय । स्मृत्युपस्थानविभागे त्रयः श्लोकाः । चतुर्दशभिराकारैः स्मृत्युपस्थानभावना । धीमतामसमत्वात्सा तदन्येभ्यो विशिष्यते ॥ १८.४२ ॥ कतमैश्चतुर्दशभिः । निश्रयात्प्रतिपक्षाच्च अवतारात्तथैव च । आलम्बनमनस्कारप्राप्तितश्च विशिष्यते ॥ १८.४३ ॥ आनुकूल्यानुवृत्तिभ्यां परिज्ञोत्पत्तितोऽपरा । मात्रया परमत्वेन भावनासमुदागमात् ॥ १८.४४ ॥ इत्येभिश्चतुर्दशभिराकारैर्बोधिसत्वानां स्मृत्युपस्थानभावना विशिष्यते । कथमाश्रयतो महायाने श्रुतचिन्ताभावनामयीं प्रज्ञामाश्रित्य । कथं प्रतिपक्षतः चतुर्विपर्यासप्रतिपक्षाणामप्यशुचिदुःखानित्यानात्मसंज्ञानां प्रतिपक्षत्वात्कायादिधर्म नैरात्म्यप्रवेशतः । कथमवतारतः । चतुर्भिः स्मृत्युपस्थानैर्यथाक्रमं दुःखसमुदयनिरोधमार्गसत्यावतारात्स्वयं परेषां चावतारणात् । यथोक्तं मध्यान्तविभागे । कथमालम्बनतः सर्वसत्त्वकायाद्यालम्बनात् । कथं मनस्कारतः कायाद्यनुपलम्भात् । कथं प्राप्तितः कायादीनां न विसंयोगाय नाविसंयोगाय । कथमानुकूल्यतः पारमितानुकूल्येन तद्विपक्षप्रतिपक्षत्वात् । कथमनुवृत्तितः लौकिकानां श्रावकप्रत्येकबुद्धानां चानुवृत्त्या तदुपसंहितस्मृत्युपस्थानभावनात्तेभ्यस्तदुपदेशार्थम् । कथं परिज्ञातः कायस्य मायोपमत्वपरिज्ञया तथैवाभूतरूपसंप्रख्यानात् । वेदनायाः स्वप्नोपमत्वपरिज्ञया तथैव मिथ्यानुभवात् । चित्तस्य प्रकृतिप्रभास्वरत्वपरिज्ञया आकाशवत् । धर्माणामागन्तुकत्वपरिज्ञया आकाशागन्तुरजोधूमाभ्रनीहारोपक्लेशवत् । कथमुत्पत्तितः संचित्यभवोपपत्तौ चक्रवर्त्यादिभूतस्य विशिष्टकायवेदनादिसंपत्तौ तदसंक्लेशतः । कथं मात्रातः मृद्वा अपि स्मृत्युपस्थानभावनायास्तदन्येभ्योऽधिमात्रत्वात् । प्रकृतितीक्ष्णेन्द्रियतया । कथं परमत्वेन परिनिष्पन्नानामनाभोगमिश्रोपमिश्रभावनात् । कथं भावनातः (१३६) अत्यन्तं तद्भावनात्निरुपधिशेषनिर्वाणेऽपि तदक्षयात् । कथं समुदागमतः । दशसु भूमिषु बुद्धत्वे च समुदागमात् । सम्यक्प्रहाणविभागे पञ्च श्लोकाः । सम्यक्प्रहाणं धीराणामसमं सर्वदेहिभिः । स्मृत्युपस्थानदोष[आ]णां प्रतिपक्षेण भाव्यते ॥ १८.४५ ॥ यावत्यः स्मृत्युपस्थानभावना उक्ताः तद्विपक्षाणां दोषाणां प्रतिपक्षेण सम्यक्प्रहाणभावनेति समस्तं सम्यक्प्रहाणलक्षणम् । प्रभेदेन पुनः । संसारस्योपभोगे च त्यागे निवरणस्य च । मनस्कारस्य च त्यागे प्रवेशे चैव भूमिषु ॥ १८.४६ ॥ अनिमित्तविहारे च लब्धौ व्याकरणस्य च । सत्त्वानां परिपाके च अभिषेके च धीमताम् ॥ १८.४७ ॥ क्षेत्रस्य च विशुद्ध्यर्थं निष्ठागमन एव च । भाव्यते बोधिसत्त्वानां विपक्षप्रतिपक्षतः ॥ १८.४८ ॥ अयं सम्यक्प्रहाणभावनाप्रभेदः । संसारस्यासंक्लिष्टपरिभोगे संपत्तिषु । पञ्चनिवारणत्यागे । श्रावकप्रत्येकबुद्धमनस्कारत्यागे । भूमिप्रवेशे । अनिमित्तविहारे सप्तम्यां भूमौ । व्याकरणलाभे अष्टम्याम् । सत्त्वानां परिपाचने । नवम्याम् । अभिषेके च दशम्याम् । क्षेत्रविशुद्ध्यर्थं त्रयेऽपि । निष्ठागमने च बुद्धभूमौ । ये च विपक्षास्तेषां प्रतिपक्षेण सम्यक्प्रहाणभावना वेदितव्या । अयमस्याः प्रभेदः । छन्दं निश्रित्य योगस्य भावना सनिमित्तिका । सर्वसम्यक्प्रहाणेषु प्रतिपक्षो निरुच्यते ॥ १८.४९ ॥ एतेन छन्दं जनयति । व्यायच्छते वीर्यमारभते । चित्तं प्रगृण्हाति । सम्यक्प्रदधातीति । एषां पदानामर्थनिर्देशः । छन्दं हि निश्रित्य शमथविपश्यनाख्यं योगं भावयतीति व्यायच्छते । सा च भावना शमथप्रग्रहोपेक्षानिमित्तैः सह भाव्यते । तस्मात्सा सनिमित्तिका । कथं च पुनर्भाव्यते । यच्छमथप्रग्रहोपक्लेशयोर्लयौद्धत्ययोः प्रतिपक्षेण वीर्यमारभते । कथमारभते । चित्तं प्रगृण्हाति प्रदधाति च । [तत्र प्रगृण्हातीतिप्रज्ञया । प्रदधातीति?] शमथे [न?] समप्राप्ते चो[प्तश्चो]पेक्षायां प्रदधाति । एषा योगभावना यथोक्तप्रभेदेषु सर्वसम्यक्प्रहाणेषु प्रतिपक्ष उच्यते । ऋद्धिपादविभागे पञ्च श्लोकाः । (१३७) ऋद्धिपादाश्च चत्वारो धीराणामग्रलक्षणाः । सर्वार्थसिद्धौ जायन्ते आत्मनश्च परस्य च ॥ १८.५० ॥ सर्वार्थसिद्धिर्लौकिकी लोकोत्तरा च वेदितव्या । शेषं गतार्थम् । निश्रयाच्च प्रभेदाच्च उपायादभिनिर्हृतेः । व्यवस्था ऋद्धिपादानां धीमतां सर्वथेष्यते ॥ १८.५१ ॥ अस्योद्देशस्य शेषो निर्देशः । ध्यानपारमिमाश्रित्य प्रभेदो हि चतुर्विधः । उपायश्चाभिनिर्हारः षड्विधश्च विधीयते ॥ १८.५२ ॥ ध्यानपारमितानिश्रयः प्रभेदश्चतुर्विधश्छन्दवीर्यचित्तमीमांसासमाधिभेदात् । उपायश्चतुर्विध एव । अभिनिर्हारः षड्विधः । चतुर्विध उपायः कतमः । व्यावसायिक एकश्च द्वितियोऽनुग्रहात्मकः । नैबन्धिकस्तृतीयश्च चतुर्थः प्रातिपक्षिकः ॥ १८.५३ ॥ अष्टानां प्रहाणसंस्काराणां छन्दो व्यायामः श्रद्धा व्यावसायिकः उपायः । श्रद्दधानस्यार्थिनो व्यायामात् । प्रश्रब्धिरनुग्राहकः । स्मृतिः संप्रजन्यं चौपनिबन्धकः । एकेन चित्तस्यालम्बनाविसारात् । द्वितीयेन विसारप्रज्ञानात् । चेतना चोपेक्षा च प्रातिपक्षिक उपायः । लयौद्धत्योपक्लेशयोः क्लेशानां च प्रतिपक्षत्वात् । षड्विधोऽभिनिर्हारः कतमः । दर्शनस्याववादस्य स्थितिविक्रीडितस्य च । प्रणिधेर्वशितायाश्च धर्मप्राप्तेश्च निर्हृतिः ॥ १८.५४ ॥ तत्र दर्शनं चक्षुः पञ्चविधं मांसचक्षुः दीव्यं चक्षुः आर्यं प्रज्ञाचक्षुः धर्मचक्षुः बुद्धचक्षुश्च । अववादः षडभिज्ञा यथाक्रमम् । ताभिरुपसंक्रम्य भाषां चित्तं चागतिं च गतिं च विदित्वा निःसरणायाववदनात् । स्थितिविक्रिडितं यस्मात्बोधिसत्त्वानां बहुविधं निर्माणादिभिः समाधिविक्रीडितम् । प्रणिधिर्येन प्रणिधिज्ञानेन प्रणिधानबलिका बोधिसत्त्वाः प्रणिधानवैशेषिकतया विक्रीडन्ति । येषां न सुकरं संख्या कर्तुं कायस्य वा प्रभाया वा स्वरस्य वेति विस्तरेण यथा दशभूमिके सूत्रे । वशिता यथा तत्रैव दश वशिता निर्दिष्टाः । धर्मप्राप्तिर्बलवैशारद्यावेणिकबुद्धधर्माणां प्राप्तिः । इत्येष दर्शनादीनामभिनिर्हारः षड्विधः । (१३८) इन्द्रियविभागे श्लोकः । बोधिश्चर्या श्रुतं चात्र[ग्रं]शमथोऽथ विपश्यना । श्रद्धादीनां पदं ज्ञेयमर्थसिद्ध्यधिकारतः ॥ १८.५५ ॥ श्रद्धेन्द्रियस्य बोधिः पदमालम्बनमित्यर्थः । वीर्येन्द्रियस्य बोधिसत्त्वचर्या । स्मृतीन्द्रियस्य महायानसंगृहीतं श्रुतम् । समाधीन्द्रियस्य शमथः । प्रज्ञेन्द्रियस्य विपश्यना पदम् । तदर्थाधिकारेणैव चैतानि श्रद्धादीनि आधिपत्यार्थेनेन्द्रियाण्युच्यन्ते । बलविभागे श्लोकः । भूमिप्रवेशसंक्लिष्टाश्चेष्टाः श्रद्धादयः पुनः । विपक्षदुर्बलत्वेन त एव बलसंज्ञिताः ॥ १८.५६ ॥ गतार्थः श्लोकः । बोध्यङ्गविभागे सप्त श्लोकाः । भूमिविष्टस्य बोध्यङ्गव्यवस्थानं विधीयते । धर्माणां सर्वसत्त्वानां समतावगमात्पुनः ॥ १८.५७ ॥ एतेन यस्यामवस्थायां यस्यावबोधात्बोध्यङ्गानि व्यवस्थाप्यन्ते तदुपदिष्टम् । भूमिप्रविष्टावस्थायां सर्वधर्माणां सर्वसत्त्वानां च समतावबोधाद्यथाक्रमं धर्मनैरात्म्येनात्मपरसमतया च । अतः परं चक्रादिसप्तरत्नसाधर्म्यं बोध्यङ्गानां दर्शयति । स्मृतिश्चरति सर्वत्र ज्ञेयाजितविनिर्जये । अजितज्ञेयविनिर्जयाय । यथा चक्रवर्तिनश्चक्ररत्नमजितदेशविनिर्जयाय । सर्वकल्पनिमित्तानां भङ्गाय विचयोऽस्य च ॥ १८.५८ ॥ यथा हस्तिरत्नं प्रत्यर्थिकभङ्गाय । आशु चाशेषबोधाय वीर्यमस्य प्रवर्तते । क्षिप्राभिज्ञतोत्पादनात् । यथाश्वरत्नमाशु समुद्रपर्यन्तमहापृथिवीगमनाय । धर्मालोकविवृद्ध्या च प्रीत्या आपूर्यते ध्रुवम् ॥ १८.५९ ॥ आरब्धवीर्यस्य बोधिसत्त्वस्य धर्मालोका विवर्धन्ते । ततः प्रीतिः सर्वं कार्यं[यं] सदा प्रीणयति । यथा मणिरत्नमालोकविशेषेण चक्रवर्तिनं प्रीणयति । सर्वावरणनिर्मोक्षात्प्रश्रब्ध्या सुखमेति च । सर्वदौष्ठुल्यसमुत्पाद[ट]नात् । यथा स्त्रीरत्नेन चक्रवर्ती सुखमनुभवति । (१३९) चिन्तितार्थसमृद्धिश्च समाधेरूपजायते ॥ १८.६० ॥ यथा चक्रवर्तिनो गृहपतिरत्नात् । उपेक्षया यथाकामं सर्वत्र विहरत्यसौ । प[पृ]ष्ठलब्धाविकल्पेन विकल्पेन[विहारेण]सदोत्तमः ॥ १८.६१ ॥ उपेक्षोच्यते निर्विकल्पं ज्ञानं तया बोधिसत्त्वः सर्वत्र यथाकामं विहरति । तत्पृष्ठलब्धेन च विहारेणान्यस्योपगमात् । अन्यस्यापगमात् । निर्विकल्पेन विहारेण तत्र निर्व्यापारतया वासकल्पनात् । यथा चक्रवर्तिनः परिणायकरत्नं चतुरङ्गबलकायमुपनेतव्यं चोपप्रणयति[गमयति] । अपनेतव्यं चापनयति । तत्र च गत्वा वासं कल्पयति यत्राखिन्नः चतुरङ्गो बालकायः परैति । एवंगुणो बोधिसत्त्वश्चक्रवर्तीव वर्तते । सप्तरत्नोपमैर्नित्यं बोध्यङ्गैः परिवारितः ॥ १८.६२ ॥ इति सप्तरत्नोपमत्वं बोध्यङ्गानां निगमयति । निश्रयाङ्गं स्वभावाङ्गं निर्याणाङ्गं तृतीयकम् । चतुर्थमनुशंसाङ्गमक्लेशाङ्गं त्रयात्मकम् ॥ १८.६३ ॥ एतेन यब्दोध्यङ्गं यथाङ्गं तदभिद्योतितम् । स्मृतिर्निश्रयाङ्गं सर्वेषां तन्निश्रयेण प्रवृत्तेः । धर्मप्रविचयः स्वभावाङ्गं बोधेस्तत्स्वभावत्वात् । वीर्यं निर्याणाङ्गं तेनाप्राप्यनिष्ठा यामधिष्ठानात्[विच्छेदात्] । प्रीतिरनुशंसाङ्गं चित्तसुखत्वात् । प्रश्रब्धिसमाध्युपेक्षा असंक्लेशाङ्गम् । येन यन्निश्रित्य योऽसंक्लेश इति त्रिविधमसंक्लेशाङ्गं वेदितव्यम् । मार्गाङ्गविभागे द्वौ श्लोकौ । यथाबोधानुवृत्तिश्च तदूर्ध्वमुपजायते । यथाबोधव्यवस्थानं प्रवेशश्च व्यवस्थितौ ॥ १८.६४ ॥ कर्मत्रयविशुद्धिश्च प्रतिपक्षश्च भावना । ज्ञेयावृत्तेश्च मार्गस्य वैशेषिकगुणस्य च ॥ १८.६५ ॥ बोध्यङ्गकालादूर्ध्वं यथाभूतावबोधानुवृत्तिः सम्यग्दृष्टिः । तस्यैवावबोधस्य व्यवस्थानं परिच्छेदः सम्यक्संकल्पः । तद्व्यवस्थाने च सूत्रादिके भगवता कृते स एव प्रवेशस्तेन तदर्थावबोधात् । कर्मत्रयविशुद्धिः सम्यग्वाक्कर्मान्ताजीवाः । वाक्कायोभयकर्मसंग्रहात् । प्रतिपक्षस्य भावना सम्यग्व्यायामादयो यथाक्रमं ज्ञेयावरणस्य मार्गावरणस्य च वैशेषिकगुणावरणस्य च सम्यग्व्यायामेन दीर्घं हि कालमखिद्यमानो ज्ञेयावरणस्य प्रतिपक्षं भावयति । (१४०) सम्यक्स्मृत्या शमथप्रग्रहोपेक्षानिमित्तेषु लयोद्धत्याभावान्मार्गसंमुखीभावायावरणस्य प्रतिपक्षं भावयति । सम्यक्समाधिना वैशेषिकगुणाभिनिर्हारायावरणस्य प्रतिपक्षं भावयत्येवमष्टौ मार्गाङ्गानि व्यवस्थाप्यन्ते । शमथविपश्यनाविभागे त्रयः श्लोकाः । चित्तस्य चित्ते स्थानाच्च धर्मप्रविचयादपि । सम्यक्स्थितिमुपाश्रित्य शमथोऽथ विपश्यना ॥ १८.६६ ॥ सम्यक्समाधिं निश्रित्य चित्ते चित्तस्यावस्थानात् । धर्माणां च प्रविचयाद्यथाक्रमं शमथो विपश्यना च वेदितव्या । न तु विना सम्यक्समाधिनेत्येतच्छमथविपश्यनालक्षणभू । सर्वत्रगा च सैकांशा नैकांशोपनिषन्मता । सा च शमथविपश्यना सर्वत्रगा यं यं गुणमाकाङ्क्षति तत्र तत्र तद्भावनात् । यथोक्तं सूत्रे । आकाङ्क्षेद्भिक्षुरहो वताहं विविक्तं कामैरिति विस्तरेण यावत्तेन भिक्षुणा इमावेव द्वौ धर्मौ भावयितव्यौ । यदुत शमथश्च विपश्यना चेत्येवमादि । एकांशा शमथविपश्यना यदा शमथं भावयति । विपश्यनां वा । उभयांशा यदा युगपदुभयं भावयति । उपनिषत्संमता शमथविपश्यना बोधिसत्त्वानामधिमुक्तिचर्याभूमौ । प्रतिवेधे च निर्याणे अनिमित्ते ह्यसंस्कृते ॥ १८.६७ ॥ परिशुद्धौ विशुद्धौ च शमथोऽथ विपश्यना । सर्वभूमिगता धीरे स योगः सर्वसाधकः ॥ १८.६८ ॥ इत्युपनिषन्मतेत्येवमादिना शमथविपश्यनायाः प्रभेदः कर्म च निर्दिष्टम् । योग उपायो वेदितव्यः । तत्र प्रतिवेधः प्रथमभूमिप्रवेशः । निर्याणं यावत्षष्ठी भूमिः । ताभिः सनिमित्तप्रयोगनिर्याणात् । अनिमित्तं सप्तमी भूमिः । असंस्कृतमन्यद्भूमित्रयमनभिसंस्कारवाहित्वात् । संस्कारो हि संस्कृतं तदत्र नास्तीत्यसंस्कृतम् । तदेव च भूमित्रयं निश्रित्य बुद्धक्षेत्रं च परिशोधयितव्यम् । बुद्धत्वं च प्राप्तव्यम् । तदेतद्यथाक्रमं परिशुद्धिर्विशुद्धिश्च । उपायकौशल्यविभागे द्वौ श्लोकौ । पूरये बुद्धधर्माणां सत्त्वानां परिपाचने । क्षिप्रप्राप्तौ क्रियाशुद्धौ वर्त्माच्छेदे च कौशलम् ॥ १८.६९ ॥ उपाये बोधिसत्त्वानामसमं सर्वभूमिषु । यत्कौशल्यं समाश्रित्य सर्वार्थान्साधयन्ति ते ॥ १८.७० ॥ (१४१) अनेनोपायकौशल्यस्य प्रभेदः कर्म च दर्शितम् । तत्र बुद्धधर्मपरिपूरये निर्विकल्पं ज्ञानमुपायः । सत्त्वपरिपाचने चत्वारि संग्रहवस्तूनि । क्षिप्राभिसंबोधे सर्वं पापं प्रतिदेशयामि यावद्भवतु मे ज्ञानं संबोधायेति प्रतिदेशनानुमोदनाध्येषणा परिणामना । क्रियाशुद्धौ समाधिधारणीमुखानि । तैः सर्वार्थक्रियासाधनात् । वर्त्मानुपच्छेदे अप्रतिष्ठितनिर्वाणे । अस्मिन् पञ्चविध उपाये सर्वभूमिषु बोधिसत्त्वानामसमं तदन्यैः कौशलमित्ययं प्रभेदः । सर्वस्वपरार्थसाधनं कर्म । धारणीविभागे त्रयः श्लोकाः । विपाकेन श्रुताभ्यासात्धारण्यपि समाधिना । परीत्ता महती सा च महती त्रिविधा पुनः ॥ १८.७१ ॥ अप्रविष्टविप्रविष्टानां धीमतां मृदुमध्यमा । अशुद्धभूमिकानां हि महती शुद्धभूमिका ॥ १८.७२ ॥ धारणी[णीं]तां समाश्रित्य बोधिसत्वा पुनः पुनः । प्रकाशयन्ति सद्धर्मं नित्यं संधारयन्ति च ॥ १८.७३ ॥ अत्रापि प्रभेदः कर्म च धारण्याः संदर्शितम् । तत्र त्रिविधा धारणी । पूर्वकर्मविपाकेन । श्रुताभ्यासेन । दृष्टधर्मबाहुश्रुत्येन ग्रहणधारणसामर्थ्यविशेषणात् । समाधिसंनिश्रयेण च । सा पुनर्विपाकश्रुताभ्यासाभ्यां परीत्ता वेदितव्या । समाधिना महती । सापि महती पुनस्त्रिविधा । अभूमिप्रविष्टानां मृद्वी भूमिप्रविष्टानामशुद्धभूमिकानां मध्या सप्तसु भूमिषु । परिशुद्धभूमिका त्वधिमात्रा शेषासु भूमिषु इत्ययं प्रभेदो धारण्याः । सद्धर्मस्य प्रकाशनं धारणं च कर्म । प्रणिधानविभागे त्रयः श्लोकाः । चेतना छन्दसहिता ज्ञानेन प्रेरिता च तत् । प्रणिधानं हि धीराणामसमं सर्वभूमिषु ॥ १८.७४ ॥ हेतुभूतं च विज्ञेयं चित्तात्सद्यः फलं च तत् । आयत्यामर्थसिद्ध्यर्थं चित्तमात्रात्समृद्धितः ॥ १८.७५ ॥ चित्रं महद्विशुद्धं च उत्तरोत्तरभूमिषु । आबोधेर्बोधिसत्त्वानां स्वपरार्थप्रसाधकम् ॥ १८.७६ ॥ अत्र प्रणिधानं स्वभावतो निदानतो भूमितः प्रभेदतः कर्मतश्च परिदीपितम् । चेतना छन्दसंप्रयुक्ता स्वभावः । ज्ञानं निदानम् । सर्वभूमिष्विति भूमिः । तच्च प्रणिधानं हेतुभूतं (१४२) चित्तादेव सद्यः फलत्वात् । आयत्यां वा[चा]भिप्रेतार्थसिद्ध्यर्थं चित्तात्पुनः सद्यःफलं चित्तमात्रात्यथाभिप्रेतार्थसमृद्धिता[तो] । वेदितव्या[व्यं] । येन प्रणिधानेन बलिका बोधिसत्त्वा विक्रीडन्ति । यस्य न सुकरा संख्या कर्तुं कायस्य वेति विस्तरः । चित्रमधिमुक्तिचर्याभूमावेवं चैवं च स्यामिति । महद्भुमिप्रविष्टस्य दश महाप्रणिधानानि । विशुद्धमुत्तरोत्तरासु भूमिषु विशुद्धिविशेषादाबोधेरित्येष प्रभेदतः । स्वपरार्थप्रसाधनं कर्म । समाधित्रयविभागे त्रयः श्लोकाः । नैरात्म्यं द्विविधं ज्ञेयो ह्यात्मग्राहस्य चाश्रयः । तस्य चोपशमो नित्यं समाधित्रयगोचरः ॥ १८.७७ ॥ त्रयाणां समाधीनां त्रिविधो गोचरो ज्ञेयः । पुद्गलधर्मनैरात्म्यं शून्यतासमाधेः । तदुभयात्मग्राहस्याश्रयः पञ्चोपादानस्कन्धा अप्रणिहितसमाधेः । तस्याश्रयस्यात्यन्तोपशम आनिमित्तसमाधिः । स एव । समाधिस्त्रिविधो ज्ञेयो ग्राह्यग्राहकभावतः । त्रिविधश्च ग्राह्यस्य गोचरस्य ग्राहका ये समाधयः । ते शून्यतादिसमाधयः इति ग्राह्यग्राहकभावेन त्रयः समाधयो ज्ञातव्याः । ते पुनर्यथाक्रमम् । निर्विकल्पोऽपि विमुखो रतियुक्तश्च सर्वदा ॥ १८.७८ ॥ शून्यतासमाधिर्निर्विकल्पः । पुद्गलधर्मात्मनोरविकल्पनात् । अप्रणिहितो विमुखस्तस्मादात्मग्राहाश्रयात् । आनिमित्तो रतिसंप्रयुक्तः सर्वकालं तस्मिंस्तदाश्रयोपशमे । परिज्ञायै प्रहाणाय पुनः साक्षात्क्रियाय च । शून्यतादिसमाधीनां त्रिधार्थः परिकीर्तितः ॥ १८.७९ ॥ पुद्गलधर्म नैएरात्म्ययोः परिज्ञार्थं शून्यता । तदात्मग्राहाश्रयस्य प्रहाणार्थमप्रणिहितः । तदुपशमस्य साक्षात्क्रियार्थमानिमित्तः समाधिः । धर्मोद्दानविभागे श्लोकौ । समाध्युपनिषत्त्वेन धर्मोद्दानचतुष्टयम् । देशितं बोधिसत्त्वेभ्यः सत्त्वानां हितकाम्यया ॥ १८.८० ॥ तत्र सर्वसंस्कारा अनित्याः सर्वसंस्कारा दुःखाः इत्यप्रणिहितस्य समाधेरूपनिषद्भावेन देशितम् । सर्वधर्मा अनात्मान इति शून्यतायाः । शान्तं निर्वाणमिति आनिमित्तस्य समाधेः । कः पुनरनित्यार्थो यावच्छान्तार्थः इत्याह । असदर्थोऽविकल्पार्थः परिकल्पार्थ एव च । विकल्पोपशमार्थश्च धीमतां तच्चतुष्टयम् ॥ १८.८१ ॥ (१४३) बोधिसत्त्वानामसदर्थोऽनित्यार्थः । यन्नित्यं नास्ति तदनित्यं तेषां यत्परिकल्पितलक्षणम् । अभूतविकल्पार्थो दुःखार्थो यत्परतन्त्रलक्षणम् । परिकल्पमात्रार्थोऽनात्मार्थः । एवशब्देनावधारणं परिकल्पित आत्मा नास्ति परिकल्पमात्रं त्वस्तीति परिकल्पितलक्षणस्याभावार्थोऽनात्मार्थ इत्युक्तं भवति । विकल्पोपशमार्थः शान्तार्थः परिनिष्पन्नलक्षणं निर्वाणम् । क्षणभङ्गार्थोऽप्यनित्यार्थो वेदितव्यः परतन्त्रलक्षणस्य । अतस्तत्प्रसाधनार्थं क्षणिकत्वविभागे दश श्लोकाः । अयोगाद्धेतुतोत्पत्तेर्विरोधात्स्वयमस्थितेः । अभावाल्लक्षणैकान्त्यादनुवृत्तेर्निरोधतः ॥ १८.८२ ॥ परिणामोपलब्धेश्च तद्धेतुत्वफलत्वतः । उपात्तत्वाधिपत्वा[त्या]च्च शुद्धसत्त्वानुवृत्तितः ॥ १८.८३ ॥ तत्र क्षणिकं सर्वं संस्कृतमिति पश्चाद्वचनदियं प्रतिज्ञा वेदितव्या । तत्पुनः कथं सिध्यति । क्षणिकत्वमन्तरेण संस्काराणां प्रवृत्तेरयोगात् । प्रबन्धेन हि वृत्तिः प्रवृत्तिः । सा चान्तरेण प्रतिक्षणमुत्पादनिरोधौ न युज्यते । अथ कालान्तरं स्थित्वा पूर्वोत्तरनिरोधोत्पादतः प्रबन्धेनेष्यते वृत्तिः । तदनन्तरं प्रवृत्तिर्न स्यात्प्रबन्धाभावात् । नैव चोत्पन्नस्य विना प्रबन्धेन कालान्तरं भावो युज्यते । किं कारणं हेतुत उत्पत्तिः । हेतुतो हि सर्वं संस्कृतमुत्पद्यते भवतीत्यर्थः । तद्यदि भूत्वा पुनरुत्तरकालं भवति तस्यावश्यं हेतुना भवितव्यम् । विना हेतुना आदित इवा[एवा]भावात् । न च तत्तेनैव हेतुना भवितुमर्हति तस्योपयु[भु]क्तहेतुकत्वात् । न चान्यो हेतुरुपलम्भते । तस्मात्प्रतिक्षणमवश्यं पूर्वहेतुकमन्यद्भवतीति वेदितव्यम् । एवं विना प्रबन्धेनोत्पन्नस्य कालान्तरं भावो न युज्यते । अथाप्येवमिष्येत नोत्पन्नं पुनरुत्पद्यते यदर्थं हेतुना भवितव्यं स्यादुत्पन्नं तु कालान्तरेण पश्चान्निरुध्यते नोत्पन्नमात्रमेवेति । तत्पश्चात्केन निरुध्यते । यद्युत्पादहेतुनैव तदयुक्तम् । किं कारणम् । उत्पादनिरोधयोर्विरोधात् । न हि विरोधयोस्तुल्यो हेतुरुपलभ्यते । तद्यथा छायातपयोः शीतोष्णयोश्च । कालान्तरनिरोधस्यैव च विरोधात् । केन विरोधात् । आगमेन च । यदुक्तं भगवता । मायोपमास्ते भिक्षो संस्कारा आपायिकास्तावत्कालिका इत्वरप्रत्युपस्थायिन इति । मनस्कारेण च योगिनाम् । ते हि संस्काराणामुदयव्ययौ मनसिकुर्वन्तः प्रतिक्षणं तेषां निरोधं पश्यन्ति । अन्यथा हि तेषामपि निर्विद्विरागविमुक्तयो न स्युर्यथान्येषां मरणकालादिषु निरोधं पश्यताम् । यदि चोत्पन्नः संस्कारः कालान्तरं तिष्ठेत्स स्वयमेव वा तिष्ठेत्स्वयमेव स्थातुं समर्थः । स्थितिकारणेन (१४४) वा केनचित् । स्वयं तावदवस्थानमयुक्तम् । किं कारणम् । पश्चात्स्वयमस्थितेः । केन वा सोऽन्ते पुनः स्थातुं न समर्थः । स्थितिकारणेनापि न युक्तं तस्याभावात् । न हि तत्किंचिदुपलभ्यते । अथापि स्याद्विनापि स्थितिकारणेन विनाशकारणाभावातवतिष्ठते । लब्धे तु विनाशकारणे पश्चाद्विनश्यति अग्निमेव श्यामतेति । तदयुक्तं, तस्याभावात् । न हि विनाशकारणं पश्चादपि किंचिदस्ति । अग्निनापि श्यामता विनस्यतीति सुप्रसिद्धं [न प्रसिद्धं,] । विसदृशोत्पत्तौ तु तस्य सामर्थ्यं प्रसिद्धम् । तथा हि तत्संबन्धात्श्यामतायाः संततिर्विसदृशी गृह्यते न तु सर्वथैवाप्रवृत्तिः । अपामपि क्वाथ्यमानानामग्निसम्बन्धादल्पतरतमोत्पत्तितोऽतिमान्द्यादन्ते पुनरनुत्पत्तिर्गृह्यते । न तु सकृदेवाग्निसंबन्धात्तदभावः । नैव चोत्पन्नस्य कस्यचिद्[त] स्थानं युज्यते । लक्षणैकान्त्यात् । ऐकान्तिकं ह्येतत्संस्कृतलक्षणमुक्तं भगवता यदुत संस्कृतस्यानित्यता । तद्यदि नोत्पन्नमात्रं विनश्येत् । कंचित्कालमस्यानित्यता न स्यादिति अनैकान्तिकमनित्यतालक्षणं प्रसह्य[ज्य]ते । अथापि स्यात्प्रतिक्षणमपूर्वोत्पत्तौ तदेवेदमिति प्रत्यभिज्ञानं न स्यादिति । तद्भवत्येव सादृश्यस्य अनुवृत्तेर्मायाकार प[फ]लकवत् । सादृश्यात्तद्बुद्धिर्न तद्भावादिति । कथं गम्यते । निरोधतः । न हि तथैवावस्थितस्यान्ते निरोधः स्यादादिक्षणनिर्विशिष्टत्वात् । तस्मान्न तत्तदेवेत्यवधार्यते अन्ते परिणामोपलब्धेश्च । परिणामो हि नामान्यथात्वम् । तद्यदि नादित एवारब्धं भवेदाध्यात्मिकबाह्यानां भावानामन्ते परिणामो नोपलभ्येत । तस्मादादित एवान्यथात्वमारब्धं यत्क्रमेणाभिवर्धमानमन्ते व्यक्तिमापद्यते क्षीरस्येव दद्यवस्थायाम् । यावत्तु तदन्यथात्वं सूक्ष्मत्वान्न परिच्छिद्यते । तावत्सादृश्यानुवृत्तेस्तदेवेदमिमि [ति]ज्ञायत इति सिद्धम् । ततश्च प्रतिक्षणमन्यथात्वात् । क्षणिकत्वं प्रसिद्धम् । कुतश्च प्रसिद्धम् । तद्धेतुत्वफलत्वतः । क्षणिकहेतुत्वात् । क्षणिकफलत्वाच्चेत्यर्थः । क्षणिकं हि चित्तं प्रसिद्धं तस्य चान्ये संस्काराश्चक्षुरूपादयो हेतुतः । तस्मात्तेऽपि क्षणिका इति सिद्धम् । न त्वक्षणिकात्क्षणिकं भवितुमर्हति यथा नित्यादनित्यमिति । चित्तस्य खल्वपि सर्वे संस्काराः फलम् । कथमिदं गम्यते । उपात्तत्वादाधिपत्याच्छुद्धसत्त्वानुवृत्तितश्च । चित्तेन हि सर्वे संस्काराश्चक्षुरादयः साधिष्ठाना उपात्ताः सहसंमुर्छनाः तदनुग्रहानुवृत्तितः । तस्मात्ते चित्तस्य फलम् । चित्तस्य चाधिपत्यं संस्कारेषु । यथोक्तं भगवता । चित्तेनायं लोको नीयते चित्तेन परिकृष्यते चित्तस्योत्पन्नस्योत्पन्नस्य वशे वर्तते इति । तथा विज्ञानप्रत्ययं नाम रूपमित्युक्तम् । तस्माच्चित्तस्य फलम् । शुद्धचित्तानुवृत्तितश्च । शुद्धं हि योगिनां चित्तं संस्कारा अनुवर्तन्ते । यथोक्तम् । ध्यायी भिक्षुः ऋद्धिमांश्चित्तवशे प्राप्त इमं दारुस्कन्धं सचेत्सुवर्णमधिमुच्यते तदप्यस्य तथैव (१४५) स्यादिति । तस्मादपि चित्तफलं संस्काराः । सत्त्वानुवृत्तितश्च । तथा हि पापकारिषु सत्त्वेषु बाह्या भावा हीना भवन्ति । पुण्यकारिषु च प्रणीताः । अतस्तच्चित्तानुवर्तनात्चित्तफलत्वं संस्काराणां सिद्धम् । ततश्च तेषां क्षणिकत्वम् । न हि क्षणिकस्याक्षणिकं फलं युज्यते तदनुविधायित्वात् । एवं तावदविशेषेण संस्काराणां क्षणिकत्वं द्वाभ्यां श्लोकाभ्यां साधितम् । आध्यात्मिकानां पुनः साधनार्थं पञ्च श्लोका वेदितव्याः । आद्यस्तरतमेनापि चयेनाश्रयभावतः । विकारपरिपाकाभ्यां तथा हीनविशिष्टतः ॥ १८.८४ ॥ भास्वराभास्वरत्वेन देशान्तरगमेन च । सबीजाबीजभावेन प्रतिबिम्बेन चोदयः ॥ १८.८५ ॥ चतुर्दशविधोत्पत्तौ हेतुमानविशेषतः । चयाया[पा]र्थादयोगाच्च आश्रयत्व असंभवात् ॥ १८.८६ ॥ स्थितस्यसंभवादन्ते आद्यनाशाविकारतः । तथा हीनविशिष्टत्वे भास्वराभास्वरेऽपि च ॥ १८.८७ ॥ गत्यभावात्स्थितायोगाच्चरमत्व असंभवात् । अनुवृत्तेश्च चित्तस्य क्षणिकं सर्वसंस्कृतम् ॥ १८.८८ ॥ आद्यस्तरतमेनापि यावत्क्षणिकं सर्वसंस्कृतमिति । कथमेषामेभिः क्षणिकत्वं सिध्यति । आध्यात्मिकानां हि संस्काराणां चतुर्दशविध उत्पादः । आद्य उत्पादो यावत्प्रथमत आत्मभावाभिनिर्वृत्तिः । तरतमेन यः प्रथमजन्मक्षणादूर्ध्वम् । चयेन य आहारस्वप्नब्रह्मचर्यासमापत्त्युपचयेन । आश्रयभावतः यश्चक्षुर्विज्ञानादीनां चक्षुरादीभिराश्रयैः । विकारेण यो रागादिभिर्वर्णादिविपरिणामतः । परिपाकेन यो गर्भबालकुमारयुवमध्यमवृद्धावस्थासु । हीनत्वेन विशिष्टत्वेन च यो दुर्गतौ [सुगतौ?] चोत्पद्यमानानां यथाक्रमम् । भास्वरत्वेन यो निर्मितकामेषु परनिर्मितकामेषु रूपारूप्येषु चोपपन्नानां चित्तमात्राधीनत्वात् । अभास्वरत्वेन यस्तदन्यत्रोपपन्नानाम् । देशान्तरगमनेन योऽन्यदेशोत्पादनिरोधेऽन्यदेशोत्पादः । सबीजत्वेन योऽहर्तश्चरमान् स्कन्धान्वर्जयित्वा । अबीजत्वेन यस्तेषामेवार्हतश्चरमेषाम् । प्रतिबिम्बत्वेन यो अष्टविमोक्षध्यायिनां समाधिवशेन प्रतिबिम्बानां[ख्यानां] संस्काराणामुत्पादः । एतस्यां चतुर्दशविधायामुत्पत्तावाध्यात्मिकानां संस्काराणां क्षणिकत्वं हेतुमानविशेषादिभिः कारणैर्वेदितव्यम् । आद्योत्पादे तावथेतुत्वविशेषात् । यदि हि तस्य हेतुत्वेन विशेषो न स्यात्तदुत्तरायाः संस्कारप्रवृत्तेरुत्तरोत्तरविशेषो (१४६) नोपलभ्येत हेत्वविशेषात् । विशेषे च सति तदुत्तरेभ्यस्तस्यान्यत्वात्क्षणिकत्वसिद्धिः । तरतमोत्पादे मानविशेषात् । मानं प्रमाणमित्यर्थः । न हि प्रतिक्षणं विनान्यत्वेन परिमाणविशेषो भवेत् । उपचयोत्पादे चयापार्थ्यात् । उपस्तम्भो हि चयः । तस्यापार्थ्यं स्यादन्तरेण क्षणिकत्वं तथैवावस्थितत्वात् । अयोगाच्चोपचयस्यैव । न हि प्रतिक्षणं विना पुष्टतरोत्पत्त्या युज्येतोपचयः । आश्रयभावेनोत्पत्तावाश्रितत्वासंभवात् । न हि तिष्ठत्याश्रये च तदाश्रितस्यानवस्थानं युज्यते । याने तिष्ठति तदारूढानवस्थानवदन्यथा ह्याश्रयत्वं न संभवेत् । विकारोत्पत्तौ परिपाकोत्पत्तौ च स्थितस्यासंभवात् । आद्यनाशाविकारतः । न हि तथास्थितस्यैव रागादिभिर्विकारः संभवति । न चावस्थान्तरेषु परिपाक आदावविनाशे सत्यन्ते विकाराभावात् । तथा हीनविशिष्टोत्पत्तौ क्षणिकत्वं वेदितव्यं यथा विकारपरिपाकोत्पत्तौ । न हि तथास्थितेष्वेव संस्कारेषु कर्मवासना वृत्तिं लभते यतो दुर्गतौ वा स्यादुत्पत्तिः सुगतौ वा । क्रमेण हि संततिपरिणामविशेषात्वृत्तिलाभो युज्यते । भास्वराभास्वरेऽपि चोत्पादे तथैव क्षणिकत्वं युज्यते । भास्वरे तावत्तथास्थितस्यासंभवात्चित्ताधीनवृत्तितायाः । अभास्वरेऽपि चादौ विनाशमन्तरेणान्ते विकारायोगात् । देशान्तरगमनेनोत्पत्तौ गत्यभावात् । न हि संस्काराणां देशान्तरसंक्रान्तिलक्षणा गतिर्नाम काचित्क्रिया युज्यते । सा ह्युत्पन्ना वा संस्कारं देशान्तरं गमयेदनुत्पन्ना वा । यद्युत्पन्ना तेन गतिकाले न कंचिद्गत इति स्थितस्यैव गमनं नोपपद्यते । अथानुत्पन्ना तेनासत्यां गतौ गत इति न युज्यते । सा च क्रिया यदि तद्देशस्थ एव संस्कारे कारित्रं करोति न युज्यते । स्थितस्यान्यदेशाप्राप्तेः । अथान्यदेशस्थे न युज्यते । विना क्रिययान्यदेशाप्राप्तेः । न च क्रिया तत्र वा अन्यत्र वा देशे स्थिता संस्कारादन्योपलभ्यते । तस्मान्नास्ति संस्काराणां देशान्तरसंतत्युत्पादादन्या गतिः । तदभावाच्च सिद्धं क्षणिकत्वम् । देशान्तरनिरन्तरोत्पत्तिलक्षणा गतिर्विभवद्भिः कारणैर्वेदितव्या । अस्ति चित्तवशेन यथा चङ्क्रमणाद्यवस्थासु । अस्ति पूर्वकर्मावेधेन यथान्तराभवः । अस्त्यभिधात[अस्त्याक्षिप्त]वशेन यथा क्षिप्तस्येषोः । अस्ति संबन्धवशेन यथा याननदीप्लवारूढानाम् । अस्ति नोदनवशेन यथा वायुप्रेरितानां तृणादीनाम् । अस्ति स्वभाववशेन यथा वायोस्तिर्यग्गमनमग्नेरूर्ध्वं ज्वलनमपां निम्ने स्यन्दनम् । अस्त्यनुभावेन यथा मन्त्रौषधानुभावेन । केषांचिदयस्कान्तानुभावेनायसाम् । ऋद्ध्यनुभावेन ऋद्धिमताम् । सबीजाबीजभावेनोत्पत्तौ क्षणिकत्वं वेदितव्यं स्थितायोगाच्चरमासंभवाच्च । न हि प्रतिक्षणं हेतुभावमन्तरेण तथास्थितस्यान्यस्मिन्काले पुनर्बीजभावो युज्यते । निर्बीजत्वं वा चरमे क्षणे । न च शक्यं (१४७) पूर्वं सबीजत्वं चरमे क्षणे निर्बीजत्वमभ्युपगन्तुम् । तदभावे चरमत्वासंभवात् । तथा हि चरमत्वमेव न संभवति । प्रतिबिम्बोत्पत्तौ क्षणिकत्वं चित्तानुवृत्तितो वेदितव्यम् । प्रतिक्षणं चित्तवशेन तदुत्पादात् । एकान्तात्[एवं तावत्]साधितमाध्यात्मिकं सर्वसंस्कृतं क्षणिकमिति । बाह्यस्येदानीं क्षणिकत्वं त्रिभिः श्लोकैः साधयति । भूतानां षडिवधार्थस्य क्षणिकत्वं विधीयते । शोषवृद्धेः प्रकृत्या च चलत्वाद्वृद्धिहानितः ॥ १८.८९ ॥ तत्संभवात्पृथिव्याश्च परिणामचतुष्टयात् । वर्णगन्धरसस्पर्शतुल्यत्वाच्च तथैव तत् ॥ १८.९० ॥ इन्धनाधीनवृत्तित्वात्तारतम्योपलब्धितः । चित्तानुवृत्तेः पृच्छातः क्षणिकं बाह्यमप्यतः ॥ १८.९१ ॥ किं पुनस्तद्बाह्यम् । चत्वारि महाभूतानि । षडिवधश्चार्थः । वर्णगन्धरसस्पर्शशब्दा धर्मायतनिकं च रूपम् । अतो भूतानां षडिवधार्थस्य च क्षणिकत्वं विधीयते । कथं विधीयते । अपां तावच्छोषवृद्धेः । उत्ससरस्तटागादिष्वपां क्रमेण वृद्धिः शोषश्चोपलभ्यते । तच्चोभयमन्तरेण प्रतिक्षणं परिणामं न स्यात्पश्चाद्विशेषकारणाभावात् । वायोः प्रकृत्या चलत्वाद्वृद्धिहानितश्च । न ह्यवस्थितस्य चलत्वं स्यात्तत्स्वाभावादिति[गत्यभावादिति] प्रसाधितमेतत् । न च वृद्धिहासौ तथैवावस्थितत्वात् । पृथिव्यास्तत्संभवात्परिणामचतुष्टयाच्च । तच्छब्देनापश्च गृह्यन्ते वायुश्च । अद्भ्यो हि वायुसहिताभ्यः पृथिवी संभूता विवर्तकाले । तस्मात्तत्फलत्वात्सापि क्षणिका वेदितव्या । चतुर्विधश्च परिणामः पृथिव्या उपलभ्यते । कर्मकृतः सत्त्वानां कर्मविशेषात् । उपक्रमकृतः प्रहादिभिः । भूतकृतोऽग्न्यादिभिः । कालकृतः कालान्तरपरिणामतः[वासतः] । स चान्तरेण प्रतिक्षणमन्योत्पत्तिं न युज्यते विनाशकारणाभावात् । वर्णगन्धरसस्पर्शानां पृथिव्यादिभिस्तुल्यकारणत्वात्तथैव क्षणिकत्वं वेदितव्यम् । तेजसः पुनः क्षणिकत्वमिन्धनाधीनवृत्तित्वात् । न हि तेजस्युत्पन्ने तेजः सहोत्पन्नमिन्धनं तथैवावतिष्ठते । न च दग्धेन्धनं तेजः स्थातुं समर्थम् । मा भूदन्तेऽप्यनिन्धनस्यावस्थानमिति । श्लोकबन्धानुरोधाद्वर्णादीनां पूर्वमभिधानं पश्चात्तेजसः । शब्दः पुनर्योऽपि कालान्तरमुपलभ्यते घण्टादीनां तस्यापि क्षणिकत्वं वेदितव्यं तारतम्योपलब्धेः । न ह्यसति क्षणिकत्वे प्रतिक्षणमन्दतरतमोपलब्धिः स्यात् । धर्मायतनिकस्यापि रूपस्य क्षणिकत्वं प्रसिद्धमेव चित्तानुवृत्तेर्यथा पूर्वमुक्तम् । तस्माद्वाह्यमपि क्षणिकं प्रसिद्धम् । पृच्छ्रयते खल्वपि सर्वसंस्काराणां क्षणिकत्वं सिध्यति (१४८) कथं कृत्वा । इदं तावदयमक्षणिकवादी प्रष्टव्यः । कस्माद्भवाननित्यत्वमिच्छति न [?] संस्काराणां क्षणिकत्वं नेच्छतीति । यद्येवं वदेत्प्रतिक्षणमन्य[नित्य]त्वस्याग्रहणादिति स इदं स्याद्वचनीयः । प्रसिद्धक्षणिकभावेष्वपि प्रदीपादिषु निश्चलावस्थायां तदग्रहणादक्षणिकत्वं कस्मान्नेष्यते । यद्येवं वदेत्पूर्ववत्पश्चादग्रहणादिति । स इदं स्याद्वचनीयः । संस्काराणामपि कस्मादेवं नेष्यते । यद्येवं वदेत्विलक्षणत्वात्प्रदीपादितदन्यसंस्काराणामिति । स इदं स्याद्वचनीयः । द्विविधं हि वैलक्षण्यं स्वभाववैलक्षण्यं वृत्तिवैलक्षण्यं च । तद्यदि तावत्स्वभाववैलक्षण्यमभिप्रेतमत एव दृष्टान्तत्वं युज्यते । न हि तत्स्वभाव एव तस्य दृष्टान्तो भवति यथा प्रदीपः प्रदीपस्य गौर्वा गोरिति । अथ वृत्तिवैलक्षण्यमत एव दृष्टान्तत्वं प्रदीपादीनां प्रसिद्धत्वात् । क्षणिकत्वानुवृत्तेः पुनः स इदं प्रष्टव्यः । कच्चिदिच्छसि याने तिष्ठति यानारूढो गच्छेदिति । यदि नो हीति वदेत् । स इदं स्याद्वचनीयः । चक्षुरादिषु तिष्ठत्सु तदाश्रितं विज्ञानं प्रबन्धेन गच्छतीति न युज्यते । यद्येवं वदेत्ननु च दृष्टं वर्तिसंनिश्रिते प्रदीपे प्रबन्धेन गच्छति वर्त्या अवस्थानमिति । स इदं स्याद्वचनीयः । न दृष्टं तत्प्रबन्धेन वर्त्याः प्रतिक्षणं विकारोत्पत्तेरिति । यद्येवं वदेत्सति क्षणिकत्त्वे संस्काराणां कस्मात्प्रदीपादिव क्षणिअकत्वं न सिद्धमिति । स इदं स्याद्वचनीयः विपर्यासवस्तुत्वात् । सदृशसंततिप्रबन्धवृत्त्या हि क्षणिकत्वमेषां न प्रज्ञायते । यतः सत्यप्यपरापरत्वे तदेवेदमिति विपर्यासो जायते । इतरथा हि अनित्यनित्यविपर्यासो न स्यात्तदभावे संक्लेशो न स्यात्कुतः पुनर्व्यवदानमित्येवं पर्यनुयोगतोऽपि क्षणिकत्वं सर्वसंस्काराणां प्रसिद्धम् । पुद्गलनैरात्म्यप्रसाधनार्थं नैरात्म्यविभागे द्वादश श्लोकाः । प्रज्ञप्त्यस्तितया वाच्यः पुद्गलो द्रव्यतो न तु । नोपलम्भाद्विपर्यासात्संक्लेशात्क्लिष्टहेतुतः ॥ १८.९२ ॥ एकत्वान्यत्वतोवाच्यस्तस्माद्दोषद्वयादसौ । स्कन्धात्मत्वप्रसङ्गाच्च तद्द्रव्यत्वप्रसङ्गतः ॥ १८.९३ ॥ द्रव्यसन् यद्यवाच्यश्च वचनीयं प्रयोजनम् । एकत्वान्यत्वतोऽवाच्यो न युक्तो निष्प्रयोजनः ॥ १८.९४ ॥ लक्षणाल्लोकदृष्टाच्च शास्त्रतोऽपि न युज्यते । इन्धनाग्न्योरवाच्यत्वमुपलब्धेर्द्वयेन हि ॥ १८.९५ ॥ द्वये सति च विज्ञानसंभवात्प्रत्ययो न सः । नैरर्थक्यादतो द्रष्टा यावन्मोक्ता न युज्यते ॥ १८.९६ ॥ (१४९) स्वामित्वे सति चानित्यमनिष्टं न प्रवर्तयेत् । तत्कर्मलक्षणं साध्यं संबोधो बाध्यते त्रिधा ॥ १८.९७ ॥ दर्शनादौ च तद्यत्नः स्वयंभूर्न त्रयादपि । तद्यत्नप्रत्ययत्वं च निर्यत्नं दर्शनादिकम् ॥ १८.९८ ॥ अकर्तृत्वादनित्यत्वात्सकृन्नित्यप्रवृत्तितः । दर्शनादिषु यत्नस्य स्वयंभूत्वं न युज्यते ॥ १८.९९ ॥ तथा स्थितस्य नष्टस्य प्रागभावादनित्यतः । तृतीयपक्षाभावाच्च प्रत्ययत्वं न युज्यते ॥ १८.१०० ॥ सर्वधर्मा अनात्मानः परमार्थेन शून्यता । आत्मोपलम्भे दोषश्च देशितो यत एव च ॥ १८.१०१ ॥ संक्लेशव्यवदाने च अवस्थाच्छेदभिन्नके । वृत्तिसंतानभेदो हि पुद्गलेनोपदर्शितः ॥ १८.१०२ ॥ आत्मदृष्टिरनुत्पाद्या अभ्यासोऽनादिकालिकः । अयत्नमोक्षः सर्वेषां न मोक्षः पुद्गलोऽस्ति वा ॥ १८.१०३ ॥ पुद्गल किमस्तीति वक्तव्यो नास्तीति वक्तव्यः । आह । प्रज्ञप्त्यस्तितया वाच्यः पुद्गलो द्रव्यतो न तु । यतश्च प्रज्ञप्तितोऽस्तीति वक्तव्यो द्रव्यतो नास्तीति वक्तव्यः । एवमनेकांशवादपरिग्रहे नैवास्तित्वे दोषावकाशो न नास्तित्वे । स पुनर्द्रव्यतो नास्तीति कथं वेदितव्यः । नोपलम्भात् । न हि स द्रव्यत उपलभ्यते रूपादिवत् । उपलब्धिर्हि नाम बुद्ध्या प्रतिपत्तिः । न च पुद्गलं बुद्ध्या न प्रतिपद्यन्ते पुद्गलवादिनः । उक्तं च भगवता । दृष्ट एव धर्मे आत्मानमुपलभते प्रज्ञापयतीति कथं नोपलब्धो भवति । न स एवमुपलभ्यमानो द्रव्यत उपलब्धो भवति । किं कारणम् । विपर्यासात्तथा ह्यनात्मन्यात्मेति विपर्यास उक्तो भगवता । तस्माद्य एवं पुद्गलग्राहो विपर्यासः सः । कथमिदं गम्यते । संक्लेशात् । सत्कायदृष्टिक्लेशलक्षणो ह्येष संक्लेशो यदुत अहं ममेति । न च [चा] विपर्यासः संक्लेशो भवितुमर्हति । न[स] चैष संक्लेश इति कथं वेदितव्यम् । क्लिष्टहेतुतः । तथाहि तद्धेतुकाः क्लिष्टा रागादय उत्पद्यन्ते । यत्र पुनर्वस्तुनि रूपादिसंज्ञकेप्रज्ञप्तिः पुद्गल इति तस्मात्किमेकत्वेन पुद्गलो वक्तव्य आहोस्विदन्येत्वेन । आह । एकत्वान्यत्वतोऽवाच्यस्तस्मादसौ । किं कारणम् । दोषद्वयात् । कतमस्माद्दोषद्वयात् । (१५०) स्कन्धात्मत्वप्रसङ्गाच्च तद्द्रव्यत्वप्रसङ्गतः । एकत्वे हि स्कन्धानामात्मत्वं प्रसज्यते पुद्गलस्य च द्रव्यसत्त्वम् । अथान्यत्वे पुद्गलस्य द्रव्यसत्त्वम् । एवं हि पुद्गलस्य प्रज्ञप्तितोऽस्तित्वादवक्तव्यत्वं युक्तम् । तेनाव्याकृतवस्तुसिद्धिः । ये पुनः शास्तुः शासनमतिक्रम्य पुद्गलस्य द्रव्यतोऽस्तित्वमिच्छन्ति त इदं स्युर्वचनीयाः । द्रव्यसन्यद्यवाच्यश्च वचनीयं प्रयोजनम् । किं कारणम् । एकत्वान्यत्वतोऽवाच्यो न युक्तो निष्प्रयोजनः । अथ दृष्टान्तमात्रात्पुद्गलस्यावक्तव्यत्वमिच्छेयुः । यथाग्निरिन्धनान्नान्यो नानन्यो वक्तव्य इति । त इदं स्युर्वचनीयाः । लक्षणाल्लोकदृष्टाच्च शास्त्रतोऽपि न युज्यते । इन्धनाग्न्योरवाच्यत्वमुपलब्धेर्द्वयेन हि । एकत्वेनान्यत्वेन च अग्निर्हि नाम तेजोधातुरिन्धनं शेषाणि भूतानि । तेषां च भिन्नं लक्षणमित्यन्य एवाग्निरिन्धनात् । लोके च विनाप्यग्निना दृष्टमिन्धनं काष्ठादि विनापि चेन्धनेनाग्निरिति सिद्धमन्यत्वम् । शास्त्रे च भगवता न क्वचिदग्नीन्धनयोरवाच्यत्वमुक्तमित्ययुक्तमेतत् । विन पुनरिन्धनेनाग्निरस्तीति कथमिदं विज्ञायते । उपलब्धेस्तथा हि वायुना विक्षिप्तं दूरमपि ज्वलत्परैति । अथापि स्याद्वानुस्तत्रेन्धनमिति अत एवाग्नीन्धनयोरन्यत्वमिति सिद्धिः । कुतः । द्वयेन हि उपलब्धेरिति प्रकृतम् । द्वयं हि तत्रोपलभ्यते अर्चिर्वायुश्चेन्धनत्वेन । अस्त्येव पुद्गलो य एष द्रष्टा यावद्विज्ञाता कर्ता भोक्ता ज्ञाता मोक्ता च । न स द्रष्टा युज्यते । नापि यावन्मोक्ता । स हि दर्शानादिसंज्ञकानां विज्ञानानां प्रत्ययभावेन वा कर्ता भवेत्स्वामित्वेन वा । तत्र तावत् । द्वयं प्रतीत्य विज्ञानसंभवात्प्रत्ययो न सः । किं कारणम् । नैरर्थक्यात् । न हि तस्य तत्र किंचित्सामर्थ्यं दृष्टम् । स्वामित्वे सति वानित्यमनिष्टं न प्रवर्तयेत् ॥ स हि विज्ञानप्रवृत्तौ स्वामीभवन्ननि[भवन्नि]ष्टं विज्ञानमनित्यं न प्रवर्तयेत् । अनिष्टं च । नैव तस्मादुभयथाप्यसंभवात् । असौ द्रष्टा यावन्मोक्ता न युज्यते । अपि खलु यदि द्रव्यतः पुद्गलोऽस्ति । तत्कर्मलक्षणं साध्यं (१५१) यदि द्रव्यतोऽस्तितस्य कर्माप्युपलभ्यते । यथा चक्षुरादीनां दर्शनादिलक्षणं च रूपप्रसादादि । न चैवं पुद्गलस्य । तस्मान्न सोऽस्ति द्रव्यतः । तस्मिंश्च द्रव्यत इष्यमाणे बुद्धस्य भगवतः । संबोधो बाध्यते त्रिधा । गम्भीराभिसंबोधः । असाधारणाभिसंबोधः । लोकोत्तराभिसंबोधश्च । न हि पुद्गलाभिसंबोधे किंचिद्गम्भीरमभिसंबुद्धं भवति । न तीर्थ्यासाधारणम् । न लोकानुचित्तम् । तथा ह्येष ग्राहः सर्वलोकगम्यः । तीर्थ्याभिनिविष्टः । दिर्घसंसारोचित्तश्च । अपि खलु पुद्गलो द्रष्टा भवन् यावद्विज्ञाता दर्शनादिषु सप्रयत्नो वा भवेन्निष्प्रयत्नो वा । सप्रयत्नस्य वा पुनरसौ प्रयत्नः स्वयंभूर्वा भवेदाकस्मिकः । तत्प्रत्ययो [वा?] दर्शनादौ च तद्यत्नः स्वयंभूर्न त्रयादपि । तस्मादेव च दोषत्रयाद्वक्ष्यमाणात् तद्यत्नप्रत्ययत्वं च नेति वर्तते । निष्प्रयत्नस्य वा पुनः सतः सिद्धं भवति । निर्यत्नं दर्शनादिकम् । इत्यसति व्यापारे पुद्गलस्य दर्शनादौ कथमसौ द्रष्टा भवति । यावद्विज्ञाता । दोषत्रयादित्युक्तं कतमस्माद्दोषत्रयात् । अकर्तृत्वादनित्यत्वात्सकृन्नित्यप्रवृत्तितः । दर्शनादिषु यत्नस्य स्वयंभूत्वं न युज्यते ॥ यदि दर्शनादिषु प्रयत्न आकस्मिको यतो दर्शनादीनि । न तर्हि तेषां पुद्गलः कर्तेति कथमसौ द्रष्टा भवति यावद्विज्ञाता सति वाकस्मिकत्वे निरपेक्षत्वात्न कदाचित्प्रयत्नो न स्यादनित्यो न स्यात् । नित्ये च प्रयत्ने दर्शनादीनां युगपच्च नित्यं च प्रवृत्तिः स्यादिति दोषः । तस्मान्न युज्यते दर्शनादिषु प्रयत्नस्य स्वयंभूत्वम् । तथा स्थितस्य नष्टस्य प्रागभावादनित्यतः । तृतीयपक्षाभावाच्च प्रत्ययत्वं न युज्यते ॥ अथ पुद्गलप्रत्ययः प्रयत्नः स्यात् । तस्य तथा स्थितस्य प्रत्ययत्वं न युज्यते । प्रागभावात् । सति हि तत्प्रत्ययत्वे न कदाचित्पुद्गलो नास्तीति । किमर्थं प्राक्प्रयत्नो न स्याद्यदा नोत्पन्नः । विनष्टस्यापि प्रत्ययत्वं न युज्यते पुद्गलस्यानित्यत्वप्रसङ्गात् । (१५२) तृतीयश्च कश्चित्पक्षो नास्ति यन्न स्थितो न विनष्टः स्यादिति । तत्प्रत्ययोऽपि प्रयत्नो न युज्यते । एवं तावद्युक्तिमाश्रित्य द्रव्यतः पुद्गलो नोपलभ्यते । सर्वे धर्मा अनात्मानः परमार्थेन शून्यता । आत्मोपलम्भे दोषश्च देशितो यत एव च ॥ धर्मोद्दानेषु हि भगवता सर्वे धर्मा अनात्मान इति देशितं परमार्थशून्यतायामस्ति कर्मास्ति विपाकः कारकस्तु नोपलभ्यते य इमांश्च स्कन्धान्निक्षिपति अन्यांश्च स्कन्धान्प्रतिसंदधाति । अन्यत्र धर्मसंकेतादिति देशितम् । पञ्चकेषु पञ्चादीनवा आत्मोपलम्भ इति देशिता । आत्मदृष्टिर्भवति जीवदृष्टिः निर्विशेषो भवति तीर्थिकैः । उन्मार्गप्रतिपन्नो भवति । शून्यतायामस्य चित्तं न प्रस्कन्दति न प्रसीदति न संतिष्ठते नाधिमुच्यते । आर्यधर्मा अस्य न व्यवदायन्ते । एवमागमतोऽपि न युज्यते । पुद्गलोऽपि हि भगवता तत्र तत्र देशितः । परिज्ञातावी भारहारः श्रद्धानुसार्यादिपुद्गलव्यवस्थानत इत्यसति द्रव्यतोऽस्तित्वे कस्माद्देशितः । संक्लेशे व्यवदाने च अवस्थाच्छेदभिन्नके । वृत्तिसंतानभेदो हि पुद्गलेनोपदर्शितः ॥ अवस्थाभिन्ने हि संक्लेशव्यवदाने छेदभिन्ने च । पुद्गलप्रज्ञप्तिमन्तरेण तद्वृत्तिभेदः संतानभेदश्च देशयितुं न शक्यः । तत्र परिज्ञासूत्रे परिज्ञेया धर्माः संक्लेशः परिज्ञा व्यवदानम् । भारहारसूत्रे । भारो भारादानं च संक्लेशः । भारनिक्षेपणं व्यवदानम् । तयोर्वृत्तिभेदः संतानभेदश्चान्तरेण परिज्ञाताविभारहारपुद्गलप्रज्ञप्तिं न शक्येत देशयितुम् । बोधिपक्षाश्च धर्मा बहुधावस्थाः प्रयोगदर्शनभावनानिष्ठामार्ग विशेषभेदतः । तेषां वृत्तिभेदः संतानभेदश्चान्तरेण श्रद्धानुसार्यादिपुद्गलप्रज्ञप्तिं न शक्येत देशयितुम् । येनासति द्रव्यतोऽस्तित्वे पुद्गलो देशित इत्ययमत्र नयो वेदितव्यः । इतरथा हि पुद्गलदेशना निष्प्रयोजना प्राप्नोति । न हि तावदसावात्मदृष्ट्युत्पादनार्थं युज्यते यस्मात् आत्मदृष्टिरनूत्पाद्या पूर्वमेवोत्पन्नत्वात् । नापि तदभ्यासार्थं यस्मादात्मदृष्टेर् अभ्यासोऽनादिकालिकः । यदि चात्मदर्शनेन मोक्ष इत्यसौ देश्येत । एवं सति स्यात् अयत्नमोक्षः सर्वेषां तथा हि सर्वेषां न दृष्टसत्यानामात्मदर्शनं विद्यते । नैव वा मोक्षोऽस्तीति प्राप्नोति । न हि पूर्वमात्मानमनात्मतो गृहीत्वा सत्याभिसमयकाले कश्चिदात्मतो गृह्णाति । (१५३) यथा दुःखं दुःखतः पूर्वमगृहीत्वा पश्चाद्गृह्णातीति यथापूर्वं तथा पश्चादपि मोक्षो न स्यात् । सति चात्मन्यवश्यमहंकारममकाराभ्यामात्मतृष्णया चान्यैश्च तन्निदानैः क्लेशैर्भवितव्यमिति अतोऽपि मोक्षो न स्यात् । न वा पुद्गलोऽस्तीति अभ्युपगन्तव्यम् । तस्मिन्हि सति नियतमेते दोषाः प्रसज्यन्ते । एवमेभिर्गुणैर्नित्यं बोधिसत्त्वाः समन्विताः । आत्मार्थं च न रिञ्चन्ति परार्थं साधयन्ति च ॥ १८.१०४ ॥ हीधृतिप्रभृतीनां गुणानां समासेन कर्म निर्दिष्टम् । ॥ महायानसूत्रालंकारे बोधिपक्षाधिकारः [अष्टादशः] समाप्तः ॥ (१५४) एकोनविंशत्यधिकारः आश्चर्यविभागे त्रयः श्लोकाः । स्वदेहस्य परित्यागः संपत्तेश्चैव संवृत्तौ । दुर्बलेषु क्षमा काये जीविते निरपेक्षिणः ॥ १९.१ ॥ वीर्यारम्भो ह्यनास्वादो ध्यानेषु सुख एव च । निष्कल्पना च प्रज्ञायामाश्चर्यं धीमतां ग[म]तम् ॥ १९.२ ॥ तथागतकुले जन्मलाभो व्याकरणस्य च । अभिषेकस्य च प्राप्तिर्बोधेश्चाश्चर्यमिष्यते ॥ १९.३ ॥ अत्र द्वाभ्यां श्लोकाभ्यां प्रतिपत्त्याश्चर्यमुक्तं षट्पारमिता आरभ्य । दानेन हि स्वदेहपरित्याग आश्चर्यं शीलसंवरनिमित्तमुदारसंपत्तित्यागः । शेषं गतार्थम् । तृतीयेन श्लोकेन फलाश्चर्यमुक्तं चत्वारि बोधिसत्त्वफलान्यारभ्य प्रथमायामष्टम्यां दशम्यां त्रीणि शैक्षाणि फलानि । बुद्धभूमौ चतुर्थमशैक्षमत्र फलम् । अनाश्चर्यविभागे श्लोकः । वैराग्यं करुणां चैत्य भावनां परमामपि । तथैव समचित्तत्वं नाश्चर्यं तासु युक्तता ॥ १९.४ ॥ तास्विति पारमितासु । वैराग्यमागम्य दाने प्रयोगो नाश्चर्यम् । करुणामागम्य शीले क्षान्तौ च । परमां भावनामागम्याष्टम्यां भूमौ निरभिसंस्कारनिर्विकल्पो वीर्यादिप्रयोगो नाश्चर्यम् । आत्मपरसमचित्ततामागम्य सर्वास्वेव पारमितासु प्रयोगो नाश्चर्यमात्मार्थ इव परार्थे खेदाभावात् । समचित्ततायां त्रयः श्लोकाः । न तथात्मनि दारेषु सुतमित्रेषु बन्धुषु । सत्त्वानां प्रगतः स्नेहो यथा सत्त्वेषु धीमताम् ॥ १९.५ ॥ अर्थिष्वपक्षपातश्च शीलस्याखण्डना ध्रुवम् । क्षान्तिः सर्वत्र सत्त्वार्थं[सर्वार्थं]वीर्यारम्भो महानपि ॥ १९.६ ॥ ध्यानं च कुशलं नित्यं प्रज्ञा चैवाविकल्पिका । विज्ञेया बोधिसत्त्वानां तास्वेव समचित्तता ॥ १९.७ ॥ (१५५) एकः श्लोकः सत्त्वेषु समचित्ततायाम् । द्वौ पारमितासु । न हि सत्त्वानामात्मादिषु स्नेहः समतया अनुगतो न चात्यन्तम् । तथा ह्यात्मानमपि कदाचिन्मारयन्ति । बोधिसत्त्वानां तु सर्वसत्त्वेषु समतयात्यन्तं च पारमितासु पुनर्दाने समचित्तत्वमर्थिष्वपक्षपातात् । शीलेऽणुमात्रस्यापि नित्यमखण्डना । क्षान्तिः सर्वत्रेति देशकाले सत्वेष्वभेदना । वीर्ये सत्त्वार्थं[सर्वार्थं]वीर्यारम्भात्स्वपरार्थं समं प्रयोगात्सर्वकुशलार्थं च । शेषं गतार्थम् । उपकारित्वविभागे षोडश श्लोकाः । स्थापना भाजनत्वे च शीलेष्वेव च रोपणम् । मर्षणा चापकारस्य अर्थे व्यापारगामिता ॥ १९.८ ॥ आवर्जना शासनेऽस्मिंश्छेदना संशयस्य च । सत्त्वेषु उपकारित्वं धीमतामेतदिष्यते ॥ १९.९ ॥ आभ्यां श्लोकाभ्यां षड्भिः पारमिताभिर्यथोपकारित्वं बोधिसत्त्वानां तत्परिदीपितम् । दानेन हि सत्त्वानां भाजनत्वे स्थापयन्ति कुशलक्रियायाः । ध्यानेनावर्जयन्ति प्रभावविशेषयोगात् । शेषं गतार्थम् । शेषैः श्लोकैः मात्रादिसाधर्म्येणोपकारित्वं दर्शितम् । समाशयेन सत्त्वानां धारयन्ति सदैव ये । जनयन्त्यार्यभूमौ च कुशलैर्वर्धयन्ति च ॥ १९.१० ॥ दुष्कृतात्परिरक्षन्ति श्रुतं व्युत्पादयन्ति च । पञ्चभिः कर्मभिः सत्त्वमातृकल्पा जिनात्मजाः ॥ १९.११ ॥ सत्त्वानां मातृभूताः सत्त्वमातृकल्पा । माता हि पुत्रस्य पञ्चविधमुपकारं करोति । गर्भेण धारयति । जनयति । आपाययति पोषयति संवर्धयति । अपायाद्रक्षते । अभिलापं च शिक्षयति । तत्साधर्म्येणैतानि पञ्चबोधिसत्त्वकर्माणि वेदितव्यानि । आर्यभूमिरार्यधर्मा वेदितव्याः । श्रद्धायाः सर्वसत्त्वेषु सर्वदा चावरोपणात् । अधिशीलदिशिक्षायां विमुक्तौ च नियोजनात् ॥ १९.१२ ॥ बुद्धाध्येषणतश्चैषामावृतेश्च विवर्जनात् । पञ्चभिः कर्मभिः सत्त्वपितृकल्पा जिनात्मजाः ॥ १९.१३ ॥ पिता हि पुत्राणां पञ्चविधमुपकारं करोति । बीजं तेषामवरोपयति । शिल्पं शिक्षयति । प्रतिरूपैर्दारैर्नियोजयति । सन्मित्रेषुपनिक्षिपति । अनृणं करोति यथा न (१५६) पैतृकमृणं दाप्यते । तत्साधर्म्येण बोधिसत्त्वानामेतानि पञ्च कर्माणि वेदितव्यानि । श्रद्धा हि सत्त्वानामार्यात्मभावप्रतिलम्भस्य बीजम् । शैक्षाः शिल्पम् । विमुक्तिर्भार्या विमुक्तिप्रीतिसुखसंवेदना[त्?]बुद्धाः कल्याणमित्राणि । अवरणमृणस्थानम् । अनर्हदेशनां ये च सत्त्वानां गूहयन्ति हि । शिक्षाविपत्तिं निन्दन्ति शंसन्त्येव च संपदम् ॥ १९.१४ ॥ अववादं च यच्छन्ति मारानावेदयन्ति हि । पञ्चभिः कर्मभिः सत्त्वबन्धुकल्पा जिनात्मजाः ॥ १९.१५ ॥ बन्धवो हि बन्धूनां पञ्चविधमुपकारं कुर्वन्ति । गुह्यं गूहयन्ति । कुचेष्टितं विगर्हन्ति । सुचेष्टितं प्रशंसन्ति । करणीयेषु साहाय्यं गच्छन्ति । व्यसनस्थानेभ्यश्च निवारयन्ति । तत्साधर्म्येणैतानि बोधिसत्त्वानां पञ्च कर्माणि वेदितव्यानि । अनर्हेभ्यो गम्भीरधर्मेदेशनाविनिगूहनात्शिक्षाविपत्तिसंपत्त्योर्यथाक्रमं निन्दनात्प्रशंसनाच्च । अधिगमायाववादात्मारकर्मवेदनाच्च । संक्लेशे व्यवदाने च स्वयमश्रान्तबुद्धयः । यच्छन्ति लौकिकीं कृत्स्नां संपदं चातिलौकिकीम् ॥ १९.१६ ॥ सुखे हिते चाभिन्ना[अखेदित्वादभिन्ना] ये सदा सुखहितैषिणः । पञ्चभिः कर्मभिः सत्त्वमित्रकल्पा जिनात्मजाः ॥ १९.१७ ॥ तद्धि मित्रं यन्मित्रस्य हिते च सुखे चाविपर्यस्तम् । सुखं चोपसंहरति हितं चाभेद्यं च भवति । हितसुखैषि च नित्यम् । तथा बोधिसत्त्वाः सत्त्वानां पञ्चभिः कर्मभिर्मित्रकल्पा बेदितव्याः । लौकिकी हि संपत्सुखम् । तया सुखानुभवात् । लोकोत्तरा हितम् । क्लेशव्याधिप्रतिपक्षत्वात् । सर्वदोद्यमवन्तो ये सत्त्वानां परिपाचने । सम्यग्निर्याणवक्तारः क्षमा विप्रतिपत्तिषु ॥ १९.१८ ॥ द्वयसंपत्तिदातारस्तदुपाये च कोविदाः । पञ्चभिः कर्मभिः सत्त्वदासकल्पा जिनात्मजाः ॥ १९.१९ ॥ दासो हि पञ्चभिः कर्मभिः सम्यग्वर्तते । उत्थानसंपन्नो भवति । कृत्येषु अविसंवादको भवति । क्षमो भवति परिभाषणताडनादीनाम् । निपुणो भवति सर्वकार्यकरणात् । (१५७) विचक्षणश्च भवति उपायज्ञः । तत्साधर्म्येणैतानि पञ्च कर्माणि बोधिसत्त्वानां वेदितव्यानि । द्वयसंपत्तिर्लौकिकी लोकोत्तरा च वेदितव्या । अनुत्पत्तिकधर्मेषु क्षान्तिं प्राप्ताश्च ये मताः । सर्वयानापदेष्टारः सिद्धयोगानियोजकाः ॥ १९.२० ॥ सुमुखाः प्रतिकारे च विपाके चानपेक्षिणः । पञ्चभिः कर्मभिः सत्त्वाचार्यकल्पा जिनात्मजाः ॥ १९.२१ ॥ पञ्चविधेन कर्मणा[चार्यः?]शिष्याणामुपकारी भवति । स्वयं सुशिक्षितो भवति । सर्वं शिक्षयति । क्षिप्रं शिक्षयति । सुमुखो भवति सुरतजातीयः । निरामिषचित्तश्च भवति । तत्साधर्म्येणैतानि बोधिसत्त्वानां पञ्च कर्माणि वेदितव्यानि । सत्त्वकृत्यार्थमुद्युक्ताः संभारान्पुरयन्ति ये । संभृतान्मोचयन्त्याशु विपक्षं हापयन्ति च ॥ १९.२२ ॥ लोकसंपत्तिभिश्चित्रैरलोकैर्योजयन्ति च । पञ्चभिः कर्मभिः सत्त्वोपाध्यायकल्पा जिनात्मजाः ॥ १९.२३ ॥ उपाध्यायः पञ्चविधेन कर्मणा सार्धं विहारिणामुपकारी भवति । प्रव्राजयति उपसंपादयति । अनुशास्ति दोषपरिवर्जने । आमिषेण संगृह्णाति धर्मेण च । तत्साधर्म्येणैतानि बोधिसत्त्वानां पञ्च कर्माणि वेदितव्यानि । प्रतिकारविभागे द्वौ श्लोकौ । असक्त्या चैव भोगेषु शीलस्य च न खण्डनैः । कृतज्ञतानुयोगाच्च प्रतिपत्तौ च योगतः ॥ १९.२४ ॥ षट्सु पारमितास्वेव वर्तमाना हि देहिनः । भवन्ति बोधिसत्त्वानां तथा प्रत्युपकारिणः ॥ १९.२५ ॥ तथेति यथा तेषां बोधिसत्त्वा उपकारिणः । तत्र भोगेष्वनासक्त्या दाने वर्तन्ते । शीलस्याखण्डनेन शीले । कृतज्ञतानुयोगात्क्षान्तौ । उपकारिबोधिसत्त्वस्य कृतज्ञतया ते हि क्षान्तिप्रिया इति । प्रतिपत्तियोगतो वीर्यध्यानप्रज्ञासु येन च प्रतिपद्यन्ते यत्र चेति कृत्वा । आशास्तिविभागे श्लोकः । वृद्धिं हानिं च काङ्क्षन्ति सत्त्वानां च प्रपाचनम् । विशेषगमनं भूमौ बोधिं चानुत्तरां सदा ॥ १९.२६ ॥ (१५८) पञ्च स्थानानि बोधिसत्त्वाः सदैवाशंसन्ते । पारमितावृद्धिम् । तद्विपक्षहानिम् । सत्त्वपरिपाचनम् । भूमिविशेषगमनम् । अनुत्तरां च सम्यक्संबोधिम् । अबन्ध्यप्रयोगविभागे श्लोकः । त्रासहानौ समुत्पादे संशयच्छेदनेऽपि च । प्रतिपत्त्यववादे च सदाबन्ध्या जिनात्मजाः ॥ १९.२७ ॥ चतुर्विधे सत्त्वार्थे बोधिसत्त्वानामबन्ध्यः प्रयोगो वेदितव्यः । गम्भिरोदारधर्मत्रास[आ?]योगे । बोधिचित्तसमुत्पादे । उत्पादितबोधिचित्तानां संशयोपच्छेदने । पारमिताप्रतिपत्त्यववादे च । सम्यक्प्रयोगविभागे द्वौ श्लोकौ । दानं निष्प्रतिकाङ्क्षस्य निःस्पृहस्य पुनर्भवे । शीलं क्षान्तिश्च सर्वत्र वीर्यं सर्वशुभोदये ॥ १९.२८ ॥ विना[आ?]रूप्यं तथा ध्यानं प्रज्ञा चोपायसंहिता । सम्यक्प्रयोगो धीराणां षट्सु पारमितासुहि ॥ १९.२९ ॥ यथोक्तं रत्नकूटे । विपाकोऽप्रतिकाङिक्षणो दानेनेति विस्तरः । परिहाणिविशेषभागीयधर्मविभागे द्वौ श्लोकौ । भोगसक्तिः सच्छिद्रत्वं मानश्चैव सुखल्लिका । आस्वादनं विकल्पश्च धीराणां हानिहेतवः ॥ १९.३० ॥ स्थितानां बोधिसत्त्वानां प्रतिपक्षेषु तेषु च । ज्ञेया विशेषभागीया धर्मा एतद्विपर्ययात् ॥ १९.३१ ॥ षणां पारमितानां विपक्षा हानभागीयाः । तत्प्रतिपक्षा विशेषभागीया वेदितव्याः । प्रतिरूपकभूतगुणविभागे द्वौ श्लोकौ । एकः पट्पादः । प्रवा[ता]रणापि कुहना सौमुख्यस्य च दर्शना । लोभत्वेन तथा वृत्तिः शान्तवाक्कायता तथा ॥ १९.३२ ॥ सुवाक्करणसंपच्च प्रतिपत्तिविवर्जिता । एते हि बोधिसत्त्वानामभूतत्वाय देशिताः । विपर्ययात्प्रयुक्तानां तद्भूतत्वाय देशिताः ॥ १९.३३ ॥ (१५९) षणांपारमितानां प्रतिरूपकाः षड्बोधिसत्त्वगुणाः प्रवा[ता]रणादयो वेदितव्याः । शेषं गतार्थम् । विनयविभागे श्लोकः । ते दानाद्युपसंहारैः सत्त्वानां विनयन्ति हि । षट्प्रकारं विपक्षं हि धीमन्तः सर्वभूमिषु ॥ १९.३४ ॥ षट्प्रकारो विपक्षः । षणां पारमितानां मात्सर्यदौःशील्यक्रोधकौसीद्यविक्षेपदौष्प्रज्ञ्यानि यथांक्रमम् । शेषं गतार्थम् । व्याकरणविभागे त्रयः श्लोकाः । धीमद्व्याकरणं द्वेधा कालपुद्गलभेदतः । बोधौ व्याकरणे चैव महाच्चान्यदुदाहृतम् ॥ १९.३५ ॥ नोत्पत्तिक्षान्तिलाभेन मानाभोगविहानितः । एकीभावगमत्वाच्च सर्वबुद्धजिनात्मजैः ॥ १९.३६ ॥ क्षेत्रेण नाम्ना कालेन कल्पनाम्ना च तत्पुनः । परिवारानुवृत्त्या च सद्धर्मस्य तदिष्यते ॥ १९.३७ ॥ तत्र पुद्गलभेदेन व्याकरणं गोत्रस्थोत्पादितचित्तसंमुखासमक्षपुद्गलव्याकरणात् । कालभेदेन परिमितापरिमितकालव्याकरणात् । पुनर्बोधौ व्याकरणं भवति । व्याकरणे वा एवंनामा तथागत एवममुष्मिन्काले व्याकरिष्यतीति । अन्यत्पुनर्महाव्याकरणं यदष्टम्यां भूमावनुत्पत्तिकधर्मक्षान्तिलाभतः । अहं बुद्धो भविष्यामीति मानप्रहाणतः । सर्वनिमित्त[आ?]भोगप्रहाणतः । सर्वबुद्धबोधिसत्वै[त्व]श्च सार्धमेकीभावोपगमनतः । तदात्मसंतानभेदादर्शनात् । पुनः क्षेत्रादिभिर्व्याकरणमीदृशे बुद्धक्षेत्रे एवंनामा इयता कालेन बुद्धो भविष्यति । एवंनामके कल्पे ईदृशश्चास्य परिवारो भविष्यति । एतावदन्तरं कालमस्य सद्धर्मानुवृत्तिर्भविष्यतीति । नियतिपातविभागे श्लोकः षट्पादः । संपत्त्युत्पत्तिनैयम्यपातोऽखेदे च धीमताम् । भावनायाश्च सातत्ये समाधानाच्युतावपि । कृत्यसिद्धावनाभोगे क्षान्तिलाभे च सर्वथा ॥ १९.३८ ॥ षट्पारमिताधिकारेण षड्विधो नियतिपात एष निर्दिष्टः । संपत्तिनियतिपातो नित्यमुदारभोगसंपत्तिलाभात् । उपपत्तिनियतिपातो नित्यं यथेष्टोपपत्तिपरिग्रहात् । अखेदनियतिपातो न्(१६०) इत्यं संसारदुःखैरखेदात् । भावनासातत्यनियतिपातो नित्यं भावनासातत्यात् । समाधानाच्युतौ कृत्यसिद्धौ च नियतिपातो नित्यं समाध्यपरिहाणितः सत्त्वकृत्यसाधनतश्च । अनाभोगानुत्पत्तिकधर्मक्षान्तिलाभे नियतिपातश्च नित्यमनाभोगनिर्विकल्पज्ञानविहारात् । अवश्यकरणीयविभागे श्लोकः षट्पादः । पूजा शिक्षासमादानं करुणा शुभभावना । अप्रमादस्तथारण्ये श्रुतार्थातृप्तिरेव च । सर्वभूमिषु धीराणामवश्यकरणीयता ॥ १९.३९ ॥ षट्पारमिता अधिकृत्येयं षड्विधावश्यकरणीयता गतार्थः श्लोकः । सातत्यकरणीयविभागे द्वौ श्लोकौ । कामेष्वादीनवज्ञानं स्खलितेषु निरीक्षणा । दुःखाधिवासना चैव कुशलस्य च भावना ॥ १९.४० ॥ अनास्वादः सुखे चैव निमित्तानामकल्पना । सातत्यकरणीयं ही धीमतां सर्वभूमिषु ॥ १९.४१ ॥ षट्पारमितापरिनिष्पादनार्थं षट्सातत्यकरणीयानि । गतार्थौ श्लोकौ । प्रधानवस्तुविभागे श्लोकः षट्पादः । धर्मदानं शीलशुद्धिर्नोत्पत्तिक्षान्तिरेव च । वीर्यारम्भो महायाने अन्त्या सकरुणा स्थितिः । प्रज्ञा पारमितानां च प्रधानं धीमतां मतम् ॥ १९.४२ ॥ षट्सु पारमितास्वेतत्षड्विधं प्रधानम् । तत्र शीलविशुद्धिरार्यकान्तं शीलम् । अन्त्या सकरुणा स्थितिश्चतुर्थं ध्यानं करुणाप्रमाणयुक्तम् । शेषं गतार्थम् । प्रज्ञप्तिव्यवस्थानविभागे चत्वारः श्लोकाः । विद्यास्थानव्यवस्थानं सूत्राद्याकारभेदतः । ज्ञेयं धर्मव्यवस्थानं धीमतां सर्वभूमिषु ॥ १९.४३ ॥ पुनः सत्यव्यवस्थानं सप्तधा तथताश्रयात् । चतुर्धा च त्रिधा चैव युक्तियानव्यवस्थितिः ॥ १९.४४ ॥ योनिशश्च मनस्कारः सम्यग्दृष्टिः फलान्विता । प्रमाणैर्विचयोऽचिन्त्यं ज्ञेयं युक्तिचतुष्टयम् ॥ १९.४५ ॥ (१६१) आशयाद्देशनाच्चैव प्रयोगात्संभृतेरपि । समुदागमभेदाच्च त्रिविधं यानमिष्यते ॥ १९.४६ ॥ चतुर्विधं प्रज्ञप्तिव्यवस्थानम् । धर्मसत्ययुक्तियानप्रज्ञप्तिव्यवस्थानभेदात् । तत्र पञ्चविद्यास्थानव्यवस्थानं धर्मव्यवस्थानं वेदितव्यं सूत्रगेयादिभिराकारभेदैः । तदन्तर्भूतान्येव हि तदन्यानि विद्यास्थानानि महायाने बोधिसत्त्वेभ्यो देश्यन्ते । सत्यव्यवस्थानं तु सप्तविधां तथतामाश्रित्य प्रवृत्तितथतां लक्षणतथतां विज्ञप्तितथतां संनिवेशतथतां मिथ्याप्रतिपत्तितथतां [विशुद्धितथतां?]सम्यक्प्रतिपत्तितथतां च । युक्तिप्रज्ञप्तिव्यवस्थानं चतुर्विधम् । अपेक्षायुक्तिः । कार्यकारणयुक्तिः । उपपत्तिसाधनयुक्तिः । धर्मतायुक्तिश्च । यानप्रज्ञप्तिव्यवस्थानं त्रिविधम् । श्रावकयानम् । प्रत्येकबुद्धयानम् । महायानं च । तत्रापेक्षायुक्तिस्त्रिष्वपि यानेषु योनिशोमनस्कारः । तमपेक्ष्य तेन प्रत्ययेन लोकोत्तरायाः सम्यग्दृष्टेरुत्पादात् । कार्यकारणयुक्तिः सम्यग्दृष्टिः सफला । उपपत्तिसाधनयुक्तिः प्रत्यक्षादिभिः प्रमाणैः परीक्षा । धर्मतायुक्तिरचिन्त्यं स्थानम् । सिद्धा हि धर्मता न पुनश्चिन्त्या । कस्माद्- योनिशोमनस्कारात्सम्यग्दृष्टिर्भवति । ततो वा क्लेशप्रहाणं फलमित्येवमादि । यानत्रयव्यवस्थानं पञ्चभिराका रैर्वेदितव्यम् । आशयतो देशनातः प्रयोगतः संभारतः समुदागमतश्च । तत्र हीनामाशयदेशनाप्रयोगसंभारसमुदागमाः श्रावकयानं मध्याः प्रत्येकबुद्धयानमुत्तमा महायानम् । यथाशयं हि यथाभिप्रायं धर्मदेशनाभिभवति । यथा देशनं तथा प्रयोगः । यथाप्रयोगं संभारः । यथासंभारं च बोधिसमुदागम इति । पर्येषणाविभागे श्लोकः । आगन्तुकत्वपर्येषा अन्योन्यं नामवस्तुनोः । प्रज्ञप्तेर्द्विविधस्यात्र तन्मात्रत्वस्य वैषणा ॥ १९.४७ ॥ चतुर्विधा पर्येषणा धर्माणाम् । नामपर्येषणा वस्तुपर्येषणा । स्वभावप्रज्ञप्तिपर्येषणा । विशेषप्रज्ञप्तिपर्येषणा च । तत्र नाम्नो वस्तुन्यागन्तुकत्वपर्येषणा नामपर्येषणा वेदितव्या । वस्तूनो नाम्न्यागन्तुकत्वपर्येषणा वस्तुपर्येषणा वेदितव्या । तदुभयाभिसंबन्धे स्वभावविशेषप्रज्ञप्त्योः प्रज्ञप्तिमात्रत्वपर्येषणा स्वभावविशेषप्रज्ञप्तिपर्येषणा वेदितव्या । यथाभूतपरिहार[ज्ञान]विभागे दश श्लोकाः । सर्वस्यानुपलम्भाच्च भूतज्ञानं चतुर्विधम् । सर्वार्थसिद्ध्यै धीराणां सर्वभूमिषु जायते ॥ १९.४८ ॥ (१६२) चतुर्विधं यथाभूतपरिज्ञानं धर्माणां नामपर्येषणागतम् । वस्तुपर्येषणागतम् । स्वभावप्रज्ञप्तिपर्येषणागतम् । विशेषप्रज्ञप्तिपर्येषणागतं च । तच्च सर्वस्यास्य नामादिकस्यानुपलम्भाद्वेदितव्यम् । उत्तरार्धेन यथाभूतपरिज्ञानस्य कर्मणां महात्म्यं दर्शयति । प्रतिष्ठाभोगबीजं हि निमित्तं बन्धनस्य हि । साश्रयाश्चित्तचैत्तास्तु बध्यन्तेऽत्र सबीजकाः ॥ १९.४९ ॥ तत्र प्रतिष्ठानिमित्तं भाजनलोकः । भोगनिमित्तं पञ्च रूपादयो विषयाः । बीजनिमित्तं यत्तेषां बीजमालयविज्ञानम् । यत्र[अत्र]त्रिविधे निमित्ते साश्रयाश्चित्तचैत्ता वध्यन्ते । यच्च तेषां बीजमालयविज्ञानम् । आश्रयाः पुनश्चक्षुरादयो वेदितव्याः । पुरतः स्थापितं यच्च निमित्तं यत्स्थितं स्वयम् । सर्वं विभावयन्धीमान् लभते बोधिमुत्तमाम् ॥ १९.५० ॥ तत्र पुरतः स्थापितं निमित्तं यच्छ्रुतचिन्ताभावनाप्रयोगेनालम्बनीकृतं परिकल्पितम् । स्थितं स्वयमेव यत्प्रकृत्यालम्बनीभूतमयत्नपरिकल्पितम् । तस्य विभावनाधि[वि]गमोऽनालम्बनीभावः । अकल्पना तदुपायो निमित्तप्रतिपक्षः । तच्चोभयं क्रमाद्भवति । पूर्वं हि स्थापितस्य पश्चात्स्वयंस्थितस्य । तत्र चतुर्विपर्यासानुगतं पुद्गलनिमित्तं विभावयन्योगी श्रावकबोधिं प्रत्येकबोधिं वा लभते । सर्वधर्मनिमित्तं विभावयन्महाबोधिम् । एतेन यथा तत्त्वं परिज्ञाय मोक्षाय संवर्तते यथाभूतं परिज्ञानम् । तत्परिदीपितम् । तथतालम्बनं ज्ञानं द्वयग्राहविवर्जितम् । दौष्ठुल्यकायप्रत्यक्षं तत्क्षये धीमतां मतम् ॥ १९.५१ ॥ एतेन यथास्वभावत्रयपरिज्ञानात्परतन्त्रस्वभावक्षयाय संवर्तते । तत्परिदीपितम् । तथतालम्बनत्वेन परिनिष्पन्नं स्वभावं परिज्ञाय । द्वयग्राहविवर्जितत्वेन कल्पितम् । दौष्ठुल्यकायप्रत्यक्षत्वेन परतन्त्रम् । तस्यैव क्षयाय संवर्तते दौष्ठुल्यकायस्यालयविज्ञानस्य तत्क्षयार्थं तत्क्षये । तथतालम्बनं ज्ञानमनानाकारभावितम् । सदसत्तार्थे प्रत्यक्षं विकल्पविभु चोच्यते ॥ १९.५२ ॥ अनानाकारभावितं निमित्ततथतयोरनानात्वदर्शनात् । एतेन श्रावकानिमित्ताद्वोधिसत्त्वानिमित्तस्य विशेषः परिदीपितः । ते हि निमित्तानिमित्तयोर्नानात्वं पश्यन्तु । (१६३) सर्वनिमित्तानाममनसिकारादनिमित्तस्य च धातोर्मनसिकारादनिमित्तं समापद्यन्ते । बोधिसत्त्वास्तु तथताव्यतिरेकेण निमित्तपश्यन्तो निमित्तमेवानिमित्तं पश्यन्त्यतस्तेषां तज्ज्ञानमनानाकारभावितम् । सत्तार्थे च तथतायामसत्तार्थे च निमित्ते प्रत्यक्षं विकल्पविभु चोच्यते । विकल्पविभुत्वलाभाद्यथाविकल्पं सर्वार्थसमृद्धितः । तत्त्वं संच्छाद्य बालानामतत्त्वं ख्याति सर्वतः । तत्त्वं तु बोधिसत्त्वानां सर्वतः ख्यात्यपास्य तत् ॥ १९.५३ ॥ एतेन यथा बालानां स्वरसेनातत्त्वमेव ख्याति निमित्तं न तत्त्वं तथता । एवं बोधिसत्त्वानां स्वरसेन तत्त्वमेव ख्याति नातत्वमित्युपदर्शितम् । अख्यानख्यानता ज्ञेया असदर्थसदर्थयोः । आश्रयस्य परावृत्तिर्मोक्षोऽसौ कामचारतः ॥ १९.५४ ॥ असदर्थस्य निमित्तस्याख्यानता सदर्थस्य तथतायाः ख्यानता आश्रयपरावृत्तिर्वेदितव्या । तया हि तदख्यानं ख्यानं च । सैव च मोक्षो वेदितव्यः । किं कारणम् । कामचारतः । तदा हि स्वतन्त्रो भवति स्वचित्तवशवर्ती प्रकृत्यैव निमित्तासमुदाचारात् । अन्योन्यं तुल्यजातीयः ख्यात्यर्थः सर्वतो महान् । अन्तरायकरस्तस्मात्परिज्ञायैनमुत्सृजेत् ॥ १९.५५ ॥ इदं क्षेत्रपरिशोधनो[नौ]पाये[य]यथाभूतपरिज्ञानम् । भाजनलोका[कोऽ]र्थो महानन्योन्यो वर्तमानस्तुल्यजातीयः ख्याति स एवायमिति । स चैवं ख्यानादन्तरायकरो भवति बुद्धक्षेत्रपरिशुद्धये । तस्मादन्तरायकरं परिज्ञायैनमुत्सृजेदेवं ख्यातम् । अप्रमेयविभागे श्लोकः । परिपाच्यं विशोध्यं च प्राप्यं योग्यं च पाचने । सम्यक्त्वदेशनावस्तु अप्रमेयं हि धीमताम् ॥ १९.५६ ॥ पञ्चविधं हि वस्तु बोधिसत्त्वानामप्रमेयम् । परिपाच्यं वस्तु सत्त्वधातुरविशेषेण विशोध्यं लोकधातुर्भाजनलोकसंगृहीतः । प्राप्यं धर्मधातुः । परिपाचनयोग्यं विनेयधातुः । सम्यग्देशनावस्तु विनयोपायधातुः । देशनाफलविभागे द्वौ श्लोकौ । (१६४) बोधिसत्त्व[चित्त]स्य चोत्पादो नोत्पादक्षान्तिरेव च । चक्षुश्च निर्मलं हीनमाश्रवक्षय एव च ॥ १९.५७ ॥ सद्धर्मस्य स्थितिर्दीर्घा व्युत्पत्तिच्छित्तिभोगता । देशनायाः फलं ज्ञेयं तत्प्रयुक्तस्य धीमतः ॥ १९.५८ ॥ देशनायां प्रयुक्तस्य बोधिसत्त्वस्याष्टविधं देशनायाः फलं वेदितव्यम् । श्रोतृषु केचिद्बोधिचित्तमुत्पादयन्ति । केचिदनुत्पत्तिकधर्मक्षान्तिं प्रतिलभन्ते । केचिद्विरजो विगतमलं धर्मेषु धर्मचक्षुरुत्पादयन्ति हीनयानसंगृहीतम् । केच्चिदाश्रवक्षयं प्राप्नुवन्ति । सद्धर्मश्च चिरस्थितिको भवति परंपराधारणतया । अव्युत्पन्नानामर्थव्युत्पत्तिर्भवति । संशयितानां संशयच्छेदो भवति । विनिश्चितानां सद्धर्मसंभोगो भवति अनवद्यो प्रीतिरसः । महायानमहत्त्वविभागे द्वौ श्लोकौ । आलम्बनमहत्वं च प्रतिपत्तेर्द्वयोस्तथा । ज्ञानस्य वीर्यारम्भस्य उपाये कौशलस्य च ॥ १९.५९ ॥ उदागममहत्त्वं च महत्त्वं बुद्धकर्मणः । एतन्महत्त्वयोगाद्धि महायानं निरुच्यते ॥ १९.६० ॥ सप्तविधमहत्त्वयोगान्महायानमित्युच्यते । आलम्बनमहत्त्वेनाप्रमाणविस्तीर्णसूत्रादिधर्मयोगात् । प्रतिपत्तिमहत्त्वेन द्वयोः प्रतिपत्तेः स्वार्थे परार्थे च । ज्ञानमहत्त्वतो द्वयोर्ज्ञानात्पुद्गलनैरात्म्यस्य धर्मनैरात्म्यस्य च प्रतिवेधकाले । वीर्यारम्भमहत्त्वेन त्रीणि कल्पासंख्येयानि सातत्यसत्कृत्यप्रयोगात् । उपायकौशल्यमहत्त्वेन संसारापरित्यागासंक्लेशतः । समुदागममहत्त्वेन बलवैशारद्यावेणिकबुद्धधर्मसमुदागमात् । बुद्धकर्ममहत्त्वेन च पुनः पुनरभिसंबोधिमहापरिनिर्वाणसंदर्शनतः । महायानसंग्रहविभागे द्वौ श्लोकौ । गोत्रं धर्माधिमुक्तिश्च चित्तस्योत्पादना तथा । दानादिप्रतिपत्तिश्च न्याया[मा]वक्रान्तिरेव च ॥ १९.६१ ॥ सत्त्वानां परिपाकश्च क्षेत्रस्य च विशोधना । अप्रतिष्ठितनिर्वाणं बोधिः श्रेष्ठा च दर्शनात्[दर्शना] ॥ १९.६२ ॥ एतेन दशविधेन वस्तुन कृत्स्नं महायानं संगृहीतम् । तत्र सत्वानां परिपाचनं भूमिप्रतिष्ठ[प्रविष्ट]स्य यावत्सप्तम्यां भूमौ वेदितव्यम् । क्षेत्रपरिशोधनमप्रतिष्ठितनिर्वाणं चाविनिवर्तनीयायां भूमौ त्रिविधायाम् । श्रेष्ठा बोधिर्बुद्धभूमौ । तत्रैव चाभिसंबोधिमहापरिनिर्वाणसंदर्शना वेदितव्या । शेषं गतार्थम् । (१६५) बोधिसत्त्वविभागे दश श्लोकाः । आधिमोक्षिक एकश्च शुद्धाध्याशयिकोऽपरः । निमित्ते चानिमित्ते च चार्यप्यनभिसंस्कृते । बोधिसत्त्वा हि विज्ञेयाः पञ्चैते सर्वभूमिषु ॥ १९.६३ ॥ तत्र निमित्तचारी द्वितीयां भूमिमुपादाय यावत्षष्ठयाम् । अनिमित्तचारी सप्तम्याम् । अनभिसंस्कारचारी परेण । शेषं गतार्थम् । कामेष्वसक्तस्त्रिविशुद्धकर्मा क्रोधाभिभूम्यं गुणतत्परश्च । धर्मेऽचलस्तत्त्वगभीरदृष्टिर्बोधौ स्पृहावान् खलु बोधिसत्त्वः ॥ १९.६४ ॥ एतेन षट्पारमिताप्रतिपत्तितो महाबोधिप्रणिधानतश्च बोधिसत्त्वलक्षणं परिदीपितम् । अनुग्रहेच्छोऽनुपघातदृष्टिः परोपघातेष्वधिवासकश्च । धीरोऽप्रमत्तश्च बहुश्रुतश्च परार्थयुक्तः खलु बोधिसत्त्वः ॥ १९.६५ ॥ तत्र धीर आरब्धवीर्यो दुःखैरविषादात् । अप्रमत्तो ध्यानसुखेष्वसक्तः । शेषं गतार्थम् । आदीनवज्ञः स्वपरिग्रहेषु भोगेष्वसक्तो ह्यनिगूढवैरः । योगी निमित्ते कुशलोऽकुदृष्टिरध्यात्मसंस्थः खलु बोधिसत्त्वः ॥ १९.६६ ॥ तत्र भोगेष्वसक्तो यस्तान्विहाय प्रव्रजति । निमित्तकुशलः शमथादिनिमित्तत्रयकौशल्यात् । अध्यात्मसंस्थो महायानाविकम्पनात् । महायानं हि बोधिसत्त्वानामध्यात्मम् । शेषं गतार्थम् । दयान्वितो ह्रीगुणसंनिविष्टो दुःखाधिवासात्स्वसुखेष्वसक्तः । स्मृतिप्रधानः सुसमाहितात्मा यानाविकार्यः खलु बोधिसत्त्वः ॥ १९.६७ ॥ तत्र स्मृतिप्रधानो ध्यानवान् स्मृतिबलेन चित्तसमाधानात् । सुसमाहितात्मा निर्विकल्पज्ञानः । शेषं गतार्थम् । दुःखापहो दुःखकरो न चैव दुःखाधिवासो न च दुःखभीतः । दुःखाद्विमुक्तो न च दुःखकल्पो दुःखाभ्युपेतः खलु बोधिसत्त्वः ॥ १९.६८ ॥ तत्र दुःखाद्विमुक्तो ध्यानवान् कामधातुवैराग्याद्दुःखदुःखतामोक्षतः । दुःखाभ्युपेतः संसाराभ्युपगमात् । शेषं गतार्थम् । धर्मेरतोऽधर्मरतः [धर्मेऽरतोऽधर्मरतः] प्रकृत्या धर्मे जुगुप्सी धरमाभियुक्तः । धर्मे वशी धर्मनिरन्धकारो धर्मप्रधानः खलु बोधिसत्त्वः ॥ १९.६९ ॥ (१६६) अत्र धर्मे जुगुप्सी अक्षान्तिजुगुप्सनात् । धर्मे वशी समापत्तौ । धर्मप्रधानो महाबोधिपरमः । धर्म एवात्र धरम उक्तो वृत्तानुवृत्त्या । शेषं गतार्थम् । भोगाप्रमत्तो नियमाप्रमत्तो रक्षाप्रमत्तः कुशलाप्रमत्तः । सुखाप्रमत्तो धरमाप्रमत्तो यानाप्रमत्तो खलु बोधिसत्त्वः ॥ १९.७० ॥ रत्र रक्षाप्रमत्तः क्षान्तिमान् स्वपरचित्तानुरक्षणात् । धर्माप्रमत्तो यथाभूतधर्मप्रज्ञानात् । शेषं गतार्थम् । विमानलज्जास्तनुदोषलज्ज अमर्षलज्जः परिहाणिलज्जः । विशाल[विसार]लज्जस्तुनदृष्टिलज्जः यानान्यलज्जः खलु बोधिसत्त्वः ॥ १९.७१ ॥ तत्र विमानलज्जो योऽर्थिनो न विमानयति । तनुदोषलज्जोऽणुमात्रेष्ववद्येषु भयदर्शी तनुदृष्टिलज्जो धर्म नैरात्म्यप्रतिवेधी । शेषं गतार्थम् । सर्वैरेभिः श्लोकैः पर्यायान्तरेण षट्पारमिताप्रतिपत्तितो महाबोधिप्रणिधानतश्च बोधिसत्त्वलक्षणं परिदीपितम् । इहापि चामुत्र उपेक्षणेन संस्कारयोगेन विभुत्वलाभैः । शमोप[समौप]देशेन महाफलेन अनुग्रहे वर्तति बोधिसत्त्वः ॥ १९.७२ ॥ इहैव सत्त्वानामनुग्रहे वर्तते दानेन । अमुत्र शीलेनोपपत्तिविशेषं प्राप्य । संस्कारयोगेनेति वीर्ययोगेन । महाफलेनेति बुद्धत्वेन । शेषं गतार्थम् । एतेन षड्भिः पारमिताभिर्महाबोधिप्रणिधानेन च यथा सत्त्वानुग्रहे बोधिसत्त्वो वर्तते तत्परिदीपितम् । बोधिसत्त्वसामान्यनामविभागे अष्टौ श्लोकाः । बोधिसत्त्वो महासत्त्वो धीमांश्चैवोत्तमध्युतिः । जिनपुत्रो जिनाधारो विजेताथ जिनाङ्कुरः ॥ १९.७३ ॥ विक्रान्तः परमाश्चर्यः सार्थवाहो महायशाः । कृपालुश्च महापुण्य ईश्वरो धार्मिकस्तथा ॥ १९.७४ ॥ एतानि षोडश सर्वबोधिसत्त्वानामन्वर्थनामानि सामान्येन । सुतत्त्वबोधैः सुमहार्थबोधैः सर्वाव[र्थ]बोधैरपि नित्यबोधैः । उपायबोधैश्च विशेषणेन तेनोच्यते हेतुन बोधिसत्त्वः ॥ १९.७५ ॥ पञ्चविधेन बोधविशेषेण बोधिसत्त्व इत्युच्यते । पुद्गलधर्म नैरात्म्यबोधेन । सर्वाकारसर्वार्थबोधेन अक्षयावबोधेन परिनिर्वाणसंदर्शनेऽपि । यथा विनेयं च विनयोपायबोधेन । (१६७) आत्मानुबोधात्तनुदृष्टिबोधाद्विचित्रविज्ञप्तिविबोधतश्च । सर्वस्य चाभूतविकल्पबोधात्तेनोच्यते हेतुन बोधिसत्त्वः ॥ १९.७६ ॥ अत्र पुनश्चतुर्विधबोधविशेषं दर्शयति चित्तमनोविज्ञानबोधतः । तेषां चाभूतपरिकल्पत्वावबोधतः । तत्र चित्तमालयविज्ञानम् । मनस्तदालम्बनमात्मदृष्ट्यादिसंप्रयुक्तम् । विज्ञानं षड्विज्ञानकायाः । अबोधबोधादनुबोधबोधादभावबोधात्प्रभवानुबोधात् । अबोधबोधप्रतिबोधतश्च तेनोच्यते हेतुन बोधिसत्त्वः ॥ १९.७७ ॥ अत्र पुनः पञ्चविधं बोधविशेषं दर्शयति । अविद्याबोधात् । विद्याबोधात् । परिकल्पितादिस्वभावत्रयबोधाच्च । तत्राबोधत्वेन बोधप्रतिबोधात्परिनिष्पन्नस्वभावबोधो वेदितव्यः । अनर्थबोधात्परमार्थबोधात्सर्वाव[र्थ]बोधात्सकलार्थबोधात् । बोद्धव्यबोधाश्रयबोधबोधात्तेनोच्यते हेतुन बोधिसत्त्वः ॥ १९.७८ ॥ अत्र पञ्चविधं बोधविशेषं दर्शयति । परतन्त्रलक्षणबोधात् । परिनिष्पन्नलक्षणबोधात् । [परिकल्पितलक्षणबोधात्?] सर्वज्ञेयसर्वाकारबोधात् । बोध्यबोधकबोधि[ध]त्रिमण्डलपरिशुद्धिबोधाच्च । निष्पन्नबोधात्पदबोधतश्च गर्भानुबोधात्क्रमदर्शनस्य । बोधाद्भृशं संशयहानिबोधात्तेनोच्यते हेतुन बोधिसत्त्वः ॥ १९.७९ ॥ तत्र निष्पन्नबोधो बुद्धत्वम् । पदबोधो येन तुषितभवने वसति । गर्भानुबोधो येन मातुः कुक्षिमवक्रामति । क्रमदर्शने बोधो येन गर्भान्निष्क्रमणं कामपरिभोगं प्रव्रज्यां दुष्करचर्यामभिसंबोधिं च दर्शयति । भृशं संशयहानिबोधो येन सर्वसंशयच्छेदाय सत्त्वानां धर्मचक्रं प्रवर्तयति । लाभी ह्यलाभी धीसंस्थितश्च बोद्धानुबोद्धा प्रतिदेशकश्च । निर्जल्पबुद्धिर्हतमानमानी ह्यपक्वसंपक्वमतिश्च धीमान् ॥ १९.८० ॥ अत्रैकादशविधेनातीतादिना बोधेन बोधिसत्त्वः परिदीपितः । तत्र लाभी अलाभी धीसंस्थितश्चातीतानागतप्रत्युत्पन्नैर्बोधैर्यथाक्रमम् । बोद्धा स्वयंबोधात् । अनुबोद्धा परतो बोधादेतेनाध्यात्मिकबाह्यं बोधं दर्शयति । प्रतिदेशको निर्जल्पबुद्धिरित्यौदारिकसूक्ष्मम् । मानी हतमानीति हीनप्रणीतम् । अपक्वसंपक्वमतिश्चेति दूरान्तिकं बोधं दर्शयति । ॥ महायानसूत्रालंकारे गुणाधिकारः [एकोनविंशतितमः?] समाप्तः ॥ (१६८) विंशतितमएकविंशतितमश्चाधिकारः लिङ्गविभागे द्वौ श्लोकौ । अनुकम्पा प्रियाख्यानं धीरता मुक्तहस्तता । गम्भीरसंधिनिर्मोक्षो लिङ्गान्येतानि धीमताम् ॥ २०.१ ॥ परिग्रहेऽधिमुक्त्याप्तावखेदे द्वयसंग्रहे । आशयाच्च प्रयोगाच्च विज्ञेयं लिङ्गपञ्चकम् ॥ २०.२ ॥ तत्रप्रथमेन श्लोकेन पञ्च बोधिसत्त्वलिङ्गानि दर्शयति । द्वितीयेन तेषां कर्म समास संग्रहं च । तत्रानुकम्पा बोधिचित्तेन सत्त्वपरिग्रहार्थं प्रियाख्यानं सत्त्वानां बुद्धशासनाधिमुक्तिलाभार्थं धीरता दुष्करचर्यादिभिरखेदार्थं मुक्तहस्तता गम्भीरसंधिनिर्मोक्षणं च द्वयेन संग्रहार्थमामिषेण धर्मेण च यथाक्रमम् । एषां पञ्चानां लिङ्गानामनुकम्पा आशयतो वेदितव्या । शेषाणि प्रयोगतः । गृहिप्रव्रजितपक्षविभागे त्रयः श्लोकाः । बोधिसत्त्वा हि सततं भवन्तश्चक्रवर्तिनः । प्रकुर्वन्ति हि सत्त्वार्थं गृहिणः सर्वजन्मसु ॥ २०.३ ॥ आदानलब्धा प्रव्रज्या धर्मतोपगता परा । निदर्शिका च प्रव्रज्या धीमतां सर्वभूमिषु ॥ २०.४ ॥ अप्रमेयैर्गुणैर्युक्तः पक्षः प्रव्रजितस्य तु । गृहिणो बोधिसत्त्वाद्धि यतिस्तस्माद्विशिष्यते ॥ २०.५ ॥ एकेन श्लोकेन यादृशे गृहिपक्षे स्थितो बोधिसत्त्वः सत्त्वार्थं करोति तत्परिदीपितम् । द्वितीयेन यादृशे प्रव्रजितपक्षे । तत्र त्रिविधा प्रव्रज्या वेदितव्या । समादानलब्धा । धर्मतालब्धा । निदर्शिका च निर्माणैः । तृतीयेन गृहिपक्षात्प्रव्रजितपक्षस्य विशेषः परिदीपितः । अध्याशयविभागे श्लोकः षट्पादः । परत्रेष्टफलेच्छा च शुभवृत्ताविहैव च । निर्वाणेच्छा च धीराणां सत्त्वेष्वाशय इष्यते । अशुद्धश्च विशुद्धश्च सुविशुद्धः सर्वभूमिषु ॥ २०.६ ॥ (१६९) एतेन समासतः पञ्चविधोऽध्याशयः परिदीपितः । सुखाध्याशयः । परत्रेष्टफलेच्छाहिताध्याशयः इहैव कुशलप्रवृत्तीच्छा निर्वाणेच्छा तदुभयाध्याशय एवेति नान्यो वेदितव्यः । अशुद्धादिकास्त्रयोऽध्याशया अप्रविष्टानाम् । भूमिप्रविष्टानाम् । अविनिवर्तनीयभूमिप्राप्तानां च यथाक्रमं वेदितव्याः । परिग्रहविभागे श्लोकः । प्रणिधानात्समाच्चित्तादाधिपत्यात्परिग्रहः । गणस्य कर्षणत्वाच्च धीमतां सर्वभूमिषु ॥ २०.७ ॥ चतुर्विधः सत्त्वपरिग्रहो बोधिसत्त्वानां प्रणिधानपरिग्रहो वेदितव्यो बोधिचित्तेन सर्वसत्त्वपरिग्रहणात् । समचित्ततापरिग्रह आत्मपरसमतालाभादभिसमयकाले । आधिपत्यपरिग्रहः स्वामिभूतस्य येषामसौ स्वामी । गणपरिकर्षणपरिग्रहश्च शिष्यगणोपादनात् । उपपत्तिविभागे श्लोकः । कर्मणश्चाधिपत्येन प्रणिधानस्य चापरा । समाधेश्च विभुत्वस्य चोत्पत्तिर्धीमतां मता ॥ २०.८ ॥ चतुर्विधा बोधिसत्त्वानामुपपत्तिः कर्माधिपत्येन याधिमुक्तिचर्याभूमिस्थितानां कर्मवशेनाभिप्रेतस्थानोपपत्तिः प्रणिधानवशेन या भूमिप्रविष्टानां सर्वसत्त्वपरिपाचनार्थं तिर्यगादिहीनस्थानोपपत्तिः । समाध्याधिपत्येन या ध्यानानि व्यावर्त्य कामधातावुपपत्तिः । विभुत्वाधिपत्येन या निर्माणैस्तुषितभवनाद्युपपत्तिसंदर्शनात् । विहारभूमिविभागे त्रिंशत्[उदान] श्लोकाः । लक्षणात्पुद्लाच्छिक्षास्कन्धनिष्पत्तिलिङ्गतः । निरुक्तेः प्राप्तितश्चैव विहारो भूमिरेव च ॥ २०.९ ॥ लक्षणविभागमारभ्य पञ्च श्लोकाः । शून्यता परमात्मस्य कर्म[आ?]नाशे व्यवस्थितिः । विहृत्य ससुखैर्ध्यानैर्जन्म कामे ततः परम् ॥ २०.१० ॥ ततश्च बोधिपक्षाणां संसारे परिणामना । विना च चित्तसंक्लेशं सत्त्वानां परिपाचना ॥ २०.११ ॥ उपपत्तौ च संचित्य संक्लेशस्यानुरक्षणा । एकायनपथश्लिष्टानिमित्तैकान्तिकः पथः ॥ २०.१२ ॥ (१७०) अनिमित्तेऽप्यनाभोगः क्षेत्रस्य च विशोधना । सत्त्वपाकस्य निष्पत्तिर्जायते च ततः परम् ॥ २०.१३ ॥ समाधिधारणीनां च बोधेश्चैव विशुद्धता । एतस्माच्च व्यवस्थानाद्विज्ञेयं भूमिलक्षणम् ॥ २०.१४ ॥ एकादश विहारा एकादश भूमयः । तेपां लक्षणम् । प्रथमायां भूमौ परमशून्यताभिसमयो लक्षणं पुद्गलधर्म नैरात्म्याभिसमयात् । द्वितीयायां कर्मणामविप्रणाशव्यवस्थानं कुशलाकुशलकर्मपथतत्फलवैचित्र्यज्ञानात् । तृतीयायां सातिशयसुखैर्बोधिसत्त्वध्यानैर्विहृत्यापरिहीनस्यैव तेभ्यः कामधातावुपपत्तिः । चतुर्थ्या बोधिपक्षबहुलविहारिणोऽपि बोधिपक्षाणां संसारे परिणामना । पञ्चभ्यां चतुरार्यसत्यबहुलविहारितयाविनात्मनश्चित्तसंक्लेशेन सत्त्वानां परिपाचनायां नानाशास्त्रशिल्पप्रणयनात् । षष्ठ्यां प्रतीत्यसमुत्पादबहुलविहारितया संचित्यभवोपपत्तौ तत्र संक्लेशस्यानुरक्षणा । सप्तम्यां मिश्रोपमिश्रत्वेनैकायनपथस्याष्टमस्य विहारस्य श्लिष्ट आनिमित्तिकैकान्तिको मार्गः । अष्टभ्यामनिमित्तेऽप्यनाभोगो निरभिसंस्कारानिमित्तविहारित्वाद्बुद्धक्षेत्रपरिशोधना च । नवम्यां प्रतिसंविद्वशितया सत्त्वपरिपाकनिष्पत्तिः सर्वाकारपरिपाचनसामर्थ्यात् । दशम्यां समाधिमुखानां धारणीमुखानां च विशुद्धता । एकादश्यां बुद्धभूमौ बोधिविशुद्धता लक्षणां [णं]सर्वज्ञेयावरणप्रहाणात् । भूमिष्ठे च [ष्वेवं] पुद्गलविभागमारभ्य द्वौ श्लोकौ । विशुद्धदृष्टिः सुविशुद्धशीलः समाहितो धर्मविभूतमानः । संतानसंक्लेशविशुद्धिभेदे निर्माण एकक्षणलब्धबुद्धिः ॥ २०.१५ ॥ उपेक्षकः क्षेत्रविशोधकश्च स्यात्सत्त्वपाके कुशलो महर्द्धिः । संपूर्णकायश्च निदर्शने च शक्तोऽभिषिक्तः खलु बोधिसत्त्वः ॥ २०.१६ ॥ दशसु भूमिषु दश बोधिसत्त्वा व्यवस्थाप्यन्ते । प्रथमायां विशुद्धदृष्टिः पुद्गलधर्मदृष्टिप्रतिपक्षज्ञानलाभात् । द्वितीयायां सुविशुद्धशीलः सूक्ष्मापत्तिस्खलितसमुदाचारस्याप्यभावात् । तृतीयायां समाहितो भवत्यच्युतध्यानसमाधिलाभात् । चतुर्थ्यां धर्मविभूतमानः सूत्रादिधर्मनानात्वमानस्य विभूतत्वात् । पञ्चम्यां संतानभेदे निर्माणो दशभिश्चित्ताशयविशुद्धिसमताभिः सर्वसंतानसमताप्रवेशात् । षष्ठ्यां संक्लेशव्यवदानभेदे निर्माणः प्रतीत्यसमुत्पादतथताबहुलविहारितया कृष्णशुक्लपक्षाभ्यां तथतायाः संक्लेशव्यवदानादर्शनात् । प्रकृतिविशुद्धितामुपादाय । सप्तम्यामेकचित्तक्षलब्धबुद्धिर्निर्निमित्तविहारसामर्थ्यात्प्रतिक्षणं सप्तत्रिंशद्बोधिपक्षभावनातः । अष्टम्यामुपेक्षकः क्षेत्रविशोधकश्चानाभोगनिर्निमित्तविहारित्वाद्मिश्रोपमिश्रप्रयोगतश्चाविनिवर्तनीयभूमिप्रविष्टैर्बोधिसत्त्वैः । नवम्यां सत्त्वपरिपाककुशलः (१७१) पूर्ववत् । दशम्यां बोधिसत्त्वभूमौ बोधिसत्त्वो महर्द्धिकश्च व्यवस्थाप्यते महाभिज्ञालाभात् । संपूर्णधर्मकायश्चाप्रमाणसमाधिधारणीमुखस्फुरणादाश्रयस्य निदर्शने च शक्तो व्यवस्थाप्यते तुषितभवनवासादिनिर्माणनिदर्शनात् । अभिषिक्तश्च बुद्धत्वे सर्वबुद्धेभ्यस्तत्राभिषेकलाभात् । शिक्षाव्यवस्थानमारभ्य पञ्च श्लोकाः । धर्मतां प्रतिविध्येह अधिशीलेऽनुशीक्षणे । अधिचित्तेऽप्यधिप्रज्ञे प्रज्ञा तु द्वयगोचरा ॥ २०.१७ ॥ धर्मतत्त्वं तदज्ञानज्ञानाद्या वृत्तिरेव च । प्रज्ञाया गोचरस्तस्माद्द्विभूमौ तद्व्यवस्थितिः ॥ २०.१८ ॥ शिक्षाणां भावनायाश्च फलमन्यच्चतुर्विधम् । अनिमित्तसंस्कारो विहारः प्रथमं फलम् ॥ २०.१९ ॥ स एवानभिसंस्कारो द्वितीयं फलमिष्यते । क्षेत्रशुद्धिश्च सत्त्वानां पाकनिष्पत्तिरेव च ॥ २०.२० ॥ समाधिधारणीनां च निष्पत्तिः परमं फलम् । चतुर्विधं फलं ह्येतत्चतुर्भूमिसमाश्रितम् ॥ २०.२१ ॥ प्रथमायां भूमौ धर्मतां प्रतिविध्य द्वितियायामधिशीलं शिक्षते । तृतीयायामधिचित्तम् । चतुर्थीपञ्चमीषष्ठीष्वधिप्रज्ञम् । बोधिपक्षसंगृहीता हि प्रज्ञा चतुर्थ्यां भूमौ । सा पुनर्द्वयगोचरा भूमिद्वये । द्वयं पुनर्धर्मतत्त्वं च दुःखादिसत्यम् । तदज्ञानज्ञानादिका च वृत्तिरनुलोमः [प्रतिलोमः?] प्रतीत्यसमुत्पादः । तदज्ञानादिका हि वृत्तिरविद्यादिका । तज्ज्ञानादिका च वृत्तिर्विद्यादिका । तस्माद्भूमिद्वयेऽप्यधिप्रज्ञव्यवस्थानम् । अतः परं चतुर्विधं शिक्षाफलं चतुर्भूमिसमाश्रितं वेदितव्यं यथाक्रमम् । तत्र[प्रथमं फलमनिमित्तोविहारः ससंस्कारः?] द्वितीयं फलं स एवानिमित्तो विहारोऽनभिसंस्कारः क्षेत्रपरिशुद्धिश्च वेदितव्यम् । शेषं गतार्थम् । स्कन्धव्यवस्थानमारभ्य द्वौ श्लोकौ । धर्मतां प्रतिविध्येह शीलस्कन्धस्य शोधना । समाधिप्रज्ञास्कन्धस्य तत ऊर्ध्वं विशोधना ॥ २०.२२ ॥ विमुक्तिमुक्तिज्ञानस्य तदन्यासु विशोधना । चतुर्विधादावरणात्प्रतिघातावृतेरपि ॥ २०.२३ ॥ (१७२) तदन्यास्विति सप्तम्यां यावद्बुद्धभूमावुभयोर्विमुक्तिविमुक्तिज्ञानयोर्विशोधना । सा पुनर्विमुक्तिश्चतुर्विधफलावरणाच्च वेदितव्या । प्रतिघातावरणाच्च बुद्धभूमौ । येनान्येषां ज्ञेये ज्ञानं प्रतिहन्यते । बुद्धानां तु तद्विमोक्षात्सर्वत्राप्रतिहतं ज्ञानम् । शेषं गतार्थम् । निष्पत्तिव्यवस्थानमारभ्य त्रयः श्लोकाः । अनिष्पन्नाश्च निष्पन्ना विज्ञेयाः सर्वभूमयः । निष्पन्ना अप्यनिष्पन्ना निष्पन्नाश्च पुनर्मताः ॥ २०.२४ ॥ निष्पत्तिर्विज्ञेया यथाव्यवस्थानमनसिकारेण । तत्कल्पनताज्ञानादविकल्पनया च तस्यैव ॥ २०.२५ ॥ भावना अपि निष्पत्तिरचिन्त्यं सर्वभूमिषु । प्रत्यात्मवेदनीयत्वात्बुद्धानां विषयादपि ॥ २०.२६ ॥ तत्राधिमुक्तिचर्याभूमिरनिष्पन्ना । शेषा निष्पन्ना इत्येताः सर्वभूमयः । निष्पन्ना अपि पुनः सप्तानिष्पन्नाः । शेषा निष्पन्ना निरभिसंस्कारवाहित्वात् । यत्पुनः प्रमुदितादिभूमिर्निष्पन्ना पूर्वमुक्ता तत्र निष्पत्तिर्यथाव्यवस्थापितभूमिमनसिकारेण । तस्य भूमिव्यवस्थानस्य कल्पनामात्रज्ञानात्तदविकल्पना[नया] च वेदितव्या । यदा तद्भूमिव्यवस्थानं कल्पनामात्रं जानीते । तदपि च कल्पनामात्रं न विकल्पयत्येवं ग्राह्यग्राहकाविकल्पज्ञानलाभाद्भूमिपरिनिष्पत्तिरुक्ता भवति । अपि खलु भूमीनां भावना च निष्पत्तिश्चोभयमचिन्त्यं सर्वभूमिषु । तथा हि तद्बोधिसत्त्वानां प्रत्यात्मवेदनीयं बुद्धानां च विषयो नान्येषाम् । भूमिप्रतिष्ठ[विष्ट]स्य लिङ्गविभागमारभ्य द्वौ श्लोकौ । अधिमुक्तिर्हि सर्वत्र सालोका लिङ्गमिष्यते । अलीनत्वमदीनत्वमपरप्रत्ययात्मता ॥ २०.२७ ॥ प्रतिवेधश्च सर्वत्र सर्वत्र समचित्तता । अनेयानुनयोपायज्ञानं मण्डलजन्म च ॥ २०.२८ ॥ एतद्भूमिप्रविष्टस्य बोधिसत्त्वस्य दशविधं लिङ्गं सर्वासु भूमिषु वेदितव्यम् । यां भूमिं प्रविष्टस्तत्र सालोको यां न प्रविष्टस्तत्राधिमुक्तिरित्येतदेकं लिङ्गम् । अलीनत्वं परमोदारगम्भीरेषु धर्मेषु । अदीनत्वं दुष्करचर्यासु । अपरप्रत्ययत्वं स्वस्यां भूमौ । सर्वभूमिप्रतिवेधश्च तदभिनिर्हारकौशल्यतः सर्वसत्त्वेष्वात्मसमचित्तता । अनेया वर्णावर्णशब्दाभ्याम् । अननुनयश्चक्रवर्तीत्यादिसंपत्तिषु । उपायकौशल्यमनुपलम्भस्तस्य[लम्भस्य] बुद्धत्वोपायज्ञानात् । बुद्धपर्षन्मण्डलेषु चोत्पत्तिः सर्वकालमित्येतानि अपराणि लिङ्गानि बोधिसत्त्वस्य । (१७३) भूमिषु पारमितालाभलिङ्गविभागे द्वौ श्लोकौ । नाच्छन्दो न च लुब्धह्रस्वहृदयो न क्रोधनो नालसो नामैत्रीकरूणाशयो न कुमतिः कल्पर्विकल्पर्हतः । नो विक्षिप्तमतिः सुखैर्न च हतो दुःखर्न वा [व्या]वर्तते सत्यं मित्रमुपाश्रितः श्रुतपरः पूजापरः शास्तरि ॥ २०.२९ ॥ सर्वं पुण्यसमुच्चयं सुविपुलं कृत्वान्यसाधारणं संबोधौ परिणामयत्यहरहर्यो ह्युत्तमोपायवित् । जातः स्वायतने सदा शुभकरः क्रीडत्यभिज्ञागुणैः सर्वेषामुपरिस्थितो गुणनिधिर्ज्ञेयः स बुद्धात्मजः ॥ २०.३० ॥ दशपारमितालाभिनो बोधिसत्त्वस्य षोडशविधं लिङ्गं दर्शयति । षोडशविधं लिङ्गम् । सदा पारमिताप्रतिपत्तिच्छन्देनाविरहितत्वम् । षट्पारमिताविपक्षैश्च रहितत्वं प्रत्येकम् । अन्ययानमनसिकारेणाविक्षिप्तता । संपत्तिसुखेष्वसक्तता । विपत्तिदुष्करचर्यादुःखैः प्रयोगानिर्वर्तिता । कल्याणमित्राश्रयः । श्रुतपरत्वम् । शास्तृपूजापरत्वम् । सम्यक्परिणामना उपायकौशल्यपारमितया । स्वायतनोपपत्तिः प्रणिधानपारमितया बुद्धबोधिसत्त्वाविरहितस्थानोपपत्तेः । सदाशुभकरत्वे[त्वं]बलपारमितया तद्विपक्षधर्माव्यवकिरणात् । अभिज्ञागुणविक्रीडनं च ज्ञानपारमितया । तत्र मैत्री व्यापादप्रतिपक्षः सुखोपसंहाराशयः । करुणा विहिंसाप्रतिपक्षो दुःखापगमाशयः । स्वभावकल्पनं कल्पः । विशेषकल्पनं विकल्पो वेदितव्यः । तत्रैवानुशंसविभागे श्लोकः । शमथे विपश्यनायां च द्वयपञ्चात्मको मतः । धीमतामनुशंसो हि सर्वथा सर्वभूमिषु ॥ २०.३१ ॥ तत्रैव पारमितालाभे सर्वभूमिषु बोधिसत्त्वानां सर्वप्रकारोऽनुशंसः पञ्चविधो वेदितव्यः । प्रतिक्षणं सर्वदौष्ठुल्याश्रयं द्रावयति । नानात्वसंज्ञाविगतिं च धर्मारामरतिः प्रतिलभते । अपरिच्छिन्नाकारं च सर्वतोऽप्रमाणं धर्मावभासं संजानीते । अविकल्पितानि चास्य विशुद्धिभागीयानि निमित्तानि समुदाचरन्ति । धर्मकायपरिपूरिपरिनिष्पत्तये च उत्तरादुत्तरतरं हेतुसंपरिग्रहं करोति । तत्र प्रथमद्वितीयौ शमथपक्षे वेदितव्यौ । तृतीयचतुर्थौ विपश्यनापक्षे । शेषमुभयपक्षे । भूमिनिरुक्तिविभागे नव श्लोकाः । (१७४) पश्यतां बोधिमासन्नां सत्त्वार्थस्य च साधनम् । तीव्र उत्पद्यते मोदो मुदिता तेन कथ्यते ॥ २०.३२ ॥ अत्र न किंचिद्व्याख्येयम् । दौः शील्याभोगवैमल्याद्विमला भूमिरुच्यते । दौः शील्यमलस्यान्ययानमनसिकारमलस्य चातिक्रमाद्विमलेत्युच्यते । तस्मात्तर्ह्यस्माभिस्तुल्याभिनिर्हारे सर्वाकारपरिशोधनाभिनिर्हार एव योगः करणीय इति वचनात् । महाधर्मावभासस्य करणाच्च प्रभाकरी ॥ २०.३३ ॥ तथा हि तस्यां समाधिबलेनाप्रमाणधर्मपर्येषणधारणात्महान्तं धर्मावभासं परेषां करोति । अर्चिर्भूता यतो धर्मा बोधिपक्षाः प्रदाहकाः । अर्चिष्मतीति तद्योगात्सा भूमिर्द्वयदाहतः ॥ २०.३४ ॥ सा हि बोधिपक्षात्मिका प्रज्ञा द्वयदहनप्रत्युपस्थाना तस्यां बाहुल्येन । द्व्यं पुनः क्लेशावरणं ज्ञेयावरणं चात्र वेदितव्यम् । सत्त्वानां परिपाकश्च स्वचित्तस्य च रक्षणा । धीमद्भिर्जीयते दुःखं दुर्जया तेन कथ्यते ॥ २०.३५ ॥ तत्र सत्त्वपरिपाकाभियुक्तोऽपि न संक्लिश्यते । सत्त्वविप्रतिपत्त्या तच्चोभयं दुष्करत्वाद्दुर्जयम् । आभिमुख्याद्द्व्यस्येह संसारस्यापि निर्वृतेः । उक्ता ह्यभिमुखी भूमिः प्रज्ञापारमिताश्रयात् ॥ २०.३६ ॥ सा हि प्रज्ञापारमिताश्रयेण निर्वाणसंसारयोरप्रतिष्ठानात्संसारनिर्वाणयोरभिमुखी । एकायनपथश्लेषाद्भूमिर्दूरंगमा मता । एकायनपथः पूर्वं निर्दिष्टस्तदुपश्लिष्टत्वात्दूरं गता भवति प्रयोगपर्यन्तगमनात् । द्वयसंज्ञाविचलनादचला च निरुच्यते ॥ २०.३७ ॥ द्वाभ्यां संज्ञाभ्यामविचलनात् । निमित्तसंज्ञया[निमित्ताभोगसंज्ञया]अनिमित्ताभोगसंज्ञया च । प्रतिसंविन्मतिसाधुत्वाद्भूमिः साधुमती मता । प्रतिसंविन्मतेः साधुत्वादिति प्रधानत्वात् । धर्ममेघा द्वयव्याप्तेर्धर्माकाशस्य मेघवत् ॥ २०.३८ ॥ (१७५) द्वयव्याप्तेरिति समाधिमुखधारणीमुखव्यापनान्मेघेनेवाकाशस्थलीयस्याश्रयसंनिविष्टस्य श्रुतधर्मस्य धर्ममेघेत्युच्यते । विविधे शुभनिर्हारे रत्या विहरणात्सदा । सर्वत्र बोधिसत्त्वानां विहारभूमयो मताः ॥ २०.३९ ॥ विविधकुशलाभिनिर्हारनिमित्तं सदा सर्वत्र रत्या विहरणाद्वोधिसत्त्वानां भूमयो विहारा इत्युच्यन्ते । भूयो भूयोऽमितास्वासु ऊर्ध्वंगमनयोगतः । भूतामिताभयार्थाय त एवेष्टा हि भूमयः ॥ २०.४० ॥ भूयो भूयोऽमितास्वासूर्ध्वंगमनयोगाद्भूतामिताभयार्थाय त एव विहाराः पुनर्भूमय उच्यन्ते । अमितास्विति दशसु भूमिषु एकैकस्याप्रमाणत्वात् । ऊर्ध्वंगमनयोगादिति उपरिभूमिगमनयोगात् । भूतामिताभयार्थमित्यमितानां भूतानां भयप्रहाणार्थम् । प्राप्तिविहारे[विभागे]श्लोकः । भूमिलाभे[भो]ऽधिमुक्तेश्च चरितेषु च वर्तनात् । प्रतिवेधाच्च भूमीनां निष्पत्तेश्च चतुर्विधः ॥ २०.४१ ॥ चतुर्विधो भूमीनां लाभः । अधिमुक्तिलाभो यथोक्ताधिमुक्तितोऽधिमुक्तिचर्याभूमौ । चरितलाभो दशसु धर्मचरितेषु वर्तनात्तस्यामेव । परमार्थ [प्रतिवेध] लाभः परमार्थप्रतिवेधतो भूमिप्रवेशे । निष्पतिलाभश्चाविनिवर्तनीयभूमिप्रवेशे । चर्याविभागे श्लोकः षट्पादः । महायानेऽधिमुक्तानां हीनयाने च देहिनाम् । द्वयोरावर्जनार्थाय विनयाय च देशिताः । चर्याश्चतस्रो धीराणां यथासूत्रानुसारतः ॥ २०.४२ ॥ तत्र पारमिताचर्या महायानाधिमुक्तानामर्थे देशिता । बोधिपक्षचर्या श्रावकप्रत्येकबुद्धयानाधिमुक्तानाम् । अभिज्ञाचर्या द्वयोरपि महायानहीनयानाधिमुक्तयोः प्रभावेणावर्जनार्थम् । सत्त्वपरिपाकचर्या द्वयोरेव परिपाचनार्थम् । परिपाचनं ह्यत्र विनयनम् । बुद्धगुणविभागे बहवः श्लोकाः । अप्रमाणविभागे तद्बुद्धस्तोत्रमारभ्यैकः । अनुकम्पकसत्त्वेषु संयोगविगमाशय । अवियोगाशय सौख्यहिताशय नमोऽस्तुते ॥ २०.४३ ॥ (१७६) [अत्र] अनुकम्पकत्वं सत्त्वेषु हितसुखाशयत्वेन संदर्शितम् । सुखाशयत्वं पुनः सुखसंयोगाशयत्वेन मैत्र्या । दुःखवियोगाशयत्वेन च करुणया । सुखावियोगाशयत्वेन च मुदितया । हिताशयत्वमुपेक्षया । सा पुनर्निः संक्लेशताशयलक्षणा वेदितव्या । विमोक्षाभिभ्वायतनकृत्स्नायतनविभागे श्लोकाः । सर्वावरणनिर्मुक्त सर्वलोकाभिभू मुने । ज्ञानेन ज्ञेयं व्याप्तं ते मुक्तचित्त नमोऽस्तुते ॥ २०.४४ ॥ अत्र विमोक्षविशेषं भगवतः सर्वक्लेशज्ञेयावरणनिर्मुक्ततया दर्शयति । अभिभ्वायतनविशेषं सर्वलोकाभिभुत्वेन स्वचित्तवशवर्तनाद्यथेष्टालम्बननिर्माणपरिणामनताधिष्ठानतः । कृत्स्नायतनविशेषं सर्वज्ञेयज्ञानाव्याघाततः [ज्ञानव्याप्तः] । अत एव विमोक्षादिगुणविपक्षमुक्तत्वात्मुक्तचित्तः । अरणाविभागे श्लोकः । अशेषं सर्वसत्त्वानां सर्वक्लेशविनाशक । क्लेशप्रहारक क्लिष्टसानुक्रोश नमोऽस्तुते ॥ २०.४५ ॥ अत्रारणाविशेषं भगवतः सर्वसत्त्वक्लेशविनयनादुत्पादितक्लेशेष्वपि च तत्क्लेशप्रतिपक्षविधानात्क्लिष्टजनानुकम्पया संदर्शयति । अन्ये ह्यरणाविहारिणः सत्त्वानां कस्यचिदेव तदालम्बनस्य क्लेशस्योत्पत्तिप्रत्ययमात्रं प्रतिहरन्ति । न तु क्लेशसंतानादपनयन्ति । प्रणिधिज्ञानविशेषे[विभागे]श्लोकः । अनाभोग निरासङ्ग अव्याघात समाहित । सदैव सर्वप्रश्नानां विसर्जक नमोऽस्तु ते ॥ २०.४६ ॥ अत्र पञ्चभिराकारैः प्रणिधिज्ञानविशेषं भगवतः संदर्शयति । अनाभोगसंमुखीभावतः । असक्तिसंमुखीभावतः । सर्वज्ञेयाव्याघाततः । सदा समाहितत्वतः । सर्वसंशयच्छेदनतश्च सत्त्वानाम् । अन्ये हि प्रणिधिज्ञानलाभिनो नानाभोगान् [भोगेना] प्रणिधाय प्रणिधीज्ञानं संमुखीकुर्वन्ति । न चासक्तं समापत्तिप्रवेशापेक्षत्वात् । न चाव्याहतं प्रदेशज्ञानात् । न च सदा समाहिता भवन्ति न च सर्वसंशयांश्छिन्दन्ति । प्रतिसंविद्विभागे श्लोकः । आश्रयेऽथाश्रिते देश्ये वाक्ये ज्ञाने च देशिके । अव्याहतमते नित्यं सुदेशिक नमोऽस्तुते ॥ २०.४७ ॥ (१७७) अत्र समासतो यच्च देश्यते येन च देश्यते तत्र नित्यमव्याहतमतित्वेन भगवतश्चतस्रः प्रतिसंविदो देशिताः । तत्र द्वयं देश्यते आश्रयश्च धर्मः । तदाश्रितश्चार्थः । द्वयेन देश्यते वाचा ज्ञानेन च । सुदेशिकत्वेन तासां कर्म संदर्शितम् । अभिज्ञाविभागे श्लोकः । उपेत्य वचनैस्तेषां चरिज्ञ आगतौ गतौ । निः सारे चैव सत्त्वानां स्वववाद नमोऽस्तु ते ॥ २०.४८ ॥ अत्र षड्भिरभिज्ञाभिः सम्यगववादत्वं भगवतो दर्शितम् । उपेत्य विनेयसकाशमृध्द्यभिज्ञया । तेषां भाषया दिव्यश्रोत्राभिज्ञया चित्तचरित्रं ज्ञात्वा चेतःपर्यायाभिज्ञया यथा पूर्वान्तादिहगतिर्यथा चापरान्ते गतिर्यथा च संसारान्निः सरणम् । तत्राववादं ददात्यवशिष्टाभिस्तिसृभिरभिज्ञाभिर्यथाक्रमम् । लक्षणानुव्यञ्जनविभागे श्लोकः । सत्पौरुष्यं प्रपद्यन्ते त्वां दृष्ट्वा सर्वदेहिनः । दृष्टमात्रात्प्रसादस्य विधायक नमोऽस्तु ते ॥ २०.४९ ॥ अत्र लक्षणानुव्यञ्जनानां भगवति महापुरुषत्वसंप्रत्ययेन दर्शनमात्रात्परेषां प्रसादजनकत्वं कर्म संदर्शितम् । परिशुद्धिविभागे श्लोकः । आदनस्थानसंत्यागनिर्माणपरिणामने । समाधिज्ञानवशितामनुप्राप्त नमोऽस्तु ते ॥ २०.५० ॥ अत्र भगवतश्चतुर्विधया वशितया सर्वाकारश्चतस्रः परिशुद्धयः परिदीपिताः । आश्रयपरिशुद्धिरात्मभावस्यादानस्थानत्यागवशितया । आलम्बनपरिशुद्धिर्निर्माणपरिणामनवशितया । चित्तपरिशुद्धिः सर्वाकारसमाधिवशितया । प्रज्ञापरिशुद्धिः सर्वाकारज्ञानवशितया । बलविभागे श्लोकः । उपाये शरणे शुद्धौ सत्त्वानां विप्रवादने । महायाने च निर्याणे मारभञ्ज नमोऽस्तु ते ॥ २०.५१ ॥ अत्र चतुर्ष्वर्थेषु सत्त्वानां विप्रवादनाय मारो यस्तद्भञ्जकत्वेन भगवतो दशानां बलानां कर्म संदर्शितम् । यदुत सुगतिदुर्गतिगमनाद्युपायविप्रवादने । अशरणे देवादिषु शरणविप्रवादने । साश्रवशुद्धिमात्रेण शुद्धिविप्रवादने । महायाननिर्याणविप्रवादने च । (१७८) स्थानास्थानज्ञानबलेन हि भगवान्प्रथमेऽर्थे मारभञ्जको वेदितव्यः । कर्मविपाकज्ञानबलेन द्वितीये । ध्यानविमोक्षसमाधिसमापत्तिज्ञानबलेन तृतीये । इन्द्रियपरापरत्वादिज्ञानबलेन चतुर्थे । हीनानीन्द्रियादीनि वर्जयित्वा श्रेष्ठसंनियोजनात् । वैशारद्यविभागे श्लोकः । ज्ञानप्रहाणनिर्याणविघ्नकारकदेशिक । स्वपरार्थेऽन्यतीर्थ्यानां निराधृष्य नमोऽस्तु ते ॥ २०.५२ ॥ अत्र ज्ञानप्रहाणकारकत्वेन स्वार्थे । निर्याणविघ्नदेशिकत्वेन च परार्थे । निराधृष्यत्वादन्यतीर्थ्यैर्भगवतो यथाक्रमं चतुर्विधं वैशारद्यमुद्भावितम् । आरक्षस्मृत्युपस्थानविभागे श्लोकः । वि[नि]गृह्यवक्ता पर्षत्सु द्वयसंक्लेशवर्जित । निरारक्ष असंमोष गणकर्ष नमोऽस्तु ते ॥ २०.५३ ॥ अनेन त्रीण्यरक्षाणि त्रीणि च स्मृत्युपस्थानानि भगवतः परिदीपितानि तेषां च कर्म गणपरिपकर्षकत्वम् । तैर्हि यथाक्रमं वि[नि]गृह्यवक्ता च भवति पर्षत्सु निरारक्षत्वात् । द्व्यसंक्लेशवर्जितश्चानुनयप्रतिघाभावादसंमोषतया सदाभूय स्थितस्मृतित्वात् । वासनासमुद्धातविभागे श्लोकः । चारे विहारे सर्वत्र नास्त्यसर्वज्ञचेष्टितम् । सर्वदा तव सर्वज्ञ भूतार्थिक नमोऽस्तु ते ॥ २०.५४ ॥ अनेन चारे विहारे वा सर्वत्र सर्वदा वासर्वज्ञचेष्टितस्याभावात्भगवतः सर्वक्लेशवासनाससुद्धातः परिदीपितः । असर्वज्ञो हि क्षीणक्लेशोऽप्यसमुद्धातितत्वाद्वासनाया एकदा भ्रान्तेन हस्तिना सार्धं समागच्छति भ्रान्तेन रथेनेत्येवमादिकमसर्वज्ञचेष्टितं करोति । यथोक्तं माण्डव्यसूत्रे । तच्च भगवतो भूतार्थसर्वज्ञत्वं[ज्ञत्वेन]नास्ति । असंमोषताविभागे श्लोकः । सर्वसत्त्वार्थकृत्येषु कालं त्वं नातिवर्तसे । अबन्ध्यकृत्य सततमसंमोष नमोऽस्तु ते ॥ २०.५५ ॥ अनेन यस्य सत्त्वस्य योऽर्थः करणीयो यस्मिन्काले तत्कालानतिवर्तनातबन्ध्यं कृत्यं सदा भगवत इत्यसंमोषधर्मत्वं स्वभावतः कर्मतश्च संदर्शितम् । महाकरुणाविभागे श्लोकः । (१७९) सर्वलोकमहोरात्रं षट्कृत्वः प्रत्यवेक्षसे । महाकरुणया युक्त हिताशय नमोऽस्तु ते ॥ २०.५६ ॥ अत्र महाकरुणा भगवतः कर्मतः स्वभावतश्च परिदीपिता । महाकरुणया हि भगवान् षट्कृत्वो रात्रिन्दिवेन लोकं प्रत्यवेक्षते को हीयते को वर्धते इत्येवमादि । तद्योगाच्च भगवान् सर्वसत्त्वेषु नित्यं हिताशयः । आवेणिकगुणविभागे श्लोकः । चारेणाधिगमेनापि ज्ञानेनापि च कर्मणा । सर्वश्रावकप्रत्येकबुद्धोत्तम नमोऽस्तु ते ॥ २०.५७ ॥ अत्र चारसंगृहीतैः षड्भिरावेणिकैर्बुद्धधर्मैः । अधिगमसंगृहीतैः षड्भिः । ज्ञानसंगृहीतैस्त्रिभिः । कर्मसंगृहीतैश्च त्रिभिः । तदन्यसत्त्वोत्तमानामपि श्रावकप्रत्येकबुद्धानामन्तिकादुत्तमत्वेन सर्वसत्त्वोत्तमत्वं भगवतः परिदीपितम् । तत्र नास्ति तथागतस्य स्खलितम् । नास्ति रवितम् । नास्ति मुषिता स्मृतिः । नास्त्यसमाहितं चित्तम् । नास्ति नानात्वसंज्ञा । नास्त्यप्रतिसंख्यायोपेक्षेति चारसंगृहीताः षडावेणिका बुद्धधर्मा ये बुद्धस्यैव संविद्यन्ते नान्येषाम् । नास्ति छन्दपरिहाणिर्नास्ति वीर्यस्मृतिसमाधिप्रज्ञाविमुक्तिपरिहाणिरित्यधिगमसंगृहीताः षट् । अतीतेऽध्वनि तथागतस्यासङ्गमप्रतिहतं ज्ञानम् । अनागते प्रत्युत्पन्नेऽध्वनि तथागतस्यासङ्गमप्रतिहतं ज्ञानमिति ज्ञानसंगृहीतास्त्रयः । सर्वं तथागतस्य कायकर्म ज्ञानपूर्वंगमं ज्ञानानुपरिवर्ति । सर्वं वाक्कर्म सर्वं मनस्कर्मेति कर्मसंगहीतास्त्रयः । सर्वाकारज्ञताविभागे श्लोकः । त्रिभिः कायैर्महाबोधिं सर्वाकारामुपागत । सर्वत्र सर्वसत्त्वानां काङ्क्षाछिद नमोऽस्तु ते ॥ २०.५८ ॥ अनेन त्रिभिश्च कायैः सर्वाकारबोध्युपगमत्वात्सर्वज्ञेयसर्वाकारज्ञानाच्च सर्वाकारज्ञता भगवतः परिदीपिता । त्रयः कायाः स्वाभाविकः सांभोगिको नैर्माणिकश्च । सर्वज्ञेयसर्वाकारज्ञानं पुनरत्र सर्वसत्त्वानां देवमनुष्यादीनां सर्वसंशयच्छेदेन कर्मणा निर्दिष्टम् । पारमितापरिपुरिविभागे श्लोकः । निरवग्रह निर्दोष निष्कालुष्यानवस्थित । आनिङ्क्ष्य सर्वधर्मेषु निष्प्रपञ्च नमोऽस्तु ते ॥ २०.५९ ॥ (१८०) अनेन सकलषट्पारमिताविपक्षनिर्मुक्ततया षट्पारमितापरिपूरिर्भगवत उद्भाविता । तत्रानवग्रहत्वं भोगनिराग्रहत्वाद्वेदितव्यम् । निर्दोषत्वं निर्मलकायादिकर्मत्वात् । निष्कालुष्यत्वं लोकधर्मदुःखाभ्यां चित्ताकलुषीकरणात् । अनवस्थितत्वमल्पावरण[वर]मात्राधिगमानवस्थानात् । आनिङ्क्ष्यत्वमविक्षेपात् । निष्प्रपञ्चत्वं सर्वविकल्पप्रपञ्चासमुदाचारात् । बुद्धलक्षणविभागे द्वौ श्लोकौ । निष्पन्नपरमार्थोऽसि सर्वभूमिविनिःसृतः । सर्वसत्त्वाग्रतां प्राप्तः सर्वसत्त्वविमोचकः ॥ २०.६० ॥ अक्षयैरसमैर्युक्तो गुणैर्लोकेषु दृश्यसे । मण्डलेष्वप्यदृश्यश्च सर्वथा देवमानुषैः ॥ २०.६१ ॥ अत्र षड्भिः स्वभावहेतुफलकर्मयोगवृत्त्यर्थैर्बुद्धलक्षणं परिदीपितम् । तत्र विशुद्धा तथता निष्पन्नः परमार्थः । स च बुद्धानां स्वभावः । सर्वबोधिसत्त्वभूमिनिर्यातत्वं हेतुः । सर्वसत्त्वाग्रतां प्राप्तत्वं फलम् । सर्वसत्त्वविमोचकत्वं कर्म । अक्षयासमगुणयुक्तत्वं योगः । नानालोकधातुषु दृश्यमानता निर्माणकायेन पर्षन्मण्डलेष्वपि दृश्यमानता सांभोगिकेन कायेन । सर्वथा । चादृश्यमानता धर्मकायेनेति त्रिविधा प्रभेदवृत्तिरिति । ॥ महायानसूत्रालंकारेषु व्यवदातसमयमहाबोधिसत्त्वभाषिते चर्याप्रतिष्ठाधिकारो नामैकविंशतितमोऽधिकारः ॥ ॥ समाप्तश्च महायानसूत्रालंकार इति ॥