अथ प्रथमोऽध्यायः सर्वलोकेश्वरो विष्णुः सृष्ट्याद्यष्टकृदीश्वरः । यथा ससर्ज निखिलं तन्मे ब्रूहि जगद्गुरो ॥ १,१.१ ॥ श्रीहंस उवाच नारायणोऽनन्तशक्तिः पूर्णानन्दोऽक्षरः स्वराट् । ज्ञनानन्दात्मकानन्ततनुरासीदिति श्रुतिः ॥ १,१.२ ॥ तस्य स्वतन्त्रस्य हरेः साकल्येन महात्मनः । स्वरूपं नैव जानन्ति रमाब्रह्मादयोपि तु ॥ १,१.३ ॥ तथापि ते प्रवक्ष्यामि यथा जानासि तत्वतः । पूर्णकामस्य तस्यास्य सृष्ट्याद्यैर्न प्रयोजनम् ॥ १,१.४ ॥ स्वभावस्तादृशस्तस्य तदर्थं तत्करोत्यजः । स एव भगवानात्मा चराचरनियामकः ॥ १,१.५ ॥ अण्डमावरणान् सर्वान् प्राकृतान् पुरुषोत्तमः । सङ्कर्षणो नृसिंहेन रूपेणाग्रसदीश्वरः ॥ १,१.६ ॥ ततः सर्वान् पूर्वकल्पमुक्तान् बद्धांश्च चेतनान् । स्वोदरे स्थाप्य भगवान् स्वप्रकाशोऽस्वपत्सुखी ॥ १,१.७ ॥ दशावरणसंयुक्तब्रम्हाण्डस्य स्तिथौ मितिः । यावत्प्रदेशस्तत्तुल्यरूपा श्रीरुदरूपिणी ॥ १,१.८ ॥ तावद्रूपवती भूमिः वटपत्राभवत्पुरा । दुर्गा तावत्परिमिता अन्धकारस्वरूपिणी ॥ १,१.९ ॥ तदा रमाविना कश्चिन्नान्यदासीद्बहिस्थले । शून्यनाम्नः शिशोर्गर्भे सर्वे जीवास्तदावसन् ॥ १,१.१० ॥ तदूर्ध्वकुक्षिगा मुक्ताः प्रभवन्ति महालये । मुक्तियोग्या मध्यकुक्षौ नित्यबद्धास्तु नभितः ॥ १,१.११ ॥ अधोसुराः कटितटे प्राप्तदुःखास्तदूर्ध्वगाः । वसन्ति कॢप्तानन्दस्ते मुक्ता भुञ्जन्ति नेतराः ॥ १,१.१२ ॥ प्राप्तव्यान् प्रलयेनैव तेषां दास्यति माधवः । हित्वा प्राप्तव्यमानन्दं कॢप्तानन्दैकभोजिनाम् ॥ १,१.१३ ॥ वैकुण्ठादि विहारञ्च हित्वा गर्भस्थितिर्हरेः । प्रलये सर्वमुक्तानां नाश इत्युच्यतेब्जज ॥ १,१.१४ ॥ सुखदुःखादि भोगार्हाः इच्छाज्ञानस्वरूपिणः । द्वेषधर्माधर्मयत्ननिरता जीवराशयः ॥ १,१.१५ ॥ लिङ्गबद्धाः समस्ताश्च सृष्टौ जीवाश्चरन्ति हि । साम्यावस्थामुपगताः लिङ्गदेह समन्विताः ॥ १,१.१६ ॥ लये वसन्तीशगर्भे पूर्वशक्तिस्तदानहि । तदासर्वे गाढनिद्रामुपगच्छन्ति तादृशाः ॥ १,१.१७ ॥ लय इत्युच्यते सद्भिः न लयोस्ति स्वरूपतः । सर्वजीवस्वरूपस्थाः ज्ञानव्यञनशक्तयः ॥ १,१.१८ ॥ मनोवृत्तिज्ञानदानशक्तिर्याश्रुतेर्मता । लयेजीवाद्यभावेन सा शक्तिः कुण्ठिता भवेत् ॥ १,१.१९ ॥ व्याप्तेश्वरमतिस्थानां श्रुतीनां तादृशो लयः । अण्डादिजडजीवानां व्योमाव्याकृतसंज्ञकम् ॥ १,१.२० ॥ आश्रयं सृष्टिकालेतत्प्रलये कुण्ठितं भवेत् । देशस्याव्याकृतस्यास्य नाश इत्युच्यते लये ॥ १,१.२१ ॥ समस्त लिङ्गदेहानां तत्तत्कर्मानुसारतः । नानायोनि प्रापिकास्ति शक्तिः सृष्टौ लये न तु ॥ १,१.२२ ॥ सुखदुःखप्रदाशक्तिः समस्तकृतकर्मणाम् । सृष्टौ लये न सा विष्णोराज्ञया कुण्ठिता भवेत् ॥ १,१.२३ ॥ तादृशो हि लयस्तस्य न स्वरूपलयस्मृतः । वर्णेषु सर्वभाषाभिव्यञ्जका शक्तिरिष्यते ॥ १,१.२४ ॥ सृष्टौ न सास्ति प्रलये तेषां नाशो हि तादृशः । तमः स्थानां पूर्वकॢप्तदुःखभोगो लयः स्मृतः ॥ १,१.२५ ॥ प्रकृत्यात्मकलिङ्गस्य जडायाः प्रकृतेस्तथा । सूक्ष्माणां स्थूलकत्वानां त्रिगुणस्यापि कृत्स्नशः ॥ १,१.२६ ॥ स्रष्टृत्वशक्तिः सृष्टौ हि न लये स्यत्ततो लयः । हित्वा जगत्सर्जनाद्यं सर्वदा श्रीपतौ रतिः ॥ १,१.२७ ॥ अतिसामीप्यसेवा हि लयो लक्ष्म्याः प्रकीर्तितः । अनित्यस्याचेतनस्य अण्डान्तर्बहिरेव वा ॥ १,१.२८ ॥ क्रमात्सङ्कर्षणाग्नेस्तु दाहो नाश उदहृतः । देशतः कालतो व्याप्ता वर्णासर्वेपि शाश्वताः ॥ १,१.२९ ॥ जडा च प्रकृतिर्नित्या जडरूपाणुरेव च । देशतः कालतो व्याप्ताचिद्रूपाः श्रीहरेःःसदा ॥ १,१.३० ॥ अनन्तगुणतो नीचा गुणतोऽनन्तरिश्वरे । लये समाश्रिताःसर्वे वसन्ति क्षीणशक्तयः ॥ १,१.३१ ॥ सम्पूर्णशक्ते भगवत्यनन्ते देशकालतः । परमाणुमितानन्तानन्तरूपः सदा हरिः ॥ १,१.३२ ॥ तदभिन्नानन्तसूक्ष्मस्थूलरूपो हरिः परः । समस्तजीवरूपोरुसूक्ष्मस्थूलस्वरूपकः ॥ १,१.३३ ॥ समस्तजडरूपानन्तानन्तरूपो जगद्गुरुः । अनन्तानन्तरपैरप्यभिन्नो निर्गुणो हरिः ॥ १,१.३४ ॥ सर्वतः पाणिपादात्मा सर्वतोऽक्षिशिरोमुखः । सर्वत्र सर्वेन्द्रियावान् सर्वमावृत्य तिष्ठति ॥ १,१.३५ ॥ अप्राकृतेन्द्रियानन्तरूपकः परमाद्भुतः । असङ्गः सर्वविच्चैव निर्गुणो गुणपूरितः ॥ १,१.३६ ॥ बहिरन्तश्च भूतानामचरश्चर एव च । अव्यक्तोव्यक्तरूपश्च साधुःसत्साक्षिगोचरः ॥ १,१.३७ ॥ एकोप्यनेकवद्भाति नित्यसत्यो महासुखः । अनन्तवेदगम्यश्च सृष्ट्याद्यष्टकृदीश्वरः ॥ १,१.३८ ॥ स्वतन्त्रोवर्णनीयोरुरुपानन्तस्तु चित्तनुः । स्वानन्तानन्तचिन्मात्रदेहमध्यैकदेशगः ॥ १,१.३९ ॥ योगनिद्रामुपगतो विनिद्रोऽस्वपदीश्वरः । अण्डस्यावरणस्योपचयं दग्ध्वा लये हरिः ॥ १,१.४० ॥ उपादानं प्रकृत्यैकीभूतं कृत्वा नृकेसरी । अनिरुद्धादि मुखगं सङ्कर्षण नृसिंहतः ॥ १,१.४१ ॥ सर्वसूक्ष्मशरीरोपचयं दग्ध्वाखिलेश्वरः । तदुपादानभूतानि लिङ्गैरेकीकरोत्यजः ॥ १,१.४२ ॥ तदास्तरणरूपाभूः श्रीर्भार्यारूपिणी परा । दुर्गा प्रावरणाकारा हरेरमिततेजसः ॥ १,१.४३ ॥ स्वानेव सुगुणान् भुञ्जनसुप्ताभूत्सुसुप्तवत् । मुक्ताभुक्तोदरो विष्णुः अनन्तानन्तभानुरुक् ॥ १,१.४४ ॥ स्वप्रकाशोस्वपद्योगनिद्रयावटपत्रगः । सृष्टिकाले सर्वजीवाः नानादुःखसमाकुलाः ॥ १,१.४५ ॥ भ्रमन्ति सर्वजीवानां तत्तच्छ्रमनिवृत्तये । लये स्वापं प्रापयति लिङ्गबद्धान् स्वदेहगान् ॥ १,१.४६ ॥ अनादियोग्ताकर्मभावाज्ञानाकुलान् बहून् । सृज्यान् विलक्षणान् तारतम्यस्थान् त्रिविधात्मकान् ॥ १,१.४७ ॥ स्वल्पनिद्रान्महानिद्रान् गढनिद्रासमन्वितान् । चिन्मात्रानन्दभुङ्मुक्तान् सदा दुःखभुजोऽसुरान् ॥ १,१.४८ ॥ तमःसंस्थान् सदा बद्धान् जठरे स्थाप्य केशवः । वटपत्रे स्वपद्देवो निद्रामाचरतीव सः ॥ १,१.४९ ॥ तेषु सृज्यान् स्वयं सृष्ट्वा यथायोग्यफलं विभुः । सुखं मिश्रं तथा दुःखं दातुमैच्छल्लयान्तिमे ॥ १,१.५० ॥ लयास्यष्टमो भागो लयान्तिम उदाहृतः । लये समालिङ्य हरिं विनिद्रा परमेश्वरी ॥ १,१.५१ ॥ निद्रिते वा सदानन्दवारिधिं समुपाश्रिता । लयष्टमांशे श्रीदेवी अस्वतन्त्रा स्वतन्त्रतः ॥ १,१.५२ ॥ प्रबुद्धाचाज्ञया विष्णोः स्तोतुं समुपचक्रमे । देशतः कालतोऽनन्ता गुणानन्त्यविवर्जिता ॥ १,१.५३ ॥ ब्रह्मवाय्वोः कोटिगुणैः अधिका विष्णुवल्लभा । लये सृष्टौ सर्वनित्यपदार्थेष्वभिमानिनी ॥ १,१.५४ ॥ सृष्ट्याद्यष्टकरी विष्णोः आज्ञयानन्तरूपिणी । छायेव सूक्ष्मस्थूलोरु रूपं विष्णुं समाश्रिता ॥ १,१.५५ ॥ विष्णोरनन्तवेदेषु प्रोक्तान्तदधिकानपि । गुणान्संजानती साक्षात्सर्ववेदाभिमानिनी ॥ १,१.५६ ॥ अवर्णणीयसौन्दर्या सर्वजीवाभिमानिनी । शुभ्रेषु मुक्तियोग्येषु शुभ्रा (मुक्ता) श्रीरभिमानिनी ॥ १,१.५७ ॥ रक्तेषु सर्वबद्धेषु रक्ताभूरभिमानिनी । नीलेष्वयोग्यजीवेषु नीला दुर्गाभिमानिनी ॥ १,१.५८ ॥ प्रकृति प्रकृतौ साम्यवैषम्यादि प्रवर्तका । अछिन्ना भगवद्भक्ता जडेषु जडरूपिणी ॥ १,१.५९ ॥ चित्सुचिद्रूपिणी स्त्रीषु स्त्रीचेष्टादि प्रवर्तका । पुरुषाकृतिरुत्कृष्टा पुंभावपरिवर्जिता ॥ १,१.६० ॥ अव्यक्ततत्कार्यमय देहशून्या तथाविधा । स्वयं श्रीः विष्णुभावज्ञा वेदैस्तुष्टाव वेदवित् ॥ १,१.६१ ॥ ते वेदाः ऋग्यजुःसामाथर्वणाः श्रीहरेर्वशाः । चत्वारोपि पृथग्जात्या अनन्ता दोषवर्जिताः ॥ १,१.६२ ॥ उदात्तादि स्वरार्थादि वर्णक्रमसमागमाः । विसर्गबिन्दुपूर्वोरुशब्दयोग्यगुणोच्चयैः ॥ १,१.६३ ॥ अनन्तकालमरभ्यरिषद्वेत्यासवर्जिताः । सांशा समस्तदेशेषु व्याप्ताः शुद्धजडाः सदा ॥ १,१.६४ ॥ गुणाख्यानपरा विष्णोः शब्ददोषविवर्जिताः । ज्ञतज्ञापकता तेषु विपरीतार्थवक्तृता ॥ १,१.६५ ॥ अस्पष्टत्वादयस्तेषु वाददोषानसन्त्यलम् । ध्वनिरूपा सृष्टिकाले वाक्स्था वाग्देवतावशाः ॥ १,१.६६ ॥ लये लक्ष्मीवशाः सृष्टौ ब्रह्माद्यैरभिमानिभिः । रक्षिताः प्रलये सृष्टावेकरूपा भवन्ति हि ॥ १,१.६७ ॥ अनन्तानन्तसंख्याताः विष्णोः ज्ञाने च साधकाः । सर्वदेशगतानन्ता कण्ठस्थास्तस्य शार्ङ्गिणः ॥ १,१.६८ ॥ कण्ठेनोद्गीयमनास्ते जीवानां योग्यतावशात् । तत्तत्स्वरूपविज्ञानव्यञ्जकाः श्रीहरीच्छया ॥ १,१.६९ ॥ वृत्तिज्ञानोत्पादशौण्डाः अ(योग्या)थाज्ञानाममबोधकाः । शब्दरूपाःसाक्षियुक्तमनः श्रोत्रैकगोचराः ॥ १,१.७० ॥ सर्वशब्दात्मकहरेः बिम्बस्य प्रतिबिम्बकाः । शब्दरूपा वेदगता दुर्गा सानन्तरूपिणी ॥ १,१.७१ ॥ पुरुषोद्बोधितुं ज्ञात्वा तुष्टाव पुरुषं परम् । अनन्तात्मानन्तशक्तिः ओं(आ)कारादि श्रुतिव्रजान् ॥ १,१.७२ ॥ नित्यान् सव्यञ्जयन् तेषां सृष्टौ दुर्गामुपादिशत् । प्रलयस्याष्टमे भागे वेदस्रष्टुर्जगत्पतेः ॥ १,१.७३ ॥ ओं(अ)कारः प्रथमो व्यक्तो बभूव भगवन्मयः । औमानादबिन्दू च घोषशान्तातिशान्तकाः ॥ १,१.७४ ॥ यत्स्वरूपाश्च विश्वाद्याः यद्वाच्या यद्गताः पराः । ओङ्कारवाच्यः पुरुषः पुत्रास्ते नित्यचिन्मयाः ॥ १,१.७५ ॥ ते विश्वतैजसप्राज्ञतुर्यात्मान्तरात्मनाम् । परमात्मज्ञानात्मकानां रूपाणां वाचका हरेः ॥ १,१.७६ ॥ तारप्रणवशब्दाभ्यां वाच्य ओङ्काररिरितः । नारायणाष्टाक्षराख्यः तरगर्भाक्षरैरभूत् ॥ १,१.७७ ॥ अभिव्यक्तोथ विश्वादिर्व्यक्तविश्वादयोखिलाः । नारायणमनोर्वाच्याः देवताः परिकीर्तिताः ॥ १,१.७८ ॥ तारगर्भाक्षरैराद्यैश्चतुर्भिरभवन्मनुः । व्याहृत्याख्योऽनिरुद्धाद्याः विश्वाद्युत्था तदीरिताः ॥ १,१.७९ ॥ तारगर्भाक्षरैर्व्यक्ताः वर्णाः पञ्चाशदीरिताः । अकौचटौतपौ तद्वद्यशौ अष्टा उदाहृताः ॥ १,१.८० ॥ अष्टवर्णाः अकारोत्थाः अचः षोडशसंमताः । पञ्चवर्णाः कवर्गस्य उकारोत्थाः प्रकीर्तिताः ॥ १,१.८१ ॥ मकारोत्थाश्चवर्गस्य पञ्चवर्णाः प्रकीर्तिताः । टवर्गपञ्चवर्णास्तु नादोत्था इति संमताः ॥ १,१.८२ ॥ पञ्चवर्णास्तवर्गस्य बिन्दुव्यक्ता उदाहृताः । पवर्गपञ्चवर्णास्तु घोषतः सम्भवन्ति हि ॥ १,१.८३ ॥ यवर्गस्य चतुर्वर्णाः व्यक्तिं यास्यन्ति शान्तितः । अतिशान्ताच्छवर्गस्य पञ्चवर्णाःसमुत्थिताः ॥ १,१.८४ ॥ कषयोगादभिव्यक्तः क्षोप्यन्योक्षर उच्यते । पञ्चाशतान्तुवर्णानां तारवर्णाष्ट दैवतैः ॥ १,१.८५ ॥ विश्वादिभिः क्रमाद्व्यक्ताः अजाद्या देवतामताः । अज आनन्द इन्द्रेश उग्र ऊर्ज ऋतम्भरः ॥ १,१.८६ ॥ ॠघःॢशौ लॄजिरेकात्मैर ओजोभृदौरसः । अन्तोर्धगर्भः कपिलः खपतिर्गरुडासनः ॥ १,१.८७ ॥ घर्मोङ्गसारश्चार्वङ्गश्छन्दोगम्यो जनार्दनः । झडितारिञमष्टङ्की ठलको डरको ढरी ॥ १,१.८८ ॥ णात्मातारस्थपोदण्डी धन्वी नम्यः परः फली । बलिर्भगोमनुर्यज्ञो रामो लक्षीपतिर्वरः ॥ १,१.८९ ॥ शान्तसंवित्षड्गुणश्च सारात्मा हंसलालुकौ । अकाराद्यैःसर्ववर्णैर्वाच्या एते प्रकीर्तिताः ॥ १,१.९० ॥ क्षवाच्यो नृसिंहस्तु सर्वजीवनियामकः । एकपञ्चाशद्वर्णात्मा मतृकामन्त्ररिरितः ॥ १,१.९१ ॥ नारायणाष्टवर्णाश्च चतुर्व्याहृतिभिः क्रमात् । वासुदेवद्वादशार्णमन्त्रोभून्महदात्मकः ॥ १,१.९२ ॥ केशवाद्याः द्वादशैव तन्मन्त्राक्षर देवताः । त्रिवारं विष्णुनैवोक्तान्मन्त्रान्नारायणादभूत् ॥ १,१.९३ ॥ गयत्री ब्रह्मःृषिका द्विगुणाद्वादशाक्षरात् । केशवाद्याश्चतुर्विंशत्गायत्रीवर्णदेवताः ॥ १,१.९४ ॥ गायत्र्याः पौरुषं सूक्तं सूक्तान्मन्त्रास्तु वैष्णवाः । पुंसूक्तप्रतिपाद्यस्तु पुरुषो हरिरीरितः ॥ १,१.९५ ॥ विष्णुमन्त्रोदितो विष्णुः सर्वात्मा परिकीर्तितः । प्रणवोष्टौ व्याहृतयो मात्रृकाद्वादशाक्षरौ ॥ १,१.९६ ॥ गायत्री ब्रह्मःृषिका पुंसूक्तं वैष्णवं तथा । अष्टावेते महामन्त्राः वैदिकाःसर्वसिद्धिदाः ॥ १,१.९७ ॥ पुंसूक्तात्सर्ववेदानां व्यक्तिरासीदिति श्रुतिः । दुर्गयानन्तरूपिण्यानन्त वेदोदितो हरिः ॥ १,१.९८ ॥ तयार्थितोऽखिलाध्यक्षः स्वात्मासृष्टिमचीकॢपत् ॥ १,१.९९ ॥ इति श्री परतत्तवनिर्णये प्रकाशसंहितायां प्रथमपरिच्छेदे प्रथमोऽध्यायः _____________________________________________________________ श्रीहंस उवाच संस्तुतो भगवानेवं तदैवोत्थाय केशवः । शून्यनामाथ जगृहे परुषाख्यां तनुं हरिः ॥ १,२.१ ॥ पुरुषः सर्वरूपाणां व्यक्ताबीज इवस्थितः । सोनन्तात्मा व्याप्ततनुः विश्वकुक्षिरितीरितः ॥ १,२.२ ॥ पुरुषाद्वासुदेवाद्याश्चत्वारो ह्यभवंस्ततः । वासुदेवः सङ्कर्षणः प्रद्युम्नश्चानिरुद्धकः ॥ १,२.३ ॥ श्वेतरक्तपीतनीलाः वासुदेवादयः क्रमात् । मुक्त्यैहृत्यै तथा गुप्तै सृष्ट्यै स्वेच्छातनुर्हरिः ॥ १,२.४ ॥ शून्यनाम्नी रमादेवी श्रीर्भूत्वा पुरुषंश्रिता । सैवमायाजयाभूत्वा कृतिःशान्तिरितीरिता ॥ १,२.५ ॥ वासुदेवादि भार्यासीत्सर्वदा सानपायिनी । चतुर्मुखो वासुदेवः ब्रह्मणो बिम्बरूपकः ॥ १,२.६ ॥ सङ्कर्षणः सहस्रास्यः फणिराड्बिम्बरूपकः । प्रद्युम्नो मारबिम्बात्मा ह्यतिसुन्दरविग्रहः ॥ १,२.७ ॥ बिम्बात्मा कामपुत्रस्यानिरुद्धास्यानिरुद्धकः । सकृद्धोल्कादि पञ्चात्मा विश्वाद्यष्टतनुर्हरिः ॥ १,२.८ ॥ विमलादिनवात्माभूत्समत्स्यादि दशाकृतिः । शक्त्यादि द्वादशात्माभूद्वारकादि षोडशरूपवान् ॥ १,२.९ ॥ आनन्दादि त्रयोविंशद्रूप आसीत्परात्परः । केशवादि चतुर्विंशद्रूपवानभवद्धरिः ॥ १,२.१० ॥ अजादि पञ्चाशद्रूपः ततोभूत्पुरुषोत्तमः । कालाख्यषष्ठिरूपोभूत्संवत्सरनियामकः ॥ १,२.११ ॥ नारायणादि शतकः स विश्वादि सहस्रकः । पराद्यनन्तरूपोभूदात्मभेद विवर्जितः ॥ १,२.१२ ॥ तदाज्ञयैव देवी सा रमापि बहुरूपिणी । स तयानन्तरूपिण्या अनन्तरूपो रमापतिः ॥ १,२.१३ ॥ स्वरतोऽपि तया देव्या तत्प्रीत्यर्थं दयानिधिः । लयकालाष्टमांशन्तु नीत्वा पुरुषपुङ्गवः ॥ १,२.१४ ॥ प्रारम्भे सृष्टिकालस्य अजादीन्स्रष्टुमारभत् ॥ १,२.१५ ॥ इति श्री परतत्वनिर्णये प्रकाशसंहितायां प्रथमपरिच्छेदे द्वितीयोध्यायः _____________________________________________________________ श्रीहंस उवाच जालरन्ध्रात्ग्रहाविष्टा सूर्यरश्मिप्रभा भुवि । यदा भवन्ति तस्याः समीपे तिर्गास्थितः ॥ १,३.१ ॥ केशं यदोद्गमयतो सो मर्त्यानां परमाणुकः । मर्त्योत्तमो भक्तिपाकात्महरादिषु संस्थितः ॥ १,३.२ ॥ यं कालं सूक्ष्मदृग्वेद स कालः परमाणुकः । तच्छतांशो हि देवानां तच्छतांशोब्जजस्य तु ॥ १,३.३ ॥ भूमौ स्थितानां मर्त्यानां यः कालः परमाणुकः । तच्छतांशो देवलोके स्थितस्य परमाणुकः ॥ १,३.४ ॥ तत्कोट्यंशो रमायाश्च तदनन्तांशको हरेः । परमाणुरिति प्रोक्तः तदन्यैर्न्यैव बुध्यते ॥ १,३.५ ॥ परमाणुद्वयात्मातु कालो द्व्यणुकरिरितः । परमाणुत्रयात्मस्य त्र्यणुकः परिकीर्तितः ॥ १,३.६ ॥ त्रुटिः त्रिभिश्च त्र्यणुकैः वेधः स्यात्तत्रयेण तु । लवोवेधत्रयात्मास्यात्निमेषस्तु त्रिभिर्लवैः ॥ १,३.७ ॥ क्षणस्त्रिनमिषः प्रोक्तः काष्ठाख्या क्षणपञ्चकात् । काष्ठाभिः पञ्चदशभिः लघुकालः प्रकीर्तितः ॥ १,३.८ ॥ लघुभिः पञ्चदशभिः विनाडिका प्रकीर्तिता । विनाडिका षष्ठिभिर्या नाडिकैका भविष्यति ॥ १,३.९ ॥ ताभ्यां मुहूर्तत्रिंशद्भिः अहोरात्रमितीरितम् । अष्टमांशान्न्यूनसप्तघटिकाभिश्च सप्तभिः ॥ १,३.१० ॥ सपादसप्तभिर्वापि सार्धसप्तभिरेव वा । यामः कालोष्टभिर्वापि कालभेदेन चोदितः ॥ १,३.११ ॥ यामैश्चतुर्भिः अहः स्यात्तावद्भिर्यामिनीमता । अहोरात्रत्रिंशता च मासः पक्षद्वयात्मकः ॥ १,३.१२ ॥ ताभ्यामृतुस्तत्रयेणैवा अयनं परिकीर्तितम् । कर्कादि कार्मुकान्तेषु यदा चरति भस्करः ॥ १,३.१३ ॥ दक्षिणायनमुद्धिष्टं देवानां रात्रिसंज्ञकम् । यावन्नक्रादिके भानौ मिथुनान्तेषु तिष्ठति ॥ १,३.१४ ॥ उत्तरायणमुद्धिष्टं तावत्कालं विचक्षणैः । अयनाभ्यां वत्सरस्तु द्विषण्मासात्मकः स्मृतः ॥ १,३.१५ ॥ षष्ठ्युत्तरत्रिशतकैः अहोरात्रैश्च वत्सरः । अष्टाविंशत्सहस्रैस्तु लक्षसप्तदशाब्दतः ॥ १,३.१६ ॥ कॢप्तः कृतयुगस्तस्मात्त्रेतापादोनमुच्यते । सहस्रषण्णवत्येतलक्षद्वादश संमितः ॥ १,३.१७ ॥ त्रेतायुगस्ततः पादन्यूनो द्वापररिरितः । चतुःषष्ठिसहस्रेत अष्टलक्षमितिस्मृतः ॥ १,३.१८ ॥ द्वापररात्तु कलिस्तस्मादर्धपादमितिस्मृतः । द्विषोडशसहस्रेताच्चतुर्लक्षात्मकः कलिः ॥ १,३.१९ ॥ कृतत्रेताद्वापरश्च कलिश्चेति चतुर्युगाः । चतुर्युगात्मकः कालो महायुग इतीर्यते ॥ १,३.२० ॥ विंशत्सहस्रेतलक्षत्रिचत्वारिंशदब्दकैः । कॢप्तः कालः कालदृग्भिः महायुग इतीर्यते ॥ १,३.२१ ॥ षष्ठ्युत्तराब्दत्रिंशताद्देवानामब्दरिरितः । तादृगब्दसहस्राणां चतुष्कोणः कृताह्वयः ॥ १,३.२२ ॥ त्रेता तु त्रिसहस्राब्दा द्विसहस्राब्दसंमितः । द्वापरस्तु ततो न्यूनसहस्राब्दमितः कलिः ॥ १,३.२३ ॥ कृतस्यादौ कृतान्ते च पृथगब्दश्चतुःशतम् । सन्धिस्त्रेतायुगाद्यन्ते पृथगब्दशतत्रयम् ॥ १,३.२४ ॥ सन्धिस्तु द्वापराद्यन्ते पृथगब्दशतद्वयम् । शताब्दःसंमितः कालः सन्धिराद्यन्तयोः कलेः ॥ १,३.२५ ॥ एवं दैवेन मानेन द्वदशाब्दाःसहस्रतः । कॢप्तः कालः कालविद्भिः महायुग इतीर्यते ॥ १,३.२६ ॥ सार्धाष्टादशलक्षाब्दे युगानामेकसप्तति । मिलितो मनुसन्धातभोगकाल उदीरितः ॥ १,३.२७ ॥ द्विषट्शताब्दसमितो लयः स्वायम्भुवोत्तरः । स्वारोचिषादिकानान्तु षण्णामप्यन्तरे लयः ॥ १,३.२८ ॥ पञ्चादशशताब्दात्मा लयः काल उदीरितः । चतुर्दशशताब्दात्मा लयः काल उदाहृतः ॥ १,३.२९ ॥ तदन्य मन्वन्तरेषु नियमात्सर्वदैव तु । चतुर्युगसहस्रन्तु ब्रह्मणो दिन उ(दिवमु)च्यते ॥ १,३.३० ॥ रीत्रिश्च तावती तस्य अहोरात्रा तु तादृशा । षष्ठ्युत्तरत्रिशतकाद्वत्सरोऽजस्य कीर्तितः ॥ १,३.३१ ॥ एवं विधशताब्दात्मा कालोऽजस्यायुषो मतः । वासुदेवात्सूक्ष्मतनुं स्वशताब्दादिमे क्षणे ॥ १,३.३२ ॥ यः प्राप सशताब्दायुः तद्रूपाणीतराणि तु । मासत्रयाधिकादब्दषट्कात्पूर्वतनादभूत् ॥ १,३.३३ ॥ सृज्यानां सूक्ष्मसांशानां सूक्ष्मसृष्टिश्चतुस्तनोः । सृष्टानां सूक्ष्मतः पूर्वं स्थूलदेहस्ततोऽभवत् ॥ १,३.३४ ॥ नारायणादजाद्रुद्रात्क्रमात्कालानुसारतः । यावतां सूक्ष्मतः सृष्टिः स्थूलसृष्टिस्तु तावता ॥ १,३.३५ ॥ अण्डादूर्ध्वं चावृतयः स्थूलदेहाश्च तन्मयाः । आद्यस्य ब्रह्मणः पूर्वं पञ्चाशद्वत्सरान्ति मे ॥ १,३.३६ ॥ दिने व्यतीते तद्रात्रावण्डसृष्टिरथाभवत् । तदन्तः स्वपतो विष्णोर्जलमध्यगतस्य तु ॥ १,३.३७ ॥ नाभ्युत्थिताल्लोकमयात्प्राकृतात्पद्मकोशतः । पाद्मः ब्रह्मोत्थितःसार्धं सप्तत्रिंशच्चतन्मये ॥ १,३.३८ ॥ दिनान्तिमे निशायां च नाशोऽण्डस्य जगत्पतेः । व्युत्क्रमात्पूर्वमानेन स्थूलसूक्ष्मस्य नाशनम् ॥ १,३.३९ ॥ एवं शतायुषः पूर्णेद्विपरार्धात्मकायुषी । स्वयं चात्मस्वरूपाणामेकीभावं करोत्यजः ॥ १,३.४० ॥ यावत्कालेनात्मसृष्टिरेकीभावस्तु तावता । एकीभूतेपि रमति तथैकीभूतमायया ॥ १,३.४१ ॥ तावत्कालं ततः पश्चात्सुप्तवत्स्वापयत्यजः । सार्धद्विषड्ब्रह्मवर्षमिति शिष्टे निशान्ति मे ॥ १,३.४२ ॥ भागे पुनः पूर्ववच्च आत्मसृष्ट्यादिमीश्वरः । करोति पुरुषस्तस्य नायुर्मानं विधीयते ॥ १,३.४३ ॥ एवं विधापरिमितानन्तानन्तपरात्मके । काले भाविन्यपि हरिः सृष्ट्यादीशः करिष्यति ॥ १,३.४४ ॥ स्वन्तन्त्रस्यास्य मर्यादा अस्वतन्त्रैर्न शक्यते । लङ्घितुं पूर्णशक्तेर्हि वशे सर्वं चराचरम् ॥ १,३.४५ ॥ येऽनन्तकालतस्तस्य मृतिजन्मजरादयः । आयासदुःखदौर्भाग्यचिन्तासन्तापपूर्वकाः ॥ १,३.४६ ॥ अज्ञानेर्ष्यासूयपीडा कामक्रोधभयादयः । कृशतारोगदुरितपुण्यलेपादयस्तथा ॥ १,३.४७ ॥ आशाहानिश्च वृद्धिश्च क्षुत्तृट्कम्पादयस्तथा । नासन् दोषाः नोत्तरत्र भविष्यन्त्यखिलेश्वरे ॥ १,३.४८ ॥ तत्तद्दुर्जनसङ्घैश्च ये कल्प्याः दोषसञ्चयाः । तत्तद्विरोधि सुगुणानन्त्यपूर्णस्य मीलुषः ॥ १,३.४९ ॥ तद्दोषलेशगन्धोपि न विष्णोरिति निश्चयः । यः कालः परमाण्वादि द्विपरार्धावसानकः ॥ १,३.५० ॥ तेषु सर्वेषु कालेषु तत्तन्नाम्ना रमापतिः । तत्सामर्थ्यव्यञ्जकश्च स्थित्वा रक्षत्यजः प्रभुः ॥ १,३.५१ ॥ नित्यः कालप्रवाहोयमनित्यास्तु क्षणादयः । नष्टेषु सत्सुकालेषु वर्तमानेषु वै क्रमात् ॥ १,३.५२ ॥ अविनाश्य स्वरूपोसौ तत्प्रवाहस्य रक्षकः । शताब्दःसंमितः कालो ब्रह्मणः परसंज्ञकः ॥ १,३.५३ ॥ सकालस्तु निमेषाख्यः अहश्च परमेशितुः । इत्यज्ञजनबुद्धीनां शुद्ध्यर्थमुपचर्यते ॥ १,३.५४ ॥ अत आहुर्महाप्राज्ञाः कालतोनन्तमीश्वरम् । अथापि परकालान्तं ब्रह्माणं जनयन्विभुः ॥ १,३.५५ ॥ अङ्गीकरोति तं कालमहोयदखिलेश्वरः । रात्रिमानादि शून्योपि तावन्तं कालमीश्वरः ॥ १,३.५६ ॥ रात्रित्वेन चरत्येवं ब्रह्मादीन्स्वापयत्यजः । निशायाश्चरमे भागे आत्मसृष्ट्यादिमीश्वरः ॥ १,३.५७ ॥ करोति पुरुषस्तस्य आयुर्मानं विधीयते । एवं विधापरिमितानन्तानन्तपरात्मकः ॥ १,३.५८ ॥ कालाव्यतीता सृष्ट्यादि कर्तुर्विष्णोः परात्मनः । स्वरूपेन्द्रियवद्योसौ कालोरूपादिवर्जितः ॥ १,३.५९ ॥ पूर्वपूर्वसु कालेषु नष्टेष्वन्ये भवन्ति हि । उत्तरत्रायास्यमानपरमाणुप्रवाहतः ॥ १,३.६० ॥ संयोज्यघटिकाद्यास्तु कालोज्ञेयः समानतः । घटिकायाममासाद्या नैकदा सम्भवन्ति हि ॥ १,३.६१ ॥ आयुर्मानविहीनस्यानन्तानन्तपरात्मकैः । विष्णोः कालानन्त्यमितौ कालज्ञान(नं)प्रयोजकम् ॥ १,३.६२ ॥ वेदानामक्षराणाञ्च देशन्याव्याकृतस्य च । रमायाः सर्वजीवानां मुक्तानां लिङ्गसंयुजाम् ॥ १,३.६३ ॥ समस्तलिङ्गदेहानां जडायाः प्रकृतेस्तथा । एतेषामस्वतन्त्राणां स्वतन्त्रवशवर्तिनाम् ॥ १,३.६४ ॥ कालानन्त्यमितौ नित्यं कालज्ञान(नं)प्रयोजकम् । अनित्या(अनन्ता)नां जडानां च सूक्ष्मस्थूलशरीरिणाम् ॥ १,३.६५ ॥ आयुर्माने शरीराणां कालज्ञनं प्रयोजकम् । एवं कालगतिं जानन् कालभीतिं तरिष्यति ॥ १,३.६६ ॥ एकस्मिन्परकालेतु एकमण्डं जगद्गुरुः । दशावरणसंयुक्तं सृजत्यवति हन्त्यजः ॥ १,३.६७ ॥ नैकदाजाण्डबहुलं स्रष्टुमिच्छति केशवः । ब्रह्माणं गरुडं शेषमिद्रं प्राणं रविं सुरान् ॥ १,३.६८ ॥ एकमेकं हरिर्मुक्तं(क्त)परकाले करोत्यजः । तथाप्यजाण्डानन्तानां नियन्ताजाण्डरूपवान् ॥ १,३.६९ ॥ हरिः तादृङ्महारूपानन्तानन्तानि वै हरेः । रोमाङ्कुरेष्वनन्तेषु संवसन्तीति हि श्रुतिः ॥ १,३.७० ॥ तादृशानन्तरूपाणामनन्त्यानन्त्ययोगतः । अधश्चोर्ध्वं चाष्टदिक्षु संयुक्तानामनन्तशः ॥ १,३.७१ ॥ रूपानन्त्यैरपूर्णोरु देशे पूर्णतनुर्हरिः । अत्यभिन्नोरुचित्सौख्यबलादि गुणविग्रहः ॥ १,३.७२ ॥ निर्विशेषः सर्वगतः सूक्ष्मस्थूलादिरूपकः । समशक्तिः समज्ञानबलादिशुभसद्गुणः ॥ १,३.७३ ॥ समाधिकविहीनश्च रमयानन्तरुपया । सहस्वाधीनया सत्याशेषचिज्जडभृद्धरिः ॥ १,३.७४ ॥ स्वभिन्नायाः श्रियाः भिन्नाः मुक्तामक्तासुचिद्गुणैः । भिन्नैर्नित्यजडैःसत्यैः भिन्नैः जीवेश्वरैः सदा ॥ १,३.७५ ॥ विभिन्नो विश्वतो विष्णुः देशतो गुणतो विभुः । अनन्तानन्तरूपेण अभिन्नोभिन्नवद्धरिः ॥ १,३.७६ ॥ पूर्णोपि जडचिद्रूपं सृजत्यवति हन्त्यजः ॥ १,३.७७ ॥ इति श्री परतत्तवनर्णये प्रकाशसंहितायां प्रथमपरिच्छेदे तृतीयोऽध्यायः _____________________________________________________________ श्रीहंस उवाच सूक्ष्मं सर्वजगद्बीजं मितं त्रातं च विष्णुना । प्रधानमव्यक्तमिति यद्वदन्ति मनीषिणः ॥ १,४.१ ॥ महामायेत्यविद्येति प्रकृतिर्मोहिनीति च । त्रिगुणात्मकमव्यक्तं त्रिरूपं तत्त्रिशक्तिमत् ॥ १,४.२ ॥ अविद्याकामकर्मादि बीजमित्यपि तां विदुः । रक्षितं प्रलये सृष्टा(वेवा)वण्वनन्तस्वरूपवान् ॥ १,४.३ ॥ अनादिकर्मग्रन्थीति बन्धोबन्धकमित्यपि । अजामनन्यवशगां कलाषोडशसंयुताम् ॥ १,४.४ ॥ तीव्रदुःखात्मकां नानायोनिप्रापकमीरितम् । नारिकेलसमाकारं परिच्छेदत्रयात्मकम् ॥ १,४.५ ॥ मूर्ध्निच्छिद्रयुतं दिव्यं रत्नवद्भास्वरं सदा । विष्णुना रमयाच्छन्नाच्छिद्रगर्भावकाशवत् ॥ १,४.५ ॥ सृष्टौ लये रमा तस्य मानिनी च निरन्तरम् । सृष्टावेव ब्रह्मवायू सभार्यावभिमानिनौ ॥ १,४.७ ॥ रजःसत्त्वतमःसंज्ञभागत्रयसमन्वितम् । सत्वभागः शुक्लवर्णः रक्तवर्णस्तु राजसः ॥ १,४.८ ॥ नीलवर्णस्तमोभाग इति भागत्रयात्मकः । ज्ञानकर्मेन्द्रियकलाः रजोभागे व्यवस्थिताः ॥ १,४.९ ॥ तमोभागगताः पञ्चतन्मात्रासंज्ञिताः कलाः । मनः कला सत्वभागगता सर्वप्रधानिका ॥ १,४.१० ॥ मनोबुद्धिरहङ्कारश्चित्तं चेति चतुर्विधम् । कामक्रोधमहालोभमदमात्सर्यमोहकाः ॥ १,४.११ ॥ द्वेषाहङ्कारममकारेर्ष्यसूयाभयादयः । मनोदोषास्तद्विहीनं मनोज्ञानाय साधनम् ॥ १,४.१२ ॥ मनश्चतुर्विधं नित्यं जडप्रकृतिगं मतम् । तज्जन्यमप्यनित्यं स्यात्तत्र चित्तं न दोषयुक् ॥ १,४.१३ ॥ मनः स्वर्णाद्यनेकार्थमपेक्षां जनयिष्यति । बुद्धिर्निषिद्धभोग्च्छां सदासंकल्पयिष्यति ॥ १,४.१४ ॥ अहङ्कारः पुमर्थानां घातकःः सोत्तमैः सह । स्पर्धां विष्णुसुरद्वेषं कल्पयत्यपि सर्वशः ॥ १,४.१५ ॥ चित्तं सत्साधनगतं करोति पुरुषं सदा । सत्साधनमहङ्कारकलितं पापमेवहि ॥ १,४.१६ ॥ अहङ्कारविहीनं तच्चित्तं विज्ञानसाधनम् । रचिते भारते वर्षे यथा मानुषसत्तनुम् ॥ १,४.१७ ॥ लब्ध्वा गुरुकुलावासं कृत्वानेकसुजन्मभिः । कृत्वात्मयोग्यसत्कर्म लब्धसद्गुरुसेवया ॥ १,४.१८ ॥ प्रसन्नैरुपदिष्टोरु सच्छास्त्रश्रवणादिभिः । वृत्तिज्ञानप्रदं तच्च वृत्तिभक्त्यादि साधकम् ॥ १,४.१९ ॥ ताभ्यां स्वारूपिकज्ञानभक्तिर्व्यक्तिर्भविष्यति । स्वारूपिकं मनो नित्यं ततः स्वारूपिकी मतिः ॥ १,४.२० ॥ व्यक्ता भवति नित्या सा भक्तिः स्वारूपिकी तथा । सैवानन्दस्वरूपेण नित्या मुक्तेषु तिष्ठति ॥ १,४.२१ ॥ इन्द्रियाणां गोलकानि दृश्यान्याहुः समग्रशः । अतीन्द्रियाणीन्द्रियाणि ज्ञानकर्ममयानि च ॥ १,४.२२ ॥ श्रोत्रत्वङ्नेत्ररसनघ्राणाद्या ज्ञानशक्तयः । वाक्पाणिपादपायूपस्थाः सर्वे कर्मशक्तयः ॥ १,४.२३ ॥ श्रोत्रं शब्दग्राहिशब्दो द्विविधः परिकीर्तितः । शब्दो ध्वन्यात्मको वर्णात्मकश्चेति तदादिमः ॥ १,४.२४ ॥ अहङ्कारात्समुद्भूतः आकाशोत्पत्तिकारणः । ध्वन्यात्मकस्तु शब्दस्तु प्रथमः परिकीर्तितः ॥ १,४.२५ ॥ ज्ञानकर्मेन्द्रियमनोमात्राः सूक्ष्माह्यनादयः । नित्याश्च प्रलये सृष्टावनित्यास्ते प्रकीर्तिताः ॥ १,४.२६ ॥ वर्णात्मकस्तु यःशब्दो नित्यः सर्वगतो विभुः । द्रव्यमित्येव सर्वेषां न गुणः कस्यचिन्मते ॥ १,४.२७ ॥ वेदाः पदाद्वर्णतश्च शब्दतः स्वरतस्तथा । अनादिनित्यास्ते सर्वेप्यपौरुषेयगुणोत्कराः ॥ १,४.२८ ॥ विष्णोर्माहात्म्यविज्ञप्तौ सत्प्रमेये च साधकाः । शास्त्राणिच पुराणानि पौरुषेयाणि कृत्स्नशः ॥ १,४.२९ ॥ यथार्थानि प्रणीतानि हरिणाथ सुरर्षिभिः । नित्यान्येवार्थतो वर्णक्रमयोगादनित्यकाः ॥ १,४.३० ॥ सात्विकानि पुराणानि मन्वादि स्मृतयस्तथा । यथार्थ एव तत्रोक्तं ग्राह्यं श्रीहरितत्परैः ॥ १,४.३१ ॥ वाराहं वैष्णवं पाद्मं वायुप्रोक्तं च गारुडम् । श्रीमद्भागवतं चैव सात्विकानीति हि श्रुतिः ॥ १,४.३२ ॥ ब्रह्माण्डं ब्रह्मवैवर्तं मार्कण्डेयं च वामनम् । भविष्यं नारसिंहं च राजसानि षडैव हि ॥ १,४.३३ ॥ मात्स्यं कौर्म्यं तथा लैङ्ग्यं शैवं स्कान्दं तथैव च । पाशुपतसंज्ञिकं चेति तामसानि विदो विदुः ॥ १,४.३४ ॥ ग्राह्यं सर्वं सात्विकोक्तं योजना भेदतोथवा । वेदवेदानुसारेषु विरोधेऽन्यार्थकल्पना ॥ १,४.३५ ॥ इतराणि विरुद्धानि प्रलम्भभ्रमजान्यपि । व्यासोक्तानि पुराणानि सात्विकान्यपि कृत्स्नशः ॥ १,४.३६ ॥ क्वचित्क्वचित्पुराणानि प्रायोज्ञानकराण्यपि । आसुरावेशवशतः तदन्योक्तान्यनन्तशः ॥ १,४.३७ ॥ श्रोत्राग्राह्याणि सन्त्येव अप्रमाणानि तान्यलम् । परशुक्लत्रयोक्तानि नित्यं विष्ण्वाज्ञयैव तु ॥ १,४.३८ ॥ अतिप्रमाणानि दैत्यावेशाज्ञानादि वर्जनात् । बधिरत्वादयः श्रोत्रृदोषास्तद्वर्जितेन्द्रियैः(याः) ॥ १,४.३९ ॥ एतानि विषयाण्याहुः श्रोतव्यानि सहस्रशः । शब्ददोषविहीनानि ग्राह्याणि मनसा सह ॥ १,४.४० ॥ तत्रोक्तानन्तसुगुणं निर्देषं ज्ञेयमीश्वरम् । गम्यं सत्यं च सुखचिन्मयं विष्णुं सनातनम् ॥ १,४.४१ ॥ आत्मेश्वरं हरिं भक्त्योपा(स्त्या)स्यमुक्ता भवन्ति हि । कुशास्त्रेषूक्तदुर्मार्गे हेयता बुद्धिसंयुतम् ॥ १,४.४२ ॥ इति श्री प्रकाशसंहितायां प्रथमपरिच्छेदे चतुर्थोऽध्यायः _____________________________________________________________ श्रीहंस उवाच ज्ञानेन्द्रियाणि पञ्चानि पञ्चकर्मेन्द्रियाणि च । रजोभागगतान्येषु श्रोत्रमा(त्रं)द्यं विशिष्यते ॥ १,५.१ ॥ श्रावणास्याद्यभक्तेस्तु साधकत्वाद्गुणाधिकम् । त्वक्चर्मगोलके सर्वदेहगे समु(पाश्रिता)पस्थिता ॥ १,५.२ ॥ कुष्ठभङुरपामाद्याः त्वक्दोषाः परिकीर्तिताः । अव्यक्तादि स्पर्शदोषशून्याः शीतोष्णपूर्वकाः ॥ १,५.३ ॥ स्पर्शास्तद्विषयाः प्रोक्ताः वायुतेजोम्बुभूमयः । पदार्थाः केचनगुणाः सत्वगिन्द्रियगोचराः ॥ १,५.४ ॥ त्वक्स्पर्शौ प्रकृतिस्थौ द्वौ नित्यौ स्थूलावनित्यकौ । तज्जन्यौ प्राकृतौ वायुसंश्रयौ नश्वरौ मतौ ॥ १,५.५ ॥ इन्द्रियाणान्तु विषयाः गुणामात्राः प्रकीर्तिताः । ज्ञानात्मकानां ते सर्वे द्विविधाः परिकीर्तिताः ॥ १,५.६ ॥ विष्णुवैष्णवसेवायै अनुकूलाःशुभा मताः । अशुभाः प्रतिकूलाश्च पुनस्ते त्रिविधा मताः ॥ १,५.७ ॥ मुक्तियोग्याश्रिता नित्याः नित्यसृतिषु मध्यमाः । तमोयोग्याश्रिता नीचास्तत्तद्योग्यसुसाधनैः ॥ १,५.८ ॥ नीचमध्योत्तमस्थानप्रापकाः क्रमयोगतः । जीवस्वरूपभूतानि मनोमात्रेन्द्रियाणि च ॥ १,५.९ ॥ तत्स्वरूपाणि नित्यानि उत्तमेषु शुभान्यपि । उत्तमा मुक्तियोग्यास्तु नित्यबद्धास्तु मध्यमाः ॥ १,५.१० ॥ अधमास्तु तमोयोग्याः मनोमात्रादयस्तथा । स्वारूपिकाश्चलिङ्गस्थाः अनित्याः स्थूलदेहगाः ॥ १,५.११ ॥ विष्णोरमायाब्रह्मादि मुक्तानां क्रमयोगतः । मनोमात्रेन्द्रियज्ञानसुखधैर्यबलादयः ॥ १,५.१२ ॥ स्वरूपाण्येवविष्णोस्तु नित्यव्याप्तानि कृत्स्नशः । स्वतन्त्राणि स्वतन्त्रस्य (कर्माणि तु)पुरुषस्य महात्मनः ॥ १,५.१३ ॥ स्वस्वरूपस्थितौ यस्य ज्ञानेकर्मण्यपि स्फुटम् । सर्वस्वरूपचेष्टासु परापेक्षा न यस्य हि ॥ १,५.१४ ॥ स स्वन्तन्त्र इति प्रोक्तः स विष्णुर्नेतरः क्वचित् । अव्यक्ततत्कार्यमय देहशून्यारमापि हि ॥ १,५.१५ ॥ तच्चित्तेन्द्रियमात्रास्तु नित्या व्याप्ता स्वरूपका(काः) । विष्ण्वैकवशगास्तस्याः हर्यपेक्षासदस्ति हि ॥ १,५.१६ ॥ परापेक्षयुतत्वात्सा अस्वतन्त्रा प्रकीर्तिता । ब्रह्मादिमुक्तामुक्तानामस्वतन्त्र्यमनादितः ॥ १,५.१७ ॥ सिद्धमेव स्वरूपे च ज्ञाने कर्मण्यपि स्फुटम् । नीचानीचस्वरूपाणामुत्तमोत्तमचेतसाम् ॥ १,५.१८ ॥ प्रसादतः प्रवृत्तिर्हि ज्ञानभक्त्यादि चाखिलम् । ज्ञानाज्ञानतमोमोक्षाः नित्यानित्यजडस्य च ॥ १,५.१९ ॥ नोत्पत्तिनाशौ जीवानां त्रिविधानां समस्तशः । स्वरूपदुःखद्वेषेर्ष्या चिन्तासन्तापपूर्वकाः ॥ १,५.२० ॥ न मुक्तानां देहयोगो यावत्तेषां भयादिकम् । भयादीनि च योग्येभ्यः उत्तमेष्वल्पमेव च ॥ १,५.२१ ॥ ज्ञानं मुक्तिरयोग्यस्य न च स्वप्नेपि दृश्यते । स्वरूपाज्ञानतमसी योग्यानां न कदाचन ॥ १,५.२२ ॥ सृष्टिं स्थितिं संहृतिं च नियतिं जगतोस्य तु । ज्ञानाज्ञाने तमोमोक्षौ विष्णुनैव विदो विदुः ॥ १,५.२३ ॥ ब्रह्मादीनां स्वरूपन्तु अत्यन्ताणुतमं मतम् । तदिन्द्रियाणि सूक्ष्माणि सूक्ष्माण्येव स्थिराणि तु ॥ १,५.२४ ॥ चक्षुर्गोलकगं नेत्रं रूपग्राह्यमतीन्द्रियम् । नित्यमव्यक्तगं स्थूलमनित्यं जन्यमक्षि च ॥ १,५.२५ ॥ स्वरूपनेत्रकलितं नित्यानित्ये अक्षिणी उभे । ज्ञानप्रदे साक्षिसंज्ञे सर्वस्वारूपकेन्द्रियम् ॥ १,५.२६ ॥ उक्तानां वक्ष्यमाणानामिन्द्रियाणां समग्रशः । स्वारूपेन्द्रियसाहाय्यं विना शक्तिर्नविद्यते ॥ १,५.२७ ॥ वृद्धिं हानिं च लभते गुणैर्देषैः स्वरूपतः । साक्षीन्द्रियन्तु योग्यानां स्वोत्तमद्रोहतां विना ॥ १,५.२८ ॥ तत्रापीषत्कुतश्चित्तु तत्सर्वं कुण्ठितं भवेत् । पटलं कामिला काचः प्रतिदीधिति सङ्गतिः ॥ १,५.२९ ॥ नेत्ररोगं व्रणाद्याश्च पैत्यप्रतिहतास्तथा । अक्षिभ्रमणशैत्याद्याः नेत्रदोषाः प्रकीर्तिताः ॥ १,५.३० ॥ आरस्थत्वं दूरगत्वं सौक्ष्मं च व्यवधानतः । स्थितिः समानाभिघातः अर्थदोषाः प्रकीर्तिताः ॥ १,५.३१ ॥ निर्देषविषया ये च निर्देषेक्षणगोचराः । शुक्लं रक्तं श्वेतपीतहरितादीनि कृत्स्नशः ॥ १,५.३२ ॥ चित्रादीनि स्वरूपाणि चक्षुषो विषयाणि च । उद्भूतरूपसंयुक्ताः तेजोवार्भूमयात्मका ॥ १,५.३३ ॥ चक्षुषो विषयाः प्रोक्ताः केचित्सूर्योदयोऽमराः । जिह्वा गोलकगं प्राहुः रसनेन्द्रियमुत्तमम् ॥ १,५.३४ ॥ अतीन्द्रियमरुच्याद्यास्तद्धोषास्फोटकादयः । कषायश्च कटुस्तिक्तः लवणो मधुराम्लकौ ॥ १,५.३५ ॥ तथा चित्ररसश्चेति रसनेन्द्रियगोचराः । दोषहीनस्य च रसज्ञानं जनयति स्फुटम् ॥ १,५.३६ ॥ ज्ञानं जनयति क्षिप्रं प्राकृतंप्रकृतिस्थितम् । दुष्टा पर्युषिता यामहीना पूतियुता रसाः ॥ १,५.३७ ॥ सदोषा रससम्बन्धे रसना ज्ञानदा न हि । भूमयांमया अर्थाः रसनेन्द्रियगोचराः ॥ १,५.३८ ॥ घ्राणगोलकगं प्रोक्तं नासिकेन्द्रियमूर्जितम् । पीनसाद्याः घ्राणदोषाः गन्धग्राहेन्द्रियं मतम् ॥ १,५.३९ ॥ व्यामिश्राद्याः दोषभागाः गन्धदोषाः प्रकीर्तिताः । वक्त्रगोलकगं प्रोक्तं वागिन्द्रियमतीन्द्रियम् ॥ १,५.४० ॥ नित्यानित्यवचांस्तस्य सत्यासत्यवचांसि च । वचांसि युक्तायुक्तानि गीर्वाणप्राकृतानि च ॥ १,५.४१ ॥ मूकत्वादि महादोषहीनवाग्गोचराणि च । गद्गदत्वास्पष्टताद्याः वाग्दोषाः परिकीर्तिताः ॥ १,५.४२ ॥ हस्तगोलकगं प्राहुः पाणीन्द्रियमतीन्द्रियम् । व्यङ्गुलत्वादयस्तस्य दोषाः निर्देषामिन्द्रियम् ॥ १,५.४३ ॥ गृह्णाती(व)ह परत्रापि यद्धितः स्वात्मनः सदा । भूमयारत्नहेमाद्या बह्वर्था विषयामताः ॥ १,५.४४ ॥ अश्मयाश्च तथाभावाः हस्तयोर्विषयामताः । कण्टकोच्छिष्टपाषाणवृश्चिकाद्या अनिष्टदाः ॥ १,५.४५ ॥ हेया अर्थाश्च हस्ताभ्यां परित्याज्याः सदा मताः । सानिष्टदं हितकरं हस्तयोर्हितदं मतम् ॥ १,५.४६ ॥ अङ्घ्रिगोलकगं प्राहुः पादेन्द्रियमलं बुधाः । पङ्गुत्वाद्याः अङ्घ्रिदोषाः निर्देषगतिसाधनम् ॥ १,५.४७ ॥ स्वारूपिगं प्रकृतिगं प्राकृतं त्रिविधं मतम् । येनेन्द्रियेण यत्कर्मक्रियते साधुभिःसदा ॥ १,५.४८ ॥ तत्तस्य विषयः प्रोक्तः तन्नामेन्द्रिय गोचरम् । पक्वापक्वं च भुक्तं च वातं जीर्णं च कुक्षिगम् ॥ १,५.४९ ॥ कालेन विपरीतन्तु शकृदित्युच्यते बुधैः । तादृगर्थोत्सर्गसंज्ञो पायोर्विषयमीरितम् ॥ १,५.५० ॥ भगन्धरादयो मूलव्रणाद्याः पायुसंस्थिताः । दोषाः निरोधातिसाराः पायोर्न यदि कार्यकृत् ॥ १,५.५१ ॥ स्त्रीपुंसोर्भगमेढ्रादि गोलकस्थं ह्यतीन्द्रियम् । उपस्थशिश्नसंज्ञे द्वे इन्द्रिये दोषवर्जिते ॥ १,५.५२ ॥ रत्युत्सृतौ प्रभवतः असृक्शुक्लाश्रयौ मतौ । मेहव्रणाद्याः तद्धोषाः निर्देषं स्वार्थसाधकम् ॥ १,५.५३ ॥ प्रकृतं प्राकृतं चैव स्वरूपेन्द्रिय संयुतम् । अर्थक्रियाकारि तद्धि नान्यथा भवति ध्रुवम् ॥ १,५.५४ ॥ ज्ञानेन्द्रियाणि पञ्चापि पञ्चकर्मेन्द्रियाणि च । रजः परिच्छेदगानि भिन्नशक्तियुतानि च ॥ १,५.५५ ॥ ज्ञानेन्द्रियाणां विषयाः क्रमाच्छब्दादयोमताः । शब्दस्पर्शारूपरसगन्धास्ते च गुणामताः ॥ १,५.५६ ॥ मात्रातमः परिच्छेद पञ्चभूतान्तरामताः । भूतानि मात्रा गर्भेषु लीनाहुर्मनीषिणः ॥ १,५.५७ ॥ भावरूपाज्ञानगतं पञ्चकं गुणगर्भकम् । मात्रासु लीनभूतेषु संस्थितं भावपञ्चकम् ॥ १,५.५८ ॥ तमोमोहमहामोहतामिश्रान्धतामिस्रकाः । तमः शब्दगतं प्राहुः मोहः स्पर्शगतो मतः ॥ १,५.५९ ॥ महामोहो रूपगतः तामिश्रो रसगोमतः । गन्धे अन्धतामिस्राख्यस्त एते भावरूपकाः ॥ १,५.६० ॥ एतानि प्रकृतिस्थानि नित्याण्यणुतराणि च । स्थूलानि भूतव्यक्तानि अनित्यान्यामनन्ति हि ॥ १,५.६१ ॥ जीवस्वरूपं नैवते तद्विभिन्नं लिङ्गदेहगम् । जीवस्वरूपविज्ञानाच्छादकं परिकीर्तितम् ॥ १,५.६२ ॥ तत्साधनाद्व्यञ्जमानस्वरूपज्ञानबाधकम् । तमः स्वरूपज्ञानस्य विपरीतप्रवर्तकम् ॥ १,५.६३ ॥ यो मोहः स उपदेशेपि महामोहोऽनिवर्तयेत् । विद्वेषकारणं प्राहुः तामिश्रमुपदेष्टृषु ॥ १,५.६४ ॥ कुयुक्तिभिः क्वागम्यैश्च गाढाज्ञानैकसाधनम् । अन्धतामिश्रसंज्ञाख्यमनाद्यज्ञानमीरितम् ॥ १,५.६५ ॥ अनादिकालमारभ्यानन्तानन्ताणुमात्रकाः । केशाद्यायुततुल्याल्पस्वरूपाह्यात्मगोचराः ॥ १,५.६६ ॥ तत्तत्स्वरूपकाकार हरिणाबिम्बरूपिणा । रक्षिताः प्रलये सृष्टा नित्यं तदनपायिना ॥ १,५.६७ ॥ एतत्कल्पादिभावीनां तत्तकल्पेषु वै क्रमात् । सृज्याः विलक्षणास्तुल्याः अतुल्यास्त्रिविधात्मकाः ॥ १,५.६८ ॥ जीवाः अनादितः सर्वेप्यस्वतन्त्रा रमावशाः । प्रकृत्यात्मकलिङ्गेन बद्धाः श्रीहरिकुक्षिगाः ॥ १,५.६९ ॥ लये सृष्टौ हरिःसृष्टाः अण्डाद्बहिरथान्तरे । सात्विकानीचमध्याश्च अन्तः सृज्या अतात्विकाः ॥ १,५.७० ॥ निरंशामर्त्यगन्धर्वपूर्वाः सर्वे तृणान्तिकाः । योग्या नित्यसृतिस्थाश्च तमो योग्याश्च कृत्स्नशः ॥ १,५.७१ ॥ सर्वेपि लिङ्गसम्बद्धा ये ते जीवा न चान्यथा । तेपि पूर्वानन्तकाल्पेष्वेवं स्वोचित साधनैः ॥ १,५.७२ ॥ मुक्ताः मध्यास्तमः प्राप्ताः सन्ति श्रीहरिगर्भगाः । नैषां क्वापि क्वचित्पूर्तिर्भविता नियमाद्धरेः ॥ १,५.७३ ॥ इति श्री प्रकाशसंहितायां प्रथमपरिच्छेदे पञ्चमोऽध्यायः _____________________________________________________________ श्रीहंस उवाच निःशेषतो रात्रिमाने व्यतीतेत्वहराग(दि)मे । क्षणे तं विश्वसृक्स्रष्टुमिच्छां चक्रेऽखिल(स्वयं)प्रभुः ॥ १,६.१ ॥ ततः स्वगर्भगान् जीवान् लिङ्गमुक्तान् विनेश्वरः । प्रकृत्यात्मकलिङ्गेन शरीरेणावृतास्त्रिधा ॥ १,६.२ ॥ विभिन्नानां स्तमसान् शुद्धराजसान् सात्विकान् प्रभुः । स्वोदरस्थान् समुधृत्यसृज्यान् पुरुषनामकः ॥ १,६.३ ॥ प्रादात्सवासुदेवाख्यो सर्वान् जीवान् जगत्प्रभुः । नैव सृष्टिस्तु मुक्तानां बद्धानां न हि सर्वशः ॥ १,६.४ ॥ सृष्टिरुक्तायुक्तः संख्या नियमात्सृष्टिरुच्यते । सृष्टिः संख्या नियमतः तात्विकातात्विकेषु च ॥ १,६.५ ॥ निरंशेषु न संख्यास्ति बहुत्वात्वाद्बहुधैव सा । ब्रह्मत्वयोग्या ऋजवो नामतोऽनन्तशो गणाः ॥ १,६.६ ॥ तेषु पूर्वानन्तकल्पैः मुक्ताः सन्ति ह्यनन्तशः । लिङ्गबद्धा अप्यनन्तानन्तशः सन्ति गर्भगाः ॥ १,६.७ ॥ हरेस्तेषां सर्वशोपि तेषु सृज्यास्तु केचन । ऋज्वादि तात्विकाःसर्वे अनादितो ह्यपरोक्षिणः ॥ १,६.८ ॥ सामान्यतो विशेषेण स्वस्वयोग्यापरोक्षिणः । कॢप्तकालोचितमहासाधनेन भवन्ति हि ॥ १,६.९ ॥ यतन्ति ह्यपरोक्षार्थमृजवो शतसंमिताः । पूर्वापरोक्षिणस्ते च शतसंख्यामिताः सदा ॥ १,६.१० ॥ अनन्तवेदोक्तगुणोपासनायां हरेः सदा । यतन्ति तेपि क्रमशो ह्युपासीतगुणोच्चयाः ॥ १,६.११ ॥ भवन्ति वेधाः सम्पूर्णसद्गुणोपास्तिमानिह । काले मुक्तो भवत्येव मुच्यते नैकदैव हि ॥ १,६.१२ ॥ एवञ्च ब्रह्ममानेन कल्पद्विशतकेन च । पूर्णशक्तिः पूर्णगुणोपास्तिः मुक्ता भवत्यलम् ॥ १,६.१३ ॥ मुक्तेः पूर्वक्षणे भोग्यसुप्रारब्धक्षयेपि च । एवमेवोत्तरत्रापि संख्या नियमतः सुराः ॥ १,६.१४ ॥ मुच्यन्ते तात्विका वक्ष्यमाणैः कल्पैरजस्य तु । द्विपञ्चाशत्कल्पमिताः शेषाद्यास्तु सभार्यकाः ॥ १,६.१५ ॥ विंशत्कल्पमितास्त्विन्द्रजीवाः द्विनवकल्पकाः । अहंप्राणपदार्हश्च गुर्वाद्याद्व्यष्टकल्पकाः ॥ १,६.१६ ॥ प्रवाहस्तु द्विषट्कल्पैः सूर्याद्याः दशकल्पकाः । मित्रादीनां च नवभिस्तूक्त शेषगणस्य तु ॥ १,६.१७ ॥ अष्टभिः सप्तभिः कल्पैः सनकादि गणस्य तु । षड्भिः पर्जन्यमारभ्य पुष्करान्तगणस्य वै ॥ १,६.१८ ॥ अपरोक्षतः कर्मदेवाः पञ्चकल्पापरोक्षिणः । चतुर्भिराजानजानान्तु सार्धकल्पत्रयेण तु ॥ १,६.१९ ॥ कृष्णाङ्गसङ्गगोपीनां त्रिभिः पितृगणस्य तु । गन्धर्वाणान्तु कल्पाभ्यां मर्त्यानां तु तथैकतः ॥ १,६.२० ॥ अर्धकल्पं तृणान्तानां योग्यानां हरिदर्शने । नियमोऽयंसर्वकल्पेष्वेवमेव न चान्यथा ॥ १,६.२१ ॥ क्ल्पसंख्या ब्रह्ममानाद्विज्ञेया योग्यचेतनैः । असुराणां तमःप्राप्तिः ब्रह्मणो दिनकल्पतः ॥ १,६.२२ ॥ भवत्येव जगद्धातुराज्ञयेत्थं सदैव तु । इन्द्रादिपुष्करान्तानां गुणोपासनयोचितैः ॥ १,६.२३ ॥ प्रोक्तैः कल्पैर्विमुच्यन्ते तावत्कल्पैस्तु साधनम् । तत्पूर्वमपरोक्षस्य कर्तव्यमिति निश्चयः ॥ १,६.२४ ॥ अण्डान्तराले पद्मोत्थब्रह्मा यावद्धि तिष्ठति । तावत्संवत्सरगतप्रतिप्रतिदिनेष्वपि ॥ १,६.२५ ॥ सांशा अतात्विकाः सर्वे संख्यया वक्ष्यमाणया । मितास्तु प्रतिकल्पेऽपि पदस्था ह्यपरोक्षिणः ॥ १,६.२६ ॥ उर्वश्याद्याप्सरसः शतान्तांश्चाष्टसंख्यया । मिता आजानजैस्तुल्याः कर्मदेवैः समाः पराः ॥ १,६.२७ ॥ शतं पितॄणां सप्तैव तेषूर्वश्यादिभिः समाः । अन्ये आजानजेभ्यस्तु न्यूनास्तेभ्योऽवराः क्रमात् ॥ १,६.२८ ॥ गन्धर्वास्तु शतं तेषु अष्टौ तुल्यास्तु कर्मजैः । शतकोटिमिताः सर्वे ऋषयो विंशदुत्तमाः ॥ १,६.२९ ॥ ऋषीणां च शतं कर्मदेवैस्तल्यमुदीरितम् । हर्यावेशाश्च तन्मध्ये विंशदीषद्गुणोत्तमाः ॥ १,६.३० ॥ तेष्वेव तात्विकाश्चाष्टौ शतकं कर्मजैः समम् । तदन्येऽजानजेभ्यस्तु तुल्या अग्निसुता अपि ॥ १,६.३१ ॥ द्व्यष्टौसहस्राणिशतन्त्रिंशच्चारणरक्षसाम् । साध्यसिद्धास्तथान्यास्तु सप्ततिः सर्वजातिषु ॥ १,६.३२ ॥ आजानजास्तेस्वन्यूनं पितृगन्धर्वसंयुताः । प्रतीकालम्बनाः सांशाः निरंशास्तु ततोऽवराः ॥ १,६.३३ ॥ प्रतीकालम्बनस्तेषु श्रेष्ठाः मानुषगायकाः । ततो न्यूनास्तु राजानो मर्त्योच्चास्तु ततोऽधमाः ॥ १,६.३४ ॥ मर्त्यगन्धर्वराश्यादि सर्वजीवगणेष्वपि । ये मुक्तियोग्यास्ते सर्वे प्रतीकस्थावलम्बिनः ॥ १,६.३५ ॥ निरंशा अपरोक्षात्प्राकूर्ध्वमप्यण्ड एव हि । सृज्यानूर्ध्वं यथा सांशाः अपरोक्षविवर्जिताः ॥ १,६.३६ ॥ अपरोक्षिणान्तु सांशानां तात्विकैर्भिन्नचेतसाम्। अतात्विकानां कर्मादि सुरगन्धर्वमानुषाम् ॥ १,६.३७ ॥ एतावदन्तजीवानां सूक्ष्माप्तिरनिरुद्धतः । अजोत्पत्तेः पुराजाण्डे स्थूलाप्तिरिति निश्चयः ॥ १,६.३८ ॥ तात्विकानां बहिश्चाण्डात्सूक्ष्मस्थूलाप्तिरिष्यते । असंसृष्टशरीरास्तेऽण्डोत्पत्तेः पुराःसुराः ॥ १,६.३९ ॥ अण्डान्तराले सर्वेऽपि संसृष्टाः स्थूलदेहकाः । लये सर्वे लिङ्गबद्धाः शून्यकुक्षा वसन्ति हि ॥ १,६.४० ॥ तेषु मुक्तेतरे संख्या नियमात्सृष्टिसंमताः । ये च तान्निखिलान्वासुदेवः स्रष्टुमुपाक्रमत् ॥ १,६.४१ ॥ जडाख्या प्रकृतिः सर्वजीवानां लिङ्गरूपिणी । प्रकृतेर्गर्भगा जीवाः लिङ्गदेहयुता मताः ॥ १,६.४२ ॥ अनादिकालमारभ्य जीवाः संसृतिबन्धगाः । तत्र पूर्वानन्तकल्पे जीवाः सत्साधनेन च ॥ १,६.४३ ॥ मिश्रेण विपरीतेन ज्ञानेनात्यक्तबन्धनाः । जीवाश्च त्रिविधा आसन् शतकोटिसहस्रशः ॥ १,६.४४ ॥ सृज्येषु लिङ्गबद्धेषु पूर्वसृज्यश्चतुर्मुखः । न चैककाले सर्वेषां सृष्टिः सा कालभेदतः ॥ १,६.४५ ॥ भवत्यतः पूर्वजाताः उत्तमान्ये ततोऽवराः । लयाख्य परकालान्ते व्यतीते सृष्टिसंमते ॥ १,६.४६ ॥ परकालादिमेऽजस्य सृष्टिरन्यस्य कालतः । ब्रह्मणः सृष्टितः पश्चाद्वायोः सृष्टिः शताब्दतः ॥ १,६.४७ ॥ ततः शताब्दतो वाण्याः भारत्यास्तच्छताब्दतः । ततः सहस्राब्दतश्च सृष्टिस्तु विपशेषयोः ॥ १,६.४८ ॥ नीलादीनां सहस्रश्च वत्सरैस्तावता पुनः । वारुण्यादेर्दशसाहस्राब्दतस्तु ततः परम् ॥ १,६.४९ ॥ सृष्टिरिन्द्रस्य कामस्याप्ययुताब्दास्तथापरे । सृष्टास्युर्हरिणा ये च नीचास्तेऽनुत्तमोत्तमैः ॥ १,६.५० ॥ पुष्करान्तास्तात्विकाश्च तथैवातात्विकाः परे । निरंशा नित्यबद्धाश्च तमोयोग्याश्च राक्षसाः ॥ १,६.५१ ॥ अयुताब्दाद्धेवमानात्पूर्वपूर्वव्यवस्थया । सृष्टिर्भवति सा सूक्ष्मस्थूलभेदाद्विधा मता ॥ १,६.५२ ॥ तात्विकानां पदस्थानां सर्वेषामपरोक्षिणाम् । अण्डात्पूर्वैव भवति तदन्येषां तदन्तरे ॥ १,६.५३ ॥ अण्डाद्बहिरथाण्डान्तर्जायमानजनस्य तु । पूर्वोक्तकालनियमात्सृष्टिः ज्ञेया यथाक्रमम् ॥ १,६.५४ ॥ लिङ्गबद्धस्य तु यदा सूक्ष्मदेहाप्तिरिष्यते । ततः पूर्वक्षणे लिङ्गे गुणवैषम्यमिष्यते ॥ १,६.५५ ॥ लिङ्गदेहस्य मध्यस्थो रजोभागः प्रकीर्तितः । भूर्नामकेन्दिरा तत्र चेष्टका तस्य मानिनी ॥ १,६.५६ ॥ सत्वभागस्पृष्टरजः पार्श्वगा राजसाणवः । दशप्रलयकाले तु भूम्या सत्वस्य पार्श्वगाः ॥ १,६.५७ ॥ भवन्ति लयकालान्ते तत्र तिष्ठन्ति सर्वशः । राजसाणुः सात्विकांशगतस्त्वेकैकशः पृथक् ॥ १,६.५८ ॥ दशैव तादृशा एते मिलिता द्वादशाणवः । सात्विकेषु शतमितान् रक्तवर्णान् करोत्यलम् ॥ १,६.५९ ॥ स्वभावतःसत्वभागाः शुक्लास्ते सत्वसंस्थिताः । रक्तासहस्रसंख्याकाः दशभीराजसाणुभिः ॥ १,६.६० ॥ भवन्ति च रजः स्पृष्टाः सत्वपार्श्वगता लये । एवमेको राजसाणुः राजसांशापसव्यगम् ॥ १,६.६१ ॥ तामसांश भुवानीतः स्वशतांशन्तु तामसम् । अत्यल्पं नीलवर्णं ते रक्तोरक्ती करोत्यलम् ॥ १,६.६२ ॥ एकः शुद्धो राजसांशः परिच्छेदे तु राजसे । मध्ये तिष्ठन्त्यपि लये राजसाणु समा इमे ॥ १,६.६३ ॥ तमः परिच्छेदगताः तामसाणुस्तु यादृशाः । लये सत्वपरिच्छेदपार्श्वगा राजसाणवः ॥ १,६.६४ ॥ तामसास्तादृशा एते मिलिता द्वादशाणवः । राजसा तामसात्यल्प परमाणु प्रमाणतः ॥ १,६.६५ ॥ अधिकं गुणितास्तत्र शतद्वादशसंमिताः । दशराजससंयुक्त सहस्रसात्विकाणवः ॥ १,६.६६ ॥ लक्षाभवन्ति कार्योपयुक्ता एते भवन्ति हि । तामसात्तु परिच्छेदाद्विगुणो राजसस्मृतः ॥ १,६.६७ ॥ राजसात्तु परिच्छेदा द्विगुणःसात्विकः स्मृतः । एकैकस्मन्परिच्छेदेप्यनन्ताः परमाणवः ॥ १,६.६८ ॥ सन्ति तत्र नियन्ताजो विष्णुब्रह्मशिवात्मकः । नारायणोनन्तगुणः श्री स्त्रीरूपाभिमानिनी ॥ १,६.६९ ॥ जडायां प्रकृतौ चापि लिङ्गदेहे तथैव च । सन्त्यानन्ताणवस्तेषु पूर्वोक्ताः कार्यसाधकाः ॥ १,६.७० ॥ सत्वङ्गता राजसांशाः लये राजससात्विकान् । वदन्ति तामसगतं रजोराजसतामसम् ॥ १,६.७१ ॥ रजः परिच्छेदगतं सन्तो राजसतामसम् । वदन्त्येव लये योगो भवति श्रीहरीच्छया ॥ १,६.७२ ॥ साम्यावस्थां बुधाः प्राहुः एतां प्रकृतिलिङ्गयोः ॥ १,६.७३ ॥ इति श्री प्रकाशसंहितायां प्रथमपरिच्छेदे षष्ठोऽध्यायः _____________________________________________________________ श्रीहंस उवाच नारीकेलफलाकारो लिङ्गदेहस्त्रिवृन्मतः । मूर्ध्निच्छिद्रयुतो गर्भावकाशकलितः सदा ॥ १,७.१ ॥ अन्तर्निबद्धा जीवास्ते त्रिविधा अपि मोचने । न शक्तः रमयाश्चन्न मूर्ध्निच्छिद्रावसन्त्यलम् ॥ १,७.२ ॥ दुःखस्पृष्टा लिङ्गबद्धाः दुःखास्पृष्टा रमैव हि । यस्मन्नकाले यस्य सूक्ष्मः नाशो भवति विष्णुना ॥ १,७.३ ॥ अनिरुद्धेन तन्नीच क्रमतोन्डान्तरे बहिः । तदुत्तरक्षणे लिङ्गदेहे च गुणसाम्यता ॥ १,७.४ ॥ भूम्याकृता भवति सा (स्वरूपज्ञानरूपिणी)जीवानां ज्ञानरोधिनी । स्वारूपिकज्ञानसुखे प्रयत्नेच्छाः सतां लये ॥ १,७.५ ॥ रुद्धा भवन्ति साम्ये तु वैषम्ये व्यक्तिमञ्जसा । यान्त्यवस्थाद्वयं लिङ्गे लये सृष्टौ क्रमात्किल ॥ १,७.६ ॥ क्षणक्षणेन भ्रमतां स तां सव्येन चान्यथा । भ्रमतां लिङ्गदेहस्थगुणत्रयसुयोगतः ॥ १,७.७ ॥ सृष्टिकाले त्रिधाभिन्ना जीवानां बुद्धिरिष्यते । सात्विकी राजसी चेति तामसीति समस्तशः ॥ १,७.८ ॥ योग्यानां सात्विकीबुद्धिः बहुला अन्येऽल्पके मते । मध्यमानान्तु जीवानां राजसी तामसी मतिः ॥ १,७.९ ॥ क्रमात्बहुतरेऽन्येतु स्वल्पमात्रे भविष्यतः । पञ्चमात्रागताज्ञानपञ्चकं लिङ्गदेहगम् ॥ १,७.१० ॥ अनाद्यज्ञानमुद्दिष्टं बाह्यमस्वारूपिकं तु तत् । साक्षीन्द्रियाणां (तमसा)मनसा योगे तद्धि भविष्यति ॥ १,७.११ ॥ साक्षीन्द्रियाणां सत्वस्थमनसा सङ्गमो यदि । बाह्या स्वारूपिकञ्ज्ञानं त्रिविधानां चितामिह ॥ १,७.१२ ॥ साक्षीन्द्रियाणां रजसा मनसा सङ्गमो यदि । बाह्यमस्वारूपिकं च कामक्रोधादिकं च यत् ॥ १,७.१३ ॥ अनादिकामो जीवानां त्रिविधानां भविष्यति । रजः परिच्छेदगताः ज्ञानेन्द्रियकलाः यदि ॥ १,७.१४ ॥ साक्षीन्द्रिययुताबाह्यशब्दादीच्छा भविष्यति । अनादिकामःसा प्रोक्ता त्रिविधानां चितामिह ॥ १,७.१५ ॥ रजः परिच्छेदगताः कर्मेन्द्रियकलाः यदि । साक्षीन्द्रियुताः कर्मजनयन्त्यप्यनादिकम् ॥ १,७.१६ ॥ बाह्यलिङ्गगतं कर्म न तु स्वारूपिकं मतम् । अनाद्यविद्याकामौ चानादि कर्म च लिङ्गगम् ॥ १,७.१७ ॥ मदीयमितिमत्वा तु बद्धो भवति चेतनः । कालेन भारते वर्षे लब्धजन्मापि मानुषम् ॥ १,७.१८ ॥ ब्राह्मण्यं सद्गुरोः सङ्गं भक्तिज्ञानेधिगम्य च । प्रसादात्श्रीहरेः कर्म देवतानामथान्तरे ॥ १,७.१९ ॥ अण्डाद्बहिस्तात्विकानां वैकुण्ठपरिघालये । अण्डखर्परसंस्पृष्ट श्रीभागेवा हरीच्छया ॥ १,७.२० ॥ परान्त्यवृत्तिपरितः स्थितेवारि निमज्य च । अभिव्यक्तस्वरूपाणां सतां लिङ्गविपर्यये ॥ १,७.२१ ॥ हरीरमासुराद्वेषाद्भारते मर्त्यजन्मनि । दुःसङ्गवृद्धातण्डान्तर्लिङ्गदेहस्य नाशने ॥ १,७.२२ ॥ सतिवायोर्गदाघातादसतां कालयोगतः । अनाद्यविद्याकामौ चानादिकर्मापि नश्यति ॥ १,७.२३ ॥ अतो बाह्यं न स्वरूपा अविद्याद्याः प्रकीर्तिताः । ज्ञानाज्ञाने स्वरूपस्थे नित्ये नैव च नश्वरे ॥ १,७.२४ ॥ अनाद्यविद्याकामाद्याः साम्यावस्था यदा भवेत् । तदा जीवस्य सर्वस्य न भवन्ति कदाचन ॥ १,७.२५ ॥ राजसाणुशतांशाभाः द्विषट्कास्तामसाणवः । लये तेषु रजस्येकः सत्वपार्श्वगतादश ॥ १,७.२६ ॥ भवन्त्येकस्तमो मध्ये संस्थितो भवति ध्रुवम् । रजोगतोणुस्तमसः सतो द्विगुणराजसम् ॥ १,७.२७ ॥ राजसाणुशतांशाभाः सत्वगास्तामसाणवः । दशापिदशतोत्कृष्टान्सात्विकाणून् लये ध्रुवम् ॥ १,७.२८ ॥ नीलीकुर्वन्त्येवमेषा साम्यावस्था प्रकीर्तिता । तामसी राजसी चेति साम्यावस्था द्विधा मता ॥ १,७.२९ ॥ साम्यावस्था सात्विके तु न क्वापि किल विद्यते । द्वाभ्यान्तु साम्यवस्थाभ्यां लिङ्गस्ताभ्यां जनस्य तु ॥ १,७.३० ॥ लये सर्वस्य तां निद्रां नाशं प्राहुर्मनीषिणः । यदा योगेच्छोपरमः तदा ज्ञापयति प्रभुः ॥ १,७.३१ ॥ अयोग्येच्छा प्रयत्नादि कर्तुराशां छिनत्ति च । वैषम्ये सति लिङ्गे तु जननेच्छा हि जायते ॥ १,७.३२ ॥ यदेच्छा जायते जन्तोस्तदा सृजति तं प्रभुः । सृज्यानां सर्वजीवानामण्डाद्बहि रथान्तरे ॥ १,७.३३ ॥ नैकदा विषमावस्था ह्यजादीनां क्रमाद्भवेत् । व्युत्क्रमात्पूर्वमानेन अण्डान्तर्बहिरेव च ॥ १,७.३४ ॥ साम्यावस्था च नीचानां प्राक्पश्चादुत्तमस्य च । लये सत्वप्रविष्टा ये दशते राजसाणवः ॥ १,७.३५ ॥ स्वशताधिकसत्वस्थपरमाणु समन्विताः । सृष्टिकाले श्रियानुन्ना रजो भागं विशन्ति हि ॥ १,७.३६ ॥ तमः परिच्छेदगत राजसाणुर्लये तु यः । स्वशतांशं तामसाणुं गृहीत्वा दुर्गयेरितः ॥ १,७.३७ ॥ रजोभागं प्रविशन्ति सृष्टिकाले समागते । लये रजोभागमध्यगतोणू राजसस्य यः ॥ १,७.३८ ॥ रजो मध्ये व्यक्तिमेति सृष्टिकाल उपागते । प्रकृतौ लिङ्गदेहोऽपि एवं यदि गुणस्थितिः ॥ १,७.३९ ॥ साम्यावस्थां जगुः प्राज्ञाः तया सृष्टिर्भविष्यति । लये सत्वप्रविष्ठा ये दशैतत्तामसाणवः ॥ १,७.४० ॥ राजसाणु शतांशाभाः सात्विकैः स्वसमाणुभिः । युक्तास्तामस भागं हि विशन्ति श्रीसमीरिताः ॥ १,७.४१ ॥ रजोविष्टस्तामसाणुः पूर्वाणु(सत्वेण)तुलितः स्वयम् । स्वतो(सत्वाच्च) द्विगुणेनैव संयुक्तो राजसाणुना ॥ १,७.४२ ॥ तत्र स्थित्वा लये भूयः सृष्टिकाल उपागते । भुवानुन्नः तमोभागं विशन्ति श्रीहरीच्छया ॥ १,७.४३ ॥ एकशुद्धस्तामसाणुः पूर्वैस्तामससात्विकैः । दशाभिश्चैकतमसा तथा राजसतामसम् ॥ १,७.४४ ॥ प्राप्यसंमिलिताःसर्वे तमो वैषम्यनामकम् । सहस्रसात्विकाणुभ्यः दशराजसकाणुभिः ॥ १,७.४५ ॥ शुद्धेन रजसैकेन रजसायुक्त तामसः । अणुर्यदैकीभवति रजो वैषम्य उच्यते ॥ १,७.४६ ॥ रजो वैषम्यतः सृष्टिः तमो वैषम्यतो लयः ॥ १,७.४७ ॥ इति श्री प्रकाशसंहितायां प्रथमपरिच्छेदे सप्तमोऽध्यायः _____________________________________________________________ श्रीहंस उवाच व्यतीते लयकाले तु सृष्टिकाल उपागते । परकालादिमादौ तु पुरुषः सर्वचेतनान् ॥ १,८.१ ॥ वासुदेवेर्पयल्लिङ्गबद्धान् जीवान् (सृज्यान्)विलक्षणान् । तारतम्ययुतान् स्वयोग्यतां कलितांश्च सः ॥ १,८.२ ॥ स्वस्वोचितमहायत्नाभिमुखान् स्वस्वकर्मणा । जन्मलाभोचितान् वासुदेवस्थान् वीक्ष्य चिन्तयन् ॥ १,८.३ ॥ सृष्टिकालाद्यनिमिषसूक्ष्मदेहोचितं ह्यजाम् । लिङ्गबद्धन्तु तत्पूर्वक्षणवैषम्यसंगतः ॥ १,८.४ ॥ एकं गृहीत्वान्यजीवान् प्रादात्सङ्कर्षणो विभुः । स वायुमेकं लिङ्गे तं गृहीत्वान्यान् सुचेतनान् ॥ १,८.५ ॥ प्रद्युम्रोऽदात्तयोर्भार्ये स गृहीत्वा सलिङ्गके । तदन्यान्तात्विकान् सर्वपदस्थान् भावितात्विकान् ॥ १,८.६ ॥ व्यक्तापरोक्षिणः संख्या नियमात्सूक्ष्मयोगतः । स्रष्टुं प्रादात्सचरमे अनिरुद्धोऽखिलेश्वरः ॥ १,८.७ ॥ वासुदेवो विरिञ्चस्य लिङ्गदेहं व्यचालयत् । तत्तलिङ्गदेहस्थत्रिगुणेभ्यस्त्रिबिन्दवः ॥ १,८.८ ॥ न्यपतन् तत्र योबिन्दुः सात्विकः स तु निर्मलः । । रजो वैषम्यसंयुक्त रजोबिन्दुस्तथापतत् ॥ १,८.९ ॥ तमो वैषम्यकलितस्तमोबिन्दुरभूत्ततः । रजोबिन्दुगतो विष्णूरजोवैषम्यमूर्जितम् ॥ १,८.१० ॥ पृथक्स्थाप्य रजोबिन्दुं शुद्धं चक्रे जगद्गुरुः । तमोबिन्दुगतोदेवः तमोवैषम्यमुत्कटम् ॥ १,८.११ ॥ समुधृत्य पृथक्स्थाप्य तं बिन्दुं शुद्धमातनोत् । ततो माया प्रार्थितः सन् वासुदेवस्तदादिमः ॥ १,८.१२ ॥ तद्रजोगुणवैषम्यलिङ्गबद्धमजं विभुः । अजस्य सूक्ष्मदेहाप्त्यै रजोवैषम्यमूर्जितम् ॥ १,८.१३ ॥ निक्षिप्य च निगीर्येशोमायायां महदाह्वयम् । सूक्ष्मरूपं तु तद्वीर्यं प्राकृतं प्राक्षिपद्धरिः ॥ १,८.१४ ॥ तत्र सा सुषुवे सूक्ष्मदेहवन्तमजं विभुम् । गुणत्रयाणवः पूर्वं सांख्या नियमतः स्थिताः ॥ १,८.१५ ॥ यावन्तस्ते सदा नित्याः तेषां नाशो न विद्यते । तत्र सत्वाणवः सर्वे दशधोपचिताः सदा ॥ १,८.१६ ॥ भवन्ति राजसास्तामसाणवः पादमात्रतः । भवन्त्युपचिता वायुसरस्वत्यादि सूक्ष्मगाः ॥ १,८.१७ ॥ सत्वादयस्तु दशधा ऊर्जिताःसम्भवन्ति हि । त्रृणादीनां सूक्ष्मगतानधिकाः प्रभवन्ति हि ॥ १,८.१८ ॥ सत्वाणवो राजसाश्च तामसाह्यणवश्च ये । ऋजूनां सूक्ष्मगाः पादोपचिताः प्रभवन्ति हि ॥ १,८.१९ ॥ सांशाःसर्वेषु सांशेषु सूक्ष्मदेहेषु कृत्स्नशः । सत्वाणवो दशाधिक्यं यान्त्येवोपचितौ सताम् ॥ १,८.२० ॥ रजस्तमाणवस्तूच्चेष्वल्पनीचेषु चाधिकाः । तद्रजोगुणवैषम्यमादायाद्यानुजः स्वयम् ॥ १,८.२१ ॥ सर्वेषां सूक्ष्मदेहानामन्ते वसति नाशकृत् । सत्वंरजस्तमः सृष्टं विष्णुब्रह्मशिवात्मकम् ॥ १,८.२२ ॥ श्रीभूदुर्गापतिर्विश्वतैजसप्राज्ञनामकाः । शुक्लरक्तात्मिकानीला आदायानन्तरूपकः ॥ १,८.२३ ॥ तत्तत्सूक्ष्मशरीरस्थस्थानत्रयगतो हरिः । तदा ह्यवस्था त्रितयं तद्विशेषादिमे सुखम् ॥ १,८.२४ ॥ एकोनविंशतिमुखौ विश्वतैजसनामकौ । सव्यापसव्यगान्येवं पुरुषास्यानिमध्यगम् ॥ १,८.२५ ॥ गजाभं तु तयोरस्याः मुखानां कृत्यमप्युत । दक्षिणाक्षिस्थितो विश्वः सत्वस्थः सत्वभागतः ॥ १,८.२६ ॥ उत्तमानां मध्यमानां नीचानां तत्वमानिनाम् । त्रिभिर्मुखैः सत्वगतैः अवस्थां जाग्रदाह्वयाम् ॥ १,८.२७ ॥ करोत्ययं मध्यगाख्य त्रितयेन स एव हि । उच्चमध्यावरामर्त्यदासानां जाग्रदाह्वयाम् ॥ १,८.२८ ॥ करोत्यवस्थामन्तस्थैः त्रिभिरास्यैः स एव हि । निरंशानां च जीवानां जाग्रतां सम्प्रवर्तकः ॥ १,८.२९ ॥ पुंसामेवं वामगास्यैः स्त्रीणामेवं करिष्यति । अनन्तानन्तजन्मोरु मर्त्यदेहैः कृतानि तु ॥ १,८.३० ॥ जाग्रद्धशायां मनसा वाचका येन चेन्द्रियैः । कृतानि सात्विकादीनि कर्माण्युच्यावचानि च ॥ १,८.३१ ॥ यानि यान्यपि सर्वाणि संचिन्तान्यपि तेष्वलम् । नष्टेषु तददृष्टानि लिङ्गानि निवसन्त्यलम् ॥ १,८.३२ ॥ तेषु भोगाय दत्तानि भुक्त्वा नाशं प्रयान्ति हि । भोगाय च प्रदत्तानि अर्धभुक्तानि सर्वशः ॥ १,८.३३ ॥ प्रारब्धानि च तेष्वेव कानिचिद्भोगतः क्षयम् । यान्ति प्रारब्धशिष्टानि अपरोक्षे सतिस्फुटम् ॥ १,८.३४ ॥ न नयान्ति च सर्वाणि भोगयोग्यान्य संशयः । तत्र दुष्प्रारब्धजातं बह्वल्पं करोत्यजः ॥ १,८.३५ ॥ भगवद्भक्ति योगेन हरेरिच्छा हि तादृशी । हरिणा जीवभोगाय न दत्तानि ह्यनन्तशः ॥ १,८.३६ ॥ राशीकृतानि लिङ्गस्थकर्मादृष्टानि कोटिशः । सञ्चितान्यपि तानीह अपरोक्षे सति स्फुटम् ॥ १,८.३७ ॥ दग्धान्यपि विनष्टानि भवन्त्येव न संशयः । मर्त्यो जीवन्भारतेस्मिन्नित्यं कोटिसहस्रशः ॥ १,८.३८ ॥ करोति विवशो बद्धः प्रकृत्यातान्यनन्तशः । अनन्त जन्मनानन्तानन्तायुः परिमाणतः ॥ १,८.३९ ॥ कृतान्यभुङ्क्तस्वकृतकर्मणां भोगतो लयः । सञ्चितानामनन्तोरु ब्रह्मकालैरपि क्वचित् ॥ १,८.४० ॥ क्वापि नो घटते भोक्तुं किन्तु श्रीविष्णुदर्शने । नैषां फलं हि जीवानां भवेदित्याज्ञया हरेः ॥ १,८.४१ ॥ लिखितान्यपि पत्रेषु चित्रगुप्तैः पुनः पुनः । रमाब्रह्मादयो देवाः सर्वकर्माभिमानिनः ॥ १,८.४२ ॥ यच्छन्ति न फलं पुण्यं पापं वा तस्य कर्हिचित् । च्छित्वा लिखितपत्राणि यमदूतैर्हरिः प्रियैः ॥ १,८.४३ ॥ बोधयन्त्यपि हे जीव न ते सञ्चिततो भयम् । इति कारणतो नाशं सञ्चितस्य वदन्ति हि ॥ १,८.४४ ॥ घटादिनाशवन्नाशः कर्मणां नैव शस्यते । सुप्रारब्धस्य सर्वस्य भोगादेव परिक्षयः ॥ १,८.४५ ॥ अपरोक्षानन्तरन्तु कृतं कर्म शुभाशुभम् । आगामीत्युदितः सद्भिर्नतलोपो भविष्यति ॥ १,८.४६ ॥ न लिखन्ति पटे चित्रगुप्तास्तानि सुरोत्तमाः । यच्छन्ति न फलं तेषामतो न श्लिष्यते जनः ॥ १,८.४७ ॥ आगामिकर्मभिस्तच्चानिष्टं काम्यं हि राज(क्ष)साः । गृह्णन्तीष्टं काम्यपुण्यं तदिष्टाः प्राप्नुवन्ति हि ॥ १,८.४८ ॥ आगामि विष्णुद्वेषादि कलिर्गृह्णाति नेतरः । आगामि भक्तितो मुक्तो प्राप्तव्यानन्दमश्नुते ॥ १,८.४९ ॥ वेदोक्तमप्यवेदोक्तं ज्ञानाज्ञानादिभिः कृतम् । बाल्ययौवनवार्धिकैः कृतं वाक्कायमानसैः ॥ १,८.५० ॥ भीत्या प्रीत्या आवेशतो वा कृतं कर्म शुभाशुभम् । ज्ञायन्नेव करोत्येषः भुङ्क्ते जागृद्धि तत्फलम् ॥ १,८.५१ ॥ समस्त भूतले वापि विवरेष्वन्तरिक्षके । स्वर्गादि सर्वलोकेषु ब्रह्माण्डाद्बहिरन्तरे ॥ १,८.५२ ॥ निरये वा तमसि वा वैकुण्ठादिषु वा जनः । जाग्रद्भुङ्क्ते कर्मफलं विश्वाधीनः सदैव हि ॥ १,८.५३ ॥ आनन्तासनवैकुण्ठश्वेतद्वीपेषु संस्थिताः । महरादिषु सत्यान्तलोकेष्वण्डाद्बहिस्तथा ॥ १,८.५४ ॥ तात्विकाः स्वाधिकारेषु नियता नेतरे जनाः । स्वप्रारब्धफलं यान्ति ते सर्वे ह्यपरोक्षिणः ॥ १,८.५५ ॥ अतात्विका निरंशानां योग्यानां क्वापि कर्हिचित् । नाधिकारस्त्वयोग्यानां किं वाच्यं दुःखभोगिनाम् ॥ १,८.५६ ॥ रियुः त्रीन् कर्मणा लोकान् ज्ञानेनैव तदुत्तरान् । तत्र मख्या हरिं यान्ति तदन्ये वायुमेव तु ॥ १,८.५७ ॥ अपक्वा ये न ते यान्ति वायुं वा हरिमेव वा । स्थानमात्राश्रितास्ते तु पुनर्जनि विवर्जिताः ॥ १,८.५८ ॥ ज्ञानगम्येषु लोकेषु अण्डान्तर्महरादिषु । अतात्विकनिरंशानां मुक्तान्तानां क्रमोन्नताम् ॥ १,८.५९ ॥ वासः प्रारब्धपुण्येन निष्कामो न भविष्यति । आतात्विकनिरंशानां सर्गमर्त्याधमेष्वपि ॥ १,८.६० ॥ स तात्विकानां प्ररब्धात्पुण्यात्पापाच्च संचितात् । भोगदत्तात्पुण्यपापात्सुखदुःखादि शस्यते ॥ १,८.६१ ॥ तिर्यग्योनिषु गर्भेषु वासेभ्येषां प्रकल्प्यते । निरंशनीचसांशानां नरके वास इष्यते ॥ १,८.६२ ॥ प्रारब्धतः सञ्चिताद्वा न योग्यानां तमोगतिः । अयोग्यानां द्वेषपाकात्तमः प्राप्तिर्भविष्यति ॥ १,८.६३ ॥ देवगन्धर्वपर्यन्ताः देवशब्दोदिताः क्रमात् । देवानां निरयो नैव तमश्चापि कथञ्चन ॥ १,८.६४ ॥ ना सुराणां तथा मुक्तिः कदाचित्केनचित्क्वचित् । भारताद्यष्टवर्षेषु सप्तद्वीपेषु चाद्रिषु ॥ १,८.६५ ॥ सर्वेषां पापपुण्यैश्च मुख्यप्रारब्धसञ्चयैः । तमो मिथ्याज्ञानयोगात्ज्ञानेनैव हरेः पदम् ॥ १,८.६६ ॥ तेषां प्रागुक्त कर्मोत्थ फलं वै जाग्रता भवेत् । जाग्रत्प्रवर्तको विश्वः सोऽज दक्षाक्षिगो भवेत् ॥ १,८.६७ ॥ लिङ्गोत्थ सत्वमादाय तत्सूक्ष्मस्थ तथा चरन् । न धातुः सञ्चितं काम्यं न दृष्टं पातकादिकम् ॥ १,८.६८ ॥ न दैन्यावेशदुःखादि न संशयविपर्ययौ । न दुरिच्छानान्यरतिः न भोगेच्छा कुसङ्गतिः ॥ १,८.६९ ॥ न देहाभिमतिर्नासत्पथे देहेन्द्रियोद्गतिः । निष्काम्यकर्मसज्ञानसद्भक्तिषु सदारतिः ॥ १,८.७० ॥ ब्रह्मणो हि परस्यास्य प्रसादात्सर्वदासुखम् । स्वप्ननिद्राव्याधिपूर्वं तच्च दुःखफलं त्यजेत् ॥ १,८.७१ ॥ सोन्तरङ्गो हरेः साक्षात्सर्वोत्कृष्ट प्रियो मतः । पक्वशेषादिभिर्दृश्यमापरोक्षेण केशवम् ॥ १,८.७२ ॥ अनादिकालमारभ्य अजजीवगणाः सदा । पश्यन्त्यात्मोचितहरेरपरोक्षाय जन्मभिः ॥ १,८.७३ ॥ यतन्तेशतकल्पान्त्यैः दृष्ट्वेशं शतकल्पकैः । कृतयानन्तवेदोक्त गुणोपासनया पदम् ॥ १,८.७४ ॥ प्राप्नोति तस्य सूक्ष्मापिर्वासुदेवात्तदाभवत् । तद्धेहलिङ्गजं शुद्धं रज आदाय तेजसः ॥ १,८.७५ ॥ तत्सूक्ष्मकण्ठे वसति स्वप्नकृद्भगवान् हरिः । एकादशेन्द्रियैः कर्मकर्तव्यमिति वासना ॥ १,८.७६ ॥ मनस्युत्पद्यते तच्च न करोति प्रयत्नतः । निद्राज्ञानोन्मादभयरोगायासा विदुन्मतैः ॥ १,८.७