अथ सप्तविंशोऽध्यायः श्रीभगवानुवाच --- एवं कृत्वा यथाशास्त्रं दिव्यमब्जज वै पुरा । पित्र्यं तदनु वै कुर्यात्विधिदृष्टेन कर्मणा ॥ २७.१ ॥ पौष्करौवाच--- ज्ञातुमिच्छामि भगवान् त्वच्छासनस्थितैः । समुद्दिश्य पितृश्राद्धं कार्यमाचार्यपूर्वकैः ॥ २७.२ ॥ केषां केषां च तत्कार्यं कस्य कस्य च कीदृशम् । विदधाति पञ्च पञ्चैव (?कथंचैव)सम्यङ्निर्वर्तितं हि यत् ॥ २७.३ ॥ श्री भगवानुवाच --- कर्तव्यत्वेन वै कुर्यात्कर्मसन्यासिनां सदा । निर्वाणदीक्षितानां च भक्तानामपि चाब्जज ॥ २७.४ ॥ अनिर्दिष्टक्रमाणां च चतुर्थाश्रमिणां तु वै । भगवद्पदलिप्सूनां ज्ञानिनां च तथैव हि ॥ २७.५ ॥ प्रीतये मन्यसिद्धानां साधकानां तु पौष्कर । शुभजन्माप्तये शश्वन्मन्यसामुख्यसिद्धये ॥ २७.६ ॥ कार्यं तत्पुत्रकाणां तु कृपया देशिकादिकैः । कुर्याद्वै समयज्ञानां नित्यं सद्धर्मवृद्धये ॥ २७.७ ॥ भूयः सुजन्मलाभाय सद्विधाधिगमाय च । बान्धवानामातोऽन्येषां भक्तानामेवमेव हि ॥ २७.८ ॥ सद्यो दुष्कृतशान्त्यर्थं कृपया नित्यमाचरेत् । कर्ताना (?वा)कर्मसंन्यासी परिवृद्धो व्रताश्रयी ॥ २७.९ ॥ न निवाणपदंनीतो दीक्षायां भोगलालस । तीव्रभावं विना यस्तु न सिद्धो मन्यसेवनात् ॥ २७.१० ॥ निः सन्तानोऽपि वै मन्त्री न याति सिद्धिगोचरम् । नूनमेतत्द्विजश्रेष्ठ सन्मार्गस्यैः क्रियापरैः ॥ २७.११ ॥ सत्कर्तव्यप्रकारेण त्वनुग्राहयाः सदैव हि । समासाद्यात्र संयाति यथा दिव्यं परं पदम् ॥ २७.१२ ॥ आतस्तुः (?अतस्तु) दीक्षितानां च सर्वेषां सा मयाजिनाम् । अवक्तव्यं च वक्तव्यमेतत्निर्वर्तनाय च ॥ २७.१३ ॥ श्राद्धकाले तु वै मुक्तवा तैरप्यन्यत्र पद्मज । मन्त्रमुद्राक्रिया ध्यानमज्ञानादिक्रियां विना ॥ २७.१४ ॥ नाभ्यस्तव्या न योक्तव्या भक्तैः सामयिकादिभिः । समाश्रित्य निमित्तं वै देशकालादिक्तं द्विज ॥ २७.१५ ॥ क्रियते यत्पितॄणां च भवत्यनृणवान्नरः । प्रयाति तृप्तिमतुलां तेन कर्मवशादपि ॥ २७.१६ ॥ आगते गतिमायान्ति श्राद्धादाह्लादसंयुताम् । सकृद्वैकं तु बहुधा कालमादेहलक्षणम् ॥ २७.१७ ॥ युक्तं तिथिगणेन एव वात्सरीयेण पौष्कार । क्षेत्राप्तिपूर्वेणान्नेन सन्निमित्तगणेन तु ॥ २७.१८ ॥ संसारदुःखशान्त्यर्थं दुष्कृतक्षपणाय च । .... ॥ २७.१९ ॥ व्यक्ते च इन्द्रियचक्रस्य दुःखजं दुष्कृतं हि यत् । सवे (?यद्) द्यनन्तकल्पं च कर्मात्मा ये?(?सं ) यतोऽब्जजी ॥ २७.२० ॥ अतो भूतमयं देहं समन्तरमस्य वै । दुःखोपलम्भनं कल्पं यस्मात्कमलसंभव ॥ २७.२१ ॥ दुःखेन शाम्यते दुःख सन्यस्कन्धगते (?दुःखमन्यस्कन्धगतं ) यथा । स्कन्धाद्गुरुतरं भारं नृणां दुष्कृतकारिणाम् ॥ २७.२२ ॥ निद्रक्रान्तस्वपिण्डात्वै यथा निर्गत्य पौष्कर । वासनादेहमाश्रित्य नानाचेष्टां करोति च ॥ २७.२३ ॥ भूतपिण्डं विना तासां न शान्तिमनुविन्दति । एवमन्नाश्रितं पूर्वं प्राणमिन्द्रियसंग्रहम् ॥ २७.२४ ॥ व्यक्तिकृतं न वै देव (?हं )देहभावेन देहिनाम् । तावत्कर्मक्षयं तेषां कथमेति महामते ॥ २७.२५ ॥ अन्तस्तदुपचारार्थं ज्ञानपूर्वेण कर्मणा । संपाद्य यद्वशात्शीघ्रमनन्तं सुखमेधते ॥ २७.२६ ॥ सामान्यं वैष्णवानां च गुर्वादीनां विशेषतः । साधारः संप्रधानाख्यः सांप्रतं विधिः उच्यते ॥ २७.२७ ॥ निमन्त्रितं वा संप्राप्तं नित्यमङ्गीकृतं त्वथ । द्विजेन्द्रं पञ्जकालज्ञं षट्कर्मनिरतं तु वा ॥ २७.२८ ॥ स्नानादिना पुरा कृत्वा प्रयतः संविशेत्पुनः । स्वयमर्ध्याम्बुना विप्र पवित्रीकृत्य पाणिना ॥ २७.२९ ॥ सन्ताय कुसुमास्त्रेण मन्त्रारश्चाधिष्ठितेन च । समुद्धरन्नेत्रमन्त्रं मन्त्रार्थाधिष्ठितेन च ॥ २७.३० ॥ समुच्चरन्नेत्रमन्त्रमवलोक्य अथ कद्विति (?वास्त्विति ) । निवेश्य भगवत्यग्रे (?तोऽग्रे ) प्रणवाधिष्ठितासने ॥ २७.३१ ॥ पूजिते वितते पूते संमुखं वोत्तराननम् । उदक्दिग्क्षमाणं च विनिवेश्य तथा च तत् ॥ २७.३२ ॥ यथा मन्त्रेशदिग्रश्मिप्रसरेण अभिविध्यते । मन्त्रेण आराध्य तं ध्यात्वा ब्रूयात्संयता (?त ) वाग्भव ॥ २७.३३ ॥ समाधाय जगन्नाथ्र हृत्पद्मगगनेर्ऽकवत् । सप्तात्रस्याथ पात्राणां पात्राभ्यां वाब्जसंभव ॥ २७.३४ ॥ एवं कृत्वा प्रतिष्ठानं प्राग्यत्नेनात्र कर्मणि । समुद्दिश्य पितॄन् दद्यात्दानम (?मा )न्तरवेदिकम् ॥ २७.३५ ॥ निवेशितं द्विजेन्द्रं यद्वृत्तिस्थमपि मन्त्रराट् । अन्तर्वेदी तु सा ज्ञेया त्वाभ्यामभ्यन्तरं हि तत् ॥ २७.३६ ॥ संप्रदानं पितॄणां यत्कुर्यात्सत्पात्रपिण्डकम् । तद्दिव्यममलं यस्मात्चैतन्यमवलंब्यते ॥ २७.३७ ॥ तत्कालं संविभज्याश्च (?थ ) तिष्ठन्ति कमलोद्भव । प्रदातृसङ्कल्पवशात्दत्तं पुष्करसंभव ॥ २७.३८ ॥ एकस्य वा बहूनां वा प्रदद्यादासनोपरि । पुनरेवासनं दाभमिग्रन्थि बहुभिः कुशैः ॥ २७.३९ ॥ विभोः यज्ञाङ्गदेहस्य लोमानि तु कुशाः स्मृताः । ता एव नायः सर्वा तस्य भूतशरीरगाः ॥ २७.४० ॥ रश्मयो भूतदेहे तु चिन्मूर्तेः शक्तयोऽखिलाः । अत एव हि विप्रेन्द्र पितॄणां तु कुशासनम् ॥ २७.४१ ॥ श्राद्धकाले तु विहितमाहूतानां तदूर्ध्वतः । यत्किंचिद्दीयते भक्तया ब्रह्मभूतं तु तद्भवेत् ॥ २७.४२ ॥ पुरा वै हेतुनानेन नृणामविदितात्मनाम् । कर्मव्यत्र कुशाजालं विहितं कमलोद्भव ॥ २७.४३ ॥ येषां सर्वगतं ब्रह्मन्मन्त्ररूपीश्वरोऽच्युतः । भावस्थतत्वतस्ताभिस्तेषां वै न प्रयोजनम् ॥ २७.४४ ॥ अथाश्चपरिजप्तेन भूतिनावात्मशङ्कुना । मसृणेनाश्मचूर्णेन परिघासु यथाथवा ॥ २७.४५ ॥ बहिस्तदासने कार्या त्वग्रे दैर्घ्याच्छमाधिका । वैपुल्याच्छममानं तु प्राग्वत्पावनतां नयेत् ॥ २७.४६ ॥ न्यसेत्तत्राप्यभग्नाग्रानुदङ्मूलान् कुशान् द्विज । यस्माद्दिव्यमुदग्भागं पित्र्यं दक्षिणसंज्ञकम् ॥ २७.४७ ॥ स्वकेनामृतवीर्येण नित्यं संवर्धयन्ति च । दर्भमार्गच्छतेनैव पितॄणां तेऽमरान् द्विज ॥ २७.४८ ॥ वसत्यन्तः पितृगणो भागमाश्रित्य दक्षिणम् । चित्कलांशस्वरूपेण नृणामेवं हि चोत्तरे ॥ २७.४९ ॥ कृतास्पदामला नित्या त्वमृताख्याक्षया कला । अत एवं हि यत्किञ्चिदाब्रह्मविदितैः द्विज ॥ २७.५० ॥ प्रदीयते पितॄणां च तत्सत्येन तु पाणिना । येऽधिकृत्य जगद्योनिं मन्त्रात्मानमजं हरिम् ॥ २७.५१ ॥ प्रयच्छन्ति पितॄणां च तोयतर्पणपूर्वकम् । तेषां तदाश्रयत्वा यदुक्तं नानकारणम् ॥ २७.५२ ॥ कर्तव्यस्य च पारम्यं प्रकृतस्य महामते । स्फुरत्यन्तर्गतं येषां मन्त्राराधनपूर्वकम् ॥ २७.५३ ॥ तत्स्वोत्तरवशाद्येषां मन्त्रसांमुख्यदिग्वशात् । चेतसा निर्विकल्पेन कृतं भवति चाक्षयम् ॥ २७.५४ ॥ किन्तु पुष्करसम्भूत दुर्लभा भुवि चेतनाः । इति चेतसि वै येषां निश्चयीकृत्य वर्तते ॥ २७.५५ ॥ सत्यतामुपनीये (?ते )त्वेवन्यस्ये कुशाचये । तिलांस्तथाश्चजप्ताश्च तदूर्ध्वे विकिरेत्पुनः ॥ २७.५६ ॥ कुरुविन्दस्तु दर्भाग्रैर्यस्मादेतद्द्वयं द्विज । सर्वस्य भोगजालस्य जनकं भुवनत्रये ॥ २७.५७ ॥ विशेषात्पितृदेवस्य श्रद्धापूतस्य वस्तुनः । अग्नीषोमस्वरूपेण शान्त्यात्मा भगवान स्वयम् ॥ २७.५८ ॥ व्यक्तः कर्मात्मक ( त ) त्वानां मूर्तित्वेनात्मसिद्धये । स पित्र्यस्य च दिव्यस्य व्यापारस्यातिवद्धये ॥ २७.५९ ॥ तत्तेजस्तिलभावेन ह्लादो वर्तत्यपात्मना । अत एवाप्रबुद्धानां प्रबुद्धानामपि द्विज ॥ २७.६० ॥ तिलोदकेन भावं तु गच्छतः श्राद्धकर्मणि । श्राद्धस्य च परा रक्षा ते द्वे नित्यममार्न्त्रणाम् ॥ २७.६१ ॥ तत्स्वरूपविदां चै व विशेषो मन्त्रवेदिनाम् । न्यस्त्र स्त्राण्यभिजप्रानि तत्र पात्राणि विन्यसेत् ॥ २७.६२ ॥ तत्राद्यं चकवृत्तानि हेमाद्युत्थानि ( ?न्य ) संभवे । पालाशकदलीपत्रतमालच्छदनान्यथ ॥ २७.६३ ॥ पुरान्य स्त्राम्बुशद्धानि शुभपर्णमयानि च । पादयोरपि पाद्यार्थं कं क्षिपेद्दक्षिणादितः ॥ २७.६४ ॥ आमूर्धमर्चयेत्पश्चादर्ध्यपुष्पानुलेपनैः । वस्त्रस्त्रग्धूपदीपैः तु दध्यन्नं फलवादिणा ॥ २७.६५ ॥ सताम्बूलेन वित्तेन यथाशक्ति महामते । समुद्दिश्य पितॄन् सर्वान् सनाभीयान् यथाक्रमम् ॥ २७.६६ ॥ शब्दभावस्वरूपास्तु ज्ञवृत्तिस्थानविग्रहान् । बहुत्वे सति विप्राणां पितृणामेवमाचरेत् ॥ २७.६७ ॥ यत्र द्विजद्वयं विप्र पित्रर्थं विनिवेशितम् । एकास्मिन् स्वपितृणां तु तदा कार्यश्च सन्निधिः ॥ २७.६८ ॥ द्वितीये जननीयानां तथऽन्येषां तु संस्थितिम् । सर्वेषामेकप्राप्तं तु तृप्रये यदि योजितम् ॥ २७.६९ ॥ ओमाद्यमस्मच्छब्दं तु पितृभ्यस्तदनन्तरम् । इदमर्ध्यमिदं पाद्यं तदन्ते संस्मरेत्स्वधाम् ॥ २७.७० ॥ सर्वास्मिनुपचारान्ते वं वा संस्मरन्नरम् । नमः स्वधाथवा ब्रूयान्नमोन्तां त्वथवा स्वथवा स्वधाम् ॥ २७.७१ ॥ एवमेव हि यः कुर्यात्कर्तव्यत्वेन पौष्कर । तुल्यानां च स्वकुल्यानां नमस्तत्र च केवलम् ॥ २७.७२ ॥ सत्युक्ते व्यत्यये नित्यं विहितं च स्वधा द्विज । स्वयमेव हि सन्यासी ददाति च फलार्थिनाम् ॥ २७.७३ ॥ कार्यस्तेन नमस्कारः स्वधान्ते नित्यमेव हि । ददाति फलकामस्तु यो नित्यफलमार्थिनाम् ॥ २७.७४ ॥ स्वधाकारावसाने तु हितं तस्य सदा नमः । एवमिच्छवशेनै व संविभज्य पितॄन् द्विज ॥ २७.७५ ॥ पृष्ट्वा पात्रमुखेनैव सतृप्तिं च पुनः पुनः । ततोऽम्भश्चुलकं पाणौ ह्रन्मन्त्रेणामृतोपमम् ॥ २७.७६ ॥ दद्यात्पूर्णेन्दुतुल्यं तद्ध्यातव्यं तत्कलाः पढन् । सानुस्वारमकाराद्यैर्भिन्नं षोडशभिः स्वरैः ॥ २७.७७ ॥ त्वङ्कारननिनिष्टं च तत्र प्राकस्थः सतारकम् । इत्युक्तं सकलस्येन्दोर वाचकं मन्त्रमब्जज ॥ २७.७८ ॥ पाणिप्रक्षकनात्पूर्वं पातव्यं तेन पूर्ववत् । येनामृतपुरान्तस्थमन्नवीर्यमनश्वरम् ॥ २७.७९ ॥ भवत्याप्यायकृद्ब्रह्मन् पितृदेवगणस्य च । माषचूणादिना पाणिं प्रक्षाल्यामणिबन्धनात् ॥ २७.८० ॥ समाचम्योपसंहृत्य ऊच्छिष्टं तु यथाविधि । पवित्रीकृत्य वसुधां पाणौ कृत्वा तिलोदकम् ॥ २७.८१ ॥ प्रीणनं भगवत्यग्रे समुत्थायाचरेत्ततः । तवास्तु भगवन् पूर्वः प्रीतः पितृगणस्तथा ॥ २७.८२ ॥ शारीरो देवताव्यूह अ ( आ )पदा ( द्यो )द्या व्यवस्थितः । एवं सुवितते कुर्यात्कर्मत्वाराधनालये ॥ २७.८३ ॥ सङ्कटे पुनरअन्यत्र यायादभ्यर्च्य मन्त्रराट् । स्थानं संस्कारसंशुध्दं कृत्वा प्राक्तानादिना ॥ २७.८४ ॥ व्याप्तिशक्तयारितं भूतस्तोयाधारगतं स्मरेत् । मन्यमर्चनपूर्वं तु तदग्र सर्वमाचरेत् ॥ २७.८५ ॥ पात्राघ्राणपरेणैव तत्पात्रस्थेन भावयेत् । माधुयुक्तेन हविषा दर्भकाण्डैस्तिलैः सह ॥ २७.८६ ॥ निर्देषं वह्निना कृत्वा हृदा दर्भाग्रकेण तु । ध्यात्वा धाम द्रुमाकारं ज्ञस्वभावं महत्प्रभम् ॥ २७.८७ ॥ द्रव्यदोषगण कृत्स्नं निर्दहन्तं समन्ततः । देवतानां पितॄणां यत्तृप्तयेऽन्नं महामते ॥ २७.८८ ॥ तत्साधनं च विहितं संस्कृतेन पुरान्निना । द्वाभ्यां देशिकपूर्वाभ्यामे तद्विषयमब्जज ॥ २७.८९ ॥ प्रदापनमतोऽन्येषां तत्कालं तस्य वै हितम् । सदैव विधिनानेन तदर्थं शुभसिद्धये ॥ २७.९० ॥ एकस्या श्रयबीजस्य नानाकर्मवशात्तु वै । नानात्वं भावयेद्बुद्धया पितृकर्मव्यतः पुरा ॥ २७.९१ ॥ तेनैव तर्पणीयं तत्स्वयंभूता तदात्मना । मत्प्रवाहवदन्तस्थो भावयेदन्नपात्रगौ ॥ २७.९२ ॥ अर्हणाग्रहगर्भौ तु द्वौ दर्भौ तालसम्मितौ । ह्रन्मन्त्रमन्त्रितौ कृत्वा ताभ्यां सह समुद्धरेत् ॥ २७.९३ ॥ रसरूपस्वभावं तत्स्थ ( स्थू )लत्वेनान्नतां गतम् । चतुरङ्गुलमात्रं तु ग्रासं ग्रासं महामते ॥ २७.९४ ॥ अग्नीषोमाश्रयस्थस्य पूर्वं पितृगणस्य च । पितॄणां बीजभूतस्य ज्ञस्वभावस्य तत्त्वतः ॥ २७.९५ ॥ दघात्पिण्डद्वयं चै व त्वग्नीषोमसमुद्भवम् । नाडीस्वरूपौ तौ दर्भौ पिण्डेन सह तत्र वै ॥ २७.९६ ॥ लयं नीत्वा द्वितीयेन व्यवहारधियां ( ?या )ततः । पितॄणां कल्पयेत्तेन पिण्डान्यन्ये ( ? त्ने )न सांप्रतम् ॥ २७.९७ ॥ क्रमेण प्रागदृष्टानां ह्रदा संज्ञापदेन तु । एवं दृष्टस्वरूपं च ज्ञात्वा तेषां स्थितिं स्फुरम् ॥ २७.९८ ॥ प्राग्वत्स्वधावसानाघैर्मन्त्रैरोंकारपूर्वकैः । ह्रन्मन्त्रालङ्कृनैर्विप्र तदा संज्ञापदान्वितैः ॥ २७.९९ ॥ पिण्डं प्रकल्पयामीति ततः पूर्ववदाचरेत् । अञ्जनाभ्यञ्जनाद्यैस्तु ह्युपचारैः प्रपूजनम् ॥ २७.१०० ॥ क्रमेण तर्पणं कुर्यात्सतिलैश्चा म्भसा ततः । शिरसा वनते (? तौ )कृत्वा जानुपादौ क्षितौ गतौ ॥ २७.१०१ ॥ पाणियुग्मे लालारस्थे एकचिन्तः पढेदिमम् । ओं नमो वः पितरो नमो वाः (? वै )पुरुषोत्तम ॥ २७.१०२ ॥ नमो विष्णुपदस्थेभ्यः स्वधा वः पितरो नमः । हरये पितृनाथाय ह्यग्नीषोमात्मने नमः ॥ २७.१०३ ॥ सत्सोमपात्मने विष्णो नमो बर्हिषदात्मने । आसंसाराभिजनका अग्निष्वात्ता अथाच्युत ॥ २७.१०४ ॥ पितामहाः सोमपास्त्वं त्वमन्ये प्रतितामहाः । तुभ्यं नमो भगवते पितृमूर्तेऽन्युताय च ॥ २७.१०५ ॥ नारायणाय हंसाय विष्णो त्रिपुरुषात्मने । मुत्तवा त्वामेव भगवन्न नमामि अर्चयामि च ॥ २७.१०६ ॥ न तर्पयामि सर्वेश नान्यमावाहयाम्यहम् । स्तुत्वा एवं हि पितृव्यूहं भक्तया परमया पुनः ॥ २७.१०७ ॥ संभवे सति सन्धानं पिण्डमूर्तेः समाचरेत् । तदग्रतोपविष्टस्य क्रमात्पितृगणस्य च ॥ २७.१०८ ॥ अनुसन्धाय वै द्वाभ्यामेकस्मिन् वा द्विजोत्तम । ऊष्माग्रावस्थितं ध्यात्वा पित्रयं पितृगणं क्रमात् ॥ २७.१०९ ॥ प्रणवेन स्वरूपं तु समुत्थाय ततः स्वयम् । मध्यतिर्यक्स्थितौ स्थित्वा ह्यदूरं ना न्यदृक्स्थिनैः ॥ २७.११० ॥ उत्तराभिमुखैश्च एव दक्षिणस्याथवा द्विज । तदुत्तराननवशाध्रन्मन्त्रं ह्रदयान्न्यसेत् ॥ २७.१११ ॥ नमोऽन्तं प्रणवाद्यं तु मरुदम्बरविग्रहम् । पिण्डाग्रे ह्युपविष्टस्य प्राणशक्ति ( ? क्तेर )द्विजस्य वा ॥ २७.११२ ॥ बहूनां वा प्रयत्नेन स्वातन्त्रान्निर्गतो बहिः । ध्यात्वा तया सह क्षिप्रमेकीभूतत्वमागतम् ॥ २७.११३ ॥ आत्मशक्तौ लयं नीत्वा यदि ह्यूष्माख्यलक्षणा । कृत्वैवं प्राणसङ्घं च पितॄणां विप्रविग्रहे ॥ २७.११४ ॥ प्राग्वदासनसंरुद्ध भोजयेत्पूर्ववत्ततः । ओं नमत्वमृतायान्नमिदं विष्णुपुरःसराः ॥ २७.११५ ॥ देवा नद्यस्तथा गावः सूर्यः सोमो वनस्पतिः । ओं माधवोऽथ भगवान्मन्त्रमूर्तिमयो महान् ॥ २७.११६ ॥ मधुभावेन वोऽन्यस्मिन् स्थित्वा तृप्तिं करोतु वै । अनुज्झितासनं कुर्यात्पितॄणां प्रीणनाय च ॥ २७.११७ ॥ तस्मिन्नेवास्मि ( ?न् )भूभागे वस्त्वा तत्पिण्डविक्षितौ ( ? वीक्षिते ) । स्थितिः सर्वं पितॄणां च सांप्रतं कमलासन ॥ २७.११८ ॥ यावत्प्राणविमुक्तानां पिण्डानां नोपसंहृतिः । सोच्छिष्टानां कृता सम्यक्तदन्ते संव्रजन्ति ते ॥ २७.११९ ॥ स्वस्थानामाशिषं दत्वा श्राद्धकर्तुर्धिया द्विज । सामृतं सोदकं स्थाने सतिलं मन्त्रतेजसा ॥ २७.१२० ॥ विविक्तं विवृतं मार्गं पुनरागमनाय च । नारायणाख्यसन्मन्त्रकर्म ब्रह्मजवीकृते ॥ २७.१२१ ॥ स्वे स्वोन्द्रियरथे कृत्वा तृप्ता याताच्युतास्पदम् । प्राजापत्यमिदं प्रोक्तं संप्रदायसमन्वितम् ॥ २७.१२२ ॥ संप्रदानं पितॄणां च पूर्वोक्तफलवर्धनम् । समाचरेत्सदा व्यूह्य मन्त्राणां मन्त्रकर्मणा ॥ २७.१२३ ॥ नित्यं बहुत्वे द्वित्वे वा प्रयोगं कमलोद्भव । यद्येतदप्यनङ्गं च तदा वै प्रतिकर्मणि ॥ २७.१२४ ॥ ह्रदाद्यङ्गाङ्गतो योज्यमङ्गि पूर्ववदब्जज । आराध्यानाममुनेत्राणामोंङ्कारः तत्क्रियान्तरे ॥ २७.१२५ ॥ अस्मिन्नर्थे विकारस्तु य उक्तो मन्त्रपूर्वकः । समयः पुत्रकादीनामन्येषां भावितात्मनाम् ॥ २७.१२६ ॥ गुरोश्च साधकेन्द्रस्य मन्त्रो मम महामते । प्रदाने स विरुद्धश्च त्वतोऽन्यस्त्वविरुद्धकृत् ॥ २७.१२७ ॥ समयी पुत्रकादीनां वैष्णवानामपि द्विज । चतुर्णां मौग्दलान्तानां तथैवाश्रमिणा तु वै ॥ २७.१२८ ॥ दीक्षया संस्कृतानां च दीक्षितानां महामुने । सामान्यस्त्वथ सर्वत्र साङ्गः सिद्धः सुपूजितः ॥ २७.१२९ ॥ तेषां यश्चोपदेष्टव्यो मन्त्रव्यूहो हि तं शृणु । सद्वादशाक्षरो मन्त्रः कवचं ब्रह्मणे नमः ॥ २७.१३० ॥ एवं विश्वात्मने नेत्रमस्त्रं च परमात्मने । एते सप्रणवाः सर्वे शूद्राणां योग्यतावशात् ॥ २७.१३१ ॥ सम्यग्वा दीक्षितानां च तेषां वै प्रणवोज्झिताः । विहिताच ( ? श्च )यथा स्त्रीणां सदाचारवशात्तु वै ॥ २७.१३२ ॥ असम्यक्प्रतिपन्नानां शूद्राणां तु महामते । न खण्डयेत्तु मन्त्राणां नमस्कारो भवेत्पुनः ॥ २७.१३३ ॥ सजातेर्द्वादशार्णस्य तद्वदष्टाक्षरस्य च । षडक्षरस्य वै पूर्वं प्रयोज्यं पूरणार्थतः ॥ २७.१३४ ॥ यदा त्वभिहितोऽष्टार्णे त्वष्टार्णेन अवतारितः । मुख्यता द्वादशार्णस्य मन्त्रस्य विहिता तदा ॥ २७.१३५ ॥ षडक्षरस्य मुख्यत्वं भवेदुभाववशादपि । योज्यस्वष्टाक्षरो मन्त्रो नित्यमेव शिखावधौ ॥ २७.१३६ ॥ प्रणवस्य च मुख्यत्वं द्विषडष्टषडक्षराः । मन्त्रा हृदयपूर्वास्तु परिज्ञेयास्ततः क्रमात् ॥ २७.१३७ ॥ मन्त्राणां वर्मपूर्वाणां वाच्यत्वं यदि कल्प्यते । तदात्मता च विहिता तत्स्थाने प्रणवस्य च ॥ २७.१३८ ॥ देवो जितंतामन्त्रेण चित्तस्थः सन्निधीकृतः । योक्तव्यं तत्र च अङ्गानां मन्त्रषट्कं यथा स्थितम् ॥ २७.१३९ ॥ द्वादशाक्षरपूर्वं तु तृतीयं यत्प्रकीर्तितम् । तृतीयं ब्रह्मपूर्वं तु धर्मादीनां हि वाचकम् ॥ २७.१४० ॥ प्रणवः सर्वमन्त्राणामितश्च आसनकर्मणि । द्वादशाक्षरपूर्वाणां मन्त्रसामान्यकर्मणाम् ॥ २७.१४१ ॥ दर्भातिलोदकादीनां द्रव्याणां प्रतिकर्मणि । जायते च विसृष्टानाम्वुपशान्तिश्च तैजसी ॥ २७.१४२ ॥ अत एवोपयुक्तानां भोगानां कमलोद्भव । विरुद्धसंग्रहो भूयस्त्वन्यास्मिन् हि क्रियान्तरे ॥ २७.१४३ ॥ गौणी व्यक्तिः यतस्तेषामामूलाच्चिदाधिष्ठिता । वर्तते परमाश्रित्य तत्कर्तुः फलसिद्धये ॥ २७.१४४ ॥ चित्सामान्यविनिर्मुक्ता ह्ययोम्यास्ते शरीरवत् । मन्त्राणां स्थायिनो भागा यान्ति वै योग्यतां पुनः ॥ २७.१४५ ॥ कदाचिन्मन्त्रसामर्थ्यात्ज्ञानभावनया द्विज । (इति नित्यश्राद्धविधिः ) - अथ नैमित्तिकश्राद्धविधिः - नैमित्तकमतः श्राद्धविधानमवधारय । गतिप्रदं पितॄणां यत्कर्मणां सिद्धिभूरिदम् ॥ २७.१४६ ॥ सद्यः सत्पात्रसंप्राप्तिं विना नैव समाचरेत् । एवमाद्यैर्विनिर्मुक्तं श्राद्धमब्जसमुद्भव ॥ २७.१४७ ॥ तिष्ठत्यनुग्रहार्थं च यदि संप्रार्थितं हि यत् । तदा नियममातिष्ठे[दग्नि]काष्ठादनादिकम् ॥ २७.१५८ ॥ मानमात्सर्यकार्पव्यक्रोधलोभादयोऽखिलाः । दोषा दूरतरे त्याज्या ह्यानिष्पत्तिदिनावधि ॥ २७.१४९ ॥ शुद्धिपूर्वेण विधिना सुप्रयत्नेन चेतसा । प्रदत्तं फलमूलाद्यं भवेत्तदमृताधिकम् ॥ २७.१५० ॥ देशपात्रवशेनैव संपत्तो सति पद्मज । एकाहात्सप्तरात्रं तु श्रद्धया तत्समाचरेत् ॥ २७.१५१ ॥ समाश्रित्य शुभं कालमेकाहं कमलोद्भव । निर्वर्त्य परया प्रीत्या नैति कालं यथान्यथा ॥ २७.१५२ ॥ त्रयमाश्रित्य ते श्राद्धं सानुकम्पेन चेतसा । सत्वस्थेन कृतं शक्त्या शुद्धेन द्रविणेन च ॥ २७.१५३ ॥ नयत्यवश्यमचिरात्सत्यलोकं तदर्थितम् । देशकालकृतं त्वेतत्तपोलोकं ददाति च ॥ २७.१५४ ॥ देशपात्राश्रितु श्राद्धं जन ( नो )लोकं ददाति च । फलं महर्लोकगति कालपात्रवशात्कृतम् ॥ २७.१५५ ॥ केवलं देशमासाद्य दत्तं स्वर्गं प्रयच्छति । कृतं यत्कालमश्रित्य भुवर्लोकं (? का )द्विजयाते? ॥ २७.१५६ ॥ सौम्यपात्राश्रितं श्राद्धं तद्भूलोकगतिप्रदम् । सामान्यस्य च देशादेस्त्रितयस्य फलं त्विदम् ॥ २७.१५७ ॥ तत्र पुष्कर पुष्टिं हि प्रसिद्धं देहमब्जज । कालं ग्राह्योपरागाद्यं पात्रं तन्मयमब्जज ॥ २७.१५८ ॥ तथा नियमवान् सम्यक्श्राद्धहेतोर्न चान्यथा । यदुक्तं त्रितयं श्राद्धे सविशेषं हि तत्पुनः ॥ २७.१५९ ॥ भवत्युतारकं नॄणां सविज्ञानेन जन्मना । प्रसिद्धया वैष्णवं देशं पात्रस्त्रद्भ्गवन्मया (? यः ) ॥ २७.१६० ॥ द्वादश्याख्यो बृहत्कालः सङ्कान्त्याद्यैः परिष्कृतः । त्रयमेतन्महाबुद्धे सविशेषतरं यदि ॥ २७.१६१ ॥ भवत्युत्तारकं नूनं देहान्तरनिवासिनाम् । स्वयंव्यक्तेन विभुना त्वेकमूर्त्यादिनाब्जज ॥ २७.१६२ ॥ अधिष्ठितं हि सर्गादावेकदेशात्सहाम्बुना । तद्विशेषान्तरं देशं सिद्धिकृत्सर्वकर्मणाम् ॥ २७.१६३ ॥ तस्मिन् द्विजोचिते काले द्वादश्याख्ये भवेद्यदि । समुहूर्तं सनक्षत्रं वैष्णवं तेन तद्भवेत् ॥ २७.१६४ ॥ प्रोत्तारकं पितॄणां च सव्यबाहुसमन्वितम् । सम्यक्सिद्धित्रयोपेतं पञ्चकालपरायणम् ॥ २७.१६५ ॥ लब्धलक्षं परे तत्त्वे पात्रमेकायनं द्विज ( ? जं ) । संयमाद्यैरुपेतं च तन्महार्थायनात्तु वै ॥ २७.१६६ ॥ पितृणां सुगतिप्राप्तिः शश्वदेव हि जायते । वेतं ( ?गं ) च तं महावेगात्[तुल्यवेगं हि]जायते ॥ २७.१६७ ॥ देशे शुभे शुभं जन्म ज्ञानसत्कर्मणा सह । फलं शुभतरान् भिन्नान् पितॄणां त्रितयात्क्रमात् ॥ २७.१६८ ॥ ज्ञात्वैवं श्राद्धदाने तु देशकालादयो गुणाः । चित्तशुद्धिसमेताश्च समासन्नाः प्रसन्नतः ॥ २७.१६९ ॥ एतदस्त्रादिना सर्वमुपकारं हि कर्मणाम् । केवलं भक्तिपूतानां लोकधर्मरतात्मनाम् ॥ २७.१७० ॥ ज्ञानकर्मरतानां च द्विजानामधिकारिणाम् । पञ्चकालरतानां च स्वकर्मव्यब्जसंभव ॥ २७.१७१ ॥ यान्ति ?व्याघारमन्त्रेण परिक्राम्येन वै ततः ? । प्रबन्धब्रह्मवर्णत्वं ?तेषां तद्भगवान् हरिः ॥ २७.१७२ ॥ षाड्गुण्यविग्रहो देवः प्रभवाप्ययकृत्स्वयम् । गुणमुक्तसमूहेन स्वरूपादच्युतेन च ॥ २७.१७३ ॥ कालादीनां समुत्थानं षाड्गुव्यादत एव हि । न विन्दन्ति परत्वेन ते चान्यस्याच्युतं विना ॥ २७.१७४ ॥ कालादेः सूक्ष्मभूतस्य त्वाश्रयस्यामलस्य च । अतोऽनयद्भगवद्भक्तास्तन्मन्त्रज्ञानतत्पराः ॥ २७.१७५ ॥ तेषां कमलसंभूत कालाद्यमखिलं हि यत् । सर्वमन्तःस्थितं भाति तत्प्रभाववशात्स्फुटम् ॥ २७.१७६ ॥ बहिरन्तरवश्चापि यस्मादेतदधीश्व[रात्] । विश्वस्य चापि देहत्वं पुरा ते संप्रकाशितम् ॥ २७.१७७ ॥ अध्वोपदेशद्वारेण विस्तरेण त[द्]एव हि । देहज्ञं सत्क्रियानिष्ठं ज्ञानिनं वैष्णवं स्थिरम् ॥ २७.१७८ ॥ इच्छन्त्युतारकं शुद्धं पितरः स्वकुले पुमान् । देशकालादयस्त्वेवमश्रित्य प्रयतः स्वयम् ॥ २७.१७९ ॥ निस्तुषैरुज्ज्वलैः शुद्धैः सक्षीरैदब्जसंभव । सव्द्यञ्जनसमोपेतं संसाद्य श्रद्धया पुरा ॥ २७.१८० ॥ हृदा वा द्वादशार्णेन भाण्डेष्वभिनवेषु वै । विनिर्गतेषु वा पाकाद्भूयः स्नेहोक्षितेष्वथ ॥ २७.१८१ ॥ एवं वा साधनीयं च पुत्रशिष्यात्मना द्विज । भगिन्या धर्मसा ?पन्त्या ( ?पत्न्या वा ) सुहृत्सम्बन्धवर्त्मना ॥ २७.१८२ ॥ शुक्लांबरधरेणैव दक्षेण शुचिनाऽत्मना । शारीरव्याधिहीनेन क्षुत्तृष्णाविगतेन च ॥ २७.१८३ ॥ कासश्वास ....... स्वभावाथ दृक्श्रुतिहीनखर्वटैः । एवं विमुक्तादोषेण भावभक्तिपरेण च ॥ २७.१८४ ॥ संसाधनीयं श्राद्धार्थं स्वजातीयेन वै चरुः । अनुलोमेन विहितं वर्णानां चरुसाधनम् ॥ २७.१८५ ॥ दिव्ये पित्रयेऽब्जसंभूत प्रतिलोमश्च दोषकृत् । तदलाभात्क्रयक्रीतमदुष्टं कारुका ( ?कं )शुचिम् ( ?चि ) ॥ २७.१८६ ॥ पूर्वोक्तादोशनिर्मुक्तं तेनापि कमलोद्भव । अपिक्षयविधूना वा ( ?नानां ) लौस्यैकनिरतात्मनाम् ॥ २७.१८७ ॥ रजस्वलानां षण्डानामृत्वादीनां विशेषतः । श्वानसूकरमार्जारमर्कटानां तथैव हि ॥ २७.१८८ ॥ विड्वराहशिवागृध्रपूर्वाणां तु स्वचारिणाम् । तस्मात्सर्वप्रयत्नेन निवातस्थगिताम्बरे ॥ २७.१८९ ॥ निःशस्ये कुट्टिमे भूयः सुलिप्ते धवलीकृते । स्थाने मन्त्रार्चनं देवपितृदेवस्य साधनम् ॥ २७.१९० ॥ विहितं चैव सर्वेषां संभवे सति सर्वदा । अन्नव्यञ्जनभाण्डानां सर्वेषां क्रमशो द्विज ॥ २७.१९१ ॥ अन्तश्चारम्भकालो तु मध्वाज्यैः सकुशास्तिलाः । क्षेप्तव्या द्वादशार्णेन भूयः सिद्धेन संग्रहे ॥ २७.१९२ ॥ अष्टार्णेनाथ वस्त्रेण स्थगयेत्तान् प्रयत्नतः । यथा न बहिरन्योत्थं बाष्पं निर्याति पद्मज ॥ २७.१९३ ॥ ऊर्ध्वपुण्ड्रे कृते लिप्ते क्षालिते स्थ ( ?स्था )लिकाचये । वर्मणा वाससा च्छन्ने मर्यादाभ्यन्तरीकृते ॥ २७.१९४ ॥ रक्षपालं च तत्पङ्क्तौ दत्वा स्नानाद्यमाचरेत् । अग्नेर्विप्रमवासानां ?पूजास्थानस्य पौष्कर ॥ २७.१९५ ॥ भाण्डानां भागपूर्वाणां सत्सहायगणस्य च । विनियोगं पुरा कृत्वा पूर्णान्तं नित्यमाचरेत् ॥ २७.१९६ ॥ अपा..................... नात्प्रतिशाटकम् । तस्याधः शाटिकायां तु विधूयात्तनुवेष्टनम् ॥ २७.१९७ ॥ अधूतं विमलं स्वच्छं.......[विसूत्रं]वल्कलीदिकम् । नीलाञ्चितं च चत्किंचिद्विद्यते चाम्बरादिकम् ॥ २७.१९८ ॥ सर्वत्र विषयां चैव?त्वपास्य भुवनाद्बहिः । ततो धियाभिसन्धाय मन्त्रमूर्तिगतं परम् ॥ २७.१९९ ॥ यजाम्यनुग्रहार्थं च पितॄणां पुनरेव हि । निवेश्य प्राग्वदाहूय ह्यासनेषु क्रमाद्द्विजान् ॥ २७.२०० ॥ तेभ्यः प्रागाननौ पूर्वं निवेश्यौ द्वौ द्विजोत्तमौ । द्वादशारो धरो धाम त्रितयाधिष्ठितासने ॥ २७.२०१ ॥ अथोक्तान् सर्वसामान्यान् षडङ्गा द्विजवास्वराः ? । अस्त्रमन्त्रशिखायुक्तः क्रमाद्बि ....... षडन्वितम् ॥ २७.२०२ ॥ नियोज्य प्राङ्मुखस्थाभ्यां देहतादात्म्यताप्तये । स्ववाचकेन सद्धाम्नो ह्येकमूर्त्यादिकात्मना ॥ २७.२०३ ॥ न्यस्तव्यं देवताव्यूहं फड्वौषट्कारसंयुतम् । नृसिंहाख्यं सवाराहं मन्त्रमूर्तिद्वयं हि यत् ॥ २७.२०४ ॥ अग्नीषोमाख्यदैवत्यं रक्षार्थं सर्वदैव हि । अवीक्षयन्नुदग्भाग अतोऽन्ये विनिवेश्य च ॥ २७.२०५ ॥ तत्रादौ हृदयदीनामधःपङ्क्तौ निवेश्य च । दृशा सद्वर्णजानां तु सङ्घानामेवमेव हि ॥ २७.२०६ ॥ तस्य दक्षिणतश्चोर्ध्वे जननीयकुलस्य च । कवचेनापरं योज्यमेकान्तं भगवन्मयम् ॥ २७.२०७ ॥ पितृनाम्ना[द्वितीयं]च .......तस्य दक्षिणतस्ततः । तृतीयमाप्तिकारी ? च चतुर्थं हृदयेन तु ॥ २७.२०८ ॥ पितामहाभिधानेन मूर्तिमन्त्रेण पञ्चमम् । प्रतितामहनाम्ना वै योज्यमेकायनं द्विज ॥ २७.२०९ ॥ जनके जीवभावेन तदतीतत्रयं क्रमात् । निवेशनीयं तैर्मन्त्रैर्वर्तते च द्वयं क्रमात् ॥ २७.२१० ॥ प्रतितामहपूर्वं तु समतीतत्रयं न्यसेत् । सामान्येन षडङ्गेन त्वेवमुक्तं स्वकेन वा ॥ २७.२११ ॥ मन्त्रेण श्राद्धदाने तु विनियोगं द्विजार्चने । चतुर्मूर्ताधिकारेण द्विधावस्थमथोच्यते ॥ २७.२१२ ॥ सभोगमपवर्गं च मन्त्रैकस्मादवाप्यते । कैवल्यं केवलं चैव द्वितीयादमलेक्षण ॥ २७.२१३ ॥ ससुहृन्मन्त्रवर्गस्य न्यसेदव्यक्तमन्त्रराट् । त्रयाणां वासुदेवान्तं प्रद्युम्नाद्यमतः क्रमात् ॥ २७.२१४ ॥ न तद्वै सविशेषं च पुनरेव[च]मे शृणु । सुहृत्प्रपूर्वमिश्राणामनिरुद्धं हि वाचकम् ॥ २७.२१५ ॥ प्रद्युम्नमन्त्रवर्गस्य कामाद्द्वाभ्यां द्वयं ततः । प्रणवेन परं ब्रह्मस्वरूपं प्रतितामहम् ॥ २७.२१६ ॥ मह (ता तन्मु ) दाप्तमुखेनैव तर्पणं यन्महामते । नवमूर्त्यधिकारेण त्रिप्रकारमथोच्यते ॥ २७.२१७ ॥ समित्राणां च वात्सल्याद्द्विजानां विष्णुना न्यसेत् । ततो वैराजमन्त्रेण मातृवर्गस्य पौष्कर ॥ २७.२१८ ॥ त्रिभिर्नारायणद्यैस्तु पित्रादीनां त्रयं क्रमात् । विद्धि विद्धा (? द्या )ख्यमेतद्धि श्राद्धज्ञानं फलप्रदम् ॥ २७.२१९ ॥ पितॄणा यजमानस्य देहलाभे ( ? भान् ) विनैव हि । वैराजमन्त्रादारभ्य साङ्कर्षणान्तमब्जज ॥ २७.२२० ॥ समन्त्रपञ्चकं विद्धि --------------------- । प्रतितामहनिष्ठानां यतच्छ्राद्धं हि पौष्कर ॥ २७.२२१ ॥ प्रयच्छत्यात्मलाभं तु श्राद्धकर्तुः पितृष्वपि । आधाराणां -------मन्त्राद्वै -------------- ॥ २७.२२२ ॥ नियोजनं द्विजेन्द्राणां पञ्चानां श्राद्धकर्मणि । मित्रवर्गात्समारभ्य परमेतद्धि वश्वरम् ॥ २७.२२३ ॥ सामग्रीभिः समोपेतं कर्तुः पितृगणस्य च । परं यच्छति निर्वाणं सकृत्स्नं च किं पुनः ॥ २७.२२४ ॥ कालमाजीवितं विप्र श्रद्धापूतेन चेतसा । कृपया च समानानां संभवे सति पौष्कर ॥ २७.२२५ ॥ काम्येऽस्मिञ्श्राद्धदाने तु पङ्क्तया नान्यत्र योजयेत् । समूहमेकं पूर्वं तु विप्राणामुत्तराननम् ॥ २७.२२६ ॥ हृन्मन्त्रेणाब्जसंभूत सर्वेषां विन्यसेत्ततः । प्रणवेन स्वनाम्ना च ज्ञात -------हृदादिषु ॥ २७.२२७ ॥ अस्त्रभूषणहेतीश पूर्वमन्त्रान् सगोचरे । एवं वा प्राङ्मुखं शक्तया चक्रमन्त्रेण योजयेत् ॥ २७.२२८ ॥ विप्रमेकमुदग्वक्रं ( ?क्त्रं ) मुख्यमन्त्रेण योजयेत् । द्वयं चोदङ्मुखं तत्र ह्रन्मन्त्रेणानुसन्ध्य च ॥ २७.२२९ ॥ सुहृम्नित्रं द्विवेतं (?जेतं ) तु ?मातृवंशमथाब्जज । पितृवंशं हि निःशेषं स्मरेदपरदेहगम् ॥ २७.२३० ॥ मण्डले त्वम्बुपात्रस्थ चक्रं वा नृहरिं यजेत् । [विप्रमेकमुदग्वक्त्रं मुख्यमन्त्रेण विन्यसेत् ॥ २७.२३१ ॥ तृप्तये पितृवर्गस्य यथा मातृकुलस्य च । सर्वं जनमातोऽन्येषां प्रीतये च स्वशक्तितः ॥ २७.२३२ ॥ गवा ग्रासं समुद्धृत्य दद्याद्घृतमधुप्लुतम् । दर्भैस्तिलोदकैर्मिश्रं न क्षारं लवणोत्कटम् ॥ २७.२३३ ॥ आत्मवंशाधिकारेण कर्यादेवमतोऽन्यथा । पौरोहित्येन कृपया प्रीत्या वान्यस्य कस्य चित ॥ २७.२३४ ॥ निर्वर्तने तदीयं हि तत्पूर्वं विहितं कुलम् । आपादाज्जानुपर्यन्तमाजानोर्मध्यमस्त ( ?बास्ति )कम् ॥ २७.२३५ ॥ आवस्तिमूर्ध्नो हृदयमाहृदो मसतकावधि । अनिरुद्धादयो मन्त्राश्चत्वारो विनिवेश्य च ॥ २७.२३६ ॥ सुगतिप्राप्तये विप्र पितॄणां नित्यमेव हि । तृप्तये वासुदेवाद्यादामूर्ध्नस्त्वङ्घ्रिगाचरम् ॥ २७.२३७ ॥ चत्वारश्चानिरुद्धान्तो योक्तव्या वा महामते । प्रणवेन हृदि ब्रह्मन् शान्तं संविन्मयं तु वा ॥ २७.२३८ ॥ समीशनलतोयक्ष्माभूतानां व्य ( ?व्या ) पकं क्रमात् । न्यस्तव्यं वासुदेवाद्यमध्यक्षान्तं चतुष्टयम् ॥ २७.२३९ ॥ अपेक्षयानिरुद्धाद्यं पृथिव्यादिचतुर्ष्वथ । रक्षार्थं नृहरिं न्यस्त्वा नवमूर्तेः परं द्विज ॥ २७.२४० ॥ मूर्धास्यकण्ठहृन्नाभिगुह्यजानुद्वेय त्वथ । पादयोः क्ष्माधरान्तं तु न्यस्तव्यं त्वष्टकं क्रमात् ॥ २७.२४१ ॥ हृदम्बरे तु भगवान् वासुदेवोऽप्यधोक्षजः । क्ष्मान्तानां बुद्धिपूर्वाणां क्रमात्सङ्कर्षणादिकम् ॥ २७.२४२ ॥ या ( ?यो )क्तव्यमथवा विप्र पृथिव्यादिक्रमेण तु । सप्तकं भूधराख्यं तु सङ्कर्षणान्तमेव हि ॥ २७.२४३ ॥ अथ चिद्धृत्वधिष्ठाने वासुदेवं तु भावयेत् । रसलोहितमांसानां मेदोमज्जास्थिषु द्विज ॥ २७.२४४ ॥ क्रमेण शुक्लधात्वन्तं न्यसेत्सङ्कर्षणादिकम् । सप्तकं च वराहान्तमाशुक्लाद्द्वारसिद्धये ॥ २७.२४५ ॥ वराहमन्त्रादारम्य सङ्कर्षणान्तमब्जज । एवं दुष्टनिरासार्थं पूर्ववत्पात्रकं न्यसेत् ॥ २७.२४६ ॥ व्यापकत्वेन भगवान् बहिरभ्यन्तरे स्ववत् । जीववत्साङ्कर्षणं च बीजं हृत्कमलोदरे ॥ २७.२४७ ॥ सृष्टिसंहारयोगेन सप्तकं धातुसप्तके । पौष्कर उवाच--- सामान्येन स्वमन्त्रेण सति सन्निहितेन वै । कारयो?र्विग्रहे वृत्तौ ज्वालन्ताभ्यन्तरे (यथा)तु वा ॥ २७.२४८ ॥ न्यासार्चनादिमुक्तानां मन्त्राणां युज्यते कथम् । विनियोगं चतुर्णां वा नवानां मन्त्रकर्मणि ॥ २७.२४९ ॥ श्रीभगवानुवाच--- सषडङ्गो हि सामान्यः सर्वेषां विहितः सदा । साधकस्य हि मन्त्रो हि विषमः स्याद्विरोधकृत् ॥ २७.२५० ॥ अनुज्ञातः ससर्वस्य चातुरात्म्यादिकं हि यत् । गुरोरिच्छा स्वकीयात्र स्वमन्त्रादौ महामते ॥ २७.२५१ ॥ तत्रापि हि विशेषाय श्राद्धे द्वाभ्यां स उच्यते । मन्त्रग्रामे तु विन्यस्ते विप्राणामिच्छया पुरा ॥ २७.२५२ ॥ स्वमन्त्रमुपसंहृत्य स्वधाम्ना च धिया सता । ब्रह्मभावनया व्याप्त एवं कृत्वाऽश्रयादिकम् ॥ २७.२५३ ॥ यद्विप्रविग्रहे व्यस्तं मन्त्रव्यूहं तदात्मनि । अथानियोजनीयं च क्षन्तु ?तत्पाणिपूर्वकम् ॥ २७.२५४ ॥ तत्रायं ( ? त्रेदं ) विहितं विप्र विशेषं तन्निबोधतु । व्यापकत्वेन भगवान् प्राक्सव्येतरयोस्ततः ॥ २७.२५५ ॥ दक्षिणे करशाखासु द्वितीयं पञ्चसुन्यसेत् । तदन्द्वा ( ?द्वा ) मे तृतीयं हि त्वङ्गुष्ठादिक्रमेण तु ॥ २७.२५६ ॥ तलद्वये दक्षिणादावनिरुद्धमतो न्यसेत् । एकं वा वासुदेवान्तं न्यसेदिच्छावशेन तु ॥ २७.२५७ ॥ यदा नवात्मा करयोस्तदङ्गुष्ठद्वयेऽच्युतः । अष्ठकं च वराहन्तं प्राग्वदातर्जनेः क्रमात् ॥ २७.२५८ ॥ वामतर्जन ( ?नि )निष्ठं तु वासुदेवान्तमेव वा । स्वाहामध्योदितं कृत्वा पूजासारे ? तथा ( चेने )नले ॥ २७.२५९ ॥ हुतमप्यनलं भूतं प्राग्वत्पाव ( न )कतां नयेत् । एवमिच्छावशेनैव मन्त्राणां परिवर्तनम् ॥ २७.२६० ॥ स्वाराध्या नवनिष्ठानां श्राद्धकालेऽविरोधकृत् । एवं नियोजनं कृत्वा शिरसाभ्यर्च्य सांप्रतम् ॥ २७.२६१ ॥ सासनं पुष्पपात्रेण समूहं भगवन्मयम् । तन्मध्येम्भश्चलं चित्तं पञ्चेन्द्रियसमन्वितम् ॥ २७.२६२ ॥ कुर्यात्तांम( ?तन्म )न्त्रपीठस्थं मध्ये पारेऽथवा हृदि । कालमाचमनान्तर्ं ( थं )तु मदनुग्रहकाम्यया ॥ २७.२६३ ॥ सन्निधाने द्विजानां च विभोः सज्वलनस्य च । भाव्यं सुयन्त्रितेनैव सर्वज्ञेनापि जन्तुना ॥ २७.२६४ ॥ एवं भूतैः द्विजेन्द्रैस्तु ( स्तैः ) बुद्धया तु सुविशद्धया । श्रद्धेयमखिलं तस्य सानुकम्पेन चेतसा ॥ २७.२६५ ॥ यस्मादब्जसमुद्भूत मानं यदुभयात्मकम् । नासकृत्सर्वभावानां विशेषाच्छ्राद्धकर्मणि ॥ २७.२६६ ॥ समये[तस्य]योज्यं तत्पूरण ( ?णं ) सर्वकर्मणाम् । पावनं तृप्तिजननं किं पुनः पितृकर्मणि ॥ २७.२६७ ॥ आदाय मनसा मान्त्रीमाज्ञां वै शिरसा सह । हार्दमापाद्य वै श्राद्धं द्रव्योत्थं यद्वशाद्द्विज ॥ २७.२६८ ॥ सफलं स्यात्पितॄणां तु ज्ञानमूलं हि तत्त्वतः । अन्यथा हेतुना केन पितॄणां तद्गतिपदम् ॥ २७.२६९ ॥ मूलं विना क्ष्मां नाभ्येति पादपानां यथा तथा । ज्ञानमाह्लादपूर्वेण फलत्याशु च वर्त्मना ॥ २७.२७० ॥ कारणं सर्वेन्द्रियाग्रामं बहिर्वृत्तिगतं हि यत् । स्वयमात्मनि संलीनं कृत्वा हृत्कमलाम्बरे ॥ २७.२७१ ॥ स्वभावशक्त्या संपूर्य समास्ते सांप्रतं तु तत् । स्वरूपाद्वन्दनं कुर्याद्विभोः सर्वेश्वरस्य च ॥ २७.२७२ ॥ शान्तसंवित्स्वरूपस्य स्पन्दानन्दमयात्मनः । तावच्युतं हि चित्स्पन्दं स्वयं परिणतं स्मरेत् ॥ २७.२७३ ॥ सहस्त्रशशिसूर्याग्निप्रभया प्रोज्वलं स्थिरम् । मरीचिचक्रसंपूर्णचिद्गर्भं सर्वतोमुखम् ॥ २७.२७४ ॥ चिदम्बरान्तरावस्थं सुशान्तं भगवत्पदम् । तच्छक्ति ( तच्चित्र ) ज्ञाननाडेर्वै विलक्षणतरं हि यत् ॥ २७.२७५ ॥ स्मरेन्मरीचिकोणस्थं स्वभावाह्लादपिण्डकम् । स्वकं पितृसमूहं तु स्फुरन्तं कर्मशान्तये ॥ २७.२७६ ॥ महतः पावकाद्यद्वच्छक्तिर्दहनलक्षणा । अङ्गारकणमाश्रित्य बाह्यमायाति पौष्कर ॥ २७.२७७ ॥ तद्वदेव हि निर्यातः किन्तु सङ्क्स्पनिश्चयात् । अग्नीषोमौ समाश्रित्य पितरश्चेश्वरेच्छया ॥ २७.२७८ ॥ प्रकाशमन्त्रराड्बाह्यं मायाकाशव[शाद्]द्विज । क्रमेण यत्ततः स्वेषां सुखदुःखतरं तु वा ॥ २७.२७९ ॥ मूलान्तःकरणेनैव सेन्द्रियेण समाब्जज । मायाकाशवृतेनैव हृन्मन्त्रं भ्रामयेक्त्ततः ॥ २७.२८० ॥ तद्दुः (खमु ) खादुपशान्त्यर्थं रश्मिरन्ध्रेण केनचित् । ज्ञानतस्त्वरविन्दाक्ष तदाकाशावधेः पुनः ॥ २७.२८१ ॥ तत्कालं तत्कुलोद्भेतमनुभाववशाद्द्विज । अग्नीषोमाश्रयस्थं च चित्पिण्डं तत्तु वै क्रमात् ॥ २७.२८२ ॥ अन्तःकरणबीजं तु महामोहबलोज्झितम् । ज्ञानान्तमंबरान्तस्थं सुसूक्ष्मं सततोदितम् ॥ २७.२८३ ॥ क्ष्मान्तं नारायणाद्यैस्तु ह्यध्यक्षान्तैरधिष्ठितम् । प्राणब्रह्मावसानैर्वा वासुदेवादिकैः क्रमात् ॥ २७.२८४ ॥ बुद्धया व्याप्तैर्यथावस्थैः प्रभवस्थितिलक्षणैः । मन्त्राङ्गैर्ज्ञस्वरूपैर्वा पञ्चभिर्लोचनोज्झितैः ॥ २७.२८५ ॥ यद्वशात्प्रतिपत्तिर्वै कर्तुर्भवति सुस्फुटा । सन्निवेशवशेनातो हार्देऽस्मिन् पितृतर्पणे ॥ २७.२८६ ॥ स्वानुष्ठानवशेनापि मन्त्राणाम्मुदयान् स्मरन् । अमूर्तमथवा मूर्तमधिदैवव्यवस्थया ॥ २७.२८७ ॥ चिद्बीजनिचयाधार ( ?रं ) ब्द्यात्मकं यत्पुरोदितम् । -------ताभिः संपूर्णमन्तःकरणशक्तिभिः ॥ २७.२८८ ॥ अभिन्नलक्षणेनैव प्रणवेन महामते । ध्यायोच्चित्कर्णिकामध्ये भूमौ बीजत्वमागतम् ॥ २७.२८९ ॥ सतुर्यमपृथग्भूतैः सत्वाद्यैरनुपप्लुतम् । तस्माद्विनिर्गतं ध्यायेत्त्रितयेनाभिरञ्जितम् ॥ २७.२९० ॥ प्रतितामहसंज्ञं तु चैतन्यत्वेन पौष्कर । सुषुप्तिरूप (संज्ञ ) ताप्राप्तमीषत्कालुष्यमागतम् ॥ २७.२९१ ॥ विश्रान्तं कर्णिकाकाशदेशे चिद्भास्करोदरे । तदुद्देशं ततस्तमाच्चैतन्यान्निर्गतं स्मरेत् ॥ २७.२९२ ॥ स्वेनान्तःकरणेनैव रञ्जितं स्वं पितामहम् । एकारेण स्वनाम्ना च स्वप्नेनाविष्वकृतस्य च ॥ २७.२९३ ॥ संस्थितिं संस्मरेत्तस्य द्वयात्मना माश्रितस्य च । चिदंशस्य वै कण्ठदेशे नाभ्यन्तराम्बरे ॥ २७.२९४ ॥ मनोबुद्धिरहङ्काररञ्जितं संस्मरेत्ततः । जाग्रेणाकूलितेनैव पिता चैतन्यमब्जज ॥ २७.२९५ ॥ ब्रह्मनायन्तराकाशे ब्रह्मरन्ध्रपथावनौ । व्द्यात्मके जीवकोशे तु कारणे तुर्यलक्षणे ॥ २७.२९६ ॥ दैवत्यं वासुदेवं च साकारं वार्ऽकबिम्बवत् । तदात्मना च बोद्धव्यौ विबुधौ विश्वसंज्ञकौ ॥ २७.२९७ ॥ तन्मूलं हि यतः सर्वं कर्मिणां पितृसंग्रहः । प्रतितामहसंज्ञं वै त्वधिष्ठायाथवा भवेत् ॥ २७.२९८ ॥ मध्याह्नभास्कराकारं मूर्तं वा ज्ञानमूर्तिभृत् । पैतामहीयमेवं हि चैतन्यं कमलोद्भव ॥ २७.२९९ ॥ प्रद्युम्नाधिष्ठितं ध्यायेत्स्वस्थानेन पुरोदितम् । पिता ( ?त्रा ) धिदेवतारूपमनिरुद्धमतः स्मरेत् ॥ २७.३०० ॥ मूर्ध्नश्छिद्रप्रवेशे तु अमूर्तं मूर्तमेव वा । आराध्य मन्त्रेणाढ्यं वा स्थानं कुर्यादधिधिष्ठितम् ॥ २७.३०१ ॥ हृन्मन्त्रेणापरं विप्र शिरसा तत्परं तु तत् । शिखाधिदैवतं ध्यायेच्चतुर्थं सर्वदैव हि ॥ २७.३०२ ॥ शक्तिमन्त्रेण तनुतीं हृन्मन्त्रानुगतां स्मरेत् । शिरसा सह चास्त्राख्यं शिखया सह लोचनम् ॥ २७.३०३ ॥ नवमूर्तेश्चतुष्कं तु चिद्रूपं केवलं हृदि । सत्तामात्रस्वरूपाभिर्विभिन्नं गुणशक्तिभिः ॥ २७.३०४ ॥ ओं तत्सदिति चैतद्वत्कर्णिकागहनान्तरे । व्यक्तं कण्ठावधोद्देशं कुर्याद्गरुडगादिना ॥ २७.३०५ ॥ ब्रह्मरन्ध्रग्रतं ध्यायेत्खवराहनृकेसरि[ ?म्] । भिन्नत्वे भेदबुद्धया तु यथैकस्मिन् हि जायते ॥ २७.३०६ ॥ स्वभावशीतलं चोष्णं स्वादु भिन्नजलद्वयम् । एवं भोगाप्तये कुर्यादेतस्माद्वमत्ययं हि ये ( ?यः ) ॥ २७.३०७ ॥ ज्ञेयं तन्मोक्षदं विप्र नित्यमेवाफलार्थिनाम् । तनुत्रास्त्रदृशो मन्त्राः हृदयान्मसतकावधि ॥ २७.३०८ ॥ न्यस्याधिदेवतात्वेन शक्तित्वेन हृदादयः । ज्ञानादीनां हि वै यस्माद्भोग्यास्त्रीणि ( ?स्त्रा )बलादयः ॥ २७.३०९ ॥ ते च षढृदयादीनि निर्णीतानि च वै पुरा । एवं कारणमूलं तु देहे पितृगणं क्रमात् ॥ २७.३१० ॥ न्यस्त्वा मनीषितैरन्यैश्चिद्रूपैः पितृभिः सह । सन्तर्पणं ततः पार्श्वे विश्वेदेवपुरस्सरम् ॥ २७.३११ ॥ जलक्षणेन सन्तर्प्यौ प्रणवेन तु तौ पुरा । परमानन्दगर्भेण सहस्त्रशशिरश्मिना ॥ २७.३१२ ॥ हृदिप्राणकलामूले प्रोच्चरत्प्रणवं स्मरेत् । दुग्धबुद्बुदसङ्काशममृतं हिमशीतलम् ॥ २७.३१३ ॥ तरसारतयं तं च ( ? तारकासारभूतं च )ज्ञाननाडीक्रमं महत् । यमाश्रित्य च तिष्ठन्ति विश्वेदेवपुरस्सराः ॥ २७.३१४ ॥ पितरो भगवद्रूपाः साकारा वह्निराकृतिः । ब्रह्मरन्ध्रावधिं यावद्विसर्पन्तं स्मरेत ( ?च्च ) तत् ॥ २७.३१५ ॥ संपूर्णेन्दुत्वमापन्नं भावयेत्तत्र तद्द्विज । यत्पित्र्यदैवतं मन्त्रं ब्रह्मरन्ध्रोपरि स्थितम् ॥ २७.३१६ ॥ प्राणशक्तिर्ज्वलद्रूपा तदीया तच्छिरोपरि । सूर्यमण्डलमध्यस्था युगान्तानलवत्स्मरेत् ॥ २७.३१७ ॥ तत्तेजसावलीनं तद्धयायेन्मण्डलमामृतम् । जनकीयकरन्ध्रेण प्रतिस्त्रोतीकृतं पुनः ॥ २७.३१८ ॥ ( अत्र ग्रन्थपात इव ) मूलनिष्ठं क्रमाद्धयायेत्चेतसा निर्मलेन तु । एवं गतपिपासार्थः प्राग्वदोङ्कारमुच्चरन् ॥ २७.३१९ ॥ तुर्यभूमिं तु पित्रादिलयध्यानधिया नयेत् । इति भोगाप्तये कुर्याद्भूयो भूयो द्विजोत्तम ॥ २७.३२० ॥ पितॄणाममृतं श्राद्धं सर्वदुःखक्षयप्रदम् । प्रकाशाह्लादपिण्डस्थं कृत्वा पितृगणं तु वै ॥ २७.३२१ ॥ अन्तर्मायाम्बराद्यन्तं क्षीणसंस्कारलक्षणम् । आमूलादुल्लसन्तं च ऊर्ध्वदेहव्यपेक्षया ॥ २७.३२२ ॥ औदयेन क्रमेणैव सूर्यबिम्बमिवाम्बरे । तत्पुनर्विलयीकुर्याच्चन्द्रभावनया यथा ॥ २७.३२३ ॥ न रोगमायाति पुनः कर्मभमौ सचित्फलः । एवं यत्पातयेत्पिण्डं ब्रह्मक्षेत्रसमाश्चिते ॥ २७.३२४ ॥ अनन्ते विपुले पूर्णे चिद्रूपे त्वस्फुटं द्विज । स्ववंशोत्तारकं विद्धि ज्ञानकर्मपरायणम् ॥ २७.३२५ ॥ किन्त्वसौ दुर्लभो यस्य भावनैषां हि तत्त्वतः । भगवद्भक्तिपूता ( त्मा ? )तन्मन्त्रैक ( ?मन्त्र ) परायणः ॥ २७.३२६ ॥ प्रवर्तेताथ सिद्धयर्थं बाह्यतश्श्राद्धकर्मणि । मन्त्रेशवह्निविप्राणां सन्निधाने यथाक्रमम् ॥ २७.३२७ ॥ अभ्यर्थासनकर्माख्यं मन्त्रं यदवतारितम् । भगवन् पुण्डरीकाक्ष पित्र्यं वर्गं हि मामकम् ॥ २७.३२८ ॥ स्वयं श्राद्धात्मना भूत्वा प्रोद्धरस्व भवार्णवात् । भुङ्क्ष त्वं शक्तिनिष्ठेन स्वयं ज्ञानादिकेन वै ॥ २७.३२९ ॥ करणेन बलाद्यं हि भोगजालं त्रिलक्षणम् । एवमभ्यर्थयित्वा च ह्यभिसन्धाय चेतसा ॥ २७.३३० ॥ क्रमात्पितृगणं सर्वमिदमुच्चार्य वै ततः । ओमोमोमों पितॄणां च तृप्तये परमेश्वर ॥ २७.३३१ ॥ उत्तारणार्थमपि वै यजाम्योमों नमो नामः । सकृच्चतुर्धा नवधा त्विमुच्चार्य चेतसा ॥ २७.३३२ ॥ स्मरन् बाह्याम्बरावस्थं विन्यस्तं यत्परात्मनि । ततो विभवतः सर्वैरर्ध्यपाद्यपुरस्सरैः ॥ २७.३३३ ॥ भोगैस्ताम्बूलपर्यन्तैर्मन्त्रनाथं यजेद्द्विज । तत्रेदं सर्वसामान्यं भोगोपादानकर्मणि ॥ २७.३३४ ॥ मन्त्रमुच्चारणीयं च श्राद्धदानेषु सर्वदा । ओं वौषडमृताभं तु बलवीर्यमयं त्विदम् ॥ २७.३३५ ॥ तेजःस्वभावममलं भोगं भुङ्क्ष्वों नमो नमः । नैवेद्यं विद्यमानं तु प्रोक्षयित्वा दृशा बृहत् ॥ २७.३३६ ॥ एवं यदबृहद्रूपं पाणौ कृत्वा तु पात्रगम् । तथा चाविद्यमानं यन्मनसा वाद्य धारणा ॥ २७.३३७ ॥ पितॄणां तृप्तये ह्येवमिष्ट्वा मन्त्रेश्वरं ततः । ततारा ?दर्भलोपे (भे ) तं प्रदद्याद्देहमोदकम् ॥ २७.३३८ ॥ ओं नमोऽस्मप्तितृगणात्प्रीतो भव जगन्मय । तेषामस्त्विदमक्षय्यं यत्कृतं च त्वयाऽत्मसात् ॥ २७.३३९ ॥ इति कर्तव्यता सा वै पैत्रं स्थानात्मना नयेत् । मन्त्रेशरोमकूपानामाशयं चोदयार्कवत् ॥ २७.३४० ॥ बहिर्हृत्कमलोद्देशे स्मरेत्पितृगणं क्रमात् । अथान्तर्माननिष्ठं तु ह्यर्घ्याद्यैः भोगसंचयैः ॥ २७.३४१ ॥ द्रवत्पूर्णेन्दुधवलं मरीचिचयसंकुलम् । संविशन्तं स्वशक्त्या वै ध्यायेन्मन्त्रात्मनि स्थिते ॥ २७.३४२ ॥ तेजोमये पितृव्यूहे पितृसंङ्घं हि तत्पुनः । मध्याह्नार्कायुताभं च संस्मरेद्वि (द्वि )स्फुरत्प्रभम् ॥ २७.३४३ ॥ तद्वयापारे निवृतेऽथ रोमरन्ध्रे शनैश्शनैः । मन्त्रहृत्पुष्कराकाशमाक्रान्तं तैः स्मरेदथा ( ?थ ) ॥ २७.३४४ ॥ पीठसन्निहितं मन्त्रादादायेन्दुधिया ततः । यायादग्निसमीपं तु ध्यायेत्तत्रोदितं प्रभुम् ॥ २७.३४५ ॥ सन्तर्प्य विधिना भक्त्या पूर्णान्तं मन्त्रराट्ततः । तत्रापाद्य श्चरुः प्राग्वत्तथा पिण्डार्थमोदनम् ॥ २७.३४६ ॥ मध्वाज्यतिलदर्भाणां संपुटे रजतान्विते । अभिमान्त्रितमाराध्यैस्ततस्तैस्ताडनादिभिः ॥ २७.३४७ ॥ नीत्वा निर्देषतां पश्चात्स्थगयेदम्बरादिना । अथानुसन्धानपूर्वं साधारं त्वासनं यजेत् ॥ २७.३४८ ॥ क्रमात्कुशानामूर्ध्वे तु यथास्थानविभागशः । संसिच्य प्रणवेनाथ सतिलेन तु वारिणा ॥ २७.३४९ ॥ हेमपूर्वाणि तत्राग्रे पात्राणि क्रमशो न्यसेत् । पित्राद्यनुक्रमेणैव त्वादावन्त्ये ( ? न्ते )तदग्रतः ॥ २७.३५० ॥ मन्त्रपूर्वेण नाम्ना तं सनमस्केन निक्षिपेत् । तिलास्त्वम्बुकुशाग्राणि त्विदं तेर्ऽघ्यं पठन् क्रमात् ॥ २७.३५१ ॥ प्रतितामहपर्यन्तामेवं कृत्वार्ध्यकल्पनाम् । कामोऽन्यस्मिन् श्राद्धदाने ह्येवमन्येष्वपि द्विज ॥ २७.३५२ ॥ पूर्ववन्नामगोत्रे तु ह्यर्ध्यमापाद्य पात्रगम् । पृथक्पृथग्वा पात्राणामासीनद्विजसङ्खयया ॥ २७.३५३ ॥ प्रकल्पितमथ स्वं स्वं नीत्वा सार्ध्यं तु भोजनम् । प्रतितामहनिष्ठानां पाणौ दद्यात्कुशान्वितम् ॥ २७.३५४ ॥ सावशेषं तथान्येषां हस्तेर्ऽध्यं प्रतिपाद्य च । कुर्यात्सार्ध्योदकानां च सुमर्यादासु चान्तरे ॥ २७.३५५ ॥ संस्थानं सर्वपात्रस्य दत्ते सार्ध्योदके सति । विप्रपाणिघृतेनाथ तेन चार्ध्योदकेन तु ॥ २७.३५६ ॥ विसृज्य नयने स्वे वै पात्रेऽन्यस्मिंस्ततो द्विज । क्रमादाहृत्य तत्तोयं प्रयायादग्निसन्निधिम् ॥ २७.३५७ ॥ ततस्तदग्रे तत्पात्रं तिलाम्बुपरिपूरितम् । कृत्वा तस्मिन् धिया ध्यायेद्विष्टरं परमेश्वरम् ॥ २७.३५८ ॥ संविभज्य पितृव्यूहं तत्रोङ्कारेण भावयेत् । विमलाम्बरसंस्थ तु यथा नक्षत्रसञ्चयम् ॥ २७.३५९ ॥ तथा कमलसंभत तस्मिन् पात्रान्तरे स्थिते । अपावन्यच्युताकाशे ह्लादवृत्तौ विभावयेत् ॥ २७.३६० ॥ अन्तः सर्वेश्वरं देवं स्पन्दमानं स्वतेजसा । ततोर्ऽध्यैः कुसुमैर्गन्धैः कृत्वा तेषां पुरार्चनम् ॥ २७.३६१ ॥ मधुलिप्ते कुशाकाण्डे तत्र द्वे सलिले न्यसेत् । स्थगयित्वा परेणैव पात्रेण च कजेन तु ॥ २७.३६२ ॥ द्यावापृथिव्यौ ते पात्रे बोद्धव्ये द्विज पूरिते । निधाय चार्ययित्वा तु स्वोत्तरोत्तरमूलतः ॥ २७.३६३ ॥ तासु सूक्ष्मपितृव्यक्तिं सामान्यचिस्वरूपं तु तारशब्दैकता गतम् ॥ २७.३६४ ॥ स्ववृत्तिमार्गेणायातां रुद्धां कुर्यात्कुशासने । नत्रोदितक्रमेणैव प्रभावेन विभावयेत् ॥ २७.३६५ ॥ क्वचिच्छब्दैकवृत्तौ तु पूर्वलक्षणलक्षिताम् । पङ्क्तीभूतां स्थितिं पैत्रीमनुमूर्ति प्रकाशिताम् ॥ २७.३६६ ॥ तिलोदकेन संपूर्य अर्ध्यपात्रात्कराञ्जलिम् । धारां सन्तानवद्दद्यात्क्रमात्तद्वै पठन् द्वि