श्रीश्रीभक्तिरसामृतसिन्धुः [१] भगवद्भक्तिभेदनिरूपकः पूर्वविभागः [१.१] सामान्यभक्तिः प्रथमलहरी श्रीश्रीराधागोविन्ददेवौ विजयेते अखिलरसामृतमूर्तिः प्रसृमररुचिरुद्धतारकापालिः । कलितश्यामाललितो राधाप्रेयान् विधुर्जयति ॥ ऋBह्र्स्_१,१.१ ॥ हृदि यस्य प्रेरणया प्रवर्तितोऽहं वराकरूपोऽपि । तस्य हरेः पदकमलं वन्दे चैतन्यदेवस्य ॥ ऋBह्र्स्_१,१.२ ॥ विश्राममन्दिरत्या तस्य सनातनतनोर्मद्ईशस्य । भक्तिरसामृतसिन्धुर्भवतु सदायं प्रमोदाय ॥ ऋBह्र्स्_१,१.३ ॥ भक्तिरसामृतसिन्धौ चरतः परिभूतकालजालभियः । भक्तमकरानशीलितमुक्तिनदीकान्नमसामि ॥ ऋBह्र्स्_१,१.४ ॥ मीमांसकबडवाग्नेः कठिनामपि कुण्ठयन्नसौ । स्फुरतु सनातन सुचिरं तव भक्तिरसामृताम्भोधिः ॥ ऋBह्र्स्_१,१.५ ॥ भक्तिरसस्य प्रस्तुतिरखिलजगङ्मङ्गलप्रसङ्गस्य । अज्ञेनापि मयास्य क्रियते सुहृदां प्रमोदाय ॥ ऋBह्र्स्_१,१.६ ॥ एतस्य भगवद्भक्तिरसामृतपयोनिधेः । चत्वारह्खलु वक्ष्यन्ते भागाः पूर्वादयः क्रमात् ॥ ऋBह्र्स्_१,१.७ ॥ तत्र पूर्वे विभागेऽस्मिन् भक्तिभेदनिरूपके । अनुक्रमेण वक्तव्यं लहरीणां चतुष्टयम् ॥ ऋBह्र्स्_१,१.८ ॥ आद्या सामान्यभक्त्य्आढ्या द्वितीया साधनान्विता । भावाश्रिता तृतीया च तुर्या प्रेमनिरूपिका ॥ ऋBह्र्स्_१,१.९ ॥ तत्रादौ सुष्ठु वैशिष्ट्यमस्याः कथयितुं स्फुटम् । लक्षणं क्रियते भक्तेरुत्तमायाः सतां मतम् ॥ ऋBह्र्स्_१,१.१० ॥ अन्याभिलाषिताशून्यं ज्ञानकर्माद्य्अनावृतम् । आनुकूल्येन कृष्णानुशीलनं भक्तिरुत्तमा ॥ ऋBह्र्स्_१,१.११ ॥ यथा श्रीनारदपञ्चरात्रे सर्वोपाधिविनिर्मुक्तं तत्परत्वेन निर्मलम् । हृषीकेण हृषीकेशसेवनं भक्तिरुच्यते ॥ ऋBह्र्स्_१,१.१२ ॥ श्रीभागवतस्य तृतीयस्कन्धे च (३.२९.१११३) अहैतुक्यव्यवहिता या भक्तिः पुरुषोत्तमे ॥ ऋBह्र्स्_१,१.१३ ॥ सालोक्यसार्ष्टिसामीप्यसारूप्यैकत्वमप्युत । दीयमानं न गृह्णन्ति विना मत्सेवनं जनाः ॥ ऋBह्र्स्_१,१.१४ ॥ स एव भक्तियोगाख्य आत्यन्तिक उदाहृतः ॥ ऋBह्र्स्_१,१.१५ ॥ सालोक्येत्यादिपद्यस्थभक्तोत्कर्षणिरूपणम् । भक्तेर्विशुद्धताव्यक्त्या लक्षणे पर्यवस्यति ॥ ऋBह्र्स्_१,१.१६ ॥ क्लेशघ्नी शुभदा मोक्षलघुताकृत्सुदुर्लभा । सान्द्रानन्दविशेषात्मा श्रीकृष्णाकर्षिणी च सा ॥ ऋBह्र्स्_१,१.१७ ॥ तत्रास्याः क्लेशघ्नत्वम् क्लेशास्तु पापं तद्बीजमविद्या चेति ते त्रिधा ॥ ऋBह्र्स्_१,१.१८ ॥ तत्र पापम् अप्रारब्धं भवेत्पापं प्रारब्धं चेति तद्द्विधा ॥ ऋBह्र्स्_१,१.१९ ॥ तत्र अप्रारब्धहरत्वम्, यथा एकडशे (११.१४.१९) यथाग्निः सुसमिद्धार्चिः करोत्येधांसि भस्मसात् । तथा मद्विषयाभक्तिरुद्धवैनांसि कृत्स्नशः ॥ ऋBह्र्स्_१,१.२० ॥ प्रारब्धहरत्वम्, यथा तृतीये (३.३३.६) यन्नामधेयश्रवणानुकीर्तनाद् यत्प्रह्वणद्यत्स्मरणादपि क्वचित् । श्वादोऽपि सद्यः सवनाय कल्पते कुतः पुनस्ते भगवन्नु दर्शनात् ॥ ऋBह्र्स्_१,१.२१ ॥ दुर्जातिरेव सवनायोग्यत्वे कारणं मतम् । दुर्जात्य्आरम्भकं पापं यत्स्यात्प्रारब्धमेव तत् ॥ ऋBह्र्स्_१,१.२२ ॥ पद्मपुराने च अप्रारब्धफलं पापं कूटं बीजं फलोन्मुखम् । क्रमेणैव प्रलीयेत विष्णुभक्तिरतात्मनाम् ॥ ऋBह्र्स्_१,१.२३ ॥ बीजहरत्वम्, यथा षष्ठे (६.२.१७) तैस्तान्यघानि पूयन्ते तपोदानव्रतादिभिः । नाधर्मजं तद्हृदयं तदपीशाङ्घ्रिसेवया ॥ ऋBह्र्स्_१,१.२४ ॥ अविद्याहरत्वम्, यथा चतुर्थे (४.२२.३९) यत्पादपङ्कजपलाशविलासभक्त्या कर्माशयं ग्रथितमुद्ग्रथयन्ति सन्तः । तद्वन्न रिक्तमतयो यतयोऽपि रुद्ध स्रोतोगणास्तमरणं भज वासुदेवम् ॥ ऋBह्र्स्_१,१.२५ ॥ पाद्मे च कृतानुयात्राविद्याभिर्हरिभक्तिरनुत्तमा । अविद्यां निर्दहत्याशु दावज्वालेव पन्नगीम् ॥ ऋBह्र्स्_१,१.२६ ॥ शुभदत्वम् शुभानि प्रीणनं सर्वजगतामनुरक्तता । सद्गुणाः सुखमित्य्आदीन्याख्यातानि मनीषिभिः ॥ ऋBह्र्स्_१,१.२७ ॥ तत्र जगत्प्रीणनादिद्वयप्रदत्वम्, यथा पाद्मे येनार्चितो हरिस्तेन तर्पितानि जगन्त्यपि । रज्यन्ति जन्तवस्तत्र जन्गमाः स्थावरा अपि ॥ ऋBह्र्स्_१,१.२८ ॥ सद्गुणादिप्रदत्वम्, यथा पञ्चमे (५.१८.१२) यस्यास्ति भक्तिर्भगवत्यकिञ्चना सर्वैर्गुणैस्तत्र समासते सुराः । हरावभक्तस्य कुतो महद्गुणा मनोरथेनासति धावतो बहिः ॥ ऋBह्र्स्_१,१.२९ ॥ सुखप्रदत्वम् सुखं वैषयिकं ब्राह्ममैश्वरं चेति तत्त्रिधा ॥ ऋBह्र्स्_१,१.३० ॥ यथा तन्त्रे सिद्धयः परमाश्चर्या भुक्तिर्मुक्तिश्च शाश्वती । नित्यं च परमानन्दो भवेद्गोविन्दभक्तितः ॥ ऋBह्र्स्_१,१.३१ ॥ यथा हरिभक्तिसुधोदये च भूयोऽपि याचे देवेश त्वयि भक्तिर्दृढास्तु मे । या मोक्षान्तचतुर्वर्ग फलदा सुखदा लता ॥ ऋBह्र्स्_१,१.३२ ॥ मोक्षलघुताकृत् मनागेव प्ररूढायां हृदये भगवाद्रतौ । पुरुषार्थास्तु चत्वारास्तृणायन्ते समन्ततः ॥ ऋBह्र्स्_१,१.३३ ॥ यथा श्रीनारदपञ्चरात्रे हरिभक्तिमहादेव्याः सर्वा मुक्त्य्आदिसिद्धयः । भुक्त्यश्चाद्भुतास्तस्याश्चेटिकावदनुव्रताः ॥ ऋBह्र्स्_१,१.३४ ॥ इति । सुदुर्लभा साधनौघैरनासन्गैरलभ्या सुचिरादपि । हरिणा चाश्वदेयेति द्विधा सा स्यात्सुदुर्लभा ॥ ऋBह्र्स्_१,१.३५ ॥ तत्र आद्या, यथा तान्त्रे ज्ञानतः सुलभा मुक्तिर्भुक्तिर्यज्ञादिपुण्यतः । सेयं साधनसाहस्रैर्हरिभक्तिः सुदुर्लभा ॥ ऋBह्र्स्_१,१.३६ ॥ द्वितीया, यथा पञ्चमस्कन्धे (५.६.१८) राजन् पतिर्गुरुरलं भवतां यदूनां दैवं प्रियः कुलपतिः क्व च किङ्करो वः । अस्त्वेवमङ्ग भजतां भगवान्मुकुन्दो मुक्तिं ददाति कर्हिचित्स्म न भक्तियोगम् ॥ ऋBह्र्स्_१,१.३७ ॥ सान्द्रानन्दविशेषात्मा ब्रह्मानन्दो भवेदेष चेत्परार्द्धगुणीकृतः । नैति भक्तिसुखाम्भोधेः परमाणुतुलामपि ॥ ऋBह्र्स्_१,१.३८ ॥ यथा, हरिभक्तिसुधोदये त्वत्साक्षात्करणाह्लादविशुद्धाब्धिस्थितस्य मे । सुखानि गोष्पदायन्ते ब्राह्माण्यपि जगद्गुरो ॥ ऋBह्र्स्_१,१.३९ ॥ तथा भावार्थदीपिकायां (१०.८८.११) च त्वत्कथामृतपाथोधौ विहरन्तो महामुदः । कुर्वन्ति कृतिनः केचित्चतुर्वर्गं तृणोपमम् ॥ ऋBह्र्स्_१,१.४० ॥ श्रीकृष्णाकर्षिणी कृत्वा हरिं प्रेमभाजं प्रियवर्गसमन्वितम् । भक्तिर्वशीकरोतीति श्रीकृष्णाकर्षिणी मता ॥ ऋBह्र्स्_१,१.४१ ॥ यथा एकादशे (११.१४.२०) न साध्यति मां योगो न साङ्ख्यं धर्म उद्धव । न स्वाध्यायस्तपस्त्यागो यथा भक्तिर्ममोर्जिता ॥ ऋBह्र्स्_१,१.४२ ॥ सप्तमे (७.१०.४८) च नारदोक्तौ यूयं नृलोके बत भूरिभागा लोकं पुनाना मुनयोऽभियन्ति । येषां गृहानावसतीति साक्षाद् गुढं परं ब्रह्म मनुष्यलिङ्गम् ॥ ऋBह्र्स्_१,१.४३ ॥ अग्रतो वक्ष्यमाणायास्त्रिधा भक्तेरनुक्रमात् । द्विशः षड्भिः पदैरेतन्माहात्यं परिकीर्तितम् ॥ ऋBह्र्स्_१,१.४४ ॥ किं च स्वल्पापि रुचिरेव स्याद्भक्तितत्त्वावबोधिका । युक्तिस्तु केवला नैव यदस्या अप्रतिष्ठता ॥ ऋBह्र्स्_१,१.४५ ॥ तत्र प्राचीनैरप्युक्तम् यत्नेनापादितोऽप्यर्थः कुशलैरनुमातृभिः । अभियुक्ततरैरन्यैरन्यथैवोपपाद्यते ॥ ऋBह्र्स्_१,१.४६ ॥ इति श्री श्री भक्तिरसामृतसिन्धौ पूर्वभागे भक्तिसामान्य लहरी प्रथमा ___________________________________________________ (१.२) द्वितीया लहरी साधनभक्तिः सा भक्तिः साधनं भावः प्रेमा चेति त्रिधोदिता ॥ ऋBह्र्स्_१,२.१ ॥ तत्र साधनभक्तिः कृतिसाध्या भवेत्साध्यभावा सा साधनाभिधा । नित्यसिद्धस्य भावस्य प्राकट्यं हृदि साध्यता ॥ ऋBह्र्स्_१,२.२ ॥ सा भक्तिः सप्तमस्कन्धे भङ्ग्या देवर्षिणोदिता ॥ ऋBह्र्स्_१,२.३ ॥ यथा सप्तमे (७.१.३१) तस्मात्केनाप्युपायेन मनः कृष्णे निवेशयेत् ॥ ऋBह्र्स्_१,२.४ ॥ इति । वैधी रागानुगा चेति सा द्विधा साधनाभिधा ॥ ऋBह्र्स्_१,२.५ ॥ तत्र वैधी यत्र रागानवाप्तत्वात्प्रवृत्तिरुपजायते । शासनेनैव शास्त्रस्य सा वैधी भक्तिरुच्यते ॥ ऋBह्र्स्_१,२.६ ॥ यथ, द्वितीये (२.१.६) तस्माद्भारत सर्वात्मा भगवानीश्वरो हरिः । श्रोतव्यः कीर्तितव्यश्च स्मर्तव्यश्चेच्छताभयम् ॥ ऋBह्र्स्_१,२.७ ॥ पाद्मे च स्मर्तव्यः सततं विष्णुर्विस्मर्तव्यो न जातुचित् । सर्वे विधिनिषेधाः स्युरेतयोरेव किङ्कराः ॥ ऋBह्र्स्_१,२.८ ॥ इत्यसौ स्याद्विधिर्नित्यः सर्ववर्णाश्रमादिषु । नित्यत्वेऽप्यस्य निर्णीतमेकादश्य्आदिवत्फलम् ॥ ऋBह्र्स्_१,२.९ ॥ यथा, एकादाशे (११.५.२३) तु व्यक्तमेवोक्तम् मुख बाहूरुपादेभ्यः पुरुषस्याश्रमैः सह । चत्वारो जज्ञिरे वर्णा गुणैर्विप्रादयः पृथक् ॥ ऋBह्र्स्_१,२.१० ॥ य एषां पुरुषं साक्षादात्मप्रभवमीश्वरम् । न भजन्त्यवजानन्ति स्थानाद्भ्रष्टाः पतन्त्यधः ॥ ऋBह्र्स्_१,२.११ ॥ तत्फलं च, तत्रैव (११.२७.४९) एवं क्रियायोगपथैः पुमान् वैदिकतान्त्रिकैः । अर्चन्नुभ्यतः सिद्धिं मत्तो विन्दत्यभीप्सिताम् ॥ ऋBह्र्स्_१,२.१२ ॥ पञ्चरात्रे च सुरर्षे विहिता शास्त्रे हरिमुद्दिश्य या क्रिया । सैव भक्तिरिति प्रोक्ता तया भक्तिः परा भवेत् ॥ ऋBह्र्स्_१,२.१३ ॥ तत्र अधिकारी यः केनाप्यतिभाग्येन जातश्रद्धोऽस्य सेवने । नातिसक्तो न वैराग्यभागस्यामधिकार्यसौ ॥ ऋBह्र्स्_१,२.१४ ॥ यथैकादशे (११.२०.२८) यदृच्छया मत्कथादौ जातश्रद्धोऽस्तु यः पुमान् । न निर्विण्णो नातिसक्तो भक्तियोगोऽस्य सिद्धिदः ॥ ऋBह्र्स्_१,२.१५ ॥ उत्तमो मध्यमश्च स्यात्कनिष्ठश्चेति स त्रिधा ॥ ऋBह्र्स्_१,२.१६ ॥ तत्र उत्तमः शास्त्रे युक्तौ च निपुणः सर्वथा दृढनिश्चयः । प्रौढश्रद्धोऽधिकारी यः स भक्तावुत्तमो मतः ॥ ऋBह्र्स्_१,२.१७ ॥ तत्र मध्यमः यः शास्त्रादिष्वनिपुणः श्रद्धावान् स तु मध्यमः ॥ ऋBह्र्स्_१,२.१८ ॥ तत्र कनिष्ठः यो भवेत्कोमलश्रद्धः स कनिष्ठो निगद्यते ॥ ऋBह्र्स्_१,२.१९ ॥ तत्र गीतादिषूक्तानां चतुर्णामधिकारिणाम् । मध्ये यस्मिन् भगवतह्कृपा स्यात्तत्प्रियस्य वा ॥ ऋBह्र्स्_१,२.२० ॥ स क्षीणतत्तद्भावः स्याच्छुद्धभक्त्य्अधिकारवान् । यथेभः शौनकादिश्च ध्रुवः स च चतुःसनः ॥ ऋBह्र्स्_१,२.२१ ॥ भुक्तिमुक्तिस्पृहा यावत्पिशाची हृदि वर्तते । तावद्भक्तिसुखस्यात्र कथमभ्युदयो भवेत् ॥ ऋBह्र्स्_१,२.२२ ॥ तत्रापि च विशेषेण गतिमण्वीमनिच्छतः । भक्तिर्हृतमनःप्राणान् प्रेम्णा तान् कुरुते जनान् ॥ ऋBह्र्स्_१,२.२३ ॥ तथा च, तृतीये (३.२५.३६) तैर्दर्शनीयावयवैरुदार विलासहासेक्षितवामसूक्तैः । हृतात्मनो हृतप्राणांश्च भक्तिर् अनिच्छतो मे गतिमण्वीं प्रयुङ्क्ते ॥ ऋBह्र्स्_१,२.२४ ॥ श्री कृष्णचरणाम्भोजसेवानिर्वृतचेतसाम् । एषां मोक्षाय भक्तानां न कदाचित्स्पृहा भवेत् ॥ ऋBह्र्स्_१,२.२५ ॥ यथा तत्रैव, श्रीमद्उद्धवोक्तौ (३.४.१५) को न्वीश ते पादसरोजभाजां सुदुर्लभोऽर्थेषु चतुर्ष्वपीह । तथापि नाहं प्रवृणोमि भूमन् भवत्पदाम्भोजनिषेवणोत्सुकः ॥ ऋBह्र्स्_१,२.२६ ॥ तत्रैव, श्रीकपिलदेवोक्तौ (३.२५.३५) नैकात्मतां मे स्पृहयन्ति केचिन् मत्पादसेवाभिरता मद्ईहाः । येऽन्योन्यतो भागवताः प्रसज्य सभाजयन्ते मम पौरुषाणि ॥ ऋBह्र्स्_१,२.२७ ॥ तत्रैव (३.२९.१३) सालोक्यसार्ष्टिसामीप्य सारूप्यैकत्वमप्युत । दीयमानं न गृह्णन्ति विना मत्सेवनं जनाः ॥ ऋBह्र्स्_१,२.२८ ॥ चतुर्थे श्रीध्रुवोक्तौ (४.९.१०) या निर्वृतिस्तनुभृतां तव पादपद्म ध्यानाद्भवज्जनकथाश्रवणेन वा स्यात् । सा ब्रह्मणि स्वमहिमन्यपि नाथ मा भूत् किं त्वन्तकासिलुलितात्पततां विमानात् ॥ ऋBह्र्स्_१,२.२९ ॥ तत्रैव श्रीमद्आदिराजोक्तौ (४.२०.२४) न कामये नाथ तदप्यहं क्वचिन् न यत्र युष्मच्चरणाम्बुजासवः । महत्तमान्तर्हृदयान्मुखच्युतो विधत्स्व कर्णायुतमेष मे वरः ॥ ऋBह्र्स्_१,२.३० ॥ पञ्चमे श्रीशुकोक्तौ (५.१४.४४) यो दुस्त्यजान् क्षितिसुतस्वजनार्थदारान् प्रार्थ्यां श्रियं सुरवरैः सदयावलोकाम् । नैच्छन्नृपस्तद्उचितं महतां मधुद्विट् सेवानुरक्तमनसामभवोऽपि फल्गुः ॥ ऋBह्र्स्_१,२.३१ ॥ षष्ठे श्रीवृत्रोक्तौ (६.११.२५) न नाकपृष्ठं न च पारमेष्ठ्यं न सार्वभौमं न रसाधिपत्यम् । न योगसिद्धीरपुनर्भवं वा समञ्जस त्वा विरहय्य काङ्क्षे ॥ ऋBह्र्स्_१,२.३२ ॥ तत्रैव श्रीरुद्रोक्तौ (६.१७.२८) नारायणपराः सर्वे न कुतश्चन बिभ्यति । स्वर्गापवर्गनरकेष्वपि तुल्यार्थदर्शिनः ॥ ऋBह्र्स्_१,२.३३ ॥ तत्रैव इन्द्रोक्तौ (६.१८.७४) आराधनं भगवत ईहमाना निराशिषः । ये तु नेच्छन्त्यपि परं ते स्वार्थकुशलाः स्मृताः ॥ ऋBह्र्स्_१,२.३४ ॥ सप्तमे प्रह्लादोक्तौ (७.६.२५) तुष्टे च तत्र किमलभ्यमनन्त आद्ये किं तैर्गुणव्यतिकरादिह ये स्वसिद्धाः । धर्मादयः किमगुणेन च काङ्क्षितेन सारं जुषां चरणयोरुपगायतां नः ॥ ऋBह्र्स्_१,२.३५ ॥ तत्रैव शक्रोक्तौ (७.८.४२) प्रत्यानीताः परम भवता त्रायता नः स्वभागा दैत्याक्रान्तं हृदयकमलं तद्गृहं प्रत्यबोधि । कालग्रस्तं कियदिदमहो नाथ शुश्रूषतां ते मुक्तिस्तेषां न हि बहुमता नारसिंहापरैः किम् ॥ ऋBह्र्स्_१,२.३६ ॥ अष्टमे श्रीगजेन्द्रोक्तौ (८.३.२०) एकान्तिनो यस्य न कञ्चनार्थं वाञ्छन्ति ये वै भगवत्प्रपन्नाः । अत्य्अद्भुतं तच्चरितं सुमङ्गलं गायन्त आनन्दसमुद्रमग्नाः ॥ ऋBह्र्स्_१,२.३७ ॥ नवमे श्रीवैकुण्ठनाथोक्तौ (९.४.६७) मत्सेवया प्रतीतं ते सालोक्यादिचतुष्टयम् । नेच्छन्ति सेवया पूर्णाः कुतोऽन्यत्कालविप्लुतम् ॥ ऋBह्र्स्_१,२.३८ ॥ श्रीदशमे नागपत्नीस्तुतौ (१०.१६.३७) न नाकपृष्ठं न च सार्वभौमं न पारमेष्ठ्यं न रसाधिपत्यम् । न योगसिद्धीरपुनर्भवं वा वाञ्छन्ति यत्पादरजःप्रपन्नाः ॥ ऋBह्र्स्_१,२.३९ ॥ तत्रैव श्रीवेदस्तुतौ (१०.८७.२१) दुरवगमात्मतत्त्वनिगमाय तवात्ततनोश् चरितमहामृताब्धिपरिवर्तपरिश्रमणाः । न परिलषन्ति केचिदपवर्गमपीश्वर ते चरणसरोजहंसकुलसङ्गविसृष्टगृहाः ॥ ऋBह्र्स्_१,२.४० ॥ एकादशे श्रीभगवद्उक्तौ (११.२०.३४) न किञ्चित्साधवो धीरा भक्ता ह्येकान्तिनो मम । वाञ्छन्त्यपि मया दत्तं कैवल्यमपुनर्भवम् ॥ ऋBह्र्स्_१,२.४१ ॥ तथा (११.१४.१४) न पारमेष्ठ्यं न महेन्द्रधिष्ण्यं न सार्वभौमं न रसाधिपत्यम् । न योगसिद्धीरपुनर्भवं वा मय्यर्पितात्मेच्छति मद्विनान्यत् ॥ ऋBह्र्स्_१,२.४२ ॥ द्वादशे श्रीरुद्रोक्तौ (१२.१०.६) नैवेच्छत्याशिषः क्वापि ब्रह्मर्षिर्मोक्षमप्युत । भक्तिं परां भगवति लब्धवान् पुरुषेऽव्यये ॥ ऋBह्र्स्_१,२.४३ ॥ पद्मपुराणे च कार्त्तिकमाहात्म्ये (दामोदराष्टके) वरं देव मोक्षं न मोक्षावधिं वा न चान्यं वृणेऽहं वरेशादपीह । इदं ते वपुर्नाथ गोपालबालं सदा मे मनस्यविरास्तां किमन्यैः ॥ ऋBह्र्स्_१,२.४४ ॥ कुवेरात्मजौ बद्धमूर्त्यैव यद्वत् त्वया मोचितौ भक्तिबद्धौ कृतौ च । तथा प्रेमभक्तिं स्वकां मे प्रयच्छ न मोक्षे ग्रहो मेऽस्ति दामोदरेह ॥ ऋBह्र्स्_१,२.४५ ॥ हयशीर्षीयश्रीनारायणव्यूहस्तवे च न धर्म काममर्थं वा मोक्षं वा वरदेश्वर । प्रार्थये तव पादाब्जे दास्यमेवाभिकामये ॥ ऋBह्र्स्_१,२.४६ ॥ तत्रैव पुनः पुनर्वरान् दित्सुर्विष्णुर्मुक्तिं न याचितः । भक्तिरेव वृता येन प्रह्लादं तं नमाम्यहम् ॥ ऋBह्र्स्_१,२.४७ ॥ यदृच्छया लब्धमपि विष्णोर्दाशरथेस्तु यः । नैच्छन्मोक्षं विना दास्यं तस्मै हनुमते नमः ॥ ऋBह्र्स्_१,२.४८ ॥ अत एव प्रसिद्धं श्रीहनुमद्वाक्यम् भवबन्धच्छिदे तस्यै स्पृहयामि न मुक्तये । भवान् प्रभुरहं दास इति यत्र विलुप्यते ॥ ऋBह्र्स्_१,२.४९ ॥ श्रीनारद पञ्चरात्रे च जितन्तेस्तोत्रे धर्मार्थकाममोक्षेषु नेच्छा मम कदाचन । त्वत्पादपञ्कजस्याधो जीवितं दीयतं मम ॥ ऋBह्र्स्_१,२.५० ॥ मोक्षसालोक्यसारूप्यान् प्रार्थये न धराधर । इच्छामि हि महाभाग कारुण्यं तव सुव्रत ॥ ऋBह्र्स्_१,२.५१ ॥ अतएव श्रीभागवते षष्ठे (६.१४.५) मुक्तानामपि सिद्धानां नारायणपरायणः । सुदुर्लभः प्रशान्तात्मा कोटिष्वपि महामुने ॥ ऋBह्र्स्_१,२.५२ ॥ प्रथमे च श्रीधर्मराजमातुः स्तुतौ (१.८.२०) तथा परमहंसानां मुनीनाममलात्मनाम् । भक्तियोगविधानार्थं कथं पश्येम हि स्त्रियः ॥ ऋBह्र्स्_१,२.५३ ॥ तत्रैव श्रीसूतोक्तौ (१.७.१०) आत्मारामाश्च मुनयो निर्ग्रन्था अप्युरुक्रमे । कुर्वन्त्यहैतुकीं भक्तिमित्थम्भूतगुणो हरिः ॥ ऋBह्र्स्_१,२.५४ ॥ अत्र त्याज्यतयैवोक्ता मुक्तिः पञ्चविधापि चेत् । सालोक्यादिस्तथाप्यत्र भक्त्या नातिविरुध्यते ॥ ऋBह्र्स्_१,२.५५ ॥ सुखैश्वर्योत्तरा सेयं प्रेमसेवोत्तरेत्यपि । सालोक्यादिर्द्विधा तत्र नाद्या सेवाजुषं मता ॥ ऋBह्र्स्_१,२.५६ ॥ किन्तु प्रेमैकमाधुर्यजुष एकान्तिनो हरौ । नैवाङ्गीकुर्वते जातु मुक्तिं पञ्चविधामपि ॥ ऋBह्र्स्_१,२.५७ ॥ तत्राप्येकान्तिनां श्रेष्था गोविन्दहृतमानसाः । येषां श्रीशप्रसादोऽपि मनो हर्तुं न शक्नुयात् ॥ ऋBह्र्स्_१,२.५८ ॥ सिद्धान्ततस्त्वभेदेऽपि श्रीशकृष्णस्वरूपयोः । रसेनोत्कृष्यते कृष्णरूपमेषा रसस्थितिः ॥ ऋBह्र्स्_१,२.५९ ॥ शास्त्रतः श्रूयते भक्तौ नृमात्रस्याधिकारिता । सर्वाधिकारितां माघस्नानस्य ब्रुवता यतः । दृष्तान्तिता वशिष्ठेन हरिभक्तिर्नृपं प्रति ॥ ऋBह्र्स्_१,२.६० ॥ यथा पाद्मे सर्वेऽधिकारिणो ह्यत्र हरिभक्तौ यथा नृप ॥ ऋBह्र्स्_१,२.६१ ॥ काशीखण्डे च तथा अन्त्यजा अपि तद्राष्ट्रे शङ्खचक्राङ्कधारिणः । सम्प्राप्य वैष्णवीं दीक्षां दीक्षिता इव सम्बभुः ॥ ऋBह्र्स्_१,२.६२ ॥ अपि च अननुष्ठानतो दोषो भक्त्य्अङ्गानां प्रजायते । न कर्मणामकरणादेष भक्त्य्अधिकारिणाम् ॥ ऋBह्र्स्_१,२.६३ ॥ निषिद्धाचारतो दैवात्प्रायश्चित्तं तु नोचितम् । इति वैष्णवशास्त्राणां रहस्यं तद्विदां मतम् ॥ ऋBह्र्स्_१,२.६४ ॥ यथैकादशे (११.२०.२६, ११.२१.२) स्वे स्वेऽधिकारे या निष्ठा सा गुणः परिकीर्तितः । विपर्ययस्तु दोषः स्यादुभयोरेष निश्चयः ॥ ऋBह्र्स्_१,२.६५ ॥ प्रथमे (१.५.१७) त्यक्त्वा स्वधर्मं चरणाम्बुजं हरेर् भजन्नपक्वोऽथ पतेत्ततो यदि । यत्र क्व वाभद्रमभूदमुष्य किं को वार्थ आप्तोऽभजतां स्वधर्मतः ॥ ऋBह्र्स्_१,२.६६ ॥ एकादशे (११.११.३७) आज्ञायैव गुणान् दोषान्मयादिष्टानपि स्वकान् । धर्मान् सन्त्यज्य यः सर्वान्मां भजेत्स च सत्तमः ॥ ऋBह्र्स्_१,२.६७ ॥ तत्रैव (११.५.४१) देवर्षिभूताप्तनॄणां पितॄणां न किङ्करो नायमृणी च राजन् । सर्वात्मना यः शरणं शरण्यं गतो मुकुन्दं परिहृत्य कर्तम् ॥ ऋBह्र्स्_१,२.६८ ॥ श्रीभगवद्गीतासु (१८.६६) सर्वधर्मन् परित्याज्य मामेकं शरणं व्रज । अहं त्वां सर्वपापेभ्यो मोक्षयिष्यामि मा सुचः ॥ ऋBह्र्स्_१,२.६९ ॥ अगस्त्यसंहितायाम् यथा विधिनिषेधौ तु मुक्तं नैवोपसर्पतः । तथा न स्पृशतो रामोपासकं विधिपूर्वकम् ॥ ऋBह्र्स्_१,२.७० ॥ एकादशे एव (११.५.४२) स्वपादमुलं भजतः प्रियस्य त्यक्तान्यभावस्य हरिः परेशः । विकर्म यच्चोत्पतितं कथञ्चिद् धुनोति सर्वं हृदि सन्निविष्टः ॥ ऋBह्र्स्_१,२.७१ ॥ हरिभक्तिविलासेऽस्या भक्तेरङ्गानि लक्षशः । किन्तु तानि प्रसिद्धानि निर्दिश्यन्ते यथामति ॥ ऋBह्र्स्_१,२.७२ ॥ अत्र अङ्गलक्षणम् आश्रितावान्तरानेकभेदं केवलमेव वा । एकं कर्मात्र विद्वद्भिरेकं भक्त्य्अङ्गमुच्यते ॥ ऋBह्र्स्_१,२.७३ ॥ अथ अङ्गानि गुरुपादाश्रयस्तस्मात्कृष्णदीक्षादिशिक्षणम् । विश्रम्भेण गुरोः सेवा साधुवर्त्मानुवर्तनम् ॥ ऋBह्र्स्_१,२.७४ ॥ सद्धर्मपृच्छा भोगादित्यागः कृष्णस्य हेतवे । निवासो द्वारकादौ च गङ्गादेरपि सन्निधौ ॥ ऋBह्र्स्_१,२.७५ ॥ व्यावहारेषु सर्वेषु यावद्अर्थानुवर्तिता । हरिवासरसम्मानो धात्र्य्अश्वत्थादिगौरवम् ॥ ऋBह्र्स्_१,२.७६ ॥ एषामत्र दशाङ्गानां भवेत्प्रारम्भरुपता ॥ ऋBह्र्स्_१,२.७७ ॥ सङ्गत्यागो विदूरेण भगवद्विमुखैर्जनैः । शिष्याद्य्अननुबन्धित्वं महारम्भाद्य्अनुद्यमः ॥ ऋBह्र्स्_१,२.७८ ॥ बहुग्रन्थकलाभ्यासव्याख्यावादविवर्जनम् ॥ ऋBह्र्स्_१,२.७९ ॥ व्यावहारेऽप्यकार्पण्यं शोकाद्य्अवशवर्तिता ॥ ऋBह्र्स्_१,२.८० ॥ अन्यदेवानवज्ञा च भूतानुद्वेगदायिता । सेवानामापराधानामुद्भवाभावकारिता ॥ ऋBह्र्स्_१,२.८१ ॥ कृष्णतद्भक्तविद्वेषविनिन्दाद्य्असहिष्णुता । व्यतिरेकतयामीषां दशानां स्यादनुष्ठितीः ॥ ऋBह्र्स्_१,२.८२ ॥ अस्यास्तत्र प्रवेशाय द्वारत्वेऽप्यङ्गविंशतेः । त्रयां प्रधानमेवोक्तं गुरुपादाश्रयादिकम् ॥ ऋBह्र्स्_१,२.८३ ॥ धृतिर्वैष्णवचिह्णानां हरेर्नामाक्षरस्य च । निर्माल्यादेश्च तस्याग्रे ताण्डवं दण्डवन्नतिः ॥ ऋBह्र्स्_१,२.८४ ॥ अभ्युत्थानमनुव्रज्या गतिः स्थाने परिक्रमः । अर्चनं परिचर्या च गीतं सङ्कीर्तनं जपः ॥ ऋBह्र्स्_१,२.८५ ॥ विज्ञप्तिः स्तवपाठश्च स्वादो नैवेद्यपाद्ययोः । धूपमाल्यादिसौरभ्यं श्रीमूर्तेः स्पृष्टिरीक्षणम् ॥ ऋBह्र्स्_१,२.८६ ॥ आरात्रिकोत्सवादेश्च श्रवणं तत्कृपेक्षणम् । स्मृतिर्ध्यानं तथा दास्यं सख्यमात्मनिवेदनम् ॥ ऋBह्र्स्_१,२.८७ ॥ निजप्रियोपहरणं तद्अर्थेऽखिलचेष्टितम् । सर्वथा शरणापत्तिस्तदीयानां च सेवनम् ॥ ऋBह्र्स्_१,२.८८ ॥ तदीयास्तुलसीशास्त्रमथुरावैष्णवादयः । यथावैभवसामग्री सद्गोष्ठीभिर्महोत्सवः ॥ ऋBह्र्स्_१,२.८९ ॥ ऊर्जादरो विशेषेण यात्रा जन्मदिनादिषु । श्रद्धा विशेषतः प्रीतिः श्रीमूर्तेरङ्घ्रिसेवने ॥ ऋBह्र्स्_१,२.९० ॥ श्रीमद्भागवतार्थानामास्वादो रसिकैः सह । सजातीयाशये स्निग्धे साधौ सङ्गः स्वतो वरे ॥ ऋBह्र्स्_१,२.९१ ॥ नामसङ्कीर्तनं श्रीमथुरामण्डले स्थितिः ॥ ऋBह्र्स्_१,२.९२ ॥ अङ्गानां पञ्चकस्यास्य पूर्वं विलिखितस्य च । निखिलश्रैष्ठ्यबोधाय पुनरप्यत्र कीर्तनम् ॥ ऋBह्र्स्_१,२.९३ ॥ इति कायहृषीकान्तःकरणानामुपासनाः ॥ ऋBह्र्स्_१,२.९४ ॥ चतुःषष्टिः पृथक्साङ्घातिकभेदात्क्रमादिनाः ॥ ऋBह्र्स्_१,२.९५ ॥ अथार्षानुमतेनैषामुदाहरणमीर्यते ॥ ऋBह्र्स्_१,२.९६ ॥ १ तत्र गुरुपादाश्रयो, यथा एकादशे (११.३.२१) तस्माद्गुरुं प्रपद्येत जिज्ञासुः श्रेय उत्तमम् । शाब्दे परे च निष्णातं ब्रह्मण्युपशमाश्रयम् ॥ ऋBह्र्स्_१,२.९७ ॥ २ श्रीकृष्णदीक्षादिशिक्षणं, यथा तत्रैव (११.३.२२) तत्र भागवतान् धर्मान् शिक्षेद्गुर्व्आत्मदैवतः । अमाययानुवृत्त्या यैस्तुष्येदात्मात्मदो हरिः ॥ ऋBह्र्स्_१,२.९८ ॥ ३ विश्रम्भेण गुरोः सेवा, यथा तत्रैव (११.१७.२७) आचार्यं मां विजानीयान्नावमन्येत कर्हिचित् । न मर्त्यबुद्ध्यासूयेत सर्वदेवमयो गुरुः ॥ ऋBह्र्स्_१,२.९९ ॥ ४ साधुवर्त्मानुवर्तनम्, यथा स्कान्दे स मृग्यः श्रेयसां हेतुः पन्थाः सन्तापवर्जितः । अन्वाप्तश्रमं पूर्वे येन सन्तः प्रतस्थिरे ॥ ऋBह्र्स्_१,२.१०० ॥ ब्रह्मयामले च श्रुतिस्मृतिपुराणादिपञ्चरात्रविधिं विना । ऐकान्तिकी हरेर्भक्तिरुत्पातायैव कल्पते ॥ ऋBह्र्स्_१,२.१०१ ॥ भक्तिरैकान्तिकी वेयमविचारात्प्रतीयते । वस्तुतस्तु तथा नैव यदशास्त्रीयतेक्ष्यते ॥ ऋBह्र्स्_१,२.१०२ ॥ ५ सद्धर्मपृच्छा, यथा नारदीये अचिरादेव सर्वार्थः सिध्यत्येषामभीप्सितः । सद्धर्मस्यावबोधाय येषां निर्बन्धिनी मतिः ॥ ऋBह्र्स्_१,२.१०३ ॥ ६ कृष्णार्थे भोगादित्यागो, यथा पाद्मे हरिमुद्दिश्य भोगानि काले त्यक्तवतस्तव । विष्णुलोकस्थिता सम्पद्अलोला सा प्रतीक्षते ॥ ऋBह्र्स्_१,२.१०४ ॥ ७ द्वारकादिनिवासो, यथा स्कान्दे संवत्सरं वा षण्मासान्मासं मासार्धमेव वा । द्वारकावासिनः सर्वे नरा नार्यश्चतुर्भुजाः ॥ ऋBह्र्स्_१,२.१०५ ॥ आदिपदेन पुरुषोत्तमवासश्च, यथा ब्राह्मे अहो क्षेत्रस्य माहात्म्यं समन्ताद्दशयोजनम् । दिविष्ठा यत्र पश्यन्ति सर्वानेव चतुर्भुजान् ॥ ऋBह्र्स्_१,२.१०६ ॥ गङ्गादिवासो, यथा प्रथमे (१.१९.६) या वै लसच्छ्रीतुलसीविमिश्र कृष्णाङ्घ्रिरेण्व्अभ्यधिकाम्बुनेत्री । पुनाति सेशानुभयत्र लोकान् कस्तां न सेवेत मरिष्यमाणः ॥ ऋBह्र्स्_१,२.१०७ ॥ ८ यावद्अर्थानुवर्तिता, यथा नारदीये यावता स्यात्स्वनिर्वाहः स्वीकुर्यात्तावदर्थवित् । आधिक्ये न्यूनतायां च च्यवते परमार्थतः ॥ ऋBह्र्स्_१,२.१०८ ॥ ९ हरिवासरसम्मानो, यथा ब्रह्मवैवर्ते सर्वपापप्रशमनं पुण्यमात्यन्तिकं तथा । गोविन्दस्मारणं नॄणामेकदश्यामुपोषणम् ॥ ऋBह्र्स्_१,२.१०९ ॥ १० धात्र्य्अश्वत्थादिगौरवम्, यथा स्कान्दे अश्वत्थतुलसीधात्रीगोभूमिसुरवैष्णवाः । पूजिताः प्रणताः ध्याताः क्षपयन्ति नॄणामघम् ॥ ऋBह्र्स्_१,२.११० ॥ ११ अथ श्रीकृष्णविमुखजनसंत्यागो, यथा कात्यायनसंहितायाम् वरं हुतवहज्वालापञ्जरान्तर्व्यवस्थितिः । न शौरिचिन्ताविमुखजनसंवासवैशसम् ॥ ऋBह्र्स्_१,२.१११ ॥ विष्णुरहस्ये च आलिङ्गनं वरं मन्ये व्यालव्याघ्रजलौकसाम् । न सङ्गः शल्ययुक्तानां नानादेवैकसेविनाम् ॥ ऋBह्र्स्_१,२.११२ ॥ १२ १३ १४ शिष्याननुबन्द्धित्वादित्रयं, यथा सप्तमे (७.१३.८) न शिष्याननुबध्नीत ग्रन्थान्नैवाभ्यसेद्बहून् । न व्याख्यामुपयुञ्जीत नारम्भानारभेत्क्वचित् ॥ ऋBह्र्स्_१,२.११३ ॥ १५ व्यावहारेऽप्यकार्पण्यं, यथा पाद्मे अलब्धे वा विनष्टे वा भक्ष्याच्छादनसाधने । अविक्लवमतिर्भूत्वा हरिमेव धिया स्मरेत् ॥ ऋBह्र्स्_१,२.११४ ॥ १६ शोकाद्य्अवशवर्तिता, यथा तत्रैव शोकामर्षादिभिर्भावैराक्रान्तं यस्य मानसम् । कथं तत्र मुकुन्दस्य स्फूर्तिसम्भावना भवेत् ॥ ऋBह्र्स्_१,२.११५ ॥। १७ अन्यदेवानज्ञा, यथा तत्रैव हरिरेव सदाराध्यः सर्वदेवेश्वरेश्वरः । इतरे ब्रह्मरुद्राद्या नावज्ञेयाः कदाचन ॥ ऋBह्र्स्_१,२.११६ ॥ १८ भूतानुद्वेगदायिता, यथा महाभारते पितेव पुत्रं करुणो नोद्वेजयति यो जनम् । विशुद्धस्य हृषीकेशस्तूर्णं तस्य प्रसीदति ॥ ऋBह्र्स्_१,२.११७ ॥ १९ सेवानामापराधानां वर्जनं, यथा वाराहे ममार्चनापराधा ये कीर्त्यन्ते वसुधे मया । वैष्णवेन सदा ते तु वर्जनीयाः प्रयत्नतः ॥ ऋBह्र्स्_१,२.११८ ॥ पाद्मे च सर्वापराधकृदपि मुच्यते हरिसंश्रयः । हरेरप्यपराधान् यः कुर्याद्द्विपदपांशुलः ॥ ऋBह्र्स्_१,२.११९ ॥ नामाश्रयः कदाचित्स्यात्तरत्येव स नामतः । नाम्नो हि सर्वसुहृदो ह्यपराधात्पतत्यधः ॥ ऋBह्र्स्_१,२.१२० ॥ २० तन्निन्दाद्यसहिष्णुता, यथा श्रीदशमे (१०.७४.४०) निन्दां भगवतः श्र्ण्वंस्तत्परस्य जनस्य वा । ततो नापैति यः सोऽपि यात्यधः सुकृताच्च्युतः ॥ ऋBह्र्स्_१,२.१२१ ॥ २१ अथ वैष्णवचिह्णधृतिः, यथा पाद्मे ये कण्ठलग्नतुलसीनलिनाक्षामाला ये बाहुमूलपरिचिह्णितशङ्खचक्राः । ये वा ललाटफलके लसद्ऊर्ध्वपुण्ड्रास् ते वैष्णवा भुवनमाशु पवित्रयन्ति ॥ ऋBह्र्स्_१,२.१२२ ॥ २२ नामाक्षरधृतिः, यथा स्कान्दे हरिनामाक्षरयुतं भाले गोपीमृडङ्कितम् । तुलसीमालिकोरस्कं स्पृशेयुर्न यमोद्भटाः ॥ ऋBह्र्स्_१,२.१२३ ॥ पाद्मे च कृष्णनामाक्षरैर्गात्रमङ्कयेच्चन्दनादिना । स लोकपावनो भुत्वा तस्य लोकमवाप्नुयात् ॥ ऋBह्र्स्_१,२.१२४ ॥ २३ निर्माल्यधृतिः, यथा एकादशे (११.६.४६) त्वयोपयुक्तस्रग्गन्धवासोऽलङ्कारचर्चिताः । उच्छिष्टभोजिनो दासास्तव मायां जयेमहि ॥ ऋBह्र्स्_१,२.१२५ ॥ स्कान्दे च कृष्णोत्तीर्णं तु निर्माल्यं यस्याङ्गं स्पृशते मुने । सर्वरोगैस्तथा पापैर्मुक्तो भवति नारद ॥ ऋBह्र्स्_१,२.१२६ ॥ २४ अग्रे ताण्डवं, यथा द्वारकामाहात्म्ये यो नृत्यति प्रहृष्टात्मा भावैर्बहुषु भक्तितः । स निर्दहति पापानि मन्वन्तरशतेष्वपि ॥ ऋBह्र्स्_१,२.१२७ ॥ तथा श्रीनारदोक्तौ च नृत्यतां श्रीपतेरग्रे तालिकावादनैर्भृशम् । उड्डीयन्ते शरीरस्थाः सर्वे पातकपक्षिणः ॥ ऋBह्र्स्_१,२.१२८ ॥ २५ दण्डवन्नतिः, यथा नारदीये एकोऽपि कृष्णाय कृतः प्रणामो दशाश्वमेधावभृथैर्न तुल्यः । दशाश्वमेधी पुनरेति जन्म कृष्णप्रणामी न पुनर्भवाय ॥ ऋBह्र्स्_१,२.१२९ ॥ २६ अभ्यूत्थानं, यथा ब्रह्माण्डे यानारूढं पुरः प्रेक्ष्य समायान्तं जनार्दनम् । अभ्युत्थानं नरः कुर्वन् पातयेत्सर्वकिल्बिषम् ॥ ऋBह्र्स्_१,२.१३० ॥ २७ अनुव्रज्या, यथा भविष्योत्तरे रथेन सह गच्छन्ति पार्श्वतः पृष्ठतोऽग्रतः । विष्णुनैव समाः सर्वे भवन्ति श्वपदादयः ॥ ऋBह्र्स्_१,२.१३१ ॥ २८ स्थाने गतिः स्थानं तीर्थं गृहं चास्य तत्र तीर्थे गतिर्यथा ॥ ऋBह्र्स्_१,२.१३२ ॥ पुराणान्तरे संसारमरुकान्तारनिस्तारकरणक्षमौ । स्लाघ्यौ तावेव चरणौ यौ हरेस्तीर्थगामिनौ ॥ ऋBह्र्स्_१,२.१३३ ॥ आलये च, यथा हरिभक्तिसुधोदये प्रवीशन्नालयं विष्णोर्दर्शनार्थं सुभक्तिमान् । न भूयः प्रविशेन्मातुः कुक्षिकारागृहं सुधीः ॥ ऋBह्र्स्_१,२.१३४ ॥ २९ परिक्रमो, यथा तत्रैव विष्णुं प्रदक्षिनीकुर्वन् यस्तत्रावर्तते पुनः । तदेवावर्तनं तस्य पुनर्नावर्तते भवे ॥ ऋBह्र्स्_१,२.१३५ ॥ स्कान्दे च चतुर्मास्यमाहात्म्ये चतुर्वारं भ्रमीभिस्तु जगत्सर्वं चराचरम् । क्रान्तं भवति विप्राग्र्य तत्तीर्थगमनादिकम् ॥ ऋBह्र्स्_१,२.१३६ ॥ ३० अथ अर्चनम् शुद्धिन्यासादिपूर्वाङ्गकर्मनिर्वाहपूर्वकम् । अर्चनं तूपचाराणां स्यान्मन्त्रेणोपपादनम् ॥ ऋBह्र्स्_१,२.१३७ ॥ तद्, यथा दशमे (१०.८१.१९) स्वर्गापवर्गयोः पुंसां रसायां भुवि सम्पदाम् । सर्वासामपि सिद्धीनां मूलं ताच्चरणार्चनम् ॥ ऋBह्र्स्_१,२.१३८ ॥ विष्णुरहस्ये च श्रीविष्णोरर्चनं ये तु प्रकुर्वन्ति नरा भुवि । ते यान्ति शाश्वतं विष्णोरानन्दं परमं पदम् ॥ ऋBह्र्स्_१,२.१३९ ॥ ३१ परिचर्या परिचर्या तु सेवोपकरणादिपरिष्क्रिया । तथा प्रकीर्णकच्छत्रवादित्राद्यैरुपासना ॥ ऋBह्र्स्_१,२.१४० ॥ यथा नारदीये मुहूर्तं वा मुहूर्तार्धं यस्तिष्ठेद्धरिमन्दिरे । स याति परमं स्थानं किमु शुश्रूषणे रताः ॥ ऋBह्र्स्_१,२.१४१ ॥ यथा चतुर्थे (४.२१.३१) यत्पादसेवाभिरुचिस्तपस्विनाम् अशेषजन्मोपचितं मलं धियः । सद्यः क्षिणोत्यन्वहमेधती सती यथा पदाङ्गुष्ठविनिःसृता सरित् ॥ ऋBह्र्स्_१,२.१४२ ॥ अङ्गानि विविधान्येव स्युः पूजापरिचर्ययोः । न तानि लिखितान्यत्र ग्रन्थबाहुल्यभीतितः ॥ ऋBह्र्स्_१,२.१४३ ॥ ३२ अथ गीतं, यथा लैङ्गे ब्राह्मणो वासुदेवाख्यं गायमानोऽनिशं परम् । हरेः सालोक्यमाप्नोति रुद्रगानाधिकं भवेत् ॥ ऋBह्र्स्_१,२.१४४ ॥ ३३ अथ संकीर्तनम् नामलीलागुणदीनामुच्चैर्भाषा तु कीर्तनम् ॥ ऋBह्र्स्_१,२.१४५ ॥ तत्र नामकीर्तनम्, यथा विष्णुधर्मे कृष्णेति मङ्गलं नाम यस्य वाचि प्रवर्तते । भस्मीभवन्ति राजेन्द्र महापातककोटयः ॥ ऋBह्र्स्_१,२.१४६ ॥ लीलाकीर्तनम्, यथा सप्तमे (७.९.१८) सोऽहं प्रियस्य सुहृदः परदेवताया लीलाकथास्तव नृसिंह विरिञ्चगीताः । अञ्जस्तितर्म्यनुगृणन् गुणविप्रमुक्तो दुर्गाणि ते पदयुगालयहंससङ्गः ॥ ऋBह्र्स्_१,२.१४७ ॥ गुणकीर्तनम्, यथा प्रथमे (१.५.२२) इदं हि पुंसस्तपसः श्रुतस्य वा स्विष्टस्य सूक्तस्य च बुद्धिदत्तयोः । अविच्युतोऽर्थः कविभिर्निरूपितो यदुत्तमःश्लोकगुणानुवर्णनम् ॥ ऋBह्र्स्_१,२.१४८ ॥ ३४ अथ जपः मन्त्रस्य सुलघूच्चारो जप इत्यभिधीयते ॥ ऋBह्र्स्_१,२.१४९ ॥ यथा पाद्मे कृष्णाय नम इत्येष मन्त्रः सर्वार्थसाधकः । भक्तानां जपतां भूप स्वर्गमोक्षफलप्रदः ॥ ऋBह्र्स्_१,२.१५० ॥ ३५ अथ विज्ञप्तिः, यथा स्कान्दे हरिमुद्दिश्य यत्किञ्चित्कृतं विज्ञापनं गिरा । मोक्षद्वारार्गलान्मोक्षस्तेनैव विहितस्तव ॥ ऋBह्र्स्_१,२.१५१ ॥ सम्प्रार्थनात्मिका दैन्यबोधिका लालसामयी । इत्यादिर्विविधा धीरैः कृष्णे विज्ञप्तिरीरिता ॥ ऋBह्र्स्_१,२.१५२ ॥ तत्र सम्प्रार्थनात्मिका, यथा पाद्मे युवतीनां यथा यूनि यूनां च युवतौ यथा । मनोऽभिरमते तद्वन्मनोऽभिरमतां त्वयि ॥ ऋBह्र्स्_१,२.१५३ ॥ दैन्यबोधिका, यथा तत्रैव मत्तुल्यो नास्ति पापात्मा नापराधी च कश्चन । परिहारेऽपि लज्जा मे किं ब्रूवे पुरुषोत्तम ॥ ऋBह्र्स्_१,२.१५४ ॥ लालसामयी, यथा श्रीनारदपञ्चरात्रे कदा गम्भीरया वाचा श्रिया युक्तो जगत्पते । चामरव्यग्रहस्तं मामेवं कुर्विति वक्ष्यसि ॥ ऋBह्र्स्_१,२.१५५ ॥ यथा वा कदाहं यमुनातीरे नामानि तव कीर्तयन् । उद्बाष्पः पुण्डरीकाक्ष रचयिष्यामि ताण्डवम् ॥ ऋBह्र्स्_१,२.१५६ ॥ ३६ अथ स्तवपाठः प्रोक्ता मनीषिभिर्गीतास्तवराजादयः स्तवाः ॥ ऋBह्र्स्_१,२.१५७ ॥ यथा स्कान्दे श्रीकृष्णस्तवरत्नौघैर्येषां जिह्वा त्वलङ्कृता । नमस्या मुनिसिद्धानां वन्दनीया दिवौकसाम् ॥ ऋBह्र्स्_१,२.१५८ ॥ नारसिंहे च स्तोत्रैः स्तवश्च देवाग्रे यः स्तौति मधुसूदनम् । सर्वपापविनिर्मुक्तो विष्णुलोकमवाप्नुयात् ॥ ऋBह्र्स्_१,२.१५९ ॥ ३७ अथ नैवेद्यास्वादो, यथा पाद्मे नैवेद्यमन्नं तुलसीविमिश्रं वीशेषतः पादजलेन सिक्तम् । योऽश्नाति नित्यं पुरतो मुरारेः प्राप्णोति यज्ञायुतकोटिपुण्यम् ॥ ऋBह्र्स्_१,२.१६० ॥ ३८ अथ पाद्यास्वादो, यथा तत्रैव न दानं न हविर्येषां स्वाध्यायो न सुरार्चनम् । तेऽपि पादोदकं पीत्वा प्रयान्ति परमां गतिम् ॥ ऋBह्र्स्_१,२.१६१ ॥ ३९ अथ धूपसौरभ्यम्, यथा हरिभक्तिसुधोदये आघ्राणं यद्धरेर्दत्तधूपोच्छिष्टस्य सर्वतः । तद्भवव्यालदष्टानां नस्यं कर्म विषापहम् ॥ ऋBह्र्स्_१,२.१६२ ॥ अथ माल्यसौरभ्यं, यथा तन्त्रे प्रविष्टे नासिकारन्ध्रे हरेर्निर्माल्यसौरभे । सद्यो विलयमायाति पापपञ्जरबन्धनम् ॥ ऋBह्र्स्_१,२.१६३ ॥ अगस्त्यसंहितायां च आघ्राणं गन्धपुष्पादेरर्चितस्य तपोधन । विशुद्धिः स्यादनन्तस्य घ्राणस्येहाभिधीयते ॥ ऋBह्र्स्_१,२.१६४ ॥ ४० अथ श्रीमूर्तेः स्पर्शनं, यथा विष्णुधर्मोत्तरे स्पृस्ट्वा विष्णोरधिष्ठानं पवित्रः श्रद्धयान्वितः । पापबन्धैर्विनिर्मुक्तः सर्वान् कामानवाप्नुयात् ॥ ऋBह्र्स्_१,२.१६५ ॥ ४१ अथ श्रीमूर्तेर्दर्शनम्, यथा वाराहे वृन्दावने तु गोविन्दं ये पश्यन्ति वसुन्धरे । न ते यमपुरं यान्ति यान्ति पुण्यकृतां गतिम् ॥ ऋBह्र्स्_१,२.१६६ ॥ ४२ आरात्रिकदर्शनं, यथा स्कान्दे कोटयो ब्रह्महत्यानामगम्यागमकोटयः । दहत्यालोकमात्रेण विष्णोः सारात्रिकं मुखम् ॥ ऋBह्र्स्_१,२.१६७ ॥ उत्सवदर्शनं, यथा भविष्योत्तरे रथस्थं ये निरीक्षन्ते कौतिकेनापि केशवम् । देवतानां गणाः सर्वे भवन्ति श्वपचादयः ॥ ऋBह्र्स्_१,२.१६८ ॥ आदिशब्देन पूजादर्शनं, यथाग्नेये पूजितं पूज्यमानं वा यः पश्येद्भक्तितो हरिम् ॥ ऋBह्र्स्_१,२.१६९ ॥ ४३ अथ श्रवणम् श्रवणं नामचरितगुणादीनां श्रुतिर्भवेत् ॥ ऋBह्र्स्_१,२.१७० ॥ तत्र नामश्रवणं, यथा गारुडे संसारसर्पदष्टनष्टचेष्टैकभेषजम् । कृष्णेति वैष्णवं मन्त्रं श्रुत्वा मुक्तो भवेन्नरः ॥ ऋBह्र्स्_१,२.१७१ ॥ चरित्रश्रवणं, यथा चतुर्थे (४.२९.४१) तस्मिन्महन्मुखरिता मधुभिच्चरित्र पीयूषशेषसरितः परितः स्रवन्ति । ता ये पिबन्त्यवितृषो नृप गाढकर्णैस् तान्न स्पृशन्त्यशनतृड्भयशोकमोहाः ॥ ऋBह्र्स्_१,२.१७२ ॥ गुणश्रवणं, यथा द्वादशे (१२.३.१५) यस्तूत्तमःश्लोकगुणानुवादः सङ्गीयतेऽभीक्ष्णममङ्गलघ्नः । तमेव नित्यं शृणुयादभीक्ष्णं कृष्णेऽमलां भक्तिमभीप्समानः ॥ ऋBह्र्स्_१,२.१७३ ॥ अथ तत्कृपेक्षणं, यथा दशमे (१०.१४.८) तत्तेऽनुकम्पां सुसमीक्षमाणो भुञ्जान एवात्मकृतं विपाकम् । हृद्वाग्वपुर्भिर्विदधन्नमस्ते जीवेत यो मुक्तिपदे स दायभाक् ॥ ऋBह्र्स्_१,२.१७४ ॥ अथ स्मृतिः यथा कथं चिन्मनसा सम्बन्धः स्मृतिरुच्यते ॥ ऋBह्र्स्_१,२.१७५ ॥ यथा विष्णुपुराणे (५.१७.१७) स्मृते सकलकल्याणभाजनं यत्र जायते । पुरुषं तमजं नित्यं व्रजामि शरणं हरिम् ॥ ऋBह्र्स्_१,२.१७६ ॥ यथा च पाद्मे प्रयाणे चाप्रयाणे च यन्नाम स्मरतां नॄणाम् । सद्यो नश्यति पापौघो नमस्तस्मै चिद्आत्मने ॥ ऋBह्र्स्_१,२.१७७ ॥ अथ ध्यानम् ध्यानं रुपगुणक्रीडासेवादेः सुष्ठु चिन्तनम् ॥ ऋBह्र्स्_१,२.१७८ ॥ तत्र रूपध्यानं, यथा नारसिंहे भगवच्चरणद्वन्द्वध्यानं निर्द्वन्द्वमीरितम् । पापिनोऽपि प्रसङ्गेन विहितं सुहितं परम् ॥ ऋBह्र्स्_१,२.१७९ ॥ गुणध्यानं, यथा विष्णुधर्मे ये कुर्वन्ति सदा भक्त्या गुणानुस्मरणं हरेः । प्रक्षीणकलुषौघास्ते प्रविशन्ति हरेः पदम् ॥ ऋBह्र्स्_१,२.१८० ॥ क्रीदाध्यानं, यथा पद्मे सर्वमाधुर्यसाराणि सर्वाद्भुतमयानि च । ध्यायन् हरेश्चरित्राणि ललितानि विमुच्यते ॥ ऋBह्र्स्_१,२.१८१ ॥ सेवाध्यानं, यथा पुराणान्तरे मानसेनोपचारेन परिचर्य हरिं सदा । परे वाङ्मनसाऽगम्यं तं साक्षात्प्रतिपेदिरे ॥ ऋBह्र्स्_१,२.१८२ ॥ अथ दास्यम् दास्यं कर्मार्पणं तस्य कैङ्कर्यमपि सर्वथा ॥ ऋBह्र्स्_१,२.१८३ ॥ तत्र आद्यं यथा स्कान्दे तस्मिन् समर्पितं कर्म स्वाभाविकमपीश्वरे । भवेद्भागवतो धर्मस्तत्कर्म किमुतार्पितम् ॥ ऋBह्र्स्_१,२.१८४ ॥ कर्म स्वाभाविकं भद्रं जपध्यानार्चनादि च । इतीदं द्विविधं कृष्णे वैष्णवैर्दास्यमर्पितम् ॥ ऋBह्र्स्_१,२.१८५ ॥ मृदुश्रद्धस्य कथिता स्वल्पा कर्माधिकारिता । तद्अर्पितं हरौ दास्यमिति कैश्चिदुदीर्यते ॥ ऋBह्र्स्_१,२.१८६ ॥ द्वितियं, यथा नारदीये ईहा यस्य हरेर्दास्ये कर्मणा मनसा गिरा । निखिलास्वप्यवस्थासु जीवन्मुक्तः स उच्यते ॥ ऋBह्र्स्_१,२.१८७ ॥ अथ सख्यम् विश्वासो मित्रवृत्तिश्च सख्यं द्विविधमीरितम् ॥ ऋBह्र्स्_१,२.१८८ ॥ तत्र आद्यं, यथा महाभारते प्रतिज्ञा तव गोविन्द न मे भक्तः प्रणश्यति । इति संस्मृत्य संस्मृत्य प्राणान् संधारयाम्यहम् ॥ ऋBह्र्स्_१,२.१८९ ॥ तथा एकादशे (११.२.५३) च त्रिभुवनविभवहेतवेऽप्यकुण्ठ स्मृतिरजितात्मसुरादिभिर्विमृग्यात् । न चलति भगवत्पदारविन्दाल् लवनिमिषार्धमपि यः स वैष्णवाग्र्यः ॥ ऋBह्र्स्_१,२.१९० ॥ श्रद्धामात्रस्य तद्भक्तावधिकारित्वहेतुता । अङ्गत्वमस्य विश्वासविशेषस्य तु केशवे ॥ ऋBह्र्स्_१,२.१९१ ॥ द्वितीयं, यथा अगस्त्यसंहितायाम् परिचर्या पराः केचित्प्रासादेषु च शेरते । मनुष्यमिव तं द्रष्टुं व्यावहर्तुं च बन्धुवत् ॥ ऋBह्र्स्_१,२.१९२ ॥ रागानुगाङ्गतास्य स्याद्विधिमार्गानपेक्षत्वात् । मार्गद्वयेन चैतेन साध्या सख्यरतिर्मता ॥ ऋBह्र्स्_१,२.१९३ ॥ अथ आत्मनिवेदनं, यथा एकादशे (११.२९.३४) मर्त्यो यदा त्यक्तसमस्तकर्मा निवेदितात्मा विचिकीर्षितो मे । तदामृतत्वं प्रतिपद्यमानो मयात्मभुऊयाया च कल्पते वै ॥ ऋBह्र्स्_१,२.१९४ ॥ अर्थो द्विधात्मशब्दस्य पण्डितैरुपपायते । देह्य्अहन्तास्पदं कैश्चिद्देहः कैश्चिन्ममत्वभाक् ॥ ऋBह्र्स्_१,२.१९५ ॥ तत्र देही, यथा यामुनाचार्यस्तोत्रे (४९) वपुरादिषु योऽपि कोऽपि वा गुणतोऽसानि यथा तथाविधः । तदयं तव पादपद्मयोर् अहमद्यैव मया समर्पितः ॥ ऋBह्र्स्_१,२.१९६ ॥ देहो, यथा भक्तिविवेके चिन्तां कुर्यान्न रक्षायै विक्रीतस्य यथा पशोः । तथार्पयन् हरौ देहं विरमेदस्य रक्षनात् ॥ ऋBह्र्स्_१,२.१९७ ॥ दुष्करत्वेन विरले द्वे सख्यात्मनिवेदने । केषांचिदेव धीराणां लभते साधनार्हताम् ॥ ऋBह्र्स्_१,२.१९८ ॥ अथ निजप्रियोपहरणं, यथा एकादशे (११.११.४१) यद्यदिष्टतमं लोके यच्चातिप्रियमात्मनः । तत्तन्निवेदयेन्मह्यं तदानन्त्याय कल्पते ॥ ऋBह्र्स्_१,२.१९९ ॥ अथ तद्अर्थेऽखिलचेष्टितं, यथा पञ्चरात्रे लौकिकी वैदिकी वापि या क्रिया क्रियते मुने । हरिसेवानुकूलैव सा कार्या भक्तिमिच्छता ॥ ऋBह्र्स्_१,२.२०० ॥ अथ शरणापत्तिः, यथा हरिभक्तिविलासे (११.६७७) तवास्मीति वदन् वाचा तथैव मनसा विदन् । तत्स्थानमाश्रितस्तन्वा मोदते शरणागतः ॥ ऋBह्र्स्_१,२.२०१ ॥ श्रीनारसिंहे च त्वां प्रपन्नोऽस्मि शरणं देवदेव जनार्दन । इति यः शरणं प्राप्तस्तं क्लेशादुद्धराम्यहम् ॥ ऋBह्र्स्_१,२.२०२ ॥ ५३ अथ तदीयानां सेवनम् । तुलास्यः, यथा स्कान्दे या दृष्टा निखिलाघसङ्गशमनी स्पृष्टा वपुःपावनी रोगाणामभिवन्दिता निरसनी सिक्तान्तकत्रासिनी । प्रत्यासत्तिविधायिनी भगवतः कृष्णस्य संरोपिता न्यस्ता तच्चरणे विमुक्तिफलदा तस्यै तुलस्यै नमः ॥ ऋBह्र्स्_१,२.२०३ ॥ तथा च तत्रैव दृष्ता स्पृष्टा तथा ध्याता कीर्तिता नमिता स्तुता । रोपिता सेविता नित्यं पूजिता तुलसी शुभा ॥ ऋBह्र्स्_१,२.२०४ ॥ नवधा तुलसीं देवीं ये भजन्ति दिने दिने । युगकोटिसहस्राणि ते वसन्ति हरेर्गृहे ॥ ऋBह्र्स्_१,२.२०५ ॥ ५४ अथ शास्त्रस्य, शास्त्रमत्र समाख्यातं यद्भक्तिप्रतिपादकम् ॥ ऋBह्र्स्_१,२.२०६ ॥ यथा स्कान्दे वैष्णवानि तु शास्त्राणी ये शृण्वन्ति पठन्ति च । धन्यास्ते मानवा लोके तेसां कृष्णः प्रसीदति ॥ ऋBह्र्स्_१,२.२०७ ॥ वैष्णवानि तु शास्त्राणी येऽर्चयन्ति गृहे नराः । सर्वपापविनिर्मुक्ता भवन्ति सुरवन्दिताः ॥ ऋBह्र्स्_१,२.२०८ ॥ तिष्ठते वैष्णवं शास्त्रं लिखितं यस्य मन्दिरे । तत्र नारायणो देवः स्वयं वसति नारद ॥ ऋBह्र्स्_१,२.२०९ ॥ तथा श्रीभागवते द्वादशे (१२.१३.१५) च सर्ववेदान्तसारं हि श्रीभागवतमिष्यते । तद्रसामृततृप्तस्य नान्यत्र स्याद्रतिः क्वचित् ॥ ऋBह्र्स्_१,२.२१० ॥ ५५ अथ मथुरायाः, यथा आदिवाराहे मथुरां च परित्यज्य योऽन्यत्र कुरुते रतिम् । मूढो भ्रमति संसारे मोहिता मम मायया ॥ ऋBह्र्स्_१,२.२११ ॥ ब्रह्माण्डे च त्रैलोक्यवर्तितीर्थानां सेवनाद्दुर्लभा हि या । परानन्दमयी सिद्धिर्मथुरास्पर्षमात्रतः ॥ ऋBह्र्स्_१,२.२१२ ॥ श्रुता स्मृता कीर्तिता च वाञ्छिता प्रेक्षिता गता । स्पृष्टा श्रिता सेविता च मथुराभीष्टदा नृणाम् । इति ख्यातं पुराणेषु न विस्तारभियोच्यते ॥ ऋBह्र्स्_१,२.२१३ ॥ ५६अथ वैष्णवानां सेवनं, यथा पाद्मे (६.२५३.१७६) आराधनानां सर्वेषां विष्णोराराधनं परम् । तस्मात्परतरं देवि तदीयानां समर्चनम् ॥ ऋBह्र्स्_१,२.२१४ ॥ तृतीये (३.७.१९) च यत्सेवया भगवतः कूटस्थस्य मधुद्विषः । रतिरासो भवेत्तीव्रः पादयोर्व्यसनार्दनः ॥ ऋBह्र्स्_१,२.२१५ ॥ स्कान्दे च शङ्खचक्राङ्किततनुः शिरसा मञ्जरीधरः । गोपीचन्दनलिप्ताङ्गो दृष्तश्चेत्तद्अघं कुतः ॥ ऋBह्र्स्_१,२.२१६ ॥ प्रथमे (१.१९.३३) च येषां संस्मरणात्पुंसां सद्यः शुद्ध्यन्ति वै गृहाः । किं पुनर्दर्शनस्पर्शपादशौचासनादिभिः ॥ ऋBह्र्स्_१,२.२१७ ॥ आदीपुराणे ये मे भक्तजनाः पार्थ न मे भक्ताश्च ते जनाः । मद्भक्तानां च ये भक्तास्ते मे भक्ततमा मताः ॥ ऋBह्र्स्_१,२.२१८ ॥ यावन्ति भगवद्भक्तेरङ्गानि कथितानीह । प्रायस्तावन्ति तद्भक्तभक्तेरपि बुधा विदुः ॥ ऋBह्र्स्_१,२.२१९ ॥ ५७ अथ यथावैभवमहोत्सवो, यथा पाद्मे यः करोति महीपाल हरेर्गेहे महोत्सवम् । तस्यापि भवति नित्यं हरिलोके महोत्सव ॥ ऋBह्र्स्_१,२.२२० ॥ ५८ अथ ऊर्जादरो, यथा पाद्मे यथा दामोदरो भक्तवत्सलो विदितो जनैः । तस्यायं तादृशो मासः स्वल्पमप्युरुकारकः ॥ ऋBह्र्स्_१,२.२२१ ॥ तत्रापि मथुरायां विशेषो, यथा तत्रैव भुक्तिं मुक्तिं हरिर्दद्यादर्चितोऽन्यत्र सेविनाम् । भक्तिं तु न ददात्येव यतो वश्यकरी हरेः ॥ ऋBह्र्स्_१,२.२२२ ॥ सा त्वञ्जसा हरेर्भक्तिर्लभ्यते कार्त्तिके नरैः । मथुरायां सकृदपि श्रीदामोदरसेवनात् ॥ ऋBह्र्स्_१,२.२२३ ॥ ५९ अथ श्रीजन्मदिनयात्रा, यथा भविष्योत्तरे यस्मिन् दिने प्रसूतेयं देवकी त्वां जनार्दन । तद्दिनं ब्रूहि वैकुण्ठ कुर्मस्ते तत्र चोत्सवम् । तेन सम्यक्प्रपन्नानां प्रसादं कुरु केशवः ॥ ऋBह्र्स्_१,२.२२४ ॥ ६० अथ श्रीमूर्तेर्अन्घ्रिसेवने प्रीतिः, यथा आदिपुराणे मम नामसदाग्राही मम सेवाप्रियः सदा । भक्तिस्तस्मै प्रदातव्या न तु मुक्तिः कदाचन ॥ ऋBह्र्स्_१,२.२२५ ॥ ६१ अथ श्रीभागवतार्थास्वादो, यथा प्रथमे (१.१.३) निगमकल्पतरोर्गलितं फलं शुकमुखादमृतद्रवसंयुतम् । पिबत भागवतं रसमालयं मुहुरहो रसिका भुवि भावुकाः ॥ ऋBह्र्स्_१,२.२२६ ॥ तथा द्वितीये (२.१.९) च परिनिष्ठितोऽपि नैर्गुण्ये उत्तमःश्लोकलीलया । गृहितचेता राजर्षे आख्यानं यदधीतवान् ॥ ऋBह्र्स्_१,२.२२७ ॥ ६२अथ सजातीयाशयस्निग्धश्रीभगवद्भक्तसङ्गो, यथा प्रथमे (१.१८.१३) तुलयाम लवेनापि न स्वर्गं नापुनर्भवम् । भगवत्सङ्गिसङ्गस्य मर्त्यानां किमुताशिषः ॥ ऋBह्र्स्_१,२.२२८ ॥ हरिभक्तिसुधोदये च यस्य यत्सङ्गतिः पुंसो मणिवत्स्यात्स तद्गुणः । स्वकूलर्द्ध्यै ततो धीमान् स्वयूथ्यानेव संश्रयेत् ॥ ऋBह्र्स्_१,२.२२९ ॥ ६३ अथ श्रीनाम संकीर्तनं, यथा द्वितीये (२.१.११) एतन्निर्विद्यमानानामिच्छतामकुतोभयम् । योगिनां नृप निर्णीतं हरेर्नामानुकीर्तनम् ॥ ऋBह्र्स्_१,२.२३० ॥ आदिपुराणे च गीत्वा च मम नामानि विचरेन्मम सन्निधौ । इति ब्रवीमि ते सत्यं क्रीतोऽहं तस्य चार्जुन ॥ ऋBह्र्स्_१,२.२३१ ॥ पाद्मे च येन जन्मसहस्राणि वासुदेवो निषेवितः । तन्मुखे हरिनामानि सदा तिष्ठन्ति भारत ॥ ऋBह्र्स्_१,२.२३२ ॥ यतस्तत्रैव च नाम चिन्तामणिः कृष्णश्चैतन्यरसविग्रहः । पूर्णः शुद्धो नित्यमुक्तोऽभिन्नत्वान्नामनामिनोः ॥ ऋBह्र्स्_१,२.२३३ ॥ अतः श्रीकृष्णनामादि न भवेद्ग्राह्यमिन्द्रियैः । सेवोन्मुखे हि जिह्वादौ स्वयमेव स्फुरत्यदः ॥ ऋBह्र्स्_१,२.२३४ ॥ ६४ अथ श्रीमथुरामण्डले स्थितिः, यथा पाद्मे अन्येषु पुण्यतीर्थेषु मुक्तिरेव महाफलम् । मुक्तैः प्रार्थ्या हरेर्भक्तिर्मथुरायां तु लभ्यते ॥ ऋBह्र्स्_१,२.२३५ ॥ त्रिवर्गदा कामिनां या मुमुक्षूणां च मोक्षदा । भक्तीच्छोर्भक्तिदा कस्तां मथुरां नाश्रयेद्बुधः ॥ ऋBह्र्स्_१,२.२३६ ॥ अहो मधुपुरी धन्या वैकुण्ठाच्च गरीयसी । दिनमेकं निवासेन हरौ भक्तिः प्रजायते ॥ ऋBह्र्स्_१,२.२३७ ॥ दुरूहाद्भुतवीर्येऽस्मिन् श्रद्धा दूरेऽस्तु पञ्चके । यत्र स्वल्पोऽपि सम्बन्धः सद्धियां भावजन्मने ॥ ऋBह्र्स्_१,२.२३८ ॥ तत्र श्रीमुर्तिः यथा स्मेरां भङ्गीत्रयपरिचितां साचिविस्तीर्णदृष्टिं वंशीन्यस्ताधरकिशलयामुज्ज्वलां चन्द्रकेण । गोविन्दाख्यां हरितनुमितः केशितीर्थोपकण्ठे मा प्रेक्षिष्ठास्तव यदि सखे बन्धुसन्गेऽस्ति रङ्गः ॥ ऋBह्र्स्_१,२.२३९ ॥ श्रीभागवतं यथा शङ्के नीताः सपदि दशमस्कन्धपद्यावलीनां वर्णाः कर्णाध्वनि पथि कतामानुपुर्व्याद्भवद्भिः । हंहो दिम्भाः परमशुभदान् हन्त धर्मार्थकामान् यद्गर्हन्तः सुखमयममी मोक्षमप्याक्षिपन्ति ॥ ऋBह्र्स्_१,२.२४० ॥ कृष्णभक्तो यथा दृग्अम्भोभिर्धौतः पुलकपतली मण्डिततनुः स्खलन्नन्तःफुल्लो दधदतिपृथुं वेपथुमपि । दृशोः कक्षां यावन्मम स पुरुषः कोऽप्युपययौ न जाते किं तावन्मतिरिह गृहे नाभिरमते ॥ ऋBह्र्स्_१,२.२४१ ॥ नाम यथा यदवधि मम शीता वैणिकेनानुगीता श्रुतिपथमघशत्रोर्नामागाथा प्रयाता । अनवकलितपूर्वां हन्त कामप्यवस्थां तदवधि दधद्अन्तर्मानसं शाम्यतीव ॥ ऋBह्र्स्_१,२.२४२ ॥ श्री मथुरामण्डलं, यथा तटभुवि कृतकान्तिः श्यामला यास्तटिन्याः स्फुटितनवकदम्बालम्बिकूजद्द्विरेफा । निरवधिमधुरिम्णा मण्डितेयं कथं मे मनसि कमपि भावं काननश्रीस्तनोति ॥ ऋBह्र्स्_१,२.२४३ ॥ अलौकिकपदार्थानामचिन्त्या शक्तिरीदृशी । भावं तद्विषयं चापि या सहैव प्रकाशयेत् ॥ ऋBह्र्स्_१,२.२४४ ॥ केषांचित्क्वचिदङ्गानां यत्क्षुद्रं श्रूयते फलम् । बहिर्मुखप्रवृत्त्यैतत्किन्तु मुख्यं फलं रतिः ॥ ऋBह्र्स्_१,२.२४५ ॥ संमतं भक्तिविज्ञानां भक्त्य्अङ्गत्वं न कर्मणाम् ॥ ऋBह्र्स्_१,२.२४६ ॥ यथ चैकादशे (११.२०.९) तावत्कर्माणि कुर्वीत न निर्विद्येत यावता । मत्कथाश्रवणादौ वा श्रद्धा यावन्न जायते ॥ ऋBह्र्स्_१,२.२४७ ॥ ज्ञानवैराग्ययोर्भक्तिप्रवेशायोपयोगिता । ईषत्प्रथममेवेति नाङ्गत्वमुचितं तयोः ॥ ऋBह्र्स्_१,२.२४८ ॥ यदुभे चित्तकाठिन्यहेतू प्रायः सतां मते । सुकुमारस्वभावेयं भक्तिस्तद्धेतुरीरिता ॥ ऋBह्र्स्_१,२.२४९ ॥ यथा तत्रैव (११.२०.३१) तस्मान्मद्भक्तियुक्तस्य योगिनो वै मद्आत्मनः । न ज्ञानं न च वैराग्यं प्रायः श्रेयो भवेदिह ॥ ऋBह्र्स्_१,२.२५० ॥ किन्तु ज्ञानविरक्त्य्आदिसाध्यं भक्त्यैव सिध्यति ॥ ऋBह्र्स्_१,२.२५१ ॥ यथा तत्रैव (११.२०.३२३३) यत्कर्मभिर्यत्तपसा ज्ञानवैराग्य तश्च यत् । योगेन दान धर्मेण श्रेयोभिरितरैरपि ॥ ऋBह्र्स्_१,२.२५२ ॥ सर्वं मद्भक्तियोगेन मद्भक्तो लभतेऽन्जसा । स्वर्गापवर्गं मद्धाम कथञ्चिद्यदि वाञ्छति ॥ ऋBह्र्स्_१,२.२५३ ॥ रुचिमुद्वहतस्तत्र जनस्य भजने हरेः । विषयेषु गरिष्ठोऽपि रागः प्रायो विलीयते ॥ ऋBह्र्स्_१,२.२५४ ॥ अनासक्तस्य विषयान् यथार्हमुपयुञ्जतः । निर्बन्धः कृष्णसम्बन्धे युक्तं वैराग्यमुच्यते ॥ ऋBह्र्स्_१,२.२५५ ॥ प्रापञ्चिकतया बुद्ध्या हरिसम्बन्धिवस्तुनः । मुमुक्षुभिः परित्यागो वैराग्यं फल्गु कथ्यते ॥ ऋBह्र्स्_१,२.२५६ ॥ प्रोक्तेन लक्षणेनैव भक्तिरधिकृतस्य च । अङ्गत्वे सुनिरस्तेऽपि नित्याद्य्अखिलकर्मणाम् ॥ ऋBह्र्स्_१,२.२५७ ॥ ज्नानस्याध्यात्मिकस्यापि वैरग्यस्य च फल्गुनः । स्पष्टतार्थं पुनरपि तदेवेदं निराकृतम् ॥ ऋBह्र्स्_१,२.२५८ ॥ धनशिष्यादिभिर्द्वारैर्या भक्तिरुपपाद्यते । विदूरत्वादुत्तमताहान्या तस्याश्च नाङ्गता ॥ ऋBह्र्स्_१,२.२५९ ॥ विशेषणत्वमेवैषां संश्रयन्त्यधिकारिणाम् । विवेकादीन्यतोऽमीषामपि नाङ्गत्वमुच्यते ॥ ऋBह्र्स्_१,२.२६० ॥ कृष्णोन्मुखं स्वयं यान्ति यमाः शौचादयस्तथा । इत्येषां च न युक्ता स्याद्भक्त्य्अङ्गान्तरपातिता ॥ ऋBह्र्स्_१,२.२६१ ॥ यथा स्कान्दे एते न ह्यद्भुता व्याध तवाहिंसादयो गुणाः । हरिभक्तौ प्रवृत्ता ये न ते स्युः परतापिनः ॥ ऋBह्र्स्_१,२.२६२ ॥ तत्रैव अन्तःशुद्धिर्बहिःशुद्धिस्तपःशान्त्य्अदयस्तथा । अमी गुणाः प्रपद्यन्ते हरिसेवाभिकामिनाम् ॥ ऋBह्र्स्_१,२.२६३ ॥ सा भक्तिरेकमुख्याण्गाश्रितानैकाङ्गि काथ वा । स्ववासनानुसारेण निष्ठातः सिद्धिकृद्भवेत् ॥ ऋBह्र्स्_१,२.२६४ ॥ तत्र एकाङ्गा, यथा ग्रन्थान्तरे {*ড়द्यावली, ५३. आनोन्य्मोउस्} श्री विष्णोः श्रवणे परीक्षिदभवद्वैयासकिः कीर्तने प्रह्लादः स्मरणे तद्अङ्घ्रिभजने लक्ष्मीः पृथुः पूजने । अक्रूरस्त्वभिवन्दने कपिपतिर्दास्येऽथ सख्येऽर्जुनः सर्वस्वात्मनिवेदने बलिरभूत्कृष्णाप्तिरेषां परा ॥ ऋBह्र्स्_१,२.२६५ ॥ अनेकाङ्गा, यथा नवमे (९.४.१८२०) स वै मनः कृष्णपदारविन्दयोर् वचांसि वैकुण्ठगुणानुवर्णने । करौ हरेर्मन्दिरमार्जनादिषु श्रुतिं चकाराच्युतसत्कथोदये ॥ ऋBह्र्स्_१,२.२६६ ॥ मुकुन्दलिङ्गालयदर्शने दृशौ तद्भृत्यगात्रस्पर्शेऽङ्गसङ्गमम् । घ्राणं च तत्पादसरोजसौरभे श्रीमत्तुलस्या रसनां तद्अर्पिते ॥ ऋBह्र्स्_१,२.२६७ ॥ पादौ हरेः क्षेत्रपदानुसर्पणे शिरो हृषीकेशपदाभिवन्दने । कामं च दास्ये न तु कामकाम्यया यथोत्तमःश्लोकजनाश्रय रतिः ॥ ऋBह्र्स्_१,२.२६८ ॥ शास्त्रोक्तया प्रबलया तत्तन्मर्यादयान्विता । वैधि भक्तिरियं कैश्चन्मर्यादामार्ग उच्यते ॥ ऋBह्र्स्_१,२.२६९ ॥ अथ रागानुगा विराजन्तीमभिव्यक्तां व्रजवासी जनादिषु । रागात्मिकामनुसृता या सा रागानुगोच्यते ॥ ऋBह्र्स्_१,२.२७० ॥ रागानुगाविवेकार्थमादौ रागात्मिकोच्यते ॥ ऋBह्र्स्_१,२.२७१ ॥ इष्टे स्वारसिकी रागः परमाविष्टता भवेत् । तन्मयी या भवेद्भक्तिः सात्र रागात्मिकोदिता ॥ ऋBह्र्स्_१,२.२७२ ॥ सा कामरूपा सम्बन्धरूपा चेति भवेद्द्विधा ॥ ऋBह्र्स्_१,२.२७३ ॥ तथा हि सप्तमे (७.१.२९३०) कामाद्द्वेषाद्भयात्स्नेहाद्यथा भक्त्येश्वरे मनः । आवेश्य तदघं हित्वा बहवस्तद्गतिं गताः ॥ ऋBह्र्स्_१,२.२७४ ॥ गोप्यः कामाद्भयात्कंसो द्वेषाच्चैद्यादयो नृपाः । सम्बन्धाद्वृष्णयः स्नेहाद्यूयं भक्त्या वयं विभो ॥ ऋBह्र्स्_१,२.२७५ ॥ इति ॥ आनुकूल्यविपर्यासाद्भीतिद्वेषौ पराहतौ । स्नेहस्य सख्यवाचित्वाद्वैधभक्त्य्अनुवर्तिता ॥ ऋBह्र्स्_१,२.२७६ ॥ किं वा प्रेमाभिधायित्वान्नोपयोगोऽत्र साधने । भक्त्या वयमिति व्यक्तं वैधी भक्तिरुदीरिता ॥ ऋBह्र्स्_१,२.२७७ ॥ यद्अरीणां प्रियाणां च प्राप्यमेकमिवोदितम् । तद्ब्रह्मकृष्णयोरैक्यात्किरणार्कोपमाजुषोः ॥ ऋBह्र्स्_१,२.२७८ ॥ ब्रह्मण्येव लयं यान्ति प्रायेण रिपवो हरेः । केचित्प्राप्यापि सारूप्याभासं मज्जन्ति तत्सुखे ॥ ऋBह्र्स्_१,२.२७९ ॥ तथा च ब्रह्माण्ड पुराणे सिद्धलोकस्तु तमसः पारे यत्र वसन्ति हि । सिद्धा ब्रह्मसुखे मग्ना दैत्याश्च हरिण हताः ॥ ऋBह्र्स्_१,२.२८० ॥ रागबन्धेन केनापि तं भजन्तो व्रजन्त्यमी । अङ्घ्रिपद्मसुधाः प्रेमरूपास्तस्य प्रिया जनाः ॥ ऋBह्र्स्_१,२.२८१ ॥ तथा हि श्रीदशमे (१०.८७.२३) निभृतमरुन्मनोऽक्षदृढयोगयुजो हृदि यन् मुनय उपासते तद्अरयोऽपि ययुः स्मरणात् । स्त्रिय उरगेन्द्रभोगभुजदण्डविषक्तधियो वयमपि ते समाः समदृशोऽङ्घ्रिसरोजसुधाः ॥ ऋBह्र्स्_१,२.२८२ ॥ तत्र रूपा सा कामरूपा सम्भोगतृष्णां या नयति स्वताम् । यदस्यां कृष्णसौख्यार्थमेव केवलमुद्यमः ॥ ऋBह्र्स्_१,२.२८३ ॥ इयं तु व्रजदेवीषु सुप्रसिद्धा विराजते । आसां प्रेमविशेषोऽयं प्राप्तः कामपि माधुरीम् । तत्तत्क्रीडानिदानत्वात्काम इत्युच्यते बुधैः ॥ ऋBह्र्स्_१,२.२८४ ॥ तथा च तन्त्रे प्रेमैव गोपरामाणां काम इत्यगमत्प्रथाम् ॥ ऋBह्र्स्_१,२.२८५ ॥ इत्युद्धवादयोऽप्येतं वाञ्छति भगवत्प्रियाः ॥ ऋBह्र्स्_१,२.२८६ ॥ कामप्राया रतिः किन्तु कुब्जायामेव सम्मता ॥ ऋBह्र्स्_१,२.२८७ ॥ तत्र सम्बन्धरूपा सम्बन्धरूपा गोविन्दे पितृत्वाद्य्आभिमानिता । अत्रोपलक्षणतया वृष्णीनां वल्लवा मताः । यदैश्यज्ञानशून्यत्वादेषां रागे प्रधानता ॥ ऋBह्र्स्_१,२.२८८ ॥ कामसम्बन्धरूपे ते प्रेममात्रस्वरूपके । नित्यसिद्धाश्रयतया नात्र सम्यग्विचारिते ॥ ऋBह्र्स्_१,२.२८९ ॥ रागात्मिकाया द्वैविध्याद्द्विधा रागानुगा च सा । कामानुगा च सम्बन्धानुगा चेति निगद्यते ॥ ऋBह्र्स्_१,२.२९० ॥ तत्र अधिकारी रागात्मिकैकनिष्ठा ये व्रजवासिजनादयः । तेषां भावाप्तये लुब्धो भवेदत्राधिकारवान् ॥ ऋBह्र्स्_१,२.२९१ ॥ तत्तद्भावादिमाधुर्ये श्रुते धीर्यदपेक्षते । नात्र शास्त्रं न युक्तिं च तल्लोभोत्पत्तिलक्षणम् ॥ ऋBह्र्स्_१,२.२९२ ॥ वैधभक्त्य्अधिकारी तु भावाविर्भवनावधि । अत्र शास्त्रं तथा तर्कमनुकूलमपेक्षते ॥ ऋBह्र्स्_१,२.२९३ ॥ कृष्णं स्मरन् जनं चास्य प्रेष्ठं निजसमीहितम् । तत्तत्कथारतश्चासौ कुर्याद्वासं व्रजे सदा ॥ ऋBह्र्स्_१,२.२९४ ॥ सेवा साधकरूपेण सिद्धरूपेण चात्र हि । तद्भावलिप्सुना कार्या व्रजलोकानुसारतः ॥ ऋBह्र्स्_१,२.२९५ ॥ श्रवणोत्कीर्तनादीनि वैधभक्त्य्उदितानि तु । यान्यङ्गानि च तान्यत्र विज्ञेयानि मनीषिभिः ॥ ऋBह्र्स्_१,२.२९६ ॥ तत्र कामानुगा कामानुगा भवेत्तृष्णा कामरूपानुगामिनी ॥ ऋBह्र्स्_१,२.२९७ ॥ सम्भोगेच्छामयी तत्तद्भावेच्छात्मेति सा द्विधा ॥ ऋBह्र्स्_१,२.२९८ ॥ केलितात्पर्यवत्येव सम्भोगेच्छामयी भवेत् । तद्भावेच्छात्मिका तासां भावमाधुर्यकामिता ॥ ऋBह्र्स्_१,२.२९९ ॥ श्रीमूर्तेर्माधुरीं प्रेक्ष्य तत्तल्लीलां निशम्य वा । तद्भावाकाण्क्षिणो ये स्युस्तेषु साधनतानयोः । पुराणे श्रुयते पाद्मे पुंसमपि भवेदियम् ॥ ऋBह्र्स्_१,२.३०० ॥ यथा पुरा महर्षयः सर्वे दण्डकारण्यवासिनः । दृष्ट्वा रामं हरिं तत्र भोक्तुमैच्छन् सुविग्रहम् ॥ ऋBह्र्स्_१,२.३०१ ॥ ते सर्वे स्त्रीत्वमापन्नाः समुद्भूताश्च गोकुले । हरिं सम्प्राप्य कामेन ततो मुक्ता भवार्णवात् ॥ ऋBह्र्स्_१,२.३०२ ॥ रिरंसां सुष्ठु कुर्वन् यो विधिमार्गेण सेवते । केवलेनैव स तदा महिषीत्वमियात्पुरे ॥ ऋBह्र्स्_१,२.३०३ ॥ तथा च महाकौर्मे अग्निपुत्रा महात्मानस्तपसा स्त्रीत्वमापिरे । भर्तारं च जगद्योनिं वासुदेवमजं विभुम् ॥ ऋBह्र्स्_१,२.३०४ ॥ अथ सम्बन्धानुगा सा सम्बन्धानुगा भक्तिः प्रोच्यते सद्भिरात्मनि । या पितृत्वादिसम्बन्धमननारोपनात्मिका ॥ ऋBह्र्स्_१,२.३०५ ॥ लुब्धैर्वात्सल्यसख्यादौ भक्तिः कार्यात्र साधकैः । व्रजेन्द्रसुबलादीनां भावचेष्टितमुद्रया ॥ ऋBह्र्स्_१,२.३०६ ॥ तथा हि श्रुयते शास्त्रे कश्चित्कुरुपुरीस्थितः । नन्दसूनोरधिष्ठानं तत्र पुत्रतया भजन् । नारदस्योपदेशेन सिद्धोऽभूद्वृद्धवर्धकिः ॥ ऋBह्र्स्_१,२.३०७ ॥ अतएव नारायणव्यूहस्तवे पतिपुत्रसुहृद्भ्रातृपितृवन्मैत्रवद्धरिम् । ये ध्यायन्ति सदोद्युक्तास्तेभ्योऽपीह नमो नमः ॥ ऋBह्र्स्_१,२.३०८ ॥ कृष्णतद्भक्तकारुण्यमात्रलाभैकहेतुका । पुष्टिमार्गतया कैश्चिदियं रागानुगोच्यते ॥ ऋBह्र्स्_१,२.३०९ ॥ इति श्रीश्रीभक्तिरसामृतसिन्धौ पुर्वविभागे साधनभक्तिलहरीद्वितिया ॥ ___________________________________________________ [१.३] अथ भावः शुद्धसत्त्वविशेषात्मा प्रेमसूर्यांशुसाम्यभाक् । रुचिभिश्चित्तमासृण्यकृदसौ भाव उच्यते ॥ ऋBह्र्स्_१,३.१ ॥ तथा हि तन्त्रे प्रेम्णस्तु प्रथमावस्था भाव इत्यभिधीयते । सात्त्विकाः स्वल्पमात्राः स्युरत्राश्रुपुलकादयः ॥ ऋBह्र्स्_१,३.२ ॥ स यथा पद्मपुराणे ध्यायं ध्यायं भगवतः पादाम्बुजयुगं तदा । ईषद्विक्रियमाणात्मा सार्द्रदृष्तिरभूदसौ ॥ ऋBह्र्स्_१,३.३ ॥ आविर्भूय मनोवृत्तौ व्रजन्ति तत्स्वरूपताम् । स्वयंप्रकाशरूपापि भासमाना प्राकाश्यवत् ॥ ऋBह्र्स्_१,३.४ ॥ वस्तुतः स्वयमास्वादस्वरूपैव रतिस्त्वसौ । कृष्णादिकर्मकास्वादहेतुत्वं प्रतिपद्यते ॥ ऋBह्र्स्_१,३.५ ॥ साधनाभिनिवेशेन कृष्णतद्भक्तयोस्तथा । प्रसादेनातिधन्यानां भावो द्वेधाभिजायते । आद्यस्तु प्रायिकस्तत्र द्वितीयो विरलोदयः ॥ ऋBह्र्स्_१,३.६ ॥ तत्र साधनाभिनिवेशजः वैधीरागानुगामार्गभेदेन परिकीर्तितः । द्विविधः खलु भावोऽत्र साधनाभिनिवेशजः ॥ ऋBह्र्स्_१,३.७ ॥ साधनाभिनिवेशस्तु तत्र निष्पादयन् रुचिम् । हरावासक्तिमुत्पाद्य रतिं संजनयत्यसौ ॥ ऋBह्र्स्_१,३.८ ॥ तत्र आद्यो (१.५.२६) तत्रान्वहं कृष्णकथाः प्रगायताम् अनुग्रहेणाशृणवं मनोहराः । ताः श्रद्धया मेऽनुपदं विशृण्वतः प्रियश्रवस्यङ्ग ममाभवद्रतिः ॥ ऋBह्र्स्_१,३.९ ॥ इति । रत्या तु भाव एवात्र न तु प्रेमाभिधीयते । मम भक्तिः प्रवृत्तेति वक्ष्यते स यदग्रतः ॥ ऋBह्र्स्_१,३.१० ॥ यथा तत्रैव (१.५.२८) इत्थं शरत्प्रावृषिकावृतू हरेर् विशृण्वतो मेऽनुसवं यशोऽमलम् । सङ्कीर्त्यमानं मुनिभिर्महात्मभिर् भक्तिः प्रवृत्तात्म रजस्तमोपहा ॥ ऋBह्र्स्_१,३.११ ॥ तृतीये च (३.२५.२५) सतां प्रसङ्गान्मम वीर्यसंविदो भवन्ति हृत्कर्णरसायनाः कथाः । तज्जोषणादाश्वपवर्गवर्त्मनि श्रद्धा रतिर्भक्तिरनुक्रमिष्यति ॥ ऋBह्र्स्_१,३.१२ ॥ पुराणे नात्यशास्त्रे च द्वयोस्तु रतिभावयोः । समानार्थतया ह्यत्र द्वयमैक्येन लक्षितम् ॥ ऋBह्र्स्_१,३.१३ ॥ द्वितीयो, यथा पाद्मे इत्थं मनोरथं बाला कुर्वती नृत्य उत्सुका । हरिप्रीत्या च तां सर्वां रात्रिमेवात्यवाहयत् ॥ ऋBह्र्स्_१,३.१४ ॥ अथ श्रिकृष्णतद्भक्तप्रसादजः साधनेन विना यस्तु सहसैवाभिजायते । स भावः कृष्णतद्भक्तप्रसादज इतीयते ॥ ऋBह्र्स्_१,३.१५ ॥ अथ श्रीकृष्णप्रसादजः प्रसादा वाचिकालोकदानहार्दादयो हरेः ॥ ऋBह्र्स्_१,३.१६ ॥ तत्र वाचिकप्रसादजः, यथा नारदीये सर्वमण्गलमूर्धन्या पूर्णानन्दमयी सदा । द्विजेन्द्र तव मय्यस्तु भक्तिरव्याभिचारिणी ॥ ऋBह्र्स्_१,३.१७ ॥ आलोकदानजः, यथा स्कान्दे अदृष्टपूर्वमालोक्य कृष्णं जाङ्गलवासिनः । विक्लिद्यद्अन्तरात्मनो दृष्टिं नाक्रष्टुमीशिरे ॥ ऋBह्र्स्_१,३.१८ ॥ हार्दः प्रसाद आन्तरो यः स्यात्स हार्द इति कथ्यते ॥ ऋBह्र्स्_१,३.१९ ॥ यथा शुकसंहितायां महाभागवतो जातः पुत्रस्ते बादरायण । विनोपायैरुपेयाभूद्विष्णुभक्तिरिहोदिता ॥ ऋBह्र्स्_१,३.२० ॥ अथ तद्भक्तप्रसादजः, यथा सप्तमे (७.४.३६) गुणैरलमसङ्ख्येयैर्महात्म्यं तस्य सूच्यते । वासुदेवे भगवति यस्य नैसर्गिकी रतिः ॥ ऋBह्र्स्_१,३.२१ ॥ नारदस्य प्रसादेन प्रह्लादे शुधवासना । निसर्गः सैव तेनात्र रतिर्नैसर्गिकी मता ॥ ऋBह्र्स्_१,३.२२ ॥ स्कान्दे च अहो धन्योऽसि देवर्षे कृपया यस्य तत्क्षणात् । नीचोऽप्युत्पुलको लेभे लुब्धको रतिमच्युते ॥ ऋBह्र्स्_१,३.२३ ॥ भक्तानां भेदतः सेयं रतिः पञ्चविधा मता । अग्रे विविच्य वक्तव्या तेन नात्र प्रपञ्च्यते ॥ ऋBह्र्स्_१,३.२४ ॥ क्षान्तिरव्यर्थकालत्वं विरक्तिर्मानशुन्यता । आशाबन्धः समुत्कण्ठा नामगाने सदा रुचिः ॥ ऋBह्र्स्_१,३.२५ ॥ आसक्तिस्तद्गुणाख्याने प्रीतिस्तद्वसतिस्थले । इत्यादयोऽनुभावाः स्युर्जातभावाङ्कुरे जने ॥ ऋBह्र्स्_१,३.२६ ॥ तत्र क्षान्तिः क्षोभहेतावपि प्राप्ते क्षान्तिरक्षुभितात्मता ॥ ऋBह्र्स्_१,३.२७ ॥ यथा प्रथमे (१.१९.१५) तं मोपयातं प्रतियन्तु विप्रा गङ्गा च देवी धृतचित्तमीशे । द्विजोपसृष्टः कुहकस्तक्षको वा दशत्वलं गायत विष्णुगाथाः ॥ ऋBह्र्स्_१,३.२८ ॥ अथ अव्यार्थकालत्वं, यथा हरिभक्तिसुधोदये वाग्भिः स्तुवन्तो मनसा स्मरन्तस् तन्वा नमन्तोऽप्यनिशं न तृप्ताः । भक्ताः स्रवन्नेत्रजलाः समग्रम् आयुर्हरेरेव समर्पयन्ति ॥ ऋBह्र्स्_१,३.२९ ॥ अथ विरक्तिः विरक्तिरिन्द्रियार्थानां स्यादरोचकता स्वयम् ॥ ऋBह्र्स्_१,३.३० ॥ यथा पञ्चमे (५.१४.४३) यो दुस्त्यजान् दारसुतान् सुहृद्राज्यं हृदिस्पृशः । जहौ युवैव मलवदुत्तमःश्लोकलालसः ॥ ऋBह्र्स्_१,३.३१ ॥ अथ मानशून्यता उत्कृष्टत्वेऽप्यमानित्वं कथिता मानशून्यता ॥ ऋBह्र्स्_१,३.३२ ॥ यथा पाद्मे हरौ रतिं वहन्नेष नरेन्द्राणां शिखामणिः । भिक्षामटन्नरिपुरे श्वपाकमपि वन्दते ॥ ऋBह्र्स्_१,३.३३ ॥ अथ आशाबन्धः आशाबन्धो भगवतः प्राप्तिसम्भावना दृढा ॥ ऋBह्र्स्_१,३.३४ ॥ यथा श्रीमत्प्रभुपादानां न प्रेमा श्रवणादिभक्तिरपि वा योगोऽथवा वैष्णवो ज्ञानं वा शुभकर्म वा कियदहो सज्जातिरप्यस्ति वा । हीनार्थाधिकसाधके त्वयि तथाप्यच्छेद्यमूला सती हे गोपीजनवल्लभ व्यथयते हा हा मद्आशैव माम् ॥ ऋBह्र्स्_१,३.३५ ॥ अथ समुत्कण्ठा समुत्कण्ठा निजाभीष्टलाभाय गुरुलुब्धता ॥ ऋBह्र्स्_१,३.३६ ॥ अथ कृष्णकर्णामृते (५४) आनम्रामसितभ्रुवोरुपचितमक्षीणपक्ष्माङ्कुरेष्व् आलोलामनुरागिणोर्नयनयोरार्द्रां मृदौ जल्पिते । आताम्रामधरामृते मदकलामम्लान वंशीस्वनेष्व् आशास्ते मम लोचनं व्रजशिशोर्मूर्तिं जगन्मोहिनीम् ॥ ऋBह्र्स्_१,३.३७ ॥ अथ नामगाने सदा रुचिः, यथा रोदनबिन्दुमरन्दस्यन्दिदृग्इन्दीवराद्य गोविन्द । तव मधुरस्वरकण्ठी गायति नामावलीं बाला ॥ ऋBह्र्स्_१,३.३८ ॥ तद्गुणाख्याने आसाक्तिः, यथा कृष्णकर्णामृते (८८) माधुर्यादपि मधुरं मन्मथता तस्य किमपि कैशोरम् । चपल्यादपि चपलं चेतो बत हरति हन्त किं कुर्मः ॥ ऋBह्र्स्_१,३.३९ ॥ तद्वसतिस्थले प्रीतिः, यथा पद्यावल्याम् {*णोत्fओउन्दिन्म्येदितिओन्.} अत्रासीत्किल नन्दसद्म शकटस्यात्राभवद्भञ्जनं बन्धच्छेदकरोऽपि दामभिरभूद्बद्धोऽत्र दामोदरः । इत्थं माथुरवृद्धवक्त्रविगलत्पीयूषधारां पिबन्न् आनन्दाश्रुधरः कदा मधुपुरीं धन्यश्चरिष्याम्यहम् ॥ ऋBह्र्स्_१,३.४० ॥ अपि च व्यक्तं मसृणितेवान्तर्लक्ष्यते रतिलक्षणम् । मुमुक्षुप्रभृतीनां चेद्भवेदेषा रतिर्न हि ॥ ऋBह्र्स्_१,३.४१ ॥ विमुक्ताखिलतर्षैर्या मुक्तिरपि विमृग्यते । या कृष्णेनातिगोप्याशु भजद्भ्योऽपि न दीयते ॥ ऋBह्र्स्_१,३.४२ ॥ सा भुक्तिमुक्तिकामत्वाच्छुद्धां भक्तिमकुर्वताम् । हृदये सम्भवत्येषां कथं भागवती रतिः ॥ ऋBह्र्स्_१,३.४३ ॥ किन्तु बालचमत्कारकरी तच्चिह्नवीक्षया । अभिज्ञेन सुबोधोऽयं रत्य्आभासः प्रकीर्तितः ॥ ऋBह्र्स्_१,३.४४ ॥ प्रतिबिम्बस्तथा च्छाया रत्य्आभासो द्विधा मतः ॥ ऋBह्र्स्_१,३.४५ ॥ तत्र प्रतिबिम्बः अश्रमाभीष्टनिर्वाही रतिलक्षणलक्षितः । भोगापवर्गसौख्यांशव्यञ्जकः प्रतिबिम्बकः ॥ ऋBह्र्स्_१,३.४६ ॥ दैवात्सद्भक्तसङ्गेन कीर्तनाद्य्अनुसारिणाम् । प्रायः प्रसन्नमनसां भोगमोक्षादि रागिणाम् ॥ ऋBह्र्स्_१,३.४७ ॥ केषांचिथृदि भावेन्दोः प्रतिबिम्ब उदञ्चति । तद्भक्तहृन्नभःस्थस्य तत्संसर्गप्रभावतः ॥ ऋBह्र्स्_१,३.४८ ॥ अथ छाया क्षुद्रकौतूहलमयी चञ्चला दुःखहारिणी । रतेश्छाया भवेत्किंचित्तत्सादृश्यावलम्बिनी ॥ ऋBह्र्स्_१,३.४९ ॥ हरिप्रियक्रियाकालदेशपात्रादिसङ्गमात् । अप्यानुषङ्गिकादेष क्वचिदज्ञेष्वपीक्ष्यते ॥ ऋBह्र्स्_१,३.५० ॥ किन्तु भाग्यं विना नासौ भावच्छायाप्युदञ्चति । यदभ्युदयतः क्षेमं तत्र स्यादुत्तरोत्तरम् ॥ ऋBह्र्स्_१,३.५१ ॥ हरिप्रियजनस्यैव प्रसादभरलाभतः । भावाभासोऽपि सहसा भावत्वमुपगच्छति ॥ ऋBह्र्स्_१,३.५२ ॥ तस्मिन्नेवापराधेन भावाभासोऽप्यनुत्तमः । क्रमेण क्षयमाप्नोति खस्थः पूर्णशशी यथा ॥ ऋBह्र्स्_१,३.५३ ॥ किं च भावोऽप्यभावमायाति कृष्णप्रेष्ठापराधतः । आभासतां च शनकैर्न्यूनजातीयतामपि ॥ ऋBह्र्स्_१,३.५४ ॥ गाढासङ्गात्सदायाति मुमुक्षौ सुप्रतिष्ठिते । आभासतामसौ किं वा भजनीयेशभावताम् ॥ ऋBह्र्स्_१,३.५५ ॥ अत एव क्वचित्तेषु नव्यभक्तेषु दृश्यते । क्षणमीश्वरभावोऽयं नृत्यादौ मुक्तिपक्षगः ॥ ऋBह्र्स्_१,३.५६ ॥ साधनेक्षां विना यस्मिन्नकस्माद्भाव ईक्ष्यते । विघ्नस्थगितमत्रोह्यं प्राग्भवीयं सुसाधनम् ॥ ऋBह्र्स्_१,३.५७ ॥ लोकोत्तरचमत्कारकारकः सर्वशक्तिदः । यः प्रथीयान् भवेद्भावः स तु कृष्णप्रसादजः ॥ ऋBह्र्स्_१,३.५८ ॥ जने चेज्जातभावेऽपि वैगुण्यमिव दृश्यते । कार्या तथापि नासूया कृतार्थः सर्वथैव सः ॥ ऋBह्र्स्_१,३.५९ ॥ यथा नारसिंहे भगवति च हरावनन्यचेता भृशमलिनोऽपि विराजते मनुष्यः । न हि शशकलुषच्छविः कदाचित् तिमिरपराभवतामुपैति चन्द्रः ॥ ऋBह्र्स्_१,३.६० ॥ रतिरनिशनिसर्गोष्णप्रबलतरानन्दपूररूपैव । उष्माणमपि वमन्ती सुधांशुकोटेरपि स्वाद्वी ॥ ऋBह्र्स्_१,३.६१ ॥ इति श्रीश्री भक्तिरसामृतसिन्धौ पुर्वविभागे भावभक्तिलहरी तृतीया ॥ ___________________________________________________ [१.४] अथ प्रेमा सम्यङ्मसृणितस्वान्तो ममत्वातिशयाङ्कितः । भावः स एव सान्द्रात्मा बुधैः प्रेमा निगद्यते ॥ ऋBह्र्स्_१,४.१ ॥ यथा पञ्चरात्रे अनन्यममता विष्णौ ममता प्रेमसङ्गता । भक्तिरित्युच्यते भीष्मप्रह्लादोद्धवनारदैः ॥ ऋBह्र्स्_१,४.२ ॥ भक्तिः प्रेमोच्यते भीष्ममुख्यैर्यत्र तु सङ्गता । ममतान्यममत्वेन वर्जितेत्यत्र योजना ॥ ऋBह्र्स्_१,४.३ ॥ भावोत्थोऽतिप्रसादोत्थः श्रीहरेरिति स द्विधा ॥ ऋBह्र्स्_१,४.४ ॥ तत्र भावोत्थः भाव एवान्तर्अङ्गाणम्अङ्गानाम्अनुसेवया । आरूढः परमोत्कर्षं भावोत्तः परिकीर्तितः ॥ ऋBह्र्स्_१,४.५ ॥ तत्र वैधभावोत्थो, यथैकादशे (११.२.४०) एवंव्रतः स्वप्रियनामकीर्त्या जातानुरागो द्रुतचित्त उच्चैः । हसत्यथो रोदिति रौति गायत्य् उन्मादवन्नृत्यति लोकबाह्यः ॥ ऋBह्र्स्_१,४.६ ॥ रागानुगीयभावोत्थो, यथा पाद्मे न पतिं कामयेत्कञ्चिद्ब्रह्मचर्यस्थिता सदा । तम्एव मूर्तिं ध्यायन्ती चन्द्रकन्तिर्वरानना ॥ ऋBह्र्स्_१,४.७ ॥ श्रीकृष्णगाथां गायन्ती रोमाण्चोद्भेदलक्षणा । अस्मिन्मन्वन्तरे स्निग्धा श्रीकृष्णप्रियवर्तया ॥ ऋBह्र्स्_१,४.८ ॥ अथ हरेरतिप्रसादोत्थः हरेरतिप्रसादोऽयं सङ्गदानादिरात्मनः ॥ ऋBह्र्स्_१,४.९ ॥ यथैकादशे (११.१२.७) ते नाधीतश्रुतिगणा नोपासितमहत्तमाः । अव्रतातप्ततपसः मत्सङ्गान्मामुपागताः ॥ ऋBह्र्स्_१,४.१० ॥ माहात्म्यज्ञानयुक्तश्च केवलश्चेति स द्विधा ॥ ऋBह्र्स्_१,४.११ ॥ अथ आद्यो, यथा पञ्चरात्रे माहात्म्यज्ञानयुक्तस्तु सुदृढः सर्वतोऽधिकः । स्नेहो भक्तिरिति प्रोक्तस्तया सार्ष्ट्यादिनान्यथा ॥ ऋBह्र्स्_१,४.१२ ॥ केवलो, यथा तत्रैव मनोगतिरविच्छिन्ना हरौ प्रेमपरिप्लुता । अभिसन्धिविनिर्मुक्ता भक्तिर्विष्णुवशङ्करी ॥ ऋBह्र्स्_१,४.१३ ॥ इति । महिमज्ञानयुक्तः स्याद्विधिमार्गानुसारिणाम् । रागानुगाश्रितानां तु प्रायशः केवलो भवेत् ॥ ऋBह्र्स्_१,४.१४ ॥ आदौ श्रद्धा ततः साधुसङ्गोऽथ भजनक्रिया । ततोऽनर्थनिवृत्तिः स्यात्ततो निष्ठा रुचिस्ततः ॥ ऋBह्र्स्_१,४.१५ ॥ अथासक्तिस्ततो भावस्ततः प्रेमाभ्युदञ्चति । साधकानामयं प्रेम्नः प्रादुर्भावे भवेत्क्रमः ॥ ऋBह्र्स्_१,४.१६ ॥ धन्यस्यायं नवः प्रेमा यस्योन्मीलति चेतसि । अन्तर्वाणीभिरप्यस्य मुद्रा सुष्ठु सुदुर्गमा ॥ ऋBह्र्स्_१,४.१७ ॥ अतएव श्रीनारदपञ्चरात्रे, यथा भावोन्मत्तो हरेः किञ्चिन्न वेद सुखमात्मनः । दुखं चेति महेशानि परमानन्द आप्लुतः ॥ ऋBह्र्स्_१,४.१८ ॥ प्रेम्ण एव विलासत्वाद्वैरल्यात्साधकेष्वपि । अत्र स्नेहादयो भेदा विविच्य न हि शंसिताः ॥ ऋBह्र्स्_१,४.१९ ॥ श्रीमत्प्रभुपदाम्भोजैः सर्वा भागवतामृते । व्यक्तीकृतास्ति गूढापि भक्तिसिद्धान्तमाधुरी ॥ ऋBह्र्स्_१,४.२० ॥ गोपालरूपशोभां दधदपि रघुनाथभावविस्तारी । तुष्यतु सनातनात्मा प्रथमविभागे सुधाम्बुनिधेः ॥ ऋBह्र्स्_१,४.२१ ॥ इति श्रीश्रीभक्तिरसामृतसिन्धौ पूर्वविभागे प्रेमभक्तिलहरीचतुर्थी इति श्रीश्रीभक्तिरसामृतसिन्धौ रसोपयोगिस्थायिभावोपपादनो नाम पूर्वविभागः समाप्तः ___________________________________________________ [२] सामान्यभगवद्भक्तिरसनिरूपको दक्षिणविभागः [२.१] विभावाख्या प्रथमलहरी प्रबलमनन्यश्रयिणा निषेवितः सहजरूपेण । अघदमनो मथुरायां सदा सनातनतनुर्जयति ॥ ऋBह्र्स्_२,१.१ ॥ रसामृताब्धेर्भागेऽस्मिन् द्वितीये दक्षिणाभिधे । सामान्यभगवद्भक्तिरसस्तावदुदीर्यते ॥ ऋBह्र्स्_२,१.२ ॥ अस्य पञ्च लहर्यः स्युर्विभावाख्याग्रिमा मता । द्वितीया त्वनुभावाख्या तृतीया सात्त्विकाभिधा । व्यभिचार्य्अभिधा तुर्या स्थायिसंज्ञा च पञ्चमी ॥ ऋBह्र्स्_२,१.३ ॥ अथास्याः केशवरतेर्लक्षिताया निगद्यते । सामग्रीपरिपोषेन परमा रसरूपता ॥ ऋBह्र्स्_२,१.४ ॥ विभावैरनुभावैश्च सात्त्विकैर्व्यभिचारिभिः । स्वाद्यत्वं हृदि भक्तानामानीता श्रवणादिभिः । एषा कृष्णरतिः स्थायी भावो भक्तिरसो भवेत् ॥ ऋBह्र्स्_२,१.५ ॥ प्राक्तन्याधुनिकी चास्ति यस्य सद्भक्तिवासना । एष भक्तिरसास्वादस्तस्यैव हृदि जायते ॥ ऋBह्र्स्_२,१.६ ॥ भक्तिनिर्धूतदोषाणां प्रसन्नोज्ज्वलचेतसाम् । श्रीभागवतरक्तानां रसिकासङ्गरङ्गिणाम् ॥ ऋBह्र्स्_२,१.७ ॥ जीवनीभूतगोविन्दपादभक्तिसुखश्रियाम् । प्रेमान्तरङ्गभूतानि कृत्यान्येवानुतिष्ठताम् ॥ ऋBह्र्स्_२,१.८ ॥ भक्तानां हृदि राजन्ती संस्कारयुगलोज्ज्वला । रतिरानन्दरूपैव नीयमाना तु रस्यताम् ॥ ऋBह्र्स्_२,१.९ ॥ कृष्णादिभिर्विभावाद्यैर्गतैरनुभवाध्वनि । प्रौढानन्दचमत्कारकाष्ठामापद्यते पराम् ॥ ऋBह्र्स्_२,१.१० ॥ किन्तु प्रेमा विभावाद्यैः स्वल्पैर्नीतोऽप्यणीयसीम् । विभावनाद्य्अवस्थां तु सद्य आस्वाद्यतां व्रजेत् ॥ ऋBह्र्स्_२,१.११ ॥ अत्र विभावादिसामान्यलक्षणम् ये कृष्णभक्तमुरलीनादाद्या हेतवो रतेः । कार्यभूताः स्मिताद्याश्च तथाष्टौ स्तब्धतादयः ॥ ऋBह्र्स्_२,१.१२ ॥ निर्वेदाद्याः सहायाश्च ते ज्ञेया रसभावने । विभावा अनुभावाश्च सात्त्विका व्यभिचारिणः ॥ ऋBह्र्स्_२,१.१३ ॥ तत्र विभावाः तत्र ज्ञेया विभावास्तु रत्य्आस्वादनहेतवः । ते द्विधालम्बना एके तथैवोद्दीपनाः परे ॥ ऋBह्र्स्_२,१.१४ ॥ तदुक्तमग्निपुराणे (अलङ्कारविभाग, ३.३५) विभाव्यते हि रत्य्आदिर्यत्र येन विभाव्यते । विभावो नाम स द्वेधालम्बनोद्दीपनात्मकः ॥ ऋBह्र्स्_२,१.१५ ॥ तत्र आलम्बनाः कृष्णश्च कृष्णभक्ताश्च बुधैरालम्बना मताः । रत्य्आदेर्विषयत्वेन तथाधारतयापि च ॥ ऋBह्र्स्_२,१.१६ ॥ तत्र श्रीकृष्णः नायकानां शिरोरत्नं कृष्णस्तु भगवान् स्वयम् । यत्र नित्यतया सर्वे विराजन्ते महागुणाः । सोऽन्यरूपस्वरूपाभ्यामस्मिन्नालम्बनो मतः ॥ ऋBह्र्स्_२,१.१७ ॥ तत्र अन्यरूपेण, यथा हन्त मे कथमुदेति सवत्से, वत्सपालपटले रतिरत्र । इत्यनिश्चितमतिर्बलदेवो, विस्मयस्तिमितमूर्तिरिवासीत् ॥ ऋBह्र्स्_२,१.१८ ॥ अथ स्वरूपम् आवृतं प्रकटं चेति स्वरूपं कथितं द्विधा ॥ ऋBह्र्स्_२,१.१९ ॥ तत्र आवृतम् अन्यवेशादिनाच्छन्नं स्वरूपं प्रोक्तमावृतम् ॥ ऋBह्र्स्_२,१.२० ॥ तेन, यथा मां स्नेहयति किमुच्चैर्, महिलेयं द्वारकावरोधेऽत्र । आं विदितं कुतुकार्थी, वनितावेशो हरिश्चरति ॥ ऋBह्र्स्_२,१.२१ ॥ प्रकटस्वरूपेण, यथा अयं कम्बुग्रीवः कमलकमनीयाक्षिपटिमा तमालश्यामाङ्गद्युतिरतितरां छत्रितशिराः । दरश्रीवत्साङ्कः स्फुरद्अरिदराद्य्अङ्कितकरः करोत्युच्चैर्मोदं मम मधुरमूर्तिर्मधुरिपुः ॥ ऋBह्र्स्_२,१.२२ ॥ अथ तद्गुणाः अयं नेता सुरम्याङ्गः सर्वसल्लक्षणान्वितः । रुचिरस्तेजसा युक्तो बलीयान् वयसान्वितः ॥ ऋBह्र्स्_२,१.२३ ॥ विविधाद्भुतभाषावित्सत्यवाक्यः प्रियं वदः । वावदूकः सुपाण्डित्यो बुद्धिमान् प्रतिभान्वितः ॥ ऋBह्र्स्_२,१.२४ ॥ विदग्धश्चतुरो दक्षः कृतज्ञः सुदृढव्रतः । देशकालसुपात्रज्ञः शास्त्रचक्षुः शुचिर्वशी ॥ ऋBह्र्स्_२,१.२५ ॥ स्थिरो दान्तः क्षमाशीलो गम्भीरो धृतिमान् समः । वदान्यो धार्मिकः शूरः करुणो मान्यमानकृत् ॥ ऋBह्र्स्_२,१.२६ ॥ दक्षिणो विनयी ह्रीमान् शरणागतपालकः । सुखी भक्तसुहृत्प्रेमवश्यः सर्वशुभङ्करः ॥ ऋBह्र्स्_२,१.२७ ॥ प्रतापी कीर्तिमान् रक्तलोकः साधुसमाश्रयः । नारीगणमनोहारी सर्वाराध्यः समृद्धिमान् ॥ ऋBह्र्स्_२,१.२८ ॥ वरीयानीश्वरश्चेति गुणास्तस्यानुकीर्तिताः । समुद्रा इव पञ्चाशद्दुर्विगाहा हरेरमी ॥ ऋBह्र्स्_२,१.२९ ॥ जीवेषु एते वसन्तोऽपि बिन्दुबिन्दुतया क्वचित् । परिपूर्णतया भान्ति तत्रैव पुरुषोत्तमे ॥ ऋBह्र्स्_२,१.३० ॥ तथा हि पाद्मे पार्वत्यै शितिकण्ठेन तद्गुणाः । कन्दर्पकोटिलावण्य इत्याद्याः परिकीर्तिताः ॥ ऋBह्र्स्_२,१.३१ ॥ एत एव गुणाः प्रायो धर्माय वनमालिनः । पृथिव्या प्रथमस्कन्धे प्रथयाञ्चक्रिरे स्फुटम् ॥ ऋBह्र्स्_२,१.३२ ॥ यथा प्रथमे (१.१६.२७३०) सत्यं शौचं दया क्षान्तिस्त्यागः सन्तोष आर्जवम् । शमो दमस्तपः साम्यं तितिक्षोपरतिः श्रुतम् ॥ ऋBह्र्स्_२,१.३३ ॥ ज्ञानं विरक्तिरैश्वर्यं शौर्यं तेजो बलं स्मृतिः । स्वातन्त्र्यं कौशलं कान्तिर्धैर्यं मार्दवमेव च ॥ ऋBह्र्स्_२,१.३४ ॥ प्रागल्भ्यं प्रश्रयः शीलं सह ओजो बलं भगः । गाम्भीर्यं स्थैर्यमास्तिक्यं कीर्तिर्मानोऽनहङ्कृतिः ॥ ऋBह्र्स्_२,१.३५ ॥ इमे चान्ये च भगवन्नित्या यत्र महागुणाः । प्रार्थ्या महत्त्वमिच्छद्भिर्न वियन्ति स्म कर्हिचित् ॥ ऋBह्र्स्_२,१.३६ ॥ अथ पञ्चगुणा ये स्युरंशेन गिरिशादिषु ॥ ऋBह्र्स्_२,१.३७ ॥ सदा स्वरूपसम्प्राप्तः सर्वज्ञो नित्यनूतनः । सच्चिद्आनन्दसान्द्राङ्गः सर्वसिद्धिनिषेवितः ॥ ऋBह्र्स्_२,१.३८ ॥ अथोच्यन्ते गुणाः पञ्च ये लक्ष्मीशादिवर्तिनः । अविचिन्त्यमहाशक्तिः कोटिब्रह्माण्डविग्रहः ॥ ऋBह्र्स्_२,१.३९ ॥ अवतारावलीबीजं हतारिगतिदायकः । आत्मारामगणाकर्षीत्यमी कृष्णे किलाद्भुताः ॥ ऋBह्र्स्_२,१.४० ॥ सर्वाद्भुतचमत्कार लीलाकल्लोलवारिधिः । अतुल्यमधुरप्रेममण्डितप्रियमण्डलः ॥ ऋBह्र्स्_२,१.४१ ॥ त्रिजगन्मानसाकर्षिमुरलीकलकूजितः । असमानोर्ध्वरूपश्रीविस्मापितचराचरः ॥ ऋBह्र्स्_२,१.४२ ॥ लीलाप्रेम्णा प्रियाधिक्यं माधुर्यं वेणुरूपयोः । इत्यसाधारणं प्रोक्तं गोविन्दस्य चतुष्टयम् ॥ ऋBह्र्स्_२,१.४३ ॥ एवं गुणाश्चतुर्भेदाश्चतुःषष्टिरुदाहृताः । सोदाहरणमेतेषां लक्षणं क्रियते क्रमात् ॥ ऋBह्र्स्_२,१.४४ ॥ तत्र (१) सुरम्याङ्गः श्लाघ्याङ्गसन्निवेशो यः सुरम्याङ्गः स कथ्यते ॥ ऋBह्र्स्_२,१.४५ ॥ यथा मुखं चन्द्राकारं करभनिभमुरुद्वयमिदं भुजौ स्तम्भारम्भौ सरसिजवरेण्यं करयुगम् । कवाटाभं वक्षःस्थलमविरलं श्रोणिफलकं परिक्षामो मध्यः स्फुरति मुरहन्तुर्मधुरिमा ॥ ऋBह्र्स्_२,१.४६ ॥ (२) सर्वसल्लक्षणान्वितः तनौ गुणोत्थमङ्कोत्थमिति सल्लक्षणं द्विधा ॥ ऋBह्र्स्_२,१.४७ ॥ तत्र गुणोत्थम् गुणोत्थं स्याद्गुणैर्योगो रक्ततातुङ्गतादिभिः ॥ ऋBह्र्स्_२,१.४८ ॥ यथा रागः सप्तसु हन्त षट्स्वपि शिशोरङ्गेष्वलं तुङ्गता विसारस्त्रिषु खर्वता त्रिषु तथा गम्भीरता च त्रिषु । दैर्घ्यं पञ्चसु किं च पञ्चसु सखे सम्प्रेक्ष्यते सूक्ष्मता द्वात्रिंशद्वरलक्षणः कथमसौ गोपेषु सम्भाव्यते ॥ ऋBह्र्स्_२,१.४९ ॥ अङ्कोत्थम् रेखामयं रथाङ्गादि स्यादङ्कोत्थं करादिषु ॥ ऋBह्र्स्_२,१.५० ॥ यथा करयोः कमलं तथा रथाङ्गं स्फुटरेखामयमात्मजस्य पश्य । पदपल्लवयोश्च वल्लवेन्द्र ध्वजवज्राङ्कुशमीनपङ्कजानि ॥ ऋBह्र्स्_२,१.५१ ॥ (३) रुचिरः सौन्दर्येण दृग्आनन्दकारी रुचिर उच्यते ॥ ऋBह्र्स्_२,१.५२ ॥ यथा तृतीये (भा.पु. ३.२.१३) यद्धर्मसूनोर्बत राजसूये निरीक्ष्य दृक्स्वस्त्ययनं त्रिलोकः । कार्त्स्न्येन चाद्येह गतं विधातुर् अर्वाक्सृतौ कौशलमित्यमन्यत ॥ ऋBह्र्स्_२,१.५३ ॥ यथा वा अष्टानां दनुजभिद्अङ्गपङ्कजानाम् एकस्मिन् कथमपि यत्र बल्लवीनाम् । लोलाक्षिभ्रमरततिः पपात तस्मान् नोत्थातुं द्युतिमधुपङ्किलात्क्षमासीत् ॥ ऋBह्र्स्_२,१.५४ ॥ (४) तेजसा युक्तः तेजो धाम प्रभावश्चेत्युच्यते द्विविधं बुधैः ॥ ऋBह्र्स्_२,१.५५ ॥ तत्र धाम दीप्तिराशिर्भवेद्धाम ॥ ऋBह्र्स्_२,१.५६ ॥ यथा अम्बरमणिनिकुरम्बं विडम्बयन्नपि मरीचिकुलैः । हरिवक्षसि रुचिनिविडे मणिराडयमुडुरिव स्फुरति ॥ ऋBह्र्स्_२,१.५७ ॥ प्रभावः प्रभावः सर्वजित्स्थितिः ॥ ऋBह्र्स्_२,१.५८ ॥ यथा दूरतस्तमवलोक्य माधवं कोमलाङ्गमपि रङ्गमण्डले । पर्वतोद्भटभुजान्तरोऽप्यसौ कंसमल्लनिवहः स विव्यथे ॥ ऋBह्र्स्_२,१.५९ ॥ (५) बलीयान् प्राणेन महता पूर्णो बलीयानिति कथ्यते ॥ ऋBह्र्स्_२,१.६० ॥ यथा पश्य विन्ध्यगिरितोऽपि गरिष्ठं दैत्यपुङ्गवमुदग्रमरिष्टम् । तुलखण्डमिव पिण्डितमारात् पुण्डरीकनयनो विनुनोद ॥ ऋBह्र्स्_२,१.६१ ॥ यथा वा वामस्तामरसाक्षस्य भुजदण्डः स पातु वः । क्रीडाकन्दुकतां येन नीतो गोवर्धनो गिरिः ॥ ऋBह्र्स्_२,१.६२ ॥ (६) वयसान्वितः वयसो विविधत्वेऽपि सर्वभक्तिरसाश्रयः । धर्मी किशोर एवात्र नित्यनानाविलासवान् ॥ ऋBह्र्स्_२,१.६३ ॥ यथा तदात्वाभिव्यक्तीकृततरुणिमारम्भरभसं स्मितश्रीनिर्धूतस्फुरद्अमलराकापतिमदम् । दरोदञ्चत्पञ्चाशुगनवकलामेदुरमिदं मुरारेर्माधुर्यं मनसि मदिराक्षीर्मदयति ॥ ऋBह्र्स्_२,१.६४ ॥ (७) विविधाद्भुतभाषावित् विविधाद्भुतभाषावित्स प्रोक्तो यस्तु कोविदः । नानादेश्यासु भाषासु संस्कृते प्राकृतेषु च ॥ ऋBह्र्स्_२,१.६५ ॥ यथा व्रजयुवतिषु शौरिः शौरसेनीं सुरेन्द्रे प्रणतशिरसि सौरीं भारतीमातनोति । अहह पशुषु कीरेष्वप्यपभ्रंसरूपां कथमजनि विदग्धः सर्वभाषावलीषु ॥ ऋBह्र्स्_२,१.६६ ॥ (८) सत्यवाक्यः स्यान्नानृतं वचो यस्य सत्यवाक्यः स कथ्यते ॥ ऋBह्र्स्_२,१.६७ ॥ यथा पृथे तनयपञ्चकं प्रकटमर्पयिष्यामि ते रणोर्वरितमित्यभूत्तव यथार्थमेवोदितम् । रविर्भवति शीतलः कुमुदबन्धुरप्युष्णलस् तथापि न मुरान्तक व्यभिचरिष्णुरुक्तिस्तव ॥ ऋBह्र्स्_२,१.६८ ॥ यथा वा गूढोऽपि वेषेण महीसुरस्य हरिर्यथार्थं मगधेन्द्रमूचे । संसृष्टमाभ्यां सह पाण्डवाभ्यां मां विद्धि कृष्णं भवतः सपत्नम् ॥ ऋBह्र्स्_२,१.६९ ॥ (९) प्रियंवदः जने कृतापराधेऽपि सान्त्ववादी प्रियंवदः ॥ ऋBह्र्स्_२,१.७० ॥ यथा कृतव्यलीकेऽपि न कुण्डलीन्द्र त्वया विधेया मयि दोषदृष्टिः । प्रवास्यमानोऽसि सुरार्चितानां परं हितायाद्य गवां कुलस्य ॥ ऋBह्र्स्_२,१.७१ ॥ (१०) वावदूकः श्रुतिप्रेष्ठोक्तिरखिलवाग्गुणान्वितवागपि । इति द्विधा निगदितो वावदूको मनीषिभिः ॥ ऋBह्र्स्_२,१.७२ ॥ तत्र आद्यो, यथा अश्लिष्टकोमलपदावलिमञ्जुलेन प्रत्य्अक्षरक्षरद्अमन्दसुधारसेन । सख्यः समस्तजनकर्णरसायनेन नाहारि कस्य हृदयं हरिभाषितेन ॥ ऋBह्र्स्_२,१.७३ ॥ द्वितीयो, यथा प्रतिवादिचित्तपरिवृत्तिपटुर् जगद्एकसंशयविमर्दकरी । प्रमिताक्षराद्यविविधार्थमयी हरिवागियं मम धिनोति धियः ॥ ऋBह्र्स्_२,१.७४ ॥ (११) सुपण्डित्यः विद्वान्नीतिज्ञ इत्येष सुपण्डित्यो द्विधा मतः । विद्वानखिलविद्याविन्नीतिज्ञस्तु यथार्हकृत् ॥ ऋBह्र्स्_२,१.७५ ॥ तत्र आद्यो, यथा यं सुष्ठु पूर्वं परिचर्य गौरवात् पितामहाद्य्अम्बुधरैः प्रवर्तिताः । कृष्णार्णवं काश्यगुरुक्षमाभूतस् तमेव विद्यासरितः प्रपेदिरे ॥ ऋBह्र्स्_२,१.७६ ॥ यथा वा आम्नायप्रथितान्वया स्मृतिमती बाढं षड्अङ्गोज्ज्वला न्यायेनानुगता पुराणसुहृदा मीमांसया मण्डिता । त्वां लब्धावसरा चिराद्गुरुकुले प्रेक्ष्य स्वसङ्गार्थिनं विद्या नाम वधूश्चतुर्दशगुणा गोविन्द शुश्रूयते ॥ ऋBह्र्स्_२,१.७७ ॥ द्वितीयो, यथा मृत्युस्तस्करमण्डले सुकृतिनां वृन्दे वसन्तानिलः कन्दर्पो रमणीषु दुर्गतकुले कल्याणकल्पद्रुमः । इन्दुर्बन्धुगणे विपक्षपटले कालाग्निरुद्राकृतिः शास्ति स्वस्तिधुरन्धरो मधुपुरीं नीत्या मधूनां पतिः ॥ ऋBह्र्स्_२,१.७८ ॥ (१२) बुद्धिमान् मेधावी सूक्ष्मधीश्चेति प्रोच्यते बुद्धिमान् द्विधा ॥ ऋBह्र्स्_२,१.७९ ॥ तत्र मेधावी, यथा अवन्तिपुरवासिनः सदनमेत्य सान्दीपनेर् गुरोर्जगति दर्शयन् समयमत्र विद्यार्थिनाम् । सकृन्निगदमात्रतः सकलमेव विद्याकुलं दधौ हृदयमन्दिरे किमपि चित्रवन्माधवः ॥ ऋBह्र्स्_२,१.८० ॥ सूक्ष्मधीः, यथा यदुभिरयमवध्यो म्लेच्छराजस्तदेनं तरलतमसि तस्मिन् विद्रवन्नेव नेष्ये । सुखमयनिजनिद्राभञ्जनध्वंसिदृष्टिर् झरमुचि मुचुकुन्दः कन्दरे यत्र शेते ॥ ऋBह्र्स्_२,१.८१ ॥ (१३) प्रतिभान्वितः सद्यो नवनवोल्लेखिज्ञानं स्यात्प्रतिभान्वितः ॥ ऋBह्र्स्_२,१.८२ ॥ यथा पद्यावल्यां (२८३) वासः सम्प्रति केशव क्व भवतो मुग्धेक्षणे नन्विदं वासं ब्रूहि शठ प्रकामसुभगे त्वद्गात्रसंसर्गतः । यामिन्यामुषितः क्व धूर्त वितनुर्मुष्णाति किं यामिनी शौरिर्गोपवधूं छलैः परिहसन्नेवंविधैः पातु वः ॥ ऋBह्र्स्_२,१.८३ ॥ (१४) विदग्धः कलाविलासदिग्धात्मा विदग्ध इति कीर्त्यते ॥ ऋBह्र्स्_२,१.८४ ॥ यथा गीतं गुम्फति ताण्डवं घटयति ब्रूते प्रहेलीक्रमं वेणुं वादयते स्रजं विरचयत्यालेख्यमभ्यस्यति । निर्माति स्वयमिन्द्रजालपटलीं द्यूते जयत्युन्मदान् पश्योद्दामकलाविलासवसतिश्चित्रं हरिः क्रीडति ॥ ऋBह्र्स्_२,१.८५ ॥ (१५) चतुरः चतुरो युगपद्भूरिसमाधानकृदुच्यते ॥ ऋBह्र्स्_२,१.८६ ॥ यथा पारावतीविरचनेन गवां कलापं गोपाङ्गनागणमपाङ्गतरङ्गितेन । मित्राणि चित्रतरसङ्गरविक्रमेण धिन्वन्नरिष्टभयदेन हरिर्विरेजे ॥ ऋBह्र्स्_२,१.८७ ॥ (१६) दक्षः दुष्करे क्षिप्रकारी यस्तं दक्षं परिचक्षते ॥ ऋBह्र्स्_२,१.८८ ॥ यथा श्रीदशमे (१०.५९.१७) यानि योधैः प्रयुक्तानि शस्त्रास्त्राणि कुरूद्वह । हरिस्तान्यच्छिनत्तीक्ष्णैः शरैरेकैकशस्त्रिभिः ॥ ऋBह्र्स्_२,१.८९ ॥ यथा वा अघहर कुरु युग्मीभूय नृत्यं मयैव त्वमिति निखिलगोपीप्रार्थनापूर्तिकामः । अतनुत गतिलीलालाघवोर्मिं तथासौ ददृशुरधिकमेतास्तं यथा स्वस्वपार्श्वे ॥ ऋBह्र्स्_२,१.९० ॥ (१७) कृतज्ञः कृतज्ञः स्यादभिज्ञो यः कृतसेवादिकर्मणाम् ॥ ऋBह्र्स्_२,१.९१ ॥ यथा महाभारते {*णोत्fओउन्दिन् च्रितिचलेदितिओन्.} ऋणमेतत्प्रवृद्धं मे हृदयान्नापसर्पति । यद्गोविन्देति चुक्रोश कृष्णा मां दूरवासिनम् ॥ ऋBह्र्स्_२,१.९२ ॥ यथा वा अनुगतिमतिपूर्वं चिन्तयन्नृक्षमौलेर् अकुरुत बहुमानं शौरिरादाय कन्याम् । कथमपि कृतमल्पं विस्मरेन्नैव साधुः किमुत स खलु साधुश्रेणिचूडाग्ररत्नम् ॥ ऋBह्र्स्_२,१.९३ ॥ (१८) सुदृढव्रतः प्रतिज्ञानियमौ यस्य सत्यौ स सुदृढव्रतः ॥ ऋBह्र्स्_२,१.९४ ॥ तत्र सत्यप्रतिज्ञो, यथा हरिवंशे (२.६८.३८) {*णोत्fओउन्दिन् च्रितिचलेदितिओन्.} न देवगन्धर्वगणा न राक्षसा न चासुरा नैव च यक्षपन्नगाः । मम प्रतिज्ञामपहन्तुमुद्यता मुने समर्थाः खलु सत्यमस्तु ते ॥ ऋBह्र्स्_२,१.९५ ॥ यथा वा सहेलमाखण्डलपाण्डुपुत्रौ विधाय कंसारिरपारिजातौ । निजप्रतिज्ञां सफलां दधानः सत्यां च कृष्णां च सुखामकार्षीत् ॥ ऋBह्र्स्_२,१.९६ ॥ सत्यनियमो, यथा गिरेरुद्धरणं कृष्ण दुष्करं कर्म कुर्वता । मद्भक्तः स्यान्न दुःखीति स्वव्रतं विवृतं त्वया ॥ ऋBह्र्स्_२,१.९७ ॥ (१९) देशकालसुपात्रज्ञः देशकालसुपात्रज्ञस्तत्तद्योग्यक्रियाकृतिः ॥ ऋBह्र्स्_२,१.९८ ॥ यथा शरज्ज्योत्स्नातुल्यः कथमपि परो नास्ति समयस् त्रिलोक्यामाकृईडः क्वचिदपि न वृन्दावनसमः । न काप्यम्भोजाक्षी व्रजयुवतिकल्पेति विमृशन् मनो मे सोत्कण्ठं मुहुरजनि रासोत्सवरसे ॥ ऋBह्र्स्_२,१.९९ ॥ (२०) शास्त्रचक्षुः शास्त्रानुसारिकर्मा यः शास्त्रचक्षुः स कथ्यते ॥ ऋBह्र्स्_२,१.१०० ॥ यथा अभूत्कंसरिपोर्नेत्रं शास्त्रमेवार्थदृष्टये । नेत्राम्बुजं तु युवती वृन्दान्मादाय केवलम् ॥ ऋBह्र्स्_२,१.१०१ ॥ (२१) शुचिः पावनश्च विशुद्धेश्चेत्युच्यते द्विविधः शुचिः । पावनः पापनाशी स्याद्विशुद्धस्त्यक्तदूसणः ॥ ऋBह्र्स्_२,१.१०२ ॥ तत्र पावनो, यथा पाद्मे तं निर्व्याजं भज गुणनिधे पावनं पावनानां श्रद्धारज्यन्मतिरतितरामुत्तमःश्लोकमौलिम् । प्रोद्यन्नन्तःकरणकुहरे हन्त यन्नामभानोर् आभासोऽपि क्षपयति महापातकध्वान्तराशिम् ॥ ऋBह्र्स्_२,१.१०३ ॥ विशुद्धो, यथा कपटं च हठश्च नाच्युते बत सत्राजिति नाप्यदीनता । कथमद्य वृथा स्यमन्तक प्रसभं कौस्तुभसख्यमिच्छसि ॥ ऋBह्र्स्_२,१.१०४ ॥ (२२) वशी वशी जितेन्द्रियः प्रोक्तः ॥ ऋBह्र्स्_२,१.१०५ ॥ यथा प्रथमे (१.११.३७) उद्दामभावपिशुनामलवल्गुहास व्रीडावलोकनिहतो मदनोऽपि यासाम् । संमुह्य चापमजहात्प्रमदोत्तमास्ता यस्येन्द्रियं विमथितुं कुहकैर्न शेकुः ॥ ऋBह्र्स्_२,१.१०६ ॥ (२३) स्थिरः आफलोदयकृत्स्थिरः ॥ ऋBह्र्स्_२,१.१०७ ॥ यथा, निर्वेदमाप न वनभ्रमणे मुरारिर् नाचिन्तयद्व्यसनमृक्षविलप्रवेशे । आहृत्य हन्त मणिमेव पुरं प्रपेदे स्यादुद्यमः कृतधियां हि फलोदयान्तः ॥ ऋBह्र्स्_२,१.१०८ ॥ (२४) दान्तः स दान्तो दुःसहमपि योग्यं क्लेशं सहेत यः ॥ ऋBह्र्स्_२,१.१०९ ॥ यथा गुरुमपि गुरुवासक्लेशमव्याजभक्त्या हरिरजगणदन्तः कोमलाङ्गोऽपि नायम् । प्रकृतिरतिदुरूहा हन्त लोकोत्तराणां किमपि मनसि चित्रं चिन्त्यमाना तनोति ॥ ऋBह्र्स्_२,१.११० ॥ (२५) क्षमाशीलः क्षमाशीलोऽपराधानां सहनः परिकीर्त्यते ॥ ऋBह्र्स्_२,१.१११ ॥ यथा माघकाव्ये {=शिशुपालवध} (१६.२५) प्रतिवाचमदत्त केशवः शपमानाय न चेदिभूभृते । अनहुङ्कुरुते घनध्वनिः न हि गोमायुरुतानि केशरी ॥ ऋBह्र्स्_२,१.११२ ॥ यथा वा यामुनाचार्यस्तोत्रे {=ष्तोत्ररत्नम्} (६०) रघुवर यदभूस्त्वं तादृशो वायसस्य प्रणत इति दयालुर्यच्च चैद्यस्य कृष्ण । प्रतिभवमपराद्धुर्मुग्ध सायुज्यदोऽभूर् वद किमपदमागस्तस्य तेऽस्ति क्षमायाः ॥ ऋBह्र्स्_२,१.११३ ॥ (२६) गम्भीरः दुर्विबोधाशयो यस्तु स गम्भीरः इतीर्यते ॥ ऋBह्र्स्_२,१.११४ ॥ यथा वृन्दावने वरातिः स्तुतिभिर्नितरामुपास्यमानोऽपि । शक्तो न हरिर्विधिना रुष्टस्तुष्टोऽथवा ज्ञातुम् ॥ ऋBह्र्स्_२,१.११५ ॥ यथा वा उन्मदोऽपि हरिर्नव्यराधाप्रणयसीधुना । अभिज्ञेनापि रामेण लक्षितोऽयमविक्रियः ॥ ऋBह्र्स्_२,१.११६ ॥ (२७) धृतिमान् पूर्णस्पृहश्च धृतिमान् शान्तश्च क्षोभकारणे ॥ ऋBह्र्स्_२,१.११७ ॥ तत्र आद्यो स्वीकुर्वन्नपि नितरां यशःप्रियत्वं कंसारिर्मगधपतेर्वधप्रसिद्धाम् । भीमाय स्वयमतुलामदत्त कीर्तिं किं लोकोत्तरगुणशालिनामपेक्ष्यम् ॥ ऋBह्र्स्_२,१.११८ ॥ द्वितीयो, यथा निन्दितस्य दमघोषसूनुना सम्भ्रमेण मुनिभिः स्तुतस्य च । राजसूयसदसि क्षितीश्वरैः कापि नास्य विकृतिर्वितर्किता ॥ ऋBह्र्स्_२,१.११९ ॥ (२८) समः रागद्वेषविमुक्तो यः समः स कथितो बुधैः ॥ ऋBह्र्स्_२,१.१२० ॥ यथा श्रीदशमे (१०.१६.३३) न्याय्यो हि दण्डः कृतकिल्बिषेऽस्मिंस् तवावतारः खलनिग्रहाय । रिपोः सुतानामपि तुल्यदृष्टेर् धत्से दमं फलमेवानुशंसन् ॥ ऋBह्र्स्_२,१.१२१ ॥ यथा वा रिपुरपि यदि शुद्धो मण्डनीयस्तवासौ यदुवर यदि दुष्टो दण्डनीयः सुतोऽपि । न पुनरखिलभर्तुः पक्षपातोज्झितस्य क्वचिदपि विषमं ते चेष्टितं जाघटीति ॥ ऋBह्र्स्_२,१.१२२ ॥ (२९) वदान्यः दानवीरो भवेद्यस्तु स वदान्यो निगद्यते ॥ ऋBह्र्स्_२,१.१२३ ॥ यथा सर्वार्थिनां बाढमभीष्टपूर्त्या व्यर्थीकृताः कंसनिसूदनेन । ह्रियेव चिन्तामणिकामधेनु कल्पद्रुमा द्वारवतीं भजन्ति ॥ ऋBह्र्स्_२,१.१२४ ॥ यथा वा येषां षोडशपूरिता दशशती स्वान्तःपुराणां तथा चाष्टाश्लिष्टशतं विभाति परितस्तत्सङ्ख्यपत्नीयुजाम् । एकैकं प्रति तेषु तर्णकभृतां भूषाजुषामन्वहं गृष्टीनां युगपच्च बद्धमददाद्यस्तस्य वा कः समः ॥ ऋBह्र्स्_२,१.१२५ ॥ (३०) धार्मिकः कुर्वन् कारयते धर्मं यः स धार्मिक उच्यते ॥ ऋBह्र्स्_२,१.१२६ ॥ यथा पादैश्चतुर्भिर्भवता वृषस्य गुप्तस्य गोपेन्द्र तथाभ्यवर्धि । स्वैरं चरन्नेव यथा त्रिलोक्याम् अधर्मस्पर्शाणि हठाज्जघास ॥ ऋBह्र्स्_२,१.१२७ ॥ यथा वा वितायमानैर्भवता मखोत्करैर् आकृष्यमाणेषु पतिष्वनारतम् । मुकुन्द खिन्नः सुरसुभ्रुवां गणस् तवावतारं नवमं नमस्यति ॥ ऋBह्र्स्_२,१.१२८ ॥ (३१) शूरः उत्साही युधि शूरोऽस्त्रप्रयोगे च विचक्षणः ॥ ऋBह्र्स्_२,१.१२९ ॥ तत्र आद्यो, यथा पृथुसमरसरो विगाह्य कुर्वन् द्विषद्अरविन्दवने विहारचर्याम् । स्फुरसि तरलबाहुदण्डशुण्डस् त्वमघविदारण वारणेन्द्रलीलः ॥ ऋBह्र्स्_२,१.१३० ॥ द्वितीयो, यथा क्षणादक्षौहिणीवृन्दे जरासन्धस्य दारुणे । दृष्टः कोऽप्यत्र नादष्टो हरेः प्रहरणाहिभिः ॥ ऋBह्र्स्_२,१.१३१ ॥ (३२) करुणः परदुःखासहो यस्तु करुणः स निगद्यते ॥ ऋBह्र्स्_२,१.१३२ ॥ यथा राज्ञामगाधगतिभिर्मगधेन्द्रकारा दुःखान्धकारपटलैः स्वयमन्धितानाम् । अक्षीणि यः सुखमयानि घृणी व्यतानीद् वृन्दे तमद्य यदुनन्दनपद्मबन्धुम् ॥ ऋBह्र्स्_२,१.१३३ ॥ यथा वा स्खलन्नयनवारिभिर्विरचिताभिषेकश्रिये त्वराभरतरङ्गतः कवलितात्मविस्फूर्तये । निशान्तशरशायिना सुरसरित्सुतेन स्मृतेः सपद्यवशवर्त्मणो भगवतः कृपायै नमः ॥ ऋBह्र्स्_२,१.१३४ ॥ (३३) मान्यमानकृत् गुरुब्राह्मणवृद्धादिपूजको मान्यमानकृत् ॥ ऋBह्र्स्_२,१.१३५ ॥ यथा अभिवाद्य गुरोः पदाम्बुजं पितरं पूर्वजमप्यथानतः । हरिरञ्जलिना तथा गिरा यदुवृद्धाननमत्क्रमादयम् ॥ ऋBह्र्स्_२,१.१३६ ॥ (३४) दक्षिणः सौशील्यसौम्यचरितो दक्षिणः कीर्त्यते बुधैः ॥ ऋBह्र्स्_२,१.१३७ ॥ यथा भृत्यस्य पश्यति गुरूनपि नापराधान् सेवां मनागपि कृतां बहुधाभ्युपैति । आविष्करोति पिशुनेष्वपि नाभ्यसूयां शीलेन निर्मलमतिः पुरुषोत्तमोऽयम् ॥ ऋBह्र्स्_२,१.१३८ ॥ (३५) विनयी औद्धत्यपरिहारी यः कथ्यते विनयीत्यसौ ॥ ऋBह्र्स्_२,१.१३९ ॥ यथा माघकाव्ये (१३.७) अवलोक एष नृपतेः सुदूरतो रभसाद्रथादवतरीतुमिच्छतः । अवतीर्णवान् प्रथममात्मना हरिर् विनयं विशेषयति सम्भ्रमेण सः ॥ ऋBह्र्स्_२,१.१४० ॥ (३६) ह्रीमान् ज्ञातेऽस्मररहस्येऽन्यैः क्रियमाणे स्तवेऽथवा । शालीनत्वेन सङ्कोचं भजन् ह्रीमानुदीर्यते ॥ ऋBह्र्स्_२,१.१४१ ॥ यथा ललितमाधवे (९.४०) दरोदञ्चद्गोपीस्तनपरिसरप्रेक्षणभयात् करोत्कम्पादीषच्चलति किल गोवर्धनगिरौ । भयार्तैरारब्धस्तुतिरखिलगोपैः स्मितमुखं पुरो दृष्ट्वा रामं जयति नमितास्यो मधुरिपुः ॥ ऋBह्र्स्_२,१.१४२ ॥ (३७) शरणागतपालकः पालयन् शरणापन्नान् शरणागतपालकः ॥ ऋBह्र्स्_२,१.१४३ ॥ यथा ज्वर परिहर वित्रासं त्वमत्र समरे कृतापराधेऽपि । सद्यः प्रपद्यमाने यदिन्दवति यादवेन्द्रोऽयम् ॥ ऋBह्र्स्_२,१.१४४ ॥ (३८) सुखी भोक्ता च दुःखगन्धैरप्यस्पृष्टश्च सुखी भवेत् ॥ ऋBह्र्स्_२,१.१४५ ॥ तत्र आद्यो, यथा रत्नालङ्कारभारस्तव धनदमनो राज्यवृत्त्याप्यलभ्यः स्वप्ने दम्भोलिपाणेरपि दुरधिगमं द्वारि तौर्यत्रिकं च । पार्श्वे गौरीगरिष्ठाः प्रचुरशशिकलाः कान्तसर्वाङ्गभाजः सीमन्तिन्यश्च नित्यं यदुवर भुवने कस्त्वद्अन्योऽस्ति भोगी ॥ ऋBह्र्स्_२,१.१४६ ॥ द्वितीयो, यथा न हानिं न म्लानिं निजगृहकृत्यव्यसनितां न घोरं नोद्घूर्णां न किल कदनं वेत्ति किमपि । वराङ्गीभिः साङ्गीकृतसुहृद्अनङ्गाभिरभितो हरिर्वृन्दारण्ये परमनिशमुच्चैर्विहरति ॥ ऋBह्र्स्_२,१.१४७ ॥ (३९) भक्तसुहृत् सुसेव्यो दासबन्धुश्च द्विधा भक्तसुहृन्मतः ॥ ऋBह्र्स्_२,१.१४८ ॥ तत्र आद्यो, यथा विष्णुधर्मे तुलसीदलमात्रेण जलस्य चुलुकेन च । विक्रीणीते स्वमात्मानं भक्तेभ्यो भक्तवत्सलः ॥ ऋBह्र्स्_२,१.१४९ ॥ द्वितीयो, यथा प्रथमे (१.९.३७) स्वनिगममपहाय मत्प्रतिज्ञाम् ऋतमधिकर्तुमवप्लुतो रथस्थः । धृतरथचरणोऽभ्ययाच्चलद्गुर् हरिरिव हन्तुमिभं गतोत्तरीयः ॥ ऋBह्र्स्_२,१.१५० ॥ (४०) प्रेमवश्यः प्रियत्वमात्रवश्यो यः प्रेमवश्यो भवेदसौ ॥ ऋBह्र्स्_२,१.१५१ ॥ यथा श्रीदशमे (१०.८०.१९) सख्युः प्रियस्य विप्रर्षेरङ्गसङ्गातिनिर्वृतः । प्रीतो व्यमुञ्चदध्विन्दून्नेत्राभ्यां पुष्करेक्षणः ॥ ऋBह्र्स्_२,१.१५२ ॥ यथा वा तत्रैव (१०.९.१८) स्वमातुः स्विन्नगात्राया विस्रस्तकवरस्रजः । दृष्ट्वा परिश्रमं कृष्णः कृपयासीत्स्वबन्धने ॥ ऋBह्र्स्_२,१.१५३ ॥ (४१) सर्वशुभङ्करः सर्वेषां हितकारी यः स स्यात्सर्वशुभङ्करः ॥ ऋBह्र्स्_२,१.१५४ ॥ यथा कृताः कृतार्था मुनयो विनोदैः खलक्षयेणाखिलधार्मिकाश्च । वपुर्विमर्देन खलाश्च युद्धे न कस्य पथ्यं हरिणा व्यधायि ॥ ऋBह्र्स्_२,१.१५५ ॥ (४२) प्रतापी प्रतापी पौरुषोद्भूतशत्रुतापि प्रसिद्धिभाक् ॥ ऋBह्र्स्_२,१.१५६ ॥ यथा भवतः प्रतापतपने भुवनं कृष्ण प्रतापयति । घोरासुरघुकानां शरणमभूत्कन्दरातिमिरम् ॥ ऋBह्र्स्_२,१.१५७ ॥ (४३) कीर्तिमान् साद्गुण्यैर्निर्मलैः ख्यातः कीर्तिमानिति कीर्त्यते ॥ ऋBह्र्स्_२,१.१५८ ॥ यथा त्वद्यशःकुमुदबन्धुकौमुदी शुभ्रभावमभितो नयन्त्यपि । नन्दनन्दन कथं नु निर्ममे कृष्णभावकलिलं जगत्त्रयम् ॥ ऋBह्र्स्_२,१.१५९ ॥ यथा वा ललितमाधवे (५.१८) भीता रुद्रं त्यजति गिरिजा श्याममप्रेक्ष्य कण्ठं शुभ्रं दृष्ट्वा क्षिपति वसनं विस्मितो नीलवासाः । क्षीरं मत्वा श्रपयति यमीनीरमाभीरिकोत्का गीते दामोदरयशसि ते वीणया नारदेन ॥ ऋBह्र्स्_२,१.१६० ॥ (४४) रक्तलोकः पात्रं लोकानुरागाणां रक्तलोकं विदुर्बुधाः ॥ ऋBह्र्स्_२,१.१६१ ॥ यथा प्रथमे (१.११.९) यर्ह्यम्बुजाक्षापससार भो भवान् कुरून्मधून् वाथ सुहृद्दिदृक्षया तत्राब्दकोटिप्रतिमः क्षणो भवेद् रविं विनाक्ष्णोरिव नस्तवाच्युत ॥ ऋBह्र्स्_२,१.१६२ ॥ यथा वा आशीस्तथ्या जय जय जयेत्याविरास्ते मुनीनां देवश्रेणीस्तुतिकलकलो मेदुरः प्रादुरस्ति । हर्षाद्घोषः स्फुरति परितो नागरीणां गरीयान् के वा रङ्गस्थलभुवि हरौ भेजिरे नानुरागम् ॥ ऋBह्र्स्_२,१.१६३ ॥ (४५) साधुसमाश्रयः सद्एकपक्षपाती यः स स्यात्साधुसमाश्रयः ॥ ऋBह्र्स्_२,१.१६४ ॥ यथा पुरुषोत्तम चेदवातरिष्यद् भुवनेऽस्मिन्न भवान् भुवः शिवाय । विकटासुरमण्डलान्न जाने सुजनानां बत का दशाभविष्यत् ॥ ऋBह्र्स्_२,१.१६५ ॥ (४६) नारीगणमनोहारी नारीगणमनोहारी सुन्दरीवृन्दमोहनः ॥ ऋBह्र्स्_२,१.१६६ ॥ यथा श्रीदशमे (१०.९०.२६) श्रुतमात्रोऽपि यः स्त्रीणां प्रसह्याकर्षते मनः । उरुगायोरुगीतो वा पश्यन्तीनां च किं पुनः ॥ ऋBह्र्स्_२,१.१६७ ॥ यथा वा त्वं चुम्बकोऽसि माधव लोहमयी नूनमङ्गनाजातिः । धावति ततस्ततोऽसौ यतो यतः क्रीडया भ्रमसि ॥ ऋBह्र्स्_२,१.१६८ ॥ (४७) सर्वाराध्यः सर्वेषामग्रपूज्यो यः स सर्वाराध्य उच्यते ॥ ऋBह्र्स्_२,१.१६९ ॥ यथा प्रथमे (१.९.४१) मुनिगणनृपवर्यसङ्कुलेऽन्तः सदसि युधिष्ठिरराजसूय एषाम् । अर्हणमुपपेद ईक्षणीयो मम दृशिगोचर एष आविरात्मा ॥ ऋBह्र्स्_२,१.१७० ॥ (४८) समृद्धिमान् महासम्पत्तियुक्तो यो भवेदेष समृद्धिमान् ॥ ऋBह्र्स्_२,१.१७१ ॥ यथा षट्पञ्चाशद्यदुकुलभुवां कोटयस्त्वां भजन्ते वर्षन्त्यष्टौ किमपि निधयश्चार्थजातं तवामी । शुद्धान्तश्च स्फुरति नवभिर्लक्षितः सौधलक्ष्मैर् लक्ष्मीं पश्यन्मुरदमन ते नात्र चित्रायते कः ॥ ऋBह्र्स्_२,१.१७२ ॥ यथा वा कृष्णकर्णामृते {*णोतिनन्योf थे एxतन्त्KK चेन्तुरिएस्.} चिन्तामणिश्चरणभूषणमङ्गनानां शृङ्गारपुष्पतरवस्तरवः सुराणाम् । वृन्दावने व्रजधनं ननु कामधेनु वृन्दानि चेति सुखसिन्धुरहो विभूतिः ॥ ऋBह्र्स्_२,१.१७३ ॥ (४९) वरीयान् सर्वेषामतिमुख्यो यः स वरीयानितीर्यते ॥ ऋBह्र्स्_२,१.१७४ ॥ यथा ब्रह्मन्नत्र पुरुद्विषा सह पुरः पीठे निषीद क्षणं तुष्णीं तिष्ठ सुरेन्द्र चाटुभिरलं वारीश दूरीभव । एते द्वारि मुहुः कथं सुरगणाः कुर्वन्ति कोलाहलं हन्त द्वारवतीपतेरवसरो नाद्यापि निष्पद्यते ॥ ऋBह्र्स्_२,१.१७५ ॥ (५०) ईश्वरः द्विधेश्वरः स्वतन्त्रश्च दुर्लङ्घ्याज्ञश्च कीर्त्यते ॥ ऋBह्र्स्_२,१.१७६ ॥ तत्र स्वतन्त्रो, यथा कृष्णः प्रसादमकरोदपराध्यतेऽपि पादाङ्कमेव किल कालियपन्नगाय । न ब्रह्मणे दृशमपि स्तुवतेऽप्यपूर्वं स्थाने स्वतन्त्रचरितो निगमैर्नुतोऽयम् ॥ ऋBह्र्स्_२,१.१७७ ॥ दुर्लङ्घ्याज्ञो, यथा तृतीये (३.२.२१) स्वयं त्वसाम्यातिशयस्त्र्यधीशः स्वाराज्यलक्ष्म्य्आप्तसमस्तकामः । बलिं हरद्भिश्चिरलोकपालैः किरीटकोट्य्एडितपादपीठः ॥ ऋBह्र्स्_२,१.१७८ ॥ यथा वा नव्ये ब्रह्माण्डवृन्दे सृजति विधिगणः सृष्टये यः कृताज्ञो रुद्रौघः कालजीर्णे क्षयमवतनुते यः क्षयायानुशिष्टः । रक्षां विष्णुस्वरूपा विदधति तरुणे रक्षिणो ये त्वद्अंशाः कंसारे सन्ति सर्वे दिशि दिशि भवतः शासनेऽजाण्डनाथाः ॥ ऋBह्र्स्_२,१.१७९ ॥ अथ (५१) सदास्वरूपसम्प्राप्तः सदास्वरूपसम्प्राप्तो मायाकार्यवशीकृतः ॥ ऋBह्र्स्_२,१.१८० ॥ यथा प्रथमे (१.११.३९) एतदीशनमीशस्य प्रकृतिस्थोऽपि तद्गुणैः । न युज्यते सदात्मस्थैर्यथा बुद्धिस्तद्आश्रया ॥ ऋBह्र्स्_२,१.१८१ ॥ (५२) सर्वज्ञः परचित्तस्थितं देशकालाद्य्अन्तरितं तथा । यो जानाति समस्तार्थः स सर्वज्ञो निगद्यते ॥ ऋBह्र्स्_२,१.१८२ ॥ यथा प्रथमे (१.१५.११) यो नो जुगोप वन एत्य दुरन्तकृच्छ्राद् दुर्वाससोऽरिरचितादयुताग्रभुग्यः । शाकान्नशिष्टमुपयुज्य यतस्त्रिलोकीं तृप्ताममंस्त सलिले विनिमग्नसङ्घः ॥ ऋBह्र्स्_२,१.१८३ ॥ (५३) नित्यनूतनः सदानुभूयमानोऽपि करोत्यननुभूतवत् । विस्मयं माधुरीभिर्यः स प्रोक्तो नित्यनूतनः ॥ ऋBह्र्स्_२,१.१८४ ॥ यथा प्रथमे (१.११.३४) यद्यप्यसौ पार्श्वगतो रहोगतस् तथापि तस्याङ्घ्रियुगं नवं नवम् । पदे पदे का विरमेत तत्पदाच् चलापि यच्छ्रीर्न जहाति कर्हिचित् ॥ ऋBह्र्स्_२,१.१८५ ॥ यथा वा ललितमाधवे (१.५२) कुलवरतनुधर्मग्राववृन्दानि भिन्दन् सुमुखि निशितदीर्घापाङ्गटङ्कच्छटाभिः । युगपदयमपूर्वः कः पुरो विश्वकर्मा मरकतमणिलक्षैर्गोष्ठकक्षां चिनोति ॥ ऋBह्र्स्_२,१.१८६ ॥ (५४) सच्चिद्आनन्दसान्द्राङ्गः सच्चिद्आनन्दसान्द्राङ्गश्चिदानन्दघनाकृतिः ॥ ऋBह्र्स्_२,१.१८७ ॥ यथा क्लेशे क्रमात्पञ्चविधे क्षयं गते यद्ब्रह्मसौख्यं स्वयमस्फुरत्परम् । तद्व्यर्थयन् कः पुरतो नराकृतिः श्यामोऽयमामोदभरः प्रकाशते ॥ ऋBह्र्स्_२,१.१८८ ॥ यथा व ब्रह्मसंहितायामादिपुरुषरहस्ये (५.५१) यस्य प्रभा प्रभवतो जगद्अण्डकोटि कोटिष्वशेषवसुधादि विभूतिभिन्नम् । तद्ब्रह्म निष्कलमनन्तमशेषभूतं गोविन्दमादिपुरुषं तमहं भजामि ॥ ऋBह्र्स्_२,१.१८९ ॥ अतः श्रीवैष्णवैः सर्वश्रुतिस्मृतिनिदर्शनैः । तद्ब्रह्म श्रीभगवतो विभूतिरिति कीर्त्यते ॥ ऋBह्र्स्_२,१.१९० ॥ तथा हि यामुनाचार्यस्तोत्रे (१४) यद्अण्डान्तरगोचरं च यद् दशोत्तराण्यावरणानि यानि च । गुणाः प्रधानं पुरुषः परं पदं परात्परं ब्रह्म च ते विभूतयः ॥ ऋBह्र्स्_२,१.१९१ ॥ (५५) सर्वसिद्धिनिषेवितः स्ववशाखिलसिद्धिः स्यात्सर्वसिद्धिनिषेवितः ॥ ऋBह्र्स्_२,१.१९२ ॥ यथा दशभिः सिद्धसखीभिर्वृता महासिद्धयः क्रमादष्टौ । अणिमादयो लभन्ते नावसरं द्वारि कृष्णस्य ॥ ऋBह्र्स्_२,१.१९३ ॥ (५६) अथ अविचिन्त्यमहाशक्तिः दिव्यसर्गादिकर्तृत्वं ब्रह्मरुद्रादिमोहनम् । भक्तप्रारब्धविध्वंस इत्याद्यचिन्त्यशक्तिता ॥ ऋBह्र्स्_२,१.१९४ ॥ तत्र दिव्यसर्गादिकर्तृत्वं, यथा आसीच्छायाद्वितीयः प्रथममथ विभुर्वत्सडिम्भादिदेहान् अंशेनांशेन चक्रे तदनु बहुचतुर्बाहुतां तेषु तेने । वृत्तस्तत्त्वादिवीतैरथ कमलभवैः स्तूयमानोऽखिलात्मा तावद्ब्रह्माण्डसेव्यः स्फुटमजनि ततो यः प्रपद्ये तमीशम् ॥ ऋBह्र्स्_२,१.१९५ ॥ ब्रह्मरुद्रादिमोहनं, यथा मोहितः शिशुकृतौ पितामहो हन्त शम्भुरपि जृम्भितो रणे । येन कंसरिपुणाद्य तत्पुरः के महेन्द्र विबुधा भवद्विधाः ॥ ऋBह्र्स्_२,१.१९६ ॥ भक्तप्रारब्धविध्वंसो, यथा श्रीदशमे (१०.४५.४५) गुरुपुत्रमिहानीतं निजकर्मनिबन्धनम् । आनयस्व महाराज मच्छासनपुरस्कृतः ॥ ऋBह्र्स्_२,१.१९७ ॥ आदिशब्देन दुर्घटघटनापि अपि जनिपरिहीनः सूनुराभीरभर्तुर् विभुरपि भुजयुग्मोत्सङ्गपर्याप्तमूर्तिः । प्रकटितबहुरूपोऽप्येकरूपः प्रभुर्मे धियमयमविचिन्त्यानन्तशक्तिर्धिनोति ॥ ऋBह्र्स्_२,१.१९८ ॥ (५७) कोटिब्रह्माण्डविग्रहः अगण्यजगद्अण्डाढ्यः कोटिब्रह्माण्डविग्रहः । इति श्रीविग्रहस्यास्य विभुत्वमनुकीर्तितम् ॥ ऋBह्र्स्_२,१.१९९ ॥ यथा तत्रैव (१०.१४.११) क्वाहं तमोमहद्अहंखचराग्निवार्भू संवेष्टिताण्डघटसप्तवितस्तिकायः । क्वेदृग्विधाविगणिताण्डपराणुचर्या वाताध्वरोमविवरस्य च ते महित्वम् ॥ ऋBह्र्स्_२,१.२०० ॥ यथा वा तत्त्वैर्ब्रह्माण्डमाढ्यं सुरकुलभुवनैश्चाङ्कितं योजनानां पञ्चाशत्कोट्य्अखर्वक्षितिखचितमिदं यच्च पातालपूर्णम् । तादृग्ब्रह्माण्डलक्षायुतपरिचयभागेककक्षं विधात्रा दृष्टं यस्यात्र वृन्दावनमपि भवतः कः स्तुतौ तस्य शक्तः ॥ ऋBह्र्स्_२,१.२०१ ॥ (५८) अवतारावलीबीजम् अवतारावलीबीजमवतारी निगद्यते ॥ ऋBह्र्स्_२,१.२०२ ॥ यथा श्रीगीतगोविन्दे (१.१६) वेदानुद्धरते जगन्ति वहते भूगोलमुद्बिभ्रते दैत्यं दारयते बलिं छलयते क्षत्रक्षयं कुर्वते । पौलस्त्यं जयते हलं कलयते कारुण्यमातन्वते म्लेच्छान्मूर्च्छयते दशाकृतिकृते कृष्णाय तुभ्यं नमः ॥ ऋBह्र्स्_२,१.२०३ ॥ (५९) हतारिगतिदायकः मुक्तिदाता हतारीणां हतारिगतिदायकः ॥ ऋBह्र्स्_२,१.२०४ ॥ यथा पराभवं फेनिलवक्त्रतां च बन्धं च भीतिं च मृतिं च कृत्वा । पवर्गदातापि शिखण्डमौले त्वं शात्रवाणामपवर्गदोऽसि ॥ ऋBह्र्स्_२,१.२०५ ॥ यथा वा चित्रं मुरारे सुरवैरिपक्षस् त्वया समन्तादनुबद्धयुद्धः । अमित्रवृन्दान्यविभिद्य भेदं मित्रस्य कुर्वन्नमृतं प्रयाति ॥ ऋBह्र्स्_२,१.२०६ ॥ (६०) आत्मारामगणाकर्षी आत्मारामगणाकर्षीत्येतद्व्यक्तार्थमेव हि ॥ ऋBह्र्स्_२,१.२०७ ॥ यथा पूर्णपरमहंसं मां माधव लीलामहौषधिर्घ्राता । कृत्वा बत सारङ्गं व्यधित कथं सारसे तृषितम् ॥ ऋBह्र्स्_२,१.२०८ ॥ अथासाधरणगुणचतुष्के (६१) लीलामाधुर्यं यथा बृहद्वामने सन्ति यद्यपि मे प्राज्या लीलास्तास्ता मनोहराः । न हि जाने स्मृते रासे मनो मे कीदृशं भवेत् ॥ ऋBह्र्स्_२,१.२०९ ॥ यथा वा परिस्फुरतु सुन्दरं चरित्रमत्र लक्ष्मीपतेस् तथा भुवननन्दिनस्तद्अवतारवृन्दस्य च । हरेरपि चमत्कृतिप्रकरवर्धनः किन्तु मे बिभर्ति हृदि विस्मयं कमपि रासलीलारसः ॥ ऋBह्र्स्_२,१.२१० ॥ (६२) प्रेम्णा प्रियाधिक्यम्, यथा श्रीदशमे (१०.३१.१५) अटति यद्भवानह्नि काननं त्रुटिर्युगायते त्वामपश्यताम् । कुटिलकुन्तलं श्रीमुखं च ते जड उदीक्षितां पक्ष्मकृत्दृशाम् ॥ ऋBह्र्स्_२,१.२११ ॥ यथा वा ब्रह्मरात्रिततिरप्यघशत्रो सा क्षणार्धवदगात्तव सङ्गे । हा क्षणार्धमपि वल्लविकानां ब्रह्मरात्रिततिवद्विरहेऽभूत् ॥ ऋBह्र्स्_२,१.२१२ ॥ (६३) वेणुमाधुर्यम्, यथा तत्रैव (१०.३३.१५) सवनशस्तद्उपधार्य सुरेशाः शक्रशर्वपरमेष्ठिपुरोगाः । कवय आनतकन्धरचित्ताः कश्मलं ययुरनिश्चिततत्त्वाः ॥ ऋBह्र्स्_२,१.२१३ ॥ यथा वा विदग्धमाधवे (१.२६) रुन्धन्नम्बुभृतश्चमत्कृतिपरं कुर्वन्मुहुस्तुम्बुरुं ध्यानादन्तरयन् सनन्दनमुखान् विस्मेरयन् वेधसम् । औत्सुक्यावलिभिर्बलिं चटुलयन् भोगीन्द्रमाघूर्णयन् भिन्दन्नण्डकटाहभित्तिमभितो बभ्राम वंशीध्वनिः ॥ ऋBह्र्स्_२,१.२१४ ॥ (६४) रूपमाधुर्यं, यथा तृतीये (३.२.१२) यन्मर्त्यलीलौपयिकं स्वयोग मायाबलं दर्शयता गृहीतम् । विस्मापनं स्वस्य च सौभगर्द्धेः परं पदं भूषणभूषणाङ्गम् ॥ ऋBह्र्स्_२,१.२१५ ॥ श्रीदशमे च (१०.२९.४०) का स्त्र्यङ्ग ते कलपदायतमूर्च्छितेन संमोहिताऽर्यपदवीं न चलेत्त्रिलोक्याम् । त्रैलोक्यसौभगमिदं च निरीक्ष्य रूपं यद्गोद्विजद्रुममृगान् पुलकान्यबिभ्रत् ॥ ऋBह्र्स्_२,१.२१६ ॥ यथा वा, ललितमाधवे (८.३४) अपरिकलितपूर्वः कश्चमत्कारकारी स्फुरति मम गरीयानेष माधुर्यपूरः । अयमहमपि हन्त प्रेक्ष्य यं लुब्धचेताः सरभसमुपभोक्तुं कामये राधिकेव ॥ ऋBह्र्स्_२,१.२१७ ॥ समस्तविविधाश्चर्यकल्याणगुणवारिधेः । गुणानामिह कृष्णस्य दिङ्मात्रमुपदर्शितम् ॥ ऋBह्र्स्_२,१.२१८ ॥ यथा च श्रीदशमे (१०.१४.७) गुणात्मनस्तेऽपि गुणान् विमातुं हितावतीर्णस्य क ईशिरेऽस्य । कालेन यैर्वा विमिताः सुकल्पैर् भूपांशवः खे मिहिका द्युभासः ॥ ऋBह्र्स्_२,१.२१९ ॥ नित्यगुणो वनमाली, यदपि शिखामणिरशेषनेतॄणाम् । भक्तापेक्षिकमस्य, त्रिविधत्वं लिख्यते तदपि ॥ ऋBह्र्स्_२,१.२२० ॥ हरिः पूर्णतमः पूर्णतरः पूर्ण इति त्रिधा । श्रेष्ठमध्यादिभिः शब्दैर्नाट्ये यः परिपठ्यते ॥ ऋBह्र्स्_२,१.२२१ ॥ प्रकाशिताखिलगुणः स्मृतः पूर्णतमो बुधैः । असर्वव्यञ्जकः पूर्णतरः पूर्णोऽल्पदर्शकः ॥ ऋBह्र्स्_२,१.२२२ ॥ कृष्णस्य पूर्णतमता व्यक्ताभूद्गोकुलान्तरे । पूर्णता पूर्णतरता द्वारकामथुरादिषु ॥ ऋBह्र्स्_२,१.२२३ ॥ स पुनश्चतुर्विधः स्याद्धीरोदात्तश्च धीरललितश्च । धीरप्रशान्तनामा तथैव धीरोद्धतः कथितः ॥ ऋBह्र्स्_२,१.२२४ ॥ बहुविधगुणक्रियाणामास्पदभूतस्य पद्मनाभस्य । तत्तल्लीलाभेदाद्विरुध्यते न हि चतुर्विधाः ॥ ऋBह्र्स्_२,१.२२५ ॥ तत्र धीरोदात्तः गम्भीरो विनयी क्षन्ता करुणः सुदृढव्रतः । अकत्थनो गूढगर्वो धीरोदात्तः सुसत्त्वभृत् ॥ ऋBह्र्स्_२,१.२२६ ॥ यथा वीरंमन्यमदप्रहारिहसितं धौरेयमार्तोद्धृतौ निर्व्यूढव्रतमुन्नतक्षितिधरोद्धारेण धीराकृतिम् । मय्युच्चैः कृतकिल्बिषेऽपि मधुरं स्तुत्या मुहुर्यन्त्रितं प्रेक्ष्य त्वां मम दुर्वितर्क्यहृदयं धीर्गीश्च न स्पन्दते ॥ ऋBह्र्स्_२,१.२२७ ॥ गम्भीरत्वादिसामान्यगुणा यदिह कीर्तिताः । तदेतेषु तद्आधिक्यप्रतिपादनहेतवे ॥ ऋBह्र्स्_२,१.२२८ ॥ इदं हि धीरोदात्तत्वं पूर्वैः प्रोक्तं रघूद्वहे । तत्तद्भक्तानुसारेण तथा कृष्णे विलोक्यते ॥ ऋBह्र्स्_२,१.२२९ ॥ धीरललितः विदग्धो नवतारुण्यः परिहासविशारदः । निश्चिन्तो धीरललितः स्यात्प्रायः प्रेयसीवशः ॥ ऋBह्र्स्_२,१.२३० ॥ यथा वाचा सूचितशर्वरीरतिकलाप्रागल्भ्यया राधिकां व्रीडाकुञ्चितलोचनां विरचयन्नग्रे सखीनामसौ । तद्वक्षोरुहचित्रकेलिमकरीपाण्डित्यपारं गतः कैशोरं सफलीकरोति कलयन् कुञ्जे विहारं हरिः ॥ ऋBह्र्स्_२,१.२३१ ॥ गोविन्दे प्रकटं धीरललितत्वं प्रदर्श्यते । उदाहरन्ति नाट्यज्ञाः प्रायोऽत्र मकरध्वजम् ॥ ऋBह्र्स्_२,१.२३२ ॥ धीरशान्तः शमप्रकृतिकः क्लेशसहनश्च विवेचकः । विनयादिगुणोपेतो धीरशान्त उदीर्यते ॥ ऋBह्र्स्_२,१.२३३ ॥ यथा विनयमधुरमूर्तिर्मन्थरस्निग्धतारो वचनपटिमभङ्गीसूचिताशेषनीतिः । अभिदधदिह धर्मं धर्मपुत्रोपकण्ठे द्विजपतिरिव साक्षात्प्रेक्ष्यते कंसवैरी ॥ ऋBह्र्स्_२,१.२३४ ॥ युधिष्ठिरादिको धीरैर्धीरशान्तः प्रकीर्तितः ॥ ऋBह्र्स्_२,१.२३५ ॥ धीरोद्धतः मात्सर्यवानहङ्कारी मायावी रोषणश्चलः । विकत्थनश्च विद्वद्भिर्धीरोद्धत उदाहृतः ॥ ऋBह्र्स्_२,१.२३६ ॥ यथा आः पापिन् यवनेन्द्र दर्दुर पुनर्व्याघुट्य सद्यस्त्वया वासः कुत्रचिदन्धकूपकुहरक्रोडेऽद्य निर्मीयताम् । हेलोत्तानितदृष्टिमात्रभसितब्रह्माण्डाण्डः पुरो जागर्मि त्वद्उपग्रहाय भुजगः कृष्णोऽत्र कृष्णाभिधः ॥ ऋBह्र्स्_२,१.२३७ ॥ धीरोद्धतस्तु विद्वद्भिर्भीमसेनादिरुच्यते ॥ ऋBह्र्स्_२,१.२३८ ॥ मात्सर्याद्याः प्रतीयन्ते दोषत्वेन यदप्यमी । लीलाविशेषशालित्वान्निर्दोषेऽत्रे गुणाः स्मृताः ॥ ऋBह्र्स्_२,१.२३९ ॥ यथा वा अम्भोभारभरप्रणम्रजलदभ्रान्तिं वितन्वन्नसौ घोराडम्बरडम्बरः सुविकुटामुत्क्षिप्य हस्तार्गलाम् । दुर्वारः परवारणः स्वयमहं लब्धोऽस्मि कृष्णः पुरो रे श्रीदामकुरङ्गसङ्गरभुवो भङ्गं त्वमङ्गीकुरु ॥ ऋBह्र्स्_२,१.२४० ॥ मिथो विरोधिनोऽप्यत्र केचिन्निगदिता गुणाः । हरौ निरङ्कुशैश्वर्यात्कोऽपि न स्यादसम्भवः ॥ ऋBह्र्स्_२,१.२४१ ॥ तथा च कौर्मे अस्थूलश्चाणुश्चैव स्थूलोऽणुश्चैव सर्वतः । अवर्णः सर्वतः प्रोक्तः श्यामो रक्तान्तलोचनः । ऐश्वर्ययोगाद्भगवान् विरुद्धार्थोऽभिधीयते ॥ ऋBह्र्स्_२,१.२४२ ॥ तथापि दोषाः परमे नैवाहार्याः कथञ्चन । गुणा विरुद्धा अप्येते समाहार्याः समन्ततः ॥ ऋBह्र्स्_२,१.२४३ ॥ महावाराहे च सर्वे नित्याः शाश्वताश्च देहास्तस्य परात्मनः । हानोपादानरहिता नैव प्रकृतिजाः क्वचित् ॥ ऋBह्र्स्_२,१.२४४ ॥ परमानन्दसन्दोहा ज्ञानमात्राश्च सर्वतः । सर्वे सर्वगुणैः पूर्णाः सर्वदोषविवर्जिताः ॥ ऋBह्र्स्_२,१.२४५ ॥ वैष्णवतन्त्रेऽपि अष्टादशमहादोषै रहिता भगवत्तनुः । सर्वैश्वर्यमयी सत्यविज्ञानानन्दरूपिणी ॥ ऋBह्र्स्_२,१.२४६ ॥ अष्टादशमहादोषाः, यथा विष्णुयामले मोहस्तन्द्रा भ्रमो रुक्षरसता काम उल्बणः । लोलता मदमात्सर्ये हिंसा खेदपरिश्रमौ ॥ ऋBह्र्स्_२,१.२४७ ॥ असत्यं क्रोध आकाङ्क्षा आशङ्का विश्वविभ्रमः । विषमत्वं परापेक्षा दोषा अष्टादशोदिताः ॥ ऋBह्र्स्_२,१.२४८ ॥ इत्थं सर्वावतारेभ्यस्ततोऽप्यत्रावतारिणः । व्रजेन्द्रनन्दने सुष्ठु माधुर्यभर ईरितः ॥ ऋBह्र्स्_२,१.२४९ ॥ तथा च ब्रह्मसंहितायामादिपुरुषरहस्ये (५.५९) यस्यैकनिश्वसितकालमथावलम्ब्य जीवन्ति लोमबिलजा जगद्अण्डनाथाः । विष्णुर्महान् स इह यस्य कलाविशेषो गोविन्दमादिपुरुषं तमहं भजामि ॥ ऋBह्र्स्_२,१.२५० ॥ अथाष्टावनुकीर्त्यन्ते सद्गुणत्वेन विश्रुताः । मङ्गलालङ्क्रियारूपाः सत्त्वभेदास्तु पौरुषाः ॥ ऋBह्र्स्_२,१.२५१ ॥ शोभा विलासो माधुर्यं माङ्गल्यं स्थैर्यतेजसी । ललितौदार्यमित्येते सत्त्वभेदास्तु पौरुषाः ॥ ऋBह्र्स्_२,१.२५२ ॥ तत्र शोभा नीचे दयाधिके स्पर्धा शौर्योत्साहौ च दक्षता । सत्यं च व्यक्तिमायाति यत्र शोभेति तां विदुः ॥ ऋBह्र्स्_२,१.२५३ ॥ यथा स्वर्गध्वंसं विधित्सुर्व्रजभुवि कदनं सुष्ठु वीक्ष्यातिवृष्ट्या नीचानालोच्य पश्चान्नमुचिरिपुमुखानूढकारुण्यवीचिः । अप्रेक्ष्य स्वेन तुल्यं कमपि निजरुषामत्र पर्याप्तिपात्रं बन्धूनानन्दयिष्यन्नुदहरतु हरिः सत्यसन्धो महाद्रिम् ॥ ऋBह्र्स्_२,१.२५४ ॥ विलासः वृषभस्येव गम्भीरा गतिर्धीरं च वीक्षणम् । सस्मितं च वचो यत्र स विलास इतीर्यते ॥ ऋBह्र्स्_२,१.२५५ ॥ यथा मल्लश्रेण्यामविनयवतीं मन्थरां न्यस्य दृष्टिं व्याधुन्वानो द्विप इव भुवं विक्रमाडम्बरेण । वाग्आरम्भे स्मितपरिमलैः क्षालयन्मञ्चकक्षां तुङ्गे रङ्गस्थलपरिसरे सारसाक्षः ससार ॥ ऋBह्र्स्_२,१.२५६ ॥ माधुर्यम् तन्माधुर्यं भवेद्यत्र चेष्टादेः स्पृहणीयता ॥ ऋBह्र्स्_२,१.२५७ ॥ यथा वरामध्यासीनस्तटभुवमवष्टम्भरुचिभिः कदम्बैः प्रालम्बं प्रवलितविलम्बं विरचयन् । प्रपन्नायामग्रे मिहिरदुहितुस्तीर्थपदवीं कुरङ्गीनेत्रायां मधुरिपुरपाङ्गं विकिरति ॥ ऋBह्र्स्_२,१.२५८ ॥ माङ्गल्यम् माङ्गल्यं जगतामेव विश्वासास्पदता मता ॥ ऋBह्र्स्_२,१.२५९ ॥ यथा अन्याय्यं न हराविति व्यपगतद्वारार्गला दानवा रक्षी कृष्ण इति प्रमत्तमभितः क्रीडासु रक्ताः सुराः । साक्षी वेत्ति स भक्तिमित्यवनतव्राताश्च चिन्तोज्झिताः के विश्वम्भर न त्वद्अङ्घ्रियुगले विश्रम्भितां भेजिरे ॥ ऋBह्र्स्_२,१.२६० ॥ स्थैर्यम् व्यवसायादचलनं स्थैर्यं विघ्नाकुलादपि ॥ ऋBह्र्स्_२,१.२६१ ॥ यथा प्रतिकुलेऽपि सशूले, शिवे शिवायां निरंशुकायां च । व्यलुनादेव मुकुन्दो विन्ध्यावलिनन्दनस्य भुजान् ॥ ऋBह्र्स्_२,१.२६२ ॥ तेजः सर्वचित्तावगाहित्वं तेजः सद्भिरुदीर्यते ॥ ऋBह्र्स्_२,१.२६३ ॥ यथा श्रीदशमे (१०.४३.१७) मल्लानामशनिर्नॄणां नरवरः स्त्रीणां स्मरो मूर्तिमान् गोपानां स्वजनोऽसतां क्षितिर्भुजां शास्ता स्वपित्रोः शिशुः । मृत्युर्भोजपतेर्विराडविदुषां तत्त्वं परं योगिनां वृष्णीनां परदेवतेति विदितो रङ्गः गतः साग्रजः ॥ ऋBह्र्स्_२,१.२६४ ॥ यथा तेजो बुधैरवज्ञादेरसहिष्णुत्वमुच्यते ॥ ऋBह्र्स्_२,१.२६५ ॥ यथा आक्रुष्टे प्रकटं दिदण्डयिषुणा चण्डेन रङ्गस्थले नन्दे चानकदुन्दुभौ च पुरतः कंसेन विश्वद्रुहा । दृष्टिं तत्र सुरारिमृत्युकुलटासम्पर्कदूतीं क्षिपन् मञ्चस्योपरि सञ्चुकुर्दिषुरसौ पश्याच्युतः प्राञ्चति ॥ ऋBह्र्स्_२,१.२६६ ॥ ललितम् शृङ्गारप्रचुरा चेष्टा यत्र तं ललितं विदुः ॥ ऋBह्र्स्_२,१.२६७ ॥ यथा विधत्ते राधायाः कुचमुकुलयोः केलिमकरीं करेण व्यग्रात्मा सरभसमसव्येन रसिकः । अरिष्टे साटोपं कटु रुवति सव्येन विहसन्न् उदञ्चद्रोमाञ्चं रचयति च कृष्णः परिकरम् ॥ ऋBह्र्स्_२,१.२६८ ॥ औदार्यम् आत्माद्य्अर्पणकारित्वमौदार्यमिति कीर्त्यते ॥ ऋBह्र्स्_२,१.२६९ ॥ यथा वदान्यः को भवेदत्र वदान्यः पुरुषोत्तमात् । अकिञ्चनाय येनात्मा निर्गुणायापि दीयते ॥ ऋBह्र्स्_२,१.२७० ॥ सामान्या नायकगुणाः स्थिरताद्या यदप्यमी । तथापि पूर्वतः किञ्चिद्विशेषात्पुनरीरिताः ॥ ऋBह्र्स्_२,१.२७१ ॥ अथास्य सहायाः अस्य गर्गादयो धर्मे युयुधानादयो युधि । उद्धवाद्यास्तथा मन्त्रे सहायाः परिकीर्तिताः ॥ ऋBह्र्स्_२,१.२७२ ॥ अथ कृष्णभक्ताः तद्भावभावितस्वान्ताः कृष्णभक्ता इतीरिताः ॥ ऋBह्र्स्_२,१.२७३ ॥ यो सत्यवाक्य इत्याद्या ह्रीमानित्यन्तिमा गुणाः । प्रोक्ताः कृष्णेऽस्य भक्तेषु ते विज्ञेया मनीषिभिः ॥ ऋBह्र्स्_२,१.२७४ ॥ ते साधकाश्च सिद्धाश्च द्विविधाः परिकीर्तिताः ॥ ऋBह्र्स्_२,१.२७५ ॥ तत्र साधकाः उत्पन्नरतयः सम्यङ्नैर्विघ्न्यमनुपागताः । कृष्णसाक्षात्कृतौ योग्याः साधकाः परिकीर्तिताः ॥ ऋBह्र्स्_२,१.२७६ ॥ यथैकादशे (११.२.४६) ईश्वरे तद्अधीनेषु बालिशेषु द्विषत्सु च । प्रेममैत्रीकृपोपेक्षा यः करोति स मध्यमः ॥ ऋBह्र्स्_२,१.२७७ ॥ यथा वा सिक्ताप्यश्रुजलोत्करेण भगवद्वार्तानदीजन्मना तिष्ठत्येव भवाग्निहेतिरिति ते धीमन्नलं चिन्तया । हृद्व्योमन्यमृतस्पृहाहरकृपावृष्टेः स्फुटं लक्ष्यते नेदिष्टः पृथुरोमताण्डवभरात्कृष्णाम्बुधस्योद्गमः ॥ ऋBह्र्स्_२,१.२७८ ॥ बिल्वमङ्गलतुल्या ये साधकास्ते प्रकीर्तिताः ॥ ऋBह्र्स्_२,१.२७९ ॥ अथ सिद्धाः अविज्ञाताखिलक्लेशाः सदा कृष्णाश्रितक्रियाः । सिद्धाः स्युः सन्ततप्रेमसौख्यास्वादपरायणाः ॥ ऋBह्र्स्_२,१.२८० ॥ सम्प्राप्तसिद्धयः सिद्धा नित्यसिद्धाश्च ते त्रिधा ॥ ऋBह्र्स्_२,१.२८१ ॥ तत्र सम्प्राप्तसिद्धयः साधनैः कृपया चास्य द्विधा सम्प्राप्तसिद्धयः ॥ ऋBह्र्स्_२,१.२८२ ॥ तत्र साधनसिद्धाः, यथा तृतीये (३.१५.२५) यच्च व्रजन्त्यनिमिषामृषभानुवृत्त्या दूरे यमा ह्युपरि नः स्पृहणीयशीलाः । भर्तुर्मिथः सुयशसः कथनानुराग वैक्लव्यबाष्पकलया पुलकीकृताङ्गाः ॥ ऋBह्र्स्_२,१.२८३ ॥ यथा वा ये भक्तिप्रभविष्णुताकवलितक्लेशोर्मयः कुर्वते दृक्पातेऽपि घृणां कृतप्रणतिषु प्रायेण मोक्षादिषु । तान् प्रेमप्रसरोत्सवस्तवकितस्वान्तान् प्रमोदाश्रुभिर् निर्धौतास्यतटान्मुहुः पुलकिनो धन्यान्नमस्कुर्महे ॥ ऋBह्र्स्_२,१.२८४ ॥ मार्कण्डेयादयः प्रोक्ताः साधनैः प्राप्तसिद्धयः ॥ ऋBह्र्स्_२,१.२८५ ॥ अथ कृपासिद्धाः, यथा श्रीदशमे (१०.२३.४२४३) नासां द्विजातिसंस्कारो न निवासो गुरावपि । न तपो नात्ममीमांसा न शौचं न क्रियाः शुभाः ॥ ऋBह्र्स्_२,१.२८६ ॥ अथापि ह्युत्तमःश्लोके कृष्णे योगेश्वरेश्वरे । भक्तिर्दृढा न चास्माकं संस्कारादिमतामपि ॥ ऋBह्र्स्_२,१.२८७ ॥ यथा वा न काचिदभवद्गुरोर्भजनयन्त्रणेऽभिज्ञता न साधनविधौ च ते श्रमलवस्य गन्धोऽप्यभूत् । गतोऽसि चरितार्थतां परमहंसमृग्यश्रिया मुकुन्दपदपद्मयोः प्रणयसीधुनो धारया ॥ ऋBह्र्स्_२,१.२८८ ॥ कृपासिद्धा यज्ञपत्नीवैरोचनिशुकादयः ॥ ऋBह्र्स्_२,१.२८९ ॥ अथ नित्यसिद्धाः आत्मकोटिगुणं कृष्णे प्रेमाणं परमं गताः । नित्यानन्दगुणाः सर्वे नित्यसिद्धा मुकुन्दवत् ॥ ऋBह्र्स्_२,१.२९० ॥ यथा पाद्मे श्रीभगवत्सत्यभामादेवीसंवादे अथ ब्रह्मादिदेवानां तथा प्रार्थनया भुवः । आगतोऽहं गणाः सर्वे जातास्तेऽपि मया सह ॥ ऋBह्र्स्_२,१.२९१ ॥ एते हि यादवाः सर्वे मद्गणा एव भामिनि । सर्वदा मत्प्रिया देवि मत्तुल्यगुणशालिनः ॥ ऋBह्र्स्_२,१.२९२ ॥ तथा च श्रीदशमे (१०.१४.३२) अहो भाग्यमहो भाग्यं नन्दगोपव्रजौकसाम् । यन्मित्रं परमानन्दं पूर्णं ब्रह्म सनातनम् ॥ ऋBह्र्स्_२,१.२९३ ॥ तत्रैव (१०.२६.१३) दुस्त्यजश्चानुरागोऽस्मिन् सर्वेषां नो व्रजौकसाम् । नन्द ते तनयेऽस्मासु तस्याप्यौत्पत्तिकः कथम् ॥ ऋBह्र्स्_२,१.२९४ ॥ सनातनं मित्रमिति तस्याप्यौत्पत्तिकः कथम् । स्नेहोऽस्मास्विति चैतेषां नित्यप्रेष्ठत्वमागतम् ॥ ऋBह्र्स्_२,१.२९५ ॥ इत्यतः कथिता नित्यप्रिया यादववल्लवाः । एषां लौकिकवच्चेष्टा लीला मुररिपोरिव ॥ ऋBह्र्स्_२,१.२९६ ॥ तथा हि पाद्मोत्तरखण्डे यथा सौमित्रिभरतौ यथा सङ्कर्षणादयः । तथा तेनैव जायन्ते निजलोकाद्यदृच्छया ॥ ऋBह्र्स्_२,१.२९७ ॥ पुनस्तेनैव गच्छन्ति तत्पदं शाश्वतं परम् । न कर्मबन्धनं जन्म वैष्णवानां च विद्यते ॥ ऋBह्र्स्_२,१.२९८ ॥ ये प्रोक्ताः पञ्चपञ्चाशत्क्रमात्कंसरिपोर्गुणाः । ते चान्ये चापि सिद्धेषु सिद्धिदत्वादयो मताः ॥ ऋBह्र्स्_२,१.२९९ ॥ भक्तास्तु कीर्तिताः शान्तास्तथा दाससुतादयः । सखायो गुरुवर्गाश्च प्रेयस्यश्चेति पञ्चधा ॥ ऋBह्र्स्_२,१.३०० ॥ अथ उद्दीपनाः उद्दीपनास्तु ते प्रोक्ता भावमुद्दीपयन्ति ये । ते तु श्रीकृष्णचन्द्रस्य गुणाश्चेष्टाः प्रसाधनम् ॥ ऋBह्र्स्_२,१.३०१ ॥ स्मिताङ्गसौरभे वंशशृङ्गनूपुरकम्बवः । पदाङ्कक्षेत्रतुलसीभक्ततद्वासरादयः ॥ ऋBह्र्स्_२,१.३०२ ॥ तत्र गुणाः गुणास्तु त्रिविधाः प्रोक्ताः कायवाङ्मानसाश्रयाः ॥ ऋBह्र्स्_२,१.३०३ ॥ तत्र कायिकाः वयःसौन्दर्यरूपाणि कायिकामृदुतादयः ॥ ऋBह्र्स्_२,१.३०४ ॥ गुणाः स्वरूपमेवास्य कायिकाद्या यदप्यमी । भेदं स्वीकृत्य वर्ण्यन्ते तथाप्युद्दीपना इति ॥ ऋBह्र्स्_२,१.३०५ ॥ अतस्तस्य स्वरूपस्य स्यादालम्बनतैव हि । उद्दीपनत्वमेव स्याद्भूषणादेस्तु केवलम् ॥ ऋBह्र्स्_२,१.३०६ ॥ एषामालम्बनत्वं च तथोद्दीपनतापि च ॥ ऋBह्र्स्_२,१.३०७ ॥ तत्र वयः वयः कौमारपौगण्डकैशोरमिति तत्त्रिधा ॥ ऋBह्र्स्_२,१.३०८ ॥ कौमारं पञ्चमाब्दान्तं पौगण्डं दशमावधि । आषोडशाच्च कैशोरं यौवनं स्यात्ततः परम् ॥ ऋBह्र्स्_२,१.३०९ ॥ औचित्यात्तत्र कौमारं वक्तव्यं वत्सले रसे । पौगण्डं प्रेयसि तत्तत्खेलादियोगतः ॥ ऋBह्र्स्_२,१.३१० ॥ श्रैष्ठ्यमुज्ज्वल एवास्य कैशोरस्य तथाप्यदः । प्रायः सर्वरसौचित्यादत्रोदाह्रियते क्रमात् ॥ ऋBह्र्स्_२,१.३११ ॥ आद्यं मध्यं तथा शेषं कैशोरं त्रिविधं भवेत् ॥ ऋBह्र्स्_२,१.३१२ ॥ तत्र आद्यम् वर्णस्योज्ज्वलता कापि नेत्रान्ते चारुणच्छविः । रोमावलिप्रकटता कैशोरे प्रथमे सति ॥ ऋBह्र्स्_२,१.३१३ ॥ तथा हरति शितिमा कोऽप्यङ्गानां महेन्द्रमणिश्रियं प्रविशति दृशोरन्ते कान्तिर्मनागिव लोहिनी । सखि तनु रुहां राजिः सूक्ष्मा दरास्य विरोहते स्फुरति सुषमा नव्येदानीं तनौ वनमालिनः ॥ ऋBह्र्स्_२,१.३१४ ॥ वैजयन्तीशिखण्डादिनटप्रवरवेशता । वंशीमधुरिमा वस्त्रशोभा चात्र परिच्छदः ॥ ऋBह्र्स्_२,१.३१५ ॥ यथा श्रीदशमे (१०.२१.५) बर्हापीडं नटवरवपुः कर्णयोः कर्णिकारं बिभ्रद्वासः कनककपिशं वैजयन्तीं च मालाम् । रन्ध्रान् वेणोरधरसुधया पूरयन् गोपवृन्दैर् वृन्दारण्यं स्वपदरमणं प्राविशद्गीतकीर्तिः ॥ ऋBह्र्स्_२,१.३१६ ॥ खरतात्र नखाग्राणां धनुरान्दोलिता भ्रुवोः । रदानां रञ्जनं रागचूर्णैरित्यादि चेष्टितम् ॥ ऋBह्र्स्_२,१.३१७ ॥ यथा नवं धनुरिवातनोर्नटद्अघद्विषोर्भ्रूयुगं शरालिरिव शाणिता नखरराजिरग्रे खरा । विराजति शरीरिणी रुचिरदन्तलेखारुणा न का सखि समीक्षणाद्युवतिरस्य वित्रस्यति ॥ ऋBह्र्स्_२,१.३१८ ॥ तन्मोहनता, यथा कर्तुं मुग्धाः स्वयमचटुना न क्षमन्तेऽभियोगं न व्यादातुं क्वचिदपि जने वक्त्रमप्युत्सहन्ते । दृष्ट्वा तास्ते नवमधुरिमस्मेरतां माधवार्ताः स्वप्राणेभ्यस्त्रयमुदसृजन्नद्य तोयाञ्जलीनाम् ॥ ऋBह्र्स्_२,१.३१९ ॥ अथ मध्यमम् ऊरुद्वयस्य बाह्वोश्च कापि श्रीरुरसस्तथा । मूर्तेर्माधुरिमाद्यं च कैशोरे सति मध्यमे ॥ ऋBह्र्स्_२,१.३२० ॥ यथा स्पृहयति करिशुण्डादण्डनायोरुयुग्मं गरुडमणिकवाटीसख्यमिच्छत्युरश्च । भुजयुगमपि धित्सत्यर्गलावर्गनिन्दाम् अभिनवतरुणिम्नः प्रक्रमे केशवस्य ॥ ऋBह्र्स्_२,१.३२१ ॥ मुखं स्मितविलासाढ्यं विभ्रमोत्तरले दृशौ । त्रिजगन्मोहनं गीतमित्यादिरिह माधुरी ॥ ऋBह्र्स्_२,१.३२२ ॥ यथा अनङ्गनयचातुरीपरिचयोत्तरङ्गे दृशौ मुखाम्बुजमुदञ्चितस्मितविलासरम्याधरम् । अचञ्चलकुलाङ्गनाव्रतविडम्बिसङ्गीतकं हरेस्तरुणिमाङ्कुरे स्फुरति माधुरी काप्यभूत् ॥ ऋBह्र्स्_२,१.३२३ ॥ वैदग्धीसारविस्तारः कुञ्जकेलिमहोत्सवः । आरम्भो रासलीलादेरिह चेष्टादिसौष्ठवम् ॥ ऋBह्र्स्_२,१.३२४ ॥ यथा व्यक्तालक्तपदैः क्वचित्परिलुठत्पिञ्छावतंसैः क्वचित् तल्पैर्विच्युतकाञ्चिभिः क्वचिदसौ व्याकीर्णकुञ्जोत्करा । प्रोद्यन्मण्डलबन्धताण्डवघटालक्ष्मोल्लसत्सैकता गोविन्दस्य विलासवृन्दमधिकं वृन्दाटवी शंसति ॥ ऋBह्र्स्_२,१.३२५ ॥ तन्मोहनता, यथा विदूरान्माराग्निं हृदयरविकान्ते प्रकटयन्न् उदस्यन् धर्मेन्दुं विदधदभितो रागपटलम् । कथं हा नस्त्राणं सखि मुकुलयन् बोधकुमुदं तरस्वी कृष्णाब्भ्रे मधुरिमभरार्कोऽभ्युदयते ॥ ऋBह्र्स्_२,१.३२६ ॥ अथ शेषम् पूर्वतोऽप्यधिकोत्कर्षं बाढमङ्गानि बिभ्रति । त्रिवलिव्यक्तिरित्याद्यं कैशोरे चरमे सति ॥ ऋBह्र्स्_२,१.३२७ ॥ यथा मरकतगिरेर्गण्डग्रावप्रभाहररक्षसं शतमखमणिस्तम्भारम्भप्रमाथिभुजद्वयम् । तनुतरणिजावीचिच्छायाविडम्बिबलित्रयं मदनकदलीसाधिष्ठोरुं स्मराम्यसुरान्तकम् ॥ ऋBह्र्स्_२,१.३२८ ॥ तन्माधुर्यं, यथा दशार्धशरमाधुरीदमनदक्षयाङ्गश्रिया विधूनितवधूधृतिं वरकलाविलासास्पदम् । दृग्अञ्चलचमत्कृतिक्षपितखञ्जरीटद्युतिं स्फुरत्तरुणिमोद्गमं तरुणि पश्य पीताम्बरम् ॥ ऋBह्र्स्_२,१.३२९ ॥ इदमेव हरेः प्राज्ञैर्नवयौवनमुच्यते ॥ ऋBह्र्स्_२,१.३३० ॥ अत्र गोकुलदेवीनां भावसर्वस्वशालिता । अभूतपूर्वकन्दर्पतन्त्रलीलोत्सवादयः ॥ ऋBह्र्स्_२,१.३३१ ॥ यथा कान्ताभिः कलहायते क्वचिदयं कन्दर्पलेखान् क्वचित् कीरैरर्पयति क्वचिद्वितनुते क्रीडाभिसारोद्यमम् । सख्या भेदयति क्वचित्स्मरकलाषाड्गुण्यवानीहते सन्धिं क्वाप्यनुशास्ति कुञ्जनृपतिः शृङ्गारराज्योत्तमम् ॥ ऋBह्र्स्_२,१.३३२ ॥ तन्मोहनता, यथा कर्णाकर्णि सखीजनेन विजने दूतीस्तुतिप्रक्रिया पत्युर्वञ्चनचातुरी गुणनिका कुञ्जप्रयाणे निशि* । वाधिर्यं गुरुवाचि वेणुविरुतावुत्कर्णतेति व्रतान् कैशोरेण तवाद्य कृष्ण गुरुणा गौरीगणः पठ्यते ॥ ऋBह्र्स्_२,१.३३३ ॥ {*कुण्ड इति क्वचित्} नेतुः स्वरूपमेवोक्तं कैशोरमिह यद्यपि । नानाकृतिप्रकटनात्तथाप्युद्दीपनं मतम् ॥ ऋBह्र्स्_२,१.३३४ ॥ बाल्येऽपि नवतारुण्यप्राकट्यं क्वचित् । तन्नातिरसवाहित्वान्न रसज्ञैरुदाहृतम् ॥ ऋBह्र्स्_२,१.३३५ ॥ अथ सौन्दर्यम् भवेत्सौन्दर्यमङ्गानां सन्निवेशो यथोचितम् ॥ ऋBह्र्स्_२,१.३३६ ॥ यथा मुखं ते दीर्घाक्षं मरकततटीपीवरमुरो भुजद्वन्द्वं स्तम्भद्युतिसुवलितं पार्श्वयुगलम् । परिक्षीणो मध्यः प्रथिमलहरीहारि जघनं न कस्याः कंसारे हरति हृदयं पङ्कजदृशः ॥ ऋBह्र्स्_२,१.३३७ ॥ अथ रूपम् विभूषणं विभूष्यं स्याद्येन तद्रूपमुच्यते ॥ ऋBह्र्स्_२,१.३३८ ॥ यथा कृष्णस्य मण्डनततिर्मणिकुण्डलाद्या नीताङ्गसङ्गतिमलङ्कृतये वराङ्गि । शक्ता बभूव न मनागपि तद्विधाने सा प्रत्युत स्वयमनल्पमलङ्कृतासीत् ॥ ऋBह्र्स्_२,१.३३९ ॥ अथ मृदुता मृदुता कोमलस्यापि संस्पर्शासहतोच्यते ॥ ऋBह्र्स्_२,१.३४० ॥ यथा अहह नवाम्बुदकान्तेरमुष्य सुकुमारता कुमारस्य । अपि नवपल्लवसङ्गादङ्गान्यपरज्य शीर्यन्ति ॥ ऋBह्र्स्_२,१.३४१ ॥ ये नायकप्रकरणे वाचिका मानसास्तथा । गुणाः प्रोक्तान्त एवात्र ज्ञेया उद्दीपना बुधः ॥ ऋBह्र्स्_२,१.३४२ ॥ चेष्टा चेष्टा रासादिलीलाः स्युस्तथा दुष्टवधादयः ॥ ऋBह्र्स्_२,१.३४३ ॥ तत्र रासो, यथा नृत्यद्गोपनितम्बिनीकृतपरीरम्भस्य रम्भादिभिर् गीर्वाणीभिरनङ्गरङ्गविवशं सन्दृश्यमानश्रियः । क्रीडाताण्डवपण्डितस्य परितः श्रीपुण्डरीकाक्ष ते रासारम्भरसार्थिनो मधुरिमा चेतांसि नः कर्षति ॥ ऋBह्र्स्_२,१.३४४ ॥ दुष्टवधो, यथा ललितमाधवे (९.५०) शम्भुर्वृषं नयति मन्दरकन्दरान्तर् म्लानः सलीलमपि यत्र शिरो धुनाने । आः कौतुकं कलय केलिलवादरिष्टं तं दुष्टपुङ्गवमसौ हरिरुन्ममाथ ॥ ऋBह्र्स्_२,१.३४५ ॥ अथ प्रसाधनम् कथितं वसनाकल्पमण्डनाद्यं प्रसाधनम् ॥ ऋBह्र्स्_२,१.३४६ ॥ तत्र वसनम् नवार्करश्मिकाश्मीरहरितालादिसन्निभम् । युगं चतुष्कं भूयिष्ठं वसनं त्रिविधं हरेः ॥ ऋBह्र्स्_२,१.३४७ ॥ तत्र युगम् परिधानं ससंव्यानं युगरूपमुदीरितम् ॥ ऋBह्र्स्_२,१.३४८ ॥ यथा स्तवावल्यां मुकुन्दाष्टके (३) कनकनिवहशोभानन्दि पीतं नितम्बे तद्उपरि नवरक्तं वस्त्रमित्थं दधानः । प्रियमिव किल वर्णं रागयुक्तं प्रियायाः प्रणयतु मम नेत्राभीष्टपूर्तिं मुकुन्दः ॥ ऋBह्र्स्_२,१.३४९ ॥ चतुष्कम् चतुष्कं कञ्चुकोष्णीषतुन्दबन्धान्तरीयकम् ॥ ऋBह्र्स्_२,१.३५० ॥ यथा स्मेरास्यः परिहितपाटलाम्बरश्रीश् छन्नाङ्गः पुरटरुचोरुकञ्चकेन । उष्णीषं दधदरुणं धटीं च चित्राः कंसारिर्वहति महोत्सवे मुदं नः ॥ ऋBह्र्स्_२,१.३५१ ॥ भूयिष्ठम् खण्डिताखण्डितं भूरि नटवेशक्रियोचितम् । अनेकवर्णं वसनं भूयिष्ठं कथितं बुधैः ॥ ऋBह्र्स्_२,१.३५२ ॥ यथा अखण्डितविखण्डितैः सितपिशङ्गनीलारुणैः पटैः कृतयथोचितप्रकटसन्निवेशोज्ज्वलः । अयं करभराट्प्रभः प्रचुररङ्गशृङ्गारितः करोति करभोरु मे घनरुचिर्मुदं माधवः ॥ ऋBह्र्स्_२,१.३५३ ॥ अथ आकल्पः केशबन्धनमालेपो मालाचित्रविशेषकः । ताम्बूलकेलिपद्मादिराकल्पः परिकीर्तितः ॥ ऋBह्र्स्_२,१.३५४ ॥ स्याज्जूटः कवरी चूडा वेणी च कचबन्धनम् । पाण्डुरः कर्बुरः पीत इत्यालेपस्त्रिधा मतः ॥ ऋBह्र्स्_२,१.३५५ ॥ माला त्रिधा वैजयन्ती रत्नमाला वनस्रजः । अस्या वैकक्षकापीडप्रालम्बाद्या भिदा मताः ॥ ऋBह्र्स्_२,१.३५६ ॥ मकरीपत्रभङ्गाढ्यं चित्रं पीतसितारुणम् । तथा विशेषकोऽपि स्यादन्यदूह्यं स्वयं बुधैः ॥ ऋBह्र्स्_२,१.३५७ ॥ यथा ताम्बूलस्फुरद्आननेन्दुरमलं धंमिल्लमुल्लासयन् भक्तिच्छेदलसत्सुघृष्टघुसृणालेपश्रिया पेशलः । तुङ्गोरःस्थलपिङ्गलस्रगलिकभ्राजिष्णुपत्राङ्गुलिः श्यामाङ्गद्युतिरद्य मे सखि दृशोर्दुग्धे मुदं माधवः ॥ ऋBह्र्स्_२,१.३५८ ॥ अथ मण्डनम् किरीटं कुण्डले हारश्चतुष्की वलयोर्मयः । केयूरनूपुराद्यं च रत्नमण्डनमुच्यते ॥ ऋBह्र्स्_२,१.३५९ ॥ यथा काञ्ची चित्रा मुकुटमतुलं कुण्डले हारिहीरे हारस्तारो वलयममलं चन्द्राचारुश्चतुष्की । रम्या चोर्मिर्मधुरिमपूरे नूपुरे चेत्यघारेर् अङ्गैरेवाभरणपटली भूषिता दोग्धि भूषाम् ॥ ऋBह्र्स्_२,१.३६० ॥ कुसुमादिकृतं चेदं वन्यमण्डनमीरितम् । धातुक्प्तं तिलकं पत्रभङ्गलतादिकम् ॥ ऋBह्र्स्_२,१.३६१ ॥ अथ स्मितं, यथा कृष्णकर्णामृते (९९) अखण्डनिर्वाणरसप्रवाहैर् विखण्डिताशेषरसान्तराणि । अयन्त्रितोद्वान्तसुधार्णवानि जयन्ति शीतानि तव स्मितानि ॥ ऋBह्र्स्_२,१.३६२ ॥ अथ अङ्गसौरभं, यथा परिमलसरिदेषा यद्वहन्ती समन्तात् पुलकयति वपुर्नः काप्यपूर्वा मुनीनाम् । मधुरिपुरुपरागे तद्विनोदाय मन्ये कुरुभुवमनवद्यामोदसिन्धुर्विवेश ॥ ऋBह्र्स्_२,१.३६३ ॥ अथ वंशः ध्यानं बलात्परमहंसकुलस्य भिन्दन् निन्दन् सुधामधुरिमाणमधीरधर्मा । कन्दर्पशासनधुरां मुहुरेष शंसन् वंशीध्वनिर्जयति कंसनिसूदनस्य ॥ ऋBह्र्स्_२,१.३६४ ॥ एष त्रिधा भवेद्वेणुमुरलीवंशिकेत्यपि ॥ ऋBह्र्स्_२,१.३६५ ॥ तत्र वेणुः पाविकाख्यो भवेद्वेणुर्द्वादशाङ्गुलेर्दैर्घ्यभाक् । स्थौल्येऽङ्गुष्ठमितः षड्भिरेष रन्ध्रैः समन्वितः ॥ ऋBह्र्स्_२,१.३६६ ॥ मुरली हस्तद्वयमितायामा मुखरन्ध्रसमन्विता । चतुःस्वरच्छिद्रयुक्ता मुरली चारुनादिनी ॥ ऋBह्र्स्_२,१.३६७ ॥ वंशी अर्धाङ्गुलान्तरोन्मानं तारादिविवराष्टकम् । ततः सार्धाङ्गुलाद्यत्र मुखरन्ध्रं तथाङ्गुलम् ॥ ऋBह्र्स्_२,१.३६८ ॥ शिरो वेदाङ्गुलं पुच्छं त्र्य्अङ्गुलं सा तु वंशिका । नवरन्ध्रा स्मृता सप्तदशाङ्गुलमिता बुधैः ॥ ऋBह्र्स्_२,१.३६९ ॥ दशाङ्गुलान्तरा स्याच्चेत्सा तारमुखरन्ध्रयोः । महानन्देति व्याख्याता तथा संमोहिनीति च ॥ ऋBह्र्स्_२,१.३७० ॥ भवेत्सूर्यान्तरा सा चेत्तत आकर्षिणी मता । आनन्दिनी तदा वंशी भवेदिन्द्रान्तरा यदि ॥ ऋBह्र्स्_२,१.३७१ ॥ गोपानां वल्लभा सेयं वंशुलीति च विश्रुता । क्रमान्मणिमयी हैमी वैणवीति त्रिधा च सा ॥ ऋBह्र्स्_२,१.३७२ ॥ अथ शृङ्गम् शृङ्गं तु गवलं हेमनिबद्धाग्रिमपश्चिमम् । रत्नजालस्फुरन्मध्यं मन्द्रघोषाभिधं स्मृतम् ॥ ऋBह्र्स्_२,१.३७३ ॥ यथा तारावली वेणुभुजङ्गमेन तारावलीलागरलेन दष्टा । विषाणिकानादपयो निपीय विषाणि कामं द्विगुणीचकार ॥ ऋBह्र्स्_२,१.३७४ ॥ अथ नूपुरं, यथा अघमर्दनस्य सखि नूपुरध्वनिं निशमय्य सम्भृतगभीरसम्भ्रमा । अहमीक्षणोत्तरलितापि नाभवं बहिरद्य हन्त गुरवः पुरः स्थिताः ॥ ऋBह्र्स्_२,१.३७५ ॥ अथ कम्बुः कम्बुस्तु दक्षिणावर्तः पाञ्चजन्यतयोच्यते ॥ ऋBह्र्स्_२,१.३७६ ॥ यथा अमररिपुवधूटीभ्रूणहत्याविलासी त्रिदिवपुरपुरन्ध्रीवृन्दनान्दीकरोऽयम् । भ्रमति भुवनमध्ये माधवाध्मातधाम्नः कृतपुलककदम्बः कम्बुराजस्य नादः ॥ ऋBह्र्स्_२,१.३७७ ॥ अथ पदाङ्कः, यथा श्रीदशमे (१०.३८.२६) तद्दर्शनाह्लादविवृद्धसम्भ्रमः प्रेम्णोर्ध्वरोमाश्रुकलाकुलेक्षणः । रथादवस्कन्द्य स तेष्वचेष्टत प्रभोरमून्यङ्घ्रिरजांस्यहो इति ॥ ऋBह्र्स्_२,१.३७८ ॥ यथा वा कलयत हरिरध्वना सखायः स्फुटममुना यमुनातटीमयासीत् । हरति पदततिर्यद्अक्षिणी मे ध्वजकुलिशाकुशपङ्कजाङ्कितेयम् ॥ ऋBह्र्स्_२,१.३७९ ॥ अथ क्षेत्रम्, यथा हरिकेलिभुवां विलोकनं बत दूरेऽस्तु सुदुर्लभश्रियाम् । मथुरेत्यपि कर्णपद्धतिं प्रविशन्नाम मनो धिनोति नः ॥ ऋBह्र्स्_२,१.३८० ॥ अथ तुलसी, यथा बिल्वमङ्गले {*णोतिनन्योf थे KK चेन्तुरिएस्.} अयि पङ्कजनेत्रमौलिमाले तुलसीमञ्जरि किञ्चिदर्थयामि । अवबोधय पार्थसारथेस्त्वं चरणाब्जशरणाभिलाषिणं माम् ॥ ऋBह्र्स्_२,१.३८१ ॥ अथ भक्तो, यथा चतुर्थे (४.१२.२१) विज्ञाय तावुत्तमगायकिङ्कराव् अभ्युत्थितः साध्वसविस्मृतक्रमः । ननाम नामानि गृणन्मधुद्विषः पार्षत्प्रधानाविति संहताञ्जलिः ॥ ऋBह्र्स्_२,१.३८२ ॥ यथा वा सुबल भुजभुजङ्गं न्यस्य तुङ्गे तवांसे स्मितविलसद्अपाङ्गः प्राङ्गणे भ्राजमानः । नयनयुगमसिञ्चद्यः सुधावीचिभिर्नः कथय स दयितस्ते क्वायमास्ते वयस्यः ॥ ऋBह्र्स्_२,१.३८३ ॥ अथ तद्वासरो, यथा अद्भुता बहवः सन्तु भगवत्पर्ववासराः । आमोदयति मां धन्या कृष्णभाद्रपदाष्टमी ॥ ऋBह्र्स्_२,१.३८४ ॥ इति श्रीश्रीभक्तिरसामृतसिन्धौ दक्षिणविभागे भक्तिरससामान्यनिरूपणे विभावलहरी प्रथमा । ___________________________________________________ दक्षिणविभागः [२.२] अनुभावाख्या द्वितीयलहरी अनुभावास्तु चित्तस्थभावानामवबोधकाः । ते बहिर्विक्रिया प्रायाः प्रोक्ता उद्भास्वराख्यया ॥ ऋBह्र्स्_२,२.१ ॥ नृत्यं विलुठितं गीतं क्रोशनं तनुमोटनम् । हुङ्कारो जृम्भणं श्वासभूमा लोकानपेक्षिता । लालास्रवोऽट्टहासश्च घूर्णाहिक्कादयोऽपि च ॥ ऋBह्र्स्_२,२.२ ॥ ते शीताः क्षेपणाश्चेति यथार्थाख्या द्विधोदिताः । शीताः स्युर्गीतजृम्भाद्या नृत्याद्याः क्षेपणाभिधाः ॥ ऋBह्र्स्_२,२.३ ॥ तत्र नृत्यं, यथा मुरलीखुरलीसुधाकिरं हरिवक्त्रेन्दुमवेक्ष्य कम्पितः । गणने सगणेशडिण्डिम ध्वनिभिस्ताण्डवमाश्रितो हरः ॥ ऋBह्र्स्_२,२.४ ॥ विलुठितं, यथा तृतीये (३.१.३२) कच्चिद्बुधः स्वस्त्य्अनमीव आस्ते श्वफल्कपुत्रो भगवत्प्रपन्नः । यः कृष्णपादाङ्कितमार्गपांसुष्व् अचेष्टत प्रेमविभिन्नधैर्यः ॥ ऋBह्र्स्_२,२.५ ॥ यथा वा नवानुरागेण तवावशाङ्गी वनस्रग्आमोदमवाप्य मत्ता । व्रजाङ्गने सा कठिने लुठन्ती गात्रं सुगात्री व्रणयाञ्चकार ॥ ऋBह्र्स्_२,२.६ ॥ गीतं, यथा रागडम्बरकरम्बितचेताः कुर्वती तव नवं गुणगानम् । गोकुलेन्द्र कुरुते जलतां सा राधिकाद्यदृषदां सुहृदां च ॥ ऋBह्र्स्_२,२.७ ॥ क्रोशनं, यथा हरिकीर्तनजातविक्रियः स विचुक्रोश तथाद्य नारदः । अचिरान्नरसिंहशङ्कया दनुजा येन धृता विलिल्यिरे ॥ ऋBह्र्स्_२,२.८ ॥ यथा वा उररीकृतकाकुराकुला कररीव व्रजराजनन्द । मुरलीतरलीकृतान्तरा मुहुराक्रोशदिहाद्य सुन्दरी ॥ ऋBह्र्स्_२,२.९ ॥ तनुमोटनं, यथा कृष्णनामनि मुदोपवीणिते प्रीणिते मनसि वैणिको मुनिः । उद्भटं किमपि मोटयन् वपुस्त्रोटयत्यखिलयज्ञसूत्रकम् ॥ ऋBह्र्स्_२,२.१० ॥ हुङ्कारो, यथा वैणवध्वनिभिरुद्भ्रमद्धियः शङ्करस्य दिवि हुङ्कृतिस्वनः । ध्वंसयन्नपि मुहुः स दानवं साधुवृन्दमकरोत्सदा नवम् ॥ ऋBह्र्स्_२,२.११ ॥ जृम्भणम्, यथा विस्तृतकुमुदवनेऽस्मिन्न् उदयति पूर्णे कलानिधौ पुरतः । तव पद्मिनि मुखपद्मं भजते जृम्भामहो चित्रम् ॥ ऋBह्र्स्_२,२.१२ ॥ श्वासभूमा, यथा उपस्थिते चित्रपटाम्बुदागमे विवृद्धतृष्णा ललिताख्यचातकी । निःश्वासझञ्झामरुतापवाहितं कृष्णाम्बुदाकारमवेक्ष्य चुक्षुभे ॥ ऋBह्र्स्_२,२.१३ ॥ लोकानपेक्षिता, यथा श्रीदशमे (१०.२३.४१) अहो पश्यत नारीणामपि कृष्णे जगद्गुरौ । दुरन्तभावं योऽविध्यन्मृत्युपाशान् गृहाभिधान् ॥ ऋBह्र्स्_२,२.१४ ॥ यथा वा पद्यावल्याम् (७३) परिवदतु जनो यथा तथा वा ननु मुखरो न वयं विचारयामः हरिरसमदिरा मदातिमत्ता भुवि विलुठाम नटाम निर्विशाम ॥ ऋBह्र्स्_२,२.१५ ॥ लालास्रवो, यथा शङ्के प्रेमभुजङ्गेन दष्टः कष्टं गतो मुनिः । निश्चलस्य यदेतस्य लाला स्रवति वक्त्रतः ॥ ऋBह्र्स्_२,२.१६ ॥ अट्टहासः हासाद्भिन्नोऽट्टहासोऽयं चित्तविक्षेपसम्भवः ॥ ऋBह्र्स्_२,२.१७ ॥ यथा शङ्के चिरं केशवकिङ्करस्य चेतस्तटे भक्तिलता प्रफुल्ला । येनाधितुण्डस्थलमट्टहास प्रसूनपुञ्जाश्चटुलं स्खलन्ति ॥ ऋBह्र्स्_२,२.१८ ॥ घूर्णा, यथा ध्रुवमघरिपुरादधाति वात्यां ननु मुरलि त्वयि फुत्कृतिच्छलेन । किमयमितरथा ध्वनिर्विघूर्णनं सखि तव घूर्णयति व्रजाम्बुजाक्षीः ॥ ऋBह्र्स्_२,२.१९ ॥ हिक्का, यथा न पुत्रि रचयौषधं विसृज रोममत्युद्धतं मुधा प्रियसखीं प्रति त्वमशिवं किमाशङ्कसे । हरिप्रणयविक्रियाकुलतया ब्रुवाणा मुहुर् वराक्षि हरिरित्यसौ वितनुतेऽद्य हिक्काभरम् ॥ ऋBह्र्स्_२,२.२० ॥ वपुर्उत्फुल्लतारक्तोद्गमाद्याः स्युः परेऽपि ये । अतीवविरलत्वात्ते नैवात्र परिकीर्तिताः ॥ ऋBह्र्स्_२,२.२१ ॥ इति श्रीश्रीभक्तिरसामृतसिन्धौ दक्षिणविभागे भक्तिरससामान्यनिरूपणेऽनुभावलहरी द्वितीया । ___________________________________________________ दक्षिणविभागः [२.३] सात्त्विकाख्या तृतीयलहरी कृष्नसम्बन्धिभिः साक्टात्किञ्चिद्वा व्यवधानतः । भावैश्चित्तमिहाक्रान्तं सत्त्वमित्युच्यते बुधैः ॥ ऋBह्र्स्_२,३.१ ॥ सत्त्वादस्मात्समुत्पन्ना ये ये भावास्ते तु सात्त्विकाः । स्निग्धा दिग्धास्तथा रुक्षा इत्यमी त्रिविधा मताः ॥ ऋBह्र्स्_२,३.२ ॥ तत्र स्निग्धाः स्निग्धास्तु सात्त्विका मुख्या गौणाश्चेति द्विधा मताः ॥ ऋBह्र्स्_२,३.३ ॥ तत्र मुख्याः आक्रमान्मुख्यया रत्या मुख्याः स्युः सात्त्विका अमी । विज्ञेयः कृष्णसम्बन्धः साक्षादेवात्र सूरिभिः ॥ ऋBह्र्स्_२,३.४ ॥ यथा कुन्दैर्मुकुन्दाय मुदा सृजन्ती स्रजां वरां कुन्दविडम्बिदन्ती । बभूव गान्धर्वरसेन वेणोर् गान्धर्विका स्पन्दनशून्यगात्री ॥ ऋBह्र्स्_२,३.५ ॥ मुख्यः स्तम्भोऽयमित्थं ते ज्ञेयाः स्वेदादयोऽपि च ॥ ऋBह्र्स्_२,३.६ ॥ अथ गौणाः रत्याक्रमणतः प्रोक्ता गौणास्ते गौणभूतया । अत्र कृष्णस्य सम्बन्धः स्यात्किञ्चिद्व्यवधानतः ॥ ऋBह्र्स्_२,३.७ ॥ यथा स्वविलोचनचातकाम्बुदे पुरि नीते पुरुषोत्तमे पुरा । अतिताम्रमुखी सगद्गदं नृपमाक्रोशति गोकुलेश्वरी ॥ ऋBह्र्स्_२,३.८ ॥ इमौ गौणौ वैवर्ण्यस्वरभेदौ । अथ दिग्धाः रतिद्वयविनाभूतैर्भावैर्मनस आक्रमात् । जने जातरतौ दिग्धास्ते चेद्रत्य्अनुगामिनः ॥ ऋBह्र्स्_२,३.९ ॥ यथा पूतनामिह निशाम्य निशायां सा निशान्तलुठद्उद्भटगात्रीम् । कम्पिताङ्गलतिका व्रजराज्ञी पुत्रमाकुलमतिर्विचिनोति ॥ ऋBह्र्स्_२,३.१० ॥ कम्पो रत्य्अनुगामित्वादसौ दिग्ध इतीर्यते ॥ ऋBह्र्स्_२,३.११ ॥ रुक्षाः मधुराश्चर्यतद्वार्तोत्पन्नैर्मुद्विस्मयादिभिः । जाता भक्तोपमे रुक्षा रतिशून्ये जने क्वचित् ॥ ऋBह्र्स्_२,३.१२ ॥ यथा भोगैकसाधनजुषा रतिगन्धशून्यं स्वं चेष्टया हृदयमत्र विवृण्वतोऽपि । उल्लासिनः सपदि माधवकेलिगीतैस् तस्याङ्गमुत्पुलकितं मधुरैस्तदासीत् ॥ ऋBह्र्स्_२,३.१३ ॥ रुक्ष एष रोमाञ्चाः रुक्षोऽयं रतिशून्यत्वाद्रोमाञ्चं कथितो बुधैः । मुमुक्षुप्रभृतौ पूर्वं यो रताभ्यास ईरितः ॥ ऋBह्र्स्_२,३.१४ ॥ चित्तं सत्त्वीभवत्प्राणे न्यस्यत्यात्मानमुद्भटम् । प्राणस्तु विक्रियां गच्छन् देहं विक्षोभयत्यलम् । तदा स्तम्भादयो भावा भक्तदेहे भवन्त्यमी ॥ ऋBह्र्स्_२,३.१५ ॥ ते स्तम्भस्वेदरोमाञ्चाः स्वरभेदोऽथ वेपथुः । वैवर्ण्यमश्रु प्रलय इत्यष्टौ सात्त्विकाः स्मृताः ॥ ऋBह्र्स्_२,३.१६ ॥ चत्वारि क्ष्मादिभूतानि प्राणो जात्ववलम्बते । कदाचित्स्वप्रधानः सन् देहे चरति सर्वतः ॥ ऋBह्र्स्_२,३.१७ ॥ स्तम्भं भूमिस्थितः प्राणस्तनोत्यश्रुजलाश्रयः । तेजस्थः स्वेदवैवर्ण्ये प्रलयं वियद्आश्रयः ॥ ऋBह्र्स्_२,३.१८ ॥ स्वस्थ एव क्रमान्मन्दमध्यतीव्रत्वभेदभाक् । रोमाञ्चकम्पवैवर्ण्याण्यत्र त्रीणि तनोत्यसौ ॥ ऋBह्र्स्_२,३.१९ ॥ बहिरन्तश्च विक्षोभविधायित्वादतः स्फुटम् । प्रोक्तानुभावतामीषां भावता च मनीषिभिः ॥ ऋBह्र्स्_२,३.२० ॥ तत्र स्तम्भः स्तम्भो हर्षभयाश्चर्यविषादामर्षसम्भवः । तत्र वाग्आदिराहित्यं नैश्चल्यं शून्यतादयः ॥ ऋBह्र्स्_२,३.२१ ॥ तत्र हर्षाद्, यथा तृतीये (३.२.१४) यस्यानुरागप्लुतहासरास लीलावलोकप्रतिलब्धमानाः । व्रजस्त्रियो दृग्भिरनुप्रवृत्त धियोऽवतस्थुः किल कृत्यशेषाः ॥ ऋBह्र्स्_२,३.२२ ॥ भयाद्, यथा गिरिसन्निभमल्लचक्ररुद्धं पुरतः प्राणपरार्धतः परार्ध्यम् । तनयं जननी समीक्ष्य शुष्यन् नयना हन्त बभूव निश्चलाङ्गी ॥ ऋBह्र्स्_२,३.२३ ॥ आश्चर्याद्, यथा श्रीदशमे (१०.१३.५६) ततोऽतिकुतुकोद्वृत्य स्तिमितैकादशेन्द्रियः । तद्धाम्नाभूदजस्तूष्णीं पूर्देव्य्अन्तीव पुत्रिका ॥ ऋBह्र्स्_२,३.२४ ॥ यथा वा शिशोः श्यामस्य पश्यन्ती शैलमभ्रंलिहं करे । तत्र चित्रार्पितेवासीद्गोष्ठी गोष्ठनिवासिनाम् ॥ ऋBह्र्स्_२,३.२५ ॥ विषादाद्, यथा बकसोदरदानवोदरे पूरतः प्रेक्ष्य विशन्तमच्युतम् । दिविषन्निकरो विषण्णधीः प्रकटं चित्रपटायते दिवि ॥ ऋBह्र्स्_२,३.२६ ॥ अमर्षाद्, यथा कर्तुमिच्छति मुरद्विषे पुरः पत्रिमोक्षमकृपे कृपीसुते । सत्वरोऽपि रिपुनिष्क्रये रुषा निष्क्रियः क्षणमभूत्कपिध्वजः ॥ ऋBह्र्स्_२,३.२७ ॥ अथ स्वेदः स्वेदो हर्षभयक्रोधादिजः क्लेदकरस्तनोः ॥ ऋBह्र्स्_२,३.२८ ॥ तत्र हर्षाद्, यथा किमत्र सूर्यातपमाक्षिपन्ती मुग्धाक्षि चातुर्यमुरीकरोषि । ज्ञातं पुरः प्रेक्ष्य सरोरुहाक्षं स्विन्नासि भिन्ना कुसुमायुधेन ॥ ऋBह्र्स्_२,३.२९ ॥ भयाद्, यथा कुतुकादभिमन्युवेषिणं हरिमाक्रुश्य गिरा प्रगल्भया । विदिताकृतिराकुलः क्षणाद् अजनि स्विन्नतनुः स रक्तकः ॥ ऋBह्र्स्_२,३.३० ॥ क्रोधाद्, यथा यज्ञस्य भङ्गादतिवृष्टिकारिणं समीक्ष्य शक्रं सरुषो गरुत्मतः । घनोपरिष्टादपि तिष्ठतस्तदा निपेतुरङ्गाद्घननीरबिन्दवः ॥ ऋBह्र्स्_२,३.३१ ॥ अथ रोमाञ्चः रोमाञ्चोऽयं किलाश्चर्यहर्षोत्साहभयादिजः । रोम्णामभ्युद्गमस्तत्र गात्रसंस्पर्शनादयः ॥ ऋBह्र्स्_२,३.३२ ॥ तत्र आश्चर्याद्, यथा डिम्भस्य जृम्भां भजतस्त्रीलोकीं विलोक्य वैलक्ष्यवती मुखान्तः । बभूव गोष्ठेन्द्रकुटुम्बिनीयं तनुरुहैः कुड्मलिताङ्गयष्टिः ॥ ऋBह्र्स्_२,३.३३ ॥ हर्षाद्, यथा श्रीदशमे (१०.३०.१०) किं ते कृतं क्षिति तपो बत केशवाङ्घ्रि स्पर्शोत्सवोत्पुलकिताङ्गरुहैर्विभासि । अप्यङ्घ्रिसम्भव उरुक्रमविक्रमाद्वा आहो वराहवपुषः परिरम्भणेन ॥ ऋBह्र्स्_२,३.३४ ॥ उत्साहाद्, यथा शृङ्गं केलिरणारम्भे रणयत्यघमर्दने । श्रीदाम्नो योद्धुकामस्य रेमे रोमाञ्चितं वपुः ॥ ऋBह्र्स्_२,३.३५ ॥ भयाद्, यथा विश्वरूपधरमद्भुताकृतिं प्रेक्ष्य तत्र पुरुषोत्तमं पुरः । अर्जुनः सपदि शुष्यद्आननः शिश्रिये विकटकण्टकां तनुम् ॥ ऋBह्र्स्_२,३.३६ ॥ अथ स्वरभेदः विसादविस्मयामर्षहर्षभीत्य्आदिसम्भवम् । वैस्वर्यं स्वरभेदः स्यादेष गद्गदिकादिकृत् ॥ ऋBह्र्स्_२,३.३७ ॥ तत्र विषादाद्, यथा व्रजराज्ञि रथात्पुरो हरिं स्वयमित्यर्धविशीर्णजल्पया । ह्रियमेणदृशा गुरावपि श्लथयन्त्या किल रोदिता सखी ॥ ऋBह्र्स्_२,३.३८ ॥ विस्मयाद्, यथा श्रीदशमे (१०.१३.६४) शनैरथोत्थाय विमृज्य लोचने मुकुन्दमुद्वीक्ष्य विनम्रकन्धरः । कृताञ्जलिः प्रश्रयवान् समाहितः सवेपथुर्गद्गदयैलतेलया ॥ ऋBह्र्स्_२,३.३९ ॥ अमर्षाद्, यथा तत्रैव (१०.२९.३०) प्रेष्ठं प्रियेतरमिव प्रतिभाषमाणं कृष्णं तद्अर्थविनिवर्तितसर्वकामाः । नेत्रे विमृज्य रुदितोपहते स्म किञ्चित् संरम्भगद्गदगिरोऽब्रुवतानुरक्ताः ॥ ऋBह्र्स्_२,३.४० ॥ हर्षाद्, यथा तत्रैव (१०.३९.५६५७) हृष्यत्तनूरुहो भावपरिक्लिन्नात्मलोचनः ॥ गिरा गद्गदयास्तौषीत्सत्त्वमालम्ब्य सात्वतः । प्रणम्य मूर्ध्नावहितः कृताञ्जलिपुटः शनैः ॥ ऋBह्र्स्_२,३.४१ ॥ भीतेर्, यथा त्वय्यर्पितं वितर वेणुमिति प्रमादी श्रुत्वा मद्ईरितमुदीर्णविवर्णभावः । तूर्णं बभूव गुरुगद्गदरुद्धकण्ठः पत्री मुकुन्द तदनेन स हारितोऽस्ति ॥ ऋBह्र्स्_२,३.४२ ॥ अथ वेपथुः वित्रासामर्षहर्षाद्यैर्वेपथुर्गात्रलौल्यकृत् ॥ ऋBह्र्स्_२,३.४३ ॥ तत्र वित्रासेन, यथा शङ्खचूडमधिरूढविक्रमं प्रेक्ष्य विस्तृतभुजं जिघृक्षया । हा व्रजेन्द्रतनयेतिवादिनी कम्पसम्पदमधत्त राधिका ॥ ऋBह्र्स्_२,३.४४ ॥ अमर्षेण, यथा कृष्णाधिक्षेपजातेन व्याकुलो नकुलाम्बुजः । चकम्पे द्रागमर्षेण भूकम्पे गिरिराडिव ॥ ऋBह्र्स्_२,३.४५ ॥ हर्षेण, यथा विहससि कथं हताशे पश्य भयेनाद्य कम्पमानास्मि । चञ्चलमुपसीदन्तं निवारय व्रजपतेस्तनयम् ॥ ऋBह्र्स्_२,३.४६ ॥ अथ वैवर्ण्यम् विषादरोषभीत्य्आदेर्वैवर्ण्यं वर्णविक्रिया । भावज्ञैरत्र मालिन्यकार्श्याद्याः परिकीर्तिताः ॥ ऋBह्र्स्_२,३.४७ ॥ तत्र विषादाद्, यथा श्वेतीकृताखिलजनं विरहेण तवाधुना । गोकुलं कृष्ण देवर्षेः श्वेतद्वीपभ्रमं दधे ॥ ऋBह्र्स्_२,३.४८ ॥ रोषाद्, यथा कंसशत्रुमभियुञ्जतः पुरो वीक्ष्य कंससहजानुदायुधान् । श्रीबलस्य सखि तस्य रुष्यतः प्रोद्यद्इन्दुनिभमाननं बभौ ॥ ऋBह्र्स्_२,३.४९ ॥ भीतेर्, यथा रक्षिते व्रजकुले बकारिणा पर्वतं वरमुदस्य लीलया । कालिमा बलरिपोर्मुखे भवन्न् ऊचिवान्मनसि भीतिमुत्थिताम् ॥ ऋBह्र्स्_२,३.५० ॥ विषादे श्वेतिमा प्रोक्ता धौसर्यं कालिमा क्वचित् । रोषे तु रक्तिमा भीत्यां कालिमा क्वापि शुक्लिमा ॥ ऋBह्र्स्_२,३.५१ ॥ रक्तिमा लक्ष्यते व्यक्तो हर्षोद्रेकेऽपि कुत्रचित् । अत्रासार्वत्रिकत्वेन नैवास्योदाहृतिः कृता ॥ ऋBह्र्स्_२,३.५२ ॥ अथ अश्रु हर्षरोषविषादाद्यैरश्रु नेत्रे जलोद्गमः । हर्षजेऽश्रुणि शीतत्वमौष्ण्यं रोषादिसम्भवे । सर्वत्र नयनक्षोभरागसंमार्जनादयः ॥ ऋBह्र्स्_२,३.५३ ॥ अत्र हर्षेण, यथा गोविन्दप्रेक्षणाक्षेपिबाष्पपूराभिवर्षिणम् । उच्चैरनिन्ददानन्दमरविन्दविलोचना ॥ ऋBह्र्स्_२,३.५४ ॥ रोषेण, यथा हरिवंशे (२.६६.२४) तस्याः सुस्राव नेत्राभ्यां वारि प्रणयकोपजम् । कुशेशयपलाशाभ्यामवश्यायजलं यथा ॥ ऋBह्र्स्_२,३.५५ ॥ यथा वा भीमस्य चेदीशवधं विधित्सो रेजेऽश्रुविस्रावि रुषोपरक्तम् । उद्यन्मुखं वारिकणावकीर्णं सान्ध्यत्विषा ग्रस्तमिवेन्दुबिम्बम् ॥ ऋBह्र्स्_२,३.५६ ॥ विषादेन, यथा श्रीदशमे (१०.६०.२३) पदा सुजातेन नखारुणश्रिया भुवं लिखन्त्यश्रुभिरञ्जनासितैः । आसिञ्चती कुङ्कुमरूषितौ स्तनौ तस्थावधोमुख्यतिदुःखरुद्धवाक् ॥ ऋBह्र्स्_२,३.५७ ॥ अथ प्रलयः प्रलयः सुखदुःखाभ्यां चेष्टाज्ञाननिराकृतिः । अत्रानुभावाः कथिता महीनिपतनादयः ॥ ऋBह्र्स्_२,३.५८ ॥ तत्र सुखेन, यथा मिलन्तं हरिमालोक्य लतापुञ्जादतर्कितम् । ज्ञप्तिशून्यमना रेजे निश्चलाङ्गी व्रजाङ्गना ॥ ऋBह्र्स्_२,३.५९ ॥ दुःखेन, यथा श्रीदशमे (१०.३९.१५) अन्याश्च तद्अनुध्याननिवृत्ताशेषवृत्तयः । नाभ्यजाननिमं लोकमात्मलोकं गता इव ॥ ऋBह्र्स्_२,३.६० ॥ सर्वे हि सत्त्वमूलत्वाद्भावा यद्यपि सात्त्विकाः । तथाप्यमीषां सत्त्वैकमूलत्वात्सात्त्विकप्रथा ॥ ऋBह्र्स्_२,३.६१ ॥ सत्त्वस्य तारतम्यात्प्राणतनुक्षोभतारतम्यं स्यात् । तत एव तारतम्यं सर्वेषां सात्त्विकानां स्यात् ॥ ऋBह्र्स्_२,३.६२ ॥ धूमायितास्ते ज्वलिता दीप्ता उद्दीप्तसंज्ञिताः । वृद्धिं यथोत्तरं यान्तः सात्त्विकाः स्युश्चतुर्विधाः ॥ ऋBह्र्स्_२,३.६३ ॥ सा भूरिकालव्यापित्वं बह्व्अङ्गव्यापिताऽपि च । स्वरूपेण तथोत्कर्ष इति वृद्धिस्त्रिधा भवेत् ॥ ऋBह्र्स्_२,३.६४ ॥ तत्र नेत्राम्बुवैस्वर्यवर्जानामेव युज्यते । बह्व्अङ्गव्यापितामीषां तयोः कापि विशिष्टता ॥ ऋBह्र्स्_२,३.६५ ॥ तत्राश्रूणां दृग्औच्छून्यकारित्वमवदातता । तथा तारातिवैचित्रीवैलक्षण्यविधायिता । वैस्वर्ण्यस्य तु भिन्नत्वे कौण्ठ्यव्याकुलतादयः ॥ ऋBह्र्स्_२,३.६६ ॥ भिन्नत्वं स्थानविभ्रंशः कौण्ठ्यं स्यात्सन्नकण्ठता । व्याकुलत्वं तु नानोच्चनीचगुप्तविलुप्तता ॥ ऋBह्र्स्_२,३.६७ ॥ प्रायो धूमायिता एव रुक्षास्तिष्ठन्ति सात्त्विकाः । स्निग्धास्तु प्रायशः सर्वे चतुर्धैव भवन्त्यमी ॥ ऋBह्र्स्_२,३.६८ ॥ महोत्सवादिवृत्तेषु सद्गोष्ठीताण्डवादिषु । ज्वलन्त्युल्लासिनः क्वापि ते रुक्षा अपि कस्यचित् ॥ ऋBह्र्स्_२,३.६९ ॥ सर्वानन्दचमत्कारहेतुर्भावो वरो रतिः । एते हि तद्विनाभावान्न चमत्कारिताश्रयाः ॥ ऋBह्र्स्_२,३.७० ॥ तत्र धूमायिताः अद्वितीया अमी भावा अथवा सद्वितीयकाः । ईषद्व्यक्ता अपह्नोतुं शक्या धूमायिता मताः ॥ ऋBह्र्स्_२,३.७१ ॥ यथा आकर्णयन्नघहरामघवैरिकीर्तिं पक्ष्माग्रमिश्रविरलाश्रुरभूत्पुरोधाः । यष्टा दरोच्छ्वसितलोमकपोलमीषत् प्रस्विन्ननासिकमुवाह मुखारविन्दम् ॥ ऋBह्र्स्_२,३.७२ ॥ अथ ज्वलिताः ते द्वौ त्रयो वा युगपद्यान्तः सुप्रकटां दशाम् । शक्याः कृच्छ्रेण निह्नोतुं ज्वलिता इति कीर्तिताः ॥ ऋBह्र्स्_२,३.७३ ॥ यथा न गुञ्जामादातुं प्रभवति करः कम्पतरलो दृशौ सास्रे पिञ्छं न परिचिनुतं सत्वरकृति । क्षमावूरू स्तब्धौ पदमपि न गन्तुं तव सखे वनाद्वंशीध्वाने परिसरमवाप्ते श्रवणयोः ॥ ऋBह्र्स्_२,३.७४ ॥ यथा वा निरुद्धं बाष्पाम्भः कथमपि मया गद्गदगिरो ह्रिया सद्यो गूढाः सखि विघटितो वेपथुरपि । गिरिद्रोण्यां वेणौ ध्वनति निपुणैरिङ्गितमये तथाप्यूहाञ्चक्रे मम मनसि रागः परिजनैः ॥ ऋBह्र्स्_२,३.७५ ॥ अथ दीप्ताः प्रौढां त्रिचतुरा व्यक्तिं पञ्च वा युगपद्गताः । संवरीतुमशक्यास्ते दीप्ता धीरैरुदाहृताः ॥ ऋBह्र्स्_२,३.७६ ॥ यथा न शक्तिमुपवीणने चिरमधत्त कम्पाकुलो न गद्गदनिरुद्धवाक्प्रभुरभूदुपश्लोकने । क्षमोऽजनि न वीक्षणे विगलद्अश्रुपुरः पुरो मधुद्विषि परिस्फुरत्यवशम्मूर्तिरासीन्मुनिः ॥ ऋBह्र्स्_२,३.७७ ॥ यथा वा किमुन्मीलत्यस्रे कुसुमजरजो गञ्जसि मुधा सरोमाञ्चे कम्पे हिममनिलमाक्रोशसि कुतः । किमूरुस्तम्भे वा वनविहरणं द्वेक्षि सखि ते निराबाधा राधे वदति मदनाधिं स्वरभिदा ॥ ऋBह्र्स्_२,३.७८ ॥ अथ उद्दीप्ताः एकदा व्यक्तिमापन्नाः पञ्चषाः सर्व एव वा । आरूढा परमोत्कर्षमुद्दीप्ता इति कीर्तिताः ॥ ऋBह्र्स्_२,३.७९ ॥ यथा अद्य स्विद्यति वेपते पुलकिभिर्निस्पन्दतामङ्गकैर् धत्ते काकुभिराकुलं विलपति म्लायत्यनल्पोष्मभिः । स्तिम्यत्यम्बुभिरम्बकस्तवकितैः पीताम्बरोड्डामरं सद्यस्तद्विरहेण मुह्यति मुहुर्गोष्ठाधिवासी जनः ॥ ऋBह्र्स्_२,३.८० ॥ उद्दीप्ता एव सूद्दिप्ता महाभावे भवन्त्यमी । सर्व एव परां कोटिं सात्त्विका यत्र बिभ्रति ॥ ऋBह्र्स्_२,३.८१ ॥ किं च अथात्र सात्त्विकाभासा विलिख्यन्ते चतुर्विधाः ॥ ऋBह्र्स्_२,३.८२ ॥ रत्य्आभासभवास्ते तु सत्त्वाभासभवास्तथा । निःसत्त्वाश्च प्रतीपाश्च यथापूर्वममी वराः ॥ ऋBह्र्स्_२,३.८३ ॥ तत्र आद्याः मुमुक्षुप्रमुखेष्वाद्या रत्य्आभासात्पुरोदितात् ॥ ऋBह्र्स्_२,३.८४ ॥ यथा वाराणसीनिवासी कश्चिदयं व्याहरन् हरेश्चरितम् । यतिगोष्ठ्यामुत्पुलकः सिञ्चति गण्डद्वयीमस्रैः ॥ ऋBह्र्स्_२,३.८५ ॥ अथ सत्त्वाभासभवाः मुद्विस्मयादेराभासः प्रोद्यन् जात्या श्लथे हृदि । सत्त्वाभास इति प्रोक्तः सत्त्वाभासभवास्ततः ॥ ऋBह्र्स्_२,३.८६ ॥ यथा जरन्मीमांसकस्यापि शृण्वतः कृष्णविभ्रमम् । हृष्टायमानमनसो बभूवोत्पुलकं वपुः ॥ ऋBह्र्स्_२,३.८७ ॥ यथा वा मुकुन्दचरितामृतप्रसरवर्षिणस्ते मया कथं कथनचातुरीमधुरिमा गुरुर्वर्ण्यताम् । मुहूर्तमतद्अर्थिनोऽपि विषयिणोऽपि यस्याननान् निशम्य विजयं प्रभोर्दधति बाष्पधाराममी ॥ ऋBह्र्स्_२,३.८८ ॥ अथ निःसत्त्वाः निसर्गपिच्छिलस्वान्ते तद्अभ्यासपरेऽपि च । सत्त्वाभासं विनापि स्युः क्वाप्यश्रुपुलकादयः ॥ ऋBह्र्स्_२,३.८९ ॥ यथा निशमयतो हरिचरितं न हि सुखदुःखादयोऽस्य हृदि भावाः । अनभिनिवेशाज्जाता कथमस्रवदस्रमश्रान्तम् ॥ ऋBह्र्स्_२,३.९० ॥ प्रकृत्या शिथिलं येषां मनः पिच्छिलमेव वा । तेष्वेव सात्त्विकाभासः प्रायः संसदि जायते ॥ ऋBह्र्स्_२,३.९१ ॥ अथ प्रतीपाः हितादन्यस्य कृष्णस्य प्रतीपाः क्रुद्भयादिभिः ॥ ऋBह्र्स्_२,३.९२ ॥ तत्र क्रुधा, यथा हरिवंशे (२.३०.६३) {*Cरितिचलेदितिओन्, ७६.१६} तस्य प्रस्फुरितौष्ठस्य रक्ताधरतटस्य च । वक्त्रं कंसस्य रोषेण रक्तसूर्यायते तदा ॥ ऋBह्र्स्_२,३.९३ ॥ भयेन, यथा म्लानाननः कृष्णमवेक्ष्य रङ्गे सिष्वेद मल्लस्त्वधिभालशुक्ति । मुक्तिश्रियां सुष्ठु पुरो मिलन्त्याम् अत्यादरात्पाद्यमिवाजहार ॥ ऋBह्र्स्_२,३.९४ ॥ यथा वा प्रवाच्यमाने पुरतः पुराणे निशम्य कंसस्य भयातिरेकम् । परिप्लवान्तःकरणः समन्तात् परिम्लानमुखस्तदासीत् ॥ ऋBह्र्स्_२,३.९५ ॥ नास्त्यर्थः सात्त्विकाभासकथने कोऽपि यद्यपि । सात्त्विकानां विवेकाय दिक्तथापि प्रदर्शिता ॥ ऋBह्र्स्_२,३.९६ ॥ इति श्रीश्रीभक्तिरसामृतसिन्धौ दक्षिणविभागे भक्तिरससामान्यनिरूपणे सात्त्विकलहरी तृतीया । ___________________________________________________ [२.४] व्यभिचार्याख्या चतुर्थलहरी अथोच्यन्ते त्रयस्त्रिंशद्भावा ये व्यभिचारिणः । विशेषेणाभिमुख्येन चरन्ति स्थायिनं प्रति ॥ ऋBह्र्स्_२,४.१ ॥ वाग्अङ्गसत्त्वसूच्या ज्ञेयास्ते व्यभिचारिणः । सञ्चारयन्ति भावस्य गतिं सञ्चारिणोऽपि ॥ ऋBह्र्स्_२,४.२ ॥ उन्मज्जन्ति निमज्जन्ति स्थायिन्यमृतवारिधौ । ऊर्मिवद्वर्धयन्त्येनं यान्ति तद्रूपतां च ते ॥ ऋBह्र्स्_२,४.३ ॥ निर्वेदोऽथ विषादो दैन्यं ग्लानिश्रमौ च मदगर्वौ । शङ्कात्रासावेगा उन्मादापस्मृती तथा व्याधिः ॥ ऋBह्र्स्_२,४.४ ॥ मोहो मृतिरालस्यं जाड्यं व्रीडावहित्था च । स्मृतिरथ वितर्कचिन्तामतिधृतयो हर्ष उत्सुकत्वं च ॥ ऋBह्र्स्_२,४.५ ॥ औग्र्यमर्षासूयाश्चापल्यं चैव निद्रा च । सुप्तिर्बोध इतीमे भावा व्यभिचारिणः समाख्याताः ॥ ऋBह्र्स्_२,४.६ ॥ तत्र (१) निर्वेदः महार्तिविप्रयोगेर्ष्यासद्विवेकादिकल्पितम् । स्वावमाननमेवात्र निर्वेद इति कथ्यते । अत्र चिन्ताश्रुवैवर्ण्यदैन्यनिःश्वसितादयः ॥ ऋBह्र्स्_२,४.७ ॥ तत्र महार्त्या, यथा हन्त देहहतकैः किममीभिः पालितैर्विफलपुण्यफलैर्नः । एहि कालियह्रदे विषवह्नौ स्वं कुटुम्बिनि हठाज्जुहवाम ॥ ऋBह्र्स्_२,४.८ ॥ विप्रयोगेण, यथा असङ्गमान्माधवमाधुरीणाम् अपुष्पिते नीरसतां प्रयाते । वृन्दावने शीर्यति हा कुतोऽसौ प्राणित्यपुण्यः सुबलो द्विरेफः ॥ ऋBह्र्स्_२,४.९ ॥ यथा वा, दानकेलिकौमुद्याम् (२०) भवतु माधवजल्पमशृण्वतोः श्रवणयोरलमश्रवणिर्मम । तमविलोकयतोरविलोचनिः सखि विलोचनयोश्च किलानयोः ॥ ऋBह्र्स्_२,४.१० ॥ ईर्ष्यया, यथा हरिवंशे (२.६७.११) {*ईन् च्रितिचलेदितिओन्, अप्पेन्दिx २९.} सत्यादेवीवाक्यम् स्तोतव्या यदि तावत्सा नारदेन तवाग्रतः । दुर्भगोऽयं जनस्तत्र किमर्थमनुशब्दितः ॥ ऋBह्र्स्_२,४.११ ॥ सद्विवेकेन, यथा श्रीदशमे (१०.५१.४७) ममैष कालोऽजित निष्फलो गतो राज्यश्रियोन्नद्धमदस्य भूपतेः । मर्त्यात्मबुद्धेः सुतदारकोषभूष्व् आसज्जमानस्य दुरन्तचिन्तया ॥ ऋBह्र्स्_२,४.१२ ॥ अमङ्गलमपि प्रोच्य निर्वेदं प्रथमं मुनिः । मेनेऽमुं स्थायिनं शान्त इति जल्पन्ति केचन ॥ ऋBह्र्स्_२,४.१३ ॥ अथ (२) विषादः इष्टानवाप्तिप्रारब्धकार्यासिद्धिविपत्तितः । अपराधादितोऽपि स्यादनुतापो विषण्णता ॥ ऋBह्र्स्_२,४.१४ ॥ अत्रोपायसहायानुसन्धिश्चिन्ता च रोदनम् । विलापश्वासवैवर्ण्यमुखशोषादयोऽपि च ॥ ऋBह्र्स्_२,४.१५ ॥ तत्र इष्टानवाप्तितो, यथा जरां याता मूर्तिर्मम विवशतां वागपि गता मनोवृत्तिश्चेयं स्मृतिविधुरतापद्धतिमगात् । अघध्वंसिन् दूरे वसतु भवद्आलोकनशशी मया हन्त प्राप्तो न भजनरुचेरप्यवसरः ॥ ऋBह्र्स्_२,४.१६ ॥ प्रारब्धकार्यासिद्धेः, यथा स्वप्ने मयाद्य कुसुमानि किलाहृतानि यत्नेन तैर्विरचिता वनमालिका च । यावन्मुकुन्दहृदि हन्त निधीयते सा हा तावदेव तरसा विरराम निद्रा ॥ ऋBह्र्स्_२,४.१७ ॥ विपत्तितेः, यथा कथमनायि पुरे मयका सुतः कथमसौ न निगृह्य गृहे धृतः । अमुमहो बत दन्तिविधुन्तुदो विधुरितं विधुमत्र विधित्सति ॥ ऋBह्र्स्_२,४.१८ ॥ अपराधात्, यथा श्रीदशमे (१०.१४.९) पश्येश मेऽनार्यमनन्त आद्ये परात्मनि त्वय्यपि मायिमायिनि मायां वितत्येक्षितुमात्मवैभवं ह्यहं कियानैच्छमिवार्चिरग्नौ ॥ ऋBह्र्स्_२,४.१९ ॥ यथा वा स्यमन्तकमहं हृत्वा गतो घोरास्यमन्तकम् । करवै तरणीं कां वा क्षिप्तो वैतरणीयमनु ॥ ऋBह्र्स्_२,४.२० ॥ अथ (३) दैन्यम् दुःखत्रासापराधाद्यैरनौर्जित्यं तु दीनता । चाटुकृन्मान्द्यमालिन्यचिन्ताङ्गजडिमादिकृत् ॥ ऋBह्र्स्_२,४.२१ ॥ तत्र दुःखेन, यथा श्रीदशमे (१०.५१.५७) चिरमिह वृजिनार्तस्तप्यमानोऽनुतापैर् अवितृषषडमित्रो लब्धशान्तिः कथङ्चित् । शरणद समुपेतस्त्वत्पदाब्जं परात्मन्न् अभयमृतमशोकं पाहि मापन्नमीश ॥ ऋBह्र्स्_२,४.२२ ॥ त्रासेन, यथा प्रथमे (१.८.१०) अभिद्रवति मामीश शरस्तप्तायसो विभो । कामं दहतु मां नाथ मा मे गर्भो निपात्यताम् ॥ ऋBह्र्स्_२,४.२३ ॥ अपराधेन, यथा श्रीदशमे (१०.१४.१०) अतः क्षमस्वाच्युत मे रजोभुवो ह्यजानतस्त्वत्पृथगीशमानिनः अजावलेपान्धतमोऽन्धचक्षुष एषोऽनुकम्प्यो मयि नाथवानिति ॥ ऋBह्र्स्_२,४.२४ ॥ आद्यशब्देन लज्जयापि, यथा तत्रैव (१०.२२.१४) माऽनयं भोः कृथास्त्वां तु नन्दगोपसुतं प्रियम् । जानीमोऽङ्ग व्रजश्लाघ्यं देहि वासांसि वेपिताः ॥ ऋBह्र्स्_२,४.२५ ॥ अथ (४) म्लानिः ओजः सोमात्मकं देहे बलपुष्टिकृदस्य तु । क्षयाच्छमाधिरत्य्आद्यैर्ग्लानिर्निष्प्राणता मता । कम्पाङ्गजाड्यवैवर्ण्यकार्श्यदृग्भ्रमणादिकृत् ॥ ऋBह्र्स्_२,४.२६ ॥ तत्र श्रमेण, यथा आघूर्णन्मणिवलयोज्ज्वलप्रकोष्ठा गोष्ठान्तर्मधुरिपुकीर्तिनर्तितौष्ठी । लोलाक्षी दधिकलसं विलोडयन्ती कृष्णाय क्लमभरनिःस्पृहा बभूव ॥ ऋBह्र्स्_२,४.२७ ॥ यथा वा गुम्फितुं निरुपमां वनस्रजं चारु पुष्पपटलं विचिन्वती । दुर्गमे क्लमभरातिदुर्बला कानने क्षणमभून्मृगेक्षणा ॥ ऋBह्र्स्_२,४.२८ ॥ आधिना, यथा सा रसव्यतिकरेण विहीना क्षीणजीवनतयोच्चलहंसा । माधवाद्य विरहेण तवाम्बा शुष्यति स्म सरसी शुचिनेव ॥ ऋBह्र्स्_२,४.२९ ॥ रत्या, यथा रससुधाकरे (२.१३ ) अतिप्रयत्नेन रतान्ततान्ता कृष्णेन तल्पावरोपिता सा । आलम्ब्य तस्यैव करं करेण ज्योत्स्नाकृतानन्दमलिन्दमाप ॥ ऋBह्र्स्_२,४.३० ॥ अथ (५) श्रमः अध्वनृत्यरताद्य्उत्थः खेदः श्रम इतीर्यते । निद्रास्वेदाङ्गसंमर्दजृम्भाश्वासादिभागसौ ॥ ऋBह्र्स्_२,४.३१ ॥ अथ अध्वनो, यथा कृतागसं पुत्रमनुव्रजन्ती व्रजाजिरान्तर्व्रजराजराज्ञी । परिस्खलत्कुन्तलबन्धनेयं बभूव घर्माम्बुकरम्बिताङ्गी ॥ ऋBह्र्स्_२,४.३२ ॥ नृत्यादेः, यथा विस्तीर्योत्तरलितहारमङ्गहारं सङ्गीतोन्मुखमुखरैर्वृतः सुहृद्भिः । अस्विद्यद्विरचितनन्दसूनुर्वा कुर्वाणस्तटभुवि ताण्डवानि रामः ॥ ऋBह्र्स्_२,४.३३ ॥ रताद्, यथा श्रीदशमे (१०.३३.२०) तासामतिविहारेण श्रान्तानां वदनानि सः । प्रामृजत्करुणः प्रेम्णा शन्तमेनाङ्ग पाणिना ॥ ऋBह्र्स्_२,४.३४ ॥ अथ (६) मदः विवेकहर उल्लासो मदः स द्विविधो मतः । मधुपानभवोऽनङ्गविक्रियाभरजोऽपि च । गत्य्अङ्गवाणीस्खलनदृग्घूर्णारक्तिमादिकृत् ॥ ऋBह्र्स्_२,४.३५ ॥ तत्र मधुपानभवो, यथा ललितमाधवे (५.४१) बिले क्व नु विलिल्यिरे नृपपिपीलिकाः पीडिताः पिनस्मि जगद्अण्डकं ननु हरिः क्रुधं धास्यति । शचीगृहकुरङ्ग रे हससि किं त्वमित्युन्नदन्न् उदेति मदडम्बरस्खलितचूडमग्रे हली ॥ ऋBह्र्स्_२,४.३६ ॥ यथा वा प्राचाम् {*ড়ुरुषोत्तमदेवस्य. षृK १२७, ष्Kं २३८.} भभभ्रमति मेदिनी लललन्दते चन्द्रमाः कृकृष्ण ववद द्रुतं हहहसन्ति किं वृष्णयः । सिसीधु मुमुमुञ्च मे पपपपानपात्रे स्थितः मदस्खलितमालपन् हलधरः श्रियः वः क्रियात् ॥ ऋBह्र्स्_२,४.३७ ॥ उत्तमस्तु मदाच्छेते मध्यो हसति पायति । कनिष्ठः क्रोशति स्वैरं पुरुषं वक्ति रोदिति ॥ ऋBह्र्स्_२,४.३८ ॥ मदोऽपि त्रिविधः प्रोक्तस्तरुणादिप्रभेदतः । अत्र नात्युपयोगित्वाद्विस्तार्य न हि वर्णितः ॥ ऋBह्र्स्_२,४.३९ ॥ अनङ्गविक्रियाभरजो, यथा व्रजपतिसुतमग्रे विक्ष्य भुग्नीभवद्भ्रूर् भ्रमति हसति रोदित्यास्यमन्तर्दधाति । प्रलपति मुहुरालीं वन्दते पश्य वृन्दे नवमदनमदान्धा हन्त गान्धर्विकेयम् ॥ ऋBह्र्स्_२,४.४० ॥ अथ (७) गर्वः सौभाग्यरूपतारुण्यगुणसर्वोत्तमाश्रयैः । इष्टलाभादिना चान्यहेलनं गर्व ईर्यते ॥ ऋBह्र्स्_२,४.४१ ॥ अत्र सोल्लुण्ठवचनं लीलानुत्तरदायिता । स्वाङ्गेक्षा निह्नवोऽन्यस्य वचनाश्रवणादयः ॥ ऋBह्र्स्_२,४.४२ ॥ तत्र सौभाग्येन, यथा श्रीकृष्णकर्णामृते (३.९३) हस्तमुत्क्षिप्य यातोऽसि बलात्कृष्ण किमद्भुतम् । हृदयाद्यदि निर्यासि पौरुषं गणयामि ते ॥ ऋBह्र्स्_२,४.४३ ॥ रूपतारुण्येन, यथा यस्याः स्वभावमधुरां परिषेव्य मूर्तिं धन्या बभूव नितरामपि यौवनश्रीः । सेयं त्वयि व्रजवधूशतभुक्तमुक्ते दृक्पातमाचरतु कृष्ण कथं सखी मे ॥ ऋBह्र्स्_२,४.४४ ॥ गुणेन, यथा गुम्फन्तु गोपाः कुसुमैः सुगन्धिभिर् दामानि कामं धृतरामणीयकैः । निधास्यते किन्तु सतृष्णमग्रतः कृष्णो मदीयां हृदि विस्मितः स्रजम् ॥ ऋBह्र्स्_२,४.४५ ॥ सर्वोत्तमाश्रयेण, यथा श्रीदशमे (१०.२.३३) तथा न ते माधव तावकाः क्वचिद् भ्रश्यन्ति मार्गात्त्वयि बद्धसौहृदाः त्वयाभिगुप्ता विचरन्ति निर्भया विनायकानीकपमूर्धसु प्रभो ॥ ऋBह्र्स्_२,४.४६ ॥ इष्टलाभेन, यथा वृन्दावनेन्द्र भवतः परमं प्रसादम् आसाद्य नन्दितमतिर्मुहुरुद्धतोऽस्मि । आशंसते मुनिमनोरथवृत्तिमृग्यां वैकुण्ठनाथकरुणामपि नाद्य चेतः ॥ ऋBह्र्स्_२,४.४७ ॥ अथ (८) शङ्का स्वीयचौर्यापराधादेः परक्रौर्यादितस्तथा । स्वानिष्टोत्प्रेक्षणं यत्तु सा शङ्केत्यभिधीयते । अत्रास्यशोषवैवर्ण्यदिक्प्रेक्षालीनतादयः ॥ ऋBह्र्स्_२,४.४८ ॥ तत्र चौर्याद्, यथा सतर्णकं डिम्भकदम्बकं हरन् सदम्भमम्भोरुहसम्भवस्तदा । तिरोभविष्यन् हरितश्चलेक्षणैर् अष्टाभिरष्टौ हरितः समीक्षते ॥ ऋBह्र्स्_२,४.४९ ॥ यथा वा स्यमन्तकं हन्त वमन्तमर्थं निह्नुत्य दूरे यदहं प्रयातः । अवद्यमद्यापि तदेव कर्म शर्माणि चित्ते मम निर्भिनत्ति ॥ ऋBह्र्स्_२,४.५० ॥ अपराधाद्, यथा तद्अवधि मलिनोऽसि नन्दगोष्ठे यद्अवधि वृष्टिमचीकरः शचीश । शृणु हितमभितः प्रपद्य कृष्णं श्रियमविशङ्कमलङ्कुरु त्वमैन्द्रीम् ॥ ऋBह्र्स्_२,४.५१ ॥ परक्रौर्येण, यथा पद्यावल्याम् (३३१) प्रथयति न तथा ममार्तिमुच्चैः सहचरि वल्लवचन्द्रविप्रयोगः । कटुभिरसुरमण्डलैः परीते दनुजपतेर्नगरे यथास्य वासः ॥ ऋBह्र्स्_२,४.५२ ॥ शङ्का तु प्रवरस्त्रीणां भीरुत्वाद्भयकृद्भवेत् ॥ ऋBह्र्स्_२,४.५३ ॥ अथ (९) त्रासः त्रासः क्षोभो हृदि तडिद्घोरसत्त्वोग्रनिस्वनैः । पार्श्वस्थालम्बरोमाञ्चकम्पस्तम्भभ्रमादिकृत् ॥ ऋBह्र्स्_२,४.५४ ॥ तत्र तडिता, यथा बाढं निविडया सद्यस्तडिता ताडितेक्षणः । रक्ष कृष्णेति चुक्रोश कोऽपि गोपीस्तनन्धयः ॥ ऋBह्र्स्_२,४.५५ ॥ घोरसत्त्वेन, यथा अदूरमासेदुषि वल्लवाङ्गना स्वं पुङ्गवीकृत्य सुरारिपुङ्गवे । कृष्णभ्रमेणाशु तरङ्गद्अङ्गिका तमालमालिङ्ग्य बभूव निश्चला ॥ ऋBह्र्स्_२,४.५६ ॥ उग्रनिस्वनेन, यथा आकर्ण्य कर्णपदवीविपदं यशोदा विस्फूर्जितं दिशि दिशि प्रकटं वृकाणाम् । यामान्निकामचतुरा चतुरः स्वपुत्रं सा नेत्रचत्वरचरं चिरमाचचार ॥ ऋBह्र्स्_२,४.५७ ॥ गात्रोत्कम्पी मनःकम्पः सहसा त्रास उच्यते । पूर्वापरविचारोत्थं भयं त्रासात्पृथग्भवेत् ॥ ऋBह्र्स्_२,४.५८ ॥ अथ (१०) आवेगः चित्तस्य सम्भ्रमो यः स्यादावेगोऽयं स चाष्टधा । प्रियाप्रियानलमरुद्वर्षोत्पातगजारितः ॥ ऋBह्र्स्_२,४.५९ ॥ प्रियोत्थे पुलकः सान्त्वं चापल्याभ्युद्गमादयः । अप्रियोत्थे तु भूपातविक्रोशभ्रमणादयः ॥ ऋBह्र्स्_२,४.६० ॥ व्यत्यस्तगतिकम्पाक्षिमीलनास्रादयोऽग्निजे । वातजेऽजावृतिक्षिप्रगतिदृङ्मार्जनादयः ॥ ऋBह्र्स्_२,४.६१ ॥ वृष्टिजो धावनच्छत्रगात्रसङ्कोचनादिकृत् । औत्पाते मुखवैवर्ण्यविस्मयोऽकण्ठितादयः ॥ ऋBह्र्स्_२,४.६२ ॥ गाजे पलायनोत्कम्पत्रासपृष्ठेक्षणादयः । अरिजो वर्मशस्त्रादिग्रहापसरणादिकृत् ॥ ऋBह्र्स्_२,४.६३ ॥ अत्र प्रियदर्शनजो, यथा प्रेक्ष्य वृन्दावनात्पुत्रमायान्तं प्रस्नुतस्तनी । सङ्कुला पुलकैरासीदाकुला गोकुलेश्वरी ॥ ऋBह्र्स्_२,४.६४ ॥ प्रियश्रवणजो, यथा श्रीदशमे (१०.२३.१८) श्रुत्वाच्युतमुपायातं नित्यं तद्दर्शनोत्सुकाः । तत्कथाक्षिप्तमनसो बभूवुर्जातसम्भ्रमाः ॥ ऋBह्र्स्_२,४.६५ ॥ अप्रियदर्शनजो, यथा किमिदं किमिदं किमेतदुच्चैर् इति घोरध्वनिघूर्णिता लपन्ती । निशि वक्षति वीक्ष्य पूतनायास् तनयं भ्राम्यति सम्भ्रमाद्यशोदा ॥ ऋBह्र्स्_२,४.६६ ॥ अप्रियश्रवणजो, यथा निशम्य पुत्रं क्रटतोस्तटान्ते महीजयोर्मध्यगमूर्ध्वनेत्रा । आभीरराज्ञी हृदि सम्भ्रमेण बिद्धा विधेयं न विदाञ्चकार ॥ ऋBह्र्स्_२,४.६७ ॥ अग्निजो, यथा धीर्व्यग्राजनि नः समस्तसुहृदां तां प्राणरक्षामणिं गव्या गौरवतः समीक्ष्य निविडे तिष्ठन्तमन्तर्वने । वह्निः पश्य शिखण्डशेखर खरं मुञ्चन्नखण्डध्वनिं दीर्घाभिः सुरदीर्घिकाम्बुलहरीमर्चिभिराचामति ॥ ऋBह्र्स्_२,४.६८ ॥ वातजो, यथा पांशुप्रारब्धकेतौ बृहद्अटविकुटोन्माथिशौटीर्यपुञ्जे भाण्डीरोद्दण्डशाखाभुजततिषु गते ताण्डवाचार्यचर्याम् । वातव्राते करीषङ्कषतरशिखरे शार्करे झात्करिष्णौ क्षौण्यामप्रेक्ष्य पुत्रं व्रजपतिगृहिणी पश्य सम्बम्भ्रमीति ॥ ऋBह्र्स्_२,४.६९ ॥ वर्षजो, यथा श्रीदशमे (१०.२५.११) अत्यासारातिवातेन पशवो जातवेपनाः । गोपा गोप्यश्च शीतार्ता गोविन्दं शरणं ययुः ॥ ऋBह्र्स्_२,४.७० ॥ यथा वा सममुरुकरकाभिर्दन्तिशुण्डासपिण्डाः प्रतिदिशमिह गोष्ठे वृष्टिधाराः पतन्ति । अजनिषत युवानोऽप्याकुलास्त्वं तु बालः स्फुटमसि तद्अगारान्मा स्म भूर्निर्यियासुः ॥ ऋBह्र्स्_२,४.७१ ॥ उत्पातजो, यथा क्षितिरतिविपुला टलत्यकस्माद् उपरि घुरन्ति च हन्त घोरमुल्काः । मम शिशुरहिदूषितार्कपुत्री तटमटतीत्यधुना किमत्र कुर्याम् ॥ ऋBह्र्स्_२,४.७२ ॥ गाजो, यथा अपसरापसर त्वरया गुरुर् मुदिरसुन्दर हे पुरतः करी । म्रदिमवीक्षणतस्तव नश्चलं हृदयमाविजते पुरयोषिताम् ॥ ऋBह्र्स्_२,४.७३ ॥ गजेन दुष्टसत्त्वोऽन्यः पश्व्आदिरुपलक्ष्यते ॥ ऋBह्र्स्_२,४.७४ ॥ यथा वा चण्डांशोस्तुरगान् सटाग्रनटनैराहत्य विद्रावयन् द्रागन्धङ्करणः सुरेन्द्रसुदृशां गोष्ठोद्धूतैः पांशुभिः । प्रत्यासीदतु मत्पुरः सुररिपुर्गर्वान्धमर्वाकृतिर् द्रगिष्ठे मुहुरत्र जाग्रति भुजे व्यग्रासि मातः कथम् ॥ ऋBह्र्स्_२,४.७५ ॥ अरिजो, यथा ललितमाधवे (२.२९) स्थूलस्तालभुजान्नतिर्गिरितटीवक्षाः क्व यक्षाधमः क्वायं बालतमालकन्दलमृदुः कन्दर्पकान्तः शिशुः । नास्त्यन्यः सहकारितापटुरिह प्राणी न जानीमहे हा गोष्ठेश्वरि कीदृगद्य तपसां पाकस्तवोन्मीलति ॥ ऋBह्र्स्_२,४.७६ ॥ यथा वा तत्रैव (५.३०) सप्तिः सप्ती रथ इह रथः कुञ्जरो मे तूणस्तूणो धनुरुत धनुर्भोः कृपाणी कृपाणी । का भीः का भीरयमयमहं हा त्वरध्वं त्वरध्वं राज्ञः पुत्री बत हृतहृता कामिना वल्लवेन ॥ ऋBह्र्स्_२,४.७७ ॥ आवेगाभास एवायं पराश्रयतापि चेत् । नायकोत्कर्षबोधाय तथाप्यत्र निदर्शितः ॥ ऋBह्र्स्_२,४.७८ ॥ अथ (११) उन्मादः उन्मादो हृद्भ्रमः प्रौढानन्दापद्विरहादिजः ॥ ऋBह्र्स्_२,४.७९ ॥ अत्राट्टहासो नटनं सङ्गीतं व्यर्थचेष्टितम् । प्रलापधावनक्रोशविपरीतक्रियादयः ॥ ऋBह्र्स्_२,४.८० ॥ तत्र प्रौढानन्दाद्, यथा कर्णामृते (२.२५) राधा पुनातु जगदच्युतदत्तचित्ता मन्थानकं विदधती दधिरिक्तपात्रे । यस्याः स्तनस्तवकचञ्चललोचनालिर् देवोऽपि रुद्धहृदयो धवलं दुदोह ॥ ऋBह्र्स्_२,४.८१ ॥ आपदो, यथा पशूनपि कृताञ्जलिर्नमति मान्त्रिका इत्यलं तरूनपि चिकित्सका इति विषौषधं पृच्छति । ह्रदं भुजगभैरवं हरि हरि प्रविष्टे हरौ व्रजेन्द्रगृहिणी मुहुर्भ्रममयीमवस्थां गता ॥ ऋBह्र्स्_२,४.८२ ॥ विरहाद्, यथा श्रीदशमे (१०.३०.४) गायन्त्य उच्चैरमुमेव संहता विचिक्युरुन्मत्तकवद्वनाद्वनम् । पप्रच्छुराकाशवदन्तरं बहिर् भूतेषु सन्तं पुरुषं वनस्पतीन् ॥ ऋBह्र्स्_२,४.८३ ॥ उन्मादः पृथगुक्तोऽयं व्याधिष्वन्तर्भवन्नपि । यत्तत्र विप्रलम्भादौ वैचित्रीं कुरुते पराम् ॥ ऋBह्र्स्_२,४.८४ ॥ अधिरूढे महाभावे मोहनत्वमुपागते । अवस्थान्तरमाप्तोऽसौ दिव्योन्माद इतीर्यते ॥ ऋBह्र्स्_२,४.८५ ॥ अथ (१२) अपस्मारः दुःखोत्थधातुवैषम्याद्य्उद्भूतश्चित्तविप्लवः । अपस्मारोऽत्र पतनं धावनास्फोटनभ्रमाः । कम्पः फेनस्रुतिर्बाहुक्षेपणविक्रोशनादयः ॥ ऋBह्र्स्_२,४.८६ ॥ यथा फेनायते प्रतिपदं क्षिपते भुजोर्मिम् आघूर्णते लुठति कुजति लीयते च । अम्बा तवाद्य विरहे चिरमम्बुराज बेलेव वृष्णितिलक व्रजराजराज्ञी ॥ ऋBह्र्स्_२,४.८७ ॥ यथा वा श्रुत्वा हन्त हतं त्वया यदुकुलोत्तंसात्र कंसासुरं दैत्यस्तस्य सुहृत्तमः परिणतिं घोरां गतः कामपि । लालाफेनकदम्बचुम्बितमुखप्रान्तस्तरङ्गद्भुजो घूर्णन्नर्णवसीम्नि मण्डलतया भ्राम्यन्न विश्राम्यति ॥ ऋBह्र्स्_२,४.८८ ॥ उन्मादवदिह व्याधिविशेषोऽप्येष वर्णितः । परां भयानकाभासे यत्करोति चमत्कृतिम् ॥ ऋBह्र्स्_२,४.८९ ॥ अथ (१३) व्याधिः दोषोद्रेकवियोगाद्यैर्व्याधयो ये ज्वरादयः । इह तत्प्रभवो भावो व्याधिरित्यभिधीयते । अत्र स्तम्भः श्लथाङ्गत्वश्वासोत्तापक्लमादयः ॥ ऋBह्र्स्_२,४.९० ॥ यथा तव चिरविरहेण प्राप्य पीडामिदानीं दधद्उरुजडिमानि ध्मापितान्यङ्गकानि । श्वसितपवनधाटीघट्टितघ्राणवाटं लुठति धरणिपृष्ठे गोष्ठवाटीकुटुम्बम् ॥ ऋBह्र्स्_२,४.९१ ॥ अथ (१४) मोहः मोहो हृन्मूढता हर्षाद्विश्लेषाद्भयतस्तथा । विषादादेश्च तत्र स्याद्देहस्य पतनं भुवि । शून्येन्द्रियत्वं भ्रमणं तथा निश्चेष्टतामयः ॥ ऋBह्र्स्_२,४.९२ ॥ तत्र हर्षाद्, यथा श्रीदशमे (१०.१२.४४) इत्थं स्म पृष्टः स तु बादरायणिस् तत्स्मारितानन्तहृताखिलेन्द्रियः । कृच्छ्रात्पुनर्लब्धबहिर्दृशिः शनैः प्रत्याह तं भागवतोत्तमोत्तमम् ॥ ऋBह्र्स्_२,४.९३ ॥ यथा वा निरुच्छ्वसितरीतयो विघटिताक्षिपक्ष्मक्रिया निरीहनिखिलेन्द्रियाः प्रतिनिवृत्तचिद्वृत्तयः । अवेक्ष्य कुरुमण्डले रहसि पुण्डरीकेक्षणं व्रजाम्बुजदृशोऽभजन् कनकशालभञ्जीश्रियम् ॥ ऋBह्र्स्_२,४.९४ ॥ विश्लेषाद्, यथा हंसदूते (४) कदाचित्खेदाग्निं विघटयितुमन्तर्गतमसौ सहालीभिर्लेभे तरलितमना यामुनतटीम् । चिरादस्याश्चित्तं परिचितकुटीरकलनाद् अवस्था तस्तार स्फुटमथ सुषुप्तेः प्रियसखी ॥ ऋBह्र्स्_२,४.९५ ॥ भयाद्, यथा मुकुन्दमाविष्कृतविश्वरूपं निरूपयन् वानरवर्यकेतुः । करारविन्दात्पुरतः स्खलन्तं न गाण्डीवं खण्डितधीर्विवेद ॥ ऋBह्र्स्_२,४.९६ ॥ विषादाद्, यथा श्रीदशमे (१०.११.४९) कृष्णं महाबकग्रस्तं दृष्ट्वा रामादयोऽर्भकाः । बभूवुरिन्द्रियाणीव विना प्राणं विचेतसः ॥ ऋBह्र्स्_२,४.९७ ॥ अस्यान्यत्रात्मपर्यन्ते स्यात्सर्वत्रैव मूढता । कृष्णस्फूर्तिविशेषस्तु न कदाप्यत्र लीयते ॥ ऋBह्र्स्_२,४.९८ ॥ अथ (१५) मृतिः विषादव्याधिसन्त्राससम्प्रहारक्लमादिभिः । प्राणत्यागो मृतिस्तस्यामव्यक्ताक्षरभाषणम् । विवर्णगात्रताश्वासमान्द्यहिक्कादयः क्रियाः ॥ ऋBह्र्स्_२,४.९९ ॥ यथा अनुल्लासश्वासा मुहुरसरलोत्तानितदृशो विवृण्वन्तः काये किमपि नववैवर्ण्यमभितः । हरेर्नामाव्यक्तीकृतमलघुहिक्कालहरीभिः प्रजल्पन्तः प्राणान् जहति मथुरायां सुकृतिनः ॥ ऋBह्र्स्_२,४.१०० ॥ यथा वा विरमद्अलघुकण्ठोद्घोषघुत्कारचक्रा क्षणविघटितताम्यद्दृष्टिखद्योतदीप्तिः । हरिमिहिरनिपीतप्राणगाढान्धकारा क्षयमगमदकस्मात्पूतना कालरात्रिः ॥ ऋBह्र्स्_२,४.१०१ ॥ प्रायोऽत्र मरणात्पूर्वा चित्तवृत्तिर्मृतिर्मता । मृतिरत्रानुभावः स्यादिति केनचिदुच्यते । किन्तु नायकवीर्यार्थं शत्रौ मरणमुच्यते ॥ ऋBह्र्स्_२,४.१०२ ॥ अथ (१६) आलस्यम् सामर्थ्यस्यापि सद्भावे क्रियानुन्मुखता हि या । तृप्तिश्रमादिसम्भूता तद्आलस्यमुदीर्यते ॥ ऋBह्र्स्_२,४.१०३ ॥ अत्राङ्गभजो जृम्भा च क्रिया द्वेषोऽक्षिमर्दनम् । शय्यासनैकप्रियता तन्द्रानिद्रादयोऽपि च ॥ ऋBह्र्स्_२,४.१०४ ॥ तत्र तृप्तेर्, यथा विप्राणां नस्तथा तृप्तिरासीद्गोवर्धनोत्सवे । नाशीर्वादेऽपि गोपेन्द्र यथा स्यात्प्रभविष्णुता ॥ ऋBह्र्स्_२,४.१०५ ॥ श्रमाद्, यथा सुष्ठु निःसहतनुः सुबलोऽभूत् प्रीतये मम विधाय नियुद्धम् । मोटयन्तमभितो निजमङ्गं नाहवाय सहसाह्वयताममुम् ॥ ऋBह्र्स्_२,४.१०६ ॥ अथ (१७) जाड्यम् जाड्यमप्रतिपत्तिः स्यादिष्टानिष्ठश्रुतीक्षणैः । विरहाद्यैश्च तन्मोहात्पूर्वावस्थापरापि च । अत्रानिमिषता तूष्णीम्भावविस्मरणादयः ॥ ऋBह्र्स्_२,४.१०७ ॥ तत्र इष्टश्रुत्या, यथा श्रीदशमे (१०.२१.१३) गावश्च कृष्णमुखनिर्गतवेणुगीत पीयूषमुत्तभितकर्णपुटैः पिबन्त्यः । शावाः स्नुतस्तनपयःकवलाः स्म तस्थुर् गोविन्दमात्मनि दृशाश्रुकुलाः स्पृशन्त्यः ॥ ऋBह्र्स्_२,४.१०८ ॥ अनिष्टश्रुत्या, यथा आकलय्य परिवर्तितगोत्रां केशवस्य गिरमर्पितशल्याम् । बिद्धधीरधिकनिर्निमिषाक्षी लक्ष्मणा क्षणमवर्तत तूष्णीम् ॥ ऋBह्र्स्_२,४.१०९ ॥ इष्टेक्षणेन, यथा श्रीदशमे (१०.७१.४०) गोविन्दं गृहमानीय देवदेवेशमादृतः । पूजायां नाविदत्कृत्यं प्रमादोपहतो नृपः ॥ ऋBह्र्स्_२,४.११० ॥ अनिष्टेक्षणेन, यथा तत्रैव (१०.३९.३६) यावदालक्ष्यते केतुर्यावद्रेणू रथस्य च । अनुप्रस्थापितात्मानो लेख्यानीवोपलक्षिताः ॥ ऋBह्र्स्_२,४.१११ ॥ विरहेण, यथा मुकुन्द विरहेण ते विधुरिताः सखायश्चिराद् अलङ्कृतिभिरुज्झिता भुवि निविश्य तत्र स्थिताः । स्खलन्मलिनवाससः शवलरुक्षगात्रश्रियः स्फुरन्ति खलदेवलद्विजगृहे सुरार्चा इव ॥ ऋBह्र्स्_२,४.११२ ॥ अथ (१८) व्रीडा नवीनसङ्गमाकार्यस्तवावज्ञादिना कृता । अधृष्टता भवेद्व्रीडा तत्र मौनं विचिन्तनम् । अवगुण्ठनभूलेखौ तथाधोमुखतादयः ॥ ऋBह्र्स्_२,४.११३ ॥ तत्र नवीनसङ्गमेन, यथा पद्यावल्याम् (१९८) गोविन्दे स्वयमकरोः सरोजनेत्रे प्रेमान्धा वरवपुरर्पणं सखि । कार्पण्यं न कुरु दरावलोकदाने विक्रीते करिणि किमङ्कुशे विवादः ॥ ऋBह्र्स्_२,४.११४ ॥ अकार्येण, यथा त्वमवागिह मा शिरः कृथा वदनं च त्रपया शचीपते । नय कल्पतरुं न चेच्छचीं कथमग्रे मुखमीक्षयिष्यसि ॥ ऋBह्र्स्_२,४.११५ ॥ स्तवेन, यथा भूरिसाद्गुण्यभारेण स्तूयमानस्य शौरिणा । उद्धवस्य व्यरोचिष्ट नम्रीभूतं तदा शिरः ॥ ऋBह्र्स्_२,४.११६ ॥ अवज्ञया, यथा हरिवंशे (२.६७.१९) {*ईन् च्रितिचलेदितोन्, अप्पेन्दिx २९.} सत्यादेवीवाक्यम् वसन्तकुसुमैश्चित्रं सदा रैवतकं गिरिम् । प्रिया भूत्वाऽप्रिया भूता कथं द्रक्ष्यामि तं पुनः ॥ ऋBह्र्स्_२,४.११७ ॥ अथ (१९) अवहित्था अवहित्थाकारगुप्तिर्भवेद्भावेन केनचित् ॥ ऋBह्र्स्_२,४.११८ ॥ अत्राङ्गादेः पराभ्यूहस्थानस्य परिगूहनम् । अन्यत्रेक्षा वृथाचेष्टा वाग्भङ्गीत्य्आदयः क्रियाः ॥ ऋBह्र्स्_२,४.११९ ॥ तथा चोक्तम् अनुभावपिधानार्थोऽवहित्थं भाव उच्यते ॥ ऋBह्र्स्_२,४.१२० ॥ तत्र जैह्म्येन, यथा श्रीदशमे (१०.३२.१५) सभाजयित्वा तमनङ्गदीपनं सहासलीलेक्षणविभ्रमभ्रुवा । संस्पर्शनेनाङ्ककृताङ्घ्रिहस्तयोः संस्तुत्य ईषत्कुपिता बभाषिरे ॥ ऋBह्र्स्_२,४.१२१ ॥ दाक्षिण्येन, यथा सात्राजितीसदनसीमनि पारिजाते नीते प्रणीतमहसा मधुसूदनेन । द्राघीयसीमनि विदर्भभुवस्तदेर्ष्यां सौशील्यतः किल न कोऽपि विदाम्बभूव ॥ ऋBह्र्स्_२,४.१२२ ॥ ह्रिया, यथा प्रथमे (१.११.३३) तमात्मजैर्दृष्टिभिरन्तरात्मना दुरन्तभावाः परिरेभिरे पतिम् । निरुद्धमप्यास्रवदम्बु नेत्रयोर् विलज्जतीनां भृगुवर्य वैक्लवात् ॥ ऋBह्र्स्_२,४.१२३ ॥ जैह्म्यह्रीभ्यां, यथा का वृषस्यति तं गोष्ठभुजङ्गं कुलपालिका । दूति यत्र स्मृते मूर्तिर्भीत्या रोमाञ्चिता मम ॥ ऋBह्र्स्_२,४.१२४ ॥ सौजन्येन, यथा गूढा गाभीर्यसम्पद्भिर्मनोगह्वरगर्भगा । प्रौढाप्यस्या रतिः कृष्णे दुर्वितर्का परैरभूत् ॥ ऋBह्र्स्_२,४.१२५ ॥ गौरवेण, यथा गोविन्दे सुबलमुखैः समं सुहृद्भिः स्मेरास्यैः स्फुटमिह नर्म निर्मिमाणे । आनम्रीकृतवदनः प्रमोदमुग्धो यत्नेन स्मितमथ संववार पत्री ॥ ऋBह्र्स्_२,४.१२६ ॥ हेतुः कश्चिद्भवेत्कश्चिद्गोप्यः कश्चन गोपनः । इति भावत्रयस्यात्र विनियोगः समीक्ष्यते ॥ ऋBह्र्स्_२,४.१२७ ॥ हेतुत्वं गोपनत्वं च गोप्यत्वं चात्र सम्भवेत् । प्रायेण सर्वभावानामेकशोऽनेकशोऽपि च ॥ ऋBह्र्स्_२,४.१२८ ॥ अथ (२०) स्मृतिः या स्यात्पूर्वानुभूतार्थप्रतीतिः सदृशेक्षया । दृढाभ्यासादिना वापि सा स्मृतिः परिकीर्तिता । भवेदत्र शिरःकम्पो भ्रूविक्षेपादयोऽपि च ॥ ऋBह्र्स्_२,४.१२९ ॥ तत्र सदृशेक्षणा, यथा विलोक्य श्याममम्भोदमम्भोरुहविलोचना । स्मारं स्मारं मुकुन्द त्वां स्मारं विक्रममन्वभूत् ॥ ऋBह्र्स्_२,४.१३० ॥ दृढाभ्यासेन, यथा प्रणिधानविधिमिदानीमकुर्वतोऽपि प्रमादतो हृदि मे । हरिपदपङ्कजयुगलं क्वचित्कदाचित्परिस्फुरति ॥ ऋBह्र्स्_२,४.१३१ ॥ अथ (२१) वितर्कः विमर्षात्संशयादेश्च वितर्कस्तूह उच्यते । एष भ्रूक्सेपणशिरोऽङ्गुलिसञ्चालनादिकृत् ॥ ऋBह्र्स्_२,४.१३२ ॥ तत्र विमर्षाद्, यथा विदग्धमाधवे (२.२७) न जानीषे मूर्ध्नश्च्युतमपि शिखण्डं यदखिलं न कण्ठे यन्माल्यं कलयसि पुरस्तात्कृतमपि । तदुन्नीतं वृन्दावनकुहरलीलाकलभ हे स्फुटं राधानेत्रभ्रमरवर वीर्योन्नतिरियम् ॥ ऋBह्र्स्_२,४.१३३ ॥ संशयात्, यथा असौ किं तापिञ्छो न हि तद्अमलश्रीरिह गतिः पयोदः किं वामं न यदिह निरङ्को हिमकरः । जगन्मोहारम्भोद्धूरमधुरवंशीध्वनिरितो ध्रुवं मूर्धन्यद्रेर्विधुमुखि मुकुन्दो विहरति ॥ ऋBह्र्स्_२,४.१३४ ॥ विनिर्णयान्त एवायं तर्क इत्यूचिरे परे ॥ ऋBह्र्स्_२,४.१३५ ॥ अथ (२२) चिन्ता ध्यानं चिन्ता भवेदिष्टानाप्त्य्अनिष्टाप्तिनिर्मितम् । श्वासाधोमुखभूलेखवैवर्ण्यान्निद्रता इह । विलापोत्तापकृशताबाष्पदैन्यादयोऽपि च ॥ ऋBह्र्स्_२,४.१३६ ॥ तत्र इष्टानाप्त्या, यथा श्रीदशमे (१०.२९.२९) कृत्वा मुखान्यवशुचः श्वसनेन शुष्यद् बिम्बाधराणि चरणेन लिखन्त्यः । अस्रेरुपात्तमसिभिः कुचकुङ्कुमानि तस्थुर्मृजन्त्य उरुदुःखभराः स्म तूष्णीम् ॥ ऋBह्र्स्_२,४.१३७ ॥ यथा वा अरतिभिरतिक्रम्य क्षामा प्रदोषमदोषधीः कथमपि चिरादध्यासीना प्रघाणमघान्तक । विधूरितमुखी घूर्णत्यन्तः प्रसूस्तव चिन्तया किमहह गृहं क्रीडालुब्ध त्वयाद्य विसस्मरे ॥ ऋBह्र्स्_२,४.१३८ ॥ अनिष्टाप्त्या, यथा गृहिणि गहनयान्तश्चिन्तयोन्निद्रनेत्रा ग्लपय न मुखपद्मं तप्तबाष्पप्लवेन । नृपपुरमनुविन्दन् गान्दिनेयेन सार्धं तव सुतमहमेव द्राक्परावर्तयामि ॥ ऋBह्र्स्_२,४.१३९ ॥ अथ (२३) मतिः शास्त्रादीनां विचारोत्थमर्थनिर्धारणं मतिः ॥ ऋBह्र्स्_२,४.१४० ॥ अत्र कर्तव्यकरणं संशयभ्रमयोश्छिदा । उपदेशश्च शिष्याणामूहापोहादयोऽपि च ॥ ऋBह्र्स्_२,४.१४१ ॥ यथा पाद्मे वैशाखमाहात्म्ये व्यामोहाय चराचरस्य जगतस्ते ते पुराणागमास् तां तामेव हि देवतां परमिकां जल्पन्तु कल्पावधि । सिद्धान्ते पुनरेक एव भगवान् विष्णुः समस्तागम व्यापारेषु विवेचनव्यतिकरं नीतेषु निश्चीयते ॥ ऋBह्र्स्_२,४.१४२ ॥ यथा वा श्रीदशमे (१०.६०.३९) त्वं न्यस्तदण्डमुनिभिर्गदितानुभाव आत्मात्मदश्च जगतामिति मे वृतोऽसि । हित्वा भवद्भ्रुव उदीरितकालवेग ध्वस्ताशिषोऽब्जभवनाकपतीन् कुतोऽन्ये ॥ ऋBह्र्स्_२,४.१४३ ॥ अथ (२४) धृतिः धृतिः स्यात्पूर्णता ज्ञानदुःखाभावोत्तमाप्तिभिः । अप्राप्तातीतनष्टार्थानभिसंशोचनादिकृत् ॥ ऋBह्र्स्_२,४.१४४ ॥ तत्र ज्ञानेन, यथा वैराग्यशतके (५५) भर्तृहरिः अश्नीमहि वयं भिक्षामाशावासो वसीमहि । शयीमहि महीपृष्ठे कुर्वीमहि किमीश्वरैः ॥ ऋBह्र्स्_२,४.१४५ ॥ दुःखाभावेन, यथा गोष्ठं रमाकेलिगृहं चकास्ति गावश्च धावन्ति परःपरार्धाः । पुत्रस्तथा दीव्यति दिव्यकर्मा तृप्तिर्ममाभूद्गृहमेधिसौख्ये ॥ ऋBह्र्स्_२,४.१४६ ॥ उत्तमाप्त्या, यथा हरिलीलासुधासिन्धोस्तटमप्यधितिष्ठतः । मनो मम चतुर्वर्गं तृणायापि न मन्यते ॥ ऋBह्र्स्_२,४.१४७ ॥ अथ (२५) हर्षः अभीष्टेक्षणलाभादिजाता चेतःप्रसन्नता । हर्षः स्यादिह रोमाञ्चः स्वेदोऽश्रु मुखफुल्लता । आवेगोन्मादजडतास्तथा मोहादयोऽपि च ॥ ऋBह्र्स्_२,४.१४८ ॥ तत्र अभीष्टेक्षणेन, यथा श्रीविष्णुपुराणे [वि.पु. ५.१७.२५] तौ दृष्ट्वा विकसद्वक्त्रसरोजः स महामतिः । पुलकाञ्चितसर्वाङ्गस्तदाक्रूरोऽभवन्मुने ॥ ऋBह्र्स्_२,४.१४९ ॥ अभीष्टलाभेन, यथा श्रीदशमे (१०.३३.१२) तत्रैकांसगतं बाहुं कृष्णस्योत्पलसौरभम् । चन्दनालिप्तमाघ्राय हृष्टरोमा चुचुम्ब ह ॥ ऋBह्र्स्_२,४.१५० ॥ अथ (२६) औत्सुक्यम् कालाक्षमत्वमौत्सुक्यमिष्टेक्षाप्तिस्पृहादिभिः । मुखशोषत्वराचिन्तानिःश्वासस्थिरतादिकृत् ॥ ऋBह्र्स्_२,४.१५१ ॥ तत्र इष्टेक्षास्पृहया, यथा श्रीदशमे (१०.७१.३४) प्राप्तं निशम्य नरलोचनपानपात्रम् औत्सुक्यविश्लथितकेशदुकूलबद्धाः । सद्यो विसृज्य गृहकर्म पतींश्च तल्पे द्रष्टुं ययुर्युवतयः स्म नरेन्द्रमार्गे ॥ ऋBह्र्स्_२,४.१५२ ॥ यथा वा, स्तवावल्यां श्रीराधिकाष्टके (१४.७) प्रकटितनिजवासं स्निग्धवेणुप्रणादैर् द्रुतगति हरिमारात्प्राप्य कुञ्जे स्मिताक्षी । श्रवणकुहरकण्डुं तन्वती नम्रवक्त्रा स्नपयति निजदास्ये राधिका मां कदा नु ॥ ऋBह्र्स्_२,४.१५३ ॥ इष्टाप्तिस्पृहया, यथा नर्मकर्मठतया सखीगणे द्राघयत्यघहराग्रतः कथाम् । गुच्छकग्रहणकैतवादसौ गह्वरं द्रुतपदक्रमं ययौ ॥ ऋBह्र्स्_२,४.१५४ ॥ अथ (२७) औग्र्यम् अपराधदुरुक्त्य्आदि जातं चण्डत्वमुग्रता । वधबन्धशिरःकम्पभर्त्सनोत्ताडनादिकृत् ॥ ऋBह्र्स्_२,४.१५५ ॥ तत्र अपराधाद्, यथा स्फुरति मयि भुजङ्गीगर्भविश्रंसिकीर्तौ विरचयति मद्ईशे किल्बिषं कालियोऽपि । हुतभुजि बत कुर्यां जाठरे वौषडेनं सपदि दनुजहन्तुः किन्तु रोषाद्बिभेमि ॥ ऋBह्र्स्_२,४.१५६ ॥ दुरुक्तितो, यथा सहदेवोक्तिः प्रभवति विबुधानामग्रिमस्याग्रपूजां न हि दनुजरिपोर्यः प्रौङ्धकीर्तेर्विसोढुम् । कटुतरयमदण्डोद्दण्डरोचिर्मयासौ शिरसि पृथुनि तस्य न्यस्यते सव्यपादः ॥ ऋBह्र्स्_२,४.१५७ ॥ यथा वा बलदेवोक्तिः रताः किल नृपासने क्षितिपलक्षभुक्तोज्झिते खलाः कुरुकुलाधमाः प्रभुमजाण्डकोटिष्वमी । हहा बत विडम्बना शिव शिवाद्य नः शृण्वतां हठादिह कटाक्षयन्त्यखिलवन्द्यमप्यच्युतम् ॥ ऋBह्र्स्_२,४.१५८ ॥ अथ (२८) अमर्षः अधिक्षेपापमानादेः स्यादमर्षोऽसहिष्णुता ॥ ऋBह्र्स्_२,४.१५९ ॥ तत्र स्वेदः शिरःकम्पो विवर्णत्वं विचिन्तनम् । उपायान्वेषणाक्रोशवैमुख्योत्ताडनादयः ॥ ऋBह्र्स्_२,४.१६० ॥ तत्र अधिक्षेपाद्, यथा विदग्धमाधवे (२.५३) निर्धौतानामखिलधरणीमाधुरीणां धूरीणा कल्याणी मे निवसति वधूः पश्य पार्श्वे नवोढा । अन्तर्गोष्ठे चटुल नटयन्नत्र नेत्रत्रिभागं निःशङ्कस्त्वं भ्रमसि भविता नाकुलत्वं कुतो मे ॥ ऋBह्र्स्_२,४.१६१ ॥ अपमानाद्, यथा पद्मोक्तिः कदम्बवनतस्कर द्रुतमपेहि किं चाटुभिर् जने भवति मद्विधे परिभवो हि नातः परः । त्वया व्रजमृगीदृशां सदसि हन्त चन्द्रावली वरापि यदयोग्यया स्फुटमदूषि ताराख्यया ॥ ऋBह्र्स्_२,४.१६२ ॥ आदिशब्दाद्वञ्चनादपि, यथा श्रीदशमे (१०.३१.१६) पतिसुतान्वयभार्तृबान्धवान् अतिविलङ्घ्य तेऽन्त्यच्युतागताः । गतिविदस्तवोद्गीतमोहिताः कितव योषितः कस्त्यजेन्निशि ॥ ऋBह्र्स्_२,४.१६३ ॥ अथ (२९) असूया द्वेषः परोदयेऽसूयान्यसौभाग्यगुणादिभिः । तत्रेर्ष्यानादराक्षेपा दोषारोपो गुणेष्वपि । अपवृत्तिस्तिरोवीक्षा भ्रुवोर्भङ्गुरतादयः ॥ ऋBह्र्स्_२,४.१६४ ॥ तत्र अन्यसौभाग्येन, यथा पद्यावल्याम् (३०२) {*आत्त्रिबुतेद्तो डामोदर इन् ড়द्यावली. आल्सो fओउन्दिनामरु ५५; ष्Kं २.१४०.५ केशटस्य; ष्म्व्८६.१४; षाह्ड्३.१०५ (असनेxअम्प्ले ओf मद); डश २.२२.} मा गर्वमुद्वह कपोलतले चकास्ति कृष्णस्वहस्तलिखिता नवमञ्जरीति । अन्यापि किं न सखि भाजनमीदृशीनां वैरी न चेद्भवति वेपथुरन्तरायः ॥ ऋBह्र्स्_२,४.१६५ ॥ यथा वा श्रीदशमे (१०.३०.३०) तस्या अमूनि नः क्षोभं कुर्वन्त्युच्चैः पदानि यत् । यैकापहृत्य गोपीनां रहो भुङ्क्तेऽच्युताधरम् ॥ ऋBह्र्स्_२,४.१६६ ॥ गुणेन, यथा स्वयं पराजयं प्राप्तान् कृष्णपक्षान् विजित्य नः । बलिष्ठा बलपक्षाश्चेद्दुर्बलाः के ततः क्षितौ ॥ ऋBह्र्स्_२,४.१६७ ॥ अथ (३०) चापल्यम् रागद्वेषादिभिश्चित्तलाघवं चापलं भवेत् । तत्राविचारपारुष्यस्वच्छन्दाचरणादयः ॥ ऋBह्र्स्_२,४.१६८ ॥ तत्र रागेण, यथा श्रीदशमे (१०.५२.४१) श्वो भाविनि त्वमजितोद्वहने विदर्भान् गुप्तः समेत्य पृतनापतिभिः परीतः । निर्मथ्य चैद्यमगधेशबलं प्रसह्य मां राक्षसेन विधिनोद्वह वीर्यशुल्काम् ॥ ऋBह्र्स्_२,४.१६९ ॥ द्वेषेण, यथा वंशीपूरेण कालिन्द्याः सिन्धुं विन्दतु वाहिता । गुरोरपि पुरो नीवीं या भ्रंशयति सुभ्रुवाम् ॥ ऋBह्र्स्_२,४.१७० ॥ अथ (३१) निद्रा चिन्तालस्यनिसर्गक्लमादिभिश्चित्तमीलनं निद्रा । तत्राङ्गभङ्गजृम्भाजाड्यश्वासाक्षिमीलनानि स्युः ॥ ऋBह्र्स्_२,४.१७१ ॥ तत्र चिन्तया, यथा लोहितायति मार्तण्डे वेणुध्वनिमशृण्वती । चिन्तयाक्रान्तहृदया निदद्रौ नन्दगेहिनी ॥ ऋBह्र्स्_२,४.१७२ ॥ आलस्येन, यथा दामोदरस्य बन्धनकर्मभिरतिनिःसहाङ्गलतिकेयम् । दरविघूर्णितोत्तमाङ्गा कृताङ्गभङ्गा व्रजेश्वरी स्फुरति ॥ ऋBह्र्स्_२,४.१७३ ॥ निसर्गेण, यथा अघहर तव वीर्यप्रोषिताशेषचिन्ताः परिहृतगृहवास्तुद्वारबन्धानुबद्धाः । निजनिजमिह रात्रौ प्राङ्गनं शोभयन्तः सुखमविचलद्अङ्गाः शेरते पश्य गोपाः ॥ ऋBह्र्स्_२,४.१७४ ॥ क्लमेन, यथा सङ्क्रान्तधातुचित्रा सुरतान्ते सा नितान्ततान्ताऽद्य । वक्षसि निक्षिप्ताङ्गी हरेर्विशाखा ययौ निद्राम् ॥ ऋBह्र्स्_२,४.१७५ ॥ युक्तास्य स्फूर्तिमात्रेण निर्विशेषेण केनचित् । हृन्मीलनात्पुरोऽवस्था निद्रा भक्तेषु कथ्यते ॥ ऋBह्र्स्_२,४.१७६ ॥ अथ (३२) सुप्तिः सुप्तिर्निद्राविभावा स्यान्नानार्थानुभवात्मिका । इन्द्रियोपरतिश्वासनेत्रसंमीलनादिकृत् ॥ ऋBह्र्स्_२,४.१७७ ॥ यथा कामं तामरसाक्ष केलिविततिः प्रादुष्कृता शैशवी दर्पः सर्पपतेस्तदस्य तरसा निर्धूयतामुद्धूरः । इत्युत्स्वप्नगिरा चिराद्यदुसभां विस्मापयन् स्मेरयन् निःश्वासेन दरोत्तरङ्गद्उदरं निद्रां गतो लाङ्गली ॥ ऋBह्र्स्_२,४.१७८ ॥ अथ (३३) बोधः अविद्यामोहनिद्रादेर्ध्वंसोद्बोधः प्रबुद्धता ॥ ऋBह्र्स्_२,४.१७९ ॥ तत्र अविद्याध्वंसतः अविद्याध्वंसतो बोधो विद्योदयपुरःसरः । अशेषक्लेशविश्रान्तिस्वरूपावगमादिकृत् ॥ ऋBह्र्स्_२,४.१८० ॥ यथा विन्दन् विद्यादीपिकां स्वस्वरूपं बुद्ध्वा सद्यः सत्यविज्ञानरूपम् । निष्प्रत्यूहस्तत्परं ब्रह्म मूर्तं सान्द्रानन्दाकारमन्वेषयामि ॥ ऋBह्र्स्_२,४.१८१ ॥ मोहध्वंसतः बोधो मोहक्षयाच्छब्दगन्धस्पर्शरसैर्हरेः । दृग्उन्मीलनरोमाञ्चधरोत्थानादिकृद्भवेत् ॥ ऋBह्र्स्_२,४.१८२ ॥ तत्र शब्देन, यथा प्रथमदर्शनरूढसुखावली कवलितेन्द्रियवृत्तिरभूदियम् । अघभिदः किल नाम्न्युदिते श्रुतौ ललितयोदमिमीलदिहाक्षिणी ॥ ऋBह्र्स्_२,४.१८३ ॥ गन्धेन, यथा अचिरमघहरेण त्यागतः स्रस्तगात्री वनभुवि शवलाङ्गी शान्तनिःश्वासवृत्तिः । प्रसरति वनमाला सौरभे पश्य राधा पुलकिततनुरेषा पांशुपुञ्जादुदस्थात् ॥ ऋBह्र्स्_२,४.१८४ ॥ स्पर्शेन, यथा असौ पाणिस्पर्शो मधुरमसृणः कस्य विजयी विशीर्यन्त्याः सौरपुलिनवनमालोक्य मम यः । दुरन्तामुद्धूय प्रसभमभितो वैशसमयीं द्रुतं मूर्च्छामन्तः सखि सुखमयीं पल्लवयति ॥ ऋBह्र्स्_२,४.१८५ ॥ रसेन, यथा अन्तर्हिते त्वयि बलानुज रासकेलौ स्रस्ताङ्गयष्टिरजनिष्ट सखी विसंज्ञा । ताम्बूलचर्वितमवाप्य तवाम्बुजाक्षी न्यस्तं मया मुखपुटे पुलकोज्ज्वलासीत् ॥ ऋBह्र्स्_२,४.१८६ ॥ निद्राध्वंसतः बोधो निद्राक्षयात्स्वप्ननिद्रापूर्तिस्वनादिभिः । तत्राक्षिमर्दनं शय्यामोक्षोऽङ्गवलनादयः ॥ ऋBह्र्स्_२,४.१८७ ॥ तत्र स्वप्नेन, यथा इयं ते हासश्रीर्विरमतु विमुञ्चाञ्चलमिदं न यावद्वृद्धायै स्फुटमभिदधे त्वच्चटुलताम् । इति स्वप्ने जल्पन्त्यचिरमवबुद्धा गुरुमसौ पुरो दृष्ट्वा गौरी नमितमुखबिम्बा मुहुरभूत् ॥ ऋBह्र्स्_२,४.१८८ ॥ निद्रापूर्त्या, यथा दूती चागात्तद्आगारं जजागार च राधिका । तूर्णं पुण्यवतीनां हि तनोति फलमुद्यमः ॥ ऋBह्र्स्_२,४.१८९ ॥ स्वनेन, यथा दूराद्विद्रावयन्निद्रामरालीर्गोपसुभ्रुवाम् । सारङ्गरङ्गदं रेजे वेणुवारिदगर्जितम् ॥ ऋBह्र्स्_२,४.१९० ॥ इति भावास्त्रयस्त्रिंशत्कथिता व्यभिचारिणः । श्रेष्ठमध्यकनिष्ठेषु वर्णनीया यथोचितम् ॥ ऋBह्र्स्_२,४.१९१ ॥ मात्सर्योद्वेगदम्भेर्ष्या विवेको निर्णयस्तथा । क्लैब्यं क्षमा च कुतुकमुत्कण्ठा विनयोऽपि च ॥ ऋBह्र्स्_२,४.१९२ ॥ संशयो धार्ष्ट्यमित्याद्या भावा ये स्युः परेऽपि च । उक्तेष्वन्तर्भवन्तीति न पृथक्त्वेन दर्शिताः ॥ ऋBह्र्स्_२,४.१९३ ॥ तथा हि असूयायां तु मात्सर्यं त्रासेऽप्युद्वेग एव तु । दम्भस्तथावहित्थायामीर्ष्यामर्षे मतावुभौ । विवेको निर्णयश्चेमौ दैन्ये क्लैब्यं क्षमा धृतौ ॥ ऋBह्र्स्_२,४.१९४ ॥ औत्सुक्ये कुतुकोत्कण्ठे लज्जायां विनयस्तथा । संशयोऽन्तर्भवेत्तर्के तथा धार्ष्ट्यं च चापले ॥ ऋBह्र्स्_२,४.१९५ ॥ एषां सञ्चारिभावानां मध्ये कश्चन कस्यचित् । विभावश्चानुभावश्च भवेदेव परस्परम् ॥ ऋBह्र्स्_२,४.१९६ ॥ निर्वेदे तु यथेर्ष्याया भवेदत्र विभावता । असूयायां पुनस्तस्या व्यक्तमुक्तानुभावता ॥ ऋBह्र्स्_२,४.१९७ ॥ औत्सुक्यं प्रति चिन्तायाः कथितात्रानुभावता । निद्रां प्रति विभावत्वमेवं ज्ञेयः परेऽप्यमी ॥ ऋBह्र्स्_२,४.१९८ ॥ एषां च सात्त्विकानां च तथा नानाक्रियाततेः । कार्यकारणभावस्तु ज्ञेयः प्रायेण लोकतः ॥ ऋBह्र्स्_२,४.१९९ ॥ निन्दायास्तु विभावत्वं वैवर्ण्यामर्षयोर्मतम् । असूयायां पुनस्तस्याः कथितैवानुभावता ॥ ऋBह्र्स्_२,४.२०० ॥ प्रहारस्य विभावत्वं संमोहप्रलयौ प्रति । औग्र्यं प्रत्यनुभावत्वमेवं ज्ञेयाः परेऽपि च ॥ ऋBह्र्स्_२,४.२०१ ॥ त्रासनिद्राश्रमालस्यमदभिद्बोधवर्जिनाम् । सञ्चारिणामिह क्वापि भवेद्रत्य्अनुभावता ॥ ऋBह्र्स्_२,४.२०२ ॥ साक्षाद्रतेर्न सम्बन्धः षड्भिस्त्रासादिभिः सह । स्यात्परस्परया किन्तु लीलानुगुणताकृते ॥ ऋBह्र्स्_२,४.२०३ ॥ वितर्कमतिनिर्वेदधृतीनां स्मृतिहर्षयोः । बोधभिद्दैन्यसुप्तीनां क्वचिद्रतिविभावता ॥ ऋBह्र्स्_२,४.२०४ ॥ परतन्त्राः स्वतन्त्राश्चेत्युक्ताः सञ्चारिणो द्विधा ॥ ऋBह्र्स्_२,४.२०५ ॥ तत्र परतन्त्राः वरावरतया प्रोक्ताः परतन्त्रा अपि द्विधा ॥ ऋBह्र्स्_२,४.२०६ ॥ तत्र वरः साक्षाद्व्यवहितश्चेति वरोऽप्येष द्विधोदितः ॥ ऋBह्र्स्_२,४.२०७ ॥ तत्र साक्षात् मुख्यामेव रतिं पुष्णन् साक्षादित्यभिधीयते ॥ ऋBह्र्स्_२,४.२०८ ॥ यथा तनुरुहाली च तनुश्च नृत्यं तनोति मे नाम निशम्य यस्य । अपश्यतो माथुरमण्डलं तद् व्यर्थेन किं हन्त दृशोर्द्वयेन ॥ ऋBह्र्स्_२,४.२०९ ॥ अथ व्यवहितः पुष्णाति यो रतिं गौणीं स व्यवहितो मतः ॥ ऋBह्र्स्_२,४.२१० ॥ यथा धिगस्तु मे भुजद्वन्द्वं भीमस्य परिघोपमम् । माधवाक्षेपिणं दुष्टं यत्पिनष्टि न चेदिपम् ॥ ऋBह्र्स्_२,४.२११ ॥ निर्वेदः क्रोधवश्यत्वादयं व्यवहितो रतेः ॥ ऋBह्र्स्_२,४.२१२ ॥ अथ अवरः रसद्वयस्याप्यङ्गत्वमगच्छन्नवरो मतः ॥ ऋBह्र्स्_२,४.२१३ ॥ यथा लेलिह्यमानं वदनैर्ज्वलद्भिर् जगन्ति दंष्ट्रास्फुटद्उत्तमाङ्गैः । अवेक्ष्य कृष्णं धृतविश्वरूपं न स्वं विशुष्यन् स्मरति स्म जिष्णुः ॥ ऋBह्र्स्_२,४.२१४ ॥ घोरक्रियाद्य्अनुभावादाच्छाद्य सहजां रतिम् । दुर्वराविरभूद्भीतिर्मोहोऽयं भीवशस्ततः ॥ ऋBह्र्स्_२,४.२१५ ॥ अथ स्वतन्त्राः सदैव पारतन्त्र्येऽपि क्वचिदेषां स्वतन्त्रता । भूपालसेवकस्येव प्रवृत्तस्य करग्रहे ॥ ऋBह्र्स्_२,४.२१६ ॥ भावज्ञै रतिशून्यश्च रत्य्अनुस्पर्शनस्तथा । रतिगन्धिश्च ते त्रेधा स्वतन्त्राः परिकीर्तिताः ॥ ऋBह्र्स्_२,४.२१७ ॥ तत्र रतिशून्यः जनेषु रतिशून्येषु रतिशून्यो भवेदसौ ॥ ऋBह्र्स्_२,४.२१८ ॥ यथा श्रीदशमे (१०.२३.३९) धिग्जन्म नस्त्रिवृद्विद्यां धिग्व्रतं धिग्बहुज्ञताम् । धिक्कुलं धिक्क्रियादीक्षां विमुखा ये त्वधोक्षजे ॥ ऋBह्र्स्_२,४.२१९ ॥ अत्र स्वतन्त्रो निर्वेदः । तत्र रत्य्अनुस्पर्शनः यः स्वतो रतिगन्धेन विहीनोऽपि प्रसङ्गतः । पश्चाद्रतिं स्पृशेदेष रत्य्अनुस्पर्शनो मतः ॥ ऋBह्र्स्_२,४.२२० ॥ यथा गरिष्ठारिष्टटङ्कारैर्विधुरा वधिरायिता । हा कृष्ण पाहि पाहीति चुक्रोशाभीरबालिका ॥ ऋBह्र्स्_२,४.२२१ ॥ अत्र त्रासः । अथ रतिगन्धिः यः स्वातन्त्र्येऽपि तद्गन्धं रतिगन्धिर्व्यनक्ति सः ॥ ऋBह्र्स्_२,४.२२२ ॥ यथा पीतांशुकं परिचिनोमि धृतं त्वयाङ्गे सङ्गोपनाय न हि नप्त्रि विधेहि यत्नम् । इत्यार्यया निगदिता नमितोत्तमाङ्गा राधावगुण्ठितमुखी तरसा तदासीत् ॥ ऋBह्र्स्_२,४.२२३ ॥ अत्र लज्जा । आभासः पुनरेतेषामस्थाने वृत्तितो भवेत् । प्रातिकूल्यमनौचित्यमस्थानत्वं द्विधोदितम् ॥ ऋBह्र्स्_२,४.२२४ ॥ तत्र प्रातिकूल्यम् विपक्षे वृत्तिरेतेषां प्रातिकूल्यमितीर्यते ॥ ऋBह्र्स्_२,४.२२५ ॥ यथा गोपोऽप्यशिक्षितरणोऽपि तमश्वदैत्यं हन्ति मे हन्त मम जीवितनिर्विशेषम् । क्रीडाविनिर्जितसुराधिपतेरलं मे दुर्जीवितेन हतकंसनराधिपस्य ॥ ऋBह्र्स्_२,४.२२६ ॥ अत्र निर्वेदस्याभासः । यथा वा डुण्डभो जलचरः स कालियो गोष्ठभूभृदपि लोष्ट्रसोदरः । तत्र कर्म किमिवाद्भुतं जने येन मूर्ख जगदीशतेर्यते ॥ ऋBह्र्स्_२,४.२२७ ॥ अत्रासूयायाः । अथ अनौचित्यम् असत्यत्वमयोग्यत्वमनौचित्यं द्विधा भवेत् । अप्राणिनि भवेदाद्यः तिर्यग्आदिषु चान्तिमम् ॥ ऋBह्र्स्_२,४.२२८ ॥ तत्र अप्राणिनि, यथा छाया न यस्य सकृदप्युपसेविताभूत् कृष्णेन हन्त मम तस्य धिगस्तु जन्म । मा त्वं कदम्ब विधुरो भव कालियाहिं मृद्नन् करिष्यति हरिश्चरितार्थतां ते ॥ ऋBह्र्स्_२,४.२२९ ॥ अत्र निर्वेदस्य । तिरश्चि, यथा अधिरोहतु कः पक्षी कक्षामपरो ममाद्य मेध्यस्य । हित्वापि तार्क्ष्यपक्सं भजते पक्षं हरिर्यस्य ॥ ऋBह्र्स्_२,४.२३० ॥ अत्र गर्वस्य । वहमानेष्वपि सदा ज्ञानविज्ञानमाधुरीम् । कदम्बादिषु सामान्यदृष्ट्य्आभासत्वमुच्यते ॥ ऋBह्र्स्_२,४.२३१ ॥ भावानां क्वचिदुत्पत्तिसन्धिशावल्यशान्तयः । दशाश्चतस्र एतासामुत्पत्तिस्त्विह सम्भवः ॥ ऋBह्र्स्_२,४.२३२ ॥ यथा मण्डले किमपि चण्डमरीचेर् लोहितायति निशम्य यशोदा । वैणवीं ध्वनिधुरामविदूरे प्रस्रवस्तिमितकञ्चुलिकासीत् ॥ ऋBह्र्स्_२,४.२३३ ॥ अत्र हर्षोत्पत्तिः । यथा वा त्वयि रहसि मिलन्त्यां सम्भ्रमन्यासभुग्नाप्य् उषसि सखि तवाली मेखला पश्य भाति । इति विवृतरहस्ये कुञ्चितभ्रूर् दृशमनृजु किरन्ती राधिका वः पुनातु ॥ ऋBह्र्स्_२,४.२३४ ॥ अत्रासूयोत्पत्तिः । अथ सन्धिः सरूपयोर्भिन्नयोर्वा सन्धिः स्याद्भावयोर्युतिः ॥ ऋBह्र्स्_२,४.२३५ ॥ तत्र सरूपयोः सन्धिः सन्धिः सरूपयोस्तत्र भिन्नहेतूत्थयोर्मतः ॥ ऋBह्र्स्_२,४.२३६ ॥ यथा राक्षसीं निशि निशाम्य निशान्ते गोकुलेशगृहिणी पतिताङ्गीम् । तत्कुचोपरि सुतं च हसन्तं हन्त निश्चलतनुः क्षणमासीत् ॥ ऋBह्र्स्_२,४.२३७ ॥ अत्रानिष्टेष्टसंवीक्षाकृतयोर्जाड्ययोर्युतिः । अथ भिन्नयोः भिन्नयोर्हेतुनैकेन भिन्नेनाप्युपजातयोः ॥ ऋBह्र्स्_२,४.२३८ ॥ अथ एकहेतुजयोः, यथा दुर्वारचापलोऽयं धावन्नन्तर्बहिश्च गोष्ठस्य । शिशुरकुतश्चिद्भीतिर्धिनोति हृदयं दुनोति च मे ॥ ऋBह्र्स्_२,४.२३९ ॥ तत्र हर्षशङ्कयोः । तत्र भिन्नहेतुजयोः, यथा विलसन्तमवेक्ष्य देवकी सुतमुत्फुल्लविलोचनं पुरः । प्रबलामपि मल्लमण्डलीं हिममुष्णं च जलं दृशोर्दधे ॥ ऋBह्र्स्_२,४.२४० ॥ अत्र हर्षविषादयोः सन्धिः । एकेन जायमानानामनेकेन च हेतुना । बहूनामपि भावानां सन्धिः स्फुटमवेक्ष्यते ॥ ऋBह्र्स्_२,४.२४१ ॥ तत्र एकहेतुजानां, यथा निरुद्धा कालिन्दीतटभुवि मुकुन्देन बलिना हठादन्तःस्मेरां तरलतरतारोज्ज्वलकलाम् । अभिव्यक्तावज्ञामरुणकुटिलापाङ्गसुषमां दृशं न्यस्यन्त्यस्मिन् जयति वृषभानोः कुलमणिः ॥ ऋBह्र्स्_२,४.२४२ ॥ अत्र हर्षौत्सुक्यगर्वामर्षासूयानां सन्धिः । अनेकहेतुजानां, यथा परिहितहरिहारा वीक्ष्य राधा सवित्रीं निकटभुवि तथाग्रे तर्कभाक्स्मेरपद्माम् । हरिमपि दरदूरे स्वामिनं तत्र चासीन् महसि विनतवक्रप्रस्फुरम्लानवक्त्रा ॥ ऋBह्र्स्_२,४.२४३ ॥ अत्र लज्जामर्षहर्षविषादानां सन्धिः । अथ शावल्यम् शवलत्वं तु भावानां संमर्दः स्यात्परस्परम् ॥ ऋBह्र्स्_२,४.२४४ ॥ यथा शक्तः किं नाम कर्तुं स शिशुरहह मे मित्रपक्षानधाक्षीद् आतिष्ठेयं तमेव द्रुतमथ शरणं कुर्युरेतन्न वीराः । आं दिव्या मल्लगोष्ठी विहरति स करेणोद्दधाराद्रिवर्यं कुर्यामद्यैव गत्वा व्रजभुवि कदनं हा ततः कम्पते धीः ॥ ऋBह्र्स्_२,४.२४५ ॥ अत्र गर्वविषाददैन्यमतिस्मृतिशङ्कामर्षत्रासानां शावल्यम् । यथा वा धिग्दीर्घे नयने ममास्तु मथुरा याभ्यां न सा प्रेक्ष्यते विद्येयं मम किङ्करीकृतनृपा कालस्तु सर्वङ्करः । लक्ष्मीकेलिगृहं गृहं मम हहा नित्यं तनुः क्षीयते सद्मन्येव हरिं भजेय हृदयं वृन्दाटवी कर्षति ॥ ऋBह्र्स्_२,४.२४६ ॥ अत्र निर्वेदगर्वशङ्काधृतिविषादमत्य्औत्सुक्यानां शावल्यम् । अथ शान्तिः अत्यारूढस्य भावस्य विलयः शान्तिरुच्यते ॥ ऋBह्र्स्_२,४.२४७ ॥ यथा विधुरितवदना विदूनभासस् तमघहरं गहने गवेषयन्तः । मृदुकलमुरलीं निशम्य शैले व्रजशिशवः पुलकोज्ज्वला बभूवुः ॥ ऋBह्र्स्_२,४.२४८ ॥ अत्र विषादशान्तिः । शब्दार्थरसवैचित्री वाचि काचन नास्ति मे । यथाकथञ्चिदेवोक्तं भावोदाहरणं परम् ॥ ऋBह्र्स्_२,४.२४९ ॥ त्रयस्त्रिंशदिमेऽष्टौ च वक्ष्यन्ते स्थायिनश्च ये । मुख्यभावाभिधास्त्वेकचत्वारिंशदमी स्मृताः ॥ ऋBह्र्स्_२,४.२५० ॥ शरीरेन्द्रियवर्गस्य विकारणां विधायकाः । भावाविर्भावजनिताश्चित्तवृत्तय ईरिताः ॥ ऋBह्र्स्_२,४.२५१ ॥ क्वचित्स्वाभाविको भावः कश्चिदागन्तुकः क्वचित् । यस्तु स्वाभाविको भावः स व्याप्यान्तर्बहिःस्थितः ॥ ऋBह्र्स्_२,४.२५२ ॥ मञ्जिष्ठाद्ये यथा द्रव्ये रागस्तन्मय ईक्ष्यते । अत्र स्यान्नाममात्रेण विभावस्य विभावता ॥ ऋBह्र्स्_२,४.२५३ ॥ एतेन सहजेनैव भावेनानुगता रतिः । एकरूपापि या भक्तेर्विविधा प्रतिभात्यसौ ॥ ऋBह्र्स्_२,४.२५४ ॥ आगन्तुकस्तु यो भावः पटादौ रक्तिमेव सः । तैस्तैर्विभावैरेवायं धीयते दीप्यतेऽपि च ॥ ऋBह्र्स्_२,४.२५५ ॥ विभावनादिवैशिष्ट्याद्भक्तानां भेदतस्तथा । प्रायेण सर्वभावानां वैशिष्ट्यमुपजायते ॥ ऋBह्र्स्_२,४.२५६ ॥ विविधानां तु भक्तानां वैशिष्ट्याद्विविधं मनः । मनोऽनुसाराद्भावानां तारतम्यं किलोदये ॥ ऋBह्र्स्_२,४.२५७ ॥ चित्ते गरिष्ठे गम्भीरे महिष्ठे कर्कशादिके । सम्यग्उन्मीलिताश्चामी न लक्ष्यन्ते स्फुटं जनैः ॥ ऋBह्र्स्_२,४.२५८ ॥ चित्ते लघिष्ठे चोत्ताने क्षोदिष्ठे कोमलादिके । मनाग्उन्मीलिताश्चामी लक्ष्यन्ते बहिरुल्बणाः ॥ ऋBह्र्स्_२,४.२५९ ॥ गरिष्ठं स्वर्णपिण्डाभं लघिष्ठं तुलपिण्डवत् । चित्तयुग्मेऽत्र विज्ञया भावस्य पवनोपमा ॥ ऋBह्र्स्_२,४.२६० ॥ गम्भीरं सिन्धुवच्चित्तमुत्तानं पल्वलादिवत् । चित्तद्वयेऽत्र भावस्य महाद्रिशिखरोपमा ॥ ऋBह्र्स्_२,४.२६१ ॥ पत्तनाभं महिष्ठं स्यात्क्षोदिष्ठं तु कुटिरवत् । चित्तयुग्मेऽत्र भावस्य दीपेनेभेन वोपमा ॥ ऋBह्र्स्_२,४.२६२ ॥ कर्कशं त्रिविधं प्रोक्तं वज्रं स्वर्णं तथा जतु । चित्तत्रयेऽत्र भावस्य ज्ञेया वैश्वानरोपमा ॥ ऋBह्र्स्_२,४.२६३ ॥ अत्यन्तकठिनं वज्रमकुतश्चन मार्दवम् । ईदृशं तापसादीनां चित्तं तावदवेक्ष्यते ॥ ऋBह्र्स्_२,४.२६४ ॥ स्वर्णं द्रवति भावाग्नेस्तापेनातिगरीयसा । जतु द्रवत्वमायाति तापलेशेन सर्वतः ॥ ऋBह्र्स्_२,४.२६५ ॥ कोमलं च त्रिधैवोक्तं मदनं नवनीतकम् । अमृतं चेति भावोऽत्र प्रायः सूर्यातपायते ॥ ऋBह्र्स्_२,४.२६६ ॥ द्रवेदत्राद्ययुगलमातपेन यथायथम् । द्रवीभूतं स्वभावेन सर्वदैवामृतं भवेत् । गोविन्दप्रेष्ठवर्याणां चित्तं स्यादमृतं किल ॥ ऋBह्र्स्_२,४.२६७ ॥ कृष्णभक्तिविशेषस्य गरिष्ठत्वादिभिर्गुणैः । समवेतं सदामीभिर्द्वित्रैरपि मनो भवेत् ॥ ऋBह्र्स्_२,४.२६८ ॥ किन्तु सुष्ठु महिष्ठत्वं भावो बाढमुपागतः । सर्वप्रकारमेवेदं चित्तं विक्षोभयत्यलम् ॥ ऋBह्र्स्_२,४.२६९ ॥ यथा दानकेलिकौमुद्याम् (४) गभीरोऽप्यश्रान्तं दुरधिगमपारोऽपि नितराम् अहार्यां मर्यादां दधदपि हरेरास्पदमपि । सतां स्तोमः प्रेमण्युदयति समग्रे स्थगयितुं विकारं न स्फारं जलनिधिरिवेन्दौ प्रभवति ॥ ऋBह्र्स्_२,४.२७० ॥ इति श्रीश्रीभक्तिरसामृतसिन्धौ दक्षिणविभागे भक्तिरससामान्यनिरूपणे व्यभिचारिलहरी चतुर्थी ॥ ___________________________________________________ (२.५) स्थायिभावाख्या पञ्चमलहरी अविरुद्धान् विरुद्धांश्च भावान् यो वशतां नयन् । सुराजेव विराजेत स स्थायी भाव उच्यते ॥ ऋBह्र्स्_२,५.१ ॥ स्थायी भावोऽत्र स प्रोक्तः श्रीकृष्णविषया रतिः । मुख्या गौणी च सा द्वेधा रसज्ञैः परिकीर्तिता ॥ ऋBह्र्स्_२,५.२ ॥ तत्र मुख्या शुद्धसत्त्वविशेषात्मा रतिर्मुख्येति कीर्तिता । मुख्यापि द्विविधा स्वार्था परार्था चेति कीर्त्यते ॥ ऋBह्र्स्_२,५.३ ॥ तत्र स्वार्था अविरुद्धैः स्फुटं भावैः पुष्णात्यात्मानमेव या । विरुद्धैर्दुःखग्लानिः सा स्वार्था कथिता रतिः ॥ ऋBह्र्स्_२,५.४ ॥ अथ परार्था अविरुद्धं विरुद्धं च सङ्कुचन्ती स्वयं रतिः । या भावमनुगृह्णाति सा परार्था निगद्यते ॥ ऋBह्र्स्_२,५.५ ॥ शुद्धा प्रीतिस्तथा सख्यं वात्सल्यं प्रियतेत्यसौ । स्वपरार्थ्यैव सा मुख्या पुनः पञ्चविधा भवेत् ॥ ऋBह्र्स्_२,५.६ ॥ वैशिष्ट्यं पात्रवैशिष्ट्याद्रतिरेषोपगच्छति । यथार्कः प्रतिबिम्बात्मा स्फटिकादिषु वस्तुषु ॥ ऋBह्र्स्_२,५.७ ॥ तत्र शुद्धा सामान्यासौ तथा स्वच्छा शान्तिश्चेत्यादिमा त्रिधा । एषाङ्गकम्पतानेत्रामीलनोन्मीलनादिकृत् ॥ ऋBह्र्स्_२,५.८ ॥ तत्र सामान्या कञ्चिद्विशेषमप्राप्ता साधारणजनस्य या । बालिकदैश्च कृष्णे स्यात्सामान्या सा रतिर्मता ॥ ऋBह्र्स्_२,५.९ ॥ यथा अस्मिन्मथुरावीथ्यामुदयति मधुरे विरोचने पुरतः । कथस्व सखे म्रदिमानं मानसमदनं किमेति मम ॥ ऋBह्र्स्_२,५.१० ॥ यथा वा त्रिवर्षा बालिका सेयं वर्षीयसि समीक्ष्यताम् । या पुरः कृष्णमालोक्य हुङ्कुर्वत्यभिधावति ॥ ऋBह्र्स्_२,५.११ ॥ अथ स्वच्छा तत्तत्साधनतो नानाविधभक्तिप्रसङ्गतः । साधाकानां तु वैविध्यं यान्ती स्वच्छा रतिर्मता ॥ ऋBह्र्स्_२,५.१२ ॥ यदा यादृशी भक्ते स्यादासक्तिस्तादृशं तदा । रूपं स्फटिकवद्धत्ते स्वच्छासौ तेन कीर्तिता ॥ ऋBह्र्स्_२,५.१३ ॥ यथा क्वचित्प्रभुरिति स्तुवन् क्वचन मित्रमित्युद्धसन् क्वचित्तनय इत्यवन् क्वचन कान्त इत्युल्लसन् । क्वचिन्मनसि भावयन् परम एष आत्मेत्यसाव् अभूद्विविधसेवया विविधवृत्तिरार्यो द्विजः ॥ ऋBह्र्स्_२,५.१४ ॥ अनाचान्तधियां तत्तद्भावनिष्ठा सुखार्णवे । आर्याणामतिशुद्धानां प्रायः स्वच्छा रतिर्भवेत् ॥ ऋBह्र्स्_२,५.१५ ॥ अथ शान्तिः मानसे निर्विकल्पत्वं शम इत्यभिधीयते ॥ ऋBह्र्स्_२,५.१६ ॥ तथ चोक्तम् विहाय विषयोन्मुख्यं निजानन्दस्थितिर्यतः । आत्मनः कथ्यते सोऽत्र स्वभावः शम इत्यसौ ॥ ऋBह्र्स्_२,५.१७ ॥ प्रायः शमप्रधानानां ममतागन्धवर्जिता । परमात्मतया कृष्णे जाता शान्तरतिर्मता ॥ ऋBह्र्स्_२,५.१८ ॥ यथा देवर्षिवीणया पीते हरिलीलामहोत्सवे । सनकस्य तनौ कम्पो ब्रह्मानुभविनोऽप्यभूत् ॥ ऋBह्र्स्_२,५.१९ ॥ यथा वा हरिवल्लभसेवया समन्ताद् अपरवर्गानुभवं किलावधीर्य । घनसुन्दरमात्मनोऽप्यभीष्टं परमं ब्रह्म दिदृक्षते मनो मे ॥ ऋBह्र्स्_२,५.२० ॥ अग्रतो वक्ष्यमाणैस्तु स्वादैः प्रीत्य्आदिसंश्रयैः । रतेरस्या असम्पर्कादियं शुद्धेति भण्यते ॥ ऋBह्र्स्_२,५.२१ ॥ अथ भेदत्रयी हृद्या रतेः प्रीत्य्आदिरीर्यते । गाढानुकूलतोत्पन्ना ममत्वेन सदाश्रिता ॥ ऋBह्र्स्_२,५.२२ ॥ कृष्णभक्तेष्वनुग्राह्यसखिपूज्येष्वनुक्रमात् । त्रिविधेषु त्रयी प्रीतिः सख्यं वत्सलतेत्यसौ ॥ ऋBह्र्स्_२,५.२३ ॥ अत्र नेत्रादिफुल्लत्वजृम्भणोद्घूर्णनादयः । केवला सङ्कुला चेति द्विविधेयं रतित्रयी ॥ ऋBह्र्स्_२,५.२४ ॥ तत्र केवला रत्य्अन्तरस्य गन्धेन वर्जिता केवला भवेत् । व्रजानुगे रसालादौ श्रीदामादौ वयस्यके । गुरौ च व्रजनाथादौ क्रमेणैव स्फुरत्यसौ ॥ ऋBह्र्स्_२,५.२५ ॥ तत्र सङ्कुला एषां द्वयोस्त्रयाणां वा सन्निपातस्तु सङ्कुला । उद्भवादौ च भीमादौ मथुरादौ क्रमेण सा । यस्याधिक्यं भवेद्यत्र स तेन व्यपदिश्यते ॥ ऋBह्र्स्_२,५.२६ ॥ अथ प्रीतिः स्वस्माद्भवन्ति ये न्यूनास्तेऽनुग्राह्या हरेर्मताः । आराध्यत्वात्मिका तेषां रतिः प्रीतिरितीरिता ॥ ऋBह्र्स्_२,५.२७ ॥ तत्रासक्तिकृदन्यत्र प्रीतिसंहारिणी ह्यसौ ॥ ऋBह्र्स्_२,५.२८ ॥ यथा मुकुन्दमालायाम् (८)– दिवि वा भुवि वा ममास्तु वासो नरके वा नरकान्तक प्रकामम् । अवधीरितशारदारविन्दौ चरणौ ते मरणेऽपि चिन्तयामि ॥ ऋBह्र्स्_२,५.२९ ॥ अथ सख्यम् ये स्युस्तुल्या मुकुन्दस्य ते सखायः सतां मताः । साम्याद्विश्रम्भरूपैषां रतिः सख्यमिहोच्यते । परिहासप्रहासादिकारिणीयमयन्त्रणा ॥ ऋBह्र्स्_२,५.३० ॥ यथा मां पुष्पितारण्यदिदृक्षयागतं निमेषविश्लेषविदीर्णमानसाः । ते संस्पृशन्तः पुलकाञ्चितश्रियो दूरादहंपूर्विकयाद्य रेमिरे ॥ ऋBह्र्स्_२,५.३१ ॥ यथा वा श्रीदामदोर्विलसितेन कृतोऽसि कामं दामोदर त्वमिह दर्पधुरा दरिद्रः । सद्यस्त्वया तदपि कथनमेव कृत्वा देव्यै ह्रिये त्रयमदायि ज्वलाञ्जलीनाम् ॥ ऋBह्र्स्_२,५.३२ ॥ अथ वात्सल्यम् गुरवो ये हरेरस्य ते पूज्या इति विश्रुताः । अनुग्रहमयी तेषां रतिर्वात्सल्यमुच्यते । इदं लालनभव्याशीश्चिबुकस्पर्शनादिकृत् ॥ ऋBह्र्स्_२,५.३३ ॥ यथा अग्रासि यन्निरभिसन्धिविरोधभाजः कंसस्य किङ्करगणैर्गिरितोऽप्युदग्रैः । गास्तत्र रक्षितुमसौ गहने मृदुर्मे बालः प्रयात्यविरतं बत किं करोमि ॥ ऋBह्र्स्_२,५.३४ ॥ यथा वा सुतमङ्गुलिभिः स्नुतस्तनी चिबुकाग्रे दधती दयार्द्रधीः । समलालयदालयात्पुरः स्थितिभाजं व्रजराजगेहिनी ॥ ऋBह्र्स्_२,५.३५ ॥ मिथो हरेर्मृगाक्ष्याश्च सम्भोगस्यादिकारणम् । मधुरापरपर्याया प्रियताख्योदिता रतिः । अस्यां कटाक्षभ्रूक्षेपप्रियवाणीस्मितादयः ॥ ऋBह्र्स्_२,५.३६ ॥ यथा गोविन्दविलासे चिरमुत्कुण्ठितमनसो राधामुरवैरिणोः कोऽपि । निभृतनिरीक्षणजन्मा प्रत्याशापल्लवो जयति ॥ ऋBह्र्स्_२,५.३७ ॥ यथोत्तरमसौ स्वादविशेषोल्लासमय्यपि । रतिर्वासनया स्वाद्वी भासते कापि कस्यचित् ॥ ऋBह्र्स्_२,५.३८ ॥ अथ गौणी विभावोत्कर्षजो भावविशेषो योऽनुगृह्यते । सङ्कुचन्त्या स्वयं रत्या स गौणी रतिरुच्यते ॥ ऋBह्र्स्_२,५.३९ ॥ हासो विस्मय उत्साहः शोकः क्रोधो भयं तथा । जुगुप्सा चेत्यसौ भावविशेषः सप्तधोदितः ॥ ऋBह्र्स्_२,५.४० ॥ अपि कृष्णविभावत्वमाद्यषट्कस्य सम्भवेत् । स्याद्देहादिविभावत्वं सप्तम्यास्तु रतेर्वशात् ॥ ऋBह्र्स्_२,५.४१ ॥ हासादावत्र भिन्नेऽपि शुद्धसत्त्वविशेषतः । परार्थाया रतेर्योगाद्रतिशब्दः प्रयुज्यते ॥ ऋBह्र्स्_२,५.४२ ॥ हासोत्तरा रतिर्या स्यात्सा हासरतिरुच्यते । एवं विस्मयरत्य्आद्या विज्ञेया रतयश्च षट् ॥ ऋBह्र्स्_२,५.४३ ॥ कञ्चित्कालं क्वचिद्भक्ते हासाद्याः स्थायिताममी । रत्या चारुकृता यान्ति तल्लीलाद्य्अनुसारतः ॥ ऋBह्र्स्_२,५.४४ ॥ तस्मादनियताधाराः सप्त सामयिका इमे । सहजा अपि लीयन्ते बलिष्ठेन तिरस्कृताः ॥ ऋBह्र्स्_२,५.४५ ॥ काप्यव्यभिचरन्ती सा स्वाधारान् स्वस्वरूपतः । रतिरात्यन्तिकस्थायी भावो भक्तजनेऽ खिले । स्युरेतस्या विनाभावाद्भावाः सर्वे निरर्थकाः ॥ ऋBह्र्स्_२,५.४६ ॥ विपक्षादिषु यान्तोऽपि क्रोधाद्याः स्थायितां सदा । लभन्ते रतिशून्यत्वान्न भक्तिरसयोग्यताम् ॥ ऋBह्र्स्_२,५.४७ ॥ अविरुद्धैरपि स्पृष्टा भावैः सञ्चारिणोऽखिलाः । निर्वेदाद्या विलीयन्ते नार्हन्ति स्थायितां ततः ॥ ऋBह्र्स्_२,५.४८ ॥ इत्यतो मतिगर्वादिभावानां घटते न हि । स्थायिता कैश्चिदिष्टापि प्रमाणं तत्र तद्विदः ॥ ऋBह्र्स्_२,५.४९ ॥ सप्त हासादयस्त्वेते तैस्तैर्नीताः सुपुष्टताम् । भक्तेषु स्थायितां यान्तो रुचिरेभ्यो वितन्वते ॥ ऋBह्र्स्_२,५.५० ॥ तथा चोक्तम् अष्टानामेव भावानां संस्काराधायिता मता । तत्तिरस्कृतसंस्काराः परे न स्थायितोचिताः ॥ ऋBह्र्स्_२,५.५१ ॥ तत्र हासरतिः चेतोविकासो हासः स्याद्वाग्वेषेहादिवैकृतात् । स दृग्विकासनसौष्ठकपोलस्पन्दनादिकृत् ॥ ऋBह्र्स्_२,५.५२ ॥ कृष्णसम्बन्धिचेष्टोत्थः स्वयं सङ्कुचद्आत्मना । प्रत्यानुगृह्यमाणोऽयं हासो हासरतिर्भवेत् ॥ ऋBह्र्स्_२,५.५३ ॥ यथा मया दृगपि नार्पिता सुमुखि दध्नि तुभ्यं शपे सखी तव निरर्गला तदपि मे मुखं जिघ्रति । प्रशाधि तदिमां मुधा च्छलितसाधुमित्यच्युते वदत्यजनि दूतिका हसितरोधने न क्षमा ॥ ऋBह्र्स्_२,५.५४ ॥ अथ विस्मयरतिः लोकोत्तरार्थवीक्षादेर्विस्मयश्चित्तविस्तृतिः । अत्र स्युर्नेत्रविस्तारसाधूक्तिपुलकादयः । पूर्वोक्तरीत्या निष्पन्नः स विस्मयरतिर्भवेत् ॥ ऋBह्र्स्_२,५.५५ ॥ यथा गवां गोपालानामपि शिशुगणः पीतवसनो लसच्छ्रीवत्साङ्कः पृथुभुजचतुष्कैर्धृतरुचिः । कृतस्तोत्रारम्भः स विधिभिरजाण्डालिभिरलं परब्रह्मोल्लासान् वहति किमिदं हन्त किमिदम् ॥ ऋBह्र्स्_२,५.५६ ॥ अथ उत्साहरतिः स्थेयसी साधुभिः श्लाघ्यफले युद्धादिकर्मणि । सत्वरा मानसासक्तिरुत्साह इति कीर्त्यते ॥ ऋBह्र्स्_२,५.५७ ॥ कालानवेक्षणं तत्र धैर्यत्यागोद्यमादयः । सिद्धः पूर्वोक्तविधिना स उत्साह रतिर्भवेत् ॥ ऋBह्र्स्_२,५.५८ ॥ यथा कालिन्दीतटभुवि पत्रशृङ्गवंशी निक्वाणैरिह मुखरीकृताम्बरायाम् । विस्फूर्जन्नघदमनेन योद्धुकामः श्रीदामा परिकरमुद्भटं बबन्ध ॥ ऋBह्र्स्_२,५.५९ ॥ अथ शोकरतिः शोकस्त्विष्टवियोगाद्यैश्चित्तक्लेशभरः स्मृतः । विलापपातनिःश्वासमुखशोषभ्रमादिकृत् । पूर्वोक्तविधिनैवायं सिद्धः शोकरतिर्भवेत् ॥ ऋBह्र्स्_२,५.६० ॥ यथा श्रीदशमे (१०.७.२५) रुदितमनु निशम्य तत्र गोप्यो भृशमनुतप्तधियोऽश्रुपूर्णमुख्यः । रुरुदुरनुपलभ्य नन्दसूनुं पवन उपारतपांशुवर्षवेगे ॥ ऋBह्र्स्_२,५.६१ ॥ यथा वा अवलोक्य फणीन्द्रयन्त्रितं तनयं प्राणसहस्रवल्लभम् । हृदयं न विदीर्यति द्विधा धिगिमां मर्त्यतनोः कठोरताम् ॥ ऋBह्र्स्_२,५.६२ ॥ अथ क्रोधरतिः प्रातिकूल्यादिभिश्चित्तज्वलनं क्रोध ईर्यते । पारुष्यभ्रूकुटीनेत्रलौहित्यादिविकारकृत् ॥ ऋBह्र्स्_२,५.६३ ॥ एवं पूर्वोक्तवत्सिद्धं विदुः क्रोधरतिं बुधाः । द्विधासौ कृष्णतद्वैरिभावत्वेन कीर्तिता ॥ ऋBह्र्स्_२,५.६४ ॥ अथ कृष्णविभावाः, यथा कण्ठसीमनि हरेर्द्युतिभाजं राधिकामणिसरं परिचित्य । तं चिरेण जटिला विकटभ्रू भङ्गभीमतरदृष्टिर्ददर्श ॥ ऋBह्र्स्_२,५.६५ ॥ तद्वैरिविभावाः, यथा अथ कंससहोदरोग्रदावे हरिमभ्युद्यति तीव्रहेतिभाजि । रभसादलिकाम्बरे प्रलम्ब द्विषतोऽभूद्भ्रूकुटीपयोदरेखा ॥ ऋBह्र्स्_२,५.६६ ॥ अथ भयरतिः भयं चित्तातिचाञ्चल्यं मन्तुघोरेक्षणादिभिः । आत्मगोपनहृच्छोषविद्रवभ्रमणादिकृत् ॥ ऋBह्र्स्_२,५.६७ ॥ निष्पन्नं पूर्ववदिदं बुधा भयरतिं विदुः । एषापि क्रोधरतिवद्द्विविधा कथिता बुधैः ॥ ऋBह्र्स्_२,५.६८ ॥ तत्र कृष्णविभावाः याचितः पटिमभिः स्यमन्तकं शौरिणा सदसि गान्दिनीसुतः । वस्त्रगूढमणिरेष मूढधीस् तत्र शुष्यद्अधरः क्लमं ययौ ॥ ऋBह्र्स्_२,५.६९ ॥ दुष्टविभावजाः, यथा भैरवं ब्रुवति हन्त हन्त गोकुल द्वारि वारिदनिभे वृषासुरे । पुत्रगुप्तिधृतयत्नवैभवा कम्प्रमूर्तिरभवद्व्रजेश्वरी ॥ ऋBह्र्स्_२,५.७० ॥ अथ जुगुप्सारतिः जुगुप्सा स्यादहृद्यानुभवाच्चित्तनिमीलनम् । तत्र निष्ठीवनं वक्त्रकूणनं कुत्सनादयः । रतेरनुग्रहाज्जाता सा जुगुप्सारतिर्मता ॥ ऋBह्र्स्_२,५.७१ ॥ यथा यदवधि मम चेतः कृष्णपादारविन्दे नवनवरसधामन्युद्यतं रन्तुमासीत् । तदवधि बत नारीसङ्गमे स्मर्यमाने भवति मुखविकारः सुष्ठुनिष्ठीवनं च ॥ ऋBह्र्स्_२,५.७२ ॥ रतित्वात्प्रथमैकैव सप्त हासादयस्तथा । इत्यष्टौ स्थायिनो यावद्रसावस्थां न संश्रिताः ॥ ऋBह्र्स्_२,५.७३ ॥ चेत्स्वतन्त्रास्त्रयस्त्रिंशद्भवेयुर्व्यभिचारिणः । इहाष्टौ सात्त्विकाश्चैते भावाख्यास्तानसङ्ख्यकाः ॥ ऋBह्र्स्_२,५.७४ ॥ कृष्णान्वयाद्गुणातीतप्रौढानन्दमया अपि । भान्त्यमी त्रिगुणोत्पन्नसुखदुःखमया इव ॥ ऋBह्र्स्_२,५.७५ ॥ तत्र स्फुरन्ति ह्रीबोधोत्साहाद्याः सात्त्विका इव । तथा राजसवद्गर्वहर्षसुप्तिहसादयः । विषाददीनतामोहशोकाद्यास्तामसा इव ॥ ऋBह्र्स्_२,५.७६ ॥ प्रायः सुखमयाः शीता उष्णा दुःखमया इह । चित्रेयं परमानन्दसान्द्राप्युष्णा रतिर्मता ॥ ऋBह्र्स्_२,५.७७ ॥ शीतैर्भावैर्बलिष्ठैस्तु पुष्टा शीतायते ह्यसौ । उष्णैस्तु रतिरत्युष्णा तापयन्तीव भासते ॥ ऋBह्र्स्_२,५.७८ ॥ रतिर्द्विधापि कृष्णाद्यैः श्रुतैरवगतैः स्मृतैः । तैर्विभावादितां यद्भिस्तद्भक्तेषु रसो भवेत् ॥ ऋBह्र्स्_२,५.७९ ॥ यथा दध्य्आदिकं द्रव्यं शर्करामरिचादिभिः । संयोजनविशेषेण रसालाख्यो रसो भवेत् ॥ ऋBह्र्स्_२,५.८० ॥ तदत्र सर्वथा साक्षात्कृष्णाद्य्अनुभवाद्भुतः । प्रौढानन्दचमत्कारो भक्तैः कोऽप्यनुरस्यते ॥ ऋBह्र्स्_२,५.८१ ॥ स रत्य्आदिविभावाद्यैरेकीभावमयोऽपि सन् । ज्ञप्ततत्तद्विशेषश्च तत्तद्उद्भेदतो भवेत् ॥ ऋBह्र्स्_२,५.८२ ॥ यथा चोक्तम् प्रतीयमानाः प्रथमं विभावाद्यास्तु भागशः । गच्छन्तो रसरूपत्वं मिलिता यान्त्यखण्डताम् ॥ ऋBह्र्स्_२,५.८३ ॥ यथा मरिचखण्डादेरेकीभावे प्रपानके । उद्भासः कस्यचित्क्वापि विभावादेस्तथा रसे ॥ ऋBह्र्स्_२,५.८४ ॥ रते कारणभूता ये कृष्णकृष्णप्रियादयः । स्तम्भाद्याः कारभूताश्च निर्वेदाद्याः सहायकाः ॥ ऋBह्र्स्_२,५.८५ ॥ हित्वा कारणकार्यादिशब्दवाच्यत्वमत्र ते । रसोद्बोधे विभावादिव्यपदेशत्वमाप्नुयुः ॥ ऋBह्र्स्_२,५.८६ ॥ रतेस्तु तत्तद्आस्वादविशेषायातियोग्यताम् । विभावयन्ति कुर्वन्तीत्युक्ता धीरैर्विभावकाः ॥ ऋBह्र्स्_२,५.८७ ॥ तां चानुभावयन्त्यन्तस्तद्वन्त्यास्वादनिर्भराम् । इत्युक्ता अनुभावास्ते कटाक्षाद्याः ससात्त्विकाः ॥ ऋBह्र्स्_२,५.८८ ॥ सञ्चारयन्ति वैचित्रीं नयन्ते तां तथाविधाम् । ये निर्वेदादयो भावास्ते तु सञ्चारिणो मताः ॥ ऋBह्र्स्_२,५.८९ ॥ एतेषां तु तथाभावे भगवत्काव्यनाट्ययोः । सेवामाहुः परं हेतुं केचित्तत्पक्षरागिणः ॥ ऋBह्र्स्_२,५.९० ॥ किन्तु तत्र सुदुस्तर्कमाधुर्याद्भुतसम्पदः । रतेरस्याः प्रभावोऽयं भवेत्कारणमुत्तमम् ॥ ऋBह्र्स्_२,५.९१ ॥ महाशक्तिविलासात्मा भावोऽचिन्त्यस्वरूपभाक् । रत्य्आख्या इत्ययं युक्तो न हि तर्केण बाधितुम् । भारताद्य्उक्तिरेषा हि प्राक्तनैरप्युदाहृता ॥ ऋBह्र्स्_२,५.९२ ॥ यथोक्तमुद्यमपर्वणि [म.भा. ६.६.११] अचिन्त्याः खलु ये भावा न तांस्तर्केण योजयेत् प्रकृतिभ्यः परं यच्च तदचिन्त्यस्य लक्षणम् ॥ ऋBह्र्स्_२,५.९३ ॥ विभावतादीनानीय कृष्णादीन्मञ्जुला रतिः । एतैरेव तथाभूतैः स्वं संवर्धयति स्फुटम् ॥ ऋBह्र्स्_२,५.९४ ॥ यथा स्वैरेव सलिलैः परिपूर्य बलाहकान् । रत्नालयो भवत्येभिर्वृष्टैस्तैरेव वारिधिः ॥ ऋBह्र्स्_२,५.९५ ॥ नवे रत्य्अङ्कुरे जाते हरिभक्तस्य कस्यचित् । विभावत्वादिहेतुत्वं किञ्चित्तत्काव्यनाट्ययोः ॥ ऋBह्र्स्_२,५.९६ ॥ हरेरीषच्छ्रुतिविधौ रसास्वादः सतां भवेत् । रतेरेव प्रभावोऽयं हेतुस्तेषां तथाकृतौ ॥ ऋBह्र्स्_२,५.९७ ॥ माधुर्याद्य्आश्रयत्वेन कृष्णादींस्तनुते रतिः । तथानुभूयमानास्ते विस्तीर्णां कुर्वते रतिम् ॥ ऋBह्र्स्_२,५.९८ ॥ अतस्तस्य विभावादिचतुष्कस्य रतेरपि । अत्र साहायिकं व्यक्तं मिथोऽजस्रमवेक्ष्यते ॥ ऋBह्र्स्_२,५.९९ ॥ किन्त्वेतस्याः प्रभावोऽपि वैरूप्ये सति कुञ्चति । वैरूप्यस्तु विभावादेरनौचित्यमुदीर्यते ॥ ऋBह्र्स्_२,५.१०० ॥ अलौकिक्या प्रकृत्येयं सुदुरूहा रसस्थितिः । यत्र साधारणतया भावाः साधु स्फुरन्त्यमी ॥ ऋBह्र्स्_२,५.१०१ ॥ एषां स्वपरसम्बन्धनियमानिर्णयो हि यः । साधारण्यं तदेवोक्तं भावानां पूर्वसूरिभिः ॥ ऋBह्र्स्_२,५.१०२ ॥ तदुक्तं श्रीभरतेन शक्तिरस्ति विभावादेः कापि साधारणीकृतौ । प्रमाता तद्अभेदेन स्वं यया प्रतिपद्यते ॥ ऋBह्र्स्_२,५.१०३ ॥ इति । दुःखादयः स्फुरन्तोऽपि जातु भान्तः स्वीयतया हृदि । प्रौढानन्दचमत्कारचर्वणामेव तन्वते ॥ ऋBह्र्स्_२,५.१०४ ॥ पराश्रयतयाप्येते जातु भान्तः सुखादयः । हृदये परमानन्दसन्दोहमुपचिन्वते ॥ ऋBह्र्स्_२,५.१०५ ॥ सद्भावश्चेद्विभावादेः किञ्चिन्मात्रस्य जायते । सद्यश्चतुष्टयाक्षेपात्पूर्णतैवोपपद्यते ॥ ऋBह्र्स्_२,५.१०६ ॥ किं च रतिः स्थितानुकार्येषु लौकिकत्वादिहेतुभिः । रसः स्यान्नेति नाट्यज्ञा यदाहुर्युक्तमेव तत् ॥ ऋBह्र्स्_२,५.१०७ ॥ अलौकिकी त्वियं कृष्णरतिः सर्वाद्भुताद्भुता । योगे रसविशेषत्वं गच्छन्त्येव हरिप्रिये ॥ ऋBह्र्स्_२,५.१०८ ॥ वियोगे त्वद्भुतानन्दविवर्तत्वं दधत्यपि । तनोत्येषा प्रगाढार्तिभराभासत्वमूर्जिता ॥ ऋBह्र्स्_२,५.१०९ ॥ तत्रापि वल्लवाधीशनन्दनालम्बना रतिः । सान्द्रानन्दचमत्कारपरमावधिरिष्यते ॥ ऋBह्र्स्_२,५.११० ॥ यत्सुखौघलवागस्त्यः पिबत्येव स्वतेजसा । रेमशमाधुरीसाक्षात्कारानन्दाब्धिमप्यलम् ॥ ऋBह्र्स्_२,५.१११ ॥ किं च परमानन्दतादात्म्याद्रत्यादेरस्य वस्तुतः । रसस्य स्वप्रकाशत्वमखण्डत्वं च सिध्यति ॥ ऋBह्र्स्_२,५.११२ ॥ पूर्वमुक्ताद्द्विधा भ्देदान्मुख्यगौणतया रतेः । भवेद्भक्तिरसोऽप्येष मुख्यगौणतया द्विधा ॥ ऋBह्र्स्_२,५.११३ ॥ पञ्चधापि रतेरैक्यान्मुख्यस्त्वेक इहोदितः । सप्तधात्र तथा गौण इति भक्तिरसोऽष्टधा ॥ ऋBह्र्स्_२,५.११४ ॥ तत्र मुख्यः मुख्यस्तु पञ्चधा शान्तः प्रीतः प्रेयांश्च वत्सलः । मधुरश्चेत्यमी ज्ञेया यथापूर्वमनुत्तमाः ॥ ऋBह्र्स्_२,५.११५ ॥ अथ गौणः हास्योऽद्भुतस्तथा वीरः करुणो रौद्र इत्यपि । भयानकः स बीभत्स इति गौणश्च सप्तधा ॥ ऋBह्र्स्_२,५.११६ ॥ एवं भक्तिरसो भेदाद्द्वयोर्द्वादशधोच्यते । वस्तुतस्तु पुराणादौ पञ्चधैव विलोक्यते ॥ ऋBह्र्स्_२,५.११७ ॥ श्वेतश्चित्रोऽरुणः शोणः श्यामः पाण्डुरपिङ्गलौ । गौरो धूम्रस्तथा रक्तः कालो नीतः क्रमादमी ॥ ऋBह्र्स्_२,५.११८ ॥ कपिलो माधवोपेन्द्रौ नृसिंहो नन्दनन्दनः । बलः कूर्मस्तथा कल्की राघवो भार्गवः किरिः । मीन इत्येषु कथिताः क्रमाद्द्वादश देवताः ॥ ऋBह्र्स्_२,५.११९ ॥ पूर्तेर्विकारविस्तारविक्षेपक्षोभतस्तथा । सर्वभक्तिरसास्वादः पञ्चधा परिकीर्तितः ॥ ऋBह्र्स्_२,५.१२० ॥ पूर्तिः शान्ते विकाशस्तु प्रीतादिष्वपि पञ्चसु । वीरेऽद्भुते च विस्तारो विक्षेपः करुणोग्रयोः । भयानकेऽथ बीभत्से क्षोभो धीरैरुदाहृतः ॥ ऋBह्र्स्_२,५.१२१ ॥ अखण्डसुखरूपत्वेऽप्येषामस्ति क्वचित्क्वचित् । रसेषु गहनास्वादविशेषः कोऽप्यनुत्तमः ॥ ऋBह्र्स्_२,५.१२२ ॥ प्रतीयमाना अप्यज्ञैर्ग्राम्यैः सपदि दुःखवत् । करुणाद्या रसाः प्राज्ञैः प्रौढानन्दमया मताः ॥ ऋBह्र्स्_२,५.१२३ ॥ अलौकिकविभावत्वं नीतेभ्यो रतिलीलया । सद्उक्त्या च सुखं तेभ्यः स्यात्सुव्यक्तमिति स्थितिः ॥ ऋBह्र्स्_२,५.१२४ ॥ तथा च नाट्यादौ करुणादावपि रसे जायते यत्परं सुखम् । सुचेतसामनुभवः प्रमाणं तत्र केवलम् ॥ ऋBह्र्स्_२,५.१२५ ॥ सर्वत्र करुणाख्यस्य रसस्यैवोपपादनात् । भवेद्रामायणादीनामन्यथा दुःखहेतुता ॥ ऋBह्र्स्_२,५.१२६ ॥ तथात्वे रामपादाब्जप्रेमकल्लोलवारिधिः । प्रीत्या रामायणं नित्यं हनुमान् शृणुयात्कथम् ॥ ऋBह्र्स्_२,५.१२७ ॥ अपि च सञ्चारी स्यात्समानो वा कृष्णरत्याः सुहृद्रतिः । अधिका पुष्यमाणा चेद्भावोल्लासा रतिः ॥ ऋBह्र्स्_२,५.१२८ ॥ फल्गुवैराग्यनिर्दग्धाः शुष्कज्ञानाश्च हैतुकाः । मीमांसका विशेषेण भक्त्यास्वादबहिर्मुखाः ॥ ऋBह्र्स्_२,५.१२९ ॥ इत्येष भक्तिरसिकश्चौरादिव महानिधिः । जरन्मीमांसकाद्रक्ष्यः कृष्णभक्तिरसः सदा ॥ ऋBह्र्स्_२,५.१३० ॥ सर्वथैव दुरूहोऽयमभक्तैर्भगवद्रसः । तत्पादाम्बुजसर्वस्वैर्भक्तैरेवानुरस्यते ॥ ऋBह्र्स्_२,५.१३१ ॥ व्यतीत्य भावनावर्त्म यश्चमत्कारकारभूः । हृदि सत्त्वोज्ज्वले बाढं स्वदते स रसो मतः ॥ ऋBह्र्स्_२,५.१३२ ॥ भावनायाः पदे यस्तु बुधेनानन्यबुद्धिना । भाव्यते गाढसंस्कारैश्चित्ते भावः स कथ्यते ॥ ऋBह्र्स्_२,५.१३३ ॥ गोपालरूपशोभां दधदपि रघुनाथभावविस्तारी । तुष्यतु सनातनात्मा दैक्षिणविभागे सुधाम्बुनिधेः ॥ ऋBह्र्स्_२,५.१३४ ॥ इति श्रीश्रीभक्तिरसामृतसिन्धौ दक्षिणविभागे भक्तिरससामान्यनिरूपणे स्थायिभावलहरी पञ्चमी । इति श्रीश्रीभक्तिरसामृतसिन्धौ सामान्यभगवद्भक्तिरसनिरूपको नाम दक्षिणविभागः समाप्तः ॥ ___________________________________________________ (३) मुख्यभक्तिरसनिरूपकः पश्चिमविभागः (३.१) शान्तिभक्तिरसाख्या प्रथमलहरी धृतमुग्धरूपभारो भागवतार्पितपृथुप्रेमा । स मयि सनातनमूर्तिस्तनोतु पुरुषोत्तमस्तुष्टिम् ॥ ऋBह्र्स्_३,१.१ ॥ रसामृताब्धेर्भागेऽत्र तृतीये पश्चिमाभिधे । मुख्यो भक्तिरसः पञ्चविधः शान्तादीरीर्यते ॥ ऋBह्र्स्_३,१.२ ॥ अतोऽत्र पाञ्चविध्येन लहर्यः पञ्च कीर्तिताः । अथामी पञ्च लक्ष्यन्ते रसाः शान्तादयः क्रमात् ॥ ऋBह्र्स्_३,१.३ ॥ तत्र शान्तभक्तिरसः वक्ष्यमाणैर्विभावाद्यैः शमिनां स्वाद्यतां गतः स्थायी शान्तिरतिर्धीरैः शान्तभक्तिरसः स्मृतः ॥ ऋBह्र्स्_३,१.४ ॥ प्रायः स्वसुखजातीयं सुखं स्यादत्र योगिनाम् । किन्त्वात्मसौख्यमघनं घनं त्वीशमयं सुखम् ॥ ऋBह्र्स्_३,१.५ ॥ तत्रापीशस्वरूपानुभवस्यैवोरुहेतुता । दासादिवन्मनोज्ञत्वलीलादेर्न तथा मता ॥ ऋBह्र्स्_३,१.६ ॥ तत्र आलम्बनाः चतुर्भुजश्च शान्ताश्च अस्मिन्नालम्बना मताः ॥ ऋBह्र्स्_३,१.७ ॥ तत्र चतुर्भुजः श्यामाकृतिः स्फुरति चारुचतुर्भुजोऽयम् आनन्दराशिरखिलात्मसिन्धुतरङ्गः । यस्मिन् गते नयनयोः पथि निर्जिहीते प्रत्यक्पदात्परमहंसमुनेर्मनोऽपि ॥ ऋBह्र्स्_३,१.८ ॥ सच्चिदानन्दसान्द्राङ्ग आत्मारामशिरोमणिः । परमात्मा परं ब्रह्म शमो दान्तः शुचिर्वशी ॥ ऋBह्र्स्_३,१.९ ॥ सदा स्वरूपसम्प्राप्तो हतारिगतिदायकः । विभुरित्यादि गुणवानस्मिन्नालम्बनो हरिः ॥ ऋBह्र्स्_३,१.१० ॥ अथ शान्ताः शान्ताः स्युः कृष्णतत्प्रेष्ण्हकारुण्येन रतिं गताः । आत्मारामास्तदीयाध्वबद्धश्रद्धाश्च तापसाः ॥ ऋBह्र्स्_३,१.११ ॥ अथ आत्मारामाः आत्मारामास्तु सनकसनन्दमुखा मताः । प्राधान्यात्सनकादीनां रूपं भक्तिश्च कथ्यते ॥ ऋBह्र्स्_३,१.१२ ॥ तत्र रूपम् ते पञ्चषाब्दबालाभाश्चत्वारस्तेजसोज्ज्वलाः । गौराङ्गा वातवसनाः प्रायेण सहचारिणः ॥ ऋBह्र्स्_३,१.१३ ॥ तत्र च भक्तिः समस्तगुणवर्जिते करणतः प्रतीचीनतां गते किमपि वस्तुनि स्वयमदीपि तावत्सुखम् । न यावदियमद्भुता नवतमालनीलद्युतेर् मुकुन्द सुखचिद्घना तव बभूव साक्षात्कृतिः ॥ ऋBह्र्स्_३,१.१४ ॥ अथ तापसाः भक्तिर्मुक्त्यैव निर्विघ्नेत्यात्तयुक्तविरक्तताः । अनुज्झितमुमुक्षा ये भजन्ते ते तु तापसाः ॥ ऋBह्र्स्_३,१.१५ ॥ यथा कदा शैलद्रोण्यां पृथुलविटपिक्रोडवसतिर् वसानः कौपीनं रचितफलकन्दाशनरुचिः । हृदि ध्यायं ध्यायं मुहुरिह मुकुन्दाभिधमहं चिदानन्दं ज्योतिः क्षणमिव विनेष्यामि रजनीः ॥ ऋBह्र्स्_३,१.१६ ॥ भक्तात्मारामकरुणा प्रपञ्चेनैव तापसाः । शान्ताख्यभावचन्द्रस्य हृद्आकाशे कलां श्रिताः ॥ ऋBह्र्स्_३,१.१७ ॥ अथ उद्दीपनाः श्रुतिर्महोपनिषदां विविक्तस्थानसेवनम् । अन्तर्वृत्तिविशेषोऽस्य स्फूर्तिस्तत्त्वविवेचनम् ॥ ऋBह्र्स्_३,१.१८ ॥ विद्याशक्तिप्रधानत्वं विश्वरूपप्रदर्शनम् । ज्ञानिभक्तेन संसर्गो ब्रह्मसत्रादयस्तथा । एष्वसाधारणाः प्रोक्ता बुधैरुद्दीपना अमी ॥ ऋBह्र्स्_३,१.१९ ॥ अत्र महोपनिषच्छ्रुतिः, यथा अक्लेशाः कमलभुवः प्रविश्य गोष्ठीं कुर्वन्तः श्रुतिशिरसां श्रुतिं श्रुतज्ञाः । उत्तुङ्गं यद्उपरसङ्गमाय रङ्गं योगीन्द्राः पुलकभृतो नवाप्यवापुः ॥ ऋBह्र्स्_३,१.२० ॥ पादाब्जतुलसीगन्धः शङ्खनादो मुरद्विषः । पुण्यशैलः शुभारण्यं सिद्धक्षेत्रं स्वरापगा ॥ ऋBह्र्स्_३,१.२१ ॥ विषयादिक्षयिष्णुत्वं कालस्याखिलहारिता । इत्याद्युद्दीपना साधारणास्तेषां किलाश्रितैः ॥ ऋBह्र्स्_३,१.२२ ॥ अथ पादाब्जतुलसीगन्धो, यथा तृतीये (३.१५.४३) तस्यारविन्दनयनस्य पदारविन्द किञ्जल्कमिश्रतुलसीमकरन्दवायुः । अन्तर्गतः स्वविवरेण चकार तेषां सङ्क्षोभमक्षरजुषामपि चित्ततन्वोः ॥ ऋBह्र्स्_३,१.२३ ॥ अथ अनुभावाः नासाग्रन्यस्तनेत्रत्वमवधूतविचेष्टितम् । युगमात्रेक्षितगतिर्ज्ञानमुद्राप्रदर्शनम् ॥ ऋBह्र्स्_३,१.२४ ॥ हरेर्द्विष्यपि न द्वेषो नातिभक्तिः प्रियेष्वपि । सिद्धतायास्तथा जीवन्मुक्तेश्च बहुमानिता ॥ ऋBह्र्स्_३,१.२५ ॥ नैरपेक्ष्यं निर्ममता निरहङ्कारिता कथा । मौनमित्यादयः शीताः स्युरसाधारणाः क्रियाः ॥ ऋBह्र्स्_३,१.२६ ॥ तत्र नासाग्रनयनत्वं, यथा नासिकाग्रदृगयं पुरो मुनिः स्पन्दबन्धुरशिरा विराजते । चित्तकन्दरतटीमनाकुलाम् अस्य नूनमवगाहते हरिः ॥ ऋBह्र्स्_३,१.२७ ॥ जृम्भाङ्गमोटनं भक्तेरुपदेशो हरेर्नतिः । स्तवादयश्च दासाद्यैः शीताः साधारणाः क्रियाः ॥ ऋBह्र्स्_३,१.२८ ॥ तत्र जृम्भा, यथा हृदयाम्बरे ध्रुवं ते भावाम्बरमणिरुदेति योगीन्द्र । यदिदं वदनाम्भोजं जृम्भामवलम्बते भवतः ॥ ऋBह्र्स्_३,१.२९ ॥ अथ सात्त्विकाः रोमाञ्चस्वेदकम्पाद्याः सात्त्विकाः प्रलयं विना ॥ ऋBह्र्स्_३,१.३० ॥ अथ रोमाञ्चो, यथा पाञ्चजन्यजनितो ध्वनिरन्तः क्षोभयन् सपदि बिद्धसमाधिः । योगिनां गिरिगुहानिलयानां पुद्गले पुलकपालिमनैषीत् ॥ ऋBह्र्स्_३,१.३१ ॥ एषां निरभिमानानां शरीरादिषु योगिनाम् । सात्त्विकास्तु ज्वलन्त्येव न तु दीप्ता भवन्त्यमी ॥ ऋBह्र्स्_३,१.३२ ॥ अथ सञ्चारिणः सञ्चारिनोऽत्र निर्वेदो धृतिर्हर्षो मतिः स्मृतिः । विषादोत्सुकतावेगवितर्काद्याः प्रकीर्तिताः ॥ ऋBह्र्स्_३,१.३३ ॥ तत्र निर्वेदो, यथा अस्मिन् सुखघनमूर्तौ परमात्मनि वृष्णिपत्तने स्फुरति आत्मारामतया मे वृथा गतो बत चिरं कालः ॥ ऋBह्र्स्_३,१.३४ ॥ अथ स्थायी अत्र शान्तिरतिः स्थायी समा सान्द्रा च सा द्विधा ॥ ऋBह्र्स्_३,१.३५ ॥ तत्र आद्या, यथा समाधौ योगिनस्तस्मिन्नसम्प्रज्ञातनामनि । लीलया मयि लब्धेऽस्य बभूवोत्कम्पिनी तनुः ॥ ऋBह्र्स्_३,१.३६ ॥ सान्द्रा, यथा सर्वाविद्याध्वंसतो यः समस्ताद् आविर्भूतो निर्विकल्पे समाधौ । जाते साक्षाद्यादवेन्द्रे स विन्दन् मय्यानन्दः सान्द्रतां कोटिधासीत् ॥ ऋBह्र्स्_३,१.३७ ॥ शान्तो द्विधैष पारोक्ष्यसाक्षात्कारविभेदतः ॥ ऋBह्र्स्_३,१.३८ ॥ अथ परोक्ष्यं, यथा प्रयास्यति महत्तपः सफलतां किमष्टाङ्गिका मुनीश्वर पुरातनी परमयोगचर्याप्यसौ । नराकृतिनवाम्बुदद्युतिधरं परं ब्रह्म मे विलोचनचमत्कृतिं कथय किं नु निर्मास्यति ॥ ऋBह्र्स्_३,१.३९ ॥ यथा वा क्षेत्रे कुरोः किमपि चण्डकरोपरागे सान्द्रं महः पथि विलोचनयोर्यदासीत् । तन्नीरदद्युतिजयि स्मरदुत्सुकं मे न प्रत्यग्आत्मनि मनो रमते पुरेव ॥ ऋBह्र्स्_३,१.४० ॥ साक्षात्कारो, यथा परमात्मतयातिमेदुराद् बत साक्षात्करणप्रमोदतः । भगवन्नधिकं प्रयोजनं कतरद्ब्रह्मविदोऽपि विद्यते ॥ ऋBह्र्स्_३,१.४१ ॥ यथा वा हृष्टः कम्बुपतिस्वनैर्भुवि लुठच्चीराञ्चलः सञ्चलन् मूर्ध्ना रुद्धदृग्अश्रुभिः पुलकितो द्रागेष लीनव्रतः । अक्ष्णोरङ्गनमञ्जनत्विषि परब्रह्मण्यवाप्ते मुदा मुद्राभिः प्रकटीकरोत्यवमतिं योगी स्वरूपस्थितौ ॥ ऋBह्र्स्_३,१.४२ ॥ भवेत्कदाचित्कुत्रापि नन्दसूनोः कृपाभरः । प्रथमं ज्ञाननिष्ठोऽपि सोऽत्रैव रतिमुद्वहेत् ॥ ऋBह्र्स्_३,१.४३ ॥ यथा बिल्वमङ्गलोक्तिः अद्वैतवीथीपथिकैरुपास्याः स्वानन्दसिंहासनलब्धदीक्षाः । शठेन केनापि वयं हठेन दासीकृता गोपवधूविटेन ॥ ऋBह्र्स्_३,१.४४ ॥ तत्कारुण्यश्लथीभूतज्ञानसंस्कारसन्ततिः । एष भक्तिरसानन्दनिपुणः स्याद्यथा शुकः ॥ ऋBह्र्स्_३,१.४५ ॥ शमस्य निर्विकारत्वान्नाट्यज्ञैर्नैष मन्यते । शान्त्य्आख्याया रतेरत्र स्वीकारान्न विरुध्यते ॥ ऋBह्र्स्_३,१.४६ ॥ शमो मन्निष्ठता बुद्धेरिति श्रीभगवद्वचः* । तन्निष्ठा दुर्घटा बुद्धेरेतां शान्तरतिं विना ॥ ऋBह्र्स्_३,१.४७ ॥ {*११.१९.३६} केवलशान्तोऽपि, श्रीविष्णुधर्मोत्तरे यथा नास्ति यत्र सुखं दुःखं न द्वेषो न च मत्सरः । समः सर्वेषु भूतेषु स शान्तः प्रथितो रसः ॥ ऋBह्र्स्_३,१.४८ ॥ सर्वथैवमहङ्काररहितत्वं व्रजन्ति चेत् । अत्रान्तर्भावमर्हन्ति धर्मवीरादयस्तदा ॥ ऋBह्र्स्_३,१.४९ ॥ स्थायिनमेके तु निर्वेदस्थायिनं परे । शान्तमेव रसं पूर्वे प्राहुरेकमनेकधा ॥ ऋBह्र्स्_३,१.५० ॥ निर्वेदो विषये स्थायि तत्त्वज्ञानोद्भवः स चेत् । इष्टानिष्टवियोगाप्तिकृतस्तु व्यभिचार्यसौ ॥ ऋBह्र्स्_३,१.५१ ॥ इति श्रीश्रीभक्तिरसामृतसिन्धौ पश्चिमविभागे मुख्यभक्तिरसपञ्चकनिरूपणे शान्तभक्तिरसलहरी प्रथमा । ___________________________________________________ (३.२) प्रीतिभक्तिरसाख्या द्वितीयलहरी श्रीधरस्वामिभिः स्पष्टमयमेव रसोत्तमः । रङ्गप्रसङ्गे सप्रेमकाख्यः प्रकीर्तितः ॥ ऋBह्र्स्_३,२.१ ॥ रतिस्थायितया नामकौमुदीकृद्भिरप्यसौ । शान्तत्वेनायमेवाद्धा सुदेवाद्यैश्च वर्णितः ॥ ऋBह्र्स्_३,२.२ ॥ आत्मोचितैर्विभावाद्यैः प्रीतिरास्वादनीयताम् । नीता चेतसि भक्तानां प्रीतिभक्तिरसो मतः ॥ ऋBह्र्स्_३,२.३ ॥ अनुग्राह्यस्य दासत्वाल्लाल्यत्वादप्ययं द्विधा । भिद्यते सम्भ्रमप्रीतो गौरवप्रीत इत्यपि ॥ ऋBह्र्स्_३,२.४ ॥ दासाभिमानिनां कृष्णे स्यात्प्रीतिः सम्भ्रमोत्तरा । पूर्ववत्पुष्यमाणोऽयं सम्भ्रमप्रीत उच्यते ॥ ऋBह्र्स्_३,२.५ ॥ तत्र आलम्बनाः हरिश्च तस्य दासाश्च ज्ञेया आलम्बना इह ॥ ऋBह्र्स्_३,२.६ ॥ तत्र हरिः आलम्बनोऽस्मिन् द्विभुजः कृष्णो गोकुलवासिषु । अन्यत्र द्विभुजः क्वापि कुत्राप्येषु चतुर्भुजः ॥ ऋBह्र्स्_३,२.७ ॥ तत्र व्रजे नवाम्बुधरबन्धुरः करयुगेन वक्त्राम्बुजे निधाय मुरलीं स्फुरत्पुरटनिन्दि पट्टाम्बरः । शिखण्डकृतशेखरः शिखरिणस्तटे पर्यटन प्रभुर्दिवि दिवौकसो भुवि धिनोति नः किङ्करान् ॥ ऋBह्र्स्_३,२.८ ॥ अन्यत्र द्विभुजो, यथा प्रभुरयमनिशं पिशङ्गवासाः करयुगभागरिकम्बुरम्बुदाभः । नवघन इव चञ्चलापिनद्धो रविशशिमण्डलमण्डितश्चकास्ति ॥ ऋBह्र्स्_३,२.९ ॥ तत्र चतुर्भुजो, यथा ललितमाधवे (५.१५) चञ्चत्कौस्तुभकौमुदीसमुदयः कौमोदकीचक्रयोः सख्येनोज्ज्वलितैस्तथा जलजयोराढ्यश्चतुर्भिर्भुजैः । दिव्यालङ्करणेन सङ्कटतनुः सङ्गी विहङ्गेशितुर् मां व्यस्मारयदेष कंसविजयी वैकुण्ठगोष्ठीश्रियम् ॥ ऋBह्र्स्_३,२.१० ॥ ब्रह्माण्डकोटिधामैकरोमकूपः कृपाम्बुधिः । अविचिन्त्यमहाशक्तिः सर्वसिद्धिनिषेवितः ॥ ऋBह्र्स्_३,२.११ ॥ अवतारावलीबीजं सदात्मारामहृद्गुणः । ईश्वरः परमाराध्यः सर्वज्ञः सुदृढव्रतः ॥ ऋBह्र्स्_३,२.१२ ॥ समृद्धिमान् क्षमाशीलः शरणागतपालकः । दक्षिणः सत्यवचनो दक्षः सर्वशुभङ्करः ॥ ऋBह्र्स्_३,२.१३ ॥ प्रतापी धार्मिकः शास्त्रचक्षुर्भक्तसुहृत्तमः । वदान्यस्तेजसा युक्तः कृतज्ञः कीर्तिसंश्रयः ॥ ऋBह्र्स्_३,२.१४ ॥ वरीयान् बलवान् प्रेमवश्य इत्यादिभिर्गुणैः । युतश्चतुर्विधेष्वेष दासेष्वालम्बनो हरिः ॥ ऋBह्र्स्_३,२.१५ ॥ अथ दासाः दासास्तु प्रश्रितास्तस्य निदेशवशवर्तिणः । विश्वस्ताः प्रभुताज्ञानविनम्रितधियश्च ते ॥ ऋBह्र्स्_३,२.१६ ॥ यथा प्रभुरयमखिलैर्गुणैर्गरीयान् इह तुलनामपरः प्रयाति नास्य । इति परिणतनिर्णयेन नम्रान् हितचरितान् हरिसेवकान् भजध्वम् ॥ ऋBह्र्स्_३,२.१७ ॥ चतुर्धामी अधिकृताश्रितपारिषदानुरागाः ॥ ऋBह्र्स्_३,२.१८ ॥ तत्र अधिकृताः ब्रह्मशङ्करशक्राद्याः प्रोक्ता अधिकृता बुधैः । रूपं प्रसिद्धमेवैषां तेन भक्तिरुदीर्यते ॥ ऋBह्र्स्_३,२.१९ ॥ यथा का पर्येत्यम्बिकेयं हरिमवकलयन् कम्पते कः शिरोऽसौ तं कः स्तौत्येष धाता प्रणमति विलुठन् कः क्षितौ वासवोऽयम् । कः स्तब्धो हस्यतेऽद्धा दनुजभिद्अनुजैः पूर्वजोऽयं ममेत्थं कालिन्दी जाम्बवत्यां त्रिदशपरिचयं जालरन्ध्राद्व्यतानीत् ॥ ऋBह्र्स्_३,२.२० ॥ अथ आश्रिताः ते शरण्या ज्ञानिचराः सेवानिष्ठास्त्रिधाश्रिताः ॥ ऋBह्र्स्_३,२.२१ ॥ यथा केचिद्भीताः शरणमभितः संश्रयन्ते भवन्तं विज्ञातार्थास्त्वद्अनुभवतः प्रास्य केचिन्मुमुक्षाम् । श्रावं श्रावं तव नवनवां माधुरीं साधुवृन्दाद् वृन्दारण्योत्सव किल वयं देव सेवेमहि त्वाम् ॥ ऋBह्र्स्_३,२.२२ ॥ तत्र शरण्याः शरण्याः कालियजरासन्धबद्धनृपादयः ॥ ऋBह्र्स्_३,२.२३ ॥ यथा अपि गहनागसि नागे प्रभुवर मय्यद्भुताद्य ते करुणा । भक्तैरपि दुर्लभया यदहं पदमुद्रयोज्ज्वलितः ॥ ऋBह्र्स्_३,२.२४ ॥ यथा वा अपराधभञ्जने कामादीनां कति न कतिधा पालिता दुर्निदेशास् तेषां जाता मयि न करुणा न त्रपा नोपशान्तिः । उत्सृज्यैतानथ यदुपते साम्प्रतं लब्धबुद्धिस् त्वामायातः शरणमभयं मां नियुङ्क्ष्वात्मदास्ये ॥ ऋBह्र्स्_३,२.२५ ॥ अथ ज्ञानिचराः ये मुमुक्षां परित्यज्य हरिमेव समाश्रिताः । शौनकप्रमुखास्ते तु प्रोक्ता ज्ञानिचराः बुधैः ॥ ऋBह्र्स्_३,२.२६ ॥ यथा वा हरिहक्तिसुधोदये अहो महात्मन् बहुदोषदुष्टोऽप्य् एकेन भात्येष भवो गुणेन । सत्सङ्गमाख्येन सुखावहेन कृताद्य नो येन कृशा मुमुक्षा ॥ ऋBह्र्स्_३,२.२७ ॥ यथा वा पद्यावल्याम् (७७) ध्यानातीतं किमपि परमं ये तु जानन्ति तत्त्वं तेषामास्तां हृदयकुहरे शुद्धचिन्मात्र आत्मा । अस्माकं तु प्रकृतिमधुरः स्मेरवक्त्रारविन्दो मेघश्यामः कनकपरिधिः पङ्कजाक्षोऽयमात्मा ॥ ऋBह्र्स्_३,२.२८ ॥ अथ सेवानिष्ठाः मूलतो भजनासक्ताः सेवानिष्ठा इतीरिताः । चन्द्रध्वजो हरिहयो बहुलाश्वस्तथा नृपाः । इक्ष्वाकुः श्रुतदेवाश्च पुण्डरीकादयश्च ते ॥ ऋBह्र्स्_३,२.२९ ॥ यथा आत्मारामानपि गमयति त्वद्गुणो गानगोष्ठीं शून्योद्याने नयति विहगानप्यलं भिक्षुचर्याम् । इत्युत्कर्षं कमपि सचमत्कारमाकर्ण्य चित्रं सेवायां ते स्फुटमघहर श्रद्धया गर्धितोऽस्मि ॥ ऋBह्र्स्_३,२.३० ॥ अथ पारिषदाः उद्धवो दारुको जैत्रः श्रुतदेवश्च शत्रुजित् । नन्दोपनन्दभद्राद्याः पार्षदा यदुपत्तने ॥ ऋBह्र्स्_३,२.३१ ॥ नियुक्ताः सन्त्यमी मन्त्रसारथ्यादिषु कर्मसु । तथापि क्वाप्यवसरे परिचर्यां च कुर्वते । कौरवेषु तथा भीष्मपरीक्षिद्विदुरादयः ॥ ऋBह्र्स्_३,२.३२ ॥ तेषां रूपं, यथा सरसाः सरसीरुहाक्षवेषास् त्रिदिवेशावलिजैत्रकान्तिलेशाः । यदुवीरसभासदः सदामी प्रचुरालङ्करणोज्ज्वला जयन्ति ॥ ऋBह्र्स्_३,२.३३ ॥ भक्तिः, यथा शंसन् धुर्जटिनिर्जयादिविरुदं बाष्पावरुद्धाक्षरं शङ्कापञ्चलवं मदादगणयन् कालाग्निरुद्रादपि । त्वय्येवार्पितबुद्धिरुद्धवमुखस्त्वत्पार्षदानां गणो द्वारि द्वारवतीपुरस्य पुरतः सेवोत्सुकस्तिष्ठति ॥ ऋBह्र्स्_३,२.३४ ॥ एतेषां प्रवरः श्रीमानुद्धवः प्रेमविक्लवः ॥ ऋBह्र्स्_३,२.३५ ॥ तस्य रूपं कालिन्दीमधुरत्विषं मधुपतेर्माल्येन निर्माल्यतां लब्धेनाञ्चितमम्बरेण च लसद्गोरोचनारोचिषा । द्वन्द्वेनार्गलसुन्दरेण भुजयोर्जिष्णुमब्जेक्षणं मुख्यं पारिषदेषु भक्तिलहरीरुद्धं भजाम्युद्धवम् ॥ ऋBह्र्स्_३,२.३६ ॥ भक्तिः, यथा मूर्धन्याहुकशासनं प्रणयते ब्रह्मेशयोः शासिता सिन्धुं प्रार्थयते भुवं तनुतरां ब्रह्माण्डकोटीश्वरः । मन्त्रं पृच्छति मामपेशलधियं विज्ञानवारां निधिर् विक्रीडत्यसकृद्विचित्रचरितः सोऽयं प्रभुर्मादृशाम् ॥ ऋBह्र्स्_३,२.३७ ॥ अथ अनुगाः सर्वदा परिचर्यासु प्रभोरासक्तचेतसः । पुरस्थाश्च व्रजस्थाश्चेत्युच्यते अनुगा द्विधा ॥ ऋBह्र्स्_३,२.३८ ॥ तत्र पुरस्थाः सुचन्द्रो मण्डनः स्तम्बः सुतम्बाद्याः पुरानुगाः । एषां पार्षदवत्प्रायो रूपालङ्कारणादयः ॥ ऋBह्र्स्_३,२.३९ ॥ सेवा यथा उपरि कनकदण्डं मण्डनो विस्तृणीते धुवति किल सुचन्द्रश्चामरं चन्द्रचारुम् । उपहरति सुतम्बः सुष्ठु ताम्बूलवीटीं विदधति परिचर्याः साधवो माधवस्य ॥ ऋBह्र्स्_३,२.४० ॥ अथ व्रजस्थाः रक्तकः पत्रकः पत्री मधुकण्ठो मधुव्रतः । रसालसुविलासाश्च प्रेमकन्दो मरन्दकः ॥ ऋBह्र्स्_३,२.४१ ॥ आनन्दश्चन्द्रहासश्च पयोदो वकुलस्तथा । रसदः शारदाद्याश्च व्रजस्था अनुगा मताः ॥ ऋBह्र्स्_३,२.४२ ॥ एषां रूपं, यथा मणिमयवरमण्डनोज्ज्वलाङ्गान् पुरटजवामधुलिट्पटीरभासः । निजवपुर्अनुरूपदिव्यवस्त्रान् व्रजपतिनन्दनकिङ्करान्नमामि ॥ ऋBह्र्स्_३,२.४३ ॥ सेवा, यथा द्रुतं कुरु परिष्कृतं बकुल पीतपट्टांशुकं वरैरगुरुभिर्जलं रचय वासितं वारिद । रसाल परिकल्पयोरगलतादलैर्वीटिकाः परागपटली गवां दिशमरुन्ध पौरन्दरीम् ॥ ऋBह्र्स्_३,२.४४ ॥ व्रजानुगेषु सर्वेषु वरीयान् रक्तको मतः ॥ ऋBह्र्स्_३,२.४५ ॥ अस्य रूपं, यथा रम्यपिङ्गपटमङ्गरोचिषा खर्वितोरुशतपर्विकारुचम् । सुष्ठु गोष्ठयुवराजसेविनं रक्तकण्ठमनुयामि रक्तकम् ॥ ऋBह्र्स्_३,२.४६ ॥ भक्तिः, यथा गिरिवरभृति भर्तृदारकेऽस्मिन् व्रजयुवराजतया गते प्रसिद्धिम् । शृणु रसद सदा पदाभिसेवा पट्टिमरता रतिरुत्तमा ममास्तु ॥ ऋBह्र्स्_३,२.४७ ॥ धूर्यो धीरश्च वीरश्च त्रिधा पारिषद्आदिकः ॥ ऋBह्र्स्_३,२.४८ ॥ तत्र धूर्यः कृष्णेऽस्य प्रेयसीवर्गे दासादौ च यथायथम् । यः प्रीतिं तनुते भक्तः स धूर्य इह कीर्त्यते ॥ ऋBह्र्स्_३,२.४९ ॥ यथा देवः सेव्यतया यथा स्फुरति मे देव्यस्तथास्य प्रियाः सर्वः प्राणसमानतां प्रचिनुते तद्भक्तिभाजां गणः । स्मृत्वा साहसिकं बिभेमि तमहं भक्ताभिमानोन्नतं प्रीतिं तत्प्रणते खरेऽप्यविदधद्यः स्वास्थ्यमालम्बते ॥ ऋBह्र्स्_३,२.५० ॥ अथ धीरः आश्रित्य प्रेयसीमस्य नातिसेवापरोऽपि यः । तस्य प्रसादपात्रं स्यान्मुख्यं धीरः स उच्यते ॥ ऋBह्र्स्_३,२.५१ ॥ यथा कमपि पृथग्अनुच्चैर्नाचरामि प्रयत्नं यदुकुलकमलार्क त्वत्प्रसादश्रियेऽपि । समजनि ननु देव्याः पारिजातार्चितायाः परिजननिखिलान्तःपातिनी मे यद्आख्या ॥ ऋBह्र्स्_३,२.५२ ॥ अथ वीरः कृपां तस्य समाश्रित्य प्रौढां नान्यमपेक्षते । अतुलां यो वहन् कृष्णे प्रीतिं वीरः स उच्यते ॥ ऋBह्र्स्_३,२.५३ ॥ यथा प्रलम्बरिपुरीश्वरो भवतु का कृतिस्तेन मे कुमारमकरध्वजादपि न किञ्चिदास्ते फलम् । किमन्यदहमुद्धतः प्रभुकृपाकटाक्षश्रिया प्रिया परिषद्अग्रिमां न गणयामि भामामपि ॥ ऋBह्र्स्_३,२.५४ ॥ चतुर्थे च (४.२०.२८) जगज्जनन्यां जगद्ईश वैशसं स्यादेव यत्कर्मणि नः समीहितम् करोषि फल्ग्वप्युरु दीनवत्सलः स्व एव धिष्ण्येऽभिरतस्य किं तया ॥ ऋBह्र्स्_३,२.५५ ॥ एतेषु तस्य दासेषु त्रिविधेष्वाश्रितादिषु । नित्यसिद्धाश्च सिद्धाश्च साधकाः परिकीर्तितः ॥ ऋBह्र्स्_३,२.५६ ॥ अथ उद्दीपनाः अनुग्रहस्य सम्प्राप्तिस्तस्याङ्घ्रिरजसां तथा । भुक्तावशिष्टभक्तादेरपि तद्भक्तसङ्गतिः । इत्यादयो विभावाः स्युरेष्वसाधारणा मताः ॥ ऋBह्र्स्_३,२.५७ ॥ तत्र अनुग्रहसम्प्राप्तिः, यथा कृष्णस्य पश्यत कृपां कृपाद्याः कृपणे मयि । ध्येयोऽसौ निधने हन्त दृशोरध्वानमभ्यगात् ॥ ऋBह्र्स्_३,२.५८ ॥ मुरलीशृङ्गयोः स्वानः स्मितपूर्वावलोकनम् । गुणोत्कर्षश्रुतिः पद्मपदाङ्कनवनीरदाः । तद्अङ्गसौरभाद्यास्तु सर्वैः साधारणा मताः ॥ ऋBह्र्स्_३,२.५९ ॥ अत्र मुरलीस्वनो, यथा विदग्धमाधवे (१.३०) सोत्कण्ठं मुरलीकलापरिमलानाकर्ण्य घूर्णत्तनोर् एतस्याक्षिसहस्रतः सुरपतेरश्रूणि सस्रुर्भुवि । चित्रं वारिधरान् विनापि तरसा यैरद्य धारामयैर् दूरात्पश्यत देवमातृकमभूद्वृन्दाटवीमण्डलम् ॥ ऋBह्र्स्_३,२.६० ॥ अथ अनुभावाः सर्वतः स्वनियोगानामाधिक्येन परिग्रहः । ईर्ष्यालवेन चास्पृष्टा मैत्री तत्प्रणते जने । तन्निष्ठाद्याः शीताः स्युरेष्वसाधारणाः क्रियाः ॥ ऋBह्र्स्_३,२.६१ ॥ तत्र स्वनियोगस्य सर्वत आधिक्यं, यथा अङ्गस्तम्भारम्भमुत्तुङ्गयन्तं प्रेमानन्दं दारुको नाभ्यनन्दत् कंसारातेर्वीजने येन साक्षाद् अक्षोदीयानन्तरायो व्यधायि ॥ ऋBह्र्स्_३,२.६२ ॥ उद्भास्वराः पुरोक्ता ये तथास्य सुहृद्आदयः । विरागाद्याश्च ये शीताः प्रोक्ताः साधारणास्तु ते ॥ ऋBह्र्स्_३,२.६३ ॥ तत्र नृत्यम्, यथा श्रीदशमे (१०.८६.३८) श्रुतदेवोऽच्युतं प्राप्तं स्वगृहान् जनको यथा । नत्वा मुनींश्च संहृष्टो धुन्वन् वासो ननर्त ह ॥ ऋBह्र्स्_३,२.६४ ॥ यथा वा त्वं कलासु विमुखोऽपि नर्तनं प्रेमनाट्यगुरुणासि पाठितः । यद्विचित्रगतिचर्ययाञ्चितश् चित्रयस्यहह चारणानपि ॥ ऋBह्र्स्_३,२.६५ ॥ अथ सात्त्विकाः स्तम्भाद्याः सात्त्विकाः सर्वे प्रीतादित्रितये मताः ॥ ऋBह्र्स्_३,२.६६ ॥ यथा, गोकुलेन्द्रगुणगानरसेन स्तम्भमद्भुतमसौ भजमानः । पश्य भक्तिरसमण्डपमूल स्तम्भतां वहति वैष्णववर्यः ॥ ऋBह्र्स्_३,२.६७ ॥ श्रीदशमे (१०.८५.३८) स इन्द्रसेनो भगवत्पदानुजं बिभ्रन्मुहुः प्रेमविभिन्नया धिया । उवाच हानन्दजलाकुलेक्षणः प्रहृष्टरोमा नृप गद्गदाक्षरम् ॥ ऋBह्र्स्_३,२.६८ ॥ अथ व्यभिचारिणः हर्षो धृतिश्चात्र निर्वेदोऽथ विषण्णता । दैन्यं चिन्ता स्मृतिः शङ्का मतिरौत्सुक्यचापले ॥ ऋBह्र्स्_३,२.६९ ॥ वितर्कावेगह्रीजाड्यमोहोन्मादावहित्थिकाः । बोधः स्वप्नः क्लमो व्याधिर्मृतिश्च व्यभिचारिणः ॥ ऋBह्र्स्_३,२.७० ॥ इतरेषां मदादीनां नातिपोषकता भवेत् । योगे त्रयः स्युर्धृत्य्अन्ता अयोगे तु क्लमादयः । उभयत्र परे शेषा निर्वेदाद्याः सतां मताः ॥ ऋBह्र्स्_३,२.७१ ॥ तत्र हर्षो, यथा प्रथमे (१.११.५) प्रीत्य्उत्फुल्लमुखाः प्रोचुर्हर्षगद्गदया गिरा । पितरं सर्वसुहृदमवितारमिवार्भकाः ॥ ऋBह्र्स्_३,२.७२ ॥ यथा वा हरिमवलोक्य पुरो भुवि पतितो दण्डप्रणामशतकामः । प्रमदविमुग्धो नृपतिः पुनरुत्थानं विसस्मार ॥ ऋBह्र्स्_३,२.७३ ॥ क्लमो, यथा स्कान्दे अशोषयन्मनस्तस्य म्लापयन्मुखपङ्कजम् । आधिस्तद्विरहे देव ग्रीष्मे सर इवांशुमान् ॥ ऋBह्र्स्_३,२.७४ ॥ निर्वेदो, यथा धन्याः स्फुरति तव सूर्य कराः सहस्रं ये सर्वदा यदुपतेः पदयोः पतन्ति । बन्ध्यो दृशां दर्शशती ध्रियते ममासौ दूरे मुहूर्तमपि या न विलोकते तम् ॥ ऋBह्र्स्_३,२.७५ ॥ अथ स्थायी सम्भ्रमः प्रभुताज्ञानात्कम्पश्चेतसि सादरः । अनेनैक्यं गता प्रीतिः सम्भ्रमप्रीतिरुच्यते । एषा रसेऽत्र कथिता स्थायिभावतया बुधैः ॥ ऋBह्र्स्_३,२.७६ ॥ आश्रितादेः पुरैवोक्तः प्रकारो रतिजन्मनि । तत्र पारिषदादेस्तु हेतुः संस्कार एव हि । संस्कारोद्बोधकास्तस्य दर्शनश्रवणादयः ॥ ऋBह्र्स्_३,२.७७ ॥ एषा तु सम्भ्रमप्रीतिः प्राप्नुवत्युत्तरोत्तरम् । वृद्धिं प्रेमा ततः स्नेहस्ततो राग इति त्रिधा ॥ ऋBह्र्स्_३,२.७८ ॥ तत्र सम्भ्रमप्रीतिः, यथा श्रीदशमे (१०.३८.६) ममाद्यामङ्गलं नष्टं फलवांश्चैव मे भवः । यन्नमस्ये भगवतो योगिध्येयाङ्घ्रिपङ्कजम् ॥ ऋBह्र्स्_३,२.७९ ॥ यथा वा कलिन्दनन्दिनीकुलकदम्बवनवल्लभम् । कदा नमस्करिषामि गोपरूपं तमीश्वरम् ॥ ऋBह्र्स्_३,२.८० ॥ अथ प्रेमा ह्रासशङ्काच्युता बद्धमूला प्रेमेयमुच्यते । अस्यानुभावाः कथितास्तत्र व्यसनितादयः ॥ ऋBह्र्स्_३,२.८१ ॥ यथा अणिमादिसौख्यवीचीमवीचिदुःखप्रवाहं वा । नय मां विकृतिर्न हि मे त्वत्पदकमलावलम्बस्य ॥ ऋBह्र्स्_३,२.८२ ॥ यथा वा रुषाज्वलितबुद्धिना भृगुसुतेन शप्तोऽप्यलं मया हृतजगत्त्रयोऽप्यतनुकैतवं तन्वता । विनिन्द्य कृतबन्धनोऽप्युरगराजपाशैर्बलाद् अरज्यत स मय्यहो द्विगुणमेव वैरोचनिः ॥ ऋBह्र्स्_३,२.८३ ॥ अथ स्नेहः सान्द्रश्चित्तद्रवं कुर्वन् प्रेमा स्नेह इतीर्यते । क्षणिकस्यापि नेह स्याद्विस्लेषस्य सहिष्णुता ॥ ऋBह्र्स्_३,२.८४ ॥ यथा दम्भेन बाष्पाम्बुझरस्य केशवं वीक्ष्य द्रवच्चित्तमसुस्रुवत्तव । इत्युच्चकैर्धारयतो विचित्ततां चित्रा न ते दारुक दारुकल्पता ॥ ऋBह्र्स्_३,२.८५ ॥ यथा वा पत्नीं रत्ननिधेः परामुपहरन् पूरेण बाष्पाम्भसां रज्यन्मञ्जुलकण्ठगर्भलुठितस्तोत्राक्षरोपक्रमः । चुम्बन् फुल्लकदम्बडम्बरतुलाङ्गैः समीक्ष्याच्युतं स्तब्धोऽप्यभ्यधिकां श्रियं प्रणमतां वृन्दाद्दधारोद्धवः ॥ ऋBह्र्स्_३,२.८६ ॥ अथ रागः स्नेहः स रागो येन स्यात्सुखं दुःखमपि स्फुटम् । तत्सम्बन्धलवेऽप्यत्र प्रीतिः प्राणव्ययैरपि ॥ ऋBह्र्स्_३,२.८७ ॥ यथा गुरुरपि भुजगाद्भीस्तक्षकात्प्राज्यराज्य च्युतिरतिशयिनी च प्रायचर्या च गुर्वी । अतनुत मुदमुच्चैः कृष्णलीलासुधान्तर् विहरणसचिवत्वादौत्तरेयस्य राज्ञः ॥ ऋBह्र्स्_३,२.८८ ॥ यथा वा केशवस्य करुणालवेऽपि चेद् बाडवोऽपि किल षाडवो मम । अस्य यद्यदयताकुशस्थली पूर्णसिद्धिरपि मे कुशस्थली ॥ ऋBह्र्स्_३,२.८९ ॥ प्राय आद्यद्वये प्रेमा स्नेहः पारिषदेष्वसौ । परीक्षिति भवेद्रागो दारुके च तथोद्धवे ॥ ऋBह्र्स्_३,२.९० ॥ व्रजानुगेष्वनेकेषु रक्तकप्रमुखेषु च । अस्मिन्नभ्युदिते भावः प्रायः स्यात्सख्यलेशभाक् ॥ ऋBह्र्स्_३,२.९१ ॥ यथा शुद्धान्तान्मिलितं बाष्परुद्धवागुद्धवो हरिम् । किञ्चित्कुञ्चितनेत्रान्तः स्वान्तेन परिषस्वजे ॥ ऋBह्र्स्_३,२.९२ ॥ अयोगयोगावेतस्य प्रभेदौ कथितावुभौ ॥ ऋBह्र्स्_३,२.९३ ॥ अथ अयोगः सङ्गाभावो हरेर्धीरैरयोग इति कथ्यते । अयोगे तन्मनस्कत्वं तद्गुणाद्य्अनुसन्धयः ॥ ऋBह्र्स्_३,२.९४ ॥ तत्प्राप्त्य्अपायचिन्ताद्याः सर्वेषां कथिताः क्रियाः । उत्कण्ठितं वियोगश्चेत्ययोगेऽपि द्विधोच्यते ॥ ऋBह्र्स्_३,२.९५ ॥ तत्र उत्कण्ठितम् अदृष्टपूर्वस्य हरेर्दिदृक्षोत्कण्ठितं मतम् ॥ ऋBह्र्स्_३,२.९६ ॥ यथा नारसिंहे चकार मेघे तद्वर्णे बहुमानरतिं नृपः । पक्षपातेन तन्नाम्नि मृगे पद्मे च तद्दृशि ॥ ऋBह्र्स्_३,२.९७ ॥ यथा व, श्रीदशमे (१०.३८.१०) अप्यद्य विष्णोर्मनुजत्वमीयुषोर् भारावताराय भुवो निजेच्छया लावण्यधाम्नो भवितोपलम्भनं मह्यं न न स्यात्फलमञ्जसा दृशः ॥ ऋBह्र्स्_३,२.९८ ॥ अत्रायोगप्रसक्तानां सर्वेषामपि सम्भवे । औत्सुक्यदैन्यनिर्वेदचिन्तानां चापलस्य च । जडतोन्मादमोहानामपि स्यादतिरिक्तता ॥ ऋBह्र्स्_३,२.९९ ॥ तत्र औत्सुक्यं, यथा श्रीकृष्णकर्णामृते (४१) अमून्यधन्यानि दिनान्तराणि हरे त्वद्आलोकनमन्तरेण । अनाथबन्धो करुणैकसिन्धो हा हन्त हा हन्त कथं नयामि ॥ ऋBह्र्स्_३,२.१०० ॥ यथा वा, विलोचनसुधाम्बुधेस्तव पदारविन्दद्वयी विलोचनरसच्छटामनुपलभ्य विक्षुभ्यतः । मनो मम मनागपि क्वचिदनाप्नुवन्निर्वृतिं क्षणार्धमपि मन्यते व्रजमहेन्द्र वर्षव्रजम् ॥ ऋBह्र्स्_३,२.१०१ ॥ दैन्यं, यथा तत्रैव {*Kअर्णामृत? णोत्fओउन्दिनन्योf थे थ्रेए चेन्तुरिएस्.} निबद्धमूर्धाञ्जलिरेष याचे नीरन्ध्रदैन्योन्नतिमुक्तकण्ठम् । दयाम्बुधे देव भवत्कटाक्ष दाक्षिण्यलेशेन सकृन्निषिञ्च ॥ ऋBह्र्स्_३,२.१०२ ॥ यथा वा असि शशिमुकुटाद्यैरप्यलभ्येक्षणस्त्वं लघुरघहर कीटादप्यहं कूटकर्मा । इति विसदृशतापि प्रार्थने प्रार्थयामि स्नपय कृपणबन्धो मामपाङ्गच्छटाभिः ॥ ऋBह्र्स्_३,२.१०३ ॥ निर्वेदो, यथा स्फुटं श्रितवतोरपि श्रुतिनिषेवया श्लाघ्यतां ममाभवनिरतयोर्भवतु नेत्रयोर्मन्दयोः । भवेन्न हि ययोः पदं मधुरिमश्रियामास्पदं पदाम्बुजनखाङ्कुरादपि विसारि रोचिस्तव ॥ ऋBह्र्स्_३,२.१०४ ॥ चिन्ताम्, यथा हरिपदकमलावलोकतृष्णा तरलमतेरपि योग्यतामवीक्ष्य । अवनतवदनस्य चिन्तया मे हरि हरि निःश्वसतो निशाः प्रयाति ॥ ऋBह्र्स्_३,२.१०५ ॥ चापलं, यथा श्रीकृष्णकर्णामृते (३२) त्वच्छैशवं त्रिभुवनाद्भुतमित्यवेहि मच्चापलं च तव वा मम वाधिगम्यम् । तत्किं करोमि विरलं मुरलीविलासि मुग्धं मुखाम्बुजमुदीक्षितुमीक्षणाभ्याम् ॥ ऋBह्र्स्_३,२.१०६ ॥ यथा वा ह्रियमघहर मुक्त्वा दृक्पतङ्गी ममासौ भयमपि दमयित्वा भक्तवृन्दात्तृषार्ता । निरवधिमविचार्य स्वस्य च क्षोदिमानं तव चरणसरोजं लेढुमनिव्च्छतीश ॥ ऋBह्र्स्_३,२.१०७ ॥ जडता, यथा सप्तमे (७.४.३७) न्यस्तक्रीडनको बालो जडवत्तन्मनस्तया । कृष्णग्रहगृहीतात्मा न वेद जगदीदृशम् ॥ ऋBह्र्स्_३,२.१०८ ॥ यथा वा निमेषोन्मुक्ताक्षः कथमिह परिस्पन्दविधुरां तनुं बिभ्रद्भव्यः प्रतिकृतिरिवास्ते द्विजपतिः । अये ज्ञातं वंशीरसिकनवरागव्यसनिना पुरः श्यामाम्भोदे बत विनिहिता दृष्टिरमुना ॥ ऋBह्र्स्_३,२.१०९ ॥ उन्मादो, यथा सप्तमे (७.४.४०) नदति क्वचिदुत्कण्ठो विलज्जो नृत्यति क्वचित् । क्वचित्तद्भावनायुक्तस्तन्मयोऽनुचकार ह ॥ ऋBह्र्स्_३,२.११० ॥ यथा वा क्वचिन्नटति निष्पटं क्वचिदसम्भवं स्तम्भते क्वचिद्विहसति स्फुटं क्वचिदमन्दमाक्रन्दति । लसत्यनलसं क्वचित्क्वचिदपार्थमार्तायते हरेरभिनवोद्धुरप्रणयसीधुमत्तो मुनिः ॥ ऋBह्र्स्_३,२.१११ ॥ मोहो, यथा हरिभक्तिसुधोदये अयोग्यमात्मानमितीशदर्शने स मन्यमानस्तद्अनाप्तिकातरः । उद्बेलदुःखार्णवमग्नमानसः श्रुताश्रुधारो द्विज मूर्च्छितापतत् ॥ ऋBह्र्स्_३,२.११२ ॥ यथा वा हरिचरणविलोकाब्धितापावलीभिर् बत विधूतचिद्अम्भस्यत्र नस्तीर्थवर्ये । श्रुतिपुटपरिवाहेनेशनामामृतानि क्षिपत ननु सतीर्थाश्चेष्टतां प्राणहंसः ॥ ऋBह्र्स्_३,२.११३ ॥ अथ वियोगः वियोगो लब्धसङ्गेन विच्छेदो दनुजद्विषा ॥ ऋBह्र्स्_३,२.११४ ॥ यथा बलिसुतभुजषण्डखण्डनाय क्षतजपुरं पुरुषोत्तमे प्रयाते । विधूतविधुरबुद्धिरुद्धवोऽयं विरहनिरुद्धमना निरुद्धवोऽभूत् ॥ ऋBह्र्स्_३,२.११५ ॥ अङ्गेषु तापः कृशता जागर्यालम्बशून्यता । अधृतिर्जडता व्याधिरुन्मादो मूर्च्छितं बुधैः । वियोगे सम्भ्रमप्रीतेर्दशावस्थाः प्रकीर्तिताः ॥ ऋBह्र्स्_३,२.११६ ॥ अनवस्थितिराख्याता चित्तस्यालम्बशून्यता । अरागिता तु सर्वस्मिन्नधृतिः कथिता बुधैः । अन्येऽष्टौ प्रकटार्थत्वात्तापाद्या न हि लक्षिताः ॥ ऋBह्र्स्_३,२.११७ ॥ तत्र तापो, यथा अस्मान् दुनोति कमलं तपनस्य मित्रं रत्नाकरश्च बडवानलगूढमूर्तिः । इन्दीवरं विधुसुहृत्कथमीश्वरं वा तं स्मारयन्मुनिपते दहतीह सभ्यान् ॥ ऋBह्र्स्_३,२.११८ ॥ कृशता, यथा दधति तव तथाद्य सेवकानां भुजपरिघाः कृशतां च पाण्डुतां च । पतति बत यथा मृणालबुद्ध्या स्फुटमिह पाण्डवमित्र पाण्डुपक्षः ॥ ऋBह्र्स्_३,२.११९ ॥ जागर्या, यथा विरहान्मुरद्विषश्चिरं विधुराङ्गे परिखिन्नचेतसि । क्षणदाः क्षणदायितोज्झिता बहुलाश्वे बहुलास्तदाभवन् ॥ ऋBह्र्स्_३,२.१२० ॥ आलम्बनशून्यता, यथा विजयरथकुटुम्बिना विनान्यन् न किल कुटुम्बमिहास्ति नस्त्रिलोक्याम् । भ्रमदिदमनवेक्ष्य यत्पदाब्जं क्वचिदपि न व्यवतिष्ठतेऽद्य चेतः ॥ ऋBह्र्स्_३,२.१२१ ॥ अधृतिः, यथा प्रेक्ष्य पिञ्छकुलमक्षि पिधत्ते नैचिकीनिचयमुज्झति दूरे । वष्टि यष्टिमपि नाद्य मुरारे रक्तकस्तव पदाम्बुजरक्तः ॥ ऋBह्र्स्_३,२.१२२ ॥ जडता, यथा यौधिष्ठिरं पुरमुपेयुषि पद्मनाभे खेदानलव्यतिकरैरतिविक्लवस्य । स्वेदाश्रुभिर्न हि परं जलतामवापुर् अङ्गानि निष्क्रियतया च किलोद्धवस्य ॥ ऋBह्र्स्_३,२.१२३ ॥ व्याधिर्, यथा चिरयति मणिमन्वेष्टुं चलिते मुरभिदि कुशस्थलीपुरतः । समजनि धृतनवव्याधिः पवनव्याधिर्यथार्थाख्यः ॥ ऋBह्र्स्_३,२.१२४ ॥ उन्मादो, यथा प्रोषिते बत निजाधिदैवते रैवते नवमवेक्ष्य नीरदम् । भ्रान्तधीरयमधीरमुद्धवः पश्य रौति* रमते नमस्यति ॥ ऋBह्र्स्_३,२.१२५ ॥ {*नौतीति विश्वनाथः} मूर्च्छितं, यथा समजनि दशा विश्लेषात्ते पदाम्बुजसेविनां व्रजभुवि तथा नासीन्निद्रालवोऽपि यथा पुरा । यदुवर दरश्वासेनामी वितर्कितजीविताः सततमधुना निश्चेष्टाङ्गास्तटान्यधिशेरते ॥ ऋBह्र्स्_३,२.१२६ ॥ मृतिः, यथा दनुजदमन याते जीवने त्वय्यकस्मात् प्रचुरविरहतापैर्ध्वन्तहृत्पङ्कजायाम् । व्रजमभि परितस्ते दासकासारपङ्क्तौ न किल वसतिमार्ताः कर्तुमिच्छन्ति हंसाः ॥ ऋBह्र्स्_३,२.१२७ ॥ अशिवत्वान्न घटते भक्ते कुत्राप्यसौ मृतिः । क्षोभकत्वाद्वियोगस्य जातप्रायेति कथ्यते ॥ ऋBह्र्स्_३,२.१२८ ॥ अथ योगः कृष्णेन सङ्गमो यस्तु स योग इति कीर्त्यते । योगेऽपि कथितः सिद्धिस्तुष्टिः स्थितिरिति त्रिधा ॥ ऋBह्र्स्_३,२.१२९ ॥ तत्र सिद्धिः उत्कण्ठिते हरेः प्राप्तिः सिद्धिरित्यभिधीयते ॥ ऋBह्र्स्_३,२.१३० ॥ यथा श्रीकृष्णकर्णामृते (५७) मौलिश्चन्द्रकभूषणो मरकतस्तम्भाभिरामं वपुर् वक्त्रं चित्रविमुग्धहासमधुरं बाले विलोले दृशौ । वाचः शैशवशीतया मदगजश्लाघ्या विलासस्थितिर् मन्दं मन्दमये क एष मथुरावीथीं मिथो गाहते ॥ ऋBह्र्स्_३,२.१३१ ॥ यथा वा श्रीदशमे (१०.३८.३४) रथात्तूर्णमवप्लुत्य सोऽक्रूरः प्रेमविह्वलः । पपात चरणोपान्ते दण्डवद्रामकृष्णयोः ॥ ऋBह्र्स्_३,२.१३२ ॥ तुष्टिः जाते वियोगे कंसारेः सम्प्राप्तिस्तुष्टिरुच्यते ॥ ऋBह्र्स्_३,२.१३३ ॥ यथा प्रथमे (१.११.१०) कथं वयं नाथ चिरोषिते त्वयि प्रसन्नदृष्ट्याखिलतापशोषणम् । जीवेम ते सुन्दरहासशोभितम् अपश्यमाना वदनं मनोहरम् ॥ ऋBह्र्स्_३,२.१३४ ॥ यथा वा समक्षमक्षमः प्रेक्ष्य हरिमञ्जलिबन्धने । दारुको द्वारकाद्वारि तत्र चित्रदशां ययौ ॥ ऋBह्र्स्_३,२.१३५ ॥ स्थितिः सहवासो मुकुन्देन स्थितिर्निगदिता बुधैः ॥ ऋBह्र्स्_३,२.१३६ ॥ यथा हंसदूते (५०) {*ठिसच्तुअल्ल्यप्पेअर्स्तो बे अ मिx ओf वेर्सेस्५०५१. Cहेच्क्म्य्चोम्मेन्तिन् ंय्स्तिच्ড়ोएत्र्य्.} पुरस्तादाभीरीगणभयदनामा स कठिनो मणिस्तम्भालम्बी कुरुकुलकथां सङ्कलयिता । स जानुभ्यामष्टापदभुवनमवष्टभ्य भविता गुरोः शिष्यो नूनं पदकमलसंवाहनरतः ॥ ऋBह्र्स्_३,२.१३७ ॥ निजावसरशुश्रूषाविधाने सावधानता । पुरस्तस्य निवेशाद्या योगेऽमीषां क्रिया मताः ॥ ऋBह्र्स्_३,२.१३८ ॥ केचिदस्या रतेः कृष्णभक्त्य्आस्वादबहिर्मुखाः । भवत्वमेव निश्चित्य न रसावस्थतां जगुः ॥ ऋBह्र्स्_३,२.१३९ ॥ इति तावदसाधीयो यत्पुराणेषु केषुचित् । श्रीमद्भागवते चैष प्रकटो दृश्यते रसः ॥ ऋBह्र्स्_३,२.१४० ॥ तथा हि एकादशे (११.३.३२) क्वचित्रुदन्त्यच्युतचिन्तया क्वचिद् धसन्ति नन्दन्ति वदन्त्यलौकिकाः । नृत्यन्ति गायन्त्यनुशीलयन्त्यजं भवन्ति तूष्णीं परमेत्य निर्वृताः ॥ ऋBह्र्स्_३,२.१४१ ॥ सप्तमे च (७.७.३४) निशम्य कर्माणि गुणानतुल्यान् वीर्याणि लीलातनुभिः कृतानि । यदातिहर्षोत्पुलकाश्रुगद्गदं प्रोत्कण्ठ उद्गायति रौति नृत्यति ॥ ऋBह्र्स्_३,२.१४२ ॥ एषात्र भक्तभावानां प्रायिकी प्रक्रियोदिता । किन्तु कालादिवैशिष्ट्यात्क्वचित्स्यात्सीमलङ्घनम् ॥ ऋBह्र्स्_३,२.१४३ ॥ अथ गौरवप्रीतिः लाल्याभिमानिनां कृष्णे स्यात्प्रीतिर्गौरवोत्तरा । सा विभावादिभिः पुष्टा गौरवप्रीतिरुच्यते ॥ ऋBह्र्स्_३,२.१४४ ॥ तत्र आलम्बनाः हरिश्च तस्य लाल्याश्च भवन्त्यालम्बना इह ॥ ऋBह्र्स्_३,२.१४५ ॥ तत्र हरिः, यथा अयमुपहितकर्णः प्रस्तुते वृष्णिवृद्धैर् यदुपतिरितिहासे मन्दहासोज्ज्वलास्यः । उपदिशति सुधर्मामध्यमध्यास्य दीव्यन् हितमिह निजयाग्रे चेष्टयैवात्मजान्नः ॥ ऋBह्र्स्_३,२.१४६ ॥ महागुरुर्महाकीर्तिर्महाबुद्धिर्महाबलः । रक्षी लालक इत्याद्यैर्गुणैरालम्बनो हरिः ॥ ऋBह्र्स्_३,२.१४७ ॥ अथ लाल्याः लाल्याः किल कनिष्ठत्वपुत्रत्वाद्य्अभिमानिनः । कनिष्ठाः सारणगदसुभद्रप्रमुखाः स्मृताः । प्रद्युम्नचारुदेष्णाद्याः साम्बाद्याश्च कुमारकाः ॥ ऋBह्र्स्_३,२.१४८ ॥ एषां रूपं, यथा अपि मुरान्तकपार्षदमण्डलाद् अधिकमण्डनवेशगुणश्रियः । आसतपीतसितद्युतिभिर्युता यदुकुमारगणाः पुरि रेमिरे ॥ ऋBह्र्स्_३,२.१४९ ॥ एषां भक्तिः, यथा सग्धिं भजन्ति हरिणा मुखमुन्नमय्य ताम्बूलचर्वितमदन्ति च दीयमानम् । घ्राताश्च मूर्ध्नि परिरभ्य भवन्त्यदस्राः साम्बादयः कति पुरा विदधुस्तपांसि ॥ ऋBह्र्स्_३,२.१५० ॥ रुक्मिणीनन्दनस्तेषु लाल्येषु प्रवरो मतः ॥ ऋBह्र्स्_३,२.१५१ ॥ तस्य रूपम् स जयति शम्बरदमनः सुकुमारो यदुकुमारकुलमौलिः । जनयति जनेषु जनकभ्रान्तिं यः सुष्ठु रूपेण ॥ ऋBह्र्स्_३,२.१५२ ॥ अस्य भक्तिः प्रभावति समीक्ष्यतां दिवि कृपाम्बुधिर्मादृशां स एष परमो गुरुर्गरुडगो यदूनां पतिः । यतः किमपि लालनं वयमवाप्य दरोद्धुराः पुरारिमपि सङ्गरे गुरुरुषं तिरस्कुर्महे ॥ ऋBह्र्स्_३,२.१५३ ॥ उभयेषां सदाराध्यधियैव भजतामपि । सेवकानामिहैश्वर्यज्ञानस्यैव प्रधानता ॥ लाल्यानां तु स्वसम्बन्धस्फूर्तेरेव समन्ततः ॥ ऋBह्र्स्_३,२.१५४ ॥ व्रजस्थानां परैश्वर्यज्ञानशून्यधियामपि । अस्त्येव वल्लवाधीशपुत्रत्वैश्वर्यवेदनम् ॥ ऋBह्र्स्_३,२.१५५ ॥ अथ उद्दीपनाः उद्दीपनास्तु वात्सल्यस्मितप्रेक्षादयो हरेः ॥ ऋBह्र्स्_३,२.१५६ ॥ यथा अग्रे सानुग्रहं पश्यन्नग्रजं व्यग्रमानसः । गदः पदारविन्देऽस्य विदधे दण्डवन्नतिम् ॥ ऋBह्र्स्_३,२.१५७ ॥ अथ अनुभावाः अनुभावास्तु तस्याग्रे नीचासननिवेशनम् । गुरोर्वर्त्मानुसारित्वं धुरस्तस्य परिग्रहः । स्वैराचारविमोक्षाद्याः शीता लाल्येषु कीर्तिताः ॥ ऋBह्र्स्_३,२.१५८ ॥ तत्र नीचासननिवेशनम्, यथा यदुसदसि सुरेन्द्रैर्द्रागुपव्रज्यमानाः सुखदकरकवार्भिर्ब्रह्मणाभ्युक्षिताङ्गः । मधुरिपुमभिवन्द्य स्वर्णपीठानि मुञ्चन् भुवमभि मकराङ्को राङ्कवं स्वीचकार ॥ ऋBह्र्स्_३,२.१५९ ॥ दासैः साधाराणाश्चान्ये प्रोच्यन्तेऽमीषु केचन । प्रणामो मौनबाहुल्यं सङ्कोचं प्रश्रयाढ्यता । निजप्राणव्ययेनापि तद्आज्ञापरिपालनम् ॥ ऋBह्र्स्_३,२.१६० ॥ अधोवदनता स्थैर्यं कासहासादिवर्जनम् । तदीयातिरहःकेलिवार्ताद्य्उपरमादयः ॥ ऋBह्र्स्_३,२.१६१ ॥ अथ सात्त्विकाः कन्दर्प विन्दति मुकुन्दपदारविन्द द्वन्द्वे दृशोः पदमसौ किल निष्प्रकम्पा । प्रालेयबिन्दुनिचितं धृतकण्टका ते स्विन्नाद्य कण्टकिफलं तनुरन्वकार्षीत् ॥ ऋBह्र्स्_३,२.१६२ ॥ अथ व्यभिचारिणः अनन्तरोक्ताः सर्वेऽत्र भवन्ति व्यभिचारिणः ॥ ऋBह्र्स्_३,२.१६३ ॥ तत्र हर्षो, यथा दूरे दरेन्द्रस्य नभस्युदीर्णे ध्वनौ स्थितानां यदुराजधन्याम् । तनूरुहैस्तत्र कुमारकाणां नटैश्च हृष्यद्भिरकारि नृत्यम् ॥ ऋBह्र्स्_३,२.१६४ ॥ निर्वेदो, यथा धन्यः साम्ब भवान् सरिङ्गणमयन् पार्श्वे रजःकर्बूरो यस्तातेन विकृष्य वत्सलतया स्वोत्सङ्गमारोपितः । धिङ्मां दुर्भगमत्र शङ्करमयैर्दुर्दैवविस्फूर्जितैः प्राप्ता न क्षणिकापि लालनरतिः सा येन बाल्ये पितुः ॥ ऋBह्र्स्_३,२.१६५ ॥ अथ स्थायी देहसम्बन्धितामानाद्गुरुधीरत्र गौरवम् । तन्मयी लालके प्रीतिर्गौरवप्रीतिरुच्यते ॥ ऋBह्र्स्_३,२.१६६ ॥ स्थायिभावोऽत्र सा चैषामामूलात्स्वयमुच्छ्रिता । कञ्चिद्विशेषमापन्ना प्रेमेति स्नेह इत्यपि । राग इत्युच्यते चात्र गौरवप्रीतिरेव सा ॥ ऋBह्र्स्_३,२.१६७ ॥ तत्र गौरवप्रीतिः, यथा मुद्रां भिनत्ति न रदच्छदयोरमन्दां वक्त्रं च नोन्नमयति स्रवद्अस्रकीर्णम् । धीरः परं किमपि सङ्कुचतीं झषाङ्को दृष्टिं क्षिपत्यघभिदश्चरणारविन्दे ॥ ऋBह्र्स्_३,२.१६८ ॥ प्रेमा, यथा द्विषद्भिः क्षोदिष्ठैर्जगद्अविहितेच्छस्य भवतः करादाकृष्यैव प्रसभमभिमन्यावपि हते । सुभद्रायाः प्रीतिर्दनुजदमन त्वद्विषयिका प्रपेदे कल्याणी न हि मलिनिमानं लवमपि ॥ ऋBह्र्स्_३,२.१६९ ॥ स्नेहो, यथा विमुञ्च पृथुवेपथुं विसृज कण्ठाकुःठायितं विमृज्य मयि निक्षिप प्रसरद्अश्रुधारे दृशौ । करं च मकरध्वज प्रकटकण्टकालङ्कृतं निधेहि सविधे पितुः कथय वत्स कः सम्भ्रमः ॥ ऋBह्र्स्_३,२.१७० ॥ रागो, यथा विषमपि सहसा सुधामिवायं निपिबति चेत्पितुरिङ्गितं झषाङ्कः । विसृजति तद्असम्मतिर्यदि स्याद् विषमिव तां तु सुधां स एव सद्यः ॥ ऋBह्र्स्_३,२.१७१ ॥ त्रिष्वेवायोगयोगाद्या भेदाः पूर्ववदीरिताः ॥ ऋBह्र्स्_३,२.१७२ ॥ तत्र उत्कण्ठितम्, यथा शम्बरः सुमुखि लब्धदुर्विपड् डम्बरः स रिपुरम्बरायितः । अम्बुराजमहसं कदा गुरुः कम्बुराजकरमीक्षितास्महे ॥ ऋBह्र्स्_३,२.१७३ ॥ अथ वियोगः मनो ममेष्टामपि गेण्डुलीलां न वष्टि योग्यां च तथास्त्रयोग्याम् । गुरौ पुरं कौरवमभ्युपेते कारामिव द्वारवतीमवैति ॥ ऋBह्र्स्_३,२.१७४ ॥ सिद्धिः मिलितः शम्बरपुरतो मदनः पुरतो विलोकयन् पितरम् । कोऽहमिति स्वं प्रमदान्न धीरधीरप्यसौ वेद ॥ ऋBह्र्स्_३,२.१७५ ॥ तुष्टिः मिलितमधिष्ठितगरुडं प्रेक्ष्य युधिष्ठिरपुरान्मुरारातिम् । अजनि मुदा यदुनगरे सम्भ्रमभूमा कुमाराणाम् ॥ ऋBह्र्स्_३,२.१७६ ॥ स्थितिः कुञ्चयन्नक्षिणी किञ्चिद्बाष्पनिष्पन्दिपक्षिणी । वन्दते पादयोर्द्वन्द्वं पितुः प्रतिदिनं स्मरः ॥ ऋBह्र्स्_३,२.१७७ ॥ उत्कण्ठितवियोगाद्ये यद्यद्विस्तारितं न हि । सम्भ्रमप्रीतिवज्ज्ञेयं तत्तदेवाखिलं बुधैः ॥ ऋBह्र्स्_३,२.१७८ ॥ इति श्रीश्रीभक्तिरसामृतसिन्धौ पश्चिमविभागे मुख्यभक्तिरसपञ्चकनिरूपणे प्रीतिभक्तिरसलहरी द्वितीया । ___________________________________________________ (३.३) प्रेयोभक्तिरसाख्या तृतीयलहरी स्थायिभावो विभावाद्यैः सख्यमात्मोचितैरिह । नीतश्चित्ते सतां पुष्टिं रसः प्रेयानुदीर्यते ॥ ऋBह्र्स्_३,३.१ ॥ तत्र आलम्बनाः हरिश्च तद्वयस्याश्च तस्मिन्नालम्बना मताः ॥ ऋBह्र्स्_३,३.२ ॥ तत्र हरिः द्विभुजत्वादिभागत्र प्राग्वदालम्बनो हरिः ॥ ऋBह्र्स्_३,३.३ ॥ तत्र व्रजे, यथा महेन्द्रमणिमञ्जुलद्युतिरमन्दकुन्दस्मितः स्फुरत्पुरटकेतकीकुसुमरम्यपट्टाम्बरः । स्रग्उल्लसद्उरःस्थलः क्वणितवेणुरत्राव्रजन् व्रजादघहरो हरत्यहह नः सखीनां मनः ॥ ऋBह्र्स्_३,३.४ ॥ अन्यत्र, यथा चञ्चत्कौस्तुभकौमुदीसमुदयं कौमोदकीचक्रयोः सख्येनोज्ज्वलितैस्तथा जलजयोराढ्यं चतुर्भिर्भुजैः । दृष्ट्वा हारिहरिन्मणिद्युतिहरं शौरिं हिरण्याम्बरं जग्मुः पाण्डुसुताः प्रमोदसुधया नैवात्मसम्भावनाम् ॥ ऋBह्र्स्_३,३.५ ॥ सुवेषः सर्वसल्लक्ष्मलक्षितो बलिनां वरः । विविधाद्भुतभाषाविद्वावदूकः सुपण्डितः ॥ ऋBह्र्स्_३,३.६ ॥ विपुलप्रतिभो दक्षः करुणो वीरशेखरः । विदग्धो बुद्धिमान् क्षन्ता रक्तलोकः समृद्धिमान् । सुखी वरीयानित्याद्या गुणास्तस्येह कीर्तिता ॥ ऋBह्र्स्_३,३.७ ॥ अथ तद्वयस्याः रूपवेषगुणाद्यैस्तु समाः सम्यग्अयन्त्रिताः । विश्रम्भसम्भृतात्मानो वयस्यास्तस्य कीर्तिताः ॥ ऋBह्र्स्_३,३.८ ॥ यथा साम्येन भीतिविधुरेण विधीयमान भक्तिप्रपञ्चमनुदञ्चद्अनुग्रहेण । विश्रम्भसारनिकुरम्बकरम्बितेन वन्देतरामघहरस्य वयस्यवृन्दम् ॥ ऋBह्र्स्_३,३.९ ॥ ते पुरव्रजसम्बन्धाद्द्विविधाः प्राय ईरिताः ॥ ऋBह्र्स्_३,३.१० ॥ तत्र पुरसम्बन्धिनः अर्जुनो भीमसेनश्च दुहिता द्रुपदस्य च । श्रीदामभूसुराद्याश्च सखायः पुरसंश्रयाः ॥ ऋBह्र्स्_३,३.११ ॥ एषां सख्यम्, यथा शिरसि नृपतिर्द्रगघ्रासीदघारिमधीरधीर् भुजपरिघयोः श्लिष्टौ भीमार्जुनौ पुलकोज्ज्वलौ । पदकमलयोः सास्रौ दस्रात्मजौ च निपेततुस् तमवशाधियः प्रौढानन्दादरुन्धत पाण्डवाः ॥ ऋBह्र्स्_३,३.१२ ॥ श्रेष्ठः पुरवयस्येषु भगवान् वानरध्वजः ॥ ऋBह्र्स्_३,३.१३ ॥ अस्य रूपं, यथा गाण्डीवपाणिः करिराजशुण्डा रम्योरुरिन्दीवरसुन्दराभः । रथाङ्गिना रत्नरथाधिरोही स रोहिताक्षः सुतरामराजीत् ॥ ऋBह्र्स्_३,३.१४ ॥ सख्यं, यथा पर्यङ्के महति सुरारिहन्तुरङ्के निःशङ्कप्रणयनिसृष्टपूर्वकायः । उन्मीलन्नवनर्मकर्मठोऽयं गाण्डीवी स्मितवदनाम्बुजो व्यराजीत् ॥ ऋBह्र्स्_३,३.१५ ॥ अथ व्रजसम्बन्धिनः क्षणादर्शनतो दीनाः सदा सहविहारिणः । तद्एकजीविताः प्रोक्ता वयस्या व्रजवासिनः । अतः सर्ववयस्येषु प्रधानत्वं भजन्त्यमी ॥ ऋBह्र्स्_३,३.१६ ॥ एषां रूपं, यथा बलानुजसदृग्वयोगुणविलासवेषश्रियः प्रियङ्करणवल्लकीदलविषाणवेण्व्अङ्किताः । महेन्द्रमणिहाटकस्फटिकपद्मरागत्विषः सदा प्रणयशालिनः सहचरा हरेः पान्तु वः ॥ ऋBह्र्स्_३,३.१७ ॥ सख्यं, यथा उन्निद्रस्य ययुस्तवात्र विरतिं सप्तक्षपास्तिष्ठतो हन्त श्रान्त इवासि निक्षिप सखे श्रीदामपाणौ गिरिम् । आधिर्विध्यति नस्त्वमर्पय करे किं वा क्षणं दक्षिणे दोष्णस्ते करवाम काममधुना सव्यस्य संवाहनम् ॥ ऋBह्र्स्_३,३.१८ ॥ यथा वा श्रीदशमे (१०.१२.११) इत्थं सतां ब्रह्मसुखानुभूत्या दास्यं गतानां परदैवतेन । मायाश्रितानां नरदारकेण साकं विजह्रुः कृतपुण्यपुञ्जाः ॥ ऋBह्र्स्_३,३.१९ ॥ एषु कृष्णस्य सख्यं, यथा सहचरनिकुरम्बं भ्रातरार्य प्रविष्टं द्रुतमघजठरान्तःकोटरे प्रेक्षमाणः । स्खलद्अशिशिरबाष्पक्षालितक्षामगण्डः क्षणमहमवसीदन् शून्यचित्तस्तदासम् ॥ ऋBह्र्स्_३,३.२० ॥ सुहृदश्च सखायश्च तथा प्रियसखाः परे । प्रियनर्मवयस्याश्चेत्युक्ता गोष्ठे चतुर्विधाः ॥ ऋBह्र्स्_३,३.२१ ॥ तत्र सुहृदः वात्सल्यगन्धिसख्यां तु किञ्चित्ते वयसाधिकाः । सायुधास्तस्य दुष्टेभ्यः सदा रक्षापरायणाः ॥ ऋBह्र्स्_३,३.२२ ॥ सुभद्रमण्डलीभद्रभद्रवर्धनगोभटाः । यक्षेन्द्रभटभद्राङ्गवीरभद्रा महागुणाः । विजयो बलभद्राद्याः सुहृदस्तस्य कीर्तिताः ॥ ऋBह्र्स्_३,३.२३ ॥ एषां सख्यं, यथा धुन्वन् धावसि मण्डलाग्रममलं त्वं मण्डलीभद्र किं गुर्वीं नार्य गदां गृहाण विजय क्षोभं वृथा मा कृथाः । शक्तिं न क्षिप भद्रवर्धन पुरो गोवर्धनं गाहते गर्जन्नेष घनो बली न तु बलीवर्दाकृतिर्दानवः ॥ ऋBह्र्स्_३,३.२४ ॥ सुहृत्सु मण्डलीभद्रबलभद्रौ किलोत्तमौ ॥ ऋBह्र्स्_३,३.२५ ॥ अत्र मण्डलीभद्रस्य रूपम्, यथा पाटलपटलसद्अङ्गो लकुटकरः शेखरी शिखण्डेन । द्युतिमण्डलीमलिनिभां भाति दधन्मण्डलीभद्रः ॥ ऋBह्र्स्_३,३.२६ ॥ अस्य सख्यं, यथा वनभ्रमणकेलिभिर्गुरुभिरह्नि खिन्नीकृतः सुखं स्वपितु नः सुहृद्व्रजनिशान्तमध्ये निशि । अहं शिरसि मर्दनं मृदु करोमि कर्णे कथां त्वमस्य विसृजन्नलं सुबल सक्थिनी लालय ॥ ऋBह्र्स्_३,३.२७ ॥ बलदेवस्य रूपं, यथा गण्डान्तःस्फुरद्एककुण्डलमलिच्छन्नावतंसोत्पलं कस्तूरीकृतचित्रकं पृथुहृदि भ्राजिष्णु गुञ्जास्रजम् । तं वीरं शरद्अम्बुदद्युतिभरं संवीतकालाम्बरं गम्भीरस्वनितं प्रलम्बभुजमालम्बे प्रलम्बद्विषम् ॥ ऋBह्र्स्_३,३.२८ ॥ अस्य सख्यं, यथा जनितिथिरिति पुत्रप्रेमसंवीतयाहं स्नपयितुमिह सद्मन्यम्बया स्तम्भितोऽस्मि । इति सुबल गिरा मे सन्दिश त्वं मुकुन्दं फणिपतिह्रदकच्छे नाद्य गच्छेः कदापि ॥ ऋBह्र्स्_३,३.२९ ॥ अत्र सखायः कनिष्ठकल्पाः सख्येन सम्बन्धाः प्रीतिगन्धिना । विशालवृषभौर्जस्विदेवप्रस्थवरूथपाः ॥ ऋBह्र्स्_३,३.३० ॥ मरन्दकुसुमापीडमणिबन्धकरन्धमाः । इत्य्आदयः सखायोऽस्य सेवासख्यैकरागिणः ॥ ऋBह्र्स्_३,३.३१ ॥ एषां सख्यं, यथा विशाल विसिनीदलैः कलय वीजनप्रक्रियां वरूथप विलम्बितालकवरूथमुत्सारय । मृषा वृषभ जल्पितं त्यज भजाङ्गसंवाहनं यदुग्रभुजसङ्गरे गुरुमगात्क्लमं नः सखा ॥ ऋBह्र्स्_३,३.३२ ॥ सर्वेषु सखिषु श्रेष्ठो देवप्रस्थोऽयमीरितः ॥ ऋBह्र्स्_३,३.३३ ॥ तस्य रूपं, यथा बिभ्रद्गेण्डुं पाण्डुरोद्भासवासाः पाशाबद्धोत्तुङ्गमौलिर्बलीयान् । बन्धूकाभः सिन्धुरस्पर्धिलीलो देवप्रस्थः कृष्णपार्श्वं प्रतस्थे ॥ ऋBह्र्स्_३,३.३४ ॥ अस्य सख्यं, यथा श्रीदाम्नः पृथुलां भुजामभि शिरो विन्यस्य विश्रामिणं दाम्नः सव्यकरेण रुद्धहृदयं शय्याविराजत्तनुम् । मध्ये सुन्दरि कन्दरस्य पदयोः संवाहनेन प्रियं देवप्रस्थ इतः कृती सुखयति प्रेम्णा व्रजेन्द्रात्मजम् ॥ ऋBह्र्स्_३,३.३५ ॥ अथ प्रियसखाः वयस्तुल्याः प्रियसखा सख्यं केवलमाश्रिताः । श्रीदामा च सुदामा च दामा च वसुदामकः ॥ ऋBह्र्स्_३,३.३६ ॥ किङ्किणिस्तोककृष्णांशुभद्रसेनविलासिनः । पुण्डरीकविटङ्काक्षकलविङ्कादयोऽप्यमी ॥ ऋBह्र्स्_३,३.३७ ॥ रमयन्ति प्रियसखाः केलिभिर्विविधैः सदा । नियुद्धदण्डयुद्धादिकौतुकैरपि केशवम् ॥ ऋBह्र्स्_३,३.३८ ॥ एषां सख्यं, यथा सगद्गदपदैर्हरिं हसति कोऽपि वक्रोदितैः प्रसार्य भुजयोर्युगं पुलकि कश्चिदाश्लिष्यति । करेण चलता दृशौ निभृतमेत्य रुन्धे परः कृशाङ्गि सुखयन्त्यमी प्रियसखाः सखायं तव ॥ ऋBह्र्स्_३,३.३९ ॥ एषु प्रियवयस्येषु श्रीदामा प्रवरो मतः ॥ ऋBह्र्स्_३,३.४० ॥ तस्य रूपम्, यथा वासः पिङ्गं बिभ्रतं शृङ्गपाणिं बद्धस्पर्धं सौहृदान्माधवेन । ताम्रोष्णीषं श्यामधामाभिरामं श्रीदामानं दामभाजं भजामि ॥ ऋBह्र्स्_३,३.४१ ॥ सख्यं, यथा त्वं नः प्रोज्झ्य कठोर यामुनतटे कस्मादकस्माद्गतो दिष्ट्या दृष्टिमितोऽसि हन्त निविडाश्लेषैः सखीन् प्रीणय । ब्रूमः सत्यमदर्शने तव मनाक्का धेनवः के वयं किं गोष्ठं किमभीष्टमित्यचिरतः सर्वं विपर्यस्यति ॥ ऋBह्र्स्_३,३.४२ ॥ अथ प्रियनर्मवयस्याः प्रियनर्मवयस्यास्तु पूर्वतोऽप्यभितो वराः । आत्यन्तिकरहस्येषु युक्ता भावविशेषिणः । सुबलार्जुनगन्धर्वास्ते वसन्तोज्ज्वलादयः ॥ ऋBह्र्स्_३,३.४३ ॥ एषां सख्यं, यथा राधासन्देशवृन्दं कथयति सुबलः पश्य कृष्णस्य कर्णे श्यामाकन्दर्पलेखं निभृतमुपहरत्युज्ज्वलः पाणिपद्मे । पालीताम्बूलमास्ये वितरति चतुरः कोकिलो मूर्ध्नि धत्ते तारादामेति नर्मप्रणयिसहचरास्तन्वि तन्वन्ति सेवाम् ॥ ऋBह्र्स्_३,३.४४ ॥ प्रियनर्मवयस्येषु प्रबलौ सुबलार्जुनौ ॥ ऋBह्र्स्_३,३.४५ ॥ तत्र सुबलस्य रूपं, यथा तनुरुचिविजितहिरण्यं हरिदयितं हारिणं हरिद्वसनम् । सुबलं कुवलयनयनं नयनन्दितबान्धवं वन्दे ॥ ऋBह्र्स्_३,३.४६ ॥ अस्य सख्यं, यथा वयस्यगोष्ठ्यामखिलेङ्गितेषु विशारदायामपि माधवस्य । अन्यैर्दुरूहा सुबलेन सार्धं संज्ञामयी कापि बभूव वार्ता ॥ ऋBह्र्स्_३,३.४७ ॥ उज्ज्वलस्य रूपं, यथा अरुणाम्बरमुच्चलेक्षणं मधुपुष्पबलिभिः प्रसाधितम् । हरिनीलरुचिं हरिप्रियं मणिहारोज्ज्वलमुज्ज्वलं भजे ॥ ऋBह्र्स्_३,३.४८ ॥ अस्य सख्यं, यथा शक्तास्मि मानमवितुं कथमुज्ज्वलोऽयं दूतः समेति सखि यत्र मिलत्यदूरे । सापत्रपापि कुलजापि पतिव्रतापि का वा वृषस्यति न गोपवृषं किशोरी ॥ ऋBह्र्स्_३,३.४९ ॥ उज्ज्वलोऽयं विशेषेण सदा नर्मोक्तिलालसः ॥ ऋBह्र्स्_३,३.५० ॥ यथा स्फुरद्अतनुतरङ्गावर्धितानल्पवेलः सुमधुररसरूपो दुर्गमावारपारः । जगति युवतिजातिर्निम्नगा त्वं समुद्रस् तदियमघहर त्वामेति सर्वाध्वनैव ॥ ऋBह्र्स्_३,३.५१ ॥ एतेषु केऽपि शास्त्रेषु केऽपि लोकेषु विश्रुताः ॥ ऋBह्र्स्_३,३.५२ ॥ नित्यप्रियाः सुरचराः साधकाश्चेति ते त्रिधा । केचिदेषु स्थिरा जात्या मन्त्रिवत्तमुपासते ॥ ऋBह्र्स्_३,३.५३ ॥ तं हासयन्ति चापलाः केचिद्वैहासिकोपमाः । केचिदार्जवसारेण सरलाः शीलयन्ति तम् ॥ ऋBह्र्स्_३,३.५४ ॥ वामा वक्रिमचक्रेण केचिद्विस्माययन्त्यमुम् । केचित्प्रगल्भाः कुर्वन्ति वितण्डाममुना । सौम्याः सूनृतया वाचा धन्या धिन्वन्ति तं परे ॥ ऋBह्र्स्_३,३.५५ ॥ एवं विविधया सर्वे प्रकृत्या मधुरा अमी । पवित्रमैत्रीवैचित्रीचारुतामुपचिन्वते ॥ ऋBह्र्स्_३,३.५६ ॥ अथ उद्दीपनाः उद्दीपना वयोरूपशृङ्गवेणुदरा हरेः । विनोदनर्मविक्रान्तिगुणाः प्रेष्ठजनास्तथा । राजदेवावतारादिचेष्टानुकरणादयः ॥ ऋBह्र्स्_३,३.५७ ॥ अथ वयः वयः कौमारपौगण्डकैशोरं चेह सम्मतम् । गोष्ठे कौमारपौगण्डे कैशोरं पुरगोष्ठयोः ॥ ऋBह्र्स्_३,३.५८ ॥ तत्र कौमारं, यथा कौमारं वत्सले वाच्यं ततः सङ्क्षिप्य लिख्यते ॥ ऋBह्र्स्_३,३.५९ ॥ यथा श्रीदशमे (१०.१३.११) बिभ्रद्वेणुं जठरपटयोः शृङ्गवेत्रे च कक्षे वामे पाणौ मसृणकवलं तत्फलान्यङ्गुलीषु । तिष्ठन्मध्ये स्वपरिसुहृदो हासयन्नर्मभिः स्वैः स्वर्गे लोके मिषति बुभुजे यज्ञभुग्बालकेलिः ॥ ऋBह्र्स्_३,३.६० ॥ अथ पौगण्डम् आद्यं मध्यं तथा शेषं पौगण्डं च त्रिधा भवेत् ॥ ऋBह्र्स्_३,३.६१ ॥ तत्र आद्यं पौगण्डं अधरादेः सुलौहित्यं जठरस्य च तानवम् । कम्बुग्रीवोद्गमाद्यं च पौगण्डे प्रथमे सति ॥ ऋBह्र्स्_३,३.६२ ॥ यथा तुन्दं विन्दति ते मुकुन्द शनकैरश्वत्थपत्रश्रियं कण्ठं कम्बुवदम्बुजाक्ष भजते रेखात्रयीमुज्ज्वलाम् । आरुन्धे कुरुविन्दकन्दलरुचिं भूचन्द्र दन्तच्छदो लक्ष्मीराधुनिकी धिनोति सुहृदामक्षीणि सा काप्यसौ ॥ ऋBह्र्स्_३,३.६३ ॥ पुष्पमण्डनवैचित्री चित्राणि गिरिधातुभिः । पीतपट्टदुकूलाद्यमिह प्रोक्तं प्रसाधनम् ॥ ऋBह्र्स्_३,३.६४ ॥ सर्वाटवीप्रचारेण नैचिकीचयचारणम् । नियुद्धकेलिनृत्यादिशिक्षारम्भोऽत्र चेष्टितम् ॥ ऋBह्र्स्_३,३.६५ ॥ यथा वृन्दारण्ये समस्तात्सुरभिणि सुरभीवृन्दरक्षाविहारी गुञ्जाहारी शिखण्डप्रकटितमुकुटः पीतपट्टाम्बरश्रीः । कर्णाभ्यां कर्णिकारे दधदलमुरसा फुल्लमल्लीकमाल्यं नृत्यन् दोर्युद्धरङ्गे नटवदिह सखीन्नन्दयत्येष कृष्णः ॥ ऋBह्र्स्_३,३.६६ ॥ अथ मध्यपौगण्डम् नासा सुशिखरा तुङ्गा कपोलौ मण्डलाकृती । पार्श्वाद्य्अङ्गं सुवलितं पौगण्डे सति मध्यमे ॥ ऋBह्र्स्_३,३.६७ ॥ यथा तिलकुसुमविहासिनासिकाश्रीर् नवमणिदर्पणदर्पनाशिगण्डः । हरिरिह परिमृष्टपार्श्वसीमा सुखयति सुष्ठु सखीन् स्वशोभयैव ॥ ऋBह्र्स्_३,३.६८ ॥ उष्णीषं पट्टसूत्रोत्थपाशेनात्र तडित्त्विषा । यष्टिः श्यामा त्रिहस्तोच्चा स्वर्णाग्रेत्यादिमण्डनम् । भाण्डीरे क्रीडनं शैलोद्धारणाद्यं च चेष्टितम् ॥ ऋBह्र्स्_३,३.६९ ॥ यथा यष्टिं हस्तत्रयपरिमितां प्रान्तयोः स्वर्णबद्धां बिभ्रल्लीलां चटुलचमरीचारुचूडोज्ज्वलश्रीः । बद्धोष्णीषः पुरटरुचिना पट्टिपाशेन पार्श्वे पश्य क्रीडन् सुखयति सखे मित्रवृन्दं मुकुन्दः ॥ ऋBह्र्स्_३,३.७० ॥ पौगण्डमध्य एवायं हरिर्दीव्यन् विराजते । माधुर्याद्भुतरूपत्वात्कैशोराग्रांशभागिव ॥ ऋBह्र्स्_३,३.७१ ॥ अथ शेषपौगण्डम् वेणी नितम्बलम्बाग्रा लीलालकलताद्युति । अंसयोस्तुङ्गतेत्यादि पौगण्डे चरमे सति ॥ ऋBह्र्स्_३,३.७२ ॥ यथा अग्रे लीलालकलतिकयालङ्कृतं बिभ्रदास्यं चञ्चद्वेणीशिखरशिखया चुम्बितश्रेणिबिम्बः । उत्तुङ्गांसच्छविरघहरो रङ्गमङ्गश्रियैव न्यस्यन्नेव प्रियसवयसां गोकुलान्निर्जिहीते ॥ ऋBह्र्स्_३,३.७३ ॥ उष्णीषे वक्रिमा लीलासरसीरुहपाणिता । काश्मीरेणोर्ध्वपुण्ड्राद्यमिह मण्डनमीरितम् ॥ ऋBह्र्स्_३,३.७४ ॥ यथा उष्णीषे दरवक्रिमा करतले व्याजृम्भिलीलाम्बुजं गौरश्रीरलिके किलोर्ध्वतिलकः कस्तूरिकाबिन्दुमान् । वेषः केशव पेशलः सुबलमप्याघूर्णयत्यद्य ते विक्रान्तं किमुत स्वभावमृदुलां गोष्ठाबलानां ततिम् ॥ ऋBह्र्स्_३,३.७५ ॥ अत्र भङ्गी गिरां नर्मसखैः कर्णकथारसः । एषु गोकुलबालानां श्रीश्लाघेत्य्आदिचेष्टितम् ॥ ऋBह्र्स्_३,३.७६ ॥ यथा धूर्तस्त्वं यदवैषि हृद्गतमतः कर्णे तव व्याहरे केयं मोहनतासमृद्धिरधुना गोधुक्कुमारीगणे । अत्रापि द्युतिरत्नरोहणभुवो बालाः सखे पञ्चषाः पञ्चेषुर्जगतां जये निजधुरां यत्रार्पयन्माद्यति ॥ ऋBह्र्स्_३,३.७७ ॥ अथ कैशोरम् कैशोरं पूर्वमेवोक्तं सङ्क्षेपेणोच्यते ततः ॥ ऋBह्र्स्_३,३.७८ ॥ यथा पश्योत्सिक्तबलीत्रयीवरलते वासस्तडिन्मञ्जुले प्रोन्मीलद्वनमालिकापरिमलस्तोमे तमालत्विषि । उक्षत्यम्बकचातकान् स्मितरसैर्दामोदराम्भोधरे श्रीदामा रमणीयरोमकलिकाकीर्णाङ्गशाखी बभौ ॥ ऋBह्र्स्_३,३.७९ ॥ प्रायः किशोर एवायं सर्वभक्तेषु भासते । तेन यौवनशोभास्य नेह काचित्प्रपञ्चिता ॥ ऋBह्र्स्_३,३.८० ॥ अथ रूपं, यथा अलङ्कारमलङ्कृत्वा तवाङ्गं पङ्कजेक्षण । सखीन् केवलमेवेदं धाम्ना धीमन् धिनोति नः ॥ ऋBह्र्स्_३,३.८१ ॥ अथ शृङ्गं, यथा व्रजनिजवडभीवितर्दिकायाम् उषसि विषाणवरे रुवत्युदग्रम् । अहह सवयसां तदीयरोम्णाम् अपि निवहाः सममेव जाग्रति स्म ॥ ऋBह्र्स्_३,३.८२ ॥ वेणुर्, यथा सुहृदो न हि यात कातरा हरिमन्वेष्टुमितः सुतां रवेः । कथयन्नमुमत्र वैणव ध्वनिदूतः शिखरे धिनोति नः ॥ ऋBह्र्स्_३,३.८३ ॥ शङ्खो, यथा पाञ्चालीपतयः श्रुत्वा पाञ्चजन्यस्य निस्वनम् । पञ्चास्य पश्य मुदिताः पञ्चास्यप्रतिमां ययुः ॥ ऋBह्र्स्_३,३.८४ ॥ विनोदो, यथा स्फुरद्अरुणदुकूलं जागुडैर्गौरगात्रं कृतवरकवरीकं रत्नताटङ्ककर्णम् । मधुरिपुमिह राधावेषमुद्वीक्ष्य साक्षात् प्रियसखि सुबलोऽभूद्विस्मितः सस्मितश्च ॥ ऋBह्र्स्_३,३.८५ ॥ अथानुभावाः नियुद्धकन्दुकद्यूतवाह्यवाहादिकेलिभिः । लगुडालगुडिक्रीडासङ्गरैश्चास्य तोषणम् ॥ ऋBह्र्स्_३,३.८६ ॥ पल्यङ्कासनदोलासु सहस्वापोपवेशनम् । चारुचित्रपरीहासो विहारः सलिलाशये ॥ ऋBह्र्स्_३,३.८७ ॥ युग्मत्वे लास्यगानाद्याः सर्वसाधारणाः क्रियाः ॥ ऋBह्र्स्_३,३.८८ ॥ तत्र नियुद्धेन तोषणं, यथा अघहर जितकाशी युद्धकण्डूलबाहुस् त्वमटसि सखिगोष्ठ्यामात्मवीर्यं स्तुवानः । कथय किमु ममोच्चैश्चण्डदोर्दण्डचेष्टा विरमितरणरङ्गो निःसहाङ्गः स्थितोऽसि ॥ ऋBह्र्स्_३,३.८९ ॥ युक्तायुक्तादिकथनं हितकृत्ये प्रवर्तनम् । प्रायः पुरःसरत्वाद्याः सुहृदामीरिताः क्रियाः ॥ ऋBह्र्स्_३,३.९० ॥ ताम्बुलाद्य्अर्पणं वक्त्रे तिलकस्थासकक्रिया । पत्राङ्कुरविलेखादि सखीनां कर्म कीर्तितम् ॥ ऋBह्र्स्_३,३.९१ ॥ निर्जितीकरणं युद्धे वस्त्रे धृत्वास्य कर्षणम् । पुष्पाद्य्आच्छेदनं हस्तात्कृष्णेन स्वप्रसाधनम् । हस्ताहस्तिप्रसङ्गाद्याः प्रोक्ताः प्रियसखक्रियाः ॥ ऋBह्र्स्_३,३.९२ ॥ दूत्यं व्रजकिशोरीषु तासां प्रणयगामिता । ताभिः केलिकलौ साक्षात्सख्युः पक्षपरिग्रहः ॥ ऋBह्र्स्_३,३.९३ ॥ असाक्षात्स्वस्वयूथेशापक्षस्थापनचातुरी । कर्णाकर्णिकथाद्याश्च प्रियनर्मसखक्रियाः ॥ ऋBह्र्स्_३,३.९४ ॥ वन्यरत्नालङ्कारैर्माधवस्य प्रसाधनम् । पुरस्तौर्यत्रिकं तस्य गवां सम्भालनक्रियाः ॥ ऋBह्र्स्_३,३.९५ ॥ अङ्गसंवाहनं माल्यगुम्फनं बीजनादयः । एताः साधारणा दासैर्वयस्यानां क्रिया मताः । पूर्वोक्तेष्वपराश्चात्र ज्ञेया धीरैर्यथोचितम् ॥ ऋBह्र्स्_३,३.९६ ॥ अथ सात्त्विकाः, तत्र स्तम्भो, यथा निष्क्रामन्तं नागमुन्मथ्य कृष्णं श्रीदामायं द्राक्परिष्वक्तुकामः । लब्धस्तम्भौ सम्भ्रमारम्भशाली बाहुस्तम्भौ पश्य नोत्क्षेप्तुमीष्टे ॥ ऋBह्र्स्_३,३.९७ ॥ स्वेदो, यथा क्रीडोत्सवानन्दरसं मुकुन्दे स्वात्य्अम्बुदे वर्षति रम्यघोषे । श्रीदाममूर्तिर्वरशुक्तिरेषा स्वेदाम्बुमुक्तापटलीं प्रसूते ॥ ऋBह्र्स्_३,३.९८ ॥ रोमाञ्चो, यथा दानकेलिकौमुद्याम् (३७) अपि गुरुपुरस्त्वामुत्सङ्गे निधाय विसङ्कटे विपुलपुलकोल्लासं स्वरा परिष्वजते हरिः । प्रणयति तव स्कन्धे चासौ भुजं भुजगोपमं क्व सुबल पुरा सिद्धक्षेत्रे चकथ कियत्तपः ॥ ऋBह्र्स्_३,३.९९ ॥ स्वरभेदादि चतुष्कं, यथा प्रविष्टवति माधवे भुजगराजभाजं ह्रदं तदीयसुहृदस्तदा पृथुलवेपथुव्याकुलाः । विवर्णवपुषः क्षणाद्विकटघर्घरध्मायिनो निपत्य निकटस्थलीभुवि सुषुप्तिमारेभिरे ॥ ऋBह्र्स्_३,३.१०० ॥ अश्रु, यथा दावं समीक्ष्य विचरन्तमिषीकतुलैस् तस्य क्षयार्थमिव बाष्पझरं किरन्ती । स्वामप्युपेक्ष्य तनुमम्बुजमालभारिण्य् आभीरवीथिरभितो हरिमावरिष्ट ॥ ऋBह्र्स्_३,३.१०१ ॥ अथ व्यभिचारिणः औग्र्यं त्रासं तथालस्यं वर्जयित्वाखिलाः परे । रसे प्रेयसि भावज्ञैः कथिता व्यभिचारिणः ॥ ऋBह्र्स्_३,३.१०२ ॥ तत्रायोगे मदं हर्षं गर्वं निद्रां धृतिं विना । योगे मृतिं क्लमं व्याधिं विनापस्मृतिदीनते ॥ ऋBह्र्स्_३,३.१०३ ॥ तत्र हर्षो, यथा निष्क्रमय्य किल कालियोरगं वल्लवेश्वरसुते समीयुषि । सम्मदेन सुहृदः स्खलत्पदास् तद्गिरश्च विवशाङ्गतां दधुः ॥ ऋBह्र्स्_३,३.१०४ ॥ अथ स्थायी विमुक्तसम्भ्रमा या स्याद्विश्रम्भात्मा रतिर्द्वयोः । प्रायः समानयोरत्र सा सख्यस्थायिशब्दभाक् ॥ ऋBह्र्स्_३,३.१०५ ॥ विश्रम्भो गाढविश्वासविशेषः यन्त्रणोज्झितः । एषा सख्यरतिर्वृद्धिं गच्छन्ती प्रणयः क्रमात् । प्रेमा स्नेहस्तथा राग इति पञ्चभिदोदिता ॥ ऋBह्र्स्_३,३.१०६ ॥ तत्र सख्यरतिः, यथा मुकुन्दो गान्दिनीपुत्र त्वया सन्दिश्यतामिति । गरुडाङ्क गुडाकेशस्त्वां कदा परिरप्स्यते ॥ ऋBह्र्स्_३,३.१०७ ॥ प्रणयः प्राप्तायां सम्भ्रमादीनां योग्यतायामपि स्फुटम् । तद्गन्धेनाप्यसंस्पृष्टा रतिः प्रणय उच्यते ॥ ऋBह्र्स्_३,३.१०८ ॥ यथा सुरैस्त्रिपुरजिन्मुखैरपि विधीयमानस्तुतेर् अपि प्रथयतः परामधिकपारमेष्ठ्यश्रियम् । दधत्पुलकिनं हरेरधिशिरोधि सव्यं भुजं समस्कुरुत पांशुमान् शिरसि चन्द्रकानर्जुनः ॥ ऋBह्र्स्_३,३.१०९ ॥ प्रेम, यथा भवत्युदयतीश्वरे सुहृदि हन्त राज्यच्युतिर् मुकुन्द वसतिर्वने परगृहे च दास्यक्रिया । इयं स्फुटममङ्गला भवतु पाण्डवानां गतिः परन्तु ववृधे त्वयि द्विगुणमेव सख्यामृतम् ॥ ऋBह्र्स्_३,३.११० ॥ स्नेहो, यथा श्रीदशमे (१०.१५.१८) अन्ये तद्अनुरूपाणि मनोज्ञानि महात्मनः । गायन्ति स्म महाराज स्नेहक्लिन्नधियः शनैः ॥ ऋBह्र्स्_३,३.१११ ॥ यथा वा आर्द्राङ्गस्खलद्अच्छधातुषु सुहृद्गोत्रेषु लीलारसं वर्षत्युच्छ्वसितेषु कृष्णमुदिरे व्यक्तं बभूवाद्भुतम् । या प्रागास्त सरस्वती द्रुतमसौ लीनोपकण्ठस्थले या नासीदुदगाद्दृशोः पथि सदा नीरोरुधावात्र सा ॥ ऋBह्र्स्_३,३.११२ ॥ रागो, यथा अस्त्रेण दुष्परिहरा हरये व्यकारि या पत्रिपङ्क्तिरकृपेण कृपीसुतेन । उत्प्लुत्य गाण्डिवभृता हृदि गृह्यमाणा जातास्य सा कुसुमवृष्टिरिवोत्सवाय ॥ ऋBह्र्स्_३,३.११३ ॥ यथा वा कुसुमान्यवचिन्वतः समन्ताद् वनमालारचनोचितान्यरण्ये । वृषभस्य वृषार्कजा मरीचिर् दिवसार्धेऽपि बभूव कौमुदीव ॥ ऋBह्र्स्_३,३.११४ ॥ अथ अयोगे उत्कण्ठितं, यथा धनुर्वेदमधीयानो मध्यमस्त्वयि पाण्डवः । बाष्पसङ्कीर्णया कृष्णः गिराश्लेषं व्यजिज्ञपत् ॥ ऋBह्र्स्_३,३.११५ ॥ अथ वियोगे, यथा अघस्य जठरानलात्फणिह्रदस्य च क्ष्वेडतो दवस्य कवलादपि त्वमवितात्र येषामभूः । इतस्त्रितयतोऽप्यतिप्रकटघोरधाटीधरात् कथं न विरहज्वरादवसितान् सखीनद्य नः ॥ ऋBह्र्स्_३,३.११६ ॥ अत्रापि पूर्ववत्प्रोक्तास्तापाद्यास्ता दशा दश ॥ ऋBह्र्स्_३,३.११७ ॥ तत्र तापः प्रपन्नाः भाण्डीरेऽप्यधिकशिशिरे चण्डिमभरं तुषारेऽपि प्रौढिं दिनकरसुतास्रोतसि गतः । अपूर्वः कंसारे सुबलमुखमित्रावलिमसौ बलीयानुत्तापस्तव विरहजन्मा ज्वलयति ॥ ऋBह्र्स्_३,३.११८ ॥ कृशता त्वयि प्राप्ते कंसक्षितिपतिविमोक्षाय नगरीं गभीरादाभीरावलितनुषु खेदादनुदिनम् । चतूर्णां भूतानामजनि तनिमा दानवरिपो समीरस्य घ्रानाध्वनि पृथुलता केवलमभूत् ॥ ऋBह्र्स्_३,३.११९ ॥ जागर्या, यथा नेत्राम्बुजद्वन्द्वमवेक्ष्य पूर्णं बाष्पाम्बुपूरेण वरूथपस्य । तत्रानुवृत्तिं किल यादवेन्द्र निर्विद्य निद्रामधुपी मुमोच ॥ ऋBह्र्स्_३,३.१२० ॥ आलम्बनशून्यता गते वृन्दारण्यात्प्रियसुहृदि गोष्ठेश्वरसुते लघुभृतं सद्यः पतद्अतितरामुत्पतदपि । न हि भ्रामं भ्रामं भजति चटुलं तुलमिव मे निरालम्बं चेतः क्वचिदपि विलम्बं लवमपि ॥ ऋBह्र्स्_३,३.१२१ ॥ अधृतिः रचयति निजवृत्तौ पाशुपाल्ये निवृत्तिं कलयति च कलानां विस्मृतौ यत्नकोटिम् । किमपरमिह वाच्यं जीवितेऽप्यद्य धत्ते यदुवर विरहात्ते नार्थितां बन्धुवर्गः ॥ ऋBह्र्स्_३,३.१२२ ॥ जडता अनाश्रितपरिच्छदाः कृशविशीर्णरुक्षाङ्गकाः सदा विफलवृत्तयो विरहिताः किल च्छायया । विरावपरिवर्जितास्तव मुकुन्द गोष्ठान्तरे स्फुरति सुहृदां गणाः शिखरजातवृक्षा इव ॥ ऋBह्र्स्_३,३.१२३ ॥ व्याधिः विरहज्वरसंज्वरेण ते ज्वलिता विश्लथगात्रबन्धना । यदुवीर तटे विचेष्टते चिरमाभीरकुमारमण्डली ॥ ऋBह्र्स्_३,३.१२४ ॥ उन्मादः विना भवद्अनुस्मृतिं विरहविभ्रमेणाधुना जगद्व्यवहृतिक्रमं निखिलमेव विस्मारिताः । लुण्ठन्ति भुवि शेरते बत हसन्ति धावन्त्यमी रुदन्ति मथुरापते किमपि वल्लवानां गणाः ॥ ऋBह्र्स्_३,३.१२५ ॥ मूर्च्छितम् दीव्यतीह मधुरे मथुरायां प्राप्य राज्यमधुना मधुनाथे । विश्वमेव मुदितं रुदितान्धे गोकुले तु मुहुराकुलताभूत् ॥ ऋBह्र्स्_३,३.१२६ ॥ मृतिः कंसारेर्विरहज्वरोर्मिजनितज्वालावलीजर्जरा गोपाः शैलतटे तथा शिथिलितश्वासाङ्कुराः शेरते । वारं वारमखर्वलोचनजलैराप्लाव्य तान्निश्चलान् शोचन्त्यद्य यथा चिरं परिचयस्निग्धाः कुरङ्गा अपि ॥ ऋBह्र्स्_३,३.१२७ ॥ प्रोक्तेयं विरहावस्था स्पष्टलीलानुसारतः । कृष्णेन विप्रयोगः स्यान्न जातु व्रजवासिनाम् ॥ ऋBह्र्स्_३,३.१२८ ॥ तथा च स्कान्दे मथुराखण्डे वत्सैर्वत्सतरीभिश्च सदा क्रीडति माधवः । वृन्दावनान्तरगतः सरामो बालकैर्वृतः ॥ ऋBह्र्स्_३,३.१२९ ॥ अथ योगे सिद्धिर्, यथा पाण्डवः पुण्डरीकाक्षं प्रेक्ष्य चक्रिनिकेतने । चित्राकारं भजन्नेव मित्राकारमदर्शयत् ॥ ऋBह्र्स्_३,३.१३० ॥ तुष्टिर्, यथ श्रीदशमे (१०.७१.२७) तं मातुलेयं परिरभ्य निर्वृतो भीमः स्मयन् प्रेमजवाकुलेन्द्रियः । यमौ किरीटी च सुहृत्तमं मुदा प्रबृद्धबाष्पः परिरेभिरेऽच्युतम् ॥ ऋBह्र्स्_३,३.१३१ ॥ यथा वा कुरुजाङ्गले हरिमवेक्ष्य पुरः प्रियसङ्गमं व्रजसुहृन्निकराः । भुजमण्डलेन मणिकुण्डलिनः पुलकाञ्चितेन परिषष्वजिरे ॥ ऋBह्र्स्_३,३.१३२ ॥ स्थितिर्, यथा श्रीदशमे (१०.१२.१२) यत्पादपांसुर्बहुजन्मकृच्छ्रतो धृतात्मभिर्योगिभिरप्यलभ्यः । स एव यद्दृग्विषयः स्वयं स्थितः किं वर्ण्यते दिष्टमतो व्रजौकसाम् ॥ ऋBह्र्स्_३,३.१३३ ॥ द्वयोरप्येकजातीयभावमाधुर्यभागसौ । प्रेयान् कामपि पुष्णाति रसश्चित्तचमत्कृतिम् ॥ ऋBह्र्स्_३,३.१३४ ॥ प्रीते च वत्सले चापि कृष्णतद्भक्तयोः पुनः । द्वयोरन्योन्यभावस्य भिन्नजातीयता भवेत् ॥ ऋBह्र्स्_३,३.१३५ ॥ प्रेयानेव भवेत्प्रेयानतः सर्वरसेष्वयम् । सख्यसम्पृक्तहृदयैः सद्भिरेवानुबुध्यते ॥ ऋBह्र्स्_३,३.१३६ ॥ इति श्रीश्रीभक्तिरसामृतसिन्धौ पश्चिमविभागे मुख्यभक्तिरसपञ्चकनिरूपणे प्रेयोभक्तिरसलहरी तृतीया । ___________________________________________________ (३.४) वत्सलभक्तिरसाख्या चतुर्थलहरी विभावाद्यैस्तु वात्सल्यं स्थायी पुष्टिमुपागतः । एष वत्सलनामात्र प्रोक्तो भक्तिरसो बुधैः ॥ ऋBह्र्स्_३,४.१ ॥ तत्र आलम्बनाः कृष्णं तस्य गुरूंश्चात्र प्राहुरालम्बनान् बुधाः ॥ ऋBह्र्स्_३,४.२ ॥ तत्र कृष्णो, यथा नवकुवलयदामश्यामलं कोमलाङ्गं विचलद्अलकभृङ्गक्रान्तनेत्राम्बुजान्तम् । व्रजभुवि विहरन्तं पुत्रमालोकयन्ती व्रजपतिदयितासीत्प्रस्नवोत्पीडदिग्धा ॥ ऋBह्र्स्_३,४.३ ॥ श्यामाङ्गो रुचिरः सर्वसल्लक्षणयुतो मृदुः । प्रियवाक्सरलो ह्रीमान् विनयी मान्यमानकृत् । दातेत्य्आदिगुणो कृष्णो विभाव इति कथ्यते ॥ ऋBह्र्स्_३,४.४ ॥ एवं गुणस्य चास्यानुग्राह्यत्वादेव कीर्तिता । प्रभावानास्पदतया वेद्यस्यात्र विभावता ॥ ऋBह्र्स्_३,४.५ ॥ तथा श्रीदशमे (१०.८.४५) त्रय्या चोपनिषद्भिश्च साङ्ख्ययोगैश्च सात्वतैः । उपगीयमानमाहात्म्यं हरिं सामन्यतात्मजम् ॥ ऋBह्र्स्_३,४.६ ॥ यथा वा विष्णुर्नित्यमुपास्यते सखि मया तेनात्र नीताः क्षयं शङ्के पूतनिकादयः क्षितिरुहौ तौ वात्ययोन्मूलितौ । प्रत्यक्षं गिरिरेष गोष्टपतिना रामेण सार्धं धृतस् तत्तत्कर्म दुरन्वयं मम शिशोः केनास्य सम्भाव्यते ॥ ऋBह्र्स्_३,४.७ ॥ अथ गुरवः अधिकंमन्यभावेन शिक्षाकारितयापि च । लालकत्वादिनाप्यत्र विभावा गुरवो मताः ॥ ऋBह्र्स्_३,४.८ ॥ यथा भूर्य्अनुग्रहचितेन चेतसा लालनोत्कमभितः कृपाकुलम् । गौरवेण गुरुणा जगद्गुरोर् गौरवं गणमगण्यमाश्रये ॥ ऋBह्र्स्_३,४.९ ॥ ते तु तस्यात्र कथिता व्रजराज्ञी व्रजेश्वरः । रोहिणी ताश्च वल्लव्यो याः पद्मजहृतात्मजाः ॥ ऋBह्र्स्_३,४.१० ॥ देवकी तत्सपत्न्यश्च कुन्ती चानकदुन्दुभिः । सान्दीपनिमुखाश्चान्ये यथापूर्वममी वराः । व्रजेश्वरीव्रजाधीशौ श्रेष्ठौ गुरुजनेष्विमौ ॥ ऋBह्र्स्_३,४.११ ॥ तत्र व्रजेश्वर्या रूपं, यथा श्रीदशमे (१०.९.३) क्षौमं वासः पृथुकटितटे बिभ्रती सूत्रनद्धं पुत्रस्नेहस्नुतकुचयुगं जातकम्पं च सुभ्रूः । रज्ज्व्आकर्षश्रमभुजचलत्कङ्कणौ कुण्डले च स्विन्नं वक्त्रं कबरविगलन्मालती निर्ममन्थ ॥ ऋBह्र्स्_३,४.१२ ॥ यथा वा डोरीजुटितवक्रकेशपटला सिन्दूरबिन्दूल्लसत् सीमान्तद्युतिरङ्गभूषणविधिं नातिप्रभूतं श्रिता । गोविन्दास्यनिसृष्टसाश्रुनयनद्वन्द्वा नवेन्दीवर श्यामश्यामरुचिर्विचित्रसिचया गोष्ठेश्वरी पातु वः ॥ ऋBह्र्स्_३,४.१३ ॥ वात्सल्यम्, यथा तनौ मन्त्रन्यासं प्रणयति हरेर्गद्गदमयी सबाष्पाक्षी रक्षातिलकमलिके कल्पयति च । स्नुवाना प्रत्यूषे दिशति च भुजे कार्मणमसौ यशोदा मूर्तेव स्फुरति सुतवात्सल्यपटली ॥ ऋBह्र्स्_३,४.१४ ॥ व्रजाधीशस्य रूपं, यथा तिलतण्डुलितैः कचैः स्फुरन्तं नवभाण्डीरपलाशचारुचेलम् । अतितुन्दिलमिन्दुकान्तिभाजं व्रजराजं वरकूर्चमर्चयामि ॥ ऋBह्र्स्_३,४.१५ ॥ वात्सल्यम्, यथा अवलम्ब्य कराङ्गुलिं निजां स्खलद्अङ्घ्रि प्रसरन्तमङ्गने । उरसि स्रवद्अश्रुनिर्झरो मुमुदे प्रेक्ष्य सुतं व्रजाधिपः ॥ ऋBह्र्स्_३,४.१६ ॥ अथ उद्दीपनाः कौमारादिवयोरूपवेशाः शैशवचापलम् । जल्पितस्मितलीलाद्याः बुधैरुद्दीपनाः स्मृताः ॥ ऋBह्र्स्_३,४.१७ ॥ तत्र कौमारम् आद्यं मध्यं तथा शेषं कौमारं त्रिविधं मतम् ॥ ऋBह्र्स्_३,४.१८ ॥ तत्र आद्यम् स्थूलमध्योरुतापाङ्गश्वेतिमा स्वल्पदन्तता । प्रव्यक्तमार्दवत्वं च कौमारे प्रथमे सति ॥ ऋBह्र्स्_३,४.१९ ॥ यथा त्रिचतुरदशनस्फुरन्मुखेन्दुं पृथुतरमध्यकटिरकोरुसीमा । नवकुवलयकोमलः कुमारो मुदमधिकां व्रजनाथयोर्व्यतानीत् ॥ ऋBह्र्स्_३,४.२० ॥ अस्मिन्मुहुः पदक्षेपक्षणिके रुदितस्मिते । स्वाङ्गुष्ठपानमुत्तानशयनाद्यं च चेष्टितम् ॥ ऋBह्र्स्_३,४.२१ ॥ यथा मुखपुटकृतपादाम्भोरुहाङ्गुष्ठमूर्ध प्रचलचरणयुग्मं पुत्रमुत्तानसुप्तम् । क्षणमिह विरुदन्तं स्मेरवक्त्रं क्षणं सा तिलमपि विरतासीन्नेक्षितुं गोष्ठराज्ञी ॥ ऋBह्र्स्_३,४.२२ ॥ अत्र व्याघ्रनखं कण्ठे रक्षातिलकमङ्गलम् । पट्टडोरी कटौ हस्ते सूत्रमित्यादि मण्डनम् ॥ ऋBह्र्स्_३,४.२३ ॥ यथा तरक्षुनखमण्डलं नवतमालपत्रद्युतिं शिशुं रुचिररोचनाकृततमालपत्रश्रियम् । धृतप्रतिसरं कटिस्फुरितपट्टसूत्रस्रजं व्रजेशगृहिणी सुतं न किल वीक्ष्य तृप्तिं ययौ ॥ ऋBह्र्स्_३,४.२४ ॥ अथ मध्यमम् दृक्तटीभाग्अलकतानग्नता च्छिद्रिकर्णता । कलोक्तिरिङ्गनाद्यं च कौमारे सति मध्यमे ॥ ऋBह्र्स्_३,४.२५ ॥ यथा विचलद्अलकरुद्धभ्रूकुटी चञ्चलाक्षं कलवचनमुदञ्चन्नूतनश्रोत्ररन्ध्रम् । अलघुरचितरिङ्गं गोकुले दिग्दुकूलं तनयममृतसिन्धौ प्रेक्ष्य माता न्यमाङ्क्षीत् ॥ ऋBह्र्स्_३,४.२६ ॥ घ्राणस्य शिखरे मुक्ता नवनीतं कराम्बुजे । किङ्किण्य्आदि च कट्यादौ प्रसाधनमिहोदितम् ॥ ऋBह्र्स्_३,४.२७ ॥ यथा क्वणितकनककिङ्किणीकलापं स्मितमुखमुज्ज्वलनासिकाग्रमुक्तम् । करधृतनवनीतपिण्डमग्रे तनयमवेक्ष्य ननन्द नन्दपत्नी ॥ ऋBह्र्स्_३,४.२८ ॥ अथ शेषम् अत्र किञ्चित्कृशं मध्यमीषत्प्रथिमभागुरः । शिरश्च काकपक्षाढ्यं कौमारे चरमे सति ॥ ऋBह्र्स्_३,४.२९ ॥ यथा स मनागपचीयमानमध्यः प्रथिमोपक्रमशिक्षणार्थिवक्षाः । दधद्आकुलकाकपक्षलक्ष्मीं जननीं स्तम्भयति स्म दिव्यडिम्भः ॥ ऋBह्र्स्_३,४.३० ॥ धटी फणपडी चात्र किञ्चिद्वन्यविभूषणम् । लघुवेत्रकरत्नादि मण्डनं परिकीर्तितम् ॥ ऋBह्र्स्_३,४.३१ ॥ वत्सरक्षा व्रजाभ्यर्णे वयस्यैः सह खेलनम् । पावशृङ्गदलादीनां वादनाद्यत्र चेष्टितम् ॥ ऋBह्र्स्_३,४.३२ ॥ यथा शिखण्डकृतशेखरः फणपटीं दधत् करे च लगुडीं लघुं सवयसां कुलैरावृतः । अवन्निह शकृत्करीन् परिसरे व्रजस्य प्रिये सुतस्तव कृतार्थयत्यहह पश्य नेत्राणि नः ॥ ऋBह्र्स्_३,४.३३ ॥ अथ पौगण्डम् पौगण्डादि पुरैवोक्तं तेन सङ्क्षिप्य लिख्यते ॥ ऋBह्र्स्_३,४.३४ ॥ यथा पथि पथि सुरभीणानंशुकोत्तंसिमूर्धा धवलिमयुग्अपाङ्गो मण्डितः कञ्चुकेन । लघु लघु परिगुञ्जन्मञ्जुमञ्जीरयुग्मं व्रजभुवि मम वत्सः कच्चदेशादुपैति ॥ ऋBह्र्स्_३,४.३५ ॥ अथ कैशोरम् अरुणिमयुग्अपाङ्गस्तुङ्गवक्षःकपाटी विलुठद्अमलहारो रम्यरोमावलिश्रीः । पुरुषमणिरयं मे देवकि श्यामलाङ्गस् त्वद्उदरखनिजन्मा नेत्रमुच्चैर्धिनोति ॥ ऋBह्र्स्_३,४.३६ ॥ नव्येन यौवनेनापि दीव्यन् गोष्ठेन्द्रनन्दनः । भाति केवलवात्सल्यभाजां पौगण्डभागिव ॥ ऋBह्र्स्_३,४.३७ ॥ सुकुमारेण पौगण्डवयसा सङ्गतोऽप्यसौ । किशोराभः सदा दासविशेषाणां प्रभासते ॥ ऋBह्र्स्_३,४.३८ ॥ अथ शैशवचापलम् पारीर्भिनत्ति विकिरत्यजिरे दधीनि सन्तानिकां हरति कृन्तति मन्थदण्डम् । वह्नौ क्षिपत्यविरतं नवनीतमित्थं मातुः प्रमोदभरमेव हरिस्तनोति ॥ ऋBह्र्स्_३,४.३९ ॥ यथा वा प्रेक्ष्य प्रेक्ष्य दिशः सशङ्कमसकृन्मन्दं पदं निक्षिपन् नायात्येष लतान्तरे स्फुटमितो गव्यं हरिष्यन् हरिः । तिष्ठ स्वैरमजानतीव मुखरे चौर्यभ्रमद्भ्रूलतं त्रस्यल्लोचनमस्य शुष्यद्अधरं रम्यं दिदृक्षे मुखम् ॥ ऋBह्र्स्_३,४.४० ॥ अथ अनुभावाः अनुभावाः शिरोघ्राणं करेणाङ्गाभिमार्जनम् । आशीर्वादो निदेशश्च लालनं प्रतिपालनम् । हितोपदेशदानाद्या वत्सले परिकीर्तिताः ॥ ऋBह्र्स्_३,४.४१ ॥ अत्र शिरोघ्राणम्, यथा श्रीदशमे (१०.१३.३३) तद्ईक्षणोत्प्रेमरसाप्लुताशया जातानुरागा गतमन्यवोऽर्भकान् । उदुह्य दोर्भिः परिरभ्य मूर्धनि घ्राणैरवापुः परमां मुदं ते ॥ ऋBह्र्स्_३,४.४२ ॥ यथा वा दुग्धेन दिग्धा कुचविच्युतेन समग्रमाघ्राय शिरः सपिच्छम् । करेण गोष्ठेशितुरङ्गनेयम् अङ्गानि पुत्रस्य मुहुर्ममार्ज ॥ ऋBह्र्स्_३,४.४३ ॥ चुम्बाश्लेषौ तथाह्वानं नामग्रहणपूर्वकम् । उपालम्भादयश्चात्र मित्रैः साधारणाः क्रियाः ॥ ऋBह्र्स्_३,४.४४ ॥ अथ सात्त्विकाः नवात्र सात्त्विकाः स्तन्यस्रावः स्तम्भादयश्च ते ॥ ऋBह्र्स्_३,४.४५ ॥ तत्र स्तन्यस्रावो, यथा श्रीदशमे (१०.१३.२२) तन्मातरो वेणुरवत्वरोत्थिता उत्थाप्य दोर्भिः परिरभ्य निर्भरम् । स्नेहस्नुतस्तन्यपयःसुधासवं मत्वा परं ब्रह्म सुतानपाययन् ॥ ऋBह्र्स्_३,४.४६ ॥ यथा वा ललितमाधवे (१.४६) निचुलितगिरिधातुस्फीतपत्रावलीकान् अखिलसुरभिरेणून् क्षालयद्भिर्यशोदा । कुचकलसविमुक्तैः स्नेहमाध्वीकमध्यैस् तव नवमभिषेकं दुग्धपूरैः करोति ॥ ऋBह्र्स्_३,४.४७ ॥ स्तम्भादयो, यथा कथमपि परिरब्धुं न क्षमा स्तब्धगात्री कलयितुमपि नालं बाष्पपुरप्लुताक्षी । न च सुतमुपदेष्टुं रुद्धकण्ठी समर्था दधतमचलमासीद्व्याकुला गोकुलेशा ॥ ऋBह्र्स्_३,४.४८ ॥ अथ व्यभिचारिणः तत्रापस्मारसहिताः प्रीतोक्ताः व्यभिचारिणः ॥ ऋBह्र्स्_३,४.४९ ॥ तत्र हर्षो, यथा श्रीदशमे (१०.१७.१९) यशोदापि महाभागा नष्टलब्धप्रजा सती । परिष्वजाङ्कमारोप्य मुमोचाश्रुकलां मुहुः ॥ ऋBह्र्स्_३,४.५० ॥ यथा वा विदग्धमाधवे (१.२०) जितचन्द्रपरागचन्द्रिका नलदेन्दीवरचन्दनश्रियम् । परितो मयि शैत्यमाधुरीं वहति स्पर्शमहोत्सवस्तव ॥ ऋBह्र्स्_३,४.५१ ॥ अथ स्थायी सम्भ्रमादिच्युता या स्यादनुकम्पेऽनुकम्पितुः । रतिः सैवात्र वात्सल्यं स्थायी भावो निगद्यते ॥ ऋBह्र्स्_३,४.५२ ॥ यशोदादेस्तु वात्सल्यरतिः प्रौढा निसर्गतः । प्रेमवत्स्नेहवद्भाति कदाचित्किल रागवत् ॥ ऋBह्र्स्_३,४.५३ ॥ तत्र वात्सल्यरतिर्, यथा श्रीदशमे (१०.६.४३) नन्दः स्वपुत्रमादाय प्रेत्यागतमुदारधीः । मूर्ध्न्युपाघ्राय परमां मुदं लेभे कुरूद्वह ॥ ऋBह्र्स्_३,४.५४ ॥ यथा वा विन्यस्तश्रुतिपालिरद्य मुरलीनिस्वानशुश्रूषा भूयः प्रस्रववर्षिणी द्विगुणितोत्कण्ठा प्रदोषोदये । गेहादङ्गनमङ्गनात्पुनरसौ गेहं विशन्त्याकुला गोविन्दस्य मुहुर्व्रजेन्द्रगृहिणी पन्थानमालोकते ॥ ऋBह्र्स्_३,४.५५ ॥ प्रेमवद्, यथा प्रेक्ष्य तत्र मुनिराजमण्डलैः स्तूयमानमसि मुक्तसम्भ्रमा । कृष्णमङ्कमभि गोकुलेश्वरी प्रस्नुता कुरुभुवि न्यवीविशत् ॥ ऋBह्र्स्_३,४.५६ ॥ यथा वा देवक्या विवृतप्रसूचरितयाप्युन्मृज्यमानानने भूयोभिर्वसुदेवनन्दनतयाप्युद्घूष्यमाणे जनैः । गोविन्दे मिहिरग्रहोत्सुकतया क्षेत्रं कुरोरागते प्रेमा वल्लवनाथयोरतितरामुल्लासमेवाययौ ॥ ऋBह्र्स्_३,४.५७ ॥ स्नेहवत्, यथा पीयूषद्युतिभिः स्तनाद्रिपतितैः क्षीरोत्करैर्जाह्नवी कालिन्दी च विलोचनाब्जजनितैर्जाताञ्जनश्यामलैः । आरान्मध्यमवेदिमापतितयोः क्लिन्ना तयोः सङ्गमे वृत्तासि व्रजराज्ञि तत्सुतमुखप्रेक्षां स्फुटं वाञ्छसि ॥ ऋBह्र्स्_३,४.५८ ॥ रागवत्, यथा तुषावति तुषानलोऽप्युपरि तस्य बद्धस्थितिर् भवन्तमवलोकते यदि मुकुन्द गोष्ठेश्वरी । सुधाम्बुधिरपि स्फुटं विकटकालकूटत्यलं स्थिता यदि न तत्र ते वदनपद्ममुद्वीक्ष्यते ॥ ऋBह्र्स्_३,४.५९ ॥ अथ अयोगे उत्कण्ठितम्, यथा वत्सस्य हन्त शरद्इन्दुविनिन्दिवक्त्रं सम्पादयिष्यति कदा नयनोत्सवं नः । इत्यच्युते विहरति व्रजबाटिकायाम् ऊर्वी त्वरा जयति देवकनन्दिनीनाम् ॥ ऋBह्र्स्_३,४.६० ॥ यथा वा भ्रातस्तनयं भ्रातुर् मम सन्दिश गान्दिनीपुत्र । भ्रातृव्येषु वसन्ती दिदृक्षते त्वां हरे कुन्ती ॥ ऋBह्र्स्_३,४.६१ ॥ वियोगो, यथा श्रीदशमे (१०.४६.२८) यशोदा वर्ण्यमानानि पुत्रस्य चरिताणि च । शृण्वत्यश्रूण्यस्राक्षीत्स्नेहस्नुतपयोधरा ॥ ऋBह्र्स्_३,४.६२ ॥ यथा वा याते राजपुरं हरौ मुखतटी व्याकीर्णधूम्रालका पश्य स्रस्ततनुः कठोरलुठनैर्देहे व्रणं कुर्वती । क्षीणा गोष्ठमहीमहेन्द्रमहिषी हा पुत्र पुत्रेत्यसौ क्रोशन्ती करयोर्युगेन कुरुते कष्टादुरस्ताडनम् ॥ ऋBह्र्स्_३,४.६३ ॥ बहूनामपि सद्भावे वियोगेऽत्र तु केचन । चिन्ता विषादनिर्वेदजाड्यदैन्यानि चापलम् । उन्मादमोहावित्याद्या अत्युद्रेकं व्रजन्त्यमी ॥ ऋBह्र्स्_३,४.६४ ॥ अत्र चिन्ता मन्दस्पन्दमभूत्क्लमैरलघुभिः सन्दानितं मानसं द्वन्द्वं लोचनयोश्चिरादविचलव्याभुग्नतारं स्थितम् । निश्वासैः स्रवदेव पाकमयते स्तन्यं च तप्तैरिदं नूनं वल्लवराज्ञि पुत्रविरहोद्घूर्णाभिराक्रम्यसे ॥ ऋBह्र्स्_३,४.६५ ॥ विषादः वदनकमलं पुत्रस्याहं निमीलति शैशवे नवतरुणिमारम्भोन्मृष्टं न रम्यमलोकयम् । अभिनववधूयुक्तं चामुं न हर्म्यमवेशयं शिरसि कुलिशं हन्त क्षिप्तं श्वफल्कसुतेन मे ॥ ऋBह्र्स्_३,४.६६ ॥ निर्वेदः धिगस्तु हतजीवितं निरवधिश्रियोऽप्यद्य मे यया न हि हरेः शिरः स्नुतकुचाग्रमाघ्रायते । सदा नवसुधादुहामपि गवां परार्धं च धिक् स लुञ्चति न चञ्चलः सुरभिगन्धि यासां दधि ॥ ऋBह्र्स्_३,४.६७ ॥ जाड्यम् यः पुण्डरीकेक्षण तिष्ठतस्ते गोष्ठे कराम्भोरुहमण्डनोऽभूत् । तं प्रेक्ष्य दण्डस्तिमितेन्द्रियाद्यद् दण्डाकृतिस्ते जननी बभूव ॥ ऋBह्र्स्_३,४.६८ ॥ दैन्यम् याचते बत विधातरुदस्रा त्वां रदैस्तृणमुदस्य यशोदा । गोचरे सकृदपि क्षणमद्य मत्सरं त्यज ममानय वत्सम् ॥ ऋBह्र्स्_३,४.६९ ॥ चापलम् किमिव कुरुते हर्म्ये तिष्ठन्नयं निरपत्रपो व्रजपतिरिति ब्रूते मुग्धोऽयमत्र मुदा जनः । अहह तनयं प्राणेभ्योऽपि प्रियं परिहृत्य तं कठिनहृदयो गोष्ठे स्वैरी प्रविश्य सुखीयति ॥ ऋBह्र्स्_३,४.७० ॥ उन्मादः क्व मे पुत्रो नीपाः कथयत कुरङ्गाः किमिह वः स बभ्रामाभ्यर्णे भणत तमुदन्तं मधुकराः । इति भ्रामं भ्रामं भ्रमभरविदूना यदुपते भवन्तं पृच्छन्ती दिशि दिशि यशोदा विचरति ॥ ऋBह्र्स्_३,४.७१ ॥ मोहः कुटुम्बिनि मनस्तटे विधुरतां विधत्से कथं प्रसारय दृशं मनाक्तव सुतः पुरो वर्तते । इदं गृहिणि गृहं न कुरु शून्यमित्याकुलं स शोचति तव प्रसूं यदुकुलेन्द्र नन्दः पिता ॥ ऋBह्र्स्_३,४.७२ ॥ अथ योगे सिद्धिः विलोक्य रङ्गस्थललब्धसङ्गमं विलोचनाभीष्टविलोकनं हरिम् । स्तन्यैरसिञ्चन्नवकञ्चुकाञ्चलं देव्यः क्षणादानकदुन्दुभिप्रियाः ॥ ऋBह्र्स्_३,४.७३ ॥ तुष्टिर्, यथा प्रथमे (१.११.३०) ताः पुत्रमङ्कमारोप्य स्नेहस्नुतपयोधराः । हर्षविह्वलितात्मानः सिषिचुर्नेत्रजैर्जलैः ॥ ऋBह्र्स्_३,४.७४ ॥ यथा वा ललितमाधवे (१०.१४) नयनयोः स्तनयोरपि युग्मतः परिपतद्भिरसौ पयसां झरैः । अहह वल्लवराजगृहेश्वरी स्वतनयं प्रणयादभिषिञ्चति ॥ ऋBह्र्स्_३,४.७५ ॥ स्थितिर्, यथा विदग्धमाधवे (१.१९) अहह कमलगन्धेरत्र सौन्दर्यवृन्दे विनिहितनयनेयं त्वन्मुखेन्दोर्मुकुन्द । कुचकलसमुखाभ्यामम्बरक्नोपमम्बा तव मुहुरतिहर्षाद्वर्षति क्षीरधाराम् ॥ ऋBह्र्स्_३,४.७६ ॥ स्वीकुर्वते रसमिमं नाट्यज्ञा अपि केचन ॥ ऋBह्र्स्_३,४.७७ ॥ तथाहुः [सा.द. ३.२०१] स्फुटं चमत्कारितया वत्सलं च रसं विदुः । स्थायी वत्सलतास्येह पुत्राद्य्आलम्बनं मतम् ॥ ऋBह्र्स्_३,४.७८ ॥ किं च अप्रतीतौ हरिरतेः प्रीतस्य स्यादपुष्टता । प्रेयसस्तु तिरोभावो वत्सलय्सास्य न क्षतिः ॥ ऋBह्र्स्_३,४.७९ ॥ एषा रसत्रयी प्रोक्ता प्रीतादिः परमाद्भुता । तत्र केषुचिदप्यस्याः सङ्कुलत्वमुदीर्यते ॥ ऋBह्र्स्_३,४.८० ॥ सङ्कर्षणस्य सख्यस्तु प्रीतिवात्सल्यसङ्गतम् । युधिष्ठिरस्य वात्सल्यं प्रीत्या सख्येन चान्वितम् ॥ ऋBह्र्स्_३,४.८१ ॥ आहुकप्रभृतीनां तु प्रीतिर्वात्सल्यमिश्रिता । जरद्आभीरिकादीनां वात्सल्यं सख्यमिश्रितम् ॥ ऋBह्र्स्_३,४.८२ ॥ माद्रेयनारदादीनां सख्यं प्रीत्या करम्बितम् । रुद्रतार्क्ष्योद्धवादीनां प्रीतिः सख्येन मिश्रिता ॥ ऋBह्र्स्_३,४.८३ ॥ अनिरुद्धापिनप्तॄणामेवं केचिद्बभाषिरे । एवं केषुचिदन्येषु विज्ञेयं भावमिश्रणम् ॥ ऋBह्र्स्_३,४.८४ ॥ इति श्रीश्रीभक्तिरसामृतसिन्धौ पश्चिमविभागे मुख्यभक्तिरसपञ्चकनिरूपणे वत्सलभक्तिरसलहरी चतुर्थी । ___________________________________________________ (३.५) मधुरभक्तिरसाख्या पञ्चमलहरी आत्मोचितैर्विभावाद्यैः पुष्टिं नीता सतां हृदि । मधुराख्यो भवेद्भक्तिरसोऽसौ मधुरा रतिः ॥ ऋBह्र्स्_३,५.१ ॥ निवृत्तानुपयोगित्वाद्दुरूहत्वादयं रसः । रहस्यत्वाच्च संक्षिप्य वितताण्गो विलिख्यते ॥ ऋBह्र्स्_३,५.२ ॥ तत्र आलम्बनाः अस्मिनालम्बनः कृष्णः प्रियास्तस्य तु सुभ्रुवः ॥ ऋBह्र्स्_३,५.३ ॥ तत्र कृष्णः तत्र कृष्णः असमानोर्ध्वसौन्दर्यलीलावैदिग्धीसम्पदाम् । आश्रयत्वेन मधुरे हरिरालम्बनो मतः ॥ ऋBह्र्स्_३,५.४ ॥ यथा श्रीगीतगोविन्दे (१.११) विश्वेषामनुरञ्जनेन जनयन्नानन्दमिन्दीवर श्रेणीश्यामलकोमलैरुपनयन्नङ्गैरनङ्गोत्सवम् । स्वच्छन्दं व्रजसुन्दरीभिरभितः प्रत्य्अङ्गमालिङ्गितः शृङ्गारः सखि मूर्तिमानिव मधौ मुग्धो हरिः क्रीडति ॥ ऋBह्र्स्_३,५.५ ॥ अथ तस्य प्रेयस्यः नवनववरमाधुरीधुरीणाः प्रणयतरङ्गकरम्बितास्तरङ्गाः । निजरमणतया हरिं भजन्तिः प्रणमत ताः परमाद्भुताः किशोरीः ॥ ऋBह्र्स्_३,५.६ ॥ प्रेयसीषु हरेरासु प्रवरा वार्षभानवी ॥ ऋBह्र्स्_३,५.७ ॥ अस्या रूपं मदचकितचकोरीचारुताचोरदृष्टिर् वदनदमितराकारोहिणीकान्तकीर्तिः । अविकलकलधौतोद्धूतिधौरेयकश्रीर् मधुरिममधुपात्री राजते पश्य राधा ॥ ऋBह्र्स्_३,५.८ ॥ अस्या रतिः नर्मोक्तौ मम निर्मितोरुपरमानन्दोत्सवायामपि श्रोत्रस्यान्ततटीमपि स्फुटमनाधाय स्थितोद्यन्मुखी । राधा लाघवमप्यनादरगिरां भङ्गीभिरातन्वती मैत्रीगौरवतोऽप्यसौ शतगुणां मत्प्रीतिमेवादधे ॥ ऋBह्र्स्_३,५.९ ॥ तत्र कृष्णरतिर्, यथा श्रीगीतगोविन्दे (३.१) कंसारिरपि संसारवासनाबद्धशृङ्खलाम् । राधामाधाय हृदये तत्याज व्रजसुन्दरीः ॥ ऋBह्र्स्_३,५.१० ॥ अथ उद्दीपनाः । उद्दीपना इह प्रोक्ता मुरलीनिस्वनादयः ॥ ऋBह्र्स्_३,५.११ ॥ यथा पद्यावल्याम् (१७२) {*च्रेदितेद्तो षर्वविद्याविनोद} गुरुजनगञ्जनमयशो गृहपतिचरितं च दारुणं किमपि । विस्मारयति समस्तं शिव शिव मुरली मुरारातेः ॥ ऋBह्र्स्_३,५.१२ ॥ अथ अनुभावाः अनुभावास्तु कथिता दृग्नतेक्षास्मितादयः ॥ ऋBह्र्स्_३,५.१३ ॥ यथा ललितमाधवे (१.१४) कृष्णापङ्गतरङ्गितद्युमणिजासम्भेदवेणीकृते राधायाः स्मितचन्द्रिकासुरधुनीपुरे निपीयामृतम् । अन्तस्तोषतुषारसम्प्लवलवव्यालीढतापोद्गमाः क्रान्त्वा सप्त जगन्ति सम्प्रति वयं सर्वोर्ध्वमध्यास्महे ॥ ऋBह्र्स्_३,५.१४ ॥ अथ सात्त्विकाः, यथा पद्यावल्याम् (१८१) कामं वपुः पुलकितं नयने धृतास्रे वाचः सगद्गदपदाः सखि कम्पि वक्षः । ज्ञातं मुकुन्दमुरलीरवमाधुरी ते चेतः सुधांशुवदने तरलीकरोति ॥ ऋBह्र्स्_३,५.१५ ॥ अथ व्यभिचारिणः आलस्यौग्र्ये विना सर्वे विज्ञेया व्यभिचारिणः ॥ ऋBह्र्स्_३,५.१६ ॥ तत्र निर्वेदो, यथा पद्यावल्याम् (२२१) मा मुञ्च पञ्चशर पञ्चशरीं शरीरे मा सिञ्च सान्द्रमकरन्दरसेन वायो । अङ्गानि तत्प्रणयभङ्गविगर्हितानि नालम्बितुं कथमपि क्षमतेऽद्य जीवः ॥ ऋBह्र्स्_३,५.१७ ॥ हर्षो, यथा दानकेलिकौमुद्याम् (३४) कुवलययुवतीनां लेहयन्नक्षिभृङ्गैः कुवलयदललक्ष्मीलङ्गिमाः स्वाङ्गभासः । मदकलकलभेन्द्रोल्लङ्घिलीलातरङ्गः कवलयति धृतिं मे क्ष्माधरारण्यधूर्तः ॥ ऋBह्र्स्_३,५.१८ ॥ अथ स्थायी स्थायी भावो भवत्यत्र पूर्वोक्ता मधुरा रतिः ॥ ऋBह्र्स्_३,५.१९ ॥ यथा पद्यावल्याम् (१५८) भ्रूवल्लिताण्डवकलामधुराननश्रीः कङ्केल्लिकोरककरम्बितकर्णपूरः । कोऽयं नवीननिकषोपलतुल्यवेषो वंशीरवेण सखि मामवशीकरोति ॥ ऋBह्र्स्_३,५.२० ॥ राधामाधवयोरेव क्वापि भावैः कदाप्यसौ । सजातीयविजातीयैर्नैव विच्छिद्यते रतिः ॥ ऋBह्र्स्_३,५.२१ ॥ यथा इतो दूरे राज्ञी स्फुरति परितो मित्रपटली दृशोरग्रे चन्द्रावलिरुपरि शैलस्य दनुजः । असव्ये राधायाः कुसुमितलता संवृततनौ दृग् अन्तश्रीर्लोला तडिदिव मुकुन्दस्य वलते ॥ ऋBह्र्स्_३,५.२२ ॥ घोरा खण्डितशङ्खचूडमजिरं रुन्धे शिवा तामसी ब्रह्मिष्ठश्वसनः शमस्तुतिकथा प्रालेयमासिञ्चति । अग्रे रामः सुधारुचिर्विजयते कृष्णप्रमोदोचितं राधायास्तदपि प्रफुल्लमभजन्म्लानिं न भावाम्बुजम् ॥ ऋBह्र्स्_३,५.२३ ॥ स विप्रलम्भसम्भोगभेदेन द्विविधो मतः ॥ ऋBह्र्स्_३,५.२४ ॥ तत्र विप्रलम्भः स पूर्वरागो मानश्च प्रवासादिमयस्तथा । विप्रलम्भो बहुविधो विद्वद्भिरिह कथ्यते ॥ ऋBह्र्स्_३,५.२५ ॥ तत्र पूर्वरागः प्राग्असङ्गतयोर्भावः पूर्वरागो भवेद्द्वयोः ॥ ऋBह्र्स्_३,५.२६ ॥ यथा पद्यावल्याम् (१८१) अकस्मादेकस्मिन् पथि सखि मया यामुनतटं व्रजन्त्या दृष्टो यो नवजलधरश्यामलतनुः । स दृग्भङ्ग्या किं वाकुरुत न हि जाने तत इदं मनो मे व्यालोलं क्वचन गृहकृत्यो न लगते ॥ ऋBह्र्स्_३,५.२७ ॥ यथा श्रीदशमे (१०.५३.२) यथा विनिद्रा यच्चित्ता रुक्मिणी कमलेक्षणा । तथाहमपि तच्चित्तो निद्रां च न लभे निशि । वेदाहं रुक्मिण्या द्वेषान्ममोद्वाहो निवारितः ॥ ऋBह्र्स्_३,५.२८ ॥ अथ मानः । मानः प्रसिद्ध एवात्र ॥ ऋBह्र्स्_३,५.२९ ॥ यथा श्रीगीतगोविन्दे (२.१) विहरति वने राधा साधारणप्रणये हरौ विगलितनिजोत्कर्षादीऋस्यावशेन गतान्यतः । क्वचिदपि लताकुञ्जे गुञ्जन्मधुव्रतमण्डली मुखरनिखरे लीना दीनाप्युवाच रहः सखीम् ॥ ऋBह्र्स्_३,५.३० ॥ अथ प्रवासः प्रवासः सङ्गविच्युतिः ॥ ऋBह्र्स्_३,५.३१ ॥ यथा पद्यावल्याम् (३५०) हस्तोदरे विनिहितैककपोलपालेर् अश्रान्तलोचनजलस्नपिताननायाः । प्रस्थानमङ्गलदिनावधि माधवस्य निद्रालवोऽपि कुत एव सरोरुहाक्ष्याः ॥ ऋBह्र्स्_३,५.३२ ॥ यथा प्रह्लादसंहितायामुद्धववाक्यम् भगवानपि गोविन्दः कन्दर्पशरपीडितः । न भुङ्क्ते न स्वपिति च चिन्तयन् वो ह्यहर्निशम् ॥ ऋBह्र्स्_३,५.३३ ॥ अथ सम्भोगः द्वयोर्मिलितयोर्भोगः सम्भोग इति कीर्त्यते ॥ ऋBह्र्स्_३,५.३४ ॥ यथा पद्यावल्याम् (१९९) परमानुरागपरयाथ राधया परिरम्भकौशलविकाशिभावया । स तया सह स्मरसभाजनोत्सवं निरवाहयच्छिखिशिखण्डशेखरः ॥ ऋBह्र्स्_३,५.३५ ॥ श्रीमद्भागवताद्य्अर्हशास्त्रदर्शितया दृशा । इयमाविष्कृता मुख्यपञ्चभक्तिरसा मया ॥ ऋBह्र्स्_३,५.३६ ॥ गोपालरूपशोभां दधदपि रघुनाथभावविस्तारी । तुष्यतु सनातनात्मा पश्चिमभागे रसाम्बुनिधेः ॥ ऋBह्र्स्_३,५.३७ ॥ इति श्रीश्रीभक्तिरसामृतसिन्धौ पश्चिमविभागे मधुराख्यभक्तिरसलहरी चतुर्थी । इति श्रीश्रीभक्तिरसामृतसिन्धौ मुख्यभक्तिरसनिरूपकः पश्चिमविभागः समाप्तः । ___________________________________________________ उत्तरविभागः (४.१) हास्यभक्तिरसाख्या प्रथमलहरी भक्तिभरेण प्रीतिं कलयन्नुररीकृतव्रजासङ्गः । तनुतां सनातनात्मा भगवान्मयि सर्वदा तुष्टिम् ॥ ऋBह्र्स्_४,१.१ ॥ रसामृताब्धेर्भागेऽत्र तुरीये तूत्ताराभिधे । रसः सप्तविधो गौणो मैत्रीवैरस्थितिर्मिथः ॥ ऋBह्र्स्_४,१.२ ॥ रसाभासाश्च तेनात्र लहर्यो नव कीर्तिताः । प्रागत्रानियताधाराः कदाचित्क्वाप्युदित्वराः ॥ ऋBह्र्स्_४,१.३ ॥ गौणा भक्तिरसाः सप्त लेख्या हास्यादयः क्रमात् ॥ ऋBह्र्स्_४,१.४ ॥ भक्तानां पञ्चधोक्तानामेषां मध्यत एव हि । क्वाप्येकः क्वाप्यनेकश्च गौणेष्वालम्बनो मतः ॥ ऋBह्र्स्_४,१.५ ॥ तत्र हास्यभक्तिरसः वक्ष्यमाणैर्विभावाद्यैः पुष्टिं हासरतिर्गता । हास्यभक्तिरसो नाम बुधैरेष निगद्यते ॥ ऋBह्र्स्_४,१.६ ॥ अस्मिन्नालम्बनः कृष्णस्तथान्योऽपि तद्अन्वयी । वृद्धाः शिशुमुखाः प्रायः प्रोक्ता धीरैस्तद्आश्रयाः । विभावनादिवैशिष्ट्यात्प्रवराश्च क्वचिन्मताः ॥ ऋBह्र्स्_४,१.७ ॥ तत्र कृष्णो, यथा यास्याम्यस्य न भीषणस्य सविधं जीर्णस्य शीर्णाकृतेर् मातर्नेष्यति मां पिधाय कपटादाधारिकायामसौ । इत्युक्त्वा चकिताक्षमद्भुतशिशावुद्वीक्ष्यमाणे हरौ हास्यं तस्य निरुद्धतोऽप्यतितरां व्यक्तं तदासीन्मुनेः ॥ ऋBह्र्स्_४,१.८ ॥ अथ तद्अन्वयी यच्चेष्टा कृष्णविषया प्रोक्तः सोऽत्र तद्अन्वयी ॥ ऋBह्र्स्_४,१.९ ॥ यथा ददामि दधिफाणितं विवृणु वक्त्रमित्यग्रतो निशम्य जरतीगिरं विवृतकोमलौष्ठे स्थिते । तया कुसुममर्पितं नवमवेत्य भुग्नानने हरौ जहसुरुद्धुरं किमपि सुष्ठु गोष्ठार्भकाः ॥ ऋBह्र्स्_४,१.१० ॥ यथा वा अस्य प्रेक्ष्य करं शिशोर्मुनिपते श्यामस्य मे कथ्यतां तथ्यं हन्त चिरायुरेष भविता किं धेनुकोटीश्वरः । इत्युक्ते भगवन्मयाद्य परितश् चीरेण किं चारुणा द्रागाविर्भवद्उद्धुरस्मितमिदं वक्त्रं त्वया रुध्यते ॥ ऋBह्र्स्_४,१.११ ॥ उद्दीपना हरेस्तादृग्वाग्वेषचरितादयः । अनुभावास्तु नासौष्ठगण्डनिष्पन्दनादयः ॥ ऋBह्र्स्_४,१.१२ ॥ हर्षालस्यावहित्थाद्या विज्ञेया व्यभिचारिणः । सा हासरतिरेवात्र स्थायिभावतयोदिता ॥ ऋBह्र्स्_४,१.१३ ॥ षोढा हासरतिः स्यात्स्मितहसिते विहसितावहसिते च । अपहसितातिहसितके ज्येष्ठादीनां क्रमाद्द्वे द्वे ॥ ऋBह्र्स्_४,१.१४ ॥ विभावनादिवैचित्र्यादुत्तमस्यापि कुत्रचित् । भवेद्विहसिताद्यं च भावज्ञैरिति भण्यते ॥ ऋBह्र्स्_४,१.१५ ॥ तत्र स्मितम् स्मितं त्वलक्ष्यदशनं नेत्रगण्डविकाशकृत् ॥ ऋBह्र्स्_४,१.१६ ॥ यथा क्व यामि जरती खला दधिहरं दिधीर्षन्त्यसौ प्रधावति जवेन मां सुबल मङ्क्षु रक्षां कुरु । इति स्खलद्उदीरिते द्रवति कान्दिशीके हरौ विकस्वरमुखाम्बुजं कुलमभून्मुनीनां दिवि ॥ ऋBह्र्स्_४,१.१७ ॥ हसितम् तदेव दरसंलक्ष्यदन्ताग्रं हसितं भवेत् ॥ ऋBह्र्स्_४,१.१८ ॥ यथा मद्वशेन पुरःस्थितो हरिरसौ पुत्रोऽहमेवास्मि ते पश्येत्यच्युतजल्पविश्वसितया संरम्भरज्यद्दृशा । मामेति स्खलद्अक्षरे जटिलया व्याक्रुश्य निष्कासिते पुत्रे प्राङ्गतः सखीकुलमभूद्दन्तांशुधौताधरम् ॥ ऋBह्र्स्_४,१.१९ ॥ विहसितम् सस्वनं दृष्टदशनं भवेद्विहसितं तु तत् ॥ ऋBह्र्स्_४,१.२० ॥ यथा मुषाण दधि मेदुरं विफलमन्तरा शङ्कसे सनिःश्वसितडम्बरं जटिलयात्र निद्रायते । इति ब्रुवति केशवे प्रकटशीर्णदन्तस्थलं कृतं हसितमुत्स्वनं कपटसुप्तया वृद्धया ॥ ऋBह्र्स्_४,१.२१ ॥ अवहसितम् तच्चावहसितं फुल्लनासं कुञ्चितलोचनम् ॥ ऋBह्र्स्_४,१.२२ ॥ यथा लग्नस्ते नितरां दृशोरपि युगे किं धातुरागो घनः प्रातः पुत्र बलस्य वा किमसितं वासस्त्वयाङ्गे धृतम् । इत्याकर्ण्य पुरो व्रजेशगृहिणीवाचं स्फुरन्नासिका दूती सङ्कुचद्ईक्षणावहसितं जाता न रोद्धुं क्षमा ॥ ऋBह्र्स्_४,१.२३ ॥ अपहसितम् तच्चापहसितं साश्रुलोचनं कम्पितांसकम् ॥ ऋBह्र्स्_४,१.२४ ॥ यथा उदस्रं देवर्षिर्दिवि दरतरङ्गद्भुजशिरा यदभ्राण्युद्दण्डो दशनरुचिभिः पाण्डरयति । स्फुटं ब्रह्मादीनां नटयितरि दिव्ये व्रजशिशौ जरत्याः प्रस्तोभान्नटति तदनैषीद्दृशमसौ ॥ ऋBह्र्स्_४,१.२५ ॥ अतिहसितम् सहस्रतालं क्षिप्ताङ्गं तच्चातिहसितं विदुः ॥ ऋBह्र्स्_४,१.२६ ॥ यथा वृद्धे त्वं वलिताननासि वलिभिः प्रेक्ष्य सुयोग्यामतस् त्वामुद्वोढुमसौ बलीमुखवरो मां साधयत्युत्सुकः । आभिर्विप्लुतधीर्वृणे न हि परं त्वत्तो बलिध्वंसनाद् इत्युच्चैर्मुखरागिरा विजहसुः सोत्तालिका बालिकाः ॥ ऋBह्र्स्_४,१.२७ ॥ यस्य हासः स चेत्क्वापि साक्षान्नैव निबध्यते । तथाप्येष विभावादिसामर्थ्यादुपलभ्यते ॥ ऋBह्र्स्_४,१.२८ ॥ यथा शिम्बीलम्बिकुचासि दर्दुरवधूविस्पर्धि नासाकृतिस् त्वं जीर्यद्दुलिदृष्टिरोष्ठतुलिताङ्गारा मृदङ्गोदरी । का त्वत्तः कुटिले परास्ति जटिलापुत्रि क्षितौ सुन्दरी पुण्येन व्रजसुभ्रुवां तव धृतिं हर्तुं न वंशी क्षमा ॥ ऋBह्र्स्_४,१.२९ ॥ एष हास्यरसस्तत्र कैशिकीवृत्तिविस्तृतौ । शृङ्गारादिरसोद्भेदो बहुधैव प्रपञ्चितः ॥ ऋBह्र्स्_४,१.३० ॥ इति श्रीश्रीभक्तिरसामृतसिन्धावुत्तरविभागे हास्यभक्तिरसनिरूपणे अद्भुतभक्तिरसलहरी प्रथमा ॥ ___________________________________________________ (४.२) अद्भुतभक्तिरसाख्या द्वितीयलहरी आत्मोचितैर्विभावाद्यैः स्वाद्यत्वं भक्तचेतसि । सा विस्मयरतिर्नीताद् भुतोभक्तिरसो भवेत् ॥ ऋBह्र्स्_४,२.१ ॥ भक्तः सर्वविधोऽप्यत्र घटते विस्मयाश्रयः । लोकोत्तरक्रियाहेतुर्विषयस्तत्र केशवः ॥ ऋBह्र्स्_४,२.२ ॥ तस्य चेष्टाविशेषाद्यास्तस्मिन्नुद्दीपना मताः । क्रियास्तु नेत्रविस्तारस्तम्भाश्रुपुलकादयः ॥ ऋBह्र्स्_४,२.३ ॥ आवेगहर्षजाड्याद्यास्तत्र स्युर्व्यभिचारिणः । स्थायी स्याद्विस्मयरतिः सा लोकोत्तरकर्मतः । साक्षादनुमितं चेति तच्च द्विविधमुच्यते ॥ ऋBह्र्स्_४,२.४ ॥ तत्र साक्षात्, यथा साक्षादैन्द्रियकं दृष्टश्रुतसङ्कीर्तितादिकम् ॥ ऋBह्र्स्_४,२.५ ॥ तत्र दृष्टं, यथा एकमेव विविधोद्यमभाजं मन्दिरेषु युगपन्निखिलेषु । द्वारकामभि समीक्स्य मुकुन्दं स्पन्दनोज्झिततनुर्मुनिरासीत् ॥ ऋBह्र्स्_४,२.६ ॥ यथोक्तं श्रीदशमे (१०.६९.२) चित्रं बतैतदेकेन वपुषा युगपत्पृथक् । गृहेषु द्व्य्अष्टसाहस्रं स्त्रिय एक उदावहत् ॥ ऋBह्र्स्_४,२.७ ॥ यथा वा क्व स्तन्यगन्धिवदनेन्दुरसौ शिशुस्ते गोवर्धनः शिखररुद्धघनः क्व चायम् । भोः पश्य सव्यकरकन्दूकिताचलेन्द्रः खेलन्निव स्फुरति हन्त किमिन्द्रजालम् ॥ ऋBह्र्स्_४,२.८ ॥ श्रुतं, यथा यान्यक्षिपन् प्रहरणानि भटाः स देवः प्रत्येकमच्छिनदमुनि शरत्रयेण । इत्याकलय्य युधि कंसरिपोः प्रभावं स्फारेक्षणः क्षितिपतिः पुलकी तदासीत् ॥ ऋBह्र्स्_४,२.९ ॥ सङ्कीर्तितं, यथा डिम्बाः स्वर्णनिभाम्बरा घनरुचो जाताश्चतुर्बाहवो वत्साश्चेति वदन् कृतोऽस्मि विवशः स्तम्भश्रिया पश्यत । आश्चर्यं कथयामि वः शृणुत भोः प्रत्येकमेकैकशः स्तूयन्ते जगद्अण्डवद्भिरभितस्ते हन्त पद्मासनैः ॥ ऋBह्र्स्_४,२.१० ॥ अनुमितं, यथा उन्मील्य व्रजशिशवो दृशं पुरस्ताद् भाण्डीरं पुनरतुल्य विलोकयन्तः । सात्मानं पशुपटलीं च तत्र दावाद् उन्मुक्तां मनसि चमत्क्रियामवापुः ॥ ऋBह्र्स्_४,२.११ ॥ अप्रियादेः क्रिया कुर्यान्नालौकिक्यपि विस्मयम् । असाधारण्यपि मनाक्करोत्येव प्रियस्य सा ॥ ऋBह्र्स्_४,२.१२ ॥ प्रियात्प्रियस्य किमुत सर्वलोकोत्तरोत्तरा । इत्यत्र विस्मये प्रोक्ता रत्य्अनुग्रहमाधुरी ॥ ऋBह्र्स्_४,२.१३ ॥ इति श्रीश्रीभक्तिरसामृतसिन्धावुत्तरविभागे गौणभक्तिरसनिरूपणे अद्भुतभक्तिरसलहरी द्वितीया ॥ ___________________________________________________ (४.३) वीरभक्तिरसाख्या तृतीयलहरी सैवोत्साहरतिः स्थायी विभावाद्यैर्निजोचितः । आनीयमाना स्वाद्यत्वं वीरभक्तिरसो भवेत् ॥ ऋBह्र्स्_४,३.१ ॥ युद्धदानदयाधर्मैश्चतुर्धावीर उच्यते । आलम्बन इह प्रोक्त एष एव चतुर्विधः ॥ ऋBह्र्स्_४,३.२ ॥ उत्साहस्त्वेष भक्तानां सर्वेषामेव सम्भवेत् ॥ ऋBह्र्स्_४,३.३ ॥ तत्र युद्धवीरः परितोषाय कृष्णस्य दधदुत्साहमाहवे । सखा बन्धुविशेषो वा युद्धवीर इहोच्यते ॥ ऋBह्र्स्_४,३.४ ॥ प्रतियोद्धा मुकुन्दो वा तस्मिन् वा प्रेक्षके स्थिते । तदीयेच्छावेशेनात्र भवेदन्यः सुहृद्वरः ॥ ऋBह्र्स्_४,३.५ ॥ तत्र कृष्णो, यथा अपराजितमानिनं हठाच् चटुलं त्वामभिभूय माधव । धिनुयामधुना सुहृद्गणं यदि न त्वं समरात्पराञ्चसि ॥ ऋBह्र्स्_४,३.६ ॥ यथा वा संरम्भप्रकटीकृतप्रतिभटारम्भश्रियोः साद्भुतं कालिन्दीपुलिने वयस्यनिकरैरालोक्यमानस्तदा । अव्युत्थापितसख्ययोरपि वराहङ्कारविस्फूर्जितः श्रीदाम्नश्च बकीद्विषश्च समराटोपः पटीयानभूत् ॥ ऋBह्र्स्_४,३.७ ॥ सुहृद्वरो, यथा सखिप्रकरमार्गणानगणितान् क्षिपन् सर्वतस् तथाद्य लगुडं क्रमाद्भ्रमयति स्म दामा कृती । अमंस्त रचितस्तुतिर्व्रजपतेस्तनुजोऽप्यमुं समृद्धपुलको यथा लगुडपञ्जरान्तःस्थितम् ॥ ऋBह्र्स्_४,३.८ ॥ प्रायः प्रकृतशूराणां स्वपक्षैरपि कर्हिचित् । युद्धकेलिसमुत्साहो जायते परमाद्भुतः ॥ ऋBह्र्स्_४,३.९ ॥ तथा च हरिवंशे तथा गाण्डीवधन्वानं विक्रीडन्मधुसूदनः । जिगाय भरतश्रेष्ठं कुन्त्याः प्रमुखतो विभुः ॥ ऋBह्र्स्_४,३.१० ॥ इति । कत्थितास्फोटविस्पर्धाविक्रमास्त्रग्रहादयः । प्रतियोधस्थिताः सन्तो भवन्त्युद्दीपना इह ॥ ऋBह्र्स्_४,३.११ ॥ तत्र कत्थितम् पिण्डीशूरस्त्वमिह सुबलं कैतवेनाबलाङ्गं जित्वा दामोदर युधि वृथा मा कृथाः कत्थितानि । माद्यन्नेष त्वद्अलघुभुजासर्पदर्पापहारी मन्द्रध्वानो नटति निकटे स्तोककृष्णः कलापी ॥ ऋBह्र्स्_४,३.१२ ॥ कत्थिताद्याः स्वसंस्थाश्चेदनुभावाः प्रकीर्तिताः । तथैवाहोपुरुषिका क्ष्वेडिताक्रोशवल्गनम् ॥ ऋBह्र्स्_४,३.१३ ॥ असहायेऽपि युद्धेच्छा समरादपलायनम् । भीताभयप्रदानाद्या विज्ञेयाश्चापरे बुधैः ॥ ऋBह्र्स्_४,३.१४ ॥ तत्र कत्थितम्, यथा प्रोत्साहयस्यतितरां किमिवाग्रहेण मां केशिसूदन विदन्नपि भद्रसेनम् । योद्धुं बलेन सममत्र सुदुर्बलेन दिव्यार्गला प्रतिभटस्त्रपते भुजो मे ॥ ऋBह्र्स्_४,३.१५ ॥ आहोपुरुषिका, यथा धृताटोपे गोपेश्वरजलधिचन्द्रे परिकरं निबध्नत्युल्लासाद्भुजसमरचर्यासमुचितम् । सरोमाञ्चं क्ष्वेडानिविडमुखबिम्बस्य नटतः सुदाम्नः सोत्कण्ठं जयति मुहुराहोपुरुषिका ॥ ऋBह्र्स्_४,३.१६ ॥ चतुष्टयेऽपि वीराणां निखिला एव सात्त्विकाः । गर्वावेगधृतिव्रीडामतिहर्षावहित्थिकाः । अमर्षोत्सुकतासूयास्मृत्य्आद्या व्यभिचारिणः ॥ ऋBह्र्स्_४,३.१७ ॥ युद्धोत्साहरतिस्तस्मिन् स्थायिभावतयोदिता । या स्वशक्तिसहायाद्यैराहार्या सहजापि वा । जिगीषा स्थेयसी युद्धे सा युद्धोत्साह ईर्यते ॥ ऋBह्र्स्_४,३.१८ ॥ तत्र स्वशक्त्या आहार्योत्साहरतिर्, यथा स्वतातशिष्ट्या स्फुटमप्यनिच्छन्न् आहूयमानः पुरुषोत्तमेन । स स्तोककृष्णो धृतयुद्धतृष्णः प्रोद्यम्य दण्डं भ्रमयाञ्चकार ॥ ऋBह्र्स्_४,३.१९ ॥ स्वशक्त्या सहजोत्साहरतिर्, यथा शुण्डाकारं प्रेक्ष्य मे बाहुदण्डं मा त्वं भैषीः क्षुद्र रे भद्रसेन । हेलारम्भेणाद्य निर्जित्य रामं श्रीदामाहं कृष्णमेवाह्वयेय ॥ ऋBह्र्स्_४,३.२० ॥ यथा व बलस्य बलिनो बलात्सुहृद्अनीकमालोडयन् पयोधिमिव मन्दरः कृतमुकुन्दपक्षग्रहः । जनं विकटगर्जितैर्वधिरयन् स धीरस्वरो हरेः प्रमदमेककः समिति भद्रसेनो व्यधात् ॥ ऋBह्र्स्_४,३.२१ ॥ सहायेनाहार्योत्साहरतिर्, यथा मयि वल्गति भीमविक्रमे भज भङ्गं न हि सङ्गरादितः । इति मित्रगिरा वरूथपः सविरूपं विब्रुवन् हरिं ययौ ॥ ऋBह्र्स्_४,३.२२ ॥ सहायेन सहजोत्साहरतिर्, यथा सङ्ग्रामकामुकभुजः स्वयमेव कामं दामोदरस्य विजयाय कृती सुदामा । साहाय्यमत्र सुबलः कुरुते बली चेज् जातो मणिः सुजटितो वरहाटकेन ॥ ऋBह्र्स्_४,३.२३ ॥ सुहृदेव प्रतिभटो वीरे कृष्णस्य न त्वरिः । स भक्तक्षोभकारित्वाद्रौद्रे त्वालम्बनो रसे । रागाभावो दृग्आदीनां रौद्रादस्य विभेदकः ॥ ऋBह्र्स्_४,३.२४ ॥ अथ दानवीरः द्विविधो दानवीरः स्यादेकस्तत्र बहुप्रदः । उपस्थितदुरापार्थत्यागी चापर उच्यते ॥ ऋBह्र्स्_४,३.२५ ॥ तत्र बहुप्रदः सहसा दीयते येन स्वयं सर्वस्वमप्युत । दामोदरस्य सौख्याय प्रोच्यते स बहुप्रदः ॥ ऋBह्र्स्_४,३.२६ ॥ सम्प्रदानस्य वीक्षाद्या अस्मिन्नुद्दीपना मताः । वाञ्छिताधिकदातृत्वं स्मितपूर्वाभिभाषणम् ॥ ऋBह्र्स्_४,३.२७ ॥ स्थैर्यदाक्षिण्यधैर्याद्या अनुभावा इहोदिताः । वितर्कौत्सुक्यहर्षाद्या विज्ञेया व्यभिचारिणः ॥ ऋBह्र्स्_४,३.२८ ॥ दानोत्साहरतिस्त्वत्र स्थायिभावतयोदिता । प्रगाढा स्थेयसी दित्सा दानोत्साह इतीर्यते ॥ ऋBह्र्स्_४,३.२९ ॥ द्विधा बहुप्रदोऽप्येष विद्वद्भिरिह कथ्यते । स्यादाभ्युदयिकस्त्वेकः परस्तत्सम्प्रदानकः ॥ ऋBह्र्स्_४,३.३० ॥ तत्र आभ्युदायिकः कृष्णस्याभ्युदयार्थं तु येन सर्वस्वमर्प्यते । अर्थिभ्यो ब्राह्मणादिभ्यः स आभ्युदायिको भवेत् ॥ ऋBह्र्स्_४,३.३१ ॥ यथा व्रजपतिरिह सूनोर्जातकार्थं तथासौ व्यतरदमलचेताः सञ्चयं नैचिकीनाम् । पृथुरपि नृगकीर्तिः साम्प्रतं संवृतासीद् इति निजगदुरुच्चैर्भूसुरा येन तृप्ताः ॥ ऋBह्र्स्_४,३.३२ ॥ अथ तत्सम्प्रदानकः ज्ञातये हरये स्वीयमहंताममतास्पदम् । सर्वस्वं दीयते येन स स्यात्तत्सम्प्रदानकः ॥ ऋBह्र्स्_४,३.३३ ॥ तद्दानं प्रीतिपूजाभ्यां भवेदित्युदितं द्विधा ॥ ऋBह्र्स्_४,३.३४ ॥ तत्र प्रीतिदानम् प्रीतिदानं तु तस्मै यद्दद्याद्बन्ध्व्आदिरूपिणे ॥ ऋBह्र्स्_४,३.३५ ॥ यथा चार्चिक्यं वैजयन्तीं पटमुरुपुरटोद्भासुरं भूषणानां श्रेणिं माणिक्यभाजं गजरथतुरगान् कर्बुरान् कर्बुरेण । दत्त्वा राज्यं कुटुम्बं स्वमपि भगवते दित्सुरप्यन्यदुच्चैर् देयं कुत्राप्यदृष्ट्वा मखसदसि तदा व्याकुलः पाण्डवोऽभूत् ॥ ऋBह्र्स्_४,३.३६ ॥ पुजादानं पुजादानं तु तस्मै यद्विप्ररूपाय दीयते ॥ ऋBह्र्स्_४,३.३७ ॥ यथा अष्टमे (८.२०.११) यजन्ति यज्ञं क्रतुभिर्यमादृता भवन्त आम्नायविधानकोविदाः । स एव विष्णुर्वरदोऽस्तु वा परो दास्याम्यमुष्मै क्षितिमीप्सितां मुने ॥ ऋBह्र्स्_४,३.३८ ॥ यथा वा दशरूपके {*ढनिक तो ४.७२} लक्ष्मीपयोधरोत्सङ्गकुङ्कुमारुणितो हरेः । बलिनैव स येनास्य भिक्षापात्रीकृतः करः ॥ ऋBह्र्स्_४,३.३९ ॥ अथ उपस्थितदुरापार्थत्यागी उपस्थितदुरापार्थत्यग्यसौ येन नेष्यते । हरिणा दीयमानोऽपि सार्ष्ट्य्आदिस्तुष्यता वरः ॥ ऋBह्र्स्_४,३.४० ॥ पूर्वतोऽत्र विपर्यस्तकारकत्वं द्वयोर्भवेत् । अस्मिन्नुद्दीपनाः कृष्णकृपालापस्मितादयः ॥ ऋBह्र्स्_४,३.४१ ॥ अनुभावास्तद्उत्कर्षवर्णनद्रढिमादयः । अत्र सञ्चारिता भूम्ना धृतेरेव समीक्ष्यते ॥ ऋBह्र्स्_४,३.४२ ॥ त्यागोत्साहरतिर्धीरैः स्थायी भाव इहोदितः । त्यागेच्छा तादृशी प्रौढा त्यागोत्साह इतीर्यते ॥ ऋBह्र्स्_४,३.४३ ॥ यथा हरिभक्तिसुधोदये (७.२८) स्थानाभिलाषी तपसि स्थितोऽहं त्वां प्राप्तवान् देवमुनीन्द्रगुह्यम् । काचं विचिन्वन्नपि दिव्यरत्नं स्वामिन् कृतार्थोऽस्मि वरं न याचे ॥ ऋBह्र्स्_४,३.४४ ॥ यथा वा तृतीये (३.१५.४८) नात्यन्तिकं विगणयन्त्यपि ते प्रसादं किं वान्यदर्पितभयं भ्रुव उन्नयैस्ते । येऽङ्ग त्वद्अङ्घ्रिशरणा भवतः कथायाः कीर्तन्यतीर्थयशसः कुशला रसज्ञाः ॥ ऋBह्र्स्_४,३.४५ ॥ अयमेव भवन्नुच्चैः प्रौढभावविशेषभाक् । धुर्यादीनां तृतीयस्य वीरस्य पदवीं व्रजेत् ॥ ऋBह्र्स्_४,३.४६ ॥ अथ दयावीरः कृपार्द्रहृदयत्वेन खण्डशो देहमर्पयन् । कृष्णायाच्छन्नकृपाय दयावीर इहोच्यते ॥ ऋBह्र्स्_४,३.४७ ॥ उद्दीपना इह प्रोक्तास्तद्आर्तिव्यञ्जनादयः । निजप्राणव्ययेनापि विपन्नत्राणशीलता ॥ ऋBह्र्स्_४,३.४८ ॥ आश्वासनोक्तयः स्थैर्यमित्याद्यास्तत्र विक्रियाः । औत्सुक्यमतिहर्षाद्या ज्ञेयाः सञ्चारिणो बुधैः ॥ ऋBह्र्स्_४,३.४९ ॥ दयोत्साहरतिस्त्वत्र स्थायिभाव उदीर्यते । दयोद्रेकभृदुत्साहो दयोत्साह इहोदितः ॥ ऋBह्र्स्_४,३.५० ॥ यथा वन्दे कुट्मलिताञ्जलिर्मुहुरहं वीरं मयूरध्वजं येनार्धं कपटद्विजाय वपुषः कंसद्विषे दित्सता । कष्टं गद्गदिकाकुलोऽस्मि कथनारम्भादहो धीमता सोल्लासं क्रकचेन दारितमभूत्पत्नीसुताभ्यां शिवः ॥ ऋBह्र्स्_४,३.५१ ॥ हरेश्चेत्तत्त्वविज्ञानं नैवास्य घटते दया । तद्अभावे त्वसौ दानवीरेऽन्तर्भवति स्फुटम् ॥ ऋBह्र्स्_४,३.५२ ॥ वैष्णवत्वाद्रतिः कृष्णे क्रियतेऽनेन सर्वदा । कृतात्र द्विजरूपे च भक्तिस्तेनास्य भक्तता ॥ ऋBह्र्स्_४,३.५३ ॥ अन्तर्भावं वदन्तोऽस्य दानवीरे दयात्मनः । वोपदेवादयो धीरा वीरमाचक्षते त्रिधा ॥ ऋBह्र्स्_४,३.५४ ॥ अथ धर्मवीरः कृष्णैकतोषणे धर्मे यः सदा परिनिष्ठितः । प्रायेण धीरशान्तस्तु धर्मवीरः स उच्यते ॥ ऋBह्र्स्_४,३.५५ ॥ उद्दीपना इह प्रोक्ताः सच्छास्त्रश्रवणादयः । अनुभावा नयास्तिक्यसहिष्णुत्वयमादयः ॥ ऋBह्र्स्_४,३.५६ ॥ धर्मोत्साहरतिर्धीरैः स्थायी भाव इहोच्यते । धर्मैकाभिनिवेशस्तु धर्मोत्साहो मतः सताम् ॥ ऋBह्र्स्_४,३.५७ ॥ यथा भवदभि रतिहेतून् कुर्वता सप्ततन्तून् पुरमभि पुरुहूते नित्यमेवोपहूते । दनुजदमन तस्याः पाण्डुपुत्रेण गण्डः सुचिरमरचि शच्याः सव्यहस्ताङ्कशायी ॥ ऋBह्र्स्_४,३.५८ ॥ यज्ञः पूजाविशेषोऽस्य भुजाद्य्अङ्गानि वैष्णवः । ध्यात्वेन्द्राद्य्आश्रयत्वेन यदेष्वाहुतिरर्प्यते ॥ ऋBह्र्स्_४,३.५९ ॥ अयं तु साक्षात्तस्यैव निदेशात्कुरुते मखान् । युधिष्ठिरोऽम्बुधिः प्रेम्णां महाभागवतोत्तमः ॥ ऋBह्र्स्_४,३.६० ॥ दानादित्रिविधं वीरं वर्णयन्तः परिस्फुटम् । धर्मवीरं न मन्यन्ते कतिचिद्धनिकादयः* ॥ ऋBह्र्स्_४,३.६१ ॥ {*Cओम्मेन्ततोरोन् डशरूपक} इति श्रीश्रीभक्तिरसामृतसिन्धावुत्तरविभागे वीरभक्तिरसनिरूपणे अद्भुतभक्तिरसलहरी तृतीया ॥ ___________________________________________________ [४.४] करुणभक्तिरसाख्या चतुर्थलहरी आत्मोचितैर्विभावाद्यैर्नीता पुष्टिं सतां हृदि । भवेच्छोकरतिर्भक्तिरसो हि करुणाभिधः ॥ ऋBह्र्स्_४,४.१ ॥ अव्युच्छिन्नमहानन्दोऽप्येष प्रेमविशेषतः । अनिष्टाप्तेः पदतया वेद्यः कृष्णोऽस्य च प्रियः ॥ ऋBह्र्स्_४,४.२ ॥ तथानवाप्ततद्भक्तिसौख्यश्च स्वप्रियो जनः । इत्यस्य विषयत्वेन ज्ञेया आलम्बनास्त्रिधा ॥ ऋBह्र्स्_४,४.३ ॥ तत्तद्वेदी च तद्भक्त आश्रयत्वेन च त्रिधा । सोऽप्यौचित्येन विज्ञेयः प्रायः शान्तादिवर्जितः । तत्कर्मगुणरूपाद्या भवत्युद्दीपना इह ॥ ऋBह्र्स्_४,४.४ ॥ अनुभावा मुखे शोषो विलापः स्रस्तगात्रता । श्वासक्रोशनभूपातघातोरस्ताडनादयः ॥ ऋBह्र्स्_४,४.५ ॥ अत्राष्टौ सात्त्विका जाड्यनिर्वेदग्लानिदीनताः । चिन्ताविषादाउत्सुक्यचापलोन्मादमृत्यवः । आलस्यापस्मृतिव्याधिमोहाद्या व्यभिचारिणः ॥ ऋBह्र्स्_४,४.६ ॥ हृदि शोकतयांशेन गता परिणतिं रतिः । उक्ता शोकरतिः सैव स्थायी भाव इहोच्यते ॥ ऋBह्र्स्_४,४.७ ॥ तत्र कृष्णो, यथा श्रीदशमे (१०.१६.१०) तं नागभोगपरिवीतमदृष्टचेष्टम् आलोक्य तत्प्रियसखाः पशुपा भृशार्ताः । कृष्णेऽर्पितात्मसुहृद्अर्थकलत्रकामा दुःखानुशोकभयमूढधियो निपेतुः ॥ ऋBह्र्स्_४,४.८ ॥ यथा वा फणिह्रदमवगाढे दारुणं पिञ्छचूडे स्खलद्अशिशिरबाष्पस्तोमधौतोत्तरीया । निखिलकरणवृत्तिस्तम्भिनीमाललम्बे विषमगतिमवस्थां गोष्ठराजस्य राज्ञी ॥ ऋBह्र्स्_४,४.९ ॥ तस्य प्रियजनो, यथा कृष्णप्रियाणामाकर्षे शङ्खचूडेन निर्मिते । नीलाम्बरस्य वक्त्रेन्दुर्नीलिमानं मुहुर्दधे ॥ ऋBह्र्स्_४,४.१० ॥ स्वप्रियो, यथा हंसदूते (५४) विराजन्ते यस्य व्रजशिशुकुलस्तेयविकल स्वयम्भूचूडाग्रैर्लुलितशिखराः पादनखराः । क्षणं यानालोक्य प्रकटपरमानन्दविवशः स देवर्षिर्मुक्तानपि तनुभृतः शोचति भृशम् ॥ ऋBह्र्स्_४,४.११ ॥ यथा वा मातर्माद्रि गता कुतस्त्वमधुना हा क्वासि पाण्डो पितः सान्द्रानन्दसुधाब्धिरेष युवयोर्नाभूद्दृशां गोचरः । इत्युच्चैर्नकुलानुजो विलपति प्रेक्ष्य प्रमोदाकुलो गोविन्दस्य पदारविन्दयुगलप्रोद्दामकान्तिच्छटाम् ॥ ऋBह्र्स्_४,४.१२ ॥ रतिं विनापि घटते हास्यादेरुद्गमः क्वचित् । कदाचिदपि शोकस्य नास्य सम्भावना भवेत् ॥ ऋBह्र्स्_४,४.१३ ॥ रतेर्भूम्ना क्रशिम्ना च शोको भूयान् कृशश्च सः । रत्या सहाविनाभावात्काप्येतस्य विशिष्टता ॥ ऋBह्र्स्_४,४.१४ ॥ अपि च कृष्णैश्वर्याद्य्अविज्ञानं कृतं नैषामविद्यया । किन्तु प्रेमोत्तररसविशेषेणैव तत्कृतम् ॥ ऋBह्र्स्_४,४.१५ ॥ अतः प्रादुर्भवन् शोको लब्धाप्युद्भटतां मुहुः । दुरूहामेव तनुते गतिं सौख्यस्य कामपि ॥ ऋBह्र्स्_४,४.१६ ॥ इति श्रीश्रीभक्तिरसामृतसिन्धावुत्तरविभागे गौणभक्तिरसनिरूपणे करुणभक्तिरसलहरी चतुर्थी ॥ ___________________________________________________ ४.५ रौद्रभक्तिरसाख्या पञ्चमलहरी नीता क्रोधरतिः पुष्टिं विभावाद्यैर्निजोचितैः । हृदि भक्तजनस्यासौ रौद्रभक्तिरसो भवेत् ॥ ऋBह्र्स्_४,५.१ ॥ कृष्णो हितोऽहितश्चेति क्रोधस्य विषयस्त्रिधा । कृष्णे सखीजरत्य्आद्याः क्रोधस्याश्रयतां गताः । भक्ताः सर्वविधा एव हिते चैवाहिते तथा ॥ ऋBह्र्स्_४,५.२ ॥ तत्र कृष्णे सख्याः क्रोधः सखीक्रोधे भवेत्सख्याः कृष्णादत्याहिते सति ॥ ऋBह्र्स्_४,५.३ ॥ यथा विदग्धमाधवे (२.३७) अन्तःक्लेशकलङ्किताः किल वयं यामोऽद्य याम्यां पुरीं नायं वञ्चनसञ्चयप्रणयिनं हासं तथाप्युज्झति । अस्मिन् सम्पुटिते गभीरकपटैराभीरपल्लीविटे हा मेधाविनि राधिके तव कथं प्रेमा गरीयानभूत् ॥ ऋBह्र्स्_४,५.४ ॥ तत्र जरत्याः क्रोधः क्रोधो जरत्या वध्व्आदिसम्बन्धे प्रेक्षिते हरौ ॥ ऋBह्र्स्_४,५.५ ॥ यथा अरे युवतितस्कर प्रकटमेव वध्वाः पटस् तवोरसि निरीक्ष्यते बत न नेति किं जल्पसि । अहो व्रजनिवासिनः शृणुत किं न विक्रोशनं व्रजेश्वरसुतेन मे सुतगृहेऽग्निरुत्थापितः ॥ ऋBह्र्स्_४,५.६ ॥ गोवर्धनं महामल्लं विनान्येषां व्रजौकसाम् । सर्वेषामेव गोविन्दे रतिः प्रौढा विराजते ॥ ऋBह्र्स्_४,५.७ ॥ अथ हितः हितस्त्रिधानवहितः साहसी चेर्ष्युरित्यपि ॥ ऋBह्र्स्_४,५.८ ॥ तत्र अनवहितः कृष्णपालनकर्तापि तत्कर्माभिनिवेशतः । क्वचित्तत्र प्रमत्तो यः प्रोक्तोऽनवहितोऽत्र सः ॥ ऋBह्र्स्_४,५.९ ॥ यथा उत्तिष्ठ मूढ कुरु मा विलम्बं वृथैव धिक्पण्डितमानिनी त्वम् । क्रट्यत्पलाशिद्वयमन्तरा ते बद्धः सुतोऽसौ सखि बम्भ्रमीति ॥ ऋBह्र्स्_४,५.१० ॥ अथ साहसी यः प्रेरको भयस्थाने साहसी स निगद्यते ॥ ऋBह्र्स्_४,५.११ ॥ यथा गोविन्दः प्रियसुहृदां गिरैव यातस् तालानां विपिनमिति स्फुटं निशम्य । भ्रूभेदस्थपुटितदृष्टिराद्यमेषां डिम्भानां व्रजपतिगेहिनी ददर्श ॥ ऋBह्र्स्_४,५.१२ ॥ अथ ईर्ष्युः ईर्ष्युर्मानधना प्रोक्ता प्रौढेर्ष्याक्रान्तमानसा ॥ ऋBह्र्स्_४,५.१३ ॥ यथा दुर्मानमन्थमथिते कथयामि किं ते दूरं प्रयाहि सविधे तव जाज्ज्वलीमि । हा धिक्प्रियेण चिकुराञ्चितपिञ्छकोट्या निर्मञ्छिताग्रचरणाप्यरुणाननासि ॥ ऋBह्र्स्_४,५.१४ ॥ अथ अहितः अहितः स्याद्द्विधा स्वस्य हरेश्चेति प्रभेदतः ॥ ऋBह्र्स्_४,५.१५ ॥ तत्र स्वस्याहितः अहितः स्वस्य स स्याद्यः कृष्णसम्बन्धबाधकः ॥ ऋBह्र्स्_४,५.१६ ॥ यथा उद्धवसन्देशे (७४) कृष्णं मुष्णनकरुणबलाद्गोपनारीवधार्थी मा मर्यादां यदुकुलभुवां भिन्धिरे गान्दिनेयः । इति उत्तुङ्गा मम मधुपुरे यात्रया तत्र तासां वित्रस्तानां परिववलिरे वल्लवीनां विलापाः ॥ ऋBह्र्स्_४,५.१७ ॥ अथ हरेरहितः अहितस्तु हरेस्तस्य वैरिपक्षो निगद्यते ॥ ऋBह्र्स्_४,५.१८ ॥ यथा हरौ श्रुतिशिरःशिखा मणिमरीचिनीराजित स्फुरच्चरणपङ्कजेऽप्यवमतिं व्यनक्त्यत्र यः । अयं क्षिपति पाण्डवः शमनदण्डघोरं हठात् त्रिरस्य मुकुटोपरि स्फुटमुदीर्य सव्यं पदम् ॥ ऋBह्र्स्_४,५.१९ ॥ सोल्लुण्ठहासवक्रोक्तिकटाक्षानादरादयः । कृष्णाहितहितस्थाः स्युरमी उद्दीपना इह ॥ ऋBह्र्स्_४,५.२० ॥ हस्तनिस्पेषणं दन्तघट्टनं रक्तनेत्रता । दष्टौष्ठतातिभ्रूकुटी भुजास्फालनताडनाः ॥ ऋBह्र्स्_४,५.२१ ॥ तुष्णीकता नतास्यत्वं निश्वासो भुग्नदृष्टिता । भर्त्सनं मूर्धविधूतिर्दृग्अन्ते पाटलच्छविः ॥ ऋBह्र्स्_४,५.२२ ॥ भ्रूभेदाधरकम्पाद्या अनुभावा इहोदिताः । अत्र स्तम्भादयः सर्वे प्राकट्यं यान्ति सात्त्विकाः ॥ ऋBह्र्स्_४,५.२३ ॥ आवेगो जडता गर्वो निर्वेदो मोहचापले । असूयौग्र्यं तथामर्षश्रमाद्या व्यभिचारिणः ॥ ऋBह्र्स्_४,५.२४ ॥ अत्र क्रोधरतिः स्थायी स तु क्रोधस्त्रिधा मतः । कोपो मन्युस्तथा रोषस्तत्र कोपस्तु शत्रुगः ॥ ऋBह्र्स्_४,५.२५ ॥ मन्युर्बन्धुषु ते पूज्यसमन्यूनास्त्रिधोदिताः । रोषस्तु दयिते स्त्रीणामतो व्यभिचरत्यसौ ॥ ऋBह्र्स्_४,५.२६ ॥ हस्तपेषादयः कोपे मन्यौ तुष्णीकतादयः । दृग्अन्तपाटलत्वाद्या रोषे तु कथिताः क्रियाः ॥ ऋBह्र्स्_४,५.२७ ॥ तत्र वैरिणि, यथा निरुध्य पुरमुन्मदे हरिमगाधसत्त्वाश्रयं मृधे मगधभूपतौ किमपि वक्त्रमाक्रोशति । दृशं कवलितद्विषद्विसरजाङ्गले नुनोद दहद्इङ्गलप्रवलपिङ्गलां लाङ्गली* ॥ ऋBह्र्स्_४,५.२८ ॥ {*ठ्रेए स्य्ल्लब्लेस्मिस्सिन्गिन् थे लस्त्लिने. Cओप्यिस्तेर्रोरोर्त्य्पो?} पूज्यो, यथा विदग्धमाधवे (२.२२) क्रोशन्त्यां करपल्लवेन बलवान् सद्यः पिधत्ते मुखं धावन्त्यां भयभाजि विस्तृतभुजो रुन्धे पुरः पद्धतिम् । पादान्ते विलुठत्यसौ मयि मुहुर्दष्टाधरायां रुषा मातश्चण्डि मया शिखण्डमुकुटादात्माभिरक्ष्यः कथम् ॥ ऋBह्र्स्_४,५.२९ ॥ समे, यथा ज्वलति दुर्मुखि मर्मणि मुर्मुरस् तव गिरा जटिले निटिले च मे । गिरिधरः स्पृशति स्म कदा मदाद् दुहितरं दुहितुर्मम पामरि ॥ ऋBह्र्स्_४,५.३० ॥ न्यूने, यथा हन्त स्वकीयकुचमूर्ध्नि मनोहरोऽयं हारश्चकास्ति हरिकण्ठतटीचरिष्णुः । भोः पश्यत स्वकुलकज्जलमञ्जरीयं कुटेन मां तदपि वञ्चयते वधूटी ॥ ऋBह्र्स्_४,५.३१ ॥ अस्मिन्न तादृशो मन्यौ वर्तते रत्य्अनुग्रहः । उदाहरणमात्राय तथाप्येष निदर्शितः ॥ ऋBह्र्स्_४,५.३२ ॥ क्रोधाश्रयाणां शत्रूणां चैद्यादीनां स्वभावतः । क्रोधो रतिविनाभावान्न भक्तिरसतां व्रजेत् ॥ ऋBह्र्स्_४,५.३३ ॥ इति श्रीश्रीभक्तिरसामृतसिन्धावुत्तरविभागे गौणभक्तिरसनिरूपणे रौद्रभक्तिरसलहरी पञ्चमी ॥ ___________________________________________________ [४.६] भयानकभक्तिरसाख्या षष्ठलहरी वक्ष्यमाणैर्विभावाद्यैः पुष्टिं भयरतिर्गता । भयानकाभिधो भक्तिरसो धीरैरुदीर्यते ॥ ऋBह्र्स्_४,६.१ ॥ कृष्णश्च दारुणाश्चेति तस्मिन्नालम्बना द्विधा । अनुकम्प्येषु सागस्सु कृष्णस्तस्य च बन्धुषु ॥ ऋBह्र्स्_४,६.२ ॥ दारुणाः स्नेहतः शश्वत्तद्अनिष्ठाप्तिदर्शिषु । दर्शनाच्छ्रवणाच्चेति स्मरणाच्च प्रकीर्तिताः ॥ ऋBह्र्स्_४,६.३ ॥ तत्र अनुकम्प्येषु कृष्णो, यथा किं शुष्यद्वदनोऽपि मुञ्च खचितं चित्ते पृथुं वेपथुं विश्वस्य प्रकृतिं भजस्व न मनागप्यस्ति मन्तुं तव । उष्मम्रक्षितमृक्षराज रभसाद्विस्तीर्य वीर्यं त्वया पृथ्वी प्रत्युत युद्धकौतुकमयी सेवैव मे निर्मिता ॥ ऋBह्र्स्_४,६.४ ॥ यथा वा मुरमथन पुरस्ते को भुजङ्गस्तपस्वी लघुहरमिति कार्षीर्मा स्म दीनाय मन्युम् । गुरुरयमपराधस्तथ्यमज्ञानतोऽभूद् अशरणमतिमूढं रक्ष रक्ष प्रसीद ॥ ऋBह्र्स्_४,६.५ ॥ बन्धुषु दारुणा दर्शनाद्, यथा हा किं करोमि तरलं भवनान्तराले गोपेन्द्र गोपय बलादुपरुध्य बालम् । क्ष्मामण्डलेन सह चञ्चलयन्मनो मे शृङ्गाणि लङ्घयति पश्य तुरङ्गदैत्यः ॥ ऋBह्र्स्_४,६.६ ॥ श्रवणाद्, यथा शृण्वन्ती तुरगदानवं रुषा गोकुलं किल विशन्तमुद्धुरम् । द्रागभूत्तनयरक्षणाकुला शुष्यद्आस्यजलजा व्रजेश्वरी ॥ ऋBह्र्स्_४,६.७ ॥ स्मरणाद्, यथा विरम विरम मातः पूतनायाः प्रसङ्गात् तनुमियमधुनापि स्मर्यमाणा धुनोति । कवलयितुमिवान्धीकृत्य बालं घुरन्ती वपुरतिपुरुषं या घोरमाविश्चकार ॥ ऋBह्र्स्_४,६.८ ॥ विभावस्य भ्रूकुट्य्आद्यास्तस्मिन्नुद्दीपना मताः । मुखशोषणमुच्छ्वासः परावृत्य विलोकनम् ॥ ऋBह्र्स्_४,६.९ ॥ स्वसङ्गोपनमुद्घूर्णा शरणान्वेषणं तथा । क्रोशनाद्याः क्रियाश्चात्र सात्त्विकाश्चाश्रुवर्जिताः ॥ ऋBह्र्स्_४,६.१० ॥ इह सन्त्रासमरणचापलावेगदीनताः । विषादमोहापस्मारशङ्काद्या व्यभिचारिणः ॥ ऋBह्र्स्_४,६.११ ॥ अस्मिन् भग्नरतिः स्थायी भावः स्यादपराधतः । भीषणेभ्यश्च तत्र स्याद्बहुधैवापराधिता ॥ ऋBह्र्स्_४,६.१२ ॥ तज्जा भीर्नापरत्र स्यादनुग्राह्यजनान् विना । आकृत्या ये प्रकृत्या ये ये प्रभावेण भीषणाः ॥ ऋBह्र्स्_४,६.१३ ॥ एतद्आलम्बना भीतिः केवलप्रेमशालिषु । नारीबालादिषु तथा प्रायेणात्रोपजायते ॥ ऋBह्र्स्_४,६.१४ ॥ आकृत्या पूतनाद्याः स्युः प्रकृत्या दुष्टभूभुजः । भीषणास्तु प्रभावेण सुरेन्द्रगिरिशादयः ॥ ऋBह्र्स्_४,६.१५ ॥ सदा भगवतो भीतिं गता आत्यन्तिकीमपि । कंसाद्या रतिशून्यत्वादत्र नालम्बना मताः ॥ ऋBह्र्स्_४,६.१६ ॥ इति श्रीश्रीभक्तिरसामृतसिन्धावुत्तरविभागे गौणभक्तिरसनिरूपणे भयानकभक्तिरसलहरी षष्ठी ॥ ___________________________________________________ [४.७] बीभत्सभक्तिरसाख्या सप्तमलहरी पुष्टिं निजविभावाद्यैर्जुगुप्सारतिरागता । असौ भक्तिरसो धीरैर्बीभत्साख्य इतीर्यते ॥ ऋBह्र्स्_४,७.१ ॥ अस्मिन्नाश्रितशान्ताद्या धीरैरालम्बना मताः ॥ ऋBह्र्स्_४,७.२ ॥ यथा पाण्डित्यं रतहिण्डकाध्वनि गतो यः कामदीक्षाव्रती कुर्वन् पूर्वमशेषषिड्गनगरी साम्राज्यचर्यामभूत् । चित्रं सोऽयमुदीरयन् हरिगुणानुद्बाष्पदृष्टिर्जनो दृष्टे स्त्रीवदने विकूणितमुखो विष्टभ्य निष्ठीवति ॥ ऋBह्र्स्_४,७.३ ॥ अत्र निष्ठीवनं वक्त्रकूणनं घ्राणसंवृतिः । धावनं कम्पपुलकप्रस्वेदाद्याश्च विक्रियाः ॥ ऋBह्र्स्_४,७.४ ॥ इह ग्लानिश्रमोन्मादमोहनिर्वेददीनताः । विषादचापलावेगजाड्याद्यो व्यभिचारिणः ॥ ऋBह्र्स्_४,७.५ ॥ जुगुप्सारतिरत्र स्यात्स्थायी सा च विवेकजा । प्रायिकी चेति कथिता जुगुप्सा द्विविधा बुधैः ॥ ऋBह्र्स्_४,७.६ ॥ तत्र विवेकजा जातकृष्णरतेर्भक्तविशेषस्य तु कस्यचित् । विवेकोत्था तु देहादौ जुगुप्सा स्याद्विवेकजा ॥ ऋBह्र्स्_४,७.७ ॥ यथा घनरुधिरमये त्वचा पिनद्धे पिशितविमिश्रितविस्रगन्धभाजि । कथमिह रमतां बुधः शरीरे भगवति हन्त रतेर्लवेऽप्युदीर्णे ॥ ऋBह्र्स्_४,७.८ ॥ अथ प्रायिकी अमेध्यपूत्य्अनुभवात्सर्वेषामेव सर्वतः । या प्रायो जायते सेयं जुगुप्सा प्रायिकी मता ॥ ऋBह्र्स्_४,७.९ ॥ यथा असृङ्मूत्राकीर्णे घनशमलपङ्कव्यतिकरे वसन्नेष क्लिन्नो जडतनुरहं मातुरुदरे । लभे चेतःक्षोभं तव भजनकर्माक्षमतया तदस्मिन् कंसारे कुरु मयि कृपासागर कृपाम् ॥ ऋBह्र्स्_४,७.१० ॥ यथा वा घ्राणोद्घूर्णकपूतगन्धिविकटे कीटाकुले देहली स्रस्तव्याधितयूथगूथघटनानिर्धूतनेत्रायुषि । कारानामनि हन्त मागधयमेनामी वयं नारके क्षिप्तास्ते स्मृतिमाकलय्य नरकध्वंसिन्निह प्राणिमः ॥ ऋBह्र्स्_४,७.११ ॥ लब्धकृष्णरतेरेव सुष्ठु पूतं मनः सदा । क्षुभ्यत्यहृद्यलेशेऽपि ततोऽस्यां रत्य्अनुग्रहः ॥ ऋBह्र्स्_४,७.१२ ॥ हास्यादीनां रसत्वं यद्गौणत्वेनापि कीर्तितम् । प्राचां मतानुसारेण तद्विज्ञेयं मनीषिभिः ॥ ऋBह्र्स्_४,७.१३ ॥ अमी पञ्चैव शान्ताद्या हरेर्भक्तिरसा मताः । एषु हास्यादयः प्रायो बिभ्रति व्यभिचारिताम् ॥ ऋBह्र्स्_४,७.१४ ॥ इति श्रीश्रीभक्तिरसामृतसिन्धावुत्तरविभागे गौणभक्तिरसनिरूपणे बीभत्सभक्तिरसलहरी सप्तमी ॥ ___________________________________________________ [४.८] रसानां मैत्रीवैरस्थितिनाम्नी अष्टमलहरी अथामीषां क्रमेणैव शान्तादीनां परस्परम् । मित्रत्वं शात्रवत्वं च रसानामभिधीयते ॥ ऋBह्र्स्_४,८.१ ॥ शान्तस्य प्रीतबीभत्सधर्मवीराः सुहृद्वराः । अद्भुतश्चैष प्रीतादिषु चतुःष्वपि ॥ ऋBह्र्स्_४,८.२ ॥ द्विषन्नस्य शुचिर्युद्धवीरो रौद्रो भयानकः ॥ ऋBह्र्स्_४,८.३ ॥ सुहृत्प्रीतस्य बीभत्सः शान्तो वीरद्वयं तथा । वैरी शुचिर्युद्धवीरो रौद्रश्चैकविभावकः ॥ ऋBह्र्स्_४,८.४ ॥ प्रेयसस्तु शुचिर्हास्यो युद्धवीरः सुहृद्वराः । द्विषो वत्सलबीभत्सरौद्रा भीष्मश्च पूर्ववत् ॥ ऋBह्र्स्_४,८.५ ॥ वत्सलस्य सुहृद्धास्यः करुणो भीष्मभित्तथा । शत्रुः शुचिर्युद्धवीरः प्रीतो रौद्रश्च पूर्ववत् ॥ ऋBह्र्स्_४,८.६ ॥ शुचेर्हास्यस्तथा प्रेयान् सुहृदस्य प्रकीर्तितः । द्विषो वत्सलबीभत्सशान्तरौद्रभयानकाः । प्राहुरेकेऽस्य सुहृदं वीरयुग्मं परे रिपुम् ॥ ऋBह्र्स्_४,८.७ ॥ मित्रं हास्यस्य बीभत्सः शुचिः प्रेयान् सवत्सलः । प्रतिपक्षस्तु करुणस्तथा प्रोक्तो भयानकः ॥ ऋBह्र्स्_४,८.८ ॥ अद्भुतस्य सुहृद्वीरः पञ्च शान्तादयस्तथा । प्रतिपक्षो भवेदस्य रौद्रो बीभत्स एव च ॥ ऋBह्र्स्_४,८.९ ॥ वीरस्य त्वद्भुतो हास्यः प्रेयान् प्रीतिस्तथा सुहृत् । भयानको विपक्षोऽस्य कस्यचिच्छान्त एव च ॥ ऋBह्र्स्_४,८.१० ॥ करुणस्य सुहृद्रौद्रो वत्सलश्च विलोक्यते । वैरी हास्योऽस्य सम्भोगशृङ्गारश्चाद्भुतस्तथा ॥ ऋBह्र्स्_४,८.११ ॥ रौद्रस्य करुणः प्रोक्तो वीरश्चापि सुहृद्वरः । प्रतिपक्षस्तु हास्येऽस्य शृङ्गारो भीषणोऽपि च ॥ ऋBह्र्स्_४,८.१२ ॥ भयानकस्य बीभत्सः करुणश्च सुहृद्वरः । द्विषन्तु वीरशृङ्गारहास्यरौद्राः प्रकीर्तिताः ॥ ऋBह्र्स्_४,८.१३ ॥ बीभत्सस्य भवेच्छान्तो हास्यः प्रीतिस्तथा सुहृत् । शत्रुः शुचिस्तथा प्रेयान् ज्ञेया युक्त्या परे च ते ॥ ऋBह्र्स्_४,८.१४ ॥ तत्र सुहृत्कृत्यम् कथितेभ्यः परे ये स्युस्ते तटस्थाः सतां मताः ॥ ऋBह्र्स्_४,८.१५ ॥ सुहृदा मिश्रणां सम्यगास्वादं कुरुते रसम् ॥ ऋBह्र्स्_४,८.१६ ॥ द्वयोस्तु मिश्रणे साम्यं दुःशकं स्यात्तुलाधृतम् । तस्मादङ्गाङ्गिभावेन मेलनं विदुषां मतम् ॥ ऋBह्र्स्_४,८.१७ ॥ भवेन्मुख्योऽथ वा गौणो रसोऽङ्गी किल यत्र यः । कर्तव्यं तत्र तस्याङ्गं सुहृदेव रसो बुधैः ॥ ऋBह्र्स्_४,८.१८ ॥ अथाङ्गित्वं प्रथमतो मुख्यानामिह लिख्यते । अङ्गतां यत्र सुहृदो मुख्या गौणाश्च बिभ्रति ॥ ऋBह्र्स्_४,८.१९ ॥ तत्र शान्तेऽङ्गिनि प्रीतस्याङ्गता, यथा जीवस्फुलिङ्गवह्नेर्महसो घनचित्स्वरूपस्य । तस्य पदाम्बुजयुगलं किं वा संवाहयिष्यामि ॥ ऋBह्र्स्_४,८.२० ॥ अत्र मुख्येऽङ्गिनि मुख्यस्याङ्गता । तत्रैव बीभत्सस्य, यथा अहमिह कफशुक्रशोणितानां पृथुकुतुपे कुतुकी रतः शरीरे । शिव शिव परमात्मनो दुरात्मा सुखवपुषः स्मरणेऽपि मन्थरोऽस्मि ॥ ऋBह्र्स्_४,८.२१ ॥ अत्र मुख्य एव गौणस्य । तत्रैव प्रीतस्याद्भुतबीभत्सयोश्च, यथा हित्वास्मिन् पिशितोपनद्धरुधिरक्लिन्ने मुदं विग्रहे प्रीत्य्उत्सिक्तमनाः कदाहमसकृद्दुस्तर्कचर्यास्पदम् । आसीनं पुरटासनोपरि परं ब्रह्माम्बुदश्यामलं सेविष्ये चलचारुचामरमरुत्सञ्चार चातुर्यतः ॥ ऋBह्र्स्_४,८.२२ ॥ अत्र मुख्य एव मुख्यस्य गौणयोश्च । अथ प्रीते शान्तस्य, यथा निरविद्यतया सपद्यहं निरवद्यः प्रतिपद्यमाधुरीम् । अरविन्दविलोचनं कदा प्रभुमिन्दीवरसुन्दरं भजे ॥ ऋBह्र्स्_४,८.२३ ॥ अत्र मुख्ये मुख्यस्य । तत्रैव बीभत्सस्य, यथा स्मरन् प्रभुपादाम्भोजं नटन्नटति वैष्णवः । यस्तु दृष्ट्या पद्मिनीनामपि सुष्ठु हृणीयते ॥ ऋBह्र्स्_४,८.२४ ॥ अत्र मुख्ये गौणस्य । तत्रैव बीभत्सशान्तवीराणां, यथा तनोति मुखविक्रियां युवतिसङ्गरङ्गोदये न तृप्यति न सर्वतः सुखमये समाधावपि । न सिद्धिषु च लालसां वहति लभ्यमानास्वपि प्रभो तव पदार्चने परमुपैति तृष्णां मनः ॥ ऋBह्र्स्_४,८.२५ ॥ अत्र मुख्ये मुख्यस्य गौणयोश्च । अथ प्रेयसि शुचेर्, यथा धन्यानां किल मूर्धन्याः सुबलामुर्व्रजाबलाः । अधरं पिञ्छचूडस्य चलाश्चुलूकयन्ति याः ॥ ऋBह्र्स्_४,८.२६ ॥ अत्र मुख्ये मुख्यस्य । तत्रैव हासस्य, यथा दृशोस्तरलितैरलं व्रज निवृत्य मुग्धे व्रजं वितर्कयसि मां यथा न हि तथास्मि किं भूरिणा । इतीरयति माधवे नवविलासिनीं छद्मना ददर्श सुबलो बलद्विकचदृष्टिरस्याननम् ॥ ऋBह्र्स्_४,८.२७ ॥ अत्र मुख्ये गौणस्य । तत्रैव शुचिहास्ययोर्, यथा मिहिरदुहितुरुद्यद्वञ्जुलं मञ्जुतीरं प्रविशति सुबलोऽयं राधिकावेषगूढः । सरभसमभिपश्यन् कृष्णमभ्युत्थितं यः स्मितविकशितगण्डं स्वीयमास्यं वृणोति ॥ ऋBह्र्स्_४,८.२८ ॥ अत्र मुख्ये मुख्यगौणयोः । अथ वत्सले करुणस्य निरातपत्रः कान्तारे सन्ततं मुक्तपादुकः । वत्सानवति वत्सो मे हन्त सन्तप्यते मनः ॥ ऋBह्र्स्_४,८.२९ ॥ अत्र मुख्ये गौणस्य । तत्रैव हास्यस्य, यथा पुत्रस्ते नवनीतपिण्डमतनुं मुष्णन्ममान्तर्गृहाद् विन्यस्यापससार तस्य कणिकां निद्राणडिम्भानने । इत्युक्ता कुलवृद्धया सुतमुखे दृष्टिं विभुग्नभ्रुणि स्मेरां निक्षिपती सदा भवतु वः क्षेमाय गोष्ठेश्वरी ॥ ऋBह्र्स्_४,८.३० ॥ अत्रापि मुख्ये गौणस्य । तत्रैव भयानकाद्भुतहास्यकरुणानां, यथा कम्प्रा स्वेदिनि चूर्णकुन्तलतटे स्फारेक्षणा तुङ्गिते सव्ये दोष्णि विकाशिगण्डफलका लीलास्यभङ्गीशते । बिभ्राणस्य हरेर्गिरीन्द्रमुदयद्बाष्पा चिरोर्ध्वस्थितौ पातु प्रस्नवसिच्यमानसिचया विश्वं व्रजाधीश्वरी ॥ ऋBह्र्स्_४,८.३१ ॥ अत्रापि मुख्ये चतूर्णां गौणानाम् । केवले वत्सले नास्ति मुख्यस्य खलु सौहृदम् । अतोऽत्र वत्सले तस्य नतरां लिखिताङ्गता ॥ ऋBह्र्स्_४,८.३२ ॥ अथ उज्ज्वले प्रेयसो, यथा मद्वेषशीलिततनोः सुबलस्य पश्य विन्यस्य मञ्जुभुजमूर्ध्नि भुजं मुकुन्दः । रोमाञ्चकञ्चुकजुषः स्फुटमस्य कर्णे सन्देशमर्पयति तन्वि मद्अर्थमेव ॥ ऋBह्र्स्_४,८.३३ ॥ अत्र मुख्ये मुख्यस्य । तत्रैव हास्यस्य, यथा स्वसास्मि तव निर्दये परिचिनोषि न त्वं कुतः कुरु प्रणयनिर्भरं मम कृशाङ्गि कण्ठग्रहम् । इति ब्रुवति पेशलं युवतिवेषगूढे हरौ कृतं स्मितमभिज्ञया गुरुपुरस्तदा राधया ॥ ऋBह्र्स्_४,८.३४ ॥ अत्र मुख्ये गौणस्य । तत्रैव प्रेयोवीरयोर्यथा मुकुन्दोऽयं चन्द्रावलिवदनचन्द्रे चटुलभे स्मरस्मेरामाराद्दृशमसकलामर्पयति च । भुजामंसे सख्युः पुलकिनि दधानः फनिनिभाम् इभारिक्ष्वेडाभिर्वृषदनुजमुद्योजयति च ॥ ऋBह्र्स्_४,८.३५ ॥ अत्र मुख्ये मुख्यगौणयोः । अथ गौणानामङ्गिता हास्यादीनां तु गौणानां यद्उदाहरणं कृतम् । तेनैषामङ्गिता व्यक्ता मुख्यानां च तथाङ्गता । तथाप्यल्पविशेषाय किञ्चिदेव विलिख्यते ॥ ऋBह्र्स्_४,८.३६ ॥ अथ हास्येऽङ्गिनि शुचेरङ्गता, यथा मदनान्धतया त्रिवक्रया प्रसभं पीतपटाञ्चले धृते । अदधाद्विनतं जनाग्रतो हरिरुत्फुल्लकपोलमाननम् ॥ ऋBह्र्स्_४,८.३७ ॥ अत्र गौणेऽङ्गिनि मुख्यस्याङ्गता । वीरे प्रेयसो, यथा सेनान्यं विजितमवेक्ष्य भद्रसेनं मां योद्धुं मिलसि पुरः कथं विशाल । रामाणां शतमपि नोद्भटोरुधामा श्रीदामा गणयति रे त्वमत्र कोऽसि ॥ ऋBह्र्स्_४,८.३८ ॥ अत्रापि गौणेऽङ्गिनि मुख्यस्य । रौद्रे प्रेयोवीरयोर्, यथा यदुनन्दन निन्दनोद्धतं शिशुपालं समरे जिघांसुभिः । अतिलोहितलोचनोत्पलैर् जगृहे पाण्डुसुतैर्वरायुधम् ॥ ऋBह्र्स्_४,८.३९ ॥ अत्र गौणे मुख्यगौणयोः । अद्भुते प्रेयोवीरहास्यानां, यथा मित्राणीकवृतं गदायुधि गुरुंमन्यं प्रलम्बद्विषं यष्ट्या दुर्बलया विजित्य पुरतः सोल्लुण्ठमुद्गायतः । श्रीदाम्नः किल वीक्ष्य केलिसमराटोपोत्सवे पाटवं कृष्णः फुल्लकपोलकः पुलकवान् विस्फारदृष्टिर्बभौ ॥ ऋBह्र्स्_४,८.४० ॥ अत्र गौणे मुख्यस्य गौणयोश्च । एवमन्यस्य गौणस्य ज्ञेया कविभिरङ्गिता । तथा च मुख्यगौणानां रसानामङ्गतापि च ॥ ऋBह्र्स्_४,८.४१ ॥ सोऽङ्गी सर्वातिगो यः स्यान्मुख्यो गौणोऽथवा रसः । स एवाङ्गं भवेदङ्गिपोषी सञ्चारितां व्रजन् ॥ ऋBह्र्स्_४,८.४२ ॥ तथा च नाट्याचार्याः पठन्ति एक एव भवेत्स्थायी रसो मुख्यतमो हि यः । रसास्तद्अनुयायित्वादन्ये स्युर्व्यभिचारिणः ॥ ऋBह्र्स्_४,८.४३ ॥ श्रीविष्णुधर्मोत्तरे च रसानां समवेतानां यस्य रूपं भवेद्बहु । स मन्तव्यो रसः स्थायी शेषाः सङ्चारिणो मताः ॥ ऋBह्र्स्_४,८.४४ ॥ स्तोकाद्विभावनाज्जातः सम्प्राप्य व्यभिचारिताम् । पुष्णन्निजप्रभुं मुख्यं गौणस्तत्रैव लीयते ॥ ऋBह्र्स्_४,८.४५ ॥ प्रोद्यन् विभावनोत्कर्षात्पुष्टिं मुख्येन लम्भितः । कुञ्चता निजनाथेन गौणोऽप्यङ्गित्वमश्नुते ॥ ऋBह्र्स्_४,८.४६ ॥ मुख्यस्त्वङ्गत्वमासाद्य पुष्णन्निन्द्रमुपेन्द्रवत् । गौणमेवाङ्गिनं कृत्वा निगूढनिजवैभवः ॥ ऋBह्र्स्_४,८.४७ ॥ अनादिवासनोद्भासवासिते भक्तचेतसि । भात्येव न तु लीनः स्यादेष सञ्चारिगौणवत् ॥ ऋBह्र्स्_४,८.४८ ॥ अङ्गी मुख्यः स्वमत्राङ्गैर्भावैस्तैरभिवर्धयन् । सजातीयैर्विजातीयैः स्वतन्त्रः सन् विराजते ॥ ऋBह्र्स्_४,८.४९ ॥ यस्य मुख्यस्य यो भक्तो भवेन्नित्यनिजाश्रयः । अङ्गी स एव तत्र स्यान्मुख्योऽप्यन्योऽङ्गतां व्रजेत् ॥ ऋBह्र्स्_४,८.५० ॥ किं च आस्वादोद्रेकहेतुत्वमङ्गस्याङ्गत्वमङ्गिनि । तद्विना तस्य सम्पातो वैफल्यायैव कल्पते ॥ ऋBह्र्स्_४,८.५१ ॥ यथा मृष्टरसालायां यवसादेः कथञ्चन । तच्चर्वणे भवेदेव सतृणाभ्यवहारिता ॥ ऋBह्र्स्_४,८.५२ ॥ अथ वैरिकृत्यम् जनयत्येव वैरस्यं रसानां वैरिणा युतिः । सुमृष्टपानकादीनां क्षारतिक्तादिना यथा ॥ ऋBह्र्स्_४,८.५३ ॥ यथा हि ब्रह्मिष्ठाया निष्फलो मे व्यतीतः कालो भूयान् हा समाधिव्रतेन । सान्द्रानन्दं तन्मया ब्रह्म मूर्तं कोणेनाक्ष्णः साचिसव्यस्य नैक्षि ॥ ऋBह्र्स्_४,८.५४ ॥ तत्र शान्तस्योज्ज्वलेन वैरस्यम् । क्षणमपि पितृकोटिवत्सलं तं सुरमुनिवन्दितपादमिन्दिरेशम् । अभिलषति वराङ्गनानखाङ्कैः प्रभुमीक्षितं मनो मे ॥ ऋBह्र्स्_४,८.५५ ॥ तत्र प्रीतस्योज्ज्वलेनैव । दोर्भ्यामर्गलदीर्घाभ्यां सखे परिरभस्व माम् । शिरः कृष्ण तवाघ्राय विहरिष्ये ततस्त्वया ॥ ऋBह्र्स्_४,८.५६ ॥ अत्र प्रेयसो वत्सलेन । यं समस्तनिगमाः परमेशं सात्वतास्तु भगवन्तमुशन्ति । तत्सुतेति बत साहसिकीं त्वां व्याजिहीर्षतु कथं मम जिह्वा ॥ ऋBह्र्स्_४,८.५७ ॥ अत्र वत्सलस्य प्रीतेन । तडिद्विलासतरला नवयौवनसम्पदः । अद्यैव दूति तेन त्वं मया रमय माधवम् ॥ ऋBह्र्स्_४,८.५८ ॥ अत्रोज्ज्वलस्य शान्तेन । चिरं जीवेति संयुज्य काचिदाशीर्भिरच्युतम् । कैलासस्था विलासेन कामुकी परिषष्वजे ॥ ऋBह्र्स्_४,८.५९ ॥ अत्र शुचेर्वत्सलेन । शुचेः सम्बन्धगन्धोऽपि कथञ्चिद्यदि वत्सले । क्वचिद्भवेत्ततः सुष्ठु वैरस्यायैव कल्पते ॥ ऋBह्र्स्_४,८.६० ॥ पिशितासृङ्मयी नाहं सत्यमस्मि तवोचिता । स्वापाङ्गबिद्धां श्यामाङ्ग कृपयाङ्गीकुरुष्व माम् ॥ ऋBह्र्स्_४,८.६१ ॥ अत्र शुचेर्बीभत्सेन । एवमन्यापि विज्ञेया प्राज्ञै रसविरोधिता । प्रायेणेयं रसाभासकक्षायां पर्यवस्यति ॥ ऋBह्र्स्_४,८.६२ ॥ किं च द्वायोरेकतरस्येह बाध्यत्वेनोपवर्णने । स्मर्यमाणतयाप्युक्तौ साम्येन वचनेऽपि च ॥ ऋBह्र्स्_४,८.६३ ॥ रसान्तरेण व्यवधौ तटस्थेन प्रियेण वा । विषयाश्रयभेदे च गौणेन द्विषता सह । इत्यादिषु न वैरस्यं वैरिणो जनयेद्युतिः ॥ ऋBह्र्स्_४,८.६४ ॥ तत्र एकतरस्य बाध्यत्वेन वर्णने, यथा विदग्धमाधवे (२.१८) प्रत्याहृत्य मुनिः क्षणं विषयतो यस्मिन्मनो धित्सते बालासौ विषयेषु धित्सति ततः प्रत्याहरन्ती मनः । यस्य स्फूर्तिलवाय हन्त हृदये योगी सुमुत्कण्ठते मुग्धेयं किल तस्य पश्य हृदयान्निष्क्रान्तिमाकाङ्क्षति ॥ ऋBह्र्स्_४,८.६५ ॥ बाध्यत्वमत्र शान्तस्य शुचेरुत्कर्षवर्णनात् ॥ ऋBह्र्स्_४,८.६६ ॥ स्मर्यमाणत्वे, यथा स एष वैहासिकताविनोदैर् व्रजस्य हासोद्गमसंविधाता । फणीश्वरेणाद्य विकृष्यमाणः करोति हा नः परिदेवनानि ॥ ऋBह्र्स्_४,८.६७ ॥ साम्येन वचने, यथा विश्रान्तषोडशकला निर्विकल्पा निरावृतिः । सुखात्मा भवती राधे ब्रह्मविद्येव राजते ॥ ऋBह्र्स्_४,८.६८ ॥ यथा वा राधा शान्तिरिवोन्निद्रं निर्निमेषेक्षणं च माम् । कुर्वती ध्यानलग्नं च वासयत्यद्रिकन्दरे ॥ ऋBह्र्स्_४,८.६९ ॥ वसान्तरेण व्यवधौ, यथा त्वं कासि शान्ता किमिहान्तरीक्षे द्रष्टुं परं ब्रह्म कुतस्तताक्षी । अस्यातिरूपात्किमिवाकुलात्मा रम्भे समाविश्य भिदा स्मरेण ॥ ऋBह्र्स्_४,८.७० ॥ अत्राद्भुतेन व्यवधिः । विषयभिन्नत्वे, यथा श्रीदशमे (१०.६०.४५) त्वक्श्मश्रुरोमनखकेशपिनद्धमन्तर् मांसास्थिरक्तकृमिविट्कफपित्तवातम् । जीवच्छवं भजति कान्तमतिविमूढा या ते पदाब्जमकरन्दमजिघ्रती स्त्री ॥ ऋBह्र्स्_४,८.७१ ॥ यथा वा विदग्धमाधवे (२.३१) तस्याः कान्तद्युतिनि वदने मञ्जुले चाक्षियुग्मे तत्रास्माकं यद्अवधि सखे दृष्टिरेषा निविष्टा । सत्यं ब्रूमस्तद्अवधि भवेदिन्दुमिन्दीवरं च स्मारं स्मारं मुखकुटिलताकारिणीयं हृणीया ॥ ऋBह्र्स्_४,८.७२ ॥ उभयत्र शुचिबीभत्सयोः । आश्रयभिन्नत्वे, यथा विजयिनमजितः विलोक्य रङ्ग स्थलभुवि सम्भृतसांयुगीनलीलम् । पशुपसवयसां वपूंषि भेजुः पुलककुलं द्विषतां तु कालिमानम् ॥ ऋBह्र्स्_४,८.७३ ॥ अत्र वीरभयानकयोः । विषयाश्रयभेदेऽपि मुख्येन द्विषता सह । सङ्गतिः किल मुख्यस्य वैरस्यायैव जायते ॥ ऋBह्र्स्_४,८.७४ ॥ तत्र विषयभेदे, यथा विमोचयार्गलाबन्धं विलम्बं तात नाचर । यामि काश्यगृहं यूना मनः श्यामेन मे हृतम् ॥ ऋBह्र्स्_४,८.७५ ॥ अत्र शुचेः प्रीतेन । आश्रयभेदे, यथा रुक्मिणीकुचकाश्मीरपङ्किलोरःस्थलं कदा । सदानन्दं परं ब्रह्म दृष्ट्या सेविष्यते मया ॥ ऋBह्र्स्_४,८.७६ ॥ अत्र शान्तस्य शुचिना । अनुरक्तधियो भक्ताः केचन ज्ञानवर्त्मनि । शान्तस्याश्रयभिन्नत्वे वैरस्यं नानुमन्वते ॥ ऋBह्र्स्_४,८.७७ ॥ किं च भृत्ययोर्नायकस्येव निसर्गद्वेषिणोरपि । अङ्गयोरङ्गिनः पुष्ट्यै भवेदेकत्र सङ्गतिः ॥ ऋBह्र्स्_४,८.७८ ॥ यथा कुमारस्ते मल्लीकुसुमसुकुमारः प्रियतमे गरिष्ठोऽयं केशी गिरिवदिति मे वेल्लति मनः । शिवं भूयात्पश्योन्नमितभुजमेधिर्मुहुरमुं खलं क्षुन्दन् कुर्यां व्रजमतितरां शालिनमहम् ॥ ऋBह्र्स्_४,८.७९ ॥ अत्र विद्विषौ वीरभयानकौ वत्सलं पुष्णीतः । यथा कम्प्रा स्वेदिनि चूर्णकुन्तलतटे इत्यादि (Bऋष्४.८.३१) ॥ ऋBह्र्स्_४,८.८० ॥ तत्र हास्यकरुणौ वत्सलमेव पुष्णीतः । अपि च मिथो वैरावपि द्वौ यौ भावौ धर्मसुतादिषु । कालादिभेदत्प्राकट्यं तौ विन्दन्तौ न दुष्यतः ॥ ऋBह्र्स्_४,८.८१ ॥ अधिरूढे महाभावे विरुद्धैर्विरसाः युतिः । न स्यादित्युज्ज्वले राधाकृष्णयोर्दर्शितं पुरा ॥ ऋBह्र्स्_४,८.८२ ॥ क्वाप्यचिन्त्यमहाशक्तौ महापुरुषशेखरे । रसावलिसमावेशः स्वादायैवोपजायते ॥ ऋBह्र्स्_४,८.८३ ॥ तत्र रसानां विषयत्वे, यथा ललितमाधवे (३.४) दैत्याचार्यास्तद्आस्ये विकृतिमरुणतां मल्लवर्याः सखायो गण्डौन्नत्यं खलेशाः प्रलयमृषिगणा ध्यानमुष्णास्रमम्बाः । रोमाञ्चं सांयुगीनाः कमपि नवचमत्कारमन्तः सुरेशा लास्यं दासाः कटाक्षं ययुरसितदृशः प्रेक्ष्य रङ्गे मुकुन्दम् ॥ ऋBह्र्स्_४,८.८४ ॥ आश्रयत्वे, यथा स्वस्मिन् धूर्येऽप्यमानी शिशुषु गरिधृतावुद्यतेषु स्मितास्यस् थूत्कारी दध्नि विस्रे प्रणयिषु विवृतप्रौढिरिन्द्रेऽरुणाक्षः । गोष्ठे साश्रुर्विदूने गुरुषु हरिमखं प्रास्य कम्पः स पायाद् आसारे स्फारदृष्टिर्युवतिषु पुलकी बिभ्रदद्रिं विभुर्वः ॥ ऋBह्र्स्_४,८.८५ ॥ इति श्रीश्रीभक्तिरसामृतसिन्धावुत्तरविभागे रसानां मैत्रीवैरस्थितिनाम्नी लहरी अष्टमी ॥ ___________________________________________________ ४.९ रसाभासाख्या नवमलहरी पूर्वमेवानुशिष्टेन विकला रसलक्षणा । रसा एव रसाभासा रसज्ञैरनुकीर्तिताः ॥ ऋBह्र्स्_४,९.१ ॥ स्युस्त्रिधोपरसाश्चानुरसाश्चापरसाश्च ते । उत्तमा मध्यमाः प्रोक्ताः कनिष्ठाश्चेत्यमी क्रमात् ॥ ऋBह्र्स्_४,९.२ ॥ अत्र उपरसाः प्राप्तैः स्थायिविभावानुभावाद्यैस्तु विरूपताम् । शान्तादयो रसा एव द्वादशोपरसा मताः ॥ ऋBह्र्स्_४,९.३ ॥ तत्र शान्तोपरसाः ब्रह्मभावात्परब्रह्मण्यद्वैताधिक्ययोगतः । तथा बीभत्सभूमादेः शान्तो ह्युपरसो भवेत् ॥ ऋBह्र्स्_४,९.४ ॥ तत्र आद्यं, यथा विज्ञानसुषमाधौते समाधौ यदुदञ्चति । सुखं दृष्टे तदेवाद्य पुराणपुरुषे त्वयि ॥ ऋBह्र्स्_४,९.५ ॥ द्वितीयं, यथा यत्र यत्र विषये मम दृष्टिस् तं तमेव कलयामि भवन्तम् । यन्निरञ्जन परावरबीजं त्वां विना किमपि नापरमस्ति ॥ ऋBह्र्स्_४,९.६ ॥ अथ प्रीतोपरसः कृष्णस्याग्रेऽतिधार्ष्ट्येन तद्भक्तेष्ववहेलया । स्वाभीष्टदेवतान्यत्र परमोत्कर्षवीक्षया । मर्यादातिक्रमाद्यैश्च प्रीतोपरसता मता ॥ ऋBह्र्स्_४,९.७ ॥ तत्र आद्यं, यथा प्रणयन् वपुर्विवशतां सतां कुलैर् अवधीर्यमाणनटनोऽप्यनर्गलः । विकिर प्रभो दृशमिहेत्यकुण्ठवाक् चटुलो बटुव्यवृणुतात्मनो रतिम् ॥ ऋBह्र्स्_४,९.८ ॥ अथ प्रेयोपरसः एकस्मिन्नेव सख्येन हरिमित्राद्य्अवज्ञया । युद्धभूमादिना चापि प्रेयानुपरसो भवेत् ॥ ऋBह्र्स्_४,९.९ ॥ तत्र आद्यं, यथा सुहृदित्युदितो भिया चकम्पे छलितो नर्मगिरा स्तुतिं चकार । स नृपः परिरिप्सतो भुजाभ्यां हरिणा दण्डवदग्रतः पपात ॥ ऋBह्र्स्_४,९.१० ॥ अथ वत्सलोपरसः सामर्थ्याधिक्याभिज्ञानाल्लालनाद्य्अप्रयत्नतः । करुणस्यातिरेकादेस्तुर्याश्चोपरसो भवेत् ॥ ऋBह्र्स्_४,९.११ ॥ तत्र आद्यं, यथा मल्लानां यद्अवधि पर्वतोद्भटानाम् उन्माथं सपदि तवात्मजादपश्यम् । नोद्वेगं तद्अवधि यामि जामि तस्मिन् द्राघिष्ठामपि समितिं प्रपद्यमाने ॥ ऋBह्र्स्_४,९.१२ ॥ अथ शृङ्गारोपरसः । तत्र स्थायिवैरूप्यम् द्वयोरेकतरस्यैव रतिर्या खलु दृश्यते । यानेकत्र तथैकस्य स्थायिनः सा विरूपता । विभावस्यैव वैरूप्यं स्थायिन्यत्रोपचर्यते ॥ ऋBह्र्स्_४,९.१३ ॥ तत्र एकत्र रतिर्, यथा ललितमाधवे मन्दस्मितं प्रकृतिसिद्धमपि व्युदन्तं सङ्गोपितश्च सहजोऽपि दृशोस्तरङ्गः । धूमायिते द्विजवधूमदनार्तिवह्नाव् अह्नाय कापि गैत्रि अङ्कुरितामयासीत् ॥ ऋBह्र्स्_४,९.१४ ॥ अत्यन्ताभाव एवात्र रतेः खलु विवक्षितः । एतस्याः प्राग्अभावे तु शुचिर्नोपरसो भवेत् ॥ ऋBह्र्स्_४,९.१५ ॥ अनेकत्र रतिर्, यथा गान्धर्वि कुर्वाणमवेक्ष्य लीलाम् अग्रे धरण्यां सखि कामपालम् । आकर्णयन्ती च मुकुन्दरेणुं भिन्नाद्य साध्वि स्मरतो द्विधासि ॥ ऋBह्र्स्_४,९.१६ ॥ केचित्तु नायकस्यापि सर्वथा तुल्यरागतः । नायिकास्वप्यनेकासु वदन्त्युपरसं शुचिम् ॥ ऋBह्र्स्_४,९.१७ ॥ विभाववैरूप्यम् वैदग्ध्यौज्ज्वल्यविरहो विभावस्य विरूपता । लतापशुपुलिन्दीषु वृद्धास्वपि स वर्तते ॥ ऋBह्र्स्_४,९.१८ ॥ तत्र लता, यथा सखि मधु किरती निशम्य वंशीं मधुमथनेन कटाक्षिताथ मृद्वी । मुकुलपुलकिता लतावलीयं रतिमिह पल्लवितां हृदि व्यनक्ति ॥ ऋBह्र्स्_४,९.१९ ॥ पशुर्, यथा पश्याद्भुतास्तुङ्गमदः कुरङ्गीः पतङ्गकन्यापुलिनेऽद्य धन्याः । याः केशवाङ्गे तद्अपाङ्गपूताः सानङ्गरङ्गां दृशमर्पयन्ति ॥ ऋBह्र्स्_४,९.२० ॥ पुलिन्दी, यथा कालिन्दीपुलिने पश्य पुलिन्दी पुलकाचिता । हरेर्दृक्चापलं वीक्ष्य सहजं या विघूर्णते ॥ ऋBह्र्स्_४,९.२१ ॥ वृद्धा, यथा कज्जलेन कृतकेशकालिमा बिल्वयुग्मरचितोन्नतस्तनी । पश्य गौरि किरती दृग्अञ्चलं स्मेरयत्यघहरं जरत्यसौ ॥ ऋBह्र्स्_४,९.२२ ॥ स्थायिनोऽत्र विरूपत्वमेकरागतयापि चेत् । घटेतासौ विभावस्य विरूपत्वेऽप्युदाहृतिः ॥ ऋBह्र्स्_४,९.२३ ॥ शुचित्वौज्ज्वल्यवैदिग्ध्यात्सुवेशत्वाच्च कथ्यते । शृङ्गारस्य विभावत्वमन्यत्राभासता ततः ॥ ऋBह्र्स्_४,९.२४ ॥ अथ अनुभाववैरूप्यम् समयानां व्यतिक्रान्तिर्ग्राम्यत्वं धृष्टापि च । वैरूप्यमनुभावादेर्मनीषिभिरुदीरितम् ॥ ऋBह्र्स्_४,९.२५ ॥ तत्र समयव्यतिक्रान्तिः समयाः खण्डितादीनां प्रिये रोषोदितादयः । पुंसः स्मितादयश्चात्र प्रियया ताडनादिषु । एतेषामन्यथाभावः समयानां व्यतिक्रमः ॥ ऋBह्र्स्_४,९.२६ ॥ तत्र आद्यं, यथा कान्तानखान्धितोऽप्यद्य परिहृत्य हरे ह्रियम् । कैलासवासिनीं दासीं कृपादृष्ट्या भजस्व माम् ॥ ऋBह्र्स्_४,९.२७ ॥ अथ ग्राम्यत्वम् बालशब्दाद्य्उपन्यासो विरसोक्तिप्रपञ्चनम् । कटीकण्डूतिरित्याद्यं ग्राम्यत्वं कथितं बुधैः ॥ ऋBह्र्स्_४,९.२८ ॥ तत्र आद्यं, यथा किं नः फणिकिशोरीणां त्वं पुष्करसदां सदा । मुरलीध्वनिना नीवीं गोपबाल विलुम्पसि ॥ ऋBह्र्स्_४,९.२९ ॥ अथ धृष्टता प्रकटप्रार्थनादिः स्यात्सम्भोगादेस्तु धृष्टता ॥ ऋBह्र्स्_४,९.३० ॥ यथा कान्त कैलासकुञ्जोऽयं रम्याहं नवयौवना । त्वं विदग्धोऽसि गोविन्द किं वा वाच्यमतः परम् ॥ ऋBह्र्स्_४,९.३१ ॥ एवमेव तु गौणानां हासादीनामपि स्वयम् । विज्ञेयोपरसत्वस्य मनीषिभिरुदाहृतिः ॥ ऋBह्र्स्_४,९.३२ ॥ अथ अनुरसाः भक्तादिभिर्विभावाद्यैः कृष्णसम्बन्धवर्जितैः । रसा हास्यादयः सप्त शान्तश्चानुरसा मताः ॥ ऋBह्र्स्_४,९.३३ ॥ तत्र हास्यानुरसः ताण्डवं व्यधित हन्त कक्खटी मर्कटी भ्रूकुटीभिस्तथोद्धुरम् । येन वल्लवकदम्बकं बभौ हासडम्बरकरम्बिताननम् ॥ ऋBह्र्स्_४,९.३४ ॥ अथ अद्भुतानुरसः भाण्डीरकक्षे बहुधा वितण्डां वेदान्ततन्त्रे शुकमण्डलस्य । आकर्णयन्निर्निमिषाक्षिपक्ष्मा रोमाञ्चिताङ्गश्च सुरर्षिरासीत् ॥ ऋBह्र्स्_४,९.३५ ॥ एवमेवात्र विज्ञेया वीरादेरप्युदाहृतिः ॥ ऋBह्र्स्_४,९.३६ ॥ अष्टावमी तटस्थेषु प्राकट्यं यदि बिभ्रति । कृष्णादिभिर्विभावाद्यैर्गतैरनुभवाध्वनि ॥ ऋBह्र्स्_४,९.३७ ॥ अथ अपरसाः कृष्णतत्प्रतिपक्षश्चेद्विषयाश्रयतां गताः । हासादीनां तदा तेऽत्र प्राज्ञैरपरसा मताः ॥ ऋBह्र्स्_४,९.३८ ॥ तत्र हास्यापरसः पलायमानमुद्वीक्ष्य चपलायतलोचनम् । कृष्णमाराज्जरासन्धः सोल्लुण्ठमहसीन्मुहुः ॥ ऋBह्र्स्_४,९.३९ ॥ एवमन्येऽपि विज्ञेयास्तेऽद्भुतापरसादयः । उत्तमास्तु रसाभासाः कैश्चिद्रसतयोदिताः ॥ ऋBह्र्स्_४,९.४० ॥ तथा हि भावाः सर्वे तद्आभासा रसाभासाश्च केचन । अमी प्रोक्तरसाभिज्ञैः सर्वेऽपि रसनाद्रसाः ॥ ऋBह्र्स्_४,९.४१ ॥ भारताद्याश्चतस्रस्तु रसावस्थानसूचिकाः । वृत्तयो नाट्यमातृत्वादुक्ता नाटकलक्षणे ॥ ऋBह्र्स्_४,९.४२ ॥ ग्रन्थस्य गौरवभयादस्या भक्तिरसश्रियः । समाहृतिः समासेन मया सेयं विनिर्मिता ॥ गोपालरूपशोभां दधदपि रघुनाथभावविसारी । तुष्यतु सनातनोऽस्मिन्नुत्तरभागे रसामृताम्भोधेः ॥ इति श्रीश्रीभक्तिरसामृतसिन्धावुत्तरविभागे रसाभासलहरी नवमी ॥ इति श्रीश्रीभक्तिरसामृतसिन्धौ गौणभक्तिरसनिरूपणो नाम चतुर्थो विभागः समाप्तः । रामाङ्गशत्रुगणिते शाके गोकुलमधिष्ठितेनायम् । भक्तिरसामृतसिन्धुर्विटङ्कितः क्षुद्ररूपेण ॥ समाप्तोऽयं श्रीश्रीभक्तिरसामृतसिन्धुः ॥ ठन्क्योउ fओरुसिन्ग ङौदिय ङ्रन्थ ंन्दिर्तेxत्. ऋएमेम्बेर्, ङ्ङ्मिसनोपेन् सोउर्चे नेत्wओर्क्. षो, गिवे बच्क्तो थे wओर्ल्द्चोम्मुनित्योf स्छोलर्स्ब्य्नोतिfयिन्गुसोf अन्य्मिस्तकेसोर्वरिअन्त्रेअदिन्ग्स्, एइथेर्ब्येमैलिन्गुस्दिरेच्त्ल्योर्ब्य्पोस्तिन्गिन् थे ङ्ङ्ं fओरुम्स्. आन्दिf योउ अरे wओर्किन्ग्च्लोसेल्योन् थिसोरन्योथेर्तेxत्, प्लेअसे सेन्दुस्योउरेदितेद्वेर्सिओन्. आन्द्, इf योउ चन्, प्लेअसे हेल्प्ब्य्दोनतिन्ग्तो थे चौसे. ठे wओर्क्दोने हेरे wइल्ल्लस्त्fओर्गेनेरतिओन्स्. ठन्क्योउ, ठे Eदितोर्स्.