अहोरात्रव्रतकथा ओं नमः श्रीधर्मधातवे । आकाशनिर्मलो भूतो निष्प्रपञ्चगुणाश्रयः । पञ्चस्कन्धात्मकः शान्तस्तस्मै स्तूपात्मने नमः ॥ १ ॥ एवं मया श्रुतमेकस्मिन् समये बुद्धो भगवाञ्छ्रावस्त्यां विहरति स्म जेतवनेऽनाथपिण्डदस्यारामे महता भिक्षुसंघेन सार्धमनेकैर्देवनागयक्षगन्धर्वासुरगरुडकिन्नरमहोरगैः स्थविरभिक्षुवीतरागसंघैर्बोधिसत्त्वशतसहस्रैः संबहुलैश्च श्रावकैर्दशभिर्लोकपालैश्चतुर्महाराजकायिकैरनेकैश्चतुर्वर्णकैर्मनुष्यैरनेकशतसहस्रैः परिवारैः परिवृतैः । तस्मिन् सभामण्डले सर्वे धर्मश्रवणिका लोका भगवन्तमभिवीक्ष्य चैत्यव्रतकथामनुध्यायन्तः समास्थिताः । अथ खलु सुभूतिः स्थविरः स्वासनात्समुत्थायैकांसमुत्तरासङ्गं कृत्वा त्रिः प्रदक्षिणीकृत्य सव्यजानुबिम्बं भुवि स्थाप्य भगवन्तं प्रणम्यैतदवोचत् । अहोरात्रव्रतं नाथ कस्मिन् काले प्रवर्तते । तद्विधिं च कथं ब्रूहि तत्सर्वं जगतां प्रभो ॥ २ ॥ भगवानाह । साधु साधु सुभूते त्वं शृणु सत्त्वानुकम्पक । अहोरात्रव्रतं नित्यं तद्विधिं कथितं मया ॥ ३ ॥ आसीत्पूर्वविदेहेषु नाम्ना गन्धवती पुरी । तस्यां राजा महातेजा इन्द्रपृष्टो महाप्रभुः ॥ ४ ॥ सोऽन्तःपुरे सभां कृत्वा वसुबन्धुं जगद्गुरुम् । प्रणम्य सहसोत्थाय पप्रच्छ विधिवन्मुदा ॥ ५ ॥ श्रोतुमिच्छामि तत्सर्वं यद्व्रतानां समुत्तमम् । यस्य पुण्यप्रभावेन सत्त्वा यान्ति सुनिर्वृतिम् ॥ ६ ॥ तत्सर्वं गदतां धीर सर्वसत्त्वानुकम्पक । भवता चानुपाल्योऽयं लोकश्च दुष्कृताकुलः ॥ ७ ॥ वसुबन्धुरुवाच । शृणु राजन्मया ख्यातं व्रतानां व्रतमुत्तमम् । अहोरात्रव्रतं पूर्वं विपश्यिना प्रभाषितम् ॥ ८ ॥ अश्विनीपूर्णमास्यां तु व्रतं कुर्याद्महोदयम् । चैत्यं संपूजयेच्छुद्धः षोडशैर्विधिभिस्तथा ॥ ९ ॥ भोजनान्ते त्रयोदश्यां कुर्याद्दन्तादिशोधनम् । चतुर्दश्यां विशेषेण क्षुरकर्माणि कारयेत् ॥ १० ॥ स्नानं कृत्वा च तीर्थेषु शुचिवस्त्रावृतः सुधीः । मध्याह्ने पूजयेच्चैत्यं प्रदीपं च प्रदापयेत् ॥ ११ ॥ सूर्ये षष्ठगते भागे प्राशयेच्च क्षीरोदनम् । पुनर्शौचादिकं कृत्वा धर्मं च श्रुणुयान्मुदा ॥ १२ ॥ प्रत्यूषे पूर्णमास्यां तु स्नात्वा व्रतं समारभेत् । आदौ भूमितलं शोध्य धर्मशालां प्रकारयेत् ॥ १३ ॥ गन्धोदकैः सुशीतैश्च चैत्यपुंगवं स्नापयेत् । गोक्षीरैः पञ्चरत्नैश्च शिलाभस्माभिलेपयेत् ॥ १४ ॥ चत्वारश्च ध्वजाः स्थाप्या वितानं सह चामरैः । दिग्माला विविधैः पुष्पैर्लम्बयेच्च जिनालये ॥ १५ ॥ तदनु व्रतमारभ्य गुरुं वज्रधरं नमेत् । त्रिरत्नशरणं कृत्वा ध्यापयेद्धर्मधातुकम् ॥ १६ ॥ धर्मधातुमयं चैत्यं जिनानां गृहमुत्तमम् । अनादिबुद्ध-म्-आख्यातं सर्वतथागतालयम् । सर्वदेवालयं चैत्यमाराध्य व्रतमाचरेत् ॥ १७ ॥ सहस्रदलपद्मस्थं चन्द्रबिम्बप्रभास्वरम् । रक्तं भोःकारसंभूतं चतुर्मुखं विराजितम् ॥ १८ ॥ रक्तगौरमुखं मूलं दक्षिणे कुङ्कुमारुणम् । पश्चिमे पद्मरक्तं च [!] उत्तरे पीतरक्तकम् ॥ १९ ॥ अष्टभुजं विराजन्तं वागीश्वरं जगद्गुरुम् । धनुर्बाणधरं द्वाभ्यां पाशाङ्कुशधरं तथा । प्रज्ञापुस्तं तथा खड्गं वज्रघण्टां तथापरैः ॥ २० ॥ सर्वरससमायुक्तं ललितासनसंस्थितम् । दिव्याभरणभूषाङ्गं पञ्चबुद्धमुकूटिनम् ॥ २१ ॥ वागीश्वरं महाशुक्लं सर्वधर्मप्रतिष्ठितम् । एवं स्वहृदि संभाव्य पुरः स्थाप्य प्रपूजयेत् ॥ २२ ॥ पाद्याचमनमर्घं च दत्त्वा भक्तिसमन्वितः । जलजैः स्थलजैः पुष्पैः सुगन्धैः पञ्चगन्धकैः ॥ २३ ॥ सांयोजिकैः सुगन्धैश्च सुधूपैर्धूपनैस्तथा । घृतप्रयुक्तदीपैश्च नैवेद्यैर्दिव्यभोजनैः ॥ २४ ॥ छत्त्रध्वजपताकाभिर्नृत्यगीतसुवादनैः । फलमूलादिभिः पत्त्रैः पूगताम्बूलकैस्तथा ॥ २५ ॥ नानौषधिसमायुक्तैर्दिव्यैर्मानुष्यकैस्तथा । कुन्दपुष्पाक्षतैर्दूर्वैर्लाजया पञ्चरत्नकैः ॥ २६ ॥ क्षीरैः शंखसुपुष्पार्घं प्रदद्याच्चैत्यपुंगवे । धारणीं चैव स्तोत्रं च पठेद्गीतं च गाययेत् ॥ २७ ॥ प्रदक्षिणासहस्रं च यावत्कुर्यात्प्रमोदितः । रात्रिं दिवा सुसंपूर्णं प्रचरेच्च प्रदक्षिणाम् ॥ २८ ॥ यत्र देवालये तीर्थे सर्वान् देवान् प्रपूजयेत् । हीनजातिप्रसङ्गं च स्पर्शनं नैव कारयेत् ॥ २९ । स्पर्शिते संचरेत्स्नात्वा पञ्चगव्येन शोधयेत् । अस्पर्शेऽपि चरेत्स्नानं त्रिसंध्यं संचरेद्व्रती ॥ ३० ॥ ____________________ {च्दद्द्थे fओल्लोwइन्गfतेर्ऽशोधयेत्ऽ : शुचिक्रम तथा धर्ममुत्तममहोरात्रव्रतम् ॥ वारवृद्धौ न कर्तव्यं समर्थेनापि कारयेत् ॥ निद्रासेवितं निद्रां कृत्वा विश्रामसेवितं विश्रामं कृत्वा राजन् तथा व्रतं कारयेद्दोषकम्ऽस्ति तस्मान्न कारयेत् ॥ ३०* ॥} ____________________ अहोरात्रं सुसंपूर्णं न निद्रां कारयेद्व्रती । चैत्यध्यानसमायुक्तः जपन् स्तोत्रं पठंश्चरेत् ॥ ३१ ॥ नानागीतमहोत्साहैर्नृत्यैर्वाद्यैः सुघोषकैः । हाहाकारैः समुल्लासैः कारयेत्संप्रदक्षिणाम् ॥ ३२ ॥ विश्रामं वा न कुर्याच्च खेदं वा व्रतमानसः । अहोरात्रे सुसंपूर्णे प्रातः स्नात्वा व्रतं चरेत् ॥ ३३ ॥ चैत्यपूजां यथा कृत्वा गुरुपूजां समाचरेत् । अन्नं वस्त्रं सुवर्णं च व्रीहिरत्नानि भूषितान् ॥ ३४ ॥ आचार्याय प्रदातव्या यथाशक्ति सुभक्तितः । यज्ञं कुर्यात्ततो वज्री व्रतं पूर्णं प्रपूरयेत् ॥ ३५ ॥ अभिषेकं ततो दत्त्वा पञ्चसूत्रं घटं तथा । प्रत्येकं व्रतिनां दत्त्वा आशीर्वाद्यं प्रदापयेत् ॥ ३६ ॥ कौमारीपूजनं कृत्वा शेषान्नं च प्रभुञ्जयेत् । दधिशर्करसंयुक्तं पञ्चामृतं सुभोजनम् ॥ ३७ ॥ गणचक्रं ततः कुर्याद्विधिज्ञस्तद्विधिं यथा । इत्येवं व्रतराजं तद्यः कुर्याच्छुद्धमानसः ॥ ३८ ॥ विपुलं भोगमाभुज्य सर्वसुखसमन्वितः । परत्र सुखमाप्नोति धर्मलोके महीपते ॥ ३९ ॥ इन्द्रपृष्ट उवाच । भगवन् सर्वविन्नाथ पुनर्वक्तुं त्वमर्हसि । संसारे बहुधा जातिस्तेषां प्रचारणं कथम् ॥ ४० ॥ व्रतपूजाफलं सर्वं कालं च समयं दिनम् । कुत्र स्थाने व्रतं कार्यं तत्सर्वं वद सांप्रतम् ॥ ४१ ॥ वसुबन्धुरुवाच । शृणु राजन्महाभाग संक्षेपाद्गदितं मया । स्वयंभुवो विशेषेण स्थाने पुण्यं महोत्तमम् ॥ ४२ ॥ तदभावे स्वदेशेषु स्थावरे चैत्यपुंगवे । तदभावे स्वयं कृत्वा कारयित्वापरैस्तथा ॥ ४३ ॥ सुवर्णेन कृते वापि रत्नैश्चान्यैश्च धातुभिः । पाषाणेन तथा काष्ठैरिष्टिकामृन्मयैस्तथा ॥ ४४ ॥ वालुकौदनपिण्डेन कृते पट्टे च चित्रिते । देवालये नदीतीरे तीर्थे पुण्ये महीतले ॥ ४५ ॥ धर्मशालां विशोध्यादौ यथाविधि व्रतं चरेत् । पुष्पाक्षतसुगन्धैश्च वारिणा चैत्यपुंगवे ॥ ४६ ॥ अर्घं दद्याद्रवेः पूर्वं पुष्पं क्षिपेत्सलाजकम् । मण्डलं पञ्चदेवानां लिखेद्गोमयवारिणा ॥ ४७ ॥ अवन्ध्याक्षरयुक्तेन अद्भिर्व्रतीन् सुसिञ्चयेत् । हवर्गान्ताक्षरैर्मन्त्रैर्व्रतिमूर्ध्नि प्रतिष्ठितम् ॥ ४८ ॥ ओमाः हूमिति मन्त्रेण दिशोबन्धं सतर्जितम् । अङ्गन्यासं करन्यासं कृत्वा गुरुं च वन्दयेत् ॥ ४९ ॥ पुष्पाक्षतं करे धृत्वा क्षिपेत्पुष्पाञ्जलित्रयम् । पञ्चभूतसमुत्पन्नं पद्मकर्णिकसंस्थितम् ॥ ५० ॥ आवाहयेद्धर्मधातुं वागीश्वरं समुज्ज्वलम् । ज्ञानरूपं समाकृष्य संस्थाप्य समयेऽर्चयेत् ॥ ५१ ॥ आवाहयामि त्वं नाथ तिष्ठ तत्र मनोहरे । स्थिरो भव सदा मा गाः सांनिध्यं कुरु स्थावरे ॥ ५२ ॥ दुग्धाक्षताम्बुसंयुक्तं नवरत्नानि हाटकैः । शङ्खस्थं प्रतिगृह्णातु अर्घं दत्तं मया मुदा ॥ ५३ ॥ पट्टवस्त्राणि दिव्यानि चीवराणि महाप्रभो । नानारङ्गविचित्राणि प्रतिगृह्णातु मोदताम् ॥ ५४ ॥ चन्दनं मलयोद्भूतं कस्तूरिकुङ्कुमादिकम् । शैलेयं घनसारं च गृह्यतामनुमोदताम् ॥ ५५ ॥ जलजान् स्थलजान् दिव्यान् पञ्चवर्णेन ग्रन्थितान् । सुमोदवासनायुक्तान् पुष्पान् गृह्य प्रमोदताम् ॥ ५६ ॥ धूपोऽयं घ्राणसंतर्पो दिव्यगन्धसुयोजितः । प्रदत्तस्तव तोषार्थं गृह्यतां भक्तवत्सल ॥ ५७ ॥ दीपोऽयं हरति ध्वान्तं सर्वतिमिरनाशकः । घृततैलसमुज्ज्वालो मया दत्तः प्रगृह्यताम् ॥ ५८ ॥ अन्नं चतुर्विधं नाथ रसानां षड्विधं तथा । घृताद्यान् शर्कराहारान् भुञ्जतां च सुखं मम ॥ ५९ ॥ नानाफलसुमोद्यं च कोषकारण्डवादिकम् । स्कन्धमूलादिकं पत्त्रं गृहाण प्रतिमोदताम् ॥ ६० ॥ ताम्बूलपूगसंयुक्तं कर्पूरनिर्मलानि च । दिव्यौषधिगणादीनि गृह्यतां हितकाङ्क्षया ॥ ६१ ॥ लाजाक्षतफलार्चैव दूर्वाकुन्दानि भक्तितः । प्रक्षिप्तानि मया तुभ्यं गृहाण हितमानसः ॥ ६२ ॥ सौवर्णादिकृतं छत्त्रं ध्वजानि विविधानि च । पताकादीनि सर्वाणि प्रगृह्य जिन मोदताम् ॥ ६३ ॥ धीमान् पुजां तथा कृत्व स्तोत्रमेवं च कारयेत् । जिनेन्द्रतोषणार्थाय कारयेच्च प्रदक्षिणाम् ॥ ६४ ॥ धर्मधातुमयं चैत्यं सर्वलोकस्वरूपिणम् । आलयं सर्वबुद्धानां जिनधातुं नमाम्यहम् ॥ ६५ ॥ नमस्ते जिनधातूनां प्रत्यक्षं समलीलया । त्रियानसमयानन्दं सततं त्वां समाश्रये ॥ ६६ ॥ जिनजं सकलस्थं च पुण्यक्षेत्रं नमाम्यहम् । पवित्रजनसुखार्थं सेवितार्थप्रदायकम् ॥ ६७ ॥ प्रणमामि मुनिश्रेष्ठं मङ्गलार्थप्रदायकम् । जनानां भयहन्तारं लोकनाथं महेश्वरम् ॥ ६८ ॥ देवताः सर्वलोकस्थाः संभूता जिनमण्डले । दद्यात्तेभ्यो बलिं तुष्ट्या पूजाभक्त्यर्चनैरतः ॥ ६९ ॥ ____________________ {च्दद्द्थे fओल्लोwइन्गfतेर्व्स्. ६९ शौचसोभनादिकं कृत्वा व्रतिनः मौरिकुण्डलसर्वाभरणगांगोपयादिवस्त्र शोभयेन्मालापुष्प लोहयेन्मण्डली प्रज्वालयेन् विस्तरेणोपडोषित गन्धाय तेऽग्रत धूपयेत्सर्वपापप्रसमनं भवति} ____________________ बहुमङ्गलवाद्यैस्च छत्त्रसिन्दूरपात्रया । आचार्यः स्वस्तिवाक्यैश्च कारयेच्च महोत्सवम् ॥ ७० ॥ अश्विनीपूर्णमास्यां तु (...) रविवासरे । आयुष्मतीयुते योगे प्रशस्तश्च विशेषतः ॥ ७१ ॥ यः प्रकुर्याद्व्रतं तस्मिन् विपुलं भोगमाप्नुयात् । परत्र सुखसंप्राप्तो जिनलोके महीपते ॥ ७२ ॥ शृणु राजन्महाभाग वक्ष्ये पूजाफलं पुनः । येन संस्थापितं चैत्यं वीतशोको भवेदसौ । मायामोहविनिर्मुक्तस्त्रिमलेनाविलिप्तितः ॥ ७३ ॥ पञ्चामृतैश्चन्दनगन्धगर्भैर्ये स्नापयन्ती जिनचैत्यबिम्बम् । मन्दाकिनीतोयसुगन्धगन्धैस्ते चाप्सरोभी रतिमावहन्ति ॥ ७४ ॥ ये धूपयन्ति क्षणमत्र लोकाः शोका न तेषां प्रभवन्ति जातु । सुरासुरैः पूजितपादपद्माः सुगन्धमाल्याम्बरभूषिताङ्गाः ॥ ७५ ॥ सुगन्धमस्मा उपढौकयन्ति प्रसन्नचित्ता मनुजा अजस्रम् । सुगन्धिदेहा रविभानुदीप्ता भवन्ति लोकाः परमार्थलोकाः ॥ ७६ ॥ ये कुङ्कुमाद्यै रचितं सुवस्त्रं ददन्ति ये चैत्यतथागतेभ्यः । शीतार्तिदुःखं न हि जातु तेषां तद्धेतुतः कोषविशालसारम् ॥ ७७ ॥ अशेषपुष्पं जलजं भवन्तं श्वेतारुणश्यामसुपीतकृष्णम् । समन्तभद्राय विशालवंशमारोग्यसौख्यं प्रभवन्ति दानात् ॥ ७८ ॥ श्रद्धारता ये मनुजा उदारैर्मालासुगन्धैर्बहुपुष्पयुक्तैः । चरन्ति पूजां बहुभक्तितस्ते समस्तसौख्यानि लभन्ति लोके ॥ ७९ ॥ नेत्राभिरामा बहुरत्नकोषा नराधिपैरर्चितपादपद्माः । ज्ञानप्रदीपाहतमोहजाला ये दीपमाला रचयन्ति बुद्धे ॥ ८० ॥ नैवेद्यमस्मै प्रददाति लोके यो भक्तियुक्तः सुरसं सुगन्धिम् । बली विशिष्टो नरचक्रचूडामण्यर्चिताङ्घ्री नृपसेव्यमानः ॥ ८१ ॥ फलमूलादिकं दत्त्वा चैत्येषु भक्तिमानसः । यथेष्टं फलमाप्नोति निरोगी सुखवान् सदा ॥ ८२ ॥ रोगादिभिः प्रबलदुःखकरैर्विमुक्ताः स्निग्धाननाः कनकतुल्यमनोज्ञवर्णाः । राज्यं हि यद्विगतकण्टकमाप्नुवन्ति भैषज्यदानविधिना तदुशन्ति चैत्ये ॥ ८३ ॥ ताम्बूलादिगणं दत्त्वा रूपवान् सुखवाञ्छुचिः । दिव्याङ्गना मनोहारी राजलक्ष्मीमवाप्नुयात् ॥ ८४ ॥ वितानमुच्चैर्वितनोति चैत्ये धन्यस्त्रिलोके परिपूजनीयः । विशालवंशो गुणरक्षणीयो जातो महादीप्तशरीरभासः ॥ ८५ ॥ ध्वजान् पताकानभिरोपयन्ति ये चैत्यबिम्बे खलु भक्तियुक्ताः । महीश्वरास्ते जितदुष्टसंघा भवन्ति नाथा दिवि भूतले च ॥ ८६ ॥ छत्त्राणि नानामणिभिर्महार्हैः संपादयन्त्यात्तमना ददन्ति । चैत्येषु भूमीश्वरवृन्दवन्द्याः श्रीसंयुता धर्मरता भवन्ति ॥ ८७ ॥ वीणादिभिर्घण्टमृदङ्गवाद्यैः शृङ्गैश्च शङ्खादिसुदिव्यघोषैः । संघोषणां ये वितरन्ति चैत्ये तेऽभिज्ञया पञ्चभिराश्रयन्ते ॥ ८८ ॥ महोत्साहकरैर्गीतैः सुमनोज्ञस्वरैर्जिने । नृत्यं च कारयेन्नित्यं कुर्याच्च दिव्यघोषणाम् ॥ ८९ ॥ ते नराः सुस्वरा भोन्ति सुन्दरा दिवि भूतले । दिव्यश्रोत्रा महाविज्ञाः सुशब्दं शृणुयुः सदा ॥ ९० ॥ नृत्यगीतादिकं कृत्वा चैत्यबिम्बे जिनालये । वन्द्यमानाः सुगोत्राश्च निष्पापाश्च बहुश्रुताः ॥ ९१ ॥ दीर्घायुष्काः सहस्राक्षा निरापदाः गुणाश्रयाः । ग्रहव्याधिविमुक्ताङ्गा भवन्ति ते शुभाकराः ॥ ९२ ॥ त्रासाय दुष्टसत्त्वानां रक्षार्थं च जिनालये । शस्त्रहस्ताः स्थिता ये च जिनभक्तिसमन्विताः ॥ ९३ ॥ आयुष्मन्तो निरोगाश्च पुत्रपौत्रीसमन्विताः । भाग्यवन्तो धनाढ्याश्च गच्छन्त्यन्ते जिनालयम् ॥ ९४ ॥ दूर्वाकुन्दाक्षतान् पुष्पान् लाजया सह भक्तिमान् । प्रक्षिपेज्जिनचैत्येषु स्वस्तिवाक्यमुदाहरन् ॥ ९५ ॥ दुर्गतिं नाभिजानाति सुकुली लोकनन्दनः । सर्वविद्यागुरुर्वन्द्यश्चान्ते मोक्षमवाप्नुयात् ॥ ९६ ॥ ये रममुक्तामणिवज्रहेमं रूप्यं सुवर्णादिकधातुदानात् । विनष्टशोकाः सुभगाः सुवंशाः पूर्णेन्द्रियाः पूर्णमनोरथाः स्युः ॥ ९७ ॥ ये शुद्धचित्ताः स्तुतिमाचरन्ति गद्यात्मिकां पद्यमयीं विचित्राम् । ते शब्दसंघान् बहुवाद्यजातान् शृण्वन्ति गीतान् सुरभामिनीनाम् ॥ ९८ ॥ यावती भूमिराक्रान्ता ह्यधः काञ्चनचक्रतः । योजनानां सहस्राणि राशिभ्यः परिकीर्तिताः ॥ ९९ ॥ यावत्यो वालुकास्तत्र तावत्यः परिसंख्यया । राजा भवति वीरेशश्चक्रवर्ती महीतले ॥ १०० ॥ ये जातमात्राः प्रभुतां प्रयान्ति श्रेष्ठीकुले जन्म सदैव येषाम् । हस्त्यश्वयानैश्च परिभ्रमन्ति कृत्वात्र ते चैत्यवरप्रणामम् ॥ १०१ ॥ अकार-म्-आद्यक्षरमन्त्रराजैर्बल्यूपहारं खलु यो हि दद्यात् । तस्मै सुदेवाः सगणाः सुतृप्ता दास्यन्ति सत्कर्मफलाभिलाषम् ॥ १०२ ॥ यस्मिन् सुधालेपमुदाचरन्ति ते रोगशोकादिविमुक्तदेहाः । धनेश्वरा दीर्घतरायुषस्ते नरामराणां सुभगा भवन्ति ॥ १०३ ॥ ये बुद्धमुद्दिश्य महान्ति नित्यं कुर्वन्ति मृद्गोमयलेपनानि । भक्त्या सुशुद्धा जलमण्डलं वा लभन्ति ते राजबलं सुभाग्याः ॥ १०४ ॥ स्तूपाङ्गणं धातुवरं विहारं ये शोधयन्तीह नराः प्रयत्नैः । निर्माल्यमेभ्यश्च समुद्धरन्ति ते हेमवर्णाः सुदृशो भवन्ति ॥ १०५ ॥ प्रदक्षिणां ये वितरन्ति तस्मिन् भवन्ति जातिस्मरलाभिनस्ते । सुवर्णवर्णा बहुपुत्रपौत्राः पूज्या मनुष्यामरनाथसंग्ःैः ॥ १०६ आलस्येनापि यः कुर्याज्जिनालयप्रदक्षिणाम् । पदे पदे सुवर्णैककर्षदानफलं लभेत् ॥ १०७ ॥ ब्रह्मक्षत्रियवैश्यानां सच्छूद्राणां प्रपूजनम् । तेभ्यो विहीनजातीनामधिकारो न पूजने ॥ १०८ ॥ गन्धपुष्पद्विजातीनां ... च पूजयेत् । गन्धपुष्पद्विजातीनां विशेषेण प्रकथ्यते ॥ १०९ ॥ छत्त्रावरोहणं राज्ञां वैश्यानां त्वन्नढौकने । ध्वजपाताकवस्त्रेषु शुद्राणां च प्रचक्ष्यते ॥ ११० ॥ स्वर्णकारा लोहकाराः कांस्यकृत्कृषिकादयः । एतेषां चेह हस्तेन चैत्यपुंगवपूजनम् ॥ १११ ॥ तण्डुली व्यञ्जनी चापि क्रयविक्रयकारिणः । एतैः स्ववृत्तिवस्तूनि ढौकनीयानि भक्तितः ॥ ११२ ॥ शौलिनी ध्वननवर्ती मांसवर्ती तथा सुरी । एतैर्दीपः प्रदातव्यः कुलधर्मप्रमाणतः ॥ ११३ ॥ चर्मकारश्च मातङ्गो नियोगी रजको ध्वजी । एतैश्च दूरतः स्थित्वा वन्दनीयो जिनालयः ॥ ११४ ॥ षट्त्रिंशज्जातिभिरेवं स्वकुलवृत्तिचारणैः । अन्यैश्च विविधैर्नित्यं पूज्यो मान्यो जिनालयः ॥ ११५ ॥ येषां व्रतविकारो न पूजने जिनपुंगवे । एतैः प्रदक्षिणां कृत्वा वन्दनीयः स्वभक्तितः ॥ ११६ ॥ एवं भूयश्चरेद्धर्मी व्रतराजमहर्निशम् । तस्य पुण्यं यथा प्रोक्तं कुष्ठव्याधिक्षयं व्रजेत् ॥ ११७ ॥ पञ्चानन्तर्यपापानि यास्यन्त्यपि न संशयः । किं पुनश्चान्यपापानि जन्मान्तरकृतान्यपि ॥ ११८ ॥ न ही स विद्यते राजन् सर्वत्र भुवनेष्वपि । अहोरात्रव्रतं पुण्यं योऽन्यथात्वं करिष्यति ॥ ११९ ॥ श्रवादपि हरेत्पापं दर्शनात्पुण्यमाप्नुयात् । अनुमोदात्तथा चैवं व्रतिनां तु किमुच्यते ॥ १२० ॥ व्रतिनां सप्तभागानि कृत्वा पुण्यं विशारदः । एकभागं लभेद्राजा चैकं तु सारथीजनः । सर्वसत्त्वस्य चैकं हि तच्छेषं लभते व्रती ॥ १२१ ॥ इति श्रुत्वा गुरोर्वाक्यमिन्द्रपृष्टो महाप्रभुः ॥ ततः सत्त्वहितार्थाय व्रतं कर्तुं समुद्यतः ॥ १२२ ॥ वाराणसीपुरं गत्वा वसुबन्धुवचो यथा । विहारं च प्रतिष्ठाप्य चैत्यराजं जिनालयम् । संघभोज्यं ततः कृत्वा ययौ स्वर्गं जनैः सुधीः ॥ १२३ ॥ ततो भिक्षवो भगवन्तमेतदूचुः । भगवन्मुनिशार्दूल पुनर्वक्तुं त्वमर्हसि । केन केन पुरा नाथ व्रतराजमिदं कृतम् ॥ १२४ ॥ भगवानाह । पुरा स्वर्गेषु शक्रेण अहोरात्रव्रतं कृतम् । स षट्पारमितां धार्य चैत्यराजमपूजयत् । प्रदक्षिणां सदा कृत्वा यथाविधि महोत्सवैः ॥ १२५ ॥ पाताले च पुरा वीरो दैत्येन्द्रो बलवानभूत् । निर्घोषदमनो नाम देवासुरप्रमर्दकः ॥ १२६ ॥ इन्द्रं स्वर्गे निराकृत्य पृथिवीमवधारितम् । तेनासुरसहायेन त्रैलोक्यं स्ववशे कृतम् ॥ १२७ ॥ पृथिवीमण्डलं गत्वा गतोऽसौ मघवत्पुरिम् । इन्द्रपृष्टमहास्थाने देवताप्रतिमां स्थिताम् । पञ्चप्रदक्षिणां कृत्वा प्रज्ञापारस्थितोऽभवत् ॥ १२८ ॥ पातालेषु पुनर्गत्वा सोऽचरत्तद्व्रतोत्तमम् । नागिन्यो नागराजाश्च पातालेष्वचरंस्तथा ॥ १२९ ॥ नागैः फणविभूषाभिर्देवनागेन्द्रकल्पितम् । पूजितं सततं भक्त्या चैत्यराजं विधानतः ॥ १३० ॥ ऋषयश्च पुरा सप्त जलाश्रयप्रतिष्ठितम् । पुपूजुः जिनधातुस्थं विधिभिश्च विशारदाः ॥ १३१ ॥ नागिन्यो विषदर्पान्धाः पूज्यमानाञ्जिनालयम् । तापितान् कारयामासुर्विषाङ्गारैः प्रदाहनैः ॥ १३२ ॥ ततस्तैः शापिता एवं नागिन्यः शम्बुकाः खलु । भवध्वं सप्तजन्मानि पुनश्चैत्यस्य सेवकाः ॥ १३३ ॥ ततश्चान्ते पुनः प्राप्य मानुष्यं पुण्यभावतः । एषा सा नायका या तु धर्मदक्षं पतिं लभेत् ॥ १३४ ॥ ततस्त वञ्चिताः सर्वाः शम्बुका धर्ममानसाः । धान्यां प्रदक्षिणां चक्रुर्भावयन्त्यो जिनालयम् ॥ १३५ ॥ ततः पुण्यानुभावेन देव्यः सप्तकुमारिकाः । भूता राजसुता धन्याः प्रालभन् परमं पदम् ॥ १३६ ॥ तासामेका व्रती नाम्ना धर्मदक्षपतिव्रता । तस्याः पुण्यप्रभावेन धर्मदक्षोऽलभद्व्रतम् ॥ १३७ ॥ धर्मदक्षो महाराजा यथाविधि व्रतं चरन् । भार्यया सह धर्मात्मा सुखावत्यां महीपतिः ॥ १३८ ॥ इत्येवं भिक्षवो ज्ञात्वा व्रतानां व्रतमुत्तमम् । चैत्यसेवा सदा कार्या व्रतपुण्यप्रचारणैः ॥ १३९ ॥ चैत्यव्रतसमं पुण्यं नास्ति सत्यं त्रिभूवने । तस्माच्चैत्यः सदा वन्द्यः पूजनीयः प्रयत्नतः ॥ १४० ॥ इत्यहोरत्रव्रतकथा