परमेशं नमस्कृत्य भरद्वाजमृषिं ततः । हरादिन्द्रक्रमायातं ज्ञानं शृणुत सुव्रताः ॥ १,१.१ ॥ नारायणाश्रमे पुण्ये भरद्वाजादयो द्विजाः । तेपुः शिवं प्रतिष्ठाप्य तदेकाहितमानसाः ॥ १,१.२ ॥ अथ तान्भावितान्मत्वा कदाचित्त्रिदशाधिपः । तदाश्रमपदं भेजे स्वयं तापसवेषभृत् ॥ १,१.३ ॥ स तैः संपूजितः पृष्ट्वा तांश्च सर्वाननामयम् । प्रोवाच चोदनाधर्मः किमर्थं नानुवर्त्यते ॥ १,१.४ ॥ त ऊचुर्नन्वयं धर्मश्चोदनाविहितो मुने । देवताराधनोपायस्तपसाभीष्टसिद्धये ॥ १,१.५ ॥ वेदेऽस्ति संहिता रौद्री वाच्या रुद्रश्च देवता । सान्निध्यकरणेऽप्यस्मिन् विहितः काल्पिको विधिः ॥ १,१.६ ॥ इत्युक्तेऽपि परं भावं जिज्ञासुः प्रहसन्प्रभुः । तानाह मिथ्या ज्ञानं वः शब्दमात्रं हि देवता ॥ १,१.७ ॥ शब्देतरत्वे युगपद्- भिन्नदेशेषु यष्टृषु । न सा प्रयाति सांनिध्यं मूर्तत्वदस्मदादिवत् ॥ १,१.८ ॥ न च तत्साधकं किंचित्प्रमाणं भात्यबाधितम् । वाक्यं तदन्यथासिद्धं लोकवादाः क्व साधवः ॥ १,१.९ ॥ इत्यनीशवचोवारि- वेलानुन्नोऽब्धिनेव सः । शक्रेण न चचालैषां धीशैलः सारगौरवात् ॥ १,१.१० ॥ न जातु देवतामूर्तिरस्मदादिशरीरवत् । विशिष्टैश्वर्यसम्पन्ना सातो नैतन्निदर्शनम् ॥ १,१.११ ॥ अथास्त्वेवं घटे न्यायः शब्दत्वादिन्द्रशब्दवत् । नादत्ते घटशब्दोऽम्भश्चन्द्रशब्दो न राजते ॥ १,१.१२ ॥ अथान्यविषयं वाक्यमस्तु शक्रादिवाचकम् । कर्मरूपादिशब्दानां सार्थकत्वं कथं भवेत् ॥ १,१.१३ ॥ प्रवादोऽप्यखिलो मिथ्या समूलत्वान्न युक्तिमत् । न चेदमूलं भूतानां हताः सर्वाः प्रवृत्तयः ॥ १,१.१४ ॥ उपमन्युर्हरं दृष्ट्वा विमन्युरभवन्मुनिः । कथं तस्य वचो मिथ्या यस्य वश्यः पयोनिधिः ॥ १,१.१५ ॥ क्रोडीकृतोऽहिपाशेन विषज्वालावलीमुचा । हुङ्कृत्य मोचितः पत्या दृष्टः श्वेतो धनैर्जनैः ॥ १,१.१६ ॥ इति वादानुषङ्गेण हरशंसाप्रहर्षितान् । साश्रुगद्गदवाचस्तान् वीक्ष्य प्रीतोऽभवद्धरिः ॥ १,१.१७ ॥ स्वं रूपं दर्शयामास वज्री देवः शतक्रतुः । तरुणादित्यसंकाशं स्तूयमानं मरुद्गणैः ॥ १,१.१८ ॥ ते तमृग्भिर्यजुर्भिश्च सामभिश्चास्तुवन्नताः । सोऽब्रवीदुच्यतां कामो जगत्सु प्रवरोऽपि यः ॥ १,१.१९ ॥ ते वव्रिरे शिवज्ञानं श्रूयतामिति सोऽब्रवीत् । किंत्वेकोऽस्तु मम प्रष्टा निखिलश्रोतृसम्मतः ॥ १,१.२० ॥ अथ तेषां भरद्वाजो भगवानग्रणीरभूत् । वाग्मी प्रगल्भः पप्रच्छ न्यायतः सुरपूजितम् ॥ १,१.२१ ॥ कथं महेश्वरादेतदागतं ज्ञानमुत्तमम् । किं च चेतसि संस्थाप्य निर्ममे भगवानिदम् ॥ १,१.२२ ॥ सृष्टिकाले महेशानः पुरुषार्थप्रसिद्धये । विधत्ते विमलं ज्ञानं पञ्चस्रोतोऽभिलक्षितम् ॥ १,१.२३ ॥ तद्वर्तिवाचकव्रात- वाच्यानष्टौ महेश्वरान् । सप्तकोटिप्रसंख्यातान्मन्त्रांश्च परमेऽध्वनि ॥ १,१.२४ ॥ अष्टादशाधिकं चान्यच्छ्रुतं मायाधिकारिणाम् । मन्त्रेश्वराणामूर्ध्वाध्व- स्थितेशोपमतेजसाम् ॥ १,१.२५ ॥ तेषु व्यक्तः स भगवानिदं योग्येषु सिद्धये । प्रकाशयत्यतोऽन्येषु योऽर्थः समुपपद्यते ॥ १,१.२६ ॥ शिवोद्गीर्णमिदं ज्ञानं मन्त्रमन्त्रेश्वरेश्वरैः । कामदत्वात्कामिकेति प्रगीतं बहुविस्तरम् ॥ १,१.२७ ॥ तेभ्योऽवगत्य दृग्ज्योतिर्ज्वालालीढस्मरद्रुमः । ददावुमापतिर्मह्यं सहस्रैर्भवसंमितैः ॥ १,१.२८ ॥ तत्रापि विस्तरं हित्वा सूत्रैः सारार्थवाचकैः । वक्ष्ये निराकुलं ज्ञानं तदुक्तैरेव भूयसा ॥ १,१.२९ ॥ अथानादिमलापेतः सर्वकृत्सर्वविच्छिवः । पूर्वव्यत्यासितस्याणोः पाशजालमपोहति ॥ १,२.१ ॥ त्रिपदार्थं चतुष्पादं महातन्त्रं जगत्पतिः । सूत्रेणैकेन संहृत्य प्राह विस्तरशः पुनः ॥ १,२.२ ॥ जगज्जन्मस्थितिध्वंस- तिरोभावविमुक्तयः । कृत्यं सकारकफलं ज्ञेयमस्यैतदेव हि ॥ १,२.३ ॥ तेन स्वभावसिद्धेन भवितव्यं जगत्कृता । अर्वाक्सिद्धेऽनवस्था स्यान्मोक्षो निर्हेतुकोऽपि वा ॥ १,२.४ ॥ चैतन्यं दृक्क्रियारूपं तदस्त्यात्मनि सर्वदा । सर्वतश्च यतो मुक्तौ श्रूयते सर्वतोमुखम् ॥ १,२.५ ॥ सदप्यभासमानत्वात्तन्निरुद्धं प्रतीयते । वश्योऽनावृतवीर्यस्य सोऽत एवाविमोक्षणात् ॥ १,२.६ ॥ प्रावृतीशबले कर्म मायाकार्यं चतुर्विधम् । पाशजालं समासेन धर्मा नाम्नैव कीर्तिताः ॥ १,२.७ ॥ इति वस्तुत्रयस्यास्य प्राक्पादकृतसंस्थितेः । चर्यायोगक्रियापादैर्विनियोगोऽभिधास्यते ॥ १,२.८ ॥ विनियोगफलं मुक्तिर्भुक्तिरप्यनुषङ्गतः । परापरविभागेन भिद्येते ते त्वनेकधा ॥ १,२.९ ॥ वेदानसांख्यसदसत्- पादार्थिकमतादिषु । ससाधना मुक्तिरस्ति को विशेषः शिवागमे ॥ १,२.१० ॥ प्रणेत्रसर्वदर्शित्वान्न स्फुटो वस्तुसंग्रहः । उपायाः सफलास्तद्वच्छैवे सर्वमिदं परम् ॥ १,२.११ ॥ वेदान्तेष्वेक एवात्मा चिदचिद्व्यक्तिलक्षितः । प्रतिज्ञामात्रमेवेदं निश्चयः किंनिबन्धनः ॥ १,२.१२ ॥ अथ प्रमाणं तत्रात्मा प्रमेयत्वं प्रपद्यते । यत्रैतदुभयं तत्र चतुष्टयमपि स्थितम् ॥ १,२.१३ ॥ अद्वैतहानिरेवं स्यान्निष्प्रमाणकतान्यथा । भोगसाम्याविमोक्षौ च यौ नेष्टावात्मवादिभिः ॥ १,२.१४ ॥ सांख्यज्ञानेऽपि मिथ्यात्वं कार्ये कारणबुद्धितः । अकर्तृभावाद्भोक्तुश्च स्वातन्त्र्यादप्यचित्त्वतः ॥ १,२.१५ ॥ इह सप्त पदार्थाः स्युर्जीवाजीवास्त्रवास्त्रयः । संवरो निर्जरश्चैव बन्धमोक्षावुभावपि ॥ १,२.१६ ॥ स्याद्वादलाञ्छिताश्चैते सर्वेऽनैकान्तिकत्वतः । तदेव सत्तदेवासदिति केन प्रमीयते ॥ १,२.१७ ॥ सदन्यदसदन्यच्च तदेवं सिद्धसाध्यता । असज्जघन्यं सच्छ्रेष्ठमित्यपि ब्रुवते बुधाः ॥ १,२.१८ ॥ नैकत्र तदपेक्षातः स्थितमेवोभयं ततः । अथ चेत्सदसद्भावः सदायुक्ततरो मतः ॥ १,२.१९ ॥ तत्कर्मसंकरभयादव्यापित्वं च ते जगुः । सामान्येतरसम्बन्ध- ज्ञानाभावादचेतसः ॥ १,२.२० ॥ यः प्रागव्यापकः सोऽन्ते कथमन्यादृशो भवेत् । स विकासादिधर्मा चेत्ततो दोषपरम्परा ॥ १,२.२१ ॥ षट्पदार्थपरिज्ञानान्मिथ्याज्ञानं निवर्तते । रागद्वेषौ ममत्वं च तद्विशेषगुणास्ततः ॥ १,२.२२ ॥ क्रमशो विनिवर्तन्ते देहसंयोगजा यतः । सा मुक्तिर्जडतारूपा ततो मुक्तः शवो न किम् ॥ १,२.२३ ॥ चिद्व्यञ्जकस्य कर्मादेः क्षणिकत्वान्मुहुर्मुहुः । व्यज्यते जायमानैव क्षणिकेति मता परैः ॥ १,२.२४ ॥ तदसत्कर्मणो भोगादतीतानुभवस्मृतेः । स्थितिर्निरन्वये नाशे न स्मृतेर्नापि कर्मणः ॥ १,२.२५ ॥ विनाशलक्षणोऽपैति न मुक्तावप्युपप्लवः । न चास्त्यनुभवः कश्चिद्भवावस्था वरं ततः ॥ १,२.२६ ॥ इत्याद्यज्ञानमूढाणां मतमाश्रित्यदुर्धियः । अपवर्गमभीप्सन्ति खद्योतात्पावकार्थिनः ॥ १,२.२७ ॥ यत्कैवल्यं पुंस्प्रकृत्योर्विवेकाद्यो वा सर्वं ब्रह्म मत्वा विरामः । या वा काश्चिन्मुक्तयः पाशजन्यास्तास्ताः सर्वा भेदमायान्ति सृष्टौ ॥ १,२.२८ ॥ शैवे सिद्धो भाति मूर्ध्नीतरेषां मुक्तः सृष्टौ पुनरभ्येति नाधः । विश्वानर्थान्स्वेन विष्टभ्य धाम्ना सर्वेशानानीशितः सर्वदास्ते ॥ १,२.२९ ॥ अथोपलभ्य देहादि वस्तु कार्यत्वधर्मकम् । कर्तारमस्य जानीमो विशिष्टमनुमानतः ॥ १,३.१ ॥ वैशिष्ट्यं कार्यवैशिष्ट्याद्दृष्टं लोकस्थितावपि । ठिस्लस्थल्f-लिने अप्पेअर्सस्पर्तोf थे चोम्मेन्तर्य्(Kएद्प्.१०४, लिनेस्४--५) बुतित्प्रोबब्ल्य्बेलोन्ग्स्तो थे तेxतन्दिसॄउओतेदस्पर्तोf इत् इन् ट्रिलोचनऽस्षिद्धान्तार्थसमुच्चय (ईFড়् ंष्ट्.२०६, प्.६२ अन्द्ट्.२८४, प्.१३३). यद्यथा यादृशं यावत्कार्यं तत्कारणं तथा । नित्यं कालानवच्छेदाद्द्वैतत्यान्न प्रदेशगम् ॥ १,३.२ ॥ क्रमाक्रमसमुत्पत्तेः क्रमाद्युत्पत्तिशक्तिमत् । तस्यास्ति करणं येन दृष्टा नाकरणा कृतिः ॥ १,३.३ ॥ अनागामि च तज्ज्ञेयं कार्यस्यानादिसंस्थितेः । करणं च न शक्त्यन्यच्छक्तिर्नाचेतना चितः ॥ १,३.४ ॥ विषयानियमादेकं बोधे कृत्ये च तत्तथा । कार्यं न स्थितिजन्मादि बीजस्य प्रकृतेरणोः ॥ १,३.५ ॥ पारिशेष्यान्महेशस्य मुक्तस्य शिव एव सः । सम्बन्धाग्रहणे बाधा मानस्याभ्येति कस्यचित् ॥ १,३.६ ॥ सा परस्यापि धूमोऽन्यो गिरौ माहानसाद्यतः । लोके वपुष्मतो दृष्टं कृत्यं सोऽप्यस्मदादिवत् ॥ १,३.७ ॥ मूलाद्यसम्भवाच्छाक्तं वपुर्नो तादृशं प्रभोः । तद्वपुः पञ्चभिर्मन्त्रैः पञ्चकृत्योपयोगिभिः ॥ १,३.८ ॥ ईशतत्पुरुषाघोर- वामाजैर्मस्तकादिकम् । ईष्टे येन जगत्सर्वं गुणेनोपरिवर्तिना ॥ १,३.९ ॥ स मूर्धसमदेशत्वान्मूर्धा नावयवस्तनोः । तस्य तस्य तनुर्या पूस्तस्यामुषति येन सः ॥ १,३.१० ॥ तत्त्राणाद्व्यञ्जनाच्चापि स तत्पुरुषवक्त्रकः । हृदयं बोधपर्यायः सोऽस्याघोरः शिवो यतः ॥ १,३.११ ॥ परिग्रहस्य घोरत्वाद्घोरोक्तिरुपचारतः । वामस्त्रिवर्गवामत्वाद्रहस्यश्च स्वभावतः । वामं धाम परं गुह्यं यस्यासौ वामगुह्यकः ॥ १,३.१२ ॥ सद्योऽणूनां मूर्तयः सम्भवन्ति यस्येच्छातस्तेन सद्योऽभिधानः । सद्यो मूर्तीर्योगिनां वा विधत्ते सद्योमूर्तिः कृत्यशैघ्र्यान्न मूर्तेः ॥ १,३.१३ ॥ इत्थं शक्तिः कुर्वती देहकृत्यं देहाभावादुच्यते देहशब्दैः । तस्या भेदा येऽपि वामादयः स्युस्तेऽपि प्रोक्ताः कृत्यभेदेन सद्भिः ॥ १,३.१४ ॥ स इत्थंविग्रहोऽनेन करणेनाहतौजसा । करोति सर्वदा कृत्यं यदा यदुपपद्यते ॥ १,४.१ ॥ तत्रादौ केवलाणूनां योग्यानां कुरुतेऽष्टकम् । वामादिशक्तिभिर्युक्तं सप्तकोटिपरिच्छदम् ॥ १,४.२ ॥ तेषामनन्तः सूक्ष्मश्च तथा चैव शिवोत्तमः । एकनेत्रैकरुद्रौ च त्रिमूर्तिश्चामितद्युतिः ॥ १,४.३ ॥ श्रीकण्ठश्च शिखण्डी च राजराजेश्वरेश्वराः । ईषदप्राप्तयोगत्वान्नियोज्याः परमेष्ठिनः ॥ १,४.४ ॥ सर्वज्ञत्वादियोगेऽपि नियोज्यत्वं मलांशतः । परस्परं विशिष्यन्ते मन्त्राश्चैवमधः स्थिताः ॥ १,४.५ ॥ ते च मन्त्रेश्वरव्यक्त- शिवशक्तिप्रचोदिताः । कुर्वन्त्यनुग्रहं पुंसां यदा येषां स युज्यते ॥ १,४.६ ॥ प्रयोक्तृदेहसापेक्षं तदर्धमखिलेऽध्वनि । कृत्वाधिकारं स्थित्यन्ते शिवं विशति सेश्वरम् ॥ १,४.७ ॥ विनाधिकरणेनान्यत्प्रधानविकृतेरधः । कृत्वाधिकारमीशेष्टमपैति स्वाध्वसंहृतौ ॥ १,४.८ ॥ ततोऽनन्ताद्यभिव्यक्तः पतीनां ग्रन्थितत्त्वतः । कलाद्यारब्धदेहानां करोत्यष्टादशं शतम् ॥ १,४.९ ॥ तानप्याविश्य भगवान् साञ्जनान् भुवनाधिपान् । येभ्यः सर्वमिदं येषां शक्तिः कर्मनिबन्धना ॥ १,४.१० ॥ प्रणेतॄण्पशुशास्त्राणां पशूंस्तदनुवर्तकान् । स्वसाध्यकारकोपेतान् कालधामावधिस्थितान् ॥ १,४.११ ॥ स्थितौ सकारकानेतान् समाक्रम्य स्वतेजसा । युनक्ति स्वार्थसिद्ध्यर्थं भूतैरनभिलक्षितः ॥ १,४.१२ ॥ भोगसाधनमाक्षिप्य कृत्वा कारणसंश्रयम् । तच्च सात्मकमाक्रम्य विश्रमायावतिष्ठते ॥ १,४.१३ ॥ भविनां भवखिन्नानां सर्वभूतहितो यतः । स्वापावसानमासाद्य पुनः प्राग्वत्प्रवर्तते ॥ १,४.१४ ॥ स्वापेऽप्यास्ते बोधयन्बोधयोग्यान् रोध्यान्रुन्धन्पाचयन् कर्मिकर्म । मायाशक्तीर्व्यक्तियोग्याः प्रकुर्वन् पश्यन्सर्वं यद्यथा वस्तुजातम् ॥ १,४.१५ ॥ तमःशक्त्यधिकारस्य निवृत्तेस्तत्परिच्युतौ । व्यनक्ति दृक्क्रियानन्त्यं जगद्बन्धुरणोः शिवः ॥ १,५.१ ॥ यान्विमोचयति स्वापे शिवाः सद्यो भवन्ति ते । संहृतौ वा समुद्भूतावणवः पतयोऽथवा ॥ १,५.२ ॥ रुद्रमन्त्रपतीशान- पदभाजो भवन्ति ते । स्थितौ याननुगृह्णाति गुरुमास्थाय चिद्वतः ॥ १,५.३ ॥ येषां शरीरिणां शक्तिः पतत्यपि निवृत्तये । तेषां तल्लिङ्गमौत्सुक्यं मुक्तौ द्वेषो भवस्थितौ ॥ १,५.४ ॥ भक्तिश्च शिवभक्तेषु श्रद्धा तच्छासके विधौ । अनेनानुमितिः शिष्ट- हेतोः स्थूलधियामपि ॥ १,५.५ ॥ पशुदृग्योगसिद्धानां कर्मव्यक्तिद्वयं समम् । ज्येष्ठादिफलयोग्यानां साधिकारासु मुक्तिषु ॥ १,५.६ ॥ उपायादरवैशिष्ट्यान्मृग्यते तत्त्रयं पुनः । द्वयोर्व्यक्तिकरः कश्चिच्च्युतिसिद्धिविलक्षितः ॥ १,५.७ ॥ ईषदर्धनिवृत्ते तु रोधकत्वे तमःपतेः । भवन्त्येतानि लिङ्गानि किंचिच्छिष्टे च देहिनाम् ॥ १,५.८ ॥ योग्यतात्रयमप्येतत्समतीत्य महेश्वरः । स्वापेऽनुमनुगृह्णाति साधिकारमिदं यतः ॥ १,५.९ ॥ सर्गमूले तृतीयायां स्वापवद्भूतसंहृतौ । स यद्व्यपास्य क्रियते तद्विधो योऽणुरुच्यते ॥ १,५.१० ॥ तथा बीजं शरीरादेः पाचयत्यानिवेशनात् । न योग्यताङ्गमभजत्सद्यः स्यादौषधादिवत् ॥ १,५.११ ॥ पाकार्हमपि तत्पक्तुं नेशत्यात्मानमात्मना । धर्मसामान्य एवायं सर्वस्य परिणामिनः ॥ १,५.१२ ॥ सर्वज्ञः सर्वकर्तृत्वात्साधनाङ्गफलैः सह । यो यज्जानाति कुरुते स तदेवेति सुस्थितम् ॥ १,५.१३ ॥ तच्चास्यावृतिशून्यत्वान्न व्यञ्जकमपेक्षते । तन्न सांशयिकं तस्माद्विपरीतं न जातुचित् ॥ १,५.१४ ॥ यानि व्यञ्जकमीक्षन्ते वृतत्वान्मलशक्तिभिः । व्यञ्जकस्यानुरोधेन तानि स्युर्व्याहतान्यपि ॥ १,५.१५ ॥ नाध्यक्षं नापि तल्लैङ्गं न शाब्दमपि शाङ्करम् । ज्ञानमाभाति विमलं सर्वदा सर्ववस्तुषु ॥ १,५.१६ ॥ तदेकं विषयानन्त्याद्भेदानन्त्यं प्रपद्यते । कर्तृत्वं तदभिन्नत्वात्तद्वदेवोपचारतः ॥ १,५.१७ ॥ सत्तस्वरूपकरणार्थविधेयदृग्भिर्लेशोदिताभिरिति ये विदुरीशतत्त्वम् । ते मोचयन्ति भविनो भवपङ्कमग्नान्नो विस्तरेण पुरुषाः पशुपाशरूपम् ॥ १,५.१८ ॥ अथ विश्वनिमित्तस्य प्राप्तं लक्षणमात्मनः । तदीशोक्तौ गतप्रायं तथाप्युद्देश उच्यते ॥ १,६.१ ॥ कार्यं क्षित्यादि कर्तेशस्तत्कर्तुर्नोपयुज्यते । न स्वार्थमप्यचिद्भावान्नानर्थ्यं कर्तृगौरवात् ॥ १,६.२ ॥ पारिशेष्यात्परार्थं तत्क्षेत्रज्ञः स परस्तयोः । परो देहस्तदर्थत्वात्परार्थाः क्ष्मादयो ननु ॥ १,६.३ ॥ कायोऽप्यचित्त्वादान्यार्थ्यं सुतरां प्रतिपद्यते । चेतनश्चेन्न भोग्यत्वाद्विकारित्वाच्च जातुचित् ॥ १,६.४ ॥ भोग्या विकारिणो दृष्टाश्चिद्विहीनाः पटादयः । यस्मिन्सति च सत्त्वाद्वा न सत्यपि शवे चितिः ॥ १,६.५ ॥ परिणामसय्वैशिष्ट्यादस्ति चेत्न स्मृतिस्तदा । नाप्येवं सुप्रतीतत्वात्स्मर्ता कायेतरोऽस्त्यतः ॥ १,६.६ ॥ नाव्यापको न क्षणिको नैको नापि जडात्मकः । नाकर्ता भिन्नचिद्योगी पाशान्ते शिवताश्रुतेः ॥ १,६.७ ॥ अथाविद्यादयः पाशाः कथ्यन्ते लेशतोऽधुना । येषामपाये पतयो भवन्ति जगतोऽणवः ॥ १,७.१ ॥ पाशाभावे पारतन्त्र्यं वक्तव्यं किन्निबन्धनम् । स्वाभाविकं चेन्मुक्तेषु मुक्तशब्दो निवर्तते ॥ १,७.२ ॥ बन्धशून्यस्य वशिता दृष्टा बद्धस्य वश्यता । एतावती ते बद्धत्व- मुक्तत्वे बद्धमुक्तयोः ॥ १,७.३ ॥ तत्पारतन्त्र्यं बद्धत्वं तस्मिन्नित्ये चिदादिवत् । मुक्तिसाधनसंदोहो व्यर्थोऽलमनया धिया ॥ १,७.४ ॥ नित्यव्यापकचिच्छक्ति- निधिरप्यर्थसिद्धये । पाशवं शाम्भवं वापि नान्विष्यत्यन्यथा बलम् ॥ १,७.५ ॥ तदावरणमस्याणोः पञ्चस्रोतसि शाङ्करे । पर्यायैर्बहुभिर्गीतमदृष्टं पशुभिः सदा ॥ १,७.६ ॥ पशुत्वपशुनीहार- मृत्युमूर्च्छामलाञ्जनैः । अविद्यावृतिरुग्ग्लानि- पापमूलक्षपादिभिः ॥ १,७.७ ॥ तदेकं सर्वभूतानामनादि निबिडं महत् । प्रत्यात्मस्थस्वकालान्ता- पायिशक्तिसमूहवत् ॥ १,७.८ ॥ तदनादिस्थमर्वाग्वा तद्धेतुस्तदतोऽन्यथा । रुणद्धि मुक्तानेवं चेन्मोक्षे यत्नस्ततो मृषा ॥ १,७.९ ॥ तदेकं बहुसंख्यं तु तादृगुत्पत्तिमद्यतः । किन्तु तच्छक्तयोऽनेका युगपन्मुक्त्यदर्शनात् ॥ १,७.१० ॥ तासां माहेश्वरी शक्तिः सर्वानुग्राहिका शिवा । धर्मानुवर्तनादेव पाश इत्युपचर्यते ॥ १,७.११ ॥ परिणामयत्येताश्च रोधान्तं कार्कचित्त्विषा । यदोन्मीलनमाधत्ते तदानुग्राहिकोच्यते ॥ १,७.१२ ॥ शम्भोश्चिदाद्यनुग्राह्यं तद्विरोधितया मिथः । युगपन्न क्षमं शक्तिः सर्वानुग्राहिका कथम् ॥ १,७.१३ ॥ कथं भूतोपकारार्थं प्रवृत्तस्य जगत्प्रभोः । अपकारकमाविश्य युज्यते तुन्नतोदनम् ॥ १,७.१४ ॥ न तोदनाय कुरुते मलस्याणोरनुग्रहम् । किन्तु यत्क्रियते किञ्चित्तदुपायेन नान्यथा ॥ १,७.१५ ॥ न साधिकारे तमसि मुक्तिर्भवति कस्यचित् । अधिकारोऽपि तच्छक्तेः परिणामान्निवर्तते ॥ १,७.१६ ॥ सोऽपि न स्वत एव स्यादपि योग्यस्य वस्तुनः । सर्वथा सर्वदा यस्माच्चित्प्रयोज्यमचेतनम् ॥ १,७.१७ ॥ यथा क्षारादिना वैद्यस्तुदन्नपि न रोगिणम् । कोटाविष्टार्थदायित्वाद्दुःखहेतुः प्रतीयते ॥ १,७.१८ ॥ सर्वगत्वान्महेशस्य नाधिष्ठानं विहन्यते । न च यत्रास्ति कर्तव्यं तस्मिन्नौदास्यमेति सः ॥ १,७.१९ ॥ धर्मिणोऽनुग्रहो नाम यत्तद्धर्मानुवर्तनम् । न सोऽस्ति कस्यचिज्जातु यः पत्या नानुवर्तते ॥ १,७.२० ॥ गताधिकारनीहार- वीर्यस्य सत एधते । पशोरनुग्रहोऽन्यस्य तादर्थ्यादस्ति कर्मणः ॥ १,७.२१ ॥ बोद्धृत्वपरिणामित्व- धर्मयोरनुवर्तनम् । मलस्य साधिकारस्य निवृत्तेस्तत्परिच्युतौ ॥ १,७.२२ ॥ इत्येवं यौगपद्येन क्रमात्सुघत एव हि । मायायाः साधिकारायाः कर्मणश्चोक्त एव सः ॥ १,७.२३ ॥ अथेन्द्रियशरीरार्थैश्चिद्योगस्यानुमीयते । निमित्तमागामिभावाद्यतो नागाम्यहेतुमत् ॥ १,८.१ ॥ तस्य प्रदेशवर्तित्वाद्वैचित्र्यात्क्षणिकत्वतः । प्रतिपुंनियतत्वाच्च सन्ततत्वाच्च तद्गुणम् ॥ १,८.२ ॥ ईशाविद्याद्यपेक्षित्वात्सहकारि तदुच्यते । कर्म व्यापारजन्यत्वाददृष्टं सूक्ष्मभावतः ॥ १,८.३ ॥ जनकं धारकं भोग्यमध्यात्मादित्रिसाधनम् । तत्सत्यानृतयोनित्वाद्धर्माधर्मस्वरूपकम् ॥ १,८.४ ॥ स्वापे विपाकमभ्येति तत्सृष्टावुपयुज्यते । मायायां वर्तते चान्ते नाभुक्तं लयमेति च ॥ १,८.५ ॥ इति मायादिकालान्त- प्रवर्तकमनादिमत् । कर्म व्यञ्जकमप्येतद्रोधि सद्यन्न मुक्तये ॥ १,८.६ ॥ अथ सर्वज्ञवाक्येन प्रतिपन्नस्य लक्षणम् । कथ्यते ग्रन्थिपाशस्य किञ्चिद्युक्त्यापि लेशतः ॥ १,९.१ ॥ तदेकमशिवं बीजं जगतश्चित्रशक्तिमत् । सहकार्यधिकारान्त- संरोधि व्याप्यनश्वरम् ॥ १,९.२ ॥ कर्तानुमीयते येन जगद्धर्मेण हेतुना । तेनोपादानमप्यस्ति न पटस्तन्तुभिर्विना ॥ १,९.३ ॥ तदचेतनमेव स्यात्कार्यस्याचित्त्वदर्शनात् । प्राप्तः सर्वहरो दोषः कारणानियमोऽन्यथा ॥ १,९.४ ॥ यद्यनित्यमिदं कार्यं कस्मादुत्पद्यते पुनः । अव्यापि चेत्कुतस्तत्स्यात्सर्वेषां सर्वतोमुखम् ॥ १,९.५ ॥ यदनेकमचित्तत्तु दृष्टमुत्पत्तिधर्मकम् । न तदुत्पत्तिमत्तस्मादेकमभ्युपगम्यताम् ॥ १,९.६ ॥ पटस्तन्तुगणाद्दृष्टः सर्वमेकमनेकतः । तदप्यनेकमेकस्मादेव बीजात्प्रजायते ॥ १,९.७ ॥ येषां चिद्धर्मकाद्धेतोरचिदप्युपजायते । तेषां धूमेन लिङ्गेन जलं किं नानुमीयते ॥ १,९.८ ॥ भूतावधि जगद्येषां कारणं परमाणवः । तेषां पूर्वोदिताद्धेतोर्ज्ञातैव ज्ञानसूक्ष्मता ॥ १,९.९ ॥ शरीरादेः शरीरादि यदि तन्निखिलात्यये । का वार्ता नाखिलध्वंसो न सर्वज्ञो मृषा वदेत् ॥ १,९.१० ॥ एकदेशेऽपि यो धर्मः प्रतीतो यस्य धर्मिणः । स तस्य सर्वतः केन जायमानो निवार्यते ॥ १,९.११ ॥ कोटिशो मरणं दृष्ट्वा संहतानां शरीरिणाम् । सोऽपि प्रतीयते कालो यत्राशेषजनक्षयः ॥ १,९.१२ ॥ तदाधाराणि कार्याणि शक्तिरूपाणि संहृतौ । विवृतौ व्यक्तिरूपाणि व्याप्रियन्तेऽर्थसिद्धये ॥ १,९.१३ ॥ तन्त्वादिकारकादानं पटासत्त्वे पटार्थिनः । सत्त्वे कारकशब्दोऽपि व्यपैतीति हतं जगत् ॥ १,९.१४ ॥ साफल्यमसदुत्पत्तावस्तु कारकवस्तुनः । उत्पादयतु सर्वस्मात्सर्वः सर्वमभीप्सितम् ॥ १,९.१५ ॥ अथाशक्यं यतः शक्यमत्र वः किं नियामकम् । न च पश्यामि तत्किंचित्शक्तिश्चेत्सिद्धसाध्यता ॥ १,९.१६ ॥ अन्यथा कारकव्रात- प्रवृत्त्यनुपपत्तितः । श्रुतिरादानमर्थश्च व्यपैतीत्यपि तद्धतम् ॥ १,९.१७ ॥ अथास्त्युत्पादिका शक्तिर्न कार्यं शक्तिरूपकम् । तयोर्विशेषणं वाच्यं नैतत्पश्यामि किञ्चन ॥ १,९.१८ ॥ तस्मान्नियामिका जन्य- शक्तिः कार[ण]वस्तुनः । सान्वयव्यतिरेकाभ्यां रूढितो वावसीयते ॥ १,९.१९ ॥ तद्व्यत्किर्जननं नाम तत्कारकसमाश्रयात् । तेन तन्तुगताकारं पटाकारावरोधकम् ॥ १,९.२० ॥ वेमादिनापनीयाथ पटव्यक्तिः प्रकाश्यते । यथा कटादिगूढस्य पटादेस्तद्व्युदासतः । नासतः क्रियते व्यक्तिः कलादेर्ग्रन्थितस्तथा ॥ १,९.२१ ॥ ग्रन्थिजन्यं कलाकाल- विद्यारागनृमातरः । गुणधीगर्वचित्ताक्ष- मात्राभूतान्यनुक्रमात् ॥ १,१०.१ ॥ विधत्ते देहसिद्ध्यर्थं यत्साक्षाद्यत्पदान्तरात् । यथा युनक्ति यद्धेतोस्तादृक्तदधुनोच्यते ॥ १,१०.२ ॥ कर्तृशक्तिरणोर्नित्या विभ्वी चेश्वरशक्तिवत् । तमश्च्छन्नतयार्थेषु नाभाति निरनुग्रहा ॥ १,१०.३ ॥ तदनुग्राहकं तत्त्वं कलाख्यं तैजसं हरः । मायां विक्षोभ्य कुरुते प्रवृत्त्यङ्गं परं हि तत् ॥ १,१०.४ ॥ तेन प्रदीपकल्पेन तदास्वच्छचितेरणोः । प्रकाशयत्येकदेशं विदार्य तिमिरं घनम् ॥ १,१०.५ ॥ कल इत्येष यो धातुः संख्याने प्रेरणे च सः । प्रोत्सारणं प्रेरणं सा कुर्वती तमसः कला ॥ १,१०.६ ॥ इत्येतदुभयं विप्र संभूयानन्यवत्स्थितम् । भोगक्रियाविधौ जन्तोर्निजगुः कर्तृकारकम् ॥ १,१०.७ ॥ एवं व्यक्तक्रियाशक्तिर्दिदृक्षुर्गोचरं दृशः । भजत्यनुग्रहापेक्षं स्वयं द्रष्टुमशक्नुवत् ॥ १,१०.८ ॥ तदर्थं क्षोभयित्वेशः कलामेव जनिक्षमाम् । तत्त्वं विद्याख्यमसृजत्करणं परमात्मनः ॥ १,१०.९ ॥ तेन प्रकाशरूपेण ज्ञानशक्तिप्ररोचिना । सर्वकारकनिष्पाद्यमवैति विषयं परम् ॥ १,१०.१० ॥ तदभिव्यक्तचिच्छक्ति- दृष्टार्थोऽप्यपिपासितः । नैति तं जनकं रागं तस्मादेवासृजत्प्रभुः ॥ १,१०.११ ॥ स तेन रञ्जितो भोग्यं मलीमसमपि स्पृहन् । आदत्ते न च भुञ्जानो विरागमधिगच्छति ॥ १,१०.१२ ॥ इति प्रवृत्तः करणैः कार्यरूढैः सभौवनैः । भोगभूमिषु ना भुङ्क्ते भोगान्कालानुवर्तिनः ॥ १,१०.१३ ॥ तुट्यादिप्रत्ययस्यार्थः कालो मायासमुद्भवः । कलयन्ना समुत्थानान्नियत्या नियतं पशुम् ॥ १,१०.१४ ॥ ससाधनस्य भोगस्य कर्मतन्त्रतया जगुः । केचिन्नियामकं कर्म यदन्यदतिरिच्यते ॥ १,१०.१५ ॥ भोगोऽर्थः सर्वतत्त्वानां सोऽपि कर्मनिबन्धनः । कर्मैवास्तु शरीरादि ततः सर्वमपार्थकम् ॥ १,१०.१६ ॥ अथ देहादिसापेक्षं तत्पुमर्थप्रसाधकम् । ततो नियतिसापेक्षमस्तु कर्म नियामकम् ॥ १,१०.१७ ॥ पुंस्तत्त्वं तत एवाभूत्पुंस्प्रत्ययनिबन्धनम् । आपूरकं प्रधानादेर्भौवनेरुद्रसंश्रयम् ॥ १,१०.१८ ॥ ततः प्राधानिकं तत्त्वं कलातत्त्वादजीजनत् । सप्तग्रन्थिनिदानस्य यत्तद्गौणस्य कारणम् ॥ १,१०.१९ ॥ ततो बुद्ध्याद्युपादानं गौणं सत्त्वं रजस्तमः । तद्वृत्तयः प्रकाशाद्याः प्रसिद्धा एव भूयसा ॥ १,१०.२० ॥ त्रयो गुणास्तथाप्येकं तत्त्वं तदवियोगतः । एकैकश्रुतिरेतेषां वृत्त्याधिक्यनिबन्धना ॥ १,१०.२१ ॥ न तदस्ति जगत्यस्मिन् वस्तु किञ्चिदचेतनम् । यन्न व्याप्तं गुणैर्यस्मिन्नेको वामिश्रको गुणः ॥ १,१०.२२ ॥ बुद्धितत्त्वं ततो नाना- भावप्रत्ययलक्षणम् । परं तदात्मनो भोग्यं वक्ष्यमाणार्थसंस्कृतम् ॥ १,१०.२३ ॥ भावा बुद्धिगुणा धर्म- ज्ञानवैराग्यभूतयः । सात्त्विका व्यत्ययेनैते रागमुत्सृज्य तामसाः ॥ १,१०.२४ ॥ प्रत्ययास्तदुपादानास्तेऽष्टौ नव चतुर्गुणाः । सप्त पञ्च च विख्याताः सिद्ध्याद्या वर्गशो मुने ॥ १,१०.२५ ॥ भावाः सप्रत्ययास्तेषां लेशाल्लक्षणमुच्यते । सांसिद्धिका वैनयिकाः प्राकृताश्च भवन्त्यणोः ॥ १,१०.२६ ॥ विशिष्टधर्मसंस्कार- समुद्दीपितचेतसाम् । गुणः सांसिद्धिको भाति देहाभावेऽपि पूर्ववत् ॥ १,१०.२७ ॥ लोकधीगुरुशास्त्रेभ्यो भाति वैनयिको गुणः । समर्जितो वैनयिको मनोवाक्तनुचेष्टया ॥ १,१०.२८ ॥ प्राकृतो देहसंयोगे व्यक्तः स्वप्नादिबोधवत् । स्वर्गो मुक्तिः प्रकृतित्वा- विघातौ योनिक्रान्तिर्निरयावाप्तिबन्धौ । रूपेष्वर्था वैनयप्राकृतेषु सम्पद्यन्ते सविघाताः क्रमेण ॥ १,१०.२९ ॥ वश्याक्रान्तिस्तत्परिज्ञानयोगो भोगानिच्छा विघ्नसंघव्यपायः । भोगासक्तिर्न्यक्कृतिर्देहलब्धिर्विघ्नश्चार्थास्तेषु सांसिद्धिकेषु ॥ १,१०.३० ॥ अथ सिद्ध्यादिवर्गाणां लेशात्सामान्यलक्षणम् । कथ्यते विप्लवो मा भूत्समासोक्तेः प्रभेदशः ॥ १,११.१ ॥ पुंस्प्रकृत्यादिविषया बुद्धिर्या सिद्धिरत्र सा । तुष्टिर्नुरकृतार्थस्य कृतार्थोऽस्मीति या मतिः ॥ १,११.२ ॥ अशक्तिः कारकापाये सदर्थाप्रभविष्णुता । किञ्चित्सामान्यतोऽन्यत्र मतिरन्या विपर्ययः ॥ १,११.३ ॥ प्रकाशकतया सिद्धिर्व्यक्तादेः सत्त्वभावजा । प्रकाशार्थप्रवृत्तत्वाद्रजोंशप्रभवपि च ॥ १,११.४ ॥ तुष्टिर्मिथ्यास्वरूपत्वात्तमोगुणनिबन्धना । सुखरूपतया ब्रह्मन् सात्त्विक्यप्यवसीयते ॥ १,११.५ ॥ अशक्तिरप्रवृत्तत्वात्तामसी दुःखभावतः । राजस्यपि गुणो दृष्टः कार्ये कारणसंश्रयः ॥ १,११.६ ॥ विपर्ययस्तमोयोनिर्मिथ्यारूपतया स च । सामान्यमात्रकाभासात्सत्त्वात्मेति विनिश्चितः ॥ १,११.७ ॥ इति बुद्धिप्रकाशोऽयं भावप्रत्ययलक्षणः । बोध इत्युच्यते बोध- व्यक्तिभूमितया पशोः ॥ १,११.८ ॥ बुद्धिर्बोधनिमित्तं चेद्विद्या तद्व्यतिरिच्यते । रागोऽपि सत्यवैराग्ये कलायोनिः करोति किम् ॥ १,११.९ ॥ व्यञ्जकान्तरसद्भावे व्यञ्जकं यद्यपार्थकम् । मनोदेवार्थसद्भावे सति धीरप्यनर्थिका ॥ १,११.१० ॥ अथैवं ब्रुवते केचित्करणत्वविवक्षया । सोऽपि देवैर्मनःषष्ठैः पक्षोऽनैकान्तिकः स्मृतः ॥ १,११.११ ॥ अथैकविनियोगित्वे सत्येकमतिरिच्यते । श्रोत्रदृक्पाणिपादादि ततो भिन्नार्थमस्तु नुः ॥ १,११.१२ ॥ न चैकविनियोगित्वं विद्याबुद्ध्योः कथञ्चन । विनियोगान्तरद्वारा न दुष्टानेकसाध्यता ॥ १,११.१३ ॥ विद्या व्यक्ताणुचिच्छक्तिर्नुन्नाक्षेशाक्षगोचरान् । स्वीकृत्य पुंस्प्रयुक्तस्य करणस्यैति कर्मताम् ॥ १,११.१४ ॥ मतिस्तेनेतरा रागो न गौणस्तद्विधर्मतः । तच्च भोग्यत्वमेतद्वा वीतरागस्ततो हतः ॥ १,११.१५ ॥ रागोऽर्थेष्वभिलाषो यो न सोऽस्ति विषयद्वये । कर्मास्तु व्यापकं कल्प्यं कल्पितेऽपीतरत्र यत् ॥ १,११.१६ ॥ कर्मणः केवलस्योक्तं नियतावेव दूषणम् । दोषः सहानवस्थानो नासाम्याद्द्वेषरागयोः ॥ १,११.१७ ॥ सर्वस्य सर्वदा सर्वा प्रवृत्तिः सुखबुद्धिजा । प्रवृत्तस्य सुखं दुःखं मोहो वाप्युपजायते ॥ १,११.१८ ॥ प्रवृत्त्यनन्तरं द्वेषो रागस्तत्पूर्वकालतः । द्वेषान्ते स पुनर्येन वीर्यवद्योगकारणम् ॥ १,११.१९ ॥ अथ व्यक्तान्तराद्बुद्धेर्गर्वोऽभूत्करणं चितः । व्यापाराद्यस्य चेष्टन्ते शारीराः पञ्च वायवः ॥ १,११.२० ॥ प्राणापानादयस्ते तु भिन्ना वृत्तेर्न वस्तुतः । वृत्तिं लेशान्निगदतो भरद्वाज निबोध मे ॥ १,११.२१ ॥ वृत्तिः प्रणयनं नाम यत्तज्जीवनमुच्यते । यत्तदूहं मतिः पुंसां भ्रमत्यन्धेव मार्गती ॥ १,११.२२ ॥ तत्कुर्वन्नुच्यते प्राणः प्राणो वा प्राणयोगतः । चित्यातिवाहिके शक्तौ प्राणशब्दः कलासु च ॥ १,११.२३ ॥ तथापनयनं भुक्त- पीतविण्मूत्ररेतसाम् । कुर्वन्नपानशब्देन गीयते तत्त्वदर्शिभिः ॥ १,११.२४ ॥ समन्ततोऽन्नपानस्य समत्वेन समर्पणम् । कुर्वन्समान इत्युक्तो व्यानो विनमनात्तनोः ॥ १,११.२५ ॥ विवक्षायत्नपूर्वेण कोष्ठव्योमगुणध्वनेः । वागिन्द्रियसहायेन क्रियते येन वर्णता ॥ १,११.२६ ॥ स उदानः शरीरेऽस्मिन् स्थानं यद्यस्य धारणे । जयः फलं वाच्यशेषं पत्या स्कन्धान्तरेरितम् ॥ १,११.२७ ॥ अथ शेषार्थसिद्ध्यर्थं स्कन्धानस्यात एव सः । त्रीन्निश्चकर्ष सत्त्वादि- भूयिष्ठानीशशक्तिगः ॥ १,१२.१ ॥ तैजसो वैकृतो योऽन्यो भूतादिरिति संस्मृतः । तेभ्यः समात्रका देवा मात्रेभ्यो भूतपञ्चकम् ॥ १,१२.२ ॥ श्रोत्रं त्वक्चक्षुषी जिह्वा नासा च मनसा सह । प्रकाशान्वयतः सात्त्वास्तैजसश्च स सात्त्विकः ॥ १,१२.३ ॥ वाणी पाणी भगः पायुः पादौ चेति रजोभुवः । कर्मान्वयाद्रजोभूयान् गणो वैकारिकोऽत्र यः ॥ १,१२.४ ॥ शब्दः स्पर्शश्च रूपं च रसो गन्धश्च पञ्चमः । गुणाविशिष्टास्तन्मात्रास्तन्मात्रपदयोजिताः ॥ १,१२.५ ॥ प्रकाशकर्मकृद्वर्ग- वैलक्षण्यात्तमोभवाः । प्रकाश्यत्वाच्च भूतादिरहङ्कारेषु तामसः ॥ १,१२.६ ॥ देवप्रवर्तकं शीघ्र- कारि संकल्पधर्मि च । मनः शब्दादिविषये ग्राहकाः श्रवणादयः ॥ १,१२.७ ॥ वचनादानसंह्लाद- विसर्गविहृतिक्रियाः । वागादीनां पदान्यत्वं पदे सत्यप्यतद्गुणाः ॥ १,१२.८ ॥ आत्मेन्द्रियार्थनैकृष्ट्ये सर्वदेवाप्रवृत्तिता । प्रवृत्तिकारकास्तित्वं युक्तितोऽप्यवसीयते ॥ १,१२.९ ॥ तत्त्वान्तरोक्तवृत्तिभ्यो वैलक्षण्याद्विलक्षणः । संकल्पो बीजमभ्येति मनस्तत्पारिशेष्यतः ॥ १,१२.१० ॥ ज्ञानं तदक्षयोगात्तत्क्रमयोगितया क्रमात् । तथाप्याभाति युगपन्नाशुसंचरणादृते ॥ १,१२.११ ॥ नियतार्थतयाक्षाणि नानायोनीनि कस्यचित् । गन्धादिव्यञ्जकत्वाच्च तदाधारात्मकान्यपि ॥ १,१२.१२ ॥ शब्दैकग्राहकं श्रोत्रं स्पर्शैकग्राहिणी च त्वक् । तथास्तु यदि नादत्ते सगुणं कारणान्तरम् ॥ १,१२.१३ ॥ त्वगिन्द्रियमयुक्तार्थ- ग्राहि युक्तपराङ्मुखम् । तेजोवारिमहीद्रव्यं दृगादत्ते सरूपकम् ॥ १,१२.१४ ॥ ततस्त्रिद्रव्यजा सा स्यान्न परेणेष्यते तथा । येनोपलभ्यते योऽर्थः स तस्यार्थस्य कारणम् ॥ १,१२.१५ ॥ न प्राप्तमपि कर्मादि सेयं व्यसनसन्ततिः । कर्णरन्ध्रविशिष्टं खं शब्दवर्गावभासकम् ॥ १,१२.१६ ॥ नासारन्धविशिष्टं तद्ब्रूत केन निवार्यते । तददृष्टावरुद्धं वा तदप्यन्यत्र किं कृतम् ॥ १,१२.१७ ॥ प्राप्तं गृह्णाति नातोद्ये शप्तं केनापि दस्युना । युक्त्यगम्येऽपि सद्वाक्यात्प्रतीतिरौपद्रवा ॥ १,१२.१८ ॥ मितार्थादमितार्थस्य ज्यायस्त्वमिति सूरयः । व्योमप्रभञ्जनाग्न्यम्बु- भूमयो भूतपञ्चकम् ॥ १,१२.१९ ॥ शब्दाद्येकोत्तरगुणमवकाशादिवृत्तिमत् । धूननज्वलनप्लाव- खरत्वावेदिनो गुणाः ॥ १,१२.२० ॥ शब्दा वाय्वादिषु व्योम्नि सवर्णप्रतिशब्दगाः । व्यूहोऽवकाशदानं च पक्तिसंग्रहधारणाः ॥ १,१२.२१ ॥ वायुव्योमहुताशाम्बु- धरणीनां च वृत्तयः । शब्दः खगुण एवेति तदन्यत्रोपलब्धितः ॥ १,१२.२२ ॥ ब्रुवते भगवन् केचित्सर्वभूतगुणः कथम् । क्वान्यत्र श्रवणाकाशे कथमन्यत्र तद्गुणः ॥ १,१२.२३ ॥ परेष्टादाश्रयात्तत्र निर्णेतानुभवो नृणाम् । कदाचित्कर्णमूलेऽपि संविदित्यथ मन्यसे ॥ १,१२.२४ ॥ श्रोत्रवृत्तिवदस्यापि परिणामोऽस्तु का क्षतिः । आगमाध्यक्षविहता हेतवो नार्थसाधकाः ॥ १,१२.२५ ॥ कालात्ययापदिष्टत्वादिति न्यायविदो विदुः । इत्यपि स्थितमेवायं गन्धोऽप्यस्तु नभोगुणः ॥ १,१२.२६ ॥ येन केतकपुष्पादेर्वैकृष्ट्येऽप्युपलभ्यते । इति पञ्चसु शब्दोऽयं स्पर्शो भूतचतुष्टये ॥ १,१२.२७ ॥ अशीतोष्णो महीवाय्वोः शीतोष्णौ वारितेजसोः । भास्वदग्नौ जले शुक्लं क्षितौ शुक्लाद्यनेकधा ॥ १,१२.२८ ॥ रूपं त्रिषु रसोऽम्भःसु मधुरः षड्विधः क्षितौ । गन्धः क्षितावसूरभिः सुरभिश्च मतो बुधैः ॥ १,१२.२९ ॥ देहेऽस्थिमांसकेशत्वङ्- नखदन्तेषु चावनिः । मूत्ररक्तकफस्वेद- शुक्रादौ वारि संस्थितम् ॥ १,१२.३० ॥ हृदि पक्तौ दृशोः पित्ते तेजस्तद्धर्मदर्शनात् । प्राणादिवृत्तिभेदेन नभस्वानुक्त एव ते ॥ १,१२.३१ ॥ गर्ववृत्त्यनुषङ्गेण खं समस्तासु नाडिषु । प्रयोक्त्र्यादिमहीप्रान्तमेतदण्वर्थसाधनम् ॥ १,१२.३२ ॥ प्रत्यात्मनियतं भोग- भेदतो व्यवसीयते । सर्वतो युगपद्वृत्तेरनुत्पादादसर्वगम् । भिन्नजातीयमप्येक- फलं दीपाङ्गवस्तुवत् ॥ १,१२.३३ ॥ इत्यातिवाहिकमिदं वपुरस्य जन्तोश्चित्सङ्गचिद्गहनगर्भविवर्ति लेशात् । नैतावतालमिति भौवनतत्त्वपङ्क्तिमाधारदेहविषयाभ्युदयाय वक्ष्ये ॥ १,१२.३४ ॥ अथोक्तार्थप्रसिद्ध्यर्थं भुवनादि विनिर्ममे । साधारणेभ्यो योनिभ्यः कलादिभ्यो महेश्वरः ॥ १,१३.१ ॥ तानि कालानलादीनि कलाप्रान्तानि मण्डलम् । संसारमिति तत्त्वज्ञा भोगस्थानं प्रचक्षते ॥ १,१३.२ ॥ मायायामपि पठ्यन्ते गहनेशादयोऽधिपाः । तत्त्वशुद्धिश्च दीक्षायां सर्वं तत्कृतिमस्तके ॥ १,१३.३ ॥ नित्यत्वव्यापकत्वादि- श्रवणादवसीयते । दृष्टं पुरादि यद्भोग्यं मूर्तं प्रलयधर्मि च ॥ १,१३.४ ॥ शुद्धाध्वन्यपि मायायाः परस्याः पतयः कृतौ । ते तस्यामपि पठ्यन्ते तेऽपि तत्कृतिमस्तके ॥ १,१३.५ ॥ रजो विलोक्यते तिर्यग्- जालाविष्टार्करोचिषाम् । तदष्टाष्टगुणस्थाने तृतीये स्यात्कचाग्रकम् ॥ १,१३.६ ॥ लिक्षा यूका यवोऽप्येवमङ्गुलं तत्त्रिसंगुणैः । तैरेव गुणितं पाणिर्धनुस्तद्वेदलक्षितम् ॥ १,१३.७ ॥ दण्डो द्वे धनुषी ज्ञेयः क्रोशस्तद्द्विसहस्रकम् । द्विक्रोशमाहुर्गव्यूतिं द्विगव्यूतिं च योजनम् ॥ १,१३.८ ॥ कपालमर्बुदं स्थौल्याद्ब्रह्मणोऽण्डस्य योजनैः । तस्यान्तः काञ्चनं धाम कालाग्नेस्तावदेव हि ॥ १,१३.९ ॥ यत्रान्तकालतीक्ष्णांशु- कोटितेजास्तथाविधैः । रुद्रैरास्ते वृतो देवः कालाग्निरिति विश्रुतः ॥ १,१३.१० ॥ सर्वाध्ववर्तिभूतानां यस्मिन्नुद्वृत्ततेजसि । भयमुत्पद्यते शक्त्या संहर्त्र्या चोदिते प्रभोः ॥ १,१३.११ ॥ तस्य स्वभावतो ज्वालाः प्रवृत्ता दशकोटयः । योजनानां तदर्धेन धूमः सान्द्रः सुदारुणः ॥ १,१३.१२ ॥ ततः पुटास्त्रयस्त्रिंशद्- दशलक्षोनकोटिकाः । तदन्तराणि द्वात्रिंशल्- लक्षकाणि दुरात्मनाम् ॥ १,१३.१३ ॥ स्थानानि यातनाहेतोर्निर्मितान्यध्ववेधसा । तानि ते नामभिर्वक्ष्ये द्विजमुख्य निबोध मे ॥ १,१३.१४ ॥ रौरवध्वान्तशीतोष्ण- संतापाब्जमहाम्बुजाः । कालसूत्राष्टमा ह्येते नरका इति विश्रुतः ॥ १,१३.१५ ॥ सूच्यास्यतालखड्गाख्य क्षुरधाराम्बरीषकाः । कालखड्गाख्य Kष्ट्ष् तप्ताङ्गारा महादाहाः संतापाश्चेति ये मुने ॥ १,१३.१६ ॥ भवन्त्यष्टौ सुबीभत्सा महाशब्दपदानुगाः । लाक्षाप्रलेपमांसाद- निरुच्छ्वासनसोच्छ्वासाः ॥ १,१३.१७ ॥ युग्माद्रिशाल्मलीलोह- प्रदीप्तक्षुत्पिपासकाः । कृमीणां निचयश्चेति राजानः परिकीर्तिताः ॥ १,१३.१८ ॥ लोहस्तम्भोऽथ विण्मूत्रस्तथा वैतरणी नदी । तामिस्रश्चान्धतामिस्रः कुम्भीपाकः सरौरवः ॥ १,१३.१९ ॥ महापदानुगोऽवीची राजराजेश्वरेश्वराः । एषां पुटानां नरकैः सार्धं योजनसंख्यया ॥ १,१३.२० ॥ भवन्ति कोटयस्त्रिंशद्द्वे च लक्षे द्विजोत्तम । ततस्त्त्रिंशत्सहस्राणि त्यक्त्वा भूर्नवलाक्षिकी ॥ १,१३.२१ ॥ भवत्ययोमय्यर्धेन पूर्वेणार्धेन काञ्चनी । योऽप्यधस्तात्पुटस्तस्या मृदर्धं चार्धमायसम् ॥ १,१३.२२ ॥ तत्र द्वात्रिंशतोऽमीषां निरयाणां पतिः स्थितः । कूष्माण्ड इति विख्यातः प्रलयार्कानलद्युतिः ॥ १,१३.२३ ॥ करालवदनः क्रुद्धो वृत्तकोटरलोचनः । तङ्कपाणिस्तथाभूतैर्भूतैर्भूयोभिरावृतः ॥ १,१३.२४ ॥ अयोरुक्मपुटादूर्ध्वमष्टमीयं वसुन्धरा । साहस्राः षट्परा मध्या व्यर्कलक्षत्रिकोटिकी ॥ १,१३.२५ ॥ वसत्यो नवसाहस्राः परा दशसहस्रिकी । तदासां सप्तकं सद्भिः ख्यातं पातालसप्तकम् ॥ १,१३.२६ ॥ तन्नामतोऽधिपतित उच्यमानं निबोध मे । आभासं परतालाख्यं त्रितलं च गभस्तिमान् ॥ १,१३.२७ ॥ महातलं रसाङ्कं च पातालं सप्तमं मुने । सप्तस्वेतेषु दैत्येन्द्र- भुजङ्गक्षणदाचराः ॥ १,१३.२८ ॥ सप्त सप्त समाख्यातास्तानप्यथ निबोध मे । दैत्याः शङ्कुश्रुतिः पूर्वे प्रह्लादः शिशुपालकः ॥ १,१३.२९ ॥ कर्कन्धको हिरण्याक्षो बृहद्गर्भो बलिस्तथा । काद्रवेयाः कुटिलको वासुकिः कम्बलस्तथा ॥ १,१३.३० ॥ कार्कोटकोऽथ कालाङ्गो दुर्दर्शस्तक्षकस्तथा । विकटो लोहिताक्षश्च यमाक्षो विकटाननः ॥ १,१३.३१ ॥ करालो भीमनिर्ह्रादः पिङ्गलश्चेति राक्षसाः । तेषामुपरि निशेष- पातालाधिपतीश्वरः ॥ १,१३.३२ ॥ साहस्रे काञ्चने धाम- मण्डले हाटकः स्थितः । यं स्तुवन्ति प्रियप्राप्त्यै यता यतिविभूषणैः ॥ १,१३.३३ ॥ दैत्ययक्षासुराधीश- ललना ललितैः पदैः । ततः कोटिशतं पृथ्वी नानाजनसमाश्रया ॥ १,१३.३४ ॥ द्वीपशैलसरिद्वारि- निधिमण्डलमण्डिता । जम्बूशाककुशक्रौञ्च- शाल्मगोमेधपुष्कराः ॥ १,१३.३५ ॥ लक्षादिद्विगुणा द्वीपाः क्षाराद्यब्धिभिरावृताः । ततो हिरण्मयी भूमिर्लोकालोकश्च पर्वतः ॥ १,१३.३६ ॥ तमः परस्ताद्गर्भोदः कटाहश्चेति भूतलम् । त्रिशैलसरिद्द्वीपकानन्[अल्]ओदध्यलंकृताम् ॥ १,१३.३७ ॥ पृथ्वीं भगवतीं शक्र श्रोतुमिच्छामि विस्तरात् । त्वयि वक्तरि देवेश सर्वप्रत्यक्षदर्शिनि ॥ १,१३.३८ ॥ निष्ठाज्ञप्तिरसाकृष्टं श्रुतौ धावति मे मनः । वर्तयिष्ये द्विजश्रेष्ठ प्रस्तुतोक्तिशरीरवत् ॥ १,१३.३९ ॥ द्वीपान्नदीवनान्तांश्च शृणुश्वैकाग्रमानसः । जम्बुद्वीपं क्षितेर्नाभिस्तद्वृत्तं लक्षयोजनम् ॥ १,१३.४० ॥ क्षाराब्धिना परिवृत्तं परिवृत्तेन तावता । तस्य मध्ये स्थितः शैल- राजराजो हिरण्मयः ॥ १,१३.४१ ॥ तिरस्कृतांशुमज्ज्योतिर्मेरुः सुरनिषेवितः । स षोडश सहस्राणि क्षितौ विष्टो महीतलात् ॥ १,१३.४२ ॥ तदूनमुन्नतो लक्षं मूले षोडश विस्तृतः । त्रिषु पादान्तरेष्वस्य चतुर्वृद्धेषु पर्वसु ॥ १,१३.४३ ॥ नेमयः कटकाकारा निर्गता दीप्तिमत्तराः । एका दशसहस्रा तु मनुसाहस्रिकी परा ॥ १,१३.४४ ॥ नेमिर्या मस्तकोपान्ते लोकपालसमाश्रया । चक्रवाटेति तामाहुः सर्वरत्नप्रभावतीम् ॥ १,१३.४५ ॥ सिद्धगन्धर्वमहतां तदधः पर्वसु स्थितिः । प्राच्यादिष्विन्द्रमुख्यानां नामतस्तानिबोधत ॥ १,१३.४६ ॥ नानरत्नप्रभाजाल- मण्डलालङ्कृता हरेः । सिद्धसाध्यमरुज्जुष्टा रुक्मभूरमरावती ॥ १,१३.४७ ॥ रक्तपीतमणिप्राय- हेमप्राकारगोपुरा । वह्नेस्तेजोवती वह्नि- तुल्यभूतनिषेविता ॥ १,१३.४८ ॥ मृत्योः संयमनी तुङ्ग- लोहप्राकारमण्डला । कालपाशपितृव्यादि- प्रेतमारिनिषेविता ॥ १,१३.४९ ॥ कृष्णा दैत्यपतेर्मृत्योर्धामवद्दैत्यसेविता । नीलरत्नप्रभाजाल- वितानवरभूषणा ॥ १,१३.५० ॥ शुद्धवत्यम्बुनाथस्य स्फटिकोपलनिर्मिता । पाण्डुराभ्रोपमैर्यादः- सेविता भाति धामभिः ॥ १,१३.५१ ॥ वायोर्गन्धवती तुङ्ग- श्वेतपीतध्वजाकुला । बलवद्भूतसंजुष्टा सर्वरत्नविनिर्मिता ॥ १,१३.५२ ॥ महोदया चन्द्रमसः श्वेता मुक्तादिनिर्मिता । द्विजसंघस्तुता भाति पुरैर्हिमगिरिप्रभैः ॥ १,१३.५३ ॥ ज्वलल्ललाटदृग्दग्ध- स्मरमृत्युयशोभृतः । पुरी यशोवती सर्व- रत्नजा रुद्रसेविता ॥ १,१३.५४ ॥ इति सर्वर्तुसुखदाश्चक्रवाटार्धविस्तृताः । पुर्योऽष्टावनिलोद्धूत- पारिजातरजोरुणाः ॥ १,१३.५५ ॥ वेधसा निर्मिता लोक- पालचक्रानुवर्तिनाम् । भूतये स्वर्ग इत्येता गीयन्ते कविभिः क्षितौ ॥ १,१३.५६ ॥ चतुर्दश सहस्राणि योजनानां स्वयंभुवः । मध्ये मनोवती नाम पुरी लोकेशवन्दिता ॥ १,१३.५७ ॥ या चकारारुणानुच्चैर्विद्युन्मार्गान्महःश्रिया । सावित्र्या स्पर्धमानेव स्वर्गकामातिवर्तिनी ॥ १,१३.५८ ॥ तस्यामुपासते देवा मुनयश्च महौजसः । महायोगीश्वरं सिद्ध्यै यमाद्यैर्भूतवेधसम् ॥ १,१३.५९ ॥ तदीशभागे तस्याद्रेः शृङ्गमादित्यसन्निभम् । यत्तज्ज्योतिष्कमित्याहुः सदा पशुपतिप्रियम् ॥ १,१३.६० ॥ तस्य सानुषु हैमेषु रत्नचित्रेषु संस्थिताः । स्कन्दनन्दिमहाकाल- गणेशादिगणावराः ॥ १,१३.६१ ॥ मूर्ध्नि देवादिदेवस्य स्थानं त्रिपुरविद्विषः । रुद्रायुतगणैर्जुष्टं ब्रह्माद्यैश्च सुरोत्तमैः ॥ १,१३.६२ ॥ इति मेरुरधोऽस्यान्ते दिक्षु ये भूधराः स्थिताः । तच्छिष्टानि नवद्वीपे वर्षाण्यस्मिन्निबोध मे ॥ १,१३.६३ ॥ निषधो हेमकूटश्च हिमवांश्चाचलोत्तमाः । मेरोर्दक्षिणतो नीलः श्वेतः शृङ्गीति वामतः ॥ १,१३.६४ ॥ सहस्रद्वयविष्कम्भा दशोत्सेधा नवान्तराः । प्रागायतः सुपर्वाणाः सागराहितकोटयः ॥ १,१३.६५ ॥ तदर्धेनात्तविष्कम्भौ माल्यवद्गन्धमादनौ । याम्योत्तरौ प्राक्प्रतीच्योर्मेरुतस्तावदन्तरौ ॥ १,१३.६६ ॥ पश्चान्माल्यवतः प्राच्यां गन्धमादनशैलतः । इलावृतं नीलगिरेर्याम्यतो निषधादुदक् ॥ १,१३.६७ ॥ भद्राश्वं माल्यवत्प्राच्यां वर्षं भद्रजनाकुलम् । सुकेतनं केतुमालं प्रतीच्यां गन्धमादनात् ॥ १,१३.६८ ॥ निषधाद्धरिवर्षे यद्याम्यतो हेमकूटतः । नाम्ना किंपुरुषं ख्यातं भारतं हिमवद्गिरेः ॥ १,१३.६९ ॥ रम्यकाख्यमुदङ्नीलाद्धिरण्यं श्वेतपर्वतात् । यदुत्तरे शृङ्गवतः कुरुवर्षं तदुच्यते ॥ १,१३.७० ॥ निष्कम्भशैलाश्चत्वारो मेरोः स्थैर्याय वेधसा । लक्षार्धोन्नतः कॢप्तास्[ते] तेषां पूर्वेण मन्दरः ॥ १,१३.७१ ॥ श्वेतो हरिद्राचूर्णाभो याम्यतो गन्धमादनः । प्रतीच्यां विपुलो नीलः सुपार्श्वः सौम्यतोऽरुणः ॥ १,१३.७२ ॥ सहस्रयोजनच्छायास्तेषु कल्पद्रुमाः स्थिताः । कदम्बजम्ब्वावश्वत्थ- न्यग्रोधौ चोत्तरान्तिकाः ॥ १,१३.७३ ॥ जम्बूफलरसोद्भूता मेरुं पर्येत्य निम्नगा । विवेश मूलमेवास्य कनकीकृत्य तां महीम् ॥ १,१३.७४ ॥ तं पीत्वा पक्षिसर्पाखु- मृगशाखामृगादयः । बभूवुः काञ्चना ये च सत्त्वास्तस्यां कृताप्लवाः ॥ १,१३.७५ ॥ द्वीपकेतुरभूज्जम्बूः कल्पशाखिषु सत्स्वपि । प्रभावातिशयात्ख्यातं जम्बूद्वीपमिदं ततः ॥ १,१३.७६ ॥ प्राच्यां विष्कम्भशैलस्य मूले चैत्ररथं वनम् । सरोऽरुणोदकं नाम तत्र हेमाब्जमण्डितम् ॥ १,१३.७७ ॥ याम्याद्रिमूले गन्धर्व- सुरसिद्धाप्सरोवृतम् । नन्दनं मानसं तत्र सरो मानसतस्करम् ॥ १,१३.७८ ॥ वैभ्राजं वैपुले मूले सितोदश्च ह्रदोत्तमः । देवैर्निषेव्यते छन्नः कमलैरंशुमप्रभैः ॥ १,१३.७९ ॥ सौपार्श्वे धृतिमन्नाम काननं भद्रको ह्रदः । सौगन्धिकाम्बुजच्छन्नः सेव्यते पितृभिः सदा ॥ १,१३.८० ॥ त्रयोदशसहस्रायुर्- जम्बूफलरसाशनः । मेर्वालोकोपलब्धार्थो जनः सुत्वगिलावृते ॥ १,१३.८१ ॥ वर्षायुतायुर्नीलाब्ज- द्युतिः पनससारभुक् । केतुमाले जनो दिव्य- देहबन्धः सुखी बली ॥ १,१३.८२ ॥ चन्द्रबिम्बद्युतिर्नीला- -ब्जाशनो भद्रवाजिनि । दशवर्षसहस्रायुर्- दुःखशोकभयोज्झितः ॥ १,१३.८३ ॥ त्रिंशदब्दसहस्रायुः कामवृक्षफलाशनः । युग्मप्रसूतिः कुरुषु श्यामापुष्पद्युतिर्जनः ॥ १,१३.८४ ॥ भूतवेदसहस्रौ द्वावेकदिक्संधिलक्षितौ । सोमवाय्वाशयोः सिद्ध- मुनिचारणसेवितौ ॥ १,१३.८५ ॥ चन्द्रभद्राकरौ द्वीपौ चन्द्ररक्ताब्जरुग्जनौ । ऐलावृतं तयोरायुः फलं मूलं च भोजनम् ॥ १,१३.८६ ॥ अन्तर्भावः कुरुष्वब्धौ सान्निध्यात्कीर्तितौ ततः । अध्यर्धानि सहस्राणि द्वादशायुर्हिरण्वति ॥ १,१३.८७ ॥ जनस्येन्दुत्विषो नित्यमश्नतो लाकुचं फलम् । नीलनीरजरम्यस्य रम्यके द्वादशस्थितिः ॥ १,१३.८८ ॥ जनस्याब्दसहस्राणि न्यग्रोधफलमश्नतः । रजतद्युतिरिक्ष्वादस्तावदायुर्हरौ जनः ॥ १,१३.८९ ॥ रौक्मः किंपुरुषे प्लक्ष- भोजनोऽब्दायुतस्थितिः । इति किम्पुरुषादीनि वर्षाण्युक्तानि यानि ते ॥ १,१३.९० ॥ न तेष्ववस्थाभेदोऽस्ति विवर्तिषु कृतादिषु । युगानुरूपप्रज्ञायुस्तेजोबलधनप्रजः ॥ १,१३.९१ ॥ कृष्टाकृष्टाशनो दुःख- त्रयार्तो भारते जनः । गुण एको यदुद्युक्तो नेष्टं किंचिन्न साधयेत् ॥ १,१३.९२ ॥ सर्वासां फलभूमीनां कर्मभूः कारणं यतः । नवाब्धिस्रोतसि द्वीपा नव चात्रार्धकस्थले ॥ १,१३.९३ ॥ इन्द्रद्वीपप्रभृतयो नामतस्तान्निबोध मे । इन्द्रद्वीपः कशेरुश्च ताम्रपर्णो गभस्तिमान् ॥ १,१३.९४ ॥ नागद्वीपश्चान्द्रमसो गान्धर्वो वारुणस्तथा । कुमारिकाख्यो नवमो नानापर्वतनिम्नगाः ॥ १,१३.९५ ॥ नानाजातिजनाकीर्णा भारताखे प्रकीर्तिताः । आग्नीध्रो नाम नृपतिर्जम्बूनाथो मनोः कुले ॥ १,१३.९६ ॥ तज्जातनृपसंज्ञाभिः कथ्यन्ते भारतादयः । क्षारक्षीरदधिस्नेह- रसमध्वामृतोदकैः ॥ १,१३.९७ ॥ लक्षादिद्विगुणा द्वीपा जम्बूद्वीपादयो वृताः । शाके शाकद्रुमस्त्वङ्गः शाकसंज्ञानिबन्धनः ॥ १,१३.९८ ॥ कुशोऽभूत्काञ्चनः कौशे स्वयंभुवि यियक्षति । क्रौञ्चे क्रौञ्चो हतो दैत्यः क्रौञ्चाद्रौ हेमकन्दरे ॥ १,१३.९९ ॥ स्कन्देन युद्ध्वा सुचिरं चित्रमयी सुमायिना । स शैलस्तस्य दैत्यस्य ख्यातश्चित्रेण कर्मणा ॥ १,१३.१०० ॥ केतुतामगमत्तस्य नाम्ना क्रौञ्चं तदुच्यते । शाल्मले शाल्मलीवृक्षो हैमः साहस्रिकोऽर्कभाः ॥ १,१३.१०१ ॥ प्रियोऽमराणां तत्केतुः स तदाख्यानिबन्धनः । गोमेदे गोपतिर्नाम राजाभूद्गोसवोद्यतः ॥ १,१३.१०२ ॥ याज्योऽभूद्वह्निकल्पानामौतथ्यानां मनोः कुले । स तेषु हरियज्ञाय प्रवृत्तेषु भृगून् गुरून् ॥ १,१३.१०३ ॥ वव्रे तं गौतमः कोपा- दशपदगमत्क्षयम् । यज्ञवाटेऽस्य ता गावो दग्धाः कोपाग्निना मुनेः ॥ १,१३.१०४ ॥ तन्मेदसा मही छन्ना गोमेदः स ततोऽभवत् । नदी पुष्करिणी नाम हेमपुष्करमण्डिता ॥ १,१३.१०५ ॥ तया स पुष्करद्वीपः ख्यापितः सुरसेवितः । यथा किम्पुरुषाद्येषु कृतावासः सदा जनः ॥ १,१३.१०६ ॥ शाकद्वीपादिषु तथा क्षीरादिकृतभोजनः । हिमेन्दुहिमनीलाब्ज- सस्यकस्फटिकद्युतिः ॥ १,१३.१०७ ॥ दशवर्षसहस्रायुर्- नष्टदुःखैककण्टकः । सप्तमामुदधेरर्वाक्द्वे कोटी सत्रिकं दलम् ॥ १,१३.१०८ ॥ पञ्चाशच्च सहस्राणि कर्णाद्धेमाद्रिगर्भतः । ततो हिरण्मयी भूमिर्नानारत्नद्रुमाचला ॥ १,१३.१०९ ॥ क्रीडार्थं वेधसा सृष्टा देवानां दशकोटिकी । लोकालोको बहिस्तस्या लोकालोकनियामकः ॥ १,१३.११० ॥ योजनायुतविष्कम्भस्तुङ्गशृङ्गपरिच्छदः । तस्य शृङ्गेषु तीक्ष्णांशोर्भासश्चन्द्रातपोपमाः ॥ १,१३.१११ ॥ न तापयति वैकृष्ट्याद्धामान्याशाभृतां मुने । तमः परस्तान्निबिडं लक्षाण्येकोनविंशतिः ॥ १,१३.११२ ॥ चत्वारिंशत्सहस्राणि पञ्चत्रिंशच्च कोटयः । सप्तविंशतिलक्षाणि कोटिश्चैका समुद्ररात् ॥ १,१३.११३ ॥ हैमं कटाहकं कोटिर्गर्भादेति समन्ततः । तिथिलक्षो भुवर्लोको ध्रुवप्रान्तो महीतलात् ॥ १,१३.११४ ॥ ध्रुवे प्रान्तो Kष्ट्ष्; बुतॄउओतेदद्ष्वच्छन्द १०: ५१६ --५१७ wइथ्ध्रुवप्रान्तो, अन्द् ध्रुवप्रान्तो इस्सुप्पोर्तेद्ब्य्णारयण. तदूनकोटिस्वर्लोकः स्वर्गिवर्यसमाश्रयः । स्वर्लोक<> Kष्ट्ष्; बुतॄउओतेदुप्तो थे एन्दोf थिस्पाद अद्ष्वच्छन्द १०:५१६ --५१७ , wहिछिम्प्लिएस्थत्थिस्wओर्द्स्प्लित्wअस्मदे. महर्द्विकोटिर्यत्रास्ते मरीच्यादिमुनिव्रजः ॥ १,१३.११५ ॥ जनोऽष्टकोट्यवच्छिन्नः पितृजह्नुजनाश्रयः । तपोऽर्ककोटिर्यत्रास्ते महायोगी सनन्दनः ॥ १,१३.११६ ॥ ऋभुः सनत्कुमारश्च सनकश्च महातपाः । ततः सत्य[म]धिःस्थानं सत्यलोकः स्वयम्भुवः ॥ १,१३.११७ ॥ कामातिशयसम्पन्नः कोटयो नव सप्त च । सावित्री मूर्तिमत्यास्ते यत्र वेदाश्च सानुगाः ॥ १,१३.११८ ॥ ततश्चतस्रः षट्चेति मधुत्रिपुरविद्विषोः । स्थाने ज्योतिष्मतीचित्रे कोटिरण्डकटाहकः ॥ १,१३.११९ ॥ शतकोटिप्रविस्तीर्ण इति ब्रह्माण्डगोलकः । भूयसा तुल्य एवायं सर्वस्रोतःसु मानतः ॥ १,१३.१२० ॥ तस्य प्राचीं दिशं शक्रः पात्यग्निः पूर्वदक्षिणाम् । दक्षिणां भूतसंहर्ता राक्षसो दक्षणापराम् ॥ १,१३.१२१ ॥ पश्चिमां वरुणो देवो नभस्वान् पश्चिमोत्तराम् । उदीचीं सोमयक्षेशावीशः प्रागुत्तरां दिशम् ॥ १,१३.१२२ ॥ ऊर्ध्वे ब्रह्मा हरिरधः सर्वार्थावहिताः सदा । एषामपि नियन्तारो रुद्रा दश दश स्थिताः ॥ १,१३.१२३ ॥ भूमिमन्तोऽप्यमी येषां नोत्क्रामन्ति भयात्पदम् । नानारूपैर्महावीर्यैस्तरुणार्कसमप्रभैः ॥ १,१३.१२४ ॥ वृता नानायुधधरैर्नामभिस्तान्निबोध मे । बुध्नवज्रशरीराज- कपालीशप्रमर्दनाः ॥ १,१३.१२५ ॥ प्राग्विभूत्यव्ययौ शास्त पिनाकी त्रिदशाधिपः । भस्मक्षयान्तकहर- ज्वलनाग्निहुताशनाः ॥ १,१३.१२६ ॥ पिङ्गलः खादको बभ्रुर्दहनश्चाग्निदिग्गताः । विधातृधातृकर्त्रीश- कालमृत्युवियोजकाः ॥ १,१३.१२७ ॥ याम्यधर्मेशसंयोक्तृ- हराश्च यमनायकाः । निरृतिर्मारणक्रोध- हन्तृधूम्रविलोहिताः ॥ १,१३.१२८ ॥ ऊर्ध्वलिङ्गविरूपाक्ष- दंष्ट्रिभीमाः पलादपाः । बलातिबलपाशाङ्ग- श्वेतभूतजलान्तकाः ॥ १,१३.१२९ ॥ महाबलमहाबाहु- सुनाद्यब्दरवाः कपाः । लघुशीघ्रमहद्वेग- सूक्ष्मतीक्ष्णक्षयान्तकाः ॥ १,१३.१३० ॥ कपर्द्यब्देशपञ्चान्त- पञ्चचूडाश्च वायुपाः । निधीशो रूपवान् धन्य- सौम्यशान्तजटाधराः ॥ १,१३.१३१ ॥ कामप्रसादलक्ष्मीश- प्रकाशाश्चेन्दुयक्षपाः । विद्येशसर्वविज्ज्ञान- वेदविज्ज्येष्ठवेदगाः ॥ १,१३.१३२ ॥ विद्याविधातृभूतेश- बलिप्रियसुखाधिपाः । शम्भुर्गणाध्यक्षविभु- त्र्यक्षचण्डामरस्तुताः ॥ १,१३.१३३ ॥ विचक्षणनभोलिप्सु- संविवाहाश्च मूर्धनि । क्रोधनानिलभुग्भोगि- ग्रसनोदुम्बरेश्वराः ॥ १,१३.१३४ ॥ वृषो विषधरोऽनन्तो वज्रो दंष्ट्री च विष्णुपाः । ततोऽम्भःप्रमुखा भोग- भूमयस्तासु संस्थिताः ॥ १,१३.१३५ ॥ पञ्चाष्टका नियोक्तॄणां क्षेत्रावाप्तफलश्रियः । भारभूत्याषाढिडिण्डि- लाकुल्यमरपुष्कराः ॥ १,१३.१३६ ॥ प्रभासनैमिषौ चेति गुह्याष्टकमिदं जले । श्रीशालजल्पकेदार- भैरवाम्रातकेश्वराः ॥ १,१३.१३७ ॥ हरिश्चन्द्रमहाकालमध्याः सातिपदा रुचौ । महेन्द्रभीमविमल- कुरुक्षेत्रगयाखलाः ॥ १,१३.१३८ ॥ सनापदोत्तराः साट्ट- हासाः सनाखलाः खगे । स्थाणुस्वर्णाक्षगोकर्ण- भद्रकर्णमहालयाः ॥ १,१३.१३९ ॥ वस्त्रपदाविमुखाह्व- रुद्रकोट्यः खमण्डले । पवित्राष्टकमित्याहुर्गर्वे मात्रेन्द्रियगोचरे ॥ १,१३.१४० ॥ स्थाण्वष्टकं द्विजश्रेष्ठ नामतः कथयामि ते । माकोटमण्डलेशान- द्विरण्डछगलाण्डकाः ॥ १,१३.१४१ ॥ स्थूलस्थूलेश्वरौ शङ्कु- कर्णकालञ्जरावपि । सूक्ष्मामरपुराण्यष्टौ बुद्धौ पैशाचमादितः ॥ १,१३.१४२ ॥ राक्षसं याक्षगान्धर्वं माहेन्द्रं च महर्द्धिमत् । सौम्यं प्राजेश्वरं ब्राह्मं दीप्तं परमया श्रिया ॥ १,१३.१४३ ॥ गौणे योगीशधामानि त्वकृतं कृतरैभवम् । कृतभैरवम् Kष्ट्ष् ब्राह्मवैष्णवकौमारमौमं श्रैकण्ठमन्ततः ॥ १,१३.१४४ ॥ वीरभद्रस्य रुचिमद्द्धाम योगिवरस्तुतम् । स्वपदाधोऽधिकारस्थ- सर्वरुद्राधिकश्रियः ॥ १,१३.१४५ ॥ वामदेवभवानन्त- भीमोमापत्यजेश्वराः । सर्वेशानेश्वरावेक- वीरैकशिवसंज्ञितौ ॥ १,१३.१४६ ॥ उग्रः प्रचण्डदृक्चेशो गुणानां मूर्ध्नि संस्थिताः । तपसा गुरुणोपास्य क्रोधादीन् गुरुतां मताः ॥ १,१३.१४७ ॥ स्वाधिकारविधौ तीक्ष्णा रुद्राः सर्वार्थदृक्क्रियाः । तेभ्यो दशगुणश्रीकान् प्रधानाधिपतीञ्छृणु ॥ १,१३.१४८ ॥ क्रोधेशचण्डसंवर्त- ज्योतिःपिङ्गलसूरगाः । पञ्चान्तकैकवीरौ च शिखेद इति ते स्मृताः ॥ १,१३.१४९ ॥ सर्वेन्द्रियः सर्वतनुः सर्वान्तःकरणाश्रयः । पुरुषे नियतौ यन्ता काले कलनशक्तिमान् ॥ १,१३.१५० ॥ भुवनेशमहादेव- वामदेवभवोद्भवाः । एकपिङ्गेक्षणेशाना- -ङ्गुष्ठमात्राश्च भास्वराः ॥ १,१३.१५१ ॥ परमेशोपमा राग- विद्यागर्भे कलापदे । महापुरचतुःषष्टि- मण्डले मण्डलाधिपाः ॥ १,१३.१५२ ॥ अनन्तस्त्रिकलो गोप्ता क्षेमीशो ब्रह्मणः पतिः । ध्रुवतेजोधिषौ रुद्रौ गहनेशश्च विश्वराट् ॥ १,१३.१५३ ॥ मायाधिकारिणो रुद्रा मण्डलाधिपतीश्वराः । संसारचक्रकारूढ- भूतग्रामविवर्तकाः ॥ १,१३.१५४ ॥ एतावत्येव घोरेयं सर्वभूतभवावनिः । सीदन्त्यज्ञानिनो यस्यां पङ्के गाव इवाचलाः ॥ १,१३.१५५ ॥ भृगुणी ब्रह्मवेताली स्थाणुमत्यम्बिका परा । रूपिणी नन्दिनी ज्वाला सप्तसप्तार्बुदेश्वराः ॥ १,१३.१५६ ॥ विद्याराज्ञ्यस्तु कथिता विद्यायां रुद्रसंस्तुताः । तासामुपरि दीप्तश्रीर्देवो विद्याधिपः स्थितः ॥ १,१३.१५७ ॥ मन्त्रेशेशचिदाविष्ट- रुद्रव्यूहाष्टकानुगः । उच्छुष्माः शम्बराश्चण्डा महावीर्याः पदद्रुहः ॥ १,१३.१५८ ॥ रुद्रा गणाः सदिक्पालाः शास्त्राणि पतयस्ततः । ते चानन्तप्रभृतयो गदिता एव नामतः ॥ १,१३.१५९ ॥ स्वस्वरूपाश्च ते विप्र पूर्वं प्रश्नानुषङ्गतः । सादाशिवे पवित्राङ्ग- सकलादिपरिच्छदः ॥ १,१३.१६० ॥ देवः सदाशिवो बिन्दौ निवृत्त्यादिकलेश्वराः । नादे ध्वनिपतिः शक्तौ सर्वशक्तिमतां वरः ॥ १,१३.१६१ ॥ योनिर्विश्वस्य वागीशाः पतयः परतः शिवः । सदाशिवशिवान्ताध्व- कल्पिताणुवपुःस्थितिः ॥ १,१३.१६२ ॥ सर्वातिशयविश्रामस्तदूर्ध्वं पतयः कथम् । ईशानतीत्य शान्तान्तं तत्त्वं सादाशिवं स्मृतम् ॥ १,१३.१६३ ॥ भुवनान्यपि नादादि- कला नान्यः पतिः शिवात् । किंतु यः पतिभेदोऽस्मिन् स शास्त्रे शक्तिभेदवत् ॥ १,१३.१६४ ॥ कृत्यभेदोपचारेण तद्भेदस्थानभेदजः । करोत्युन्मीलनं याभिः शक्तिभिर्नरतेजसः ॥ १,१३.१६५ ॥ ता निवृत्त्यादिसंज्ञानां भुवनानामधीश्वराः । निवर्तयति भूतानि यया सास्य निवर्तिका ॥ १,१३.१६६ ॥ निवृत्तिरिति तत्स्थानं तत्रेशोऽपि निवृत्तिमान् । निवृत्तस्य गतिर्भूयो यया प्राच्यावलक्षणा ॥ १,१३.१६७ ॥ निषिध्यते प्रतिष्ठा सा स्थानं तवांश्च तत्पतिः । त्यक्त्वाप्तगम्यविषयं यया ज्ञानं ददात्यणोः ॥ १,१३.१६८ ॥ सा विद्या स्थानमप्यस्या विद्येशश्च तदीश्वरः । सर्वदुःखप्रशमनं ययास्य कुरुते हरः ॥ १,१३.१६९ ॥ सा शान्तिस्तत्पदं चेति तत्कुर्वन् सोऽपि शान्तिमान् । ऊर्ध्वाधोविषयालोको महान्यश्च महत्तरः ॥ १,१३.१७० ॥ महत्तमश्च क्रियते चितो याभिर्विमुच्यतः । ता इन्धिकाद्यास्तत्स्थानं तद्वानीशस्तिसृष्वपि ॥ १,१३.१७१ ॥ सर्वज्ञत्वादियोगेऽपि नियोज्यत्वं मलांशतः । प्रमार्ष्टि तद्यया सास्य मोचिका तत्पदं च यत् ॥ १,१३.१७२ ॥ मोचकस्तत्क्रियाकृच्च ययेशानं करोति तम् । सोर्ध्वगा तत्पदं चेति तदीशश्चोर्ध्वगापतिः ॥ १,१३.१७३ ॥ येऽपि तत्पदमापन्नाः शैवसाधनयोगतः । ते तत्स्थित्यन्तमाह्लादं प्राप्य यान्ति परं पदम् ॥ १,१३.१७४ ॥ न च सृष्ट्यादि कुर्वन्ति स्वार्थनिष्ठा हि ते यतः । इति सादाशिवं तत्त्वं व्याख्यातं लेशतस्तव ॥ १,१३.१७५ ॥ शक्तावप्येवमित्येष सकलः कृत्ययोगतः । कृत्यं तदादिविषयं निष्कलोऽन्यत्र सर्वदा ॥ १,१३.१७६ ॥ भूमिप्राधानिकग्रन्थि- विद्याबिन्दुकलादिषु । गुणकाराः दशाद्याः स्युर्नादकोटेरधो मुने ॥ १,१३.१७७ ॥ ऊर्ध्वं कलाया विद्याधः श्रूयन्ते गहनाधिपाः । तदन्तरालमेतावदिति धीजात्र लक्षणा ॥ १,१३.१७८ ॥ द्वयोरप्यध्वनोरेवं क्रमप्रसवयोगिनोः । विलयः प्रातिलोम्येन शक्तितत्त्वद्वयावधिः ॥ १,१३.१७९ ॥ व्यस्तस्याथ समस्तस्य विलयः स कथं कियान् । तत्त्वमार्गस्य भगवन् ब्रूहि सर्वार्थदर्श्यसि ॥ १,१३.१८० ॥ महास्वापे समस्तस्य व्यस्तस्यावान्तरो लयः । सर्गोऽप्येवं स्थितेः कालः कथ्यमानोऽवधार्यताम् ॥ १,१३.१८१ ॥ चतुर्युगसहस्रान्तमहर्हेमाण्डजन्मनः । निशा तावत्यहोरात्र- मानेनाब्दपरार्धके ॥ १,१३.१८२ ॥ विलयो व्युत्क्रमेणैष प्रकृत्यादि निवार्यते । तदा रुद्रशतं वीर- श्रीकण्ठौ च प्रधानपाः ॥ १,१३.१८३ ॥ शक्त्याक्रम्य जगत्सूक्ष्मं सूक्ष्मदेहांश्च चिद्वतः । प्रकृतिस्थाशयान् कालं तत्स्वापान्तमुपासते ॥ १,१३.१८४ ॥ शिवेष्टमन्त्रभृन्नुन्न- मण्डलाधिपतीरिताः । काले जगत्समुत्पाद्य स्वाधिकारं प्रकुर्वते ॥ १,१३.१८५ ॥ कर्म धर्मादिकं तच्च गुणत्वेन मतौ स्थितम् । गुणिनो न गुणोऽपैति प्रकृतावुच्यते कथम् ॥ १,१३.१८६ ॥ सत्यं बुद्धिगुणः कर्म नापैति गुणिनो गुणः । देहाक्षफलभूमीनां तात्स्थ्यात्तत्रोपचर्यते ॥ १,१३.१८७ ॥ आधारे कारणे कार्ये समीपे चोपकारके । धर्माद्यनुकृतौ चेति लक्षणां सूरयो जगुः ॥ १,१३.१८८ ॥ एवं गुणादिसर्गाणां परार्धे गुणकारणम् । कला लेढि कलां माया स्वाधिकारपराङ्मुखी ॥ १,१३.१८९ ॥ तन्निवृत्तौ निवर्तन्ते देवास्तदधिकारिणः । सर्गस्थित्यादिको यस्मादधिकारस्तदाश्रयः ॥ १,१३.१९० ॥ एवं मन्त्रेशमुख्येषु विशत्स्वभिमतं पदम् । विद्यामत्ति सदातत्त्वं तद्बिन्दुर्बैन्दवं ध्वनिः ॥ १,१३.१९१ ॥ नादमत्ति परा शक्तिः शक्तिमीष्टे स्वयं हरः । भविनां विश्रमायैवं मायायाश्च परः शिवः ॥ १,१३.१९२ ॥ आकलय्य स्वदृक्शक्त्या स्वापं सृष्ट्यै प्रवर्तते । एवं तत्त्वानि भावाश्च भुवनानि वपूंषि च ॥ १,१३.१९३ ॥ शुद्धाशुद्धाध्वनोर्विप्र व्याख्यातानि समासतः । विद्या पञ्चाणुदेहाश्च बिन्दुर्नादोऽथ कारणम् ॥ १,१३.१९४ ॥ पञ्चस्कन्धः परो मार्गः क्व भावाः प्रत्ययः स्थिताः । नादः सूक्ष्मः कला काल- रागयुग्मे सपूरुषे ॥ १,१३.१९५ ॥ स्थूलः पञ्चकलो नादः पञ्चतत्त्वाश्रयो मुने । प्रधानादिचतुर्ग्रन्थि- निधिर्बिन्दुश्चतुष्कलः ॥ १,१३.१९६ ॥ गर्वे मनोमुखा देवा बुद्धौ भावादयः स्थिताः । पञ्चमन्त्रतनुर्देवः स्थितस्तन्मात्रपञ्चके । सूक्ष्मभूतेषु मन्त्रेशा मन्त्राः स्थूलेषु संस्थिताः ॥ १,१३.१९७ ॥ इति यदणुनिरोधि ध्वान्तबीजाद्यदृष्टं पशुमतसृतदृग्भिः पाशजालं सुभूयः । तदुपशमनिमित्तं वक्ष्यमाणक्रियातो रुचदविहतशक्तिः शाम्भवी मन्त्रसम्पत् ॥ १,१३.१९८ ॥ समाप्तश्च विद्यापादः ________________________________________________________________________________________ येनाणूनामुषितममलं दृक्क्रियाख्यस्वरूपं यत्सद्भावाद्भवजलनिधौ जन्तुजातस्य पातः । दुर्वारं तत्क्षपयति तमो यत्प्रसादस्तमीशं चर्यापादे विवृतिरचनां कुर्महे सम्प्रणम्य ॥ ३.० ॥ अथातो देशिकादीनां सामान्याचारसंग्रहः । परश्चावसरप्राप्तः समासेनोपदिश्यते ॥ ३.१ ॥ देशिको मन्त्रवृत्तिश्च पुत्रकः समयी च यः । चत्वार एते शैवाः स्युर्व्रतिनोऽव्रतिनोऽपि वा ॥ ३.२ ॥ व्रतिनो जटिला मुण्डास्तेष्वग्र्या भस्मपाण्डराः । तिलकैः पुण्ड्रकैः पट्टैर्भूषिता भूमिपादयः ॥ ३.३ ॥ जटा न शूद्रो विभृयान्नाज्ञो नापि प्रमादवान् । न योषिन्न वयोन्तस्था न रोगी विकलोऽपि वा ॥ ३.४ ॥ कलातत्त्वपवित्राणु- शक्तिमन्त्रेशसंख्यया । विभज्य केशान्सम्पात्य प्रत्यंशं संहिताणुभिः ॥ ३.५ ॥ व्रतेश्वरस्य पुरतो बध्नीयाच्छिवतेजसा । मन्त्रिणः साध्यमन्त्रेण हृदा पुत्रकयोग्ययोः ॥ ३.६ ॥ कृमिघ्नद्रव्यमिश्रेण भस्मना त्रैफलेन च । सायचूर्णेन वा पुष्टिं नयेत्ता भौतिकव्रती ॥ ३.७ ॥ भौतिकव्रतिनस्ते स्युर्येषां सावधिकं व्रतम् । देहपातान्तकं येषां ते निष्ठाव्रतिनः स्मृताः ॥ ३.८ ॥ गुरवः पुत्रका ये च न प्राथमिकसाधकाः । पूर्णव्रतावधिः सम्यग्व्रतेशायार्पितव्रतः ॥ ३.९ ॥ न्यस्तव्रताङ्गः सत्पत्नी- परिग्रहविभूतिमान् । भौतिकः काम्य इत्युक्तः सत्सान्तानिक एव वा ॥ ३.१० ॥ साधको लोकधर्मी यः पुत्रकः स्नातको गृही । समयी प्राग्गृहस्थश्च शैवाः स्युर्व्रतवर्जिताः ॥ ३.११ ॥ तेषां साधारणं कर्म सन्ध्योपासनमर्चनम् । स्नानादीनि तदङ्गानि पर्वसु द्विगुणक्रिया ॥ ३.१२ ॥ न्यग्रोधाश्वत्थपत्रेषु वातघ्नाक्षदलेषु च । कांस्ये वाभोजनं भैक्षं चातुर्वर्ण्यमकुत्सितम् ॥ ३.१३ ॥ सर्वामरप्रतिष्ठासु सेत्वादीनां निवेशने । सीमन्तोन्नयनाद्येषु संस्कारेष्वन्नवर्जनम् ॥ ३.१४ ॥ चरुणा फलमूलैर्वा हविष्येणापरेण वा । चतुर्दश्यामथाष्टम्यां पञ्चदश्यां च वर्तनम् ॥ ३.१५ ॥ व्यतीपातदिनध्वंस- मासवृद्ध्ययनादिषु । विशेषसंयमः कार्यः शैवानां च प्रतर्पणम् ॥ ३.१६ ॥ मार्गक्षीणे रिपुग्रस्ते रोगार्ते क्षुत्प्रपीडिते । सर्वात्मना समुद्धारः कर्तव्यः शिवयोगिनः ॥ ३.१७ ॥ मांसयोषिन्मधुत्यागो व्रतिनः क्षितिशायिता । मात्रारक्षणमेकस्य कमण्डलुसहायता ॥ ३.१८ ॥ स्त्रीगीतनर्तितालाप- विलासानामुपेक्षणम् । स्त्रिया रहोऽव्यवस्थानं स्रगभ्यङ्गादिवर्जनम् ॥ ३.१९ ॥ कृष्णपक्षे चतुर्दश्यामष्टम्यां सिद्धदर्शने । श्राद्धं पर्वसु सर्वेषु विषुवे चाष्टकादिषु ॥ ३.२० ॥ गुरुतत्तुल्यबन्धूनां भ्रातॄणां ज्यायसामपि । पूजनं मधुपर्काद्यैः स्वकाले स्त्रीनिषेवणम् ॥ ३.२१ ॥ मङ्गलाचारयोगित्वं गन्धमाल्यादिधारणम् । पृथक्पृथक्तथैतेषामाचारोऽपि विधीयते ॥ ३.२२ ॥ महेशशक्तिनुन्नानां गुरुः कुर्यादनुग्रहम् । परीक्षाभिः परिज्ञाय वृद्धोक्ताभिः प्रयत्नवान् ॥ ३.२३ ॥ अकृत्वा शिवभक्तानां कृत्वा च व्यभिचारिणाम् । प्रायश्चित्ती भवेद्यस्मात्कुर्याद्यत्नमतः परम् ॥ ३.२४ ॥ कर्म संजीवनं कुर्याद्व्यभिचारिणि दीक्षिते । सृष्टितः संहिताहोमादधः पूर्णासमन्वितम् ॥ ३.२५ ॥ संजीवनं न दग्धस्य कर्मणोऽस्ति मृषा चितः । खेदनापायशमनं प्रायश्चित्तं हि तद्गुरोः ॥ ३.२६ ॥ दर्शनान्तरसंस्थाभ्यश्च्युतानामनुवर्तिनाम् । विधायैवं स्वजात्यन्तं दीक्षां कुर्याद्विलोमतः ॥ ३.२७ ॥ न ते मन्त्रप्रयोक्तारः पुनर्भवतया मताः । मन्त्रसाधनसंसिद्धेः कुर्यात्तानीतराण्यतः ॥ ३.२८ ॥ व्याकुर्याच्छिवभक्तेभ्यस्तन्त्रार्थं गतमत्सरः । न्यायतो न्यायवर्तिभ्यः पालयन् गुरुसन्ततिम् ॥ ३.२९ ॥ नाजीर्णाम्लरसोद्गारे न च विण्मूत्रबाधने । न छर्द्यां नातिसारे वा नास्नातः कृतमैथुनः ॥ ३.३० ॥ पूते महीतले स्थित्वा पशुश्रवणवर्जिते । परिध्यन्तःस्थितं चेष्ट्वा शिवं प्रणवविग्रहम् ॥ ३.३१ ॥ गणाध्यक्षं गुरुं चैव कारकं च क्रियाश्रयम् । पुस्तकं गुप्तसत्सूत्रं विधायोपरि कस्यचित् ॥ ३.३२ ॥ ब्रूयादङ्ग पठस्वेति कृतार्थं प्रागुदङ्मुखः । प्रारभेत गुरुर्व्याख्यां सम्बन्धार्थोक्तिपूर्विकाम् ॥ ३.३३ ॥ स्रोतो ब्रूयादनुस्रोतो भेदान् संख्यानमेव च । प्रवृत्तये गुरुं स्वं च स्तेयी स्यात्तदकीर्तनात् ॥ ३.३४ ॥ स्रोतांसि कामिकाद्यूर्ध्वमसिताङ्गादि दक्षिणम् । सम्मोहाद्युत्तरं प्राच्यं त्रोतलादि सुविस्तरम् ॥ ३.३५ ॥ आप्यं चण्डासिधारादि चण्डनाथपरिग्रहम् । शैवं मान्त्रेश्वरं गाणं दिव्यमार्षं च गौह्यकम् ॥ ३.३६ ॥ योगिनीसिद्धकौलं च स्रोतांस्यष्टौ विदुर्बुधः । प्रतिस्रोतोऽनुयायीनि तानि ब्रूयाद्विभागशः ॥ ३.३७ ॥ शैवं प्राक्तन्त्रनिर्माणमाज्ञासिद्धमसंशयम् । तदीशानैर्गणैर्देवैर्मुनिभिश्च तदिच्छया ॥ ३.३८ ॥ विज्ञाय सम्भृतं स्वोक्त्या तादाख्यं समुपागतम् । गुह्यका भुजगा यक्षा दानवाश्च शिवेरिताः ॥ ३.३९ ॥ यदूचुरुपसंहृत्य तत्स्रोतो गौह्यकं स्मृतम् । योगिन्यो लेभिरे ज्ञानं सद्यो योगावभासकम् ॥ ३.४० ॥ येनतद्योगिनीकौलं नोत्तीर्णं ताभ्य एव तत् । तथान्यदपि संहारो यो मिश्रो मिश्र एव सः ॥ ३.४१ ॥ वादिभेदप्रभिन्नत्वात्तेषां संख्या न विद्यते । शैवा रौद्रा महाभेदा दशाष्टादश चोर्ध्वके ॥ ३.४२ ॥ रौद्रा रुद्रैः शिवाविष्टैरुद्गीर्णा न स्वबुद्धितः । शैवानां कामिकं पूर्वं योगोद्भवमचिन्त्यकम् ॥ ३.४३ ॥ कारणं ज्ञानमजितं दीप्ताख्यं सूक्ष्मकं परम् । साहस्रमंशुमत्संज्ञं सुप्रभिद्दशमं विदुः ॥ ३.४४ ॥ रौद्राणां विजयं पूर्वं निःश्वासं पारमेश्वरम् । स्वायम्भुवं तथाग्नेयं वीरभद्रं च रौरवम् ॥ ३.४५ ॥ मकुटं विमलाख्यं च चन्द्रज्ञानाख्यमेव च । मुखबिम्बकमुद्गीतं ललितं सिद्धसंज्ञकम् ॥ ३.४६ ॥ सन्तानं चैव शर्वोक्तं किरणं वातुलं परम् । तदारभ्य चिरं नाति व्याकुर्यात्प्रथमेऽहनि ॥ ३.४७ ॥ प्रारम्भेऽपि न सम्प्रश्न- प्रतिप्रश्नातिमात्रकम् । त्रीणि मूलानि सूत्राणि द्वे तथैकमथापि वा ॥ ३.४८ ॥ विधायोपरमेदूर्ध्वं वदन्विघ्नैर्विरुद्ध्यते । यत्र बीज इवारूढो महातन्त्रार्थपादपः ॥ ३.४९ ॥ आभाति मूलसूत्रं तदथशब्दाद्यलंकृतम् । तस्योद्देशकमन्यत्स्यात्संख्यासंज्ञादिवाचकम् ॥ ३.५० ॥ तल्लक्षणं स्वरूपोक्तिस्तदन्यो भाष्यसंग्रहः । ब्रूते य एवं योऽधीते तावुभौ हतकल्मषौ ॥ ३.५१ ॥ लोके प्राप्य यशो दीप्तं विशेतां धाम शांकरम् । अनध्याये स्वतन्त्रोक्त- विधिना शृण्वते मृषा ॥ ३.५२ ॥ शैवं वदन्निहाल्पायुर्मृतः प्रेतत्वमश्नुते । नाध्यापयेच्चतुर्दश्यामष्टम्यां पक्षयोर्द्वयोः ॥ ३.५३ ॥ प्रतिपत्पञ्चदश्योश्च चतुर्थ्यामर्कसंक्रमे । निर्घातोल्कामहीकम्प- पश्चाच्चापेषु वासरः ॥ ३.५४ ॥ संध्यास्तनितदिग्दाह- परिवेषोपलेषु च । नीहारप्राग्धनुर्व्योम- पुरेष्वेतेषु दर्शनात् ॥ ३.५५ ॥ कीलके च रवीन्दुस्थे त्र्यहं स्वर्भानुदर्शने । पञ्चरात्रं हरिमखे पवित्रे च मखद्विषः ॥ ३.५६ ॥ बिडालव्यालभेकेषु गतेष्वन्तरतो दिनम् । त्र्यहं त्रिफणिनि व्याले दृष्टे द्विफणिनि द्व्यहम् ॥ ३.५७ ॥ अन्तः शवश्रुतौ दाहे शवगन्धे खरानिले । तद्विरामं विना ख्यात- जन्तुमृत्यौ च वासरम् ॥ ३.५८ ॥ गुरौ मासं शिवीभूते भ्रातृशिष्यादिके त्र्यहम् । शैवे राजनि सप्ताहं त्रिरात्रं पशुधर्मिणि ॥ ३.५९ ॥ स्वकल्पान्वयसिद्धेषु तथान्येष्वपि देशिकः । प्राग्व्याख्यानपरामर्श- समाधानेष्टिकृद्भवेत् ॥ ३.६० ॥ समयी पुत्रको वापि ज्ञात्वा किंचिदपूर्वकम् । निवेदयेदनुज्ञातो गुरवे पीठवर्तिने ॥ ३.६१ ॥ शृणुयात्स्वाभिषिक्ताद्वा योगपीठेष्टशंकरः । बहिः स्थितो बहिःसंस्थात्परसिक्तादपीठगात् ॥ ३.६२ ॥ न यायादनुपानत्कः क्वचिन्नाप्यसहायवान् । नातिप्राङ्नातिवेलायां न रात्रौ न खारातपे ॥ ३.६३ ॥ न नीचैः संवसेन्न्नापि वृथा यायाद्गृहाद्गृहम् । तथा नोपहसेत्कंचिन्नानुकुर्यान्न पीडयेत् ॥ ३.६४ ॥ नासदाचरितं किंचिदाचरेत्स गुरुर्यतः । तदापन्नममान्यत्वं मन्त्र्यादिषु न वार्यते ॥ ३.६५ ॥ पुत्रकः प्रातरुत्थाय समयी च कृताह्निकः । कृतप्रणामोऽनुज्ञातो गुरुणा कृत्यमाचरेत् ॥ ३.६६ ॥ अधीत्य शृणुयाच्छास्त्रं गुरुतन्त्रो गुरौ वसन् । त्यक्त्वाभिमानमात्सर्य- डम्भव्यसनसन्ततिम् ॥ ३.६७ ॥ कण्ठप्रावृतिनिष्ठीव- कासहासादि सन्निधौ । गुरोर्न कुर्यान्नो वादं कैश्चिन्नोत्कृष्टवेषवान् ॥ ३.६८ ॥ उद्वर्तनाङ्गसंस्कार- जृम्भणासनसंस्थितीः । समानालापपर्यङ्ग- बन्धध्यानार्चनादिकम् ॥ ३.६९ ॥ न भुञ्जानं समाधिस्थं चङ्क्रमन्तं क्रियोद्यतम् । स्थितं गुरुसमीपे वा मतिमान्नाभिवादयेत् ॥ ३.७० ॥ गच्छन्तं पृष्ठतो यायाद्विशन्तमनुसंविशेत् । तद्वचो नानुयुञ्जीत शयानं न प्रबोधयेत् ॥ ३.७१ ॥ अनुज्ञातश्चरेद्भैक्षं प्राप्तमद्यान्निवेदितम् । शयीत सुप्त इत्यादि कुर्याद्विध्युदितं च यत् ॥ ३.७२ ॥ कामं चरेदनुज्ञातः पुत्रको धाम्नि वा वसेत् । समयी प्राग्गृहस्थश्च यत्नेनोपचरेद्गुरुम् ॥ ३.७३ ॥ साध्यकोटेरलब्धत्वात्तल्लाभोऽपि तदाश्रयः । न चान्यवृत्तिनिष्ठस्य तस्मात्तत्साधको भवेत् ॥ ३.७४ ॥ साधको गुर्वनुज्ञातः पुण्यक्षेत्रं समाश्रितः । साध्यवेषधरो मौनी हविष्यचरुशाकभुक् ॥ ३.७५ ॥ सहायवानप्रमत्तः फलमूलभुगेव वा । इष्ट्वा शिवं यजेत्साध्यं जपं कुर्यात्त्रिधोदितम् ॥ ३.७६ ॥ हुत्वा दशांशं तद्याग- कुम्भस्नातः शुभे दिने । क्षेत्रस्थः प्रारभेत्कर्म चरन्वा सिद्धिसंश्रयम् ॥ ३.७७ ॥ न कंचिदनुगृह्णीयान्न निषेवेत भर्त्सयेत् । नासीत चिरमन्यत्र विना क्षेत्रपरिग्रहात् ॥ ३.७८ ॥ माधूकरीं चरेद्भिक्षां दिनार्थे सवने गते । सर्वमन्त्रमुखे पुण्ये परमेशाधिदैवते ॥ ३.७९ ॥ तदनिर्वर्त्य योऽश्नाति सवनं सूरपूजितम् । मन्त्रास्तं नाधितिष्ठन्ति योगपीठव्यवस्थिताः ॥ ३.८० ॥ भीक्षां तु चरतो भिक्षां नादद्यान्न विगर्हितात् । शैवात्स्वायम्भुवादेश्च कुतश्चिल्लिङ्गिनोऽपि वा ॥ ३.८१ ॥ मिष्टान्नप्रचुरां भीक्षां नादद्यान्नातिसंस्कृताम् । परिहासादिचतुरा यत्र नार्यस्ततोऽपि वा ॥ ३.८२ ॥ कृतरक्षः स्मरन्नस्त्रं पर्यटेन्मौनमास्थितः । भिक्षामलब्ध्वा नो कोपं कुर्यान्नो विधृतश्चिरम् ॥ ३.८३ ॥ न चाध्वसु प्रधावत्सु नोक्तः केनचिदप्रियम् । गुर्वग्निशिवविद्याभ्यः क्षेत्रपालाय चांशकम् ॥ ३.८४ ॥ समुद्धृत्य सहायेन विभज्याद्यात्क्षितौ शुचिः । समाचान्तो जपेन्मन्त्रं वैष्णवे समये ततः ॥ ३.८५ ॥ व्यतीते क्षेत्रपालाय स्वाहेत्योंकारपूर्वकम् । बलिं च नैरृते दद्याद्गन्धधूपपुरःसरम् ॥ ३.८६ ॥ ततः प्रसार्य सच्चर्म बद्ध्वासनमतन्द्रितः । ध्यायन्मन्त्रं जपेद्विद्वान् खिन्नस्तस्मिंल्लघु स्वपेत् ॥ ३.८७ ॥ समुत्थायार्धरात्रे तु कुर्यात्पूजाजपादिकम् । ततश्च सवने ब्राह्मे समिदाद्याहरेत्ततः ॥ ३.८८ ॥ शैवानावसथप्राप्तान् परया श्रद्धयार्चयेत् । सम्पन्नैः कारकैस्तांश्च ज्ञात्वा लिङ्गैर्यथार्हतः ॥ ३.८९ ॥ न कंचित्प्रणमेद्ब्रूयात्साध्यमन्त्रं न कस्यचित् । नाक्षिपेदोषधीर्मन्त्र- गोब्राह्मणतपस्विनः ॥ ३.९० ॥ व्यक्तिस्थानं शिवस्यैते शिवनिन्दैव सा यतः । विशिष्टेनोपहारेण यजेत्पर्वसु शंकरम् ॥ ३.९१ ॥ क्षेत्रपालं च साध्याणुं चरुं दद्यान्न कस्यचित् । लब्धानुज्ञो मृषा जातु तिष्ठेन्नैकमपि क्षणम् ॥ ३.९२ ॥ गुप्ताक्षसूत्रपूजाङ्गः क्रियाकालविभागवित् । क्रमशः सिद्धिमाप्नोति सिद्धिक्षेत्राणि संचरन् ॥ ३.९३ ॥ परिगृह्याथवा क्षेत्रं सल्लिङ्गाधिकृतं वसेत् । गणेशवृषभस्कन्द- मातृलोकेशकीलितम् ॥ ३.९४ ॥ दक्षिणोत्तरदिग्द्वारं शिवधामान्यरक्षितम् । महाजनाकुलं दूर- समित्पुष्पकुशोदकम् ॥ ३.९५ ॥ सोपद्रवं च संत्यज्य परिग्रहणमाचरेत् । बाणे लिङ्गे स्वयंव्यक्ते मुनिसिद्धनिषेविते ॥ ३.९६ ॥ स्वकल्पोक्तेन विधिना स्वयं वा परिकल्पिते । शुक्लपक्षे चतुर्दश्यां विशेषेणोत्तरायणे ॥ ३.९७ ॥ कुर्यात्परिग्रहं विद्वानष्टम्यां वा समाहितः । यागधाम विधायादा- वस्त्रं माहेश्वरं यजेत् ॥ ३.९८ ॥ जप्त्वा दशसहस्राणि दशांशमनुहोमयेत् । भूरिस्रग्बलिधूपाद्यैरिष्टलिङ्गस्थशंकरः ॥ ३.९९ ॥ न्यसेद्दिगीश्वरान्दिक्षु शक्रादीन् शङ्कुविग्रहान् । नाडीभूतेन सूत्रेण सन्धाय बहिरालिखेत् ॥ ३.१०० ॥ प्राकारं भस्मना दीप्तमस्त्रं माहेश्वरं जपन् । तदन्तरखिलैर्बीजैर्वर्मालब्धैस्तदुच्चरन् ॥ ३.१०१ ॥ प्राकारं कवचं कुर्यात्स्वधाम्नोऽप्येवमेव हि । धामशङ्कुषु लोकेशान् प्रदोषे प्रतिवासरम् ॥ ३.१०२ ॥ बाह्यावृतौ तदस्त्राणि यजेदन्तर्घनच्छदम् । क्षेत्रपालं स्वदिग्भागे पर्वसु क्षेत्रनेमिगान् ॥ ३.१०३ ॥ क्षेत्रे यन्नस्ति तद्दूरात्सहायोपहृतं भजेत् । न सिद्धिक्षेत्रमुत्सृज्य पदमप्यन्यतो व्रजेत् ॥ ३.१०४ ॥ वर्णलक्षजपान्मन्त्रो होमाच दशमांशतः । स्वशास्त्रविहितां वृत्तिमास्थितस्य प्रसिद्ध्यति ॥ ३.१०५ ॥ संजातव्युत्क्रमः कुर्यात्प्रायश्चित्तं विधिस्थितम् । अकामात्कामतः कुर्यात्तदेव त्रिगुणं सुधीः ॥ ३.१०६ ॥ साधकाह्निकविच्छेदे सद्योजातायुतं जपेत् । शतं वा संयतप्राणो वासरं मारुताशनः ॥ ३.१०७ ॥ वामस्यान्नव्यतिकरे हिंसायां बहुरूपिणः । वक्त्रस्य स्यन्दने रात्रौ दिवा तद्द्विगुणं जपेत् ॥ ३.१०८ ॥ द्विजाद्युच्छिष्टसंसर्गे वक्त्राद्यन्यतमं गुणम् । चतुर्दलाब्जमध्येष्ट्या तत्स्थाने पञ्चमं यजेत् ॥ ३.१०९ ॥ षडहोपोषितो लक्षं जपेद्वन्याशनोऽपि वा । जुहुयादयुतं ज्ञाते द्विगुणं शुद्धिकारणात् ॥ ३.११० ॥ जपेन्निर्माल्यसम्पर्के सर्वब्रह्माणि लक्षशः । समग्रसंहितालक्षं जपेन्निर्माल्यभोजने ॥ ३.१११ ॥ वामाद्याः पतयः शाक्य- पादार्थिककपालिनाम् । अजातोऽधिपतिः प्रोक्तस्त्रयीनैष्ठिकलिङ्गिनाम् ॥ ३.११२ ॥ तदन्नभोजने शुद्धिर्जातिसम्पर्कशुद्धिवत् । किंत्वैन्दवव्रतप्रान्ते कापाल्यन्नाशने मतम् ॥ ३.११३ ॥ ईशानस्य जपेल्लक्षं तत्सङ्करविशुद्धये । कापालिसङ्करे त्रीणि लक्षाणि कृतसंयमः ॥ ३.११४ ॥ प्रमादाद्धारिते लिङ्गे भ्रष्टे वा साक्षसूत्रके । लक्षं जपेन्महेशस्य पुनः कुर्यात्परिग्रहम् ॥ ३.११५ ॥ भ्रंशे वा जनिते भङ्गे दशांशो विहितो मुने । तदन्यत्रार्धमूलं वा सहस्रं सुलघीयसि ॥ ३.११६ ॥ तद्वच्च पशुना दृष्टे स्पृष्टे दशगुणं जपेत् । हारितार्धं गुणच्छेदे संख्यासूत्रस्य दोषनुत् ॥ ३.११७ ॥ त्यागश्च कफविण्मूत्र- स्पृष्टस्यान्यत्र तैजसात् । प्रमादाद्योषितं गत्वा प्राणायामायुतं भजेत् ॥ ३.११८ ॥ द्विपञ्चगुणितं शुद्ध्यै प्रणवोच्चारसंश्रितम् । महापातकसंयोगे शिवैकादशिकायुतम् ॥ ३.११९ ॥ जपेद्दशगुणं प्राण- संयमी फलमूलभुक् । तत्समेष्वेवमेव स्यात्किं तु प्राणायतिं विना ॥ ३.१२० ॥ पातकेषु तदन्येषु क्रियाव्यतिकरेषु च । जपेदेकादशाजातमेकं वा ब्रह्ममध्यगम् ॥ ३.१२१ ॥ न ग्राह्यं कारकं किंचित्सख्या जातांहसाहृतम् । आददानोऽपरिज्ञानात्पूर्वोक्तादर्धमाचरेत् ॥ ३.१२२ ॥ बहुदैवसिके योगे तुल्यं साधर्म्ययोगतः । ज्ञात्वैवं साधको विद्वान् सहायं सद्गुणं भजेत् ॥ ३.१२३ ॥ सजात्यभिजनोपेतं यवीयांसं गुणाधिकम् । पुत्रकं समयस्थं वा सुस्निग्धमपरं ततः ॥ ३.१२४ ॥ साधकोक्तं व्रतं कुर्याद्गुरुरस्ववशो व्रती । द्विगुणं स्ववशस्ताव च्चरेदस्ववशो व्रती ॥ ३.१२५ ॥ स्ववशस्त्रिगुणं त्र्यंशं विना तत्पुत्रकश्चरेत् । पुत्रकार्धं तु समयी पूर्वोक्तानुक्तपाप्मनाम् ॥ ३.१२६ ॥ कृच्छ्रं वा प्रतिषण्मासं प्रत्यब्दमथवैन्दवम् । पराकं तप्तकृच्छ्रं वा मन्त्री सानुचरश्चरेत् ॥ ३.१२७ ॥ निर्विघ्नसिद्धिमन्विच्छन्मुक्त्यर्थमितरे त्रयः । सर्वच्छिद्रहरश्चान्यो विधिरेषां निगद्यते ॥ ३.१२८ ॥ यः प्राप्तस्तपसा देवैर्हरात्स्वविधिपुष्टये । श्रावणे तदुपान्ते वा नभस्ये वोच्यमानवत् ॥ ३.१२९ ॥ शम्भोः पवित्रमापाद्य पूरयेद्वार्षिकं विधिम् ॥ ३.१३० ॥ तच्चिलालोहमृद्रत्न- दारुजं भौमसाधितम् । सर्वज्ञविहितं यावद्बुभुक्.ओरितरस्य वा ॥ ३.आप्प्.१ ॥ एकाङ्गुलं द्विहस्तान्तं रत्नजं न परं ततः । लोहादि पाणिषड्ढास्तं दारुभिस्त्रिविधं परम् ॥ ३.आप्प्.२ ॥ ________________________________________________________________________________________ अथात्मवतां मत्वा [वा] स्वाधिकारं सुदुष्करम् । यतेरन्नत्मवत्तायै देशिकाद्या जिगीषवः ॥ ंट्_४.१ ॥ तदात्मवत्त्वं योगित्वं जिताक्षस्योपपद्यते । प्राणायामाद्यनुष्ठानाज्जिताक्षत्वं शनैः शनैः ॥ ंट्_४.२ ॥ प्राणायामः प्रत्याहारो धारणा ध्यानवीक्षणे । जपः समाधिरित्यङ्गान्यङ्गी योगोऽष्टमः स्वयम् ॥ ंट्_४.३ ॥ प्राणः प्रागुदितो वायुरायामोऽस्य प्रखेदनम् । प्रेरणाकृष्टिसंरोध- लक्षणं क्रतुदोषनुत् ॥ ंट्_४.४ ॥ ततः सुखलवास्वादे तेषां वृत्तस्य चेतसः । प्रत्याहारो विधातव्यः सर्वतो विनिवर्तनम् ॥ ंट्_४.५ ॥ तेनेन्द्रियार्थसंसर्ग- विनिवृत्तेश्चितो मतिः । धारणायोग्यतामेति पदे स्वेच्छाप्रकल्पिते ॥ ंट्_४.६ ॥ चिन्ता तद्विषया ध्यानं तच्चादिष्टं मुहुर्मुहुः । तदेकतानतामेति स समाधिर्विधीयते ॥ ंट्_४.७ ॥ जपस्तद्भाषणं ध्येय- संमुखीकरणं मुने । ऊहोऽभिवीक्षणं वस्तु- विकल्पानन्तरोदितः ॥ ंट्_४.८ ॥ यदा वेत्ति पदं हेयमुपादेयं च तत्स्थितेः । तत्पोषकं विपक्षं च यच्च तत्पोषकं परम् ॥ ंट्_४.९ ॥ एषु व्यस्तसमस्तेषु कृतयत्नस्य योगिनः । विभान्ति शक्तयो विश्वं व्याप्य भानोरिव त्विषः ॥ ंट्_४.१० ॥ न तमीष्टे नरः कश्चित्रक्षोदानवमानवाः । रोरुचानमतीत्यैतान् दृक्क्रियाप्राणरोचिषा ॥ ंट्_४.११ ॥ निवृत्तेर्मनसो हेतुः संसर्गात्प्राणखेदनम् । निवृत्तिर्धारणादीनां मूलं सर्वस्य तत्ततः ॥ ंट्_४.१२ ॥ विस्तरेण सुरश्रेष्ठ विप्रकृष्टं च यत्स्थितम् । यदन्यत्साधनं किंचिद्योगसिद्धेश्च कथ्यताम् ॥ ंट्_४.१३ ॥ न शक्यं विस्तराद्वक्तुं तत्प्रसङ्गभयाद्विधेः । प्रश्नस्यावश्यवाच्यत्वात्तथाप्युद्देश उच्यते ॥ ंट्_४.१४ ॥ मूत्राद्युत्सृज्य विधिवदेकार्धदशसप्तभिः । मृद्भिर्लिङ्गगुदासव्य- हस्तयुग्मानि शौचयेत् ॥ ंट्_४.१५ ॥ द्विर्व्रती त्रिरपः पीत्वा द्विर्विमृज्याननं स्पृशेत् । स्वबाहुनाभिहृत्कानि द्विस्त्रिर्वा शौचिताधरः ॥ ंट्_४.१६ ॥ हितजीर्णाशनस्वस्थस्त्रिकुड्यावेष्टिते गृहे । बाधाशून्ये वनादौ वा स्वासनस्थ उदङ्मुखः ॥ ंट्_४.१७ ॥ नमस्कृत्य महेशानमुमास्कन्दगणाधिपान् । ऋजुग्रीवाशिरोवक्षा नासाग्राहितदृग्द्वयः ॥ ंट्_४.१८ ॥ पार्ष्णिभ्यां वृषणौ रक्षन् दन्तैर्दन्तानसंस्पृशन् । विष्टभदेहो दन्ताग्रे जिह्वामादाय सुस्थितः ॥ ंट्_४.१९ ॥ रेचयेच्छक्तिपर्यन्तं पुटेनैकेन मारुतम् । स रेचकस्तदभ्यासाद्वेधविक्षिप्तकर्मसु ॥ ंट्_४.२० ॥ क्रमशः शक्ततामेति विकृष्टविषयेष्वपि । बाह्येन वायुना मूर्तेः शक्तिसीमप्रपूरणम् ॥ ंट्_४.२१ ॥ पूरकः स तदभ्यासात्सुगुर्वपि विकर्षयेत् । त्यागसंग्रहणे हित्वा निरोधः कुम्भकः स्मृतः ॥ ंट्_४.२२ ॥ रोधशक्तिस्तदभ्यासाद्व्यक्तिमेत्यनिवारिता । तथास्य चरतो विद्वान् सोमसूर्येशवर्त्मसु ॥ ंट्_४.२३ ॥ तद्धर्मयोग्यतां बुद्ध्वा योगी संसाधयेन्मतम् । पूरकं कुम्भकं वापि भजेच्चन्द्रपथि स्थिते ॥ ंट्_४.२४ ॥ पुष्टिमृत्युजयाद्यर्थं स्वात्मनोऽन्यस्य रेचकम् । अनग्निज्वलने वृक्ष- शोषणे बीजनाशने ॥ ंट्_४.२५ ॥ स्तोभोन्मादविषोद्दीप्ति- प्रमुखेषु तु रेचकम् । ध्यानार्चनजपाद्येषु देहत्यागे च शाङ्करे ॥ ंट्_४.२६ ॥ कुम्भको रेचकश्चेष्टो दीक्षासंस्थापनेषु च । यवीयान्मध्यमो ज्येष्ठः स तालैर्द्वादशादिभिः ॥ ंट्_४.२७ ॥ तालो द्वादशभिर्जानु- परिणाहपरिभ्रमैः । सोऽपि ध्यानजपोपेतः सगर्भोऽन्यस्तदुज्झितः ॥ ंट्_४.२८ ॥ यथा सगर्भः स्थैर्याय मनसो न तथेतरः । प्रातर्निशाकृतं पापं दिनान्ते च दिवाकृतम् ॥ ंट्_४.२९ ॥ हन्त्यगर्भोऽपि देवानां प्रचलत्वं प्रधावताम् । स्नातो भवति तीर्थेषु सर्वक्रतुषु दीक्षितः ॥ ंट्_४.३० ॥ पोतः पितॄणां यः शश्वत्- सगर्भमिममाचरेत् । ध्यायेदध्वान्तगं देवं जपेत्तद्वाचकं सदा ॥ ंट्_४.३१ ॥ क्षित्यादीन्यथ तत्त्वानि तद्रूपाधिकृतानि वा । यस्मान्नाचेतनं तत्त्वं सिद्धमप्युपकारकम् ॥ ंट्_४.३२ ॥ शैवं वपुरिति ध्यायेदतो यद्यत्समीहितम् । सिद्धये धारणादीनां वृत्तीनामनिलस्य च ॥ ंट्_४.३३ ॥ सगर्भं कुम्भकं विद्वानातिष्ठेदविखिन्नधीः । अयमर्कगुणं कालं कृतचित्तव्यवस्थितिः ॥ ंट्_४.३४ ॥ प्राप्नोति धारणाशब्दं धारणासिद्धिदानतः । स्थित्यर्थो धारणाशब्दः स्थानार्थोऽप्युपचारतः ॥ ंट्_४.३५ ॥ स्थानं प्राथमिकस्येमान् यवन्यादीनि नेतरत् । तानि हेमहिमज्योतिः- कृष्णस्वच्छानि रूपतः ॥ ंट्_४.३६ ॥ वेद्यर्धमण्डलत्र्यस्त्र- वृत्तपद्माकृतीनि तु । स्थैर्याप्यायनविप्लोष- प्रेरणाशून्यताप्तये ॥ ंट्_४.३७ ॥ भवन्ति वज्रकज्वाला- बिन्दुशून्यान्वितानि तु । बाधकान्यनुवर्तीनि मध्यस्थान्यवगत्य च ॥ ंट्_४.३८ ॥ योगी व्यस्तसमस्तानि बिभृयादिष्टसिद्धये । क्व देशे धारणारूपं चिन्तनीयं विपश्चिता ॥ ंट्_४.३९ ॥ किं च व्यस्तसमस्तानां फलं ब्रूहि सुरेश्वर । हृदि चेतसि विक्षिप्ते धारयेत्क्षितिमर्थवित् ॥ ंट्_४.४० ॥ जलं पिपासितः कण्ठे मन्देऽग्नौ जठरेऽनलम् । प्राणादिवृत्तिसिद्ध्यर्थं हृत्कण्ठादिषु मारुतम् ॥ ंट्_४.४१ ॥ विषाद्यभिभवे व्योम तेषु यत्रोपयोगवत् । खं समस्तेषु भूतेषु वारिवायू शिखिक्षिती ॥ ंट्_४.४२ ॥ वार्यग्नी भूमिपवनौ वारिक्ष्मे अनलानिलौ । मध्यस्थारातिमित्राणि चतुष्के युग्मयुग्मशः ॥ ंट्_४.४३ ॥ परिज्ञायेति मतिमान् योजयेदिष्टसिद्धये । कानि प्राणादिवृत्तीनां स्थानान्यस्मिन् शरीरके ॥ ंट्_४.४४ ॥ जितासु तासु किं च स्यादिति ब्रूहि सुरोत्तम । तस्य हृन्नाभ्युरःकण्ठ- पृष्ठदेशेषु धारणात् ॥ ंट्_४.४५ ॥ जयः प्रणयनादीनां वृत्तीनां योगिनो भवेत् । जितप्रणयनो धत्ते स्वेच्छया देहमात्मनः ॥ ंट्_४.४६ ॥ जितापनयनोऽश्नाति शकृदादि जहाति न । विजितोन्नयनोऽभ्येति वाग्वशित्वादिकान् गुणान् ॥ ंट्_४.४७ ॥ समानवृतीविजयाद्भवेत्त्यक्तजरो वशी । वपुर्विहारवशिता भवेद्विनमने जिते ॥ ंट्_४.४८ ॥ पङ्काम्बुकण्टकासङ्गो वीर्यमक्षयमद्भुतम् । धारणा द्वादश ध्यानं दिव्यालोकप्रवृत्तिदम् ॥ ंट्_४.४९ ॥ समाधिरणिमादीनां द्वादशैतानि कारणम् । प्राणायामं विनाप्येवं वश्यात्मा चेतसि स्थितः ॥ ंट्_४.५० ॥ समभ्यस्यन्नवाप्नोति गुणानुक्ताननन्तरम् । यद्यद्वस्तु यथोद्दिष्ट- क्रमयोगात्प्रपद्यते ॥ ंट्_४.५१ ॥ तत्र तत्राअस्य चिद्व्यक्तिस्तद्व्याप्तिविषया भवेत् । इति बाह्ये स्थिते सर्वमाकलय्य स्वचक्षुषा ॥ ंट्_४.५२ ॥ सर्वान् पदर्थान् संत्यज्य शिवतत्त्वं समभ्यसेत् । शिवगर्भान् समातिष्ठन् प्राणायामादिकानपि ॥ ंट्_४.५३ ॥ जहाति जन्तुर्यः प्राणान् स शिवत्वं प्रपद्यते । रूपं परं महेशस्य ध्यातुं शक्यं न जातुचित् ॥ ंट्_४.५४ ॥ वैचित्र्यात्कल्पितं भ्रान्त्यै तत्रास्था चेतसः कथम् । पार्थिवाप्ये विचित्राङ्के न ध्येये धारणे तदा ॥ ंट्_४.५५ ॥ तथाप्यभ्यासतः सिद्धाः श्रूयन्ते योगिनस्तयोः । भोगविप्लुतचित्तस्य कथं स्याच्चित्तसंस्थितिः ॥ ंट्_४.५६ ॥ नाधिकृत्याविरक्ताणून् प्राहेदं साधनं हरः । शक्यते विषयीकर्तुं जगदप्यखिलं शनैः ॥ ंट्_४.५७ ॥ किमु चित्रं वपुर्दान्तैर्वैराग्याभ्यासशालिभिः । केयं वा रूपकेयत्ता सर्वाधिष्ठानयोगिनः ॥ ंट्_४.५८ ॥ सर्वदा सर्वभूतानां सर्वाकारोपकारिणः । स्थानरूपप्रमाणानि परिकल्प्य स्वचेतसा ॥ ंट्_४.५९ ॥ यत्रोपरमते चित्तं तत्तद्ध्येयं पुनः पुनः । तेनास्य चेतसः स्थैर्यं सविशेषगुणः शनैः ॥ ंट्_४.६० ॥ उन्मील्य योगसंस्कारं हतविघ्नस्य जायते । एवमातिष्ठतः सम्यग्विनैवाकारकल्पनाम् ॥ ंट्_४.६१ ॥ अकिञ्चिच्चिन्तकस्यास्य रूपमुन्मीलति स्वकम् । सर्वार्थदृक्क्रियारूपमानन्दमव्ययम् [..] ॥ ंट्_४.६२ ॥ यत्प्राप्य न पुनर्दुःख- योगमेत्यशिवावहम् । एतत्समस्तगुह्यानां गुह्यं सिद्धामरस्तुतम् ॥ ंट्_४.६३ ॥ साक्षादालोचनं शम्भोरत्युत्पावनमुत्तमम् । नाल्पकालोषितायैतद्देयं नातिप्रमादिने । नामेधिने नातपसे यश्च नाभ्यर्चयेच्छिवम् ॥ ंट्_४.६४ ॥ अस्याभ्यासाद्दिव्यसिद्ध्यंशुजालैरिष्टान् लोकान् रोरुचानो विहृत्य । काले हित्वापास्रवं देहमास्ते स्वात्मन्येवाश्चर्यचर्याधिवासः ॥ ंट्_४.६५ ॥