मातृकाभेदतन्त्र मातृकाभेदतन्त्र, प्रथमः पटलः कैलासशिखरे रम्ये नानारत्नोपशोभिते । पप्रच्छ परया भक्त्या भैरवं परमेश्वरम् ॥ १.१ श्रीचण्डिकोवाच । त्रिपुरापूजनं नाथ स्वर्णरत्नैर्विशेषतः । कलिकाले स्वर्णरूप्यं गुप्तभावं तथा मणिम् ॥ १.२ केनोपायेन देवेश स्वर्णरूप्यादि लभ्यते । तद्वदस्व विशेषेण यथा रत्नादिकं भवेत् ॥ १.३ यन्नोक्तं सर्वतन्त्रेषु तद्वदस्व दयानिधे ॥ १.४ श्रीशङ्कर उवाच । शृणु देवि प्रवक्ष्यामि यथा रत्नादिकं भवेत् । मत्तेजसा पारदेन किं रत्नं न हि लभ्यते ॥ १.५ तथा सामुद्रकेणैव सुशुभ्रलवणेन च । सम्बलस्य प्रकारं हि शृणु देवि प्रयत्नतः ॥ १.६ चीनतन्त्रानुसारेण पूजयेत्सिद्धकालिकाम् । अथवा पूजयेद्देवीं दक्षिणां कालिकां पराम् । कालीतन्त्रोक्तविधिना सप्ताहं जपपूजनम् ॥ १.७ सत्ये चैकं तु त्रेतायां द्विगुणं द्वापरे त्रयम् । एवं सर्वत्र जानीयाच्चतुर्गुणजपः कलौ ॥ १.८ आनीय बहुयत्नेन सम्बलं तोलद्वयम् । वसुराद्यं शिवं चाद्यं मायाबिन्दुविभूषितम् । बीजत्रयं चाष्टशतं प्रजपेत्सम्बलोपरि ॥ १.९ अशीतितोलकं मानं कृष्णधेनुसमुद्भवम् । दुग्धमानीय यत्नेन चाष्टोत्तरशतं जपेत् ॥ १.१० वस्त्रयुक्तेन सूत्रेण दुग्धमध्ये विनिक्षिपेत् । उत्तापं जनयेद्धीमान्मन्दमन्देन वह्निना ॥ १.११ बिन्दु वेदान्तपर्यन्तमर्धशोषं भवेद्यदा । तदैवोत्तोल्य तद्द्रव्यं तोयमध्ये विनिक्षिपेत् ॥ १.१२ ततः परीक्षा कर्तव्या प्रदद्यात्पावकोपरि । निर्धूमं वावके द्रव्यं दृष्ट्वा उत्थाप्य यत्नतः ॥ १.१३ तत्रैव प्रजपेन्मन्त्रं सर्ववन्द्यनवात्मकम् । आनीय बहुयत्नेन शुद्धं ताम्रं मनोहरम् ॥ १.१४ सार्धेन तोलकं ताम्रं वह्निमध्ये विनिक्षिपेत् । यथा वह्निस्तथा ताम्रं दृष्ट्वा उत्थाप्य यत्नतः ॥ १.१५ गुञ्जाप्रमाणं तद्द्रव्यं तत्क्षणाद्यदि योजयेत् । सत्यं सत्यं हि गिरिजे रौप्यं भवति निश्चितम् ॥ १.१६ श्रीचण्डिकोवाच । कारणं दुग्धरूपं वा केन रूपेण शङ्करः । तत्प्रकारं महादेव कृपया वद शङ्कर ॥ १.१७ श्रीशङ्कर उवाच । टङ्कनमानयेद्धीमान् तोलकं तु चतुष्टयम् । वह्नियोगेन गिरिजे लाजरूपं चकार ह ॥ १.१८ आम्रपुष्पं तद्द्विगुणं पिष्ट्वा मिलनमाचरेत् । तस्योपरि जपेन्मन्त्रं महामायां हि चण्डिके ॥ १.१९ एतत्तु गुटिकां कृत्वा मेलनं कारयेद्यदि । तदैव दुग्धरूपं स्यात्सत्यं सत्यं हि शैलजे ॥ १.२० श्रीचण्डिकोवाच । गन्धहीनं भवेन्मद्यं केनोपायेन शङ्कर । तत्सर्वं श्रोतुमिच्छामि यदि स्नेहोऽस्ति मा प्रति ॥ १.२१ श्रीशङ्कर उवाच । शिवं वह्निसमारूढं वामनेत्रविभूषितम् । बिन्दुनादसमायुक्तं गन्धमादाय संलिखेत् ॥ १.२२ उह्यतां पदमुच्चार्यं चाष्टोत्तरशतं यदि । प्रजपेत्साधकश्रेष्ठो दुर्गन्धादिविनाशनम् ॥ १.२३ ंातृकाभेदतन्त्र, द्वितीयः पटलः श्रीदेव्युवाच । वद ईशान सर्वज्ञ सर्वतत्त्वविदां वर । यत्त्वया कथितं नाथ मम सङ्गे विहारतः ॥ २.१ कथं वा जायते पुत्रः शुक्रस्य कत्र संस्थितिः । वर्धमानं सदा लिङ्गं प्रवेशो वा कथं भवेत् ॥ २.२ भीतियुक्ता ह्यहं नाथ त्राहि मां दुःखसङ्कटात् ॥ २.३ श्रीशङ्कर उवाच । मणिपूरं महापद्मं सुषुम्णामध्यसंस्थितम् । तस्य नालेन देवेशि नाभिपद्मं मनोहरम् ॥ २.४ वक्रत्रयसमायुक्तं सदा शुक्रविभूषितम् । ऊर्ध्वं नालं सहस्रारे अतः शुक्रविभूषितम् ॥ २.५ तस्मादेव स्तनद्वन्द्वं वर्धमानं दिने दिने ॥ २.६ मध्यनालं सुषुम्णान्तं वृन्ताकारं सुशीतलम् । आयोन्यग्रमधोनालं सदानन्दमयि शिवे ॥ २.७ शृणु चार्वङ्गि सुभगे तन्मध्ये लिङ्गताडनात् । यद्रूपं परमानन्दं तन्नास्ति भुवनत्रये ॥ २.८ नाभिपद्मं तु यद्रूपं तच्छृणुष्व समाहितः । बिन्दुस्थानं मध्यदेशे सदा पद्मविराजितम् ॥ २.९ बाह्यदेशे चाष्टपत्रं चतुरस्रं तु तद्बहिः । चतुर्द्वारसमायुक्तं सुवर्णाभं सवृत्तकम् ॥ २.१० तत्पत्रेण भवेत्पुष्पं वृन्तयुक्तं त्रिपत्त्रकम् । प्रफुल्ले तु त्रिपत्रारे बाह्ये रुधिरदर्शनम् ॥ २.११ एतन्मध्ये महेशानि यदि स्याल्लिङ्गताडनम् । पद्ममध्ये गते शुक्रे संततिस्तेन जायते ॥ २.१२ पुरुषस्य तु यच्छुक्रं शक्तेरक्ताधिको भवेत् । तदा कन्या भवेद्देवि विपरीतः पुमान् भवेत् ॥ २.१३ उभयोस्तुल्यशुक्रेण क्लीबं भवति निश्चितम् ॥ २.१४ शृणु चार्वङ्गि सुभगे पुष्पमाहात्म्यमुत्तमम् । मध्ये तच्छुक्रसंयोगे वर्धते तद्दिने दिने । एवं दिङ्माससम्प्राप्ते तत्पुष्पं वृन्तसंयुतम् ॥ २.१५ गलिते परमेशानि व्यक्तो भवति संततिः ॥ २.१६ श्रीदेव्युवाच । किंचिद्रोगादिसम्भूते कृमिकीटादिसम्भवे । तस्मज्जीवं प्रणश्यन्ति सा नारी जीव्यते कथम् ॥ २.१७ श्रीशङ्कर उवाच । अस्य पुष्पस्य माहात्म्यं किं वक्तुं शक्यते मया । बिन्दुस्थानं सहस्रं तु पुष्पमध्ये प्रियंवदे ॥ २.१८ बुद्बुदा यत्र तिष्ठन्ति तत्रैव संततिर्भवेत् । एवं क्रमेण देवेशि सहस्रं संततिर्यदि । वर्धमानं महापुष्पं पीडा किंचिन्न जायते ॥ २.१९ मया सार्धं महेशानि विहारं कुरु यत्नतः । विहारे यो भवेत्पुत्रो गणेशः स च कीर्तितः ॥ २.२० अपरे परमेशानि तव पुत्रप्रसादतः । पृथिव्यां जायते सृष्टिर्निर्विघ्नेन यथोचितम् ॥ २.२१ एतच्छ्रुत्वा ततो देवि मदनानलविह्वला । शिवेनालिङ्गिता देवी शिवाकारेण वै तदा ॥ २.२२ ंातृकाभेदतन्त्र, तृतीयः पटलः श्रीदेव्युवाच । सर्वत्राहं श्रुता नाथ भोगं चेन्द्रियपुष्टिदम् । भोगेन मोक्षमाप्नोति कथं वदसि योगभृत् ॥ ३.१ श्रीशङ्कर उवाच । भोगेन लभते योगं भोगेन कुलसाधनम् । भोगेन सिद्धिमाप्नोति भोगेन मोक्षमाप्नुयात् ॥ ३.२ तस्माद्भोगं सदा कार्यं बाह्यपूजा यथेच्छया । भोजनस्य विधानं यत्तच्छृणुष्व प्रियंवदे ॥ ३.३ आधारे तु या शक्तिर्भुजगाकाररूपिणी । आत्मा परमेशानि तन्मध्ये वर्तते सदा ॥ ३.४ भोजनेच्छा भवेत्तस्मान्निर्लिप्तो जीवसंज्ञकः । सैव साक्षाद्गुणमयो निर्गुणो जीव उच्यते ॥ ३.५ जीवस्य भोजनं देवि भ्रान्तिरेव न संशयः । गुणयुक्ता कुण्डलिनी चन्द्रसूर्याग्निरूपिणी ॥ ३.६ मूलाधाराच्च तां देवीमाजिह्वान्तां विभावयेत् । शोधितान्मत्स्यमांसादीन् संमुखे स्थापयेद्बुधः ॥ ३.७ मूलमन्त्रं समुच्चार्य जुहोमि कुण्डलीमुखे । अनेन मनुना देवि प्रतिग्रासं समाहरेत् ॥ ३.८ प्रतिग्रासे परेशानि एवं कुर्याद्विचक्षणः । तदैव ब्रह्मरूपोऽसौ सत्यं सत्यं सुरेश्वरि ॥ ३.९ भुज्यते कुण्डली देवी इति चिन्तापरो हि यः । मन्त्रसिद्धिर्भवेत्तस्य ज्ञानसिद्धिर्न चान्यथा ॥ ३.१० एवं कृते ब्रह्मरूपः शिवरूपः स्वयं हरिः । योगसिद्धिर्भवेत्तस्य चाष्टसिद्धिर्भविष्यति ॥ ३.११ शत्रुभिर्दीयते यत्तु कृत्रिमं दारुणं विषम् । भक्षणात्तत्क्षणे देवि ह्यमृतं नात्र संशयः ॥ ३.१२ मन्त्रेण शोधितं द्रव्यं भक्षणादमृतं भवेत् । यदैव कालकूटं तु समुद्रमथने प्रिये ॥ ३.१३ तदा चानेन मनुना तत्क्षणात्खादितं मया ॥ ३.१४ सर्पाकारा कुण्डलिनी या देवी परमा कला । भुज्यते सर्परूपेण तत्रैव दारुणं विषम् ॥ ३.१५ इति ते कथितं कान्ते भोजनस्य विधानकम् । एतत्सर्वं महेशानि गोप्तव्यं पशुसंकटे ॥ ३.१६ श्रीदेव्युवाच । शृणु नाथ परानन्द परापरकुलात्मक । वद मे परमेशान होमकुण्डं तु कीदृशम् ॥ ३.१७ श्रीशिव उवाच । मणिपूरस्य बाह्ये तु नाभिपद्मं मनोहरम् । अष्टपत्रं तथा वृत्तं तन्मध्ये कुण्डदुर्लभम् ॥ ३.१८ चतुरस्रादिकं देवि तत्कुण्डं कामरूपकम् । सर्वकुण्डस्य देवेशि विप्रः कर्ता विधीयते ॥ ३.१९ वर्तुलं बाहुजातस्य वैश्यस्य चार्धचन्द्रकम् ॥ ३.२० त्रिकोणं पादजातस्य होमकुण्डं सुरेश्वरि । एवं कुण्डं महेशानि नालत्रयविभूषितम् ॥ ३.२१ ऊर्ध्वनालं सहस्रारे परामृतविभूषितम् । मध्यनालं नाभिपद्मे मूलाधारे च सुन्दरि ॥ ३.२२ आलिङ्गाग्रमधोनालं सदानन्दमयं शिवे । होमकुण्डमिदं देवि सर्वतन्त्रे परिष्कृतम् ॥ ३.२३ येन होमप्रसादेन साक्षाद्ब्रह्ममयो भवेत् । विप्रस्य चाहुतिहोमं विज्ञातव्यं चतुष्टयम् ॥ ३.२४ क्षत्रियस्य त्रयं देवि वैश्यस्य चाहुतिद्वयम् । शूद्रस्यैकाहुतिर्देवि मुक्तिश्चापि चतुर्विधा ॥ ३.२५ महामोक्षं ब्राह्मणस्य सायुज्यं क्षत्रियस्य च । सारूप्यं चोरुजातस्य सालोक्यं शूद्रजातिषु ॥ ३.२६ बाह्यकुण्डं बाह्यहोमे एव हि सुरवन्दिते । जातिभेदे कुण्डभेदं कुर्यात्साधकसत्तमः ॥ ३.२७ बाह्यहोमे काम्यसिद्धिर्भविष्यति न संशयः । ज्ञानहोमे मोक्षसिद्धिर्लभते नात्र संशयः ॥ ३.२८ इति ते कथितं कान्ते तन्त्राणां सारमुत्तमम् । न वक्तव्यं पशोरग्रे शपथो मे त्वयि प्रिये ॥ ३.२९ श्रीदेव्युवाच । मद्यपाने महापुण्यं सर्वतन्त्रे श्रुतं मया । जातिभेदं न कथितमिदानीं तत्प्रकाशय ॥ ३.३० श्रीशङ्कर उवाच । सर्वयज्ञाधिपो विप्रः संशयो नास्ति पार्वति । सौत्रामण्यां कुलाचारे चत्वारो ब्राह्मणादयः ॥ ३.३१ ब्राह्मणस्य महामोक्षं मद्यपाने प्रियंवदे । ब्राह्मणः परमेशानि यदि पानादिकं चरेत् ॥ ३.३२ तत्क्षणाच्छिवरूपोऽसौ सत्यं सत्यं हि शैलजे ॥ ३.३३ तोये तोयं यथा लीनं यथा तेजसि तेजसम् । घटे भग्ने यथाकाशं वायौ वायुर्यथा प्रिये ॥ ३.३४ तथैव मद्यपानेन ब्राह्मणो ब्रह्मणि प्रिये । लीयते नात्र संदेहः परमात्मनि शैलजे ॥ ३.३५ सायुज्यादि महामोक्षं नियुक्तं क्षत्रियादिषु । सा नारी मानवी मद्यपाने देवि न संशयः ॥ ३.३६ सूक्ष्मसूत्रे यथा वह्निर्देहमध्ये तथा शिवा । तपोरूपं बृहत्सूत्रं पूजारूपं तथा हरिः ॥ ३.३७ संयुक्तं कुरुते यत्र वर्धमानो महाङ्कुशः । मद्यपानं विना देवि तज्ज्ञानं न हि लभ्यते । अत एव हि विप्रेण मद्यपानं सदा चरेत् ॥ ३.३८ वेदमाताजपेनैव ब्राह्मणो न हि शैलजे । ब्रह्मज्ञानं यदा देवि तदा ब्राह्मण उच्यते ॥ ३.३९ देवानाममृतं ब्रह्म तदियं लौकिकी सुरा । सुरत्वं भोगमात्रेण सुरा तेन प्रकीर्तिता ॥ ३.४० मन्त्रत्रयं सदा पाठ्यं ब्रह्मशापादि मोचनम् । प्रकुर्यात्तु द्विजेनैव तदा ब्रह्ममयी सुरा ॥ ३.४१ हविरारोपमात्रेण वह्निर्दीप्तो यथा भवेत् । शापमोचनमात्रेण सुरा मुक्तिप्रदायिनी ॥ ३.४२ अत एव हि देवेशि ब्राह्मणः पानमाचरेत् । स ब्राह्मणः स वेदज्ञः सोऽग्निहोत्री स दीक्षितः ॥ ३.४३ बहु किं कथ्यते देवि स एव त्रिगुणात्मकः ॥ ३.४४ मुक्तिमार्गमिदं देवि गोप्तव्यं पशुसंकटे । प्रकाशात्कायहानिः स्यान्निन्दनीयो न चान्यथा ॥ ३.४५ ंातृकाभेदतन्त्र, चतुर्थः पटलः श्रीचण्डिकोवाच । कारणेन महामोक्षं निर्माल्येन शिवस्य च । श्रुतं वेदे पुराणे च तव वक्त्रे सुरेश्वर ॥ ४.१ अग्राह्यं तव निर्माल्यमग्राह्यं कारणं विभो । मृषा वाक्यं महादेव कथं वदसि योगभृत् ॥ ४.२ कारणेन विना देवि मोक्षज्ञानादिकं न हि । महाशङ्खं विना देवि न मन्त्रः सिद्धिदायकः ॥ ४.३ साक्षाद्ब्रह्ममयी माला महाशङ्खाख्यया पुनः । शिलायन्त्रे च वृन्दायां गङ्गायां सुरपूजिते । नैव स्पृशेन्महाशङ्खं स्पर्शनात्काष्ठवद्भवेत् ॥ ४.४ श्रीचण्डिकोवाच । गङ्गा तु कारणं वारि मद्यं परमकारणम् । कारणस्पर्शमात्रेण मालाः शुद्धा भवन्ति हि ॥ ४.५ गङ्गास्पर्शेन देवेश काष्ठवन्मालिका कथम् । वद मे परमेशान इति मे संशयो हृदि ॥ ४.६ श्रीशंकर उवाच । कारणं देवदेवेशि मोक्षदं सर्वजातिषु । तथा स्वर्गादिजनकं गङ्गातोयं न संशयः ॥ ४.७ कारणे निवसेद्देवि महाकाली परा कला । महाविद्या वसेन्नित्यं सुरायां परमेश्वरि ॥ ४.८ महाशङ्खे वसेन्नित्यं पञ्चाशद्वर्णरूपिणी । महाविद्या वसेन्नित्यं महाशङ्खे च सर्वदा ॥ ४.९ गङ्गास्पर्शनमात्रेण गङ्गायां लीयते प्रिये । काष्ठस्पर्शनमात्रेण काष्ठे वह्निस्तृणे यथा ॥ ४.१० गङ्गास्पर्शे तथा देवि गङ्गायां लीयते प्रिये । तत्क्षणे च महाशङ्खः काष्ठवन्नात्र संशयः ॥ ४.११ शिलायन्त्रे तुलस्यादौ तथैव परमेश्वरि ॥ ४.१२ महाशङ्खाख्यमालायां यो जपेत्साधकोत्तमः । अष्टसिद्धिः करे तस्य स एव शम्भुरव्ययः । मौलौ गङ्गा स्थिता यस्य गङ्गास्नानेन तस्य किम् ॥ ४.१३ वाराणसी कामरूपं हरिद्वारं प्रयागकम् । गण्डकी बदरिका देवि गङ्गासागरसंगमम् ॥ ४.१४ यस्य भक्तिर्महाशङ्खे तस्य दर्शनमात्रतः । तीर्थस्नानफलं सर्वं लभते नात्र संशयः ॥ ४.१५ इति ते कथितं कान्ते सर्वं परमदुर्लभम् । न वक्तव्यं पशोरग्रे प्राणान्ते परमेश्वरि ॥ ४.१६ ंातृकाभेदतन्त्र, पञ्चमः पटलः श्रीचण्डिकोवाच । पारदं भस्मनिर्माणं केनोपायेन शंकर । तदहं श्रोतुमिच्छामि यदि तेऽस्ति कृपा मयि ॥ ५.१ श्रीशंकर उवाच । पारदे भस्मनिर्माणे नानाविघ्नानि पार्वति । अत एव हि तत्रादौ शान्तिं कुर्याद्द्विजोत्तमः ॥ ५.२ वरयेत्कर्मकर्तारं वक्ष्यमाणविधानतः । पूजयेत्षोडशलिङ्गं पार्थिवं पर्वतात्मजे ॥ ५.३ षोडशेनोपचारेण तोडलोक्तविधानतः । भोगयोग्यं प्रदातव्यं मधुपर्कं सुरेश्वरि ॥ ५.४ पञ्चामृतेन देवेशं स्नापयेच्छुद्धवारिणा । पुरुषस्य यथायोग्यं युग्मवस्त्रं निवेदयेत् ॥ ५.५ चतुरङ्गुलिविस्तारं रौप्यनिर्माणपीठकम् । अलंकारं यथायोग्यं पुरुषस्य निवेदयेत् ॥ ५.६ अलक्तकयुतं वापि दद्यान्मलयजं शिवे । षडङ्गधूपं देवेशि प्रदद्याच्च पुनः पुनः ॥ ५.७ घृतयुक्तं तथा दीपं दद्यात्कल्याणहेतवे । नैवेद्यं विविधं रम्यं नानाफलसमन्वितम् ॥ ५.८ शर्करासंयुतं कृत्वा पायसं विनिवेदयेत् । दद्यात्तोयं महेशानि विजयासंयुतं प्रिये ॥ ५.९ षडक्षरं महामन्त्रं गजान्तकसहस्रकम् । प्रजपेत्साधकश्रेष्ठस्ततः सिद्धो भवेद्ध्रुवम् ॥ ५.१० अथवा परमेशानि धनदां धनदायिनीम् । पूजयेद्बहुयत्नेन षोडशेनोपचारतः ॥ ५.११ द्वादशाह्वं यजेद्धीमान् दिक्सहस्रं ततो जपेत् । तद्दशांशं महेशानि होमं कुर्याद्विचक्षणः ॥ ५.१२ होमकर्माद्यशक्तश्चेद्द्विगुणं जपमाचरेत् । यदि प्रीता भवेत्सा हि तदा किं वा न सिध्यति ॥ ५.१३ प्रत्यहं परमेशानि कुबेरो दीयते वसु । भस्मनिर्माणकं देवि विचित्रं तस्य किं शिवे ॥ ५.१४ गुरवे दक्षिणां दद्याद्यथाविभवविस्तरैः । ततः सिद्धो भवेन्मन्त्री नात्र कार्या विचारणा ॥ ५.१५ श्रीचण्डिकोवाच । विधानं देवदेवेश भस्मनिर्माणकर्मणि । सकृत्कृते येन रूपे भस्मसाज्जायते विभो ॥ ५.१६ श्रीशंकर उवाच । आनीय पारदं देवि स्थापयेत्प्रस्तरोपरि । तस्योपरि जपेन्मन्त्रं सर्ववन्द्यनवात्मकम् ॥ ५.१७ साष्टसहस्रं देवेशि प्रजपेत्साधकाग्रणीः । स्ययम्भुपुष्पसंयुक्ते वस्त्रे चारुणसंनिभे ॥ ५.१८ संस्थाप्य पारदं देवि मृत्पात्रयुगले शिवे । पुष्पयुक्तेन सूत्रेण बध्नीयाद्बहुयत्नतः ॥ ५.१९ मुक्तिधाराजलेनैव धान्यस्य परमेश्वरि । लेपयेद्बहुयत्नेन रौद्रे शुष्कं च कारयेत् ॥ ५.२० पुनश्च लेपयेद्धीमान् ततो वह्नौ विनिक्षिपेत् । अष्टमीनवमीरात्रौ क्षिपेन्नैव सुरेश्वरि ॥ ५.२१ अथवा परमेशानि मृत्पात्रे स्थापयेद्रसम् । वल्लीरसेन तद्द्रव्यं शोधयेद्बहुयत्नतः ॥ ५.२२ घृतनारीरसेनैव तथैव शोधनं चरेत् । एवं कृते तु गुटिका यदि स्याद्दृढबन्धनम् ॥ ५.२३ धुस्तुरं च समानीय मध्ये शून्यं च कारयेत् । कृष्णाख्यतुलसीयोगे तथा घृतकुमारिका ॥ ५.२४ एवं कृते वह्नियोगे भस्मसाज्जायते किल । भस्मयोगे भवेत्स्वर्णं धनदायाः प्रसादतः ॥ ५.२५ विवर्णं जायते द्रव्यं यदि पूजां न चाचरेत् ॥ ५.२६ श्रीचण्डिकोवाच । स्वयम्भु कीदृशं नाथ कुण्डगोलं तु कीदृशम् । स्वपुष्पं कीदृशं नाथ वज्रपुष्पं तु कीदृशम् । सर्वकालोद्भवं नाथ कीदृशं वद शंकर ॥ ५.२७ श्रीशंकर उवाच । विवाहरहिता कन्या प्रथमं पुष्पसंयुता । तच्छोणितं महेशानि स्वयम्भु नात्र संशयः ॥ ५.२८ भर्तरि विद्यमाने तु या कन्या चान्यजा शिवे । तदुद्भवं कुण्डपुष्पं सर्वकार्यार्थसाधकम् ॥ ५.२९ मृते भर्तरि देवेशि या कन्या अन्यजा शिवे । तदुद्भवं गोलपुष्पं देववश्यकरं परम् ॥ ५.३० विवाहितायाः कन्यायाः प्रथमे ऋतुसम्भवे । तच्छोणितं महेशानि स्वपुष्पं सर्वमोहनम् ॥ ५.३१ विवाहितायाः कन्यायाः पुरुषस्य च ताडनात् । यदि पुष्पं समुद्भूतं वज्रं तत्परिकीर्तितम् ॥ ५.३२ विवाहितायाः कन्यायाः प्रतिमासे च यद्भवेत् । सर्वकालोद्भवं पुष्पं कथितं वीरवन्दिते ॥ ५.३३ समक्रोशं वह्निमध्ये स्थापयेद्बहुयत्नतः । तत उत्थाय तद्द्रव्यं स्वर्णपात्रे निधाय च ॥ ५.३४ प्रजपेत्परमेशानि प्रासादाख्यं महामनुम् । ततः सिद्धो भवेन्मन्त्री नान्यथा मम भाषितम् ॥ ५.३५ एतन्मन्त्रं महेशानि गजान्तकसहस्रकम् । जपित्वा पूजयेत्पश्चात्पार्थिवं शिवलिङ्गकम् ॥ ५.३६ ततः परीक्षा कर्तव्या शृणु मत्प्राणवल्लभे । शुद्धताम्रं वह्निमध्ये मृत्पात्रे तोलकं मितम् ॥ ५.३७ द्रवीभूते च ताम्रे च गुञ्जामानं क्षिपेद्यदि । तत्क्षणे परमेशानि स्वर्णं भवति निश्चितम् ॥ ५.३८ गुञ्जाप्रमाणं तद्द्रव्यं भोजनं कुरुते यदि । सर्वरोगपरित्यक्तो जायते मदनोपमः । मन्त्रसिद्धिर्भवेत्तस्य जायते चिरजीविता ॥ ५.३९ प्रत्यहं परमेशानि शतनारीं रमेद्यदि । वीर्यादिरहितं न स्यात्तेजोवृद्धिकरं परम् ॥ ५.४० मरणं नैव पश्यामि यदि ध्यानयुतो भवेत् । तस्य वित्तं विलोक्यैव कुबेरोऽपि तिरस्कृतः ॥ ५.४१ गानेन तुम्बुरुः साक्षाद्दानेन वासवो यथा । महेश इव योगीन्द्रो निरृतिरिव दुर्धरः ॥ ५.४२ महाबलो महावीर्यो महासाहसिकः शुचिः । महास्वच्छो दयावांश्च सर्वप्राणिहिते रतः । बहु किं कथ्यते देवि स एव गणनायकः ॥ ५.४३ ंातृकाभेदतन्त्र, षष्टः पटलः श्रीचण्डिकोवाच । वद ईशान सर्वज्ञ सर्वतत्त्वविदां वर । महारोगे महादुःखे महादारिद्र्यसंकटे ॥ ६.१ नाना व्याधिगते वापि नानापीडादिसंकटे । राज्यनाशे राजभये कारागारगते पुनः ॥ ६.२ रायदण्डे च देवेश तथा च ग्रहपीडिते । केनोपायेन देवेश मुच्यते वद शंकर ॥ ६.३ श्रीशंकर उवाच । शृणु चार्वङ्गि सुभगे यन्मां त्वं परिपृच्छसि । तत्तत्सर्वं प्रवक्ष्यामि सावधानावधारय ॥ ६.४ या चाद्या परमा विद्या चामुण्डा कालिका परा । तस्याः प्रयोगमात्रेण किं न सिध्यति भूतले ॥ ६.५ श्रीचण्डिकोवाच । राहुश्चण्डालो विख्यातः सर्वत्र परमेश्वर । पुण्यकालः कथं देव तस्य स्पर्शे दिवाकरे ॥ ६.६ निशाकरे तथा नाथ इति मे संशयो हृदि । कथयस्व परानन्द पश्चादन्यत्प्रकाशय ॥ ६.७ श्रीशंकर उवाच । शृणु चार्वङ्गि सुभगे ग्रहणं चोत्तमोत्तमम् । ग्रहणं त्रिविधं देवि चन्द्रसूर्याग्निसंयुतम् ॥ ६.८ शक्तेर्ललाटके नेत्रे वह्निस्तिष्ठति सर्वदा । वामनेत्रे तथा चन्द्रो दक्षे सूर्यः प्रतिष्ठितः ॥ ६.९ शम्भुनाथेन देवेशि रमणं क्रियते यदा । तदैव ग्रहणं देवि शक्तियुक्तो यदा शिवः ॥ ६.१० वामनेत्रे चुम्बने तु शशाङ्कग्रहणं तदा । दक्षनेत्रे चुम्बने च भास्करग्रहणं तदा ॥ ६.११ ललाटे चुम्बने चाग्निग्रहणं परमेश्वरि । शिववीर्यं यतो वह्निरतोऽदृश्यः सुरेश्वरि ॥ ६.१२ राहुः शिवः समाख्यातस्त्रिगुणा शक्तिरीरिता । शिवशक्त्योः समायोगो ग्रहणं परमेश्वरि ॥ ६.१३ शिवशक्तिसमायोगः कालं ब्रह्ममयं प्रिये । अत एव महेशानि राश्यादीन्न विचारयेत् ॥ ६.१४ तिथिनक्षत्रयोगेन यद्योगं परमेश्वरि । तदैव परमेशानि राश्यादिगणनं चरेत् ॥ ६.१५ शिवशक्तिसमायोगात्सर्वं ब्रह्ममयं जगत् । मासपक्षतिथीनां च नोच्चार्यं परमेश्वरि ॥ ६.१६ दृष्टिमात्रेण जप्तव्यं तदा सिद्धिर्भवेद्ध्रुवम् । तत्कालं परमं कालं विज्ञेयं वीरवन्दिते ॥ ६.१७ तत्र यद्यत्कृतं सर्वमनन्तफलमीरितम् । पुरैव कथितं सर्वं बहु किं कथ्यतेऽधुना ॥ ६.१८ एतत्सुगुप्तभेदं हि तव स्नेहात्प्रकाशितम् । न वक्तव्यं पशोरग्रे न वक्तव्यं सुरेश्वरि ॥ ६.१९ एतत्तत्त्वं प्रयत्नेन ब्रह्मा जानाति माधवः । प्रगोप्तव्यं प्रयत्नेन स्वयोनिरिव शैलजे ॥ ६.२० श्रीचण्डिकोवाच । चामुण्डाया महामन्त्रं कीदृशं परमेश्वर । आराधनं कीदृशं वा तद्वदस्व दयानिधे ॥ ६.२१ श्रीशंकर उवाच । शृणु चार्वङ्गि सुभगे चामुण्डामन्त्रमुत्तमम् । यस्य विज्ञानमात्रेण पुनर्जन्म न विद्यते ॥ ६.२२ कालीबीजयुगं देवि कूर्चबीजं ततः परम् । त्र्यक्षरी परमा विद्या चामुण्डा कालिका स्वयम् ॥ ६.२३ सप्ताहं पूजयेद्देवीमुपचारैश्च षोडशैः । पूजान्ते प्रजपेन्मन्त्रं त्रिसहस्रं वरानने ॥ ६.२४ रात्रौ तु पञ्चतत्त्वेन पूजयेत्परमेश्वरीम् । तथा रात्रौ जपेन्मन्त्रं कुलशक्तिसमन्वितम् ॥ ६.२५ यन्त्रनिर्माणयोग्यं हि पीठं दद्यात्सुविस्तरम् । भोगयोग्यं प्रदातव्यं मधुपर्कं यथोचितम् ॥ ६.२६ शक्तेर्यथा विधेयं स्याद्युवत्याः परमेश्वरि । तथा वस्त्रं प्रदातव्यं सर्वकल्याणहेतवे ॥ ६.२७ अलंकारं यथायोग्यं तत्र तत्र नियोजयेत् । नैवेद्यं विविधं रम्यं नानाद्रव्यसमन्वितम् ॥ ६.२८ सामिषान्नं प्रदातव्यं परमान्नं सशर्करम् । पूजयेत्परया भक्त्या बलिदानं ततः परम् ॥ ६.२९ प्रत्यहं परमेशानि चाद्यन्ते वा बलिं हरेत् । साङ्गे जाते महेशानि चाथवा बलिमाहरेत् ॥ ६.३० एवं कृते महासिद्धिं लभते नात्र संशयः । धनार्थी धनमाप्नोति पुत्रार्थी पुत्रवान् भवेत् ॥ ६.३१ विवादे जयमाप्नोति राजद्वारे जयी भवेत् । सर्वत्र विजयी भूत्वा देवीपुत्र इव क्षितौ ॥ ६.३२ रोगेभ्यो घोररूपेभ्यः पूजयित्वा प्रमुच्यते । इच्छासिद्धिर्भवेत्तस्य सर्वसिद्धिर्न चान्यथा ॥ ६.३३ कारागारगते देवि मुच्यते नात्र संशयः । प्रयोगं परमेशानि सारं परमदुर्लभम् ॥ ६.३४ अतिस्नेहेन देवेशि तव स्थाने प्रकाशितम् । अथवा परमेशानि पठेच्चण्डीं सनातनीम् ॥ ६.३५ पूजयेच्चण्डिकां देवीं सुगन्धिपुष्पसंयुतैः । धूपदीपेन गन्धेन नैवेद्येन सुरेश्वरि ॥ ६.३६ अवश्यं पञ्चतत्त्वेन पूजयेच्चण्डिकां पराम् ॥ ६.३७ आदावृष्यादिसूक्तेन चार्घ्यान्ते परमेश्वरि । पञ्चतत्त्वं समानीय शोधयेच्छास्त्रवित्तमः ॥ ६.३८ तर्पणं च ततः कृत्वा चार्घ्यपात्रे विनिक्षिपेत् । अर्घ्योदकेन संप्रोक्ष्य पूजयेत्पीठदेवताम् ॥ ६.३९ प्रणवं च समुद्धृत्य मायाबीजं ततः परम् । प्रभां मायां जयां सूक्ष्मां विशुद्धां नन्दिनीं तथा ॥ ६.४० सुप्रभां विजयां सर्वसिद्धिदां परिपूजयेत् । वज्रनखदंष्ट्रायुधाय हूं फडित्यन्ततस्ततः ॥ ६.४१ नमोऽन्तेन तु देवेशि आसनं च समर्चयेत् । गुरुपङ्क्तिं पूजयित्वा पुनर्ध्यानं समाचरेत् ॥ ६.४२ आवाहनं ततो मुद्रां जीवन्यासं प्रपूजनम् । षडङ्गेन तु सम्पूज्य परिवारान् प्रपूजयेत् ॥ ६.४३ शङ्खनिधिं पद्मनिधिं तथा ब्राह्म्यादिकं यजेत् । इन्द्रादींश्चैव वज्रादीन् पूजयेत्साधकोत्तमः ॥ ६.४४ प्रणवादिनमोऽन्तेन पूजयेत्साधकोत्तमः । पुनर्देवीं महेशानि पञ्चतत्त्वेन पूजयेत् ॥ ६.४५ प्राणायामं ततः कृत्वा गुरुमन्त्रेष्टदेवताम् । ऐक्यं विभाव्य देवेशि मूलमन्त्रं जपेच्छतम् ॥ ६.४६ प्राणायामं ततः कृत्वा कारणादीन् समाहरेत् । तस्यै दत्त्वा स्वयं पीत्वा पठेच्चण्डीं सुरेश्वरि ॥ ६.४७ साङ्गे जाते तु माहात्म्ये पुनः पानं समाचरेत् । ततस्तु प्रपठेद्धीमान् क्रमेण पानमाचरेत् ॥ ६.४८ समाप्ते तु विलोमेन पुनर्मन्त्रं शतं जपेत् । यदि भाग्यवशाद्देवि शक्तियोगं लभेन्नरः ॥ ६.४९ तत्क्षणे हि विजानीयात्सर्वसिद्धिः करे स्थिता । एवं कृत्वा महेशानि यदि पाठं समाचरेत् ॥ ६.५० माहात्म्यं तस्य पाठस्य किं वक्तुं शक्यते मया । शतवक्त्रं यदि भवेत्तदा वक्तुं न शक्यते ॥ ६.५१ पञ्चवक्त्रेण देवेशि किं वक्तुं शक्यतेऽधुना । सकृत्पाठेन देवेशि किं पुनर्ब्रह्म केवलम् ॥ ६.५२ अवश्यं लभते शान्तिं सर्वत्र परमेश्वरि । यदि शान्तिं न लभते मम वाक्यं मृषा तदा ॥ ६.५३ षोडशेनोपचारेण प्रथमं पूजनं चरेत् । द्वितीये पञ्चतत्त्वेन पूजयेच्चण्डिकां प्रिये ॥ ६.५४ सहस्रावृत्तिपाठेन यत्फलं लभते नरः । सकृत्पाठस्य देवेशि कलां नार्हति षोडशीम् ॥ ६.५५ ध्यानमस्याः प्रवक्ष्यामि यथा ध्यात्वा पठेन्नरः ॥ ६.५६ ओं या चण्डी मधुकैटभादिदैत्यदलनी माहिषोन्मादिनी या धूम्रेक्षणचण्डमुण्डमथनी या रक्तबीजाशनी । शक्तिः शुम्भनिशुम्भदैत्यदलनी या सिद्धिलक्ष्मीः परा सा देवी नवकोटिमूर्तिसहिता मां पातु विश्वेश्वरी ॥ ६.५७ ध्यानमेतच्चण्डिकायाः शृणुष्व वीरवन्दिते ॥ ६.५८ शृणु मन्त्रं प्रवक्ष्यामि त्रैलोक्येषु च दुर्लभम् । वेदाद्यं वाग्भवं मायां कामबीजं ततः परम् ॥ ६.५९ स्थिरमायां महामायां कामबीजं ततो नमः । नवाक्षरं महामन्त्रं जपेदादौ शतं प्रिये ॥ ६.६० विपरीतं महामन्त्रं पाठान्ते तु शतं जपेत् । शृणु देवि प्रवक्ष्यामि ऋषिच्छन्दः सुदुर्लभम् ॥ ६.६१ ओं सप्तशतीमहास्तोत्रस्य मेधातिथिऋषिर्गायत्र्यनुष्टुब्बृहतीपंक्तित्रिष्तुब्जगत्यश्छन्दांसि महाकालीमहालक्ष्मीमहासरस्वीदेवतास्तवकमैं ह्रीं क्लीं बीजानि क्ष्रौं शक्तिः ममामुककामसिद्ध्यर्थे विनियोगः ॥ ६.६२ प्रणवेन महेशानि षडङ्गन्यासमाचरेत् । इति ते कथितं कान्ते चण्डीपाठस्य लक्षणम् ॥ ६.६३ सार्वणिः सूर्य इत्यादि सार्वणिर्भविता मनुः एतन्मात्रं पठेद्देवि किंचिन्न्यूनाधिकं न हि ॥ ६.६४ वारत्रयं पठेद्देवि संजप्य तु दिनत्रयम् ॥ ६.६५ महारोगे सहादुःखे राजपीडादिदारुणे । नाना व्याधिगते वापि राज्यनाशे तथा भये ॥ ६.६६ ग्रहपीडादिसंजाते ब्रह्महत्यादिपातके । एवं पाठेन देवेशि मुच्यते नात्र संशयः ॥ ६.६७ बहु किं कथ्यते देवि सर्वशान्तिं लभेन्नरः । सर्वशङ्काविनिर्मुक्तो जायते मदनोपमः ॥ ६.६८ एवं कृते महेशानि यदि सिद्धिर्न जायते । पुनस्तेनैव कर्तव्यं ततः सिद्धो भवेद्ध्रुवम् ॥ ६.६९ ंातृकाभेदतन्त्र, सप्तमः पटलः श्रीशिव उवाच । अथातः सम्प्रवक्ष्यामि त्रिपुरामन्त्रमुत्तमम् । यस्य विज्ञानमात्रेण पुनर्जन्म न विद्यते ॥ ७.१ त्रिपुरा त्रिविधा देवि बाला प्रोक्ता पुरा शिवे । तथैव भैरवी देवी नित्यातन्त्रे मयोदिता । इदानीं सुन्दरीं देवी शृणु पार्वति सादरम् ॥ ७.२ श्रीदेव्युवाच । महामन्त्रं श्रुतं नाथ वामकेश्वरयामले । प्रातःकृत्यादि देवेश आराधनक्रमं वद ॥ ७.३ श्रीशिव उवाच । प्रातरुत्थाय मन्त्रज्ञः सहस्रारे निजं गुरुम् । पूर्वोक्तध्यानमुच्चार्य पूजयेद्बहुयत्नतः ॥ ७.४ तथा च श्रीगुरोर्ध्यानं गुप्तसाधनतन्त्रके । कथितं च मया पूर्वं मन्त्रं शृणु वरानने ॥ ७.५ वाग्बीजं च महामायां विष्णुशक्तिं समुच्चरेत् । हसखफ्रें तथानन्दभैरवस्य मनुं ततः ॥ ७.६ तस्य शक्तेर्मनुं पश्चात्ततश्चैवं हसौः स्मृतः । श्रीगुरोश्च तथा शक्तेर्मन्त्रमेतत्सुरेश्वरि ॥ ७.७ श्रीगुरोरानन्दनाथान्ते अथातः शक्तिरीरिता । वाग्बीजादीन् समुच्चार्य अमुकानन्दनाथ च ॥ ७.८ श्रीपादुकां समुच्चार्य पूजयामि नमस्ततः । वाग्बीजं च शम्भुपत्नीं तदुत्तरे हरिप्रियाम् ॥ ७.९ भूतबीजं समुच्चार्य प्रवदेच्च तदात्मकम् । समर्पयामि देवेशि पूजाविधिरिति प्रिये ॥ ७.१० ततश्चाष्टाक्षरं मन्त्रमष्टोत्तरशतं जपेत् । जपं समर्पयित्वा तु नमेदञ्जलिना प्रिये ॥ ७.११ श्रीदेव्युवाच । स्तुतिं च कवचं नाथ श्रोतुमिच्छामि साम्प्रतम् । श्रीगुरोः कवचं स्तोत्रं त्वया प्रोक्तं पुरा प्रभो ॥ ७.१२ इदानीं स्त्रीगुरोः स्तोत्रं कवचं मयि कथ्यताम् । यस्य विज्ञानमात्रेण पुनर्जन्म न विद्यते ॥ ७.१३ श्रीशिव उवाच । शृणु देवि प्रवक्ष्यामि स्तोत्रं परमगोपनम् । यस्य श्रवणमात्रेण संसारान्मुच्यते नरः ॥ ७.१४ नमस्ते देवदेवेशि नमस्ते हरपूजिते । ब्रह्मविद्यास्वरूपायै तस्यै नित्यं नमो नमः ॥ ७.१५ अज्ञानतिमिरान्धस्य ज्ञानाञ्जनशलाकया । यया चक्षुरुन्मीलितं तस्यै नित्यं नमो नमः ॥ ७.१६ भवबन्धनपारस्य तारिणी जननी परा । ज्ञानदा मोक्षदा नित्या तस्यै नित्यं नमो नमः ॥ ७.१७ श्रीनाथवामभागस्था सदा या सुरपूजिता । सदा विज्ञानदात्री च तस्यै नित्यं नमो नमः ॥ ७.१८ सहस्रारे महापद्मे सदानन्दस्वरूपिणी । महामोक्षप्रदा देवी तस्यै नित्यं नमो नमः ॥ ७.१९ ब्रह्मविष्णुस्वरूपा च महारुद्रस्वरूपिणी । त्रिगुणात्मस्वरूपा च तस्यै नित्यं नमो नमः ॥ ७.२० चन्द्रसूर्याग्निरूपा च सदाघूर्णितलोचना । स्वनाथं च समालिङ्ग्य तस्यै नित्यं नमो नमः ॥ ७.२१ ब्रह्मविष्णुशिवत्वादिजीवन्मुक्तिप्रदायिनी । ज्ञानविज्ञानदात्री च तस्यै नित्यं नमो नमः ॥ ७.२२ इदं स्तोत्रं महेशानि यः पठेद्भक्तिसंयुतः । स सिद्धिं लभते नित्यं सत्यं सत्यं न संशयः ॥ ७.२३ प्रातःकाले पठेद्यस्तु गुरुपूजापुरःसरम् । स एव धन्यो लोकेऽस्मिन् देवीपुत्र इव क्षितौ ॥ ७.२४ श्रीशङ्कर उवाच । स्तोत्रं समाप्तं देवेशि कवचं शृणु सादरम् । यस्य श्रवणमात्रेण वागीशसमतां व्रजेत् ॥ ७.२५ स्त्रीगुरोः कवचस्यास्य सदाशिव ऋषिः स्मृतः । तदाख्या देवता प्रोक्ता चतुर्वर्गफलप्रदा ॥ ७.२६ क्लीं बीजं मे शिरः पातु तदाख्यातं ललाटकम् । क्लीं बीजं चक्षुषोः पातु सर्वाङ्गं मे सदावतु ॥ ७.२७ ऐं बीजं मे मुखं पातु ह्रीं जङ्घां परिरक्षतु । श्रीं बीजं स्कन्धदेशं मे वाग्भवं मे भुजद्वयम् ॥ ७.२८ हकारं मे दक्षभुजं क्षकारं वामहस्तकम् । क्षमणौ तदधः पातु लकारं हृदयं मम ॥ ७.२९ रकारं पृष्ठदेशं च रकारं दक्षपार्श्वकम् । जूङ्कारं वामपार्श्वे तु सकारं मेरुमेव तु ॥ ७.३० मकारं चाङ्गुलीः पातु लकारं मे नखोपरि । वकारं मे नितम्बं च रकारं जानुयुग्मकम् ॥ ७.३१ यीःकारं पादयुगलं हसौः सर्वाङ्गमेव तु । हसौर्लिङ्गं च लोमं च केशं च परिरक्षतु ॥ ७.३२ ऐं बीजं पातु पूर्वे तु ह्रीं बीजं दक्षिणेऽवतु । श्रीं बीजं पश्चिमे पातु उत्तरे भूतसम्भवम् ॥ ७.३३ श्रीं पातु चाग्निकोणे च तदाख्यां नैरृतेऽवतु । देव्यम्बा पातु वायव्यां शम्भोः श्रीपादुकां तथा ॥ ७.३४ पूजयामि तथा चोर्ध्वं नमश्चाधः सदावतु । इति ते कथितं कान्ते कवचं परमाद्भुतम् ॥ ७.३५ गुरुमन्त्रं जपित्वा तु कवचं प्रपठेद्यदि । स सिद्धः सगणः सोऽपि शिवः साक्षान्न संशयः ॥ ७.३६ पूजाकाले पठेद्यस्तु कवचं मन्त्रविग्रहम् । पूजाफलं भवेत्तस्य सत्यं सत्यं सुरेश्वरि ॥ ७.३७ त्रिसंध्यं यः पठेद्देवि स सिद्धो नात्र संशयः ॥ ७.३८ भूर्जे विलिख्य गुटिकां स्वर्णस्था धारयेद्यदि । तस्य दर्शनमात्रेण वादिनो निष्प्रभां गताः ॥ ७.३९ विवादे जयमाप्नोति रणे च निरृतिरिव । सभायां जयमाप्नोति मम तुल्यो न संशयः ॥ ७.४० सहस्रारे भावयं स्तां त्रिसन्ध्यं प्रपठेद्यदि । स एव सिद्धो लोकेशो निर्वाणपदमीहते ॥ ७.४१ समस्तमङ्गलं नाम कवचं परमाद्भुतम् । यस्मै कस्मै न दातव्यं न प्रकाश्यं कदाचन ॥ ७.४२ देयं शिष्याय शान्ताय चान्यथा पतनं भवेत् । अभक्तेभ्योऽपि देवेशि पुत्रेभ्योऽपि न दर्शयेत् ॥ ७.४३ इदं कवचमज्ञात्वा दशविद्यां च यो जपेत् । स नाप्नोति फलं तस्य परे च नरकं व्रजेत् ॥ ७.४४ समाप्तं कवचं देवि किमन्यच्छ्रोतुमिच्छसि । तव स्नेहानुबन्धेन किं मया न प्रकाशितम् ॥ ७.४५ कूर्चबीजं समुच्चार्य प्राणमन्त्रं ततः प्रिये । अनेन वायुयोगेन कुण्डलीचक्रं संचरेत् ॥ ७.४६ अष्टोत्तरशतं मूलमन्त्रं जप्त्वा नमेत्सुधीः । स्नानकर्म ततः कृत्वा संध्यां कुर्यात्पुरोदिताम् ॥ ७.४७ श्रीदेव्युवाच । संध्यायाः कीदृशं ध्यानं वद मे परमेश्वर । श्रीविद्याविषये नाथ विशेषो मयि कथ्यताम् ॥ ७.४८ श्रीशिव उवाच । ध्यायेच्च सुन्दरीं देवीं त्रिविधां बीजरूपिणीम् । प्रभाते वाग्भवां देवी मध्याह्ने मदनात्मिकाम् ॥ ७.४९ सायाह्ने शक्तिरूपां च त्रिविधां बिन्दुरूपिणीम् । पूजाकाले महादेवीं ध्यानानुरूपिणीं शिवाम् ॥ ७.५० वाग्भवेनेन्दुसदृशां शुक्लवर्णां विचिन्तयेत् । शक्तिबीजं स्वर्णवर्णं रक्तवर्णां विभावयेत् ॥ ७.५१ प्रभाते शुक्लवर्णाभां मध्याह्ने नीलसंनिभाम् । सायाह्ने रक्तवर्णाभां भावयेत्साधकोत्तमः ॥ ७.५२ एवं ध्यात्वा महेशानि संध्यां कुर्याद्विचक्षणः । शिवपूजां ततः कृत्वा पूजयेत्परदेवताम् ॥ ७.५३ ततस्तु पूजयेद्देवीं त्रिपुरां मोक्षदायिनीम् । त्रिपुरा परमा विद्या महाविद्या पतिव्रता ॥ ७.५४ पतिपूजां विना पूजां न गृह्णाति कदाचन । अत एव महेशानि आदौ लिङ्गं प्रपूजयेत् ॥ ७.५५ पञ्चाक्षरं पञ्चवक्त्रं पूजयेद्बहुयत्नतः । ततस्तु पूजयेद्देवीं त्रिपुरां मोक्षदायिनीम् ॥ ७.५६ श्रीदेव्युवाच । किमाधारे यजेच्छम्भुं कृपया वद शंकर । आधारभेदे देवेश साधकः फलभाग्भवेत् ॥ ७.५७ श्रीशंकर उवाच । पूजयेत्पार्थिवे लिङ्गे पाषाणे लिङ्गके तथा । स्वर्णलिङ्गेऽथवा देवि रौप्ये ताम्रे च कांस्यके ॥ ७.५८ पारदे वाथ गङ्गायां स्फाटिके मारकतेऽपि वा । कार्यभेदे लौहलिङ्गे भस्मनिर्माणलिङ्गके ॥ ७.५९ वालुकानिर्मिते लिङ्गे गोमये वाथ पूजयेत् । पार्थिवे पूजनं देवि तोडलाख्ये मयोदितम् ॥ ७.६० संस्कारेण विना देवि पाषाणादौ न पूजयेत् । संस्कारं च प्रवक्ष्यामि विशेष इह यद्भवेत् ॥ ७.६१ रौप्यं च स्वर्णलिङ्गं च स्वर्णपात्रे निधाय च । तस्मादुत्तोल्य तं लिङ्गं दुग्धमध्ये दिनत्रयम् ॥ ७.६२ त्र्यम्बकेण स्थापयित्वा कालरुद्रं प्रपूजयेत् । षोडशेनोपचारेण वेद्यान् तु पार्वतीं यजेत् ॥ ७.६३ तस्मादुत्तोल्य तं लिङ्गं गङ्गातोये दिनत्रयम् । ततो वेदोक्तविधिना संस्कारमाचरेत्सुधीः ॥ ७.६४ श्रीचण्डिकोवाच । लिङ्गप्रमाणं देवेश कथयस्व मयि प्रभो । पार्थिवे च शिलादौ च विशेषो यदि वा भवेत् ॥ ७.६५ श्रीशिव उवाच । मृत्तिकातोलकं ग्राह्यमथवा तोलकद्वयम् । एतदन्यं न कर्तव्यं कदाचिदपि पार्वति ॥ ७.६६ शिलादौ परमेशानि स्थूलं च फलदायकम् । अङ्गुष्ठमानं देवेशि यद्वा हेमाद्रिमानकम् ॥ ७.६७ एवं क्रमेण देवेशि फलं बहुविधं लभेत् । स्थूलात्स्थूलतरं लिङ्गं रुद्राक्षं परमेश्वरि ॥ ७.६८ पूजनाद्धारणाद्देवि फलं बहुविधं स्मृतम् ॥ ७.६९ ंातृकाभेदतन्त्र, अष्टमः पटलः श्रीदेव्युवाच । शृणु नाथ परानन्द परापरकुलात्मक । त्वां विना त्राणकर्ता च मम ज्ञाने न वर्तते ॥ ८.१ पूर्णलिङ्गं महेशान शिवबीजं न चान्यथा । शिलामध्ये तथा चक्रं लक्ष्मीनारायणं परम् ॥ ८.२ पारदस्य शतांशैकं मम ज्ञाने न वर्तते । शिवबीजं महादेव शिवरूपं न चान्यथा । लिङ्गरूपं कथं देव तद्वदस्व मयि प्रभो ॥ ८.३ श्रीशिव उवाच । यथा ज्योतिर्मयं लिङ्गं कैलासशिखरे मम । तस्यैव षोडशांशैकः काश्यां विश्वेश्वरः स्थितः ॥ ८.४ पूर्णलिङ्गं महेशानि शिवबीजं न चान्यथा । शिलामध्ये तथा चक्रं लक्ष्मीनारायणं परम् ॥ ८.५ पारदस्य शतांशैकं लक्ष्मीनारायणं न हि । पकारं विष्णुरूपं च आकारं कालिका तथा ॥ ८.६ रेफं शिवं दकारं च ब्रह्मरूपं न चान्यथा । पारदं परमेशानि ब्रह्मविष्णुशिवात्मकम् ॥ ८.७ यो यजेत्पारदं लिङ्गं स एव शम्भुरव्ययः । स एव धन्यो देवेशि स ज्ञानी स तु तत्त्ववित् ॥ ८.८ स ब्रह्मवेत्ता स धनी स राजा भुवि पूजितः । अणिमादिविभूतीनामीश्वरः साधकोत्तमः ॥ ८.९ स्त्रियः स्वभावचपला गोपितुं न हि शक्यते । अत एव हि देवेशि विरता भव पार्वति ॥ ८.१० श्रीदेव्युवाच । कथयस्व कृपानाथ करुणा यदि वर्तते । तव वाक्यं विना देव क्व मुक्तिः क्व च साधुता ॥ ८.११ श्रीशिव उवाच । पारदं शिवबीजं हि ताडनं न हि कारयेत् । ताडनाद्वित्तनाशः स्यात्ताडनात्सुतहीनता । ताडनाद्रोगयुक्तः स्यात्ताडनान्मरणं भवेत् ॥ ८.१२ श्रीदेव्युवाच । एतद्विघ्नादिकं नाथ सत्यमेव न संशयः । विघ्नादिरहितं नाथ कथयस्व दयानिधे ॥ ८.१३ श्रीशिव उवाच । पारदे शिवनिर्माणे नानाविघ्नं यतः शिवे । अत एव हि तत्रादौ शान्तिस्वस्त्ययनं चरेत् ॥ ८.१४ द्वादशं पार्थिवं लिङ्गमुपचारैश्च षोडशैः । पट्टादिसूत्रनिर्माणं रचितं शुक्लमेव वा ॥ ८.१५ पुरुषस्य यथायोग्यं युग्मवस्त्रं निवेदयेत् । भोगयोग्यं प्रदातव्यं मधुपर्कं सुरेश्वरि ॥ ८.१६ अलंकारं यथाशक्ति दद्यात्कल्याणहेतवे । पूजयेद्बहुयत्नेन बिल्वपत्त्रेण पार्वति ॥ ८.१७ तोडलोक्तेन विधिना प्रत्येकेनायुतं जपेत् । आदौ पञ्चाक्षरं मन्त्रमष्टोत्तरशतं जपेत् ॥ ८.१८ पूजान्ते प्रजपेत्पश्चात्प्रासादाख्यं महामनुम् । दक्षिणान्तं समाचर्य हविष्याशी जितेन्द्रियः ॥ ८.१९ ताम्बूलं च तथा मत्स्यं वर्जयेन्न कदाचन । अस्मिंस्तन्त्रे हविष्यान्नं ताम्बूलं मीनमुत्तमम् ॥ ८.२० होमयेत्परमेशानि दशांशं वा शतांशम् । होमस्य दक्षिणा कार्या तदा विघ्नैर्न लिप्यते ॥ ८.२१ ततः परस्मिन् दिवसे पारदमानयेद्बुधः । तस्योपरि जपेन्मन्त्रं सर्ववन्द्यनवात्मकम् ॥ ८.२२ व्योमबीजं शिवान्तं च वर्गाद्यं बिन्दुमस्तकम् । वायुबीजं च त्रितयं त्रितयं त्र्यम्बकं प्रिये ॥ ८.२३ इमं मन्त्रं महेशानि प्रजपेदौषधोपरि । पारदे प्रजपेन्मन्त्रमष्टोत्तरशतं यदि ॥ ८.२४ तदेवौषधयोगेन बद्धो भवति नान्यथा ॥ ८.२५ ततः परस्मिन् दिवसे शृणु मत्प्राणवल्लभे । वरयेत्कर्मकर्तारं यथोक्तविभवावधि ॥ ८.२६ सुवर्णं चम्पकाकारं कर्णयुग्मे निवेदयेत् । चतुष्कोणयुतं स्वर्णं ग्रीवायां सुमनोहरम् ॥ ८.२७ हस्तद्वये महेशानि दद्याद्वलययुग्मकम् । वलयं शुक्लवर्णं च अङ्गरीयं तथैव च ॥ ८.२८ ऊर्मिं दद्यात्पीतवस्त्रं क्षौमवस्त्रयुगं शिवे । एवं कृत्वा महेशानि शिवरूपं विचिन्तयेत् ॥ ८.२९ अथातः सम्प्रवक्ष्यामि विधानं शृणु पार्वति । प्रस्तरे चैव संस्थाप्य झिण्टीपत्त्ररसेन च । प्रस्तरेण समालोड्य कुर्यात्कर्दमवत्प्रिये ॥ ८.३० निर्माणयोग्यं तत्रैव यदि स्यात्सुरसुन्दरि । तदा निर्माय तं लिङ्गं पुनर्दृढतरं चरेत् ॥ ८.३१ स्वपुष्पसंयुते वस्त्रे अङ्गारे च करीषके । किंचिदुष्णं प्रकर्तव्यं यतो दृढतरो भवेत् ॥ ८.३२ ततो निर्माय तं लिङ्गं पुनर्दृढतरं चरेत् । स्वपुष्पसंयुते वस्त्रे स्थापयेत्पार्थिवे पुनः ॥ ८.३३ किंचिदुष्णं प्रकर्तव्यं यावद्दृढतरो भवेत् । विना ह्यौषधयोगेन भस्म भवति नान्यथा ॥ ८.३४ ंातृकाभेदतन्त्र, नवमः पटलः श्रीशिव उवाच । भस्मप्रकारं देवेशि शृणु मत्प्राणवल्लभे । कर्तारं वरयेदादौ यथोक्तविभवावधि ॥ ९.१ सुवर्णं मौक्तिकयुतं कर्णयुग्मे निवेदयेत् । हस्तयुग्मे च वलयमङ्गुरीयं तथैव च ॥ ९.२ तोढद्वयं बाहुयुग्मे शुद्धकाञ्चननिर्मितम् । ग्रीवायां दापयेत्स्वर्णं चतुष्कोणं मनोरमम् ॥ ९.३ वस्त्रयुग्मं पट्टसूत्रनिर्मितं च सुशोभनम् । उष्णीषं शुक्लवर्णं च उष्णीषं पीतवाससम् ॥ ९.४ एवं हि वरयेद्देवि कर्मयोग्यं विचिन्तयेत् । चिन्तयेच्छिवरूपं च चिन्तयेत्त्रिगुणात्मकम् ॥ ९.५ ततः परस्मिन् दिवसे शान्तिस्वस्त्ययनं चरेत् । निर्मितं शुद्धस्वर्णेन बिल्वपत्त्रेण सुन्दरि ॥ ९.६ सहस्रसङ्ख्यया देवि पार्थिवं द्वादशं यजेत् । षोडशेनोपचारेण पट्टवस्त्रयुगेन च ॥ ९.७ अलंकारविचित्रैश्च पूजयेत्परमेश्वरम् । भोगयोग्यं प्रदातव्यं मधुपर्कं निवेदयेत् ॥ ९.८ स्वर्णासनेन संस्थाप्य प्रत्येकं पूजनं चरेत् । पूजान्ते प्रजपेन्मन्त्रमष्टोत्तरशतं सुधीः ॥ ९.९ षडक्षरं महामन्त्रं प्रासादाख्यं मनुं ततः । दिक्सहस्रं जपेन्मन्त्रं तद्दशांशं हुनेत्प्रिये ॥ ९.१० होमस्य द्रव्यं देवेशि शृणु मत्प्राणवल्लभे । वालुकानिर्मिते वापि कुण्डे वा परमेश्वरि ॥ ९.११ द्वात्रिंशदङ्गुलिमानं विस्तृतं तत्समं प्रिये । षोडशाङ्गुलिमानं हि कुण्डं कुर्यात्सुलक्षणम् ॥ ९.१२ तदूर्ध्वे परमेशानि वेदनेत्राङ्गुलिं शिवे । एव हि स्वर्णकुम्भं च ताम्रकुम्भासमर्थिना ॥ ९.१३ एतदन्यतरं कुम्भं स्थापयेद्वेदिकोपरि । पट्टवस्त्रेण युग्मेन संवेष्ट्य बहुयत्नतः ॥ ९.१४ होमयेद्बिल्वपत्त्रेण यथोक्तेन सुरेश्वरि । त्रिमध्वक्तेन विधिना ततः सिद्धो भवेद्ध्रुवम् ॥ ९.१५ ततस्तु दक्षिणा कार्या यथोक्तविभवावधि । सर्वद्रव्यमयं मूल्यं द्विगुणं वा प्रदापयेत् ॥ ९.१६ दक्षिणाविहीना यज्ञाः सिद्धिदा न च मोक्षदाः । अत एव महेशानि दक्षिणा विभवावधि ॥ ९.१७ वराहवत्समानीय जन्ममात्रेऽपि सुन्दरि । पारदं तोलकं मानं भक्षयेद्बहुयत्नतः ॥ ९.१८ पुनस्तोलकमानं हि मातृदुग्धं ततः परम् । पुनश्च भक्षयेद्धीमांस्ततो दुग्धं तु भक्षयेत् ॥ ९.१९ ततश्च वत्समानीय नवद्वारं प्रयत्नतः । सूत्रयोगेण देवेशि बद्धं कुर्यात्प्रयत्नतः ॥ ९.२० ततश्च हेलकीमन्त्रमष्टोत्तरशतं जपेत् । गजप्रमाणं देवेशि दीर्घप्रस्थं तु खातकम् ॥ ९.२१ करीषकेण देवेशि पूर्णं कुर्याद्विचक्षणः । तन्मध्ये स्थापयेद्वत्सं संदहेद्बहुयत्नतः ॥ ९.२२ वह्निस्थिते महेशानि न स्पृशेत्कुण्डमुत्तमम् । कुण्डे सुशीतले जात उत्थाप्य बहुयत्नतः ॥ ९.२३ सर्वप्रकाशकं मन्त्रमष्टोत्तरशतं जपेत् । विश्वेश्वरं प्रवक्ष्यामि शृणु पार्वति सादरम् ॥ ९.२४ पारदं तोलकं मानं ताम्रपात्रे तु लेपयेत् । चूर्णं कुर्यान्महेशानि गन्धकं सार्धं तोलकम् ॥ ९.२५ समाच्छाद्य प्रयत्नेन चूर्णेन परमेश्वरि । संदहेद्बहुयत्नेन मन्दमन्देन वह्निना ॥ ९.२६ कृष्णवर्णं रेणुयुतं दृष्ट्वा उत्थाप्य सुन्दरि । रत्तिप्रमाणं तद्द्रव्यं भक्षयेद्यदि सुन्दरि ॥ ९.२७ सत्यं सत्यं सर्वकुष्ठं भक्षणान्नाशमाप्नुयात् । अनुपानमुष्णतोयं मत्स्यादीन् परिवर्जयेत् ॥ ९.२८ एवं प्रयोगं देवेशि न कुर्यात्पुत्रवान् गृही । प्रथमे दिवसे पुत्रान् द्वितीये दिवसे धनम् ॥ ९.२९ तृतीये दिवसे शक्तिं चतुर्थे दिवसे गृहम् । पञ्चमे दिवसे रोगं नाशं तु जायते ध्रुवम् ॥ ९.३० अत एव महेशानि आत्मस्वस्त्ययनं चरेत् । पूर्वोक्तविधिना मन्त्री चतुर्गुणं समाचरेत् ॥ ९.३१ ंातृकाभेदतन्त्र, दशमः पटलः श्रीदेव्युवाच । नराकृतिं गुरुं नाथ मन्त्रं वर्णात्मकं तथा । ध्यानानुरूपिणं देवमेकत्वं वा कथं वद ॥ १०.१ श्रीशिव उवाच । गुरुवक्त्रान्महामन्त्रो लभ्यते साधकोत्तमैः । यद्येको जायते वीर्यस्तस्य मूर्तिर्भवेद्ध्रुवम् ॥ १०.२ देवतायाः शरीरं च बीजादुत्पद्यते प्रिये । गुरोराज्ञानुसारेण चान्यमूर्तिस्तु जायते ॥ १०.३ गुर्वादिभावनाद्देवि भावसिद्धिः प्रजायते । अत एव महेशानि चैकत्वं परिकथ्यते ॥ १०.४ श्रीदेव्युवाच । यच्चाक्षुषं महादेव तदाकरं विचिन्तयेत् । अचाक्षुषे महादेव ध्यानं वा कीदृशं भवेत् ॥ १०.५ श्रीशिव उवाच । शब्दब्रह्ममयं देवि मम वक्त्राद्विनिर्गतम् । आकाररहिते देवि यथा ध्यानादिकं भवेत् ॥ १०.६ तथैवोच्चारणेनैव भक्तियुक्तेन चेतसा । सत्यं सत्यं महेशानि प्रत्यक्षं नात्र संशयः ॥ १०.७ श्रीदेव्युवाच । पशुप्रदाने वाक्यं तु कीदृशं वद शंकर । येन वाक्येन देवेश देवी तुष्टा भवत्यपि ॥ १०.८ श्रीशिव उवाच । मृगे महिषे चोष्ट्रे च पशुशब्दं न योजयेत् । छागले च तथा सिंहे व्याघ्रे च परमेश्वरि ॥ १०.९ पशुशब्दं योजयित्वा महादेव्यै निवेदयेत् । पशुभावस्थितो मन्त्री महिषो दीयते यदि ॥ १०.१० बलिदानं प्रकर्तव्यं न मांसं भक्षयेन्नरः । सम्यक्फलं न लभते दशांशं लभते प्रिये ॥ १०.११ महिषादि प्रदातव्यं दिव्यवीरमते स्थितः । स एव सिद्धिमाप्नोति फलं सम्यक्प्रियंवदे ॥ १०.१२ पशुदानं विना देवि पूजयेन्न कदाचन । तथा च नित्यपूजायां यदि शक्तो भवेन्नरः ॥ १०.१३ केवलं बलिदानेन सिद्धो भवति नान्यथा । निर्धनः परमेशानि यदि पूजादिकं चरेत् ॥ १०.१४ वत्सरान्ते प्रदातव्यं बलिमेकं सुरेश्वरि । अन्यथा नैव सिद्धिः स्यादाजन्म पूजनादपि ॥ १०.१५ बलिदानं महायज्ञं कलिकाले च चण्डिके । अश्वमेधादिकं यज्ञं कलौ नास्ति सुरेश्वरि ॥ १०.१६ केवलं बलिदानेन चाश्वमेधफलं भवेत् । यज्ञावशेषं यद्द्रव्यं भोजनीयं न चान्यथा ॥ १०.१७ यज्ञावशेषभोगेन स यज्ञी नात्र संशयः । न भक्षेद्यदि मोहेन न यज्ञफलभाग्भवेत् ॥ १०.१८ त्याज्यं द्रव्यं कथं देवि महादेव्यै निवेदयेत् । ब्रह्मरूपं महातन्त्रं मम वक्त्राद्विनिर्गतम् ॥ १०.१९ स पूतः सर्वपापेभ्यो यदि चैकाक्षरं श्रुतम् । महाभक्तियुतो भूत्वा शृणोति पटलं यदि ॥ १०.२० किं तस्य ध्यानपूजायां तीर्थस्नानेन तस्य किम् । शब्दब्रह्ममयं ज्ञात्वा समस्तं यदि चण्डिके ॥ १०.२१ केवलं श्रवणेनैव स सिद्धो नात्र संशयः । अष्टादशपुराणानां श्रवणेनैव यत्फलम् ॥ १०.२२ चतुर्वेदेन साङ्गेन श्रवणेनैव यतः फलम् । अस्य तन्त्रस्य देवेशि कलां नार्हन्ति षोडशीम् ॥ १०.२३ ब्रह्मरूपमिदं तन्त्रं सारात्सारं परात्परम् ॥ १०.२४ ंातृकाभेदतन्त्र, एकादशः पटलः श्रीचण्डिकोवाच । प्रासादं मण्डपं वापि यदि देव्यै निवेदयेत् । विधानं तस्य माहात्म्यं वद मे परमेश्वर ॥ ११.१ कूपादिकं महादेव यदि देव्यै निवेदयेत् । विधानं तस्य माहात्म्यं वद मे परमेश्वर ॥ ११.२ श्रीशङ्कर उवाच । शृणु देवि प्रवक्ष्यामि येन प्रासादमुत्सृजेत् । तस्यैव पश्चिमे भागे वेदिकां चतुरस्रकाम् ॥ ११.३ प्रकुर्याद्बहुयत्नेन वस्त्रेण वेष्टनं चरेत । तदभावे महेशानि तृणेनैनं च वेष्टयेत् ॥ ११.४ कुम्भयुग्मं स्थापयित्वा क्षौमवस्त्रेण वेष्टयेत् । युग्मं युग्मं क्षौमवस्त्रं कुम्भयुग्मे नियोजयेत् ॥ ११.५ ईशकुम्भे यजेद्देवीमाग्नेयामग्निदैवतम् । चतुःषष्ट्युपचारेण पूजयेदिष्टदेवताम् ॥ ११.६ अभावे पूजयेद्देवीं तदर्धेन प्रयत्नतः । अथवा परमेशानि यथाशक्त्युपचारतः ॥ ११.७ पूजयेद्बहुयत्नेन ततो होमादिकं चरेत् । आगमोक्तेन विधिना कुर्यात्तत्र कुशण्डिकाम् ॥ ११.८ त्रिमध्वक्तेन देवेशि बिल्वपत्रेण होमयेत् । सहस्रं होमयेन्मन्त्री शतन्यूनं न कारयेत् ॥ ११.९ पूर्णाहुतिं ततो दत्त्वा ततो वाक्यं समाचरेत् । अद्येत्यादि समुच्चार्यं सौरमासं समुच्चरेत् ॥ ११.१० तिथिगोत्रं चामुकोऽहं धर्मार्थकाममेव वा । प्राप्तये परमेशानि ततो मूलं समुच्चरेत् ॥ ११.११ देवतायै नमः पश्चाद्दक्षिणां दापयेद्गुरौ । कुम्भतोयेन देवेशि स्नापयेद्यजमानकम् ॥ ११.१२ सुरास्त्वादीन् समुच्चार्य शान्तिं कुर्यात्ततो गुरुः । सर्वादौ गुरुदेवस्य वरणं कारयेत्सुधीः ॥ ११.१३ सुवर्णं चम्पकाकारं कर्णयुग्मे निवेदयेत् । चतुष्कोणयुतं स्वर्णं ग्रीवायां परियोजयेत् ॥ ११.१४ उष्णीषं च ततो दद्यात्कण्ठे मालां नियोजयेत् । ताडयुग्मं ततो बाहौ वलयं मणिबन्धके ॥ ११.१५ अङ्गुल्यामङ्गुरी देया दिव्यवस्त्रं नियोजयेत् । एवं हि वरणं कृत्वा कर्मयोग्यं विचिन्तयेत् ॥ ११.१६ गुरुं वा गुरुपुत्रं वा वरयेद्यत्नतः सुधीः । सदस्यं न हि कर्तव्यं तन्त्रधारं न तत्र वै ॥ ११.१७ ब्रह्माणं न हि कर्तव्यं केवलं वरयेद्गुरुम् । गुरोर्भृत्यो महेशानि भैरवो नात्र संशयः ॥ ११.१८ स्वीयेन परिधानेन वाससा तोषयेत्स्वयम् । स्वयं होता भवेद्विप्रो गुरोराज्ञानुसारतः ॥ ११.१९ मायाबीजं समुच्चार्य आधारशक्तये नमः । अनेन मनुना देवि वेदिसंस्कारमाचरेत् ॥ ११.२० भूरसीत्यादिमन्त्रेण घटयुग्माभिमन्त्रितम् । अस्त्रान्तेनैव मूलेन उष्णीषं परियोजयेत् ॥ ११.२१ वेदोक्तं चैव स्मृत्युक्तं मन्त्रं न योजयेत्सुधीः । एवं कूपादिदानेषु कर्तव्यं परमेश्वरि ॥ ११.२२ अन्यत्सर्वं समानं हि प्रासादादिस्थले पुनः । कूपादियोजनं कुर्यात्यष्टिप्रोतनमाचरेत् ॥ ११.२३ चतुर्हस्तप्रमाणं च मध्यभागे तु प्रोतनम् । मूलमन्त्रं समुच्चार्य ततो वह्निवधूं न्यसेत् ॥ ११.२४ ततो यष्टिं समुच्चार्य पोतयामि वदेत्सुधीः । तत्र संतरणं धेनुं नैव कुर्याद्विचक्षणः ॥ ११.२५ धेनुसंतरणेनैव फलहानिः प्रजायते । स्वर्णं रूप्यं प्रवालं च दक्षिणां परियोजयेत ॥ ११.२६ स्नापयित्वा कुम्भतोयैः शान्तिं कुर्यात्ततो गुरुः ॥ ११.२७ अनेनैव विधानेन कूपाद्युत्सर्गमाचरेत् । वापीकूपतडागादि ह्यनेनोत्सर्गमाचरेत् ॥ ११.२८ दीर्घिकां च पुष्करिणीं ह्यनेनैव जलाशयम् । उत्सृज्य परया भक्त्या महादेव्यै प्रयत्नतः ॥ ११.२९ पुरुषं सप्तमं कान्ते पितृवंशे च मातरि । सप्तमं पुरुषं कान्ते मातृवंशे समं प्रिये ॥ ११.३० कैलासे निवसेन्नित्यं देव्या वरप्रसादतः । स्वयं देवस्वरूपश्च जीवन्मुक्तो न संशयः ॥ ११.३१ अश्वमेधसहस्रेण वाजपेयशतेन च । यत्फलं लभते देवि तस्माल्लक्षगुणं भवेत् ॥ ११.३२ मेरुतुल्यं सुवर्णं तु ब्राह्मणे वेदपारगे । दत्त्वा यत्फलमाप्नोति तस्माल्लक्षगुणं भवेत् ॥ ११.३३ पूर्णशस्येन देवेशि सप्तद्वीपां वसुंधराम् । प्रदद्याद्बहुयत्नेन ब्राह्मणे वेदपारगे ॥ ११.३४ तस्माल्लक्षगुणं पुण्यमनेन परमेश्वरि ॥ ११.३५ सदक्षिणं व्रतं सर्वं दानं यद्वेदसंमतम् । तस्माल्लक्षगुणं पुण्यमनेन परमेश्वरि ॥ ११.३६ श्रीचण्डिकोवाच । यज्ञसूत्रधारणेन भूपूज्यो नात्र संशयः । इदानीं यज्ञसूत्रस्य विधानं मयि कथ्यताम् ॥ ११.३७ श्रीशंकर उवाच । यज्ञसूत्रस्य यन्मानं तच्छृणुष्व वरानने । ऋग्वेदी धारयेत्सूत्रं नाभेरूर्ध्वं स्तनादधः ॥ ११.३८ यजुषां सूत्रमानं हि आश्चर्यं शैलजे परम् । बाहुमूलप्रमाणेन यज्ञसूत्रं द्विजातिभिः । धारणीयं प्रयत्नेन नान्यद्दैर्घ्यं कदाचन ॥ ११.३९ सामगस्य यज्ञसूत्रं त्रिविधं वरवर्णिनि । ब्रह्मरन्ध्रान्नाभिदेशपर्यन्तं यज्ञसूत्रकम् ॥ ११.४० अथवापि च ग्रीवायामारोप्य नाभिं संस्पृशेत् । तस्मात्पृष्ठान्मेरुदण्डपर्यन्तं यज्ञसूत्रकम् ॥ ११.४१ अथवा परमेशानि प्रकारान्तरकं शृणु । ग्रीवाया दक्षिणाङ्गुष्ठपर्यन्तं यज्ञसूत्रकम् ॥ ११.४२ अथवा धारयेत्सूत्रं यत्नेन यजुषां मतम् । अथवा धारयेत्सूत्रं सामगस्य प्रमाणतः ॥ ११.४३ अथर्वी धारयेद्यज्ञसूत्रं परममोहनम् । आज्ञाचक्रान्नाभिदेशपर्यन्तं यज्ञसूत्रकम् ॥ ११.४४ एतत्संकेतमज्ञात्वा यः कुर्यात्सूत्रधारणम् । स चण्डालसमो देवि यदि व्याससमो भवेत् ॥ ११.४५ ंातृकाभेदतन्त्र, द्वादशः पटलः श्रीशंकर उवाच । अथातः सम्प्रवक्ष्यामि पूजाधारं सुदुर्लभम् ॥ १२.१ शालग्रामे मणौ यन्त्रे प्रतिमायां घटे जले ॥ १२.२ पुस्तिकायां च गङ्गायां शिवलिङ्गे प्रसूनके । शालग्रामे शतगुणं मणौ तद्वत्फलं लभेत् ॥ १२.३ यन्त्रे लक्षगुणं पुण्यं मूर्तौ लक्षं सुलोचने । घटे चैकगुणं पुण्यं जले चैकगुणं प्रिये ॥ १२.४ पुस्तिकायां सहस्रं तु गङ्गायां तत्समं फलम् । शिवलिङ्गे ह्यनन्तं हि विना पार्थिवलिङ्गके ॥ १२.५ पुष्पयन्त्रे महेशानि पूजनात्सर्वसिद्धिभाक् । शालग्रामे च पूजायां न लिखेद्यन्त्रमुत्तमम् ॥ १२.६ मणौ स्थिते महेशानि न लिखेद्यन्त्रमुत्तमम् । प्रतिमायां च पूजायां न लिखेद्यन्त्रमुत्तमम् ॥ १२.७ प्रतिमायाश्च पुरतो घटं संस्थाप्य यत्नतः । परिवारान् यजेत्तत्र घटे तु परमेश्वरि ॥ १२.८ यन्त्राधिष्ठातृदेवांश्च घटे यन्त्रे प्रपूजयेत् । समस्तदेवतारूपं घटं तु परिचिन्तयेत् । सुरद्रुमस्वरूपोऽयं घटो हि परमेश्वरि ॥ १२.९ जन्मस्थानं महायन्त्रं यदि कुर्यात्तु साधकः । तत्र मूर्तिं न कुर्यात्तु कदाचिदपि मोहतः ॥ १२.१० यदि मूर्तिं प्रकुर्यात्तु तत्र यन्त्रं न कारयेत् । यदि कुर्यात्तु मोहेन यजेद्वारद्वयं प्रिये ॥ १२.११ द्विगुणं पूजनं तत्र द्विगुणं बलिदानकम् । द्विगुणं प्रजपेन्मन्त्रं द्विगुणं होमयेत्सुधीः ॥ १२.१२ अन्यथा विफला पूजा विफलं बलिदानकम् । सर्वं हि विफलं यस्मात्तस्माद्यन्त्रं न कारयेत् ॥ १२.१३ इति ते कथितं कान्ते पूजाधारं सुदुर्लभम् ॥ १२.१४ अथातः सम्प्रवक्ष्यामि शिवलिङ्गस्य लक्षणम् । पार्थिवे शिवपूजायां सर्वसिद्धियुतो भवेत् ॥ १२.१५ पाषाणे शिवपूजायां द्विगुणं फलमीरितम् । स्वर्णलिङ्गे च पूजायां शत्रूणां नाशनं मतम् ॥ १२.१६ सर्वसिद्धीश्वरो रौप्ये फलं तस्माच्चतुर्गुणम् । ताम्रे पुष्टिं विजानीयात्कांस्ये च धनसंचयम् ॥ १२.१७ पारदस्य च माहात्म्यं पुरैव कथितं मया । गङ्गायां च लक्षगुणं लाक्षायां रोगवान् भवेत् ॥ १२.१८ स्फाटिके सर्वसिद्धिः स्यात्तथा मारकते प्रिये । लौहलिङ्गे रिपोर्नाशं कामदं भस्मलिङ्गके ॥ १२.१९ वालुकायां काम्यसिद्धिर्गोमये ऋतुहिंसनम् । सर्वलिङ्गस्य माहात्म्यं धर्मार्थकाममोक्षदम् ॥ १२.२० आधारभेदे यत्पुण्यं चाधिकं कथितं तु ते । अतिरिक्तफलान्येतद्धारस्य सुलोचने ॥ १२.२१ शिवस्य पूजनाद्देवि चतुर्वर्गाधिपो भवेत् । अष्टैश्वर्ययुतो मर्त्यः शम्भुनाथस्य पूजनात् ॥ १२.२२ स्वयं नारायणः प्रोक्तो यदि शम्भुं प्रपूजयेत् । स्वर्गे मर्त्ये च पाताले ये देवाः संस्थिताः सदा । तेषां पूजा भवेद्देवि शम्भुनाथस्य पूजनात् ॥ १२.२३ स्वर्णपुष्पसहस्रेण यत्फलं लभते नरः । तस्माल्लक्षगुणं पुण्यं भग्नैकबिल्वपत्त्रके ॥ १२.२४ भग्नैकबिल्वपत्त्रस्य सहस्रकेन भागतः । मेरुतुल्यसुवर्णेन तत्फलं न हि लभ्यते ॥ १२.२५ शुद्धाशुद्धविचारोऽपि नास्ति तच्छिवपूजने । येन तेन प्रकारेण बिल्वपत्त्रैः प्रपूजनात् । सर्वसिद्धियुतो भूत्वा स नरः सिद्धो हि ॥ १२.२६ ब्रह्माण्डमध्ये ये देवास्तद्बाह्ये याश्च देवताः । ते सर्वे तृप्तिमायान्ति केवलं शिवपूजनात् ॥ १२.२७ पुष्पं गन्धं जलं द्रव्यं लिङ्गोपरि नियोजयेत् । लिङ्गमध्ये महावह्निः सैव रुद्रः प्रकीर्तितः ॥ १२.२८ रुद्रोपरि क्षिपेद्यत्तु तदेव भस्मतां गतः ॥ १२.२९ साक्षाद्धोमो महेशानि शिवस्य पूजनाद्भवेत् । महायज्ञेश्वरो मर्त्यः शिवस्य पूजनाद्भवेत् ॥ १२.३० कुशाग्रमानं यत्तोयं तत्तोयेन यजेद्यदि । सत्यं सत्यं हि गिरिजे तज्जलं सागरोपमम् ॥ १२.३१ पुष्पं च मेरुसदृशं लिङ्गोपरि नियोजनात् । लिङ्गस्य मस्तके देवि यदन्नं परितिष्ठति ॥ १२.३२ तदन्नस्य च दानेन क्षितिदानफलं लभेत् ॥ १२.३३ एकेन तण्डुलेनैव यदि लिङ्गं प्रपूजयेत् । ब्रह्माण्डपात्रसम्पूर्णमन्नदानफलं लभेत् ॥ १२.३४ एकया दूर्वया वापि योऽर्चयेच्छिवलिङ्गकम् । सर्वदेवस्य शीर्षे तु चार्धदानफलं लभेत् ॥ १२.३५ सामान्यतोयमानीय यदि स्नायान्महेश्वरम् । सार्धत्रिकोटितीर्थस्य स्नानस्य फलभाग्भवेत् ॥ १२.३६ श्रीचण्डिकोवाच । तारिणी ब्रह्मणः शक्तिस्त्रिपुरा वैष्णवी परा । कथं शाकम्भरी तारा त्रिपुरा शाम्भवी कथम् ॥ १२.३७ श्रीशंकर उवाच । काली देहाद्यदा जाता सावित्री वेदमातृका । त्रिवर्गदात्री सा देवी ब्रह्मणः शक्तिरेव च ॥ १२.३८ गुप्तरूपा महाविद्या शैवी सैकजटा परा । तस्माल्लक्ष्मीर्वैष्णवी या त्रिवर्गदायिनी शिवा ॥ १२.३९ गुप्तरूपा महाविद्या श्रीमत्त्रिपुरसुन्दरी । शाम्भवी परमा माया त्रिपुरा मोक्षदायिनी ॥ १२.४० एकैव हि महाविद्या नाममात्रं पृथक्पृथक् । तथैव पुरुषश्चैको नाममात्रविभेदकः ॥ १२.४१ श्रीचण्डिकोवाच । मन्त्रधारणमात्रेण तदात्मा तन्मयो भवेत् । कथं वा वातुलः सोऽपि कथं वा रोगवान् भवेत् ॥ १२.४२ श्रीशंकर उवाच । मन्त्रच्छन्नाद्वातुलत्वं रोगो देहे न जायते । मन्त्रच्छन्नं प्रवक्ष्यामि शृणु देवि समाहिता ॥ १२.४३ अभक्तिश्चाक्षरे भ्रान्तिर्लुप्तिश्छन्नस्तथैव च । ह्रस्वो दीर्घश्च कथनं स्वप्ने तु चाष्टधा स्मृतः ॥ १२.४४ अभक्त्या नैव सिद्धिः स्यात्कल्पकोटिशतैरपि । एवं मन्त्रश्चान्यथा वा चेति भ्रान्त्या च वातुलः ॥ १२.४५ लुप्तवर्णे बुद्धिनाशश्छिन्ने नाशो भवेत्किल । ह्रस्वोच्चारे व्याधियुक्तो दीर्घजापे वसुक्षयः ॥ १२.४६ कथने मृत्युमाप्नोति स्वप्नेऽपि शृणु शैलजे । कालिकायाश्च ताराया मन्त्रोऽपि ज्वलदग्निवत् ॥ १२.४७ विप्ररूपेण देवेन प्रेमभावेन चेतसा । यदि मन्त्रं हरेद्देवि शृणु साधकलक्षणम् ॥ १२.४८ सर्वाङ्गे वै भवेज्ज्वाला देहमध्ये विशेषतः । तोये शैत्यं न जायेत तथैवौषधसेवने ॥ १२.४९ सदा वातुलवत्सर्वं प्रत्यक्षे स्वप्नवद्भवेत् । वर्षमध्ये त्रिवर्षे वा मृत्युस्तस्य न संशयः ॥ १२.५० श्रीचण्डिकोवाच । मन्त्रच्छन्नं चाष्टविधं तव वक्त्राच्छ्रुतं मया । यदि दैवाद्भवेद्देव तस्योपायं वदस्व मे ॥ १२.५१ श्रीशंकर उवाच । बहुजापात्तथा होमात्कायक्लेशादिविस्तरात् । यदि भक्तिर्भवेद्देवि तस्य सिद्धिरदूरतः ॥ १२.५२ गुरुणा तत्सुतेनैव साधकेन वरानने । अक्षरे दूषणं हित्वा पुनर्मन्त्रं प्रकाशयेत् ॥ १२.५३ गुरुणा तत्सुतेनैव साधकेन समाहितः । लुप्तवर्णं समुत्थाप्य पुनर्मन्त्रं प्रकाशयेत् ॥ १२.५४ चक्रभेदेन षट्कोणं तथैव योनिमुद्रया । एकोच्चारे जपेन्मन्त्रं लक्षमेकं वरानने । गुर्वादिना महेशानि छिन्नदोषनिकृन्तनम् ॥ १२.५५ गुरुणा लक्षजापेन तन्मन्त्रं श्रावयेत्त्रिधा । दूषणं ह्रस्वदीर्घस्य शान्तिश्चात्र न संशयः ॥ १२.५६ गुरुणा तत्सुतेनैव साधकेनैव शैलजे । उक्तमार्गेण देवेशि जपेल्लक्षचतुष्टयम् ॥ १२.५७ तद्दशांशं हुनेत्पश्चात्तर्पणादि समाचरेत् ॥ १२.५८ ततोऽपि यदि नैवाभूत्साधकः स्थिरमानसः । चतुर्गुणं हि कर्तव्यं शिष्यस्य मुक्तिहेतवे ॥ १२.५९ यदि मृत्युर्भवेत्तस्य तथापि मुक्तिभाग्भवेत् । कथनस्य दोषशान्तिर्भवत्येव न संशयः ॥ १२.६० स्वप्नेऽपि मन्त्रकथने श्मशाने चैव शैलजे । उक्तमार्गेण देवेशि जपेल्लक्षं चतुष्टयम् ॥ १२.६१ तद्दशांशं हुनेत्पश्चात्तर्पणादि समाचरेत् । ततोऽपि यदि नैवाभूत्साधकः स्थिरमानसः ॥ १२.६२ चतुर्गुणं हि कर्तव्यं पूर्वोक्तं पूजनं चरेत् । कुजे वा शनिवारे वा प्रथमे गमनं चरेत् । सप्ताहं वा यजेद्देवीं तुरीयं वादिनं यजेत् ॥ १२.६३ श्मशानसाधनं वक्ष्ये शृणु चैकाग्रचेतसा । स्वर्णं रौप्यं तथा वस्त्रं दत्त्वा वरणमाचरेत् ॥ १२.६४ स्वर्णपीठं प्रदातव्यं चतुरङ्गुलिविस्तृतम् । भोगयोग्यं प्रदातव्यं मधुपर्कं यथोदितम् ॥ १२.६५ राजपत्नी येन तुष्टा तोषयेत्तेन वाससा । अलंकारं यथायोग्यं तत्र तत्र नियोजयेत् ॥ १२.६६ नैवेद्यं विविधं रम्यं नानाद्रव्यसमन्वितम् । सामिषान्नं गुडं छागं सुरापिष्टकपायसम् ॥ १२.६७ भोग्यद्रव्यं जले दद्याद्यदि भोक्ता न तिष्ठति । एवं पूजां समाप्यादौ शिवपूजां समाचरेत् ॥ १२.६८ षोडशैरुपचारैश्च लिङ्गानां चैकविंशतिम् । अष्टोत्तरशतेनैव बिल्वपत्त्रैः सचन्दनैः ॥ १२.६९ प्रत्येकं पूजयेन्मन्त्रं गजान्तकसहस्रकम् । सहस्रं होमयेत्पश्चाद्बिल्वपत्त्रैर्वरानने ॥ १२.७० एवं कृते लभेच्छान्तिं दीर्घायुर्नात्र संशयः ॥ १२.७१ ंातृकाभेदतन्त्र, त्रयोदशः पटलः श्रीचण्डिकोवाच । शृणु नाथ परानन्द परापरजगत्पते । इदानीं श्रोतुमिच्छामि मालायाः कीदृशो जपः । का माला कस्य देवस्य तद्वदस्व समाहितः ॥ १३.१ श्रीशंकर उवाच । वैष्णवे तुलसीमाला गजदन्तैर्गणेश्वरे । कालिकाया महामन्त्रं जपेद्रुद्राक्षमालया ॥ १३.२ तारायाश्च जपेन्मन्त्री महाशङ्खाख्यमालया । महाशङ्खाख्यमालायां सर्वां विद्यां जपेत्सुधीः ॥ १३.३ अकस्माद्वै महासिद्धिर्महाशङ्खाख्यमालया । तथैव सकला विद्या महाशङ्खे वसेत्सदा ॥ १३.४ स्फाटिकी सर्वदेवस्य प्रवालैः सकलां जपेत् । स्वर्णरौप्यसमुद्भूतां सर्वदेवेषु योजिताम् ॥ १३.५ कालिकायाश्च सुन्दर्या रुद्राक्षैः प्रजपेत्सदा । भैरव्याः प्रजपेन्मन्त्री शङ्खपद्माख्यया प्रिये ॥ १३.६ श्मशाने धुस्तुरैर्माला जपेद्धूमावतीविधौ । इति ते कथितं कान्ते महामालाविनिर्णयम् ॥ १३.७ अथ ग्रन्थिं प्रवक्ष्यामि शृणु कान्ते समाहिता । येन माला सुसिद्धा च न्णां सर्वफलप्रदा ॥ १३.८ मालायाश्चाधिका कान्ते ग्रन्थिश्चैका फलप्रदा । एकपञ्चाशिकायां च मालायां परमेश्वरि ॥ १३.९ ब्रह्मग्रन्थियुतां मालां सार्धद्वितयवेष्टिताम् । सपादवेष्टनं देवि नागपाशं मनोहरम् ॥ १३.१० सर्वदेवस्य मालायां सर्वत्र परमेश्वरि । ब्रह्मग्रन्थिं विधायेत्थं नागपाशमथापि वा ॥ १३.११ मालायां त्वधिकां देवि चैकां ग्रन्थिं प्रदापयेत् । मूलेन ग्रथितं कुर्यात्प्रणवेनाथवा प्रिये ॥ १३.१२ ग्रन्थिमध्ये च गुटिकां कुर्यादतिमनोहराम् । सूत्रद्वयं महेशानि मिलनं कारयेत्ततः ॥ १३.१३ मेरुं च ग्रथनं कुर्यात्तदूर्ध्वे ग्रन्थिसंयुतम् । एवं मालां विनिर्माय गोपयेद्बहुयत्नतः ॥ १३.१४ कम्पनं धूननं शब्दं नैव तत्र प्रकाशयेत् । करभ्रष्टं तथा छिन्नं महाविघ्नस्य कारणम् ॥ १३.१५ कम्पने सिद्धिहानिः स्याद्धूननं बहुदुःखदम् । शब्दे जाते भवेद्रोगः करभ्रष्टाद्विनाशकृत् ॥ १३.१६ छिन्नसूत्रे भवेन्मृत्युस्तस्माद्यत्नपरो भवेत् । एवं ज्ञात्वा महेशानि शान्तिस्वस्त्ययनं चरेत् ॥ १३.१७ कम्पने यो जपेन्मन्त्रं यदि सिद्धिं प्रयच्छति । यत्नेन गुरुमानीय द्वाविंशदुपचारतः ॥ १३.१८ कुम्भस्थापनकं कृत्वा पूजयेदिष्टदेवताम् । ततो हुनेद्बिल्वपत्त्रैरष्टोत्तरशताहुतिम् ॥ १३.१९ त्रिमध्वक्तेन विधिना धूननेऽपि च सुन्दरि । सशब्दे जपने चण्डि ह्येवं कुर्याद्विचक्षणः ॥ १३.२० करभ्रष्टे तथा छिन्ने पुरश्चरणमाचरेत् । जपाद्यन्ते यजेद्देवीं षोडशैरुपचारकैः ॥ १३.२१ प्रत्यहं प्रजपेन्मन्त्रं प्रत्यहं बलिदानकम् । पञ्चाङ्गस्य प्रमाणेन सर्वकर्म समापयेत् ॥ १३.२२ दरिद्रः परमेशानि यदि विघ्नपरायणः । आद्यन्ते महतीं पूजां दिक्सहस्रं जपेन्मनुम् ॥ १३.२३ सहस्रैकं हुनेत्पश्चात्सर्वविघ्नस्य शान्तये । कुम्भतोयैः स्नापयित्वा पुनर्मालां प्रदापयेत् ॥ १३.२४ अनेनैव विधानेन विघ्नजालैर्न लिप्यते ॥ १३.२५ ंातृकाभेदतन्त्र, चतुर्दशः पटलः श्रीचण्डिकोवाच । मन्त्रधारणमात्रेण तत्क्षणे तन्मयो भवेत् । जीवात्मा कुण्डलीमध्ये प्रदीपकलिका यथा ॥ १४.१ निजेष्टदेवतारूपा देहसंस्था च कुण्डली । भुज्यते सैव देहस्था का चिन्ता साधकस्य च । तन्मे ब्रूहि महादेव यद्यहं तव वल्लभा ॥ १४.२ श्रीशंकर उवाच । भोगस्तु त्रिविधो देवि दिव्यवीरपशुक्रमात् । निर्लिप्तो दिव्यभावस्थः कुण्डली भुज्यते यदि ॥ १४.३ अजिह्वान्ता कुण्डलिनी वीरस्य वीरवन्दिते । महादेव्याः प्रीतये च प्रसादं भुज्यते पशुः ॥ १४.४ द्विजातेर्दिव्यभावश्च सदा निर्वाणदायकः । विप्रो वीरश्च निर्वाणी भवत्येव न संशयः ॥ १४.५ सायुज्यादि महामोक्षं नियुक्तं क्षत्रियादिषु । पशुना भक्तियुक्तेन प्रसादं भुज्यते यदि ॥ १४.६ स्वर्गभोगी भवत्येव मरणे नाधिकारिता । जन्मान्तरमवाप्नोति महादेव्याः प्रसादतः ॥ १४.७ दिव्यवीरमते दृष्टिर्जायते नात्र संशयः । दिव्यवीरप्रसादेन निर्वाणी नात्र संशयः ॥ १४.८ प्रसादभोगी यो देवि स पशुर्नात्र संशयः । मरणे नाधिकारोऽस्ति पशुभावस्थितस्य च ॥ १४.९ नैव मुक्तिर्भवेत्तस्य जन्म चाप्नोति निश्चितम् ॥ १४.१० श्रीचण्डिकोवाच । वद मे परमेशान दिव्यवीरस्य लक्षणम् । यत्कृते दिव्यवीरस्य महामुक्तिर्भविष्यति ॥ १४.११ श्रीशंकर उवाच । साक्षाद्ब्रह्ममयी देवी चाभिशप्ता च वारुणी । शापमोचनमात्रेण ब्रह्मरूपा सुधा परा ॥ १४.१२ निवेदनान्महादेव्यै तत्तद्देवी भवेत्किल । मूलाधारात्कुण्डलिनीमाजिह्वान्तां विभावयेत् ॥ १४.१३ तन्मुखे दानमात्रेण ज्ञानवान् साधको भवेत् । यथैव कुण्डली देवी देहमध्ये व्यवस्थिता ॥ १४.१४ तथैव वारुणीं ध्यायेत्कलाङ्गे स्वेष्टदेवताम् । कुण्डल्या समभावेन शक्तिवक्त्रे प्रदापयेत् ॥ १४.१५ आत्मोच्छिष्टं महापूतं तन्मुखात्परमामृतम् । अवश्यमेव गृह्णीयात्तादात्म्येन वरानने ॥ १४.१६ उत्सृष्टादिविचारोऽपि कदाचिन्नास्ति ब्रह्मणि । गङ्गातोयं परं ब्रह्म प्रसादं कस्य तद्वद ॥ १४.१७ गङ्गासागरतोयं वा प्रसादं कस्य वा भवेत् । शृणु देवि प्रवक्ष्यामि तज्जले स्नानमात्रतः ॥ १४.१८ मुक्तिभागी भवेन्मर्त्यः स्नानावगाहनात्किल । पादादिमस्तकान्तं वै स्नानकाले प्रमज्जति ॥ १४.१९ पादस्पर्शो न दोषाय परब्रह्मणि शैलजे । परमात्मनि लीने च तथैव परमेश्वरि ॥ १४.२० इति ते कथितं देवि दिव्यवीरस्य लक्षणम् । वीरतन्त्रे च कथितं माहात्म्यं प्राणवल्लभे ॥ १४.२१ शृणु देवि प्रवक्ष्यामि साधिकायाश्च लक्षणम् । दिव्यशक्तिर्वीरशक्तिर्गुरुशक्तिस्तथा परा ॥ १४.२२ कुलशक्तिः कामिनी च नवशक्तिः कुमारिका । श्रीगुरुं पूजयेद्भक्त्या स्वदेहदानपूर्वकम् ॥ १४.२३ अन्यथा तु स्वदेहस्य निग्रहो जायते ध्रुवम् । सप्तजन्मनि सा देवी पुक्कसी पतिवर्जिता ॥ १४.२४ शिवं मत्वा स्वकान्तं च पूजासाधनमाचरेत् । कदाचिन्न यजेच्चान्यं पुरुषं परमेश्वरि ॥ १४.२५ अन्यस्य यजनाच्चण्डि सर्वनाशो भवेद्ध्रुवम् । कान्तस्यायुर्विहीनत्वं विपतिं च पदे पदे ॥ १४.२६ धननाशो भवेन्नित्यं देव्याः क्रोधश्च जायते । अवश्यं पूजयेन्नित्यं गुरुदेवं सनातनम् ॥ १४.२७ भद्राभद्रविचारं च या करोति गुरुस्थले । तस्या मन्त्रं क्रोधयुक्तं विपत्तिश्च पदे पदे ॥ १४.२८ वरं जनमुखान्निन्दा वरं प्राणान् परित्यजेत् । तथापि पूजयेद्देवं साक्षान्निर्वाणदायकम् ॥ १४.२९ सदा भयं च कापट्यं वर्जयेद्गुरुपूजने ॥ १४.३० श्रीगुरोस्तेजसं भक्त्या यदि धारणमाचरेत् । सत्यं सत्यं पुनः सत्यं काशी सा नात्र संशयः ॥ १४.३१ अभक्त्या परमेशानि यदि धारणमाचरेत् । जपपूजादिकं तस्याः संदहेत्तेन तेजसा ॥ १४.३२ श्रीचण्डिकोवाच । सपत्नीकं यजेद्देवं गुरुं निर्वाणदायकम् । तस्य सङ्गं परित्यज्य कथमात्मनियोजनम् ॥ १४.३३ श्रीशंकर उवाच । शृणु देवि प्रवक्ष्यामि गुरोराज्ञानुसारतः । धारयेत्तेजसं भक्त्या स्वयं लिप्साविवर्जिता ॥ १४.३४ गुरुपत्न्याश्चात्मजश्च श्रीगुरोरात्मजो यतः । गुरुपत्नी गुरुः साक्षाद्गुरुपुत्रो न संशयः ॥ १४.३५ एकस्य पूजनात्कान्त उभयोः पूजनं भवेत् । गुरुपुत्रो गणेशश्च गुरुपुत्रः षडाननः ॥ १४.३६ एकं गुरुसुतं कान्ते पूजने या सदा रता । अन्यं गुरुसुतं कान्ते पूजयेन्न कदाचन ॥ १४.३७ वीरं वा दिव्यमूर्तिं वा कदाचिन्न हि पूजयेत् । एकस्य पूजनाद्देवि महासिद्धीश्वरो भवेत् ॥ १४.३८ उभयोस्त्रीणि चत्वारि या नारी पूजनं चरेत् । तस्याः समस्तं विफलं ध्यानादिजपपूजनम् ॥ १४.३९ यदि भाग्यवशाद्देवि एकं गुरुसुतं लभेत् । मनोज्ञं शास्त्रवेत्तारं निग्रहानुग्रहे रतम् ॥ १४.४० सुन्दरं यौवनोन्मत्तं गुरुतुल्यं जितेन्द्रियम् । प्राणान्तेऽपि च कर्तव्यं पूजनं मोक्षदायकम् ॥ १४.४१ नो यजेद्यदि मोहेन सैव पापमयी भवेत् ॥ १४.४२