कृष्णामृतमहार्णवः ओं. अर्चितः संस्मृतो ध्यातः कीर्तितः कथितः श्रुतः यो ददात्यमृतत्वं हि स मां रक्षतु केशवः. ॥ १ ॥ तापत्रयेण संतप्तं यदेतदखिलं जगत् वक्ष्यामि शान्तये ह्यस्य कृष्णामृतमहार्णवम्. ॥ २ ॥ ते नराः पशवो लोके किं तेषां जीवने फलम् यैर्न लब्धा हरेर्दीक्षा नार्चितो वा जनार्दनः. ॥ ३ ॥ संसारेऽस्मिन्महाघोरे जन्मरोगभयाकुले अयमेको महाभागः पूज्यते यदधोक्षजः. ॥ ४ ॥ स नाम सुकृती लोके कुलं तेन ह्यलंकृतम् आधारः सर्वभूतानां येन विष्णुः प्रसादितः. ॥ ५ ॥ यज्ञानां तपसां चैव शुभानां चैव कर्मणां तद्विशिष्टफलं नृणां सदैवाराधनं हरेः. ॥ ६ ॥ कलौ कलिमलध्वंसिसर्वपापहरं हरिम् येऽर्चयन्ति नरा नित्यं तेऽपि वन्द्या यथा हरिः. ॥ ७ ॥ नास्ति श्रेयस्करं नृणां विष्णोराराधनान्मुने युगेऽस्मिंस्तामसे लोके सततं पूज्यते नृभिः. ॥ ८ ॥ अर्चिते सर्वदेवेशे शङ्कचक्रगदाधरे अर्चिताः सर्वदेवाः स्युर्यतः सर्वगतो हरिः. ॥ ९ ॥ स्वर्चिते सर्वलोकेशे सुरासुरनमस्कृते केशवे कंसकेशिघ्ने न याति नरकं नरः. ॥ १० ॥ सकृदभ्यर्च्य गोविन्दं बिल्वपत्रेण मानवः मुक्तिभागी निरातङ्की विष्णुलोके चिरं वसेत्. ॥ ११ ॥ सकृदभ्यर्चितो येन हेळयाऽपि नमस्कृतः स याति परमं स्थानं यत्सुरैरपि दुर्लभम्. ॥ १२ ॥ णारदः: समस्तलोकनाथस्य देवदेवस्य शार्ङ्गिणः साक्षाद्भगवतो विष्णोः पूजनं जन्मनः फलम्. ॥ १३ ॥ ড়ुलस्त्यः: भक्त्या दूर्वाङ्कुरैः पुम्भिः पूजितः पुरुषोत्तमः हरिर्ददाति हि फलं सर्वयज्ञैश्च दुर्लभम्. ॥ १४ ॥ विधिना देवदेवेशः शङ्खचक्रधरो हरिः फलं ददाति सुलभं सलिलेनापि पूजितः. ॥ १५ ॥ नरके पच्यमानस्तु यमेन परिभाषितः किं त्वया नार्चितो देवः केशवः क्लेशनाशनः. ॥ १६ ॥ ढर्मः: नरसिंहो हृषीकेशः पुण्डरीकनिभेक्षणः स्मरणान्मुक्तिदो नृणां स त्वया किं न पूजितः. ॥ १७ ॥ द्रव्याणामप्यभावे तु सलिलेनापि पूजितः यो ददाति स्वकं स्थानं स त्वया किं न पूजितः. ॥ १८ ॥ गर्भस्थितामृता वाऽपि मुषितास्ते सुदूषिताः न प्राप्ता यैर्हरेर्दीक्षा सर्वदुःखविमोचनी. ॥ १९ ॥ ंार्कण्डेयः: सकृदभ्यर्चितो येन देवदेवो जनार्दनः यत्कृतं तत्कृतं तेन सम्प्राप्तं परमं पदम्. ॥ २० ॥ धर्मार्थकाममोक्षाणां नान्योपायस्तु विद्यते सत्यं ब्रवीमि देवेश हृषीकेशार्चनाहते. ॥ २१ ॥ तस्य यज्ञवराहस्य विष्णोरमिततेजसः प्रणामं येऽपि कुर्वन्ति तेषामपि नमो नमः. ॥ २२ ॥ ंरीचिः: अनाराधितगोविन्दैर्नरैः स्थानं नृपात्मज न हि सम्प्राप्यते श्रेष्ठं तस्मादाराधयाच्युतम्. ॥ २३ ॥ आत्रिः: परः पराणां पुरुषस्तुष्टो यस्य जनार्दनः स चाऽप्नोत्यक्षयं स्थानमेतत्सत्यं मयोदितम्. ॥ २४ ॥ आङ्गिराः: यस्यान्तः सर्वमेवेदमच्युतस्याख्ययात्मनः तमाराधय गोविन्दं स्थानमग्र्यं यदीच्छसि. ॥ २५ ॥ ড়ुलहः: परं ब्रह्म परं धाम योऽसौ ब्रह्म सनातनम् तमाराध्य हरिं याति मुक्तिमप्यतिदुर्लभाम्. ॥ २६ ॥ ऐन्द्रमिन्द्रः परं स्थानं यमाराध्य जगत्पतिम् प्राप यज्ञपतिं विष्णुं तमाराधय सुव्रत. ॥ २७ ॥ प्राप्नोत्याराधिते विष्णौ मनसा यद्यदिच्छति त्रैलोक्यान्तर्गतं स्थानं किमु लोकोत्तरोत्तरान्. ॥ २८ ॥ ये स्मरन्ति सदा विष्णुं शङ्खचक्रगदाधरम् सर्वपापविनिर्मुक्ताः परं ब्रह्म विशन्ति ते. ॥ २९ ॥ ततोऽनिरुद्धं देवेशं प्रद्युम्नं च ततः परम् ततः संकर्षणं देवं वासुदेवं परात्परम्. ॥ ३० ॥ वासुदेवात्परं नास्ति इति वेदान्तनिश्चयः वासुदेवं प्रविष्टानां पुनरावर्तनं कुतः. ॥ ३१ ॥ आत्रेयः: यो यानिच्छेन्नरः कामान्नारी वा वरवर्णिनी तान् समाप्नोति विपुलान् समाराध्य जनार्धनम्. ॥ ३२ ॥ ড়ुलह सग्ते: Bरह्मा: बाहुभ्यां सागरं तर्तुं क इच्छेत पुमान् भुवि वासुदेवमनाराध्य को मोक्षं गन्तुमिच्छति. ॥ ३३ ॥ शंकरः: कृते पापेऽनुतापो वै यस्य पुंसः प्रजायते प्रायश्चित्तं तु तस्योक्तं हरिसंस्मरणं परम्. ॥ ३४ ॥ न ह्यपुण्यवतां लोके मूढानां कुटिलात्मनां भक्तिर्भवति गोविन्दे स्मरणं कीर्तनं तथा. ॥ ३५ ॥ तदैव पुरुषो मुक्तो जन्मदुःखजरादिभिः जितेन्द्रियो विशुद्धात्मा यदैव स्मरते हरिम्. ॥ ३६ ॥ प्राप्ते कलियुगे घोरे धर्मज्ञानविवर्जिते न कश्चित्स्मरते देवं कृष्णं कलिमलापहम्. ॥ ३७ ॥ न कलौ देवदेवस्य जन्मदुःखापहारिणः करोति मर्त्यो मूढात्मा स्मरणं कीर्तनं हरेः. ॥ ३८ ॥ ये स्मरन्ति सदा विष्णुं विशुद्धेनान्तरात्मना ते प्रयान्ति भवं त्यक्त्वा विष्णुलोकमनामयम्. ॥ ३९ ॥ गर्भजन्मजरारोगदुःख संसारबन्धनैः न बाध्यते नरो नित्यं वासुदेवमनुस्मरन्. ॥ ४० ॥ यममार्गां महाघोरं नरकाणि यमं तथा स्वप्नेऽपि च न पश्येत यः स्मरेद्गरुडध्वजम्. ॥ ४१ ॥ हृदि रूपं मुखे नाम नैवेद्यमुदरे हरेः पादोदकं च निर्माल्यं मस्तके यस्य सोऽच्युतः. ॥ ४२ ॥ गोविन्दस्मरणं पुंसां पापराशिमहाचलम् असंशयं दहत्याशु तूलराशिमिवानलः. ॥ ४३ ॥ आगस्त्यः: स्मरणादेव कृष्णस्य पापसङ्घातपञ्जरम् शतधा भेदमायाति गिरिर्वज्रहतो तथा. ॥ ४४ ॥ कृष्णे रताः कृष्णमनुस्मरन्तः तद्भावितास्तद्गतमानसाश्च. ते भिन्नदेहाः प्रविशन्ति विष्णुं हविर्यथा मन्त्रहुतं हुताशे. ॥ ४५ ॥ सा हानिस्तन्महत्छिद्रं सा चान्धजडमूकता यन्मुहूर्तं क्षणं वाऽपि वासुदेवो न चिन्त्यते. ॥ ४६ ॥ नारायणो नाम नरो नराणां प्रसंह्य चोरः कथितः पृथिव्याम् अनेकजन्मार्जितपापसञ्चयं दहत्यशेषं स्मृतमात्रयैव. ॥ ४७ ॥ यस्य संस्मरणादेव वासुदेवस्य शार्ङ्गिणः कोटिजन्मार्जितं पापं तक्षणादेव नश्यति. ॥ ४८ ॥ किं तस्य बहुभिस्तीर्थैः किं तपोभिः किमध्वरैः यो नित्यं ध्यायते देवं नारायणमनन्यधीः. ॥ ४९ ॥ ये मानवा विगतरागपरावरज्ञा नारायणं सुरगुरुं सततं स्मरन्ति ध्यानेन तेन हतकिल्बिषचेतनास्ते मातुः पयोधररसं न पुनः पिबन्ति. ॥ ५० ॥ हे चित्त चिन्तय स्वेह वासुदेवमहर्निशम् नूनं यश्चिन्तितः पुंसां हन्ति संसारबन्धनम्. ॥ ५१ ॥ आलोड्य सर्वशास्त्राणि विचार्य च पुनः पुनः इदमेकं सुनिष्पन्नं ध्येयो नारायणः सदा. ॥ ५२ ॥ स्मृते सकलकल्याणभाजनं यत्र जायते पुरुषस्तमजं नित्यं व्रजामि शरणं हरिम्. ॥ ५३ ॥ वेदेषु यज्ञेषु तपसु चैव दानेषु तीर्थेषु व्रतेषु चैव इष्टेषु पूर्तेषु च यत्प्रदिष्टं पुण्यं स्मृते तत्खलु वासुदेवे. ॥ ५४ ॥ आउर्वः: आराधयैव नरो विष्णुं मनसो यद्यदिच्छति फलं प्राप्नोत्यविकलं भूरि स्वल्पमथापि वा. ॥ ५५ ॥ यन्नामकीर्तनं भक्त्या विलायनमनुत्तमम् मैत्रेयाशेषपापानां धातूनामिव पावकः. ॥ ५६ ॥ कलिकल्मषमत्युग्रं नरकार्तिप्रदं नृणाम् प्रयाति विलयं सद्यः सकृत्संकीर्तितेऽच्युते. ॥ ५७ ॥ अनायासेन चाऽयान्ति मुक्तिं केशवमास्रिताः तद्विघाताय जायन्ते शक्राद्याः परिपन्थिनः. ॥ ५८ ॥ चतुस्सागरमासाद्य जम्बूद्वीपोत्तमे क्वचित् न पुमान् केशवादन्यः सर्वपापचिकित्सकः. ॥ ५९ ॥ यदभ्यर्च्य हरिं भक्त्या कृते वर्षशतैरपि फलं प्राप्नोत्यविकलं कलौ संकीर्त्य केशवम्. ॥ ६० ॥ क्षीयते तु यदा धर्मः प्राप्ते घोरे कलौ युगे तदा न कीर्तयेत्कश्चिन्मुक्तिदं देवमच्युतम्. ॥ ६१ ॥ अवशेनापि यन्नाम्नि कीर्तिते सर्वपातकैः पुमान् विमुच्यते सद्यः सिंहत्रस्तमृगैरिव. ॥ ६२ ॥ नारायणेति मन्त्रोऽस्ति वागस्ति वशवर्तिनी तथाऽपि नरके घोरे मज्जन्तीत्येतदद्भुतम्. ॥ ६३ ॥ आर्ता विषण्णाः शिथिलाश्च भीता घोरेषु च व्याधिषु वर्तमानाः संकीर्त्य नारायङशब्दमात्रं विमुक्तदुःखाः सुखिनो भवन्ति. ॥ ६४ ॥ Kऔशिकः: सकृदुच्चारितं यैस्तु कृष्णेति न विशन्ति ते गर्भागारं गृहं मातुर्यमलोकं च दुस्सहम्. ॥ ६५ ॥ क्व नाकपृष्ठगमनं पुनरावृत्तिलक्षणम् क्व जपो वासुदेवेति मुक्तिबीजमनुत्तमम्. ॥ ६६ ॥ बुद्ध्या बुद्ध्वा वदस्वैनं हरिरित्यक्षरद्वयम् स्मरणादेव कृष्णस्य न पुनर्जायते क्वचित्. ॥ ६७ ॥ हे जिह्वे मम निस्नेहे हरिं किं नुन भाषसे हरिं वदस्व कल्याणि संसारोदधिनौर्हरिः. ॥ ६८ ॥ असारे खलु संसारे सारात्सारतरो हरिः पुण्यहीना न विन्दन्ति सारङ्गाश्च यथा जलम्. ॥ ६९ ॥ कुरुक्षेत्रेण किं तस्य किं काश्या पुष्करेण वा जिह्वाग्रे वर्तते तस्य हरिरित्यक्षरद्वयम्. ॥ ७० ॥ Bरह्मोवाच: असारे खलु संसारे सारमेकं निरूपितम् समस्तलोकनाथस्य सारमाराधनं हरेः. ॥ ७१ ॥ सा जिह्वा या हरिं स्तौति तच्चित्तं यत्तदर्पणम् तावेव केवलौ श्लाघ्यौ यौ तत्पूजाकरौ करौ. ॥ ७२ ॥ यस्तु विष्णुपरो नित्यं दृढभक्तिर्जितेन्द्रियः स्वगृहेऽपि वसन् याति तद्विष्णोः परमं पदम्. ॥ ७३ ॥ शङ्करः: साधु साधु महाभाग साधु दानवनाशन् यन्मां पृच्छसि धर्मज्ञ केशवाराधनं प्रति. ॥ ७४ ॥ निमिषं निमिषार्धं वा मुहूर्तमपि भार्गव नादग्धाशेषपापानां भक्ति भवति केशवे. ॥ ७५ ॥ किं तेन मनसा कार्यं यन्न तिष्ठति केशवे मनो मुक्तिफलावाप्त्यौ कारणं सप्रयोजनम्. ॥ ७६ ॥ रोगो नाम न सा जिह्वा यया न स्तूयते हरिः गर्तौ नाम न तौ कर्णौ याभ्यां तत्कर्म न श्रुतम्. ॥ ७७ ॥ नूनं तत्कण्ठशालूकमथवाऽप्युपजिह्विका रोगो नाम न सा जिह्वा या न वक्ति हरेर्गुणान्. ॥ ७८ ॥ भारभूतैः कार्यमेभिः किं तस्य नृपशोर्द्विज चरणौ तौ तु सफलौ केशवालयगामिनौ ते च नेत्रे महाभाग याभ्यां सन्दृश्यते हरिः. ॥ ७९ ॥ किं तस्य चरणैः कार्यं वृथासञ्चरणैर्द्विज यैर्हि न व्रजते जन्तुः केशवालयदर्शने. ॥ ८० ॥ वेदवेदाङ्गविदुषां मुनीनां भावितात्मनाम् ऋषित्वमपि धर्मज्ञ विज्ञेयं तत्प्रसादजम्. ॥ ८१ ॥ विचित्ररत्नपर्यङ्के महाभोगेन भोगिनः रमन्ते नाकनारीभिः केशवस्मरणात्फलम्. ॥ ८२ ॥ अश्वमेधसहस्राणां यः सहस्रं समाचरेत् नासौ तत्फलमाप्नोति तद्भक्तैर्यदवाप्यते. ॥ ८३ ॥ रे रे मनुष्याः पुरुषोत्तमस्य करौ न कस्मान्मुकुलीकुरुध्वे क्रियाजुषां को भवतां प्रयासः फलं हि यत्पदमच्युतस्य. ॥ ८४ ॥ विष्णोर्विमानं यः कुर्यात्सकृद्भक्त्या प्रदक्षिणम् अश्वमेधसहस्रस्य फलमाप्नोति मानवः. ॥ ८५ ॥ प्रदक्षिणं तु यः कुर्याधरिभक्त्या समन्वितः हंसयुक्तिविमानेन विष्णुलोकं स गच्छति. ॥ ८६ ॥ तीर्थकोटिसहस्राणि व्रतकोटिशतानि च नारायणप्रणामस्य कलां नार्हन्ति षोडशीम्. ॥ ८७ ॥ उरसा शिरसा दृष्ट्या मनसा वचसा तथा पद्भ्यां कराभ्यां जानुभ्यां प्रणामोऽष्टाङ्ग ईरितः. ॥ ८८ ॥ शाठ्येनापि नमस्कारं कुर्वतः शार्ङ्गपाणये शातजन्मार्जितं पापं नश्यत्येव न संशयः. ॥ ८९ ॥ संसारार्णवमग्रानां नराणां पापकर्मणाम् नान्यो धर्त्ता जगन्नाथं मुक्त्वा नारायणं परम्. ॥ ९० ॥ रेणुकुण्ठिगात्रस्य कणा यावन्ति भारत तावद्वर्षसहस्राणि विष्णुलोके महीयते. ॥ ९१ ॥ पावनं विष्णुनैवेद्यं सुभोज्यमृषिभिः स्मृतम् अन्यदेवस्य नैवेद्यं भुक्त्वा चान्द्रायणं चरेत्. ॥ ९२ ॥ कोट्यैन्दवसहस्रैस्तु मासोपोषणकोटिभिः यत्फलं लभ्यते पुम्भिर्विष्णोर्नैवेद्य भक्षणात्. ॥ ९३ ॥ त्रिरात्रफलदा नद्यो याः काश्चिदसमुद्रगाः समुद्रगास्तु पक्षस्य मासस्य सरितां पतिः. ॥ ९४ ॥ षण्मासफलदा गोदा वत्सरस्य तु जाह्नवी विष्णुपादोदकस्यैते कलां नार्हन्ति षोडसीम्. ॥ ९५ ॥ गण्गाप्रयागगयपुष्करनैमिशानि संसेवितानि बहुशः कुरुजाङ्गलानि कालेन तीर्थसलिलानि पुनन्ति पापं पादोदकं भगवतः प्रपुनाति सद्यः. ॥ ९६ ॥ यानि कानि च तीर्थानि ब्रह्माण्डान्तर्गतानि वै विष्णुपादोदकस्यैते कलां नार्हन्ति षोडशीम्. ॥ ९७ ॥ स्नानं पादोदकं विष्णोः पिबन् शिरसि धारयन् सर्व पापविनिर्मुक्तो वैष्णवीं सिद्धिमाप्नुयात्. ॥ ९८ ॥ यथा पादोदकं पुण्यं निर्माल्यं चानुलेपनम् नैवेद्यं धूपशेषं च आरार्त्तिश्च तथा हरेः. ॥ ९९ ॥ तुलस्यास्तु रजोजुष्टं नैवेद्यस्य च भक्षणम् निर्माल्यं शिरसा धार्यं महापातकनाशनम्. ॥ १०० ॥ भक्त्या वा यदि वाऽभक्त्या चक्राङ्कितशिलां प्रति दर्शनं स्पर्शनं वाऽपि सर्वपापप्रणाशनम्. ॥ १०१ ॥ साळग्रामोद्भवो देवो देवो द्वारवतीभवः उभयोः स्नानतोयेन ब्रह्महत्यां व्यपोहति. ॥ १०२ ॥ म्लेच्छदेशेऽशुचौ वाऽपि चक्राङ्को यत्र तिष्ठति योजनानि तथा त्रीणि मम क्षेत्रं वसुन्धरे. ॥ १०३ ॥ शालग्रामोद्भवो देवो शैलं चक्राङ्कमण्डितम् यत्रापि नीयते तत्र वारणस्या शताधिकम्. ॥ १०४ ॥ साळग्रामोद्भवो देवो देवो द्वारवतीभवः उभयोः संगमो यत्र तत्र मुक्तिर्न संशयः. ॥ १०५ ॥ हरिणा मुक्तिदानीह मुक्तिस्थानानि सर्वशः स यस्य सर्वभावेषु तस्य तैः किं प्रयोजनम्. ॥ १०६ ॥ हरिर्याति हरिर्याति दस्युव्याजेन यो वदेत् सोऽपि सद्गतिमाप्नोति गतिं सुकृतिनो यथा. ॥ १०७ ॥ वासुदेवं परित्यज्य योऽन्यं देवमुपासते त्यक्त्वाऽमृतं स मूढात्मा भुङ्क्ते हालाहलं विषम्. ॥ १०८ ॥ त्यक्त्वामृतं यथा कश्चिदन्यपानं पिबेन्नरः तथा हरिं परित्यज्य चान्यं देवमुपासते. ॥ १०९ ॥ स्वधर्मं तु परित्यज्य परधर्मं यथा चरेत् तथा हरिं परित्यज्य चान्यं देवमुपासते. ॥ ११० ॥ गां च त्यक्त्वा विमूढात्मा गर्दभीं वन्दते यथा तथा हरिं परित्यज्य चान्यं देवमुपासते. ॥ १११ ॥ वासुदेवं परित्यज्य योऽन्यं देवमुपासते तृषितो जाह्नवीतीरे कूपं खनति दुर्मतिः. ॥ ११२ ॥ यथा गङ्गोदकं त्यक्त्वा पिबेत्कूपोदकं नरः तथा हरिं परित्यज्य योऽन्यं देवमुपासते. ॥ ११३ ॥ स्वमातरं परित्यज्य श्वपाकीं वन्दते तथा तथा हरिं परित्यज्य योऽन्यं देवमुपासते. ॥ ११४ ॥ यावत्स्वस्थमिदं पिण्डं निरुजं करणान्वितम् तावत्कुरुष्वाऽत्महितं पश्चात्तापेन तप्यसे. ॥ ११५ ॥ यावत्स्वास्थ्यं शरीरेषु करणेषु च पाटवम् तावदर्चय गोविन्दमायुश्यं सार्थकं कुरु. ॥ ११६ ॥ स्मर्यतां तु हृषीकेशो हृषीकेषु दृढेषु च अदृढेषु हृषीकेषु हृषीकेशं स्मरन्ति के. ॥ ११७ ॥ यावच्चिन्तयते जन्तुर्विषयान् विषसन्निभान् तावच्चेत्स्मरते विष्णुं को न मुच्येत बन्धनात्. ॥ ११८ ॥ यावत्प्रलपते जन्तुर्विषयान् विषसन्निभान् तावच्चेत्स्मरते विष्णुं को न मुच्येत बन्धनात्. ॥ ११९ ॥ षूत उवाच: ज्ञात्वा विप्रास्तिथिं सम्यग्दैवज्ञैः समुदीरिताम् कर्तव्य उपवासश्च अन्यथा नरकं व्रजेत्. ॥ १२० ॥ क्षये वाऽप्यथवा वृद्धौ सम्प्राप्ते वा दिनक्षये उपोष्या द्वादशी पुण्या पूर्वविद्धां परित्यजेत्. ॥ १२१ ॥ पूर्वविद्धां प्रकुर्वाणो नरो धर्मान्निकृन्तति संततेस्तु विनाशाय सम्पदो हरणाय च. ॥ १२२ ॥ कलावेधे तु विप्रेन्द्रा दशम्यैकादशीं त्यजेत् सुराया बिन्दुना स्पृष्टं गङ्गाम्भ इव सन्त्यजेत्. ॥ १२३ ॥ श्वदृतौ पञ्चगव्यं च दशम्या दूषितां त्यजेत् एकादशीं द्विजश्रेष्ठाः पक्षयोरुभयोरपि. ॥ १२४ ॥ तस्माद्विप्रा न विद्धा हि कर्तव्यैकादसी क्वचित् विद्धा हन्ति पुरापुण्यं श्राद्धं च वृषलीपतिः. ॥ १२५ ॥ जप्तं दत्तं हुतं स्नातं तथा पूजा कृता हरेः तत्सर्वं विलयं याति तमः सूर्योदये यथा. ॥ १२६ ॥ एकादश्यां यदा ब्रह्मन् दिनक्षयतिथिर्भवेत् उपोष्या द्वादशी तत्र त्रयोदश्यां तु पारणम्. ॥ १२७ ॥ प्रतिपत्प्रभृतयः सर्वा उदयादुदयाद्रवेः सम्पूर्णा इति विज्ञेया हरिवासरवर्जिताः. ॥ १२८ ॥ अरुणोदयकाले तु दशमी यदि दृश्यते पापमूलं तदा ज्ञेयमेकादश्युपवासनम्. ॥ १२९ ॥ अरुणोदयकाले तु दशमी यदि दृश्यते न तत्रैकादशी कार्या धर्मकामार्थनाशिनी. ॥ १३० ॥ चतस्त्रो घटिकाः प्रातररुणोदय उच्यते यतीनां स्नानकालोऽयं गङ्गाम्भःसदृशः स्मृतः. ॥ १३१ ॥ उदयात्प्राग्यदा विप्रा मुहूर्तद्वयसंयुता सम्पूर्णैकादशी नाम तत्रैवोपवसेद्व्रती. ॥ १३२ ॥ उदयात्प्राक्त्रिघटिका व्यापिन्येकादशी यदा सन्दिग्धैकादशी नाम वर्ज्या धर्मार्थनाशिनी. ॥ १३३ ॥ पुत्रपौत्रविवृद्ध्यर्थं द्वादश्यामुपवासयेत् तत्र क्रतुशतं पुण्यं त्रयोदश्यां तु पारणं. ॥ १३४ ॥ उदयात्प्राग्द्विघटिकाव्यापिन्येकादशी यदा सङ्कीर्णैकादशी नाम वर्ज्या धर्मार्थकाङ्क्षिभिः. ॥ १३५ ॥ पुत्रराज्यविवृद्ध्यर्थं द्वादश्यामुपवासनम् तत्र क्रतुशतं पुण्यं त्रयोदश्यां तु पारणम्. ॥ १३६ ॥ दशमीशेषसंयुक्ता गान्धार्या समुपोषिता तस्याः पुत्रशतं नष्टं तस्मात्तां परिवर्जयेत्. ॥ १३७ ॥ बह्वागमविरोधेषु ब्राह्मणेषु विवादिषु उपोष्या द्वादशी पुण्या त्रयोदश्यां तु पारङम्. ॥ १३८ ॥ एकादश्यां तु विद्धायां सम्प्राप्ते श्रवणे तथा उपोष्या द्वादशी पुण्या पक्षयोरुभयोरपि. ॥ १३९ ॥ उपरागसहस्राणि व्यतीपातायुतानि च अमालक्षं तु द्वादश्याः कलां नार्हन्ति षोडशीम्. ॥ १४० ॥ शुद्धापि द्वादशी ग्राह्या परतो द्वादशी यदि विषं तु दशमी ज्ञेयाऽमृतं चैकादशी तिथिः. विषप्रधाना वर्ज्या साऽमृता ग्राह्या प्रधानतः. ॥ १४१ ॥ द्वादश्यां भोजनं चैव विद्धायां हर्युपोषणम् यः कुर्यान्मन्दबुद्धित्वान्निरयं सोऽधिगच्छति. ॥ १४२ ॥ यानि कानि च वाक्यानि विद्धोपास्यापराणि तु धनदार्चापराणि स्युर्वैष्णवी न दशायुता. ॥ १४३ ॥ अथवा मोहनार्थाय मोहिन्या भगवान् हरिः अर्थितः कारयामास व्यासरूपी जनार्दनः. ॥ १४४ ॥ धनदार्चाविवृद्ध्यर्थं महावित्तलयस्य च असुराणां मोहनार्थं पाषण्डानां विवृद्धये आत्मस्वरूपाविज्ञप्त्यै स्वरूपाप्राप्तये तथा. ॥ १४५ ॥ एवं विद्धां परित्यज्य द्वादश्यामुपवासने कोटिजन्मार्जितं पापमेकयैव विनश्यति ततः कोटिगुणं वाऽपि निषिद्धस्येतरैर्जनैः. ॥ १४६ ॥ यदनादिकृतं पापं तदूर्ध्वं यत्करिष्यति तत्सर्वं विलयं याति परेषामुपवासनात् न च तस्मात्प्रियतमः केशवस्य ममापि वा. ॥ १४७ ॥ एकादश्या ह्यवेधे तु द्वादशीं न परित्यजेत् पारणे मरणे चैव तिथिस्तात्कालिकी स्मृता. ॥ १४८ ॥ ब्रह्मचारी गृहस्थो वा वानप्रस्थो यतिस्तथा ब्राह्मणः क्षत्रियो वैश्यः शूद्रो भर्तृमती तथा. ॥ १४९ ॥ अभर्तृका तथाऽन्ये वा सूतवैदेहिकादयः एकादश्यां न भुञ्जीत पक्षयोरुभयोरपि. ॥ १५० ॥ एकादश्यां तु यो भुङ्क्ते मोहेनाऽवृतचेतनः शुक्लायामथ कृष्णायां निरयं याति स ध्रुवम्. ॥ १५१ ॥ विवेचयति यो मोहाच्छुक्ला कृष्णेति पापकृत् एकादशीं स वै याति निरयं नात्र संशयः. ॥ १५२ ॥ यथा गौर्नैव हन्तव्या शुक्ला कृष्णेति भामिनि एकदाश्यां न भुञ्जीत पक्षयोरुभयोरपि. ॥ १५३ ॥ यानि कानि च वाक्यानि कृष्णैकादशिवर्जने भरण्यादिनिषेधेऽपि तानि काम्यफलार्थिनाम्. ॥ १५४ ॥ कामिनोऽपि हि नित्यार्थं कुर्युरेवोपवासनम् प्रीणनार्थं हरेर्नित्यं न तु कामव्यपेक्षया. ॥ १५५ ॥ तस्माच्छुक्लामथो कृष्णां भरण्यादियुतामपि प्रत्यवायनिषेधार्थमुपवासीत नित्यशः प्रीणनार्थं हरेश्वापि विष्णुलोकस्य चाऽप्तये. ॥ १५६ ॥ कला वा घटिका वाऽपि अपरे द्वादशी यदि द्वादशद्वादशीर्हन्ति पूर्वेद्युः पारणे कृते. ॥ १५७ ॥ अतिरिक्ता द्वादशी चेत्स तां नोपोषयेद्यदि द्वादशद्वादशीर्हन्ति द्वादशी चातिलङ्घिता. ॥ १५८ ॥ द्वादश्यामतिरिक्तायां यो भुङ्क्ते पूर्ववासरे द्वादशद्वादशीर्हन्ति द्वादशीं न परित्यजेत्. ॥ १५९ ॥ द्वादशीं श्रवणोपेतां यो नोपोष्यात्सुमन्दधीः पञ्चसंवत्सरकृतं पुण्यं तस्य विनश्यति. ॥ १६० ॥ एकादशीमुपोष्याथ द्वादशीमप्युपोषयेत् न तत्र विधिलोपः स्यादुभयोर्देवता हरिः. ॥ १६१ ॥ पारयित्वोदकेनापि भुञ्जानो नैव दुष्यति अशितानशिता यस्मादापो विद्वद्भिरीरिताः अम्भसा केवलेनाथ करिष्ये व्रतपारणम्. ॥ १६२ ॥ न काशी न गया गङ्गा न रेव न च गौतमी न चापि कौरवं क्षेत्रं समा भूप हरेर्दिनात्. ॥ १६३ ॥ अश्वमेधसहस्राणि वाजपेयायुतानि च एकादश्युपवासस्य कलां नार्हन्ति षोडशीम्. ॥ १६४ ॥ एकादशीसमुत्थेन वह्निना पातकेन्धनम् भस्मीभवति राजेन्द्र अपि जन्मशतोद्भवम्. ॥ १६५ ॥ नेदृशं पावनं किञ्चिन्नराणां भुवि विद्यते यादृशं पद्मनाभस्य दिनं पातकहानिदम्. ॥ १६६ ॥ तावत्पापानि देहेऽस्मिंस्तिष्ठन्ति मनुजाधिप यावन्नोपोषयेज्जन्तुः पद्मनाभदिनं शिवम्. ॥ १६७ ॥ एकादशेन्द्रियैः पापं यत्कृतं भवति प्रभो एकादश्युपवासेन तत्सर्वं विलयं नयेत्. ॥ १६८ ॥ एकादशीसमं किञ्चित्पापत्राणं न विद्यते व्याजेनापि कृता राजन्न दर्शयति भास्करिम्. ॥ १६९ ॥ श्री Vएदव्यास उवाच: स ब्रह्महा स गोघ्नश्च स्तेनः स गुरुतल्पगः एकादश्यां तु भुञ्जानः पक्षयोरुभयोरपि. ॥ १७० ॥ वरं स्वमातृगमनं वरं गोमांसभक्षणम् वरं हत्या सुरापानमेकादश्यां तु भोजनात्. ॥ १७१ ॥ एकादशीदिने पुण्ये भुञ्जते ये नराधमाः अवलोक्य मुखं तेषामादित्यमवलोकयेत्. ॥ १७२ ॥ पृथिव्यां यानि पापानि ब्रह्महत्यादिकानि च अन्नमाश्रित्य तिष्ठन्ति सम्प्राप्ते हरिवासरे. ॥ १७३ ॥ ऋउग्माङ्गदः: अष्टवर्षाधिको यस्तु अशीतिर्न हि पूर्यते यो भुङ्क्ते मानवः पापो विष्णोरहनि चागते. ॥ १७४ ॥ पिता वा यदि वा पुत्रो भार्या वाऽपि सुहृज्जनः पद्मनाभदिने भुङ्क्ते निग्राह्यो दस्युवद्भवेत्. ॥ १७५ ॥ ढर्मविभूषणः: प्रातर्हरिदिने लोकास्तिष्ठध्वं चैकभोजनाः अक्षारलवणाः सर्वे हविष्यान्निषेविणः. ॥ १७६ ॥ अवनीतपशयनाः प्रियासंगविवर्जिताः स्मरध्वं देवदेवेशं पुराणपुरुषोत्तमम्. ॥ १७७ ॥ सकृद्भोजनसंयुक्ता ह्युपवासे भविष्यथ अकृतश्राद्धनिचया जलपिण्डोदकक्रियाः. ॥ १७८ ॥ Bरह्मा: उपोष्य द्वादशीं पुण्यां सर्वपापक्षयप्रदाम् न पश्यति यमं वाऽपि नरकान्न च यातनाम्. ॥ १७९ ॥ रटन्तीह पुराणानि भूयो भूयो वरानने न भोक्तव्यं न भोक्तव्यं सम्प्राप्ते हरिवासरे. ॥ १८० ॥ द्वादशी न प्रमोक्तव्या यावदायुः प्रवर्तते अर्चनीयो हृषीकेशो विशुद्धेनान्तरात्मना. ॥ १८१ ॥ भक्त्या ग्राह्यो हृषीकेशो न धनैर्धरणीसुराः भक्त्या सम्पूजितो विष्णुः फलं दत्ते समीहितम्. ॥ १८२ ॥ जलेनापि जगन्नाथः पूजितः क्लेशनाशनः परितोषं प्रयात्याशु तृषार्तास्तु यथा जलैः. ॥ १८३ ॥ आसीनस्य शयानस्य तिष्ठतो व्रजतोऽपि वा रमस्व पुण्डरीकाक्ष हृदये मम सर्वदा. ॥ १८४ ॥ सर्वगश्चैव सर्वात्मा सर्वावस्थासु चाच्युत रमस्व पुण्डरीकाक्ष नृसिंह हृदये मम. ॥ १८५ ॥ करावलम्बनं देहि श्री कृष्ण कमलेक्षण भवपङ्कार्णवे घोरे मज्जतो मम सर्वदा. ॥ १८६ ॥ त्राहि त्राहि जगन्नाथ वासुदेवाच्युताव्यय मां समुद्धर गोविन्द दुःखसंसारसागरात्. ॥ १८७ ॥ एतत्पुण्यं परं गुह्यं पवित्रं पापनाशनम् आयुष्यं च यशस्यं च कलिदुःस्वप्ननाशनम्. ॥ १८८ ॥ कलौ पापं कियन्मात्रं हत्यास्तेयादिसम्भवम् स्मृते मनसि गोविन्दे दह्यते तूलराशिवत्. ॥ १८९ ॥ कलौ केशवभक्तानां न भयं विद्यते क्वचित् स्मृते संकीर्तिते ध्याते संक्षयं याति पातकम्. ॥ १९० ॥ अध्येतव्यमिदं शास्त्रं श्रोतव्यमनसूयया भक्तेभ्यश्च प्रदातव्यं धार्मिकेभ्यः पुनः पुनः. ॥ १९१ ॥ अधीयान इदं शास्त्रं विष्णोर्माहात्म्यमुत्तमम् सर्वपापविनिर्मुक्तः प्राप्नोति परमं पदम्. ॥ १९२ ॥ श्रुत्वा धर्मं विजानाति श्रुत्वा त्यजति दुर्मतिम् श्रुत्वा ज्ञानमवाप्नोति श्रुत्वा मोक्षं च गच्छति. ॥ १९३ ॥ तस्मादिदं समाश्राव्यं श्रोतव्यं च सदैव हि कुतर्कदावदग्धेभ्यो न दातव्यं कथञ्चन. ॥ १९४ ॥ संसारविषपानेन ये मृताः प्राणिनो भुवि अमृताय स्मृतस्तेषां कृष्णामृतमहर्णवः. ॥ १९५ ॥ क्लिन्नं पादोदकेनैव यस्य नित्यं कळेबरम् तीर्थकोटिसहस्रैस्तु स्नातो भवति प्रत्यहम्. ॥ १९६ ॥ तीर्थकोटिसहस्रैस्तु सेवितैः किं प्रयोजनम् तोयं यदि पिबेन्नित्यं साळग्रामशिलाच्युतम्. ॥ १९७ ॥ साळग्रामशिलास्पर्शं ये कुर्वन्ति दिने दिने वाञ्छन्ति करसंस्पर्शं तेषां देवाः सवासवाः. ॥ १९८ ॥ दुःसहो नारको वह्निर्दुःसहा यमकिङ्कराः विषमश्वान्तकपथः प्रेतत्वं चातिदारुणम्. ॥ १९९ ॥ विचिन्त्य मनसाऽप्येवं पातकाद्विनिवर्त्तयेत् स्मरणं कीर्तनं विष्णोः सदैव न परित्यजेत्. ॥ २०० ॥ श्री Vएदव्यासः: अच्युतानन्तगोविन्दनामोच्चारणभीषिताः नश्यन्ति सकला रोगाः सत्यं सत्यं वदाम्यहम्. ॥ २०१ ॥ सकृदुच्चारितं येन हरिरित्यक्षरद्वयम् बद्धः परिकरस्तेन मोक्षाय गमनं प्रति. ॥ २०२ ॥ एवं ब्रह्मादयो देवा ऋषयश्च तपोधनाः कीर्तयन्ति सुरश्रेष्ठं देवं नारायणं प्रभुम्. ॥ २०३ ॥ किं तस्य दानैः किं तीर्थैः किं तपोभिः किमध्वरैः यो नित्यं ध्यायते देवं नारायणमनन्यधीः. ॥ २०४ ॥ नित्योत्सवो नित्यता च नित्यश्रीर्नित्यशो जयः येषां हृदिस्थो भगवान्मङ्गलायतनो हरिः. ॥ २०५ ॥ जीवंश्चतुर्दशादूर्ध्वं पुरुषो नियमेन तु स्त्री वाऽप्यनूनदशकं देहं मानुषमार्जते. ॥ २०६ ॥ चतुर्दशोर्ध्वजीवीनि संसारश्चादिवर्जितः अतोऽवित्त्वा परं देवं मोक्षाशा का महामुने. ॥ २०७ ॥ आचतुर्दशमाद्वर्षात्कर्माणि नियमेन तु दशावराणां देहानां कारणानि करोत्ययम् अतः कर्मक्षयान्मुक्तिः कुत एव भविष्यति. ॥ २०८ ॥ समानां विषमा पूजा विषमाणां समा तथा क्रियते येन देवोऽपि स्वपदाद्भ्रश्यते हि सः. ॥ २०९ ॥ वित्तं बन्धुर्वयः कर्म विद्या चैव तु पञ्चमी एतानि मान्यस्थानानि गरीयो यद्यदुत्तरम्. ॥ २१० ॥ गुणानुसारिणीं पूजां समां दृष्टिं च यो नरः सर्वभूतेषु कुरुते तस्य विष्णुः प्रसीदति. ॥ २११ ॥ यथा सुहृत्सु कर्तव्यं पितृशत्रुसुतेषु च तथा करोति पूजादि समबुद्धिः स उच्यते. ॥ २१२ ॥ तिर्यक्पुण्ड्रं न कुर्वीत सम्प्राप्ते मरणेऽपि च न चान्यन्नाम विब्रूयात्परं नारायणादृते. ॥ २१३ ॥ नैवेद्यशेषं देवस्य यो भुनक्ति दिने दिने सिक्थे सिक्थे भवेत्पुण्यं चान्द्रायणशताधिकम्. ॥ २१४ ॥ ऊर्ध्वपुण्ड्रमृजुं सौम्यं ललाटे दृश्यते स चण्डालोऽपि शुद्धात्मा पूज्य एव न संशयः. ॥ २१५ ॥ अशुचिर्वाऽप्यनाचारो मनसा पापमाचरन् शुचिरेव भवेन्नित्यमूर्ध्वपुण्ड्रान्कितो नरः. ॥ २१६ ॥ ऊर्ध्वपुण्ड्रविहीनस्य श्मशानसदृशं मुखम् अवलोक्य मुखं तेषामादित्यमवलोकयेत्. ॥ २१७ ॥ यज्ञो दानं तपश्चैव स्वाध्यायः पितृतर्पणम् व्यर्थं भवति तत्सर्वमूर्ध्वपुण्ड्रं विना कृतम्. ॥ २१८ ॥ गोपीचन्दनलिप्ताङ्गो यं यं पश्यति चक्षुषा तं तं शुद्धं विजानीयान्नात्र कार्या विचारणा. ॥ २१९ ॥ आस्फोटयन्ति पितरः प्रनृत्यन्ति पितामहाः वैष्णवोऽस्मत्कुले जातः स नः सन्तारयिष्यति. ॥ २२० ॥ जीवितं विष्णुभक्तस्य वरं पञ्चदिनान्यपि न तु कल्पसहस्रैस्तु भक्तिहीनस्य केशवे. ॥ २२१ ॥ किं तेन जातमात्रेण भूभारेणान्नशत्रुणा यो जातो नार्चयेद्विष्णुं न स्मरेन्नापि कीर्तयेत्. ॥ २२२ ॥ यो ददाति द्विजातिभ्यश्चन्दनं गोपिमर्दितम् अपि सर्षपमात्रेण पुनात्यासप्तमं कुलम्. ॥ २२३ ॥ ज्ञानी च कर्माणि सदोऽदितानि कुर्यादकामः सततं भवेत्. ॥ २२४ ॥ अतीतानागतज्ञानी त्रैलोक्योद्वरणक्षमः एतादृशोऽपि नाऽचारं श्रौतं स्मार्तं परित्यजेत्. ॥ २२५ ॥ यदेव विद्यया करोति श्रद्धयोपनिषदा सदेव वीर्यवत्तरं भवति. ॥ २२६ ॥ कुर्वनेवेह कर्माणि जिजीविषेच्छतं समाः एवं त्वयि नान्यथेतोऽस्ति न कर्म लिप्यते नरे. ॥ २२७ ॥ आचारश्चैव साधूनामात्मनस्तुष्टिरेव च वेदप्रणिहितो धर्मो ह्यधर्मस्तद्विपर्ययः. ॥ २२८ ॥ निष्कामं ज्ञानपूर्वं तु निवृत्तमिह चोच्यते निवृत्तं सेवमानस्तु ब्रह्माभ्येति सनातनम्. ॥ २२९ ॥ इति कृष्णामृतमहार्णवः समाप्तः