मुक्ताचरित्रम् नमः श्रीगान्धर्विकागिरिधराभ्याम् कन्दर्पकोटिरम्याय स्फुरद्इन्दीवरत्विषे । जगन्मोहनलीलाय नमो गोपेन्द्रसूनवे ॥ क्रयविक्रयखेलाब्दौ मुक्तानां मज्जितात्मनोः । मिथो जयार्थिनोर्वन्दे राधामाधवयोर्युगम् ॥ निजामुज्ज्वलितां भक्तिसुधामर्पयितुं क्षितौ । उदितं तं शचीगर्भव्योम्नि पूर्णं विधुं भजे ॥ नामश्रेष्ठं मनुमपि शचीपुत्रमत्र स्वरूपं श्रीरूपं तस्याग्रजमुरुपुरीं माथुरीं गोष्ठवाटीम् । राधाकुण्डं गिरिवरमहो राधिकामाधवाशां प्राप्तो यस्य प्रथितकृपया श्रीगुरुं तं नतोऽस्मि ॥ हरिचरितामृतलहरीं वृन्दाविपिनाम्बुराशिम्भूताम् । रसवद्वृन्दारकगणपरमानन्दाय सन्तनुमः ॥ एकदा किञ्चिन्मात्रश्रुतपूर्ववृत्तान्तया सत्यभामया कृष्णः साकूतं पृष्टः । लतास्ता मधुराः कस्मिन् जायन्ते धन्यनिवृति । नाथ मत्कङ्कणन्यस्तं यासां मुक्ताफलं फलम् ॥ [* ठिस्वेर्से इसॄउओतेदिनूण्११.६६ असनेxअम्प्ले ओf मौग्ध्य. ठेरे थे fइर्स्त्लिने रेअद्स्: कास्ता लताः क्व वा सन्ति केन वा किल रोपिताः] ततस्तद्वृत्तान्तस्मरणात्कृष्णः स्वान्तर्ग्लानिर्बहिर्विहस्याह । गतः स कालो यत्रासीत्मुक्तानां जन्म वल्लिषु । वर्तन्ते साम्प्रतं तासां हेतवः शुक्तिसम्पुटाः ॥ ततस्तदपूर्वं श्रुत्वा सविशेषश्रवणोत्कण्ठितया तया बाढमाम्रेडितः कृष्णः पुनराह । एकदा कार्त्तिके मासि गोकुले गोवर्धनगिरौ दीपमालिकामहोत्सव आसीत् । तत्र सर्वो जनो विचित्रनेपथ्यसामग्रीणां संस्काराय साधनाय च परमाशक्तो बभूव । गोपास्तु स्वं स्वं भूषयन्तोऽपि विशेषतः गवादिपशूनां प्रसाधनार्थमुद्युक्ता आसन् । गोप्यः किल प्रसाधितसदना आत्मनां भूषणार्थं नानालङ्कारसंस्कारसाधनपरा बभूवुः । राधा तु माल्यहरणाख्यसरस्तीरोपान्तमाधवीचतुःशालिकायां स्वसखीसमुदयेन परमोत्तममुक्ताभिर्विविधभूषणानि रचयितुम् आरेभे । मया च विचक्षण इति यथार्थनामकीरकुमारमुखतस्तन्निशम्य सकौतुकं तत्र गत्वातिप्रेमास्पदस्य हंसीहरिणीति नाम्नो धेनुयुगलस्य भूषणौत्सुक्येन तासां सकाशे मौक्तिकानि प्रार्थितानि ॥ ततः सुविविधवैदग्ध्यपरिमलपरिलसितसामिनिमिलितवामनयननीलोत्पलदल् आञ्चलेन सावहेलनमिव मनागेव मामवलोक्य मुनिव्रतजतुमुद्रितहसितहीरकानर्घ्यमहारत्नबहिःप्रकाशं निर्भरावेशविशेषेण हारादिगुम्फनविलासमेव वितन्वतीस्ताः प्रति सस्मितम् इदमहमाभाषितवान् । अभिनवयौवनामूल्यचिन्तामणिलब्धिविवर्धितोत्तुङ्गगर्वमहापर्वता वगुण्ठितकर्ण्यः! प्रियवयस्यस्य मम प्रार्थिते क्षणमपि कर्णान् उद्घाटयन्तु भवत्यः । ततस्तासामीषत्स्मित्वान्योन्यमालोकयन्तीनां मध्ये प्रगल्भा ललिता विहस्य सरोषमिव व्याजहार । अये नागर! एतानि बहुमूल्यानि मौक्तिकानि राजमहिषीयोग्यानि । तव महिषीनामेवालङ्क्रियायै सत्यमभिरूपाणि कथं न दास्यामः ? ततस्तद्वचः श्रुत्वा मया कौतुकेनाविष्टेन साम्ना पुनः पुनरिदमेवोक्तम् । भोः प्रियभूषणाः! सर्वाणि यदि न देयानि तदा मद्अत्यन्तप्रियधेनुयुगलशृङ्गपर्याप्तान्येवावश्यं दीयन्ताम् । ततो ललिता सर्वासां मौक्तिकानि पुनः पुनश्चालयन्ती भूयः प्राह । हे कृष्ण! किं कर्तव्यम् ? तव धेनुयोग्यमेकमपि नास्ति । तदाहमुक्तवान् । अयि परमचतुरे ललिते! तिष्ठ तिष्ठ । अहं कार्पण्यभाक् पश्चात्त्वया वक्तुं न शक्य इत्युपालभ्य सत्वरमम्बां व्रजेश्वरीमागत्य मातर्देहि मे मौक्तिकानि । अहं तु तानि कृष्टकेदारिकायामेव वप्स्यामीति पुनः पुनरवोचम् । ततो मात्रा विहस्योक्तम् । वत्स न मौक्तिकान्युप्तानि प्ररोहन्ति । तदा मयोक्तम् । मातरवश्यमेव दीयन्तां दिनत्रयाभ्यन्तरे प्ररूढानि भवत्येव साक्षात्कर्तव्यानीत्यस्मन्निर्बन्धपरिहारासमर्थया तया दत्तानि बहूनि मौक्तिकानि । मया गोकुलजलाहरणघट्टसमीपवर्तिनि यमुनोपकण्ठे पौरुषत्रयमवगाढां केदरिकां निष्पाद्य सहासं पश्यन्तीषु कासुचिद्गोपिकासु तन्युप्त्वा सा पुनरपूरि । परितो वृतिश्च काष्ठैर् निविडा कृता । ततस्तासां मौक्तिकप्रार्थन्वचनास्वरनिरासार्थं केदारिकासेकाय वयसद्वारा गव्येषु प्रार्थ्यमानेषु सोल्लुण्ठं विहस्य ताः प्रोचुः । तन्मौक्तिककेदारिकासेकोऽस्माकं गव्येन कथमुचितः । यत्प्रियगोभूषणार्थं कृतमौक्तिककेदारिकासेकस्तासां गवां दुग्धेनैव क्रियताम् । तत्केदारिकोत्पद्यमाने फले नास्माभिरभिलाषः कर्तव्यः । इति श्रुत्वा मया स्वगृहाणां गवां बहुभिः पयोभिरेव ता दर्शयता प्रत्यहं सेकः क्रियते स्म । ततश्चतुर्थदिवस एव मौक्तिकानि प्रऊढानि । तद्दर्शनेनोल्लसितेन मया मातुरञ्चलं गृहीत्वानीय तदङ्कुरा दर्शिताः । तान् दृष्ट्वा तु माता किमेतदिति मनसि विचारयन्ती सन्दिग्धा सती व्रजं जगाम । गोप्यस्तु तच्छ्रुत्वा हिंस्रा लताः प्ररूढा इति परस्परं सहासमूचिरे । ततो नातिविलम्बेन मूर्वाकारिण्यस्ता मौक्तिकलता विस्तारिण्यः समालोच्य समीपवर्तिनां कदम्बानामुपरिष्ठात्क्रमेणावरोहिताः । ततः कतिपयैर्दिवसैस्ताः सौरभोन्मादितमधुव्रतैः कुसुमनिचयैर्गोपीनां चमत्कारमातन्वानाः सकलं गोकुलमेवाध्यवसायन् । ततोऽष्टविधयोनिजमौक्तिकेभ्यो विलक्षणां श्रियं दधति मुक्ताफलानि तासु जातानि तानि दृष्ट्वा व्रजवासिनां विस्मयोऽत्यर्थं जातः । विशेषतश्च गोपीनाम् । ततः प्रत्यहमेव तद्दर्शनेन जातलोभास्ताः मन्त्रयाञ्चक्रिरे । भोः सख्यः भद्रेन ज्ञातमस्मभ्यः कृष्णो मौक्तिकानि सर्वथैव न दास्यत्येव । भवतु । तत्कृतमौक्तिककृषिप्रक्रियास्माभिर्न दृष्टास्तीति न स्यात् । तत्रानध्यवसायं त्यक्त्वा तद्द्विगुणिकायाः केदारिकायया आरम्भः कथं न क्रियते ? इति श्रुत्वातिचतुरा ललिता प्राह भोः पवनव्याधिव्यापृता गोप्यः! गोवर्धनोद्धरणादिभूमिमौक्तिकोत्पादनादिकं लोकोत्तरणामपि दुष्करं कर्म । तेन यदञ्जसा क्रियते तत्किल महासिद्धतो लब्धसिद्धौषधिमन्त्रादिप्रभावादेवेति समस्तव्रजजनैर्निश्चितमेव । अन्यथास्मद्व्रजेन्द्रगृहिणी गर्भसरोवरोत्पन्नसुकोमलनीलोत्पलस्य ज्ञातस्वगोपजातिक्रियाकलापमात्रस्य गोपालकस्य तस्य तत्तत्करणे कथम् एतावती शक्तिः स्वतः सम्भवेदिति जानन्त्योऽपि भवत्यः सिद्धौषधिमन्त्राद्य्अन्तरेण यत्तत्कर्मणि प्रवर्तितुमभिलषन्ति । तत्खलु परिणतावगाधलज्जापरिहाससागरान्तःस्वपतनायैवेति सत्यमवधार्यताम् । ततस्तुङ्गविद्या प्राह अस्माभिरपि श्रीभगवतीपादपद्मसिद्धमन्त्रशिष्यानान्दीमुखीसकाशात् सिद्धमन्त्रमेकमादाय कथं न तथोद्यमः क्रियते ? सर्वाः भद्रं वदति तुङ्गविद्येति निर्णीय तत्पार्श्वमुपेत्य सविनयम् आत्माभिलाषं निवेदयामासुः । ततो नान्दीमुखी स्वगतमाह अये निजनयनयुग्मदृष्टिसाफल्याय चिरदिनमस्मद्विधाभिलष्यमाणक्रयविक्रयक्रीडाकुतूहलकल्पतरोर् बाढमकस्मादस्माद्दृशां भाग्यातिशयवशात्साक्षाद्बीजरूपोऽयमवसरः प्रत्यासन्नो बभूव । तद्विदग्धानां शिरोमणीरप्येतास्तथा युक्तिसौष्ठवातिशयेन कृत्येऽत्र प्रवर्तयामि । यथा स तरुस्त्वरितमेव प्रऊढः फलवान् भवेदिति मनसि विचिन्त्य सान्तरानन्दं नान्दी प्राह भोः सख्यः । सत्यं मुकुन्दस्य न मन्त्रकृतेयं मृदि मौक्तिका सृष्टिः । सर्वाः तन्निजजनेन कारणशुक्त्यादिमात्रमन्तरेण कथं मृत्तिकायाम् असम्भवेयं तद्उत्पत्तिः प्रतीयते । नान्दी अस्या भुवः स्वाभाविकेदृक्प्रभावादेव । यद्विविधरत्नजननीयं व्रजवनभूरिति श्रीभगवतीपादपद्मैः पुनः पुनर्निवर्ण्यते । ऋतमप्य् अनुभूयन्ते तथा । यतः प्रवालनवपल्लवमरकतछदवज्रमौक्तिकप्रकरकोरककमलराग नानाफलादिमन्तो हिरण्मयमहीरुहाः स्फुटमत्र जाता जायमानाश्च दृश्यन्ते । अतोऽस्यामुप्तमुक्ताफलानि जनिष्यन्ते फलिष्यन्ति चेति किं चित्रम् ? तद् भवतीभिरपि सुरभितरनवनीतादिसेकपूर्वकमतिप्रयत्नेन तथा तत्कृषिः क्रियतां यथा ततोऽप्यधिकतमानि परमोत्तमफलानि लभ्यन्ते । इति तद्वचनमाधुरीमापीय ससन्तोषं सश्लाघं प्रत्ययन्त्यः सर्वास्ताम् आलिङ्ग्य निजां स्थलीमागत्य स्पर्धया मज्जयाय समुचितवेतनतो द्विगुणत्रिगुणगोरसप्रदानेन कर्मकारानानाय्य स्थाने स्थाने केदारिकाः कृत्वा पेटिकायामग्रथितानि ग्रथितान्यङ्गभूषणरूपाणि च यावन्ति स्थितानि तावन्ति यथायुक्तमल्पान्येव संरक्ष्याङ्गतः समुत्तारितानि च मौक्तिकानि निरवशेषमुप्त्वा प्रत्यहमेव त्रिसन्ध्यं गोदुग्धनवनीतसुवासितघृतैर् एव सेकं कर्तुमारब्धवत्यः । ततस्तासां मुक्ताकृषिकरणश्रवणान्मात्सर्यतो लोभतश्च चन्द्रावलीप्रभृतयोऽपि सर्वा वल्लब्यस्ततोऽप्यधिककेदारिकाः स्थाने स्थाने कृत्वा देहगेहयोरेकमप्यसंरक्ष्य समस्तमौक्तिकान्युप्तवत्यः । ततः कतिपयदिनान्तरे स्वस्वकेदारिकासु जातान् हिंस्रलताङ्कुरान् दृष्ट्वा अन्तर्गर्भितगर्वाभिर्वल्लभीभिस्ताभिः सर्वाभिश्छलतो मत्प्रियवयस्याः परिहस्यन्ते स्म । एकस्मिन् दिने गोरसानामतीवव्ययं स्वस्वगृहस्य च निमौक्तिकतां वीक्ष्य गोपाः ससंरम्भं कारणं पप्रच्छुः । तच्छ्रुत्वा वृद्धा ऊचुः । भो आयुष्मन्तः । नानुयोगविषयोऽयमाभिर्बालाभिः कृतो मौक्तिककेदारिकानां निमित्तं बहुलो व्ययोऽचिरादेव बहुतरलाभो भविष्यति । यत्कृष्णकेदारिकायां राजदाराणामपि दुर्लभानि मुक्ताफलानि किल दृष्टानि सन्तीति । अथैकदा विशाखया स्वदेकारिकासु तानङ्कुरान्निरीक्ष्य कासाञ्चित्कर्णे निभृतमिदमुक्तम् । भोः सख्यः । कृष्णकेदारिकामध्ये मया यादृशा अङ्कुरा दृष्टा एते तु तादृशा न दृश्यन्ते । न जाने पश्चात्किं भवेत् । कृष्णवयस्यदृष्टिनिवारणार्थं छलतः सुष्ठु वेष्ट्यन्ताम् । अथ कतिपयदिवसैस्तासां राधादीनामन्यासां च केदारिकासु कण्टकादिचिह्नेन लताभिर्निजरूपे प्रकाश्यमाने गोपीकेदारिकासु हिंस्रा लता जाता इति सकलगोकुल एव ख्यातम् । एतदाकर्ण्य वयस्यद्वारा गान्धर्वागोष्ठ्यां मयेदं सोत्प्रासं विज्ञापितं श्रुतं भवतीनां केदारिकासु बहूनि मुक्ताफलानि जातानि सन्ति । अहं तावत् स्निग्धस्तत्सवयस्याय मह्यं प्रथमफलानि दीयन्ताम् । ततस्ताभिरुक्तम् । यदि वयं कृषिमकरिष्यामस्तदा सकलगोष्ठं मौक्तिकमयमभविष्यत् । पशुपाल्यस्वधर्ममपहाय स इव कः कीलासवृत्तिम् [*ण्Oट्E: Kअर्षकवृत्तिः पक्षे कार्पण्यम्] आश्रयेत् ॥ तदाकर्ण्य मया निखिलवयस्याः सवत्सा गावः शकटवहा महिष्यः, सवर्करा अजा, वृन्दावनवर्तिन्यश्च मौक्तिकमयैर्मालाद्य्अलङ्कारैर् मण्डिताः । ततश्च गोप्यो लज्जया स्वभूषणव्यतिरेकेण बहुधनविनाशेन गोपभिया च किमत्र युक्तमिति मन्त्रयितुमारेभिरे । अये गृहीतकृष्णपक्षया धूर्तनान्दीमुख्याऽभद्रेण प्रतारिताः स्म इत्याभाष्य सर्प्स्.अं तन्निकटम् आगत्य तत्कथनपूर्वकं बहुशस्ताभिर्भर्त्सिता नान्दीमुखी प्राह । भोः तपोभ्यः शपे न मया सर्वथैव प्रतारिताः स्थ, किन्तु युष्माभिरेव तत्सर्वं विनाशितम् । सर्वाः । कपटिनि कथं कारम् । नान्दी । यतो गर्विताभिर्युष्माभिर्ढक्कावाद्यवत्कोलाहलप्रपञ्चेन सवयस्यगणस्य तस्य श्रवणकुहरे सुष्ठुगोचरीकृत्य केदारिकासु मुक्ताः स्फुटमुप्ताः तथा कोऽप्येकः प्रहरिकोऽपि तत्र न रक्षितः । सर्वाः एतावता किं न जातम् ? नान्दी सरोषम् । यज्जातं तच्चतुरंमन्याभिः श्रूयताम् । युष्मान् विजेतुम् अभीष्टमिष्टान्नप्रदानेन सुष्ठु प्रलोभ्य धूर्तगुरुणा युष्मन्नागरेण तेन प्रेरितलोलुपभण्डमधुमङ्गलेनातिनिर्बद्धतो विचित्य किञ्चिज् जाताङ्कुराः सर्वा मुक्ता निरवशेषं समादाय तत्र तत्र हिंस्रावल्लीकदम्बान् समारोप्य कयत्यः पृथक्स्वकृत एकस्मिन् केदारे प्रत्नतः संरोपिताः । तथान्यासां तु तथैवानीय कालिन्दीगभीरनीरान्तः प्रक्षिप्ताः । इति मया सुदृढं ज्ञातमस्ति । इति निशम्य सर्वा आहुः । अयि कूटत्वनाटकनटनप्रकटनैककार्यानिन्द्यमहानन्दि । अयि भण्डमधुमङ्गलगुरुप्रायमहासतीर्थे । अयि व्रजप्रथितशठनटसहितनाट्ययोग्ये । तत्प्रियतमे नटि । अयि कलियुगतपस्विनि । तिष्ठ तिष्ठेति सभ्रूभङ्गं तामाक्षिप्य स्वगेहमागत्य पुनः पुनस्तदेव विचारयन्ती तासु राधा भोः सख्यः नान्दीमुखी वा प्रतारयतु स धूर्तस्तथा वा करोतु अधुना तद्विचारेण को लाभः । साम्प्रतम् अन्यद्दुःखं न गण्यते । गुर्वादितो भयमेव नः खेदयति । तद्वयं तु तेभ्यो मौक्तिकेषु दर्शितेष्वेव शिथिली भवेत् । तादृशानि सर्वथैवात्र सुदुर्लभानि किन्तु कृष्णादेव मूल्येन यथा गृहीतानि स्युः । तत्रोपायश् चिन्त्यताम् । ततः सर्वाभिर्विभाव्योक्तम् । चन्द्रमुखी चतुरा भवति । सुवर्णानि गृहीत्वा गत्वा समुचितमूल्येन मौक्तिकान्यानयतु । ततस्तयोक्तम् । सम्प्रत्यस्माभिरुपालब्धस्य तस्य समीपमहमेकाकिनी गन्तुमशक्तास्मि । काञ्चनलता मम सङ्गे समागच्छतु । इति सर्वासाम् अनुमत्या बहुसुवर्णानि गृहीत्वा मौक्तिकवाटिकासमीपं ते आजग्मतुः । तत्र तद्वाटिकाधिकारिणं सुबलं मया सह निविष्टमब्रूताम् । हे सुबल श्रुतम् अस्माभिर्भवद्भिर्नव्यमुक्तानि विक्रीयन्ते । तदिमानि शुद्धसुवर्णानि गृहीत्वा समुचितमूल्येन प्रवीणप्रवीणमुक्ताफलानि दीयन्ताम् । ततः स्मित्वा मयोक्तम् । तदानीमनेकधा प्रार्थ्यमानं नैकमपि मौक्तिकम् अस्मभ्यं दत्तम् । अस्मत्केदारिकासेकार्थं दुग्धपारी च भवतीभिर्न दत्ता । अस्माभिर्वरं कालिन्दीमध्ये प्रक्षेप्तव्यम् । तथापि भवतीनां गृहसर्वस्वेनापि पणीकृतेन निखिलमौक्तिकवृन्दादपकृष्टमेकमपि मौक्तिकं सर्वथा न दातव्यम् । ततः काञ्चनलतयोक्तम् । मौक्तिकनिमित्तं पत्य्आदिभ्यो यदि तासां भीर्न भवेत्तदास्य कदर्थनोक्तिमीदृशीं का नाम सहेत । भवतु किं कर्तव्यम् । हट्टप्रसारितबहुरत्ना मधुरा तावद्दूरे तदद्य भोः सुबल स्वयमेव भवता मध्यस्थेन भूयताम् । आन्यत्रिकमूल्यादस्माभिर्विशेषोऽपि दातव्यः । ततश्च विशेषशब्दश्रवणान्मया विहस्योक्तम् । भवतु नाम स्वभावकोमलेन मया तु भवतीभिरिव काठिन्यं कर्तुं न शक्यते । अदत्त्वा वा अन्यत्किं कर्तव्यम् । किन्तु मौक्तिकार्धिनीनां सर्वासां मौक्तिकमूल्यनिर्णयः किं भवतीभ्यामेव भविष्यति । ताभ्यामुक्तम् अथ किम् ? मयोक्तम् । कस्तावद्विशेषः । ततश्चन्द्रमुखी किञ्चिद्विहस्य काञ्चनलताम् आलोकितवती । काञ्चनलताथ सलज्जं सुबलं प्रति व्याजहार । सखे सुबल स्वयम् एव मध्यस्थेन भूत्वा समाधाय समीचीनयशोभारस्तावदङ्गीक्रियतां भवता । सुबलेनोक्तम् । वयस्य रहस्यतया बहुमूल्यत्वं कियत्काञ्चनलतया प्रकटीक्रियते । आत्मनोऽभीष्टमूल्यं स्वयमेव स्फुटं निगद्य न कथं गृह्यते । ततोऽहमब्रुवम् । सखे सुबल चन्द्रमुख्या अभिप्रायो ज्ञातः । मुक्ताफलानि ग्रहीतुं काञ्चनलतैव विचार्यानर्घमूल्यत्वेन परिकल्प्य राधादिभिः प्रहित्य मम दत्तास्तीति । किन्तु काञ्चनसञ्चयतोऽपि मुक्ताफलानामधिकं मूल्यं जगति प्रसिद्धम् । तस्मादेकयैव काञ्चनलतया कथमेतासां मूल्यपर्याप्तिः । यदि वा अस्या बक्षसि स्वर्णसम्पूटरूपफलद्वये बहवश् चिन्तामणयोऽपि सन्तीति चन्द्रमुखी वक्षति तथापि न । यतो वैकुण्ठनाथकण्ठस्थितकौस्तुभतोऽपि ममैतदेकं मुक्ताफलं परमपरार्ध्यम् । तच्छ्रुत्वा भ्रूभङ्गेन मामवलोकयन्ती काञ्चनलता सरोषमाह निर्बुद्धिके चन्द्रमुखि! तदैव मयोक्तं तस्य धृष्टस्य सविधे मया न गन्तव्यम् । तथापि त्वयाह्यमाग्रहेणानीय कदर्थितास्मि । त्वं मुक्ताफलान्य् आदाय समागच्छ अहमितश्चलितास्मि । चन्द्रमुखी आह काञ्चनलते! सत्यं कथयसि तत्कथमेकाकिन्या मया मूल्यनिर्णयो भवतु । कथं वा निजनेऽत्र स्थातव्यमेकयोगनिर्दिष्टानां सह वा प्रवृत्तिः सह वा निवृत्तिरिति मयापि गन्तव्यम् । इत्युभे एव गमनोद्यते दृष्ट्वा मयोक्तम् सुबल! तदैव मयोक्तं यदेताभ्यां मूल्यनिर्णयो न भविष्यति । तच्छ्रुत्वा तयोः सविधमागत्य सुबलेनोक्तम् सखि चन्द्रमुखि! वयस्यस्य मूल्यविषये महानाग्रहो दृश्यते । तेन प्रियसखी राधा ललितादिभिः सहागत्य समक्षमेव समुचितमूल्यं प्रदाय स्वेप्सितमुक्ताफलानि गृह्णातु । तत्र मया मध्यस्थेन भूत्वा साचिव्यं करणीयम् । इति निशम्य चन्द्रमुखीकाञ्चनलते तासां सविधे गत्वा सरोषमिव सर्वं वृत्तं कथयांचक्रतुः । ततश्च राधा ललितादिभिः सह मौक्तिकबाटीप्रान्तमासाद्य चन्द्रमुखीद्वारा सुबलमाकार्य तमाह प्रियवयस्य सुबल । अस्मासु भवतो निरङ्कुशः स्नेहः । अतः स्वयमेव तथा विधीयतां यथास्माभिः समुचितमूल्येन मुक्ताफलानि लभ्यन्ते । तच्छ्रुत्वा सुबलेन मह्यं निवेद्य मद्वचनेन मत्सन्निधौ ता ललितादयः समानीताः । राधा तु ममात्रागमनं त्वया मद्उपद्रावकस्वप्रियवयस्याय सर्वथा न प्रकाशनीयमिति सुबलम् आभाष्य मन्निकटस्थकदम्बकुञ्जान्तर्निखिलवृत्तान्तं निशमयन्ती निगूढमास्थिता । ततो मया ताः सर्वा निभाल्य राधा कथं न दृश्यते इत्युक्ते तुङ्गविद्ययोक्तम् गोकुलयुवराज! सा खलु सप्रणयमार्यया जटिलया कस्यचिद् गृहकार्यविशेषस्य कृते रक्षिता गृहे विद्यते । ततस्तद्अवसर एव प्रविष्टेन मधुमङ्गलेन इङ्गितविज्ञापितराधानिगूढमन्निकटस्थितिमवधार्य किञ्चिद्विहस्य मयोक्तम् तुङ्गविद्ये! मुक्ताग्रहणेच्छा तस्या न विद्यते इति दृश्यते । ततस्तयोक्तं नहि नहि । तन्मुक्तामूल्यमस्माभिरेव दास्यते । तदा मयोक्तं विशाखैव राधा, राधैव विशाखा । ततस्तन्मूल्यं विशाखैव दास्यतीति ज्ञायते । भवतु तत्र समाग्रहो नास्ति, किन्तु या खलु स्वयमागत्य न गृह्णाति तस्याश्चतुर्गुणं मूल्यं गृह्यताम् । मौक्तिकानि च साधारणान्येव दीयन्तामिति मे सर्वेषां सखीनां सुदृढो निर्णयः । तदनु सुबलं प्रति मयोक्तं सखे सुबल! अवचित मुक्तापूर्णसम्पुटान् आनीय पुरतः प्रसार्य विचित्य सर्वकनिष्ठान्येव मौक्तिकानि पूर्वकृतं तत्कार्पण्यमप्यविगणय्य प्रथमं तत्कृते विशाखायां समर्प्य तत्सकाशाच् च तन्मूल्यं गृह्यताम् । यदि वा प्रस्तुतं दातुं न शक्नोति ततस्तद्अभिन्नेयम् । तावत्पुष्पप्रवालचोरिका गोपकन्यका यत्र रक्ष्यन्ते तत्रैवारान् माधवीकुञ्जकारायां संबध्य रक्ष्यताम् । तच्छ्रुत्वा मधुमङ्गलेनोक्तं प्रियवयस्य । निरोधेऽपि पररामाभिः पलायनविद्याः स्फुटमधीताः सन्ति । तदा मयोक्तं वयस्य! मयाप्येतद्ज्ञायत एव । किन्तु चिन्ता नास्ति । यद्यपि पररामास्पर्शो लज्जात्यागश्चास्मद्विधानां स्वप्नेऽप्यतीवायोग्यस्तथापि स्वकार्यमुद्धरेत्प्राज्ञः कुर्वन्नपि विगर्हितः । तथा, आहारे व्यवहारे च लज्जामपि परित्यजेत् । इति संहितावचनबलादहमेव प्रहरिको भवन् सर्वामेव रात्रिं जाग्रन् निरन्तरं निवत्स्यामि । इति निशम्य सुबलः सस्मितमाह पुरुषोत्तम! प्रियसख्या विशाखया एतावति महासङ्कटे कियन्तं कालं स्थातव्यम् ? ततो मयोक्तं यदर्थमियं रक्ष्यते सा यावत्निःशेषं मूल्यद्रव्यं प्रस्थापयति । किं वा कियद्द्रव्यं गृहीत्वा स्वयमेवागत्य ध्रुवमस्याः स्नेहादित्थमत्र स्थित्वा अवशिष्टद्रव्यानयनार्थमेनां प्रस्थापयति । तावद् अनया स्थातव्यम् । इति श्रुत्वा मधुमङ्गलः प्राह सखे! एतद्गोष्ठीनामधीशा सा सर्वाभ्योऽपि सर्वकर्मणि विचक्षणा विशेषतः पलायने गव्यघट्ट्यां दानादिषु सर्वैर् अस्माभि पुनः पुनः प्रयक्षीकृतास्ति । त्वं त्वनिशअमुद्घूर्णसे तेन मे महती चिन्ता ज्ञायते । ततः स्मितमपवार्याहमवदं सखे! अलमनया चिन्तया । तन्निकटे ममोद्घूर्णा न जनिष्यत एव । यदि वा जायेत तर्हि मद्उत्तमाङ्गस्य तद्वामभुजामृणालीमुपधानीकृत्य तद्उरस्तल्पोल्लसितपीतपट्टाम्बरवरविधूपधानोपरि मद्वामकरपल्लवमरुणमभिन्यस्य तह्ता मौक्तिकपणनिमित्तकवाग्विलासमुल्लासयिष्यामि । यथा सुखेन जागर्यामेव चत्वारो रजनियामा द्रुतमेव विरमन्ति । अथवा मद्उरोनामघनान्धकारविषमकारागारान्तस्तां प्रविश्य तत्पार्श्वयुगलं कठोरभुजगारुत्मतार्गलाभ्यां दृढं संरुद्ध्य सुखेन निरातङ्कः स्वप्नविलासं वितरिष्यामि । इति श्रुत्वा सर्वाः स्मयमाना बभूवुः । राधा तूद्ग्रीविकया मां विशाखां सर्वाश्च सखीरवलोकयन्ती आह चन्द्रावलीकेलिकुरङ्ग! तिष्ठ तिष्ठेति अनुच्चैर्मां तर्जयन्ती सुस्मितासीत् । विशाखा तु कुटिलदृष्ट्या मामवलोकयन्ती आह व्रजधूर्तधृष्ट! अपेहै अपेहीति वदन्ती सखीमध्ये लीना बभूव । ततः सर्वाभिः सुबलं प्रत्युक्तं सुबल! विदूषकतां त्यज । यदि भवतां विक्रयेच्छा वर्तते, तर्हि मुक्ताः प्रदर्श्य समुचितमूल्येन प्रदीयन्ताम् । नो चेद्वयं गृहं गच्छामः । मथुरात एव मौक्तिआन्यानयितव्यानि । इति निशम्य सुबलेन सम्पुटानुद्घाट्य ताभ्यां मौक्तिकानि प्रदर्श्य मां प्रत्य् उक्तं प्रियवयस्य! इमानि मौक्तिकान्यमूल्यानि आभिर्गृहपत्य्आदिकं समस्तगोधनानि च विक्रीयापि एकस्यापि मूल्यं दातुमशक्यम् । एताः खलु भवत्स्निग्धाः सर्वानुपेक्ष्य त्वां जानन्ति । तस्मादेतत्पूर्वकृतकार्पण्यम् अपि विस्मृत्य मां च त्वानुगतमवेक्ष्य यत्किञ्चिन्मूल्यं गृहीत्वा विनामूल्येन दत्तवदासामभीप्सितमौक्तिकानि दातुमाज्ञा क्रियताम् । ततोऽहमवोचम् सखे! नहि नहि । वयं वाणिज्यव्यवसायिनः । भवतु । किं कर्तव्यम् । भवद्वचनं च रक्षणीयम् । तद्यत्किञ्चिदल्पमेव मया मृग्यते तद्दापयित्वैव दीयन्ताम् । किं च उत्कोचं गृहीत्वा बारं बारं मम घट्टीदानद्रव्याणि भवता विनाशितानि सनीतित्मम केनापि कथितमस्ति तस्मान्मूल्यद्रव्यं समक्षमेव मयैवाभ्यो ग्रहीतव्यम् । सुबलः किञ्चिद्विहस्याह भद्रं वचः । किं च एताभिः स्वीयस्वीयाभीप्सितमौक्तिकानि विचित्य पृथक्पृथक्कुटीकृतानि दृष्ट्वा भवतापि स्वाभीप्सितमूल्यं कथ्यताम् । ततोऽहमब्रुवम् भद्रं दर्शयन्तु स्वस्वाभीप्सितमौक्तिकानि मूल्यं कथ्यते मया । सुबलः प्राह प्रियवयस्य! एताः विनयेन यन्निवेदयन्ति तत्कृपयावधार्य भवते यदि रोचते तदा विधीयताम् । ततोऽहं सुबल । कथ्यतां किं निवेदयन्ति युक्तं चेत्कर्तव्यम् । सुबलः प्राह एवं निवेदयन्ति, मधुपुरी तावद्दूरे समग्रमूल्यद्रव्याणां च समाचयनं दिनद्वयमध्य एव सम्पद्यते । गुरुकुलं तु मौक्तिकालङ्काराद्य्अदर्शनात्क्षणे क्षणे खिद्यमानं बाढम् आक्रोशति । अतोऽतिस्निग्धान् भवद्विधानवगत्य लज्जामपि परिहाय निर्जनवनान्तरमागतानामस्माकमृणेनैव मौक्तिकानि दापयित्वा द्रुतम् एव विदायः क्रियताम् । मूल्यद्रव्याण्यस्माभिर्भवताम् अभीप्सितवृद्धिसहितानि दिनद्वयाभ्यन्तरे परिशोध्य प्रहेयाणि यद्यस्मासु भवद्वयस्यस्य प्रतीतिर्न जायते तदा त्वमेवास्माकं प्रतिभूर्भवेति । तस्मात्परमप्रतीतिपात्राभ्यः सन्ततसत्यवादिनीभ्य एताभ्यः प्रतीतिं कृत्वा दत्तेषु मौक्तिकेषु मूल्यद्रव्यमभीप्सितवृद्धिश्चाचिराल्लप्स्यते । तथैताभिः सह निविडस्नेहोऽपि वर्धिष्यत एव । ततोऽहं विहस्य सुबल! त्वं शुद्धबुद्धोऽसि । आसां व्यवहृतिः किञ्चिन्मात्रापि त्वया न ज्ञायते । कुटिनाटीना¸ओइकानर्तक्य इमा मौक्तिकं गृहीत्वा निजनिजभर्तृमहादुर्गकोष्ठेइर्वेष्टितान् स्वस्वगुरुकुलमहापर्वतान् प्रविश्य द्रव्यमदत्त्वा यदि खेल्यन्त्यस्तिष्ठेयुस्तर्हि त्वया किं कर्तव्यम् । सुबलः प्राह सखे! मैवं ब्रवीः । एताः खलु नैवं करिष्यन्ति । यदि वा कुर्युस्तदोज्ज्वलवनान्तार्जुनकोकिलादिभिः सह तत्र गत्वा स्वयमाभिः स्वीकृतम् । स्वयं ग्रहाश्लेषचुम्बनस्वाधरसुधापानादिरूपमूल्यम् एतासां भर्तृषु संश्राव्य तत्प्राप्त्य्अर्थं तेभ्यस्तथा भयं प्रदर्शयिष्यामि । यथा त एव द्रुतममूस्त्वत्समीपं प्रस्थाप्य तद् दापयिष्यन्ति । तन्निशम्य मधुमङ्गलेन सक्रोधमुक्तं रे सुबल! त्वं नाम्नैव सुबलः पुमांश्चासि । वस्तुतस्त्वबलाकृतिर्मुहुर्दृष्टोऽसि । यतः साम्प्रतमप्यासाम् अबलानां फुत्कारं क्षुद्रादतिक्षुद्रतरेषु तद्भर्तृषु कर्तुं यदिच्छसि । तद्भीरुस्वभावस्य तवैतत्समुचितमेव । तस्मात्त्वमेवात्रोपविश्य मयैव विजयादिधाटीं प्रगृह्य बलादासां भर्तृसहितगोमहिष्यादिकं वेष्टयित्वा समानीय रुद्ध्वात्र नदीश्वरपुरे रक्षिष्यते । तदा ता एव स्वयमागत्य स्वस्वद्रव्यं सुतरां दत्त्वा स्वं स्वं पतिं गोधनादिकं च मोचयिष्यन्ति । ततस्तच्छ्रवणेन जनितमहादुःखभरेणैव मयोक्तं प्राणसख मधुमङ्गल! कथमेवं त्वया मन्त्र्यते ? व्रजवासिनो भिल्लपुलिन्दाद्या अपि मे प्रियेभ्योऽप्यधिकप्रियाः । एते तु सगोत्राः सहोदरा मद्अभिन्ना एव । तस्मादेतन्मन्त्रणमतीवानुचितम् । सुबलभाषितमेव किञ्चिद्भाति । तथापि न प्रियजनैः सममादानप्रदानप्रयोगेण रसरक्षा न जायत एव । तथा च स्मृतिः नैवादानं प्रदानं हि मित्रैः सह वितन्यते । कृते प्रीत्या भवेल्लोपः कलहस्तद्अनन्तरम् ॥ इति । ततः प्रस्तुतमेव मूल्यं दत्त्वा मौक्तिकानि नयन्तु । तच्छ्रुत्वा सक्रोधमिव सुबलं निभाल्य अये! कौटिल्यपारङ्गत सुबल! सर्वैरेव मिलित्वा विडम्बयितुमेव वयमत्रानीता भवता । तद्यूयं मौक्तिकवाणिज्यव्यवसायेन राज्यं कुरुत । वयं चलिताः स्म इत्युक्त्वा चलन्तीनां तासां सविधमासाद्य सौहार्दमभिव्यञ्जयन् सुबलो ललितां नीचैः प्राह सखि ललिते! आदानप्रदानव्यवहारस्य स्नेहभङ्गकारित्वात्केवलईअ तद्भयेनैव प्रियवयस्येन मूल्यनिर्णयं प्रस्तुतवित्तलाभं च विना सर्वथैव मौक्तिकानि न देयानीइत्सर्वप्रकारेणावधारितम् । तस्मात्समागत्य प्रथमं तावन्मूल्यमेव निर्णीयताम् । तद्दानोपायः पश्चाच्चिन्तनीयः इत्य् अनुनयेन ताः परावृत्य मत्समीपमानीय मां प्रत्युवाच वयस्य! नर्म हित्वा मूल्यमेव तावत्कथ्यताम् ।ततोऽहम् सखे सुबल! प्रथमं तावत् कस्य मौक्तिकानां मूल्यं कथनीयम् ? सुबलः प्राह एतासां मध्ये ललितैव मुख्या तदेतद्गृहीतमौक्तिकमूल्यं प्रथमं निरुच्यताम् । ततोऽहं किञ्चिद्विहस्य एतद्वाहिनीनां प्रवीणया ललितया समरे पौरुषेण यदि मादृशः पुरुषसिंहः सकृदपि कुण्ठितास्त्रीकर्तुं शक्यते । तदास्याः समक्षं सर्वथैवास्त्री न भविष्यामि । किं वा सन्ततममुक्तास्त्री भूत्वा एतं पुअरुषम् एवानुकीर्तयन्निमामेवानुचरिष्यामीति इदमेव यत्किञ्चिन्मूल्यं दत्त्वा गृह्णातु । सुबलः स्मित्वाह गोकुलवीर! सुदीप्रदर्पभरैर् महेन्द्रगर्वपर्वतखर्वनाय सप्तरात्रमत्र वामकरकमलकनिष्ठाङ्गुलिवराटकशिखरोपरि भ्रमर इव गोवर्धनगिरिर्येन व्यधायि तेनोच्चण्डेन भवता सममबलेयं कौमल्यललिता कथमिव समितिमतिविस्तारयतु । मधुमङ्गलः प्राह सुबल! तं कथं पूर्वमस्य पौगण्डकृतं दर्पम् अतिश्लाघसे ? यदधुना तारुण्यामृतसेकेन स दर्पककल्पतरुलक्षलक्षगुणं पल्लवितोऽस्ति । सुबलः प्राह कथमिति विदितम् ? मधुमङ्गलः यदनेन पूर्वारीणां सकलानां पूर्वं यादृशवैकल्यं कारितमासीत्, साम्प्रतमेतद्दुर्गमं तद्धृदयङ्गमानतनुपर्वतान् अभिलीलयैव केन च नखरास्त्रेणैव खण्डखण्डीकृत्य महामारादिभिस् ततोऽप्यतुलतरवैकल्यमापादितमास्ते । ततोऽहं विहस्य सुबल! सत्यमन्यत्र मया तादृशेनैव भूयते । न त्वेतस्याः पुरतः यस्मात्ततोऽपि प्रवरविग्रहे विविधवैचित्रीप्रवीणयानया बारं बारं भ्रूधनुष्टङ्कारेणैव हुङ्कारेण हेलया स्तब्धीकृतोऽस्मि । तत्कथमियम् अबला भवतु । इत्याकर्णनेन स्मेरमुखीः सखीरवलोक्य स्वानन्दोत्थविकारानवगूह्य सक्रोधमिव ललितयोक्तं अये सुबल विदूषक! मधुमङ्गलसहचरस्य गोकुलभण्डस्य भण्डतादेव्या सत्यं त्वमप्याविष्टोऽसि । यदस्मान् एतत्समक्षं समानाय्य विडम्बनसमुद्रे संपातयन् कौतुकं पश्यन्नसईति निगद्य कुटिलदृष्ट्या मामाक्षिपन्तीमागच्छत भोः सरलाः! आगच्छतेत्य् उक्त्वा सर्वाभिः सह गच्छन्तीं तदवसर एव तत्रागता भगवत्याः पौर्णमास्या अन्तेवासिनी नान्दीमुखी तद्गमनवार्तामखिलां सर्वाभ्यः समवधार्य व्याजहार सखि ललिते! नर्मशालिनोऽस्य श्रीव्रजेन्द्रनन्दनस्य परिहासवाङ्मात्रेणैव स्वकार्यमुपेक्ष्य कथमपयान्त्यसि ? क्षणं मया सह निर्वृत्य अपमानं पुरस्कृत्य मानं कृत्वा तु पृष्ठतः । स्वकार्यमुद्धरेत्प्राज्ञः कार्यध्वंसो हि मूर्खता ॥ इत्यादिन्यायेन परिहासविडम्बनानि सोढ्वा स्थैर्यमालम्ब्य स्वकार्यम् उद्धर । किं च मया शपथं कृत्वा व्याह्रियते । अस्य नर्मभिरेव लग्नकैरिव मौक्तिकानि दापयितव्यानि । अन्यथा भवत्पूर्वकृतकार्पण्यमनुस्मरतोऽप्य् अभिमानशालिनोऽस्य नर्मप्रयोगो न सम्भवति । तदन्यस्या मौक्तिकमूल्यं श्रुत्वा यत्कृते भद्रं स्यात्तदेव व्यवहर्तव्यमिति बलादिव तां हस्ते गृहीत्वा सर्वाभिः सह मुक्ताकुटनिकटमानीय मां प्रत्युक्तवती गोकुलयुवराज! तत्रभवत्या भगवत्या शुभाशीः शतपूर्वकं भवन्तं प्रति किञ्चित् सन्दिष्टमस्ति । ततोऽहं नान्दीमुखि! कुशलमास्ते तत्रभवती भगवती ? तत्कथ्यतां किम् आज्ञापयति । तत्सन्देशामृतेनात्मानमप्यायामि । नान्दीमुखी इमा वत्सा राधादयो व्रजकुमारिका अस्माकमतीव स्नेहपात्राणि आयुष्मति भवत्यपि सन्ततं परमानुरक्ताः । तदस्मान् वीक्ष्य अत्याग्रहं विमुच्य आसां दातुं शक्यमानमूल्यमादाय मआष्टनिधिपतेर् व्रजेन्द्रस्य कुमारेण भवता एतदभीष्टमौक्तिकानि दत्त्वा वयं सन्तोषणीया इति भगवत्याः सन्देशमिममवकलय्य नर्माणि परित्यज्य मुक्ताफलदानेनैताः सन्तोष्य गृहाय प्रस्थापयितुं महानुभावाः सर्वगोकुलसुखकारिणो भवन्त एव प्रमाणम् । ततोऽहं सश्लाघं नान्दीमुखि! पूर्वं सुबलहस्तेन तत्प्रहिताज्ञाकुसुमं शिरसि निधाय समग्रमे एव परित्यज्य ललितामौक्तिकानां यः कश्चन मूल्याभासोऽनया सह निर्णीतोऽस्ति तमस्या मुखतो निशम्य ततो यत्त्वया त्याज्यते तदपि मया त्याज्यम् । इत्याकर्ण्य सकम्पाधरं भ्रुवं कुटिलयन्तीं ललितां सर्वाश्च स्मितमुखीर् अवलोकयन्ती नान्दीमुखी स्मितपूर्वकमेवाह व्रजयुवराज! स इमाभ्यः श्रुतोऽस्ति, किन्तु तादृङ्नर्म परिहाय अमत्समक्षमन्यासां सर्वासामेव यथायुक्तं मूल्यं कथ्यताम् । ततो मयोक्तं नान्दीमुखि! आसां सर्वतो ज्यायसी ज्येष्ठा तदस्या मौक्तिकमूल्यमनया सह विचार्य त्वयैव कथ्यताम् । नान्दीमुखी वित्तस्वामिनैव मूल्यं प्रथमं कथनीयम् । तत्स्वयमेव भवता तत्कथ्यताम् । ततोऽहं निशापतेर्मम हृदयाकाशवीथ्यामुदितायां राधायामुदयन्त्याम् अनुराधायां स्वमर्यादामुन्मुच्य तयोर्मध्ये रागेणोदयन्ती ज्येष्ठा मन्मुखचन्द्रं ताभ्यां सह वा पृथग्वा मनागपि स्वमुखेन परिष्वजतु इति । ततस्तन्निशम्य निकुञ्जान्तरितायां राधायां ललिताविशाखाज्येष्ठासु च तिसृषु भ्रूभङ्गेन क्रोधमभिनयन्तीषु मयोक्तं नान्दीमुखि! स्वस्वमहालाभकरमपि भाषितमवधार्य कथमेताः क्रुध्यन्ति ? नान्दीमुखी सुन्दर! गोकुलश्यामनिशापतेरन्यपरिगृहीतानां सतीनाम् अस्माकमेतत्परपुरुषस्य सतीनामस्माकमेतत्परपुरुषस्य मुखचन्द्रचुम्बनकरणं दूरे तावदास्तां स्पर्शोऽपि महापापायैवेति क्रुध्यन्ति । इत्यादि विनोदलीलामाकर्ण्य सत्यभामा कृष्णमाह नाथ! तारागणने राधाया विशाखेतिप्रसिद्धमपि नाम हित्वा साकूतमनुराधेति नाम प्रयुञ्जतस्तन्नर्मालापभङ्गीं स्वस्मिन् स्वस्मिन्नेवावधारयन्त्योस्तयोर् विदग्धराधाविशाखयोर्न्याय्य एव रोषः । ललिता कथं कुप्यति ? कृष्णः प्रिये! अनुराधेति ललिताया एवापरपर्यायः । सत्यभामा यादवेन्द्र! एतदपूर्वलीलाकथाश्रवणेन मम मनसि तृप्तिर् अलं वृत्तिर्नास्ति तत्कथय कथय । कृष्णः ततोऽहं स्मितशवलितचम्पकलतावदनचन्द्रमालोकयंस्तद् गृहीतमुक्ताकूटं हस्तेन चालयन्निदमवदं नान्दीमुखि! इयं ते प्रियसखी चम्पकलता कस्मादपि सिद्धात्प्राप्तसिद्धिरिति मया बहुदिनम् अनुमितमास्ते । नान्दीमुखी कथमनुमितम् ? मयोक्तं यत इयं चम्पकवल्ली स्थावरा मध्ये बृहत्फलद्वयभारानतापि लीलया चङ्क्रमीति । अतो मुदिरसुन्दरे मद्उरसि चम्पकमाला भूत्वा स्वसौरभभरेण मां वासयतु । मयापि स्वसिद्धिबलातेतद्आज्ञयैवास्याः कण्ठे सूक्ष्मतरमरकतमणिमालया वक्षोजयोरन्तरे च महेन्द्रनीलमणिनायकेन त्वरितमेव भवितव्यम् । सुबलः प्रियसखे! चङ्क्रमणादिनाऽस्याः सिद्धिः सर्वैरनुभूयत एव । तव तु केनापि कदापि कुत्रापि सा नैव दृष्टास्ति । तस्माद्दुष्करेऽस्मिन् कर्मणि सहसैव प्रवृत्तेन भवता अय्दि निष्पादयितुमशक्यं स्यात्तर्हि वयमाभिर् उपहसिष्यामहे । अतो विचार्यैव प्रवृत्तेन भवितव्यम् । ततोऽहं सुबल! मम सिद्धिं पश्यन्नपि न पश्यसि ? मया किं कर्तव्यम् ? नान्दीमुखी मधुराङ्ग । कदा कुत्र का सिद्धिस्त्वया निष्पादितास्ति । सा कथ्यतां, सर्वे शुश्रूषवः सन्ति । ततो मयोक्तं देवयात्रायामम्बिकावने शरणागतत्वेन तातपादयोः पतितं महाजगरं पादाङ्गुष्ठस्पर्शमात्रेणैव सर्वालङ्कृतिभूषितो विद्याधरराजो मया व्यधायि । गिरीन्द्रराजो गोवर्धनश्च सप्ताहम् एककरेणैव छत्राकमिवानायासेनैवाधारि । कालियविषज्वालाविमोहितः सुबलादिवयस्यगणः स्वदृष्टिमात्रेणैव सचेतनः स्फुटमकारि । बारं बारं महादावानलोऽप्यमृतीकृत्य सुखेनैव स्फुटमपायि । एवमादयो बहवः सिद्धिप्रभावा गोकुले केन नानुभूताः सन्ति ? तदतिविस्तरेणालम् । इति निशम्य ईषत्स्मयमाना ललिता प्राह नान्दीमुखि! एष ते दुर्ललितो नागरः सर्वमेतत्सत्यं कथयति । किन्तु स कालो गतः । यत्र ब्रह्मचर्यबलेन तत् सर्वं निष्पादितमासीत् । साम्प्रतं नृशंसकंससेवकगोवर्धनमल्लगृहिण्याः पद्माशैव्याप्रभृतीनां च व्रजाङ्गनानां सन्ततसम्भोगविलासेन दूषितब्रह्मचारित्वादस्यान्तर्हिताः सर्वास्ताः सिद्धयः । ततोऽहं किञ्चिद्विहस्य ललिते! तेजीयसां न दोषाय वह्नेः सर्वभुजो यथा इत्य् अस्य पद्यस्यार्थमबुद्धैव त्व्येदमुच्यते । तत्तद्अर्थः श्रूयताम् । यथा सर्वभक्षणेनापि वह्नेस्तेजोग्लानिर्न भवेत् । प्रत्युत तद्वृद्धिर्महत्येव भवति । तथा भवादृशीनामुत्तमवराङ्गनानाम् अविरतमधुररसोपभोगमाधुर्येण ममापि सिद्धिर्निरन्तरमुज्ज्वला भवन्ती परमवृद्धिमेवाधिकतरामवाप । मधुमङ्गलह् ललिते! सत्यं ब्रवीति प्रियवयस्यः । सिद्धिश्चेन्न वृद्धिम् आयाति तर्हि मुक्तः कथं भूमौ प्रारोहन्ति ? प्रारूढाश्च कथं सर्वतः प्रसारिण्या वल्लिका भवन्त्यः प्रचुरतरं फुल्लन्ति फलन्ति च ? ललिता विहस्य आर्य मधुमङ्गल! तत्किं भवत्प्रियवयस्यस्य सिद्धेः प्रभावः ? मधुमङ्गलः तत्कस्य ? ललिता वृन्दावनभूमेरेव । राधा स्वगतं ललिते! एतत्कामिनीसङ्गस्य चेत्युच्यतामिति राधयोक्तं विशाखाप्यनुभाषितवती । ततोऽहं तत्कथमत्रैव भवतीभिरुप्तमुक्ता हिंस्रा जाताः ? ललिता भो विदग्धशिरोमणे! मुक्ताः किं हिंस्रा भवन्ति ? मयोक्तं तत्कथं मुक्ता नोत्पन्नाः ? ललिता भूमिविशेषस्य बीजस्य च वैगुण्यात् । राधा स्वगतं ललिते! क्षेत्रस्यास्य गुणादप्युच्यतामित्येतद्विशाखाप्य् उक्तवती । नान्दीमुखी ललिते! सत्यमेव कथयति विशाखा । ललिता कथमिव ? नान्दीमुखी यस्मात्सर्वदा सर्वाङ्गीणमुक्तिविषवल्लरिमहोषरभूमौ सन्ततपरमानन्दकरप्रेमभरोज्ज्वलितभक्तिपीयूषसुरवल्लिसरसतर महाक्षेत्रेऽस्मिन् वृन्दावने ध्रुवमागन्तुका ये केचन जन्तवो भक्ता एव भवन्ति कथं नु मुक्ता भवन्तु । ललिता विहस्य विशाखे । स्फुटं कामिनीसङ्गस्य इति भवद्वाग्विलासोऽपि ससन्दर्भो भविष्यति तद्विवृत्य कथ्यताम् । विशाखा आरूढयोगोऽपि निपात्यतेऽधःसङ्गेन योगी किमुताल्पसिद्धिरिति न्यायेनास्य काये मनसि गोत्रे च श्यामलतरस्य सच्छिद्रवंशीरसिकस्य क्षणमात्रसङ्गेन मुक्ता अपि भूमौ गर्भवासेन जननमासाद्य चच्छिद्रीभूय संसारगुणबद्धा बभूवुः । ततोऽहं विशाखे! निखिलमेव सत्यं कथयसि । सुबलः वयस्य! कथमिव । ततो मयोक्तं मम कामविलासाध्यापकस्य सौन्दर्यवैदघ्द्यादिगुणान् विशेषेण नारदादिमुखादाकर्ण्य दण्डकारण्यवासिनो जीवन्मुक्ताः कठोरतपस्याकुलमाचर्य गोकुलवनेऽस्मिन् प्रवरगोपगृहेषु जनिम् अङ्गीकृत्य व्रजविलासिन्यो भूत्वा सुसारवैदग्ध्यादिगुणैरावृत्य एता इव मद्उरसि स्रज इव विलसन्ति । तथैवापरे परममुक्ता अपि मद्अचिन्त्यगुणैर् आकृष्टा अस्मिन् व्रजवने नित्यसिद्धस्थावरजङ्गमेषु पशुपक्षिभूरुहादयो भूत्वा मामानन्दयन्तः परमानन्दमास्वादयन्तो नन्दयन्ति । सुबलः वयस्य! साधु वर्णितम् । ललिता किञ्चिद्विहस्य महासिद्धश्चेद्भूमिभेदगुणं विना तव सिद्धेः प्रभावान्मुक्ता जायन्ते तर्हि परमसिद्धोऽपि भवान् किञ्चिन्मात्राधिकद्रव्यलाभाय तद्विक्रयक्षुद्रवृत्तौ कथं प्रवृत्तोऽस्ति ? ततोऽहं मूर्खे ललितिके! यौवनधनगर्विताभिर्भवतीभिर्यथा स्वधर्मं परित्यज्य इतस्ततश्चञ्चल्यते तथा स्वधर्मपरिनिष्ठवैश्य शिरोमणिश्रीव्रजराजस्य एकपुत्रेण मयापि स्वधर्मं परित्यज्य किम् उच्छृङ्खलेन भवितव्यम् ? यतः कृषिवाणिज्यगोरक्षाकुशीदं तूर्यमुच्यते इति वैश्यानामस्माकं चतस्रो वृत्तयो भवन्ति । आसामेकवृत्त्याचरणेनैव सर्वसिद्धेर्वृद्धिस्तच्चतुष्टयमाचरतो मम पुनः सिद्धिः परमकाष्ठामारूढैव परं विराजते । नान्दीमुखी सस्मितं स्वधर्मनिष्ठयुवराज! भवतः कृषिवाणिज्यगोरक्षातिस्रो वृत्तयः स्पष्टमनुभूयन्त एव वृद्धिजीविका तु कदापि नावकलितास्ति । ततोऽहं नान्दीमुखि! साप्यस्माभिः क्रियमाणापि त्वया किं न ज्ञायते ? साम्प्रतमपि मुक्तात्यन्ताभावसङ्क्षोभिनीभिरेताभिः सह संकामितस्वधर्मं मुक्तापारव्यापारवृद्धिवृत्तिं विधातुमारब्धवान् अस्मि । विशाखा किञ्चिद्विहस्य सुबल! यत्र यो रज्यति, स खलु विनिन्द्यमपि तदेव श्लाघ्यतयोत्कीर्तयति । अतस्तावत्सुष्ठु अधर्मस्यापि शोभनत्वेन वर्णनम् अस्य त्वप्रियसखस्य नायोग्यम् । सुबलो विहस्य नान्दीमुखि! न केवलमसौ धनस्य वृद्धिं लभते, किन्त्व् अन्येषां पदार्थानामपि क्षणे क्षणे वृद्धिं लभमानोऽस्ति ॥ नान्दीमुखी कस्य कस्य ? सुबलः प्रथमं प्रत्यङ्गे मनसिजकोटिविजयिनवतारुण्यस्य नेत्राञ्चले चञ्चलकमलविनिन्दिघूर्णनस्य भाषिते च सुधासारोज्ज्वलमाधुरीणाम् । मधुमङ्गलः सुबल! इतरपदार्थानां वृद्धिं किं त्वया विस्मृता ? सुबलः स्मार्य केषाम् । मधुमङ्गलः मकरकुण्डलमणिमञ्जीरहारवलयकेयूरमणिमुद्रिकादिभिः परमसौन्दर्यदर्पादिकमधुरकेलिविलासानाम् । ललिता आर्य! अन्यतरैकवस्तुनः कथं वृद्धिं सङ्गोपितवानसि । नान्दीमुखी कतरस्य ? ललिता बल्लवकुलसाध्वीनामधरामृतोच्छिष्टस्य । राधा सस्मितं ललिते! सत्यं सत्यं वपुराख्याति भोजनमित्येतत् प्रगुणतररसायनपानेनैव बाहुयुगले सुवृत्तेन्द्रनीलार्गलादर्पदलनवलनस्य, वक्षसि मारकतकवाटाहङ्कारविध्वंसिविस्तारस्य, ऊरुद्वये च मरकतकदलीस्तम्भगर्वसर्वङ्कषसुवृत्तितायाः, वदने च शारदशशधरपरार्धमाधुर्यसङ्कोचकारिनिर्भरसुषमायाः, चरणयोः नवरसालपल्लवप्रशस्तिवित्रासिमाधुर्यस्य, सर्वाङ्गे मधुरतरसन्निवेशकुशललज्जाकारिसुभगसौष्ठवस्य, वपुषि च नवनवमुदिरेन्दीवरैन्द्रनीलप्रभाहारिविसारिप्रकटोज्ज्वलताभरस्य, येनास्य सकलान्तरमप्यभिव्याप्य विलसितमिति तन्मृदुउभाषितामृतं विशाखयापि सस्मितस्फुटसुलपितकुसुमेन सुवासितं व्यधायि । मधुमङ्गलः सपरामर्शं वयस्य! पररमणीमधुराधरलोलुपं त्वामेता धूर्ता मिष्टमिष्टवचनमाधुरीभरेण परिलोभयन्त्यः प्रचुरतरवृद्धिं प्रतिश्राव्य मौक्तिकान्यादाय जटिलादिदुर्गमास्थाय मूलमपि न दास्यन्ति । वृद्धिवार्ता तु दूरे वर्ततामिति सुष्ठु विज्ञायाहं मित्रेण हितमाशांसनीयमिति विज्ञापयन्नस्मि । अग्रे तुभ्यं यद्रोचते । ततोऽहं दशनै रसनां सन्दश्य सखे! इमा गान्धर्वादयः कुलाङ्गनाः प्रकामादानप्रदाने महाशुचयस्तदजानतैव त्वयेदमुच्यते तच्छ्रूयतां साम्प्रतमेव स्वाधरामृतोपढौकनेन मामतीव सन्तोष्य गान्धर्वया मत्सकाशात्प्रातर्गृहीतकमल्रागरेखिकायुगलेन निजवक्षोरुहं परिभूष्य मद्उरसि तदेव चतुर्गुणीकृत्य सायमेव वितीर्णम् । ललितया च परश्वः सायममृतस्राविचुम्बकरत्नमेकमादाय कलिक्रमेण त्रिगुणीकृत्य परिशोधितम् । विशाखयापि निशीथे परमाग्रहेण मन्मधुराधरामृतमादाय स्वसर्वभूतं तदेव प्रातर्बहुगुणीकृत्य प्रदाय बाढमाप्यायितोऽस्मि । चम्पकलतादयश्च बारं बारं स्वस्वाभीष्टपदार्थमाग्रहेणाभिगृह्य काश्चिद्द्विगुणीकृत्य काश्चित् त्रिगुणीकृत्य प्रदाय मामतीव सन्तोषितवत्यः । किन्तु आसु जनद्वयी केवलं प्रदाने किञ्चिदन्यादृशव्यवसाया वर्तते । नान्दीमुखी कतरा सा ? ततोऽहं एका रङ्गणवल्ली मद्वक्षसि निजवक्षःस्थित्निस्तलमधुरफलयुगलस्य त्रिरारोपणमुरीकृत्य मत्करमर्दनफलद्वयं गृहीत्वा सकृदेव तद्अर्पितमवैशिष्टं द्विर्अर्पणं गतिक्रियामाचर्य नाद्यापि करोति । काचिदन्या रङ्गणमालासहचरी तुलसी नाम्नी द्विगुणीकृत्य दातुमुक्त्वा मद्एकपरिरम्भस्तवकं समादाय साम्प्रतमिदानीं देयं तदानीं देयमिति कालं क्षपयन्ती मूलमपि न ददाति । मधुमङ्गलः अयि रङ्गणवल्लीतुलस्यौ! युवयोः सकाशाद् अल्भ्यमानात्मदिव्यद्रव्योऽपि प्रियंवदोऽस्मत्प्रियवयस्यः सहजसारल्यतो भवद्विधासु प्रियमेव वक्ति । तथाप्येतादृशेऽप्यस्मिन् वञ्चनचातुरीम् आचरन्तीभ्यां भवतीभ्यां कृतघ्नत्वात्लोकधर्मतो भयं न क्रियते । तदाकर्ण्य चारु हसन्ती ललिता प्राह सख्युस्तवार्य मधुमङ्गल! भाषितं तत्पीयूषतः प्रियतरं नहि कस्य गोष्ठे प्रत्यक्षरं प्रतिपदं तद्अलीकतोग्रशक्राशनस्य नहि चेदिह भूरिगन्धः । ततः सहासकोलाहलं साधु ललिते! साधु वर्णितमिति सर्वास्तास्तामालिङ्गतवत्यः । राधा च तथैव मनसा । नान्दीमुखी मोहन! कथमप्रतीतिः क्रियते ? ललिताप्रेमपात्रीयं रङ्गणमालिका, द्वितीया च विशाखाप्रियशिष्या तदेताभ्यामेव ते प्र्बोध्य तद् अवश्यं दापयिष्यते । यथा ताभ्यां सह भवतः शुद्धभावेन पुनः पुनर् एष व्यवहारो निर्वहति । यदि वा दापयितुं न शक्यते तदा तद्अवशिष्टद्रव्यं तत्स्नेहात्ताभ्यां स्वयमेव दाप्यते । एते अपि यदि ते झटिति दातुं नाङ्गीकुरुतस् तर्हि केनापि भवाननुयोक्तुं न शक्यते । भवता त्व् अनङ्गमञ्जरीसहोदराग्रतः क्रियमाण एव फुत्कारारम्भे ताभ्यामेव साध्वसेन स्वीकृतवृद्धिसहितं तद्द्रुतं सुतरां वितरिष्यते । ततः सर्वासु नान्दीमुखीं मां च सभ्रूकुटिकौटिल्यमीक्षमाणासु किञ्चिद् उपसृत्य तुङ्गविद्या सान्तःस्मितमाह भो भोः सख्यः! अपूर्वैका वार्ता श्रूयताम् । सर्वाः सखि! का सा ? तुङ्गविद्या एकः कान्तदर्पनामाचार्यः श्रुतोऽस्ति । ललिता परम्परया श्रुतोऽस्ति भद्रेण न ज्ञायते । तुङ्गविद्या तत्प्रियशिष्येण श्यामलमिश्रनाम्ना तत्कृतसूत्राणां सन्धिचतुष्टयाख्यातकृद्वृत्तय इति व्याख्याताश्चतस्रो वृत्तयो याः कृताः सन्ति ताः किं भवतीभिर्दृष्टचर्यो भवन्ति ? विशाखा विष्णु विष्णु तद्वृत्तिदर्शनं तावद्दूरेऽस्तु स एव कदापि न कर्णगोचरीकृतोऽस्ति । ललिता साकूतं तुङ्गविद्ये! कुत्रासौ त्वया परिचितः ? तुङ्गविद्या सखीस्थल्या एकमहापद्माप्सरसा तद्वृत्तिपा¸ओहार्थं तं मृगयितुं साय अत्रागतमासीत् । ततोऽहं तुङ्गविद्ये! एतावद्दूरभूमौ कथं तत्सञ्चारः ? तुङ्गविद्या निकामवन्यावृद्धिसामर्थ्येन । इत्याकर्ण्य सर्वाः स्मितं कुर्वन्ति स्म । ललिता ततस्ततः । तुङ्गविद्या श्यामलमिश्राद्वितीयेनालीकराजपण्डितेन प्रथमं नर्मपञ्जिक्¨¨अं क्रयविक्रयपञ्जिकां च विधाय साम्प्रतमलीकपञ्जिका तथादानप्रदानपञ्जिका च प्रपञ्चिता अनुक्रमेण नाम्नान्तरेण च प्रपञ्चितैतत्पञ्जिकाचतुष्टयं भवतीभिः श्रुतमस्तीति मन्ये । ललिता अथ किं सोऽपि सुष्ठु अनुभूयमानोऽस्ति । तुङ्गविद्या तेभ्योऽपि परमसमीचीनतीव्रधीप्रागल्भ्येन तत्सतीर्थेन कुहकभट्टेन तद्व्र्त्तिचतुष्टयस्य टीका युगपत्कर्तुमारब्धाः सन्ति । चम्पकलता तुङ्गविद्ये! त्वं सर्वविद्याविशारदासि तदेषां चतूर्णां शास्त्रकारिणां नामधेयनिरुक्तिमवगन्तुं सर्वास्त्वत्तोऽभिलषन्ति । विशाखा आचार्यभट्टयोरर्थः स्पष्ट एव तन्मिश्रपण्डितयोः स तावन् निरुच्यताम् । तुङ्गविद्या विहस्य दोषोऽप्यस्ति गुणोऽप्यस्ति तेन मिश्रेन मिश्रेत इति मिश्रः । नान्दीमुखी कतरो वा दोषः कतरो वा गुनः ? तुङ्गविद्या वैदग्ध्यावैदग्धयोरविचारेणैव यत्र कुत्रापि सर्वत्र प्रवृत्तिर् इति दोषः । सारल्याधिक्येन उत्तमानुत्तमाविचारेणैव वैषम्यं विना सर्वत्र समतया प्रवृत्तिरिति महान् गुणः । ललिता स्मित्वा तदस्यैतन्मिश्रता पदवी समुचितैव । चित्रा पण्डितोऽपि निरुच्यताम् । तुङ्गविद्या सद्असद्विचारिका बुद्धिः पण्डा । तया युक्तः पण्डितः इति । अयं तु बुद्धिगौरवेण पूर्वपरयोः परविधिर्बलवानिति विचार्य परा असद्विचारिका या सा पण्डा तामेवोत्तरम्त्वेआश्रितस्तद्युक्तत्वात्पण्डित इति । चित्रा सखि तुङ्गविद्ये! सन्ध्यादिचतुष्टयस्याप्यर्थः प्रकाश्य कथ्यताम् । तुङ्गविद्या चित्रे! अस्मद्गोष्ठ्यां तत्प्रपञ्चेन ललितैव दक्षा तत्सैव कथयतु । ललिता चित्रे! एतत्प्रसङ्गलेशोऽपि मया कदापि न श्रुतोऽपि तद् एतत्प्रकरणव्याख्यात्री तुङ्गविद्यैव तद्अर्थं जानाति । चित्रा तुङ्गविद्ये! मच्छिरसा शापितासि त्वयैव व्याख्यायताम् । ततोऽतिलज्जया स्वयमसंकथ्य राधिकातिप्रीतिपात्रीं मनागप्यनुच्यमानां तदीयसुखदसविधां भूचारणवर्यकिशोरीं तुङ्गनर्माख्यवैहासिकीं चक्षुःकूणनेन सस्मितमालोकयन्त्यां तुङ्गविद्यायां, तुङ्गनर्मा किञ्चित् सन्निधाय सस्मितमन्मुखमवलोकयन्ती निजगाद चित्रे! स तावद् अर्थोऽस्माभिर्न ज्ञायते किन्तु तयाप्सरसा पुनः पुनरागत्य सविनयं स्वयम् आग्रहभरेण सुप्रसन्नीकृतात्यथार्थपदवीकमिश्रवरादधीत्य तद्वृत्तिचतुष्टयव्याख्यानमस्मत्सहिततुङ्गविद्याग्रतः साङ्गं यदकारि तत्समासेन मया कथ्यमानं शृणुत प्रथमं शृणु दूतीद्वारा वा कृताभियोगेन यूनोर्मिलनं सन्धिः । तस्य वृत्तिर् विवरणमतिसारादिरिति । ततः कुचालम्भपरिष्वङ्गचुम्बनाधरपानरूपाणां शृङ्गारभेदानां चतुष्टयमेव चतुष्टयम् । तस्य तस्य वृत्तिर्नखक्षतादिः, बाहुबन्धभृङ्ग्य्आदिः, गण्डस्थले सविलासमुखकमलारोपणादिः, सवैदग्ध्यदंशादिरिति । ततोऽन्योन्यनर्मलपितमाख्यातम् । तस्य वृत्तिः परस्परजयाकाङ्क्षया निगूढार्थप्रहेलिकादिप्रयोग इति । चित्रा सस्मितं तुङ्गनर्मन्! अश्रुतचरैतदपूर्वार्थव्याख्यानम् अस्मत्कर्णगोचरीकृतं, भवत्या तत्कृद्वृत्तेरप्यर्थः सुष्ठु निरुच्यताम् । तुङ्गनर्मा आनन्दं करोतीति आनन्दकृत्सम्भोगः । तस्य वृत्तिः शीत्कारचक्ष्र्निर्मीलनादिरिति । किं च कान्तदर्पाचार्याद्य्अवतारिणा कलापप्रियेण सिद्धकुमारेणानेन तत्तद्विग्रहान्तरेणैव यत् कलापव्याकरणमाविर्भावितं तत्रात्यन्तापादेयत्वेन अतिशयरहस्यत्वेन च प्रकटमनिगद्य भङ्ग्या नामधेयान्तरेण च यत्किञ्चित्निगूहितं तद् भवद्विधरसिकस्निग्धविदग्धजनैर्विदग्धबुद्धिसखीभिः समसधिकविचारेण समनुभवनीयमिति । चम्पकलता किञ्चिद्विहस्य तुङ्गविद्ये! एतद्भट्टपादानां त्वावेव भुजौ तत्राप्यतीव सुकुमारौ तत्कथमेकदैव टीकाचतुष्टयं लेखितुं शक्नोतु । तुङ्गविद्या मुग्धे! निजेन्द्रजालबलेनायं भुजचतुष्टयमपि प्रादुष्कर्तुं शक्नोति । ललिता सत्यं सत्यं वासन्तिकरासोल्लासमहोत्सवे परमरासस्थलीनिकटवर्तिप्रविष्टकनामारण्यखण्डान्तर्निकुञ्जान्तर् आलेऽपि पररामारत्नमपहर्तुं निखिलबल्लवीवृन्दवञ्चनाय च स्वपरिच्यायकाद्भुतनिजमाधुरीसन्ततिमवगुण्ठ्य कुहकबलादेवानेन चतुर्भुजत्वमाविष्कृतमासीत् । विशाखा ललिते! सत्यमेतत्सर्वमस्यकुहकबलविजृम्भितमेव यत् प्रियसख्या सह गद्यपद्यैर्नर्मालापगोष्ठ्यां तां जेतुं निजकुहकपाण्डित्येन सम्प्रति वृद्धिवृत्तिमाचरता पदद्वयस्य वृद्धिः कदाचिद्यदनेन क्रियते तच्चास्माभिरपि दृष्टमस्ति । सुदेवी विशाखे! चतुर्णामेतेषां शास्त्रकारिणां प्रायेणैक एव व्यवसायः कथं दृश्यते ? नान्दीमुखी सुदेवि! एतद्विवरणमल्पाक्षरेण तुङ्गनर्मणा यदकारि तत्किं त्वया नहि श्रुतम् ? सुदेवी यावग्रामस्थप्रियसख्यां तदानीं दत्तमनस्कया मया तत् सम्यक्तया नावधारितं तत्कृपया त्वयैव विस्तरेण संकथ्य श्राव्यताम् । नान्दीमुखी सुदेवि! श्रूयताम् । वस्तुत एते चत्वारः कुहकभट्टनामा एक एव कुमारो भवति । स एव कृत्यभेदविनोदसम्पादनायात्मनः प्रकृष्टतरकुहकप्रभावात्प्रकटितेनैकेन विग्रहेणैव कान्तदर्पाचार्य इति अपरेण श्यामलमिश्र इति पदवीमध्यारूढो वर्तते । अलीकराजपण्डितेन समं तु स्फुटमस्य पृथग्विग्रहता नास्त्येव किन्त्वयमेव सदा धर्मी कुमारः । स्फुटमत्र विलासविशेषोल्लासकरणाय किञ्चित् प्रकाशभेदेनालीकराजपण्डितेति नामान्तरमुररीकृत्य काममात्मीयानाम् आत्मनश्च परमानन्दकल्लोलमास्फालयन् विहरते । ततोऽहं हंहो! यच्चतुर्भुजत्वादिकलीलायितमखिलमस्माभिः सिद्धताप्रभावैरेवाविर्भाव्यते । तन्मूर्खाभिराभिरुग्राभिः कुहकभट्टाभिर्निजनिकृष्टकुहकप्रभावैरेवेति सन्ततमुद्घुष्यते । इति मद्वचः समाकर्ण्य सर्वाः अनेन सिद्धगोस्वामिना स्वप्रभावेण निजालीकतापि सिद्धीसम्पाद्य स्वमुखेनैव परं निर्धारिता व्यधायीति सर्वैर् निर्भरमुल्लास्यमाने हासकुतूहले । अहं स्वगतं भो आश्चर्यमाश्चर्यममूभिर्वावदूकबल्लवीभिर् वचनप्रकाशपरिपाटीभिर्बाढमलीकतैव मयि सिद्धीकृतेति मनसि विभाव्य लज्जया मया तद्अनाकर्णितमुद्रयैव ताः सुष्ठ्ववधार्येव किञ्चिद्विहस्य व्याहृतं भो मुग्धा यौवनान्धा विलासिन्यः! यद्यत्र नहि वः प्रतीतिस्तर्हि सर्वेषां समक्षमेव स्वसिद्धिं दर्शयन् प्रथममस्याः कण्ठे वनमाला भवानि इति विहस्य चम्पकलतामुपसर्पन् वयस्य सिद्धस्य तव पररमणीस्पर्शः परमन्याय्य इति विहस्य वदता मधुमङ्गलेन निवर्तितोऽहमवदं सखे! सिद्धस्य सिद्धया संयोगो मिथः परमानन्दलाभायैव भवति । उक्तं च श्रीनारदेन परमानन्दलाभाय स्वयूथ्यामेव संश्रयेदिति । इति निशम्य हसन्तीषु सर्वासु परमानन्दजनितकम्पादिसात्त्विकविकारान् भनेएवाच्छादयन्ती चम्पकलता प्रपलाय्य कुञ्जान्तराले प्रविष्टा राधां पृष्ठे समालिङ्ग्य निलीनासीत् । ततोऽहं चित्रां मौक्तिकानि हस्ते चालयन्नुक्तवान् चित्रे! समक्षमागत्य मौक्तिकमूल्यं शृणु शृङ्गारकर्मविचक्षणायास्तव मूर्तिमञ्जुषिकायां तत्साधनानि बहूनि सन्तीति त्वत्प्राणप्रेष्ठसख्या कथितमस्ति । तैर् विचित्रशृङ्गारेण मत्प्रत्यङ्गानि तथा भूषय यथाहमपि त्वद्वक्षःस्थकाञ्चनघटद्वयमर्धचन्द्रपत्राङ्कुरादिभिः सन्तोषेणालङ्कृत्य तामानन्दयामीति । तच्छ्रवणतः सक्रोधं चित्रा अये अविरतम् अतिविकटभण्डतोच्चण्डचण्डिकाविष्ट! अये त्रिजगति प्रसिद्धधृष्टतोद्भटबाटिकाकुरङ्गकुटुम्बिनीकुलनट! त्वयोग्याभिस् तत्तत्साधनकर्मकर्मठाभिस्ताभिरेव ससन्तोषं सुचित्रितेन भवता ता एव सुश्लाघं सुवरेण सन्ततमनुकीर्त्यन्तामितस्त्वरितमपसरतु स्वामी । इत्याकर्णनेन जातहासाः सर्वास्तां सुष्ठु तुष्टुवुः । तदनु नान्दीमुखी गोकुलमङ्गल! सकलगोकुलजनजीवातुमुखचन्द्रप्रकाशं भवन्तमकस्माद्विमनस्कम् इव संवीक्ष्य भवद्एकायुषामस्माकं हृदयानि मर्मव्रणवेदनावह्निज्वालितानीव स्फुटन्ति सन्ति । ततस्तन्निदानमवश्यं कृपया प्रकाश्यताम् । यथा भगवतीद्वारा तत्प्रतीकारं झटिति निष्पाद्य श्रीमन्तं भवन्तं बाढमानन्दैवात्मानं सन्धुक्षयाम । इति नान्दीमुखीवचनमाकर्ण्य सवैक्लव्यमिव मयोक्तं नान्दीमुखि श्रूयताम् । अदृष्टाश्रुतचरचारुचातुर्यनिरवद्यमहावैदग्ध्यविओविधसुदुर्बोध नर्मकर्मस्वाध्यायप्रथमाचार्यायाः समस्तकल्याणगुणमणिमञ्जुषायाः स्वपरिजनगणजीवनीभूतस्मितनवघनसारसुवासितभाषितपीयूषायाः शच्य्आदिसौभाग्यवतीवृन्दवर्ण्यमान्सौभाग्यभरायाः सन्ततम् इन्दिरादिगौरीगणमृग्यमाणसौन्दर्यरसस्फुरितनखाञ्चलप्रतीकायाः सुरनरगणगन्धर्वविद्याधरमुनिवरवन्दितभुवनेश्वरीशतवन्द् यमानपदारविन्दायाः, समस्तवैकुण्ठतोऽपि परमोत्तमपरमव्योमतोऽपि बृंहितमहामहिमोत्तरवृन्दाटवीमहायोगपीठमहासिंहासने संभृतमहारत्नाभिषेकायाः महादेव्याः सुधासागरमथनोत्थितराधेत्य्अक्षरयुगलघनीभूततत्सारांशकलस् अद्वयविनिर्मितराधेतिनामधेयाद् अपूर्वामृतसारविकारविशेषेणाप्यायितशीत्कारितचतुर्दशभुवनायाः, सन्ततसौरभ्यनिरवधिसौन्दर्यनिस्तुलकौमल्यनिर्भरवरारुण्यादिविन् इर्जितरक्तोत्पलकुलचरणपरिचरणैकजीविने सकलवरिवस्याविशारदाय मह्यं स्वयमाहूयासङ्कोचतया मत्कामितप्रत्यङ्गसेवा यत्तया न दीयते । अतस्तस्य मयि मधुरां प्रीतिमनवधार्य तत्पूर्णांशां यथार्थनाम्नीं तुङ्गविद्यां भगवतीमुखात्निशम्य सत्वराभीष्टलाभाय एनां गुरुत्वेनासाद्यास्याः सकाशात्महादेवीमन्त्रराजं दिदीक्षिषुरहं त्वां भगवत्य्अद्वितीयां प्रपन्नोऽस्मि । नान्दीमुखी विहस्य । सुलक्षण प्रथमं तावत्शास्त्रनिर्णीतगुरूपसत्तिर् विधीयताम् । मयोक्तम् । भद्रं वचः प्रथमं गुरुशिष्ययोः परीक्षैव न्याय्या । ततस् तिस्रस्त्रियामाः कुत्रापि निर्जनकुञ्जे क्षणे महिलां क्षणे पुमांसं मां सम्पाद्य स्वविद्यायाः प्रभावमसौ दर्शयतु । ततो विश्रभ्य परमसम्भ्रमेण मयाप्यस्याश् चरणयावाभरणश्रोणिमर्दनवक्षोजकण्डूयनवेणीबन्धनादिपरिचर्यास् सर्वापेक्षया क्रियमाणासु सुप्रसन्नेयं त्वत्सेवया परमप्रसन्नास्मीति निरुच्य मां मनोभवानन्दकरनिकुञ्जमण्डपवेदिकां प्रापय्य भो विचक्षण मद्वक्षःस्थलकार्त्तस्वरमङ्गलघटयुगलं स्वकरयुगलेन स्पृशन्मृगमदकुङ्कुमादिपङ्कलेपपूर्वकं मणिपुष्पमालाभिर् वेष्टयेत्यादिभाषितमन्त्रैर्घटं स्थापयित्वा, स्ववक्षोजमहाप्रसाद० उङ्कुमेन मम ललाटादिषु तिलकं कृत्वा मृगमदेन मद्वक्षसि महादेवीनाममुद्रामभिलिख्य बाहुद्वयं च तच्चरणचिह्नसौभाग्यमुद्राभिरङ्कीकृत्य स्वकण्ठादेकावलीमालाम् उत्तार्य मत्कण्ठे निधाय मम वक्षःपार्श्वयोः स्वकुचौ अंसद्वये बाहुलते मुखे च स्वाधरमपराङ्गान्यागमानभिज्ञेन मया स्फुटम् अज्ञातान्यपि परमागमाचार्येयं स्वयं तद्अर्पणस्थानेऽर्पयतु इति षड्अङ्गानि विन्यस्य षड्अक्षरमन्त्रराजस्यास्य स्वयम्भ्वृषिगायत्री छन्दः श्रीगान्धर्वा देवता सबिन्दुप्रथमवर्णो बीजं शक्तिरुपास्योपासकयोर् मिथःसुयुक्तरतिजननपूर्वकाभीष्टकामसिद्धये विनियोग इत्यादि पूर्वाङ्गं यथाविधि सम्पाद्य, अथ स्वीयसरस्तीरकुञ्जरङ्गस्थले मुदा । सभ्यानालीगणान् भङ्ग्या धिन्वन्तीं नर्मनर्तनैः ॥ गौरीं रक्ताम्बरां रम्यां सुनेत्रां सुस्मिताननाम् । श्यामां श्यामाखिलाभीष्टसाधिकां राधिकां श्रये ॥ इति ध्यानं च सुचिरं कारयित्वा कृपया मह्यं कामिने कामबीजपुटितं मन्त्रराजमुपदिश्य मां कृतार्थीकरोतु । तदनु महाभावोज्ज्वलच्चिन्तारत्नोद्भावितविग्रहाम् । सखीप्रणयसद्गन्धवरोद्वर्तनसुप्रभाम् ॥१॥ कारुण्यामृतवीचिभिस्तारुण्यामृतधारया । लावण्यामृतवन्याभिः स्नपितां ग्लप्तेन्दिराम् ॥२॥ ह्रीपट्टवस्त्रगुप्ताङ्गीं सौन्दर्यघुसृणाञ्चिताम् । श्यामलोज्ज्वलकस्तूरीविचित्रितकलेवराम् ॥३॥ कम्पाश्रुपुलकस्तम्भस्वेदगद्गदरक्तताः । उन्मादो जाड्यमित्येतै रथनिर्नवभिरुत्तमैः ॥४॥ क्प्तालङ्कृतिसंस्लिष्टां गुणालीपुष्पमालिनीम् । धीराधीरात्वसद्वासपटवासैः परिष्कृताम् ॥५॥ प्रच्छन्नमानधम्मिल्लां सौभाग्यतिलकोज्ज्वलाम् । कृष्णनामयशःश्राववतंसोल्लासिकर्णिकाम् ॥६॥ रागताम्बूलरक्तौष्ठीं प्रेमकौटिल्यकज्जलाम् । नर्मभाषितनिस्यन्दस्मितकर्पूरवासिताम् ॥७॥ सौरभान्तःपुरे गर्वपर्यङ्कोपरि लीलया । निविष्टां प्रेमवैचित्त्यविचलत्तरलाञ्चिताम् ॥८॥ प्रणयक्रोधसच्चोलीबन्ध्गुप्तीकृतस्तनाम् । सपत्नीवक्त्रहृच्छोषियशःश्रीकच्छपीवराम् ॥९॥ मध्यतात्मसखीस्कन्धलीलान्यस्तकराम्बुजाम् । श्यामां श्यामस्मरामोदमधुलीपरिवेशिकाम् ॥१०॥ त्वां नत्वा याचते धृत्वा तृणं दन्तैरयं जनः । स्वदास्यामृतसेकेन जीवयामुं सुदुःखितम् ॥११॥ न मुञ्चेच्छरणायातमपि दुष्टं दयामयः । अतो गान्धर्विके हा हा मुञ्चैनं नैव तादृशम् ॥१२॥ प्रेमाम्भोजमरन्दाख्यं स्तवराजमिमं जनः । श्रीराधिकाकृपाहेतुं पठंस्तद्दास्यमाप्नुयात् ॥१३॥ इमं स्तवराजमप्युपदिशतु ॥ ततः श्रीगुरोर्लब्धाभीष्टकामोऽस्मि इति सगद्गदं वदन्तं सकम्पं तच्चरणकमलयोः पतितं मां सानन्दं समुत्थाप्य समालिङ्ग्य स्वाधरोच्छिष्टपीयूषप्रसादं संभोज्य च स्वमुखोद्गीर्णताम्बूलं मन्मुखे वितरतु । ब्रह्मचारिणो मम ताम्बूलभक्षणमनुचितमिति चेत् तर्हि कर्पूरवासितनिजमुखवासेन मन्मुखशुद्धिं वितनोतु । ततः कृतार्थेन मयैतद्अभीप्सितानि अन्यान्यपि बहूनि च मुक्ताफलानि दक्षिनात्वेन समर्प्यमाणानि कृपया स्वीकृत्य मामनुगृह्णातु ॥ इति निशम्य सर्वासु सस्मितं तुङ्गविद्यामुखमवलोकयन्तीषु तयाप्य् उच्छलितान्तरानन्दमावृत्य भ्रूभङ्गेन सरोषमिव मामीषदवलोक्य भाषितम् । नान्दीमुखि त्वं सिद्धा तपस्विन्यसि । तस्मादेतद्विधिना त्वम् एवैनं दीक्षय । तदास्य सिद्धातो मन्त्रग्रहणात्स्वाभीष्टकामलाभो झटिति सम्पत्स्यत इति व्याहृत्य सक्रोधं गृहाय गच्छन्तीं करेण गृहीत्वा व्याघोट्य विशाखा विहस्य नान्दीमुखीं प्राह नान्दीमुखि! अस्य सम्प्रति प्राप्तव्यलीकस्य दीक्षादाने महानेव प्रत्यवायः स्यादित्याचार्येयं त्वां प्रति क्रुध्यति ॥ नान्दीमुखी मिथ्यावादिनि विशाखे! सकलसधर्मराजीवबन्धोर् गोकुलराजस्य सत्तनये कथमलीकपरिवादमारोपयसि । विशाखा तुभ्यं शपे सत्यमेवैतद्दोषम् । नान्दीमुखी कस्तावद्दोषः ? विशाखा उच्छिष्टभोजनम् । नान्दीमुखी कस्य ? विशाखा दास्याः । नान्दीमुखी विहस्य का तावत्सा दासी ? विशाखा शाखोटवनवासिनी काचिन्मायया गोपीव भूत्वा कंसभृत्यगोवर्धनमल्लगृहिणीमासाद्य तामुवाच चन्द्रावलि! त्वं भुवनेश्वर्याश्चण्डिकायाः प्रियपरिचारिकासि । अहमपि तद्गणमध्ये एकास्मि । ततः स्नेहभरेण त्वसखीत्वमिच्छामि । तच्छ्रुत्वा समीचीनमेतद् इत्यालिङ्ग्य सा चन्द्रावली यां सख्येन परिजग्राह सैव । नान्दीमुखी सैव का ? विशाखा अपूर्वा पद्मा सा सर्वत्र प्रसिद्धा भवत्यापि ज्ञायते । नान्दीमुखी किं तदुच्छिष्टम् ? विशाखा तन्मेचकाधरकुपीस्थितं परमपावनं मधु ॥ एतन्निशम्य किञ्चित्स्मयमानां राधिकामवलोकयन्तस्तत्सभासदः सर्वे जना जहसुः । ततो नान्दीमुखी विशाखे! केनाप्येतद्दृष्टमस्ति ? विशाखा अथ किम् । नान्दीमुखी केन ? विशाखा विविधगिरिधातुपरिच्छदानानेतुं प्रियसख्या गान्धर्वया प्रेषिताभ्यां मल्लीभृङ्गीभ्यां मानसगङ्गानिकटोषरतटे प्रकटम् एवैतत्परमपावनं कर्म परश्व एव साक्षादवलोक्यागत्य सर्वासां पुरतो विविच्य कथितम् । नान्दीमुखी सचिन्तमिव सकलगोकुलजीवनीभूतस्यास्य कथं तद्दोषध्वंसो भवति ? विशाखा प्रायश्चित्ताचरणेनैव । नान्दीमुखी ततो भगवतीतस्तद्दोषविहितनिष्कृतिं सम्पाद्य पुरुषोत्तमम् एनं शुद्धं विधाय दीक्षयन्तु भवय्तः । तच्छ्रुत्वा चम्पकलता प्राह मुग्धे! उज्ज्वलमणिसंहितायामेव विवृतोऽस्ति तन्निष्कृतिविधिर्भवत्याः प्रायेण गोचरो न भवतीति तयैव कथाप्रसङ्गे कथितमस्ति ॥ नान्दीमुखी अत्र तत्संहितां कस्तावज्जानाति ? चम्पकलता प्रियसखी गान्धर्वैव । नान्दीमुखी अधुना सा किलात्र सभामध्ये न विद्यते । तत्कथमिदं झटिति निर्वहतु ? विशाखा तद्अद्वितीयेयं ततोऽधीतसन्दर्भतत्संहिताललिता निरन्तरं तद् अभ्यस्यन्ती सुष्ठु तज्जानन्ती तन्निरूपयिष्यति । नान्दीमुखी सकाकु सखि ललिते! विचार्य यथोचितनिष्कृतिरादिश्यताम् । ललिता किञ्चिद्विहस्य प्रियसखि! कृतवय्लीको जनो यदि सभामध्ये स्वयम् आगत्य निःशेषं स्वयमघं निष्कापट्येन निवेद्यानुतपति, तदैवास्य प्रायश्चित्तं कार्यते इति पुरानकृद्भिः निर्णितमस्ति । तथा हि संकथ्य स्वमघं गोष्ठ्यां पश्चात्तपति यः स्फुटम् । तस्यैव निष्कृतिः साङ्गा मुनिभिः कार्यतेऽखिला ॥ इति । इत्याकर्ण्य नान्दीमुख्यां मन्मुखं साकूतमालोकयन्त्यां मयि च सुबलमधुमङ्गलाभ्यां सह ललितासविधमासाद्य किञ्चिद्विवक्षमाणे सति, विशाखा प्राह हे धीर! कामातुराणां न घृणा न लज्जेति स्वभावतः कामिना त्वया यत्कृतं तत्कृतमेव । अधुना त्वेतत्तस्याः पुरो विविच्य तत्सर्वं कथय । ततोऽहं स्मितमपवार्य सानुतापमिव ललिते! चतुर्थेऽहनि विघटितगवान्वेषणे गौरीतीर्थमेवाप्तस्य मम गौरीमन्दिरान्निःसृत्य काचिद्गौरी सहचरी चर्चिका हठेन मद्उरसि सव्यकुचेनाहत्य माधवीचतुःशालिकान्तरालं मामानीय कम्पमानस्य मम मुखे ताम्बूलचर्वितं प्रदाय यत्किञ्चित्कृतवती तन्मोहितोऽहं किमपि नावेदिषम् । परश्वोऽपि सुवर्णसूत्रेण विविधकुसुमैर्ग्रथितमालामादाय राधाकुण्डतटनिकुञ्जनागरीं गान्धर्वामनुस्मरतो मम माल्यहरणकुण्डतटनिकटमन्दारोद्यानपरिसरे सा चर्चिका पुनरप्य् आविर्भूय बलेनैव मम वामगण्डं परिचुम्ब्य मुखे स्वाधरपीयूषम् अर्पितवती तदेतदघयुगलनिराशाय तन्मुखकमलोच्छिष्टमधुपानरूपं प्रायश्चित्तमादिशतु भवती । मधुमङ्गलो विहस्याह वयस्य! भद्रतरमिदं निष्कृतं यत्तदघस्यैव वृद्धिं वितनोति । ततोऽहम् धिङ्मूर्ख! किमपि न जानासि । विषस्य विषमौषधमिति । यथा वह्निसन्तापतो नश्येद्वह्निसन्तापजो ब्रणः । इति । एवं दरयेत्कण्टकं विद्धं कण्टकेनैव पण्डितः । इत्यादिवदुच्छिष्टभोजनदोषमुच्छिष्टभोजनमेव दरयति । मधुमङ्गलः एवंविधपापव्याधिचिकित्सायां त्वमेव सद्वैद्योऽसि तत्किं ललितामनुवर्तसे ? ततोऽहम् सखे । ज्ञातसारोऽपि खल्वेकः सन्दिग्धः स्यात्सकर्मणि । इति चिकित्सकस्यापि चिकित्सान्यैः क्रियत एव ॥ इति निशम्य ललिता स्मयमाना प्राह हे देव! देव्या सह देवस्यैव सङ्गः सम्पत्स्यते तत्कथमस्माकं मानुषीणां सा गोचरीभवतु ? ततो मयोक्तं ललिते! सा कुत्रापि मानुषि भवतीनामदूर एव विराजमाना वर्तते । ततः सर्वासु सकौतुकं सशङ्कं कर्णाकर्णि केयमिति विचारयन्तीषु राधा स्वगतं एतस्य धूर्तस्य नर्मन्यास एतद्गोष्ठ्यामेव भविष्यतीति लक्ष्यते । विशाखा देव! कथ्यतां कुत्र सा यथैनां संस्तुत्य सभामध्ये समानीय भवत्कार्यमचिरादस्माभिर्निष्पाद्यते ? ततोऽहं विशाखे! भवद्गोष्ठ्यामेव तडिदिव विराजयन्ती सा । किं दीर्घनेत्रयापि त्वया न दृश्यते ? इति मद्गम्भीरालापमाकर्ण्य ललितायामन्यासु सर्वासु च आत्मन्यात्मनि तां नर्मभङ्गीमाशङ्क्य परस्परमालोकयन्तीषु विशाखयोक्तं लम्पट! किं चम्पकलता ? ततोऽहं न हि न हि । विशाखा किं ज्येष्ठा । अहं न हि न हि । सुबलः रङ्गदेवीसुदेव्ययोरेकतरा भविष्यति । अहं अनयोरेकतरापि न । विशाखा आं निष्कृतिकारिणी ललितैव भविष्यति । ततोऽहं विशाखे! इयमपि न । विशाखा इयमपि न एषापि न असावपि न । तत्किमितोऽन्तर्हिता । ततोऽहं धूर्ते! त्वमेव तां जानासि । स्मृत्वा पश्य । ललिता हा हा सखि विशाखे! तां प्रकाश्य विकलस्यास्य कार्यसिद्धिं द्रुतम् आपादय । विशाखा स्मृतिमभिनीय ललिते! या मया ज्ञायते सा देवीमनुष्ययोरेकतरापि न स्यात् । नान्दीमुखी गोष्ठमध्ये देवीं मानुषीं वा विना का पुनरितरा ? विशाखा सा खलु शङ्खिनी । ललिता का तावत्सा ? विशाखा स्मित्वाह सा दुर्मुखी पद्मा ययास्य व्यलीकं कृतमस्ति । तुङ्गविद्या सखि विशाखे! सा शङ्खिनीति संकथ्य कथं कलुषमुत्पादयसि ? एषा खलु बहुतिथं कात्यायनीदेव्या बहुतरसेवाप्रसादतः साक्षात् कात्यायनी वृतास्ति । तच्छ्रुत्वा मधुमङ्गलादिषु हसत्सु मयोक्तं विशाखे! तल्लज्जया यदि त्वम् अन्यतः क्षिपसि तन्मयैव कथ्यते । विशाखा कथय कथय । ततो मयोक्तं सा चर्चिकादेवी त्वमेव । ततः सा सर्वाः स्मयमाना विलोक्य सकम्पाधरमाह अये चञ्चल वञ्चक! गोपनिष्ठूर! कंसासुरसेवकदुष्टकालिङ्गमल्लगृहिणीहारिद्ररागचर्चितसर्वाङ्ग! विदग्ध्यसत्खण्ड! चातुर्यसच्चन्द्रविरहित! तद्धृतस्नेहलुब्धतत्केलिकोलिकाननचर । अयुक्तपद्माशङ्खिनीपरिवृढ । अवैदग्ध्यरङ्ग० इलितपञ्चबाणरसव्यापारिमहाधूर्तवणिग्वर! एतद् धार्ष्ट्यजम्बुलगुडहट्टं तत्रैव शाखोटवने गत्वा प्रसारय । इतो द्रुतम् अपसर ॥ इति श्रुत्वा राधा अनुच्चैः सश्लाघमाह प्रियसखि विशाखे! विजयिनी भव यन्मन्मानसगतसम्बोधनोक्त्या मां सुखयन्त्यसि ॥ रङ्गदेवी सखि विशाखे! त्वं कथं कुपसीत्युक्त्वा सखि ललिते! शाखोटवनीं माधवीचतुःशालिकात्वेन मानसगङ्गातटोषरप्रदेशं माल्यहरणसरस्तीरमन्दारोद्यानत्वेन, पद्माशङ्खिनीमुखोच्छिष्टं च प्रियसखीविशाखाधरामृतत्वेन निरूप्य स्वमुखेनैव सानुतापं स्वदुरितम् अशेषमनेन विदग्धधूर्तेन स्वकदर्यकार्यप्रकटनजनिष्यमाणलज्जया अर्थोत्थव्यङ्गेनैव त्वयि निवेदितम् । तदुपदिशास्य प्रायश्चित्तम् ॥ इति श्रुत्वा ललिता विहस्य आर्य मधुमङ्गल! सखे सुबल! सन्निधाय श्रूयताम् प्रायश्चित्तम् ॥ चित्रा सखि ललिते! सम्पत्तौ विद्यमानायां प्रायश्चित्तं चतुर्गुणम् । ततोऽपि राजपुत्राणां निष्कृतिः षड्गुणा मता ॥ इति स्मृतिवाक्यं स्मृत्वैव प्रायश्चित्तमादिश्यताम् ॥ ललिता मुग्धे! ततोऽपि राजपुत्राणां निष्कृतिः स्याद्द्विषड्गुणा इति पाठः संहितासंमतो मया ज्ञायते । षड्गुणेति कथं भण्यते ? चित्रा एतच्छास्त्रविज्ञया त्वया यज्ज्ञायते तदेव सत्यम् । किन्तुगोवर्धनोद्धरणदावाग्निविमोचनशङ्खचूडादिमर्दनादिभिः कतिधानेन युवराजेन वयं न रक्षिताः स्म ? तस्माद् इदानीन्तनतत्कृतबहुतरवैगुण्यमविगणय्य कृपया षड्गुणेनैव निरूप्यताम् ॥ ललिता भद्रं त्वकथितमेवेदमनुष्ठीयते । आदौ पापमोचने स्नात्वा तथा मानसगङ्गायां त्रिदिनानि स्नातः सन्नेकविंशतिदिनानि मल्लीभृङ्गाधरपञ्चामृतपानेन प्रथमं मुखदोषमुत्सारयतु । पश्चाद्द्विषड्गुणा निष्कृतिः करणीया ॥ इति श्रवणेन कपटकोपविकटो मधुमङ्गलः प्राह ललितिके! सद्धम्रसेतुव्रजेन्द्रयोरेतन्मात्रपुत्रस्य तथास्मद्विधवयस्यवर्गाणां सकलगोकुलवासिनामप्येकजीवातोरस्य चेटिकापुलिन्दीजुष्टभक्षणेन जातिध्वंसः कर्तुमारब्धो भवतीभिस्तद् अहमतिद्रुतं गत्वा वृत्तमेतत्सविशेषमाश्राव्य एतत्पितरावत्रानीय एतत् सङ्कटादमुं मोचयन् सौहृदं वितनोमि । इति निगद्य फुत्कृत्य द्रुतं गच्छन्तं मधुमङ्गलं सुबलः करे गृहीत्वा बलादिव निवर्तयामास । ललिता अनार्य बटो! अस्मत्प्रियसखीप्रणयिसख्योरनयोर्माहात्म्यविज्ञाने त्वमनभिज्ञोऽसि । तद्भवन्नान्दीमुखीमुखादेतच्छ्रूयताम् ॥ नान्दीमुखी भ्रातर्मधुमङ्गल! गोवर्धनगिरौ रम्ये राधाकुण्डं प्रियं हरेः । यथा राधा प्रिया विष्णोस्तस्याः कुण्डं प्रियं तथा ॥ तथा वैकुण्ठाज्जनितो वरा मधुपुरी तत्रापि रासोत्सवात् वृन्दारण्यमुदारपाणिरमणात्तत्रापि गोवर्धनः । राधाकुण्डमिहापि गोकुलपतेः प्रेमामृताप्लवनात् कुर्यादस्य विराजतो गिरितटे सेवां विवेकी न कः ॥ इत्याद्य्अनुसारेण श्रीभगवतीगुरुश्रीदेवर्षिप्रभृतिमहामहामुनीन्द्रगणैर् वर्णितमहामहिम्नः श्रीगोवर्धनोपरिविराजमानस्य राधाकुण्डस्य दक्षिणतटे गिरिदरीवासिन्याः पूर्णाः पुलिन्द्य उरुगायेत्यादि श्रीशुकदेववर्णितमहासौभाग्यभरयोः पुलिन्दराजसुतयोरनयोर् अधरगलितपरमपावनपञ्चामृतमेतद्दुरितनाशकं किं न स्यात्? अन्यच् च श्रूयताम् । व्रजनवीनयुवद्वन्द्वरत्नं प्रति विशाखादिद्वारा क्वचित् स्वयं वा लज्जामभिनीय मृदु भाषितविविच्यमाननर्मकलाकलापजनितपरमानन्दविशेषलाभाय तथा स्वाभिलषितपरिचरणविशेषलाभाय च रङ्गमालाप्रभृतय एताः परमप्रणयिसख्योऽपि परिचारिका इव व्यवहरन्ति ॥ एतद्अवसरअ एव नेत्रकुणनेन गोष्ठीमध्यात्तुलसीमाहूय बन्धुरातिबन्धुरसुगन्धीगन्धफलीसदृक्षदक्षिणकरकनिष्ठाङ्ग् उलिशिखराकृष्टस्वसीमन्तसिन्दूररसप्रकटिततत्सौरभप्रसररूपस् उरूपलिपिप्रचयेनातिसुवासितीकृतकनककेतकीकुसुमदलभूतवर्णदूत एकः । श्रीगान्धर्वया तत्करेण ललितादिषु सञ्चारितः । ततस्तं ललिता शिरसि निधाय सखीभिः सह रहः परिपठ्य नान्दीमुखीकरे सस्मितमर्पितवती । नान्दीमुखी स्मित्वानन्दमभिनीय वक्षसि निधाय वाचयति स्वस्ति श्रीनान्दीमुखीश्रीललिताश्रीविशाखाप्रभृतिप्राणप्रेष्ठसखीवर्गेषु परिष्वङ्गपरार्धरङ्गपूर्विका कस्याश्चिद्विज्ञप्तिरियम् श्रीदामसुबलभद्रसेनादिप्रमुखप्रियवयस्यगणैः सह गोवर्धनपरिसरे सम्भृतगोचारणपरमामोदस्य व्रजराजनिजजीवितपरार्धशताधिकपरमप्रियतमतनयस्य व्रजेन्द्रमहिषीस्वप्राणपरार्धपरिपक्वहिरण्मयेष्टकाघटाघटित महामन्दिरान्तरालविनिर्मितप्राणपरार्धविविधरत्नखचितमहापर् यङ्ककृङ्प्तवात्सल्यनानाविधकुसुमसुवासितसुकुमारसुतूलिकोपरिसम धिगतशयनकेलिपरमानन्दस्य मत्प्राणपरार्धार्बुदपरार्धशतनिर्मञ्छ्यमानवामचरणकनिष्ट् हाङ्गुलिनखाञ्चलप्रतीकस्य नवमृगमदपरिमलितनवनीतनीलोत्पलदलकुलरचितसुन्दरसुकुमार विग्रहस्य धीरललितस्यास्य एतावत्कठोरप्रायश्चित्तश्रवणेन मम हृदयं नवनीतमिव विद्रववदास्ते । ततः कृतानुतापलक्षाणां सुकुमारशरीरिणाम् । स्निग्धानां निष्कृतिः सम्यक्तन्त्रेणैव विधीयते ॥ इत्युज्ज्वलसंहितावचनमननुस्मृत्यैव ललितया यत्पञ्चामृतपानरूपं प्रायश्चित्तं केवलमुखशोधनाय च तन्त्रेण विधायास्मिन्निर्दोषे विहिते मम महत्येव निर्वृतिर्जायते इत्यलमतिविस्तरेण ॥ इहैव प्राणप्रतिमप्रणयिसख्यौ मल्लीभृङ्ग्यय्प्रति सप्रणयपरिष्वङ्गसञ्चारः कार्यश्च । राजपुत्रोऽयं परमपवित्रो महाविलासी च । तन्निजचरणक्मलघातेन कङ्केल्लिलतिकां पुस्पितीकृत्य तन्मकरन्दप्रस्यन्दगण्डूषैश्चतुर्विंशत्या स्वमुखं विशेषेण प्रक्षाल्य स्मितकर्पूरवासितमधुरपञ्चामृतं विधाय प्रेम्णा शनैः शनैस्तथा पाययितव्यं यथास्य सुकुमारस्य दुरितं द्रुतम् अपयाति परमसुखमपि निष्पद्यते इति ॥ इति निशम्य सान्तरानन्दं राधानिकुञ्जमवलोकयति मयि स्मित्वा ललिता प्राह यद्यपि कृतानुतापलक्षाणामित्यादि सामान्यवचनान्तरं सम्पत्तौ विद्यमानायां प्रायश्चित्तं चतुर्गुणम् । तत्रापि राज पुत्राणां निष्कृतिः स्याद्द्विषड्गुणा ॥ इति विशेषवचनेन सामान्यविशेषयोर्विशेषविधिर्बलवानिति न्यायेनास्य द्विषड्गुणमेव प्रायश्चित्तं युक्तमेव पृथक्पृथक्निरूपितमस्ति तथाप्य् आज्ञा गुरूणां ह्यविचारणीयेति तद्आज्ञां शिरसि निधाय तन्त्रेणैव कारयितव्यम् इति ॥ ततः शिष्ये विद्या गरीयसीति मयोक्ते ललिता साकूतमाह नान्दीमुखि! सौन्दर्यरसभरेणाप्यायितनिखिलगोकुलजननयनारविन्दां पररासस्थलीविहारिणीं परमरसतरङ्गिणीं रङ्गिणिसहचरीं हरिणीमेतां परिहाय बाढमयसविदग्धकृष्णसारयुवा सखीस्थल्य्उपशल्ये तद्वास्तव्यशैव्यासहचरीमृगतृष्णिकां मुहुर्मुहुर्धावति । तथा गान्धर्वासरोवरनिकुञ्जाङ्गने सौरभप्रसरपरिवासितसकलदिशां चम्पकलतासखीं काञ्चनयूथिकामपहाय गोवर्धनमल्लगृहकोणस्थां निर्गन्धपुष्पवतीं कुष्माण्डलतां तन्निकटस्थनीरसोषरस्थलपद्मां च तसहचरीं चञ्चलोऽयमविदग्धभ्रमरः पुनः पुनरुड्डीयोड्डियानुसरति तदेतदालम्बनावदग्ध्यरूपवैरूप्येण वृन्दावनमहेश्वरीसहचरी मधुरा रतिरप्रसन्ना सती एतच्छ्यामलरसं न पुष्णाति । तस्मात्तथैनम् अनभिज्ञं युक्तमाधुरीभिः प्रबोधय । यथा तामविदग्धां रसगन्धशून्यां सर्वदैव विहायैनां वृन्दावनमहादेवीं सर्वतोभावेनानुसरति । तर्हि तत्प्रियसखी मधुरा रतिः स्वयमेव परमोज्ज्वला भवन्ती एतदभीष्टकामान् सम्पादयिष्यत्येव । इत्यखिलविलासरसमाधुरीमापीय सत्यभामा व्याजहार प्राणनाथ! एतद् अपूर्वरससागरे निमज्जन्त्या मम मनागपि तृप्तेः पर्याप्तिर्न विद्यते । कृष्णः प्रिये! एतद्गोकुलविलासानन्दनिष्कुटे विहरमाणस्य मम त्वत्प्रश्न एव मत्प्रियवयस्यसमयराजवसन्तोल्लास इति तामालिलिङ्गति । सत्यभामा सानन्दं ततस्ततः ? कृष्णः ततः सुबलः सस्मितमाह प्रियवयस्य! प्रियसखीयमिन्दुलेखा दुर्दुरूढात्स्वभर्तुर्भास्वराख्यादुद्विग्ना मामिङ्गितेन प्रेरयति । तद् अस्याः मौक्तिक्मूल्यं निर्णीय तद्दत्त्वा झटिति गृहकृत्याय गन्तुम् आज्ञाप्यताम् । ततोऽहं सखे सत्यं सत्यं मय्यतीवानुरक्तेयं मामपि त्यक्तुं न शक्नोति । ततोऽपि सुष्ठु बिभेतीत्यहमपि जानामि । तदेतन्मौक्तिकमूल्यं शृणु यथार्थनाम्नीयं मद्विरहमसहमाना कायद्वयं कृत्वा श्यामलतरमद्वक्षोनभसि शाणितनखाग्रेण रचितामेकां स्वमूर्तिं संरक्षतु । अहमप्यसह्यैतद्विरहस्तावदस्याः वक्षोजपर्वतोपरि स्वविद्याबलेनार्धचन्द्रयुगलीभवन्नुदयं करोमि । तदैषा लब्धमहारत्नमिव सर्वतो मां चेलाञ्चलेनावृणोतु । रहसि च क्षणे क्षणे सरोमाञ्चमवलोकयन्ती परमानन्दमासादयतु । अथवा मृगलाञ्छनरहिताया एतस्या हृन्मध्ये मञ्जुलकृष्णसारोऽहं भवामीति । ततः सकम्पाधरं कुटिलं मामवलोकयन्तीमिन्दुलेखामालोक्य स्मयमाना तुङ्गविद्या प्राह नागर! रङ्गदेवीयं यथार्थनाम्नी तदस्या मौक्तिकपणः प्रणियताम् । ततोऽहम् सखि रङ्गदेवि! रासमध्ये तव लास्यविलासोल्लासः सन्ततम् आलोकितोऽस्ति । तदधुना निकुञ्जमन्दिराङ्गने रहसि तद्विशेषमनुभवितुम् अभिलषामि । तदेहि स्ववक्षोजकनककुम्भौ मद्उरसि तथा नर्तय यथाहमानन्दितः सकलवल्लवीसमुदयसर्वस्वभूतमत्स्वाधरपीयूषमहाप्रसाददानेन त्वामानन्दयामीति ॥ तच्छ्रुत्वा अपैहि भण्डशेखर! अपैहीत्युक्त्वा कुटिलं मामवलोक्य विशाखापृष्ठान्तरितायां रङ्गदेव्यां सुदेवी सस्मितमाह रसिकशेखर! बल्लवीकुलभुक्तमुकसुजुष्टमहाप्रसादास्वादनेनेयं त्वरितमेव सिद्धिमासादयन्ती स्फुटमस्मानपि सिद्धार्थाः कृतवत्येव । सुबलः वयस्य! सुदेवी स्वमौक्तिकमूल्यं श्रोतुकामा श्रीमद्भवन्मुखमीक्षमाणेयमुत्कण्ठते । ततोऽहम् सखे सुबल! सुदेवीयमक्षकेलिदक्षेति प्रसिद्धा तच्छपथमेव दददस्मि केनापि कस्यापि पक्षो न ग्राह्यः । आवामेव स्वबुद्धिबलेन खेलिष्यावः । तत्र यद्यहमनया सुष्ठु जीयेयं, तर्हि वामेन वक्षोजेन मद्वक्ष्षसि मामापीड्य मम सर्वस्वभूतमधरं द्विः पिबतु । यदि वा मयेदं जीयते, तदा स्वदक्षिणकठिनवक्षोजं मद्दक्षिणकरेण निकामं पीडयित्वा द्विः स्वाधरामृतमापाययत्विति । ततः सा भ्रूभङ्गेन मामवलोकयन्ती सासूयं विशाखामाह अयि विशाखे! सर्वकालमेव नर्मस्वर्णविक्रय्यसौ महाजनः । साम्प्रतमेव मुक्तामणिव्यापारमारभ्य ततो वृद्धिमलभमानः पुनः स्ववृत्तिम् एवारब्धवानस्ति । ततः परार्धद्विगुणपञ्चबाणललितां काञ्चनमुद्राततिमितः प्रकाममूल्येन प्रगृह्य तयैव मुक्ताफलान्यस्माद् आनयन्तु भवत्यः । मया तु गृहाय गम्यते । इति चलितुमुद्यताञ्चले गृहीत्वानङ्गमञ्जर्या निवर्तिता सक्रोधमिव साकूतं पुनराह केलिलम्पट! निकाममक्षकेलिनिपुणेयमनङ्गमञ्जरी त्वया सह दीव्यन्ती ते गर्वपर्वतं खर्वयिष्यति । ततस्तद्वचनमाधुर्यमवधार्य मयोक्तं अस्यास्त्वबलायास्तत्केलिषु का शक्तिः ? किन्तुमद्वक्षोहरिद्ग्रावहरितालीयरेखिकाया राधिकायाः प्राणसहोदरेयं मय्यतीव स्निह्यति । मम च मानसमधुकरः परम् अस्यामनवरतमनुव्रज्यति । अतः समुचितपणमन्तरापि सुताराणि सुवृत्तानि बहूनि मौक्तिकान्यप्यस्यै वितरिष्यामि । परं च निर्जननिकुञ्जवेदिकायां स्मरपुञ्जराक्षराण्यस्याः पञ्चाशदङ्गप्रत्यङ्गेषु स्वहस्तेन विन्यस्य स्वाङ्गं स्वाङ्गेनालिन्ङ्ग्य मन्त्रेणैनां व्यापय्य तथा सिद्धमन्त्रमेकम् उपदिशामि यथा तद्ग्रहणमात्रादनङ्गं साङ्गं विरचय्य सन्तुष्टेन तेन प्रसादीकृतस्वसर्वस्वस्वरूपविलासरत्नानि मन्त्रगुरौ मयि दक्षिणात्वेन सविनयमुपढौकयति । ततः सुप्रसन्नेन मया तादृग्आशीःशतमाधास्यते येन विषमशरविलासाचार्येति पदवीमासाद्य द्विगुणं मामेव भक्त्या परिचरति । इति मद्भाषितकुसुमस्तवकं श्रवणावतंसीकृत्य सकम्पाधरं मामीषद् अवलोकयन्ती स्मितसुभगवदनाभिराभिः स्नेहेनोत्फुल्लतया तद्अग्रजया च सस्मितं सस्नेहं च निरीक्ष्यमाणा तुलसीरङ्गणमालिकयोरुपपृष्ठम् अन्तर्हितासीत् ॥ सत्यभामा स्मित्वा प्राणनाथ! ततस्ततः । कृष्णः तदानीमेव मल्लीभृङ्गीभ्यामानीय दत्तं लेखद्वयम् । सर्वाभिः सममेव वाचयित्वा परमोत्फुल्ला ललिता तयोरेकं लेखं सुबलहस्ते समर्पितवती । ततोऽहम् ललिते! कस्यायं लेखः ? ललिता स्मित्वा लेख एव कथयिष्यति । ततः सुबले लेखमुद्घाट्य लघु लघु वाचयति सति नान्दीमुखी सुबल! स्फुटमेव वाचय । सुबलः स्मित्वा सखे! अपूर्वपत्रीयमवधार्यताम् । अहं सखे! वाचय ममापि महती शुश्रूषा वर्तते । सुबलः स्वस्ति समस्तसंमुखसर्वोपमायोग्यबन्धप्र्बन्धसद्गुणप्र्करपरिवृतेषु श्रीसुबलाभिधानप्रियनर्मसखमहानुभावेषु यावटाभिधग्रामतो राधायाह्ः प्रणयभरपीयूषपरिपूरिताक्षरप्रकरसुमिष्टपिष्टकपरिवेषाणहिर् अण्मयभाजनरूपूऽयं स्वस्तिमुखम् भवत्प्राणबन्धुपादपद्मानां भवादृशां च मङ्गलकुलम् अनवरतविराजमानमपि व्रजमण्डले शश्वन्नितरां विराजताम् ॥ काऋयमिदम् अन्यदपि अवधेहि प्रियजनसकाशात्करग्रहणमनुचितमिति बहुतरमपि करद्रव्यमपहायैव एतावद्दिनं किमपि नोक्तमासीत् । सम्प्रति मौक्तिकव्ययेन क्षुभ्यद्गुरुजनदीयमानमहानुयोगनिचयेन क्षणम् अपि निर्वृतिलवमलभमानया यत्किञ्चिन्मया विज्ञाप्यमानमस्ति । तद्अगुणम् अविगणय्य मद्वृन्दावनजनपदे यमुनोपकण्ठकेदारिकायां भवत्प्राणबन्धुना सम्प्रति क्षेत्राजीवतामाश्रयता कृतमौक्तिककृषेर् ललितया सह लेखप्रतिलेखमाचार्य समुचितकरद्रव्य्मिह त्वरितमेव प्रहित्य दीयतां, यथा द्रव्येणैव मथुरातो मौक्तिकान्यानाय्य गुरुभ्यः प्रदाय कदनसागरादस्मादुत्तरामः । अथवा बहुमूल्यमौक्तिकोत्पत्तिभूमेः करस्याप्यतिबाहुल्यादेतद्द्रव्यप्रदाने यदि भवादृशामशक्तिः स्यात्तर्हि पञ्चभिर्मिलित्वा समुचितमूल्यं निर्णीय एतद्द्रव्यपरिवर्तनेन मौक्तिकनि ललिताहस्ते देयानीति किं बहुना परमाभिज्ञवरेष्विति । एतन्निशम्य परमानन्दपूर्णेनापि मया साकूतमुक्तं अयि मल्लि! अयि भृङ्गि! भवद्ईश्वरी सुखं वर्तते ? मल्लीभृङ्गौ श्रीमन्नाथचरणशुभानुध्यानेन । ततस्तन्निकुञ्जदिशं तिर्यग्अवलोकयन्नहं कुत्र वर्तते सा ? ते यावटाभिधग्रामे । अहं किं कुर्वती तिष्ठति ? ते ललितादेवीप्रभृतीनां वर्मदिशमवलोकयन्ती वृन्दावनराज्यसार्वभौमकाममुत्कण्ठितेव विराजमाना वर्तते । ततोऽहं सखे सुबल! ,अमुए लिटिओलया ललितयैव कस्यचिद्द्वारा लेखयित्वा लेखोऽयं वितीर्णोऽस्ति । सुबलः नहि नहि । राधाया एव स्वहस्तलिखितवर्णानां विन्यासोऽयम् । ततोऽहम् सखे! तत्तावदिदं दर्शयति तद्धस्तादाकृष्य लेखमालोक्य सचमत्कारमात्मगतं अहो अक्षराणां पङ्क्तिविस्तृतिरियं मन्नेत्रयोः पीयूषवर्तिकेय्व प्रतिभातीत्यानन्दजनितपुलकान् विस्मयसञ्चारिभावेनैव कृतानिति भङ्ग्या विख्याप्य प्रकाशं विहस्य आश्चर्यमाश्चर्यम् आकाशकुसुममिव धूर्ताभिरेताभिः किमप्यन्यदकस्मादेव समुत्थापितम् । मधुमङ्गलः वयस्य! विकटकुटिनाटिकपटनाटिकाताण्डवोद्भटनटाCआर्यमहानटीमिमां तदद्वितीयां दुर्ललितां ललितां वाग्विलासाभासमात्रेणैओव पराजित्य अवतिष्ठ ते ध्रियते यावदेकोऽपि रिपुस्तावत्कुतः सुखमित्यादि संस्मृत्य सर्वासाम् अस्मद्वृन्दावनराज्यकाङ्क्षिणीनां धूर्तानां ततिमिमामितो वृन्दावनात् झटिति विद्रावय । ततो निष्कण्टकराज्ये मधुराणि रसवन्ति फलान्युपभुज्य सुखेनैवाहं नृत्यन्निव वसामि । ततो मयोक्तं ललिते! इयमस्मद्वृन्दाटवी । भवत्सख्या राज्यं कुतो जातम् । ललिता परमकपटिन्! तद्राज्यमहाभिषेकमहोत्सवं समक्षमाकलय्यापि किमेवं गोपायसि ? ततोऽहम् ललिते! समक्षदर्शनं तावद्दूरेऽस्तु तच्छ्रवणमपि जातमस्तीति नाहं स्मरामि ? विशाखा ललिते! अस्य तावद्दूषणं नास्ति । बल्लवसाध्वीशतधर्मोल्लङ्घनजनिततमःप्रचयेनान्तर्हितमस्त्यस्य चेतस्तत्संसर्गी च तादृश इति एतद्वयस्ययोरनयोरपि । तत्कथमेते स्मरन्तु नाम ? तस्मात्तत्कथनपीयूषप्रस्यन्देन कर्णविवरेषु प्रवेशितेन् बाढम् अमीषां चेतांसि कारुण्येनाविर्भावय यथैषां स्मृतिः सम्पद्यते । ततस्तदानीमेवागतां सर्वाभिरेवानन्दितां वृन्दामालिङ्ग्य ललिता सस्मितम् आह वृन्दे! भद्रावसरे त्वं प्राप्तासि । तत्त्वयैव निर्वर्ण्यतां महोत्सवरङ्गः । वृन्दा सविनयानन्दं सखि ललिते! त्वन्मुखपद्माद् विनिष्यन्दमानतन्महोत्सवरसमकरन्दमहमप्यापातुमागतास्मि तत् त्वयैव परिवेष्यताम् । ललिता सानन्दम् भद्रं सर्वैरवधाय श्रूयताम् । ऋतुपतिवसन्तसमये पौर्णमास्यां विशाखानक्षत्रे भगवतो हिरण्यगर्भस्य गगनवाण्या वृन्दावनवासिनो भगवतः श्रीगोपीश्वरस्य स्वप्नकृतनिदेशेन च मानससुरधुनीकालिन्द्यादिसरिद्वरोभिः सावित्रीसंज्ञैकानंशाप्रभृतिदेवीभिश्च समं मुरलीमहतीझर्झरीमुरजदुन्दुभिप्रभृतिवाद्यशब्दकोलाहलेनाकृष् टेषु किन्नरीगन्धर्वीकुलेषु सानन्दं गायत्सु । अप्सरोविद्याधरीवर्गेषु नृत्यत्सु शच्यादिसुराङ्गनानिचयेषु जयजयशब्दपूर्वकं पारिजातादिकुसुमवृष्टिं कुर्वत्सु विशाखादिसहचरीसमुदयेषु परिमिलितपटवाससुरागबन्धननवघनसारक्षोदमञ्जुलमृगमद सुललितकुङ्कुमपटीरद्रवविविधसुरभिकुसुमकुलानि सुललितगानपुरःसरमितस्ततो विकिरत्सु भूसुररमणीवृन्देषु शुभाशीःशतानि वितरत्सु च सखीवृन्दसमर्प्यमाणशोभनकुङ्कुमागुरुकर्पूरचन्दनविविधसु रभिकुसुमादिसुवासितजलपरिपूरितकाञ्चनाष्टोत्तरशतघटैः सुवर्णवेदिकानिहितपद्मरागमणिपीठोपरि सन्निविष्टां प्रियसखीं गान्दर्वां भगवती पौर्णमासी सानन्दमभिषिच्य विविधसुलक्षणमहारत्नसञ्चयोदकसहस्रधाराभिर् जयजयशब्दपूर्वकं रत्नाभिषेकं चकार । वृन्दा सहर्षम् ततस्ततः ? ललिता ततो मयैव सुचीनवसनेन शनैः शनैरङ्गान्यामृज्य सुरक्तदुकूलं परिधाप्य केतकीकुसुमसुवासितजलदनीलोत्तरीयवसनेनावगुण्ठ्य सुखम् अन्यतरकनक० ईठे निवेश्य नानाविधकुसुमनवगुञ्जापुञ्जसुमधुरमुक्तादिमणिनिकरै निन्दितशिखिपिञ्छकलापकान्तिसुकेशपाशं सुदीर्घप्रान्तोच्छलत्कुसुमगुच्छं वेणीत्वेनाविर्भाव्य स्वस्वसेवाकर्मकर्मठपरिजनगणदीयमानविविधालेपभूषणमा ल्यादिभिर्यथास्थानं यथाशोभं निकाममलङ्कृतेत्यर्धोक्ते तत्स्मरणानन्दजनितकम्पपुलकस्वरभङ्गपरिमिलितदिव्यमोहम् आसादयन्ती सा ललिता विशाखया ससम्भ्रमं पृष्ठे समालम्ब्य कर्णे राधे कृष्ण राधे कृष्णेति कीर्तनामृतेन सन्धुक्षिता क्षणं मौनेन धैर्यम् आलम्ब्य पुनः कथयितुमारेभे ॥ तदानीमेव मूर्च्छितां ललितामालक्ष्य हा मत्प्राणप्रदीपराजिनीराजितचरिते प्रियसखि ललिते! हतभाग्याहं त्वया निराशा कृतास्मि । हा भगवन्! भक्तवत्सल! भास्करदेव! रक्ष रक्ष । हा सन्ततम् आपुलिन्दसकलगोकुलजनावनार्थकलितनिर्विकल्पमहासङ्कल्पगोकुलसुद् हानिधे झटिति निजसुधामयकराभिमर्षणेन मद्विधजीवितकोकिलकुलजीवातुललितानामाद्भुतपीयूषरसालवल्लीं जीवितामाचार्य किलैतत्पणेनैव संक्रीय दासी क्रित्यतामियं तपस्विनी राधिकेति विलप्य साश्रुधारं वेगेन तामालिङ्गितुमागच्छन्ती राधिका रसमयसात्त्विकमहास्तम्भसन्ततिसहचर्या सुष्ठु परिष्वज्य रक्षितासीत् । इत्यवकलनात्त्रासेन सान्तःकम्पं रङ्गणवल्लीतुलसीभ्यां तत्सविधम् उपलब्धं ततो रङ्नणवल्ल्या वामभुजया तत्पृष्ठमवष्टभ्य दक्षिणकरेण मृदु मृदु मृज्यमाना हा नाथ रक्ष रक्ष इति साश्रुप्रवाहं सगद्गदभाषितेन तुलस्या तु नवमृदुलतमालपल्लवकुलव्यजनेनातिजवेन बीज्यमाना बाह्यमुपालभ्य सुस्थामिव ललितामालोकयन्ती सानन्दा बभूव । ललिता हुं ? तां तदा तदानन्दोच्छलितसात्त्विकभावालङ्कारभूषितसभ्यगणैः सह भगवती विचित्ररत्नसिंहासनोपरि समुपवेश्य एकानंशासोदरकामाख्याश्यामलदेवताहृद्यस्थासकाद् आहृतदत्तमृगमदेन वृन्दावनराज्यमहाराज्ञीत्वेन शङ्खघण्टादुन्दुभिकोलाहलशब्दपूर्वकं जयजयशब्देन तिलकं चकार । तत एतच्छ्रवणेन सर्वासामानन्दहासकोलाहले जाते तच्छ्रवणानन्दसमुत्थितसात्त्विकाद्य्अनुभावान् यत्नेनावृत्य किञ्चिद्विहस्य मयोक्तं ललिते! एतत्कथं मया न ज्ञायते एतेन किं वो राज्यमायातम् ? प्रत्युत एतदुट्टङ्कनात्स्वमुखेनैव भवतीभिर्युष्मत्सहितमिदं राज्यं ममैवेति निर्णीतम् । नान्दीमुखी कथमिव ? ततोऽहम् यतो वृन्दावनपुरन्दरस्य ममैव राज्ञीत्वेन मद्इङ्गितेनैव भगवत्य्अभिषिक्तेयम् ॥ विशाखा विहस्य असङ्गतभाषिन्! पुरन्दरस्य महिषि देव्येव भवति । सा खलु शचीति प्रसिद्धा स्वर्गे वसति । इयं तु मम सखी भूमिविहारिणी सुभगाभिमन्योर्जाया मानुषी । मयोक्तं तर्काचार्यशिरोमणिंमन्ये विशाखे! त्वं सुष्ठु जडासि यद्बारं बारमधीतमपि प्रत्यक्षखण्डं त्वया विस्मृतमेव । विशाखा किं तद्विस्मृतम् ? मयोक्तं श्रूयताम् । यदि भवत्सहचरी मत्प्रेयसी न स्यात्तर्हि मद्वक्षःस्थासकाहृतमृगमदेन कथं भगवती तां तिलकिनीं चकार ? कथं वा मत्कण्ठमालाहारवैजयन्तीभ्यां तत्कण्ठमलञ्चकार ? ललिता भोः शशशृङ्गधनुर्धरालीकपुरन्दर! प्रवरसुभगलेखावलिकलितपदारविन्दायाः गन्धर्वविद्याधरगणगीयमानमहावैभवायाः आत्मभुवापि संस्तूयमानचरितायाः विविधकामसम्पत्तिदायिन्याः नन्द्य्आदीश्वरगृहिण्याः कामारिपुर्वासिन्याः विन्ध्यवास्तव्यैकानंशाग्रजायाः कामाख्यानामश्यामलदेवतायाः महाप्रसादमृगमदमालाभिरेव सा किल भगवत्या विभूषिता । तव कस्तत्र सम्बन्धः ? तुङ्गविद्या सखि ललिते! साधु सम्बोधितं यदयमलीकपुरन्दर एव । विशाखा कथमिव ? तुङ्गविद्या श्रूयतामस्मिन्माथुरप्रदेशे याचकद्विजकलावदादिभिरेव पञ्चविंशतिकपर्र्दिकामात्रलब्धये देव! महाराजेत्य्अलीकसम्बोधनैः क्षुद्रतरैकग्रामाध्यक्षोऽपि यथा प्रफुल्लितो भवति तथैव शक्राशनाशनदुर्गतभण्डभट्टादिवर्गैः पलैकपरिमितनवनीतमात्रमाप्तुं वृन्दावनपुरन्दरेति कृतासम्भवालीकसम्बोधनपूर्वकस्तवाभासेनैव निसर्गागम्भीर एष कृषीबलो बाढमात्मनः पुर्नदरतामननेन निजजाल्मतोऽमरावतीपुरन्दरत्वमेव प्रकटीचकार । ततस्तुङ्गविद्या नर्मस्मितमपवार्य भोः पावनसरोवरजम्बालजातजाम्बुनदजातसुतारमुक्ताफलादिविविधरत्न् अव्रातविरचितमहासिंहासनोपरि सुष्ठु निविष्टस्य सौरभभरोन्मादीकृतारुणभ्रमरकुलोच्छलितझङ्काररवनिकरेणानु गम्यमाननिर्मलगगनसुमनःप्रपञ्चाविर्भावितवरमुकुटबन्धाति बन्धूरोत्तमाङ्गस्य सानन्दं शिरसि सुबलेन धृतपरिणतकमठकठोरपृष्ठसुपक्षकृतप्रकटसुरभिसुध्क णाभिवर्षिप्रवराटपत्रस्य मसृणतरकरतलोद्भुततनुरूहप्रकररचितचामरद्वयेनोज्ज्वलचतुराभ् यामुभयपार्श्वयोरानन्देनाभिवीज्यमानस्य, अतिसुप्रतिष्ठितबन्ध्यागर्भजातमहामहासत्पुरुषवर्गैः पद्मगन्धाभिधादिवलीवर्धसञ्चयानां सुमधुरपयःप्रवाहेण वृन्दाटवीमहेन्द्रत्वेऽभिषिक्तस्य, परिणतसशोत्तुङ्गशृङ्गविनिर्मितमञ्जुलकार्मुकालङ्कृतवामकरमुष्ट् इकस्यास्य, तदवधि यशःप्रतापप्रकाशलहरी ब्रह्माण्डभरे यादृशी प्रसरन्ती वर्तते । तामनुभवन्तीभिर्भवतीभिरपि साक्षान्महेन्द्रत्वं यन् न मन्यते, तद्भवतीनामनयोऽयं महानेवेति मयि प्रभासते । इति निशम्य सस्मितं नयनकूणनेन सस्मितलज्जितमन्मुखमालोक्य परस्परं चालोकयन्तीषु तासु चित्रा विहस्य भोः कथमसौ परिअहस्यते भवतीभ्याम् ? सत्यमेवायं देवेन्द्रः । तुङ्गविद्या चित्रे! इति चेत्स कथमत्रागतः ? चित्रा श्रूयताम् । पररमणीतोऽयमिति सर्वतः समधिगम्य क्रोधिन्या देवा पदाघातेन निर्भर्त्स्तस्तां परमसुखदतन्निजभवनं च निर्वेदतः परित्यज्य वनमिदमागत्य परममञ्जुलनवीनगोपत्वमिवासाद्य पुरश्चरणविधानेनैव वृन्दावनेश्वर्याः कर्षको भूत्वा सुखेन समयं गमयन्नस्ति । तदेनं हास्यरसविषयालम्बनमविधाय बाटिकरूपप्राघुणेऽ स्मिन् स्नेह एव निकामं विधीयताम् । तच्छ्रुत्वा सर्वासु स्मेरमुखीषु नान्दीमुखी विहस्य सखि चित्रे! व्रज एव नित्यविहारिणि व्रजेन्द्रनन्दने यत्किञ्चित्त्वयेदं व्याहृतम् । तस्य शब्दार्थोत्थगूढाभिप्रायेण भवितव्यमिति लक्ष्यते । ततस्तस्य विवेचनपूर्वककथनेनास्मान् बढमानन्दय । ततः स्मित्वा मुनिव्रतमालम्बितवत्यां चित्रायां वृन्दा सानन्दमाह नान्दीमुखि! अस्याः परमविदग्धाया गूढाभिप्रायः स्फुटं मयैव निर्वर्ण्यमानः सुष्ठु समाकर्ण्यताम् । नान्दीमुखीन् कथमस्य देवेन्द्रत्वम् ? तत्प्रकटय । वृन्दा दीव्यन्ति क्रीडन्तीति देवाः विचित्रविविधमनोहरकेलिविलासशालिनः । तथा दीव्यन्ति विशेषेण द्योतन्ते इति देवाः । परमोज्ज्वलतेजस्तरङ्गहृद्याद्भुतसौन्दर्यामृतप्रवाहशालिनस्तेषां तेषामपीन्द्रो महापरिवृढ इति देवेन्द्रस्तेभ्योऽपि परमोत्कर्षेण सुष्ठु विराजमान इत्यर्थः । नान्दीमुखी सस्मितं समीचीनोऽयमर्थो विवृतः किन्तु पररमणीरत इत्य् अस्य कोऽर्थः ? वृन्दा परा अन्या तथा परा विपक्षा, तथा परा परमोत्कृष्टा, परा चासौ रमणी चेति पररमणी श्रीराधिका तस्यां रतः परमाशक्तस्तामेव परमानुरागेण रमयन्नित्यर्थः । चम्पकलता स्मित्वा वृन्दे! देव्यपि निरूप्यताम् । वृन्दा नादेवो देवमर्चयेदिति चण्डिकापरिचर्यापरत्वातस्य देवस्य भार्येति वा । किं वा अमङ्गले मङ्गलशब्दवदियं देवी । नान्दीमुखी सेयं का ? विशाखा एतादृशी चन्दावल्येव भविष्यति । वृन्दा स्मित्वा मौनमालम्बते । सर्वाः स्मितं कुर्वन्ति । नान्दीमुखी पदाघातेनेति धार्ष्ट्यातिशयेन तस्या अनुत्तमता स्फुटैव किन्तु परमसुखदतन्निजभवनं वा कतरत्? वृन्दा निविडत्वपुष्पवत्त्वभृङ्गगुञ्जित्वादिराहित्वात्परमसुखदम् । किं वा परमसुखं दारयतीति परमसुखदं यत्तस्या देव्या निजभवनं सखीस्थलीनिकटवर्तिनं तदपहाय । नान्दीमुखी अहो! शब्दानां गूढार्थविज्ञायास्तव व्याख्याकौशलं तद् अस्मादृशीभिर्दुरवगाहो नवीनगोपत्वादिपदानां गूढोऽर्थः कृपया प्रकाश्यताम् । वृन्दा वेणुविषाणलगुडनिर्योगपाशगिरिधातुचित्रनवशिखण्डगुञ्जाहारारण्य् अशृङ्गारधारित्वं मञ्जुलनवीनगोपत्वं तत्रापि नवीनशब्देन तस्य प्रथमतो नित्यनूतनता च ध्वनिता । पुरश्चरणसंविधानेनेति पुरः संमुखे भृङ्गरणितकुसुमकलितबकुलराजतले चरणं प्रोद्दाममदोन्मत्तगजेन्द्रवद्विविधविलाससमुल्लासितमितस्ततो भ्रमणं तत्पुरःसरं यत्संविधानं लीलाकमलचुम्बनकङ्केल्लिनवपल्लववद्अंशेन निस्तुल=निस्तलदाडिमीफलकरविन्यासकाञ्चन्यूथिकासमालिङ्गनपूर्वक स्मितनवकर्पूरसंमिलितचञ्चलनयनकमलाञ्चलावलोकनपरमोन्माद् अकमधुरमाध्वीकपायनम् । तेन मल्लिबकुलचम्पकमाधवीकनकयूथिकादिकुसुमचयनविलासमाधुर् ईभरमनुभवन्त्याः श्रीवृन्दावनराजधानीविलासिन्याः कर्षक आकर्षको भूत्वा तेन तामुन्माद्य निजनिकटमाकृष्येत्यर्थः । सुखेन श्लाघ्यमधुरमधुररसास्वादनजनितपरमानन्दसन्दोहेन समयं सहजसर्वदोज्जृम्भमाणवसन्तकालं निरन्तरं निरुपमविलासमाधुरीभिः सौभाग्यलक्ष्मीभरं गमयन् प्रापयन्नस्ति तया सहानवरतमनिर्वचनीयमधुरखेलाविलासतत्परः सन् सदा विराजत एवेति । ततोऽहं सान्तर्आनन्दं विशाखाघातिनि वृन्दे मम वृन्दावनोद्यानपालिकापि त्वं कथमेतासु मिलितासि ? मधुमङ्गलः प्रियवयस्य! इयमुद्यानपाली सलवणतक्रश्लथितभक्तभक्षणाय तद्उद्यानपालनं परित्यज्य साम्प्रतमासां गृहपाली वृत्तास्ति । तत्कथं न बुक्किष्यते ? वृन्दा अये भूसुराभास! कुटबटो! निजसहचरप्रथममुदिरवचनजलधारावर्षेण प्रफुल्लवर्षाभूस्त्वं सन्ततश्रवणकटुशब्दं कुर्वन् सर्वानुद्वेजयन्नसि । मल्लीभृङ्ग्यौ देवि ललिते! स्वामिन्या यदन्यपत्रेण लिखितमस्ति । तत्किं विस्मृतं भवत्या ? ललिता किं तत्स्मार्यताम् । मल्लीभृङ्ग्यौ समुचितकरदाने यः कुयुक्तिमुत्तोल्य विरोधमाचरति सोऽत्र बद्ध्वा शीघ्रं प्रहेय इति । ललिता आम् । तत्करदानविरोधी मधुमङ्गल एव । तदेनं लतापाशेन दृढं निबध्य कोमलायाः प्रियसख्याः सविधमानीत्वैव जटिलाभिमन्युपार्श्वे युवाभ्यामेव सत्वरं समर्प्यताम् । यथा स यावग्रामसिंहोऽभिमन्युरेव ताडनपूर्वकं स्वकरं गृह्णाति । मधुमङ्गलः अन्तःसभयमिव वयस्य! किञ्चिन्निगूढं कार्यं मम गृहे विद्यते । तत्सम्पाद्यागच्छन्नस्मि । ततोऽहं धिग्ब्राह्मण! कथमबलावाग्आडम्बरेण मद्अग्रतोऽपि बिभेषि ? मधुमङ्गलः महाशूर! घट्टीपालस्य तव गोवर्धने दानवर्तन्यां बहुशः शौर्यमनुभूतमस्ति । यत्तस्मिन् दिने एताभिरेव वृन्दावनकरनिमित्तं गान्धर्वानिदेशेन निजोत्तरीयपटाञ्चलेन बद्धा नीयमानमपि मां वीक्षमाण एव विलक्षस्त्वमासीः । अहमेव निजभूसुरत्वं विवृत्य भाग्येन कथञ्चिदुर्वारितोऽस्मि । इत्युक्त्वा भीतिमनुकृत्य पलायन्तमिव तं करे गृहीत्वा परावर्त्य मयोक्तं ललिते! तादृश्याः कोमलाबलाया अपि कथमहं करं दास्यामि ? प्रत्युत बलात् काममादास्य एव । इति निशम्य नेत्रभागेन मामीषदवलोकयन्ती राधा सुस्मिता आसीत् । नान्दीमुखी चित्रे! बाटिकाप्राघुण इत्यस्य कस्तावदभिप्रायः ? ललिता नान्दीमुखि! तज्जानत्यपि कथं पृच्छसि ? यत् सर्वकालीननिजवासग्राममहावनमपहाय वत्सरषट्सप्तकमात्रम् अत्रागतोऽस्ति । नान्दीमुखी प्रियजन्मभूमेस्त्यागेन किं तावत्कारणम् ? राधा औच्चैः तत्स्थानस्यास्वाच्छन्द्यात्जनताधिक्येन तद्ग्रामे नगर इव जाते अबलावधभाण्डस्फोटननवनीतहरणादिविविधविसदृशव्यवसायाभ् यासेन जनितबहुविधविकर्माभिलाषस्यासिद्धत्वात्निर्जनेऽस्मिन्महति घने वृन्दावने कुलाबलाकुलानां गेहदेह अधरदशनवसनानि स्वाच्छन्द्येनापहर्तुमधिकलालसैव । इत्येवं ललितया स्फुटं व्याहृते सस्मितं साकूतमाह ललिते! साम्प्रतमस्य तादृशव्यवसायो न दृश्यते । राधा पुनरनुच्चैः सत्यमेव कथ्यते । यदयं सम्प्रति स्वधर्मत्यागेन विसदृशसंस्कारेण च जनितान्यादृशबुद्धिकृतचौर्यादिदुष्कृतं ललिताचार्यया पूर्वमपि विहितनिष्कृतेन निर्वास्य, निर्वेदकृतविवेकेन तासामेव कृषिवृत्तम् एव निजधर्ममाचर्य प्रकामं शस्यान्युत्पाद्य ताभ्यः प्रदाय तत्स्वांशम् अपि स्वयमादाय ताः स्वात्मानमप्यानन्दयन्महाशुचिरिव विराजते । इत्येव स्फुटं विशाखापि सस्मितं भाषितवती । ततस्तन्निशम्य सर्वेषु हासकोलाहलमहोत्सवमाविष्कुर्वत्सु सकपटासूयं मयोक्तम् सखे सुबल! धूर्ताभिरिमाभिर्नर्मभङ्गीमिषेण मम वृन्दावनराज्याधिकारितैव दूरीक्रियमाणास्तीति समधिगतं भवता । सुबलः न केवलमधिकारितैव दूरीकृता किन्तु कर्षकोऽपि कृतोऽसि । वृन्दा सुबल! त्वं बहुश्रुतो विचक्षणस्तथानयोरपि परमस्निग्धः । तत् कथं नान्दीमुख्या सहानयोर्ः परमस्निग्धयोरपि राज्यहेतोर् विवदमानयोरुचितन्यायावलोकनेन विरोधं न दवयसि ? ततो भद्रं भद्रमिति मया ललितया चोक्ते सुबलः प्राह वयस्य! प्रथमं तावत्कथमासामेतद्राज्यं तल्ललितैव कथयतु । पश्चाद्भवानपि कथं वा भवद्राज्यं तज्ज्ञापयतु । ततोऽहं सुबल! यासां व्रजदेवकन्यानामज्ञानेनापि सङ्गमाचर्य जातव्यलीकोऽहं प्रायश्चित्तेन शुद्धोऽभवं स कथं ताभिः सममपि पुनर् वाकोवाकं विस्तरयामि ? वृन्दा महाशुद्ध! भवद्वाग्गन्धमात्रेणापि समुदितकलुषसञ्चया एता अपि श्रीवृन्दावनचक्रवर्तिन्या नूनमशेषविधिना श्यामलविषमशरसरोवरमहातीर्थे पुनः पुनः स्नपनेन शुद्दीकृता एव स्वनिकटमापिताः सन्ति तच्चीर्णनिष्कृतयोरुभयोः संवादे दोषो नास्ति । तल् ललिते! भवत्येव कथयतु । ललिता प्रथमं तावदस्मिन् वृन्दावनराज्येऽस्यालीकवादिनो धूर्तस्याधिपत्यं तावद्दूरेऽस्तु सम्बन्धलेशोऽपि नास्ति । नान्दीमुखी कथमिव ? ललिता स्वपैतृकराज्ये बृहद्वन एव कुलक्रमागतसन्ततवासित्वात् । नान्दीमुखी किमत्र प्रमाणम् ? ललिता भागवतादिपुराणवक्तृव्यासादिमुनीन्द्रवचनान्येव । सुबलः ललिते! मध्यस्थेन मया यथार्थमेव वक्तव्यम् । त्वन्मुखम् आलोक्य मिथ्या वक्तुं न शक्यते । तदस्य बृहद्वनराज्यत्वेनैव भवत्या वृन्दावनराज्याधिपत्यं किमायाति ? किन्तु तत्र चेत्महाप्रमाणमस्ति, तद् वद । ललिता प्रत्यक्षं परोक्षमपि बहुतरपुराणवचनकुलमस्ति । तत्रापि प्रत्यक्षपरोक्षयोः प्रत्यक्षमेव बलीय इत्यनुसारेण प्रत्यक्षमेव ग्राह्यम् । नान्दीमुखी किं तत्प्रत्यक्षं प्रमाणम् ? ललिता मया किं तद्वक्तव्यम् ? युष्माकमनुभूतमेव तत् । नान्दीमुखी न स्मर्यते । तत्प्रकाशय । ललिता ब्रह्मगृहिणीसावित्रीप्रभृतिदेव्य्आदिभिर् दुन्दुभिवादित्रादिकोलाहलपूर्वकं कृतोऽत्र महासिंहासने योउ रत्नाभिषेकः स च त्रिलोकीवासिषु कस्य वा परमानन्दप्रदायको न संवृत्तोऽस्ति । ततः सुबलः ललिते! एतत्तु तावदन्यथात्वेन निरूप्य प्रियवयस्यो युष्मानप्य् आत्मसात्कर्तुं विराजमानो वर्तते । ललिता सुबल! एतच्चेद्भवद्द्विपदगोपप्रियवयस्यः सत्यमेव वक्ति तर्हि वृन्दावनराज्ये ‘भिषिक्ताया महासिंहासनस्थाया इत्यादि तथैतस्याश् चरणानुजीविनो ममेत्यादि व्याहृत्य स्वाम्यसौ साम्प्रतमपि कथं तच् चरणपरिचरणमात्रैकलाभाय तन्मन्त्रराजमादातुम् आग्रहेणाध्यवस्यन्नस्तीत्यादि सर्वं किं भवादृग्भिर्विस्मृतम् ? नान्दीमुखी स्मित्वा ललिते! अस्य विलासिनो राजपुत्रस्य मदनमोदकभोजिनो महाकामुकस्य यत्प्रलपितं तत्किमत्र प्रमाणं स्यात्? अन्यच्चेद्गाढं प्रमाणं स्याद्दर्शय । वृन्दा यद्यत्प्रमाणमियं दर्शयति, तत्तदेवास्योन्मादिनो राजपुत्रस्य पक्षमाश्रित्य युवाभ्यां खण्ड्यते । अतोऽन्यत्सर्वत्र प्रसिद्धमपि प्रमाणं ललितातिकोपेन नोट्टङ्कयति । नान्दीमुखी वृन्दे! तत्त्वयैव तावत्कथ्यताम् । वृन्दा प्रेम्ना निजासाधारणसारूप्यदानपूर्वकमियं वृन्दाटवी प्रियसख्या स्वप्रियसखीत्वे नित्यं निरूपितास्तीति । नान्दीमुखी कीदृशं स्वारूप्यं तत्कथ्यताम् । वृन्दा श्रूयताम् तनोरस्या ज्योतिःपरिमलचरच्चम्पकलता वली विद्युद्वल्लीजयिकनकयूथीततिरपि । स्वरूपं सारूप्यं परमगमयद्वल्लवपुरे मुखस्यापि प्रोद्यद्रुचिरतरराजीवनिवहः ॥१॥ दृशोरीषद्घूर्णन्नवकुवलयानां समुदयस् तथा लीलास्तिर्यक्कमनगमनोन्मत्तहरिणः । लसद्बिम्बीवृन्दं वरविकचबन्धुकनिकरोऽप्य् असौसीधुस्यन्दिस्फुरिअद्अधरयुग्मस्य सुकृती ॥२॥ भुजाया वल्लर्यश्चलनललिताश्चञ्चुनिचयाः शुकानां नासायास्तिलकुसुमसख्या द्युतिभृतः । स्मितस्य प्रोन्मीलत्कुमुदनिकरो दन्तसुरुचेर् अलं गन्धैरन्धीकृतमधुकराः कुन्दकलिकाः ॥३॥ भ्रुवोर्भङ्गीभ्राम्यद्भ्रमरवरपङ्क्तिः परिमिता ललाटस्य स्फूर्जत्सुभगबकपुष्पातिसुषमा । अलं वेणेरुद्यन्मदशिखिशिखण्डावलिरसौ श्रुतेर्मुञ्जायुक्तिर्मदनधनुषो ज्याद्युतिमुषः ॥४॥ अलं बिल्वं तालं करकमुदयच्चारुकुचयोः स्फुरद्वक्षःस्थल्याः कनककृतसिंहासनगणाः । नितम्बस्यैतस्य स्फुर्तनवघण्टारवभृतः स्फुटं वंशध्वानाञ्चितगुरुगिरिस्फारविकटाः ॥५॥ वरोरुद्वन्द्वस्य स्मरकलिसमर्थस्य सरस प्रभारम्भास्तम्भाः स्थलकमलसङ्घाश्चरणयोः । सदोन्मादप्रोद्यद्गजगमनशिक्षागुरुगतेर् मरालीपालीनां ललितचलितोद्यच्चतुरता ॥६॥ अलं भ्राजज्जम्बूफलमलकपङ्क्तेः शतमितं मधौ मञ्जुध्वानाः पिकयुवकृताश्चारुभणितेः । प्रसन्नश्रीवक्त्रस्फुरितनयनप्रान्तनटन क्रमस्य स्मेरोद्यत्सरसिजनटत्खञ्जनगणः ॥७॥ स्फुरत्प्रेम्णा नेत्राञ्जनगलितपानीयविततेर् यमी चेतोगञ्गाजलममलचित्तस्य सततम् । घनस्वेदस्यन्दस्य च विविधकासारनिवहो महारागस्योच्चै रुचिरुचिरगुञ्जाफलकुलम् ॥८॥ सपत्नीनासानां सततमतितापं जनयतां सुहृच्छ्रेणीनासाप्रमदमनुबेलं रचयताम् । वपुःसौरभ्याणां परिमिलितसर्वव्रजभुवां निकामं काश्मीरव्रजकमलगर्भा वररुचः ॥९॥ सुमेरोः कान्तीनां मददमकदृप्यल्लवकण छटाया विद्युच्छ्रीरचितभजनायास्तनुरुचः । स्फुरद्भूमिभागाः कनकनिचिताः सद्मनिवहा गुहान्तःकुञ्जान्तर्गिरिकुलशिलाश्च क्वचिदपि ॥१०॥ ह्रदाः श्रीमन्नाभेस्तद्उपरिलसल्लोमलहरेर् भुजङ्गालीकाली बत वकरिपोर्वेपथूभृतः । वदान्यत्वादीनां सुरतरुगणानां रत्नखचिताः परं रोमाञ्चानां प्रियकगुरुकिञ्जल्कनिकरः ॥११॥ परे ये मुक्ताः स्युः स्थिरचरपदार्था व्रजभुवः सदा स्तव्या भव्यैस्त्रिजगति निकामं जनकुलैः । सद्अङ्गप्रत्यङ्गप्रकरसुषमायाः परमुमा रतिश्रीवर्ण्यायाः परिषदि यथा युक्तमपि ते ॥१२॥ रमेशस्वानन्दोच्छलितपरमव्योमपुरतोऽप्य् अजस्रं विस्फूर्जद्विपुलसुखदैकद्रुमलता । समस्तब्रह्माण्डे शशिवद्उदयत्प्रौढयशसस् ततः श्रीराधायाः प्रकटमटवीयं प्रियसखी ॥१३॥ ततोऽहं साटोपमवदम् व्रजेन्द्रस्वाराज्ये विजयियुवराजत्वविधिना समासिक्तः स्नेहस्तिमितमतिमित्रादिवलितः । निजामेतां रक्षाम्यटविमिह गोचारमिषतः कथं स्वारूप्येणैव तु भवतु वः साम्प्रतमियम् ॥१४॥ तच्छ्रुत्वा वृन्दा सखित्वं यो यस्य व्रजति निजसारूप्यमथवा न चेत्तस्य स्यान्नो भवति परमन्यस्य हि तदा । कथं नो गृह्णासि द्रुतगतिरिदं हन्त कथयन् स्वयं गत्वा लक्ष्मीं तदिनसमरूपं गणमपि ॥१५॥ तन्निशम्य साट्टहासं मधुमङ्गलः भो असत्यवादिनि वृन्दे! कुर्चिकालोभेन निजदेवीत्वमुत्सृज्य वन्दिनी भूत्वा, मिथ्यास्तवमात्रेणैवास्मद्वृन्दाटवीं निजसख्यां सञ्चारयितुं कथं शक्ष्यसि ? नान्दीमुखी ललिते! विज्ञप्राचीनमुनीश्वरवचनं विना कोऽपि निरस्तो न भविष्यति तस्मात्पुराणवचनमेव दर्शय । ललिता अस्य पक्षमाश्रित्य तादृग्भिरेवं चेत्कथ्यते तदा तत्र गत्वा भगवत्याः सकाशाद्बहूनि पुराणवचनानि श्रूयन्ताम् । सुबलः भवत्य एव पठन्तु । ललिता वल्लवजातीनां तत्रापि स्त्रीणामस्माकं पुराणवचनपाठेऽधिकार एव नास्ति । सुबलः वृन्देयं देवी । तदियमेव श्रावयतु । वृन्दा स्मृतिमभिनीय अत्र सुबहूनि वचनानि सन्ति । तानि कति पाठ्यानि किन्तु अन्येषु देशेषु अन्याः पृथक्पृथग्देवीरधिकरिणीरुक्त्वा राधा वृन्दावने वने इति सर्वोपमर्दकं पुराणवचनं भगवत्याः सकाशात्केन वा न श्रुतम् अस्ति । ततस्तासां जयाभिमानेन प्रफुल्लतामालोक्य मधुमङ्गलः साटोपमाह नान्दीमुखि! सर्वपुराणशिरसि महोपनिषदि गोपालतापन्यां वृन्दावनस्य कृष्णवनत्वेन प्रथितख्यात्या वृन्दावनराजधानीपुरन्दरत्वेन प्रियवयस्यं ब्रह्मभवादयोऽपि निरन्तरं गायन्तः सन्तीति के वा न जानन्ति ? ततः श्रुत्या स्मृतिर्बाध्यते इत्यस्माकमेवेदं राज्यं सुसिद्धम् । तत्सखे सुबल! विदावयामूरितः परराज्यकाङ्क्षिणीः । ततः सखे त्वमेव मे प्रियङ्करः प्रियवयस्य इति सानन्दं मधुमङ्गलम् आलिङ्गति मयि किञ्चिद्वैलक्ष्यमिव राधाधिष्ठितनिकुञ्जमालोक्य ललितादिमुखमालोकयन्त्यां नान्दीमुख्यां राधा स्मित्वा अनुच्चैः अहो कृष्णेति शब्दश्रवणमात्रत एवानेन महादूरदर्शिना तद्अर्थम् अबुद्ध्वैव परराज्येऽस्मिन् स्वतातमर्पयता किंशुककुसुमसादृश्येन दुर्विधबोधस्य रोलम्बस्य शुकतुण्डपानस्मरणं सुष्ठु समानीताः स्मः । ततस्तस्मिन्नेव वर्णविन्यासे सोल्लुण्ठं ललितयापि प्रकाशिते सति कृष्णवनशब्दस्यार्थान्तरं नूनमेषा घटयिष्यतीति तद्अभिप्रायं मनसि मनाक्विचारयति मयि नान्दीमुखी सचमत्कारं मां प्राह जयाकाङ्क्षिन्! एकं विज्ञापयितुमिच्छामि यदि तुभ्यं रोचते । ततोऽहं कामं कथ्यताम् । नान्दीमुखी श्यामवनसमासमाचर्य त्वया सह तत्समासेनैव न्यायम् आचर्य त्वां पराजित्य स्वराज्यमादातुं ललितेयमभिलषति । ततोऽहं विविधकुसुमचन्दनवर्णिकादिभिः शृङ्गाररचनाचार्येयम् । तदेव जानाति यदनया तद्वनपुष्पैर्मुहुः शृङ्गारितोऽस्मि । तद्व्याकरणस्य केयम् ? वृन्दा स्मित्वा व्याकरणविज्ञंमन्य! त्वत्तोऽपि मत्प्रियसखी ललिता तद्व्याकरणस्य प्रथिताचार्या । ललिता पामरि वृन्दे! अपेहि अपेहि । वृन्दा त्वत्पक्षमाश्रित्य विवदमानां मां किमित्याक्षिपसि ? ललिता भोः समासाचार्यशार्दूल! कथं स्वेप्सितापरसमासेन विभीषिकां प्रदर्श्य मत्प्रियसख्याः खेलास्पदकृष्णवनमिदमादातुं वृथैवाध्यवस्यसि । यतोऽत्र नित्यं वैश्वानरवज् जाज्ज्वल्यमानबहुव्रीहिकर्मधारयाद्य्अवधारणतः स्वयमेव दूराद् एवापसरिष्यसि । [समासाभिज्ञ कृष्णवनशब्दस्य नर्मच्छलेन तत्पुरुषसमासं विरचय्य परराज्यं ग्रहीतुं कथमभिलषसि । यदत्र कर्मधारयबहुव्रीहिसमासयोरेवावकाशः ।] ततो मयोक्तं चतुरंमन्ये! प्रकटेऽत्र तत्पुरुषसमासे कथं करमधारयादियोजना सम्भवति । भवतु भवतु दुर्जन इति न्यायेन तदेव तावत्कथय श्रोतव्यम् । राधा अनुच्चैः वनस्यास्य घनताप्राचर्येण कृष्णं श्यामं च तद्वनं चेति कर्मधारयः स्फुत एव । इत्येवं ललितयापि स्फुटं भाषिते चम्पकलता सश्लाघमाह ललिते! साधु साधु सत्यं सत्यं यतः कर्माणि अरिष्टकेश्यादिवधकालियदमनगोवर्धनोद्धरणनित्यरासादिलीला धारयति निष्पादयति प्रकाशयति वा इत्यस्य वनस्य कर्मधारयत्वं स्फुटम् एव प्रसिद्धम् । पुनर्ललिता राधानुच्चभाषितमेवानुवदति कृष्णानि क्वचिद्क्वचिदतिश्यामानि वनानि यत्र तत्कृष्णवनमिति वृन्दावनस्य विशेषणत्वेन बहुव्रीहिरपि । वृन्दा सत्यं सत्यं कालिन्दीतीररासस्थल्यामन्धकारिबटवनं, तथा गोवर्धनोपशल्यपररासस्थल्यामन्धकारिनिविडवनं सर्वानन्दकरं सुप्रसिद्धमेव । इन्दुलेखा ललिते! सत्यं सत्यं बहवो ब्रीहयो धान्यादिशस्यानि किं वा केदारिकाजातत्वान्मुक्ता एव ब्रीहयः । बहवो ब्रीहयो यस्मिन्नित्यस्य वनस्य बहुव्रीहत्वं स्फुटमेव । ततः सगर्वगर्भितं हसन्तीषु तासु मयोक्तं नानाकुटकल्पनानगरीचक्रवर्तिनि ललिते! मुखमत्र तत्पुरुषसमासं कल्पितकर्मधारयबहुव्रीहिभ्यां कथं दवयितुं शक्यसे । ललिता महापण्डित! तत्पुरुषस्तत्पुरुष इति बारं बारं जल्पसि । तत्पुरुषस् तावदनेकविधो भवति । तत्र कतमोऽयं स इति सुष्ठु निर्णीय कथ्यताम् । मयोक्तं जडबुद्धिके! कृष्णस्य वनं कृष्णवनमिति षष्ठीतत्पुरुषस् त्रिजगति सुप्रसिद्ध एव । राधा कृष्णस्य वनमिति चेत्तर्हि सखीस्थलीबटश्रेणिरेव पुरुषशार्दूलस्य तव वनम् । यतः षष्ठीतत्पुरुषोऽपि नित्यं तत्रैव वर्तते । अत्र षष्ठीसमासस्य सम्भावनापि न विद्यते इत्येवं विहस्य ललितयाप्युक्ते नान्दीमुखी ललिते! एष ते वाग्विन्यासो गर्भितसन्दर्भ इति लक्ष्यते तत् प्रकाश्य कथ्यताम् । ततो ललिता नेत्रान्तनीलोत्पलमालया मामकुर्वती स्मितगर्भितमाह नान्दीमुखि! षष्ठी काचिदेका । तस्याः पुरुषः पतिरेव जनो वा षष्ठीतत्पुरुषः । विशाखा सस्मितं ललिते! तत्पुरुषो ज्ञात एव । सा तावत्का ? ललिता चन्द्रावली । विशाखा चन्द्रावली कथं षष्ठी ? ललिता देवीगणमध्ये प्रथमः कंसगोपो गोवर्धनमल्लो महाभैरवः । द्वितीया तन्माता भारुण्डा चण्डी, तृतीया चन्द्रावलीमाता महीकराला चर्चिका । चतुर्थी शैव्या काली । पञ्चमी पद्मा शङ्खिनी प्रसिद्धा । षष्ठी सखीस्थलीबटवासिनी चन्द्रावली षष्ठी । यतो बटवनवासित्वात् तस्याः षष्ठीत्वं युक्तमेव । ततः सर्वेषां हासकोलाहलवृत्ते अहं स्वगतं अहो बुद्धेर्वरिष्ठता व्रजबालानां, यदहमपि वचनाटोपविलासैर्निर्वचनीकृतोऽस्मि । प्रकाशं सनिर्वेदमिवाहं नान्दीमुखि! अस्मद्दत्तभोगरागमसृणवसनादिभिः संवर्धिताभिर् अस्मद्दत्तमुक्तामणिप्रवालकमलरागमरकतवज्रादिखचितविविध भूषणभूषिताभिः साम्प्रतम् अभिनवयौवनमहाधनगर्वेणोज्झितगुरुलघुगणनोत्कराभिर् अस्मत्कृषकगुज्जरगज्जरीभिरप्येताभिर् हेलोल्लासितचञ्चलनयनप्रान्तनर्तनपूर्वकं साहङ्कृतिवचनाडम्बरविन्यासभरेण समस्तव्रजसाम्राज्यसार्वभौमस्य परमोद्दण्डकुमारोऽहमपि निरवधिविडम्ब्यमानोऽपि केवलं भगवतीचरणपरिजनमुख्यनान्दीमुखीमुखमालोक्य तथैकग्रामवासेनापकीर्तिभयेन च एतत्कृतं प्रतीपव्यवसितमपि एतावन्तं कालं दुःखदत्वेनापि न गणितवानस्मि । साम्प्रतं मम दोषो न देयः । अधुनैव निजनिजवक्षसि मसृणमेचकपटपरिवेष्टितमतिविचित्रितकार्तस्वरसम्पूटयुगपुटितम् अरुणद्वितीयाशशधरमुद्रामुद्रितं स्वस्वपरिवृढेरपि कदाप्य् अनालोकितचरं दुर्लभनवतारुण्यधनं महातीव्रनखभञैस्तथैव निरुपमदशनच्छदपद्मरागमहारत्नमपि दशनोद्धरसामन्तैरपि लुण्ठयित्वा एता वचनधनदरिद्रा विदधानोऽस्मि । इति साटोपं सहसोपसृत्य ताः सन्दिधीर्षौ मयि कुटिलभ्रूनर्तनवलितस्मितशवलितकटाक्षेण मद्अवलोकनपूर्वकमितस् ततो मनागपसर्पन्तीषु सर्वासु, सरोषमिव ललिता अये श्यामल रसपाननिरत! अपेहि अपेहि । एतां ते मत्ततारभटीं व्रजेश्वर्यै वर्णयितुं वयं चलिताः स्मः । सत्यभामा सचमत्कारं हसन्ती विनोदिन्! एकं प्रष्टुमिच्छामि । कृष्णः प्रिये! विज्ञापय । सत्यभामा राधास्वगतलपितावलिरेव ललितादिभिरपि कथमन्ववादि ? कृष्णः प्रिये! राधायाः कायव्यूहरूपा एव ललितादयस्तत्कथं नाधिगमिष्यन्ति ? सत्यभामा सुभग! राधाया नर्मोत्तरवर्णविन्यासः कथं वा भवन्मानससञ्चारी बभूव ? मधुमङ्गल सगद्गदं प्रियसखि सत्ये! परिमलमञ्जरीमञ्जुलमृगमदाविव परस्परसंपृक्तौ गान्धर्वागिरिधारिणौ तत्कथं न सञ्चरत्विति । इति तद्वचननिशमनमधुरपयःपानपरिवर्धितगान्धर्वाविरहोत्कट कटुगरलोद्भटविकटज्वालाजालजनिताभिः । पुनः पुनश् चाल्यमानहृदयमर्मनिमग्नार्धभग्नप्रतप्तलौहतिर्यग्अवशल्योज्जृ म्भितयातनाभरतोऽपि महातीव्रपीडावलीभिरभितोऽवन्तनिर्भरकातरो यदा बभूव तदैव तद्अवधानतः सञ्चरद्अपूर्वजाड्यमोहोन्मादादिप्रियसहचरसमुदयसहितसूद्दीप्तत मस्तम्भकम्पाद्य्अष्टसात्त्विकप्रियवयस्येषु बाढमहं पूर्वकमहं पूर्वकक्षेलनविधिना नर्मोच्छलितपरस्परविजयाय प्रगाढप्रागल्भ्यम् उपलभ्य युगपत्त्वरितमुपर्युपरि तमालिङ्गितुं सर्वतः सरभसम् आरभमानेषु रे रे विदग्धशिरोमणिंमन्याः! खेलनसमयमुत्तमं लब्धाः स्थ इत्युपालभ्य श्रीमत्प्रेमानिर्वचनीयपरिणामविशेषस्वरूपेण निरवद्यहृद्यसौहृद्याचिन्त्यमहिममहौषधरसातिवशीकृतसप्रियपर् इजनगणकृष्णैकसर्वस्वरूपेण समस्तातर्क्यमहामहाप्रभावबहुविधलीलादिशक्त्य्अपणचिन्तारत्नादि रत्नविञ्छोलीकमङ्गलाकरेण निरुपमविविधवैदग्ध्यचातुर्यसमयादिविज्ञत्वसुगन्धकुसुमोत्करान् इर्भरारामेण श्रीश्रीरसनामप्राणप्रियतमनर्मसखेन सभ्रूभङ्गं नयनघूर्णनलीलया विहितप्रतिषेधात्स्वयमपि च पश्चाद् अवधाय । भो भोः! अनाय्यमनाय्यमिति रसज्ञां दशनैः संदश्य लघु लघु ससङ्कोचं स्वपृष्टेन दूरमपसरत्सु तेषु ततोऽस्फुटबहिर्विकारनिकरः सम्भृतहृत्कम्पातिशयः स श्रीश्रीमान् यादवेन्द्रः स्वगतमिदं विललाप हा मत्प्राणकपोतवासबडभिप्रेमस्फुरन्माधुरीधारापारसरिद्वरे! गुणकलानर्मप्रहेलीखने! हा मन्नेत्रचकोरपोषकविब्धुज्योत्स्नातते राधिके! हा हा मद्दुरितेन केन निधिवत्प्राप्ता करात्त्वं च्युता ? ततः सत्यभामा यादवेन्द्र! श्रीमन्मुखारविन्दाद् गोकुलविलासमाधुरीमकरन्दं धयन्त्या अपि मम पिपासा परमुल्लालसीति । तत्कृपया तदेव पुनः पायय । कृष्णः प्रिये श्रूयताम् । ततो मधुमङ्गलेनोक्तं सखि ललिते! प्रियसखस्याहम् अलङ्घ्यवाक्यसचिवोऽस्मि । तदपूर्वं कमप्युत्कोचं मह्यं देहि । मया मौक्तिकमूल्येन वः साचिव्यं विधास्यते । विशाखा आर्य! किमप्यत्र नास्ति । सायं सक्रोशनार्थं तुभ्यं वराटिकाचतुष्टयमवश्यं देयम् । यदि प्रतीतिर्न क्रियते त्वया नान्दीमुखी प्रतिभूर्गृह्यताम् । मधुमङ्गलः सक्रोधं अवद्यभाषिणि आभीरिके! तिष्ठ तिष्ठ । एषोऽहं सद्य एव तवैतत् प्रायश्चित्तं कारयन्नसि इति निगद्य मां प्रत्युवाच प्रियवयस्य! भवन्मृदुलवचनद्रुतघृतधारया संवर्धितगर्ववैश्वानराभिरमूभिः सुष्ठु भवन्तमुपालभ्य मामपि बद्धा नेतुं व्यवसीयते । ततोऽहं सखे! सत्यं सत्यं यथा विना राजधानीजयेन तद्देशाः सुष्ठु वशा न भवन्ति । तथैतद्यूथेशा पराभवमन्तरेण तदीयाः कथममूरमूका न भवन्तु । इति निगद्य राधासनाथं कुञ्जं पश्यन् सनिर्वेदं पुनरवदं किं कर्तव्यं सा किलैतद्भयेनैव मत्सान्निध्यं नासादितवती इति निशम्य द्रुतमुद्ग्रीविकावलोकनात्सङ्कुचन्ती राधा कुञ्जमध्ये निविष्टः बभूव । सत्यभामा ततस्ततः ? कृष्णः ततोऽहं नान्दीमुखि! ललितादीनां तारुण्यधनादपि तस्यास् तारुण्यधनं प्रचुरतरममूल्यमपीति ज्ञायताम् । नान्दीमुखी कथमिव ? मयोक्तं यत आसां तावत्सम्पूटद्वयपरिमितं तत्तस्यास्तु महामतङ्गजकुम्भतोऽपि निस्तलत्वेनोन्नतत्वेन परिणाहेन च प्रवीणतरे हृन्मध्यस्थे गोकुलप्रसिद्धतस्करभीत्येव मृगमदपङ्कादिलेपेन वर्णान्तरमापिते हिरण्मयकुम्भयुगले परिपूर्णं तत् । नान्दीमुखी मोहन! अतिसुगुप्तमेतद्धनं कदापि भवद्दृष्टचरं वृत्तमस्ति । ततोऽहं सस्मितं नान्दीमुखि! विद्युच्चमत्कृतिमिव सकृदीक्षितमस्ति । नान्दीमुखी कदा ? मयोक्तं एकस्मिन्नवसरे निजसरोवरस्नानादुत्तीर्य निजमधुराङ्गतश् चीनांशुकेन रहसि तया निःसार्यमाणे पयसि सुमनोहरणाय दैवात् तत्रैवागतेन मया मनागेवावलोकितं तत्ततः सा सभयमिव सहसैव श्यामलशाटिकाञ्चलेनावृतवती । सम्प्रति मद्भाग्यवशाद्यदि कुत्रापि यौवनधनगर्विता सास्मद्राज्याभिलाषिणी मच्चक्षुषोरपरोक्षीभवेत्तदा नखदशनभटसामन्तानन्तरेणापि छायाद्वितीयेन मया करकमलयुगेनैव तत्कुम्भद्वयमालोड्य तारुण्यधनान्य आत्मसात्कृत्य साध्वसलब्धकम्पपुलकायां तस्यां यूथनाथायां निर्वचनीकृतायां तद्अमात्यघटेयं महावैकुल्येन स्वस्वतारुण्यधनं गृहीत्वा पलायितुम् अपि सुष्ठुस्थानमपि नाप्स्यति किं वा तद्धनसमर्पणपूर्वकं शुद्धभावेन मामेव परिचरिष्यति । तदतिक्षुद्राभिराभिः स्वमहिमोन्नाहग्लानिकारिणा वाकोवाकेन किम् ? ततः किञ्चित्स्मित्वा नान्दीमुखीं प्रति राधा अनुच्चैः प्राह अयि चपलब्रह्मचारिणि! अपेहि अपेहि । विशाखा अहो उड्डीय चलितुमशक्यस्य बिम्बीमात्रैकभोजिनो बुभुक्षितस्य लोलुभशुकस्य मनसि दुर्लभमधुरद्राक्षाभक्षणमेतत् । मधुमङ्गलः प्रियवयस्य! मद्अभीष्टपारितोषिकं देहि ध्रुवम् अधुनैव भवद्राज्याभिलाषिणीं राधां तां भवत्करगतां विधास्ये । ततोऽहम् सायं मिष्टान्नभोजनं दास्ये । मधुमङ्गलः माथुरराजपार्श्वे फुत्कृत्य तद्अश्वारूढानां शतमानीय पृष्ठदेशे चर्मरज्ज्वा कफोणिद्वयबन्धपूर्वकं कशाभिस्तत्पतिर् अभिमन्युस् तथा ताडयितव्यः यथा स एव तामानीय ददाति । ततः सर्वे स्मययन्ति स्म । ललिता विशाखे! कमपि महाभागमुद्दिश्य यत्किञ्चिन्निवेदयामि तत्शृणु । विशाखा कथ्यताम् । ततः कदम्बभूरुहाग्रमभिवीक्ष्य ललिता भो वृन्दावनचरतपस्विवर! त्वं तावत्फलाहारी ख्यातस्तत्स्वमर्याधामुल्लङ्घ्य भवद्अयोग्यपरमदुर्लभसाध्वीहृदयङ्गममहाधने लालसाम् उद्वहन् कथं कलुषितो भवन्नसि ? विशाखा ललिते! बुभुक्षितोऽयं तपस्वी फलमनालभ्य एतदयोग्यमपि कर्तुं प्रवृत्तोऽस्ति । तदुत्तमफलमस्मै समुद्दिश्यताम् । तथापि धर्मवृद्धिर् भविष्यति । ललिता स्मितमपवर्य विशाखे! किमसौ मानसजाह्नवीं न जानाति ? विशाखा सर्वत्र भ्रमणशीलोऽयमतिप्रसिद्धां तां कथं न ज्ञास्यति ? ललिता तद्वायव्यतीरे सर्वतश्चला काचिदपूर्वपद्मा स्फुटमेका वल्लरी वर्तते । तस्या मध्यभागे परममनोहरमह्रस्वं तुम्बीफलद्वन्द्वं तथाग्रे च अक्षीणमकटुबिम्बीफलयुगलमस्ति । (१९९) विशाखा गोस्वामिन्! त्वरितमेव तत्र गत्वा त्वयोग्यतद्अनुत्तमफलोपभोगेन साध्वीधनलोभमपहाय स्वधर्मं पालयता भवता परमसुखिना भूयताम् । ततः सर्वासु हसन्तीषु मयोक्तं ललिते! तपस्यसावयाचितवृत्तिः करपात्री भक्षणे निषिद्धं तुम्बीफलं नोपभुङ्क्ते । किन्तु अत्रैव निर्भरनिजप्रद्योतभरेण या दृश्यमानापि न दृश्यते । तस्याः काञ्चनवल्ल्याः क्रोडे मधुररसमयश्रीफलद्वन्द्वं यद्विद्योतते तत्स्वयमेव सैवागत्य प्रणयपूर्वकं मधुरवचनेनैनं निमन्त्र्यास्य करो यदि परिवेशयति, तदा तद्उपभोगेन सुखी भवन्नसौ तथाशिषयति यथा तत्फलोन्नतिर्महती स्यात् । ततस्तन्निशम्य राधा अनुच्चैः नर्मलम्पटोऽयं धूर्तः । शङ्के वैदग्ध्येनात्रत्यां मद्अवस्थितिमवधार्य मामेव कदर्थयितुमिमां वचनभङ्गीं वितनोति । तदितः कुञ्जान्तरमासाद्य स्वगोपनमेव नूनम् उचितम् । इति मनसि भावयन्त्यां तस्यां पुनर्मयोक्तं प्रियसखि ललिते! अयं वृन्दावनचारी महाविनोदी क्षुण्णयूथेशां त्वां पट्टराज्ञीं विधाय त्वया सहैकसिंहास उपविश्य विशाखाप्रभृतिवृन्दावनचरीणां लास्यविलासम् आलोकयित्य्मभिलषति तदाज्ञाप्यतामेता नृत्यन्तु । ललिता सक्रोधं नान्दीमुखि! अस्मन्मुक्ताकेदारिकाकरपरिवर्तनेन किम् अस्य विदूषकस्य नर्मधनमेव दापयितुं वयमत्र व्याघोट्यानीताः स्मः ? तदेतां नर्मादिगतिक्रियामपहाय यथासौ सुबलेन सह यथार्थं लेखम् आचर्य केदारिकाकरं ददाति तथा विधायास्मान् द्रुतं गृहाय प्रस्थापय । नान्दीमुखी भवतीनां कियान् करः संमतः स्यात्तत्तावत्कथय । ललिता श्यामाकादिक्षेत्रकरतो धान्यस्याधिकः करो लगति । ततोऽपि कार्पासस्य । ततोऽपि वास्तुभूमेः प्रचुरतरः । अपूर्वामूल्यमुक्ताकेदारस्य ततोऽपि परार्धगुणः । तद्अलौकिकमुक्ताकेदारिकामिमां धर्मशास्त्रोक्तवृन्दावनराज्यविहितालौकिकमानदण्डेन परिमाय लेखं विधाय च सुबल एव कथयतु । नान्दीमुखी कियत्प्रमाणं स खलु मानदण्डः ? ललिता मया कथ्यमानः स खलु केन प्रतीयताम् । तदेतत्क्षेत्रपालिकया सर्वशास्त्राभिज्ञया वृन्दयैव स निरूपयितव्यः । नान्दीमुखी भद्रं वृन्दे! मध्यस्थया त्वयैव मुक्तामानदण्डः कृत्वा दीयताम् । वृन्दा देवी वास्तुधान्यादिकङ्क्वादिकार्पासमौक्तिकक्षमाः । मीयन्तेऽङ्गुष्ठमारभ्य क्रमादङ्गुलिपञ्चकैः ॥ इति । अन्यत्र च अपूर्वमुक्ताक्षेत्राणामनर्घ्यकरतो बुधैः । अनामिकाङ्गुलिप्रायो मानदण्डः प्रकीर्तितः ॥ इति । नान्दीमुखी क्षुरप्रमात्रखानितभूमेर् अनायासेनैवानर्घशस्योत्पादकत्वात्कनिष्ठैव । नान्दीमुखी ललिते! यद्यपि तदेव युक्तं भवति तथापि व्रजेन्द्रकुमारमुखमालोक्य भगवतीपरिचारिकां मां च दृष्ट्वा अनामिकैव स्थाप्यताम् । ललिता वृन्दे! त्वं तावल्लेखक्रियायां मानविषये च निपुण्यासि तत्सर्वाभिः सम्भूय गत्वा नान्दीमुखीसुबलसंमतिपूर्वकं केदारिकां परिमीयागम्यताम् । नान्दीमुखी क्षुण्णयूथेश्वरि! एकं प्रार्थयितुमिच्छामि । ललिता कामं कथ्यतां योग्यं चेत्कर्तव्यम् । नान्दीमुखी अयं तावत्स्वदेशं विहायात्रागतो नवीनप्राघुनः तत्रापि वृन्दावनराज्ञीमाश्रितोऽस्ति इहापि बह्व्आयासेनोज्जटभूमिं कृष्ट्वा वः प्रकामधनलाभं वर्धयन्नस्ति । तस्मान्माने कृते भवतीनां भोगरागादिव्ययेन बहुहान्या पुनः कृषिकरणो विमनस्क इव भविष्यति । कृतेऽपि माने करं दातुमपि न शक्यते । अतो मानकरणं विहाय निजभागम् आदाय तत्समुचितांशमपि प्रदायास्य प्रकाममुत्साहं विवर्धयन्तु भवत्यः । वृन्दा कीदृशं स भागः ? नान्दीमुखी त्वया किं न ज्ञायते ? यदस्य परमोज्ज्वलक्षेत्रस्य समान एव द्वयोर्भागः । तथायं परग्रामादागत्य कृषिवृत्तिं कुर्वन्नास्ते । रङ्गणमाला अनुच्चैः असौ परग्रामवासी भौमिको न स्यात् । साम्प्रतं एतस्मिन् वने वासमाचर्य श्रीवृन्दावनेशाकृषिमाचरन्नस्ति । तदस्य षष्ठो भाग एव प्राप्तव्यो भवति । कथं समानं लभताम् ? विशाखा अयि मुग्धे! भागनिर्णयचालनया किमस्माकं यतो मानपूर्वकं सर्वदा करदानं कर्तुमेव महाराज्ञीनामाज्ञालेखः समागतोऽस्ति तत् कथमस्माभिः स्वातन्त्र्येणैवं कर्तुं शक्यते ? ततो ललिताविशाखयोर्मुखमवलोक्य स्वकर्णावतंसं नान्दीमुख्यै नेत्रकूणनेन वृन्दा दर्शितवती । ततोऽल्पं स्मित्वा नान्दीमुखी किञ्चिदुपसृत्य वृन्दया सह उत्कोचदानकथन्मुद्राभिनयेन तयोरीषदिङ्गितम् एवाधिगम्य मद्अन्तिकमागत्य सानुच्चभाषं मोहन! वृन्दावनराज्ञ्याः सर्वाध्यक्षसचिवे खलु ललिताविशाखे । तदनयोः परमोत्तममुत्कोचं कम् अपि देहि । तदैव तवाभिमतमेव द्रुतं सम्पादयितव्यमेताभ्याम् । तदाहं सानन्दं सखि नान्दीमुखि! यथा अन्या न जानन्ति तथा इमे एव निर्जनकुञ्जे मत्समीपमानीयेतां यथा एतदभीष्टमुत्कोचं दत्त्वा प्रीणयामि । नान्दीमुखी सुन्दर! एताः खल्वनयोरभिन्ना एव तदसङ्कोचं प्रकटम् अत्रैव देहि । ततोऽहं स्वाभिमतार्थलाभेन विना पूर्वमेव कथं दातव्यम् । यदि मय्य् अप्रतीतिः स्यात्तर्हि त्वय्येव स्थापयामि । नान्दीमुखी सशिरश्चालनं नहि नहि । ततोऽहं आं ब्रह्मचारिण्यास्तु विषयस्पर्शे कालूष्यमिति चेत्तदा मत्प्रतीतिपात्र्यां साध्वीप्रवरायां रङ्गणमालिकायामेव तदर्पयामि । नान्दीमुखी रसिकशेखर! प्रथमं तावत्श्रावय किं वा कियद्वा दातव्यम् । तेन तावतैव वानयोः सन्तोषो भवेन्न वेति निर्धारयामः । तदा मयोक्तं भवतु । श्रूयताम् । वृन्दावनराजस्य मम वनपालनम् अपहाय धनलोभेन मद्राज्ञीं राधिकामनुसृतेयं वृन्दा । तत्प्रथमम् उत्कोचदानेन कायस्थामेनामात्मनो वशां विदधामि । नान्दीमुखी भद्रमेतत् । ततोऽहं चरमशर्वर्यां परमाकल्पकल्पनाचार्यया गाढानुरागविह्वलया गान्धर्व्या येन मद्वक्षोगगनमाकल्पितं तेनैव निरवद्यार्धचन्द्रपदकराजेन स्वहस्तेनैनां भूषयामि । ततः कौस्तुभाद् अप्यधिकदेदीप्यमानेनातुलतत्सहोदरमच्चुम्बकमणिना यद् गान्धर्वया प्रगुणपरस्परप्रणयोद्धुरकेलिकौतुकेन बकुलराजतले परिवर्तितमपूर्वरससमुद्रसंलोडनात् समुद्भूतघनीभूततत्सारांशरूपं मन्मणितोऽप्यनर्घ्यं स्वचुम्बकमहारत्नं तत्तद्अद्वैतदयितमपि ललितायै दास्यामि । यथास्फुटमसौ तेन स्वकर्णाभ्यर्णमलंकरोमि । ततः पुनः पुनर्विशाखावदनमीषदवलोक्याहं सस्मितमवदम् अनुक्षणपरमानुरागभरेण स्वकराभ्यां सुष्ठु विरचय्य स्वकुण्डकुडङ्गाङ्गने एतत्प्रियसखी गान्धर्वा सुवैदग्ध्येन य्¸अं मह्यमर्पितवती । तयैव विचित्राङ्कमालया मद्धृदयाकाशविशाखां विशाखामप्यलङ्कृत्य परितोषयामि । तच्छ्रुत्वा अलीकराजेन्द्र! तिष्ठ तिष्ठेति व्याहरन्ती राधा मनसैव लीलाकमलेन तां ताडयति स्म । ललिता पद्माधररसाहिफेनाशनप्रमत्त! अपेहि अपेहि! विशाखा आर्य विदूषकप्रवर मधुमङ्गल! भवद्वयस्यः किं भवतोऽपि गुरुः किं वा तस्य भवान् गुरुरित्यवगन्तुं सर्वाः समभिलषन्ति । ललिता विशाखे! श्रूयताम् । कपटनाटकस्य यः कुसुमशरनामा नटस्तस्य सुप्रसिद्धो यः शुचिनामा विदूषकस्तेनायं धूर्तः शिष्यत्वेन कृपयानुगृहीतोऽस्ति । मधुमङ्गलस्तु भिन्नसम्प्रदायिभोजनलम्पटनाम्नो विदूषकाचार्यस्य प्रथीयान् शिष्यः । विशाखा ललिते! तदेनं ब्राह्मणं मिष्टान्नं भोजयितुमिच्छामि । ललिता विशाखे! असौ कर्मसूचकः परमानुचानो महाब्राह्मणः । तत्कथम् अस्माकं ब्राह्मणेतरगोपजातीनां राद्धमन्नमश्नातु । विशाखा परमोत्तमद्विजाभ्यां मल्लीभृङ्गाभ्यां स्वहस्तेनान्नं संस्कृत्य परमादरेण यथासौ भोज्यते तथैव सम्पादनीयम् । ततस्तच्छ्रुत्वा क्रोधेन कम्पमान इव मधुमङ्गलः प्राह अये अवद्यवादिनि गर्विताभीरिके! एतद् दुःश्रवणनर्मोत्कटकटुलवणदिग्धदग्धार्धपर्युषितवाग्गोधूम् अरोटिकाः संभोज्य मम मधुरकर्णावेव सुष्ठु कटूकृतौ, किं पुनर् मुखविवरम् । तद्विदूषकगोपवधूनां युष्माकं छायानिकटभूमिम् अपि कदापि न स्पृशामि । किन्तु प्रातरेवास्मज्जातियाज्ञिकवधूवर्गम् उपसर्पिष्यामि । ततस्तेन परमादरेण मच्चरणक्षालनपूर्वकं कौशेयदुकूले परिधाप्य सकर्पूरवासितोपलापानकमधुरपरमान्नससैन्धवार्द्रकलिम्पाकना नाविधव्यञ्जनवेष्टितसघृतसुगन्धिशाल्यन्नफानितशष्कुलीकुण्डलिक् आलड्डुकघनावर्तितदुग्धरसालासशर्करबद्धदधिविविधबटकोत्त ममरीचादिभिस्तथाहं भोजयिष्ये । यथा वर्त्मनि सुच्छायतरुमूलेषु स्वपन् स्वगृहमागत्य सङ्गवावधि स्वपन्नेव तिष्ठामि । ततस्तच्छ्रवणेन हासकोलाहले वृत्ते मयोक्तं नान्दीमुखि! क्षुद्रगामिनैर् एव स्वस्वग्रामसीमार्थं मध्यस्थमालम्ब्य न्यायः क्रियते । राजानस्तु राज्यं स्वदोर्दण्डबलेनैव लभन्ते । तदेतद्राज्यहेतोर्न्यायेन किम् ? मया सहैताः समरमाचरन्तु । तत्र यस्य जयो भवेत्तस्यैव राज्यं स्फुटं सेत्स्यति । इत्युक्त्वा तद्अर्थमिव साटोपं किञ्चिदुपसर्पति मयि तासु च इतस्ततः सभयसहेलनमपसर्पन्तीषु नान्दीमुखी वीर! सम्प्रत्यस्मत्समक्षम् एतासामुज्ज्वलकुलविलसितबल्लववधूनां धर्षणमेतद्भवतः परम् असाम्प्रतमेव । इत्यवधारयन्नारादेव तिष्ठेति मामाभाष्य ललितां प्रत्युवाच ललिते । साम्प्रतमस्य वनवीरस्य निर्जनवनेऽस्मिन् प्रगल्भतामहती भवतीनां तु शिरीषकुसुममृदुलानि शरीराणि, तद्देशकालबलादिकं वीक्ष्य विवादं त्यज । तच्छ्रुत्वा चन्द्रमुखी भो मुग्धाः! नान्दीमुखी सत्यं कथयति । तच् छृणुध्वम् । वयमबलाः कोमलाङ्ग्यः । अयं तु निर्जनवनपुरुषोऽतिचपलः । यस्या दर्शनादेवायं साध्वसेन विह्वलो भवति । साप्यस्मच्चक्रवर्तिनी नान्तिकवर्तिनी । सुदुर्मुखाभिमन्युप्रभृतिवाहिनीपतयोऽपि सम्प्रत्य् एतद्वृत्तानभिज्ञा दूरे वर्तन्ते । तद्भयानकदेशेऽस्मिन्नात्ममध्ये द्वन्द्वे पतिते सर्वतः सर्वे लुण्टाकदुष्टगमकाः समुत्थाय समस्तमौक्तिकानि विलुण्ठ्य नेष्यन्ति । तदास्माकमेव महती हानिर्भविष्यति । अस्य तु षष्ठांश एव ततोऽल्पहानिः । तद्यदि सर्वाभ्यो रोचते तर्हि वयं सौम्या इव भवत्यः सम्प्रति राज्यवार्तामपहाय समुचितादप्यधिकमूल्येन मौक्तिकान्यादाय अस्य चिल्लातकस्य स्पर्शमात्रेणैव जनिष्यमाणदुष्कीर्तिभरादात्मानमपि संरक्ष्य स्वगृहमासादयामः । पश्चादेतद्वृत्तान्तश्रवणादेव वृन्दावनमहाराज्ञी तन्मुक्ताप्रदानेन द्रुतमेव गुरुप्रभृतीन् सन्तोष्य महारागेणातिवेगेन स्वयमत्रागत्य दूरत एव कटकाटोपमवष्टभ्य स्वयं समरमकुर्वाणा चञ्चलनयनाञ्चलप्रवणया नीततीक्ष्णाधारविषमशरास्त्रसंवर्धितभ्रूकुटिधनुर्धरसुमुख कञ्जभीषणाभिमन्युप्रभृतिवाहिनीपतिद्वारैव तथा विग्रहभङ्गीम् आटोपयिष्यति । यथायं वनमध्य एव वीरंमन्यस्त्वरितमेव साध्वसेन कम्पमानः सन् बृंहितहाहेतिकमलरागमणिप्रकरखचितचारुचाटुचिन्तारननिकरर चितमञ्जुलमालां निजकण्ठादुत्तार्योपढौकितीकृत्य तच्चरणपरिसरं शरणमुपगच्छन्नेतत्समुदितगद्गदगदितखरद्युतिलवेन तत्कालद्रुतचित्तनवनीतया तया कारुण्येन प्रसादीकृतेनैव तद्यावकारुणमणिद्रवेणाभिनवशिखण्डावतंसं शोणमिव रचयन्न् एतद्राज्यं तद्उत्पन्ननिखिलमौक्तिकादिकमपि समर्प्य स्वयमपि ताम् एवानुचरिष्यति । तच्छ्रवणेन सानन्दोल्लाससस्मितं राधाकुञ्जं तिर्यगवलोकयति मयि नान्दीमुखी स्मित्वा गोकुलप्रवीर! त्वद्अनुरूपविषमशरसमरप्रवीणया वृन्दावनचक्रवर्तिन्या सममेव भवत्समरपरिपाटी परं शोभते । एताः पुनरतीव कोमलास्तद्अभ्यर्णमन्तरेण त्वया सह तादृशविग्रहविलासं कथमाचरन्तु तदलीकविरोधं परित्यज्य साम्प्रतमन्यासामपि मौक्तिकम् अमूल्यं निर्णीयतां पश्चाद्भगवत्येव राज्यन्यायं विचारयिष्यति । ततस्तासां साकूतवचनमवधार्यैव गर्वितगोप्यो जिता जिता इति वदन् स्वमुखे वाममुष्टिं भेरीकृत्य वादयन्मधुमङ्गलः सानन्दं भाण्डवमातनोति । वृन्दा भो नटप्रवर मधुमङ्गल! अस्मच्चक्रवर्तिन्यामत्रायातायामपि तद्आह्लादनार्थमात्मप्रियसखस्य हाहेतिढक्कावाद्येन शिक्षावैशिष्ट्येन षट्पदो भवनुड्डीयोड्डीय भ्रमरिकामाददानः स्फुटमितो रङ्गादस्माद् अधिकमुद्दण्डः ताण्डवयन्ननेन द्विपदगोपेन सार्धं सुगहनं नन्दीश्वरगोष्ठमाप्स्यसि । तदानीं तद्अवलोकनाद्वयमपि चक्षुःसाफल्यमुत्स्फारयिष्यामः । ततोऽहं विहस्य नान्दीमुखि! सेयं चन्द्रमुखी सामञ्जस्यरता ललितादिवद् द्वन्द्वपातिनी न भवति । अतो विना मूल्येनाप्यस्यै सन्तुष्टेन मया मौक्तिकानि देयानि । किन्त्वियं मन्त्रविदां मूर्धन्या ततः श्वः परश्वो वा परमशुचिः सती रहः स्थानमागत्य स्नानादिना परमशुचये कान्तदर्पाभिधाचार्यनिरुक्तमन्त्रपटलं मह्यमुपदिशतु । यथेह वृन्दावने गोपेनैव मया सुराधिकाश्रीद्रुतमेव लभ्यते । ततश्चन्द्रमुखी कुटिलं मामवलोकयन्त्याह अहो मामपि हितोपदेशिनीं कृतानभिज्ञस्त्वं कदर्थयितुमुद्यतोऽसि ? नाहं तव मन्त्राभिज्ञा तन्मन्त्रचतुरा काञ्चनलतैराचार्या क्रियतां भवता । ततोऽहं काञ्चनलते! भवद्वैदग्ध्यावलोकनेन मन्मनोभ्रमरस्त्वयि प्रकाममनुरज्यन्नतीवोत्कण्ठते तत्परमसुन्दरताराधिका भवद्उपकण्ठवर्तिनी मञ्जुलतरैकावलिरेका सस्मितमालोकयन्तीनामासां समक्षमेव परमोत्कण्ठिते मद्उरसि स्नेहभरेण स्वयमेव त्वया यद्य् अधीयते तर्हि मूल्यमन्तरेणापि भवद्अभीष्टमौक्तिकान्यवश्यं वितरिष्यामि । अपि च मत्परिष्वङ्गललितरत्नहारत्रयेण भवत्कण्ठमध्यनाभिप्रदेशानलं प्रसाधयिष्यामीति तामनुसरति मयि सा मां तिर्यग्अवलोकयन्ती हुं कुर्वती किञ्चिचपससार । राधा च सस्मितं कुर्वती आत्मनि शङ्कामाधाय सम्भ्रममवाप । ततो विशाखा तर्जन्य्अङ्गुष्ठछोटिकया नान्दीमुखीमभिमुखीकृत्य नेत्रकूणनेन रङ्गणमालिकातुलसिके दर्शितवती । नान्दीमुखी विहस्य मोहन! इमे राधिकाप्रियचरणतत्परे तद्अतीवप्रिये रङ्गणमालिकातुलसिके तां विनाक्षणमपि कुत्राप्यवस्थातुं न शक्नुवतस्तद् अनयोर्मुक्तामूल्यं निर्णीय तूर्णमेते तद्अन्तिके प्रस्थापय । ततोऽहं सान्तरानन्दं विहस्य नान्दीमुखि! तुलस्या अदृष्टचरचञ्चलनयनाञ्चलावलोकलवमरिक्चक्षोदमिश्रितसुस्मितनव घनसारलवपरिमिलिताश्रुतचरनवनवभाषितमकरन्दपायनेन विह्वलीकृतमिव मां स्नेहविह्वला रङ्गणमालिका मद्उरसि निजकुचकुट्मलाभ्यामवष्टभ्य मज्जीवातुरूपस्वाधरपीयूषपायनेन द्रुतं सन्धुक्षयत्विति । ततः सर्वासु हसन्तीष्ववनतमुख्यौ ते विशाखापृष्ठलग्ने बभूवतुः । नान्दीमुखी मुक्ताफलवाणिज्यविलासिन्! यूथेशयोरपि राधाविशाखयोर् मौक्तिकमूल्यनिर्णये यन्मनो न धत्से । तत्र किं कारणम् ? ततोऽहं सा यूथेशा मत्सविधमागत्य चेत्स्वयं निर्णयति । तदैव निर्णयनीयम् । तद्अगोचरे केन निर्णीयताम् ? नान्दीमुखी वीर! मूल्यं तावत्प्रकाशय । यथा तच्छ्रवणेन तन्मूल्यद्रव्याणां समाहृतिस्तया क्रियते । मयोक्तं राधाविशाखयोरद्वैताद्द्वयोरपि मद्अतीवप्रिययोर्यत्किञ्चिन् मूल्यं कथ्यते तच्छ्रूयताम् । मत्पृष्ठमञ्जुलतरतमालसंवलितमसृणतर दक्षिणसव्यभुजास्वर्णलतयोर्गान्धर्विकाविशाखयोर् ललितनतांसनिहितविलासोल्लसितपरिमिलितसुप्रचण्डदोर्दण्डयुगलस्य सुरभिकुसुमकुलपरिवासितवनविहारमाधुरीमनुसृतस्य परस्परम् अविषमनिरुपमप्रेमकलापावलोकनकौतुकेन मम गण्डरङ्गस्थले तन्मधुरवदनसुधाकरप्रवीणनटप्रवरौ युगपत्पृथग्वा मृदु मृदु ताण्डवं समुल्लासयन्तौ मद्आनन्दकन्दं कन्दलयताम् । किं च, राधाकुण्डतटीकुडुङ्गभवनाङ्गने भ्रमद्भ्रमरझङ्कृतिपरिमिलितसुरभिकुसुमवृन्दस्यन्दमानमकर् अन्दमञ्जुलबकुलतलामलकनकवेदिकायां मञ्जुलमल्लिकुसुमदलकुलकल्पितप्रशस्तसुकुमारतल्पोपरि स्वर्ण यूथिकाकुसुमकृतचन्द्रोपधाने वामकफोणिमवष्टभ्य सङ्कुचितजानुद्वयं सुखोपविष्टस्य मन्मनोमधुपाश्रयवासन्त्या विशाखया स्वर्णसम्पुटस्थितकुङ्कुमरसं किञ्चित्श्लथमिवालोकयन्त्या स्वसख्यप्रणयमधून्मादेन निस्तलनिजवक्षोजयुगलाद् आकृष्टदरकठिनीभूतसुरभिकुङ्कुमपङ्कमिलनादीषद्घनीकृत्य तेन मृदु मृदु रूषिते मम पुलकितवक्षसि मत्प्राणपञ्जरशारिका राधिका कदाचित्स्वस्य कदाचित्विशाखायाः कुचसम्पुटविकृष्टनवमृगमदद्रवेण सरोमाञ्चं चम्पककलिकाग्रेण वल्लरिमकराङ्कुरपत्राणि प्रगुणाकल्पकल्पनया कल्पयन्ती निर्भरपरस्परासमानोर्ध्वसौहार्दसौरभ्यभरेण चमत्कृतिवलितमद्देहमनोवाक्यानि परं परिवासयत्विति । अतो राधाविशाखे सस्नेहं युगपत्सुपुलकपरस्परचातुरक्षिकवीक्षणेन लज्जिते बभूवतुः । विशाखा ललिते! लम्पटतानाट्ये तल्लम्पटनटाभ्याम् असम्भवमनोरथनामनाटकस्य विधीयमानाभिनयवीक्षणाय निर्जनवनरङ्गेऽस्मिन् यथार्थनाम्नी नान्दीमुखीयं मौक्तिकप्रदाननिमित्तकवितथावाक्प्रस्तुत्यास्मान् सभासदः कर्तुं संरक्ष्य प्रकारेण विडम्बयितुमुद्युक्तास्ति । तदत्र रङ्गे यस्या रङ्गो विद्यते सा किल कुलवती साध्वी स्फुटमस्य चतुःषष्ठीकलाविदग्धस्य नटस्य लास्यमत्रोपविश्य पश्यन्ती भद्रेण कुलद्वयमुत्कीर्तयतु अहं तु गृहं गच्छामि । ततो नान्दीमुखी सखि विशाखे! अस्य नर्मकर्मठशीलस्य दुर्लीलस्य वचनविलासमात्रेणैव कथं निर्विद्य खिद्यसे ? क्षणं तिष्ठ । निःसन्देहम् अधुनैव मुक्ता दापयिष्यन्त्यस्मि इति तामाभास्य निवर्त्य च मत्सविधम् आसाद्य मां प्राह दुर्लील गोपयुवराज! भवद्विसदृशनर्मालापश्रवणेन विशाखादयो मद्उपरि शश्वत्खिद्यन्ते । तत्कृपया सम्प्रति नर्मकर्मपञ्जिकाप्रपञ्चं संरक्ष्य क्रयविक्रयपञ्जिकामुद्घाट्य द्रविणादिमूल्येन मुक्ताः प्रदाय ध्रुवममूर् भवत्स्निग्धगान्धर्वाचमूस्त्वरितमनुरञ्जय । ततोऽहं नान्दीमुखि! यद्यपि राधा मयि काठिन्यमेव सन्ततमातनोति, तथापि सहजस्निग्धस्य मम मनस्तु तन्नाममात्रश्रवणादेव नाङ्गम् एव समस्तं द्रुतमनुसन्धत्ते तदानु तत्सहचरीषु काठिन्येन किम् ? ततो दिनद्वयाभ्यन्तरे यावन्निर्णीतमूल्यमुपस्थापयन्ति । तावदेव तत्सुवर्णालङ्कारणादिरौप्यादिरसादिप्रियगवादिकं धनं मयि स्थाप्यतया मयि संरक्ष्य एतद्अनुरूपकियन्मौक्तिकानि गृह्णन्तु । इत्याभाष्य पुनः क्षणं मौनेन विमृश्याह नान्दीमुखि! सन्ततदयितगोचारणलीलया वने वने भ्रमता मयैतत्सर्वं कुत्र रक्षितव्यम् । प्रतीतिपात्रमपि कोऽपि न दृश्यते । रक्षिते च पररमणीद्रव्ये लज्जापकीर्तितो महद्भयं लभ्यते । तत्सत्यमुच्यते प्रस्तुतमूल्यं विना एतत् किमपि न सम्पद्यत एव । नान्दीमुखी मोहन! एतदपूर्वमूल्यं कुत्रापि न दृष्टं न वा श्रुतमस्ति । ततोऽहं विदग्धे नान्दीमुखि! ईदृशमेतद्भूमिजातापूर्वमौक्तिकं त्वया ब्रह्माण्डे कुत्रापि दृष्टचरं श्रुतचरं वा अस्ति ? तद्अपूर्वपदार्थस्य मूल्यमप्यपूर्वम् । तत्रापि न वयं मुक्ताव्यापारिणः किन्तु केवलं भगवतीपादानामादेशेन भवद्आग्रहेण चात्र प्रवर्तिताः स्मः । तस्माच्चेद् इच्छा स्यात्तर्हि मिथो निर्धारितमूल्यं प्रस्तुतं दत्त्वा परमचतुरा एता मौक्तिकानि गृह्णन्तु । नो चेद्गृहं गच्छन्तु । पश्य मध्याह्नप्रायो दिवसो जातस्तद्वयमपि गोधनसम्भालनाय गोवर्धनं गच्छामः । ततो नान्दीमुखी सनिर्वेदमिव ललितान्तिकमुपेत्य अनुच्चैः सखि ललिते! सखि विशाखे! भोः सर्वाः प्रियसख्यः! ततः अद्भुततपस्विनि! तिष्ठ तिष्ठ इति नान्दीमुखीमाक्षिप्य मां प्रति ललिता स्मित्वा धीरललित युवराज! ततः परमानन्दसन्दोहेन मया विचित्य विचित्य परमोत्तममौक्तिकसङ्चयैः स्वहस्तेन विचित्रशिल्पकल्पनया राधाङ्गप्रत्यङ्गाभरणानि विरचय्य सुवर्णसम्पुटे निधाय तन्नाममुद्रया चिह्नितीकृत्य ललिताविशाखादिसखीमण्डलीनां च भूषणानि तथैव निर्माय पृथक्पृथक् सम्पुटे न्यस्य तत्तन्नाममुद्रया चिह्नितीकृत्य तथैवाग्रथितान्यप्य् उत्तममौक्तिकानि बहूनि च नान्दीमुख्या सह मधुमङ्गलसुबलतत्कालागतोज्ज्वलवसन्तकोकिलादिहस्तेन राधाकुण्डनिकुञ्जमन्दिरे प्रहितानि । राधया स्मितललितललिताविशाखादिसखीभिः समं स्मितशवलितहर्षेणादाय सादरमधुरप्रचुरतरपक्वान्नताम्बूलवीटिकाभिर्मधुमङ्गलं प्रणयरूपगन्धचन्दनैर्वरताम्बूलैश्च सुबलादिकं च सन्तोष्य तद्धस्तेन स्वहस्तसम्पादितसुरभिसुकुमारारुणकुसुमविचित्रितकाञ्चनयूथिकाम् आल्यकर्पूरवासितताम्बूलोपढौकनेन निर्भरमानन्दितोऽहं प्रणयाधिक्येन तन्माल्यभूषितस्तत्ताम्बूलमुपयुञ्जानः सखीभिः सह गोसम्भालनाय गोवर्धनमागतः । ततश्च स्वर्णसम्पुटं समुध्घाट्य ललिता तद्अलङ्करणेन सानन्दम् आनन्दितां राधां प्रसाधयामास । तदनु ललिताविशाखादयः सख्योऽपि परस्परं तत्तत्सम्पुटाभरणेनात्मानं भूषयामासुः । ततस्ताः स्वस्वगृहे गत्वा तत्प्रचुरतराद्भुतमौक्तिकप्रदानेन स्वस्वपतिं स्वस्वगुरूंश्च परं सन्तोष्य पुनर्गान्धर्वासरस्तीरगान्धर्वास्थानीमवाप्य मिथो मन्मधुरमधुरनर्मवार्ताविनोदेन सुखं विजह्रुः । सत्या गोकुलविलासाराममत्तकोकिल! ततस्ततः ? कृष्णः प्रिये! श्रुतं श्रोतव्यम् । तदलं तद्अतिवार्तयेति ब्रुवन्नेव तन्मधुररहस्यकेलिवृत्तान्तोद्घाटनवैकुल्यातिशयेनाधैर्यं मत्कण्ठस्य सुवर्णबन्धुरमणिव्रातोल्लसन्मालिका मच्छब्दग्रहयोरलं परिलसत्स्वर्णावतंसद्वयी । मत्कायस्य सुगन्धिकुङ्कुमलसच्चर्चा परा सा कदा हाहा यास्यति दृक्पथं मम पुनः पुण्यैरगण्यैरिह ॥ इति क्षणं मौनमालम्ब्य पुनः सौत्सुक्यं मद्वक्षःस्थलचम्पकावलिरियं मन्नेत्रपद्मद्वयी सौधासिक्तिरियं मद्एकविलसत्सर्वाङ्गलक्ष्मीरियम् । मत्प्राणोरुविहङ्गवल्लरिरियं मत्कामितश्रीरियं मज्जीवातुरियं मया पुनरहो हा हा कदा लप्स्यते ॥ इति विलपन् साश्रुधारस्तल्लीलास्मरणविह्वलं भूमौ निपत्य सशब्दं रुदन्तं मधुमङ्गलमालिङ्ग्य तदनु प्राणवल्लभे! त्वमेव जीवातुरूपा राधासीति सकम्पं सगद्गदं लपन् तां सत्यां परिष्वज्य मुहुर्मुहुर् दीर्घमुष्णं च उच्चैर्निशसन्नासीत् । सत्यभामा च सम्भ्रमेण साश्रुरोमाञ्चा निजशाटिकाञ्चलेन तं वीजयन्ती तूष्णीमासीत् । इत्यखिलवृत्तान्तं पौर्णमासीशिष्या समञ्जसामुखादाकर्ण्य सरोमाञ्चं सकौतुकं सव्यथं लक्ष्मणा प्राह सखि समञ्जसे! ततस्ततः ? समञ्जसा ततः प्रथममतिसम्भ्रमेण क्षणं तूष्णीं स्थित्वा तदनु प्राणनाथ! निखिलव्रजजनैकजीवन! जय जय धैर्यमवलम्बस्व धैर्यम् अवलम्बस्व । समाश्वासीहि समाश्वासीहीति वैयग्र्यविशङ्कटध्वनिं भाषमाणया मुहुर्मुहुर्विजनेन मृदु मृदु मधुराङ्गमार्जनेन गोकुलगमनार्थप्रार्थनादिभिरेव निजजीवितनाथं शनैः शनैः सन्धुक्षितीकृत्य निजानन्तसुखसुधासिन्धून्निजानन्तप्राणपरस्परामपि तृणवद्ध्रुवमनपेक्ष्य सदा चिकीर्षितनिजपरमाभीष्टतत्सुखाभासलवलेशया तच्चरणपङ्कजैकगत्या सत्यया तदानीमेव सखीद्वारा तत्रानीतश्रीमद्उद्धवमन्त्रिराजसन्निरूपिते समागामिनि परश्वोऽहनि मधुरदध्यन्नादिभोजनानन्तरं गुरुदिनसितदशमीधनिष्ठाभशुभयोगसम्भावितविविधगुणाभिरा जिताभिजिन्नामसन्मुहूर्तवरे सर्वतो नैर्विघ्न्येन झटिति समस्तप्रशस्तशस्तोत्पादनपुरःसरगोकुलपुरप्रवेशसम्पादयित्रीं परममङ्गलकुलोज्ज्वलितयात्रां विधाय सविनयनिर्बन्धेन पूज्यचरणश्रीमद्अग्रजमहानुभावं गोकुलगमनार्थमत्युत्कण्ठितयम् अपि द्वारकापुराभिभावनार्थमभिसंरक्ष्य तत्रभवती श्रीभगवतीपादपद्मान् पुरो निधाय सार्धमुद्धवरोहिणीश्वरीभ्यां सकलमङ्गलालिङ्गितो मधुमङ्गलालङ्कृतः श्रीश्रीमद्व्रजनवयुवराजस् तत्क्षणादेव द्रुतमितश्चलित्वा श्रीमता नन्दीघोषरथेन श्रीगोकुलोपशल्यमासाद्य प्रमदसम्भृतचिन्ताभिलषितनिजाभिलषितनिजाभीरशृङ्गारनिकरेणातिभ्र् आजमानः सन् श्रीमति निजव्रजपुरे शुभप्रवेशमवश्यं करिष्यतीति सुदृढं सर्वसम्मत्या निर्णीतमस्तीति तत्परिवेशितमधुरसमाचारसुधासारमानन्दासारसम्प्लुता श्रवणचषकैः समाचम्य परमसौभाग्यवतीशिरोमणिमञ्जरीसत्यभामासमकक्षपट्टमहिषी सकलसल्लक्षणगुणलक्षोज्ज्वलितलक्ष्मणा सौत्सुक्यं साललाप सखि समञ्जसे! एतन्मधुररसवार्ताश्रवणादतीव उत्कण्ठिताहं श्रीयादवेन्द्रेण सार्धं गोष्ठेन्द्रगोष्ठमवाप्य राधासख्यपुष्पसौरभ्येनात्मानं वासयितुमभिलषामि । समञ्जसा सखि तथैव सर्वथा भवतु भवत्या इति । आददानस्तृणं दन्तैरिदं याचे पुनः पुनः । श्रीमद्रूपपदाम्भोजधूलिः स्यां जन्मजन्मनि ॥१॥ यस्याज्ञासुधया प्रबोधितधिया मुक्ताचरित्रैर्मया गुच्छः पुष्पभरैर्व्यधायि य इह श्रीरूपसंशिक्षया । जीवाख्यस्य मद्एकजीविततनोस्तस्यैव दृक्षट्पदी घ्राणैस्तं परिभूषितं न तनुतां तत्केलिशीधूत्कधीः ॥२॥ मुक्ताचरित्रपुष्पौघैर्गुच्छं गुम्फितमद्भुतम् । वतंसतु मत्स्नेहात्श्रीमद्रूपगणो रहः ॥३॥ यस्य सङ्गबलतोऽद्भुता मया मौक्तिकोत्तमकथा प्रचारिता । तस्य कृष्णकविभूपतेर्व्रजे सङ्गतिर्भवतु मे भवे भवे ॥४॥