गोरक्षशतकम् ओं हठयोगगोरक्षशतकप्रारम्भः श्रीगुरुं परमानन्दं वन्दे स्वानन्दविग्रहम् । यस्य संनिध्यमात्रेण चिदानन्दायते तनुः ॥ १ ॥ अन्तर्निश्चलितात्मदीपकलिकास्वाधारबन्धादिभिः यो योगी युगकल्पकालकलनात्त्वं जजेगीयते । ज्ञानामोदमहोदधिः समभवद्यत्रादिनाथः स्वयं व्यक्ताव्यक्तगुणाधिकं तमनिशं श्रीमीननाथं भजे ॥ २ ॥ नमस्कृत्य गुरुं भक्त्या गोरक्षो ज्ञानमुत्तमम् । अभीष्टं योगिनां ब्रूते परमानन्दकारकम् ॥ ३ ॥ गोरक्षः शतकं वक्ति योगिनां हितकाम्यया । ध्रुवं यस्यावबोधेन जायते परमं पदम् ॥ ४ ॥ एतद्विमुक्तिसोपानमेतत्कालस्य वञ्चनम् । यद्व्यावृत्तं मनो मोहादासक्तं परमात्मनि ॥ ५ (=१।२) ॥ द्विजसेवितशाखस्य श्रुतिकल्पतरोः फलम् । शमनं भवतापस्य योगं भजति सज्जनः ॥ ६ (=१।३) ॥ आसनं प्राणसंयामः प्रत्याहारोऽथ धारणा । ध्यानं समाधिरेतानि योगाङ्गानि भवन्ति षट् ॥ ७ (=१।४) ॥ आसनानि तु तावन्ति यावत्यो जीवजातयः । एतेषामखिलान् भेदान् विजानाति महेश्वरः ॥ ८ (=१।५) ॥ चतुराशीतिलक्षाणामेकमेकमुदाहृतम् । ततः शिवेन पीठानां षोडेशानं शतं कृतम् ॥ ९ (=१।६) ॥ आसनेभ्यः समस्तेभ्यो द्वयमेव विशिष्यते । एकं सिद्धासनं प्रोक्तं द्वितीयं कमलासनम् ॥ १० (=१।७) ॥ योनिस्थानकमङ्घ्रिमूलघटितं कृत्वा दृढं विन्यसेन्मेढ्रे पादमथैकमेव नियतं कृत्वा समं विग्रहम् । स्थाणुः संयमितेन्द्रियोऽचलदृशा पश्यन् भ्रुवोरन्तरमेतन्मोक्षकवाटभेदजनकं सिद्धासनं प्रोच्यते ॥ ११ (=१।८) ॥ वामोरूपरि दक्षिणं हि चरणं संस्थाप्य वामं तथा दक्षोरूपरि पश्चिमेन विधिना धृत्वा कराभ्यां दृढम् । अङ्गुष्ठौ हृदये निधाय चिबुकं नासाग्रमालोकयेदेतद्व्याधिविकारहारि यमिनां पद्मासनं प्रोच्यते ॥ १२ (=१।९) ॥ षट्चक्रं षोडशाधारं त्रिलक्षं व्योमपञ्चकम् । स्वदेहे ये न जानन्ति कथं सिध्यन्ति योगिनः ॥ १३ ॥ एकस्तम्भं नवद्वारं गृहं पञ्चाधिदैवतम् । स्वदेहं ये न जानन्ति कथं सिध्यन्ति योगिनः ॥ १४ ॥ चतुर्दलं स्यादाधारः स्वाधिष्ठानं च षट्दलम् । नाभौ दशदलं पद्मं सूर्यसङ्ख्यदलं हृदि ॥ १५ ॥ कण्ठे स्यात्षोडशदलं भ्रूमध्ये द्विदलं तथा । सहस्रदलमाख्यातं ब्रह्मरन्ध्रे महापथे ॥ १६ ॥ आधारः प्रथमं चक्रं स्वाधिष्ठानं द्वितीयकम् । योनिस्थानं द्वयोर्मध्ये कामरूपं निगद्यते ॥ १७ (=१।१०) ॥ आधाराख्यं गुदस्थानं पङ्कजं च चतुर्दलम् । तन्मध्ये प्रोच्यते योनिः कामाक्षा सिद्धवन्दिता ॥ १८ (=१।११) ॥ योनिमध्ये महालिङ्गं पश्चिमाभिमुखं स्थितम् । मस्तके मणिवद्बिम्बं यो जानाति स योगवित् ॥ १९ (=१।१२) ॥ तप्तचामीकराभासं तडिल्लेखेव विस्फुरत् । त्रिकोणं तत्पुरं वह्नेरधोमेढ्रात्प्रतिष्ठितम् ॥ २० (=१।१३) ॥ यत्समाधौ परं ज्योतिरनन्तं विश्वतोमुखम् । तस्मिन् दृष्टे महायोगे यातायातं न विद्यते ॥ २१ ॥ स्वशब्देन भवेत्प्राणः स्वाधिष्ठानं तदाश्रयः । स्वाधिष्ठानात्पदादस्मान्मेढ्रमेवाभिधीयते ॥ २२ (=१।१४) ॥ तन्तुना मणिवत्प्रोतो यत्र कन्दः सुषुम्णया । तन्नाभिमण्डलं चक्रं प्रोच्यते मणिपूरकम् ॥ २३ (=१।१५) ॥ द्वादशारे महाचक्रे पुण्यपापविवर्जिते । तावज्जीवो भ्रमत्येव यावत्तत्त्वं न विन्दति ॥ २४ ॥ ऊर्ध्वं मेढ्रादधो नाभेः कन्दयोनिः खगाण्डवत् । तत्र नाड्यः समुत्पन्नाः सहस्राणां द्विसप्ततिः ॥ २५ (=१।१६) ॥ तेषु नाडिसहस्रेषु द्विसप्ततिरुदाहृताः । प्रधानं प्राणवाहिन्यो भूयस्तत्र दश स्मृताः ॥ २६ (=१।१७) ॥ इडा च पिङ्गला चैव सुषुम्णा च तृतीयका । गान्धारी हस्तिजिह्वा च पूषा चैव यशस्विनी ॥ २७ (=१।१८) ॥ अलम्बुषा कुहूश्चैव शङ्खिनी दशमी स्मृता । एतन्नाडिमयं चक्रं ज्ञातव्यं योगिभिः सदा ॥ २८ (=१।१९) ॥ इडा वामे स्थिता भागे पिङ्गला दक्षिणे तथा । सुषुम्णा मध्यदेशे तु गान्धारी वामचक्षुषि ॥ २९ (=१।२०) ॥ दक्षिणे हस्तिजिह्वा च पूषा कर्णे च दक्षिणे । यशस्विनी वामकर्णे चासने वाप्यलम्बुषा ॥ ३० (=१।२१) ॥ कुहूश्च लिङ्गदेशे तु मूलस्थाने च शङ्खिनी । एवं द्वारमुपाश्रित्य तिष्ठन्ति दशनाडिकाः ॥ ३१ (=१।२२) ॥ इडापिङ्गलासुषुम्णा च तिस्रो नाड्य उदाहृताः । सततं प्राणवाहिन्यः सोमसूर्याग्निदेवताः ॥ ३२ (=१।२३) ॥ प्राणोऽपानः समानश्च उदानो व्यानौ च वायवः । नागः कूर्मोऽथ कृकरो देवदत्तो धनञ्जयः ॥ ३३ (=१।२४) ॥ हृदि प्राणो वसेन्नित्यमपानो गुदमण्डले । समानो नाभिदेशे स्यादुदानः कण्ठमध्यगः ॥ ३४ ॥ उद्गारे नागाख्यातः कूर्म उन्मीलने स्मृतः । कृकरः क्षुतकृज्ज्ञेयो देवदत्तो विजृम्भणे ॥ ३५ ॥ न जहाति मृतं चापि सर्वव्यापि धनञ्जयः । एते सर्वासु नाडीषु भ्रमन्ते जीवरूपिणः ॥ ३६ (=१।२५) ॥ आक्षिप्तो भुजदण्डेन यथोच्चलति कन्दुकः । प्राणापानसमाक्षिप्तस्तथा जीवो न तिष्ठति ॥ ३८ (=१।२७) ॥ प्राणापानवशो जीवो ह्यधश्चोर्ध्वं च धावति । वामदक्षिणमार्गेण चञ्चलत्वान्न दृश्यते ॥ ३९ (=१।२६) ॥ रज्जुबद्धो यथा श्येनो गतोऽप्याकृष्यते(?) । गुणबद्धस्तथा जीवः प्राणापानेन कृष्यते ॥ ४० (=१।२८) ॥ अपानः कर्षति प्राणः प्राणोऽपानं च कर्षति । ऊर्ध्वाधः संस्थितावेतौ संयोजयति योगवित् ॥ ४१ (=१।२९) ॥ हकारेण बहिर्याति सकारेण विशेत्पुनः । हंसहंसेत्यमुं मन्त्रं जीवो जपति सर्वदा ॥ ४२ ॥ षट्शतानित्वहोरात्रे सहस्राण्येकविंशतिः । एतत्सङ्ख्यान्वितं मन्त्र जीवो जपति सर्वदा ॥ ४३ ॥ अजपा नाम गायत्री योगिनां मोक्षदायिनी । अस्याः सङ्कल्पमात्रेण सर्वपापैः प्रमुच्यते ॥ ४४ ॥ अनया सदृशी विद्या अनया सदृशो जपः । अनया सदृशं ज्ञानं न भूतं न भविष्यति ॥ ४५ ॥ कुन्दलिन्याः समुद्भूता गायत्री प्राणधारिणी । प्राणविद्या महाविद्या यस्तां वेत्ति स योगवित् ॥ ४६ ॥ कन्दोर्ध्वं कुण्डली शक्तिरष्टधा कुण्डलाकृति । ब्रह्मद्वारमुखं नित्यं मुखेनाच्छाद्य तिष्ठति ॥ ४७ (=१।३०) ॥ येन द्वारेण गन्तव्यं ब्रह्मस्थानमनामयम् । मुखेनाच्छाद्य तद्द्वारं प्रसुप्ता परमेश्वरी ॥ ४८ ॥ प्रबुद्धा वह्नियोगेन मनसा मारुता हता । सूचीवद्गुणमादाय व्रजत्यूर्ध्वं सुषुम्णया ॥ ४९ (=१।३१) ॥ प्रस्फुरद्भुजगाकारा पद्मतन्तुनिभा शुभा । प्रबुद्धा वह्नियोगेन व्रत्य ऊर्ध्वं सुषुम्णया ॥ ५० ॥ उद्घटयेत्कपातं तु यथा कुञ्चिकया हठात् । कुण्डलिन्या तथा योगी मोक्षद्वारं प्रभेदयेत् ॥ ५१ ॥ कृत्वा सम्पुटितौ करौ दृढतरं बद्ध्वा तु पद्मासनं गाढं वक्षसि सन्निधाय चिबुकं ध्यात्वा च तत्प्रेक्षितम् । वारं वारमपानमूर्ध्वमनिलं प्रोच्चारयेत्पूरितं मुञ्चन् प्राणमुपैति बोधमतुलं शक्तिप्रबोधान्नरः ॥ ५२ (=ःय़्ড়् १.५०) ॥ अङ्गानां मर्दनं कुर्याच्छ्रमजातेन वारिणा । कट्वम्ललवणत्यागी क्षीरभोजनमाचरेत् ॥ ५३ (=१।५०) ॥ ब्रह्मचारी मिताहारी त्यागी योगपरायणः । अब्दादूर्ध्वं भवेत्सिद्धो नात्र कार्या विचारणा ॥ ५४ (=ःय़्ড়् १.५९) ॥ सुस्निग्धं मधुराहारं चतुर्थांशविवर्जितम् । भुज्यते सुरसम्प्रीत्यै मिताहारः स उच्यते ॥ ५५ (=ःय़्ড়् १.६०) ॥ कन्दोर्ध्वं कुण्डली शक्तिरष्टधा कुण्डलाकृतिः । बन्धनाय च मूढानां योगिनां मोक्षदा स्मृता ॥ ५६ (=ःय़्ড়् ३.१०७) ॥ महामुद्रां नमोमुद्रामुड्डियानं जलन्धरम् । मूलबन्धं च यो वेत्ति स योगी सिद्धिभाजनम् ॥ ५७ (=१।३२) ॥ शोधनं नाडिजालस्य चालनं चन्द्रसूर्ययोः । रसानां शोषणं चैव महामुद्राभिधीयते ॥ ५८ ॥ वक्षोन्यस्तहनुर्निपीड्य सुचिरं योनिं च वामाङ्घ्रिणा हस्ताभ्यामवधारितं प्रसरितं पादं तथा दक्षिणम् । आपूर्य श्वसनेन कुक्षियुगलं बद्ध्वा शनै रेचयेदेषा पातकनाशिनी सुमहती मुद्रा नॄणां प्रोच्यते ॥ ५९ (=१।३३) ॥ चन्द्राङ्गेन समभ्यस्य सूर्याङ्गेनाभ्यसेत्पुनः । यावत्तुल्या भवेत्सङ्ख्या ततो मुद्रां विसर्जयेत् ॥ ६० (=ःय़्ড়् ३.१५) ॥ न हि पथ्यमपथ्यं वा रसाः सर्वेऽपि नीरसाः । अपि मुक्तं विषं घोरं पीयूषमपि जीर्यते ॥ ६१ (=ःय़्ড়् ३.१६) ॥ क्षयकुष्ठगुदावर्त गुल्माजीर्णपुरोगमाः । तस्य दोषाः क्षयं यान्ति महामुद्रां तु योऽभ्यसेत् ॥ ६२ (=ःय़्ড়् ३.१७) ॥ कथितेयं महामुद्रा महासिद्धिकरा नॄणाम् । गोपनीया प्रयत्नेन न देया यस्य कस्यचित् ॥ ६३ (=ःय़्ড়् ३.१८) ॥ कपालकुहरे जिह्वा प्रविष्टा विपरीतगा । भ्रुवोरन्तर्गता दृष्टिर्मुद्रा भवति खेचरी ॥ ६४ (=१।३४) ॥ न रोगो मरणं तन्द्रा न निद्रा न क्षुधा तृषा । न च मूर्च्छा भवेत्तस्य यो मुद्रां वेत्ति खेचरीम् ॥ ६५ (=ःय़्ড়् ३.३९) ॥ पीड्यते न स रोगेण लिप्यते न च कर्मणा । बाध्यते न स कालेन यो मुद्रां वेत्ति खेचरीम् ॥ ६६ (=ःय़्ড়् ३.४०) ॥ चित्तं चरति खे यस्माज्जिह्वा चरति खे गता । तेनैषा खेचरी नाम मुद्रा सिद्धैर्निरूपिता ॥ ६७ (=ःय़्ড়् ३.४१) ॥ बिन्दुमूलं शरीरं तु शिरास्तत्र प्रतिष्ठिताः । भावयन्ति शरीरं या आपादतलमस्तकम् ॥ ६८ ॥ खेचर्या मुद्रितं येन विवरं लम्बिकोर्ध्वतः । न तस्य क्षरते बिन्दुः कामिन्यालिङ्गितस्य च ॥ ६९ ॥ यावद्बिन्दुः स्थितो देहे तावत्कालभयं कुतः । यावद्बद्धा नभोमुद्रा तावद्बिन्दुर्न गच्छति ॥ ७० ॥ चलितोऽपि यदा बिन्दुः सम्प्राप्तश्च हुताशनम् । व्रजत्यूर्ध्वं हृतः शक्त्या निरुद्धो योनिमुद्रया ॥ ७१ (=ःय़्ড়् ३.४३) ॥ स पुनर्द्विविधो बिन्दुः पण्डुरो लोहितस्तथा । पाण्डुरं शुक्रमित्याहुर्लोहितं तु महाराजः ॥ ७२ ॥ सिन्दूरद्रवसङ्काशं रविस्थाने स्थितं रजः । शशिस्थाने स्थितो बिन्दुस्तयोरैक्यं सुदुर्लभम् ॥ ७३ ॥ बिन्दुः शिवो रजः शक्तिर्बिन्दुमिन्दू रजो रविः । उभयोः सङ्गमादेव प्राप्यते परमं पदम् ॥ ७४ ॥ वायुना शक्तिचारेण प्रेरितं तु महारजः । बिन्दुनैति सहैकत्वं भवेद्दिव्यं वपुस्तदा ॥ ७५ ॥ शुक्रं चन्द्रेण संयुक्तं रजः सूर्येण संयुतम् । तयोः समरसैकत्वं योजानाति स योगवित् ॥ ७६ ॥ उड्डीनं कुरुते यस्मादविश्रान्तं महाखगः । उड्डीयानं तदेव स्यात्तव बन्धोऽभिधीयते ॥ ७७ (=ःय़्ড়् ३.५६) ॥ उदरात्पश्चिमे भागे ह्यधो नाभेर्निगद्यते । उड्डीयनस्य बन्धोऽयं तत्र बन्धो विधीयते ॥ ७८ ॥ बध्नाति हि सिराजालमधोगामि शिरोजलम् । ततो जालन्धरो बन्धः कण्ठदुःखौघनाशनः ॥ ७९ (=ःय़्ড়् ३.७१) ॥ जालन्धरे कृते बन्धे कण्ठसंकोचलक्षणे । पीयूषं न पतत्यग्नौ न च वायुः प्रकुप्यति ॥ ८० (=१।३६, ःय़्ড়् ३.७२) ॥ पार्ष्णिभागेन सम्पीड्य योनिमाकुञ्चयेद्गुदम् । अपानमूर्ध्वमाकृष्य मूलबन्धोऽभिधीयते ॥ ८१ (=१।३७, ःय़्ড়् ३.६१) ॥ अपानप्राणयोरैक्यात्क्षयान्मूत्रपुरीषयोः । युवा भवति वृद्धोऽपि सततं मूलबन्धनात् ॥ ८२ (=१।३८, ःय़्ড়् ३.६५) ॥ पद्मासनं समारुह्य समकायशिरोधरः । नासाग्रदृष्टिरेकान्ते जपेदोङ्कारमव्ययम् ॥ ८३ ॥ भूर्भुवः स्वरिमे लोकाः सोमसूर्याग्निदेवताः । यस्या मात्रासु तिष्ठन्ति तत्परं ज्योतिरोमिति ॥ ८४ ॥ त्रयः कालास्त्रयो वेदास्त्रयो लोकास्त्रयः स्वेराः । त्रयो देवाः स्थिता यत्र तत्परं ज्योतिरोमिति ॥ ८५ ॥ क्रिया चेच्छा तथा ज्ञाना ब्राह्मी रौद्री च वैष्णवी । त्रिधा शक्तिः स्थिता यत्र तत्परं ज्योतिरोमिति ॥ ८६ ॥ आकाराश्च तथोकारो मकारो बिन्दुसंज्ञकः । तिस्रो मात्राः स्थिता यत्र तत्परं ज्योतिरोमिति ॥ ८७ ॥ वचसा तज्जयेद्बीजं वपुषा तत्समभ्यसेत् । मनसा तत्स्मरेन्नित्यं तत्परं ज्योतिरोमिति ॥ ८८ ॥ शुचिर्वाप्यशुचिर्वापि यो जपेत्प्रणवं सदा । लिप्यते न स पापेन पद्मपत्रमिवाम्भसा ॥ ८९ ॥ चले वाते चलो बिन्दुर्निश्चले निश्चलो भवेत् । योगी स्थाणुत्वमाप्नोति ततो वायुं निरोधयेत् ॥ ९० (=१।३९, ःय़्ড়् २.२) ॥ यावद्वायुः स्थितो देहे तावज्जीवनमुच्यते । मरणं तस्य निष्क्रान्तिस्ततो वायुं निरोधयेत् ॥ ९१ (=ःय़्ড়् २.३) ॥ यावद्बद्धो मरुद्देहे यावच्चित्तं निराकुलम् । यावद्दृष्टिर्भ्रुवोर्मध्ये तावत्कालभयं कुतः ॥ ९२ (=ःय़्ড়् २.४०) ॥ अतः कालभयाद्ब्रह्मा प्राणायामपरायणः । योगिनो मुनयश्चैव ततो वायुं निरोधयेत् ॥ ९३ ॥ षट्त्रिंशदङ्गुलो हंसः प्रयाणं कुरुते बहिः । वामदक्षिणमार्गेण ततः प्राणोऽभिधीयते ॥ ९४ (=१।४०) ॥ शुद्धिमेति यदा सर्वं नाडीचक्रं मलाकुलम् । तदैव जायते योगी प्राणसंग्रहणे क्षमः ॥ ९५ ॥ बद्धपद्मासनो योगी प्राणं चन्द्रेण पूरयेत् । धारयित्वा यथाशक्ति भूयः सूर्येण रेचयेत् ॥ ९६ (=१।४३) ॥ अमृतं दधिसङ्काशं गोक्षीररजतोपमम् । ध्यात्वा चन्द्रमसो बिम्बं प्राणायामी सुखी भवेत् ॥ ९७ (=१।४४) ॥ दक्षिणो श्वासमाकृष्य पूरयेदुदरं शनैः । कुम्भयित्वा विधानेन पुरश्चन्द्रेण रेचयेत् ॥ ९८ (=१।४५) ॥ प्रज्वलज्ज्वलनज्वाला पुञ्जमादित्यमण्डलम् । ध्यात्वा नाभिस्थितं योगी प्राणायामे सुखी भवेत् ॥ ९९ (=१।४६) ॥ प्राणं चोदिडया पिबेन् परिमितं भूयोऽन्यया रेचयेत्पीत्वा पिङ्गलया समीरणमथो बद्ध्वा त्यजेद्वामया । सूर्यचन्द्रमसोरनेन विधिना बिम्बद्वयं ध्यायतः शुद्धा नाडिगणा भवन्ति यमिनो मासत्रयादूर्ध्वतः ॥ १०० (=ःय़्ড়् २.१०) ॥ यथेष्ठं धारणं वायोरनलस्य प्रदीपनम् । नादाभिव्यक्तिरारोग्यं जायते नाडिशोधनात् ॥ १०१ ॥ इति गोरक्षशतकं सम्पूर्णम्