स्तुमस्तं चैतन्याकृतिमतिविमर्यादपरमा द्भुतौदार्यं वर्यं व्रजपतिकुमारं रसयितुम् । विशुद्धस्वप्रेमोन्मदमधुरपीयुषलहरीं प्रदातुं चान्येभ्यः परपदनवद्वीपप्रकटम् ॥१॥ (१) सर्वैराम्नायचूडामणिभिरपि न संलक्ष्यते यत्स्वरूपं श्रीशब्रह्माद्य्अगम्या सुमधुरपदवी कापि यस्यास्ति रम्या । येनाकस्य्माज्जगच्छ्रीहरिरसमदिरामत्तमेतद्व्यधायि श्रीमच्चैतन्यचन्द्रः स किमु मम गिरां गोचरश्चेतसो वा ॥२॥ (१३७) धर्मे निष्ठां दधदनुपमां विष्णुभक्तिं गरिष्ठां संबिभ्राणो दधदहह हृत्तिष्ठतीवाश्मसारम् । नीचो गोघ्रादपि जगदहो प्लावयत्यश्रुपूरैः को वा जानात्यहह गहनं हेअमगौराङ्गरङ्गम् ॥३॥ (१२७) धर्मास्पृष्टः सततपरमाविष्ट एवात्यधर्मे दृष्टिं प्राप्तो न हि खलु सतां सृष्टिषु क्वापि नो सन् । यद्दत्तश्रीहरिरससुधास्वादमत्तः प्रनृत्य त्युच्चैर्गायत्यथ विलुठति स्तौमि तं कञ्चिदीशम् ॥४॥ (२) अकस्मादेवाविर्भवति भगवन्नामलहरी परीतानां पापैरपि पुरुभिरेषां तनुभृताम् । अहो वज्रप्रायं हृदपि नवनीतायितमभून् नॄणां यस्मिन् लोकेऽवतरति स गौरो मम गतिः ॥५॥ (११०) न योगो न ध्यानं न च जपतपस्त्यागनियमा न वेदा नाचारः क्व नु बत निषिद्धाद्य्उपरतिः । अकस्माच्चैतन्येऽवतरति दयासारहृदये पुमर्थानां मौलिं परमिह मुदा लुण्ठति जनः ॥६॥ (१११) यन्नाप्तं कर्मनिष्ठैर्न च समधिगतं यत्तपोध्यानयोगै र्वैराग्यैस्त्यागतत्त्वस्तुतिभिरपि न यत्तर्कितं चापि कैश्चित् । गोविन्दप्रेमभाजामपि न च कलितं यद्रहस्यं स्वयं तन् नाम्नैव प्रादुरासीदवतरति परे यत्र तं नौमि गौरम् ॥७॥ (३) धिगस्तु ब्रह्माहं वदनपरिफुल्लान् जडमतीन् क्रियासक्तान् धिग्धिग्विकडतपसो धिक्च यमिनः । किमेतान् शोचामो विषयरसमत्तान्नरपशून् न केषांचिल्लेशोऽप्यहह मिलितो गौरमधुनः ॥८॥ (३२) बध्नन् प्रेमभरप्रकम्पितकरो ग्रन्थीन् कटीडोरकैः सङ्ख्यातुं निजलोकमङ्गलहरेकृष्णेतिनाम्नां जपन् । अश्रुस्नातमुखः स्वमेव हि जगन्नाथं दिदृक्षुर्गता यातैर्गौरतनुर्विलोचनमुदं तन्वन् हरिः पातु वः ॥९॥ (१६) पाषाणः परिषोचितोऽमृतरसैर्नैवाङ्कुरः सम्भवेत् लाङ्गूलं सरमापतेर्विवृणतः स्यादस्य नैवार्जवम् । हस्तावुन्नयता बुधाः कथमहो धार्यं विधोर्मण्डलं सर्वं साधनमस्तु गौरकरुणाभावे न भावोत्सवः ॥१०॥ (३६) सौन्दर्ये कामकोटिः सकलजनसमाह्लादने चन्द्रकोटिर् वात्सल्ये मातृकोटिस्त्रिदशविटपितोऽप्यद्भुतौदार्यकोटिः । गाम्भीर्येऽम्भोधिकोटिर्मधुरमणि सुधाक्षीरमाध्वीककोटिर् गौरो देवः स जीयान् प्रणयरसपदे दर्शिताश्चर्यकोटिः ॥११॥ (१०१) प्रेमा नामाद्भुतार्थः श्रवणपथगतः कस्य नाम्नां महिम्नः को वेत्ता कस्य वृन्दावनविपिनमहामाधुरीषु प्रवेशः । को वा जानाति राधां परमरसचमत्कारमाधुर्यसीमाम् एकश्चैतन्यचन्द्रः परमकरुणया सर्वमाविश्चकार ॥१२॥ (१३०) नमश्चैतन्यचन्द्राय कोटिचन्द्राननत्विषे । प्रेमानन्दाब्धिचन्द्राय चारुचन्द्रांशुहासिने ॥१३॥ (८) यस्यैव पादाम्बुजभक्तिलभ्यः प्रमाभिधानः परमः पुमर्थः । तस्मै जगन्मङ्गलमङ्गलाय चैतन्यचन्द्राय नमो नमस्ते ॥१४॥ (९) दधन्मूर्धन्यूर्ध्वं मुकुलितकराम्भोजयुगलं गलन्नेत्राम्भोभिः स्नपितमृदुगण्डस्थलयुगम् । दुकूलेनावीतं नवकमलकिञ्जल्करुचिना परं ज्योतिर्गौरं कनकरुचिरचौरं प्रणमत ॥१५॥ (८१) सिंहस्कन्धं मधुरमधुरं स्मेरगण्डस्थलान्तं दुर्विज्ञेयोज्ज्वलरसमयाश्चर्यनानाविकारम् । बिभ्रत्कान्तिं विकचकनकाम्भोजगर्भाभिरामाम् एकीभूतं वपुरवतु वो राधया माधवस्य ॥१६॥ (१३) पूर्णप्रेमरसामृताब्धिलहरीलोलाङ्गगौरच्छटा कोट्य्आच्छादितविश्वमीश्वरविधिव्यासादिभिः संस्तुतम् । दुर्लक्ष्यां श्रुतिकोटिभिः प्रकटयन्मूर्तिं जगन्मोहिनीम् आश्चर्यं लवणोदरोधसि परं ब्रह्म स्वयं नृत्यति ॥१७॥ (१३१) उद्दामदामनकदामगणाभिराम मारामराममविरामगृहीतनामा । कारुण्यधाम कनकोज्ज्वलगौरधाम चैतन्यनाम परमं कलयाम धाम ॥१८॥ (६९) अवतीर्णे गौरचन्द्रे विस्तीर्णे प्रेमसागरे । सुप्रकाशितरत्नौघे यो दीनो दीन एव सः ॥१९॥ (३४) श्रवणमननसङ्कीर्त्यादिभक्त्या मुरारेर् यदि परमपुमर्थं साधयेत्कोऽपि भद्रम् । मम तु परमपारप्रेमपीयूषसिन्धोः किमपि रसरहस्यं धाम गौरं नमस्यम् ॥२०॥ (५८) निष्ठां प्राप्ता व्यवहृतिततिर्लौकिकी वैदिकी या या वा लज्जा प्रहसन्समुद्गाननाट्योत्सवेषु । ये वाभुवन्नहह सहजप्राणदेहार्थधर्मा गौरश्चौरः सकलमहरत्कोऽपि मे तीव्रवीर्यः ॥२१॥ (६०) महाकर्मस्रोतोनिपतितमपि स्थैर्यमयते महापाषाणेभ्योऽप्यतिकठिनमेति द्रवदशाम् । नटत्यूर्ध्वं निःसाधनमपि महायोगिमनसां भुवि श्रीचैतन्येऽवतरति मनश्चित्रविभवे ॥२२॥ (११२) स्त्रीपुत्रादिकथां जहुर्विषयिणः शास्त्रप्रवादं बुधा योगीन्द्रा विजहुर्मरुन्नियमजक्लेशं तपस्तापसाः । ज्ञानाभ्यासविधिं जहुश्च यतयश्चैतन्यचन्द्रे पराम् आविष्कुर्वति भक्तियोगपदवीं नैवान्य आसीद्रसः ॥२३॥ (११३) भ्रान्तं यत्र मुनीश्वरैरपि पुरा यस्मिन् क्षमामण्डले कस्यापि प्रविवेश नैव धिषणा यद्वेद नो वा शुकः । यत्र क्वापि कृपामयेन च निजेऽप्युद्घाटितं शौरिणा तस्मिन्नुज्ज्वलभक्तिवर्त्मनि सुखं खेलन्ति गौरप्रियाः ॥२४॥ (१८) ईशं भजन्तु पुरुषार्थचतुष्टयाशा दासा भवन्तु च विधाय हरेरुपासाः । किञ्चिद्रहस्यपदलोभितधीरहं तु चैतन्यचन्द्रचरणं शरणं करोमि ॥२५॥ (५९) अप्यगण्यमहापुण्यमनन्यशरणं हरेः । अनुपासितचैतन्यमधन्यं मन्यते मतिः ॥२६॥ (३१) भ्रातः कीर्तय नाम गोकुलपतेरुद्दामनामावलीं यद्वा भावय तस्य दिव्यमधुरं रूपं जगन्मोहनम् । हन्त प्रेममहारसोज्ज्वलपदे नाशापि ते सम्भवेत् श्रीचैतन्यमहाप्रभोर्यदि कृपादृष्टिः पतेन्न त्वयि ॥२७॥ (८२) भूतो वा भवितापि वा भवति वा कस्यापि यः कोऽपि वा सम्बन्धो भगवत्पदाम्बुजरसे नास्मिन् जगन्मण्डले । तत्सर्वं निजभक्तिरूपपरमैश्वर्येण विक्रीडतो गौरस्यैव कृपाविजृम्भिततया जानन्ति निर्मत्सराः ॥२८॥ (२८) स्वादं स्वादं मधुरिमभरं स्वीयनामावलीनां मादं मादं किमपि विवशीभूतविस्रस्तगात्रः । वारं वारं व्रजपतिगुणान् गाय गायेति जल्पन् गौरो दृष्टः सकृदपि न यैर्दुर्घटा तेषु भक्तिः ॥२९॥ (३८) अभूद्गेहे गेहे तुमुलहरिसङ्कीर्तनरवो बभौ देहे देहे विपुलपुलकाश्रुव्यतिकरः । अपि स्नेहे स्नेहे परममधुरोत्कर्षपदवी दवीयस्याम्नायादपि जगति गौरेऽवतरति ॥३०॥ (११४) जाड्यं कर्मसु कुत्रचिज्जपतपोयोगादिकं कुत्रचिद् गोविन्दार्चनविक्रिया क्वचिदपि ज्ञानाभिमानः क्वचित् । श्रीभक्तिः क्वचिदुज्ज्वलापि च हरेर्वाङ्मात्र एव स्थिता हा चैतन्य कुतो गतोऽसि पदवी कुत्रापि ते नेक्ष्यते ॥३१॥ (१३८) विना बीजं किं नाङ्कुरजननमन्धोऽपि न कथं प्रपश्येन्नो पङ्गुर्गिरिशिखरमारोहति कथम् । यदि श्रीचैतन्ये हरिरसमयाश्चर्यविभवेऽ प्यभक्तानां भावी कथमपि परप्रेमरभसः ॥३२॥ (३९) अकस्मादेवैतद्भुवनमभितः प्लावितमभून् महाप्रेमाम्भोधेः किमपि रसवन्याभिरखिलम् । अकस्माच्चादृष्टश्रुतचरविकारैरलमभूच् चमत्कारः कृष्णे कनकरुचिराङ्गेऽवतरति ॥३३॥ (११५) अरे मूढा गूढां विचिनुत हरेर्भक्तिपदवीं दवीयस्या दृष्ट्याप्यपरिचितपूर्वां मुनिवरैः । न विश्रम्भश्चित्ते यदि यदि च दौर्लभ्यमिव तत् परित्यज्याशेषं व्रजत शरणं गौरचरणम् ॥३४॥ (८०) तावद्ब्रह्मकथा विमुक्तपदवी तावन्न तिक्तीभवेत् तावच्चापि विशृङ्खलत्वमयते नो लोकवेदस्थितिः । तावच्छास्त्रविदां मिथः कलकलो नानाबहिर्वर्त्मसु श्रीचैतन्यपदाम्बुजप्रियजनो यावन्न दिग्गोचरः ॥३५॥ (१९) सदा रङ्गे नीलाचलशिखरशृङ्गे विलसतो हरेरेव भ्राजन्मुखकमलभृङ्गेक्षणयुगम् । समुत्तुङ्गप्रेमोन्मदरसतरङ्गं मृगदृशाम् अनङ्गं गौराङ्गं स्मरतु गतसङ्गं मम मनः ॥३६॥ (७०) क्वचित्कृष्णावेशान्नटति बहुभङ्गीमभिनयन् क्वचिद्राधाविष्टो हरि हरि हरीत्यार्तरुदितः । क्वचिद्रिङ्गन् बालः क्वचिदपि च गोपालचरितो जगद्गौरो विस्मापयति बहुभङ्गीमधुरिमा ॥३७॥ (१२८) अये न कुरु साहसं तव हसन्ति सर्वोद्यमं जनाः परित उन्मदा हरिरसामृतास्वादिनः । इदं तु निभृतं शृणु प्रणयवस्तु प्रस्तूयते यदेव निगमेषु तत्पतिरयं हि गौरः परम् ॥३८॥ (८३) उद्गृह्णन्ति समस्तशास्त्रमभितो दुर्वारगर्वायिता धन्यंमन्यधियश्च कर्मतपाद्य्उच्चावचेषु स्थिताः । द्वित्राण्येव जपन्ति केचन हरेर्नामानि वामाशयाः पूर्वं सम्प्रति गौरचन्द्र उदिते प्रेमापि साधारणः ॥३९॥ (११६) पापीयानपि हीनजातिरपि दुःशीलोऽपि दुष्कर्मणां सीमापि श्वपचाधमोऽपि सततं दुर्वासनाढ्योऽपि च । दुर्देशप्रभवोऽपि तत्र विहितावासोऽपि दुःसङ्गतो नष्टोऽप्युद्धृत एव येन कृपया तं गौरमेव स्तुमः ॥४०॥ (७८) अचैतन्यमिदं विश्वं यदि चैतन्यमीश्वरम् । न विदुः सर्वशास्त्रज्ञा ह्यपि भ्राम्यन्ति ते जनाः ॥४१॥ (३७) देवे चैतन्यनामन्यवतरति सुरप्रार्थ्यपादाब्जसेवे विष्वद्रीचीः प्रविस्तारयति सुमधुरप्रेमपीयूषवीचीः । को बालः कश्च वृद्धः क इह जडमतिः को बुधः को वराकः सर्वेषामैकरस्यं किमपि हरिपदे भक्तिभाजां बभूव ॥४२॥ (११७) दत्त्वा यः कमपि प्रसादमथ सम्भाष्य स्मितश्रीमुखं दूरात्स्निग्धदृशा निरीक्ष्य च महाप्रेमोत्सवं यच्छति । येषां हन्त कुतर्ककर्कशधियां तत्रापि नात्यादरः साक्षात्पूर्णरसावतारिणि हरौ दुष्टा अमी केवलम् ॥४३॥ (४५) काशीवासानपि न गणये किं गयां मार्गयेऽहं मुक्तिः शुक्तीभवति यदि मे कः परार्थप्रसङ्गः । त्रासाभासः स्फुरति न महारौरवेऽपि क्व भीतिः स्त्रीपुत्रादौ यदि कृपयते देवदेवः स गौरः ॥४४॥ (९९) बेलायां लवणोदधेर्मधुरिमप्राग्भावसारस्फुरल् लीलायां नववल्लवीरसनिधेरावेशयन्ती जगत् । खेलायामपि शैशवे निजरुचा विश्वैकसंमोहिनी मूर्तिः काचन काञ्चनद्रवमयी चित्ताय मे रोचते ॥४५॥ (१२९) दृष्ट्वा माद्यति नूतनाम्बुदचयं संवीक्ष्य बर्हं भवेद् अत्यन्तं विकलो विलोक्य वलितां गुञ्जावलीं वेपते । दृष्टे श्यामकिशोरकेऽपि चकितं धत्ते चमत्कारिताम् इत्थं गौरतनुः प्रचारितनिजप्रेमा हरिः पातु वः ॥४६॥ (१४) दुष्कर्मकोटिनिरतस्य दुरन्तघोर दुर्वासनानिगडशृङ्खलितस्य गाढम् । क्लिश्यन्मतेः कुमतिकोटिकदर्थितस्य गौरं विनाद्य मम को भवितेह बन्धुः ॥४७॥ (५१) हा हन्त चित्तभुवि मे परमोषरायां सद्भक्तिकल्पलतिकाङ्कुरिता कथं स्यात् । हृद्येकमेव परमाशसत्नीयमस्ति चैतन्यनाम कलयन्न कदापि शोच्यः ॥४८॥ (५३) कृपासिन्धुः सन्ध्यारुणरुचिरचित्राम्बरदरो ज्ज्वलः पूर्णप्रेमामृतमयमहाज्योतिरमलः । शचीगर्भक्षीराब्म्बुधिभव उदाराद्भुतकलः कलानाथः श्रीमानुदयतु मम स्वान्तनभसि ॥४९॥ (१५) क्व तावद्वैराग्यं क्व च विषयवार्तासु नरके ष्विवोद्वेगः क्वासौ विनयभरमाधुर्यलहरी । क्व तत्तेजो वालौकिकमथ महाभक्तिपदवी क्व सा वा सम्भाव्या यदवकलितं गौरगतिषु ॥५०॥ (२०) स्वपादाम्भोजैकप्रणयलहरीसाधनभृतां शिवब्रह्मादीनामपि च सुमहाविस्मयभृताम् । महाप्रेमावेशात्किमपि नटनामुन्मद इव प्रभुर्गौरो जीयात्प्रकटपरमाश्चर्यमहिमा ॥५१॥ (१०२) सर्वे नारदशङ्करादय इहायाताः स्वयं श्रीरपि प्राप्ता देवहलायुधोऽपि मिलितो जाताश्च ते वृष्णयः । भूयः किं व्रजवासिनोऽपि प्रकटा गोपालगोप्यादयः पूर्णप्रेमरसेश्वरेऽवतरति श्रीगौरचन्द्रे भुवि ॥५२॥ (११८) भृत्याः स्निग्धा अथ सुमधुरप्रोज्ज्वलोदारभाजस् तत्पादाब्जद्वितयसविधे सर्व एवावतीर्णाः । प्रापुः पूर्वाधिकतरमहाप्रेमपीयूषलक्ष्मीं स्वप्रेमाणं वितरति जगत्यद्भुतं हेमगौरे ॥५३॥ (११९) अलौकिक्या प्रेमोन्मदरसविलासप्रथनया न यः श्रीगोविन्दानुचरसचिवेष्वेषु कृतिषु । महाश्चर्यं प्रेमोत्सवमपि हढाद्दातरि न यन् मतिर्गौरे साक्षात्पर इह स मूढो नरपशुः ॥५४॥ (४०) असङ्ख्याः श्रुत्य्आदौ भगवद्अवतारा निगदिताः प्रभावं कः सम्भावयतु परमीशादितरतः । किमन्यत्मत्प्रेष्ठे कति कति सतां नाप्यनुभवास् तथापि श्रीगौरे हरि हरि न मूढा हरिधियः ॥५५॥ (४१) रक्षोदैत्यकुलं हतं कियदिदं योगादिवर्त्मक्रिया मार्गो वा प्रकटीकृतः कियदिदं सृष्ट्य्आदिकं वा कियत् । मेदिन्य्उद्धरणादिकं कियदिदं प्रेमोज्ज्वलाया महा भक्तेर्वर्त्मकरीं परां भगवतश्चैतन्यमूर्तिं स्तुमः ॥५६॥ (७) साक्षान्मोक्षादिकार्थान् विविधविकृतिभिस्तुच्छतां दर्शन्तं प्रेमानन्दं प्रसूते सकलतनुभृतां यस्य लीलाकटाक्षः । नासौ वेदेषु गूढो जगति यदि भवेदीश्वरो गौरचन्द्रस् तत्प्राप्तोऽनीशवादः शिव शिव गहने विष्णुमाये नमस्ते ॥५७॥ (४२) वासो मे वरमस्तु घोरदहनव्यालावलीपञ्जरे श्रीचैतन्यपदारविन्दविमुखैर्मा कुत्रचित्सङ्गमः । वैकुण्ठादिपदं स्वयं च मिलितं नो मे मनो लिप्सते पादाम्भोजरसच्छटा यदि मनाक्गौरस्य नो रस्यते ॥५८॥ (६५) सकृन्नयनगोचरीकृततद्अश्रुधाराकुल प्रफुल्लकमलेक्षणप्रणयकातरश्रीमुखः । न गौरचरणं जिहासति कदापि लोकोत्तर स्फुरन्मधुरिमार्णवं नवनवानुरागोन्मदः ॥५९॥ (२१) आचर्य धर्मं परिचर्य विष्णुं विचर्य तीर्थानि विचार्य वेदान् । विना न गौरप्रियपादसेवां वेदादिदुष्प्रापपदं विदन्ति ॥६०॥ (२२) ज्ञानादिवर्त्मविरुचिं व्रजनाथभक्ति रीतिं न वेद्मि न च सद्गुरवो मिलन्ति । हा हन्त हन्त मम कः शरणं निगूढ गौरो हरिस्तव न कर्णपथं गतोऽस्ति ॥६१॥ (८४) मृग्यापि सा शिवशुकोद्धवनारदाद्यैर् आश्चर्यभक्तिपदवी न दवीयस्ती नः । दुर्बोधवैभवपते मयि पामरेऽपि चैतन्यचन्द्र यदि ते करुणाकटाक्षः ॥६२॥ (५५) वृथावेशं कर्मस्वपनयत वार्तामपि मनाक् न कर्णाभ्यर्णेऽपि क्वचन नयताध्यात्मसरणेः । न मोहं देहादौ भजत परमाश्चर्यमधुरः पुमर्थानां मौलिर्मिलति भवतां गौरकृपया ॥६३॥ (८५) अलं शास्त्राभ्यासैरलमहह तीर्थाटनिकया सदा योषिद्व्याघ्र्यास्त्रसत वितथं थूत्कुरुत रे । तृणंमन्या धन्याःय्श्रयत किल सन्न्यासिकपटं नटन्तं गौराङ्गं निजरसमदादम्बुधितटे ॥६४॥ (८६) उच्चैरास्फालयन्तं करचरणमहो हेमदण्डप्रकाण्डौ बाहू प्रोद्धृत्य सत्ताण्डवतरलतनुं पुण्डरीकायताक्षम् । विश्वस्यामङ्गलघ्नं किमपि हरिहरीत्युन्मदानन्दनादैर् वन्दे तं देवचूडामणिमतुलरसाविष्टचैतन्यचन्द्रम् ॥६५॥ (१०) हुङ्कारैर्दशदिङ्मुखं मुखरयन्नट्टहासच्छटा वीचीभिः स्फुटकुन्दकैरवगणप्रोद्भासि कुर्वन्नभः । सर्वाङ्गः पवनोच्चलच्चलदलप्रायप्रकम्पं दधन् मत्तः प्रेमरसोन्मदाप्लुतगतिर्गौरो हरिः शोभते ॥६६॥ (१०६) क्व सा निरङ्कुशकृपा क्व तद्वैभवमद्भुतम् । क्व सा वत्सलता शौरे यादृक्गौरे तवात्मनि ॥६७॥ (५६) आनन्दलीलामयविग्रहाय हेमाभदिव्यच्छविसुन्दराय । तस्मै महाप्रेमरसप्रदाय चैतन्यचन्द्राय नमो नमस्ते ॥६८॥ (११) महापुरुषमानिनां सुरमुनीश्वराणां निजं पदाम्बुजमजानतां किमपि गर्वनिर्वासनम् । अहो नयनगोचरं निगमचक्रचूडाचयं शचीसुतमचीकरत्क इह भूरिभाग्योदयः ॥६९॥ (२९) आस्तां नाम महान्महानिति रवः सर्वक्षमामण्डले लोके वा प्रकटास्तु नाम महती सिद्धिश्चमत्कारिणी । कामं चारुचतुर्भुजत्वमयतामाराध्य विश्वेश्वरं चेतो मे बहुमन्यते नहि नहि श्रीगौरभक्तिं विना ॥७०॥ (६६) निर्दोषश्चारुनृत्यो विधुतमलिनतावक्रभावः कदाचिन् निःशेषप्राणितापत्रयहरणमहाप्रेमपीयूषवर्षी । उद्भूतः कोऽपि भाग्योदयरुचिरशचीगर्भदुग्धाम्बुराशेर् भक्तानां हृच्चकोरस्वदितपदरुचिर्भाति गौराङ्गचन्द्रः ॥७१॥ (१०७) देवा दुन्दुभिवादनं विदधिरे गन्धर्वमुख्या जगुः सिद्धाः सन्ततपुष्पवृष्टिभिरिमां पृथ्वीं समाच्छादयन् । दिव्यस्तोत्रपरा महर्षिनिवहाः प्रीत्योपतस्थुर्निज प्रेमोन्मादिनि ताण्डवं रचयति श्रीगौरचन्द्रे भुवि ॥७२॥ (१३३) मत्तकेशरिकिशोरविक्रमः प्रेमसिन्धुजगद्आप्लवोद्यमः । कोऽपि दिव्यनवहेमकन्दली कोमलो जयति गौरचन्द्रमाः ॥७३॥ (१००) अलङ्कारः पङ्केरुहनयननिःस्यन्दिपयसां पृषद्भिः सन्मुक्ताफलसुललितैर्यस्य वपुषि । उदञ्चद्रोमाञ्चैरपि च परमा यस्य सुषमा तमालम्बे गौरं हरिमरुणरोचिष्णुवसनम् ॥७४॥ (७१) कन्दर्पादपि सुन्दरः सुरसरित्पूरादहो पावनः शीतांशोरपि शीतलः सुमधुरो माध्वीकसारादपि । दाता कल्पमहीरुहादपि महान् स्निग्धो जनन्या अपि प्रेम्णा गौरहरिः कदा नु हृदि मे ध्यातुः पदः धास्यति ॥७५॥ (७२) पुञ्जं पुञ्जं मधुरमधुर्प्रेममाध्वीरसानां दत्त्वा दत्त्वा स्वयमुरुदयो मोदयन् विश्वमेतत् । एको देवः कटितटमिलन्मञ्जुमाञ्जिष्टवासा भासा निर्भर्त्सितनवतडित्कोटिरेव प्रियो मे ॥७६॥ (७३) दृष्टः स्पृष्टः कीर्तितः संस्मृतो वा दूरस्थैरप्यानतो वादृतो वा । प्रेम्णः सारं दातुमीशो य एकः श्रीचैतन्यं नौमि देवं दयालुम् ॥७७॥ (४) सिञ्चन् सिञ्चन्नयनपयसा पाण्डुगण्डस्थलान्तं मुञ्चन्मुञ्चन् प्रतिमुहुरहो दीर्घनिःश्वासजातम् । उच्चैः क्रन्दन् करुणकरुणो दीर्घहाहेतिनादो गौरः कोऽपि व्रजविरहिणीभावमग्नश्चकास्ति ॥७८॥ (१०८) किं तावद्बत दुर्गमेषु विफलं योगादिमार्गेष्वहो भक्तिं कृष्णपदाम्बुजे विदधतः सर्वार्थमालुण्ठतः । आशा प्रेममहोत्सवे यदि शिवब्रह्माद्य्अलभ्येऽद्भुते गौरे धामनि दुर्विगाहमहिमोदारे तदा रज्यताम् ॥७९॥ (८७) हसन्त्युच्चैरुच्चैरहह कुलवध्वोऽपि परितो द्रवीभावं गच्छन्त्यपि कुविषयग्रावघटिताः । तिरस्कुर्वन्त्यज्ञा अपि सकलशास्त्रज्ञसमितिं क्षितौ श्रीचैतन्येऽद्भुतमहिमसारेऽवतरति ॥८०॥ (१२०) प्रायश्चैतन्यमासीदपि सकलविदां नेह पूर्वं यदेषां खअर्वा सर्वार्थसारेऽप्यकृत नहि पदं कुण्ठिता बुद्धिवृत्तिः । गम्भीरोदारभावोज्ज्वलरसमधुरप्रेमभक्तिप्रवेशः केषां नासीदिदानीं जगति करुणया गौरचन्द्रेऽवतीर्णे ॥८१॥ (१२१) अभिव्यक्तो यत्र द्रुतकनकगौरो हरिरभून् महिम्ना तस्यैव प्रणयरसमग्नं जगदभूत् । अभूदुच्चैरुच्चैस्तुमुलहरिसङ्कीर्तनविधिः स कालः किं भूयोऽप्यहह परिवर्तते मधुरः ॥८२॥ (१३९) सैवेयं भुवि धन्यगौडनगरी वेलापि सैवाम्बुधेः सोऽयं श्रीपुरुषोत्तमो मधुपतेस्तान्येव नामानि च । नो कुत्रापि निरीक्ष्यते हरि हरि प्रेमोत्सवस्तादृशो हा चैतन्य कृपानिधान तव किं विक्षे पुनर्वैभवम् ॥८३॥ (१४०) अपारावारं चेदमृतमयपाथोधिमधिकं विमथ्य प्राप्तं स्यात्किमपि परमं सारमतुलम् । तथापि श्रीगौराकृतिमदनगोपालचरण च्छटास्पृष्टानां तद्वहति विकटामेव कटुताम् ॥८४॥ (२३) तृणादपि सुनीचता सहजसौम्यमुग्धाकृतिः सुधामधुरभाषिता विषयगन्धथूथूत्कृतिः । हरिप्रणयविह्वला किमपि धीरनारम्भिता भवन्ति किल सद्गुणा जगति गौरभाजाममी ॥८५॥ (२४) कदा शौरे गौरे वपुषि परमप्रेमरसदे सद्एकप्राणे निष्कपटकृतभावोऽस्मि भविता । कदा वा तस्यालौकिकसद्अनुमानेन मम हृद्य् अकस्मात्श्रीराधापदनखमणिज्योतिरुदभूत् ॥८६॥ (६८) अश्रूणां किमपि प्रवाहनिवहैः क्षौणीं पुरः पङ्किली कुर्वन् पाणितले निधाय बदरीपाण्डुं कपोलस्थलीम् । आश्चर्यं लवणोदरोधसि वसन् शोणं दधानोऽंशुकं गौरीभूय हरिः स्वयं वितनुते राधापदाब्जे रतिम् ॥८७॥ (१३५) सान्द्रानन्दोज्ज्वलनवरसप्रेमपीयूषसिन्धोः कोटिं वर्षन् किमपि कऔर्णस्निग्धनेत्राञ्चलेन । कोऽयं देवः कनककदलीगर्भगौराङ्गयष्टिश् चेतोऽकस्मान्मम निजपदे गाढमुप्तं चकार ॥८८॥ (६१) यथा यथा गौरपदारविन्दे विन्देत भक्तिं कृतपुण्यराशिः । तथा तथोत्सर्पति हृद्यकस्मात् राधापदाम्भोजसुधांशुराशिः ॥८९॥ (८८) कोऽयं पट्टघटीविराजितकटीदेशः करे कङ्कणं हारं वक्षसि कुण्डलं श्रवणयोर्बिभ्रत्पदे नूपुरौ । ऊर्ध्वीकृत्य निबद्धकुन्तलभरप्रोत्फुल्लमल्लीस्रगा पीडः क्रीडति गौरनागरवरो नृत्यन्निजैर्नामभिः ॥९०॥ (१३२) संसारदुःखजलधौ पतितस्य काम क्रोधादिनक्रमकरैः कवलीकृतस्य । दुर्वासनानिगडितस्य निराश्रयस्य चैतन्यचन्द्र मम देहि पदावलम्बम् ॥९१॥ (५४) कान्त्या निन्दितकोटिकोटिमदनः श्रीमन्मुखेन्दुच्छटा विच्छायीकृतकोटिकोटिशरद्उन्मीलत्तुषारच्छविः । औदार्येण च कोटिकोटिगुणितं कल्पद्रुमं ह्यल्पयन् गौरो मे हृदि कोटिकोटिजनुषां भाग्यैः पदं धास्यति ॥९२॥ (७४) क्षणं हसति रोदिति क्षणमथ क्षणं मूर्च्छति क्षणं लुठति धावति क्षणमथ क्षणं नृत्यति । क्षणं श्वसिति मुञ्चति क्षणमुदारहाहारवं महाप्रणयलीलया विहरतीह गौरो हरिः ॥९३॥ (१३४) क्षणं क्षीणः पीनः क्षणमहह साश्रुः क्षणमथ क्षणं स्मेरः शीतः क्षणमनलतप्तः क्षणमपि । क्षणं धावन् स्तब्धः क्षणमधिकजल्पन् क्षणमहो क्षणं मूको गौरः स्फुरतु मम देहो भगवतः ॥९४॥ (७६) कैवल्यं नरकायते त्रिदशपूराकाशपुष्पायते दुर्दान्तेन्द्रियकालसर्पपटली प्रोत्खातदंष्ट्रायते । विश्वं पूर्णसुखायते विधिमहेन्द्रादिश्च कीटायते यत्कारुण्यकटाक्षवैभववतां तं गौरमेव स्तुमः ॥९५॥ (५) प्रवाहैरश्रूणां नवजलदकोटीरिव दृशोर् दधानं प्रेमार्ध्या परमपदकोटिप्रहसनम् । वमन्तं माधुर्यैरमृतनिधिकोटीरिव तनू च्छटाभिस्तं वन्दे हरिमहह सन्न्यासकपटम् ॥९६॥ (१२) स्वतेजसा कृष्णपदारविन्दे महारसावेशितविश्वमीशम् । कमप्यशेषश्रुतिगूढवेशं गौराङ्गमङ्गीकुरु मूढचेतः ॥९७॥ (५७) चैतन्येति कृपामयेति परमोदारेति नानाविध प्रेमावेशितसर्वभूतहृदयेत्याश्चर्यधामन्निति । गौराङ्गेति गुणार्णवेति रसरूपेति स्वनामप्रिये त्याश्रान्तं मम जल्पतो जनिरियं यायादिति प्रार्थये ॥९८॥ (६७) माद्यन्तः परिपीय यस्य चरणाम्भोजस्रवत्प्रोज्ज्वल प्रेमानन्दमयामृताद्भुतरसान् सर्वे सुपर्वेडिताः । ब्रह्मादींश्च हसन्ति नातिबहुमन्यन्ते महावैष्णवान् धिक्कुर्वन्ति स्च ज्ञानकर्मविदुषस्तं गौरमेव स्तुमः ॥९९॥ (६) यो मार्गो दुरशून्यो य इह बत बलत्कण्टको योऽतिदुर्गो मिथ्यार्थभ्रामको यः सपदि रसमयानन्दनिःस्यन्दनो यः । सद्यः प्रद्योतयंस्तं प्रकटितमहिमा स्नेहवद्धृद्गुहायां कोऽप्यन्तर्ध्वान्तहन्ता स जयति नवद्वीपदीप्यत्प्रदीपः ॥१००॥ (१०४) दूरादेव दहन् कुतर्कशलभान् कोटीन्दुसंशीतल ज्योतिःकन्दलसंवलन्मधुरिमा बाह्यान्तरध्वान्तहृत् । सस्नेहाशयवृत्तिदिव्यविसरत्तेजाः सुवर्णद्युतिः कारुण्यादिह जाज्वलीति स नवद्वीपप्रदीपोऽद्भुतः ॥१०१॥ (१०५) स्वयं देवो यत्र द्रुतकनकगौरः करुणया महाप्रेमानन्दोज्ज्वलरसवपुः प्रादुरभवत् । नवद्वीपे तस्मिन् प्रैभवनभक्त्य्उत्सवमये मनो मे वैकुण्ठादपि च मधुरे धाम्नि रमते ॥१०२॥ (६२) बिभ्रद्वर्णं किमपि दहनोत्तीर्णसौवर्णसारं दिव्याकारं किमपि कलयन् दृप्तगोपालमौलेः । आविष्कुर्वन् क्वचिदवसरे तत्तद्आश्चर्यलीलां साक्षाद्राधामधुरिपुर्वपुर्भाति गौराङ्गचन्द्रः ॥१०३॥ (१०९) यत्तद्वदन्तु शास्त्राणि यत्तद्व्याख्यान्तु तार्किकाः । जीवनं मम चैतन्यपादाम्भोजसुधैव तु ॥१०४॥ (६३) पादाघातरवैर्दिशो मुखरयन्नेत्राम्भसां वेणीभिः क्षौणिं पङ्किलयन्नहो विशदयन्नट्टाट्टहासैर्नभः । चन्द्रज्योतिरुदारसुन्दरकटिव्यालोलशोणाम्बरः को देवो लवणोदकूलकुसुमोद्याने मुदा नृत्यति ॥१०५॥ (१३६) धिगस्तु कुलमुज्ज्वलं धिगपि वाग्मितां धिग्यशो धिगध्ययनमाकृतिं नववयः श्रियं चापि धिक् । द्विजत्वमपि धिक्पर:अ विमलमाश्रमाद्यं च धिक् न चेत्परिचितः कलौ प्रकटगौरगोपीपतिः ॥१०६॥ (४३) ध्यायन्तो गिरिकन्दरेषु बहवो ब्रह्मानुभूयासते योगाभ्यासपराश्च सन्ति बहवः सिद्धा महीमण्डले । विद्याशौर्यधनादिभिश्च बहवो वल्गन्ति मिथ्योद्धताः को वा गौरकृपां विनाद्य जगति प्रेमोन्मदो नृत्यतु ॥१०७॥ (९८) अन्तर्ध्वान्तचयं समस्तजगतामुन्मूलयन्ती हठात् प्रेमानन्दरसाम्बुधिं निरवधिं प्रोद्वेलयन्ती बलात् । विश्वं शीतलयन्त्यतीव विकलं तापत्रयेणानिशं सास्माकं हृदये चकास्तु सततं चैतन्यचन्द्रच्छटा ॥१०८॥ (१७,७५) उपासतां वा गुरुवर्यकोटीर् अधीयतां वा श्रुतिशात्रकोटीः । चैतन्यकारुण्यकटाक्षभाजां सद्यः परं स्याद्धि रहस्यलाभः ॥१०९॥ (२५) अपारस्य प्रेमोज्ज्वलरसरहस्यामृतनिधेर् निधानं ब्रह्मेशार्चित इह हि चैतन्यचरणः । अतस्तं ध्यायन्तु प्रणयभरतो यान्तु शरणं तमेव प्रोन्मत्तास्तमिह किल गायन्तु कृतिनः ॥११०॥ (८९) श्रीमद्भागवतस्य यत्र परमं तात्पर्यमुट्टङ्कितं श्रीवैयासकिना दुरन्वयतया रासप्रसङ्गेऽपि यत् । यद्राधारतिकेलिनागररसास्वादैकसद्भाजनं तद्वस्तुप्रथनाय गौरवपुषा लोकेऽवतीर्णो हरिः ॥१११॥ (१२२) पात्रापात्रविचारणं न कुरुते न स्वं परं वीक्षते देयादेयविमर्शको न हि न वा कालप्रतीक्षः प्रभुः । सद्यो यः श्रवणेक्षणप्रणमनध्यानादिना दुर्लभं दत्ते भक्तिरसं स एव भगवान् गौरः परं मे गतिः ॥११२॥ (७७) केचिद्दास्यमवापुरुद्धवमुखाः श्लाघ्यं परे लेभिरे श्रीदामादिपदं व्रजाम्बुदृशां भावं भेजुः परे । अन्ये धन्यतमा धयन्ति मधुरं राधारसाम्भोनिधिं श्रीचैतन्यमहाप्रभोः करुणया लोकस्य काः सम्पदः ॥११३॥ (१२३) सर्वज्ञैर्मुनिपुङ्गवैः प्रवितते तत्तन्मते युक्तिभिः पूर्वं नैकतरत्र कोऽपि सुदृढं विश्वस्त आसीज्जनः । सम्प्रत्यप्रतिमप्रभाव उदिते गौराङ्गचन्द्रे पुनः श्रुत्य्अर्थो हरिभक्तिरेव परमः कैर्वा न निर्धार्यते ॥११४॥ (१२४) वञ्चितोऽस्मि वञ्चितोऽस्मि वञ्चितोऽस्मि न संशयः । विश्वं गौररसे मग्नं स्पर्शोऽपि मम नाभवत् ॥११५॥ (४६) अहो वैकुण्ठस्थैरपि च भगवत्पार्षदवरैः सरोमाञ्चं दृष्टा यदनुचरवक्रेश्वरमुखाः । महाश्चर्यप्रेमोज्ज्वलरससदावेशविवशी कृताङ्गास्तं गौरं कथमकृतपुण्यः प्रणयतु ॥११६॥ (४४) कैर्वा सर्वपुमर्थमौलिरकृतायासैरिहासादितो नासीद्गौरपदारविन्दरजसा स्पृष्टे महीमण्डले । हा हा धिग्मम जीवितं धिगपि मे विद्यां धिगप्याश्रमं यद्दौर्भाग्यभरादहो मम न तद्सम्बन्धोगन्धोऽप्यभूत् ॥११७॥ (४७) विश्वं महाप्रणयसीधुसुधारसैक पाथोनिधौ सकलमेव निमज्जयन्तम् । गौराङ्गचन्द्रनखचन्द्रमणिच्छटायाः कञ्चिद्विचित्रमनुभावमहं स्मरामि ॥११८॥ (१२५) जितं जितं मयाद्यापि गौरस्मृत्य्अनुभावतः । तीर्णाः कुमतकान्ताराः पूर्णाः सर्वमनोरथाः ॥११९॥ (?) दन्ते निधाय तृणकं पदयोर्निपत्य कृत्वा च काकुशतमेतदहं ब्रवीमि । हे साधवः सकलमेव विहाय दूराद् गौराङ्गचन्द्रचरणे कुरुतानुरागम् ॥१२०॥ (९०) पतन्ति यदि सिद्धयः करतले स्वयं दुर्लभाः स्वयं च यदि सेवकीभवितुमागताः स्युः सुराः । किमन्यदिदमेव मे यदि चतुर्भुजं स्याद्वपुस् तथापि न मनो मनाक्चलति गौरचन्द्रान्मम ॥१२१॥ (६४) अहो न दुर्लभा मुक्तिर्न च भक्तिः सुदुर्लभा । गौरचन्द्रप्रसादस्तु वैकुण्ठेऽपि सुदुर्लभः ॥१२२॥ (९१) सोऽप्याश्चर्यमयः प्रभुर्नयनयोर्यन्नाभवद्गोचरो यन्नास्वादि हरेः पदाम्बुजरसस्तद्यद्गतं तद्गतम् । एतावन्मम तावदस्तु जगतीं येऽद्याप्यलङ्कुर्वते श्रीचैतन्यपदे निखातमनसस्तैर्यत्प्रसङ्गोत्सवः ॥१२३॥ (५०) उत्ससर्प जगदेव पूरयन् गौरचन्द्रकरुणामहार्णवः । बिन्दुमात्रमपि नापतन्महा दुर्भगे मयि किमेतदद्भुतम् ॥१२४॥ (४८) कालः कलिर्बलिन इन्द्रियवैरिवर्गाः श्रीभक्तिमार्ग इह कण्टककोटिरुद्धः । हा हा क्व यामि विकलः किमहं करोमि चैतन्यचन्द्र यदि नाद्य कृपां करोषि ॥१२५॥ (४९) कलिन्दतनयातटे स्फुरद्अमन्दवृन्दावनं विहाय लवणाम्बुधेः पुलिनपुष्पवाटीं गतः । धृतारुणपटः पराकृतसुपीतवासा हरिस् तिरोहितनिजच्छविः प्रकटगौरिमा मे गतिः ॥१२६॥ (७९) आस्तां वैराग्यकोटिर्भवतु शमदमक्षान्तिमैत्र्य्आदिकोटिस् तत्त्वानुध्यानकोटिर्भवतु भवतु वा वैष्णवी भक्तिकोटिः । कोट्य्अंशोऽप्यस्य न स्यात्तदपि गुणगणो यः स्वतःसिद्ध आस्ते श्रीमच्चैतन्यचन्द्रप्रियचरणनखज्योतिरामोदभाजाम् ॥१२७॥ (२६) भजन्तु चैतन्यपदारविन्दं भवन्तु सद्भक्तिरसेन पूर्णाः । आनन्दयन्तु त्रिजगद्विचित्र माधुर्यसौभाग्यदयाक्षमाद्यैः ॥१२८॥ (९२) ज्ञानवैराग्यभक्त्य्आदि साधयन्तु यथा तथा । चैतन्यचरणाम्भोज भक्तिलभ्यसमं कुतः ॥१२९॥ (९४) हा हन्त हन्त परमोषरचित्तभूमौ व्यर्थीभवन्ति मम साधनकोटयोऽपि । सर्वात्मना तदहमद्भुतभक्तिबीजं श्रीगौरचन्द्रचरणं शरणं करोमि ॥१३०॥ (५२) सर्वसाधनहीनोऽपि परमाश्चर्यवैभवे । गौराङ्गे न्यस्तभावो यः सर्वार्थपूर्ण एव सः ॥१३१॥ (३०) ब्रह्मेशादिमहाश्चर्यमहिमापि महाप्रभुः । मुग्धबालोदितं श्रुत्वा स्निग्धोऽवश्यं भविष्यति ॥१३२॥ (१४२) दृष्टं न शास्त्रं गुरवो न पृष्टा विवेचितं नापि बुधैः स्वबुद्ध्या । यथा तथा जल्पतु बालभावात् तथापि मे गौरहरिः प्रसीदतु ॥१३३॥ (१४३) केचित्सागरभूधरानपि पराक्रामन्ति नृत्यन्ति वै केचिद्देवपुरन्दरादिष्महाक्षेपं क्षिपन्ते मुहुः । आनन्दोद्भटजालविह्वलतया तेऽद्वैतचन्द्रादयः के किं नो कृतवन्त ईदृशि पुनश्चैतन्यनृत्योत्सवे ॥१३४॥ (२७) अवतीर्णे गौरचन्द्रे विस्तीर्णे प्रेमसागरे । ये न मज्जन्ति मज्जन्ति ते महानर्थसागरे ॥१३५॥ (३५) प्रसारितमहाप्रेमपीयूषरससागरे । चैतन्यचन्द्रे प्रकटे यो दीनो दीन एव सः ॥१३६॥ (३६) गीताभागवतं पठत्वविरतं तीर्थानि संसेवतां शालग्रामशिलां समर्चयतु वा कालत्रयं प्रत्यहम् । मुक्तिभ्यो महतीं पुमान्न लभते तत्कोषभूषाङ्करीं भक्तिं प्रेममयीं शचीसुतपदद्वन्द्वानुकम्पां विना ॥१३७॥ (?) आशा यस्य पदद्वन्द्वे चैतन्यस्य महाप्रभोः । तस्येन्द्रो दासवद्भाति का कथा नृपकीटके ॥१३८॥ (९६) यस्याशा कृष्णचैतन्ये राजद्वारि किमर्थिनः । चिन्तामणिचयं प्राप्य को गूढो रजतं व्रजेत् ॥१३९॥ (९७) माद्यत्कोटिमृगेन्द्रहुङ्कृतिरवस्तिग्मांशुकोटिच्छविः कोटीन्दूद्भवशीतलो गतिजितप्रोन्मत्तकोटिद्विपः । नाम्ना दुष्कृतकोटिनिष्कृतिकरो ब्रह्मादिकोडीश्वरः कोट्य्अद्वैतशिरोमणिर्विजयते श्रीश्रीशचीनन्दनः ॥१४०॥ (१०३) अतिपुण्यैरतिसुकृतैः कृतार्थीकृतः कोऽपि पूर्वैः । एवं कैरपि न कृतं यत्प्रेमाब्धौ निमज्जितं विश्वम् ॥१४१॥ (१२६) यदि निगदितमीनाद्य्अंशवद्गौरचन्द्रो न तदपि स हि कश्चिच्छक्तिलीलाविकाशः । अतुलसकलशक्त्याश्चर्यलीलाप्रकाशैर् अनधिगतमहत्त्वः पूर्ण एवावतीर्णः ॥१४२॥ (१४१) संसारसिन्धुतरणे हृदयं यदि स्यात् सङ्कीर्तनामृतरसे रमते मनश्चेत् । प्रेमाम्बुधौ विहरणे यदि चित्तवृत्तिश् चैतन्यचन्द्रचरणे शरणं प्रयातु ॥१४३॥ (९३) अचैतन्यमिदं विश्वं यदि चैतन्यमीश्वरम् । भजेत्सर्वतो मृत्युरुपास्यममरोत्तमैः ॥??॥ (९५)