टोडलतन्त्र, प्रथमः पटलः श्रीदेव्युवाच ब्रूहि मे जगतां नाथ सर्वविद्यामय प्रभो । महाविद्यासु सर्वासु पूज्यासु भुवनत्रये ॥ १.१ ॥ एतासां दक्षिणे भागे नानारूपं पिनाकधृक् । पृथक्पृथक्महादेव कथयस्व मयि प्रभो ॥ १.२ ॥ श्रीशिव उवाच शृणु चार्वङ्गि सुभगे कालिकायाश्च भैरवम् । महाकालं दक्षिणाया दक्षभागे प्रपूजयेत् ॥ १.३ ॥ महाकालेन वै सार्धं दक्षिणा रमते सदा । ताराया दक्षिणे भागे अक्षोभ्यं परिपूजयेत् ॥ १.४ ॥ समुद्रमथने देवि कालकूटं समुत्थितम् । सर्वे देवाः सदाराश्च महाक्षोभमवाप्नुयुः ॥ १.५ ॥ क्षोभादिरहितं यस्मात्पीतं हालाहलं विषम् । अत एव महेशानि अक्षोभ्यः परिकीर्तितः ॥ १.६ ॥ तेन सार्धं महामाया तारिणी रमते सदा । महात्रिपुरसुन्दर्या दक्षिणे पूजयेच्छिवम् ॥ १.७ ॥ पञ्चवक्त्रं त्रिनेत्रं च प्रतिवक्त्रे सुरेश्वरि । तेन सार्धं महादेवी सदा कामकुतूहला ॥ १.८ ॥ अत एव महेशानि पञ्चमीति प्रकीर्तिता । श्रीमद्भुवनसुन्दर्या दक्षिणे त्र्यम्बकं यजेत् ॥ १.९ ॥ स्वर्गे मर्त्ये च पाताले या चाद्या भुवनेश्वरी । एतासु रमते येन त्र्यम्बकस्तेन कथ्यते ॥ १.१० ॥ सशक्तिश्च समाख्यातः सर्वतन्त्रप्रपूजितः । भैरव्या दक्षिणे भागे दक्षिणामूर्तिसंज्ञकम् ॥ १.११ ॥ पूजयेत्परयत्नेन पञ्चवक्त्रं तमेव हि । छिन्नमस्तादक्षिणांशे कबन्धं पूजयेच्छिवम् ॥ १.१२ ॥ कबन्धपूजनाद्देवि सर्वसिद्धीश्वरो भवेत् । धूमावती महाविद्या विधवारूपधारिणी ॥ १.१३ ॥ वगलाया दक्षभागे एकवक्त्रं प्रपूजयेत् । महारुद्रेति विख्यातं जगत्संहारकारकम् ॥ १.१४ ॥ मातंगीदक्षिणांशे च मतंगं पूजयेच्छिवम् । तमेव दक्षिणामूर्तिं जगदानन्दरूपकम् ॥ १.१५ ॥ कमलाया दक्षिणांशे विष्णुरूपं सदाशिवम् । पूजयेत्परमेशानि स सिद्धो नात्र संशयः ॥ १.१६ ॥ पूजयेदन्नपूर्णाया दक्षिणे ब्रह्मरूपकम् । महामोक्षप्रदं देवं दशवक्त्रं महेश्वरम् ॥ १.१७ ॥ दुर्गाया दक्षिणे देशे नारदं परिपूजयेत् । नाकारः सृष्टिकर्ता च दकारः पालकः सदा ॥ १.१८ ॥ रेफः संहाररूपत्वान्नारदः परिकीर्तितः । अन्यासु सर्वविद्यासु ऋषिर्यः परिकीर्तितः ॥ १.१९ ॥ स एव तस्या भर्ता च दक्षभागे प्रपूजयेत् । श्रीदेवी उवाच या चाद्या परमा विद्या द्वितीया भैरवी परा । त्रैलोक्यजननी नित्या सा कथं शववाहना ॥ १.२० ॥ श्रीशिव उवाच या चाद्या परमेशानि स्वयं कालस्वरूपिणी । श्रीशिवस्य हृदम्भोजे स्थिता संहाररूपिणी ॥ १.२१ ॥ अत एव महाकालो जगत्संहारकारकः । संहाररूपिणी काली यदा व्यक्तस्वरूपिणी ॥ १.२२ ॥ तदैव सहसा देवि शवरूपः सदाशिवः । तत्क्षणाच्चञ्चलापाङ्गि सा देवी शववाहना ॥ १.२३ ॥ श्रीदेवी उवाच शवरूपो महादेव मृतदेहः सदाशिवः । मृतदेहं महादेव सलिलं वा कथं नहि ॥ १.२४ ॥ श्रीशिव उवाच यस्मिन् व्यक्ता महाकाली शक्तिहीनः सदाशिवः । शक्त्या युक्तो यदा देवि तदैव शिवरूपकः । शक्तिहीनः शवः साक्षात्पुरुषत्वं न मुञ्चति ॥ १.२५ ॥ टोडलतन्त्र, ड्वितीयः पटलः श्रीशिव उवाच शृणु देवि प्रवक्ष्यामि योगसारं समासतः । ऊर्ध्वमूलमधःशाखं वृक्षाकारं कलेवरम् ॥ २.१ ॥ ब्रह्माण्डे यानि तीर्थानि तानि सन्ति कलेवरे । बृहद्ब्रह्माण्डं यद्रूपं तद्रूपं क्षुद्ररूपकम् ॥ २.२ ॥ ब्रह्माण्डे वर्तते तीर्थं सार्धकोटित्रयात्मकम् । द्विसप्ततिसहस्राणि प्रकाशं वीरवन्दिते ॥ २.३ ॥ चतुर्दशं तु तन्मध्ये तन्मध्ये त्रितयं शुभम् । तन्मध्ये परमेशानि महाधीरा च मुक्तिदा ॥ २.४ ॥ वासुकी या महामाया भुजगाकाररूपिणी । सार्धत्रिवलयाकारा पातालतलवासिनी ॥ २.५ ॥ सप्तस्वर्गं परेशानि क्रमेण शृणु सादरम् । भूर्लोकं च भुवर्लोकं स्वर्लोकं महसं तथा ॥ २.६ ॥ जनलोकं तपश्चैव सत्यलोकं वरानने । सप्तस्वर्गमिदं भद्रे पातालं शृणु यत्नतः ॥ २.७ ॥ अतलं वितलं चैव सुतलं च तलातलम् । महातलं च पातालं रसातलमतः परम् ॥ २.८ ॥ रसातलाच्च सत्यान्तं महाधीरा प्रतिष्ठिता । मेरुमध्यस्थिता नाडी महाधीरा च मुक्तिदा ॥ २.९ ॥ सत्यलोके महाविष्णुं शिवं ब्रह्माण्डसंज्ञकम् । तस्य संदर्शनार्थाय वासुकी व्याकुला सदा ॥ २.१० ॥ स्वर्गषट्कं भेदयित्वा उत्थिता वासुकी यदा । सर्वाः समुद्रगामिन्य ऊर्ध्वस्रोता भवन्ति हि ॥ २.११ ॥ एवं क्रमेण देवेशि शरीरे नाडयः स्थिताः । इडा च पिङ्गला चैव सुषुम्णा मध्यवर्तिनी ॥ २.१२ ॥ नाडीद्वयेन देवेशि समीरं पूरयेद्यदि । ततस्तु प्राणमन्त्रेण कुण्डली च क्रमं चरेत् ॥ २.१३ ॥ सहस्रारे महापद्मे नित्ये चाव्ययपङ्कजे । त्रासयुक्ता कुण्डलिनी प्रविशेन्नित्यमन्दिरम् ॥ २.१४ ॥ सर्वाः पातालगामिन्य ऊर्ध्वस्रोता भवन्ति हि । एतस्मिन् समये देवि वर्णमालां विचिन्तयेत् ॥ २.१५ ॥ अष्टोत्तरशतं मूल- मन्त्रं ज्ञानेन संजपेत् । आनयेत्तेन मार्गेण मूलाधारे पुनः सुधीः ॥ २.१६ ॥ षट्चक्रदेवतास्तत्र संतर्प्यामृतधारया । अथान्यत्सम्प्रवक्ष्यामि योनिमुद्रासनं प्रिये ॥ २.१७ ॥ उपविश्यासने मन्त्री प्राङ्मुखो वाप्युदङ्मुखः । जानुद्वयं कराभ्यां च प्रकुर्याद्दृढबन्धनम् ॥ २.१८ ॥ ऋजुकायेन देवेशि आजानु नासिकां नयेत् । प्राणमन्त्रेण देवेशि समीरं बहुयत्नतः ॥ २.१९ ॥ पूरयेत्परमेशानि किंचिद्वायुं न रेचयेत् । ऋजुकायं परेशानि विपरीतं प्रयत्नतः ॥ २.२० ॥ पूर्वोक्तेनैव विधिना अष्टोत्तरशतं जपेत् । षट्चक्रदेवतास्तत्र संतर्प्यामृतधारया ॥ २.२१ ॥ आनयेत्तेन मार्गेण मूलाधारे वरानने । अशेषरोगशमनं योनिमुद्रासनं प्रिये ॥ २.२२ ॥ बहु किं कथ्यते देवि महाव्याधिविनाशनम् । बहु किं कथ्यते देवि मन्त्रचैतन्यकारणम् ॥ २.२३ ॥ आत्मसाक्षात्करी मुद्रा महामोक्षप्रदायिनी । शतवक्त्रं यदि भवेत्तदा वक्तुं न शक्यते ॥ २.२४ ॥ पञ्चवक्त्रेण देवेशि किं मया कथ्यतेऽधुना । कुष्ठरोगविशिष्टोऽपि स भवेत्कामरूपकः ॥ २.२५ ॥ टोडलतन्त्र, टृतीयः पटलः श्रीदेवी उवाच देवदेव महादेव संसारार्णवतारक । बद्धयोनिं महामुद्रां कथयस्व दयानिधे ॥ ३.१ ॥ श्रीशिव उवाच शृणु देवि प्रवक्ष्यामि बद्धयोनिं समासतः । उपविश्यासने मन्त्री प्राङ्मुखो वाप्युदङ्मुखः ॥ ३.२ ॥ गुदच्छिद्रे महेशानि स्वलिङ्गाग्रं निवेशयेत् । श्रोत्रे चैव तथा नेत्रे नासायां च ततो मुखे ॥ ३.३ ॥ अङ्गुष्ठादि महेशानि क्रमेण योजयेत्सुधीः । नासिकायां मुखे चैव समीरं बहुयत्नतः ॥ ३.४ ॥ पूरयेत्परमेशानि किंचिदपि न रेचयेत् । शब्दप्रत्यक्षतां कृत्वा वर्णमालां विचिन्तयेत् ॥ ३.५ ॥ अष्टोत्तरशतं मूल- मन्त्रं तु प्रजपेत्सुधीः । सोऽहंमन्त्रेण देवेशि आनयेत्तेन वर्त्मना ॥ ३.६ ॥ षट्चक्रदेवतास्तत्र संतर्प्यामृतधारया । कृते फलं महेशानि कथयिष्यामि तेऽनघे ॥ ३.७ ॥ श्रीपार्वती उवाच वद ईशान सर्वज्ञ सर्वतत्त्वविदां वर । मन्त्रमार्गेण देवेश कालिकायाः सुदुर्लभम् ॥ ३.८ ॥ श्रीशिव उवाच शृणु देवि सदानन्दे कालिकामन्त्रमुत्तमम् । यस्याः प्रसङ्गमात्रेण जीवन्मुक्तो भवेन्नरः ॥ ३.९ ॥ शिवाद्यं बिन्दुनादाढ्यं वामनेत्राग्निसंयुतम् । सिद्धविद्या त्वियं भद्रे विद्याराज्ञी सुदुर्लभा ॥ ३.१० ॥ इदं बीजत्रयं चाद्यं गगनं बिन्दुभूषितम् । वामश्रवणसंयुक्तं द्वंद्वं चापरकं शृणु ॥ ३.११ ॥ ईशानं वह्निसंयुक्तं वामनेत्रेन्दुसंयुतम् । द्वितीयं परमेशानि सम्बोधनपदं ततः ॥ ३.१२ ॥ पुनर्बीजत्रयं कूर्चं मायाद्वंद्वं च ठद्वयम् । द्वाविंशत्यक्षरं मन्त्रं विद्याराज्ञी सुदुर्लभा ॥ ३.१३ ॥ वाग्भवाद्या महाविद्या श्रीकाली देवता स्मृता । प्रणवाद्या महाविद्या देवता सिद्धिकालिका ॥ ३.१४ ॥ निजबीजद्वयं कूर्चं बीजैकं परमेश्वरि । त्र्यक्षरी परमा विद्या चामुण्डा कालिका स्मृता ॥ ३.१५ ॥ एतस्याः सदृशी विद्या सिद्धिदा नास्ति सुन्दरि । यथा षडक्षरी विद्या तथा विद्या च त्र्यक्षरी ॥ ३.१६ ॥ निजबीजत्रयं भद्रे श्मशानकालिका ततः । पुनर्बीजत्रयं भद्रे वह्निकान्तां समुच्चरेत् ॥ ३.१७ ॥ चतुर्दशाक्षरी विद्या त्रिषु लोकेषु पूजिता । दक्षिणाकालिका सिद्ध- कालिका गुह्यकालिका ॥ ३.१८ ॥ श्रीकालिका भद्रकाली चामुण्डाकालिका परा । श्मशानकालिका देवि महाकालीति चाष्टधा ॥ ३.१९ ॥ निजबीजं महेशानि सम्बोधनपदं ततः । पुनश्च कालिकाबीजं ततो वह्निवधूं न्यसेत् ॥ ३.२० ॥ इति चाष्टविधं मन्त्रं सर्वतन्त्रेषु गोपितम् । श्रीदेवी उवाच श्रुतं महाकालिकाया मन्त्रं परमगोपनम् ॥ ३.२१ ॥ ताराया मन्त्रराजं तु श्रोतुमिच्छामि साम्प्रतम् । यस्याः प्रसङ्गमात्रेण भवाब्धौ न निमज्जति ॥ ३.२२ ॥ तन्मन्त्रं वद ईशान यदि स्नेहोऽस्ति मां प्रति । श्रीशिव उवाच चन्द्रबीजं समुच्चार्य आद्यं वह्निसमागतम् ॥ ३.२३ ॥ वामनेत्रेन्दुसंयुक्तं मन्त्रराजमिमं प्रिये । एकाक्षरी महाविद्या त्रिषु लोकेषु पूजिता ॥ ३.२४ ॥ ईशानबिन्दुसंयुक्तं वामकर्णविभूषितम् । एकाक्षरी महाविद्या मन्त्रराजद्वितीयकम् ॥ ३.२५ ॥ शिरं बिन्दुसमारूढं वामनेत्रेन्दुसंयुतम् । आद्यबीजं द्वितीयं च अस्त्रमन्त्रं समुच्चरेत् ॥ ३.२६ ॥ प्रणवाद्या यदा विद्या सोग्रतारा प्रकीर्तिता । विद्या चैकजटा प्रोक्ता महामोक्षप्रदायिनी ॥ ३.२७ ॥ तारास्त्ररहिता त्र्यर्णा महानीलसरस्वती । वाग्भवाद्या यदा विद्या वागीशत्वप्रदायिनी ॥ ३.२८ ॥ श्रीबीजाद्या महाविद्या सदा लक्ष्मीप्रदायिनी । मायाद्या परमा विद्या सदा सिद्धिप्रदायिनी ॥ ३.२९ ॥ कूर्चबीजादिका चैषा शब्दराशिप्रकाशिनी । गगनाद्या महाविद्या निर्वाणमोक्षदायिनी ॥ ३.३० ॥ प्रासादाद्या महाविद्या शिवसायुज्यदायिनी । प्राणबीजादिका चैषा वाञ्छासिद्धिप्रदायिनी ॥ ३.३१ ॥ कालिकाद्या महाविद्या मुक्तिदा सिद्धिदा सदा । कालिकायाश्च ताराया आराधनमिहोच्यते ॥ ३.३२ ॥ प्रातरुत्थाय मन्त्रज्ञः सहस्रारे गुरुं यजेत् । षट्चक्रं भेदयित्वा तु चाष्टोत्तरशतं जपेत् ॥ ३.३३ ॥ ततः प्रणम्य विधिवत्स्नानकर्म समारभेत् । अद्येत्यादि समुच्चार्य सौरमासं समुच्चरेत् ॥ ३.३४ ॥ देवताप्रीतये पश्चात्स्नापयेच्छुद्धवारिणा । ओंकारं च समुच्चार्य गङ्गे चेति समुच्चरेत् ॥ ३.३५ ॥ यमुनेति ततः पश्चाद्गोदावरि सरस्वति । नर्मदेति समुच्चार्य सिन्धुकावेरिसंयुतम् ॥ ३.३६ ॥ अस्मिन् जले च संनिधिं कुरु शब्दमथो वदेत् । आनयेदङ्कुशाख्येन रविसंयुक्तमण्डलात् ॥ ३.३७ ॥ मुद्राचतुष्टयं देवि दर्शयेद्बहुयत्नतः । रुद्रसंख्यं जपेन्मन्त्रमाच्छाद्य मीनमुद्रया ॥ ३.३८ ॥ सूर्यायाभिमुखं तोयं निःक्षिप्य रविसंख्यया । मूलमन्त्रं समुच्चार्य क्षालयेच्चरणद्वयम् ॥ ३.३९ ॥ चरणान्निःसृते तोये त्रिर्निमज्य जपेन्मनुम् । मूलमन्त्रं त्रिर्जप्त्वा तु मुद्रया कुम्भसंज्ञया ॥ ३.४० ॥ जलादुत्थाय देवेशि तिलकं कुलवर्त्मतः । आत्मविद्याशिवैस्तत्त्वैराचामेत्पयसा ततः ॥ ३.४१ ॥ वह्निजायान्विता मन्त्रा विज्ञेयाः प्रणवादिकाः । गङ्गे चेत्यादिना देवि तीर्थमावाहनं चरेत् ॥ ३.४२ ॥ मूलेन दर्भया भूमौ त्रिवारं निक्षिपेत्सुधीः । तज्जलेन सप्तवारमात्माभिषेकमाचरेत् ॥ ३.४३ ॥ अङ्गन्यासं ततः कृत्वा वामहस्ते सुरेश्वरि । गगनं वायुबीजं च वरुणं भूमिबीजकम् ॥ ३.४४ ॥ वह्निबीजं बिन्दुयुक्तं त्रिवारं जपमाचरेत् । अनेन मनुना देवि तज्जलं चाभिमन्त्रितम् ॥ ३.४५ ॥ मूलमन्त्रं समुच्चार्य सप्तधा तत्त्वमुद्रया । अभिषेचनमात्रेण मुच्यते सर्वपातकैः ॥ ३.४६ ॥ शेषं जलं महेशानि दक्षहस्ते समानयेत् । इडया पूरयेत्तोयं क्षालयेद्देहमध्यगम् ॥ ३.४७ ॥ ततः पिङ्गलया देवि तत्तोयं तु विरेचयेत् । कृष्णवर्णं तदुदकं पापरूपं विचिन्तयेत् ॥ ३.४८ ॥ पुरतो वज्रपाषाणे फट्कारेण विनिक्षिपेत् । हस्तं प्रक्षाल्य चाचम्य प्राणायामपुरःसरम् ॥ ३.४९ ॥ तर्पयेत्कुलदेवं च सूर्यायार्घ्यं निवेदयेत् । देवतार्घ्यं ततः पश्चाद्गायत्रीं परमाक्षरीम् ॥ ३.५० ॥ प्रणवं च समुद्धृत्य कालिकायै ततो वदेत् । विद्महे इति संलिख्य श्मशानं च समुद्धरेत् ॥ ३.५१ ॥ वासिनीं ङेयुतां देवि धीमहीति ततो वदेत् । तन्नो घोरे महेशानि प्रजपेत्तु प्रचोदयात् ॥ ३.५२ ॥ गायत्रीं प्रपठेद्धीमान् त्रिवारं जलमुत्क्षिपेत् । ततो जपेन्महामन्त्रं गायत्रीं परमाक्षरीम् ॥ ३.५३ ॥ अङ्गन्यासं ततः कृत्वा आचम्य परमेश्वरि । इष्टदेवीं महेशानि ध्यात्वा तु परिमण्डले ॥ ३.५४ ॥ ओं तारायै विद्महे इति महोग्रायै ततो वदेत् । धीमहीति ततः पश्चात्ततो देवि प्रचोदयात् ॥ ३.५५ ॥ प्राणायामं ततः कृत्वा चाष्टोत्तरशतं जपेत् । सूत्राकारेण देवेशि पूजाविधिरिहोच्यते ॥ ३.५६ ॥ स्वस्तिवाचनसंकल्पं घटं संस्थाप्य यत्नतः । मन्त्रेणाचमनं कार्यं सामान्यार्घ्यं ततो न्यसेत् ॥ ३.५७ ॥ तज्जलैर्द्वारमभ्युक्ष्य द्वारपूजां समाचरेत् । त्रिविधं विघ्नमुत्सार्य भूतापसरणं ततः ॥ ३.५८ ॥ आसनं च समभ्यर्च्य गुरुदेवं नमेत्सुधीः । करशुद्धिं च तालं च त्रयं दिग्बन्धनं ततः ॥ ३.५९ ॥ वह्निना वेष्टनं कार्यं भूतशुद्धिमथाचरेत् । मातृकायाः षडङ्गं च कुर्यादान्तरमातृकाम् ॥ ३.६० ॥ मातृकाध्यानमुच्चार्य बाह्ये तु मातृकां न्यसेत् । पीठन्यासं ततः कृत्वा प्राणायामं समाचरेत् ॥ ३.६१ ॥ ऋष्यादिकं कराङ्गं च वर्णन्यासं समाचरेत् । षोढान्यासं ततो देवि व्यापकं तदनन्तरम् ॥ ३.६२ ॥ एवं समाहितमनास्तत्त्वन्यासं समाचरेत् । बीजन्यासं ततो देवि व्यापकं विन्यसेत्सुधीः ॥ ३.६३ ॥ मूलेन सप्तधा ध्यानं मानसैः पूजनं चरेत् । विशेषार्घ्यं पीठपूजां पुनर्ध्यानं सनेत्रकम् ॥ ३.६४ ॥ मुद्रादिदर्शनं कार्यमावाहनषडङ्गकम् । धेन्वादिकं ततः प्राण- प्रतिष्ठां मूलपूजनम् ॥ ३.६५ ॥ आज्ञाप्रार्थनमङ्गानि काल्यादीन् परिपूजयेत् । ब्राह्म्यादीनसिताङ्गादीन्महाकालं प्रपूजयेत् ॥ ३.६६ ॥ खड्गादीन् गुरुपङ्क्तिं च पुनर्देवीं प्रपूजयेत् । बलिदानं ततो होमं प्राणायामं ततो जपम् ॥ ३.६७ ॥ जपं समर्पयेद्धीमान् प्राणायामं ततश्चरेत् । एतस्मिन् समये देवि कारणादीन् समाहरेत् ॥ ३.६८ ॥ अर्घ्यं दत्त्वा महेशानि चात्मानं च समर्पयेत् । स्तुतिं च कवचं स्मृत्वा चाष्टाङ्गं प्रणमेत्सुधीः ॥ ३.६९ ॥ शिवोऽहमिति संचिन्त्य संहारेण विसर्जयेत् । ऐशान्यां मण्डलं कृत्वा चाण्डाल्युच्छिष्टपूर्विकाम् ॥ ३.७० ॥ अर्घ्यं संधार्य शिरसि चन्दनं तु ललाटके । नैवेद्यं किंचित्स्वीकृत्य विहरेच्च निजेच्छया ॥ ३.७१ ॥ संक्षेपपूजामथवा कुर्यान्मन्त्री समाहितः । आदौ ऋष्यादिकं न्यासं करशुद्धिस्ततः परम् ॥ ३.७२ ॥ अङ्गुलीव्यापकन्यासौ हृदादिन्यास एव च । तालत्रयं च दिग्बन्धः प्राणायामस्ततः परम् ॥ ३.७३ ॥ ध्यानं मानसयागं च अर्घ्यस्थापनमेव च । पीठपूजां पुनर्ध्यानं ततश्चावाहनं चरेत् ॥ ३.७४ ॥ जीवन्यासं ततः कृत्वा पूजयेत्परदेवताम् । अङ्गपूजां च काल्यादीन् ब्राह्म्यादींश्चाष्टभैरवान् ॥ ३.७५ ॥ महाकालं पूजयित्वा गुरुपङ्क्तिं यजेत्ततः । खड्गादीन् पूजयित्वा तु पुनर्देवीं प्रपूजयेत् ॥ ३.७६ ॥ प्राणायामं ततः कृत्वा पूजयेत्साधकाग्रणीः । देव्या हस्ते जपफलं समर्पणमथाचरेत् ॥ ३.७७ ॥ प्राणायामं ततः कृत्वा चाष्टाङ्गं प्रणमेत्सुधीः । स्तुतिं च कवचं स्मृत्वा विशेषार्घ्यं प्रदापयेत् ॥ ३.७८ ॥ आत्मसमर्पणं कृत्वा संहारेण विसर्जयेत् । ऐशान्यां मण्डलं कृत्वा चाण्डाल्युच्छिष्टपूर्विकाम् । नैवेद्यं किंचित्स्वीकृत्य विहरेच्च निजेच्छया ॥ ३.७९ ॥ टोडलतन्त्र, Cअतुर्थः पटलः देवी उवाच श्रुता पूजा कालिकायास्ताराया वद साम्प्रतम् । यस्याः प्रसङ्गमात्रेण वाचश्चित्तायते नृणाम् ॥ ४.१ ॥ ईश्वर उवाच शृणु चार्वङ्गि सुभगे तारायाः पूजनं महत् । मन्त्रेणाचमनं कृत्वा गुरुदेवं नमेत्ततः ॥ ४.२ ॥ जलं संशोध्य हस्तौ च पादौ च क्षालयेत्ततः । मन्त्रेणाचमनं कृत्वा ततः पीठं विचिन्तयेत् ॥ ४.३ ॥ शिखां बद्ध्वा ततो देवि त्रिविधं विघ्ननाशनम् । भूम्यासनं च संशोध्य वस्त्रे ग्रन्थिं विधाय च ॥ ४.४ ॥ कायवाक्शोधनं कृत्वा ततः पुष्पविशोधनम् । यन्त्रं कृत्वा साधकेन्द्रः सामान्यार्घ्यं च विन्यसेत् ॥ ४.५ ॥ द्वारपालांश्च संपूज्य पीठपूजां समारभेत् । पीठशक्तीश्च लक्ष्म्याद्यास्ततः पीठमनुं जपेत् ॥ ४.६ ॥ भूतशुद्धिं प्रवक्ष्यामि विशेषमिह यद्भवेत् । कूर्चयुक्तेन हंसेन पूरकेण सुरेश्वरि ॥ ४.७ ॥ कुण्डल्या सह चात्मानं चतुर्विंशतिबीजकम् । तत्र लीनानि देवेशि परमात्मनि साधकः ॥ ४.८ ॥ मायया संदहेत्पापं पुरुषं कज्जलप्रभम् । कुम्भकेन वरारोहे भस्म कुर्याद्विचक्षणः ॥ ४.९ ॥ वधूबीजेन देवेशि भस्मना सह रेचयेत् । पूरकेण तु कूर्चेन ललाटेऽमृतसंचयम् ॥ ४.१० ॥ चिन्तयेत्परमेशानि कुम्भकेनामृताम्बुधिम् । आं ह्रीं क्रों वह्निबीजान्तं हृदि चैकादशं जपेत् ॥ ४.११ ॥ ततस्तु चिन्तयेद्धीमानोंकाराद्रक्तपङ्कजम् । तस्योपरि पुनर्ध्यायेथुंकारं नीलसंनिभम् ॥ ४.१२ ॥ तस्योपरि पुनर्ध्यायेद्बीजभूषितकर्तृकाम् । तस्योपरि परं बिन्दुं शिवरूपं च अव्ययम् ॥ ४.१३ ॥ वालुकायाः सहस्रैक- भागं बिन्दुं सुदुर्लभम् । बिन्दुमध्ये मणिद्वीपं शतयोजनविस्तृतम् ॥ ४.१४ ॥ बिन्दुमध्ये परं ज्योतिर्बुद्बुदाकारमण्डलम् । यथैव बुद्बुदे देवि प्रतिबिम्बं प्रपश्यति ॥ ४.१५ ॥ तथा निरीक्षणं कार्यं प्रकुर्याज्ज्ञानचक्षुषा । मणिद्वीपं तु तन्मध्ये सुवर्णवालुकामयम् ॥ ४.१६ ॥ परितो भावयेन्मन्त्री परिखातो मनोहरम् । मध्ये कल्पद्रुमं ध्यायेदात्मानं तारिणीमयम् ॥ ४.१७ ॥ उद्यदादित्यसंकाशं ज्योतिर्मण्डलमुत्तमम् । चतुर्द्वारसमायुक्तं हेमप्राकारभूषितम् ॥ ४.१८ ॥ बहुचामरघण्टादि- देवकन्यासुशोभितम् । मन्दवायुसमायुक्तं गन्धधूपैरलंकृतम् ॥ ४.१९ ॥ तन्मध्ये वेदिकां ध्यायेन्नानारत्नोपशोभिताम् । सुवर्णसूत्ररचितं चिन्तयेच्छत्त्रमुत्तमम् ॥ ४.२० ॥ तदधश्चिन्तयेन्मन्त्री रत्नसिंहासनं प्रिये । तत्र देवीं चिन्तयेच्च यथोक्तध्यानयोगतः ॥ ४.२१ ॥ योगसारे यथोक्तैस्तु उपचारैः प्रपूजयेत् । प्राणायामं ततः कृत्वा ऋष्यादिन्यासमाचरेत् ॥ ४.२२ ॥ वर्णन्यासं ततः कृत्वा कराङ्गन्यासमाचरेत् । तालत्रयं छोटिकाभिर्दशदिग्बन्धनं चरेत् ॥ ४.२३ ॥ षोढान्यासं ततः कृत्वा व्यापकं तदनन्तरम् । विशेषार्घ्यं च संस्थाप्य पञ्चतत्त्वं विशोधयेत् ॥ ४.२४ ॥ सुधादेवीं समानीय पञ्चीकरणमाचरेत् । कुम्भे पुष्पं समादाय त्रिकोणे त्रिः प्रपूजयेत् ॥ ४.२५ ॥ वामदेहं त्रिधा चोक्त्वा खेचरीं दशधा जपेत् । तथा चानन्दगायत्रीमृचं च त्रिर्जपेत्सुधीः ॥ ४.२६ ॥ ब्रह्मशापं शुक्रशापं कृष्णशापं सुरेश्वरि । दिग्जपान्नाशयेद्धीमान् ततो मन्त्रत्रयं जपेत् ॥ ४.२७ ॥ छुरिकां चामृतं चैव प्रीतिसंरक्षणीं तथा । पावमानं च त्रिर्जप्त्वा शोषणादीन् समाचरेत् ॥ ४.२८ ॥ वारुणं त्रिर्जपेद्देवि चामृतं सप्तधा जपेत् । विद्यातत्त्वे धेनुमुद्रां प्रदर्श्य मूलमष्टधा ॥ ४.२९ ॥ कुण्डलिनीं समुत्थाप्य शिवोऽहं भावयेत्ततः । मांसं मीनं शोधयित्वा मुद्राशोधनमाचरेत् ॥ ४.३० ॥ शक्तिं च कुलपुष्पं च शोधयेत्साधकोत्तमः । देवान् पितॄनृषींश्चैव तर्पयेदिष्टदेवताम् ॥ ४.३१ ॥ शोधितं द्रव्यमादाय विशेषार्घ्ये विनिक्षिपेत् । ततो ब्रह्ममयं ध्यात्वा पूजाध्यानं समाचरेत् ॥ ४.३२ ॥ नासारन्ध्रात्समानीय पीठे पुष्पं निधाय च । ततश्चावाहनं कृत्वा पञ्चमुद्राः प्रदर्शयेत् ॥ ४.३३ ॥ षडङ्गेन च सम्पूज्य पुनर्मुद्रां प्रदर्शयेत् । जीवन्यासं ततः कृत्वा उपचारैः प्रपूजयेत् ॥ ४.३४ ॥ षडङ्गानि च सम्पूज्य अक्षोभ्यं पूजयेदधः । गुरुपङ्क्तिं पूजयित्वा दशमूलेषु पूजयेत् ॥ ४.३५ ॥ महापूर्वांश्च काल्यादीन् यजेद्वैरोचनादिकान् । पुनर्देवीं प्रपूज्याथ बलिं दद्याद्विचक्षणः ॥ ४.३६ ॥ प्राणायामं ततः कृत्वा मन्त्रध्यानं समाचरेत् । जपं कृत्वा महेशानि देव्या हस्ते समर्पयेत् ॥ ४.३७ ॥ प्राणायामं पुनः कृत्वा तत्त्वस्वीकारमाचरेत् । तस्मै दत्त्वा स्वयं नीत्वा प्रजपेत्साधकाग्रणीः ॥ ४.३८ ॥ पीत्वा पीत्वा जपित्वा च मुक्तः कोटिजनैः सह । प्रतिपात्रे जपेन्मन्त्रमष्टोत्तरशतं सुधीः ॥ ४.३९ ॥ स्तुतिं च कवचं स्मृत्वा चाष्टाङ्गं प्रणमेत्सुधीः । विशेषार्घ्यं प्रदातव्यमात्मानं च समर्पयेत् ॥ ४.४० ॥ रुद्ररूपी स्वयं भूत्वा संहारेण विसर्जयेत् । योनिमुद्रां ततो बद्ध्वा क्षमस्वेति विसर्जयेत् ॥ ४.४१ ॥ अङ्गन्यासं महेशानि प्राणायामं ततः परम् । ऐशान्यां मण्डलं कृत्वा निर्माल्येन प्रपूजयेत् ॥ ४.४२ ॥ निर्माल्यवासिनीं ङेऽन्तां चण्डेश्वर्यै नमो नमः । निर्माल्यं धारयेत्शीर्षे चन्दनं च ललाटके ॥ ४.४३ ॥ गुरुस्थाने लिखेद्यन्त्रं विचरेद्भैरवो यथा । संक्षेपपूजनं देवि मानसं तत्त्ववर्जितम् ॥ ४.४४ ॥ अत्रोक्तमाचरेदत्र नान्यत्संचारयेत्सुधीः । अन्यत्संचारणाद्देवि क्रुद्धा भवति तारिणी ॥ ४.४५ ॥ तत्त्वज्ञानं च मानं च शक्तिमात्रे हि पार्वति । इत्येतत्कथितं देवि किमन्यत्श्रोतुमिच्छसि ॥ ४.४६ ॥ टोडलतन्त्र, ড়ञ्चमः पटलः श्रीदेवी उवाच त्वत्प्रसादान्महादेव पवित्राहं न चान्यथा । शम्भुनाथार्चनं देव श्रोतुमिच्छामि साम्प्रतम् ॥ ५.१ ॥ शिव उवाच शृणु पार्वति वक्ष्यामि यन्मां त्वं परिपृच्छसि । नकुलीशं समुद्धृत्य मनुस्वरविभूषितम् ॥ ५.२ ॥ बिन्दुनादकलायुक्तं प्रासादाख्यं महामनुम् । अस्य मन्त्रस्य माहात्म्यमूर्ध्वाम्नाये मयोदितम् ॥ ५.३ ॥ नमस्कारं समुद्धृत्य वान्तं नेत्रविभूषितम् । वारुणं मुखवृत्तं च वायुं ललाटसंयुतम् ॥ ५.४ ॥ अयं पञ्चाक्षरो मन्त्रः पञ्चाम्नायफलप्रदः । प्रणवादि यदा देवि तदा मन्त्रं षडक्षरम् ॥ ५.५ ॥ प्रासादाख्यं समुद्धृत्य अर्धनारीश्वराय च । पुनः प्रासादमुद्धृत्य मन्त्रं परमगोपनम् ॥ ५.६ ॥ एवं बहुविधाकारं विग्रहं मे नगात्मजे । कण्ठे तु गरलं देवि न कलौ भावयेत्क्वचित् ॥ ५.७ ॥ यदीच्छेदात्मनो मृत्युं यदि उन्मत्तमिच्छति । तदैव सहसा देवि नीलकण्ठमुपासते ॥ ५.८ ॥ दुरदृष्टवशाद्देवि नीलकण्ठस्तवादिकम् । करोति कारयेद्वापि मम हत्यां करोति सः ॥ ५.९ ॥ अत एव महेशानि स पापिष्ठो न चान्यथा । निषिद्धाचरणं पापं करोति यदि पामरः ॥ ५.१० ॥ पुत्रदाराधनं तस्य नाशमेति न संशयः । कण्ठे तु गरलं देवि यदि पूजापरो भवेत् ॥ ५.११ ॥ इहलोके दरिद्रः स्यान्मृते शूकरतां व्रजेत् । नीलकण्ठस्य यन्मन्त्रं यदि कुर्यात्पुरस्क्रियाम् ॥ ५.१२ ॥ पक्षान्तरे महेशानि तस्य मृत्युर्न चान्यथा । शृणु देवि प्रवक्ष्यामि पार्थिवं शिवपूजनम् ॥ ५.१३ ॥ तत्रादौ परमेशानि गुरुदेवं नमेत्सुधीः । ओं हराय नमस्कारं मृत्तिकामाहरेत्सुधीः ॥ ५.१४ ॥ महेश्वराय नमस्कारं लिङ्गं निर्माय यत्नतः । शूलपाणे इहोच्चार्य सुसंप्रतिष्ठितो भव ॥ ५.१५ ॥ अनेन मनुना देवि जीवन्यासो विधीयते । शकारं बिन्दुसंयुक्तं दीर्घमुक्तं षडङ्गकम् ॥ ५.१६ ॥ तस्य ध्यानं प्रवक्ष्यामि शृणुष्व सुसमाहिता । ओं ध्यायेन्नित्यं महेशं रजतगिरिनिभं चारुचन्द्रावतंसं रत्नाकल्पोज्ज्वलाङ्गं परशुमृगवराभीतिहस्तं प्रसन्नम् । पद्मासीनं समन्तात्स्तुतममरगणैर्व्याघ्रकृत्तिं वसानं विश्वाद्यं विश्वबीजं निखिलभयहरं पञ्चवक्त्रं त्रिनेत्रम् ॥ ५.१७ ॥ पुष्पं शिरसि संधार्य मानसैः पूजनं चरेत् । पुनर्ध्यात्वा महेशानि शिवे पुष्पं निधाय च ॥ ५.१८ ॥ पिनाकधृगिति चोच्चार्य इहागच्छ द्वयं वदेत् । इह तिष्ठ ततो द्वंद्वं संनिधेहि द्वयमिह ॥ ५.१९ ॥ इह सन्नि ततो रुद्ध- स्वशब्दं च ततो वदेत् । यावत्पूजां समुच्चार्य ततश्चैवं करोम्यहम् ॥ ५.२० ॥ स्नानीयं च पशुपतिं ङेयुक्तं च नमश्चरेत् । वेदाद्यं योजयेद्देवि ब्राह्मणः साधकोत्तमः ॥ ५.२१ ॥ एतत्पाद्यं महेशानि षडक्षरमनुं ततः । नमस्कारं समुच्चार्य सर्वं दद्याद्विचक्षणः ॥ ५.२२ ॥ पूजयित्वा महेशानि चाष्टमूर्तिं प्रपूजयेत् । शर्वो भवस्तथा रुद्र उग्रो भीमः पशोः पतिः ॥ ५.२३ ॥ महादेवं च ईशानं ङेयुतं कुरु यत्नतः । क्षितिं जलं तथा चाग्निं वायुं चाकाशमेव च ॥ ५.२४ ॥ यजमानं तथा सोमं सूर्यं च मूर्तिना सह । सर्वत्र ङेयुतं कृत्वा पूजयेत्साधकोत्तमः ॥ ५.२५ ॥ प्रणवादिनमोऽन्तेन वामावर्तेन पूजयेत् । मूर्तयोऽष्टौ शिवस्यैताः पूर्वादिक्रमयोगतः ॥ ५.२६ ॥ आग्नेय्यान्ताः प्रपूज्याथ विद्यां लिङ्गिशिवं यजेत् । अष्टोत्तरसहस्रं वा शतं वा प्रजपेत्ततः ॥ ५.२७ ॥ गुह्यातिगुह्यगोप्ता त्वं गृहाणास्मत्कृतं जपम् । सिद्धिर्भवतु मे देव त्वत्प्रसादान्महेश्वर ॥ ५.२८ ॥ ततस्तोयं समादाय जपं चैव समर्पयेत् । मुखवाद्यं ततः कृत्वा चाष्टाङ्गं प्रणमेत्सुधीः ॥ ५.२९ ॥ संहारेण महादेव क्षमस्वेति विसर्जयेत् । एवं पूजा प्रकर्तव्या शक्तिमन्त्रान् यजेद्यदि ॥ ५.३० ॥ प्रासादादीन्महामन्त्रान् यदि दीक्षापरो भवेत् । शक्तिदीक्षा न कर्तव्या कदाचिदपि मोहतः ॥ ५.३१ ॥ स शैव इति विख्यातः सर्वतन्त्रेश्वरो भवेत् । अथातः सम्प्रवक्ष्यामि सूत्रं परमगोपनम् ॥ ५.३२ ॥ हरो महेश्वरश्चैव शूलपाणिः पिनाकधृक् । पशुपतिः शिवश्चैव महादेव इति क्रमात् ॥ ५.३३ ॥ अष्टमूर्तिस्ततो देवि पूजयेत्साधकोत्तमः । ततो जपेन्महेशानि मुखवाद्यं ततः परम् ॥ ५.३४ ॥ एतदन्यन्न कर्तव्यं शक्तिदीक्षापरो यदि । निषिद्धाचरणाद्देवि पापभाग्जायते नरः ॥ ५.३५ ॥ न्यूनाधिकं महादेवि यदि पूजादिकं चरेत् । स गुरुं चापि शिष्यं च शिवहत्यां प्रयच्छति ॥ ५.३६ ॥ न्यूनाधिकं महेशानि यदि चैकाक्षरं भवेत् । वर्णसंख्या महेशानि ब्रह्महत्या भविष्यति ॥ ५.३७ ॥ अत एव स पापिष्ठः सत्यं सत्यं सुरेश्वरि । एवं पूजां विधायादौ ततश्चान्यं प्रपूजयेत् ॥ ५.३८ ॥ आदौ शिवं पूजयित्वा शक्तिपूजा ततः परम् । यत्किंचिदुपचारं हि तस्य किंचिन्निवेदयेत् ॥ ५.३९ ॥ अन्यथा मूत्रवत्सर्वं गङ्गातोयं भवेद्यदि । अत एव महेशानि आदौ लिङ्गं प्रपूजयेत् ॥ ५.४० ॥ शिवस्नानोदकं देवि मूर्ध्नि संधारयेद्यदि । सत्यं सत्यं महेशानि शिवतुल्यो न संशयः ॥ ५.४१ ॥ शिवरूपी स्वयं भूत्वा देवीपूजां समाचरेत् । शैववैष्णवदौर्गार्क- गाणपत्यैन्द्रदीक्षितः ॥ ५.४२ ॥ आदौ लिङ्गं पूजयित्वा यदि चान्यत्प्रपूजयेत् । तत्फलं कोटिगुणितं सत्यं सत्यं न संशयः ॥ ५.४३ ॥ अन्यदेवं पूजयित्वा शिवं पश्चाद्यजेद्यदि । तस्य पूजाफलं चैव भुज्यते यक्षराक्षसैः ॥ ५.४४ ॥ इति ते कथितं कान्ते तन्त्राणां सारमुत्तमम् । बहु किं कथ्यते देवि भूयः किं श्रोतुमिच्छसि ॥ ५.४५ ॥ टोडलतन्त्र, षष्ठः पटलः श्रीदेवी उवाच श्रुतं महाकालिकाया मन्त्रं परमगोपनम् । संक्षेपं कथितं नाथ वासनां वद मां प्रति ॥ ६.१ ॥ श्रीशिव उवाच शृणु देवि महामन्त्र- वासनां सर्वसिद्धिदाम् । यस्याः श्रवणमात्रेण मन्त्राः सिद्धा भवन्ति हि ॥ ६.२ ॥ ककारस्योर्ध्वकोणेषु प्राणो वायुः प्रतिष्ठितः । अपानो वायुकोणे च समानो मध्यदेशतः ॥ ६.३ ॥ उदानोऽङ्कुशकोणे च मात्रायां व्यान एव च । बीजं तु कालिकारूपं प्रकारं शृणु पार्वति ॥ ६.४ ॥ कलाभागे जटाजूटं केशं च परमेश्वरि । बिन्दुमस्तकभालं तु नासा नेत्रं च पार्वति ॥ ६.५ ॥ श्रोत्रयुग्मं तथा वक्त्रं स्कन्दनादव्यवस्थितम् । चतुर्बाहुं तथा देहं स्तनद्वंद्वं कटिद्वयम् ॥ ६.६ ॥ हृदयं जठरं पादं तथा सर्वाङ्गुलिः शिवे । ब्रह्मरूपं ककारं च सर्वाङ्गं तनुसंशयः ॥ ६.७ ॥ शकारं कामरूपं च योनिरूपं न चान्यथा । चन्द्रसूर्याग्निरूपं च रेफं परमदुर्लभम् ॥ ६.८ ॥ सर्वाङ्गद्योतनं तेजो जगदानन्दरूपकम् । बिन्दुनिर्वाणदं नादं महामोक्षप्रदं सदा ॥ ६.९ ॥ सर्वविघ्नहरं देवि ककारं तोयरूपकम् । सर्वपापहरं रेफं तस्माद्वह्निर्न चान्यथा ॥ ६.१० ॥ ईकारं परमेशानि शक्तिं चाव्ययरूपिणीम् । महामोक्षप्रदा देवी तस्मान्माया प्रकीर्तिता ॥ ६.११ ॥ ककारं ब्रह्मरूपं च मकारं विष्णुरूपकम् । रेफः संहाररूपत्वाच्छिवरूपो न चान्यथा ॥ ६.१२ ॥ ब्रह्मविष्णुशिवः साक्षात्ककारं परमेश्वरि । अनुच्चार्यं तदेव स्याद्विना मायायुतं शिवे ॥ ६.१३ ॥ मायायुक्तं यदा देवि तदा मुक्तिप्रदं महत् । अत एव महेशानि मायाशक्तिर्निगद्यते ॥ ६.१४ ॥ ककारं धर्मदं देवि ईकारश्चार्थदायकम् । रकारं कामदं कान्ते मकारं मोक्षदायकम् ॥ ६.१५ ॥ एकत्रोच्चारणाद्देवि निर्वाणमोक्षदायिनी । माहात्म्यं देवदेवेशि किं वक्तुं शक्यते मया ॥ ६.१६ ॥ जिह्वाकोटिसहस्रेण वक्त्रकोटिशतेन च । जन्मान्तरसहस्रेण वर्णितुं नैव शक्यते ॥ ६.१७ ॥ विधिवल्लक्षजापेन पुरश्चरणमुच्यते । एतद्रूपं महामायां कूर्चबीजं तु सुन्दरि ॥ ६.१८ ॥ वाग्भवं प्रणवं देवि एतद्रूपं न संशयः । अग्निजाया महाविद्या एतद्रूपं न संशयः ॥ ६.१९ ॥ द्रुतसिद्धिप्रदा विद्या वह्निजाया परा मनुः । सम्बोधनपदेनैव सदा संनिधिकारिणी ॥ ६.२० ॥ अथ वक्ष्ये महाविद्या- पुरश्चरणमुत्तमम् । कथितं मन्त्रराजस्य त्रिपुरश्चरणं शृणु ॥ ६.२१ ॥ दिवा लक्षं जपेन्मन्त्रं हविष्याशी जितेन्द्रियः । दिव्यवीरमते देवि रात्रौ लक्षं जपेत्सुधीः ॥ ६.२२ ॥ अथ षडक्षरस्यास्य शृणु देवि पुरस्क्रियाम् । दिव्यवीरमतेनैव विंशत्येकेन पार्वति ॥ ६.२३ ॥ तथा च त्र्यक्षरं मन्त्रं प्रजपेत्साधकाग्रणीः । ध्यानपूजादिकं सर्वं समानं वीरवन्दिते ॥ ६.२४ ॥ एतस्याः सदृशी विद्या फलदा नास्ति योगिनि । सर्वमन्त्रस्य चैतन्यं शृणु पार्वति सादरम् ॥ ६.२५ ॥ सहस्रारे महापद्मे बिन्दुरूपं परं शिवम् । कुण्डलिनीं समुत्थाप्य हंसेन मनुना सुधीः ॥ ६.२६ ॥ नासाग्रे या स्थिरा दृष्टिर्जायते परमेश्वरि । तदैव मन्त्रचैतन्यं कुण्डलीचक्रगं भवेत् ॥ ६.२७ ॥ सहस्रारे महापद्मे कुण्डल्या सहितं गुरुम् । भावयेत्सर्वमन्त्राणां चैतन्यं जायते प्रिये ॥ ६.२८ ॥ तदैव प्रजपेन्मन्त्रं सिद्धिदं नात्र संशयः । श्रीदेवी उवाच इदानीं तारिणीमन्त्र- वासनां वद शंकर । कालिका मोक्षदा नित्या तारिणी भववारिधौ ॥ ६.२९ ॥ श्रीशंकर उवाच कलाकेशं महेशानि बिन्दुमस्तकमीरितम् । नादं च वक्त्रं भालं च नासां नेत्रं च पार्वति ॥ ६.३० ॥ भुजचतुष्टयं देहं स्तनद्वंद्वं च वक्षसम् । मकारेण तु देवेशि पृष्ठं चैव कटिद्वयम् ॥ ६.३१ ॥ तकारेण योनिदेशं गुदं पादद्वयं तथा । सर्वाङ्गुलीर्नखं चैव भावयेत्साधकोत्तमः ॥ ६.३२ ॥ चन्द्रसूर्यात्मकं रेफं वह्निबीजं न चान्यथा । सर्वा नाड्यस्तथा ज्योती रोमं च भूषणादिकम् ॥ ६.३३ ॥ शकारं च महामाया शक्तिरूपप्रकाशिनी । मूर्धादिपादपर्यन्तं शक्तिबीजं सुदुर्लभम् ॥ ६.३४ ॥ अस्य मन्त्रस्य माहात्म्यं किं मया कथ्यतेऽधुना । अश्वमेधसहस्राणि वाजपेयशतानि च ॥ ६.३५ ॥ काश्यादितीर्थं देवेशि सार्धकोटिभुवात्मकम् । पूर्णां शस्येन देवेशि सप्तद्वीपां वसुंधराम् ॥ ६.३६ ॥ मेरुतुल्यसुवर्णं तु ब्राह्मणे वेदपारगे । सदक्षिणं व्रतं सर्वं चतुर्वेदसुविस्तरम् ॥ ६.३७ ॥ गां चैव भूमिसंस्थं च हस्त्यश्वं च तथैव च । बलिदानं महेशानि पितृयज्ञं तथैव च ॥ ६.३८ ॥ विहितं च महापुण्यं यदुक्तं शास्त्रवेदिभिः । सकृज्जपान्महेशानि कलां नार्हन्ति षोडशीम् ॥ ६.३९ ॥ एकोच्चारेण देवेशि किं पुनर्ब्रह्म केवलम् । सृष्टिस्थितिलयादीनां कर्तारो नात्र संशयः ॥ ६.४० ॥ सगुणं निर्गुणं साक्षात्निराकारं च मूर्तिमत् । वैखरीयं महाविद्या वर्णाश्रिता सुनिश्चला ॥ ६.४१ ॥ यतो निरक्षरं वस्तु अतस्तारा प्रकीर्तिता । ब्रह्मविद्यास्वरूपेयं भोगमोक्षफलप्रदा ॥ ६.४२ ॥ जन्मकोटिसहस्रेण वर्णितुं नैव शक्यते । पञ्चवक्त्रेण देवेशि किं मया कथ्यतेऽधुना ॥ ६.४३ ॥ एकाक्षरी महाविद्या त्रिषु लोकेषु पूजिता । एकाक्षरीविहीनो यो मन्त्रं गृह्णाति पार्वति ॥ ६.४४ ॥ कल्पकोटिसहस्रेण तस्य सिद्धिर्न जायते । सकारो विष्णुरूपश्च तकारश्च प्रजापतिः ॥ ६.४५ ॥ रेफः संहाररूपत्वाच्छिवः साक्षान्न संशयः । या चाद्या परमा विद्या सा माया परमा कला ॥ ६.४६ ॥ निराकारं परं ज्योतिर्बिन्दुं चाव्ययसंज्ञकम् । बिन्दुशब्देन शून्यं स्यात्तथा च गुणसूचकम् ॥ ६.४७ ॥ बिन्दुचक्रामृता देवि प्लवन्ती चार्धमात्रया । अर्धमात्राकृतिर्नादो व्यापको विश्वपालकः ॥ ६.४८ ॥ यथेयं वैखरी विद्या कूर्चविद्या तथैव च । माहात्म्यं चैव पूजायां भेदो नास्ति सुरेश्वरि ॥ ६.४९ ॥ सतारं च तथा बिन्दुं माया पञ्चाक्षरी परा । विभक्ते चाक्षरे चैव क्रियते मूर्तिकल्पना ॥ ६.५० ॥ सार्धपञ्चाक्षरी विद्या तारिणी मूर्तिमत्स्वयम् । तद्रूपं पक्षिरूपं हि वाग्भवश्च हरिप्रियाम् ॥ ६.५१ ॥ प्रणवं कामबीजं तु गगनश्च शिवं शिवे । अस्त्रबीजं तदेव स्याद्वह्निजायां सुरेश्वरि ॥ ६.५२ ॥ सम्बोधनपदेनैव सदा संनिधिकारिणी । पञ्चाक्षरेण देवेशि तारिणी कामरूपिणी ॥ ६.५३ ॥ तथा पञ्चाक्षरं पश्य ब्रह्मविष्णुशिवात्मकम् । शक्तिरूपं निराकारं तथा पञ्चाक्षरेण तु ॥ ६.५४ ॥ यथा पञ्चाक्षरी विद्या तथा विद्या षडक्षरी । तथैव षोडशी विद्या तथा विद्या च व्यक्षरी ॥ ६.५५ ॥ तथैवाष्टाक्षरी विद्या तथा नवाक्षरी परा । माहात्म्यं ध्यानपूजायां भेदो नास्ति सुरेश्वरि ॥ ६.५६ ॥ अतिस्नेहेन देवेशि किं मया न प्रकाशितम् । प्राणान्तेऽपि पशोरग्रे वैखरीं न प्रकाशयेत् ॥ ६.५७ ॥ टोडलतन्त्र, षप्तमः पटलः श्रीदेवी उवाच महायोगमयी देवी खेचरी परमा कला । योगज्ञानं विना सिद्धिर्नास्ति सत्यं सुरेश्वर ॥ ७.१ ॥ ब्रूहि मे देवदेवेश क्षुद्रब्रह्माण्डमध्यतः । किमाधारे स्थिता नाथ सप्तद्वीपा वसुंधरा ॥ ७.२ ॥ समुद्रसप्तकं नाथ किमाकारं प्रतिष्ठति । मूलाधारे महीचक्रे संस्थिता मानवादयः ॥ ७.३ ॥ क्षुद्ररूपा जनाः सर्वे किमाकारेण संस्थिताः । स्वकीयाङ्गुलिमानेन मारुतं कथय प्रभो ॥ ७.४ ॥ श्रीशिव उवाच मूलाधारे स्थिता देवि सप्तद्वीपा वसुंधरा । वलयाकाररूपेण समुद्राः सप्त संस्थिताः ॥ ७.५ ॥ जम्बुद्वीपं मध्यदेशे तद्बाह्ये लवणाम्बुधिः । शाकद्वीपं महेशानि तद्बाह्ये दधिसागरः ॥ ७.६ ॥ तद्बाह्ये शाल्मलीद्वीपं सागरो दुग्धतद्बहिः । तद्बाह्ये पाटलाद्वीपं तद्बाह्ये तु जलान्तकः ॥ ७.७ ॥ पृथिव्यां वर्तते देवि यद्रूपा मानवादयः । तेन रूपेण देवेशि मूलाधारे तु जन्तवः ॥ ७.८ ॥ षण्णवत्यङ्गुलं देवि मारुतं परिकीर्तितम् । मार्तण्डस्थितिमानं तु अधिकं परिकीर्तितम् ॥ ७.९ ॥ श्रीदेवी उवाच कियद्भुवं तु ब्रह्माण्डं वद भूतलवासिनः । अङ्गुल्येकेन किं मानं कथयस्व दयानिधे ॥ ७.१० ॥ श्रीशिव उवाच अङ्गुल्येकेन देवेशि सहस्राब्दं प्रजायते । षण्णवतिसहस्राब्दं भवेद्भूतलवासिनः ॥ ७.११ ॥ पादाङ्गुष्ठादिगुल्फान्तं प्रिये रन्ध्रसहस्रकम् । रन्ध्रं चन्द्रसहस्राब्दं गुल्फादिजानुसंधिषु ॥ ७.१२ ॥ जान्वादिगुदपर्यन्तं मानं विंशसहस्रकम् । मूलाधारादिलिङ्गान्तं चतुर्वर्षसहस्रकम् ॥ ७.१३ ॥ लिङ्गादिनाभिपर्यन्तं भवेदृषिसहस्रकम् । नाभ्यादिहृदयान्तं च ग्रहसंख्यसहस्रकम् ॥ ७.१४ ॥ हृदादिकण्ठपर्यन्तमृषिसंख्यसहस्रकम् । विशुद्धादिकमाज्ञान्तं मानं रुद्रसहस्रकम् ॥ ७.१५ ॥ आज्ञाचक्राच्छिवान्तं वै दिक्सहस्रं सुरेश्वरि । सूर्यसंख्यासहस्रं तु समीरश्चाधिकः स्मृतः ॥ ७.१६ ॥ शरीरसहकारेण हासो वृद्धिश्च जायते । षड्गुणो रतिकाले च त्रिगुणो भोजनाद्बहिः ॥ ७.१७ ॥ धमने चाष्टधा प्रोक्तः समीरो वृद्धितां गतः । सद्गुरोरुपदेशेन मन्त्रमार्गेण पार्वति ॥ ७.१८ ॥ यदि चैकाङ्गुलं ह्रस्वं सहस्राब्दं स जीवति । एवं क्रमेण देवेशि समता यदि वा भवेत् ॥ ७.१९ ॥ जित्वा मृत्युं महेशानि शम्भुवद्विहरेत्क्षितौ । अत एव महेशानि योनिमुद्रा मयोदिता ॥ ७.२० ॥ प्राणायामेन देवेशि तथैव योनिमुद्रया । तथैवाभ्यासयोगेन यदि वायुः समो भवेत् ॥ ७.२१ ॥ जित्वा मृत्युं महेशानि खेचरो जायतेऽचिरात् । प्रमाणं कथितं सर्वं मनुष्यस्य प्रियंवदे ॥ ७.२२ ॥ श्वासोच्छ्वासविकासेन कुण्डली गगनं चरेत् । श्रीदेवी उवाच इदानीं पृथिवीमानं वद मे परमेश्वर ॥ ७.२३ ॥ सप्तस्वर्गस्थितो यो यो या या शक्तिः स्थिता सदा । तत्सर्वं श्रोतुमिच्छामि यदि स्नेहोऽस्ति मां प्रति ॥ ७.२४ ॥ श्रीशिव उवाच मूलाधारे महीचक्रे संस्थिता मानवादयः । तेषां मानेन देवेशि चार्धं चैव द्विसप्ततिः ॥ ७.२५ ॥ द्विगुणः परमेशानि तद्बाह्ये लवणाम्बुधिः । एवं क्रमेण देवेशि द्विगुणं परिकीर्तितम् ॥ ७.२६ ॥ डाकिनीसहितो ब्रह्मा मूलाधारे तु सुन्दरि । राकिणीसहितो विष्णुः स्वाधिष्ठाने व्यवस्थितः ॥ ७.२७ ॥ लाकिनीसहितो रुद्रो मणिपूरे सुरेश्वरि । अनाहते महापद्मे काकिनीसहितो हरः ॥ ७.२८ ॥ विशुद्धाख्ये वसेन्नित्या साकिनी च सदाशिवः । हाकिनी परशिवो देवश्चाज्ञाचक्रे सुरेश्वरि ॥ ७.२९ ॥ सहस्रारे महापद्मे विश्वरूपः परः शिवः । महाकुण्डलिनी तत्र स्थिता नित्या सुरेश्वरि ॥ ७.३० ॥ श्रीदेवी उवाच कुत्र मूले महापीठे वर्तते परमेश्वर । मूलाधारादधोभागे पातालं कीदृशं प्रभो ॥ ७.३१ ॥ श्रीशिव उवाच मूलाधारे कामरूपं हृदि जालंधरं प्रिये । पूर्णगिरिमधोभागे उड्डीयानं तदूर्ध्वके ॥ ७.३२ ॥ वाराणसी भ्रुवोर्मध्ये ज्वलन्ती लोचनत्रये । मायावती मुखवृत्ते कण्ठे चाष्टपुरी तथा ॥ ७.३३ ॥ नाभिमूले महेशानि अयोध्यापुरी संस्थिता । काञ्चीपीठं कटीदेशे श्रीहृट्टं पृष्ठदेशके ॥ ७.३४ ॥ मूलाधारात्शतं चैव अतलं परिकीर्तितम् । सुतलं च वर्षशतं तलातलशतं प्रिये ॥ ७.३५ ॥ ऋषिबाणेन्दुवर्षान्तं संस्थितं च महातलम् । शतद्वयान्तं पातालं द्विशतं वै रसातलम् ॥ ७.३६ ॥ मूलाधाराच्च देवेशि द्वेऽङ्गुली चान्तिके स्थिते । तयोर्मध्ये च पातालास्तिष्ठन्ति परमेश्वरि ॥ ७.३७ ॥ इति ते कथितं कान्ते योगसारं समासतः । न वक्तव्यं पशोरग्रे प्राणान्तेऽपि कदाचन ॥ ७.३८ ॥ टोडलतन्त्र, आष्टमः पटलः श्रीदेवी उवाच सार्धत्रिकोटिनाडीनामालयं च कलेवरम् । क्रमेण श्रोतुमिच्छामि तद्वदस्व मयि प्रभो ॥ ८.१ ॥ श्रीशिव उवाच लोम्नि कूपे सपादार्ध- कोटयश्चैव सुन्दरि । हस्तास्ये च तदा पादेऽग्निलक्षनाडयः स्थिताः ॥ ८.२ ॥ उदरे च तथा पायौ पञ्चलक्षाः प्रकीर्तिताः । हृदादिसर्वगात्रेषु नवलक्षाः प्रकीर्तिताः ॥ ८.३ ॥ अथ पार्श्वे तथा चर्मे तथैव सर्वसंधिषु । रुद्रान्न्यूनं स्थितं लक्षं शरीरे नाडयः प्रिये ॥ ८.४ ॥ इडा च पिङ्गला चैव सुषुम्ना चित्रिणी तथा । ब्रह्मनाडी च तन्मध्ये पञ्चनाड्यः प्रकीर्तिताः ॥ ८.५ ॥ कुहूश्च शङ्खिनी चैव गान्धारी हस्तिजिह्विका । नर्दिनी च तथा निद्रा रुद्रसंख्या व्यवस्थिता ॥ ८.६ ॥ एता नाड्यः परेशानि सुषुम्नायाः प्रजायते । श्रीदेवी उवाच वेदाक्षिवसुरन्ध्रास्तु बाणसंख्यजलान्तकाः । किमाधारे पद्ममध्ये संस्थिताः परमेश्वर ॥ ८.७ ॥ श्रीशिव उवाच योगपद्मस्य माहात्म्यं मया वक्तुं न शक्यते । मूलाधारे पद्ममध्ये लंबीजं चातिशोभनम् ॥ ८.८ ॥ लंबीजस्य बिन्दुमध्ये पृथ्वीचक्रं मनोहरम् । वलयाकाररूपेण समुद्राः सप्तकाः स्थिताः ॥ ८.९ ॥ श्रीदेवी उवाच बिन्दुमानं महादेव कथयस्व मयि प्रभो । क्रमेण योगपद्मस्य प्रमाणं वद शंकर ॥ ८.१० ॥ श्रीशिव उवाच परमाणुत्रिभागैक- भागं बिन्दुं सुविस्तरम् । तन्मध्ये सागराः सर्वे सप्तद्वीपा वसुंधरा ॥ ८.११ ॥ अव्ययं परमं सूक्ष्मं बिन्दुरूपं परं शिवम् । प्रमाणं चास्य देवस्य किं वक्तुं शक्यते मया ॥ ८.१२ ॥ ब्रह्मलोकं परेशानि नादोपरि विचिन्तयेत् । डाकिनीसहितो ब्रह्मा तथैव निवसेत्सदा ॥ ८.१३ ॥ लकारं पार्थिवं बीजं शक्तिरूपं सुरेश्वरि । पृथ्वीचक्रस्य मध्ये तु स्वयम्भूलिङ्गमद्भुतम् ॥ ८.१४ ॥ सार्धत्रिवलयाकार- कुण्डल्या वेष्टितं सदा । लिङ्गच्छिद्रं स्ववक्त्रेण कुण्डल्याच्छाद्य संस्थिता ॥ ८.१५ ॥ तेनैव वर्तते वायुरिडापिङ्गलयोः सदा । सहस्रारदर्शनाय सदा जाग्रत्स्वरूपिणी ॥ ८.१६ ॥ यदैव ब्रह्ममार्गेण सहस्रारे समुत्थिता । तदैव परमेशानि श्वासोच्छ्वासविकाशनम् ॥ ८.१७ ॥ केसरस्य तु मध्ये च चतुःपत्त्रे सुरेश्वरि । अनन्तरूपिणी दुर्गा शम्भुश्चानन्तरूपधृक् ॥ ८.१८ ॥ नानासुखविलासेन सदा कामेन वर्तते । श्रीदेवी उवाच लिङ्गच्छिद्रं समाकृष्य संस्थिता कुण्डली कथम् ॥ ८.१९ ॥ कथयस्व सदानन्द सर्वज्ञस्त्वं सुरेश्वर । श्रीशिव उवाच लिङ्गमध्ये महत्तेजो वह्निरूपं च सुन्दरि ॥ ८.२० ॥ यत्किंचिद्वायुयोगेन ब्रह्माण्डो दह्यते यतः । अतः सा कुण्डली देवी मुखेनाच्छाद्य संस्थिता ॥ ८.२१ ॥ तेनैव पार्थिवे लिङ्गे बिन्दुशक्तिं नियोजयेत् । बिन्दुशक्तिं समुत्थाप्य लिङ्गपूजा प्रकीर्तिता ॥ ८.२२ ॥ टोडलतन्त्र, णवमः पटलः श्रीदेवी उवाच त्रिपुराया महामन्त्रं नित्यातन्त्रे श्रुतं मया । इदानीं श्रोतुमिच्छामि नवार्णस्य च वासनाम् ॥ ९.१ ॥ श्रीशिव उवाच भूमिश्चन्द्रः शिवो माया शक्तिः कृशानुसादनौ । अर्धचन्द्रश्च बिन्दुश्च नवार्णो मेरुरुच्यते ॥ ९.२ ॥ भूमिबीजजपादेव भूपतिर्जायतेऽचिरात् । चन्द्रबीजजपादेव महासौन्दर्यमाप्नुयात् ॥ ९.३ ॥ शिवबीजजपादेव शिववद्विहरेत्क्षितौ । एकत्रोच्चारणात्सत्यं चतुर्वर्गफलप्रदम् ॥ ९.४ ॥ श्रीदेवी उवाच यत्त्वया कथितं नाथ योगज्ञानादिकं लयम् । यावत्कामादि संदीप्यो भावयोगो न लभ्यते ॥ ९.५ ॥ ऊर्ध्वरेता महायोगी तदधः शक्तियोगतः । ब्रूहि मे जगतांनाथ कथं दीर्घायुषं भवेत् ॥ ९.६ ॥ श्रीशिव उवाच शृणु देवि प्रवक्ष्यामि येन दीर्घायुषं भवेत् । श्रुत्वा गोपय यत्नेन न प्रकाश्यं कदाचन ॥ ९.७ ॥ पूजयेत्कालिकां देवीं तारिणीं वाथ सुन्दरीम् । षोडशेनोपचारेण पञ्चतत्त्वेन पार्वति ॥ ९.८ ॥ दिनत्रयं पूजयित्वा षट्चक्रं चिन्तयेदथ । ततस्तु परमेशानि मालामन्त्रं समभ्यसेत् ॥ ९.९ ॥ षोडशी वा महापूर्वा पत्त्रे चाभ्यासमाचरेत् । चतुष्पत्त्रे चाष्टवारं षट्पत्त्रे द्वादशं जपेत् ॥ ९.१० ॥ दशपत्त्रे विंशतिं च द्वादशे वेदनेत्रकम् । षोडशे दशसंख्यं तु चतुर्वारं श्रुवोऽष्टकम् ॥ ९.११ ॥ कुम्भकेन जपेन्मन्त्रं मालाषट्के सुरेश्वरि । एवं क्रमेण देवेशि स्थिरमायुर्यदा भवेत् ॥ ९.१२ ॥ प्रजपेदक्षमालायां येन मृत्युंजयो भवेत् । श्रीदेवी उवाच मूलचक्राच्छिरोऽन्ता च सुषुम्ना परिकीर्तिता । तद्गर्भस्था च या शक्तिः सा देवी कुण्डरूपिका ॥ ९.१३ ॥ सदा कुण्डलिनी देवी पञ्चाशद्वर्णभूषिता । मालारूपा कथं देव इति मे संशयो हृदि ॥ ९.१४ ॥ श्रीशिव उवाच सहस्रारे महापद्मे बीजकोशे शिवालये । हंसेन वायुयोगेन पूरकेण समानयेत् ॥ ९.१५ ॥ सहस्रारं तु सम्प्राप्य शिवं दृष्ट्वा तु कामिनी । मालाकारेण तल्लिङ्गं संवेष्ट्य कुण्डली सदा ॥ ९.१६ ॥ अकारादिलकारान्ता क्षकारं वक्त्रसंयुतम् । चरमार्णं सरन्ध्रं च निजपुच्छेन कामिनी ॥ ९.१७ ॥ भेदयित्वा स्वपुच्छेन नागपाशं तदूर्ध्वके । एतत्कारणं संव्याप्य संस्थिता कुण्डली यदा ॥ ९.१८ ॥ तदैव प्रजपेन्मन्त्रममरत्वं स विन्दति । रेचनात्कामिनी देवी प्रविशन्ती स्वकेतनम् ॥ ९.१९ ॥ न तत्र प्रजपेन्मन्त्रं जपान्मृत्युमवाप्नुयात् । रेचके छिन्नमालायां सत्यं हि सुरवन्दिते ॥ ९.२० ॥ छिन्ने सूत्रे भवेन्मृत्युः पुरैव कथितं मया । इति ते कथितं कान्ते यतो मृत्युंजयो भवेत् ॥ ९.२१ ॥ अथवा निजनासाग्रे दृष्टिमारोप्य यत्नतः । वायुं संधार्य यत्नेन एकोच्चारेण चोच्चरेत् ॥ ९.२२ ॥ मालामन्त्रं षोडशीं वा तथा चाष्टादशाक्षरीम् । सहस्रं प्रजपेन्मन्त्रं प्रत्यहं यदि पार्वति ॥ ९.२३ ॥ जित्वा मृत्युं जरां रोगं दीर्घकालं स जीवति । एतदन्यं महायोगं भोगार्थी नहि लभ्यते ॥ ९.२४ ॥ अथवा परमेशानि डामरोक्तविधानतः । यजेत्कात्यायनीं देवीं भूतपूर्वां प्रयत्नतः ॥ ९.२५ ॥ तदा पञ्चसहस्राब्दं निश्चितं तु स जीवति । इति ते कथितं सर्वं देहरक्षणकारणम् ॥ ९.२६ ॥ न भोगी भोगमाप्नोति योगी योगो न लभ्यते । एतत्तत्त्वेन देवेशि भोगो योगायते ध्रुवम् ॥ ९.२७ ॥ श्रीदेवी उवाच यन्मालायां जपेनैव किं फलं लभते नरः । पृथक्पृथङ्महादेव पत्त्रमालाफलं वद ॥ ९.२८ ॥ श्रीशिव उवाच भूमिकामी जपेन्मन्त्रं मूलाधारे चतुष्टये । स्वाधिष्ठाने जपादेव महेन्द्रो जायतेऽचिरात् ॥ ९.२९ ॥ मणिपूरे जपादेव भवेत्स्वर्गस्य भाजनम् । अनाहते महापद्मे जपाद्ब्रह्मपुरं व्रजेत् ॥ ९.३० ॥ विशुद्धाख्ये जपादेव विष्णुलोके वसेद्ध्रुवम् । आज्ञाचक्रे च जप्तव्ये श्वेतद्वीपे वसेत्सदा ॥ ९.३१ ॥ यन्माला परमेशानि बाह्यमाला प्रकीर्तिता । अन्तर्माला महामाला पञ्चाशद्वर्णरूपिणी ॥ ९.३२ ॥ माहात्म्यं तस्य देवेशि किं वक्तुं शक्यते मया । सहस्रारे स्थिरीभूय यदि चाष्टशतं जपेत् ॥ ९.३३ ॥ तत्फलात्कोटिभागैकं भागं चान्येन विद्यते । पृथिव्यामव्ययो देहो भवत्येव न संशयः ॥ ९.३४ ॥ यन्मालायां जपेन्मन्त्रमभ्यासार्थं हि पार्वति । इति ते कथितं देवि चिरजीवी यथा भवेत् ॥ ९.३५ ॥ इदानीं परमेशानि भूतकात्यायनीं शृणु । वेदाद्यं शब्दबीजं च महामायां ततः परम् ॥ ९.३६ ॥ अस्त्रयुग्मं वह्निजाया मनुः सप्ताक्षरः परः । श्रीशिवोऽस्य ऋषिः प्रोक्तो विराट्छन्द उदाहृतम् ॥ ९.३७ ॥ भूतकात्यायनी देवी धर्मार्थकामदा सदा । प्रणवेन षडङ्गं च प्राणायामं च सुन्दरि ॥ ९.३८ ॥ ध्यानमस्याः प्रवक्ष्यामि शृणु सुन्दरि सादरम् । गौरवर्णां मुक्तकेशीं सर्वाभरणभूषिताम् ॥ ९.३९ ॥ पट्टवस्त्रपरीधानां सदा घूर्णितलोचनाम् । वामपाणौ रक्तपूर्ण- खर्परं दक्षिणे करे ॥ ९.४० ॥ मद्यपूर्णस्वर्णपात्रां ग्रीवायां हारभूषिताम् । शरच्चन्द्रसमाभासां पादाङ्गुलिविराजिताम् ॥ ९.४१ ॥ एवं तां वरदां नित्यां भावयेत्सिद्धिहेतवे । सामान्यार्घ्यं ततो देवि स्ववामे विन्यसेत्ततः ॥ ९.४२ ॥ जीवन्यासादिकं कृत्वा पूजयेत्परमेश्वरीम् । षोडशेनोपचारेण पञ्चतत्त्वेन सुन्दरि ॥ ९.४३ ॥ यजेत्तां बहुयत्नेन गृहमध्ये दिनत्रयम् । ततो जपेन्महामन्त्रं गजान्तकसहस्रकम् ॥ ९.४४ ॥ ततश्च पूजयेद्देवीं शून्यागारे दिनत्रयम् । प्रत्यहं प्रजपेन्मन्त्रं गजान्तकसहस्रकम् ॥ ९.४५ ॥ एव कृते महेशानि यदि सिद्धिर्न जायते । ततश्च प्रजपेन्मन्त्रं पितृभूमौ दिनत्रयम् ॥ ९.४६ ॥ ततः सिद्धिर्भवेद्देवि सत्यं सत्यं हि सुप्रिये । तद्वाक्यं प्रार्थनावाक्यं डामराख्ये मयोदितम् ॥ ९.४७ ॥ टोडलतन्त्र, डशमः पटलः श्रीदेवी उवाच काकीचञ्चुं महामुद्रां कथयस्व दयानिधे । येन रूपेण देवेश देहासनपरो भवेत् ॥ १०.१ ॥ श्रीशिव उवाच अनाकुलेन देवेशि जिह्वां परमयत्नतः । तालुमूले न्यसेत्पश्चात्ततो वायुं पिबेत्शनैः ॥ १०.२ ॥ दन्तैर्दन्तान् समापीड्य काकीचञ्चुं समभ्यसेत् । बहुयोन्युक्तविधिना सर्वकर्माणि साधयेत् ॥ १०.३ ॥ अथातः सम्प्रवक्ष्यामि स्वल्पयोनिं शृणु प्रिये । गुदछिद्रे दक्षगुल्फं संधौ लिङ्गं विनिक्षिपेत् ॥ १०.४ ॥ नाभिरन्ध्रेऽथवा गुल्फं धारयेद्वामहस्तके । बहुयोन्युक्तविधिना चान्यत्सर्वं समापयेत् ॥ १०.५ ॥ मुद्रा चैतन्यतन्त्रे च माहात्म्यं कथितं मया । यथा हेमगिरिर्देवि यथा वेगवती नदी ॥ १०.६ ॥ चन्द्रादिकं यथा देवि चिरजीवी तथा भवेत् । श्रीदेवी उवाच दशावतारं देवेश ब्रूहि मे जगतां गुरो ॥ १०.७ ॥ इदानीं श्रोतुमिच्छामि कथयस्व सुविस्तरात् । का वा देवी कथंभूता वद मे परमेश्वर ॥ १०.८ ॥ श्रीशिव उवाच तारा देवी नीलरूपा वगला कूर्ममूर्तिका । धूमावती वराहं स्यात्छिन्नमस्ता नृसिंहिका ॥ १०.९ ॥ भुवनेश्वरी वामनः स्यान्मातंगी राममूर्तिका । त्रिपुरा जामदग्न्यः स्याद्बलभद्रस्तु भैरवी ॥ १०.१० ॥ महालक्ष्मीर्भवेत्बुद्धो दुर्गा स्यात्कल्किरूपिणी । स्वयं भगवती काली कृष्णमूर्तिः समुद्भवा ॥ १०.११ ॥ इति ते कथितं देव्यवतारं दशममेव हि । एतासां पूजनाद्देवि महादेवसमो भवेत् । आसां ध्यानादिकं सर्वं कथितं मे पुरा तव ॥ १०.१२ ॥