सात्वततन्त्र, प्रथमः पटलः श्रीसूत उवाच । य एको बहुधा कृष्णः सृष्ट्यादौ बहुधेयते । तमहं शरणं यामि परमानन्दविग्रहम् ॥ १.१ कैलासशिखरासीनं शिवं शिवकरं परम् । नारदः परिपप्रच्छ सर्वभूतहिते रतः ॥ १.२ भगवन् श्रोतुमिच्छामि हरेरद्भुतकर्मणः । श्रीकृष्णस्याप्रमेयस्य नाना लीलातनूर्विभोः ॥ १.३ यदर्थं यत्स्वरूपं च यद्यत्काले यथा रतः । गृह्णाति भगवान् स्वस्थस्तन्ममाख्यातुमर्हसि ॥ १.४ अवतारनिमित्तं यच्चिराद्विग्रहसम्भवम् । प्रथमं तत्त्वतो ब्रूहि त्वं परापरवित्तमः ॥ १.५ श्रीशिव उवाच । पृष्टं महाभाग त्वया भागवतोत्तम । यदहं नोदितः सम्यग्भगवद्वीर्यवर्णने ॥ १.६ श्रीविष्णोरवताराणां विराजश्च महामते । कथने नैव पश्यामि पारं वर्षशतैरपि । तथापि सारमुद्धृत्य तन्त्ररूपेण नारद ॥ १.७ वर्णयामि यथैवोक्तमीश्वरेण दयालुना । जयपूर्वं नमस्कृत्य गोपरूपिणमीश्वरम् ॥ १.८ वक्ष्ये सात्वततन्त्राख्यं भगवद्भक्तिवर्धनम् । यदासीदेकमव्यक्तं नित्यं चिद्रूपमव्ययम् ॥ १.९ ब्रह्मेति यद्विदुर्विज्ञा भगवानिति सात्वताः । तदासन्तमिवात्मानं मत्वा दृश्य विना विभुः ॥ १.१० द्विप्रकारमभूत्सत्यं सत्ताभूत्वा स्वयं स्वयम् । तच्चिच्छक्तिस्वरूपेण प्रकृतिः पुरुषो महान् ॥ १.११ सर्वलोकैकनिलयो भगवानिति शब्द्यते । तस्यैव शक्तिः प्रकृतिः कार्यकारणरूपिणी ॥ १.१२ गुणत्रयस्वरूपेण या स्वयं भिद्यते पुनः । यः कालस्तं वदन्त्येके हरेश्चेष्टां दुरन्वयाम् ॥ १.१३ यस्माद्गुणत्रयक्षोभात्पृथग्भूतोऽभवत्पुरा । जीवस्य यस्माद्भवति शुभाशुभफलग्रहः ॥ १.१४ तत्कर्म महतो जन्महेतुरव्यक्तमूर्तिमत् । भावानां परिणामो हि यतो भवति सर्वदा ॥ १.१५ तमेवाहुर्वेदविदः सूक्ष्मरूपं स्वभावकम् । उक्तोऽयं पुरुषः साक्षादीश्वरो भगवत्तनुः ॥ १.१६ कालकर्मस्वभावस्थः प्रकृतिं प्रति नोदितः । पुरुषाधिष्ठिता देवी प्रकृतिर्गुणसंग्रहा ॥ १.१७ महत्तत्त्वमभूत्तत्तत्परिज्ञानक्रियात्मकम् । तस्माज्जातो ह्यहंकारस्त्रिविधो दैवनोदितात् ॥ १.१८ वैकारिकस्तैजसश्च तामसश्चेति यं विदुः । वैकारिकान्मनोदेवा जाता ज्ञानक्रियाधिपाः ॥ १.१९ मरुत्केशौ दिशः सूर्यो नासत्यो ज्ञाननोदकाः । वह्नीन्द्रमित्रकोपेता एते कर्मापनोदकाः ॥ १.२० राजसाद्विषयग्राहज्ञानकर्मस्वरूपिणः । त्वग्रसज्ञा श्रुतिश्चक्षुर्घ्राणं बुद्धिश्च तन्मयाः ॥ १.२१ वाक्पाणिपायूपस्थाश्च गतिश्चेति क्रियात्मकाः । तामसात्पञ्चभूतानि तन्मात्राणि च भागशः ॥ १.२२ प्रथमं तामसाज्जज्ञे शब्दस्तस्मादभून्नभः । शब्दरूपात्तु नभसः स्पर्शस्तस्मादभून्मरुत् ॥ १.२३ मरुतोऽभूत्ततस्तेजस्तेजसो रूपमुत्तमम् । रूपमात्राद्रसो जज्ञे तस्मादापोऽभवन् शुचीः ॥ १.२४ अद्भ्यो जातो गन्धगुणो गन्धाद्भूमिरजायत । महत्तत्त्वमहंकारः सशब्दस्पर्शतेजसः ॥ १.२५ रसगन्धाविमे सर्वे स्मृता प्रकृतिविक्रियाः । शब्दस्य प्रकृतेरेव संदृश्यन्ते यतो बुधैः ॥ १.२६ अतोऽभवन् प्रकृतयो विकारान् विकृतीर्विदुः । आकाशे शब्दमात्रं स्याद्वायौ स्पर्शः सशब्दकः ॥ १.२७ रूपं तेजसि शब्दश्च स्पर्शश्चैव जले तथा । रसशब्दस्पर्शरूपं पृथिव्यां सर्वमेव हि ॥ १.२८ कारणानां यतः कार्ये समन्वयविधिस्ततः । दृश्यते त्वधिकस्तत्र गुणो यावति कश्च ह ॥ १.२९ महदादीनि तत्त्वानि पुरुषस्य महात्मनः । कार्यावताररूपाणि जानीहि द्विजसत्तम ॥ १.३० सर्वाण्येतानि संगृह्य पुरुषस्येच्छया या । अंशैरुत्पादयामासुर्विराजं भुवनात्मकम् ॥ १.३१ तस्य चान्तर्गतं छिद्रं पञ्चाशत्कोटिविस्तृतम् । दशोत्तराधिकैरेतैः सप्तभिर्बहिरावृतम् ॥ १.३२ तमाहुः पुरुषस्यैव गेहं यत्राविशत्स्वयम् । यतोऽचेतनमेवासीत्केवलं सर्वविस्तरम् ॥ १.३३ नरादुत्पन्नतत्त्वानां संग्रहे नारसंज्ञके । अयनं तस्य यदभूत्तस्मान्नारायणः स्मृतः ॥ १.३४ विराड्देहे यदवसद्भगवान् पुरसंज्ञके । अतः पुरुषनामानमवाप पुरुषः परः ॥ १.३५ यदा स भगवान् देवो मूलप्रकृतिविस्तरः । नारायणेन रूपेण विरजमविशत्स्वयम् ॥ १.३६ तदा चेतनमापाद्य चिराद्विग्रह उत्थितः । समष्टिशब्दतावाच्यो द्विसप्तभुवनाश्रयः ॥ १.३७ यस्मिन् चराचरं भूतं स्रष्टा ब्रह्माहरेस्तनूः । तत्र लोकमयं यावत्तं विराजं विदो विदुः ॥ १.३८ तस्याभिमानिनं जीवं वैराजं पुरुषाभिधम् । तदन्तर्यामिणं देवं नारायणमनामयम् ॥ १.३९ सर्वजीवैकनिलयं भगवन्तं प्रचक्षते । अवतारसहस्राणां निधानं बीजमव्ययम् ॥ १.४० यस्यांशेन रजोयुक्तः सृष्टौ ब्रह्मा व्यजायत । विष्णुः सत्त्वगुणाधीशः स्थितौ स्थापयितुं जगत् ॥ १.४१ तमसा रुद्ररूपोऽभूत्प्रतिसंचरणो विभुः । एते विष्णोर्गुणमया अवताराः क्रियाकृताः ॥ १.४२ एषामंशावतारान्मे निबोध गदतो मम । ब्रह्मणोऽंशेन समभून्मरीचिरत्रिरङ्गिराः ॥ १.४३ पुलस्त्यः पुलहश्चैव क्रतुर्दक्षो द्विजोत्तम । भृगुर्वसिष्ठोऽथर्वा च कर्दमाद्याः प्रजेश्वराः ॥ १.४४ एषां पुत्राश्च पौत्राश्च प्रपौत्राश्च महौजसः । सृष्ट्यर्थमुद्गताः सर्वे भगवद्वीर्यसंयुताः ॥ १.४५ विष्णोरंशेन समभूद्धर्मो यज्ञो बृहत्त्रिवृत् । स्वायम्भुवाद्या मनवो द्विसप्ता लोकविश्रुताः ॥ १.४६ एषां पुत्राश्च पौत्राश्च तथेन्द्राद्याश्च देवताः । विष्ण्वंशयुक्ता लोकानां पालकाः कथिता मया ॥ १.४७ रुद्रस्यांशेन शतशो जाता रुद्रगणाः पृथक् । सर्पाश्च शतशो जाता ये च हिंस्राः स्वभावतः ॥ १.४८ एते संक्षेपतः प्रोक्ता रुद्रस्यांशास्तमोजुषः । संहारिणोऽस्य जगतो घोररूपा विलक्षणाः ॥ १.४९ अथ ते सम्प्रवक्ष्यामि लीलादेहान् हरेः पृथक् । शुद्धसत्त्वमयान् शान्तान् लोकप्रेमास्पदान् शृणु ॥ १.५० य ईश एको भगवाननन्तो ब्रह्मस्वरूपी पुरुषोऽधियज्ञः । पातुं पुनर्विश्वमसौ स्वकार्यं भेजे तनूस्तं प्रणमामि कृष्णम् ॥ १.५१ इति श्रीसात्वततन्त्रे शिवनारदसंवादे प्रथमः पटलः ॥ १.५२ षात्वततन्त्र, द्वितीयः पटलः श्रीसिव उवाच । साक्षाद्बभूव भगवान् परिपातुमीशो वेदान् युगादिसमये हयशीर्षनामा । हत्वा सुरेतरवरौ मधुकैटभाख्यौ नस्तश्चकार विश्रुतीः श्रुतिभिर्विमृग्यः ॥ २.१ लोकान्निवृत्तिपरतां प्रचिकीर्षुरादौ भूत्वा चतुःसनतया भगवान् विमुक्त्यै । प्रोवाच योगममलं विशदाशयेभ्यो भोगान् विरक्तिपरतां स्वयमाचचार ॥ २.२ देवेषु नारदतनुर्भगवान् विशुद्धं नैष्कर्म्ययोगमवहत्खलु पाञ्चरात्रम् । धर्मं तथा भगवता कथितं विशेषशिष्येष्वसौ परमनिर्वृतिमादधानम् ॥ २.३ आदौ दधार धरणीधरणाय धातुः स्वायम्भुवोक्तिपरिपालककाल एव । नारायणोऽखिलगुरुर्गुरुकोलदेहं तेनाहनद्दितिसुतं दशनाग्रघातैः ॥ २.४ भूमेरधो धरणिमण्डलमप्रमेयः शेषाख्य आस जगतः स्थितये नितान्तम् । यस्मिन् कलार्पितमिदं लिखिवच्चकास्ति नागाधिपैर्मुनिगणैः परिसेविताङ्घ्रिः ॥ २.५ तस्मादधः कमठ आस विशालरूपी ब्रह्माण्डभाण्डपरिविस्तृतादिव्यकायः । शेषोऽपि यत्र परिभाति सुतन्तुतुल्यो यं चार्यमा पितृपतिः समुपासते वै ॥ २.६ दृष्ट्वा दृशार्धवयसापि विहाय मातुर्देहं ध्रुवं मधुवने तपसाभितप्तम् । भूत्वा कृपामयवपुर्भगवान् स्वलोकं प्रादात्स्तुवन्ति यतयो मुनयोऽपि यं वै ॥ २.७ आलोक्य कर्दमतपो भगवान् विभूत्यै संशुद्धदिव्यवपुषाविरभूत्सशुक्लः । तस्मा अदाद्वरमजात्मजपुत्ररूपमानन्दबिन्दुपयसा च चकार तीर्थम् ॥ २.८ यज्ञे स एव रुचिना मनुपुत्रिपुत्र आहूतिसूतिरसुरारणिवह्निकल्पः । त्रैलोक्यगोपनविधौ सुरनाथ ईश नाम्ना सुयज्ञ इति विश्रुतकीर्तिराशिः ॥ २.९ सिद्धेश्वरश्च समभूत्कपिलाख्य ईशः श्रीदेवहूतितनयो विततान तस्यै । योगं स्वशक्तिसहितं चिदचिद्विभागं सांख्यं तथा स्वभिमुखेषु जगाद शुद्धम् ॥ २.१० योगेश्वरोऽत्रितनयो भगवाननन्तो दत्ताख्य आस समताववदत्स्वचर्याम् । प्रह्लादहैहययदुष्वपरायणेषु शिष्येषु शिक्षितकथां कथयन् गुरुभ्यः ॥ २.११ नारायणो नर ऋषिप्रवरावभूतां धर्मस्य दक्षदुहितर्यधिमूर्तिपत्न्याम् । धीरोपकारकरुणाशयकायशुद्धं तीव्रं तपः प्रचरतां सुरराजतापम् ॥ २.१२ नाभेरभूदृषभसंज्ञसदाप्तकामो योगेश्वरः सुतशतैरवदत्प्रजाभ्यः । धर्मं ततः परमयोगिजनावचर्यां नैष्कर्म्यलक्षणपरां स्वयमाचचार ॥ २.१३ धात्रन्तिके सुसनकादिभिरीर्यमाणे चेतोगुणान् विगलितुं भगवान् स हंसः । प्रोवाच तत्त्वममलं सदयार्द्रचित्ता यस्माद्गुणागुणविभागमभून्मुनीनाम् ॥ २.१४ वेने मृते द्विजजनैरनु बाहुयुग्मं संमथ्यमानसमये पृथुरूप आसीत् । लोकक्षुधां प्रशमयन् पृथिवीं दुदोह सर्वाणि भूतिकरणानि च सर्वभूत्यै ॥ २.१५ दक्षस्य यज्ञविहिते शिवशक्तिहेतोः प्राप्ताज्यभाममधिकं भृगुणाभिदत्तम् । तत्राष्टबाहुरभवद्भगवान् भवाय प्राप्ता नुतिः सुरनरादिकृतापि तेन ॥ २.१६ जातः प्रियव्रतकुले गय इत्युदारकीर्तिं ततान भगवान् तनुवाङ्मनोभिः । तेनापि यज्ञतनुरीश्वर इन्द्ररूपी स्पर्धां चकार महतां मदमादधानः ॥ २.१७ संवत्सरस्य तनयः स ह यामिनीनामालोकनादिविविधं मुदमाचिकीर्षुः । श्रीकामदेववपुषा ह्यवतीर्य देवो देव्योमया मदनकेलिभिरारराम ॥ २.१८ प्राचीनबर्हितनयांस्तपसा सुतप्तान् दृष्ट्वा स्वशान्तवपुषाविरभूदनन्तः । दत्त्वा स्वपादभजनं वसतां गृहेषु कन्यां च वृक्षजनितामदिशद्दयालुः ॥ २.१९ स्वारोचिषे तुषितया द्विजवेदशीर्षाज्जातो विभुः सकलधर्मभृतां वरिष्ठः । यद्ब्रह्मचर्यानियमानृषयोऽप्यशिक्षन् साक्षाज्जगद्गुरुतयावचचार शुद्धान् ॥ २.२० धर्मादभूत्सुततया भगवांस्तृतीये मन्वन्तरे त्रिजगतः स्थितये कृपालुः । श्रीसत्यसेन इति दुर्जनयक्षरक्षान् यस्तानपाहरदसौ सुरनाथमित्रः ॥ २.२१ तुर्येऽन्तरे सरसि वारणराजराजं ग्राहेण तीव्रबलिना परिकर्षयन्तम् । नारायणेत्यभिहिते हरिरुद्दधार तस्माद्भवार्णवजलादपि देवराजः ॥ २.२२ वैकुण्ठ आस भगवान् द्विजवर्य मुद्रा देव्या मया तदनुरूपजयाभिधानः । वैकुण्ठदर्शनमकारयदप्रमेयस्तस्याउ पञ्चममनोः समये प्रसिद्धम् ॥ २.२३ षष्ठेऽन्तरे तु भगवान् द्विजशापखिन्नदेहान् सुरानवनतानवलोक्य सन्नः । वैराजविप्रतनयोऽजितसंज्ञ ईशो देवासुरैरमथयत्सहसा पयोधिम् ॥ २.२४ देवासुरे जलनिधेर्मथनाद्विषष्णे हस्ताच्च्युते गिरिवरे सहसार्द्रचित्तः । भूत्वा तु कूर्मवपुरद्भुतमुद्दधार मेने च पर्वतविवर्तनगात्रकण्डूम् ॥ २.२५ दुग्धाम्बुधावुरुरुजां प्रचिकीर्षुरीश आदाय पूर्णकलशं सुधया नितान्तम् । आयुर्विधाननिगमं खलु यज्ञभोक्ता धन्वन्तरिः समभवद्भगवान्नराणाम् ॥ २.२६ धन्वन्तरेरमृतपूर्णघटे स्ववारा चूर्णीयमान अमरे शरणं प्रविष्टे । मोहिन्यभूत्स भगवानसुरासुराणां मोहाय तापविरमाय सदाप्तकामः ॥ २.२७ सत्यव्रताय जनतर्पणतः स्वरूपं मात्स्यं महाकरुणया प्रवितत्य सद्यः । कल्पार्णवेऽप्यवददच्युत आत्मतत्त्वं भूरूपनाविवसते विहरन् द्विजेभ्यः ॥ २.२८ त्रैलोक्यदुःखदलनाय नृसिंहरूपं कृत्वा स्वभक्तमवितुं किल लाङ्गलाग्रैः । धृत्वासुरेन्द्रमसुरेन्द्रविशालतीव्रवक्षःस्थलं स्थलमिवाग्रनखैर्ददार ॥ २.२९ यस्मिन् प्रपश्यति बलिः सगणं त्रिलोकं तेनापि वामनतनुं भगवान् गृहीत्वा । संयाच्य सम्मितपदत्रितयं बलेः स्वं कृत्वा त्रिविष्टपमदाददितेः सुतेभ्यः ॥ २.३० भक्तानहं समनुवर्त इति स्ववाचं साक्षात्प्रकर्तुमिव भूविवरे प्रविष्टः । वैरोचनेर्गृहमरक्षयदप्रमेयो नाम्ना गदाधर इति क्षपयन् दयावान् ॥ २.३१ भूत्वा तु भार्गवकुले निजतातनाशाद्रामो महापरशुकं परिगृह्य तीक्ष्णम् । क्षत्रं निवार्य क्षितितलं परिहृत्य भूयो दत्त्वा द्विजाय ह्यवसत्स महेन्द्रपृष्ठे ॥ २.३२ वृन्दारकैः परिनिषेवितपादपद्मः श्रीरामचन्द्र इति सूर्यकुलाब्धिजातः । देवारिनाशनविधौ कुशिकान्वयेन नीतो महेशधनुराजगवं बभञ्ज ॥ २.३३ ज्ञात्वा ततो भृगुकुलोद्भवधीरवीरं रामं सुगौररुचिरां परिणीय सीताम् । गत्वा गृहान् गृहपतेः पितुराप्तजायावाचं निशम्य वनवासमगात्सभार्यः ॥ २.३४ तीर्त्वा गाङ्गपयोऽनुजानुगमनाच्छ्रीचित्रकूटं गिरिं त्यक्त्वा दुष्टविराधराधदमनो धावन् धनुर्धारयन् । हत्वा क्रूरसुरेन्द्रवैरिहरिणं मारीचसंज्ञं ततो लङ्केशाहृतसीतया खलु पुनः प्राप्तो दृशामीदृशाम् ॥ २.३५ चन्द्रं चण्डकरं प्रचण्डपवनं मेने सुमन्दानिलं मालां मालतिमल्लिकां शुचिकलां गीतं स्फुलिङ्गायितम् । इत्येवं वनितापरायणनरं हास्यन्निवालोकयनृक्षं मन्मथसायकाहृतमनो रेमे प्रियाशङ्कया ॥ २.३६ गत्वा वानरराजवालिनमहामित्रेण सेतुं ततो बद्ध्वा वारिधिमातरत्तरतमं साकं प्लवंगैर्मुदा । छित्त्वा राक्षसयक्षलक्षममला सीता सपुत्रानुजं लङ्केशं ज्वलदग्निना भगवता चाप्ता पुनः सा पुरी ॥ २.३७ सूर्यादिशक्तिमविहृत्य शशास भूमिं गोविप्रप्राज्ञपरिसेवनसर्वधर्मः । उद्रिक्तभक्तिनमिताननयत्स्वनाथान् सर्वान् वनाधिवसतः स्वपदं सुशान्तम् ॥ २.३८ तस्यानुजो भरतसंज्ञ उदारबुद्धी रामाज्ञया निजगृहे निवसन्नपि श्रीम् । त्यक्त्वा वनस्थव्रतवानभवत्ततो वै गन्धर्वकोटिमथनं विहरंश्चकार ॥ २.३९ श्रीलक्ष्मणस्तदवरो वनमेत्य रामं सीतां निषेच्य बहुकष्ट आसीत् । बाह्येऽपि चास्य वचसा वनमेत्य देहं संत्यज्य तत्पदमगादरिसैन्यवह्निः ॥ २.४० शत्रुघ्नसंज्ञ उरुविक्रमशुद्धबुद्धिः शौर्येण दर्पदलनो द्विषतां दयालुः । दीनेषु दैत्यलवणान्तक आर्यसेवी स्वान्येषु साम्यमतिराजनताभिरामः ॥ २.४१ मार्कण्डनाममुनये भुवनानि देष्टुं मायालये तनुतरे जठरे मुकुन्दः । न्यग्रोधपत्त्रपुटकोशशयान आसीदङ्गुष्ठपानपरमः शिशुरप्रमेयः ॥ २.४२ वृत्रस्य घोरवपुषा परितापितानां संरक्षणाय भगवान् युधि निर्जराणाम् । आद्यो ह्यभूद्गरुडकिंनरगीतकीर्तिस्तेषां सुदुःखभयशोकविनाशशीलः ॥ २.४३ अङ्गुष्ठपर्वसुमितान् श्रमणान् द्विजाग्र्यान् दृष्ट्वा तु गोष्पदपयोगतसर्वदेहान् । ब्रह्मण्य इन्द्रहसितान् समिदंशुहस्तान् गुर्वर्चनाय कृपयावदमून् प्रपन्नान् ॥ २.४४ दुष्यन्तबीजमधिगम्य शकुन्तलायां जातो ह्यजोऽपि भगवानधियज्ञकर्त् । विस्मापयन् बहुनृपान् बहुवाजिमेधान् साक्षादियाज बहु दानमदादमेयः ॥ २.४५ सर्वान् जनान् कलियुगे बलबुद्धिहीनान् दृष्ट्वा कृपापरवशो वसुवीर्यजायाम् । जातः पराशरसकाशत आदिदेवो वेदान् समाहिततया विभजिष्यति स्म ॥ २.४६ वृष्णेः कुले तु भगवान् बलदेवनामा यस्माद्बलानतिबलानदलत्सुरारीन् । यल्लाङ्गलाग्रकलनात्कुरुराजधानी धानेव धामसहिता चलितातिभीता ॥ २.४७ भूमेर्जनस्य निजपादपरायणस्य वृष्णेरजोऽपि भगवान् सुखमादधानः । जातो भविष्यति यशो विपुलं प्रकर्तुं श्रीकृष्ण इत्यभिहितोऽखिलशक्तिपूर्णः ॥ २.४८ जातो निजेन वपुषा वसुदेवगेहे गत्वा तु गोकुलमथो विहरन् विनोदैः । बालाकृतिर्विशदबालकभाषाहासैर्गोगोपगोपवनितामुदमाशु कर्ता ॥ २.४९ कंसानुशिष्टसुरशत्रुगणानुलूकीमुख्यान् हनिष्यति व्रजस्थितये महाद्रिम् । धृत्वोच्छिलीन्ध्रमिव सप्त दिनानि वामहस्ते प्रगृह्य सुरनाथमदं प्रमार्ष्टा ॥ २.५० धात्रा यदा सपशुगोपशिशौ प्रणीते बुद्धेर्भ्रमो हलभृतोऽभवदप्रमेयः । तत्संहरन् सपशुपालकुलस्वरूपं कृत्वा विधिं विविधमोहमलात्स धर्ता ॥ २.५१ वृन्दावने सुरभिवाद्यविलासगीतैर्गोधुग्वधूजनमनोजजवं दधानः । कर्ता महामदनकेलिविहारगोष्ठीविस्मापनं निशि निशाचरखेचराणाम् ॥ २.५२ कंसस्य रङ्गसदनं सबले प्रणीते स्वाफल्किना भवधनुस्तरसा विभज्य । चाणूरशूरशमनं सहकंसमाजौ कर्ता द्विपं कुवलयं सहसा निहत्य ॥ २.५३ सांदीपनं मृतसुतं गुरुदक्षिणार्थी दत्त्वा जरासुतबलं यवनं च हत्वा । श्रीरुक्मिणीप्रभृतिदारशतं विवाह्य ताभ्यः सुतान् दशदशानु जनिष्यति स्म ॥ २.५४ भौमं निहत्य सगणं दिवि देवमातुर्दातुं तदीयमणिकुण्डलमादिदेवः । गत्वा सुरेन्द्रतरुराजवरं प्रियायाः प्रीतौ समुद्धरणतो दितिजान् स जेता ॥ २.५५ बाणासुरस्य समरे मम वीर्यनाशाल्लब्धामरत्वमधिकं युधि भूपबन्धून् । जित्वा युधिष्ठिरनृपक्रतुना विवाहबीजं निपात्य गुरुभारतरं प्रहर्ता ॥ २.५६ लोके प्रदर्श्य सुतरां द्विजदेवपूजां स्वस्याप्यपारकरुणां निजसेवकेभ्यः । त्रात्वा परीक्षितनृपं परमास्त्रदग्धं पार्थाय भूतिमवलोकयिता द्विजार्थे ॥ २.५७ कामेन स्नेहभयरागकुटुबसंधे यस्मिन्मनो निवसतः शमलं निरस्य । दाता स्वरूपममलं परिशुद्धभावः साक्षात्स्वरूपनिरतस्य च किं नु वक्ष्ये ॥ २.५८ यत्पादपङ्कजपरागपरायणानामग्रे चकास्ति न च मुक्तिसुखं नितान्तम् । किं वान्यदर्पितभयं खलु कालवेगैः साक्षान्महासुखसमुद्रगतान्तराणाम् ॥ २.५९ गङ्गादितीर्थतपहोमव्रतादिकेभ्यः कीर्तिं स्वकीयमधिकां समुदीर्य लोके । अत्युन्नतं द्विजकुलं द्विजशापव्याजाद्धत्वा स्वलोकममलं तनुनाभिगन्ता ॥ २.६० तस्माद्भविष्यति सुतः सुखदो जनानां प्रद्युम्नसंज्ञ उरुगायगुणानुरूपः ॥ २.६१ कर्ता मुदं मुदितवक्त्रसुचारुगात्रैः पात्रैरिवामृतपयो मनुजान् प्रच्छन् । तत्राप्यजोऽनुजनिताप्यनिरुद्धनामानाम्नां प्रवर्तकतया मनसीश्वरोऽपि ॥ २.६२ यस्मादुषाहरणतो भुजवीर्यनाशाद्बाणो भविष्यति शिवानुगशान्तदेहः । व्यासाद्भविष्यति [... औ२ णेइछेन्झ्] भगवानरण्यां योगी जनान् प्रति गदिष्यति वेदसारम् ॥ २.६३ श्रीमत्सुशान्तममलं भगवत्प्रणीतं यच्छ्रद्धया कलिजना अपि यान्ति शान्तिम् । बुद्धावतारमधिगम्य कलावलक्षैर्वेषैर्मतेरतिविमोहकरं प्रलोभम् ॥ २.६४ पाखण्डशास्त्रमधिकल्प्य सुरद्विषाणां कर्ता जिनस्य तनयो भगवान् गयायाम् । पाखण्डशास्त्रबहुले निजवेदमार्गे नष्टे द्विजातिभिरसत्पथि वर्तमाने ॥ २.६५ कल्क्यावतारतरणिस्तरुणान्धकारतुल्यं तुदन्नृपगणं कृतधर्मगोप्ता । साक्षाद्भविष्यति सरस्वतिसंज्ञितायां श्रीसार्वभौम इति वेदगुपो द्विजाग्र्यात् ॥ २.६६ कृत्वा पुरंदरश्रियं बलयेऽतिदास्यन् गोप्ताष्टमे मनुयुगे विदितानुभावः । आयुः करो नवमनोः समये जनानां नीतिं विधातुममरारिविनाशनाय ॥ २.६७ गोप्ता भविष्यति जगज्जनधारयासौ भूत्वा श्रुतेन्द्रसहितो भगवानपारः । भूत्वा विशूचिसदने द्विजराजशम्भोः साहित्यकर्मपरवान् दशमेऽन्तरे सः ॥ २.६८ पातामरान् [... औ३ णेइछेन्झ्] विश्वक्[... औ१ णेइछेन्झ्] सेनसंज्ञो यत्सैन्यपूगसमरादमरारिनाशः । मन्वन्तरैकदशमेऽर्थकरिप्रपौत्रः श्रीधर्मसेतुरिति विश्रुत आदिदेवः ॥ २.६९ हत्वासुरान् सुरपतौ विधृतेरपत्ये दाता तृतीयभवनं भगवान् स्वयम्भूः । जातो द्विषण्मनुयुगे युगपालनाय विप्रात्स्वशक्तिमहसः सुनृताख्यतो वै ॥ २.७० ख्यातो भविष्यति ततो भगवान् स्वधामा यस्माज्जना जगति सौख्यमपारमापुः । भाव्ये त्रयोदशयुगे भवितादिदेवः श्रीदेवहोत्रतनयो भगवान् बृहत्याम् ॥ २.७१ योगेश्वरो दिवि दिवस्पतिशक्रमित्रो योगादमेयवपुषा स वितानतुल्यः । सत्रायणस्य सदने भगवाननादिदेवोऽपि देववनितातनयोऽभिजातः ॥ २.७२ अन्तेऽन्तरे करणकर्मवितानतन्तून् विस्तारयिष्यति जगद्धितकामशीलः । एते मया भगवतः कथिता द्विजाते शुद्धावतारनिचया जगतो हितार्थाः । सम्पूर्णतांशकलया परिभावनीया ज्ञानक्रियाबलसमादिभिराभिव्यक्ताः ॥ २.७३ यल्लीलातनुभिर्नित्यं पाल्यते सचराचरम् । तमहं शरणं यामि कृष्णं ब्रह्माण्डनायकम् ॥ २.७४ षात्वततन्त्र, तृतीयः पटलः श्रीनारद उवाच । कथिता भगवान् विष्णोरवतारा महात्मनः । सम्पूर्णांशकलाभेदैर्भावनीयास्त्वया प्रभो ॥ ३.१ निर्विकल्पस्य कृष्णस्य ब्रह्मणः परमात्मनः । कथमंशकलाभाग एतद्वर्णय नो विभो ॥ ३.२ श्रीशिव उवाच । सत्यमुक्तं त्वया ब्रह्मन् कृष्णस्य जगदात्मनः । अवतारेषु सर्वेषु भेदादंशकलाः स्वतः ॥ ३.३ न वर्णयन्ति निपुणा ज्ञानिनो भगवत्पराः । अविकारादच्युताच्च निर्भेदाद्ब्रह्मरूपिणः ॥ ३.४ किं तु ज्ञानप्रभावादेः पूर्णांशांशानुदर्शनात् । पूर्णमंशकलाभागं वदन्ति जगदीशितुः ॥ ३.५ सन्ति यद्यपि सर्वत्र ज्ञानवीर्यगुणादयः । तथापि कार्यतः केचिद्दृश्यन्ते न हि सर्वतः ॥ ३.६ ऐश्वर्यज्ञानधर्माश्च वैराग्यं श्रीर्यशस्तथा । एषां संदर्शनात्साक्षात्पूर्णो विद्वद्भिरुच्यते ॥ ३.७ एतेषामपि भागानामल्पाल्पदर्शनादसौ । विभात्यंशकलाभेदो भगवान् भगभेदधृक् ॥ ३.८ अंशस्तुरीयो भागः स्यात्कला तु षोडशी मता । शतभागो विभूतिश्च वर्ण्यते कविभिः पृथक् ॥ ३.९ अतो ज्ञानस्य धर्मस्य वैराग्यैश्वर्ययोः श्रियः । यशसः पृथग्भेदं मत्तः शृणु द्विजोत्तम ॥ ३.१० उत्पत्तिप्रलयौ चैव विद्याविद्ये गतागती । एषां ज्ञानं वदन्त्यङ्ग ज्ञानं षड्विधमुत्तमम् ॥ ३.११ सत्यं शौचं दया मौनं धर्मश्चातुर्विधः स्मृतः । अमानो व्यतिरेकश्च ऐन्द्रियस्तु वशीकृतः ॥ ३.१२ एवं चतुर्विधो भद्र वैराग्यः समुदाहृतः । अणिमा लघिमा चैव महिमा तदनन्तरम् ॥ ३.१३ प्राकाम्यं चैव प्राप्तिश्च ईशिता वशिता तथा । कामस्यावसिता ह्येते अष्टैश्वर्याः प्रकीर्तिताः ॥ ३.१४ भृत्यामात्यसुहृद्बन्धुपुत्रपौत्रकलत्रकाः । वासोभूषणकोशाश्च सेनिका चतुरङ्गिणी ॥ ३.१५ गृहा भूरस्त्रशस्त्रे च दुर्गाद्याः श्रिय ईरिताः । यशस्तु पुंसो भवति कर्मतो गुणतस्तथा ॥ ३.१६ कर्म चतुर्विधं प्रोक्तं सृष्टिस्थितिलयात्मकम् । तया लीलावताराणां चरितं परमाद्भुतम् ॥ ३.१७ गुणान्यपरिमेयाणि कीर्तितानि मनीषिभिः । तथाप्यहं द्विषष्ठीं ते वर्णयाम्यनुपूर्वशः ॥ ३.१८ ब्रह्मण्यश्च शरण्यश्च भक्तवात्सल्यमेव च । दातृत्वं सत्यसंधत्वं विक्रान्तत्वं नियम्यता ॥ ३.१९ दुर्जयत्वं दुःसरत्वं निषेव्यत्वं सहिष्णुता । अक्षोभ्यत्वं स्वतन्त्रत्वं नैरपेक्ष्यं स्वसौष्ठवम् ॥ ३.२० शौर्यमौदार्यमास्तिक्यं स्थैर्यं धैर्यं प्रसन्नता । गाम्भीर्यं प्रश्रयः शीलं प्रागल्भ्यमृतमङ्गलम् ॥ ३.२१ शमो दमो बलं दाक्ष्यं क्षेमं हर्षोऽनहंकृतिः । संतोष आर्जवं साम्यं मनोभाग्यं श्रुतं सुखम् ॥ ३.२२ त्यागो भयं पावनं च तेजः कौशलमाश्रयः । धृतिः क्षमा स्मृतिर्लज्जा श्रद्धा मैत्री दयोन्नतिः ॥ ३.२३ शान्तिः पुष्टिः स्ववाक्शुद्धिर्बुद्धिर्विद्या स्वरक्षता । एते ते भगभेदास्तु कथिता ह्यनुपूर्वशः ॥ ३.२४ एषां प्रकाशो यत्रासीत्स पूर्णः परिकीर्तितः । अंशप्रकाशादंशः स्यात्कलायास्तु कला स्मृता ॥ ३.२५ विभूतेस्तु विभूतिः स्यादेष भेदो न हि स्वतः । निर्विकल्पस्य सत्यस्य परब्रह्मस्वरूपिणः ॥ ३.२६ नारायणस्य शुद्धस्य श्रीकृष्णस्य महात्मनः । यतः कृष्णावतारेण भगभेदाः पृथक्पृथक् ॥ ३.२७ संदर्शिताः पृथक्कार्ये तस्मात्सम्पूर्ण उच्यते । हयग्रीवाद्यवतारे तस्मादल्पतरा यतः ॥ ३.२८ दर्शिता भगभेदा वै तस्मादंशाः प्रकीर्तिताः । यतो रामो मत्स्यकूर्मवराहा नरकेसरी ॥ ३.२९ मन्वन्तरावताराश्च यज्ञाद्या हयशीर्षवान् । तथा शुक्लादयो ह्याविर्भावा ऋषभ आत्मवान् ॥ ३.३० नरनारायणो दत्तः कलौ च बुद्धकल्किनौ । ज्ञानकर्मप्रभावाद्यैरंशा विष्णोः प्रकीर्तिताः ॥ ३.३१ कुमारनारदव्यासा ब्रह्मरातादयः कलाः । ज्ञानांशयुक्ताः श्रीविष्णोरवतारा महात्मनः ॥ ३.३२ गयः पृथुश्च भरतः शक्तियुक्ताः कला मताः । गुणावतारा ब्रह्माद्यास्तदंशा ये विभूतयः ॥ ३.३३ एषा मया ते कथिता सम्पूर्णांशकलाभिदा । कार्यानुरूपा विप्रेन्द्र भगभेदप्रदर्शनात् ॥ ३.३४ न ब्रह्मणो भिदा विप्र श्रीकृष्णस्य च सत्तम । नारायणस्य वा सौम्य ह्यवतारिस्वरूपिणः ॥ ३.३५ श्रीनारद उवाच । अवतारिस्वरूपं मे वर्णयस्व सदाशिव । किं ब्रह्म परमं साक्षात्किं वा नारायणो विभुः ॥ ३.३६ किं वा वैकुण्ठलोकेशः श्रीकृष्णः पुरुषोत्तमः । किमेकतत्त्वमेतेषामथवा किं पृथक्पृथक् ॥ ३.३७ श्रीशिव उवाच ॥ ३.३८ शृणु तत्परमं गुह्यं ब्रह्मदायाद सत्तम । अवतारिस्वरूपं मे यथा वर्णयतो द्विज ॥ ३.३९ एकमेव परं तत्त्वमवतारि सनातनम् । श्रीकृष्णब्रह्मपुरुषैः संज्ञाभिर्दीयते पृथक् ॥ ३.४० यथा भानोः प्रकाशस्य मण्डलस्यापृथक्स्थितिः । तथा श्रीकृष्णदेवस्य ब्रह्मणः पुरुषस्य च ॥ ३.४१ अतः सात्वततन्त्रज्ञा भक्तिनिष्ठा विलक्षणाः । श्रीकृष्णाख्यं परं धाम परमानन्दमुत्तमम् ॥ ३.४२ वैकुण्ठलोकनिलयं शुद्धसत्त्वात्मविग्रहम् । वदन्ति शाश्वतं सत्यं स्वभक्तगणसेवितम् ॥ ३.४३ वेदान्तिनो ज्ञाननिष्ठा ज्ञानशास्त्रानुसारतः । वदन्ति ब्रह्म परमं प्रकाशात्मकमव्ययम् ॥ ३.४४ अपाणिपादनयनश्रोत्रत्वग्घ्राणविग्रहम् । सर्वशक्तियुतं तेजोमयं वाङ्मनसापदम् ॥ ३.४५ आनन्दमात्रं संशुद्धं चिद्व्यक्तं सर्वकारणम् । हैरण्यगर्भास्त्रैविद्या नारायणमनामयम् ॥ ३.४६ सहस्रशिरसं देवं परमानन्दमव्ययम् । अनन्तशक्तिं सर्वेषां पुरुषं प्रकृतेः परम् ॥ ३.४७ वदन्ति कर्मपरमाः स्थित्युत्पत्त्यन्तभावनम् । सर्वानन्दकरं शान्तं संसारार्णवतारकम् ॥ ३.४८ अतः कृष्णस्य देवस्य ब्रह्मणः पुरुषस्य च । वस्तुतो नैव भेदो हि वर्ण्यते तैरपि द्विज ॥ ३.४९ यथार्थो बहुधा भाति नानाकरणवृत्तिभिः । तथा स भगवान् कृष्णो नानेव परिचक्षते ॥ ३.५० अतः सर्वमेतेनापि श्रीकृष्णः पुरुषोत्तमः । लीलामानुषरूपेण देवकीजठरं गतः ॥ ३.५१ अतः सर्वावताराणां कारणं कृष्ण उच्यते । सृष्ट्याद्यनेककार्याणि दर्शितानि यतः स्वतः ॥ ३.५२ स एव सर्वलोकानामाराध्यः पुरुषोत्तमः । मुक्त्याद्यर्थं नृलोकस्य मानुषत्वं यतो गतः ॥ ३.५३ अतस्तं पुरुषा नित्यं भक्तिभेदेन नित्यदा । भजन्ति ह्यपवर्गेशं परेशं तदकाम्यया ॥ ३.५४ मया ते कथिता विप्र अवतारा महात्मनः । किमन्यत्कथयाम्यद्य त्वं हि भागवतोत्तमः ॥ ३.५५ षात्वततन्त्र, चतुर्थः पटलः श्रीनारद उवाच । नास्ति तृप्तिः शृण्वतो मे तव वागमृतं हरेः । यशः परमकल्याणमवतारकथाश्रयम् ॥ ४.१ तथापि साम्प्रतं ह्येतच्छ्रुत्वा कौतूहलं मम । भक्तिभेदं भगवतो भावनीयं सदा नृभिः ॥ ४.२ ब्रूहि मे भगवन् विष्णोर्भक्तिभेदं सदाशिव । यज्ज्ञात्वा ह्यञ्जसा विष्णोः साम्यं याति जनः प्रभो ॥ ४.३ श्रीशिव उवाच । साधु पृष्टं त्वया साधो परं गुह्यतमं यतः । अन्यस्मै न मया प्रोक्तं विना भागवतान्नरात् ॥ ४.४ यदैवावोचं मां कृष्णो ध्यानात्तुष्टमना विभुः । तदैवाहं निषिद्धोऽस्मि अभक्तोक्तौ कृपालुना ॥ ४.५ तदा चाहं तस्य पादपङ्कजे शिरसा नतः । बभाष एतद्भगवान् भक्तान्निर्देष्टुमर्हसि ॥ ४.६ तदा प्रीतमना देवो मामुवाच सतां गतिः । शृणुष्व शिव भद्रं ते भक्तान् वक्ष्यामि सात्वतान् ॥ ४.७ मद्ध्याननिष्ठान्मत्प्राणान्मद्यशःश्रवणोत्सुकान् । भक्तान् जानीहि मे देव सर्वलोकप्रणामकान् ॥ ४.८ तेभ्यः परमसंतुष्टो भक्तिभेदं ससाधनम् । ब्रवीमि शिव ते भक्तिस्तेनैव सम्प्रसिध्यति ॥ ४.९ यदि त्वद्वाक्यनिष्ठः स्याद्योऽपि कोऽपि सदाशिव । तस्मै प्रीतमना वाच्यो भक्तिभेदः ससाधनः ॥ ४.१० तदिदं ते प्रवक्ष्यामि भक्तिभेदं ससाधनम् । यतो भागवतश्रेष्ठो भगवत्कीर्तनप्रियः ॥ ४.११ एकैव भक्तिः श्रीविष्णोः प्रीतिरित्युच्यते बुधैः । निर्गुणत्वादखण्डत्वादानन्दत्वाद्द्विजोत्तम ॥ ४.१२ किं तु ज्ञानक्रियालीलाभेदैः सा त्रिविधा मता । तान् शृणुष्वानुपूर्व्येण मत्तः स्ववहितो द्विज ॥ ४.१३ सर्वान्तर्यामिणि हरौ मनोगतिरविच्युता । सा निर्गुणज्ञानमयी साक्षादपि गरीयसी ॥ ४.१४ सर्वेन्द्रियाणां सर्वेशे विष्णौ गतिरनुत्तमा । स्वाभाविकी भागवती कर्मजा मुक्तिहेलिनी ॥ ४.१५ हरिलीलाश्रुतोच्चारे जाता प्रेममयी तु या । सत्सङ्गजान्यासाद्ग्राह्या सर्वदा सा ह्यनुत्तमा ॥ ४.१६ तासां साधनसामग्री क्रमतः शृणु सत्तम । यामाश्रित्य समाप्नोति जनो भक्तिं जनार्दने ॥ ४.१७ स्वानुरूपस्वधर्मेण वासुदेवार्पणेन च । हिंसारहितयोगेन भगवत्प्रतिमादिषु ॥ ४.१८ श्रुतिदृष्टिस्पर्शपूजास्तुतिप्रत्यभिनन्दनैः । विषयाणां विरागेण स्वगुरोः परिचर्यया ॥ ४.१९ निवृत्तिशास्त्रश्रवणैरुत्तमेषु क्षमादिभिः । समेषु मित्रभावेन दीनेषु दयया तथा ॥ ४.२० भगवन्मूर्त्यभिध्यानैर्यशसां श्रुतिकीर्तनात् । भूतेषु भगवद्दृष्ट्या निर्गुणा भक्तिरुच्यते ॥ ४.२१ लब्ध्वा तां निर्गुणां भक्तिं मुक्तिं चापि न मन्यते । मुक्तिः सैवेत्यभिहिता भगवद्भावकारिणी ॥ ४.२२ अथ भागवतीभक्तेः साधनं शृणु सत्तम । यत्सर्वयत्नतः कार्यं पुरुषेण मनीषिणा ॥ ४.२३ श्रीगुरोरुपदेशेन भगवद्भक्तितत्परैः । यथाकार्यं स्वकरणैर्भगवत्पादसेवनम् ॥ ४.२४ वाचोच्चारो हरेर्नाम्नां कर्णाभ्यां कर्मणां श्रुतिः । हस्ताभ्यां भगवद्देहप्रतिमादिषु सेवनम् ॥ ४.२५ जिह्वया भगवद्दत्तनैवेद्यहरणं मुदा । नासया कृष्णपादाब्जलग्नगन्धानुजिघ्रणम् ॥ ४.२६ भगवद्गात्रनिर्माल्यहरणं शिरसा तथा । दृष्ट्वा विष्णुजनादीनामीक्षणं सादरेण च ॥ ४.२७ मनसा भगवद्रूपचिन्तनं शिरसोरसा । बाहुपादादिभिर्विष्णोर्वन्दनं परया मुदा ॥ ४.२८ अर्थादीनामानयनमीश्वरार्थेन सर्वशः । एतैः स्वसाधनैर्नित्यं भगवत्पादसेवनम् ॥ ४.२९ आशु सम्पद्यते भक्तिः कृष्णे भागवती सती । यदेन्द्रियाणां सर्वेषां कृष्णे परमपूरुषे ॥ ४.३० स्वाभाविकी रतिरभूत्सा वै भागवती मता । एतद्भक्तिपरो विप्र चातुर्वर्ग्यं न मन्यते ॥ ४.३१ तस्यामन्तः सर्वसुखमधिकं वापि लभ्यते । अथ प्रेममयीभक्तेः कारणं द्विजसत्तम ॥ ४.३२ शृणु विश्वासमापन्नो निश्चयात्मिकया धिया । सद्गुरोरुपदेशेन लब्ध्वा सत्सङ्गमादृतः ॥ ४.३३ चतुर्विधानां श्रीविष्णोः कर्मणां श्रवणं सताम् । तेष्वेवं कीर्तनं तेषां मनसा चापि चिन्तनम् ॥ ४.३४ वचसा ग्रहणं तेषां तत्पराणां प्रशंसनम् । यद्यशक्तो भवेत्कीर्तौ स्मरणे चापि सर्वशः ॥ ४.३५ तदा तु भगवन्नाम्नामावृत्तौ वृत्तयेत्सदा । सदा शश्वत्प्रीतियुक्तो यः कुर्यादेतदन्वहम् ॥ ४.३६ तस्याशु भक्तिः श्रीकृष्णे जायते सद्भिरादृता । एवं प्रेममयीं लब्ध्वा भित्त्वा संसारमात्मनः ॥ ४.३७ आशु सम्पद्यते शान्तिं परमानन्ददायिनीम् । लब्ध्वापि भक्ता भगवद्रूपशीलगुणक्रियाः ॥ ४.३८ नानुसंधत्त एता वै विना भक्तिं जनार्दने । यद्यन्यसाधनान्यन्यभक्तौ कुर्यादतन्त्रितः ॥ ४.३९ न तत्र कश्चिद्दोषः स्याद्धरिसेवा यतः कृता । किं तु यद्भक्तिनिष्ठा स्यात्तामेवाप्नोति मानवः ॥ ४.४० फलभेदेन भेदः स्यात्साधनेन न भिद्यते । पृथगेष मयाख्यातो भक्तिभेदः ससाधनः ॥ ४.४१ निष्कामः फलरूपश्च नित्यो मोक्षसुखाधिकः । सकामः सगुणो विप्र बहुधोक्तो महर्षिभिः ॥ ४.४२ किं भूयः कथयाम्यद्य वद मां द्विजसत्तम । श्रीनारद उवाच । विधेयं कथितं सर्वं त्वया मे सुरसत्तम । निषेधनीयं किं चात्र भक्तिस्तम्भकरं च यत् ॥ ४.४३ हानिवृद्धिकरं चापि मुख्यसाधनमेव च । कथयस्व महादेव श्रद्धासेवापराय मे ॥ ४.४४ श्रीशिव उवाच । भक्तीनां साधनानां यद्बहिर्भूतं महामुने । निषेधनीयं तत्तासां भक्तानां पुरुषोत्तमे ॥ ४.४५ देहप्रवाहादाधिक्यं विषयादरणं च यत् । भक्तिस्तम्भकरं प्रोक्तं भक्तिनिष्ठे द्विजोत्तम ॥ ४.४६ समासेन मया प्रोक्तं निषेधस्तम्भनं तव । भक्तिघ्नदोषं शृणु तं सर्वथा वर्जनं नृणाम् ॥ ४.४७ निर्गुणायां प्राणिहिंसा भागवत्यामहंकृतिः । प्रेममय्यां सतां द्वेषो भक्तिनाशकरा इमे ॥ ४.४८ सर्वभक्तिव्यतिकरः स्वगुरोर्वागनादरः । द्वेषेण नरकं याति कुर्वन् भक्तिमपि द्विजः ॥ ४.४९ दोषदृष्ट्या दोषवान् स्यात्तत्र दोषफलं भवेत् । मर्त्यदृष्ट्या कृतं सर्वं भवेत्कुञ्जरशौचवत् ॥ ४.५० सर्वसाधनमुख्या हि गुरुसेवा सदादृता । यया भक्तिर्भगवति ह्यञ्जसा स्यात्सुखावहा ॥ ४.५१ तस्मात्सर्वप्रयत्नेन गुरोर्वागादरेण वै । कार्या सैव तु तत्सर्वा भगवद्भक्तिवर्धिनी ॥ ४.५२ निर्गुणा भक्तिनिष्ठेन कार्या भूतदया सदा । भागवत्यां कायमनोवचसां परिनिष्ठिता ॥ ४.५३ प्रेममय्यां सतां प्रीत्या श्रवणं यशसां हरेः । मुख्याः साधनसम्पत्त्यः कथितास्ते द्विजोत्तम ॥ ४.५४ सर्वमूलं कृष्णपादशरणं परिकीर्तितम् । यद्विना स्रवते भक्तिरामभाण्डात्पयो यथा ॥ ४.५५ श्रीनारद उवाच । कृष्णपादाब्जशरणं वद मे बहुवित्तम । विना येन पुमान् याति कुर्वन् भक्तिमपि श्रमम् ॥ ४.५६ श्रीशिव उवाच । कायवाङ्मनसां साक्षात्कृष्णे परमपूरुषे । परिनिष्ठाश्रयं यद्वै शरणं परिकीर्तितम् ॥ ४.५७ एतद्वै त्रिविधं प्रोक्तं वेदविद्भिर्द्विजोत्तम । प्रथमं मध्यमं श्रेष्ठं क्रमशः शृणु तन्मुने ॥ ४.५८ धर्मे तीर्थे च देवादौ रक्षकत्वमघादितः । यद्बुद्धिनिष्ठितं कृष्णे कृतं तत्प्रथमं स्मृतम् ॥ ४.५९ कलत्रपुत्रमित्रेषु धने गेहगवादिषु । यन्ममत्वाश्रयं कृष्णे कृतं तन्मध्यमं स्मृतम् ॥ ४.६० देहादावात्मनो यावदात्मत्वाश्रयणादि यत् । तत्सर्वं कृष्णपादाब्जे कृतं श्रेष्ठं प्रकीर्तितम् ॥ ४.६१ ईश्वरं तदधीनं च तद्धर्मं च सनातनम् । हित्वान्यदाश्रयं तस्य वस्तुतो नैव दृश्यते ॥ ४.६२ एतच्छरणसम्पन्नो भक्तिमान् पुरुषोत्तमे । पुनाति सर्वभुवनं हृदिस्थेनाच्युतेन सः ॥ ४.६३ तस्माद्भक्तादृतेर्विष्णोर्देहोऽपि नैव सत्प्रियः । किमुतान्ये विभूताद्याः परमानन्दरूपिणः ॥ ४.६४ श्रीनारद उवाच । भक्तानां लक्षणं साक्षाद्ब्रूहि मे सुरत्तम । तथैव तेष्वहं प्रीतिं करिष्यामि समाहितः ॥ ४.६५ श्रीशिव उवाच । भक्तानां लक्षणं साक्षाद्दुर्विज्ञेयं नृभिर्मुने । वैष्णवैरेव तद्वेद्यं पदान्यहिरहेरिव ॥ ४.६६ तथापि सारतस्तेषां लक्षणं यदलौकिकम् । वक्ष्ये तत्ते मुनिश्रेष्ठ विष्णुभक्तो यतो भवान् ॥ ४.६७ मच्चित्ता निरहंकारा ममकारविवर्जिताः । शास्त्रानुवर्तिनः शान्ताः सुहृदः सर्वदेहिनाम् ॥ ४.६८ यदा सर्वेषु भूतेषु हिंसन्तमपि कंचन । न हिंसन्ति तदा मुक्ता निर्गुणा भगवत्पराः ॥ ४.६९ हरिसेवां विना किंचिन्मन्यन्ते नात्मनः प्रियम् । वासुदेवपरा देहगेह इन्द्रियवृत्तयः ॥ ४.७० रागद्वेषादिरहिता मानामानविवर्जिताः । सदा संतुष्टमनसो भक्ता भागवता मताः ॥ ४.७१ सत्प्रीतिपरमाः शुद्धाः श्रुतिकीर्त्युक्तिनिष्ठिताः । त्रैवर्गिकपरालापस्नेहसङ्गविवर्जिताः ॥ ४.७२ सद्वाक्यकारिणः कृष्णयशस्युत्सुकमानसाः । हरिप्रीतिपरा एते भक्ता लोकप्रणामकाः ॥ ४.७३ भक्तानां लक्षणं ह्येतत्सामान्येन निरूपितम् । इदानीमात्मजिज्ञास्यं लक्षणं त्रिविधं शृणु ॥ ४.७४ सर्वात्मानं हरिं ज्ञात्वा सर्वेषु प्रीतिमान्नरः । सेवापरो द्वेषहीनो जनेषु स च सत्तमः ॥ ४.७५ ज्ञात्वापि सर्वगं विष्णुं तारतम्येन प्रीतिमान् । श्रेष्ठमध्यमनीचेषु ह्यात्मनः स तु मध्यमः ॥ ४.७६ प्रतिमादिष्वेव हरौ प्रीतिमान्न तु सर्वगे । प्राणिप्राणवधत्यागी प्राकृतः स तु वैष्णवः ॥ ४.७७ यस्येन्द्रियाणां सर्वेषां हरौ स्वाभाविकी रतिः । स वै महाभागवतो ह्युत्तमः परिकीर्तितः ॥ ४.७८ यस्य यत्नेनेन्द्रियाणां विष्णौ प्रीतिर्हि जायते । स वै भागवतो विप्रः मध्यमः समुदाहृतः ॥ ४.७९ यस्येन्द्रियैः कृष्णसेवा कृता प्रीतिविवर्जिता । स प्राकृतो भागवतो भक्तः कामविवर्जितः ॥ ४.८० हरिलीलाश्रुतोच्चारं यः प्रीत्या कुरुते सदा । स वै महाभागवतो ह्युत्तमो लोकपावनः ॥ ४.८१ श्रवणं कीर्तनं विष्णौ प्रीत्यायासौ तु यो नरः । कुर्यादहरहः शश्वत्प्रीतिमान् स च मध्यमः ॥ ४.८२ यामैकमात्रं यः कुर्याच्छ्रवणं कीर्तनं हरेः । प्रीत्या विष्णुजनद्वेषहीनः प्राकृत उच्यते ॥ ४.८३ यद्यन्यलक्षणं चान्यभक्ते लक्ष्येत सज्जनैः । तथापि निष्ठामालक्ष्य तं तं जानीहि सत्तम ॥ ४.८४ यद्धर्मनिष्ठा ये भक्ता भवन्ति द्विजसत्तम । तत्प्रसङ्गाद्यनुष्ठानं तत्प्रीतेः कारणं परम् ॥ ४.८५ तथापि निर्गुणा ये च ये च भागवता मताः । तेषु प्रीतिर्महाभाग दुष्करेति मयोच्यते ॥ ४.८६ हरिलीलाश्रुतोपचारपरेषु सततं त्वया । कार्या प्रीतिस्तव हरेर्यथा भक्तिर्न नश्यति ॥ ४.८७ इत्येतत्कथितं विप्र साधूनां लक्षणं पृथक् । भक्तेषु प्रीतिकरणं जनानां मुक्तिकारणम् ॥ ४.८८ साधनेन मया बाल भक्तिभेदो निरूपितः । स सार्ववर्णिकः शुद्धः सर्वाश्रमिश्रमापहः ॥ ४.८९ सर्वकालभवो नित्यः सर्वदैशिकसिद्धिदः । चतुर्युगेष्वभिमतो भगवत्प्रियसाधकः ॥ ४.९० षात्वततन्त्र, पञ्चमः पटलः श्रीनारद उवाच । कथितं मे सुरगुरो भगवद्भक्तिलक्षणम् । चतुर्युगेऽप्यभिमतं सर्वलोकसुखावहम् ॥ ५.१ अधुना वद देवेश जनानां हितकाम्यया । युगानुरूपं श्रीविष्णोः सेवया मोक्षसाधनम् ॥ ५.२ प्रजानां लक्षणं विष्णोर्भूतिर्लिङ्गं पृथग्विधम् । धर्मं च नामसंख्या च समासेन सुरेश्वर ॥ ५.३ श्रीशिव उवाच । कृते युगे प्रजाः सर्वाः शुद्धा रागादिवर्जिताः । औत्पत्तिकेन योगेन शान्ताः शमदृशो मताः ॥ ५.४ तेषां तु भगवद्ध्यानं संसारार्णवतारकम् । तदेव परमो धर्मस्तद्युगस्य महामते ॥ ५.५ तद्ध्यानं त्रिविधं प्रोक्तं दशभिर्नामभिर्युतम् । निरालम्बं सावलम्बं सर्वान्तर्यामिधारणम् ॥ ५.६ तत्षडङ्गयुतं कुर्यात्समाध्यवधिमुत्तमम् । दुःखग्रहं निरालम्बं प्रथमं शृणु सत्तम ॥ ५.७ अहिंसा ब्रह्मचर्यं च सत्यं लज्जा ह्यकार्यतः । अस्तेयोऽसंचयो मौनमसङ्गमभयं दया ॥ ५.८ धर्मे स्थैर्यं च विश्वासो यमा द्वादश सत्तम । यमाद्यमङ्गं प्रथमं कुर्याद्ध्याता ह्यतन्द्रितः ॥ ५.९ देहशौचं मनःशौचं जाप्यं होमं तपो व्रतम् । श्राद्धमतिथिशुश्रूषां तीर्थसेवां सुतुष्टिदाम् ॥ ५.१० परार्थेहां गुरोः सेवां द्विषङ्नियमसंज्ञितम् । कुर्याद्ध्यानं द्वितीयाङ्गं तृतीयाङ्गं च मे शृणु ॥ ५.११ स्वजानुलग्ने पादाग्रे कुर्याज्जङ्घेऽन्तरान्तरे । उत्सङ्गमध्ये हस्तौ द्वौ तत्स्थानमासनं स्मृतम् ॥ ५.१२ प्रणवेनैव मन्त्रेण पूरकुम्भकरेचकैः । विपर्ययेण वा कुर्यात्तुर्याङ्गं प्राणसंयमम् ॥ ५.१३ विषयेभ्यस्त्विन्द्रियाणां संयमं मनसा हृदि । कुर्यादतन्द्रितो योगी प्रत्याहारं तु पञ्चमम् ॥ ५.१४ प्राणेन मनसः साक्षात्स्थैर्यं ध्यानाङ्गमुत्तमम् । कुर्यात्समाहितो योगी स्वनासाग्रावलोकनः ॥ ५.१५ तेजोमयं स्वप्रकाशमवाङ्मनसगोचरम् । लक्षीकृत्य धिया तिष्ठेद्यावन्नैव प्रकाशते ॥ ५.१६ एवं चाहरहः कुर्वन् योगी संशुद्धकिल्बिषः । चिरात्प्राप्नोति परमां समाधिं ब्रह्मणः पदम् ॥ ५.१७ सावशेषं हरेर्ध्यानं शृणु विप्र समासतः । तेनैव विधिना युक्तो मनसा चिन्तयेद्यथा ॥ ५.१८ हृत्पद्मकर्णिकामध्ये शुद्धसत्त्वतनुं हरिम् । पुरुषं चतुर्भुजं ध्यायेच्छुद्धस्फटिकसंनिभम् ॥ ५.१९ जटाधरं वल्कलिनं कृष्णसाराजिनोत्तरम् । अक्षमालां यज्ञसूत्रं तथा दण्डकमण्डलुम् ॥ ५.२० बिभ्राणं हृद्युगाराध्यं ब्रह्मचारिणमव्ययम् । मुखारविन्दं सुनसं सुभ्रुवं सुकपालिनम् ॥ ५.२१ सुवर्णशकलाभातं सुद्विजं कम्बुकंधरम् । दीर्घायतचतुर्बाहुं करपल्लवशोभितम् ॥ ५.२२ सुचक्षुषं सुहृदयं सूदरं वलिभिर्युतम् । निम्ननाभिं सुचारूरुजानुजङ्घापदं शुभम् ॥ ५.२३ चार्वङ्गुलिदलाकारं नखचन्द्रद्युतिप्रभम् । एवं चिन्तयतो रूपं विष्णोर्लोकमनोहरम् ॥ ५.२४ तस्याशु परमानन्दः सम्पदाशु भविष्यति । आशुसिद्धिकरं चातः सर्वान्तर्यामिधारणम् ॥ ५.२५ शृणु स्ववहितो विप्र मानस्तम्भविवर्जितम् । सर्वं चराचरमिदं भगवद्रूपाधिष्ठितम् ॥ ५.२६ भावयेद्द्वेषहीनेन कायवाङ्मनसा द्विज । उत्तमान्मानयेद्भक्त्या समान्मित्रतया द्विज ॥ ५.२७ अधमान् दयया शत्रूनुपेक्षेत दयान्वितः । एवं भावयतस्तस्य यावत्सर्वात्मदर्शनम् ॥ ५.२८ अचिरात्परमानन्दसंदोहं मनसाप्नुयात् । त्रेतायां प्राणिनः सर्वे जपहोमपरायणाः ॥ ५.२९ सुविनीताः सुखावृत्ता महाशाला महात्मनः । तेषां तु भगवद्यागो ह्यञ्जसा मुक्तिसाधकः ॥ ५.३० स एव परमो धर्मस्त्रेतायां द्विजसत्तम । तस्मिन् यजन्ति रक्ताभं यज्ञमूर्तिं जगद्गुरुम् ॥ ५.३१ नित्यनैमित्तिकैः सत्त्रैर्यागैर्नामाष्टकायुतैः । त्रैविद्येन विधानेन यान्ति मुक्तिं तदा जनाः ॥ ५.३२ द्वापरे तु जना हृष्टाः पुष्टाः कर्मकृतिक्षमाः । भोगानुषक्तमनसः सुखदुःखत्वमावृताः ॥ ५.३३ भगवत्पूजनं तेषां मोक्षसाधनमुत्तमम् । साङ्गोपाङ्गं केवलं च द्विविधं पूजनं स्मृतम् ॥ ५.३४ तदेव परमो धर्मो द्वापरस्य युगस्य वै । तस्मिन् यजन्ति पुरुषा महाराजोक्तलक्षणम् ॥ ५.३५ पीतवर्णं वेदमन्त्रैर्नाम्नां द्वादशभिः समम् । कलौ प्रजा मन्दभाग्या अलसा दुःखसंयुताः ॥ ५.३६ शिश्नोदरपराः क्षुद्रा दीना मलिनचेतसः । तेषामेकविधं प्रोक्तमञ्जसा मुक्तिकारणम् ॥ ५.३७ सर्वसौख्यकरं चापि कृष्णनामानुकीर्तनम् । यतः कलियुगस्यादौ भगवान् पुरुषोत्तमः ॥ ५.३८ अवतीर्य यशस्तेने शुद्धं कलिमलापहम् । ध्यानयोगक्रियाः सर्वाः स संहत्य दयापरः ॥ ५.३९ स्वकीये यशसि स्थाप्य गतो वैकुण्ठमुत्तमम् । स तात परमो देवो देवकीदेविनन्दनः ॥ ५.४० इन्द्रनीलसमः श्यामस्तन्त्रमन्त्रैर्य इज्यते । तस्मिन् कलियुगे विप्र श्रुत्वा हरियशोऽमलाः ॥ ५.४१ प्रायो भक्ता भविष्यन्ति तस्माच्छ्रेष्ठयुगः कलिः । अतः कृतादिषु प्रजाः कलौ सम्भवमात्मनः ॥ ५.४२ वाञ्छन्ति धर्मपरमा भगवद्भक्तिकारणम् । ध्यानेनेष्टया पूजनेन यत्फलं लभ्यते जनैः ॥ ५.४३ कृतादिषु कलौ तद्वै कीर्तनादिषु लभ्यते । न देशकालकर्त्णां नियमः कीर्तने स्मृतः ॥ ५.४४ तस्मात्कलौ परो धर्मो हरिकीर्तेः सुकीर्तनम् । यतः कलिं प्रशसन्ति शिष्टास्त्रियुगवर्तिनः ॥ ५.४५ यत्र कीर्तनमात्रेण प्राप्नोति परमं पदम् । कृतादावपि ये जीवा न मुक्ता निजधर्मतः ॥ ५.४६ तेऽपि मुक्तिं प्रयास्यन्ति कलौ कीर्तनमात्रतः । कलेर्दोषसमुद्रस्य गुण एको महान् यतः ॥ ५.४७ नाम्नां संकीर्तनेनैव चातुर्वर्गं जनोऽश्नुते । कृतादिष्वपि विप्रेन्द्र हरिनामानुकीर्तनम् ॥ ५.४८ तपादिसाध्यं तद्भूयः कलावुभयतां गतम् । तस्मात्कलियुगे विष्णोर्नामकीर्तनमुत्तमम् ॥ ५.४९ साधनं भक्तिनिष्ठानां साध्यं चैव प्रकीर्तितम् । येन केनापि भावेन कीर्तयन् सततं हरिम् ॥ ५.५० हित्वा पापं गतिं यान्ति किमुतच्छ्रद्धया गृणन् । कलौ नामपरा एव सततं द्विजसत्तम ॥ ५.५१ उक्ता महाभागवता भगवत्प्रियकारिणः । तस्मात्सर्वात्मना विप्र कुरु श्रीकृष्णकीर्तनम् ॥ ५.५२ श्रद्धया सततं युक्त एतदेव महाफलम् ॥ ५.५३ षात्वततन्त्र, षष्ठः पटलः श्रीनारद उवाच । कथितं मे त्वया देव हरिनामानुकीर्तनम् । पापापहं महासौख्यं भगवद्भक्तिकारणम् ॥ ६.१ तत्राहं यानि नामानि कीर्तयामि सुरोत्तम । तान्यहं ज्ञातुमिच्छामि साकल्येन कुतूहलात् ॥ ६.२ श्रीशिव उवाच । भूम्यम्बुतेजसां ये वै परमाणूनपि द्विज । शक्यन्ते गणितुं भूयो जन्मभिर्न हरेर्गुणान् ॥ ६.३ तथापि मुख्यं वक्ष्यामि श्रीविष्णोः परमाद्भुतम् । नाम्नां सहस्रं पार्वत्यै यदि होक्तं कृपालुना ॥ ६.४ समाधिनिष्ठं मां दृष्ट्वा पार्वती वरवर्णिनी । अपृच्छत्परमं देवं भगवन्तं जगद्गुरुम् ॥ ६.५ तदा तस्यै मया प्रोक्तो मत्परो जगदीश्वरः । नाम्नां सहस्रं च तथा गुणकर्मानुसारतः ॥ ६.६ तदहं तेऽभिवक्ष्यामि महाभागवतो भवान् । यस्यैकस्मरणेनैव पुमान् सिद्धिमवाप्नुयात् ॥ ६.७ उद्यन्नवीनजलदाभमकुण्ठधिष्ण्यं विद्योतितानलमनोहरपीतवासम् । भास्वन्मयूखमुकुटाङ्गदहारयुक्तं काञ्चीकलापवलयाङ्गुलिभिर्विभातम् ॥ ६.८ ब्रह्मादिदेवगणवन्दितपादपद्यं श्रीसेवितं सकलसुन्दरसंनिवेशम् । गोगोपवनितामुनिवृन्दजुष्टं कृष्णं पुराणपुरुषं मनसा स्मरामि ॥ ६.९ ओं नमो वासुदेवाय कृष्णाय परमात्मने । प्रणतक्लेशसंहर्त्रे परमानन्ददायिने ॥ ६.१० ओं श्रीकृष्णः श्रीपतिः श्रीमान् श्रीधरः श्रीसुखाश्रयः । श्रीदाता श्रीकरः श्रीशः श्रीसेव्यः श्रीविभावनः ॥ ६.११ परमात्मा परं ब्रह्म परेशः परमेश्वरः । परानन्दः परं धाम परमानन्ददायकः ॥ ६.१२ निरालम्बो निर्विकारो निर्लेपो निरवग्रहः । नित्यानन्दो नित्यमुक्तो निरीहो निस्पृहप्रियः ॥ ६.१३ प्रियंवदः प्रियकरः प्रियदः प्रियसंजनः । प्रियानुगः प्रियालम्बी प्रियकीर्तिः प्रियात्प्रियः ॥ ६.१४ महात्यागी महाभोगी महायोगी महातपाः । महात्मा महतां श्रेष्ठो महालोकपतिर्महान् ॥ ६.१५ सिद्धार्थः सिद्धसंकल्पः सिद्धिदः सिद्धसाधनः । सिद्धेशः सिद्धमार्गाग्रः सिद्धलोकैकपालकः ॥ ६.१६ इष्टो विशिष्टः शिष्टेष्टो महिष्ठो जिष्णुरुत्तमः । ज्येष्ठः श्रेष्ठश्च सर्वेष्टो विष्णुर्भ्राजिष्णुरव्ययः ॥ ६.१७ विभुः शम्भुः प्रभुर्भूमा स्वभूः स्वानन्दमूर्तिमान् । प्रीतिमान् प्रीतिदाता च प्रीतिदः प्रीतिवर्धनः ॥ ६.१८ योगेश्वरो योगगम्यो योगीशो योगपारगः । योगदाता योगपतिर्योगसिद्धिविधायकः ॥ ६.१९ सत्यव्रतः सत्यपरः त्रिसत्यः सत्यकारणः । सत्याश्रयः सत्यहरः सत्पालिः सत्यवर्धनः ॥ ६.२० सर्वानन्दः सर्वहरः सर्वगः सर्ववश्यकृत् । सर्वपाता सर्वसुखः सर्वश्रुतिगणार्णवः ॥ ६.२१ जनार्दनो जगन्नाथो जगत्त्राता जगत्पिता । जगत्कर्ता जगद्धर्ता जगदानन्दमूर्तिमान् ॥ ६.२२ धरापतिर्लोकपतिः स्वर्पतिर्जगतांपतिः । विद्यापतिर्वित्तपतिः सत्पतिः कमलापतिः ॥ ६.२३ चतुरात्मा चतुर्बाहुश्चतुर्वर्गफलप्रदः । चतुर्व्यूहश्चतुर्धामा चतुर्युगविधायकः ॥ ६.२४ आदिदेवो देवदेवो देवेशो देवधारणः । देवकृद्देवभृद्देवो देवेडितपदाम्बुजः ॥ ६.२५ विश्वेश्वरो विश्वरूपी विश्वात्मा विश्वतोमुखः । विश्वसूर्विश्वफलदो विश्वगो विश्वनायकः ॥ ६.२६ भूतकृद्भूतभृद्भावो भूतात्मा भूतभावनः । भूतिदो भूतिविस्तारो विभूतिर्भूतिपालकः ॥ ६.२७ नारायणो नारशायी नारसूर्नारजीवनः । नारैकफलदो नारमुक्तिदो नारनायकः ॥ ६.२८ सहस्ररूपः साहस्रनामा साहस्रविग्रहः । सहस्रशीर्षा साहस्रपादाक्षिभुजशीर्षवान् ॥ ६.२९ पद्मनाभः पद्मगर्भः पद्मी पद्मनिभेक्षणः । पद्मशायी पद्ममाली पद्माङ्कितपदद्वयः ॥ ६.३० वीर्यवान् स्थैर्यवान् वाग्मी शौर्यवान् धैर्यवान् क्षमी । धीमान् धर्मपरो भोगी भगवान् भयनाशनः ॥ ६.३१ जयन्तो विजयो जेता जयदो जयवर्धनः । अमानो मानदो मान्यो महिमावान्महाबलः ॥ ६.३२ संतुष्टस्तोषदो दाता दमनो दीनवत्सलः । ज्ञानी यशस्वान् धृतिमान् सहओजोबलाश्रयः ॥ ६.३३ हयग्रीवो महातेजा महार्णवविनोदकृत् । मधुकैटभविध्वंसी वेदकृद्वेदपालकः ॥ ६.३४ सनत्कुमारः सनकः सनन्दश्च सनातनः । अखण्डब्रह्मव्रतवानात्मा योगविवेचकः ॥ ६.३५ श्रीनारदो देवऋषिः कर्माकर्मप्रवर्तकः । सात्वतागमकृल्लोकहिताहितप्रसूचकः ॥ ६.३६ आदिकालो यज्ञतत्त्वं धातृनासापुटोद्भवः । दन्ताग्रन्यस्तभूगोलो हिरण्याक्षबलान्तकः ॥ ६.३७ पृथ्वीपतिः शीघ्रवेगो रोमान्तर्गतसागरः । श्वासावधूतहेमाद्रिः प्रजापतिपतिस्तुतः ॥ ६.३८ अनन्तो धरणीभर्ता पातालतलवासकृत् । कामाग्निजवनो नागराजराजो महाद्युतिः ॥ ६.३९ महाकूर्मो विश्वकायः शेषभृक्सर्वपालकः । लोकपितृगणाधीशः पितृस्तुतमहापदः ॥ ६.४० कृपामयः स्वयं व्यक्तिर्ध्रुवप्रीतिविवर्धनः । ध्रुवस्तुतपदो विष्णुलोकदो लोकपूजितः ॥ ६.४१ शुक्लः कर्दमसंतप्तस्तपस्तोषितमानसः । मनोऽभीष्टप्रदो हर्षबिन्द्वञ्चितसरोवरः ॥ ६.४२ यज्ञः सुरगणाधीशो दैत्यदानवघातकः । मनुत्राता लोकपालो लोकपालकजन्मकृत् ॥ ६.४३ कपिलाख्यः सांख्यपाता कर्दमाङ्गसमुद्भवः । सर्वसिद्धगणाधीशो देवहूतिगतिप्रदः ॥ ६.४४ दत्तोऽत्रितनयो योगी योगमार्गप्रदर्शकः । अनसूयानन्दकरः सर्वयोगिजनस्तुतः ॥ ६.४५ नारायणो नरऋषिर्धर्मपुत्रो महामनाः । महेशशूलदमनो महेशैकवरप्रदः ॥ ६.४६ आकल्पान्ततपोधीरो मन्मथादिमदापहः । ऊर्वशीसृग्जितानङ्गो मार्कण्डेयप्रियप्रदः ॥ ६.४७ ऋभवो नाभिसुखदो मेरुदेवीप्रियात्मजः । योगिराजद्विजस्रष्टा योगचर्याप्रदर्शकः ॥ ६.४८ अष्टबाहुर्दक्षयज्ञपावनोऽखिलसत्कृतः । दक्षेशद्वेषशमनो दक्षज्ञानप्रदायकः ॥ ६.४९ प्रियव्रतकुलोत्पन्नो गयनामा महायशाः । उदारकर्मा बहुविन्महागुणगणार्णवः ॥ ६.५० हंसरूपी तत्त्ववक्ता गुणागुणविवेचकः । धातृलज्जाप्रशमनो ब्रह्मचारिजनप्रियः ॥ ६.५१ वैश्यः पृथुः पृथ्विदोग्धा सर्वजीवनदोहकृत् । आदिराजो जनावासकारको भूसमीकरः ॥ ६.५२ प्रचेतोऽभिष्टुतपदः शान्तमूर्तिः सुदर्शनः । दिवारात्रिगणाधीशः केतुमानजनाश्रयः ॥ ६.५३ श्रीकामदेवः कमलाकामकेलिविनोदकृत् । स्वपादरतिदोऽभीष्टसुखदो दुःखनाशनः ॥ ६.५४ विभुर्धर्मभृतां श्रेष्ठो वेदशीर्षो द्विजात्मजः । अष्टाशीतिसहस्राणां मुनीनामुपदेशदः ॥ ६.५५ सत्यसेनो यक्षरक्षोदहनो दीनपालकः । इन्द्रमित्रः सुरारिघ्नः सूनृताधर्मनन्दनः ॥ ६.५६ हरिर्गजवरत्राता ग्राहपाशविनाशकः । त्रिकूटाद्रिवनश्लाघी सर्वलोकहितैषणः ॥ ६.५७ वैकुण्ठशुभ्रासुखदो विकुण्ठासुन्दरीसुतः । रमाप्रियकरः श्रीमान्निजलोकप्रदर्शकः ॥ ६.५८ विप्रशापपरीखिन्ननिर्जरार्तिनिवारणः । दुग्धाब्धिमथनो विप्रो विराजतनयोऽजितः ॥ ६.५९ मन्दाराद्रिधरः कूर्मो देवदानवशर्मकृत् । जम्बूद्वीपसमः स्रष्टा पीयूषोत्पत्तिकारणम् ॥ ६.६० धन्वन्तरी रुक्शमनोऽमृतधुक्रुक्प्रशान्तकः । आयुर्वेदकरो वैद्यराजो विद्याप्रदायकः ॥ ६.६१ देवाभयकरो दैत्यमोहिनी कामरूपिणी । गीर्वाणामृतपो दुष्टदैत्यदानववञ्चकः ॥ ६.६२ महामत्स्यो महाकायः शल्कान्तर्गतसागरः । वेदारिदैत्यदमनो व्रीहिबीजसुरक्षकः ॥ ६.६३ पुच्छाघातभ्रमत्सिन्धुः सत्यव्रतप्रियप्रदः । भक्तसत्यव्रतत्राता योगत्रयप्रदर्शकः ॥ ६.६४ नरसिंहो लोकजिह्वः शङ्कुकर्णो नखायुधः । सटावधूतजलदो दन्तद्युतिजितप्रभः ॥ ६.६५ हिरण्यकशिपुध्वंसी बहुदानवदर्पहा । प्रवदस्तुतपादाब्जो भक्तसंसारतापहा ॥ ६.६६ ब्रह्मेन्द्ररुद्रभीतिघ्नो देवकार्यप्रसाधकः । ज्वलज्ज्वलनसंकाशः सर्वभीतिविनाशकः ॥ ६.६७ महाकलुषविध्वंसी सर्वकामवरप्रदः । कालविक्रमसंहर्ता ग्रहपीडाविनाशकः ॥ ६.६८ सर्वव्याधिप्रशमनः प्रचण्डरिपुदण्डकृत् । उग्रभैरवसंत्रस्तहरार्तिविनिवारकः ॥ ६.६९ ब्रह्मचर्मावृतशिराः शिवशीर्षैकनूपुरः । द्वादशादित्यशीर्षैकमणिर्दिक्पालभूषणः ॥ ६.७० वामनोऽदितिभीतिघ्नो द्विजातिगणमण्डनः । त्रिपदव्याजयाञ्चाप्तवलित्रैलोक्यसम्पदः ॥ ६.७१ पन्नखक्षतब्रह्माण्डकटाहोऽमितविक्रमः । स्वर्धुनीतीर्थजननो ब्रह्मपूज्यो भयापहः ॥ ६.७२ स्वाङ्घ्रिवारिहताघौघो विश्वरूपैकदर्शनः । बलिप्रियकरो भक्तस्वर्गदोग्धा गदाधरः ॥ ६.७३ जामदग्न्यो महावीर्यः पर्शुभृत्कार्तवीर्यजित् । सहस्रार्जुनसंहर्ता सर्वक्षत्रकुलान्तकः ॥ ६.७४ निःक्षत्रपृथ्वीकरणो वीरजिद्विप्रराज्यदः । द्रोणास्त्रवेदप्रवदो महेशगुरुकीर्तिदः ॥ ६.७५ सूर्यवंशाब्जतरणिः श्रीमद्दशरथात्मजः । श्रीरामो रामचन्द्रश्च रामभद्रोऽमितप्रभः ॥ ६.७६ नीलवर्णप्रतीकाशः कौसल्याप्राणजीवनः । पद्मनेत्रः पद्मवक्रः पद्माङ्कितपदाम्बुजः ॥ ६.७७ प्रलम्बबाहुश्चार्वङ्गो रत्नाभरणभूषितः । दिव्याम्बरो दिव्यधनुर्दिष्टदिव्यास्त्रपारगः ॥ ६.७८ निस्त्रिंशपाणिवीरेशोऽपरिमेयपराक्रमः । विश्वामित्रगुरुर्धन्वी धनुर्वेदविदुत्तमः ॥ ६.७९ ऋजुमार्गनिमित्तेषु संघताडितताडकः । सुबाहुर्बाहुवीर्याढ्यबहुराक्षसघातकः ॥ ६.८० प्राप्तचण्डीशदोर्दण्डचण्डकोदण्डखण्डनः । जनकानन्दजनको जानकीप्रियनायकः ॥ ६.८१ अरातिकुलदर्पघ्नो ध्वस्तभार्गवविक्रमः । पितृवाक्सक्तराज्यधीर्वनवासकृतोत्सवः ॥ ६.८२ विराधराधदमनश्चित्रकूटाद्रिमन्दिरः । द्विजशापसमुच्छन्नदण्डकारण्यकर्मकृत् ॥ ६.८३ चतुर्दशसहस्रोग्रराक्षसघ्नः खरान्तकः । त्रिशिरःप्राणशमनो दुष्टदूषणदूषणः ॥ ६.८४ छद्ममारीचमथनो जानकीविरहार्तिहृत् । जटायुषः क्रियाकारी कबन्धवधकोविदः ॥ ६.८५ ऋष्यमूकगुहावासी कपिपञ्चमसख्यकृत् । वामपादाग्रनिक्षिप्तदुन्दुभ्यस्थिबृहद्गिरिः ॥ ६.८६ सकण्टकारदुर्भेदसप्ततालप्रभेदकः । किष्किन्धाधिपवालिघ्नो मित्रसुग्रीवराज्यदः ॥ ६.८७ आञ्जनेयस्वलाङ्गूलदग्धलङ्कामहोदयः । सीताविरहविस्पष्टरोषक्षोभितसागरः ॥ ६.८८ गिरिकूटसमुत्क्षेपसमुद्राद्भुतसेतुकृत् । पादप्रहारसंत्रस्तविभीषणभयापहः ॥ ६.८९ अङ्गदोक्तिपरिक्लिष्टघोररावणसैन्यजित् । निकुम्भकुम्भधूम्राक्षकुम्भकर्णादिवीरहा ॥ ६.९० कैलाससहनोन्मत्तदशाननशिरोहरः । अग्निसंस्पर्शसंशुद्धसीतासंवरणोत्सुकः ॥ ६.९१ कपिराक्षसराजाङ्गप्राप्तराज्यनिजाश्रयः । अयोध्याधिपतिः सर्वराजन्यगणशेखरः ॥ ६.९२ अचिन्त्यकर्मा नृपतिः प्राप्तसिंहासनोदयः । दुष्टदुर्बुद्धिदलनो दीनहीनैकपालकः ॥ ६.९३ सर्वसम्पत्तिजननस्तिर्यङ्न्यायविवेचकः । शूद्रघोरतपःप्लुष्टद्विजपुत्रैकजीवनः ॥ ६.९४ दुष्टवाक्क्लिष्टहृदयः सीतानिर्वासकारकः । तुरंगमेधक्रतुयाट्श्रीमत्कुशलवात्मजः ॥ ६.९५ सत्यार्थत्यक्तसौमित्रिः सून्नीतजनसंग्रहः । सत्कर्णपूरसत्कीर्तिः कीर्त्यालोकाघनाशनः ॥ ६.९६ भरतो ज्येष्ठपादाब्जरतित्यक्तनृपासनः । सर्वसद्गुणसम्पन्नः कोटिगन्धर्वनाशकः ॥ ६.९७ लक्ष्मणो ज्येष्ठनिरतो देववैरिगणान्तकः । इन्द्रजित्प्राणशमनो भ्रातृमान् त्यक्तविग्रहः ॥ ६.९८ शत्रुघ्नोऽमित्रशमनो लवणान्तककारकः । आर्यभ्रातृजनश्लाघ्यः सतां श्लाघ्यगुणाकरः ॥ ६.९९ वटपत्त्रपुटस्थायी श्रीमुकुन्दोऽखिलाश्रयः । तनूदरार्पितजगन्मृकण्डतनयः खगः ॥ ६.१०० आद्यो देवगणाग्रण्यो मितस्तुतिनतिप्रियः । वृत्रघोरतनुत्रस्तदेवसन्मन्त्रसाधकः ॥ ६.१०१ ब्रह्मण्यो ब्राह्मणश्लाघी ब्रह्मण्यजनवत्सलः । गोष्पदाप्सुगलद्गात्रवालखिल्यजनाश्रयः ॥ ६.१०२ दौस्वस्तिर्यज्वनां श्रेष्ठो नृपविस्मयकारकः । तुरंगमेधबहुकृद्वदान्यगणशेखरः ॥ ६.१०३ वासवीतनयो व्यासो वेदशाखानिरूपकः । पुराणभारताचार्यः कलिलोकहितैषणः ॥ ६.१०४ रोहिणीहृदयानन्दो बलभद्रो बलाश्रयः । संकर्षणः सीरपाणिः मुसलास्त्रोऽमलद्युतिः ॥ ६.१०५ शङ्खकुन्देन्दुश्वेताङ्गस्तालभिद्धेनुकान्तकः । मुष्टिकारिष्टहननो लाङ्गलाकृष्टयामुनः ॥ ६.१०६ प्रलम्बप्राणहा रुक्मीमथनो द्विविदान्तकः । रेवतीप्रीतिदो रामारमणो बल्वलान्तकः ॥ ६.१०७ हस्तिनापुरसंकर्षी कौरवार्चितसत्पदः । ब्रह्मादिस्तुतपादाब्जो देवयादवपालकः ॥ ६.१०८ मायापतिर्महामायो महामायानिदेशकृत् । यदुवंशाब्धिपूर्णेन्दुर्बलदेवप्रियानुजः ॥ ६.१०९ नराकृतिः परं ब्रह्म परिपूर्णः परोदयः । सर्वज्ञानादिसम्पूर्णः पूर्णानन्दः पुरातनः ॥ ६.११० पीताम्बरः पीतनिद्रः पीतवेश्ममहातपाः । महोरस्कोमहाबाहुर्महार्हमणिकुण्डलः ॥ ६.१११ लसद्गण्डस्थलीहैममौलिमालाविभूषितः । सुचारुकर्णः सुभ्राजन्मकराकृतिकुण्डलः ॥ ६.११२ नीलकुञ्चितसुस्निग्धकुन्तलः कौमुदीमुखः । सुनासः कुन्ददशनो लसत्कोकनदाधरः ॥ ६.११३ सुमन्दहासो रुचिरभ्रूमण्डलविलोकनः । कम्बुकण्ठो बृहद्ब्रह्मा वलयाङ्गदभूषणः ॥ ६.११४ कौस्तुभी वनमाली च शङ्खचक्रगदाब्जभृत् । श्रीवत्सलक्ष्म्यालक्ष्याङ्गः सर्वलक्षणलक्षणः ॥ ६.११५ दलोदरो निम्ननाभिर्निरवद्यो निराश्रयः । नितम्बबिम्बव्यालब्बिकिङ्किणीकाञ्चिमण्डितः ॥ ६.११६ समजङ्घाजानुयुग्मः सुचारुरुचिराजितः । ध्वजवज्राङ्कुशाम्भोजशराङ्कितपदाम्बुजः ॥ ६.११७ भक्तभ्रमरसंघातपीतपादाम्बुजासवः । नखचन्द्रमणिज्योत्स्नाप्रकाशितमहामनाः ॥ ६.११८ पादाम्बुजयुगन्यस्तलसन्मञ्जीरराजितः । स्वभक्तहृदयाकाशलसत्पङ्कजविस्तरः ॥ ६.११९ सर्वप्राणिजनानन्दो वसुदेवनुतिप्रियः । देवकीनन्दनो लोकनन्दिकृद्भक्तभीतिभित् ॥ ६.१२० शेषानुगः शेषशायी यशोदानतिमानदः । नन्दानन्दकरो गोपगोपीगोकुलबान्धवः ॥ ६.१२१ सर्वव्रजजनानन्दी भक्तवल्लभववल्लभः । वल्यव्यङ्गलसद्गात्रो बल्लवीबाहुमध्यगः ॥ ६.१२२ पीतपूतनिकास्तन्यः पूतनाप्राणशोषणः । पूतनोरस्थलस्थायी पूतनामोक्षदायकः ॥ ६.१२३ समागतजनानन्दी शकटोच्चाटकारकः । प्राप्तविप्राशिषोधीशो लघिमादिगुणाश्रयः ॥ ६.१२४ तृणावर्तगलग्राही तृणावर्तनिषूदनः । जनन्यानन्दजनको जनन्यामुखविश्वदृक् ॥ ६.१२५ बालक्रीडारतो बालभाषालीलादिनिर्वृतः । गोपगोपीप्रियकरो गीतनृत्यानुकारकः ॥ ६.१२६ नवनीतविलिप्ताङ्गो नवनीतलवप्रियः । नवनीतलवाहारी नवनीतानुतस्करः ॥ ६.१२७ दामोदरोऽर्जुनोन्मूलो गोपैकमतिकारकः । वृन्दावनवनक्रीडो नानाक्रीडाविशारदः ॥ ६.१२८ वत्सपुच्छसमाकर्षी वत्सासुरनिषूदनः । बकारिरघसंहारी बालाद्यन्तकनाशनः ॥ ६.१२९ यमुनानिलसंजुष्टसुमृष्टपुलिनप्रियः । गोपालबालपूगस्थः स्निग्धदध्यन्नभोजनः ॥ ६.१३० गोगोपगोपीप्रियकृद्धनभृन्मोहखण्डनः । विधातुर्मोहजनकोऽत्यद्भुतैश्वर्यदर्शकः ॥ ६.१३१ विधिस्तुतपदाम्भोजो गोपदारकबुद्धिभित् । कालीयदर्पदलनो नागनारीनुतिप्रियः ॥ ६.१३२ दावाग्निशमनः सर्वव्रजभृज्जनजीवनः । मुञ्जारण्यप्रवेशाप्तकृच्छ्रदावाग्निदारणः ॥ ६.१३३ सर्वकालसुखक्रीडो बर्हिबर्हावतंसकः । गोधुग्वधूजनप्राणो वेणुवाद्यविशारदः ॥ ६.१३४ गोपीपिधानारुन्धानो गोपीव्रतवरप्रदः । विप्रदर्पप्रशमनो विप्रपत्नीप्रसाददः ॥ ६.१३५ शतक्रतुवरध्वंसी शक्रदर्पमदापहः । धृतगोवर्धनगिरिर्व्रजलोकाभयप्रदः ॥ ६.१३६ इन्द्रकीर्तिलसत्कीर्तिर्गोविन्दो गोकुलोत्सवः । नन्दत्राणकरो देवजलेशेडितसत्कथः ॥ ६.१३७ व्रजवासिजनश्लाघ्यो निजलोकप्रदर्शकः । सुवेणुनादमदनोन्मत्तगोपीविनोदकृत् ॥ ६.१३८ गोधुग्वधूदर्पहरः स्वयशःकीर्तनोत्सवः । व्रजाङ्गनाजनारामो व्रजसुन्दरीवल्लभः ॥ ६.१३९ रासक्रीडारतो रासमहामण्डलमण्डनः । वृन्दावनवनामोदी यमुनाकूलकेलिकृत् ॥ ६.१४० गोपिकागीतिकागीतः शङ्खचूडशिरोहरः । महासर्पमुखग्रस्तत्रस्तनन्दविमोचकः ॥ ६.१४१ सुदर्शनार्चितपदो दुष्टारिष्टविनाशकः । केशिद्वेषो व्योमहन्ता श्रुतनारदकीर्तनः ॥ ६.१४२ अक्रूरप्रियकृत्क्रूररजकघ्नः सुवेशकृत् । सुदामदत्तमालाढ्यः कुब्जाचन्दनचर्चितः ॥ ६.१४३ मथुराजनसंहर्षी चण्डकोदण्डखण्डकृत् । कंससैन्यसमुच्छेदी वणिग्विप्रगणार्चितः ॥ ६.१४४ महाकुवलयापीडघाती चाणुरमर्दनः । रागशालागतापारनरनारीकृतोत्सवः ॥ ६.१४५ कंसध्वंसकरः कंसस्वसारूप्यगतिप्रदः । कृतोग्रसेननृपतिः सर्वयादसौख्यकृत् ॥ ६.१४६ तातमातृकृतानन्दो नन्दगोपप्रसाददः । श्रितसांदीपनिगुरुर्विद्यासागरपारगः ॥ ६.१४७ दैत्यपञ्चजनध्वंसी पाञ्चजन्यदरप्रियः । सांदीपनिमृतापत्यदाता कालयमार्चितः ॥ ६.१४८ सैरन्ध्रीकामसंतापशमनोऽक्रूरप्रीतिदः । शार्ङ्गचापधरो नानाशरसंधानकोविदः ॥ ६.१४९ अभेद्यदिव्यकवचः श्रीमद्दारुकसारथिः । खगेन्द्रचिह्नितध्वजश्चक्रपाणिर्गदाधरः ॥ ६.१५० नन्दकीयदुसेनाढ्योऽक्षयबाणनिषङ्गवान् । सुरासुराजेयरण्यो जितमागधयूथपः ॥ ६.१५१ मागधध्वजिनीध्वंसी मथुरापुरपालकः । द्वारकापुरनिर्माता लोकस्थितिनियामकः ॥ ६.१५२ सर्वसम्पत्तिजननः स्वजनानन्दकारकः । कल्पवृक्षाक्षितमहिः सुधर्मानीतभूतलः ॥ ६.१५३ यवनासुरसंहर्ता मुचुकुन्देष्टसाधकः । रुक्मिणीद्विजसंमन्त्ररथैकगतकुण्डिनः ॥ ६.१५४ रुक्मिणीहारको रुक्मिमुण्डमुण्डनकारकः । रुक्मिणीप्रियकृत्साक्षाद्रुक्मिणीरमणीपतिः ॥ ६.१५५ रुक्मिणीवदनाम्भोजमधुपानमधुव्रतः । स्यमन्तकनिमित्तात्मभक्तर्क्षाधिपजित्शुचिः ॥ ६.१५६ जाम्बवार्चितपादाब्जः साक्षाज्जाम्बवतीपतिः । सत्यभामाकरग्राही कालिन्दीसुन्दरीप्रियः ॥ ६.१५७ सुतीक्ष्णशृङ्गवृषभसप्तजिद्राजयूथभित् । नग्नजित्तनयासत्यानायिकानायकोत्तमः ॥ ६.१५८ भद्रेशो लक्ष्मणाकान्तो मित्रविन्दाप्रियेश्वरः । मुरुजित्पीठसेनानीनाशनो नरकान्तकः ॥ ६.१५९ धरार्चितपदाम्भोजो भगदत्तभयापहा । नरकाहृतदिव्यस्त्रीरत्नवाहादिनायकः ॥ ६.१६० अष्टोत्तरशतद्व्यष्टसहस्त्रस्त्रीविलासवान् । सत्यभामाबलावाक्यपारिजातापहारकः ॥ ६.१६१ देवेन्द्रबलभिज्जायाजातनानाविलासवान् । रुक्मिणीमानदलनः स्त्रीविलासाविमोहितः ॥ ६.१६२ कामतातः साम्बसुतोऽसंख्यपुत्रप्रपौत्रवान् । उशाशागतपौत्रार्थबाणबाहुसस्रछित् ॥ ६.१६३ नन्द्यादिप्रमथध्वंसी लीलाजितमहेश्वरः । महादेवस्तुतपदो नृगदुःखविमोचकः ॥ ६.१६४ ब्रह्मस्वापहरक्लेशकथास्वजनपालकः । पौण्ड्रकारिः काशिराजशिरोहर्ता सदाजितः ॥ ६.१६५ सुदक्षिणाव्रताराध्यशिवकृत्यानलान्तकः । वाराणसीप्रदहनो नारदेक्षितवैभवः ॥ ६.१६६ अद्भुतैश्वर्यमहिमा सर्वधर्मप्रवर्तकः । जरासंधनिरोधार्तभूभुजेरितसत्कथः ॥ ६.१६७ नारदेरितसन्मित्रकार्यगौरवसाधकः । कलत्रपुत्रसन्मित्रसद्वृत्ताप्तगृहानुगः ॥ ६.१६८ जरासंधवधोद्योगकर्ता भूपतिशर्मकृत् । सन्मित्रकृत्याचरितो राजसूयप्रवर्तकः ॥ ६.१६९ सर्वर्षिगणसंस्तुत्यश्चैद्यप्राणनिकृन्तकः । इन्द्रप्रस्थजनैः पूज्यो दुर्योधनविमोहनः ॥ ६.१७० महेशदत्तसौभाग्यपुरभित्शत्रुघातकः । दन्तवक्ररिपुच्छेत्ता दन्तवक्रगतिप्रदः ॥ ६.१७१ विदूरथप्रमथनो भूरिभारावतारकः । पार्थदूतः पार्थहितः पार्थार्थः पार्थसारथिः ॥ ६.१७२ पार्थमोहसमुच्छेदी गीताशास्त्रप्रदर्शकः । पार्थबाणगतप्राणवीरकैवल्यरूपदः ॥ ६.१७३ दुर्योधनादिदुर्वृत्तदहनो भीष्ममुक्तिदः । पार्थाश्वमेधाहरकः पार्थराज्यप्रसाधकः ॥ ६.१७४ पृथाभीष्टप्रदो भीमजयदो विजयप्रदः । युधिष्ठिरेष्टसंदाता द्रौपदीप्रीतिसाधकः ॥ ६.१७५ सहदेवेरितपदो नकुलार्चितविग्रहः । ब्रह्मास्त्रदग्धगर्भस्थपुरुवंशप्रसाधकः ॥ ६.१७६ पौरवेन्द्रपुरस्त्रीभ्यो द्वारकागमनोत्सवः । आनर्तदेशनिवसत्प्रजेरितमहत्कथः ॥ ६.१७७ प्रियप्रीतिकरो मित्रविप्रदारिद्र्यभञ्जनः । तीर्थापदेशसन्मित्रप्रियकृन्नन्दनन्दनः ॥ ६.१७८ गोपीजनज्ञानदाता तातक्रतुकृतोत्सवः । सद्वृत्तवक्ता सद्वृत्तकर्ता सद्वृत्तपालकः ॥ ६.१७९ तातात्मज्ञानसंदाता देवकीमृतपुत्रदः । श्रुतदेवप्रियकरो मैथिलानन्दवर्धनः ॥ ६.१८० पार्थदर्पप्रशमनो मृतविप्रसुतप्रदः । स्त्रीरत्नवृन्दसंतोषी जनकेलिकलोत्सवः ॥ ६.१८१ चन्द्रकोटिजनानन्दी भानुकोटिसमप्रभः । कृतान्तकोटिदुर्लङ्घ्यः कामकोटिमनोहरः ॥ ६.१८२ यक्षराट्कोटिधनवान्मरुत्कोटिस्ववीर्यवान् । समुद्रकोटिगम्भीरो हिमवत्कोट्यकम्पनः ॥ ६.१८३ कोट्यश्वमेधाढ्यहरः तीर्थकोट्यधिकाह्वयः । पीयूषकोटिमृत्युघ्नः कामधुक्कोट्यभीष्टदः ॥ ६.१८४ शक्रकोटिविलासाढ्यः कोटिब्रह्माण्डनायकः । सर्वामोघोद्यमोऽनन्तकीर्तिनिःसीमपौरुषः ॥ ६.१८५ सर्वाभीष्टप्रदयशाः पुण्यश्रवणकीर्तनः । ब्रह्मादिसुरसंगीतवीतमानुषचेष्टितः ॥ ६.१८६ अनादिमध्यनिधनो वृद्धिक्षयविवर्जितः । स्वभक्तोद्धवमुख्यैकज्ञानदो ज्ञानविग्रहः ॥ ६.१८७ विप्रशापच्छलध्वस्तयदुवंशोग्रविक्रमः । सशरीरजराव्याधस्वर्गदः स्वर्गिसंस्तुतः ॥ ६.१८८ मुमुक्षुमुक्तविषयिजनानन्दकरो यशः । कलिकालमलध्वंसियशाः श्रवणमङ्गलः ॥ ६.१८९ भक्तप्रियो भक्तहितो भक्तभ्रमरपङ्कजः । स्मृतमात्राखिलत्राता यन्त्रमन्त्रप्रभञ्जकः ॥ ६.१९० सर्वसम्पत्स्राविनामा तुलसीदामवल्लभः । अप्रमेयवपुर्भास्वदनर्घ्याङ्गविभूषणः ॥ ६.१९१ विश्वैकसुखदो विश्वसज्जनानन्दपालकः । सर्वदेवशिरोरत्नमद्भुतानन्तभोगवान् ॥ ६.१९२ अधोक्षजो जनाजीव्यः सर्वसाधुजनाश्रयः । समस्तभयभिन्नामा स्मृतमात्रार्तिनाशकः ॥ ६.१९३ स्वयशःश्रवणानन्दजनरागी गुणार्णवः । अनिर्देश्यवपुस्तप्तशरणो जीवजीवनः ॥ ६.१९४ परमार्थः परंवेद्यः परज्योतिः परागतिः । वेदान्तवेद्यो भगवाननन्तसुखसागरः ॥ ६.१९५ जगद्बन्धध्वंसयशा जगज्जीवजनाश्रयः । वैकुण्ठलोकैकपतिर्वैकुण्ठजनवल्लभः ॥ ६.१९६ प्रद्युम्नो रुक्मिणीपुत्रः शम्बरघ्नो रतिप्रियः । पुष्पधन्वा विश्वजयी द्युमत्प्राणनिषूदकः ॥ ६.१९७ अनिरुद्धः कामसुतः शब्दयोनिर्महाक्रमः । उषापतिर्वृष्णिपतिर्हृषीकेशो मनःपतिः ॥ ६.१९८ श्रीमद्भागवताचार्यः सर्ववेदान्तसागरः । शुकः सकलधर्मज्ञः परीक्षिन्नृपसत्कृतः ॥ ६.१९९ श्रीबुद्धो दुष्टबुद्धिघ्नो दैत्यवेदबहिष्करः । पाखण्डमार्गप्रवदो निरायुधजगज्जयः ॥ ६.२०० कल्की कलियुगाच्छादी पुनः सत्यप्रवर्तकः । विप्रविष्णुयशोऽपत्यो नष्टधर्मप्रवर्तकः ॥ ६.२०१ सारस्वतः सार्वभौमो बलित्रैलोक्यसाधकः । अष्टम्यन्तरसद्धर्मवक्ता वैरोचनिप्रियः ॥ ६.२०२ आपः करो रमानाथोऽमरारिकुलकृन्तनः । श्रुतेन्द्रहितकृद्धीरवीरमुक्तिबलप्रदः ॥ ६.२०३ विष्वक्सेनः शम्भुसखो दशमान्तरपालकः । ब्रह्मसावर्णिवंशाब्धिहितकृद्विश्ववर्धनः ॥ ६.२०४ धर्मसेतुरधर्मघ्नो वैध्यतन्त्रपदप्रदः । असुरान्तकरो देवार्थकसूनुः सुभाषणः ॥ ६.२०५ स्वधामा सूनृतासूनुः सत्यतेजो द्विजात्मजः । द्विषण्मनुयुगत्राता पातालपुरदारणः ॥ ६.२०६ दैवहोत्रिर्वार्हतोयो दिवस्पतिरतिप्रियः । त्रयोदशान्तरत्राता योगयोगिजनेश्वरः ॥ ६.२०७ सत्त्रायणो बृहद्बाहुर्वैनतेयो विदुत्तमः । कर्मकाण्डैकप्रवदो वेदतन्त्रप्रवर्तकः ॥ ६.२०८ परमेष्ठी सुरज्येष्ठो ब्रह्मा विश्वसृजांपतिः । अब्जयोनिर्हंसवाहः सर्वलोकपितामहः ॥ ६.२०९ विष्णुः सर्वजगत्पाता शान्तः शुद्धः सनातनः । द्विजपूज्यो दयासिन्धुः शरण्यो भक्तवत्सलः ॥ ६.२१० रुद्रो मूढः शिवः शास्ता शम्भुः सर्वहरो हरः । कपर्दी शंकरः शूली त्र्यक्षोऽभेद्यो महेश्वरः ॥ ६.२११ सर्वाध्यक्षः सर्वशक्तिः सर्वार्थः सर्वतोमुखः । सर्वावासः सर्वरूपः सर्वकारणकारणम् ॥ ६.२१२ इत्येतत्कथितं विप्र विष्णोर्नामसहस्रकम् । सर्वपापप्रशमनं सर्वाभीष्टफलप्रदम् ॥ ६.२१३ मनःशुद्धिकरं चाशु भगवद्भक्तिवर्धनम् । सर्वविघ्नहरं सर्वाश्चर्यैश्वर्यप्रदायकम् ॥ ६.२१४ सर्वदुःखप्रशमनं चातुर्वर्ग्यफलप्रदम् । श्रद्धया परया भक्त्या श्रवणात्पठनाज्जपात् ॥ ६.२१५ प्रत्यहं सर्ववर्णानां विष्णुपादाश्रितात्मनाम् । एतत्पठन् द्विजो विद्यां क्षत्रियः पृथिवीमिमाम् ॥ ६.२१६ वैश्यो महानिधिं शूद्रो वाञ्छितां सिद्धिमाप्नुयात् । द्वात्रिंशदपराधान्यो ज्ञानाज्ञानाच्चरेद्धरेः ॥ ६.२१७ नाम्ना दशापराधांश्च प्रमादादाचरेद्यदि । समाहितमना ह्येतत्पठेद्वा श्रावयेज्जपेत् ॥ ६.२१८ स्मरेद्वा शृणुयाद्वापि तेभ्यः सद्यः प्रमुच्यते । नातः परतरं पुण्यं त्रिषु लोकेषु विद्यते ॥ ६.२१९ यस्यैककीर्तनेनापि भवबन्धाद्विमुच्यते । अतस्त्वं सततं भक्त्या श्रद्धया कीर्तनं कुरु ॥ ६.२२० विष्णोर्नामसहस्रं ते भगवत्प्रीतिकारणम् । श्रीनारद उवाच । धन्योऽस्म्यनुगृहीतोऽस्मि त्वयातिकरुणात्मना । यतः कृष्णस्य परमं सहस्रं नामकीर्तितम् ॥ ६.२२१ यद्यालस्यात्प्रमादाद्वा सर्वं पठितुमन्वहम् । न शक्नोमि तदा देव किं करोमि वद प्रभो ॥ ६.२२२ श्रीशिव उवाच । यदि सर्वं न शक्नोसि प्रत्यहं पठितुं द्विज । तदा कृष्णेति कृष्णेति कृष्णेति प्रत्यहं वद ॥ ६.२२३ एतेन तव विप्रर्षे सर्वं सम्पद्यते सकृत् । किं पुनर्भगवन्नाम्नां सहस्रस्य प्रकीर्तनात् ॥ ६.२२४ यन्नामकीर्तनेनैव पुमान् संसारसागरम् । तरत्यद्धा प्रपद्ये तं कृष्णं गोपालरूपिणम् ॥ ६.२२५ षात्वततन्त्र, सप्तमः पटलः श्रीशिव उवाच । शृण्वन्ति प्रत्यहं ये वै विष्णोर्नामसहस्रकम् । कीर्तयन्त्यथवा विप्र संस्मरन्त्यादरेण वा ॥ ७.१ वा शतं वा विंशतिं वापि दश वा पञ्च वा द्विज । एकं वा कामतो भक्त्या विष्णुपादाम्बुजाश्रयाः ॥ ७.२ तेषां फलस्य पुण्यानां नान्तं पश्यामि नारद । यतस्तैर्भगवानेव परानन्दो वशीकृतः ॥ ७.३ यतो नामैव परमं तीर्थं क्षेत्रं च पुण्यदम् । नामैव परमं दैवं नामैव परमं तपः ॥ ७.४ नामैव परमं दानं नामैव परमा क्रिया । नामैव परमो धर्मो नामैवार्थः प्रकीर्तितः ॥ ७.५ नामैव कामो भक्तानां मोक्षोऽपि नाम केवलम् । एषां च साधनं नाम कामिनां द्विजसत्तम ॥ ७.६ नामैव परमा भक्तिर्नामैव परमा गतिः । नामैव परमं जाप्यं नामैव प्रार्थनं परम् ॥ ७.७ निष्कामानां धनं नाम मुक्तिभुक्तिसुखार्थवत् । नाम स्यात्परमं सौख्यं नामैव वैराग्यकारणम् ॥ ७.८ सत्त्वशुद्धिकरं नाम नाम ज्ञानप्रदं स्मृतम् । मुमुक्षूणां मुक्तिपदं कामिनां सर्वकामदम् ॥ ७.९ वैष्णवानां फलं नाम तस्मान्नाम सदा स्मरेत् । संकेतितात्पारिहास्याद्धेलनाज्वरतापतः ॥ ७.१० कीर्तितं भगवन्नाम सर्वपापहरं स्मृतम् । यावती पापनिर्हारे शक्तिर्नाम्नि हरेः स्थिता ॥ ७.११ तावत्पापिजनः पापं कर्तुं शक्नोति नैव हि । ज्ञानाज्ञानाद्धरेर्नामकीर्तनात्पुरुषस्य हि ॥ ७.१२ पापराशिं दहत्याशु यथा तूलं विभावसुः । संकीर्तितं हरेर्नाम श्रद्धया पुरुषेण वै ॥ ७.१३ तस्य सत्यफलं धत्ते क्रमशो द्विजसत्तमः । पापनाशं महापुण्यं वैराग्यं च चतुर्विधम् ॥ ७.१४ गुरुसेवामात्मबोधं भ्रान्तिनाशमनन्तरम् । सम्पूर्णानन्दबोधं च ततस्तस्मिन् लभेत्स्थिरम् ॥ ७.१५ श्रीनारद उवाच । चतुर्विधं त्वया प्रोक्तं वैराग्यं सुरसत्तम । एतद्वर्णय लोकस्य हिताय ज्ञानकारणम् ॥ ७.१६ श्रीशिव उवाच । असङ्गरहितो भोगः क्रियते पुरुषेण यत् । विषयाणां द्विजश्रेष्ठ तदमानः प्रकीर्तितः ॥ ७.१७ भोग्ये स्वादुविहीनेऽपि क्रियते वृत्तिरात्मनः । द्वितीयो व्यतिरेकाख्यस्तद्विजानीहि सत्तम ॥ ७.१८ मनसः प्रीतिराहित्ये इन्द्रियैरेवं भुज्यते । भोगस्तृतीयः पुरुषैरिन्द्रियाख्यः प्रकीर्तितः ॥ ७.१९ मनसश्चेन्द्रियाणां च रागराहित्यमुत्तमम् । विषयाहरणं विप्र चतुर्थः परिकीर्तितः ॥ ७.२० एष नाम परश्चाशु जायते द्विजसत्तम । ज्ञानं च परमं शुद्धं ब्रह्मानन्दप्रदायकम् ॥ ७.२१ तीर्थैर्दानैस्तपोभिश्च होमैर्जात्यैर्व्रतमैखैः । योगैश्च विविधैर्विप्र यद्विष्णोः परमं पदम् ॥ ७.२२ न यान्ति मानवास्तद्वै नामकीर्तनमात्रतः । संयान्त्येव न संदेहं कुरु विप्र हरिप्रियम् ॥ ७.२३ महापातकयुक्तोऽपि कीर्तयित्वा जगद्गुरुम् । तरत्येव न संदेहः सत्यमेव वदाम्यहम् ॥ ७.२४ कलिकालमलं चापि सर्वपातकमेव च । हित्वा नामपरो विप्र विष्णुलोकं स गच्छति ॥ ७.२५ तस्मान्नामैकमात्रेण तरत्येव भवार्णवम् । पुमानत्र न संदेहो विना नामापराधतः ॥ ७.२६ तद्यत्नेनैव पुरुषः श्रेयस्कामो द्विजोत्तमः । विष्णोर्न कुर्यान्नाम्नस्तु दशपापान् कथंचन ॥ ७.२७ श्रीनारद उवाच । श्रुतो भगवतो वक्त्राद्द्वाविंशदपराधकम् । विष्णोर्नाम्ना दश तथा एतद्वर्णय नो प्रभो ॥ ७.२८ श्रीशिव उवाच । श्रूयतामपराधान् वै विष्णोर्वक्ष्यामि नारद । यान् कृत्वा नरकं यान्ति मानवाः सततं मुने ॥ ७.२९ अस्नात्वा स्पर्शनं विष्णोर्विना शङ्खेन स्नापनम् । अशौचे स्पर्शनं साक्षाद्भुक्ता पादोदकग्रहः वा ॥ ७.३० विना शब्देन पूजा च विना नैवेद्यपूजनम् । उच्चासनस्थपूजा च शीते व्यजनवातकम् ॥ ७.३१ उदक्यादर्शनं चैव घण्टाया भूनिवेशनम् । पौषे च चन्दनस्पर्शो ग्रीष्मे चास्पर्शनं तथा ॥ ७.३२ पुष्पं तोयेन संस्पर्शं विना होमं महोत्सवः । पूजां कृत्वा पृष्ठदर्शमग्रे च भ्रमणं तथा ॥ ७.३३ भोजनं भगवद्वारे अभुक्त्वा च विषादता । पादुकारोहणं विष्णोर्गेहे कम्बलवेशनम् ॥ ७.३४ वामपादप्रवेशश्च कूर्दनं पाकभोजनम् । श्लेष्मप्रक्षेपणं चैव तत्तृणैर्दन्तधावनम् ॥ ७.३५ देवाग्रे वाहनारोहो नैवेद्ये द्रव्यबुद्धिता । शालग्रामे स्थिरायां च शिलेति प्रतिमेति च ॥ ७.३६ हरिकीर्तेरसंश्लाघा वैष्णवे नरसाम्यता । विष्णौ च देवतासाम्यमन्योद्देशनिवेदनम् ॥ ७.३७ एतेऽपराधा द्वात्रिंशद्विष्णोर्नाम्नामथ शृणु । सतां नाम्ना शिवे विष्णौ भिदाचार्यावमानता ॥ ७.३८ वेदनिन्दा नाम्नि वादः पापेच्छा नामसाहसात् । नाम्नो धर्मैः साम्यबुद्धिर्दानं श्रद्धाविवर्जितैः ॥ ७.३९ श्रुत्वापि श्रद्धाराहित्यं कीर्तने चाप्यहंमतिः । एते नाम्नां द्विजश्रेष्ठ ह्यपराधा मयेरिताः ॥ ७.४० वर्जनीया नृभिर्यत्नैर्यतो नरककारणाः । श्रीनारद उवाच ॥ ७.४१ विषयासक्तचित्तानां प्राकृतानां नृणां प्रभो । अपराधा हरेराशु वर्ज्या नैव भवन्ति हि ॥ ७.४२ अतो येन प्रकारेण तरन्ति प्राकृता अपि । अपराधान् कृतान् देव तन्ममाख्यातुमर्हसि ॥ ७.४३ श्रीशिव उवाच । प्रदक्षिणशतं कृत्वा दण्डवत्प्रणमेद्भुवि । अपराधशतं तस्य क्षमते स्वस्य केशवः ॥ ७.४४ प्रदक्षिणं सकृत्कृत्वा यो न जानुशिरं नमेत् । निष्फलं तद्भवेत्तस्य तस्मात्प्रत्येकशो नमेत् ॥ ७.४५ जगन्नाथेति ते नाम व्याहरिष्यन्ति ते यदि । अपराधशतं तेषां क्षमते नात्र संशयः ॥ ७.४६ नाम्नोऽपराधास्तरति नाम्न एव सदा जपात् । विना भक्तापराधेन तत्प्रसादविवर्जितः ॥ ७.४७ सर्वापराधांस्तरति विष्णुपादाम्बुजाश्रयः । विष्णोरप्यपराधान् वै नामसंकीर्तनात्तरेत् ॥ ७.४८ विष्णुभक्तापराधानां नैवास्त्यन्या प्रतिक्रिया । श्रीनारद उवाच । भक्तापराधान्मे ब्रूहि यथा तेषां प्रतिक्रिया । अनुग्रहाय लोकानां भगवन्मम चापि हि ॥ ७.४९ श्रीशिव उवाच । विष्णुभक्तस्य सर्वस्वहरणं द्विजसत्तम । भर्त्सनं चोत्तमे भक्ते स्वप्ने चापि प्रहारणम् ॥ ७.५० एतेऽपराधा भक्तानां शृण्वेषां प्रतिक्रिया । तद्धनं द्विगुणं दत्त्वा कृत्वा पादाभिवन्दनम् ॥ ७.५१ कथयेन्मे क्षमस्वेति तद्दोषं धनकर्षणम् । यावत्तद्भर्त्सनं कृत्वा तावन्मासान् समाहितः ॥ ७.५२ निर्मत्सरः परिचरेत्तत्प्रसादेन शुध्यति । यावज्जीवं प्रहारे तु परिचर्येदतन्द्रितः ॥ ७.५३ तत्प्रसादेन तत्पापान्निष्कृतिर्नान्यथा भवेत् । अकृत्वा निष्कृतीनेतान्नरकान्नास्ति निष्कृतिः ॥ ७.५४ अज्ञानतः कृते विप्र तत्प्रसादेन नश्यति । ज्ञानात्तु द्विगुणं कुर्यादेष धर्मः सनातनः ॥ ७.५५ पुत्रे शिष्ये च जायायां शासने नास्ति दूषणम् । अन्यया तु कृते दोषो भवत्येव न संशयः ॥ ७.५६ केशाकर्षे पदाघाते मुखे च चर्पटे कृते । न निष्कृतिं प्रपश्यामि तस्मात्तान्न समाचरेत् ॥ ७.५७ षात्वततन्त्र, अष्टमः पटलः श्रीशिव उवाच । अथ ते सम्प्रवक्ष्यामि रहस्यं ह्येतदुत्तमम् । यच्छ्रद्धया तु तिष्ठन् वै हरौ भक्तिर्दृढा भवेत् ॥ ८.१ देवे तीर्थे च धर्मे च विश्वासं तापतारणात् । तद्धित्वा कृष्णपादाम्बुशरणं प्रविशेन्मुदा ॥ ८.२ शरणं मे जगन्नाथः श्रीकृष्णः पुरुषोत्तमः । तन्नाम्नि स्वगुरौ चैव ब्रूयादेतत्समाहितः ॥ ८.३ हित्वान्यदेवतापूजां बलिदानादिना द्विज । एकमेव यजेत्कृष्णं सर्वदेवमयं धिया ॥ ८.४ नित्यं नैमितकं कार्यं तथावश्यकमेव च । गृहाश्रमी विष्णुभक्तः कुर्यात्कृष्णं धिया स्मरन् ॥ ८.५ एतेषु चान्यदेवानां या पूजा विधिना स्मृता । सापि कृष्णार्चनात्पश्चात्क्रियेत हृदि तं स्मरन् ॥ ८.६ अन्यदा त्वन्यदेवानां पृथक्पूजां न च स्मरेत् । काम्यं निषिद्धं च तथा नैव कुर्यात्कदाचन ॥ ८.७ कलत्रपुत्रमित्रादीन् हित्वा कृष्णं समाश्रिताः । हरिकीर्तिरता ये च तेषां कृत्यं न विद्यते ॥ ८.८ कृत्वान्यदेवतापूजां सकामां बलिना द्विज । भक्तिभ्रष्टो भवेदाशु संसारान्न निवर्तते ॥ ८.९ कामात्मा निरनुक्रोशः पशुघातं समाचरन् । पशुलोमसमं वर्षं नरके परिपच्यते ॥ ८.१० यज्ञे पशोरालभने नैव दोषोऽस्ति यद्वचः । अपि प्रवृत्ती रागिणां निवृत्तिस्तु गरीयसी ॥ ८.११ कृत्वान्यदेवतापूजां पशुं हित्वा नराधमाः । यदि ते स्वर्गतिं यान्ति नरकं यान्ति के तदा ॥ ८.१२ स मां पुनर्भक्षयिता यस्य मांसमदाम्यहम् । इति मांसनिरुक्तं वै वर्णयन्ति मनीषिणः ॥ ८.१३ विष्णुभक्तिं समाश्रित्य पशुघातं समाचरन् । कृत्वान्यदेवतापूजां भ्रष्टो भवति निश्चितम् ॥ ८.१४ मानुष्यं प्राप्य ये जीवा न भजन्ति हरेः पदम् । ते शोच्या स्थावरादीनामप्येकशरणा यदि ॥ ८.१५ अहं ब्रह्मा सुरेन्द्राश्च ये भजामो दिवानिशम् । ततोऽधिकोऽस्ति को देवः श्रीकृष्णात्पुरुषोत्तमात् ॥ ८.१६ यत्प्रसादं प्रतीक्षन्ते सर्वे लोकाः सपालकाः । सापि लक्ष्मीर्यच्चरणं सेवते तदनादृता ॥ ८.१७ ततोऽधिकोऽस्ति को देवो लक्ष्मीकान्ताज्जनार्दनात् । यन्नाम्नि के न संयान्ति पुरुषाः परमं पदम् ॥ ८.१८ धर्मार्थकाममोक्षाणां मूलं यच्चरणार्चनम् । ततोऽधिकोऽस्ति को देवः कृपासिन्धोर्महात्मनः ॥ ८.१९ भजनस्याल्पमात्रेण बहु मन्येत यः सदा । ततोऽधिकोऽस्ति को देवः सुखाराध्याज्जगद्गुरोः ॥ ८.२० येन केनापि भावेन योऽपि कोऽपि भजन् जनः । लभतेऽभीप्सितां सिद्धिं मोक्षं चाप्यकुतोभयम् ॥ ८.२१ ततोऽधिकोऽस्ति को देवः देवकीदेविनन्दनात् । यो जगन्मुक्तये कीर्तिमवतीर्य ततान ह ॥ ८.२२ अतोऽन्यदेवतापूजां त्यक्त्वा बलिविधानतः । सद्गुरोरुपदेशेन भजेत्कृष्णपदद्वयम् ॥ ८.२३ शृणुयात्प्रत्यहं विष्णोर्यशः परममङ्गलम् । उच्चारयेन्मुखेनैव नाम चित्तेन संस्मरेत् ॥ ८.२४ प्रीतिं कुर्याद्वैष्णवेषु अभक्तेषु विवर्जयेत् । दैवोपलब्धं भुञ्जानो नातियत्नं चरेत्सुखे ॥ ८.२५ गृहेष्वतिथिवत्तिष्ठेद्यद्येतान्नैव बाधते । एषां बाधे पृथक्तिष्ठेद्वैष्णवेषु च सङ्गवान् ॥ ८.२६ ब्रह्मचारी गृही वापि वानप्रस्थो यतिश्च वा । विना वैष्णवसङ्गेन नैव सिद्धिं लभेज्जनः ॥ ८.२७ भक्तसङ्गं विना भक्तिर्नैव जायेत कस्यचित् । भक्तिं विना न वैराग्यं न ज्ञानं मोक्षमश्नुते ॥ ८.२८ अत आश्रमलिङ्गांश्च हित्वा भक्तेः समं वसेत् । यत्सङ्गाच्छ्रुतिकीर्तिभ्यां हरौ भक्तिः प्रजायते ॥ ८.२९ विष्णुभक्तप्रसङ्गस्य निमेषेणापि नारद । स्वर्गापवर्गौ न साम्यं किमुतान्यसुखादिभिः ॥ ८.३० अतो यत्नेन पुरुषः कुर्यात्सङ्गं हरेर्जनैः । तिर्यञ्चोऽपि यतो मुक्तिं लभन्ते किमु मानुषाः ॥ ८.३१ तत्सङ्गेनैव पुरुषो विष्णुं प्राप्नोति निश्चितम् । विना वैराग्यज्ञानाभ्यां यतो विष्णुस्तदन्तिके ॥ ८.३२ येषां सङ्गाद्धरेः सङ्गं सकृदाकर्ण्य मानवः । परित्यक्तुं न शक्नोति यदि भद्रसरिद्भवेत् ॥ ८.३३ अरसज्ञोऽपि तत्सङ्गं यदि याति कथंचन । भूत्वा रसज्ञोऽपि महान् कर्मबन्धाद्विमुच्यते ॥ ८.३४ ततस्तद्धर्मनिरतो भगवत्यमलात्मनि । प्राप्नोति परमां भक्तिं सर्वकामप्रदायिनीम् ॥ ८.३५ भक्तिं विदित्वा पुरुषो मुक्तिं नेच्छति कश्चन । सालोक्यादिपदं चापि किमु चान्यसुखं द्विज ॥ ८.३६ फलं विना विष्णुभक्ता मुक्तिं यान्ति द्विजोत्तम । तत एव विदुर्नान्य आनन्दमयमुत्तमम् ॥ ८.३७ यतो हरिर्लिखितवथृदये वर्तते सदा । तेषां प्रेमलताबद्धः परमानन्दविग्रहः ॥ ८.३८ षात्वततन्त्र, नवमः पटलः श्रीनारद उवाच । इयान् गुणोऽस्ति देवेश भगवत्पादसेवने । कुतो भजन्ति मनुजो अन्यदेवं किमिच्छया ॥ ९.१ श्रीशिव उवाच । यदादिसत्ये विप्रेन्द्र नरा विष्णुपरायणाः । न यजन्ति विना विष्णुमन्यदेवं कथंचन ॥ ९.२ तदात्मपूजाप्राप्त्यर्थं सर्वदेवमयं च वै । पूजयामो हृषीकेशं कायवाङ्मनसा द्विज ॥ ९.३ तदा तुष्टो विभुः प्राह देवदेवो रमेश्वरः । अवतीर्य यजिष्यामि युष्मांल्लोकांश्च याजयन् ॥ ९.४ ततः सर्वे जना युष्मान् यजिष्यन्ति समाहिताः । अनेन पूजा युष्माकं भविष्यति सुखावहा ॥ ९.५ अहं चोक्तः पृथक्तेन श्रीनिवासेन ब्राह्मण । कल्पितैरागमैर्नित्यं मां गोपाय महेश्वर ॥ ९.६ मदवज्ञापापहरं नाम्नां सहस्रमुत्तमम् । पठिष्यसि सदा भद्रं प्रार्थितेन मया पुनः ॥ ९.७ ततो मे ह्यागमैः कृष्णमाच्छाद्य न तु देवताः । यन्त्रैर्मन्त्रैश्च तन्त्रैश्च दर्शिताः फलदा द्विज ॥ ९.८ तैरागमैर्मन्दधिया हित्वा कृष्णं जगद्गुरुम् । भजन्ति देवता अन्या बलिदानेन नित्यशः ॥ ९.९ नाना देवान् समाराध्य नानाकामसुखेच्छया । भोगावसाने ते यान्ति नरकं स्वतमोमयम् ॥ ९.१० दृष्ट्वा तथाविधां लोकान् पापाशङ्कितमानसः । गतोऽहं वासुदेवस्य चरणे शरणं द्विज ॥ ९.११ स्तुतिं च चक्रे प्रणतः प्रश्रयानतकंधरः । समाहितमना विप्र प्राञ्जलिः पुरुषोत्तमम् ॥ ९.१२ ओं नमोऽस्तु कृष्णाय विकुण्ठवेधसे त्वत्पादलीलाश्रयजीवबन्धवे । सदाप्तकामाय महार्थहेतवे विज्ञानविद्यानिधये स्वयम्भुवे ॥ ९.१३ एकोऽसि सृष्टेः पुरतो लये तथा युगादिकाले च विदां समक्षतः । अन्यत्र नानातनुभिर्विराजते तस्मा अनन्ताचरिताय ते नमः ॥ ९.१४ प्रधानकालाशयकर्मसाक्षिणे तत्संग्रहापारविहारकारिणे । कृष्णाय नानातनुमीयुषे समे कृतानुरागाय नमो नमस्ते ॥ ९.१५ शृण्वन्ति गायन्ति गृणन्ति ये यशो जगत्पवित्रं जगदीशितुस्तव । तेऽन्यं न पश्यन्ति सुखाय ह्यात्मनो विना भवत्पादनिषेवणाद्बहिः ॥ ९.१६ निष्किंचना ये तव पादसंश्रयाः पुष्णन्ति ते तत्सुखमात्मसम्भवम् । जानन्ति तत्त्वेन विदुस्ततः पराः कामैः समाकृष्टधियो विचक्षणाः ॥ ९.१७ अहं तु साक्षात्तव पादपङ्कजं नित्यं भजानोऽपि पृथङ्मतिर्विभो । पुरात्ममानं प्रचिकीर्षुरात्मनः सकाशतोऽप्यद्य मलं निकृन्तयन् ॥ ९.१८ अथापि ते देव पदाम्बुजद्वयं निकामलाभाय सदास्तु मे हरेः । यच्चिन्तनात्सर्वमनोऽनुकूलात्सिद्धिर्भवत्येव किमु प्रकीर्तनात् ॥ ९.१९ इति मे संस्तुतिं ज्ञात्वा भगवान् प्रणतार्तिहा । ममाक्षिगोचरं रूपमकरोत्स दयापरः ॥ ९.२० सान्द्रानन्दमहेन्द्रनीलमणिवद्देहोद्गतप्रोल्लसत्स्वर्णैर्मौलिषु हारकुण्डलयुगैः केयूरकाञ्च्यङ्गदैः । मञ्जीरैर्विलसत्पिशङ्गवलयं लक्ष्म्याङ्कितं शाश्वतं सर्वेशं करुणाकरं सुरवरैर्भक्तैः समासेवितम् ॥ ९.२१ दृष्ट्वा तत्पदपङ्कजं हृदि दधे गोविन्ददामोदरश्रीकृष्णेति मुखैर्वदन् त्रिजगतो भर्तुर्मुदाहं तदा । नेत्रैर्निर्झरवारिपूरमिव मे गात्रे च हर्षस्ततो वाण्यां गद्गदतां विलोक्य भगवान्मामाह भक्तप्रियः ॥ ९.२२ ज्ञतां मे सुरवर्य वाञ्छिततरां मद्भक्तसङ्गावलिं तत्तेऽहं प्रवदामि ते करुणया भक्ताय साकं वरैः । मल्लीलां गदतो भविष्यति भवत्सर्वे जना वैष्णवाः । भार्या चापि तयानुकूलसुखदा भक्ताग्रणीर्मे भवान् ॥ ९.२३ एतावदुक्त्वा भगवान् गतो लोकमलौकिकम् । अहं च तान् वरांल्लब्ध्वा कृतार्थोऽस्मि द्विजर्षभ ॥ ९.२४ अतस्तद्दिनमारभ्य पार्वती भुवनेश्वरी । मत्सङ्गाद्वैष्णवी भूत्वा मामापृच्छत्सुरेश्वरी ॥ ९.२५ भवान्महाभागवतः कुमाराद्या महेश्वराः । कुबेराद्या देवताश्च नन्दीशाद्याश्च मे गणाः ॥ ९.२६ पृथक्पृथगपृच्छन्मा कृष्णपादाम्बुजाश्रयाः । कथाः परमकल्याणीः सर्वलोकैकपावनीः ॥ ९.२७ अथ मां पृच्छती वाक्यं मद्वाक्यं च द्विजोत्तम । संलिखत्यप्रमत्तोऽसौ गणेशो मत्सुतोऽन्तिके ॥ ९.२८ मम तेषां च संवादं कला लोकमनोहराः । अभवंस्तत्र शास्त्राणि सर्वलोकहितानि वै ॥ ९.२९ तानि तन्त्राणि श्रोतारः समानीय महीतले । स्थाने स्थाने मुनिश्रेष्ठ कथयिष्यन्ति भूरिशः ॥ ९.३० त्वमप्येनं सात्वताख्यं तन्त्रं भगवतः प्रियम् । नैमिषे शौनकादीनां समक्षं कथयिष्यसि ॥ ९.३१ श्रीनारद उवाच । श्रुतं भगवतो वक्त्रात्तन्त्रं सात्वतमुत्तमम् । तस्मिन् हिंसानिषेधं च श्रुत्वा मे संशयोऽभवत् ॥ ९.३२ वेदेन विहिता हिंसा पशूनां यज्ञकर्मणि । यज्ञे वधोऽवधश्चैव वेदविद्भिर्निरूपितः ॥ ९.३३ तन्निषेधे कथं श्रौतं स्मार्तं कर्म महेश्वर । वर्तेत सर्वलोकस्य इहामुत्रफलप्रदम् ॥ ९.३४ श्रीशिव उवाच । प्रवृत्तं च निवृत्तं च द्विविधं कर्म वर्णितम् । श्रुत्या स्मृत्या च विप्रेन्द्र काम्यं कामिजनाय वै ॥ ९.३५ प्रवृत्तमविरोधेन कुर्वन् स्वर्याति मानवः । पुण्यावशेषे भूपृष्ठे कर्मसंज्ञिषु जायते ॥ ९.३६ निवृत्तमाचरन् योगी भोगेच्छात्यक्तमानसः । प्रयाति परमां सिद्धिं यतो नावर्तते गतः ॥ ९.३७ अतः प्रवृत्तिनिष्ठस्य नानाकामानुरागिणः । षड्विधैर्नियमैर्विप्राभ्यनुज्ञैव प्रदर्शिता ॥ ९.३८ विधिर्नैवास्ति हिंसायामभ्यनुज्ञा यतः कृता । अतो निवृत्तिहिंसायां यज्ञेऽपि कथिता बुधैः ॥ ९.३९ अहिंसा परमो धर्मः सर्ववर्णाश्रमादितः । स च आचारतो न्णामभीष्टफलदो भवेत् ॥ ९.४० विशेषतो विष्णुभक्ता हिंसाकर्म त्यजन्ति हि । अहिंसया हि भूतानां भगवानाशु तुष्यति ॥ ९.४१ अतः सर्वेषु भूतेषु भगवानखिलेश्वरः । प्रविष्ट ईयते नानारूपैः स्थावरजङ्गमैः ॥ ९.४२ मयापि ह्यागमे हिंसा विहिता या विधानतः । सापि कामुकलोकानां कामिताफलसिद्धये । विष्णुभक्ता न वाञ्छन्ति मत्तोऽपि कियदेव हि । अतस्तेषां विधानेऽपि हिंसा निन्द्या प्रकीर्तिता ॥ ९.४३ अतस्त्वं काम्यकर्माणि परित्यज्य विशेषतः । श्रूयाः कृष्णकथाः पुण्याः सर्वलोकेष्टसिद्धिदाः ॥ ९.४४ प्रवृत्तशास्त्रं शृणुयाद्यच्छ्रुत्वा तत्परो भवेत् । निवृत्तेऽपि हरेर्भक्तियुतं मुख्यं प्रकीर्तितम् ॥ ९.४५ विशेषतः कृष्णलीलाकथा लोकसुमङ्गलाः । कीर्तयस्व द्विजश्रेष्ठ श्रूयाश्चैव निरन्तरम् ॥ ९.४६ हित्वान्यदेवशरणं भजनं च विशेषतः । ये भजन्ति हरेः पादं कृष्णैकशरणं नराः ॥ ९.४७ इहामुत्र ते नित्यं कृतार्था भगवत्प्रियाः । परमानन्दसंदोहं प्राप्नुवन्ति निरन्तरम् ॥ ९.४८ ये तु नैवंविदोऽशान्ता मूढाः पण्डितमानिनः । यजन्त्यविरतं देवान् पशून् हत्वा सुखेच्छया ॥ ९.४९ कामभोगावसाने तं ते च्छेत्स्यन्ति विनिश्चितम् । इत्येतत्कथितं विप्र तन्त्रं सात्वतमुत्तमम् ॥ ९.५० विष्णुभक्तजनाजीव्यं सर्वसिद्धिप्रदायकम् । श्रवणात्कीर्तनादस्य कृष्णे भक्तिर्हि जायते ॥ ९.५१ भक्तिं लब्धवतः साधो किमन्यदवशिष्यते । यतो भगवता प्रोक्तं तस्य भक्तिविवर्धनम् ॥ ९.५२ तन्त्रेऽस्मिन् कथितं विप्र विश्वसम्भवमुत्तमम् । अवताराश्च श्रीविष्णोः सम्पूर्णांशकला भिदा ॥ ९.५३ भक्तिभेदाश्च भेदानां लक्षणं च पृथग्विधम् । युगानुरूपं श्रीविष्णोः सेवया मोक्षसाधनम् ॥ ९.५४ विष्णोर्नामसहस्रं च नाममाहात्म्यमुत्तमम् । विष्णोर्नाम्ना वैष्णवानामपराधस्य च निष्कृतिः ॥ ९.५५ सर्वसाररहस्यं च तन्त्रोत्पत्तेश्च कारणम् । हिंसाविधिनिषेधं च तव प्रश्नानुसारतः ॥ ९.५६ यन्नामैकं कर्णमूलं प्रविष्टं वाचान्विष्टं चेतनासु स्मृतं वा । दग्ध्वा पापं शुद्धसत्त्वात्तद्देहं कृत्वा साक्षात्संविधत्तेऽनवद्यम् । तस्मादनन्ताय जनार्दनाय वेदेरितानन्तगुणाकराय । महानुभावाय निरञ्जनाय नित्यात्मलाभाय नमो नमस्ते ॥ ९.५७