वीणाशिखतन्त्र ओं नमो महाभैरवाय कैलासशिखरे रम्ये नानारत्नोपशोभिते । नानाद्रुमलताकीर्णे सिद्धचारणसेविते ॥ १ ॥ तत्र देवः सुरश्रेष्ठः क्रीडते उमया सह । स्तूयमानो महासिद्धैर्महाकालादिभिर्गणैः ॥ २ ॥ ऋषिभिश्च महाभागैर्भृग्वाद्यैः सुरसत्तमैः । तेषां मध्ये समुत्थाय देवी वचनमब्रवीत् ॥ ३ ॥ श्रुतं सम्मोहनं तन्त्रं तथा नयोत्तरं महत् । शिरश्छेदं च देवेश त्वत्प्रसादात्सुदुर्लभम् ॥ ४ ॥ व्रतसाध्यानि चैतानि यागसाध्यानि वै पुनः । अन्यसारा यतो लोके प्रायो द्रविणवर्जिताः ॥ ५ ॥ एभ्योऽपि चोत्तरं यस्मात्केवलं ज्ञानसिद्धिदम् । सर्वकामप्रदं देव यथावद्बीजपञ्चकं ॥ ६ ॥ उत्तरं हृदयं ह्येषां भक्ताय दातुमर्हसि ॥ ७ ॥ श्री ईश्वर उवाच यन्न कस्यचिदाख्यातं शुक्रादीनां च योगिनाम् । सुभक्तस्य विनीतस्य गोपितं वै गुहस्य च ॥ ८ ॥ चतुःषष्टिः समाख्याताः शिष्यास्तन्त्रेषु ये मया । तेषामपि न चाख्यातं ब्रह्मविष्णुपुरःसरैः ॥ ९ ॥ तदहं सम्प्रवक्ष्यामि चिन्तारत्नमिवापरम् । तन्त्रं वीणाशिखं नाम निर्व्याजेनाशुसिद्धिदम् ॥ १० ॥ देवीतुम्बुरुसंयुक्तं वीणाधारसुसंस्थितम् । शिखायोगेन इष्यन्ते तेन वीणाशिखा स्मृता ॥ ११ ॥ यागमादौ प्रवक्ष्यामि तन्त्रसारं सुदुर्लभम् । तेनैव वरदा देव्यो नित्यं देवि भवन्ति हि ॥ १२ ॥ गृहयागमिदं देवि यो जानातीह साधकः । व्रतहोमादृते चास्मिन् सुसिद्धिं लभते परम् ॥ १३ ॥ शिष्याणामादितः कुर्याद्यागं कृत्वा परिग्रहम् । नान्यथा दर्शयेत्तन्त्रं न चासौ सिद्धिमाप्नुयात् ॥ १४ ॥ चतुर्थ्यामथ पञ्चम्यां नवम्यामेकादशीषु च । ग्रहणे वापि कर्तव्या सर्वदा चार्कसोमयोः ॥ १५ ॥ चतुर्थ्यां यजनं श्रेष्ठं सौभाग्यकरणं महत् । श्रीकामो यजनं कुर्यात्पञ्चम्यां सुसमाहितः ॥ १६ ॥ संग्रामे विजयार्थी वा परराष्ट्रविमर्दनम् । नवम्यां पार्थिवं यागं कुर्वीत भगिनीप्रियम् ॥ १७ ॥ एकादश्यां यजेद्यस्तु शिवलोके महीयते । सुगुप्ते निर्जने देशे सरिद्वापीतटेऽपि वा ॥ १८ ॥ कृत्वादौ भूमिसंशुद्धिं सावित्र्या देशिकोत्तमः । कृत्वा पूजां प्रकुर्वीत शिष्याणामधिवासनम् ॥ १९ ॥ चरुकं साधने पश्चात्सावित्र्या दापयेद्बुधः । शिष्याणां दन्तकाष्ठं च सक्षीरंद्वादशाङ्गुलम् ॥ २० ॥ आचम्य शिष्यमाहूय पञ्चतत्त्वपरिष्कृतम् । सावित्र्या प्रोक्षयेद्भूयस्तत्त्वजप्तं यथोदितम् ॥ २१ ॥ प्रमार्जयेत्कुशाग्रेण तस्याङ्गानि समालभेत् । आलभ्यैव तु सावित्र्या क्षालयेत्सकलं क्रमात् ॥ २२ ॥ यागभूमौ स्वशिष्यांस्तु स्वपेच्च कुशसंस्तरे । रक्षां सदा शतैर्बीजैः कृत्वा ध्यात्वा च ताः क्रमात् ॥ २३ ॥ ततः प्रभाते विमले मुखं प्रक्षाल्य साधकः । इष्टानिष्टां गुरौ चेष्टां प्रणिपत्य निवेदयेत् ॥ २४ ॥ इष्टानिष्टान् विदित्वा तु देशिकः साधकस्य तु । आदौ देशे समे भूमौ विविक्ते शल्यवर्जिते ॥ २५ ॥ मण्डलं संलिखेत्प्राज्ञो यथावद्विधिपूर्वकम् । चतुर्हस्तं चतुर्द्वारमथवा चैकहस्तकम् ॥ २६ ॥ मण्डलं संलिखेद्दिव्यं शालिचूर्णेन सूज्ज्वलम् । तत्र मध्ये लिखेत्पद्मं चतुःपत्त्रं सकर्णिकम् ॥ २७ ॥ श्वेतासृ क्पीतकृ ष्णानि कमलस्य दलानि तु । प्रागारभ्य यथान्यायं सौम्येशान्तानि लेखयेत् ॥ २८ ॥ कर्णिकां च तथा मध्ये शबलां देशिकोत्तमः । चतुर्मूर्तिं चतुर्वर्णं स्वेन बिजेन तुम्बुरुम् ॥ २९ ॥ चतुर्वर्णमीश्वरं ध्यायेन्निविष्टं कर्णिकोदरे । ततः सितां स्वबीजेन जयां प्राग्दले विन्यसेत् ॥ ३० ॥ बन्धूककुसुमप्रख्यां विजयां दक्षिणे दले । स्वच्छचामीकरप्रख्यामजितां पश्चिमे दले ॥ ३१ ॥ भिन्नाञ्जनचयप्रख्यामुत्तरे चापराजिताम् । विन्यस्य पूजां कुर्वीत स्वैः स्वैर्बीजैर्यथाक्रमम् ॥ ३२ ॥ पुष्पधूपैश्च बलिभिर्यथाकालान्तरैः शुभैः । सद्वितानपताकाढ्यं स्रग्मालालंकृतं पुरम् ॥ ३३ ॥ प्रदीप्तदीपकैर्दिक्षु समन्तादवभासितम् । नानाभक्ष्यान्नपानैश्च स्वादुभिर्व्यञ्जनैस्तथा ॥ ३४ ॥ फलैर्नानाविधैश्चैव परितः पर्यवस्थितैः । कलशैर्वारिपूर्णैश्च दशदिक्षु व्यवस्थितैः ॥ ३५ ॥ चूतपल्लवसंवीतैः स्रग्मालालंकृतैः शुभैः । एवं यष्ट्वा यथान्यायं शिष्यानाप्रोक्ष्य वारिणा ॥ ३६ ॥ सावित्र्या मुखमासाद्य वाससा सकलीकृतान् । स्वैः स्वैर्बीजैर्न्यसेत्पुष्पान् शिष्याणां करयोर्द्वयोः ॥ ३७ ॥ जयात्प्रवेशयेन्मायां मण्डलं देशिकोत्तमः । प्रवेश्य तत्र शिष्यं तु द्वित्रिचतुःपञ्च एव वा ॥ ३८ ॥ ततोऽग्निकार्यं कुर्वीत मण्डलात्पश्चिमे बहिः । उल्लिख्योद्धृत्य सावित्र्या कुशान् संस्तीर्य सर्वतः ॥ ३९ ॥ अस्त्रबीजेन चाभ्युक्ष्य गन्धतोयेन देशिकः । वह्निमादाय तेनैव सावित्र्या पूजयेत्ततः ॥ ४० ॥ ततस्तत्त्वत्रयं न्यस्य वह्नेरेव यथाक्रमम् । निरुद्धमायातस्मात्तमङ्कुशेन निरोधयेत् ॥ ४१ ॥ माययाच्छादयेत्पश्चादस्त्रेणैव प्रबोधयेत् । होमद्रव्यस्य सर्वस्य कुर्यात्तेनैव शोधनम् ॥ ४२ ॥ ततश्च सर्पिषो होमं विधिवत्कारयेद्बुधः । स्वबीजैरेव तद्धुत्वा दीक्षां शिष्यस्य कारयेत् ॥ ४३ ॥ संयोज्य विधिवद्बीजैर्महाभूतेषु पञ्चसु । सकले तत्त्वं संयोज्य परिष्ठाप्य परेऽध्वनि ॥ ४४ ॥ नियोक्तव्यं ततस्तत्र यत्रासवांस्वरपरम्? । एषा दीक्षा य थान्यायं भुक्तिमुक्तिफलप्रदा ॥ ४५ ॥ तैरेव पञ्चभिस्तत्त्वं सकले सकलात्मिका । निष्कले निष्कला प्रोक्ता साधिकाराध्वनः पुरा ॥ ४६ ॥ दीक्षयित्वा ततः शिष्यान् साधिकारपरे स्थितान् । अभिषिच्य स्वबीजैस्तु बीजान् तेभ्यः प्रदापयेत् ॥ ४७ ॥ निवेद्य समयान् तस्य हृन्मुद्राङ्गुलिदर्शनात् । अनुज्ञां साधकेन्द्रस्य तस्य दद्यान्महात्मना ॥ ४८ ॥ ततः स्वविद्यानैवेद्यं भक्षयेत्साधकोत्तमः । देव्यः प्रीता भवन्त्येव अवशिष्टं जले क्षिपेत् ॥ ४९ ॥ आचार्यं पूजयेद्भक्त्या सर्वस्वेनापरे विधा? । प्रणामैः शक्तिदानैश्च येन वा तुष्यते गुरुः ॥ ५० ॥ स्रग्वी सितोष्णीषी चैव सर्वालंकारभूषितः । उच्चासनस्थः प्राग्वक्त्रः कल्पयेत्कोषमण्डले ॥ ५१ ॥ गोशकृद्भस्मलिप्तस्तु शुचौ जनविवर्जिते । सुसमे भूमिदेशे तु प्रस्तारं प्रस्तरेच्छुचिः ॥ ५२ ॥ चतुरस्रमतः कृत्वा प्रस्ताररेखमुज्ज्वलम् । कुर्यादेकोनपञ्चाशत्कोष्ठकान् तु समान् शुभान् ॥ ५३ ॥ शतार्धार्धासनासीनं पञ्चवर्गान्तबिन्दुकम् । शिखासम्भिन्नमूर्धान्तं कषाख्यं मध्यकोष्ठके ॥ ५४ ॥ विदिग्दिक्षंस्थकोष्ठेषु तत्पार्श्वे बहिरष्टसु । यशवर्गान्न्यसेद्देवि ऐशान्यादिषु तत्क्रमात् ॥ ५५ ॥ आग्नेयादिषु कोष्ठेषु नपुंसकचतुष्टयम् । ऐशान्यादिक्रमाद्देवि बीजद्वादशकं न्यसेत् ॥ ५६ ॥ तृतीयपट्क्तिकोष्ठेषु चतुर्थे पञ्चविंशकम् । ऐशान्यादिषु कोष्ठेषु बीजानि क्रमशो न्यसेत् ॥ ५७ ॥ प्रस्तारमेवं प्रस्तार्य स्वरवर्णं च शोभने । बीजषोडशकं चैव प्रोद्धरेत्तु यथाक्रमम् ॥ ५८ ॥ कादिपट्क्तिं पुराकृत्य क्रमाद्व्यस्तसमस्तकम् । कोष्ठैकादशबीजेन संयुक्तं पञ्चविंशकम् ॥ ५९ ॥ आत्मतत्त्वमिति ख्यातं विद्याख्यं चतुस्त्रिंशकम् । शिवतत्त्वं तु देवेशि त्रिंशकोष्ठेषु संयुतम् ॥ ६० ॥ तत्त्वत्रितयमेतद्धि न्यासं च समुदाहृतम् । बिन्दुयुक्तान्यशेसाणि न्यस्तव्यानि यथाक्रमम् ॥ ६१ ॥ अत्रसिद्धिः स्थिता देवि विज्ञेया साधकोत्तमैः । पञ्चविंशतिकोष्ठस्थं प्रथमं बीजमुच्यते ॥ ६२ ॥ द्विसप्तकोष्ठकं बीजं द्वितीयं समुदाहृतम् । तृतीयमष्टकोष्ठस्थं बिन्दुयोनिः चतुर्थकम् ॥ ६३ ॥ चतुर्विंशतिकोष्ठस्थं पञ्चमं बीजमुच्यते । बीजानि देवदेवीनां निर्णीतानि यथाक्रमम् ॥ ६४ ॥ कालबद्धानिलैर्बीजैः कलायथेष्ठया युतम् । [एम्. षन्देर्सोन्: कालवह्न्यनिलैर्बीजैः कलया षष्ठया युतम्] अर्धेन्दु बिन्दुशिखया संनिभानि क्रमेण तु ॥ ६५ ॥ [एम्. षन्देर्सोन्: अर्धेन्दुबिन्दुशिखया संभिन्नानि यथाक्रमम्] बीजपञ्चकमुद्धृत्य कथितं देवि ते क्रमात् । कूटस्थास्तु स्मृता बीजाः पञ्च चैव वरानने ॥ ६६ ॥ बीजपञ्चकमभ्यस्य सर्वकामफलप्रदम् । यजनं सम्प्रवक्ष्यामि सर्वसिद्धिप्रदायकम् ॥ ६७ ॥ करसंस्कारमादौ तु कृत्वानेन क्रमेण तु । वक्ष्यमाणेन चानेन दिग्बन्धशोध्यमेव हि ॥ ६८ ॥ संहारास्त्रेण दिग्बन्धः प्राणायामपुरःसरः । प्राणायामैस्त्रिभिर्देवि आत्मानं तु विशोधयेत् ॥ ६९ ॥ निष्क्रम्य रेचयेद्वायुं नवं चाकृष्य पूरयेत् । निरोधे कुम्भकः प्रोक्तः प्राणायामं प्रकीर्तितम् ॥ ७० ॥ ध्यात्वा कालाग्निबीजं तु युगान्तानलसप्रभम् । न्यसेत्पादतले मन्त्री ज्वालामालाकुलं महत् ॥ ७१ ॥ निर्दहेच्चात्मदेहं तु वारिणाप्लावयेत्ततः । दग्ध्वा तु प्राकृतंदेहं भस्मकूटमिव स्थितम् ॥ ७२ ॥ ततश्चामृतधाराभिर्विद्यादेहं विचिन्तयेत् । स्रवन्तं मूर्ध्नि परमं प्रणवं च अधोमुखम् ॥ ७३ ॥ वारुणामृतसंयुक्तं शुद्धस्फटिकनिर्मलम् । कषाख्यं यत्स्मृतं बीजं रेफद्वयसमायुतम् ॥ ७४ ॥ अध ओंकारसंयुक्तमूर्ध्वं बिन्दुकभूषितम् । अनेनैव तु बीजेन शिखया भिन्नमस्तकम् ॥ ७५ ॥ धारणायोगमार्गेण निर्दहेत्साधकोत्तमः । देहं संशोधयेन्मन्त्री घोरपापं तु कल्मषम् ॥ ७६ ॥ न्यासमालभनं कुर्याद्भवेन्मन्त्रात्मविग्रहः । दिग्बन्धभूमिं संशोध्य चक्रशुद्ध्यर्थमेव च ॥ ७७ ॥ संहारास्त्रेण कुर्वीत विघ्नोच्चाटनमेव च । हस्तौ संशोधयेत्पश्चाद्विधिरेष प्रकीर्तितः ॥ ७८ ॥ कृत्वा तु विधिवन्मन्त्री ततः कर्म समारभेत् । आमणिबन्धनात्पूर्वं भरमाखाश्? च विन्यसेत् ॥ ७९ ॥ अट्गुष्ठादिकनिष्ठान्तं न्यसेद्वै बीजपञ्चकम् । अट्गुष्ठाद्ये तु ये पर्वा करयोरुभयोरपि ॥ ८० ॥ आत्मतत्त्वं न्यसेन्मूर्ध्नि विद्यातत्त्वं द्वितीयके । शिवं दद्यात्तृतीयेषु सर्वसिद्धिषु भामिनि ॥ ८१ ॥ अधस्तादात्मतत्त्वं तु विद्यातत्त्वं तु मध्यतः । शिवतत्त्वं न्यसेन्मूर्ध्नि हस्ते देहे पुनः क्रमात् ॥ ८२ ॥ एवं तत्त्वत्रयं न्यस्य तथा कूटाक्षराणि तु । भूयश्चोत्तरबीजानि विन्यसेत्तु वरानने ॥ ८३ ॥ अस्त्रं चैव तु विन्यस्य विस्फुलिट्गसमप्रभम् । माययाच्छादयित्वा तु अट्कुशेन निरोधयेत् ॥ ८४ ॥ योनिमुद्रां ततो बद्ध्वा कुर्यात्[तु] सकलां तनुम् । एतदालभनं चैव तव देवि प्रकीर्तितम् ॥ ८५ ॥ अट्गुष्ठौ ग्रथितौ कृत्वा करयोरुभयोरपि । तर्जनीं वामहस्ते तु प्रसार्याकुञ्चयेद्बुधः ॥ ८६ ॥ एषा निरोधनी प्रोक्ता मुद्रेयमट्कुशस्य तु । वश्याकर्षणकार्येषु प्रयोज्या साधकोत्तमैः ॥ ८७ ॥ तर्जनी मध्यमा चैव अनामा दक्षिणस्य तु । वामे त्रीणि समाक्रम्य अट्गुष्ठौ च सुसंस्थितौ ॥ ८८ ॥ अधस्तात्सर्वतः प्रोक्ता दक्षिणा तु कनिष्ठिका । तर्जन्यट्गुष्ठयोर्मध्ये योनिमुद्रा प्रकीर्तिता ॥ ८९ ॥ आद्यं मूर्ध्नि ततो बीजं द्वितीयं मुखमण्डले । कट्यूर्ध्वे च ततश्चान्यं चतुर्थं जानुतः कटिम् ॥ ९० ॥ आपादजानुनी चान्यं प्रसृतैश्च करैः क्रमात् । एवं बीजेन देहस्तु मुच्यते नात्र संशयः ॥ ९१ ॥ वज्रोपलमहावर्षं चोरदंष्ट्रीभयावहम् । मुच्यते च सदा रोगैर्मृत्युरूपैर्दुरासदैः ॥ ९२ ॥ अहिगरविषशस्त्र- ज्वरकुष्ठक्षयादिभिः । मुच्यते नात्र संदेहो योऽपि स्यात्पातकी नरः ॥ ९३ ॥ उपलिप्य शुभे देशे प्रच्छन्ने जनवर्जिते । पूर्ववद्धस्तमात्रं तु लिखित्वा मण्डलं शुभम् ॥ ९४ ॥ चतुःपत्त्रं तु तत्राब्जं सर्ववर्णितकर्णिकाम् । सितरक्तपीतकृष्णां पूर्वादिदलसंस्थिताम् ॥ ९५ ॥ जयाद्यं विन्यसेन्मन्त्री तुम्बुरुं कर्णिकोपरि । पद्मासनोपविष्टं तु वरदानोद्यतकरम् ॥ ९६ ॥ चतुर्वक्त्रमष्टभुजं चतुष्कायं त्रिलोचनम् । नागयज्ञोपवीतंतु शूलपाणिं गदाधरम् ॥ ९७ ॥ मुकुटेन विचित्रेण शशाङ्कधृतशेखरम् । शक्तीनां तु प्रियं देवं पाशाङ्कुशकरप्रभम् ॥ ९८ ॥ दिव्याम्बरातपत्रेण दिव्यस्रग्बन्धलेपनम् । देवदेवं सदा ध्यायेत्सूर्यकोटिसमप्रभम् ॥ ९९ ॥ क्षीरोदफलसंकाशां व्याघ्रयज्ञोपवीतिनीम् । प्रेतारूढां चतुर्वक्त्रां गदाखेटकधारिणीम् ॥ १०० ॥ दिव्याम्बरातपत्रेण हारकेयूरभूषिताम् । देवदेवीं जयां ध्यायेद्दीप्यमानां स्वतेजसा ॥ १०१ ॥ देवस्याभिमुखो मन्त्री सस्मितोत्फुल्ललोचनाम् । दाडिमीकुसुमप्रख्यां सुरगोपकसप्रभाम् ॥ १०२ ॥ चापोद्यतकरां घोरां मत्स्यमांससुराप्रियाम् । उलूके संस्थितां देवीं हारकेयूरभूषिताम् ॥ १०३ ॥ रक्ताम्बरातपत्रेण विजयां सिद्धिदां स्मरेत् । धातुचामीकरप्रख्यां पीतमाल्याम्बरप्रियाम् ॥ १०४ ॥ घण्टाखट्वाङ्गधरीं देवीमश्वारूढां महाबलाम् । सूर्यायुतप्रतीकाशीं सर्वाभरणभूषिताम् ॥ १०५ ॥ जयन्तीं ध्यायति क्षिप्रं सिद्धिमाप्नोति पुष्कलाम् । भिन्नाञ्जनसमप्रख्यां शर्वरीतिमिरप्रभाम् ॥ १०६ ॥ कृष्णकौशेयसंवीतां मुक्तिकामणिभूषिताम् । दिव्यं विमानमारूढां गदाखेटकधारिणीम् ॥ १०७ ॥ महारावादिनिर्घोषैश्चिन्तयेदपराजिताम् । गायत्रीं वा जपन्तीं च स्फाटिकमणिभूषिताम् ॥ १०८ ॥ ऋग्यजुस्सामाथर्वाख्यं गायन्तीं वा तथैव च । सावित्रीं दिव्यरूपां तूपनिषद्गायने रताम् ॥ १०९ ॥ देवीनामग्रसंस्थं कृतभृकुटिमुखं चिन्तयेदङ्कुशाख्यं सम्पृष्ठे चास्त्रराजं प्रकटितसुमहासृक्वणीलेलिहानम् । संक्रुद्धं भीषयन्तं नररुधिरवसादिग्धदान्ताकलालं ....... ....... ....... ॥ ११० ॥ एवं ध्यात्वा विशालाक्षि ततः पूजा प्रवर्तते । भक्ष्यभोज्यविधानैश्च गन्धपुष्पादिभिः क्रमात् ॥ १११ ॥ पूजयेत्कूटमध्यस्थं तत्र मध्ये विधानतः । भूरेवायं पादपद्मैर्हृदि वामकरेऽथवा ॥ ११२ ॥ मनसा पूजयेन्नित्यं सिद्धिकामः समाहितः । महाशङ्खमयं कुर्यादथवा कच्छपस्य तु ॥ ११३ ॥ सौवर्णं रजतं ताम्रं कुलं भवति सिद्धिदम् । गन्धमण्डलके वापि अथवा भस्ममण्डले ॥ ११४ ॥ सिद्धार्थमण्डले वापि अथवा हृदि मण्डले । कुसुम्भमण्डले वापि पुष्पमण्डलकेऽपि वा ॥ ११५ ॥ नागकेशरजोभिर्वा लिखित्वा मण्डलं शुभम् । मुक्तिदा सिद्धिदा ह्येवं भवन्तीत्यविचारणात् ॥ ११६ ॥ सम्पूज्य च यथान्यायं गन्धपुष्पादि योजयेत् । दर्शयेद्योनिमुद्रां तु काले कर्माणि कारयेत् ॥ ११७ ॥ समुत्पन्नेषु कार्येषु प्राणद्रविणहारिषु । पूजिताः साधकं देव्यः परिरक्षन्ति पुत्रवत् ॥ ११८ ॥ श्रीदेव्युवाच अत्रापि यागमेवोक्तं विशेषः कोऽपरः प्रभो । यथा तु अभ्यासमात्रेण सिद्धिर्भवति कामदा ॥ ११९ ॥ केवलं स्मरणादेव तथा त्वं वक्तुमर्हसि । प्रणयस्व प्रसादश्च यदि चास्ति महेश्वर ॥ १२० ॥ श्री ईश्वर उवाच शृणुष्वैकमना भद्रे प्राकृतं तपसः फलम् । प्रणयादतुलं वापि रहस्यं परमं पदम् ॥ १२१ ॥ उत्तरोत्तरयोगेन तन्त्रं ते कथितं मया । अत्रान्तरमिदं ज्ञानं श्रुत्वा भवति निर्वृतिः ॥ १२२ ॥ प्रस्तार्य पूर्ववद्वर्णं प्रोद्धरेद्बीजपञ्चकम् । पूर्ववत्क्रमयोगेन सर्वकामप्रसिद्धये ॥ १२३ ॥ आदौ द्वात्रिंशकं बीजं युक्तमेकोनविंशति । चतुस्त्रिंशं ततोऽधस्ताद्देवदेवं प्रकल्पयेत् ॥ १२४ ॥ जया सप्तदशं बीजं युक्तमेकादशेन तु । तदेव विजयाख्याता किं तु युक्तं न केन चित् ॥ १२५ ॥ पञ्चविंशच्छिखाभाजि युक्तमेकादशेन तु । अजितायाः समुद्दिष्टं चतुर्थ्याः शृणु साम्प्रतम् ॥ १२६ ॥ वर्णैकादशसंयुक्तं शम्भुस्थं पञ्चविंशकम् । गुह्यमेतत्समुद्दिष्टं प्रष्टव्यं नान्यतः परम् ॥ १२७ ॥ सर्वकामप्रदं देवि एतद्वै बीजपञ्चकम् । उत्तरं हृदयं ह्येतत्सर्वतन्त्रेषु चोत्तरम् ॥ १२८ ॥ यानि कानि च कर्माणि सर्वाण्येतैस्तु कारयेत् । पञ्चविंशतिकोषस्थं युक्तं वै षोडशेन तु ॥ १२९ ॥ अस्त्रमेतत्समुद्दिष्टमस्मिंस्तन्त्रे च सुव्रते । पुनरेतद्बीजयुक्तं विंशकेन समन्वितम् ॥ १३० ॥ माया ह्येषा समुद्दिष्टा शिवस्यानन्तरूपिणी । आदिकोष्ठकबीजं तु अधस्ताष्टादशसंयुतम् ॥ १३१ ॥ अष्टत्रिंशतिकोषस्थं तस्योपरि नियोजयेत् । अङ्कुशोद्धरणं ह्येतद्देवीनां संनिरोधने ॥ १३२ ॥ बिन्दुपुञ्जसमेता हि न्यस्तव्या तु यथाक्रमम् । पञ्चविंशतिकोषस्थं तदेव परमाक्षरम् ॥ १३३ ॥ नवत्रिंशसमायुक्तं बीजं गायत्रिसंज्ञकम् । एतद्बीजवरं दिव्यं योज्यमालभनादिके ॥ १३४ ॥ चतुस्त्रिंशतिकोषस्थं पञ्चविंशतियोजितम् । सर्वकर्मसमुद्दिष्टं बीजं सावित्रिसंज्ञितम् ॥ १३५ ॥ अर्धेन्दुशिखया देवि लाञ्छितानि तु पूर्ववत् । प्रयोगं चास्य वक्ष्यामि सिद्धिर्येनाशु जायते ॥ १३६ ॥ प्रयोगं कारणं देवि ग्रन्थशास्त्रमकारणम् । सर्वत्र सुलभं शास्त्रं प्रयोगं तु सुदुर्लभम् ॥ १३७ ॥ प्रयोगरहिता मन्त्रा नैव सिद्धिप्रदाः स्मृताः । हृत्पद्मे योगविन्यासं ध्यात्वा वै बीजपञ्चकम् । गतिं देवं तु विज्ञाय ततः कर्म समारभेत् ॥ १३८ ॥ श्रीदेव्युवाच कीदृशः स भवेद्देवो गतिस्तस्य तु कीदृशी । देहस्थं तु कथं विद्याद्वक्तुमर्हसि शङ्कर ॥ १३९ ॥ श्री ईश्वर उवाच मेढ्रनाभ्यन्तरे देवि कन्दमूलाकृतिर्भवेत् । द्वासप्ततिसहस्राणि नाडीराधारसंस्थिताः ॥ १४० ॥ नाभिदेशे स्थितो ग्रन्थिस्तत्र पद्मं व्यवस्थितम् । कर्णिका पद्ममध्यस्य तत्र साध्यं व्यवस्थितम् ॥ १४१ ॥ कर्णिकासुषिरान्ते तु या कला चोर्ध्वगामिनी । तस्या मध्ये स्थितो देवः स तु दीपशिखोपमः ॥ १४२ ॥ शुद्धस्फटिकसंकाशं विस्फुलिङ्गार्कसंनिभम् । वारिमारुतसंकीर्णं वालाग्रशतभागकम् ॥ १४३ ॥ वायुवाहनमारूढं शब्दातीतमनामयम् । सम्प्रत्ययं तु गम्योऽसौ वहते देहमध्यतः ॥ १४४ ॥ इडामध्यगतो वापि पिङ्गलान्तर्गतोऽपि वा । सुषुम्नान्तर्गतश्चैव विषुवं समुदाहृतम् ॥ १४५ ॥ इडा तु वामजा प्रोक्ता दक्षिणे पिङ्गला स्मृता । अनयोर्मध्ये सुषुम्ना तु सृष्टिसंहारकारिका ॥ १४६ ॥ इडा शान्तिकपुष्ट्यर्थे मृत्यूच्चाटन पिङ्गला । सुषुम्ना मोक्षदा चैव जीवमार्गानुसारिणी ॥ १४७ ॥ पिङ्गलान्तर्गतं ध्यात्वा रक्तवर्णं विचिन्तयेत् । मारणोच्चाटनादीनि ततः कर्माणि कारयेत् ॥ १४८ ॥ अमृतान्तर्गतं ज्ञात्वा ध्यायेत्तुहिनसंनिभम् । शान्तिपुष्टिवशाकर्षं तदा कर्माणि कारयेत् ॥ १४९ ॥ व्रतयोगादिसंसिद्धिं मूलमन्त्रेषु कारयेत् । तदत्र जपमात्रेण मन्त्री साधयते क्षणात् ॥ १५० ॥ अप्रसूता मृता योषित्प्राप्तयौवनमेव च । तस्याः पांशुलिकां गृह्य वामभागे विचक्षणः ॥ १५१ ॥ लिखेन्नामाक्षरं तत्र देवीनां कूटसंस्थितम् । वामाङ्गोज्ज्वलरक्तेन साधकः संयतव्रतः ॥ १५२ ॥ स्त्रियं चैव लिखेत्तत्र गवां रोचनया पुनः । अनुलोमैर्विहन्यस्तु वामपादेन चाक्रमेत् ॥ १५३ ॥ तत्क्षणादानयेच्छीघ्रं या स्त्री द्वादशयोजनात् । पुरुषस्य तथा प्रोक्तं दक्षिणाङ्गे तु कारयेत् ॥ १५४ ॥ अथाभिचारकं कुर्यात्समिधानां तथास्थिभिः । राजिकाविषरक्ताक्तं श्मशाने होममारभेत् ॥ १५५ ॥ नग्नो मुक्तशिखो भूत्वा कपालत्रयसंस्थितः । समिधाष्टशतं होमं रात्रौ कुर्याद्विचक्षणः ॥ १५६ ॥ होमान्ते तु ततः शक्रं कृष्णवर्णं विचिन्तयेत् । त्रिशूलेन विनिर्भिन्नं दण्डेन ताडितं शिरः ॥ १५७ ॥ साधको घोररूपेण क्रुद्धः संरक्तलोचनः । सप्ताहान्नाशयेदिन्द्रं किं पुनर्मानुषादिकम् ॥ १५८ ॥ त्यक्तेन तु कुसुम्भेन शतेनाष्टोत्तरेण तु । त्रिसन्ध्यं धारयेद्रात्रौ अग्निकार्यं तु कारयेत् ॥ १५९ ॥ साध्यं तु साधकश्चैव रक्तवर्णं विचिन्तयेत् । होमान्ते तु ध्यायेत्साध्यं विह्वलं च सम्मूर्छितम् ॥ १६० ॥ अङ्कुशेन हतो मूर्ध्नि मायापाशेन वेष्टितम् । राजानं राजपत्नीं वा सप्ताहाद्वशमानयेत् ॥ १६१ ॥ गृहीत्वा तु महामांसं दधिमध्वाज्यसंयुतम् । आहुत्यष्टसहस्रेण सद्योत्कर्षणमुत्तमम् ॥ १६२ ॥ आत्मनः साध्यबीजं च पञ्चदेव्या चतुष्टयम् । नाडीमध्यगतं ध्यात्वा एकीकृत्य विचक्षणः ॥ १६३ ॥ नाडीमार्गानुसारेण प्रवेश्य साध्यविग्रहम् । अनेनैव प्रयोगेण त्रैलोक्यं वशमानयेत् ॥ १६४ ॥ अत उच्चाटनं कुर्याच्छत्रूणां बलदर्पिताम् । शुष्काणि निम्बपत्त्राणि ध्वजाग्राणि तथैव च ॥ १६५ ॥ नृवालं चितिभस्मं च काकपक्षाग्रपिच्छकम् । कटुतैलविषं रक्तं तेनालोड्य तु होमयेत् ॥ १६६ ॥ चण्डालाग्निं समाहृत्य चितिकाष्ठं समिन्धयेत् । उच्चाटयेत्त्रिरात्रेण त्यक्तबन्धुसुहृज्जनान् ॥ १६७ ॥ वामहस्ततले चन्द्रं ध्यात्वा सम्पूर्णमण्डलम् । बीजपञ्चकसंयुक्तं यस्य तं दर्शयेत्करम् ॥ १६८ ॥ दर्शनाद्वशमायान्ति येऽपि हन्तुं समुद्यताः । यं यं स्पृशति हस्तेन दासत्वमुपगच्छति ॥ १६९ ॥ दक्षिणेऽप्येव वै हस्ते विन्यसेद्रविमण्डलम् । यं स्पृशेद्दर्शयेद्यं तु विद्विष्टाः सुहृदान्यपि ॥ १७० ॥ निम्बस्थवायसं गृह्य श्वपाकेनावतारितम् । बीजैरेतैर्विपर्यस्तैस्तैलाभ्यक्तं चिताहुतम् ॥ १७१ ॥ तद्भस्म विषरक्ताक्तं कृष्णान्ते रक्तवाससः । परिजप्य सहस्रं तु विलोमैर्बीजपञ्चकैः ॥ १७२ ॥ यं स्पृशेद्भस्मना तेन काकवद्भ्रमते महीम् । विद्विष्टः सर्वलोकानां यदि शक्रसमो भवेत् ॥ १७३ ॥ यथात्मनि तथा साध्ये बीजषोडशकं न्यसेत् । जवापुष्पसमप्रख्यौ द्वावेतौ परिचिन्तयेत् ॥ १७४ ॥ जातीहिङ्गुलकपक्षौ लाक्षारससमप्रभौ । पद्मसम्पुटमध्यस्थौ उभौ तौ साध्यसाधकौ ॥ १७५ ॥ अङ्कुशं साध्यगुह्ये तु दण्डं चात्मनि गुह्यतः । कुसुम्भरक्तसंकाशौ मायातन्त्वभिवेष्टितौ ॥ १७६ ॥ पञ्चरात्रं त्रिरात्रं वा निःशब्दो ध्यानपारगः । वशमानयते क्षिप्रं नृपतिं मानगर्वितम् ॥ १७७ ॥ द्विजयोषिन्मृता या तु तस्या गृह्यं तु कर्पटम् । कृष्णचतुर्दश्यां गृहीत्वा चित्यङ्गारैस्तदुद्भवैः ॥ १७८ ॥ बीजैर्विदर्भितं नाम यस्य यस्य च वेश्मनि । निखन्यते स वै क्षिप्रं प्रयाति यमसादनम् ॥ १७९ ॥ ततो विद्याव्रतश्लाघी कीर्त्यादिभिरलंकृतः । साध्यतेऽनेन प्रयोगेण म्रियते चाविकल्पतः ॥ १८० ॥ गवां रोचनया चैव यस्य नाम विदर्भितम् । बीजैरेतैः समायुक्तैरालिख्य प्रक्षिपेद्बुधः ॥ १८१ ॥ पात्रं मध्वाज्यसम्पूर्णं शतमावर्तयेद्द्रुतम् । मुमुक्षोरपि तस्यास्त्रं शान्तिपुष्टिश्च जायते ॥ १८२ ॥ शतजप्तो जलेनापि ततो वा मुच्यते सदा । व्याधिघातसमिद्भिस्तु व्याधिनात्यन्तपीडितः ॥ १८३ ॥ अष्टोत्तरशतेनैव आहुतीनां न संशयः । क्षीराक्तेन तु देवेशि रोगी रोगाद्विमुच्यते ॥ १८४ ॥ जुहोति यस्तु सततं द्रव्यं तस्य गृहे तु यत् । कुर्वन्तोऽपि व्ययं नित्यमक्षयत्वं च गच्छति ॥ १८५ ॥ नित्यं कालजपेनापि सर्वेषां जायते प्रियः । तेजस्वी बलसम्पन्नो नाप्यसौ पीड्यते भयैः ॥ १८६ ॥ श्रीकामः श्रीफलं जुह्यात्पद्मं चाज्यमधुप्लुतम् । लक्षैकेन महावित्तो मन्त्री लक्षद्वयेन तु ॥ १८७ ॥ लक्षत्रयेण पृथ्वीशो निर्जितारिर्भवेद्ध्रुवम् । सर्वकामस्तिलं जुह्यात्प्राप्नुयात्तु न संशयः ॥ १८८ ॥ लक्षेणैकेन देवेशि साधकः स जितेन्द्रियः । त्यक्तेन नरमांसेन छागस्य पिशितेन वा ॥ १८९ ॥ लक्षमात्रहुतेनाशु यदिष्टं तदवाप्नुयात् । कृष्णागोपयसा सार्धं नृमांसं तण्डुलान्वितम् ॥ १९० ॥ पायसं शववक्त्रे तु जुहुयात्तावतन्द्रितः । यावदुत्तिष्थते प्रेतः किं करोमीति सोऽब्रवीत् ॥ १९१ ॥ मार्गितव्यं यदिष्तं तु लभनीयं यशस्विनि । गुडिकाञ्जनपादुकं खन्यं वा राज्यमेव च ॥ १९२ ॥ (एम्.: गुडिकाञ्चनपादूं ? च Eद्) विधानं शक्रनाशं च पादलेपरसायनम् । एतेषां प्रार्थितं चैकं दत्त्वागच्छति नान्यथा ॥ १९३ ॥ उद्धता या मृता योषित्तस्या गृह्याङ्गुलीयकम् । अभिमन्त्र्य इमैर्बीजैरनुलोमैः शतेन तु ॥ १९४ ॥ अष्ताधिकेन मन्त्रज्ञः साध्यनाम विदर्भयेत् । यस्या ददाति तद्वदास्ते स्त्रियायाः साधकोत्तमः ॥ १९५ ॥ आकर्ष्यति तां क्षिप्रं यदि स्यादुर्वशीसमा । योजनानां शतस्यापि दूरेणापि समर्पितम् ॥ १९६ ॥ पुरुषस्य भवेद्देवि उद्धतस्य यशस्विनि । काकमांसं गृहीत्वा तु निम्बतैलसमायुतम् ॥ १९७ ॥ श्मशानाग्निं समाधाय शिग्रुकाष्ठेन साधयेत् । जुहुयात्सप्तरात्रं तु यस्य नाम्ना तु साधकः ॥ १९८ ॥ विद्विष्तो दृश्यते लोके एष विद्वेषणं परम् । अतोऽन्यत्सम्प्रवक्ष्यामि रहस्यमिदमद्भुतम् ॥ १९९ ॥ यद्विदित्वा महेशानि सिद्धिमाप्नोति पुष्कलाम् । स्वकाले सम्प्रयोगेण सिद्धिस्तन्त्रेषु कीर्तिता ॥ २०० ॥ ततः स्वकालं कुर्वीत स्वानि कर्माणि साधकः । साध्यहृत्पद्मसंस्थं तु ध्यात्वादौ बीजपञ्चकम् ॥ २०१ ॥ कुर्वीत मनसा पूजामितायाप्रवतो ? पदा । माययाच्छादयेत्पश्चात्साध्यमन्तोबहिर्युतम् ॥ २०२ ॥ मायाकमलनालेन साध्यमावेष्तमानयेत् । ततः स्वात्मीकमानीय मायातत्त्वश्लथीकृतम् ॥ २०३ ॥ पुनस्तत्स्थापयित्वा तु सम्मुखः साधकोत्तमः । न्यस्तव्यं तु यदादौ तु ? साध्ये वै बीजपञ्चकम् ॥ २०४ ॥ मायावेष्तितं तन्मन्त्री जपेदष्टशतं ततः । साध्यनामाक्षरोपेतं तत्प्रबुद्धासने स्थितम् ॥ २०५ ॥ एवं देवि ततः शीघ्रं ध्वस्तजानुशिरोरुहः । आकृष्तो विधिनानेन साध्यः किंकरितो महान् ॥ २०६ ॥ अतः परं प्रवक्ष्यामि बद्धे रुद्धेऽपि मोक्षणम् । यथा संहरते शक्रं तत्प्रयोगमिदं शृणु ॥ २०७ ॥ साध्यहृत्कमलान्तःस्थं ध्यात्वैवं बीजपञ्चकम् । कुर्वीत पूर्ववत्पूजां सुषुम्नायागनिर्गदा ? ॥ २०८ ॥ संहारास्त्रं ततो मन्त्री तुम्बुरुं मूर्ध्नि विन्यसेत् । देवीनां च ततस्तेन साध्यमावृत्य योगवित् ॥ २०९ ॥ तत्र यो मूर्ध्नि तेनैव ज्वलितानलवर्चसा । दृष्त्वा तं मनसा भूयो मूर्च्छितं भुवि विह्वलम् ॥ २१० ॥ हृदि बद्ध्वाङ्कुशेनैव आनयेदात्मनोऽन्तिकम् । ततस्त्वधोमुखं स्थाप्य पीडितं छर्दयेदसृक् ॥ २११ ॥ पश्चात्तु हृदये तस्य न्यस्तव्यं बीजपञ्चकम् । प्रोद्धृत्य साध्यनामैवं संहारास्त्रविदर्भितम् ॥ २१२ ॥ एवं विगतरक्षं तु स्याप्युद्गतं तु ? ततः । जपेदष्टसहस्रं तु ज्वालामालाभिरावृतम् ॥ २१३ ॥ ततस्तु कर्मणानेन तेनैव तु विधानतः । साध्यः प्रयाति निधनं मृत्युरान्तिम ? कम्पयेत् ॥ २१४ ॥ इत्येतत्कथितं देवि समासाद्यं तु पूर्वशः । यथा संहरते शक्रं बद्धे रुद्धेऽथ मोक्षणात् ॥ २१५ ॥ क्रोधेन महता दीप्तः प्रयोगमिदमारभेत् । सुषुम्नायां यदा देवः स्वयंचारेण वर्तते ॥ २१६ ॥ सुषुम्नान्तर्गतं ध्यात्वा रक्तवर्णं विचिन्तयेत् । विद्वेषोच्चाटनादीनि ततः कर्माणि कारयेत् ॥ २१७ ॥ बीजपञ्चकदेवस्य वर्गान्तरयुतस्य च । वर्णान्तयागमेकान्ते सदा गोपितं तन्मया ॥ २१८ ॥ तदा तु सर्वकार्याणां सिद्धये शृणु सुव्रते । कुसुम्भरजसालोड्यं शालीनां पिष्टकेन च ॥ २१९ ॥ भस्मना चन्दनेनापि नागकेशरजेन वा । सुगन्धैश्च विचित्रैश्च लिखेच्च सुसमाहितः ॥ २२० ॥ वर्गातीतस्य गर्भे तु न्यसेत्पद्मं चतुर्दलम् । तत्र सभ्रातृका देव्यः पूजयेद्बीजपञ्चके ॥ २२१ ॥ एवं पूजितमात्रास्तु सर्वदासर्वकामदाः । भवन्ति नियतं[नित्यं] धर्मकामार्थमोक्षदाः ॥ २२२ ॥ यागमेवं च कृत्वान्ते ततो लक्षत्रयं जपेत् । ततः सिद्धिमवाप्नोति ब्रह्मघ्नोऽपि हि नान्यथा ॥ २२३ ॥ मनसा चिन्तितं कामं तदा प्रभृतिमाप्नुयात् । अतः परं प्रवक्ष्यामि जपस्य विधिमुत्तमम् ॥ २२४ ॥ एकासनस्थितो मन्त्री यागं कृत्वा विधानवित् । एकचित्तः प्रसन्नात्मा वामहस्ताक्षसूत्रधृक् ॥ २२५ ॥ जपकर्म सदाकुर्याद्विशेषमपरं शृणु । वश्यकामो जपं कुर्यादनुलोमैर्विदर्भितम् ॥ २२६ ॥ बीजैरेतैर्यथान्यायं साध्यनामाक्षरान्वितैः । कालं तत्र विजानीयात्कालसिद्धिः प्रवर्तते ॥ २२७ ॥ मारणे प्रतिलोमैस्तु साध्यनाम तु पूर्वतः । विद्वेषेऽपि विलोमैस्तु फट्कारान्तं प्रयोजयेत् ॥ २२८ ॥ मारणे प्रतिलोमैस्तु हूंफत्कारान्त द्यन् ? तकैः । ओं स्वाहा नमोऽन्तैस्तु वश्याकर्षणकर्मसु ॥ २२९ ॥ होमयेदेवमेवं तु सर्वं कुर्याद्विचक्षणः । नमस्कारो जपस्यान्ते स्वाहा होमे प्रकीर्तितम् ॥ २३० ॥ स्वशोणिताक्तं लशुनं मारणे प्रतिहोमयेत् । उच्चातने काकपक्षं वश्ये जातिं तु होमयेत् ॥ २३१ ॥ विद्वेषे श्लेष शिग्रुं च होमयेदविचारणात् । आकर्षणे बकुलपुष्पं होमयेच्च विचक्षणः ॥ २३२ ॥ सर्वे यागसमुद्दिष्ताः कालज्ञस्य यशस्विनि । येन कालं च वै ज्ञातं तेन ज्ञातः सदाशिवः ॥ २३३ ॥ सदाशिवे परिज्ञाते सिद्धिं शाम्यन्ति साधकाः । कालतत्त्वं च विज्ञेयं तत्त्वात्सिद्धिः प्रवर्तते ॥ २३४ ॥ तत्त्वहीना न सिध्यन्ति प्रयत्नेनापि साधकाः । तस्मात्सर्वप्रयत्नेन कालतत्त्वं विदुर्बुधाः ॥ २३५ ॥ क्रियाकालं च वै शून्यं न सिध्यन्तीह साधकाः । तस्मात्क्रियां च कालं च असंज्ञेयं प्रयत्नतः ॥ २३६ ॥ श्रीदेव्युवाच स कालश्च कथं ज्ञेयो योऽसावुक्तस्त्वया प्रभो । कालहीनानृतं मन्ये सर्वमेव च शङ्कर ॥ २३७ ॥ श्री ईश्वर उवाच शृणु देवि परं गुह्यं कालतत्त्वात्मविग्रहम् । यज्ज्ञात्वा तु सुखेनैव सिद्धिर्भवति मन्त्रिणाम् ॥ २३८ ॥ अयुतं द्वे च विज्ञेयाः षोडशैव शतानि च । चतुर्विंशतिसंक्रान्त्या द्वादशाङ्गुलगतागते ॥ २३९ ॥ शरीरे तु यथा देवि स्थितं सकलनिष्कलम् । तथा हंसं प्रवक्ष्यामि साधकानां हिताय वै ॥ २४० ॥ पादौ पायुरुपस्थं च हस्तौ वागिन्द्रियस्तथा । श्रोत्रत्वक्चक्षुषा जिह्वा नासिका च तथापरा ॥ २४१ ॥ पृथ्व्यापस्तथा तेजो वायुराकाशमेव च । शब्दः स्पर्शश्च रूपं च रसो गन्धस्तथैव च ॥ २४२ ॥ मनो बुद्धिरहंकारो अव्यक्तं पुरुषस्तथा । पञ्चविंशतितत्त्वानि शरीरे तु विदुर्बुधाः ॥ २४३ ॥ एभिराधारभूतैस्तु आधेयो ध्यायते सदा । आधारं पुरमित्युक्तं पुरुषश्चाधेय उच्यते ॥ २४४ ॥ हृत्पद्मे कर्णिकावस्थ ऊर्ध्वगामी सदात्मकः । निष्कलस्य तु देवस्य पुनराधारसंस्थितिः ॥ २४५ ॥ तत्पुरुषमाधाराधेयं निष्कलं परमं शिवम् । षत्कौशिकशरीरं तु तत्त्वानां पञ्चविंशतिः ॥ २४६ ॥ दशवायुसमायुक्तं नाडीभिर्व्यापितं पुरम् । शरीरं त्रिगुणं चैव सर्वदैवतसंयुतम् ॥ २४७ ॥ अनेनाधिष्थितं देवि चक्रवत्परिवर्तते । यथा तारगणं सर्वं ग्रहनक्षत्रमण्डलम् ॥ २४८ ॥ ध्रुवाधिष्थितं तत्सर्वमचलं परिवर्तते । तद्वच्छरीरं देवस्य सर्वबीजगणं हि यत् ॥ २४९ ॥ शिवेनाधिष्थितं ज्ञात्वा तन्त्रे सिद्धिमवाप्नुयात् । त्रिकुब्जिकुतिलाकारा षष्ठस्वरसमन्विता ॥ २५० ॥ शक्तिर्बिन्दुविनिर्भिन्ना देहस्था सकलात्मका । अस्यास्तेजःशिखा सूक्ष्मा मृणालतन्तुसंनिभा ॥ २५१ ॥ ज्योतिरूपा च सा ज्ञेया तस्यान्ते तु पुनः शिवः । अकारादिक्षकारान्तमाब्रह्मभुवनं जगत् ॥ २५२ ॥ अस्मिंश्चोद्पद्यते सर्वं तत्रैव प्रलयं भवेत् । एष देवः परः सूक्ष्म आधाराधेयसंस्थितः ॥ २५३ ॥ अयने विषुवे चैव आग्नेयामृतकारणम् । यदा वारुणमार्गस्थ इडामध्यगतो भवेत् ॥ २५४ ॥ हिमकुन्देन्दुसंकाशो विज्ञेयः शुचिकर्मणि । द्वादशादित्यसंकाशः पिङ्गलान्तर्गतो यदा ॥ २५५ ॥ अरुणानलसंकाशं रौद्रकर्मणि योजयेत् । सुषुम्नायां यदा देव उपशान्तो वहत्यसौ ॥ २५६ ॥ मोक्षमार्गमिदं देवि ज्योतीरूपं परापरम् । एष देवो गतिश्चैव कालतत्त्वात्मविग्रहः ॥ २५७ ॥ साधकस्य हितार्थाय परमार्थमुदाहृतम् । एतत्सर्वं समाख्यातं कालतत्त्वात्मविग्रहम् ॥ २५८ ॥ त्रिसंस्थे तु समासेन सर्वतन्त्रेषु सिद्धिदम् । नाडीसंस्थं यथा कर्म कुरुते मन्त्रिणः सदा ॥ २५९ ॥ तदहं सम्प्रवक्ष्यामि शृणु त्वं च वरानने । इडा च पिङ्गला चैव नाड्यौ द्वे समुदाहृते ॥ २६० ॥ यतो नित्यं चरेद्देवः क्रमशश्च निवर्तते । तान्यात्मवतकर्माणि प्रयुक्तं कुरुते प्रभुः ॥ २६१ ॥ स एव कुरुते कर्म बीजनाडीप्रयोगतः । अयं कालः समाख्यातस्तृत्वेदय ? समन्वितः ॥ २६२ ॥ देहस्थं कथितं देवि ऋतुयुक्तस्तु साधकः । ज्ञात्वा कालं च तत्त्वं तु ततः कर्म समारभेत् ॥ २६३ ॥ शान्तिकं पौष्तिकं चापि विद्वेषोच्चाटनं तथा । वश्याकर्षणकं कुर्याद्यदि कालं विजानते ॥ २६४ ॥ सौम्यानि सौम्यकाले तु रौद्रे रौद्राणि कारयेत् । अन्यकालकृतं कर्म वृथा भवति साधके ॥ २६५ ॥ तस्मात्सर्वप्रयत्नेन काले कर्माणि कारयेत् । स्वरक्तं गोचनं चैव तथा सिन्दूरमेव च ॥ २६६ ॥ कुसुम्भरजःसम्मिश्रं दधिमध्वाज्यसंयुतम् । खदिरै रक्तसमिधैरथवा रक्तचन्दनैः ॥ २६७ ॥ अत्र दिग्ध्वा हुनेन्मन्त्री सप्ताहाद्वशमानयेत् । प्रतिमां लवणमयीं कृत्वा शताभिमन्त्रितां बुधः ॥ २६८ ॥ पादौ प्रभृति होतव्यं यावदष्टशतं भवेत् । त्रिसन्ध्यामेकचित्तस्तु अमोघवश्यतां नयेत् ॥ २६९ ॥ सैक्थीं तु प्रतिमां कृत्वा त्र्यूषणेन तु लेपयेत् । प्रतिमासु सुसम्पूर्णं कण्टकैर्मदनोद्भवैः ॥ २७० ॥ विदर्भ्य पादौ गुह्यं च ललातं च विचक्षणः । कुचयुग्मे च देवीनामग्रतो निखनेत तु ॥ २७१ ॥ अधोमुखां विलिप्ताङ्गां राजिकालवणेन तु । वामनासिकरक्तेन नाममन्त्रैर्विदर्भिताम् ॥ २७२ ॥ लिखित्वा हृदये कुर्याद्वह्निं प्रज्वाल्य चोपरि । राजिकालवणं चैव होतव्याष्तशतं बुधः ॥ २७३ ॥ त्रिसन्ध्यामेव सप्ताहात्त्रैलोक्यं वशमानयेत् । कुलालकरनिर्मुक्त- मृदा प्रतिमयीकृता ॥ २७४ ॥ तेनैव कण्तकैर्विद्ध्वा स्वस्थानस्थैस्तु मन्त्रिणः । भगे वा अथवा लिङ्गे सन्मन्त्राण्यष्टशतानि तु ॥ २७५ ॥ सूत्रयेद्गुह्यदेशे तु गृणन्मन्त्रं तु सर्वदा । सप्ताहादानयेद्वश्यं स्त्रियं वा पुरुषमपि वा ॥ २७६ ॥ मानुषास्थिमयं कीलं कृत्वा तु चतुरङ्गुलम् । क्षीरवृक्षं भगे लिख्य लिङ्गं वा कीलयेत्ततः ॥ २७७ ॥ षण्डिलस्तु भवेत्साध्य आर्द्रयोगो न संशयः । उद्धृतेन भवेन्मोक्षं नात्र कार्या विचारणा ॥ २७८ ॥ मधूका श्वेतपद्मं च रोचना नागकेशरम् । तगरं चैव सूक्ष्मेलमञ्जनं समभागिकम् ॥ २७९ ॥ कन्यया पिषितं कृत्वा यागं कृत्वा यथोदितम् । सहस्राष्ताधिकं जप्त्वा जपेन यजने ततः ॥ २८० ॥ सर्वलोकेषु दृश्यन्ते कामदेवसमोऽपि तत् । विचरेत महीं कृत्स्नां नात्र कार्या विचारणा ॥ २८१ ॥ मञ्जिष्था कुन्दुरुश्चैव हरिद्रे द्वे तु पीषयेत् । पिष्त्वा पूर्वविधानेन ततो गुह्यं प्रलेपयेत् ॥ २८२ ॥ प्रवृत्ते मैथुने काले पतिर्दासं करिष्यति । मेषलोचनमूलं तु कम्बल्या क्षीरसाधितम् ॥ २८३ ॥ श्मशाने साधयेन्मन्त्री रात्रौ काष्ठैस्तदुद्भवैः । कपालैर्गुण्डयेदङ्गं रक्तवासोपरिच्छदम् ॥ २८४ ॥ उद्वर्तनोऽभयो ह्येष वज्रवत्स्याङ्कुशोपमः । भक्षयेद्देशयेत्कंचित्कामाङ्कुशविनिर्गतः ॥ २८५ ॥ पुरुषो वशमायाति स्त्री वा मदनगर्विता । वाल्मीकमृत्तिकां गृह्य बलीवर्दं तु कारयेत् ॥ २८६ ॥ कन्याकर्तितसूत्रेण तस्य नासां प्रवेधयेत् । अथवा पद्मसूत्रेण रक्तचन्दनलेपितम् ॥ २८७ ॥ रक्तपुष्पैः समभ्यर्च्य सर्वार्णवं समानयेत् । साध्यस्य विलिखेन्नाम स्वरक्तेन वृषोदरे ॥ २८८ ॥ श्रीवृक्षकोतरे स्थाप्य साध्यमेवं वशीकुरु । अनेनैव मृदा मेषं कारयेन्मन्त्रवित्सदा ॥ २८९ ॥ मेषसूत्रेण वै नासां वेधयेत्पूर्ववच्छुचिः । देवीनामग्रतः स्थाप्य तस्य नासां प्रचालयेत् ॥ २९० ॥ यं यं विज्ञापयेत्कामं तं तं प्राप्नोति साधकः । एते योगवरा देवि मया तव उदाहृताः ॥ २९१ ॥ वर्णानामुदरे यागं सर्वकामप्रसिद्धिदम् । एवमेव मगर्भस्थं मारणे सम्प्रयोजयेत् ॥ २९२ ॥ गवां रोचनया लिख्य एवमेव प्रयोजयेत् । सोदरेमूकतां कुर्याद्वागीशमपि मूकयेत् ॥ २९३ ॥ नित्यमाकर्षयेत्प्रोक्तमाकारोदरे पूजिता । महापुरुषवरस्त्रीणां जपमाना तु कीर्तनात् ॥ २९४ ॥ ज्ञानाङ्कुशगता पूजा क्षिप्रं प्रायेषु वस्तुषु । उन्मनेष्वथ घोरेषु साकारेण तु साधयेत् ॥ २९५ ॥ एकारोदरयागेन भवत्यर्थप्रदायिका । वकारमध्यगा चैव वशीकरणकर्मणि ॥ २९६ ॥ धर्मार्थमोक्षदा चैव पुष्टितेजोविवर्धनी । भवति नियता देवि हंसमध्येषु पूजितम् ॥ २९७ ॥ भञ्जने यदि सैन्यानां भकारजथरे स्थितम् । भवति नियता क्षिप्रं क्षेमनाभिगरीयसी ॥ २९८ ॥ मारणे तु प्रयोक्तव्यं फत्कारान्ते व्यवस्थिता । विद्वेषं तु प्रयच्छन्ति जकारजथरेस्थिता ॥ २९९ ॥ शत्रुकुलोच्छादं कुर्याथूं फत्कारान्ते व्यवस्थिता । स्वल्पप्रायेषु कार्येषु यकारजथरोदरे ॥ ३०० ॥ देहन्यासं पुनर्वक्ष्ये अभेद्यं परमेश्वरि । विन्यस्य करणान् साक्षान्महाभूतेषु पञ्चसु ॥ ३०१ ॥ देहे तत्त्वत्रयं न्यस्य प्राणायामपुरःसरः । शरीरे विन्यसेद्देवि पूर्वमुक्तक्रमेण तु ॥ ३०२ ॥ माययाच्छादयित्वा तु अङ्कुशेन निरोधयेत् । योनिं बद्ध्वा ततः पश्चात्साधकः सुसमाहितः ॥ ३०३ ॥ स्वदेहे नमसा मन्त्री कल्पोक्तेन तु कर्मणा । कुर्यात्सर्वाणि कार्याणि ततः सिद्धिर्न संशयः ॥ ३०४ ॥ नयोत्तरादितन्त्रेषु कल्पोक्तं कर्म कारयेत् । अथवादशलक्षाणि जपेद्यस्तु विधानतः ॥ ३०५ ॥ ततः सभ्रातृका देव्यः साधकस्याग्रतः स्थिताः । वरमिष्तं प्रयच्छन्ति त्रयातीतं पदं हि यत् ॥ ३०६ ॥ बीजपञ्चकमेतद्धि न देयं यस्य कस्यचित् । वर्गान्तनिर्गुणाक्रान्तं सम्यग्वै बीजपञ्चकम् ॥ ३०७ ॥ एवमेव पुरा कृत्वा ज्ञात्वैवं हि विधानतः । बीजानि बीजयेत्प्राज्ञः ततः कर्म समारभेत् ॥ ३०८ ॥ एवं विधानविद्यस्तु हीनो वा सर्वलक्षणैः । अपि पातकसंयुक्तः स सिद्धिफलभाग्भवेत् ॥ ३०९ ॥ वर्गान्तनिर्गुणाख्यस्य अस्यापि परमं स्मृतम् । हृदयं देवदेवीनामेकाक्षरमतः परम् ॥ ३१० ॥ यत्र सभ्रातृका देव्यः कूटदेहा व्यवस्थिताः । नातः परतरो मन्त्रस्त्रिषु लोकेषु विद्यते ॥ ३११ ॥ गोपितव्यं प्रयत्नेन तन्त्रसारं सुदुर्लभम् । ममापि गोपितं देवि सर्वज्ञेनापि सर्वदा ॥ ३१२ ॥ निश्चयं मम बद्ध्वान्त ? यच्च देवेन भाषितम् । त्वयापि चैवमेवं हि रक्षणीयं प्रयत्नतः ॥ ३१३ ॥ चिन्तारत्नमिदं गुह्यं व्रतसाधनवर्जितम् । अनुस्मरणामात्रेण सम्यग्ज्ञाय क्रमेण तु ॥ ३१४ ॥ वर्णयागक्रमेणैव पूर्वोक्तेन यथाक्रमम् । सिध्यते नात्र संदेहः सर्वकामस्तु मन्त्रिणाम् ॥ ३१५ ॥ शान्तिकं पौष्तिकं चैव विद्वेषोच्चाटनं तथा । वश्याकर्षस्तथा नाशं सर्वं सिध्यति साधके ॥ ३१६ ॥ शुक्रेण सर्वतोभद्रे महासम्मोहने तथा । निर्मथ्य कथितो देवि दध्नो घृतमिवोद्धृतम् ॥ ३१७ ॥ परीक्ष्य गुरुणा शिष्यं गुरुदेवाग्निपूजकम् । तस्य देयमिदं तन्त्रं न च नास्तिकनिन्दके ॥ ३१८ ॥ न दीक्षिता न सिध्यन्ति स्थिताः कल्पशतैरपि । स्वयंगृहीतमन्त्राश्च नास्तिका वेदनिन्दकाः ॥ ३१९ ॥ समयेभ्यः परिभ्रष्तास्तथा तन्त्रविदूषकाः । गुरूणां विहेठनपरास्तन्त्रसारविलोपकाः ॥ ३२० ॥ योगिनीभिः सदा भ्रष्टाः कथ्यन्ते धर्मलोपकाः । इति तथ्यं महादेवि सुरासुरनमस्कृतम् ॥ ३२१ ॥ सारमेतद्धि तन्त्रस्य तस्य तत्स्थं महानये । आज्ञा भगवतश्चैव शिवस्य परमात्मनः ॥ ३२२ ॥ श्रीदेव्युवाच श्रुतं मया महादेव वीणासद्भावमुत्तमम् । तन्त्रं वीणाशिखं नाम दुर्लभं त्रिदशेष्वपि ॥ ३२३ ॥ वर्गान्तनिर्गुणाख्यस्य अस्यापि परमं च यत् । एकाक्षरं परं गुह्यं भुक्तिमुक्तिप्रदायकम् ॥ ३२४ ॥ गोपितं तु त्वया देव सारभूतं महेश्वर । तपसा दुर्धराल्लब्धं यच्च ज्ञानं शिवोद्भवम् ॥ ३२५ ॥ प्रसादं कुरु देवेश यत्र सिद्धिर्ध्रुवं स्थिता । प्राप्ते कलियुगे घोरे संकते बहुपातके ॥ ३२६ ॥ सर्वस्रोतःप्रपन्नानामाशु सिद्धिर्यथा नृणाम् । प्रसादं कुरु देवेश कः परम्पारते मम ॥ ३२७ ॥ अल्पप्रज्ञाः कुमतयो बहुव्याकुलचेतसा । तन्त्रं नैवाधिगच्छन्ति न चैव बहुधा श्रुतम् ॥ ३२८ ॥ इति देव त्वया पूर्वं कथितं गुरुणात्मना । अस्माकमपि संक्षेपात्कथयस्व महेश्वर ॥ ३२९ ॥ श्री ईश्वर उवाच अहो स्वभावप्रकृते किम्प्रश्नासि पुनःऽपुनः । यन्मया कथितं पूर्वं तद्गृहाण सुभाषितम् ॥ ३३० ॥ श्रीदेव्युवाच न भूयः परिपृच्छामि प्रश्नमेका गरीयसी । वारमेकं कुरु व्यक्तं प्रसादं सूक्ष्मगोचरम् ॥ ३३१ ॥ श्री ईश्वर उवाच शृणु देवि प्रयत्नेन सूक्ष्मात्सूक्ष्मतरं महत् । प्रयोगं सर्वतन्त्राणामुत्तरं सर्वसिद्धये ॥ ३३२ ॥ येन संस्मृतमात्रेण सिद्धिर्हस्ततले स्थिता । नायासो न व्रतश्चैव न तपश्च महेश्वरि ॥ ३३३ ॥ नाग्निकर्म न चैवार्चा स्मरणात्सिद्धिदः स्मृतः । शृणुष्वैकाक्षरं देवि सद्भावपरसंहितम् ॥ ३३४ ॥ शरीरं तत्त्वराजानं जातवेदसि संस्थितम् । शिखायां संस्थितो देवो बिन्दुदेवी जया स्मृता ॥ ३३५ ॥ यश्चात्रोर्ध्वं भवेद्देवि सौकरः परिकीर्तितः । तन्तुदेवं विजानीयान्मकारं बिन्दुदेवताम् ॥ ३३६ ॥ एवं तु पञ्चधा देवि तत्त्वराजं तु कीर्तितम् । चतुर्विंशतिकोष्थे तु यो मन्त्रनायकः स्मृतः ॥ ३३७ ॥ तत्त्वराज इति ख्यात ऊनविंशत्यधः स्मृतः । विंशकेन स्वरेणैव बिन्दुमूर्ध्ना तु पीडितम् ॥ ३३८ ॥ एष एकाक्षरः प्रोक्तस्त्वत्प्रियार्थं वरानने । सुषिरं तत्त्वराजानं जातवेदसि संस्थितम् ॥ ३३९ ॥ विष्णोरुपरि दीप्तेन जपेल्लक्षत्रयं बुधः । आकर्षयेद्द्रुमाण्येष मृगपक्षिसरीसृपान् ॥ ३४० ॥ मानुषाणां तु का चिन्ता आकर्षणविधिं प्रति । एकादशमः संयुक्तस्तत्त्वराजेन शोभने ॥ ३४१ ॥ शिरसा बिन्दुभिन्नेन हृदि चैष निगद्यते । सप्तविंश शिरः प्रोक्तं त्रिंशमस्तु शिखा भवेत् ॥ ३४२ ॥ ऊनचत्वारिंशतिर्देवि तत्त्वोऽयं कवचः स्मृतः । षोडशस्वरसंयुक्तमेतदस्त्रं प्रकीर्तितम् ॥ ३४३ ॥ नेत्रं तु कथितं देवि विंशत्यक्षरयोजितम् । एष एकाक्षरो देवि षडङ्गः समुदाहृतः ॥ ३४४ ॥ हंसो मायायुक्तो देवि नाराचास्त्रविदर्भितः । सविसर्गनयपदं बीजान्तस्थं(?) ऊ ई सिद्धिकरी नृणाम्(?) ॥ ३४५ ॥ ह र त्र वृद्धिं करोति .... .... । मायाङ्कुशनिरोधास्ते सर्वमन्त्रगणादयः ॥ ३४६ ॥ क्रमशो योजयेन्मन्त्रि यदीच्छेद्दीर्घमात्मनि । सर्वमेतत्परित्यज्य कुर्यान्मन्त्रपरिग्रहम् ॥ ३४७ ॥ आत्मातीन्द्रियाधाराणां कृत्वा कर्तव्यं मुहुर्मुहुः । पदार्थविधिसंयुक्तं यन्मया गदितं पुरा ॥ ३४८ ॥ तदनेन प्रयोगेण कर्तव्यं सिद्धिमिच्छता । ध्यायेत्सिन्दूरसदृशं वश्याकर्षणकर्मणि ॥ ३४९ ॥ मारणे कृष्णवर्णं तु विद्वेषे वामरूपकम् । उच्चाते धूम्रवर्णं तु श्वेतं चैव पुष्ट्यर्थिना ॥ ३५० ॥ मयूरग्रीवसदृशं स्तम्भने चिन्तयेत्सदा । सर्ववर्णधरं चैव सर्वकामिकमेव च ॥ ३५१ ॥ सर्वेन्द्रियाणां कुर्वीत उपहारे महाधिपे । हृत्पद्मकर्णिकोर्ध्वं तु सुषिरं तत्र चिन्तयेत् ॥ ३५२ ॥ स्फुलिङ्गं कर्णिकारूपं निर्धूमतेजरूपिणम् । धूमज्वालाविनिर्मुक्तं सूर्यकोटिसमप्रभम् ॥ ३५३ ॥ तस्योर्ध्वे तु शिखा सूक्ष्मा निर्मला स्फातिकोपमा । नित्यं सा सेव्यते युक्तैर्योगिभिर्निष्कला परा ॥ ३५४ ॥ ऊर्णातन्तुसमाकारा ऊर्ध्वस्रोता निरुपमा । तत्र मध्ये गतं पश्येद्देव्या गुह्योत्तरम्भवा ॥ ३५५ ॥ वालाग्रशतभागाख्या- वीणाधारासुसंस्थिता । ध्यायेत नित्यं योगीन्द्रः सूक्ष्मगुह्यसमुद्भवाम् ॥ ३५६ ॥ कृत्वा पूर्वं तु विन्यासं सकलाबाह्यसंस्थितम् । एवं वर्णविभागं तु ज्ञात्वा सिद्धिमवाप्नुयात् ॥ ३५७ ॥ वश्याकर्षणकर्माणि वाचया स करिष्यति । वीणाशिखायाः सर्वस्वं चिन्तारत्नमिवापरम् ॥ ३५८ ॥ एतद्बीजवरं प्राप्य यथेप्ससि तथा कुरु । आज्ञा भगवतश्चैषा सर्वदाव्यभिचारिणी ॥ ३५९ ॥ ध्यातव्या सा प्रयत्नेन यदीच्छेत्सिद्धिमात्मनः । यजनं याजनं चैव संयोगं च लयं तथा ॥ ३६० ॥ समयाक्षरबीजं च अक्षराक्षरयोजितम् । रक्षणीयं त्वया भद्रे प्रयत्नेन सुनिश्चलम् ॥ ३६१ ॥ एतद्गुह्यं समाख्यातं तव स्नेहाद्विचक्षणि । एतज्ज्ञात्वा तु मन्त्रज्ञः शिवसायुज्यतां व्रजेत् ॥ ३६२ ॥ (एम्: ॰सायोज्यताम्Eद्) एवं विलयतां याति विधिनानेन योषिताम् । अमलीकृतदेहस्तु विधिनानेन साधकः ॥ ३६३ ॥ अमलीकृतं तन्मन्त्रं हृच्चक्रे विनियोजयेत् । सोममण्डलमध्यस्थं ध्यायेत्कुन्देन्दुसप्रभम् ॥ ३६४ ॥ अमृतेन तु सिञ्चन्ति लान्तीसगतिलितेन ? तु । एवमाप्यायितो मन्त्रः सर्वसिद्धिप्रदो भवेत् ॥ ३६५ ॥ एवमाप्यायनं कृत्वा बिन्दुमध्येविचक्षणः । अष्टोत्तरसहस्रं तु मन्त्राणां मन्त्रविज्जपेत् ॥ ३६६ ॥ परमीकरणं ह्येतन्मन्त्रस्याप्यायनं स्मृतम् । शिवीभूतस्तु मन्त्रो वै साधयेदखिलं जगत् ॥ ३६७ ॥ सूर्यचक्रनिरुद्धं तु शिरसि समवस्थितम् । जपेथूंकारसहितं बोधनं परिकीर्तितम् ॥ ३६८ ॥ आदित्यचक्रमध्यस्थं वह्निना संनिरोधितम् । निर्दहते मन्त्रं देवि यदा कर्म न कुर्वति ॥ ३६९ ॥ शिखामध्यगतं ध्यात्वा सहस्रं परिवर्तयेत् । मन्त्रमेवं समुद्दिष्तं गुह्यशक्तिप्रदीपनम् ॥ ३७० ॥ दहनं चाग्निना कार्यं हूंकारेण प्रबोधयेत् । दीपनं तु शिखामध्ये मन्त्राणां मन्त्रवादिनाम् ॥ ३७१ ॥ अमलीकुरुतेसूर्यश्चन्द्रेणाप्यायनं स्मृतम् । शिवीकुर्वीत बिन्दुस्थं मन्त्री मन्त्रं तु योगवित् ॥ ३७२ ॥ एवं मन्त्रविशुद्धस्तु चन्द्रसूर्यसमन्वितम् । दीपनं शक्तिना नित्यं जपेन्मन्त्री समाहितः ॥ ३७३ ॥ अमृतोद्भवकाले तु मन्त्री यत्नेन निश्चयात् । वशमानयते क्षिप्रं विश्वं मनत ? संशयः ॥ ३७४ ॥ यावती माया मन्त्राणां सर्वेषां कथिता मया । विधिरत्र क्रमे चायं पश्चाद्वक्ष्ये जपे विधिम् ॥ ३७५ ॥ यजनकाले सम्प्राप्ते एकचित्तः समाहितः । हृत्पद्मे कर्णिकासीन- देवतार्पितमानसः ॥ ३७६ ॥ शिखाबिन्दुं विनिर्धार्य तन्मन्त्रं हृदि संस्थितम् । पुतवर्णविधानं स्यादकृतोच्चारनिस्वनम् ॥ ३७७ ॥ स्वस्थचित्तो ह्यसम्मूढ अलाकूर्ध्वस्थितात्मनः । अविच्छिन्नं द्रुतं चैव अविलम्बितमेव च ॥ ३७८ ॥ तावन्मन्त्री जपेन्मन्त्रं यावच्चित्तं न खिद्यते । अलभ्य मम मन्त्रं स्याद्द्रुतं कालस्य सिध्यति ॥ ३७९ ॥ जपं कृत्वा तु मेधावी नान्यमेतत्समर्पयेत् । मन्त्री कुर्वीत यत्नेन यथार्थत्वं निबोधत ॥ ३८० ॥ प्रथमे वायवी प्रोक्ता द्वितीया त्वनला स्मृता । तृतीया चैव माहेन्द्री वारुणी तु तथापरे ॥ ३८१ ॥ ओंकारपूर्वतो मन्त्रं नमस्कारान्तयोजितम् । बीजपिण्डं तु मध्यस्थं मुद्रायुक्तं सदा यजेत् ॥ ३८२ ॥ क्षिप्रमर्थस्तथा कर्म भुक्तिभोगं सुदुर्लभम् । साधयेन्मनसा सर्वं बीजमुद्राप्रयोगतः ॥ ३८३ ॥ हूंकारमदितो न्यस्तं नमस्कारान्तव्यवस्थितम् । उच्चातयेत्सर्वदुष्तान् दैत्यभूतग्रहांस्तथा ॥ ३८४ ॥ ओंकारयोजितस्यादौ स्वाहाकारावसानतः । अग्निकार्यप्रयोगोऽयं क्षिप्रमर्थं प्रसाधयेत् ॥ ३८५ ॥ ओंकारसम्पुतं पिण्डं रकारेण तु दीपकम् । साधयेन्मनसा ध्यात्वा कामार्थश्च यथेप्सितम् ॥ ३८६ ॥ सुप्तं बोधयते मन्त्री शीघ्रं सिद्धिमवाप्नुयात् । ओंकारश्च रकारश्च फट्कारश्चैव मध्यतः ॥ ३८७ ॥ मध्ये वर्गान्तपिण्डस्तु कर्म कुर्याद्यथेप्सितम् । हूंकारमादौ अन्ते च हकारश्चादिमध्यतः ॥ ३८८ ॥ जपन् तु बोधयेन्मन्त्री अपि सुप्तमचेतनम् । हूंकारश्च रकारश्च फट्कारमादिमध्यतः ॥ ३८९ ॥ क्रुद्धस्तु जापयेन्मन्त्री यदाकर्म न कुर्वति । ओंकारसम्पुतं कृत्वा नमस्कारान्तयोजितम् ॥ ३९० ॥ जपेत्पिण्डाक्षरं मन्त्री सर्वसिद्धिकरं परम् । शान्तिकपौष्तिकं कर्म शुभेषु अशुभेषु च ॥ ३९१ ॥ क्षिप्रमावाहने सिद्धिर्होमबीजप्रयोगतः । होमयेत्फलबीजानि धान्यबीजतृणानि च ॥ ३९२ ॥ पयसा वापि शुद्धेन होमकर्म ह्युदाहृतम् । मधुना घृतसंयुक्तं तिलं जुह्याद्विचक्षणि ॥ ३९३ ॥ साधयेत्सर्वकर्माणि वषत्कृतं जपिष्यति । सर्वेषां गुह्यमन्त्राणां बीजमुद्रां प्रयोजयेत् ॥ ३९४ ॥ अप्रकाश्यमिदं गुह्यं शिववक्त्राद्विनिःसृतम् । यस्त्विदं ध्यायते नित्यं पूजयेन्मनसा जपेत् ॥ ३९५ ॥ स भुङ्क्ते विपुलान् भोगानीशानान्तपदं लभेत् ॥ ३९६ ॥ वीणाशिखा सार्धशतत्रयं यामलतन्त्रं समाप्तमिति (Vएर्से ३७५ इन्Eद्. हसोन्ल्य्२ पादस्) आप्पेन्दिचेस्: आ: हूंकारादौ स्वाहान्ते आकर्षणे ओंकारादौ वौषतन्ते शान्तिके ओंकारादौ सु वषडन्ते पौष्तिके ओंकारादौ वषडन्तेऽमृतीकरणे फत्फत्मारणे ओं क्ष्रं संहारास्त्र B: क्ष पुरुष्प्रकृति बुद्धि।हङ्कार मनः ज शब्दस्पर्शरसरूपगन्ध तन्मात्रं भ पृथिवी आप तेज वायु आकाश पञ्चमहाभूत ।ं श्रोत्रत्वच्चक्षुर्जिह्वाघ्राण बुद्धीन्द्रिय ह्वाक्पाणिपादपायूपस्थ कर्मेन्द्रिय C: जय ब्राह्मनि भूमि विजय क्षत्राणि । आप अजित । वैसनि । तेज अपराजित सूद्रनि । वायु तुम्बुरु अकाश शून्य निर्गुण ड्: क्षकारः पुरुषः साक्षात्मकारः प्रकृतिः स्मृता महान् हकारमित्याहुरहंकारस्तु य स्मृतः ओंकारस्तु मनः प्रोक्तं कथितं देवि ते क्रमात् Cओलोफोन् : वीणाशिखं वामतन्त्रं सम्पूर्णम् शुभमस्तु