अग्मिपुराण : आग्निपुराणम्. आपस्तम्ब धर्मसूत्र : आपस्तम्बीयधर्मसूत्रम्. आपस्तम्ब गृह्यसूत्र : आपस्तम्बगृह्यसूत्रम्. आष्: आनन्दसंहिता. अष्टाध्यायी : ড়ानिनिऽसाछ्त्Bछेर्ग्रम्मतिस्छेरृएगेल्न्. आश्वलायनगृह्यसूत्र : आश्वलायनगृह्यसूत्र. अथर्वसंहिता : आथर्वसंहिता. भागवतपुराण : श्रीमद्Bहागवत ंहापुराणम्. ढ्ष्: डसायन-ढर्मसूत्र. ङृष्: ठे Bओधायन ङृह्यसूत्र. ङृशेष्ष्: प्प्. १७७-३७६ इन् ङृष्. भगवद्गीताई: Bहगवद्गीता. स्. ंBह्(६.२३.१-४०.७८). Bरह्मकैवर्तড়्: श्रीब्रह्मवैवर्तपुराणम्. Bरह्माण्डড়्: Bरह्माण्डपुराण ओf Kऋष्ण ड्वैपायन Vयास. Bरह्मড়्: षन्स्क्रितिन्दिचेसन्द्तेxतोf थे Bरह्मपुराण. Bऋहद्ब्रह्मष्: Bऋहद्ब्रह्मसंहिता. Cहान्दोग्यBर्: Cहान्दोग्यब्राह्मण. Cहान्दोग्यऊ: Kह्ƒन्दोजोपनिस्हद्. ड्ःण्[ड्]: डशविधहेतुनिरूपण ब्य्श्रीनिवास डीक्षित. ड्ःण्[ट्]: डशविधहेतुनिरूपण ब्य्श्रीनिवास डीक्षित [टेलुगु छरच्तेर्स्] ड्ःण्V: डशविधहेतुनिरूपणव्याख्यान ङर्भऊ: ङर्भोपनिषद्. ङरुडড়्: श्रीगरुडमहापुराणम्. ङौतमढ्ष्: ठे ईन्स्तितुतेसोf ङौतम. ङोभिलङृष्: ङोभिलीयगृह्यसूत्र. ङृह्यपरिशिष्टष्: Vऐखानसगृह्यपरिशिष्टसूत्र. ःरिV: ठे ःरिवंश (षुप्प्ल्. तो ंBह्). ःिर्ङृष्: ःिरण्यकेशिगृह्यसूत्रम्. ईश्वरष्: ईश्वरसंहिता. ञयाख्यष्: ञयाख्यसंहिता. Kऐवल्यऊ: Kऐवल्योपनिषद्. Kअपिञ्जलष्: Kअपिञ्जलसंहिता. Kआठकङृष्: ठे Kआठकगृह्यसूत्र. Kहा: Kहिलाधिकार (Kहिलतन्त्र) Kहादिरङृष्: Kहादिरगृह्यसूत्रम्. Kञ्K: ञ्ञानकाण्ड (Kआश्यपसंहिता). Kरा: Kरियाधिकार. Kऊर्मড়्: श्री-Kऊर्ममहापुराणम्. ळिङ्गড়्: ळिङ्गमहापुराणम्. ंहाऊ: ंहोपनिषद्. ंनुढ्श्: ठे ंनु ष्मृति. ंनुङृष्: ंानवगृह्यसूत्र ओf थे ंैत्रायणीय शाखा. ंर्कण्डेयড়्: श्री-ंार्कण्डेयमहापुराणम्. ंत्स्यড়्: ंत्स्यमहापुराणम्. ंBह्: ंहाभारत. ंOড়्: ंोक्षोपायप्रदीपिका ब्यृअघुपतिभट्टाचार्य. ंुद्गलऊ: ंुद्गलोपनिषद्. ंुण्डकऊ: ंुण्डकोपनिषद्. णारदড়्: णारदपुराण. णरसिंहড়्: णृसिंहपुराण. णिरुक्त: [य़ास्क] ठे णिघन्तु अन्द्थे णिरुक्त. ण्VB: Vऐखानसकल्पसूत्रभाष्य (Vऐखानससूत्रभाष्य; Vऐखानसगृह्यसूत्रभाष्य). ড়द्मড়्: श्री ড়द्ममहापुराणम्. ড়ाद्मष्: ড়ाद्म षम्हिता. ড়ारमेश्वरष्: ড়ाञ्चरात्रान्तर्गता ড়ारमेश्वरसंहिता. ড়राशरष्: ড়राशर षंहिता. ড়ार्ङृष्: ড়ारस्करगृह्यसूत्र. ড়ौष्करष्: ড়ाञ्चरात्रागमे रत्नत्रयान्तर्गता ড়ौष्करसंहिता. ড়्रा: ড়्रकीर्णाधिकार. ড়ृ: श्री ড়ाञ्चरात्ररक्षा. ড়ुरातन्त्र: ড়ुरातन्त्र. ড়ूर्वড়्: ড়ूर्वप्रयोग. ऋआम्: ठे ড়ाद इन्देx ओf थे Vआल्मिकि ऋआमायण. ऋV: ठे ःय्म्न्सोf थे ऋइग्-Vएद इन् थे षम्हित अन्द्ড়द टेxत्स्. षा: षमूर्तार्चनाधिकरण. षाम्बড়्: षाम्बपुराणम्. षम्ंयू: षंस्कारमयूख. षनत्क्ष्: षनत्कुमार-षंहिता ओf थे ড়ाञ्चरात्रागम. शाङ्खायनङृष्: शाङ्खायनगृह्यसूत्र. षानुक्र्: षूत्रानुक्रमणिका. शतपथBर्: ठे शतपथ Bराह्मण इन् थे Kआण्वीय रेचेन्सिओन्. षात्त्वतष्: षात्वत-षंहिता. ष्ड्: षूत्रदर्पण (श्रीवैखानससूत्रदर्पण). ष्ड्C: श्रीनिवासदीक्षितेन्द्रचरित्र. शेषष्: शेषसंहिता - श्रीपाञ्चरात्राभिधा भगवच्छास्त्रे सकलसंहितासारभूता शेषसंहिता. ष्कन्दড়्: ठे ष्कन्दपुराण. श्रीप्रश्नष्: श्रीप्रश्न षम्हिता. षृ-Vऋत्ति: ড়्रयोगवृत्ति. षुप्रभेदा: [षुप्रभेदागम] षुप्रपेताकमम्. श्वेतू: श्वेताश्वतरोपनिषद्. ष्य़्-ण्: णिबन्धन. टा: टैत्तिरीयारण्यकम्. ट्B: ठे टैत्तिरीय Bराह्मण ओf थे Bलच्क्य़जुर्Vएद. ट्ড়्C: टात्पर्यचिन्तामणि. ट्ष्: ठे टैत्तिरीय षंहिता ओf थे ब्लच्क्य़जुर्वेद. Vआ: Vआसाधिकार (Vआसनाधिकार). Vऐख्ष्म्ष्: Vऐखानसस्मार्तसूत्र. Vअराहড়्: श्री Vअराहपुराणम्. Vआसिष्ठढ्श्: Vआसिष्ठधर्मशास्त्र. Vइष्णुढ्: Vइष्णुधर्मः. Vइष्णुधर्मोत्तरড়्: श्रीविष्णुधर्मोत्तरपुराणम्. Vइष्णुড়्: श्रीविष्णुमहापुराणम्. Vइष्णुस्मृति: Vइष्णुस्मृतिः. Vइष्वक्सेनष्: Vइष्वक्सेन षंहिता. Vइश्वमित्रष्: Vइश्वामित्रसंहिता. Vइवाहড়्: Vइवाहप्रयोग. VK: Vइमानार्चनकल्प (Vऐखानसागम, ंरीचिसंहिता). Vंं: Vऐखानसमहिममञ्जरी. Vंড়्: Vऐखानसमन्त्रप्रश्न (Vऐखानससंहिता). Vऋद्धहारीत: Vऋद्धहारीतस्मृति. Vय़्-Vऋत्ति: Vऋत्ति देस्Vअसन्तयाजिन्. य़ा: य़ज्ञाधिकार य़ाज्ञवल्क्यढ्श्: य़ाज्नवल्क्य स्मृति. ____ डशविधहेतुनिरूपण [मङ्गलाचरणम्] [१.१] श्रीमद्विखनस महागुरवे नमः । [१.२] श्री श्रीनिवास परब्रह्मणे नमः ॥ [१.३-४] श्री श्रीनिवासमखिकृते श्रीवैखानसगृह्यसूत्रतात्पर्यचिन्तामणौ दशविधहेतुनिरूपणम् [१.५] वैखानसकुलोद्भूतं वेङ्कटेशार्चनारतम् । [१.६] वेदान्तदेशिकं वन्दे श्रीनिवासार्यदीक्षितम् ॥ [१.७] श्रीवेङ्कटेशमखिलेशमनन्तमाद्यं कारुण्यवारिधिमशेषसुरैस्सुवन्द्यम् । [१.८] वन्दे समस्तजगतां स्थितिसृष्टिहेतुं मान्यान् गुरूंश्च शतशो भृगुकश्यपादीन् ॥ [१.९] श्रुतिस्मृतिनदीपूर्णं शास्त्रकल्लोलसङ्कुलम् । [१.१०] विष्णुभक्त्युदकं शुद्धं वन्दे वैखानसार्णवम् ॥ [१.११] येनान्यकॢप्तसूत्राणां नेत्रं निस्तिमिरीकृतम् । [१.१२] सूत्रं वैखानसं ह्येतत्चतुर्वर्गफलप्रदम् ॥ [१.१३] श्रुतिस्मृतीतिहासाद्यैः प्रतिपादितवैभवाम् । [१.१४] परमात्मपरां वन्दे सूत्रोपनिषदं पराम् ॥ [व्याख्यानकर्तृगोत्रनामादि] [१.१५] श्रीमत्कौशिकवंश्येन गोविन्दाचार्यसूनुना । [१.१६] श्रीवेङ्कटेशपादाब्जसपर्यासु रतात्मना ॥ [१.१७] श्रुतिस्मृतिपुराणादिसिद्धमार्गानुवर्तिना । [१.१८] पूर्वाचार्यपरिक्षुण्णसम्प्रदायानुयायिना ॥ [१.१९] वेदान्ताचार्यवर्येण श्रीनिवासार्ययज्वना । [१.२०] वैखानसस्य सूत्रस्य व्याख्या सम्यक्प्रकाश्यते ॥ [विखानससूत्रस्य तदनुयायिनां च सर्वोत्कृष्टत्वे दशविधहेतूनां निर्देशः] [२.१-३] अथ सत्यत्वादिसमस्तकल्याणगुणविशिष्टात्परब्रह्मणः श्रीमन्नारायणादुत्पन्नेन विखनश्शब्दवाच्येन चतुर्मुखब्रह्मणा प्रणीतस्य वैखानससूत्रस्य सर्वसूत्रोत्तमत्वे तत्सूत्रोक्तधर्मानुष्ठातॄणां सर्वोत्कृष्टतमत्वे च दशविधहेतवो निरूप्यन्ते. [२.४] यथा: [२.५-९] अखिलजगत्कारणभूतेन विखनसा प्रणीतत्वात्. सर्वसूत्राणामादित्वात्. सर्वकर्मसु श्रुतिमार्गानुसारित्वात्. समन्त्रकसर्वक्रियाप्रतिपादकत्वात्. निषेकसंस्कारादिमत्वात्. अष्टादशशारीरसंस्कारप्रतिपादकत्वात्. साङ्गक्रियाकलापवत्त्वात्. मन्वाद्यैः स्वीकृतत्वात्. अखिलजगदेककारणभूतश्रीमन्नारायणैकपरत्वात्. एतत्सूत्रोक्तधर्मानुष्ठानवतामेव भगवत्प्रियतमत्वोपपत्तेश्च. इति. [२.१०-१२] एभिर्हेतुभिरस्य सूत्रस्य सर्वसूत्रोत्तमत्वमेतत्सूत्रोक्तधर्मानुष्ठानादेव वैखानसानां सर्वेभ्यः श्रेष्ठतमत्वाञ्च श्रुतिस्मृतिपुराणादिमुखेन प्रतिपाद्यते. तत्रादौ अखिलजगत्कारणभूतेन विखनसा प्रणीतत्वादिति हेतुर्निरूप्यते. [२.१३] विखनश्शब्दार्थनिर्णयः [नारायणस्य विखनो वैखानसादिशब्दवाच्यत्वम्] [२.१४] विखना नाम कश्चिदृषिः, उत नारायणः? नारायण एव केवलं. [२.१५-१६] मुनिमात्रस्य वैखानसशब्दवाच्यत्वेन प्रतिपादनाभावात्. परमात्मनो नारायणस्य विखनो वैखानसादिशब्दवाच्यत्वं श्रुतिस्मृतिपुराणादिष्ववगम्यते. यथा: [२.१७] खिलश्रुतौ: "धेनुर्वहाणामदितिस्सुराणां ब्रह्मा ऋभूणां विखना मुनीनाम्". [२.१८-१९] इति श्रुयते. अयमर्थः. वहानामतडुदादीनां धेनुः उत्पत्तिकारणम्. सुराणामिन्द्रादीनामदितिः. ऋभूणां: [२.२०] "साध्या विश्वे च वसवो मरुतो ऋभवस्तथा । [२.२१] तथैवाङ्गिरसो रुद्रा आदित्याश्च तथैव च । [२.२२] एते देवगणाश्चाष्टौ मन्वन्तरगणेश्वराः ॥" [२.२३] इति भृगूक्तानां साध्यादीनां ब्रह्मा. मुनीनां मुनिशब्दवाच्यानां विखनाः. [२.२४] ब्रह्मणो मुनिशब्दवाच्यत्वं भारते चावगम्यते [२.२५] "निशां सुप्त्वाथ भगवान् क्षपान्ते प्रत्यबुद्ध्यत । [ंBह्१३, आप्प्. ३.२६५] [३.१] पश्चाद्बुद्ध्वा ससर्जापः तासु वीर्यमवासृजत् ॥ [ंBह्१३, आप्प्. ३.२६६] [३.२] तदण्डमभवद्धैमं सहस्रांशुसमप्रभम् । [ंBह्१३, आप्प्. ३.२६७] [३.३] अहङ्कृत्या ततस्तस्मिन् ससर्ज प्रभुरीश्वरः । [ंBह्१३, आप्प्. ३.२६८] [३.४] हिरण्यगर्भं विश्वात्मा ब्रह्माणं जलजं मुनिम् ॥" इति [ंBह्१३, आप्प्. ३.२६९] [३.५] अण्डबहुत्वाभिप्रायेण मुनीनामिति बहुवचनम्. यथा [३.६] "अण्डानान् तु सहस्राणां सहस्राण्ययुतानि च । [३.७] ईदृशानामनन्तानां कोटिकोटिशतानि च् ।"ति स्मरणात्. [३.८] निशा चात्र प्रलयः, सा एतावतीति कुत्रावगम्यत इति चेत्. [३.९] महाभारते: "चतुर्युगसहस्राणि चतुर्युगशतानि च । [ंBह्१३, आप्प्. ३.२६१] [३.१०] प्राहुः कल्पसहस्रन् तु ब्राह्मणास्तत्त्वदर्शिनः । [ंBह्१३, आप्प्. ३.२६२] [३.११] दशकल्पसहस्राणि अप्ययस्सा महानिशा ॥" इति. [ंBह्१३, आप्प्. ३.२६३] [३.१२-१३] अनया खिलश्रुत्या भगवतो विखनश्शब्दवाच्यत्वं कथमवगम्यत इति चेतुच्यते. [इतिहासपुराणाभ्यामेव वेदार्थस्य निर्णेयत्वम्] [३.१४] "दुर्बोधा वैदिकाश्शब्दा प्रकीर्णत्वाच्च ये खिलाः । [३.१५] तद्ज्ञैस्त एव स्पष्टार्थाः स्मृतितन्त्रे प्रतिष्ठिताः ॥" इति [३.१६] "यदि विद्याच्चतुर्वेदान् साङ्गोपनिषदान् द्विजः । [३.१७] न चेत्पुराणसद्विद्या न वेदार्थविचक्षणः ॥" इति [३.१८] "इतिहासपुराणाभ्यां वेदं समुपबृह्मयेत् । [३.१९] बिभेत्यल्पश्रुवाद्वेदो मामयं प्रतरिष्यति ॥" इति च [ंBह्१.१.२०४] [३.२०-२१] स्मरणातितिहासपुराणाभ्यामेवार्थनिर्णयः कर्तव्यः. भारते मोक्षधर्मे नारदस्तुतौ: [३.२२-२३] "नमस्ते देवदेवेश" इत्यारभ्य स्तोत्रमध्ये "फेनपाचार्य वालखिल्य विखनो विखनस वैखानसाचार्य अभग्नयोग अभग्नपरिसङ्ख्यान" इति. [३.२४] तत्रैव: "यत्तस्मिन्नुपलभ्यं ते तत्तेजस्तत्त्रयीमयम् । [३.२५] तद्वैखानः परं ब्रह्म इति वेदविदो विदुः ॥" इति चोक्तम्. [ंBह्] [विखनश्शब्दनिर्वचनम्] [४.१-२] तथा नामसहस्राध्याये "वैखानस्सामगायनः"" इति स्मर्यते. [जगत्सृष्टिप्रयोजनम्] [४.३] पञ्चरात्रे आत्मसंहितायाम्: [४.४] "महाभूतेन भूतेन व्याप्तं विखनसा जगत् । [४.५] तमेव शरणं गच्छ जगत्कारणमच्युतम् ॥" [आत्मसंहिता] [४.६] इति शाण्डिल्येन शतानन्दमभिलक्ष्योक्तम्. [४.७] वैखानसे आनन्दसंहितायां: [४.८] "वेदान्ततत्त्वमीमांसाखननं कृतवाथरिः । [४.९] नाम्ना विखनसं प्राहुर्यञ्च वैखानसं तथा ॥" इति प्रोक्तम्. [आष्] [४.१०-१२] अत्र खननशब्देन सङ्कल्प उच्यते. "सोऽकामयत. बहु स्यां प्रजायेयेति स तपोऽतयत" इत्यादि श्रुतिभ्यः. अवाप्तसमस्तकामस्यापि भगवतः सृष्टिकार्ये प्रवृत्तिर्भवति. [समष्टिसृष्टिलक्षणम्] [४.१३] ननु सत्यवादिसमस्तकल्याणगुणविशिष्टस्य भगवतः. [४.१४] "ऐश्वर्यस्य समग्रस्य वीर्यस्य यशसः श्रियः । [४.१५] ज्ञानवैराग्ययोश्चैव षण्णां भग इतीरणा ॥" [४.१६] इति समग्रषाड्गुण्यपरिपूर्णस्य अवाप्तसमस्तकामस्य किमर्थं सृष्ट्यदिकमिति चेतुच्यते. [४.१७] "अप्रमेयोऽनियोज्यश्च यत्र कामगमो वशी । [ंBह्२, आप्प्. २१.१६०५] [४.१८] मोदते भगवान् भूतैः बालः कीडनकैरिव ॥" [ंBह्२, आप्प्. २१.१६०६] [४.१९] इत्यादि भारतवचनानुसारेण लीलार्थमेवेति. [४.२०] जगद्सृष्ट्यादिलीलानुभवार्थं भगवता समष्टिसृष्टेरनन्तरं व्यष्टिसृष्टौ [४.२१-२२] देवमनुष्यादिविविधविशेषसृष्ट्यर्थं चतुर्मुखसृष्टिं प्रति ध्यानं कृतम्. एषा चिदचिदात्मिका सृष्टिः भगवता क्रियते. व्यष्टिसृष्टिस्तु ब्रह्मणा. समष्टिसृष्टिर्नाम: [४.२३] "भूतैस्तु पञ्चभिः प्राणैः स्वान्तैर्दशभिरिन्द्रियैः । [४.२४] चतुर्विंशाति तत्त्वानि साङ्ख्यशास्त्रविदो विदुः ॥ [५.१] महान् कालः प्रधानञ्च मायाविद्या च पूरुषः । [५.२] इति पौराणिकाः प्राहुः त्रिंशत्तत्वानि तैस्सह ॥" [व्यष्टिसृष्टिलक्षणम्] [५.३-९] इति वचनात्तत्त्वसृष्टिरित्यवगम्यते. "स्वान्तैर्" इत्यनेन "मनो बुद्धिरहङ्कारश्चित्तञ्च करणान्यमी" इत्यन्तःकरणचतुष्टयमुच्यते. व्यष्टिसृष्टिर्नाम: अण्डान्तर्वर्तिभूतजातसृष्टिः. "अजामेकां लोहितशुक्लकृष्णाम्" "नित्यो नित्यानां चेतनश्चेतनानाम्". इत्यादि श्रुतिभिः नित्यत्वेन श्रुतानां प्रकृतिपुरुषानां सृष्टिर्नाम प्रलयदशायां सूक्ष्मरूपेण अविभक्तनामरूपेण च परमात्मन्येकीभूतानां सृष्टिकाले परमात्मनोऽनुप्रवेशानन्तरं स्थूलरूपवत्वं विभक्तनामरूपभाक्त्वञ्च. "तत्सृष्ट्वा". "तदेवानुप्राविशत्. तदनुप्रविश्य. सच्च त्यच्चाभवत्" इत्यादि श्रुतेः. [५.१०] विष्णुपुराणे: "तदेतदक्षयं नित्यं जगन्मुनिवराखिलम् । [५.११] अविर्भावतिरोभावजन्मनाशविकल्पवत् ॥ [Vइष्णुড়् ] [५.१२] प्रकृतिं पुरुषञ्चैव प्रविश्यात्मेच्छया हरिः । [५.१३] क्षोभयामास सम्प्राप्ते सर्गकाले व्ययाप्ययौ ॥" इति [Vइष्णुড়् ] [५.१४] गीतासु: "प्रकृतिं पुरुषं चैव विद्ध्यनादी उभावपि ।" [भगवद्गीताई = ंBह्६.३५.१९ ब्] [५.१५] मम योनिर्महद्ब्रह्म तस्मिन् गर्भं दधाम्यहम् । [५.१६] सम्भवस्सर्वभूतानां ततो भवति भारत ॥" [भगवद्गीताई = ंBह्६.३६.३] [अण्डोत्पत्त्यादिप्रकारः] [५.१७-२१] इति चोक्तरीत्या सृष्टिकाले जगद्योनिभूतं "महब्रह्म" तदीयं प्रकृत्याख्यमाचिद्वस्तु यत्, तस्मिन् चेतनाख्यं गर्भं योजयति. तत्कृताच्चिदचित्संसर्गात्देवादिस्थावरान्तानामचिन्मिश्राणां सर्वभूतानां सम्भवो भवति. एवमेव परमात्मना पञ्चीकृतानां भूतानामन्योन्यसंयोगादिना अण्डोप्तत्त्यादिकं श्रीविष्णुपुराणे प्रतिपाद्यते. यथा: [५.२२] "आकाशवायुतेजांसि सलिलं पृथिवी तथा । [५.२३] शब्दादिभिर्गुणैर्बह्मसंयुक्तान्युत्तरोत्तरैः ॥ [Vइष्णुড়् १.२.४६] [५.२४] शान्ता घोराश्च मूढाश्च विशेषास्तेन ते स्मृताः । [५.२५] नानावीर्याः पृथग्भूताः ततः ते संहतिं विना ॥ [Vइष्णुড়् ] [६.१] नाशक्नुवन् प्रजाः स्रष्टुमसमागम्य कृत्स्नशः । [६.२] समेत्यान्योन्यसंयोगं परस्परसमाश्रयाः ॥ [Vइष्णु.ড়् ] [६.३] एकसङ्घातलक्ष्याश्च संप्राप्यैक्यमशेषतः । [Vइष्णुড়् १.२.४९ द्] [६.४] पुरुषाधिष्ठितत्वाच्चाप्यव्यक्तानुग्रहेण च ॥ [Vइष्णुড়् १.२.५० ब्] [६.५] महदाद्या विशेषान्ता ह्यण्डमुत्पादयन्ति ते । [६.६] तत्क्रमेण प्रबुद्धं तज्जलबुद्बुदवत्समम् । [६.७] भूतेभ्योऽण्डं महाबुद्धे प्रवृद्धमुदकेशयम् । [६.८] प्राकृतं ब्रह्मरूपस्य विष्णोः स्थानमनुत्तमम् ॥ [Vइष्णु.ড়् १.२.५१] [६.९] तत्राव्यक्तस्वरूपोऽसौ व्यक्तरूपी जगत्पतिः । [६.१०] विष्णुर्ब्रह्मस्वरूपेण स्वयमेव व्यवस्थितः ॥" [Vइष्णुড়् ] [६.११] इत्यारभ्य [६.१२] "तस्मिन्नण्डेऽभवद्ब्रह्मा सदेवासुरमानुषः ॥" [Vइष्णुড়् १.२.५४] [६.१३-१४] इत्यादिभिः समष्टिसृष्ट्यादिकमुक्तम्. विशेषेण व्यष्टिसृष्टावपि ब्रह्मणोऽण्डादिषूत्पत्तिप्रकारः श्रूयते. यथा: [६.१५-२१] महोपनिषदि: "अथातो महोपनिषदं व्याख्यास्यामः. एको ह वै नारायण आसीद्" इत्यारभ्य "तस्य ध्यानान्तस्स्थस्य यज्ञस्तोममुच्यते. तस्मिन् चतुर्दशपुरुषा जायन्ते. एका कन्या. दशेन्द्रियाणि मन एकादशं तेजो द्वादशमहङ्कारः त्रयोदशः प्रणाश्चतुर्दशः आत्मा पञ्चदशः बुद्धिर्भूतानि पञ्च तन्मात्राणि पञ्च महाभूतानि च स एकः पञ्चविंशः पुरुषः." "अथ पुनरेव नारायणस्सोऽन्यत्कामो मनसा ध्यायत तस्य ध्यानान्तस्स्थस्य ललाटात्स्वेदोऽपतत्, त इमाः प्रतता आपः, तासु तेजः, तत्तेजो हिरण्मयमण्डं तत्र ब्रह्मा चतुर्मुखोऽजायत." इति. [ब्रह्मणोऽण्डादिषूत्पत्तिप्रकारः] [६.२२] यजुषि: "स प्रजापतिरेकः पुष्करपर्णे समभवत्" इति च. [६.२३] मनौ: एवं "अप एव ससर्जादौ तासु वीर्यमवासृजत् ॥" इत्यारभ्य [ंनुढ्श्१.८ द्] [६.२४] "तस्मिन् जज्ञे स्वयं ब्रह्मा सर्वलोकपितामहः ॥" इति [ंनुढ्श्१.९ द्] [७.१] भारते: "स्वपतस्तस्य देवस्य पद्मं सूर्यसमप्रभम् । [७.२] नाभ्यां विनिस्सृतमभूत्तत्रोत्पन्नः प्रजापतिः ॥" इति च स्मर्यते. [ंBह्३.१९४.११] [७.३-४] ननु नाभ्यामण्डे चोत्पत्तिरेकस्य कथमुपपद्यत इति चेत्- तत्कल्पान्तर इति वक्तयम्. तदुक्तं हयशिर उपाख्याने: [एकस्य ब्रह्मणः नाभ्यामण्डे च उत्पत्तिः] [७.५] "त्वत्तो मे मानसं जन्म प्रथमं द्विजपूजितम् । [७.६] चाक्षुषं वै द्वितीयं मे आसीज्जन्म पुरातनम् ॥ [७.७] त्वत्प्रसादाच्च मे जन्म तृतीयं वाचिकं महत् । [७.८] त्वत्तो मे श्रावणञ्चापि चतुर्थं जन्म वै प्रभो ॥ [७.९] नासिक्यञ्चैव मे जन्म त्वत्तः पञ्चममुच्यते । [७.१०] अण्डजञ्चापि मे जन्म त्वत्तः षष्ठं विनिर्मित्तम् ॥ [७.११] इदन् तु सप्तमं जन्म पद्मजं मेऽमितप्रभ ।" इति. [चतुर्मुखस्य वैखानसादिशब्दवाच्यत्वम्] [७.१२-१४] अतस्समस्तजगज्जन्मस्थितिध्वंसमहानन्दैकहेतोः भगवतः परब्रह्मणो नारायणस्य वैखानसादिशब्दवाच्यत्वसम्भवात्तन्नाभिनलिनसञ्जातस्य ब्रह्मणोऽपि "अङ्गादङ्गाद्" इति मन्त्रोक्तप्रकारेण भारतादिप्रतिपादितरीत्या च वैखानसादिशब्दवाच्यत्वमुपपद्यते. [७.१५] शान्तिपर्वणि: "विशेषेणाखनत्यस्मात्भावनामुनिसृष्टये । [७.१६] तस्माद्विखनसो नाम स आसीदण्डजः प्रियः ॥" इति [ंBह्] [७.१७] तत्रैव: "स्रष्टुं स तु समुद्युक्तो ब्रह्मयोनिमयः प्रभुः । [७.१८] खनित्वा चात्मनात्मानं धर्मादिगुणसंयुतम् । [७.१९] ध्यानमाविश्य योगेन ह्यासीद्विखनसो मुनिः ॥" इति [ंBह्] [७.२०-२१] श्रीभागवते: "न खलु गोपिकानन्दनो भवानखिलदेहिनामन्तरात्मदृक् । [७.२२-२३] विखनसार्थितो विश्वगुप्तये सख उदेयिवान् सात्त्वतां कुले ॥" इति [भागवतपुराण १०.३१.४] [श्रीरङ्गे वैखानसार्चनम्] [७.२४] गारूडे - श्रीरङ्गमाहात्म्ये: [७.२५] "ब्रह्मापि दिव्यहंसेन सितमेघोपमेन च । [७.२६] पृष्ठतोऽनुययौ विष्णुं वस्त्रेणोच्छाद्य चाननम् ॥ [८.१] तत्रार्चको महाभागो भगवान् विखनास्तदा । [८.२] ददौ प्रसादं देवानां रङ्गनाथाभ्यनुज्ञया ॥" इति [ङरुडড়् ] [८.३] श्रीवैखानसे - आनन्दसंहितायाम्: [८.४] "अन्तर्हितानां खननाद्वेदानान् तु विशेषतः । [८.५] स विभुः प्रोच्यते सर्वैः विखना ब्रह्मवादिभिः । [८.६] वैखानसश्च भगवान् प्रोच्यते स पितामहः ॥" इति [आष्] [८.७] व्यासनिघण्टौ: "विखनसञ्च विधातारं विरिञ्च तं चतुर्मुखम् ।" इति [८.८] "नाभिजन्माण्डजः पूर्वो विखनाः कमलासनः ॥ [८.९] शतानन्दश्शतधृतिस्सत्यको हंसवाहनः । [८.१०] पद्मासनो विखनसश्चाहर्मुखः इतीरितः ॥" इति च प्रतिपादितम्. [८.११-१२] एवं कार्यकारणयोरभेदावगमात्प्रमाणबाहुल्याच्च भगवति नारायणे चतुर्मुखे च वैखानसशब्दप्रयोगप्रकारः प्रतिपादितः. [८.१३] वैखानसानामुत्पत्तिप्रकारः [श्रुत्युक्तः वैखानसानामुत्पत्तिप्रकारः] [८.१४-२३] वैखानसानामुत्पत्तिः विशेषेण श्रूयते. यजुषि आरुणकेतुके इष्टकोपधानकथनानुवाके सृष्टिप्रकरणे - "आपो वा इदमासन् सलिलमेव. स प्रजापतिरेकः पुष्करपर्णे समभवत्. तस्यान्तर्मनसि कामस्समवर्तत. इदं सृजेयमिति" इत्यारभ्य "स तपस्तप्त्वा. शरीरमधूनुत. तस्य यन्मांसमासीत्. ततोऽरुणाः केतवो वातरशना ऋषय उदतिष्ठन्. येऽनखाः ते वैखानसाः. ये वालाः ते वालखिल्याः." इति. अस्यार्थः. समष्टिसृष्टेरनन्तरं व्यष्टिसृष्टौ चतुर्मुखः देवमनुष्यादिविविधविशेषसृष्ट्यर्थं मत्स्यादिरूपेणावतरिष्यमाणस्य भगवतो नारायणस्य परमवैदिकत्वेन सम्प्रतिपन्नश्रीवैखानसभगवच्छास्त्रमार्गेण समाराध्दनर्थञ्च स्वात्मतुल्याः प्रजास्सम्भवेयुरिति स्वान्तर्यामिणं परमात्मानं ध्योनेनानुकृतवानयमेवार्थो ब्राह्माण्डेऽप्युच्यते [८.२४] "ओमित्येकाक्षरं ब्रह्म व्याहरन् संस्मरन् हरिम् । [८.२५] पद्मासनस्थो भगवान् परमं तप आस्थितः ॥" [Bरह्माण्डড়् ] [सनकादिसृष्टिप्रकारः] [९.१-५] इत्यारभ्य ब्रह्मणा ब्रहुशः कृतं तपश्चरणमुक्तम्. तपश्चरणकाले साक्षात्कृतभगवत्स्वरूपवैभवानुभवातिशयात्भगवद्दत्तसृष्टिशक्तिलाभात्तदुपजनितविशेषवेगाच्च पुलकितसर्वाङ्गः शरीरमधूनुत - कम्पमकरोत्. "तस्य यन्मांसमासीद्" मांसं मानसमिति यावत्. "अर्थात्प्रकरणाल्लिङ्गादौचित्यादर्थनिर्णयः" इत्यर्थादिभिः समीचीनार्थनिर्णयविधानात्"अक्षरसाम्यान्निर्ब्रूयाद्" इति निरुक्तविधानाञ्च. [९.६-१०] तथा च तस्य मनः परमात्मनि संसक्तमासीदिति यत्, तेन हेतुना तदनुग्रहस्समजनि. तेनानुगृहीतात्ब्रह्मणः "केतवो वातरशनाः ऋषयः उदतिष्ठन्". "अरुणाः" परमात्मनि वसन्तः तदितररविक्ताः "केतवः" उच्छ्रितस्वभावाः परमात्मप्रवणानामग्रेसराः "वातरशना" दिग्वाससः "ऋषयः" सर्वार्थदर्शिनः सनकादयः "उदतिष्ठन्" उत्कृष्य समभवनिति. [९.११] इदं विष्णुपुराणेऽपि: "सनन्दनादयो ये च पूर्वं सृष्टास्तु वेधसा । [९.१२] न ते लोकेष्वसज्जन्त निरपेक्षाः प्रजाविधौ ॥ [Vइष्णुড়् १.७.९] [९.१३] सर्वे ते योगिनो जाता वीतरागा विमत्सराः । [९.१४] तेष्वेवं निरपेक्षेषु लोकसृष्टौ महात्मनः ॥" इत्यादिना प्रतिपादितम्. [Vइष्णुড়् १.७.१०] [९.१५-१९] स प्रजापतिः एवंविधान् स्वकार्यासाधकान् तान् दृष्ट्वा किञ्चिद्विषादमापन्नः पुनरपि स्वकारणं भगवन्तं ध्यानप्रयायेण खननेनातोषत्. "ये नखा" इत्यादि. भगवदनुग्रहविकसिते प्रजापतेर्मनसि वैखानसा नाम ऋषयस्सम्भूताः अत्र "ये नखा" इत्यत्र आद्यन्तवर्णविपर्ययो भवति. "कश्यपः पश्यको भवती"तिवत्"खना इत्येतत्नखा" इति विपर्यस्तमिति यावत्. [९.२०] "सुप्तिङुपग्रहलिङ्गनराणां कालहलच्स्वरकर्तृयङञ्च । [९.२१] व्यत्ययमिच्छिति शास्त्रकृदेषां सोऽपि च सिद्ध्यति बाहुलकेन ॥" [९.२२-२४] इति, "बहुलं छन्दसी"ति चात्र प्रणामन्. अत्र "अनखा" इति च्छित्त्वा केचिदेवमूचुः. अनखा इत्यनेन सौम्येन्द्रियवत्वमुक्तमिति. [वैखानसानामाचार्यपुरुषत्वम्] [१०.१-३] एवञ्च सति "सौम्यं जितेन्द्रियं" "सुप्रसन्नेन्द्रियं" इत्यादिना भगवच्छास्त्रेष्वाचार्यलक्षणस्य प्रतिपादितत्वात्"वैखानस विखनसाचर्य" इति. विष्णोराचार्यत्वेन शान्त्य्पर्वण्यभिहितत्वात्. [१०.४] "विखना इति विष्णुस्तज्जा वैखानसाः स्मृताः । [Kरा ३६.२८ द्] [१०.५] विष्णोरेव समुत्पन्ना भृग्वाद्या मुनयस्तथा ॥" [वैखानसानां त्रिशुक्लत्वम्] [१०.६-७] इति वचनात्, "गुरोस्सानवृत्तिर्वैखानस" इति बोधायनसूत्रे उक्तत्वाच्च भागवतादिषु प्रतिपादितम् "आचार्यपुंस्त्वमेतेषां वैखानसानामेवे"त्यवगम्यते. [१०.८-९] यद्वा "अनघा" इति पाठः. अनेन त्रिशुक्लत्वं सूच्यते. जन्म विद्या कर्म चेति. अद्वारकत्वेन भगवतः चतुर्मुखाच्चोप्तत्तिश्रवणात्, [१०.१०] "तत्कर्म यन्न बन्धाय सा विद्या या विमुक्तये । [१०.११] आयासायापरं कर्म विद्यान्या शिल्पनैपुणम् ॥" [१०.१२-१३] इत्युक्तरीत्या अद्वारकभगवत्स्वरूपज्ञानतदाराधनविधिप्रतिपादकशास्त्रनिष्ठत्वेन च एषां त्रिशुक्लत्वम्. शुक्लवतामेवाधिक्यमारण्यपर्वणि प्रथमाध्याये प्रतिपादितम्. यथा: [१०.१४] "येषां त्रीण्यवदातानि योनिर्विद्या च कर्म च । [१०.१५] ते सेव्यास्तैस्समास्या हि शास्त्रेभ्योऽपि गरीयसी ॥" ति [ंBह्३.१.२५] [आनन्दसंहितानुसारेण वैखानसोत्पत्त्यादिकम्] [१०.१६] श्रीवैखानसे आनन्दसंहितायां विखनसोत्पत्त्यादिकं प्रतिपादितम्: [१०.१७] "अथ सस्मार भगवान् विश्वसृष्ट्यर्थमच्युतः । [१०.१८] धातारं विश्वनिर्माणचतुरं चतुराननम् ॥ [आष्४.६] [१०.१९] स्मरणानन्तरादेव प्रादुरासीत्पुरः प्रभोः । [१०.२०] धाता समस्तजगतामुत्पत्तिकरणक्षमः ॥ [आ.ष्४.७] [१०.२१] तं प्राह भगवान् विष्णुः प्रणतं पुरतः स्थितम् । [१०.२२] श्रीभगवानुवाच: ब्रह्मन् त्वया जगत्सर्वं कर्तव्यं सचराचरम् ॥ [आष्४.८] [१०.२३] लोके विहर्तुमिच्छामि यदहं पद्मसम्भव । [१०.२४] ततस्त्वत्सृष्टजगतामविच्छिन्नप्रवृत्तये । [११.१] धर्मसंरक्षणार्थाय वेदशास्त्रार्थसिद्धये ॥ [आष्४.९] [११.२] अलसा अल्पसत्त्वाश्च मनुष्यास्स्वल्पबुद्धयः । [११.३] ते परव्यूहविभवानात्मानाञ्च न मेनिरे ॥ [आष्४.१०] [आनन्दसंहितानुसारेण सनकादिसृष्टिः] [११.४] सौलभ्याय तु भक्तानां सर्वलोकानुकम्पया ॥ [आष्४.११ द्] [११.५] अर्चावताररूपेण लोकेऽस्मिंश्चतुरानन । [११.६] अवतारं करिष्यामि मह्या लक्ष्म्या समन्वितः ॥ [आ.ष्४.१२] [११.७] मदर्चायै सृज ब्रह्मन् सृष्ट्यादौ मुनिसत्तमम् । [आष्४.१३ ब्] [११.८] इत्याज्ञप्तस्तदा ब्रह्मा मुहूर्तं तत्सिसृक्षया । [११.९] चिन्तयामास तत्कर्मा क्षणमेकं महामुनिः ॥ [आष्४.१४] [११.१०] ऊचुः न शक्नुयामेवं स्रष्टुमिच्छन् तथाविधम् । [११.११] तस्य तद्वचनं श्रुत्वा देवदेवो हरिस्स्वयम् ॥ [आ.ष्] [११.१२] चिन्तयामास देवेशः स्वनिर्मलतरात्मनि । [११.१३] वेदान्ततत्त्वमीमांसा खननं कृतवान् हरिः ॥ [आष्४.१५] [११.१४] नाम्ना विखनसं चक्रे तत्पदान्वर्थयोगतः । [११.१५] तथा चिन्तयतस्तस्य मनसो द्वौ बभूवतुः ॥ [आष्४.१८] [११.१६] सङ्कल्पधर्मौ सन्नम्य प्राञ्जलिं पुरतः स्थितम् । [आष्४.१९ ब्?] [११.१७] ब्रह्माणमब्रवीद्विष्णुर्भूतसृष्ट्यन्तहेतवे (कारकं) । [११.१८] सङ्कल्पधर्मौ भवतस्तव सृष्ट्यन्तहेतवे ॥ [११.१९] शुद्धसत्त्वसमुत्पन्नो निर्मितोऽयं तवाग्रतः ॥ [आष्४.३५ द्] [११.२०] मुनिश्रेष्ठो महातेजा मत्कार्यकरणक्षमः । [आष्४.३६ ब्?] [११.२१] मत्कार्यसाधकानेव त्वं वै स्रष्टुमथार्हसि ॥ [११.२२] हृषीकेशस्य तद्वाक्यं भ्याधाय कृतञ्जलिः । [११.२३] चतुर्मुखश्चापि तथा सनकादिमुनीश्वरान् । [११.२४] ध्यायन्मुखैश्चतुर्भिस्तु क्रमादसृजदब्जभूः ॥ [आनन्दसंहितानुसारेण दक्षादिमुनिदशकसृष्टिः] [१२.१] सनत्कुमारञ्च तथा सनकञ्च सनातनम् । [१२.२] सनन्दनमिति ख्यातान् ब्रह्मविद्याविशारदान् ॥ [आष्२.२०] [१२.३] ततस्ते च मुनिश्रेष्ठा ज्ञानातिशयवैभवात् । [१२.४] विरक्तचित्तास्सञ्जग्मुः कैवल्यं पदमुत्तमम् ॥ [आष्४.२१] [१२.५] स्वकार्यसाधकान् ब्रह्मा सृष्टवान् पुनरेव हि । [१२.६] प्राणाच्च चक्षुषस्तद्वदभिमानाच्च कर्मणः ॥ [आष्४.२२] [१२.७] हृदयाच्छिरसः श्रोत्रादुदानाद्व्यानतस्ततः । [१२.८] समानाच्च तथापानादृषिश्रेष्ठानिमान् दश ॥ [आष्४.२३] [१२.९] दक्षं मरीचिनं नीललोहितं भृगुमेव च । [१२.१०] तथाङ्गिरसमत्रिं च पुलस्त्यं पुलहं तथा ॥ [आष्४.२४] [१२.११] वसिष्ठं च क्रतुं चैव क्रमादसृजदब्जभूः । [१२.१२] नव ब्रह्माण एवैते विना स्युर्नीललोहितम् ॥ [आष्४.२५] [आनन्दसंहितानुसारेण वैखानसस्य मुनिश्रेष्ठत्वम्] [१२.१३] धर्मसङ्कल्पसहितास्सनकाद्या मुनीश्वराः । [१२.१४] भृग्वादिमुनयश्चैव श्रुतिस्मृत्यादिवेदनात् ॥ [आष्४.२६] [१२.१५] शिष्या विखनसः प्रोक्तास्सर्वशास्त्रार्थपारगाः । [१२.१६] वैखानसानां भृग्वाद्या वंशकर्तार ईरिताः ॥ [आ.ष्४.२७] [१२.१७] सर्वेषामग्रजं श्रेष्ठमात्मपुत्रं मुनिं तथा । [१२.१८] तं हरेः पुरतः कृत्वा प्रोक्तवान् कमलासनः ॥ [आष्४.२८] [१२.१९] ब्रह्मोवाच: देवदेव जगन्नाथ सृष्टिस्थित्यन्तकारण । [१२.२०] भगवंस्त्वत्प्रभावेन सृष्टोऽयं मुनिसत्तमः ॥ [आष्४.२९] [१२.२१] जाताः चिन्तयतो मत्तस्त्वत्सृष्टौ मुनयस्त्विमे । [१२.२२] एतैरपि कृतं सर्वं जगदेतच्चराचरम् ॥ [आष्४.३०] [१२.२३] मत्पुत्राणां च सर्वेषामग्रजः पुरुषोत्तमः । [१२.२४] वैष्णवेष्वग्रजश्श्रेष्ठो मुनीनां प्रथमो मुनिः ॥ [आ.ष्४.३१] [आनन्दसंहितानुसारेण वैखानस्य गर्भवैष्णवत्वम्] [१३.१] विशेषखननाज्जातो विष्णोर्वैखानसस्तथा । [१३.२] भृग्वादीनुपनीयाथ सावित्रीमुपदेक्ष्यति ॥ [आष्४.३२] [१३.३] परब्रह्मोपदेष्टासावयमेव गुरुस्स्मृतः । [१३.४] एतदुक्तप्रकारेण सर्वे वै मम सूनवः ॥ [आष्४.३३] [१३.५] चरिष्यन्ति यथान्यायं लौकिकाध्यात्मवैदिकान् । [१३.६] एभिः प्रवर्तिता सृष्टिरविच्छिन्ना प्रवर्त्तते ॥ [आष्४.३४] [१३.७] भवानवतरत्वत्र मम सृष्टौ जनार्दन । [१३.८] शुद्धसत्त्वसमुत्पन्नो निर्मितोऽयं त्वया विभो ॥ [आष्४.३५] [१३.९] ऋषिश्रेष्ठो महातेजाः त्वत्कर्मकरणक्षमः । [१३.१०] तथासौ खननाद्विष्णोः ध्यायादन्तश्च गर्भतः ॥ [आष्४.३६] [१३.११] यस्मात्तव समुत्पन्नो ज्ञेयोऽसौ गर्भवैष्णवः । [१३.१२] इत्युक्तो भगवान् प्राह मुनिश्रेष्ठं तपोनिधिं ॥ [आ.ष्४.३७] [१३.१३] श्रीभगवानुवाच: देवब्रह्म ऋषीणान् तु मदीयाराधनं प्रति । [१३.१४] मया सञ्चोदितो यस्मात्त्वमेव मुनिसत्तम ॥ [आष्४.३८] [१३.१५] तपोधनो भवानेव धन्योऽसि भुवनत्रये । [१३.१६] आत्मार्थं वा परार्थं वा नित्यनैमित्तिकादि यत् ॥ [आ.ष्४.३९] [१३.१७] तत्सर्वं मत्प्रसादेन मदीयाराधनं कुरु । [१३.१८] अथाह स ऋषिस्तस्मै प्रणम्य जगदात्मने ॥ [आष्४.४०] [आनन्दसंहितानुसारेण वैखानसानामद्वारकभगवद्यजनेन नित्यकर्मानुष्टानपूर्णता] [१३.१९] श्रीविखाना उवाच: भवतानुगृहीतोऽहं धन्योऽस्मि पुरुषोत्तम । [१३.२०] नातः परतरं कार्यं किमप्यन्यद्दिवौकसाम् ॥ [आष्४.४१] [१३.२१] तथापि देवदेवेश स्वकर्म मुनिभिस्सदा । [१३.२२] उदयाद्यस्तपर्यन्तं क्रियते नियतात्मभिः ॥ [आष्४.४२] [१३.२३] सर्वेषाञ्च द्विजातीनां श्रुतिस्मृतिसमीरितम् । [१३.२४] कर्तव्यं सततं देव स्वस्वकर्म प्रयत्नतः ॥ [आ.ष्४.४३] [१४.१] भवदाराधनं विष्णो कथं कारं करोम्यहम् । [१४.२] त्वत्कर्म क्रियते चेत्तु कर्मलोपो भवेन्मम । [१४.३] इत्युक्तो भगवानाह मुनिना तत्त्ववेदिना ॥ [आष्४.४४] [१४.४] श्रीभगवानुवाच: विखनस्त्वं मुनिश्रेष्ठ मदाराधनकर्मणि ॥ [आष्४.४५] [१४.५] स्वकर्मलोपसंत्रासव्याकुलीकृतचेतसः । [१४.६] तव कर्माण्यनूनानि संतु नित्यं मदाज्ञया ॥ [आष्४.४६] [१४.७] त्वद्वंशजानां सर्वेषां काले वै कृतकर्मणाम् । [१४.८] निषेकादिश्मशानान्ताः कार्याः मन्त्रसमन्विताः ॥ [आष्४.४७] [१४.९] अष्टादश च कर्माणि शारीराणि प्रचक्षते । [१४.१०] यज्ञाश्च विंशतिर्द्वौ च धर्मं वैष्णवमुत्तमं ॥ [आ.ष्४.४८] [१४.११] वेदे वैखानसे सूत्रे यो धर्मः परिकीर्तितः । [१४.१२] सर्वैस्स धर्मोऽनुष्ठेयो नात्र कार्या विचारणा ॥ [आष्४.४९] [१४.१३] त्वदाज्ञैव भृग्वाद्या नारायणपरायणाः ॥ [आष्४.६७ द्] [१४.१४] वदन्ती परमं धर्मं वैष्णवं श्रुतिसम्मतम् । [१४.१५] तद्धर्मनिरता ये तु ते वै भागवताः स्मृताः ॥ [आ.ष्४.६८] [१४.१६] मत्कर्मकारिणां तेषां कर्मलोपो न विद्यते । [१४.१७] तिस्रः कोट्यो मुनीनां तु कर्म कुर्वन्ति मे सदा ॥ [आष्४.६९] [१४.१८] ज्ञात्वा यजूंषि साङ्गानि मन्मतास्सर्व एव ते । [१४.१९] मन्मन्त्रकल्पजातानि मत्पुराणान्यनुक्रमात् ॥ [आ.ष्४.७०] [१४.२०] अधीत्य सर्वकर्माणि कुर्वते ते मदर्चनम् । [१४.२१] कृताधिकारिणस्ते तु कृतसम्बन्धिनो मम ॥ [आष्४.७१] [१४.२२] मत्प्रसादभुजस्सौम्या अतिप्रियतमा मम । [१४.२३] षट्कर्मनिरतास्ते वै सात्त्विकाहारतत्पराः ॥ [आ.ष्४.७२] [१४.२४] वैखानसेन सूत्रेण निषेकादिक्रियान्विताः । [१५.१] भवन्ति भावितात्मानो मत्कर्मकरणक्षमाः ॥ [आ.ष्४.७३] [१५.२] तस्माद्भागवतश्रेष्ठा भवन्त्यप्राकृता भुवि । [१५.३] सर्वधा "ये नखास्ते वैखानसा" इति वेदतः ॥ [आष्४.७४] [१५.४] तस्माद्वैखानसाश्शुद्धास्सर्वकर्मसु पूजिताः । [१५.५] ततः प्राह मुनिश्रेष्ठस्तमेवं वादिनं हरिम् ॥ [आष्४.७५] [१५.६] श्रीविखनाः: भगवंस्त्वत्प्रसादेन कर्म साङ्गं यथोदितम् । [१५.७] सर्वेषां मत्कुलीनानां भवत्येव न संशयः ॥ [आ.ष्४.७६] [महाभारतोक्तो वैखानसानामुत्पत्त्यादिप्रकारः] [१५.८-९] अतोऽत्र श्रुत्युक्तमार्गेण वैखानसानां सृष्ट्यादिकं, अद्वारकभगवद्यजनेनैतेषां नित्यकर्मानुष्ठानपूर्णत्वं च प्रतिपादितम्. [१५.१०-११] अथ पञ्चमवेदत्वेन प्रसिद्धे महाभारते आनुशासनिकपर्वणि ८५ अमे अध्याये भृग्वादिमहर्षीणां वैखानसानाञ्चोत्पत्तिः निरूपिता. यथा: [१५.१२] वसिष्ठ: "अपि चेदं पुरा राम श्रुतं मे ब्रह्मदर्शनम् । [१५.१३] पितामहस्य यद्वृत्तं ब्रह्मणः परमात्मनः ॥ [ंBह्१३.८५.१] [१५.१४] देवस्य महतस्तात वारुणीं बिभ्रतस्तनुम् । [१५.१५] ऐश्वर्ये वारुणे राम रुद्रस्येशस्य वै प्रभोः ॥ [ंBह्१३.८५.२] [१५.१६] आजग्मुर्मुनयः सर्वे देवाश्चाग्निपुरोगमाः । [१५.१७] यज्ञाङ्गानि च सर्वाणि वषट्कारश्च मूर्तिमान् ॥ [ंBह्१३.८५.३] [१५.१८] मूर्तिमन्ति च सामानि यजूंषि च सहस्रशः । [१५.१९] ऋग्वेदश्चागमत्तत्र पदक्रमविभूषितः ॥ [ंBह्१३.८५.४] [१५.२०] लक्षणानि सुरास्तोमा निरुक्तं सुरपङ्क्तयः । [१५.२१] ओङ्कारश्छन्दसां नेत्रं निग्रहप्रग्रहौ तथा ॥ [ंBह्१३.८५.५] [१५.२२] तथा वेदास्सोपनिषदो विद्यास्सावित्र्यथापि च । [१५.२३] भूतं भव्यं भविष्यच्च दधार शिरसा शिवः । [१५.२४] सञ्जुहावात्मनात्मानं स्वयमेव तथा प्रभो ॥ [ंBह्१३.८५.६] [१५.२५] यज्ञञ्च शोभयामास बहुरूपं पिनाकधृत् ॥ [ंBह्१३.३९५.१] [१६.१] द्यैर्नभः पृथिवी खञ्च तथा चैवैष भूपतिः । [१६.२] सर्वविघ्नेश्वरश्श्रीमानेष चापि विभावसुः ॥ [१६.३] एष ब्रह्मा शिवो रुद्रो वरुणोऽग्निः प्रजापतिः । [ंBह्१३.३९५४] [१६.४] कीर्त्यते भगवान् देवस्सर्वभूतपतिश्शिवः ॥ [ंB.ह्१३.३९५५] [१६.५] तस्य यज्ञः पशुपतेस्तपः क्रतव एव च । [ंBह्१३.३९५६] [१६.६] दीक्षा दीप्तव्रता देवी दिशश्च सदिगीश्वराः ॥ [ंBह्१३.३९५७] [१६.७] देवपत्न्यश्च कन्याश्च देवानां चैव मातरः । [१६.८] आजग्मुः सहितास्तत्र तदा भृगुकुलोद्वह ॥ [ंBह्१३.८५.७] [१६.९] यज्ञं पशुपतेः प्रीता वरुणस्य महात्मनः । [१६.१०] स्वयंभुवस्तु ता दृष्ट्वा रेतः समपतद्भुवि । [ंBह्१३.८५.८] [१६.११] तस्य शुक्रस्य निष्ष्यन्दात्पांसून् संगृह्य भूमितः । [१६.१२] प्रास्यत्पूषा कराभ्यां वै तस्मिन्नेव हुताशने ॥ [ंBह्१३.८५.९] [१६.१३] ततस्तस्मिन् संप्रवृत्ते सत्रे ज्वलितपावके । [१६.१४] ब्रह्मणो जुह्वतस्तत्र प्रादुर्भावो बभूव ह ॥ [ंB.ह्१३.८५.१०] [१६.१५] स्कन्नमात्रं च तच्छुक्रं स्रुवेण प्रतिगृह्य सः । [१६.१६] आज्यवन्मन्त्रवच्चापि सोऽजुहोद्भृगुनन्दन ॥ [ंBह्१३.८५.११] [१६.१७] ततस्तु जनयामास भूतग्रामं स वीर्यवान् । [१६.१८] ततस्तु तेजसस्तस्माज्जज्ञे लोकेषु तैजसम् ॥ [ंB.ह्१३.८५.१२] [१६.१९] तमसस्तामसा भावा व्यापि सत्त्वं तथोभयम् । [१६.२०] स गुणस्तेजसो नित्यस्तस्य चाकाशमेव च ॥ [ंB.ह्१३.८५.१३] [१६.२१] सर्वभूतेषु च तथा सत्त्वं तेजस्त्वथोत्तमम् । [१६.२२] शुक्रे हुतेऽग्नौ तस्मिंस्तु प्रादुरासंस्त्रयः प्रभो ॥ [ंB.ह्१३.८५.१४] [१६.२३] पुरुषा वपुषा युक्ता तैस्तैः प्रसवजैर्गुणैः । [१६.२४] भर्जनाद्भृगुरित्येवमङ्गारेभ्योऽङ्गिराभवत् ॥ [ंBह्१३.८५.१५] [१७.१] (भृगित्येव भृगुः पूर्वमङ्गारेभ्योऽङ्गिराभवत् ॥ [ंB.ह्१३.८५.१५ द्] [१७.२] अङ्गारसंश्रयाच्चैव कविरित्यपरोऽभवत् । [१७.३] सह ज्वालाभिरुत्पन्नो भृगुस्तस्माद्भृगुः स्मृतः ॥ [ंB.ह्१३.८५.१६] [१७.४] मरीचिभ्यो मरीचिस्तु मारीचः कश्यपो ह्यभूत् । [१७.५] अङ्गारेभ्योऽङ्गिरास्तात वालखिल्याः शिलोच्चयात् । [१७.६] अत्रैवात्रेति च विभो जातमत्रिं वदन्त्यपि ॥ [ंBह्१३.८५.१७] [१७.७] तथाग्नेस्तस्य भस्मभ्यो ब्रह्मर्षिगणसंमताः । [१७.८] वैखानसाः समुत्पन्नास्तपःश्रुतगुणेप्सवः । [१७.९] अश्रुतोऽस्य समुत्पन्नावश्विनौ लोकसंमतौ ॥ [ंBह्१३.८५.१८] [१७.१०] शेषाः प्रजानां पतयः स्रोतोभ्यस्तस्य जज्ञिरे । [१७.११] ऋषयो रोमकूपेभ्यस्स्वेदाच्छन्दो बलान्मनः ॥ [ंBह्१३.८५.१९] [१७.१२] एतस्मात्कारणादाहुरग्निः सर्वाश्चअभिएर्तेलुगु देवताः । [१७.१३] ऋषयः श्रुतसंपन्ना वेदप्रामाण्यदर्शनात् ॥ [ंB.ह्१३.८५.२०] [१७.१४] यानि दारूणि ते मासा निर्यासाः पक्षसंज्ञिताः । [१७.१५] अहोरात्रा मुहूर्तास्तु पित्तं ज्योतिश्च वारुणम् ॥ [ंBह्१३.८५.२१] [१७.१६] रौद्रं लोहितमित्याहुर्लोहितात्कनकं स्मृतम् । [१७.१७] तन्मैत्रमिति विज्ञेयं धूमाच्च वसवः स्मृताः ॥ [ंB.ह्१३.८५.२२] [१७.१८] अर्चिषो याश्च ते रुद्रास्तथादित्या महाप्रभाः । [१७.१९] उद्दिष्टास्ते तथाङ्गारा ये धिष्ण्येषु दिवि स्थिताः ॥ [ंB.ह्१३.८५.२३] [१७.२०] आदिकर्ता च लोकस्य तत्परं ब्रह्म तद्ध्रुवम् । [१७.२१] सर्वकामदमित्याहुस्तद्रहस्यमुवाच च ॥ [ंBह्१३.८५.२४] [१७.२२] ततोऽब्रवीन्महादेवो वरुणः पवनात्मकः । [१७.२३] [वरुण] मम सत्रमिदं दिव्यमहं गृहपतिस्त्विह ॥ [ंBह्१३.८५.२५] [१७.२४] त्रीणि पूर्वाण्यपत्यानि मम तानि न संशयः । [१८.१] इति जानीत खगमा मम यज्ञफलं हि तत् ॥ [ंB.ह्१३.८५.२६] [१८.२] अग्नि: मदङ्गेभ्यः प्रसूतानि मदाश्रयकृतानि च । [१८.३] ममैव तान्यपत्यानि वरुणो ह्यवशात्मकः ॥ [ंB.ह्१३.८५.२७] [१८.४] ब्रह्मा:अथाब्रवील्लोकगुरुर्ब्रह्मा लोकपितामहः । [१८.५] ममैव तान्यपत्यानि मम शुक्रं हुतं हि तत् ॥ [ंB.ह्१३.८५.२८] [१८.६] ईश्वर: अहं कर्ता हि सत्रस्य होता शुक्रस्य चैव हि । [१८.७] यस्य बीजं फलं तस्य शुक्रं चेत्कारणं मतम् ॥ [ंB.ह्१३.८५.२९] [१८.८] ततोऽब्रुवन् देवगणाः पितामहमुपेत्य वै । [१८.९] कृताञ्जलिपुटाः सर्वे शिरोभिर्प्रणिपत्य वै ॥ [ंB.ह्१३.८५.३०] [१८.१०] वयं च भगवन् सर्वे जगतेतच्चराचरम् । [१८.११] तवैव प्रसवं सर्वं तस्मादग्निर्विभावसुः । [१८.१२] वरुणश्चेश्वरो देवो लभतां काममीप्सितम् ॥ [ंB.ह्१३.८५.३१] [१८.१३] निसर्गाद्वरुणश्चापि ब्रह्मणो यादसां पतिः । [१८.१४] जग्राह वै भृगुं पूर्वमपत्यं सूर्यवर्चसम् ॥ [ंBह्१३.८५.३२] [१८.१५] ईश्वरोऽङ्गिरसं चाग्नेरपत्यार्थे ह्यकल्पयत् । [१८.१६] पितामहस्त्वपत्यं वै कविं जग्राह धर्मतः ॥ [ंB.ह्१३.८५.३३] [१८.१७] तदा स वारुणिः ख्यातो भृगुः प्रसवकर्मकृत् । [१८.१८] आग्नेयस्त्वङ्गिराः श्रीमान् कविर्ब्राह्यो महायाशाः । [१८.१९] भार्गवाङ्गिरसौ लोके लोकसंतानलक्षणौ ॥ [ंBह्१३.८५.३४] [१८.२०] एते हि प्रसवास्सर्वे प्रजानां पतयस्त्रयः । [१८.२१] सर्वं संतानमेतेषामिदमित्यवधारय ॥ [ंBह्१३.८५.३५] [१८.२२] इत्यादिना वैखानसानामुत्पत्त्यादिकं विशेषेण प्रतिपादितम्. [१८.२३] पुराणान्तरे: [१८.२४] यज्ञे देवस्य वितते महतो वरुणस्य ह । [१८.२५] ब्रह्मणोऽप्सरसं दृष्ट्वा रेतश्चस्कन्द कर्हिचित् ॥ [१९.१] तत्प्रतीक्ष्य स पर्णेन संजुहाव विभावसौ । [१९.२] ततोऽर्चिषोऽभूद्भगवान् भृगुरङ्गारतोऽङ्गिराः ॥ [१९.३] अत्रैवान्वेषणादत्रिः खननाद्विखना मुनिः । [१९.४] खननं तत्त्वमीमांसेत्य्बिस्हिएर्तेलुगुआहुः केचन सूरयः ॥ [१९.५] अपरे निगमार्थानां खननादिति नश्श्रुतम् । [१९.६] ततस्तद्वंशजा विप्रा वेदवेदाङ्गवेदिनः ॥" इति. [१९.७-१०] "ये वालाः ते वालखिल्याः" इत्यत्र बकारस्थाने वकार. ज्ञानातिशयवैभवात्कामादिदोषराहित्येन च बाला उच्यन्ते. श्रूयते हि: "तस्माद्ब्राह्मणः पाण्डित्यं निर्विद्य बाल्येन तिष्ठासेत्बाल्यञ्च पाण्दित्यञ्च निर्विद्याथ मुनिः" इति. [१९.११-१३] अत्र केचिदेवमूचुः: ब्रह्मणः विधूताच्छरीरात्यन्मांसं विकीर्णमभवत्ततो केतवो वातरशना ऋषय उदतिष्ठन्निति. तदसत्. एवमर्थस्वीकारे सृष्टिकारणभूतस्य ब्रह्मशरीरस्य शैथिल्यमुक्तं स्यादिति. [१९.१४-२०] किञ्च "तस्यान्तर्मनसि कामस्समवर्तत" इत्यादिना "कामस्तदग्रे समवर्तताधि" इत्यन्तेन सोपपत्तिकं वर्तमानं सङ्कल्परूपं मननव्यापारमुक्त्वा "मनसो रेतः प्रथमं यदासीद्" इत्यत्र तत्र विद्यमानस्य व्यापारस्य प्रजापतेः सृष्टिकारणत्वं रेतश्शब्देबिस्हिएर्तेलुगुनोक्त्वा "सतो बन्धुमसति निरविन्दन्न्" इत्यारभ्य "य एवं वेद" इत्यन्तेन ब्रह्मणस्तत्कालविद्यमानमानसशक्तिमाअभिएर्तेलुगुत्रेण व्यष्टिसृष्टेरनिष्पन्नत्वमुक्त्वा मनसो व्यष्टिकारणलाभाय "स तपोऽतप्यत" इति भगवदुपासनमकरोद्" इत्युक्तम्. अयमेवार्थः "ओमित्येकाक्षरं ब्रह्मे"त्यादिना ब्रह्माण्डेऽप्युक्तम्. [भ्र्ग्वादीनां भगवन्मानसपुत्रत्वम्] [१९.२१] भगवन्मानसपुत्रा भृग्वादय इति भगवतैवोक्तम्: [१९.२२] "महर्षयस्सप्त पूर्वे चत्वारो मनवस्तथा । [१९.२३] मद्भावा मानसा जाता येषां लोक इमाः प्रजाः ॥" [ंBह्६.३२.६] [भृग्वादीनां वैखानसवंशकर्तृत्वम्] [१९.२४] भृग्वादय एव वैखानसानां वंशकर्तारः इति भारतेऽप्युक्तम्. [२०.१] यथा शान्तिपर्वणि: [२०.२] "भृग्वङ्गिरोमरीच्यत्रि पुलस्त्यपुलहाः क्रतुः । [ंBह्१३, आप्प्. ७.४९] [२०.३] तथा वसिष्ठो दक्षश्च नव स्वायम्भुवा द्विजाः ॥ [२०.४] एते वैखानसानान् तु ऋषीणां भावितात्मनाम् । [२०.५] वंशकर्तार उच्यन्ते सात्त्विकाहारभोजिनाम् ॥" इति [ंBह्] [२०.६-८] तस्माद्भगवता नारायणेन ब्रह्मणा च सृष्टानां भृग्वादीनामृषीणां तद्वंशजानां च निषेकादिक्रियावतामद्वारकभगवद्यजनाधिकारवतामेव लोके वैखानसा इति प्रसिद्धिः. [चतुर्मुखसृष्टानां सर्वेषां मनुष्याणां वैखानसत्वं समानमित्याक्षेपस्य परिहारः] [२०.९] ननु ब्रह्मणा सृष्टानां सर्वेषामपि मनुष्यानां वैखानसत्वं समानम्. [२०.१०-११] कथमेतेष्वेव व्यवह्रियते इति चेत्सत्यम्. नामरूबिस्हिएर्तेलुगुपकृत्यविभागादिकं वेदशब्देभ्य एव ब्रह्मणा कृतमिति श्रूयते. "वेदेन नामरूपे व्याकरोत्सतासती प्रजापतिर्" इति. [२०.१२] तथा भारते: "अनादिनिधना ह्येषा वागुद्सृष्टा स्वयम्भुवा ॥ [ंBह्१२.२२४.५५ द्] [२०.१३] आदौ वेदमयी दिव्या यतस्सर्वाः प्रसूतयः ॥" इति [ंBह्१२.६७१.१] [२०.१४] श्रीविष्णुपुराणे: "नाम रुपञ्च भूतानां कृत्यानाञ्च प्रअभिएर्तेलुगुपञ्चनम् । [२०.१५] वेदशब्देभ्य एवादौ देवादीनां चकार सः ॥" इति. [Vइष्णुড়् १.५.६३] [२०.१६] मनु: "सर्वेषाञ्च स नामानि कर्माणि च पृथक्पृथक् । [२०.१७] वेदशब्देभ्य एवादौ पृथक्संस्थाश्च निर्ममे ॥" [ंनुढ्श्१.२१] [२०.१८-१९] इति च नामरूपविभागस्य श्रुतिस्मृतिषु प्रतिपादितत्वात्ब्रह्मणा तादृशश्रुतिस्मृत्यनुसारेण सृष्टानामेव वैखानसत्वव्यवहारः. णान्येषाम्. [२०.२०-२३] किञ्च एकस्मिन् परमपुरुषे मुखादिषु जातानां यथा ब्राह्मणादिव्यवहारः यथा विश्वामित्र भारद्वाजादि गोत्रेषूत्पन्नानामेकसूत्रनिष्ठत्वं विना अनेकसूत्रानुसारित्वं, यथा च कुमुदकह्लारादिषु "पङ्के जायत" इति व्युत्पत्त्या पङ्कजत्वे समानोऽपि योगरूढिभ्यां पङ्कजत्वं तामरस एव वर्तते तथैव वैखानसत्वमपि. तथोक्तम्: [२०.२४] "कल्पे कल्पे क्षयोत्पत्त्या ब्रह्मविष्णुमहेश्वराः । [२०.२५] श्रुतिस्मृतिसदाचार- निर्णेतारस्तु सर्वदा ॥ [२१.१] न काश्चिद्वेदकर्ताऽस्ति वेदवक्ता चतुर्मुखः । [२१.२] तथैव धर्मं स्मरति मनुः कल्पान्तरान्तरे ॥" [तृतीयाश्रमनिष्ठानां न नैसर्गिकं वैखानसत्वम्] [२१.२-६] ननु: "ब्रह्मचारी गृहस्थश्च भिक्षुर्वैखानसस्तथा" इति तत्र तत्र तृतीयाश्रमनिष्ठानामेव वैखानसत्वावगमात्त एव वैखानसशब्दवाच्याः किं न स्युरिति चेत्न. श्रुतिस्मृतिपुराणादिषु उक्तप्रकारेण ब्रह्मणा सृष्टानामेव वैखानसत्वावगमात्तेषामेव तत्र तत्रोत्कृष्टत्वप्रतिपादनाच्च. [वैखानसानां ब्रह्मसभाप्रवेशः] [२१.७-८] तथा हि: श्रुतावेव वैखानसानामुत्पत्तिः श्रूयते. "ये नखाः ते वैखानसाः" इति. छन्दोग्यब्राह्मणे: "वैखानसा वा ऋषय इन्द्रस्य प्रिया आसन्" [२१.९-११] "पौरुहन्महं भवति. पुरुहान्नादो वा एतेन वैखानसोऽञ्जसा स्वर्गं लोकमपश्यत्" इति. अत्र इन्द्रशब्देन परमात्मा नारायण उच्यते. "स ब्रह्मा स शिवस्सेन्द्रस्सोऽक्षरः परमस्स्वराट्" इत्यादि श्रुतिभ्यः. [२१.१२] "आश्वत्थः कपिला गावस्तुलसी विखनास्तथा । [२१.१३] चत्वारो मत्प्रिया राजंस्तेषां वैखानसो वरः ॥" [आष्१९.१०] [२१.१४] इत्युपब्रह्मणात्. ब्रह्मसूत्रे इन्द्रप्राणाधिकरणे तथा निर्णयाच्च. [२१.१५] आनुशासनिके: "तथाग्नेस्तस्य भस्मभ्यो ब्रह्मर्षिगणसमिम्ताः । [२१.१६] वैखानसास्समुत्पन्नास्तपश्श्रुतगुणेप्सवः॥" [ंBह्१३.८५.१८] [२१.१७] इति वैखानसनाम्नैवोत्पत्तिप्रतिपादनात्. [२१.१८] तथा किष्किन्धाकाण्डे: [२१.१९] "शृङ्गं सौमनसं नाम जातरूपमयं ध्रुवम् ॥ [ऋआ.म् ४.३९.५१ द्] [२१.२०] तत्र पूर्वं पदं कृत्वा पुरा विष्णुस्त्रिविक्रमे । [२१.२१] द्वितीयं शिखरे रौद्रं चकार पुरुषोत्तमः ॥ [ऋआ.म् ४.३९.५२] [२१.२२] तदुत्तरे प्रतिक्रम्य जम्बूद्वीपं दिवाकरः । [२१.२३] दृश्यो भवति भूयिष्ठं शिखरं तन्महोच्छ्रयम् ॥ [ऋआ.म् ४.३९.५३] [२१.२४] तत्र वैखानसा नाम वालखिल्या महर्षयः । [२१.२५] प्रकाशमाना दृश्यन्ते सूर्यवर्णास्तपस्विनः ॥" इति [ऋआम् ४.३९.५४] [२२.१] तत्रैव चत्वारिंशेऽध्याये: [२२.२] मैनाकश्च विचेतव्यस्ससानुप्रस्थकन्दरः । [२२.३] स्त्रीणामश्वमुखीनाञ्च निकेतास्तत्र तत्र तु ॥ [ऋआ.म् ४.४२.३०] [२२.४] तं देशं समतिक्रम्य आश्रमं सिद्धसेवितम् । [२२.५] सिद्धा वैखानसास्तत्र वालखिल्याश्च तापसाः ॥ [ऋआ.म् ४.४२.३१] [२२.६] वन्द्यास्ते तु तपस्सिद्धास्तपसा वीतकल्मषाः । [२२.७] प्रष्टव्या चापि सीतायाः प्रवृत्तिर्विनायान्वितः ॥ [ऋआ.म् ४.४२.३२] [२२.८] हेमपुष्करसञ्छन्नं तत्र वैखानसं सरः ।" [ऋआम् ४.४२.३३ ब्] [२२.९] इति च वानप्रस्थपरत्वं विना "वैखानसा वालखिल्या" इति वालखिल्यसमानतया पृथग्वंशत्वेन कीर्तनात्. [२२.११] तथा श्रीविष्णुपुराणे - द्वितींयांशे नवमेऽध्याये: [२२.१२] "ततः प्रयाति भगवान् ब्राह्मणैरभिरक्षितः । [२२.१३] वालखिल्यादिभिश्चैव प्रभुर्वैखानसैरपि ॥ [Vइष्णुড়् २.८.५८] [२२.१४] महात्माभिर्महात्मा वै जगतां पालनोद्यतः ॥" इति [Vइष्णुড়् ] [२२.१५] तथा सभापर्वणि: [२२.१६] पितामहस्य भवनं जग्मुश्च कृपयान्विताः ॥ [ंBह्१.२०३.२ द्] [२२.१७] ततो ददृशुरात्मानं सह देवैः पितामहम् । [२२.१८] सिद्धैर्महर्षिभिश्चैव समन्तात्परिवारितम् ॥ [ंBह्१.२०३.३] [२२.१९] तत्र विष्णुर्महादेवस्तत्राग्निर्वायुना सह । [२२.२०] चन्द्रादित्यौ च धर्मश्च परमेष्ठी तथा बुधाः ॥ [ंBह्१.२०३.४] [२२.२१] वैखानसा वालखिल्यास्सोमपाश्च मरीचिपाः । [२२.२२] अजाश्चैवाजमीढाश्च तेजोगर्भास्तपस्विनः । [२२.२३] ऋषयस्सर्व एवेति पितामहमुपासते ॥" [ंBह्१.२०३.५] [२२.२४-२५] इति च वैखानसानां ब्रह्मसभाप्रवेशवर्णनात्. तस्य च तृतीयाश्रमनिष्ठेष्वसम्भवात्. [वानप्रस्थानां श्रौतकर्मनिषेधः] [२३.१] आनुशासनिके [२३.२] "शृणु राजन् वसिष्ठस्य मुख्यं कर्म यशस्विनः । [ंBह्१३.१४०.१५ द्] [२३.३] वैखानसविधानेन गङ्गातीरं समाश्रिताः ॥ [ंBह्१३.१४०.६४७*.१] [२३.४] आदित्यास्सत्रमीहन्ति सरो वैखानसं प्रति ॥" इति [ंBह्१३.१४०.१६] [२३.५-७] अत्र वानप्रस्थविधौ सत्रयागक्रमविधानाभावात्वानप्रस्थाश्रमप्रविष्ठानां तेन शारीरेण पुनरपि देवत्वयोग्यताऽसम्भवाच्च वैखानसविधानेनेति वैखानसपदेन वानप्रस्थानां गृहीतुमशक्यत्वात्. [२३.८] किञ्च श्रीभागवते एकादशस्कन्धे: [२३.९] "वन्यैश्चरुपुरोडाशैर्निर्वपेत्कालचोदिताम् । [२३.१०] न तु श्रौतेन विधिना मां यजेत वनाश्रमी ॥" [भागवतपुराण ११.१८.७] [२३.११] इति वानप्रस्थानां शरुतविधिनिषेधप्रतिपादनात्. [भगवदर्चनक्रमः] [२३.१२] तथा वृद्धमनौ: "वेदान्तवेदिभिर्विप्रैस्तद्वैखानससूत्रिभिः । [२३.१३] याजयेद्यज्ञपुरुषं विष्णुं राजा जगद्धितः ॥" इति [वैखानसपाञ्चरात्रिकयोः चतुर्मूर्तिषु संज्ञायां वैषम्यम्] [२३.१४] तथा आश्वमेधिके: [२३.१५] युधिष्ठिरह्: "कथं त्वमर्चनीयोऽसि मूर्तयः कीदृशाश्च ते । [ंBह्१४, आप्प्. ४.१६५२] [२३.१६] वैखानसाः कथं ब्रूयुः कथं वा पाञ्चरात्रिकाः ॥ [ंB.ह्१४, आप्प्. ४.१६५३] [२३.१७] श्रीभगवान्: "शृणु पाण्डव तत्सर्वमर्चनाक्रममात्मनः । [ंBह्१४, आप्प्. ४.१६५४] [२३.१८] स्थण्डिले पद्मकं कृत्वा साष्टपत्रं सकर्णिकम् ॥ [ंB.ह्१४, आप्प्. ४.१६५५] [२३.१९] अष्टाक्षरविधानेन अथवा द्वादशाक्षरैः । [ंBह्१४, आप्प्. ४.१६५६] [२३.२०] वैदिकैरथवा मन्त्रैर्मम सूक्तेन वा पुनः ॥ [ंB.ह्१४, आप्प्. ४.१६५७] [२३.२१] स्थितं मां मन्त्रतस्तस्मिनर्चयेत्सुसमहितः । [ंBह्१४, आप्प्. ४.१६५८] [२३.२२] विष्णुञ्च पुरुषं सत्यमच्युतञ्च युधिष्ठिर ॥ [ंB.ह्१४, आप्प्. ४.१६५९] [२३.२३] अनिरुद्धञ्च मां प्राहुर्वैखानसविदो जनाः । [ंBह्१४, आप्प्. ४.१६६०] [२३.२४] अन्ये त्वेवं विजानान्ति मां राजन् पाञ्चरात्रिकाः ॥ [ंB.ह्१४, आप्प्. ४.१६६१] [२४.१] वासुदेवञ्च राजेन्द्र सङ्कर्षणमथापि वा । [ंBह्१४, आप्प्. ४.१६६२] [२४.२] प्रद्युम्नञ्चानिरुद्धञ्च चतुर्मूर्तिं प्रचक्षते ॥ [ंBह्१४, आप्प्. ४.१६६३] [२४.३] एताश्चान्याश्च राजेन्द्र संज्ञाभेदेन मूर्तयः । [ंBह्१४, आप्प्. ४.१६६४] [२४.४] विद्ध्यनर्थान्तरा एव मामेवञ्चार्चयेद्बुधः ॥" इति [ंBह्१४, आप्प्. ४.१६६५] [२४.५] तथा पाञ्चरात्रे पौष्करसंहितायाम्: [२४.६] "विप्रा वैखानसाख्या ये ते भक्तास्तत्त्वमुच्यते ॥ [ড়ौष्करष्३६.२६० द्] [२४.७] एकन्तिनस्सुसत्त्वस्था देहान्तं नान्ययाजिनः । [२४.८] कर्तव्यमिति देवेशं संयजन्ते फलं विना ॥" इति [ড়ौष्करष्३६.२६१] [शुद्ध, वैदिक, तान्त्रिकभेदेन पूजात्रैविध्यम्] [२४.९] तथा तत्रैव तन्त्रभेदनिर्णये: [२४.१०] "शुद्धञ्च वैदिकञ्चेति तान्त्रिकञ्च त्रिधा भवेत् । [२४.११] पाञ्चरात्रेण पूजा तु शुद्धं विष्णोरिति स्मृतम् ॥ [ড়ौष्करष्] [वैखानसपूजायाः वैदिकत्वं] [२४.१२] वैखानसेन सूत्रेण पूजयेद्विष्णुमव्ययम् । [२४.१३] वैदिकं तदिति प्रोक्तं द्विजातीनां प्रशस्यते ॥" इति [ড়ौष्करष्] [२४.१४] तथा विष्णुस्मृतौ: [२४.१५] "पौरुषं सूक्तमास्थाय ये यजन्ति द्विजोत्तमाः । [२४.१६] संहिताजपमास्थाय ते मां प्राप्स्यन्ति वै द्विजाः ॥ [२४.१७] अलाभे वेदमन्त्राणां पाञ्चरात्रोदितेन वा ॥" इति [२४.१८] तथा सङ्कर्षणसंहितायाम्: [२४.१९] "पूजयेत्पञ्चरात्रैस्तु मन्त्रैर्मोक्षफलप्रदैः । [२४.२०] वैखानसोक्तैर्दिव्यैर्वा मन्त्रैस्सर्वार्थसिद्धये ॥" इति [षङ्कर्षणसंहिता] [२४.२१] तथा शिल्पे हरिहरादीनां स्थाननिर्णये: [२४.२२] "सहस्रविप्रावासेषु शतविप्राधिकेषु च । [२४.२३] पञ्चमूर्तिविधानेन मध्ये विष्णुं समर्चयेत् ॥ [२४.२४] तद्वास्त्वङ्गालये विष्णुं तान्त्रिकेण न चार्चयेत् । [२४.२५] अर्चयेद्वैदिकोक्तेन वैखानसविधानतः ॥" इति [वैष्णवसमयस्य त्रैविध्यम्] [२५.१] तथा ज्यौतिषे हयग्रीवसंहितायाम्: [२५.२] "श्रीशास्त्रेणैव कर्तव्यं ग्राममध्यालयार्चनम् । [२५.३] पाञ्चरात्रविधानेन नाचरेदिति शासनम् ॥" इति [ःयग्रीवसंहिता] [२५.४] तथा शैवे च सुप्रभेदे: [२५.५] "सहस्रभूसुरादूर्ध्वे ग्रामे ब्रह्माङ्कणेऽपि च । [२५.६] वैखानसेन सूत्रेण निषेकादिसुसंस्कृतैः ॥ [षुप्रभेदा ] [२५.७] भार्गवादिमहातन्त्रमन्त्रभेदविचक्षणैः । [२५.८] अनुद्धृतैर्मन्त्रगणैर्वेदवेदान्तसम्भवैः ॥ [षुप्रभेदा ] [२५.९] क्रमाध्ययनसम्पन्नैस्साङ्गोपाङ्गैश्च संस्कृतैः । [२५.१०] पञ्चमूर्तिप्रकारेण प्रतिष्ठाप्यार्चयेद्धरिम् ॥ [षुप्रभेद्.आ ] [२५.११] वैदिकं तदिति प्रोक्तं राजराष्ट्रविवर्धनम् ॥" इति. [षुप्रबेधा ] [२५.१२] तथा कारणे ग्रामविन्यासविधौ: [२५.१३] "ब्रह्मांशं तु चतुर्भागं कृत्वा वायव्यभागतः । [२५.१४] पञ्चमूर्तिक्रमेणैव विष्णुं संस्थाप्य पूजयेत् ॥" इति [षुप्रभेदा ] [२५.१५] तथा भीमसंहितायां समयभेदोपन्यासावसरे: [२५.१६] "शैवमेवं समाख्यातं वैष्णवन् त्वधुनोच्यते । [२५.१७] वैष्णवञ्च त्रिधा प्रोक्तं तथा समयभेदवत् ॥ [Bहीमसंहिता] [२५.१८] पाञ्चरात्रं भागवतं तथा वैखानसं मतम् । [२५.१९] शुद्धं मिश्रं तथा सौम्यं यथा संख्यक्रमेण तु ॥ [Bहीमसंहिता] [२५.२०] वैदिकाचारबाह्यं यत्तद्रौद्रमिति कीर्तितम् । [२५.२१] वैदिकाचारसम्बन्धात्सौम्यं श्रेष्ठमुदाहृतम् ॥ [Bहीमसंहिता] [२५.२२] ग्रामादीनां समीपे तु मिश्रोक्तं स्थापयेद्बुधः । [२५.२३] अब्धिनद्यादितीरेषु शुद्धोक्तं स्थापयेत्तथा ॥ [Bहीमसंहिता] [२५.२४] विप्रावासेषु सर्वेषु सौम्योक्तेनैव कारयेत् ॥" इति [Bहीमसंहिता] [२६.१] तथा गारुडे: "अध्वर्युभिर्विप्रवरैर्मते विखनसस्स्थितैः । [२६.२] तत्राराधनमीहस्व विष्णोरमिततेजसः ॥" इति [ङरुडড়् ] [श्रीरङ्गे वैखानसार्चनम्] [२६.३] तथा तत्रैव श्रीरङ्गमाहात्म्ये: [२६.४] "ब्रह्माऽपि दिव्यहंसेन सितमेघोपमेन च । [२६.५] पृष्ठतोऽनुययौ विष्णुं वस्त्रेणाच्छाद्य चाननम् ॥ [ङरुड.ড়् ] [२६.६] तत्रार्चको महाभागो भगवान् विखनास्तथा । [२६.७] ददौ प्रसादं देवानां रङ्गनाथाभ्यनुज्ञया ॥" इति [ङरुडড়् ] [२६.८] तथा उपरिचरवसुचरिते: [२६.९] "वैखानसानां वचनैर्जपहोमार्चनादिभिः । [२६.१०] यजेद्धरिं सुरपतिं भूमेर्विवरगोऽपि सन् ॥" इति [ङरुडড়् ] [वृषगिरौ वैखानसार्चनम्] [२६.११] तथा वृषगिरिमाहात्म्ये: [२६.१२] "अन्तःप्रविश्य मुनयस्सह वैखानसैर्द्विजैर् । [२६.१३] प्रणमन्त्यन्वहं देवं नारायणमनामयम् ॥" इति [ङरुडড়् ] [२६.१४] तथा आग्नेयपुराणे फुल्लारण्यमाहात्म्ये: [२६.१५] "फुल्लशिष्यास्तु यक्षास्ते पूजयन्ति युगे युगे । [२६.१६] वैखानसेन विधिना यथा फुल्लमुखाच्च्युतम् ॥ [अग्मिपुराण ] [२६.१७] मानुषाः पूजयन्तीह वैखानसमते स्थिताः ॥" इति [अग्मिपुराण ] [२६.१८] तथा ब्रह्मकैवर्ते पुष्करतीर्थवैभववर्णने: [२६.१९] "निम्नगानां यथा गङ्गा देवानां भगवान् हरिः । [२६.२०] वर्णानां ब्राह्मणाश्श्रेष्ठा आश्रमाणां यतिर्यथा ॥ [Bरह्मकैवर्तড়् ] [२६.२१] श्रुतीनामादिभूतानामादिरेकायनी यथा । [२६.२२] व्यूहानामादिभूतस्तु वासुदेवो यथा वरः । [२६.२३] त्रिमूर्तीनां यथा विष्णुश्शिवानान् तु सदाशिवः ॥ [Bरह्मकैवर्तড়् ] [विप्रेषु वैखानसानां, सूत्रेषु वैखानससूत्रस्य च श्रेष्ठ्यम्] [२६.२४] धर्माणां वैष्णवो धर्मः स्मृतीनां मानवी स्मृतिः । [२६.२५] विप्राणां वेदविदुषां यथा वैखानसो वरः ॥ [Bरह्मकैवर्तড়् ] [२७.१] सूत्राणां तत्प्रणीतन् तु यथा श्रेष्ठतमं स्मृतम् । [२७.२] तथैव पुष्करो राजंस्तीर्थानामुत्तमोत्तमः ॥" [Bरह्मकैवर्तড়् ] [२७.३-६] इति च प्रतिपादनातीदृशानां वैखानसानामेव श्रुतिस्मृतीतिहासपुराणादिषु चतुर्मुखात्सामान्यत्वेन विना सर्वोत्कृष्टत्वेनोत्पत्तिश्रवणात्ब्रह्मसभाप्रवेशसूर्यपथाद्याश्रयणादिप्रतिपादनाच्च वैखानसा न तृतीयाश्रमनिष्ठाः, न वा ब्रह्मणा सामान्यतः सृष्टा भवितुमर्हन्ति. [जम्बुद्वीपे भारतवर्शस्य श्रेष्ठ्यम्] [२७.७] श्रीविष्णुपुराणे: "अत्रापि भारतं श्रेष्ठं जम्बूद्वीपे महामुने । [२७.८] यतो हि कर्मभूरेषा ह्यतोऽन्या भोगभूमयः ॥ [Vइष्णु.ড়् २.२.२२] [२७.९] कृतं त्रेता द्वापरञ्च कलिश्चान्यत्र न क्वचित् । [२७.१०] तपस्तप्यन्ति यतयो जुह्वते चात्र यज्वनः ॥ [Vइष्णुড়् ] [२७.११] दानानि चात्र दीयन्ते परलोकार्थमादरात् । [२७.१२] पुरुषैर्यज्ञपुरुषो जम्बूद्वीपे सदेज्यते ॥ [Vइष्णु.ড়् ] [२७.१३] यज्ञैर्यज्ञमयो विष्णुरन्यद्वीपेषु चान्यथा ॥ [Vइष्णुড়् ] [२७.१४] अत्र जन्मसहस्राणां सहस्रैरपि सत्तम । [२७.१५] कदाचिल्लभते जन्तुर्मानुष्यं पुण्यसञ्चयात् ॥" [Vइष्णुড়् २.२.२३] [२७.१६-१९] इति भारतखण्डव्यतिरिक्तस्थलेषु ब्रह्मचर्याद्याश्रमादिव्यवस्थाव्यवहाराद्यभवात्पाञ्चरात्रशिल्पज्यौतिषादिषु एषामद्वारकभगवद्यजनाधिकारित्वपरमवैदिकपरमैकान्तित्वादेः प्रतिपादनाङ्च एष्वेव वैखानसत्वं नैसर्गिकम्. वानप्रस्थेषु वैखानसत्वं न नैसर्गिकम्. [२७.२०-२२] किन्तु तेषां सूत्रान्तरेष्वनुक्तानां वानप्रस्थाश्रमस्वीकारप्रयोगश्रामणकाग्निकुण्डविधानादीनां विखनस्सूत्रे प्रतिपादितानां तत्सूत्रोक्तप्रकारेण वानप्रस्थाश्रमस्वीकारादिनैव वैखानसत्वसिद्धिरिति. [२७.२३] इदमेवाह बौधायनः: [वानप्रस्थानां मुख्यवृत्त्या वैखानसशब्दवाच्यत्वाभावः] [२७.२४-२८.२] "वानप्रस्थो वैखानसशास्त्रसमुदाचारो वने मूलफलाशी तपश्शीलस्सवनेषूदकमुपस्पृशन् श्रामणकेनाग्निमाधायाग्राम्यभोजी देवपितृमनुष्यभूतर्षिपूजकः सर्वातिथिः प्रतिषिद्धवर्जं भैक्षमप्युपयुञ्जीत. न फालकृष्टमधितिष्ठेत्ग्रामं वा न प्रविशेत्" इति. [२८.३] मनुः: "अतः परं प्रवक्ष्यामि धर्मं वैखानसाश्रयम् ॥" इत्यारभ्य [२८.४] "पुष्पमूलफलैर्वापि केवलैर्वर्तयेत्सदा । [२८.५] कालपक्वैस्स्वयं शीर्णैर्वैखानसमते स्थितः ॥" इति [ंनुढ्श्६.२१] [२८.६-८] हारीत: "वानप्रस्थो ग्राम्या ओषधीः परिवर्जयेत्. त्रेताग्नीनां स्थाने श्रामणकं वाग्निमाधाय वल्कलशाणचर्मकुशमुञ्जादिवल्कलं वा वसानो वैखानसप्रोक्तेन विधिना वानप्रस्थो भवति. अनुज्ञायिकोऽनुप्रस्थायिक" इति. [२८.९] यम: "श्रामणकेन विधानेन सायं प्रातरुपस्पृशेद्" इति. [२८.१०-११] शङ्खलिखितौ: "श्रामणकेनाग्निमाधाय काले कुरुविन्दवेणुश्यामाकनीवारादिभिर्वर्तयेद्" इति. [२८.१२] वसिष्ठोऽपि: "श्रामणकेनाग्निमाधायाहिताग्निर्वृक्षमूलिक" इति. [२८.१३] अस्य यज्ञस्वामिव्याख्याने: [२८.१४] "श्रामणकं नाम वैखानसशास्त्रम्. तदुक्तेन विधिनाग्निमाधाय" इति. [२८.१५] शुकानुशासने व्यासोऽपि: [२८.१६] "मूलैरेके फलैरेके पुष्पैरेके दृढव्रताः । [ंBह्१२.२३६.१३ द्] [२८.१७] वर्तयन्ति यथान्यायं वैखानसमते स्थिताः ॥" इति [ंBह्१२.२३६.१४ ब्] [२८.१८] स्मृत्यन्तरमपि: "यस्मिन्नेव तु सम्प्रोक्तं सूत्रे विखनसा परम् । [२८.१९] वनस्थानान् तु सर्वेषां विधिश्रामणकाभिधः ॥ [२८.२०] वानप्रस्थास्ततस्सर्वे ये द्विजास्त्वन्यसूत्रिणः । [२८.२१] तत्सूत्रविध्यनुष्ठानात्स्मृता वैखानसास्तु ते ॥" इति च वर्णयन्ति. [आष्११.४] [२८.२२] अतश्च वानप्रस्था मुख्यत्वेन वैखानसशब्दवाच्या न भवन्ति. [२८.२३] आनुशासनिके च: [२८.२४] "तं पतन्तमभिप्रेक्ष्य प्रेक्ष्य च र्षिगणानथ । [ंBह्१३, आप्प्. १आ.३१३] [२८.२५] आसीनान वसुभिस्सार्धं सत्रेण जगतीपतेः ॥ [ंBह्१३, आप्प्. १आ.३१४] [२९.१] वैखानसानामेतेषां वालखिल्यगणानपि । [ंBह्१३, आप्प्. १आ.३१५] [२९.२] तस्य भीराविशत्तत्र पतगेन्द्रस्य भारत ॥ [ंB.ह्१३, आप्प्. १आ.३१६] [२९.३] तुण्डेन गृह्य तां शाखामुत्पपात खगेश्वरः ॥" इति [ंBह्१३, आप्प्. १आ.३१८] [२९.४] तत्रैवोमामहेश्वरसंवादे: [२९.५] "वैखानसानां वै धर्मं श्रोतुमिच्छामि धर्मतः ॥ इत्यारभ्य [२९.६] तेषु वैखानसा नाम वानप्रस्थाश्शुभेक्षणे । [ंBह्१३, आप्प्. १५.७०२] [२९.७] तीव्रेण तपसा युक्ता दीप्तिमन्तस्सुतेजसः ॥" इति [ंBह्१३, आप्प्. १५.७०३] [२९.८] हरिवंशे च अक्रूरागमनसमये: [२९.९] "शकपोत्राव्यया? मोदे प्रदोषेऽभ्याशतस्करे । [ःरिV ६८.४] [२९.१०] किञ्चिदभ्युदिते सोमे शातितेषु तमस्सु च ॥ [ःरिव्६८.९] [२९.११] वन्यैर्वैखानसैर्मन्त्रैः हूयमाने हुताशने ॥" इति. [ःरिV ६८.५ द्] [२९.१२] पाद्मे च: "ब्राह्मणं वृद्धहारीतं वैखानसमते स्थितम् ॥" इति च वर्णनात्[ড়द्मড়् ] [२९.१३-१५] वानप्रस्थस्य श्रौतविषये पृथक्त्वेन मन्त्रप्रतिपादनाभावाच्च बोधायनादिभिरुक्तप्रकारेण वानप्रस्थस्य वैखानसत्वं वैखानससूत्रोक्तवानप्रस्थाश्रमस्वीकारादेवेत्यवगन्तव्यम्. एतावता विखनश्शब्दार्थो निर्णीतः. [२९.१६] (आद्यहेतुनिरूपणप्रकारः) [वैखानससूत्रशास्त्रयोर्विखनसा प्रणीतत्वम्] [२९.१७-१८] अथ वैखानससूत्रशास्त्रयोः अखिलजगत्कारणभूतेन विखनसा प्रणीतत्वमुपपाद्यते. [२९.१९] विष्णुधर्मे: "कथयामि यथापूर्वं मत्पित्रा कथितं मम । [२९.२०] तस्यापि किल तत्पित्रा तस्मै चाह किलोशनाः ॥ [Vइष्णुढ्१.३८] [३०.१] तेनापि भृगुमाराध्य प्राप्तमाराधनं हरेः । [३०.२] सकाशाद्ब्रह्मणः प्राप्तं भृगुणापि महात्मना ॥ [Vइष्णुड्.ह्१.३९] [३०.३] प्राप्तं सकाशाद्देवस्य ब्रह्मणोऽव्यक्तजन्मनः ॥" इति. [Vइष्णुढ्१.४० ब्] [वैखानसमार्गस्य उपदेशपरमंपरा] [३०.४] हारीतस्मृतौ: "पूर्वं विखनसो विष्णुः प्रोक्तवान् स्वयमच्युतः । [३०.५] भृगोः प्रोक्तं विखनसा भृगुणा च ममेरितम् ॥" इति [पाञ्चरात्रागमोत्पत्त्यादिप्रकारः] [३०.६] गारुडे: "पुरा चतुर्मुखादेशाच्चत्वारो मुनयोऽमलाः । [३०.७] प्रणीय वैष्णवं शास्त्रं भूमावभ्यर्चयन्नृप ॥ [ङरुडড়् ] [३०.८] मरीचिर्मन्दरे विष्णुमर्चयमास केशवम् । [३०.९] आदेशाद्ब्रह्मणो विष्णुं श्रीनिवासेऽत्रिरर्चयेत् ॥ [ङरुडড়् ] [३०.१०] कश्यपो विष्ण्वधिष्ठाने शुभक्षेत्रे भृगुर्मुनिः । [३०.११] गङ्गाया दक्षिणे तीरे सीम्नि तस्यान्तिकेऽपि च ॥ [ङरुडড়् ] [३०.१२] तत्सन्धौ शुचिषण्णामा भृगुणा स्थापितो हरिः ॥" इति चोक्तम् [ङरुडড়् ] [३०.१३] पाञ्चरात्रे: "आद्ये कलियुगे प्राप्ते सोमकेन हृता त्रयी । [३०.१४] अवैदिकेषु लोकेषु दैवतेषु मुनिष्वपि ॥ [३०.१५] भगवन्तं समासाद्य नारायणमनामयम् । [३०.१६] अनन्तो गरुडश्चैव विष्वक्सेणः पितामहः ॥ [३०.१७] शङ्करश्चैव पञ्चैते पप्रच्छुः शरणं गताः । [३०.१८] क्षणमप्यच्युतस्यार्चां त्यक्तुमेव न शक्नुमः ॥ [३०.१९] अवैदिकेषु लोकेषु किं कुर्मश्चलमानसाः । [३०.२०] तस्मादुपायं लक्ष्मीश वदास्माकं चिरन्तन ॥ [३०.२१] इत्युक्तस्स हरिस्तेभ्यः पञ्चरात्रविधिं क्रमात् । [३०.२२] एकैकरात्रमेकस्मै तन्त्रं समुपदिष्टवान् ॥ [३०.२३] पञ्चलक्षप्रमाणेन पञ्चरात्रं प्रपञ्चितम् ॥" इत्युपक्रम्य [३०.२४] "प्रथमं ब्रह्मरात्रन् तु द्वितीयं रुद्ररात्रकम् । [३०.२५] तृतीयमिन्द्ररात्रं यच्चतुर्थं ग्रहरात्रकम् ॥ [३१.१] पञ्चमं मुनिरात्रन् तु पञ्चरात्रं विधीयते । [३१.२] रात्रिभिः पञ्चभिः प्रोक्तं श्रुतं शिष्यैश्च पञ्चभिः ॥ [३१.३] तस्मात्तत्पञ्चरात्राख्यां लब्ध्वा तिष्ठति भूतले ॥" [३१.४-५] इत्यन्तेन पाञ्चरात्रस्योत्पत्त्यादिकं निरूप्य परमवैदिकस्य श्रीवैखानसस्योत्पत्त्यादिकं प्रतिपाद्यते. [वैखानसशास्त्रोत्पत्त्यादिप्रकारः] [३१.६] अथ मत्स्याकृतिः श्रीशः प्रविश्याम्बुधिमध्यमम् । [३१.७] निर्मथ्य सोमकं वेदानदात्पङ्कजयोनये ॥ [३१.८] तादृशं पुण्डरीकाक्षं स्तोत्रैस्सन्तोष्य पद्मभूः । [३१.९] उवाच वचनं प्रेम्णा दण्डवत्प्रणिपत्य च ॥ [३१.१०] तान्त्रिकेण त्वया प्रोक्तं मार्गेण भवदर्चनम् । [३१.११] न प्रसीदति तेनास्मन्मनः कमललोचन ॥ [३१.१२] वैदिकेन त्वदर्चां मे यथापूर्वं वदाच्युत । [३१.१३] इत्युक्तो भगवान् देवः शास्त्रं श्रुतिपथागतम् ॥ [३१.१४] सहस्रकोटिभिः श्लोकैस्सङ्ख्यातं बहुविस्तरम् । [३१.१५] सूत्रमूलमनाद्यन्तं कल्पे कल्पे समाश्रितम् ॥ [३१.१६] उवाच जगतां प्रीत्यै यज्ञानां पूरणाय च । [३१.१७] मूलं सर्वागमानाञ्च पुराणानां तथैव च ॥ [३१.१८] स्मृतीनां सर्वसूत्राणां प्रत्यङ्गोपाङ्गशोभिनाम् । [३१.१९] वेदाश्च विखनश्शास्त्रं प्रमाणमिति चेरयन् ॥ [३१.२०] यथा वैखानसं पूर्वेऽहन् सामभवतीति च । [३१.२१] ये नखा भुवि सञ्जातास्ते वै वैखानसा इति ॥ [३१.२२] श्रुत्युक्तं तदिदं शास्त्रं वैखानसमहार्णवम् । [३१.२३] इत्युक्त्वा भगवानाद्यस्तत्रैवान्तरधीयत ॥ [३१.२४] ततः परं चतुर्वक्त्रो जटाकाषायदण्डभृत् । [३१.२५] नैमिशारण्यमासाद्य द्विजसङ्घनिषेवितम् ॥ [३२.१] तपस्तप्त्वा चिरं कालं ध्यायंस्तेजस्तु वैष्णवम् । [३२.२] पश्चादपश्यद्विष्णूक्तमागमं विस्तरात्तदा ॥ [३२.३] सश्रौतञ्च सगृह्यञ्च वेदमन्त्रैरभिष्टुतम् । [३२.४] संक्षिप्य सारमादाय शाणोल्लिखितरत्नवत् ॥ [३२.५] धाता विखनसो नाम मरीच्यादिसुतान्मुनीन् । [३२.६] अबोधयदिदं शास्त्रं सार्धकोटिप्रमाणतः ॥ [३२.७] कल्पे कल्पे पुरा विष्णुरुद्भूतः पूर्ववत्सदा । [३२.८] तस्माद्वैदिकमाचारं यः कर्तुं भुवि वाञ्छति ॥ [३२.९] तस्येदं शास्त्रमित्युक्तं नेतरेषाभितीरितम् ॥" [वैखानससूत्रस्य तत्सूत्रिणां च माहात्म्यम्] [३२.१०] पुरातन्त्रे सप्तचत्वारिंशेऽध्याये: [३२.११] ऋषय ऊचुः: "वैखानसस्य सूत्रस्य किं माहात्म्यं महामुने । [३२.१२] विहाय सर्वसूत्राणि यत्त्वया चानुवर्तितम् ॥ [ড়ुरातन्त्र.] [३२.१३] तत्सूत्रिणाञ्च माहात्म्यं श्रोतुमिच्छामहे वयम् । [३२.१४] समूर्तस्यास्य यज्ञस्य ये योग्याः इति कीर्तिताः ॥ [ড়ुरातन्त्र.] [३२.१५] भृगुः: युष्माभिः परिपृष्टं यत्सम्यग्वक्ष्यामि सुव्रताः । [३२.१६] श्रुण्वन्तु मुनयस्सर्वे सूत्रमाहात्म्यमुत्तमम् ॥ [ড়ुरातन्त्र] [३२.१७] सुप्तोत्थितश्चिरं ब्रह्मा स्रष्टुकामः पुराभवत् । [३२.१८] सस्मार वेदानखिलान्न सृष्टिस्सम्प्रवर्तते ॥ [ড়ुरातन्त्र.] [३२.१९] चिरं सुप्तस्य वै धातुस्तमसाक्रान्तचेतसः । [३२.२०] विस्मृता निखिला वेदा हृदये तस्य संस्थिताः ॥ [ড়ुरातन्त्र.] [३२.२१] चिन्तातुरस्तदा ब्रह्मा नालङ्कर्तुं किमप्यभूत् । [३२.२२] ततश्चिन्तान् तु तां त्यक्त्वा स्वस्थचित्तः प्रजापतिः ॥ [ড়ुरातन्त्र.] [३२.२३] हृद्पद्ममध्ये पुरुषं परमेण समाधिना । [३२.२४] अर्चयामास वै विष्णुमृग्यजुस्सामरूपिणम् ॥ [ড়ुरातन्त्र.] [दक्षादिनवब्रह्मसृष्टिः] [३३.१] तुष्टाव च तदा ब्रह्मा हरिप्रवणमानासः । [३३.२] ननाम च तदा विष्णुं शङ्खचक्रगदाधरम् ॥ [ড়ुरातन्त्र.] [३३.३] ब्रुवतो भगवद्ध्यानात्विनष्टतमसो विधेः । [३३.४] सत्त्वोद्रिक्तस्य तस्याशु नैर्मल्यं हृदयेऽभवत् ॥ [ড়ुरातन्त्र] [३३.५] ततस्तु भगवान् ब्रह्मा छन्दोमूलमवाप्तवान् । [३३.६] तस्य दक्षिणतो वक्त्रात्तुष्टाव जगतः पतिम् ॥ [ড়ुरातन्त्र] [३३.७] सस्मार विविधान् वेदान् साङ्गानुपनिषद्गणान् । [३३.८] पुराणन्यायमीमांसा धर्मशास्त्राणि सर्वशः ॥ [ড়ुरातन्त्र.] [३३.९] अन्तर्हितानां खननाद्वेदानान् तु विशेषतः । [३३.१०] स विभुः प्रोच्यते सर्वैर्विखना ब्रह्मवादिभिः ॥ [ড়ुरातन्त्र.] [३३.११] वैखानसश्च भगवान् प्रोच्यते स पितामहः । [३३.१२] ततस्ससर्ज भगवान् विश्वयोनिः पितामहः ॥ [ড়ुरातन्त्र] [३३.१३] जगत्सर्वमशेषेण वेददृष्टेन वर्त्मना । [३३.१४] प्राणाच्च चक्षुषस्तद्वदभिमानाच्च कर्मणः ॥ [ড়ुरातन्त्र] [३३.१५] हृदयाच्छिरसश्श्रोत्रादुदानाद्व्यानतस्ततः । [३३.१६] समानाच्च तथापानादृष्टिश्रेष्ठानिमान् दश ॥ [ড়ुरातन्त्र] [३३.१७] दक्षं मरीचिनं नीललोहितं भृगुमेव च । [३३.१८] तथाङ्गिरसमत्रिञ्च पुलस्त्यं पुलहं तथा ॥ [ড়ुरातन्त्र] [३३.१९] वसिष्ठञ्च क्रतुञ्चैव क्रमादसृजदब्जभूः । [३३.२०] नव ब्रह्माण एवैते विना स्युर्नीललोहितम् ॥ [ড়ुरातन्त्र] [३३.२१] वेदानां व्यसनादर्वाक्प्राग्रूपं मिलितन् तु यत् । [३३.२२] तान् तु वैखानसीं शाखामादावध्यापयन्मुनीन् ॥ [ড়ुरातन्त्र] [३३.२३] (नाम्ना विखनसं प्राहुर्यञ्च वैखानसं तथा ॥ [ড়ुरातन्त्र] [३३.२४] भृग्वङ्गिरोमरीच्यत्रिपुलस्त्यपुलहाः क्रतुः । [३४.१] तथा वसिष्ठो दक्षश्च नव ब्रह्माण ईरिताः ॥ [ড়ुरातन्त्र] [३४.२] नव ब्रह्माण एवैते विना स्युर्नीललोहितम् ॥ [ড়ुरातन्त्र] [दक्षादीनां नवानां विखनश्शिश्यत्वम्] [३४.३] एते विखनसश्शिष्याः श्रुतिस्मृतिविधानतः । [३४.४] तच्छिष्यास्तु महात्मनो मुनयस्तत्त्वदर्शिनः ॥ [ড়ुरातन्त्र.] [३४.५] वेदानुगानि शास्त्राणि चक्रुर्लोकहितैषिणः । [३४.६] केचित्सूत्रणि वै चक्रुः गृह्यश्रौतात्मिकानि तु ॥ [ড়ुरातन्त्र] [३४.७] धर्मशास्त्राणि केचित्तु पुराणानि च केचन । [३४.८] इतिहासांस्तथा कल्पान् प्रोचुरन्ये महार्षयः ॥ [ড়ुरातन्त्र.] [वैकानसशाखानिष्पत्तिप्रकारः] [३४.९] तान् तु वैखानसीं शाखां स्वसूत्रे विनियुक्तवान् । [३४.१०] पद्मभूः परमो धाता तस्मिन्नाराधनत्रयम् ॥ [ড়ुरातन्त्र.] [३४.११] तान् तु वैखानसीं शाखां व्यासस्तु भगवान्मुनिः । [३४.१२] चक्रे ऋगादिभेदैस्तु व्यसित्वा तु पृथक्पृथक् ॥ [ড়ुरातन्त्र] [३४.१३] औद्गात्रं सामभिर्यागे ब्राह्ममाथर्वणेन च । [३४.१४] हौत्रमृग्भिर्यजुर्मन्त्रैराध्वर्यवमकारयत् ॥ [ড়ुरातन्त्र.] [३४.१५] आम्नायस्य विधिर्ब्राह्मः पञ्चकाण्डात्मिका तु सा । [३४.१६] सा च वैखानसी शाखा तैत्तिरीया च कीर्तिता ॥ [ড়ुरातन्त्र] [३४.१७] आदिकाले तु भगवान् ब्रह्मा तु विखाना मुनिः । [३४.१८] यजुश्शाखानुसारेण चक्रे सूत्रं महत्तरम् ॥ [ড়ुरातन्त्र] [३४.१९] वर्णाश्रमाचारयुतं श्रौतस्मार्तसमन्वितम् । [३४.२०] यस्मिन्नेव तु सम्प्रोक्तं सूत्रे विखनसा परम् ॥ [ড়ुरातन्त्र] [३४.२१] वनस्थानान् तु सर्वेषां विधिश्श्रामणकाभिधः । [३४.२२] वानप्रस्थास्ततस्सर्वे ये द्विजाश्चान्यसूत्रिणः । [३४.२३] तत्सूत्रविध्यनुष्ठानात्स्मृता वैखानसास्तु ते ॥ [ড়ुरातन्त्र] [३४.२४] यत्सूत्राद्यन्तमध्येषु भगवान् विष्णुरव्ययः । [३५.१] यष्टव्यो गीयते यस्मात्सर्वसूत्रोत्तमन् तु तत् ॥ [ড়ुरातन्त्र] [३५.२] वेदे वैखानसे सूत्रे यो धर्मः परिकीर्तितः । [३५.३] सर्वैस्स धर्मोऽनुष्ठेयो नात्र कार्या विचारणा ॥ [ড়ुरातन्त्र] [वैखानससूत्रस्य सूत्रान्तरानपेक्षत्वम्] [३५.४] स्वसूत्रस्य परित्यागादन्यसूत्रस्य संश्रयात् । [३५.५] सद्यः पतति वै विप्रो न वेदस्य समाश्रये ॥ [ড়ुरातन्त्र] [३५.६] एतद्वैखानसं सूत्रमन्यशास्त्रानपेक्षितम् ॥ [ড়ुरातन्त्र] [३५.७] एतद्वैखानसं सूत्रं सर्ववेदार्थसङ्ग्रहम् । [३५.८] वैष्णवं सर्वविप्राणां सामान्यमभिधीयते ॥ [ড়ुरातन्त्र] [३५.९] वैखानसस्य सूत्रस्य चाग्नेः श्रामणकस्य च । [३५.१०] नारायणस्य देवस्य माहात्म्यं नावबुद्ध्यते ॥ [ড়ुरातन्त्र] [३५.११] यथा वेदेषु सर्वेषु सामवेदः प्रशस्यते । [३५.१२] तथा सूत्रेषु सर्वेषु सूत्रमेतद्प्रशस्यते ॥ [ড়ुरातन्त्र] [३५.१३] अग्निर्वैखानसं शास्त्रं विष्णुर्वेदाश्च शाश्वताः । [३५.१४] गायत्री वैष्णवा विप्रास्सप्तैतेऽतिपवित्रकाः ॥ [ড়ुरातन्त्र] [३५.१५] यदधीतेषु वेदेषु साङ्गेषु लभते फलम् । [३५.१६] तत्फलं लभते सद्यः सूत्रमेतत्पठन् द्विजः ॥ [ড়ुरातन्त्र] [३५.१७] अग्नीषोमादयो देवा ये यज्ञांशहविर्भुजः । [३५.१८] ...... [३५.१९] शारीराण्यन्यसूत्राणि तथा स्वर्गफलानि च । [३५.२०] वैष्णवं सूत्रमेत्तु सर्वसिद्धिकरं परम् ॥ [ড়ुरातन्त्र] [३५.२१] आद्यत्वात्सर्वसूत्राणां वैष्णवत्वाच्च तत्तु वै । [३५.२२] मयानुवर्तितं तद्वत्कश्यपात्रिमरीचिभिः ॥ [ড়ुरातन्त्र] [३५.२३] गृहे पुरुषपूजाया विधानमृषिसत्तमाः । [३६.१] उक्तं सङ्केपतः सूत्रेनोक्तमालयपूजनम् ॥ [ড়ुरातन्त्र] [३६.२] प्रोक्तं विखनसा सूत्रे ऋषीणां ब्रह्मवादिनाम् । [३६.३] तेषान् तु हविरादत्ते विष्णुस्साक्षात्सनातनः ॥ [ড়ुरातन्त्र] [३६.४] शतक्रतूनां यजतो यत्फलं परिकीर्तितम् । [आलये पञ्चमूर्त्यर्चनस्य श्रैष्ठ्यम्] [३६.५] आलये पञ्चमूर्तीनामर्चनन् त्वधिकं भवेत् ॥ [ড়ुरातन्त्र] [३६.६] आलायार्चा गृहार्चेति चोभयं श्रुतिचोदितम् । [३६.७] तेनादौ सकलं नोक्तं ग्रन्थविस्तरभीरुणा ॥ [ড়ुरातन्त्र] [३६.८] उक्तशेषमनुक्तञ्च विस्तरेण मयोच्यते । [३६.९] विष्णुञ्च पुरुषं सत्यमच्युतञ्चानिरुद्धकम् ॥ [ড়ुरातन्त्र] [३६.१०] "एष पुरुषः पञ्चधा पञ्चात्मे" त्याह च श्रुतिः । [३६.११] अस्माभिरपि तत्सूत्र- मतगामिभिरेव तु ॥ [ড়ुरातन्त्र] [३६.१२] पञ्चमूर्तिविधानेन शास्त्रमेतदुदाहृतम् । [३६.१३] तस्मादत्र मयोक्तस्य होमस्याग्न्यालयस्य च ॥ [ড়ुरातन्त्र] [३६.१४] पुण्याहवास्तुसामान्य- होमादीनाञ्च कर्मणाम् । [३६.१५] येऽन्ये च मन्त्रास्ते ग्राह्यास्सूत्रे विखनसा स्मृताः ॥ [ড়ुरातन्त्र.] [३६.१६] आलयार्चविधिस्सोऽयं वैदिकस्सर्वसिद्धिदः । [३६.१७] सर्वलोकहितार्थाय प्रोक्तोऽस्माभिर्विशेषतः ॥ [ড়ुरातन्त्र.] [वैखानसानं गर्भवैष्णवत्वम्] [३६.१८] आलयार्चणकर्मेदं वैदिकं भगवत्प्रियम् । [३६.१९] अनुष्ठेयं द्विजश्रेष्ठैः तद्वैखानससूत्रिभिः ॥ [ড়ुरातन्त्र.] [३६.२०] ये वैखानससूत्रेण संस्कृतास्तु द्विजातयः । [३६.२१] ते विष्णुसदृशा ज्ञेयाः सर्वेषामुत्तमोत्तमाः ॥ [ড়ुरातन्त्र.] [३६.२२] वैखानसानां सर्वेषां गर्भवैष्णवजन्मनाम् । [३६.२३] नारायणः स्वयं गर्भे मुद्रां धारयते निजाम् ॥ [ড়ुरातन्त्र] [वैखानसपूजायः भगवत्प्रीतिकरत्वम्] [३६.२४] विप्रा वैखानसाख्या ये ते स्मृता भगवत्प्रियाः । [३७.१] एकान्तिनस्सुसत्त्वस्था देहान्तं नान्ययाजिनः ॥ [ড়ुरातन्त्र] [३७.२] विष्णोः प्रियतमा लोके चत्वारः परिकीर्तिताः । [३७.३] अश्वत्थः कपिला गावस्तुलसी विखनास्तथा ॥ [ড়ुरातन्त्र.] [३७.४] द्विजेषु ब्राह्मणाः श्रेष्ठाः ब्राह्मणेषु च वैष्णवाः । [३७.५] वैष्णवेषु द्विजाः श्रेष्ठा ये वैखानससूत्रिणः ॥ [ড়ुरातन्त्र.] [३७.६] वैष्णवीं प्रतिमां लोके विप्रं वैखानसं तथा । [३७.७] गङ्गां विष्णुपदीं दृष्ट्वा सर्वपापैः प्रमुच्यते ॥ [ড়ुरातन्त्र] [३७.८] तस्माद्वैखानसा विप्रा वैष्णवा मुनिसत्तमाः । [३७.९] आलयार्चनयोग्याश्च योग्या नान्ये द्विजातयः । [३७.१०] पुरा तु पृष्टवान् ब्रह्मा देवदेवं जनार्दनम् ॥ [ড়ुरातन्त्र] [३७.११] "कथं केन प्रकारेण पूजनीयोऽसि कैरपि ।" [३७.१२] इत्येवं भगवान् पृष्टः प्राह वै चतुराननम् ॥ [ড়ुरातन्त्र] [३७.१३] "आलये त्यर्चनं स्यात्तु परिवारान्वितस्य मे । [३७.१४] वैखानसविधानेन वैदिकेन विशेषतः ॥ [ড়ुरातन्त्र] [३७.१५] वैखानसैस्तु विप्रेन्द्रैरर्चनंबिस्हिएर्नोछ्टेलुगु वेर्ग्लेइछेन्मम तुष्टिदम् । [३७.१६] अमूर्तञ्च समूर्तञ्च द्विधा वैदिकमुच्यते ॥ [ড়ुरातन्त्र] [३७.१७] अमूर्तं गार्हपत्याद्यं समूर्तं बेरपूजनम् । [३७.१८] यथा कर्मण एकस्य कल्पिताः पञ्च वह्नयः ॥ [ড়ुरातन्त्र] [३७.१९] तथा चैकविमानस्य पञ्चबेराणि कल्पयेत् । [३७.२०] ग्रामादावालये तस्माद्देवदेवो जनार्दनः ॥ [ড়ुरातन्त्र] [३७.२१] अनेन विधिना पूज्यो विप्रैर्वैखानसैस्तथा । [३७.२२] पूजा वैखानसैर्विप्रैरालये स्याद्विशेषतः ॥ [ড়ुरातन्त्र] [३७.२३] सर्वसम्पत्करञ्चैव सर्वाशुभविनाशनम् । [३७.२४] तद्ग्रामवासिनां तद्वदैहिकामुष्मिकप्रदम् ॥ [ড়ुरातन्त्र] [अवैखानसपूजने दोषः, तत्प्रायश्चित्तञ्च] [३८.१] वर्षदं पुष्टिदं श्रेष्ठं राजराष्ट्राभिवृद्धिदम् । [३८.२] कर्षणादिप्रतिष्ठार्चाप्रायश्चित्तावसानकम् । [३८.३] अनुष्ठेयो विधिस्सोऽयं विप्रैर्वैखानसैस्ततः ॥ [ড়ुरातन्त्र] [३८.४] अवैखानससूत्रैस्तु विप्रैराराधनं हरेः । [३८.५] वालये सर्वलोकानां विनाशाय भविष्यति ॥ [ড়ुरातन्त्र] [३८.६] अज्ञानादर्थलोभाद्वा भयाद्वाऽप्यालयार्चनम् । [३८.७] यद्यवैखानसैर्विप्रैर्क्रियते सर्वनाशनम् ॥ [ড়ुरातन्त्र] [३८.८] यद्यवैखानसो विप्र आलयार्चनमाचरेत् । [३८.९] षण्मासात्पतनं याति नरकञ्चैव गच्छति ॥ [ড়ुरातन्त्र] [३८.१०] अपि साङ्गचतुर्वेदी यद्यवैखानसो द्विजः । [३८.११] आलये त्वर्चनं कुर्यात्सद्यः पतति देवलः ॥ [ড়ुरातन्त्र] [३८.१२] अवैखानसविप्रो यः पूजयेदालये हरिम् । [३८.१३] स वै देवलको नाम सर्वकर्मबहिष्कृतः ॥ [ড়ुरातन्त्र] [३८.१४] आलापं दर्शनञ्चैव स्पर्शनञ्च विशेषतः । [३८.१५] श्राद्धादौ वरणञ्चैव तस्य विप्रस्य वर्जयेत् ॥ [ড়ुरातन्त्र] [३८.१६] अवैखानससूत्रेण स्पृष्टे बिम्बे प्रमादतः । [३८.१७] स्नापयेत्कलशैर्देवं प्रोक्षयेत्पञ्चगव्यकैः ॥ [ড়ुरातन्त्र] [३८.१८] एवमेव तथा कुर्याद्विप्रैरन्यैः प्रपूजिते । [३८.१९] कलशैस्स्नापयित्वा तु ध्रुवोक्तां शुद्धिमाचरेत् ॥ [ড়ुरातन्त्र] [३८.२०] त्र्यहन् तु पूजिते तद्वद्वास्तुहोमं समाप्य च । [३८.२१] पर्यग्निपञ्चगव्याभ्यां महाशान्तिञ्च कारयेत् ॥ [ড়ुरातन्त्र] [३८.२२] अर्चने तु महाविष्णोस्सप्ताहन् तु विशेषतः । [३८.२३] महाशान्तिं यजित्वा तु शुद्धिं पूर्ववदाचरेत् ॥ [ড়ुरातन्त्र] [३८.२४] द्वादशाहं समारभ्य मासान्तन् तु विशेषतः । [३९.१] अवैखानसपूजायां तन्त्रसङ्कर एव च ॥ [ড়ुरातन्त्र] [अवैखानसपूजने भगवत्सान्निध्यविरहः] [३९.२] मासत्रयं च षण्मासमन्यविप्रैस्तु पूजने । [३९.३] न तत्र बिम्बे सान्निध्यं देवदेवस्य शार्ङ्गिणः ॥ [ড়ुरातन्त्र] [३९.४] तस्मात्तद्दोषशान्त्यर्थं महाशान्तेरनन्तरम् । [३९.५] अधिवासत्रयं कृत्वा प्रतिष्ठां पुनराचरेत् ॥ [ড়ुरातन्त्र] [३९.६] संवत्सरे तु देवस्य विप्रैर्वैखानसेतरैः । [३९.७] पूजाभिचारिकी प्रोक्ता तत्र सर्वं विनश्यति ॥ [ড়ुरातन्त्र] [३९.८] तस्मात्तत्कर्षणाद्यञ्च निष्कृत्यन्तालयार्चनम् । [तान्त्रिकार्चायामपि तन्त्रदीक्षितानामेवाधिकारः] [३९.९] कारयेद्विधिवद्विद्वान् तद्वैखानससूत्रिभिः । [३९.१०] तान्त्रिकार्चाविधौ चापि तान्त्रिकैरेव दीक्षितैः ॥ [ড়ुरातन्त्र.] [३९.११] पूजनीयो हरिः सम्यक्विप्रैः नान्यैः कदाचन । [३९.१२] अन्येन विधिना मन्त्रैरन्यैरन्यार्चकेन वा ॥ [ড়ुरातन्त्र] [३९.१३] आलये त्वर्चनं स्याच्चेन्महादोषो भवेद्ध्रुवम् । [३९.१४] तस्मात्तु वैदिके त्वस्मिन्नालयार्चाविधौ द्विजाः ॥ [ড়ुरातन्त्र.] [३९.१५] प्रतिष्ठादिषु सङ्ग्राह्याः प्रोक्ता वैखानसा द्विजाः । [३९.१६] ब्रह्मापि भगवान् देवो हरिर्नारायणः स्मृतः ॥ [ড়ुरातन्त्र] [३९.१७] नाविष्णुर्जायते विष्णुर्नाविष्णुर्विष्णुमर्चयेत् । [३९.१८] सुप्रीतेनार्चकेनैव यदुक्तं देवसन्निधौ ॥ [ড়ुरातन्त्र.] [३९.१९] तद्देवेनैव सम्प्रोक्तं तथैव च भविष्यति । [३९.२०] अर्चकं तोषयेद्विष्णुं यस्तोषयितुमिच्छति ॥ [ড়ुरातन्त्र] [३९.२१] तुष्टेऽर्चके जगन्नाथस्तुष्ठ एव न संशयः ॥ [ড়ुरातन्त्र] [३९.२२] स्वप्ने स्वरूपं भक्ताय प्रत्यक्षयति माधवः । [३९.२३] प्रवक्ति भगवान् विष्णुः सुखदुःखद्वयं नृणाम् ॥" इति [ড়ुरातन्त्र] [अर्चकमहिमा] [३९.२४] स्कान्दे: [३९.२५] "वैखानसीं महाशाखां स्वसूत्रे विनियुक्तवान् । [४०.१] पद्मभूः परमो धाता तस्मिन्नाराधनत्रयम् ॥ [ष्कन्दড়् ] [४०.२] उक्तवान्निगमार्थानामाचारं प्रविभागशः ॥" इति [ष्कन्दড়् ] [एकस्य यजुर्वेदस्य व्यासकतृकं विभजनम्] [४०.३] ब्रह्मकैवर्तवचनानि पूर्वमेवोक्तानि. [४०.४-५] ननु ऋग्यजुस्सामाथर्वाण इति वेदानां लोके प्रसिद्धेः सर्वशाखामूलभूतो यजुर्वेद इति पूर्वोक्तं कथमुपपद्यते इति चेदुच्यते. [४०.६] श्रीविष्णुपुराणे [४०.७] "वेदद्रुमस्य मैत्रेय शाखाभेदास्सहस्रशः । [४०.८] न शक्या विस्तराद्वक्तुं सङ्क्षेपेण शृणुष्व तम् ॥ [Vइष्णु.ড়् ३.३.४] [४०.९] द्वापरे द्वापरे विष्णुर्व्यासरूपी महामुने ॥ [Vइष्णु.ড়् ] [४०.१०] वेदमेकं सुबहुधा करोति जगतां हितः ॥ [Vइष्णु.ড়् ३.३.५] [४०.११] वीर्यं तेजो बलञ्चाल्पं मनुष्याणामवेक्ष्य च । [४०.१२] हिताय सर्वभूतानां वेदभेदं करोति सः ॥ [Vइष्णु.ড়् ३.३.६] [४०.१३] इत्यारभ्य [४०.१४] "एक आसीद्यजुर्वेदस्तं चतुर्धा ह्यकल्पयत् । [४०.१५] चातुर्होत्रमभूद्यस्मिंस्तेन यज्ञमथाकरोत् ॥ [Vइष्णु.ড়् ३.४.११] [४०.१६] आर्ध्वर्यवं यजुर्भिस्तु ऋग्भिर्हौत्रं तथा मुनिः । [४०.१७] औद्गात्रं सामभिश्चक्रे ब्रह्मत्वञ्चाप्यथर्वभिः ॥ [Vइष्णु.ড়् ३.४.१२] [४०.१८] ततस्स ऋच उद्धृत्य ऋग्वेदं कृतवान्मुनिः । [४०.१९] यजुर्भिश्च यजुर्वेदं सामवेदञ्च सामाभिः ॥ [Vइष्णु.ড়् ३.४.१३] [४०.२०] राज्ञान्त्वथर्ववेदेन सर्वकर्माणि स प्रभुः । [४०.२१] कारयामास मैत्रेय ब्रह्मत्वञ्च यथास्थिति ॥। [Vइष्णुড়् ३.४.१४] [४०.२२] सोऽयमेको महान् वेदतरुस्तेन पृथक्कृतः । [४०.२३] चतुर्धा च ततो जातं वेदपादपकाननम् ॥" [Vइष्णुড়् ३.४.१५] [४०.२४-२५] इत्यन्तेन स्पष्टं प्रतिपादितत्वात्यजुर्वेद एक एव प्रथमासीतित्यवगम्यते. [यजुर्वेदस्य वैखानसशाखात्वप्रसिद्धिः] [४१.१-३] स च यजुर्वेदः: "बहुशृङ्गश्चतुस्सानुः पृथुलो वेदपर्वतः" इत्यारभ्योक्तरीत्या वेदव्यासरुपिणा भगवता यदा व्यस्तः, ततः पूर्वमेकरूपेणावस्थितस्य तस्य वेदपर्वतस्य वैखानसशाखात्वप्रसिद्धिरासीदिति पूर्वमेव प्रतिपादितम्. [४१.४] वैखानसानां श्रैष्ठ्यम् [वैखानसानां श्रेष्ठ्यं पञ्चकालपरायणत्वञ्च] [४१.५-६] प्रसङ्गात्वैखानसशाखामूलकत्वेन प्रणीतसूत्रानुष्ठातॄणां श्रेष्ठत्वमच्छिद्रपञ्चकालपरायणत्वादिकञ्च प्रतिपाद्यते. [४१.७] यथा सामब्रह्मणे: [४१.८] "वैखानसा वा ऋषय इन्द्रस्य प्रिया आसन्" इति [Cहान्दोग्यBर्२.२३.१] [वैखानसानां भगवत्प्रियतमत्वम्] [४१.९] वाराहे: [४१.१०] "अश्वत्थः कपिला गावस्तुलसी विखनास्तथा । [४१.११] चत्वारो मत्प्रिया राजंस्तेषां वैखानसो वरः ॥" इति [Vअराहড়्] [वैखानसदर्शनफलम्] [४१.१२] वृद्धयाज्ञवल्क्ये: [४१.१३] "वैखानसो वैदिकेषु ब्रह्मनिर्दिष्टमाचरेत् । [४१.१४] तं ब्राह्मणन् तु दृष्ट्वैव सर्वं पापं व्यपोहति ॥ [Vऋद्धयाज्ञवल्क्य.] [४१.१५] वैष्णवीं प्रतिमां लोके विप्रं वैखानसं तथा । [४१.१६] गङ्गां विष्णुपदीं दृष्ट्वा सर्वपापैः प्रमुच्यते ॥" इति [Vऋद्धयाज्ञवल्क्य] [विष्णुभक्तेषु वैखानसस्य श्रैष्ठ्यम्] [४१.१७] शान्तिपर्वणि: [४१.१८] मन्त्रिणाञ्च सहस्रेभ्यो ब्रह्मचारी विशिष्यते । [४१.१९] ब्रह्मचारिसहस्रेभ्यो नित्ययाजी विशिष्यते ॥ [ंBह्] [४१.२०] नित्ययाजिसहस्रेभ्यस्सोमयाजी विशिष्यते । [४१.२१] सोमयाजिसहस्रेभ्यो वेदवेदान्तपारगः ॥ [ंBह्] [४१.२२] वेदान्तगसहस्रेभ्यो विष्णुभक्तो विशिष्यते । [४१.२३] विष्णुभक्तसहस्रेभ्यो विप्रो वैखानसो वरः ॥" इति [ंBह्] [पुष्करतीर्थमाहात्म्यम्] [वैखानसानामेकान्तित्वम्] [४२.१] ब्रह्मकैवर्ते: "निम्नगानां यथा गङ्गा देवानां भगवान् हरिः । [४२.२] वर्णानां ब्राह्मणं श्रेष्ठः आश्रमाणां यतिर्यथा ॥ [Bरह्मकैवर्त.ড়् ] [४२.३] श्रुतीनामादिभूतानां श्रुतिरेकायनी यथा । [४२.४] तस्यां निषद्याथ यस्यां निषण्णो भगवान् हरिः ॥ [Bरह्मकैवर्तড়् ] [४२.५] व्यूहानामादिभूतस्तु वासुदेवो यथा परः । [४२.६] त्रिमूर्तीनां यथा विष्णुः शिवानान् तु सदाशिवः ॥ [Bरह्मकैवर्त.ড়् ] [४२.७] धर्माणां वैष्णवो धर्मः स्मृतीनां मानवी स्मृतिः । [४२.८] विप्राणां वेदविदुषां यथा वैखानसो वरः ॥ [Bरह्मकैवर्त.ড়् ] [४२.९] यथा मुनीनां विखना आदिभूत उदाहृतः । [४२.१०] सूत्राणां तत्प्रणीतन् तु यथा श्रेष्ठतमं स्मृतम् ॥ [Bरह्मकैवर्त.ড়् ] [४२.११] तथैव पुष्करो राजंस्तीर्थानामुत्तमोत्तमः ॥" [Bरह्मकैवर्तড়् ] [४२.१२] कौर्मे: [४२.१३] "मच्चित्ता मद्गतप्राणा मयि सङ्गतमानसाः । [४२.१४] अनन्यशरणा राजंस्तस्माद्वैखानसा वराः ॥" [Kऊर्मড়् ] [वैखानसाधिष्ठतदेशे विष्णुसान्निध्यम्] [४२.१५] पुराणान्तरे: [४२.१६] "यत्र वैखानसा विप्रा यत्र सन्ति गवां गणाः । [४२.१७] यत्र बिल्वाः पलाशाश्च तत्र सन्निहितो हरिः ॥" [४२.१८] बृहन्नारदीये: [४२.१९] "जगत्पवित्रास्ते नित्यं विष्णुमभ्यर्चयन्ति ये । [४२.२०] दुर्वृत्ता वा सुवृत्ता वा पूजनीया विशेषतः ॥" [Bऋहन्नारदড়्] [४२.२१] हारीते: [४२.२२] तस्मात्ते शुद्धसत्त्वस्थाश्शुद्धा वैखानसाः स्मृताः । [४२.२३] यान् लोकान् प्राप्नुवन्त्येते तान् शृणुष्व समाहितः ॥" [४२.२४] पाञ्चरात्रे पौष्करे: [४२.२५] "विप्रा वैखानसाख्या ये ते भक्तास्तत्त्वमुच्यते ॥ [ড়ौष्करष्३६.२६० द्] [४२.२६] एकान्तिनस्सुसत्त्वस्था देहान्तं नान्ययाजिनः । [४३.१] कर्तव्यमिति देवेशं संयजन्ते फलं विना ॥ [ড়ौष्करष्३६.२६१] [४३.२] प्राप्नुवन्ति च देहान्ते वासुदेवत्वमब्जज ॥" इति [ড়ौष्करष्३६.२६२ ब्] [४३.३] गौतमीये: [४३.४] "वैखानसविधानज्ञस्तत्त्वात्मार्थव्यवस्थितः । [४३.५] सूक्ष्मात्सूक्ष्ममवाप्नोति परं ब्रह्माणमव्ययम् ॥" इति [पुष्करे वैखानसाश्रमः] [४३.६] आरण्यपर्वणि: रमेशः: [४३.७] "ध्यातञ्च सैन्धवारण्यं मुनिबृन्दनिषेवितम् । [ंBह्३.८७.१२ द्] [४३.८] पितामहसरः पुण्यं पुष्करं नाम भारत ॥ [ंBह्३.८७.१२ f] [४३.९] वैखानसानां सिद्धानामृषीणामाश्रमं प्रियम् ॥" इति [ंBह्३.८७.१३] [४३.१०] अन्यत्र: [४३.११] "सैन्धवारण्यमासाद्य कुल्यां तां लोकदर्शनाम् । [४३.१२] पुष्करेषु महाराज सर्वेषु च जलं स्पृशन् ॥" इत्यारभ्य [ंBह्३.१२५.१२] [४३.१३] "एतच्चन्द्रसरो नित्यमर्पयन्त्यृषयस्तथा । [४३.१४] वैखानसप्रभृतयो वालखिल्यास्तथैव च ॥" इति [ंBह्३.१२५.१४] [वैखानसानां पूजनीयत्वम्] [४३.१५] अन्यत्र: गालवः: [४३.१६] "सर्वान् लोकान् प्रपश्यामि प्रसादात्तव सुव्रत । [४३.१७] वैखानसानां जपतामेष शब्दो महात्मनाम् ॥" इति [ंBह्३.११४.१५] [४३.१८] गारुडे: [४३.१९] "कौषीतकीनां होतॄणां ग्रामत्रयमकल्पयत् । [४३.२०] अकल्पयच्च त्रीन् ग्रामान् वैखानसमहात्मनाम् ॥" इति [ङरुडড়् ] [४३.२१] परमेश्वरे त्रयोदशाध्याये पवित्रविनियोगावसरे: [४३.२२] "पूजयेदाप्तपूर्वांश्च यतिपूर्वांस्तपस्विनः ॥ [ড়ारमेश्वरष्१२.४३७ द्] [४३.२३] पञ्चवैखानसांश्चैव विप्रादींश्चतुरस्तथा । [४३.२४] पञ्चयोगरताद्यांस्तु तथान्यान् वैष्णवान् द्विजान् ॥ [ড়ारमेश्वरष्१२.४३८] [४३.२५] एकायनीयशाखोक्तिश्रोतॄणां प्रथमं ततः ॥" इति [ড়ारमेश्वरष्१२.४३९ ब्] [४४.१] नारदीये: "सात्त्विके तु सदाधिक्यं पूजनं मम नारद । [४४.२] विद्धि वैखानसे दत्तं दानं ब्रह्मविदस्तथा ॥" [णारदড়्] [वैखानसानां श्रीरामकृता पूजा] [४४.३] वासिष्ठरामायणे: "कृताभिषेकस्सन्तुष्टस्सामात्यस्ससुहृज्जनः । [४४.५] पूजयामास धर्मात्मा रामो वैखानसान्मुनीन् ॥" इति [Vआसिष्ठरामायण] [४४.६] वैखानसानां पञ्चकालपरायणत्वम् [पञ्चकालपरायणस्य लक्षणम्] [४४.७] शाण्डिल्यस्मृतौ: "ये पावयन्ति धरणीं चरणैः पाञ्चकालिकाः । [४४.८] दर्शनात्स्पर्शनात्तेषां कृतार्थास्सर्वजन्तवः ॥ [शाण्डिल्यस्मृति.] [४४.९] इज्यामध्ये तथा होमे योगे च जपकर्मणि । [४४.१०] आगतं पञ्चकालज्ञं सम्पूज्यैर्वाचयेत्परम् ॥ [शाण्डिल्यस्मृति.] [४४.११] ये तोषयन्त्यविरतं पञ्चकालपरायणान् । [४४.१२] सकामास्तत्फलं यान्ति निष्कामाः परमं पदम् ॥ [शाण्डिल्यस्मृति] [४४.१३] सदाहिताग्नयो ये च शान्ताश्शूद्रान्नवर्जितः । [४४.१४] मामर्चयन्ति मद्भक्तास्तेभ्यो दत्तमिहाक्षयम् ॥ [शाण्डिल्यस्मृति.] [४४.१५] द्वादशाक्षरतत्त्वज्ञश्चतुर्व्यूहविभागवित् । [४४.१६] अच्छिद्रपञ्चकालज्ञस्स विप्रस्तारयिष्यति ॥" [शाण्डिल्यस्मृति] [वैखानसानां द्वादशाक्षरतत्त्वज्ञत्वम्] [४४.१७] यथा: [४४.१८] द्वादशाक्षरतत्त्वज्ञ इति. द्वादशाक्षरतत्त्वानि. [४४.१९] "चिज्जीवः प्रकृतिर्बुद्धिर्मनस्सत्त्वादयो गुणाः । [४४.२०] व्योमाग्निमरुतश्चापो वर्णानां तत्त्वमीरितम् ॥" इत्युक्तानि. [ড়ाद्मष्चर्यापाद २४.१९] [वैखानसानां चतुर्व्यूहविभागज्ञत्वम्] [४४.२१] चतुर्व्यूहविभागवितिति [वैखानसपाञ्चरात्रयोः व्यूहचतुष्टये संज्ञावैषम्यम्] [४४.२२] "पुरुषञ्च ततस्सत्यमच्युतञ्च युधिष्ठिर । [ंBह्१४, आप्प्. ४.१६५९] [४४.२३] अनिरुद्धञ्च मां प्राहुर्वैखानसविदो जनाः ॥ [ंBह्१४, आप्प्. ४.१६६०] [४४.२४] अन्ये त्वेवं विजानन्ति मां राजन् पाञ्चरात्रिकाः । [ंBह्१४, आप्प्. ४.१६६१] [४४.२५] वासुदेवञ्च राजेन्द्र सङ्कर्षणमथापि वा ॥ [ंBह्१४, आप्प्. ४.१६६२] [४५.१] प्रद्युम्नञ्चानिरुद्धञ्च चतुर्मूर्तिं प्रचक्षते । [ंBह्१४, आप्प्. ४.१६६३] [४५.२] एताश्चान्याश्च राजेन्द्र संज्ञाभेदेन मूर्तयः ॥ [ंBह्१४, आप्प्. ४.१६६४] [४५.३] विद्धि मेऽर्चान्तराण्येव मामेवञ्चार्चयेद्बुधः ॥" [ंBह्१४, आप्प्. ४.१६६५] [४५.४] इत्याद्युक्तानां चतुर्णां व्यूहानां विभागावित्. [वासुदेवस्य दैविकमानुषभेदेन द्वैविध्यम्] [४५.५] एवं वैखानसे दैविकमानुषभेदेन वासुदेवो द्विविधः प्रतिपाद्यते. यथा - [४५.६-८] खिले: "अथोर्ध्वं वासुदेवस्य मानुषस्य विधिं परं". इत्यारभ्य "मानुष्यवपुषं देवं द्विभुजं शङ्खचक्रिणम्" इत्यादिना रुक्मिणीप्रद्युम्नानिरुद्धसाम्बब्रह्मगरुडादियुतं मानुषवासुदेवं निर्वर्ण्य पुनः: [४५.९] "दैविकं वासुदेवं तं प्रवक्ष्याम्यानुपूर्व्यशः । [४५.१०] सोमच्छन्दविमानं वा बृहद्वृत्तमथापि वा ॥ [४५.११] चतुर्भुजधरं देवं शङ्खचक्रधरं परम् । [४५.१२] अभयं दक्षिणं हस्तं वामं कट्यवलम्बितम् ॥ [४५.१३] किरीटादिसमस्तैश्च भूषणैरपि भूषितम् । [४५.१४] रक्ताम्बरधरं देवं दशातालेन मानतः ॥ [४५.१५] उभे देव्यावुभे पार्श्वे पूर्ववत्कारयेद्बुधः । [४५.१६] बलभद्रादिपूर्वोक्तं सायुधं वा निरायुधम् ॥ [४५.१७] तत्तद्देवीबिस्हिएर्त्नोछ्तेलुगु वेर्ग्लेइछेन्समायुक्तं विना वा सम्यगाचरेत् । [४५.१८] रेवती रोहिणी चैव रमाचेन्दुकरीति च ॥ [४५.१९] रक्तं नीलं तथा श्यामं पीतवर्णं समाचरेत् । [४५.२०] किरीटमकुटाद्युक्तास्सर्वाभरणभूषिताः ॥ [४५.२१] एवं पुष्पधरं कुर्यादेकञ्चैव प्रसारितम् । [४५.२२] देव्या युक्तं विना वापि द्विमार्गं सम्यगाचरेत् ॥" [४५.२३-२४] इत्यारभ्य "एवं दैविकमार्गन् तु स्थापनारम्भमाचरेद्" इत्यादिना दैविकः वासुदेवः प्रदर्शितः. [वैखानसेतरसूत्रिणां पञ्चकालपरायणत्वाभवाः] [४६.१-५] इत्थं वासुदेवादीनां दैविकमानुषभेदेन द्वैविध्यस्य, "पुरुषं परमपुरुषं परमात्मानं परं ब्रह्माणम्" इत्यादिना प्रतिपादितानां चतुर्णां पुरुषादीनां मूर्तिविभागस्य च श्रीवैखानसशास्त्रे प्रतिपादनात्, एतस्सर्वविभागज्ञ एव चतुर्व्यूहविभागविदित्यनेनोच्यते. आच्छिद्रपञ्चकालज्ञ इति: [४६.६] "प्रातःकालेऽभिगमनमुपादानं ततः परम् । [४६.७] मध्याह्न इज्यां कुर्वीत स्वाध्यायञ्चापराह्णके । [४६.८] योगं सायाह्नकाले तु पञ्चकाला उदाहृताः ॥" [Vआ ] [४६.९] इति वासाधिकारे प्रतिपादितपञ्चकालपरायणमधिकृत्य प्रकृत्तानि - [४६.१०-१४] "ये पावयन्ति धरणीं" "इज्यामध्ये तथाहोमे" "ये तोषयन्त्यविरतं" इति वचनानि, सामन्येन पञ्चकालपरायणस्य दर्शनस्पर्शनादिभिस्सर्वेषां पावनतां कृतार्थतां, इज्यायोगादिसमयेषु चागतस्य तस्य पूजनान्तरं शेषकर्माचरणञ्च प्रतिपादयन्ति, एतादृशः पञ्चकालपरायणः कीदृशा इत्याकङ्क्षायां "द्वादशाक्षरतत्त्वज्ञ" इत्यादिना "अच्छिद्रपञ्चकालज्ञ" इत्यन्तेन तल्लक्षणमुच्यते. [४६.१५-१७] ईदृशाच्छिद्रपञ्चकालपरायणा वैखानसा एव. वैखानसशास्त्र एव पञ्चकालविभागस्य प्रतिपादितत्वात्. स्वस्वसूत्रेऽनुक्तत्वादापस्तम्बीयादयस्तु न. पञ्चकालप्रतिपादनरहितसूत्रान्तरनिष्ठानां: [४६.१८] "ब्राह्मे मुहूर्ते बुद्ध्येत धर्मार्थावनुचिन्तयन् ।" इत्यारभ्य [४६.१९] "द्वितीये च तथा भागे वेदाभ्यासो विधीयते ॥ [४६.२०] तृतीये च तथा भागे पोष्यवर्गार्थचिन्तनम् । [४६.२१] भागे चतुर्थे कुर्वीत स्नानमम्भस्यकृत्रिमे ॥ [४६.२२] पञ्चमे तु तथा भागे संविभागो यथार्हतः । [४६.२३] इतिहासपुराणाभ्यां षष्टं सप्तममभ्यसेत् । [४६.२४] अष्टमे लोकयात्राञ्च विचार्य च गृही ततः ॥" [४७.१-२] इत्यन्तेन दक्षादिस्मृत्यन्तरेषु ब्राह्मणजातेः सामान्येन तत्तत्कालेषु कर्तव्यत्वेन प्रतिपादितकर्माचरण एव यथायोग्यं योग्यतासम्भवात्. [४७.३] अन्यथा [४७.४] "विधर्मः परधर्मश्च आभास उप वा च्छलः । [४७.५] अधर्मशाखाः पञ्चेमा धर्मज्ञोऽधर्मवत्त्यजेत् ॥ [४७.६] धर्मबाधो विधर्मस्स्यात्परधर्मोऽन्यचोदितः । [४७.७] उपधर्मस्तु पाषण्डो दम्भोवांशसुर्भिश्छलः (?) । [४७.८] यस्त्विच्छया कृतं पुम्भिराभासो ह्याश्रमाद्बहिः ॥". [४७.९] इति भागवतवचनोक्तपरधर्माश्रयणदोषप्रसङ्गः. [४७.१०] "श्रेयान् स्वधर्मो विगुणः परधर्मात्स्वनुष्ठितात् । [४७.११] स्वधर्मे निधनं श्रेयः परधर्मो भयावहः ॥" [ंBह्६.२५.३५] [४७.१२] इति भगवद्वचनविरोधश्च. [सूत्रान्तरनुष्ठानां पाञ्चरात्रानुयायिनाञ्च देवलकत्वम्] [४७.१३-१९] किञ्च तत्सूत्रेषु द्वादशाक्षरतत्त्वादिप्रतिपादनमपि नास्ति. एवं "सति कुड्ये चित्रकर्मे"ति न्यायेन यज्ञोपवीतधारणसन्ध्योपासनभगवदाराधनादिविधिप्रतिपादनरहितसूत्रान्तरनिष्ठानां, तथा श्रीमन्नारायणस्य समानत्वेन रुद्रादिदेवतान्तराराधनविधिप्रतिपादकसूत्रनिष्ठानाञ्च चतुर्व्यूहविभागज्ञानासम्भवात्भगवदाराधनस्वरूपज्ञानाभावेन पञ्चकालपरायणत्वादिगन्धलेशोऽपि न सम्भवति. सूत्रान्तरोक्तमार्गेण वा पञ्चरात्रोक्तमार्गेण वा भगवदाराधनं कुर्वतोऽनधिकारिणो देवलकत्वं प्रतिपाद्यते. [पाञ्चरात्रे दुर्गादिदेवतान्तरार्चनप्रतिपादनम्] [४७.२०] तथा हि - पञ्चरात्रे विष्वक्सेनसंहितायां नारदं प्रति विष्वक्सेनोक्तिः: [४७.२१] "इदन् तु तव वक्ष्यामि गुह्याद्गुह्यतमं मुने । [४७.२२] योऽसौ नारयणस्साक्षात्स हि विघ्नेश उच्यते ॥ [Vइष्वक्सेनष्१०.११४] [४७.२३] यो वै विघ्नेश इत्युक्तस्स वै नारायणः स्मृतः ॥ [Vइष्वक्सेन.ष्१०.११५ ब्] [४७.२४] नैव भेदं विजानन्ति मुनयस्तत्त्वदर्शिनः ॥" इत्यारभ्य [Vइष्वक्सेनष्१०.११६ ब्] [४८.१] "कुर्यात्पाशाङ्कुशौ वापि शङ्खचक्रावथापि वा । [४८.२] आखुं वापि खगेन्द्रं वा तस्य वाहनमाचरेत् ॥ [Vइष्वक्सेनष्] [४८.३] नारायणाशकत्वाच्चाव्यावृत्तत्वान्महामुने । [४८.४] वीशस्तद्वाहनं प्रोक्तमाखुं वापि समाचरेत् ॥ [Vइष्वक्सेन.ष्] [४८.५] तस्माच्छ्रियञ्च दुर्गाञ्च वाणीं विघ्नेशमेव च । [४८.६] स्वतन्त्रेणार्चयेद्धीमान् सर्वकार्यार्थसिद्धये ॥" इत्यादि च दृश्यते. [Vइष्वक्सेनष्] [४८.७-१०] देवतान्तराणामङ्गभावेनार्चनं न निषिद्ध्यते. "स्वतन्त्रबुद्ध्या कुर्वन् वै ब्राह्मणो नरकं व्रजेत्" इत्यादि वचनैः अङ्गत्वेन विना स्वातन्त्र्येणाङ्गिव्यतिरिक्तदेवतान्तराराधनं निषिद्ध्यते. तथाविधनिषिद्धदेवतान्तरार्चनप्रतिपादकशास्त्रनिष्ठस्य पञ्चकालपरायणत्वं न सम्भवति. [परमैकान्तिनामेव पञ्चकालपरायणत्वम्] [४८.११] "यैरिष्टः पञ्चकालज्ञैर्हरिरेकान्तिभिर्नरैः । [४८.१२] नूनं तत्र मतो देवो यथा तैर्वागुदीरितः ॥" इत्युक्तरीत्या [वैखानसव्यतिरिक्तानां परमैकान्तित्वाभावः] [४८.१३-१५] परमैकान्तित्वासम्भवे तद्(पञ्चकालपरायणत्वा)सम्भवात्. परमैकान्तित्वञ्च भगवदेकपरत्वमेव. तच्च स्वातन्त्र्येणान्यदेवतायाजिनां वैखानसव्यतिरिक्तानां हि न सम्भवति. [४८.१६-१७] अत्र "यैरिष्टः पञ्चकालज्ञैर्" इत्यनेन पञ्चकालव्यतिरिक्तकालान्तरप्रतिपादकशास्त्रनिष्ठानां व्यवृत्तिः. "एकान्तिभिर्नरैर्" इत्यनेन [४८.१८] "विप्रा वैखानसाख्या ये ते भक्तास्तत्त्वमुच्यते ॥ [ড়ौष्करष्३६.२६० द्] [४८.१९] एकान्तिनस्सुसत्त्वस्था देहान्तं नान्ययाजिनः ॥ [ড়ौष्करष्३६.२६१ ब्] [४८.२०-२३] इत्यादि पौष्करसंहितावचनानुसारेण स्वातन्त्र्येण दुर्गादिदेवतान्तरार्चनप्रतिपादकपाञ्चरात्रशास्त्रनिष्ठानां व्यावृत्तिः. "नूनमत्र मतो देव" इत्यनेन - "यत्र वैखानसा विप्रा यत्र सन्ति गवां गणाः । [४८.२४] यत्र बिल्वाः पलाशाश्च तत्र सन्निहितो हरिः ॥" [४८.२५-२६] इत्यस्यार्थो ज्ञाप्यते इति "यैरिष्ट" इति कृत्स्नमपि वचनं वैखानसपरमित्येवावगम्यते. [पाञ्चरात्रिणामपि पञ्चकालपरायणत्वमित्याक्षेपः परिहारश्च] [४९.१] ननु: [४९.२] ब्रह्मा: "पञ्चकालविधिज्ञानप्राशस्त्यं भगवन्निह । [४९.३] कथितं पञ्च के काला विधयश्चापि पञ्च के ॥ [ড়ाद्मष्चर्यापाद १३.१] [४९.४] मह्यं जिज्ञासमानाय कथयस्व यथातथम् । [४९.५] न चेद्रहस्यमत्यन्तं यदहं पृष्टवानिह ॥ [ড়ाद्मष्चर्यापाद १३.२] [४९.६] श्रीभगवान्: [पाञ्चरात्रोक्तमभिगमनम्] [४९.७] आद्यं कर्माभिगमनमुपादानं ततः परम् । [४९.८] इज्या तपश्च स्वाध्यायस्तथा योगः प्रकीर्तितः ॥ [ড়ाद्मष्चर्यापाद १३.३] [४९.९] पञ्चैते विधयस्तेषां कालाः पञ्चैव ते क्रमात् । [४९.१०] कल्याणाचरणान्तं यत्कर्मजातं चतुर्मुख ॥ [ড়ाद्म.ष्चर्यापाद १३.४] [४९.११] उत्थानादिक्रमादेतदभियानमुदीरितम् । [४९.१२] ब्राह्मे मुहूर्ते बुद्ध्येत ध्यायन्नारायणं परम् ॥ [ড়ाद्म.ष्चर्यापाद १३.५] [४९.१३] उत्थायासीत शयने कीर्तयन्नाम वैष्णवम् । [४९.१४] क्रमेण सृष्ट्वा तत्त्वानि देहमुत्पाद्य तत्त्ववित् ॥ [ড়ाद्म.ष्चर्यापाद १३.६] [४९.१५] स्वस्य देहे षडङ्गानि मन्त्रमुच्चार्य मानसम् ॥" [ড়ाद्मष्चर्यापाद १३.७] [४९.१६] इत्यादिना अभिगमनमुपक्रम्य [४९.१७] "अञ्जनालेपनैस्स्रग्भिः वासोभिर्भूषणैस्तथा ॥ [ড়ाद्म.ष्चर्यापाद १३.२९ ब्] [४९.१८] अलक्तकरसाद्यैश्च ताम्बूलैर्मुखशोधनैः । [४९.१९] उपेतो मङ्गलैरन्यैर्नयेदभिगमक्रियाम् ॥" [ড়ाद्मष्चर्यापाद १३.३०] [४९.२०] इत्यभिगमनमुक्ता [पाञ्चरात्रोक्तमुपादानम्] [४९.२१] "उपादद्यात्ततः पूजा- साधनानि यथातथम् । [४९.२२] पुष्पाणि फलमूलानि विविधान्योषधीरपि ॥ [ড়ाद्म.ष्चर्यापाद १३.३१] [४९.२३] दध्यादि च हविर्योग्यं तण्डुलादि गुडादि च । [४९.२४] स्नानीयानि च वस्त्राणि स्वादूनि सलिलानि च ॥ [ড়ाद्म.ष्चर्यापाद १३.३२] [५०.१] दर्भान् पर्णानि समिधो यथाशक्ति यथावसु । [५०.२] आहृत्य याज्ञियान् दैवान् पूजास्थाने निवेशयेत् ॥ [ড়ाद्मष्चर्यापाद १३.३३] [५०.३] नीत्वोपादानसमयमित्थं तदनुपूजयेत् ।" [५०.४] इत्युपादानमुक्तम्. [पाञ्चरात्रोक्ता इज्या] [५०.५] "प्राप्ते मध्याह्नसमये स्नानं कुर्याद्यथाविधि ॥" [ড়ाद्मष्चर्यापाद १३.३४] [५०.६] इत्यारभ्य [५०.७] "उत्तीर्य कर्म निखिलं मध्याह्नसमयोचितम् । [ড়ाद्मष्चर्यापाद १३.४१ द्] [५०.८] कृत्वा यजेत देवेशं होमान्तं कमलासन ॥ [ড়ाद्म.ष्चर्यापाद १३.४२ ब्] [५०.९] इज्यायास्समयस्तस्याः कथितः कमलासन ॥" [ড়ाद्मष्चर्यापाद १३.६६ ब्] [५०.१०] इति भगवद्यजनमुक्त्वा [पाञ्चरात्रोक्तः स्वाध्यायः] [५०.११] "मन्दिरे वा हरेर्नद्यास्तीरे वामरभूमिषु ॥ [ড়ाद्म.ष्चर्यापाद १३.६६ द्] [५०.१२] विविक्ते विपिने वापि पर्वते वा गृहेऽपि वा । [५०.१३] ऋचो यजूंषि सामानि विद्यमानान्यनेकधा ॥ [ড়ाद्मष्चर्यापाद १३.६७] [५०.१४] शाखाभेदैर्मूलशाखामेकायनसमाह्वयाम् । [५०.१५] त्रयीमयीमधीयीत सुखासीनस्समाहितः ॥" [ড়ाद्मष्चर्यापाद १३.६८] [५०.१६] स्वाध्यायमुक्त्वा [पाञ्चरात्रोक्तः योगः] [५०.१७] "ततः पश्चिमसन्ध्यायां प्राप्तायां तत्र चोदितम् ॥ [ড়ाद्मष्चर्यापाद १३.७२ द्] [५०.१८] जपहोमादिकं सर्वं कृत्वा परमपूरुषम् । [५०.१९] अर्चयित्वा यथान्याय्यं यथापूर्वमशेषतः ॥ [ড়ाद्मष्चर्यापाद १३.७३] [५०.२०] भुक्त्वान्नं विश्य शयने समुत्थाय महानिशि । [५०.२१] आचम्य प्रयतो भूत्वा ध्यात्वा परमपूरुषम् ॥ [ড়ाद्मष्चर्यापाद १३.७४] [५०.२२] योगासने समासीनो युञ्जीतात्मानमात्मना । [५०.२३] यथोक्तेन प्रकारेण यथाशक्ति चतुर्मुख ॥ [ড়ाद्म.ष्चर्यापाद १३.७५] [५०.२४] सहारक्रममाश्रित्य तत्त्वान्यात्मनि संहरेत् । [५०.२५] आत्मानञ्चापि हृत्पद्मे परमात्मनि निष्ठिते ॥ [ড়ाद्म.ष्चर्यापाद १३.७६] [५१.१] संहरेदित्थतो योगात्स्वापं क्लेशापहं व्रजेत् । [५१.२] इत्येष कथितो ब्रह्मन् योगः कालश्च पञ्चमः ॥ [ড়ाद्म.ष्चर्यापाद १३.७७] [५१.३] पञ्चैते समयाः पञ्चविधयस्तेषु दर्शिताः । [५१.४] इत्थमेतेषु कालेषु दर्शितैः कर्मभिर्नरः ॥ [ড়ाद्मष्चर्यापाद १३.७८] [५१.५] आराधनं भगवतः कुर्वन्नैवावसीदति । [५१.६] वर्षेषु द्वादशसु एवमनुतिष्ठन् समाहितः ॥ [ড়ाद्म.ष्चर्यापाद १३.७९] [५१.७] क्रियाकलापमखिलं याति सायुज्यसम्पदम् । [५१.८] षट्सु वर्षेषु सारूप्यं सामीप्यं त्रिषु निश्चितम् ॥ [ড়ाद्मष्चर्यापाद १३.८०] [५१.९] सालोक्यं फलमेकस्मिन् वत्सरे नात्र संशयः ॥" [ড়ाद्मष्चर्यापाद १३.८१ ब्] [५१.१०-११] इति पाद्मे चर्यापादे त्रयोदशेऽध्याये अविच्छिन्नतया पञ्चकालानां प्रतिपादितत्वात्तेषामप्यच्छिद्रपञ्चकालपरायणत्वं सम्भवतीति चेत्- तदसत्. [पाञ्चरात्रिणामनियतपरिमितच्छिद्रद्रपञ्चकालपरायणत्वम्] [५१.१२] तत्रैव: [५१.१३] "पूत्यूषमर्धरात्रञ्च प्रातर्मध्यंदिनानि च । [५१.१४] पञ्चकाला इमे प्रोक्तास्ततः कालचतुष्टये ॥ [५१.१५] एतेषु हीनाः प्रत्यूषं (?) विज्ञेयाश्चतुरानन ॥" [५१.१६-२०] इत्यभिगमनादीनामेकरूपेण विना न्यूनातिरिक्तकालत्वेनोक्तत्वात्"कालं मध्यन्दिनच्छिद्रपञ्चकालपरायणैर्" इत्यागमसिद्धान्ते "सान्तरालमनुष्ठानं पञ्चकालोदितं तथा" इति तन्त्रसिद्धान्ते च छिद्रपञ्चकालपरत्वस्योक्तत्वात्, कालचतुष्टयप्रतिपादनेन नियतपञ्चकालपरायणत्वाभावात्, द्वादशवर्षमारभ्य एकवर्षपर्यन्तं परिमितपञ्चकालपरत्वस्योक्तत्वात्द्वादशवर्षादूर्ध्वं पञ्चकालपरत्वाभावाच्च. [५१.२१] तथा, मार्कण्डेये [५१.२२] "महानिशा तु विज्ञेया रात्रेर्मध्यं द्वितीययोः । [५१.२३] तस्यां स्नानं न कुर्वीत सम्यगाचमनं तथा ॥" [ंर्कण्डेयড়्] [५२.१] इत्याचमनस्य महानिशायां निषेधात्. [५२.२] "यामद्वयं शयानस्तु ब्रह्मभूयाय कल्पते ॥" [५२.३-४] इति धर्मशास्त्रोक्तनिद्राकाले योगस्यायुक्तत्वाच्च. योगकालस्यार्धरात्रिकत्वे स्वाध्यायकालाद्व्यवहितत्वेन छिद्रपाञ्चकालिकत्वापाताच्च. [५२.५-६] कालचतुष्त्वास्यैवोक्तत्वेन अभिगमनादिष्वेकस्य लोपसम्भवेन अनियतपञ्चकालपरस्य पञ्चकालपरायणशब्दाभिलापासम्भवाच्च. [५२.७] तथा: [५२.८] "क्लिश्यन्तीह सुषुप्तानामिन्द्रियाणि द्रवन्ति च । [५२.९] अङ्गानि समतां यान्ति उत्तमान्यधमैस्सह ॥" [५२.१०] इति धर्मशास्त्रेषु प्रातरारभ्य सायङ्कालपर्यन्तमेव कर्माचरणकालत्वेन प्रतिपादनात्. [५२.११] तथा: [५२.१२] "अत्यन्तमलिनः कायो नवच्छिद्रसमन्वितः । [५२.१३] स्रवत्येव दिवारात्रं प्रातस्स्नानं विशोधनम् ॥ [५२.१४] अस्नात्वा नाचरेत्कर्म जपहोमादि किञ्चन । [५२.१५] स्नात्वाधिकारी भवति दैवे पित्र्ये च कर्मणि ॥" [५२.१६-२०] इति स्मृतेः स्नानात्पूर्वं तत्त्वसृष्टेरयुक्तत्वाच्च. प्रेतप्रायस्य संहृततत्त्वस्य स्वापयोग्यतासम्भवाच्च. तस्मात्"अब्भक्षो वायुभक्ष" इत्यादिशब्दवदवधारणगर्भस्य पाञ्चकालिकशब्दस्य अनियतपरिमितपाञ्चकालिकेषु पाञ्चरात्रिकेषु प्रयोगासंभवादनियतपरिमितछिद्रपाञ्चकालिकाः पाञ्चरात्रिणो न नियताछिद्रपञ्चकालपरायणवैखानसतुल्या भवितुमहन्तीति सिद्धम्. [देवतापूजकसामानस्य देवलकत्वमित्याक्षेपपरिहारः] [५२.२१] ननु: [५२.२२] "यो देवं पूजयेद्विप्रो वित्तार्थी वत्सरत्रयम् । [५२.२३] स वै देवलको नाम हव्यकव्यबहिष्कृतः ॥" [५२.२४-५३.२] इति देवतापूजकस्य देवलकत्वं सम्भवतीति चेत्- तदसत्. सामान्यतः देवताराधनं ये कुर्वन्ति ते देवलका इति वा? उत श्रुतिस्मृतीतिहासपुराणादिषु मुख्याधिकारित्वेन प्रतिपादिता अपीति वा?. सामान्यतः देवताराधनं ये कुर्वन्ति ते इति चेत्- तर्हि गृहदेवतापूजकानामपि देवलकत्वप्रसङ्गः. किञ्च: [वैखानसानां देवलकत्वाभावः] [५३.३] "ब्रह्मचारी गृहस्थश्च विप्रो वैखानसस्तथा । [५३.४] कुर्वन्ति निजकर्माणि विष्णुमेव यजन्ति ते ॥" [५३.५-११] इति सन्ध्योपासनादीनां भगवदाराधनरूपत्वोक्त्या तेषाञ्च त्यागस्सम्भवति. अतस्सामान्यतः इति वक्तुमयुक्तम्. श्रुतिस्मृतिपुराणादिषु मुख्याधिकारित्वेन प्रतिपादिता देवलकाः इति चेत्- तदसत्. "ऽअग्निर्वै देवानामवमो विष्णुः परमस्तदन्तरेण सर्वा अन्या देवताऽ इति ब्राह्मणम्. तस्माद्गृहे परमं विष्णुं प्रतिष्ठाप्य सायं प्रातर्होमान्तेऽर्चयति" इति वैखानससूत्रे, "प्रवः पान्तमन्धसो धियायते महेशूराय विष्णवे चार्चत" इति ऋग्ब्राह्मणमनुसृत्य विष्णुप्रधानतया "स वा एष पुरुषः पञ्चधा पञ्चात्मा" इत्यादिश्रुत्युक्तविष्ण्वादिपञ्चमूर्तीनामाराधनस्य प्रतिपादितत्वात्. [५३.१२-१३] आश्वमेधिके "कथं त्वमर्चनीयोऽसी"त्यादेः, वृद्धमनौ "वेदान्तवेदिभिर्" इत्यादेश्चोक्तत्वात्. [५३.१४-१५] एवमेव पाञ्चरात्रशैवशिल्पज्यौतिषादिषु उत्कृष्टमुख्याधिकारिप्रतिपादकानां वचनानां वैयर्थ्यप्रसङ्गात्तन्मूलभूतश्रुतिस्मृतिपुराणादीनामप्रामाण्यप्रसङ्गो दुष्परिहरः. [वैखानसानां भगवद्द्रव्योपभोगादौ दोषाभावः] [५३.१६-१७] एवं च प्रमाणभूतेषु श्रुतिस्मृतिपुराणादिषु प्रतिपादितानामाचारादीनां त्यागः प्रसज्येत्, निष्फलत्वात्. ननु परद्रव्योणालयार्चनं कुर्वतां देवलकत्वमिति चेत्न. [५३.१८-१९] श्रुतिस्मृतिपुराणादिषु तत्तच्छास्त्रेषु च आलयार्चकानां मुख्याधिकारित्वेन तद्द्रव्योपभोगार्हत्वेन च प्रतिपादनात्. [५३.२०] यथा - मरीचिप्रोक्तायामानन्दसंहितायां विखनसोत्पत्त्यादिकं प्रतिपाद्य: [५३.२१] "तथा त्वदनुजीवित्वे त्वद्द्रव्यानुभवे सति । [५३.२२] यद्भवेद्दोष उत्पन्न इति चिन्ताकुलोऽस्म्यहम् ॥" [आष्४.७७] [५३.२३] इति भगवद्द्रव्योपजीवनदोषभीरोः विखनसः भगवन्तं प्रति प्रश्ने - [५३.२४] "अथोवाच हृषीकेशो भीरुं तं मुनिसत्तमम् । [आष्४.७८ ब्] [५३.२५] वैखानसानां तद्दोषो नास्ति मत्कृतकर्मणाम् ॥ [आष्४.८३ ब्] [५४.१] मद्द्रव्यं हव्यकव्यार्थे दानाभ्यागतपूजने । [आष्४.८४ द्] [५४.२] मुख्यमेवास्तु भवतां सदा मत्कर्म कुर्वताम् ॥ [आ.ष्४.८५ ब्] [वैखानसानां भगवद्विग्रहविक्रयेऽपि दोषाभावः] [५४.३] किमेभिर्बहुभिर्वाक्यैरन्यत्ते कथयाम्यहम् ॥ [आष्४.८५ द्] [५४.४] मद्द्रव्यक्षेत्रबिम्बानामालयानां तथापदि । [५४.५] विक्रीणनादिकार्येषु नास्ति दोषो मदाज्ञया ॥ [आष्४.८७] [५४.६] तस्माद्भवानभिमतस्सर्वं कर्म सदा कुरु ॥ [आष्] [५४.७] मदीयधनभोगेन मत्क्रियालोपतस्तव । [५४.८] मच्छरीरतया सत्यमपचारो न विद्यते ॥" [आष्४.८६] [५४.९] इति भगवद्वचनोदाहरणेन भगवद्द्रव्योपभोगादिषु दोषाभावः प्रतिपादितः. [५४.१०-१४] अत्र "अहं भक्तपराधीनो ह्यस्वतन्त्र इव द्विज" इत्यादिवचनानुसारेणार्चकपराधीनतां दर्शयितुं, भगवत्प्रीतिविषयीकृतानां वैखानसानां तद्द्रव्योपभोगादिषु दोषगन्धो नास्तीति प्रतिपादनावसरे "मद्द्रव्यं क्षेत्रबिम्बादी"त्यादिना कैमुतिकन्यायमभिप्रेत्य भगवद्विग्रहविक्रये कृतेऽपि दोषो नास्तीत्युच्यते. तावता न तदभिप्रेतम्. [५४.१५-१६] नन्वेवमपि देवद्रव्योपभोगदोषस्सामान्यतः मुख्यामुख्याधिकारिषु सर्वेष्वापद्यते एव इति चेत्न. [मांसभक्षने नरकपतनम्] [५४.१७] "ये भक्षयन्ति मांसानि सत्त्वानां जीवितैषिणाम् । [५४.१८] भक्ष्यन्ते तेऽपि तैस्सर्वैरिति ब्रह्माब्रवीत्स्वयम् ॥ [ंBह्१३.११७.३३] [५४.१९] मां स भक्षयितामुत्र यस्य मांसमिहाद्म्यहम् । [५४.२०] एतन्मांसस्य मांसत्वं प्रवदन्ति मनीषिणः ॥ [ंBह्१३.११७.३४] [५४.२१] न हि मांसं तृणात्कष्ठादुपलाद्वापि जयते । [५४.२२] हत्वा जन्तुं भवेन्मांसं तस्मात्तत्परिवर्जयेत् ॥ [ंBह्१३.११६.२६] [५४.२३] हन्ता चैवानुमन्ता च विशस्ता क्रयविक्रयी । [५४.२४] संस्कर्ता चोपकर्ता च खादकश्चाष्ट घातुकाः ॥ [ंBह्१३.११६.४७] [५५.१] धनेन क्रायको हन्ति खादकश्चोपभोगतः । [५५.२] घातुको वधबन्धाभ्यामित्येष त्रिविधो वधः ॥ [ंBह्१३.११६.३८] [५५.३] स्वमांसं परमांसेन यो वर्धयितुमिच्छति । [५५.४] नारदः प्राह धर्मात्मा नरके स विपच्यते ॥" [ंBह्१३.११७.१०] [कुत्रचिद्धर्मस्याप्यधर्मं, अधर्मस्यापि धर्मत्वञ्च] [५५.५-६] इत्यादि वचनैः मांसभक्षणेन नरकपतनस्मरणात्भगवत्प्रीत्यर्थं क्रियमाणेषु यज्ञेष्वपि मांसभक्षणसत्त्वात्याज्ञिकानामपि नरकपतनं सम्भवतीति यागस्यापि त्यागप्रसङ्गात्. [५५.७] "तस्माच्छास्त्रं प्रमाणं ते कार्याकार्यव्यवस्थितौ । [५५.८] ज्ञात्वा शास्त्रविधानोक्तं कर्म कर्तुमिहार्हसि ॥" [ंBह्६.३८.२४] [५५.९-१२] इति भगवद्वचनात्शास्त्रोक्तानां कर्मणां दोषो नास्तीति चेत्. "मद्द्रव्योपभोगादौ दोषो नास्ती"ति भगवता प्रतिपादित्वात्प्रकृतेऽपि दोषो नास्त्येव. "वचनात्प्रवृत्तिर्वचनान्निवृत्तिर्" इति खलु शिष्टोक्तिः. एवं कुत्रचिद्धर्मोऽधर्मः अधर्मश्च धर्मो भवति. [५५.१३] यथा [५५.१४] "उक्तेऽनृते भवेत्किञ्चित्प्राणिनां प्राणरक्षणम् । [५५.१५] अनृतं तत्र सत्यं स्यात्सत्यमत्रानृतं भवेत् ॥ [५५.१६] कामिनीषु विवाहेषु गवां पीडासु बाधने । [५५.१७] ब्राह्मणाभ्यवपत्तौ च शपथे नास्ति पातकम् ॥" [५५.१८-१९] "यद्ब्राह्मणश्चाब्राह्मणश्च प्रश्नमेयातां ब्राह्मणायाधिब्रूयात्यद्ब्राह्मणायाध्यात्मनेऽध्याह यद्ब्राह्मणं पराहात्मानं पराह तस्माद्ब्राह्मणो न परोच्यः" इत्य्श्रुतिश्च. [५५.२०-२१] श्रौतसूत्रे च: "सर्व एवमभिवादयन्ति नाभिवादयति न जुहोत्यन्यत्र सोमाङ्गेभ्यः" इत्यादि प्रतिपाद्यते. [५५.२२] "सर्वस्वहरणे भार्यावेश्ययोः (?) प्राणसंशये । [५५.२३] गोद्विजार्थे विवादे च शपथे नास्ति पातकम् ॥" [५५.२४] इत्यादि स्मृतिश्च. [५५.२५] एवं च शास्त्रोक्तप्रकारेण भगवदर्चनं कुर्वतां तद्द्रव्योपभोगे न दोषः. [देवलकत्वलक्षणविचारः] [५६.१-२] किञ्च - किं देवलकत्वं जातिपरम्, उत कर्मपरम्? जातिपरमिति वक्तुं न शक्यते. तथानुक्तत्वात्. इच्छया कल्पितुमशक्यत्वाच्च. [अविहितकर्मकर्तृत्वमेव देवलकत्वम्] [५६.३-४] अथ कर्मपरमिति चेत्. विहितकर्मपरम्, उत अविहितकर्मपरम्? विहितकर्मपरमिति वक्तुमशक्यम् - श्रुतिस्मृतीतिहाससूत्रपुराणादीनामप्रमाण्यप्रसङ्गात्. [५६.५] विहितधर्मपरत्वेनानुक्तत्वात्. [५६.६] "श्रुतिस्मृती ममैवाज्ञा यस्तामुल्लङ्घ्य वर्तते । [५६.७] आज्ञाच्छेदी मम द्रोही मद्भक्तोऽपि न वैष्णवः ॥" [परद्रव्यकृतस्याप्याराधनस्य निर्दोषत्वम्] [५६.८] इति भगवदाज्ञाभङ्गदोषाच्च. एवं च अविहितकर्मपरमिति हि परिशिष्यते. [५६.९-१०] ननु - परद्रव्येण कृतं भगवदाराधनं क्रतुवत्परार्थमेव भवतीति चेत्मैवम्. [५६.११] "अन्यधर्मपरो विप्रो भ्रष्टो गच्छत्यधोगतिम् । [५६.१२] मत्कर्मनिरतो विप्रो नाधः पतति कुत्रचित् ॥" [५६.१३] इति भगवद्वचनात्. [५६.१४] पुराणान्तरे: "स्वस्मिन्नर्पितमात्रेण येन केनापि कर्मणा । [५६.१५] तुष्टो ददाति स्वपदमहो वत्सलता हरेः ॥" इति. [५६.१६] किञ्च: [दक्षिणाप्रतिग्रहे दोषाभवः] [५६.१७] "एकविंशतिनिष्कन्तु दद्यादाचार्यदक्षिणाम् । [५६.१८] ऋत्विजान् तु तदर्धं स्यात्तदर्धमितरस्य च ॥" [५६.१९] इति दक्षिणादानं प्रतिपाद्यते. [५६.२०] ननु - "प्रतिग्रहेण विप्रस्य ब्राह्मं तेजो विनश्यति ॥" इति मनुवचनात् [ंनुढ्श्४.१८६ द्] [५६.२१-२५] "प्रतिग्रहेण तेजो हि विप्राणां शाम्यते" इत्यानुशासनिकवचनाच्च प्रतिग्रहेण ब्रह्मतेजोनाशनं स्मर्यते. श्रूयते प्रतिग्रहे प्रायश्चित्तमपि. "यो याजयति प्रति वा गृह्णाति याजयित्वा प्रतिगृह्य वानश्नंस्त्रिस्स्वाध्यायमधीयीत त्रिरात्रं सावित्रीं गायत्रीमन्वतिरेचयति वरो दक्षिणा वरेणैव वरं स्पृणोत्यात्मा हि वरः" इति. [५६.२५] अतः प्रतिग्रहे दोषोऽस्तीति चेत्- न. [हरिस्मरणस्य मोक्षप्रदत्वम्] [५७.१] "त्रायन्ते खलु नात्यन्तमन्यधर्मास्स्वनुष्टिताः । [५७.२] अपि मत्कर्म विगुणं त्रायते महतो भयात् ॥ [५७.३] मेरुमन्दरमात्रोऽपि राशिः पापस्य कर्मणः । [५७.४] केशवं वैद्यमासाद्य अभिएर्नोछ्टेलुगु वेर्ग्लेइछेन्दुर्व्याधिरिव नश्यति ॥ [५७.५] निधिस्थानं खनन् द्वेषात्मृदर्थं वाप्नुयान्निधिम् । [५७.६] अज्ञः कामाच्च दोषाच्च स्मृत्वैवं मोक्षभाक्तथा ॥ [५७.७] द्वेषिणा वाप्रयत्नेन क्षिप्तोऽग्निः कक्षमादहेत् । [५७.८] कथमभ्यर्चितो विष्णुः न दहेत्सर्वकिल्बिषम् ॥ [५७.९] यथाज्ञो वज्रकायस्स्यात्स्पर्धन्नपि सुधां पिबन् । [५७.१०] एवं विरुद्धभावोऽपि मुच्यत्येव हरिं स्मरन् ॥" इति [५७.११] नारदीये: "कृतापि दम्भहास्याद्यैर्यत्सेवा तारयेज्जनान् । [५७.१२] विफला नान्यकर्मेव कृपालुः कोऽन्वतः परम् ॥ [णारदড়्.] [५७.१३] हास्यानादरमायाभिरपि भक्तिः कृता त्वयि । [५७.१४] नृणां ददातीन्द्रपदं सात्त्विकानां किमुच्यते ॥ [णारदড়्] [५७.१५] वस्तुस्वभाव एवैष यन्मोक्षाय हरिस्मृतिः । [५७.१६] पूषेव ध्यान्तनाशाय श्शीतशान्त्यै यथानलः ॥ [णारदড়्.] [५७.१७] सैषा हरिस्मृतिऋ दैत्यं क्रोधादपि कृता सती । [५७.१८] आनयेत्सद्गतिं विप्रं सानुगं किमु वर्ण्यते ॥ [णारदড়्.] [५७.१९] यथामृतार्थं यततां सुराणामब्धिमन्थने । [५७.२०] पारिजातादिकान्यासन् फलान्यप्रार्थितान्यपि ॥ [णारदড়्.] [५७.२१] एवं मोक्षैकचित्तानां यततामीशसंस्मृतौ । [५७.२२] भवन्ति सिद्धयो दिव्याः पुण्य पुण्यानुबन्धि यत् ॥" इत्यादि [णारदড়्] [५७.२३] तत्रैव: "सुरातिथ्यर्चनकृते गुरुभृत्यर्थमेव च । [५७.२४] सर्वतः प्रतिगृह्णीयात्न तु दुष्येत्स्वयं ततः ॥" [णारदড়्] [५८.१-२] इति च स्मरणात्. अतः शास्त्रोक्तमार्गेण भगवद्यजनविधौ प्रवृत्तानां तत्तत्कर्मसु दक्षिणाप्रतिग्रहे कृतेऽपि न दोषः. [आलयार्चनायाः महाभारतादिसंमतत्वम्] [५८.३] गृहार्चनाव्यतिरेकेणालयार्चना भारतादिषु प्रतिपादिता दृश्यते. यथा - [५८.४] महाभारते आश्वमेधिके "कथं त्वमर्चनीयोऽसी"त्यादि. [ंBह्१४ आप्प्. ४.१६५२ र्] [५८.५] विष्णुधर्मोत्तरे षष्ठेऽध्याये: [५८.६] "यस्तु देवगृहस्यार्थं प्राकारं परिकल्पयेत् । [५८.७] स तु स्वर्गं समासद्य विमानाधिपतिर्भवेत् ॥ [Vइष्णुधर्मोत्तर.ড়् ] [५८.८] यस्तु देवालयस्याग्रे शिलादारुभिरेव वा । [५८.९] करोति तोरणं रम्यं स तु स्वर्गाधिपो भवेत् ॥ [Vइष्णुधर्मोत्तर.ড়् ] [५८.१०] यस्तु देवालयं विष्णोर्दारुशैलमृदा तथा । [५८.११] इष्टकाकल्पितं वापि कुर्यात्तस्य फलं बहु ॥ [Vइष्णुधर्मोत्तर.ড়् ] [५८.१२] अहन्यहन्यश्वमेध- सहस्राणि करोति यः । [५८.१३] प्राप्नोति मण्डपं विष्णोः यः कारयति मानवः ॥ [Vइष्णुधर्मोत्तर.ড়् ] [५८.१४] केशवस्य स तल्लोकमक्षय्यं प्रतिपद्यते । [५८.१५] प्रतिमार्थं महाविष्णोस्साधयेदुत्तमां शिलाम् ॥ [Vइष्णुधर्मोत्तरড়् ] [५८.१६] षष्टिर्वर्षसहस्राणि स्वर्गलोके महीयते ॥" इति. [Vइष्णुधर्मोत्तरড়् ] [५८.१७-१९] एतेषां च प्राकारतोरणमण्डपविग्रहशिलादीणां गृहदेवतास्वसंभवः श्रीवैखानससंहितासु प्रतिपादितः. प्रसङ्गादर्चकमहिमादीह कथ्यते. [अर्चकमाहात्म्यम्] [५८.२०] बृहन्नारदीये: "स कदाचिन्महापापो जन्तूनामन्तकोपमः ॥" [Bऋहन्नारदড়्] [५८.२१] इत्यारभ्य [५८.२२] "तस्योपवनमध्यस्थं रम्यं केशवमन्दिरम् । [५८.२३] छादितं हेमकवचैः दृष्ट्वा व्याधो मुदा ययौ ॥ [Bऋहन्नारदড়्] [५८.२४] हराम्यत्र सुवर्णानि बहूनीति स निश्चितः । [५८.२५] जगाम विष्णुभवनं कीनाशश्चौर्यलोलुपः ॥ [Bऋहन्नारदড়्] ------ ------ [५९.१] तत्रापश्यद्द्विजवरं शान्तं तत्त्वार्थकोविदम् । [५९.२] परिचर्यापरं विष्णोरुदङ्कं तपसां निधिम् ॥ [Bऋहन्नारदড়्] [५९.३] एकान्तिनं दयालुञ्च निस्स्पृहं ध्यानलोलुपम् । [५९.४] दृष्ट्वा तं लुब्धको मेने स्वकार्यस्यान्तरायिनम् ॥ [Bऋहन्नारदড়्] [५९.५] देवस्य द्रव्यजातन् तु समादातुमना निशि ॥" [Bऋहन्नारदড়्] [५९.६-७] इत्यादिनापृथगालयार्चकसद्भावादिकमुक्त्वा स्वकार्यान्तराय भूतार्चकहिंसायां प्रवृत्तस्य तस्य मरणमपि प्रतिपाद्य. [विष्णुपादोदकमाहात्म्यम्] [५९.८] "उदङ्कः पतितं प्रेक्ष्य लुब्धकन्तु दयापरः । [५९.९] विष्णुपादोदकेनैनमभ्यषिञ्चन्महामुनिः ॥ [५९.१०] हरिपादोदकस्पर्शाल्लुब्धको वीतकल्मषः । [५९.११] दिव्यं विमानमारुह्य मुनिमेनमथाब्रवीत् ॥" [५९.१२] इति भगवत्पादोदकमाहात्म्यं च प्रतिपादितम्. [५९.१३] तत्रैव - यज्ञध्वजवीतिहोत्रसंवादे: [आलये दीपस्थापनादेः फलम्] [५९.१४] "स कदाचित्तु कामान्धो रन्तुकामः परस्त्रियम् । [५९.१५] शून्यं पूजादिभिर्विष्णोर्मन्दिरं प्राप्तवान्निशि ॥ [५९.१६] तत्र कामोपभोगार्थं शयितुं तेन कामिना । [५९.१७] स्ववस्त्रप्रान्ततो ब्रह्मन् कृतं तद्देशमार्जनम् ॥ [५९.१८] यावन्तः पांसुकणिकाः तेन सम्मार्जितास्तदा । [५९.१९] तावज्जन्मकृतं पापं तदैव क्षयमागतम् ॥ [५९.२०] प्रदीपः स्थापितस्तत्र सुरतार्थं द्विजोत्तम । [५९.२१] तेनापि तस्य दुष्कर्म निश्शेषं क्षयमागतम् ॥ [५९.२२] अवशेनापि यत्कर्म कृत्वेमां सिद्धिमागतः । [५९.२३] भक्तिमद्भिः प्रशान्तैश्च किं पुनस्सम्यगर्चनात् ॥ [आलयप्रदक्षिणफलम्] [६०.१] तस्माच्छ्रुणुत विप्रेन्द्राः देवो नारायणोऽव्ययः । [६०.२] ज्ञानतोऽज्ञानतो वापि पूजकानां विमुक्तिदः ॥" [६०.३] तथा तत्रैव - इन्द्रसुधर्मसंवादे: [६०.४] "अहमासं पुरा शक्र गृध्रः पापावशेषतः । [६०.५] स्थितश्च भूमिभागे वै अमेध्यामिषभोजनः ॥ [६०.६] एकदाहं विष्णुगृहे प्राकारे संस्थितः प्रभोः । [६०.७] पतितो व्याधशस्त्रेण सायं विष्णुगृहं गते ॥ [६०.८] मयि कण्ठगतप्राणे कश्चित्श्वा मांसलोलुपः । [६०.९] जग्रह मां स्ववक्त्रेण श्वभिरन्यैरभिद्रुतः ॥ [६०.१०] गतः प्रदक्षिणाकारं विष्णोस्तन्मन्दिरं प्रभोः । [६०.११] तेनैव तुष्टिमापन्नः अन्तरात्मा जगन्मयः ॥ [६०.१२] मम चापि शुनश्चापि दत्तवान् परमं पदम् । [६०.१३] प्रदक्षिणाकारतबिस्हिएर्नोछ्टेलुगु वेर्ग्लेइछेन्या गतस्य सदृशं फलम् ॥ [६०.१४] सम्प्राप्तं तु मया शक्र किं पुनस्सम्यगर्चनात् । [६०.१५] येऽर्चयन्ति सदा भक्त्या नारायणमनामयम् । [६०.१६] तानर्चयन्ति विबुधा ब्रह्माद्या देवतागणाः ॥" इति [अमेध्यानि पञ्च] [६०.१७] एवमाश्वमेधिके: "लोके त्रीण्यपवित्राणि पञ्चामेध्यानि भारत । [ंBह्१३, आप्प्. ४.३२४९] [६०.१८] श्वा च शूद्रश्श्वपाकश्च त्र्यपवित्राणि पाण्डव । [ंBह्१३, आप्प्. ४.३२५०] [६०.१९] देवलः कुक्कुटो यूपः उदक्या वृषलीपतिः ॥" [ंBह्१३, आप्प्. ४.३२५१] [६०.२०] पञ्चमेध्यानि इति. [भगवत्पूजाद्यनधिकारिणः] [६०.२१] श्रीवैखानसे: "सूतादिप्रतिलोमाश्च पाषण्डाः पतितास्तथा । [६०.२२] नास्तिका भिन्नमर्यादास्तथा वेदविदूषकाः ॥ [६०.२३] पापरोगयुताश्चैव तथैव गुरुनिन्दका । [६०.२४] अर्चनं देवदेवस्य हविर्दानञ्च वीक्षितुम् । [६१.१] नार्हन्ति तस्मात्कुर्वीत द्वारं यवनिकावृतम् ॥" [६१.२-३] इति प्रतिपादनात्भगवदर्चनदर्शनादिषु योग्यतारहितानां निकृष्टानां (देवलकानां) औत्कृष्ट्यं न सम्भवति. [अद्वारकभगवद्याजिनामुत्कृष्टत्वम्] [६१.४-६] श्रुतिस्मृतिपुराणादिषूक्तप्रकारेण कल्पसूत्रे येषामद्वारकभगवद्यजनाधिकारो विधीयते ते उत्कृष्टा ज्ञेयाः. यथा श्रुतिः: "यथा क्रतुरस्मिन् लोके भवति तथेतः प्रेत्य भवति" इति. [६१.७] स्मृतिश्च: "वेदोक्तेनैव भार्गेण सर्वभूतहृदि स्थितम् । [६१.८] मामर्चयन्ति ये भक्तास्सायुज्यं यान्ति ते मम ॥ [६१.९] तस्माद्यावज्जनो जीवेत्तावत्सम्पूजयेद्धरिम् । [६१.१०] पापैर्न लिप्यते मर्त्यो हरिमन्दिरमाप्नुयात् ॥ [६१.११] जगत्पवित्रास्ते नित्यं विष्णुमभ्यर्चयन्ति ये । [६१.१२] दुर्वृत्ता वा सुवृत्ता वा पूजनीया विशेषतः ॥" [वैखानसानां भगवत्प्रीतिपात्रत्वम्] [६१.१३-१६] व्यासेनपि आनुशासनिके (९०. अध्याये) पात्रकथनावसरे देवलकानामपात्रतां सत्कर्मनिष्ठानां पात्रताञ्च प्रतिपाद्य स्ववचनदृढीकरणार्थं "वैखानसा वा ऋषय इन्द्रस्य प्रिया आसन्" इति भगवत्प्रीतिविषयाणां वैखानसानां वचनमपि श्रूयते इति प्रतिपादितम्. यथा: [६१.१७] "ऋषीणां समयं नित्यं ये रक्षन्ति युधिष्ठिर । [६१.१८] निश्चिताः सर्वधर्मज्ञास्तान् देवा ब्राह्मणान् विदुः ॥ [ंB.ह्१३.९.४२] [६१.१९] स्वाध्यायनिष्ठा ऋषयो ज्ञाननिष्ठास्तथैव च । [६१.२०] तपोनिष्ठाश्च बोद्धव्याः कर्मनिष्ठाश्च भारत ॥ [ंBह्१३.९.४३] [६१.२१] कव्यानि ज्ञाननिष्ठेभ्यः प्रतिष्ठाप्यानि भारत । [६१.२२] तत्र ये ब्राह्मणान् के चिन्न च निन्दन्ति ते वराः ॥ [ंBह्१३.९.४४] [६१.२३] ये तु निन्दन्ति जल्पेषु न ताञ्श्राद्धेषु भोजयेत् । [६१.२४] ब्राह्मणा निन्दिता राजन् हन्युस्त्रिपुरुषं कुलम् ॥ [ंBह्१३.९.४५] [६२.१] वैखानसानां वचनमृषीणां श्रूयते नृप । [६२.२] दूरादेव परीक्षेत ब्राह्मणान् वेदपारगान् । [६२.३] प्रियो वा यदि वा द्वेष्यः तेषु तच्छ्राद्धमावपेत् ॥ [ंBह्१३.९.४६] [६२.४] यः सहस्रं सहस्राणां भोजयेदनृचां नरः । [६२.५] एकस्तान्मन्त्रवित्पूतः सर्वानर्हति भारत ॥" [ंBह्१३.९.४७] [अष्टाक्षरादिमन्त्रजपनिष्ठानां महिमा] [६२.६-७] एवमष्टाक्षर द्वादशाक्षर पुरुषसूक्तादिमन्त्रजपनिष्ठानां दर्शनेन ब्रह्महाऽपि शुद्ध्यतीति पुराणोक्तम्. यथा: [६२.८] पद्मपुराणे: "साङ्गं समन्त्रं सन्यासं सर्षिच्छन्दोधिदैवतम् । [६२.९] सदीक्षाविधि सध्यानं सयन्त्रं द्वादशाक्षरम् ॥ [ড়द्म.ড়् ] [६२.१०] साष्टाक्षरञ्च मन्त्रेशं ये जपन्ति नरोत्तमाः । [६२.११] तान् दृष्ट्वा ब्रह्महा शुद्ध्येत्किं पुनर्वैष्णवस्स्वयम् ॥" इति [ড়द्मড়् ] [६२.१२-१४] श्रुयतेऽपि. "यो ह वै नारायणस्याष्टाक्षरं पदमध्येति अनुपब्रवस्सर्वमायुरेति विन्दते प्राजापत्यं रायस्पोषं गौपत्यं ततोऽमृतत्वमश्नुते ततोऽमृतत्वमश्नुत इति". [६२.१५] श्रीपाञ्चरात्रे कपिञ्जलसंहितायाम्: [६२.१६] "याजनाध्यापनयुतः शिष्यानुग्रहकारकः । [६२.१७] आचार्य इति विज्ञेयो मन्त्रतन्त्रपरायणः ॥ [Kअपिञ्जलष्] [६२.१८] आश्रमे वा वने वाऽपि स वैखानस उच्यते । [६२.१९] ग्राम्यधर्माणि सर्वाणि वर्जयेद्वनवासकः ॥" इति. [Kअपिञ्जलष्] [६२.२०] यमस्मृतौ: "योऽनुचानं द्विजं मर्त्यो हतवानर्थलोभतः । [६२.२१] स वदेत्पौरुषं सूक्तं जलस्थश्चिन्तयेद्धरिम् ॥" [६२.२२-२४] इति केवलाष्टाक्षरमन्त्रजपनिष्ठानामप्येवं विधाः प्रभावाः श्रूयन्त इति चेत्श्रुतिस्मृतिविहितैस्तैरेव मन्त्रैः अद्वारकभगवदर्चने मुख्यादिकारिणां वैखानसानां कैमुतिकन्यायसिद्धमौत्कृष्ट्यं केनापोदितुं शक्यम्. [देवलकनिरूपणम्] [६३.१-३] किञ्च - यथा वैखानसानामुत्पत्त्यादिकं श्रुतिस्मृतिपुराणादिषु विशेषेण प्रतिपादितं तथा इतरेषां विशेषेण प्रतिपादितञ्चेत्तदा वैखानससाम्यमितरेषां स्यात्. तथा न दृश्यते हि. [६३.४] अथ वस्तुतो देवलका निरूप्यन्ते. [६३.५] वैखानसे: "अवैखानसविप्रो यः पूजयेदालये हरिम् । [६३.६] स वै देवलको नाम हव्यकव्यबहिष्कृतः ॥ [६३.७] वैखानसकुले जातः पाञ्चरात्रेण दीक्षितः । [६३.८] न दीक्षितो न सञ्जातो (?) लोभान्मोहान्मदर्चनम् । [६३.९] कुर्याच्चेत्तु विशेषेण भवेद्देवलकस्तो सः ॥" [देवलकत्रैविद्यम्] [६३.१०] पाञ्चरात्रे संकर्षणसंहितायाम्: "कर्मदेवलकाः केचित्कल्पदेवलकाः परे । [६३.११] शुद्धदेवलकाश्चान्ये त्रिधा देवलकाः स्मृताः ॥ [षङ्कर्षणसंहिता.] [कर्मदेवलकलक्षणम्] [६३.१२] अर्थार्थी कालनिर्देशी यो देवं पूजयेत्स हि । [६३.१३] कर्मदेवलको नाम सर्वकर्मबहिष्कृतः ॥ [षङ्कर्षणसंहिता.] [६३.१४] पाञ्चरात्रविधानज्ञो दीक्षाविरहितोऽर्चकः । [६३.१५] चतुर्वेदाधिकारोऽपि कल्पदेवलकः स्मृतः ॥ [षङ्कर्षणसंहिता.] [६३.१६] आगमोक्तविधानज्ञो भद्रकाल्युपजीवकः । [६३.१७] शुद्धदेवलकः प्रोक्तः सर्वकर्मबहिष्कृतः ॥ [षङ्कर्षणसंहिता.] [६३.१८] आर्षोक्तेन विधानेन देवलत्वं न विद्यते । [६३.१९] तस्मात्सर्वप्रयत्नेन वैदिकेनैव पूजयेत् ॥" इति [षङ्कर्षणसंहिता] [६३.२०] शिवशेखरतन्त्रे - रुद्रः: [६३.२१] "अथ देवलकान् वक्ष्ये शृणु देवि समाहिता । [६३.२२] कर्मदेवलकाः केचित्कल्पदेवलकाः परे ॥ [शिवशेखरतन्त्र] [६३.२३] शुद्धदेवलकास्त्वन्ये त्रिधा देवलकास्मृताः । [६३.२४] अन्यसूत्रोक्तमार्गेण यस्संवत्सरपूजकः ॥ [शिवशेखरतन्त्र] [कल्पदेवलकलक्षणम्] [६४.१] अदीक्षितः स्वयं तन्त्रे कर्मदेवलकस्तु सः । [६४.२] अनेनैव प्रकारेण वत्सरत्र्यपूजकः । [६४.३] कल्पदेवलकः प्रोक्तः स वै शैलसुते ध्रुवम् ॥ [शिवशेखरतन्त्र] [शुद्धदेवलकलक्षणम्] [६४.४] अननुज्ञातमाचार्यातागमं शुश्रुवे च यः । [६४.५] शीलतः तस्य शिष्यश्च शुद्धदेवलकावुभौ ॥ [शिवशेखरतन्त्र] [त्रिविधस्यापि देवलकत्वस्य रुद्रादिविषयकता] [६४.६] त्रिधा देवलकत्वं तु न विष्णुविषये क्वचित् । [६४.७] रुद्रकाल्यादिविषयमेतदागमसंमतम् ॥" इति [शिवशेखरतन्त्र] [६४.८] स्मृत्यन्तरे: "शर्वं सूर्यं तथा चन्द्रं दुर्गादी रुद्रदेवताः । [६४.९] योऽर्चयेत्पणपूर्वं सः सद्यः पतति मानवः ॥ [६४.१०] दुर्गा च भद्रकाली च बुद्धश्च क्षेत्रपालकः । [६४.११] पञ्चपूजा च इत्येते पञ्चदेवलकाः स्मृताः ॥ [६४.१२] आदित्यमम्बिकां विष्णुं गणनाथं महेश्वरम् । [६४.१३] गृहे पूजा च इत्येते पञ्चदेवलकाः स्मृताः (?) ॥" इति [६४.१४] विष्णुधर्मोत्तरे: "चण्डिकायाश्च दुर्गाया ज्येष्टाया भैरवस्य च । [६४.१५] रुद्रस्य पूजका ये वै ते वै देवलकाः स्मृताः ॥" इति [Vइष्णुधर्मोत्तरড়् ] [६४.१६] विष्णु: "देवार्चनपरो योऽपि परार्थं वित्तकाङ्क्षया । [६४.१७] चतुर्वेदधरो विप्रः स चण्डालसमो भवेद् ॥" इति [Vइष्णुড়् ] [६४.१८-१९] एवमेभिर्वचनैः शास्त्राननुमतमार्गेण पूजकानां देवतान्तरपूजकानामेव च देवलकत्वं सिद्ध्यतीति स्फुटमवगम्यते. [६४.२०] किञ्च: "वृषो धर्मस्समाख्यतः तस्य यः कुरुते लयम् । [६४.२१] वृषलं तं विदुर्देवा निकृष्टं श्वपचादपि ॥" [देवलकशब्दनिर्वचनम्] [६४.२२-६५.२] इति वृषलशब्दो यथा वेदशास्त्रोक्तमार्गलयकारके व्युत्पादितः, तथा देवलक्शब्दोऽपि "दिव्क्रीडाविजिगीषाव्यवहारद्युतिस्तुतिमोदमदस्वप्नकान्तिगतिष्व्" इति धात्वर्थानुसारेण गत्यपरपर्यायमार्गार्थकदिव्धातुघटितस्सन् वेदोक्तमार्गलयप्रापके व्युत्पादयितुं शक्यते इति तत्प्रतीपेषु वेदमार्गप्रतिष्ठापकेषु वैखानसेषु न सर्वात्मना प्रवर्तते. तथा च: [६५.३] हारीतः: "वैखानसास्तु ये विप्रा हरिपूजनतत्पराः । [६५.४] न ते देवलकाः प्रोक्ता विष्णुपादाब्जसंश्रयात् ॥" इति [Vऋद्धहारीत ८.७८] [वैखानसानं देवलकशब्दवाच्यत्वाभावः] [६५.५] स्मृत्यर्थसारे: अत्रि: "वैदिकेनैव विधिना दम्भलोभविवर्जितः । [६५.६] पूजयेद्भक्तितो विष्णुं स हि देवलको न वै ॥" इति [६५.७-८] अन्यथा श्रुत्युक्तमार्गेणालयार्चकानामपि देवलकत्वे तादृशालयार्चनप्रतिपादकानां श्रुतिस्मृतिपुराणादिवचनानां व्यर्थता स्यात्. [६५.९-१०] ननु - अज्ञानतः कृतमपि भगवदाराधनमपवर्गप्रदञ्चेत्. विना शास्त्रमनधिकारिणापि कृतं ततपवर्गप्रदं किं न स्यादिति चेत्. न. भगवदाज्ञाभङ्गापत्तेः. [६५.११] यथोक्तं भगवता: "यश्शास्त्रविधिमुत्सृज्य वर्तते कामकारतः । [६५.१२] न स सिद्धिमवाप्नोति न सुखं न परां गतिम् ॥" इति [ंBह्६.३८.२३] [६५.१३] "श्रुतिस्मृती ममैवाज्ञा यस्तामुल्लङ्घ्य वर्तते । [६५.१४] आज्ञाच्छेदी मम द्रोही मद्भक्तोऽपि न वैष्णवः ॥" इति [६५.१५] "मम चापि प्रियं विष्णोर्देवदेवस्य शार्ङ्गिणः । [६५.१६] मानुषो वैदिकाचारं मनसाऽपि न लङ्घयेत् ॥" इति [६५.१७-१८] अतः अनधिकारिणा कृतं शास्त्रासम्मतमिति तन्त्रोक्तप्रकारेण कृतमपि तत्नापवर्गप्रदम्. [६५.१९] ननु: "ब्राह्मणैः क्षत्रियैः वैश्यैः शूद्रैश्च कृतलक्षणैः । [६५.२०] अर्चनीयश्च सेव्यश्च पूजनीयश्च माधवः । [६५.२१] सात्त्वतं विधिमास्थाय गीतः सङ्गर्षणेन यः ॥" [तन्त्रानुसारिपूजायाः अपवर्गप्रदत्वाभावः] [६५.२२-२४] इति शूद्रादीनामपि पाञ्चरात्रोक्तमार्गेणार्चने अधिकारे सिद्धे कथं तान्त्रिकोक्तप्रकारेणार्चनं कुर्वतः ब्राह्मणादेः (अनधिकारिणः) ततपवर्गप्रदं न भवतीत्युच्यत इति चेदुच्यते. [चतुर्विधतन्त्रेषु एकत्र दीक्षितस्य तन्त्रान्तरेऽनधिकारः] [६६.१] "प्रथमं मन्त्रसिद्धान्तं द्वितीयञ्चागमाह्वयम् । [ড়ाद्मष्चर्यापाद १९.११२ द्] [६६.२] तृतीयं तन्त्रसिद्धान्तं तन्त्रान्तरमतः परम् ॥" [ড়ाद्मष्चर्यापाद १९.११३ ब्] [६६.३] इति चतुर्विधेषु सिद्धान्तेषु [६६.४] "एकत्र दीक्षितस्तन्त्रे सिद्धान्ते वा द्विजोत्तम । [६६.५] क्रियां न कुर्यादन्यत्र कर्षणादि चतुर्मुख ॥ [ড়ाद्म.ष्चर्यापाद १९.१३१] [६६.६] आचार्यकमथार्त्विज्यं पूजाञ्च मधुविद्विषः । [६६.७] मन्त्रे देवे च सिद्धान्ते तदेवास्य हि युज्यते ॥" [ড়ाद्मष्चर्यापाद १९.१३२] [६६.८] इति चतुर्विधतन्त्रेषु एकत्र दीक्षितस्य तन्त्रान्तरे प्रवेशयोग्यताभावस्य प्रतिपादनात्. [६६.९] "एकगोत्रसमुत्पन्नं पञ्चगोत्रं पृथक्पृथक् । इत्यारभ्य [६६.१०] सूत्रं कात्यायनं शाखां याजुषं शुक्लमेव च ॥ [६६.११] औपगायनशाण्डिल्यौ भारद्वाजोऽथ गौतमः । [६६.१२] मौञ्जायनिस्तु पञ्चैते पाञ्चरात्राधिकारिणः ॥" [६६.१३] इत्यधिकारिभेदस्य विधीयमानत्वात्. [आपस्तम्बादिसूत्रसंस्कृतस्य पाञ्चरात्रोक्तसंस्कारयोग्यताभावः] [६६.१४] "चतुर्णामपि वर्णानामितरेषाञ्च तद्भुवाम् । [६६.१५] दीक्षा समैव सर्वेषामाचारस्तन्त्रवर्त्मना ॥" [ড়ाद्मष्चर्यापाद २१.५५] [तन्त्रोक्तप्रकारेण दीक्षितानामेव तन्त्रोक्तार्चनायामधिकारः] [६६.१६-१८] इत्यापस्तम्बादिसूत्रैः संस्कृतस्य पाञ्चरात्रोक्तमार्गेण निषेकादिसंस्कारयोग्यताभवकथनात्. तान्त्रिकोक्तप्रकारेण दीक्षितानामेव तन्त्रोक्तार्चनायामधिकारित्व सम्भवात्. [परधर्मानुष्ठातुः पतितत्वादि] [६६.१९] "स्वसूत्रे वर्तमाने तु परसूत्रेण वर्तते । [६६.२०] अप्रमाणमृषिं कृत्वा सोऽन्धे तमसि मज्जति ॥" [६६.२१] "स्वकीयधर्ममुत्सृज्य परधर्मं य आश्रयेत् । [६६.२२] पतितस्स भवेदाशु सद्य एव न संशयः ॥" [६६.२३] "स्वसूत्रस्य परित्यागात्परसूत्रसमाश्रयात् । [६६.२४] सद्यः पतति वै विप्रो न वेदस्य समाश्रये ॥" [६७.१] "शाखां शिखां तथा पुण्ड्रं समयाचारमेव च । [६७.२] पूर्वैराचरितं कुर्यादन्यथा पतितो भवेत् ॥" [६७.३] "यस्स्वशाखां परित्यज्य परशाखासु वर्तते । [६७.४] शाखारण्डस्स विज्ञेयस्सर्वकर्मबहिष्कृतः ॥" [आष्४.५९] [६७.५] "यस्स्वधर्मं परित्यज्य परधर्मं निषेवते । [६७.६] पाषण्डिनं तमाहुर्वै निकृष्टं श्वपचादपि ॥" इति. [६७.७] भगवान्: "श्रेयान् स्वधर्मो विगुणः परधर्मात्स्वनुष्ठितात् । [६७.८] स्वधर्मे निधनं श्रेयः परधर्मो भयावहः ॥" इति. [ंBह्६.२५.३५] [६७.९] व्यास: "स्वधर्मं यस्समुत्सृज्य परधर्मं समाश्रयेत् । [६७.१०] अनापदि स विद्वद्भिः पतितः परिकीर्तितः ॥" [६७.११-१२] इत्यादिभिश्च वचनैः परधर्मानुष्ठातुः पतितत्वादिस्मरणाच्च अन्यसूत्रोक्तप्रकारेण तान्त्रिकोक्तेन मार्गेण वा बाह्मणादिभिरपि अनधिकारिभिः भगवदाराधनं कर्तुं न शक्यते. [शूद्रस्य पूजायामनधिकारः] [६७.१३] तर्हि "ब्राह्मणैः क्षत्रियैर्वैश्यैः" इत्यादि भारतवचनस्य का गतिरिति चेत्- उच्यते. [६७.१४] माधवाः: मुख्यत्वेन अद्वारकभगवद्यजनाधिकारित्वेन निरूपितैः ब्राह्मणैः पूजनीयः. [६७.१५-१६] इतरैः क्षत्रियैर्वैश्यैश्चार्चनीयः. शूद्रैः स्त्रीभिश्च यथार्हमिज्यस्सेव्यश्च इति तस्य वचनस्यार्थः. [६७.१७] "... शूद्रैः स्त्रीभिस्तथेतरैः । [६७.१८] यथार्हमिज्यस्सेव्यश्च नित्यं सर्वेश्वरो हरिः ॥" [६७.१९-२२] इति भारद्वाजवचनात्"अर्घ्यान्तमर्चनं प्रोक्तं हविरन्तञ्च पूजनम् ॥" इत्यर्चनपूजनयोः भिन्नार्थकत्वप्रतिपादनात्, सर्वैरेकरीत्या पूजनेऽभिमते एकपदस्यैव पर्याप्तत्वातितरयोः पदयोर्वैयर्थ्यापाताच्च. अन्यथा शूद्रस्यापि पूजार्चनादिष्वधिकाराङ्गीकारे श्रुतिस्मृतिसूत्रपुराणादिविरोधो भवेत्. [६७.२३-२५] शूद्रस्यानधिकारप्रतिपादकानि वचनानि चैतानि. श्रुति "तस्माच्छूद्रो यज्ञेऽनवकॢप्तः. स हि देवता अन्वसृजत तस्माच्छूद्रो बहुपशुरयज्ञीयो दैव" इति. [६८.१] स्मृति: "जपस्तपस्तीर्थसेवा प्रव्रज्या मन्त्रसाधनम् । [६८.२] देवताराधनञ्चैव स्त्रीशूद्रपतितानि षट् ॥" इति [शूद्रस्यद्विजशुश्रूषैव धर्मः] [६८.३] श्रीभागवते: "शुश्रूषणं द्विजगवां देवानाञ्चाप्यमायया । [६८.४] तत्र लब्धेन सन्तोषः शूद्रप्रकृतयस्त्विमाः ॥" इति [भागवतपुराण ११.१७.१९] [६८.५] मनौ: "ब्राह्मणस्य तपो ज्ञानं तपः क्षत्रस्य रक्षणम् । [६८.६] वैश्यस्य तु तपो वार्ता तपश्शूद्रस्य सेवनम् ॥" इति [ंनुढ्श्११.२३५] [६८.७] अन्यत्र: "यदि शूद्रस्तपः कुर्याद्वेददृष्टेन वर्त्मना । [६८.८] इह चास्य परिक्लेशः प्रेत्य चास्याशुभा गतिः ॥" इति. [६८.९-११] किमर्थं शूद्रस्य द्विजशुश्रूषा सर्वदा अभिहितेति चेत्- उच्यते. जन्मान्तरीयकर्मवशात्जननकालेऽपि तमोगुणैरभिभूतस्य तस्य शूद्रस्य तमोनिरसनार्थं द्विजशुश्रूषणं ब्रह्मणा प्रयुक्तम्. [६८.१२] आश्वमेधिके: "उदिते सवितर्यस्य क्रियायुक्तस्य धीमतः । [ंBह्१४, आप्प्. ४.१६९०] [६८.१३] चतुर्वेदधरस्यापि देहे षड्वृषलाः स्थिताः ॥ [ंBह्१४, आप्प्. ४.१६९१] [६८.१४] क्षत्रिये सप्त विज्ञेया वैश्ये त्वष्टौ प्रकीर्तिताः । [ंBह्१४, आप्प्. ४.१६९२] [६८.१५] नियताः पाण्डवश्रेष्ठ शूद्रेऽष्टाविंशतिः खलु ॥" इत्यारभ्य [ंBह्१४, आप्प्. ४.१६९३] [६८.१६] "रागद्वेषौ च मोहश्च पारुष्यञ्च नृशंसता । [ंBह्१४, आप्प्. ४.३३४०] [६८.१७] शाठ्यञ्च दीर्घवैरञ्च अतिमानमनार्जवम् ॥ [ंBह्१४, आप्प्. ४.३३४१] [६८.१८] अनृतञ्चापवादश्च पैशुन्यमतिलोभता । [ंBह्१४, आप्प्. ४.३३४२] [६८.१९] हिंसा स्तेयं मृषावादो वञ्चना रोषलोभते ॥ [ंBह्१४, आप्प्. ४.३३४३] [६८.२०] अबुद्धता च नास्तिक्यं भयमालस्यमेव च । [ंBह्१४, आप्प्. ४.३३४४] [६८.२१] अशौचञ्चाकृतज्ञत्वं दम्भता स्तम्भ एव च ॥ [ंBह्१४, आप्प्. ४.३३४५] [६८.२२] निष्कृतेश्चाप्यविज्ञानं जनने शूद्रमाविशन् । [ंBह्१४, आप्प्. ४.३३४६] [६८.२३] दृष्ट्वा पितामहः शूद्रमभिभूतन् तु तामसैः ॥ [ंBह्१४, आप्प्. ४.३३४७] [६८.२४] द्विजशुश्रूषणं धर्मं शूद्राणान् तु प्रयुक्तवान् । [ंBह्१४, आप्प्. ४.३३४८] [६८.२५] नश्यन्ति तामसा भावाः शूद्रस्य द्विजभक्तितः ॥" इति. [ंBह्१४, आप्प्. ४.३३४९] [वैखानसेतरसूत्रिणां भगवदाराधनप्रकारः] [६९.१] अतः तमोगुणाभिभूतस्य शूद्रस्य भगवद्यजनाधिकारो नास्त्येव. [६९.२-७] नन्वेषां शौनकाद्युक्तप्रकारेण भगवदाराधनेऽधिकारो भवेदिति चेत्- तदसत्. तत्र अधिकारिविशेषप्रतिपादनाभवात्; सामान्येनोक्तत्वेऽपि श्रुतिस्मृतिसूत्रपुराणमहाभारतवैखानसपाञ्चरात्रशैवशिल्पज्यौतिषादिषु अधिकारिणां विशिष्य प्रतिपादितत्वात्सर्वशाखाप्रत्ययन्यायेन सामान्यविशेषन्यायेन "मत्प्रकरणाधीतं सर्वं मदर्थम्" इति न्यायेन प्रकरणसाम्येन, उपास्य देवतैक्यात्गुणोपसंहारन्यायेन च शौनकादिभिरुक्तार्चनाविधेरपि अत्रैव पर्यवसानं युक्तम्. [६९.८-९] इतरसूत्रिणां कथमिति चेत्- स्वाश्रमधर्माचरणेनैव भगवदाराधनफलं सिद्ध्यति. यथोच्यते: [६९.१०] स्मृतिषु: "बह्वल्पं वा स्वगृह्योक्तं यस्य कर्म प्रचोदितम् । [६९.११] तस्य तावति शास्त्रार्थे कृते सर्वं कृतं भवेत् ॥" इति [६९.१२] श्रीविष्णुपुराणे: "वर्णाश्रमाचारवता पुरुषेण परः पुमान् । [६९.१३] विष्णुराराध्यते पन्था नान्यस्तत्तोषकारकः ॥" [Vइष्णुড়् २.८.९] [६९.१४] तथान्यत्र: "वर्णाश्रमेषु ये धर्माः शास्त्रोक्ता मुनिसत्तम । [६९.१५] तेषु तिष्ठन्नरो विष्णुमाराधयति नान्यथा ॥ [Vइष्णुড়् ३.८.१९.१-२?] [६९.१६] ये यजन्ति पितॄन् देवान् ब्राह्मणांश्च हुताशनम् । [६९.१७] सर्वभूतान्तरात्मानं विष्णुमेव यजन्ति ते ॥" इति [६९.१८] पुराणान्तरे: "अग्निकार्यं जपं स्नानं तपस्स्वाध्यायमेव च । [६९.१९] तमेवोद्दिश्य देवेशं कुरु नित्यमतन्द्रितः ॥ [६९.२०] प्रातरुत्थाय विधिवत्स्नात्वा नित्यं समाहितः । [६९.२१] यजेत्कर्मभिस्तैस्तैः विष्णुं देवादिसंज्ञितम् ॥" [७०.१] शाण्डिल्य:"प्रकृत्तैश्च निवृत्तैश्च स्वर्गदैर्मोक्षदैरपि । [७०.२] आराध्यो भगवानेव वेदधर्मैस्सनातनैः ॥ [शाण्डिल्यस्मृति.] [७०.३] स एव सर्वथोपास्यो नान्यस्संसारतारकः । [७०.४] उभाभ्यां ज्ञानकर्मभ्यामाराध्यो भगवान् हरिः ॥" इति [शाण्डिल्यस्मृति] [७०.५] शान्तिपर्वणि: "स्वयम्भूविहितो धर्मो यो यस्य हि नरेश्वर । [ंBह्१४, आप्प्. ४.२२२] [७०.६] स तेन क्षपयेत्पापं सम्यगाचरितेन हि ॥" इति [ंBह्१४, आप्प्. ४.२२३] [७०.७] पाद्मे: "धर्मान्निजांश्च शास्त्रोक्तान् वर्णधर्मानशेषतः । [७०.८] पालयन्तीह ये वैश्या न ते यान्ति यमालयम् ॥" इति [ড়द्मড়् ] [७०.९] स्मृत्यन्तरे: "श्रुतिस्मृतिसदाचारविहितं कर्म यस्सदा । [७०.१०] स्वस्वधर्मं प्रयत्नेन श्रेयोऽर्थीह समाश्रयेत् ॥" [७०.११-१२] "नान्यः पन्था विद्यतेऽयनाये"ऽति "ब्राह्मणा विविदशन्ति यज्ञेन दानेन तपसानाशकेन" इति च श्रुतिरिममर्थं द्रढयन्ति. [७०.१३-१५] अतः अद्वारकभगवद्यजनाधिकारिभिः श्रीमद्वैखानससूत्रिभिस्साम्यं केषाञ्चिदपि नोपपद्यते इति कृतं पल्लवितेन. एतावता "अखिलजगत्कारणभूतेन विखनसा प्रणीतत्वात्" इति प्रथमो हेतुः निरूपितः. [७०.१६] इति प्रथमहेतुनिरूपणम् [७१.१] अथ द्वितीयहेतुनिरूपणम् [७१.२] अथास्य वैखानससूत्रस्य सर्वसूत्राणामादित्वं निरूप्यते. तथा हि: [वैखानससूत्रस्य सर्वसूत्रापेक्षया आदित्वम्] [७१.३] ब्रह्मकैवर्ते: " यथा मुनीनां विखना आदिभूत उदाहृतः । [७१.४] सूत्राणां तत्प्रणीतन् तु तथा श्रेष्टतमं स्मृतम् ॥" इति [Bरह्मकैवर्तড়् ] [७१.५] पुरातन्त्रे भृगु: "वेदानां व्यासनादर्वाक्प्राग्रूपं मिलितन् तु यत् । [७१.६] तान् तु वैखानसीं शाखामिति वेदविदो विदुः ॥" इत्यारभ्य [ড়ुरातन्त्र] [७१.७] "वैष्णवं सूत्रमेतद्धि सर्वसिद्धिकरं परम् । [७१.८] आद्यत्वात्सर्वसूत्राणां वैष्णवत्वाच्च तत्तु वै ॥ [ড়ुरातन्त्र] [७१.९] मयानुवर्तितं तद्वत्काश्यपात्रिमरीचिभिः ॥" इति [ড়ुरातन्त्र] [७१.१०] स्कान्दे च: "वैखानसीं महाशाखां स्वसूत्रे विनियुक्तवान् । [७१.११] पद्मभूः परमो धाता तस्मिन्नाराधनत्रयम् ॥ [७१.१२] उक्तवान्निगमार्थानामाचारं प्रविभागशः ॥" इति [ष्कन्दড়् ] [आदौ चतुरश्रस्य रविमण्डलस्य कालान्तरे वर्तुलत्वम्] [७१.१३-१४] सूत्रार्थपर्यालोचनयापि सर्वसूत्रादित्वमस्यावगम्यते. यथा -"मुख्यादिन्द्रश्चाग्निश्चे" ति भगवन्मुखादग्निसृष्टिः श्रूयते. तथा: [७१.१५] आश्वमेधिके - भगवद्वचनम्: [७१.१६] "प्रथमं मन्मुखात्सृष्टो लोकार्थे पचनः प्रभुः । [ंBह्१४, आप्प्. ४.२५७२] [७१.१७] सृष्टमात्रो जगत्सर्वमत्तुमैच्छत्पुरा खलु ॥ [ंBह्१४, आप्प्. ४.२५७३] [७१.१८] ततः प्रशमितस्सोऽयमुपासीनो मया पुरा । [ंBह्१४, आप्प्. ४.२५७४] [७१.१९] सततोपासनात्सोऽयमौपासन इति स्मृतः ॥" इति [ंBह्१४, आप्प्. ४.२५७५] [७१.२०-२१] एवं परमपुरुषमुखाज्जातस्यौपासनाग्नेः कुण्डविधानादिकमत्रैव सूत्रे प्रतिपादितम्. [७१.२२-२४] किञ्च नवग्रहमखे सवितृमण्डलस्य चतुरश्रत्वमुच्यते "चतुरश्रं वृत्तमित्यादिना (सूत्रे). आदौ चतुरश्रस्य सतो रविमण्डलस्य कालान्तरे वृत्तत्वकल्पनं प्रमाणैरवगम्यते. यथा: [७२.१] विष्णुपुराणे: "तेजसश्शमनञ्चास्य विश्वकर्मा चकार ह । [७२.२] भ्रमिमारोप्य सूर्यन् तु तस्य तेजोऽवशातनम् ॥ [Vइष्णु.ড়् ] [७२.३] कृतवानष्टमं भागं स व्यशातयदव्ययम् । [७२.४] यत्सूर्याद्वैष्णवं तेजश्शातितं विश्वकर्मणा ॥ [Vइष्णु.ড়् ] [७२.५] जाज्ज्वल्यमानमपतत्तद्भूमौ मुनिसत्तम ॥"इति [Vइष्णुড়् ] [७२.६] एवं च सूर्यसावर्णिकमन्वन्तरमारभ्य रविमण्डलस्य वृत्ताकारप्रतीतिः. [७२.७-८] तदनुसारेण बोधायनादिभिः वृत्ताकारत्वं रविममण्डलस्योक्तम्. ततः पूर्वं चतुरश्रत्वं व. तदेवास्मिन् सूत्रे प्रतिपादितम्. [७२.९-१०] एवं "वानप्रस्थो वैखानशास्त्रसमुदाचारो वैखानस" इति वैखानससूत्रमनुस्मृत्य तृतीयाश्रमधर्मान् बोधायनः प्रतिपादयति. [ढ्ष्२.६.११.१४] [७२.११-१७] तथा आग्निवैश्यसूत्रे "अथातस्सूत्रगणनां व्याख्यास्यामः. बोधायनमापस्तम्बं सत्याषाठं द्राह्यायणमागस्त्यं शाकल्यमाश्वलायनं शाम्भवीयं कात्यायनमिति नवानि पूर्वसूत्राणि. वैखानसं शौनकीयं भारद्वाजमाग्निवैश्यं जैमिनीयं वाधूलं माध्यन्दिनं हिरण्यकेशीयं कौषीतकमिति नवान्यपरसूत्राणि. एवमष्टादशसूत्राण्यष्टादशसूत्रकाराश्च. एतानि चतुर्वेदमूलानि. पूर्वसूत्राणि शारीराणि सामान्यानि भवन्ति. उत्तरसूत्राणि वैखानसादीनि विष्णुसंबन्धीनि दैविकानी" ति वैखानससूत्रस्यादित्वं वैष्णवत्वञ्चोच्यते. [७२.१८-१९] अस्य सूत्रस्याधिक्यं च "ये वैखानससूत्रेण संस्कृतास्द्विजातय" इत्यादिना पूर्वमेव प्रतिपादितम्. [७२.२०-२१] अतः सर्वसूत्राणामादिरिदं सूत्रमिति सिद्धम्. ततः सर्वसूत्रोत्तमत्वञ्चास्योपपद्यते इति निरूपितो द्वितीयो हेतुः. [७२.२२] इति द्वितीयहेतुनितूपणम्. [तृतीयहेतुनिरूपणम्] [वैखानससूत्रस्य श्रुतिमार्गानुसारित्वम्] [७३.१-३] अथास्य श्रीवैखानससूत्रस्य सूत्रान्तरापेक्षया वैलक्षण्यापादकं प्रत्यक्षश्रुतिमूलकत्वमस्तीति ज्ञापयितुं "सर्वकर्मसु श्रुतिमार्गानुसारित्वाद्" इति तृतीयो हेतुर्निरूप्यते. तथा हि: [शुद्धाचमनविधेः श्रौतत्वम्] [७३.४-९] शुद्धाचमनविधौ "यत्त्रिराचामति तेन ऋचः प्रीणाति" इत्यादि श्रुत्यनुसारेण सूत्रे "ऋग्वेदः प्रीणात्व्" इत्यादिना शुद्धाचमनमुक्तम्. ननु बोधायनेनापि शुद्धाचमनविधिरुक्त इति चेत्सत्यम्. "आचमनविधिं व्याख्यास्यामः" इत्यारभ्य "गोकर्णबद्धहस्तेन त्रिराचमेत्, प्रथमं यत्पिबति तेन ऋग्वेदं प्रीणाति यद्द्वितीयं तेन यजुर्वेदं यत्तृतीयं तेन सामवेदं प्रीणाती"त्याचमनेन ऋग्वेदादीनां प्रीतिर्भवतीत्युक्तम्. न तु मन्त्रः. [७३.१०-११] श्रुतिस्मृतिसूत्रविहितस्य सन्ध्योपासनस्य प्रधानभूतमर्घ्यप्रदानादिकमत्रैव प्रतिपादितम्. "प्रातस्सूर्यश्चेत्यादिनाचम्य आपो हिष्ठादिभिस्तिसृभिः प्रोक्ष्य [७३.१२] गायत्र्याऽपोऽभिमन्त्र्य आदित्याभिमुखं विक्षिप्य प्रदक्षिणं करोति" इत्यादि. [७३.१३-१७] बोधायनेनापि सन्ध्यावन्दनविधिरुक्तः इति चेत्नैवम्. "अथातस्सन्ध्योपासनविधिं व्याख्यास्यामः. तीरं गत्वाप्रयतोऽभिषिक्तः प्रयतो वा नाभिषिक्तः प्रक्षालिपादपाणिरप आचम्य सुरभिमत्या अब्लिङ्गाभिर्वारुणीभिः हिरण्यवर्णाभिः पावमानीभिः व्याहृतिभिरन्यैश्च पवित्रैरात्मानं प्रोक्ष्य प्रयतो भवति. अथाप्युदाहरन्ति." [ढ्ष्२.४.७.१-३] [७३.१८] "आपोऽवगाहनं स्नानं विहितं सार्ववर्णिकम् । [७३.१९] मन्त्रवत्प्रोक्षणञ्चैव द्विजानामवशिष्यते ॥" इति [ढ्ष्२.४.७.३-२] [७३.२०-७४.३] सर्वकर्मणाञ्चैवारम्भेषु प्राक्सन्ध्योपासनाकालाच्चैतेनैव पवित्रसमूहेनात्मानं प्रोक्ष्य प्रयतो भवति. अथाप्युदाहरन्ति. "दर्भेष्वासीनो दर्भान् धारयमाणः सोदकपाणिना प्रत्यङ्मुखः सावित्रीं सहस्रकृत्वः आवर्तयेत्. प्राणायामशो वा शतकृत्वः. त्रिभिश्च प्राणायामैः ततो (तान्तो) ब्रह्महृदयेन. वारुणीभ्यां रात्रिमुपतिष्ठते." इत्यादिना मार्जनादिकमुक्तम्. प्रधानभूतमर्घ्यप्रदानादिकमनुक्तम्. [ढ्ष्२.४.७.४-९] [श्रुत्युक्तो ब्रह्मयज्ञप्रकारः] [ब्रह्मवरणपूर्वकसोमवरणम्] [७४.४-९] ब्रह्मयज्ञः. तलवकारोपनिषदि "तस्या वा एष प्रथमः पादः ओं भूस्तत्सवितुर्वरेण्यमों भुवः भर्गो देवस्य धीमहि ओं सुवः धियो यो नः प्रचोदयातिति पच्छः, ओं भूर्भुवस्तत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि ओं सुवः धियो यो नः प्रचोदयातित्यर्धचशः, ओं भूर्भुवस्सुवस्तत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि धियो यो नः प्रचोदयातिति समस्ताञ्च सावित्रीं जप्त्वेति यथोदिष्टः, तथात्र सूत्रेऽपि उक्तोऽस्ति. [७४.१०-११] आघारादिषु सर्वमपि श्रौतवत्. अत्र ब्रह्मवरणानन्तरं सोमवरणमप्युक्तमस्ति. "सोमोऽस्माकं ब्राह्मणानां राजा - सोमराजानो ब्राह्मणा" इति. [७४.१२-१३] "विष्णुश्च वै सोमश्च ब्रह्मवाद्यमवदेतांऽअहं ब्राह्मणानां प्रतिष्ठेऽति विष्णुरब्रवीत्ऽअहं प्रतिष्ठेऽति सोमः. तौ प्रजापतिं प्रश्नमैतां सोऽब्रवीत्प्रजापतिः [७४.१४] ऽछन्दांसि विष्णुमधिगच्छन्ति, नक्षत्राणि सोमं. तावुभौ ब्रह्मण्याव्ऽ इति सोऽब्रवीत्. [७४.१५-१७] पूजितौ पूजयन्तौ स्तुतौ स्तुन्वन्तौ प्रियौ प्रियवन्तौ ब्रह्मण्यौ ब्रह्मवित्तौ ब्राह्मणानां प्रतिष्ठातारौ भवत इति यन्मां ब्रह्मणा वक्ष्यन्ति यज्ञेषु सोऽहमिति विष्णुरब्रवीत्. तस्माद्विष्णुर्यज्ञो ब्राह्मणानां प्रतिष्ठा इति. विज्ञयते च. [७४.१८-२२] "ब्राह्मणो वै छन्दांसी"त्येतस्मात्ब्राह्मणात्यन्मां ब्राह्मणा वक्ष्यन्ति नक्षत्रेषु तत्राहमिति सोऽब्रवीत्. तस्मात्ब्राह्मणानां सोमो राजेति तस्माद्विज्ञायते च ब्राह्मणे वा अष्टाविंशो नक्षत्राणां तस्य वचः पुण्यमिति तावुभौ ब्रह्मण्यौ ब्रह्मवित्तौ ब्राह्मणानां प्रतिष्ठातारौ ब्राह्मणेषु प्रतिष्ठितौ य एवं ब्राह्मणपुरस्कृतानि कर्माणि करोति यज्ञस्य समृद्ध्या" इति च श्रुतिप्रसिद्धत्वात्. [७४.२३-२५] एवमत्र शान्तिकपौष्टिकादिषु प्रधानकर्मत्वात्नवग्रहमखस्य पञ्चाग्निकुण्डविधानमुक्तम्. "अथ ग्रहशान्तिं व्याख्यास्यामः. ग्रह्यायत्ता लोकयात्रा तस्मादात्मविरुद्धे प्राप्ते ग्रहान् सम्यक्पूजयती" ति. [ग्रहशान्तेः प्राधान्यम्] [७५.१-८] ग्रहशान्तेः कथं प्राधान्यमिति चेदुच्यते. "उद्यन्तमस्तंयन्तमादित्यमभिध्यायन् कुर्वन् ब्राह्मणो विद्वान् सकलं भद्रमश्नुतेऽसावादित्यो ब्रह्मेति ब्रह्मैव सन् ब्रह्माप्येति य एवं वेद" इति "य एषोऽन्तरादित्ये हिरण्मयः पुरुषो दृश्यते" इति "योऽसौ तपन्नुदेति" इत्यादि "विष्णुशक्तेरवस्थानं सदादित्ये करोति च" इति "ध्येयस्सदा सवितृमण्डलमध्यवर्ती" त्यादिभिश्च वचनैः यत्प्रतिपादितं सवितृमण्डलमध्यवर्तिनो भगवतो नारायणस्य यजनं तदेवेदमित्यभिप्रायेण सूत्रकारैरस्य ग्रहयज्ञस्य प्राधान्यमुक्तम्. तथान्ते "अन्यथा महत्तरो दोषो भवती"त्यप्युक्तम्. [७५.९] बोधायनश्च: "अथातो ग्रहातिथ्यबलिकर्मोपहारान् व्याख्यास्यामः" [सवितृहोमः] [७५.१०] अश्रद्धधानमशुचिमजपं त्यक्तमङ्गलम् । [७५.११] ग्रहा नयन्ति सुव्यक्तं पुरुषं यमसादनम् ॥ [७५.१२] ग्रहाणामुग्रचेष्टानां नक्षत्रपथचारिणाम् । [७५.१३] उपहारान् प्रवक्ष्यामि शान्त्यर्थन् तु यथाविधि ॥" [विष्ण्वाराधनस्य श्रौतत्वम्] [७५.१४-१६] मासि मास्यृतावृतौ चन्द्रग्रहे सूर्यग्रहे विषुवेऽयने शुभाशुभे जन्मनक्षत्रे तद्ग्रहाणामातिथ्यं संवत्सरादपि प्रयुञ्जानः सर्वान् कामानवाप्नोति" इति ग्रहशान्तिकालं निरूप्य. [७५.१७] "ग्रहा गावो नरेन्द्राश्च ब्राह्मणाश्च विशेषतः । [७५.१८] पूजिताः पूजयन्त्येनं निर्दहन्त्यवमानिताः ॥" [७५.१९] इत्यकरणे प्रत्यवायमपि दर्शितवान्. [७५.२०-२२] तस्मादेव सूत्रकारैः सूर्यचन्द्रौ विना लोकप्रवृत्त्यसम्भवात्सूर्यप्रधानत्वाच्च ग्रहाणां सर्वकर्मणामादौ ग्रहपुरस्कारमुक्त्वा तत्र पञ्चाग्निकुण्डविधानमुपदिश्य प्रधाने सभ्ये विष्णुरूपस्य सवितुः होमः "सभ्ये सवितुर्" इति प्रतिपादितः. [७५.२३-२४] एवम् - "नारायण परं ब्रह्म" - "ब्रह्मैव भूतानां ज्येष्ठां तेन कोऽर्हति स्पर्धितुम्" - "अग्निर्वै देवानामवमो विष्णुः परमः तदन्तरेण सर्वा अन्या देवताः" [श्रुतिमूलकत्वे प्रामाण्यातिशयः] [७६.१] इत्यादि श्रुत्यनुसारेण "तस्माद्गृहे परमं विष्णुं प्रतिष्ठाप्य सायंप्रातर्होमान्तेऽर्चयति" [७६.२-३] इति नारायणपरत्वेन सूत्रान्तरेष्वनुक्तमाराधनविधिमुक्त्वा तत्र "स वा एष पुरुषः पञ्चधा पञ्चात्मा" इत्यादि श्रुत्यनुसारेण पञ्चमूर्तिविधानमप्युक्तम्. [७६.४-५] आघारादिषु श्रौतवदेवेति प्रत्यक्षसिद्धमिति पूर्वमेवोक्तम्. एवमन्यत्रापि द्रष्टव्यम्. [७६.६-७] श्रुतिमार्गानुसारित्वे को विशेष इति चेत्- उच्यते. श्रुतिमूलत्वे हि प्रामाण्यातिशयसम्भवः. यथाह [७६.८] मनु: "वेदः स्मृतिः सदाचारः स्वस्य च प्रियमात्मनः । [७६.९] एतच्चतुष्टयं प्राहुः साक्षाद्धर्मस्य लक्षणम् ॥ [ंनुढ्श्२.१२] [७६.१०] सर्वं तु समवेक्ष्यैतदखिलं ज्ञानचक्षुषा । [७६.११] श्रुतिप्रामाण्यतो विद्वान् स्वधर्मे निविशेत वै ॥" [ंनुढ्श्२.८] [७६.१२] श्रीभारते: "वेदप्रणिहितो धर्मो ह्यधर्मस्तद्विपर्ययः । [७६.१३] वेदो नारायणस्साक्षात्स्वयम्भूरिति शुश्रुमः ॥" [ंBह्] [७६.१४] प्रचेता: "अमींांस्या बहिश्शास्त्रा ये चान्ये वेदबर्जितः । [७६.१५] यत्तद्ब्रूयुर्न तत्कुर्याद्वेदाद्धर्मो विधीयते ॥" [७६.१६] स्मृत्यन्तरे: "धर्मं जिज्ञासमानानां प्रमाणं प्रथमं श्रुतिः । [ंBह्१४ आप्प्. ४.२४९२] [७६.१७] द्वितीयं धर्मशास्त्रान् तु तृतीयं लोकसङ्ग्रहः ॥" इति [ंBह्१४ आप्प्. ४.२४९३] [७६.१८-२०] एतावता सर्वकर्मसु श्रुतिमार्गानुसारित्व रूपः तृतीयो हेतुर्निरूपितो भवति. तथा च श्रुतिमार्गानुसारित्वादस्य सूत्रस्य सर्वसूत्रोत्तमत्वं सिद्ध्यति इति निरूपितस्तृतीयो हेतुः. [७६.२१] इति तृतीयहेतुनिरूपणम्. [चतुर्थहेतुनिरूपणम्] [वैखानससूत्रस्य समन्त्रकसर्वक्रियाप्रतिपादकत्वम्] [७७.१-२] इदानीं तावत्वैखानससूत्रोक्तधर्मानुष्ठानेन अनन्तस्थिरफलप्राप्तिः सत्कुलीनत्वं फलभूयस्त्वमपि भवतीति ज्ञापयितुं "समन्त्रकसर्वक्रियाप्रतिपादकत्वाद्" इति चतुर्थो हेतु निरूप्यते. तद्यथा: [७७.४-१०] अत्र सूत्र नित्यानुष्ठानविधौ "इन्द्रोऽहमुभाभ्याम्" इत्यारभ्य करप्रक्षालनादीनि समन्त्रकत्वेनोक्तानि. ब्रह्मयज्ञे "ऋतञ्च सत्यञ्चे" त्यादि विशेषः. पुण्याहे समन्त्रकत्वं स्पष्टम्. सूत्रान्तरेष्वनुक्तमौपासनाग्निकुण्दविधानं प्रतिपादितम्. आघारविधौ समन्त्रकत्वं सिद्धम्. अन्तहोमे तथैव. नान्दीमुखपूर्वकोपनयनादिषु शारीरेषु संस्कारेषु समन्त्रकत्वं प्रत्यक्षम्. स्थालीपाकादिषु "पूर्ववद्" इत्यनेन पूर्वं विस्तरेण प्रतिपादितस्याघारविधेः प्रयोगसौकर्यार्थं संक्षेपेण प्रतिपादनम्. [अपरक्रियायामपि समन्त्रकत्वम्] [७७.११-१५] अपरक्रियायामप्यस्ति समन्त्रकत्वम्. तत्र क्वचित्"तूष्णीम्" इत्युक्त्वत्वात्समन्त्रकत्वं नास्तीति स्वयमेवाशङ्क्य प्रकारान्तरेण समन्त्रकत्वं प्रत्यपादयत्. तत्र तत्र क्वचित्मन्त्रयोग्यताभावेऽपि विहितविशये सर्वत्र समन्त्रकत्वमस्तीत्यवगम्यते. सूत्रान्तरेषु विहितविशयेष्वपि समन्त्रकत्वानुक्तेः तेषां समन्त्रकसर्वक्रियात्वं नास्ति. तत्र अपरक्रियायामपि सूत्रान्तरानपेक्षा दृश्यते. [७७.१६-१९] बोधायनेन अग्निमुखादिषु परिधिपरिस्तरणादिक्षेपणं तूष्णीमेवोक्तम्. समन्त्रकत्वेन कर्मणामुक्तौ को विशेष इति चेत्- उच्यते. कर्मणां मन्त्रवत्त्वे हि वीर्यवत्तरत्वं कर्माराध्य भगवत्प्रीणनद्वारा अनन्तस्थिरफलप्राप्तिः सत्कुलीनत्वञ्च भवन्तीति स्मृतिपुराणादिष्ववगम्यते. यथा [कर्मणां समन्त्रकत्वे वीर्यवत्तरत्वम्] [७७.२०-२२] छान्दोग्ये: "यदेव विद्यया करोति श्रद्धयोपनिषदा तदेव वीर्यवत्तरं भवती"ति. तत्रैवं व्याख्यातम्. "मन्त्रप्रकाशितानि कर्माणि क्रियन्ते नामन्त्र कमस्ति कर्मे"ति. [मन्त्रहीनकर्मनिन्दा] [७८.१] आथर्वणे: "ऋग्यजुस्सामाख्या (?) मन्त्रेषु कर्माणि कवयो यान्यपश्यन्निति" [७८.२] आरण्यपर्वणि: "व्रतोपनयनाभ्यां वा उपवासेन वा द्विजः । [७८.३] क्रियामन्त्रैश्च संयुक्तो ब्राह्मणस्स्यान्न संशयः ॥" [ंBह्३.८१.१३४] [७८.४] तत्रैव: "गुणाभावे फलं न्यूनं भवत्यफलमेव वा । [७८.५] अनारम्भे तु न फलं न गुणो दृश्यते ह्युतः ॥" इति [ंBह्३.३३.४८] [७८.६] बृहन्नारदीये: "अमन्त्रतो हविर्यत्तु हूयते जातवेदसे । [७८.७] अपात्रे दीयते यच्च तद्घोरं भोगसाधनम् ॥ [Bऋहन्नारदড়्.] [७८.८] हुतं हविश्चाशुचिना दत्तं यत्कर्म यत्कृतम् । [७८.९] तत्सर्वं तव भागार्हमधःपातफलप्रद ॥" [Bऋहन्नारदড়्] [७८.१०] इति बलिचक्रवर्तिनं प्रति भगवता वामनेनोक्तम्. [७८.११] बोधायन: "गोभिरश्वैश्च यानैश्च कृष्या राजोपसेवया । [७८.१२] कुलान्यकुलतां यान्ति यानि हीनानि मन्त्रतः ॥ [ढ्ष्१.५.१०.२८] [७८.१३] मन्त्रतस्सुसमृद्धानि कुलान्यल्पधनान्यपि । [७८.१४] कुलसंख्यां च गच्छन्ति कर्षन्ति च महद्यशः ॥" [ढ्ष्१.५.१०.२९] [७८.१५] मनुरपि: "कुविवाहैः क्रियालोपैर्वेदानध्ययनेन च । [७८.१६] कुलान्यकुलतां यान्ति ब्राह्मणातिक्रमेण च ॥ [ंनुढ्श्३.६३] [७८.१७] शिल्पेन व्यवहारेण शुद्धापत्यैश्च केवलैः । [७८.१८] गोभिरश्वैश्च यानैश्च कृष्या राजोपसेवया ॥ [ंनुढ्श्३.६४] [७८.१९] अयाज्ययाजनाच्चैव नास्तिक्येन च कर्मणा । [७८.२०] कुलान्यकुलतां यान्ति यानि हीनानि मन्त्रतः ॥ [ंनुढ्श्३.६५] [७८.२१] मन्त्रतस्तु समृद्धानि कुलान्यल्पधनानि च । [७८.२२] कुलसंख्यां च गच्छन्ति कर्षन्ति च महद्यशः ॥" [ंनुढ्श्३.६६] [७९.१] मन्त्रपूतन् तु यच्छ्राद्धम्" इति सोमोत्पत्तौ स्मर्यते. [७९.२] श्रीगीतायाञ्च: "विधिहीनमसृष्टान्नं मन्त्रहीनमदक्षिणम् । [७९.३] श्रद्धाविरहितं यज्ञं तामसं परिचक्षते ॥" इत्युक्तम्. [भगवद्गीताई = ंBह्६.३९.१३] [७९.४-५] यथोपासनं फलमिति च श्रुतिसिद्धं "यथा क्रतुरस्मिन् लोके पुरुषो भवति तथेतः प्रेत्य भवती"ति. [७९.६-७] अतः शारीरेषु संस्कारेषु समन्त्रकसर्वक्रियाप्रतिपादनात्पूर्णत्वं, पूर्णत्वादेव सर्वसूत्रोत्तमत्वं चास्य सूत्रस्य सिद्धमिति निरूपितः चतुर्थो हेतुः. [७९.८] इति चतुर्थहेतुनिरूपणम्. [पञ्चमहेतुनिरूपणम्; वैखानससूत्रस्य निषेकादिसंस्कारप्रतिपादकत्वम्] [८०.१] अथ पञ्चमहेतुनिरूपणम्. [८०.२-५] अथास्य श्रीवैखानससूत्रस्य सर्वोत्तमत्वे तत्सूत्रोक्तधर्मानुष्ठातॄणामपि सर्वोत्कृष्टत्वे च इतरसूत्रिषु मुख्यत्वेनानुपपन्नं निषेकादिसंस्कारादिमत्त्वमस्य सूत्रस्य मुख्यत एवोपपद्यत इति ज्ञापयितुं निषेकादिसंस्कारादिमत्वादिति पञ्चमो हेतुर्निरूप्यते. यथा: [संस्कारेषु निषेकस्य प्रथमत्वम्] [८०.६] "अथ निषेकादिसंस्कारान् व्याख्यास्यामः, ऋतुसङ्गमने"त्युपक्रम्य [८०.७] "पाणिग्रहणानी"त्यन्तेन शारीरसंस्कारा निषेकसंस्कारपूर्वकत्वेन प्रतिपादिताः. [निषेकमन्तरेण प्रजोत्पत्त्यसंभवः] [८०.८-११] ननु: जातकोपनयनविवाहानान्तरभाविनो निषेकस्य कथमादित्वं प्रतिपाद्यते? तथा "ब्राह्मणोऽस्य मुखमासीत्" "मनसा त्वेव भूतानि पूर्वं दक्षोऽसृजत्तदा" इत्यादि श्रुतिस्मृतिषु निषेकेन विना उत्पत्तिदर्शनाच्च निषेकस्य किमर्थमादित्वं प्रतिपाद्यते? जातकस्यादित्वं श्रीभारते चावगम्यते. [८०.१२] "जातकर्मादिभिर्यैस्तु संस्कारैः संस्कृतश्शुचिः । [८०.१३] वेदाध्ययनसम्पन्नष्षट्सु कर्मस्ववस्थितः ॥ [ंB.ह्१२.१८२.२] [८०.१४] शौचाचाररतस्सम्यक्भिक्षार्थी च गुरुप्रियः । [८०.१५] नित्यव्रतस्सत्यपरः स वै ब्राह्मण उच्यते ॥" इति [ंBह्१२.१८२.३] [८०.१६] एवं हरिवंशे:"क्व दाराः क्व च संसर्गः क्व च भावविपर्ययः । [८०.१७] यदियं ब्रह्मणा सृष्टा मनसा मानसी प्रजा ॥ [ःरिV ३५.४२] [८०.१८] यद्यस्ति तपसो वीर्यं युष्माकं विदितात्मनाम् । [८०.१९] सृजध्वं मानसान् पुत्रान् प्राजापत्येन कर्मणा ॥" [ःरिV ३५.४३] [८०.२०] इति निषेकं विनापि उत्पत्तिः श्रूयते इति निषेकस्यादित्वं न संभवति इति चेत्- [८०.२१-२३] तदसत्. "निषेकविरहेऽपि उत्पत्तिस्संभवती"त्येतन्नोपपद्यते. तपोबलाद्योगबलाच्च भगवतो नारायणस्य ब्रह्मणो महर्षीणां वा मानसप्रजासृष्टौ शक्तिस्सम्भवति. नान्येषाम्. यथा: [८१.१] श्रीविष्णुपुराणे: "सङ्कल्पाद्दर्शनात्स्पर्शात्पूर्वेषामभवन् प्रजाः" [Vइष्णुড়् ] [८१.२] तपोविषेशैरिद्धानां तदात्यन्ततपस्विनाम् ॥" [Vइष्णुড়् १.१५.७९] [८१.३] "युगे युगे भवन्त्येते दक्षाद्या मुनिसत्तमाः । [८१.४] पुनश्चैव निरुद्ध्यन्ते विद्वांस्तत्र न मुह्यति ॥ [Vइष्णुড়् १.१५.८३] [८१.५] कानिष्ठ्यं श्र्यैष्ठ्यमप्येषां पूर्वं नास्ति द्विजोत्तम ॥ [Vइष्णुড়् १.१५.८४ ब्] [८१.६] तप एव गरीयोऽभूत्प्रभावश्चैव कारणम् ॥" इति [Vइष्णुড়् ] [निषेकेनैव रुद्रस्यापि उत्पत्तिः] [८१.७] रुद्रोत्पत्तिरपि निषेकेनेति श्रूयते. शतपथे: "अभूद्वा इदं सर्वं प्रतिष्ठा" [८१.८-१०] इत्यारभ्य "भूतानाञ्च प्रजापतिस्संवत्सरायादिक्षत भूतानां ग्रहपतिरासीदुषा पत्नी"त्यादिकमुक्त्वा "भूतानां पतिः संवत्सर उषसि रेतोऽसिञ्चत्संवत्सरे कुमारोऽजायत तस्य रुद्रस्य नाम करोती"त्यादि. [निषेकक्रियाप्रकारः] [८१.११-१३] निषेकक्रियाप्रकारोऽपि श्रूयते हि. "नग्नं कृत्वोरुमुपप्रवर्तयति यदा हि नग्न ऊरुर्भवत्यथ मिथुनीभवतोऽथ रेतस्सिच्यतेऽथ प्रजाः प्रजायन्ते" इति, "रेतस एव सिक्तस्य बहुशो रूपाणि विकरोति स वै प्रजायते श्वः श्वो भूयान् भवती"ति, [८१.१४-१८] "रेतो मूत्रं विजहाति योनिं प्रविशदिन्द्रियं गर्भो जरायुणा वृतः उल्बं जहाति जन्मना" इति. मुण्डोपनिषदि - "पुमान् रेतस्सिञ्चति योषितायां बह्व्यः प्रजास्सृजमानास्सरूपाः" इति. छान्दोग्ये - "योषा वा व गौतमाग्निर्" इत्यारभ्य "तस्य उपस्थ एव समिद्. यदन्तः करोति तेऽर्चिषा. अभिनन्दा विस्फुलिङ्गास्. तस्मिन्नग्नौ देवा रेतो जुह्वति. तस्या आहुतेर्गर्भस्सम्भवती"ति च. [सृष्टिकालादारभ्य निषेकादेवोत्पत्तिः] [८१.१९] श्रीविष्णुपुराणे: "प्रजास्सृजेति व्यादिष्टः पूर्वं दक्षस्स्वयम्भुवा । [८१.२०] यथा ससर्ज भूतानि तथा श्रुणु महामते ॥ [Vइष्णुড়् १.१५.८६] [८१.२१] मनसा त्वेव भूतानि पूर्वं दक्षोऽसृजत्तदा । [८१.२२] देवानृषींस्तु गन्धर्वानसुरान् पन्नगांस्तथा ॥ [Vइष्णुড়् १.१५.८७] [८१.२३] यदाऽस्य सृजमानस्य न व्यवर्धन्त ताः प्रजाः । [८१.२४] ततस्सञ्चिन्त्य बहुशः सृष्टिहेतोः प्रजापतिः ॥ [Vइष्णुড়् १.१५.८८] [८२.१] मैथुनेनैव धर्मेण सिसृक्षुर्विविधाः प्रजाः । [८२.२] ततः प्रभृति मैत्रेय प्रजा मैथुनसम्भवाः ॥" [Vइष्णुড়् १.१५.७९ ब्?] [८२.३] भारते: "न चैषां मैथुनो धर्मो बभूव भरतर्षभ । [८२.४] सङ्कल्पादेव चैतेषां गर्भस्समुपपद्यते ॥ [ंBह्१२.२००.३५] [८२.५] तत्र त्रेतायुगे काले संस्पर्शाज्जायते प्रजा । [८२.६] न ह्यभून्मैथुनो धर्मस्तेषामपि नराधिप ॥ [ंB.ह्१२.२००.३६] [८२.७] द्वापरे मैथुनो धर्मः प्रजानामभवन्नृप । [८२.८] तथा कलियुगे काले द्वन्द्वमापेदिरे जनाः ॥" इति [ंBह्१२.२००.३७] [८२.९-१०] एवं श्रुतिस्मृतिषु सृष्टिकालादारभ्य निषेकादेवोत्परिति श्रवणात्निषेकेन विना उत्पादनसामर्थ्याभावाच्च निषेकादिमत्वादित्युक्तम्. [निषेकशब्दार्थनिर्णयः] [८२.११-१३] अत्रापस्तम्बीया एवमाहुः. "निषेको नाम गर्भाधानमेव, निषेकगर्भाधानयोः पर्यायत्वात्गर्भाधानातिरेकेण निषेकशब्दस्यार्थान्तरासम्भवाच्च. गर्भाधानशब्दस्यार्थे विचार्यमाणेऽगर्भोऽस्मिन्नाधीयतेऽ इति व्युत्पत्त्याऽइन्द्रियं वै गर्भऽ [८२.१४-१५] इति श्रुत्यनुसारेण रेतस्सेचनमेव गर्भाधानमित्यवगतेः निषेकादित्वमस्माकमप्यस्ती"ति. [८२.१६-१९] अत्र बौधायनीयः प्रत्यवतिष्ठन्ते. "यदुक्तंऽनिषेको नाम गर्भाधानं निषेकगर्भाधानयोः पर्यायत्वाद्ऽ इति - तदसत्. निषेकगर्भाधानयोः पृथक्त्वेन प्रतिपादनात्पर्यायत्वं न घटते. यथा -ऽचतुर्थ्यां स्नातायां निशायामलङ्कृत्य शयनेऽभिमन्त्रयतेऽविष्णुर्योनिम्ऽ इत्युपक्रम्यऽअथैनामुपैतिऽ -ऽत्वां पूषन्न् ...ऽ इति. [८२.२०-२३] एवं निषेक उक्तः.ऽअथ गर्भाधानविधिं व्याख्यास्यामः. पूर्वपक्षे पुण्ये नक्षत्रे ब्राह्मणानन्नेन परिविष्य पुण्याहं वाचयित्वा अथ देवयजनप्रभृत्याग्निमुखात्कृत्वा पक्वाज्जुहोति - प्रवेधसे कवये मेध्यायेऽति. इति गर्भाधानमुक्तम्. एवं निषेकगर्भाधानयोः पृथक्त्वेन कीर्तनात् निषेक एव गर्भाधानमिति वक्तुमयुक्तम्. [८२.२४-२५] किञ्च आपस्तम्बसूत्रे निषेकपूर्वकत्वेनानुक्तत्वात्चत्वारिंशत्संस्कारपरिगणने अगृहीतत्वाच्च तेषां निषेकाद्यास्संस्कारा न भवन्तीति." [८३.१-६] अत्र आपस्तम्बीया ऊचुः. "यद्यस्माकं निषेकाद्याः संस्कारा न भवन्तीत्युच्यते तर्हि युष्माकमपि तथैव, भवत्सूत्रेऽपि >यतो एतद्धुतः प्रहुतः आहुतः शूलगवो बलिहरणं प्रत्यवरोहणमष्टका पार्वणहोम इती<त्यारभ्य विवाहाद्येवोक्तम् - न तु निषेकादित्वेन. किञ्च सूत्रोपक्रमे संस्कारगणनायामपि निषेकस्तु संस्कारत्वेन वा शब्दमात्रेण वा न प्रतिपादितः. किञ्च >चतुर्य्यां स्नातायोम्< इत्यादिना पृथक्त्वेन विधीयमानस्य गर्भाधानस्य लक्षणप्रतिपादनाभावात्विशिष्य कालनिरूपणाभावाच्च. [वैखानसानामेव निषेकादिसंस्कारवत्त्वम्] [८३.७] (वैखानसे सूत्रे एव निषेकादित्वेन उक्तत्वाच्च वैखानसानां निषेकादित्वम्), [८३.८] आवयोः उभयोरपि निषेकाद्यास्संस्कारा न भवन्ति इति. अयमेव सिद्धान्तः. [इतरेषां गर्भधानादिसंस्कारवत्त्वम्] [८३.९] तथा च: "निषेकाद्याः श्मशानान्तास्तेषां वै मन्त्रतः क्रियाः । [य़ाज्ञवल्क्यढ्श्१.१० द्] [८३.१०] गर्भाधानमृतौ पुंससवनं स्पन्दानात्पुरा ॥" [य़ाज्ञवल्क्यढ्श्१.११ ब्] [८३.११-१४] इति याज्ञवल्क्योक्तौ तेषामिति शब्देन "मुख्ये सम्भवत्यमुख्यकल्पनायोगाद्" इति न्यायेन मुख्यत्वेन श्रीवैखानससूत्रे एव निषेकादित्वस्य विद्यमानत्वात्वैखानसा एव परामृश्यन्ते इति - तेषामेव निषेकादित्वम्, इतरेषां निषेकादित्वं न सम्भवति. अपि तु गर्भाधानादित्वमेव. अयमेव याज्ञवल्क्याभिप्रायः. [८३.१५-२०] अथोच्येते. गर्भाधानलक्षणमनुक्तं विशिष्य कालश्चानुक्त इति यदुक्तं तत्रोच्यते - सर्वेषां कारणभूतेन परमाचार्येण विखनसा प्रणीते श्रीवैखानससूत्रे "अथ गृहीतगर्भालिङ्गानि शरीराटोपः सक्थिसीदनं द्वेषो भर्तुररुचिराहारे लालाप्रकोपः खरता वाचः स्फुरणं योनेरिति गर्भस्य दैवानुबन्धं ज्ञात्वा आपूर्यमाणपक्षे पुण्ये पुन्नाम्नि शुभे नक्षत्रे" इत्यादिना गर्भाधानलक्षणकालयोरपि वैखानससूत्रे प्रतिपादित्वात्: [८३.२१] "वेदे वैखानसे सूत्रे यो धर्मः परिकीर्तितः । [८३.२२] सर्वैः स धर्मोऽनुष्ठेयो नात्र कार्या विचारणा ॥" [८३.२३] इति भृगुणोक्तत्वात्"अनुक्तमन्यतो ग्राह्यम्" इति न्यायात्विखनसः आचार्यत्वेन [८३.२४-२५] भारतादिषु प्रतिपादितव्याच्च "अनुक्तांशेषु वैखानसोक्तप्रकारेण अस्माभिरपि कर्तुं युक्तम्" इति. एतदेव युक्ततरम्. टथाहि: [निषेकगर्भाधानयोरपर्यायत्वम्] [८४.१-१०] आपस्तम्बादीनामाचार्येण बोधायनेन स्वशिष्यान् प्रति "अथात्र पाकयज्ञानां प्रायश्चित्तिर्" इत्यारभ्य "व्याहृतीनां प्रयोगे अयथाकृतं यथाकृतं भवतीत्याचार्या ब्रुवते. तत्राप्युदाहरन्ति" इति, "चतुर्थीप्रभृत्या षोडशीमुत्तरामुत्तरामुपैति. प्रजानिःश्रेयसमृतुगमनमित्याचार्याः. सर्वाण्युपगमनानि मन्त्रवन्ति भवन्तीति बोधायनः. यच्चादौ यच्चर्ताविति शालीकिर्" इति - "अथास्यातिथयो भवन्ति गुरोस्समानवृत्तिर्वैखानसः स्नातको राजा वा धर्मयुक्तः. तेषामभ्युत्थायासनं पाद्यमर्हणमर्घ्यं वा प्रजुञ्जीत" इति - "एकमग्निहोत्रं सायमुपक्रमं प्रातरपवर्गमाचार्या ब्रुवते तत्रोदाहरन्ति" इति, "वैखानसानां न द्रुह्येत्" इत्यादि सूत्रेषु "आचार्या ब्रुवते" इति निर्दिष्टः आचार्यः वैखानस एवेति वक्तुं युक्तम् - मन्वादीनां शारीरसंस्कारवक्तृत्वाभावात्, बोधायनेन प्रतिपादितस्य वैखानससूत्रे विद्यमानत्वात्, [८४.११] "गुरोः समानवृत्तिर्वैखानसः" इति बोधायनेनैवोक्तत्वात्, "विखनसाचार्ये"ति. [८४.१२-१३] भारते प्रतिपादित्वाच्च. तथा च सर्वेषां कारणभूतेन विखनसा प्रणीतत्वात्तत्सूत्रोक्तप्रकारेण सर्वैः कर्तुं युक्तमेव. किञ्च अरण्यादिपात्रलक्षणमपि तत्रैव प्रतिपादितम्. [८४.१४] अन्येऽप्याहुः. "अस्माकमपि निषेकादित्वं समानम्" इति. तदप्यसत्. [८४.१५] गर्भाधानशब्दस्यार्थे विचार्यमाणे "योनिं प्रविशदिन्द्रियं गर्भो जरायुणा वृत" इति [८४.१६-२०] प्रमाणेन गर्भगोले प्रविष्टस्य रेतस एव गर्भशब्दवाच्यत्वमवगम्यते. न त्वितरस्य केवल रेतसः. तथा - "आसिञ्चतु प्रजापतिर्धाता गर्भं दधातु" इति निषेकक्रियानन्तरभावित्वात्गर्भाधानस्य, निषेकस्य तु प्रत्यार्तवं कर्तुं व्योग्यतासम्भवातधृतरेतसः स्रावदोषप्रसङ्गात्श्रुतिस्मृतिविरोधात्प्रत्यक्षविरोधाङ्च निषेक एव गर्भाधानमिति वक्तुमयुक्तम्. [निषेकप्रथमकसंस्कारवतां श्रैष्ठ्यम्] [८४.२१] अथ निषेकादित्वे को विशेष इति चेत्- उच्यते. निषेकादिक्रियावतामेव [८४.२२] श्रोत्रियत्वं धर्मशास्त्राधिकारित्वं ब्रह्मशरीरित्वञ्च बोधायनादिभिरुक्तम्. यथा: [८४.२३] "निषेके गर्भसंस्कारे जातकर्मक्रियासु च । [८४.२४] विधिवत्संस्कृता मन्त्रैः चीर्णा व्रतसमापनात् ॥ [८४.२५] श्रोत्रिया इति विज्ञेयाः शाखापाराश्च ये द्विजाः । [८४.२६] विधिवत्गृह्यते पाणिमृतौ चीर्णव्रतास्तु ते ॥ [८५.१] मन्त्रवत्सम्प्रयोगेन ब्राह्मण्यां गर्भमादधुः । [८५.२] निषेकाद्याः श्मशानान्ताः सत्क्रिया ब्राह्मणाश्रिताः ॥" इति [८५.३] याज्ञवल्क्य: "निषेकाद्याः श्मशानान्ताः तेषां वै मन्त्रतः क्रियाः । [य़ाज्ञवल्क्यढ्श्१.१० द्] [८५.४] गर्भाधानमृतौ पुंसस्सवनं स्पन्दनात्पुरा ॥" इति [य़ाज्ञवल्क्यढ्श्१.११ ब्] [८५.५] मनु: "निषेकादिश्मशानान्ताः मन्त्रैर्यस्योदिताः क्रियाः । [८५.६] तस्य शास्त्रेऽधिकारोऽस्मिन् ज्ञेयो नान्यस्य कस्यचित् ॥" इति [ंनुढ्श्२.१६] [८५.७-८] अत्र मनुवाक्ये "यस्य - तस्य - कस्यचित्" इत्यादि शब्दानां वैयर्थ्यप्रसङ्गात्"सर्वेषां निषेकादित्वं समानम्" इति वक्तुमयुक्तम्. [८५.९] आश्वमेधिके भगवान्: "वैदिकैः कर्मभिः पुण्यैः निषेकादिर्द्विजन्मनाम् । [८५.१०] कार्यः शरीरसंस्कारः पावनः प्रेत्य चेह च ॥ [ंB.ह्१४, आप्प्. ४.२५१३] [८५.११] गार्भैर्होमैर्जातकर्मनामचौलोपनायनैः । [ंBह्१४, आप्प्. ४.२५१४] [८५.१२] स्वाध्यायैश्च तपोभिश्च विवाहस्नातकव्रतैः ॥ [ंBह्१४, आप्प्. ४.२५१५] [८५.१३] महायज्ञैश्च यज्ञैश्च ब्राह्मीयं क्रियते तनुः ।" इति [ंBह्१४, आप्प्. ४.२५१६] [८५.१४] एवमन्यत्रापि द्रष्टव्यम्. [८५.१५] बोधायनेन "यतो एतद्धुतम्" इत्यादिना सूत्रादौ विवाहपूर्वकत्वेनोक्तम्. [८५.१६-२१] आपस्तम्बेन "अथ कर्माण्याचाराद्यानि गृह्यन्ते" इत्यारभ्य "उपनयनं व्याख्यास्याम" इति. भारद्वाजसत्याषाढाभ्यामाश्वलायनेन च "उक्तानि वैतानिकानी"त्यारभ्य वैश्वदेवपूर्वकत्वेन. द्राह्यायणेन "अथातो गृह्यकर्माणि, उदगयनपूर्वपक्ष" इत्यारभ्य आचारादित्वेन. कात्यायनश्च "अथातो गृह्यस्थालीपाकानां कर्मे"त्यारभ्य प्रतिपादितवान्. "अथ निषेकादिसंस्कारान् व्याख्यास्याम" इत्यारभ्य निषेकपूर्वकत्वेन भगवता विखनसैव प्रतिपादितम्. [८५.२२-२४] एवं च निषेकपूर्वकत्वेनोक्तत्वादस्य सर्वसूत्रोत्तमत्वमेतत्सूत्रोक्तधर्मानुष्ठानेनैव तत्सूत्रिणां सर्वोत्कृष्टत्वञ्चोपपद्यते इति श्रुतिस्मृतिपुराणादिमुखेन प्रतिपादितमिति निरूपितः पञ्चमो हेतुः. [८५.२५] इति पञ्चमहेतुनिरूपणम् [षष्ठहेतुनिरूपणम्] [वैखानससूत्रस्याष्टादशसंस्कारप्रतिपादकत्वम्] [८६.१] अथ षष्ठहेतुनिरूपणम् [८६.२-४] अथेदानीं श्रीवैखानससूत्रोक्तधर्मानुष्ठातॄणामेव सर्वेभ्यः श्रेष्ठमत्वं सूत्रान्तरेष्वनुक्तं श्रुतिसिद्धाष्टादशसंस्कारवत्वं क्रियाबाहुल्यञ्च सम्भवतीति ज्ञापयितुं "अष्टादशसंस्कारप्रतिपादकत्वाद्" इति षष्ठो हेतुर्निरूप्यते. तथा हि: [८६.५-८] "अथ निषेकादिसंस्कारान् व्याख्यास्यामः ऋतुसङ्गमन-गर्बाधान-पुंसवन-सीमन्त-विष्णुबलि-जातकर्मोत्थान-नामकरणान्नप्राशन-प्रवासागमन-पिण्डवर्धन-चौलोपनयन-पारायण-व्रतबन्धविसर्गोपाकर्म-समावर्तन-पाणिग्रहणानीत्यष्टादश-संस्काराश्शारीराः" इति अष्टादशसंस्काराः सूत्रे प्रतिपादिताः. एते च ["अष्टादशोक्तमवरं येषु कर्मे" ति श्रुत्यर्थविचारः] [८६.९-१०] श्रुतिसिद्धाः. यथा मुण्डोपनिषदि - "प्लवा ह्येते अदृढा यज्ञरूपा अष्टादशोक्तमवरं येषु कर्म. एतच्छ्रेयो येऽभिनन्दन्ति मूढा जरामृत्युं ते पुनरेवापि यन्ति" इति. [८६.११] अत्र केचिदेवमूचुः: "यज्ञस्य र्त्विजष्षोडश सदस्यस्सप्तदशः यजमानोऽष्टादशः" [८६.१२-१४] इति श्रुत्यनुसारेण "अष्टादशोक्तमवरं येषु कर्मे"त्यत्र यजमानादय एव विवक्षिता इति. तदसत्. "अष्टादशोक्तमवरं कर्मयेषु" इत्युक्तत्वात्. ऋत्विग्यजमानादयो हि यागकर्तारः न तु कर्म. "येषु" इत्यस्य पदस्य येषु सूत्रेष्वित्यर्थः. [८६.१५-१८] ऽअवरं कर्मऽ जातकादयः, स्मार्तकर्मत्वात्. आत्मगुणरहिता यागदयः जातकर्मादयश्च.ऽअदृढाः प्लवाःऽ संसारोत्तारका न भवन्ति. तथा च अत्र अदृढप्लवत्वेन निन्दिता संस्काराः यागादयश्च आत्मगुणरहिता एव विवक्षिताः. तत्सहितानां तेषां मोक्षसाधकत्वम्. यथा: [आत्मगुणरहितानां संस्काराणां बन्धकत्वम्] [८६.१९-२१] गौतमधर्मे: "यस्य तु खलु चत्वारिंशत्संस्कारा न चाष्टावात्मगुणाः न स ब्रह्मणस्सायुज्यं सालोक्यञ्च गच्छति. यस्य खलु चत्वारिंशत्संस्काराणामेकदेशो प्यष्टावात्मणाः अथ स ब्रह्मणस्सायुज्यं सालोक्यञ्च गच्छति गच्छती"ति. [अष्टानामात्मगुणानां लक्षणानि] [८६.२२-२३] ऽअष्टावात्मगुणाःऽ: "दया समस्तभूतेषु क्षान्तिरनसूया शौचमनायासो मङ्गल्यमकार्पण्यमस्पृहे" ति. तल्लक्षणानि तु: [तत्र दयालक्षणं] [८६.२४] "अबन्धौ बन्धुवर्गे वा मित्रे द्वेष्टरि वा तथा । [८६.२५] आपन्ने रक्षणं यत्तु दयैषा परिकीर्तिता ॥ [तत्र क्षमालक्षणम्] [८७.१] बाह्ये वाऽभ्यन्तरे वापि दुःख उत्पादिते परैः । [८७.२] न प्रकुप्यति नो हन्ति सा क्षमा परिकीर्तिता ॥ [तत्र अनसूयालक्षणम्] [८७.३] सगुणान् गुणि नो हन्ति (?) स्तौति मन्दगुणानपि । [८७.४] नान्यदोषेषु रमते साऽनसूया प्रकीर्तिता ॥ [तत्र शौचलक्षणम्] [८७.५] अभक्ष्यपरिहारश्च संसर्गश्चाप्यनिन्दितैः । [८७.६] स्वधर्मे च व्यवस्थानं शौचमेतदुदाहृतम् ॥ [तत्र अनायासलक्षणम्] [८७.७] शरीरं पीड्यते येन सुशुभेनापि कर्मणा । [८७.८] अत्यन्तं तन्नकर्तव्यमनायासस्स उच्यते ॥ [तत्र मङ्गल्यलक्षणम्] [८७.९] प्रशस्ताचरणं नित्यमप्रशस्तविसर्जनम् । [८७.१०] एतद्धि मङ्गलं प्रोक्तमृषिभिस्तत्त्वदर्शिभिः ॥ [तत्र अकार्पण्यलक्षणम्] [८७.११] स्तोकादपि प्रदातव्यमदीनेनान्तरात्मना । [८७.१२] अहन्यहनि यत्किञ्चिदकार्पण्यं तदुच्यते ॥ [तत्र अस्पृहालक्षणम्] [८७.१३] यथोत्पन्नेषु सन्तोषः कर्तव्यस्स्वागतैर्धनैः । [८७.१४] परार्थान्नाभिभाषेत साऽस्पृहा परिकीर्तिता ॥" इति [८७.१५] प्रसङ्गादिदमुक्तम्. प्रकृतमनुसरामः. [सात्त्विकराजसतामसपुराणानि] [८७.१६-१७] अथ अष्टादशस्मृत्युक्तानि अष्टादशपुराणेषूक्तानीति वा मुण्डकश्रुत्यर्थोऽस्तु इति चेत्. तदप्यसत्. स्मृतिपुराणादिषु अष्टादशकर्मेति विशिष्यानुक्तत्वात्. [८७.१८-२०] अत्र "अष्टादशोक्तमवरं कर्म येष्व्" इति सामान्येनोक्तत्वात्तत्रोक्तानां योगादीनामप्यपवर्गप्रापकत्वाभावात्पुनरपि जरामृत्युप्रापकत्वाच्च न स्मृतिपुराणेषूक्तानीति वक्तुं युक्तं किञ्च [८७.२१] पाद्मपुराणे: "वैष्णवः नारदीयञ्च तथा भागवतं शुभम् । [८७.२२] गारुडञ्च तथा पाद्मं वाराहं शुभदर्शने ॥ [ড়द्म.ড়् उत्तरभाग २३६.१९] [सात्विकपुराणश्रैष्ठ्यम्] [८८.१] सात्त्विकानि पुराणानि विज्ञेयानि च षट्पृथक् । [८८.२] ब्रह्माण्डं ब्रह्मकैवर्तं मार्कण्डेयं तथैव च ॥ [ড়द्म.ড়् उत्तरभाग २३६.२०] [८८.३] भविष्यद्वामनं ब्राह्मं राजसानि च षड्विधाः । [ড়द्मড়् उत्तरभाग २३६.२१ ब्] [८८.४] मात्स्यं कौर्मं तथा लैङ्गं शैवं स्कान्दं तथैव च । [८८.५] आग्नेयञ्च षडेतानि तामसानि निबोध मे ॥" इति [ড়द्मড়् उत्तरभाग २३६.१८] [८८.६] मात्स्ये: "सङ्कीर्णास्तामसाश्चैव राजसास्सात्त्विकास्तथा । [८८.७] कल्पाश्चतुर्विधाः प्रोक्ताः ब्रह्मणो दिवसाश्च ते । [८८.८] यस्मिन् कल्पे तु यत्प्रोक्तं पुराणं ब्रह्मणा पुरा ॥ [ंत्स्यড়्] [८८.९] तस्य तस्य तु माहात्म्यं तेन रूपेण वर्तते । [८८.१०] सङ्कीर्णेषु सरस्वत्याः पितॄणाञ्च निगद्यते ॥ [ंत्स्यড়्] [८८.११] अग्नेश्शिवस्य माहात्म्यं तामसेषु प्रकीर्त्यते । [८८.१२] राजसेषु तु माहात्म्यमधिकं ब्रह्मणो विदुः ॥ [ंत्स्यড়्] [८८.१३] सात्त्विकेष्वथ कल्पेषु माहात्म्यमधिकं हरेः । [८८.१४] तेष्वेव योगसंसिद्धा गमिष्यन्ति परां गतिम् ॥" इति [ंत्स्यড়्] [८८.१५] पाद्मे: "वासिष्ठञ्चैव हारीतं व्यासं पाराशरं तथा ॥ [ড়द्मড়् उत्तरभाग २३६.२३ द्] [८८.१६] भारद्वाजं काश्यपीयं स्मृतिषट्कन्तु सात्त्विकम् । [८८.१७] मानवं यज्ञवल्क्यञ्च आत्रेयं दाक्ष्यमेव च ॥ [ড়द्मড়् उत्तरभाग २३६.२४] [८८.१८] कात्यायनं वैष्णवञ्च स्मृतिषट्कन्तु राजसम् । [८८.१९] गौतमं बार्हस्पत्यञ्च सांवर्तञ्च यमस्मृतिः ॥ [ড়द्मড়् उत्तरभाग २३६.२५] [८८.२०] शाम्भमौशनसञ्चैव स्मृतिषट्कन्तु तामसम् ॥" इति [ড়द्मড়् उत्तरभाग २३६.२६ ब्] [८८.२१] तथा: "सात्त्विका मोक्षदा ज्ञेया राजसाः स्वर्गदाः स्मृताः । [ড়द्मড়् उत्तरभाग २३६.२१ द्] [८८.२२] तथैव तामसा देवि निरयप्राप्तिहेतवः ॥" [ড়द्मড়् उत्तरभाग २३६.२२ ब्] [८८.२३-२४] इत्यादि वचनसिद्धसात्विकपुराणेषु प्रतिपादितानां भगवदाराधनादीनां मोक्षहेतुत्वस्मरणात्, सामन्येन अष्टादशपुराणोक्तकर्मणां जीर्णप्लवसादृश्यं वक्तुं न शक्यम्. [वैखानसे क्रियाबाहुल्यम्] [८९.१-२] अन्यथा स्वर्गमोक्षनिरयाणामेकरूपत्वाङ्गीकारापातात्. अतः श्रीमद्वैखानससूत्रोक्ताष्टादशसंस्कारा एवेत्यवगन्तव्यम्. बोधायनसूत्रे संस्कारसङ्ख्या न कृता. [८९.३-५] आपस्तम्बादिनापि पञ्चमहायज्ञानां नित्यहोमस्य च पाकयज्ञत्वेनाङ्गीकारातेते षोडसंस्कारा इति विविच्यानुक्तत्वातपरसंस्कारप्रतिपादनाभावाच्च न तत्रोक्ताः गृहीतुं शक्याः. [८९.६-८] श्रीवैखानसे तु क्रियाबाहुल्यमप्यस्ति. तथा हि. अष्टादशसंस्काराः पाकयज्ञाश्च पृथक्त्वेनोपपदिताः. वर्षवर्धनाद्यास्तु विशेषाः. पञ्चमहायज्ञसहिता द्वाविंशद्यज्ञाः - पञ्चमहायज्ञानामेकत्वम्. अपरश्चाष्टादशव्यतिरिक्त इति. [८९.९] क्रियाबाहुल्येन किमाधिक्यमिति चेत्- उच्यते. मुण्डोपनिषदि - [८९.१०] "क्रियावानेष ब्रह्मविदां वरिष्ठः" इति "क्रियावन्तः श्रोत्रिया ब्रह्मणिष्ठाः स्वयं जुह्वत [८९.११] एकर्षिं श्रद्धयन्तः. तेषामेवैतां ब्रह्मविद्यां वदेत" इति च श्रूयते. [८९.१२-१५] बोधायनः: "तस्माद्यः कश्चन क्रियावान् सतामनुमताचारस्स श्रोत्रियस्स एव विज्ञेयस्स एव विज्ञेयः" इति. किञ्च - कर्मभूयस्त्वात्फलभूयस्त्वञ्च "यथोपासनं फलम्" इति न्यायात्सिद्ध्यति. अतः: अष्टादशसंस्काराप्रतिपादकत्वादस्य सूत्रस्य श्रेष्ट्ःत्वमेतस्सूत्रिणां सर्वोत्कृष्टत्वञ्चोपपद्यत इति निरूपितः षष्ठो हेतुः. [८९.१६] इति षष्ठहेतुनिरूपणम्. [सप्तमहेतुनिरूपणम्] [९०.१-३] अथ श्रीवैखानससूत्रस्य इतरसूत्रापेक्षाभावात्स्वातन्त्र्यमस्तीति ज्ञापयितुं साङ्गक्रियाकलापवत्त्वादिति सप्तमो हेतुर्निरूप्यते. तथा हि: अत्रसूत्रे अष्टादशसंस्काराः शारीराः प्रसिद्धास्साङ्गाः एव प्रतिपादिताः. [९०.४-८] ननु - अङ्कुरार्पणशताभिषेकाग्निद्वयसंसर्गपुत्रपरिग्रहब्रह्ममेधवृषोत्सर्जनादिप्रतिपादनाभवात्साङ्गक्रियाकलापवत्त्वं नास्तीति चेत्- तदसत्. इयं शङ्का श्रीवैखानससूत्रस्वरूपानभिज्ञत्वकृता. इदं सूत्रमेकादशप्रश्नात्मकम्. अत्र न प्रतिपादितानीति उक्तिः, अतिरिक्तत्वेन गृह्यपरिशिष्टसद्भावाज्ञानात्. गृह्यपरिशिष्टसद्भावः कथमवगम्यते इति चेत्- उच्यते. [९०.९] "अथाङ्कुरार्पणविधिं व्याख्यास्यामः" इत्यारभ्य खण्डद्वयेनाङ्कुरार्पणमुक्तम्. [९०.१०-११] "सायं स्थण्डिले सहस्रं पिष्टेन सोमरूपाणि करोती"त्यत्र विशेषेण स्थण्डिलादिप्रतिपादनम्. [९०.१२] "शताभिषेकं पूर्वाह्णे पुण्याहं द्विजभोजनम् ॥" इत्यारभ्य [ङृह्यपरिशिष्टष्] [९०.१३] "सायं गोमयसंलिप्ते स्थण्डिले प्रागनुन्नते । [९०.१४] प्राचीरेखा द्विपञ्चाशत्संख्यया तत्र संलिखेत् ॥ [ङृह्यपरिशिष्टष्.] [९०.१५] उदीचीश्च तथा रेखा द्वत्रिंशत्संख्यया लिखेत् ॥" [ङृह्यपरिशिष्टष्] [९०.१६] इत्यादिना शताभिषेकप्रयोगश्च उक्तः. [९०.१७] तथा "धौतवस्त्रधारिणौ स्याताम्" इत्यारभ्य [ङृह्यपरिशिष्टष्] [९०.१८] "दीपाद्यलङ्कृते गेहे व्रीहीनास्तीर्य तत्र वै । [९०.१९] चर्माभावे कटं वापि तदूर्ध्वे वस्त्रमास्तरेद् ॥" इति [ङृह्यपरिशिष्टष्] [९०.२०] "शेषहोमेऽन्तहोमान्ते आसीनौ तत्र चर्मणि । [९०.२१] विसृजामि व्रतञ्चेति तद्व्रतं चर्म सन्त्यजेत् ॥" [ङृह्यपरिशिष्टष्] [९०.२२] इत्यादिना अग्निद्वयसंसर्गप्रकारश्च प्रतिपादितः. [९१.१] पुत्रपरिग्रहप्रकारश्च [९१.२] "त्यागविक्रयदानेषु प्रोक्तेष्वपि ततस्स्मृतौ । [९१.३] एकं न दद्यान्नो गृह्यात्न स्त्री भर्त्रननुज्ञया ॥" इत्यादिना [ङृह्यपरिशिष्टष्] [९१.४] ब्रह्ममेधविधिस्तु [९१.५] "संस्कारो ब्रह्मनिष्ठानां सदाचारवतामपि । [९१.६] ब्रह्ममेधोऽतिफलदो न सर्वेषां द्विजन्मनाम् ॥" इत्यादिना [ङृह्यपरिशिष्टष्] [९१.७] वृषोत्सर्गविधिस्तु [९१.८] "वृषोत्सर्गविधिं वक्ष्ये येन प्रेतत्वमोचनम् । [९१.९] स्नात्वाथ वास्तुहोमान्ते प्रेतत्वस्य विमुक्तये ॥" इत्यादिभिः [ङृह्यपरिशिष्टष्] [९१.१०] एवमत्रानुक्तानि सर्वाणि गृह्यपरिशिष्टे प्रोक्तानि इति वेदितव्यम्. [९१.११-१५] बोधायनादिभिरप्येते साङ्गा एव प्रतिपादिता इति चेत्- न. "सति कुड्ये चिक्रकर्मे" ति न्यायेन प्रधानकर्माणि प्रतिपादितानि चेतङ्गविचारः कर्तव्यः. सन्ध्योपासने अर्घ्यप्रदानादिकमनुक्तम्. वानप्रस्थाश्रमस्वीकरणादिकमपि न प्रतिपादितम्. वानप्रस्थाश्रमस्वीकरणास्वीकरणारण्याहरणपात्रलक्षणादिषु वैखानससूत्रापेक्षा अस्त्येव. देवताप्रतिष्ठादिकमुक्तं लक्षणमनुक्तम्. [९१.१६-१८] आपस्तम्बादिभिः सन्ध्योपासनाङ्कुरप्रतिसरदेवताराधनयज्ञोपवीतधारणादिकमप्यनुक्तम्. आपस्तम्बादीनामन्योन्यापेक्षा प्रसिद्धा. अन्योन्यापेक्षा नाम अस्वातन्त्र्यमङ्गहीनवत्. [९१.१९] मनु: "यद्यत्परवशं कर्म तत्तद्यत्नेन वर्जयेत् ॥ [ंनुढ्श्४.१५९ द्] [९१.२०] सर्वं परवशं दुःखं सर्वमात्मवशं सुखम् । [९१.२१] एतद्विद्यात्समासेन लक्षणं सुखदुःखयोः ॥" [ंनुढ्श्४.१६०] [९१.२२-२३] अनेन अनन्तस्थिरफलप्राप्तिर्दर्शिता. अतः सूत्रान्तरनैरपेक्ष्यात्सर्वसूत्रोत्तमत्वं स्वातन्त्र्यञ्च घटत इति निरूपितस्सप्तमो हेतुः. [९१.२४] इति सप्तमहेतुनिरूपणम् [अथ अष्टमहेतुनिरूपणम्] [वैखानससूत्रस्य अखिलशिष्टपरिगृहीतत्वम्] [९२.१-३] इदानीं तावत्श्रुतिस्मृतिपुराणादिभिः सर्वोत्तरत्वेनावगतस्य श्रीवैखानससूत्रस्य अखिलशिष्टपरिगृहीतत्वमस्तीति दर्शयितुं मन्वाद्यैः स्वीकृतत्वादिति अष्टमो हेतुः निरूप्यते. तथा हि [९२.५] मनु: "अतः परं प्रवक्ष्यामि धर्मं वैखानसाश्रमम् ॥" इत्यारभ्य [९२.६] "पुष्पमूलफलैर्वापि केवलैर्वर्तयेत्सदा । [९२.७] कालपक्वैः स्वयं शीर्णैर्वैखानसमते स्थितः ॥" इति [ंनुढ्श्६.२१] [९२.८] व्यास: "मूलैरेके फलैरेके पुष्पैरेके दृढव्रताः । [ंBह्१२.२३६.१३ द्] [९२.९] वर्तयन्ति यथान्यायं वैखानसमते स्थिताः ॥" इति [ंBह्१२.२३६.१४ ब्] [९२.१०] गौतम: श्रामणकेनाग्निमाधायाग्राम्यभोजी" इति [९२.११] यम: श्रामणकेन विधानेन सायं प्रातरुपस्पृशेत्. इति [९२.१२-१३] शङ्खलिखितौ: श्रामणकेनाग्निमाधाय काले कुरुविन्द - वेणु - श्यामाकनीवारादिभिर्वर्तयेत्. इति. [९२.१४-१६] हारीत: वानप्रस्थो ग्राम्या ओषधी परिवर्जयेत्. त्रेताग्नीनां स्थाने श्रामणकं वाग्निमाधाय वल्कलशाणचर्मकुशमुञ्जविदलकं वा वसानो वैखानसप्रोक्तेन विधिना वानप्रस्थो विखना भवति. अनुज्ञायिकोऽनुप्रस्थायिकश्" चेति [९२.१७] वसिष्ठ: श्रामणकेनाग्निमाधायाहिताग्निर्वृक्षमूलिकः. इति [Vआसिष्ठढ्श्९.१०] [९२.१८] बोधायन: "वानप्रस्थो वैखानसशास्त्रसमुदाचारः" [ढ्ष्१२.६.११.१४] [९२.१९-२१] आपस्तम्ब: "एकाग्निरनिकेतः स्याद्" इति. अस्य धर्मकर्पर्दी "गार्हपत्यादीनां त्रेताग्नीनां स्थाने यस्यैकोऽग्निः औपासन एव - वैखानससूत्रे दृष्टत्वात्, पाणिग्रहणनिमित्वद्वादौपासनस्य. [९२.२२-२३] जैमिनीयसूत्रे सौमिकचातुर्मास्यप्रकारणे. "भारद्वाजपूर्वं यथा वैखानसपूर्वं पञ्चः" मेति (?) [अखिलशिष्टपरिग्रहस्य प्रामाण्यातिशयहेतुत्वम्] [९३.१-२] अत्रोभयत्र आत्रिव्याख्यानम् - षोडशर्त्विजां मध्ये भारद्वाजसूत्रिणं प्रस्तोतारं वैखानससूत्रिणं प्रतिहर्तारं वरयेत्" इति. [९३.३] कपिञ्जलसंहितायाम्: [९३.४] "याजनाध्यापनयुतः शिष्यानुग्रहकारकः । [९३.५] आचार्य इति विज्ञेयो मन्त्रतन्त्रपरायणः ॥ [Kअपिञ्जलष्] [९३.६] आश्रमे वा वने वाऽपि पुत्रदारसमाहितः । [९३.७] अष्टाक्षरपरो नित्यं स वैखानस उच्यते ॥ [Kअपिञ्जलष्] [९३.८] ग्राम्यधर्माणि सर्वाणि वर्जयेद्वनवासकः । [९३.९] वल्कलाजिनसंवीतः स मौनीत्यभिधीयते ॥" इति [Kअपिञ्जलष्] [९३.१०] पाद्मे द्वादशाक्षरप्रकारे [९३.११] "..... पुत्रदारसमन्वितः । [९३.१२] वने वा पत्तने वापि जपेद्वैखानसः शुचिः ॥ [९३.१३] वियुक्तः पुत्रदाराद्यैः स्वयमेव वने स्थितः ॥" [ড়द्मড়् ] [९३.१४] अन्यैरपि एवमेवोक्तम्. [९३.१५-१६] अखिलशिष्टपरिग्रहे को विशेष इति चेत्- अखिलशिष्टपरिग्रहात्प्रामाण्यातिशयोऽस्तीत्यवगम्यते. [९३.१७] आश्वमेधिके: "धर्मं जिज्ञासमानानां प्रमाणं प्रथमं श्रुतिः । [ंBह्१४, आप्प्. ४.२४९२] [९३.१८] द्वितीयं धर्मशास्त्रं हि तृतीयं लोकसङ्ग्रहः ॥" इति [ंBह्१४, आप्प्. ४.२४९३] [९३.१९] मनु: "विद्वद्भिस्सेवितं सम्यक्नित्यमद्वेषरागिभिः । [९३.२०] हृदयेनाभ्यनुज्ञातो यो धर्मस्तं निबोधत ॥" इति [ंनुढ्श्२.१] [९३.२१] याज्ञवल्क्य: "चत्वारो वेदधर्मज्ञाः पर्षत्त्रैविद्यमेव वा । [९३.२२] सा ब्रूतेऽयं स धर्मः स्यादेको वाध्यात्मवित्तमः ॥ [य़ाज्ञवल्क्यढ्श्१.९] [९३.२३] वेदाः प्रमाणं स्मृतयः प्रमाणं धर्मार्थयुक्तं वचनं प्रमाणम् । [९३.२४] यस्य प्रमाणं न भवेत्प्रमाणं कस्तस्य कुर्याद्वचनं प्रमाणम् ॥ [९४.१] न यस्य वेदा न च धर्मशास्त्रं [९४.२] न वृद्धवाक्यं च भवेत्प्रमाणम् । [९४.३] सोऽधर्मकृद्दुष्टहतो दुरात्मा [९४.४] स्वात्मापि तस्यैव भवेत्प्रमाणम् (?) ॥" [य़ाज्ञवल्क्यढ्श्] [स्मृतेर्वेदमूलत्वे त्रेधा निर्वाहः] [९४.५-९] स्मृतेरपि वेदमूलत्वे त्रेधा निर्वाहः कृतः. नित्यानुमेयश्रुतिमूलत्वं प्राभाकराः. "तेषामुत्सन्नाः पाठाः प्रयोगादनुमीयन्त" इत्युत्सन्नशाखामूलत्वमापस्तम्बाद्याः. तत्प्राभाकराधिभिः दूषितं भाष्यकारानभिमतञ्च. प्राभाकरपक्षेऽपि नित्यानुमेयश्रुतिमूलत्वे अक्षरशो वा आनुपूर्वीविशेषविशिष्टत्वेन वा. अक्षरश इति यद्युच्यते तर्हि कटतपयादीनामपि नित्यानुमेयश्रुतिमूलत्वात्स्मृतित्वं स्यात्. [९४.१०-१५] आनुपूर्वीविशेषविशिष्टत्वेनेति चेत्नित्यानुमेयत्वं भज्येतिति. उत्सन्नशाखामूलत्वमिति पक्षे शाखासु तत्रतत्रोत्सन्ना वा उतैका शाखा उत्सन्ना वा. तत्रतत्रेति चेत्न - पदक्रमादिरूपेणाधीयमानत्वादुत्सन्नशाखामूलत्वं न घटते. एकैवोत्सन्नेति चेत्- न. विष्णोरंशावतारस्य तपोयोगबलोपेतस्य सर्ववेदसाक्षात्कारवतो व्यासस्य अज्ञाताशासंभवेन एकस्यापि शिष्यस्य तदध्यापनसामर्थ्यसम्भवात्तथा वक्तुमयुक्तत्वादिति. अतो विप्रकीर्णशाखामूलत्वं वक्तव्यम्. तथोक्तम्. [९४.१६] "दुर्बोधा वैदिकाश्शब्दाः प्रकीर्णत्वाच्च ये खिलाः । [९४.१७] तद्ज्ञैस्त एव स्षष्टार्थाः स्मृतितन्त्रे प्रतिष्ठिताः ॥" इति [९४.१८-२०] अतः श्रुतिस्मृतिपुराणादिभिः प्रामाणत्वेनावगतस्य श्रीवैखानससूत्रस्य अखिलशिष्टपरिग्रहात्प्रामाण्यातिशयोऽस्तीति "मन्वाद्यैस्स्वीकृतत्वाद्" इति निरूपितोऽष्टमो हेतुः. [९४.२१] इत्यष्टमहेतुनिरूपणम् [नवमहेतुनिरूपणम्] [वैखानससूत्रिणां नारायणैकपरत्वम्] [९५.१-३] अथेदानीमापस्तबादिसूत्रान्तरनिष्ठानां सूत्रकारादारभ्य अविच्छिन्नत्वेन परम्परया एकान्तित्वं नास्तीति ज्ञापयितुं वैखानससूत्रिणामेव तत्सम्भवतीति दर्शयितुं. [९५.४] "प्रत्यक्षमनुमानञ्च शास्त्रञ्च विविधागमम् । [९५.५] त्रयं सुविदितं ज्ञेयं धर्मसिद्धिमभीप्सता ॥" [ंनुढ्श्१२.१०५] [९५.६-७] इति मनुस्मरणानुसारेण प्रत्यक्षादिभिरवगमयितुञ्च अखिलजगदेककारणभूतश्रीमन्नारायणैकपरत्वादिति नवमो हेतुर्निरूप्यते. [९५.८] अस्य सूत्रस्य नारायणैकपरत्वे: [तत्र षड्विधतात्पर्यलिङ्गानि] [९५.९] "उपक्रमोपसंहारावभ्यासोऽपूर्वता फलम् । [९५.१०] अर्थवादोपपत्ती च लिङ्गं तात्पर्यनिर्णये ॥" [नारायणस्यैव परब्रह्मशब्दवाच्यत्वम्] [९५.११-१७] इत्युक्तानि षड्विधानि तात्पर्यलिङ्गानि सन्ति. तथा हि आद्यप्रश्ने प्रथमखाण्डे "नारायणपरायण" इत्युक्तम्. एवं "सदाध्यात्मरतो ध्यानयोगी नारायणपरं ब्रह्म पश्यन् धारणं धारयेदक्षरं परं ब्रह्माप्नोति - "नारायणपरं ब्रह्मेति श्रुतिः" इत्युपसंहारे सन्न्यासविधौ प्रतिपादितम्. सन्ध्योपासनादि - पुण्याहाघारान्तहोम - नान्दीमुखोपनयन - पाणिग्रहणपर्यन्तेषु अन्तकर्मणि च अतो देवादिवैष्णवा मन्त्राः विनियुक्ताः. एवमाघारप्रकरणे "शरोऽङ्गारेऽग्नौ जुहुयाद्" इति सूत्रेण इध्माधानं तैत्तिरीयब्राह्मणवाक्यानुसारेण परब्रह्माग्नौ विहितम्. [ब्रह्मरुद्रादीनां यज्ञांशभाक्त्वं भगवत्प्रसादलब्धम्] [९५.१८-९६.५] परब्रह्मशब्दाभिधेयश्च भगवान्नारायण एवेति वेदान्तेषु निर्णीतम्. तथाहि: "सदेव सोम्येदमग्र आसीत्, एकमेवाद्वितीयम्" इत्यादिभिः प्रतिपन्नस्य अभिन्ननिमित्तोपादानकारणस्य "यतो वा इमानि भूतानि जायन्ते - तद्ब्रह्मे"त्यादिना जगत्कारणत्वं ब्रह्मशब्दवाच्यत्वञ्च प्रतिपाद्यते. तस्य "सत्यं ज्ञानमनन्तं ब्रह्मे" त्यादिना शोधकवाक्येन स्वरूपं निरूप्यते. सत्यत्वादिविशिष्टस्य तस्य "आनन्दो ब्रह्म" इति निरतिशयानन्दरूपत्वं प्रतिपाद्यते. एतादृशब्रह्मरूपं वस्तु "नारायणपरं ब्रह्म" "तत्त्वं नारायणः परः" "एको ह वै नारायण आसीत्" "अपहतपाप्मा दिव्यो देव एको नारायणः" इत्यादि वाक्यैः श्रीमन्नारायण एवेति नियम्यते. एवञ्च "अध्यूहन्ते" इति तैत्तिरीयवाक्यशेषस्थब्रह्मशब्दोऽपि नारायणपर एवेति प्रकृतसूत्रोक्तेध्माधानमपि नारायणपरमेव. [९६.६-९] एवमाधाने - "ध्यायन्नारायणमुपोष्य" इति, अग्निहोत्रे - भूमानं विष्णुं ध्यायेत्" इति, दर्शपूर्णमासे - "उदित आदित्ये ध्यायन्नारायणंऽविष्णोर्नु कम्ऽ इति जपित्वा" इति, सोमे च - "नारायणपरायणस्तूष्णीमास्ते" इति च सर्वत्रापि अभ्यासेन नारायणपरत्वेनोक्तत्वातिदं सूत्रं नारायणपरमेव. [९६.१०-१४] ननु - अत्र सूत्रे प्रवासागमने आश्वयुज्याञ्च "प्रदक्षिणमर्चनं प्रणामो गुहस्य" - "भवं देवमावाह्य" इत्युक्तत्वात्सर्वत्र नारायणपरत्वमस्येति कथं वक्तुं शक्यते इति चेत्- उच्यते. "अङ्गान्यन्या देवता" इति अङ्गभूतानां ब्रह्मरुद्रादीनामपि यज्ञांशभाक्त्वं भगवत्प्रसादलब्धमिति भारतादिनावगम्यते - तथाहि [९६.१५] "ततस्ते सुरास्सर्वे ब्रह्मा ते च महर्षयः ॥ [ंBह्१२.३२७.४८ द्] [९६.१६] वेददृष्टेन विधिना वैष्णवं क्रतुमारभन् । [९६.१७] तस्मिन् सत्रे तथा ब्रह्मा स्वयं भागमकल्पयत् । [९६.१८] देवा महार्षयश्चैव सर्वे भागानकल्पयन् ॥ [ंBह्१२.३२७.४९] [९६.१९] ते कार्तयुगधर्माणो भागाः परमसंस्कृताः । [९६.२०] प्रापुरादित्यवर्णं तं पुरुषं तमसः परम् ॥ [ंBह्१२.३२७.५०] [९६.२१] श्रीभगवान्: येन यः कल्पितो भागः स तथा समुपागतः । [९६.२२] प्रीतोऽहं प्रदिशाम्यद्य फलमावृत्तिलक्षणम् ॥ [ंB.ह्१२.३२७.५२] [९६.२३] यज्ञीये चापि यक्ष्यन्ति सर्वलोकेषु वै सुराः । [९६.२४] कल्पयिष्यन्ति वो भागांस्ते नरा वेदकल्पितान् ॥ [ंBह्१२.३२७.५४] [रुद्रीदीनां नारायणाङ्गतया पूजार्हत्वम्] [९७.१] यो मे यथा कल्पितवान् भागमस्मिन्महाक्रतौ । [९७.२] स महायज्ञभागार्हो वेदसूत्रे मया कृतः ॥" इति [ंBह्१२.३२७.५५] [९७.३] श्रीभागवते: "अहं भवो दक्षभृगुप्रधानाः प्रजेशभूतेशसुरेशमुख्याः । [९७.४] सर्वे वयं यन्नियमं प्रपन्ना मूर्ध्नार्पितं लोकधुरं वहामः ॥" [९७.५] एवं च भवादीनामपि नारायणाङ्गत्वेन पूजार्हत्वावगमात्. [९७.६] "अङ्गभावेन देवानामर्चनं न निषिद्ध्यते । [९७.७] स्वतन्त्रबुद्ध्या कुर्वन् हि ब्राह्मणो नरकं व्रजेत् ॥ [९७.८] ब्रह्माणमिन्द्रमग्निं वा हरेरावरणं विना । [९७.९] यस्तु सम्पूजयेद्विप्रः स पाषण्डी भवेद्ध्रुवम् ॥" [९७.१०] इत्यादिना अङ्गभावेन तेषामर्चनं कुर्वतो दोषाभावस्मरणाच्च सूत्रे तथोक्तिः. [९७.११] तथा: "अन्यत्र त्वां समारोप्य यद्युपासा विधींयते । [९७.१२] सा वृत्तिः प्रच्युता प्रोक्ता तव तत्त्वं तथैव च ॥ [Kञ्.K ] [९७.१३] त्वयि सर्वं समारोप्य यद्युपासा विधीयते । [९७.१४] सा वृत्तिः सकला ज्ञेया तव तत्त्वं तवैव हि ॥" [Kञ्K ] [९७.१५-१८] इति ज्ञानकाण्डे कश्यपेनोपासनस्वरूपभेदप्रदर्शनात्"विष्णोर्नित्यार्चा सर्वदेवार्चा भवती"ति मुख्यत्वेन सूत्रेण प्रतिपादितत्वात्प्रच्युतिफलप्रदत्वाभावाच्च तेषामङ्गभावेन पूजनं युज्यते. आपस्तम्बादिसूत्रेषु सर्वसंस्काराणां सद्वारकत्वेन प्रतिपादनात्नारायणैकपरत्वेन सकृदपि स्मरणाभवात्तेषां न नारायणैकपरत्वम्. [आपस्तम्बादिसूत्राणां नारायणैकपरत्वाभावः] [९७.१९-२१] ननु बोधायनेनापि "अथातो विष्णुप्रतिष्ठाकल्पं व्याख्यस्यामो द्वादश्यामेकादश्यां श्रोणायां वा यानि चान्यानि शुभनक्षत्राणि" इत्यारभ्य "द्वादशनामभिः अमुष्मै स्वाहा अमुष्मै स्वाहा" इत्यादिना होमादिकमुक्ता. [९७.२२] "त्वामेकमाद्यं पुरुषं पुरातनं [९७.२३] नारायणं विश्वसृजं यजामहे । [९७.२४] त्वमेव यज्ञो विहितो विघ्नेयः [९७.२५] त्वमात्मनात्मन् प्रतिगृह्णीष्व हव्यम् ॥" [ङृशेष्ष्२.१३.३६] [आपस्तम्बादीनां नानादेवतापरत्वम्] [९८.१-५] इति नारायणैकपरत्वेन प्रतिपादनात्कथं तेषां नारायणैकपरत्वं नास्तीत्युच्यत इति चेत्- सत्यम्. आपस्तम्बादीनामाचार्येणानेन बोधायनेन नारायणैकपरत्वेन प्रतिष्ठादिकमनुक्तम्. किन्तु. "अथ रुद्रप्रतिष्ठाविधिं व्याख्यास्यामः. चतुर्थ्यामष्टम्यामार्द्रायामपभरण्यां वा यानि चान्यानि शुभनक्षत्राणि" इति प्रकृत्य "भवाय देवाय स्वाहे"त्यादिभिः "भवस्य देवस्य पत्न्यै स्वाहे"त्यादिभिश्च होमादिकमुक्त्वा [ङृशेष्ष्२.१६.१-२] [९८.६] "त्वामेकमाद्यं पुरुषं पुरातनं [९८.७] रुद्रं शिवं विश्वसृजं यजामहे । [९८.८] त्वमेव यज्ञो विहितो विधेयस् [९८.९] त्वमात्मनात्मन् प्रतिगृह्णीष्व हव्यम् ॥" [ङृशेष्ष्२.१६.३९] [९८.१०] इति शिवप्रतिष्ठा, एवं "अथातो महादेवस्याहरहः परिचर्याविधिं व्याख्यास्यामः" [९८.११-१५] इत्यारभ्य "महादेवमावाहयेत्- आयातु भगवान्महादेव" इति पृथक्त्वेन रुद्रपूजा च प्रतिपादिता. तथा - अन्यत्र "अथातोऽर्धमासेऽर्धमासेऽष्टम्यां ब्राह्मणाः स्त्रियश्चाहुः" इत्यारभ्य "अथ प्रदोषे रुद्रं विरूपाक्षं सपनीकं ससुतं सपार्षदम्" इत्यादिभिः रुद्रावाहनमुक्तम्. एवं "आदित्यमम्बिकां विष्णुं गणनाथं महेश्वरम्" इति पञ्चपूजा च. अतः बोधायनसूत्रं नारायणैकपरं न भवति. [९८.१६-१८] अथ आपस्तम्बादयः किं नारायणैकपरः - अत रुद्रपराः आहोस्वित्नानादेवतापराः?. नारायणैकपरा इति चेन्न. जातिकुलाचारादिष्वागोत्रप्रथमादारभ्य: [९८.१९] "श्वश्रूरस्य दिगम्बरव्रतवती सम्बन्धिनस्सौगताः । [९८.२०] माता चास्य पिता च पाशुपतिनौ वैशेषिको देशिकः । [९८.२१] भ्राता तिष्ठति साङ्ख्ययोगसमये चार्वाकशिष्यस्सखा [९८.२२] मिथ्याचारसमाह्वयस्स्वयमसौ विप्लाविको वैदिकः ॥" [९८.२३-९९.४] इत्युक्तरीत्या एतेषां शैवपाशुपतवैष्णवाद्याकरिण विद्यमानत्वातापस्तम्बादिसूत्राण्यपि नारायणैकपराणि न भवन्ति. भगवतो नारायणस्य समाराधनविधिप्रतिपादनाभावाच्च. नारायणैकपरञ्चेदापस्तम्बादिसूत्रं तर्हि तत्सूत्रोक्तधर्मानुष्ठातारः सर्वेऽपि नारायणैकपरा एव स्युः. न च तथा दृश्यते. पाञ्चरात्राद्युक्तमार्गेण वैष्णवसंपादने "स्वसूत्रे विद्यमाने तु" - "स्वसूत्रस्य परित्यागात्" - "यस्स्वधर्मं परित्यज्य" "विधर्मः परधर्मश्च" - श्रेया स्वधर्मो विगुणः" - इत्यादि वचनप्रतिपादितस्वसूत्रपरित्यागपरधर्मस्वीकारशाखारण्डत्वादिदोषाः प्रसज्येरन्. [९९.५-६] "स्वशास्त्रनिर्णये सत्ये सत्याः स्युर्लोकनिर्णया" इति स्वसूत्रस्य प्रामाण्यबुद्धिश्च तेषामवर्जनीया. [वैखानसानामविच्छेदेन नारायणपरत्वम्] [९९.७-९] वैखानसानां सूत्रकारादारभ्य अविच्छिन्नत्वेन श्रीमन्नारायणैकपरत्वेनाराधनादिकं प्रत्यक्षसिद्धम्. तथा च सूत्रम्, "गृहे देवायतने वा भक्त्या भगवन्तं नारायणमर्चयेत्तद्विष्णोः परमं पदं गच्छतीति विज्ञायते" इति. [९९.१०-१२] इतरेष्वापस्तम्बादिषु पितृ पितामह मातुल मातामह पुत्र पौत्र भ्रातृ सम्बन्धिषु केचिच्छैवाः केचिद्पाशुपताः केचिच्छाक्ताः नानादेवतापराश्चेत्येवमाकारेण दृश्यते. [९९.१३] "जन्मान्तरसहस्रेषु तपोज्ञानसमाधिभिः । [९९.१४] नराणां क्षीणपापानां कृष्णे भक्तिः प्रजायते ॥" [९९.१५-१६] इति केषाञ्चित्स्वकृतपूर्वपुण्यविशेषान्नारायणपरत्वसम्भवेऽपि स्वसूत्रकारमारभ्य स्वपर्यन्तमविच्छिन्नत्वेन तदस्तीति वक्तुं न शक्यते. अतः - [९९.१७] "नानाकामहतज्ञाना नानादैवतयाजिनः । [९९.१८] नरा भगवतैकन्त्ये न स्थास्यन्ति कलौ युगे ॥ [Vआयुড়्] [९९.१९] आगमादनुमानाच्च प्रत्यक्षादुपपत्तितः । [९९.२०] परीक्ष्य निपुणं बुद्ध्या श्रद्धातव्यं विपश्चिता ॥" [Vआयुড়्] [९९.२१-२२] इति वायुपुराणादिवचनादागमादिभिर्निपुणं परीक्ष्य निर्णीत एवार्थः विपश्चिद्भिः अनुष्ठेयः. [नारायणस्य पारम्यम्] [९९.२३-१००.१०] ननु - किमर्थं नारायणैकपरत्वेन सूत्रं प्रणीतमिति चेत्- उच्यते. नारायण अखिलजगदेककारणत्वात्परंब्रह्मपरमात्मादिशब्दवाच्यत्वातपवर्गादिफलप्रदत्वात्समाभ्यधिकरहितत्वाच्च नारायणैकपरत्वेन प्रणीतम्. अत्र - "नारायणाद्रु जायते. नारायणादिन्द्रो जायते. नारायणाद्द्वादशादित्याः रुद्रा वसवस्सर्वाणि च भूतानि. नारायणादेव समुद्पद्यन्ते. नारायणात्प्रलीयन्ते" इत्याद्याः "नारायणपरं ब्रह्मे"त्यारभ्य "अन्तर्बहिश्च तत्सर्वं व्याप्य नारायणः स्थितः" इत्याद्याः, "तमेव विद्वानमृत इह भवति. नान्यः पन्था अयनाय विद्यते" "उतामृतत्वस्येशानः" इत्याद्याः, "न तस्य कार्यं करणञ्च विद्यते" "न तत्समश्चाभ्यधिकश्च दृश्यते" "परास्य शक्तिर्विविधैव श्रूयते स्वाभाविकी ज्ञानबलक्रिया च" इत्याद्याः, "एष सर्वभूतान्तरात्मा दिव्यो देव एको नारायणः" इत्याद्याः, "एको ह वै नारायण आसीत्" इत्याद्याः, "यतो वा इमानि भूतानि जायन्ते. येन जातानि जीवन्ति. यत्प्रयन्त्यभिसंविशन्ति. तद्विजिज्ञासस्व. तद्ब्रह्मे"ति "पतिं विश्वस्यात्मेश्वरम्" इत्याद्याश्च श्रुतयः प्रमाणम्. [श्वेताश्वतरादेः रुद्रपारम्यपरत्वाभावः] [१००.११-२३] ननु - श्वेताश्वतरे - "एको हि रुद्रो न द्वितीयाय तस्थे - य इमान् लोकानीशत ईशनीभिः - विश्वाधिको रुद्रो महर्षिः - हिरण्यगर्भं जनयामास पूर्वं स नो बुद्ध्या शुभया संयुनक्तु - "उमासहायं परमं महेश्वरं त्रियम्बकं नीलकण्ठं प्रशान्तम्. ज्ञात्वा मुनिर्गच्छति भूतयोनिं समस्तसाक्षिं तमसः परस्तात्" इत्यादिभिः रुद्रस्यापि जगत्कारणत्वादि प्रतिपाद्यत इति चेत्- उच्यते. आपाततो रुद्रपरत्वेनावगम्यमानेऽपि विचार्यमाणे नारायणपरत्वमेव. एक एव रुद्र इत्यनुपपन्नम्. "सहस्राणि सहस्रशो ये रुद्रा" इत्यादि श्रुतिभिः "एकादशरुद्रा" इत्यादिभिश्च अनेकरुद्राणां विद्यमानत्वावगमात्क्रूरस्य रुद्रशब्दवाच्यस्य "बृहत्त्वात्बृंहणत्वाच्च तद्ब्रह्मेति प्रकीर्तितम्" इति ब्रह्मशब्दवाच्यत्वासम्भवात्, "तेषामसुराणां तिस्रः पुर आसन्न्" इत्यारभ्य, "इदमसिष्यतीति रुद्रमब्रुवन् रुद्रो वै क्रूरस्सोऽस्यत्विति. सोऽब्रवीद्वरं वृणै अहमेव पशूनामधिपतिरसाविति तस्माद्रुद्रः पशूनामधिपतिरिति" "रुद्रो वा अकामयत पशुमान् स्यामिति - "माता रुद्राणां दुहिता वसूनाम्" इति. पशुपतित्वयाचकत्वात्. "नैव देवो न मर्त्यः. न राजा वरुणो विभुः. नाग्निर्नेन्द्रो न पवमानः. [ब्रह्मरुद्रादीनां नारायणसाम्याभावः] [१००.२४-१०१.७] मातृक्कश्च न विद्यते - इत्यारभ्य "एतद्रुद्रस्य धनुः. रुद्रस्यत्वेन धनुरार्त्निः. शिर उत्पिपेष. स प्रवर्ग्योऽभवत्. तस्माद्यस्सप्रवर्ग्येण यज्ञेन यजते. रुद्रस्य स शिरः प्रतिधाति. नैनं रुद्र आरुको भवति" इत्युक्तत्वाच्च रुद्रस्य ब्रह्मशब्दवाच्यत्वं न सम्भवति. रुद्र हर पशुपति नीलग्रीव शितिकण्ठ भव शर्व कपर्दीत्यादीनामेकत्वेन श्रुयमाणानामेकत्वं न सम्भवति. ईश्वर महेश्वर परममहेश्वर इति परममहेश्वरशब्दश्रवणात्. "शिव एको ध्येयः शिवश्शङ्करः सर्वमन्यत्परित्यज्ये" त्यादिना शिवशब्दवाच्यादधिकत्वेन शिवतरशिवतमशब्दवाच्यस्य विद्यमानत्वात्. शम्भुशब्दस्य विश्वशम्भुत्वश्रवणातीशानस्य जगदीशानत्वश्रवणात्महादेवस्य "तमीश्वराणां परमं महेश्वरं तं देवतानां परमञ्च दैवतम्" इति श्रवणाच्च रुद्रादीनां परंब्रह्मशब्दवाच्यत्वं न सम्भवति. [१०१.८-१२] ननु - श्वेताश्वतरे - उमासहयविशेषित परममहेश्वरशब्दवाच्यस्य रुद्रत्वसम्भवात्परंब्रह्मशब्दवाच्यत्वं तस्य सम्भवतीति चेत्- न. परममहेश्वरशब्दस्य उमासहायमित्यत्र रुद्रादिष्वनुपपन्नत्वात्. उकारस्त्ववधारणार्थः. उ - मा सहायं लक्ष्मीसहायं परमं महेश्वरमेव त्रिलोचनत्वादिविशेषणविशिष्ठं लक्ष्मीनरसिंहं ध्यात्वेत्यर्थः. यद्वा. देवमनुष्याद्यपेक्षया परममहेश्वरत्वात्, [१०१.१३] "सृष्टिस्थित्यन्तकरणीं ब्रह्मविष्णुशिवात्मिकाम् । [१०१.१४] स संज्ञां याति भगवानेक एव जनार्दनः ॥" [१०१.१५-१८] इति भगवच्छरीरभूतत्वाच्च रुद्रस्य परममहेश्वरत्वम्. एवं भूतं रुद्रं ध्यात्वा मुनिर्मननशीलस्सन् भूतयोनिं सर्वकारणकारणं सम्स्तरक्षकं तमसः परस्तात्गच्छति. "आदित्यवर्णं तमसः परस्ताद्" इत्यादिभिः तमसः पारवर्तिनं प्रकृतेः परं परमात्मानं नारायणं गच्छति - प्राप्नोति इत्यर्थः. [१०१.१९] किञ्च - अत्र: सनो देवः शुभया स्मृत्या संयुनक्तु. इत्यनेन [१०१.२०] "आरोग्य भास्करादिच्छेत्श्रियमिच्छेद्धूताशनात् । [१०१.२१] शङ्करात्ज्ञानमन्विच्छेत्मोक्षमिच्छेज्जनार्दनात् ॥" [१०१.२२-२३] इति ज्ञानप्रदत्वात्शङ्करोपासनमुच्यते. अतो भगवता नारायणेन साम्यं ब्रह्मरुद्रादीनां नोपपद्यते. [१०१.२४] भारते: "ये तु सामान्यभावेन मन्यन्ते पुरुषोत्तमम् । [१०१.२५] ते वै पाषण्डनो ज्ञेयास्सर्वकर्मबहिष्कृताः ॥ [ंB.ह्] [रुद्रादिसाम्येन नारायणावमन्तॄणामनिष्टम्] [१०२.१] यस्तु नारायणं देवं सामान्येनाभिमन्यते । [१०२.२] स याति नरकं घोरं यावच्चन्द्रादिवाकरम् ॥ [ंB.ह्] [१०२.३] यो महाद्विष्णुमन्येन हीनदेवेन दुर्मति । [१०२.४] साधारणं सकृद्ब्रूते सोऽन्त्यजो नान्त्यजोंऽत्यजः ॥" [ंBह्] [१०२.५] वाराहे: "अन्यदेवसमं ये तु मन्यन्ते मां नराधमाः । [१०२.६] चण्डालतां व्रजन्त्याशु जन्मनि नव पञ्च च ॥" इति [Vअराहড়्] [१०२.७] श्रीभागवते: "यस्तु नारायणं देवं समत्वेनावमन्यते । [१०२.८] सकृत्तेनावमानेन नरकान्नातिवर्तते ॥ [भागवतपुराण ] [१०२.९] अस्मादन्यं परत्वेन चिन्तयानो ह्यचेतनः । [१०२.१०] स पाषण्डीति विज्ञेयस्सर्वकर्मबहिष्कृतः ॥" इति [भागवतपुराण ] [१०२.११] कौर्मे: "येऽन्यं देवं परत्वेन वदन्त्यज्ञानमोहिताः । [१०२.१२] नारायणाज्जगन्नाथात्ते वै पाषण्डिनः स्मृताः ॥ [Kऊर्मড়् ] [१०२.१३] यस्तु नारायणं देवं ब्रह्मरुद्रादिदैवतैः । [१०२.१४] समत्वेनैव वीक्षेत स पाषण्डी भवेद्द्विजः ॥" इति [Kऊर्मড়् ] [१०२.१५] भारद्वाज: "अशुद्धा ब्रह्मरुद्राद्या जीवा विष्णोर्विभूतयः । [१०२.१६] तान् वै कुदृष्टयस्सम्यक्परत्वेनाप्युपासते ॥" इति [१०२.१७] वाराहे: अगस्त्यं प्रति रुद्रः: [१०२.१८] "यो यज्ञैरिज्यते देवो यस्मात्सर्वमिदं जगत् । [१०२.१९] उत्पन्नं सर्वदा यस्मिन् लीयते सचराचरम् ॥ [Vअराहড়्] [१०२.२०] नारायणः परो देवः सत्त्वरूपी जनार्दनः । [१०२.२१] त्रिधात्मानं स भगवान् ससर्ज परमेश्वरः ॥ [Vअराहড়्] [१०२.२२] शुद्धसत्त्वस्स्वयं जज्ञे रजस्सत्त्वादिकं विभुः । [१०२.२३] ससर्ज नाभिकमले ब्रह्माणं कमलासनम् ॥ [Vअराहড়्] [१०२.२४] रजसा तमसा युक्तं सोऽपि मां ससृजे प्रभुर् ॥" इति [Vअराहড়्] [१०३.१] ननु: "सर्वपापहरञ्चेह पश्चात्संसारनाशनम् । [१०३.२] सुवर्णरौप्यताम्राद्यैः लोहेनापि तथैव च ॥ [Vअराहড়्] [१०३.३] तथा रयाङ्गमष्टाङ्गं सुनाभञ्च सुवृत्तकम् । [१०३.४] ज्वालाचतुष्कसंयुक्तं कृत्वा चैव विधानतः ॥ [Vअराहড়्] [१०३.५] अग्नौ प्रताप्य विधिवत्धारयेद्भक्तिसंयुतः ॥" इति [Vअराहড়्] [१०३.६] "यज्ञो दानं तपो होमो भोजनं पितृतर्पणम् । [१०३.७] चक्रलाञ्छनहीनस्य विप्रस्य विफलं भवेत् ॥ [Vअराहড়्.] [१०३.८] श्राद्धे दाने व्रते यज्ञे विवाहे चोपनायने । [१०३.९] चक्राङ्कितं विप्रमेव पूजयेदपरं न तु ॥" [Vअराहড়्] [१०३.१०-११] इत्यादिवचनैः चक्रादिनानङ्कितस्य वैष्णवत्वाभावात्वैखानसानां कथं वा वैष्णवत्वमिति चेत्- उच्यते. [चक्राद्यनङ्कितानामपि वैखान्सानां वैष्णवत्वम्] [१०३.१२-१३] "यस्य मे श्रियममितां दातुं गर्भ एव करे चक्रं धारयामि स चक्रवर्ती भवति" इति श्रुतेः [१०३.१४] "वैखानसानां सर्वेषां गर्भवैष्णवजन्मनाम् । [१०३.१५] नारायणः स्वयं गर्भे मुद्रां धारयते निजाम् ॥" इति [१०३.१६] "सुदर्शनमभीत्युक्त्वा दक्षिणे तु सुदर्शनम् । [१०३.१७] रविपामिति वामे तु शङ्खञ्च बिभृयात्करे ॥" [वैखानसानां गर्भतो वैष्णवत्वम्] [१०३.१८] इति भृगुणोक्तत्वाच्च श्रीविष्णुबलिकर्मणा वैखानसानां गर्भवैष्णवत्वादिकं प्रतिपन्नम्. [१०३.१९] तथा: "इन्द्रियेभ्यः परा ह्यर्था ह्यर्थेभ्यश्च परं मनः । [१०३.२०] मनसस्तु परा बुद्धिर्बुद्धेरात्मा महान् परः ॥ [१०३.२१] महतः परमव्यक्तमव्यक्तात्पुरुषः परः । [१०३.२२] पुरुषान्न परं किञ्चित्सा काष्ठा सा परा गतिः ॥" [गर्भगतस्य प्रपदनोपपत्तिः] [१०३.२३] इति श्रुतेः परमैकान्तित्वं परमपुरुषवशीकरणद्वारा गर्भगतस्य प्रपत्तिरपि सम्भवति. [१०३.२४] गर्भगतस्य प्रपत्तिरपि गर्भोपनिषदि श्रूयते. "ज्ञानाद्ध्यनादक्षरमोङ्कारः चिन्तयति." [१०४.१-२] इत्युक्त्वा "अथ नवमे मासि सर्वलक्षणसम्पूर्णो भवति. पूर्वजातिं स्मरति. कृताकृतञ्च कर्म भवति. शुभाशुभञ्च कर्म विन्दति." [१०४.३] "नानायोनिसहस्राणि दृष्टा चैव ततो मया । [१०४.४] आहारा विविधा भुक्ताः पीताश्च विविधाः स्तनाः ॥ [ङर्भ.ऊ ४.१] [१०४.५] जातस्यैव मृतस्यैव जन्म चैव पुनः पुनः । [१०४.६] अहो दुःखो दधौ मग्नो न पश्यामि प्रतिक्रियाम् ॥" इत्युक्त्वा [ङर्भऊ ४.२] [१०४.७] "यदि योन्याः प्रमुच्येऽहं तं प्रपद्ये नारायणाम् । [१०४.८] अशुभक्षयकर्तारं फलमुक्तिप्रदायकम् ॥" इति [ङर्भऊ ४.६] [१०४.९-१४] पुरुषसूक्तभाष्ये - मुद्गलोपनिषदि - "वामदेवोऽप्याङ्गिरसस्सन् पूर्वपूजां समारात्रिं पत्न्यनसूयागर्भ एव शयानो ब्रह्मैव वेदयाञ्चक्रे स गर्भं पुरो भित्वा ब्रह्मलोकमुपचक्राम तमुत्क्रामान्तमाह मध्येऽध्वानमिन्द्रः उपनिषद उवाच, भगवन् गर्भपञ्जरे एवाभिनिवेशमान अनभिज्ञातोपायोऽस्मात्किञ्चिद्धादित्या स गर्भस्सर्वो मन्यमानोऽध्वनः पारमुपगच्छसी"त्यादि. तथा च गर्भगतस्य प्रपदनविचारश्रवणाद्युपपद्यत एव. [वैदिकतान्त्रिकभेदेन प्रपत्तेर्द्वैविद्यम्] [१०४.१५-१६] वैदिकतान्त्रिकभेदेन प्रपत्तिर्द्विविधा - प्रणवपूर्वकत्वेन पुरुषाद्यावाहनादिकं वैदिकम्. [वैदिकप्रपत्तेर्लक्षणम्] [१०४.१७] श्रुत्यन्तरे: "अकारेणोच्यते विष्णुस्सर्वलोकेश्वरो हरिः । [१०४.१८] उद्धृता विष्णुना लक्ष्मीरुकारेण तथोच्यते । [१०४.१९] मकारस्तु तयोर्दास इति प्रणवलक्षणम् ॥" इति [१०४.२०] किञ्च. प्रणवोच्चारणमात्रेण शङ्खचक्रादिधारणमपि सम्भवतीति श्रुयते. [१०४.२१-२४] कैवल्योपनिषदि - "धृतोर्ध्वपुण्ड्रः कृतचक्रधारी विष्णुं परं ध्यायति यो महात्मा. स्वरेण मन्त्रेण सदा हृदिस्थं परात्परं यन्महतो महान्तम्." इति. सर्वकारणभूताय सर्वरक्षकाय सर्वशेषिणे श्रियः पतये एव स्वाभाविकशेषभूत इति सर्वदानुसन्धानमेव वैदिकी प्रपत्तिः. [१०५.१] "स्वोज्जीवनेच्छा यदि ते स्वसत्तायां स्पृहा यदि । [१०५.२] आत्मदास्यं हरेः स्वाम्यं स्वभावञ्च सदा स्मर ॥" [१०५.३] इत्येव सूत्रे प्रतिपदितम्. [१०५.४] पाञ्चरात्रे तु [१०५.५] "त्यक्त्वा त्रयीं तन्त्रमेव प्रपद्य शरणं स्थिताः ॥" इति [ড়ाद्मष्चर्यापाद २१.५६ द्] [१०५.६] "अनन्यसाध्ये स्वाभीष्ठे महाविश्वासपूर्वकम् । [१०५.७] तदेकोपायता याच्ञा प्रपत्तिः शरणागतिः ॥" [१०५.८-१०] इति च उपदिश्यते. तस्याः प्रपत्तेः सकृत्करणात्समन्त्रकत्वाभावात्तच्छेषगत्यनुस्मरणाभावाच्च तां तान्त्रिकप्रपत्तिं विहाय "यदेव विद्यया करोति तदेव वीर्यवत्तरं भवती"ति श्रुत्या वैदिकप्रपत्तिमेवोक्तवान् सूत्रकारः. [तप्तचक्राद्यङ्कं न द्विजन्मनाम्] [१०५.११] स्कान्दे: "विष्ण्वागमादितन्त्रेषु दीक्षितानां विधीयते । [१०५.१२] शङ्खचक्रगदापूर्वैरङ्कनं नान्यदेहिनाम् ॥ [ष्कन्दড়् ] [१०५.१३] शिवागमादिदीक्षाणां धार्यं तिर्यक्त्रिपुण्ड्रकम् ॥" इति [ष्कन्दড়् ] [१०५.१४] विष्णु: "शङ्खचक्राद्यङ्कनञ्च गीतनृत्तादिकं तथा । [१०५.१५] एकजातेरयं धर्मः न जातु स्याद्द्विजन्मनाम् ॥" इति [Vइष्णुড়् ] [१०५.१६] श्रीभागवते दशमस्कन्धे: [१०५.१७] "त्रिवक्रायामुपश्लोकः पुत्रः कृष्णमनुव्रतः । [१०५.१८] शिष्यस्साक्षान्नारदस्य ददौ चित्तमखण्डितम् ॥ [१०५.१९] तेनोक्तं सात्त्वतं तन्त्रं यत्ज्ञात्वा मोक्षभाग्भवेत् । [१०५.२०] यत्र स्त्रीशूद्रदासानां संस्कारो वैष्णवः स्मृतः ॥" इति [भागवतपुराण ] [तान्त्रिकप्रपत्तेर्लक्षणादि] [१०५.२१] पद्मपुराणे: "वेदज्ञे ब्राह्मणे नित्यं सर्वास्तिष्ठन्ति देवताः । [१०५.२२] इति तित्तिरिशाखायां श्रूयते नृपसत्तम ॥ [ড়द्मড়् ] [१०५.२३] दक्षिणेऽंसे ब्राह्मणस्य शङ्खचक्रगदाधरः । [१०५.२४] हरिस्तिष्ठति वामे तु देवकीसूनुरादरात् ॥ [ড়द्मড়् ] [१०६.१] ततो ब्राह्मणदेहोऽयं देवतागार उच्यते । [१०६.२] तद्दाहे देवतास्सर्वे पलायन्ते दिशो दश ॥ [ড়द्मড়् ] [तप्तचक्रङ्कणादिविधीनामधिकारी] [१०६.३] अगारदाही स भवेत्तद्दाही ब्राह्मणाधमः । [१०६.४] शङ्खं चक्रं मृदा यस्तु कुर्यात्तप्तायसेन वा ॥ [ড়द्मড়् ] [१०६.५] स शूद्रवत्बहिष्कार्यः सर्वस्माद्द्विजकर्मणः । [१०६.६] यथा श्मशानजं काष्ठमनर्हं सर्वकर्मसु ॥ [ড়द्मড়् ] [१०६.७] तथा चक्राङ्कितो विप्रस्सर्वकर्मसु गर्हितः ॥" इति. [ড়द्मড়् ] [१०६.८] तत्रैव: "मोहाद्वा लोभतो वापि विप्रश्चक्राङ्कितो यदि । [१०६.९] अनर्हस्स हि विज्ञेयः श्रौतस्मार्तेषु कर्मसु ॥ [ড়द्म.ড়् ] [१०६.१०] क्रियास्वनर्हतामेति यथा काष्ठं श्मशानगम् । [१०६.११] तथा चक्रादिना दग्धाः सर्वकर्मस्वनर्हताम् ॥ [ড়द्मড়् ] [१०६.१२] दग्धार्धकायो यत्रास्ति ग्रामे जनपदेऽपि वा । [१०६.१३] श्मशानं तद्धि विज्ञेयं वासानर्हं द्विजन्मनाम् ॥" [ড়द्मড়् ] [१०६.१४-१६] इत्यादिना दूषणमुक्तम्. एतानि तप्तचक्राङ्कनविधायकानि वचनानि "विष्ण्वागमादितन्त्रेषु दीक्षितानाम्" इत्युक्तत्वातेकजातिविषयत्वेनोक्तत्वात्"नान्यदेहिनाम्" इत्युक्तत्वाच्च तान्त्रिकागमोक्तप्रकारेण दीक्षितविषयाणीत्यवगम्यते. [१०६.१७-१९] यद्वा विधिनिषेधवचनानां वैयर्थ्यपरिहाराय "वपाश्रपणीभ्याम् अन्वारभते तन्नैवान्वारब्धं नैवानन्वारब्धं" "अवघ्रेयमेव तत्नैव प्राशितं नैवाप्राशितम्" इत्यादि श्रुतिन्यायेन समन्त्रकत्वेन भावनारूपेण श्रीवैखानसशास्त्रे प्रतिपादितम्.. यथा: [१०६.२०] "सुदर्शनमभीत्युक्त्वा दक्षिणे तु सुदर्शनम् । [१०६.२१] रविपामिति वामे च शङ्खञ्च बिभृयात्करे ॥" इति [१०६.२२] महोपनिषदि - ब्रह्मसूक्ते: [१०६.२३] "दक्षिणे तु भुजे विप्रो बिभृयाद्वै सुदर्शनम् । [१०६.२४] सव्ये तु शङ्खं बिभृयादिति वेदविदो विदुः ॥" इति. [पाञ्चरात्रोक्ततप्तचक्रधारणस्य सर्वाधिकारिकत्वाभावः] [पाञ्चरात्रादीनां मोहनशास्त्रत्वम्] [१०७.१] मोहशास्त्रत्वात्शप्तविषयत्वाच्च पञ्चरात्रे तापविधानमुक्तमिति केचित्वदन्ति. [१०७.२] पद्मपुराणे गौतम: "यन्मयि ब्राह्मणाभासाः ऋजौ कैतवमीदृशम् । [१०७.३] अनुष्ठितं ततो वेदमार्गभ्रष्ठाश्च पापिनः ॥ [ড়द्म.ড়् ] [१०७.४] कालमुखे पाञ्चरात्रे कालपाले शाम्भवेऽपि च । [१०७.५] शाक्ते च दीक्षिता यूयं भवत ब्राह्मणाधमाः ॥" इति [ড়द्मড়् ] [१०७.६] ब्रह्मा: "बौद्धे भागवते तन्त्रे तृतीये पाञ्चरात्रके । [१०७.७] दीक्षिताश्च द्विजा नित्यं भवेयुर्निर्भया हरे ॥ [ড়द्मড়् ] [१०७.८] श्रौतस्मार्तसमाचारे सद्योमुक्तिकरे शुभे । [१०७.९] त्वद्भक्तिविमुखा नित्यं भवेयुः परिमोहिताः ॥ [ড়द्म.ড়् ] [१०७.१०] शङ्ख्वैखनचक्रगदापूर्ववज्रपाशाङ्कुशादिभिः । [१०७.११] अङ्किताः श्रद्धया यूयं भवत ब्राह्मणाधमाः ॥" इति [ড়द्मড়् ] [१०७.१२] स्कान्दे - "सूतसंहितायां सरस्वतीं प्रति रुद्रः: [१०७.१३] "श्रुतिर्बलीयसीत्युक्ता प्रमाणानां सुलोचने" इत्यारभ्य [ष्कन्दড়् ] [१०७.१४] "पाञ्चरात्रादिमार्गाणां वेदमूलत्वमास्तिके । [१०७.१५] न हि स्वतन्त्रतस्तेन भ्रान्तिमूलानि रूपिणि ॥ [ष्कन्दড়् ] [१०७.१६] तथापि योऽंशो मार्गेण वैदिकेनाविरुद्ध्यते । [१०७.१७] सोऽंशः प्रमाणमित्युक्तं केषाञ्चिदधिकारिणाम् ॥ [ष्कन्दড়् ] [१०७.१८] अत्यन्तस्खलितानान् तु प्राणिणां वेदमार्गतः । [१०७.१९] पाञ्चरात्रादयो मार्गाः कालेनैवोपकारकाः । [१०७.२०] तान्त्रिकाणां महादेवि न लभ्योऽव्यवधानतः ॥" इति प्रतिपादितम्. [ष्कन्दড়् ] [१०७.२१] कौर्मे: "पुरा दारुवने पुण्ये मुनयो गृहमेधिनः ॥" [Kऊर्मড়् १६.९७ ब्] [१०७.२२] इत्यारभ्य मायया गोकल्पनादि शापप्राप्तिपर्यन्तमुक्त्वा: [१०७.२३] "का नो वृत्तिर्महादेव शापान्नः त्रातुमर्हसि । [Kऊर्मড়् १६.११२ द्] [१०७.२४] तथा पार्श्वस्थितं विष्णुं सम्प्रेक्ष्य वृषभध्वजः । [पाञ्चरात्रस्य वेदभ्रष्टानुद्दिश्य प्रवृत्तत्वम्] [१०८.१] किमेतेषां भवेत्कार्यं प्राह पुण्यैषिणामिति ॥ [Kऊर्म.ড়् १६.११३] [१०८.२] ततस्स भगवान् विष्णुः शरण्यो भक्तवत्सलः । [१०८.३] गोपतिं प्राह विप्रेन्द्रानालोक्य प्रणतान् हरिः ॥ [Kऊर्मড়् १६.११४] [१०८.४] न वेदबाह्ये शास्त्रे च पुण्यलेशोऽपि शङ्कर । [१०८.५] सङ्गच्छते यतो धर्मो वेदादेव हि निर्बभौ ॥ [Kऊर्मড়् १६.११५] [१०८.६] तथापि भक्तवात्सल्यात्रक्षणीया महेश्वर । [१०८.७] आवाभ्यां सर्व एवैते विप्रा वै नात्रसंशयः ॥ [Kऊर्मড়् १६.११६] [१०८.८] तस्माद्वै वेदबाह्यानां रक्षणार्थञ्च पापिनाम् । [१०८.९] विमोहनाय शास्त्राणि करिष्यामि वृषध्वज ॥ [Kऊर्मড়् १६.११७] [१०८.१०] एवं सञ्चोदितो रुद्रो माधवेनासुरारिणा । [१०८.११] चकार मोहशास्त्राणि केशवोऽपि शिवेरितः ॥ [Kऊर्मড়् १६.११८] [१०८.१२] कापालं यामलं वामं भैरवं पूर्वपश्चिमम् । [१०८.१३] पाञ्चरात्रं पाशुपतं तथान्यानि सहस्रशः ॥ [Kऊर्मড়् १६.११९] [१०८.१४] कृत्वा चार्च्य च तद्देवान् कुर्वाणास्तत्र चोदितम् । [१०८.१५] पतन्ति नरके घोरे बहून् कल्पान् पुनः पुनः ॥" इत्यादि चोक्तम् [Kऊर्मড়् १६.१२०] [१०८.१६] स्कान्दे शङ्करसंहितायाम् [१०८.१७] "नेक्षेत पूजावेलायां नरं वत्स बहिष्कृतम् । [१०८.१८] दधीचिना गौतमेन ये शप्ता ब्राह्मणाधमाः ॥ [ष्कन्दড়् ] [१०८.१९] कलाववतरिष्यन्ति निन्दितास्ते बहिष्कृताः ॥" इति [ष्कन्दড়् ] [१०८.२०] साम्बपुराणे: "श्रुतिभ्रष्टः स्मृतिप्रोक्त प्रायश्चित्ते भयं गतः । [१०८.२१] क्रमेण श्रुतिसिद्ध्यर्थं मनुष्यस्तन्त्रमाश्रयेत् ॥ [षाम्बড়्] [१०८.२२] धर्मशास्त्रे पुराणे च प्रोक्तं हि मरणान्तिकम् । [१०८.२३] प्रायश्चित्तं मनुष्याणां पापिष्ठानां सुदारुणम् ॥ [षाम्बড়्] [पाञ्चरात्रमार्गानुसारिणां श्रौतस्मार्तबाह्यत्वम्] [१०९.१] भयं दुर्बलचित्तानां मरणे जायते भृशम् । [१०९.२] तेषामेवाभिरक्षार्थं तदहं तन्त्रमुक्तवान् ॥ [षाम्बড়्] [१०९.३] पाञ्चरात्रं भागवतं तन्त्रं सात्त्वतनामकम् । [१०९.४] वेदभ्रष्टान् समुद्दिश्य कमलापतिरब्रवीत् ॥" इति [षाम्बড়्] [१०९.५] अन्यत्र: "अथांशोः सात्त्वतो नाम विष्णुभक्तः प्रतापवान् । [१०९.६] महात्मा दाननिरतो धनुर्वेदविदां वरः ॥ [१०९.७] स नारदस्य वचनाद्वासुदेवार्चने रतः । [१०९.८] शास्त्रं प्रवर्तयामास कुण्डगोलादिभिः श्रितम् ॥ [१०९.९] तस्य नाम्ना तु विख्यातं सात्त्वतं नाम शोभनम् । [१०९.१०] प्रवर्तते महच्छास्त्रं कुण्डादीनां हितावहम् ॥" इति [१०९.११] वासिष्ठे: "बृद्धशावक निर्गन्धाः पाञ्चरात्रविदो जनाः । [१०९.१२] कापालिकाः पाशुपताः पाषण्डा ये च तद्विधाः ॥ [Vआसिष्ठढ्श्] [१०९.१३] यस्याश्नन्ति हवींश्येते दुरात्मानस्तु तामसाः । [१०९.१४] न तस्य तद्भवेच्छास्त्रं प्रेत्येह च न तत्फलम् ॥" इति. [Vआसिष्ठढ्श्] [१०९.१५] लैङ्गे - नवमाध्याये युगधर्मे [१०९.१६] "अङ्किताश्च भविष्यन्ति देवतायुधलाञ्छनैः । [१०९.१७] नारायणमशृण्वन्ति युगान्ते समुपस्थिते ॥ [ळिङ्गড়्] [१०९.१८] अन्यानि यानि कर्माणि श्रौतानि मुनिसत्तम । [१०९.१९] स्मार्तानि नाचरिष्यन्ति कलौ ब्रह्मन्नरास्सदा ॥ [ळिङ्गড়्] [१०९.२०] आम्नायं धर्मशास्त्रञ्च पुराणं भारतं मुने । [१०९.२१] अल्पमात्रमिति ब्रह्मन् वदिष्यन्ति कलौ युगे ॥ [ळिङ्गড়्] [१०९.२२] न कुर्युः श्रौतकर्माणि श्रद्धया मुनिसत्तम । [१०९.२३] स्वधर्मे रुचिता नास्ति ब्राह्मणानां कलौ युगे ॥ [ळिङ्गড়्] [१०९.२४] पाञ्चरात्रं प्रशंसन्ति केचिद्भागवतं मुने । [१०९.२५] केचित्कापालमिच्छन्ति केचित्पाशुपतं मुने ॥ [ळिङ्गড়्] [चक्राङ्कनस्य भावनारूपेणैव कर्तव्यता] [११०.१] केचिद्बौद्धं प्रशंसन्ति केचिद्दैगम्बरं तथा । [११०.२] केचिल्लोकायतं ब्रह्मन् केचित्सौमं महामुने ॥ [ळिङ्गড়्] [११०.३] लाकुलं केचिदिच्छन्ति तथा केचित्तु भैरवम् । [११०.४] केचिद्वामं प्रशंसन्ति केचिच्छाक्तं तथैव च ॥ [ळिङ्गড়्] [११०.५] शाम्भवं केचिदिच्छन्ति यामलं भुवि केचन । [११०.६] अन्यानि यानि शास्त्राणि विरुद्धानि महामुने ॥ [ळिङ्गড়्] [११०.७] तीर्थविक्रयिणः केचिद्देवविक्रयिणः परे । [११०.८] क्षीरविक्रयिणः केचिदाज्यविक्रयिणः परे ॥ [ळिङ्गড়्] [११०.९] मांसविक्रयिणः केचित्सुराविक्रयिणः परे । [११०.१०] पुत्रविक्रयिणः केचिद्दारविक्रयिणः परे ॥ [ळिङ्गড়्] [११०.११] भर्तृविक्रयिणः केचिद्भविष्यन्ति कलौ नराः ॥" इति [ळिङ्गড়्] [११०.१२] अतः पाञ्चरातोक्तं तप्तचक्रधारणं सर्वसाधारणं न भवन्तीति सिद्धम्. [११०.१३-१६] अथ यदुक्तं सर्वसाधारणं न भवतीति तन्नोपपद्यते - आथर्वणे "चक्रं बिभर्ति वपुषाभितप्तं बलं देवानाममितस्य विष्णोः. स एति नाकं दुरिता विधूय प्रयान्ति यद्यतयो वीतरागाः, "चरणं पवित्रं विततं पुराणं" इत्यादि श्रुतिभिः सर्वसाधारणत्वेन श्रूयमाणत्वातिति चेत्- न. [११०.१७-२०] तप्तचक्रधारणे प्रायश्चित्तविधानात्. अतः यथोक्तमार्गेण भावनारूपेणैव चक्राङ्कनं न तु तप्तरूपेण. सर्वसाधारणश्रुतिस्तु वैखानसेतरविषया. "यस्य मे श्रियम्" इत्यादि श्रुत्यविरोधेन अर्थव्यवस्थायाः कार्यत्वात्. अतः तप्तचक्राङ्कनं सर्वसाधारणं न भवति. [११०.२१] किञ्च: "यत्र शास्त्रगतिर्भिन्ना सर्वकर्मसु भारत । [११०.२२] उदितेऽनुदिते चैव होमभेदे यथा भवेत् । [११०.२३] स गरीयान्महाबाहो सर्वशास्त्रोदितादपि ॥" [११०.२४] इति सुमन्तुस्मरणाच्च व्यवस्थितविकल्पोत्र वक्तव्यः. [विष्णोरेव संहारकर्तृत्वम्] [१११.१-२] किञ्च ब्रह्मरुद्रादीनामपि संहारकर्ता हरिरेवेति श्रूयते. यजुषि - हरिं हरन्तमनुयन्ति देवाः विश्वस्येशानं वृषभं मतीनाम्" इत्यभिएर्टेलुगु बेर्प्र्fएन् [विष्णुकर्तृकरुद्रोपासनस्य कारणम्] [१११.३] ब्रह्मपुराणे: "ब्रह्माणमिन्द्रं रुद्रञ्च यमं वरुणमेव च । [१११.४] निगृह्याहरते यस्मात्तस्माद्धरिरिहोच्यते ॥ [Bरह्म.ড়् ] [१११.५] ब्रह्मा शम्भुस्तथैवार्कश्चन्द्रमाश्च शतक्रतुः । [१११.६] एवमाद्यास्तथैवान्ये युक्ता वैष्णवतेजसा ॥ [Bरह्म.ড়् ] [१११.७] जगत्कार्यावसाने तु वियुज्यन्ते च तेजसा । [१११.८] तेजसश्चैव ते सर्वे पञ्चत्वमुपयान्ति च् ।" इति [Bरह्मড়् ] [१११.९-१४] ननु - "हरिं हरन्तं" इति पूर्वोपात्तयजुषि ईशानशब्दश्रवणात्रुद्र एव संहारकर्तेति श्रूयते इति चेत्- तदसत्. तत्र "विश्वस्येशान," इति जगन्नियामकत्वमुच्यते. बिस्हिएर्तेलुगु नोछ्बेर्प्र्fएन्तथा च "पतिं विश्रस्यात्मेश्वर," इतिवत्नारायण एव अत्र प्रतिपाद्यः. "अस्येशाना जगतो विष्णुपत्नी" स हरिः सुवित्तमः, "पेरुरिन्द्राय पिन्वत" "विराडसि", "बृहती श्रवसीन्द्रपत्नी धर्मपत्नी", "स ब्रह्मा स शिवस्सेन्द्रः", इत्यादि श्रुतयोत्र विभावनीयाः. [१११.१५] ननु कौर्मे अष्टमाध्याये - रामायणसंक्षेपे: [१११.१६] "स कृत्वा वानरशतैः लङ्काद्वारं महोदधौ ॥ [Kऊर्मড়् २१.४४ द्] [१११.१७] सेतुं परमधर्मात्मा रावणं हतवान् प्रभुः ॥" [Kऊर्मড়् २१.४५ ब्] [१११.१८] इति रावणवधादिकं प्रतिपाद्य: [१११.१९] "सेतुमध्ये महादेवमीशानं कृत्तिवाससम् ॥ [Kऊर्मড়् २१.४६ द्] [१११.२०] स्थापयामास लिङ्गस्थं पूजयामास राघवः । [१११.२१] तस्य देवो महादेवः पार्वत्या सह शङ्करः ॥ [Kऊर्मড়् २१.४७] [१११.२२] प्रत्यक्षमेव भगवान् दत्तवान् वरमुत्तमम् ।" [Kऊर्मড়् २१.४८ ब्] [रुद्रस्य वरदातृत्वं विष्णुप्रसादलब्धम्] [११२.१-२] इति भगवते रुद्रोपासनमुच्यते इति चेत्- सत्यम्. रुद्रस्य तदपि भगवद्वरप्रसादलब्धम्. एवं हि वाराहे प्रागितिहासे रुद्रगीतासु उच्यते, यथा - [११२.३] अगस्त्यं प्रति रुद्रः: [११२.४] "ब्रह्मणाहं पुरा सृष्टः प्रोक्तः सृज इति प्रजाः । [११२.५] अविज्ञातासमर्थोऽहं निमग्नस्सलिले द्विज ॥" इत्यारभ्य [Vअराहড়्] [११२.६-७] जलमध्ये कालमेधसङ्काशः अतिशोभनः पुण्डरीकाक्षः कश्चित्पुरुषो रुद्रेण दृष्टः कस्त्वमिति रुद्रेण पृष्टस्य तस्य प्रतिवचनम्: [११२.८] "अहं नारायणो देवो जलशायी सनातनः । [११२.९] दिव्यं चक्षुर्भवतु ते तेन मां पश्य यत्नतः ॥" इति प्रतिपाद्य [Vअराहড়्] [११२.१०] "एवमुक्तस्तदा तेन यावत्पश्याम्महं तनुम् । [११२.११] तावदङ्गुष्ठमात्रन् तु ज्वलद्भास्करतेजसम् ॥ [Vअराहড়्] [११२.१२] तमेवाहं प्रपश्यामि तस्य नाभौ तु पङ्कजम् । [११२.१३] ब्रह्माणं तत्र पश्यामि ह्यात्मानञ्च तदङ्कतः ॥ [Vअराहড়्] [११२.१४] एवं दृष्ट्वा महात्मानं ततो हर्षमुपागतः । [११२.१५] तं स्तोतुं द्विजशार्दूल मतिर्मे समजायत ॥" [Vअराहড়्] [११२.१६-१७] इत्युपक्रम्य महत्स्तोत्रमुक्त्वा अन्ते रुद्रेण भगवन्तं प्रत्यभीष्टनिवेदनं प्रतिपादितम्. यथा: [११२.१८] "इति स्तुतो मे भगवन्ननादे जुषस्व भक्तस्य विशेषतश्च । [११२.१९] सृष्टिं सृजस्वेति तु चोदितस्य सर्वज्ञतां देहि नमोऽस्तु विष्णो ॥" इति [Vअराहড়्] [११२.२०] एवं स्तोत्रे परिसमापिते [११२.२१] "वरं वरव भद्रं ते देवदेव उमापते ॥" [Vअराहড়्] [११२.२२] इति भगवता नियुक्तः रुद्र: [११२.२३] "ब्रह्मणा चाहमुक्तस्तु प्रजास्सृज इति प्रभो । [११२.२४] तत्र ज्ञानं प्रयच्छस्व त्रिविधं भूतभावन ॥" इति प्रार्थयामास. [Vअराहড়्] [विष्णोः शरभरूपरुद्रादिसंहारकत्वम्] [११३.१] तदा श्रीभगवान्: [११३.२] "सर्वज्ञस्त्वं न सन्देहो ज्ञानराशिसनातनः । [११३.३] देवानाञ्च सदा पूज्यः सर्वदा त्वं भविष्यसि ॥ [Vअराहড়्.] [११३.४] एवमुक्ते पुनर्वाक्यमुवाचोमापतिर्मुदा । [११३.५] अन्यं देहि वरं देव प्रसिद्धं सर्वजन्तुषु ॥ [Vअराहড়्] [११३.६] मर्त्यो भूत्वा भवानेव मामाराधय केशव । [११३.७] मां वहस्य च देवेश वरं मत्तो गृहाण च ॥ [Vअराहড়्.] [११३.८] येनाहं सर्वदेवानां पूज्यात्पूज्यतरोऽभवत् ॥" इति पुनः तेन प्रार्थितः [Vअराहড়्] [११३.९] श्रीभगवान्: "देवकार्यावतारेषु मानुष्यत्वमुपागतः । [११३.१०] त्वामेवाराधयिष्यामि त्वञ्च मे वरदो भव ॥ [Vअराहড়्] [११३.११] यत्त्वयोक्तं वहस्वेति देवदेव उमापते । [११३.१२] स त्वां वहामि देव त्वां मेघो भूत्वा शतं समाः ॥" इति वरमपि ददौ. [११३.१३] "एवमेव हरिर्देवः सर्वेशस्सर्वभावनः । [११३.१४] वरदोऽभूत्पुरा मह्यं तेनाहं दैवतैर्वृतः ॥ [Vअराहড়्.] [११३.१५] नारायणात्परो देवो न भूतो न भविष्यति । [११३.१६] एतद्रहस्यं देवानां पुराणानाञ्च सत्तम ॥" इति [Vअराहড়्] [११३.१७] किञ्च [११३.१८] श्रीविष्णुपुराणे: "देवतिर्यङ्मनुष्येषु शरीरग्रहणात्मिका । [११३.१९] लीलेयं सर्वभूतस्य तव चेष्टोपलक्षणा ॥ [Vइष्णुড়् ] [११३.२०] देवतिर्यङ्मनुष्याख्या चेष्टावन्ति स्वलीलया । [११३.२१] जगतामुपकाराय न सा कर्मनिमित्तजा ॥" इति [Vइष्णुড়् ] [११३.२२-२३] एवं नृसिंहरूपिणा भगवता शरभरूपेणागतानां ब्रह्मरुद्रादीनामपि संहारादिकं नारसिंहपुराणादिष्ववगम्यते. यथा: [शरभनिर्माणादिप्रकारः] [११४.१] हिरण्यकवधानन्तरं: तत्र सप्तत्रिंशाध्याये [११४.२] "हिरण्यकशिपोस्त्रस्तान् सेन्द्रान् देवान् बृहस्पतिः । [११४.३] क्षीरोदस्योत्तरं गत्वा स्तूयतां तत्र केशवः ॥ [णरसिंहড়्] [११४.४] युष्माभिस्संस्तुतो विष्णुः प्रसन्नो भवति क्षणात् ॥" इत्यारभ्य [णरसिंहড়्] [११४.५] "युष्मदागमनं सर्वं जानाम्यसुरमर्दनाः । [११४.६] हिरण्यकविनाशार्थं स्तुतोऽहं शङ्करेण च ॥ इत्युक्त्वा [णरसिंहড়्] [११४.७] हिरण्यकवधानन्तरं [११४.८] "तस्य कोपाभिभूतस्य नृसिंहस्य जगत्पतेः । [११४.९] दृष्ट्वा भयानकं रूपं वित्रेसुर्देवदानवाः ॥" [णरसिंहড়्] [११४.१०] इत्यारभ्योक्तस्तोत्रानन्तरं ब्रह्मसमीपगमनादिकं प्रतिपाद्य: [११४.११] "तस्मिन् भगवति क्रुद्धे नृसिंहे परमात्मनि । [११४.१२] प्रवेपितं जगदिदं देवेशे कुपिते भृशम् ॥ [णरसिंहড়्] [११४.१३] त्वत्तो हि नान्यश्शरणं देवानामिह विद्यते । [११४.१४] नरसिंहसमुद्भूतं भयं नाशय मे हरे ॥" [णरसिंहড়्] [११४.१५] इत्यादिना रुद्रप्रार्थनादिकमुक्त्वा [११४.१६] "हतो हिरण्यकशिपुः येन दैत्यो महाबलः । [११४.१७] को नश्शमयिता तस्य कोपस्य हरिमेधसः ॥ [णरसिंहড়्.] [११४.१८] त्वं मे जनयिता देव स ते जनयिता हरिः । [११४.१९] तस्य देवस्य कश्शक्तो विष्णोर्वै निग्रहे भवेत् ॥ [णरसिंहড়्] [११४.२०] यद्भयात्पवते वायुः सूर्यस्तपति यद्भयात् । [११४.२१] यद्भयाद्धरणी धत्ते निग्रहे तस्य कः प्रभुः । [११४.२२] तथाप्युपायो दृश्यो मे परमेण समाधिना ॥ [णरसिंहড়्] [११४.२३] कृते तस्मिन् भवेच्छ्रेयः तूष्णीं भावो न रोचते । [११४.२४] अश्वानां महिषः शत्रुः वारणानां मृगाधिपः ॥ [णरसिंहড়्.] [११५.१] वानराणां तथा मेषः फणीनां गरुडः स्मृतः । [११५.२] मूषकानान् तु मार्जारो मृगाणां श्वा प्रकीर्तितः ॥ [णरसिंहড়्.] [११५.३] वायसानां दिवाभीतः सिंहानां शरभस्तथा । [११५.४] ततो निर्मापयिष्यामः शरभं भयशान्तये ॥ [णरसिंहড়्.] [११५.५] शरभोऽधिष्ठितोऽस्माभिः नृसिंहं शमयिष्यति । [११५.६] इत्येवमुक्त्वा भगवान् ससर्ज शरभं तथा ॥ [णरसिंहড়्.] [११५.७] यस्य सन्दर्शनादेव त्रस्तमासीज्जगत्त्रयम् । [११५.८] ततस्तस्य भवानीशः तुण्डस्थानमरोचत ॥ [णरसिंहড়्] [११५.९] पृष्ठभागे चतुर्वक्तं तस्य रुद्रो न्यवेशयत् । [११५.१०] सोमसूर्यौ नयनयोः मारुतं पक्षयोर्द्वयोः ॥ [णरसिंहড়्] [११५.११] पादेषु भूधरान् सर्वान् शिवस्तस्य न्यवेशयत् । [११५.१२] एवं निर्माय शरभं भवः प्रमथनायकः ॥ [णरसिंहড়्] [११५.१३] जगर्ज नरसिंहं तं समुद्दिश्य भयानकम् ॥" [णरसिंहড়्] [११५.१४] इति शरभनिर्माणादिकं प्रतिपाद्य [११५.१५] "ततः क्षणेन शरभो नादपूरितदिङ्मुखः । [११५.१६] अभ्याशमगमद्विष्णोः निनदन् भैरवं स्वनम् ॥ [णरसिंहড়्] [११५.१७] तमभ्याशगतं दृष्ट्वा नृसिंहः शरभं रुषा । [११५.१८] जघान निशितैरुग्रैः नखैर्नखवरायुधः ॥ [णरसिंहড়्] [११५.१९] निहते शरभे तस्मिन् रौद्रे मधुविघातिना । [११५.२०] तुष्टुबुः पुण्डरीकाक्षं देवा देवर्षयस्तथा ॥" [णरसिंहড়्] [११५.२१] इति भगवता ब्रह्मरुद्राद्यधिष्ठितशरभहननं प्रतिपादितम्. [११५.२२] गारुडे अष्टनवतितमाध्याये: [११५.२३] "हन्तुमभ्यागतं रौद्रं शरभं नरकेसरी । [११५.२४] नखैर्विदारयामास हिरण्यकशिपुं यथा ॥ [ङरुडড়् ] [११६.१] निकृत्तबाहूरुशिराः वज्रकल्पमुखैर्नखैः । [११६.२] मेरुपृष्ठे नृसिंहेन शरभस्सहसापतत् ॥" [ङरुडড়् ] [११६.३] पाद्मे: "तौ युध्यमानौ तु चिरं वेगेन बलवत्तरौ । [११६.४] विनाशं जग्मतुर्देवौ नृसिंहशरभाविति ॥ [ড়द्म.ড়् ] [११६.५] ततः क्रुद्धो महाबाहुः नृसिंहो भीमनिस्स्वनः । [११६.६] सहस्रकरपन्नेत्रः तस्य गात्राण्यकर्तयत् ॥ [ড়द्म.ড়् ] [११६.७] पतितं भीममत्युग्रं गतांसुं द्रष्टुमागताः । [११६.८] ऋषयो देवगन्धर्वा यत्र शेते भवो हरः ॥ [ড়द्म.ড়् ] [११६.९] तं दृष्ट्वा परमं जग्मुः विस्मयन्तु दिवौकसः । [११६.१०] पशशंसुस्तथा कर्म नृसिंहस्य महाद्भुतम् ॥" इति [ড়द्मড়् ] [११६.११] श्रीभागवते: "ततस्त्वरितमादाय रुद्रं शरभरूपिणम् । [११६.१२] विददार नखैस्तीक्ष्णैः हिरण्यकशिपुं यथा ॥" इति [भागवतपुराण ] [रुद्रोपासकानां शूद्रतुल्यत्वम्] [११६.१३-१४] किञ्च आनुशासनिके उमामहेश्वरसंवादे भगवतोऽङ्गभावेन विना रुद्रोपासनं कुर्वतां शुद्रतुल्यत्वमुक्तम्. यथा दक्षाध्वरे: [११६.१५] रुद्राणी: अहं ज्येष्ठा विशिष्टा च तस्मात्त्वं मां सुपूजय । [११६.१६] दक्ष: न तु ज्येष्ठा विशिष्टा त्वं मम पूज्या इमास्सुराः ॥" [ंBह्] [११६.१७] इत्यादिना रुद्राणीदूषणमध्वरभङ्गादिकं च प्रतिपाद्य रुद्रं प्रति शापोत्सर्गः क्रियते. [११६.१८] "एतद्वंशसमुद्भूतैरस्पृश्यस्त्वं भविष्यसि । [११६.१९] नैतद्वंशेषु यः कश्चित्त्वद्भक्तो हि जनिष्यति ॥ [ंBह्] [११६.२०] अजानात्त्वां हि यः कश्चित्मुनिर्वा ब्राह्मणोऽपि वा । [११६.२१] अनुजीवति चेत्तस्मात्तुल्यश्शूद्रेण गर्हितः ॥ [ंBह्] [११६.२२] भवेद्देवलकश्चैव रुद्रकाल्युपजीवकः ॥" इति [ंBह्] [बोधायनादीनां परमैकान्तित्वाभावे हेतवः] [कात्यायनसूत्रिणां परमैकान्तित्वाभावः] [११६.२३-११७.२] अतो नारायणस्य रुद्रेण समानतया बोधायनेन प्रतिपादित्वात्बोधायनापस्तम्बादिसूत्रेषु षद्विधतात्पर्यलिङ्गाभावात्तेषां सृष्टिकालादारभ्य नारायणैकपरत्वाभावात्नानादेवतोपासकत्वदर्शनाच्च परमैकान्तित्वं न सम्भवति. एवं कात्यायनसूत्रिणामपि: [११७.३] "ब्राह्मवैष्णवरौद्रैस्तु सावित्रैर्मैत्रवारुणैः । [११७.४] तल्लिङ्गैरेव मन्त्रैस्तु अर्चयेत्तु समाहितः ॥" [Kआत्यायनसूत्र] [११७.५] इति प्रतिपादनात्न परमैकान्तित्वम्. [११७.६] द्राह्यायणसूत्रे तु रुद्रविषयत्वेन कर्मारम्भे प्रपदनमुक्तम्. [११७.७-९] अतः श्रीमन्नारायणैकपरत्वात्परमैकान्तित्वं श्रीमद्वैखानसानामेवेति प्रतिज्ञा कर्तुमुचिता. एवं "अखिलजगदेककारणश्रीमन्नारायणैकपरत्वात्" इति नवमहेतुर्निरूपितः. [११७.१०] इति नवमहेतुनिरूपणम्. [दशमहेतुनिरूपणम्] [वैखानसानां भगवत्प्रियतमत्वम्] [११८.१-३] अथास्य श्रीवैखानससूत्रस्य शीमन्नारायणैकपरत्वाद्तत्सूत्रानुष्ठानवतामेव भगवत्प्रियतमत्वमुपपद्यत इति प्रतिपादनाय "भगवत्प्रियतमत्वोपपत्तेर्" इति दशमहेतुर्निरूप्यते. [११८.४-५] छन्दोगब्राह्मणे: "वैखानसा वा ऋषय इन्द्रस्य प्रिया आसन्" इति. अत्र इन्द्रशब्दः परमात्मपर इति पूर्वमेवोक्तम्. [११८.६] वाराहे: "अश्वत्थः कपिला गावः तुलसी विखनास्तथा । [११८.७] चत्वारो मत्प्रिया राजन् तेषां वैखानसो वरः ॥ [Vअराहড়्] [११८.८] यत्र वैखानसा विप्रा यत्र सन्ति गवां गणाः । [११८.९] यत्र बिल्वाः पलाशाश्च तत्र सन्निहितो हरिः ॥" इति [Vअराहড়्] [११८.१०] कौर्मे: "मच्चिता मद्गतप्राणा मयि सङ्गतमानसाः । [११८.११] अनन्यशरणा राजन् तस्माद्वैखानसा वराः ॥" [Kऊर्मড়् ] [११८.१२] पाञ्चरात्रे पौष्करे: "विप्रा वैखानसाख्या ये ते भक्तास्तत्त्वमुच्यते ॥ [ড়ौष्करष्३६.२६० द्] [११८.१३] एकन्तिनः सुसत्वस्था देहान्तं नान्ययाजिनः । [११८.१४] कर्तव्यमिति देवेशं संयजन्ते फलं विना ॥ [ড়ौष्करष्३६.२६१] [११८.१५] प्राप्नुवन्ति च देहान्ते वासुदेवत्वमब्जज ॥ [ড়ौष्करष्३६.२६२ ब्] [देवार्चनपराणां श्रैष्ठ्यम्] [११८.१६] बृहन्नारदीये: "देवार्चनपरा ये च ये च तत्साधका नराः । [११८.१७] पूजां दृष्ट्वानुमोदन्ते ते वै भागवतोत्तमाः ॥ [Bऋहन्नारदড়्.] [११८.१८] यस्तु भोगतया विष्णोः सत्कृत्यं कुरुते सदा । [११८.१९] स भवेत्परमैकान्ती महाभागवतोत्तमः ॥ [Bऋहन्नारदড়्.] [११८.२०] य ऐकान्त्यगता विष्णौ भगवत्यात्मभावने । [११८.२१] ते वैष्णवा भागवतास्सन्त इत्यपि कीर्तिताः ॥ [Bऋहन्नारदড়्] [विष्णुनिवेदितान्नादेः भोज्यत्वम्] [११९.१] मन्मानसाश्च मद्भक्ता मम पूजासु लोलुपाः । [११९.२] मत्कथाश्रवणे सत्तास्ते वै भागवताः स्मृताः ॥" इति [Bऋहन्नारदড়्] [११९.३] "येऽर्चयन्ति नरा भक्त्या नारायणमनामयम् । [११९.४] तानर्चयन्ति विबुधा ब्रह्माद्या देवतागणाः ॥ [११९.५] मयि भक्तिपरो यस्तु मद्याजी मत्परायणः । [११९.६] मद्ध्यानी स्वकुलं सर्वं नयत्यच्युतरूपताम् ॥ [११९.७] येऽर्चयन्ति सदा विष्णुं न ते प्राकृतमानुषाः । [११९.८] विष्णुलोकात्समुत्पन्नास्ते देवा नात्र संशयः ॥ [आष्१४.५८] [११९.९] नाविष्णुर्जयते विष्णुर्नाविष्णुर्विष्णुमर्चयेत् । [११९.१०] रूपद्वयं हरेः प्रोक्तं बिम्बमर्चक एव च ॥ [Kरा ३६.५९ द्] [११९.११] बिम्बे त्वावाहनादूर्ध्वं सदा सन्निहितोऽर्चके । [Kरा ३६.६० ब्] [११९.१२] अर्चकस्तु प्रसन्नात्मा हरिरेव न संशयः ॥ [११९.१३] कलिः कृतयुगस्तेषां क्लेशाश्चैव सुखावहाः । [११९.१४] येषां शरीरमनिशं हरिशुश्रूषणे रतम् ॥" इति [११९.१५] भागवते: "सा वागनन्तरस्य गुणान् गृणीते करौ च तत्कर्मकरौ मनश्च । [११९.१६] स्मरेद्वसन्तं स्थिरजङ्गमेषु श्रुणोति तत्पुण्यकथास्स कर्णः ॥ [११९.१७] शिरश्च तस्याङ्घ्रिषु नम्रमाणं तमेव यः पश्यति तद्धि चक्षुः । [११९.१८] अङ्गानि विष्णोरथ तज्जनानां पादोदकं यानि वहन्ति नित्यम् ॥ [भागवतपुराण १०.८०.४] [११९.१९] हृदि रूपं मुखे नाम नैवेद्यमुदरे हरेः । [११९.२०] पादोदकञ्च निर्माल्यं यस्य मूर्ध्नि स वैष्णवः ॥" इति [भागवतपुराण ] [११९.२१-१२०.३] श्रुतिरपि: "तदस्य प्रियमभिपाथो अश्यां नरो यत्र देवयवो मदन्ति उरुक्रमस्य स हि बन्धुरित्था विष्णोः पदे परमे मध्व उत्सः" इति. अस्यार्थः: विष्णोःऽप्रियंऽ तत्पाथः निवेदितमन्नादिकम्ऽअभ्यश्याम्ऽ.ऽदेवयवो नराःऽ देवाराधकाःऽयत्र मदन्तिऽ यस्मिन्निवेदिततीर्थप्रसादादिके स्वीकृतेऽमदन्तिऽ हृष्टा भवन्ति. यद्वा: ब्रह्मादीनपि न गणयन्ति.ऽइत्थाऽ इत्थं प्रतिदिनं वर्तमानःऽउरुक्रमस्य विष्णोर्बन्धुःऽ जात्येकवचनम्. स एवातीवाभिमतःऽपरमेऽ सर्वोत्कृष्टेऽमध्वेऽ मधुवत्भोग्यतमे विष्णोः पदेऽउत्सऽ उत्सुकः. यद्वा उत्कृष्टः. [१२०.४-५] श्रुत्यन्तरे: "विष्णुनाशितमश्नन्ति विष्णुना पीतं पिबन्ति विष्णुन घ्रातं जिघ्रन्ति विष्णुना रसितं रसयन्ति तस्माद्विद्वांसो विष्णूपहृतं भक्षयेयुः" इति. [१२०.७] भागवते: "त्वयोपभुक्तस्रग्गन्ध वासोऽलङ्कारचर्चिताः । [१२०.८] उच्छिष्टभोजिनो दासास्तव मायां तरेमहि ॥" इति [भागवतपुराण ११.६.४६] [१२०.९] हारीत: "कृपादत्तं हस्तगतं विष्णुभुक्तोज्झितन्तु यत् । [१२०.१०] उपवासछलान्नात्ति तेन भुक्तं सुरोपमम् ॥" इति [१२०.११] भृगु: "हविः कृत्वा चतुर्भागमूर्ध्वभागौ निवेदयेत् । [१२०.१२] अधस्तादेकभागेन होम बलिमथाचरेत् ॥ [१२०.१३] यदंशं पात्रसंशिष्टं पूजकायैव निर्मितम् । [१२०.१४] अग्निकार्यावशिष्टञ्च बलिशिष्टञ्च यद्धविः । [१२०.१५] सर्वं तत्पूजकायैव प्रोक्तमेवं मनीषिभिः ॥" इति [१२०.१६] यज्ञाधिकारे भृगु: "आत्मनश्च चतुर्थांशं वैश्वदेवार्थमर्चकः । [१२०.१७] आदाय वैश्वदेवान्ते शिष्टान्नं भोजयेत्पुनः ॥ [य़्.आ ] [१२०.१८] बलिशेषं होमशेषं वैश्वदेवे विशेषतः । [१२०.१९] गृह्णीयाद्वैश्वदेवार्थं भोजनार्थञ्च ऋत्विजः ॥" इति [य़ा ] [१२०.२०-२३] काश्यप: "सर्वहविः पात्रेषु शिष्टमन्नं सर्वं भगवन्निवेदितमपूपादिकञ्च पूजका गृह्णीयुः. यथा गुरोरुच्छिष्टं पुत्रशिष्यभृत्यानां भोज्यं. तथा सर्वस्य रक्षितुः सौम्यमूर्ते सर्वव्यापिनो विष्णोः जगद्गुरोर्निवेदितमन्नाद्यं विश्वं चतुर्वर्णानां भक्तिमतां सर्वेषां भोज्यम्, अभक्तिमतामभोज्यम्" इति. [१२०.२४] श्रीपाञ्चरात्रे ईश्वरसंहितायां समाराधनाध्याये [१२०.२५] स्कन्द: "त्वया निषेध आख्यातो मन्त्रदत्तस्य वस्तुनः । [१२०.२६] सर्वस्य पत्रपुष्पान्न पूर्वस्य परमेश्वर ॥ [ईश्वरष्] [अर्चावतारस्य सकललोकोज्जीवनार्थता] [१२१.१] तस्येदानीं प्रदानञ्च प्राशनञ्च प्रशंससि । [१२१.२] किमेतदत्र मे जातस्संशयः परमेश्वर ॥ [ईश्वरष्] [१२१.३] ईश्वरपृष्ठरदानं प्राशनं पुत्र उपभोग्यत्वमेव च । [१२१.४] शैवे पाशुपते दृष्टमचिरादेव पापकृत् ॥ [१२१.५] तत्पुनर्वैष्णवे मार्गे वर्तते व्यत्ययेन तु । [१२१.६] अनन्तफलदं दानात्प्राशानात्कोष्टशुद्धिकृत् ॥" इति [ईश्वरष्] [१२१.७] तत्रैव देवतार्चने: "कर्षं नयति पापानि पुण्यवृद्धिं करोति च । [१२१.८] दानैर्धर्मैः तथा पुण्यैस्तपोभिश्च न तत्फलम् ॥ [ईश्वरष्] [१२१.९] भगवद्भक्तिपूतानां यत्फलं प्रापणादनात् ॥" इति [ईश्वरष्] [१२१.१०] अन्यत्र: "सत्सङ्गदेवार्चनसत्कथासु परोपदेशे च रतो मनुष्यः । [१२१.११] स याति विष्णोः परमं पदं यद्देहावसानेऽच्युततुल्यतेजाः ॥" इति [१२१.१२] अन्यत्र: "नारायणैकनिष्ठा ये सात्त्विकास्तान्निबोधत । [१२१.१३] पुरुषा राजसाश्चैव नानादैवतयाजिनः ॥ [१२१.१४] बाह्या निर्देवताश्चैव तामसाः परिकीर्तिताः । [१२१.१५] रजस्तमोऽभिभूतानां न तु मोक्षः कथञ्चन ॥" इति [१२१.१६] पुराणान्तरे: "यत्रैव पूज्यते विष्णुर्विधिना प्रयतैर्नरैः । [१२१.१७] न तत्र ह्याधिदौर्गत्य व्याधिचौरादिकं भयम् ॥" इति [१२१.१८] किञ्च: "नित्यमुक्तोपभोग्यत्वात्परव्यूहात्मनो हरेः । [१२१.१९] तत्कालसन्निकृष्टैक लक्ष्यत्वाद्विभवात्मनः ॥ [आ.ष्१४.१४] [१२१.२०] विशुद्धैर्योगसंसिद्धैश्चिन्त्यत्वादन्तरात्मनः । [१२१.२१] अर्चात्मन्येव सर्वेषामधिकारो निरङ्कुशः ॥ [आ.ष्१४.१५] [१२१.२२] अर्चावतारविषये ममाप्युद्देशतस्तथा । [१२१.२३] उक्ता गुणा न शक्यन्ते वक्तुं वर्षशतैरपि ॥ [आ.ष्१४.१६] [१२२.१] एवं पञ्चप्रकारोऽहमात्मनां पततामधः । [१२२.२] पूर्वस्मादपि पूर्वस्मात्ज्यायांश्चैवोत्तरोत्तरः ॥ [आ.ष्] [१२२.३] सौलभ्यतं जगत्स्वामी सुलभो ह्युत्तरोत्तरः ॥" [आष्] [१२२.४-७] इति प्रतिपादितरित्या भगवतः परत्वादिषु सौलभ्याभावातखिललोकसमुज्जीवनार्थमर्चावतारः. तदेकपरत्वाद्वैखानसाः तत्प्रियतमाः. एतदृशनारायणायणैकपरत्वाभावाद्बोधायनस्य आपस्तम्बादीनाञ्न कथञ्चदपि परमैकान्तित्वं भगवत्प्रियतमत्वञ्च सम्भवति. [१२२.८-९] एवं च वैखानसानामेव परमैकान्तित्वं भगवत्प्रियतमत्वञ्चोपपद्यते इति सर्वं समञ्जसमिति दशमो हेतुर्निरूपितम्. [१२२.१०] इति दशमहेतुनिरूपणम् [१२२.११-१४] इति श्रीरमणवेङ्कटाचलेश्वरपादारविन्दसपर्यानिरतस्य सर्वतन्त्रस्वतन्त्रस्य श्रीनिवासमखिवेदान्तदेशिकस्य कृतिषु श्रीवैखानससूत्रतात्पर्यचिन्तामणौ दशविधहतुनिरूपणमुपोद्घातभागः समाप्तः.