शिवोपनिषद् कैलासशिखरासीनमशेषामरपूजितम् । कालघ्नं श्रीमहाकालमीश्वरं ज्ञानपारगम् ॥ १.१ ॥ संपूज्य विधिवद्भक्त्या ऋष्यात्रेयः सुसंयतः । सर्वभूतहितार्थाय पप्रच्छेदं महामुनिः ॥ १.२ ॥ ज्ञानयोगं न विन्दन्ति ये नरा मन्दबुद्धयः । ते मुच्यन्ते कथं घोराद्भगवन् भवसागरात् ॥ १.३ ॥ एवं पृष्टः प्रसन्नात्मा ऋष्यात्रेयेण धीमता । मन्दबुद्धिविमुक्त्यर्थं महाकालः प्रभाषते ॥ १.४ ॥ महादेव उवाच पुरा रुद्रेण गदिताः शिवधर्माः सनातनाः । देव्याः सर्वगणानां च संक्षेपाद्ग्रन्थकोटिभिः ॥ १.५ ॥ आयुः प्रज्ञां तथा शक्तिं प्रसमीक्ष्य नॄणामिह । तापत्रयप्रपीडां च भोगतृष्णाविमोहिनीम् ॥ १.६ ॥ ते धर्माः स्कन्दनन्दिभ्यामन्यैश्च मुनिसत्तमैः । सारमादाय निर्दिष्टाः सम्यक्प्रकरणान्तरैः ॥ १.७ ॥ सारादपि महासारं शिवोपनिषदं परम् । अल्पग्रन्थं महार्थं च प्रवक्ष्यामि जगद्धितम् ॥ १.८ ॥ शिवः शिव इमे शान्त- नाम चाद्यं मुहुर्मुहुः । उच्चारयन्ति तद्भक्त्या ते शिवा नात्र संशयः ॥ १.९ ॥ अशिवाः पाशसंयुक्ताः पशवः सर्वचेतनाः । यस्माद्विलक्षणास्तेभ्यस्तस्मादीशः शिवः स्मृतः ॥ १.१० ॥ गुणो बुद्धिरहंकारस्तन्मात्राणीन्द्रियानि च । भूतानि च चतुर्विंशदिति पाशाः प्रकीर्तिताः ॥ १.११ ॥ पञ्चविंशकमज्ञानं सहजं सर्वदेहिनाम् । पाशाजालस्य तन्मूलं प्रकृतिः कारणाय नः ॥ १.१२ ॥ सत्यज्ञाने निबध्यन्ते पुरुषाः पाशबन्धनैः । मद्भावाच्च विमुच्यन्ते ज्ञानिनः पाशपञ्जरात् ॥ १.१३ ॥ षड्विंशकश्च पुरुषः पशुरज्ञः शिवागमे । सप्तविंश इति प्रोक्तः शिवः सर्वजगत्पतिः ॥ १.१४ ॥ यस्माच्छिवः सुसंपूर्णः सर्वज्ञः सर्वगः प्रभुः । तस्मात्स पाशहरितः स विशुद्धः स्वभावतः ॥ १.१५ ॥ पशुपाशपरः शान्तः परमज्ञानदेशिकः । शिवः शिवाय भूतानां तं विज्ञाय विमुच्यते ॥ १.१६ ॥ एतदेव परं ज्ञानं शिव इत्यक्षरद्वयम् । विचाराद्याति विस्तारं तैलबिन्दुरिवाम्भसि ॥ १.१७ ॥ सकृदुच्चारितं येन शिव इत्यक्षरद्वयम् । बद्धः परिकरस्तेन मोक्षोपगमनं प्रति ॥ १.१८ ॥ द्व्यक्षरः शिवमन्त्रोऽयं शिवोपनिषदि स्मृतः । एकाक्षरः पुनश्चायमोमित्येवं व्यवस्थितः ॥ १.१९ ॥ नामसंकीर्तणादेव शिवस्याशेषपातकैः । यतः प्रमुच्यते क्षिप्रं मन्त्रोऽयं द्व्यक्षरः परः ॥ १.२० ॥ यः शिवं शिवमित्येवं द्व्यक्षरं मन्त्रमभ्यसेत् । एकाक्षरं वा सततं स याति परमं पदम् ॥ १.२१ ॥ मित्रस्वजनबन्धूनां कुर्यान्नाम शिवात्मकम् । अपि तत्कीर्तनाद्याति पापमुक्तः शिवं पुरम् ॥ १.२२ ॥ विज्ञेयः स शिवः शान्तो नरस्तद्भावभावितः । आस्ते सदा निरुद्विग्नः स देहान्ते विमुच्यते ॥ १.२३ ॥ हृद्यन्तःकरणं ज्ञेयं शिवस्य आयतनं परम् । हृत्पद्मं वेदिका तत्र लिङ्गमोंकारमिष्यते ॥ १.२४ ॥ पुरुषः स्थापको ज्ञेयः सत्यं संमार्जनं स्मृतम् । अहिंसा गोमयं प्रोक्तं शान्तिश्च सलिलं परम् ॥ १.२५ ॥ कुर्यात्संमार्जनं प्राज्ञो वैराग्यं चन्दनं स्मृतम् । पूजयेद्ध्यानयोगेन संतोषैः कुसुमैः सितैः ॥ १.२६ ॥ धूपश्च गुग्गुलुर्देयः प्राणायामसमुद्भवः । प्रत्याहारश्च नैवेद्यमस्तेयं च प्रदक्षिणम् ॥ १.२७ ॥ इति दिव्योपचारैश्च संपूज्य परमं शिवम् । जपेद्ध्यायेच्च मुक्त्यर्थं सर्वसङ्गविवर्जितः ॥ १.२८ ॥ ज्ञानयोगविनिर्मुक्तः कर्मयोगसमावृत्तः । मृतः शिवपुरं गच्छेत्स तेन शिवकर्मणा ॥ १.२९ ॥ तत्र भुक्त्वा महाभोगान् प्रलये सर्वदेहिनाम् । शिवधर्माच्छिवज्ञानं प्राप्य मुक्तिमवाप्नुयात् ॥ १.३० ॥ ज्ञानयोगेन मुच्यन्ते देहपातादनन्तरम् । भोगान् भुक्त्वा च मुच्यन्ते प्रलये कर्मयोगिनः ॥ १.३१ ॥ तस्माज्ज्ञानविदो योगात्तथाज्ञाः कर्मयोगिनः । सर्व एव विमुच्यन्ते ये नराः शिवमाश्रिताः ॥ १.३२ ॥ स भोगः शिवविद्यार्थं येषां कर्मास्ति निर्मलम् । ते भोगान् प्राप्य मुच्यन्ते प्रलये शिवविद्यया ॥ १.३३ ॥ विद्या संकीर्तनीया हि येषां कर्म न विद्यते । ते चावर्त्य विमुच्यन्ते यावत्कर्म न तद्भवेत् ॥ १.३४ ॥ शिवज्ञानविदं तस्मात्पूजयेद्विभवैर्गुरुम् । विद्यादानं च कुर्वीत भोगमोक्षजिगीषया ॥ १.३५ ॥ शिवयोगी शिवज्ञानी शिवजापी तपोऽधिकः । क्रमशः कर्मयोगी च पञ्चैते मुक्तिभाजनाः ॥ १.३६ ॥ कर्मयोगस्य यन्मूलं तद्वक्ष्यामि समासतः । लिङ्गमायतनं चेति तत्र कर्म प्रवर्तते ॥ १.३७ ॥ ॥ इति शिवोपनिषदि मुक्तिनिर्देशाध्यायः प्रथमः ॥ अथ पूर्वस्थितो लिङ्गे गर्भः स त्रिगुणो भवेत् । गर्भाद्वापि विभागेन स्थाप्य लिङ्गं शिवालये ॥ २.१ ॥ यावल्लिङ्गस्य दैर्घ्यं स्यात्तावद्वेद्याश्च विस्तरः । लिङ्गतृतीयभागेन भवेद्वेद्याः समुच्छ्रयः ॥ २.२ ॥ भागमेकं न्यसेद्भूमौ द्वितीयं वेदिमध्यतः । तृतीयभागे पूजा स्वादिति लिङ्गं त्रिधा स्थितम् ॥ २.३ ॥ भूमिस्थं चतुरश्रं स्वादष्टाश्रं वेदिमध्यतः । पूजार्थं वर्तुलं कार्यं दैर्घ्यात्त्रिगुणविस्तरम् ॥ २.४ ॥ अधोभागे स्थितः स्कन्दः स्थिता देवी च मध्यतः । ऊर्ध्वं रुद्रः क्रमाद्वापि ब्रह्मविष्णुमहेश्वराः ॥ २.५ ॥ एत एव त्रयो लोका एत एव त्रयो गुणाः । एत एव त्रयो वेदा एतच्चान्यत्स्थितं त्रिधा ॥ २.६ ॥ नवहस्तः स्मृतो ज्येष्ठः षड्ढस्तश्चापि मध्यमः । विद्यात्कनीयस्त्रैहस्तं लिङ्गमानमिदं स्मृतम् ॥ २.७ ॥ गर्भस्यानतः प्रविस्तारस्तदूनश्च न शस्यते । गर्भस्यानतः प्रविस्ताराद्तदुपर्यपि संस्थितम् ॥ २.८ ॥ प्रासादं कल्पयेच्छ्रीमान् विभजेत त्रिधा पुनः । भाग एको भवेज्जङ्घा द्वौ भागौ मञ्जरी स्मृता ॥ २.९ ॥ मञ्जर्या अर्धभागस्थं शुकनासं प्रकल्पयेत् । गर्भादर्धेन विस्तारमायामं च सुशोभनम् ॥ २.१० ॥ गर्भाद्वापि त्रिभागेन शुकनासं प्रकल्पयेत् । गर्भादर्धेन विस्तीर्णा गर्भाच्च द्विगुणायता ॥ २.११ ॥ जङ्घाभिश्च भवेत्कार्या मञ्जर्यङ्गुलराशिना । प्रासादार्धेन विज्ञेयो मण्डपस्तस्य वामतः ॥ २.१२ ॥ मण्डपात्पादविस्तीर्णा जगती तावदुच्छ्रिता । प्रासादस्य प्रमाणेन जगत्या सार्धमङ्गणम् ॥ २.१३ ॥ प्राकारं तत्समन्ताच्च गुपुरादालभूषितम् । प्राकारान्तः स्थितं कार्यं वृषस्थानं समुच्छ्रितम् ॥ २.१४ ॥ नन्दीश्वरमहाकालौ द्वारशाखाव्यवस्थितौ । प्राकाराद्दक्षिणे कार्यं सर्वोपकरणान्वितम् ॥ २.१५ ॥ पञ्चभौमं त्रिभौमं वा योगीन्द्रावसथं महत् । प्राकारगुप्तं तत्कार्यं मैत्रस्थानसमन्वितम् ॥ २.१६ ॥ स्थानाद्दशसमायुक्तं भव्यवृक्षजलान्वितम् । तन्महानसमाग्नेय्यां पूर्वतः सत्त्रमण्डपम् ॥ २.१७ ॥ स्थानं चण्डेशमैशान्यां पुष्पारामं तथोत्तरम् । कोष्ठागारं च वायव्यां वारुण्यां वरुणालयम् ॥ २.१८ ॥ शमीन्धनकुशस्थानमायुधानां च नैरृतम् । सर्वलोकोपकाराय नगरस्थं प्रकल्पयेत् ॥ २.१९ ॥ श्रीमदायतनं शम्भोर्योगिनां विजने वने । शिवस्यायतने यावत्समेताः परमाणवः ॥ २.२० ॥ मन्वन्तराणि तावन्ति कर्तुर्भोगाः शिवे पुरे । महाप्रतिमलिङ्गानि महान्त्यायतनानि च ॥ २.२१ ॥ कृत्वाप्नोति महाभोगानन्ते मुक्तिं च शाश्वतीम् । लिङ्गप्रतिष्ठां कुर्वीत यदा तल्लक्षणं कृती ॥ २.२२ ॥ पञ्चगव्येन संशोध्य पूजयित्वाधिवासयेत् । पालाशोदुम्बराश्वत्थ- पृषदाज्यतिलैर्यवैः ॥ २.२३ ॥ अग्निकार्यं प्रकुर्वीत दद्यात्पूर्णाहुतित्रयम् । शिवस्याष्टशतं हुत्वा लिङ्गमूलं स्पृशेद्बुधः ॥ २.२४ ॥ एवं मध्येऽवसाने तन्मूर्तिमन्त्रैश्च मूर्तिषु । अष्टौ मूर्तीश्वराः कार्याः नवमः स्थापकः स्मृतः ॥ २.२५ ॥ प्रातः संस्थापयेल्लिङ्गं मन्त्रैस्तु नवभिः क्रमात् । महास्नापनपूजां च स्थाप्य लिङ्गं प्रपूजयेत् ॥ २.२६ ॥ गुरोर्मूर्तिधराणां च दद्यादुत्तमदक्षिणाम् । यतीनां च समस्तानां दद्यान्मध्यमदक्षिणाम् ॥ २.२७ ॥ दीनान्धकृपणेभ्यश्च सर्वासामुपकल्पयेत् । सर्वभक्ष्यान्नपानाद्यैरनिषिद्धं च भोजनम् ॥ २.२८ ॥ कल्पयेदागतानां च भूतेभ्यश्च बलिं हरेत् । रात्रौ मातृगणानां च बलिं दद्याद्विशेषतः ॥ २.२९ ॥ एवं यः स्थापयेल्लिङ्गं तस्य पुण्यफलं शृणु । कुलत्रिंशकमुद्धृत्य भृत्यैश्च परिवारितः ॥ २.३० ॥ कलत्रपुत्रमित्राद्यैः सहितः सर्वबान्धवैः । विमुच्य पापकलिलं शिवलोकं व्रजेन्नरः । तत्र भुक्त्वा महाभोगान् प्रलये मुक्तिमाप्नुयात् ॥ २.३१ ॥ ॥ इति शिवोपनिषदि लिङ्गायतनाध्यायो द्वितीयः ॥ अथान्यैरल्पवित्तैश्च नृपैश्च शिवभावितैः । शक्तितः स्वाश्रमे कार्यं शिवशान्तिगृहद्वयम् ॥ ३.१ ॥ गृहस्येशानदिग्भागे कार्यमुत्तरतोऽपि वा । खात्वा भूमिं समुद्धृत्य शल्यानाकोट्य यत्नतः ॥ ३.२ ॥ शिवदेवगृहं कार्यमष्टहस्तप्रमाणतः । दक्षिणोत्तरदिग्भागे किंचिच्दीर्घं प्रकल्पयेत् ॥ ३.३ ॥ हस्तमात्रप्रमाणं च दृढपट्टचतुष्टयम् । चतुष्कोणेषु संयोज्यमर्घ्यपात्रादिसंश्रयम् ॥ ३.४ ॥ गर्भमध्ये प्रकुर्वीत शिववेदिं सुशोभनाम् । उदगर्वाक्च्छ्रितां(?) किंचिच्चतुःशीर्षकसंयुताम् ॥ ३.५ ॥ त्रिहस्तायामविस्तारां षोडशाङ्गुलमुच्छ्रिताम् । तच्छीर्षाणीव हस्तार्धमायामाद्विस्तरेण च ॥ ३.६ ॥ शिवस्थण्डिलमित्येतच्चतुर्हस्तं समं शिरः । मूर्तिनैवेद्यदीपानां विन्यासार्थं प्रकल्पयेत् ॥ ३.७ ॥ शैवलिङ्गेन कार्यं स्यात्कार्यं मणिजपार्थिवैः । स्थण्डिलार्धे च कुर्वन्ति वेदिमन्यां सवर्तुलाम् ॥ ३.८ ॥ षोडशाङ्गुलमुत्सेधां विस्तीर्णां द्विगुणेन च । गृहे न स्थापयेच्छैलं लिङ्गं मणिजमर्चयेत् ॥ ३.९ ॥ त्रिसंध्यं पार्थिवं वापि कुर्यादन्यद्दिनेदिने । सर्वेषामेव वर्णानां स्फाटिकं सर्वकामदम् ॥ ३.१० ॥ सर्वदोषविनिर्मुक्तमन्यथा दोषमावहेत् । आयुष्मान् बलवाञ्श्रीमान् पुत्रवान् धनवान् सुखी ॥ ३.११ ॥ वरमिष्टं च लभते लिङ्गं पार्थिवमर्चयन् । तस्माद्धि पार्थिवं लिङ्गं ज्ञेयं सर्वार्थसाधकम् ॥ ३.१२ ॥ निर्दोषं सुलभं चैव पूजयेत्सततं बुधः । यथा यथा महालिङ्गं पूजा श्रद्धा यथा यथा ॥ ३.१३ ॥ तथा तथा महत्पुण्यं विज्ञेयमनुरूपतः । प्रतिमालिङ्गवेदीषु यावन्तः परमाणवः । तावत्कल्पान्महाभोगस्तत्कर्तास्ते शिवे पुरे ॥ ३.१४ ॥ ॥ इति शिवोपनिषदि शिवगृहाध्यायस्तृतीयः ॥ अथैकभिन्नाविच्छिन्नं पुरतः शान्तिमण्डपम् । पूर्वापराष्टहस्तं स्याद्द्वादशोत्तरदक्षिणे ॥ ४.१ ॥ तद्द्वारभित्तिसंबद्धं कपिच्छुकसमावृतम् । पटद्वयं भवेत्स्थाप्य स्रुवाद्यावारहेतुना ॥ ४.२ ॥ द्वारं त्रिशाखं विज्ञेयं नवत्यङ्गुलमुच्छ्रितम् । तदर्धेन च विस्तीर्णं सत्कवाटं शिवालये ॥ ४.३ ॥ दीर्घं पञ्चनवत्या च पञ्चशाखासुशोभितम् । सत्कवाटद्वयोपेतं श्रीमद्वाहनमण्टपम् ॥ ४.४ ॥ द्वारं पश्चान्मुखं ज्ञेयमशेषार्थप्रसाधकम् । अभावे प्राङ्मुखं कार्यमुदग्दक्षिणतो न च ॥ ४.५ ॥ गवाक्षकद्वयं कार्यमपिधानं सुशोभनम् । धूमनिर्गमनार्थाय दक्षिणोत्तरकुड्ययोः ॥ ४.६ ॥ आग्नेयभागात्परितः कार्या जालगवाक्षकाः । ऊर्ध्वस्तूपिकया युक्ता ईषच्छिद्रपिधानया ॥ ४.७ ॥ शिवाग्निहोत्रकुण्डं च वृत्तं हस्तप्रमाणतः । चतुरश्रवेदि(का) श्रीमन्मेखलात्रयभूषितम् ॥ ४.८ ॥ कुड्यं द्विहस्तविस्तीऋणं पञ्चहस्तसमुच्छ्रितम् । शिवाग्निहोत्रशरणं कर्तव्यमतिशोभनम् ॥ ४.९ ॥ जगतीस्तम्भपट्टाद्यं सप्तसंख्यं च कल्पयेत् । बन्धयोगविनिर्मुक्तं तुल्यस्थानपदान्तरम् ॥ ४.१० ॥ ऐष्टकं कल्पयेद्यत्नाच्छिवाग्न्यायतनं महत् । चतुःप्रेगीवकोपेतम्(?) एकप्रेगीवकेन वा(?) ॥ ४.११ ॥ सुधाप्रलिप्तं कर्तव्यं पञ्चाण्डकबिभूषितम् । शिवाग्निहोत्रशरणं चतुरण्डकसंयुतम् ॥ ४.१२ ॥ बहिस्तदेव जगती त्रिहस्ता वा सुकुट्टिमा । तावदेव च विस्तीर्णा मेखलादिविभूषिता ॥ ४.१३ ॥ कर्तव्या चात्र जगती तस्याश्चाधः समन्ततः । द्विहस्तमात्रविस्तीर्णा तदर्धार्धसमुच्छ्रिता ॥ ४.१४ ॥ अन्या वृत्ता प्रकर्तव्या रुद्रवेदी सुशोभना । दशहस्तप्रमाणा च चतुरङ्गुलमुच्छ्रिता ॥ ४.१५ ॥ रुद्रमातृगणानां च दिक्पतीनां च सर्वदा । सर्वाग्रपाकसंयुक्तं तासु नित्यबलिं हरेत् ॥ ४.१६ ॥ वेद्यन्या सर्वभूतानां बहिः कार्या द्विहस्तिका । वृषस्थानं च कर्तव्यं शिवालोकनसंमुखम् ॥ ४.१७ ॥ अग्रार्षसवितुर्व्योम वृषः कार्यश्च पश्चिमे । व्योम्नश्चाधस्त्रिगर्भं स्यात्पितृतर्पणवेदिका ॥ ४.१८ ॥ प्राकारान्तर्बहिः कार्यं श्रीमद्गोपुरभूषितम् । पुष्पारामजलोपेतं प्राकारान्तं च कारयेत् ॥ ४.१९ ॥ मृद्दारुजं तृणच्छन्नं प्रकुर्वीत शिवालयम् । भूमिकाद्वयविन्यासादुत्क्षिप्तं कल्पयेद्बुधः ॥ ४.२० ॥ शिवदक्षिणतः कार्यं तभुक्तेर्योग्यमालयम् । शय्यासनसमायुक्तं वास्तुविद्याविनिर्मितम् ॥ ४.२१ ॥ ध्वजसिंहौ वृषगजौ चत्वारः शोभनाः स्मृताः । धूमश्वगर्दभध्वाङ्क्षाश्चत्वारश्चार्थनाशकाः ॥ ४.२२ ॥ गृहस्यायामविस्तारं कृत्वा त्रिगुणमादितः । अष्टभिः शोधयेदापैः शेषश्च गृहमादिशेत् ॥ ४.२३ ॥ इति शान्तिगृहं कृत्वा रुद्राग्निं यः प्रवर्तयेत् । अप्येकं दिवसं भक्त्या तस्य पुण्यफलं शृणु ॥ ४.२४ ॥ कलत्रपुत्रमित्राद्यैः स भृत्यैः परिवारितः । कुलैकविंशदुत्तार्य देवलोकमवाप्नुयात् ॥ ४.२५ ॥ नीलोत्पलदलश्यामाः पीनवृत्तपयोधराः । हेमवर्णाः स्त्रियश्चान्याः सुन्दर्यः प्रियदर्शनाः ॥ ४.२६ ॥ ताभिः सार्धं महाभोगैर्विमानैः सार्वकामिकैः । इच्छया क्रीडते तावद्यावदाभूतसंप्लवम् ॥ ४.२७ ॥ ततः कल्पाग्निना सार्धं दह्यमानं सुविह्वलम् । दृष्ट्वा विरज्यते भूयो भवभोगमहार्णवात् ॥ ४.२८ ॥ ततः संपृच्छते रुद्रांस्तत्रस्थान् ज्ञानपारगान् । तेभ्यः प्राप्य शिवज्ञानं शान्तं निर्वाणमाप्नुयात् ॥ ४.२९ ॥ अविरक्तश्च भोगेभ्यः सप्त जन्मानि जायते । पृथिव्यधिपतिः श्रीमानिच्छया वा द्विजोत्तमः ॥ ४.३० ॥ सप्तमाज्जन्मनश्चान्ते शिवज्ञानमनाप्नुयात् । ज्ञानाद्विरक्तः संसाराच्छुद्धः खान्यधितिष्ठति ॥ ४.३१ ॥ इत्येतदखिलं कार्यं फलमुक्तं समासतः । उत्सवे च पुनर्ब्रूमः प्रत्येकं द्रव्यजं फलम् ॥ ४.३२ ॥ सद्गन्धगुटिकामेकां लाक्षां प्राण्यङ्गवर्जिताम् । कर्पासास्थिप्रमाणं च हुत्वाग्नौ शृणुयात्फलम् ॥ ४.३३ ॥ यावत्सत्गन्धगुटिका शिवाग्नौ संख्यया हुता । तावत्कोट्यस्तु वर्षाणि भोगान् भुङ्क्ते शिवे पुरे ॥ ४.३४ ॥ एकाङ्गुलप्रमाणेन हुत्वाग्नौ चन्दनाहुतिम् । वर्षकोटिद्वयं भोगैर्दिव्यैः शिवपुरे वसेत् ॥ ४.३५ ॥ यावत्केसरसंख्यानं कुसुमस्यानले हुतम् । तावद्युगसहस्राणि शिवलोके महीयते ॥ ४.३६ ॥ नागकेसरपुष्पं तु कुङ्कुमार्धेन कीर्तितम् । यत्फलं चन्दनस्योक्तमुशीरस्य तदर्धकम् ॥ ४.३७ ॥ यत्पुष्पधूपभष्यान्न- दधिक्षीरघृतादिभिः । पुण्यलिङ्गार्चने प्रोक्तं तद्धोमस्य दशाधिकम् ॥ ४.३८ ॥ हुत्वाग्नौ समिधस्तिस्रौ शिवोमास्कन्दनामभिः । पश्चाद्दद्यात्तिलान्नानि होमयीत यथाक्रमम् ॥ ४.३९ ॥ पलाशाअङ्कुरजारिष्ट- पालाल्यः(?) समिधः शुभाः । पृषदाज्यप्लुता हुत्वा शृणु यत्फलमाप्नुयात् ॥ ४.४० ॥ पलाशाङ्कुरसंख्यानां यावदग्नौ हुतं भवेत् । तावत्कल्पान्महाभोगैः शिवलोके महीयते ॥ ४.४१ ॥ तल्लक्ष्यमध्यसंभूतं हुत्वाग्नौ समिधः शुभाः । कल्पार्धसंमितं कालं भोगान् भुङ्क्ते शिवे पुरे ॥ ४.४२ ॥ शमीसमित्फलं देयमब्दानपि च लक्षकम् । शम्यर्धफलवच्छेषाः समिधः क्षीरवृक्षजाः ॥ ४.४३ ॥ तिलसंख्यांस्तिलान् हुत्वा ह्याज्याक्ता(?) यावती भवेत् । तावत्स वर्षलक्षांस्तु भोगान् भुङ्क्ते शिवे पुरे ॥ ४.४४ ॥ यावत्सुरौषधीरज्ञस्(?) तिलतुल्यफलं स्मृतम् । इतरेभ्यस्तिलेभ्यश्च कृष्णानां द्विगुणं फलम् ॥ ४.४५ ॥ लाजाक्षताः सगोधूमाः वर्षलक्षफलप्रदाः । दशसाहस्रिका ज्ञेयाः शेषाः स्युर्बीजजातयः ॥ ४.४६ ॥ पलाशेन्धनजे वह्नौ होमस्य द्विगुणं फलम् । क्षीरवृक्षसमृद्धेऽग्नौ फलं सार्धार्धिकं भवेत् ॥ ४.४७ ॥ असमिद्धे सधूमे च होमकर्म निरर्थकम् । अन्धश्च जायमानः स्याद्दारिद्र्योपहतस्तथा ॥ ४.४८ ॥ न च कण्टकिभिर्वृक्षैरग्निं प्रज्वाल्य होमयेत् । शुष्कैर्नवैः प्रशस्तैश्च काष्ठैरग्निं समिन्धयेत् ॥ ४.४९ ॥ एवमाज्याहुतिं हुत्वा शिवलोकमवाप्नुयात् । तत्र कल्पशतं भोगान् भुङ्क्ते दिव्यान् यथेप्सितान् ॥ ४.५० ॥ स्रुचैकाहितमात्रेण व्रतस्यापूरितेन च । याहुतिर्दीयते वह्नौ सा पूर्णाहुतिरुच्यते ॥ ४.५१ ॥ एकां पूर्णाहुतिं हुत्वा शिवेन शिवभावितः । सर्वकाममवाप्नोति शिवलोके व्यवस्थितः ॥ ४.५२ ॥ अशेषकुलजैर्सार्धं स भृत्यैः परिवारितः । आभूतसंप्लवं यावद्भोगान् भुङ्क्ते यथेप्सितान् ॥ ४.५३ ॥ ततश्च प्रलये प्राप्ते संप्राप्य ज्ञानमुत्तमम् । प्रसादादीश्वरस्यैव मुच्यते भवसागरात् ॥ ४.५४ ॥ शिवपूर्णाहुतिं वह्नौ पतन्तीं यः प्रपश्यति । सोऽपि पापरि नरः सर्वैर्मुक्तः शिवपुरं व्रजेत् ॥ ४.५५ ॥ शिवाग्निधूमसंस्पृष्टा जीवाः सर्वे चराचराः । तेऽपि पापविनिर्मुक्ताः स्वर्गं यान्ति न संशयः ॥ ४.५६ ॥ शिवयज्ञमहावेद्या जायते ये न सन्ति वा । तेऽपि यान्ति शिवस्थानं जीवाः स्थावरजङ्गमाः ॥ ४.५७ ॥ पूर्णाहुतिं घृताभावे क्षीरतैलेन कल्पयेत् । होमयेदतसीतैलं तिलतैलं विना नरः ॥ ४.५८ ॥ सर्षपेङ्गुडिकाशाम्र- करञ्जमधुकाक्षजम् । प्रियङ्गुबिल्वपैप्पल्य- नालिकेरसमुद्भवम्(?) ॥ ४.५९ ॥ इत्येवमादिकं तैलमाज्याभावे प्रकल्पयेत् । दूर्वया बिल्वपत्त्रैर्वा समिधः संप्रकीर्तिताः ॥ ४.६० ॥ अन्नार्थं होमयेत्क्षीरं दधि मूलफलानि वा । तिलार्थं तण्डुलैः कुर्याद्दर्भार्थं हरितैस्तृणैः ॥ ४.६१ ॥ परिधीनामभावेन शरैर्वंशैश्च कल्पयेत् । इन्धनानामभावेन दीपयेत्तृणगोमयैः ॥ ४.६२ ॥ गोमयानामभावेन महत्यम्भसि होमयेत् । अपामसंभवे होमं भूमिभागे मनोहरे ॥ ४.६३ ॥ विप्रस्य दक्षिणे पाणावश्वत्थे तदभावतः । छागस्य दक्षिणे कर्णे कुशमूले च होमयेत् ॥ ४.६४ ॥ स्वात्माग्नौ होमयेत्प्राज्ञः सर्वाग्नीनामसंभवे । अभावे न त्यजेत्कर्म कर्मयोगविधौ स्थितः ॥ ४.६५ ॥ आपत्कालेऽपि यः कुर्याच्छिवाग्नेर्मनसार्चनम् । स मोहकञ्चुकं त्यक्त्वा परां शान्तिमवाप्नुयात् ॥ ४.६६ ॥ प्राणाग्निहोत्रं कुर्वन्ति परमं शिवयोगिनः । बाह्यकर्मविनिर्मुक्ता ज्ञानध्यानसमाकुलाः ॥ ४.६७ ॥ ॥ इति शिवोपनिषदि शान्तिगृहाग्निकार्याध्यायश्चतुर्थः ॥ अथाग्नेयं महास्नानमलक्ष्मीमलनाशनम् । सर्वपापहरं दिव्यं तपः श्रीकीर्तिवर्धनम् ॥ ५.१॥ अग्निरूपेण रुद्रेण स्वतेजः परमं बलम् । भूतिरूपं समुद्गीर्णं विशुद्धं दुरितापहम् ॥ ५.२॥ यक्षरक्षःपिशाचानां ध्वंसनं मन्त्रसत्कृतम् । रक्षार्थं बालरूपाणां सूतिकानां गृहेषु च ॥ ५.३॥ यश्च भुङ्क्ते द्विजः कृत्वा अन्नस्य वा परिधित्रयम्(?) । अपि शूद्रस्य पङ्क्तिस्थः पङ्क्तिदोषैर्न लिप्यते ॥ ५.४॥ आहारमर्धभुक्तं च कीटकेशादिदूषितम् । तावन्मात्रं समुद्धृत्य भूतिस्पृष्टं विशुद्ध्यति ॥ ५.५॥ आरण्यं गोमयकृतं करीषं वा प्रशस्यते । शर्करापांसुनिर्मुक्तमभावे काष्ठभस्मना ॥ ५.६॥ स्वगृहाश्रमवल्लिभ्यः कुलालालयभस्मना । गोमयेषु च दग्धेषु हीष्टकानि च येषु च ॥ ५.७॥ सर्वत्र विद्यते भस्म दुःखापार्जनरक्षणम् (दुःखोपार्) । शङ्खकुन्देन्दुवर्णाभमादद्याज्जन्तुवर्जितम् ॥ ५.८॥ भस्मानीय प्रयत्नेन तद्रक्षेद्यत्नवांस्तथा । मार्जारमूषिकाद्यैश्च नोपहन्येत तद्यथा ॥ ५.९॥ पञ्चदोषविनिर्मुक्तं गुणपञ्चकसंयुतम् । शिवैकादशिकाजप्तं शिवभस्म प्रकीर्तितम् ॥ ५.१०॥ जातिकारुकवाक्काय- स्थानदुष्टं च पञ्चमम् । पापघ्नं शांकरं रक्षा- पवित्रं योगदं गुणाः(?) ॥ ५.११॥ शिवव्रतस्य शान्तस्य भासकत्वाच्छुभस्य च । भक्षणात्सर्वपापानां भस्मेति परिकीर्तितम् ॥ ५.१२॥ भस्मस्नानं शिवस्नानं वारुणादधिकं स्मृतम् । जन्तुशैवालनिर्मुक्तमाग्नेयं पङ्कवर्जितम् ॥ ५.१३॥ अपवित्रं भवेत्तोयं निशि पूर्वमनाहृतम् । नदीतडागवापिषु गिरिप्रस्रवणेषु च ॥ ५.१४॥ स्नानं साधारणं प्रोक्तं वारुणं सर्वदेहिनाम् । असाधारणमेवोक्तं भस्मस्नानं द्विजन्मनाम् ॥ ५.१५॥ त्रिकालं वारुणस्नानादनारोग्यं प्रजायते । आग्नेयं रोगशमनमेतस्माद्सार्वकामिकम् ॥ ५.१६॥ संध्यात्रयेऽर्धरात्रे च भुक्त्वा चान्नविरेचने । शिवयोग्याचरेत्स्नानमुच्चारादिक्रियासु च ॥ ५.१७॥ भस्मास्तृते महीभागे समे जन्तुविवर्जिते । ध्यायमानः शिवं योगी रजन्यन्तं शयीत च ॥ ५.१८ ॥ एकरात्रोषितस्यापि या गतिर्भस्मशायिनः । न सा शक्या गृहस्थेन प्राप्तुं यज्ञशतैरपि ॥ ५.१९ ॥ गृहस्थस्त्र्यायुषोंकारैः स्नानं कुर्यात्त्रिपुण्ड्रकैः । यतिः सार्वाङ्गिकं स्नानमापादतलमस्तकात् ॥ ५.२० ॥ शिवभक्तस्त्रिधा वेद्यां भस्मस्नानफलं लभेत् । हृदि मूर्ध्नि ललाटे च शूद्रः शिवगृहाश्रमी ॥ ५.२१ ॥ गणाः प्रव्रजिताः शान्ताः भूतिमालभ्य पञ्चधा । शिरोललाटे हृद्बाह्वोर्भस्मस्नानफलं लभेत् ॥ ५.२२ ॥ संवत्सरं तदर्धं वा चतुर्दश्यष्टमीषु च । यः कुर्याद्भस्मना स्नानं तस्य पुण्यफलं शृनु ॥ ५.२३ ॥ शिवभस्मनि यावन्तः समेताः परमाणवः । तावद्वर्षसहस्राणि शिवलोके महीयते ॥ ५.२४ ॥ एकविंशकुलोपेतः पत्नीपुत्रादिसंयुतः । मित्रस्वजनभृत्यैश्च समस्तैः परिवारितः ॥ ५.२५ ॥ तत्र भुक्त्वा महाभोगानिच्छया सार्वकामिकान् । ज्ञानयोगं समासाद्य प्रलये मुक्तिमाप्नुयात् ॥ ५.२६ ॥ भस्म भस्मान्तिकं येन गृहीतं नैष्ठिकव्रतम्(?) । अनेन वै स देहेन रुद्रश्चङ्क्रमते क्षितौ ॥ ५.२७ ॥ भस्मस्नानरतं शान्तं ये नमन्ति दिने दिने । ते सर्वपापनिर्मुक्ता नरा यान्ति शिवं पुरम् ॥ ५.२८ ॥ इत्येतत्परमं स्नानमाग्नेयं शिवनिर्मितम् । त्रिसंध्यमाचरेन्नित्यं जापी योगमवाप्नुयात् ॥ ५.२९ ॥ भस्मानीय प्रदद्याद्यः स्नानार्थं शिवयोगिने । कल्पं शिवपुरे भोगान् भुक्त्वान्ते स्याद्द्विजोत्तमः ॥ ५.३० ॥ आग्नेयं वारुणं मान्त्रं वायव्यं त्वैन्द्रपञ्चमम् । मानसं शान्तितोयं च ज्ञानस्नानं तथाष्टमम् ॥ ५.३१ ॥ आग्नेयं रुद्रमन्त्रेण भस्मस्नानमनुत्तमम् । अम्भसा वारुणं स्नानं कार्यं वारुणमूर्तिना ॥ ५.३२ ॥ मूर्धानं पाणिनालभ्य शिवैकादशिकां जपेत् । ध्यायमानः शिवं शान्तं मन्त्रस्नानं परं स्मृतम् ॥ ५.३३ ॥ गवां खुरपुटोत्खात- पवनोद्धूतरेणुना । कार्यं वायव्यकं स्नानं मन्त्रेण मरुदात्मना ॥ ५.३४ ॥ व्यभ्रेऽर्के वर्षति स्नानं कुर्यादैन्द्रीं दिशं स्थितः । आकाशमूर्तिमन्त्रेण तदैन्द्रमिति कीर्तितम् ॥ ५.३५ ॥ उदकं पाणिना गृह्य सर्वतीर्थानि संस्मरेत् । अभ्युक्षयेच्छिरस्तेन स्नानं मानसमुच्यते ॥ ५.३६ ॥ पृथिव्यां यानि तीर्थानि सरांस्यायतनानि च । तेषु स्नातस्य यत्पुण्यं तत्पुण्यं क्षान्तिवारिणा ॥ ५.३७ ॥ न तथा शुध्यते तीर्थैस्तपोभिर्वा महाध्वरैः । पुरुषः सर्वदानैश्च यथा क्षान्त्या विशुद्ध्यति ॥ ५.३८ ॥ आक्रुष्टस्ताडितस्तस्मादधिक्षिप्तस्तिरस्कृत । क्षमेदक्षममानानां स्वर्गमोक्षजिगीषया ॥ ५.३९ ॥ यैव ब्रह्मविदां प्राप्तिर्यैव प्राप्तिस्तपस्विनाम् । यैव योगाभियुक्तानां गतिः सैव क्षमावताम् ॥ ५.४० ॥ ज्ञानामलाम्भसा स्नातः सर्वदैव मुनिः शुचिः । निर्मलः सुविशुद्धश्च विज्ञेयः सूर्यरश्मिवत् ॥ ५.४१ ॥ मेध्यामेध्यरसं यद्वदपि वत्स विना करैः । नैव लिप्यति तद्दोषैस्तद्वज्ज्ञानी सुनिर्मलः ॥ ५.४२ ॥ एषामेकतमे स्नातः शुद्धभावः शिवं व्रजेत् । अशुद्धभावः स्नातोऽपि पूजयन्नाप्नुयात्फलम् ॥ ५.४३ ॥ जलं मन्त्रं दया दानं सत्यमिन्द्रियसंयमः । ज्ञानं भावात्मशुद्धिश्च शौचमष्टविधं श्रुतम् ॥ ५.४४ ॥ अङ्गुष्ठतलमूले च ब्राह्मं तीर्थमवस्थितम् । तेनाचम्य भवेच्छुद्धः शिवमन्त्रेण भावितः ॥ ५.४५ ॥ यदधः कन्यकायाश्च तत्तीर्थं दैवमुच्यते । तीर्थं प्रदेशिनीमूले पित्र्यं पितृविधोदयम्(?) ॥ ५.४६ ॥ मध्यमाङ्गुलिमध्येन तीर्थमारिषमुच्यते । करपुष्करमध्ये तु शिवतीर्थं प्रतिष्ठितम् ॥ ५.४७ ॥ वामपाणितले तीर्थमौमं नाम प्रकीर्तितम् । शिवोमातीर्थसंयोगात्कुर्यात्स्नानाभिषेचनम् ॥ ५.४८ ॥ देवान् दैवेन तीर्थेन तर्पयेदकृताम्भसा । उद्धृत्य दक्षिणं पाणिमुपवीती सदा बुधः ॥ ५.४९ ॥ प्राचीनावीतिना कार्यं पितॄणां तिलवारिणा । तर्पणं सर्वभूतानामारिषेण निवीतिना ॥ ५.५० ॥ सव्यस्कन्धे यदा सूत्रमुपवीत्युच्यते तदा । प्राचीनावीत्यसव्येन निवीती कण्ठसंस्थिते ॥ ५.५१ ॥ पितॄणां तर्पणं कृत्वा सूर्यायार्घ्यं प्रकल्पयेत् । उपस्थाय ततः सूर्यं यजेच्छिवमनन्तरम् ॥ ५.५२ ॥ ॥ इति शिवोपनिषदि शिवभस्मस्नानाध्यायः पञ्चमः ॥ अथ भक्त्या शिवं पूज्य नैवेद्यमुपकल्पयेत् । यदन्नमात्मनाश्नीयात्तस्याग्रे विनिवेदयेत् ॥ ६.१ ॥ यः कृत्वा भक्ष्यभोज्यानि यत्नेन विनिवेदयेत् । शिवाय स शिवे लोके कल्पकोटिं प्रमोदते ॥ ६.२ ॥ यः पक्वं श्रीफलं दद्याच्छिवाय विनिवेदयेत् । गुरोर्वा होमयेद्वापि तस्य पुण्यफलं शृणु ॥ ६.३ ॥ श्रीमद्भिः स महायानैर्भोगान् भुङ्क्ते शिवे पुरे । वर्षाणामयुतं साग्रं तदन्ते श्रीपतिर्भवेत् ॥ ६.४ ॥ कपित्थमेकं यः पक्वमीश्वराय निवेदयेत् । वर्षलक्षं महाभोगैः शिवलोके महीयते ॥ ६.५ ॥ एकमाम्रफलं पक्वं यः शम्भोर्विनिवेदयेत् । वर्षाणां युतं भोगैः क्रीडते स शिवे पुरे ॥ ६.६ ॥ एकं वटफलं पक्वं यः शिवाय निवेदयेत् । वर्षलक्षं महाभोगैः शिवलोके महीयते ॥ ६.७ ॥ यः पक्वं दाडिमं चैकं दद्याद्विकसितं नवम् । शिवाय गुरवे वापि तस्य पुण्यफलं शृणु ॥ ६.८ ॥ यावत्तद्बीजसंख्यानं शोभनं परिकीर्तितम् । तावदष्टायुतान्युच्चैः शिवलोके महीयते ॥ ६.९ ॥ द्राक्षाफलानि पक्वानि यः शिवाय निवेदयेत् । भक्त्या वा शिवयोगिभ्यस्तस्य पुण्यफलं शृणु ॥ ६.१० ॥ यावत्तत्फलसंख्यानमुभयोर्विनिवेदितम् । तावद्युगसहस्राणि रुद्रलोके महीयते ॥ ६.११ ॥ द्राक्षाफलेषु यत्पुण्यं तत्खर्जूरफलेषु च । तदेव राजवृक्षेषु पारावतफलेषु च ॥ ६.१२ ॥ यो नारङ्गफलं पक्वं विनिवेद्य महेश्वरे । अष्टलक्षं महाभोगैः कृडते स शिवे पुरे ॥ ६.१३ ॥ बीजपूरेषु तस्यार्धं तदर्धं लिकुचेषु च । जम्बूफलेषु यत्पुण्यं तत्पुण्यं तिन्दुकेषु च ॥ ६.१४ ॥ पनसं नारिकेलं वा शिवाय विनिवेदयेत् । वर्षलक्षं महाभोगैः शिवलोके महीयते ॥ ६.१५ ॥ पुरुषं च प्रियालं च मधूककुसुमानि च । जम्बूफलानि पक्वानि वैकङ्कतफलानि च ॥ ६.१६ ॥ निवेद्य भक्त्या शर्वाय प्रत्येकं तु फले फले । दशवर्षसहस्राणि रुद्रलोके महीयते ॥ ६.१७ ॥ क्षीरिकायाः फलं पक्वं यः शिवाय निवेदयेत् । वर्षलक्षं महाभोगैर्मोदते स शिवे पुरे ॥ ६.१८ ॥ वालुकात्रपुसादीनि यः फलानि निवेदयेत् । शिवाय गुरवे वापि पक्वं च करमर्दकम् ॥ ६.१९ ॥ दशवर्षसहस्राणि रुद्रलोके महीयते । बदराणि सुपक्वानि तिन्तिडीकफलानि च ॥ ६.२० ॥ दर्शनीयानि पक्वानि ह्यामलक्याः फलानि च । एवमादीनि चान्यानि शाकमूलफलानि च ॥ ६.२१ ॥ निवेदयति शर्वाय शृणु यत्फलमाप्नुयात् । एकैकस्मिन् फले भोगान् प्राप्नुयादनुपूर्वशः ॥ ६.२२ ॥ पञ्चवर्षसहस्राणि रुद्रलोके महीयते । गोधूमचन्दकाद्यानि सुकृतं सक्तुभर्जितम् ॥ ६.२३ ॥ निवेदयीत शर्वाय तस्य पुण्यफलं शृणु । यावत्तद्बीजसंख्यानं शुभं भ्रष्टं निवेदयेत् ॥ ६.२४ ॥ तावद्वर्षसहस्राणि रुद्रलोके महीयते । यः पक्वानीक्षुदण्डानि शिवाय विनिवेदयेत् ॥ ६.२५ ॥ गुरवे वापि तद्भक्त्या तस्य पुण्यफलं शृणु । इक्षुपर्णानि चैकैकं वर्षलोकं प्रमोदते ॥ ६.२६ ॥ साकं शिवपुरे भोगैः पौण्ड्रं पञ्चगुणं फलम् । निवेद्य परमेशाय शुक्तिमात्ररसस्य तु ॥ ६.२७ ॥ वर्षकोटिं महाभोगैः शिवलोके महीयते । निवेद्य फाणितं शुद्धं शिवाय गुरवेऽपि वा ॥ ६.२८ ॥ रसात्सहस्रगुणितं फलं प्राप्नोति मानवः । गुडस्य फलमेकं यः शिवाय विनिवेदयेत् ॥ ६.२९ ॥ अम्बकोटिं शिवे लोके महाभोगैः प्रमोदते । खण्डस्य पलनैवेद्यं गुडाच्छतगुणं फलम् ॥ ६.३० ॥ खण्डात्सहस्रगुणितं शर्कराया निवेदने । मत्सण्डिकां महाशुद्धां शंकराय निवेदयेत् ॥ ६.३१ ॥ कल्पकोटिं नरः साग्रं शिवलोके महीयते । परिशुद्धं भृष्टमाज्यं सिद्धं चैव सुसंस्कृतम् ॥ ६.३२ ॥ मासं निवेद्य शर्वाय शृणु यत्फलमाप्नुयात् । अशेषफलदानेन यत्पुण्यं परिकीर्तितम् ॥ ६.३३ ॥ तत्पुण्यं प्राप्नुयात्सर्वं महादाननिवेदने । पनसानि च दिव्यानि स्वादूनि सुरभीणि च ॥ ६.३४ ॥ निवेदयेत्तु शर्वाय तस्य पुण्यफलं शृणु । कल्पकोटिं नरः साग्रं शिवलोके व्यवस्थितः ॥ ६.३५ ॥ पिबन् शिवामृतं दिव्यं महाभोगैः प्रमोदते । दिने दिने च यस्त्वापं वस्त्रपूतं समाचरेत् ॥ ६.३६ ॥ सुखाय शिवभक्तेभ्यस्तस्य पुण्यफलं शृणु । महासरांसि यः कुर्याद्भवेत्पुण्यं शिवाग्रतः ॥ ६.३७ ॥ तत्पुण्यं सकलं प्राप्य शिवलोके महीयते । यदिष्टमात्मनः किंचिदन्नपानफलादिकम् ॥ ६.३८ ॥ तत्तच्छिवाय देयं स्यादुत्तमं भोगमिच्छता । न शिवः परिपूर्णत्वात्किंचिदश्नाति कस्यचित् ॥ ६.३९ ॥ किन्त्वीश्वरनिभं कृत्वा सर्वमात्मनि दीयते । न रोहति यथा बीजं स्वस्थमाश्रयवर्जितम् ॥ ६.४० ॥ पुण्यबीजं तथा सूक्ष्मं निष्फलं स्यान्निराश्रयम् । सुक्षेत्रेषु यथा बीजमुप्तं भवति सत्फलम् ॥ ६.४१ ॥ अल्पमप्यक्षयं तद्वत्पुण्यं शिवसमाश्रयात् । तस्मादीश्वरमुद्दिश्य यद्यदात्मनि रोचते ॥ ६.४२ ॥ तत्तदीश्वरभक्तेभ्यः प्रदातव्यं फलार्थिना । यः शिवाय गुरोर्वापि रचयेन्मणिभूमिकम् ॥ ६.४३ ॥ नैवेद्य भोजनार्थं यः पत्त्रैः पुष्पैश्च शोभनम् । यावत्तत्पत्त्रपुष्पाणां परिसंख्या विधीयते ॥ ६.४४ ॥ तावद्वर्षसहस्राणि सुरलोके महीयते । पलाशकदलीपद्म- पत्त्राणि च विशेषतः ॥ ६.४५ ॥ दत्त्वा शिवाय गुरवे शृणु यत्फलमाप्नुयात् । यावत्तत्पत्त्रसंख्यानमीश्वराय निवेदितम् ॥ ६.४६ ॥ तावदब्दायुतानां स लोके भोगानवाप्नुयात् । यावत्ताम्बुलपत्त्राणि पूगांश्च विनिवेदयेत् ॥ ६.४७ ॥ तावन्ति वर्षलक्षाणि शिवलोके महीयते । यच्छुद्धं शङ्खचूर्णं वा गुरवे विनिवेदयेत् ॥ ६.४८ ॥ ताम्बूलयोगसिद्ध्यर्थं तस्य पुण्यफलं शृणु । यावत्ताम्बूलपत्त्राणि चूर्णमानेन भक्षयेत् ॥ ६.४९ ॥ तावद्वर्षसहस्राणि रुद्रलोके महीयते । जातीफलं सकङ्कोलं लताकस्तूरिकोत्पलम् ॥ ६.५० ॥ इत्येतानि सुगन्धीनि फलानि विनिवेदयेत् । फले फले महाभोगैर्वर्षलक्षं तु यत्नतः ॥ ६.५१ ॥ कामिकेन विमानेन क्रीडते स शिवे पुरे । त्रुटिमात्रप्रमाणेन कर्पूरस्य शिवे गुरौ ॥ ६.५२ ॥ वर्षकोटिं महाभोगैः शिवलोके महीयते । पूगताम्बूलपत्त्राणामाधारं यो निवेदयेत् ॥ ६.५३ ॥ वर्षकोट्यष्टकं भोगैः शिवलोके महीयते । यश्चूएणाधारसत्पात्रं कस्यापि विनिवेदयेत् ॥ ६.५४ ॥ मोदते स शिवे लोके वर्षकोटीश्चतुर्दश । मृत्काष्ठवंशखण्डानि यः प्रदद्याच्छिवाश्रमे ॥ ६.५५ ॥ प्राप्नुयाद्विपुलान् भोगान् दिव्याञ्छिवपुरे नरः । माणिक्यं कलशं पात्रीं स्थाल्यादीन् भाण्डसंपुटान् ॥ ६.५६ ॥ दत्त्वा शिवाग्रजस्तेभ्यः शिवलोके महीयते । तोयाधारपिधानानि मृद्वस्त्रतरुजानि वा ॥ ६.५७ ॥ वंशालाबुसमुत्थानि दत्त्वाप्नोति शिवं पुरम् । पञ्चसंमार्जनीतोयं गोमयाञ्जनकर्पटान् ॥ ६.५८ ॥ मृत्कुम्भपीटिकां दद्याद्भोगाञ्छिवपुरे लभेत् । यः पुष्पधूपगन्धानां दधिक्षीरघृताम्भसाम् ॥ ६.५९ ॥ दद्यादाधारपात्राणि शिवलोके स गच्छति । वंशतालादिसंभूतं पुष्पाधारकरण्डकम् ॥ ६.६० ॥ इत्येवमाद्यान् यो दद्याच्छिवलोकमवाप्नुयात् । यः स्रुक्स्रुवादिपात्राणि होमार्थं विनिवेदयेत् ॥ ६.६१ ॥ वर्षकोटिं महाभागैः शिवलोके महीयते । यः सर्वधातुसंयुक्तं दद्याल्लवणपर्वतम् ॥ ६.६२ ॥ शिवाय गुरवे वापि तस्य पुण्यफलं शृणु । कल्पकोटिसहस्राणि कल्पकोटिशतानि च ॥ ६.६३ ॥ स गोत्रभृत्यसंयुक्तो वसेच्छिवपुरे नरः । विमानयानैः श्रीमद्भिः सर्वकामसमन्वितैः ॥ ६.६४ ॥ भोगान् भुक्त्वा तु विपुलांस्तदन्ते स महीपतिः । मनःशिलां हरीतालं राजपट्टं च हिङ्गुलम् ॥ ६.६५ ॥ गैरिकं मणिदन्तं च हेमतोयं तथाष्टमम् । यश्च तं पर्वतवरं शालितण्डुलकल्पितम् ॥ ६.६६ ॥ शिवायगुरवे वापि तस्य पुण्यफलं शृणु । कल्पकोटिशतं साग्रं भोगान् भुङ्क्ते शिवे पुरे ॥ ६.६७ ॥ यः सर्वधान्यशिखरैरुपेतं यवपर्वतम् । घृततैलनदीयुक्तं तस्य पुण्यफलं शृणु ॥ ६.६८ ॥ कल्पकोटिशतं साग्रं भोगान् भुङ्क्ते शिवे पुरे । समस्तकुलजैः सार्धं तस्यान्ते स महीपतिः ॥ ६.६९ ॥ तिलधेनुं प्रदद्याद्यः कृत्वा कृष्णाजिने नरः । कपिलायाः प्रदानस्य यत्फलं तदवाप्नुयात् ॥ ६.७० ॥ घृतधेनुं नरः कृत्वा कांस्यपात्रे सकाञ्चनान् । निवेद्य गोप्रदानस्य समग्रं फलमाप्नुयात् ॥ ६.७१ ॥ द्वीपिचर्मणि यः स्थाप्य प्रदद्याल्लवणाढकम् । अशेषरसदानस्य यत्पुण्यं तदवाप्नुयात् ॥ ६.७२ ॥ मरिचाढेन कुर्वीत(?) मारीचं नाम पर्वतम् । दद्याद्यज्जीरकं पूर्वमाग्नेयं हिङ्गुमुत्तमम् ॥ ६.७३ ॥ दक्षिणे गुडशुण्ठीं च नैरृते नागकेसरम् । पिप्पलीं पश्चिमे दद्याद्वायव्ये कृष्णजीरकम् ॥ ६.७४ ॥ कौबेर्यामजमोदं च त्वगेलाश्चेशदैवते । कुस्तुम्बर्याः प्रदेयाः स्युर्बहिः प्राकारतः स्थिताः ॥ ६.७५ ॥ ककुभामन्तरालेषु समन्तात्सैन्धवं न्यसेत् । सपुष्पाक्षततोयेन शिवाय विनिवेदयेत् ॥ ६.७६ ॥ यावत्तद्दीपसंख्यानं सर्वमेकत्र पर्वते । तावद्वर्षशतादूर्ध्वं भोगान् भुङ्क्ते शिवे पुरे ॥ ६.७७ ॥ कूश्माण्डं मध्यतः स्थाप्य कालिङ्गं पूर्वतो न्यसेत् । दक्षिणे क्षीरतुम्बीं तु वृन्ताकं पश्चिमे न्यसेत् ॥ ६.७८ ॥ पटीसान्युत्तरे स्थाप्य कर्कटीमीशदैवते । न्यसेद्गजपटोलांश्च मधुरान् वह्निदैवते ॥ ६.७९ ॥ कारवेल्लांश्च नैरृत्यां वायव्यां निम्बकं फलम् । उच्चावचानि चान्यानि फलानि स्थापयेद्बहिः ॥ ६.८० ॥ अभ्यर्च्य पुष्पधूपैश्च समन्तात्फलपर्वतम् । शिवाय गुरवे वापि प्रणिपत्य निवेदयेत् ॥ ६.८१ ॥ यावत्तत्फलसंख्यानं तद्दीपानां च मध्यतः । तावद्वर्षसहस्राणि रुद्रलोके महीयते ॥ ६.८२ ॥ मूलकं मध्यतः स्थाप्य तत्पूर्वे वालमूलकम् । आग्नेय्यां वास्तुकं स्थाप्य याम्यायां क्षारवास्तुकम् ॥ ६.८३ ॥ पालक्यं नैरृते स्थाप्य सुमुखं पश्चिमे न्यसेत् । कुहद्रकं च वायव्यामुत्तरे वापि तालिकीम् ॥ ६.८४ ॥ कुसुम्भशाकमैशान्यां सर्वशाकानि तद्बहिः । पूर्वक्रमेण विन्यस्य शिवाय विनिवेदयेत् ॥ ६.८५ ॥ यावत्तन्मूलनालानां पत्त्रसंख्या च कीर्तिता । तावद्वर्षसहस्राणि रुद्रलोके महीयते ॥ ६.८६ ॥ दत्त्वा लभेन्महाभोगान् गुग्गुल्वद्रेः पलद्वयम् । वर्षकोटिद्वयं स्वर्गे द्विगुणं गुडमिश्रितैः ॥ ६.८७ ॥ गुडार्द्रकं सलवणमाम्रमञ्जरिसंयुतम् । निवेद्य गुरवे भक्त्या सौभाग्यं परमं लभेत् ॥ ६.८८ ॥ हस्तारोप्येण वा कृत्वा महारत्नान्वितां महीम् । निवेदयित्वा शर्वाय शिवतुल्यः प्रजायते ॥ ६.८९ ॥ वज्रेन्द्रनीलवैडूर्य- पद्मरागं समौक्तिकम् । कीटपक्षं सुवर्णं च महारत्नानि सप्त वै ॥ ६.९० ॥ यश्च सिंहासनं दद्यान्महारत्नान्वितं नृपः । क्षुद्ररत्नैश्च विविधैस्तस्य पुण्यफलं शृणु ॥ ६.९१ ॥ कुलत्रिंशकसंयुक्तः सान्तःपुरपरिच्छदः । समस्तभृत्यसंयुक्तः शिवलोके महीयते ॥ ६.९२ ॥ तत्र भुक्त्वा महाभोगान् शिवतुल्यपराक्रमः । आमहाप्रलयं यावत्तदन्ते मुक्तिमाप्नुयात् ॥ ६.९३ ॥ यदि चेद्राज्यमाकङ्क्षेत्ततः सर्वसमाहितः । सप्तद्वीपसमुद्रायाः क्षितेरधिपतिर्भवेत् ॥ ६.९४ ॥ जन्मकोटिसहस्राणि जन्मकोटिशतानि च । राज्यं कृत्वा ततश्चान्ते पुनः शिवपुरं व्रजेत् ॥ ६.९५ ॥ एतदेव फलं ज्ञेयं मकुटाभरणादिषु । रत्नासनप्रदानेन पादुके विनिवेदयेत् ॥ ६.९६ ॥ दद्याद्यः केवलं वज्रं शुद्धं गोधूममात्रकम् । शिवाय स शिवे लोके तिष्ठेदाप्रलयं सुखी ॥ ६.९७ ॥ इन्द्रनीलप्रदानेन स वैडूर्यप्रदानतः । मोदते विविधैर्भोगैः कल्पकोटिं शिवे पुरे ॥ ६.९८ ॥ मसूरमात्रमपि यः पद्मरागं सुशोभनम् । निवेदयित्वा शर्वाय मोदते कालमक्षयम् ॥ ६.९९ ॥ निवेद्य मौक्तिकं स्वच्छमेकभागैकमात्रकम् । भोगैः शिवपुरे दिव्यैः कल्पकोटिं प्रमोदते ॥ ६.१०० ॥ कीटपक्षं महाशुद्धं निवेद्य यवमात्रकम् । शिवायाद्यः शिवे लोके मोदते कालमक्षयम् ॥ ६.१०१ ॥ हेम्ना कृत्वा च यः पुष्पमपि माषकमात्रकम् । निवेदयित्वा शर्वाय वर्षकोटिं वसेद्दिवि ॥ ६.१०२ ॥ क्षुद्ररत्नानि यो दद्याद्धेम्नि बद्धानि शम्भवे । मोदते स शिवे लोके कल्पकोट्ययुतं नरः ॥ ६.१०३ ॥ यथा यथा महारत्नं शोभनं च यथा यथा । तथा तथा महत्पुण्यं ज्ञेयं तच्छिवदानतः ॥ ६.१०४ ॥ भूमिभागे स()विस्तीऋणे जम्बूद्वीपं प्रकल्पयेत् । अष्टावरणसंयुक्तं नगेन्द्राष्टकभूषितम् ॥ ६.१०५ ॥ तन्मध्ये कारयेद्दिव्यं मेरुप्रासादमुत्तमम् । अनेकशिखराकीर्णमशेषामरसंयुतम् ॥ ६.१०६ ॥ बहिः सुवर्णनिचितं सर्वरत्नोपशोभितम् । चतुःप्रग्रीवकोपेतं चक्षुर्लिङ्गसमायुतम् ॥ ६.१०७ ॥ चतुर्दिक्षु वनोपेतं चतुर्भिः संयुतैः शरैः । चतुर्णां पुरयुक्तेन प्राकारेण च संयुतम् ॥ ६.१०८ ॥ मेरुप्रासादमित्येवं हेमरत्नविभूषितम् । यः कारयेद्वनोपेतं सोऽनन्तफलमाप्नुयात् ॥ ६.१०९ ॥ भूम्यम्भःपरमाणूनां यथा संख्या न विद्यते । शिवायतनपुण्यस्य तथा संख्या न विद्यते ॥ ६.११० ॥ कुलत्रिंशकसंयुक्तः सर्वभृत्यसमन्वितः । कलत्रपुत्रमित्रैश्च सर्वस्वजनसंयुतः ॥ ६.१११ ॥ आश्र्तितोपाश्रितैः सर्वैरशेषगणसंयुतः । यथा शिवस्तथैवायं शर्वलोके स पूज्यते ॥ ६.११२ ॥ न च मानुष्यकं लोकमागच्छेत्कृपणं पुनः । सर्वज्ञः परिपूर्णश्च मुक्तः स्वात्मनि तिष्ठति ॥ ६.११३ ॥ यः शिवाय वनं कृत्वा मुदाब्दसलिलोत्थितम्(?) । तद्दण्डकोपशोभं च हस्ते कुर्वीत सर्वदा ॥ ६.११४ ॥ शोभयेद्भूतनाथं वा चन्द्रशालां क्वचित्क्वचित् । वेदीं वाथाभ्यपद्यन्त प्रोन्नताः स्तम्भपङ्क्तयः ॥ ६.११५ ॥ शातकुम्भमयीं वापि सर्वलक्षणसंयुताम् । ईश्वरप्रतिमां सौम्यां कारयेत्पुरुषोच्छ्रिताम् ॥ ६.११६ ॥ त्रिशूलसव्यहस्तां च वरदाभयदायिकां । सव्यहस्ताक्षमालां च जटाकुसुमभूषिताम् ॥ ६.११७ ॥ पद्मसिंहासनासीनां वृषस्थां वा समुच्छ्रिताम् । विमानस्थां रथस्थां वा वेदिस्थां वा प्रभान्विताम् ॥ ६.११८ ॥ सौम्यवक्त्रां करालां वा महाभैरवरूपिणीम् । अत्युच्छ्रितां सुविस्तीर्णां नृत्यस्थां योगसंस्थिताम् ॥ ६.११९ ॥ कुर्यादसंभवे हेम्नस्तारेण विमलेन च । आरकूटमयीं वापि ताम्रमृच्छैलदारुजाम् ॥ ६.१२० ॥ अशेषकैः सरूपैश्च वर्णकैर्वा पटे लिखेत् । कुड्ये वा फलके वापि भक्त्या वित्तानुसारतः ॥ ६.१२१ ॥ एकां सपरिवारां वा पार्वतीं गणसंयुताम् । प्रतीहारसमोपेतां(?) कुर्यादेवाविकल्पतः ॥ ६.१२२ ॥ पीठं वा कारयेद्रौप्यं ताम्रं पित्तलसंभवम् । चतुर्मुखैकवक्त्रं वा बहिः काञ्चनसंस्कृतम् ॥ ६.१२३ ॥ पृथक्पृथगनेकानि कारयित्वा मुखानि तु । सौम्यभैरवरूपाणि शिवस्य बहुरूपिणः ॥ ६.१२४ ॥ नानाभरणयुक्तानि हेमरौप्यकृतानि च । शिवस्य रथयात्रायां तानि लोकस्य दर्शयेत् ॥ ६.१२५ ॥ उक्तानि यानि पुण्यानि संक्षेपेण पृथक्पृथक् । कृत्वैकेन ममैतेषामक्षयं फलमाप्नुयात् ॥ ६.१२६ ॥ मातुः पितुः सहोपायैर्(?) दशभिर्दशभिः कुलैः । कलत्रपुत्रमित्राद्यैर्भृत्यैर्युक्तः स बान्धवैः ॥ ६.१२७ ॥ अयुतेन विमानानां सर्वकामयुतेन च । भुङ्क्ते स्वयं महाभोगानन्ते मुक्तिमवाप्नुयात् ॥ ६.१२८ ॥ मण्डपस्तम्भपर्यन्ते कीलयेद्दर्पणान्वितम् । अभिषिच्य जना यस्मिन् पुजां कुवन्ति बिल्वकैः ॥ ६.१२९ ॥ कालकालकृतिं कृत्वा कीलयेद्यः शिवाश्रमे । सर्वलोकोपकाराय पूजयेच्च दिने दिने ॥ ६.१३० ॥ धूपवेलाप्रमाणार्थं कल्पयेद्यः शिवाश्रमे । क्षरन्तीं पूर्यमाणां वा सदायामे घटीं नृपः ॥ ६.१३१ ॥ एषामेकतमं पुण्यं कृत्वा पापविवर्जितः । शिवलोके नरः प्राप्य सर्वज्ञः स सुखी भवेत् ॥ ६.१३२ ॥ रथयात्रां प्रवक्ष्यामि शिवस्य परमात्मनः । सर्वलोकहितार्थाय महाशिल्पिविनिर्मिताम् ॥ ६.१३३ ॥ रथमध्ये समावेश्य यथा यष्टिं तु कीलयेत् । यष्टेर्मध्ये स्थितं कार्यं विमानमतिशोभितम् ॥ ६.१३४ ॥ पञ्चभौमं त्रिभौमं वा दृढवंशप्रकल्पितम् । कर्मणा सुनिबद्धं च रज्जुभिश्च सुसंयुतम् ॥ ६.१३५ ॥ पञ्चशालाण्डिकैर्युक्तं नानाभक्तिसमन्वितम् । चित्रवर्णपरिच्छन्नं पटैर्वा वर्णकान्वितैः ॥ ६.१३६ ॥ लम्बकैः सूत्रदाम्ना च घण्टाचामरभूषितम् । बुद्बुदैरर्धचन्द्रैश्च दर्पणैश्च समुज्ज्वलम् ॥ ६.१३७ ॥ कदल्यर्धध्वजैर्युक्तं महाच्छत्त्रं महाध्वजम् । पुष्पमालापरिक्षिप्तं सर्वशोभासमन्वितम् ॥ ६.१३८ ॥ महारथविमानेऽस्मिन् स्थापयेद्गणसंयुतम् । ईश्वरप्रतिमां हेम्नि प्रथमे पुरमण्डपे ॥ ६.१३९ ॥ मुखत्रयं च बध्नीयाद्बहिः कुर्यात्तथाश्रितम् । पुरे पुरे बहिर्दिक्षु गृहकेषु समाश्रितम् ॥ ६.१४० ॥ चतुष्कं शिववक्त्राणां संस्थाप्य प्रतिपूजयेत् । दिनत्रयं प्रकुर्वीत स्नानमर्चनभोजनम् ॥ ६.१४१ ॥ नृत्यक्रीडाप्रयोगेण गेयमङ्गलपाठकैः । महावादित्रनिर्घोषैः पौषपूर्णिमपर्वणि ॥ ६.१४२ ॥ भ्रामयेद्राजमार्गेण चतुर्थेऽहनि तद्रथम् । ततः स्वस्थानमानीय तच्छेषमपि वर्धयेत् ॥ ६.१४३ ॥ अवधार्य जगद्धात्री प्रतिमामवतारयेत् । महाविमानयात्रैषा कर्तव्या पट्टकेऽपि वा ॥ ६.१४४ ॥ वंशैर्नवैः सुपक्वैश्च कटं कुर्याद्भरक्षमम्(?) । वृत्तं द्विगुणदीर्घं च चतुरश्रमधः समम् ॥ ६.१४५ ॥ सर्वत्र चर्मणा बद्धं महायष्टिसमाश्रितम् । मुखं बद्धं च कुर्वीत वंशमण्डलिना दृढम् ॥ ६.१४६ ॥ कटेऽस्मिंस्तानि वस्त्राणि स्थाप्य बध्नीत यत्नतः । उपर्युपरि सर्वाणि तन्मध्ये प्रतिमां न्यसेत् ॥ ६.१४७ ॥ वर्णकैः कुङ्कुमाद्यैश्च चित्रपुष्पैश्च पूजयेत् । नानाभरणपूजाभिर्मुक्ताहारप्रलम्बिभिः ॥ ६.१४८ ॥ रथस्य महतो मध्ये स्थाप्य पट्टद्वयं दृढम् । अधरोत्तरभागेन मध्ये छिद्रसमन्वितम् ॥ ६.१४९ ॥ कटियष्टेरधोभागं स्थाप्य छिद्रमयं शुभैः । आबद्ध्य कीलयेद्यत्नाद्यष्ट्यर्धं च ध्वजाष्टकम् ॥ ६.१५० ॥ कटस्य पृष्टं सर्वत्र कारयेत्पटसंवृतम् । तत्पटे च लिखेत्सोमं सगणं सवृषं शिवम् ॥ ६.१५१ ॥ विचित्रपुष्पस्रग्दाम्ना समन्ताद्भूषयेत्कटम् । रवकैः किङ्किणीजालैर्घण्टाचामरभूषितैः ॥ ६.१५२ ॥ महापूजाविशेषैश्च कौतूहलसमन्वितम् । वाद्यारम्भोपचारेण मार्गशोभां प्रकल्पयेत् ॥ ६.१५३ ॥ तद्रथं भ्रामयेद्यत्नाद्राजमार्गेण सर्वतः । ततः स्वाश्रममानीय स्थापयेत्तत्समीपतः ॥ ६.१५४ ॥ महाशब्दं ततः कुर्यात्तालत्रयसमन्वितम् । ततस्तुष्णीं स्थिते लोके तच्छान्तिमिह धारयेत् ॥ ६.१५५ ॥ शिवं तु सर्वजगतः शिवं गोब्राह्मणस्य च । शिवमस्तु नृपाणां च तद्भक्तानां जनस्य च ॥ ६.१५६ ॥ राजा विजयमाप्नोति पुत्रपौत्रैश्च वर्धताम् । धर्मनिष्ठश्च भवतु प्रजानां च हिते रतः ॥ ६.१५७ ॥ कालवर्षी तु पर्जन्यः सस्यसंपत्तिरुत्तमा । सुभिक्षात्क्षेममाप्नोति कार्यसिद्धिश्च जायताम् ॥ ६.१५८ ॥ दोषाः प्रयान्तु नाशं च गुणाः स्थैर्यं भजन्तु वः । बहुक्षीरयुता गावो हृष्टपुष्टा भवन्तु वः ॥ ६.१५९ ॥ एवं शिवमहाशान्तिमुच्चार्य जगतः क्रमात् । अभिवर्ध्य ततः शेषमैश्वरीं सार्वकामिकीम् ॥ ६.१६० ॥ शिवमालां समादाय सदासीपरिचारिकः । फलैर्भक्षैश्च संयुक्तां गृह्य पात्रीं निवेशयेत् ॥ ६.१६१ ॥ पात्रीं च धारयेन्मूर्ध्ना सोष्णीषां देवपुत्रकः । अलंकृतः शुक्लवासा धार्मिकः सततं शुचिः ॥ ६.१६२ ॥ ततश्च तां समुत्क्षिप्य पाणिना धारयेद्बुधः । प्रब्रूयादपरश्चात्र शिवधर्मस्य भाजकः ॥ ६.१६३ ॥ तोयं यथा घटीसंस्थमजस्रं क्षरते तथा । क्षरते सर्वलोकानां तद्वदायुरहर्निशम् ॥ ६.१६४ ॥ यदा सर्वं परित्यज्य गन्तव्यमवशैर्ध्रुवम् । तदा न दीयते कस्मात्पाथेयार्थमिदं धनम् ॥ ६.१६५ ॥ कलत्रपुत्रमित्राणि पिता माता च बान्धवाः । तिष्ठन्ति न मृतस्यार्थे परलोके धनानि च ॥ ६.१६६ ॥ नास्ति धर्मसमं मित्रं नास्ति धर्मसमः सखा । यतः सर्वैः परित्यक्तं नरं धर्मोऽनुगच्छति ॥ ६.१६७ ॥ तस्माद्धर्मं समुद्दिश्य यः शेषामभिवर्धयेत् । समस्तपापनिर्मुक्तः शिवलोकं स गच्छति ॥ ६.१६८ ॥ उपर्युपरि वित्तेन यः शेषामभिवर्धयेत् । तस्येयमुत्तमा देया यतश्चान्या न वर्धते ॥ ६.१६९ ॥ इत्येवं मध्यमां शेषां वर्धयेद्वा कनीयसीम् । ततस्तेषां प्रदातव्या सर्वशोकस्य शान्तये ॥ ६.१७० ॥ येनोत्तमा गृहीता स्याच्शिवशेषा महीयसी । प्रापणीया गृहं तस्य तथैव शिरसा वृता ॥ ६.१७१ ॥ ध्वजच्छत्त्रविमानाद्यैर्महावादित्रनिःस्वनैः । गृहद्वारं ततः प्राप्तमर्चयित्वा निवेशयेत् ॥ ६.१७२ ॥ दद्याद्गोत्रकलत्राणां भृत्यानां स्वजनस्य च । तर्पयेच्चानतान्(?) भक्त्या वादित्रध्वजवाहकान् ॥ ६.१७३ ॥ एवमादीयते भक्त्या यः शिवस्योत्तमा गृहे । शोभया राजमार्गेण तस्य धर्मफलं शृणु ॥ ६.१७४ ॥ समस्तपापनिर्मुक्तः समस्तकुलसंयुतः । शिवलोकमवाप्नोति सभृत्यपरिचारकः ॥ ६.१७५ ॥ तत्र दिव्यैर्महाभोगैर्विमानैः सार्वकामिकैः । कल्पानां क्रीडते कोटिमन्ते निर्वाणमाप्नुयात् ॥ ६.१७६ ॥ रथस्य यात्रां यः कुर्यादित्येवमुपशोभया । भक्षभोज्यप्रदानैश्च तत्फलं शृनु यत्नतः ॥ ६.१७७ ॥ अशेषपापनिर्मुक्तः सर्वभृत्यसमन्वितः । कुलत्रिंशकमुद्धृत्य सुहृद्भिः स्वजनैः सह ॥ ६.१७८ ॥ सर्वकामयुतैर्दिव्यैः स्वच्छन्दगमनालयैः । महाविमानैः श्रीमद्भिर्दिव्यस्त्रीपरिवारितः ॥ ६.१७९ ॥ इच्छया क्रीडते भोगैः कल्पकोटिं शिवे पुरे । ज्ञानयोगं ततः प्राप्य संसारादवमुच्यते ॥ ६.१८० ॥ शिवस्य रथयात्रायामुपवासपरः क्षमी । पुरतः पृष्ठतो वापि गच्छंस्तस्य फलं शृणु ॥ ६.१८१ ॥ अशेषपापनिर्मुक्तः शुद्धः शिवपुरं गतः । महारथोपमैर्यानैः कल्पाशीतिं प्रमोदते„ ॥ ६.१८२ ॥ ध्वजच्छत्त्रपताकाभिर्दीपदर्पणचामरैः । धूपैर्वितानकलशैरुपशोभा सहस्रशः ॥ ६.१८३ ॥ गृहीत्वा याति पुरतः स्वेच्छया वा परेच्छया । संपर्कात्कौतुकाल्लाभाच्छिवलोके व्रजन्ते ते ॥ ६.१८४ ॥ शिवस्य रथयात्रां तु यः प्रपश्यति भक्तितः । प्रसङ्गात्कौतुकाद्वापि तेऽपि यान्ति शिवं पुरम् ॥ ६.१८५ ॥ नानायत्नादिशेषान्ते नानाप्रेक्षणकानि च । कुर्वीत रथयात्रायां रमते च विभूषिता ॥ ६.१८६ ॥ ते भोगैर्विविधैर्दिव्यैः शिवासन्ना गणेश्वराः । क्रीडन्ति रुद्रभवने कल्पानां विंशतीर्नराः ॥ ६.१८७ ॥ महता ज्ञानसङ्घेन तस्माच्छिवरथेन च । पृथक्जीवा मृता यान्ति शिवलोकं न संशयः ॥ ६.१८८ ॥ श्रीपर्वते महाकाले वाराणस्यां महालये । जल्पेश्वरे कुरुक्षेत्रे केदारे मण्डलेश्वरे ॥ ६.१८९ ॥ गोकर्णे भद्रकर्णे च शङ्कुकर्णे स्थलेश्वरे । भीमेश्वरे सुवर्णाक्षे कालञ्जरवने तथा ॥ ६.१९० ॥ एवमादिषु चान्येषु शिवक्षेत्रेषु ये मृताः । जीवाश्चराचराः सर्वे शिवलोकं व्रजन्ति ते ॥ ६.१९१ ॥ प्रयागं कामिकं तीर्थमविमुक्तं तु नैष्ठिकम् । श्रीपर्वतं च विज्ञेयमिहामुत्र च सिद्धिदम् ॥ ६.१९२ ॥ प्रसङ्गेनापि यः पश्येदन्यत्र प्रस्थितः क्वचित् । श्रीपर्वतं महापुण्यं सोऽपि याति शिवं पुरम् ॥ ६.१९३ ॥ व्रजेद्यः शिवतीर्थानि सर्वपापैः प्रमुच्यते । पापयुक्तः शिवज्ञानं प्राप्य निर्वाणमाप्नुयात् ॥ ६.१९४ ॥ तीर्थस्थानेषु यः श्राद्धं शिवरात्रे प्रयत्नतः । कल्पयित्वानुसारेण कालस्य विषुवस्य च ॥ ६.१९५ ॥ तीर्थयात्रागतं शान्तं हाहाभूतमचेतनम् । क्षुत्पिपासातुरं लोके पांसुपादं त्वरान्वितम् ॥ ६.१९६ ॥ संतर्पयित्वा यत्नेन म्लानलक्ष्मीमिवाम्बुभिः । पाद्यासनप्रदानेन कस्तेन पुरुषः समः ॥ ६.१९७ ॥ अश्नन्ति यावत्तत्पिण्डं तीर्थनिर्धूतकल्मषाः । तावद्वर्षसहस्राणि तद्दातास्ते शिवे पुरे ॥ ६.१९८ ॥ दद्याद्यः शिवसत्त्रार्थं महिषीं सुपयस्विनीम् । मोदते स शिवे लोके युगकोटिशतं नरः ॥ ६.१९९ ॥ आर्ताय शिवभक्ताय दद्याद्यः सुपयस्विनीम् । अजामेकां सुपुष्टाङ्गीं तस्य पुण्यफलं शृणु ॥ ६.२०० ॥ यावत्तद्रोमसंख्यानं तत्प्रसूतिकुलेषु च । तावद्वर्षसहस्राणि रुद्रलोके महीयते ॥ ६.२०१ ॥ मृदुरोमाञ्चितां कृष्णां निवेद्य गुरवे नरः । रोम्णि रोम्णि सुवर्णस्य दत्तस्य फलमाप्नुयात् ॥ ६.२०२ ॥ गजाश्वरथसंयुक्तैर्विमानैः सार्वकामिकैः । सानुगः क्रीडते भोगैः कल्पकोटिं शिवे पुरे ॥ ६.२०३ ॥ निवेद्याश्वतरं पुष्टमदुष्टं गुरवे नरः । संगतिं सोपकरणं भोगान् भुङ्क्ते शिवे पुरे ॥ ६.२०४ ॥ दिव्याश्वयुक्तैः श्रीमद्भिर्विमानैः सार्वकामिकैः । कोटिं कोटिं च कल्पानां तदन्ते स्यान्महीपतिः ॥ ६.२०५ ॥ अपि योजनमात्राय शिबिकां परिकल्पयेत् । गुरोः शान्तस्य दान्तस्य तस्य पुण्यफलं शृणु ॥ ६.२०६ ॥ विमानानां सहस्रेण सर्वकामयुतेन च । कल्पकोट्ययुतं साग्रं भोगान् भुङ्क्ते शिवे पुरे ॥ ६.२०७ ॥ छागं मेषं मयूरं च कुक्कुटं शारिकां शुकम् । बालक्रीडनकानेतानित्याद्यानपरानपि ॥ ६.२०८ ॥ निवेदयित्वा स्कन्दाय तत्सायुज्यमवाप्नुयात् । भुक्त्वा तु विपुलान् भोगांस्तदन्ते स्याद्द्विजोत्तमः ॥ ६.२०९ ॥ मुसलोलूखलाद्यानि गृहोपकरणानि च । दद्याच्छिवगृहस्थेभ्यस्तस्य पूण्यफलं शृणु ॥ ६.२१० ॥ प्रत्येकं कल्पमेकैकं गृहोपकरणैर्नरः । अन्ते दिवि वसेद्भोगैस्तदन्ते च गृही भवेत् ॥ ६.२११ ॥ खर्जूरतालपत्त्रैर्वा चर्मणा वा सुकल्पितम् । दत्त्वा कोट्यासनं वृत्तं शिवलोकमवाप्नुयात् ॥ ६.२१२ ॥ प्रातर्नीहारवेलायां हेमन्ते शिवयोगिनाम् । कृत्वा प्रतापनायाग्निं शिवलोके महीयते ॥ ६.२१३ ॥ सूर्यायुतप्रभादीप्तैर्विमानैः सार्वकामिकैः । कल्पकोटिशतं भोगान् भुक्त्वा स तु महीपतिः ॥ ६.२१४ ॥ यः प्रान्तरं विदेशं वा गच्छन्तं शिवयोगिनम् । भोजयीत यथाशक्त्या शिवलोके महीयते ॥ ६.२१५ ॥ यश्छत्त्रं धारयेद्ग्रीष्मे गच्छते शिवयोगिने । स मृतः पृथिवीं कृत्स्नामेकच्छत्त्रामवाप्नुयात् ॥ ६.२१६ ॥ यः समुद्धरते मार्गे मात्रोपकरणासनम् । शिवयोगप्रवृत्तस्य तस्य पुण्यफलं शृणु ॥ ६.२१७ ॥ कल्पायुतं नरः साग्रं भुक्त्वा भोगाञ्छिवे पुरे । तदन्ते प्राप्नुयाद्राज्यं सर्वैश्वर्यसमन्वितम् ॥ ६.२१८ ॥ अभ्यङ्गोद्वर्तनं स्नानमार्तस्य शिवयोगिनः । कृत्वाप्नोति महाभोगान् कल्पाञ्छिवपुरे नरः ॥ ६.२१९ ॥ अपनीय समुच्छिष्टं भक्तितः शिवयोगिनाम् । दशधेनुप्रदानस्य फलमाप्नोति मानवः ॥ ६.२२० ॥ पञ्चगव्यसमं ज्ञेयमुच्छिष्टं शिवयोगिनाम् । तद्भुक्त्वा लभते शुद्धिं महतः पातकादपि ॥ ६.२२१ ॥ नारी च भुक्त्वा सत्पुत्रं कुलाधारं गुणान्वितम् । राज्ययोग्यं धनाढ्यं च प्राप्नुयाद्धर्मतत्परम् ॥ ६.२२२ ॥ यश्च यां शिवयज्ञाय गृहस्थः परिकल्पयेत् । शिवभक्तोऽस्य महतः परमं फलमाप्नुयात् ॥ ६.२२३ ॥ शिवोमां च प्रयत्नेन भक्त्याब्दं योऽनुपालयेत् । गवां लक्षप्रदानस्य संपूर्णं फलमाप्नुयात् ॥ ६.२२४ ॥ प्रातः प्रदद्यात्सघृतं सुकृतं बालपिण्डकम् । दूर्वां च बालवत्सानां(?) तस्य पुण्यफलं शृणु ॥ ६.२२५ ॥ यावत्तद्बालवत्सानां पानाहारं प्रकल्पयेत् । तावदष्टायुतान् पूर्वैर्भोगान् भुङ्क्ते शिवे पुरे ॥ ६.२२६ ॥ विधवानाथवृद्धानां प्रदद्याद्यः प्रजीवनम् । आभूतस्संप्लवं यावच्छिवलोके महीयते ॥ ६.२२७ ॥ दद्याद्यः सर्वजन्तूनामाहारमनुयत्नतः । त्रिः पृथ्वीं रत्नसंपूर्णां यद्दत्त्वा तत्फलं लभेत् ॥ ६.२२८ ॥ विनयव्रतदानानि यानि सिद्धानि लोकतः । तानि तेनैव विधिना शिवमन्त्रेण कल्पयेत् ॥ ६.२२९ ॥ निवेदयीत रुद्राय रुद्राण्याः षण्मुखस्य च । प्राप्नुयाद्विपुलान् भोगान् दिव्याञ्छिवपुरे नरः ॥ ६.२३० ॥ पुनर्यः कर्तरीं दद्यात्केशक्लेशापनुत्तये । सर्वक्लेशविनिर्मुक्तः शिवलोके सुखी भवेत् ॥ ६.२३१ ॥ नासिकाशोधनं दद्यात्संदंशं शिवयोगिने । वर्षकोटिं महाभोगैः शिवलोके महीयते ॥ ६.२३२ ॥ नखच्छेदनकं दत्त्वा शिवलोके महीयते । वर्षलक्षं महाभोगैः शिवलोके महीयते ॥ ६.२३३ ॥ दत्त्वाञ्जनशलाकां वा लोहाद्यां शिवयोगिने । भोगाञ्छिवपुरे प्राप्य ज्ञानचक्षुरवाप्नुयात् ॥ ६.२३४ ॥ कर्णशोधनकं दत्त्वा लोहाद्यं शिवयोगिने । वर्षकोटिं महाभोगैः शिवलोके महीयते ॥ ६.२३५ ॥ दद्याद्यः शिवभक्ताय सूचीं कौपीनशोधनीम् । वर्षलक्षं स लक्षार्धं शिवलोके महीयते ॥ ६.२३६ ॥ निवेद्य शिवयोगिभ्यः सूचिकं सूत्रसंयुतम् । वर्षलक्षं महाभोगैः क्रीडते स शिवे पुरे ॥ ६.२३७ ॥ दद्याद्यः शिवयोगिभ्यः सुकृतां पत्रवेधनीम् । वर्षलक्षं महाभोगैः शिवलोके महीयते ॥ ६.२३८ ॥ दद्याद्यः पुस्तकादीनां सर्वकार्यार्थकर्तृकाम् । पञ्चलक्षं महाभोगैर्मोदते स शिवे पुरे ॥ ६.२३९ ॥ शमीन्धनतृणादीनां दद्यात्तच्छेदनं च यः । क्रीडते स शिवे लोके वर्षलक्षचतुष्टयम् ॥ ६.२४० ॥ शिवाश्रमोपभोगाय लोहोपकरणं महत् । यः प्रदद्याग्कुठाराद्यं तस्य पुण्यफलं शृणु ॥ ६.२४१ ॥ यावत्तत्फलसंख्यानं लोहोपकरणे भवेत् । तावन्ति वर्षलक्षाणि शिवलोके महीयते ॥ ६.२४२ ॥ शिवायतनवित्तानां रक्षार्थं यः प्रयच्छति । धनुःखड्गायुधादीनि तस्य पुण्यफलं शृणु ॥ ६.२४३ ॥ एकैकस्मिन् परिज्ञेयमायुधे चापि वै फलम् । वर्षकोट्यष्टकं भोगैः शिवलोके महीयते ॥ ६.२४४ ॥ यः स्वात्मभोगभृत्यर्थं कुसुमानि निवेदयेत् । शिवाय गुरवे वापि तस्य पुण्यफलं शृणु ॥ ६.२४५ ॥ यावदन्योऽन्यसंबन्धास्तस्यांशाः परिकीर्तिताः । वर्षलक्षं स तावच्च शिवलोके प्रमोदते ॥ ६.२४६ ॥ नष्टापहृतमन्विष्य पुनर्वित्तं निवेदयेत् । शिवात्मकं शिवायैव तस्य पुण्यफलं शृणु ॥ ६.२४७ ॥ यावच्छिवाय तद्वित्तं प्राङ्निवेद्य फलं स्मृतम् । नष्टमानीय तद्भूयः पुण्यं शतगुणं लभेत् ॥ ६.२४८ ॥ देवद्रव्यं हृतं नष्टमन्वेष्यमपि यत्नतः । न प्राप्नोति तदा तस्य प्राप्नुयाद्द्विगुणं फलम् ॥ ६.२४९ ॥ ताम्रकुम्भकटाहाद्यं यः शिवाय निवेदयेत् । शिवात्मकं शिवायैव तस्य पुण्यफलं शृणु ॥ ६.२५० ॥ यावच्छिवाय तद्वित्तं प्राङ्निवेद्य फलं स्मृतम् । नष्टमानीय तद्भूयः पुण्यं शतगुणं लभेत् ॥ ६.२५१ ॥ स्नानसत्त्रोपभोगाय तस्य पुण्यफलं शृणु । यावत्तत्फलसंख्यानं ताम्रोपकरणे स्थितम् ॥ ६.२५२ ॥ पले पले वर्षकोटिं मोदते स शिवे पुरे । यः पत्त्रपुष्पवस्तूनां दद्यादाधारभाजनम् ॥ ६.२५३ ॥ तद्वस्तुदातुर्यत्पुण्यं तत्पुण्यं सकलं भवेत् । दत्त्वोपकरणं किंचिदपि यो वित्तमर्थिनाम् ॥ ६.२५४ ॥ यद्वस्तु कुरुते तेन तत्प्रदानफलं लभेत् । यः शौचपीतवस्त्राणि क्षाराद्यैः शिवयोगिनाम् ॥ ६.२५५ ॥ स पापमलनिर्मुक्तः शिवलोकमवाप्नुयात् । यः पुष्पपट्टसंयुक्तं पटगर्भं च कम्बलम् ॥ ६.२५६ ॥ प्रदद्याच्छिवयोगिभ्यस्तस्य पुण्यफलं शृणु । तेषां च वस्त्रतन्तूनां यावत्संख्या विधीयते ॥ ६.२५७ ॥ तावद्वर्षसहस्राणि भोगान् भुङ्क्ते शिवे पुरे । श्लक्ष्णवस्त्राणि शुक्लानि दद्याद्यः शिवयोगिने ॥ ६.२५८ ॥ चित्रवस्त्राणि तद्भक्त्या तस्य पुण्यफलं शृणु । यावत्तत्सूक्ष्मवस्त्राणां तन्तुसंख्या विधीयते ॥ ६.२५९ ॥ तावद्युगानि संभोगैः शिवलोके महीयते । शङ्खपात्रं तु विस्तीर्णं भाण्डं वापि सुशोभनम् ॥ ६.२६० ॥ प्रदद्याच्छिवयोगिभ्यस्तस्य पुण्यफलं शृणु । दिव्यं विमानमारूढः सर्वकामसमन्वितम् ॥ ६.२६१ ॥ कल्पकोट्ययुतं साग्रं शिवलोके महीयते । शुक्त्यादीनि च पात्राणि शोभनान्यमलानि च ॥ ६.२६२ ॥ निवेद्य शिवयोगिभ्यः शङ्खार्धेन फलं लभेत् । स्फाटिकानां च पात्राणां शङ्खतुल्यफलं स्मृतम् ॥ ६.२६३ ॥ शैलजानां तदर्धेन पात्राणां च तदर्धकम् । तालखर्जूरपात्राणां वंशजानां निवेदने ॥ ६.२६४ ॥ अन्येषामेवमादीनां पुण्यं वार्क्ष्यार्धसंमितम् । वंशजार्धसमं पुण्यं फलपात्रनिवेदने ॥ ६.२६५ ॥ नानापर्णपुटाणां च साराणां वा फलार्धकम् । यस्ताम्रकांस्यपात्राणि शोव्हनान्यमलानि च ॥ ६.२६६ ॥ स्नानभोजनपानार्थं दद्याद्यः शिवयोगिने । ताम्रां कांसीं त्रिलोहीं वा यः प्रदद्यात्त्रिपादिकाम् ॥ ६.२६७ ॥ भोजने भोजनाधारं गुरवे तत्फलं शृणु । यावत्तत्पलसंख्यानं त्रिपाद्या भोजनेषु च ॥ ६.२६८ ॥ तावद्युगसहस्राणि भोगान् भुङ्क्ते शिवे पुरे । लोहं त्रिपादिकं दत्त्वा सत्कृत्वा शिवयोगिने ॥ ६.२६९ ॥ दशकल्पान्महाभोगैर्नरः शिवपुरे वसेत् । यः प्रदद्यात्त्रिविष्टम्भं भिक्षापात्रसमाश्रयम् ॥ ६.२७० ॥ वंशजं दारुजं वापि तस्य पुण्यफलं शृणु । दिव्यस्त्रीभोगसंपन्नो विमाने महति स्थितः ॥ ६.२७१ ॥ चतुर्युगसहस्रं तु भोगान् भुङ्क्ते शिवे पुरे । भिक्षापात्रमुखाच्छादं वस्त्रपर्णादिकल्पितम् ॥ ६.२७२ ॥ दत्त्वा शिवपुरे भोगान् कल्पमेकं वसेन्नरः । संश्रयं यः प्रदद्याच्च भिक्षापात्रे कमण्डलौ ॥ ६.२७३ ॥ कल्पितं वस्त्रसूत्राद्यैस्तस्य पुण्यफलं शृणु । तद्वस्त्रपूततन्तूनां संख्या यावद्विधीयते ॥ ६.२७४ ॥ तावद्वर्षसहस्राणि रुद्रलोके महीयते । सूत्रवल्कलवालैर्वा शिक्यभाण्डसमाश्रयम् ॥ ६.२७५ ॥ यः कृत्वा दामनीयोक्त्रं प्रग्रहं रज्जुमेव वा । एवमादीनि चान्यानि वस्तूनि विनिवेदयेत् ॥ ६.२७६ ॥ शिवगोष्ठोपयोगार्थं तस्य पुण्यफलं शृणु । यावत्तद्रज्जुसंख्यानं प्रदद्याच्छिवगोकुले ॥ ६.२७७ ॥ तावच्चतुर्युगं देही शिवलोके महीयते । यथा यथा प्रियं वस्त्रं शोभनं च यथा यथा ॥ ६.२७८ ॥ तथा तथा महापुण्यं तद्दानादुत्तरोत्तरम् । यः पन्थानं दिशेत्पृष्टं प्रणष्टं च गवादिकं ॥ ६.२७९ ॥ स गोदानसमं पुण्यं प्रज्ञासौख्यं च विन्दति । कृत्वोपकारमार्तानां स्वर्गं याति न संशयः ॥ ६.२८० ॥ अपि कण्टकमुद्धृत्य किमुतान्यं महागुणम्(?) । अन्नपानौषधीनां च यः प्रदातारमुद्दिशेत् ॥ ६.२८१ ॥ आर्तानां तस्य विज्ञेयं दातुस्तत्सदृशं फलम् । शिवाय तस्य संरुद्धं कर्म तिष्ठति यद्विना ॥ ६.२८२ ॥ तदल्पमपि यज्ञाङ्गं दत्त्वा यज्ञफलं लभेत् । अपि काशकुशं सूत्रं गोमयं समिदिन्धनम् ॥ ६.२८३ ॥ शिवयज्ञोपयोगार्थं प्रवक्ष्यामि समासतः । सर्वेषां शिवभक्तानां दद्याद्यत्किंचिदादरात् । दत्त्वा यज्ञफलं विद्यात्किमु तद्वस्तुदानतः ॥ ६.२८४ ॥ ॥ इति शिवोपनिषदि फलोपकरणप्रदानाध्यायः षष्ठः ॥ अथ स्वर्गापवर्गार्थे प्रवक्ष्यामि समासतः । सर्वेषां शिवभक्तानां शिवाचारमनुत्तमम् ॥ ७.१ ॥ शिवः शिवाय भूतानां यस्माद्दानं प्रयच्छति । गुरुमूर्तिः स्थितस्तस्मात्पूजयेत्सततं गुरुम् ॥ ७.२ ॥ नालक्षणे यथा लिङ्गे सांनिध्यं कल्पयेच्छिवः । अल्पागमे गुरौ तद्वत्सांनिध्यं न प्रकल्पयेत् ॥ ७.३ ॥ शिवज्ञानार्थतत्त्वज्ञः प्रसन्नमनसं गुरुम् । शिवः शिवं समास्थाय ज्ञानं वक्ति न हीतरः ॥ ७.४ ॥ गुरुं च शिववद्भक्त्या नमस्कारेण पूजयेत् । कृताञ्जलिस्त्रिसंध्यं च भूमिविन्यस्तमस्तकः ॥ ७.५ ॥ न विविक्तमनाचान्तम्(?) चङ्क्रमन्तं तथाकुलम् । समाधिस्थं व्रजन्तं च नमस्कुर्याद्गुरुं बुधः ॥ ७.६ ॥ व्याख्याने तत्समाप्तौ च संप्रश्ने स्नानभोजने । भुक्त्वा च शयने स्वप्ने नमस्कुर्यात्सदा गुरुम् ॥ ७.७ ॥ ग्रामान्तरमभिप्रेप्सुर्गुरोः कुर्यात्प्रदक्षिणम् । सार्वाङ्गिकप्रणामं च पुनः कुर्यात्तदागतः ॥ ७.८ ॥ पर्वोत्सवेषु सर्वेषु दद्याद्गन्धपवित्रकम् । शिवज्ञानस्य चारम्भे प्रवासगमनागतौ ॥ ७.९ ॥ शिवधर्मव्रतारम्भे तत्समाप्तौ च कल्पयेत् । प्रसादनाय कुपितो विजित्य च रिपुं तथा ॥ ७.१० ॥ पुण्याहे ग्रहशान्तौ च दीक्षायां च सदक्षिणम् । आवार्य पदसंप्राप्तौ पवित्रे चोपविग्रहे ॥ ७.११ ॥ उपानच्छत्त्रशयनं वस्त्रमासनभूषणम् । पात्रदण्डाक्षसूत्रं वा गुरुसक्तं न धारयेत् ॥ ७.१२ ॥ हास्यनिष्ठीवनास्फोटमुच्चभाष्यविजृम्भणम् । पादप्रसारणं गतिं न कुर्याद्गुरुसंनिधौ ॥ ७.१३ ॥ हीनान्नपानवस्त्रः स्यान्नीचशय्यासनो गुरोः । न यथेष्टश्च संतिष्ठेत्कलहं च विवर्जयेत् ॥ ७.१४ ॥ प्रतिवातेऽनुवाते वा न तिष्ठेद्गुरुणा सह । असंश्रये च सततं न किंचित्कीर्तयेद्गुरोः ॥ ७.१५ ॥ अन्यासक्तो न भुञ्जानो न तिष्ठन्नपराङ्मुखः । न शयनो न चासीनः संभास्येद्गुरुणा सह ॥ ७.१६ ॥ दृष्ट्वैव गुरुमायान्तमुत्तिष्ठेद्दूरतस्त्वरम् । अनुज्ञातश्च गुरुणा संविशेच्चानुपृष्ठतः ॥ ७.१७ ॥ न कण्ठं प्रावृतं कुर्यान्न च तत्रावसक्तिकाम् । न पादधावनस्नानं यत्र पश्येद्गुरुः स्थितः ॥ ७.१८ ॥ न दन्तधावनाभ्यङ्गमायामोद्वर्तनक्रियाः । उत्सर्गपरिधानं च गुरोः कुर्वीत पश्यतः ॥ ७.१९ ॥ गुरुर्यदर्पयेत्किंचिद्गृहासन्नं तदञ्जलौ । पात्रे वा पुरतः शिष्यस्तद्वक्त्रमभिवीक्षयन् ॥ ७.२० ॥ यदर्पयेद्गुरुः किंचि तन्नम्रः पुरतः स्थितः । पाणिद्वयेन गृह्णीयत्स्थापयेत्तच्च सुस्थितम् ॥ ७.२१ ॥ न गुरोः कीर्तयेन्नाम परोऽक्षमपि केवलम् । समानसंज्ञमन्यं वा नाह्वयीत तदाख्यया ॥ ७.२२ ॥ स्वगुरुस्तद्गुरुश्चैव यदि स्यातां समं क्वचित् । गुरोर्गुरुस्तयोः पूज्यः स्वगुरुश्च तदाज्ञया ॥ ७.२३ ॥ अनिवेद्य न भुञ्जीत भुक्त्वा चास्य निवेदयेत् । नाविज्ञाप्य गुरुं गच्छेद्बहिः कार्येण केनचित् ॥ ७.२४ ॥ गुर्वाज्ञया कर्म कृत्वा तत्समाप्तौ निवेदयेत् । कृत्वा च नैत्यकं सर्वमधीयीताज्ञया गुरोः ॥ ७.२५ ॥ मृद्भस्मगोमयजलं पत्त्रपुष्पेन्धनं समित् । पर्याप्तमष्टकं ह्येतद्गुर्वर्थं तु समाहरेत् ॥ ७.२६ ॥ भैषज्याहारपात्राणि वस्त्रशय्यासनं गुरोः । आनयेत्सर्वयत्नेन प्रार्थयित्वा धनेश्वरान् ॥ ७.२७ ॥ गुरोर्न खण्डयेदाज्ञामपि प्राणान् परित्यजेत् । कृत्वाज्ञां प्राप्नुयान्मुक्तिं लङ्घयन्नरकं व्रजेत् ॥ ७.२८ ॥ पर्यटेत्पृथिवीं कृत्स्नां सशैलवनकाननाम् । गुरुभैषज्यसिद्ध्यर्थमपि गच्छेद्रसातलम् ॥ ७.२९ ॥ यदादिशेद्गुरुः किंचित्तत्कुर्यादविचारतः । अमीमांस्या हि गुरवः सर्वकार्येषु सर्वथा ॥ ७.३० ॥ नोत्थापयेत्सुखासीनं शयानं न प्रबोधयेत् । आसीनो गुरुमासीनमभिगच्छेत्प्रतिष्ठितम् ॥ ७.३१ ॥ पथि प्रयान्तं यान्तं च यत्नाद्विश्रमयेद्गुरुम् । क्षित्पिपासातुरं स्नातं ज्ञात्वा शक्तं च भोजयेत् ॥ ७.३२ ॥ अभ्यङ्गोद्वर्तनं स्नानं भोजनष्ठीवमार्जनम् । गात्रसंवाहनं रात्रौ पादाभ्यङ्गं च यत्नतः ॥ ७.३३ ॥ प्रातः प्रसाधनं दत्त्वा कार्यं संमार्जनाञ्जनम् । नानापुष्पप्रकरणं श्रीमद्व्याख्यानमण्डपे ॥ ७.३४ ॥ स्थाप्यासनं गुरोः पूज्यं शिवज्ञानस्य पुस्तकम् । तत्र तिष्ठेत्प्रतीक्षंस्तद्गुरोरागमनं क्रमात् ॥ ७.३५ ॥ गुरोर्निन्दापवादं च श्रुत्वा कर्णौ पिधापयेत् । अन्यत्र चैव सर्पेत्तु निगृह्णीयादुपायतः ॥ ७.३६ ॥ न गुरोरप्रियं कुर्यात्पीडितस्तारितोऽपि वा । नोच्चारयेच्च तद्वाक्यमुच्चार्य नरकं व्रजेत् ॥ ७.३७ ॥ गुरुरेव पिता माता गुरुरेव परः शिवः । यस्यैव निश्चितो भावस्तस्य मुक्तिर्न दूरतः ॥ ७.३८ ॥ आहाराचारधर्माणां यत्कुर्याद्गुरुरीश्वरः । तथैव चानुकुर्वीत नानुयुञ्जीत कारणम् ॥ ७.३९ ॥ यज्ञस्तपांसि नियमात्तानि वै विविधानि च । गुरुवाक्ये तु सर्वाणि संपद्यन्ते न संशयः ॥ ७.४० ॥ अज्ञानपङ्कनिर्मग्नं यः समुद्धरते जनम् । शिवज्ञानात्महस्तेन कस्तं न प्रतिपूजयेत् ॥ ७.४१ ॥ इति यः पूजयेन्नित्यं गुरुमूर्तिस्थमीश्वरम् । सर्वपापविनिर्मुक्तः प्राप्नोति परमं पदम् ॥ ७.४२ ॥ स्नात्वाम्भसा भस्मना वा शुक्लवस्त्रोपवीतवान् । दूर्वागर्भस्थितं पुष्पं गुरुः शिरसि धारयेत् ॥ ७.४३ ॥ रोचनालभनं कुर्याद्धूययेदात्मनस्तनुम् । अङ्गुलीयाक्षसूत्रं च कर्णमात्रे च धारयेत् ॥ ७.४४ ॥ गुरुरेवंविधः श्रीमान्नित्यं तिष्ठेत्समाहितः । यस्माज्ज्ञानोपदेशार्थं गुरुरास्ते सदाशिवः ॥ ७.४५ ॥ धारयेत्पादुके नित्यं मृदुवर्मप्रकल्पिते । प्रगृह्य दण्डं छत्त्रं वा पर्यटेदाश्रमाद्बहिः ॥ ७.४६ ॥ न भूमौ विन्यसेत्पादमन्तर्धानं विना गुरुः । कुशपादकमाक्रम्य तर्पणार्थं प्रकल्पयेत् ॥ ७.४७ ॥ पादस्थानानि पत्त्राद्यैः कृत्वा देवगृहं विशेत् । पात्रास्तरितपादश्च(?) नित्यं भुञ्जीत वाग्यतः ॥ ७.४८ ॥ न पादौ धावयेत्कांस्ये लोहे वा परिकल्पिते । शौचयेत्तृणगर्भायां द्वितीयायां तथाचमेत् ॥ ७.४९ ॥ न रक्तमुल्बणं वस्त्रं धारयेत्कुसुमानि च । न बहिर्गन्धमाल्यानि वासांसि मलिनानि च ॥ ७.५० ॥ केशास्थीनि कपालानि कार्पासास्थितुषाणि च । अमेध्याङ्गारभस्मानि नाधितिष्ठेद्रजांसि च ॥ ७.५१ ॥ न च लोष्टं विमृद्नीयान्न च छिन्द्यान्नखैस्तृणम् । न पत्त्रपुष्पमूल्यानि वंशमङ्गलकाष्ठिताम् ॥ ७.५२ ॥ एवमादीनि चान्यानि पाणिभ्यां न च मर्दयेत् । न दन्तखादनं कुर्याद्रोमाण्युत्पाटयेन्न च ॥ ७.५३ ॥ न पद्भ्यामुल्लिखेद्भूमिं लोष्टकाष्ठैः करेण वा । न नखांश्च नखैर्विध्यान्न कण्डूयेन्नखैस्तनुम् ॥ ७.५४ ॥ मुहुर्मुहुः शिरः श्मश्रु न स्पृशेत्करजैर्बुधः । न लिक्षाकर्षणं कुर्यादात्मनो वा परस्य वा ॥ ७.५५ ॥ सौवर्ण्यरौप्यताम्रैश्च शृङ्गदन्तशलाकया । देहकण्डूयनं कार्यं वंशकाष्ठीकवीरणैः(?) ॥ ७.५६ ॥ न विचित्तं प्रकुर्वीत दिशश्चैवावलोकयन् । न शोकार्तश्च संतिष्ठेद्धूत्वा पाणौ कपोलकम् ॥ ७.५७ ॥ न पाणिपादवाक्चक्षुः- श्रोत्रशिश्नगुदोदरैः । चापलानि न कुर्वीत स सर्वार्थमवाप्नुयात् ॥ ७.५८ ॥ न कुर्यात्केनचिद्वैरमध्रुवे जीविते सति । लोककौतूहलं पापं संध्यां च परिवर्जयेत् ॥ ७.५९ ॥ न कुद्वारेण वेश्मानि नगरं ग्राममाविशेत् । न दिवा प्रावृतशिरा रात्रौ प्रावृत्य पर्यटेत् ॥ ७.६० ॥ नातिभ्रमणशीलः स्यान्न विशेच्च गृहाद्गृहम् । न चाज्ञानमधीयीत शिवज्ञानं समभ्यसेत् ॥ ७.६१ ॥ शिवज्ञानं परं ब्रह्म तदारभ्य न संत्यजेत् । ब्रह्मासाध्य च यो गच्छेद्ब्रह्महा स प्रकीर्तितः ॥ ७.६२ ॥ कृताञ्जलिः स्थितः शिष्यो लघुवस्त्रमुदङ्मुखः । शिवमन्त्रं समुच्चार्य प्राङ्मुखोऽध्यापयेद्गुरुः ॥ ७.६३ ॥ नागदन्तादिसंभूतं चतुरश्रं सुशोभनम् । हेमरत्नचितं वापि गुरोरासनमुत्तमम् ॥ ७.६४ ॥ न शुश्रूषार्थकामाश्च न च धर्मः प्रदृश्यते । न भक्तिर्न यशः क्रौर्यं न तमध्यापयेद्गुरुः ॥ ७.६५ ॥ देवाग्निगुरुगोष्ठीषु व्याख्याध्ययनसंसदि । प्रश्ने वादेऽनृतेऽशौचे दक्षिणं बाहुमुद्धरेत् ॥ ७.६६ ॥ वशे सततनम्रः स्यात्संहृत्याङ्गानि कूर्मवत् । तत्संमुखं च निर्गच्छेन्नमस्कारपुरस्सरः ॥ ७.६७ ॥ देवाग्निगुरुविप्राणां न व्रजेदन्तरेण तु । नार्पयेन्न च गृह्णीयात्किंचिद्वस्तु तदन्तरा ॥ ७.६८ ॥ न मुखेन धमेदग्निं नाधःकुर्यान्न लङ्घयेत् । न क्षिपेदशुचिं वह्नौ न च पादौ प्रतापयेत् ॥ ७.६९ ॥ तृणकाष्ठादिगहने जन्तुभिश्च समाकुले । स्थाने न दीपयेदग्निं दीप्तं चापि ततः क्षिपेत् ॥ ७.७० ॥ अग्निं युगपदानीय धारयेत प्रयत्नतः । ज्वलन्तं न प्रदीपं च स्वयं निर्वापयेद्बुधः ॥ ७.७१ ॥ शिवव्रतधरं दृष्ट्वा समुत्थाय सदा द्रुतम् । शिवोऽयमिति संकल्प्य हर्षितः प्रणमेत्ततः ॥ ७.७२ ॥ भोगान् ददाति विपुलान् लिङ्गे संपूजितः शिवः । अग्नौ च विविधां सिद्धिं गुरौ मुक्तिं प्रयच्छति ॥ ७.७३ ॥ मोक्षार्थं पूजयेत्तस्माद्गुरुमूर्तिस्थमीश्वरम् । गुरुभक्त्या लभेज्ज्ञानं ज्ञानान्मुक्तिमवाप्नुयात् ॥ ७.७४ ॥ सर्वपर्वसु यत्नेन ह्येषु संपूजयेच्छिवम् । कुर्यादायतने शोभां गुरुस्थानेषु सर्वतः ॥ ७.७५ ॥ नरद्वयोच्छ्रिते पीठे सर्वशोभासमन्विते । संस्थाप्य मणिजं लिङ्गं स्थाने कुर्याज्जगद्धितम् ॥ ७.७६ ॥ अन्नपानविशेषैश्च नैवेद्यमुपकल्पयेत् । भोजयेद्व्रतिनश्चात्र स्वगुरुं च विशेषतः ॥ ७.७७ ॥ पूजयेच्च शिवज्ञानं वाचयीत च पर्वसु । दर्शयेच्छिवभक्तेभ्यः सत्पूजां परिकल्पिताम् ॥ ७.७८ ॥ प्रियं ब्रूयात्सदा तेभ्यः प्रदेयं चापि शक्तितः । एवं कृते विशेषेण प्रसीदति महेश्वरः ॥ ७.७९ ॥ छिन्नं भिन्नं मृतं नष्टं वर्धते नास्ति केवलम् । इत्याद्यान्न वदेच्छब्दान् साक्षाद्ब्रूयात्तु मङ्गलम् ॥ ७.८० ॥ अधेनुं धेनुमित्येव ब्रूयाद्भद्रमभद्रकम् । कपालं च भगालं स्यात्परमं मङ्गलं वदेत् ॥ ७.८१ ॥ ऐन्द्रं धनुर्मणिधनुर्दाहकाष्ठादि चन्दनम् । स्वर्यातं च मृतं ब्रूयाच्छिवीभूतं च योगिनम् ॥ ७.८२ ॥ द्विधाभूतं वदेच्छिन्नं भिन्नं च बहुधा स्थितम् । नष्टमन्वेषणीयं च रिक्तं पूर्णाभिवर्धितम् ॥ ७.८३ ॥ नास्तीति शोभनं सर्वमाद्यमङ्गाभिवर्धनम् । सिद्धिमद्ब्रूहि गच्छन्तं सुप्तं ब्रूयात्प्रवर्धितम् ॥ ७.८४ ॥ न म्लेच्छमूर्खपतितैः क्रूरैः संतापवेदिभिः । दुर्जनैरवलिप्तैश्च क्षुद्रैः सह न संवदेत् ॥ ७.८५ ॥ नाधार्मिकनृपाक्रान्ते न दंशमशकावृते । नातिशीतजलाकीर्णे देशे रोगप्रदे वसेत् ॥ ७.८६ ॥ नासनं शयनं पानं नमस्काराभिवादनम् । सोपानत्कः प्रकुर्वीत शिवपुस्तकवाचनम् ॥ ७.८७ ॥ आचार्यं दैवतं तीर्थमुद्धूतोदं मृदं दधि । वटमश्वत्थकपिलां दीक्षितोदधिसंगमम् ॥ ७.८८ ॥ यानि चैषां प्रकाराणि मङ्गलानीह कानिचित् । शिवायेति नमस्कृत्वा प्रोक्तमेतत्प्रदक्षिणम् ॥ ७.८९ ॥ उपानच्छत्त्रवस्त्राणि पवित्रं करकं स्रजम् । आसनं शयनं पानं धृतमन्यैर्न धारयेत् ॥ ७.९० ॥ पालाशमासनं शय्यां पादुके दन्तधावनम् । वर्जयेच्चापि निर्यासं रक्तं न तु समुद्भवम् ॥ ७.९१ ॥ संध्यामुपास्य कुर्वीत नित्यं देहप्रसाधनम् । स्पृशेद्वन्देच्च कपिलां प्रदद्याच्च गवां हितम् ॥ ७.९२ ॥ यः प्रदद्याद्गवां सम्यक्फलानि च विशेषतः । क्षेत्रमुद्दामयेच्चापि तस्य पुण्यफलं शृणु ॥ ७.९३ ॥ यावत्तत्पत्त्रकुसुम- कन्दमूलफलानि च । तावद्वर्षसहस्राणि शिवलोके महीयते ॥ ७.९४ ॥ कृशरोगार्तवृद्धानां त्यक्तानां निर्जने वने । क्षुत्पिपासातुराणां च गवां विह्वलचेतसाम् ॥ ७.९५ ॥ नीत्वा यस्तृणतोयानि वने यत्नात्प्रयच्छति । करोति च परित्राणं तस्य पुण्यफलं शृणु ॥ ७.९६ ॥ कुलैकविंशकोपेतः पत्नीपुत्रादिसंयुतः । मित्रभृत्यैरुपेतश्च श्रीमच्छिवपुरं व्रजेत् ॥ ७.९७ ॥ तत्र भुक्त्वा महाभोगान् विमानैः सार्वकामिकैः । स महाप्रलयं यावत्तदन्ते मुक्तिमाप्नुयात् ॥ ७.९८ ॥ गोब्राह्मणपरित्राणं सकृत्कृत्वा प्रयत्नतः । मुच्यते पञ्चभिर्घोरैर्महद्भिः पातकैर्द्रुतम् ॥ ७.९९ ॥ अहिंसा सत्यमस्तेयं ब्रह्मचर्यमकल्कता । अक्रोधो गुरुशुश्रूषा शौचं संतोषमार्जवम् ॥ ७.१०० ॥ अहिंसाद्या यमाः पञ्च यतीनां परिकीर्तिताः । अक्रोधाद्याश्च नियमाः सिद्धिवृद्धिकराः स्मृताः ॥ ७.१०१ ॥ दशलाक्षणिको धर्मः शिवाचारः प्रकीर्तितः । योगीन्द्राणां विशेषेण शिवयोगप्रसिद्धये ॥ ७.१०२ ॥ न विन्दति नरो योगं पुत्रदारादिसंगतः । निबद्धः स्नेहपाशेन मोहस्तम्भबलीयसा ॥ ७.१०३ ॥ मोहात्कुटुम्बसंसक्तस्तृष्णया शृङ्खलीकृतः । बालैर्बद्धस्तु लोकोऽयं मुसलेनाभिहन्यते ॥ ७.१०४ ॥ इमे बालाः कथं त्याज्या जीविष्यन्ति मया विना । मोहाद्धि चिन्तयत्येवं परमार्थौ न पश्यति ॥ ७.१०५ ॥ संपर्कादुदरे न्यस्तः शुक्रबिन्दुरचेतनः । स पित्रा केन यत्नेन गर्भस्थः परिपालितः ॥ ७.१०६ ॥ कर्कशाः कठिना भक्षा जीर्यन्ते यत्र भक्षिताः । तस्मिन्नेवोदरे शुक्रं किं न जीर्यति भक्ष्यवत् ॥ ७.१०७ ॥ येनैतद्योजितं गर्भे येन चैव विवर्धितम् । तेनैव निर्गत्ं भूयः कर्मणा स्वेन पाल्यते ॥ ७.१०८ ॥ न कश्चित्कस्यचित्पुत्रः पिता माता न कस्यचित् । यत्स्वयं प्राक्तनं कर्म पिता मातेति तत्स्मृतम् ॥ ७.१०९ ॥ येन यत्र कृतं कर्म स तत्रैव प्रजायते । पितरौ चास्य दासत्वं कुरुतस्तत्प्रचोदितौ ॥ ७.११० ॥ न कश्चित्कस्यचिच्छक्तः कर्तुं दुःखं सुखानि च । करोति प्राक्तनं कर्म मोहाल्लोकस्य केवलम् ॥ ७.१११ ॥ कर्मदायादसंबन्धादुपकारः परस्परम् । दृश्यते नापकारश्च मोहेनात्मनि मन्यते ॥ ७.११२ ॥ ईश्वराधिष्ठितं कर्म फलतीह शुभाशुभम् । ग्रामस्वामिप्रसादेन सुकृतं कर्षणं यथा ॥ ७.११३ ॥ द्वयं देवत्वमोक्षाय ममेति न ममेति च । ममेति बध्यते जन्तुर्न ममेति विमुच्यते ॥ ७.११४ ॥ द्व्यक्षरं च भवेन्मृत्युस्त्र्यक्षरं ब्रह्म शाश्वतम् । ममेति द्व्यक्षरं मृत्युस्त्र्यक्षरं न ममेति च ॥ ७.११५ ॥ तस्मादात्मन्यहंकारमुत्सृज्य प्रविचारतः । विधूयाशेषसङ्गांश्च मोक्षोपायं विचिन्तयेत् ॥ ७.११६ ॥ ज्ञानाद्योगपरिक्लेशं कुप्रावरणभोजनम् । कुचर्यां कुनिवासं च मोक्षार्थी न विचिन्तयेत् ॥ ७.११७ ॥ न दुःखेन विना सौख्यं दृश्यते सर्वदेहिनाम् । दुःखं तन्मात्रकं ज्ञेयं सुखमानन्त्यमुत्तमम् ॥ ७.११८ ॥ सेवायां पाशुपाल्ये च वानिज्ये कृषिकर्मणि । तुल्ये सति परिक्लेशे वरं क्लेशो विमुक्तये ॥ ७.११९ ॥ स्वर्गापवर्गयोरेकं यः शीघ्रं न प्रसाधयेत् । याति तेनैव देहेन स मृतस्तप्यते चिरम् ॥ ७.१२० ॥ यदवश्यं पराधीनैस्त्यजनीयं शरीरकम् । कस्मात्तेन विमूढात्मा न साधयति शाश्वतम् ॥ ७.१२१ ॥ यौवनस्था गृहस्थाश्च प्रासादस्थाश्च ये नृपाः । सर्व एव विशीर्यन्ते शुष्कस्निग्धान्नभोजनाः ॥ ७.१२२ ॥ अनेकदोषदुष्टस्य देहस्यैको महान् गुणह् । यां यामवस्थामाप्नोति तां तामेवानुवर्तते ॥ ७.१२३ ॥ मन्दं परिहरन् कर्म स्वदेहमनुपालयेत् । वर्षासु जीर्णकटवत्तिष्ठन्नप्यवसीदति ॥ ७.१२४ ॥ न तेऽत्र देहिनः सन्ति ये तिष्ठन्ति सुनिश्चलाः । सर्वे कुर्वन्ति कर्माणि विकृशाः पूर्वकर्मभिः ॥ ७.१२५ ॥ तुल्ये सत्यपि कर्तव्ये वरं कर्म कृतं परम् । यः कृत्वा न पुनः कुर्यान्नानाकर्म शुभाशुभम् ॥ ७.१२६ ॥ तस्मादन्तर्बहिश्चिन्तामनेकाकारसंस्थिताम् । संत्यज्यात्महितार्थाय स्वाध्यायध्यानमभ्यसेत् ॥ ७.१२७ ॥ विविक्ते विजने रम्ये पुष्पाश्रमविभूषिते । स्थानं कृत्वा शिवस्थाने ध्यायेच्छान्तं परं शिवम् ॥ ७.१२८ ॥ येऽतिरम्याण्यरण्यानि सुजलानि शिवानि तु । विहायाभिरता ग्रामे प्रायस्ते दैवमोहिताः ॥ ७.१२९ ॥ विवेकिनः प्रशान्तस्य यत्सुखं ध्यायतः शिवम् । न तत्सुखं महेन्द्रस्य ब्रह्मणः केशवस्य वा ॥ ७.१३० ॥ इति नामामृतं दिव्यं महाकालादवाप्तवान् । विस्तरेणानुपूर्वाच्च ऋष्यात्रेयः(?) सुनिश्चितम् ॥ ७.१३१ ॥ प्रज्ञामथा विनिर्मथ्य(?) शिवज्ञानमहोदधिम् । ऋष्यात्रेयः समुद्धृत्य प्राहेदमणुमात्रकम् ॥ ७.१३२ ॥ शिवधर्मे महाशास्त्रे शिवधर्मस्य चोत्तरे । यदनुक्तं भवेत्किंचित्तदत्र परिकीर्तितम् ॥ ७.१३३ ॥ त्रिदैवत्यमिदं शास्त्रं मुनीन्द्रात्रेयभाषितम् । तिर्यङ्मनुजदेवानां सर्वेषां च विमुक्तिदम् ॥ ७.१३४ ॥ नन्दिस्कन्दमहाकालास्त्रयो देवाः प्रकीर्तिताः । चन्द्रात्रेयस्तथात्रिश्च ऋष्यात्रेयो मुनित्रयम् ॥ ७.१३५ ॥ एतैर्महात्मबिः प्रोक्ताः शिवधर्माः समासतः । सर्वलोकोपकारार्थं नमस्तेभ्यः सदा नमः ॥ ७.१३६ ॥ तेषां शिष्यप्रशिष्यैश्च शिवधर्मप्रवक्तृभिः । व्याप्तं ज्ञानसरः शार्वं विकचैरिव पङ्कजैः ॥ ७.१३७ ॥ ये श्रावयन्ति सततं शिवधर्मं शिवार्थिनाम् । ते रुद्रास्ते मुनीन्द्राश्च ते नमस्याः स्वभक्तितः ॥ ७.१३८ ॥ ये समुत्थाय शृण्वन्ति शिवधर्मं दिने दिने । ते रुद्रा रुद्रलोकेशा न ते प्रकृतिमानुषाः ॥ ७.१३९ ॥ शिवोपनिषदं ह्येतदध्यायैः सप्तभिः स्मृतम् । ऋष्यात्रेयसगोत्रेण मुनिना हितकाम्यया ॥ ७.१४० ॥ ॥ इति शिवोपनिषदि शिवाचाराध्यायः सप्तमः ॥ ॥ इति शिवोपनिषत्समाप्ता ॥