गोरक्षशतकम् ओं परमगुरवे गोरक्षनाथाय नमः ओं गोरक्षशतकं वक्ष्ये भवपाशविमुक्तये । आत्मबोधकरं पुंसां विवेकद्वारकुञ्चिकाम् ॥ १ ॥ एतद्विमुक्तिसोपानमेतत्कालस्य वञ्चनम् । यद्व्यावृत्तं मनो मोहादासक्तं परमात्मनि ॥ २ ॥ द्विजसेवितशाखस्य श्रुतिकल्पतरोः फलम् । शमनं भवतापस्य योगं भजति सज्जनः ॥ ३ ॥ आसनं प्राणसंयामः प्रत्याहारोऽथ धारणा । ध्यानं समाधिरेतानि योगाङ्गानि भवन्ति षट् ॥ ४ ॥ आसनानि तु तावन्ति यावत्यो जीवजातयः । एतेषामखिलान् भेदान् विजानाति महेश्वरः ॥ ५ ॥ चतुराशीतिलक्षाणामेकमेकमुदाहृतम् । ततः शिवेन पीठानां षोडेशानं शतं कृतम् ॥ ६ ॥ आसनेभ्यः समस्तेभ्यो द्वयमेव विशिष्यते । एकं सिद्धासनं प्रोक्तं द्वितीयं कमलासनम् ॥ ७ ॥ योनिस्थानकमङ्घ्रिमूलघटितं कृत्वा दृढं विन्यसेन्मेढ्रे पादमथैकमेव नियतं कृत्वा समं विग्रहम् । स्थाणुः संयमितेन्द्रियोऽचलदृशा पश्यन् भ्रुवोरन्तरमेतन्मोक्षकवाटभेदजनकं सिद्धासनं प्रोच्यते ॥ ८ ॥ वामोरूपरि दक्षिणं हि चरणं संस्थाप्य वामं तथा दक्षोरूपरि पश्चिमेन विधिना धृत्वा कराभ्यां दृढम् । अङ्गुष्ठौ हृदये निधाय चिबुकं नासाग्रमालोकयेदेतद्व्याधिविकारहारि यमिनां पद्मासनं प्रोच्यते ॥ ९ ॥ आधारः प्रथमं चक्रं स्वाधिष्ठानं द्वितीयकम् । योनिस्थानं द्वयोर्मध्ये कामरूपं निगद्यते ॥ १० ॥ आधाराख्ये गुदस्थाने पङ्कजं यच्चतुर्दलम् । तन्मध्ये प्रोच्यते योनिः कामाख्या सिद्धवन्दिता ॥ ११ ॥ योनिमध्ये महालिङ्गं पश्चिमाभिमुखं स्थितम् । मस्तके मणिवद्भिन्नं यो जानाति स योगवित् ॥ १२ ॥ तप्तचामीकराभासं तडिल्लेखेव विस्फुरत् । चतुरस्रं पुरं वह्नेरधोमेढ्रमेवाभिधीयते ॥ १३ ॥ स्वशब्देन भवेत्प्राणः स्वाधिष्ठानं तदाश्रयः । स्वाधिष्ठानाख्यया तस्मान्मेढ्रमेवाभिधीयते ॥ १४ ॥ तन्तुना मणिवत्प्रोतो यत्र कन्दः सुषुम्णया । तन्नाभिमण्डलं चक्रं प्रोच्यते मणिपूरकम् ॥ १५ ॥ ऊर्ध्वं मेढ्रादधो नाभेः कन्दयोनिः स्वगाण्डवत् । तत्र नाड्यः समुत्पन्नाः सहस्राणि द्विसप्ततिः ॥ १६ ॥ तेषु नाडिसहस्रेषु द्विसप्ततिरुदाहृताः । प्राधान्यात्प्राणवाहिन्यो भूयस्तत्र दश स्मृताः ॥ १७ ॥ इडा च पिङ्गला चैव सुषुम्णा च तृतीयका । गान्धारी हस्तिजिह्वा च पूषा चैव यशस्विनी ॥ १८ ॥ अलम्बुषा कुहूश्चैव शङ्खिनी दशमी स्मृता । एतन्नाडिमयं चक्रं ज्ञातव्यं योगिभिः सदा ॥ १९ ॥ इडा वामे स्थिता भागे पिङ्गला दक्षिणे तथा । सुषुम्णा मध्यदेशे तु गान्धारी वामचक्षुषि ॥ २० ॥ दक्षिणे हस्तिजिह्वा च पूषा कर्णे च दक्षिणे । यशस्विनी वामकर्णे चासने वाप्यलम्बुषा ॥ २१ ॥ कूहुश्च लिङ्गदेशे तु मूलस्थाने च शङ्खिनी । एवं द्वारमुपाश्रित्य तिष्ठन्ति दश नाडिकाः ॥ २२ ॥ सततं प्राणवाहिन्यः सोमसूर्याग्निदेवताः । इडापिङ्गलासुषुम्णा च तिस्रो नाड्य उदाहृताः ॥ २३ ॥ प्राणापानौ समानश्च ह्युदानो व्यान एव च । नागः कूर्मश्च कृकरो देवदत्तो धनञ्जयः ॥ २४ ॥ नागाद्याः पञ्च विख्याताः प्राणाद्याः पञ्च वायवः । एते नाडिसहस्रेषु वर्तन्ते जीवरूपिणः ॥ २५ ॥ प्राणापानवशो जीवो ह्यधश्चोर्ध्वं च धावति । वामदक्षिणमार्गेण चञ्चलत्वान्न दृश्यते ॥ २६ ॥ आक्षिप्तो भुवि दण्डेन यथोच्चलति कन्दुकः । प्राणापानसमाक्षिप्तस्तथा जीवोऽनुकृष्यते ॥ २७ ॥ रज्जुबद्धो यथा श्येनो गतोऽप्याकृष्यते(?) । गुणबद्धस्तथा जीवः प्राणापानेन कृष्यते ॥ २८ ॥ अपानः कर्षति प्राणः प्राणोऽपानं च कर्षति । ऊर्ध्वाधः संस्थितावेतौ यो जानाति स योगवित् ॥ २९ ॥ कन्दोर्ध्वे कुण्डलीशक्तिरष्टधा कुण्डलीकृता । ब्रह्मद्वारमुखं नित्यं मुखेनावृत्य तिष्ठति ॥ ३० ॥ प्रबुद्धा वह्नियोगेन मनसा मारुता हता । प्रजीवगुणमादाय व्रजत्यूर्ध्वं सुषुम्णया ॥ ३१ ॥ महामुद्रां नमोमुद्रामुड्डियानं जलन्धरम् । मूलबन्धं च यो वेत्ति स योगी सिद्धिभाजनम् ॥ ३२ ॥ वक्षोन्यस्तहनुर्निपीड्य सुचिरं योनिं च वामाङ्घ्रिणा हस्ताभ्यामवधारितं प्रसरितं पादं तथा दक्षिणम् । आपूर्य श्वसनेन कुक्षियुगलं बद्ध्वा शनै रेचयेदेषा पातकनाशिनी सुमहती मुद्रा नॄणां प्रोच्यते ॥ ३३ ॥ कपालकुहरे जिह्वा प्रविष्टा विपरीतगा । भ्रुवोरन्तर्गता दृष्टिर्मुद्रा भवति खेचरी ॥ ३४ ॥ ऊर्ध्वं मेढ्रादधो नाभेरुड्डियानं प्रचक्षते । उड्डियानजयो बन्धो मृत्युमातङ्गकेसरी ॥ ३५ ॥ जालन्धरे कृते बन्धे कण्ठसङ्कोचलक्षणे । न पीयूषं पतत्यग्नौ न च वायुः प्रकुप्यति ॥ ३६ ॥ पार्ष्णिभागेन सम्पीड्य योनिमाकुञ्चयेद्गुदम् । अपानमूर्ध्वमाकृष्य मूलबन्धो निगद्यते ॥ ३७ ॥ यतः कालभयात्ब्रह्मा प्राणायामपरायणः । योगिनो मुनयश्चैव ततः प्राणं निबन्धयेत् ॥ ३८ ॥ चले वाते चलं सर्वं निश्चले निश्चलं भवेत् । योगी स्थाणुत्वमाप्नोति ततो वायुं निबन्धयेत् ॥ ३९ ॥ षट्त्रिंशदङ्गुलं हंसः प्रयाणं कुरुते बहिः । वामदक्षिणमार्गेण ततः प्राणोऽभिधीयते ॥ ४० ॥ बद्धपद्मासनो योगी नमस्कृत्य गुरुं शिवम् । नासाग्रदृष्टिरेकाकी प्राणायामं समभ्यसेत् ॥ ४१ ॥ प्राणो देहस्थितो वायुरायामस्तन्निबन्धनम् । एकश्वासमयी मात्रा तद्योगी गगनायते ॥ ४२ ॥ बद्धपद्मासनो योगी प्राणं चन्द्रेण पूरयेत् । धारयित्वा यथाशक्ति भूयः सूर्येण रेचयेत् ॥ ४३ ॥ अमृतोदधिसङ्काशं क्षीरोदधवलप्रभम् । ध्यात्वा चन्द्रमयं बिम्बं प्राणायामे सुखी भवेत् ॥ ४४ ॥ प्राणं सूर्येण चाकृष्य पूरयेदुदरं शनैः । कुम्भयित्वा विधानेन भूयश्चन्द्रेण रेचयेत् ॥ ४५ ॥ प्रज्वलज्ज्वलनज्वाला पुञ्जमादित्यमण्डलम् । ध्यात्वा नाभिस्थितं योगी प्राणायामे सुखी भवेत् ॥ ४६ ॥ रेचकः पूरकश्चैव कुम्भकः प्रणवात्मकः । प्राणायामो भवेत्त्रेधा मात्रा द्वादशसंयुतः ॥ ४७ ॥ द्वादशाधमके मात्रा मध्यमे द्विगुणास्ततः । उत्तमे त्रिगुणा मात्राः प्राणायामस्य निर्णयः ॥ ४८ ॥ अधमे च घनो घर्मः कम्पो भवति मध्यमे । उत्तिष्ठत्युत्तमे योगी बद्धपद्मासनो मुहुः ॥ ४९ ॥ अङ्गानां मर्दनं शस्तं श्रमसंजातवारिणा । कट्वम्ललवणत्यागी क्षीरभोजनमाचरेत् ॥ ५० ॥ मन्दं मन्दं पिबेद्वायुं मन्दं मन्दं वियोजयेत् । नाधिकं स्तम्भयेद्वायुं न च शीघ्रं विमोचयेत् ॥ ५१ ॥ ऊर्ध्वमाकृष्य चापानं वातं प्राणे नियोजयेत् । मूर्धानं नीयते शक्त्या सर्वपापैः प्रमुच्यते ॥ ५२ ॥ प्राणायामो भवत्येवं पातकेन्धनपातकः । एनोम्बुधिमहासेतुः प्रोच्यते योगिभिः सदा ॥ ५३ ॥ आसनेन रुजो हन्ति प्राणायामेन पातकम् । विकारं मानसं योगी प्रत्याहारेण सर्वदा ॥ ५४ ॥ चन्द्रामृतमयीं धारां प्रत्याहारति भास्करः । तत्प्रत्याहरणं तस्य प्रत्याहारः स उच्यते ॥ ५५ ॥ एका स्त्री भुज्यते द्वाभ्यामागता सोममण्डलात् । तृतीयो यो भवेत्ताभ्यां स भवत्यजरामरः ॥ ५६ ॥ नाभिदेशे भवत्येको भास्करो दहनात्मकः । अमृतात्मा स्थितो नित्यं तालुमूले च चन्द्रमाः ॥ ५७ ॥ वर्षत्यधोमुखश्चन्द्रो ग्रसत्यूर्ध्वमुखो रविः । ज्ञातव्यं करणं तत्र येन पीयूषमाप्यते ॥ ५८ ॥ ऊर्ध्वनाभिरधस्तालु ऊर्ध्वभानुरधः शशी । करणं विपरीताख्यं गुरुवक्त्रेण लभ्यते ॥ ५९ ॥ त्रिधा बद्धो वृषो यत्र रौरवीति महास्वनम् । अनाहतं च तच्चक्रं हृदये योगिनो विदुः ॥ ६० ॥ अनाहतमतिक्रम्य चाक्रम्य मणिपूरकम् । प्राप्ते प्राणं महापद्मं योगित्वममृतायते ॥ ६१ ॥ विशब्दः संस्मृतो हंसो निर्मलः शुद्ध उच्यते । अतः कण्ठे विशुद्धाख्ये चक्रं चक्रविदो विदुः ॥ ६२ ॥ विशुद्धे परमे चक्रे धृत्वा सोमकलाजलम् । मासेन न क्षयं याति वञ्चयित्वा मुखं रवेः ॥ ६३ ॥ सम्पीड्य रसनाग्रेण राजदन्तबिलं महत् । ध्यात्वामृतमयीं देवीं षण्मासेन कविर्भवेत् ॥ ६४ ॥ अमृतापूर्णदेहस्य योगिनो द्वित्रिवत्सरात् । ऊर्ध्वं प्रवर्तते रेतोऽप्यणिमादिगुणोदयः ॥ ६५ ॥ इन्धनानि यथा वह्निस्तैलवर्ति च दीपकः । तथा सोमकलापूर्णं देही देहं न मुञ्चति ॥ ६६ ॥ आसनेन समायुक्तः प्राणायामेन संयुतः । प्रत्याहारेण संयुक्तो धारणां च समभ्यसेत् ॥ ६७ ॥ हृदये पञ्चभूतानां धारणां च पृथक्पृथक् । मनसो निश्चलत्वेन धारणा च विधीयते ॥ ६८ ॥ या पृथ्वी हरितालदेशरुचिरा पीता लकारान्विता संयुक्ता कमलासनेन हि चतुष्कोणा हृदि स्थायिनी । प्राणं तत्र विनीय पञ्चघटिकाश्चित्तान्वितं धारयेदेषा स्तम्भकरी सदा क्षितिजयं कुर्याद्भुवो धारणा ॥ ६९ ॥ अर्धेन्दुप्रतिमं च कुन्दधवलं कण्ठेऽम्बुतत्तव्ं स्थितं यत्पीयूषवकारबीजसहितं युक्तं सदा विष्णुना । प्राणं तत्र विनीय पञ्चघटिकाश्चित्तान्वितं धारयेदेषा दुर्वहकालकूटजरणा स्याद्वारिणी धारणा ॥ ७० ॥ यत्तालस्थितमिन्द्रगोपसदृशं तत्त्वं त्रिकोणोज्ज्वलं तेजोरेफमयं प्रवालरुचिरं रुद्रेण यत्सङ्गतम् । प्राणं तत्र विनीय पञ्चघटिकाश्चित्तान्वितं धारयेदेषा वह्निजयं सदा विदधते वैश्वानरी धारणा ॥ ७१ ॥ यद्भिन्नाञ्जनपुञ्जसान्निभमिदं तत्त्वं भ्रुवोरन्तरे वृत्तं वायुमयं यकारसहितं यत्रेश्वरो देवता । प्राणं तत्र विनीय पञ्चघटिकाश्चित्तान्वितं धारयेदेषा खे गमनं करोति यमिनां स्याद्वायवी धारणा ॥ ७२ ॥ आकाशं सुविशुद्धवारिसदृशं यद्ब्रह्मरन्ध्रे स्थितं तत्राद्येन सदाशिवेन सहितं शान्तं हकाराक्षरम् । प्राणं तत्र विनीय पञ्चघटिकाश्चित्तान्वितं धारयेदेषा मोक्षकवाटपाटनपटुः प्रोक्ता नभोधारणा ॥ ७३ ॥ स्तम्भनी द्रावणी चैव दहनी भ्रामणी तथा । शोषणी च भवन्त्येवं भूतानां पञ्च धारणाः ॥ ७४ ॥ कर्मणा मनसा वाचा धारणाः पञ्च दुर्लभाः । विधाय सततं योगी सर्वपापैः प्रमुच्यते ॥ ७५ ॥ सर्वं चिन्तासमावर्ति योगिनो हृदि वर्तते । यत्तत्त्वे निश्चितं चेतस्तत्तु ध्यानं प्रचक्षते ॥ ७६ ॥ द्विधा भवति तद्ध्यानं सगुणं निर्गुणं तथा । सगुणं वर्णभेदेन निर्गुणं केवलं विदुः ॥ ७७ ॥ आधारं प्रथमं चक्रं तप्तकाञ्चनसन्निभम् । नासाग्रे दृष्टिमादाय ध्यात्वा मुञ्चति किल्बिषम् ॥ ७८ ॥ स्वाधिष्ठानं द्वितीयं तु सन्माणिक्यसुशोभनम् । नासाग्रे दृष्टिमादाय ध्यात्वा मुञ्चति पातकम् ॥ ७९ ॥ तरुणादित्यसंकाशं चक्रं च मणिपूरकम् । नासाग्रे दृष्टिमादाय ध्यात्वा संक्षोभयेज्जगत् ॥ ८० ॥ [वेर्से मिस्सिन्ग्] विद्युत्प्रभावं हृत्पद्मे प्राणायामविभेदनैः । नासाग्रे दृष्टिमादाय ध्यात्वा ब्रह्ममयो भवेत् ॥ ८२ ॥ सन्ततं घण्टिकामध्ये विशुद्धं चामृतोद्भवम् । नासाग्रे दृष्टिमादाय ध्यात्वा ब्रह्ममयो भवेत् ॥ ८३ ॥ भ्रुवोर्मध्ये स्थितं देवं स्निग्धमौक्तिकसन्निभम् । नासाग्रे दृष्टिमादाय ध्यात्वाऽनन्दमयो भवेत् ॥ ८४ ॥ निर्गुणं च शिवं शान्तं गगने विश्वतोमुखम् । नासाग्रे दृष्टिमादाय ध्यात्वा दुःखाद्विमुच्यते ॥ ८५ ॥ गुदं मेढ्रं च नाभिं च हृत्पद्मे च तदूर्ध्वतः । घण्टिकां लम्पिकास्थानं भ्रूमध्ये परमेश्वरम् ॥ ८६ ॥ निर्मलं गगनाकारं मरीचिजलसन्निभम् । आत्मानं सर्वगं ध्यात्वा योगी योगमवाप्नुयात् ॥ ८७ ॥ कथितानि यथैतानि ध्यानस्थानानि योगिनाम् । उपाधितत्त्वयुक्तानि कुर्वन्त्यष्टगुणोदयम् ॥ ८८ ॥ उपाधिश्च तथा तत्त्वं द्वयमेवमुदाहृतम् । उपाधिः प्रोच्यते वर्णस्तत्त्वमात्माभिधीयते ॥ ८९ ॥ उपाधिरन्यथाज्ञानं तत्त्वं संस्थितमन्यथा । समस्तोपाधिविध्वंसि सदाभ्यासेन योगिनाम् ॥ ९० ॥ आत्मवर्णेन भेदेन दृश्यते स्फाटिको मणिः । मुक्तो यः शक्तिभेदेन सोऽयमात्मा प्रशस्यते ॥ ९१ ॥ निरातङ्कं निरालम्बं निष्प्रपञ्चं निराश्रयम् । निरामयं निराकारं तत्त्वं तत्त्वविदो विदुः ॥ ९२ ॥ शब्दाद्याः पञ्च या मात्रा यावत्कर्णादिषु स्मृताः । तावदेव स्मृतं ध्यानं तत्समाधिरतः परम् ॥ ९३ ॥ यदा संक्षीयते प्राणो मानसं च विलीयते । तदा समरसैकत्वं समाधिरभिधीयते ॥ ९४ ॥ [वेर्से मिस्सिन्ग्] धारणाः पञ्चनाड्यस्तु ध्यानं च षष्ठिनाडिकाः । दिनद्वादशकेनैव समाधिः प्राणसंयमः ॥ ९६ ॥ न गन्धं न रसं रूपं न स्पर्शं न च निःस्वनम् । आत्मानं न परं वेत्ति योगी युक्तः समाधिना ॥ ९७ ॥ खाद्यते न च कालेन बाध्यते न च कर्मणा । साध्यते न च केनापि योगी युक्तः समाधिना ॥ ९८ ॥ निर्मलं निश्चलं नित्यं निष्क्रियं निर्गुणं महत् । व्योमविज्ञानमानन्दं ब्रह्म ब्रह्मविदो विदुः ॥ ९९ ॥ दुग्धे क्षीरं धृते सर्पिरग्नौ वह्निरिवार्पितः । अद्वयत्वं व्रजेन्नित्यं योगवित्परमे पदे ॥ १०० ॥ भवभयवने वह्निर्मुक्तिसोपानमार्गतः । अद्वयत्वं व्रजेन्नित्यं योगवित्परमे पदे ॥ १०१ ॥ गोरक्षशतकं समाप्तम्