भगवन्देवदेवेश लोकनाथ जगत्पते । मन्त्रतन्त्रं त्वया प्रोक्तं विस्तराद्वस्तुसाधनम् ॥ १.१ ॥ अल्पायुषस्त्विमे मर्त्या अल्पवीर्याल्पबुद्धयः । अल्पसत्त्वाल्पवित्ताश्च लोभमोहासमन्विताः ॥ १.२ ॥ अल्पग्रन्थं महार्थं च पदार्थानीकसंकुलम् । वक्तुमर्हसि देवैषां प्रसादार्थं मम प्रभो ॥ १.३ ॥ अथातः सम्प्रवक्ष्यामि शास्त्रं परमदुर्लभम् । नाम्ना तु वातुलात्तन्त्राद्दध्नो घृतमिवोद्धृतम् ॥ १.४ ॥ नादाख्यं यत्परं बीजं सर्वभूतेष्ववस्थितम् । मुक्तिदं परमं किं च दिव्यसिद्धिप्रदायकम् ॥ १.५ ॥ तद्विदित्वा महासेन देशिकः पाशहा भवेत् । आगोपालाङ्गना बाला म्लेच्छाः प्राकृतभाषिणः ॥ १.६ ॥ अन्तर्जलगताः सत्त्वास्ते अपि नित्यं ब्रुवन्ति तम् । स्थूलं सूक्ष्मं परं ज्ञात्वा कर्म कुर्याद्यथेप्सितम् ॥ १.७ ॥ स्थूलं शब्द इति प्रोक्तं सूक्ष्मं चिन्तामयं भवेत् । चिन्तया रहितं यत्तु तत्परं परिकीर्तितम् ॥ १.८ ॥ सान्तं सर्वगतं शून्यं मात्राद्वादशके स्थितम् । ब्रह्माणि ह्रस्वाः प्रोक्तानि दीर्घा ह्यङ्गानि षण्मुख ॥ १.९ ॥ अनुस्वारो भवेन्नेत्रं सर्वेषां चोपरि स्थितः । सविसर्गं भवेदस्त्रमनुस्वारविवर्जितम् ॥ १.१० ॥ षष्ठं त्रयोदशान्तं च पञ्चमे विनियोजयेत् । शिवं तत्तु विजानीयान्मन्त्रमूर्तिं सदाशिवम् ॥ १.११ ॥ षष्ठमस्य द्वितीयं तु चतुर्थाद्येन संयुतम् । द्वितीयात्पञ्चमाच्चैव आदिमं योजयेत्पुनः ॥ १.१२ ॥ हन्ति विघ्नाञ्शिवास्त्रेण शिखया मुक्तिदं स्मृतम् । एतत्पाशुपतं दिव्यं सर्वपाशनिकृन्तनम् ॥ १.१३ ॥ ब्रह्माणि च शिवं साङ्गं नेत्रं पाशुपतं च यत् । समासात्कथितः सर्वो मन्त्रोद्धारस्त्वयं शुभः ॥ १.१४ ॥ अस्य मुद्रां प्रवक्ष्यामि साधकानां हिताय वै । हस्ताभ्यां संस्पृशेत्पादादूर्ध्वं यावत्तु मस्तकम् ॥ १.१५ ॥ एषा मुद्रा महामुद्रा सर्वकामार्थसाधिका । करन्यासं पुरा कृत्वा मुद्राबन्धं तु कारयेत् ॥ १.१६ ॥ तलिकां हस्तपृष्ठं च अस्त्रबीजेन शोधयेत् । कनिष्ठामादितः कृत्वा अङ्गुष्ठं चाप्यपश्चिमम् ॥ १.१७ ॥ ब्रह्माणि विन्यसेत्तत्र तथैवाङ्गानि यत्नतः । प्रासादं विन्यसेत्पश्चाद्व्यापिनं सर्वतोमुखम् ॥ १.१८ ॥ प्रथमः पटलः अन्तःकरणविन्यासो भूतशुद्धिस्तथैव च । भूतशुद्धिं पुरा कृत्वा ततोऽन्तःकरणं कुरु ॥ २.१ ॥ हृद्बीजं पार्थिवे युक्तं पार्थिवीं धारयेत्क्रमात् । शिरोऽप्सु तेजसि शिखां कवचं वायुना सह ॥ २.२ ॥ अस्त्रं च शिवसंयुक्तमाकाशं धारयेत्सदा । हुंफडन्तेन पटलं भित्त्वा चोर्ध्वं विशेषतः ॥ २.३ ॥ पञ्चोद्घाताश्च चत्वारस्त्रयो द्वावेक एव च । द्वादशान्ते निरालम्बं विज्ञानं केवलं स्थितम् ॥ २.४ ॥ दीक्षायां तु यथा वत्स तत्प्रयोगं समाचरेत् । प्रक्रियान्तस्थममृतं स्रवन्तं चिन्तयेत्ततः ॥ २.५ ॥ ओमित्यनेन कमलं योगपीठं तदा भवेत् । सूर्यमण्डलसंकाशमकारं ह्यात्मसम्भवम् ॥ २.६ ॥ विद्यातत्त्वमुकारं तु शिवतत्त्वं मकारजम् । पुर्यष्टकं च तन्मात्रं तुर्यातीतं सदाशिवम् ॥ २.७ ॥ चिन्तयेत्परमं धाम सुषुम्नाभिन्नमस्तकम् । तेनाप्लावितमात्मानं परिपूर्णं विचिन्तयेत् ॥ २.८ ॥ योऽभसेदीदृशं मर्त्यः समाधिं मृत्युनाशनम् । न तस्य जायते मृत्युरिति शास्त्रस्य निश्चयः ॥ २.९ ॥ पश्चाद्गुरोः साधकानां मूर्तेस्तु ग्रहणं भवेत् । ईशानाद्यास्तु सद्यान्तं मूर्ध्न आरभ्य विन्यसेत् ॥ २.१० ॥ नेत्रं दत्त्वा तदावाह्यो देवदेवः सदाशिवः । सर्वज्ञं च तदात्मानं चिन्तयेत्तु विचक्षणः ॥ २.११ ॥ हृदयं च शिरश्चैव शिखां कवचमेव च । न्यसेदस्त्रं च मन्त्रज्ञो यथास्थानेष्वनुक्रमात् ॥ २.१२ ॥ हृदयेऽर्चाविधानं तु नाभौ होमं प्रकल्पयेत् । ललाटे त्वीश्वरं ध्यायेद्वरदं सर्वतोमुखम् ॥ २.१३ ॥ यथार्चने तथाग्नौ च ध्याने स्नाने तथैव च । यथा देवे तथा देहे चिन्तयेत्तु विचक्षणः ॥ २.१४ ॥ कृत्वान्तःकरणं ह्येवं पश्चाद्बाह्यं तु षण्मुख । सबाह्यन्तरं कृत्वा पश्चाद्यजनमारभेत् ॥ २.१५ ॥ अन्तःकरणविन्यासपटलः इति द्वितीयः पटलः अतः परं प्रवक्ष्यामि स्नानं पापहरं शुभम् । सकृज्जप्तेन संगृह्य मृदा अस्त्रेण मन्त्रवित् ॥ ३.१ ॥ मलस्नानं पुरा कृत्वा सकृज्जप्त्वा तु संहिताम् । तामेव मृत्तिकां पश्चादभिमन्त्र्य सकृत्सकृत् ॥ ३.२ ॥ भागत्रयं ततः कृत्वा एकमस्त्रेण मन्त्रयेत् । द्वितीयं ब्रह्मभिर्वत्स शिवजप्तं तृतीयकम् ॥ ३.३ ॥ अस्त्रजप्तेन भागेन दिशां बन्धं तु कारयेत् । शिवजप्तेन तीर्थं तु ब्रह्मजप्तेन विग्रहम् ॥ ३.४ ॥ कुण्ठयित्वा ततः स्नायाच्छिवतीर्थस्य मध्यतः । चक्रवत्युपचारेण सुगन्धामलकादिभिः ॥ ३.५ ॥ उपस्पृश्य विधानेन संध्यां वन्देत साधकः । मन्त्रैः सर्वैः सकृद्वत्स उपस्थानं तु कारयेत् ॥ ३.६ ॥ अभिषेकं पुरा कृत्वा ततः संध्यां समाचरेत् । अस्त्रं न योजयेद्देहे क्षिपेत्तद्बहिरेव च ॥ ३.७ ॥ शरीरं शोषयेद्वत्स तेनात्मनि न योजयेत् । विघ्नेषु पाशजालेषु सदा योज्यं विचक्षणैः ॥ ३.८ ॥ हृदयेन ततो विद्वान् पितृदेवांश्च तर्पयेत् । संहारं तस्य तीर्थस्य प्रासादेनैव कारयेत् ॥ ३.९ ॥ वारुणस्नानप्रकरणमिति तृतीयः पटलः भस्मस्नानं प्रवक्ष्यामि तदूर्ध्वं च षडानन । मन्त्रैः सर्वैः सकृद्भस्म अभिमन्त्र्य यथाक्रमम् ॥ ४.१ ॥ जलस्नानं पुरा कृत्वा अस्त्रबीजेन षण्मुख । विधिस्नानं ततः कुर्यान्मूर्ध्न आरभ्य मन्त्रवित् ॥ ४.२ ॥ ईशानेन शिरः स्नायान्मुखं तत्पुरुषेण तु । हृदयं बहुरूपेण गुह्यं वै गुह्यकेन तु ॥ ४.३ ॥ सर्वाङ्गाणि त्वजातेन अभिषेकं तु पञ्चभिः । उपरिष्टात्प्रसादेन स्नानं कुर्वीत षण्मुख ॥ ४.४ ॥ भस्मस्नानप्रकरणम् इति चतुर्थः पटलः यजनं संप्रवक्ष्यामि यथाविध्यनुपूर्वशः । बीजाङ्कुरं पुरा शक्त्या पश्चादानन्तमासनम् ॥ ५.१ ॥ अनन्तं चान्तगं कुर्यात्क्रमेणैव षडानन । हृदयं कर्णिका पद्मं धर्मं ज्ञानादिमेव च ॥ ५.२ ॥ वैराग्यं च तथैश्वर्यमीशान्तं वह्नितो न्यसेत् । शक्तिभिः केसरव्यूहं हृदयेन च कल्पयेत् ॥ ५.३ ॥ आवाहयेत्ततो देवं हृदयेन तु षण्मुख । स्थापनं पाद्यमर्घ्यं च तथाचमनमेव च ॥ ५.४ ॥ स्नपनं पूजनं चैव हृदयेन तु कारयेत् । उक्तानुक्तं च यत्किञ्चित्तत्सर्वं हृदयेन तु ॥ ५.५ ॥ एकावरणमेतत्तु सर्वकामार्थसाधनम् । सर्वतन्त्रेषु सामान्यं सर्वज्ञानेषु चोत्तमम् ॥ ५.६ ॥ यजनप्रकरणम् इति पञ्चमः पटलः अतः परं प्रवक्ष्यामि अग्निकार्यविधिं क्रमात् । अस्त्रेणोल्लेखनं कुर्याद्वर्मणाभ्युक्षणं ततः ॥ ६.१ ॥ शक्तिन्यासं ततो दर्भैर्हृदयेनैव कारयेत् । हृदा वै शक्तिगर्भे तु प्रक्षिपेज्जातवेदसम् ॥ ६.२ ॥ गर्भाधानादिकं कृत्वा निष्कृतिं चाप्यपश्चिमाम् । हृदयेनैव मन्त्रज्ञः सर्वकर्माणि कारयेत् ॥ ६.३ ॥ पश्चात्पद्मविधानं तु प्रागुक्तं परिकल्पयेत् । शिवादिसर्वमन्त्रांश्च होमयेदनुपूर्वशः ॥ ६.४ ॥ अग्निकार्यप्रकरणम् इति षष्ठः पटलः अतः परं प्रवक्ष्यामि मण्डलं सार्वकामिकम् । भूमिशोधनं कृत्वा शास्त्रदृष्टेन कर्मणा ॥ ७.१ ॥ अधिवासं ततः कृत्वा नक्षत्रे गुरुणान्विते । आलिखेन्मण्डलं प्राज्ञः सर्वसिद्धिप्रदं शुभम् ॥ ७.२ ॥ सूत्रेण सुमितं कृत्वा चतुरश्रं समन्ततः । मध्ये पद्मं प्रतिष्ठाप्यमष्टपत्र सकर्णिकम् ॥ ७.३ ॥ एकहस्तं द्विहस्तं वा चतुर्हस्तमथापि वा । स्वतन्त्रविहितं प्राज्ञो लिखेदावरणत्रयम् ॥ ७.४ ॥ वाहयेत्पश्चिमद्वारमाचार्यः सुसमाहितः । आग्नेय्यां कारयेत्कुण्डं हस्तमात्रप्रमाणतः ॥ ७.५ ॥ यज्ञकर्मविधिं कुर्यात्सुसमिद्धे हुताशने । पूर्वादारभ्य वक्त्रादीन् विन्यसेदनुपूर्वशः ॥ ७.६ ॥ पवित्राणि पुरा न्यस्य शिवाङ्गानि न्यसेत्ततः । आग्नेय्यां हृदयं न्यस्य ऐशान्यां तु शिरस्तथा ॥ ७.७ ॥ नैरृत्यां तु शिखा ज्ञेया कवचं वायुगोचरे । अस्त्र दिक्ष्वथ विन्यस्य कर्णिकायां सदाशिवम् ॥ ७.८ ॥ गर्भन्यासविधिः प्रोक्तो द्वितीयावरणे शृणु । हृदा पूर्वं समारभ्य लोकपालान्प्रपूजयेत् ॥ ७.९ ॥ [तृतीयावरणेऽस्त्राणि स्वमन्त्रेण प्रपूजयेत् ।] संक्षेपेण मया स्कन्द विधानं परिकीर्तितम् ॥ ७.१० ॥ अनुक्तं यद्भवेत्किंचित्तत्सर्वं मूलमाश्रयेत् । एवं विधिविधानज्ञो दीक्षाकर्म समाचरेत् ॥ ७.११ ॥ मण्डलविधानप्रकरणम् इति सपतमः पटलः अथ दीक्षां प्रवक्ष्यामि पञ्चतत्त्वव्यवस्थिताम् । पृथिव्यापस्तथा तेजो वायुराकाशमेव च ॥ ८.१ ॥ पञ्चैतानि च तत्त्वानि यैर्व्याप्तमखिलं जगत् । सर्वतत्त्वानि तत्रैव द्रष्टव्यानि तु साधकैः ॥ ८.२ ॥ ब्रह्माण्डे तु निवृत्तिर्वै शतरुद्रावधिस्तथा । तदूर्ध्वं तु प्रतिष्ठा स्याद्यावदव्यक्तगोचरम् ॥ ८.३ ॥ ततो विद्या नियुक्ता सा यावद्विद्येश्वरान्तिकम् । शान्तिस्तदूर्ध्वमध्वान्ते शक्तिरेव शिवे पदे ॥ ८.४ ॥ अज्ञात्वैतानि तत्त्वानि यो दीक्षां कर्तुमिच्छति । वृथा परिश्रमस्तस्य नैव तत्फलमाप्नुयात् ॥ ८.५ ॥ निवृत्तिः पृथिवी ज्ञेया प्रतिष्ठा आप उच्यते । विद्यां तेजो विजानीयाद्वायुः शान्तिः प्रकीर्तितः ॥ ८.६ ॥ शान्त्यतीता भवेद्व्योम तत्परं शान्तमव्ययम् । तं विदित्वा महासेन श्वपचानपि दीक्षयेत् ॥ ८.७ ॥ निवृत्तिं हृदयेनैव प्रतिष्ठां शिरसा गुरुः । शिवो विद्यां तु शिखया शान्तिं वै कवचेन तु ॥ ८.८ ॥ शान्त्यतीतं परं व्योम प्रासादेन तु होमयेत् । एकैकस्य शतं होम्यमित्येवं पञ्च होमयेत् ॥ ८.९ ॥ पञ्चपूर्णाहुतीर्दद्यात्प्रासादेन तु षण्मुख । प्रायश्चित्तविशुद्ध्यर्थमष्टावेकैकयाहुतीः ॥ ८.१० ॥ अस्त्रबीजेन मन्त्रज्ञो होमयेदनुपूर्वशः । एवं समाप्यते दीक्षा जननादिविवर्जिता ॥ ८.११ ॥ हुतेनैव तु मुच्यन्ते साधका जन्मबन्धनात् । इयमिष्टिर्न प्रकाश्या गोपनीया प्रयत्नतः ॥ ८.१२ ॥ रहस्यं सर्वतन्त्राणामेष संस्कार उत्तमः । योनिन्यासादिकं कर्मोद्- धारणं चाप्यपश्चिमम् ॥ ८.१३ ॥ शोधनानुक्रमं देव कथयस्व यथाविधि । दश सप्त च ये शोध्याः पृष्टाश्चात्र त्वया गुह ॥ ८.१४ ॥ यस्य यद्बीजमुक्तं तु तद्वक्ष्याम्यनुपूर्वशः । योनिबीजं तु हृदये कल्पयेच्च यथाक्रमम् ॥ ८.१५ ॥ अर्चनं प्रोक्षणं चैव ताडनं च तथा परम् । संधानं चैव संयोगं निक्षेपं तदनन्तरम् ॥ ८.१६ ॥ अर्चनं च ततः कुर्याद्गर्भाधानं तथैव च । जननं चाधिकारं च भोगं चैव लयं तथा ॥ ८.१७ ॥ स्वतत्त्वे चाहुतिशतं हृदयेन तु षण्मुख । पाशच्छेदं तथास्त्रेण दद्यात्पूर्णाहुतिं ततः ॥ ८.१८ ॥ हृदयेनात्र तूद्धारः कर्तव्यश्चाप्यनुक्रमात् । उद्धारे प्रोक्षणे चैव ताडने च तथैव च ॥ ८.१९ ॥ हुम्फट्कारसमायुक्तं कर्तव्यं चानुपूर्वशः । संधानं चैव तत्त्वानां कर्तव्यं तु यथाक्रमम् ॥ ८.२० ॥ तत्त्वे तत्त्वे त्विदं कर्म एष एव विधिक्रमः । एभिस्तु शोधितैर्वत्स विधिं प्राप्नोति पुष्कलम् ॥ ८.२१ ॥ अन्यथा नैव मुच्यन्ते विधिहीनाः षडानन । पूर्णाहुतिप्रदानं च कर्तव्यं धारणायुतम् ॥ ८.२२ ॥ अमृतं यत्परं वत्स स्रवन्तं मनसा स्मरेत् । दीक्षाप्रकरणे ह्येतद्योज्यं सर्वत्र सर्वदा ॥ ८.२३ ॥ लिङ्गोद्धारविधाने च नित्यसंस्कारकर्मसु । पशोर्ग्रहणमोक्षं तु यत्त्वयोक्तं पुरानघ ॥ ८.२४ ॥ पाशा आभ्यन्तरा बाह्याः कम्सिन्स्थाने कथं स्थिताः । कस्मिन्स्थाने तु विच्छेद्याः सद्य उत्क्रमणं कथम् ॥ ८.२५ ॥ पशूनां चैव निर्देशं कथयस्व महेश्वर । आदिमस्य द्वितीयेन गृहीत्वात्मानमात्मना ॥ ८.२६ ॥ मुष्टिना यावत्स्थानं तन्नयेत्तं सुविचक्षणः । विषुवत्सम्प्रयोगेण ब्रह्माद्यास्ते शिवान्तकाः ॥ ८.२७ ॥ एकत्र समतां यान्ति अन्यथा तु पृथक्पृथक् । द्वादशान्ते तु ते च्छेद्याः शरेणास्त्रेण संयुताः ॥ ८.२८ ॥ तदा सायुज्यतां यान्ति समयैः परिवर्जिताः । अनिर्दिष्टमसंज्ञं च यत्कृतं तद्वृथा भवेत् ॥ ८.२९ ॥ तमुद्दिश्य कृतं कर्म मोक्षदं तन्न संशयः । सूर्यस्य ग्रहणे वत्स विषुवद्योगसंयुतम् ॥ ८.३० ॥ आयामान्ते यदा च्छिन्नं तदा चोत्क्रमते ध्रुवम् । मनसि ग्रथिताः पाशाः सूत्रे मणिगणा इव ॥ ८.३१ ॥ हृत्पद्माद्यावत्तत्पद्मं मनस्तन्तुवितानितम् । तद्दृष्ट्वा छेदनं कुर्यान्मनोवृत्त्या मनश्च्छिदा ॥ ८.३२ ॥ मनसा मनसि च्छिन्ने जीवः केवलतां व्रजेत् । विस्तरं त्यज देवेश संक्षेपात्कथयस्व मे ॥ ८.३३ ॥ येन विज्ञातमात्रेण पशून्मोचयते क्षणात् । विज्ञातमात्रेण] चोन्ज्; विज्ञानमात्रेण Bहत्त् शृणु षण्मुख तत्त्वेन येन मोक्षो ध्रुवं भवेत् ॥ ८.३४ ॥ प्रयोगेणातिसूक्ष्मेण योगदृष्टेन मन्त्रवित् । दिव्येन योगमार्गेण शक्तिं यः प्रेरयेत्तु ताम् ॥ ८.३५ ॥ तं विदित्वा महासेन जीवं प्राणमयं बुधः । विषुवत्सम्प्रयोगेण योजयेच्छाश्वते पदे ॥ ८.३६ ॥ योगं तु विषुवं प्राप्य को न मुच्येत बन्धनात् । पृथिव्याद्यब्जनाडीर्वै शब्दादिगुणवायुभिः ॥ ८.३७ ॥ आत्माधिदेवता मन्त्राञ्ज्ञात्वा मुक्तस्तु मोचयेत् । नाडीविवरसम्बन्धा ऊर्ध्वनाला ह्यधोमुखाः ॥ ८.३८ ॥ ग्रन्थिद्वययुताः सर्वे हुम्फडन्तेन योजिताः । ततश्चोर्ध्वत्वमायान्ति उद्घातैः पूर्ववद्गुह ॥ ८.३९ ॥ क्ष्माद्यानालोक्य मनसा सबाह्याभ्यन्तरं पुनः । तत्त्वे तत्त्वे नियोक्तव्या वियुक्ता निरहंकृता ॥ ८.४० ॥ ब्रह्माद्याञ्श्रावयेद्वत्स न पुनर्जन्मतां व्रजेत् । तेजश्चेतो द्विरभ्यस्य आयामो भास्करस्य तु ॥ ८.४१ ॥ ताडयित्वा पुरा वत्स ग्रहणं पूर्ववद्भवेत् । भित्त्वार्गलां न्यसेद्योनिं तत्त्वं तत्त्वेन संधयेत् । शक्तिभिः सम्पुटीकृत्य वौषडन्तेन निक्षिपेत् ॥ ८.४२ ॥ दीक्षाप्रकरणमष्टमम् अभिषेकं प्रवक्ष्यामि संक्षेपान्न तु विस्तरात् । हिताय साधकेन्द्राणां परमेशेन भाषितम् ॥ ९.१ ॥ मृण्मयं कलशं ह्येकं चन्दनेन विलेपितम् । ब्रह्मपत्रपुटं वाथ पद्मपत्रमथापि वा ॥ ९.२ ॥ सर्वौषधियुतं कृत्वा सर्वगन्धोपशोभितम् । शतमष्टोत्तरं जप्त्वा प्रासादं सर्वतोमुखम् ॥ ९.३ ॥ यागं कृत्वा तु पूर्वोक्तमभिषेकं तु कारयेत् । शुभनक्षत्रदिवसे मुहूर्ते करणान्विते ॥ ९.४ ॥ बहुमङ्गलनिर्घोषैः शङ्खवादित्रनिःस्वनैः । ब्रह्मघोषैश्च विविधैर्नृत्तगीतसमन्वितैः । अनुज्ञातोऽभिषिक्तश्च आचार्यः पाशहा भवेत् ॥ ९.५ ॥ अभिषेकप्रकरणं नवमम् नाडीचक्रं परं सूक्ष्मं प्रवक्ष्याम्यनुपूर्वशः । नाभेरधस्ताद्यत्कन्दमङ्कुरास्तत्र निर्गताः ॥ १०.१ ॥ द्वासप्ततिसहस्राणि नाभिमध्ये व्यवस्थिताः । तिर्यगूर्ध्वमधश्चैव व्याप्तं नाभेः समन्ततः ॥ १०.२ ॥ चक्रवत्संस्थिता नाड्यः प्रधाना दश तासु याः । इडा च पिङ्गला चैव सुषुम्ना च तृतीयका ॥ १०.३ ॥ गान्धारी हस्तिजिह्वा च पूषा चैव यशास्तथा । अलम्बुषा कुहूश्चैव शङ्खिनी दशमी स्मृता ॥ १०.४ ॥ दश प्राणवहा ह्येता नाडयः परिकीर्तिताः । प्राणोऽपानः समानश्च उदानो व्यान एव च ॥ १०.५ ॥ नागः कूर्मोऽथ कृकरो देवदत्तो धनंजयः । प्राणस्तु प्रथमो वायुर्नवानामपि स प्रभुः ॥ १०.६ ॥ प्राणः प्राणमयः प्राणो विसर्गः पूरणं प्रति । नित्यमापूरयत्येष प्राणिनामुरसि स्थितः ॥ १०.७ ॥ निश्वासोच्छ्वासकासैस्तु प्राणो जीवसमाश्रितः । प्रयाणं कुरुते यस्मात्तस्मात्प्राणः प्रकीर्तितः ॥ १०.८ ॥ अपानयत्यपानस्तु आहारं च नृणामधः । मूत्रशुक्लमलान्वायुरपानस्तेन कीर्तितः ॥ १०.९ ॥ पीतं भक्षितमाघ्रातं रक्तपित्तकफादिकम् । रेअद्रक्तपित्तकफानिलम् wइथ्थे णेपलेसे ंष्ष् अन्दुन्पुब्लिस्हेद्णेपलेसे ंष्षोf षप्तशतिक अन्द्ड्विशतिक रेचेन्सिओन्स्, अच्चोर्दिन्ग्तो षन्देर्सोन् (लेच्तुरे नोतेसोन् टन्त्रसार) समं नयति गात्रेषु समानो नाम मारुतः ॥ १०.१० ॥ स्पन्दत्यधरं वक्त्रं नेत्रगात्रप्रकोपनः । उद्वेजयति मर्माणि उदानो नाम मारुतः ॥ १०.११ ॥ व्यानो विनामयत्यङ्गं व्यानो व्याधिप्रकोपनः । प्रीतेर्विनाशकरणो व्यापनाद्व्यान उच्यते ॥ १०.१२ ॥ उद्गारे नाग इत्युक्तः कूर्म उन्मीलने स्मृतः । कृकरस्तु क्षुते चैव देवदत्तो विजृम्भणे । धनंजयः स्थितो घोषे मृतस्यापि न मुञ्चति ॥ १०.१३ ॥ इत्येतद्वायुवृन्दं हृदि च विनिहितं नाभिचक्रप्रतिष्ठितं निश्वासोच्छ्वासकैः श्वसनपुरमधः कम्पिताघूर्णितैश्च । नित्यं नित्याल्पजन्मा व्यसनयति पशुं यौवने बालभावे आक्रान्तो वायुरेकः स जननमरणैः क्रीडति भ्रान्तसत्त्वैः ॥ १०.१४ ॥ नाडीचक्रं यथावस्थं प्रवक्ष्याम्यनुपूर्वशः । दशारं चक्रमेत्तत्तु विभागो जायते यथा ॥ १०.१५ ॥ चक्रे भ्रमत्यसौ जीवो दशस्थानेष्वनुक्रमात् । स जीवो जीवलोकस्य बुध्यन्ते नैव मोहिताः ॥ १०.१६ ॥ जीवः प्रयाति दशधा तेन चक्रं प्रकीर्तितम् । नाडीचक्रमिति प्रोक्तं येन संक्रामति ह्यसौ ॥ १०.१७ ॥ हृद्व्योममध्ये पङ्कजमष्टदलं कर्णिका च तस्यान्तः ।* हृदये पङ्कजमर्केन्द्वग्निहिरण्यद्योताभाः शक्तयस्तस्मिन् ॥ १०.१८ ॥* ॡःाट्मेत्रे इस्थिस्?? Bअद्(बेचौसे ओf त्रन्स्मिस्सिओन्) आर्या. उपरिचरी खलु शक्तिस्तासां प्राग्भाविनी शिवस्य ततः ।* शक्तिचतुष्टयपङ्कजमध्ये पुरुषोऽलिरिव स लीनः ॥ १०.१९ ॥* आर्या मेत्रे शून्यमरुत्संदंशकगृहीतकरणात्मको ह्युभयतोऽपि ।* संयाति यत्र नेयः शुष्कदलं मारुतेनेव ॥ १०.२० ॥* भ्राम्यति पङ्कजमध्ये कलाचतुष्कात्मपाशसंरुद्धः ।* गोलकमिव हेलाभिहतमुत्पतनं निपातनं कुरुते ॥ १०.२१ ॥* ईश्वरयोगाद्विषुवत्संक्रान्तिश्चैव सिद्धिसंयोगात् ।* सौरनियोगाद्दक्षिणमुदगयनं चान्द्रसंयोगात् ॥ १०.२२ ॥* अयने सव्यासव्ये द्वौ पुटकौ युग्मतो विषुवदाहुः ।* संक्रान्तिरितश्चेतश्च गच्छतस्तेन समाख्याता ॥ १०.२३ ॥* सौरः सव्यो मार्गश्चान्द्रमसश्चेतरः समाख्यातः ।* धन्योऽभिषेक इन्दुः सौरः खलु वह्निसंधाने ॥ १०.२४ ॥* ध्यानाद्यो विषुवति च प्राग्दलसंस्थो नृपावलेपी स्यात् ।* तेजस्वी च बुभुक्षा पीडा वा जायतेऽग्निदिक्पत्रे ॥ १०.२५ ॥* जायते] चोन्ज्; संजायते Bहत्तुन्मेत्रिचल् याम्ये याम्यो भावो नैरृत्ये नैरृतो विनिर्दिष्टः ।* नैरृत्ये] चोन्ज्; नैरृते Bहत्तुन्मेत्रिचल् वारुणपत्रे वारुणो मारुत्पत्रे गतो मरुद्भावम् ॥ १०.२६ ॥* सौम्ये सौम्यो भावस्त्वैशे त्वैशः समाख्यातः ।* यां यां दिशमभिगच्छति तद्भावं निखिलमायाति ॥ १०.२७ ॥* पत्रान्तरालयोगाच्छून्यमिवात्मा ततो भाति ।* इति खलु पुद्गलचारो नाडीसधानमण्डलं मुख्यम् ।* कथितमिह सिद्धिहेतोर्बोद्ध्यव्यं यत्नतः सिद्धम् ॥ १०.२८ ॥* नाडीचक्रप्रकरणं दशमम् स जीवो जीवलोकस्य ज्ञायतेऽध्यात्मगो यथा । संशयो मे महादेव प्रसादीभव शूलधृक् ॥ ११.१ ॥ जीवस्य पुरुषाख्यस्य दर्शनं शृणु षण्मुख । कथयामि न सन्देहः पुत्रस्नेहाद्विशेषतः ॥ ११.२ ॥ संक्रान्तिं विषुवं चैव अहोरात्रायनानि च । अधिमासमृणं चापि ऊनरात्रं धनं तथा ॥ ११.३ ॥ ऊनरात्रं क्षुतं ज्ञेयमधिमासो विजृम्भिका । ऋणं च कासो विज्ञेयो निश्वासो धनमुच्यते ॥ ११.४ ॥ उत्तरं दक्षिणं ज्ञेयं वामदक्षिणसंस्थितम् । मध्ये तु विषुवत्प्रोक्तं पुटद्वयविनिःसृतम् ॥ ११.५ ॥ संक्रान्तिः पुनरस्यैव स्वस्थानात्स्थान एव च । इडा च पिङ्गला चैव अमा चैव तृतीयका ॥ ११.६ ॥ सुषुम्ना मध्यमे ह्यङ्गे इडा वामे प्रकीर्तिता । पिङ्गला दक्षिणे ह्यङ्गे एषु संक्रान्तिरुच्यते ॥ ११.७ ॥ ऊर्ध्वं प्राणो ह्यहः प्रोक्तः अपानो रात्रिरुचय्ते । ८ ब्= णिश्वासोत्तरसूत्र ५:१७ द् विभागा दश प्राणस्य यो वेत्त्येवं स वेदवित् ॥ ११.८ ॥ आयामो देहमध्यस्थः सोमग्रहणमिष्यते । देहातीतं तु तं विद्यादादित्यग्रहणं बुधः ॥ ११.९ ॥ अयुते द्वे सहस्रं तु षट्शतानि तथैव च । अहोरात्रेण योगीन्द्रो जपसंख्यां करोति सः ॥ ११.१० ॥ प्राणायामं समासेन कथयामि तवाखिलम् । उच्चारयेत्तु प्रणवं स्वरेणैकेन योगवित् ॥ ११.११ ॥ उदरं पूरयित्वा तु वायुना यावदीप्सितम् । प्राणायामो भवेदेष पूरको देहपूरकः ॥ ११.१२ ॥ पिधाय सर्वद्वाराणि निश्वासोच्छ्वासवर्जितः । सम्पूर्णकुम्भवत्तिष्ठेत्प्राणायामः स कुम्भकः ॥ ११.१३ ॥ मुञ्चेद्वायुं ततश्चोर्ध्वं श्वासेनैकेन योगवित् । निश्वासयोगयुक्तस्तु यावदूर्ध्वं स रेचयेत् ॥ ११.१४ ॥ रेचकस्त्वेष विख्यातः प्राणसंशयकारकः । यत्तद्धृदि सदा पद्ममधोमुखमवस्थितम् ॥ ११.१५ ॥ विकसत्येतदूर्ध्वं तु पूरकेण तु पूरितम् । ऊर्ध्वस्रोतो भवेत्पद्मं कुम्भकेन निरोधितम् ॥ ११.१६ ॥ रेचकेन तथा क्षिप्तं सद्यःप्राणहरेण तु । च्f. Kइर्५९:१ मुक्त्वा हृदयपद्मं तु ऊर्ध्वस्रोतोव्यवस्थितम् ॥ ११.१७ ॥ रेचितो गच्छति ह्यूर्ध्वं ग्रन्थिं भित्त्वा क्षणेन तु । भित्त्वा कपालद्वारं तु जीवो ह्यूर्ध्वं तु रेचितः ॥ ११.१८ ॥ सदाशिवपदं गत्वा न भूयो जन्म चाप्नुयात् । आयामः क्रियते तस्य नान्यस्य तु कदाचन । स जीवो जीवलोकस्य मया प्रोक्तः समासतः ॥ ११.१९ ॥ इत्येकादशः पटलः चन्द्राग्निरिव संयुक्ता आद्या कुण्डलिनी तु या । हृत्प्रदेशे तु सा ज्ञेया अङ्कुराकारवत्स्थिता ॥ १२.१ ॥ सृष्टिन्यासं न्यसेत्तत्र द्विरभ्यासपदेरितम् । स्रवन्तं चिन्तयेत्तस्मिन्नमृतं साधकोत्तमः ॥ १२.२ ॥ अग्नीषोमात्मकं सर्वं जगत्स्थावरजङ्गमम् । चिन्तयेद्विपरीतं तु सिद्धिकामः समाहितः ॥ १२.३ ॥ स्वदेहं चिन्तयेद्विद्वान् दिव्यरूपमनौपमम् । यस्य यत्कर्म चोद्दिष्टं तत्कर्म परिचिन्तयेत् ॥ १२.४ ॥ इदं च योऽभ्यसेदेवममृतं सर्वतोमुखम् । अचिरेणैव कालेन स सिद्धिफलभाग्भवेत् ॥ १२.५ ॥ सृष्टिन्यासमविज्ञाय कथं युञ्जीत साधकः । हन्यान्मुष्टिभिराकाशं तुषान्कुट्टयतीव सः ॥ १२.६ ॥ इति द्वादशः पटलः अथातः सम्प्रवक्ष्यामि सृष्टिं मन्त्रलिपेः क्रमात् । यथा तु सकलो देवो निष्कलेन समन्वितः ॥ १३.१ ॥ कलामुत्पादयामास सर्वमन्त्रप्रवर्तिकाम् । ओंकारमूर्ध्नि मध्यस्थ ओंकारव्यापकस्तथा ॥ १३.२ ॥ ओंकारप्रथमां रेखां सृजति प्रभुः(?) । विद्या नाम कला सा तु वर्णे वर्णे व्यवस्थिता ॥ १३.३ ॥ ओंकारस्य उकाराभा रेखा या सम्प्रदृश्यते । प्रतिष्ठा नाम सा ज्ञेया उकाराक्षरसम्भवा ॥ १३.४ ॥ मूर्ध्नि तस्य भवेद्यासौ सूक्ष्मरेखा निरञ्जना । मकारो ह्यभवत्तत्र निवृत्तिर्नाम सा कला ॥ १३.५ ॥ ओंकारमूर्ध्नि संयुक्ता लय ओंकारमूर्धनि । रेखेयं व्योम्नि निर्वाणा सा कला शान्तिरुच्यते ॥ १३.६ ॥ संयोगात्सम्प्रकाशेत निष्कले सकले स्थिता । मूर्धन्याक्रान ओंकारे शब्दस्तत्र तु जायते ॥ १३.७ ॥ सा शक्तिः परमा सूक्ष्मा बिन्दुना सहिता मता । दीपादिव महत्तेजो विस्फुलिङ्गशिखान्वितम् ॥ १३.८ ॥ निपतन्ती त्रिधा याति शिवविद्यात्मकैर्यथा । शान्तिर्विद्या प्रतिष्ठा च निवृत्तिश्चेति ताः कलाः ॥ १३.९ ॥ या कला रेखिनी तत्र पतिता बिन्दुना सह । सविद्येशः शिवः प्रोक्तो देवदेवः सदाशिवः ॥ १३.१० ॥ प्रथमं तस्य तद्बीजं नादबिन्दुरितीरितम् । न जहाति परं स्थानं शाश्वतं ध्रुवमव्ययम् ॥ १३.११ ॥ बिन्दुं तदुदरे क्षिप्त्वा मातृवत्परिरक्षति । तस्योर्ध्वं वामपार्श्वेऽथ विष्णुबीजं प्रतिष्ठितम् ॥ १३.१२ ॥ दक्षिणं ब्रह्मयोनिस्थमेकमेव त्रिधा स्थितम् । पार्श्वबिन्दुद्वयोपेता सा रेखा मध्यतः स्थिता ॥ १३.१३ ॥ तत्र देवः शिवः सूक्ष्मो गूढस्तिष्ठति शंकरः । तद्बीजं परमं देवं शक्तिगर्भो महेश्वरः ॥ १३.१४ ॥ यतः प्रवर्तते सर्वं मन्त्रतन्त्रं चराचरम् । अव्यक्तं परमं सूक्ष्मं शक्तिदेहं निरञ्जनम् ॥ १३.१५ ॥ शिवं त्वनादिनिधनं यं बुद्ध्वा नाभिजायते । दक्षिणस्थं हि यद्बीजं ज्ञानशक्तिः परा हि सा ॥ १३.१६ ॥ तद्बीजमपरं ब्रह्मा यत्र गूढः स तिष्ठति । वामगोऽथ परो बिन्दुः क्रियाशक्तिः परा हि सा ॥ १३.१७ ॥ तत्र विष्णुः स्वयं बीजे गूढः सूक्ष्मो निरञ्जनः । एष देवोऽपि सर्गस्थो विसृष्टो यः स शम्भुना ॥ १३.१८ ॥ निगूढत्वान्न पश्यन्ति येन सृष्टं चराचरम् । विसर्गाज्जायते सृष्टिरीश्वरः प्रभुरेव सः ॥ १३.१९ ॥ विसृष्टं येन तद्बीजं विसर्गस्तेन चोच्यते । तेन चापूरितमिदं जगत्सर्वं च तन्मयम् ॥ १३.२० ॥ शक्तिरश्मिसमूहेन शतशोऽथ सहस्रशः । सृजति ग्रसति ह्येष संयोजकवियोजकः ॥ १३.२१ ॥ ज्ञानशक्त्या च भगवाननुगृह्णाति वै शिवः । विसर्गाच्च भवेत्सृष्टिः संहारो बिन्दुना सह । निर्वाणं तत्त्वविज्ञानं तन्त्रविस्तारगोचरः ॥ १३.२२ ॥ मन्त्रसृष्टिप्रकरणम् संहारश्चैव सृष्टिश्च सर्वं निगदितं प्रभो । दीक्षितानां गतिभ्रंशं संक्षेपात्कथयस्व मे ॥ १४.१ ॥ मायाविनि शठे क्रूरे निःसत्त्वे कलहप्रिये । गतिभ्रंशकरे योगे तत्त्वं तच्छृणु षण्मुख ॥ १४.२ ॥ विधाय मूर्ध्नि क्षिप्तस्य आयामे शशिनः क्रमात् । पूर्ववन्मनसालोक्य गतिं तस्य निवर्तयेत् ॥ १४.३ ॥ संहारसम्पुटं कूटमादावन्ते षडानन । मातृकायां शतं हुत्वा एकैकस्य पृथक्पृथक् ॥ १४.४ ॥ गतिभ्रंशप्रकरणम् प्रासादं नादमुत्थाप्य जपेद्यः सततं नरः । षण्मासात्प्राप्नुयात्सिद्धिं योगयुक्तो न संशयः ॥ १५.१ ॥ गमागमस्य जपतः सर्वपापक्षयो भवेत् । अणिमादिगुणैश्वर्यं षण्मासैस्तु न संशयः ॥ १५.२ ॥ गमागमं विदित्वा तु मुच्यते नात्र संशयः । तन्मयस्तल्लयो भूत्वा षण्मासात्सिद्धिमाप्नुयात् ॥ १५.३ ॥ स्थूलः सूक्ष्मः परश्चैव प्रासादः कथितो मया । प्रासादं ये न बुध्यन्ति ते न बुध्यन्ति शङ्करम् ॥ १५.४ ॥ प्रासादभेदप्रकरणम् अतः परं प्रवक्ष्यामि प्रासादस्य तु लक्षणम् । ह्रस्वं दीर्घं प्लुतं चैव लक्षयेन्मन्त्रवित्सदा ॥ १६.१ ॥ ह्रस्वो दहति पापानि दीर्घो मोक्षप्रदो भवेत् । आप्यायने प्लुतश्चैव बिन्दुना मूर्ध्नि भूषितः ॥ १६.२ ॥ स्थूलभेदास्त्रयः प्रोक्ता वश्योच्चाटनमारणे । प्लुतेन तु सदा वश्यं कुरुते नात्र संशयः ॥ १६.३ ॥ दीर्घस्तूच्चाटयेत्क्षिप्रं फट्कारेण न संशयः । आदावन्ते च ह्रस्वस्य फट्कारो मारणे स्मृतः ॥ १६.४ ॥ आदावन्ते च हृदय- योग आकर्षणे स्मृतः । आकर्षयेद्ध्रुवं युक्तो योजनानां शते स्थितम् ॥ १६.५ ॥ एवमाकर्षयेत्साध्यं नाम विज्ञाय तत्त्वतः । साधकस्य भवेद्बह्वी न्यूना साध्यस्य कीर्तिता ॥ १६.६ ॥ एवं विदित्वा मेधावी आकर्षं कुरुते ध्रुवम् । अविज्ञाय त्विदं सम्यङ्नैव सिद्ध्यते सर्वदा ॥ १६.७ ॥ यागं कृत्वा तु पूर्वोक्तं मन्त्रस्यार्घ्यं च दापयेत् । अर्घ्यं दत्त्वा तु मन्त्रस्य जपं कुर्याद्विचक्षणः ॥ १६.८ ॥ देवस्य दक्षिणे भागे पञ्चलक्षं स्थितो जपेत् । जपान्ते घृतहोमस्तु दशसाहस्रिको भवेत् ॥ १६.९ ॥ एवमाप्यायितो मन्त्रः कर्मयोग्यो भवेत्ततः । उक्तानुक्तानि कर्माणि सिद्धिं यान्ति न संशयः ॥ १६.१० ॥ दशलक्षाणि जपतो जनाः स्वस्थानवासिनः । वशमायान्ति ते क्षिप्रमिति शास्त्रस्य निश्चयः ॥ १६.११ ॥ त्रिपञ्चलक्षं जपतो दशग्रामनिवासिनः । ते जना वशमायान्ति आत्मना च धनेन च ॥ १६.१२ ॥ एवं विंशतिभिर्लक्षैः प्रासादस्य षडानन । देशदेशाधिपान्मन्त्री नियतं वशमानयेत् ॥ १६.१३ ॥ लक्षाणां पञ्चविंशत्या विषयं वशमानयेत् । त्रिंशल्लक्षजपादस्य वशो वै मण्डली भवेत् ॥ १६.१४ ॥ पञ्चत्रिंशच्च लक्षाणि जपन्पृथ्वीं वशं नयेत् । चत्वारिंशज्जपाद्देवमीक्षते हाटकेश्वरम् ॥ १६.१५ ॥ लक्षाणि जप्त्वा पञ्चाशद्- विद्याधरसमो भवेत् । तत्रैव मोदते मन्त्री यावदाभूतसम्प्लवम् ॥ १६.१६ ॥ प्रासादलक्षणप्रकरणं षोडशम् इति षोडशः पटलः अद्यापि संशयो देव ज्ञानविज्ञानयोः स्फुटम् । कथं वा ज्ञायते ज्ञानं कथं वा ज्ञेयमुच्यते ॥ १७.१ ॥ विज्ञाय पूर्वमाधारं पश्चादाधेयमेव च । आधाराधेयवित्प्राज्ञः समर्थः सर्वकर्मसु ॥ १७.२ ॥ आधारः पुरमित्युक्तमाधेयस्त्वीश उच्यते । ईशं विज्ञाय मेधावी सदा यो नन्दति स्वयम् ॥ १७.३ ॥ पुर्यष्टकसमायुक्तो ह्यध ऊर्ध्वं स गच्छति । शब्दः स्पर्शश्च रूपं च रसो गन्धश्च पञ्चकम् ॥ १७.४ ॥ बुद्धिर्मनस्त्वहङ्कारः पुर्यष्टकमुदाहृतम् । णोते थत्थिस्देfइनितिओनोf थे पुर्यष्टक इस्नोत् अच्चेप्तेद्ब्यृअम् wइथोउत्चोन्सिदेरब्ले दिस्तोर्तिओन्. यावदेतैर्न निर्मुक्तः कथं मुच्येत बन्धनात् ॥ १७.५ ॥ ब्रह्मणि स्पर्शशब्दौ तु रसं वै केशवे त्यजेत् । रूपगन्धौ त्यजेद्रुद्रे बुद्ध्यहङ्कारमीश्वरे । मनो बिन्दुं शिवे त्यक्त्वा एभिर्मुक्तः शिवं व्रजेत् ॥ १७.६ ॥ विज्ञानप्रकरणम् इति सप्तदशः पटलः कालचक्रविधानं तु प्रवक्ष्याम्यनुपूर्वशः । कालचक्रमिति ख्यातं येन कालः प्रबुध्यते ॥ १८.१ ॥ त्र्यहोरात्रप्रचारेण त्रीण्यब्दानि स जीवति । द्व्यहोरात्रप्रचारेण जीवेद्वर्षद्वयं तु सः ॥ १८.२ ॥ अहोरात्रप्रचारेण अब्दमेकं स जीवति । अहरेकं व्रजेद्यस्य रात्रिमेकां तथैव च ॥ १८.३ ॥ षण्मासाज्जायते मृत्युरिति शास्त्रस्य निश्चयः । द्वितीयस्यानुचारेण अहोरात्रं स जीवति ॥ १८.४ ॥ यथा चाद्या तथा वामा मध्यमा च तथैव च । कालचक्रं समाख्यातं पुत्रस्नेहाद्विशेषतः ॥ १८.५ ॥ कालचक्रप्रकरणम् इति अष्टादशः पटलः पूर्वमेवं प्रतिज्ञातं शिवभेदोऽष्टधा स्थितः । कथं भिद्येत देवेश तत्त्वतः कथय प्रभो ॥ १९.१ ॥ सकलं निष्कलं शून्यं कलाढ्यं खमलङ्कृतम् । क्षपणं च तथान्तस्थं कण्ठोष्ठ्यं चाष्टमं विदुः ॥ १९.२ ॥ ठिस्वेर्से इस्णिस्ंुल ६:६ (f.२१ एर्सो, लिने २) [रेअदिन्ग्स्मृतम् fओर्विदुः] प्रासादं षष्ठसंयुक्तं षडन्तेन समन्वितम् । ३ = णिस्ंुल ६:७ सकलं सर्वभूतस्थं शिवतत्त्वं प्रकीर्तितम् ॥ १९.३ ॥ ३ द्= णिस्ंुल ६:७ द्[wइथ्॰देहस्थं fओर्॰भूतस्थं] निष्क्रामति स्वयं देवो देहं त्यक्त्वा समारुतः । निष्कलं तं विजानीयात्षड्वर्णरहितं शिवम् ॥ १९.४ ॥ ४ ब्च्द्= णिस्ंुल ६:८ निश्वासोच्छ्वसने हित्वा स्थितो देहे तु काष्ठवत् । शून्यं तं तु विजानीयाद्धृदयेन तु भावयेत् ॥ १९.५ ॥ ५ ब्च्द्= णिस्ंुल ६:९ चुम्बाकारेण वक्त्रेण यत्तत्त्वं परिकीर्तितम् । कलाढ्यं तं विजानीयादाकाशस्थमथ शृणु ॥ १९.६ ॥ ऐश त्रेअत्मेन्तोf ऋ इन् शृणु [मकिन्ग्थे प्रेविओउस्स्य्ल्लब्ले लोन्ग्] ६ च्द्= णिस्ंुल ६:१० च्द् ऊर्ध्वनादस्य क्षीणस्य यदन्तं परिकीर्तितम् । तत्रस्थं तं विजानीयादाकाशेन त्वलङ्कृतम् ॥ १९.७ ॥ ७ ब्च्द्= णिस्ंुल ६:११ व्यावृतेनैव वक्त्रेण ब्रूयदेवं जगद्गुरुम् । दुःखक्षपणमित्युक्तं तत्क्षयात्क्षपणं स्मृतम् ॥ १९.८ ॥ ८ ब्च्द्= णिस्ंुल ६:१२ अधोनादस्य क्षीणस्य यदन्तं परिकीर्तितम् । अन्तस्थं तं विजानीयादनुच्चार्यं प्रकीर्तितम् ॥ १९.९ ॥ ९ ब्च्द्= णिस्ंुल ६:१३ सप्तवर्गाष्टमं कोटिः सप्तमस्य द्वितीयकम् । वर्गातीतं षडन्तं च सप्तमात्त्रिचतुर्थकम् ॥ १९.१० ॥ १० = णिस्ंुल ६:१४ आदिमं तु पुनर्योज्यं षष्ठं वै प्रथमस्य तु । खशेखरसमायुक्तं कण्ठोष्ठ्यं चाष्टमं स्मृतम् ॥ १९.११ ॥ ११ = णिस्ंुल ६:१५ एते भेदाः समाख्याता अणिमादिप्रसाधने । अनुच्चार्यमसन्दिग्धं मोक्ष इत्यभिधीयते ॥ १९.१२ ॥ शिवभेदाष्टकप्रतिपादनप्रकरणम् इत्येकोनविंशः पटलः कथं व्यापी अधश्चोर्ध्वं तिर्यक्चैव कथं भवेत् । एतन्मे ब्रूहि तत्त्वेन कारुण्यात्त्वं महेश्वर ॥ २०.१ ॥ यावद्देहे स्थितो जन्तोरधस्तावद्व्यवस्थितः । निर्गतो व्यापयेत्तिर्यग्- अन्तस्थः सर्वतः स्थितः ॥ २०.२ ॥ त्रिमार्गावस्थितो देवः सर्वदेहेषु वर्तते । अविदित्वा न मुच्येत यद्यप्येतल्लयो भवेत् ॥ २०.३ ॥ तत्त्रिमार्गं त्र्यधिष्ठानं सर्वदेहेषु वर्तते । यो वेत्त्येवमिमां व्याप्तिं सर्वव्यापी न संशयः ॥ २०.४ ॥ न तस्य गर्भसम्भूतिर्यथा देवः प्रभाषते । तावद्भ्रमति संसारे यावद्व्याप्तिं न विन्दति ॥ २०.५ ॥ विदित्वा व्यापिनं जीवं मुच्यते नात्र संशयः । यथा तृणजलूका नु तृणाग्रं यावदागता ॥ २०.६ ॥ उपरिष्टान्निरालम्बा तद्वज्जीवोऽत्र संस्थितः । ऊर्ध्वशून्यमधः शून्यं शून्यं देहान्तरस्थितम् ॥ २०.७ ॥ त्रिशून्यं यो विजानाति मुच्यते स ध्रुवं गुह । व्याप्तिश्चास्य मया प्रोक्ता संक्षेपान्न तु विस्तरात् । अतः परतरं नास्ति व्यापकं व्यापकस्य तु ॥ २०.८ ॥ व्याप्तिप्रकरणम् इति विंशः पटलः अतः परं प्रवक्ष्यामि अष्टधा प्रत्ययो यथा । अनग्निज्वलनं चैव वृक्षस्यालभनं तथा ॥ २१.१ ॥ पाशानां स्तोभनं चैव महापातकनाशनम् । विषसंहरणं चैव निर्बीजकरणं तथा ॥ २१.२ ॥ ग्रहज्वरविनाशश्च प्रत्ययोऽष्टविधः स्मृतः । एवं ज्ञात्वा तु विधिवत्ख्यातिः सर्वत्र जायते ॥ २१.३ ॥ प्रणवेनाग्निमध्यस्थो हकारो ह्रीं तथैव च । आदिरों च नमश्चान्ते अनग्निज्वलने हितम् ॥ २१.४ ॥ अग्निं स्रोतसि संयोज्य सहस्रोद्घातसंयुतम् । पञ्चाक्षरप्रयोगेण ज्वलत्येव न संशयः ॥ २१.५ ॥ ओंकारः सर्वतोऽधस्ताद्रेफस्तस्योर्ध्वतः स्थितः । पूर्ववत्सम्प्रयुक्तोऽयं प्रयोगो भुवि दुर्लभः ॥ २१.६ ॥ शतैः सप्तभिरुद्घातैरालब्धो म्रियते द्रुमः । भूयस्श्चाप्यायनं तस्य वारुणे स्रोतसि स्थितम् ॥ २१.७ ॥ स जीवति पुनर्वृक्षो यथापूर्वं तथैव सः । तादृगेव पुनश्चासौ किं तु रेफविवर्जितः ॥ २१.८ ॥ आप्यायनविधौ ह्येष पञ्चधा बिन्दुदीपितः । औकारमध्यसंयुक्तः प्रणवेनान्तदीपितः ॥ २१.९ ॥ ईकारादिः स हौ मध्ये वह्निमध्यं ततः परम् । प्रयोगो विषुवत्काले पाशानां स्तोभकारकः ॥ २१.१० ॥ शतैः पञ्चभिरुद्घातैः पतत्येव न संशयः । पुनश्चोत्थापनं तस्य यथा भवति तच्छृणु ॥ २१.११ ॥ ईकाराद्यन्तसंयुक्तं हौ च मध्ये नियोजितम् । प्राणानुस्वारसन्दीप्तं नमोऽन्तं प्रणवं पुनः ॥ २१.१२ ॥ उत्थापने प्रयुञ्जीत सर्वभूतेषु तत्त्ववित् । तावद्भिरेव चोद्घातैर्योजनीयः प्रयत्नतः ॥ २१.१३ ॥ लबीजं जीवसंविष्टं हकाराद्यन्तसंस्थितम् । पूर्ववन्मध्यसंस्थं च वायुबिन्दुसमन्वितम् ॥ २१.१४ ॥ यदस्यारोहणे प्रोक्तं गुरुत्वं जायते यथा । भूय एव प्रवक्ष्यामि लघुत्वं जायते यथा ॥ २१.१५ ॥ ओंकारो हं यकारेण ह्यौकारो हं नमस्तथा । तुलापुरुषयोगोऽयमुद्घातैरयुतेन तु ॥ २१.१६ ॥ स हकारो वकारेण यकारेण च दीपितः । ह्यौ मध्ये ह्लीं नमश्चान्ते वारुणेन तु बुद्धिमत् ॥ २१.१७ ॥ उद्घाताष्टशतेनैव विषं संहरति ध्रुवम् । यथाग्निज्वलने दृष्टो निर्बीजकरणे तथा ॥ २१.१८ ॥ शतैः पञ्चभिरुद्घातैर्विशेषोऽत्र विधीयते । ओंकारमादितः कृत्वा ह्रूंकारं तदनन्तरम् ॥ २१.१९ ॥ ह्रौं ह्रूं च फण्णमश्चान्ते ग्रहाणां नाशने मतः । प्रयोगे वारुणे मार्गे उद्घाताष्टशतेन तु ॥ २१.२० ॥ प्रणवादि ततो हुं फठुं फठुं फट्तथैव च । फट्फट्फट्फट्फडेवं स्याद्वारुणेन तु बुद्धिमान् । उद्घाताष्टशतेनैव क्षिप्रं नाशयति ज्वरम् ॥ २१.२१ ॥ प्रत्ययप्रकरणम् इत्येकविंशः पटलः प्रासादः कीदृशो ज्ञेयो व्याप्तिस्तस्य च कीदृशी । शरीरं कीदृशं तस्य कथयस्व महेश्वर ॥ २२.१ ॥ प्रासादं यो न जानाति पञ्चमन्त्रमहातनुम् । अष्टत्रिंशत्कलोपेतं नासावाचार्य उच्यते ॥ २२.२ ॥ प्रासादं सम्यगज्ञात्वा यो दीक्षां कुरुते गुरुः । अधस्ताच्छिष्यमात्मानं नयत्यत्र न संशयः ॥ २२.३ ॥ प्रासादाब्जशिखान्तस्थो यस्तु दीक्षां करोति सः । आचार्यः सह शिष्येण शिवसायुज्यमाप्नुयात् ॥ २२.४ ॥ ब्रह्मा विष्णुश्च रुद्रश्च इन्द्रश्चन्द्रो बृहस्पतिः । प्रजापतिस्तथादित्यः शुक्रः स्कन्दो भृगुस्तथा ॥ २२.५ ॥ ये चान्ये प्राणिनो देवाः सर्वे प्रोक्ताः प्रसादजाः । एते चान्ये च बहवो मुनयः संशितव्रताः ॥ २२.६ ॥ ध्यायन्ति परमं हंसं प्रासादं नामरूपतः । विभागं चास्य वक्ष्यामि यं ध्यात्वामृतमश्नुते ॥ २२.७ ॥ सद्यः कलाष्टसंयुक्तमकाराक्षरजं विदुः । विद्यादुकारजं वाममघोरं च मकारजम् ॥ २२.८ ॥ बिन्दुजः पुरुषो ज्ञेय ईशानस्तु शिखात्मजः । एवं मन्त्रास्तु पञ्चैते प्रासादात्सम्भवन्ति ये ॥ २२.९ ॥ दशकोटिः सहस्राणां मन्त्राणाममितौजसाम् । इष्टेन तु प्रसादेन सर्व इष्टा न संशयः ॥ २२.१० ॥ मारुता नव शक्त्याद्या ये मन्त्राः परिकीर्तिताः । प्रासादाब्जसमुत्पन्नाः सर्वे चामोघशक्तयः ॥ २२.११ ॥ सद्यस्तु पृथिवी ज्ञेयो वामो ह्यापः प्रकीर्तितः । अघोरस्तेज इत्युक्तो वायुस्तत्पुरुषः स्मृतः ॥ २२.१२ ॥ आकाशस्तु भवेदीशः स्वयं देवो महेश्वरः । सद्योजातस्तु ऋग्वेदो वामदेवो यजुः स्मृतः ॥ २२.१३ ॥ अघोरः सामवेदः स्यादथर्वः पुरुषः स्मृतः । पञ्चमस्तु परः सूक्ष्मो व्योमव्यापी सदाशिवः ॥ २२.१४ ॥ सद्योजातस्तु वै ब्रह्मा वामो विष्णुः प्रकीर्तितः । अघोरो रुद्रदैवत्य ईश्वरः पुरुषः स्मृतः ॥ २२.१५ ॥ ईशानः शिवदैवत्यो हृदयादाववस्थितः । षष्ठं तु यत्परं तत्त्वमसादृश्यगुणैः स्थितम् ॥ २२.१६ ॥ तस्य देहो न वक्तव्यः प्राकृतैर्गुणसम्भवैः । ज्ञात्वा परमनिःश्रेणीं पञ्चसंस्थानगामिनीम् ॥ २२.१७ ॥ ज्ञातमेव सकृद्येन विस्तृतं तु तदेव तत् । तत्काल एव मुक्तोऽसौ यदा ज्ञातं हि तत्पदम् ॥ २२.१८ ॥ प्रासादनिर्णयप्रकरणम् इति द्वाविंशः पटलः शृणु षण्मुख तत्त्वेन ज्ञानामृतमनुत्तमम् । यन्न कस्यचिदाख्यातं नाख्येयं कथयामि तत् ॥ २३.१ ॥ देहस्थः सकलो ज्ञेयो निष्कलो देहवर्जितः । आप्तोपदेशगम्योऽसौ सर्वतः किमपि स्थितः ॥ २३.२ ॥ हंस हंसेति यो ब्रूयद्धंसो देवः सदाशिवः । गुरुवक्त्रात्तु लभ्येत प्रत्यक्षं सर्वतोमुखः ॥ २३.३ ॥ तिलेषु च यथा तैलं पुष्पे गन्ध इव स्थितः । पुरुषस्तु शरीरेऽस्मिन् सबाह्याभ्यन्तरे स्थितः ॥ २३.४ ॥ उल्काहस्तो यथा कश्चिद्द्रव्यमालोक्य तां त्यजेत् । ज्ञानेन ज्ञेयमालोक्य तथा ज्ञानं परित्यजेत् ॥ २३.५ ॥ पुष्पं तु सकलं विद्याद्गन्धस्तस्य तु निष्कलः । वृक्षं तु सकलं विद्याच्छाया तस्य तु निष्कला ॥ २३.६ ॥ सकले निष्कलो भावः सर्वत्रैव व्यवस्थितः । उपायः सकलस्तद्वदुपेयश्चैव निष्कलः ॥ २३.७ ॥ सकले सकलो भावो निष्कले निष्कलस्तथा । त्रिमात्रश्च द्विमात्रश्च एकमात्रस्तथैव च ॥ २३.८ ॥ अर्धमात्रा परा सूक्ष्मा तस्या ऊर्ध्वं परात्परम् । ब्रह्मा विष्णुश्च रुद्रश्च ईश्वरः शिव एव वा ॥ २३.९ ॥ पञ्चधा पञ्चदैवत्यः सकलः परिपठ्यते । ब्रह्मणो हृदयं स्थानं कण्ठे विष्णुः समाश्रितः ॥ २३.१० ॥ तालुमध्ये स्थितो रुद्रो ललाटस्थो महेश्वरः । नासाग्रे तु शिवं विद्यात्तस्यान्ते तु परं पदम् ॥ २३.११ ॥ नासाग्रे ंष्षि,ई,उ,मु; नादान्ते Bहत्त् परस्मात्तु परं नास्ति इति शास्त्रस्य निश्चयः । गमागमः कथं तस्य केन वा नीयते तु सः ॥ २३.१२ ॥ संशयो मे महादेव कथयस्व यथार्थतः । शक्त्या तु नीयते जीवस्तस्मिन्प्राप्य निवर्तते ॥ २३.१३ ॥ अस्यान्तं ते प्रवक्ष्यामि शृणु षण्मुख तत्त्वतः । देहातीतं तु तद्विद्यान्नासाग्रे द्वादशाङ्गुलम् ॥ २३.१४ ॥ तदन्तं तद्विजानीयात्तत्रस्थो व्यापयेत्प्रभुः । मनोऽप्यन्यत्र निक्षिप्तं चक्षुरन्यत्र पातितम् ॥ २३.१५ ॥ तथापि योगिनां योगो ह्यविच्छिन्नः प्रवर्तते । एतत्तत्परमं गुह्यमेतत्तत्परमाक्षरम् ॥ २३.१६ ॥ नातः परतरं किञ्चिन्नातः परतरं शिवम् । नातः परतरं ज्ञानमित्याह भगवाञ्शिवः ॥ २३.१७ ॥ शिवज्ञानामृतं प्राप्य संक्षेपान्न तु विस्तरात् । कथितो देवदेवेन परमाक्षरनिर्णयः ॥ २३.१८ ॥ एतत्ते शिवसद्भावं शिववक्त्राद्विनिःसृतम् । गुह्याद्गुह्यतमं गुह्यं गूहनीयं प्रयत्नतः ॥ २३.१९ ॥ नाशिष्याय प्रदातव्यं नापुत्राय कदाचन । गुरुदेवाग्निभक्ताय नित्यं मुक्तिरताय च ॥ २३.२० ॥ प्रदातव्यमिदं शास्त्रं नेतरेभ्यः प्रदापयेत् । दातास्य नरकं याति सिद्ध्येच्च न कदाचन ॥ २३.२१ ॥ शिवामृतं मया ख्यातं सत्यं सत्यमिदं तव । एवं ज्ञात्वा तु मेधावी विचरेत्तु यथासुखम् ॥ २३.२२ ॥ गृहस्थो ब्रह्मचारी च वानप्रस्थोऽथ भैक्षुकः । यत्र यत्र स्थितो ज्ञानी परमाक्षरवित्सदा ॥ २३.२३ ॥ विषयी विषयासक्तो याति देहान्तके शिवम् । ज्ञानादेवास्य शास्त्रस्य सर्वावस्थोऽपि मानवः ॥ २३.२४ ॥ ब्रह्महत्याश्वमेधाद्यैः पुण्यपापैर्न लिप्यते । चोदको बोधकश्चैव मोक्षदश्च परः स्मृतः ॥ २३.२५ ॥ इत्येवं त्रिविधो ज्ञेय आचार्यस्तु महीतले । चोदको दर्शयेन्मार्गं बोधकः स्थानमादिशेत् । मोक्षदस्तु परं तत्त्वं यज्ज्ञात्वामृतमश्नुते ॥ २३.२६ ॥ ज्ञानामृतप्रकरणम् इति त्रयोविंशः पटलः