लघुभागवतामृत पूर्वखण्डं श्रीकृष्णामृतं प्रथमपरिच्छेदः स्वयंरूपविलासस्वांशावेशप्रकाशलक्षणभगवत्तत्त्वनिरूपणम् । ओं नमः श्रीकृष्णाय नमस्तस्मै भगवते कृष्णायाकुण्ठमेधसे । यो धत्ते सर्वभूतानामभवायोशतीः कलाः ॥ १,१.१ ॥ (भागवतम् १०.८७.४६) कृष्णवर्णं त्विषाकृष्णं साङ्गोपाङ्गास्त्रपार्षदम् । यज्ञैः सङ्कीर्तनप्रायैर्यजन्ति हि सुमेधसः ॥ १,१.२ ॥ (भागवतम् ११.५.३२) मुखारविन्दनिस्यन्दमरन्दभरतुन्दिला । ममानन्दं मुकुन्दस्य सन्दुग्धां वेणुकाकली ॥ १,१.३ ॥ श्रीचैतन्यमुखोद्गीर्णा हरेकृष्णेति वर्णकाः । मज्जयन्तो जगत्प्रेम्णि विजयन्तां तद्आह्वयाः ॥ १,१.४ ॥ श्रीमत्प्रभुपादाम्भोजैः श्रीमद्भागवतामृतम् । यद्व्यतानि तदेवेदं सङ्क्षेपेण निषेव्यते ॥ १,१.५ ॥ इदं श्रीकृष्णतद्भक्तसम्बन्धादमृतं द्विधा । आदौ कृष्णामृतं तत्र सुहृद्भ्यः परिवेष्यते ॥ १,१.६ ॥ निर्बन्धं युक्तिविस्तारे मयात्र परिमुञ्चता । प्रधानत्वात्पर्माणेषु शब्द एव प्रमाण्यते ॥ १,१.७ ॥ यतस्तैः शास्त्रयोनित्वातिति न्यायप्रदर्शनात् । शब्दस्यैव प्रमाणत्वं स्वीकृतं परमर्षिभिः ॥ १,१.८ ॥ किं च तर्काप्रतिष्ठानातिति न्यायविधानतः । अमीभिरेव सुव्यक्तं तर्कस्यानादरः कृतः ॥ १,१.९ ॥ अथोपास्येषु मुख्यत्वं वक्तुमुत्कर्षभूमतः । कृष्णस्य तत्स्वरूपाणि निरूप्यन्ते क्रमादिह ॥ १,१.१० ॥ स्वयं रूपस्तद्एकात्मरूप आवेशनामकः । इत्यसौ त्रिविधं भाति प्रपञ्चातीतधामसु ॥ १,१.११ ॥ तत्र स्वयंरूपः अनन्यापेक्षि यद्रूपं स्वयंरूपः स उच्यते ॥ १,१.१२ ॥ ईश्वरः परमः कृष्णः सच्चिद्आनन्दविग्रहः । अनादिरादिर्गोविन्दः सर्वकारणकारणम् ॥ १,१.१३ ॥ इति (Bर्ष्५.१) अत्र तद्एकात्मरूपः यद्रूपं तद्अभेदेन स्वरूपेण विराजते । आकृत्यादिभिरन्यादृक्स तद्एकात्मरूपकः । स विलासः स्वांश इति धत्ते भेदद्वयं पुनः ॥ १,१.१४ ॥ तत्र विलासः स्वरूपमन्याकारं यत्तस्य भाति विलासतः । प्रायेणात्मसमं शक्त्या स विलासो निगद्यते ॥ १,१.१५ ॥ परमव्योमनाथस्तु गोविन्दस्य यथा स्मृतः । परमव्योमनाथस्य वासुदेवश्च यादृशः ॥ १,१.१६ ॥ स्वांशः तादृशो न्यूनशक्तिः यो व्यनक्ति स्वांश ईरितः । सङ्कर्षणादिर्मत्स्यादिर्यथा तत्तत्स्वधामसु ॥ १,१.१७ ॥ तत्र आवेशः ज्ञानशक्त्य्आदिकलया यत्राविष्टो जनार्दनः । त आवेशा निगद्यन्ते जीवा एव महत्तमाः ॥ १,१.१८ ॥ वैकुण्ठेऽपि यथा शेषो नारदः सनकादयः । अक्रूरदृष्टान्ते चामी दशमे परिकीर्तिताः ॥ १,१.१९ ॥ इति भेदत्रयम् । प्रकाशस्तु न भेदेषु गण्यते स हि नो पृथक् ॥ १,१.२० ॥ तथा हि अनेकत्र प्रकटता रूपस्यैकस्य यैकदा । सर्वथा तत्स्वरूपैव स प्रकाश इतीर्यते ॥ १,१.२१ ॥ द्वारवत्यां यथा कृष्णः प्रत्यक्षं प्रतिमन्दिरम् । चित्र बतैतदित्यादिप्रमाणेन स सेत्स्यति ॥ १,१.२२ ॥ क्वचिच्चतुर्भुजत्वेऽपि न त्यजेत्कृष्णरूपताम् । अतः प्रकाश एव स्यात्तस्यासौ द्विभुजस्य च ॥ १,१.२३ ॥ प्रपञ्चातीतधामत्वमेषां शास्त्रे पृथग्विधे । पाद्मीयोत्तरखण्डादौ व्यक्तमेव विराजते ॥ १,१.२४ ॥ इति स्वयंरूपविलासस्वांशावेशप्रकाशलक्षणभगवत्तत्त्वनिरूपणम् ॥१॥ *********************************************************** द्वितीयपरिच्छेदः पुरुषावतारगुणावतारनिरूपणम् । अथावताराः कथ्यन्ते कृष्णो येषु च पुष्कलाः ॥ १,२.१ ॥ तल्लक्षणम् पूर्वोक्ता विश्वकार्यार्थमपूर्वा इव चेत्स्वयम् । द्वारान्तरेण वाविःस्युरवतारास्तदा स्मृताः ॥ १,२.२ ॥ तच्च द्वारं तद्एकात्मरूपस्तद्भक्त एव च । शेषशाय्य्आदिको यद्वद्वसुदेवादिकोऽपि च ॥ १,२.३ ॥ पुरुषाख्या गुणात्मनो लीलात्मानश्च ते त्रिधा ॥ १,२.४ ॥ प्रायः स्वांशास्तथावेशा अवतारा भवन्त्यमी । अत्र यः स्यात्स्वयंरूपः सोऽग्रे व्यक्तीभविष्यति ॥ १,२.५ ॥ तत्र पुरुषलक्षणं, यथा श्रीविष्णुपुराणे (६.८.६१) तस्यैव योऽनुगुणभुग्बहुधैक एव शुद्धोऽप्यशुद्ध इव मूर्तिविभागभेदैः । ज्ञानान्वितः सकलसत्त्वविभूतिकर्ता तस्मै नतोऽस्मि पुरुषाय सदाव्ययाय ॥ इति । तस्यैवानुपूर्वोक्तात्परमेश्वरात्समनन्तरमिति स्वामी ॥ १,२.६ ॥ तत्र कारिका परमेशांशरूपो यः प्रधानगुणभागिव । तद्ईक्षादिकृतिर्नानावतारः पुरुषः स्मृतः ॥ १,२.७ ॥ अस्यावतारत्वं च श्रीभागवते द्वितीयस्कन्धे आद्योऽवतारः पुरुषः परस्य ॥ १,२.८ ॥ इति (भागवतम् २.६.४०) तस्य च भेदाः, यथा सात्वततन्त्रे विष्णोस्तु त्रीणि रूपाणि पुरुषाख्यान्यथो विदुः । एकं तु महतः स्रष्टृ द्वितीयं तन्तुसंस्थितम् । तृतीयं सर्वभूतस्थं तानि ज्ञात्वा विमुच्यते ॥ इति ॥ १,२.९ ॥ तत्र प्रथमं, यथैकादशे [भागवतम् ११.४.३] भूतैर्यदा पञ्चभिरात्मसृष्टैः पुरं विराजं विरचय्य तस्मिन् । स्वांशेन विष्टः पुरुषाभिधानम् अवाप नारायण आदिदेवः ॥ १,२.१० ॥ ब्रह्मसंहितायां [५.१०१३] च तस्मिन्नाविरभूल्लिङ्गे महाविष्णुर्जगत्पतिः ॥ सहस्रशीर्षा पुरुष इत्यारभ्य नारायणः स भगवानापस्तस्मात्सनातनात् । आविरासन् कारणार्णोनिधिं सङ्कर्षणात्मकः । योगनिद्रां गतस्तस्मिन् सहस्रांशः स्वयं महान् ॥ तद्रोमबिलजालेषु बीजं सङ्कर्षणस्य च । हैमान्यण्डानि जातानि महाभूतावृतानि तु ॥ ईत्येतदन्तम् ॥ १,२.११ ॥ लिङ्गमत्र स्वयंरूपस्याङ्गभेद उदीरितः ॥ १,२.१२ ॥ द्वितीयं, यथा तत्रैव [Bर्ष्५.१४] तद्अनन्तरं प्रत्यण्डमेवमेकांशाद्विशति स्वयम् ॥ १,२.१३ ॥ इति । गर्भोदकशयः पद्मनाभोऽसावनिरुद्धकः । इति नारायणोपाख्यान उक्तं मोक्षधर्मके । सोऽयं हिरण्यगर्भस्य प्रद्युम्नत्वे नियामकः ॥ १,२.१४ ॥ अथ यत्तु तृतीयं स्याद्रूपं तच्चाप्यदृश्यत । केचित्स्वदेहान्तरिति द्वितीयस्कन्धपद्यतः ॥ १,२.१५ ॥ गुणावतारास्तत्राथ कथ्यन्ते पुरुषादिह । विष्णुर्ब्रह्मा च रुद्रश्च स्थितिसर्गादिकर्मणे ॥ १,२.१६ ॥ यथा प्रथमे (१.२.२३) सत्त्वं रजस्तम इति प्रकृतेर्गुणास्तैर् युक्तः परमपुरुष एक इहास्य धत्ते । स्थित्य्आदये हरिविरिञ्चिहरेति संज्ञाः श्रेयांसि तत्र खलु सत्त्वतनोर्नॄणां स्युः ॥ इति ॥ १,२.१७ ॥ अत्र कारिका योगो नियामकतया गुणैः सम्बन्ध उच्यते । अतः स तैर्न युज्यते तत्र स्वांशः परस्य यः ॥ १,२.१८ ॥ तत्र ब्रह्मा हिरण्यगर्भः सूक्ष्मोऽत्र स्थूलो वैराजसंज्ञकः । भोगाय सृष्टये चाभूत्पद्मभूरिति स द्विधा ॥ १,२.१९ ॥ वैराज एव प्रायः स्यात्सर्गाद्य्अर्थं चतुर्मुखः । कदाचिद्भगवान् विष्णुर्ब्रह्मा सन् सृजति स्वयम् ॥ १,२.२० ॥ तथा च पाद्मे भवेत्क्वचिन्महाकल्पे ब्रह्मा जीवोऽप्युपासनैः । क्वचिदत्र महाविष्णुर्ब्रह्मत्वं प्रतिपद्यते ॥ १,२.२१ ॥ इति ॥ विष्णुर्यत्र महाकल्पे स्रष्टृत्वं च प्रपद्यते । तत्र भुङ्क्ते तं प्रविश्य वैराजः सौख्यसम्पदम् । अतो जीवत्वमैश्यं च ब्रह्मणः कालभेदतः ॥ १,२.२२ ॥ ईशत्वापेक्षया तस्य शास्त्रे प्रोक्तावतारता । समष्टित्वेन भगवत्सन्निकृष्टतयोच्यते । अस्यावतारता कैश्चिदावेशत्वेन कैश्चन ॥ १,२.२३ ॥ तथा ब्रह्मसंहितायां (५.४९) भास्वान् यथाश्मशकलेषु निजेषु तेजः स्वीयं कियत्प्रकटयत्यपि तद्वदत्र । ब्रह्मा य एष जगद्अण्डविधानकर्ता गोविन्दमादिपुरुषं तमहं भजामि ॥ १,२.२४ ॥ इति । गर्भोदशायिनोऽस्याभूत्जन्म नाभिसरोरुहात् कदाचित्श्रूयते नीरात्तेजोवातादिकादपि ॥ १,२.२५ ॥ रुद्र एकादशव्यूहस्तथाष्टतनुरप्यसौ । प्रायः पञ्चाननस्त्र्यक्षो दशबाहुरुदीर्यते ॥ १,२.२६ ॥ क्वचिज्जीवविशेषत्वं हरस्योक्तं विधेरिव । तत्तु शेषवदेवास्तां तद्अंशत्वेन कीर्तनात् ॥ १,२.२७ ॥ हरः पुरुषधामत्वान्निर्गुणः प्राय एव सः । विकारवानिह तमोयोगात्सर्वैः प्रतीयते ॥ यथा श्रीदशमे (१०.८८.३) शिवः शक्तियुतः शश्वत्त्रिलिङ्गो गुणसंवृतः ॥ १,२.२८ ॥ इति । यथा ब्रह्मसंहितायां (५.४५) क्षीरं यथा दधि विकारविशेषयोगात् सञ्जायते न हि ततः पृथगस्ति हेतोः । यः शम्भुतामपि तथा समुपैति कार्याद् गोविन्दमादिपुरुषं तमहं भजामि ॥ इति ॥ १,२.२९ ॥ विधेर्ललाटाज्जन्मास्य कदाचित्कमलापतेः । कालाग्निरुद्रः कल्पान्ते भवेत्सङ्कर्षणादपि ॥ १,२.३० ॥ सदाशिवाख्या तन्मूर्तिस्तमोगन्धविवर्जिता । सर्वकारणभूतासावङ्गभूता स्वयं प्रभोः । वायव्यादिषु सैवेयं शिवलोके प्रदर्शिता ॥ १,२.३१ ॥ तथा च ब्रह्मसंहितायामादिशिवकथने (५.८) नियतिः सा रमा देवि तत्प्रिया तद्वशं तदा । तल्लिङ्गं भगवान् शम्भुर्ज्योतिरूपः सनातनः । या योनिः सापरा शक्तिः इत्यादि ॥ १,२.३२ ॥ श्रीविष्णुः, यथा श्रीतृतीये (३.८.१६) तल्लोकपद्मं स उ एव विष्णुः प्रावीविशत्सर्वगुणावभासम् । तस्मिन् स्वयं वेदमयो विधाता स्वयम्भुवं यं स्म वदन्ति सोऽभूत् ॥ इति ॥ १,२.३३ ॥ यो विष्णुः पठ्यते सोऽसौ क्षीराम्बुधिशयो मतः । गर्भोदशायिनस्तस्य विलासत्वान्मुन्श्वरैः । नारायणो विराडन्तर्यामी चायं निगद्यते ॥ १,२.३४ ॥ विष्णुधर्मोत्तराद्य्उक्ता याः पूर्योऽजाण्डमध्यतः । सन्ति विष्णुप्रकाशानां ताः कथ्यन्ते समासतः ॥ १,२.३५ ॥ यथा रुद्रोपरिष्टादपरः पञ्चायुतप्रमाणतः । अगम्यः सर्वलोकानां विष्णुलोकः प्रकीर्तितः ॥ १,२.३६ ॥ तस्योपरिष्टाद्ब्रह्माण्डः काञ्चनोद्दीप्तिसंयुतः । मेरोस्तु पूर्वदिग्भागे मध्ये तु लवणोदधेः । विष्णुलोको महान् प्रोक्तः सलिलान्तरसंस्थितः ॥ १,२.३७ ॥ तत्र स्वपिति घर्माम्भे देवदेवो जनार्दनः । लक्ष्मीसहायः सततं शेषपर्यङ्कमास्थितः ॥ १,२.३८ ॥ मेरोश्च पूर्वदिग्भागे मध्ये क्षीरार्णवस्य च । क्षीराम्बुमध्यगा शुभ्रा देवस्यान्या तथा पुरी ॥ १,२.३९ ॥ लक्ष्मीसहायस्तत्रास्ते शेषासनगतः प्रभुः । तत्रापि चतुरो मासान् सुप्तस्तिष्ठति वार्षिकान् ॥ १,२.४० ॥ तस्मिन्नवाचि दिग्भागे मध्ये क्षीरार्णवस्य तु । योजनानां सहस्राणि मण्डलः पञ्चविंशतिः । श्वेतद्वीपतया ख्यातो द्वीपः परमशोभनः ॥ १,२.४१ ॥ नराः सूर्यप्रभास्तत्र शीतांशुसमदर्शनाः । तेजसा दुर्निरीक्ष्याश्च देवानामपि यादव ॥ १,२.४२ ॥ ब्रह्माण्डे च श्वेतो नाम महानस्ति द्वीपः क्षीराब्धिवेष्टितः । लक्षयोजनविस्तारः सुरम्यः सर्वकाञ्चनः ॥ १,२.४३ ॥ कुन्देन्दुकुमुदप्रख्यैर्लोलकल्लोलराशिभिः । धौतामलशिलोपेतः समन्तात्क्षीरवारिधेः ॥ १,२.४४ ॥ इति । किं च विष्णुपुराणादौ मोक्षधर्मे च कीर्तितम् । क्षीराब्धेरुत्तरे तीरे श्वेतद्वीपो भवेदिति ॥ १,२.४५ ॥ शुद्धोदादुत्तरे श्वेतद्वीपं स्यात्पाद्मसम्मतम् ॥ १,२.४६ ॥ विष्णुः सत्त्वं तनोतीति शास्त्रे सत्त्वतनुं स्मृतः । अवतारगणश्चास्य भवेत्सत्त्वतनुस्तथा । बहिरङ्गमधिष्ठानमिति वा तस्य तत्तनुः ॥ १,२.४७ ॥ अतो निर्गुणता सम्यक्सर्वशास्त्रे प्रसिध्यति ॥ १,२.४८ ॥ तथा हि श्रीदशमे (१०.८८.४) हरिर्हि निर्गुणः साक्षात्पुरुषः प्रकृतेः परः । स सर्वदृगुपद्रष्टा तं भजन्निर्गुणो भवेत् ॥ इति ॥ १,२.४९ ॥ तेन सत्त्वतनोरस्मात्श्रेयांसि स्युरितीरितम् ॥ १,२.५० ॥ इत्यतो विहिता शास्त्रे तद्भक्तेरेव नित्यता ॥ १,२.५१ ॥ तथा हि पाद्मे स्मर्तव्यः सततं विष्णुर्विस्मर्तव्यो न जातुचित् । सर्वे विधिनिषेधाः स्युरेतयोरेव किङ्कराः ॥ १,२.५२ ॥ अतएव तत्रैव (ড়द्मড়् ४.९३.२६) व्यामोहाय चराचरस्य जगतस्ते ते पुराणागमास् तां तामेव हि देवतां परमिकां जल्पन्तु कल्पावधि । सिद्धान्ते पुनरेक एव भगवान् विष्णुः समस्तागम व्यापारेषु विवेचनव्यतिकरं नीतेषु निश्चीयते ॥ १,२.५३ ॥ श्रीप्रथमस्कन्धे (१.२.२६) मुमुक्षवो घोररूपान् हित्वा भूतपतीनथ । नारायणकलाः शान्ता भजन्ति ह्यनसूयवः ॥ इति ॥ १,२.५४ ॥ अत्र स्वांशा हरेरेव कलाशब्देन कीर्तिताः ॥ १,२.५५ ॥ अतो विधिहरादीनां निखिलानां सुपर्वणाम् । श्रीविष्णोः स्वांशवर्गेभ्यो न्यूनताभिप्रकाशिता ॥ १,२.५६ ॥ यथा तत्रैव (१.१८.२१) अथापि यत्पादनखावसृष्टं जगद्विरिञ्चोपहृतार्हणाम्भः सेशं पुनात्यन्यतमो मुकुन्दात् को नाम लोके भगवत्पदार्थः ॥ १,२.५७ ॥ इति । महावाराहे च मत्स्यकूर्मवरहाद्याः समा विष्णोरभेदतः । ब्रह्माद्यामसमाः प्रोक्ताः प्रकृतिस्तु समासमा ॥ १,२.५८ ॥ इति ॥ अत्र प्रकृतिशब्देन चिच्छक्तिरभिधीयते । अभिन्नभिन्नरूपत्वादस्यैवोक्ता समासमा ॥ १,२.५९ ॥ इति पुरुषावतारगुणावतारनिरूपणम् ॥२॥ *********************************************************** तृतीयः परिच्छेदः लीलावतारनिरूपणम् अथ लीलावताराश्च विलिख्यन्ते यथा मति । श्रीमद्भागवतस्यानुसारेण प्रायशस्त्वमी ॥ १,३.१ ॥ तत्र श्रीचतुःसनः श्रीप्रथमे (१.३.६) स एव प्रथमं देवः कौमारं सर्गमाश्रितः । चचार दुश्चरं ब्रह्मा ब्रह्मचर्यमखण्डितम् ॥ १,३.२ ॥ इति । चतुर्भिरवतारोऽयमेक एव सतां मतः । समशब्दात्चतुर्ष्वेव चतुःसन इति स्मृतः ॥ १,३.३ ॥ शुद्धज्ञानस्य भक्तेश्च प्रचारार्थमवातरत् । पञ्चषाब्दिकबालाभो गौरः कमलयोनितः ॥ १,३.४ ॥ श्रीनारदः । तत्रैव (१.३.८) तृतीयमृषिसर्गं वै देवर्षित्वमुपेत्य सः । तन्त्रं सात्वतमाचष्ट नैष्कर्म्यं कर्मणां यतः ॥ १,३.५ ॥ प्रवर्तनाय लोकेऽस्मिन् स्वभक्तेरेव सर्वतः । हरिर्देवर्षिरूपेण चन्द्रशुभ्रो विधेरभूत् ॥ १,३.६ ॥ आविर्भूयादिद्मे ब्राह्मे कल्प एव चतुःसनः । नारदश्चानुवर्तेते कल्पेषु सकलेष्वपि ॥ १,३.७ ॥ श्रीवराहः । तत्रैव (१.३.७) द्वितीयं तु भवायास्य रसातलगतां महीम् । उद्धरिष्यन्नुपादत्त यज्ञेशः सौकरं वपुः ॥ १,३.८ ॥ श्रीद्वितीये च (२.७.१) यत्रोद्यतः क्षितितलोद्धरणाय बिभ्रत् क्रौडीं तनुं सकलयज्ञमयीमनन्तः । अन्तर्महार्णव उपागतमादिदैत्यं तं दंष्ट्रयाद्रिमिव वज्रधरो ददार ॥ १,३.९ ॥ इति । द्विराविरासीत्कल्पेऽस्मिन्नाद्ये स्वायम्भुवान्तरे । घ्राणाद्विधेर्धरोद्धृत्यै चाक्षुषीये तु नीरतः ॥ १,३.१० ॥ हिरण्याक्षं धरोद्धारे निहन्तुं दंष्ट्रिपुङ्गवः । चतुष्पात्श्रीवराहोऽसौ नृवराहः क्वचिन्मतः ॥ १,३.११ ॥ कदाचिज्जलदश्यामः कदाचिच्चन्द्रपाण्डरः । यज्ञमूर्तिः स्थविष्ठोऽयं वर्णद्वययुतः स्मृतः ॥ १,३.१२ ॥ दक्षात्प्राचेतसात्सृष्टिः श्रूयते चाक्षुषेऽन्तरे । अतस्तत्रैव जन्मास्य हिरण्याक्षस्य युज्यते ॥ १,३.१३ ॥ तथा हि श्रीचतुर्थे (४.३०.४९) चाक्षुषे त्वन्तरे प्राप्ते प्राक्सर्गे कालविद्रुते । यः ससर्ज प्रजा इष्टाः स दक्षो दैवचोदितः ॥ १,३.१४ ॥ इति । उत्तानपादवंश्यानां तनयस्य प्रचेतसाम् । दक्षस्यैव दितिः पुत्री हिरणाक्षो दितेः सुतः ॥ १,३.१५ ॥ कल्पारम्भे तदा नास्ति सुतोत्पत्तिर्मनोरपि । क्वासौ प्राचेतसो दक्षः क्व दितिः क्व दितेः ॥ १,३.१६ ॥ अतः कालद्वयोद्भूतं श्रीवराहस्य चेष्टितम् । एकत्रैवाह मैत्रेयः क्षत्तुः प्रश्नानुरोधतः ॥ १,३.१७ ॥ मध्ये मन्वन्तरस्यैव मुनेः शापान्मनुं प्रति । प्रलयोऽसौ बभूवेति पुराणे क्वचिदीर्यते ॥ १,३.१८ ॥ अयमाकस्मिको जातश्चाक्षुषस्यान्तरे मनोः । प्रलयः पद्मनाभस्य लीलयेति च कुत्रचित् ॥ १,३.१९ ॥ सर्वमन्वन्तरस्यान्ते प्रलयो निश्चितं भवेत् । विष्णुधर्मोत्तरे त्वेतत्मार्कण्डेयेन भाषितम् ॥ १,३.२० ॥ तथा हि मन्वन्तरे परिक्षीणे देवा मन्वन्तरेश्वराः । महर्लोकमथासाद्य तिष्ठन्ति गतकल्मषाः ॥ १,३.२१ ॥ मनुश्च सह शक्रेण देवाश्च यदुनन्दन । ब्रह्मलोकं प्रपद्यन्ते पुनरावृत्तिदुर्लभम् ॥ १,३.२२ ॥ भूतलं सतलं वज्र तोयरूपी महेश्वरः । ऊर्मिमाली महावेगः सर्वमावृत्य तिष्ठति ॥ १,३.२३ ॥ भूर्लोकमाश्रितं सर्वं तदा नश्यति यादव । न विनश्यन्ति राजेन्द्र विश्रुताः कुलपर्वताः ॥ १,३.२४ ॥ नौर्भूत्वा तु तदा देवी मही यदुकुलोद्वह । धारयत्यथ बीजानि सर्वाण्येवाविशेषतः ॥ १,३.२५ ॥ भविष्यश्च मनुस्तत्र भविष्या ऋषयस्तथा । तिष्ठन्ति राजशार्दूल सप्त ते प्रथिता भुवि ॥ १,३.२६ ॥ मत्स्यरूपधरो विष्णुः शृङ्गी भूत्वा जगत्पतिः । आकर्षति तु तां नावं स्थानात्स्थानं तु लीलया ॥ १,३.२७ ॥ हिमाद्रिशिखरे नावं बद्धा देवो जगत्पतिः । मत्स्यस्त्वदृश्यो भवति ते च तिष्ठन्ति तत्रगाः ॥ १,३.२८ ॥ कृततुल्यं ततः कालं यावत्प्रक्षालनं स्मृतम् । आपः शममथो यान्ति यथापूर्वं नराधिप । ऋषयश्च मनुश्चैव सर्वं कुर्वन्ति ते तदा ॥ १,३.२९ ॥ इति । मनोरन्ते लयो नास्ति मनवेऽदर्शि मायया । विष्णुनेति ब्रुवाणैस्तु स्वाभिर्नैष मन्यते ॥ १,३.३० ॥ श्रीमत्स्यः श्रीप्रथमे (१.३.१५) रूपं स जगृहे मात्स्यं चाक्षुषोदधिसम्प्लवे । नाव्यारोप्य महीमय्यामपाद्वैवस्वतं मनुम् ॥ १,३.३१ ॥ श्रीद्वितीये (२.७.२२) च मत्स्यो युगान्तसमये मनुनोपलब्धः क्षोणीमयो निखिलजीवनिकायकेतः । विस्रंसितानुरुभये सलिले मुखान्मे आदाय तत्र विजहार ह वेदमार्गान् ॥ १,३.३२ ॥ पाद्मे च एवमुक्तो हृषीकेशो ब्रह्मणा परमेश्वरः । मत्स्यरूपं समास्थाय प्रविवेश महोदधिम् ॥ १,३.३३ ॥ मत्स्योऽपि प्रादुरभवद्द्विः कल्पेऽस्मिन् वराहवत् । आदौ स्वायम्भुवीयस्य दैत्यं घ्नन्नाहरच्छ्रुतीः । अन्ते तु चाक्षुषीयस्य कृपां सत्यव्रतेऽकरोत् ॥ १,३.३४ ॥ अन्त्येन सार्धपद्येन प्रोक्तमाद्यस्य चेष्टितम् । पूर्वसार्धेन चान्त्यस्य मत्स्यो ज्ञेयो वराहवत् ॥ १,३.३५ ॥ उपलक्षणमेवैततन्यमन्वन्तरस्य च । विष्णुधर्मोत्तराज्ज्ञेयाः प्रादुर्भावाश्चतुर्दश ॥ १,३.३६ ॥ श्रीयज्ञः श्रीप्रथमे (१.३.२२) नरदेवत्वमापन्नः सुरकार्यचिकीर्षया । समुद्रनिग्रहादीनि चक्रे वीर्याण्यतः परम् ॥ १,३.३७ ॥ इति । त्रयाणामेव लोकानां महार्तिहरणादसौ । मातामहेन मनुना हरिरित्यपि शब्दितः ॥ १,३.३८ ॥ श्रीनरनारायणौ तत्रैव (१.३.९) तुर्ये धर्मकलासर्गे नरनारायणावृषी । भूत्वात्मोपशमोपेतमकरोद्दुश्चरं तपः ॥ १,३.३९ ॥ इति । शास्त्रेऽन्यौ हरिकृष्णाख्यावनयोः सोदरौ स्मृतौ । एभिरेकोऽवतारः स्यात्चतुर्भिः सनकादिवत् ॥ १,३.४० ॥ श्रीकपिलः तत्रैव (१.३.१०) पञ्चमः कपिलो नाम सिद्धेशः कालविप्लुतम् । प्रोवाचासुरये साङ्ख्यं तत्त्वग्रामविनिर्णयम् ॥ १,३.४१ ॥ इति । देवहूत्यां कर्दमतः प्रादुर्भावमसौ गतः । प्रोक्तः कपिलवर्णत्वात्कपिलाख्यो विरिञ्चिना ॥ १,३.४२ ॥ पाद्मे कपिलो वासुदेवांशस्तत्त्वं साङ्ख्यं जगाद ह । ब्रह्मादिभ्यश्च देवेभ्यो भृग्वादिभ्यस्तथैव च । तथैवासुरयेसर्ववेदार्थैरुपबृंहितम् ॥ १,३.४३ ॥ सर्ववेदविरुद्धं च कपिलोऽन्यो जगाद ह । साङ्ख्यमासुरयेऽनय्समि कुतर्कपरिबृंहितम् ॥ १,३.४४ ॥ श्रीदत्तः । श्रीद्वितीये (२.७.४) अत्रेरपत्यमभिकाङ्क्षत आह तुष्टो दत्तो मयाहमिति यद्भगवान् स दत्तः । यत्पादपङ्कजपरागपवित्रदेहा योगर्द्धिमापुरुभयीं यदुहैहयाद्याः ॥ १,३.४५ ॥ श्रीप्रथमे च (१.३.११) षष्ठमत्रेरपत्यत्वं वृतः प्राप्तोऽनसूयया । आन्वीक्षिकीमलर्काय प्रह्लादादिभ्य ऊचिवान् ॥ १,३.४६ ॥ श्रीब्रह्माण्डे तु कथितमत्रिपत्न्यानुसूयया । प्रार्थितो भगवानत्रेरपत्यत्वमुपेयिवान् ॥ १,३.४७ ॥ तथा हि वरं दत्त्वानसूयायै विष्णुः सर्वजगन्मयः । अत्रेः पुत्रोऽभवत्तस्यां स्वेच्छामानुषविग्रहः । दत्तात्रेय इति ख्यातो यतिवेशविभूषितः ॥ १,३.४८ ॥ श्रीहयशीर्षा । श्रीद्वितीये (२.७.११) सत्रे ममास भगवान् हयशीरषाथो साक्षात्स यज्ञपुरुषस्तपनीयवर्णः । छन्दोमयो मखमयोऽखिलदेवतात्मा वाचो बभूवुरुशतीः श्वसतोऽस्य नस्तः ॥ १,३.४९ ॥ इति । प्रादुर्भूयैव यज्ञाग्नेर्दानवौ मधुकैटभौ । हत्वा प्रयानयद्वेदान् पुनर्वागीश्वरीपतिः ॥ १,३.५० ॥ श्रीहंसः । श्रीद्वितीये (२.७.१९) तुभ्यं च नारद भृशं भगवान् विवृद्ध भावेन साधु परितुष्ट उवाच योगम् । ज्ञानं च भागवतमात्मसतत्त्वदीपं यद्वासुदेवशरणा विदुरञ्जसैव ॥ १,३.५१ ॥ इति । शक्तोऽखिलविवेकेऽहं क्षीरनीरविभागवत् । इति व्यञ्जन्नयं राजहंसो व्यक्तिं जलाद्गतः ॥ १,३.५२ ॥ श्रीध्रुवप्रियः । तत्रैव (२.७.८) विद्धः सपत्न्य्उदितपत्रिभिरन्ति राज्ञो बालोऽपि सन्नुपगतस्तपसे वनानि । तस्मा अदाद्ध्रुवगतिं गृणते प्रसन्नो दिव्याः स्तुवन्ति मुनयो यदुपर्य्अधस्तात् ॥ १,३.५३ ॥ इति । स्वायम्भुवेऽवतारोक्तेर्नाम्नश्चाकथनादिह । यज्ञादीनां च तत्रोक्त्या पारिशेष्यप्रमाणतः ॥ प्रसिद्ध्या पृश्निगर्भेति तद्आख्यास्य निगद्यते । हन्तायमद्रिरित्यादौ पद्ये गोवर्धनाद्रिवत् ॥ १,३.५४ ॥ तथा श्रीदशमे (१०.३.३२) त्वमेव पूर्वसर्गेऽभूः पृश्निः स्वायम्भुवे सति । तदायं सुतपा नाम प्रजापतिरकल्मषः । अहं सुतो वामभवं पृश्निगर्भ इति स्मृतः ॥ १,३.५५ ॥ इति । अस्यात्र चरितानुक्त्या नामानुक्त्या च तत्र वै । परस्परमपेक्षित्वाद्युक्ता चैकत्र सङ्गतिः ॥ १,३.५६ ॥ अत्रागमनमात्रेण यदि स्यादवतारता । अन्यत्रापि प्रसज्येत यथेष्टं तत्प्रकल्पना ॥ १,३.५७ ॥ श्र्यृषभः । श्रीप्रथमे (१.३.१३) अष्टमे मेरुदेव्यां तु नाभेर्जात उरुक्रमः । दर्शयन् वर्त्म धीराणां सर्वाश्रमनमस्कृतम् ॥ १,३.५८ ॥ शुक्लः परमहंसानां धर्मं ज्ञापयितुं प्रभुः । व्यक्तो गुणैर्वरिष्ठत्वाद्विख्यात ऋषभाख्यया ॥ १,३.५९ ॥ श्रीपृथुः । तत्रैव (१.३.१४) ऋषिभिर्याचितो भेजे नवमं पार्थिवं वपुः । दुग्धेमामोषधीर्विप्रास्तेनायं स उशत्तमः ॥ १,३.६० ॥ इति । मथ्यमानान्मुनिगणैरसव्याद्वैणबाहुतः । प्रादुर्भूतो महाराजः शुद्धस्वर्णरुचिः पृथुः ॥ १,३.६१ ॥ आद्ये व्यक्ताः कुमाराद्याः पृथ्व्अन्ताश्च त्रयोदश । केलोअमत्स्यौ पुनर्व्यक्तिं चाक्षुषीये तु जग्मतुः ॥ १,३.६२ ॥ अथ श्रीनृसिंहः । तत्रैव (१.३.१८) चतुर्दशं नारसिंहं बिभ्रद्दैत्येन्द्रमूर्जितम् । ददार करजैरूरावेरकां कटकृद्यथा ॥ १,३.६४ ॥ षष्ठेऽन्तरेऽब्धिमथनान्नृहरेः पूर्वभाविता । अतः प्रागेष कूर्मादेर्व्यक्तिं षष्ठेऽन्तरे गतः ॥ १,३.६५ ॥ श्रीकूर्मः । तत्रैव (१.३.१६) सुरासुराणामुदधिं मथ्नतां मन्दराचलम् । दध्रे कमठरूपेण पृष्ठ एकादशे विभुः ॥ १,३.६६ ॥ इति । पाद्मे प्रोक्तं दधे क्षौणीमयमेवार्थितः सुरैः । शास्त्रान्तरे तु भूधारी कल्पादौ प्रकटोऽभवत् ॥ १,३.६७ ॥ श्रीधन्वन्तरिमोहिन्यौ । तत्रैव (१.३.१७) धान्वन्तरं द्वादशमं त्रयोदशममेव च । अपाययत्सुरानन्यान्मोहिन्या मोहयन् स्त्रिया ॥ १,३.६८ ॥ इति । तत्र श्रीधन्वन्तरिः षष्ठे च सप्तमे चायं द्विराविर्भावमागतः ॥ १,३.६९ ॥ षष्ठेऽन्तरेऽब्धिमथनाद्धृतामृतकमण्डलुः । उद्गतो द्विभुजः श्यामः आयुर्वेदप्रवर्तकः । सप्तमे च तथारूपः काशीराजसुतोऽभवत् ॥ १,३.७० ॥ श्रीमोहिनी दैत्यानां मोहनायासौ प्रमोदाय च धुर्जण्ः । अजितो मोहिनीमूर्त्या द्विराविर्भावमागतः ॥ १,३.७१ ॥ इति षष्ठेऽत्र चत्वारो नृसिंहायाः प्रकीर्तिताः ॥ १,३.७२ ॥ श्रीवामनः । तत्रैव (१.३.१९) पञ्चदशं वामनकं कृत्वागादध्वरं बलेः । पदत्रयं याचमानः प्रत्यादित्सुस्त्रिपिष्टपम् ॥ १,३.७३ ॥ इति । वामनस्त्रिरभिव्यक्तं कल्पेऽस्मिन् प्रतिपेदिवान् । तत्रादौ दानवेन्द्रस्य वास्कलेरध्वरं ययौ ॥ ततो वैवस्वतीयेऽस्मिन् धुन्धोर्मखमसौ गतः । अदितौ कश्यपाज्जातः सप्तमेऽस्य चतुर्युगे । प्रतिग्रहकृते जातास्त्रय एव त्रिविक्रमाः ॥ १,३.७४ ॥ श्रीभार्गवः । तत्रैव (१.३.२०) अवतारे षोडशमे पश्यन् ब्रह्मद्रुहो नृपान् । त्रिःसप्तकृत्वः कुपितो निःक्षत्रामकरोन्महीम् ॥ १,३.७५ ॥ इति । रेणुकाजमदग्निभ्यां गौरो व्यक्तिमसौ गतः । प्राहुः सप्तदशे केचिद्द्वाविंशेऽन्ये चतुर्युगे ॥ १,३.७६ ॥ श्रीराघवेन्द्रः । तत्रैव (१.३.२२) नरदेवत्वमापन्नः सुरकार्यचिकीर्षया । समुद्रनिग्रहादीनि चक्रे वीर्याण्यतः परम् ॥ १,३.७७ ॥ इति । कौशल्यायां दशरथान्नवदूर्वादलद्युतिः । त्रेतायामाविरभवत्चतुर्विंशे चतुर्युगे । भरतेन सुमित्राया नन्दनाभ्यां च संयुतः ॥ १,३.७८ ॥ अस्य शास्त्रे त्रयो व्यूहा लक्ष्मणआद्या अमी स्मृताः । भरतोऽत्र घनश्यामः सौमित्री कनकप्रभौ ॥ १,३.७९ ॥ पाद्मे भरतशत्रुघ्नौ शङ्खचक्रतयोदितौ । श्रीलक्ष्मणस्तु तत्रैव शेष इत्यभिशब्दितः ॥ १,३.८० ॥ श्रीव्यासः । तत्रैव (१.३.२१) ततः सप्तदशे जातः सत्यवत्यां पराशरात् । चक्रे वेदतरोः शाखा दृष्ट्वा पुंसोऽल्पमेधसः ॥ १,३.८१ ॥ इति । द्वैपायनोऽस्मि व्यासानामिति शौरिर्यदूचिवान् । अतो विष्णुपुराणादौ विशेषेणैव वर्णितः ॥ १,३.८२ ॥ यथा (Vइড়् ३.४.५; ंBह्१२.३४६.११) कृष्णद्वैपायनं व्यासं विद्धि नारायणं स्वयम् । को ह्यन्यः पुण्डरीकाक्षान्महाभारतकृद्भवेत् ॥ इति ॥ १,३.८३ ॥ श्रूयतेऽपान्तरतमा द्वैपायन्यमगादिति । किं सायुज्यं गतः सोऽत्र विष्ण्व्अंशः सोऽपि वा भवेत् । तस्मादावेश एवायमिति केचिद्वदन्ति च ॥ १,३.८४ ॥ अथ श्रीरामकृष्णौ । श्रीप्रथमे (१.३.२३) एकोनविंशे विंशतिमे वृष्णिषु प्राप्य जन्मनी । रामकृष्णाविति भुवो भगवानहरद्भरम् ॥ १,३.८५ ॥ इति । श्रीरामः एष मातृद्वये व्यक्तो जनकाद्वसुदेवतः । यो नव्यघनसाराभो घनश्यामाम्बरः सदा ॥ १,३.८६ ॥ सङ्कर्षणो द्वितीयो यो व्यूहः रामः स एव हि । पृथ्वीधरेण शेषेण सम्भूय व्यक्तिमीयिवान् ॥ १,३.८७ ॥ शेषो द्विधा महीधारी श्य्यारूपश्च शार्ङ्गिणः । तत्र सङ्कर्षणावेशाद्भूभृत्सङ्कर्षणो मतः । शय्यारूपस्तथा तस्य सख्यदास्याभिमानवान् ॥ १,३.८८ ॥ श्रीकृष्णः एष मातरि देवक्यां पितुरानकदुन्दुभेः । प्रादुर्भूतो घनश्यामो द्विभुजोऽपि चतुर्भुजः ॥ १,३.८९ ॥ श्रीबुद्धः । तत्रैव (१.३.२४) ततः कलौ सम्प्रवृत्ते सम्मोहाय सुरद्विषाम् । बुद्धो नाम्नाञ्जनसुतः कीकटेषु भविष्यति ॥ १,३.९० ॥ इति । असौ व्यक्तः कलेरब्दसहस्रद्वितये गते । मूर्तिः पाटलवर्णास्य द्विभुजा चिकुरोज्झिता ॥ १,३.९१ ॥ यदा सूतः कथामाह तदा बुद्धस्य भाविता । अधुना वृत्त एवायं धर्मारण्ये यदुद्गतः ॥ १,३.९२ ॥ श्रीकल्किः । तत्रैव (१.३.२५) अथासौ युगसन्ध्यायां दस्युप्रायेषु राजसु । जनिता विष्णुयशसो नाम्ना कल्किर्जगत्पतिः ॥ १,३.९३ ॥ इति । पूर्वं मनुर्दशरथो वसुदेवोऽप्यसावभूत् । भावी विष्णुयशास्चायमिति पाद्मे प्रकीर्तितम् ॥ १,३.९४ ॥ ऐश्वर्यं कल्किनस्तस्य ब्रह्माण्डे सुष्ठु वर्णितम् । कैश्चित्कलौ कलौ बुद्धः स्यात्कल्की चेत्युदीर्यते ॥ १,३.९५ ॥ अष्टौ वैवस्वतीयेऽमी कथिता वामनादयः ॥ १,३.९६ ॥ कल्पावतारा इत्येते कथिताः पञ्चविंशतिः । प्रतिकल्पं यतः प्रायः सकृत्प्रादुर्भ्वत्यमी ॥ १,३.९७ ॥ इति लीलावतारनिरूपणम् ॥ *********************************************************** चतुर्थः परिच्छेदः अथ मन्वन्तरावताराः मन्वन्तरावतारोऽसौ प्रायः शक्रारिहत्यया । तत्सहायो मुकुन्दस्य प्रादुर्भावः सुरेषु यः ॥ १,४.१ ॥ युक्ते कल्पावतारत्वे यज्ञादीनामपि स्फुटम् । मन्वतरावतारत्वं तत्तत्पर्यन्तपालनात् ॥ १,४.२ ॥ मन्वन्तरेष्वमी स्वायम्भुवीयादिष्वनुक्रमात् । अवतारास्तु यज्ञाद्या बृहद्भान्व्अन्तिमा मताः ॥ १,४.३ ॥ प्रथमे स्वायम्भुवीये यज्ञः यज्ञस्तु पूर्वमेवोक्तस्तेनात्र न विलिख्यते ॥ १,४.४ ॥ यथा अष्टमस्कन्धे (८.१.२१२२) ऋषेस्तु वेदशिरसस्तुषिता नाम पत्न्यभूत् । तस्यां जज्ञे ततो देवो विभुरित्यभिविश्रुतः ॥ १,४.५ ॥ अष्टाशीतिसहस्राणि मुनयो ये धृतव्रताः । अन्वशिक्षन् व्रतं तस्य कौमारब्रह्मचारिणः ॥ १,४.६ ॥ इति । तृतीये औत्तमीये सत्यसेनः (८.१.२५२६) धर्मस्य सूनृतायां तु भगवान् पुरुषोत्तमः । सत्यसेन इति ख्यातो जातः सत्यव्रतैः सह ॥ १,४.७ ॥ सोऽनृतव्रतदुःशीलानसतो यक्षराक्षसान् । भूतद्रुहो भूतगणांश्चावधीत्सत्यजित्सखः ॥ १,४.८ ॥ इति । चतुर्थे तामसीये हरिः (८.१.३०) तत्रापि जज्ञे भगवान् हरिण्यां हरिमेधसः । हरिरित्याहृतो येन गजेन्द्रो मोचितो ग्रहात् ॥ १,४.९ ॥ इति । स्मर्यतेऽसौ सदा प्रातः सदाचारपरायणैः । सर्वानिष्टविनाशाय हरिर्दनीत्न्द्रमोचनः ॥ १,४.१० ॥ पञ्चमे रैवतीये वैकुण्ठः (८.५.४५) पत्नी विकुण्ठा शुभ्रस्य वैकुण्ठैः सुरसत्तमैः । तयोः स्वकलया जज्ञे वैकुण्ठो भगवान् स्वयम् ॥ १,४.११ ॥ वैकुण्ठः कल्पितो येन लोको लोकनमस्कृतः । रमया प्रार्थ्यमानेन देव्या तत्प्रियकाम्यया ॥ १,४.१२ ॥ इति । महावैकुण्ठलोकस्य व्यापकस्याव्ययात्मनः । प्रकटीकरणं सत्योपरि कल्पनमुच्यते ॥ १,४.१३ ॥ षष्ठे चाक्षुषीये अजितः (भागवतम् ८.५.९१०) तत्रापि देवसम्भूत्यां वैराजस्याभवत्सुतः । अजितो नाम भगवानंशेन जगतः पतिः ॥ १,४.१४ ॥ पयोधिं येन निर्मथ्य सुराणां साधिता सुधा । भ्रममाणोऽम्भसि धृतः कूर्मरूपेण मन्दरः ॥ १,४.१५ ॥ इति । सप्तमे वैवस्वतीये वामनः वैवस्वतान्तरे व्यक्तः पुरैवोक्तः स वामनः । भविष्याः सप्त कथ्यन्ते ते सावर्ण्यन्तरादिषु ॥ १,४.१६ ॥ अष्टमे सावर्णनीये सार्वभौमः (भागवतम् ८.१३.१७) देवगुह्यात्सरस्वत्यां सार्वभौम इति प्रभुः । स्थानं पुरन्दराद्धृत्वा बलये दास्यतीश्वरः ॥ १,४.१७ ॥ इति । नवमे दक्षसावर्णनीये ऋषभः (८.१३.२०) आयुष्मतोऽम्बुधारायामृषभो भगवत्कला । भविता येन संराद्धां त्रिलोकीं भोक्ष्यतेऽद्भुतः ॥ १,४.१८ ॥ इति । दशमे ब्रह्मसावर्णनीये विष्वक्सेनः (८.१३.२३) विष्वक्सेनो विषूच्यां तु शम्भोः सख्यं करिष्यति । जातः स्वांशेन भगवान् गृहे विश्वसृजो विभुः ॥ १,४.१९ ॥ इति । एकादशे धर्मसावर्णनीये धर्मसेतुः (८.१३.२६) आर्यकस्य सुतस्तत्र धर्मसेतुरिति स्मृतः । वैधृतायां हरेरंशस्त्रिलोकीं धारयिष्यति ॥ १,४.२० ॥ इति । द्वादशे रुद्रसावर्णनीये सुधामा (८.१३.२९) स्वधामाख्यो हरेरंशः साधयिष्यति तन्मनोः । अन्तरं सत्यसहसः सुनृतायाः सुतो विभुः ॥ १,४.२१ ॥ त्रयोदशे देवसावर्णनीये योगेश्वरः (८.१३.३२) देवहोत्रस्य तनय उपहर्ता दिवस्पतेः । योगेश्वरो हरेरंशो बृहत्यां सम्भविष्यति ॥ १,४.२२ ॥ इति । चतुर्दशे इन्द्रसावर्णनीये बृहद्भानुः (८.१३.३५) सत्रायणस्य तनयो बृहद्भानुस्तदा हरिः । वितानायां महाराज क्रियातन्तून् वितायिता ॥ १,४.२३ ॥ यज्ञवामनयोस्तत्र पुनरुक्ततया द्वयोः । मन्वन्तरावतारास्तु सङ्ख्यायां द्वादशोदिताः ॥ १,४.२४ ॥ इति मन्वन्तरावतारनिरूपणम् । अथ युगावताराः कथ्यन्ते वर्णनामाभ्यां शुक्लः सत्ययुगे हरिः । रक्तः श्यामः क्रमात्कृष्णस्त्रेतायां द्वापरे कलौ ॥ १,४.२५ ॥ उपासनाविशेषार्थं सत्यादिषु युगेष्वसौ । मन्वन्तरावतारस्तु तथावतरति क्रमात् ॥ १,४.२६ ॥ कल्पमन्वन्तरयुगप्रादुर्भावविधायिनः । अवतारा इमे त्वेकचत्वारिंशदुदीरिताः ॥ १,४.२७ ॥ वृत्ता ब्राह्मादयः कल्पाः पाद्मान्तास्ते सहस्रशः । वर्तमानस्तु कल्पोऽयं श्वेतवाराह उच्यते ॥ १,४.२८ ॥ ब्राह्मकल्पप्रथमजे व्यक्ताः स्वायम्भुवान्तरे । कुमारनारदाद्याश्च चाक्षुषीयादिषूत्तरे ॥ १,४.२९ ॥ प्रायः स्वायम्भुवाद्याख्याः कल्पे कल्पे भवन्त्यमी । मनवस्तेऽवताराश्च तथा यज्ञादिनामकाः ॥ १,४.३० ॥ तथा हि श्रीविष्णुधर्मोत्तरे श्रीरुद्रप्रश्नः य एते भवता प्रोक्ता मनवश्च चतुर्दश । नित्यं ब्रह्मदिने प्राप्ते एत एव क्रमाद्द्विज । भवन्त्युतान्ये धर्मज्ञ एतं मे छिन्धि संशयम् ॥ १,४.३१ ॥ श्रीमार्कण्डेयोत्तरम् एत एव महाराज मनवश्च चतुर्दश । कल्पे कल्पे त्वया ज्ञेया नात्र कार्या विचारणा ॥ १,४.३२ ॥ एकरूपास्त्वया प्रोक्ता ज्ञातव्याः सर्व एव हि । केचित्किञ्चिद्विभिन्नाश्च मायया परमेशितुः ॥ १,४.३३ ॥ इति । अवताराश्चतुर्धा स्युरावेशाः प्राभवा अपि । अथैव वैभवावस्थाः परावअस्थाश्च तत्र ते ॥ १,४.३४ ॥ तत्रावेशावतारास्तु ज्ञेयाः पूर्वोक्तरीतितः । यथा कुमारदेवर्षिवेणाङ्गप्रभावादयः ॥ १,४.३५ ॥ यथा पाद्मे आविष्टोऽभूत्कुमारेषु नारदे च हरिर्विभुः ॥ १,४.३६ ॥ यथा तत्रैव आविवेश पृथुं देवः शङ्खी चक्री चतुर्भुजः ॥ १,४.३७ ॥ आविष्टो भार्गवे चाभूदिति तत्रैव कीर्तितम् ॥ १,४.३८ ॥ तथा हि एतत्ते कथितं देवि जामदग्नेर्महात्मनः । शक्त्यावेशावतारस्य चरितं शार्ङ्गिणः प्रभोः ॥ १,४.३९ ॥ इति । आवेशत्वं कल्किनोऽपि विष्णुधर्मे विलोक्यते ॥ १,४.४० ॥ यथा प्रत्यक्षरूपधृग्देवो दृश्यते न कलौ हरिः । कृतादिष्विव तेनैव त्रियुगः परिपठ्यते ॥ १,४.४१ ॥ कलेरन्ते च सम्प्राप्ते कल्किनं ब्रह्मवादिनम् । अनुप्रविश्य कुरुते वासुदेवो जगत्स्थितिम् ॥ १,४.४२ ॥ पूर्वोत्पन्नेष्भूतेषु तेषु तेषु कलौ प्रभुः । कृत्वा प्रवेशं कुरुते यदभिप्रेतमात्मनः ॥ १,४.४३ ॥ इति । अतोऽमीष्वतारत्वं परं स्यादौपचारिकम् ॥ १,४.४४ ॥ अथ प्राभववैभवाः । हरिस्वरूपरूपा ये परावस्थेभ्य उनकाः । शक्तीनां तारतम्येन क्रमात्ते तत्तद्आख्यकाः ॥ १,४.४५ ॥ प्राभवाश्च द्विधा तत्र दृश्यन्ते शास्त्रचक्षुषा । एके नातिचिरव्यक्ता नातिविस्तृतकीर्तयः । ते मोहिनी च हंसश्च शुक्लाद्याश्च युगानुगाः ॥ १,४.४६ ॥ अपरे शास्त्रकर्तारः प्रायः स्युर्मुनिचेष्टिताः । धन्वन्तर्य्ऋषभौ व्यासो दत्तश्च कपिलश्च ते ॥ १,४.४७ ॥ अथ स्युर्वैभवावस्थास्ते च कूर्मो ऋषाधिपः । नारायणो नरसखः श्रीवराह्हयाननौ ॥ १,४.४८ ॥ पृश्निगर्भः प्रलम्बघ्नो यज्ञाद्याश्च चतुर्दश । इत्यमी वैभवावस्था एकविंशतिरीरिताः ॥ १,४.४९ ॥ ते क्रोडहयग्रीवौ नवव्यूहान्तरोदितौ । मन्वन्तरावतारेषु चत्वारः प्रवरास्तथा ॥ १,४.५० ॥ ते तु श्रीहरिवैकुण्ठौ तथैवाजितवामनौ । षडमी वैभवावस्थाः परावस्थोपमा मताः ॥ १,४.५१ ॥ केषांचिदेषां स्थानानि लिख्यन्ते शास्त्रदृष्टितः । यत्र तत्र विराजन्ते यानि ब्रह्माण्डमध्यतः । विष्णुधर्मोत्तरादीनां वाक्यं तत्र प्रमाण्यते ॥ १,४.५२ ॥ विष्णुधर्मोत्तरे तयोपरिष्टादपरस्तावानेव प्रमाणतः । महातलेति विख्यातो रक्तभौमश्च पञ्चमः ॥ सरोवरं भवेत्तत्र योजनानां दशायुतम् । स्वयं च तत्र वसति कूर्मरूपधरो हरिः ॥ १,४.५३ ॥ तयोपरिष्टादपरस्तावानेव प्रमाणतः । तत्रास्ते सरसी दिव्या योजनानां शत्¨त्रयम् । तस्यां स वसते देवो मत्स्यरूपधरो हरिः ॥ १,४.५४ ॥ नारायणो नरसखो वसते वदरीपदे ॥ १,४.५५ ॥ नृवराहस्य वसतिर्महर्लोके प्रकीर्तिता । योजनानां प्रमाणेन अयुतानां शतत्रयम् ॥ १,४.५६ ॥ अयुतानि च पञ्चाशत्शेषस्थानं मनोहरम् ॥ १,४.५७ ॥ स एव लोको वाराहः कथितस्तु स्वयं प्रभः । लोकोऽयमण्डसंलग्नः सर्वाधस्तान्मनोहरः । वराहरूपो भगवान् श्वेतरूपधरोऽवसत् ॥ १,४.५८ ॥ तयोपरिष्टादपरस्तावानेव प्रमाणतः । पीतभौमश्चतुर्थस्तु गभस्तितलसंज्ञकः । तत्रास्ते भगवान् विष्णुर्देवो हयशिरोधरः । शशाङ्कशतसङ्काशः शातकुम्भविभूषणः ॥ १,४.५९ ॥ पृश्निगर्भस्य वसतिर्ब्रह्मणो भुवनोपरि ॥ १,४.६० ॥ वासस्तत्र प्रलम्बारेर्यत्रैवाघरिपोर्भवेत् ॥ १,४.६१ ॥ एतस्यैवांशभूतोऽयं पाताले वसति स्वयम् । नित्यं तालध्वजो वाग्मी वनमालाविभूषितः ॥ धारयन् शिरसा नित्यं रत्नचित्रां फणावलीम् । लाङ्गली मुषली कड्गी नीलाम्बरविभूषितः ॥ १,४.६२ ॥ ब्रह्मलोकोपरिष्टाच्च हरेर्लोको विराजते ॥ १,४.६३ ॥ स्वर्लोके वसतिर्विष्णोर्वैकुण्ठस्य महात्मनः । तथा वैकुण्ठलोके च स्वयमाविष्कृतो हि यः ॥ १,४.६४ ॥ अजितस्य निवासस्तु ध्रुवलोके समर्थितः । भुवर्लोके तु वसतिर्वामनस्य महात्मनः ॥ १,४.६५ ॥ त्रिविक्रमस्य वसतिस्तपोलोके प्रकीर्तिता । तथास्य ब्रह्मलोकस्थो दिव्यो नारायणाश्रयः । ब्रह्मलोकोपरिष्टाच्च निवासोऽनेन निर्मितः ॥ १,४.६६ ॥ हरिवंशे सुरेन्द्रेण कह्तितो यः सुरर्षये ॥ १,४.६७ ॥ तथा हि हरिवंशे (२.७०.३७) इदं भुङ्क्त्वा महीयं तु भगवन् विष्णुना कृतम् । उपर्युपरि लोकानामधिकं भुवनं मुने ॥ १,४.६८ ॥ इति ॥ सर्वेषामवताराणां परव्योम्नि चकासति । निवासाः परमाश्चर्या इति शास्त्रे निरूप्यते ॥ १,४.६९ ॥ तथा हि पाद्मे वैकुण्ठभुवने नित्ये निवसन्ति महोज्ज्वलाः । अवताराः सदा तत्र मत्स्यकूर्मादयोऽखिलाः ॥ १,४.७० ॥ इति अवतारतत्स्थाननिरूपणम् । पञ्चमः परिच्छेदः परावस्थानिरूपणम् अथ कृष्णो नरभ्रातुरवतार इति क्वचित् । उपेन्द्रस्येति च क्वापि भ्रातासौ नातिकोविदाम् ॥ १,५.१ ॥ यथा स्कान्दे धर्मपुत्रो हरेरंशौ नरनारायणाभिधौ । चन्द्रवंशमनु प्राप्य जातौ कृष्णार्जुनावुभौ ॥ १,५.२ ॥ श्रीचतुर्थे च (४.१.५९) ताविमौ वै भगवतो हरेरंशाविहागतौ । भारव्ययाय च भुवः कृष्णौ यदुकुरूद्वहौ ॥ १,५.३ ॥ एतद्उपोद्बोधकं श्रीदशमे (१०.६९.१६) सम्पूज्य देवर्षिवर्यमृषिः पुराणो नारायणो नरसखो विधिनोदितेन । वाण्याभिभाष्य मितयामृतमिष्टया तं प्राह प्रभो भगवते करवाम हे किम् ॥ १,५.४ ॥ उपेन्द्रावतारत्वं च यथा हरिवंशे शक्रवचने (२.७०.३४) ऐन्द्रं वैष्णवमस्यैव मुने भागमहं ददौ । यवीयांसमहं प्रेम्ना कृष्णं प्रश्यामि नारद ॥ १,५.५ ॥ इति । तदेतदुभयत्वं न भवेत्कृष्णे विरोधतः । अंशत्वं हि तयोरुक्तं परावस्थत्वमस्य तु ॥ १,५.६ ॥ नरभ्रातुरिहांशत्वमेते चांशेति वक्ष्यते । उपेन्द्रस्य तथात्वं च हरिवंशेऽपि दृश्यते ॥ १,५.७ ॥ तथा हि देवर्षिवचनम् (२.७१.२१२३) अदित्या तपसा विष्णुर्महात्माराधितः पुरा । वरेण च्छन्दिता तेन परितुष्टेन चादितिः । तयोक्तस्त्वादृशं पुत्रमिच्छामीति सुरोत्तम ॥ १,५.८ ॥ तेनोक्तं भुवने नास्ति मत्समः पुरुषोऽपरः । अंशेन तु भविष्यामि पुत्रः खल्वहमेव ते ॥ १,५.९ ॥ इति । अथ कृष्णे परावस्थभावोऽग्रे वक्ष्यते स्फुटम् । परावस्थश्च सम्पूर्णावस्थः शास्त्रे प्रकीर्तितः ॥ तस्माद्अंशत्वमेवास्य विरुद्धं स्फुटमीक्षते ॥ १,५.१० ॥ अर्थगत्यन्तरं तेषां वचनानां च दृश्यते ॥ १,५.११ ॥ तत्र धर्मपुत्रावित्यादौ कारिका नरनारायणौ प्राप्येत्यात्मसात्कृत्य तौ स्वयम् । कृष्णार्जुनौ चन्द्रवंशमनु प्रकटतां गतौ ॥ १,५.१२ ॥ ताविमावित्यादि कारिका कर्तारौ तौ हरेरंशौ नरनारायणाविह । द्वापरान्ते कर्मभूतौ आयातौ कृष्णफाल्गुनौ ॥ १,५.१३ ॥ सम्पूज्येत्यादौ कारिकाः सर्वादावुपदेष्टृत्वाद्यः पुराणर्षिरुच्यते । नाराणां पुरुषाणां यस्त्रयाणामाश्रयः स तु ॥ नरेष्मर्त्यलोकेषु सहचारी भवन् स्वयम् । तद्धर्ममनुकृत्यात्र पूजयामास तं मुनिम् ॥ नारायणाख्येनांशेन कृष्णो यद्यपि तद्गुरुः । नारदं पूजयामास तथापि क्षत्रलीलया ॥ १,५.१४ ॥ ऐन्द्रमित्यादौ कारिका इन्द्रस्तु नातिकौविद्यान्मत्सराच्चोक्तवानिदम् । तस्मात्कृष्णस्य नो तत्तद्रूपत्वं घटते क्वचित् ॥ १,५.१५ ॥ अथ परावरस्थाः । यथा पाद्मे नृसिंहरामकृष्णेषु षाड्गुण्यं परिपूरितम् । परावस्थास्तु ते तस्य दीपाद्उत्पन्नदीपवत् ॥ १,५.१६ ॥ तत्र श्रीनृसिंहः (fरोम् Bहावार्थदीपिका १.१.१, १०.८७.१) प्रह्लादहृदयाह्लादं भक्ताविद्याविदारणम् । शरद्इन्दुरुचिं वन्दे पारीन्द्रवदनं हरिम् ॥ १,५.१७ ॥ वागीशा यस्य वदने लक्ष्मीर्यस्य च वक्षसि । यस्यास्ते हृदये संवित्तं नृसिंहमहं भजे ॥ १,५.१८ ॥ गम्भीरगर्जितारम्भस्तम्भिताम्भोजसम्भवः । संरम्भः स्तम्भपुत्रस्य मुनिनोज्जृम्भितो नृपे ॥ १,५.१९ ॥ यथा श्रीसप्तमे (७.८.३२३३) सटावधूता जलदाः परापतन् ग्रहाश्च तद्दृष्टिविमुष्टरोचिषः । अम्भोधयः श्वासहता विचुक्षुभुर् निर्ह्रादभीता दिगिभा विचुक्रुशुः ॥ १,५.२० ॥ द्यौस्तत्सटोत्क्षिप्तविमानसङ्कुला प्रोत्सर्पत क्ष्मा च पदाभिपीडिता । शैलाः समुत्पेतुरमुष्य रंहसा तत्तेजसा खं ककुभो न रेजिरे ॥ १,५.२१ ॥ इति । उग्रोऽप्यनुग्र एवायं स्वभक्तानां नृकेशरी । केशरीव स्वपोतानामन्येषामुग्रविग्रहः ॥ १,५.२२ ॥ [*Fरोम् श्रीधर ष्वामीऽस्चोम्मेन्तर्य्तो ७.९.१.] अस्य श्रीदिव्यसिंहस्य पर्मानन्दतुन्दिलः । श्रीमन्नृसिंहतापन्यां महिमा प्रकटीकृतः ॥ १,५.२३ ॥ नृसिंहस्य भवेद्वासो जनलोके महात्मनः । सर्वोपरिष्टाच्च तथा विष्णुलोके प्रकीर्तितः ॥ १,५.२४ ॥ श्रीराघवेन्द्रः पूर्वतोऽप्येष निःशेषमाधुर्यामृतचन्द्रमाः । भाति सद्गुणसङ्घेन तुङ्गः श्रीरघुपुङ्गवः ॥ १,५.२५ ॥ पाद्मे वन्दामहे महेशानं हरकोदण्डखण्डनम् । जानकीहृदयानन्दचन्दनं रघुनन्दनम् ॥ १,५.२६ ॥ अस्य जन्मोत्सवं ब्रूते श्रीरामार्चनचन्द्रिका ॥ १,५.२७ ॥ उच्चस्थे ग्रहपञ्चके सुरगुरौ सेन्दौ नवम्यां तिथौ लग्ने कर्कटके पुनर्वसुमते मेघं गते पूषणि । निर्दग्धुं निखिलाः पलाशसमिधो मेध्यादयोध्यारणेर् आविर्भूतमभूदपूर्वविभवं यत्किञ्चिदेकं महः ॥ १,५.२८ ॥ एकादशे (११.५.३४) त्यक्त्वा सुदुस्त्यजसुरेप्सितराज्यलक्ष्मीं धर्मिष्ठ आर्यवचसा यदगादरण्यम् । मायामृगं दयितयेप्सितमन्वधावद् वन्दे महापुरुष ते चरणारविन्दम् ॥ १,५.२९ ॥ श्रीनवमे (९.११.२०२१) नेदं यशो रघुपतेः सुरयाच्ञयात्त लीलातनोरधिकसाम्यविमुक्तधाम्नः । रक्षोवधो जलधिबन्धनमस्त्रपूगैः किं तस्य शत्रुहनने कपयः सहायाः ॥ १,५.३० ॥ यस्यामलं नृपसदःसु यशोऽधुनापि गायन्त्यघघ्नमृषयो दिग्इभेन्द्रपट्टम् तं नाकपालवसुपालकिरीटजुष्ट पादाम्बुजं रघुपतिं शरणं प्रपद्ये ॥ १,५.३१ ॥ इति । अत्र कारिका आत्ता प्रकटिता लीलातनुर्लीलामयी तनुः । येन तस्येति साम्येति स्वार्थे ष्यञ्प्रत्ययो मतः ॥ धामस्वरूपं विज्ञेयमधिकेन समेन च । विमुक्तं धाम यस्येति माहात्म्यं सर्वतोऽधिकम् । यस्याधिकः समश्चात्र क्वापि नास्तीति निश्चयः ॥ १,५.३२ ॥ नाकपाला महेन्द्राद्या वसुपा वसुधाधिपाः ॥ १,५.३३ ॥ वासुदेवादिरूपाणामवताराः प्रकीर्तिताः । विष्णुधर्मोत्तरे रामलक्ष्मणाद्याः क्रमादमी ॥ १,५.३४ ॥ पाद्मे तु रामो भगवान्नारायण इतीरितः । शेषश्चक्रं च शङ्खश्च क्रमात्स्युर्लक्ष्मणादयः ॥ १,५.३५ ॥ मध्यदेशस्थितायोध्यापुरेऽस्य वसतिः स्मृता । महावैकुण्ठलोके च राघवेद्रस्य कीर्तिता ॥ १,५.३६ ॥ श्रीकृष्णः । बिल्वमङ्गले सन्त्ववतारा बहवः पुष्करनाभस्य सर्वतोभद्राः । कृष्णादन्यः को वा लतास्वपि प्रेमदो भवति ॥ १,५.३७ ॥ परमैश्वर्यमाधुर्यपीयूषापूर्ववारिधिः । देवकीनन्दनस्त्वेष पुरः परिचरिष्यते ॥ १,५.३८ ॥ यस्य वासः पुराणादौ ख्यातः स्थानचतुष्टये । व्रजे मधुपुरे द्वारवत्यां गोलोक एव च ॥ १,५.३९ ॥ ननु सिंहास्यरामाभ्यां साम्यमस्यागतं स्फुटम् । इति विष्णुपुराणीयप्रक्रियात्र विलोक्यते ॥ १,५.४० ॥ तत्र मैत्रेयप्रश्नः चतुर्थेऽंशे (४.१५.१२) हिरण्यकशिपुत्वे च रावणत्वे च विष्णुना । अवाप निहतो भोगानप्राप्यानमरैरपि ॥ १,५.४१ ॥ नालभत्तत्र चैवेह सायुज्यं स कथं पुनः । सम्प्राप्तः शिशुपालत्वे सायुज्यं शाश्वते हरौ ॥ १,५.४२ ॥ श्रीपराशरोत्तरम् (४.१५.४१७) दैत्येश्वरस्य वधायाखिललोकोत्पत्तिस्थितिविनाशकारिणा पूर्वं तनुग्रहणं कुर्वता नृसिंहरूपमाविष्कृतम् ॥ तत्र च हिरण्यकशिपोर्विष्णुरयमित्येतन् न मनस्यभूत् ॥ निरतिशयपुण्यसमुद्भूतमेतत्सत्त्वजातमिति । रजोद्रेकप्रेरितैकाग्रमतिस्तद्भावनायोगात्ततोऽवाप्तवधहैतुकीं निरतिशयामेवाखिलत्रैलोक्याधिक्यधारिणीं दशाननत्वे भोगसम्पदम् अवाप ॥ १,५.४३ ॥ न तु स तस्मिन्ननादिनिधने परब्रह्मभूते भगवत्यनालम्बिनि कृते मनसस्तल्लयमवाप ॥ १,५.४४ ॥ एवं दशाननत्वेऽप्यनङ्गपराधीनतया जानकीसमासक्तचेतसा भगवता दाशरथिरूपधारिणा हतस्य तद्रूपदर्शनमेवासीत्नायमच्युत इत्यासक्तिर् विपद्यतोऽन्तःकरणे मानुषबुद्धिरेव केवलमस्याभूत् । पुनरप्य् अचुतविनिपातमात्रफलमखिलभूमण्डलश्लाघ्यचेदिराजकुले जन्म अव्याहतैश्वर्यं शिशुपालत्वेऽप्यवाप ॥ १,५.४५ ॥ तत्र त्वखिलानामेव स भगवन्नाम्नां त्वङ्कारकारणमभवत् । ततश्च तत्कालकृतानां तेषामशेषाणामेवाच्युतनाम्नामनवरतमनेकजन्मसु वर्धितविद्वेषानुबन्धिचित्तो विनिन्दनसन्तर्जनादिषूच्चारणमकरोत् । तच्च रूपमुत्फुल्लपद्मदलामलाक्षमत्य्उज्ज्वलपीतवस्त्रधार्य् अमलकिरीटकेयूरहारकटकादिशोभितम् उदारचतुर्बाहुशङ्खचक्रगदाधरमतिप्ररूढवैरानुभावाद् अटनभोजनस्नानासनशयनादिष्वशेषावस्थान्तरेषु नान्यअत्रोपययावस्य चेतसः ॥ १,५.४६ ॥ ततस्तमेवाक्रोशेषूच्चारयंस्तमेव हृदयेन धारयन्नात्मवधाय यावद्भगवद्धस्तचक्रांशुमालोज्ज्वलमक्षयतेजःस्वरूपं ब्रह्मभूतमपगतद्वेषादिदोषं भगवन्तमद्राक्षीत् ॥ १,५.४७ ॥ तावच्च भगवच्चक्रेणाशु व्यापादितस्तत्स्मरणदग्धाखिलाघसञ्चयो भगवतान्तमुपनीतस्तस्मिन्नेव लयमुपययौ ॥ १,५.४८ ॥ एतत्तवाखिलं मयाभिहितम् । अयं हि भगवान् कीर्तितश्च संस्मृतश्च द्वेषानुबन्धेनापि अखिलसुरासुरादिदुर्लभं फलं प्रयच्छति किमुत सम्यग्भक्तिमतामिति ॥ १,५.४९ ॥ नोक्तं पराशरेणात्र स्थितौ तौ पार्षदाविति । किन्तूभयोस्तयोरासीज्जन्मत्रयमितीरितम् ॥ १,५.५० ॥ अतः सर्वेषु कल्पेषु न तौ पार्षदजौ मतौ । अन्यथा न तयोः पातः प्रतिकल्पं समञ्जसः ॥ १,५.५१ ॥ पराशरेण यद्गद्यं मैत्रेयायोत्तरीकृतम् । श्लोकीकृत्य तदेवेदं सङ्क्षेपेण विलिख्यते ॥ १,५.५२ ॥ नृसिंहरूपं हरिणा यदाविष्कृतमद्भुतम् । हिरण्यकशिपोरस्मिन् विष्णुबुद्धिर्न निश्चिता ॥ १,५.५३ ॥ किन्त्वेष पुण्यसम्पन्नः कोऽपीति कृतनिश्चयः । रजोद्रिक्ततानुन्नमतिस्तद्भावयोगतः ॥ १,५.५४ ॥ ततोऽवाप्त विनाशैकहेतुकामखिलोत्तमाम् । अवाप भोगसम्पत्तिं रावणत्वे सुदुर्लभाम् ॥ १,५.५५ ॥ विष्णुत्वान्निश्चयान्नातिद्वेषान्नावेशसन्ततिः । तां विना च भवेत्द्वेषो नरकायैव वेणवत् ॥ १,५.५६ ॥ किन्त्वस्य सम्पत्सम्प्राप्तिस्तत्करेण मृतेः परम् । एवमाहैवशब्देन तत्साद्गुण्यमनुस्मरन् ॥ १,५.५७ ॥ आवेशाभावतो दोषानाशाच्छुद्धमपश्यतः । प्रकटेऽपि परब्रह्मरूपे तत्रास्य नो लयः ॥ १,५.५८ ॥ रावणत्वे महाकामपराधीनीकृतात्मनः । तद्वन्मनुष्यधीरस्य श्रीरामेऽभून्मृतावपि ॥ १,५.५९ ॥ अतोऽसौ चेदिराजत्वे पुनरापोत्तमां श्रियम् ॥ १,५.६० ॥ तत्र कृष्णे समस्तानामेव नाम्नां रमापतेः । कारणानि प्रवृत्तेस्तु निमित्तान्यभवंस्तदा ॥ १,५.६१ ॥ तेन निश्चित्य तं विष्णुं स्वस्य द्विर्मरणं यतः । अतिद्वेषान्महावेशात्तानि नामानि सर्वशः । जजल्प सततं शश्वन्निन्दासन्तर्जनादिषु ॥ १,५.६२ ॥ रूपं च तादृशं दृष्ट्वा विष्णुरेवेति निश्चयात् । नामवत्तच्च सर्वत्र सर्वदा चैव संस्मरन् ॥ दग्धतद्द्वेषजाघौधः क्षिप्ते चक्रे च तद्रुचा । अपेतदैत्यभावोऽन्ते तथा संस्कृतदृष्टिकः । तदा तूज्ज्वलमद्राक्षीत्परं ब्रह्म नराकृति ॥ १,५.६३ ॥ तदैव चक्रघातेन दैत्यदेहे विनाशिते । तदेव ब्रह्म परममनुलीनत्वमाययौ ॥ १,५.६४ ॥ इत्युक्त्वाप्यत्र बक्यादेर्मोक्षमप्यर्भलीलया । अमोक्षं कालनेम्यादेरन्यत्रापीशचेष्टया । मुनिः स्मृत्वा पुनः प्राख्यतयं हि भगवानिति ॥ १,५.६५ ॥ [Vइড়् ४.१५.१७] हि प्रसिद्धमयं कृष्णो भगवान् स्वयमेव यत् । प्रीणतां द्विषतां चातश्चेतांस्याकर्षति द्रुतम् । तस्मात्कीर्तित इत्यादि माहात्म्यं चित्रमत्र न ॥ १,५.६६ ॥ इति विज्ञाय गद्यानां हार्दं सौहार्दतः स्फुञम् । तस्मात्स एव कैमुत्याद्भजनीयतयेष्यते ॥ १,५.६७ ॥ अथाखिलानां नाम्नां च प्रवृत्तौ कारणं शृणु ॥ १,५.६८ ॥ लक्ष्मीशनामान्येवात्र प्रवृत्तेर्हेतुसाम्यतः । तथैव हेतुभेदाच्च वर्तन्ते यदुपुङ्गवे ॥ १,५.६९ ॥ दैत्यारिः पुण्डरीकाक्षः शार्ङ्गी गरुडवाहनः । पीताम्बरश्चक्रपाणिः श्रीवत्साङ्कश्चतुर्भुजः । इत्यादीन्यत्र नामानि प्रवृत्तेर्हेतुसाम्यतः ॥ १,५.७० ॥ वसुदेवस्य पुत्रत्वात्वासुदेवो निगद्यते । मधुवंशे यतो जातः कथ्यते माधवस्ततः ॥ १,५.७१ ॥ श्रीहरिवंशेऽपि (२.७.३६)[* आच्चोर्दिन्ग्तो थे च्रितिचलेदितिओन्, थिसिस्५१.३६ ओर्वेर्से ३४७३. ठे ङ्मेदितिओन् ॠउओतेसितस्६३.३६.] स च तेनैव नाम्नात्र कृष्णो वै दामबन्धनात् । गोष्ठे दामोदर इति गोपीभिः परिगीयते ॥ १,५.७२ ॥ तत्रैव (१५८.३०३२)[* आल्तेर्नतिवे नुम्बेरिन्ग्गिवेनिन् Kऋष्णष्५७ इस्१०१.३०३२. ई हवेन्ऽत् येत्बेएनब्ले तो fइन्द्थेसे वेर्सेसिन् थे च्रितिचलोर्ङित ড়्रेस्सेदितिओन्स्.] अधोऽनेन शयानेन शकटान्तरचारिणा । राक्षसी निहता रौद्री शकुनीवेशधारिणी ॥ पूतनानाम सा घोरा महाकाया महाबला । विषदिग्धं स्तनं क्षुद्रा प्रयच्छन्ती जनार्दने ॥ १,५.७३ ॥ ददृशुर्निहतां तत्र राक्षसीं वनगोचराः । पुनर्जातोऽयमित्याहुरुक्तस्तस्मादधोक्षजः ॥ इति ॥ १,५.७४ ॥ एषोऽधः शकटस्याक्षे पुनर्जात इवेत्यतः । अधोक्षज इति प्राहुरिति टीका कृतोदितम् ॥ १,५.७५ ॥ तत्रैव (२.९.४५)[* आल्तेर्नतिवे नुम्बेरिन्ग्स्ःV ६२.४३ ओर्४००५.] अहं किलेन्द्रो देवानां त्वं गवामिन्द्रतां गतः । गोविन्द इति लोकास्त्वां गास्यन्ति भुवि शाश्वतम् ॥ १,५.७६ ॥ तत्रैव (२.९.४६) ममोपरि यथेन्द्रत्वं स्थापितो गोभिरीश्वरः । उपेन्द्र इति कृष्ण त्वां गास्यन्ति दिवि देवताः ॥ १,५.७७ ॥ श्रीविष्णुपुराणे (५.१६.२३) यस्मात्त्वयैव दुष्टात्मा हतः केशी जनार्दन । तस्मात्केशवनाम्ना त्वं लोके ज्ञेयो भविष्यसि ॥ १,५.७८ ॥ इति । इत्यादिन्यत्र नामानि प्रवृत्तेर्हेतुभेदतः । एषां प्रवृत्तेर्हेतुत्वमन्यदेव रमापतौ ॥ १,५.७९ ॥ किं चासुराणां द्विषतां कृष्णमप्राप्य नान्यतः । कुतोऽपि मुक्तिरित्याख्यादेवकारद्वयेन सः ॥ १,५.८० ॥ तथा हि श्रीगीतायां (१६.१९२०) तानहं द्विषतः क्रूरान् संसारेषु नराधमान् । क्षिपाम्यजस्रमशुभानासुरीष्वेव योनिषु ॥ १,५.८१ ॥ आसुरीं योनिमापन्ना मूढा जन्मनि जन्मनि । मामप्राप्यैव कौन्तेय ततो यान्त्यधमां गतिम् ॥ १,५.८२ ॥ इति । मां कृष्णरूपिणं यावन्नाप्नुवन्ति मम द्विषः । तावदेवाधमं योनिं प्राप्नुवन्तीति हि स्फुटम् ॥ १,५.८३ ॥ तस्मात्त्रयाणामेवायं श्रेष्ठ इत्यत्र विस्मयः । को वा स्यात्न तथा यस्मात्स्वभावोऽन्यत्र दृश्यते ॥ १,५.८४ ॥ अतो मन्वक्षरमनोः कल्पे स्वायम्भुवागमे । पूज्यन्तेऽस्यावृतित्वेन रामसिंहाननादयः ॥ १,५.८५ ॥ नन्विदं श्रूयते शास्त्रे महावाराहवाक्यतः । सर्वे नित्याः शाश्वताश्च दहास्तस्य परात्मनः । हानोपादानरहिता नैव प्रकृतिजाः क्वचित् ॥ परमानन्दसन्दोहा ज्ञानमात्राश्च सर्वतः । सर्वे सर्वगुणैः पूर्णा सर्वदोषविवर्जिताः ॥ १,५.८६ ॥ किं च नारदपञ्चरात्रे मणिर्यथा विभागेन नीलपीतादिभिर्युतः । रूपभेदमवाप्नोति ध्यानभेदात्तथा विभुः ॥ १,५.८७ ॥ इति । तस्मात्कथं तारतम्यं तेषां व्याख्यायते । अत्रोच्यते परेश्वत्वात्पूर्णा यद्यपि तेऽखिलाः । तथाप्यखिलशक्तीनां प्राकट्यं तत्र नो भवेत् ॥ १,५.८८ ॥ अंशत्वं नाम शक्तीनां सदाल्पांशप्रकाशिता । पूर्णत्वं च स्वच्छयैव नानाशक्तिप्रकाशिता ॥ १,५.८९ ॥ शक्तिरैश्वर्यमाधुर्यकृपातेजोमुखा गुणाः । शक्तेर्व्यक्तिस्तथाव्यक्तिस्तारतम्यस्य कारणम् ॥ १,५.९० ॥ शक्तिः समापि पूर्यादिदाहे दीपाग्निपुञ्जयोः । शीताद्य्आर्तिक्षयेनाग्निपुञ्जादेव सुखं भवेत् ॥ १,५.९१ ॥ एवमेव गुणादीनामाविष्कारानुसारतः । भवध्वंसेन सौख्यं स्यात्भक्तादीनां यथायथम् ॥ १,५.९२ ॥ एकत्वं च पृथक्त्वं च तथांशत्वमुतांशिता । तस्मिन्नेकत्र नायुक्तमचिन्त्यानन्तशक्तितः ॥ १,५.९३ ॥ तत्रैकत्वेऽपि पृथक्प्रकाशिता, यथा श्रीदशमे (१०.६९.२) चित्रं बतैतदेकेन वपुषा युगपत्पृथक् । गृहेषु द्व्य्अष्टसाहस्रं स्त्रिय एक उदावहत् ॥ १,५.९४ ॥ पृथक्त्वेऽप्येकरूपतापत्तिः, यथा पाद्मे स देवो बहुधा भूत्वा निर्गुणः पुरुषोत्तमः । एकीभूय पुनः शेते निर्दोषो हरिरादिकृत् ॥ १,५.९५ ॥ इति । यथा श्रीदशमे (१०.४०.७) यजन्ति त्वमयास्त्वां वै बहुमूर्त्य्एकमूर्तिकम् ॥ १,५.९६ ॥ इति । कौर्मे च अस्थूलश्चानणुश्चैव स्थूलोऽणुश्चैव सर्वतः । अवर्णः सर्वतः प्रोक्तः श्यामो रक्ताक्तलोचनः । ऐश्वर्ययोगाद्भगवान् विरुद्धार्थोऽभिधीयते ॥ १,५.९७ ॥ तथापि दोषाः परमे नैवाहार्यः कथञ्चन । गुणा विरुद्धा अप्येते समाहार्याः समन्ततः ॥ १,५.९८ ॥ श्रीषष्ठस्कन्धे [६.९.३३३५] च मिथो विरुद्धाचिन्त्यशक्तित्वं यथा गद्येषु दुरवबोध इवायं तव विहारयोगो यदशरणोऽशरीर इदम् अनवेक्षितास्मत्समवाय आत्मनैवाविक्रियमाणेन सगुणमगुणः सृजसि हरसि पासि ॥ १,५.९९ ॥ अथ तत्र भवान् किं देवदत्तवदिह गुणविसर्गपतितः पारतन्त्र्येण स्वकृतकुशलाकुशलं फलमुपाददाति । अहो स्विदात्माराम उपशमशीलः समञ्जसदर्शन उपास्ते इति ह वाव न विदामः ॥ १,५.१०० ॥ न हि विरोध उभयं भगवत्यपरिगणितगुणगणे ईश्वरे अनवगाह्यमाहात्म्येऽर्वाचीनविकल्पवितर्कविचारप्रमाणाभासकुतर्कश् आस्त्रकलितान्तःकरणाशयदुरवग्रहवादिनां विवादानवसरे उपरतसमस्तमायामये केवल एवात्ममायामन्तर्धाय को न्वर्थो दुर्घट इव भवति स्वरूपद्वयाभावात्समविषममतीनां मतमनुसरसि यथा रज्जुखण्डः सर्पादिधियाम् ॥ १,५.१०१ ॥ विना शरीरचेष्टत्वं विना भूम्यादिसंश्रयम् । विना सहायांस्ते कर्माविक्रियस्य सुदुर्गमम् ॥ १,५.१०२ ॥ उक्तो गुणविसर्गेण देवासुररणादिकः । तस्मिन् पतित आसक्तः पारतन्त्र्यस्तु तद्भवेत् । यदाश्रितेषु देवेषु पारवश्यं कृपाकृतम् ॥ १,५.१०३ ॥ तेन स्वकृतमात्मीयकृतं शुभशुभेतरत् । सुखदुःखादिरूपं किं फलं स्वीकुरुते भवान् ॥ १,५.१०४ ॥ आत्मारामतया किंवा तत्रोदास्तेतरामिति । न विद्मः किन्तु नैवेदं विरुद्धमुभयं त्वयि ॥ १,५.१०५ ॥ तत्र हेतुर्भगवतीत्यादि प्रोक्तं पदद्वयम् । तथैवेश्वर इत्यादिपदानां पञ्चकं मतम् ॥ १,५.१०६ ॥ भगवत्त्वेन सार्वज्ञं सद्गुणत्वं तथान्यतः । ब्रह्मत्वं केवलत्वेन लभ्यते तत्र च स्फुटम् ॥ १,५.१०७ ॥ यद्यपि ब्रह्मताहेतोः सर्वत्र स्यात्तटस्थता । तथाप्यादिगुणद्वय्या भवेद्भतानुकूलता ॥ १,५.१०८ ॥ नन्वेकस्य स्वरूपस्य द्वैरूप्यं कथमेकदा । तत्राह अर्वाचीनेति तादृशानां हि वादिनाम् । विवादस्यानवसरे तस्य तावदगोचरे ॥ १,५.१०९ ॥ अतोऽचिन्त्यात्मशक्तिं तां मध्येकृत्यात्र दुर्घटः । को न्वर्थः स्याद्विरुद्धोऽपि तथैवास्या ह्यचिन्त्यता । सा च नानाविरुद्धानां कार्याणामाश्रयान्मता ॥ १,५.११० ॥ श्रुतेस्तु शब्दमूलत्वादिति च ब्रह्मसूत्रकृत् । अचिन्त्याः खलु ये भावा न तांस्तर्केण योजयेत् । इति स्कान्दवचस्तच्च मण्यादिष्वपि दृश्यते ॥ १,५.१११ ॥ तादृशीं च विना शक्तिं न सिध्येत्परमेशता । यतश्चानवगाह्यत्वेनास्य माहात्म्यमुच्यते ॥ १,५.११२ ॥ अज्ञानमिन्द्रजालं वा वीक्ष्यते यत्र कुत्रचित् । अतो न पारमैश्वर्यं तेन तस्य प्रसिध्यति ॥ १,५.११३ ॥ तच्च तस्य न हीत्याह स्फुटं चोपरतेत्यदः । तथा भगवतीत्यादिपदानां षट्तयस्य च । भवेत्प्रयोगतात्पर्यमत्र निष्फलमेव हि ॥ १,५.११४ ॥ तस्मान्न शास्त्रयुक्तिभ्यामुभयं तद्विरुध्यते । तथाप्युच्चावचधियामनेवंतत्त्ववेदिनाम् । मतानुसारतो भासि रज्जूवत्त्वं तथा तथा ॥ १,५.११५ ॥ ननु भोः केवलं ज्ञानं ब्रह्म स्याद्भगवान् पुनः । नानाधर्मेति तत्रापि स्वरूपद्वय्मीक्ष्यते ॥ इति प्राह स्वरूपेति तत्स्वरूपस्य नैव हि । कदापि द्वैतमेकस्य धर्मद्वयमिदं ध्रुवम् ॥ १,५.११६ ॥ ततो विरोधस्तच्छक्तिविलासानां यदीक्ष्यते । तदेवाचिन्त्यमैश्वर्यं भॣषणं न तु दूषणम् ॥ १,५.११७ ॥ इयमेव विरोधोक्तिस्तृतीयेऽपि च दृश्यते ॥ कर्माण्यनीहस्य भवोऽभवस्य ते दुर्गाश्रयोऽथारिभयात्पलायनम् । कालात्मनो यत्प्रमदायुताश्रमः स्वात्मन्रतेः खिद्यति धीर्विदामिह ॥ १,५.११८ ॥ इति । तत्तन्न वास्तवं चेत्स्यात्विद्यां बुद्धिभ्रमस्तदा । न स्यादेवेत्यचिन्त्यैव शक्तिर्लीलासु कारणम् ॥ यथा यथा च तस्येच्छा सा व्यनक्ति तथा तथा ॥ १,५.११९ ॥ एवं प्रासङ्गिकं प्रोच्य प्रकृतार्थो निरूप्यते । ननु यः प्रकृतिस्वामी योऽन्तर्यामी च पुरुषः । ताभ्यामधिकता नास्य कंसारेरुपपद्यते ॥ १,५.१२० ॥ तथा हि श्रीप्रथमे (१.३.१५) जगृहे पौरुषं रूपं भगवान्महद्आदिभिः । सम्भूतं षोडशकलमादौ लोकसिसृक्षया ॥ १,५.१२१ ॥ यस्याम्भसि शयानस्य योगनिद्रां वितन्वतः । नाभिह्रदाम्बुजादासीद्ब्रह्मा विश्वसृजां पतिः ॥ १,५.१२२ ॥ यस्यावयवसंस्थानैः कल्पितो लोकविस्तरः । तद्वै भगवतो रूपं विशुद्धं सत्त्वमूर्जितम् ॥ १,५.१२३ ॥ पश्यन्त्यदो रूपमदभ्रचक्षुषा सहस्रपादोरुभुजाननाद्भुतम् । सहस्रमूर्धश्रवणाक्षिनासिकं सहस्रमौल्य्अम्बरकुण्डलोल्लसत् ॥ १,५.१२४ ॥ एतन्नानावताराणां निधानं बीजमव्ययम् । यस्यांशांशेन सृज्यन्ते देवतिर्यङ्नरादयः ॥ १,५.१२५ ॥ इति । अत्र कारिकाः आदौ सर्वावताराग्रे भगवान् पुरुषोत्तमः । महत्तत्त्वादिभिः कृत्वा भुवनानां सिसृक्षया ॥ १,५.१२५ ॥ पौरुषं पुरुषाकारमथवा पुरुषाभिधम् । रूपमानन्दचिन्मूर्तिं जगृहे प्रादुराचरत् ॥ १,५.१२६ ॥ अर्थः सम्भूतशब्दस्य सम्यक्सत्यमितीरतिः । सम्भूतं युक्तमिति वा भुवनानां सिसृक्षया । षोडशैव कला यस्मिंस्तत्षोडशकलं मतम् ॥ १,५.१२७ ॥ ताः षोडशकलाः प्रोक्ता वैष्णवैः शास्त्रदर्शनात् । शक्तित्वेन च ता भक्तिविवेकादिषु सम्मताः ॥ १,५.१२८ ॥ श्रीर्भूः कीर्तिरिला लीला कान्तिर्विद्येति सप्तकम् । विमलाद्या नवेत्येता मुख्याः षोडश शक्तयः ॥ १,५.१२९ ॥ इति । तदिदं पौरुषं रूपं त्रिविधं पूर्वमीरितम् । तत्र प्रोच्य महत्स्रष्टृरूपमण्डस्थमुच्यते ॥ १,५.१३० ॥ यस्याजाण्डप्रवेशेन शयानस्य तदम्भसि । नाभिह्रदाम्बुजादासीदिति सुव्यक्तमेव हि ॥ १,५.१३१ ॥ यस्य नाभिह्रदाब्जस्यावयवाः कर्णिकादयः । संस्थानान्यत्र विद्यासविशेषास्तैस्तु कल्पितः । लोकानां सर्वजगतां विस्तारो विततिः किल ॥ १,५.१३२ ॥ स शेते येन रूपेण तच्छुद्धं सत्त्वमूर्जितम् ॥ १,५.१३३ ॥ पश्यन्तीत्य्आदिपद्येन तदेवेदं विशिष्यते । एतद्रूपं तु नानावताराणामुदयास्पदम् ॥ १,५.१३४ ॥ यथैकादशे (११.४.३) भूतैर्यदा पञ्चभिरात्मसृष्टैः पुरं विराजं विरचय्य तस्मिन् । स्वांशेन विष्टः पुरुषाभिधानम् अवाप नारायण आदिदेवः ॥ १,५.१३५ ॥ अत्र सार्धकारिका नारायणोऽत्र परमव्योमेशानः स आत्मना । पुंस्वरूपेण सृष्टैस्तैर्भूतैः सृष्ट्वा विराट्तनुम् । विष्टः स्वांशेन तेनैव सम्प्राप्तः पुरुषाभिधाम् ॥ १,५.१३६ ॥ प्रस्तुते तु किमायातमित्याशङ्क्य निगद्यते । सोऽस्य गर्भोदशय्यस्य विलासो यश्चतुर्भुजः । शेते प्रविश्य लोकाब्जं विष्ण्व्आख्यः क्षीरवारिधौ ॥ १,५.१३७ ॥ अयं च स्थावरान्तानां स्य्रादीनां शरीरिणाम् । हृद्य्अन्तर्यामितां प्राप्तो नानारूप इव स्थितः ॥ १,५.१३८ ॥ तृतीयं सर्वभूतस्थमिति विष्णोर्यदुच्यते । रूपं सात्वततन्त्रे तद्विलासोऽस्यैव सम्मतः ॥ १,५.१३९ ॥ [* षेए अबोवे १.२.९, ॠउओते fरों षात्वततन्त्र.] अतः क्षीराम्बुधेस्तीरे कृतोपस्थानकः सुरैः । एष एवावतीर्णोऽभूत्कृष्णाख्य इति युज्यते ॥ १,५.१४० ॥ अथात्र पूर्वपक्षे वः सिद्धान्तः प्रतिपद्यते । यथा श्रीदशमे तेषु सुरेष्वेवाशरीरगीः ॥ १,५.१४१ ॥ वसुदेवगृहे साक्षाद्भगवान् पुरुषः परः । जनिष्यते तत्प्रियार्थं सम्भवन्तु सुरस्त्रियः ॥ १,५.१४२ ॥ इति (भागवतम् १०.१.२३) अत्र कारिकाः पुरुषस्य परत्वेन साक्षाच्च भगवानिति । एतस्यैव महत्स्रष्टा सोऽंश इत्यभिविश्रुतः ॥ १,५.१४३ ॥ अत्र श्रीस्वामिपादानामपि सम्मतिरीक्ष्यते । यदंशभागेनेत्यस्य व्याख्यां कुर्वद्भिरेव तैः ॥ अंशेन भागो मायाया येनेत्यंशोऽस्य पुरुषः । भागो भजनमित्येवं पूर्णतास्य स्फुटीकृता ॥ १,५.१४४ ॥ किं च तत्रैव देवक्या कृते स्तोत्रे निरूपितम् ॥ १,५.१४५ ॥ यथा (१०.८५.३१) यस्यांशांशांशभागेन विश्वोत्पत्तिलयोदयाः । भवन्ति किल विश्वात्मंस् तं त्वाद्याहं गतिं गता ॥ १,५.१४६ ॥ अत्र कारिका यस्यांशः पुरुषस्य स्यादंशः प्रकृतिस्तु सा । तस्या अंशा गुणास्तेषां भागेनास्योद्भवादयः ॥ १,५.१४७ ॥ किं च तत्रैव (१०.१४.१४) नारायणस्त्वं न हि सर्वदेहिनाम् आत्मास्यधीशाखिललोकसाक्षी । नारायणोऽङ्गं नरभूजलायनात् तच्चापि सत्यं न तवैव माया ॥ १,५.१४८ ॥ इति । अत्र कारिकाः जगत्त्रयेति पद्येन श्रीनारायणतां वदन् । कृष्णस्याथ स्वयं दृष्ट्वा परमैश्वर्यमद्भुतम् ॥ पर्याप्त्याजाण्डनियुतं स्वयं भीतिभराकुलः । नारायणस्त्वं नेत्याह सापराध इवात्मभूः ॥ १,५.१४९ ॥ हे अधीशेत्यजाण्डौघस्थितान्तर्यामिपुरुषाः । ईशास्तेभ्योऽधिकोऽधीशो हि यतः सर्वदेहिनाम् ॥ समष्टीनां सविकुण्ठजीवानां त्वं प्रकाशकः । तेषामखिललोकानां साक्षी द्रष्टाप्यसि स्वयम् ॥ १,५.१५० ॥ अतो यो नरभूनीरायणान्नारायणः स्मृतः । स तेऽङ्गमंशः पूर्णस्य चिनिमायाशक्तिवैभवैः । चातुष्पादिकमैश्वर्यं तव तस्य तु पादिकम् ॥ १,५.१५१ ॥ विष्टभ्याहमिदं कृत्स्नमेकांशेनेति ते वचः । तच्चांशत्वं भवेत्सत्यं विराड्वन्न तु मायिकम् ॥ १,५.१५२ ॥ श्रीब्रह्मसंहितायां (५.४८) यस्यैकनिश्वसितकालमथावलम्ब्य जीवन्ति लोमविलजा जगद्अण्डनाथाः । विष्णुर्महान् स इह यस्य कलाविशेषो गोविन्दमादिपुरुषं तमहं भजामि ॥ १,५.१५३ ॥ अतः पुरुष एवास्य कृष्णस्यांशो भवेद्यदि । तद्विलासस्तु नितरां भवेत्क्षीराब्धिनायकः ॥ १,५.१५४ ॥ ननु द्वितीयस्कन्धे तु योऽवतीर्णो यदोः कुले । किं विधात्रा स हि सितकृष्णकेशतयोदितः ॥ १,५.१५५ ॥ तथा हि (२.७.२६) भूमेः सुरेतरवरूथविमर्दितायाः क्लेशव्ययाय कलया सितकृष्णकेशः । जातः करिष्यति जनानुपलक्ष्यमार्गः कर्माणि चात्ममहिमोपनिबन्धनानि ॥ १,५.१५६ ॥ इति । मैवं भोः श्रूयतामस्य पद्यसार्थो विधीयते । कलया शिल्पनैपुण्यविशेषविधिना सिताः । बद्धाः कृष्णा अतिश्यामाः केशा येनेति विग्रहः । स एवेत्यस्य वैदग्धीविशेषोत्कर्ष ईरितः ॥ १,५.१५७ ॥ किंवा यः कलयांशेन स्यात्सितश्यामकेशकः । स एवात्रावतीर्णोऽभूत्श्रीलीलापुरुषोत्तमः ॥ १,५.१५८ ॥ किं च मार्कण्डेयेन वज्राय विष्णुधर्मोत्तरे स्फुटम् । लयाब्धिस्थोऽनिरुद्धोऽयं पिता ते इति कीर्तितम् ॥ १,५.१५९ ॥ तत्र वज्रप्रश्नः (१.७९.१) कस्त्वसौ बालरूपेण कल्पान्तेषु पुनः पुनः । दृष्टो यो न त्वया ज्ञातस्तत्र कौतूहलं मम ॥ १,५.१६० ॥ मारकण्डेयोत्तरम् (१.७९.२३) भूयो भूयस्त्व असौ दृष्टो मया देवो जगत्पतिः । कल्पक्षये न विज्ञातः स मया मोहितेन वै ॥ १,५.१६१ ॥ कल्पक्षये व्यतीते तु तं तु देवं पितामहात् । अनिरुद्धं विजानामि पितरं ते जगत्पतिम् ॥ १,५.१६२ ॥ इति । अत्र कारिका अन्यथा मुनिवर्षेऽयमवदिष्यदिदं तदा । तं श्रीकृष्णं विजानामि प्रपितामहमेव ते ॥ १,५.१६३ ॥ अतः केशावतारत्वभ्रमोऽप्यारात्पराहतः ॥ १,५.१६४ ॥ नन्वस्तु पुरुषादिभ्यः श्रैष्ठ्यं तस्याघविद्विषः । किन्तु श्रीवासुदेवोऽत्र सर्वैश्वर्यनिषेवितः । त्रिपात्पादविभूत्योश्च नानारूप इव स्थितः ॥ उन्मीलद्बालमार्तण्डपरार्धमधुरद्युतिः । क्वचिन्नवघनश्यामः क्वचिज्जाम्बुनदप्रभः ॥ महावैकुण्ठनाथस्य विलासत्वेन विश्रुतः । परमात्मा बलज्ञानवीर्यतेजोभिरन्वितः ॥ १,५.१६५ ॥ महावस्थाख्यया ख्यातं यद्व्यूहानां चतुष्टयम् । तस्याद्योऽयं तथोपास्यश्चित्ते तद्अधिदैवतम् । तथा विशुद्धसत्त्वस्य यश्चाधिष्ठानमुच्यते ॥ १,५.१६६ ॥ निजांशो यस्य भगवान् श्रीसङ्कर्षण ईष्यते । यस्य सङ्कर्षणो व्यूहो द्वितीय इति सम्मतः । जीवश्च स्यात्सर्वजीवप्रादुर्भावास्पदत्वतः ॥ १,५.१६७ ॥ पूर्णशारदशुभ्रांशुपरार्धमधुरद्युतिः । उपास्योऽयमहङ्कारे शेषन्यस्तनिजांशकः ॥ स्मरारातेरधर्मस्य सर्पान्तकसुरद्विषाम् । अन्तर्यामित्वमास्थाय जगत्संहारकारकः ॥ १,५.१६८ ॥ व्यूहस्तृतीयः प्रद्युम्नो विलासो यस्य विश्रुतः । यः प्रद्युम्नो बुद्धितत्त्वे बुद्धिमद्भिरुपास्यते ॥ स्तुवत्या च श्रिया देव्या निषेव्यते इलावृते । शुद्धजाम्बुनदप्रख्यः क्वचिन्नीलघनच्छविः ॥ निदानं विश्वसर्गस्य कामन्यस्यनिजांशकः । विधेः प्रजापतीनां रागिनां च स्मरस्य च । अन्तर्यामित्वमापन्नः सर्गं सम्यक्करोत्यसौ ॥ १,५.१६९ ॥ व्यूहस्तुर्योऽनिरुद्धाख्यो विलासो यस्य शस्यते । योऽनिरुद्धो मनस्तत्त्वे मनीषिभिरुपास्यते ॥ नीलजीमूतसङ्काशो विश्वरक्षणतत्परः । धर्मस्यायं मनूनां च देवानां भूभुजां तथा । अन्तर्यामित्वमास्थाय कुरुते जगतः स्थितिम् ॥ १,५.१७० ॥ मोक्षधर्मे तु मनसः स्यात्प्रद्युम्नोऽधिदैवतम् । अनिरुद्धस्त्वहङ्कारस्येति तत्रैव कीर्तितम् ॥ १,५.१७१ ॥ सर्वेषां पञ्चरात्राणामप्येषा प्रक्रिया मता ॥ १,५.१७२ ॥ पाद्मे तु परमव्योम्नः पूर्वाद्ये दिक्चतुष्टये । वासुदेवादयो व्यूहश्चत्वारः कथिताः क्रमात् ॥ १,५.१७३ ॥ तथा पादविभूतौ च निवसन्ति क्रमादि मे । जलावृतिस्थवैकुण्ठस्थित वेदवतीपुरे ॥ सत्योर्ध्वे वैष्णवे लोके नित्याख्ये द्वारकापुरे । शुद्धोदादुत्तरे श्वेतद्वीपे चैरावतीपुरे । क्षीराम्बुधिस्थितान्ते क्रोडपर्यङ्कधामनि ॥ १,५.१७४ ॥ सात्वतीये क्वचित्तन्त्रे नव व्यूहाः प्रकीर्तिताः । चत्वारो वासुदेवाद्या नारायणनृसिंहकौ ॥ हयग्रीवो महाक्रोडो ब्रह्मा चेति नवोदिताः । तत्र ब्रह्मा तु विज्ञेयः पूर्वोक्तविधया हरिः ॥ १,५.१७५ ॥ किन्तु व्यूहास्तु चत्वारो राजद्भुजचतुष्टयाः । अजस्रपरमैश्वर्यमर्षादापैर्भूषिताः ॥ १,५.१७६ ॥ अत्रापि वासुदेवोऽयं सम्पूर्णानन्दसम्प्लवः । ऐश्वर्यादौ निर्विशेषः परमव्योमनायकात् । आद्यानामपि सर्वेषामादिभूतः सुपर्वणाम् ॥ १,५.१७७ ॥ इत्याशङ्के स एवायं कृष्णाख्यः सन्नवातरत् । वासुदेवतया यस्मात्सर्वत्रैष सुविश्रुतः ॥ १,५.१७८ ॥ नैवं युक्तं शृणु ततः समाधानं विधीयते । आद्यव्यूहादपि श्रेष्ठः कथ्यते देवकीसुतः ॥ १,५.१७९ ॥ तथा श्रीदशमे एते चांशकलाः पुंसः कृष्णस्तु भगवान् स्वयम् ॥ १,५.१८० ॥ अत्र कारिके पुंनाम्नः पुरुषस्यैते श्रीवराहर्षादयः । अंशाः अत्रावताराः स्युः कुमाराद्याः कला मताः ॥ तुभिन्नोपक्रमे कृष्णो भगवान् पुरुषोत्तमः । स्वयमित्यपयातास्य वासुदेवावतारता ॥ १,५.१८१ ॥ श्रीदशमे चैवमेवोक्तम् (१०.१४.२) अस्यापि देव वपुषो मद्अनुग्रहाय स्वेच्छामयस्य न तु भूतमयस्य कोऽपि । नेशे महि त्ववसितुं मनसाऽन्तरेण साक्षात्तवैव किमुतात्मसुखानुभूतेः ॥ १,५.१८२ ॥ इति । अत्र कारिकाः देवः स्वनाम्नि देवेति ख्यातं यस्य वपुः स हि । व्यूहानामादिमो वासुदेवो देववपुर्मतः ॥ ततोऽपि महि माहात्म्यं साक्षादेवात्र ते सतः । को विधाताप्यवसितुं ज्ञातुं नेशेऽस्मि न क्षमः । किमुताहो आत्मसुखानुभूतेर्ब्रह्मरूपतः ॥ १,५.१८३ ॥ एवमर्थोऽस्य पद्यस्य कैमुत्यन्यायसंस्थितः ॥ १,५.१८४ ॥ न्यूनेऽधिके च कैमुत्यं तत्र न्यूने भवेद्यथा । कौस्तुभस्तु महातेजाः सूर्यकोटिशतादपि । अयं किमुत वक्तव्यं प्रदीपाद्दीप्तिमानिति ॥ १,५.१८५ ॥ अथाधिके यथा ध्वान्तैः शक्यो दीपोऽपि नार्दितुम् । स तु मार्तण्डकोटीभिः सम’य्किमुत कौस्तुभः ॥ १,५.१८६ ॥ अतो न्यूनादपि न्यूने कैमुत्यमिह तु स्थितम् ॥ १,५.१८७ ॥ मय्येवानुग्रहो यस्येत्यनुग्रहभरो यतः । मय्येव विहितो भूयानपूर्वाश्चर्यदर्शनात् ॥ १,५.१८८ ॥ स्वेच्छामयस्य भक्तानां कामायाखिलकर्मणः । न तु भूतमयस्येति पुरुषत्वं च खण्डितम् । यदेष सर्वजीवानां पुरुषः परमाश्रयः ॥ १,५.१८९ ॥ आन्तरेण निरुद्धेन मनसेत्येकतानता । ज्ञातुं स्यान्महिमा शक्यो यद्यप्येभिर्विशेषणैः । ज्ञातुं तथापि नेशेऽस्मीत्यचिन्त्यैश्वर्यतोदिता ॥ १,५.१९० ॥ जानता वासुदेवाच्च ब्रह्मतश्चाधिकाधिकम् । माहात्म्यं कृष्णचन्द्रस्य विरिञ्चेन समर्थितम् ॥ १,५.१९१ ॥ अतो मन्व्अक्षरमनोर्ध्याने स्वायम्भुवागमे । चत्वारो वासुदेवाद्याः कृष्णस्यावृतिरीरिताः ॥ १,५.१९२ ॥ क्रमादिदीपिकायां च वस्व्अक्षरमनोर्विधौ । गोकुलेशावृतित्वेन वासुदेवादयो मताः ॥ १,५.१९३ ॥ ननु श्रैष्ठ्यं मुकुन्दस्य ब्रह्मतो युज्यते कथम् । यद्ब्रह्म श्रीभागअतोरैक्यमेव प्रसिध्यते ॥ १,५.१९४ ॥ पुरुषं परमात्मा च ब्रह्म च ज्ञानमित्यपि । स एको भगवानेव शास्त्रेषु बहुधोच्यते ॥ १,५.१९५ ॥ तथा च स्कान्दे भगवान् परमात्मेति प्रोच्यतेऽष्टाङ्गयोगिभिः । ब्रह्मेत्युपनिषन्निष्ठैर्ज्ञानं च ज्ञानयोगिभिः ॥ १,५.१९६ ॥ श्रीप्रथमे च (१.२.११) वदन्ति तत्तत्त्वविदस्तत्त्वं यज्ज्ञानमद्वयम् । ब्रह्मेति परमात्मेति भगवानिति शब्द्यते ॥ १,५.१९७ ॥ इति । सत्यमुक्तं शृणु ततस्तृतीये कापिलं वचः ॥ १,५.१९८ ॥ यथा (३.३२.३३) यथेन्द्रियैः पृथग्द्वारैरर्थो बहुगुणाश्रयः । एको नानेयते तद्वद्भगवान् शास्त्रवर्त्मभिः ॥ १,५.१९९ ॥ इति । अत्र कारिकाः तत्तत्श्रीभगवत्येव स्वरूपं भुवि विद्यते । उपासनानुसारेण भाति तत्तद्उपासके ॥ १,५.२०० ॥ यथा रूपरसादीनां गुणानामाश्रयः सदा । क्षीरादिरेक एवार्थो ज्ञायते बहुधेन्द्रियैः ॥ १,५.२०१ ॥ दृशा शुक्लो रसनया मधुरो भगवांस्तथा । उपासनाभिर्बहुधा स एकोऽपि प्रतीयते ॥ १,५.२०२ ॥ जिह्वयैव यथा ग्राह्यं माधुर्यं तस्य नापरैः । यथा चक्षुर्आदीनि गृह्णन्त्यर्थं निजं निजम् ॥ १,५.२०३ ॥ तथान्या बाह्यकरणस्थानीयोपासनाखिला । भक्तिस्तु चेतः स्थानीया तत्तत्सर्वार्ह्तलाभतः ॥ १,५.२०४ ॥ इति प्रवरशास्त्रेषु तस्य ब्रह्मस्वरूपतः । माधुर्यादिगुणाधिक्यात्कृष्णस्य श्रेष्ठतोच्यते ॥ १,५.२०५ ॥ तथा च श्रीदशमे (१०.१४.६७) तथापि भूमन्महिमागुणस्य ते विबोद्धुमर्हत्यमलान्तर्आत्मभिः अविक्रिया स्वानुभवादरूपतो ह्यनन्यबोध्यात्मतया न चान्यथा ॥ १,५.२०६ ॥ । गुणात्मनस्तेऽपि गुणान् विमातुं; हितावतीर्णस्य क ईशिरेऽस्य । कालेन यैर्वा विमिताः सुकल्पैर्; भूपांशवः खे मिहिका द्युभासः ॥ १,५.२०७ ॥ इति । ननु प्राकृतरूपत्वान्मृगतृष्णोपमाजुषाम् । गुणानां गणना न स्यादिति कात्र विचित्रता ॥ १,५.२०८ ॥ मैवं गुणानामेतस्य प्राकृतत्वं न विद्यते । तेषां स्वरूपभूतत्वात्सुखरूपत्वमेव हि ॥ १,५.२०९ ॥ तथा च ब्रह्मतर्के गुणैः स्वरूपभूतैस्तु गुण्यसौ हरिरीश्वरः । न विष्णोर्न च मुक्तानां क्वापि भिन्नो गुणो मतः ॥ १,५.२१० ॥ श्रीविष्णुपुराणे (१.९.४३) सत्त्वादयो न सन्तीशे यत्र च प्राकृता गुणाः । स शुद्धः सर्वशुद्धेभ्यः पुमानाद्यः प्रसीदतु ॥ १,५.२११ ॥ तथा च तत्रैव (६.५.७९) ज्ञानशक्तिबलैश्वर्यवीर्यतेजांस्यशेषतः । भगवच्छब्दवाच्यानि विना हेयैर्गुणादिभिः ॥ १,५.२१२ ॥ पाद्मे च (६.२५५.३९४०) योऽसौ निर्गुण इत्युक्तः शास्त्रेषु जगद्ईश्वरः । प्राकृतैर्हेयसंयुक्तैर्गुणैर्हीनत्वमुच्यते ॥ १,५.२१३ ॥ प्रथमे च (१.१६.३०) एते चान्ये च भगवन्नित्या यत्र महागुणाः । प्रार्थ्या महत्त्वमिच्छद्भिर्न वियन्ति स्म कर्हिचित् ॥ १,५.२१४ ॥ इति । अतः कृष्णोऽप्राकृतानां गुणानां नियुतायुतैः । विशिष्टोऽयं महाशक्तिः पूर्णानन्दघनाकृतिः ॥ १,५.२१५ ॥ ब्रह्मनिधर्मकं वस्तु निर्विशेषममूर्तिकम् । इति सूर्योपमस्यास्य कथ्यते तत्प्रभोपमम् ॥ १,५.२१६ ॥ तथा च श्रीगीतासु (१४.२६२७) मां च योऽव्यभिचारेण भक्तियोगेन सेवते । स गुणान् समतीत्यैतान् ब्रह्मभूयाय कल्पते ॥ १,५.२१७ ॥ ब्रह्मणो हि प्रतिष्ठाहममृतस्याव्ययस्य च । शाश्वतस्य च धर्मस्य सुखस्यैकान्तिकस्य च ॥ १,५.२१८ ॥ इति । अत्र कारिकाः स ब्रह्मभावमासाद्य लीलाविग्रहमाश्रयम् । मानानन्दघनं प्रेम्णा भजेदित्ययमाश्रयः ॥ १,५.२१९ ॥ भक्तेरव्यभिचारायाः प्रेमसेवैव यत्फलम् । केवलं ब्रह्मभावस्तु विद्वेषेणापि लभ्यते ॥ १,५.२२० ॥ ननु ते यादवस्यास्य भजनाद्ब्रह्मता कथम् । इत्याह ब्रह्मणो हीति हि यतोऽहं पुरस्तव ॥ स्थितोऽयं विविधानन्दपूर्णचिद्घनविग्रहः । ब्रह्मणश्चित्स्वरूपस्य प्रतिष्ठा परमाश्रयः । रविस्तेजोघनाकारः करौघस्य यथा भवेत् ॥ १,५.२२१ ॥ अव्ययेनामृतेनेह नित्यमुक्तिरुदीर्यते । शाश्वतेन तु धर्मेण भगवद्धर्म उच्यते ॥ १,५.२२२ ॥ ऐकान्तिकसुखेनात्र प्रेमभक्तिरसोत्सवः । येन मोक्षसुखस्यापि तिरस्कारो विधीयते ॥ १,५.२२३ ॥ किं च ब्रह्मसंहितायाम् (५.४०) यस्य प्रभा प्रभवतो जगद्अण्डकोटि कोटिष्वशेषवसुधादि विभूतिभिन्नम् । तद्ब्रह्म निष्कलमनन्तमशेषभूतं गोविन्दमादिपुरुषं तमहं भजामि ॥ १,५.२२४ ॥ इति । अत्र कारिके निष्कलादिस्वरूपं तत्ब्रह्माण्डार्बुदकोटिषु । विभूतिभिर्धराद्याभिर्भिन्नं भेदमुपागतम् ॥ सदा प्रभावयुक्तस्य ब्रह्म यस्य प्रभा भवेत् । तं गोविन्दं भजामीति पद्यस्यार्थः स्फुटीकृतः ॥ १,५.२२५ ॥ ननु भोस्तव भावोऽयं ज्ञात एव मया ध्रुवम् । परव्योमपतेः शौरिरवतारस्तयोच्यते ॥ १,५.२२६ ॥ जन्मादिलीलाप्राकट्यातवतारतयाप्यसौ । प्रोक्तो विलास एव स्यात्सर्वोत्कर्षातिभूमतः ॥ १,५.२२७ ॥ यः परव्योमनाथः स्यादसमानोर्धवैभवः । श्रुतिस्मृतिमहातन्त्रवर्णितोत्कर्षसौष्ठवः । लोकसृष्टेः पुरा ब्राह्मे कल्पे यः परमेष्ठिने । महावैकुण्ठलोकस्थं स्वमात्मानमदर्शयत् ॥ १,५.२२८ ॥ तथा हि श्रीद्वितीयस्कन्धे (२.९.९१६) तस्मै स्वलोकं भगवान् सभाजितः सन्दर्शयामास परं न यत्परम् व्यपेतसङ्क्लेशविमोहसाध्वसं स्वदृष्टवद्भिर्पुरुषैरभिष्टुतम् ॥ १,५.२२९ ॥ प्रवर्तते यत्र रजस्तमस्तयोः सत्त्वं च मिश्रं न च कालविक्रमः । न यत्र माया किमुतापरे हरेर् अनुव्रता यत्र सुरासुरार्चिताः ॥ १,५.२३० ॥ श्यामावदाताः शतपत्रलोचनाः पिशङ्गवस्त्राः सुरुचः सुपेशसः । सर्वे चतुर्बाहव उन्मिषन्मणि प्रवेकनिष्काभरणाः सुवर्चसः । प्रवालवैदूर्यमृणालवर्चसः परिस्फुरत्कुण्डलमौलिमालिनः ॥ १,५.२३१ ॥ भ्राजिष्णुभिर्यः परितो विराजते लसद्विमानावलिभिर्महात्मनाम् । विद्योतमानः प्रमदोत्तमाद्युभिः सविद्युदभ्रावलिभिर्यथा नभः ॥ १,५.२३२ ॥ श्रीर्यत्र रूपिण्युरुगायपादयोः करोति मानं बहुधा विभूतिभिः । प्रेङ्खं श्रिता या कुसुमाकरानुगैर् विगीयमाना प्रियकर्म गायती ॥ १,५.२३३ ॥ ददर्श तत्राखिलसात्वतां पतिं श्रियः पतिं यज्ञपतिं जगत्पतिम् । सुनन्दनन्दप्रबलार्हणादिभिः स्वपार्षदाग्रैः परिसेवितं विभुम् ॥ भृत्यप्रसादाभिमुखं दृग्आसवं प्रसन्नहासारुणलोचनाननम् । किरीटिनं कुण्डलिनं चतुर्भुजं पीतांशुकं वक्षसि लक्षितं श्रिया ॥ अध्यर्हणीयासनमास्थितं परं वृतं चतुःषोडशपञ्चशक्तिभिः । युक्तं भगैः स्वैरितरत्र चाध्रुवैः स्व एव धामन् रममाणमीश्वरम् ॥ १,५.२३४ ॥ इति । अत्र कारिकाः यद्यतः परमुत्कृष्टं पदमन्यन्न हि क्वचित् । सङ्क्लेशाः पञ्चविद्याद्या विमोहो निर्विवेकता ॥ साध्वसं पाततो भीतिर्न सन्त्येतानि यत्र तम् । स्वदृष्टमात्मनः साक्षात्कारस्तद्वद्भिरीडितम् ॥ १,५.२३५ ॥ रजस्तमश्च नो यत्र सत्त्वं सध्र्यक्तयोर्न च । गुणा यत्र प्रकृतिजा न सत्नीति प्रदर्शितम् ॥ न कालविक्रमो यत्र सर्वविध्वंसकारिता । परं मूलमनर्थानां यत्र मायैव नास्ति हि ॥ अपरे तत्र किमुत विकारा महद्आदयः । अतो वैकुण्ठलोकस्य कथिता नित्यसिद्धता ॥ १,५.२३६ ॥ हरेरनुव्रता यत्र श्यामारुणहरित्सिताः । तत्तद्वर्णमुपास्येशं तत्सारूप्यमुपागताः । अथवा नित्यसिद्धत्वात्तद्रुचामप्यनादिता ॥ १,५.२३७ ॥ श्रीः सम्पद्रूपिणी मूर्ता यत्र पद्मांशसम्भवा । मानं सेवां रचयति विविधाभिर्विभूतिभिः ॥ कुसुमाकारशब्देन ऋतूनामधिपो मतः । तेन तस्यानुगैर्ग्रीष्मवर्षाद्यैरृतुभिश्च या ॥ विशेषाद्गीयमानापि प्रियकर्मैव गायती । शत्रन्तेन पदेनात्र तिङ्अन्ता लक्षिता क्रिया ॥ १,५.२३८ ॥ तत्रेश्वरं ददर्शासौ कथम्भूतं दृग्आसवम् । सान्द्रानन्दैर्दृशां सुष्ठु मादकत्वात्स आसवः ॥ १,५.२३९ ॥ पीतांशुकपदेनास्य ध्वन्यते श्यामवर्णता ॥ १,५.२४० ॥ अध्यर्हणीयशब्देन महायोगाख्यपीठकम् । श्रीपाद्मोत्तरखण्डोक्तमत्रैवाग्रे प्रवक्ष्यते ॥ १,५.२४१ ॥ चतस्रो ह्लादिनीकीर्तिकरुणातुष्टयः स्मृताः । शक्तयः षोडशात्रैव पूर्यमेव प्रदर्शिताः ॥ १,५.२४२ ॥ विद्यायाः पञ्चपर्वाणि साङ्ख्यादीन्यत्र पञ्च च ॥ १,५.२४३ ॥ तानि पञ्चरात्रे साङ्ख्ययोगौ तु वैराग्यं तपो भक्तिश्च केशवे । पञ्चपर्वेति विद्येयं यया विद्वान् हरिं विशेत् ॥ १,५.२४४ ॥ इति । इत्येताभिर्वृतं पञ्चविंशत्या शक्तिभिः सदा । भगैरैश्वर्यधर्माद्यैः स्वैरसाधारणोदयैः ॥ इतरत्र विरिञ्च्य्आदावध्रुवैरस्स्थिरैः कृशैः । स्व एव धाम्नि वैकुण्ठे रतिं विदधतं सदा । किं वा स्वरूपभूतत्वात्श्रियस्तस्याः स्वधामता ॥ १,५.२४५ ॥ तथा च भार्गवतन्त्रे शक्तिशक्तिमतोश्चापि न विभेदः कथञ्चन । अविभिन्नापि स्वेच्छादिशब्दैरपि विभाष्यते ॥ इति ॥ १,५.२४६ ॥ किं च पाद्मोत्तरखण्डे (६.२५५.५७६४) प्रधानपरमव्योम्नोरन्तरे विरजा नदी । वेदाङ्गस्वेदजनिततोयैः प्रस्राविता शुभा ॥ १,५.२४७ ॥ तस्याः पारे परव्योम्नि त्रिपाद्भूतं सनातनम् । अमृतं शाश्वतं नित्यमनन्तं परं पदम् ॥ शुद्धसत्त्वमयं दिव्यमक्षरं ब्रह्मणः पदम् ॥ अनेककोटिसूर्याग्नितुल्यवर्चसमव्ययम् ॥ सर्ववेदमयं शुभ्रं सर्वप्रलयवर्जितम् । हिरण्मयं मोक्षपदं ब्रह्मानन्दसुखाह्वयम् ॥ समानाधिक्यरहितमाद्य्अन्तरहितं शुभम् ॥ तेजसात्य्अद्भुतं रम्यं नित्यमानन्दसागरम् । एवमादिगुणोपेतं तद्विष्णोः परमं पदम् ॥ न तद्भासयते सूर्यो न शशाङ्को न पावकः । यद्गत्वा न निवर्तन्ते तद्धाम परमं हरेः ॥ १,५.२४८ ॥ तद्विष्णोः परमं धाम शाश्वतं नित्यमच्युतम् । न हि वर्णयितुं शक्यं कल्पकोटिशतैरपि ॥ १,५.२४९ ॥ तत्रैवाग्रे (६.२५६.९२१) श्रीशार्ङ्गिभक्तिसेवैकरसभोगविवर्धिताः । महात्मनो महाभागा भगवत्पादसेवकाः ॥ १,५.२५० ॥ तद्विष्णोः परमं धाम यान्ति प्रेमसुखप्रदम् । नानाजनपदाकीर्णं वैकुण्ठं तद्धरेः पदम् । प्रकारैश्च विमानैश्च सौधै रत्नमयैर्वृतम् ॥ १,५.२५१ ॥ तन्मध्ये नगरी दिव्या सायोन्ध्येति प्रकीर्तिता । मणिकाञ्चनचित्राढ्यप्राकारैस्तोरणैर्वृता । चतुर्द्वारसमायुक्ता रत्नगोपुरसंवृता ॥ १,५.२५२ ॥ चण्डादिद्वारपालैश्च कुमुदाद्यैः सुरक्षिता । चण्डप्रचण्डौ प्राग्द्वारे याम्ये भद्रसुभद्रकौ । वारुण्यां जयविजयौ सौम्ये धातृविधातरौ ॥ १,५.२५३ ॥ कुमुदः कुमुदाक्षश्च पुण्डरीकोऽथ वामनः । शङ्कुकर्णः सर्वनेत्रः सुमुखः सुप्रतिष्ठितः । एते दिक्पतयः प्रोक्ताः पूर्यामत्र शुभानने ॥ १,५.२५४ ॥ कोटिवैश्वानरप्रख्यगृहपङ्क्तिर्भिरावृता । आरूढयौवनैर्नित्यैर्दिव्यनारीनरैर्युता ॥ १,५.२५५ ॥ अन्तःपुरस्तु देवस्य मध्ये पूर्या मनोहरम् । मणिप्राकारसंयुक्तं वरतोरणशोभितम् । विमानैर्गृहमुख्यैश्च प्रासादैर्बहुभिर्वृतम् । दिव्यापसरोगणैः स्त्रीभिः सर्वतः समलङ्कृतम् ॥ १,५.२५६ ॥ मध्ये तु मण्डपं दिव्यं राजस्थानं महोत्सवम् । माणिक्यस्तम्भसहस्रजुष्टं रत्नमयं शुभम् । नित्यमुक्तैः समाकीर्णं सामगानोपशोभितम् ॥ १,५.२५७ ॥ मध्ये सिंहासनं रम्यं सर्ववेदमयं शुभम् । धर्मादिदैवतैर्नित्यैर्वृतं वेदमयात्मकैः । धर्मज्ञानमहैश्वर्यवैराग्यैः पादविग्रहैः ॥ १,५.२५८ ॥ तत्रैव (६.२५६.२३५४) वसन्ति मध्यमे तत्र वह्निसूर्यसुधांशवः । कूर्मश्च नागराजश्च वैनतेयस्त्रयीश्वरः ॥ छन्दांसि सर्वमन्त्राश्च पीठरूपत्वमास्थिताः । सर्वाक्षरमयं दिव्यं योगपीठमिति स्मृतम् ॥ १,५.२५९ ॥ तन्मध्येऽष्टदलं पद्ममुदयार्कसमप्रभम् । तन्मध्ये कर्णिकायां तु सावित्र्यां शुभदर्शने । ईश्वर्या सह देवेशस्तत्रासीनः परः पुमान् ॥ १,५.२६० ॥ इन्दीवरदलश्यामं सूर्यकोटिसमप्रभः । युवा कुमारः स्निग्धाङ्गः कोमलावयवैर्युतः ॥ १,५.२६१ ॥ फुल्लरक्ताम्बुजनिभकोमलाङ्घ्रिकराब्जवान् । प्रबुद्धपुण्डरीकाक्षः सुभ्रूलतायुगाङ्कितः ॥ १,५.२६२ ॥ सुनासः सुकपोलाढ्यः सुशोभमुखपङ्कजः । मुक्ताफलाभदस्ताढ्यः सुस्मिताधरविद्रुमः ॥ १,५.२६३ ॥ परिपूर्णेन्दुसङ्काशसुस्मिताननपङ्कजः । तरुणादित्यवर्णाभ्यां कुण्डलाभ्यां विराजितः ॥ १,५.२६४ ॥ सुस्निग्धनीलकुटिलकुन्तलैरुपशोभितः । मन्दारपारिजाताढ्यः कवरीकृतकेशवान् ॥ १,५.२६५ ॥ प्रातरुद्यत्सहस्रांशुनिभकौस्तुभशोभितः । हारस्वर्णस्रगासक्तकम्बुग्रीवविराजितः ॥ १,५.२६६ ॥ सिंहस्कन्धनिभैः प्रोच्चैः पीनैरंसैर्विराजितः । पीनवृत्तायतभुजैश्चतुर्भिरुपशोभितः ॥ १,५.२६७ ॥ अङ्गुलीयैश्च कटकैः केयूरैरुपशोभितः । बालार्ककोटिसङ्काशैः कौस्तुभाद्यैः सुभूषणैः । विराजितमहावक्षा वनमालाविभूषितः ॥ १,५.२६८ ॥ विधातुर्जननस्थाननाभिपङ्कजशोभितः । बालातपनिभश्लक्ष्णपीतवस्त्रसमन्वितः ॥ १,५.२६९ ॥ नानारत्नविचित्राङ्घ्रिकटकाभ्यां विराजितः । सज्योत्स्नचन्द्रप्रतिमनखपङ्क्तिभिरावृतः ॥ १,५.२७० ॥ कोटिकन्दर्पलावण्यः सौन्दर्यनिधिरच्युतः । दिव्यचन्दनलिप्ताङ्गो वनमालाविभूषितः ॥ शङ्खचक्रगृहीताभ्यामुद्बाहुभ्यां विराजितः । वरदाभयहस्ताभ्यामितराभ्यां तथैव च ॥ १,५.२७१ ॥ वामाङ्कसंस्थिता देवी महालक्ष्मीर्महेश्वरी । हिरण्यवर्णा हरिणी सुवर्णरजतस्रजा ॥ १,५.२७२ ॥ सर्वलक्षणसम्पन्ना यौवनारम्भविग्रहा । रत्नकुण्डलसंयुक्ता नीलाकुञ्चितशीर्षजा ॥ १,५.२७३ ॥ दिव्यचन्दनलिप्ताङ्गी दिव्यपुष्पोपशोभिता । मन्दारकेतकीजातीपुष्पाञ्चितसुकुन्तला ॥ १,५.२७४ ॥ सुभ्रूः सुनासा सुश्रोणी पीनोन्नतपयोधरा । परिपूर्णेन्दुसङ्काशसुस्मिताननपङ्कजा ॥ १,५.२७५ ॥ तरुणादित्यवर्णाभ्यां कुण्डलाभ्यां विराजिता । तप्तकाञ्चनवर्णाभा तप्तकाञ्चनभूषणा ॥ १,५.२७६ ॥ हस्तैश्चतुर्भिः संयुक्ता कनकाम्बुजभूषिता । नानारत्नविचित्राढ्यकनकाम्बुजमालया । हारकेयूरकटकैरङ्गुरीयैश्च भूषिता ॥ १,५.२७७ ॥ भुजयुग्मधृतोदग्रपद्मयुग्मविराजिता । गृहीतमातुलुङ्गाख्यजाम्बूनदकराञ्चिता ॥ १,५.२७८ ॥ एवं नित्यानपायिन्या महालक्ष्म्या महेश्वरः । मोदते परमव्योम्नि शाश्वते सर्वदा प्रभुः ॥ १,५.२७९ ॥ पार्श्वयोरवनीलीले समासीने शुभानने । अष्टदिक्षु दलाग्रेषु विमलाद्याश्च शक्तयः ॥ १,५.२८० ॥ विमलोत्कर्षिणी ज्ञाना क्रिया योगा तथैव च । प्रह्वी सत्या तथेशाना महिष्यः परमात्मनः ॥ गृहीत्वा चामरान् दिव्यान् सुधाकरसमप्रभान् । सर्वलक्षणसम्पन्ना मोदन्ते पतिमच्युतम् ॥ १,५.२८१ ॥ दिव्याप्सरोगणाः पञ्चशतसङ्ख्याश्च योषितः । अन्तःपुरनिवासिन्यः सर्वाभरणभूषिताः ॥ पद्महस्ताश्च ताः सर्वाः कोटिवैश्वानरप्रभाः । सर्वलक्षणसम्पन्नाः शीतांशुसदृशाननाः । ताभिः परिवृतो राजा शुशुभे परमः पुमान् ॥ १,५.२८२ ॥ अनन्तविहगाधीशसेनान्य्आद्यैः सुरेश्वरैः । अन्यैः परिजनैर्नित्यैर्मुक्तैश्च परिसंवृतः । मोदते रमया सार्धं भोगैश्वर्यैः परः पुमान् ॥ १,५.२८३ ॥ अत्र कारिकाः अर्थतः शब्दतश्चात्र यत्पुनः पुनरुच्यते । तद्असम्भायवस्तुत्वात्प्रतीत्यै हेतुवादिनाम् ॥ १,५.२८४ ॥ श्रीशनिश्वासरूपाणां वेदानां तत्र मूर्तता । ततस्तद्अङ्गतो जाताः स्वेदाः परमपावनाः ॥ १,५.२८५ ॥ त्रिपाद्विभूतेर्धामत्वात्त्रिपाद्भूतं तु तत्पदम् । विभूतिर्मायिकी सर्वा प्रोक्ता पादात्मिका यतः ॥ १,५.२८६ ॥ अमृतं सुष्ठु मधुरं शाश्वतस्तु मुहुर्नवम् । शुद्धसत्त्वस्तु तत्प्रोक्तं सत्त्वमप्राकृतं तु तत् । नित्याक्षरादिशब्दैस्तु षड्भावपरिवर्जनम् ॥ १,५.२८७ ॥ किं चानुत्थापितानामपि कारिकाः आद्यमावरणं दिक्षु पूर्वादिषु किलाष्टसु । व्यूहैर्लक्ष्म्यादिसहितैर्वासुदेवादिभिर्मतम् ॥ १,५.२८८ ॥ पूर्यो लक्ष्म्याः सरस्वत्या रतेः कान्तेरनुक्रमात् । विदिक्षु परमव्योम्न आग्नेय्यादिषु कीर्तिताः ॥ १,५.२८९ ॥ केशवाद्यैरिह चतुर्विंशत्या तु द्वितीयकम् । अष्टासु किल काष्ठासु तेषां ज्ञेयं त्रयं त्रयम् ॥ १,५.२९० ॥ दशभिर्मत्स्यकूर्माद्यैर्दशदिक्षु तृतीयकम् ॥ १,५.२९१ ॥ सत्याच्युतानन्तदुर्गाविष्वक्सेनगजाननैः । शङ्खपद्मनिधिभ्यां च तुर्यमष्टासु दिक्ष्विदम् ॥ १,५.२९२ ॥ ऋग्वेदादिचतुष्केण सावित्र्या गरुडेन च । तथाधर्मसखाभ्यां च पञ्चमं पूर्ववन्मतम् ॥ १,५.२९३ ॥ शङ्खचक्रगदापद्मखड्गशार्ङ्गहलैस्तथा । मूषलेण च षष्ठं स्यादिन्द्राद्यै सप्तमं तथा ॥ १,५.२९४ ॥ साध्या मरुद्गणैस्चैव विश्वदेवास्तथैव च । नित्याः सर्वे परे धाम्नि ये चान्ये त्रिदिवौकसः । ते वै प्राकृतनाकेऽस्मिन्न नित्यास्त्रिदिवेश्वराः ॥ १,५.२९५ ॥ वासुदेवादिमूर्तीनां सप्ततेस्तु चतुर्युजः । लोकास्तु तावत्सङ्ख्याकाः परे धाम्नि चकासति ॥ १,५.२९६ ॥ त्रिषु पुंसोऽवतारेषु रुद्रात्पद्मभवात्तथा । भृग्वादिकृतनिर्धाराद्विष्णुरेव महत्तमः ॥ किं पुनः पुरुषस्तत्र वासुदेवोऽत्र किन्तराम् । तत्रापि किन्तमां सोऽयं महावैकुण्ठनायकः ॥ १,५.२९७ ॥ सदाशिवाख्यो यः शम्भुः स चैशान्यावृतिर्मता ॥ १,५.२९८ ॥ अतो ब्रुवेऽनयोः प्रायो वैलक्षण्यं द्वयोर्न हि । दीपोत्थदीपतुल्यत्वात्स्याद्विलासविलासिनोः ॥ १,५.२९९ ॥ मैवं वादीर्महावादिनधुना त्वमपेशलः । गहनैश्वर्यविज्ञानरसास्वादयोरसि ॥ १,५.३०० ॥ सर्ववेदान्ततः सारं वेदकल्पतरोः फलम् । श्रीभागवतमेवात्र प्रमाणं सर्वतो वरम् ॥ १,५.३०१ ॥ तथा हि श्रीतृतीये (३.२.२१) स्वयं त्वसाम्यातिशयस्त्र्यधीशः स्वाराज्यलक्ष्म्य्आप्तसमस्तकामः । बलिं हरद्भिश्चिरलोकपालैः किरीटकोट्य्एडितपादपीठः ॥ १,५.३०२ ॥ इति । अत्र कारिकाः विद्येते नान्यसाम्यातिशयौ यत्रेति विग्रहे । सर्वेभ्यस्तत्स्वरूपेभ्यः कृष्णोत्कर्षनिरूपणात् । आधिक्यं परमव्योमनाथादप्यस्य दर्शितम् ॥ १,५.३०३ ॥ स्वयंपदेन चास्यान्यनैरपेक्षमुदीरितम् ॥ १,५.३०४ ॥ रामोऽप्यधिकसाम्याभ्यां मुक्तधामेत्यवादि यत् । तत्र स्वयंपदाभावात्कृषेएनैक्येन तस्य तत् । नरलीलादिसाधर्म्यात्प्रेष्ठं रूपं तदस्य यत् ॥ १,५.३०५ ॥ तथा हि ब्रह्माण्डे श्रीकृष्णवाक्यम् अन्तरङ्गस्वरूपा मे मत्स्यकूर्मादयस्त्वमी । सर्वात्मनायमत्रापि श्रीमद्दशरथात्मजः ॥ १,५.३०६ ॥ इति । स्वयं त्वसाम्यातिशयः कृष्णस्तु भगवान् स्वयम् । इत्यस्य परमैश्वर्यविशेषस्यानुवर्णने । पदस्य स्वयमित्यस्य द्विरुक्तिर्बोधयत्यसौ । कृष्णस्यान्यस्वरूपैक्याताधिक्यं नेति सर्वथा ॥ १,५.३०७ ॥ त्र्य्अधीश इति गोलोकमथुराद्वारकाभिधम् । यत्पदत्रितयं तस्य सोऽधिपत्वादधीश्वरः । प्रकृतीशविराड्अन्तर्यामिक्षीराब्धिशायिनाम् । त्रयाणामुपरीशोऽयं त्र्य्अधीश इति वा स्मृतः ॥ १,५.३०८ ॥ स्वाराज्यलक्ष्म्या तत्रापि प्राप्तसर्वसमीहितः । स्वेनात्मना स्वया वाङ्भूतया शक्तिवर्यया । राजतीति स्वराट्तस्य भावः स्वाराज्यमुच्यते ॥ तदेव लक्ष्मीः सर्वातिशायिनी सम्पदेतया । आप्ताः समस्ताः कामा यं कामाः प्रेष्ठार्थसिद्धयः ॥ १,५.३०९ ॥ चिरेति तु चिरायुष्का लोकपाः पद्मजादयः । तेषां किरीटकोटीभिर्मुकुटानां शतार्बुधैः । ईडिते संस्तुते पादपीठे यस्येति विग्रहः ॥ १,५.३१० ॥ हीरादिरत्नमुकुटैः पादपीटाभिघटनात् । जनितेन स्वनौघेन बाढमुत्प्रेक्षिता स्तुतिः ॥ १,५.३११ ॥ स्वस्वकर्मण्यवस्थित्या तैस्तैर्ब्रह्मादिलोकपैः । आज्ञापालनमेवास्य बलेर्हरणमुच्यते ॥ १,५.३१२ ॥ अथात्र प्रक्रिया ख्याता परुआण्येषा विलिख्यते ॥ १,५.३१३ ॥ ब्रह्माण्डानामनन्तानां प्रायो नानाविधात्मनाम् । वृन्दानि भगवच्छक्तौ विचित्राणि चकासति ॥ १,५.३१४ ॥ शतकोटिप्रमाणानि योजनानां तु कानिचित् । अजाण्डानि विराजन्ते शक्तिवैचित्र्यतो हरेः ॥ १,५.३१५ ॥ कानिचिच्च निखर्वेण तेषां पद्मायुतेन च । तत्परार्धशतेनापि विस्तृतानि तु कानिचित् ॥ १,५.३१६ ॥ मध्ये तेषामजाण्डेषु केषुचिद्विंशतिः कृता । भुवनानां च पञ्चाशत्कुत्रचित्सपततिस्तथा । शतं सहस्रमयुतं लक्षं क्वचन राजति ॥ १,५.३१७ ॥ ब्रह्माद्या लोकपास्तेषु नानारूपाश्चकासति । परमर्धिसहस्रेण सेव्यमानाः समन्ततः ॥ क्वचिदिन्द्रादयस्तेषु महाकल्पशतायुषः । महाकल्पपरार्धायुर्भाजो ब्रह्मादयस्तथा ॥ १,५.३१८ ॥ ते ते ब्रह्मसुरेशाद्याः कथिताश्चिरलोकपाः । स्तुताङ्घ्रिपीठः कृष्णोऽयं तेषां मुकुटकोटिभिः ॥ १,५.३१९ ॥ एकदा द्वारकापुर्यां सुधर्मायां मुरान्तके । विराजति तमागत्य द्वाराध्यक्षो न्यवेदयत् । दिदृक्ष्र्देवपादाब्जं ब्रह्मा द्वारेऽवतिष्ठते ॥ १,५.३२० ॥ आगतः कतमो ब्रह्मा द्वारीति परिपृच्छ तम् । इत्यच्युतगिरं शृण्वनेत्य द्वाराधिपः पुनः ॥ पृष्ट्वा ब्रह्मानमागत्य कृष्णाग्रे च तमब्रवीत् । आगतः सनकादीनां जनकश्चतुराननः ॥ १,५.३२१ ॥ आनयेति हरेर्वाचा तेन ब्रह्मा प्रवेशितः । प्रणमन् दण्डवत्पृष्टः कृष्णेन किमिहागतः । त्वमिति प्राह तं ब्रह्मा देवागमनकारणम् । वक्ष्ये पश्चाद्यदात्थाद्य ब्रह्मा करम इत्यदः । ज्ञातुमिच्छामि तन्नाथ ब्रह्मा नान्योऽस्ति मद्यतः ॥ १,५.३२२ ॥ अथ स्मित्वा मुकुन्देन द्वारवत्यां द्रुतं तदा । स्मृत्वा ब्रह्माण्डकोटिभ्यो लोकपालाः समागताः । अष्टवक्राश्चतुःषष्ठिवक्त्राः शतमुखास्तथा । सहस्रवक्त्रा लक्षास्याः कोटिवक्त्रा विरिञ्चयः । रुद्राश्च विंशतिमुखास्तथा पञ्चाशद्आननाः । शतवक्त्राः सहस्रास्या लक्षबाहुशिरोभृतः ॥ पुरन्दराश्च लक्षालक्षा नियुताक्षास्तथापरे । अपरे लोकपालाश्च विविधाकृतिभूषणाः ॥ कृष्णस्य पुरतः प्राप्ताः पादपीठमवानमन् । तान् दृष्ट्वा विस्मयात्तस्मिनुन्ममाद चतुर्मुखः ॥ १,५.३२३ ॥ किं च विष्णुधर्मोत्तरे प्रोक्तं सर्वे ब्रह्माण्डमण्डलाः । देशतो जीवतश्चापि तुल्यरूप भवन्त्यमी ॥ १,५.३२४ ॥ तथा हि एकरूपास्तथैवाण्डाः सर्व एव नरेश्वर । तुल्यदेशविभागाश्च तुल्यजन्तव एव च ॥ १,५.३२५ ॥ इति । विरोधेऽत्र समुत्पन्ने समाधानं विधीयते ॥ १,५.३२६ ॥ यतः श्रीकौर्मे विरोधो वाक्ययोर्यत्र नाप्रामाण्यं तदिष्यते । यथाविरुद्धता च स्यात्तथार्थः कल्प्यते तयोः ॥ १,५.३२७ ॥ इति । युगपत्सकलाण्डानि जातु संहरते हरिः ॥ १,५.३२८ ॥ तथा हि श्रीविष्णुधर्मोत्तरे (१.७७.९) अनन्तानि तवोक्तानि यान्यण्डानि मया पुरा । सर्वाणि तानि संहृत्य समकालं जगत्पतिः । प्रकृतौ तिष्ठति तदा सा रात्रिस्तस्य कीर्तिता ॥ १,५.३२९ ॥ इति । अतः संहृत्य सर्वाणि पुनरण्डान्यसौ सृजन् । विषमाणि सृजेज्जातु कदाचिच्च समान्यपि ॥ १,५.३३० ॥ इत्यौपोद्घातिकं प्रोच्य प्रकृतं परिलिख्यते ॥ १,५.३३१ ॥ किं च तत्रैव (३.२.१२) यन्मर्त्यलीलौपयिकं स्वयोग मायाबलं दर्शयता गृहीतम् । विस्मापनं स्वस्य च सौभगर्द्धेः परं पदं भूषणभूषणाङ्गम् ॥ १,५.३३२ ॥ इति । अत्र कारिकाः यद्बिम्बं मर्त्यलीलानां भवेदौपायिकं परम् । पूर्वपद्यस्थितं बिम्बं यत्पदेनानुकृष्यते ॥ १,५.३३३ ॥ विविधाश्चर्यमाधुर्यवीर्यैश्वर्यादिसम्भवात् । स्वस्य देवादिलीलाभ्यो मर्त्यलीला मनोहराः ॥ १,५.३३४ ॥ ध्वन्यते बिम्बशब्देन सद्गुणावलिशालिनाम् । सकलस्वस्वरूपाणां मूलत्वं तस्य सर्वथा ॥ १,५.३३५ ॥ अतस्तदेव निःशेषगुणरूपास्पदत्वः । विचित्रनरलीलानामतियोग्यमुदीर्यते ॥ १,५.३३६ ॥ स्वयोगमाया चिच्छक्तिर्बलं तस्याः समर्थता । एतद्दर्शयता साक्षात्कुर्वता प्रकटीकृतम् ॥ अहो मदीयचिच्छक्तेः प्रभावं पश्यताद्भुतम् । दिव्यातिदिव्यलोकेषु यद्गन्धोऽपि न सम्भवेत् । तज्जगन्मोहनं रूपं ययाविष्कृतमीदृशम् । स्वयोगमायेत्याद्यस्य भावोऽयमिति गम्यते ॥ १,५.३३७ ॥ स्वस्यात्मनोऽपि परमव्योमेशाद्यात्मदर्शिनः । विस्मापनं नअवोद्दामचमत्कृतिकरं परम् ॥ १,५.३३८ ॥ सौभगर्धिर्महाश्चर्यसौन्दर्यपरमावधिः । तस्याः परं पदं नित्योत्कर्षसम्पद्वरास्पदम् ॥ १,५.३३९ ॥ यत्तु कौस्तुभमीनेन्द्रकुण्डलाद्यं हि भूषणम् । तस्यापि भूषणान्यङ्गान्यस्येति सति विग्रहे । तस्य श्रीविग्रहस्येदमसमोर्धत्वमीरितम् ॥ १,५.३४० ॥ सच्चिद्आनन्दसान्द्रत्वात्द्वयोरेवाविशेषतः । औपचारिक एवात्र भेदोऽयं देहदेहिनोः ॥ १,५.३४१ ॥ तथा च श्रीकौर्मे देहदेहिभिदा चात्र नेश्वरे विद्यते क्वचित् ॥ १,५.३४२ ॥ इति । किं च श्रीदशमे श्रीपुरस्त्रीणामुक्तौ (१०.४४.१४) गोप्यस्तपः किमचरन् यदमुष्य रूपं लावण्यसारमसमोर्धमनन्यसिद्धम् । दृग्भिः पिबन्त्यनुसवाभिनवं दुरापम् एकान्तधाम यशसः श्रिय ऐश्वरस्य ॥ १,५.३४३ ॥ इति । तथा हि श्रीबलदेवं प्रति श्रीकृष्णोक्तौ (१०.१५.८) धन्येयमद्य धरणी तृणवीरुधस्त्वत् पादस्पृशो द्रुमलताः करजाभिमृष्टाः । नद्योऽद्रयः खगमृगाः सदयावलोकैर् गोप्योऽन्तरेण भुजयोरपि यत्स्पृहा श्रीः ॥ १,५.३४४ ॥ इति । अत्र कारिकाः श्रीवृन्दावनतद्वासिमाधुर्योल्लोलचेतसा । तत्स्तवे हरिणारब्धे निजोकर्षावसायिनम् । तमालोच्य ततो राममपदिश्य व्यधायि सः ॥ १,५.३४५ ॥ अतोऽत्र नैव तात्पर्यं रामोत्कर्षानुवर्णने । सख्यभावात्तदा रामे नर्मणैवेदमीरितम् ॥ १,५.३४६ ॥ भुजान्तरं तु वक्षस्ते तेन धन्या व्रजाञ्गनाः । यत्स्पृहा वक्षसे यस्मै श्रीरप्याचरति स्पृहाम् ॥ १,५.३४७ ॥ यत्स्पृहैव परं तस्या न तु तत्प्राप्तियोग्यता ॥ १,५.३४८ ॥ सदा वक्षःस्थलस्थापि वैकुण्टेशितुरिन्दिरा । कृष्णोरःस्पृहयास्यैव रूपं विवृणुतेऽधिकम् ॥ १,५.३४९ ॥ पौराणिकमुपाख्यानमत्र सङ्क्षिप्य लिख्यते ॥ १,५.३५० ॥ श्रीः प्रेक्ष्य कृष्णसौन्दर्यं तत्र लुब्धा ततस्तपः । कुर्वतीं प्राह तां कृष्णः किं ते तपसि कारणम् ॥ विजिहीर्षे त्वया गोष्ठे गोपीरूपेति साब्रवीत् । तद्दुर्लभमिति प्रोक्ता लक्ष्मीस्तं पुनरब्रवीत् ॥ स्वर्णरेखेव ते नाथ वस्तुमिच्छामि वक्षसि । एवमस्त्विति सा तस्य तद्रूपा वक्षसि स्थिता ॥ १,५.३५१ ॥ यथोक्तं श्रीदशमे नागपत्नीभिः (१०.१६.३६) यद्वाञ्छया श्रीर्ललनाचरत्तपो विहाय कामान् सुचिरं धृतव्रता ॥ १,५.३५२ ॥ इति । नाम्नोऽपि महिमेतस्य सर्वतोऽधिक ईर्यते ॥ १,५.३५३ ॥ यथा श्रीब्रह्माण्डे सहस्रनाम्नां पुण्यानां त्रिरावृत्य तु यत्फलम् । एकावृत्त्या तु कृष्णस्य नामैकं तत्प्रयच्छति ॥ १,५.३५४ ॥ स्कान्दे च मधुरमधुरमेतन्मङ्गलं मङ्गलानां सकलनिगमवल्लीसत्फलं चित्स्वरूपम् । सकृदपि परिगीतं श्रद्धया हेलया वा भृगुवर नरमात्रं तारयेत्कृष्णनाम ॥ इति ॥ १,५.३५५ ॥ अतः स्वयंपदादिभ्यो भगवान् कृष्ण एव हि । स्वयंरूप इति व्यक्तं श्रीमद्भागवतादिषु ॥ १,५.३५६ ॥ यथोक्तं श्रीब्रह्मसंहितायां (५.१, ५.३९) ईश्वरः परमः कृष्णः सच्चिदानन्दविग्रहः । अनादिरादिर्गोविन्दः सर्वकारणकारणम् ॥ १,५.३५७ ॥ रामादिमूर्तिषु कलानियमेन तिष्ठन् नानावतारमकरोद्भुवनेषु किन्तु कृष्णः स्वयं समभवत्परमः पुमान् यो गोविन्दमादिपुरुषं तमहं भजामि ॥ १,५.३५८ ॥ इति । तस्मात्परमवैकुण्ठनाथोऽप्यस्य विलासकः ॥ १,५.३५९ ॥ अतो मिलित्वा श्रुतिभिः स्वसारो यः स्तवः कृतः । तत्तात्पर्यकृती कृष्णमेव देवर्षिरानमत् ॥ १,५.३६० ॥ नमस्तस्मै भगवते कृष्णाय इत्यादि ॥ १,५.३६१ ॥ (१०.८७.४६) नन्वेष द्वापरस्यान्ते प्रादुर्भूतो यदूद्वहः । स वैकुण्ठेश्वरोऽहादिस्तद्विलासः कथं भवेत् ॥ १,५.३६२ ॥ मैवमस्यादिशून्यस्य जन्मलीलाप्यनादिका । स्वच्छन्दतो मुकुन्देन प्राकट्यं नीयते मुहुः ॥ १,५.३६३ ॥ तथा च श्रीतृतीये (३.२.१५) स्वशान्तरूपेष्वितरैः स्वरूपैर् अभ्यर्द्यमानेष्वनुकम्पितात्मा । परावरेशो महद्अंशयुक्तो ह्यजोऽपि जातो भगवान् यथाग्निः ॥ १,५.३६४ ॥ इति । अत्र कारिकाः स्वे भक्ताः स्वे च ते शान्तरूपाश्चेत्यत्र विग्रहः । शान्तिस्तन्निष्ठता बुद्धेः शान्तास्तन्निष्ठबुद्धयः ॥ १,५.३६५ ॥ तेषु सूरसुताद्येषु नन्दादिषु च साधुषु । इतरैस्तद्विरुद्धैस्तु कंसाद्यैरसुरादिभिः ॥ स्वरूपैः सुष्ठ्वरूपैरित्यरूपत्वं विरूपता । घोरातिविकटाकारैरित्यर्थः स्फुटमीरितः ॥ १,५.३६६ ॥ अभ्यर्द्यमानेष्वभितः क्रियमाणमहारित्षु । अनुकम्पायुतमनाः परे मायान्वयोज्झिताः । गोलोकमुख्या अवरे मायिकाजाण्डमण्डलाः । परेषामवरेषां च तेषामीशोऽधिनायकः ॥ १,५.३६७ ॥ स्युर्महान्तोऽतिपरममहत्तमतया स्मृताः । ते परव्योमनाथश्च व्यूहाश्च वसुसङ्ख्यकाः ॥ १,५.३६८ ॥ वासुदेवादयो व्यूहाः परव्योमेश्वरस्य ये । तेभ्योऽप्युत्कर्षभाजोऽमी कृष्णव्यूहाः सतां मताः ॥ इत्येते परमव्योमनाथव्यूहैः सहैकताम् । स्वविलासैरिहाभ्येत्य प्रादुर्भावमुपागताः ॥ १,५.३६९ ॥ अंशास्तस्यावतारा ये प्रसिद्धाः पुरुषादयः । तथा श्रीजानकीनाथनृषिंहक्रोडवामनाः । नारायणो नरसखा हयशीर्षाजितादयः ॥ १,५.३७० ॥ एभिर्युक्तः सदा योगमवाप्ययनवस्थितः ॥ १,५.३७१ ॥ अतो वृन्दावने तत्तल्लीलाप्रकटतेक्षते ॥ १,५.३७२ ॥ वैकुण्ठेश्वरलीलात्र दर्शिता या विरिञ्चये । सेश्वराणामजाण्डानां कोटिर्वृन्दावनेऽद्भुता । सैव ज्ञेया यतः स्वांशद्वारैवासौ प्रकाशिता ॥ १,५.३७३ ॥ वासुदेवादिलीलास्तु मथुरा द्वारकादिषु । तत्तद्रूपैर्व्रजान्तस्तु बाल्येहाभिश्च दर्शिताः । यथा श्रीदाम्नि तार्क्ष्यत्वं प्राप्ते सोऽपि चतुर्भुजः । आदित्येष्वथ लब्धेषु बभौ द्वादशभिर्भुजैः ॥ १,५.३७४ ॥ तथा साङ्कर्षणी लीला दैत्यसंहारकापि च । मूर्तयो माथुरे भान्ति श्रीप्रद्युम्न्¸अनिरुद्धयोः । याः श्रीगोपालतापन्यां वाराहादिषु च श्रुतः ॥ १,५.३७५ ॥ एवं पुरुषलीलानां प्राकट्यमिह माथुरे । अनन्तशायिरूपाभिः क्रियते सुष्ठु मूर्तिभिः ॥ १,५.३७६ ॥ यदा यदा च सा लीला कृष्णेन प्रकटीकृता । भव्वेत्तत्तद्उपाख्यानं पुराणेष्विति विश्रुतम् ॥ १,५.३७७ ॥ यानि रामादिरूपाणि प्रादुश्चक्रे स्वकेलिषु । तान्याधिष्ठानरूपेण राजन्तेऽद्यापि माथुरे ॥ १,५.३७८ ॥ गोपरार्धपयःपूरैर्जनितः क्षीरवारिधिः । ममन्थाजितरूपस्तं गोपैर्देवासुरीकृतैः ॥ १,५.३७९ ॥ अतेव ब्रह्माण्डे यो वैकुण्ठे चतुर्बाहुर्भगवान् पुरुषोत्तमः य एव श्वेतद्वीपेशो नरो नारायणश्च यः । स एव वृन्दावनभूविहारी नन्दनन्दनः ॥ १,५.३८० ॥ एतस्यैवापरेऽनन्ता अवतारा मनोहराः । महाग्नेरिह यद्वत्स्युरुल्काः शतसहस्रशः । तत्रैव लीना एकत्वं व्रजेयुस्ते हरौ तथा ॥ १,५.३८१ ॥ इति । इति सिद्धा प्रभोरस्य महद्अंशैस्तु युक्तता ॥ १,५.३८२ ॥ अतेव पुराणादौ केचिन्नरसख्यात्मताम् । महेन्द्रानुजतां केचित्केचित्क्षीराब्धिशायिताम् । सहस्रशीर्षतां केचित्केचिद्वैकुण्ठनाथताम् । ब्रूयुः कृष्णस्य मुनयस्तत्तद्वृत्तान्तगामिनः ॥ १,५.३८३ ॥ उपोद्घातं समाप्याथ प्रकृतं लिख्यते पुनः ॥ १,५.३८४ ॥ अजो जन्मविहीनोऽपि जातो जन्माविराचरत् ॥ १,५.३८५ ॥ नन्वेकस्य किलाजत्वं जन्मित्वं च विरुध्यते । इत्याशङ्क्याह भगवानचिन्त्यैश्वर्यवैभवः ॥ १,५.३८६ ॥ तत्र तत्र यथा वह्निस्तेजोरूपेण सन्नपि । जायते मणिकाष्ठादेर्हेतुं कञ्चिदवाप्य सः ॥ अनादिमेव जन्मादिलीलामेव तथाद्भुतम् । हेतुना केनचित्कृष्णः प्रादुष्कुर्यात्कदाचन ॥ १,५.३८७ ॥ स्वलीलाकीर्तिविस्तारात्लोकेष्वनुजिघृक्षुता । अस्य जन्मादिलीलानां प्राकट्ये हेतुरुत्तमः ॥ १,५.३८८ ॥ तथा भयङ्करतरैः पीड्यमानेषु दानवैः । प्रियेषु करुणाप्यत्र हेतुरित्युत्तमेव हि ॥ १,५.३८९ ॥ भूमिभाआपहाराय ब्रह्माद्यैस्त्रिदशेश्वरैः । अभ्यर्थनं तु यत्तस्य तद्भवेदानुषङ्गिकम् ॥ १,५.३९० ॥ चेदद्यापि दिदृक्षेरनुत्कण्ठार्ता निजप्रियाः । तां तां लीलां ततः कृष्णो दर्शयेत्तान् कृपानिधिः ॥ १,५.३९१ ॥ कैरपि प्रेमवैवश्यभाग्भिर्भागवतोत्तमैः । अद्यापि दृश्यते कृष्णः क्रीडन् वृन्दावनान्तरे ॥ १,५.३९२ ॥ किं चास्य पार्षदादीनामप्युक्ता नित्यमूर्तिता । तस्येश्वरेशितुर्नित्य्मूर्तित्वे का विचित्रता ॥ १,५.३९३ ॥ तथापि शुष्कवादैकनिष्ठानां हेतुवादिनाम् । तुष्णीम्भावाय वचनं पुराणादेर्विलिख्यते ॥ १,५.३९४ ॥ तथा हि, श्रीभागवते ब्रह्मस्तुतौ (१०.१४.२२) त्वय्येव नित्यसुखबोधतनावनन्ते मायातुद्यदपि यत्सदिवावभाति ॥ १,५.३९५ ॥ श्रीब्रह्माण्डे च अनादेयमहेयं च रूपं भगवतो हरेः । आविर्भावतिरोभावावस्योक्ते ग्रहमोचने ॥ १,५.३९६ ॥ श्रीबृहद्वैष्णवे नित्यावतारो भगवान्नित्य्मूर्तिर्जगत्पतिः । नित्यरूपो नित्यगन्धो नित्यैश्वर्यसुखानुभूः ॥ १,५.३९७ ॥ पाद्मे श्रीव्यासाम्बरीषसंवादे श्रीकृष्णं प्रति श्रीव्यासवचनम् (४.७३.१२३) त्वामहं द्रष्टुमिच्छामि चक्षुर्भ्यां मधुसूदन । यत्तत्सत्यं परं ब्रह्म जगद्योनिं जगत्पतिम् । वदन्ति वेदशिरसश्चक्षुषं नाथ मेऽस्तु तत् ॥ १,५.३९८ ॥ श्रीकृष्णवाक्यम् (ড়द्मড়् ४.७३.१७१९) पश्य त्वं दर्शयिष्यामि स्वरूपं वेदगोपितम् । ततोऽपश्यमहं भूप बालं कालाम्बुदप्रभम् । गोपकन्यावृतं गोपं हसन्तं गोपबालकैः । कदम्बमूल आसीनं पीतवाससमच्युतम् ॥ १,५.३९९ ॥ तत्रैवाग्रे (४.७३.२३२५) ततो मामाह भगवान् वृन्दावनचरः स्वयम् । यदिदं मे त्वया दृष्टं रूपं दिव्यं सनातनम् । निष्कलं निष्क्रियं शान्तं सच्चिद्आनन्दविग्रहम् । पूर्णं पद्मपलाशाक्षं नातः परतरं मम ॥ १,५.४०० ॥ इदमेव वदन्येते वेदाः कारणकारणम् । सत्यं व्यापि परानन्दं चिद्घनं शाश्वतं शिवम् ॥ १,५.४०१ ॥ श्रीवासुदेवोपनिषदि (३.५) मद्रूपमद्वयं ब्रह्म मध्याद्य्अन्तविवर्जितम् । स्वप्रभं सच्चिद्आनन्दं भक्त्या जानाति चाव्ययम् ॥ १,५.४०२ ॥ इति । नन्वरूपः कृष्णो दृश्यो मायिकरूपतः ॥ १,५.४०३ ॥ तथापि मोक्षधर्मे श्रीभगवद्वचनं यथा (ंBह्१२.३२६.४२३) एतत्त्वया न विज्ञेयं रूपवानिति दृश्यते । इच्छन्मुहूर्तान्नश्येयमीशोऽहं जगतो गुरुः ॥ १,५.४०४ ॥ माया ह्येषा मया सृष्टा यन्मां पश्यसि नारद । सर्वभूतगुणैर्युक्तं नैवं त्वं ज्ञातुमर्हसि ॥ १,५.४०५ ॥ इति । तथा च पाद्मे अनामरूप एवायं भगवान् हरिरीश्वरः । अकर्तेति च यो वेदैः स्मृतिभिश्चाभिधीयते ॥ १,५.४०६ ॥ इति । अत्र समाधानं यथा श्रीवासुदेवाध्यात्मे अप्रसिद्धेस्तद्गुणानामनामासौ प्रकीर्तितः । अप्राकृतत्वादरूपस्याप्यरूपोऽसावुदीर्यते ॥ सम्बन्धेन प्रधानस्य हरेर्नास्त्येव कर्तृता । अकर्तारमतः प्राहुः पुराणं तं पुराविदः ॥ १,५.४०७ ॥ इति । अतश्च मोक्षधर्मीयवचनं योग्यमेव तत् ॥ १,५.४०८ ॥ तथा हि रूपीति हेतोर्दृश्येत यथैव प्राकृतो जनः । तथासौ दृश्यत इति त्वया मा स्म विचार्यताम् ॥ १,५.४०९ ॥ इत्युक्त्वा स्वस्य रूपित्वेऽप्यदृश्यत्वमुदीरितम् । ततो निजस्वरूपस्याप्राकृतत्वं च दर्शितम् ॥ १,५.४१० ॥ तद्दर्शने त्वकुण्ठात्मा ममेच्छैव च कारणम् । इत्याहेच्छन्मुहूर्तादित्यर्धपद्यं स्वयं पुनः । नश्येयमित्यदृश्यः स्यां यतो नशिरदर्शने ॥ १,५.४११ ॥ तथापि भूतगुणवत्त्वेन मां त्वं यद्ईक्षसे । एषा माया मया सृष्टा नैवं त्वं ज्ञातुमर्हसि ॥ १,५.४१२ ॥ मायाशब्देन कुत्रापि चिच्छक्तिरभिधीयते ॥ १,५.४२३ ॥ चतुर्वेदशिखायां स्वरूपभूतया नित्यशक्त्या मायाख्यया युतः । अतो मायामयं विष्णुं प्रवदन्ति सनातनम् ॥ इत्येषा दर्शिता मध्वाचार्यैर्भाष्ये निजे श्रुतिः ॥ १,५.४१४ ॥ तत्र स्वेच्छैकप्रकाशत्वं मोक्षधर्मे (ंBह्१२.३२३.११, १३, १५१६, १८) [* आल्तेर्नतिवे नुम्बेरिन्ग्. १२.३३८.१३२०.] एव प्रीतस्ततोऽस्य भगवान् देवदेवः पुरातनः । साक्षात्तं दर्शयामास सोऽदृश्योऽन्येन केन चित् ॥ १,५.४१५ ॥ बृहस्पतिस्ततः क्रुद्धः स्रुवमुद्यम्य वेगितः आकाशं घ्नन् स्रुवः पातै रोषादश्रूण्यवर्तयत् ॥ १,५.४१६ ॥ उद्यता यज्ञभागा हि साक्षात्प्राप्ताः सुरैरिह । किमर्थमिह न प्राप्तो दर्शनं स हरिर्विभुः ॥ १,५.४१७ ॥ ततः स तं समुद्धूतं भूमिपालो महान् विभुः । प्रसादयामास मुनिं सदस्यास्ते च सर्वशः ॥ १,५.४१८ ॥ अरोषणो ह्यसौ देवो यस्य भागोऽयमुद्यतः । न स शक्यस्त्वया द्रष्टुमस्माभिर्वा बृहस्पते । यस्य प्रसादं कुरुते स वै तं द्रष्टुमर्हति ॥ १,५.४१९ ॥ तत्रैकतद्वितत्रितवाक्यं (ंभ्१२.३३८.२५२७ ओर्३२३.२३) अथ व्रतस्यावभृते वागुवाचाशरीरिणी । स्निग्धगम्भीरया वाचा प्रहर्षणकरी विभोः ॥ [* आल्तेर्नतिवे रेअदिन्ग् ततो व्रतस्यावभृथे वागुवाचाशरीरिणी । सुतप्तं वस्तपस्विप्राः प्रसन्नेनान्तरात्मना ॥] यूयं जिज्ञासवो भक्ताः कथं द्रक्ष्यथ तं प्रभुम् ॥ १,५.४२० ॥ ततः स्वयं प्रकाशत्वशक्त्या स्वेच्छाप्रकाशया । सोऽभिव्यक्तो भवेत्नेत्रे न नेत्रविषयत्वतः ॥ १,५.४२१ ॥ यथा, श्रीनारायणाध्यात्मे नित्याव्यक्तोऽपि भगवानीक्ष्यते निजशक्तितः । तामृते परमात्मानं कः पश्येतामितं प्रभुम् ॥ १,५.४२२ ॥ पाद्मे च सच्चिदानन्दरूपत्वात्स्यात्कृष्णोऽधोक्षजोऽप्यसौ । निजशक्तेः प्रभावेन स्वं भक्तान् दर्शयेत्प्रभुः ॥ १,५.४२३ ॥ य एव विग्रहो व्यापी परिच्छिन्नः स एव हि । एकस्यैवैकदा चास्य द्विरूपत्वं विराजते ॥ १,५.४२४ ॥ यथा श्रीदशमे (१०.९.१३१४) न चान्तर्न बहिर्यस्य न पूर्वं नापि चापरम् । पूर्वापरं बहिश्चान्तर्जगतो यो जगच्च यः ॥ तं मत्वात्मजमव्यक्तं मर्त्यलिङ्गमधोक्षजम् । गोपिकोलूखले दाम्ना बबन्ध प्राकृतं यथा ॥ १,५.४२५ ॥ अनेन पद्ययुग्मेन व्रजराजसुतस्य हि । दामबन्धनबेलायामेव व्यक्ता द्विरूपता ॥ १,५.४२६ ॥ तथैव च पुराणेषु श्रीमद्भागवतादिषु । श्रूयते कृष्णलीलानां नित्यता स्फुटमेव हि ॥ १,५.४२७ ॥ यथा च, श्रीप्रथमे श्रीद्वारकावासिवचनम् (१.१०.२६) अहो अलं श्लाघ्यतमं यदोः कुलम् अहो अलं पुण्यतमं मधोर्वनम् । यदेष पुंसामृषभः श्रियः पतिः स्वजन्मना चङ्क्रमणेन चाञ्चति ॥ १,५.४२८ ॥ अञ्चतीति पदं वर्तमानकालोपपादकम् । द्वारकावासिनामुक्तौ लीलानां वक्ति नित्यताम् ॥ १,५.४२९ ॥ श्रीदशमे श्रीशुकोक्तौ (१०.९०.४८) जयति जननिवासो देवकीजन्मवादो यदुवरपरिषत्स्वैर्दोर्भिरस्यन्नधर्मम् । स्थिरचरवृजिनघ्नः सुस्मितश्रीमुखेन व्रजपुरवनितानां वर्धयन् कामदेवम् ॥ १,५.४३० ॥ श्रीस्कान्दे श्रीमथुराखण्डे श्रीयुधिष्ठिरं प्रति श्रीनारदवाक्यम् वत्सैर्वत्सतरीभिश्च साकं क्रीडति माधवः । वृन्दावनान्तरगतः सरामो बालकैर्वृतः ॥ १,५.४३१ ॥ यद्आनयोस्तु संवादो द्वारवत्यां हरिस्तदा । तथापि वर्तमानत्वेनोक्तिस्तन्नैत्यवाचिका ॥ १,५.४३२ ॥ पाद्मे पातालखण्डे श्रीपार्वतीं प्रति श्रीरुद्रवाक्यम् अहो मधुपुरी धन्या यत्र तिष्ठति कंसहा । तत्र देवा मुनिः सर्वे वासमिच्छन्ति सर्वदा ॥ १,५.४३३ ॥ लीलापरिकरा गोष्ठजनाः स्युर्यादवास्तथा । देवाश्च ब्रह्मजम्भारिकुवेरतनयादयः । नारदाद्याश्च दनुजनागयक्षादयश्च ते ॥ १,५.४३४ ॥ प्रकटाप्रकटा चेति लीला सेयं द्विधोच्यते ॥ १,५.४३५ ॥ तथा हि सदानन्तैः प्रकाशैः स्वैर्लीलाभिश्च स दीव्यति । तत्रैकेन प्रकाशेन कदाचित्जगद्अन्तरे । सहैव स्वपरीवारैर्जन्मादि कुरुते हरिः ॥ १,५.४३६ ॥ कृष्णभावानुसारेण लीलाख्या शक्तिरेव सा । तेषां परिकराणां च तं तं भावं विभावयेत् ॥ १,५.४३७ ॥ प्रपञ्चगोचरत्वेन सा लीला प्रकटा स्मृता । अन्यास्त्वप्रकटा भान्ति तादृश्यस्तद्अगोचराः ॥ १,५.४३८ ॥ तत्र प्रकटलीलायामेव स्यातां गमागमौ । गोकुले मथुरायां च द्वारवत्यां च शार्ङ्गिणः ॥ १,५.४३९ ॥ यास्तत्र तत्राप्रकटास्तत्र तत्रैव सन्ति ताः । इत्याह जयतीत्य्आदिपद्यादिकमभीक्ष्णशः ॥ १,५.४४० ॥ देवाद्य्अंशावतरणे प्रवृत्ते पद्मजाज्ञया । वसुदेवादिकानां ये स्वर्गेऽंशाः कश्यपादयः ॥ नित्यलीलान्तरस्थैस्ते वसुदेवादिभिर्गताः । सायुज्यमंशिभिस्तत्र जायन्ते शूरमुख्यतः ॥ १,५.४४१ ॥ यद्विलासो महाश्रीशः स लीलापुरुषोत्तमः । आविर्बुभूषुरत्राविष्कृत्य सङ्कर्षणं पुरः । अन्तस्थिताविष्कर्तव्यतद्अन्यव्यूह ईश्वरः । हृदये प्रकटस्तस्य भवत्यानकदुन्दुभेः ॥ १,५.४४२ ॥ भूमिभारनिरासाय देवानामभियाच्ञया । द्वारपस्यावसानेऽस्मिनष्टाविंशे चतुर्युगे । क्षीराब्धिशायियद्रूपमनिरुद्धतया स्मृतम् । तदिदं हृदयस्थेन रूपेणानकदुन्दुभेः । ऐक्यं प्राप्य ततो गच्छेत्प्राकट्यं देवकीहृदि ॥ १,५.४४३ ॥ प्रेमानन्दामृतैस्तस्या वात्सल्यैकस्वरूपिभिः । लाल्यमानो हरिस्तत्र वधते चन्द्रमा इव ॥ १,५.४४४ ॥ अथ भाद्रपदाष्टम्यामसितायां महानिशि । तस्या हृदस्तिरोभूयः कारायां सूतिसद्मनि । देवकीशयने तत्र कृष्णः प्रादुर्भवत्यसौ ॥ १,५.४४५ ॥ जनयित्रीप्रभृतिभिस्ताभिरित्यवगम्यते । लौकिकेन प्रकारेण सुखं शिशुरजायत ॥ १,५.४४६ ॥ अयं चतुर्भुजत्वेऽपि द्विभुजत्वेऽपि कृष्णताम् । न त्यजत्येव तद्भावगुणरूपात्मवृत्तितः ॥ १,५.४४७ ॥ तथापि द्विभुजत्वस्य कृष्णे प्राधान्यमुच्यते । गूढत्वादेव च क्वापि गौणत्वमिव कीर्त्यते । गूढं परं ब्रह्म मनुष्यलिङ्गमिति हि प्रथा ॥ १,५.४४८ ॥ अथ व्रजेश्वरीगेहे विशन्नानकदुम्दुभिः । तत्र न्यस्य सुतं तस्याः सुतामादाय निःसरेत् ॥ १,५.४४९ ॥ सोऽयं नित्यसुतत्वेन तस्या राजयनादितः । कृष्णः प्रकटलीलायां तद्द्वारेणाप्यभूत्तथा ॥ १,५.४५० ॥ अथ प्रकटतां लब्धे व्रजेन्द्रविहिते महे । तत्र प्रकटयत्येष लीला बाल्यादिका क्रमात् । करोति याः प्रकाशेषु कोटिशोऽप्रकटेष्वपि ॥ १,५.४५१ ॥ प्रेष्ठानन्दैर्व्रजे तैस्तैरात्मनोऽपि विमोहनैः । लीलोल्लासैर्विलसति श्रीलीलापुरुषोत्तमः ॥ १,५.४५२ ॥ असमोर्धेन भगवान् वात्सल्येन व्रजेशयोः । सुतत्वेनैव स तयोरात्मानं वेत्ति सर्वदा ॥ १,५.४५३ ॥ केचिद्भागवताः प्राहुरेवमत्र पुरातनाः । व्यूहः प्रादुर्भवेदाद्यो गृहेष्वानकदुन्दुभेः । गोष्ठे तु मायया सार्धं श्रीलीलापुरुषोत्तमः ॥ १,५.४५४ ॥ गत्वा यदुवरो गोष्ठं तत्र सूतीगृहं विशन् । कन्यामेव परं वीक्ष्य तामादायाव्रजत्पुरम् । प्राविशद्वासुदेवस्तु श्रीलीलापुरुषोत्तमम् ॥ १,५.४५५ ॥ एतच्चातिरहस्यत्वात्नोक्तं तत्र कथाक्रमे । किन्तु क्वचित्प्रसङ्गेन सूच्यते श्रीशुकादिभिः ॥ १,५.४५६ ॥ यथा श्रीदशमे (१०.५.१) नन्दस्त्वात्मज उत्पन्ने जाताह्लादो महामनाः ॥ १,५.४५७ ॥ यथा तत्रैव (१०.६.४३) नन्दः स्वपुत्रमादाय प्रेत्यागतमुदारधीः ॥ १,५.४५८ ॥ तथा च (१०.९.२१) नायं सुखापो भगवान् देहिनां गोपिकासुतः ॥ १,५.४५९ ॥ तथा च तत्र श्रीब्रह्मस्तवे (१०.१४.१) वन्यस्रजे कवलवेत्रविषाणवेणु लक्ष्मश्रिये मृदुपदे पशुपाङ्गजाय ॥ १,५.४६० ॥ तथा श्रीयामलवचनं समुदाहरन्ति कृष्णोऽन्यो यदुसम्भूतो यः पूर्णः सोऽस्त्यतः परम् । वृन्दावनं परित्यज्य स क्वचित्नैव गच्छति ॥ १,५.४६१ ॥ द्विभुजं सर्वदा सोऽत्र न कदाचित्चतुर्भुजः । गोप्यैकया युतस्तत्र परिक्रीडति नित्यदा ॥ १,५.४६२ ॥ इति । अथ प्रकटरूपेण कृष्णो यदुपुरीं व्रजेत् । व्रजेशजत्वमाच्छाद्य स्वां व्यञ्जन् वासुदेवताम् । यो वासुदेवो द्विभुजस्तथा भाति चतुर्भुजः ॥ १,५.४६३ ॥ स्ववचः, यथा श्रीदशमे (१०.३९.३५) तास्तथा तप्यतीर्वीक्ष्य स्वप्रस्थाने यदूत्तमः । सान्त्वयामास सप्रेमैरायास्य इति द्यौतकैः ॥ १,५.४७४ ॥ तथा (१०.४५.२३) यात यूयं व्रजं तात वयं च स्नेहदुःखितान् । ज्ञातीन् वो द्रष्टुमेष्यामो विधाय सुहृदां सुखम् ॥ १,५.४७५ ॥ इति । निइजप्रियतमस्यापि वचसा यदुमन्त्रिणः । एतदे एव वचः स्वीयं पुनस्तनोज्ज्वलीकृतम् ॥ १,५.४७६ ॥ यथा तत्रैव (१०.४६.३५) हत्वा कंसं रङ्गमध्ये प्रतीपं सर्वसात्वताम् । यदाह वः समागत्य कृष्णः सत्यं करोति तत् ॥ १,५.४७७ ॥ यथा श्रीप्रथमे (१.११.९) यर्ह्यम्बुजाक्षापससार भो भवान् कुरून्मधून् वाथ सुहृद्दिदृक्षया । तत्राब्दकोटिप्रतिमः क्षणो भवेद् रविं विनाक्ष्णोरिव नस्तवाच्युत ॥ १,५.४७९ ॥ अत्र कारिके भो अम्बुजाक्ष सुहृदां नन्दादीनां दिदृक्षया । भवानपससारास्मानपहाय गतो मधून् । मथुरामिति विस्पष्टं मथुरामण्डले व्रजम् । तदानीं सुहृदां तत्र मधुपुर्यामभावतः ॥ १,५.४८० ॥ किं च रथेन मथुरां गत्वा दन्तवक्रं निहत्य च स्पष्टं पाद्मे पुराणेऽस्य कृष्णस्योक्ता व्रजागतिः ॥ १,५.४८१ ॥ तद्गद्यं पद्यं च यथा (ড়द्मড়् ६.२७९.२४२६) कृष्णोऽपि तं हत्वा यमुनामुत्तीर्य नन्दव्रजं गत्वा सोत्कण्ठौ पितराव् अभिवाद्याश्वास्य ताभ्यां साश्रुसेकमालिङ्गितः सकलगोपवृद्धान् प्रणम्य् आश्वास्य बहुरत्नवज्राभरणादिभिस्तत्रस्थान् सर्वान् सन्तरायामास ॥ १,५.४८२ ॥ कालिन्द्याः पुलिने रम्ये पुण्यवृक्षसमाचिते । गोपनारीभिरनिशं क्रीडयामास केशवः ॥ रम्यकेलिसुखेनैव गोपवेशधरः प्रभुः । बहुप्रेमरसेनात्र मासद्वयमुवास ह ॥ इति ॥ १,५.४८३ ॥ अत्र कारिकाः यदुत्तीर्येत्युत्तरणं तद्आप्लवनमुच्यते । दुष्टं हत्वा व्रजे यानं स्नानपूर्वमिहोचितम् ॥ १,५.४८४ ॥ अतः प्रकटलीलायामप्ययोगोऽल्प एव हि । इति धामत्रये कृष्णो विहरत्येव सर्वदा ॥ १,५.४८५ ॥ व्रजागमनकाले च पाद्मोक्तेऽन्यच्च वर्तते ॥ १,५.४८६ ॥ यथा (ড়द्मড়् ६.२७९.२७) अथ तत्रस्था नन्दगोपादयः सर्वे जनाः पुत्रदारादिसहिताः पशुपक्षिमृगादयश्च वासुदेवप्रसादेन दिव्यरूपधरा विमानमारूढाः परमं वैकुण्ठलोकमवापुः ॥ इति ॥ १,५.४८७ ॥ अत्र कारिके व्रजेशादेरंशभूता ये द्रोणाद्या अवातरन् । कृष्णस्तानेव वैकुण्ठे प्राहिणोदिति साम्प्रतम् ॥ १,५.४८८ ॥ प्रेष्ठेभ्योऽपि प्रिअयतमैर्जनैर्गोकुलवासिभिः । वृन्दारण्ये सदैवासौ विहारं कुरुते हरिः ॥ १,५.४८९ ॥ स्कान्दायोध्यामहिमनि सौमित्रेः श्रूयते यथा ॥ १,५.४९० ॥ तथा हि ततः शेषात्मतां यातं लक्ष्मणं सत्यसङ्गरम् । उवाच मधुरं शक्रः सर्वस्वं च स पश्यतः ॥ १,५.४९१ ॥ इन्द्र उवाच लक्ष्मणोत्तिष्ठ शीघ्रं त्वमारोहस्व पदं स्वकम् । देवकार्यं कृतं वीर त्वया रिपुनिसूदन । वैष्णवं परमं स्थानं प्राप्नुहि स्वं सनातनम् । भवन्मूर्तिः समायाता शेषोऽपि विलसत्फणः ॥ १,५.४९२ ॥ ततश्च इत्युक्त्वा सुरराजेन्द्रो लक्ष्मणं सुरसङ्गतः । शेषं प्रस्थाप्य पाताले भूभारधरणक्षमम् । लक्ष्मणं यानमारोप्य प्रतस्थे दिवमादरात् ॥ १,५.४९३ ॥ इति । लीलां चाप्रकटां तत्र द्वारवत्यां चिकीर्षुणा । स्वयं प्रकाश्यते तेन मुनिशापादिकैतवम् ॥ १,५.४९४ ॥ देवाद्य्अंशावतरणे ये तु वृष्णिष्ववातरन् । क्षीराब्धिशायिरूपस्तैः सार्धं स्वपदमाप्नुयात् ॥ १,५.४९५ ॥ नित्यलीलापरिकरा ये स्युर्यदुवरादयः । तैः सार्धं भगवान् कृष्णो द्वार्वत्यामेव दीव्यति ॥ १,५.४९६ ॥ धामास्य द्विविधं प्रोक्तं माथुरं द्वार्वती तथा । माथुरं च द्विधा प्राहुर्गोकुलं पुरमेव च ॥ १,५.४९७ ॥ यत्तु गोलोकनाम स्यात्तच्च गोकुलवैभवम् । स गोलोको यथा ब्रह्मसंहितायामिह श्रुतः ॥ १,५.४९८ ॥ गोलोकनाम्नि निजधाम्नि तले च तस्य देवि महेशहरिधामसु तेषु तेषु । ते ते प्रभावनिचया विहिताश्च येन गोविन्दमादिपुरुषं तमहं भजामि ॥ १,५.४९९ ॥ [Bरह्मष्५.४३] तथा चाग्रे (Bरह्मष्५.५६) श्रियः कान्ताः कान्तः परमपुरुषः कल्पतरवो द्रुमा भूमिश्चिन्तामणिगणमयि तोयममृतम् । कथा गानं नाट्यं गमनमपि वंशी प्रियसखि चिद्आनन्दं ज्योतिः परमपि तदास्वाद्यमपि च ॥ १,५.५०० ॥ स यत्र क्षीराब्धिः स्रवति सुरभीभ्यश्च सुमहान् निमेषार्धाख्यो वा व्रजति न हि यत्रापि समयः । भजे श्वेतद्वीपं तमहमिह गोलोकमिति यं विदन्तस्ते सन्तः क्षितिविरलचाराः कतिपये ॥ १,५.५०१ ॥ इति । तद्आत्मवैभवत्वं च तस्य तन्महिमोन्नतेः ॥ १,५.५०२ ॥ यथा पातालखण्डे अहो मधुपुरी धन्या वैकुण्ठाच्च गरीयसी । दिनमेकं निवासेन हरौ भक्तिः प्रजायते ॥ १,५.५०३ ॥ अयोध्या मथुरा माया काशी काञ्ची अवन्तिका । पुरी द्वारवती चैव सप्तैता मोक्षदायिकाः ॥ १,५.५०४ ॥ एवं सप्तपुरीणां तु सर्वोत्कृष्टं तु माथुरम् । श्रूयतां महिमा देवि वैकुण्ठभुवनोत्तमः ॥ १,५.५०५ ॥ इति । नित्यलीलास्पदत्वं च पूर्वमेव प्रदर्शितम् । अतेवास्य पाद्मे च श्रूयते नित्यरूपता ॥ १,५.५०६ ॥ नित्यां मे मथुरां विद्धि वनं वृन्दावनं तथा यमुनां गोपकन्याश्च तथा गोपालबालकान् ॥ १,५.५०७ ॥ इति । स तु मथुराभूरूपः परिच्छन्नोऽप्यथाद्भुतः । स्फारः सङ्कुचितश्च स्यात्कृष्णलीलानुसारतः ॥ १,५.५०८ ॥ अत्रैवाजाण्डमालापि पर्याप्तिमुपगच्छति । वृन्दावनप्रतीकेऽपि यानुभूतैव वेधसा ॥ १,५.५०९ ॥ इत्यतो रासलीलायां पुलिने तत्र यामुने । प्रदआशतकोट्योऽपि ममूर्यत्तत्किमद्भुतम् ॥ १,५.५१० ॥ स्वैः स्वैर्लीलापरिकरैर्जनैर्दृश्यानि नापरैः । तत्तल्लीलाद्य्अवसरे प्रादुर्भावोचितानि हि ॥ १,५.५११ ॥ आश्चर्यमेकदैकत्र वर्तमानान्यपि ध्रुवम् । परम्परमसंपृक्तस्वरूपाण्येव सर्वथा ॥ १,५.५१२ ॥ कृष्णबाल्यादिलीलाभिर्भूषितानि समन्ततः । शैलगोष्ठवनादीनां सन्ति रूपाण्यनेकशः ॥ १,५.५१३ ॥ लीलाढ्योऽपि प्रदेशोऽस्य कदाचित्किल कैश्चन । शून्य एवेक्षते दृष्टियोग्यैरप्यपरैरपि ॥ १,५.५१४ ॥ अतः प्रभोः प्रियाणां च धाम्नश्च समयस्य च । अविचिन्त्यप्रभावत्वादत्र किं च न दुर्घटम् ॥ १,५.५१५ ॥ एवमेव द्वारकायां ज्ञेयं सर्वं विचक्षणैः ॥ १,५.५१६ ॥ यथैकादशान्ते (११.३१.२३२४) द्वारकां हरिणा त्यक्तां समुद्रोऽप्लावयत्क्षणात् । वर्जयित्वा महाराज श्रीमद्भगवद्आलयम् ॥ स्मृत्याशेषाशुभहरं सर्वमङ्गलमङ्गलम् । नित्यं सन्निहितस्तत्र भगवान्मधुसूदनः ॥ १,५.५१७ ॥ इति । अथान्यद्वैभवं तस्य व्यक्तं श्रीनारदेक्षया । यत्रैकत्रैकदा नानारूपावसरचित्रता ॥ १,५.५१८ ॥ तथा च सम्मोहनतन्त्रे सन्ति तस्य महाभागा अवताराः सहस्रशः । तेषां मध्येऽवताराणां बालत्वमतिदुर्लभम् ॥ १,५.५२१ ॥ इति । अत्र कारिका त्रिधा भवेद्वयो बाल्यं यौवनं वृद्धतेत्यपि । वर्षादाषोडशाद्बाल्यमिति लोके महान्तरम् ॥ १,५.५२२ ॥ तथा च ब्रह्माण्डे सन्ति भूरीणि रूपाणि मम पूर्णानि षड्गुणैः । भवेयुस्तानि तुल्यानि न मया गोपरूपिणा ॥ १,५.५२३ ॥ इति । इत्यत्रैव महामन्त्राः महामाहात्म्यमण्डिताः । दशार्णाष्टादशार्णाद्या बहुतन्त्रेषु कीर्तिताः ॥ १,५.५२४ ॥ सर्वप्रमाणतः श्रेष्ठा तथा गोपालतापनी । स्वयमादौ विधात्रे या प्रोक्ता गोपालरूपिणा ॥ १,५.५२५ ॥ चतुर्धा माधुरी तस्य व्रज एव विराजते । ऐश्वर्यक्रीडयोर्वेणोस्तथा श्रीविग्रहस्य च ॥ १,५.५२६ ॥ तत्र ऐश्वर्यस्य कुत्राप्यश्रुतपूर्वेण मधुरैश्वर्यराशिना । सेव्यमानो हरिस्तत्र विहारं कुरुते व्रजे ॥ १,५.५२७ ॥ यत्र पद्मजरुद्रआद्यैः स्तूयमानोऽपि साध्वसात् । दृग्अन्तपातमप्येषु कुरुते न तु केशवः ॥ १,५.५२८ ॥ यथा श्रीब्रह्माण्डे श्रीनारदवाक्यम् ये दैत्या दुःशकं हन्तुं चक्रेणापि रथाङ्गिना । ते त्वया निहताः कृष्ण नव्यया बाल्यलीलया ॥ सार्धं मित्रैर्हरे क्रीडन् भ्रूभङ्गं कुरुषे यदि । सशङ्का ब्रह्मरुद्राद्याः कम्पते खस्थितास्तदा ॥ १,५.५२९ ॥ इति । यथा श्रीदशमे (१०.३५.१४) विविधगोपचरणेषु विदग्धो वेणुवाद्य उरुधा निजशिक्षाः । तव सुतः सति यदाधरबिम्बे दत्तवेणुरनयत्स्वरजातीः ॥ १,५.५३० ॥ क्रीडायाः, यथा पाद्मे चरितं कृष्णदेवस्य सर्वमेवाद्भुतं भवेत् । गोपाललीला तत्रापि सर्वतोऽतिमनोहरा ॥ १,५.५३१ ॥ श्रीबृहद्वामने सन्ति यद्यपि मे प्राज्या लीलास्तास्ता मनोहराः । न हि जाने स्मृते रासे मनो मे कीदृशं भवेत् ॥ १,५.५३२ ॥ इति । वेणोः यथा यावती निखिले लोके नादानामस्ति माधुरी । तावती वंशिकानादपरमानौ निमज्जति चरस्थावरयोः सान्द्रपरमानन्दमग्नयोः । भवेद्धर्मविपर्यासो यस्मिन् ध्वनति मोहने ॥ १,५.५३३ ॥ मोहनः कोऽपि मन्त्रो वा पदार्थो वाद्भुतः परः । श्रुतिपेयोऽयमित्युक्त्वा यत्रामुह्यन् शिवादयः ॥ १,५.५३४ ॥ सवनशस्तद्उपधार्य सुरेशाः शक्रशर्वपरमेष्ठिपुरोगाः । कवय आनतकन्धरचित्ताः कश्मलं ययुरनिश्चिततत्त्वाः ॥ १,५.५३६ ॥ इति । (भागवतम् १०.३५.१५) एकविंशे तथा पञ्चत्रिंशे चाध्याय ईडिता । माधुरी व्रजदेवीभिर्वेणोरेव महाद्भुता ॥ १,५.५३७ ॥ श्रीविग्रहस्य, यथा असमानोर्धमाधुर्यतरङ्गामृतवारिधिः । जङ्गमस्थावरोल्लासिरूपो गोपेन्द्रनन्दनः ॥ १,५.५३८ ॥ यथा तन्त्रे कन्दर्पकोट्य्अर्बुदरूपशोभा नीराज्यपादाब्जनखाञ्चलस्य । कुत्राप्यदृष्टश्रुतरम्यकान्तेर् ध्यानं परं नन्दसुतस्य वक्ष्ये ॥ १,५.५३९ ॥ श्रीदशमे च (१०.२९.४०) का स्त्र्यङ्ग ते कलपदायतमूर्च्छितेन सम्मोहिताऽर्यपदवीं न चलेत्त्रिलोक्याम् । त्रैलोक्यसौभगमिदं च निरीक्ष्य रूपं यद्गोद्विजद्रुममृगान् पुलकान्यबिभ्रत् ॥ १,५.५४० ॥ इति श्रीरूपगोस्वामिपादकृते श्रीलघुभागवतामृते श्रीकृष्णामृतनाम पूर्वखण्डं समाप्तम् ॥ *********************************************************** *********************************************************** ळघुभागवतामृत ऊत्तरखण्डम् ओं नमः श्रीकृष्णरसरसिकेभ्यः अथ श्रीभक्तामृतम् आराधनं मुकुन्दस्य भवेदावश्यकं यथा । तथा तदीयभक्तानां नो चेद्दोषोऽस्ति दुस्तरः ॥ २,१.१ ॥ तथा हि पाद्मे मार्कण्डेयोऽम्बरीषस्य वसुर्व्यासो विभीषणः । पुण्डरीको बलिः शम्भुः प्रह्लादो विदुरो ध्रुवः ॥ दाल्भ्यः पराशरो भीष्मो नारदाद्याश्च वैष्णवैः । सेव्या हरिं निषेव्यामी नो चेदागः परं भवेत् ॥ २,१.२ ॥ तथा च हरिभक्तिसुधोदये (१६.७६) अर्चयित्वा तु गोविन्दं तदीयान्नार्चयन्ति ये । न ते विष्णोः प्रसादस्य भाजनं दाम्भिका जनाः ॥ २,१.३ ॥ पाद्मोत्तरखण्डे आराधनानां सर्वेषां विष्णोराराधनं परम् । तस्मात्परतरं देवि तदीयानां समर्चनम् ॥ २,१.४ ॥ तत्रैव च अर्चयित्वा तु गोविन्दं तदीयान्नार्चयेत्तु यः । न स भागवतो ज्ञेयः केवलं दाम्भिकः स्मृतः ॥ २,१.५ ॥ इति । आदिपुराणे मम भक्ता हि ये पार्थ न मे भक्तास्तु ते मताः । मद्भक्तस्य तु ये भक्तास्ते मे युक्ततमा मताः ॥ २,१.६ ॥ श्रीमद्भागवते च (११.१९.२१) मद्भक्तपूजाभ्यधिका । इति ॥ २,१.७ ॥ एतेषामपि सर्वेषां प्रह्लादः प्रवरो मतः । सर्वेषु हरिभक्तेषु प्रह्लादो हि महत्तमः ॥ २,१.८ ॥ यथा स्कान्दे श्रीरुद्रवाक्यम् भक्त एव हि तत्त्वेन कृष्णं जानाति न त्वहम् । सर्वेषु हरिभक्तेषु प्रह्लादोऽतिमहत्तमः ॥ २,१.९ ॥ श्रीसप्तमस्कन्धे श्रीप्रह्लादस्यैव वाक्यम् (७.९.२६) क्वाहं रजःप्रभव ईश तमोऽधिकेऽस्मिन् जातः सुरेतरकुले क्व तवानुकम्पा । न ब्रह्मणो न तु भवस्य न वै रमाया यन्मेऽर्पितः शिरसि पद्मकरः प्रसादः ॥ २,१.१० ॥ तत्रैव श्रीनृसिंहवाक्यम् (७.१०.२१) भवन्ति पुरुषा लोके मद्भक्तास्त्वामनुव्रताः । भवान्मे खलु भक्तानां सर्वेषां प्रतिरूपधृक् ॥ २,१.११ ॥ पाण्डवाः सर्वतः श्रेष्ठाः प्रह्लादादीदृशादपि । श्रीभागवतमेवात्र प्रमाणं स्फुटमीक्ष्यते ॥ २,१.१२ ॥ तथा हि श्रीसप्तमस्कन्धे श्रीनारदवाक्यं (७.१०.४८५०, ७.१५.७५७७) यूयं नृलोके बत भूरिभागा लोकं पुनाना मुनयोऽभियन्ति । येषां गृहानावसतीति साक्षाद् गूढं परं ब्रह्म मनुष्यलिङ्गम् ॥ २,१.१३ ॥ स वा अयं ब्रह्म महद्विमृग्य कैवल्यनिर्वाणसुखानुभूतिः । प्रियः सुहृद्वः खलु मातुलेय आत्मार्हणीयो विधिकृद्गुरुश्च ॥ २,१.१४ ॥ न यस्य साक्षाद्भवपद्मजादिभी रूपं धिया वस्तुतयोपवर्णितम् । मौनेन भक्त्योपशमेन पूजितः प्रसीदतामेष स सात्वतां पतिः ॥ २,१.१५ ॥ इति । व्याख्यातं च श्रीस्वामिपादैः अहो प्रह्लादस्य भाग्यं येन देवो दृष्टः । वयं तु मन्दभाग्याः इति विषीदन्तं राजानं प्रत्याह यूयमिति त्रिभिः ॥ २,१.१६ ॥ न तु प्रह्लादस्य गृहे परं ब्रह्म वसति, न च तद्दर्शनार्थं मुनयस् तद्गृहानभियन्ति । न च तस्य ब्रह्म मातुलेयादिरूपेआ वर्तते । न च स्वयम् एव प्रसन्नम् । अतो यूयमेव ततोऽप्यस्मत्तोऽपि भूरिभागाः इति भावः ॥ २,१.१७ ॥ सदातिसन्निकृष्टत्वात्ममताधिक्यतो हरेः । पाण्डवेभ्योऽपि यदवः केचित्श्रेष्ठतमा मताः ॥ २,१.१८ ॥ तथा हि श्रीदशमे (१०.८२.२८,३०) अहो भोजपते यूयं जन्मभाजो नॄणामिह । यत्पश्यथासकृत्कृष्णं दुर्दर्शमपि योगिनाम् ॥ २,१.१९ ॥ तद्दर्शनस्पर्शनानुपथप्रजल्प शय्यासनाशनसयौनसपिण्डबन्धः । येषां गृहे निरयवर्त्मनि वर्ततां वः स्वर्गापवर्गविरमः स्वयमास विष्टुः ॥ २,१.२० ॥ तथा (१०.९०.४६) शय्यासनाटनालापक्रीडास्नानाशनादिषु । न विदुः सन्तमात्मानं वृष्णयः कृष्णचेतसः ॥ २,१.२१ ॥ यदुभ्योऽपि वरिष्ठोऽसौ सर्वेभ्यः श्रीमद्उद्धवः । श्रीमद्भागवते यस्य श्रूयते महिमाद्भुतः ॥ २,१.२२ ॥ तथा हि एकादशे श्रीमद्भगवद्वाक्यम् ((ष्B ११.१४.१५) न तथा मे प्रियतम आत्मयोनिर्न शङ्करः न च सङ्कर्षणो न श्रीर्नैवात्मा च यथा भवान् ॥ २,१.२३ ॥ तथा (११.१६.२९) त्वं तु भागवतेष्वहम् ॥ २,१.२४ ॥ इति । आबाल्यादेव गोविन्दे भक्तिरस्याखिलोत्तमा ॥ २,१.२५ ॥ तथा च श्रीतृतीये (३.२.२) यः पञ्चहायनो मात्रा प्रातर्आशाय याचितः । तन्नैच्छद्रचयन् यस्य सपर्यां बाललीलया ॥ २,१.२६ ॥ अतएव तत्रैव श्रीभगवद्वचनम् (३.४.३१) नोद्धवोऽण्वपि मन्न्यूनो यद्गुणैर्नार्दितः प्रभुः ॥ २,१.२७ ॥ इति । अस्यार्थः । यद्गुणैः यस्य उद्धवस्य गुणैः, प्रभुरप्यहं न अर्दितः । न याचितः । यद्वा यत्यस्मात् । उद्धवः गुणैः सत्त्वादिभिः । न अर्दितः न पीडितः । गुणातीत इत्यर्थः । तत्र हेतुः प्रभुः भक्तिरसांवादे प्रभविष्णुः ॥ २,१.२८ ॥ व्रजदेव्यो वरीयस्य ईदृशादुद्धवादपि । यदासां प्रेममाधुर्यं स एषोऽप्यभियाचते ॥ २,१.२९ ॥ तथा हि श्रीदशमे (१०.४७.५८) एताः परं तनुभृतो भुवि गोपवध्वो गोविन्द एवमखिलात्मनि रूढभावाः । वाञ्छन्ति यद्भवभियो मुनयो वयं च किं ब्रह्मजन्मभिरनन्तकथारसस्य ॥ २,१.३० ॥ श्रीबृहद्वामने च भृग्व्आदीन् प्रति श्रीब्रह्मवाक्यम् षष्ठिवर्षसहस्राणि मया तप्तं तपः पुरा । नन्दगोपव्रजस्त्रीणां पादरेणूपलब्धये । तथापि न मया प्राप्तास्तासां वै पादरेणवः ॥ २,१.३१ ॥ भृग्व्आदिवाक्यम् वैष्णवानां पादरजो गृह्यते त्वद्विधैरपि । सन्ति ते बहवो लोके वैष्णवा नारदादयः ॥ तेषां विहाय गोपीनां पादरेणुस्त्वयापि यत् । गृह्यते संशयो मेऽत्र को हेतुस्तद्वत्प्रभो ॥ २,१.३२ ॥ श्रीब्रह्मवाक्यम् न स्त्रियो व्रजसुन्दर्यः पुत्र श्रेष्ठाः श्रियोऽपि ताः । नाहं शिवश्च शेषश्च श्रीश्च ताभिः समाः क्वचित् ॥ २,१.३३ ॥ आदिपुराणे च श्रीमद्अर्जुनवाक्यं त्रैलोक्ये भगवद्भक्ताः के त्वां जानन्ति मर्मणि । केषु वा त्वं सदा तुष्टः केषु प्रेम तवातुलम् ॥ २,१.३४ ॥ श्रीभगवद्वाक्यम् न तथा मे प्रियतमो ब्रह्मारुद्रश्च पार्थिव । न च लक्ष्मीर्न चात्मा च यथा गोपीजनो मम् ॥ २,१.३५ ॥ भक्ता ममानुरक्ताश्च कति सन्ति न भूतले । किन्तु गोपीजनः प्राणाधिकप्रियतमो मम ॥ २,१.३६ ॥ न मां जानन्ति मुनयो योगिनश्च परन्तप । न च रुद्रादयो देवा यथा गोप्यो विदन्ति माम् ॥ २,१.३७ ॥ न तपोभिर्न वेदैश्च नाचारैर्न च विद्यया । वशोऽस्मि केवलं प्रेम्णा प्रेमाणं तत्र गोपिका ॥ २,१.३८ ॥ मन्माहात्म्यं मत्सपर्यां मच्छ्रद्दां मन्मनोगतम् । जानन्ति गोपिकाः पार्थ नान्ये जानन्ति मर्मणि ॥ २,१.३९ ॥ निजाङ्गमपि या गोप्यो ममेति समुपासते । ताभ्यः परं न मे पार्थ निगूढप्रेमभाजनम् ॥ २,१.४० ॥ इति ॥ न चित्रं प्रेममाधुर्यमासां वाञ्छेद्यदुद्धवः । पादरेणूक्षितं येन तृणजन्मापि याचते ॥ २,१.४१ ॥ तथा हि श्रीदशमे (भागवतम् १०.४७.६१) आसामहो चरणरेणुजुषामहं स्याम् वृन्दावने किमपि गुल्मलतौषधीनाम् । या दुस्त्यजं स्वजनमार्यपथं च हित्वा भेजुर्मुकुन्दपदवीं श्रुतिभिर्विमृग्याम् ॥ २,१.४२ ॥ इति कृष्णं निषेव्याग्रे कृष्णस्योपासकैर्जनैः । सेव्याः प्रसादपुष्पाद्यैरवश्यं व्रजसुभ्रुवः ॥ २,१.४३ ॥ तत्रापि सर्वगोपीनां राधिकातिवरीयसी । सर्वाधिक्येन कथिता यत्पुराणागमादिषु ॥ २,१.४४ ॥ यथा पाद्मे यथा राधा प्रिया विष्णोस्तस्याः कुण्डं प्रियं तथा । सर्वगोपीषु सैवैका विष्णोरत्यन्तवल्लभा ॥ २,१.४५ ॥ आदिपुराणे च त्रैलोक्ये पृथिवी धन्या यत्र वृन्दावनं पुरी । तत्रापि गोपिकाः पार्थ तत्र राधाभिधा मम ॥ २,१.४६ ॥ इति श्रीलघुभागवतामृते श्रीभक्तामृतं नामोत्तरखण्डं समाप्तम् । इति श्रीलघुभागवतामृतं सम्पूर्णम् ।