ज्ञानामृतसारसंहिता श्रीनारदपञ्चरात्रम् प्रथमैकरात्रे प्रथमोऽध्यायः ओं नमो भगवते वासुदेवाय अथ मङ्गलाचरणम् नारायणं नमस्कृत्य नरं चैव नरोत्तमम् । देवीं सरस्वतीं चैव ततो जयमुदीरयेत् ॥ गणेशशेषब्रह्मेशदिनेशप्रमुखाः सुराः । कुमाराद्याश्च मुनयः सिद्धाश्च कपिलादयः ॥ १,१.१ ॥ लक्ष्मी सरस्वती दुर्गा सावित्री राधिका परा । भक्त्या नमन्ति यं शश्वत्तं नमामि परात्परं ॥ १,१.२ ॥ ध्यायन्ते सततं सन्तो योगिनो वैष्णवास्तथा । ज्योतिर्अभ्यन्तरे रूपमतुलं श्यामसुन्दरम् ॥ १,१.३ ॥ ध्यायेत्तं परमं ब्रह्म परमात्मानमीश्वरम् । निरीहमतिनिर्लिप्तं निर्गुणं प्रकृतेः परं ॥ १,१.४ ॥ सर्वेशं सर्वरूपं च सर्वकारणकारणम् । सत्यं नित्यं च पुरुषं पुराणं परमव्ययम् ॥ १,१.५ ॥ मङ्गल्यं मङ्गलार्हं च मङ्गलं मङ्गलालयम् । स्वेच्छामयं परं धाम भगवन्तं सनातनम् ॥ १,१.६ ॥ स्तुवन्ति वेदा यं शश्वन्नानन्तं जानन्ति यस्य ते । तं स्तौमि परमानन्दं सानन्दं नन्दनन्दनम् ॥ १,१.७ ॥ भक्तप्रियं च भक्तेशं भक्तानुग्रहविग्रहं । श्रीदं श्रीशं श्रीनिवासं श्रीकृष्णं राधिकेश्वरम् ॥ १,१.८ ॥ ज्ञानामृतं ज्ञानसिन्धोः संप्राप्य शङ्कराद्गुरोः । परावराच्च परमाद्योगीन्द्राणां गुरोर्गुरोः ॥ १,१.९ ॥ वेदेभ्यो दधिसिन्धुभ्यश्चतुर्भ्यः सुमनोहरम् । तज्ज्ञानमन्थदण्डेन संनिर्मथ्य नवं नवम् ॥ १,१.१० ॥ नवनीतं समुद्धृत्य नत्वा शम्भोः पदाम्बुजम् । विधिपुत्रो नारदोऽहं पञ्चरात्रं समारभे ॥ १,१.११ ॥ ओं नारायणाश्रमे पुण्ये पुण्यक्षेत्रे च भारत । सिद्धे नारायणक्षेत्रे वटमूले सुपुण्यदे ॥ १,१.१२ ॥ कृष्णांशं कृष्णभक्तं च पलं कृष्णपरायणम् । श्रीकृष्णचरणाम्भोजध्यानैकतानमानसम् ॥ १,१.१३ ॥ जपन्तं परमं ब्रह्म कृष्ण इत्यक्षरद्वयम् । सुखासने सुखासीनं कृष्णद्वैपायनं मुनिम् ॥ १,१.१४ ॥ पप्रच्छ शुकदेवश्च सर्वज्ञं पितरं मुनिः । कारणण्च पुराणानां पुराणं परमव्ययम् ॥ १,१.१५ ॥ श्रीशुक उवाच भगवन् सर्वतत्त्वज्ञ वेदवेदाङ्गपारग । यद्यत्प्रकारं ज्ञानं च निगूढं श्रुतिसम्मतम् ॥ १,१.१६ ॥ तेषु यत्सारभूतं चाप्यज्ञानान्धप्रदीपकम् । तत्तत्सर्वं समालोच्य मां बोधयितुमर्हसि ॥ १,१.१७ ॥ अथ श्रीकृष्णभक्तिप्रशंशा स पिता ज्ञानदाता यो ज्ञानं तत्कृष्णभक्तिदम् । सा भक्तिः परमा शुद्धा कृष्णदास्यप्रदा च या ॥ १,१.१८ ॥ तदेव दास्यं शस्तं यत्साक्षाच्चरणसेवनं । नित्यं गोलोकवासं च पुरतः स्तवनं हरेः ॥ १,१.१९ ॥ शश्वन्निमेषरहितं तत्पादपद्मदर्शनम् । शश्वत्तत्सार्धमालापसेवाकर्मनियोजनम् ॥ १,१.२० ॥ तेन सार्धमविच्छेदस्थानं परं शोभनम् । भक्तानां वाञ्च्छितं वस्तु सारभूतं श्रुतौ श्रुतम् ॥ १,१.२१ ॥ पुत्रस्य वचनं श्रुत्वा व्यासदेवो जहास सः । विज्ञाय ज्ञानिनं पुत्रं परमाह्लादमाप ह ॥ १,१.२२ ॥ पुत्रं शुभाशिषं कृत्वा सर्वज्ञः सर्वभावनः । यथाप्राप्तं गुरुमुखात्प्रवक्तुमुपचक्रमे ॥ १,१.२३ ॥ श्रीव्यास उवाच शुक धन्योऽसि मान्योऽसि पुण्यरूपोऽसि भारते । पुत्रेण भवतास्माकं कुलं मुक्तं च पावनम् ॥ १,१.२४ ॥ स पुत्रः कृष्णभक्तो यो भारते सुयशस्करः । पुनाति पुंसां शतकं जन्ममात्रेण लीलया ॥ १,१.२५ ॥ मातामहानां शतकं मातरं मातृमातरम् । सोदरान् बान्धवांश्चैव भृत्यान् पत्नीं सहात्मजाम् ॥ १,१.२६ ॥ यत्कन्यां प्रतिगृह्णाति तद्आदिपुरुषत्रयम् । कन्याप्रदाता श्वशुरो जीवन्मुक्तः सभार्यकः ॥ १,१.२७ ॥ स्वयं विधाता भगवान् परं कृष्णपरायणः । कृष्णभक्तो वसिष्टस्तु तत्सुतो वैष्णवः स्वयम् ॥ १,१.२८ ॥ वैष्णवस्तत्सुतः शक्तिः कृष्णध्यानैकमानसः । पराशरश्च तत्पुत्रः कृष्णपादाब्जसेवया ॥ १,१.२९ ॥ जीवन्मुक्तो महाज्ञानी योगीन्द्राणां गुरोर्गुरुः । अहं वेदविभक्ता च श्रीकृष्णपादसेवया ॥ १,१.३० ॥ गुरुर्मे भगवान् साक्षाद्योगीन्द्रो नारदो मुनिः । गुरोर्गुरुर्मे शम्भुश्च योगीन्द्राणां गुरोर्गुरुः ॥ १,१.३१ ॥ तेषां पुण्येन पुत्रस्त्वं पुण्यराशिश्च मूर्तिमान् । पद्मानां मम पुंसां च प्रकाशो भास्करः स्वयम् ॥ १,१.३२ ॥ श्रीकृष्णचरणाम्भोजं पादाब्जं नारदेशयोः । सरस्वतीं नमस्कृत्य ज्ञानं वक्ष्ये सनातनम् ॥ १,१.३३ ॥ श्रूयतां पञ्चरात्रं च वेदसारमभीप्सितम् । पञ्चसंवादमिष्टं च भक्तानामभिवाञ्च्छितम् ॥ १,१.३४ ॥ प्राणाधिकं प्रियं शुद्धं परं ज्ञानामृतं शुभं । अथ षट्संवादाः ?wहत्? हि गोलोके शतशृङ्गे च पर्वते ॥ १,१.३५ ॥ सुपुण्ये विरजातीरे वटमूले मनोहरे । पुरतो राधिकायाश्च ब्रह्माणं कमलोद्भवम् ॥ १,१.३६ ॥ तमुवाच महाभक्तं स्तुवन्तं प्रणतं सुतम् । पञ्चरात्रमिदं पुण्यं श्रुत्वा च जगतां विधिः ॥ १,१.३७ ॥ प्रणम्य राधिकां कृष्णं प्रययौ शिवमन्दिरम् । भक्त्या तं पूजयामास शङ्करः परमादरम् ॥ १,१.३८ ॥ सुखासने सुखासीनं स्वस्थं भक्तं च पूजितम् । पप्रच्छ वार्तां विनयी विनयेन सुखावहाम् ॥ १,१.३९ ॥ सर्वं तं कथयामास पञ्चरात्रादिकं शुभम् । वसन्तं वटमूले च स्वर्गे मन्दाकिनीतटे ॥ १,१.४० ॥ योगीन्द्रैरपि सिद्धेन्द्रैर्मुनीन्द्रैश्च स्तुतं प्रभुं । ज्ञानामृतं तमुक्त्वा स ब्रह्मलोकं जगाम ह ॥ १,१.४१ ॥ शम्भुश्च कथयामास स्वशिष्यं नारदं मुनिम् । नारदः कथयामास पुष्करे सूर्यपर्वणि ॥ १,१.४२ ॥ मां भक्तमनुरक्तं च पुण्याहे मुनिसंसदि । पञ्चरात्रमिदं शुद्धं भ्रमान्धध्वंसदीपकम् ॥ १,१.४३ ॥ अथ पञ्चरात्रपदव्याख्या रात्रं च ज्ञानवचनं ज्ञानं पञ्चविधं स्मृतम् । तेनेदं पञ्चरात्रं च प्रवदन्ति मनीषिणः ॥ १,१.४४ ॥ ज्ञानं परमतत्त्वं च जन्ममृत्युजरापहम् । ततो मृत्युञ्जयः शम्भुः संप्राप कृष्णवक्त्रतः ॥ १,१.४५ ॥ ज्ञानं द्वितीयं परमं मुमुक्षूणां च वाञ्च्छितम् । परं मुक्तिप्रदं शुद्धं यतो लीनं हरेः पदे ॥ १,१.४६ ॥ ज्ञानं शुद्धं तृतीयं च मङ्गलं कृष्णभक्तिदम् । तद्दास्यमधीष्टं च यतो दास्यं लभेद्धरेः ॥ १,१.४७ ॥ चतुर्थं यौगिकं ज्ञानं सर्वसिद्धिप्रदं परम् । सर्वस्वं योगिनां पुत्र सिद्धानां च सुखप्रदम् ॥ १,१.४८ ॥ अणिमा लघिमा व्याप्तिः प्राकाम्यं महिमा तथा । ईशित्वं च वशित्वं च तथाकामावसायिता ॥ १,१.४९ ॥ सावज्ञं दूरश्रवणं परकायप्रवेशनम् । कायव्यूहं जीवदानं परजीवहरं परम् ॥ १,१.५० ॥ सर्गकर्तृत्वशिल्पं च सर्गसंहारकारणम् । सिद्धं च षोडशविधं ज्ञानिनां च यतो भवेत् ॥ १,१.५१ ॥ ज्ञानं च परमं प्रोक्तं तद्वै वैषयिकं नृणां । यदिष्टदेवी माया सा परं संमोहकारणं ॥ १,१.५२ ॥ विषये बद्धचितं च सर्वमिन्द्रियसेवनम् । पोषनं स्वकुटुम्बानां स्वात्मनश्च निरन्रतम् ॥ १,१.५३ ॥ प्रथमं सात्त्विकं ज्ञानं द्वितीयं च तदेव च । नैर्गुण्यं च तृतीयं च ज्ञानं च सर्वतः परम् ॥ १,१.५४ ॥ चतुर्थं च राजसिकं भक्तस्तन्नाभिवाञ्च्छति । पञ्चमं तामसं ज्ञानं विद्वांस्तन्नाभिवाञ्च्छति ॥ १,१.५५ ॥ ज्ञानं पञ्चविधं प्रोक्तं पञ्चरात्रं विदुर्बुधाः । पञ्चरात्रं सप्तविधं ज्ञानिनां ज्ञानदं परम् ॥ १,१.५६ ॥ ब्राह्मं शैवं च कौमारं वासिष्टं कापिलं परम् । गौतमीयं नारदीयमिदं सप्तविधं स्मृतम् ॥ १,१.५७ ॥ अथ ग्रन्थप्रशंसा षट्पञ्चरात्रं वेदाश्च पुराणानि च सर्वशः । इतिहासं धर्मशास्त्रं शात्रं च सिद्धियोगजम् ॥ १,१.५८ ॥ दृष्ट्वा सर्वं समालोक्य ज्ञानं संप्राप्य शङ्करात् । ज्ञानामृतं पञ्चरात्रं चकार नारदो मुनिः ॥ १,१.५९ ॥ पुण्यं च पापविघ्नं भक्तिदास्यप्रदं हरेः । सर्वस्वं वैष्णवानां च प्रियं प्राणाधिकं सुत ॥ १,१.६० ॥ सारभूतं च सर्वेषां वेदानां परमाद्भुतम् । नारदीयं पञ्चरात्रं पुराणेषु सुदुर्लभम् ॥ १,१.६१ ॥ सर्वान्तरात्मा भगवान् ब्रह्मज्योतिः सनातनम् । परिपूर्णतमः श्रीमान् यथा कृष्णः सुरेषु च ॥ १,१.६२ ॥ यथा देवीषु पूज्या सा मूलप्रकृतिरीश्वरी । वैष्णवानां च सिद्धानां ज्ञानिनां योगिनां शिवः ॥ १,१.६३ ॥ विश्वस्तानामिन्द्रियानां मनश्च शीघ्रगामिनाम् । ब्रह्मा च वेदविदुषां पूज्यानां च गणेश्वरः ॥ १,१.६४ ॥ सनत्कुमारो भगवान्मुनीनां प्रवरो यथा । बृहस्पतिर्बुद्धिमतां सिद्धानां कपिलो यथा ॥ १,१.६५ ॥ योगीन्द्रानां सतां शुद्ध ऋषिर्नारायणो यथा । कवीनां च यथा शुक्रः पण्डितानां बृहस्पतिः ॥ १,१.६६ ॥ सरितां च यथा गङ्गा समुद्राणां जलार्णवः । वृन्दावनं वनानां च वर्षानां भारतं यथा ॥ १,१.६७ ॥ पुष्करं तत्र तीर्थानां पूज्यानां वैष्णवो यथा । आत्माकाशो यथाप्तानां यथा काशी पुरीषु च ॥ १,१.६८ ॥ वृक्षाणां कल्पवृक्षश्च सुरभी कामधेनुषु । पुष्पाणां पारिजातश्च पत्राणां तुलसी यथा ॥ १,१.६९ ॥ मन्त्राणां कृष्णमन्त्रश्च यथा विद्या धनेष्वपि । यथा तेजस्विनां सूर्यो मिष्टानाममृतं यथा ॥ १,१.७० ॥ आधाराणां च स्थूलानां महाविष्णुर्यथा सुत । सूक्ष्माणां परमाणुश्च गुरुणां मन्त्रतन्त्रदः ॥ १,१.७१ ॥ पुत्रश्च स्नेहपात्राणां नक्षत्राणां यथा शशी । यथा घृतं च गव्यानां शस्यानां धान्यमीप्सितम् ॥ १,१.७२ ॥ शास्त्राणां च यथा वेदाः साश्रमाणां यथा द्विजः । तैजसानां यथा रत्नं मुक्तामाणिक्यहीरकम् ॥ १,१.७३ ॥ यथा छन्दसि गायत्री दुर्गा शक्तिमतीष्वपि । पतिव्रतासु लक्स्मीश्च क्षमाशीलासु मेदिनी ॥ १,१.७४ ॥ सौभाग्यासु सुन्दरीषु राधा कृष्णप्रियासु च । हनुमान् वानराणां च पक्षिणां गरुडो यथा ॥ १,१.७५ ॥ वाहनानां बलवतां शङ्करस्य यथा वृषः । शालग्रामश्च यन्त्राणां पूजासु कृष्णपूजनम् ॥ १,१.७६ ॥ एकादशी व्रतानां च तपःस्वनशनं यथा । यज्ञानां जपयज्ञश्च सत्यं धर्मेषु पुत्रक ॥ १,१.७७ ॥ सुशीलं च गुणानां च पुण्येषु कृष्णकीर्तनम् । शोभाशु सुखदृश्येषु प्रभा तेजःसु सर्वतः ॥ १,१.७८ ॥ पोष्ट्रीणामुपकर्तृणां मित्राणां जननी यथा । लोकानामपि लोकेशः शेषो नागेषु पूजितः ॥ १,१.७९ ॥ सुदर्शनं च शस्त्राणां विश्वकर्मा च शिल्पिनाम् । धर्मिष्ठेषु दयावत्सु देवर्षिसु महत्सु च ॥ १,१.८० ॥ विष्णुभक्तेषु विज्ञेषु यथैव नारदो मुनिः । एवं च सर्वशास्त्रेषु पञ्चरात्रं च पूजितम् ॥ १,१.८१ ॥ यथा निपीय पीयूषं न स्पृहा चान्यवस्तुषु । पञ्चरात्रमभिज्ञाय नान्येषु च स्पृहा सताम् ॥ १,१.८२ ॥ सर्वार्थज्ञानबीजं चाप्यज्ञानान्धप्रदीपम् । वेदसारोद्धृतं तत्त्वं सर्वेषां समभीप्सितम् ॥ १,१.८३ ॥ इति श्रीनारदपञ्चरात्रे ग्रन्थप्रशंसनं नाम प्रथमोऽध्यायः प्रथमैकरात्रे द्वितीयोऽध्यायः शुक उवाच कुत्र वा पञ्चरात्रं च नारदस्य च धीमते । प्रदत्तं शम्भुना तात तन्मे व्याख्यातुमर्हसि ॥ १,२.१ ॥ अथ नारदस्य तपोवर्णनम् व्यास उवाच अधीत्य सर्वान् वेदांश्च वेदाङ्गाण्पितुरन्तिके । जगाम तीत्र्हं केदारं सुप्रशस्तं च भारते ॥ १,२.२ ॥ हिमालयस्य पूर्वे य गङ्गातीरे मनोहरे । सिद्धे नारायणक्षेत्रे सर्वेषामभिवाञ्च्छिते ॥ १,२.३ ॥ तपश्चकार स मुनिर्दिव्यं वर्षसहस्रकम् । पित्रोक्तेनैव विधिना सततं संयुतः शुचिः ॥ १,२.४ ॥ शुश्रावाकाशवाणीं च तपसोऽन्ते महामुनिः । स्वल्पाक्षरां च बह्व्अर्थां परिणामसुखावहाम् ॥ १,२.५ ॥ अथ नारदं प्रति दैववाणी अशरीरिष्युवाच आधारितो यदि हरिस्तपसा ततः किम् । नाधारितो यदि हरिस्तपसा ततः किम् । अन्तर्बहिर्यदि हरिस्तपसा ततः किम् । नान्तर्बहिर्यदि हरिस्तपसा ततः किम् ॥ १,२.६ ॥ विरम विरम ब्रह्मन् किं तपस्यासु वत्स । व्रज व्रज द्विज शीघ्रं शङ्करं ज्ञानसिन्धुम् । लभ लभ हरिभक्तिं वैष्णवोक्तां सुपक्वां । भवनिगडनिबन्धछेदिनीं कर्तनीं च ॥ १,२.७ ॥ इति श्रुत्वा च स मुनिर्विमनाः स्वर्णदीतटे । चकारार्थानुसन्धानं न प्रसन्नं च तन्मनः ॥ १,२.८ ॥ रुरोद स्वर्णदीतीरे स्मारं स्मारं हरेः पदम् । ददर्श पुरतस्तातं ब्रह्माणं सकुमारकम् ॥ १,२.९ ॥ ननाम सहसा मूर्ध्ना पितरं तं सहोदरम् । पाद्यमर्घ्यं च प्रददौ जवेन सादरं मुनिः ॥ १,२.१० ॥ श्लोकद्वयार्थं पप्रच्छ कुमारं जगतां विधिम् । सुखासीनं सुस्थिरं च सस्मितं च गतश्रमम् ॥ १,२.११ ॥ स्वात्मारामं पूर्णकामं ज्ञानिनां च गुरोर्गुरुम् । साश्रुनेत्रः पुलकितो भक्त्या प्रणतकन्धरम् ॥ १,२.१२ ॥ नारदस्य वचः श्रुत्वा दृष्ट्वा तं कातरं विधिः । पुत्रेण सार्द्धमालोच्य व्याख्यां कर्तुं समारेभे ॥ १,२.१३ ॥ अथ दैववाण्यर्थः ब्रह्मोवाच हे वत्स पूर्वश्लोकार्थं निगूढं श्रुतिसम्मतम् । वेदार्थं द्विविधं शुद्धं व्याख्यां कुर्वन्ति वैदिकाः ॥ १,२.१४ ॥ आराधितो यदि हरिर्येन पुंसा स्वभक्तितः । किं तस्य तपसा व्यर्थं तीर्थपूतस्य नारद ॥ १,२.१५ ॥ कृष्णमन्त्रोपासकस्य जीवन्मुक्तस्य भारते । तपश्चोपहासबीजं तथा चर्वितचर्वणम् ॥ १,२.१६ ॥ मन्त्रग्रहणमात्रेण पुरुषाणां शतं सुत । पुनाति स्वस्वभक्तं च चान्धवंश्चावलीलया ॥ १,२.१७ ॥ नहि धर्मो नहि तपः श्रीकृष्णसेवनात्परम् । परिश्रमं च विफलं तपसा वैष्णवस्य च ॥ १,२.१८ ॥ कृष्णमन्त्रोपासकस्य तीर्थपूतस्य पुत्रक । तीर्थस्नानमनशनं वेदेषु च विडम्बनम् ॥ १,२.१९ ॥ पूर्वकर्मानुरोधेन यत्पापं वैष्णवस्य च । मन्त्रग्रहणमात्रेण नष्टं वह्नौ यथा तृणम् ॥ १,२.२० ॥ पवित्रः परमो वह्निः पवित्रं चामलं जलं । पवित्रं भारतं वर्षं तीर्थं यत्तुलसीदलम् ॥ १,२.२१ ॥ पुनाति लीलयैतानि शुद्धः कृष्णपरायणः । उपस्पर्श च भक्तस्याप्येते वाञ्च्छन्ति सादरम् ॥ १,२.२२ ॥ भक्तस्य पादरजसा सद्यः पूता वसुन्धरा । नहि पूतस्त्रिभुवने श्रीकृष्णसेवकात्परः ॥ १,२.२३ ॥ शालिग्रामशिलाचक्रे करोति कृष्णपूजनम् । तत्पादोदकनैवेद्यं नित्यं भुङ्क्ते च यः पुमान् ॥ १,२.२४ ॥ स वैष्णवो महापूतस्तन्मन्त्रोपासकः शुचिः । पुनाति पुंसां शतकं जन्ममात्रात्सबान्धवम् ॥ १,२.२५ ॥ वत्स श्लोकस्यैकपादं व्याख्यातं च यथागमम् । व्याख्यातं करोम्यन्यपादं यथाज्ञानं मिशामय ॥ १,२.२६ ॥ नाराधितो यदि हरिर्येन पुंसाधमेन च । किं तस्य तपसा व्यर्थं निष्फलं तत्परिश्रमः ॥ १,२.२७ ॥ व्रतान्येव हि दानानि तपांस्यनशनानि च । वेदोपयुक्ता यज्ञाश्च कर्माणि च शुभानि च । न निष्पुनात्यभक्तं च सुराकुम्भमिवापगा ॥ १,२.२८ ॥ अभक्तस्पर्शमात्रेण तीर्थानि कम्पितानि च । अभक्तभारदुःखेन कम्पिता सा वसुन्धरा ॥ १,२.२९ ॥ श्लोकार्धं कथितं वत्स किंचिदेव यथागमम् । तस्यार्धस्यापि व्याख्यानं करोमीति निशामय ॥ १,२.३० ॥ वेदसारं कृष्णमतं ममापि नहि कल्पना । अन्तर्बहिर्यदि हैर्येषां पुंसां महात्मनां ॥ १,२.३१ ॥ स्वप्ने जागरणे शश्वत्तपस्तेषां च निष्फलम् । स एव विष्णुतुल्यो हि तद्अंशो भारते मुने ॥ १,२.३२ ॥ तस्य रक्षानिबन्धेन तद्अभ्यासे सुदर्शनम् । ध्यानमात्रेण निष्पापः पुनाति भुवनत्रयम् ॥ १,२.३३ ॥ दत्वा चक्रं च रक्षार्थं न निश्चिन्तो जनार्दनः । स्वयं तन्निकटं याति द्रष्टुं रक्षणाय च ॥ १,२.३४ ॥ तत्परो हि प्रियो नास्ति कृष्णस्य परमात्मनः । नहि भक्तात्परश्चात्मा प्राणाश्चावयवादयः । न लक्ष्मी राधिका वाणी स्वयंभुः शम्भुरेव च ॥ १,२.३५ ॥ भक्तप्राणो हि कृष्णश्च कृष्णप्राणा हि वैष्णवाः । ध्यायन्ते वैष्णवाः कृष्णं कृष्णश्च वैष्णवांस्तथा ॥ १,२.३६ ॥ व्याख्यातं च त्रिपादं च हे मुनीन्द्र यथागमम् । शेषपादस्य व्याख्यानं करोमीति निशामय ॥ १,२.३७ ॥ नान्तर्बहिर्यदि हरिर्येषां पुंसां च नारद । तेषामपि तपो व्यर्थमन्तर्मलिनचेतसां ॥ १,२.३८ ॥ किं तज्ज्ञानेन तपसा व्रतेन नियमेन च । तीर्थस्नानेन पुण्येनापि अभक्तमूढचेतसां ॥ १,२.३९ ॥ कृष्णभक्तिविहीनेभ्यो द्विजेभ्यः श्वपचो महान् । शूकरो म्लेच्छनिवहः स्वधर्माचरेण च ॥ १,२.४० ॥ स्वधर्महीना विप्राश्चाप्यभक्ष्यभक्षणेन च । नित्यं नित्यं विधर्मेण पतिताः श्वपचाधमाः ॥ १,२.४१ ॥ ब्रह्मणानां स्वधर्मश्च सन्ततं कृष्णसेवनम् । नित्यं ते भुञ्जते सन्तस्तन्नैवेद्यं पादोदकम् ॥ १,२.४२ ॥ न दत्वा हरये यस्तु यदि भुङ्क्ते द्विजाधमः । अन्नं विष्ठासमं मूत्रसमं तोयं विदुर्बुधाः ॥ १,२.४३ ॥ भुङ्क्ते स्वभक्ष्यं कोलश्च म्लेच्छश्च श्वपचाधमः । विप्रो नित्यमभक्ष्यं च भुङ्क्ते च पतितस्ततः ॥ १,२.४४ ॥ श्लोकमेकं च व्याख्यातं यथाज्ञानं च नारद । सन्निबोध परस्यार्धं व्याख्यानं च यथोचितं ॥ १,२.४५ ॥ तपसो विरम ब्रह्मन् व्यर्थं भक्ततपो ध्रुवम् । शङ्करश्च गुरुं कृत्वा हरिभक्तिं लभाचिरम् ॥ १,२.४६ ॥ सुपक्वा हरिभक्तिश्च तरणी भवतारणे । गुरुरेव परं ब्रह्म कर्णधारस्वरूपकः ॥ १,२.४७ ॥ इत्येवमुक्त्वा त्वां देवी प्रजगाम सरस्वती । व्याख्यातस्तद्अभिप्रायः किं भूयः कथयामि ते ॥ १,२.४८ ॥ ब्रह्माणश्च वचः श्रुत्वा जहास योगिनां गुरुः । सनत्कुमारो भगवानुवाच पितरं शुक ॥ १,२.४९ ॥ सनत्कुमार उवाच पूर्वश्लोकस्य व्याख्यानं न बुद्धं शिशुना मया । पुत्रं शिष्यमबोधं च युक्तं बोधयितुं पुनः ॥ १,२.५० ॥ आराधितो हरिर्येन तस्य व्यर्थं तपो यदि । नाराधितो हैर्येन तस्य व्यर्तं तपो यदि ॥ १,२.५१ ॥ तस्यारहितौ तौ द्वौ तपसश्च स्थलं कुतः । तपः कुर्वन्ति ये तात त्वं मां बोधय बालकम् ॥ १,२.५२ ॥ पुत्रस्य वचनं श्रुत्वा सन्दिग्धो जगतां गुरुः । दध्यौ कृष्णपदाम्भोजं परं कल्पतरुं शुक ॥ १,२.५३ ॥ क्षणं संचित्य पादाब्जं प्राप राद्धान्तमीप्सितम् । व्याख्यां कर्तुं समारेभे विधाता जगतामपि ॥ १,२.५४ ॥ अथ नैवेद्यप्रशंसा ब्रह्मोवाच धन्योऽहं भवतः पुत्रात्ज्ञानिनां च गुरोर्गुरोः । विष्णुभक्ताच्च धर्मिष्ठात्सत्पुत्राच्च पिता सुखी ॥ १,२.५५ ॥ धन्योऽसि पण्डितोऽसि त्वं हरिभक्तोऽसि पुत्रक । ममापि सफलं जन्म जीवनं च त्वया बुध ॥ १,२.५६ ॥ निबोध पूर्वश्लोकार्थं पुनर्व्याख्यां करोमि च । तथापि चेन्न सन्तोषो भवान् व्याख्यां करिष्यति ॥ १,२.५७ ॥ आशब्दः सम्यग्अर्थे च राधितः प्राप्तवाचकः । संप्राप्तश्च हरिर्येन व्यर्थस्तस्य तपःश्रमः ॥ १,२.५८ ॥ येन सम्यक्प्रकारेण संप्राप्तो हरिरीश्वरः । स्वप्ने ज्ञाने च ज्ञातस्तेषां व्यर्थस्तपःश्रमः ॥ १,२.५९ ॥ श्रीकृष्णविमुखं मूढं द्विजमेव नराधमम् । तीर्थं दानं तापः पुण्यं व्रतं नैव पुनाति तम् ॥ १,२.६० ॥ यश्च मूढतमो लोके यश्च भक्तिं परां गतः । तावुभौ सुखसेधेते तपः कुर्वन्ति मध्यमाः ॥ १,२.६१ ॥ देवानन्यांश्च भजते हरिं जानाति तत्परः । तपः करोति तं प्राप्तुमाकाङ्क्षन्मध्यमो जनः ॥ १,२.६२ ॥ प्राक्तनादनुरागी च गृही संसारसंवृतः । तपः करोति श्रीकृष्णपादपद्मार्थमीप्सितम् ॥ १,२.६३ ॥ परं श्रीकृष्णभजनं ध्यानं तन्नामकीर्तनम् । तत्पादोदकनैवेद्यभक्षणं सर्ववाञ्च्छितम् ॥ १,२.६४ ॥ अतीव मूढो विप्रश्च प्राक्तनाद्गुरुदोषतः । तामसो हि न जानाति श्रीकृष्णं त्रिगुणात्परम् ॥ १,२.६५ ॥ अज्ञानादथ वा ज्ञानात्सत्सङ्गादेव प्राक्तनात् । भुङ्क्ते नैवेद्यमीशस्य कृष्णस्य परमात्मनः ॥ १,२.६६ ॥ स च मुक्तो भवेत्पुत्र मुच्यते सर्वपातकात् । स याति दिव्ययानेन गोलोकं लोकमुत्तमम् ॥ १,२.६७ ॥ शृणु वत्स प्रवक्ष्यामि पूर्वाख्यानं पुरातनम् । अतीव सुश्रवं चारु मधुरं मुक्तिदं परम् ॥ १,२.६८ ॥ कान्यकुब्जः सुक्षुब्धश्च ब्राह्मणो ग्रामयाजकः । देवलो वृषवाहश्च महामूढश्च पातकी ॥ १,२.६९ ॥ स्वप्ने ज्ञाने न जानाति पुण्यं वा कृष्णपूजनम् । कृष्णभक्तसहालापदर्शनस्पर्शनं शुभं ॥ १,२.७० ॥ बभूव प्राक्तनात्तस्य क्षणमात्रं सुदुर्लभम् । तेन पुण्येन नैवेद्यं लेभे कृष्णस्य ब्राह्मणः ॥ १,२.७१ ॥ पितुः पुण्येन पुत्रश्च मार्गे पतितमल्पकम् । स्वयं भुक्तावशेषं च पतितं वैष्णवाज्जनात् ॥ १,२.७२ ॥ सुस्निग्धाक्षतजीर्णं च रजसा मिश्रितं परम् । गच्छतस्तत्र विप्रस्य पतितं भक्ष्यवस्तु च ॥ १,२.७३ ॥ नैवेद्योपरि कृष्णस्य त्वरायुक्तस्य पुत्रक । तद्वस्तु भुक्तं विप्रेण कृष्णनैवेद्यमिश्रितम् ॥ १,२.७४ ॥ सपुत्रेण क्षुधार्तेन तौ ययतुर्गृहम् । विप्रोच्छिष्टं च बुभुजे तस्य पत्नी पतिव्रता ॥ १,२.७५ ॥ परम्परानुसंबन्धात्पवित्रा सा बभूव ह । जीवन्मुक्तो ब्राह्मणश्च बभूव स सपुत्रकः ॥ १,२.७६ ॥ कालेन तेन पुण्येन व्याघ्रभुक्तश्च कानने । सार्धं च व्याघ्रपुत्राभ्यां गोलोकं प्रययौ द्विज । पतिव्रता सहमृता भर्ता सार्धं जगाम सा ॥ १,२.७७ ॥ इति श्रीनारदपञ्चरात्रे ज्ञानामृतसारे प्रथमैकरात्रे ब्रह्मसनत्कुमारसंवादे नैवेद्यप्रशंसनं नाम द्वितीयोऽध्यायः प्रथमैकरात्रे तृतीयोऽध्यायः सनत्कुमार उवाच अहो तात किमाश्चर्यं कृष्णस्य परमात्मनः । परं नैवेद्यमाहात्म्यं विस्तराद्वद साम्प्रतम् ॥ १,३.१ ॥ अथ श्रीकृष्णमहिमवर्णनम् ब्रह्मोवाच एकदा ब्राह्मणो हृष्टः प्रफुल्लवदनेक्षणः । पुत्रेण सार्धं प्रययौ बान्धवस्य गृहं मुदा ॥ १,३.२ ॥ निमन्त्रितो विवाहेन महासंभारसंभृतः । भुक्त्वा पीत्वा च तद्गृहे स्वगृहं प्रययौ मुदा ॥ १,३.३ ॥ सपुत्रो ब्राह्मणो मार्गे क्षुत्पिपासार्दितः सुतः । ददर्श चन्द्रभागां तां नदीमतिमनोहराम् ॥ १,३.४ ॥ उवाच पुत्रः पित्रं स्नात्वा भोक्ष्यामि चेति भोः । क्षुत्पिपासा बलवती वर्धते तात वर्त्मनि ॥ १,३.५ ॥ पुत्रस्य वचनं श्रुत्वा तमुवाच द्विजः स्वयम् । भयंकरं वनमिदं समीपे सरितः सुतः ॥ १,३.६ ॥ सुशीघ्रं गच्छ ग्रामान्तं पुरो रम्यसरोवरम् । तत्र स्नात्वा च भोक्ष्यावो गच्छ वत्स यथासुखम् ॥ १,३.७ ॥ तातस्य वचनं श्रुत्वा जहास च चुकोप ह । पितरं वक्तुमारेभे रक्तपण्ग्कजलोचनः ॥ १,३.८ ॥ शिशुरुवाच बालोऽहं दशवर्षीयस्त्वं च वृद्धश्च ज्ञानदः । पिता ददाति पुत्राय ज्ञानं सर्वत्र भूतले ॥ १,३.९ ॥ अहो दुरत्ययः कालो वृध्हो वदति बालवत् । कथं प्राक्तनमुल्लङ्घ्य ब्रूहि तात दुरत्ययम् ॥ १,३.१० ॥ प्राक्तनात्सुखदुःखं च रोगं शोकं भयं पितः । सुमृत्युरपमृत्युर्वा चिरायुरल्पजीवनः ॥ १,३.११ ॥ यत्र काले च यन्मृत्युर्भवनं शुभकर्म च । न्यूनाधिकं क्षणं नास्ति निषेकः केन वार्यते ॥ १,३.१२ ॥ यस्य हस्ते च यन्मृत्युर्विधात्रा लिखितः पुरा । न च तं खण्डितुं शक्तः स्वयं विष्णुश्च शङ्करः ॥ १,३.१३ ॥ तात व्यर्थमधीतं ते दुर्बुद्धेर्जन्म निष्फलम् । सुबुद्धेः सफलं जन्म तत्क्षणं जीवनं सुखम् ॥ १,३.१४ ॥ येन शुक्लीकृता हंसाः शुकाश्च हरितीकृताः । मयूराश्चित्रिता येन स मे रक्षां करिष्यति ॥ १,३.१५ ॥ येन कृष्णेन विश्वानि चासंख्यानि कृतानि च । चराचरं च यो रक्षेत्स मे रक्षां करिष्यति ॥ १,३.१६ ॥ घोरारण्ये सुखं शेते यो हि कृष्णेन रक्षितः । निर्बन्धोऽपि यस्य मरणं तस्य मन्दिरे ॥ १,३.१७ ॥ यः शेते नागशय्यासु प्राक्तनान्मङ्गलाहितः । यो नागभक्षितो भोगात्स भृतो गरुडान्तिके ॥ १,३.१८ ॥ न समुद्रे च म्रियते नाग्निराशौ विषानले । न शस्त्रेण न चास्त्रेणायुर्मर्माणि रक्षति ॥ १,३.१९ ॥ नाप्राप्तकालो म्रियते विद्धः शरशतैरपि । तृणाग्रेणापि संस्पृष्टः प्राप्तकालो न जीवति ॥ १,३.२० ॥ कश्चिद्गर्भे च म्रियते कश्चिद्भूमिष्टमात्रतः । कश्चिद्यौवनकाले च कश्चिदेव हि वार्द्धके ॥ १,३.२१ ॥ कश्चिद्चिरायु रोगी चाप्यरोगी चापि कश्चन । कश्चिद्धनी दरिद्रश्च कश्चिदेव हि कर्मणा ॥ १,३.२२ ॥ कश्चित्कल्पान्तजीवी च चिरजीवी च कश्चन । प्राक्तनादमरः कश्चिन्निषेको बलवत्तरः ॥ १,३.२३ ॥ कश्चिद्याति च राजेन्द्रो दिव्ययानेन कर्मणा । कश्चित्कीटपतङ्गेषु कश्चित्पश्वादियोनिषु ॥ १,३.२४ ॥ कश्चिदेव हि सन्न्यासी कश्चिच्च नरघातकः । कश्चिद्गजेन्द्रगामी च पशुयायी च कश्चन ॥ १,३.२५ ॥ कश्चिद्सूक्ष्मांशुकाधारी कश्चिज्जीर्णपटी जनः ॥ १,३.२६ ॥ कश्चिन्नग्नोऽअप्यनाहारी सुधाभोजी च च कश्चन । कश्चिच्च सुन्दरः श्रीमान् गलत्कुष्टी च कश्चन ॥ १,३.२७ ॥ कश्चित्कुब्जश्चाङ्गहीनो बधिरः काण एव च । कश्चिद्दीर्घो मध्यमश्च कश्चित्खञ्जश्च वामनः ॥ १,३.२८ ॥ कश्चित्कृष्णश्च गौरश्च श्यामलश्च स्वकर्मणा । कश्चिद्भक्त्या च प्राप्नोति कृष्णदास्यं सुदुर्लभम् ॥ १,३.२९ ॥ ब्रह्मणः परमं स्थानं जन्ममृत्युजराहरम् । कश्चित्प्राप्नोति परमं ब्रह्मलोकं निरामयम् ॥ १,३.३० ॥ कश्चित्स्वर्गमिन्द्रपदं शिवलोकं स्वकर्मणा । कश्चित्वर्गमिन्द्रलोकं यमलोकं च कश्चन ॥ १,३.३१ ॥ कश्चिच्च नरके घोरे प्राप्नोति क्लेशमुल्वणम् । तादितो यमदूतेन क्षुधितस्तृषितः सदा ॥ १,३.३२ ॥ भुङ्क्ते विण्मूत्रकीटं तन्मलं श्लेष्मं गरं वसाम् । क्षुरधारे तप्ततैले वह्नौ शिते जले स्थले ॥ १,३.३३ ॥ प्राप्नोति दारुणं दुःखमाकल्पं पातकी पितः । तथा भोगावशेषे च लब्धा जन्म स्वकर्मणा ॥ १,३.३४ ॥ व्याधियुक्तः प्रमुच्येत तया चेदीश्वरेच्छया । यद्भयाद्वाति वातोऽयं सूर्यस्तपति यद्भयात् ॥ १,३.३५ ॥ वर्षतीन्द्रो दहत्यग्निर्मृत्युश्चरति जन्तुषु । यस्याज्ञया सृष्टिविधौ मूर्मोऽनन्तं दधाति च ॥ १,३.३६ ॥ स च सर्वं च ब्रह्माण्डं लीलया चेश्वरेच्छया । यस्याज्ञया महाभीता सर्वाधारा वसुन्धरा ॥ १,३.३७ ॥ धरा सा सर्वस्याद्या रत्नवांश्च हिमालयः । स्वयं विधाता भगवान् ध्यायते यमहर्निशम् ॥ १,३.३८ ॥ यं ध्यायते च भजते स्वयं मृतुञ्जयः शिवः । सहस्रवक्त्रोऽयं स्तौति ध्यायते भजते सदा ॥ १,३.३९ ॥ स्वय्ं सरस्वती स्तौति यमीश्वरमभीप्सितम् । सेवते पादपद्मं च स्वयं पद्मालया पितः ॥ १,३.४० ॥ माया भीता च यं स्तौति दुर्गा दुर्गतिनाशिनी । स्तुवन्ति वेदाः सततं सावित्री वेदमातृका ॥ १,३.४१ ॥ सिद्धेन्द्राश्च मुनीन्द्राश्च योगीन्द्राः सनकादयः । राजेन्द्राश्चासुरेन्द्राश्च सुरेन्द्रा मनवस्तथा ॥ १,३.४२ ॥ ध्यायन्ते च भजन्ते च भक्ताः सन्तो हि सन्ततम् । केचिद्विदन्ति यं ब्रह्मां भगवन्तं सनातनम् ॥ १,३.४३ ॥ केचित्प्रधानं सर्वाद्यं केचिच्च ज्योतिरीश्वरम् । केचिच्च सर्वरूपं च सर्वकारणकारणम् ॥ १,३.४४ ॥ केचित्स्वेच्छाभयं रूपं भक्तानुग्रहविग्रहम् । केचित्सुरुचिरं श्यामसुन्दरं मनोहरम् ॥ १,३.४५ ॥ सानन्दं परमानन्दं गोविन्दं नन्दनन्दनम् । भज तात परं ब्रह्म स्मर शश्वत्सुरेश्वरम् ॥ १,३.४६ ॥ इत्येवमुक्त्वा पितरं चन्द्रभागानदीजले । स्नात्वा पपौ जलं स्वच्छं बुभुजे मिष्टमोदकम् ॥ १,३.४७ ॥ पिता तद्वचनं श्रुत्वा सानन्दाश्रु मुमोच सः । चुचुम्ब गण्डं पुत्रस्य समाश्लेषणपूर्वकम् ॥ १,३.४८ ॥ पिता स्नात्वा समारेभे सन्ध्यां कर्तुं च पूजनम् । सुस्नातं पितरं दृष्ट्वा पुत्रः स प्रययौ वनम् ॥ १,३.४९ ॥ पत्रं भोजनपात्रार्थमर्हतुं चञ्चलः शिशुः । चकार चयनं तूर्णं प्रशस्तं पत्रपञ्चकम् ॥ १,३.५० ॥ सुन्दरं कुसुमं वन्यं पूजनार्थं पितुस्तथा । ददर्श पुरतो बालः सुपक्वं वदरीफलम् ॥ १,३.५१ ॥ चकार चयनं तानि फलानि शोभनानि च । धात्रीफलं सुपक्वं च पक्वमाम्रातकं तथा ॥ १,३.५२ ॥ सुपक्वं च कदम्बं च चकार चयनं पुनः । सुपक्वं सुन्दरं रम्यं दाडिमं श्रीफलं तथा ॥ १,३.५३ ॥ रम्यं जम्बुफलं चैव खर्जूरं सुमनोहरम् । करञ्जकं च जाम्बीरं सुन्दरं चिकुरं तथा ॥ १,३.५४ ॥ तत्सर्वं चयनं कृत्वा ददर्श पुरतः सरः । सुनिर्मलं जलं स्वच्छं श्वेतपद्मं मनोहरम् ॥ १,३.५५ ॥ रुचिरं रक्तकह्लारं प्रस्फुटं च जलान्तिके । विहाय तानि सर्वाणि सरःशिरसि सुस्थले ॥ १,३.५६ ॥ पपौ सरःस्वच्छतोयं जहार पद्ममुल्वणम् । किंचित्सुरक्तकह्लारं पक्वं पद्मफलं तथा ॥ १,३.५७ ॥ सर्वमाहरणं कृत्वा पितरं गन्तुमुद्यतः । प्रफुल्लवदनः श्रीमान् सस्मितो द्विजबालकः ॥ १,३.५८ ॥ प्रफुल्लचम्पकतरुं ददर्श पुरतः शिशुः । मल्लिकामालतीकुन्दयूथिकामाधवीलताः ॥ १,३.५९ ॥ चकार चयनं स्फीतः पुष्पाणि सुन्दराणि च । पुष्पेण फलपत्रेण तस्य भारो बभूव ह ॥ १,३.६० ॥ बालो वोढुमशक्यन्तश्च ययौ गमनमन्थरः । न फलं बुभुजे सोऽपि धर्माधर्मभयेन च ॥ १,३.६१ ॥ पुरो ददर्श स शिशुर्घोरं व्याघ्रालयं भिया । तात तातेति शब्दं च चकार ह पुनः पुनः ॥ १,३.६२ ॥ न ददर्श च तातं च शार्दुलं च ददर्श सः । भिया सस्मार गोविन्दपादारवैन्दमीप्सितम् ॥ १,३.६३ ॥ हरिं नरहरिं रामं कृष्णं विष्णुं च माध्वम् । दामोदरं हृषीकेशं मुकुन्दं मधुसूदनम् ॥ १,३.६४ ॥ एतानि दश नामानि जपन् विप्रशिशुर्भिया । प्रययौ पुरतः शीघ्रं पुनरेव सरोवरम् ॥ १,३.६५ ॥ सरसो निर्मले तीरे पुष्पाणि च फलानि च । ददौ भक्त्या भगवते कृष्णाय परमात्मने ॥ १,३.६६ ॥ श्रीकृष्णपूजां कुर्वन्तं ध्यानमानां पदाम्बुजम् । निकटं न ययौ व्याघ्रो दृष्ट्वा बालं च दूरतः ॥ १,३.६७ ॥ व्याघ्रं ददर्श बालश्च प्रकटास्यं भयानकम् । विकृताकारदशनं विकटाक्षं महोदरम् ॥ १,३.६८ ॥ दृष्ट्वा च दुरतो व्याघ्रमुवास सरसस्तटे । दध्यौ कृष्णपदाम्भोजं जन्ममृत्युजराहरम् ॥ १,३.६९ ॥ मूलाधारं स्वाधिष्ठानं मणिपूरमनाहतम् । विशुद्धं च तथाज्ञाख्यं षट्चक्रं च विभाव्य च ॥ १,३.७० ॥ कुण्डलिन्या स्वशक्त्या च सहितं परमेश्वरम् । सहस्रदलपद्मस्थं हृदये स्वात्मनः प्रभुम् ॥ १,३.७१ ॥ ददर्श द्विभुजं कृष्णं पीतकौशेयवाससम् । सस्मितं सुन्दरं शुद्धं नवीनजलदप्रभम् ॥ १,३.७२ ॥ कोटिकन्दर्पसौन्दर्यलीलाधाममनोहरम् । कोटिपार्वणपूर्णेन्दुप्रभाजुष्टं च सुन्दरम् ॥ १,३.७३ ॥ सुखदृश्यं सुरूपं च भक्तानुग्रहकारकम् । चन्दनोक्षितसर्वाङ्गं रत्नभूषणभूषितम् ॥ १,३.७४ ॥ प्रफुल्लपद्मनयनं राधावक्षःस्थलस्थितम् । मालतीमाल्यसम्बद्धचूडाचारुसुशोभनम् ॥ १,३.७५ ॥ धृतरत्नं रत्नपद्मं दक्षिणेन करेण च । वामेन मणिनिर्माणदीप्तदर्पणमुज्ज्वलम् ॥ १,३.७६ ॥ रत्नकुण्डालयुग्मेन गण्डस्थलविराजितम् । कौस्थुभेन मणीन्द्रेण चारुवक्षःस्थलोज्ज्वलम् ॥ १,३.७७। मुक्ताराजिविनिन्दैकदन्तराजिविराजितम् । आजानुमालतीमालावनमालाविभूषितम् ॥ १,३.७८ ॥ वेदाननसरस्वत्या स्तुतं ब्रह्मेशवन्दितम् । पद्मापद्मालयामायासंसेवितपदाम्बुजम् ॥ १,३.७९ ॥ परिपूर्णतमं ब्रह्म परमात्मानमीश्वरम् । निर्लिप्तं साक्षिभूतं च भगवन्तं सनातनम् ॥ १,३.८० ॥ सर्वेशां सर्वरूपं च सर्वकारणकारणम् । पुरुषं परमात्मैकं परेशं प्रकृतेः परं ॥ १,३.८१ ॥ एवं भूतं विभुं दृष्ट्वा मनसा प्रणनाम तम् । तुष्टाव परया भक्त्या तमीशं सम्पुटाञ्जलिः ॥ १,३.८२ ॥ श्रीसुभद्र उवाच हे नाथ दर्श्नं देहि मां भक्तं शरणागतम् । श्रीद श्रीश श्रीनिवास श्रीनिधे श्रीनिकेतन ॥ १,३.८३ ॥ श्रिया सेवितपादाब्ज श्रीसमुत्पत्तिकारण । वेदानिर्वचनियेश निरीह निर्गुणाधिप ॥ १,३.८४ ॥ सर्वाद्य सर्वनिलय सर्वबीज सनातन । शान्त सरस्वतीकान्त नितान्त सर्वकर्मसु ॥ १,३.८५ ॥ सर्वाधार निराधार कामपूर परात्पर । दुष्पारासारसंसारकर्णधार नमोऽस्तु ते ॥ १,३.८६ ॥ इत्येवमुक्त्वा स शिशु रुरोद च पुनः पुनः । ध्यायेन तत्पदाम्भोजं शरणं च चकार सः ॥ १,३.८७ ॥ इति विप्रकृतं स्तोत्रं त्रिसन्ध्यं यः पठेन्नरः । मुच्यते सर्वपापेभ्यो विष्णुलोकं स गच्छति ॥ १,३.८८ ॥ इति श्रीनारदपञ्चरात्रे ज्ञानामृतसारे प्रथमैकरात्रे ब्रह्मसनत्कुमारसंवादे श्रीकृष्णमहिमोपालम्भनं नाम तृतीयोऽध्यायः प्रथमैकरात्रे चतुर्थोऽध्यायः ब्रह्मोवाच ब्राह्मणस्य स्तवं श्रुत्वा परितुष्टो जनार्दनः । कृपां चकार भगवान् भक्तेशो भक्तवत्सलः ॥ १,४.१ ॥ एतस्मिन्नन्तरे तत्र भगवान्नन्दनन्दनः । नारायणर्षिः कृपया चाजगाम सरोवरम् ॥ १,४.२ ॥ ददर्श ब्राह्मणवटुं तमेव मुनिपुङ्गवम् । तेजसा सुखदृश्येन सुन्दरं सुमनोहरम् ॥ १,४.३ ॥ पीतवस्त्रपरीधानं नवीनजलदप्रभम् । चन्दनोक्षितसर्वाङ्गं वनमालाविभूषितम् ॥ १,४.४ ॥ प्रसन्नवदनं शुद्धं सस्मितं सर्वपूजितम् । विभान्तं च जपन्तं शुद्धस्फटिकमालया ॥ १,४.५ ॥ दृष्ट्वा ननाम सहसा शिरसा विप्रपुङ्गवः । शुभाशिषं ददौ तस्मै दत्वा शिरसि हस्तकम् ॥ १,४.६ ॥ तमुवाच मुनिश्रेष्ठः कृपया दीनवत्सलः । हितं तथ्यं नीतिसारं परिणामसुखावहम् ॥ १,४.७ ॥ श्रीनारायणर्षिरुवाच अये विप्र महाभाग सफलं जीवनं तव । यस्मिन् कुले च जातोऽसि तद्धन्यं सुप्रशंसितम् ॥ १,४.८ ॥ भज त्वं परमानन्दं सानन्दं नन्दनन्दनम् । ध्रुवं यास्यसि गोलोकं परमानन्दमीप्सितम् ॥ १,४.९ ॥ तत्कुलं पावनं धन्यं यशस्यं च निरापदम् । यस्मिन् स्वयं भवान् जातः पुण्यः कृष्णपरायणः ॥ १,४.१० ॥ नैवेद्यं पतितं मार्गे जीर्नं श्वापदभक्षितम् । भुक्त्वा तवैषा बुद्धिश्च कृष्णभक्तिर्बभूव च ॥ १,४.११ ॥ कृष्णनैवेद्यमाहात्म्यं को वत्स कथितुं क्षमः । यद्वक्तुं न हि शक्ताश्च वेदाश्चत्वार एव च ॥ १,४.१२ ॥ वरं वृणुष्व भद्रं ते सुभद्र द्विजपुङ्गव । सर्वं दातुमहं शक्तो यत्ते मनसि वाञ्च्छितम् ॥ १,४.१३ ॥ नारायणवचः श्रुत्वा तमुवाच शिषुः स्वयम् । पुनः कम्पितसर्वाङ्गः साश्रुनेत्रः पुटाञ्जलिः ॥ १,४.१४ ॥ सुभद्र उवाच देहि मे कृष्णपादाब्जे दृढं भक्तिं सुदुर्लभम् । तद्दास्यं तत्पदे वासं जरामृत्युहरं परम् ॥ १,४.१५ ॥ अन्यं वरं न गृह्णामि न मे किंचित्प्रयोजनम् । नाहं वरार्थी कामी च रागी वेतनभुग्यथा ॥ १,४.१६ ॥ नारायणर्षिरुवाच श्रीकृष्णो यस्य भक्तिश्च तस्यात्र किं सुदुर्लभम् । अणिमादिकद्वत्रिंशत्सिद्धिः करतले परा ॥ १,४.१७ ॥ निर्विकल्पो ददात्यस्य नैव गृह्णाति वैष्णवः । अनिमित्तां हरेर्भक्तिं भक्ता वाञ्च्छन्ति सन्ततम् ॥ १,४.१८ ॥ गृहाण मन्त्रं कृष्णस्य परं कल्पतरुं वरम् । भक्तिदं दास्यदं शुद्धं कर्ममूलनिकृन्तनम् ॥ १,४.१९ ॥ लक्ष्मीर्मायाकामबीजं ङेऽन्तं कृष्णपदं तथा । वह्निजायान्तमन्त्रं च मन्त्रराजं मनोहरम् ॥ १,४.२० ॥ इत्येवमुक्त्वा तत्कर्णे कथयामास दक्षिणे । वारत्रयं मुनिश्रेष्ठः शुद्धभावेन पुत्रक ॥ १,४.२१ ॥ येन स्तोत्रेण तुष्टाव सुभद्रः परमेश्वरम् । आज्ञां चकार स ऋषिस्तदेव पठितुं मुदा ॥ १,४.२२ ॥ कवचं च ददौ तस्मै जगन्मङ्गलमङ्गलम् । ध्यानं च सामवेदोक्तं सर्वपूजाविधिक्रमम् ॥ १,४.२३ ॥ हरेर्दास्यं च तद्भक्तिर्गोलोकवासमीप्सितम् । जन्मद्वयान्तरे चैव कर्मभोगक्षये सति ॥ १,४.२४ ॥ सुभद्र उवाच सत्यं कुरु महाभाग वरं मे यदि दास्यसि । वरं वृणोमि तत्पश्चात्यन्मे मनसि वाञ्च्छितम् ॥ १,४.२५ ॥ नारायणर्षिरुवाच ओं सत्यं वत्स दास्यामि वरं वृणु यथेप्सितम् । ममाशक्यं नास्ति किंचित्दाताहं सर्वसम्पदाम् ॥ १,४.२६ ॥ सुभद्र उवाच कण्ठे ते किं च कवचं कस्य वा सर्वपूजितम् । अमूल्यरत्नगुटिकायुक्तं च सुमनोहरम् ॥ १,४.२७ ॥ कवचं देहि मे देव स्वसत्यरक्षणं कुरु । विप्रस्य वचनं श्रुत्वा शुष्ककण्ठौष्ठातालुकः ॥ १,४.२८ ॥ वक्तुं न शक्तस्तद्वाक्यं दध्यौ कृष्णपदाम्बुजम् । प्रददौ गुटिकां तस्मै नोवाच कवचं मुनिः ॥ १,४.२९ ॥ तमुवाच महर्षिश्च वितुष्टश्चोन्मनाः सुत । वत्स क्रोधो हि देवस्य वरं तुल्यं च वाञ्च्छितम् ॥ १,४.३० ॥ नारायणर्षिरुवाच त्रिंषत्सहस्रवर्षं च भुङ्क्ष्व राज्यं सुदुर्लभम् । लभस्व दुर्लभां लक्ष्मीं मायया मोहितो भव ॥ १,४.३१ ॥ मद्इष्टदेवकवचं गृहीतं येन हेतुना । सप्तकल्पान्तजीवस्य परत्र च भविष्यति ॥ १,४.३२ ॥ सुचिरेणैव कालेन गोलोकं च प्रायस्यसि । परे मृकण्डुपुत्रस्त्वं मार्कण्डेयो भविष्यसि ॥ १,४.३३ ॥ मया दत्तं च कवचं त्वां च रक्षति पुत्रक । तव कण्ठे स्थितिश्चाश्य प्रति जन्मनि जन्मनि ॥ १,४.३४ ॥ पुनश्च गुटिकायुक्तं कृत्वा च कवचं मुनिः । गले दधार भक्त्या च तद्भक्तो धर्मनन्दनः ॥ १,४.३५ ॥ वरं दत्वा च स मुनिर्ययौ गेहं स उन्मनाः । विप्राय कवचं दत्वा नष्टवत्सा गौर्यथा ॥ १,४.३६ ॥ भ्रात्रा नरेण पित्रा च धर्मेण च महात्मना । मात्रा मूर्त्या च पत्न्या च शान्त्या च भर्त्सितो मुनिः ॥ १,४.३७ ॥ विप्रः सम्प्राप्य कवचं मन्त्रं कल्पतरुं परम् । सरोवरात्समुत्थाय प्रज्वलन् ब्रह्मतेजसा ॥ १,४.३८ ॥ क्षणं तस्थौ सरस्तीरे वटमूले मनोहरे । जजाप परमं मन्त्रं सम्पूज्य जगद्ईश्वरम् ॥ १,४.३९ ॥ अथ तत्तातविप्रो हि समन्विष्य सुतं चिरम् । गत्वा च स्वगृहं दुःखी शोकार्तः स रुरोद च ॥ १,४.४० ॥ समुद्यता तनुं त्यक्तुं तन्माता पुत्रवार्तया । न तत्याज तनुं विप्रो दृष्ट्वा सुस्वप्नमुत्तमम् ॥ १,४.४१ ॥ विप्रो विप्रा गृहं त्यक्त्वा पुत्रान्वेषणपूर्वकम् । प्रययौ काननं घोरं सर्वैश्च बान्धवैः सहः ॥ १,४.४२ ॥ सर्वं वनं समन्विष्य प्रययुस्ते सरोवरम् । ददृशुस्ते शिशुं गृह्यं सूर्याभं वटमूलके ॥ १,४.४३ ॥ चुचुम्ब गण्डं पुत्रस्य विप्रो विप्रा च सारदम् । आशिश्लेष क्रमेणैव माता तातः पुनः पुनः ॥ १,४.४४ ॥ पुत्रश्च सर्ववृत्तान्तं कथयामास सादरम् । श्रुत्वा पुत्रस्य विप्रश्च विप्रा बान्धवस्तथा ॥ १,४. ४५ ॥ ययुः सर्वे स्वदेशं च परमाह्लादमानसाः । चन्द्रभागां समुत्तीर्य विवेश नगरं परम् ॥ १,४.४६ ॥ नगरस्थो नृपेन्द्रश्च दृष्ट्वा तेजस्विनं शिशुम् । ददौ तस्मै स्वकन्यां च रत्नालङ्कारभूषितम् ॥ १,४.४७ ॥ युवतीं सुन्दरीं श्यामां तप्तकञ्चनसंनिभाम् । पतिव्रतां महाभागां सुन्दरीं कमलाकलां ॥ १,४.४८ ॥ गजेन्द्राणां सहस्रं च प्रददौ यौतुकं मुदा । अश्वानां दशलक्षं च रत्नानां च सहस्रकम् ॥ १,४.४९ ॥ दासीनां निष्ककण्ठीनां सौन्दरीणां सहस्रकम् । वस्त्ररत्नसहस्रं च बहुमूल्यं सुदुर्लभम् ॥ १,४.५० ॥ दासानां च सहस्रं च पदातीनां त्रिलक्षकम् । दशलक्षं सुवर्णं च रत्नमालां सुदुर्लभाम् ॥ १,४.५१ ॥ दत्वा तस्मै च कन्यां च रुरोद च सभार्यकः । राजा च कन्यया सार्धं प्रययौ विप्रमन्दिरम् ॥ १,४.५२ ॥ गत्वा चापि कियद्दूरं ददर्श नगरं नृपः । अतीव सुन्दरं रम्यं विजित्य चामरावतीम् ॥ १,४.५३ ॥ शुद्धस्फटिकसंकाशं रत्नसारविनिर्मितम् । त्रिकोटिचट्टालिकागेहं नवकोटिसुमन्दिरम् ॥ १,४.५४ ॥ सप्तप्राकारयुक्तं च परिखात्रयसम्युक्तम् । दुर्लङ्घ्यमतिदुर्गम्यं रिपूणामपि पुत्रक ॥ १,४.५५ ॥ शिशोश्च स्वाश्रमं रम्यं सद्रत्नसारनिर्मितम् । स्फुरत्वज्रकपाटं च रत्नेन्द्रकलशान्वितम् ॥ १,४.५६ ॥ सद्रत्नदर्पणाइर्दीपं रत्नकुम्भैर्विराजितम् । प्राङ्गणं रत्नसाराढ्यं रत्नसोपानशोभितम् ॥ १,४.५७ ॥ मनोहरं राजमार्गं सिन्दूरादिपरिष्कृतम् । प्राकारं मणिभूषाढ्यमुच्चैराकाशस्पर्शि च ॥ १,४.५८ ॥ जगाम विस्मयं राजा दृष्ट्वा नगरमुत्तमम् । पित्रा मात्रा सह शिशुर्विस्मयं च ययौ मुदा ॥ १,४.५९ ॥ गजेन्द्राणां त्रिलक्षं च श्वानां शतलक्षकम् । चतुर्गुणं पदातीनामाययुस्तेऽप्यनुव्रजम् ॥ १,४.६० ॥ वारणेन्द्रं पुरस्कृत्य वेश्यां च नर्तकं तथा । द्विजांश्च पूर्णकुम्भांश्च पतिपुत्रवतीं सतीं ॥ १,४.६१ ॥ महापात्रः शिशुं दृष्ट्वा गजेन्द्रोपरिसंस्थितम् । मूर्ध्ना ननाम वेगेनाप्यवरुह्य गजादपि ॥ १,४.६२ ॥ शिशुं प्रवेशयामास रत्ननिर्माणमन्दिरम् । रत्नसिंहासनं तस्मै प्रददौ सादरं मुदा ॥ १,४.६३ ॥ कन्यादात्रे च पित्रे च मात्रे च सादरं मुदा । रत्नसिंःासनं रम्यं प्रददौ पात्र एव च ॥ १,४.६४ ॥ शिशुं सिषेव पात्रश्च स्वयं च श्वेतचामरैः । दधार रत्नछत्रं च हीराहारपरिष्कृतम् ॥ १,४.६५ ॥ उवास स सभार्यां च सुधर्म्यां महेन्द्रवत् । श्वसुरश्च ययौ गेहं शिशुना च पुरस्कृतः ॥ १,४.६६ ॥ त्रिंशत्सहस्रवर्षं च राजा राज्यं चकार सः । कालान्तरे तत्पिता च वने व्याघ्रेण भक्षितः ॥ १,४.६७ ॥ पतिव्रता महाभागा माता सहमृता सुत । रत्नयानेन रम्येण सस्त्रीकः कृष्णमन्दिरम् ॥ १,४.६८ ॥ प्रययौ सादरं विप्रः कृष्णनैवेद्यभक्षणात् । तद्अस्थि भुक्त्वा व्याघ्रश्च पूतः सद्यश्च सांप्रतम् ॥ १,४.६९ ॥ ताभ्यां सार्धं च प्रययौ गोलोकं सुमनोहरम् । शिशुर्देहं परित्यज्य हिमाद्रौ स्वर्णदीतटे ॥ १,४.७० ॥ दत्वा पुत्राय राज्यं च स्वर्गादपि सुदुर्लभम् । मृकण्डुपत्नीगर्भे च लेभे जन्म स्वकर्मणा ॥ १,४.७१ ॥ मार्कण्डेयो मुनिश्रेष्ठो बभूव परजन्मनि । सप्तकल्पान्तजीवी च नारायणवरेण सः ॥ १,४.७२ ॥ बभूव सांप्रतं विप्रः कृष्णनैवेद्यभक्षणात् । श्वभक्षितं च नैवेद्यं भुक्त्वा चेदीदृशी गतिः । अकामतश्चाप्यज्ञातो जीर्णमार्गस्थितं सुत ॥ १,४.७३ ॥ यो भक्षेत्कामतो ज्ञातो नित्यं नैवेद्यमीप्सितम् । न जानन्ति गतिस्तस्य वेदाश्चत्वार एव च ॥ १,४.७४ ॥ इति ते कथितं ब्रह्मन्नितिहासं पुरातनम् । आश्चर्यं मधुरं रम्यं किं भूयः श्रोतुमिच्छसि ॥ १,४.७५ ॥ श्रीनारद उवाच श्रुतं नैवेद्यमाहात्म्यमतीव सुमनोहरम् । ईश्वरस्यापि हे तात कृष्णस्य परमात्मनः ॥ १,४.७६ ॥ अधुना श्रोतुमिच्छामि स्वात्मसन्देहभञ्जनम् । नारायणर्षेर्कण्ठे च कवचं तस्य तद्वद ॥ १,४.७७ ॥ अथ कवचप्रश्नः सनत्कुमार उवाच ममाप्यस्तीति सन्देहो वचने प्रपितामह । कस्य तत्कवचं ब्रह्मन्निदं वक्तुं त्वमर्हसि ॥ १,४.७८ ॥ स पिता स गुरुः स्वच्छः करोति भ्रमभञ्जनम् । शीघ्रं ब्रूहि महाभाग नारदं मां सुतप्रिय ॥ १,४.७९ ॥ पुत्रयोश्च वचः श्रुत्वा शुष्ककण्ठौष्ठतालुकः । उवाच वचनं ब्रह्मा स्मरन् कृष्णपदाम्बुजम् ॥ १,४.८० ॥ ब्रह्मोवाच नारायणेन मुनिना जगन्मङ्गलमङ्गलम् । विप्राय कवचं दत्तं ध्यानं च पर्मात्मनः ॥ १,४.८१ ॥ तद्ब्रवीमि महाभाग त्वामेव नारदं प्रति । कण्ठस्थं कवचं वक्तुं नैव शक्नोमि सांप्रतम् ॥ १,४.८२ ॥ मत्कण्ठे कवचं यस्य गोपनीयं सुदुर्लभम् । नारायणर्षिकण्ठे च तदेव परमाद्भुतम् ॥ १,४.८३ ॥ तदेव धर्मकण्ठे च नरस्य च महात्मनः । अगस्त्यस्य च कण्ठे च लोमशस्य महामुनेः ॥ १,४.८४ ॥ तुलस्याश्चापि संज्ञायाः सावित्र्याश्चापि पुत्रक । अन्येषां च भाग्यवतां भारते च सुदुर्लभे ॥ १,४.८५ ॥ नारद उवाच पश्चात्श्रोष्यामि कवचं जगन्मङ्गलमङ्गलम् । ध्यानं पूजां विधानं च कृष्णस्य परमात्मनः ॥ १,४.८६ ॥ आदौ कथय भद्रं ते परं परमभद्रकम् । सुभद्रप्राप्तं कवचं माहात्म्यं यस्य दुर्लभम् ॥ १,४.८७ ॥ ब्रह्मोवाच सुभद्रप्राप्तं कवचं पश्चात्श्रोष्यसि पुत्रक । शङ्करस्य मुखाद्विप्र स्वगुरोर्ज्ञानिनस्तथा ॥ १,४.८८ ॥ इति श्रीनारदपञ्चरात्रे ज्ञानामृतसारे ब्रह्मानारदसंवादे प्रथमैकरात्रे कवचप्रश्नो नाम चतुर्थोऽध्यायः प्रथमैकरात्रे पञ्चमोऽध्यायः श्रीसनत्कुमार उवाच तवेच्छा यत्र कवचे ध्याने तद्वद साम्प्रतम् । यच्छृणोमि शुभं तच्च केन श्रेयसि तृप्यते ॥ १,५.१ ॥ ब्रमोवाच ध्यानं सामवेदोक्तं दत्तं नारायणेन वै । कवचं च सुभद्राय धर्मिष्ठाय महात्मने ॥ १,५.२ ॥ नवीनजलदश्यामं पीतकौशेयवाससम् । चन्दनोक्षितसर्वाङ्गं सस्मितं श्यामसुन्दरम् ॥ १,५.३ ॥ मालतीमाल्यभूषाढ्यं रत्नभूषणभूषितम् । मुनीन्द्रेशसुसिद्धेशब्रह्मेशशेषवन्दितम् ॥ १,५.४ ॥ सर्वस्वरूपं सर्वेशं सर्वबीजं सनातनम् । सर्वाद्यं सर्वज्ञं पुरुषं प्रकृतेः परम् ॥ १,५.५ ॥ निर्गुणं च निरीहं च निर्लिप्तमीस्वरं भजे । ध्यात्वा मूलेन तस्मै च दद्यात्पाद्यादिकं मुदा ॥ १,५.६ ॥ ततः स्तोत्रं च कवचं भक्त्या च प्रपठेन्नरः । जप्त्वा च मन्त्रं भक्त्या दण्डवत्प्रणमेद्भुवि । इति ते कथितं वत्स किं भूयः श्रोतुमिच्छसि ॥ १,५.७ ॥ श्रीसनत्कुमार उवाच ब्रूहि मे कवचं ब्रह्मन् जगन्मङ्गलमङ्गलम् । पूज्यं पुण्यस्वरूपं च कृष्णस्य परमात्मनः ॥ १,५.८ ॥ अथ जगन्मङ्गलमङ्गलकवचम् ब्रह्मोवाच शृणु वक्ष्यामि विप्रेन्द्र कवचं परमाद्भुतं । श्रीकृष्णेनैव कथितं मह्यं च कृपया परा ॥ १,५.९ ॥ मया दत्तं च धर्माय तेन नारायणर्षये । ऋषिणा तेन तद्दत्तं सुभद्राय महात्मने ॥ १,५.१० ॥ अतिगुह्यतमं शुद्धं परं स्नेहाद्वदाम्यहम् । यद्धृत्वा पठनात्सिद्धाः सिद्धानि प्राप्नुवन्ति च ॥ १,५.११ ॥ एवमिन्द्रादयः सर्वे सर्वैश्वर्यमाप्नुयुः । ऋषिश्छन्दश्च सावित्री देवो नारायणः स्वयम् ॥ १,५.१२ ॥ धर्मार्थकाममोक्षेषु विनियोगः प्रकीर्तितः । राधेशो मे शिरः पातु कण्ठं रधेश्वरः ॥ १,५.१३ ॥ गोपीशश्चक्षुषी पातु तालु च भगवान् स्वयम् । गण्डयुग्मं च गोविन्दः कर्णयुग्मं च केशवः ॥ १,५.१४ ॥ गलं गदाधरः पातु स्कन्धं कृष्णः स्वयं प्रभुः । वक्षस्थलं वासुदेवश्चोदरं चापि सोऽच्युतः ॥ १,५.१५ ॥ नभिं पातु पद्मनाभः कङ्कालं कंससूदनः । पुरुषोत्तमः पातु पृष्ठं नित्यानन्दो नितम्बकम् ॥ १,५.१६ ॥ पुण्डरीकः पादयुग्मं हस्तयुग्मं हरिः स्वयम् । नासां च नखरं पातु नरसिंहः स्वयं प्रभुः ॥ १,५.१७ ॥ सर्वेश्वरश्च सर्वाङ्गं सन्ततं मधुसूदनः । प्राच्यां पातु च रामश्च वह्नौ च वंशीधरः स्वयम् ॥ १,५.१८ ॥ पातु दामोदरो दक्षे नैरृते च नरोत्त्मः । पश्चिमे पुण्डरीकाक्षो वायव्यां वामनः स्वयम् ॥ १,५.१९ ॥ अनन्तश्चोत्तरे पातु ऐशान्यामीश्वरः स्वयम् । जले स्थले चान्तरीक्षे स्वप्ने जागरणे तथा ॥ १,५.२० ॥ पातु वृन्दावनेशश्च मां भक्तं शरणागतम् । इति ते कथितं वत्स कवचं परमाद्भुतम् ॥ १,५.२१ ॥ सुखदं मोक्षदं सारं सर्वसिद्धिप्रदं सताम् । इदं कवचमिष्टं च पूजाकाले च यः पठेत् ॥ १,५.२२ ॥ हरिदास्यमवाप्नोति गोलोके वासमुत्तमम् । इहैव हरिभक्तिं च जीवन्मुक्तो भवेन्नरः ॥ १,५.२३ ॥ नारद उवाच नारायणर्षिणा दत्तं कवचं यत्सुदुर्लभम् । सुभद्राय ब्राह्मणाय तन्मे वक्तुमिहार्हसि ॥ १,५.२४ ॥ ब्रह्मोवाच मद्इष्टदेव्याः कवचं कथं तत्कथयामि ते । मत्कण्ठे पश्य कवचं सद्रत्नगुटिकान्वितम् ॥ १,५.२५ ॥ नारायणर्षिणा दत्तं कवचं गुटिकान्वितम् । तथापीदं न कथितं निषिद्धं हरिणा स्मृतम् ॥ १,५.२६ ॥ तस्यर्षेश्चेष्टदेव्याश्च नोक्तं तेनेदमीप्सितम् । मह्यं न दत्ता गुटिका बान्धवैर्भर्त्सितेन च ॥ १,५.२७ ॥ आत्मनः कवचं मन्त्रं स्वयं दातुं न चार्हति । प्राणा नष्टाश्च दानेन चेति वेदविदो विदुः ॥ १,५.२८ ॥ शङ्करं गच्छ भगवन् जन्मान्तरगुरुं तव । स एव तुभ्यं कवचं दास्यस्येव न संशयः ॥ १,५.२९ ॥ त्वत्प्राक्तनेन विप्रेन्द्र सत्वरेण शुभेन च । ध्रुवं प्राप्स्यसि त्वं वत्स कवचं तत्सुदुर्लभम् ॥ १,५.३० ॥ कुमार गच्छ वैकुण्ठं स्वगुरुं पश्य सत्वरम् । नारायणश्च कवचं तुभ्यं दास्यसि निश्चितम् ॥ १,५.३१ ॥ सनत्कुमारो भगवान् गत्वा वैकुण्ठमीप्सितम् । संप्राप्य कवचं वत्स कवचं तत्सुदुर्लभम् ॥ १,५.३२ ॥ आज्ञया ब्रह्मणश्चापि नारदो गन्तुमुद्यतः । ब्रह्मा ययौ ब्रह्मलोकं जन्ममृत्युजरापहम् ॥ १,५.३३ ॥ इति श्रीनारदपञ्चरात्रे ज्ञानामृतसारे प्रथमैकरात्रे पञ्चमोऽध्यायः प्रथमैकरात्रे षष्ठोऽध्यायः श्रीशुक उवाच सनत्कुमारो वैकुण्ठं ब्रह्मलोकं च ब्रह्मणि ?wहत्?। गते ब्रह्मन् किं चकार भगवान्नारदो मुनिः ॥ १,६.१ ॥ व्यासो उवाच मुनिस्तयोश्च गतयोः स रुरोद सरित्तटे । इतस्ततश्च बभ्राम मद्वियोगशुचास्पद ॥ १,६.२ ॥ स्वमानसे समालोक्य मुनिश्रेष्ठः स उन्मनाः । ध्यायमानो हरिपदं शिवं द्रष्टुं समुत्सुकः ॥ १,६.३ ॥ प्रणम्य पितरं भक्त्या कुमारं भ्रातरं तथा । जगाम तपसस्थानात्कैलासाभिमुखे मुनिः ॥ १,६.४ ॥ स्नात्वा च कृतमालायां संपूज्य परमेश्वरम् । भुक्त्वा फलं जलं पीत्वा प्रययौ गन्धमादनम् ॥ १,६.५ ॥ ददर्श ब्राह्मणं तत्र वटमूले मनोहरे । कटमस्तं ध्यायमानं श्रीकृष्णचरणाम्बुजम् ॥ १,६.६ ॥ दीर्गं नग्नं गौराङ्गं दीर्घलोमभिरावृतम् । निमीलिताक्षं सानन्दं सानन्दाश्रुसमन्वितम् ॥ १,६.७ ॥ पाद्मे पद्मेशशेषादिसुरपूजितवन्दिते । श्रीपादपद्मे शोभाढ्ये शश्वत्संन्यस्तमानसम् ॥ १,६.८ ॥ बाह्यज्ञानपरित्यक्तं योगज्ञानविशारदम् । शिवस्य शिष्यं सद्भक्तं योगीन्द्राणां गुरोर्गुरोः ॥ १,६.९ ॥ हृत्पद्मे पद्मनाभं च परमात्मानमीश्वरम् । प्रदीपकलिकाकारं ब्रह्मज्योतिःसनातनम् ॥ १,६.१० ॥ साक्षिस्वरूपं परमं भगवन्तमधोक्षजम् । पश्यन्तं सस्मितं कृष्णं पुलकाङ्कितविग्रहम् ॥ १,६.११ ॥ सद्भावोद्रिक्तचित्तं च सद्भावं पुरुषोत्तमे । दृष्ट्वा महर्षिप्रवरं देवर्षिविस्मयं ययौ ॥ १,६.१२ ॥ इतस्ततश्च बभ्राम ददर्श स्वाश्रमं मुनेः । अतीव सुरहःस्थानं रम्यं रम्यं नवं नवम् ॥ १,६.१३ ॥ सुस्निग्धं सुन्दरं शुद्धं परं स्वच्छं सरोवरम् । श्वेतरक्तोत्पलदलैः कमलैः कमनीयकम् ॥ १,६.१४ ॥ गुञ्जदिन्दिन्दवरैर्?wहत्? मकरन्दोदरैस्तथा । व्याकुलैः संकुलैः शश्वद्राजितैश्च विराजितम् ॥ १,६.१५ ॥ वन्यैर्वृक्षैर्बहुविधैः फलशाखासुशोभितैः । करञ्जकैश्च करजैर्बिम्बैः शाखोटिकैस्तथा ॥ १,६.१६ ॥ तिन्तिडीभिः कपित्थैश्च वटशिंशपाचन्दनैः । मन्दारैः सिन्धुवारैश्च ताडिपत्रैः सुशोभनैः ॥ १,६.१७ ॥ गुवाकैर्नारिकेतैश्च खर्जुरैः पनसैस्तथा । तालैः शालैः पियालैश्च हिन्तालैर्वकुलैरपि ॥ १,६.१८ ॥ आम्रैराम्रातकैश्चैव जम्बीरैर्दाडिमैस्तथा । श्रीफलैर्वदरीभिश्च जम्बुभिर्नागरङ्गकैः ॥ १,६.१९ ॥ सुपक्वफलशोभाड्यैः सुस्निग्धैः सुमनोहरैः । तरुणैस्तरुराजैस्च नानाजातिभिरीप्सितम् ॥ १,६.२० ॥ मल्लिकामालतीकुन्दकेतकीकुसुमैः शुभैः । माधवीनां लताजालैश्चर्चितं चारुचम्पकैः ॥ १,६.२१ ॥ कदम्बानां कदम्बैश्च स्वच्छैः श्वेतैश्च पुष्पितैः । नागेश्वराणां वृन्दैश्च दीप्तं मन्दारकैर्वरैः ॥ १,६.२२ ॥ हंसकारण्डवकुलैः पुंस्कोकिलकुलैस्तथा । सन्ततं कूजितं शुद्धं सुव्यक्तं सुमनोहरम् ॥ १,६.२३ ॥ शार्दूलैः शरभैः सिंहैर्गण्डकैर्महिषैः परम् । मनोहरैः कृष्णसारैश्चमरभिर्भावभूषितम् ॥ १,६.२४ ॥ महामुनिप्रभावेन हिंसादोषविवर्जितम् । दस्युचौरहिंस्रजन्तुभयशोकविवर्जितम् ॥ १,६.२५ ॥ सुपुण्यदं तीर्थवरं भारते सुप्रशंसितम् । सिद्धस्थलं सिद्धिदं तं मन्त्रसिद्धिकरं परं ॥ १,६.२६ ॥ दृष्ट्वाश्रमं मुनिश्रेष्ठो जगाम मुनिसंसदि । आसने च समासीनं ध्यानहीनं ददर्श तम् ॥ १,६.२७ ॥ समुत्तस्थौ स वेगेन दृष्ट्वा देवर्षिपुङ्गवम् । दत्वामलं फलं मूलं संभाषां स चकार ह ॥ १,६.२८ ॥ प्रश्नं चकार स मुनिवीणापाणिं नारदम् । सस्मितः सस्मितं शुद्धं शुद्धवंशसमुद्भवम् ॥ १,६.२९ ॥ सद्भाग्योपस्थितं दीप्तं ज्वलन्तं ब्रह्मतेजसा । अतिथिं ब्राह्मणवरं ब्रह्मपुत्रं च पूजितं ॥ १,६.३० ॥ मुनिरुवाच किं नाम भवतो विप्र क्व यासीति क्व चागतः । क्व ते पिता स को वापि क्व वासः कुत्र संभवः ॥ १,६.३१ ॥ मां वा ममाश्रमं वापि पूतं कर्तुमिहागतः । मूर्तिमद्ब्रह्मतेजो हि मम भाग्यादुपस्थितः ॥ १,६.३२ ॥ अथ वैष्णवदर्शनफलम् न ह्यम्मयानि तीर्थानि न देवा मृच्छितामयाः । ते पुनन्त्युरुकालेन वैष्णवो दर्शनेन च ॥ १,६.३३ ॥ सद्यः पूतानि तीर्थानि सद्यः पूता ससागरा । सशैलकाननद्वीपा पादस्पर्शाद्वसुन्धरा ॥ १,६.३४ ॥ धन्योऽहं कृतकृत्योऽहं सफलं मम जीवनम् । सहसोपस्थितो गेहे ब्राह्मणो वैष्णवोऽतिथिः ॥ १,६.३५ ॥ पूजितो वैष्णवो येन विश्वं च तेन पूजितम् । आश्रमं वस्तुसहितं सर्वं तुभ्यं निवेदितम् ॥ १,६.३६ ॥ फलानि च सुपक्वानि भुङ्क्ष्व भोगानि साम्प्रतम् । सुवासितं पिब स्वादु शीतलं निर्मलं जलम् ॥ १,६.३७ ॥ दुग्धं च सुरभीदत्तं रम्यं मधुरितं मधु । परिपक्वं फलरसं पिब स्वादु मुहुर्मुहुः ॥ १,६.३८ ॥ सुखबीज्ये सुतल्पे च शयनं कुरु सुन्दरे । सुशीतवातसौगन्ध्यपूतेन सुरभीकृते ॥ १,६.३९ ॥ अथातिथिपूजनफलम् अतिथिर्यस्य पुष्टो हि तस्य पुष्टो हरिः स्वयम् । हरौ तुष्टे गुरुस्तुष्टो गुरौ तुष्टे जगत्त्रयम् ॥ १,६.४० ॥ अधिष्ठातातिथिर्गेहे सन्ततं सर्वदेवताः । तीर्थान्येतानि सर्वाणि पुण्यानि च व्रतानि च ॥ १,६.४१ ॥ तपांसि यज्ञाः सत्यं च शीलं धर्मः सुकर्म च । अपूजितैरतिथिभिर्सार्धं सर्वे प्रयान्ति ते ॥ १,६.४२ ॥ अथातिथिविमुखे दोषाः अतिथिर्यस्य भग्नाशो गृहात्प्रतिनिवर्तते । पितरस्तस्य देवाश्च पुण्यं धर्मव्रताशनाः ॥ १,६.४३ ॥ यमः प्रतिष्ठा लक्ष्मीश्चाभीष्टदेवो गुरुस्तथा । निराशाः प्रतिगच्छन्ति त्यक्त्वा पापं च पूरुषम् ॥ १,६.४४ ॥ स्त्रीघ्नैश्चैव कृतघ्नैश्च ब्रह्मघ्नैर्गुरुतल्पगैः । विश्वासघातिभिर्दुष्टैर्मित्रद्रोहिभिरेव च ॥ १,६.४५ ॥ सत्यघ्नैश्च कृतघ्नैश्च पापिभिः स्थापिभिस्तथा । दानापहारिभिश्चैव कन्याविक्रियिभिस्तथा ॥ १,६.४६ ॥ सीमापहारिभिश्चैव मिथ्यासाक्षिप्रदातृभिः । ब्रह्मस्वहारिभिश्चैव तथा स्थाप्यस्वहारिभिः ॥ १,६.४७ ॥ वृषवाहैर्देवलैश्च तथैव ग्रामयाजिभिः । शूद्रान्नभोजिभिश्चैव शूद्रश्राद्धाहभोजिभिः ॥ १,६.४८ ॥ श्रीकृष्णविमुखैर्विप्रैर्हिंस्रैर्नरविघातिभिः । गुरावभक्तै रोगार्तैः शश्वन्मिथ्याप्रवादिभिः ॥ १,६.४९ ॥ विप्रस्त्रीगामिभिः शूद्रैर्मातृगामिभिरेव च । अश्वत्थघातिभिश्चैव पत्नीभिः पतिघातिभिः ॥ १,६.५० ॥ पितृमातृघातिभिश्च शरणागतघातिभिः । ब्राह्मणक्षत्रविट्शूद्रैः शिलास्वर्णापहारिभिः ॥ १,६.५१ ॥ तुल्यो भवति विप्रेन्द्रातिथिरेव त्वनर्चितः । इत्य एवमुक्त्वा मुनिः पूजयामास नारदम् । मिष्टं च भोजयामास शाययामास भक्तितः ॥ १,६.५२ ॥ श्रीनारद उवाच नारदोऽहं मुनिश्रेष्ठ ब्राह्मणो ब्रह्मणः सुतः । तपःस्थलादागतोऽहं यामि कैलासमीप्सितम् ॥ १,६.५३ ॥ आत्मानं पावनं कर्तुं त्वां च द्रष्टुमिहागतः । पुनन्ति प्राणिनः सर्वे विष्णुभक्तप्रदर्शनात् ॥ १,६.५४ ॥ को भवान् ध्यानपूतश्च नग्नश्च कटमस्तकः । किं ध्यायसे महाभाग श्रेष्ठदेवश्च को गुरुह् ॥ १,६.५५ ॥ मुनिरुवाच जीवमुक्तो भवानेव पुनासि भुवनत्रयम् । यस्य तत्र कुले जन्म तस्य तत्तद्वचोमनः ॥ १,६.५६ ॥ पुत्रे यशसि तोये च कवित्वेन च विद्यया । प्रतिश्ह्ठायां च ज्ञायेत सर्वेषां मानसं नृणाम् ॥ १,६.५७ ॥ विधाता जगतां ब्रह्मा ब्रह्मैकतानमानसः । तत्पुत्रोऽसि महाख्यातो देवर्षिप्रवरो महान् ॥ १,६.५८ ॥ लोमशोऽ हं महाभाग जगत्पावनपावन । नग्नोऽल्पायुर्विवेकी च वाससा किं प्रयोजनम् ॥ १,६.५९ ॥ वृक्षमूले निवासे मे छत्रेण किं गृहेण च । रौद्रवृष्टिवारणार्थं सांप्रतं कटमस्तकः ॥ १,६.६० ॥ जलबुद्बुदविद्युद्वत्त्रैलोक्यं कृत्रिमं द्विज । ब्रह्मादितृणपर्यन्तं सर्वं मिथ्याइव स्वप्नवत् ॥ १,६.६१ ॥ किं कलत्रेण पुत्रेण धनेन संपदा श्रिया । किं वित्तेन च रूपेण जीवनाल्पायुषा मुने ॥ १,६.६२ ॥ इन्द्रस्य पतनेनैव लोमकोत्पाटनं मम । मनोश्च पतनं तत्र मायया किं प्रयोजनम् ॥ १,६.६३ ॥ सर्वलोमकोत्पाटनेन केशौघोत्पाटनेन च । अल्पायुषो मम मुने मरणं निश्चितं भवेत् ॥ १,६.६४ ॥ ध्याये श्रीपादपद्मं तत्पाद्मपद्मेशवन्दितम् । परस्य प्रकृतेस्तस्य कृष्णस्य परमात्मनः ॥ १,६.६५ ॥ तस्य मेऽभीष्टदेवस्य सर्वेषां कारणस्य च । गुरुर्मे जगतां नाथो योगीन्द्राणां गुरुः शिवः ॥ १,६.६६ ॥ मत्कण्ठे कवचं यस्य मद्गुरुः कथयिष्यति । गुरोर्निषेधो यत्रास्ते तद्वक्तुं कः क्षमो भुवि ॥ १,६.६७ ॥ गुरोश्च वचनं यो हि पालनं न करोति च । गुरूक्तमुक्त्वा पापी स ब्रह्महत्यां लभेद्ध्रुवम् ॥ १,६.६८ ॥ स्वगुरुं शिवरूपं च तद्भिन्नं मन्यते हि यः । ब्रह्महत्यां लभेत्सोऽपि विघ्नस्तस्य पदे पदे ॥ १,६.६९ ॥ अकर्तव्यं तु कर्तव्यं पालनीयं गुरोर्वचः । अपालने सर्वविघ्नं लभते नात्र संशयः ॥ १,६.७० ॥ आशिषा पादरजसा चोच्छिष्टालिङ्गेन च । मुच्यते सर्वपापेभ्यो जीवन्मुक्तो भवेन्नरः ॥ १,६.७१ ॥ स्वगुरुं शङ्करं पश्य गच्छ कैलासमीप्सितम् । मुच्यते विघ्नपापेभ्यो गुरोश्चरणदर्शनात् ॥ १,६.७२ ॥ इति श्रीनारदपञ्चरात्रे ज्ञानामृतसारे प्रथ्मैकरात्रे लोमशनारदसंवादे षष्ठोऽध्यायः प्रथमैकरात्रे सप्तमोऽध्यायः संभाष्य लोमशं तस्माज्जगाम नारदो मुनिः । पुष्पभद्रानदीतीरमतीव सुमनोहरम् ॥ १,७.१ ॥ यत्रास्ते शृङ्गकूटश्च शुद्धस्फटिकसन्निभिः । नानावृक्षसमायुक्तैस्त्रिभिरन्यैः सरोवरैः ॥ १,७.२ ॥ हंसकारण्डवाकीर्णैर्भ्रमरैर्ध्वनिसुन्दरैः । पुंस्कोकिलनिनादैश्च सन्ततं सुमनोहरैः ॥ १,७.३ ॥ शैत्यसौगन्ध्यमान्ध्यैश्च वायुभिः सुरभीकृतैः । समाधियुक्तो यत्रास्ते मार्कण्डेयो महामुनिः ॥ १,७.४ ॥ स मुनिर्नारदं दृष्ट्वा भक्त्या च प्रणनाम च । पप्रच्छ कुशलं शान्तं शान्तः सत्त्वगुणाश्रयः ॥ १,७.५ ॥ मार्कण्डेयो उवाच अद्य मे सफलं जन्म जीवनं चातिसार्थकम् । ममाश्रमे पुण्यराशिर्ब्रह्मपुत्रश्च नारदः ॥ १,७.६ ॥ अहो देवर्षिप्रवरो दीप्तमान् ब्रह्मतेजसा । क्व यासि कुत आयासि किं ते मनसि वर्तते ॥ १,७.७ ॥ मानसं प्राणिनामेव सर्वकर्मैककारणम् । मनोनुरूपं वाक्यं च वाक्येन प्रस्फुटं मनः ॥ १,७.८ ॥ मुनेश्च वचनं श्रुत्वा वीणापाणि स्वमीप्सितम् । उवाच सस्मितं शान्तं वचः सत्यं सुधोपमम् ॥ १,७.९ ॥ नारद उवाच हे बन्धो यामि कैलासं ज्ञानार्थं ज्ञानिनां वरम् । द्रष्टुं महादेवं च प्रणामं कर्तुमीश्वरम् ॥ १,७.१० ॥ पूजां गृहीत्वा चेत्युक्त्वा प्रययौ नारदो मुनिः । मार्कण्डेयश्च शोकार्तः सद्विच्छेदः सुदारुणः ॥ १,७.११ ॥ हिमालयं च दुर्लघ्यं विलघ्यं चैव लीलया । स्वर्गमन्दाकिनीतीरं कैलासं प्रययौ मुनिः ॥ १,७.१२ ॥ ददर्श वटवृक्षं च योजनायतमुच्छ्रितम् । शोभितं शतकैः स्कन्धैः रक्तपक्वफलान्वितैः ॥ १,७.१३ ॥ सुस्निग्धैः सुन्दरैः रम्यै रम्यपक्षीन्द्रसंकुलैः । सिद्धेन्द्रैश्च मुनीन्द्रैश्योगीन्द्रैः परिशोभितम् ॥ १,७.१४ ॥ प्रणतांस्तांश्च संभाष्य पार्वतीकाननं ययौ । सुन्दरं वर्तुलाकारं चतुर्योजनमीप्सितम् ॥ १,७.१५ ॥ शोभितं सुन्दरै रम्यैः सप्तभिश्च सरोवरैः । शश्वन्मधुकरासक्तपद्मराजिविराजितैः ॥ १,७.१६ ॥ नीलरक्तोत्पलदलपटलैः परिशोभितैः । पुष्पोद्यानैश्च शतकैः पुष्पितैः सुमनोहरैः ॥ १,७.१७ ॥ मल्लिकामालतीकुन्दयूथिकामाधवीलता । केतकीचम्पकाशोकमन्दारकविराजिका ॥ १,७.१८ ॥ नागपुन्नागकुटजपाटलाज्ञिण्ट्ज्ञिज्ज्ञिका । विष्णुक्रान्ता च तुलसी शोफली सप्तला तथा ॥ १,७.१९ ॥ एतेषां च समूहैश्च पुष्पवल्लीविराजितैः । आम्रैराम्रातकैस्तालनारिकेलैः पियालकैः ॥ १,७.२० ॥ खर्जूरैश्च गुवाकैश्च पलासैर्जम्बुभिस्तथा । दाडिम्बैश्चापि जम्बीरैर्निम्बैश्चैव वटैस्तथा ॥ १,७.२१ ॥ करञ्जैर्वदरीभिश्च परितः श्रीफलोज्ज्वलैः । कदम्बानां कदम्बैश्च तिन्तिण्डीनां कदम्बकैः ॥ १,७.२२ ॥ अश्वत्थैः सरलैः शालैः शाल्मलीनां समूहकैः । वटशाखोटकैः कुन्दैः शंगुभिः सप्तपर्णकैः ॥ १,७.२३ ॥ पिच्छिलैः पर्णशालैश्च गम्भारिभिश्च वल्गुकैः । हिङ्गुलैरञ्जनैर्वल्कैर्भूर्जपत्रैः सपत्रकैः ॥ १,७.२४ ॥ अन्यैश्च दुर्लभैर्वन्यैः पुष्पपत्रैर्विराजितम् । कल्पवृक्षैः पारिजातैश्चारुचन्दनपल्लवैः ॥ १,७.२५ ॥ सुस्निग्धस्थलपद्मैश्च चित्रितैर्भूमिचम्पकैः । अन्यैश्च दुर्लभैर्वन्यैः पुष्पपत्रैर्विभूषितम् ॥ १,७.२६ ॥ सिंहेन्द्रैः शरभेन्द्रैश्च गजेन्द्रैर्गण्डकेन्द्रैः । शार्दूलेन्द्रैश्च महिषैरश्वैश्च वन्यशूकरैः ॥ १,७.२७ ॥ शल्लकैर्बल्लकैर्मर्कैः कूटैश्च शशकैः शकैः । कृष्णसारैश्च हरिणैश्चमरीचामरोज्ज्वलम् ॥ १,७.।२८ ॥ पुंस्कोकोलकुलानां च गानैश्च विराजितम् । मत्तानां पल्लवस्थानां माधवेषु मनोहरम् ॥ १,७.२९ ॥ शुकानां राजहंसानां मयूराणां च पुत्रकैः । क्षेमकरीखञ्जनानां राजिभिश्च मनोहरम् ॥ १,७.३० ॥ हरित्पीतरक्तकृष्णसुपक्वफलपत्रकैः । सुस्निग्धाक्षतपत्रैश्च नूतनैरभिभूषितम् ॥ १,७.३१ ॥ हिंसाभयादिरहितं सर्वेषां पशुपक्षिणां । परस्परं च सुप्रीतं हिंस्राणां क्षुद्रजन्तुभिः ॥ १,७.३२ ॥ तत्र क्रीडास्थलं रम्यं पार्वतीपरमेशयोः । मुनीन्द्रैरिन्द्रनीलैश्च पद्मरागैः परिष्कृतम् ॥ १,७.३३ ॥ क्रोशायतं परिमितं वर्तुलं चन्द्रविम्बवत् । अम्लानरम्भास्तम्भानां लक्षलक्षैश्च वेष्टितम् ॥ १,७.३४ ॥ चित्रितं सूक्ष्मसूत्राक्तैर्नूतनैरभिभूषितम् । नूतनाक्षतपत्रैश्च ललितैः परिशोभितम् ॥ १,७.३५ ॥ रक्तपीतासितैः स्निग्धैरम्लानैः सुमनोहरैः । परितः परितः शश्वन्मालाजालैर्विभूषितम् ॥ १,७.३६ ॥ शय्याभूतं सुतल्पैश्च स्निग्धचम्पकचन्दनैः । पुष्पचन्दनयुक्तेन वायुना सुरभीकृतम् ॥ १,७.३७ ॥ कस्तूरीकुङ्कमासक्तसुगन्धिचन्दनैः सितैः । मार्जितं चित्रितं चित्रैः परितो रङ्गवस्तुभिः ॥ १,७.३८ ॥ दृष्ट्वा तदद्भुतं शीघ्रं प्रययौ स्वर्णदीं मुनिः । शुद्धस्फटिकसंकासां सर्वपापविनाशिनीम् ॥ १,७.३९ ॥ भवाब्धिघोरतरणे तरणीं नित्यनूतनाम् । कृष्णपादप्रसूतां च जगत्पूज्यां पतिव्रतां ॥ १,७.४० ॥ स्नाट्वा कृष्णं च संपूज्य परमात्मानमीश्वरम् । प्रकृतेः परिमिष्टं च निर्लिप्तं निर्गुणं परम् ॥ १,७.४१ ॥ साक्षिणं कर्मणामेव ब्रह्म ज्योतिः सनातनम् । प्रययौ पुरतो रम्यं राजमार्गं ददर्श सः ॥ १,७.४२ ॥ मणिभिः स्फटिकाकारैरमलैर्बहुमूल्यकैः । परिष्कृतं च सर्वत्र निर्मितं विश्वकर्मणा ॥ १,७.४३ ॥ सतां पुण्यवतां दृष्टमदृष्टं कृतपापिनाम् । धनुः शतं परिमितं चित्रराजिविराजितम् ॥ १,७.४४ ॥ दध्यं सर्वाश्रमान्तं च प्रख्यात्कोटिगुणोत्तरम् । रथं ददर्श पुरतो मनोयायि मनोहरम् ॥ १,७.४५ ॥ अमूल्यरत्ननिर्माणविमाणसारसुन्दरम् । धनुर्लक्षं परिमितं परितो वर्तुलाकृतम् ॥ १,७.४६ ॥ ऊर्ध्वस्थितमूर्ध्वगं च सहस्रचक्रसंयुतम् । धनुर्लक्षोऽपि सूतं च वह्निशुद्धांशुकान्वितम् ॥ १,७.४७ ॥ हीरासारविनिर्माणं सुचारुकलशोज्ज्वलम् । रत्नप्रदीपदीप्ताढ्यं रत्नदर्पणभूषितम् ॥ १,७.४८ ॥ मुक्ताशुक्तिनिबद्धैश्च शोभितं श्वेतचामरैः । माणिक्यसारहारेण मणिराजैर्विराजितम् ॥ १,७.४९ ॥ पारिजाटप्रसूतानां मायाजालैः परिष्कृतम् । ग्रीष्ममध्याह्नमार्तण्डं सहस्रसदृशोज्ज्वलम् ॥ १,७.५० ॥ ईश्वरेच्छाविनिर्माणं कामपुरं च कामिनाम् । सर्वभोगसमाविष्टं कल्पवृक्षपरं वरम् ॥ १,७.५१ ॥ ससक्तचित्रितै रम्यै रतिमन्दिरसुन्दरैः । गोलोकादागतं पूर्वं क्रीडार्थं शङ्करस्य च ॥ १,७.५२ ॥ विवाहे परिनिष्पन्ने पार्वतीपरमेशयोः । रथं दृष्ट्वा च प्रययौ कियद्दूरं महामुनिः ॥ १,७.५३ ॥ अतीव रम्यं रुचिरं ददर्श शङ्कराश्रमम् । रत्नेन्द्रसारनिर्माणं शिविरैः शतकोटिभिः ॥ १,७.५४ ॥ मितैस्तस्मात्शतगुणैस्तत्र सुन्दरमन्दिरैः । युक्तं रत्नकपाटैश्च रत्नधातुविचित्रितैः ॥ १,७.५५ ॥ परमस्तम्भसोपानैर्वज्रमिश्रैर्विभूषितम् । ददर्श शिविरं शम्भोः परिखाभिस्त्रिभिर्युतम् ॥ १,७.५६ ॥ दुर्लघ्याभिरामित्राणां सुगम्याभिः सतामहो । प्रकारैश्च त्रिभिर्युक्तं धनुर्लक्षोच्छ्रितं सुत ॥ १,७.५७ ॥ सम्मितं सप्तभिर्द्वारैर्नानारक्षकरक्षितैः । धनुःशतसहस्रं च चतुरस्रं च सम्मितम् ॥ १,७.५८ ॥ अमूल्यरत्ननिर्माणं चतुःशालाशतैर्युतम् । अतीव रम्यं पुरतो पुरद्वारं ददर्श सः ॥ १,७.५९ ॥ पुरतो रत्नभित्तौ च कृत्रिमं च सुशोभितम् । पुण्यं वृन्दावनं रम्यं तन्मध्ये रासमण्डलम् ॥ १,७.६० ॥ सर्वत्र राधाकृष्णं च प्रत्येकं रतिमन्दिरे । रम्यं कुञ्जकुटीराणां सहस्रं सुमनोहरम् ॥ १,७.६१ ॥ सुगन्धि पुष्पशय्यानां सहस्रं चन्दनोक्षितम् । द्वारपालं च तत्रैव मणिभद्रं भयंकरम् ॥ १,७.६२ ॥ त्रिशूलपट्टिशधरं व्याघ्रचर्माम्बरं परम् । तं संभाष्य विलोक्यैवं द्वितीयद्वारमीप्सितम् ॥ १,७.६३ ॥ जगाम च मुनिश्रेष्ठो ददर्श चित्रमुत्तमम् । कदम्बानां समूहं च तन्मूलं च मनोहरम् ॥ १,७.६४ ॥ रत्नभित्तिसमायुक्तं कालिन्दीकूलमुत्तमम् । स्नातं गोपीसमूहं च नग्नसर्वाङ्गमद्भुतम् ॥ १,७.६५ ॥ कदम्बाग्रे च श्रीकृष्णं वस्त्रपुञ्जकरं परम् । तत्रैव शूलहस्तं च महाकालं ददर्श च ॥ १,७.६६ ॥ कृपालुं द्वारपालं तं संभाष्य नारदो मुनिः । प्रययौ शीघ्रगामी स तृतीयद्वारमुत्तमम् ॥ १,७.६७ ॥ ददर्श तत्र पुरतः कृत्रिमं वटमूलकम् । गोपानां च समूहं च पीतम्बरधरं परम् ॥ १,७.६८ ॥ बालक्रीडां च कुर्वन्तं तन्मध्ये कृष्णम् उत्तमम् । ब्राह्मणीभिः प्रदत्तं च भुक्तवन्तं सुपायसम् ॥ १,७.६९ ॥ कुर्वन्तं च समाधानं मुनेः वामकरेण च । गृहीत्वा तद्अनुज्ञां च चतुर्थं द्वारमीप्सितम् ॥ १,७.७० ॥ प्रययौ ब्रह्मपुत्रश्च ददर्श चित्रमुत्तमम् । गोवर्धनं पर्वतं च तत्र कृष्णकरस्थितम् ॥ १,७.७१ ॥ गोकुलं गोकुलस्थानां गोपीनां चैव रक्षणम् । व्याकुलं गोकुलं भीतं शक्रवृष्टिभयेन च ॥ १,७.७२ ॥ अभयं दत्तवन्तं च कृष्णं दक्षकरेण च । नन्दिनं द्वारपालं च शूलहस्तं च सस्मितम् ॥ १,७.७३ ॥ विलोक्य प्रययौ विप्रः पञ्चमं द्वाऋअमुत्तमम् । नानाकृतिमचित्राढ्यं वीरभद्रान्वितं परम् ॥ १,७.७४ ॥ तत्रैव नीपमूलं च यमुनाकुलमेव च । कालीयदमनं तत्र कृतिमं च ददर्श ः ॥ १,७.७५ ॥ तद्दृष्ट्वा सस्मितस्तुष्टः षष्टद्वाऋअं जगाम सः । द्वारे नियुक्तं बालं च शूलहस्तं चतुर्भुजम् ॥ १,७.७६ ॥ रत्नसिंहासनस्थं च सस्मितं स्वगणाधिपम् । ददर्श चित्रं तत्रैव मथुरागमनं हरेः ॥ १,७.७७ ॥ गोपिकानां विलापं च यशोदानन्दयोस्तथा । व्याकुलं गोकुलं चापि रथस्थं शरणं हरिम् ॥ १,७.७८। ॥ अक्रूरं च तथा नन्दं निरानन्दं शुचाकुलम् । तद्दृष्ट्वा सप्तमद्वारं द्वारपालं ददर्श सः ॥ १,७.७९ ॥ चित्रं कौतुकयुक्तं च मथुरायाः प्रवेशनम् । सबलं गोपसहितं श्रीकृष्णं प्रकृतेः परम् ॥ १,७.८० ॥ मथुरानागरीभिश्च बालकैर्वानिरर्गलैः । वीक्षन्तं सादरं सर्वैर्नगरस्थैर्मनोहरम् ॥ १,७.८१ ॥ धनुर्भङ्गं तथा शंभोः कंसादिनिधनादिकम् । सभार्यं वसुदेवं च निगडान्मुक्तमीप्सितम् ॥ १,७.८२ ॥ द्वारे नियुक्तं देवेशं गणेशं गणसंयुतम् । ध्यानस्थं च विभान्तं च शुद्धस्फटिकमालया ॥ १,७.८३ ॥ जपन्तं परमं शुद्धं ब्रह्मज्योतिः सनातनम् । निर्लिप्तं निर्गुणं कृष्णं परमं प्रकृतेः परम् ॥ १,७.८४ ॥ दृष्ट्वा तं च सुरश्रेष्ठं मुनिश्रेष्ठोऽपि नारदः । सामवेदोक्तस्तोत्रेण पुष्टाव परमेश्वरम् । साश्रुनेत्रः पुलकितो भक्तिनम्रात्मकंधरः ॥ १,७.८५ ॥ अथ गणपतिस्तोत्रम् भो गणेश सुरश्रेष्ठ लम्बोदर परात्पर । हेरम्ब मङ्गलारम्भ गजवक्त्र त्रिलोचन ॥ १,७.८६ ॥ मुक्तिद शुभद श्रीद श्रीधरस्मरणे रत । परमानन्द परम पार्वतीनन्दन स्वयम् ॥ १,७.८७ ॥ सर्वत्र पूज्य सर्वेश जगत्पूज्य महामते । जगद्गुरो जगन्नाथ जगद्ईश नमोऽस्तु ते ॥१,७.८८ ॥ यत्पूजा सर्वपरतो यः स्तुतः सर्वयोगिभिः । यः पूजितः सुरेन्द्रैश्च मुनीन्द्रैस्तं नमाम्यहम् ॥ १,७.८९ ॥ परमाराधनेनैव कृष्णस्य परमात्मनः । पुण्यकेन व्रतेनैव यं प्राप पार्वती सती ॥ १,७.९० ॥ तं नमामि सुरश्रेष्ठं सर्वश्रेष्ठं गरिष्ठकम् । ज्ञानिश्रेष्ठं वरिष्ठं च तं नमामि गणेश्वरम् ॥ १,७.९१ ॥ इत्येवमुक्त्वा देवर्षिस्तत्रैवान्तर्दधे विभुः । नारदः प्रययौ शीघ्रमीश्वराभ्यन्तरं मुदा ॥ १,७.९२ ॥ इदं लम्बोदरस्तोत्रं नारदेन कृतं पुरा । पूजाकाले पठेन्नित्यं जयस्तस्य पदे पदे ॥ १,७.९३ ॥ संकल्पितं पठेद्यो हि वर्षमेकं सुसंयतः । विशिष्टपुत्रं लभते परं कृष्णपरायणम् ॥ १,७.९४ ॥ यशस्विनं च विद्वांसं धनिनं चिरजीविनम् । विघ्ननाशो भवेत्तस्य महैश्वर्यं यशोऽमलम् । इहैव च सुखं भक्त्यान्ते याति हरेः पदम् ॥ १,७.९५ ॥ इति श्रीनारदपञ्चरात्रे ज्ञानामृतसारे प्रथमैकरात्रे गणपतिस्तोत्रं नाम सप्तमोऽध्यायः प्रथमैकरात्रे अष्टमोऽध्यायः श्रीव्यास उवाच अथ चाभ्यन्तरं गत्वा नारदो हृष्टमानसः । ददर्श स्वाश्रमं रम्यमतीव सुमनोहरम् ॥ १,८.१ ॥ पयः फेननिभशय्यासहितं रत्नमन्दिरम् । साक्षाद्गोरोचनाभैश्च मणिस्तम्भैर्विभूषितम् ॥ १,८.२ ॥ मणीन्द्रसारसोपानैः कपाटैश्च परिष्कृतम् । मुक्तामाणिक्यहीराणां मालाराजिविराजितम् ॥ १,८.३ ॥ शुद्धस्फटिकसंकाशं प्राङ्गणं मणिसंस्कृतम् । सुन्दरं मन्दिरचयं सद्रत्नकलशोज्ज्वलम् ॥ १,८.४ ॥ रत्नपत्रपटाकीर्णं वह्निशुद्धांशुकान्वितम् । सुधानां च मधूनां च पूर्णकुम्भकं शतं शतम् ॥ १,८.५ ॥ दासदासीसमूहैश्च रत्नालङ्कारभूषितैः । पार्वतीप्रियसङ्गैश्च स्वकर्माकुलसङ्कल्पम् ॥ १,८.६ ॥ तद्दृष्ट्वा च मुनिश्रेष्ठस्तत्पराभ्यन्तरं ययौ । रत्नसिंहासनस्थं च शङ्करं च ददर्श सः ॥ १,८.७ ॥ व्याघ्रचर्माम्बरधरं सस्मितं चन्द्रशेखरम् । प्रसन्नवदनं स्वच्छं शान्तं श्रीमन्तमीश्वरम् ॥ १,८.८ ॥ विभूतिभूषिताङ्गं च परं गङ्गाजटाधरम् । भक्तप्रियं च भक्तेशं ज्वलन्तं ब्रह्मतेजसा ॥ १,८.९ ॥ त्रिनेत्रं पञ्चवक्त्रं च कोटिचन्द्रसमप्रभम् । जपन्तं परमात्मानं ब्रह्म ज्योतिः सनातनम् ॥ १,८.१० ॥ निर्लिप्तं च निरीहं च दातारं सर्वसम्पदाम् । स्वेच्छामयं सर्वबीजं श्रीकृष्णं प्रकृतेः परं ॥ १,८.११ ॥ सिद्धेन्द्रैश्च मुनीन्द्रैश्च देवेन्द्रैः परिसेवितम् । पार्श्वदप्रवरश्रेष्ठसेवितं श्वेतचामरैः ॥ १,८.१२ ॥ दुर्गासेवितपादाब्जं भद्रकालीपरिष्टुतम् । पुरतो हि वसन्तं तं स्कन्दं गणपतीं तथा ॥ १,८.१३ ॥ गले बद्ध्वा च वसनं भक्तिनम्रात्मकंधरः । योगीन्द्रं स्वगुरुं शंभुं शिरसा प्रणनाम सः ॥ १,८.१४ ॥ तुष्टाव परया भक्त्या देवर्षिर्जगतां पतिम् । स्वगुरुं च पशुपतिं वेदोक्तेन स्तवेन च ॥ १,८.१५ ॥ श्रीनारद उवाच नमस्तुभ्यं जगन्नाथ मम नाथ मम प्रभो । भवरूपतरोर्बीज फलरूप फलप्रद ॥ १,८.१६ ॥ अबीजज प्रज प्राज सर्वबीज नमोऽस्तु ते । सद्भाव परमाभाव विभाव भावनाश्रय ॥ १,८.१७ ॥ भवेश भवबन्धेश भावाब्धिनाविनायक । सर्वाधार निराधार साधार धरणीधर ॥ १,८.१८ ॥ वेदविद्याधाराधार गङाधर नमोऽस्तु ते । जयेश विजयाधार जयबीज जयात्मक ॥ १,८.१९ ॥ जगद्आदे जयानन्द सर्वानन्द नमोऽस्तु त् इत्येवमुक्त्वा देवर्षिः शम्भोश्च पुरतः स्थितः । प्रसन्नवदनः श्रीमान् भगवांस्तमुवाच सः ॥ १,८.२० ॥ श्रीमहादेव उवाच वरं वृणु महाभाग यत्ते मनसि वर्तते । दास्यामि त्वां ध्रुवं पुत्र दाताहं सर्वसंपदाम् ॥ १,८.२१ ॥ सुखं मुक्तिं हरेर्भक्तिं निश्चलामविनाशिनीम् । हरेः पादं तद्दास्यं सालोक्यादिचतुष्टयम् ॥ १,८.२२ ॥ इन्द्रत्वममरत्वं वा यमत्वमनिलेश्वरम् । प्रजापतित्वं ब्रह्मत्वं सिद्धत्वं सिद्धसाधनम् ॥ १,८.२३ ॥ सिद्धैश्वर्यं सिद्धिबीजं वेदविद्याधिपं परम् । अणिमादिकसिद्धिं च मनोयायित्वमीप्सितम् ॥ १,८.२४ ॥ हरेः पदं च गमनं सशरीरेण लीलया । एतेषु वाञ्छितार्थेषु किं वा ते वाञ्छितं सुत ॥ १,८.२५ ॥ तन्मे ब्रूहि मुनिश्रेष्ठ सर्वं दातुमहं क्षमः । शङ्करस्य वचः श्रुत्वा तमुवाच महामुनिः ॥ १,८.२६ ॥ श्रीनारद उवाच देहि मे हरिभक्तिं च तन्नामसेवने रुचिः । अतितृष्णा गुणाख्याने नित्यमस्तु ममेश्वर ॥ १,८.२७ ॥ नारदस्य वचः श्रुत्वा जहास शङ्करः स्वयम् । पार्वती भद्रकाली च कार्त्तिकेयो गणेश्वरः ॥ १,८.२८ ॥ सर्वं ददौ महादेवो नारदाय च धीमते । सर्वप्रदस्तु सर्वेशः सर्वकारणकारणः ॥ १,८.२९ ॥ नारदेन कृतं स्तोत्रं नित्यं यः प्रपठेत्शुचिः । हरिभक्तिर्भवेत्तस्य तन्नाम्नि गुणतो रुचिः ॥ १,८.३० ॥ दशवारजपेनैव स्तोत्रसिद्धिर्भवेन्नृणाम् । सर्वसिद्धिर्भवेत्तस्य सिद्धस्तोत्रो भवेद्यदि ॥ १,८.३१ ॥ इह प्राप्नोति लक्ष्मीं च निश्चलां लक्षपौरुषीम् । परिपूर्णमहैश्वर्यमन्ते याति हरेः पदम् ॥ १,८.३२ ॥ पुत्रं विशिष्टं लभते हरिभक्तं जितेन्द्रियम् । सुसाध्यां सुविनीतां सुव्रतां च पतिव्रताम् ॥ १,८.३३ ॥ प्रजां भूमिं यशः कीर्तिं विद्यां सकवितां लभेत् । प्रसूयते महाबन्ध्या वर्षमेकं शृणोति चेत् ॥ १,८.३४ ॥ गलत्कुष्ठी महारोगी सद्यो रोगात्प्रमुच्यते । धनी महादरिद्रश्च कृपणः सत्यवान् भवेत् । विप्रद्ग्रस्तो राजबद्धो मुच्यते नात्र संशयः ॥ १,८.३५ ॥ इति श्रीनारदपञ्चरात्रे ज्ञानामृतसारे प्रथमैकरात्रे अष्टमोऽध्यायः प्रथमैकरात्रे नवमोऽध्यायः श्रीव्यास उवाच वरं दत्वा महादेवो भक्त्या तं ब्राह्मणातिथिम् । पूजां चकार वेदोक्तां स्वयं वेदविदां वरः ॥ १,९.१ ॥ भुक्त्वा पीत्वा मुनिश्रेष्ठो महादेवस्य मन्दिरे । तिष्ठन्नुपासानां चक्रे पार्वतीपरमेशयोः ॥ १,९.२ ॥ एकदा चिरकालान्ते तमुवाच महामुनिम् । महादेवः सभामध्ये कृपया च कृपानिधिः ॥ १,९.३ ॥ श्रीमहादेव उवाच किं वा ते वाञ्छितं वत्स ब्रूहि मां यदि रोचते । वरो दत्तः किमपरं यत्ते मनसि वर्तते ॥ १,९.४ ॥ महादेववचः श्रुत्वा तमुवाच महामुनिः । कैलासे च सभामध्ये यत्तन्मनसि वाञ्छितम् ॥ १,९.५ ॥ श्रीनारद उवाच ज्ञानमाध्यात्मिकं नाम वेदसारं मनोहरम् । हरिभक्तिप्रदं ज्ञानं मुक्तिदं ज्ञानमीप्सितम् ॥ १,९.६ ॥ योगयुक्तं च यज्ज्ञानं ज्ञानं यत्सिद्धिदं तथा । संसारविषयज्ञानमेव पञ्चविधं स्मृतम् ॥ १,९.७ ॥ आश्रमाणां समाचारं तेषां धर्मपरिष्कृतम् । विधवानां च भिक्षूणां यतीनां ब्रह्मचारिणां ॥ १,९.८ ॥ पूजाविधानं कृष्णस्य तत्स्तोत्रं कवचं मनुम् । पुरश्चर्याविधानं च सर्वाह्निकमभीप्सितम् ॥ १,९.९ ॥ जीवकर्मविपाकं च कर्ममूलनिकृन्तनम् । संसारवासनां कां वा लक्षणं प्रकृतीशयोः ॥ १,९.१० ॥ तयोः परं वा किं वस्तु तस्यावतारवर्णमम् । को वा तद्अंशः कः पूर्णः परिपूर्णतमश्च कः ॥ १,९.११ ॥ नारायणर्षिकवचं सुभद्रप्रवराय च । यद्दत्तं किं तद्देवेश तदाराध्यं प्रयत्नतः ॥ १,९.१२ ॥ मया ज्ञानंमनापृष्ठं यद्यदस्ति सुरोत्तम । तन्मे कथय तत्त्वेन मामेवानुग्रहं कुरु ॥ १,९.१३ ॥ गुरोश्च ज्ञानोद्गिरणाज्ज्ञानं स्यान्मन्त्रतन्त्रयोः । तत्तन्त्रं स च मन्त्रः स्याद्यतो भक्तिरधोक्षजे ॥ १,९.१४ ॥ ज्ञानं स्याद्विदुषां किंचिद्वेदव्याख्यानचिन्तया । स्वयं भवान् वेदकर्ता ज्ञानाधिष्ठातृदेवता ॥ १,९.१५ ॥ नारदस्य वचः श्रुत्वा सस्मितः पार्वतीपतिः । निरीक्ष्य पार्वतीवक्त्रं गजवक्त्रमुवाच सः ॥ १,९.१६ ॥ अथ नारदोपदेशग्रहणम् श्रीमहादेव उवाच अहो अनन्तदासानां माहात्म्यं परमाद्भुतम् । कुर्वन्त्यहैतुकीं भक्तिं ये च शश्वद्धरेः पदे ॥ १,९.१७ ॥ पद्मनाभपादपद्मं पद्मापद्मेश्वरार्चितम् । दिवानिशं ये ध्यायन्ते शेषादिसुरवन्दितम् ॥ १,९.१८ ॥ आलापं गात्रसंस्पर्शं पादरेणुमभीप्सितम् । वाञ्छन्त्येव हि तीर्थानि वसुधा चात्मशुद्धये ॥ १,९.१९ ॥ कृष्णमन्त्रोपासकानां शुद्धं पादोदकं सुत । पुनाति सर्वतीर्थानि वसुधामपि पार्वति ॥ १,९.२० ॥ कृष्णमन्त्रो द्विजमुखाद्यस्य कर्णं प्रयाति च । तं वैष्णवं जगत्पूतं प्रवदन्ति पुराविदः ॥ १,९.२१ ॥ मन्त्रग्रहणमात्रेण नरो नारायनात्मकः । पुनाति लीलामात्रेण पुरुषाणां शतं शतम् ॥ १,९.२२ ॥ यज्जन्ममात्रात्पूतं च तत्पितृणां शतं शतम् । प्रयाति सद्यो गोलोकं कर्मभोगात्प्रमुच्यते ॥ १,९.२३ ॥ मातामहादिकान् सप्त जन्ममात्रात्समुद्धरेत् । यत्कन्यां प्रतिगृह्णाति तस्य सप्तावलीलया ॥ १,९.२४ ॥ मातरं तत्प्रशूं भार्यां पुत्राच्च सप्तपूरुषम् । भ्रातरं भगिनीं कन्यां कृष्णभक्तः समुद्धरेत् ॥ १,९.२४ ॥ स स्नातः सर्वतीर्थेषु सर्वयज्ञेषु दीक्षितः । फलं स लेभे पूजानां व्रती सर्वव्रतेषु च ॥ १,९.२६ ॥ विष्णुमन्त्रं यो लभेत्वैष्णवाच्च द्विजोत्तमात् । कोटिजन्मार्जितात्पापान्मुच्यते नात्र संशयः ॥ १,९.२७ ॥ कृष्णमन्त्रोपासकानां सद्यो दर्शनमात्रतः । शतजन्मार्जितात्पापान्मुच्यते नात्र संशयः ॥ १,९.२८ ॥ वैष्णवाद्दर्शनेनैव स्पर्शनेन च पार्वति । सद्यः पूतं जलं वह्निर्जगत्पूतः समीरणः ॥ १,९.२९ ॥ दर्शनं वैष्णवानां च देवा वाञ्छन्ति नित्यशः । न वैष्णवात्परः पूतो विश्वेषु निखिलेषु च ॥ १,९.३० ॥ इत्युक्त्वा सङ्करः शीघ्रं नारदेन सहात्मजः । ययौ मन्दाकिनीतीरं नीरं क्षीरोपमं परम् ॥ १,९.३१ ॥ तत्र स्नातो महादेवी नारदश्च महामुनिः । समाचान्तः शुचिस्तत्र धृत्वा धौते च वासवी ॥ १,९.३२ ॥ कृष्णमन्त्रं ददौ तस्मै नारदाय महेश्वरः । परं कप्लतरुवरं सर्वसिद्धिप्रदं शुक ॥ १,९.३३ ॥ लक्ष्मीर्मायाकामबीजं ङेन्तं कृष्णपदं ततः । जगत्पूतप्रियान्तं च मन्त्रराजं प्रकीर्तितम् ॥ १,९.३४ ॥ मन्त्रं गृहीत्वा स मुनिः शिवं कृत्वा प्रदक्षिणम् । सप्त वारान्नमस्कृत्य स्वात्मानं दक्षिणां ददौ ॥ १,९.३५ ॥ तत्पादपद्मे विक्रीतमाजन्म मस्तकं परम् । मुनिना भक्तियुक्तेन स्वर्गमन्दाकिनीतटे ॥ १,९.३६ ॥ एतस्मिन्नन्तरे वत्स पुष्पवृष्टिर्बभूव ह । नारदोपरि तत्रैव सुश्राव दुन्दुभिर्मुनिः ॥ १,९.३७ ॥ ननर्त ब्रह्मणः पुत्रो ब्रह्मलोके निरामये । ब्रह्मा जगाम तत्रैव सुप्रसन्नश्च सस्मितः ॥ १,९.३८ ॥ पुत्रं शुभाशिषं कृत्वा तुष्टाव चन्द्रशेखरम् । शम्भुश्च पूजयामास ब्राह्मणमतिथिं तथा । शम्भुं शुभाशिषं कृत्वा ब्रह्मलोकं ययौ विधिः ॥ १,९.३९ ॥ इति श्रीनारदपञ्चरात्रे ज्ञानामृतसारे प्रथमैकरात्रे नारदोपदेशग्रहणं नाम नवमोऽध्यायः प्रथमैकरात्रे दशमोऽध्यायः श्रीशुक उवाच नारदो हि महाज्ञानी देवर्षिर्ब्रह्मणः सुतः । सर्ववेदविदां श्रेष्ठो गरिष्ठश्च वरिष्ठकः ॥ १,१०.१ ॥ कथं स नोपदिष्टश्च ज्ञानहीनो महामुनिः । तन्मां बोधय विभो सन्देहभञ्जनं कुरु ॥ १,१०.२ ॥ श्रीव्यास उवाच नारदो ब्रह्मणः पुत्रः पुराकल्पे बभूव सः । सर्वज्ञानं ददौ तस्मै विधाता जगतामपि ॥ १,१०.३ ॥ वेदांश्च पाठयामास वेदाङ्गान्यपि सुव्रत । सिद्धविद्यां शिल्पविद्यां योगशास्त्रं पुराणकम् ॥ १,१०.४ ॥ भगवानेकदा पुत्रं कथयामास संसदि । सृष्टिं कुरु महाभाग कृत्वा दारपरिग्रहम् ॥ १,१०.५ ॥ ब्रह्मणश्च वचः श्रुत्वा कोपरक्तास्यलोचनः । उवाच पितरं कोपात्परं कृष्णपरायनः ॥ १,१०.६ ॥ श्रीनारद उवाच सर्वेषामपि वन्द्यानां पिता चैव महागुरुः । ज्ञानदातुः परो वन्द्यो न भूतो न भविष्यति ॥ १,१०.७ ॥ स्तनदात्री गर्भधात्री स्नेहकर्त्री सदाम्बिका । जन्मदातान्नदाता स्यात्स्नेहकर्ता पिता सदा ॥ १,१०.८ ॥ न क्षमौ तौ च पितरौ पुत्रस्य कर्म खण्डितुम् । करोति सद्गुरुः शिष्यकर्ममूलनिकृन्तनम् ॥ १,१०.९ ॥ गुरुश्च ज्ञानोद्गिरणात्ज्ञानं स्यान्मन्त्रतन्त्रयोः । तत्तन्त्रं स च मन्त्रश्च कृष्णभक्तिर्यतो भवेत् ॥ १,१०.१० ॥ श्रीकृष्णविमुखो भूत्वा विषये यस्य मानसम् । विषमत्यमृतं त्यक्त्वा स च मूढो नराधमः ॥ १,१०.११ ॥ स गुरुः स पिता वन्द्यः सा माता स पतिः सुतः । यो ददाति हरौ भक्तिं कर्ममूलनिकृन्तनी ॥ १,१०.१२ ॥ श्रीकृष्णभजनं तात सर्वमङ्गलमङ्गलम् । कर्मोपभोगरोगआणामौषधं तन्निकृन्तनम् ॥ १,१०.१३ ॥ अहो जगद्विधातुश्च धर्मशास्तुरियं मतिः । स्वयं मायामोहितश्च परं भ्रष्टं करोति च ॥ १,१०.१४ ॥ विष्णुस्त्वां मोहितां कृत्वा युयोज स्रष्टुमीश्वरः । न ददौ स्वात्मभक्तिं तां स्वदास्यं चातिदुर्लभम् ॥ १,१०.१५ ॥ माता ददाति पुत्राय मोदकं क्षुन्निवारकम् । स च बालो न जानाति कथंभूतं च मोदकम् ॥ १,१०.१६ ॥ बालकं वञ्चनं कृत्वा मिष्टं द्रव्यं प्रदाय सः । पिता प्रयाति कार्यार्थं विष्णुना मोहितस्तथा ॥ १,१०.१७ ॥ संसारकूपपतितो विष्णुना प्रेरितो भवान् । न युक्तं पतनं तत्र तदुद्धारमभीप्सितम् ॥ १,१०.१८ ॥ ज्ञानी गुरुश्च बलवान् भवाब्धेः शिष्यमुद्धरेत् । गुरुः स्वयमसिद्धश्च दुर्बलः कथमुद्धरेत् ॥ १,१०.१९ ॥ गुरोरत्य्अवलिप्तस्य कार्याकार्यमजानतः । उत्पथप्रतिपन्नस्य परित्यागो विधीयते ॥ १,१०.२० ॥ स गुरुः परमो वैरी यो ददाति ह्यसन्मतिम् । तं नमस्कृत्य सत्शिष्यः प्रयाति ज्ञानदं गुरुम् ॥ १,१०.२१ ॥ संसारविषयोन्मत्तो गुरुरार्तः स्वकर्मणि । दुर्बलो दुर्वहं भारं ददाति जनकाय च ॥ १,१०.२२ ॥ नारदस्य वचः श्रुत्वा क्रुद्धः पुत्रमुवाच सः । कम्पितस्तमसा धाता कोपरक्तास्यलोचनः ॥ १,१०.२३ ॥ ब्रह्मोवाच ज्ञानं ते भवतु भ्रष्टं स्त्रीजितो भव पामर । सर्वजातिषु गन्धर्वः कामी सोऽपि भवान् भव ॥ १,१०.२४ ॥ पञ्चाशत्कामिनीनां च स्वयं भर्ता भवाचिरात् । तासां वशश्च सततं स्त्रीणां क्रीडा मृगो यथा ॥ १,१०.२५ ॥ शृङ्गारशूरो भव रे शश्वत्सुस्थिरयौवनः । तासां नित्यं यौवनानां सुन्दरीणां प्रियो भव ॥ १,१०.२६ ॥ कामबाध्यो भव चिरं दिव्यवर्षसहस्रकम् । निर्जने निर्जने रम्ये वने क्रीडां करिष्यसि ॥ १,१०.२७ ॥ ततो वर्षसहस्रान्ते मया शप्तः स्वकर्मणा । विप्रदास्यां तु शूद्रायां जनिष्यसि न संशयः ॥ १,१०.२८ ॥ ततो वैष्णवसंसर्गात्विष्णोरुच्छिष्टभोजनात् । विष्णुमन्त्रप्रसादेन विष्णुमायाविमोहितः ॥ १,१०.२९ ॥ तातस्य वचनं श्रुत्वा चुकोप नारदो मुनिः । शशाप पितरं शिघ्रं दारुणं च यथोचितम् ॥ १,१०.३० ॥ अपूज्यो भव दुष्टं त्वं त्वन्मन्त्रोपासकः कुतः । अगम्यागमनेच्छा ते भविष्यति न संशयः ॥ १,१०.३१ ॥ नारदस्य तु शापेन सोऽपूज्यो जगतां विधिः । दृष्ट्वा स्वकन्यारूपं च पश्चाद्धावितवान् पुरा ॥ १,१०.३२ ॥ पुनः स्वदेहं तत्याज भर्त्सितः सनकादिभिः । लज्जितः कामयुक्तश्च पुनर्ब्रह्मा बभूव सः ॥ १,१०.३३ ॥ नारदस्तु नमस्कृत्य पितरं कमलोद्भवम् । विप्रदेहं परित्यज्य गन्धर्वश्च बभूव सः ॥ १,१०.३४ ॥ नवयौवनकालेन बलवान्मदनोद्धतः । जहार कन्याः पञ्चाशत्बलाच्चित्ररथस्य तु ॥ १,१०.३५ ॥ गान्धर्वेन विवाहेन ता उवाह च निर्जने । मूर्च्छां प्रापुश्च ताः कन्या दृष्ट्वा सुन्दरमीश्वरम् ॥ १,१०.३६ ॥ विसस्पुरुश्च पितरं मातरं भ्रातरं तथा । रेमिरे तेन सार्धं च कामुक्यः कामुकेन च ॥ १,१०.३७ ॥ कन्दरेर्कन्दरे रम्ये रम्ये सुन्दरमन्दिरे । शैले शैले सुरहसि कानने कानने तथा ॥ १,१०.३८ ॥ पुष्पोद्यने तरुद्याने नद्यां नद्यां नदे नदे । सरःश्रेष्ठे सरःश्रेष्ठे वरे चन्द्रसरोवरे ॥ १,१०.३९ ॥ सुरेशस्यापि निकटे सुभद्रस्य तटे तटे । अगम्ये च महाघोरे गन्धमादनगह्वरे ॥ १,१०.४० ॥ परिजाततरुणां च पुष्पितानां मनोहरे । तद्अन्तरे सुन्दरे चामोदिते पुष्पवायुना ॥ १,१०.४१ ॥ मलये निलये रम्ये सुगन्धे चन्दनान्विते । चन्दनोक्षितसर्वाङ्गश्चन्दनाक्तेन कामिना ॥ १,१०.४२ ॥ रम्यचम्पकशय्यासु चन्दनाक्तासु सस्मिताः । दिवानिशं न जानन्ति कामिना सस्मितेन च ॥ १,१०.४३ ॥ विस्यन्दके शूरसेने नन्दने पुष्पभद्रके । स्वाहावने काम्यके च रम्यके पारिभद्रके ॥ १,१०.४४ ॥ सुरन्धके गन्धके च सुरङ्ह्रे पुण्ड्रकेऽपि च । कालञ्जरे पञ्जरे च काञ्चीकाञ्चनकानने ॥ १,१०.४५ ॥ मधुमाधवमासे च मधूरे मधुकानने । वने कल्पतरूणां च विश्वकारुकृतस्थले ॥ १,१०.४६ ॥ रत्नाकराणां निकरे सुन्दरे सुन्दरान्तरे । सुवेले च सुपार्श्वे च प्रवालांकुरकानने ॥ १,१०.४७ ॥ मन्दारे मन्दिरे पूरे गान्धारे च युगन्धरे । वने केलिकदम्बानां केतकीनां मनोहरे ॥ १,१०.४८ ॥ माधवीमालतीनां च यूथिकानां वने वने । चम्पकानां पलाशानां कुन्दानां विपिने तथा ॥ १,१०.४९ ॥ नागेश्वरलवङ्गानामन्तरे ललितालये । कुमुदानां पङ्कजानां पङ्किले कोमलस्थले ॥ १,१०.५० ॥ स्थलपद्मप्रकारो च भूमिचम्पककानने । लाङ्गलीनां रसालानां पनसानां सुखप्रदे ॥ १,१०.५१ ॥ कदलीबदरीणां च श्रीफलानां च श्रीयुते । जम्बीराणां च जम्बूनां करञ्जानां तथैव च ॥ १,१०.५२ ॥ कृत्वा बिहारं ताभिश्च गन्धर्वश्चोपवर्हणः । दिव्यं वर्षसहस्रं च स्वाश्रमं पुनराययौ ॥ १,१०.५३ ॥ श्रुत्वा विधातुराह्वानं पुष्करं च ययौ पुनः । ददर्श तत्र ब्रह्माणं रत्नसिंहासनस्थितम् ॥ १,१०.५४ ॥ देवेन्द्रैश्चापि सिद्धेन्द्रैर्मुनीन्द्रैः सन्कादिभिः । समावृतं सभायां च रक्षोगन्धर्वकिन्नरैः ॥ १,१०.५५ ॥ सुशोभितं यथा चन्द्रं गगने भगणैः सह । प्रणनाम सभामध्ये ताभिः सार्धं जगद्विधिम् ॥ १,१०.५६ ॥ महेशं च गणेशं च धनेशं शेषमीश्वरम् । धर्मं धन्वन्तरिं स्कन्दं सूर्यसोमहुताशनम् ॥ १,१०.५७ ॥ उपेन्द्रेन्द्रं विश्वकारुं वरुणं पवनं स्मरम् । यममष्टौ वसून् रुद्रान् जयन्तं नलकूवरम् ॥ १,१०.५८ ॥ सर्वान् देवान्नमस्कृत्य ननाम मुनिपुङ्गवम् । अगस्त्यं च पुलस्त्यं च पुलहं च प्रचेतसम् ॥ १,१०.५९ ॥ सर्वश्रेष्ठं वसिष्ठं च दक्षं च कर्दमं तथा । सनकं सनन्दं च तृतीयं च सनातनम् ॥ १,१०.६० ॥ सनत्कुमारं योगीशं ज्ञानिनां च गुरोर्गुरुम् । वोढुं पञ्चशिखं सङ्खं भृगुमङ्गिरसं तथा ॥ १,१०.६१ ॥ आसुरिं कपिलं कौत्सं क्रतुं नारायणं नरम् । मरीचिं कश्यपं कण्वं व्यासं दुर्वाससं कविम् ॥ १,१०.६२ ॥ बृहस्पतिं च च्यवनं मार्कण्डेयं च लोमशम् । वाल्मीकिं परशुरामं संवर्तं च विभाण्डकम् ॥ १,१०.६३ ॥ देवलं च वामदेवमृशयशृङ्गं पराशारम् । एतान् सर्वान्नमस्कृत्य तस्थौ स पुरतो विधेः ॥ १,१०.६४ ॥ तुष्टाव सर्वान् देवांश्च मुनीन्द्रांश्च तथैव च । तमुवाच सभामध्ये विधाता जगतामपि । सस्मितः सुप्रसन्नश्च गन्धर्वमुपवर्हणम् ॥ १,१०.६५ ॥ ब्रह्मोवाच श्रीकृष्णरससङ्गीतं वीणाध्वनिसमन्वितम् । कुरु वत्साधुनात्रैव शृण्वन्तु मुनयः सुराः ॥ १,१०.६६ ॥ गोपीनां वस्त्रहरणं हरं रासमहोत्सवम् । ताभिः सार्धं जलक्रीडां हरेरुत्कीर्तनं कुरु ॥ १,१०.६७ ॥ कृष्णसङ्कीर्तनं तूर्णं पुनाति श्रुतिमात्रतः । श्रोतारं च प्रवक्तारं पुरुषैः सप्तभिः सह ॥ १,१०.६८ ॥ यत्रैव प्रभवेद्वत्स तन्नामगुणानुकीर्तनम् । तत्र सर्वाणि तीर्थानि पुण्यानि मङ्गलानि च ॥ १,१०.६९ ॥ तत्कीर्तनध्वनिं श्रुत्वा सर्वाणि पातकानि च । दूरादेव पलायन्ते वैनतेयमिवोरगाः ॥ १,१०.७० ॥ तद्दिनं सफलं धन्यं यशस्यं सर्वमङ्गलम् । श्रीकृष्णकीर्तनं यत्र तत्रैव नायुषो व्ययः ॥ १,१०.७१ ॥ संकीर्तनध्वनिं श्रुत्वा ये च नृत्यन्ति वैष्णवाः । तेषां पादरजःस्पर्शात्सद्यः पूता वसुन्धरा ॥ १,१०.७२ ॥ तत्कीर्तनं भवेद्यत्र कृष्णस्य परमात्मनः । स्थानं तच्च भवेत्तीर्थं मृतानां तत्र मुक्तिदम् ॥ १,१०.७३ ॥ नात्र पापानि तिष्ठन्ति पुण्यानि सुस्थिराणि च । तपस्विनां च व्रतिनां व्रतानां तपसां स्थलम् ॥ १,१०.७४ ॥ वर्तते पापिनां देहे पापानि त्रिविधानि च । महापापोपपापातिपापान्येव स्मृतानि च ॥ १,१०.७५ ॥ हन्ता यो विप्रभिक्षूणां यतीनां ब्रह्मचारिणां । स्त्रीणां च वैष्णवानां च स महापातकी स्मृतः ॥ १,१०.७६ ॥ भ्रूणाघ्नश्चापि गोघ्नश्च शूद्रघ्नश्च कृतघ्नकः । विश्वासघाती विड्भोजी स एव ह्युपपातकी ॥ १,१०.७७ ॥ अगम्यागमिनो ये च सुरविप्रस्वहारिणः । अतिपातकिनश्चैते वेदविद्भिः प्रकीर्तिताः ॥ १,१०.७८ ॥ कृष्णसंकीर्त्नध्यानात्तन्मन्त्रग्रहणादहो । मुच्यन्ते पातकैस्तैस्तैः पापिनस्त्रिविधाः स्मृताः ॥ १,१०.७९ ॥ तपोयज्ञकृती पूतस्तीर्थस्नातव्रती तथा । भिक्षुर्यतिर्ब्रह्मचारी वानप्रस्थश्च तापसः ॥ १,१०.८० ॥ पवित्रः परमो वह्निः सुपवित्रं जलं यथा । एते सर्वे वैष्णवानां कलां नार्हन्ति षोडशीम् ॥ १,१०.८१ ॥ विष्णुपादोदकोच्छिष्टं भुञ्जते ये च नित्यशः । पश्यन्ति च शिलाचक्रं पूजां कुर्वन्ति नित्यशः ॥ १,१०.८२ ॥ जीवन्मुक्तास्च ते धन्या हरिदासाश्च भारते । पदे पदेऽश्वमेधस्य प्राप्नुवन्ति फलं ध्रुवम् ॥ १,१०.८३ ॥ नहि तेषां पराभूताः पुण्यवन्तो जगत्त्रये । तेषां च पादरजसा तीर्थं पूतं तथा धरा ॥ १,१०.८४। ॥ तेषां च दर्शनं स्पर्शं वाञ्छन्ति मुनयः सुराः । पुरुषाणां सहस्रं च पूतं तज्जन्ममात्रतः ॥ १,१०.८५ ॥ इत्युक्त्वा जगतां धाता तत्र तूष्णीं बभूव सः । आश्चर्यं मेनिरे श्रुत्वा देवाश्च मुनयस्तथा ॥ १,१०.८६ ॥ एतस्मिन्नन्तरे तत्र विद्याधर्यः समागताः । गन्धर्वाश्चापि विविधा ननृतुः किन्नरा जगुः ॥ १,१०.८७ ॥ रम्भोर्वशी घृताची च मेनका च तिलोत्तमा । सुधामुखी पूर्णचित्ती मोहिनी कलिका तथा ॥ १,१०.८८ ॥ चम्पावती चन्द्रमुखी पद्मा पद्ममुखीति च । एताश्चान्याश्च बह्व्यश्च श्वश्वत्सुस्थिरयौवनाः ॥ १,१०.८९ ॥ बृहन्नितम्बश्रोणीकास्तनभारैः समानताः । ईषद्धास्याः प्रसन्नास्याः कामार्ताश्च समाययुः ॥ १,१०.९० ॥ वेदज्ञा मूर्तिमन्तश्च वेदाश्चात्वार एव च । ब्राह्मणा भिक्षवः सिद्धा यतयो ब्रह्मचारिणः ॥ १,१०.९१ ॥ समाययुस्तथा मन्दा दैवज्ञाः स्तुतिपाठकाः । लक्ष्मी सरस्वती दुर्गा सावित्री रोहिणी रतिः ॥ १,१०.९२ ॥ तुलसी पृथिवी गङ्गा स्वाहा च यमुना तथा । वारुणी मनसेन्द्राणी ताः सर्वा देवयोषितः ॥ १,१०.९३ ॥ मुनिपत्न्यश्च गन्धर्व्यो हर्षयुक्ताः समाययुः । अहो महोत्सवं परमानन्दमानसाः । विचित्रां च ब्रह्मसभां पुष्करं तीर्थमाययुः ॥ १,१०.९४ ॥ इति श्रीनारदपञ्चरात्रे ज्ञानामृतसारे प्रथमैकरात्रे महोत्सवारम्भो नाम दशमोऽध्यायः प्रथमैकरात्रे एकादशोऽध्यायः अथ महोत्सवदर्शनम् श्रीव्यास उवाच अथ गन्धर्वराजस्तु भगवानाज्ञया विधेः । संगीतं च जगौ तत्र कृष्णरासमहोत्सवम् ॥ १,११.१ ॥ सुसमं तालमानं च सुतानं मधुरं श्रुतम् । वीणामृदङ्गमुरजयुक्तं ध्वनिसमन्वितम् ॥ १,११.२ ॥ रागिणीयुक्तरागेण समयोक्तेन सुन्दरम् । माधुर्यं मूर्च्छ्नायुक्तं मनसे हर्षकारणम् ॥ १,११.३ ॥ विचित्रं नृत्यरुचिरं रूपवेशमुत्तमम् । लोकानुरागबीजं च नाट्योपयुक्तहस्तकम् ॥ १,११.४ ॥ दृष्ट्वा श्रुत्वा सुराः सर्वे मुनयः सर्वयोषितः । मूर्च्छां प्रायुश्च सहसा चेतनां च पुनः पुनः ॥ १,११.५ ॥ गोपीनां वस्त्रहरणं गोपीगणविलापनं । ताभ्यो वस्त्रप्रदानं च संमानं वरदानकम् ॥ १,११.६ ॥ कात्यायनीव्रतं चापि विप्रदारान्नभोजनम् । महेन्द्रदर्पपूजादि भञ्जनं शैलपूजनम् ॥ १,११.७ ॥ पुनश्च शुश्रुवुः सर्वे श्रीवृन्दावनवर्णनम् । संप्रापुश्च पुनर्मूर्च्छां पुनः प्रापुश्च चेतनाम् ॥ १,११.८ ॥ तस्मै ददौ पुरो ब्रह्मा वह्निशुद्धांशुकं परम् । परं शुभाशीर्वचनं यत्तन्मानसवाञ्छितम् ॥ १,११.९ ॥ अमूल्यरत्ननिर्माणं चारुकुण्डालयुग्मकम् । मणीन्द्रसारमुकुटं परं रत्नाङ्गुरीयकम् ॥ १,११.१० ॥ सुगन्धि चन्दनं पुष्पं स्वपादरेणुमीप्सितम् । अमूल्यरत्नतिलकं रत्नभूषणमुज्ज्वलम् ॥ १,११.११ ॥ प्रत्येकं वस्तु रुचिरं तद्योषिद्भ्यश्च संददौ । विश्वकर्मा च निर्माणमणिं भूषणमुत्तमम् ॥ १,११.१२ ॥ प्रत्येकं शङ्खसिन्दूरं कस्तूरीयुक्तचन्दनम् । सकर्पूरं च ताम्बूलं रत्नेन्द्रसारदर्पणम् ॥ १,११.१३ ॥ मणिनिर्माणामञ्जोरं श्वेतचामरशोभनम् । मनोयायि रथं दिव्यमीस्वरेच्छाविनिर्मितम् ॥ १,११.१४ ॥ मुक्तामाणिक्यहीरेन्द्रैर्मणीन्द्रैश्च परिष्कृतम् । सद्रत्नमालाजालैश्च श्वेतचामरदर्पणैः ॥ १,११.१५ ॥ सुशोभितं च परितो लक्षैः सुन्दरमन्दिरैः । मणिमानिक्यहीराढ्यं सद्रत्नकलशोज्ज्वलम् ॥ १,११.१६ ॥ सहस्रचक्रसंसक्तं योजनायतसम्मितम् । धनुर्लक्षोच्छ्रितं चैव सहस्राश्वेन योजितम् ॥ १,११.१७। एतदेव ददौ ब्रह्मा प्रहृष्टस्तुष्ट एव च । शम्भुस्तुष्टो ददौ हृष्टो हरिभक्तिं च निश्चलाम् ॥ १,११.१८ ॥ ज्ञानमध्यात्मिकं चैव योगज्ञानं सुदुर्लभम् । नानाजन्मस्मृतिज्ञानं नैपुण्यं सर्वसिद्धिषु ॥ १,११.१९ ॥ हरेश्चर्चाविधानं च स्तवनं पूजनं तथा । माणिक्यहीराहारं च रत्नलक्षं सुदुर्लभम् ॥ १,११.२० ॥ नागहारं ददौ शेषो नागेन्द्रमौलिमण्डनम् । नागकन्याशतं चैव वरभूषणभूषितम् ॥ १,११.२१ ॥ नागेभ्यश्चाभ्यं नित्यं हिस्रजन्तुभ्य एव च । नृपालयगतिज्ञानं सर्वलोकविलोकनम् ॥ १,११.२२ ॥ निर्विघ्नत्वं ददौ तस्मै विघ्न्राजश्च संसदि । सुदुर्लभं पादपद्मयुग्मरेणुमभीप्सितम् ॥ १,११.२३ ॥ अमूल्यं च निरुपमं ग्रीष्मसूर्यप्रभोपमम् । मणिराजं सुदीप्तं च त्रिषु लोकेषु दुर्लभम् ॥ १,११.२४ ॥ सर्वत्र विजयं चैव वाञ्च्छितं निर्मलं यशः । संगीतविद्याविज्ञानं तन्नैपुण्यं मनोहरम् ॥ १,११.२५ ॥ लक्षस्वर्णं धनेशश्च दासानां च शतं शतम् । धर्मः कीर्तिमयीं मालां स्कन्दो धैर्यं ददौ तथा ॥ १,११.२६ ॥ विषयजीर्णापहरणं ददौ धन्वन्तरिर्मनुम् । सूर्यः स्यमन्तकमणिं स्वर्णाभाराष्टकप्रसुम् ॥ १,११.२७ ॥ चन्द्रः श्वेताश्वरत्नं च ह्यमूल्यमुत्तमं ददौ । वह्निशुद्धांशुकयुगं ददौ वह्निश्च संसदि ॥ १,११.२८ ॥ उपेन्द्रो रत्नकोटिं च तदेवेन्द्रो ददौ पुरा । वीणाशिल्पं विश्वकर्मा वरुणश्च मणिस्रजम् ॥ १,११.२९ ॥ स्मरः शृङ्गारनैपुण्यं वीर्यस्तम्भनमेव च । कामसन्दीपनं ज्ञानं कामिनीप्रेममूर्छनम् ॥ १,११.३० ॥ कामिनीवशगं शिल्पं रतितत्त्वं ददौ तथा । पापदाहनमन्त्रं च रत्नछत्रं समीरणः ॥ १,११.३१ ॥ यमश्च धर्मतत्त्वं च नरकत्राणकारणम् । वसवश्च वसून् दिव्यान् रुद्रस्तेभ्योऽभयं ददौ ॥ १,११.३२ ॥ मधुपात्रं सुधापात्रं जयन्तो नलकूवरः । शुक्लपुष्पं शुक्लधान्यं पादरेणुमभीप्सितम् ॥ १,११.३३ ॥ मनोभिरां मनुयो ददौ तस्मै शुभाशिषम् । लक्ष्मीश्च परमैश्वर्यं भारती हारमुत्तमम् ॥ १,११.३४ ॥ रत्नमालां ददौ दुर्गा सर्वत्राभयमीप्सितम् । तत्पत्नीभ्यश्च रत्नानि सिन्दूराभरणानि च ॥ १,११.३५ ॥ क्रीडापद्मं रोहिनी च रतिः सद्रत्नदर्पणम् । तुलसी चातुलं माल्यं दिव्यं वसु वसुन्धरा ॥ १,११.३६ ॥ गङ्गा च विपुलं पुण्यं स्वाहा सद्रत्नपाशकम् । यमुना जलजं पद्ममम्लानं सार्वकालिकम् ॥ १,११.३७ ॥ वारुणीं वारुणी तुष्टा रत्नपात्रं शची ददौ । मनसा प्रददौ तस्मै नागानां मौलिमण्डनम् ॥ १,११.३८ ॥ गन्धर्वाश्चापि तत्पत्न्यः स्वशिल्पं प्रददुस्तथा । परमानन्दयुक्ताश्च मुनिपत्न्यः शुभाशिषम् ॥ १,११.३९ ॥ इति श्रीनारदपञ्चरात्रे ज्ञानामृतसारे प्रथमैकरात्रे महोत्सवदर्शनं नाम एकादशोऽध्यायः प्रथमैकरात्रे द्वादशोऽध्यायः शुक उवाच महोत्सवे सुनिष्पन्ने दानस्योत्तरकालतः । किं बभूव रहस्यं च तन्मां व्याख्यातुमर्हसि ॥ १,१२.१ ॥ श्रीव्यास उवाच संप्राप्य दानं देवानां गन्धर्वश्चोपवर्हणः । तेषां च पुरतो भक्त्या विदयामास वै सदा ॥ १,१२.२ ॥ श्रुत्वा तद्वचनं ब्रह्मा तमुवाच च संसदि । शम्भुना च समालोच्य ब्रह्मोवाच विधाता जगतामपि ॥ १,१२.३ ॥ मथुरागमनं चैव कृष्णस्य परमात्मनः । विलापं गोपगोपीनां श्रावयास्मांश्च साम्प्रतम् ॥ १,१२.४। ॥ महोत्सवं कुरु पुनः शृण्वन्तु मुनयः सुराः । गायन्तु ताश्च संगीतं नृत्यन्त्वप्सरां गणाः ॥ १,१२.५ ॥ ब्रह्मणश्च वचः श्रुत्वा ननृत्युश्चाप्सरोगणाः । चक्रुस्ताः सरसं गीतं विद्याधर्यश्च संसदि ॥ १,१२.६ ॥ मायिनां चैव प्रवरो गन्धर्वश्चोपवर्हणः । जगौ सन्धानभावेन मथुरागमनं हरेः ॥ १,१२.७ ॥ विलापं गोकुलस्थानां श्रुत्वा विप्राः सुरादयः । मूर्च्छां प्रापुश्च रुरुदुर्ददुर्दानं पुनः पुनः ॥ १,१२.८ ॥ गोपीनां विरहालापैर्मूर्च्छितश्चोपवर्हणः । विस्वरेण वितनात्तु तालभङ्गो बभूव ह ॥ १,१२.९ ॥ तत्तालभङ्गं विज्ञाय देवाश्च मुनयस्तथा । चुकुपुः सहसा सर्वे निर्गतास्तन्मुखाग्नयः ॥ १,१२.१० ॥ तद्दृष्ट्वा सहसा भीतो गन्धर्वश्चोपवर्हणः । सस्मार कृष्णं स्वभीष्टं परमात्मानमीश्वरम् ॥ १,१२.११ ॥ ददृशुः स्मृतिमात्रेण तत्तेजो नभसि स्थितम् । स्तम्भिता देवताः सर्वाशिचक्रपुत्तलिका यथा ॥ १,१२.१२ ॥ स्तम्भिता वह्नयः सर्वे मुनयश्च विजृम्भिताः । हरिस्मृतिश्चाभयदा शुभदा विघ्ननाशिनी ॥ १,१२.१३ ॥ ददृशुर्देवताः सर्वाः मुनयश्चापि योषितः । गन्धर्वाश्च तथैवान्ये तेजो दृश्यं सुखप्रदम् ॥ १,१२.१४ ॥ परं कुञ्ज्ञटिकाकारं कोटीन्दुकिरणप्रभम् । योजनायतविस्तीर्णं सुस्निग्धं सुमनोहरम् ॥ १,१२.१५ ॥ तत्तेजोऽभ्यन्तरे सर्वे ददृशू रथमुत्तमम् । गव्यूतिमानं विस्तीर्णं धनुष्कोटिसमुच्छ्रितम् ॥ १,१२.१६ ॥ श्वेताश्वानां च चक्राणां सहस्रेण समावृतम् । अमूल्यरत्नरचितमीश्वरेच्छाविनिर्मितम् ॥ १,१२.१७ ॥ नानाचित्रविचित्राढ्यं मनोयायि ममोहरम् । मुक्तामाणिक्यपरमहीराहारैर्विराजितम् ॥ १,१२.१८ ॥ रत्नदर्पणलक्षैश्च त्रिलक्षैः श्वेतचामरैः । वह्निशुद्धांशुकानां च त्रिलक्षैः परिशोभितम् ॥ १,१२.१९ ॥ त्रिकोटिभिश्च ज्वलितं क्रीडासुन्दरमन्दिरैः । पारिजातप्रसूनानां मन्दराणां मनोहरैः ॥ १,१२.२० ॥ मालाजालैस्त्रिलक्षैश्च मालतीनां च मण्डितम् । एवंभूतं रथं दृष्ट्वा ददृशुस्ते तद्अनन्तरे ॥ १,१२.२१ ॥ मध्यकोष्ठाभ्यन्तरे च किशोरं श्यामसुन्दरम् । वह्निशुद्धांशुकेनैव पीतवर्णेन शोभितम् ॥ १,१२.२२ ॥ रत्नकेयूरवलयरत्नमञ्जीररञ्जितम् । रत्नकुण्डलयुग्मेन गण्डस्थलसमुज्ज्वलम् ॥ १,१२.।२३ ॥ ईषद्धास्यप्रसन्नास्यं नित्योपास्यं सुरासुरैः । चन्दनोक्षितसर्वाङ्गं मालतीमाल्यमण्डितम् ॥ १,१२.२४ ॥ मणिना कौस्तुभेन्द्रेण गण्डस्थलविभूषितम् । परं प्रधानं परमं परमात्मानमीश्वरम् ॥ १,१२.२५ ॥ स्तुतं ब्रह्मेशशेषैश्च राधावक्षः स्थलस्थितम् । वेदानिर्वचनीयं च स्वेच्छामयमनीश्वरम् ॥ १,१२.२६ ॥ नित्यं नित्यं निर्गुणं च ज्योतिरूपं सनातनम् । प्रकृतेः परमीशानं भक्तानुग्रहकातरम् ॥ १,१२.२७ ॥ कोटिकन्दर्पलावण्यलीलाधाममनोहरम् । मयूरपुच्छचूडं च वरं वंशीधरं परं ॥ १,१२.२८ ॥ दृष्ट्वा तमद्भुतं रूपं तुष्टाव कमलोद्भवः । गणेशः शेषः शम्भुश्च तद्अन्ये मुनयः सुराः ॥ १,१२.२९ ॥ ब्रह्मोवाच परं ब्रह्म परं धाम परमात्मानमीश्वरम् । वन्दे वन्द्यं च सर्वेषां सर्वकारणकारणम् ॥ १,१२.३० ॥ सर्वेश्वरं सर्वरूपं सर्वाद्यं सद्भिरीडितम् । वेदावेद्यं च विद्वद्भिर्न दृष्टं स्वप्नगोचरे ॥ १,१२.३१ ॥ श्रीमहादेव उवाच सिद्धस्वरूपं सिद्धाद्यं सिद्धबीजं सनातनम् । प्रसिद्धं सिद्धिदं शान्तं सिद्धानां च गुरोर्गुरुम् ॥ १,१२.३२ ॥ वन्दे वन्द्यं च महतां परात्परतरं विभुम् । स्वात्मारामं पूर्णकामं भक्तानुग्रहकातरम् ॥ १,१२.३३ ॥ भक्तिप्रियं च भक्तेशं स्वभक्तिदास्यदं परम् । स्वपदप्रदमेकं च दातारं सर्वसम्पदाम् ॥ १,१२.३४ ॥ अनन्त उवाच वक्त्राणां च सहस्रेण किं वा स्तौमि श्रुतिश्रुतम् । कोटिभिः कोटिभिर्वक्त्रैः को वा स्तोतुं क्षमः प्रभो ॥ १,१२.३५ ॥ किमु स्तोष्यति शम्भुश्च पञ्चवक्त्रेण वाञ्च्छितम् । कर्ता चतुर्णां वेदानां किं स्तोष्यति चतुर्मुखः ॥ १,१२.३६ ॥ षड्वक्त्रो गजवक्त्रश्च देवाश्च मुनयोऽपि वा । वेदा वा किं वेदविदः स्तुवन्ति प्रकृतेः परम् ॥ १,१२.३७ ॥ वेदानिर्वचनीयं च वेदा निर्वक्तुमक्षमाः । वेदविज्ञातवाक्येन विद्वांसः किं स्तुवन्ति तम् ॥ १,१२.३८ ॥ श्रीगणेश उवाच मूर्खो वदति विष्णाय बुधो वदति विष्णवे । नम इत्येवमर्थं च द्वयोरेव समं फलम् ॥ १,१२.३९ ॥ यस्मै दत्तं च यज्ज्ञानं ज्ञानदाता हरिः स्वयम् । ज्ञानेन तेन स स्तौति भावग्राही जनार्दनः ॥ १,१२.४० ॥ एकवक्त्रोऽनेकवक्त्रो मूर्खो विद्वान् स्वकर्मणा । अधनी च धनी वापि सपुत्रो वाप्यपुत्रकः ॥ १,१२.४१ ॥ कर्मणा परमीशं च स्तोतुं को वाप्यनुत्तमम् । यथाशक्ति स्तुतिः पूजा वन्दनं स्मरणं हरेः ॥ १,१२.४२ ॥ संकीर्तनं च भजनं जपनं बुद्ध्य्अनुक्रमम् । कुर्वन्ति सन्तोऽसन्तश्च सन्ततं परमात्मनः ॥ १,१२.४३ ॥ कार्तिकेय उवाच सर्वान्तरात्मा भगवान् ज्ञानं च सर्वजीविनां । ज्ञानानुरूपं स्तवनं सन्तो नैव हसन्ति तम् ॥ १,१२.४४ ॥ भवेषु त्रिविधो लोकोऽप्युत्तमो मध्यमोऽधमः । सर्वे स्वकर्मवशगा निषेकः केन वार्यते ॥ १,१२.४५ ॥ सर्वेश्वरं च संवीक्ष्य सर्वो वदति मत्प्रभुम् । मद्ईश्वरस्य समता सर्वेषु किंकरेषु च ॥ १,१२.४६ ॥ भजन्ति केचित्शुद्धान्तं परमात्मानमीश्वरम् । केचित्तद्अंशांशं प्राप्नुवन्ति क्रमेण तम् ॥ १,१२.४७ ॥ धर्म उवाच अहं साक्षी च सर्वेषां विधिना निर्मितः पुरा । विधातुश्च विधाता त्वं सर्वेश्वरं नमोऽस्तु ते ॥ १,१२.४८ ॥ देवा ऊचुः यं स्तोतुमसमर्थश्च सहस्रायुः स्वयं विधिः । ज्ञानाधिदेवः शम्भुश्च तं स्तोतुं किं वयं क्षमाः ॥ १,१२.४९ ॥ वेदा ऊचुः किं जानीमो वयं के वाप्यनन्तेशस्य यो गुणः । वयं वेदाश्त्वमस्माकं कारणस्यापि कारकः ॥ १,१२.५० ॥ मुनयः ऊचुः यदि वेदा न जानन्ति माहात्म्यं परमात्मनः । न जानीमस्तव गुणं वेदानुसारिणो वयम् ॥ १,१२.५१ ॥ सरस्वत्युवाच विद्याधिदेवताहं च वेदा विद्याधिदेवकाः । वेदाधिदेवो धाता च तद्ईशं स्तौमि किं प्रभो ॥ १,१२.५२ ॥ पद्मोवाच यत्पादपद्मं पद्मेशः शेषाश्चान्ये सुरास्तथा । ध्यायन्ते मुनयो देवा ध्याये तं प्रकृतेः परम् ॥ १,१२.५३ ॥ सावित्र्युवाच सावित्री वेदमाताहं वेदानां जनको विधिः । त्वामेव धत्ते धातरं नमामि त्रिगुणात्परम् ॥ १,१२.५४ ॥ श्रीपार्वत्युवाच तव वक्षसि राधाहं रासे वृन्दावने वने । महालक्ष्मीश्च वैकुण्ठे पादपद्मार्चने रता ॥ १,१२.५५ ॥ श्वेतद्वीपे सिन्धुकन्या विष्णोरुरसि भूतले । ब्रह्मलोके च ब्रह्माणी वेदमाता च भारती ॥ १,१२.५६ ॥ तवाज्ञया च देवानामविर्भूता च तेजसि । निहत्य दैत्यान् देवारीन् दत्वा राज्यं सुराय च ॥ १,१२.५७ ॥ तत्पश्चाद्दक्षकन्याहमधुना पार्वती हरे । तवाज्ञया हरक्रोडे त्वद्भक्ता प्रतिजन्मनि ॥ १,१२.५८ ॥ नारायणप्रिया शश्वत्तेन नारायणी श्रुतौ । विष्णोरहं पराशक्तिर्विष्णुमाया च वैष्णवी ॥ १,१२.५९ ॥ अनन्तकोटि ब्रह्माण्डं मया सम्मोहितं सदा । विदुषां रसनाग्रे च प्रत्यक्षं हि सरस्वती ॥ १,१२.६० ॥ महाविष्णोश्च माताहं विश्वानि यस्य लोमसु । रामेश्वरी च सर्वाद्या सर्वशक्तिस्वरूपिणी ॥ १,१२.६१ ॥ तद्रासे धारणाद्राधा विद्वद्भिः परिकीर्तिता । परमानन्दपादाब्जं वन्दे सानन्दपूर्वकम् ॥ १,१२.६२ ॥ यत्पादपद्मं ध्यायन्ते परमानन्दकारणम् । पादपद्मेशशेषाद्या मुनयो मनवः सुराः ॥ १,१२.६३ ॥ योगिनः सन्ततं सन्तः सिद्धाश्च वैष्णवास्तथा । अनुग्रहं कुरु विभो बुद्धिशक्तिरहं तव ॥ १,१२.६४ ॥ इति संवृतं स्तोत्रं यः पठेत्संयतः शुचिः । इहैव च सुखं भुङ्क्ते यात्यन्ते श्रीहरेः पदम् ॥ १,१२.६५ ॥ निवृत्तेषु च वेदेषु देवीषु मुनिपुङ्गवे । उपवर्हणगन्धर्वः स्तुतिं कर्तुं समुद्यतः ॥ १,१२.६६ ॥ अथ गन्धर्वकृतस्तोत्रम् गन्धर्व उवाच वन्दे नवघनश्यामं पीतकौशेयवाससम् । सानन्दं सुन्दरं शुद्धं श्रीकृष्णं प्रकृतेः परम् ॥ १,१२.६७ ॥ राधेशं राधिकाप्राणवल्लभं वल्लवीसुतम् । राधासेवितपादाब्जं राधावक्षःस्थलस्थितम् ॥ १,१२.६८ ॥ राधानुरागं राधिकेष्टं राधापहृतमानसम् । राधाधरं भवाधारं सर्वाधारं नमामि तम् ॥ १,१२.६९ ॥ राधाहृत्पद्ममध्ये च वसन्तं सन्ततं शुभम् । राधासहचरं शश्वत्राधाज्ञापरिपालकम् ॥ १,१२.७० ॥ ध्यायन्ते योगिनो योगात्सिद्धाः सिद्धेश्वराश्च यम् । तं ध्याये सततं शुद्धं भगवन्तं सनातनम् ॥ १,१२.७१ ॥ सेवन्ते सन्ततं सन्तो ब्रह्मेशशेषसंज्ञकाः । सेवन्ते निर्गुणं ब्रह्म भगवन्तं सनातनम् ॥ १,१२.७२ ॥ निर्लिप्तं च निरीहं च परमात्मानमीश्वरम् । नित्यं सत्यं च परं भगवन्तं सनातनम् ॥ १,१२.७३ ॥ यं सृष्टेरादिभूतं च सर्वबीजं परात्परम् । योगिनस्तं प्रपद्यन्ते भगवन्तं सनातनम् ॥ १,१२.७४ ॥ बीजं नानावताराणां सर्वकारणकारणम् । वेदावेद्यं वेदबीजं वेदकारणकारणम् ॥ १,१२.७५ ॥ योगिनस्तं प्रपद्यन्ते भगवन्तं सनातनम् । इत्येवमुक्त्वा गन्धर्वः पपात धरणीतले ॥ १,१२.७६ ॥ ननाम दण्डवद्भूमौ देवदेवं परात्परम् । इति तेन कृतं स्तोत्रं यः पठेत्प्रयतः शुचिः ॥ १,१२.७७ ॥ इहैव जीवन्मुक्तश्च परे याति परां गतिम् । हरिभक्तिं हरेर्दास्यं गोलोके च निरामयः । पार्षदप्रवरत्वं च लभते नात्र संशयः ॥ १,१२.७८ ॥ इति श्रीनारदपञ्चरात्रे ज्ञानामृतसारे प्रथमैकरात्रे गन्धर्वकृतस्तोत्रं नाम द्वादशोऽध्यायः प्रथमैकरात्रे त्रयोदशोऽध्यायः श्रीशुक उवाच स्तोत्रान्तरे च काले च किं रहस्यं बभूव ह । तन्मे कथय भद्रं ते भगवन् भगवद्वचः ॥ १,१३.१ ॥ श्रीव्यास उवाच स्तोत्रान्तरे च काले च गन्धर्वश्चोपवर्हणः । उवाच ब्रह्मसंसदि भगवन्तं सनातनम् ॥ १,१३.२ ॥ सर्वैर्देवैरहं शप्तश्चाधुना देवहेतुना । देवानामग्निपुञ्जश्च प्रदीप्तश्च सुमेरुवत् ॥ १,१३.३ ॥ अधुना च त्वयि गते भस्मासान्मां करिष्यति । अतो रक्ष जगन्नाथ मां समुद्धर्तुमर्हसि ॥ १,१३.४ ॥ त्वद्अंशशूकरेणैव धरोद्धारः कृतः पुरा । हिरण्याख्यं महादैत्यं निहत्य चावलीलया ॥ १,१३.५ ॥ पाद्मपद्मार्चितपदे पद्मे ते शरणागतम् । मामनाथं भयाक्रान्तं रक्ष रक्ष सुरानलात् ॥ १,१३.६ ॥ गन्धर्वस्य वचः श्रुत्वा प्रहस्य जगद्ईश्वरः । उवाच श्लक्ष्णया वाचा ब्रह्मेशो ब्रह्मसंसदि ॥ १,१३.७ ॥ अथ गन्धर्वमोक्षणम् श्रीभगवानुवाच गन्धर्वराजप्रवर स्थिरो भव भयं त्यज । शुभाश्रयस्य भक्तस्य भयं किं ते मयि स्थिते ॥ १,१३.८ ॥ सर्वेभ्योऽपि भयं नास्ति मद्भक्तानामकर्मणाम् । जन्ममृत्युजराव्याधिभयं तेषां न विद्यते ॥ १,१३.९ ॥ मन्मन्त्रोपासकश्चैव स्वतन्त्रो नित्यविग्रहः । पुनर्न विद्यते जन्म मन्त्रग्रहणमात्रतः ॥ १,१३.१० ॥ नास्ति कालाद्भयं तस्य न निषेकाद्विधेरपि । मन्त्रग्रहणमात्रेण मुच्यते सर्वकर्मणः ॥ १,१३.११ ॥ मन्मन्त्रो हि देहात्पापं कोटिजन्मकृतं च यत् । सुदीप्तो ज्वलद्अग्निश्च तृणपुञ्जं देहाद्यथा ॥ १,१३.१२ ॥ मन्मन्त्रग्रहणाद्योगान्मन्नामग्रहणस्य वा । तेषां पापानि वेपन्ते कोटिजन्मकृतानि च ॥ १,१३.१३ ॥ यमस्तन्नामलिखनं दूरीभूतं करोति च । अन्ते दास्यं च लभते गत्वा गोलोकमुत्तमम् ॥ १,१३.१४ ॥ यावदायुर्भ्रमेत्तावत्स्वतन्त्रो मत्तकुञ्जरः । ततः पापाः फलायन्ते वैनतेयादिवोरगाः ॥ १,१३.१५ ॥ तेषां च पादरजसा सद्यः पूता वसुन्धरा । पुनाति सर्वतीर्थानि दूरतो दर्शनादपि ॥ १,१३.१६ ॥ पूतश्च पवनो वह्निर्जलं च तुलसीदलम् । पूतान्येव हि तीर्थानि गङ्गादीनि च गायन ॥ १,१३.१७ ॥ पूता सुशीला धर्मिष्ठा सुव्रता स्त्री पतिव्रता । मन्मन्त्रोपासकाश्चैव तेभ्यः पूतोत्तमाः सदा ॥ १,१३.१८ ॥ मन्त्रोपासकानां च तीर्थस्थानं व्रतं सुत । श्राद्धं दानं पूजनं च यथा चर्वितचर्वणम् ॥ १,१३.१९ ॥ भक्त्या तीर्थानि पूतानि स्वतः पूतो हि वैष्णवः । तत्तन्त्रं च तथा दानमलं श्राद्धं च निष्फलम् ॥ १,१३.२० ॥ श्राद्धस्य सम्प्रदानं च कर्तुश्च पुरुषत्रयम् । पुरुषाणां शतं मुक्तं को भुङ्क्ते श्राद्धवस्तु च ॥ १,१३.२१ ॥ केचिदेवं वदन्तीति पितृलोकार्थमेव च । तद्विरुद्धं च ते तुष्टा मन्त्रग्रहणमात्रतः ॥ १,१३.२२ ॥ तेषां शुभाशिषं कर्म नैव भोगाय कल्पते । देवान्न प्रभवेद्वत्स सिद्धधान्ये यथाङ्कुरः ॥ १,१३.२३ ॥ साक्षात्करोति तेषां च कर्ममूलनिकृन्तनम् । मन्त्रोपासकादन्ये कर्मभोगं च भुञ्जते ॥ १,१३.२४ ॥ मया स्वयं प्रदत्तश्च स्वमन्त्रः पुरुषाय च । परद्वाराद्ग्राहयित्वा भक्तं मुक्तं करोम्यहम् ॥ १,१३.२५ ॥ मया प्रदत्तमन्त्रश्च पुरा मृत्युञ्जयस्तथा । मृत्युञ्जयाय गोलोके शुद्धसत्त्वगुणाय च ॥ १,१३.२६ ॥ पुनः सनत्कुमाराय धर्माय ब्रह्मणे तथा । कपिलाय च शेषाय गणेशाय च महामते ॥ १,१३.२७ ॥ नारायणर्षये चैव धर्मपुत्राय धीमते । पुनर्महाविष्णवे च विश्वानि यस्य लोमसु ॥ १,१३.२८ ॥ कालाधिष्ठातृदेवाय तस्मै सर्वान्तकाय च । उपेन्द्राय च कामाय भृगवेऽङ्गिरसे तथा ॥ १,१३.२९ ॥ सरस्वत्यै च पद्मायै राधायै विरजातटे । शवित्र्यै विष्णुमायायै पार्षदेभ्यश्च पुत्रक ॥ १,१३.३० ॥ तुभ्यं न दत्तो मन्त्रोऽत्र श्रूयतां तन्निमित्तकम् । जनिष्यसि शूद्रयोनौ ब्रह्मणो वाक्यपालनात् ॥ १,१३.३१ ॥ इत्येवं कथितं सर्वं गच्छ वत्स यथा सुखम् । द्वादशाब्दान्तरे शूद्रयोनौ देवाज्जनिष्यसि ॥ १,१३.३२ ॥ पञ्चवर्षाभ्यन्तरे च मन्मन्त्रं प्राप्य विप्रतः । दशाब्दान्ते वपुस्त्यक्त्वा ब्रह्मपुत्रो भविष्यसि ॥ १,१३.३३ ॥ मन्मन्त्रं पुनरेवेति शम्भुवक्त्राल्लभिष्यसि । इत्येवमुक्त्वा सर्वात्मा तत्रैवान्तरधीयत ॥ १,१३.३४ ॥ गन्धर्वः प्रययौ तस्माद्योषिद्भिः सह पुत्रक । इत्येवं कथितं सर्वं पूर्ववृत्तान्तमेव च ॥ १,१३.३५ ॥ इति श्रीनारदपञ्चरात्रे ज्ञानामृतसारे प्रथमैकरात्रे गन्धर्वमोक्षणं नाम त्रयोदशोऽध्यायः प्रथमैकरात्रे चतुर्दशोऽध्यायः श्रीशुक उवाच प्रयाते राधिकानाथे गोलोकं च निरामयम् । बभूव किं रहस्यं च गते गन्धर्वपुङ्गवे ॥ १,१४.१ ॥ श्रीव्यास उवाच सर्वे देवाश्च मुनयः प्रयाते परमात्मनि । सर्वे बभूवुस्ते तूष्णीं वयांसीव दिनात्यये ॥ १,१४.२ ॥ उवाच शम्भुर्ब्रह्माणं नीतिसारविशारदम् । ज्ञानाधिदेवो भगवान् परिणामसुखं वचः ॥ १,१४.३ ॥ श्रीमहादेव उवाच रक्षिता यस्य भगवान् कल्याणं तस्य सन्ततम् । स यस्य विघ्नकर्ता च रक्षितुं तं च कः क्षमः ॥ १,१४.४ ॥ स्मृतिमात्रेण निर्विघ्ना ये च कृष्णपरायणः । विघ्नं कर्तुं के समर्थास्तेषां च मुनयः सुराः ॥ १,१४.५ ॥ कोपाग्निनां स्थलं कुत्र स्तम्भितानां च साम्प्रतम् । देवानां च मुनीनां च क्षणेनैवेश्वरेच्छया ॥ १,१४.६ ॥ यदि तिष्ठन्ति भूमौ च दग्धशस्या वसुन्धरा । जले यदि ततस्तप्तं नष्ठास्ते जलजन्तवः ॥ १,१४.७ ॥ स्थाले दहन्ति लोकांश्च वृक्षांश्च प्रलयाग्नयः । विधानं कर्तुमुचितमेषां च जगतां विधे ॥ १,१४.८ ॥ त्वमेव धाता जगतां पिता च विष्णुरीश्वरः । कालाग्निरुद्रः संहर्ता नेदानी प्रलयक्षमः ॥ १,१४.९ ॥ एते विषयिणः सर्वे कृष्णस्य परमात्मनः । आज्ञावहाश्च सततं दिक्पालाश्च दिग्ईश्वराः ॥ १,१४.१० ॥ तस्यैवाज्ञावहो धर्मः साक्षी च कर्मणां नृणाम् । भ्रमन्ति विषये शश्वन्मोहिता मायया हरेः ॥ १,१४.११ ॥ अहं न पाता न स्रष्टा न संहर्ता च जीवनाम् । निर्लिप्तोऽ हं तपस्वी च हरेराराधनोन्मुखः ॥ १,१४.१२ ॥ संहारविषयं मह्यं श्रीकृष्णश्च पुरा ददौ । दत्वा रुद्राय तदहं तपस्यासु रतो हरेः ॥ १,१४.१३ ॥ तद्अर्चनेन ध्यानेन तपसा पूजनेन च । स्तवेन कवचनेनैव नाममन्त्रजपेन च ॥ १,१४.१४ ॥ मृत्युञ्जयोऽ हमधुना न च कालाद्भयं मम । कालः संहरते सर्वं मां विना च तथेश्वरम् ॥ १,१४.१५ ॥ पुरा सर्वादिसर्गे च कस्यचित्स्रष्टुरेव च । भालोद्भवाश्च ते रुद्रास्तेष्वेकोऽ हं शङ्करः ॥ १,१४.१६ ॥ कल्पश्च ब्रह्मणः पाते लये प्राकृतिके तथा । सर्वे नष्टा विषयिणो न भक्ताश्च यथेश्वरः ॥ १,१४.१७ ॥ असंख्यब्रह्मणः पातः कल्पश्चासंख्य एव च । समतीतः कतिविधो भविता या पुनः पुनः ॥ १,१४.१८ ॥ श्रीकृष्णस्य निमेषेण ब्रह्मणः पतनं भवेत् । तत्र प्राकृतिकाः सर्वे तिरोभूताः पुनः पुनः ॥ १,१४.१९ ॥ न प्राकृतो न विषयी नित्यदेही च वैष्णवः । हरेर्वरेणामरोऽहं शिवाधारस्ततस्ततः ॥ १,१४.२० ॥ जलप्लुतं च विश्वौघं लये प्राकृतिके ध्रुवम् । आब्रह्मलोकपर्यन्तं परं कृष्णालयं विना ॥ १,१४.२१ ॥ सर्वा देव्यो विलीनाश्च कृष्णः सत्यं सुनिश्चितम् । सर्वे पुमांसो लीनाश्च सत्ये नित्ये सनातने ॥ १,१४.२२ ॥ अहं कृष्णश्च प्रकृतिः पार्षदप्रवरो हरेः । नित्यं नित्या विद्यमाना गोलोके च निरामये ॥ १,१४.२३ ॥ एक ईशो न द्वितीय इति सर्वादिसर्गतः । नहि नश्यन्ति तद्भक्ताः प्रकृतिप्राकृते लये ॥ १,१४.२४ ॥ तस्य भक्तोत्तमानां च सततं स्मरणेन च । आयुर्व्ययो नहि भवेत्कथं मृत्युर्भविष्यति ॥ १,१४.२५ ॥ न वासुदेवभक्तानामशुभं विद्यते क्वचित् । तेषां भक्तोत्तमानां च सततं स्मरणेन च ॥ १,१४.२६ ॥ जन्ममृत्युजराव्याधिभयं नाप्युपजायते । अत्र कल्पे भवान् ब्रह्मा व्यवस्थाता च कर्मसु ॥ १,१४.२७ ॥ स्थलं कोपानलानां च विधानं यद्विधे कुरु । शम्भोश्च वचनं श्रुत्वा कम्पितः कमलासनः । स्थलं चकार वह्नीनामाज्ञया शङ्करस्य च ॥ १,१४.२८ ॥ ब्रह्मोवच ज्वरस्त्रिपादस्त्रिशिराः षड्भुजो नवलोचनः । भस्मप्रहरणो रौद्रः कालान्तकयमोपमः ॥ १,१४.२९ ॥ भवे भवतु सर्वत्र भवकोपानलोऽधुना । प्राकृतेषु च देहेषु व्यापारोऽस्य मया कृतः ॥ १,१४.३० ॥ मम कोपानलः शम्भो संस्कृताग्निर्द्विजस्य च । भवे भवतु सर्वत्र व्यापारोऽस्य मया कृतः ॥ १,१४.३१ ॥ शेषस्य कोपवह्निश्च शेषास्येऽस्त्वधुना शिव । यतो विश्वं च प्रलये दहेद्गोमयपिण्डवत् ॥ १,१४.३२ ॥ वह्नेर्मुख्यानलो विश्वे व्यवहाराग्निरीश्वरः । भ्वत्वेव हि सर्वत्र सर्वेषामुपकारकः ॥ १,१४.३३ ॥ धर्मास्यकोपवह्निश्च कृष्णाग्निश्च भवत्वयम् । अधर्मं कुर्वतां सर्वं दाहनं च करिष्यति ॥ १,१४.३४ ॥ सूर्यकोपानलश्चायं दावाग्निश्च वनेषु च । स्थितिरस्य तरोः स्कन्धे तद्भक्ष्याः पशुपक्षिणः ॥ १,१४.३५ ॥ चन्द्रकोपानलो विश्वे कामिनां विरहानलः । दम्पत्योर्विरहे शश्वद्भक्ष्यति स्म द्वयोस्तनुम् ॥ १,१४.३६ ॥ इन्द्रकोपानलः सद्यो वज्राग्निश्च बभूव ह । उपेन्द्रस्यानलश्चैव विद्युदेव भ्वत्वयम् ॥ १,१४.३७ ॥ रुद्राणामास्यवह्निश्च महोल्काग्निर्भवत्वयम् । गणेशाग्निः पृथिव्यां तु यथास्थाने तु तिष्ठति ॥ १,१४.३८ ॥ यत्र तिष्ठेत्तदुषरमेवमेवं विदुर्बुधाः । स्कन्दकोपानलश्चैव रणास्त्राग्निर्बभूव ह ॥ १,१४.३९ ॥ कामेतराणां देवानां मुनीनां च मुखानलः । जग्राहौर्वमुनिस्तत्र तेजसि ब्रह्मणः सुतः ॥ १,१४.४० ॥ स्वदक्षिणोरौ स मुनिः संस्थाप्य वेदमन्त्रतः । ब्रह्मणं च नमस्कृत्य शङ्करं तपसे ययौ ॥ १,१४.४१ ॥ कालेन तस्मान्निःसृत्य समुद्रे वाडवानलः । स बभूव पुरा पुत्र परमौर्वानलः स्वयम् ॥ १,१४.४२ ॥ कामाग्निमुल्वणं दृष्ट्वा विचिन्त्य मनसा विधिः । समालोच्य सुरैः सार्धं मुनीन्द्रैः सह संसदि ॥ १,१४.४३ ॥ अजुहाव स्त्रियः सर्वाः सुव्रताश्च पतिव्रताः । आयुयुर्योषितः सर्वास्ता ऊचुः कमलोद्भवम् ॥ १,१४.४४ ॥ स्त्रिय ऊचुः किमस्मान् ब्रूहि भगवन् शाधि नः करवाम किम् । आलोच्य मनसा सर्वं देहि भारं वयं स्त्रियः ॥ १,१४.४५ ॥ ब्रह्मोवाच गृहीत्वा मदनाग्निं च मैथुने सुखदायकम् । विश्वे च योषितः सर्वाः शश्वत्कामा भवन्तु च ॥ १,१४.४६ ॥ ब्रह्मणश्च वचः श्रुत्वा कोपरक्तास्यलोचनः । तमूचुः योषितः सर्वा भयं त्यक्त्वा च संसदि ॥ १,१४.४७ ॥ स्त्रिय ऊचुः धिक्त्वां जगद्विधिं व्यर्थं चकार परमेश्वरः । अपूज्यो मोहिनीशापात्पुत्रशापेन साम्प्रतम् ॥ १,१४.४८ ॥ गृहीत्वा मदनाग्निं च पुरुषाश्च तथा स्त्रियः । नित्यं दहन्ति सततं वास्तवं दुःसहं परम् ॥ १,१४.४९ ॥ तद्एकभागः पुरुषे त्रिभागश्चापि योषिति । तेन दुग्धाः स्त्रियः सर्वाश्चास्माकमपरेण किम् ॥ १,१४.५० ॥ समर्पणं चेत्पुरुषे यद्यस्मासु स्मरानलः । भस्मीभूतं करिष्यामो रक्षिता को भवेत्तव ॥ १,१४.५१ ॥ पतिव्रतावचः श्रुत्वा तमुवाच शिवः स्वयम् । हितं सत्यं नितिसारं परिणामसुखावहम् ॥ १,१४.५२ ॥ अथ कुलटोत्पत्तिः श्रीमहादेव उवाच त्यज द्वन्द्वं महाभाग सुव्रताभिः सहाधुना । पतिव्रतानां तेजश्च सर्वेभ्यश्च परं भवेत् ॥ १,१४.५३ ॥ निर्माणं कुरु देवेन्द्र कृत्यां स्त्रीजातिमीश्वर । तस्यै देहि दुःखबीजं कामकोपानलं परम् ॥ १,१४.५४ ॥ शङ्करस्य वचः श्रुत्वा सत्वरं जगतां विधिः । ससृजे तत्क्षणं मूर्तिं स्त्रीरूपां सुमनोहरां ॥ १,१४.५५ ॥ अहो रूपमहो वेशमहो अस्या नवं वयः । अहो चक्षुः कटाक्षं च मुनीनां मोहयन्मनः ॥ १,१४.५६ ॥ अहो कठिनं चारु स्तनयुग्मं सुवर्तुलम् । विचित्रं कठिनं स्थूलं श्रोणियुग्मं च सुन्दरम् ॥ १,१४.५७ ॥ नितम्बयुग्मं वलितं चक्राकारं सुकोमलम् । श्वेतचम्पकवर्णाभं सर्वावयमीप्सितम् ॥ १,१४.५८ ॥ शरत्पार्वणकोटीन्दुविनिन्दास्यं सुशोभनम् । ईषद्धास्यप्रसन्नास्यं वस्त्रेणाच्छादितं मुदा ॥ १,१४.५९ ॥ वपुः सुकोमलं चालं नातिदीर्घं न वखरम् । वह्निशुद्धांशुकं रत्नभूषणैर्भूषितं सदा ॥ १,१४.६० ॥ दाडिम्बकुमुदाकारं सान्द्रं सिन्दूरसुन्दरम् । कस्तूरीविन्दुना सार्धं स्निग्धचन्दनविन्दुभिः ॥ १,१४.६१ ॥ पक्वबिम्बफलाकारमधरौष्ठपुटं परम् । दन्तपंक्तियुगं चैव दाडिम्बबीजसन्निभम् ॥ १,१४.६२ ॥ सुचारु कवरीभारं मालतीमाल्यमण्डितम् । तस्यै ददौ च कामाग्निं दृष्ट्वा तां कमलोद्भवः ॥ १,१४.६३ ॥ दृष्ट्वा सा चन्द्ररूपं च कामोन्मत्ता विचेतना । कृत्वा कटाक्षं स्मेराश्या मां भजस्वेत्युवाच सा ॥ १,१४.६४ ॥ सस्पितः प्रययौ चन्द्रो लज्जया च सभातलात् । कामं दृष्ट्वा च चकमे कामार्ता सा गतत्रपा ॥ १,१४.६५ ॥ दुद्राव कामस्तस्माच्च तत्पश्चात्सा दधाव च । जहसुर्देवताः सर्वा मुनयश्चापि संसदि ॥ १,१४.६६ ॥ लज्जिता योषितह्सर्वास्तां वारयितुमक्षमाः । सर्वे चक्रुः परीहासं स्त्रीवर्गं शङ्करादयः ॥ १,१४.६७ ॥ कामं न लब्ध्वा सा च स्त्री निवृत्यागत्य संसदि । तमश्विनीकुमारं चाप्युवाच सुरसन्निधौ ॥ १,१४.६८ ॥ कृत्याकामिन्युवाच मां भजस्व रवेः पुत्र प्रियां रसवतीं मुदा । शृङ्गारे सुखदां शान्तां परां कामातुरां वरां ॥ १,१४.६९ ॥ त्वया शार्धं भ्रमिष्यामि सुन्दरे गहने वने । रहसि रहसि क्रीडां करिष्यामि दिवानिशम् ॥ १,१४.७० ॥ मधुपानं च दास्यामि वासितं चामलं जलम् । सकर्पूरं च ताम्बूलं भोगवस्तु मनोहरम् ॥ १,१४.७१ ॥ शय्यां मनोरमां कृत्वा सपुष्पचन्दनार्चिताम् । भगवन्तं करिष्यामि पुष्पचन्दनचर्चितम् ॥ १,१४.७२ ॥ कुमार उवाच वचनं वद वामे मामात्मनो हृदयङ्गम । विहाय कपटं कान्ते कपटं धर्मनाशनम् ॥ १,१४.७३ ॥ स्त्रीधर्मं स्त्रीमनस्कामं स्त्रीस्वभावं च कीदृशम् । तद्आचारं कतिविधं तन्मां व्याख्यातुमर्हसि ॥ १,१४.७४ ॥ अश्विनीजवचः श्रुत्वा कामार्ता तमुवाच सा । कामार्तानां क्व लज्जा च क्व भयं मानमेव च ॥ १,१४.७५ ॥ अथ कुलटास्वभावकथनम् कामिन्युवाच स्थानं नास्ति क्षणं नास्ति नास्ति दूती तदुत्तमा । तेनैव युवतीनां च सतीत्वमुपजायते ॥ १,१४.७६ ॥ सुवेशं कामुकं दृष्ट्वा कामिनी मदनातुरा । तद्रात्रं च पुलकितं योनौ कण्डूयनं परं ॥ १,१४.७७ ॥ विचेतना भवेत्सा च कामज्वरप्रपीडिता । सर्वं त्यजति तद्धेतोः पुत्रं कान्तं गृहं धनम् ॥ १,१४.७८। ॥ लब्ध्वा युवानं पुरुषं देशत्यागं करोति सा । तद्उत्तमं पुनर्लब्ध्वा तं त्यजेत्सा क्षणेन च ॥ १,१४.७९ ॥ विषं दातुं समर्था सा स्वामिनं गुणिनां वरम् । म्लेच्छं युवानं सम्प्राप्य सर्वस्वं दातुमुत्सुका ॥ १,१४.८० ॥ त्यजेत्कुलभयं लज्जां धर्मं बन्धुं यशः श्रियम् । सम्प्राप्य रतिशूरं च युवानं सुरतोन्मुखम् ॥ १,१४.८१ ॥ सुदृश्यं सुन्दरमुखं शश्वन्मधुरितं वचः । हृदयं क्षुरधाराभं को वा जानाति तन्मनः ॥ १,१४.८२ ॥ विद्युच्छटा जले रेखा चास्थिरा च यथाम्बरे । तथास्थिरा च कुलटाप्रीतिः स्वप्नं च तद्वचः ॥ १,१४.८३ ॥ कुलटानां न सत्यं च न च धर्मो भयं दया । न लौकिकं न लज्जा स्याज्जारजिन्ता निरन्तरम् ॥ १,१४.८४ ॥ स्वप्ने जागरणे चैव भोजने शयने सदा । निरन्तरं कामचिन्ता जारे स्नेहो न चान्यतः ॥ १,१४.८५ ॥ कुलटा नरघातिभ्यो निर्दया दुष्टमानसाः । जारार्थे च सुतं हन्ति बान्धवस्य च का कथा ॥ १,१४.८६ ॥ न हि वेदा विदन्त्येवं कुलताहृदयङ्गमम् । कथं देवास्च मुनयः सन्तो जानन्ति निश्चयम् ॥ १,१४.८७ ॥ रतिशूरं प्रियं दृष्ट्वा क्षीरं घृतमिवाचरेत् । गते वयसि जीर्णं तं विषं दृष्ट्वा त्यजेत्क्षणात् ॥ १,१४.८८ ॥ न विश्वसेयुस्तां दुष्टो तस्मात्सन्तो हि सन्ततं । न रिपुः पुरुषाणां च दुष्टस्त्रीभ्यः परो भुवि ॥ १,१४.८९ ॥ विषं मन्त्रादुपशमं जलाद्वह्निश्च निश्चितं । अग्नेश्च कण्ठकोच्छन्नं दुर्जनः स्तवनाद्वशः ॥ १,१४.९० ॥ लुब्धो धनेन राजा च सेवया सततं वशः । मिश्रं स्वच्छस्वभावेन भयेन च रिपुर्वशः ॥ १,१४.९१ ॥ आदरेण वशो विप्रो यौवती प्रेमभारतः । बन्धुर्वशः समतया गुरुः प्रणतिभिः सदा ॥ १,१४.९२ ॥ मूर्खो वशः कथायां च विद्वान् विद्याविचारतः । न हि दुष्टा च कुलटा पुंसश्च वशगा भवेत् ॥ १,१४.९३ ॥ स्वकार्ये तत्परा शश्वत्प्रीतिः कार्यानुरोधतः । न सर्वस्य वशीभूता विना शृङ्गारमुल्वणम् ॥ १,१४.९४ ॥ न प्रीत्या न धनेनैव न स्तवान्न सेवया । न प्राणदानतो वेश्या वशीभूता भवेत्क्षणम् ॥ १,१४.९५ ॥ आहारो द्विगुणस्तासां बुद्धिस्तासां चतुर्गुणा । षड्गुणा मन्त्रणा तासां कामश्चाष्टगुनः स्मृतः ॥ १,१४.९६ ॥ शश्वत्कामा च कुलटा न च तृप्तिश्च क्रीडया । हविषा कृष्णवर्त्मेव भूय एवाभिवर्धते ॥ १,१४.९७ ॥ दिवानिशं च शृङ्गारं कुरुते तत्पुमान् यदि । न तृप्तिः कुलटानां च पुमांसं ग्रस्तुमिच्छति ॥ १,१४.९८ ॥ नाग्निस्तृप्यति काष्ठानां नापगानां महोदधिः । नान्तकः सर्वभूतानां नासां तृप्यति सम्पदाम् ॥ १,१४.९९ ॥ न श्रेयसां मनस्तृप्तं वाडवाग्निर्न पाथसाम् । वसुन्धरा न रजसां न पुंसां कुलटा तथा ॥ १,१४.१०० ॥ इत्येवं कथितं किंचित् सर्वं वक्तुं च नोचितम् । लज्जा बीजं योषितां च निबोध भास्करात्मज ॥ १,१४.१०१ ॥ श्रुत्वा च कृत्यास्त्रीवाक्यं जहसुर्मुनयः सुराः । चुकुपुर्योषितः सर्वाः पद्माद्या लज्जिताः सुत ॥ १,१४.१०२ ॥ लज्जानतानना लक्ष्मीर्निर्ययौ देवमण्डलात् । तत्पश्चात्पार्वती सार्धं सरस्वत्या नतानना ॥ १,१४.१०३ ॥ सावित्री रोहिनी स्वाहा वारुणी च रतिः शची । सर्वा बभूवुरेकत्र प्रचक्रुर्मन्त्रणां च ताः ॥ १,१४.१०४ ॥ कृत्यास्त्रियः समाहूय ता ऊचुश्च क्रमेण च । रोधयामासुरिष्टां तां सुगोप्यामपि योषितः ॥ १,१४.१०५ ॥ तस्या मुखे ददौ हस्तं सुशीला कमलालया । सलज्जिता भव सुते शान्ता चेति शुभाशिषम् ॥ १,१४.१०६ ॥ सरस्वती ददौ तस्यै चाभिमानं च धैर्यताम् । मौखर्यं वावदूकत्वं मन्त्रणामात्मरक्षणम् ॥ १,१४.१०७ ॥ सावित्री च ददौ तस्यै सौशील्यं चातिदुर्लभम् । आत्मसंगोपनं चैव गाम्भीर्यं कुलतो भयम् ॥ १,१४.१०८ ॥ पार्वत्युवाच धिक्त्वां स्वभावकुलटां लज्जिता भव सुन्दरि । स्वमानं गौरवं रक्ष ह्यस्माकं च स्मरातुर ॥ १,१४.१०९ ॥ जनि लभ पृथिव्यां च कायव्यूहं विधाय च । पुंसामष्टगुणं कामं लभस्व च पृथक्प्रृथक् ॥ १,१४.११० ॥ लज्जां चतुर्गुणां चापि द्विगुणां धैर्यतां तथा । अभोगेच्छधमे गच्छ दूरं गच्छ ममान्तिकात् ॥ १,१४.१११ ॥ पुंसां च द्विगुणः कामो वास्तवीणां च योषिताम् । लज्जा चाष्टगुणा चापि धैर्यता च चतुर्गुणा ॥ १,१४.११२ ॥ कुलधर्मः कुलभयं सौशील्यं मानमूर्जितम् । शश्वत्तिष्ठतु पुंस्येव स्त्रीषु च ममाज्ञया ॥ १,१४.११३ ॥ यस्मात्सदसि सर्वेभ्यो लज्जाहीनः सुराधमः । स्त्रीस्वभावं च पप्रच्छ यज्ञभाक्न भवेत्ततः ॥ १,१४.११४ ॥ अद्यप्रभृति विश्वेषु नाग्राह्यं पापसंयुतम् । चिकित्सकानां विदुषां न भक्ष्य ममाज्ञया ॥ १,१४.११५ ॥ इत्येवमुक्त्वा प्रययुर्देव्यश्च सर्वयोषितः । देवाश्च मुनयश्चापि ये चान्ये च समागतः ॥ १,१४.११६ ॥ देवाश्च मुनयश्चापि ये चान्ये सर्वतः सुत । पतिव्रताणां स्त्रीणां च लज्जा बीजस्वरूपिणी ॥ १,१४.११७ ॥ इति श्रीनारदपञ्चरात्रे ज्ञाणामृतसारे प्रथमैकरात्रे कुलटोत्त्पतिर्नाम चतुर्दशोऽध्यायः प्रथमैकरात्रे पञ्चदशोऽध्यायः गते नियमिते काले गन्धर्वश्चोपवर्हणः । स्वयोगेन जहौ देहं भारते प्राक्तनादहो ॥ १,१५.१ ॥ स जज्ञे शुद्रयोनौ च पितुः शापेन च दैवतः । विष्णुप्रसादं भुक्त्वा च बभूव ब्रह्मणः सुतः ॥ १,१५.२ ॥ विमुक्तस्तातशापेन सम्प्राप्य ज्ञानमुत्तमम् । प्रतिजन्मस्मृतिस्तस्य कृष्णमन्त्रप्रसादतः ॥ १,१५.३ ॥ पितुः सकाशादागत्य सम्प्राप चन्द्रशेखरात् । श्रीकृष्णमन्त्रमतुलं स्वर्गमन्दाकिनीतटे ॥ १,१५.४ ॥ स्वर्गमन्दाकिनीतीराद्गुरुणा शङ्करेण च । सहितः प्रययौ तूर्णं पार्वतीसन्निधानतः ॥ १,१५.५ ॥ उवास तत्र शम्भुश्च नारदश्च महामुनिः । पार्वती भद्रकाली स्कन्दो गणपतिः स्वयम् ॥ १,१५.६ ॥ महाकालश्च नन्दी च वीरभद्रः प्रतापवान् । सिद्धा महर्षयश्च मुनयः सन्कादयः ॥ १,१५.७ ॥ योगीन्द्रा ज्ञानिनः सर्वे समूचुः शम्भुसंसदि । यत्स्तोत्रं कवचं ध्यानं सुभद्राय च कानने ॥ १,१५.८ ॥ नारायणर्षिभगवान् ब्राह्मणाय ददौ पुरा । पूजाविधानं यद्यच्च पुरश्चरणपूर्वकम् ॥ १,१५.९ ॥ तदेव भगवान् शम्भुः प्रददौ नारदाय च । उवाच शम्भुं देवर्षिर्योगिनां च गुरोर्गुरुम् । पार्वतीसन्निधौ तत्र नारदश्च महामुनिः ॥ १,१५.१० ॥ भगवन् सर्वधर्मज्ञ सर्वज्ञ सर्वकारण । सद्यत्पृष्टं मया पूर्वं तन्मां व्याख्यातुमर्हसि ॥ १,१५.११ ॥ यद्यत्पृष्टं त्वया ब्रह्मन् प्रत्येकं च क्रमेण च । पुनः प्रश्नं कुरु मुने शृण्वन्तु मत्सभासदः ॥ १,१५.१२ ॥ आध्यात्मिकं च यज्ज्ञानं वेदानां सारमुत्तमम् । ज्ञानं ज्ञानिषु सारं यत्कृष्णभक्तिप्रदं शुभं ॥ १,१५.१३ ॥ निर्वाणमुक्तिदं ज्ञानं कर्ममूलनिकृन्तनम् । तत्सिद्धियोगान्मुक्तिश्च योगिनामपि वाञ्च्छितम् ॥ १,१५.१४ ॥ संसारविषयं ज्ञानं शश्वत्सम्मोहवेष्टितम् । आश्रमाणां समाचारं तेषां धर्मपरिष्कृतम् ॥ १,१५.१५ ॥ चतुर्णां वर्णनां विधानां महेश्वर । भिक्षूणां वैष्णवानां च यतीनां ब्रह्मचारिणाम् ॥ १,१५.१६ ॥ वानप्रस्थाश्रमाणां च पण्डितानां तथैव च । पतिव्रतानां यद्यच्च श्रीकृष्णपूजनं च यत् ॥ १,१५.१७ ॥ यत्स्तोत्रं कवचं मन्त्रं पुरश्चरणमीप्सितम् । सार्वाह्निकमभीष्टं च विपाकं कर्मजीविनाम् ॥ १,१५.१८ ॥ संसारवासनाबद्धं लक्षणं प्रकृतीशयोः । तयोः परं वा यद्ब्रह्म तस्यावतारवर्णनम् ॥ १,१५.१९ ॥ कस्तत्कलावतीर्णश्च कस्तद्अंशश्तथैव च । परिपूर्णतमः कश्च कः पूर्णः कः कलांशकः ॥ १,१५.२० ॥ कस्य वाराधने शम्भो किं फलं किं यशस्तथा । अङ्गाङ्गिनोर्भेदफलं विस्तीर्णं निरपेक्षकम् ॥ १,१५.२१ ॥ नारायणर्षिकवचं सुभद्रब्राह्मणाय च । यद्दत्तं किं तद्देवेश तद्आराध्यश्च कः सुरः ॥ १,१५.२२ ॥ अतिसंगोपनीयं च कवचं परमाद्भुतम् । सुदुर्लभं च विश्वेषु नोक्तं मां ब्रह्मणा पुरा ॥ १,१५.२३ ॥ सनत्कुमारो जानाति नोक्तं तेन पुरा च माम् । मया ज्ञानमनापृष्टं यद्यज्जानासि मङ्गलम् ॥ १,१५.२४ ॥ वेदसारमनुपमं कर्ममूलनिकृन्तनम् । तन्मे कथय भद्रेश मामेवानुग्रहं कुरु ॥ १,१५.२५ ॥ अपूर्वं राधिकाख्यानं वेदेषु च सुदुर्लभम् । पुराणेष्वितिहासे च वेदाङ्गेषु सुदुर्लभम् ॥ १,१५.२६ ॥ गुरोश्च ज्ञानोदिगरणात्ज्ञानं स्यान्मन्त्रतन्त्रयोः । तत्तन्तं स च मन्त्रः स्यात्कृष्णभक्तिर्यतो भवेत् ॥ १,१५.२७ ॥ ज्ञानं स्याद्विदुषां किंचिद्वेदव्याख्यानतः प्रभो । वेदकारणपूज्यश्त्वं ज्ञानाधिष्ठातृदेवता ॥ १,१५.२८ ॥ तस्माद्भवान् परं ज्ञानं वद वेदविदां वर । मां भक्तमनुरक्तं च शरणागतमीश्वर ॥ १,१५.२९ ॥ नारदस्य वचः श्रुत्वा योगिनां च गुरोर्गुरुः । भगवत्या सहालोच्य ज्ञानं वक्तुं समुद्यतः ॥ १,१५.३० ॥ इत्येवं कथितं सर्वं पूर्वाख्यानं मनोहरम् । हरिभक्तिप्रदं सर्वं कर्ममूलनिकृन्तनम् ॥ १,१५.३१ ॥ इति श्रीनारदपञ्चरात्रे ज्ञानामृतसारे प्रथमैकरात्रे पञ्चदशोऽध्यायः समाप्तश्चेदं नारदपञ्चरात्रैकरात्रम्