श्रीभागवतसन्दर्भे प्रथमः तत्त्वसन्दर्भः श्रीकृष्णो जयति । कृष्णवर्णं त्विषाकृष्णं साङ्गोपाङ्गास्त्रपार्षदम् । यज्ञैः सङ्कीर्तनप्रायैर्यजन्ति हि सुमेधसः ॥१॥ [भागवतम् ११.५.३२] बलदेव विद्याभूषण : श्रीकृष्णो जयति । भक्त्याभासेनापि तोषं दधाने धर्माध्यक्षे विश्वनिस्तारिनाम्नि । नित्यानन्दाद्वैतचैतन्यरूपे तत्त्वे तस्मिन्नित्यमास्तां रतिर्नः ॥ मायावादं यस्तमःस्तोमम् उच्चैर्नाशं निन्ये वेदवाग्अंशुजालैः । भक्तिर्विष्णोर्दर्शिता येन लोके जीयात्सोऽयं भानुरानन्दतीर्थः ॥ गोविन्दाभिधमिन्दिराश्रितपदं हस्तस्थरत्नादिवत् । तत्त्वं तत्त्वविदुत्तमौ क्षितितले यौ दर्शयाञ्चक्रतुः ॥ मायावादमहान्धकारपटलीसत्पुष्पवन्तौ सदा तौ श्रीरूपसनातनौ विरचिताश्चर्यौ सुवर्यौ स्तुमः ॥ यः साङ्ख्यपङ्केन कुतर्कपांशुना विवर्तगर्तेन च लुप्तदीधितिम् । शुद्धं व्यधाद्वाक्सुधया महेश्वरं कृष्णं स जीवः प्रभुरस्तु नो गतिः ॥ आलस्या अप्रवृत्तिः स्यात्पुंसां यद्ग्रन्थविस्तरे । अतोऽत्र गूढे सन्दर्भे टिप्पन्यल्पा प्रकाश्यते ॥ श्रीमज्जीवेन ये पाठाः सन्दर्भेऽस्मिन् परिष्कृताः । व्याख्यायन्ते त एवामी नान्ये ये तेन हेलिताः ॥ श्रीबादरायणो भगवान् व्यासो ब्रह्मसूत्राणि प्रकाश्य तद्भाष्यभूतं श्रीभागवतमाविर्भाव्य शुकं तद्अध्यापितवान् । तद्अर्थं निर्णेतु कामः श्रीजीवः प्रत्यूहकुलाचलकुलिशं वाञ्छितपीयूषबलाहक स्वेष्टवस्तुनिर्देशं मङ्गलमाचरति कृष्णेति । निमिनृपतिना पृष्टः कर भाजनो योगी सत्यादियुगावतारानुक्त्वाऽथ कलावपि तथा शृणु इति तम् अवधाप्याह कृष्णवर्णमिति । सुमेधसो जनाः कलावपि हरिं भजन्ति । कैः । इत्याह सङ्कीर्तनप्रायैर्यज्ञैः अर्चनैरिति । कीदृशं तम् । इत्याह कृष्णो वर्णो रूपं यस्यान्तरिति शेषः । त्विषा कान्त्या त्वकृष्णम् । शुक्लो रक्तस्तथा पीतः इदानीं कृष्णतां गतः [भागवतम् १०.८.१३] इति गर्गोक्तिपारिशेष्य विद्युद्गौरमित्यर्थः । अङ्गे नित्यानन्दाद्वैतौ । उपाङ्गानि श्रीवासादयः । अस्त्राणि अविद्याच्छेत्तृत्वाद्भगवन्नामानि । पार्षदाङ् गदाधरगोविन्दायः । तैः सहितमिति महाबलित्वं व्यज्यते । गर्गवाक्ये पीत इति प्राचीनतद्अवतारापेक्षया । अयमवतारः श्वेतवराहकल्प गताष्टविंशवैवस्वतमन्वन्तरीयकलौ बोध्यः । तत्रत्ये श्रीचैतन्य एवोक्तधर्मदर्शनात् । अन्येषु कलिष्क्वचिच्छ्यामत्वेन क्वैच्च्चुक पत्राभत्वेन व्यक्तेरुक्तेः । छन्नः कलौ यदभवः [भागवतम् ७.९.३८] इति शुक्लो रक्तस्तथा पीतः [भागवतम् १०.८.१३] इति । कलावपि तथा शृणु [भागवतम् ११.५.३१] इति च । ये विमृशन्ति ते सुमेधसः । छन्नत्वं च प्रेयसीत्विषावृतत्वं बोध्यम् । अङ्काः पूर्वाङ्कतोऽत्रान्ये टिप्पनीक्रमबोधकाः । द्विबिन्दवस्ते विज्ञेया विषयाङ्कारस्त्वबिन्दवः । अत्र ग्रन्थे स्कन्धाध्यायसूचका युग्माङ्का ग्रन्थकृतां सन्ति । तेभ्योऽन्ये ये टिप्पनीक्रमबोधायास्माभिः कल्पितास् ते द्विबिन्दुमस्तकाः । विषयवाक्येभ्यः परे येऽङ्कास्ते त्वबिन्दुमस्तका बोध्याः ॥१॥ अन्तःकृष्णं बहिर्गौरं दर्शिताङ्गादिवैभवम् । कलौ सङ्कीर्तनाद्यैः स्मः कृष्णचैतन्यमाश्रिताः ॥२॥ बलदेव विद्याभूषण : कृष्णवर्णपद्यव्याख्याव्याजेन तद्अर्थमाश्रयति अन्तरिति । स्फुटार्थः ॥२॥ जयतां मथुराभूमौ श्रीलरूपसनातनौ । यौ विलेखयतस्तत्त्वं ज्ञापकौ पुस्तिकामिमाम् ॥३॥ बलदेव विद्याभूषण : अथाशीर्नमस्काररूपं मङ्गलमाचरति जयतामिति । श्रीलौ ज्ञान वैराग्यतपःसम्पत्तिमन्तौ रूपसनातनौ मे गुरुपरमगुरू जयतः निजोत्कर्षं प्रकटयताम् । मथुराभूमाविति । तत्र तयोरध्यक्षता व्यज्यते । तयोर्जयोऽस्त्वित्याशास्यते । जयतिर् अत्र तदितरसर्वसद्वृन्दोत्कर्षवचनः । तद्उत्कर्षाश्रयत्वात्तयोस्तत् सर्वनमस्यत्वमाक्षिप्यते । तत्सर्वान्तःपातित्वात्स्वस्य तौ नमयाविति च व्यज्यते । तौ कीदृशावित्याह । याविमां सम्दर्भाख्यां पुस्तिकां विलेखयतस्तस्या लिखने मां प्रवर्तयतः । बुद्धौ सिद्धत्वातिमामित्य् उक्तिः । तत्त्वं ज्ञापकौ तत्त्वं वाद्यप्रभेदे स्यात्स्वरूपे परमात्मनि इति विश्वकोषात् । परेशं सपरिकरं ज्ञापयिष्यन्तावित्यर्थः । कर्तरि भविष्यति ण्वुल्षष्ठीनिषेधस्तु अकेनोर्भविष्यदाधमर्णयोः (पाणिनि २.३.७०) इति सूत्रात् ॥३॥ कोऽपि तद्बान्धवो भट्टो दक्षिणद्विजवंशजः । विविच्य व्यलिखद्ग्रन्थं लिखिताद्वृद्धवैष्णवैः ॥४॥ बलदेव विद्याभूषण : ग्रन्थस्य पुरातनत्वं स्वपरिष्कृतत्वं चाह कोऽपीति । तद्बान्धवस् तयो रूप=सनातनयोर्बन्धुर्गोपालभट्ट इत्यर्थः । वृद्धवैष्णवैः श्रीमध्वादिभिर्लिखिताद्ग्रन्थात्तं विविच्य विचार्य सारं गृहीत्वा ग्रन्थमिमं व्यलिखत् ॥४॥ तस्याद्यं ग्रन्थनालेखं क्रान्तमुत्क्रान्तखण्डितम् । पर्यालोच्याथ पर्यायं कृत्वा लिखति जीवकः ॥५॥ बलदेव विद्याभूषण : तस्य भट्टस्य आद्यं पुरातनं ग्रन्थनालेखं पर्यालोच्य जीवको मल्लक्षणः पर्यायं कृत्वा क्रमं निबध्य लिखति । ग्रन्थ सन्दर्भे चौरादिकः । ततो ण्यासश्रन्थ (पाणिनि ३.३.१०७) इति कर्मणि युच्ग्रन्थना ग्रन्थः । तस्य लेखं लिखनं, भावे घञ् । तं लेखं कीदृशमित्याह क्रान्तं क्रमेण स्थितम् । व्युत्क्रान्तं व्युत्क्रमेण स्थितम् । खण्डितं छिन्नमिति स्वश्रमस्य सार्थक्यम् ॥५॥ यः श्रीकृष्णपदाम्भोजभजनैकाभिलाषवान् । तेनैव दृश्यतामेतदन्यस्मै शपथोऽर्पितः ॥६॥ बलदेव विद्याभूषण : ग्रन्थस्य रहस्यत्वमाह यः श्रीति । कृष्णपारतम्येऽन्येनानादृते तस्यामङ्गलं स्यादिति । तन्मङ्गलायैतत् । न तु ग्रन्थावद्यभयात् । तस्य सुव्युत्पन्नैर्निरवद्यत्वेन परीक्षितत्वात् ॥६॥ अथ नत्वा मन्त्रगुरून् गुरून् भागवतार्थदान् । श्रीभागवतसन्दर्भं सन्दर्भं वश्मि लेखितुम् ॥७॥ बलदेव विद्याभूषण : अथेति गूढस्य प्रकाशश्च सारोक्तिः श्रेस्ठा तथा । नानार्थवत्त्वं वेद्यत्वं सन्दर्भः कथ्यते बुधैः । इत्यभियुक्तोक्तलक्सणं सन्दर्भं लेखितुं वश्मि वाञ्छामि । श्रीभागवतं सन्दृभ्यते ग्रथ्यतेऽत्रेति । हलश् च (पाणिनि ३.३.२१) इत्यधिकरणे घञ् ॥७॥ यस्य ब्रह्मेति संज्ञां क्वचिदपि निगमे याति चिन्मात्रसत्ताप्य् अंशो यस्यांशकैः स्वैर्विभवति वशयन्नेव मायां पुमांश्च । एकं यस्यैव रूपं विलसति परमव्योम्नि नारायणाख्यं स श्रीकृष्णो विधत्तां स्वयमिह भगवान् प्रेम तत्पादभाजाम् ॥८॥ बलदेव विद्याभूषण : अथ श्रोतृरुच्य्उत्पत्तये ग्रन्थस्य विषयादीननुबन्धान् सङ्क्षेपेण तावदाह यस्येति । स स्वयं भगवान् श्रीकृष्णः । इह जगति तत्पाद भाजां तच्चरणपद्मसेविनां स्वविषयकं प्रेम विधत्तामर्पयतु । स कः । इत्याह यस्य स्वरूपानुबन्ध्याकृतिगुणविभूतिविशिष्टस्यैव श्री कृष्णस्य । चिन्मात्रसत्ता अनभिव्यक्ततत्तद्विशेषा ज्ञानरूपा विद्यमानता । क्वचिदपि निगमे कस्मिंश्चित्सत्यं ज्ञानमनन्तं ब्रह्म (टैत्तू २.१.१) अस्तीत्येवोपलब्धव्यः (Kअठू २.३.१३) इत्यादिरूपे श्रुति खण्डे ब्रह्मेति संज्ञां याति । तादृशतया चिन्तयतां तथा प्रतीतमासीदित्य् अर्थः । भक्तिभावितमनसां तु व्यञ्जिततत्तद्विशेषा सैव पुरुषत्वेन प्रतीता भवतीति बोध्यम् । सत्यं ज्ञानमित्युपक्रान्तस्यैवानन्दमय पुरुषत्वेन निरूपणात् । अत एवमुक्तं जितं ते स्तोत्रे न ते रूपं न चाकारो नायुधानि न चास्पदम् । तथापि पुरुषाकारो भक्तानां त्वं प्रकाशते ॥ इति । स चैवं प्राचीनाङ्गीकृतमिति वाच्यम् । उक्तरीत्या तस्याप्य् अनभीष्टत्वाभावात् । यस्य कृष्णस्यांशः पुमान्मायां वशयन्नेव स्वैर् अंशकैर्विभवति । कारणार्णवशायी सहस्रशीर्षा पुरुषः सङ्कर्षणः कृष्णांशः प्रकृतेर्भर्ता । तां वशे स्थापयन्नेव स्ववीक्षणक्षुब्धया तयाण्डानि सृष्ट्वा, तेषां गर्भेष्वम्बुभिरर्धपूर्णेषु सहस्रशीर्षा प्रद्युम्नः सन् स्वैरंशकैः मत्स्यादिभिः । विभवति विभवसंज्ञकान् लीलावतारान् प्रकटयतीत्यर्थः । यस्यैव कृष्णस्य नारायणाख्यमेकं मुख्यं रूपम् । आवरणाष्टकाद्बहिःष्ठे परमव्योम्नि विलसति स नारायणो यय विलास इत्यर्थः । अनन्यापेक्षिरूपः स्वयं भगवान् प्रायस् तत्समगुणविभूतिराकृत्यादिभिरन्यादृक्तु विलास इति सर्वमेतच् चतुर्थसन्दर्भे विस्फुटीभविष्यद्वीक्षणीयम् ॥८॥ अथैवं सूचितानां श्रीकृष्णतद्वाच्यवाचकतालक्षणसम्बन्धतद् भजनलक्षणविधेयसपर्यायाभिधेयतत्प्रेमलक्षण प्रयोजनाख्यानामर्थानां निर्णयाय तावत्प्रमाणं निर्णीयते । तत्र पुरुषस्य भ्रमादिदोषचतुष्टयदुष्टत्वात्सुतरामलौकिकाचिन्त्य स्वभाववस्तुस्पर्शायोग्यत्वाच्च तत्प्रत्यक्षादीन्यपि सदोषाणि ॥९॥ बलदेव विद्याभूषण :अथैवमिति । सूचितानां व्यञ्जितानां चतुर्णामित्यर्थः । श्रीकृष्णश्च ग्रन्थस्य विषयः । तद्वाच्यवाचकलक्षणश्च सम्बन्धः । तद्भजनं तच्छ्रवणकीर्तनादितल्लक्षणं यद्विधेयं तत्सपर्यायां यद् अभिधेयं तच्च । तत्प्रेमलक्षणं प्रयोजनं च पुरुषार्थस्तद् आख्यानाम् । एकवाच्यवाचकतवं पर्यायत्वम् । समानः पर्यायोऽस्येति सपर्यायः । समानार्तह्कसहशब्देन समासादस्वपदविग्रहो बहु व्रीहिः । वोपसर्जनस्य इति सूत्रात्(पाणिनि ६.३.८२) सहस्य सादेशः । सहशब्दस्तु साकल्पयौगपद्यसमृद्धिषु । सादृश्ये विद्यमाने च सम्बन्धे च सह स्मृतम् ॥ इति श्रीधरः । तत्रेति पुरुषस्य व्यावहारिकस्य व्युत्पन्नस्यापि भ्रमादिदोषग्रस्तत्वात् तादृक्पारमार्थैकवस्तुस्पर्शानर्हत्वाच्च तत्प्रत्यक्षादीनि च सदोषाणीइति योज्यम् । भ्रमः प्रमादो विप्रलिप्सा करणापटवं चेति जीवे चत्वारो दोषाः । तेष्वतस्मिंस्तद्बुद्धिर्भ्रमः । येन स्थाणौ पुरुष बुद्धिः । अनवधानतान्यचित्ततालक्षणः प्रमादः । येनान्तिके गीयमानं गानं न गृह्यते । वञ्चनेच्छा विप्रलिप्सा । ययाऽशिष्ये स्वज्ञातोऽप्यर्थो न प्रकाश्यते । इन्द्रियमान्द्यं करणापटवम् । येन दत्तमनसापि यथावत् वस्तु न परिचीयते । एते प्रमातृजीवदोषाः । पर्माणेषु सञ्चरन्ति । तेषु भ्रमादित्रयं प्रत्यक्षे, तन्मूलकेऽनुमाने च । विप्रलिप्सा तु शब्द इति बोध्यम् । प्रत्यक्षादीन्यष्टौ भवन्ति प्रमाणानि । तत्रार्थसन्निकृष्टं चक्षुरादीन्द्रियं प्रत्यक्षम् । अनुमितिकरणमनुमानम् (टर्क सङ्ग्रह) अग्न्यादिज्ञानमनुमितिः, तत्करणं धूमादिज्ञानम् । आप्त वाक्यं शब्दः (इबिद्.) । उपमितिकरणमुपमानम् (इबिद्.) गोसदृशो गवय इत्यादौ । संज्ञासंज्ञिसम्बन्धज्ञानमुपमितिः (इबिद्.) तत्करणं सादृश्यज्ञानम् । असैध्यद्अर्थदृष्ट्या साधकान्यार्थकल्पनमर्थापत्तिः । यया दिवाभुञ्जाने पीनत्वं रात्रिभोजनं कल्पयित्वा साध्यते । अभाव ग्राहिकानुपलब्धिः । भूतले घटानुपलब्ध्या यथा घटाभावो गृह्यते । सहस्रे शतं सम्भवेदिति बुद्धौ सम्भावना सम्भवः । अज्ञात वक्तृकं परम्पराप्रसिद्धमैतिह्यम् । यथेह तरौ यक्षोऽस्ति । इत्येवम् अष्टौ ॥९॥ ततस्तानि न प्रमाणीत्यनादिसिद्धसर्वपुरुषपरम्परासि सर्व लौकिकालौकिकज्ञाननिदानत्वाद्अप्राकृतवचनलक्षणो वेद एवास्माकं सर्वातीतसर्वाश्रयसर्वाचिन्त्याश्चर्यस्वभावं वस्तु विविदिषतां प्रमाणम् ॥१०॥ बलदेव विद्याभूषण : ततस्तानि च प्रमाणानीति । ततो भ्रमादिदोषयोगात् । तानि प्रत्यक्षादीनि परमार्थप्रमाकरणानि न भवन्ति । मायामुण्डावलोके तस्यैवेदं मुण्डमित्यत्र प्रत्यक्षं व्यभिचारि । वृष्ट्या तत्काल निर्वापितवह्नौ चिरं धूमप्रोद्गारिणि गिरौ वह्मिनान् धूमातित्य् अनुमानं च व्यभिचारि दृष्टम् । आप्तवाक्यं च तथा, एकेनाप्तेन मुनिआ सर्थितस्यार्थस्यापरेण तादृशेन दूषितत्वात् । अत उक्तं नासवृषिर्यस्य मतं न भिन्नमिति । एवं मुख्यानामेषां सदोषत्वात्तदुपजीविनामुपमानादीनां तथात्वं सुसिद्धमेव । किंच्चाप्तवाक्यं लौकिकार्थग्रहे प्रमाणमेव, यथा हिमाद्रौ हिममित्यादौ । तद्उभयनिरपेक्षं च तत्दशमस्त्वमसि इत्यादौ । तद्उभयागम्ये साधकतमं च तत् । ग्रहाणां राशिषु सञ्चारे यथा । किं चाप्तवाक्येनानुगृहीतं तद्उभयं प्रमापकम् । दृष्टचर मायामुण्डकेन पुंसा सत्येऽप्यविश्वस्ते तस्यैवेदं मुण्डमिति नभोवाण्यानुगृहीतं प्रत्यक्षं यथा । अरे शीतार्ताः पन्था मास्मिन्न् अग्निं सम्भावयत, वृष्ट्या निर्वाणोऽत्र स दृष्टः किन्त्वमुष्मिन् धूमोद्गारिणि गिरौ सोऽस्ति इत्याप्तवाक्येनानुगृहीतमनुमानं च यथेति । तदेवं प्रत्यक्षानुमानशब्दाः प्रमाणानीत्याह मनुः प्रत्यक्षमनुमानं च शास्त्रं च विविधागमम् । त्रयं सुविदितं कार्यं धर्मशुद्धिमभीप्सता ॥ इति (ंनु १२.१०५) । एवमस्मद्वृद्धाश्च । सर्वपरम्परासु ब्रह्मोत्पन्नेषु देव मानवादिषु सर्वेषु वंशेषु । परम्परा परीपाट्यां सन्तानेऽपि वधे क्वचितिति विश्वः । लौकिकज्ञानं कर्मविद्या । अलौकिकज्ञानं ब्रह्म विद्या । अप्राकृतेति वाचा विरूप नित्यया इति मन्त्रवर्णनात्(ऋV ८.७५.६) । अनादिनिधना नित्या वागुत्सृष्टा स्वयम्भुवा । आदौ वेदमयी दिव्या यतः सर्वाः प्रवृत्तयः ॥ इति स्मरणाच्(ंभ्१२.२३१.५६५७) च । स्फुटमन्यत् ॥१०॥ तच्चानुगतं तर्काप्रतिष्ठानात्(Vस्. २.१.११) इत्यादौ, अचिन्त्याः खलु ये भावा न तांस्तर्केण योजयेत्[ंभ्६.५.१२] इत्यादौ शास्त्रयोनित्वात्(Vस्. १.१.३) इत्यादौ । श्रुतेस्तु शब्दमूलत्वात्(Vस्. २.१.२७) इत्यादौ । पितृदेवमनुष्याणां वेदश्चक्षुस्तवेश्वर । श्रेयस्त्वनुपलब्धेऽर्थे साधसाधनयोरपि ॥ [भागवतम् ११.२०.४] बलदेव विद्याभूषण : ननु कोऽयमाग्रहो वेद एवास्माकं प्रमाणमिति चेत्तत्राह तच् चानुमतमिति । श्रीव्यासाद्यैरिति शेषः । तद्वायान्याह तर्केत्यादीनि साध्यसाधनयोरपीत्यन्तानि । तर्केति ब्रह्मसूत्रखण्डः । तस्यार्थः परमार्थनिर्णयस्तर्केण न भवति पुरुषबुद्धिवैविध्येन तस्य नष्टप्रतिष्ठत्वात् । एवमाह श्रुतिः नैषा तर्केण मतिरापनेया प्रोक्तान्येनैव सुज्ञानाय प्रेष्ठ इति (Kअठऊ १.२.९) । व्याप्यारोपेण व्यापकारोपस्तर्कः (टर्कसङ्ग्रह), यद्ययं निर्वह्निः स्यात्तदा निर्धूमः स्यातित्येवं रूपः । स च व्याप्तिशङ्कां निरस्यन्न् अनुमानाङ्गं भवेदतस्तर्केणानुमानं ग्राह्यमिति । अचिन्त्याः इत्य् उद्यमपर्वणि दृष्टम् । शास्त्रेति ब्रह्मसूत्रम् । न इत्याकृष्यम् । उपास्यो हरिरनुमानेनोपनिषदा वा वेद्य इति सन्देहे मन्तव्यः (Bऋहदू ४.५.६) इति श्रुतेरनुमानेन स वेद्य इति प्राप्ते नानुमानेन वेद्यो हरिः । कुतः ? शास्त्रमुपनिषद्योनिर्वेदनहेतुर्यस्य तत्त्वात् । औपनिषदं पुरुषं पृच्छामि (Bऋहदू ३.९.२६) इत्याद्या हि श्रुतिः । श्रुतेस्तु इति ब्रह्मसूत्रम् (२.१.१७) । न इत्यनुवर्तते । ब्रह्मणि लोकदृष्टाः श्रमादयो दोषा न स्युः । कुतः । सोऽकामयत बहु स्यां प्रजायेय (टैत्तू २.६.१) इति सङ्कल्पमात्रेण निखिलसृष्टिश्रवणात् । ननु श्रुतिर्बाधितं कथं ब्रूयादिति चेत्तत्राह शब्देति । अविचिन्त्यार्थस्य शब्दैकप्रमाणकत्वात् । दृष्टं चैतन्मणि मन्त्रादौ । पितृदेव इत्युद्धवोक्तिरेकादेशे । हे ईश्वर, तव वेदः पित्रादीनां श्रेयः श्रेष्ठं चक्षुः । क्वेत्याह अनुपलब्धेऽर्थ इत्यादि । तथा च वेद एवास्माकं प्रमाणमिति मद्वाक्यं सर्वसम्मतिमिति नापूर्वं मयोक्तम् ॥११॥ तत्र च वेदशब्दस्य सम्प्रति दुष्पारत्वाद्दुरधिगमार्थत्वाच्च तद् अर्थनिर्णायकानां मुनीनामपि परस्परविरोधाद्वेदरूपो वेदार्थ निर्णायकश्चेतिहासपुराणात्मकः शब्द एव विचारणीयः । तत्र च यो वा वेदशब्दो नात्मविदितः सोऽपि तद्दृष्ट्यानुमेय एवेति सम्प्रति तस्यैव प्रमोत्पादकत्वं स्थितम् । तथा हि महाभारते मानवीये च इतिहास पुराणाभ्यां वेदं समुपबृंहयेतिति [ंभ्१.१.२६७] । पूरणात्पुराणमिति चान्यत्र । न चावेदेन वेदस्य बृंहणं सम्भवति । न ह्यपरिपूर्णस्य कनकवलयस्य त्रपुणा पूरणं युज्यते । ननु यदि वेदशब्दः पुराणमितिहासं चोपादत्ते । तर्हि पुराणमन्यद् अन्वेषणीयम् । यदि तु न, न तर्हीतिहासपुराणयोरभेदो वेदेन । उच्यते विशिष्टैकार्थप्रतिपादकपदकदम्बस्यापौरुषेयत्वादभेदेऽपि स्वरक्रमभेदाद्भेदनिर्देशोऽप्युपपद्यते । ऋग्आदिभिः सममनयोर् अपौरुषेयत्वेनाभेदो माध्यन्दिनश्रुतावेव व्यज्यते एवं वा अरेऽस्य महतो भूतस्य निश्वसितमेतद्यदृग्वेदो यजुर्वेदः साम वेदोऽथर्वाङ्गिरस इतिहासः पुराणमित्यादिना [Bऋहदू २.४.१०] ॥१२॥ बलदेव विद्याभूषण : एवं चेदृग्आदिवेदेनास्तु परमार्थविचारः । तत्राह तत्र च वेद शब्दस्येति । तर्हि न्यायादिशास्त्रैर्वेदार्थनिर्णेतृभिः । सोऽस्तीति चेत्तत्राह तद्अर्थनिर्णायकानामिति । तस्यैवेति इतिहासपुराणात्मकस्य वेदरूपस्येत्य् अर्थः । समुपबृंहयेदिति वेदार्थं स्पष्टीकुर्यादित्यर्थः । पुराणादिति वेदार्थस्येति बोध्यम् । त्रपुणा सीसकेन । पुराणेतिहासयोर्वेदरूपतायां कश्चिच्छङ्कते नन्वित्यादिना । तत्र समाधत्ते उच्यत इत्यादिना । निखिल शक्तिविशिष्टभगवद्रूपैकार्थप्रतिपादकं यत्पदकदम्बमृगादि पुराणान्तं तस्येति । ऋगादिभागे स्वरक्रमोऽस्ति इतिहासपुराणभागे तु स नास्तीत्येतद्अंशेन भेदः । एवं वा इति मैत्रेयीं पत्नीं प्रति याज्ञवल्क्य वचनम् । अरे मैत्रेयि अस्येश्वरस्य महतो विभोः पूज्यस्य वा भूतस्य पूर्वसिद्धस्य । स्फुटार्थमन्यत् ॥१२॥ अतएव स्कान्दप्रभासखण्डे पुरा तपश्चचारोग्रममराणां पितामहः । आविर्भूतास्ततो वेदाः सषड्अङ्गपदक्रमाः ॥ ततः पुराणमखिलं सर्वशास्त्रमयं ध्रुवम् । नित्यशब्दमयं पुण्यं शतकोटिप्रविस्तरम् ॥ निर्गतं ब्रह्मणो वक्त्रात्तस्य भेदान्निबोधत । ब्राह्म्यं पुराणं प्रथममित्यादि । [ष्कन्दড়् २.३५] अत्र शतकोटिसङ्ख्या ब्रह्मलोके प्रसिद्धेति तथोक्तम् । तृतीयस्कन्धे च ऋग्यजुःसामाथर्वाख्यान् वेदान् पूर्वादिभिर्मुखैः [भागवतम् ३.१२.३७] इत्य् आदिप्रकरणे, इतिहासपुराणानि पञ्चमं वेदमीश्वरः । सर्वेभ्य एव वक्त्रेभ्यः ससृजे सर्वदर्शनः ॥ इति । [भागवतम् ३.१२.३९] अपि चात्र साक्षादेव वेदशब्दः प्रयुक्तः पुराणेतिहासयोः । अन्यत्र च पुराणं पञ्चमो वेदः । इतिहासः पुराणं च पञ्चमो वेद उच्यते [भागवतम् १.४.२०] । वेदानध्यापयामास महाभारतपञ्चमान् [ंभ्१२.३४०.११] इत्य् आदौ । अन्यथा वेदानित्यादावपि पञ्चमत्वं नावकल्पेत समानजातीय निवेशितत्वात्सङ्ख्यायाः । भविष्यपुराणे कार्ष्णं च पञ्चमं वेदं यन् महाभारतं स्मृतमिति । तथा च सामकौथुमीयशाखायां छान्दोग्योपनिषदि च ऋग्वेदं भगवोऽध्येमि यजुर्वेदं सामवेदम् आथर्वणं चतुर्थमितिहासं पुराणं पञ्चमं वेदानां वेदम् [Cहाऊ ७.१.२] इत्यादि । अतएव अस्य महतो भूतस्य [Bऋहदू २.४.१०] इत्यादावितिहास पुराणयोश्चतुर्णामेवान्तर्भूतत्वकल्पनया प्रसिद्धप्रत्याख्यानं निरस्तम् । तदुक्तं ब्राह्म्यं पुराणं प्रथममित्यादि ॥१३॥ बलदेव विद्याभूषण : पुरेत्यादौ वेदानां पुराणानां चाविर्भाव उक्तः । ससृजे आविर्भावयामास । समानेति यज्ञदत्तपञ्चमान् विप्रानामन्त्रयस्व इतिवत् । कार्ष्णमिति कृष्णेन व्यासेनोक्तमित्यर्थः । अतएवेति पञ्चम वेदत्वश्रवणादेवेत्यर्थः । चतुर्णामेवान्तर्गते । तेष्वेव यत् पुरावृत्तं यच्च पञ्चलक्षणमाख्यानम् । ते एव तद्भूते ग्राह्ये । न तु ये व्यासकृततत्त्वेन भुवि ख्याते शूद्राणामपि श्रव्ये इति कर्मठैर्यत् कल्पितं तन्निरस्तमित्यर्थः ॥१३॥ पञ्चमत्वे कारणं च वायुपुराणे सूतवाक्यम् इतिहासपुराणानां वक्तारं सम्यगेव हि । मां चैव प्रतिजग्राह भगवानीश्वरः प्रभुः ॥ एक आसीद्यजुर्वेदस्तं चतुर्धा व्यकल्पयत् । चातुर्होत्रमभूत्तस्मिंस्तेन यज्ञमकल्पयत् ॥ आध्वर्यवं यजुर्भिस्तु ऋग्भिर्होत्रं तथैव च । औद्गात्रं सामभिश्चैव ब्रह्मत्वं चायथर्वभिः ॥ [Vआयुড়् ६०.१६१८] आख्यानैश्चाप्युपाख्यानैर्गाथाभिर्द्विजसत्तमाः । पुराणसंहिताश्चक्रे पुराणार्थविशारदः ॥ यच्छिष्टं तु यजुर्वेद इति शास्त्रार्थनिर्णयः । [Vआयुড়् ६०.२१२२] इति ब्रह्मयज्ञाध्ययने च विनियोगो दृश्यतेऽमीषां यद्ब्राह्मणानीतिहास पुराणानि इति । सोऽपि नावेदत्वे सम्भवति । अतो यदाह भगवान्मात्स्ये कालेनाग्रहणं मत्वा पुराणस्य द्विजोत्तमाः । व्यासरूपमहं कृत्वा संहरामि युगे युगे ॥ इति [ंत्स्यড়् ५३.८९] पूर्वसिद्धमेव पुराणं सुखसङ्ग्रहणाय सङ्कल्पयामीति तत्रार्थः । तद्अनन्तरं ह्युक्तम् चतुर्लक्षप्रमाणेन द्वापरे द्वापरे सदा । तद्अष्टादशधा कृत्वा कृत्वा भूर्लोकेऽस्मिन् प्रभाष्यते । अद्याप्यमर्त्यलोके तु शतकोटिप्रविस्तरम् । तद्अर्थोऽत्र चतुर्लक्षः सङ्क्षेपेण निवेशितः ॥ [ंत्स्यড়् ५३.९११] इति । अत्र तु यच्छिष्टं तु यजुर्वेदे इत्युक्तत्वात्तस्याभिधेयभागश् चतुर्लक्षस्त्वत्र मर्त्यलोके सङ्क्षेपेण सारसङ्ग्रहेण निवेशितः । न तु रचनान्तरेण ॥१४॥ बलदेव विद्याभूषण : पञ्चमत्वे कारणं चेति । ऋग्आदिभिश्चतुर्भिश्चातुर्होत्रं चतुर्भिर् ऋत्विभिर्निस्पाद्यं कर्म भवति इतिहासादिभ्यां तन्न भवतीति तद् भागस्य पञ्चमत्वमित्यर्थः । आख्यानैः पञ्चलक्षणैः पुराणानि । उपाख्यानैः पुरावृत्तैः । गाथाभिश्छन्दोविशेषैश्च । संहिता भारत रूपाश्चक्रे। ताश्च यच्छिष्टं तु यजुर्वेद तद्रूपा इत्यर्थः । ब्रह्मेति । ब्रह्मयज्ञे वेदाध्ययनेऽमीषामितिहासादीनां विनियोगो दृश्यते । सोऽपि विनियोगस्तेषामवेदत्वे न सम्भवति । कृत्वाऽविर्भाव्य । सङ्कलयामि सङ्क्षिपामि । अभिधेयभागः सारांशः ॥१४॥ तथैव दर्शितं वेदसहभावेन शिवपुराणस्य वायवीयसंहितायाम् सङ्क्षिप्य चतुरो वेदांश्चतुर्धा व्यभजत्प्रभुः । व्यस्तवेदतया ख्यातो वेदव्यास इति स्मृतः ॥ पुराणमपि सङ्क्षिप्तं चतुर्लक्षप्रमाणतः । अद्याप्यमर्त्यलोके तु शतकोटिप्रविस्तरम् ॥ [शिवড়् १.३३३४] सङ्क्षिप्तमित्यत्र तेनेति शेषः । स्कान्दमाग्नेयमित्यादि समाख्यास्तु प्रवचननिबन्धनाः काठकादिवत् । आनुपूर्वीर्निर्माणनिबन्धना वा । तस्मात्क्वचिदनित्यत्वश्रवणं त्वाविर्भावतिरोभावापेक्षया । तदेवम् इतिहासपुराणयोर्वेदत्वं सिद्धम् । तथापि सूतादीनामधिकारः । सकल निगमवल्लीसत्फलश्रीकृष्णनामवत् । यथोक्तम् प्रभासखण्डे मधुरमधुरमेतन्मङ्गलं मङ्गलानां सकलनिगमवल्लीसत्फलं चित्स्वरूपम् । सकृदपि परिगीतं श्रद्धया हेलया वा भृगुवर नरमात्रं तारयेत्कृष्णनाम ॥ इति ॥ यथा चोक्तं विष्णुधर्मे ऋग्वेदोऽथ यजुर्वेदः सामवेदोऽप्यथर्वणः । अधीतास्तेन येनोक्तं हैरित्यक्षरद्वयम् ॥ इति । अथ वेदार्थनिर्णायकत्वं च वैष्णवे भारतव्यपदेशेन ह्याम्नायार्थः प्रदर्शितः । वेदाः प्रतिष्ठिताः सर्वे पुराणे नात्र संशयः ॥ इत्यादौ । किं च वेदार्थदीपकानां शास्त्राणां मध्यपातिताभ्युपगमेऽप्य् आविर्भावकवैशिष्ट्यात्तयोरेव वैशिष्ट्यम् । यथा पाद्मे द्वैपायनेन यद्बुद्धं ब्रह्माद्यैस्तन्न बुध्यते । सर्वबुद्धं स वै वेद तद्बुद्धं नान्यगोचरः ॥१५॥ बलदेव विद्याभूषण : व्यस्तेति । व्यस्ता विभक्ता वेदा येन ततया वेदव्यासः स्मृतः । स्कान्दमित्यादि । स्कन्देन प्रोक्तं न तु कृतमिति वक्तृहेतुका स्कान्दादि संज्ञा । कठेनाधीतं काठकमित्यादि संज्ञावत् । कठानां वेदः काढकः । गोत्रवरणाद्वुञ्(पाणिनि ४.३.१२६), चरणाद्धर्माम्नाययोरिति वक्तव्यमिति सूत्रवार्तिकाभ्याम् । ततश्च कञ्हेनाधीतमिति सुष्ठूक्तम् । अन्यथा जनत्वेनानित्यतापत्तिः । आनुपूर्वी क्रमः । ब्राह्यमित्य् आदिकरमनिर्माणहेतुका वा सा सा स’ज्ञेत्यर्थः । ब्राह्म्यादिक्रमेअ पुराणभागो बोध्यः । तथापि सूतादीनामिति । इतिहासादेर्वेदत्वेऽपि तत्र शूद्राधिकारः स्त्रीशूद्रद्विजबन्धूनामित्यादिवाक्यबलाद्बोध्यः । भारतव्यपदेशेनेति । दुरूहभागस्य व्याख्यानात्, छिन्नभागार्थ पूरणाच्चपुराणे वेदाः प्रतिष्ठिताः नैश्चल्येन स्थिता इत्यर्थः । किं चेति । वेदार्थदीपकानां मानवीयादीनां मध्ये यद्यपीतिहासपुराणयोः स्मृतित्वेनाभ्युपगमस्तथापि व्यासयेश्वरस्य तद्आविर्भावकत्वात्तद् उत्कर्ष इत्यर्थः । तत्र प्रमाणं द्वैपायनेनेत्यादि ॥१५॥ स्कान्दे व्यासचित्तस्थिताकाशादवच्छिन्नानि कानिचित् । अन्ये व्यवहरन्त्येतान्युरीकृत्य गृहादिव ॥ इति । तथैव दृष्टं श्रीविष्णुपुराणे पराशरवाक्यम् ततोऽत्र मत्सुतो व्यास अष्टाविंशतिमेऽन्तरे । वेदमेकं चतुष्पादं चतुर्धा व्यभजत्प्रभुः ॥ यथात्र तेन वै व्यस्ता वेदव्यासेन धीमता । वेदस्तथा समस्तैस्तैर्व्यासैरन्यैस्तथा मया ॥ तदनेनैव व्यासानां शाखाभेदान् द्विजोत्तम । चतुर्युगेषु रचितान् समस्तेष्ववधारय ॥ कृष्णद्वैपायनं व्यासं विद्धि नारायणं प्रभुम् । कोऽन्यो हि भुवि मैत्रेय महाभारतकृद्भवेत् ॥ [Vइড়् ३.४.२५] इति । स्कान्द एव नारायणाद्विनिष्पन्नं ज्ञानं कृतयुगे स्थितम् । किञ्चित्तदन्यथा जातं त्रेतायां द्वापरेऽखिलम् ॥ गौतमस्य ऋषेः शापाज्ज्ञाने त्वज्ञानतां गते । सङ्कीर्णबुद्धयो देवा ब्रह्मरुद्रपुरःसराः ॥ शरण्यं शरणं जग्मुर्नारायणमनामयम् । तैर्विज्ञापितकार्यस्तु भगवान् पुरुषोत्तमः ॥ अवतीर्णो महायोगी सत्यवत्यां पराशरात् । उत्सन्नान् भगवान् वेदानुज्जहार हरिः स्वयम् ॥ इति । वेदशब्देनात्र पुराणादिद्वयमपि गृह्यते । तदेवमितिहासपुराण विचार एव श्रेयानिति सिद्धम् । तत्रापि पुराणस्यैव गरिमा दृश्यते । उक्तं हि नारदीये वेदार्थादधिकं मन्ये पुराणार्थं वरानने । वेदाः प्रतिष्ठिताः सर्वे पुराणे नात्र संशयः ॥ पुराणमन्यथा कृत्वा तिर्यग्योनिमवाप्नुयात् । सुदान्तोऽपि सुशान्तोऽपि न गतिं क्वचिदाप्नुयात् ॥ इति ।१६॥ बलदेव विद्याभूषण : व्यासेति । बादरायणस्य ज्ञानं महाकाशम् । अन्येषां ज्ञानानि तु तद् अंशभूतानि खण्डाकाशानीति तस्येश्वरत्वात्सार्वज्ञ्यमुक्तम् । ततोऽत्र मत्सुतः इत्यादौ च व्यासान्तरेभ्यः पाराशर्यस्येश्वरत्वान्महोत्कर्षः । नारायणातित्यादौ चेश्वरत्वं प्रस्फुटमुक्तम् । गौतमस्य शापातिति । वरोत्पन्ननित्यधान्यराशिर्गौतमो महति दुर्भिक्षे विप्रानभोजयत् । अथ सुभिक्षे गन्तुकामांस्तान् हठेन न्यवासयत् । ते च मायानिर्मिताया गोगौतमस्पर्शेन मृताया हत्यामुक्त्वा गताः । ततः कृतप्रायश्चित्तोऽपि गौतमस्तन्मायां विज्ञाय शशाप । ततस्तेषां ज्ञानलोप इति वाराहे कथास्ति । अधिकमिति । निःशन्देहत्वादिति बोध्यम् । अन्यथा कृत्वा अवज्ञाय ॥१६॥ स्कान्दप्रभासखण्डे वेदवन्निश्चलं मन्ये पुराणार्थं द्विजोत्तमाः । वेदाः प्रतिष्ठिताः सर्वे पुराणे नात्र संशयः ॥ बिभेत्यल्पश्रुताद्वेदी मामयं चालयिष्यति । इतिहासपुराणैस्तु निश्चलोऽयं कुतः पुरा ॥ यन्न दृष्टं हि वेदेषु तद्दृष्टं स्मृतिषु द्विजाः । उभयोर्यन्न दृष्टं हि तत्पुराणैः प्रगीयते ॥ यो वेद चतुरो वेदान् साङ्गोपनिषदो द्विजाः । पुराणं नैव जानाति न च स स्याद्विचक्षणः ॥ (२.९०९३) इति । अथ प्रुआणानामेवं प्रामाण्ये स्थितेऽपि तेषामपि सामस्त्येनाप्रचरद् रूपत्वात्नानादेवताप्रतिपादकप्रायत्वादर्वाचीनैः क्षुद्रर्बुद्धिभिर् अर्थो दुरधिगम इति तद्अवस्थ एव संशयः । यदुक्तं मात्स्ये पञ्चाङ्गं च पुराणं स्यादाख्यानमितरत्स्मृतम् । सात्त्विकेषु च कल्पेषु माहात्म्यमधिकं हरेः ॥ राजसेषु च माहात्म्यमधिकं ब्रह्मणो विदुः । तद्वदग्नेश्च माहात्म्यं तामसेषु शिवस्य च । सङ्कीर्णेषु सरस्वत्याः पितॄणां च निगद्यते ॥ इति । अत्राग्नेस्तत्तद्अगनु प्रतिपाद्यस्य तत्तद्यज्ञस्येत्यर्थः । शिवस्य चेति चकाराछ्छिवायाश्च । सङ्कीर्णेषु सत्त्वरजस्तमोमयेषु कल्पेषु बहुषु । सरस्वत्याः नानावाण्यात्मकतद्उपलक्षिताया नानादेवताया इत्यर्थः । पितॄणां कर्मणा पितृलोकः [Bआऊ १.५.१६] इति । श्रुतेस्तत्प्रापककर्मणाम् इत्यर्थः ॥१७॥ बलदेव विद्याभूषण : वेदवदिति । पुराणार्थो वेदवत्सर्वसम्मत इत्यर्थः । ननु पण्डितैः कृताद्वेदभाष्यात्तद्अर्थो ग्राह्य इति चेत्तत्राह बिभेतीति । अकृते भाष्ये सिद्धे किं तेन कृत्रिमेणेति भावः । अथेति अस्न्दिग्धार्थतया पुराणानामेव प्रामाण्ये प्रमाकरणत्व इत्यर्थः । अर्वाचीनैः क्ष्द्र बुद्धिभिरिति । यस्य विभूतयोऽपीदृश्यः स हरिरेव सर्वश्रेष्ठ इति तदैकार्थ्यम् वेद रामायणे चैव पुराणे भारते तथा । आदावन्ते च मध्ये च हरिः सर्वत्र गीयते ॥ (ःV १३२.९५)[*Eण्ड्ण्Oट्E ॰१] इति हरिवंशोक्तमजानद्भिरित्यर्थः ॥१७॥ तदेवं सति तत्तत्कल्पकथामयत्वेनैव मात्स्य एव प्रसिद्धानां तत्तत् पुराणानां व्यवस्था ज्ञापिता । तारतम्यं तु कथं स्यात्येनेतरनिर्णयः क्रियेत । सत्त्वादितारतम्येनैवेति चेत्, सत्त्वात्सञ्जायते ज्ञानम् (गीता १४.१७) इति सत्त्वं यद्ब्रह्मदर्शनमिति च न्यायात्सात्त्विकमेव पुराणादिक परमार्थज्ञानाय प्रब्लम इत्यायातम् । तथापि परमार्थेऽपि नाना भङ्ग्या विप्रतिपद्यमानानां समाधानाय किं स्यात् । यदि सर्वस्यापि वेदस्य पुराणस्य चार्थनिर्णयाय तेनैव श्रीभगवता व्यासेन ब्रह्म सूत्रं कृतं तद्अवलोकनेनैव सर्वोऽर्थो निर्णये इत्युच्यते । तर्हि नान्य सूत्रकारमुन्य्अनुगतैर्मन्येत । किं चात्यन्तगूढार्थानाम् अल्पाक्षराणां तत्सूत्राणामन्यार्थत्वं कश्चिदाचक्षीत । ततः कतरद् इवात्र समाधानम् । तदेव समाधेयं यद्येकतममेव पुराण लक्षणमपौरुषेयं शास्त्रं सर्ववेदेतिहासपुराणानामर्थसारं ब्रह्मसूत्रोपजीव्यं च भवद्भुवि सम्पूर्णं प्रचरद्रूपं स्यात् । सत्यमुक्तम्, यत एव च सर्वप्रमाणानां चक्रवर्तिभूतमस्मद् अभिमतं श्रीमद्भागवतमेवोद्भावितं भवता ॥१८॥ बलदेव विद्याभूषण : तदेवमिति । मात्स्य एवेति । पुराणसङ्ख्यातद्दानफल कथनाञ्चितेऽध्याय इति बोध्यम् । तारतम्यमिति । अपकर्षोत्कर्षरूपं येनेतरस्योत्कृष्टस्य पुराणस्य निर्णयः स्यादित्यर्थः । सात्त्विकपुराणम् एवोत्कृष्टमिति भावेन स्वयमाह सत्त्वादिति । पृच्छति तथापीति, परमार्थनिर्णयाय सात्त्विकशास्त्राङ्गीकारेऽपीत्यर्थः । नानाभङ्ग्येति । सगुणं निर्गुणं ज्ञानगुणकं जडमित्यादिकं कुटिलयुक्तिकदम्बैर् निरूपयतामित्यर्थः । नानासूत्रकारेति । गौतमाद्य्अनुसारिभिरित्य् अर्थः । ननु ब्रह्मसूत्रशास्त्रे स्थिते कापेक्षा तद्अन्यसूत्राणामिति चेत् तत्राह किं चात्यन्तेति । पृष्टः प्राह तदेवेति । ब्रह्मसूत्रोपजीव्यमिति । येन ब्रह्मसूत्रं स्थिरार्थं स्यादित्यर्थः । पृष्टस्य हृद्गतं स्फुटयति सत्यमुक्तमित्यादिना ॥१८॥ यत्खलु पुराणजातमाविर्भाव्य ब्रह्मसूत्रं च प्रणीयाप्य अपरितुष्टेन तेन भगवता निजसूत्राणामकृत्रिमभाष्यभूतं समाधिलब्धमाविर्भावितं यस्मिन्नेव सर्वशास्त्रसमन्वयो दृश्यते । सर्ववेदार्थलक्षणां गायत्रीमधिकृत्य प्रवर्तितत्वात् । तथा हि तत् स्वरूपं मात्स्ये यत्राधिकृत्य गायत्रीं वर्ण्यते धर्मविस्तरः । वृत्रासुरवधोपेतं तद्भागवतमिष्यते ॥ (ंत्स्यড়् ५३.२०) लिखित्वा तच्च यो दद्याद्धेमसिंहसमन्वितम् । प्रौष्ठपद्यां पौर्णमास्यां स याति परमां गतिम् । अष्टादशसहस्राणि पुराणं तत्प्रकीर्तितम् ॥ (ंत्स्यড়् ५३.२२) इति । अत्र गायत्रीशब्देन तत्सूचकतद्अव्यभिचारिधीमहिपदसंवलिततद् अर्थमेवेष्यते । सर्वेषां मन्त्राणामादिरूपायास्तस्याः साक्षात् कथनानर्हत्वात् । तद्अर्थता च जन्माद्यस्य यतः [भागवतम् १.१.१], तेन ब्रह्म हृदा इति सर्वलोकाश्रयत्वबुद्धिवृत्तिप्रेरकत्वादिसाम्यात् । धर्मविस्तर इत्यत्र धर्मशब्दः परमधर्मपरः । धर्मः प्रोज्झितकैतवोऽत्र परमः [भागवतम् १.१.२] इत्यत्रैव प्रतिपादितत्वात् । स च भगवद्ध्यानादिलक्षण एवेति पुरस्ताद्व्यक्तीभविष्यति ॥१९॥ बलदेव विद्याभूषण : श्रीभागवतं स्तौति यत्खल्वित्यादि । अपरितुष्टेनेति । पुराणजाते ब्रह्मसूत्रे च भगवत्पारमैश्वर्यमाधुर्ययोः सन्दिग्धतया गूढतया चोक्तेस्तत्र तत्र चापरितोषः । श्रीभागवते तु तयोस्तद् विलक्षणतयोक्तेस्तत्र परितोष इति बोध्यम् । तद्अर्थता गायत्र्य्अर्थता । स च भगवद्ध्यानादिलक्षण इति । विशुद्धभक्तिमार्गबोधक इत्य् अर्थः ॥१९॥ एवं स्कान्दे प्रभासखण्डे च यत्राधिकृत्य गायत्रीमित्यादि । सारस्वतस्य कल्पस्य मध्ये ये स्युर्नरामराः । सद्वृत्तानोद्भवं लोके तच्च भागवतं स्मृतम् ॥ लिखित्वा तच्च इत्यादि । अष्टादशसहस्राणि पुराणं तत्प्रकीर्तितमिति पुराणान्तरं च ग्रन्थोऽष्टादशसाहस्रो द्वादशस्कन्धसम्मितः । हयग्रीवब्रह्मविद्या यत्र वृत्रवधस्तथा । गायत्र्या च समारम्भस्तद्वै भागवतं विदुः ॥ इति । अत्र हयग्रीवब्रह्मविद्या इति वृत्रवधसाहचर्येण नारायण वर्मैवोच्यते । हयग्रीवशब्देनात्राश्वशिरा दधीचिरेवोच्यते । तेनैव च प्रवर्तिता नारायणवर्माख्या ब्रह्मविद्या । तस्याश्वशिरस्त्वं च षष्ठे यद्वा अश्वशिरो नाम [भागवतम् ६.९.५२] इत्यत्र प्रसिद्धं नारायणवर्मणो ब्रह्मविद्यात्वं च एतच्छ्रुत्वा तथोवाच दध्यङाथर्वणस्तयोः । प्रवर्ग्यं ब्रह्मविद्यां च सत्कृतोऽसत्यशङ्कितः ॥ इति टीकोत्थापितवचनेन चेति । श्रीमद्भागवतस्य भगवत्प्रियत्वेन भागवताभीष्टत्वेन च परमसात्त्विकत्वम् । यथा पाद्मे अम्बरीषं प्रति गौतमप्रश्नः पुराणं त्वं भागवतं पठसे पुरतो हरेः । चरितं दैत्यराजस्य प्रह्लादस्य च भूपते ॥ [ড়द्मড়्] तत्रैव व्यञ्जुलीमाहात्म्ये तस्य तस्मिन्नुपदेशः रात्रौ तु जागरः कार्यः श्रोतव्या वैष्णवी कथा । गीतानामसहस्रं च पुराणं शुकभाषितम् । पठितव्यं प्रयत्नेन हरेः सन्तोषकारणम् ॥ [ড়द्मড়्] तत्रैवान्यत्र अम्बरीष शुकप्रोक्तं नित्यं भागवतं शृणु । पठस्व स्वमुखेनैव यदीच्छसि भवक्षयम् ॥ [ড়द्मড়्] स्कान्दे प्रह्लादसंहितायां द्वारकामाहात्म्ये श्रीमद्भागवतं भक्त्या पठते हरिसन्निधौ । जागरे तत्पदं याति कुलवृन्दसमन्वितः ॥२०॥ बलदेव विद्याभूषण : ग्रन्थ इत्यादौ हयग्रीवादिशब्दयोर्भ्रान्तिं निराकुर्वन् व्याचष्टे । अत्र हयग्रीवेत्यादिना । एतच्छ्रुत्वेति । दध्यङ्दधीचिः । प्रवर्ग्यमिति प्राणविद्याम् । ननु पाद्मादीनि सात्त्विकानि पञ्च सन्ति । तैरस्तु विचार इति चेत्तत्राह श्रीमदिति । एतस्य परमसात्त्विकत्वे पाद्मादिवचनान्य् उदाहरति पुराणं त्वमित्यादिना । कुलवृन्देति तत्कर्तृकश्रवण महिम्ना तत्कुलस्य च हरिपदलाभ इत्यर्थः ॥२०॥ गारुडे च पूर्णः सोऽयमतिशयः । अर्थोऽयं ब्रह्मसूत्राणां भारतार्थविनिर्णयः ॥ गायत्रीभाष्यरूपोऽसौ वेदार्थपरिबृंहितः । पुराणानां सामरूपः साक्षाद्भगवतोदितः ॥ द्वादशस्कन्धयुक्तोऽयं शतविच्छेदसंयुतः । ग्रन्थोऽष्टादशसाहस्रः श्रीमद्भागवताभिधः ॥ इति । ब्रह्मसूत्राणामर्थस्तेषामकृत्रिमभाष्यभूत इत्यर्थः । पूर्वं सूक्ष्मत्वेन मनस्याविर्भूतं तदेव सङ्क्षिप्य सूत्रत्वेन पुनः प्रकटितं पश्चाद्विस्तीर्णत्वेन साक्षाच्छ्रीभागवतमिति । तस्मात्तद् भाष्यभूते स्वतःसिद्धे तस्मिन् सत्यर्वचीनमन्यदन्येषां स्वस्वकपोलकल्पितं तद्अनुगतमेवादरणीयमिति गम्यते । भारतार्थविनिर्णयः निर्णयः सर्वशास्त्राणां भारतं परिकीर्तितम् । भारतं सर्ववेदाश्च तुलामारोपिताः पुरा । देवैर्ब्रह्मादिभिः सर्वैरृषिभिश्च समन्वितैः ॥ व्यासस्यैवाज्ञया तत्र त्वत्यरिच्यत भारतम् । महत्त्वाद्भारवत्त्वाच्च महाभारतमुच्यते ॥ इत्याद्य्उक्तलक्षणस्य भारतस्यार्थविनिर्णयो यत्र सः । श्रीभगवत्य् एव तात्पर्यं तस्यापि । तदुक्तं मोक्षधर्मे नारायणीये श्रीवेदव्यासं प्रति जनमेजयेन इदं शतसहस्राद्धि भारताख्यान विस्तरात् । आमथ्य मतिमन्थेन ज्ञानोदधिमनुत्तमम् ॥ नव नीतं यथा दध्नो मलयाच्चन्दनं यथा । आरण्यकं च वेदेभ्य ओषधिभ्योऽमृतं यथा ॥ समुद्धृतमिदं ब्रह्मन् कथामृतमनुत्तमम् । तपो निधे त्वयोक्तं हि नारायण कथाश्रयम् ॥ [ंभ्१२.३३१.२४] इति ।२१॥ बलदेव विद्याभूषण : गारुडवचनैश्च परमसात्त्विकत्वं व्यञ्जयन् ब्रह्मसूत्राद्य्अर्थ निर्णीयकत्वं गुणमाह अर्थोऽयमिति । गारुडवाक्यपदानि व्याचष्टे ब्रह्मसूत्राणामित्यादिना । तस्मात्तद्भाष्येत्यादि अन्यद्वैष्णवाचार्य रचितमाधुनिकं भाष्यं तद्अनुगतं श्रीभागवताविरुद्धम् एवादर्तव्यम् । तद्विरुद्धं शङ्करभट्टभास्करादिरचितं तु हेयम् इत्यर्थः । भारतार्थेति पदं व्याकुर्वन् भारतवाक्येनैव भारत स्वरूपं दर्शयति निर्णयः सर्वेति । भारतं किं तात्पर्यकमित्याह श्रीभगवत्येवेति । तस्य भारतस्यापीत्यर्थः । भारतस्य भगवत्तात् पर्यकत्वे नारायणीयवाक्यमुदाहरति इदं शतेत्यादि ॥२१॥ तथा च तृतीये मुनिर्विवक्षुर्भगवद्गुणानां सखापि ते भारतमाह कृष्णः । यस्मिन्नृणां ग्राम्यसुखानुवादैर् मतिर्गृहीता नु हरेः कथायाम् ॥ इति [भागवतम् ३.५.१२] तस्माद्गायत्रीभाष्यरूपोऽसौ । तथैव हि विष्णुधर्मोत्तरादौ तद् व्याख्याने भगवानेव विस्तरेण प्रतिपादितः । अत्र जन्माद्यस्य इत्यस्य व्याख्यानं च तथा दर्शयिष्यते । वेदार्थपरिबृंहितः । वेदार्थस्य परिबृंहणं यस्मात् । तच्चोक्तमितिहास पुराणाभ्यामित्यादि । पुराणानां सामरूपः । वेदेषु सामवत्स तेषु श्रेष्ठ इत्यर्थः । अतएव स्कान्दे शतशोऽथ सहस्रैश्च किमन्यैः शास्त्रसङ्ग्रहैः । न यस्य तिष्ठते गेहे शास्त्रं भागवतं कलौ ॥ कथं स वैष्णवो ज्ञेयः शास्त्रं भागवतं कलौ । गृहे न तिष्ठते यस्य स विप्रः श्वपचाधमः ॥ यत्र यत्र भवेद्विप्र शास्त्रं भागवतं कलौ । तत्र तत्र हरिर्याति त्रिदशैः सह नारद ॥ यः पठेत्प्रयतो नित्यं श्लोकं भागवतं मुने । अष्टादशपुराणानां फलं प्राप्नोति मानवः ॥ इति । शतविच्छेदसंयुतः । पञ्चत्रिंशद्अधिकशतत्रयाध्यायविशिष्ट इत्य् अर्थः । स्पष्टार्थमन्यत् । तदेवं परमार्थविवित्सुभिः श्रीभागवतम् एव साम्प्रतं विचारणीयमिति स्थितम् । हेमाद्रेर्व्रतखण्डे स्त्रीशूद्रद्विजबन्धूनां त्रयी न श्रुतिगोचरा । कर्मश्रेयसि मूढानां श्रेय एवं भवेदिह । इति भारतमाख्यानं कृपया मुनिना कृतम् ॥ [भागवतम् १.४.२५] इति वाक्यं श्रीभागवतीयत्वेनोत्थाप्य भारतस्य वेदार्थतुल्यत्वेन निर्णयः कृत इति । तन्मतानुसारेण त्वेवं व्याख्येयं भारतार्थस्य विनिर्णयः । वेदार्थतुल्यत्वेन विशिष्य निर्णयो यत्रेति । यस्मादेव:अ भगवत्परस्तस्मादेव यत्राधिकृत्य गायत्रीमिति कृतलक्षणश्रीमद् भागवतनामा ग्रन्थः श्रीभगवत्पराया गायत्र्या भाष्यरूपोऽसौ । तदुक्तं यत्राधिकृत्य गायत्रीमित्यादि । तथैव ह्यग्निपुराणे तस्य व्याख्याने विस्तरेण प्रतिपादितः । तत्र तदीयव्याख्यादिग्दर्शनं यथा तज्ज्योतिः परमं ब्रह्म भर्गस्तेजो यतः स्मृतः । इत्यारभ्य पुनराह तज्ज्योतिर्भगवान् विष्णुर्जगज्जन्मादिकारणम् ॥ शिवं केचित्पठन्ति स्म शक्तिरूपं पठन्ति च । केचित्सूर्यं केचिदग्निं दैवतान्यग्निहोत्रिणः ॥ अग्न्य्आदिरूपो विष्णुर्हि वेदादौ ब्रह्म गीयते । अत्र जन्माद्यस्य इत्यस्य व्याख्यानं च तथा दर्शयिष्यते । कस्मै येन विभासितोऽयम् [भागवतम् १२.१३.१९] इत्युपसंहारवाक्ये च तच्छुद्धम् [भागवतम् १२.१३.१९] इत्यादिसमानमेवाग्निपुराणे तद्व्याख्यानम् । नित्यं शुद्धं परं ब्रह्म नित्यभर्गमधीश्वरम् । अहं ज्योतिः परं ब्रह्म ध्यायेम हि विमुक्तये ॥ इति । अत्राहं ब्रह्मेति नादेवो देवमर्चयेतिति न्यायेन योग्यत्वाय स्वस्य ताकृक्त्वभावना दर्शिता । ध्यायेमेति अहं तावत्ध्यायेयं सर्वे च वयं ध्यायेमेत्यर्थः । तदेतन्मते तु मन्त्रेऽपि भर्गशब्दोऽयमदनत एव स्यात् । सुपां सुलुकित्य्[पाणिनि ७.१.३९] आदिना छान्दससूत्रेण तु द्वितीयैकवचनस्यामः सुभावो ज्ञेयः । यत्तु द्वादशे ओं नमस्ते इत्यादि [भागवतम् १२.६.६७] गद्येषु तद्अर्थत्वेन सूर्यः स्तुतः । तत्परमात्मदृष्ट्यैव, न तु स्वातन्त्र्येणेत्यदोषः । तथैवाग्रे श्रीशौनकवाक्ये ब्रूहि नः श्रद्दधानानां व्यूहं सूर्यात्मनो हरेः इति । न चास्य भर्गस्य सूर्यमण्डल मात्राधिष्ठानत्वम् । मन्त्रे वरेण्यशब्देन । अत्र च ग्रन्थे पर शब्देन परमैश्वर्यपर्यन्तताया दर्शितत्वात् । तदेवमग्निपुराणेऽप्युक्तम् ध्यानेन पुरुषोऽयं च द्रष्टव्यः सूर्यमण्डले । सत्यं सदाशिवं ब्रह्म विष्णोर्यत्परमं पदम् ॥ इति । त्रिलोकीजनानामुपासनार्थं प्रलये विनाशिनि सूर्यमण्डले चान्तर्यामितया प्रादुर्भूतोऽयं पुरुषो ध्यानेन द्रष्टव्य उपासितव्यः । यत्तु विष्णोस्तस्य महावैकुण्ठरूपं परमं पदम् । तदेव सत्यं कालत्रयाव्यभिचारि, सदाशिवमुपद्रवशून्यं यतो ब्रह्मस्वरूपमित्य् अर्थः । तदेतद्गायत्रीं प्रोच्य पुराणलक्षणप्रकरणे यत्राधिकृत्य गायत्रीमित्याद्यप्युक्तमग्निपुराणे । तस्मात् अग्नेः पुराणं गायत्रीं समेत्य भगवत्पराम् । भगवन्तं तत्र मत्वा जगज्जन्मादिकारणम् ॥ यत्राधिकृत्य गायत्रीमिति लक्षणपूर्वकम् । श्रीमद्भागवतं शश्वत्पृथ्व्यां जयति सर्वतः ॥ तदेवमस्य शास्त्रस्य गायत्रीमधिकृत्य प्रवृत्तिर्दर्शिता । यत्तु सारस्वतकल्पमधिकृत्येति पूर्वमुक्तम् । तच्च गायत्र्या भगवत् प्रतिपादकवाग्विशेषरूपसरस्वतीत्वादुपयुक्तमेव । यदुक्तमग्नि पुराणे गायत्र्य्उक्थानि शास्त्राणि भर्गं प्राणांस्तथैव च ॥ ततः स्मृतेयं गायत्री सावित्री यत एव च । प्रकाशिनी सा सवितुर्वाग्रूपत्वात्सरस्वती ॥ अथ क्रमप्राप्ता व्याख्या वेदार्थपरिबृंहित इति । वेदार्थानां परिबृंहणं यस्मात् । तच्चोक्तमितिहासपुराणाभ्यामिति । पुराणानां सामरूप इति वेदेषु सामवत्पुराणेषु श्रेष्ठ इत्यर्थः । पुराणान्तराणां केषांचिदापाततो रजस्तमसी जुषमाणैस्तत्परत्वाप्रतीतत्वेऽपि वेदानां काण्डत्रयवाक्यैकवाक्यतायां यथा साम्ना तथा तेषां श्रीभागवतेन प्रतिपाद्ये श्रीभगवत्येव पर्यवसानमिति भावः । तदुक्तम् वेदे रामायणे चैव पुराणे भारते तथा । आदावन्ते च मध्ये च हरिः सर्वत्र गीयते ॥ इति । [ःV १३२.९५] प्रतिपादयिष्यते च तदिदं परमात्मसन्दर्भे । साक्षाद्भगवतोदितम् इति । कस्मै येन विभासितोऽयम् [भागवतम् १२.१३.१९] इत्युपसंहारवाक्यानुसारेण ज्ञेयम् । शतविच्छेदसंयुत इति । विस्तारभिया न विविरियते । तदेवं श्रीमद्भागवतं सर्वशास्त्रचक्रवर्तिपदमाप्तमिति स्थिते हेम सिंहसमन्वितमित्यत्र हेमसिंहासनमारूढमिति टीकाकारैर्यद् व्याख्यातं तदेव युक्तम् । अतः श्रीमद्भागवतस्यैवाभ्यासावश्यकत्वं श्रेष्ठत्वं च स्कान्दे निर्णीतम् शतशोऽथ सहस्रैश्च किमन्यैः शास्त्रसङ्ग्रहैः । तदेवं परमार्थविवित्सुभिः श्रीभागवतमेव साम्प्रतं विचारणीयमिति स्थितम् ॥२२॥ बलदेव विद्याभूषण : ननु श्रीभागवतस्य भारतार्थनिर्णायकत्वं कथं प्रतीतमिति चेत्तत्राह तथा तृतीय इति । मुनिरिति मैत्रेयं प्रति विदुरोक्तिः । ते मैत्रेयस्य गुरुपुत्रत्वात्सखा कृष्णो व्यासः । ग्राम्या गृहिधर्मकर्तव्यतादिलक्षणा व्यावहारिकी मूषिकविडालगृध्रगोमायु दृष्टान्तोपेता च कथा । तत्तत्स्वार्थकौतुककथाश्रवणाय भारत सदसि समागतानां नॄणां श्रीगीतादिश्रवणेन हरौ मतिर्गृहीता स्याद् इति तत्कथानुवाद एव । वस्तुतो भगवत्परमेव भारतमिति श्री भागवतेन निर्णीतमित्यर्थः । सामवेदवदस्य श्रैष्ठ्यं स्कान्द वाक्यं शतशोऽथेत्यादि प्रकटार्थम् । तदेवमिति । उक्तगुणगणे सिद्धे सतीत्यर्थः ॥२२॥ अतएव सत्स्वपि नानाशास्त्रेष्वेतदेवोक्तम् कलौ नष्टदृशामेष पुराणार्कोऽधुनोदितः [भागवतम् १.३.४५] इति । अर्कतारूपकेण तद्विना नान्येषां सम्यग्वस्तुप्रकाशकत्वमिति प्रतिपद्यते । यस्यैव श्रीमद्भागवतस्य भाष्यभूतं श्रीहयशीर्षपञ्चरात्रे शास्त्रप्रस्तावे गणितं तन्त्र भागवताभिधं तन्त्रम् । यस्य साक्षाच्छ्रीहनुमद्भाष्य वासनाभाष्यसम्बन्धोक्तिविद्वत्कामधेनुतत्त्वदीपिका भावार्थदीपिकापरमहंसप्रियाशुकहृदयादयो व्याख्याग्रन्थाः । तथा मुक्ताफलहरिलीलाभक्तिरत्नावल्य्आदयो निबन्धाश्च विविधा एव तत्तन्मतप्रसिद्धमहानुभावकृता विराजन्ते । यदेव च हेमाद्रि ग्रन्थस्य दानखण्डे पुराणदानप्रस्तावे मत्स्यपुराणीयतल्लक्षण धृत्या प्रशस्तम् । हेमाद्रिपरिशेषखण्डस्य कालनिर्णये च कलियुग धर्मनिर्णये कलिं सभाजयन्त्यार्याः (भागवतम् ११.५.३६) इत्यादिकं यद् वाक्यत्वेनोत्थाप्य यत्प्रतिपादितधर्म एव कलावङ्गीकृतः । अथ यदेव कैवल्यमप्यतिक्रम्य भक्तिसुखव्याहारादिलिङ्गेन निज मतस्याप्युपरि विराजमानार्थं मत्वा यदपौरुषेयं वेदान्त व्याख्यानं भयादचालयतैव शङ्करावतारतया प्रसिद्धेन वक्ष्यमाणस्वगोपनादिहेतुकभगवद्आज्ञाप्रवर्तिताद्वयवादेनापि तन्मात्रवर्णितविश्वरूपदर्शनकृतव्रजेश्वरीविस्मयश्रीव्रज कुमारीवसनचौर्यादिकं गोविन्दाष्टकादौ वर्णयता तटस्थीभूय निज वचःसाफल्याय स्पृष्टमिति ॥२३॥ बलदेव विद्याभूषण : अतएवेति वर्णितलक्षणादुत्कर्षादेव हेतोरित्यर्थः । पुरातनानाम् ऋषीणामाधुनिकानां च विद्वत्तमानामुपादेयमिदं श्रीभागवतम् इत्याह यस्यैवेति । विराजन्ते सम्प्रति प्रचरन्तीत्यर्थः । धर्मशास्त्र कृतां चोपादेयमेतदित्याह यदेव च हेमाद्रीत्यादि । तत्प्रतिपादितो धर्मः कृष्णसङ्कीर्तनलक्षणः । ननु चेदीदृशं श्रीभागवतं तर्हि शङ्कराचार्यः कुतस्तन्न व्याचष्टेति चेत्तत्राह । अथ यदेव कैवल्यम् इत्यादि । अयं भावः प्रलयाधिकारी खलु हरेर्भक्तोऽहमुपनिषद्आदि व्याख्याय तत्सिद्धान्तं विलाप्य तस्याज्ञां पालितवानेवास्मि । अथ तद् अतिप्रिये श्रीभागवतेऽपि चालिते स प्रभुर्मयि कुप्येदतो न तच्चाल्यम् । एवं सति मे सारज्ञता सुखसम्पच्च न स्यादतः कथञ्चित्तत् स्पर्शनीयमिति तन्मात्रोक्तं विश्वरूपदर्शनादिस्वकाव्ये निबबन्धेति तेन चादृत तदिति सर्वमान्यं श्रीभागवतमिति ॥२३॥ यदेव किल दृष्ट्वा श्रीमध्वाचार्यचरणैर्वैष्णवान्तराणां तच् छिष्यान्तरपुण्यारण्यादिरीतिकव्याख्याप्रवेशशङ्कया तत्र तात्पर्यान्तरं लिखद्भिर्वर्त्मोपदेशः कृत इति च सात्वता वर्णयन्ति । तस्माद्युक्तमुक्तं तत्रैव प्रथमस्कन्धे तदिदं ग्राहयामास सुतमात्मवतां वरम् । सर्ववेदेतिहासानां सारं सारं सुमुद्धृतम् ॥ [भागवतम् १.३.४१४२] द्वादशे सर्ववेदान्तसारं हि श्रीभागवतमिष्यते । तद्रसामृततृप्तस्य नान्यत्र स्याद्रतिः क्वचित् ॥ [भागवतम् १२.१३.१५] तथा प्रथमे निगमकल्पतरोर्गलितं फलं शुकमुखादमृतद्रवसंयुतम् । पिबत भागवतं रसमालयं मुहुरहो रसिका भुवि भावुकाः ॥ [भागवतम् १.१.३] अतएव तत्रैव यः स्वानुभावमखिलश्रुतिसारमेकम् अध्यात्मदीपमतितितीर्षतां तमोऽन्धम् । संसारिणां करुणयाह पुराणगुह्यं तं व्याससूनुमुपयामि गुरुं मुनीनाम् ॥ [भागवतम् १.२.३] श्रीभागवतमतं तु सर्वमतानामधीशरूपमिति सूचकम् । सर्व मुनीनां सभामध्यमध्यास्योपदेष्टृत्वेन तेषां गुरुत्वमपि तस्य तत्र सुव्यक्तम् ॥२४॥ बलदेव विद्याभूषण : श्रीमध्वमुनेस्तु परमोपास्यं श्रीभागवतमित्याह यदेव किलेति । शङ्करेण नैतद्विचालितं किन्त्वादृतमेवेति विभाव्येत्यर्थः किन्तु तच्छिष्यैः पुण्यारण्यादिभिरेतदन्यथा व्याख्यातं तेन वैष्णवानां निर्गुणचिन्मात्रपरमिदमिति भ्रान्तिः स्यादिति शङ्कया हेतुना तद् भ्रान्तिच्छेदाय तत्र तात्पर्यान्तरं भगवत्परतारूपं ततोऽन्यत् तात्पर्यं लिखद्भिस्तस्य व्याख्यानवर्त्मोपदिष्टं वैष्णवान् प्रतीति । मध्वाचार्यचरणैरिति अत्यादरसूचकबहुत्वनिर्देशः । स्व पूर्वाचार्यत्वादिति बोध्यम् । वायुदेवः खलु मध्वमुनिः सर्वज्ञोऽतिविक्रमी यो दिग्विजयिनं चतुर्दशविद्यं चतुर्दशभिः क्षणैर् निर्जित्यासनानि तस्य चतुर्दश जग्राह । स च तच्छिष्यः पद्मनाभाभिधानो बभूवेति प्रसिद्धम् । तस्मादिति प्रोक्तगुणकत्वाद् धेतोरित्यर्थः । आलयमिति मोक्षमभिव्याप्येत्यर्थः । य इति अन्धं तमोऽविद्यामतितितीर्षतां संसारिणां करुणया यः पुराणगुह्यं श्री भागवतमाहेत्यन्वयः । स्वानुय्भावमसाधारणप्रभावमित्य् अर्थः ॥२४॥ यतः तत्रोपजग्मुर्भुवनं पुनाना महानुभावा मुनयः सशिष्याः । प्रायेण तीर्थाभिगमापदेशैः स्वयं हि तीर्थानि पुनन्ति सन्तः ॥ अत्रिर्वसिष्ठश्च्यवनः शरद्वान् अरिष्टनेमिर्भृगुरङ्गिराश्च । पराशरो गाधिसुतोऽथ राम उतथ्य इन्द्रप्रमदेध्मवाहौ ॥ मेधातिथिर्देवल आर्ष्टिषेणो भारद्वाजो गौतमः पिप्पलादः । मैत्रेय और्वः कवषः कुम्भयोनिर् द्वैपायनो भगवान्नारदश्च ॥ अन्ये च देवर्षिब्रह्मर्षिवर्या राजर्षिवर्या अरुणादयश्च । नानार्षेयप्रवरान् समेतान् अभ्यर्च्य राजा शिरसा ववन्दे ॥ सुखोपविष्टेष्वथ तेषु भूयः कृतप्रणामः स्वचिकीर्षितं यत् । विज्ञापयामास विविक्तचेता उपस्थितोऽग्रेऽभिगृहीतपाणिः ॥ [भागवतम् १.१९.८१२] इत्याद्य्अनन्तरम् ततश्च वः पृच्छ्यमिमं विपृच्छे विश्रभ्य विप्रा इति कृत्यतायाम् । सर्वात्मना म्रियमाणैश्च कृत्यं शुद्धं च तत्रामृशताभियुक्ताः ॥ [भागवतम् १.१९.२४] इति पृच्छति राज्ञि तत्राभवद्भगवान् व्यासपुत्रो यदृच्छया गामटमानोऽनपेक्षः । अलक्ष्यलिङ्गो निजलाभतुष्टो वृतश्च बालैरवधूतवेषः ॥ [भागवतम् १.१९.२५] ततश्च प्रत्युत्थितास्ते मुनयः स्वासनेभ्यः (भागवतम् १.१९.२८) इत्य्आद्य्अन्ते स संवृतस्तत्र महान्महीयसां ब्रह्मर्षिराजर्षिदेवर्षिसङ्घैः । व्यरोचतालं भगवान् यथेन्दुर् ग्रहर्क्षतारानिकरैः परीतः ॥ (भागवतम् १.१९.३०) इत्युक्तम् ॥ २५॥ बलदेव विद्याभूषण : मुनीनां गुरुमित्य् उक्तम् । तत्कथमित्यत्राह यत इति । यत इत्यस्य इत्युक्तमिति परेण सम्बन्धः । और्व इति विप्रवंशं विनाशयद्भ्यो दुष्टेभ्यः क्षत्रियेभ्यो भयाद्गर्भादाकृष्योरौ तन्मात्रा स्थापितस् ततो जातः क्षत्रियांस्तान् स्वेन तेजसा भस्मीचकार इति भारते[*Eण्ड्ण्Oट्E ॰२] कथास्ति । निगृहीतपाणियोजिताञ्जलिपुटः । एवं कर्तव्यस्य भाव इतिकर्तव्यता । तस्यां विषये सर्वावस्थायां पुंसः किं कृत्यम् । तत्रापि म्रियमाणैश्च किं कृत्यम् । तच्च शुद्धं हिंसाशून्यं, तत्रामृशत यूयम् । गां पृथिवीम् । अनपेक्षो निःस्पृहः । निजस्य शुद्धि पूर्तिकर्तुः स्वस्वामिनः कृष्णस्य लाभेन तुष्टः । तत्र सभायाम् ॥२५॥ अत्र यद्यपि तत्र श्रीव्यासनारदौ तस्यापि गुरुपरमगुरू, तथापि पुनस् तन्मुखनिःसृतं श्रीभागवतं तयोरप्यश्रुतचरमिव जातमित्येवं श्रीशुकस्तावप्युपदिदेश देश्यमित्यभिप्रायः । यदुक्तं शुक मुखादमृतद्रव्यसंयुतम् (१.१.३) इति । तस्मादेवमपि श्री भागवतस्यैव सर्वाधिक्यम् । मात्स्यादीनां यत्पुराणाधिक्यं श्रूयते तत् त्वापेक्षिकमिति । अहो किं बहुना, श्रीकृष्णप्रतिनिधिरूपमेवेदम् । यत उक्तं प्रथमस्कन्धे कृष्णे स्वधामोपगते धर्मज्ञानादिभिः सह । कलौ नष्टदृशामेष पुराणार्कोऽधुनोदितः ॥ (भागवतम् १.३.४५) इति । अतएव सर्वगुणयुक्तत्वमस्यैव दृष्टं धर्मः प्रोज्झितकैतवोऽत्र (१.१.२) इत्यादिना, वेदाः पुराणं काव्यं च प्रभुर्मित्रं प्रियेव च । बोधयन्तीति हि प्राहुस्त्रिवृद्भागवतं पुनः ॥ इति मुक्ताफले हेमाद्रिकारवचनेन च । तस्मान्मन्यन्तां वा केचित् पुराणान्तरेषु वेदसापेक्षत्वं श्रीभागवते तु तथा सम्भावना स्वयम् एव निरस्तैत्यपि स्वयमेव लब्धं भवति । अतएव परमश्रुतिरूपत्वं तस्य । यथोक्तम् कथं वा पाण्डवेयस्य राजर्षेर्मुनिना सह । संवादः समभूत्तात यत्रैषा सात्वती श्रुतिः ॥ (भागवतम् १.४.७) इति । अथ यत्खलु सर्वं पुराणजातमाविर्भाव्येत्यादिकं पूर्वमुक्तं तत् तु प्रथमस्कन्धगतश्रीव्यासनारदसंवादेनैव प्रमेयम् ॥२६॥ बलदेव विद्याभूषण : वक्तव्यं योजयत्यत्र यद्यपीत्य्आदिना । तस्मादेवमिति तद्वक्तुः श्रीशुकस्य सर्वगुरुत्वेनापीत्यर्थः । आपेक्षिकमिति एतद्अन्य पुराणापेक्षयेत्यर्थः । अथ परमोत्कर्षमाह अहो किमिति ॰ अतएवेति कृष्णप्रतिनिधित्वात्कृष्णवत्सर्वगुणयुक्तत्वमित्यर्थः । प्रियेव कान्तेव । त्रिवृत्वेदादित्रयगुणयुक्तमित्यर्थः । तस्मादिति वेद सापेक्षत्वं वेदवाक्येन पुराणप्रामाण्यमित्यर्थः । अतएवेति परमार्थावेदकत्वाद्वेदान्तस्येव भागवतस्य परमश्रुतिरूपत्वमित्य् अर्थः । यत्र संवादे । सात्वती वैष्णवीत्यर्थः । अर्थेति इदं भगवता पूर्वमित्यादिद्वादशोक्तेर्ब्रह्मनारायणसंवादरूपमष्टादशसु मध्ये प्रकटितं, व्यासनारदसंवादरूपं तत्रैव प्रवेशितं, तद् उभयस्य लक्षणसङ्ख्ये तु मात्स्यादावुक्ते इति बोध्यमित्यर्थः । एवम् एव भारतोपक्रमेऽपि दृष्टम् । आदावाख्यानैर्विना चतुर्विंशतिसहस्रं भारतं ततस्तैः सहितं पञ्चाशत्सहस्रं ततस्तैस्ततोऽप्यधिकमितोऽप्य् अधिकमिति तद्वत् ॥२६॥ तदेवं परमनिःश्रेयसनिश्चयाय श्रीभागवतमेव पौर्वापर्याविरोधेन विचार्यते । तत्रास्मिन् सन्दर्भषट्कात्मके ग्रन्थे सूत्रस्थानीयमवतारिकावाक्यं विषयवाक्यं श्रीभागवतवाक्यम् । भाष्यरूपा तद्व्याख्या तु सम्प्रति मध्यदेशादौ व्याप्तानद्वैत वादिनो नूनं भगवन्महिमानमवगाहयितुं तद्वादेन कर्बुरित लिपीनां परमवैष्णवानां श्रीधरस्वामिचरणानां शुद्धवैष्णव सिद्धान्तानुगता चेत्तर्हि यथावदेव विलिख्यते । क्वचित्तेषामेवान्यत्र दृष्टव्याख्यानुसारेण द्रविडादिदेशविख्यातपरमभागवतानां तेषामेव बाहुल्येन तत्र वैष्णवत्वेन प्रसिद्धत्वात् । श्रीभागवत एव, क्वचित्क्वचिन्महाराज द्रविडेषु च भूरिशः (भागवतम् ११.५.३९) इत्यनेन प्रथितमहिम्नां साक्षाच्छ्रीप्रभृतितः प्रवृत्तसम्प्रदायानां श्री वैष्णवाभिधानां श्रीरामानुजभगवत्पादविरचितश्रीभाष्यादि दृष्टमतप्रामाण्येन मूलग्रन्थस्वारस्येन चान्यथा च । अद्वैत व्याख्यानं तु प्रसिद्धत्वान्नातिवितायते ॥२७॥ बलदेव विद्याभूषण : तदेवमिति । ननु वेद एवास्माकं प्रमाणमिति प्रतिज्ञाय पुराणम् एव तत्स्वीकरोतीति किमिदं कौतुकमिति चेन्मैवं भ्रमितव्यम् । एवं वा अरेऽस्य महतो भूतस्य (Bऋहदू २.४.१०) इत्यादिश्रुत्यैव पुराणस्य वेदत्वाभिधानात् । वेदेषु वेदान्तस्यैव पुराणेषु श्रीभागवतस्य श्रैष्ठ्यनिर्णयाच्च तदेव प्रमाणमिति किमसङ्गतमुक्तमिति । अथ ब्रह्मसूत्रभाष्यरीत्या सन्दर्भस्यास्य प्रवृत्तिरित्याह तत्रस्मिन्निति । विचारार्हवाक्यं विषयवाक्यम् । भाष्यरूपा तद्व्याख्येति । अयमर्थः श्रीधरस्वामिनो वैष्णवा एव, तट्टीकासु भगवद्विग्रहगुणविभूति धाम्नां तत्पार्षदतनूनां च नित्यत्वोक्तेः । भगवद्भक्तेः सर्वोत्कृष्टमोक्षानुवृत्त्योरुक्तेश्च तथापि क्वचित्क्वचिन्मायावादोल्लेखस् तद्वादिनो भगवद्भक्तौ प्रवेशयितुं बडिशामिषार्पणन्यायेनैवेति विदितमिति । शुद्धवैष्णवेति यथा साङ्ख्यादिशास्त्राणामविरुद्धांशः सर्वैः स्वीकृतस्तद्वदिदं बोध्यम् । क्वचित्तेषामेवेति क्वचित् स्थलान्तरीयस्वामिव्याख्यानुसारेण श्रीभाष्यादिदृष्टमत प्रामाण्येन मूलश्रीभागवतस्वारस्येन चान्यथा च भाष्यरूपा तद् व्याख्या मया लिख्यत इति मत्कपोलकल्पनं किञ्चिदपि नास्तीति प्रमाणोपेतात्र टीकेत्यर्थः । ननु पूर्वपक्षज्ञानायाद्वैतं च व्याख्येयमिति तत्राह अद्वैतेति ॥२७॥ अत्र च स्वदर्शितार्थविशेषप्रामाण्यायैव, न तु श्रीमद्भागवत वाक्यप्रामाण्याय, प्रमाणानि श्रुतिपुराणादिवचनानि यथादृष्टम् एवोदाहरणीयानि । क्वचित्स्वयमदृष्टाकराणि च तत्त्ववादगुरूणाम् अनाधुनिकानां प्रचुरप्रचारितवैष्णवमतविशेषाणां दक्षिणादिदेश विख्यातशिष्योपशिष्यीभूतविजयध्वजव्यासतीर्थादिवेदवेदार्थविद् वराणां श्रीमध्वाचार्यचरणानां भागवततात्पर्यभारततात्पर्य ब्रह्मसूत्रभाष्यादिभ्यः सङ्गृहीतानि । तैश्चैवमुक्तं भारत तात्पर्ये शास्त्रान्तराणि संजानन् वेदान्तस्य प्रसादतः । देशे देशे तथा ग्रन्थान् दृष्ट्वा चैव पृथग्विधान् ॥ यथा स भगवान् व्यासः साक्षान्नारायणः प्रभुः । जगाद भारताद्येषु तथा वक्ष्ये तद्ईक्षया ॥ इति । तत्र तद्उद्धृता श्रुतिश्चतुर्वेदशिखाद्या, पुराणं च गारुडादीनां सम्प्रति सर्वत्राप्रचरद्रूपमंशादिकम् । संहिता च महासंहितादिका तन्त्रं च तन्त्रभागवतादिकं ब्रह्मतर्कादिकमिति ज्ञेयम् ॥२८॥ बलदेव विद्याभूषण : अत्रेति । इह ग्रन्थे यानि श्रुतिपुराणादिवचनानि मया ध्रियन्ते तानि स्वदर्शितार्थविशेषप्रामाण्यैव । न तु श्रीभागवतवाक्यप्रामण्याय, तस्य स्वतः प्रमाणत्वात् । तानि च यथादृष्टमेवोदाहरणीयानि मूल ग्रन्थान् विलोक्योत्थापितानीत्यर्थः । कानिचिद्वाक्यानि तु मद्अदृष्टाकराण्य् अस्मद्आचार्यश्रीमध्वमुनिदृष्टाकराण्येव क्वचिन्मया ध्रियन्त इत्य् आह क्वचिदिति । मद्व्याख्यानं क्वचिदर्थविशेषे प्रामाण्याय श्री मध्वाचार्यचरणानां भागवततात्पर्यादिभ्यो ग्रन्थेभ्यः सङ्गृहीतानि श्रुतिपुराणादिवचनानि ध्रियन्त इत्यनुषङ्गः । अत्रास्य ग्रन्थकर्तुः सत्यवादित्वं ध्वनितम् । कौमारब्रह्मचर्यवान् नैष्ठिको यः सत्यतपोनिधिः स्वप्नेऽप्यनृतं नोचे चेति प्रसिद्धम् । तेषां कीदृशानामित्याह तत्त्वेति । सर्वं वस्तु सत्यमिति वादस्तत्त्ववादस्तद् उपदेष्टॄणामित्यर्थः । अनाधुनिकानामतिप्राचीनानां केनचिच् छाङ्करेण सह विवादे मध्वस्य मतं व्यासः स्वीचक्रे । शङ्करस्य तु तत्याजेत्यैतिह्यमस्ति । प्रचारितेति भक्तानां विप्राणामेव मोक्षः । देवा भक्तेषु मुख्याः । विरिञ्चस्यैव सायुज्यम् । लक्ष्म्या जीवकोटित्वमित्येवं मतविशेषः । दक्षिणादिदेशेति तेन गौडेऽपि माधवेन्द्रादयस्तद् उपशिष्याः कतिचिद्बभूवुरित्यर्थः । शास्त्रान्तराणीति तेन स्वस्य दृष्ट सर्वाकरता व्यज्यते दिग्विजयित्वं चेत्युपोद्घातो व्याख्यातः ॥२८॥ अथ नमस्कुर्वन्नेव तथाभूतस्य श्रीमद्भागवतस्य तात्पर्यतद् वक्तुर्हृदयनिष्ठापर्यालोचनया सङ्क्षेपतस्तावन्निर्धारयति स्वसुखनिभृतचेतास्तद्व्युदस्तान्यभावोऽ प्यजितरुचिरलीलाकृष्टसारस्तदीयम् । व्यतनुत कृपया यस्तत्त्वदीपं पुराणं तमखिलवृजिनघ्नं व्याससूनुं नतोऽस्मि ॥ [भागवतम् १२.१२.६९] टीका च श्रीधरस्वामिविरचिता श्रीगुरुं नमस्करोति । स्वसुखेनैव निभृतं पूर्णं चेतो यस्य सः । तेनैव व्युदस्तोऽन्यस्मिन् भावो भावना यस्य तथाभूतोऽप्यजितस्य रुचिराभिर्लीलाभिराकृष्टः सारः स्वसुख गतं धैर्यं यस्य सः । तत्त्वदीपं परमार्थप्रकाशकं श्री भागवतं यो व्यतनुत तं नतोऽस्मि इत्येषा । एवमेव द्वितीये तद्वाक्यम् एव प्रायेण मुनयो राजन् (भागवतम् २.१.७) इत्यादिपद्यत्रयमनुसन्धेयम् । अत्राखिलवृजिनं तादृशभावस्य प्रत्कूलमुदासीनं च ज्ञेयम् । तदेवम् इह सम्बन्धितत्त्वं ब्रह्मानन्दादपि प्रकृष्टो रुचिरलीलावशिष्टः श्रीमानजित एव । स च पूर्णत्वेन मुख्यतया श्रीकृष्णसंज्ञ एवेति श्री बादरायणसमाधौ व्यक्तीभविष्यति । तथा प्रयोजनाख्यः पुरुषार्थश् च तादृशतद्आसक्तिजनकं तल्लीलाश्रवणादिलक्षणं तद्भजनमेवेत्य् आयातम् । अत्र व्याससूनुमिति ब्रह्मवैवर्तानुसारेण श्रीकृष्णवराज् जन्मत एव मायया तस्यास्पृष्टत्वं सूचितम् ॥ १२.१२ ॥ श्रीसूतः श्री शौनकम् ॥२९॥ बलदेव विद्याभूषण : अथ यस्य ब्रह्मेति (टत्त्वष्, वेर्से विइइ) पद्योक्तं सम्बन्धिकृष्ण तत्त्वं, तद्भक्तिलक्षणमभिधेयं, तत्प्रेमलक्षणं पुमर्थं च निरूपतया पद्येन तावद्ग्रन्थं प्रवर्तयन् ग्रन्थकृदवतारयति अथेति मङ्गलार्थम् । यस्मिन् शास्त्रवक्तुर्हृदयनिष्ठा प्रतीयते तदेव शास्त्रप्रतिपाद्यवस्तु, न त्वन्यदित्यर्थः । स्वेति तदीयमजितनिरूपकं पुराणमित्यर्थः । टीका चेति स्वसुखेनेति । स्वमसाधारणं जीवानान्दाद् उत्कृष्टम् । गुडादिव मधु, यद्अनभिब्यक्तसंस्थानगुणविभूतिलीलम् आनन्दरूपं स्वप्रकाशं ब्रह्मशब्दव्यपदेश्यं वस्तु तेनेत्यर्थः । रुचिराभिरिति पारमैश्वर्यसमवेतमाधुर्यसम्भिन्नत्वान् मनोज्ञाभिरानन्दैकरूपाभिः पानकरसन्यायेन स्फुरद्अजिततत् परिकरादिभिर्लीलाभिरित्यर्थः । अत्राखिलेति । प्रतिकूलं प्रत्याख्यायकम् । उदासीनं त्याजकमित्यर्थः । अङ्कयुग्मं स्कन्धाध्याययोर्ज्ञापकम् । श्रीसूतः श्रीशौनकं प्रति निर्धारयतीत्यवतारिकावाक्येन सम्बन्धः । एवमुत्तरत्र सर्वत्र बोध्यम् ॥२९॥ तादृशमेव तात्पर्यं करिस्यमाणतद्ग्रन्थप्रतिपाद्यतत्त्वनिर्णय कृते तत्प्रवक्तृश्रीबादरायणकृते समाधावपि सङ्क्षेपत एव निर्धारयति भक्तियोगेन मनसि सम्यक्प्रणिहितेऽमले । अपश्यत्पुरुषं पूर्णं मायां च तद्अपाश्रयम् ॥ यया सम्मोहितो जीव आत्मानं त्रिगुणात्मकम् । परोऽपि मनुतेऽनर्थं तत्कृतं चाभिपद्यते ॥ अनर्थोपशमं साक्षाद्भक्तियोगमधोक्षजे । लोकस्याजानतो विद्वांश्चक्रे सात्वतसंहिताम् ॥ यस्यां वै श्रूयमाणायां कृष्णे परमपूरुषे । भक्तिरुत्पद्यते पुंसः शोकमोहभयापहा ॥ स संहितां भागवतीं कृत्वानुक्रम्य चात्मजम् । शुकमध्यापयामास निवृत्तिनिरतं मुनिः ॥ (भागवतम् १.७.४८) तत्र स वै निवृत्तिनिरतः सर्वत्रोपेक्षको मुनिः । कस्य वा बृहतीमेतामात्मारामः समभ्यसत् ॥ (भागवतम् १.७.९) इति शौनकप्रश्नानन्तरं च आत्मारामाश्च मुनयो निर्ग्रन्था अप्युरुक्रमे । कुर्वन्त्यहैतुकीं भक्तिमित्थम्भूतगुणो हरिः ॥ हरेर्गुणाक्षिप्तमतिर्भगवान् बादरायणिः । अध्यगान्महदाख्यानं नित्यं विष्णुजनप्रियः ॥ (भागवतम् १.७.१०११) भक्तियोगेन प्रेम्णा । अस्त्वेवमङ्ग भगवान् भजतां मुकुन्दो मुक्तिं ददाति कर्हिचित्स्म न भक्तियोगम् ॥ (भागवतम् ५.६.१८) इत्यत्र प्रसिद्धेः । प्रणिहिते समाहिते समाधिनानुस्मर तद्विचेष्टितम् (भागवतम् १.५.१३) इति तं प्रति श्रीनारदोपदेशात् । पूर्णदस्य मुक्तप्रग्रहया वृत्त्या भगवानिति शब्दोऽयं तथा पुरुष इत्यपि । वर्तते निरुपाधिश्च वासुदेवेऽखिलात्मनि ॥ इति पाद्मोत्तरखण्डवचनावष्टम्भेन, तथा कामकामो यजेत्सोममकामः पुरुषं परम् ॥ अकामः सर्वकामो वा मोक्षकाम उदारधीः । तीव्रेण भक्तियोगेन यजेत पुरुषं परम् ॥ (भागवतम् २.३.९१०) इत्यस्य वाक्यद्वयस्य पूर्ववाक्ये पुरुषं परमात्मानं प्रकृत्य् एकोपाधिमुत्तरवाक्ये पुरुषं पूर्णं निरुपाधिमिति टीकानुसारेण च पूर्णः पुरुषोऽत्र स्वयं भगवानुच्यते ॥३०॥ बलदेव विद्याभूषण : ग्रन्थवक्तुः शुकस्य यत्र निष्ठावधारिता । तत्रैव ग्रन्थकर्तुर् व्यासस्यापि निष्ठामवधारयितुमवतारयति तादृशमेवेति । निवृत्तिनिरतं ब्रह्मानन्दादन्यस्मिन् स्पृहाविरहितम् । कस्येति संहिताभ्यासस्य किं फलमित्यर्थः । अध्यगादधीतवान् । मुक्तप्रग्रहयेति यथाश्वः प्रग्रहे मुक्ते बलावधि धावत्येवं पूर्णशब्दः प्रवृत्तः पूर्णत्वावधि प्रवर्तेतेति वक्तुं तद्अवधिश्च स्वयंभगवत्येवेति तथोच्यत इत्यर्थः ॥३०॥ पूर्वमिति पाठे पूर्वमेवाहमिहासम्, इति तत्पुरुषस्य पुरुषत्वमिति श्रौतनिर्वचनविशेषपुरस्कारेण च स एवोच्यते । तमपश्यत्श्रीवेद व्यास इति स्वरूपशक्तिमन्तमेवेत्येतत्स्वयमेव लब्धं पूर्णं चन्द्रमपश्यदित्युक्ते कान्तिमन्तमपश्यदिति लभ्यते । अतएव त्वमाद्यः पुरुषः साक्षाद् ईश्वरः प्रकृतेः परः मायां व्युदस्य चिच्छक्त्या कैवल्ये स्थित आत्मनि ॥ [भागवतम् १.७.२३] इत्युक्तम् । अतएव मायां च तद्अपाश्रयमित्यनेन तस्मिनप अपकृष्ट आश्रयो यस्याः । निलीय स्थितत्वादिति मायाया न तत्स्वरूपभूतत्वमित्यपि लभ्यते । वक्ष्यते च माया परैत्यभिमुखे च विलज्जमाना इति [भागवतम् २.७.४७] । स्वरूपशक्तिरियमत्रैव व्यक्तीभविष्यति अनर्थोपशमं साक्षाद् भक्तियोगमधोक्षजे [भागवतम् १.७.६] इत्यनेन आत्मारामाश्च [भागवतम् १.७.१०] इत्य् अनेन च । पूर्वत्र हि भक्तियोगप्रभावः खल्वसौ मायाभिभावकतया स्वरूपशक्तिवृत्तित्वेनैव गम्यते । परत्र च ते गुणा ब्रह्मानन्दस्याप्य् उपरिचरतया स्वरूपशक्तेः परमवृत्तितामेवार्हन्तीति । मायाधिष्ठातृ पुरुषस्तु तद्अंशत्वेन, ब्रह्म च तदीयनिर्विशेषाविर्भावत्वेन, तद् अन्तर्भावविवक्षया पृथङ्नोक्ते इति ज्ञेयम् । अतोऽत्र पूर्ववदेव सम्बन्धितत्त्वं निर्धारितम् ॥३१॥ बलदेव विद्याभूषण : पाठान्तरेणापि स एवार्थ इति व्याख्यातुमाह पूर्वमिति । ईश्वरस्यैव पूर्ववर्तित्वात्पुरुषत्वमित्यर्थः । स एवेति स्वयं भगवानेव । स्वरूपशक्तिमत्त्वे प्रमाणमाह त्वमिति । श्रुतिश्चात्रास्ति । परास्य शक्तिर् विविधैव श्रूयते स्वाभाविकी ज्ञानबलक्रिया च इति (श्वेतू ६.८) । एषैव ह्लादिनी सन्धिनीत्यादिना स्मर्यते । इत्युक्तमिति कण्ठतः पाठितम् अर्जुनेनेत्यर्थः । मायातोऽन्येयं बोध्येत्याह अतएवेत्यादिना । मूल वाक्येन स्वरूपभूता चिच्छक्तिरियं बोधितास्तीयाह अतएवेत्यादिना । पट्टमहिषीव स्वरूपशक्तिः, बहिर्द्वारसेविकेव मायाशक्तिरित्य् उभयोर्महद्अन्तरं बोध्यम् । भगवद्भक्तेर्भगवद्गुणानां च स्वरूपशक्तिसारांशत्वं सयुक्तिकमाह पूर्वत्र हीत्यादिना । ब्रह्मानन्दस्येति अनभिव्यक्तसंस्थानादिविशेषस्येति बोध्यम् । ननु परमात्मरूपस्तादृशब्रह्मरूपश्चाविर्भावः कुतो व्यासेन न दृष्ट इति चेत्तत्राह मायाधिष्ठात्रिति ॥३१॥ अथ प्राक्प्रतिपादितस्यैवाभेध्येअस्य प्रयोजनस्य च स्थापकं जीवस्य स्वरूपत एव परमेश्वराद्वैलक्षण्यमपश्यदित्याह यया मायया सम्मोहितो जीवः स्वयं चिद्रूपत्वेन त्रिगुणात्मकाज्जडात्परोऽप्यात्मानं त्रिगुणात्मकं जडं देहादिसङ्घातं मनुते । तन्मननकृतमनर्थं संसारव्यसनं चाभिपद्यते । तदेवं जीवस्य चिद्रूपत्वेऽपि यया सम्मोहित इति मनुते इति च स्वरूपभूतज्ञानशालित्वं व्यनक्ति प्रकाशैकरूपस्य तेजसः स्वपरप्रकाशनशक्तिवत् । अज्ञानेनावृतं ज्ञानं तेन मुह्यन्ति जन्तवः (गीता ५.२५) इति श्रीगीताभ्यः । तदेवं उपाधेरेव जीवत्वं तन्नाशस्यैव मोक्षत्वमिति मतान्तरं परिहृतवान् । अत्र यया सम्मोहितः इत्यनेन तस्या एव तत्र कर्तृत्वं भगवतस् तत्रोदासीनत्वं मतम् । वक्ष्यते च विलज्जमानया यस्य स्थातुमीक्षापथेऽमुया विमोहिता विकत्थन्ते ममाहमिति दुर्धियः ॥ [भागवतम् २.५.१३] इति । अत्र विलज्जमानया इत्यनेनेदमायाति तस्या जीवसम्म्होहनं कर्म श्री भगवते न रोचत इति यद्यपि सा स्वयं जानाति, तथापि भयं द्वितीयाभिनिवेशतः स्यादीशादपेतस्य (भागवतम् ११.२.३७) इति दिशा जीवानाम् अनादिभगवद्अज्ञानमयवैमुख्यमसहमाना स्वरूपावरणम् अस्वरूपावेशं च करोति ॥३२॥ जीवो येन्श्वरं भजेत्भक्त्या च तस्मिन् प्रेमाणं विन्देत्ततो मायया विमुक्तः स्यात्तमीश्वराज्जीवस्य वास्तवं भेदमपश्यदिति व्याचष्टे, अथ प्रागित्यादिना । जीवस्येति वैलक्षण्यमिति सेवकत्वसेव्यत्वाणुत्व विभुत्वरूपनित्यधर्महेतुकं भेदमित्यर्थः । ननु चिन्मात्रो जीवः यो विज्ञाने तिष्ठन् (Bऋहदू ३.७.२२), विज्ञानं यज्ञं तनुते (टैत्तू २.५.१) इत्यादौ चिद्धातुत्वश्रवणात्, न तस्य धर्मभूतं नित्यं ज्ञानम् अस्ति येन मोहमनने वर्णनीये । तस्मात्सत्त्वा सञ्जायते ज्ञानम् (गीता १४.१७) इत्यादिवाक्यात्, सत्त्वे या चैतन्यस्य च्छाया, तदेव सत्त्वोपहितस्य तस्य ज्ञानं येन मोहमनने व्यासेन दृष्टे स्यातामिति चेत्तत्राह तद् एवमित्यादिना । छायाभावाच्च न तत्कल्पनं युक्तमिति भावः । ननु स्वरूपभूतं ज्ञानं कथमिति चेत्तत्राह पर्काशैकेति । अहि कुण्डलाधिकरणे (Vस्. ३.२.२८) भाषितमेतद्द्रष्टव्यम् । तृतीयसन्दर्भे विस्तरीष्याम एतत् । तदेवमुपाधेरिति अन्तःकरणं जीवः अन्तःकरण नाशो जीवस्य मोक्ष इति शङ्करमतं दूसितम् । तथा सति परोऽपीत्यादि व्याकोपादिति भावः । अत्रेति तत्र जीवमोहने कर्मणि । तस्या मायायाः । विलज्जेति ब्रह्मवाक्यम् । अमुया मायया । असहमानेति दास्या उचितमेतत् कर्म यत्स्वामिविमुखान् दुःखाकरोतीति । ईशवैमुख्येन पिहितं जीवं माया पिधत्ते, घटेनावृतं दीपं यथा तम आवृणोतीति ॥३२॥ श्रीभगवांश्चानादित एव भक्तायां प्रपञ्चाधिकारिण्यां तस्यां दाक्षिण्यं लङ्घितुं न शक्नोति । तथा तद्भयेनापि जीवानां स्व साम्मुख्यं वाञ्छन्नुपदिशति दैवी ह्येषा गुणमयी मम माया दुरत्यया । मामेव ये प्रपद्यन्ते मायामेतां तरन्ति ते ॥ इति [गीता ७.१४] सतां प्रसङ्गान्मम वीर्यसंविदो भवन्ति हृत्कर्णरसायनाः कथाः । तज्जोषणादाश्वपवर्गवर्त्मनि श्रद्धा रतिर्भक्तिरनुक्रमिष्यति ॥ (३.२५.२५) लीलया श्रीमद्व्यासरूपेण तु विशिष्टया तद्उपदिष्टवानित्यनन्तरम् एवायास्यति । अनर्थोपशमं साक्षादिति । तस्माद्द्वयोरपि तत्तत्समञ्जसं ज्ञेयम् । ननु माया खलु शक्तिः शक्तिश्च कार्यक्षमत्वम् । तच्च धर्मविशेषः । तस्याः कथं लज्जादिकम् । उच्यते एवं सत्यपि भगवति तासां शक्तीनाम् अधिष्ठातृदेव्यः श्रूयन्ते, यथा केनोपनिषदि महेन्द्रमाययोः संवादः । तदास्तां, प्रस्तुतं प्रस्तूयते ॥३३॥ बलदेव विद्याभूषण : नन्वीश्वरः कथं तन्मोहनं सहते । तत्राह भगवांश्चेति । तर्हि कृपालुताक्सिः । तत्राह तथेति । तद्भयेनापीति मायातो यज्जीवानां भयं तेनापि हेतुनेत्यर्थः । ततश्च न तत्क्सतिरित्यर्थः । दैवीति प्रपत्तिश् चेयं सत्प्रसङ्गहेतुकैव तद्उपदिष्टा यया साम्मुख्यं स्यात्तद्विद्धि प्रणिपातेन (गीता ४.३४) इत्यादि तद्वाक्यात् । सतां प्रसङ्गातित्याद्य्अग्रिम वाक्याच्च । लीलयेति लीलावतारेण । विशिष्टतयेति आचार्यरूपेणेत्यर्थः । तस्मादिति द्वयोर्मायाभगवतोरपि । तत्तदिति । मोहनं साम्मुख्य वाञ्छा चेत्यर्थः । ननु मायाया मोहनलज्जनकर्तृत्वमुक्तं तत्कथं जडायास्तस्याः सम्भवेदिति शङ्कते ननु मायेति । धर्मविशेष उत्साहादिवदित्यर्थः । सिद्धान्तयति उच्यत इति । अधिष्ठातृदेव्य इति । विन्ध्यादिगिरीणां यथाधिष्ठातृमूर्तयस्तद्वत् । केनेति तस्यां ब्रह्म ह देवेभ्यो विजिग्ये (Kएनऊ ३.१) इत्यादिवाक्यमस्ति । तत्राग्निवायु मघोनः सगर्वान् वीक्ष्य तद्गर्वमपनेतुं परमात्माविरभूत् । तम् अजानन्तस्ते जिज्ञासयामासुः । तेषां वीर्यं परीक्षमाणः स तृणं निदधौ । सर्वं दहेयमित्यग्निः । सर्वमाददीयेति वायुश्च ब्रुवंस्तन् निर्दग्धुमादयेतुं च नाशकत् । ज्ञातुं प्रवृत्तान्मधोनस्तु स तिरोऽधत्त । तद्आकाशे मघवा हैमवतीमुमामाजगाम । किमेतदिति पप्रच्छ । सा च ब्रह्मैतदित्युवाचेति निष्कृष्टम् ॥३३॥ तत्र जीवस्य तादृशचिद्रूपत्वेऽपि परमेश्वरतो वैलक्षण्यं तद्अपाश्रयम् इति, यथा सम्मोहित इति च दर्शयति ॥३४॥ बलदेव विद्याभूषण : तत्र जीवस्येति मायां च तद्अपाश्रयामितीश्वरस्य मायानियन्तृत्वं यया सम्मोहितो जीव इति जीवस्य मायानियम्यत्वं च । तेन स्वरूपत ईशाज् जीवस्य भेदपर्यायं वैलक्षण्यं दृष्टवानिति प्रस्फुटम् । अपश्यतित्य् अनेन कालोऽप्यानीतः । तदेवमीश्वरजीवमायाकालाख्यानि चत्वारि तत्त्वानि समाधौ श्रीव्यासेन दृष्टानि । तानि नित्यान्येव । अथ ह वाव नित्यानि पुरुषः प्रकृतिरात्मा कालः इत्येवं भाल्लवेयश्रुतेः । नित्यो नित्यानां चेतनश्चेतनानामेको बहूनां यो विदधाति कामान् (Kअठऊ २.२.१३) इति काठकात् । अजामेकां लोहितशुक्लकृष्णां बह्वीः प्रजाः सृजमानां सरूपाः । अजो ह्येको जुषमाणोऽनुशेते जहात्येनां भुक्तभोगामजोऽन्यः ॥ इति श्वेताश्वतराणां मन्त्राच्च (श्वेतू ४.५) । अविकाराय शुद्धाय नित्याय पर्मात्मने । सदैकरूपरूपाय विष्णवे सर्वजिष्णवे ॥ (Vइড়् १.२.१) प्रधानं पुरुषं चापि प्रविश्यात्मेच्छया हरिः । क्षोभयामास सम्प्राप्ते सर्गकाले व्ययाव्ययौ ॥ (Vइড়् १.२.२९) अव्यक्तं कारणं यत्तत्प्रधान ऋषिसत्तमैः । प्रोच्यते प्रकृतिः सूक्ष्मा नित्यं सद्असद्आत्मकम् ॥ (Vइড়् १.२.१९) अनादिर्भगवान् कालो नान्तोऽस्य द्विज विद्यते । अव्युच्छिन्नास्ततस्त्वेते सर्गस्थित्य्अन्तसंयमाः ॥ (Vइড়् १.२.२६) इति श्रीवैष्णवाच्च । तेष्वीश्वरः शक्तिमान् स्वतन्त्रः जीवादयस्तु तच् छक्तयोऽस्वतन्त्राः । विष्णुशक्तिः परा प्रोक्ता क्षेत्रज्ञाख्या तथापरा । अविद्याकर्मसंज्ञान्या तृतीया शक्तिरिष्यते ॥ (Vइড়् ६.७.६१) इति श्रीवैष्णवात् । स यावदुर्व्या भरमीश्वरेश्वरः स्वकालशक्त्या क्षपयंश्चरेद्भुवि (भागवतम् १०.१.२२) इति श्रीभागवताच्च । तत्र विभुविज्ञानमीश्वरः, अणुविज्ञानं जीवः । उभयं नित्यज्ञानगुणकम् । सत्त्वादिगुणत्रयविशिष्टं जडं द्रव्यं माया । गुणत्रयशून्यं भूत वर्तमानादिव्यवहारकारणं जडं द्रव्यं तु कालः । कर्माप्यनादि विनाशि चास्ति न कर्माविभागादिति चेन्नानादित्वातिति (Vस्२.१.३५) इति सूत्रादिति वस्तुस्थितिः श्रुतिस्मृतिसिद्धा वेदितव्या ॥३४॥ यर्ह्येव यदेकं चिद्रूपं ब्रह्म मायाश्रयतावलितं विद्यामयं तर्ह्य् एव तन्मायाविषयतापन्नमविद्यापरिभूतं चेत्युक्तमिति जीवेश्वर विभागो ‘वगतः । ततश्च स्वरूपसामर्थ्यवैलक्षण्येन तद्द्वितयं मिथो विलक्षणस्वरूपमेवेत्यागतम् ॥३५॥ बलदेव विद्याभूषण : यत्तु एकमेवाद्वितीयम् (Cहाऊ ६.२.१), विज्ञानमानन्दं ब्रह्म (Bऋहदू ३.९.२८), नेह नानास्ति किञ्चन (Bऋहदू ४.४.१९) इत्यादिश्रुतिभ्यो निर्विशेषचिन्मात्राद्वैतं ब्रह्म वास्तव्यम् । अथ सदसद्विलक्षणत्वाद् अनिर्वचनीयेन विद्याविद्यावृत्तिकेनाज्ञानेन सम्बन्धात्तस्माद् विद्योपहितमीश्वरचैतन्यमविद्योपहितं जीवचैतन्यं चाभूत् । स्वरूप ज्ञानेन निवृत्ते त्वज्ञाने न तत्रेश्वरजीवभावः, किन्तु निर्विशेषाद्वितीय चिन्मात्ररूपावस्थितिर्भवेदित्याह मायी शङ्करः । तत्राह यर्ह्येव यद् एकमिति विस्फुटार्थम् । इत्युक्तमिति । युगपदेवाकस्मादेवाज्ञानयोगाद् एकस्य भागस्य विद्याश्रयत्वमन्यस्याविद्यापराभूतिरिति । किम् अपराद्धं तेन ब्रह्मणा येन विविधविक्षेप क्लेशानुभवभाजनताभूत् । पुनरप्याकस्मिकाज्ञान सम्बन्धस्याशक्यत्वाद्वक्तुमिति न तदुक्तरीत्या तद्विभागो वाच्यः किन्तु श्रीव्यासदृष्टरीत्यैव सोऽस्माभिरवगत इत्यर्थः ॥३५॥ न चोपाधितारतम्यमयपरिच्छेदप्रतिबिम्बत्वादिव्यवस्थया तयोर् विभागः स्यात् ॥३६॥ बलदेव विद्याभूषण : यत्तु इन्द्रो मायाभिः पुरुरूप ईयते (ऋV ६.४७.१८, Bऋहदू २.५.१९) इत्य् आदिश्रुतेस्तस्याद्वितीयस्य ब्रह्मणो मायया परिच्छेदादीश्वरजीव विभागः स्यात् । तत्र विद्यया परिच्छिन्नो महान् खण्ड ईश्वरः । अविद्यया परिच्छिन्नः कनीयान् खण्डस्तु जीवः । यथा घटेनावच्छिन्नः शरावेणावच्छिन्नश्चाकाशखण्डो महद्अल्पताव्यपदेशं भजति । यथा ह्ययं ज्योतिरात्मा विवस्वान् अपो भित्त्वा बहुधैकोऽनुगच्छन् । उपाधिना क्रियते भेदरूपो देवः क्षेत्रेष्वेवमजोऽयमात्मा ॥ (श्रुति?) इत्यादिषु ब्रह्मणस्तस्य प्रतिबिम्बश्रवणात्तद्विभागः स्यात् । विद्यायां प्रतिबिम्ब ईश्वरः । अविद्यायां प्रतिबिम्बस्तु जीवः । यथा सरसि रवेः प्रतिबिम्बः यथा च घटे प्रतिबिम्बो महद्अल्पत्वव्यपदेशं भजते तद्वदित्याह शङ्करः । तदिदं निरसनाय दर्शयति न चेति । अनया रीत्या तयोर्विभागो न च स्यादित्यन्वयः ॥३६॥ तत्र यद्युपाधेरनाविद्यकत्वेन वास्तवत्वं तर्ह्यविषयस्य तस्य परिच्छेदविषयत्वासम्भवः । निर्धर्मकस्य व्यापकस्य निरवयवस्य च प्रतिबिम्बत्वायोगोऽपि । उपाधिसम्बन्धाभावात्बिम्बप्रतिबिम्ब भेदाभावात्, दृश्यत्वाभावाच्च । उपाधिपरिच्छिन्नाकाशस्थज्योतिर् अंशस्येव प्रतिबिम्बो दृश्यते, न त्वाकाशस्य दृश्यत्वाभावादेव ॥३७॥ बलदेव विद्याभूषण : कुतो न वाच्य इति तद्अनुपपत्तेरेवेत्याह तत्र यद्युपाधेरिति । परिच्छेदपक्षं निराकरोति अनाविद्यकत्वेन रज्जुभुजङ्गवद्अज्ञान रचितत्वाभावेन वस्तुभूतत्वे सतीत्यर्थः । अविषयस्येति अगृह्यो न हि गृह्यते इति (Bऋहदू ३.९.२६) श्रुतेः सर्वास्पृश्यस्य तस्य ब्रह्मण इत्यर्थः । इदमत्र बोध्यम् न च टङ्कच्छिन्नपाषाणखण्डवद्वास्तवोपाधि च्छिन्नो ब्रह्मखण्डविशेष ईश्वरो जीवश्च । ब्रह्मणोऽच्छेद्यत्वाद् अखण्डत्वाभ्युपगमाच्च । आदिमत्त्वापत्तैश्चेश्वरजीवयोः । यत एकस्य द्विधा त्रिधा विधानं छेदः । नाप्यच्छिन्न एवोपाधिसंयुक्तो ब्रह्म प्रदेशविशेष एव स सः । उपाधौ चलत्युपाधिसंयुक्तिब्रह्मप्रदेश चलनायोगात्प्रतिक्षणमुपाधिसंयुक्तब्रह्मप्रदेशभेदाद् अनुक्षणमुपहितत्वानुपहितत्वापत्तेः । न च कृत्स्नं ब्रह्मैवोपहितं स सः । अनुपहितब्रह्मव्यपदेशासिद्धेः । नापि ब्रह्माधिष्ठानम् । उपाधिरेव स सः । मुक्तावीशजीवाभावापत्तेरिति तुच्छः परिच्छेद वादः । अथ प्रतिबिम्बपक्षं निराकरोति निर्धर्मकस्येत्यादिना । निर्धर्मकस्योपादिसम्बन्धाभावात् । व्यापकस्य बिम्बप्रतिबिम्ब भेदाभावात् । निरवयवस्य दृश्यत्वाभावाच्च ब्रह्मणङ्प्रतिबिम्ब ईश्वरो जीवश्च नेत्यर्थः । रूपादिधर्मविशिष्टस्य परिच्छिन्नस्य सावयवस्य च सूर्यादेस्तद्विदूरे जलाद्य्उपाधौ प्रतिबिम्बो दृष्टः तद् विलक्षणस्य ब्रह्मणः स न शक्यो वक्तुमित्यर्थः । नन्वाकाशस्य तादृशस्यापि प्रतिबिम्बदर्शनाद्ब्रह्मणः स भविष्यतीति चेत्तत्राह उपाधीति ग्रहनक्षत्रप्रभामण्डलस्येत्यर्थः । अन्यथा वायुकाल दिशामपि स दर्शनीयः । यत्तु ध्वनेः पर्तिध्वनिरिव ब्रह्मणः प्रतिबिम्बः स्यादित्याह तन्न चारु । अर्थान्तरत्वादिति प्रतिबिम्बवादोऽप्य् अतितुच्छः ॥३७॥ तथा वास्तवपरिच्छेदादौ सति सामानाधिकरण्यज्ञानमात्रेण न तत् त्यागश्च भवेत् । तत्पदार्थप्रभावस्तत्र कारणमिति चेदस्माकमेव मतसम्मतम् ॥३८॥ बलदेव विद्याभूषण : ब्रह्मैवाहमिति ज्ञानमात्रेण तद्रूपावस्थितिः स्यादिति यद् अभिमतं तत्कह्लूपाधेर्वास्तवत्वपक्षे न सम्भवतीत्याह तथा वास्तवेति । आदिना प्रतिबिम्बो ग्राह्यः । न खलु निगडितः कश्चिद्दीनो राजैवाहमिति ज्ञानमात्राद्राजा भवन् दृष्ट इति भावः । ननु ब्रह्मानुसन्धिसामर्थ्याद्भवेदिति चेत्तत्राह तत्पदार्थेति । तथा च त्वन्मतक्षतिरिति ॥३८॥ उपाधेराविद्यकत्वे तु तत्र तत्परिच्छिन्नत्वादेरप्यघटमानत्वाद् आविद्यकत्वमेवेति घटाकाशादिषु वास्तवोपाधिमयतद्दर्शनया न तेषामवास्तवस्वप्नदृष्टान्तोपजीविनां सिद्धान्तः सिध्यति, घटमानाघटमानयोः सङ्गतेः कर्तुमशक्यत्वात् । ततश्च तेषां तत् तत्सर्वमविद्याविलसितमेवेति स्वरूपमप्राप्तेन तेन तेन तत्तद् व्यवस्थापयितुमशक्यम् ॥३९॥ बलदेव विद्याभूषण : अथोपाधेराविद्यकत्वपक्षे परिच्चेह्दादिवादद्वयं निराकरोति उपाधेरिति । आविद्यकत्वे रज्जुभुजङ्गादिवन्मिथ्यात्वे सतीत्यर्थः । तत्रोपाधिपरिच्छिन्नत्वतत्प्रतिबिम्बत्वयोरप्यनुपपद्यमानत्वान् मिथ्यात्वमेवेति हेतोः । घटाकाशादिष्घटपरिच्छिन्नाकाशे घटाम्बु प्रतिबिम्बाकाशे च वास्तवोओपाधिमयतद्उभयदृष्टान्तदर्शनया तेषां चिन्मात्राद्वैत्नामेकजीववादपरिनिष्ठत्वादवास्तवस्वप्न दृष्टान्तोपजीविनां सिद्धान्तो न सिध्यति । उपाधेर्मिथ्यात्वे तेन परिच्छेदः प्रतिबिम्बश्च ब्रह्मणो मिथैव स्यात् । अतो मिथ्योपाधिदृष्टान्तत्वेन सत्यघटघटाम्बुनोः प्रदर्शनम् असमञ्जसमेव । घटघटाम्बुदृष्टान्तप्रदर्शनं घटमानं, विद्याविधावृत्तिरूपदार्ष्टान्तिकप्रदर्शनं स्वघटमानम् । तयोः सङ्गतिः सादृश्यविलक्षणा कर्तुमशक्यैव सादृश्याभावात् । ततश्चेति तत् तत्सर्वं परिच्छेदप्रतिबिम्बकल्पनमविद्याविलसितमज्ञान विजृम्भितमेव । इति एवम्उक्तरीत्या । स्वरूपमप्राप्तेन असिद्धेन । तेन परिच्छेदवादेन । तेन प्रतिबिम्बवादेन च । तत्तद्व्यवस्थापयितुं प्रतिपादयितुमशक्यम् । ततश्च हन्तृहतन्यायेन व्यासदृष्ट प्रकारकस्तद्विभागो ध्रुवः ॥३९॥ इति ब्रह्माविद्ययोः पर्यवसाने सति यदेव ब्रह्म चिन् मात्रत्वेनाविद्यायोगस्यात्यन्ताभावास्पदत्वाच्छुद्धं तदेव तद्योगाद् अशुद्ध्या जीवः । पुनस्तदेव जीवाविद्याकल्पितमायाश्रयत्वादीश्वरस्तद् एव च तन्मायाविषयत्वाज्जीव इति विरोधस्तद्अवस्थ एव स्यात् । तत्र च शुद्धायां चित्यविद्या । तद्अविद्याकल्पितोपाधौ तस्यामीश्वराख्यायां विद्येति, तथा विद्यावत्त्वेऽपि मायिकत्वमित्यसमञ्जसा च कल्पना स्यादित्य् आद्यनुसन्धेयम् ॥४०॥ बलदेव विद्याभूषण : ननु परिच्छेदादिवादद्वये नास्माकं तात्पर्यं तस्याज्ञबोधनाय कल्पितत्वात् । किन्त्वेकजीववाद एव तदस्ति । स एव माया परिमोहितात्मा शरीरमास्थाय करोति सर्वम् । स्त्रियन्नपानादिविचित्रभोगैः स एव जाग्रत्परितुष्टिमेति ॥ (Kऐवल्यऊ १२) इत्यादि कैवल्योपनिषदि तस्यिअवोपपादितत्वात् । तद्वादश्चेत्थमेकम् एवाद्वितीयमित्याद्युक्तश्रुतिभ्योऽद्वितीयचिन्मात्रो ह्यात्मा । स चात्मन्य् अविद्यया गुणमयीं मायां तद्वैषम्यजां कार्यसंहितं च कल्पन्यन्न् अस्मद्अर्थमेकं युष्मद्अर्थांश्च बहून् कल्पयति । तत्रास्मद्अर्थः स्वस्वरूपः पुरुषः । युष्मद्अर्थश्च महद्आदीनि भूम्य्अन्तानि जडानि । स्वतुल्यानि पुरुषान्तराणि, सवश्वराख्यः पुरुषविशेषश्चेत्येवं त्रिविधः । जीवेशावाभासेन करोति माया चाविद्या च स्वयमेव भवति इति (ण्टू २.९) इति श्रुत्य्अन्तराच्च । गुणयोगादेव कर्तृत्वभोक्तृत्वे तत्रात्मन्यध्यस्ते । यथा स्वप्ने कश्चिद्राजधानीं राजानं तत्प्रजाश्च कल्पयति, तन्नियम्यमात्मानं च मन्यते, तद्वत् । जाते च ज्ञाने, जागरे च सति, ततोऽन्यन्न किञ्चिदस्तीति चिन्मात्रमेकमात्मस्वस्त्विति । तमिमं वादं निराकर्तुमाह इति ब्रह्मेति । इति एवं पूर्वोक्तरीत्या परिच्छेदादिवादद्वयस्य प्रत्याख्याने जाते, ब्रह्म चाविद्या चेति द्वयोः पर्यवसाने सतीत्यर्थः । अत्यन्ताभावास्पदत्वादिति अगृह्यो न हि गृह्यते (Bऋहदू ३.९.२६) इत्यादि श्रुतेरेवेत्यर्थः । विरोधस्तद्अवस्थ इति वोरोधत्वादेवाशक्यव्यवस्थापन इत्यर्थः । तव च शुद्धायामिति शुद्धे ब्रह्मण्यकस्मादविद्यासम्बन्धस्तत्सम्बन्धात्तस्य जीवत्वम् । तेन जीवेन कल्पिताया मायाया आश्रयो भूत्वा तद् ब्रह्मैवेश्वरः । तस्येश्वरस्य मायया परिभूतं ब्रह्मैव तज्जीवः । इत्य् आदि विप्रलापोऽयमविदुषामेव, न तु विदुषामिति भावः । मायिकत्वं प्रतारकत्वमित्यर्थः । स एव माया इति श्रुतिस्तु ब्रह्मायत्तवृत्तिकत्व ब्रह्मव्याप्यत्वाभ्यां ब्रह्मणोऽनतिरिक्तो जीव इत्येव निवेदयन्ती गतार्था । जीवेशौ इति श्रुतिस्तु मायाविमोहिततार्किकादिपरिकल्पितजीवेश परतया गतार्थेति न किञ्चिदनुपपन्नम् ॥ ४० ॥ किं च, यद्यत्राभेद एव तात्पर्यमभविष्यत्तर्ह्येकमेव ब्रह्माज्ञानेन भिन्नं, ज्ञानेन तु तस्य भेदमयं दुःखं विलीयत इत्य् अपश्यदित्येवावक्ष्यत् । तथा श्रीभगवल्लीलादीनां वास्तवत्वाभावे सति श्रीशुकहृदयविरोधश्च जायते ॥४२॥ बलदेव विद्याभूषण : अनुपपत्त्य्अन्तरमाह किं चेति । अत्र श्रीभागवते शास्त्रे । इत्येवेति पूर्णः पुरुषः कश्चिदस्ति तद्आश्रितया मायया जीवो विमोहितोऽनर्थं भजति । तद्अनर्थोपशमनी च पूर्णस्य तस्य भक्तिः इत्यपश्यत् । इत्येवं नावक्ष्यदित्यर्थः ॥४१॥ तस्मात्परिच्छेदप्रतिबिम्बत्वादिप्रतिपादकशास्त्राण्यपि कथञ्चित्तत् सादृश्येन गौण्यैव वृत्त्या प्रवर्तेरन् । अम्बुवदग्रहणात्तु न तथात्वम् (Vस्. ३.२.१९), वृद्धिह्रासभाक्त्वमन्तर् (पगे ९८) भावादुभय सामञ्जस्योदेवम् (Vस्३.२.२०) इति पूर्वोत्तरपक्षमयन्यायाभ्याम् ॥४२॥ बलदेव विद्याभूषण : तस्मादिति । तत्सादृश्येन परिच्छिन्नप्रतिबिम्बतुल्यत्वेनेत्यर्थः । सिंहो देवदत्तः इत्यत्र यथा गौण्या वृत्त्या सिंहतुल्यत्वं देवदत्तस्योच्यते, न तु सिंहत्वं तद्वदित्यर्थः । नन्वेवं केन निर्णीतम् इति चेत् । सूत्रकृता श्रीव्यासेनैवेति तत्सूत्रद्वयं दर्शयति । तत्रैकेन तद्वादद्वयमसम्भवान्निरस्यति अम्बुवदिति । यथाम्बुना भूखण्डस्य परिच्छेदः, एवमुपाधिना ब्रह्मप्रदेशस्य स स्यात् । न, अम्बुना भूखण्डस्येवोपाधिना ब्रह्मप्रदेशस्य ग्रहणाभावात् । अगृह्यो न हि गृह्यते (Bऋहदू ३.९.२६) इति हि श्रुतिः । अतो न तथात्वं ब्रह्मण उपाधिपरिच्छिन्नत्वं नेत्यर्थः । यद्वा, अम्बुनि यथा रवेः पर्तिबिम्बः परिच्छिन्नस्य गृह्यते, एवम् उपाधौ ब्रह्मणः प्रतिबिम्बो व्यापकस्य न गृह्यते । अतो न तथात्वम् तस्य प्रतिबिम्बो नेत्यर्थः । तर्हि शास्त्रद्वयं कथं सङ्गच्छते । तत्राह, वृद्धीति द्वितीयेन । तद्द्वयं न मुख्यवृत्त्या प्रवर्तते । किन्तु वृद्धिह्रासभाक्त्वं गुणांशमादायैव । यथा महद्अल्पौ भू खण्डौ, यथा च रवितत्प्रतिबिम्बौ वृद्धिह्रासभाजौ, तथा परेश जीवौ स्याताम् । कुतः? अन्तर्भावात् । एतस्मिन्नंशे शास्त्रतात्पर्यपूर्तेः । एवं सत्युभयोर्दृष्टान्तान्तिकयोः सामञ्जस्यात्सङ्गतेरित्यर्थः । पूर्व न्यायेन परिच्छेदादिवादद्वयस्य खण्डनम्, उत्तरन्यायेन तु गौण वृत्त्या तस्य व्यवस्थापनमिति । ब्रह्मणः खण्डःय्प्रतिबिम्बो वा जीव एवेति सूत्रकृतां मतम् । ईशोऽपि ब्रह्मणः खण्डः प्रतिबिम्बो वेति मायिनामीशविमुखानां मतमिति बोधव्यम् ॥४२॥ तत एवाभेदशास्त्राण्युभयोश्चिद्रूपत्वे जीवसमूहस्य दुर्घट घटनापटीयस्या स्वाभाविकतद्अचिन्त्यशक्त्या स्वभावत एव तद्रश्मि परमाणुगुणस्थानीयत्वात्तद्व्यतिरेकेणाव्यतिरेकेण च विरोधं परिहृत्याग्रे मुहुरपि तदेतद्व्याससमाधिलब्धसिद्धान्तयोजनाय योजनीयानि ॥४३॥ बलदेव विद्याभूषण : तत इति परिच्छेदादिशास्त्रद्वयस्य तत्सादृश्यार्थकत्वेन नीतत्वादेव हेतोः । त्वं वा अहमस्मि भगवो देव, अहं वै त्वमसि तत्त्वमसि इत्य् आदीन्यभेदशास्त्राणि । तदेतद्व्याससमाधिसिद्धान्तयोजनाय मुहुर् अप्यग्रे योजनीयानीति सम्बन्धः । केन हेतुनेत्याह उभयोरीशजीवयोश् चिद्रूपत्वेन हेतुना । यथा गौरश्यामयोस्तरुणकुमारयोर्वा विप्रयोर् विप्रत्वेनैक्यम् । ततश्च जात्यैवाभेदो, नतु व्यक्तोरित्यर्थः । तथा जीव समूहस्य दुर्घटघटनापटीयस्या तद्अचिन्त्यशक्त्या स्वभावत एव तद्रश्मिपरमाणुगुणस्थानीयत्वात्तद्व्यतिरेकेण, अव्यतिरेकेण च हेतुना विरोधं परिहृत्येति । परेशस्य कह्लु स्वरूपानुबन्धिनी पराख्या शक्तिरुष्णतेव रवेरस्ति । परास्य शक्तिर्विविधैव श्रूयते स्वाभाविकी ज्ञानबलक्रिया च (श्वेतू ६.८) इति मन्त्रवर्णात् । विष्णुशक्तिः परा प्रोक्ता (Vइড়् ६.७.६१) इति स्मरणाच्च । सा हि तद्इतरान्निखिलान्नियमयति । यस्मात्तद् अन्ये सर्वेऽर्थाः स्वस्वभावमत्यजन्तो वर्तन्ते । प्रकृतिः कालः कर्म च स्वान्तःस्थितमपीश्वरं स्पर्ष्टुं न शक्नोति । किन्तु ततो बिभ्येदेव स्वस्वभावे तिष्ठति । जीवगणाश्च तत्सजातीयोऽपि न तेन सम्पर्चितुं शक्नोति किन्तु तमाश्रयन्नेव वृत्तिं लभते । मुख्यप्राणमिव श्रोत्रादिर् इन्द्रियगण इति । तथा यद्अत्तिर्यद्अधीना स तद्रूपः इत्यभेद शास्त्रस्यापि भेदशास्त्रेण सार्धमविरोधोऽयं श्रीव्याससमाधिलब्ध सिद्धान्तसव्यपेक्ष इति । तथा चात्रेशजीवयोः स्वरुऊपाभेदो नास्तीति सिद्धम् ॥४३॥ तदेवं मायाश्रयत्वमायामोहितत्वाभ्यां स्थिते द्वयोर्भेदे तद् भजनस्यैवाभिधेयत्वमायातम् ॥४४॥ तदेवमिति स्फुटार्थम् । तद्भजनस्य मायानिवारकस्येत्यर्थः ॥४४॥ अतः श्रीभगवत एव सर्वहितोपदेष्टृत्वात्, सर्वधुःखहरत्वात्, रश्मीनां सूर्यवत्सर्वेषां परमस्वरूपत्वात्सर्वाधिकगुणशालित्वात्, परमप्रेमयोगत्वमिति प्रयोजनं च स्थापितम् ॥४५॥ बलदेव विद्याभूषण : मायामोहनिवारकत्वाद्यस्य भजनमभिधेयं, स भगवानेव भजतां प्रेमयोग्य इत्यर्थादागतमित्याह अत इति । अतो मायामोह निवारकभजनत्वाद्भगवत एव परमप्रेमयोग्यत्वमिति सम्बन्धः । जीवात्मा प्रेमयोग्यः, परमात्मा भगवांस्तु परम प्रेमयोग्य इत्यर्थः । कुत इत्यपेक्षायां हेतुचतुष्टयमाह सर्वेति । रश्मीनामित्यादि सूर्यो यथा रश्मीनां स्वरूपं न, किन्तु परम स्वरूपमेव भवत्येवं जीवानां भगवानिति स्वरूपैक्यं निरस्तम् । अन्तर्यामिब्राह्मणात्सौबालब्राहमणाच्च जीवात्मनः परमात्मनः शरीराणि भवन्ति, स तु तेषां शरीरी इति भेदः प्रस्फुटो ज्ञातः । अतः सर्वाधिकेति ॥४५॥ तत्राभिधेयं च तादृशत्वेन दृष्टवानपि, यतस्तत्प्रवृत्त्य्अर्थं श्री भागवताख्यामिमां सात्वतसंहितां प्रवर्तितवानित्याह अनर्थेति । भक्तियोगः श्रवणकीर्तनादिलक्षणः साधनभक्तिः, न तु प्रेम लक्षणः । अनुष्ठानं ह्युपदेशापेक्षं प्रेम तु तत्प्रसादापेक्षमिति तथापि तस्य तत्प्रसादहेतोस्तत्प्रेमफलगर्भत्वात्साक्षाद् एवानर्थोपशमनत्वं, न त्वन्यसापेक्षत्वेन । यत्कर्मभिर्यत्तपसा ज्ञानवैराग्यतश्च यतित्यादौ (भागवतम् ११.२०.३२), सर्वं मद्भक्तियोगेन मद्भक्तो लभतेऽञ्जसा । स्वर्गापवर्गं (भागवतम् ११.२०.३३) इत्यादेः । ज्ञानादेस् तु भक्तिसापेक्षत्वमेव श्रेयःसृतिं भक्तिम् (भागवतम् १०.१४.४) इत्यादेः । अथवा अनर्थस्य संसारव्यसनस्य तावत्साक्षाद्अव्यवधानेनोपशमनं सम्मोहादिद्वयस्य तु प्रेमाख्यस्वीयफलद्वारेत्यर्थः । अतः पूर्ववदेवात्राभिधेयं दर्शितम् ॥४६॥ बलदेव विद्याभूषण : तत्राभीति । तादृशत्वेन मायानिवारकत्वेन । दृष्टवानपि श्रीव्यासः । अनुष्ठानं कृतिसाध्यम् । तत्प्रसादेति भगवद्अनुग्रहेत्यर्थः । तस्य श्रवणादिलक्षणस्य । अन्यसापेक्षत्वेन कर्मादिपरिकरत्वेन । ज्ञानादेस् त्विति ज्ञानमत्र यस्य ब्रह्म (पगे ६) इत्युक्तब्रह्मविषयकम् । सम्मोहादीयादिपदादात्मनो जडदेहादिरूपतामननं ग्राह्यम् । अत इति । अत्र अनर्थेति वाक्ये ॥४६॥ अथ पूर्वदेव प्रयोजनं च स्पष्टयितुं पूर्वोक्तस्य पूर्णपुरुषस्य च श्रीकृष्णस्वरूपत्वं व्यञ्जयितुं, ग्रन्थफलनिर्देशद्वारा तत्र तद् अनुभवान्तरं प्रतिपादयन्नाह यस्यामिति । भक्तिः प्रेमा श्रवण रूपया (पगे १०९) साधनभक्त्या साध्यत्वात् । उत्पद्यते आविर्भवति । तस्यानुषङ्गिकं गुणमाह शोकेति । अत्रैषां संस्कारोऽपि नश्यतीति भावः । (पगे ११०) प्रीतिर्न यावन्मयि वासुदेव न मुच्यते देहयोगेन तावतिति (भागवतम् ५.५.६) श्र्यृषभदेववाक्यात् । परमपुरुषे पूर्वोक्तपूर्णपुरुषे । किमाकार इत्यपेक्षायामाह कृष्णे । कृष्णस्तु भगवान् स्वयमित्यादि शास्त्रसहस्रभावितान्तःकरणानां परम्परया तत्प्रसिद्दिमध्य पातिनां चासाङ्ख्यलोकानां तन्नामश्रवणमात्रेण यः प्रथम प्रतीतिविषयः स्यात्, तथा तन्नाम्नः प्रथमाक्षरमात्रं मन्त्राय कल्पमानं यस्याभिमुख्याय स्यात्तद्आकार इत्यर्थः । आहुश्च नाम कौमुदीकाराः । कृष्णशब्दस्य तमालश्यामलत्विषि यशोदायाः स्तनन्धये परब्रह्मणि रूढिः इति ॥४७॥ बलदेव विद्याभूषण : अथेति । प्रयोजनं भगवत्प्रेमलक्षणम् । तत्रेति तत्र समाधौ श्री व्यासस्यान्यमनुभवमित्यर्थः । आविर्भवतीति प्रेम्णः परासारांशत्वेनोत्पत्त्य्असम्भवादित्यर्थः । तस्येति प्रेम्णः । अत्र प्रेम्णि सति । कृष्णस्तु भगवान् स्वयमिति श्रीसूतादीनां श्रीजयदेवादीनां चासङ्ख्यलोकानामित्यर्थः । तन्नाम इति तन्नाम्नः इति चोभयत्र कृष्णेति नाम बोध्यम् । रूढिरिति प्रकृतिप्रत्ययसम्बन्धं विनैव यशोदासुते प्रसिद्धिर्मण्डपशब्दस्येव गृहविशेष इत्यर्थः ॥४७॥ अथ तस्यैव प्रयोजनस्य ब्रह्मानन्दानुभवादपि परमत्वम् अनुभूतवान् । यतस्तादृशं शुकमपि तद्आनन्दवैशिष्ट्यलम्भनाय तामध्यापयामासेत्याह स संहितामिति । कृत्वानुक्रम्य चेति प्रथमतः स्वयं सङ्क्षेपेण कृत्वा पश्चात्तु श्रीनारदोपदेशादनुक्रमेण विवृत्येत्य् अर्थः । अतएव श्रीमद्भागवतं भारतानन्तरं यदत्र श्रूयते, यच् चान्यत्राष्टादशपुराणानन्तरं भारतमिति तद्द्वयमपि समाहितं स्यात् । ब्रह्मानन्दानुभवनिमग्नत्वात्निवृत्तिनिरतं सर्वतो निवृत्तौ निरतं, तत्राव्यभिचारिणमपीत्यर्थः ॥४८॥ बलदेव विद्याभूषण : अथेति ब्रह्मानन्दाद्यस्य ब्रह्मेत्युक्तवस्तुसुखादपि । परमत्वमुत्कृष्टत्वमनुभूतवान् श्रीव्यासः । तादृशं तद् आनन्दानुभवैनमपि । तद्आनन्देति कृष्णप्रेमानन्दप्रापणायेत्य् अर्थः । अत एवेति । यदत्रेति अत्र श्रीभागवते । अयत्र मात्स्यादौ अष्टाद्श पुराणानि कृत्वा सत्यवतीसुतः । चक्रे भारतमाख्यानं वेदार्थैर् उपबृंहितमित्यनेनेत्यर्थः । तत्रेति निवृत्तावित्यर्थः ॥४८॥ तमेतं श्रीवेदव्यासस्य समाधिजातानुभवं श्रीशौनक प्रश्नोत्तरत्वेन विशदयन् सर्वात्मारामानुभवेन सहेतुकं संवादयति आत्मारामाश्चेति । निर्ग्रन्था विधिनिषेधातीता निर्गताहङ्कारग्रन्थयो वा । अहैतुकीं फलानुसन्धिरहिताम् । अत्र सर्वाक्षेपपरिहारार्थमाह इत्थम्भूत आत्मारामाणामप्याकर्षणस्वभावो गुणो यस्य स इति । तम् एवार्थं श्रीशुकस्याप्यनुभवेन संवादयति हरेर्गुणेति । श्री व्यासदेवाद्यत्किञ्चिच्छ्रुतेन गुणेन पूर्वमाक्षिप्ता मतिर्यस्य सः । पश्चादध्यगात्महद्विस्तीर्णमपि । ततश्च तत्सङ्कथासौहार्देन नित्यं विष्णुजनाः प्रिया यस्य तथाभूतो वा, तेषां प्रियो वा स्वयमभवद् इत्यर्थः । अयं भावः ब्रह्मवैवर्तानुसारेण पूर्वं तावदयं गर्भमारभ्य श्रीकृष्णस्य स्वरितया मायानिवारकत्वं ज्ञातवान् । तत्र श्रीव्येदव्यासस् तु तं वशीकर्तुं तद्अनन्यसाधनं श्रीभागवतमेव ज्ञात्वा, तद् गुणातिशयप्रकाशमयांस्तदीयपद्यविशेषान् कथञ्च्च्छ्रावयित्वा तेन तमाक्षिप्तमतिं कृत्वा, तदेव पूर्णं तमध्यापयामासेति श्री भागवतमहिमातिशयः प्रोक्तः । तदेवं दर्शितं वक्तुः श्रीशुकस्य वेदव्यासस्य च समानहृदयम् । तस्माद्वक्तुर्हृदयानुरूपमेव सर्वत्र तात्पर्यं पर्यालोचनीयं नान्यथा । यद्यत्तदन्यथा पर्यालोचनं, तत्र तत्र कुपथगामितैवेति निष्टङ्कितम् ॥ १.७ ॥ श्रीसूतः ॥ ४९ ॥ बलदेव विद्याभूषण : समाधिदृष्टस्यार्थस्य सर्वतत्त्वज्ञसम्मतत्वमाह तमित्य् आदिना । निर्गताहङ्कारेति । महत्तत्त्वाज्जातोऽयमहङ्कारः । न तु स्वरूपानुबन्धीति बोध्यं, द्वितीये सन्दर्भे एवमेव निर्णेष्यमाणत्वात् । तदीयपद्यविशेषानिति पूतनाधात्रीगतिदानपाण्डवसारथ्य प्रतीहारत्वादिप्रदर्शकान् कतिचिच्छ्लोकानित्यर्थः । ब्रह्मवैवर्ते शुको योनिजातः, भारते त्वयोनिजातः कथ्यते । दारग्रहणं कन्यासन्ततिश् चेति । तदेतत्सर्वं कल्पभेदेन सङ्गमनीयम् ॥४९॥ अथ क्रमेण विस्तरतस्तथैव तात्पर्यं निर्णेतुं सम्बन्धाभिधेय प्रयोजनेषु षड्भिः सन्दर्भैर्निर्णेष्यमाणेषु प्रथमं यस्य वाच्य वाचकतासम्बन्धीदं शास्त्रं तदेव धर्मः प्रोज्झितकैतवः इत्यादि पद्ये सामान्याकारतस्तावदाह वेद्यं वास्तवमत्र वस्तु (भागवतम् १.१.२) इति ॥ टीका च अत्र श्रीमति सुन्दरे भागवते वास्तवं परमार्थभूतं वस्तु वेद्यं, न तु वैशेषिकादिवद्द्रव्यगुणादिरूपमित्येषा ॥१.१॥ वेद व्यासः ॥५०॥ बलदेव विद्याभूषण : सङ्क्षेपेणोक्तं सम्बन्धादिकं विस्तरेण दर्शयितुमुपक्रमते अथेत्यादि । तथैवेति श्रीशुकादिहृदयानुसारेणेत्यर्थः । सामान्यत इति अनिर्दिष्टस्वरूपगुणविभूतिकथनायेत्यर्थः । वैशेषिकादिवदिति कणादगौतमोक्तशास्त्रवदित्यर्थः ॥५०॥ अथ किं रूपं तद्वस्तुतत्त्वमित्यत्राह वदन्ति तत्तत्त्वविदस्तत्त्वं यज् ज्ञानमद्वयमिति (भागवतम् १.२.११) । ज्ञानं चिद्एकरूपम् । अद्वयत्वं चास्य स्वयंसिद्धतादृशातादृशतत्त्वान्तराभावआत्स्वशक्त्येकसहायत्वात् । परमाश्रयं तं विना तासामसिद्धत्वाच्च । तत्त्वमिति परम पुरुषार्थताद्योतनया परमसुखरूपत्वं तस्य बोध्यते । अतएव तस्य नित्यत्वं च दर्शितम् ॥१.२॥ श्रीसुतः ॥५२॥ बलदेव विद्याभूषण : स्वरूपनिदेशपूर्वकं तत्त्वं वक्तुमवतारयति अथ किमिति । स्वयं सिद्धेति आत्मनैव सिद्धं खलु स्वयं सिद्धमुच्यते । स्वयं दासास् तपस्विनः इत्यत्र तपस्व्दास्यमात्मना तपस्विनैव सिद्धं प्रतीयते तद्वत् । तादृशं च परेशवस्त्वेव, न तु तादृशमपि जीवचैतन्यं, न त्व् अतादृशं प्रकृतिकाललक्षणं जडवस्तु । तद्अभावादद्वयत्वम् । तयोः स्वयंसिद्धत्वाभावः कुतः । इत्यत्राह परमाश्रयं तं विनेति । स्व शक्त्येकसहायेऽप्यद्वयपदं प्रयुज्यते धनुर्द्वितीयः पाण्डुरिति । ननु वेदान्ते व्ज्ञानमानन्दं ब्रह्म इति । विज्ञानानदस्वरूपं ब्रह्म पठ्यते, इह ज्ञानमिति कथम् । तत्राह तत्त्वमिति । इदमत्र तत्त्वमित्य् उक्ते सारे वस्तुनि तत्त्वशब्दो नीयते । सारं च सुखमेव सर्वेषाम् उपायानां तद्अर्थत्वात् । तथा च सुखरूपत्वमपि तस्यागतम् । ननु ज्ञानं सुखं चानित्यं दृष्टं तत्राह अतएवेति । स्वयंसिद्धत्वेन व्याख्यानान्नित्यं तदित्यर्थः । सद्अकारणं यत्तन्नित्यमिति हि तीर्थकाराः । एवं च तादृशब्रह्मसम्बन्धीदं शास्त्रमित्युक्तम् ॥५१॥ ननु नीलपीताद्य्आकारं क्षणिकमेव ज्ञानं दृष्टम्, तत्पुनरद्वयं नित्यं ज्ञानं कथं लक्ष्यते यन्निष्ठमिदं शास्त्रम् । इत्य् अत्राह सर्व वेदान्तसारं यद्ब्रह्मात्वेकत्वलक्षणम् । वस्त्वद्वितीयं तन्निष्ठम् इति (भागवतम् १२.१३.१२) सत्यं ज्ञानमनन्तं ब्रह्म इति यस्य स्वरूपमुक्तम्, येनाश्रुतं श्रुतं भवति (Cहा ६.१.३) इति यद्विज्ञानेन सर्वविज्ञानं प्रतिज्ञातम् । सदेव सौम्येदमग्र आसीत्(Cहा ऊ ६.२.१) इत्यादिना निखिल जगद्एककारणता । तदैक्षत बहु स्याम् (Cहाऊ ६.२.३) इत्यनेन सत्य सङ्कल्पता च यस्य प्रतिपादिता, तेन ब्रह्मणा स्वरूपशक्तिभ्यां सर्व बृहत्तमेन सार्धम् । अनेन जीवेनात्मना (Cहा ऊ ६.३.२) इति तदीयोक्ताविदन्तानिर्देशेन ततो भिन्नत्वेऽप्यात्मतानिर्देशेन तद्आत्मांश विशेषत्वेन लब्धस्य बादरायणसमाधिदृष्टयुक्तेरत्यभिन्नता रहितस्य जीवात्मनो यदेकत्वं तत्त्वमसि (Cहाऊ ६.८.७) इत्यादौ जात्या तद् अंशभूतचिद्रूपत्वेन समानाकारता । तदेव लक्षणं प्रथमतो ज्ञाने साधकतमं यस्य तथाभूतं यत्सर्ववेदान्तसारमद्वितीयं वस्तु तन् निष्ठं तद्एकविषयमिदं श्रीभागवतमिति प्राक्तन पद्यस्थेनानुषङ्गः । यथा जन्मप्रभृति कश्चिद्गृहगुहावरुद्धः सूर्यं विविदिषुः कथङ्चिद्गवाक्षपतितं सूर्यांशुकणं दर्शयित्वा केनचिदुपदिश्यते एष स इति । एतत्तद्अंशज्योतिःसमानाकारतया तन्महा ज्योतिर्मण्डलमनुसन्धीयतामित्यर्थस्तद्वत् । जीवस्य तथा तद् अंशत्वं च तच्छक्तिविशेषसिद्धत्वेनैव परमात्मसन्दर्भे स्थापयिष्यामः । तदेतज्जीवादिलक्षणांशविशिष्टतयैवोपनिषदस्तस्य सांशत्वमपि क्वचिदुपदिशन्ति । निरंशत्वोपदेशिका श्रुतिस्तु केवलतन् निष्ठा । अत्र कैवल्यैकप्रयोजनमिति चतुर्थपादश्च कैवल्यपदस्य शुद्धत्वमात्रवचनत्वेन शुद्धत्वस्य च शुद्धभक्तित्वेन पर्यवसानेन प्रीतिसन्दर्भे व्याख्यास्यते ॥१२।१३॥ श्रीसूतः ॥५२॥ बलदेव विद्याभूषण : आर्थिकं नित्यत्वं स्थिरं कुर्वन्, शास्त्रस्य विशिष्टब्रह्म सम्बन्धित्वमाह ननु नीलेत्यादिना । अनेन जीवेनेत्यादि । तदीयोक्तौ परदेवतावाक्ये । तद्आत्मांशविशेषत्वेन तद्विभिन्नांशत्वेन, न तु मत्स्यादिवत् स्वांशत्वेनेत्यर्थः । जीवात्मनो यदेकत्वमिति जीवस्य चिद् रूपत्वेन जात्या यद्ब्रह्मसमानाकारत्वं तदेव तस्य ब्रह्मणा सहैक्यमिति व्यक्तिभेदः प्रस्फुटः । एवमेव यथेत्यादिदृष्टान्तेनापि दर्शितः । तदेतदिति उपनिषदः सोऽकामयत बहु स्यामित्याद्याः । निरंशत्वोपदेशिकेति सत्यं ज्ञानमनन्तम् (टैत्तू २.१), निष्कलं निष्रियं शान्तं निरवद्यं निरञ्जनम् (श्वेतू ६.१९) इत्याद्या श्रुतिस्तु केवलतन् निष्ठा विशेष्यमात्रपरेत्यर्थः । अनभिव्यक्तसंस्थानगुणकं ब्रह्म वदतीति यावत् ॥५२॥ तत्र यदि त्वम्पदार्थय्स जीवात्मनो ज्ञानत्वं नित्यत्वं च प्रथमतो विचारगोचरः स्यात्तदैव तत्पदार्थस्य तादृशत्वं सुबोधं स्यादिति । तद् बोधयितुमन्यार्थश्च परामर्शः (Vस्. १.३.२०) इति न्यायेन जीवात्मनस्तद् रूपत्वमाह । नात्मा जजान न मरिष्यति नैधतेऽसौ न क्षीयते सवनविद्व्यभिचारिणां हि । सर्वत्र शश्वदनपाय्युपलब्धिमात्रं प्राणो यथेन्द्रियबलेन विकल्पितं सत् ॥ (भागवतम् ११.३.३८) आत्मा शुद्धो जीवः । न जजान न जातः । जन्माभावादेव तद्अनन्तरास्तिता लक्षणो विकारोऽपि नास्ति । नैधते न वर्धते । वृद्ध्य्अभावादेव विपरिणामोऽपि निरस्तः । हि यस्मात् । व्यभिचारिणामागमापायिनां बाल युवादिदेहानां देवमनुष्याद्य्आकारदेहानां वा । सवनवित्तत्तत्काल द्रष्टा । नह्यवस्थावतां द्रष्टा तद्अवस्थो भवतीत्यर्थः । निरवस्थः कोऽसावात्मा । अत आह उपलब्धिमात्रं ज्ञानैकरूपम् । कथम्भूतम् । सर्वत्र देहे, शश्वत्सर्वदा अनुवर्तमानमिति । ननु नीलज्ञानं नष्टं पीतज्ञानं जातमिति प्रतीतेर्न ज्ञानस्यानपायित्वम् । तत्राह इन्द्रियबलेनेति । सदेव ज्ञानमेकमिन्द्रिय बलेन विविधं कल्पितम् । नीलाद्य्आकारा वृत्तय एव जायन्ते नश्यन्ति च न ज्ञानमिति भावः । अयमागमापायितदवधिभेदेन प्रथमस्तर्कः । द्रष्टृदृश्यभेदेन द्वितीयोऽपि तर्को ज्ञेयः । व्यभिचारिष्ववस्था व्यभिचारे दृष्टान्तः प्राणो यथेति । बलदेव विद्याभूषण : जीवात्मनि ज्ञाते परमात्मा सुज्ञातः स्यादित्युक्तम् । तदर्थं जीवात्मानं निरूपयिष्यन्नवतारयति तत्र यदीत्यादिना । अन्यार्थश्चेति ब्रह्मसूत्रम् । दहरविद्या छान्दोग्ये पठ्यते यदिदमस्मिन् ब्रह्म पुरे दहरं पुण्डरीकं वेश्म दहरोऽस्मिन्नन्तर्आकाशस्तस्मिन् यद्अन्तस् तदन्वेष्टव्यम् (Cहाऊ ८.१.१) इति । अत्रोपासकस्य शरीरं ब्रह्मपुरं, तत्र हृत्पुण्डरीकस्थो दहरः परमात्मा ध्येयः कथ्यते । तत्रापहत पाप्मत्वादिगुणाष्टकमन्वेष्टव्यमुपदिश्यत इति सिद्धान्तितम् । तद् वाक्यमध्ये स एष सम्प्रसादोऽस्माच्छरीरात्समुत्थाय परं ज्योतिर् उपसम्पद्य स्वेन रूपेणाभिनिष्पद्यते, स उत्तमः पुरुषः (Cहा ८.१२.३) इति वाक्यं पठितम् । अत्र सम्प्रसादो लब्धविज्ञानो जीवस्तेन यत्परं ज्योतिर् उपपन्नं स एव पुरुषोत्तम इत्यर्थः । दहरवाक्यान्तराले जीव परामर्शः किमर्थमिति चेत्तत्राह अन्यार्थ इति । तत्र जीव परामर्शोऽन्यार्थः । यं प्राप्य जीवः स्वस्वरूपेणाभिनिष्पद्यते स परमात्मेति परमात्मज्ञानार्थ इत्यर्थः । न जजानेति जायतेऽस्ति वर्धते विपरिणमतेऽपक्षीयते नश्यति च इति भावविकाराः षट्पठिताः । ते जीवस्य न सन्ति इति समुदायार्थः । ननु नीलज्ञानमित्यादि ज्ञानरूपम् आत्मवस्तु ज्ञातृ भवति । प्रकाशवस्तु सूर्यः प्रकाशयिता यथा । ततश्च स्वरूपानुबन्धित्वाज्ज्ञानं तस्य नित्यं, तस्येन्द्रियप्रणाल्या नीलादिनिष्ठा या विषयता वृत्तिपदवाच्या सैव नीलाद्यपगमे नश्यतीति ॥५३॥ दृष्टान्तं विवृण्वन्निन्द्रियादिलयेन निर्विकारात्मोपलब्धिं दर्शयति अण्डेषु पेशिषु तरुष्वविनिश्चितेषु प्राणो हि जीवमुपधावति तत्र तत्र । सन्ने यदिन्द्रियगणेऽहमि च प्रसुप्ते कूटस्थ आशयमृते तदनुस्मृतिर्नः ॥ [भागवतम् ११.३.३९] अण्डेषु अण्डजेषु । पेशिषु जरायुजेषु । तरुषु उद्भिज्जेषु । अविनिश्चितेषु स्वेदजेषु । उपधावति अनुवर्तते । एवं दृष्टान्ते निर्विकारत्वं प्रदर्श्य दार्ष्टान्तिकेऽपि दर्शयति । कथम् । तदैवात्मा सविकार इव प्रतीयते यदा जागरे इन्द्रियगणः । यदा च स्वप्ने तत्संस्कारवानहङ्कारः । यदा तु प्रसुप्तं तदा तस्मिन् प्रसुप्त इन्द्रियगणे सन्ने लीने । अहमि अनङ्कारे च सन्ने लीने । कूटस्थो निर्विकार एवात्मा । कुतः । आशयमृते लिङ्गशरीरम् उपाधिं विना । विकारहेतोरुपाधेरभावातित्यर्थः । नन्वहङ्कारपर्यन्तस्य सर्वस्य लये शून्यमेवावशिष्यते । क्व तदा कूटस्थ आत्मा । अत आह तद्अनुस्मृतिर्नः । तस्याखण्डात्मनः सुष्प्ति साक्षिणः स्मृतिः नः अस्माकं जाग्रद्द्रष्टॄणां जायते एतावन्तं कालं सुखमहमस्वाप्सं न किञ्चिदवेदिषमिति । अतोऽननुभूतस्य तस्यास्मरणादस्त्येव सुष्प्तौ ताद्र्ग्आत्मानुभवः । विषय सम्बन्धाभावाच्च न स्पष्ट इति भावः । अतः स्वप्रकाशमात्रवस्तुनः सूर्यादेः प्रकाशवदुपलभ्दिमात्रस्याप्यात्मन उपलभ्दिः स्वाश्रयेऽस्त्य् एवेत्यायातम् । तथा च श्रुतिः यद्वै तन्न पश्यति पश्यन् वै द्रष्टव्यान्न पश्यति, न हि द्रष्टुर्दृष्टोर्विपरिलोपो विद्यते (Bऋहदू ४.३.२३) इति । अयं साक्षिसाक्ष्यविभागेन तृतीयस्तर्कः । दुःखिप्रेमास्पदत्व विभागेन चतुर्थोऽपि तर्कोऽवगन्तव्यः ॥५५॥ बलदेव विद्याभूषण : दृष्टान्तमिति प्राणस्य नानादेहेष्वैकरूप्यान्निर्विकारत्वमित्य् अर्थः । तस्मिन्नात्मनि । उपाधेर्लिङ्गशरीरस्य । अभावाद्विश्लेषादित्य् अर्थः । तदाप्यतिसूक्ष्माया वासनायाः सत्त्वान्मुक्तेरभाव इति ज्ञेयम् । प्राकृताहङ्कारे लीनेऽपि स्वरूपानुबन्धिनोऽहमर्थस्य सत्त्वात्तेन सुखम् अहमस्वाप्समिति विमर्शो भवतीति प्रतिपादयितुमाह नन्वित्यादि । शून्यमेवेति अहंप्रत्यय्ं विनात्मनोऽप्रतीतेरिति भावः । अखण्डात्मन इति । अणुरूपत्वाद्विभागानर्हस्येत्यर्थः । ननु स्वापादुत्थितस्यात्मनो,हङ्कारेण योगात्सुखमहमस्वाप्समिति विमर्शो जागरे सिध्यति । सुषुप्तौ तु चिन्मात्रः स इति चेत्तत्राह अतोऽननुभूतस्येति । अनुभवस्मरणयोः सामानाधिकरण्यादित्यर्थः । तस्मात्तस्यामप्यनुभवितैवात्मेति सिद्धम् । ननूपलब्धिमात्रमित्य् उक्तम् । तस्योपलब्धृत्वं कथम् । तत्राह अत इत्यादि । यद्वै इति । तद्आत्म चैतन्यं कर्तृ । सुषुप्तौ न पश्यतीति यदुच्यते तत्खलु द्रष्टव्य विषयाभावादेव, न तु द्रष्टृत्वाभावादित्यर्थः । स्फुटमन्यत् ॥५४॥ तदुक्तं अन्वयव्यतिरेकाख्यस्तर्कः स्याच्चतुरात्मकः । आगमापायितदवधिभेदेन प्रथमो मतः ॥ द्रष्टृदृश्यविभागेन द्वितीयोऽपि मतस्तथा । साक्षिसाक्ष्यविभागेन तृतीयः सम्मतः सताम् ॥ दुःखिप्रेमास्पदत्वेन चतुर्थः सुखबोधकः ॥ ॥११.३॥ इति श्रीपिप्पलायनो निमिम् ॥५५॥ बलदेव विद्याभूषण : पद्ययोर्व्याख्याने चत्वारस्तर्का योजितास्तानभियुक्तोक्ताभ्यां सार्धकारिकाभ्यां निर्दिशति अन्वयेति । तर्कशब्देन तर्काङ्गकम् अनुमानं बोध्यम् । आगमापायिनो दृश्यात्साक्ष्याद्दुःखास्पदाच्च देहादेरात्मा भिद्यते । तद्अवधित्वात्, तद्द्रष्टृत्वात्, तत्साक्षित्वात्, प्रेमास्पदत्वाच्चेति क्रमेण हेतवो नेयाः । व्यतिरेकश्चोह्यः ॥५५॥ एवम्भूतानां जीवानां चिन्मात्रं यत्स्वरूपं तयैवाकृत्या तद्अंशित्वेन च तद्अभिन्नं यत्तत्त्वं तदत्र वाच्यमिति व्यष्टिनिर्देशद्वारा प्रोक्तम् । तदेव ह्याश्रयसंज्ञकं महापुराणलक्षणरूपैः सर्गादिभिरर्थैः समष्टिनिर्देशद्वारापि लक्ष्यत इत्यत्राह द्वाभ्याम् अत्र सर्गो विसर्गश्च स्थानं पोषणमूतयः । मन्वन्तरेशानुकथा निरोधो मुक्तिराश्रयः ॥ दशमस्य विशुद्ध्य्अर्थं नवानामिह लक्षणम् । वर्णयन्ति महात्मानः श्रुतेनार्थेन चाञ्जसा ॥ (भागवतम् २.१०.१२) मन्वन्तराणि चेशानुकथाश्च मन्वन्तरेशानुकथाः । अत्र सर्गादयो दशार्था लक्ष्यन्त इत्यर्थः । तत्र च दशमस्य विशुद्ध्य्अर्थं तत्त्व ज्ञानार्थं नवानां लक्षणं स्वरूपं वर्णयन्ति । नन्वत्र नैवं प्रतीयते । अत आह श्रुतेन श्रुत्या कण्ठोक्त्यैव स्तुतयादिस्थानेषु, अञ्जसा साक्षाद्वर्णयन्ति । अर्थेन तात्पर्यवृत्त्या च तत्तद्आख्यानेषु ॥५६॥ बलदेव विद्याभूषण : ईश्वरज्ञानार्थं जीवस्वरूपज्ञानं निर्णीतम् । अथ तत् सादृश्येनेश्वरस्वरूपं निर्णेतुं पूर्वोक्तं योजयति एवम्भूतानामित्य् आदिना । चिन्मात्रं यत्स्वरूपमिति चेतयितृ चेति बोध्यं पूर्वनिरूपणात् । ततहिवाकृत्येति चिन्मात्रत्वे सति चेतयितृत्वं याकृतिर्जातिस्तयेत्यर्थः । आकृतिस् तु स्त्रियां रूपे सामान्यवपुषोरपि इति मेदिनी । तद्अंशित्वेन जीवांशित्वेन चेत्यर्थः । तद्अभिन्नं जीवाभिन्नं यद्ब्रह्मतत्त्वम् । अंशः खल्व् अंशिनो न भिद्यते व्यष्टिरित्यर्थः । जीवादिशक्तिमद्ब्रह्म समष्टिः । जीवस्तु व्यष्टिः । तादृशसमष्टिब्रह्मनिरूपणेन तस्य तथात्वं वक्तव्यमित्यर्थः । दशमस्य चेश्वरस्य । अवशिष्टः स्फुटार्थः ॥५६॥ तमेव दशमं विस्पष्टयितुं तेषां दशानां व्युत्पादिकां सप्तश्लोकीम् आह भूतमात्रेन्द्रियधियां जन्म सर्ग उदाहृतः ब्रह्मणो गुणवैषम्याद्विसर्गः पौरुषः स्मृतः ॥ (भागवतम् २.१०.३) भूतानि खादीनि । मात्राणि च शब्दादीनि इन्द्रियाणि च । धीशब्देन महद् अहङ्कारौ । गुणानां वैषम्यात्परिणामात् । ब्रह्मणः परमेश्वरात् कर्तृभूतादीनां जन्म सर्गः । पुरुषो वैराजो ब्रह्मा, तत्कृतः पौरुषश् चराचरसर्गो विसर्ग इत्यर्थः । स्थितिर्वैकुण्ठविजयः पोषणं तद्अनुग्रहः मन्वन्तराणि सद्धर्म ऊतयः कर्मवासनाः अवतारानुचरितं हरेश्चास्यानुवर्तिनाम् पुंसामीशकथाः प्रोक्ता नानाख्यानोपबृंहिताः ॥ (भागवतम् २.१०.४५) वैकुण्ठस्य भगवतो विजयः सृष्टानां तत्तन्मर्यादापालनेनोत्कर्षः । स्थितिः स्थानम् । ततः स्थितेषु स्वभक्तेषु तस्यानुग्रहः पोषणम् । मन्वन्तराणि तत्तन्मन्वन्तरस्थितानां मन्वादीनां तद्अनुगृहीतानां सतां चरितानि, तान्येव धर्मस्तद्उपासनाख्यः सद्धर्मः । तत्रैव स्थितौ नानाकर्मवासना ऊतयः । स्थितावेव हरेरवतारानुचरितम् अस्यानुवर्तिनां च कथा ईशानुकथाः प्रोक्ता इत्यर्थः । निरोधोऽस्यानुशयनमात्मनः सह शक्तिभिः । मुक्तिर्हित्वान्यथा रूपं स्वरूपेण व्यवस्थितिः ॥ (भागवतम् २.१०.६) स्थित्य्अनन्तरं चात्मनो जीवस्य शक्तिभिः स्वोपाधिभिः सहास्य हरेर् अनुशयनं, हरिशयनानुगतत्वेन शयनं निरोध इत्यर्थः । तत्र हरेः शयनं प्रपञ्चं प्रति दृष्टिनिमीलनम् । जीवानां शयनं तत्र लय इति ज्ञेयम् । तत्रैव निरोधेऽन्यथारूपमविद्याध्यस्तमज्ञत्वादिकं हित्वा स्वरूपेण व्यवस्थितिर्मुक्तिः ॥५७॥ बलदेव विद्याभूषण : सर्गादीन् दश व्युत्पादयति तदेवमित्यादिना । ब्रह्मणः परमेश्वरादिति । कारणसृष्टिः पारमेश्वरी । कार्यसृष्टिस्तु वैरिञ्चीत्य् अर्थः । मुक्तिरिति भगवद्वैमुख्यानुगतयाऽविद्यया रचितमन्यथा रूपं देवमानवादिभावं हित्वा तत्साम्मुख्यानुप्रवृत्तया तद्भक्त्या विनाश्य, स्वरूपेणापहतपाप्मत्वादिगुणाष्टकविशिष्टेन जीवस्वरूपेण जीवस्य व्यवस्थितिर्विशिष्टा पुनरावृत्तिशून्या पुनरावृत्तिशून्या भगवत् सन्निधौ स्थितिर्मुक्तिरित्यर्थः ॥५७॥ आभासश्च निरोधश्च यतोऽस्त्यध्यवसीयते स आश्रयः परं ब्रह्म परमात्मेति शब्द्यते । [भागवतम् २.१०.७] आभासः सृष्टिः । निरोधो लयश्च यतो भवति । अध्यवसीयत उपलभ्यते जीवानां ज्ञानेन्द्रियेषु प्रकाशते च । स ब्रह्मेति परमात्मेति प्रसिद्ध आश्रयः कथ्यते । इति शब्दः प्रकारार्थः । तेन भगवानिति च । अस्य विवृतिर् अग्रे विधेया ॥५८॥ बलदेव विद्याभूषण : अथ नवभिः सर्गादिभिर्लक्षणीयमाश्रयतत्त्वमाह आभासश्चेति । यत इति हेतौ पञ्चमी ॥५८॥ स्थितौ च तत्राश्रयस्वरूपमपरोक्षानुभवेन व्यष्टिद्वारापि स्पष्टं दर्शयितुमध्यात्मादिविभागमाह योऽध्यात्मिकोऽयं पुरुषः सोऽसावेवाधिदैविकः । यस्तत्रोभयविच्छेदः पुरुषो ह्याधिभौतिकः ॥ एकमेकतराभावे यदा नोपलभामहे । त्रितयं तत्र यो वेद स आत्मा स्वाश्रयाश्रयः ॥ [भागवतम् २.१०.८९] योऽयमाध्यात्मिकः पुरुषश्चक्षुर्आदिकरणाभिमानी द्रष्टा जीवः । स एवाधिदैविकश्चक्षुराद्य्अधिष्ठाता सूर्यादिः । देहसृष्टेः पूर्वं करणानाआमधिष्ठानाभावेनाक्षमतया करणप्रकाश कर्तृत्वाभिमानितत्सहाययोरुभयोरपि तयोर्वृत्तिभेदानुदयेन जीवत्व मात्राविशेषात् । ततश्चोभयः करणाभिमानितद्अधिष्ठातृदेवतारूपो द्विरूपो विच्छेदो यस्मात् । स आधिभौतिकश्चक्षुर्गोलकाद्य्उपलक्षितो दृश्यो देहः पुरुष इति पुरुषस्य जीवस्योपाधिः । स वा एष पुरुषोऽन्नरसमयः [टैत्तऊ २.१] इत्यादि श्रुतेः ॥५९॥ बलदेव विद्याभूषण : ननु करणाभिमानिनो जीवस्य करणप्रवर्तकसूर्यादित्वमत्र कथम् । तत्राह देहसृष्टेः पूर्वमिति करणानामिति । अधिष्ठानाभावेन चक्ष्र्गोलकाद्यभावेनेत्यर्थः । उभयोरपि तयोर्वृत्तिभेदानुदयेनेति करणानां विषयग्रहणं वृत्तिः । देवतानां तु तत्र प्रवर्तकत्वं वृत्तिः । अयमत्र निष्कर्षः देहोत्पत्तेः पूर्वमपि जीवेन सार्धमिन्द्रियाणि तद् देवताश्च सन्त्येव । तदा तेषां वृत्त्य्अभावाज्जीवेऽन्तर्भावो विवक्षितः । उत्पन्ने तु देहे तयोर्विभागो यद्भवतीत्याह ततश्चोभय इति ॥५९॥ एकमेकतराभाव इत्येषामन्योन्यसापेक्षसिद्धत्वे नानाश्रयत्वं दर्शयति । तथा हि दृश्यं विना तत्प्रतीत्य्अनुमेयं करणं न सिध्यति । नापि द्रष्टा न च तद्विना करणप्रवृत्त्य्अनुमेयस्तद्अधिष्ठाता सूर्यादिः । न च तं विना करणं प्रवर्तते । न च तद्विना दृयमित्य् एकतरस्याभाव एकं नोपलभामहे । तत्र तदा तत्त्रितयम् आलोचनात्मकेन प्रत्ययेन । यो वेद साक्षितया पश्यति स परमात्मा आश्रयः । तेषामपि परस्परमाश्रयत्वमस्तीति तद्व्यवच्छेदार्थं विशेषणं स्वाश्रयोऽनन्याश्रयः । स चासावन्येषामाश्रयश्चेति । तत्रांशांशिनोः शुद्धजीवपरमात्मनोरभेदांशस्वीकारेणैवाश्रय उक्तः । अतः परोऽपि मनुतेऽनर्थम् [भागवतम् १.७.५] इति । जाग्रत्स्वप्नसुषुप्तं च गुणतो बुद्धिवृत्तयः । तासां विलक्षणो जीवः साक्षित्वेन विवक्षितः ॥ [भागवतम् ११.१३.२७] इति । शुद्धो विचष्टे ह्यविशुद्धकर्तुः [भागवतम् ५.११.१२] इत्याद्युक्तस्य साक्षि संज्ञिनः शुद्धजीवस्याश्रयत्वं न शङ्कनीयम् । अथवा नन्व् आध्यात्मिकादीनामप्याश्रयत्वमस्त्येव । सत्यम् । तथापि परस्पराश्रयत्वान्न तत्राश्रयताकैवल्यमिति ते त्वाश्रयशब्देन मुख्यतया नोच्यन्त इत्याह एकमिति । तर्हि साक्षिण एवास्तामाश्रयत्वम् । तत्राह त्रितयमिति । स आत्मा साक्षी जीवस्तु यः स्वाश्रयोऽनन्याश्रयः परमात्मा स एवाश्रयो यस्य तथाभूत इति । वक्ष्यते च हंसगुह्यस्तवे सर्वं पुमान् वेद गुणांश्च तज्ज्ञो न वेद सर्वज्ञमनन्तमीडे इति [भागवतम् ६.४.२५] । तस्माताभासश्च इत्यादिनोक्तः परमात्मैवाश्रय इति ॥२.१०॥ श्री शुकः ॥६०॥ बलदेव विद्याभूषण : आध्यात्मिकादीनां त्रयाणां मिथः सापेक्षत्वेन सिद्धेस्तेषाम् आश्रयत्वं नास्तीति व्याचष्टे एकमेकतरेत्यादिना । त्रितयमाध्यात्मिकादि त्रितयम् । ननु शुद्धस्य जीवस्य देहेन्द्रियादिसाक्षित्वाभिधानेनान्यान् अपेक्षत्वसिद्धेस्तस्याश्रयत्वं कुतो न ब्रूस तत्राह अत्रांशांशिनोरिति । अंशिनांशोऽपीह गृहीत इत्यर्थः । असन्तोषाद्व्याख्यान्तरमथवेति । तर्हीति साक्षिणः शुद्धजीवस्य । सर्वमिति पुमान् जीवः ॥६०॥ अस्य श्रीभागवतस्य महापुराणत्वव्यञ्जकलक्षणं प्रकारान्तरेण च वदन्नपि तस्यैवाश्रयत्वमाह द्वयेन सर्गोऽस्याथ विसर्गश्च वृत्ती रक्षान्तराणि च । वंशो वंशानुचरितं संस्था हेतुरपाश्रयः ॥ दशभिर्लक्षणैर्युक्तं पुराणं तद्विदो विदुः । केचित्पञ्चविधं ब्रह्मन्महद्अल्पव्यवस्थया ॥[भागवतम् १२.७.९१०] अन्तराणि मन्वन्तराणि । पञ्चविधम् सर्गश्च प्रतिसर्गश्च वंशो मन्वन्तराणि च । वंशानुचरितं चेति पुराणं पञ्चलक्षणम् ॥ इति केचिद्वदन्ति । स च मतभेदो महद्अल्पव्यवस्थया महापुराणमल्पपुराणमिति भिन्नाधिकरणत्वेन । यद्यपि विष्णुपुराणादावपि दशापि तानि लक्ष्यन्ते । तथापि पञ्चानामेव प्राधान्येनोक्तत्वादल्पत्वम् । अत्र दशानाम् अर्थानां स्कन्धेषु यथाक्रमं प्रवेशो न विवक्षितः । तेषां द्वादश सङ्ख्यत्वात् । द्वितीयस्कन्धोक्तानां तेषां तृतीयादिष्यथासङ्ख्यं न समावेशः । निरोधादीनां दशमादिष्वष्टमवर्जम् । अन्येषामप्य् अन्येषु यथोक्तलक्षणतया समावेशनाशक्यत्वादेव । तदुक्तं श्री स्वामिभिरेव दशमे कृष्णसत्कीर्तिवितानायोपवर्ण्यते । धर्मग्लानिनिमित्तस्तु निरोधो दुष्टभूभुजाम् ॥ इति । प्राकृतादिचतुर्धा यो निरोधः स तु वर्णितः । इति । अतोऽत्र स्कन्धे श्रीकृष्णरूपस्याश्रयस्यैव वर्णनप्राधान्यं तैर् विवक्षितम् । उक्तं च स्वयमेव दशमे दशमं लक्ष्यमाश्रिताश्रय विग्रहमिति । एवमन्यत्राप्युन्नेयम् । अतः प्रायशः सर्वेऽर्थाः सर्वेष्व् एव स्कन्धेषु गुणत्वेन वा मुख्यत्वेन वा निरूप्यन्त इत्येव तेषाम् अभिमतम् । श्रुतेनार्थेन चाञ्जसा इत्यत्र च तथैव प्रतिपन्नं सर्वत्र तत्तत्सम्भवात् । ततश्च पर्थमद्वितीययोरपि महापुराणतायां प्रवेशः स्यात् । तस्मात्क्रमो न गृहीतः ॥६१॥ बलदेव विद्याभूषण : अस्येति । प्रकारान्तरेणेति क्वचिन्नामान्तरत्वादर्थान्तरत्वाच्चेत्य् अर्थः । एतानि दशलक्षणानि केचित्तृतीयादिषु क्रमेण स्थूलधियो योजयन्ति । तान्निराकुर्वन्नाह द्वितीयस्कन्धोक्तानामिति । अष्टादश सहस्रित्वं द्वादशस्कन्धित्वं च भागवतलक्षणं व्याकुप्येत । अध्यायपूर्तौ भागवतत्वोक्तिश्च न सम्भवेदिति च बोध्यम् । शुक भाषितं चेद्भागवतं तर्हि प्रथमस्य द्वादशशेषस्य च तत्त्वानापत्तिः । तस्मादष्टादशसहस्रि तत्पितुराचार्याच्छुकेनाधीतं कथितं चेति साम्प्रतं संवादास्तु तथैवानादिसिद्धा इति साम्प्रतम् ॥६१॥ अथ सर्गादीनां लक्षणमाह अव्याकृतगुणक्षोभान्महतस्त्रिवृतोऽहमः । भूतमात्रेन्द्रियार्थानां सम्भवः सर्ग उच्यते ॥ (भागवतम् १२.७.११) प्रधानगुणक्षोभान्महान्, तस्मात्त्रिगुणोऽहङ्कारः । तस्माद्भूत मात्राणां भूतसूक्ष्माणामिन्द्रियाणां च । स्थूलभूतानां च । तद् उपलक्षिततद्देवतानां च सम्भवः सर्गः । कारणसृष्टिः सर्ग इत्य् अर्थः । पुरुषानुगृहीतानामेतेषां वासनामयः । विसर्गोऽयं समाहारो बीजाद्बीजं चराचरम् ॥ (भागवतम् १२.७.१२) पुरुषः परमात्मा । एतेषां महद्आदीनां, जीवस्य पूर्वकर्मवासना प्रधानोऽयं समाहारः । कार्यभूतश्चराचरप्राणिरूपो बीजाद्बीजम् इव प्रवाहापन्नो विसर्ग उच्यते । व्यष्टिसृष्टिविसर्ग इत्यर्थः । अनेनोतिरय् उक्ता वृत्तिर्भूतानि भूतानां चराणामचराणि च । कृता स्वेन नॄणां तत्र कामाच्चोदनयापि वा ॥ (भागवतम् १२.७.१३) चराणां भूतानां सामान्यतोऽचराणि, चकाराच्चराणि च कामाद्वृत्तिः । तत्र तु नॄणां स्वेन स्वभावेन कामाच्चोदनयापि वा या नियता वृत्तिर् जीविकाकृता, सा वृत्तिरुच्यत इत्यर्थः । रक्षाच्युतावतारेहा विश्वस्यानुयुगे युगे । तिर्यङ्मर्त्यर्षिदेवेषु हन्यन्ते यैस्त्रयीद्विषः ॥ (भागवतम् १२.७.१४) यैरवतारैः । अनेनेशकथा । स्थानं पोषणं चेति त्रयमुक्तम् । मन्वन्तरं मनुर्देवा मनुपुत्राः सुरेश्वराः । ऋषयोऽंशावताराश्च हरेः षड्विधमुच्यते ॥ (भागवतम् १२.७.१५) मन्वाद्याचरणकथनेन सद्धर्म एवात्र विवक्षित इत्यर्थः । ततश्च प्राक्तनग्रन्थेनैकार्थ्यम् । राज्ञां ब्रह्मप्रसूतानां वंशस्त्रैकालिकोऽन्वयः । वंश्यानुचरितं तेषां वृत्तं वंशधराश्च ये ॥ (भागवतम् १२.७.१६) तेषां राज्ञां ये च वंशधरास्तेषां वृत्तं वंश्यानुचरितम् ॥ ६२ ॥ बलदेव विद्याभूषण : उद्दिष्टानां सर्गादीनां क्रमेण लक्षणानि दर्शयितुमाह अथेत्यादि । अव्याकृतेति त्रिवृत्पदं महतोऽपि विशेषणं बोध्यम् । सात्त्विकी राजसश्चैव तामसश्च त्रिधा महान् (Vइড়् १.२.३४) इति श्रीवैष्णवात् । पुरुषः परमात्मा विरिञ्चान्तःस्थ इति बोध्यम् । स्फुटार्थानि शिष्टानि ॥६२॥ नैमित्तिकः प्राकृतिको नित्य आत्यन्तिको लयः । संस्थेति कविभिः प्रोक्तश्चतुर्धास्य स्वभावतः ॥ (भागवतम् १२.७.१७) अस्य परमेश्वरस्य । स्वभावतः शक्तितः । आत्यन्तिक इत्यनेन मुक्तिरप्य् अत्र प्रवेशिता । हेतुर्जीवोऽस्य सर्गादेरविद्याकर्मकारकः । यं चानुशयिनं प्राहुरव्याकृतमुतापरे ॥ (भागवतम् १२.७.१८) हेतुर्निमित्तम् । अस्य विश्वस्य । यतोऽयमविद्यया कर्मकारकः । यमेव हेतुं केचिच्चैतन्यप्राधानेनानुशयिनं प्राहुः । अपर उपाधि प्राधान्येनाव्याकृतमिति । व्यतिरेकान्वयो यस्य जाग्रत्स्वप्नसुषुप्तिषु । मायामयेषु तद्ब्रह्म जीववृत्तिष्वपाश्रयः ॥ (भागवतम् १२.७.१९) श्रीबादरायणसमाधिलब्धार्थविरोधादत्र च जीवशुद्धस्वरूपम् एवाश्रयत्वेन न व्याख्यायते किन्त्वयमेवार्थः । जाग्रद्आदिष्ववस्थासु, मायामयेषु मायाशक्तिकल्पितेषु महद्आदिद्रव्येषु च । केवल स्वरूपेण व्यतिरेकः परमसाक्षितयान्वयश्च यस्य तद्ब्रह्म जीवानां वृत्तिषु शुद्दस्वरूपतया सोपाधितया च वर्तनेषु स्थितिष्वपाश्रयः । सर्वमत्यतिक्रम्याश्रय इत्यर्थः । अप इत्येतत्कह्लु वर्जने, वर्जनं चातिक्रमे पर्यवस्यतीति । तदेवमपाश्रयाभिव्यक्तिद्वारभूतं हेतु शब्दव्यपदिष्टस्य जीवस्य शुद्धस्वरूपज्ञानमाह द्वाभ्याम् । पदार्थेषु यथा द्रव्यं तन्मात्रं रूपनामसु । बीजादिपञ्चतां तासु ह्यवस्थासु युतायुतम् ॥ विरमेत यदा चित्तं हित्वा वृत्तित्रयं स्वयम् । योगेन वा तद्आत्मानं वेदेहाया निवर्तते ॥ (भागवतम् १२.७.२०२१) रूपनामात्मकेषु पदार्थेषु घटादिषु यथा द्रव्यं पृथिव्यादि युतम् अयुतं च भवति । कार्यदृष्टिं विनाप्युपलम्भात् । तथा तन्मात्रं शुद्धं जीवचैतन्यमात्रं वस्तु गर्भाधानादिपञ्चतान्तासु नवस्वप्य् अवस्थास्वविद्यया युतं स्वतस्त्वयुतमिति शुद्धमात्मानमित्थं ज्ञात्वा निर्विण्णः सन्नपाश्रयानुसन्धानयोग्यो भवतीत्याह विरमेतेति । वृत्तित्रयं जाग्रत्स्वप्नसुषुप्तिरूपम् । आत्मानं परमात्मानम् । स्वयं वासुदेवादेरिव मायामयत्वानुसन्धानेन देव त्यादेरिवानिष्ठितेन योगेन वा । ततश्चेहायास्तद्अनुशीलनव्यतिरिक्तचेष्टायाः ॥ १.७ ॥ श्री सूतः ॥ उद्दिष्टः सम्बन्धः ॥६३॥ बलदेव विद्याभूषण : पूर्वोक्तायां दशलक्षण्यां मुक्तिरेकलक्षणम् । अस्यां तु चतुर्विधानां संस्थायामात्यन्तिकलयशब्दिता मुक्तिरानीतेति । यं चानुशयिनमिति भुक्तशिष्टकर्मविशिष्टो जीवोनुशयीत्युच्यते । रूपेति मूर्त्या संज्ञया चोपेतेष्वित्यर्थः । कार्यदृष्टिमिति घटादिभ्यः पृथग् अपि पृथ्व्यादेः प्राप्तेरित्यर्थः । अपाश्रयेति ईश्वरध्यानयोग्यो भवतीत्य् अर्थः । स्वयमिति वामदेवः खलु गर्भस्य एव परमात्मानं बुबुधे, योगेन देवहूतीत्यर्थः ॥६३॥ इति श्रीकलियुगपावनस्वभजनविभाजनप्रयोजनावतारश्रीश्री भगवत्कृष्णचैतन्यदेवचरणानुचरविश्ववैष्णवराजसभाजन भाजनश्रीरूपसनातनानुशासनभारतीगर्भे श्रीभागवतसन्दर्भे तत्त्वसन्दर्भो नाम प्रथमः सन्दर्भः ॥ बलदेव विद्याभूषण : इति कलीति कलियुगपावनं यत्स्वभजनं तस्य विभजनं विस्तरणं प्रयोजनं यस्य तादृशोऽवतारः प्रादुर्भावो यस्य, तस्य श्रीभगवत् कृष्णचैतन्यदेवस्य चरणयोरनुचरौ, विश्वस्मिन् ये वैष्णवराजास्तेषां सभासु यत्सभाजनं सत्कारस्तस्य भाजने पात्रे च यौ श्रीरूप सनातनौ तयोरनुशासनभारत्य उपदेशवाक्यानि गर्भे मध्ये यस्य तस्मिन् ॥ टिप्पणी तत्त्वसन्दर्भे विद्याभूषणनिर्मिता । श्रीजीवपाठसंपृक्ता सद्भिरेषा विशोध्यताम् ॥ इति श्रीमद्बलदेवविद्याभूषणविरचिता तत्त्वसन्दर्भटिप्पणी समाप्ता ॥ [*Eण्ड्ण्Oट्E ॰१] आल्तेर्नतिवे रेअदिन्ग्: वेद रामायणे पुण्ये भारते भरतर्षभ । आदाव्चान्ते च मध्ये च हरिः सर्वत्र गीयते ॥ [*Eण्ड्ण्Oट्E ॰२] आरुषी तु मनोः कन्या तस्य पत्नी मनीषिणः । और्वस् तस्यां समभवदूरुं भित्त्वा महायशाः ॥ (ंभ्१.६६.४६) श्रीभागवतसन्दर्भे द्वितीयः भगवत्सन्दर्भः श्रीश्रीराधागोविन्दो जयतः । तौ सन्तोषयता सन्तौ श्रीलरूपसनातनौ । दाक्षिणात्येन भट्टेन प्नुअरेतद्विविच्यते ॥ो॥ तस्याद्यं ग्रन्थनालेखं क्रान्तमुत्क्रान्तखण्डितम् । पर्यालोच्याथ पर्यायं कृत्वा लिखति जीवकः ॥ो॥[*Eण्ड्ण्Oट्E ॰१] [१] अथैवमद्वयज्ञानलक्षणं तत्तत्त्वं सामान्यतो लक्षयित्वा पुनर् उपासकयोग्यतावैशिष्ट्येन प्रकटितनिजसत्ताविशेषं विशेषतो निरूपयति वदन्तीत्यस्यैवोत्तरार्धेन ब्रह्मेति परमात्मेति भगवानिति शब्द्यते । [भागवतम् १.२.११] अथ श्रीमद्भागवताख्य एव शास्त्रे क्वचिदनयत्रापि तदेकं तत्त्वं त्रिधा शब्द्यते । क्वचिद्ब्रह्मेति क्वचित्परमात्मेति क्वचिद्भगवानिति च । किन्त्वत्र श्रीमद्व्याससमाधिलब्धाद्भेदाज्जीव इति च शब्द्यते इति स्वयमेव व्याख्यातो भवतीति प्रथमतस्तावेव प्रस्तूयते । मूले तु क्रमाद्वैशिष्ट्यद्योतनाय तथा विन्यासः । अयमर्थः तदेकम् एवाखण्डानन्दस्वरूपं तत्त्वं थुत्कृतपारमेष्ठ्यादिकानन्द समुदयानां परमहंसानां साधनवशात्तादात्म्यमापन्ने सत्याम् अपि तदीयस्वरूपशक्तिवैचित्र्यां तद्ग्रहणासामर्थ्ये चेतसि यथा सामान्यतो लक्षितं तथैव स्फुरद्वा तद्वदेवाविविक्तशक्ति शक्तिमत्ताभेदतया प्रतिपाद्यमानं वा ब्रह्मेति शब्द्यते । अथ तदेकं तत्त्वं स्वरूपभूतयैव शक्त्या कमपि विशेषं धर्तुं परासामपि शक्तीनां मूलाश्रयरूपं तद्अनुभावानन्दसन्दोहान्तर् भाविततादृशब्रह्मानन्दानां भागवतपरमहंसानां तथानुभवैकसाधकतमतदीयस्वरूपानन्दशक्तिविशेषात्मक भक्तिभावितेष्वन्तर्बहिरपीन्द्रियेषु परिस्फुरद्वा तद्वदेव विविक्त तादृशशक्तिशक्तिमत्ताभेदेन प्रतिपाद्यमानं वा भगवानिति शब्द्यते । एवमेवोक्तं श्रीजडभरतेन ज्ञानं विशुद्धं परमार्थमेकम् अनन्तरं त्वबहिर्ब्रह्म सत्यम् प्रत्यक्प्रशान्तं भगवच्छब्दसंज्ञं यद्वासुदेवं कवयो वदन्ति ॥ [भागवतम् ५.१२.११] इति । श्रीध्रुवं प्रति श्रीमनुना च त्वं प्रत्यग्आत्मनि तदा भगवत्यनन्त । आनन्दमात्र उपपन्नसमस्तशक्तौ ॥ [भागवतम् ४.११.३०] इति । एवं चानन्दमात्रं विशेष्यं समस्ताः शक्तयो विशेषणानि विशिष्टो भगवानित्यायातम् । तथा चैवं विशिष्टये प्राप्ते पूर्णाविर्भावत्वेनाखण्डतत्त्वरूपोऽसौ भगवान् । ब्रह्म तु स्फुटम् अप्रकटितवैशिष्ट्याकारत्वेन तस्यवासम्यगाविर्भाव इत्यागतम् । इदं तु पुरस्ताद्विस्तरेण विवेचनीयम् । भगवच्छब्दार्थः श्रीविष्णुपुराणे [६.५.६६६९, ७३७५, ७९] प्रोक्तः । यत्तदव्यक्तमजरमचिन्त्यमजमक्षयम् । अनिर्देश्यमरूपं च पाणिपादाद्य्असंयुतम् ॥ विभुं सर्वगतं नित्यं भूतयोनिमकारणम् । व्याप्य्अव्याप्तं यतः सर्वं तद्वै पश्यन्ति सूरयः ॥ तद्ब्रह्म परमं धाम तद्ध्येयं मोक्षकाङ्क्षिणाम् । श्रुतिवाक्योदितं सूक्ष्मं तद्विष्णोः परमं पदम् ॥ तदेतद्भगवद्वाच्यं स्वरूपं परमात्मनः । वाचको भगवच्छब्दस्तस्याद्यस्याक्षरात्मनः ॥ इत्य्आद्युक्त्वा सम्भर्तेति तथा भर्ता भकारोऽर्थद्वयान्वितः । नेता गमयिता स्रष्टा गकारार्थस्तथा मुने ॥ ऐश्वर्यस्य समग्रस्य वीर्यस्य यशसः श्रियः । ज्ञानवैराग्ययोश्चैव षण्णां भग इतीङ्गना ॥ वसन्ति तत्र भूतानि भूतात्मन्यखिलात्मनि । स च भूतेष्वशेषेषु वकारार्थस्ततोऽव्ययः ॥ इति चोक्त्वा ज्ञानशक्तिबलैश्वर्यवीर्यतेजांस्यशेषतः । भगवच्छब्दवाच्यानि विना हेयैर्गुणादिभिः ॥ इति [Vइড়् ६.५.७९] पर्यन्तेन । पूर्ववदत्र विशेष्यविशेषणविशिष्टता विवेचनीया । विशेषणस्याप्य् अहेयत्वं व्यक्तीभविष्यतीति । अरूपं पाणिपादाद्य्असंयुतमितीदं ब्रह्माख्यकेवलविशेष्याविर्भावनिष्ठम् । विभुं सर्वगतमित्य् आदिकं तु विशिष्टनिष्ठम् । अथवा अरूपमित्यादिकं प्राकृतरूपादि निषेधनिष्ठम् । अतएव पाणिपादाद्यसंयुतमिति संयोगसम्बन्ध एव परिह्रियते न तु समवायसम्बन्ध इति ज्ञेयम् । विभुमिति सर्ववैभव युक्तमित्यर्थः । व्यापीति सर्वव्यापकम् । अव्याप्तमिति अन्येन व्याप्तुम् अशक्यम् । तदेतद्ब्रह्मस्वरूपं भगवच्छब्देन वाच्यम् । न तु लक्ष्यम् । तदेव निर्धार्यति भगवच्छब्दोऽयं तस्य नदीविशेषस्य गङ्गाशब्दवद्वाचक एव, न तु तटशब्दवल्लक्षकः । एवं सत्यक्षर साम्यान्निर्ब्रूयादिति निरुक्तमतमाश्रित्य भगादिशब्दानामर्थमाह सम्भर्तेति. नेतास्वभक्तिफलस्य प्रेम्णः प्रापकः । गमयिता स्वलोक प्रापकः । स्रष्टा स्वभक्तेषु तत्तद्गुणस्योद्गमयिता । जगत् पोषकत्वादिकं तु तस्य परम्परयैव न तु साक्षादिति ज्ञेयम् । ऐश्वर्यं सर्ववशीकारित्वम् । समग्रस्येति सर्वत्रान्वेति । वीर्यं मणि मन्त्रादेरिव प्रभावः । यशो वाङ्मनःशरीराणां साद्गुण्यख्यातिः । श्रीः सर्वप्रकारा सम्पत् । ज्ञानं सर्वज्ञत्वम् । वैराग्यं प्रपञ्चवस्त्व् अनासक्तिः । इङ्गना संज्ञा । अक्षरसाम्यपक्षे भगवानिति वक्तव्ये मतुपो वलोपश्छान्दसः । सम्भर्तेय्आदिषु सम्भर्तृत्वादिष्वेव तात्पर्यम् । यथा सुप्तिङ्अन्तचयो वाक्यमित्यत्र पचति भवतीत्यस्य वाक्यस्य पाको भवतीत्यर्थः क्रियते यथा वा सत्तायामस्ति भवतीत्यत्र धात्व्अर्थ एव विवक्षितः । तदेवमेव भगवानित्यत्र मतुब्अर्थो योजयितुं शक्यते । प्रकारान्तरेण षड्भगान् दर्शयति ज्ञानशक्ती ज्ञानम् अन्तःकरणस्य । शक्तिरिन्द्रियाणाम् । ऐश्वर्यवीर्ये व्याख्याते । तेजः कान्तिः । अशेषतः सामग्र्येणेत्यर्थः । भगवच्छब्दवाच्यानीति । भगवतो विशेषणान्येवैतानि न तूपलक्षआनीत्यर्थः । अत्र भगवानिति नित्ययोगे मतुप् । अथ तथाविधभगवद्रूपपूर्णाविर्भावं तत्तत्त्वं पूर्ववज्जीवादि नियन्तृत्वेन स्फुरद्वा प्रतिपाद्यमानं वा परमात्मेति शब्द्यत इति । यद्यप्येतए ब्रह्मादिशब्दाः प्रायो मिथोऽर्थेषु वर्तन्ते तथापि तत्र तत्र सङ्केतप्राधान्यविवक्षयेदमुक्तम् ॥ श्रीसुतः ॥ [२] एवमेव प्रश्नोत्त्तराभ्यां विवृणोति । राजोवाच नारायणाभिधानस्य ब्रह्मणः परमात्मनः । निष्ठामर्हथ नो वक्तुं यूयं हि ब्रह्मवित्तमाः ॥ [भागवतम् ११.३.३५] श्रीपिप्पलायन उवाच स्थित्य्उद्भवप्रलयहेतुरहेतुरस्य यत्स्वप्नजागरसुषुप्तिषु यद्बहिश्च । देहेन्द्रियासुहृदयानि चरन्ति येन सञ्जीवितानि तदवेहि परं नरेन्द्र ॥ [भागवतम् ११.३.३६] अत्र प्रश्नस्यार्थः । नारायणाभिधानस्य भगवतः । ब्रह्मेति परमात्मेत्यादिप्रसिद्धतत्समुदायतृतीयतया पाठात् । नारायणे तुरीयाख्ये भगवच्छबशब्दिते इत्यत्र स्पष्टीभावित्वाच्च । निष्ठां तत्त्वम् । प्रश्नक्रमेणैवोत्तरमाह स्थितीति । यत्स्थित्यादिहेतुरहेतुश्च भवति । यच्च जागरादिषु यद्बहिश्च भवति । येन च देहादीनि सञ्जीवितानि सन्ति चरन्ति । तदेकमेव परं तत्त्वं प्रश्नक्रमेण नारायणादिरूपं विद्धीति योजनीयम् । तथापि भ्रमत्वस्पष्टीकरणाय विपर्ययेन व्याख्यायते । तत्रैकस्यैव विशेषणभेदेन तद्अविशिष्टत्वेन च प्रतिपादनात्तथैव तत्तदुपासकपुरुषानुभवभेदाच् चाविर्भावनाम्भोदेर्भेद इत्युत्तरवाक्यतात्पर्यम् । एतदुक्तं भवति । स्वयमहेतुः स्वरूपशक्त्यैकविलासमयत्वेन तत्रोदासीनमपि प्रकृतिजीवप्रवर्तकावस्थपरमात्मापरपर्याय स्वांशलक्षणपुरुषद्वारा यदस्य सर्गस्थित्य्आदिहेतुर्भवति तद् भगवद्रूपं विद्धि । परमात्मता चैवमुपतिष्ठतीत्याह येन हेतु कर्त्रा आत्मांशभूतजीवप्रवेशनद्वारा सञ्जीवितानि सन्ति देहादीनि तद् उपलक्षणानि प्रधानादिसर्वाण्येव तत्त्वानि येनैव प्रेरिततयैव चरन्ति स्वस्वकार्ये प्रवर्तन्ते तत्परअमात्मरूपं विद्धि । तस्मै नमो भगवते ब्रह्मणे परमात्मने [भागवतम् १०.२८.६] इत्यत्र वरुण कृतश्रीकृष्णस्तुतौ टीका च परमात्मने सर्वजीवनियन्त्रे इत्येषा । जीवस्यात्मत्वं तद्अपेक्षया तस्य परमत्वमित्यतः परमात्मशब्देन तत्सहयोगी स एव व्यज्यते इति । तत्तदविशिष्टत्वेन ब्रह्मत्वमात्रं चैवमुपतिष्ठतीत्याह, स्वप्नेति । यदेव तत्तत्त्वं स्वप्नादौ अन्वयेन स्थितं यच्च तद्बहिः शुद्धायां जीवाख्यशक्तौ तथा स्थितं चकारात् ततः परत्रापि व्यतिरेकेण स्थितं स्वयमविशिष्टं तद्ब्रह्मरूपं विद्धीति ॥ श्रीनारदः? ॥ श्रीनारदः॥२॥ [३] इदमेव त्रयं सिद्धिप्रसङ्गेऽप्याह त्रिभिः । विष्णौ त्र्यधीश्वरे चित्तं धारयेत्कालविग्रहे । स ईशित्वमवाप्नोति क्षेत्रं क्षेत्रज्ञचोदनम् ॥ नारायणे तुरीयाख्ये भगवच्छब्दशब्दिते । मनो मय्यादधद्योगी मद्धर्मावशितामियात् ॥ निर्गुणे ब्रह्मणि मयि धारयन् विशदं मनः । परानन्दमवाप्नोति यत्र कामोऽवसीयते ॥ [भागवतम् ११.१५.१५१७] टीका च । त्र्य्अधीश्वरे त्रिगुणमायानियन्तरि । अतएव कालविग्रहे आकलयिऋरूपे अन्तर्यामिणि । तुरीयाख्ये विराठिरण्यगर्भश्च कारणं चेत्युपाधयः । ईशस्य यन्त्रिभिर्हीनः तुरीयं तत्पदं विदुः ॥ इत्येवं लक्षणे । ऐश्वर्यस्य समग्रस्य वीर्यस्य यशसः श्रियः । ज्ञानवैराग्ययोश्चैव षण्णां भग इतीङ्गना ॥ [Vइড়् ६.५.७४] तद्वति भगवच्छब्दशब्दिते । इत्येषा ॥ श्रीभगवान् ॥३॥ [४] अथ वदन्तीत्याद्यस्य पद्यस्य प्रत्यवस्थानं यावत्तृतीयसन्दर्भम् उद्भाव्यते । यत्र योग्यतावैशिष्ट्येनाविर्भाववैशिष्ट्यं वक्तुं ब्रह्माविर्भावे तावद्योग्यतामाह तथापि भूमन्महिमागुणस्य ते विबोध्हुमर्हत्यमलान्तरात्मभिः । अविक्रियात्स्वानुभवादरूपतो ह्यनन्यबोध्यात्मयतया न चान्यथा ॥ [भागवतम् १०.१४.६] यद्यपि ब्रह्मत्वे भगवत्त्वे च दुर्ज्ञेयत्वमुक्तम्, तथापि हे भूमन् स्वरूपेण गुणेन चानन्त ते तवागुणस्य अनाविष्कृतस्वरूपभूतगुणस्य यो महिमा महत्त्वं बृहत्त्वं ब्रह्मत्वमिति यावत् । अथ कस्मादुच्यते ब्रह्म बृंहति बृंहयति चेति श्रुतेः । स तव महिमा अमलान्तरात्मभिः शुद्धान्तःकरणैर्गुणैर्विबोद्धुमर्हति । तेषां बोधे प्रकाशितुम् अर्हति समर्थो भवतीत्यर्थः । कस्मान्निमित्तात्? तत्राह स्वानुभवात्शुद्धत्वं पदार्थस्य बोधात् । नन्वनुभवः खल्वन्तःकरणस्य वृत्तिः, सा च स्थूलसूक्ष्मदेह विकारमय्येव सती कथं निर्विकारत्वम्पदार्थः विषयं कुर्वीत । तत्राह अविक्रियात्त्यक्ततत्तद्विकारात् । ननु विषयाकार एवानुभवो विषयमुपाददीत शुद्धत्वम्पदार्थस्तु न कस्यापि विषयः स्यात्प्रत्यग्रूपत्वात् । तत्राह अरूपतः रूप्यते भाव्यते इति रूपो विषयः तदाकारतारहितात् । देहद्वयावेशविषयाकारताराहित्ये सति स्वयं शुद्धत्वंपदार्थः प्रकाशत इति भावः । ननु सूक्ष्मचिद्रूपत्वम्पदार्थानुभवे कथं पूर्णचिदाकाररूप मदीयब्रह्मस्वरूपं स्फुरतु । तत्राह अनन्यबोध्यात्मतया चिद् आकारतासाम्येन शुद्धत्वंपदार्थैक्यबोध्यस्वरूपतया । यद्यपि तादृग्आत्मानुभवानन्तरं तद्अनन्यबोध्यताकृतौ साधकशक्तिर्नास्ति तथापि पूर्वं तद्अर्थमेव कृतया सर्वत्राप्युपजीव्यया साधनभक्त्य् आराधितस्य श्रीभगवतः प्रभावादेव तदपि तत्रोदयत इति भावः । तदुक्तं वदन्तीत्यादिपद्यानन्तरमेव तच्छ्रद्दधाना मुनयो ज्ञानवैराग्ययुक्तया । पश्यन्त्यात्मनि चात्मानं भक्त्या श्रुतगृहीतया ॥ [भागवतम् १.२.१२] इति. सत्यव्रतं प्रति श्रीमत्स्यदेवोपदेशे च मदीयं महिमानं च परं ब्रह्मेति शब्दितम् । वेत्स्यस्यनुगृहीतं मे सम्प्रश्नैर्विवृतं हृदि ॥ [भागवतम् ८.२४.३८] इति. ब्रह्मा श्रीभगवन्तम् ॥४॥ [५] तादृशाविर्भावमाह, सार्धेन शश्वत्प्रशान्तमभयं प्रतिबोधमात्रं शुद्धं समं सद्असतः परमात्मतत्त्वम् । शब्दो न यत्र पुरुकारकवान् क्रियार्थो माया परैत्यभिमुखे च विलज्जमाना । तद्वै पदं भगवतः परमस्य पुंसो ब्रह्मेति यद्विदुरजस्रसुखं विशोकम् ॥ [भागवतम् २.७.४७] अयमर्थः । सर्वतो बृहत्तमत्वाद्ब्रह्मेति यद्विदुस्तत्खलु परमस्य पुंसो भगवतः पदमेव । निर्विकल्पतया साक्षात्कृतेः प्राथमिकत्वात् ब्रह्मणश्च भगवत एव निर्विकल्पसत्तारूपत्वात् । विचित्ररूपादिविकल्प विशेषविशिष्टस्य भगवतस्तु साक्षात्कृतेस्तद्अनन्तरजत्वात् । तदीय स्वरूपभूतं तद्ब्रह्म तत्साक्षात्कारास्पदं भवतीत्यर्थः । निर्विकल्पब्रह्मणस्तस्य स्वरूपलक्षणमाह प्रतिबोधमात्रमिति । अजस्रसुखमिति च । जडस्य दुःखस्य च प्रतियोगितया प्रतीयते यद्वस्तु यच्च नित्यं तदेकरूपं तद्रूपमित्यर्थः । यतात्मतत्त्वं सर्वेषाम् आत्मत्नां मूलम् । आत्मा हि स्वप्रकाशरूपतया निरुपाधिपरम प्रेमास्पदतया च तत्तद्रूपेण प्रतीयत इत्यर्थः । अथ तस्य सुखरूपस्य अजस्रत्वे हेतुमाह शाश्वत्प्रशान्तं नित्यमेव क्षोभरहितं तद्वदभयं भयशून्यं विशोकं शोकरहितं चेति । न च सुखरूपत्वे तस्य पुण्यजन्यत्वं स्यादित्याह शब्दो न यत्रेति । यत्र क्रियार्थो यज्ञाद्य्अर्थः पुरुकारकवान् शब्दो न प्रवर्तते इत्यर्थः । त्वं त्वौपनिषदं पुरुषमित्यादि रीत्या केवलमुपनिषदेव प्रकाशिका भवतीत्यर्थः । पुनः सुखस्वरूपत्वे चेन्द्रियजन्यत्वं व्यावर्तयति शुद्धमित्यादिना । तत्र शुद्धं दोषरहितम् । सममुच्चावचताशून्यम् । सदसतः परं कारणकार्यवर्गादुपरिस्थितम् । किं बहुनेत्याह माया च यस्याभिमुखे यदुन्मुखतया स्थिते जीवन्मुक्तगणे विलज्जमानैव परैति पलायते ततो दूरं गच्छतीत्यर्थः ॥ श्री ब्रह्मा नारदम् ॥५॥ [६] व्यञ्जिते भगवत्तत्त्वे ब्रह्म च व्यज्यते स्वयम् । अतोऽत्र ब्रह्मसन्दर्भोऽप्यवान्तरतया मतः ॥ अथ भगवद्आविर्भावे योग्यतामाह भक्तियोगेन मनसि सम्यक्प्रणिहितेऽमले अपश्यत्पुरुषं पूर्णम् ॥ [भागवतम् १.७.४] इति । व्याख्यातमेव ॥६॥ [७] तदित्थं ब्रह्मणा चोक्तम् त्वं भक्तियोगपरिभावितहृत्सरोज आस्से श्रुतेक्षितपथो ननु नाथ पुंसाम् ॥ इति ॥ [भागवतम् ३.९.११] ॥ श्रीसुतः ॥७॥[*Eण्ड्ण्Oट्E ॰२] [८] तद्आविर्भावमाह सार्धदशभिः तस्मै स्वलोकं भगवान् सभाजितः सन्दर्शयामास परं न यत्परम् । व्यपेतसङ्क्लेशविमोहसाध्वसं स्वदृष्टवद्भिर्पुरुषैरभिष्टुतम् ॥९॥ प्रवर्तते यत्र रजस्तमस्तयोः सत्त्वं च मिश्रं न च कालविक्रमः । न यत्र माया किमुतापरे हरेर् अनुव्रता यत्र सुरासुरार्चिताः ॥१०॥ श्यामावदाताः शतपत्रलोचनाः पिशङ्गवस्त्राः सुरुचः सुपेशसः । सर्वे चतुर्बाहव उन्मिषन्मणि प्रवेकनिष्काभरणाः सुवर्चसः । प्रवालवैदूर्यमृणालवर्चसः परिस्फुरत्कुण्डलमौलिमालिनः ॥११॥ भ्राजिष्णुभिर्यः परितो विराजते लसद्विमानावलिभिर्महात्मनाम् । विद्योतमानः प्रमदोत्तमाद्युभिः सविद्युदभ्रावलिभिर्यथा नभः ॥१२॥ श्रीर्यत्र रूपिण्युरुगायपादयोः करोति मानं बहुधा विभूतिभिः । प्रेङ्खं श्रिता या कुसुमाकरानुगैर् विगीयमाना प्रियकर्म गायती ॥१३॥ ददर्श तत्राखिलसात्वतां पतिं श्रियः पतिं यज्ञपतिं जगत्पतिम् । सुनन्दनन्दप्रबलार्हणादिभिः स्वपार्षदाग्रैः परिसेवितं विभुम् ॥१४॥ भृत्यप्रसादाभिमुखं दृग्आसवं प्रसन्नहासारुणलोचनाननम् । किरींिनं कुण्डलिनं चतुर्भुजं पीतांशुकं वक्षसि लक्षितं श्रिया ॥१५॥ अध्यर्हणीयासनमास्थितं परं वृतं चतुःषोडशपञ्चशक्तिभिः । युक्तं भगैः स्वैरितरत्र चाध्रुवैः स्व एव धामन् रममाणमीश्वरम् ॥१६॥ तद्दर्शनाह्लादपरिप्लुतान्तरो हृष्यत्तनुः प्रेमभराश्रुलोचनः । ननाम पादाम्बुजमस्य विश्वसृग् यत्पारमहंस्येन पथाधिगम्यते ॥१७॥ तं प्रीयमाणं समुपस्थितं कविं प्रजाविसर्गे निजशासनार्हणम् । बभाष ईषत्स्मितशोचिषा गिरा प्रियः प्रियं प्रीतमनाः करे स्पृशन् ॥१८ [भागवतम् २.९.९१८] ॥ तस्मै भगवद्आज्ञापुरस्कारेण श्रीनारायणाह्वयपुरुषनाभि पङ्कजे स्थित्यैव तत्तोषणैस्तपोभिर्भजते ब्रह्मणे सभाजितस्तेन भजनेन वशीकृतः सन् स्वलोकं वैकुण्ठं भुवनोत्तमं भगवान् सम्यग्दर्शयामास । यद्यतो विअकुण्ठात्परमन्यद्वैकुण्ठं परं श्रेष्ठं न विद्यते परमभगवद्वैकुण्ठत्वात् । यद्वा, यद्यतो वैकुण्ठात्परं ब्रह्माख्यं तत्त्वं परं भिन्नं न भवति । स्वरूप शक्तिविशेषाविष्कारेण माययानावृतं तदेव तद्रूपमित्यर्थः । अग्रे त्व् इदं व्यक्तीकरिष्यते । तादृशत्वे हेतुः व्यपेतेति स्वदृष्टेतो च । अविद्यास्मितारागद्वेषाभिनिवेशाः पञ्च क्लेशाः विइमोहस्तैः वैचित्र्यं साध्वसं भयं व्यपेतानि सङ्क्लेशादीनि यत्र तम् । स्वस्य दृष्टं दर्शनं तद्विद्यते येषां तैरात्मविद्भिरपि अभितः सर्वांशेनैव स्तुतं श्लाघितम् । अथ ते मुनयो दृष्ट्वा नयनानन्दभाजनम् । वैकुण्ठं तद्अधिष्ठानं विकुण्ठं च स्वयंप्रभम् ॥ भगवन्तं परिक्रम्य प्रणिपत्यानुमान्य च । प्रतिजग्मुः प्रमुदिताः शंसन्तो वैष्णवीं श्रियम् ॥ [भागवतम् ३.१६.२७८] पुनस्तादृशत्वमेव व्यनक्ति, प्रवर्तते इति । यत्र वैकुण्ठे रजस्तमश्च न प्रवर्तते । तयोर्मिश्रं सहचरं जडं यत्सत्त्वं न तदपि । किन्तु अन्यदेव । तच्च या सुष्ठु स्थापयिष्यमाणा मायातः परा भगवत् स्वरूपशक्तिः तस्याः वृत्तित्वेन चिद्रूपं शुद्धसत्त्वाख्यं सत्त्वमिति तदीयप्रकरण एव स्थापयिष्यते । तदेव च यत्र प्रवर्तते इत्यर्थः । तथा च नारदपञ्चरात्रे जितन्तेस्तोत्रे लोकं वैकुण्ठनामानं दिव्यषड्गुणसंयुतम् । अवैष्णवानामप्राप्यं गुणत्रयविवर्जितम् ॥ पाद्मोत्तरखण्डे तु वैकुण्ढनिरूपशो तस्य सत्त्वस्याप्राकृतत्वं स्फुटमेवं दर्शितम् । यतः प्रकृतिविभूतिवर्णनानन्तरम् एवं प्राकृतरूपाया विभूते रूपमुत्तमम् । त्रिपाद्विभूतिरूपं तु शृणु भूधरनन्दिनि ॥ प्रधानपरमव्योम्नोरन्तरे विरजा नदी । वेदाङ्गस्वेदजनिततोयैः प्रस्राविता शुभा ॥ तस्याः पारे परव्योम्नि त्रिपाद्भूतं सनातनम् । अमृतं शाश्वतं नित्यमनन्तं परं पदम् ॥ शुद्धसत्त्वमयं दिव्यमक्षरं ब्रह्मणः पदम् ॥ इत्यादि ॥ प्राकृतगुणानां परस्पराव्यभिचारित्वं तूक्तं साङ्ख्यकौमुद्यां अन्योन्यमिथुनवृत्तय इति । तट्टीकायां च अन्योन्यसहचरा अविनाभाव वर्तिन इति यावत् । भवति चात्रागमः अन्योन्यमिथुनाः सर्वे सर्वे सर्वत्रगामिनः । रजसो मिथुनं सत्त्वम् ॥ इत्याद्युपक्रम्य नैषामादिश्च संयोगो वियोगो चोपलभ्यते ॥ इतीति ॥ तस्मादत्र रजसोऽसद्भावादसृज्यत्वं तमसोऽसद्भावादनाश्यत्वं प्राकृतसत्त्वाभावाच्च सच्चिदानन्दरूपत्वं तस्य दर्शितम् । तत्र हेतुर् न च कालविक्रमः इति । कालविक्रमेण हि प्रकृतिक्षोभात्सत्त्वादयः पृथक्क्रियन्ते । तस्माद्यत्रासौ षड्भावविकारहेतुः कालविक्रम एव न प्रवर्तते तत्र तेषामभावः सुतरामेवेति भावः । किं च तेषां मूलत एव कुठार इत्याह न यत्र मायेति । मायात्र जगत्सृष्ट्य्आदिहेतुर् भगवच्छक्तिर्न तु कापट्यमात्रम् । रजादिनिषेधेनैव तद्व्युदासात् । अथवा यत्र तयोः सम्बन्धि सत्त्वं प्राकृतसत्त्वं यत्तदपि न प्रवर्तते । मिश्रमपृथग्भूतगुणत्रयं प्रधानं च । अग्रे माया प्रधानयोर्भेदो विवेचनीयः । कैमुत्येनोक्तमेवार्थं द्रढयति । किमुतापरे इति । तयोर्विमिश्रं किञ्चिद् रजस्तमोमिश्रं सत्त्वं च नेति व्याख्या तु पिष्टपेषणमेव । सामान्यतो रजस्तमोनिषेधेनैव तत्प्रतिपत्तेः । वक्ष्यते च तस्य सत्त्वस्य प्राकृताद् अन्य्तमत्वं द्वादशे श्रीनारायणर्षिं प्रति मार्कण्डेयेन सत्त्वं रजस्तम इतीश तवात्मबन्धो मायामयाः स्थित्लयोद्भवहेतवोऽस्य । लीलाधृता यदपि सत्त्वमयी प्रशान्त्यै नान्ये नॄणां व्यसनमोहभियश्च याभ्याम् ॥ तस्मात्तवेह भगवन्नथ तावकानां शुक्लां तनुं स्वदयितां कुशला भजन्ति । यत्सात्वताः पुरुषरूपमुशन्ति सत्त्वं लोको यतोऽभयमुतात्मसुखं न चान्यद् ॥ [भागवतम् १२.८.३९४०] इति ॥ अनयोरर्थः । हे ईश यदपि सत्त्वं रजस्तम इति तवैव मायाकृता लीलाः । कथम्भूताः अस्य विश्वस्य स्थित्यादिहेतवः तथापि या सत्त्वमयी सैव प्रशान्त्यै प्रकृष्टसुखाय भवति । नान्ये रजस्तमोमय्यौ । न केवलं प्रशान्त्यभावमात्रमनयोः । किन्त्वनिष्टं चेत्याह व्यसनेति । हे भगवन् तस्मात्तव शुक्लां सत्त्वमयलीलाधिष्ठात्रीं तनुं श्रीविष्णु रूपां कुशला निपुणा भजन्ति सेवन्ते न त्वन्यां ब्रह्मरुद्ररूपां ते भजन्ति अनुसरन्ति । न तु दक्षभैरवादिरूपाम् । कथम्भूतां स्वस्य तवापि दयितां लोकशान्तिकरत्वात् । ननु मम रूपमपि सत्त्वात्मकमिति प्रसिद्धम् । तर्हि कथं तस्यापि मायामयत्वमेव । नहि नहीत्याह सात्वताः श्रीभागवता यत्सत्त्वं पुरुषस्य तव रूपं प्रकाशमुशन्ति मन्यन्ते यतश्च सत्त्वात्लोको वैकुण्ठाख्यः प्रकाशते तदभयमात्मसुखं परब्रह्मानन्द स्वरूपमेवलक्षणस्वरूपशक्तिवृत्तिविशेष उच्यते । सत्त्वं विशुद्धं वसुदेवशब्दितं यदीयते तत्र पुमानपावृतः । [भागवतम् ४.३.२३] इत्याद्युदाहरिष्यमाणानुसारात् । अगोचरत्वे हेतुः प्रकृतिगुणः । सत्त्वमित्य् अशुद्धसत्त्वलक्षणप्रसिद्ध्य्अनुसारेण तथाभूतश्चिच्छक्तिवृत्ति विशेषः सत्त्वमिति सङ्गतिलाभाच्च । ततश्च तस्य स्वरूपशक्तिवृत्तित्वेन स्वरूपात्मतैवेत्युक्तं तदभयमात्मसुखमिति । अर्थान्तरे भगवद्विग्रहं प्रति रूपं यदेतद्[भागवतम् २.८.२] इत्यादौ शुद्धसत्त्व स्वरूपमात्रत्वप्रतिज्ञाभङ्गः । अभयमित्यादौ प्राञ्जलताहानिश्च भवति । अन्यत्पदस्यैकस्यैव रजस्तमश्चेति द्विर्आवृत्तौ प्रतिपत्ति गौरवं चोत्पद्यते । पूर्वमपि नान्ये इति द्विवचनेनैव परामृष्टे । तस्मादस्ति प्रसिद्धादन्यत्स्वरूपभूतं सत्त्वम् । यदेवैकादशे यत्काय एष भुवनत्रयसन्निवेश [भागवतम् ११.४.४] इत्यादौ ज्ञानं स्वत इत्यत्र टीकाकृन्मतं यस्य स्वरूपभूतात्सत्त्वात्तनु भृतां ज्ञानमित्यनेन । तथा परो रजः सवितुर्जातवेदा देवस्य भर्ग [भागवतम् ५.७.१४] इत्यादौ श्रीभरतजाप्ये तन्मतं परो रजः रजसः प्रकृतेः परं शुद्धसत्त्वात्मकमित्यादिना । अतएव प्राकृताः सत्त्वादयो गुणा जीवस्यैव न त्वीशस्येति श्रूयते । अथैकादशे सत्त्वं रजस्तम इति गुणा जीवस्य नैव मे [भागवतम् ११.२५.१२] इति । श्रीभगवद्उपनिषत्सु च ये चैव सात्त्विका भावा राजसास्तामसाश्च ये । मत्त एवेति तान् विद्धि न त्वहं तेषु ते मयि ॥ त्रिभिर्गुणमयैर्भावैरेभिः सर्वमिदं जगत् । मोहितं नाभिजानाति मामेभ्यः परमव्ययम् ॥ दैवी ह्येषा गुणमयी मम माया दुरत्यया । मामेव ये प्रपद्यन्ते मायामेतां तरन्ति ते ॥ इति [गीता ७.१२४] यथा दशमे हरिर्हि निर्गुणः साक्षात् पुरुषः प्रकृतेः परः । स सर्वदृगुपद्रष्टा तं भजन्निर्गुणो भवेत् ॥ इति [भागवतम् १०.८८.५] श्रीविष्णुपुराणे च सत्त्वादयो न सन्तीशे यत्र च प्राकृता गुणाः । स शुद्धः सर्वशुद्धेभ्यः पुमानाद्यः प्रसीदतु ॥ इति [Vइড়् १.९.४४] अत्र प्राकृता इति विशिष्य अप्राकृतास्त्वन्ये गुणास्तस्मिन् सन्त्येवेति व्यञ्जितं तत्रैव । ह्लादिनी सन्धिनी संवित् त्वय्येका सर्वसंश्रये । ह्लादतापकरी मिश्रा त्वयि नो गुणवर्जिते ॥ इति [Vइড়् १.१२.६९] तथा च दशमे देवेन्द्रेणोक्तम् विशुद्धसत्त्वं तव धाम शान्तं तपोमयं ध्वस्तरजस्तमस्कम् । मायामयोऽयं गुणसंप्रवाहो न विद्यते तेऽग्रणानुबन्ध ॥ इति [भागवतम् १०.२७.४] अयमर्थः । धाम स्वरूपभूतप्रकाशशक्तिः । विशुद्धत्वमाह विशेषणद्वयेन । ध्वस्तरजस्तमस्कं तपोमयमिति च । तपोऽत्र ज्ञानं स तपोऽतप्यतेति श्रुतेः । तपोमयं प्रचुरज्ञानस्वरूपम् । जाड्यांशेनापि रहितमित्यर्थः । आत्मा ज्ञानमयः शुद्ध इतिवत् । अतः प्राकृतसत्त्वम् अपि व्यावृत्तम् । अत एव मायामयोऽयं सत्त्वादिगुणप्रवाहस्ते तव न विद्यते । यतोऽसावज्ञानेनैवानुबन्ध इति । अतएव श्रीभगवन्तं प्रति ब्रह्मादीनां सयुक्तिकम् सत्त्वं विशुद्धं श्रयते भवान् स्थितौ शरीरिणां श्रेयोपायनं वपुः । वेदक्रियायोगतपःसमाधिभिस् तवार्हणं येन जनः समीहते ॥ सत्त्वं न चेद्धातरिदं निजं भवेद् विज्ञानमज्ञानभिदापमार्जनम् । गुणप्रकाशैरनुमीयते भवान् प्रकाशते यस्य च येन वा गुणः ॥ [भागवतम् १०.२.३४३५] अयमर्थः । सत्त्वं तेन प्रकाशमानत्वात्तद्अभिन्नतया रूपितं वपुर् भवान् श्रयते प्रकटयति । कथम्भूतं सत्त्वं विशुद्धम् । अन्यस्य रजस्तमोभ्याममिश्रस्यापि प्राकृतत्वेन जाड्यांशसंवलितत्वान्न विशेषेण शुद्धत्वम् । एतत्तु स्वरूपशक्त्य्आत्मत्वेन तद्अंशस्याप्य् अस्पर्शादतीव शुद्धमित्यर्थः । किमर्थं श्रये । शरीरिणां स्थितौ निज चरणारविन्दे मनःस्थैर्याय सर्वत्र भक्तिसुखादनस्यैव त्वदीय मुख्यप्रयोजनत्वादिति भावः । भक्तियोगविधानार्थम् इति [भागवतम् १.८.१९] श्रीकुन्तीवाक्यात् । कथम्भूतं वपुः श्रेयसां सर्वेषां पुरुषार्थानामुपायनमाश्रयम् । नित्यानन्दपरमानन्दरूपमित्यर्थः । अतो वपुषस्तव च भेद निर्देशोऽयमौपचारिक एवेति भावः । अतएव येन वपुषा यद्वपुर् आलम्बनेनैव जनस्तवार्हणं पूजां करोति । कैः साधनैः वेदादिभिस् त्वद्आलम्बकैरित्यर्थः । साधारणैस्त्वर्पितैरेव त्वद्अर्हण प्रायतासिद्धावपि । वपुषोऽनपेक्षत्वात् । तादृशवपुःप्रकाशहेतुत्वेन स्वरूपात्मकत्वं स्पष्टयन्ति । हे धातश्चेद्यदि इदं सत्त्वं यत्तव निजं विज्ञानमनुभवं तदात्मिका स्वप्रकाशताशक्तिरित्यर्थः । तन्न भवेत् । तर्हि तु अज्ञानभिदा स्व प्रकाशस्य तवानुभवप्रकार एव मार्जनं शुद्धिमवाप । सैव जगति पर्यवसीयते न तु तवानुभवलेशोऽपीत्यर्थः । ननु प्राकृतसत्त्वगुणेनैष भवतु किं निजेनेत्याह । प्राकृतगुण प्रकाशैर्भवान् केवलमनुमीयते न तु साक्षात्क्रियत इत्यर्थः । अथवा तव विज्ञानरूपमज्ञानभिदाया अपमार्जनं च यन्निजं सत्त्वं तद्यदि न भवेन्नाविर्भवति तदैव प्राकृतसत्त्वादिगुणप्रकाशैर्भवान् अनुमीयते त्वन्निजसत्ताविर्भावेण तु साक्षात्क्रियत एवेत्यर्थः । तदेव स्पष्टयितुं तत्रानुमाने द्वैविध्यमाहुर्यस्य गुणः प्रकाशत इति । अस्वरूपभूतस्यैव सत्त्वादिगुणस्य त्वद्अव्यभिचारि सम्बन्धित्वमात्रेण वा त्वदेव प्रकाश्यमानतामात्रेण वा त्वल्लिङ्गत्वमित्यर्थः । यथा अरुणोदयस्य सूर्योदयसान्निध्यलिङ्गत्वं यथा वा धूमस्याग्नि लिङ्गत्वमिति तत उभयथापि तव साक्षात्कारे तस्य साधकतमत्वाभावो युक्त इति भावः । तदेवमप्राकृतसत्त्वस्य तदीयस्वप्रकाशतारूपत्वं येन स्वप्रकाशस्य तव साक्षात्कारो भवतीति स्थापितम् । अत्र ये विशुद्धसत्त्वं नाम प्राकृतमेव रजस्तमःशून्यं मत्वा तत्कार्यं भगवद् विग्रहादिकं मन्यन्ते ते तु न केनाप्यनुगृहीताः । रजः सम्बन्धाभावेन स्वतः प्रशान्तस्वभावस्य सर्वत्रोदासीनताकृतिहेतोस् तस्य क्षोभासम्भवात्विद्यामयत्वेन यथावस्थितवस्तुप्रकाशितामात्र धर्मत्वात्, तस्य कल्पनान्तरायोग्यत्वाच्च । तदुक्तमपि अगोचरस्य गोचरत्वे हेतुः प्रकृतिगुणः सत्त्वम् । गोचरस्य बहुरूपत्वे रजः । बहुरूपस्य तिरोहितत्वे रजः । तथा परस्परोदासीनत्वे सत्त्वम् । उपकारित्वे रजः । अपकारित्वे तमः । गोचरत्वादीनि स्थित्सृष्टिसंहाराः उदासीनत्वादीनि चेति । अथ रजोलेशे तत्र मन्तव्ये विशुद्धपदवैयर्थ्यमित्यलं तन्मत रजोघटप्रघट्टनयेति । पाद्मोत्तरखण्डे तु वैकुण्ठनिरूपणे तस्य सत्त्वस्याप्राकृतत्वं स्फुटमेव दर्शितम् । यत उक्तं प्रकृतिविभूति वर्णनानन्तरम् । एवं प्राकृतरूपाय विभूतेर्रूपमुत्तमम् । त्रिपाद्विभूतिरूपं तु शृणु भूधरनन्दिनि ॥ प्रधानपरमव्योम्नोरन्तरे विरजा नदी । वेदाङ्गस्वेदजनिततोयैः प्रस्राविता शुभा ॥ तस्याः पारे परव्योम्नि त्रिपाद्भूतं सनातनम् । अमृतं शाश्वतं नित्यमनन्तं परं पदम् ॥ शुद्धसत्त्वमयं दिव्यमक्षरं ब्रह्मणः पदम् ॥ इत्यादि । तदेतत्समाप्तं प्रासङ्गिकं शुद्धसत्त्वविवेचनम् । अथ प्रवर्तते इत्यादि प्रकृतमेव पद्यं व्याख्यायते । ननु गुणाद्य्अभावान्निर्विशेष एवासौ लोक इत्याशङ्क्य तत्र विशेषस्तस्याः शुद्धसत्त्वात्मिकायाः स्वरूपानतिरिक्तशक्तेरेव विलासरूप इति द्योतयंस् तमेव विशेषं दर्शयति हरेरिति । सुराः सत्त्वप्रभवाः असुराः रजस् तमःप्रभवाः तैरर्चिताः । तेभ्योऽर्हत्तमा इत्यर्थः । गुणातीतत्वादेवेति भावः । तानेव वर्णयति श्यामावदाता इति । श्यामाश्च अवदाता उज्ज्वलाश्च ते । पीतवस्त्राः सुपेशसोऽतिसुकुमाराः उन्मिषन्त इव प्रभावन्तो मणिप्रवेका मण्य्उत्तमा येषु तानि निष्काणि पदकान्याभरणानि येषां ते सुवर्चसस् तेजस्विनः । प्रवालेति [२.९.११] । केऽपि तेभ्यः श्रीभगवत्सारूप्यं लब्धवद्भ्योऽन्ये प्रवालादिसमवर्णाः । पुनरपि लोकं वर्णयति भ्राजिष्णुभिरिति । श्रीर् यत्रेति श्रीः स्वरूपशक्तिः रूपिणी तत्प्रेयसीरूपा मानं पूजां विभूतिभिः रूपिणी तत्प्रेयसीरूपा मानं पूजां विभूतिभिः स्वसखीरूपाभिः । प्रेङ्खमान्दोलनं श्रिता विलासेन । कुसुमाकारो वसन्तस्तद्अनुगा भ्रमरास्तैर्विविधं गीयमाना । स्वयं प्रियस्य हरेः कर्म गायन्ती भवति । ददर्शेति तत्र लोक इति प्राक्तनानां यच्छब्दानां विशेष्यमखिल सात्वतां सर्वेषां सात्वतानां यादववीराणां पतिः श्रियः पतिर्यज्ञपतिः प्रजापतिर् धियां पतिर्लोकपतिर्धरापतिः । पतिर्गतिश्चान्धकवृष्णिसात्वतां प्रसीदतां मे भगवन् सतां पतिः ॥ इत्य्[भागवतम् २.४.२०] एतद्वाक्यसंवादित्वात् । श्रीभागवतमते श्रीकृष्णस्यैव स्वयंभगवत्त्वेन प्रतिपादयिष्यमानत्वात् । तच्चैतदनन्तरं ब्रह्मणे चतुःश्लोकीरूपं भागवतं श्रीभगवतोपदिष्टम् । तत्र च पुरा मया प्रोक्तमजाय नाभ्ये पद्मे निषण्णाय ममादिसर्गे । ज्ञानं परं मन्महिमावभासं यत्सूरयो भागवतं वदन्ति ॥ इति तृतीये [भागवतम् ३.४.१३] उद्धवं प्रति श्रीकृष्णवाक्यानुसारेण ॥ यो ब्रह्माणं विदधाति पूर्वं यो वै वेदांश्च प्रहिणोति तस्मै । तं ह देवमात्मबुद्धिप्रकाशं मुमुक्षुर्वै शरणममुं व्रजेत् ॥ इति [ङ्टू १.२२] श्रीगोपालतापन्य्अनुसारेण च तस्मै वोपदेष्टृत्वश्रुतेः ॥ तदु होवाच ब्रह्मसवनं चरतो मे ध्यातः स्तुतः परार्धान्ते सोऽबुध्यत गोपवेशो मे पुरुषः पुरस्तादाविर्बभूवेति श्रीगोपालतापन्य् अनुसारेणैव क्वचित्कल्पे श्रीगोपालरूपेण च सृष्ट्यादावित्थमेव ब्रह्मणे दर्शितनिजरूपतां तद्धाम्नो महावैकुण्ठत्वेन श्रीकृष्ण सन्दर्भे साधयिष्यमाणत्वाच्च द्वारकायां प्राकट्यावसरे श्रुत सुनन्दनन्दादिसाहचर्येण श्रीप्रबलादयोऽपि ज्ञेयाः । यथोक्तं प्रथमे सुनन्दनन्दशीर्षण्या ये चान्ये सात्वतर्षभा इति [भागवतम् १.१४.३२]। भृत्यप्रसादेति [२.९.१५] । दृगेवासव इव द्रष्टॄणां मदकरी यस्य तम् । श्रिया वक्षोवामभागे स्वर्णरेखाकारया । अध्यर्हणीयेति चतस्रः शक्तयो धर्माद्याः । पाद्मोत्तरखण्डे योगपीठे त एव कथिताः । न बहिरङ्गा अधर्माद्या इति । तथा हि, धर्मज्ञान तथैश्वर्य वैराग्यैः पादविग्रहैः । ऋग्यजुःसामाथर्वाण रूपैर्नित्यं वृतं क्रमाद् ॥ इति । समस्तान्तस्तथा शब्दप्रयोगस्त्वार्षः । षोडशशक्तयश्चण्डाद्याः । तथा च तत्रैव चण्डादिद्वारपालैस्तु कुमुदाद्यैः सुरक्षिता इति । नगरीति पूर्वेणान्वयः । ते च चण्डप्रचण्डौ प्राग्द्वारे याम्ये भद्रसुभद्रकौ । वारुण्यां जयविजयौ सौम्ये धातृविधातरौ ॥ कुमुदः कुमुदाक्षश्च पुण्डरीकोऽथ वामनः । शङ्के कर्णः सर्वनेत्रः सुमुखः सुप्रतिष्ठितः ॥ एते दिक्पतयः प्रोक्ताः पुर्यामत्र सुशोभने ॥ इति । कुमुदादयस्तु द्वौ द्वावाग्नेयादिदिक्पतय इति शेषः । पञ्चशक्तयः कूर्माद्याः । तथा च तत्रैव कूर्मश्च नागराजश्च वनतेयस्त्रयीश्वरः । छन्दांसि सर्वमन्त्राश्च पीठरूपत्वमास्थिता ॥ इति ॥ त्रयीश्वर इति वैनतेयविशेषणम् । तस्य छन्दोमयत्वात् । यद्यप्युत्तरखण्डवचनं तत्परमव्योमपरं तथापि तत् सादृश्यागमादिप्रसिद्धेश्च श्रीकृष्णयोगपीठमपि च तद्वज्ज्ञेयम् । अत्र षोडशशक्तयः साक्षात्श्रीकृष्ण एव श्रीकृष्णसन्दर्भे पुरस्ताद् उदाहरिष्यमाणप्रभासखण्डवचनात्श्रुतालम्बिन्यादय एव वा ज्ञेया इति । स्वैः स्वरूपभूतैरैश्वर्यादिभिर्युक्तम् । इतरत्र योगिषु अध्रुवैः प्राप्तैरित्यर्थः । स्वस्वरूप एव धामानि श्रीवैकुण्ठे रममाणं अतएवेश्वरम् । कथमपि पराधीनसिद्धत्वाभावात् । तद्दर्शनेति [२.९.१७] । यत्पदाम्बुजं पारमहंस्येन पथाधिगम्यत इति सच्चिदानन्दघनत्वं तस्य व्यनक्ति । त्वं प्रीयमाणमिति तं ब्रह्माणं भगवान् बभाषे । प्रजाविसर्गे कार्ये निजस्य स्वांशभूतस्य पुरुषस्य शासनेऽर्हणं योग्यम् । नन्वसौ पुरुष एव तमनुगृह्णातु श्रीभगवतस्तु परावस्थत्वात्तेन प्राकृतसृष्टिकर्त्रा सम्बन्धोऽपि न सम्बन्ध इत्याशङ्क्य तस्य भक्त वात्सल्यातिशय एवायमित्याह, प्रियं तस्मिन् प्रेमवन्तम् । यतः सोऽपि प्रियः प्रेमवशः । तत्रापि प्रीयमाणामिति प्रीतमना इति च विशेषणं तदानीं प्रेमोल्लासातिशयद्योतकम् । तं प्रति भगवच्चिह्न दर्शनेन तस्यापि तत्र प्रीत्य्अतिशयं व्यञ्जयति ईषत्स्मितरोचिषा गिरेति करे स्पृशन्निति च । अस्य श्रीकृष्णोपासकत्वं श्रीगोपालतापनीवाक्येन दर्शितम् । तथा च ब्रह्मसंहितायां [५.२२५] तत्र ब्रह्माभवद्भूयश्चतुर्वेदी चतुर्मुखः । स जातो भगवच्छक्त्या तत्कालं किल चोदितः ॥ सिसृक्षायां मतिं चक्रे पूर्वसंस्कारसंस्कृताम् । ददर्श केवलं ध्वान्तं नान्यत्किमपि सर्वतः ॥ उवाच पुरतस्तस्मै तस्य दिव्या सरस्वती । कामः कृष्णाय गोविन्दाय गोपीजन इत्यपि ॥ वल्लभाय प्रिया वह्नेरयं ते दास्यति प्रियम् । तप त्वं तप एतेन तव सिद्धिर्भविष्यति ॥ अथ तेपे स सुचिरं प्रीणन् गोविन्दमव्ययम् ॥ इत्यादि ॥ श्रीशुकः ॥८॥ [९] अथ सा भगवत्ता च नारोपिता किन्तु स्वरूपभूतैवेत्येतमर्थं पुनर् विशेषतः स्थापयितुं प्रकरणान्तरमारभ्यते । तत्र वस्तुनस्तस्य शक्तित्वमाह । वेद्यं वास्तवमत्र वस्त्वित्यस्य विशेषणाभ्यामेव शिवदं तापत्रयोन्मूलनमिति । [भागवतम् १.१.२] शिवं परमानन्दः तद्दानं स्वरूपशक्त्या । तापत्रयं मायाशक्ति कार्यं तद्उन्मूलनं च तयैवेत ॥ श्रीव्यासः ॥९॥ [१०] ते च मायाशक्तिस्वरूपशक्ती परस्परविरुद्धे तथा तयोर्वृत्तयश्च स्वस्वगण एव परस्परविरुद्धा अपि बह्व्यः । तथापि तासामेकं निधानं तदेवेत्याह । यच्छक्तयो वदतां वादिनां वै विवादसंवादभुवो भवन्ति । कुर्वन्ति चैषां मुहुरात्ममोहं तस्मै नमो ‘नन्तगुणाय भूम्ने ॥ [भागवतम् ६.४.२६] स्पष्टम् ॥ दक्सः श्रीपुरुषोत्तमम् ॥१०॥ [११] तथा यस्मिन् विरुद्धगतयो ह्यनिशं पतन्ति विद्यादयो विविधशक्तय आनुपूर्व्यात् । तद्ब्रह्म विश्वभवमेकमनन्तमाद्यम् आनन्दमात्रमविकारमहं प्रपद्ये ॥ [भागवतम् ४.९.१६] आनुपूर्व्या स्वस्ववर्गे उत्तममध्यमकनिष्ठभावेन वर्तमाना विविधशक्तयः प्रायः परस्परं विरुद्धगतयोऽपि यस्मिन् यदाश्रित्य अनिशं पतन्ति स्वस्वव्यापारं कुर्वन्ति ॥ ध्रुवः श्रीपृश्निगर्भम् ॥११॥ [१२] सर्गादि यो ‘स्यानुरुणद्धि शक्तिभिर् द्रव्यक्रियाकारकचेतनात्मभिः । तस्मै समुन्नद्धनिरुद्धशक्तये नमः परस्मै पुरुषाय वेधसे ॥ [भागवतम् ४.१७.१८] अनुरुणद्धि करोति । श्रीमैत्रेयो विदुरम् ॥१२॥ [१३] तासामचिन्त्यत्वमाह । आत्मेश्वरोऽतर्क्यसहस्रशक्तिरिति ॥ [भागवतम् ३.३३.३] स्पष्टम् ॥ उक्तं चाचिन्त्यत्वं श्रुतेस्तु शब्दमूलत्वादित्य्[Vस्२.१.२७] आदौ । आत्मनि चैवं विचित्राश्च हीत्य्[?] आदौ च ॥ श्रीदेवहूतिः कपिलदेवम् ॥१३॥ [१४] शक्तेस्तु स्वाभाविकरूपत्वमाह सत्त्वं रजस्तम इति त्रिवृदेकमादौ सूत्रं महानहमिति प्रवदन्ति जीवम् । ज्ञानक्रियार्थफलस्वरूपतयोरुशक्तिर् ब्रह्मैव भाति सदसच्च तयोः परं यत् ॥ [भागवतम् ११.३.३८] ब्रह्मैव उरूशक्तिरनेकात्मकशक्तिमद्भाति । एवकारेण ब्रह्मण एव सा शक्तिर्न तु कल्पितेति स्वाभाविकरूपत्वं शक्तेर्बोधयति । तत्र हेतुः । यद्ब्रह्म यत्स्थूलं कार्यं पृथिव्यादिरूपमसत्सूक्ष्मं कारणं प्रकृत्यादिरूपं तयोर्बहिरङ्गवैभवयोः परं स्वरूपवैभवं श्री वैकुण्ठादिरूपं तटस्थवैभवं शुद्धजीवरूपं च । अन्यथा तत् तद्भावासिद्धिः । किंरूपतया तत्तद्रूपम् । तत्राह ज्ञानक्रियार्थफलरूपतया महद् आदिलक्षणज्ञानशक्तिरूपत्वेन, सूत्रादिलक्षणक्रियाशक्तिरूपत्वेन, तन्मात्रादिलक्षणार्थरूपत्वेन, प्रकृतिलक्षणतत्तत्सर्वैक्य रूपत्वेन सद्असद्रूपम् । फलरूपत्वेन तयोः परम् । तत्र फलं पुरुषार्थस्वरूपं सवैभवं भगवद्आख्यं चिद्वस्तु तद् अनुमतत्वात्शुद्धजीवाख्यं चिद्वस्तु च । एतेन ज्ञानक्रियादिरूपेणोरू शक्तित्वं व्यञ्जितम् । शक्तेः स्वाभाविकरूपत्वं सप्रमाणं स्पष्टयति । आदौ यदेकं ब्रह्म तदेव सत्त्वं रजस्तम इति त्रिवृत्प्रधानं ततः क्रियाशक्त्या सूत्रं ज्ञानशक्त्या महानिति । ततोऽहमहङ्कार इति । तदेव च जीवं शुद्धस्वरूपं जीवात्मानं तद्उपलक्षणकं वैकुण्ठादि वैभवं च प्रवदन्ति वेदाः । ते च सदैव सौम्येदमग्र आसीदित्य् आद्याः [Cहाऊ ६.२.१] । आदावेकं ततस्तत्तद्रूपमिति शक्तेः स्वाभाविकत्वमायातम् अन्यस्यासद्भावेनौपाधिकत्वायोगात् । स्वरूपवैभवस्याङ्गप्रत्यङ्गवन् नित्यसिद्धत्वेऽपि, सूर्यसत्तया तद्रश्मिपरमाणुवृन्दस्येव, तत्सत्तया लब्धसत्ताकत्वात्तद्उपादानत्वं तदादिकत्वं च स्यात् । तस्य भासा सर्वम् इदं विभातीति [Kअठ २.२.१५] श्रुतेः । शक्तेरचिन्त्यत्वं स्वाभाविकत्वं चोक्तं श्रीविष्णुपुराणे निर्गुणस्याप्रमेयस्य शुद्धस्याप्यमलात्मनः । कथं सर्गादिकर्तादिकर्तृत्वं ब्रह्मणोऽभ्युपगम्यत ॥ [Vइড়् १.३.१] इति मैत्रेयप्रश्नानन्तरं श्रीपराशर उवाच शक्तयः सर्वभावानाम् अचिन्त्यज्ञानगोचराः । यतोऽतो ब्रह्मणस्तास्तु सर्गाद्या भावशक्तयः । भवन्ति तपसां श्रेष्ठ पावकस्य यतोष्णता ॥ [Vइড়् १.३.२] अत्र श्रीधरस्वामिटीका च तदेवं ब्रह्मणः सृष्ट्य्आदिकर्तृत्वमुक्तम् । तत्र शङ्कते निर्गुणस्येति । सत्त्वादिगुणरहितस्य, अप्रमेयस्य देशकालाद्य्अपरिच्छिन्नस्य शुद्धस्य अदेहस्य सहकारिशून्यस्येति वा, अमलात्मनः पुण्यपापसंस्कार शून्यस्य, रागादिशून्यस्येति वा । एवम्भूतस्य ब्रह्मणः कथं सर्गादि कर्तृत्वमिष्यते, एतद्विलक्षणस्यैव लोके घटादिषु कर्तृत्वादिदर्शनाद् इत्यर्थः । परिहरति शक्तय इति सार्धेन । लोके हि सर्वेषां भावानां मणि मन्त्रादीनां शक्तयः अचिन्त्यज्ञानगोचराः । अचिन्त्यं तर्कासहं यज् ज्ञानं कार्यान्यथानुपपत्तिप्रमाणकं तस्य गोचराः सन्ति । यद्वा अचिन्त्या भिन्नाभिन्नत्वादिविकल्पैश्चिन्तयितुमशक्याः केवलम् अर्थापत्तिज्ञानगोचराः सन्ति । यदेवमतो ब्रह्मणोऽपि तास्तथाविधाः शक्तयः सर्गादिहेतुभूताः भावशक्तयः स्वभावसिद्धाः शक्तयः सन्त्येव । पावकस्य दाहकत्वादिशक्तिवत् । अतो गुणादिहीनस्याप्यचिन्त्य शक्तिमत्त्वाद्ब्रह्मणः सर्गादिकर्तृत्वं घटत इत्यर्थः । श्रुतिश्च न तस्य कार्यं करणं च विद्यते न तत्समश्चाभ्यधिकश्च दृश्यते । परास्य शक्तिर्विविधैव श्रूयते स्वाभाविकी ज्ञानबलक्रिया च ॥ [श्वेतू ६.८] मायां तु प्रकृतिं विद्यान् मायिनं तु महेश्वरम् ॥ [श्वेतू ४.१०] यद्वा एवं योजना सर्वेषां भावानां पावकस्योष्णताशक्तिवद्अचिन्त्य ज्ञानगोचराः शक्तयः सन्त्येव । ब्रह्मणः पुनस्ताः स्वभावभूताः स्वरूपादभिन्नाः शक्तयः । परास्य शक्तिर्विविधैव श्रूयते इति श्रुतेः । अतो मणिमन्त्रादिभिरग्नौष्ण्यवन्न केनचिद्विहन्तुं शक्यन्ते । अत एव तस्य निरङ्कुशमैश्वर्यम् । तथा च श्रुतिः स वा अयमस्य सर्वस्य वशी सर्वस्येशानः सर्वस्याधिपतिरित्यादिः [Bआऊ ४.४.२२] । यत एवमतो ब्रह्मणो हेतोः सर्गाद्या भवन्ति नात्र काचिदनुपपत्तिः इत्य् एषा । अत्र प्रश्नः सोऽयं ब्रह्म खलु निर्विशेषमेवेति पक्षमाश्रित्य, परिहारस् तु सविशेषमेवेति पक्षमाश्रित्य कृत इति ज्ञेयम् । अत एव प्रश्ने शुद्धस्येत्यपि व्याख्यातम् । शुद्धत्वं ह्यत्र केवलत्वं मतम्, तच्च युक्तं, परिहारे ब्रह्मणि शक्तिस्थापनात् । पूर्वपक्षिमते ब्रह्मणि शक्तिर् अपि नास्तीति गम्यते । ततः प्रश्नवाक्येऽप्येवमर्थान्तरं ज्ञेयम् निर्गुणस्य प्राकृताप्राकृतगुणरहितस्य, अतएव प्रमाणागोचरस्य तत एवामलात्मनोऽपि शुद्धस्य, न तु स्फटिकादेरिव परच्छाययान्यथा दृष्टस्य । तदेवं निर्विशेषतामवलम्ब्य प्रश्ने सिद्धे । परिहारे तु प्रथमयोजनायां निर्विशेषपक्षमनादृत्य ब्रह्मणि कर्तृत्वप्रतिपत्त्य् अर्थं शक्तयः साधिताः । द्वितीययोजनायां तत्र च विशेषप्रतिपत्त्य्अर्थं यथा जलादिषु कदाचिदुष्णतादिकमागन्तुकं स्यात्तथा ब्रह्मणि न स्याद् इति निर्धारितम् । न तत्समश्चाभ्यधिकश्च दृश्यते इति श्रुतेः । तथा मणिमन्त्रादिभिरिति व्यतिरेक एव दृष्टान्त इत्यतो ब्रह्मशक्तयस्तु नान्येन पराभूता इत्येतच्च दर्शितम् । किं च, ब्रह्मपदेन सर्वं खल्व् इदं ब्रह्मेति प्रसिद्धिं व्यज्य सत्त्वादिगुणमयमायायास्तद्अन्यत्वेऽपि, निर्गुणस्येति प्राकृतगुणैरस्पृष्टत्वमङ्गीकृत्य तेषां बहिरङ्गत्वं स्वीकृतम् । तदेतदेव मायां च प्रकृतिं विद्यादित्येषा श्रुतिः स्वीचकार । मायां च तदपाश्रयामितिवन्महेश्वरत्वान्मायाया बहिरङ्गाया आश्रय इति तां पराभूय स्थितमिति च लभ्यते । तस्मात्पूर्ववदत्रापि शक्तिमात्रस्य स्वाभाविकत्वं मायादोषास्पृष्टत्वं च साधितम् । अतएव श्रीगीतोपनिषत्सु च ज्ञेयं यत्तत्प्रवक्ष्यामि यज्ज्ञात्वाऽमृतमश्नुते । अनादिमत्परं ब्रह्म न सत्तन्नासदुच्यते ॥ सर्वतः पाणिपादं तदित्यादि । [गीता १३.१२१३] अत्रेयं प्रक्रिया एकमेव तत्परमतत्त्वं स्वाभाविकाचिन्त्यशक्त्या सर्वदैव स्वरूपतद्रूपवैभवजीवप्रधानरूपेण चतुर्धावतिष्ठते । सूर्यान्तर्मण्डलस्थतेज इव मण्डलतद्बहिर्गत रश्मितत्प्रतिच्छविरूपेण । एवमेव श्रीविष्णुपुराणे एकदेशस्थितस्याग्नेर्ज्योत्स्ना विस्तारिणी यथा । परस्य ब्रह्मणः शक्तिस्तथेदमखिलं जगद् ॥ इति ॥ [Vइড়् १.२२.५६] यस्य भासा सर्वमिदं विभातीति श्रुतेः । अत्र व्यापकत्वादिना तत्तत् समावेशाद्य्अनुपपत्तिश्च शक्तेरचिन्त्यत्वेनैव पराहता । दुर्घट घटत्वं ह्यचिन्त्यत्वम् । शक्तिश्च सा त्रिधा अन्तरङ्गा बहिरङ्गा तटस्था च । तत्रान्तरङ्गया स्वरूपशक्त्याख्यया पूर्णेनैव स्वरूपेण वैकुण्ठादिस्वरूपवैभवरूपेण च तदवतिष्ठते । तटस्थया रश्मि स्थानीयचिद्एकात्मशुद्धजीवरूपेण, बहिरङ्गया मायाख्यया प्रतिच्छविगतवर्णशावल्यस्थानीयतदीयबहिरङ्गवैभवजडात्म प्रधानरूपेण चेति चतुर्ध्वात्वम् । अतएव तदात्मकत्वेन जीवस्येव तटस्थशक्तित्वं प्रधानस्य च मायान्तर्भूतत्वमभिप्रेत्य शक्ति त्रयं श्रीविष्णुपुराणे गणितम् विष्णुशक्तिः परा प्रोक्ता क्षेत्रज्ञाख्या तथापरा । अविद्याकर्मसंज्ञान्या तृतीया शक्तिरिष्यते ॥ [Vइড়् ६.७.६१] तया तिरोहितत्वाच्च शक्तिः क्षेत्रज्ञसंज्ञिता । सर्वभूतेषु भूपाल तारतम्येन वर्तते ॥[Vइড়् ६.७.६३] इति ॥ अविद्या कर्म कार्यं यस्याः सा तत्संज्ञा मायेत्यर्थः । यद्यपीयं बहिरङ्गा तथाप्यस्यास्तटस्थशक्तिमयमपि जीवमावरितुं सामर्थ्यमस्तीत्याह तयेति । तारतम्येन तत्कृतावरणस्य ब्रह्मादि स्थावरान्तेषु देहेषु लघुगुरुभावेन वर्तते इत्यर्थः । तदुक्तम् यथा सम्मोहितो जीव इति [भागवतम् १.७.५] । ययैवाचिन्त्यमायया ज्ञेयम् । प्रधानस्य मायाव्यङ्ग्यत्वं चाग्रे दर्शयिष्यते । अत्रान्तरङ्गत्व तटस्थत्वबहिरङ्गत्वादिनैव तेषामेकात्मकानां तत्तत्साम्यम्, न तु सर्वात्मनेति तत्तत्स्थानीयत्वमेवोक्तम् । न तु तत्तद्रूपत्वं ततस्तत् तद्दोषा अपि नावकाशं लभन्ते इति ॥ श्रीपिप्पलायनो निमिम् ॥१४॥ [१५] तदेवं सर्वाभिर्मिलित्वा चिद्अचिच्छक्तिर्भगवान् । एवमेव परमेश्वरत्वेन स्तूयमानं ब्रह्माणं प्रति हिरण्यकशिपुनाप्युक्तम् चिद्अचिच्छक्तियुक्तायेति [भागवतम् ७.३.३४] । चिद्वस्तुनश्चिद्वस्त्व्अन्तराश्रयत्वं, रश्म्य्आभासादिज्योतिषो ज्योतिर् मण्डलाश्रयत्वमिव । तत्र तटस्थाख्या जीवशक्तिर्यथावसरं परमात्मसन्दर्भे विवरणीया । अथ अन्तरङ्गाख्याविवरणाय बहिरङ्गाप्युद्दिश्यते ये चापरा परा चेति । श्रीविष्णुपुराणे श्रूयते सर्वभूतेषु सर्वात्मन् या शक्तिरपरा तव । गुणाश्रया नमस्तस्यै शाश्वतायै सुरेश्वर ॥ यातीतगोचरा वाचां मनसां चाविशेषणा । ज्ञानिज्ञानपरिच्छेद्या वन्दे तामीश्वरीं पराम् ॥ इति ॥ [Vइড়् १.१९.७६७] सैषा बहुवृत्तिकैव ज्ञेया, परास्य शक्तिर्बहुधैव श्रूयते इति श्रुतेः ॥१५॥ [१६] तत्र बहिरङ्गामाह ऋतेऽर्थं यत्प्रतीयेत न प्रतीयेत चात्मनि । तद्विद्यादात्मनो मायां यथाभासो यथा तमः ॥ [भागवतम् २.९.३३] अर्थं परमार्थभूतं मां विना यत्प्रतीयेत, मत्प्रतीतौ तत्प्रतीत्य् अभावात् । मत्तो बहिरेव यस्य प्रतीतिरित्यर्थः । यच्चात्मनि न प्रतीयते, यस्य च मद्आश्रयत्वं विना स्वतः प्रतीतिर्नास्तीत्यर्थः । तथा लक्षणं वस्तु आत्मनो मम परमेश्वरस्य मायां जीवमाया गुणमायेति द्व्य् आत्मिकां मायाख्यशक्तिं विद्यात् । अत्र शुद्धजीवस्यापि चिद् रूपत्वाविशेषेण तदीयरश्मिस्थानीयत्वेन च स्वान्तःपात एव विवक्षितः । तत्रास्या द्व्य्आत्मिकत्वेनाभिधानं दृष्टान्तद्वैविध्येन लभ्यते । तत्र जीवमायाख्यस्य प्रथमांशस्य तादृशत्वं दृष्टान्तेन स्पष्टयन्न् असम्भावनां निरस्यति यथाभास इति । आभासो ज्योतिर्बिम्बस्य स्वीय प्रकाशाद्व्यवहितप्रदेशे कथञ्चिदुच्छलितप्रतिच्छविविशेषः । स यथा तस्माद्बहिरेव प्रतीयते, न च तं विना तस्य प्रतीतिस्तथा सापीत्यर्थः । अनेन प्रतिच्छविपर्यायाभासधर्मत्वेन तस्यामाभासाख्यत्वमपि ध्वनितम् । अतस्तत्कार्यस्याभासाख्यत्वं क्वचिताभासश्च निरोधश्चेत्य् आदौ [भागवतम् २.१०.७] । अत्र स यथा क्वचिदत्यन्तोद्भटात्मा स्वचाक्चिक्य च्छटापतितनेत्राणां नेत्रप्रकाशमावृणोति । तमावृत्य च स्वेनात्यन्तोद्भटतेजस्त्वेनैव द्रष्टृनेत्रं व्याकुलयन् स्वोपकण्ठे वर्णशावल्यमुद्गिरति । कदाचित्तदेव पृथग्भावेन नानाकारतया परिणमयति । तथेयमपि जीवज्ञानमावृणोति । सत्त्वादिगुणसाम्यरूपां गुणमायाख्यां जडां प्रकृतिमुद्गिरति । कदाचित्पृथग्भूतान् सत्त्वादि गुणान्नानाकारतया परिणमयति चेति ज्ञेयम् । तदुक्तम् एकदेश स्थितस्याग्नेर्[Vइড়् १.२२.५६] इत्यादि । तथा चायुर्वेदविदः जगद्योनेरनिच्छस्य चिद्आनन्दैकरूपिणः । पुंसोऽस्ति प्रकृतिर्नित्या प्रतिच्छायेव भास्वतः ॥ अचेतनापि चैतन्ययोगेन परमात्मनः । अकरोद्विश्वमखिलमनित्यं नाटकाकृतिर् ॥ इति ॥ तदेवं निमित्तांशो जीवमाया उपादानांशो गुणमायेत्यग्रेऽपि विवेचनीयम् । अथैवं सिद्धं गुणमायाख्यं द्वितीयमप्यंशं दृष्टान्तेन स्पष्टयति, यथा तम इति । तमःशब्देनात्र पूर्वोक्तं तमः प्रायं वर्णशावल्यमुच्यते । तद्यथा तन्मूलज्योतिष्य्असदपि तद् आश्रयत्वं विना न सम्भवति तद्वदियमपीति । अथवा मायामात्र निरूपण एव पृथक्दृष्टान्तद्वयम् । तत्राभासदृष्टान्तो व्याख्यातः । तमोदृष्टान्तश्च । यथान्धकारे ज्योतिषोऽन्यत्रैव प्रतीयते, ज्योतिर्विना च न प्रतीयते ज्योतिरात्मना चक्षुषैव तत्प्रतीतेर्न पृष्ठादिनेति तथेयम् अपीत्येवं ज्ञेयम् । ततश्चांशद्वयं तु प्रवृत्तिभेदेनैवोह्यं न तु दृष्टान्तभेदेन । प्राक्तनदृष्टान्तद्वेधाभिप्रायेण तु पूर्वस्या आभासपर्यायच्छायाशब्देन क्वचित्प्रयोगः उत्तरस्यास्तमः शब्देनैव चेति । यथा ससर्ज छाययाविद्यां पञ्चपर्वाणमग्रतः [भागवतम् ३.२०.१८] इत्य् अत्र । यथा च क्वाहं तमो महदहम् [भागवतम् १०.१४.११] इत्यादौ । पूर्वत्राविद्याविद्याख्यनिमित्तशक्तिवृत्तिकत्वाज्जीव्विषयकत्वेन जीव मायात्वम् । तथा ससर्जेत्यादौ छायाशक्तिं मायामवलम्ब्य सृष्ट्यारम्भे ब्रह्मा स्वयमविद्यामाविर्भावितवानित्यर्थः । विद्याविद्ये मम तनू व्द्ध्युद्धव शरीरिणाम् । बन्धमोक्षकरी आद्ये मायया मे विनिर्मित्ते ॥ [भागवतम् ११.११.३] इत्युक्तत्वात् । अनयोराविर्भावभेदश्च श्रूयते । तत्र पूर्वस्याः पाद्मे श्रीकृष्ण सत्यभामासंवादीयकार्त्तिकमाहात्म्ये देवगणकृतमायास्तुतौ इति स्तुतवन्तस्ते देवास्तेजोमण्डलसंस्थितम् । ददृशुर्गगने तत्र तेजोव्याप्तदिग्अन्तरम् ॥ तन्मध्याद्भारतीं सर्वे शुश्रुवुर्व्योमचारिणीम् । अहमेव त्रिधा भिन्ना तिष्ठामि त्रिविधैर्गुणैः ॥ इत्यादि ॥ उत्तरस्याः पाद्मोत्तरखण्डे असङ्ख्यं प्रकृतिस्थानं निविडध्वान्तम् अवययमिति ॥ श्रीभगवान् ब्रह्माणम् ॥१६॥ [१७] अथ स्वरूपभूताख्यामन्तरङ्गां शक्तिं सर्वस्यापि प्रवृत्त्य् अन्यथानुपपत्त्या तावदाह द्वाभ्याम् यन्न स्पृशन्ति न विदुर्मनोबुद्धीन्द्रियासवः । अन्तर्बहिश्च विततं व्योमवत्तन्नतोऽस्म्यहम् ॥ [भागवतम् ६.१६.२३] देहेन्द्रियप्राणमनोधियोऽमी यद्अंशबिद्धाः प्रचरन्ति कर्मसु । नैवान्यदा लोहमिवाप्रतप्तं स्थानेषु तद्द्रष्ट्र्उपदेशमेति ॥ [भागवतम् ६.१६.२४] टीका च यद्ब्रह्म व्योमवद्विततमपि असवः प्राणाः क्रियाशक्त्य न स्पृशन्ति, मनादीनि च ज्ञानशक्त्या न विदुः, तद्ब्रह्म नतोऽस्मि । तेषं तज्ज्ञाने हेतुमाह । देहेन्द्रियादयोऽमी यद्अंशबिद्धा यच् चैतन्यांशेनाविष्टाः सन्तः कर्मसु स्वस्वविषयेषु प्रचरन्ति । यथा अप्राप्तं लोहं न दहति । अतो यथा लोहमग्निशक्त्यैव दाहकं सतग्निं न दहति, एवं ब्रह्मगतज्ञानक्रियाशक्तिभ्यां प्रवर्तमाना देहादयस् तन्न स्पृशन्ति न विदुश्चेति भावः । इत्येषा । अत्राद्वैतशारीरकेऽपि साङ्ख्यमाक्षिप्योक्तम्, यथा अथ पुनः साक्षि निमित्तमीक्षितृत्वं प्रधानस्य कल्प्येत यथाग्निनिमित्तमयःपिण्डादेर् दग्धृत्वं, तथा सति यन्निमित्तमीक्षिततृत्वं प्रधानस्य, तदेव सर्वज्ञं मुख्यं जगतः कारणमिति [शङ्करभाष्य, १.१.५] । श्रुतिश्चात्र तमेव भान्तमनुभाति [Kअठऊ २.२.१५] को ह्येवान्यात्कः प्राण्यात्यदेष आकाश आनन्दो न स्यात्, चक्षुषश् चक्षुरूत श्रोत्रस्य श्रोत्रमित्याद्या । [टैत्तू २.७] अथ प्रकृतस्यावशिष्टता टीका जीवस्तर्हि दष्टृत्वाज्जानातु, नेत्याह स्थानेषु जाग्रद्आदिषु द्रष्ट्र्अपदेशं द्रष्टृसंज्ञां तदेवैति प्राप्नोति । नान्यो जीवो नामास्ति नान्योऽतोऽस्ति द्रष्टेत्यादि श्रुतेः [Bआऊ ३.१७.२३] । यद्वा द्रष्ट्र्अपदेशं द्रष्टृसंज्ञं जीवमपि तदैवेति जानाति, न तु जीवस्तज् जानातीत्यर्थः इत्येषा । तदुक्तम् त्रितयं तत्र यो वेद स आत्मा स्वाश्रयाश्रय इति । [भागवतम् २.१०.९] श्रुतौ च जीवो नामातोऽन्यः स्वयं सिद्धो नास्ति परन्तु तदात्मक एवेत्य् अर्थः । तथातोऽन्यो द्रष्टा नास्ति, सर्वद्रष्टुस्तस्यापरो द्रष्टा नास्तीत्य् अर्थः इति व्याख्येयम् ॥ श्रीनारदश्चित्रकेतुम् ॥१७॥ [१८] किं च देहोऽसवोऽक्षा मनवो भूतमात्रा नात्मनमन्यं च विदुः परं यत् । सर्वं पुमान् वेद गुणांश्च तज्ज्ञो न वेद सर्वज्ञमनन्तमीडे ॥ [भागवतम् ६.४.२५] देहश्चासवश्च प्राणा अक्षाणीन्द्रियाणि च, मनवोऽन्तःकरणानि, भूतानि च, मात्राश्च तन्मात्राणि, आत्मानं स्वस्वरूपम्, अन्यं स्वस्वविषय वर्गं, तयोः परं देवतावर्गं च न विदुः । पुमान् जीवस्तु सर्वम् आत्मानं स्वस्वरूपं, तदन्यं प्रमातारं, तयोः पदं देहाद्य्अर्थ जातं तद्अधिष्ठातृदेवतावर्गं च वेद, तथा देहादिमूलभूतान् गुणांश्च सत्त्वादीन् वेद । तत्तज्ज्ञोऽप्यसौ यं सर्वज्ञं देहादिजीवान्ताशेषज्ञातारं न वेद तम् अनन्तं महद्गुणत्वाद्यमनन्तमाहुर्[भागवतम् १.१८.१९] इति । अतएव हि यत्र हि द्वैतमिव भवति तदितर इतरं पश्यतीत्यारभ्य [Bआऊ ४.५.१५] जीवस्येतरदृष्टत्वमुक्त्वा, यत्र स्वस्य सर्वमात्मैवाभूत्तत्केन कः पश्येदित्यादिना तस्य परमात्मद्रष्टृत्वं निषिध्य परमात्मनस्तु तत् तत्सर्वद्रष्टृत्वं स्वद्रष्टृत्वमप्यस्तीति, विज्ञातारमरे केन विजानीयादित्य्[Bआऊ २.४.१४] अनेनाह । अयमर्थः । यत्र मायावैभवे द्वैतमिव भवति, तन्मूलकत्वात्तद् अनन्यदपि मायाख्याचिन्त्यशक्तिहेतुकतया जडमलिननश्वरत्वेन तद् विलक्षणतया समादितं ततः स्वतन्त्रसत्ताकमिव मुहुर्जायते, तत्तत्र इतरो जीव इतरं पदार्थं पश्यति, तस्य करणदृश्ययोर्मिथो योग्यत्वादिति भावः । यत्र तु स्वरूपवैभवे तस्य जीवस्य रश्मिस्थानीयस्य मण्डल स्थानीयो य आत्मा परमात्मा, स एव स्वरूपशक्त्या सर्वमभूत्, अनादितएव भवन्नास्ते, न तु तत्प्रवेशेन, तत्तत्र इतरः स जीवः केनेतरेण करणभूतेन कं पदार्थं पश्येत्, न केनापि कमपि पश्येद् इत्यर्थः । न हि रश्मयः स्वशक्त्या सूर्यमण्डलान्तर्गतवैभवं प्रकाशयेयुर्न चार्चिषो वह्निं निर्दहेयुरिति भावः । तदेवं सति यस्य खल्वेवमनन्तं स्वरूपवैभवं तं विज्ञातारं सर्वज्ञं परमात्मानं केनेतरेण करणेन विजानीयात्न केनापीत्यर्थः । तदेवं ज्ञानशक्तौ तत्र सिद्धायां क्रियेच्छाशक्ती च लक्ष्येते ॥ दक्षः श्री पुरुषोत्तमम् ॥१८॥ [१९] वशीकृतमायत्वेनापि तामाह स त्वं हि नित्यविजितात्मगुणः स्वधाम्ना कालो वशीकृतविसृज्यविसर्गशक्तिः । इति [भागवतम् ७.९.२२] स्वधाम्ना चिच्छक्त्या । यतः कालो मायाप्रेरकः इति टीका च । आत्मा त्व् अत्र जीवः, तस्य गुणाः सत्त्वादयः, सत्त्वं रजस्तम इति गुणा जीवस्य नैव मे इत्य्[भागवतम् ११.२५.१२] उक्तत्वात् ॥ प्रह्लादः श्रीनरसिंहम् ॥१९॥ [२०] तथा च करोति विश्वस्थितिसंयमोदयं यस्येप्सितं नेप्सितमीक्षितुर्गुणैः । माया यथायो भ्रमते तद्आश्रयं ग्राव्णो नमस्ते गुणकर्मसाक्षिणे ॥ [भागवतम् ५.१८.३८] टीका च यस्येक्षितुर्जीवार्थमीप्सितम् । अत्यन्तानिच्छायामीक्षणायोगात् । स्वार्थं तु नेप्सितम् । विश्वस्थित्य्आदिस्वगुणैर्माया करोति । तस्या जडत्वेऽपीश्वरसन्निधानात्प्रवृत्तिदृष्टान्तेनाह, यथायो लोहं ग्राव्णोऽयस्कान्तान्निमित्ताद्भ्रमति । तद्आश्रयं तद्अभिमुखं सत् । गुणानां कर्मणां च जीवादृष्टानां साक्षिणं तस्मै नमः इत्येषा ॥ भूः श्रीवराहदेवम् ॥२०॥ [२१] अथ मायाशक्तिशावल्ये कैवल्यानुपपत्तेः कैवल्येऽप्यनुभवाभावे तद् आनन्दस्यार्थतानुपपत्तेश्चान्यथानुपपत्तिप्रमाणतस्तामेवाह त्वमाद्यः पुरुषः साक्षाद् ईश्वरः प्रकृतेः परः । मायां व्युदस्य चिच्छक्त्या कैवल्ये स्थित आत्मनि ॥ [भागवतम् १.७.२३] त्वं साक्षात्स्वयमेवाद्यः पुरुषो भगवान् । तथा य ईश्वरः अन्तर्याम्य् आख्यः पुरुषः सोऽपि त्वमेव । तदेवमुभयस्मिन्नपि प्रकाशे प्रकृतेः परस्तद्असङ्गी । ननु कथं केवलानुभवानन्दस्यापि तद्अनुभवित्वं यतो भगवत्वम् अपि लक्ष्यते, कथं चेश्वरत्वात्प्रकृत्य्अधिष्ठातृत्वेऽपि तद्असङ्गित्वम् । तत्राह, मायां व्युदस्येति । अव्यभिचारिण्या स्वरूपशक्त्या तामाभास शक्तिं दूरे विधाय तथैव स्वरूपशक्त्या कैवल्ये परावराणां परम आस्ते कैवल्यसंज्ञितः । केवलानुभवानन्दसन्दोहो निरुपाधिकः ॥ [भागवतम् ११.९.१८] इत्येकादशोक्तरीत्या कैवल्याख्ये केवलानुभवानन्दे आत्मनि स्वस्वरूपे स्थितः अनुभूतस्वरूपसुख इत्यर्थः । तदुक्तं षष्ठे देवैरपि स्वयमुपलब्धनिजसुखानुभवो भवानिति [भागवतम् ६.९.३३] । सन्दोहशब्देन चैकादशे वैचित्री दर्शिता, सा च शक्तिवैचित्र्यादेव भवतीति । अतएवमस्त्येव स्वरूपशक्तिः । प्रकृतिर्नामात्र मायायास् त्रैगुण्यम् । एवमेव शक्तित्रयविवृतिः स्वामिभिरेव दर्शिता । तथा हि श्री देवहूतिवाक्ये परं प्रधानं पुरुषं महान्तं कालं कविं त्रिवृतं लोकपालम् । आत्मानुभूत्यानुगतप्रपञ्चं स्वच्छन्दशक्तिं कपिलं प्रपद्ये ॥ [भागवतम् ३.२४.३३] इत्यत्र । परं परमेश्वरम् । तत्र हेतुः स्वच्छन्दाः शक्तयो यस्य । ता एवाह, प्रधानं प्रकृतिरूपं, पुरुषं तद्अधिष्ठातारं, महान्तं महत् तत्त्वस्वरूपं, कालं तेषां क्षोभकं, त्रिवृत्महङ्कारभूतं, लोकात्मकं तत्पालात्मकं च । तदेवं मायया प्रधानादिरूपतामुक्त्वा चिच्छक्त्या निष्प्रपञ्चतामाह । आत्मानुभूत्या चिच्छक्त्यानुगतः स्वस्मिन् लीनः प्रपञ्चो यस्य तं, कविं सर्वज्ञं प्रधानाद्याविर्भावसाक्षिणम् इत्यर्थः इति । अत्र पुरुषस्यापि मायान्तःपातित्वं तद्अधिष्ठातृतयोपचर्यत एव । वस्तुतस् तस्य तु तस्याः परत्वम् । तथा श्रीकपिलदेववाक्ये अनादिरात्मा पुरुषो निर्गुणः प्रकृतेः परः । प्रत्यग्धामा स्वयंज्योतिर्विश्वं येन समन्वितम् ॥ [भागवतम् ३.२६.३] इति नामस्वरूपयोर्निरूपणेन महासंहितायामपि विविक्तं तत्त्रिशक्ति श्रीर्भूर्दुर्गेति या भिन्ना जीवमाया महात्मनः । आत्ममाया तद्इच्छा स्यात्गुणमाया जडात्मिका ॥ इति [?] अस्यार्थः । श्रीरत्र जगत्पालनशक्तिः, भूस्तत्सृष्टिशक्तिः, दुर्गा तत् प्रलयशक्तिः । तत्तद्रूपेन या भेदं प्राप्ता, सा जीवविषया तच्छक्तिर् जीवमायेत्युच्यते । पाद्मे श्रीकृष्णसत्यभामासंवादे अहमेव त्रिधा भिन्ना तिष्ठामि त्रिविधैर्गुणैरित्येतद्वाक्यानन्तरं ततः सर्वेऽपि ते देवाः श्रुत्वा तद्वाक्यचोदिताः । गौरीं लक्ष्मीं धरां चैव प्रणेमुर्भक्तितत्पराः ॥ इति ॥ एकादशे च एषा माया भगवतः सृष्टिस्थित्य्अन्तकारिणी । त्रिवर्णा वर्णितास्माभिः किं भूयः श्रोतुमिच्छसि ॥ इति ॥ [भागवतम् ११.३.१६] आत्ममाया स्वरूपशक्तिः । मीयतेऽनयेति मायाशब्देन शक्तिमात्रमपि भण्यते तस्यां तमोवन्नैहारं खद्योतार्चिरिवाहनि । महतीतरमायैश्यं निहन्त्यात्मनि युञ्जत ॥ इति [भागवतम् १०.१३.४५] ब्रह्मवाक्यं तथैव सङ्गच्छते । शक्तिमात्रस्य तारतम्यं हि तत्र विवक्षितम् । स्वल्पा शक्तिः खल्वनृतस्य सत्यस्य वा व्यञ्जिका भवतु नाम । पराभवाय कल्पत एवेति हि तत्र गम्यते । दृष्टान्ताभ्यां च तथैव प्रकटितं तस्यां तमोवदित्यादिभ्याम् । तथा युद्धेष मायामय शस्त्रादिना बहवश्छिन्नभिन्ना जाता इति पुराणादिषु श्रूयते । ततः सा च माया मिथ्याकल्पिका च भवतीति गम्यते । न हि मरुमरीचिका जलेन केचिदार्द्रा भवन्तीति । स्वरूपभूतया नित्यशक्त्या मायाख्यया युतः । अतो मायामयं विष्णुं प्रवदन्ति सनातनम् ॥ इति चतुर्वेदशिखाद्या श्रुतिश् च । ततश्च आत्ममाया तद्इच्छा स्यातित्यत्र ज्ञानक्रिये अपि लक्ष्येते । माया वयुनं ज्ञनमिति निघण्टौ च पर्यायशब्दाः । त्रिगुणात्मिकाथ ज्ञानं च विष्णुशक्तिस्तथैव च । मायाशब्देन भण्यते शब्दतत्त्वार्थवेदिभिः ॥ इति त्रिकाण्डशेषे । माया दम्भे कृपायां चेति विश्वप्रकाशे । व्याख्यातं च टीकाकृद्भिर् एकादशे कालो मायामये जीवे इत्यत्र [भागवतम् ११.२४.२७] मायाप्रवर्तके ज्ञान मये वा इति । तृतीयेऽपि आपुः परां मुदमित्यादौ [भागवतम् ३.१५.२६] योगमाय शब्देन सनकादावष्टाङ्गयोगप्रभावं व्याख्याय परमेश्वरे तु चिच् छक्तिविलासो व्याख्यातः । ततस्त्रिभेदैवात्ममायेति सिद्धम् । यथा वा त्वमाद्यः पुरुषः [भागवतम् १.७.२३] इत्यादिमूलपदामेवमवतार्यम् । श्रीवैकुण्ठे मायं निषेधन्नपि साक्षात्तामेवाह त्वमाद्य इति । कैवल्ये मोक्षाख्ये श्री वैकुण्ठलक्षणे आत्मनि स्वांश एव स्थितः । किं कृत्वा ? तत्राति विराजमानया चिच्छक्त्या मायां दूरे स्थितामपि तिरस्कृत्यैव । मतं चैतम्मायादिकं निषेधता श्रीशुकदेवेन । प्रवर्तते यत्र रजस्तमस्तयोः सत्त्वं च मिश्रं न च कालविक्रमः । न यत्र माया किमुतापरे हरेर् अनुव्रता यत्र सुरासुरार्चिताः ॥ [भागवतम् २.९.१०] इति । मोक्सं परं पदं लिङ्गममृतं विष्णुमन्दिरम् । इति पाद्मोत्तरखण्डे विअकुण्ठपर्यायशब्दाः ॥ अर्जुनः श्रीभगवन्तम् ॥२१॥ [२२] अत ऊर्ध्वं गुणादीनां स्वरूपात्मतानिगमनात्स्वरूपशक्तिरेव पुनर् अपि विव्रियते यावत्सन्दर्भसमाप्तिः ।[*Eण्ड्ण्Oट्E ॰३] तत्र गुणानां स्वरूपात्मतामाहुः । स यदजया त्वजामनुशयीत गुणांश्च जुषन् भजति सरूपतां तदनु मृत्युमपेतभगः । त्वमुत जहासि तामहिरिव त्वचमात्तभगो महसि महीयसेऽष्टगुणितेऽपरिमेयभगः ॥[भागवतम् १०.८७.३८] टीका च स तु जीवो यद्यस्मातजया मायया अजामविद्यामनुशयीत आलिङ्गेत् । ततश्च गुणांश्च देहेन्द्रियादीन् जुषन् सेवमानः आत्मतया अध्यस्यन् । तदनु तद्अनन्तरं सरूपतां तद्धर्मयोगं च जुषनपेत भगः पिहितानन्दादिगुणः सन्मृत्युं संसारं भजति प्राप्नोति । त्वमुत त्वं तु जहासि तां मायाम् । ननु सा मय्येवास्ति कथं त्यागस्तत्राह अहिरिव त्वचमिति । अयं भावः यथा भुजङ्गः स्वगतमपि कञ्चुकं गुणबुद्ध्या नाभिमन्यते तथा त्वमजां मायाम् । न हि निरन्तराह्लादसंवित्कामधेनुवृन्दपतेरजया कृत्यमिति तामुपेक्षसे । कुत एतत्तदाह । आत्मभगनित्यप्राप्तैश्वर्यः । महसि परमैश्वर्ये अष्टगुणिते अणिमाद्य्अष्टविभूतिमति । महीयसे पूज्यसे विराजसे । कथम्भूतः ? अपरिमेयभगः अपरिमेयैश्वर्यः । न त्वन्येषामिव देशकालपरिच्छिन्नं तवाष्टगुणितमैश्वर्यम् । अपि तु परिपूर्ण स्वरूपानुबन्धित्वादपरिमितमित्यर्थः । इत्येषा । तथा च तत्रैव पूर्वमुक्तं त्वमसि यदात्मना समवरुद्धसमस्त भग इति [भागवतम् १०.८७.१४] । यद्वा अहिरिव त्वचमित्यत्र त्वक्शब्देन परित्यक्ता जीर्णत्वगेवोच्यते । स यथा तां जहातीति तत्समीपमपि न व्रजति, तथा त्वमपि मायासमीपं न यासीत्यर्थः । अन्यत्र च विशुद्धविज्ञानघनं स्वसंस्थया समाप्तसर्वार्थममोघवाञ्छितम् ॥ इति [भागवतम् १०.३७.२२] । तथोद्धवं प्रति श्रीभगवद्वाक्यं सिद्धयोऽष्टादश प्रोक्ता धारणा योगपारगैः । तासामष्टौ मत्प्रधाना दशैव गुणहेतवः ॥ [भागवतम् ११.१५.३] इति । अग्रे च एता मे सिद्धयः सौम्य अष्टावौत्पत्तिका मताः । इति [भागवतम् ११.१५.५] । अतएव दैत्यबालकान् प्रति श्रीप्रह्लादवाक्यम् केवलानुभवानन्दस्वरूपः परमेश्वरः । माययान्तर्हितैश्वर्य ईयते गुणसर्गया ॥[भागवतम् ७.६.२०] टीका च ननु स एव चेत्सर्वत्र तर्हि सर्वत्र सर्वज्ञताद्युपलभ्यते । तत्राह गुणात्मकः सर्गो यस्यास्तया मायया अन्तर्हितमैश्वर्यं येन इत्येषा । अत्र भगवदैश्वर्यस्य माययान्तर्हितत्वेन गुणसर्गयेति मायाया विशेषणविन्यासेन च तद्अतीतत्वं बोधयति स्वरूपवत् । अतः परमेश्वर इति विशेषणमपि तत्सहयोगेन पूर्वमेव दत्तमिति ज्ञेयम् । श्रुतयश् अजामेकां लोहितशुक्लकृष्णां वह्वीः प्रजाः सृजमानां सरूपाः । अजो ह्येको जुषमाणोऽनुशेते जहात्येनां भुक्तभोगामजोऽन्यः ॥ [श्वेतू ४.५] यद्आत्मको भगवांस्तद्आत्मिका व्यक्तिः । किमात्मको भगवान् ? ज्ञानात्मक ऐश्वर्यात्मकः शक्त्य्आत्मकश्च । दैवात्मशक्तिं स्वगुणैर् निगूढामित्याद्याः [श्वेतू १.३] । अत्र स्वगुणैरिति यातीतगोचरा वाचामित्य् उक्तैः स्वीयस्वभावैरित्यर्थः ॥ श्रुतयः श्रीभगवन्तम् ॥२२॥ [२३] मां भजन्ति गुणाः सर्वे निर्गुणं निरपेक्षकम् । सुहृदं प्रियमात्मानं साम्यासङ्गादयोऽगुणाः ॥ [भागवतम् ११.१३.४०] टीका च कथम्भूताः ? अगुणाः, गुणपरिणामरूपा न भवन्ति किन्तु नित्या इत्यर्थः । इत्येषा । तथा च नारदपञ्चरात्रे जितं ते स्तोत्रे नमः सर्वगुणातीतषड्गुणायादिवेधसे । इति । यदुक्तं ब्रह्मतर्के गुणैः स्वरूपभूतैस्तु गुण्यसौ हरिरीश्वरः । न विष्णोर्न च मुक्तानां क्वापि भिन्नो गुणो मतः ॥ कालिकापुराणे देवीकृतविष्णुस्तवे यस्य ब्रह्मादयो देवा मुनयश्च तपधनाः । न विवृण्वन्ति रूपाणि वर्णनीयः कथं स मे ॥ स्त्रिया मया ते किं ज्ञेया निर्गुणस्य गुणाः प्रभो । नैव जानन्ति यद्रूपं सेन्द्रा अपि सुरासुराः ॥ इति ॥ श्रीहंसदेवः सनकादीन् ॥२३॥ [२४] अन्यत्र श्रीहंसवाक्यस्थितादिग्रहणक्रोडीकृतान् तान् बहूनेव सत्यं शौचमित्यादिभिर्गणयित्वाह एते चान्ये च भगवन् नित्या यत्र महागुणाः । प्रार्थ्या महत्त्वमिच्छद्भिर् न वियन्ति स्म कर्हिचित् ॥ [भागवतम् १.१६.२६] टीका च एते एकोनचत्वारिंशत् । अन्ये च ब्रह्मण्यत्वशरण्यत्वादयो महान्तो गुणा यस्मिन्नित्याः सहजा न वियन्ति न क्षीयन्ते स्म । इत्येषा । अत्र श्रीविष्णुपुराणम् कलामुहूर्तादिमयश्च कालो न यद्विभूतेः परिणामहेतुः ॥ इति [Vइড়् ४.१.८४] । श्रीपृथिवी श्रीधर्मम् ॥२४। [२५] अत एव आह नमस्तुभ्यं भगवते ब्रह्मणे परमात्मने । न यत्र श्रूयते माया लोकसृष्टिविकल्पना ॥ [भागवतम् १०.२८.६] यत्र भगवद्आदित्वेन त्रिधैव स्फुरति स्वरूपे माया न श्रूयते । तस्य तथा तथा स्फूर्तिर्मायया न भवतीत्यर्थः । तत्र हेतुः लोकसृष्टाव् एव विकल्पितुं सृष्टिस्थितिसंहारैर्विविधमीशितुं शीलं यस्याः सा । अतएव भूगोलप्रश्ने हेतुत्वेन राज्ञाप्युक्तम् भगवतो गुणमये स्थूलरूप आवेशितं मनो ह्यगुणेऽपि सूक्ष्मतम आत्मज्योतिषि परे ब्रह्मणि भगवति वासुदेवाख्ये क्षममावेशितुमिति [भागवतम् ५.१६.३] । वरुणः श्रीभगवन्तम् ॥२५॥ [२६] तथा तस्मै नमो भगवते वासुदेवाय धीमहि । यन्मायया दुर्जयया मां वदन्ति जगद्गुरुम् ॥ विलज्जमानया यस्य स्थातुमीक्षापथेऽमुया । विमोहिता विकत्थन्ते ममाहमिति दुर्धियः ॥ [भागवतम् २.५.१२१३] तमादिमयत्वेन स्वस्य सदोषत्वात्, सच्चिदानन्दघनत्वेन यस्य निर्दोषस्य नेत्रगोचरे विलज्जमानया अमुषा मायया विमोहिता अस्मद्आदयो दुर्धियः ॥ श्रीब्रह्मा श्रीनारदम् ॥२६॥ [२७] तदेवमैश्वर्यादिषट्कस्य स्वरूपभूतत्वमुक्त्वा, श्रीविग्रहस्य पूर्णस्वरूपभूतत्वं वक्तुं प्रकरणमारभ्यते । तत्र तस्य तादृशत्व सचिवं नित्यत्वं तावत्पूर्वदर्शिततादृशवैकुण्ठाधिष्ठातृत्वेन सिद्धमेव । प्रपञ्चावतीर्णत्वेऽप्याह त्रिभिः नष्टे लोके द्विपरार्धावसाने महाभूतेष्वादिभूतं गतेषु । व्यक्तेऽव्यक्तं कालवेगेन याते भवानेकः शिष्यतेऽशेषसंज्ञः ॥ [भागवतम् १०.३.२५] अतः शेषसंज्ञः । तत्र युक्तिः योऽयं कालस्तस्य तेऽव्यक्तबन्धो चेष्टामाहुश्चेष्टते येन विश्वम् । निमेषादिर्वत्सरान्तो महीयांस् तं त्वेशानं क्षेमधाम प्रपद्ये ॥ [भागवतम् १०.३.२६] हे अव्यक्तबन्धो सान्निध्यमात्रेण प्रकृतिप्रवर्तक चेष्टा निमेषोन्मेषरूपाम् । श्रुतिश्च सर्वे निमेषा जज्ञिरे विद्युतः पुरुषादधीति [ंहानारायणऊ १.८] । सर्वे निमेषादयः कालावयवाः विशेषेण द्योतते विद्युत् । पुरुषः परमात्मेति श्रुतिपदार्थः । सर्वत्र सृष्टिसंहारयोर्निमित्तं काल एव, तस्य तु तद्अङ्गचेष्टारूपत्वात्तौ तत्र न सम्भवत एवेति भावः । तत्र हेत्व्अन्तरं क्षेमधामेति । त्वा त्वाम् । अत्र स्वाभीष्टात्तस्मादाविर्भावादेव कंसभयं कैमुत्येन वारितवती । तथैव स्पष्टं पुनराह मर्त्यो मृत्युव्यालभीतः पलायन् लोकान् सर्वान्निर्भयं नाध्यगच्छत् । त्वत्पदाब्जं प्राप्य यदृच्छयाद्य स्वस्थः शेते मृत्युरस्मादपैति ॥ [भागवतम् १०.३.२७] लोकान् प्राप्य निर्भयं भयाभावम् । त्वत्पादाब्जं तु प्राप्येत्य् उभयत्राप्यन्वयः । अत्र त्वत्पादाब्जमिति श्रीविग्रहमेव तथापि विस्पष्टं साधितवती । अतएवामृतवपुरिति सहस्रनामस्तोत्रे । मृतं मरणं तद्रहितं वपुरस्येत्यमृतवपुरिति शङ्करभाष्येऽपि । आद्येति जन्माभावोऽपि दर्शितः, सजन्मनि सर्वत्र सादित्वअस्यैव सिद्धेः । तदुक्तम् प्रादुरासीद्यथा प्राच्यां दिशीन्दुरिव पुष्कलः । इति । [भागवतम् १०.३.८] श्रुतिश्चात्र स ब्रह्मणा सृजति स रुद्रेण विलापयति सोऽनुत्पत्तिरलय एव हरिः परः परमानन्द इति महोपनिषदि[*Eण्ड्ण्Oट्E ॰४] ॥ श्रीदेवकीदेवी श्रीभगवन्तम् ॥२७॥ [२८] तथा उत्पत्तिस्थितिलयेत्य्आदिपद्ये यद्रूपं ध्रुवमकृतमिति । [भागवतम् ५.२५.९] यस्य श्रीसङ्कर्षणस्य रूपं ध्रुवमनन्तमकृतं चानादि । अतएव वर्षाधिपोपासनावर्णने भवेनापि तद्रूपमधिकृत्योक्तम् न यस्य मायागुणचित्तवृत्तिभिर् निरीक्षतो ह्यण्वपि दृष्टिरज्यते । इति [भागवतम् ५.१७.१९] यत्तु तत्र तदेव रूपमधिकृत्य श्रीशुकेन या वै कला भगवतस् तामसीति [भागवतम् ५.२५.१] । तथा भवानीनाथैरिति गद्ये [भागवतम् ५.१७.१६] तामसीं मूर्तिमित्युक्तम्, तन्निजांशशिवद्वारा तमोगुणोपकारकत्वेन ज्ञेयम् । उत्पत्तिस्थितिलयेत्य्आदिपद्यानन्तरं श्रीशुकेनैव श्रीनारदवाक्यम् अनुक्तम् मूर्तिं न पुरुकृपया बभार सत्त्वं संशुद्धं सदसदिदं विभाति यत्र । [भागवतम् ५.२५.१०] । तस्मान्नित्यमेव सर्वं भगवद्रूपम् । तथा च पाद्मोत्तरखण्डे तत्स्तुतिः अनादिनिधनानन्तवपुषे विश्व रूपिणे । इति । यदत्र स्कान्दादौ क्वचिद्भ्रामकमस्ति तत्तु तत्तत्पुराणानां तामस कल्पकथामयत्वात्तत्तत्कल्पेषु च भगवता स्वमहिमावरणाद् युक्तमेव तदिति । श्रीभागवतेनापि एवं वदन्ति राजर्षे [भागवतम् १०.७७.३०] इत्यादिना तादृशं मतं न मतम् । तदिदं तु श्रीकृष्णसन्दर्भे विशिष्य स्थापयिष्यामः । स्वमतं तु सत्यं शौचं दया क्षान्तिरित्यादिना [भागवतम् १.१६.२७] श्रीपृथिवीवाक्येन कान्तिमहौजोबलानामपि स्वाभाविकत्वम् अव्यभिचारित्वं दर्शयता दर्शितम् । नष्टे लोक[*Eण्ड्ण्Oट्E ॰५] इत्यादिना [भागवतम् १०.३.२५] श्रीदेवकीवाक्येन च । तस्मात्साधूक्तं यद्रूपं ध्रुवम् अकृतमिति ॥ श्रीशुकः ॥२८॥ [२९] विभुत्वमाह न चान्तर्न बहिर्यस्य न पूर्वं नापि चापरम् । पूर्वापरं बहिश्चान्तर्जगतो यो जगच्च यः ॥ तं मत्वात्मजमव्यक्तं मर्त्यलिङ्गमधोक्षजम् । गोपिकोलूखले दाम्ना बबन्ध प्राकृतं यथा ॥ [भागवतम् १०.९.१३१४] टीका च बन्धनं हि बहिःपरीतेन दाम्ना अन्तरावृतस्य भवति । तथा पूर्वापरविभागवतो वस्तुनः पूर्वतो दाम धृत्वा परतः परिवेष्टनेन भवति । न त्वेतदस्तीत्याह न चान्तरिति । किं च व्यापकेन व्याप्यस्य बन्धो भवति । तच्चात्र विपरीतमित्याह पूर्वापरमिति । किं च तद् व्यतिरिक्तस्य चाभावान्न बन्ध इत्याह जगच्च यः इति । तं मर्त्य लिङ्गमधोक्षजमात्मजं मत्वा बबन्धेति । इत्येषा ॥ जगच्च य इत्यत्र यस्य कारणस्य व्यतिरेकेण कार्यस्य जगतो व्यतिरेकः स्यादिति । तदनन्यस्य जगतस्तच्छक्त्येव शक्तेस्तद्अंशांशरूपया रज्ज्वा कथं बन्धः स्यात् । न हि वह्निमर्चिषो दहेयुरिति भावः । तं मर्त्यलिङ्गमित्यादौ । टीकाकृतामयमभिप्रायः । ननु सर्व व्यापकं कथं बबन्ध, न हि ब्रह्माण्डगोलकादिकमपि कश्चिद् बध्नाति । तत्राह मर्त्यलिङ्गं मनुष्यविग्रहम् । तर्हि कथं व्यापकत्वम् ? तत्राह, अधोक्षजमधः कृतमिन्द्रियजं ज्ञानं येन तं सर्वेन्द्रियज्ञानागोचरं प्रत्यक्षादिप्रमाणैरचिन्त्यस्वरूपमित्यर्थः । तस्मात्तद्आकारत्वेऽपि तस्मिन् विभुत्वमस्त्येवेति भावः । अधोक्षजत्वाद् एवाव्यक्तत्वमपि व्याख्यातमिति तन्नोद्धृतम् । ननु मनुष्यविग्रहत्वेऽप्यपरित्यक्तविभुत्वं कथं मातुर्नास्फुरत् ? तत्राह आत्मजं मत्वेति । वत्सलाद्य्अभिधप्रेमरसविशेषस्य स्वभावोऽयम् । यदसौ स्वानन्दपूरेण तस्य तादृशत्वं प्रत्यनुभव पद्धतिमावृणोतीत्यर्थः । इत्थं चातद्वीर्यकोविदत्वं तस्या माहात्म्यमेव तं रज्जुभिर्बद्धमपि कर्तुस्तस्य प्रेम रसस्यानुभावरूपत्वात् । तदुक्तम् नेमं विरिञ्चो न भव इत्यादि [भागवतम् १०.९.२०] । प्राकृतं यथा इत्यनेन अधोक्षजमित्यनेन च, वस्तुनो व्यापकत्वं मायया तु मर्त्यलिङ्गत्वमित्यपि परिहृतम् । यद्धि तर्कगोचरो भवति, तत्रैव कदाचिदसम्भवरीतिदर्शनेन साभ्युपगम्यते, यत्तु स्वत एव तद्अतीतं, तत्र तत्स्वीकृतिरतीव मूर्खता । यथा बाडवनाम्नो वह्नेर्जलनिधिमध्य एव देदीप्यमानतायामैन्द्रजालिकत्तास्वीकरणम् । श्रुतिश्च अर्वाग्देवा अस्य विसर्जनेनाथ को वेद यत आबभूवेत्याद्या । किं च यद्गतं बन्धनं तस्य श्रीविग्रहस्यैव व्यापकत्वं विवक्षितं यत्तदोः [?] सामानाधिकरण्यात्तस्यास्तत्राकोविदत्वोपपादनत्वाच्च । तत्र विग्रहत्वं परिच्छिन्नायामेव सम्भवति । करचरणाद्य्आकारसन्निवेशात् । तस्मादस्यैव तस्मिन् परिच्छिन्नत्वं विभुत्वं च युगपदेव । मूल सिद्धान्त एव परस्परविरोधिशक्तिशतनिधानत्वं तस्य दर्शितम् । दृश्यतेऽपि लोके त्रिदोषघ्नमहौषधीनां तादृशत्वम् । तथैव विभुत्वमुक्तं ब्रह्मसंहितायां पन्थास्तु कोटिशतवत्सरसंप्रगम्यो वायोरथापि मनसो मुनिपुङ्गवानाम् । सोऽप्यस्ति यत्प्रपदसीम्न्यविचिन्त्यतत्त्वे गोविन्दमादिपुरुषं तमहं भजामि ॥ इति [Bरह्मष्५.४०] ॥ श्रुतिश्च मध्वभाष्यप्रमाणिता अस्थूलोऽनणुरमध्यमो मध्यमोऽव्यापको व्यापको हरिरादिरनादिरविश्वो विश्वः सगुणो निर्गुण इति । तथैव नृसिंहतापनी च तुरीयमतुरीयमात्मानमनात्मानमुग्रम् अनुग्रं वीरमवीरं महान्तममहान्तं विष्णुमविष्णुं ज्वलन्तम् अज्वलन्तं सर्वतोमुखमसर्वतोमुखमित्य्[ण्टू २.३] आदिका । ब्रह्मपुराणे अस्थूलोऽनुरूपोऽसावविश्वो विश्व एव च । विरुद्धधर्मरूपेऽसावैश्वर्यात्पुरुषोत्तम ॥ इति ॥ तथैव दृष्टं श्रीविष्णुधर्मे परमाण्व्अन्तपर्यन्त सहस्रांशाणुमूर्तये । जठरान्तायुतांशान्त स्थितब्रह्माण्डधारिणे ॥ इति ॥ अतः श्रीगीतोपनिषदश्च मया ततमिदं सर्वं जगदव्यक्तमूर्तिना । मत्स्थानि सर्वभूतानि न चाहं तेष्ववस्थितः ॥ न च मत्स्थानि भूतानि पश्य मे योगमैश्वरम् । भूतभृन्न च भूतस्थो ममात्मा भूतभावनः ॥ इति । [गीता ९.४५] अव्यक्तमूर्तिनेति तादृशरूपत्वाद्बुद्धिवैभवागोचरस्वभाव विग्रहेणेत्यर्थः ॥ श्रीशुकः ॥२९॥ [३०] तदेवं परिच्छिन्नस्यैव तद्आकारस्य विभुत्वं पुनर्विद्वद् अनुभ्वएनोक्तन्यायेन दर्शयितुं प्रकरणमारभ्यते । तत्रैकादश पद्यान्याह क्वाहं तमोमहद्अहंखचराग्निवार्भू संवेष्टिताण्डघटसप्तवितस्तिकायः । क्वेदृग्विधाविगणिताण्डपराणुचर्या वाताध्वरोमविवरस्य च ते महित्वम् ॥ [भागवतम् १०.१४.११] स्पष्टम् ॥ [३१] उत्क्षेपणं गर्भगतस्य पादयोः किं कल्पते मातुरधोक्षजागमे । किमास्तिनास्तिव्यपदेशभूषितं तवास्ति कुक्षेः कियदप्यनन्तः ॥ [भागवतम् १०.१४.१२] अतः सर्वस्य तव कुक्षिगतत्वेन ममापि तथात्वान्मातृवदपराधः सोढव्य इति भावः । [३२] किं च विशेषतस्तु त्वत्तो यज्जन्म प्रसिद्धमित्याह जगत्त्रयान्तोदधिसम्प्लवोदे नारायणस्योदरनाभिनालात् । विनिर्गतोऽजस्त्विति वाङ्न वै मृषा किन्त्वीश्वर त्वन्न विनिर्गतोऽस्मि ॥ [भागवतम् १०.१४.१३] तथापि त्वत्त्वत्तः किं तु नोत्पन्नोऽस्मि ह अपि तु त्वत्त एवोत्पन्नोऽस्मीत्य् अर्थः । [३३] ननु यद्यहं प्रलयोदधिशायी नारायणः स्यां, तर्हि मत्तस्त्वम् उत्पन्नोऽसीत्यपि घटते । तत्त्वन्यथैवेत्याशङ्क्याह नारायणस्त्वं न हि सर्वदेहिनाम् आत्मास्यधीशाखिललोकसाक्षी । नारायणोऽङ्गं नरभूजलायनात् तच्चापि सत्यं न तवैव माया ॥ [भागवतम् १०.१४.१४] हे अधीश ईशस्य सर्वान्तर्यामिणो नारायणस्याप्युपरि वर्तमान, हे भगवन्नित्यर्थः । हि निश्चितं स नारायणस्त्वं, नासि, किन्तु नारायणोऽसौ तविवाङ्गमंशः । यद्यप्येवमथापि मम तद्अङ्गोत्पन्नत्वादङ्गिनस् त्वत्त एवोत्पत्तिरिति भावः । कथमसौ नारायण उच्यते । कथं वा मम तस्माद्वैलक्षण्यम् ? तत्रह योऽसौ देहिनामात्मा अन्तर्यामिपुरुषः । अतएव नारस्य जीवसमूहस्य अयमाश्रयो यत्रेति तस्य नारायणत्वं, साक्साद्भगवतस्तव तु तद् अन्तर्यामितायामप्यौदासीन्यमिति भावः । किं च, अखिललोकसाक्षी, यस्मातखिलं लोकं साक्षात्पश्यति, तस्मात् । नारमयते जानातीति नारायणोऽसौ, त्वं पुनस्तेनांशेनैव तद्द्रष्टा, न तु साक्षादिति तस्माद् विलक्षण इत्यर्थः । तर्हि स नारायणस्त्वं न भवसीति ममाप्यन्यथा नारायणत्वमस्तीति भवताभिप्रेतं, तत्कथम् ? इत्यस्योत्तरं तेनैव सम्बोधनेन व्यञ्जयति, अधीशेति । ईशः प्रवर्तकः । ततश्च नारस्य अयनं प्रवृत्तिर्यस्मात्स नारायणः । ततोऽप्य् अधिकैश्वर्यादधीशस्त्वमपि नारायणः । यथा मण्डलेश्वरोऽपि नृपतिस् तेषामधिपोऽपि नृपतिरिति । श्रीकृष्णस्यैव साक्षात्स्वयं भगवत्त्वेन तस्मादपि परत्वम् । कृष्णसन्दर्भे प्रबन्धेन दर्शयिष्यते । ननु, नराज्जातानि तत्त्वानि नाराणीति विदुर्बुधाः । तस्य तान्ययनं पूर्वं तेन नारायणः स्मृतः इति । तथा, आपो नारा इति प्रोक्ता आपो वै नरसूनवः । अयनं तस्य ताः पूर्वं तेन नारायणः स्मृतः ॥ इति तस्यापि नारायणत्वमन्मथाप्रसिद्धमित्याशङ्क्याह नरभू जलायनात्तच्चापीति । नरादुद्भूतयेऽर्थास्तथा नराज्जातं यज्जलं, तद् अयनात्यच्च तच्चापि नारायणत्वं भवति तर्हि कथं प्रसिद्धि परित्यागेनान्यथा निर्वक्षीत्यत आह सत्यं नेति । तत्प्रलयोदधिजलाद्य् आश्रयत्वं सत्यं न, किन्तु तथा ज्ञानं तवैव मायेत्यर्थः । मायात्र प्रतारणशक्तिः, माया दम्भे कृपायां चेति विश्वप्रकाशात् । दुर्वितर्क स्वरूपशक्त्यैव परिच्छिन्नापरिच्छिन्नायास्त्वन्मूर्तेर्जलादिभिर् अपरिच्छेदादिति भावः । श्लोकचतुष्टयेऽस्मिन् यस्य नारायणस्यान्ततं मद्आदिकं सर्वमेव जगत्, सोऽपि तवान्तर्भूत इति तात्पर्यम् । नारायणस्य तादृशत्वे मन्त्रवर्णः यच्च किञ्चिज्जगत्सर्वं दृश्यते श्रूयतेऽपि वा । अन्तर्बहिश्च तत्सर्वं व्याप्य नारायणः स्थितः ॥ इति ॥ [३४] तन्मूर्तेर्जलादिभिरपरिच्छेदे स्वानुभवं प्रमाणयति तच्चेज्जलस्थं तव सज्जगद्वपुः किं मे न दृष्टं भगवंस्तदैव । किं वा सुदृष्टं हृदि मे तदैव किं नो सपद्येव पुनर्व्यदर्शि ॥ [भागवतम् १०.१४.१५] जगद्आश्रयभूतं नारायणाभिधं तव तद्वपुः जलस्थमेवेत्येवं यदि सत्सत्यं स्यात्तर्हि तदैव कमलनालमार्गेणान्तः प्रविश्य संवत्सरशतं विचिन्वतापि मया हे भगवन्नचिन्त्यैश्वर्य तत्किमिति न दृष्टम् । यदि च तद्वपुर्मायामात्रं, माया स्याच्छाम्बरीबुद्ध्योरिति त्रिकाण्डशेषरीत्या मिथ्याभिव्यञ्जककलाविशेषदर्शितमात्रं स्यात्तर्हि किं वा रूढसमाधियोगविरूढबोधेन मया हृदि तदैव सुष्ठु सच्चिदानन्दघनत्वेन दृष्टं, समाध्य्अनन्तरं किं वा पुनः सपद्य् एव नो व्यदर्शि न दृष्टम् । अतस्त्वन्मूर्तेर्मायामयत्वं देशविशेष कृतपरिच्छेदश्च सत्यो न भवतीत्यर्थः । एतद्व्याख्याननिदानं तृतीयस्कन्धेतिहासो द्रष्टव्यः । [३५] अत्र तच्चापि सत्यमित्यत्र, तच्चापि अङ्गं सत्यमेव, न तु विराड् अवन्मायेति तच्चेज्जलस्थमित्यत्र च, तज्जलस्थं सद्रूपं तव वपुर्यदि जगत्स्यात्, प्रपञ्चान्तःपाति स्यातिति व्याकुर्वन्ति । तस्मादेवं नारायणाङ्गकस्य भग्वद्विग्रहस्य विश्वोऽपि प्रपञ्चोऽन्तर्भूत इति स्वयं भगवता दर्शितम् । श्रीमत्या जनन्यैवानुभूतमित्याह अत्रैव मायाधमनावतारे ह्यस्य प्रपञ्चस्य बहिःस्फुटस्य । कृत्स्नस्य चान्तर्जठरे जनन्या मायात्वमेव प्रकटीकृतं ते ॥ [भागवतम् १०.१४.१६] अत्रैव तावत्श्रीकृष्णाख्ये मायोपशमनेऽवतारे प्रादुर्भावे, बहिश् चान्तर्जठरे च स्फुटस्य दृष्टस्य कृत्स्नस्य जगतः सम्बन्धे पूर्वोक्तं यन्मायात्वम्, पर्पञ्चकृतत्वत्परिच्छेद्यत्वस्य मिथ्यात्वम् । तज्जनन्या जनन्यै ते त्वया प्रकटीकृतं दर्शितम् । तस्माद्भवान् जगद्अन्तःस्थ एव, जगत्तु भवबहिर्भूतमित्येवं मायाधर्मः । वस्तुतस्तु दुर्वितर्क स्वरूपशक्त्या मध्यमत्वेऽपि व्यापकोऽसीति भावः । [३६] मायाधर्मेनेति यद्भवता कृपया दृष्टप्रमाणेऽपि श्रीविग्रहे सर्वोऽपि प्रपञ्चोऽन्तर्भूत इति दर्शितं तत्सत्यमेवेति द्योतनार्थं भगवत्यप्य् अन्यथा प्रतीतिनिरसनार्थं च पूर्वमेवार्थमुपपादयति यस्य कुक्षाविदं सर्वं सात्मं भाति यथा तथा । तत्त्वय्यपीह तत्सर्वं किमिदं मायया विना ॥ [भागवतम् १०.१४.१७] यस्य तव कुक्षौ सर्वमिदं सात्मं त्वत्सहितं यथा भाति, तत्सर्वमिह बहिरपि तथैव त्वयि भाति इत्यन्वयः । अयमर्थः स्वस्य व्रजेऽन्तर्भूततादर्शनेनैव समं व्रजस्य स्वस्मिन्न् अन्तर्भूततां दर्शयन् तच्चान्तर्बहिर्दर्शनं किं स्वप्न एतदुत देवमाया इत्यादौ [भागवतम् १०.८.४०] श्रीजनन्या एव विचारे स्वाप्निकत्व मायोलत्वबिम्बप्रतिबिम्बत्वानामयोग्यत्वादेकमेवेत्यभिज्ञापयन्, किं स्वप्न इत्यादावेव यः कश्चन औत्पत्तिक आत्मयोग इत्य्[भागवतम् १०.८.४०] अनेन चरमपक्षावसितया दुर्वितर्कस्वरूपशक्त्यैव मध्यमपरिमाण विशेष एव सर्वव्यापकोऽस्मीति स्वयमेव भवान् जननीं प्रति युगपद् उभयात्मकं निजधर्मविशेषं दर्शितवान् । अतएव द्वितीये गृह्णीत यद् यदुपबन्धममुष्य माता इत्यादौ [भागवतम् २.७.३०] प्रतिबोधितासीदित्य् उक्तम् । तस्मात्तव कुक्षौ सर्वमिदं यथा भाति, इह बहिरपि तथा, तद् अन्तर्भूतोऽपि तद्व्यापकोऽसीति प्रकारेणैव तव मायया स्व याथार्थ्यावरणशक्त्या विना किं सम्भवति ? नैव सम्भवतीत्यर्थः । [३७] मयाप्येवमेवानुभूतमित्याह अद्यैव त्वदृतेऽस्य किं मम न ते मायात्वमादर्शितम् एकोऽसि प्रथमं ततो व्रजसुहृद्वत्साः समस्ता अपि । तावन्तोऽसि चतुर्भुजास्तदखिलैः साकं मयोपासितास् तावन्त्येव जगन्त्यभूस्तदमितं ब्रह्माद्वयं शिष्यते ॥ [भागवतम् १०.१४.१८] अद्यैव ते त्वया किमस्य विश्वस्य त्वद्ऋते त्वत्तो बहिर्मायात्वं माययैव स्फुरणं भवतीति मम मां प्रति न दर्शितम् ? अपि तु दर्शितमेव । एतन् नराकाररूपात्त्वत्तो भैरेवेदं जगदिति यन्मुग्धानां भाति । तन् माययिवेत्यर्थः । कथमेतदाकाररूपस्य मम तादृशत्वम् ? तत्राह, एकोऽसि इति । व्रजसुहृदादिरूपं यद्यस्मादाविर्भूतं तत्तदखिलम् अधुना तिरोधानसमये येन पुनरनेन श्रीविग्रहरूपेणावशिष्यते । तद् द्वयं ब्रह्मैवेत्यर्थः । अशेषप्रापञ्चिकवस्तूनां प्रादुर्भावस्थिति तिरोभावदर्शनेन तल्लक्षणाक्रान्तत्वादिति भावः । ततश्चास्य ब्रह्मत्वे सिद्धे व्यापकत्वमपि सिध्यतीति तात्पर्यम् । [३८] ननु, सृष्ट्य्आदौ ब्रह्मविष्णुमहेश्वरा भिन्ना एव कारणभूतास्तथा स्थितौ केचिदन्येऽवताराश्च, तत्कथं ममैवं सर्वकारणत्वमुच्यते । तत्राह अजानतां त्वत्पदवीमनात्मन्य् आत्मात्मना भासि वितत्य मायाम् । सृष्टाविवाहं जगतो विधान इव त्वमेषोऽन्त इव त्रिनेत्रः ॥ [भागवतम् १०.१४.१९] त्वमित्यस्य भासीत्यनेनान्वयः । कर्तृक्रिययोरन्वयस्यैव प्राथमिकत्वात् । कर्त्रा चात्र त्वमित्येव मधमपुरुषेण युज्यते । तस्मादत्र नैव शब्दः सम्बध्यते किन्त्वेष इत्यत्रैव । ततश्च श्री विग्रहोऽमुः वाच्यः । स्वयं भगवत्त्वेनास्य गुणावतारत्वाभावात् । अद्यैव त्वद्ऋतेऽस्येत्यनेनाव्य्ववहितवचनेन विरुद्धत्वाच्च । तस्मादयमर्थः त्वत्पदवीं तव तथाभूतं स्वरूपमजानताम् अजानतः प्रति । आत्मा तत्तदंशिस्वरूपस्त्वमेव । आत्मना तत्तद्अंशेन, मायां सृष्ट्य्आदिनिमित्तशक्तिम् । अनात्मनि जडरूपे महद्आद्य्उपादाने प्रधाने । वितत्य प्रवर्त्य्, तत्तत्कार्यभेदेन भिन्न इव भासीत्यर्थः । अन्ते त्रिनेत्र इवेति । वस्तुतस्त्वमेव तत्तद्रूपेण वर्तसे, मूढास्तु त्वत्तस्तान् पृथक्पश्यन्तीति भावः । यतो द्वितीये ब्रह्मवाक्यम् सृजामि तन्नियुक्तोऽहं हरो हरति तद्वशः । विश्वं पुरुषरूपेण परिपाति त्रिशक्तिधृक् ॥ इति [भागवतम् २.६.३०] [३९] अतो भगवत्स्वरूपैकत्वेन न ब्रह्मादिवद्विष्णुरिवेति निर्दिष्टम् । एवं यथा गुणावतारास्तथान्येऽप्यवतारा इत्याह सुरेष्वृषिष्वीश तथैव नृष्वपि तिर्यक्षु यादःस्वपि तेऽजनस्य । जन्मायतां दुर्मदनिग्रहाय विधातः यदनुग्रहाय च ॥ [भागवतम् १०.१४.२०] अजनस्य जन्मेत्यनेन प्रादुर्भावमात्रं जन्मेति बोधयति । ननु ब्रह्मन् किमत्र विचारितं भवता, यदेकस्या एव मम मूर्तेर्व्यापकत्वे सत्यन्यासां दर्शनस्थानं न सम्भवतीति । तथा जडवस्तूनां घटादीनामेव प्राकट्यप्रकारो लोके दृष्टः । कथं तदितर स्वभावानां चिद्वस्तूनां मम श्रीमूर्त्यादीनामिति । यथा यावत्यो विभूतयो मम भवता दृष्टास्तावतीभिरेव भवान् विस्मितो, नापराः सन्तीति सम्भावयन्निव तत्परिमिततामधिगतवानस्तीति । तथा ये ममांशाः पूर्वं बालवत्सादिरूपास्त एव चतुर्भुजा अभवन्निति कस्यापि रूपस्य कदाचिदुद्भवः कस्यापि कदाचिदिति । [४०] किं च, सत्यज्ञानानन्तानन्दैकरसमूर्तित्वात्युगपदेव सर्वमपि तत् तद्रूपं वर्तत एव, किन्तु यूयं सर्वदा सर्वं न पश्यथेति तत्र च यौगपद्यं कथमिति तत्राह को वेत्ति भूमन् भगवन् परात्मन् योगेश्वरोतीर्भवतस्त्रिलोक्याम् । क्व वा कथं वा कति वा कदेति विस्तारयन् क्रीडसि योगमायाम् ॥ [भागवतम् १०.१४.२१] क्व वा कथं वा कति वा कदा वा योगमायां दुस्तर्कां चिच्छक्तिं विस्तारयन् तथा तथा प्रवर्तयन् क्रीडसीति भवत ऊतीर्लीलास्त्रिलोक्यां को वेत्ति? न कोऽपीत्यर्थः । यस्यामतं तस्य मतं मतं यस्य न वेद स इति [Kएनऊ २.३] भावः । अत्र दुर्ज्ञेयतापुरस्कृतेनैव सम्बोधनचतुष्टयेन चतुर्षु युक्तिमाह । हे भूमन् क्रोडीकृतानन्तमूर्त्यात्मकश्रीमूर्ते । अयं भावः एकमपि मुख्यं भगवद्रूपं युगपदनन्त रूपात्मकं भवति । तथैवाक्रूरेण स्तुतं बहुमूर्त्य्एकमूर्तिकमिति [भागवतम् १०.४०.७] । तथा श्रुतिः एकं सन्तं बहुधा दृश्यमानमिति । ततो यदा यादृशं येषामुपासनाफलोदयभूमिकावस्थानं, तदा तथैव ते पश्यन्ति । तथा च प्रज्ञान्तरपृथक्त्ववद्दृष्टिश्च तदुक्तिम् इत्यत्र ब्रह्मसूत्रे [Vस्३.३.५०] मध्वभाष्यम् उपासनाभेदाद्दर्शन भेद इति दृष्टान्तश्च । यथैकमेव पट्टवस्त्रविशेषपिच्छावयव विशेषादिद्रव्यं नानावर्णमयप्रधानैकवर्णमपि कुतश्चित्स्थान विशेषाद्दत्तचक्षुषो जनस्य केनापि वर्णविशेषेण प्रतिभातीति । अत्राखण्डपट्टवस्त्रविशेषादिस्थानीयं निजप्रधानभासान्तर् भाविततत्तद्रूपान्तरं श्रीकृष्णरूपं, तत्तद्वर्णच्छविस्थानीयानि रूपान्तराणीति ज्ञेयम् । यथा श्रीनारदपञ्चरात्रे मणिर्यथा विभागेन नीलपीतादिभिर्युतः । रूपभेदमवाप्नोति ध्यानभेदात्तथा विभुः ॥ इति मणिरत्र वैदुर्यं नीलपीतादयस्तद्गुणाः । तदेवं क्वेत्यय युक्तिर् उक्ता । एवमेव श्रीवामनावतारमुपलक्ष्य श्रीशुकवाक्यम् यत्तद्वपुर्भाति विभूषणायुधैर् अव्यक्तचिद्व्यक्तम्मधारयद्धरिः । बभूव तेनैव स वामनो बटुः संपश्यतोर्दिव्यगतिर्यथा नटः ॥ [भागवतम् ८.१८.१२] अर्थश्चायम् यद्वपुः शरीरं न केनापि व्यज्यते या चित्पूर्णानन्दस्तत् स्वरूपमेव यद्विभूषणायुधैर्भाति । तद्वपुस्तदा प्रपञ्चेऽपि व्यक्तं यथा स्यात्तथा अधारयत्स्थापितवान् । पुनश्च तेनैव वपुषा वामनो बटुर्बभूव हरिः । एवकारेण परिणामवेषान्तरयोगादिकं निषिद्धम् । कदा ? पित्रोः सम्पश्यतोः । तेनैव वपुषा तद्भावे हेतुः । दिव्याः परमचिन्त्याः यद्गतं भवच्च भविष्यच्च इत्यादि श्रुतेः । स्वस्मिन्नेव नित्यस्थितान्नानासंस्थानां प्रकाशनाप्रकाशनरूपा गतयश्चेष्टा यस्य सः । तत्रालक्सितस्वधर्ममात्रोल्लासांशे दृष्टान्तलेशः, यथा नट इति । नटोऽपि कश्चिदाश्चर्यतमः दिव्या परमविस्मापिका गतिर्हस्तकरूपा चेष्टा यस्य तथाभूतः सन् । तेनैव रूपेण वैषम्यादिकमनुरीकृत्यापि नानाकारतां यथा दर्शयति । स्वर्ग्यो नटो वा दिव्यगतिः । ततश्च तत्तद्अनुकरणं तस्यात्यन्ततद्आकारमेव भवति । अत्र परमेश्वरं विना अन्यस्य सर्वांशे तादृशत्वाभावात्न च दृष्टान्ते खण्डत्वदोषः प्रपञ्चनीयः । यथा भक्षितकीटपरिणामलालाजाततन्तुसाधनोऽप्यूर्णनाभः परमेश्वरस्य जगत्सृष्टावनन्यसाधकत्वे दृष्टान्तः श्रूयते, यथोर्ण नाभिर्हृदयादित्यादि [भागवतम् ११.९.२१] तद्वत् । तदेवं श्रीब्रह्मणापि सर्वरूपसद्भावाभिर्पायेणैवोक्तम् त्वं भक्तियोगपरिभावितहृत्सरोज आस्से श्रुतेक्षितपथो ननु नाथ पुंसाम् । यद्यद्धिया त उरुगाय विभावयन्ति तत्तद्वपुः प्रणयसे सद्अनुग्रहाय ॥ इति [भागवतम् ३.९.११] प्रणयसे प्रकर्षेण नयसि प्रकटयसि । श्रुतेक्सितपथ इत्यनेन कल्पनाया निरस्तत्वात् । सर्वरूपत्वेऽपि भक्तानभिरुचितरूपत्वेऽपवादः श्रीकर्दमवाक्येन तान्येव तेऽभिरूपाणि रूपाणि भगवंस्तव । यानि यानि च रोचन्ते स्वजनानामरूपिणः ॥ [भागवतम् ३.२४.३०] यानि यानि च त्वदीयस्वभक्तेभ्यो रोचन्ते तानि नान्येव तव रूपाणि ते तव अभिरूपाणि योग्यानि, नान्यानीत्यर्थः । अन्यानि च, यादृशं रन्तिदेवाय कुत्सितरूपं प्रपञ्चितं तादृशानि ज्ञेयानि । तादृशस्य च मायिकत्वेअमेव हि तत्रोक्तम् तस्य त्रिभुवनाधीशाः फलदाः फलमिच्छताम् । आत्मानं दर्शयाञ्चक्रुर्माया विष्णुविनिर्मिता ॥ इति [भागवतम् ९.२१.१५] टीका च त्रिभुवनाधीशाः ब्रह्मादयः मायास्तदीयधैर्य परीक्षार्थं प्रथमं मायया वृषलादिरूपेण प्रतीताः सन्त इत्यर्थः । इत्येषा । अनभिरूपत्वे हेतुः । अरूपिण इति । प्राकृतरूपरहितस्येति । टीका च अप्राकृतत्वेन कुत्सितत्वासम्भवादिति भावः । अथ प्रकृतपक्षस्य कथं वेत्यादित्रययुक्तयेऽवशिष्टं सम्बोधन त्रयं व्याख्यायते । हे भगवन्नचिन्त्यशक्ते! अचिन्त्यस्य भगवन्मूर्त्य् आद्याविर्भावस्यान्यथानुपपत्तेरचिन्त्या स्वरूपशक्तिरेव कारणमिति भावः । इयं कथं वेत्यस्य युक्तिः । तथा हे परमात्मन्! परेषां प्रत्येकमप्यनन्तशक्तीनां पुरुषाद्य्अवताराणामात्मन्नवतारिन् । त्वयि तु तासां सुतरामनन्तत्वात् । तद्आविर्भावविभूतयः कति वा वाङ् मनसोऽगोचरत्वमापयेरन्निति भावः । इयं कति वेत्यस्य युक्तिः । तथा हे योगेश्वर! एकस्मिन्नपि रूपे नानारूपयोजनालक्षणाया योग नाम्न्याः स्वरूपशक्तेस्तया वा ईशनशील । अयं भावः यथा तव प्रधानं रूपमन्तर्भूतानन्तरूपं तथा तवांशरूपं च । ततश्च यदा तव यत्रांशे तत्तद्उपासनाफलस्य यस्य रूपस्य प्रकाशनेच्छा तदैव तत्र तद्रूपं प्रकाशसे इति । इयं कदेत्यस्य युक्तिः । [४१] तस्मात्तत्तत्सर्वमपि तस्मिन् श्रीकृष्णरूपेऽन्तर्भूतमित्येवमत्रापि तात्पर्यमुपसंहरति । तस्मादिदं जगदशेषमसत्स्वरूपं स्वप्नाभमस्तधिषणं पुरुदुःखदुःखम् । त्वय्येव नित्यसुखबोधतनावनन्ते मायात उद्यदपि यत्सदिवावभाति ॥ [भागवतम् १०.१४.२२] यस्मादेवं प्रपञ्चाप्रपञ्चवस्तूनां सर्वेषामपि तत्त्वविग्रहोऽसि तस्मादेव नित्यसुखबोधनलक्सणा या तनुस्तत्स्वरूपेऽनन्ते त्वय्येव शेषमिदं जगदवभातीत्यन्वयः । कथम्भूतं सतुद्यदपि यत् मुहुरुभवतिरोभवच्च । यद्यस्मिन्मुहुर्जायते लीयते च तत्तस्मिन्न् एवावभाति भुवि तद्विकारे इवेति भावः । तर्हि किं मम विकारित्वं नेत्य् आह । मायातो मायया त्वदीयाचिन्त्यशक्तिविशेषेण विकारादितस्यैव श्रुतेस् तु शब्दमूलत्वादित्य्[Vस्. २.१.१७] आदौ परिणामस्वीकारात् । मुहुरुद्भव तिरोभवत्वादेव स्वप्नाभं तत्तुल्यं न त्वज्ञानमात्रकल्पितत्वादपि वैधर्म्याच्च न स्वप्नादिवदिति [Vस्. २.२.२९] न्यायेन तथा अविद्यावृत्तिक मायाकार्यत्वाच्च अस्तधिषणं जीवपरमात्मज्ञानलोपकर्तृ । उभयस्मादपि हेतोः पुरुदुःखदुःखं तदीयसुखाभासस्यापि वस्तुनो दुःखरूपत्वाद्विना त्वत्सत्तया असत्स्वरूपं शशविषाणतुल्यं तदेवं भूतमपि सदिवानश्वरमिवाभाति मुग्धानामिति शेषः । उपलक्षणं चैतद्व्यवहारज्ञानमयमहद्आद्यात्मकत्वात् ज्ञानोद्बोधकमिव स्वर्गाद्यात्मकत्वात्मुखमिव च । तदेवमन्यस्य तत्परिच्छेद्यत्वात्स्वरूपशक्त्यैव परिच्छिन्नमपरिच्छिन्नं च तवेदं वपुरिति प्रकरणार्थः ॥ १०।१४॥ ब्रह्मा श्रीभगवन्तम् ॥४१॥ [४२] तदित्थं मध्यमाकार एव सर्वाधारत्वाद्विभुत्वं साधितम् । सर्वगतत्वादपि साध्यते चित्रं बतैतदेकेन वपुषा युगपत्पृथक् । गृहेषु द्व्य्अष्टसाहस्रं स्त्रिय एक उदावहत् ॥ [भागवतम् १०.६९.२] एतद्बत अहो चित्रं किं तत् । एक एव श्रीकृष्णो द्व्यष्टसाहस्रं स्त्रीर्यद् उदावहत्परिणीतवान् । ननु किमत्राश्चर्यं तत्राह । गृहेष्विति तत् सङ्ख्येषु सर्वेष्विति शेषः । भवतु ततोऽपि किं तत्राह । पृथक्पृथगेव स्थित्वा पाणिग्रहणादिविवाहविधिं कृतवान् । ननु क्रमश उद्वाहे नासम्भवमेतत्तत्राह युगपदिति । ननु योगेश्वरोऽपि युगपन्नाना वपूंषि विधाय तद्विधातुं शक्नोति किमत्र योगेश्वराराध्यचरणानां युष्माकमपि चित्रं तत्राह । एकेन वपुषा इति । तर्हि कथमनेकबाह्व् आदिकेन व्यापकेनैकेन वपुषा तत्कृतवान् । मैवम् । आसां मुहूर्त एकस्मिन् नानागारेषु योषिताम् । सविधं जगृहे पाणिन् अनुरूपः स्वमायया ॥ [भागवतम् ३.३.८] इति श्रीमद्उद्धववाक्यादौ तत्तदनुरूपताप्रसिद्धेः । इत्यभिप्रेत्य पूर्वकेणैकपदोपन्यासेन परिहरति पृथगिति । एकेन नराकारेण वपुषा पृथक्पृथक्त्वेन दृश्यमानस्तथा विहितवान् । तस्मादेकमेव नर वपुर्यतो युगपत्सर्वदेशं सर्वक्रियां च व्याप्नोति तस्मान्महद् आश्चर्यमिति वाक्यार्थः । इत्थमेव पञ्चमे लोकाधिष्ठातुः श्रीभगवद्विग्रहस्य तेषामित्यादि गद्योपदिष्टस्य तादृशत्वं व्याख्यातं श्रीस्वामिचरणैः । महाविभूतेः पारमैश्वर्यस्य पतित्वादेकयैव मूर्त्या समन्तादास्त इति । अथो मुहूर्त एकस्मिन् नानागारेषु ताः स्त्रियः । यथोपयेमे भगवान् तावद्रूपधरो ‘व्ययः ॥ इत्य्[भागवतम् १०.५९.४२] अत्राप्यतस्तावद्रूपत्वं नाम युगपत्तावत्प्रदेशप्रकाशत्वमेवेति व्याख्येयम् । न तु नारायणादिवद्भिन्नाकारत्वम् । यथोक्तम् अनेकत्र प्रकटता रूपस्यैकस्य यैकदा । सर्वथा तत्स्वरूपैव स प्रकाश इतीर्यते ॥ इति [ळ्Bहाग्१.१.२१][*Eण्ड्ण्Oट्E ॰६] एष एवान्यत्राकारस्य प्रकाशस्य च भेदो ज्ञेयः ॥ श्रीनारदः ॥४२॥ [४३] तथैवाह । इत्याचरन्तं सद्धर्मान् पावनान् गृहमेधिनाम् । तमेव सर्वगृहेषु सन्तमेकं ददर्श ह ॥ [भागवतम् १०.६९.२५] सर्वगृहेषु तमे एव न तु तस्यांशान् । एकमेव सन्तं न तु कायव्यूहेन बहुरूपम् । एकं सन्तं बहुधा दृश्यमानमिति श्रुतेः । न चान्तर्न बहिर्यस्येत्यादिना [भागवतम् १०.९.११] विभुत्वसिद्धेश्च ह स्फुटमेव ददर्श भगवद्दत्तशक्त्या साक्षादेवानुभूतवान्, न तु केवलमनुमितवान् नारद इति शेषः । [४४] अतएव कृष्णस्यानन्तवीर्यस्य योगमायामहोदयम् । मुहुर्दृष्ट्वा ऋषिरभूद् विस्मितो जातकौतुकः ॥ [भागवतम् १०.६९.२५] तत्र च योगमाया दुर्घटघटनी चिच्छक्तिः । तृतीये [भागवतम् ३.१६.३७] सनकादीनां वैकुण्ठगमने योगमायाशब्देन परमेश्वरे तु प्रयुज्यमानेन चिच्छक्तिरुच्यते इति स्वामिभिरपि व्याख्यातमस्ति । जात कौतुको मुनिर्मुहुर्दृष्ट्वा विस्मितोऽभूत् । कायव्यूहस्तावत्तादृशेष्वपि बहुष्वेव सम्भवति । तं विनापि मध्यमाकारेऽपि तस्मिन् सर्व व्यापकत्व अपूर्वमिति तस्यापि विस्मयं हेतुर्नान्यथेति स्पष्टमेव यथोक्तं ज्ञेयम् । अनेन सर्वतः पाणिपादं तदिति तादृश्यां श्रीमूर्त्याम् एव व्याख्यातं भवति । अतएव न स्थानतोऽपि परस्योभयलिङ्गं सर्वत्र हि [Vस्. ३.२.११] इति सूत्रं तत्त्ववादिभिरेवं योजितम् । स्थानापेक्षयापि परमात्मनो न भिन्नं रूपं हि यस्मात्तद्रूपत्वं सर्वत्रैव । सर्व भूतेष्वेवमेव ब्रह्म इत्याचक्षत इति श्रुतेः । एक एव परो विष्णुः सर्वत्रापि न संशयः । ऐश्वर्याद्रूपमेकं च सूर्यवद्बधुधेयते ॥ इति मात्स्यात् । प्रतिदृशमिव नैकधार्कमेकं समधिगतोऽस्मि विधूतभेदमोहः ॥ इति [भागवतम् १.९.४२] भागवताच्चेति । एवं न भेदादिति चेन्न प्रत्येकमतद्वचनादित्य्[Vस्. ३.२.१२] एतस्य अपि चैवमेकमित्य्[Vस्. ३.२.१३] एतस्य च सूत्रस्य व्याख्यानं तद्भाष्ये दृश्यम् ॥ श्रीशुकः॥४३४४॥ [४५] तमिममहमजं शरीरभाजां हृदि हृदि धिष्ठितमात्मकल्पितानाम् । प्रतिदृशमिव नैकधार्कमेकं समधिगतोऽस्मि विधूतभेदमोहः ॥ [भागवतम् १.९.४२] तमिममग्रत एवोपविष्टं श्रीकृष्णं व्यष्ट्य्अन्तर्यामिरूपेण निजांशेन शरीरभाजां हृदि हृदि धिष्ठितम् । केचित्स्वदेहान्तर्हृदयावकाशे प्रादेशमात्रं पुरुषं वसन्तम् ॥ [भागवतम् २.२.८] इत्य्उक्तदिशा तत्तद्रूपेण भिन्नमूर्तिबद्धसन्तमपि एकमभिन्नमूर्तिमेव समधिगतोऽस्मि । अयं परमानन्दविग्रह एव व्यापकः । स्वान्तर्भूतेन निजाकार विशेषणान्तर्यामितया तत्र तत्र स्फुरतीति विज्ञानवानस्मि । यतोऽहं विधूतभेदमोहः । अस्यैव कृपया दुरीकृतो भेदमोहः । भगवद् विग्रहस्य व्यापकत्वासम्भावनाजनिततन्नानात्वविज्ञानलक्षणो मोहो यस्य तथाभूतोऽहम् । तेषु व्यापकत्वे हेतुरात्मकल्पितानामात्मन्येव परमाश्रये प्रादुष्कृतानामवलोकनं प्रति यथैक एवार्को वृक्ष कुड्याद्य्उपरिगतत्वेन तत्रापि कुत्रचिदव्यवधानं सम्पूर्णत्वेन सव्यवधानस्त्वसम्पूर्णत्वेनानेकधा दृश्यते तथेत्यर्थः । दृष्टान्तोऽयमेकस्यैव तत्र तत्रोदय इत्येतन्मात्रांशे । वस्तुतस्तु श्री भगवद्विग्रहोऽचिन्त्यशक्त्या तथा भासते । सूर्यस्तु दूरस्य विस्तीर्णात्मनास्वभावेनेति विशेषः । अथवा तं पूर्ववर्णितस्वरूपम् इममग्रत एवोपविष्टं शरीरभाजां हृदि हृदि सन्तमपि समधिगतोऽस्मि । यद्यप्यन्तर्यामिरूपमेतस्माद्रूपादन्याकारं तथाप्येतद्रूपमेवाधुना तत्र तत्र पश्यामि । सर्वतो महा प्रभावस्यैतस्य रूपस्यादेशभेदेऽप्यभेदबोधनाय ज्ञेयः । न तु पूर्णापूर्णत्वविवक्षायै । अमीलितदृग्व्यधारयदिति कृष्ण एवं भगवति मनोवाक्कायवृत्तिभिरित्युपक्रमोपसंहारादिभिरत्र श्री विग्रह एव प्रस्तूयते । ततो नेदं पद्यं ब्रह्मपरं व्याख्येयम् । तद् एवं परिच्छिन्नत्वापरिच्छिन्नत्वयोर्युगपत्स्थितेरचरं चरमेव चेत्य् एतदप्यत्र सुसङ्गच्छते । अतो विभुत्वेऽपि लीलया याथाथ्यं सिद्ध्यति ॥ भीष्मः श्रीभगवन्तम् ॥४५॥ [४६] एवं तस्य नित्यत्वविभुत्वे साधिते । तथैव व्याख्यातं श्रीस्वामिभिर् अष्टमस्य षष्ठे । अनाविराविरासेयं नाभूताभूदिति ब्रुवन् । ब्रह्माभिप्रैति नित्यत्वविभुत्वे भगवत्तनोरिति । तथा हि श्लोकद्वयं तट्टीका च अजातजन्मस्थितिसंयमाया गुणाय निर्वाणसुखार्णवाय । अणोरणिम्नेऽपरिगण्यधाम्ने महानुभावाय नमो नमस्ते ॥ रूपं तवैतत्पुरुषर्षभेज्यं श्रेयोऽर्थिभिर्वैदिकतान्त्रिकेण । योगेन धातः सह नस्त्रिलोकान् पश्याम्यमुष्मिन्नु ह विश्वमूर्तौ ॥ [भागवतम् ८.६.८९] इतीदम् । श्रीमूर्तेरयमाविर्भाव एव नत्वस्मद्_अदिवज्जन्मादि तदास्तीत्याह न जाता जन्मादयो यस्य । कुतः ? अगुणाय अतो निर्वाणसुखस्यार्णवाय अप्¸अरमोक्षसुखरूपायेत्यर्थः । तथापि अणोरणिम्न अतिसूक्ष्माय दुर्ज्ञातत्वात् । वस्तुतस्तु अपरिगण्यमियत्तातीतं धाम मूर्तिर्यस्य तस्मै । न चैतदसम्भावितम् । यतो महानचिन्त्योऽनुभावो यस्य । तन्मूर्तेः सनातनत्वमपरिमेयत्वं चोपपादयत्ति रूपमिति । हे पुरुषर्षभ! हे धातः ! एतत्तव रूपं वैदेकेन तान्त्रिकेण च उपायेन श्रेयोभिः सदा इज्यं पूज्यमतो नेदमपूर्वं जातमिति भावः । ननु यूयं देवाः पूज्यत्वेन प्रसिद्धाः सत्यं सर्वेऽप्यत्रैवान्तर्भूता इत्य् आह । उ अहो ह स्फुटममुष्मिंस्त्वयि नोऽस्मांस्त्रिलोकांश्च सह पश्यामि । तत्र हेतुः । विश्वं मूर्तौ यस्य अतस्तवैतद्रूपं परिच्छिन्नमपि न भवतीत्यर्थः । इत्येषा । अत्र निर्वाणसुखार्णवायेति अर्णवत्वरूपकेण निर्वाणसुखमात्रत्वं निरस्य ततोऽप्यधिकसहासुखत्वं दर्शितम् । तदुक्तं श्रीध्रुवेन या निर्वृतिस्तनुभृतां तव पादपद्म ध्यानाद्भवज्जनकथाश्रवणेन वा स्यात् । सा ब्रह्मणि स्वमहिमन्यपि नाथ मा भूत् किं त्वन्तकासिलुलितात्पततां विमानात् ॥ इति [भागवतम् ४.९.१०] तथा अणोरणिम्ने इति प्रोच्य अपरिमेयधाम्न इत्युक्तेरचिन्त्यशक्तित्व रूपेण महानुभावत्वेन सर्वपरिणामाधारत्वं तव दर्शितमिति ज्ञेयम् ॥ [४७] अथ स्थूलसूक्ष्मातिरिक्ततामाह द्वाभ्याम् । स वै न देवासुरमर्त्यतिर्यङ् न स्त्री न षण्ढो न पुमान्न जन्तुः नायं गुणः कर्म न सन्न चासन् निषेधशेषो जयतादशेषः ॥ [भागवतम् ८.६.२४] एवं गजेन्द्रमुपवर्णितनिर्विशेषं ब्रह्मादयो विविधलिङ्गभिदाभिमानाः नैते यदोपससृपुर्निखिलात्मकत्वात् तत्राखिलामरमयो हरिराविरासीत् ॥ [भागवतम् ८.६.३०] यस्य ब्रह्मादयो देवा[*Eण्ड्ण्Oट्E ॰७] इत्यादि प्राक्तनपद्यद्वयेन यस्मात्सर्वकारणकारणत्वं व्यञ्जितं तस्माद्देवादीनां मध्ये कोऽपि न भवति । वैलक्षण्यं सात्त्विकत्वभौतिकत्वादिहीनतैव स्त्रीत्व पुरुषत्वहीनता च प्राकृततत्तद्धर्मराहित्यम् । अतएव न षण्ड इत्य् उक्तम् । तस्मान्न कोऽपि जन्तुः । कारणभूतः सत्त्वादिर्गुणः पुण्यपाप लक्षणं कर्म च नेत्याह । नायं गुणः कर्मेति । तयोरपि प्रवर्तकत्वाद् इति भावः । किं बहुना, यदत्र सत्स्थूलमसत्सूक्ष्मं तदेकमपि न भ्वति स्वप्रकाशरूपत्वादिति भावः । किन्तु सर्वस्य निषेधेऽवधित्वेन शिष्यत इति शेषः । मायया तत्तद्अशेषात्मकश्च । जयतात्मद् विमोक्षणायाविर्भवत्विति । टीका च एवमुपवर्णितं निर्विशेषं देवादिरूपं विना परं तत्त्वं येन तं गजेन्द्रम् । विविधलिङ्गभिदाभिमानाः । विविधा चासौ लिङ्गभिदा देवादिरूपभेदश्च तस्याभिमानो येषामतएव ते ब्रह्मादयो यदा नोपजग्मुस्तत्र तदा निखिलात्मकत्वात्निखिलानां तेषां परमात्मसुख रूपत्वात्तद्विलक्षणो मायया अशेषात्मकत्वादखिलामरमयो हरिर् आविरासीदिति । एवमाविर्भावं प्रार्थयमाने श्रीगजेन्द्रे यद्रूपेणाविर्भूतं तत्खलु तादृशमेव भवितुमर्हतीति साधूक्तं स्थूलसूक्ष्मवस्त्व्अतिरिक्तस्तव श्रीविग्रह इति । अन्यथा त्वपाणिपादरूपत्वेनैव तच्चेतस्याविर्भूय तद् विदध्यात् । तदुक्तं स्वेच्छामयस्येति । श्लोकद्वयमिदं श्लोकान्तरव्यवहितमप्यर्थेनाव्यवहितत्वाद्युगलतयोपदध्रे ॥ प्रथमं गजेन्द्रः श्रीहरिम्, द्वितीयं श्रीशुकः ॥४७॥ [४८] अथ प्रत्यग्रूपतत्वमप्याह स त्वं कथं मम विभोऽक्षपथः परात्मा योगेश्वरैः श्रुतिदृशामलहृदिभाव्यः । साक्षादधोक्षज उरुव्यवसनान्धबुद्धेः स्यान्मेऽनुदृश्य इह यस्य भवापवर्गः ॥ [भागवतम् १०.६४.१८] टीका च हे विभो स त्वं ममाक्षपथः लोचनगोचरः एतच्चित्रमित्य् अर्थः । किमत्राश्चर्यं तदाह पर आत्मा अतएव योगेश्वरैरपि श्रुतिदृशा अमलहृदि विभाव्यश्चिन्त्यः । यतोऽधोक्षजः अक्षजमैन्द्रियकं ज्ञानं तदधः अर्वागेव यस्य सः । यस्य हि भवापवर्गो भवेत्तस्य भवान् अनुदृश्यः स्यातुरुव्यसनेन कृकलासभवदुःखेन अन्धबुद्धेस्तु मम एतच्चित्रमित्यर्थः । इत्येषा । दर्शनकारणं तूक्तं नारायणाध्यात्मे नित्याव्यक्तोऽपि भगवानीक्ष्यते निजशक्तितः । तामृते परमात्मानं कः पश्येतामृतं प्रभुम् ॥ इति । तादृशशक्तेरप्युल्लासे तत्कृपैव कारणम् । तदुक्तं श्रुतौ न चक्षुषा पश्यति रूपमस्य यमेवैष वृणुते तेन लभ्यस् तस्यैष आत्मा विवृणुते तनुं स्वाम् ॥ [Kअठऊ १.२.२३] न सन्दृशे तिष्ठति रूपमस्य । इत्यादिकं च कुत्रचित् । एवमेव मोक्ष धर्मे नारायणीये नारदं प्रति श्रीश्वेतद्वीपपतिनोक्तम् एतत्त्वया न विज्ञेयं रूपवानिति दृश्यते । इच्छन्मुहूर्तान्नश्येयमीशोऽहं जगतो गुरुः ॥ माया ह्येषा मया सृष्टा यन्मां पश्यसि नारद । सर्वभूतगुणैर्युक्तं नैवं त्वं ज्ञातुमर्हसि ॥ [ंBह्१२.३०६.४२४३] यथाऽन्यो रूपवानिति हेतोर्दृश्यते तथायमपीत्येतत्त्वया न ज्ञेयम् । ततश्च स्वय रूपित्वेऽप्यदृश्यत्वमुक्त्वा निजरूपस्याप्राकृतत्वमेव दर्शितम् । तद्दर्शने च परमकृपामय्यकुण्ढा ममेच्छैव कारणम् इत्याह । इ इच्छन्निति । नश्येयमदृश्यतामापद्येयम् । तत्र स्वातन्त्र्यं जगद् विलक्षणत्वं च हेतुमाह ईश इत्यादि । तथापि मां सर्वभूतगणैर् युक्तं यत्पश्यसि तद्युक्तत्वेन यत्प्रत्येषि एषा माया मयैव सृष्टा मम माययैव तथा भानमित्यर्थः । तस्मिन्नैवमित्यादि । मयात्र प्रतारणशक्तिः । तथा हि तत्रैव श्रीभाष्यवचनम् । प्रीतस्ततोऽस्य भगवान् देवदेवः सनातनः । साक्षात्तं दर्शयामास दृश्यो नान्येन केनचिद् ॥ इति । [ंBह्१२.३२३.११] तमुपरिचरं वसुं प्रति स्वात्मानमिति शेषः । तद्अग्रे च वस्व्आदि वाक्यम् । न शक्यः स त्वया द्रष्टुमस्माभिर्वा बृहस्पते । यस्य प्रसादं कुरुते स वै तं द्रष्टुमर्हति ॥ इति । [ंBह्१२.३२३.१८] तदेवं श्रुताव् अप्यदृश्यत्वादयो धर्माः श्रीविग्रहस्यैवोक्ताः । श्रुत्यन्तरं च न चक्षुषा पश्यति रूपमस्य । इति ॥ नृपः श्रीभगवन्तम् ॥४८॥ [४९] अतएव प्राकृतानि रूपादीनि निषिध्य अन्यानि सम्प्रतिपाद्यन्ते । न विद्यते यस्य च जन्म कर्म वा न नामरूपे गुणदोष एव वा तथापि लोकाप्ययसम्भवाय यः स्वमायया तान्यनुकालमृच्छति ॥ [भागवतम् ८.३.८] अयमर्थः । अवस्थान्तरप्राप्तिर्विकारः । तत्र प्रथमविकारो जन्मेति । अपूर्णस्य निजपूर्त्य्अर्था चेष्टा कर्मेति । मनोग्राह्यस्य वस्तुनो व्यवहारार्थं केनापि सङ्केतितः शब्दो नामेति । चक्षुषा ग्राह्यो गुणो रूपमिति । सत्त्वादिप्राकृतगुणनिदानो द्रव्यस्योत्कर्षहेतुर्धर्म विशेषो गुण इति प्रकृतिजे लोके दृश्यते । यस्य च सर्वदा स्वरूपस्थत्वात् पूर्णत्वात्मनसोऽप्यगोचरत्वात्स्वप्रकाशत्वात्प्रकृत्य्अतीत्वात्तानि न विद्यन्ते । तथापि यस्तानि ऋच्छति प्राप्नोति तस्मै नम इत्य्[भागवतम् ८.३.९] उत्तर श्लोकेनान्वयः । अतएव श्रुत्यापि निष्कलं निष्क्रियं शान्तमित्यादौ [श्वेतू ६.१९], अशब्दमस्पर्शमरूपमव्ययमित्यादौ [Kअठऊ १.३.१५] च तन् निषिध्यापि सर्वकर्मा सर्वकामः सर्वगन्धः सर्वरस इत्य्[Cहाऊ ३.१४.४] आदौ विधीयते । गुणदोष इति अपरमार्थत्वाद्गुण एव दोष इत्य् अर्थः । ततो रूढदोषस्तु सर्वथा न सम्भवत्येवेति वक्ष्यते । तथा च कौर्मे ऐश्वर्ययोगाद्भगवान् विरुद्धार्थोऽभिधीयते । तथापि दोषाः परमे नैवाहार्यः कथञ्चन । गुणा विरुद्धा अपि तु समाहार्याश्च सर्वतः ॥ इति । अयमात्मापहतपाप्मा । इत्याद्याः [Cहाऊ ८.७.१] श्रुतयश्च । एतं संयद्वाम इत्यावक्षते एतं सर्वाणि वामानि नयति एष उ एव भामणीः एष सर्वेषु वेदेषु भातीत्य्[Cहा ४.१५.२] आद्या च । अतएव सर्व गन्ध इत्यादौ गन्धादिशब्देन सौगन्ध्यादिकमेवोच्यते । यदा तु ऋच्छतिनान्वयस्तु गुणस्य दोषत्वेन रूपकमविवक्षितं श्रुतिविरुद्धत्वात् परमार्थत्वेन प्रतिपादयिष्यमाणत्वाच्च । नन्वेकत्र तेषां जन्मादीनां भावाभावयोर्विरोध इत्याशङ्क्य तद् विरोधे हेतुमाह स्वमायया इति । अन्यथानुपपत्तिप्रमिता दुस्तर्क्या स्वरूपशक्तिरेव तत्र हेतुः । अतएव स्वरूपभूतत्वेन तेभ्यः प्राकृतेभ्यो विलक्षणत्वात्तान्यपि न विद्यन्त इति च वक्तुं शक्यत इति भावः । यथा शाङ्करशारीररके समाकर्षादित्य्[Vस्. १.४.१५] अत्र नाम रूपव्याकृतवस्तुविषयः स्वच्छन्दः प्रायेण प्रसिद्ध इति तद् व्यकरणाभावापेक्षया प्राग्उत्पत्तेः सदेव ब्रह्मश्रुतावसदित्युच्यते इत्युक्तं तथैव ज्ञेयम् । अतएव श्रीविष्णुपुराणे गुणांश्च दोषांश्च मुने व्यतीत इत्य्[Vइড়् ६.५.८३] उक्त्वा पुनराह समस्तकल्याणगुणात्मको हीति [Vइড়् ६.५.८४] । तथा ज्ञानशक्तिबलैश्वर्यवीर्यतेजांस्यशेषतः । भगवच्छब्दवाच्यानि विना हेयैर्गुणादिभिः ॥ इति [Vइড়् ६.५.७९] पाद्मोत्तरखण्डे च योऽसौ निर्गुण इत्युक्तः शास्त्रेषु जगद्ईश्वरः । प्राकृतैर्हेयसंयुक्तैर्गुणैर्हीनत्वमुच्यते ॥ इति । न च स्वमाययेत्यन्यथार्थं मन्तव्यम् । विशुद्धविज्ञानघनं स्वसंस्थया समाप्तसर्वार्थमयी वाञ्छितम् । स्वतेजसा नित्यनिवृत्तमाया गुणप्रवाहं भगवन्तमीमहि ॥ इति [?][*Eण्ड्ण्Oट्E ॰८] श्रीनारद वाक्यात् । स्वसुखनिभृतेद्यादि[*Eण्ड्ण्Oट्E ॰९] । वक्तृहृदयविरोधाच्च । ततः सर्वथा चिच्छक्त्या इत्यर्थः । अतः स्वामिभिरपि योगमायाशब्देन चिच् छक्तिर्व्याख्याता । ननु प्राप्नोति कदाचित्कत्वमप्यवगम्यते, तत्राह अनुकालं नित्यमेव प्राप्नोति, कदाचिदपि न त्यजतीत्यर्थः । स्वरूपशक्तिप्रकाशित्वस्य च मिथो हेतुमत्ता ज्ञेया । ननु कथं जन्मकर्मणोर्नित्यत्वम् ? ते हि क्रिये । क्रियात्वं च प्रति निजांशमप्यारम्भपरिसमाप्तिभ्यामेव सिध्यतीति ते विना स्वस्वरूप हान्य्आपत्तिः । नैष दोषः । श्रीभगवति सदिवाकारानन्त्यात् प्रकाशानन्त्यात्जन्मकर्मलक्षणलीलानन्त्यादनन्तप्रपञ्चानन्त वैकुण्ठगततत्तल्लीलास्थानतत्तल्लीलापरिकराणां व्यक्तिप्रकाशयोर् आनन्त्याच्च । यत एवं सत्योरपि तत्तद्आकारप्रकाशगतयोस्तद्आरम्भ समाप्त्योरेकत्रिकत्र ते जन्मकर्मणोरंशा यावत्समाप्यन्ते न समाप्यन्ते वा तावदेवान्यत्राप्यारब्धा भवतीत्येवं श्रीभगवति विच्छेदाभावान्नित्ये एव तत्र ते जन्मकर्मणी वर्तेते । तत्र ते क्वचित् किञ्चिद्विलक्षणत्वेनारभ्येते ते क्वचिदैकरूप्येण चेति ज्ञेयम् । विशेषण भेदाद्विशेषणैक्याच्च । एक एवाकारः प्रकाशभेदेन पृथक्क्रियास्पदं भवतीति । चित्रं बतैतदेकेन वपुषा इत्यादौ प्रतिपादितम् । ततः क्रियाभेदात्तत्तत्क्रियात्मकेषु प्रकाशभेदेष्वभिमानभेदश् च गम्यते । तथा सति एकत्रैकत्र लीलाक्रमजनितरसोद्बोधश्च जायते । ननु कथं ते एव जन्मकर्मणी वर्तेते इत्युक्तं पृथग्आरब्धत्वादन्ये एव ते । उच्यते । कालभेदेनोदितानामपि समानरूपाणां क्रियाणाम् एकत्वम् । यथा शङ्करशारीरके । द्विर्गोशब्दोभयमुच्चरितो न तु द्वौ गोशब्दाविति । तथैव द्विः पाकः कृतोऽनेन न तु द्विधा पाकः कृतोऽनेनेति प्रतीत्या भविष्यति । ततो जन्मकर्मणोरपि नित्यता युक्तैव । अतएवागमादावपि भूतपूर्वलीलोपासनविधानं युक्तम् । तथा चोक्तम् मध्वभाष्ये परमात्मसम्बन्धित्वेन नित्यत्वात्त्रिविक्रमत्वादिष्वप्य् उपसंहार्यत्वं युज्यते इति । अनुमतं चैतत्श्रुत्या यद्गतं भवच्च भविष्यच्चेत्यनयैव । उपसंहार्यत्वमुपासनायामुपादेयत्वमित्य् अर्थः । तत्र तस्य जन्मनः प्राकृतात्तस्माद्विलक्षणत्वं प्राकृत जन्मानुकरणेनाविर्भावमात्रत्वं क्वचित्तद्अननुकरणेन वा । अजायमाना बहुधा विजायत इति श्रुतेः । तद्यथा देवक्यां देवरूपिण्यां विष्णुः सर्वगुहाशयः । आविरासीद्यथा प्राच्यां दिशीन्दुरिव पुष्कलः ॥ इति [भागवतम् १०.३.८] तथा च सत्यं विधातुं निजभृत्यभाषितं व्याप्तित्वं च भूतेष्वखिलेषु चात्मनः । अदृश्यतात्य्अद्भूतरूपमुद्वहन् स्तम्भे सभायां न मृगं न मानुषम् ॥ इति [भागवतम् ७.८.१७] कार्दमं वीर्यमापन्न इत्यत्र [भागवतम् ३.२४.६] श्रीकपिलदेवावतार प्रसङ्गे कर्दमस्य भक्तिसामर्थ्यवशीभूत इत्येव व्याख्येयम् । वीर्यशब्दन्यासस्तु प्रसिद्धं पुत्रत्वमपि श्लिष्टं भवतीत्येवम् अर्थः । तथा कर्मणो वैलक्षण्यं स्वरूपानन्दविलासमात्रत्वम् । तद् यथा लोकवत्तु लीलाकैवल्यमिति [Vस्२.१.३३] । व्याख्यातं च तत्त्ववादिभिः । यथा लोके मत्तस्य सुखोद्रेकादेव नृत्यादिलीला न तु प्रयोजनापेक्षया एवमेवेश्वरस्य । नारायणसंहितायां च सृष्ट्यादिकं हरिर्नैव प्रयोजनमपेक्ष्य तु । कुरुते केवलानन्दाद्यथा मत्तस्य नर्तनम् ॥ पूर्णानन्दस्य तस्येह प्रयोजनमतिः कुतः । मुक्ता अव्याप्तकामाः स्युः किमुतास्यखिलात्मनः ॥ इति । न चोन्मत्तदृष्टान्तेनासर्वज्ञत्व प्रसञ्जयितव्यम् । स्वरूपानन्दोद्रेकेण स्वप्रयोजनमननुसन्धायैव लीलायते इत्येतदंशेनैव स्वीकारात् । उच्छ्वासप्रश्वासदृष्टान्तेऽपि सुष्प्त्य्आदौ तद्दोषापातात् । तस्मात् स्वरूपानन्दस्वाभाविक्येन तल्लीला । श्रुतिश्च देवस्यैव स्वभावोऽयम् आप्तकामस्य का स्पृहा । इति । अत्र प्राकृतसृष्ट्य्आदिगतस्य साक्षाद्भगवच्चेष्टात्मकस्य वीक्षणादि कर्मणो वस्तुतस्तु तथाविधत्वे वैकुण्ठादिगतस्य कैमुत्यम् एवापतितम् । यथोक्तं नागपत्नीभिः अव्याकृतविहाराय इति [भागवतम् १०.१६.४७] । अतएव श्रीशुकादीनामपि तल्लीलाश्रवणे रागतः प्रवृत्तिर्युज्यते । अतश्च एवं च जन्मानि कर्माणि ह्यकर्तुरजनस्य च । वर्णयन्ति स्म कवयो वेदगुह्यानि हृत्पतेः ॥ इति [भागवतम् १.३.३५] अत्र जन्मगुह्याध्यायपद्येऽप्येवमेव व्याख्येयम् । यत्रेमे सद्असद् रूपे [भागवतम् १.३.३३४] इत्यादिभ्यामव्यवहितपद्याभ्यां यथा स्वरूप सम्यग्ज्ञानेनैव कृतस्याविद्याकृतात्माध्याससद्असद्रूपनिषेधस्य हेतोर्ब्रह्मदर्शनं भवति । यथा च मायोपरतावेव स्वरूप सम्पत्तिर्भवति इत्युक्तम् । एवमेव कवय आत्मारामा हृत्पतेः परमात्मनो जन्मानि कर्माणि च वर्णयन्ति । तत्तत्प्रतिषेधे तद्उपरतौ चैव सत्यां तज्जन्मकर्मानुभवसम्पत्ती भवत इत्यर्थः । सम्पत्तिर् अत्र साक्षाद्दर्शनम् । तस्मात्स्वरूपानन्दातिशयितभगवद्आनन्द विलासरूपाण्येव तानीति भावः । अतएव प्राकृतवैलक्षण्यादकर्तुर् अजनस्य इत्युक्तम् । अतएव वेदगुह्यान्यपि तानीति । यथा अक्रूरस्तुतौ त्वयोदितः [भागवतम् १०.४८.२३२४] इत्यादि द्वयं टीकायामेवेत्थमुत्थापितम् । ननु तर्हि ममावतारास्तच्चरितानि च शुक्तिरजतवदविद्याकल्पितान्येव किम् ? नहि नहि इयं तु तव लीलेत्याह द्वयेन त्वयोदित इतीति । तथैव च भगवत्स्वरूपसाम्येनोक्तं वैष्णवे नामकर्मस्वरूपाणि न परिच्छेदगोचरे । यस्याखिलप्रमाणानं स विष्णुर्गर्भगस्तव ॥ इति । [Vइড়् ५.२.१९] रूपकर्मेति वा पाठान्तरम्[*Eण्ड्ण्Oट्E ॰१०] । इत्थमेवाभिप्रेतं श्री गीतोपनिषद्भिः जन्मकर्म च मे दिव्यमेवं यो वेत्ति तत्त्वतः । इति । [गीता ४.९] तथा नाम्नो वैलक्षण्यं वाङ्मनसागोचरगुणावलम्बित्वेन स्वतः सिद्धत्वम् । तद्यथा वासुदेवाध्यात्मे अप्रसिद्धेस्तद्गुणानाम् अनामासौ प्रकीर्तितः इति । ब्राह्मे अनामा सोऽप्रसिद्धत्वादरूपो भूत वर्जनातिति । न यत्र नाथ विद्यन्ते नामजात्यादिकल्पनाः । तद्ब्रह्म परमं नित्यमविकारि भवानज ॥ न कल्पनामृतेऽर्थस्य सर्वस्याधिगमो यथः । ततः कृष्णाच्युतानन्तविष्णुनामभिरीड्यसे ॥ इति ॥ [Vइড়् ५.१८.५३५४] एतद्वैष्णववचनानन्तरमपि न विरुद्धम् । तथा हि । अत्रापाततः प्रतीतार्थतायां कल्पनाशब्दो व्यर्थः स्यात् । नामजात्य्आदयो न विद्यन्ते । इत्यनेनैव विवक्षितार्थसिद्धेः । स्वयमेव ब्रह्माजादिशब्दानां परमार्थप्रतिपादकनामतया स्वीकृतश्च । अजामेकां लोहितशुक्ल कृष्णाम् [श्वेतू ४.५] इत्यादिष्वजायमानत्वलक्षणजातिश्च दृश्यत एव । तथा नामादिकल्पना न विद्यन्ते इत्युक्ता स्वयं कृष्णादिनामकल्पनोक्तिर् विरुद्धा स्यात्कल्पनया वा कथमीडयता स्यात्कल्पनाया अनियतत्वाच्च कथं कृष्णादिनामनियत्यमुच्यते । तस्मान्नामकर्मस्वरूपाणीत्य् अनुसाराच्चायमर्थः । यथा यत्र नामजात्य्आदीनां नामनि कृष्णादीनि जातयो देवत्वमनुष्यत्वक्षत्रियत्वादिलीलाः तदादीनां कल्पना न विद्यन्ते । किन्तु स्वसंस्थया समाप्तसर्वार्थमित्युक्तदिशा स्वरूपसिद्धनित्य शक्तिविलासरूपाण्येव तानीत्यर्थः । ततश्च यतो यस्मात्सर्वस्यापि दृष्टस्य वस्तुनः कल्पनां नामादिरचनामृते अधिगमो व्यवहारिक बोधो न भवति । ततस्तस्मादेव हेतोः कल्पनामयं नाम तन्नामिनं चार्थ सर्वमवज्ञाय निखिलप्रमाणपरिच्छेदागोचरत्वेन वेदात्मतया स्वतःसिद्धैः कृष्णादिनामोपलक्षणैः प्रसिद्धैरेव नामभिः स्वतः सिद्धस्त्वमेवेड्यसे मुनिभिर्वेदैश्च श्लाघ्यसे । न तु कल्पनामयैर् अन्यैस्त्वमपि श्लाघ्यसे तादृशमहिमभिस्तैरेव तव महिमा व्यक्तीभवतीति । यद्वा । तैरेवेड्यसे व्यक्तमाहात्मीक्रियस इति । अत्र यैः शास्त्रेऽतिप्रसिद्धैः श्रीभगवानेव झटिति प्रतीतो भवति । येषां च साङ्केत्यादावपि तादृशप्रभावः श्रूयते । तेषां स्वतः सिद्धत्वम् अन्येषां कल्पनामयत्वं ज्ञेयम् । अथवा हे नाथ। यत्र नामजात्यादीनां कल्पना न विद्यन्ते तत्कवलविशेषरूपं परमं ब्रह्म भवान् । तत्तत्कल्पनाया अविषयत्वे हेतुः । विशेषेण करोति लीलायत इति विकारि तथा न भवतीत्यविकारि इति । तद्रूपेण न जायते न प्रकटीभवतीति हे अजेति । ततः किमवलम्ब्य तत्र नामजात्य्आदिकल्पनाः क्रियन्तामिति भावः । तत् तत्कल्पनां विना च सर्वस्याप्यर्थस्य वस्तुमात्रस्याधिगममात्रं न भवेत् । किमुत तादृशब्रह्मस्वरूपस्य भवतः । कल्पनामयनाम जात्य्आदयस्तु न कस्यापि स्वरूपधर्मा भवन्ति यत एवं ततः साङ्केत्यादिना भावितैरपि भवद्वत्सर्वपुरुषार्थप्रदैस्तत्तद् विशेषप्रतिपादकैः कृष्णादिनामभिरेव त्वमीड्यसे नित्यसिद्धश्रुति पुराणादिभिः श्लाघ्यसे न तु निर्विशेषताप्रतिपादकैर्नितरां कल्पनामयैरित्यर्थः । किन्तु कृष्णादीनां चतुर्णां नाम्नामुपलक्सणत्वमेव ज्ञेयम् । नारायणादिनाम्नामपि साङ्केत्यादौ तथा प्रभावश्रवणात् । वर्ण एव तु शब्द इति भगवानुपवर्ष इत्यनेन तस्य च नित्यत्वादित्यनेन च न्यायेन वर्णतयैव नित्यत्वमस्य वेदसारवर्णात्मकनाम्नः सिध्यति । तथैव गोपालतापनीश्रुतौ नाममयाष्टदशाक्षरप्रसङ्गे ब्रह्म वाक्यम् तेष्वक्षरेषु भविष्यज्जगद्रूपं प्रकाशयन्न् [ङ्टू १.२६] इति । अत्रावतारकालजातशब्दादिमयजगत्कारणत्वेन तद्वैलक्षण्यात् स्वतःसिद्धत्वं तथा भगवत्स्वरूपाभिन्नत्वं च तद्वैलक्षण्यं नाम्नः । तद्यथा श्रुतौ ओमास्य जानन्तो नाम चिद्विविक्तन्महस्ते विष्णो सुमतिं भजामहे । ओं तत् सदित्यादि । अयमर्थः । हे विष्णो! ते तव नाम चित्चित्स्वरूपमतएव महः स्व प्रकाशरूपम् । तस्मादस्य नाम्नः आ ईषदपि जानन्तः न तु सम्यग् उच्चारमाहात्म्यादिपुरस्कारेण । तथापि विवक्तन् ब्रुवाणाः केवलं तद् अक्षराभ्यासमात्रं कुर्वाणाः सुमतिं तद्विषयां विद्यां भजामहे प्राप्नुमः । यतस्तदेव प्रणवव्यञ्जितं वस्तु सत्स्वतःसिद्धमिति । अतएव भयद्वेषादौ श्रीमूर्तेः स्फूर्तेरिव साङ्केत्यादावप्यस्य मुक्तिदत्वं श्रूयते । तथा चोक्तं पाद्मे अप्यन्यचित्तः क्रुद्धो वा यः सदा कीर्तयेद्धरिम् । सोऽपि बन्धक्सयान्मुक्तिं लभेच्चेदिपतिर्यथा ॥ इति । तथा श्रीभगवत इव तस्य नाम्नः सकृदपि साक्षात्कारः संसार ध्वंसको भवति । यथा स्कान्दे सकृदुच्चारितं येन हरिरित्यक्षरद्वयम् । बद्धः परिकरस्तेन मोक्षाय गमनं प्रति ॥ इति श्रुतौ च प्रणवमुद्दिश्य । ओमित्येतत्ब्रह्मणो नेदिष्टं नाम यस्मादुच्चार्यमाण एव संसारभयात्तारयति तस्मादुच्यते तार इत्यादि बहुतरम् । न चास्यार्थवादत्वं चिन्त्यम् । तथार्थवादो हरिनाम्नि कल्पनमिति पद्मपुराणानुसारेणापराधापातात् । यस्य तु गृहीतनाम्नोऽपि पुनः संसारस्तस्य नानुव्रजति यो मोहाद् व्रजन्तं परमेश्वरम् । ज्ञानाग्निदग्धकर्मापि स भवेद्ब्रह्म राक्षस इति श्रीविष्णुभक्तिचन्द्रोदयादिप्रमाणितपुराणवचनवन् महदपराधतद्अर्थवादकल्पनादिकं प्रतिबन्धकं ज्ञेयम् । अतएवानन्दरूपत्वमस्य महद्धृदयसाक्षिकं प्रतिबन्धकं ज्ञेयम् । अतएवानन्दरूपत्वमस्य म्हद्धृदयसाक्षिकं यथा श्रीविग्रहस्य । तदुक्तं श्रीशौनकेन तदश्मसारं हृदयं बतेदं यद्गृह्यमाणैर्हरिनामधेयैः । न विक्रियेताथ यदा विकारो नेत्रे जलं गात्ररुहेषु हर्षः ॥ [भागवतम् २.३.२४] अतएव प्रभासपुराणे कण्ठोक्त्या कथितैर्हेतुभिः सकलवेदफलत्वेन च भगवत्स्वरूपत्वमेव प्रतिपादितम् । मधुरमधुरमेतन्मङ्गलं मङ्गलानां सकलनिगमवल्लीसत्फलं चित्स्वरूपम् । सकृदपि परिगीतं श्रद्धया हेलया वा भृगुवर नरमात्रं तारयेत्कृष्णनाम ॥ इति ॥ तस्माद्भगवत्स्वरूपमेव नाम । स्पष्टं चोक्तं श्रीनारद पञ्चरात्रेऽष्टादशाक्षरमुद्दिश्य व्यक्तं हि भगवानेव साक्षान्नारायणः स्वयम् । अष्टाक्षरस्वरूपेन मुखेषु परिवर्तते ॥ इति । माण्डुक्योपनिषत्सु च प्रणवमुद्दिश्य ओमित्येतदक्षरमिदं सर्वं [ंाण्डू १] । ओंकार एवेदं सर्वम् [Cहाऊ २.२३.३] । प्रणवो ह्यपरं ब्रह्म प्रणवश्च परं स्मृतम् । अपूर्वोऽनन्तरोऽबाह्योऽनपरः प्रणवोऽव्ययः ॥ सर्वस्य प्रणवो ह्यादिर्मध्यमन्तस्तथैव च । एवं हि प्रणवं ज्ञात्वा व्यश्नुते तद्अनन्तरम् ॥ प्रणवं हीश्वरं विद्यात्सर्वस्य हृदये स्थितम् । सर्वव्यापिनमोङ्कारं मत्वा धीरो न शोचति ॥ अमात्रोऽनन्तमात्रश्च द्वैतस्योपशमः शिवः । ओङ्कारो विदितो येन स मुनिर्नेतरो जनः ॥ इति [ंाण्डूक्यकारिका २६२९] न तु परमेश्वरस्यैव तत्तद्योग्यतास्मभवाद्वर्णमात्रस्य तथोक्तिः स्तुतिरूपैवेति मन्तव्यम् । अवतारान्तरवत्परमेश्वरस्यैव वर्ण रूपेणावतारोऽयमिति अस्मिन्नर्थे तेनैव श्रुतिबलेनाङ्गीकृते तद्अभेदेन तत्सम्भवात् । तस्मान्नामनामिनोरभेद एव । तदुक्तं पाद्मे नाम चिन्तामणिः कृष्णश्चैतन्यरसविग्रहः । पूर्णः शुद्धो नित्यमुक्तोऽभिन्नत्वान्नामनामिनोः ॥ इति ॥ अस्यार्थः नामैव चिन्तामणिः सर्वार्थदातृत्वात् । न केवलं तादृशमेव अपि तु चैतन्यादिलक्षणो यः कृष्णः स एव साक्षात् । तत्र हेतुरभिन्नत्वाद् इतीति । ननु, तथाविधं नामादिकं कथं पुरुषेन्द्रियजन्यं भवति । न, वेदमात्रस्य भगवतिव पुरुषेन्द्रियादिष्वाविर्भावनात् । यथोक्तम् एकादशे स्वयं श्रीभगवता शब्दब्रह्म सुदुर्बोधमित्य्[भागवतम् ११.२१.३६] आरभ्य, मयोपबृंहितं भूम्ना ब्रह्मणानन्तशक्तिना । भूतेषु घोषरूपेण विशेषपूर्णेव लक्ष्यते ॥ [भागवतम् ११.२१.३७] इति ॥ द्वादशस्य षष्ठे वेदव्यसनप्रसङ्गे क्षीणायुषः इत्यादौ [भागवतम् १२.६.४७] । टीका च तर्हि पुरुषबुद्धिप्रभवत्वान्नादरणीयं स्यादित्य् आशङ्क्याह हृदिस्थाच्युतचोदिता इति । कस्मै येन विभासितोऽयमित्यादौ [भागवतम् १२.१३.१९] तद्रूपेणेत्यादिवत् । एतत् सर्वमभिप्रेत्य गर्भस्तुतावुक्तम् न नामरूपे गुणजन्मकर्मभिर् निरूपितव्ये तव तस्य साक्षिणः । मनोवचोभ्यामनुमेयवर्त्मनो देव क्रियायां प्रतियन्त्यथापि हि ॥ [भागवतम् १०.२.३६] इति ॥ तथारूपस्यापि वैलक्षण्यं स्वप्रकाशतालक्षणस्वरूप शक्त्यैवाविर्भावित्वम् । तच्च पूर्वदर्शितम् । अतएव द्वितीये, आत्मतत्त्वविशुद्ध्य्अर्थं यदाह भगवानृतम् । ब्रह्मणे दर्शयन् रूपमव्यलीकव्रतादृतः ॥ इत्य्[भागवतम् २.९.४] अत्र । टीका च यच्चोक्तमष्टमाध्यये परमेश्वरस्यापि देह सम्बन्धाविशेषात्कथं तद्भक्त्या मोक्षः स्यादिति । आसीद्यदुदरात् पद्ममित्यादिना [भागवतम् २.८.८] तत्राह आत्मतत्त्वविशुद्ध्य्अर्थमिति । आत्मनो जीवस्य तत्त्वविशुद्ध्य्अर्थं तत्त्वज्ञानार्थं तद्भवेदेव । किं तद्यत्तप्आदिना स्वभजनं भगवान् ब्रह्मण आह । किं कुर्वन्, ऋतं सत्यं चिद्घनं रूपं दर्शयन् । दर्शने हेतुरव्यलीकेन तपसादृतः सेवितः सन् । अयं भावः । जीवस्याविद्यया मिथाभूतदेहसम्बन्धः । ईश्वरस्य तु योगमायया चिद्घनविग्रहाविर्भाव इति महान् विशेषः । अतस् तद्भजने म्क्सोपपत्तिरिति । इत्येषा ॥ अतएव, स त्वं त्रिलोकस्थितये [भागवतम् १०.३.१७१८][*Eण्ड्ण्Oट्E ॰११] इत्यादिद्वये श्रीमद्आनकदुन्दुभिनापि समाहितम् । अत्र ह्ययमर्थः स प्रपञ्चस्य सृष्टिस्थितिप्रलयकर्ता त्वं त्रिलोकस्थितये यदा तस्य स्थितम् इच्छसि । तदा स्वमायया स्वाश्रितया मायाशक्त्या कृत्वा आत्मनः शुक्लं वर्णं स्वेन सृष्टां धर्मपरां विप्रादिजातिं बिभर्षि पालयसि । अत्र सत्त्वमय्येव स्वमाया ज्ञेया निष्कृष्टत्वादुपयुक्तत्वाच्च । अथ यदा सर्गमिच्छसि तदा रजसा रजोमय्या स्वमायया कृत्वा उपबृंहितं रक्तं कामिनं विप्रादिवर्णं बिभर्षि । यदा च जनात्ययमिच्छसि तदा तमोमय्या कृत्वा कृष्णं मलिनं पापरतं तं बिभर्षि । अथवा यदा स्थितिमिच्छसि तदात्मनः श्रीविष्णुरूपस्य शुक्लं शुद्धं गुणसङ्कररहितमित्यर्थः । शिवब्रह्मवत्तस्य तत्सङ्गाभावात् । तथैव सिद्धान्तितं श्रीशुकदेवेन शिवः शक्तियुतः शश्वत्त्रिलिङ्गो गुणसंवृतः [भागवतम् १०.८८.३] इत्यादौ, हरिर्हि निर्गुणः साक्षात्पुरुषः प्रकृतेः परः [भागवतम् १०.८८.५] इत्यादि । अतएव चन्द्रिकाविशदस्मेरैः सारुणापाङ्गवीक्षितैः । स्वकार्थानामिव रजः सत्त्वाभ्यां स्रष्ंृपालकाः ॥ [भागवतम् १०.१३.५०] इति । अत्र सात्त्विकत्वराजसत्त्वे उत्प्रेक्षिते एव, न तु वस्तुतया निरूपिते । वर्णं रूपं, न तु कान्तिमात्रम् । गुणमयत्वस्वीकारेऽपि तत्तद्गुण व्यञ्जकाकारस्याप्यपेक्ष्यत्वात्न तु श्वेतं वर्णमिति व्याख्येयम् । श्री विष्णुरूपस्य पालनार्थं गुणावतारस्य परमात्मसन्दर्भे क्षीरोद शायित्वेन स्थापयिष्यमाणस्य तत्र श्यामत्वेनातिप्रसिद्धेः । जनात्यय हेतो रुद्रस्य श्वेततातिप्रसिद्ध्या तद्वैपरीत्यपातात् । तथैव हि गोभिलोक्तसन्ध्योपासनायाम् अतोऽत्र ब्रह्मणो न शोणवर्णत्वे तात्पर्यम् । न च तत्तद्गुणानां तत्तद्वर्णनियमः । परमतामसानां बकादीनां श्यामत्वश्रवणात् । स्वमायया भक्तेषु कृपया बिभर्षि जगति धारयसि प्रकटयसीत्यर्थः । रक्तं रजोमयत्वेन सिसृक्सादिराग बहुलम् । कृष्णं तमोमयत्वेन स्वरूपप्रकाशरहितमित्यर्थः । पार्थिवाद्दारुणो धूमस् तस्मादग्निस्त्रयीमयः । तमसस्तु रजस्तस्मात् सत्त्वं यद्ब्रह्मदर्शनम् ॥ [भागवतम् १.२.२४] इत्युक्तेः । ननु, कथमन्यार्थेन वाक्येन लोकभ्रामकं वर्णयसि, यतः सम्प्रति जनात्ययआर्थं कृष्णोऽयं वर्णो मया तमसा गृहीत इत्यर्थोऽप्यायाति तद् एतदाशङ्क्य परिहरन्नाह त्वमस्य इति [भागवतम् १०.३.२१][*Eण्ड्ण्Oट्E ॰१२] । निर्व्यूह्यमाना इतस्ततश्चाल्यमानाः । अयं भावः आस्तां तावद्ब्रह्म घनत्वशुद्धसत्त्वमयत्वबोधकं प्रमाणान्तरं, गुणानुरूप रूपाङ्गीकारेऽपि यथा प्रलयस्य दुःखमात्रहेतुत्वात्सुषुप्तिरूपत्वाच्च तत्र तद्अर्थावसरो भवति तथास्य तु कालस्य त्वकृतरक्षया जगत्सुख हेतुत्वात्तमोमयासुरविनाशयोग्यत्वात्तेषामसुराणामपि हनन व्याजेन सर्वगुणातीतमोक्षात्मकप्रसादलाभात्तद्अर्थावसरो न भवति, सैन्धवमानवेतिवत् । तथैवोक्तम् जयकाले तु सत्त्वस्य देवर्षीन् रजसोऽसुरान् । तमसो यक्षरक्षांसि तत्कालानुगुणोऽभजत् ॥ इति [भागवतम् ७.१.८] तस्मान्न तमःकृतोऽयं वर्ण इति रजःसत्त्वाभ्यां रक्तशुक्लावेव भवत इति पूर्वपक्षिमतम् । ततश्च पारिशेष्यप्रमाणेन स्वरूपशक्ति व्यञ्जितत्वमेवात्रापि पर्यवस्यति इति भावः । तथैव तमेवार्थं श्री देवकीदेव्यपि सम्भ्रमेण प्रागेव विवृतवती रूपं यत्तत्प्राहुर्… अव्यक्तमाद्यामिति [भागवतम् १०.३.२४] । अथ प्रकृतमनुसरामः । तथा गुणस्य वैलक्षण्यमात्मारामाणामप्य् आकर्षणलिङ्गगम्याद्भूतरूपत्वम् । तद्यथा श्रीसूतोक्तौ आत्मारामाश्च मुनय [भागवतम् १.७.१०] इत्यादौ । हरेर्गुणाक्षिप्तमतिर्[भागवतम् १.७.११] इत्यादि च । अतएवोक्तं विष्णुधर्मोत्तरे गुणाः सर्वेऽपि युज्यन्ते ह्यैश्वर्यात्पुरुषोत्तमे । दोषाः कथञ्चिन्नैवात्र युज्यन्ते परमो हि सः ॥ गुणदोषौ माययैव केचिदाहुरपण्डिताः । न तत्र माया मायी वा तदीयौ तौ कुतो ह्यतः ॥ तस्मान्न मायया सर्वं सर्वमैश्वर्यसम्भवम् । अमायो हीश्वरो यस्मात्तस्मात्तं परमं विदुः ॥ इति ॥ अथ न विद्यते इत्यस्य प्रकृतश्लोकस्य व्याख्यातावशेषः । तदेवं स्वरूपशक्तिविलासरूपत्वेन तेषां प्राकृताद्वैलक्षण्यं साधितम् । तत्र आशङ्कते । ननु भवन्तु स्वस्वरूपभूतान्येव तानि तथापि स्वरुपस्यैव पूर्णत्वात् तत्तत्प्राप्तौ किं प्रयोजनं तत्राह लोकाप्ययसम्भवाय । लोको भक्त जनः तस्याप्ययः संसारध्वंसस् तत्पूर्वकः सम्भवो भक्तिसुख प्राप्तिः । भू प्राप्तौ तदर्थमेतदप्युपलक्षणं नित्यपार्षदानाम् अपि भक्तिसुखोत्कर्षार्थम् । तदुक्तं श्रीमद्अर्जुनेन प्रथमे तथायं चावतारस्ते भुवो भारजिहीर्षया । स्वानां चानन्यभावानामनुध्यानाय चासकृत् ॥ इति [भागवतम् १.७.२५] । अस्यार्थः यथान्ये पुरुषादयोऽवतारास्तथायं चावतारः साक्षाद् भगवतः श्रीकृष्णाख्यस्य तवैव प्राकट्यं, परमभक्ताया भुवो भारजिहीर्षया जातोऽपि । अन्येषां स्वानां भक्तानामसकृच्च मुहुरप्य् अनुध्यानाय निजभजनसौख्याय भवति । ननु तर्हि भक्तसौख्यमेव प्रयोजनं जातमिति पूर्णानन्दस्य तस्येह प्रयोजनमतिः कुत इत्येतत्कथमुपपद्येत । तत्राह अनन्यभावानाम् इति । अन्यथा सर्वज्ञशिरोमणेर्निर्दोषस्य तस्य तन्मात्रापेक्षकानां तेषामुपेक्षायामकारुण्यदोषः प्रयुज्येत इति भावः । आत्मारामेऽपि कारुण्यगुणावकाशो गुणा विरुद्धा अपि तु समाखार्याश्च सर्वत इति स्मरणात्विचित्रगुणनिधाने श्रीभगवत्येव सम्भवति । ततोऽन्यत्र तु सञ्चरिततद्गुणांशे तदीय एव यः प्रतिपदमेव साश्चर्यं श्रुत्य्आदिभिर् उच्चैर्गीयते । यश्चाविरिञ्चिमापामरजनमाकर्षन्नेव वर्तते । तद् उक्तं स्वयमेव भजतोऽपि न वै केचिद्भजन्त्यभजतः कुतः । आत्मारामा ह्याप्तकामा अकृतज्ञा गुरुद्रुहः ॥ नाहं तु सख्यो भजतोऽपि जन्तून् भजाम्यमीषामनुवृत्तिवृत्तये ॥ इत्यादि [भागवतम् १०.३२.१९२०] । तस्मात्परमसमर्थस्य तस्य कृपालक्षणं भक्तजनसुख प्रयोजनकत्वं नाम कोऽपि स्वरूपानन्दविलासभूतपरमाश्चर्य स्वभावविशेष इति मूलपद्येऽप्यनुकालमृच्छतीत्यनेनैव [भागवतम् ८.३.८] दर्शितम् । अतः प्रयोजनान्तरमतित्वं तु तस्मिन्नास्त्येव । तत् प्रयोजनत्वं च तस्य परमसमर्थस्यानन्दविलास एवेति दिक् । यथोक्तम् कृपालोरसमर्थस्य दुःखायैव कृपालुता । समर्थस्य तु तस्यैव सुखायैव कृपालुता ॥ इति ॥ गजेन्द्रः श्रीहरिम् ॥ ४९ ॥ [५०] तस्मादपाणिपादश्रुतेरपि यदनन्तस्वप्रकाशानन्दविग्रह एव भगवति तात्पर्यं नान्यत्रेति प्रतिपादयन्ति । त्वमकरणः स्वराडखिलकारकशक्तिधरस् तव बलिमुद्वहन्ति समदन्त्यजयानिमिषाः । वर्षभुजोऽखिलक्सितिपतेरिव विश्वसृजो विदधति यत्र ये त्वधिकृता भवतश्चकिताः ॥ [भागवतम् १०.८७.२८] अयमर्थः । अत्र करणं नाम वास्यादिवत्कर्तृशक्तिप्रेरिततया कार्यकरं कर्तुर्भिन्नतमं केवलकरणत्वापन्नमेव वस्त्वङ्गीकृतं, न तु स्वरूपत्वापन्नमपि यत्तदपि । यथा दहनादौ तच्छक्त्यादिकम् । गौणार्थत्वात्स्वराट्पदनिरुक्तौ स्वेनेति तृतीयान्तपदस्य स्वरूप शक्तावेव पर्यवसानाच्च । ततो जीवस्य चिद्रूपत्वात्पाण्यादीनां स्वतो जडत्वात्तद्अधीनशक्तीनां तेषां भिन्नतमानां करणत्वं मुख्यार्थमेव । ततोऽसौ तद्आसक्तत्वात्सकरणः त्वं तु तद्अन्तर्यामी तद्अनासक्तत्वात्तद्अनपेक्षो यतः स्वराट्स्वरूपशक्त्यैव राजसे इति । तथा प्रलयकालावसाने । स्त्रिय उरुगेन्द्रभोगभुजदण्डविषक्तधियो वयमपि ते समाः समदृशोऽङ्घ्रिसरोजसुधाः ॥ [भागवतम् १०.८७.२३] इति विद्वद्गणगुरुभिरस्माभिरपि निजालम्बनत्वेन वर्ण्यमानपरम दिव्यकरणगणविचित्रोऽप्यसौ अकरण एव । कुतः स्वराट्स्वेन स्वरूप शक्तिविशेषसिद्धप्रादुर्भावविशेषेषेण स्वरूपेणैव तत्तत्करणतया राजसे । तेषां स्वरूपभूतत्वेन मुख्यकरणत्वायोगादिति भावः । अन्यथौपाधिकवस्तुद्वारा तवापि प्रकाशे कथं नाम स्वराट्त्वं सिध्येदिति च । आनन्दमात्रमजरं पुराणमेकं सन्तं बहुधा दृश्यमानं नेह नानास्ति किञ्चन इत्यादि श्रुतेः [Bआऊ ४.४.१९] । आनन्दमात्रकरपाद मुखोदरादिरित्यादि स्मृतेश्[णार्ড়ञ्च्] च । ननु, मयि तथाभूतस्वरूपशक्तीनामस्तितायां किं प्रमाणम् । तत्राहुर् अखिलकारकशक्तिधर इति । अखिलेभ्यः प्राणिभ्यः कारकाणि करणानि चकुषुर्आदिगोलकानि तेषु शक्तीश्चेन्द्रियाणि धरसि ददासीति तथा । सर्वेषु तेषु तत्तद्धारणात् । तास्तु त्वयि स्वतःसिद्धा अव्ययाः पूर्णा एव सन्तीति भावः । तथा च श्रुतिः प्राणस्य प्राणमुत चक्षुषश्चक्षुरिति आद्या [Kएनऊ १.२] । स्वाभाविकी ज्ञानबलक्रिया च इत्याद्या च [श्वेतू ६.८] । तदुक्तमेकादशे यस्येन्द्रियस्तनुभृतामुभयेन्द्रियाणि ज्ञानं स्वतः श्वसनतो बलभोज ईहा ॥ इति [भागवतम् ११.४.४] अतएव विकरणत्वान्नेति चेत्तदुक्तमित्य्[Vस्२.१.३२] अत्र सूत्रकारोऽपि तद् उक्तमित्यनेन श्रुतेस्तु शब्दमूलत्वादित्य्[Vस्. २.१.२७] उक्तरीत्यैव श्रुत्य् एकगम्यं तर्कातीतं तस्य विकरणत्वं सकरणत्वं च साधितवान् । श्रुतिश् च न तस्य कार्यं करणं च विद्यते इत्य्[श्वेतू ६.८] आद्या । अथवा, अखिलकारकशक्तिधरोऽपि त्वमसावकरण एवेत्यन्वयः । कुतः ? स्वराडित्यादि । अतः सर्वतो विलक्षणमहिमत्वादनिमिषा देवा इन्द्रादयस्तत्पूज्या विश्वसृजो ब्रह्मादयोऽपि तव तुभ्यं बलिमुपहारं तदुच्चैः शिरोभिर्वहन्ति । अजया तेषामधिकारिण्या माययापि सहिताः । सापि आभासशक्तिरूपा स्वरूपानन्दशक्तिमयाय तुभ्यमात्मसम्पद् उद्भावार्थं बलिम् हरतीत्यर्थः । समदन्ति च मौष्यैर्दत्तं हव्य कव्य्आदिलक्षणं बलिं भक्षयन्ति च । अत्र दृष्टान्तः वर्षभुज इति । वर्षं खण्डमण्डलम् । कथं बलिमुद्वहन्ति ? तदाहुः विदधतीति । त्वाज्ञापालनमेव बलि हरणमित्यर्थः । भीषास्माद्वातः पवते भीसोदेति सूर्यः भीषास्माद् अग्निश्चेन्द्रश्च मृत्युर्धावति पञ्चमः इति [Kअठ २.३.३] श्रुतेः । अथवा, ननु मम पाण्य्आदिकरणानां स्वरूपभूतत्वे युक्ति कथयत्यत आहुः अनिमिषाः करणाधिष्ठातृदेवास्तव बलिमुद्वनतीति । आज्ञान देवत्वाद्विश्वसृजः विश्वेषां सृष्टिहेतवः । अन्ये तत्तद्अधिष्ठातृ देवताश्रयादेव करणैर्विषयं प्रकाशयितुं शक्नुवन्ति । त्वं पुनस् तेषामप्याश्रय इति त्वत्करणानां स्वप्रकाशतापत्तेः स्वरूपभूतत्वम् एवेति । अथाप्यास्तां महाशक्तिर्मायैवाश्रय इत्यत आहुः अजयेति । ननु जीवा अपि निजेन्द्रियाधिष्ठातातॄणामाश्रया भवन्ति । तत्राहुः विदधतीति । विषय भोगद्वारेएष्विन्द्रियेषु भवता विश्वपतिना दत्ताधिकाराणां देवानाम् एवाधिकार्याः कतिपयग्रामभौमिका इव जीवा इति न तेषामाश्रयाः । किन्तु भवानेव तेषामधिकारकत्वादाश्रय इति भावः ॥ १०।८७॥ श्रुतयः श्रीभगवन्तम् ॥५०॥ [५१] तस्माद्विलक्षणपाणिपादादित्वेनैवापाणिपादादित्वम् । यथाह त्वक्श्मश्रुरोमनखकेशपिनद्धमन्तर् मांसास्थिरक्तकृमिविट्कफपित्तवातम् । जीवच्छवं भजति कान्तमतिविमूढा या ते पदाब्जमकरन्दमजिघ्रती स्त्री ॥ [भागवतम् १०.६०.४५] अथ श्रीभगवति केशादीनां श्रूयमाणानामानन्दस्वरूपत्वमन्येषां त्वभाव एवेति वैलक्षण्यं स्पष्टमेव । अतएव हि हिरण्यकशिपुं प्रति तन्मारकजननिषेधलक्षणब्रह्मवरदानमपि सङ्गच्छते । व्यसुभिर्वासुमद्भिर्वा सुरासुरमहोरगैरिति [भागवतम् ७.३.३७] । न चैतत् करणस्य निषेधपरं, किन्तु कर्तुरेव । कर्तृप्रकरणातप्राणिभिः प्राणिभिर्वेत्युक्तेस्तस्यैव प्राप्तत्वात् । हन्तुर्जीवद्[*Eण्ड्ण्Oट्E ॰१३] देहसाम्येऽपि सप्राणभागान्निष्क्रान्तस्य कर्तनीय[*Eण्ड्ण्Oट्E ॰१४] नखाग्रभागस्य त्यक्तप्राणत्वाच्च । तस्मादस्माकमप्राणो ह्यमनाः शुभ्र इति । अस्य महतो भूतस्य निःश्वसितमेतदिति [Bआऊ २.४.१०] च श्रुतिर्नासङ्गतेति । अतएव वाराहे न यस्य प्राकृता मूर्तिर्मेदोमज्जास्थिसम्भवा । न योगित्वादीश्वरत्वात्सत्यरूपोऽच्युतो विभुर् ॥ इति ॥ तच्चाप्राकृतमूर्तित्वं तस्य महायोगित्वादिच्छाकृतमिति न, किन्त्व् ईश्वरत्वान्नित्यमेवेत्यर्थः । तथा च प्रयोगः । ईश्वरः सविग्रहः ज्ञानेच्छाप्रयत्नवत्कर्तृत्वात्कुलालादिवत् । स च विग्रहो नित्यः ईश्वर करर्णत्वात्तज्ज्ञानादिवदिति । अतएव विलक्षणत्वमपि । जीवच्छवमिति चैतन्ययोगेन जीवन्तं स्वतस्तु शवम् । ततः श्रीभगवद्विग्रहस्तु चिद् एकरसत्वात्सदा जीवन्नेवेति वैलक्षण्यं युक्तं नित्यानन्दचिद्रूपत्वाद् भजनीयत्वं च युक्तमिति भावः ॥ ॥ १०.६० ॥ श्रीरुक्मिणी श्रीभगवन्तम् ॥५१॥ [५२] नामरूपित्वविधिनिषेधश्रुतिभिर्विवदमानानां विवादावसरे तदेव ह्यपपादयति । अस्तीति नास्तीति च वस्तुनिष्ठयोर् एकस्थयोर्भिन्नविरुद्धधर्मणोः अवेक्षितं किञ्चन योगसाङ्ख्ययोः समं परं ह्यनुकूलं बृहत्तत् ॥ [भागवतम् ६.४.३२] अस्तीति योगः स्थूलोपासनाशास्त्रं, तत्र हि यद्भगवतो नामरूपित्वं श्रूयते तद्दृष्टकल्पनालाघवात्घटपटादिलक्षणाखिलनाम धेयत्वं पातालपादादिकत्वं चेति विधीयते । नास्तीति साङ्ख्यं ज्ञान शास्त्रं तत्र हि निषेधश्रुतिभिस्तस्य नामरूपित्वं यन्निषिध्यते तत् प्रापञ्चिकनामरूपित्वस्य कल्पितत्वात्सर्वथैव नास्तीति निश्चीयते । तद् उक्तमुभयमतस्यैव प्राक् । स सर्वनामा स च विश्वरूपः इत्यादिना यद्यन्निरुक्तं वचसा निरूपितमित्यादिना च [भागवतम् ६.४.२८२९] । अस्तीति नास्तीति च वस्तुनि निष्ठा ययोः । तमेव विवादं स्फुटयति, भिन्नौ अस्तीति नास्तीत्येवम्भूतौ विरुद्धौ धर्मौ ययोस्तयोः । नन्वास्तामनयोर्भिन्नविषयत्वं नेत्याह एकस्थयोः समानविषयोः । तदेवं विवादे सति यत्किञ्चित्समं समञ्जसत्वेनैव अवेक्षितं प्रतीतं वस्तु तद्द्वयोरपि बृहन्महदनुकूलं भवति । किं तत्समञ्जसं ? यत् परं नामरूपादत्यन्ततद्अभावाच्च विलक्षणं किमपि नामरूप लक्षणमेव वस्त्वित्यर्थः । एतदुक्तं भवति । एकस्मिन्नेव वस्तुनि नामरूपित्वविधिनिषेधाभ्यां परस्परं श्रुतयः पराहतार्थाः स्युः । अत्र तु परत्वेनोभयत्रापि प्राक्तनयुक्त्या समञ्जसमप्राकृतनामरूपित्वमेव विधिनिषेध श्रुतितात्पर्येनोपस्थाप्यत इति तत्तन्मतं विवादमात्रम् । इत्थमेवात्र श्रीध्रुवेण निर्विवादत्वमुक्तम् तिर्यङ्नगद्विजसरीसृपदेवदैत्य मर्त्यादिभिः परिचितं सद्असद्विशेषम् रूपं स्थविष्ठमज ते महद्आद्य्अनेकं नातः परं परम वेद्मि न यत्र वादः ॥ इति [भागवतम् ४.९.१३] । अत्र रूपशब्दस्यैवोभयत्र विशेष्यत्वेन । भूप रूपमरूपं च परं चापरमेव च इति [Vइড়् ६.७.४७] वैष्णववाक्यानुसारेण च । अतः परं चतुर्भुजादित्वलक्षणं रूपं वपुरित्यर्थः । तच्चाग्रे दर्शयिष्यते । [५२] तन्न वेद्मि एतत्पर्यन्तं कालं नाज्ञासिषमित्यर्थः । तदेव व्यनक्ति । योऽनुग्रहार्थं भजतां पादमूलम् अनामरूपो भगवाननन्तः । नामानि रूपाणि च जन्मकर्मभिर् भेजे स मह्यं परमः प्रसीदतु ॥ [भागवतम् ६.४.३३] यो नामरूपरहित एव नामानि रूपाणि च भेजे प्रकटितवान् । जन्म कर्मभिः सह तानि च प्रकटितवानित्यर्थः । व्यतिरेके दोषमाह अनन्त इति । यदि तस्मिन्नामरूपित्वादिकं नास्ति तर्हि तच्छक्तिमत्त्वं प्रति सान्तत्वमेव प्रसज्येतेति । तदुक्तं प्रचेतोभिः न ह्यन्तस्त्वद् विभूतीनां सोऽनन्त इति गीयसे इति [भागवतम् ४.३०.३१] । तत्तत्प्रकाशने हेतुः । भगवान् भगात्मकशक्तिमान् । तस्याः शक्तेर्मायात्वम् निषेधति परमः । पराख्यशक्तिरूपा मा लक्ष्मीर्यस्मिन् । अन्यथा परमत्व व्याघातः स्यादिति भावः । तस्मान्न मायया सर्वं सर्वमैश्वर्यसम्भवम् । अमायो हीश्वरो यस्मात्तस्मात्तं परमं विदुः ॥ इत्युक्तेः । ननु, सर्वनामविश्वरूपत्वे तद्राहित्ये च सन्त्येव तत्तद्उपासकाः प्रमाणम् । अत्र तु के स्युरित्याशङ्क्याह पादमूलं भजताम् अनुग्रहार्थमिति । योगसाङ्ख्ययोस्तत्तत्त्वं न सम्यक्प्रकाशते, किन्तु भक्तावेव । भक्तिरेवैनं दर्शयति इत्यादि श्रुतेः । तस्माद्युक्तं तयोर् विवादमात्रत्वमिति भावः । अतएव वक्ष्यतेऽनन्तरमेव इति संस्तुवतस्तस्य स तस्मिन्नघमर्षणे । प्रादुरासीत्कुरुश्रेष्ठ भगवान् भक्तवत्सलः ॥ कृतपादः सुपर्णांस इत्यादेः [भागवतम् ६.४.३५६] पादमूलं भजतामित्यनेन तान् प्रति रूपप्राकट्यात्पूर्वमपि रूपम् अस्त्येवेति व्यञ्जितम् । चरणं पवित्रं विततं पुराणमित्यादि श्रुतेः । भेज इत्यतीतनिर्देशः प्रामाण्यदार्ढ्यायानादित्वं बोधयति । अनन्तपदस्य च नामानि रूपाणि चानन्तान्येवेति भावः । अत्र प्राकृतनामरूपरहितोऽपि इति टीका च ॥ ॥ ६.४ ॥ दक्षः श्रीपुरुषोत्तमम् ॥५२॥ [५३] तदेवं नित्यत्वाद्विभुत्वात्सर्वाश्रयत्वात्स्थूलसॣक्ष्माप्राकृतवस्त्व् अतिरिक्तत्वात्प्रत्यरूपत्वात्स्वप्रकाशत्वात्सर्वश्रुतिसमन्वयसिद्धत्वात् तद्रूपं परमतत्त्वरूपमेवेति सिद्धम् । तथैव हि परम् वैदुष्येणानुभूतं स्पष्टमेवाह त्रिभिः रूपं यदेतदवबोधरसोदयेन शश्वन्निवृत्ततमसः सद्अनुग्रहाय । आदौ गृहीतमवतारशतैकबीजं यन्नाभिपद्मभवनादहमाविरासम् ॥ नातः परं परम यद्भवतः स्वरूपम् आनन्दमात्रमविकल्पमविद्धवर्चः । पश्यामि विश्वसृजमेकमविश्वमात्मन् भूतेन्द्रियात्मकमदस्त उपाश्रितोऽस्मि ॥ तद्वा इदं भुवनमङ्गल मङ्गलाय ध्याने स्म नो दर्शितं त उपासकानाम् । तस्मै नमो भगवतेऽनुविधेम तुभ्यं योऽनादृतो नरकभाग्भिरसत्प्रसङ्गैः ॥[भागवतम् ३.९.२४] टीका च ननु त्वमपि सम्यक्न जानासि यत्त्वया दृष्टं रूपमेतदपि गुणात्मकमेव निर्गुणं ब्रह्मैव तु सत्यं तत्राह रूपमिति द्वाभ्याम् । अवबोधरसोदयेन शश्वन्निभृतं तमो यस्मात्तस्य तव यदेतद् रूपं त्वयैव स्वातन्त्र्येण सतामुपासकानामनुग्रहाय गृहीतम् आविष्कृतम् । अवतारशतस्य शुद्धसत्त्वात्मकस्य यदेकं बीजं मूलम्, तत्प्रकाशनार्थं गुणावतारबीजत्वं दर्शयति यन्माभातीति । हे परम अबिद्धवर्चः अनावृतप्रकाशमविकल्पं निर्भेदमतएवानन्दमात्रम् । एवम्भूतं यद्भवतः स्वरूपं तततो रूपात्परं भिन्नं न पश्यामि किन्तु इदमेव तत् । अतः कारणात्ते तव अद इदं रूपमाश्रितोऽस्मि । योग्यत्वादपीत्याह एकमुपास्येषु मुख्यं यद्विश्वसृजम् । अतएव अविश्वं विश्वस्मादन्यत् । किं च, भॣतेन्द्रियात्मकं भूतानामिन्द्रियाणां चात्मानं कारणमित्यर्थः । नन्वेवमपि सोपाधिकमेतदर्वाचीनमेवेत्याशङ्क्याह तदेवेदं हे भुवनमङ्गल यतस्ते त्वया अस्माकमुपासकानां मङ्गलाय ध्याने दर्शितम् । न ह्यव्यक्तवर्त्माभिनिवेशितचित्तानामस्माकं सोपाधिकं दर्शनं युक्तमिति भावः । अतस्तुभ्यं नमोऽनुविधेम अनुवृत्त्या करवाम । तर्हि किमिति केचिन् मां नाद्रियन्ते, तत्राह योऽनादृत इति । असत् प्रसङ्गैर्निरीश्वरकुतर्कनिष्ठैः । इत्येषा ॥ अत्र कल्पितमप्यर्थान्तरं यस्य विद्वद्गुणगुरुत्वान्न सम्भवत्य् एवेति व्यञ्जितम् । न ह्यव्यक्तवर्त्मेति । उक्तं चैतत्स्तुतितः प्राकव्यक्त वर्त्माभिनिवेशितात्मा [भागवतम् ३.८.३३] इति । मां नाद्रियन्ते इति विग्रहरूपं माम् इत्येवार्थः । विग्रह्यैव परब्रह्मत्वेन स्थापितत्वात् । अतएव ये विग्रहम् एतादृशतया न मन्यन्ते ते विद्वदनुभवविरुद्धमतयो नेश्वरमपि मन्यन्त इत्यत आह निरीश्वर इति । यत एव ये तु त्वदीयचरणाम्बुजकोषगन्धं जिघ्रन्ति कर्णविवरैः श्रुतिवातनीतम् । भक्त्या गृहीतचरणः परया च तेषां नापैषि नाथ हृदयाम्बुरुहात्स्वपुंसाम् ॥ [भागवतम् ३.९.५] इत्यनन्तरपद्ये तुशब्देन योऽनादृत इत्य्आद्य्उक्तेभ्यो बहिर्मुख जनेभ्यो विलक्षणत्वेन निर्दिष्टानां तादृशश्रीभगवद्रूपनिष्ठानाम् एव श्रुतिवातनीतमिति शब्देन प्रमाणेन भक्त्या गृहीतचरण इत्य् अनुभवेन च प्राशस्त्यमुक्तम् ॥ ३.९ ॥ ब्रह्मा श्रीनारायणम् ॥५३॥ [५४] आवेशावतारतया प्रतीतस्य श्र्यृषभदेवस्यापि विग्रह एवं योज्यते, यथा इदं शरीरं मम दुर्विभाव्यं सत्त्वं हि मे हृदयं यत्र धर्मः । पृष्ठे कृतो मे यदधर्म आराद् अतो हि मामृषभं प्राहुरार्याः ॥ [भागवतम् ५.५.१९] इदं मनुष्याकारशरीरं हि निश्चितं दुर्विभाव्यं दुर्वितर्क्यं यत्तत्त्वं तदेव । यत्रैव धर्मो भागवतलक्षणस्तत्रैव मे हृदयं मनः । यद् यस्मात्तद्विपरीतादिलक्षणोऽधर्मो मया पृष्ठे कृतः । ततः पराङ् मुखोऽहमित्यर्थः । अतएव वक्तुरस्य ऋषभदेवस्य च सर्वान्तिमलीलापि व्याजेनान्तर्धानमेव प्राकृतलोकप्रतीत्य्अनुसारेणैव तु तथा वर्णितम् । आत्मारामतारीतिदर्शनार्थम् । तदुक्तम् योगिनां साम्परायविधिम् अनुशिक्षयनिति [भागवतम् ५.६.६] । अतः स्वकलेवरं जिहासुरित्यत्र कएवर शब्दस्य प्रपञ्च एवार्थः । उपासनाशास्त्रे तस्य तथा प्रसिद्धेः । तथा अथ समीरवेगविधूतवेणुविकर्षणजातोग्रदावानलस्तद् वनमालेलिहानः सह तेन ददाह इत्य्[भागवतम् ५.६.८] अस्य वास्तवार्थे तु तेन सहेति कर्तृसाहाय्ये तृतीया । गौणमुख्यन्यायेन कर्तर्येव प्राथमिक प्रवृत्तेः । ततश्च दावानलस्तद्वनवर्तितर्वादिजीवानां स्थूलं देहं ददाह, ऋषभदेवस्तु सूक्ष्मं देहमिति तस्य सर्व्=मोक्सदत्वम् अनुसन्धेयम् । स यैः स्पृष्टोऽभिदृष्टो वा संविष्टोऽनुगतोऽपि वा । कोसलास्ते ययुः स्थानं यत्र गच्छन्ति योगिनः ॥ [भागवतम् ९.११.२२] इतिवत् । ततोऽनलसाधर्म्यं वर्णयित्वा तद्वदन्तर्धानमेव तस्येति च व्यञ्जितम् । अतएव ऋषभदेवाविर्भावस्तृतीयोऽध्याय इत्येवोक्तं न तु तज्जन्मेति ॥ ५।५॥ श्र्यृषभदेवः स्वपुत्रान् ॥५४॥ [५५] तदेवमृषभस्यापि विग्रहे तादृशता चेत्किमुत स्वयं भगवत इत्याह मुनिगणनृपवर्यसङ्कुलेऽन्तः सदसि युधिष्ठिरराजसूय एषाम् । अर्हणमुपपेद ईक्षणीयो मम दृशिगोचर एष आविरात्मा ॥ [भागवतम् १.९.४१] टीका च एष जगतामात्मा मम दृशिगोचरो दृष्टिपथः सन्नाविः प्रकटो वर्तते । अहो भाग्यमिति भावः इत्येषा ॥ १।९॥ श्रीभीष्मः श्री भगवन्तम् ॥५५॥ [५६] तथैव च रूपं यत्तदित्यादौ स त्वं साक्षाद्विष्णुरध्यात्मदीपः [भागवतम् १०.३.२४] इति ।[*Eण्ड्ण्Oट्E ॰१५] यत्तत्किमपि रूपं वस्तु प्राहुर्वेदाः । किं तद्वस्तु, तदाह अव्यक्तम् इत्यादि । एवम्भूतं किमपि कार्यकल्पं वस्तु यत्स एव साक्षादैषि गोचरस्त्वं विष्णुरिति । तथा च पाद्मे निर्माणखण्डे श्रीभगवन्तं प्रति श्रीवेदव्यासवाक्यम् त्वामहं द्रष्टुमिच्छामि चक्षुर्भ्यां मधुसूदन । यत्तत्सत्यं परं ब्रह्म जगद्योनिं जगत्पतिम् । वदन्ति वेदशिरसश्चाक्षुषं नाथ मेऽस्तु तद् ॥ इति । तत्र हेतुः अध्यात्मदीपः देहि तत्कारणकार्यसङ्घ प्रकाशकत्वेनावभासन इत्यर्थः । एवम्भूतस्य न तव भयशङ्केति भावः । इत्येष प्रकरणानुरूपः श्रीस्वामिदर्शितभावार्थोऽपि श्री विग्रहपर एव । अन्यत्र भयसम्भावनानुत्पत्तेः ॥ १०.३ श्रीदेवकी श्रीभगवन्तम् ॥५६॥ [५७] अतस्तद्अंशानामपि तादृशत्वमाह सत्यज्ञानानन्तानन्द मात्रैकरसमूर्तयः । अस्पृष्टभूरिमाहात्म्या अपि ह्युपनिषद्दृशाम् ॥ [भागवतम् १०.१३.५४] टीका च सर्वेषां मूर्तिमत्त्वेऽप्यविशेषमाह सत्यज्ञानेति । सत्याश्च ज्ञानरूपाश्च अनन्ताश्च आनन्दरूपाश्च । तत्रापि तद्एकमात्रा विजातीय सम्भेदरहिताः । तत्रापि च एकरसाः सदैकरूपा मूर्तयो येषां ते । यद् वा सत्यज्ञानादिमात्रैकरसं यद्ब्रह्म तदेव मूर्तिर्येषामिति । अतएव उपनिषतात्मज्ञानं सैव दृक्चक्षुर्येषां तेषामपि हि निश्चितम् । अस्पृष्टभूर्माहात्म्याः न स्पृष्टं स्पर्शयोग्यं भूरिमाहात्म्यं येषां ते तथाभूताः सर्वे व्यदृश्यन्तेति । इत्येषा । अत्र मात्रपदं तद्वर्णादीनां स्वरूपान्तरङ्गधर्मत्वं बोधयति । न ह्यत्रापरस्मिन्नर्थे मूर्तिशब्दः केवलात्मपर इति स्वामिनः श्री शुकदेवस्य वा मतम्, लक्षणायाः कष्टकल्पनामयत्वात् । अस्पृष्टेत्यत्र अस्पृष्टेति भूरिमाहात्म्येति अपीति उपनिषद्दृगिति पदचतुष्टयस्यैव व्यस्तस्य समस्तस्य च स्वारस्यभङ्गप्रसङ्गातुक्तप्रकारानुरोधात् तेऽचक्षताक्षविषयं स्वसमाधिभाग्यमित्यद्य्उदाहरिष्यमाणानुसारात् [भागवतम् ३.१५.३८] स्वसुखेत्यादि [भागवतम् १२.१२.६८] श्रीशुकहृदयविरोधाच्च । अतएव विशुद्धविज्ञानघनं [भागवतम् १०.३७.२०] विशुद्धज्ञानमूर्तये [भागवतम् १०.२७.२१] त्वय्येव नित्यसुखबोधतनाव्[भागवतम् १०.१४.२२] इत्यादि वाक्यानि च न लाक्षणिकतया कदर्थनीयानि । तथैव आनन्दमूर्तिमुपगुह्य दृशात्मलब्धमित्यादौ [भागवतम् १०.४१.२५] दोर्भ्यां स्तनान्तरगतं परिरभ्य कान्तम् आनन्दमूर्तिमजहादतिदीर्घतापम् । इत्यादौ [भागवतम् १०.४८.६] च दर्शनालिङ्गनाब्यामन्यार्थत्वं व्यवच्छिद्यते । उक्तं च महावाराहे सर्वे नित्याः शाश्वताश्च देहास्तस्य परात्मनः । हेयोपादेयरहिता नैव प्रकृतिजाः क्वचित् ॥ परमानन्दसन्दोहा ज्ञानमात्राश्च सर्वतः । देहदेहिभिदा चात्र नेश्वरे विद्यते क्वचित् ॥ इति ॥ १०.१३ ॥ श्रीशुकः ॥५७॥ [५८] इत्थमेवाभिप्रेत्याह कृष्णमेनमवेहि त्वमात्मानमखिलात्मनाम् । जगद्धिताय सोऽप्यत्र देहीवाभाति मायया ॥ [भागवतम् १०.१४.५५] एनं नौमीड्य तेऽभ्रवपुषे इत्य्[भागवतम् १०.१४.१] आदिवर्णितरूपमवेहि मत् प्रसादलब्धविद्वत्तयैवानुभवो न तु तर्कादीनां विचारयेत्यर्थः । एवम्भूतोऽपि मायया कृपया जगद्धिताय सर्वस्यापि स्वात्मानं प्रति चित्ताकर्षणाय देहीव जीव इवाभाति क्रीडति । इवशब्देन श्रीकृष्णस्तु जीववत्पृथग्देहं प्रविष्टवानिति गम्यते । अतएव श्रीविग्रहस्य परम पुरुषार्थलक्षणत्वमुक्तं श्रीध्रुवेण सत्याशिषो हि भगवंस्तव पादपद्मम् आशीस्तथानुभजतः पुरुषार्थमूर्तेः [भागवतम् ४.९.१७] इत्यत्र । टीका च हे भगवन् पुरुषार्थः परमानन्दः स एव मूर्तिर्यस्य तस्य् अतव पादपद्ममाशिषो राज्यादेः सकाशात्सत्या । आशीः परमार्थफलं हि निश्चितं कस्य तेन प्रकारेण त्वमेव पुरुषार्थ इत्येवं निष्कामतया अनुभ्जतः । इत्येषा ॥ १०.१४ ॥ श्रीशुकः ॥५८॥ [५९] अतः शब्दप्रतिपाद्यं यद्ब्रह्म तच्छ्रीविग्रह एवेत्युपसंहारयोग्यं वाक्यमाह तावत्प्रसन्नो भगवान् पुष्कराक्षः कृते युगे । दर्शयामास तं क्षत्तः शाब्दं ब्रह्म दधद्वपुः ॥ [भागवतम् ३.२१.७] तद्वपुर्दधत्प्रकाशयन्नसौ शुक्लाख्यो भगवान् कृते युगे वर्तते । तदेव शब्दप्रतिपाद्यं ब्रह्म परमतत्त्वं तं कर्दमं प्रति दर्शयामासेत्यर्थः ॥ ॥ ३.२१ ॥ श्रीमैत्रेयः ॥५९॥ [६०] तदेवं सिद्धे भगवतस्तादृशे वैलक्षण्ये दृश्यत्वात्घटवदित्याद्य सद्अनुमानं न सम्भवति कालात्ययोपदिष्टत्वात् । तदेतदभिप्रेत्य तस्मिन् सत्यतापुरस्कृतं षड्भावविकाराद्यभावं स्थापयन् पूर्ण स्वरूपत्वमभुपगच्छति । एकस्त्वमात्मा पुरुषः पुराणः सत्यः स्वयं ज्योतिरनन्त आद्यः । नित्योऽक्षरोऽजस्रसुखो निरञ्जनः पूर्णोऽद्वयो मुक्त उपाधितोऽमृतः ॥ [भागवतम् १०.१४.२०] नौमीड्य ते [भागवतम् १०.१४.१] इत्यादिना स्तुत्यत्वेन प्रतिज्ञारूपोऽयमभ्र वपुर्आदिलक्षणत्वमेक एव सर्वेषामात्मा परमाश्रयः । तदुक्तम् एकोऽसि प्रथममिति [भागवतम् १०.१४.१८] इति च । कृष्णमेनमवेहि त्वमात्मानम् अखिलात्मनामिति च [भागवतम् १०.१४.५५] । यतस्त्वमात्मा तत एव सत्यः । परमाश्रयस्य सत्यतामबलम्ब्यैवान्येषां सत्यत्वात्त्वय्येव सत्यत्वस्य मुख्या विश्रान्तिरिति भावः । तदुक्तम् सत्यव्रतं सत्यपरमित्यादि [भागवतम् १०.२.२६] । सत्ये प्रतिष्ठितः कृष्णः सत्यमत्र प्रतिष्ठितम् । सत्यात्सत्यं च गोविन्दस्तस्मात्सत्यो हि नामतः ॥ इत्युद्यमपर्वणि [ंBह् ५.६८.१२] च । न च त्वयि जन्मादयो विकाराः सन्तीत्याह आद्यः कारणम् । एकोऽसि प्रथममित्यादौ [भागवतम् १०.१४.१८] तादृशत्वदृष्टेः । अतो न जन्म, किन्तु प्रत्यक्षत्वं हरेर्जन्म न विकारः कथञ्चन इति पाद्मरीतिकमेव । अतएव स्कान्दे अविज्ञाय परं देहमानन्दात्मानमव्ययम् । आरोपयन्ति जनिमत्पञ्चभूतात्मकं जडम् ॥ इति ॥ आद्यत्वे हेतुः । पुरुषः पुरुषाकार एव सन् पुराणः पुरापि नवः कार्यात् पूर्वमपि वर्तमान इत्यर्थः । श्रुतिश्च आत्मैवेदमग्र आसीत्पुरुष विध [आइतू १.१.१] इति । अतएव जन्मान्तरास्तित्वलक्षणं विकारं वारयति नित्यः सनातनमूर्तिः । तथा पूर्ववन्मध्यमाकारत्वेऽपि पूर्ण इति वृद्धिम् । अजस्रसुखो नित्यमेव सुखरूप इति परिणामम् । सुखस्य पुंस्त्वं छान्दसं विज्ञानमानन्दं ब्रह्म [Bआऊ ३.९.२८] इत्यत्रानन्दस्य नपुंसकत्ववत् । तथा अक्षर इत्यपक्षयम् । अमृत इति विनाशम् । पूर्णत्वे हेतुः । अनन्त अद्वय इति देशकालपरिच्छेदरहितः । वस्तुपरिच्छेदरहितोऽपि । अन्यस्य तच्छक्तित्वात्तं विनानवस्थानात् । अत्रामृतत्वोपपादनाय चतुर्विध क्रियाफलत्वं च वारयति । तत्रोत्पत्तिराद्य इत्यनेनैव निराकृता । शिष्ट त्रयं स्वयंज्योतिर्निरञ्जन उपाधितो मुक्त इति पदत्रयेण । तत्र च प्राप्तिः क्रियया ज्ञानेन वा भवेत् । क्रियया प्राप्तिरात्मपदेनैव निराकृता, सर्वप्रत्यग्रूपत्वात् । तथा ज्ञानतः प्राप्तिं वारयति । स्वयंज्योतिरिति । तद् उक्तं ब्रह्माणं प्रति श्रीभगवता मनीषितानुभावोऽयं मम लोकावलोकनमिति [भागवतम् २.९.२२] । टीका च एतच्च मत्कृपयैव त्वया प्राप्तमित्याह । मनीषितमिच्छा, तुभ्यं दातव्यमिति या ममेच्छा तस्या अनुभावोऽयम् । कोऽसौ? तमाह मम लोकस्यावलोकनं यत् । इत्येषा । तदुक्तम् नित्याव्यक्तोऽपि भगवान् ईक्ष्यते निजशक्तितः । इति ।[*Eण्ड्ण्Oट्E ॰१६] ननु, श्रीभगवतोद्धवं प्रति वासुदेवो भगवतामित्यादिकं [भागवतम् ११.१६.२९] विभूतिमध्ये गणयित्वा सर्वान्ते मनोविकारा एवैते [भागवतम् ११.१६.४१] इत्युक्तम् । सत्यम् । तद्गणनं प्राचुर्यविवक्षया क्षत्रिणो गच्छन्तीतिवत् । तत्रैव हि पृथिवी वायुराकाश आपो ज्योतिरहं महान् । विकारः पुरुषोऽव्यक्तं रजः सत्त्वं तमः परम् ॥ इत्यत्र [भागवतम् ११.१६.३७] परशब्देन ब्रह्मापि तन्मध्ये गणितमस्ति । तदेवं प्राप्तिर्निषिद्धा । अथ विकृतिरपि तुषापाकरणेनावधातेन व्रीहीणामिवोपाध्यपाकरेणेन भवेत् । तच्चासङ्गत्वान्न सम्भवेदित्याह मुक्त उपाधित इति । तदुक्तम् विशुद्धज्ञानमूर्तये [भागवतम् १०.२७.२१] विशुद्धविज्ञानघनं [भागवतम् १०.३७.२०] इत्यादौ च । तस्मान्मम निशितशरैर्विभिद्यमानत्वचि इत्यादिकं तु [भागवतम् १.९.३४] मायिकलीलावर्णनमेव । एवं वदन्ति राजर्षे ऋषयः केचनान्विताः । यत्स्ववाचो विरुध्येत न नूनं ते समरन्त्यनु ॥ इत्यादि [भागवतम् १०.७७.३०] न्यायेन वास्तवत्वविरोधात् । तथा हि स्कान्दे असङ्गश्चाव्ययोऽभेद्योऽनिग्राह्योऽशोष्य एव च । विद्धोऽसृग्आचितो बद्ध इति विष्णुः प्रदृश्यते ॥ असुरान्मोहयन् देवः क्रीडत्येष सुरेष्वपि । मनुष्यान्मध्यया दृष्ट्या न मुक्तेषु कदाचन ॥ इति ॥ श्रीभीष्मस्य युद्धसमये दैत्याविष्टत्वात्तथा भानं युक्तमेवेति । किन्त्वधुना दुःस्वप्नदुःखस्येव तस्य निवेदनं कृतमिति ज्ञेयम् । संस्कारोऽपि किमतिशयाधानेन मलापाकारेण वा । तत्रातिशयाधानं पूर्णत्वेनैव निराकृतम् । मलापकरणं वारयति निरञ्जनः निर्मलः विशुद्धज्ञानमूर्तिरित्यर्थः ॥ १०.१४ ॥ श्रीब्रह्मा ॥६०॥ [६१] तदेवं पूर्वं तद्ऐश्वर्यादीनां स्वरूपभूतत्वं साधितं तच्च तेषां स्वरूपान्तरङ्गधर्मत्वाद्युक्तम् । यथा ज्योतिरन्तरङ्गधर्मानां तदीयशुक्लादिगुणानां ज्योतिर्भूतत्वमेव, न तम आदिरूपत्वं तद्वत् । अथ श्रीविग्रहस्य पूर्णस्वरूपलक्षणत्वं तद्वत् । अथ श्रीविग्रहस्य पूर्णस्वरूपलक्षणत्वं साधितं, तच्च युक्तम्, सर्वशक्तियुक्तपरम वस्त्व्एकरूपत्वात्तस्य । तत्र यो निजान्तरङ्गनित्यधर्मः श्री विग्रहतागमस्तत्तत्संस्थानलक्षणस्तद्विशिष्टं परमानन्द लक्षणं वस्त्वेव श्रीविग्रहः । स एव चान्तरङ्गधर्मान्तराणां, ऐश्वर्यादीनामपि नित्याश्रयत्वात्स्वयं भगवान्, यथा शुद्धखण्ड लड्डुकम् । यतो यथा लड्डुकतागमकसंस्थानविशिष्टखण्डमेव लड्डुकं तदेव खण्डस्वाभाविकसौगन्ध्यादिमच्चेति लोकैः प्रतीयते प्रयुज्यते च तथा रूपं यदेतत्[भागवतम् ३.९.२] इत्यादिषु परं तत्त्वमेव श्री विग्रहः स एव च भगवानिति विद्वद्भिः प्रतीयते प्रयुज्यते चैवेति । तदेवं श्रीविग्रहस्य पूर्णस्वरूपत्वं साधयित्वा, तोपोषणार्थं प्रकरणान्तरमारभ्यते । यावत्पार्षदनिरूपणम् । तत्र परिच्छदानां तत्स्वरूपभूतत्वे तद्अङ्गसहिततयैवाविर्भावदर्शनरूपं लिङ्गम् आह द्वयेन तमद्भुतं बालकमम्बुजेक्षणं चतुर्भुजं शङ्खगदाद्य्उदायुधम् । इत्यादि ॥ [भागवतम् १०.३.९] स्पष्टम् ॥ १०.३ । श्रीशुकः ॥६१॥ [६२] एवमभिप्रायेणैवेदमाह यथैकात्म्यानुभावानां विकल्परहितः स्वयम् । भूषणायुधलिङ्गाख्या धत्ते शक्तीः स्वमायया ॥ तेनैव सत्यमानेन सर्वज्ञो भगवान् हरिः । पातु सर्वैः स्वरूपैर्नः सदा सर्वत्र सर्वगः ॥ [भागवतम् ६.८.३२३३] ऐकास्म्यानुभावानां केवलपरमस्वरूपदृष्टिपराणां विकल्परहितः परमानन्दैकरसपरमस्वरूपतया स्फुरन्नपि, यथा येन प्रकारेण, स्वेषु स्वस्वामितया भजत्स्य्या मया कृपा तया हेतुना । स्वयं विचित्रशक्तिमयेन स्वरूपेणैव कारणभूतेन भूषणाद्य्आख्याः शक्तीः शक्तिमयाविर्भावात्धत्ते गोचरयति । तेनैव विद्वद्अनुभवलक्षणेन सत्यप्रमाणेन । तेनैव विद्वद्अनुभवलक्षणेन सत्यप्रमाणेन तद् यदि सत्यं स्यात्तदेत्यर्थः । तैरेव भूषणादिलक्षणैः सर्वः स्वरूपैर् विचित्रस्वरूपाविर्भावैर्नः पातु । अतएव श्रीविष्णुधर्मे बलिकृतचक्र स्तवे यस्य रूपमनिर्देश्यमपि योगिभिरुत्तमैरित्यादि । तद्अनन्तरं च भ्रमतस्तस्य चक्रस्य नाभिमध्ये महीपते । त्रैलोक्यमखिलं दैत्यो दृष्टवान् भूर्भुवादिकम् ॥ इति ॥ तदेवमेव नवमे श्रीमद्अम्बरीषेणापि चक्रमिदं स्तुतमस्ति । लिङ्गानि गरुडाकारध्वजादीनि । अनेन यत्क्वचिदाकस्मिकत्वमिव श्रूयते । तदपि श्रीभगवद्आविर्भाववज्ज्ञेयम् । अत्र तृतीये चैत्यस्य तत्त्वममलं मणिमस्य कण्ठे इत्य्[भागवतम् ३.२८.२८] अपि सहायम् । अतो द्वादशेऽपि कौस्तुभ व्यपदेशेन स्वात्मज्योतिर्विभर्त्यजः इत्य्[भागवतम् १२.११.१०] आदिकं विराड् गतत्वेनोपासनार्थमभेददृष्ट्या दर्शितमेव यथासम्भवं साक्षाच् छ्रीविग्रहत्वेनाप्यनुसन्धेयम् । तथा हि विष्णुपुराणे आत्मानमस्य जगतो निर्लेपमगुणामलम् । बिभर्ति कौस्तुभमणिस्वरूपं भगवान् हरिर् ॥ इति [Vइড়् १.२२.६८] ॥ ॥ ६.८ ॥ विश्वरूपो महेन्द्रम् ॥६२॥ [६३] अथ श्रीवैकुण्ठलोकस्यापि तादृशत्वं तस्मै स्वलोकं भगवान् सभाजितः इत्यत्र [भागवतम् २.९.९][*Eण्ड्ण्Oट्E ॰१७] साधितमेव । पुनरपि दुर्धियां प्रतीत्य्अर्थं साध्यते । यतः स कर्मादिभिर्न प्राप्यते प्रपञ्चितातीतत्वेन श्रूयते, तं लब्धवतामस्खलनगुणसात्म्येन स्तूयते नैर्गुण्यावस्थायामेव लभ्यते । लौकिकभगवन्निके तस्यापि तद् आवेशात् । नैर्गुण्यमतिदिश्यत इत्यतः स तु तद्रूपतया सुतरामेव गम्यते । साक्षादेव प्रकृतेः परतनः श्रूयते नित्यतयोद्घोष्यते मोक्ष सुखमपि तिरस्कुर्वन्त्या भक्त्यैव लभ्यते सच्चिदानन्द घनत्वेनाभिधीयत इति । तत्र कर्मादिभिरप्राप्यत्वम् । यथा देवानामेक आसीत्स्वर्भूतानां च भुवः पदम् । मर्त्यादीनां च भूर्लोकः सिद्धानां त्रितयात्परम् ॥ अधोऽसुराणां नागानां भूमेरेकोऽसृजत प्रभुः । त्रिलोक्यां गतयः सर्वाः कर्मणां त्रिगुणात्मनाम् ॥ योगस्य तपसश्चैव न्यासस्य गतयोऽमलाः । महर्जनस्तपःसत्यं भक्तियोगस्य मद्गतिः ॥ [भागवतम् ११.२४.१२१४] सिद्धानां योगादिभिः त्रितयात्परं महर्लोकादि । भूमेरधश्चातलादि । त्रिलोक्यां पातालादिकभूर्भुवःस्वश्चेति । कर्मणां गार्हस्थ्य धर्माणां तपो वानप्रस्थेन ब्रह्मचर्यं च । तत्र ब्रह्मचर्येणोपकुर्वाणनैष्ठिकभेदेन क्रमान्महर्जनश्च वानस्थेन तपः न्यासेन सत्यं योगतारतम्येन तु सर्वमिति ज्ञेयम् । मद्गतिः श्रीवैकुण्ठलोकः भक्तियोगप्राप्यत्वेन वक्ष्यमाणः यन् न व्रजन्ति [भागवतम् ३.१५.२३] इत्यादिवाक्यसाहाय्यात्लोकप्रकरणाच्च । उक्तं च तृतीये देवान् प्रति ब्रह्मणैव तत्[*Eण्ड्ण्Oट्E ॰१८] सङ्कुलं हरिपदान् अतिमात्रदृष्टैरित्यादि [भागवतम् ३.१५.२०] । टीका च तावन्मात्रेण दृष्टैः भक्तानां विमानैः न तु कर्मादिप्राप्यैः । इत्येषा । एवमेव श्रुतिश्च परीक्ष्य लोकान् कर्मचितान् ब्राह्मणो निर्वेदमायान् नास्त्यकृतः कृतेन[*Eण्ड्ण्Oट्E ॰१९] [ंुण्डू १.२.१२] इति । अत्राप्यकृत इत्यस्य विशेष्यं... लोक इत्येव, तत्प्रसक्तेः । ईश्वरः सर्वभूतानामित्यादौ [गीता १८.६१] तमेव शरणं गच्छ सर्वभावेन भारत । तत्प्रसादात्परां शान्तिं स्थानं प्राप्स्यसि शाश्वतम् ॥ इति [गीता १८.६२] श्री भगवद्उपनिषत्सु । ॥ ११.१४ ॥ श्रीभगवान् ॥६३॥ [६४] प्रपञ्चातीतत्वम् स्वधर्मनिष्ठः शतजन्मभिः पुमान् विरिञ्चतामेति ततः परं हि माम् । अव्याकृतं भागवतोऽथ वैष्णवं पदं यथाहं विबुधाः कलात्यये ॥ [भागवतम् ४.१४.३९] ततो,पि पुण्यातिशयेन मामेति भागवतस्तु अथ देहान्ते अव्याकृतं, नाम रूपे व्याकरवाणीति श्रुतिप्रसिद्धव्याकरणाविषयं प्रपञ्चातीतं वैष्णवं पदं वैकुण्ठमेति । यथाहं रुद्रो भूत्वाधिकारिकतया वर्तमानः विबुधा देवाश्चाधिकारिकाः कलात्यये अधिकारान्ते लिङ्ग भङ्गे सत्येष्यन्तीति यावदधिकारमवस्थितिराधिकारिकाणामिति न्यायेन ॥ ॥ ४.२४ ॥ श्रीरुद्रः प्रचेतसम् ॥६४॥ [६५] ततोऽस्खलनम् । अथो विभूतिं मम मायाविनस्ताम् ऐश्वर्यमष्टाङ्गमनुप्रवृत्तम् । श्रियं भागवतीं वास्पृहयन्ति भद्रां परस्य मे तेऽश्नुवते तु लोके ॥ न कर्हिचिन्मत्पराः शान्तरूपे नङ्क्ष्यन्ति नो मेऽनिमिषो लेढि हेतिः । येषामहं प्रिय आत्मा सुतश्च सखा गुरुः सुहृदो दैवमिष्टम् ॥ [भागवतम् ३.२५.३६३७] अथोऽविद्यानिवृत्त्य्अनन्तरं मम मायया भक्तविषयककृपयाचितां तद् अर्थं प्रकटितां विभूतिं भोगसम्पत्तिम् । तथा भागवतीं श्रियं साक्षाद्भगवत्सम्बन्धिनीं सार्ष्टिसंज्ञां सम्पत्तिमपि अस्पृहयन्ति, भक्तिसुखमात्राभिलाषेण यद्यपि तेभ्यो न स्पृहयन्तीत्यर्थः । तथापि तु मे मम लोके वैकुण्ठाख्ये अश्नुवते प्राप्नुवन्त्येवेति स्ववात्सल विशेषो दर्शितः । यथा सुदाममालाकारवरे, सोऽपि वव्रेऽचलां भक्तिं तस्मिन्नेवाखिलात्मनि । तद्भक्तेषु च सौहार्दं भूतेषु च दयां पराम् । इति तस्मै वरान् दत्त्वा श्रियश्चान्वयवर्धिनीम् ॥ इति [भागवतम् १०.४१.५२] अतस्तेषां तत्रानासक्तिश्च द्योतिता । अविद्यानन्तरमिति मम कृपयाचिताम् इति च तेषामनर्थरूपत्वं खण्डितम् । किं वा माययाचितां ब्रह्म लोकादिगतां सम्पत्तिमपीति तेषां सर्ववशीकारित्वमेव दर्शितं, न तु तद्भोगः । तस्यातितुच्छत्वेन तेष्वनर्हत्वात् । श्रुतिश्चात्र तद्यथेह कर्मजितो लोकः क्षीयते एवमेवामुत्र पुण्यजितो लोकः क्षीयते [Cहाऊ ८.१.६] इत्यनन्तरमथ य इहात्मानमनुविद्य व्रजन्त्येतांश्च सत्य कामांस्तेषां सर्वेषु लोकेषु कामचारो भवति इति । नन्वेवं तर्हि लोकत्वाविशेषात्स्वर्गादिवत्भोक्तृभोग्यानां कदाचिद् विनाशः स्यात् । तत्राह शान्तरूपे शान्तमविकृतं रूपं यस्य तस्मिन् वैकुण्ठे मत्परास्तद्वासिनो लोकाः कदाचिदपि न नङ्क्ष्यन्ति भोग्य हीना न भवन्ति । अनिमिषो मे हेतिः मदीयं कालचक्रं नो लेढि, तान्न ग्रसते । न स पुनरावर्तते इति श्रुतेः [Cहाऊ ८.१५.१] । आब्रह्मभुवनाल्लोकाः पुनरावर्तिनोऽर्जुन । मामुपेत्य तु कौन्तेय पुनर्जन्म न विद्यते ॥ [गीता ८.१६] इति श्रीगीतोपनिषद्भ्यः । सहस्रनामभाष्येऽप्युक्तम् परमुत्कृष्टमयनं स्थानं पुनर् आवृत्तिशङ्कारहितमिति परायणः । पुंलिङ्गपक्षे बहुव्रीहिरिति । न केवलमेतावत्तेषां माहात्म्यमित्याह येषामिति । येषां मां विना न कश्चिदपरः प्रेमभाजनमस्तीत्यर्थः । यद्वा गोलोकादिकम् अपेक्ष्यैवमुक्तम् । तत्र हि तथाभावा एवं श्रीगोपा नित्या विद्यन्ते । अथवा तं लोकं कीदृग्भावा अविद्यानन्तरं प्राप्नुवन्तीति । तत्राह येषाम् इति । ये केचित्पाद्मोत्तरखण्डे दर्शितमुनिगणसवासनाः आत्मा ब्रह्मैवायं साक्षादिति मां भावयन्ति, एवमन्ये च ये ये, त एव प्रापुन्वन्तीत्यर्थः । सुहृद इति बहुत्वं सौदृदस्य नानाभेदापेक्षया । एवं चतुर्थे श्रीनारदवाक्ये शान्ताः समदृशः शुद्धाः सर्वभूतानुरञ्जनाः । यान्त्यञ्जसाच्युतपदमच्युतप्रियबान्धवाः ॥ इति [भागवतम् ४.१२.३७] ॥ ॥ ३.२५ ॥ श्रीकपिलः ॥६५॥ [६६] प्रपञ्चातीतत्वं ततोऽस्खलनं च युगपदाह आतपत्रं तु वैकुण्ठं द्विजा धामाकुतोभयम् । इति [भागवतम् १२.११.१९] प्रपञ्चरूपस्यैवेति प्रकरणात् । द्विजा इति सम्बोधनम् ॥ ॥ १२.११ ॥ श्रीसुतः ॥ ६६ ॥ [६७] सत्त्वे प्रलीनाः स्वर्यान्ति नराः लोकं रजोलयाः । तमोलयास्तु निरयं यान्ति मामेव निर्गुणाः ॥ [भागवतम् ११.२५.२२] लोकप्रसक्तेर्मल्लोकमिति वक्तव्ये तत्प्राप्तिर्नाम मत्प्राप्तिरेवेति स्वाभेदमभिप्रेत्याह मामेवेति ॥ ११.२५ ॥ श्रीभगवान् ॥ ६७ ॥ [६८] सुतरां नैर्गुण्याश्रयत्वम् । वनं तु सात्त्विको वासो ग्रामो राजस उच्यते । तामसं द्यूतसदनं मन्निकेतं तु निर्गुणम् ॥ [भागवतम् ११.२५.२५] तद्आवेशेनैवास्यापि निर्गुणत्वव्यपदेश इति भावः ॥ ॥ ११.२५ ॥ स एव ॥६८॥ [६९] प्रकृतेः परत्वम् ततो वैकुण्ठमगमद्भास्वरं तमसः परम् । यत्र नारायणः साक्षान्न्यासिनां परमा गतिः ॥ शान्तानां न्यस्तदण्डानां यतो नावर्तते गतः ॥ [भागवतम् १०.८८.२५२६] अगमत्जगाम शिव इति शेषः ॥ ॥ १०.८८ ॥ श्रीशुकः ॥६९॥ [७०] नित्यत्वम् ग्रीवायां जनलोकोऽस्य तपोलोकः स्तनद्वयात् मूर्धभिः सत्यलोकस्तु ब्रह्मलोकः सनातनः [भागवतम् २.५.३९] टीका च ब्रह्मलोकः वैकुण्ठाख्यः सनातनो नित्यः । न तु सृजाप्रपञ्चान्तर्वर्ति इत्येष । ब्रह्मभूतो लोको ब्रह्मलोकः ॥ ॥ २.५ ॥ श्रीब्रह्मा श्रीनारदम् ॥७०॥ [७१] मोक्षसुखतिरस्कारिभक्त्य्एकलभ्यत्वम् यन्न व्रजन्त्यघभिदो रचनानुवादाच् छृण्वन्ति येऽन्यविषयाः कुकथा मतिघ्नीः । यास्तु श्रुता हतभगैर्नृभिरात्तसारास् तांस्तान् क्षिपन्त्यशरणेषु तमःसु हन्त ॥ [भागवतम् ३.१५.२३] यच्च व्रजन्त्यनिमिषामृषभानुवृत्त्या दूरे यमा ह्युपरि नः स्पृहणीयशीलाः । भर्तुर्मिथः सुयशसः कथनानुराग वैक्लव्यबाष्पकलया पुलकीकृताङ्गाः ॥ [भागवतम् ३.१५.२५] यद्वैकुण्ठं यच्च नोऽस्माकमुपरिस्थितं नः स्पृहणीयशीला इति वा दूरे यमो येषां ते सिद्धत्वेन दूरीकृतयमनियमाः सन्तो वा व्रजन्तीति । भर्तुर्मिथः सुयशसः इत्यनेन तथाविधाया भक्तेर्मोक्षसुख तिरस्कारित्वप्रसिद्धिः सूचिता । नात्यन्तिकं विगणयन्त्यपीत्यादौ येऽङ्ग त्वद्अङ्घ्रिशरणा भवतः कथायां कीर्तन्यतीर्थयशसः कुशला रसज्ञा [भागवतम् ३.१५.४८] इति सनकाद्य्उक्तेः । ॥ ३.१५ ॥ श्रीब्रह्मा देवान् ॥ ७१ ॥ [७२] सच्चिद्आनन्दरूपत्वम् । एवमेतान्मयादिष्टा ननु तिष्ठन्ति मे पथः । क्षेमं विन्दन्ति मत्स्थानं तद्ब्रह्म परमं विदुः ॥ [भागवतम् ११.२०.३७] मे पथः ज्ञानकर्मभक्तिलक्षणान्मत्प्राप्त्य्उपायान्, ज्ञान कर्मणोरपि भक्तेषु भक्तेः प्रथमतः क्वचित्कदाचित्किञ्चित्साहाय्य कारित्वात् । क्षेमं मद्भक्तिमङ्गलमयं यत्स्थानं परमं ब्रह्मेति विदुर्जानन्ति इत्थमेवोदाहरिष्यते च इति सञ्चिन्त्य भगवान्महाकारुणिको विभुः । दर्शयामास लोकं स्वं गोपानां तमसः परम् । सत्यं ज्ञानमनन्तं यद्ब्रह्मज्योतिः सनातनम् । यद्धि पश्यन्ति मुनयो गुणापायो समाहिता ॥ [भागवतम् १०.२८.१४१५] इति । उभयत्रापि चकाराद्य्अध्याहारादिना त्वर्थान्तरं कष्ठं भवति । तैर् एव च तमसः प्रकृतेः परमिति वैकुण्ठस्यापि विशेषणत्वेन व्याख्यातम् इति ॥ ॥ ११.२० ॥ श्रीभगवान् ॥७२॥ [७३] तथैव न यत्र कालोऽनिमिषां परः प्रभुः कुतो नु देवा जगतां य ईशिरे । न यत्र सत्त्वं न रजस्तमश्च न वै विकारो न महान् प्रधानम् ॥ परं पदं वैष्णवमामनन्ति तद् यन्नेति नेतीत्यतदुत्सिसृक्षवः । विसृज्य दौरात्म्यमनन्यसौहृदा हृदोपगुह्यार्हपदं पदे पदे ॥ [भागवतम् २.२.१७१८] अतत्चिद्व्यतिरिक्तं, नेति नेतीत्येवमुत्स्रष्टुमिच्छवो दौरात्म्यं भगवद्आत्मनोरभेददृष्टिं विसृज्य, अर्हस्य श्रीभगवतः, पदं चरणारविन्दं, पदे पदे प्रतिक्षणं हृदा उपगुह्य आश्लिष्य, नान्यस्मिन् सौहृदं येषां तथाभूताः सन्तो यदामनन्ति जानन्ति, तद्वैष्णवं पदं श्रीवैकुण्ठमिति ब्रह्मस्वरूपमेव तदिति तात्पर्यम् । अनेन प्रेम लक्षणसाधनलिङ्गेन निराकाररूपमर्थान्तरं निरस्तम् । अत्र निराकारपरायणस्यापि मुक्ताफलटीकाकृतो दैवाभिव्यञ्जिता गीर्यथा तत्परं पदं वैष्णवमामनन्ति । अधिकृताधिष्ठितराजाधिष्ठितत्ववत् । ब्रह्मादिपदानामपि । विष्णुनाधिष्ठितत्वात्परमित्युक्तम् । विष्णुनैवाधिष्ठितमित्यर्थ इति । अतएव श्रुतावपि तस्य स्वमहिमैक प्रतिष्ठितत्वं स भगवः कस्मिन् प्रतिष्ठित इति स्वे महिम्नि इति [Cहाऊ ७.२४.१]। अतएवोक्तं क इत्था वेद यत्र स इति ॥ ॥ २.२ ॥ श्रीशुकः ॥७३॥ [७४] क इत्थेत्यादिश्रुतेरर्थत्वेनापि स्पष्टमाह स्वं लोकं न विदुस्ते वै यत्र देवो जनार्दनः । आहुर्धूम्रधियो वेदं सकर्मकमतद्विदः ॥ [भागवतम् ४.२९.४८] ये धूम्रधियो वेदं सकर्मकं कर्ममात्रप्रतिपादकमाहुस्ते जनार्दनस्य स्वं स्वरूपं लोकं न विदुः किन्तु स्वर्गादिकमेव विदुः । यत्र लोके ॥ ४.२९ ॥ श्रीनारदः प्राचीनबर्हिषम् ॥७४॥ [७५] एवं च ओं नमस्तेऽस्तु भगवनित्यादि गद्ये परमहंसपरिव्राजकैः परमेणात्मयोगसमाधिना परिभावितपरिस्फुटपारमहंस्य धर्मेणोद्घाटिततमःकपाटद्वारे चित्तेऽपावृत आत्मलोके स्वयम् उपलब्धनिजसुखानुभवो भवान् ॥ [भागवतम् ६.९.३३] तमः प्रकृतिरज्ञानं वा । आत्मलोके स्वस्वरूपे लोके । एष आत्मलोक एष ब्रह्मलोक इति । दिव्ये ब्रह्मपुरे ह्येष परमात्मा प्रतिष्ठित इत्य्आदि श्रुतौ[*Eण्ड्ण्Oट्E ॰२०] ॥ यत्तत्सूक्ष्मं परमं वेदितव्यं नित्यं पदं वैभवमामनन्ति । एतल्लोका न विदुर्लोकसारं विदन्ति तत्कवयो योगनिष्ठा इति पिप्पलाद शाखायाम् । परेण नाकं निहितं गुहायां बिभ्राजते यद्यतयो विशन्ति इति परस्याम् । तद्वा एतत्परं धाम मन्त्रराजाध्यापकस्य यत्र न दुःखादि न सूर्यो भाति यत्र न मृत्युः प्रविशति यत्र न दोषस्तदानन्दं शाश्वतं शान्तं सदाशिवं ब्रह्मादिवन्दितं योगिध्येयं यत्र गत्वा न निवर्तन्ते योगिनः[*Eण्ड्ण्Oट्E ॰२१] तदेतदृचाभ्युक्तं तद्विष्णोः परमं पदं सदा पश्यन्ति सूरयः दिवीव चक्षुराततम् । तद्विप्रासो विपन्यवो जागृवांसः समिन्धते । विष्णोर्यत्परमं पदमिति श्रीनृसिंहतापन्याम् [५.१०] । न त्वियमपि ब्रह्मपुरत्वे नैव व्याख्येया, वन्दितत्वेन यत्र गत्वेत्यनेन च तद्अनङ्गीकरोत् । यतः श्रीविष्णुपुराणे च श्रीविष्णुलोकमुद्दिश्य ऋगियमनुस्मृता, यथा ऊर्ध्वोत्तरमृषिभ्यस्तु ध्रुवो यत्र व्यवस्थितः ॥ निर्धूतदोषपङ्कानां यतीनां संयतात्मनाम् । स्थानं तत्परमं विप्र पुण्यपापपरिक्षये ॥ अपुण्यपुण्योपरमे क्षीणाशोषाप्तिहेतवः । यत्र गत्वा न शोचन्ति तद्विष्णोः परमं पदम् ॥ धर्मं ध्रुवाद्यास्तिष्ठन्ति यत्र ते लोकसाक्षिणः । तत्सार्ष्ट्योत्पन्नयोगेद्धस्तद्विष्णोः परमं पदम् ॥ यत्रैतदोतं प्रोतं च यद्भूतं सचराचरम् । भाव्यं च विश्वं मैत्रेय तद्विष्णोः परमं पदम् ॥ [Vइড়् २.८.९८१०२] तापनीश्रुतौ[*Eण्ड्ण्Oट्E ॰२२] च यत्र न वायुर्वाती इत्यादिकं प्राकृत तत्तन्मात्रनिषेधात्मकं तत्रापि तत्तच्छ्रवणात् । यत्तु मातुः सपत्न्या वाग्वाणैर्हृदि बिद्धस्तु तान् स्मरन् । नैच्छन्मुक्तिपतेर् मुक्तिं पश्चात्तापमुपेयिवानिति [भागवतम् ४.९.२९] । तथा अहो बत ममानात्म्यं मन्दभाग्यस्य पश्यत । भवच्छिदः पादमूलं गत्वा याचे यदन्तवत् ॥ इति [भागवतम् ४.९.३१] श्रीध्रुवस्यापूर्णंमन्यता श्रूयते । तद्उच्चपदकामनयैव तत्प्रार्थितवता तेन लब्धमनोरथातीत वरेणापि स्वसङ्कल्पमेव तिरस्कर्तुमुक्तमिति घटते । तत्र ह्येवोक्तं श्रीविदुरेण सुदुर्लभं यत्परमं पदं हरेर्[भागवतम् ४.९.२८] इति । स्वयं श्रीध्रुवप्रियेण ततो गन्तासि मत्स्थानं सर्वलोकनमस्कृतम् । उपरिष्टादृषिभ्यस्त्वं यतो नावर्तते गतः ॥ इति [भागवतम् ४.९.२५] श्रीपार्षदाभ्यामपि आतिष्ठ जगतां वन्द्यं तद्विष्णोः परमं पदमिति [भागवतम् ४.१२.२६] । श्रीसुतेन च ध्रुवस्य वैकुण्ठ पदाधिरोहणमिति [भागवतम् ४.१०.१] । पञ्चमे ज्योतिश्चक्रवर्णने च विष्णोर्यत् परमं पदं प्रदक्षिणं प्रक्रामन्ति इति [भागवतम् ५.२२.१७] । यद्विष्णोः परमं पदमभिवदन्तीति च [भागवतम् ५.२३.१] । प्रपञ्चान्तर्गतत्वेऽपि तद् धर्ममुक्तत्वं विकारावर्ति च तथा हि स्थितिमाह इति न्यायेन । अतोऽस्मिन् लोके प्रापञ्चिकस्य बहिर्अंशस्यैव प्रलयो ज्ञेयः । तस्य तु तदानीम् अन्तर्धानमेव । एतदालम्ब्यैव हिरण्यकशिपुनोक्तम् किमन्यैः काल निर्धूतैः कल्पान्ते वैष्णवादिभिरिति [भागवतम् ७.३.११] । अतोऽद्यापि ये तथा वदन्ति तेऽपि तत्तुल्या इति भावः । अथ श्रीमहावैकुण्ठस्य तादृशत्वं तु सुतरामेव । यथा नानाश्रुति पथोत्थापनेन पाद्मोत्तरखण्डेऽपि[*Eण्ड्ण्Oट्E ॰२३] प्रकृत्य्अन्तर्गत विभूतिवर्णनान्तरं तादृशत्वमभिव्यञ्जितं श्रीशिवेन एवं प्राकृतरूपाया विभूते रूपमुत्तमम् । त्रिपाद्विभूतिरूपं तु शृणु भूधरनन्दिनि ॥ प्रधानपरमव्योम्नोरन्तरे विरजा नदी । वेदाङ्गस्वेदजनिततोयैः प्रस्राविता शुभा ॥ तस्याः पारे परव्योम त्रिपाद्भुतं सनातनम् । अमृतं शाश्वतं नित्यमनन्तं परमं पदम् ॥ शुद्धसत्त्वमयं दिव्यमक्षरं ब्रह्मणः पदम् । अनेककोटिसूर्याग्नितुल्यवर्चसमव्ययम् ॥ सर्ववेदमयं शुभ्रं सर्वप्रलयवर्जितम् । हिरण्मयं मोक्षपदं ब्रह्मानन्दसुखाह्वयम् ॥ समानाधिक्यरहितमाद्य्अन्तरहितं शुभम् ॥ तेजसात्य्अद्भुतं रम्यं नित्यमानन्दसागरम् । एवमादिगुणोपेतं तद्विष्णोः परमं पदम् ॥ न तद्भासयते सूर्यो न शशाङ्को न पावकः । यद्गत्वा न निवर्तन्ते तद्धाम परमं हरेः ॥ तद्विष्णोः परमं धाम शाश्वतं नित्यमच्युतम् । न हि वर्णयितुं शक्यं कल्पकोटिशतैरपि ॥ (ড়द्मড়् ६.२२७.५७ ६५)[*Eण्ड्ण्Oट्E ॰२४] हरेः पदं वर्णयितुं न शक्यं मया च धात्रा च मुनीन्द्रवर्यैः । यस्मिन् पदे अच्युत ईश्वरो यः सो अङ्ग वेद यदि वा न वेद ॥ यदक्षरं वेदगुह्यं यस्मिन् देवा अधि विश्वे निषेदुः । यस्तं न वेद किमृचा करिष्यति य उ तद्विदुस्त इमे समासते ॥ तद्विष्णोः परमं पदं सदा पश्यन्ति सूरयः । अक्षरं शाश्वतं नित्यं दिवीव चक्षुराततम् ॥ आ प्रवेष्टुमशक्यं तद्ब्रह्मरुद्रादिदैवतैः । ज्ञानेन शास्त्रमार्गेण वीक्ष्यते योगिपुङ्गवैः ॥ अहं ब्रह्मा च देवाश्च न जानन्ति महर्षयः । सर्वोपनिषदामर्थं दृष्ट्वा वक्ष्यामि सुव्रते ॥ विष्णोः पदे परमे तु मध्य उत्सः शुभाह्वयः । यत्र गावो भूरिशृङ्गा आसते स्वसुखं प्रजाः ॥ अत्राहि तत्परं धाम गीयमानस्य शार्ङ्गिणः । तद्भाति परमं धाम गोभिर्गेयैः शुभाह्वयैः ॥ आदित्यवर्णं तमसः परस्तात्ज्योतिरुत्तमम् । आधारो ब्रह्मणो लोकः शुद्धः स ह सनातनः ॥ सामान्यावियुते दूरे अन्तेऽस्मिन् शाश्वते पदे । तस्थजुर्जागरुकेऽस्मिन् युवानौ श्रीसनातनौ ॥ यतः स्वसारा युवती भूलीले विष्णुवल्लभे । अत्र पूर्वे ये च साध्या विश्वदेवाः सनातनाः ॥ ते ह नाकं महिमानः सचन्तः शुभदर्शनाः । तत्पदं ज्ञानिनो विप्रा जातृवांसः समिन्धते ॥ तद्विष्णोः परमं पदं मोक्ष इत्यभिधीयते । तस्मिन् बन्धविनिर्मुक्ताः प्राप्यन्ते स्वमुखं पदम् ॥ यं प्राप्य न निवर्तन्ते तस्मान्मोक्स उदाहृतः । मोक्षः परं पदं लिङ्गममृतं विष्णुमन्दिरम् ॥ अक्षरं परमं धाम वैकुण्ठं शाश्वतं परम् । नित्यं च परमव्योम सर्वोत्कृष्टं सनातनम् ॥ पर्यायवाचकन्यस्य परं धाम्नोऽच्युतस्य हि । तस्य त्रिपाद्विभूतेस्तु रूपं वक्ष्यामि विस्तरात् ॥ इत्यादि ॥ एतद्रीइतिकश्रुतयो वैदिकेषु प्रायः प्रसिद्धा इति नोदह्रियन्ते । श्रीनारद पञ्चरात्रे च श्रीब्रह्मनारदसंवादे जितं ते स्तोत्रे च लोकं वैकुण्ठनामानं दिव्यषड्गुणसंयुतम् । अवैष्णवानामप्राप्यं गुणत्रयविवर्जितम् ॥ नित्यसिद्धेः समाकीर्णं तन्मयैः पाञ्चकालिकैः । सभाप्रासादजक्तं वनैश्चोपवनैः शुभम् ॥ वापीकूपतडागैश्च वृक्षषण्डैः सुमण्डितम् । अप्राकृतं सुरैर्वन्द्यमयुतार्कसमप्रभम् ॥ इति ॥ ब्रह्माण्डपुराणे तमनन्तगुणावासं महत्तेजो दुरासदम् । अप्रत्यक्षं निरुपमं परानन्दमतीन्द्रियम् ॥ इति ॥ इतिहाससमुच्चये मुद्गलोपख्याने ब्रह्मणः सदनादूर्ध्वं तद्विष्णोः परमं पदम् । शुद्धं सनातनं ज्योतिः परं ब्रह्मेति यद्विदुः ॥ निर्ममा निरहङ्कारा निर्द्वन्द्वा ये जितेन्द्रियाः । ध्यानयोगपराश्चैव तत्र गच्छन्ति साधवः ॥ येऽर्चयन्ति हरिं विष्णुं कृष्णं जिष्णुं सनातनम् । नारायणमजं देवं विष्वक्सेनं चतुर्भुजम् ॥ ध्यायन्ति पुरुषं दिव्यमच्युतं च स्मरन्ति ये । लभन्ते तेऽच्युतस्थानं श्रुतिरेषा सनातनी ॥ इति ॥ स्कान्दे श्रीसनत्कुमारमार्कण्डेयसंवादे यो विष्णुभक्तो विप्रेन्द्र शुद्धचक्रादिचिह्नितः । स याति विष्णुलोकं वै दाहप्रलयवर्जितम् ॥ इति । अत्र पदधामादिशब्देन स्थानवाचकेन स्वरूपं त्वरूढेन यदि कश्चित्कथञ्चित्स्वरूपमेव वाचयति । तर्ह्यन्यत्र तत्प्रसङ्गे तेऽभिगच्छन्ति मत्स्थानं यद्ब्रह्म परमं विदुरित्यादौ साक्षादेव स्थानशब्दनिगदेन तन्निरसनीयम् । यदि तत्रापि चकाराद्य्अध्याहारादि दैन्येन पूर्वदर्शितेतिहाससमुच्चयस्य परं ब्रह्मेति यद्विदुरिति विशेषणविरुद्धं वाक्यभेदमेवाङ्गीकरोति तर्हि स्वमते तत्र तत्रोक्त लोकशब्दः सहायीकर्तव्यः । ततश्च पदधामस्थानलोकरूपाणां तेषां शब्दानामेकत्र वस्तुनि प्रयोगात्परस्परमन्यार्थं दूरीकुर्वन्तस्ते कं वा न बोधयन्ति स्वम् अर्थं, यथा भगवान् हरिर्विष्णुरयमिति । अथ हन्त तत्रापि चेत्, स्वरूपमात्रवाचकतां भिक्षते तर्हि स्फुटमेव पाद्मवैष्णवादिवचनैः विपक्षो ह्रेपणीयः । कर्माद्य्अप्राप्यत्वादि प्रतिपादकवाक्यानि तु विशेषतो वेत्रपाणिरूपाणि सन्त्येवेति वक्तव्यम् । तस्मातों नमस्ते [भागवतम् ६.९.३३] इत्यादिपद्यमपि साध्वेव व्याख्यातम् ॥ ॥ ६.९ ॥ देवाः श्रीहरिम् ॥७५॥ [७६] तदेत्च्छ्रीवैकुण्ठस्वरूपं निरूपितम् । तच्च यथा श्रीभगवानेव क्वचित्पूर्णत्वेन क्वचिदंशत्वेन च वर्तते तथैवेति । बहवस्तस्यापि भेदाः पाद्मोत्तरखण्डादौ द्रष्टव्याः । येषु श्रीमत्स्यदेवादीनाम् अपि पदानि वक्ष्यन्ते । तदेव सूचयति एवं हिरण्याक्षमसह्यविक्रमं स सादयित्वा हरिरादिसूकरः । जगाम लोकं स्वमखण्डितोत्सवं समीडितः पुष्करविष्टरादिभिः ॥ [भागवतम् ३.१९.२८] सादयित्वा हत्वा । पवित्रारोपप्रसङ्गे चैवमाह बोधायनः एवं यः कुरुते विद्वान् वर्षे वर्षे न संशयः । स याति परमं स्थानं यत्र देवो नृकेशरी ॥ इति । वायुपुराणे तु शिवपुरमपि तद्वत्श्रूयते, यथा अन्तौघस्य समन्तात्तु सन्निविष्टो घनोदधिः । समन्ताद्येन तोयेन धार्यमानः स तिष्ठति ॥ बाह्यतो घनतोयस्य तिर्यगूर्ध्वं च मण्डलम् । धारयमाणं समन्तात्तु तिष्ठते घनतेजसा ॥ अयोगुडनिभो वह्निः समन्तात्मण्डलाकृतिः । समन्ताद्घनवातेन धार्यमाणः स तिष्ठति ॥ भूतादिश्च तथाकाशं भूतादिं च तथा महान् । महान् व्याप्तो ह्यनन्तेन अव्यक्तेन तु धार्यते ॥ अनन्तमपरिव्यक्तमनादिनिधनं च तत् । तम एव निरालोकममर्यादमदेशिकम् ॥ तमसोऽन्ते च विख्यातमाकाशान्ते च भास्वरम् । यर्यान्तायामतस्तस्य शिवस्यायतनं महत् । त्रिदशानामगम्यं तु स्थानं दिव्यमिति श्रुतिर् ॥ इति ॥ ॥ ३.१९ ॥ श्रीमैत्रेयः ॥७६॥ [७७] एवं च यथा श्रीभगवद्वपुर्आविर्भवति लोके तथैव क्वचित्कस्यचित्तत् पदस्याविर्भावः श्रूयते पत्नी विकुण्ठा शुभ्रस्य वैकुण्ठैः सुरसत्तमैः । तयोः स्वकलया जज्ञे वैकुण्ठो भगवान् स्वयम् ॥ वैकुण्ठः कल्पितो येन लोको लोकनमस्कृतः । रमया प्रार्थ्यमानेन देव्या तत्प्रियकाम्यया ॥ [भागवतम् ५.८.४५] यथा भगवत आविर्भावमात्रं जन्मेति भण्यते । तथैव वैकुण्ठस्यापि कल्पनम् आविर्भावनमेव न तु प्राकृतवत्कृत्रिमत्वम् । उभयत्रापि नित्यत्वादित्यभिप्रायेण तत्साम्येनाह, जज्ञ इति । श्री विकुण्ठासुतस्यैवेदं वैकुण्ठम् । मूलवैकुण्ठं तु सृष्टेः प्राक्श्री ब्रह्मणा दृष्टमिति द्वितीये प्रसिद्धमेव । स तन्निकेतं परिमृश्य शून्यमपश्यमानः कुपितो ननाद इत्य्[भागवतम् ८.१९.११] उक्तम् । तत्स्थानं तु स्वर्गादिगतमेव ज्ञेयम् ॥ ॥ ८.५ ॥ श्रीशुकः ॥७७॥ [७८] देहेन्द्रियासुहीनानां वैकुण्ठपुरवासिनाम् । [भागवतम् ७.१.३४] जन्महेतुभूतैः प्राकृतैर्देहेन्द्रियासुभिर्हीनानां शुद्धसत्त्वमय देहानामित्यर्थः ॥ ॥ ७.१ ॥ युधिष्ठिरः श्रीनारदम् ॥ ७८ ॥ [७९] तथा आत्मतुल्यैः षोडशभिर् विना श्रीवत्सकौस्तुभौ । पर्युपासितमुन्निद्र शरद्अम्बुरुहेक्षणम् ॥ [भागवतम् ६.९.२९] षोडशभिः श्रीसुनन्दादिभिः ॥ ६.९ ॥ श्रीशुकः ॥ [८०] अतएव कालातीतास्ते परमभक्तानामपि परम्पुरुषार्थसामीप्याश्चेत्य् आह । तस्मादमूस्तनुभृतामहमाशिषो ज्ञ आयुः श्रियं विभवम् ऐन्द्रियमाविरिञ्च्यात् । नेच्छामि ते विलुलितानुरुविक्रमेण कालात्मनोपनय मां निजभृत्यपार्श्वम् ॥ [भागवतम् ७.९.२४] स्पष्टम् ॥ ७.९ ॥ प्रह्लादः श्रीनृसिंहम् ॥ ८० ॥ [८१] तथा च पाद्मोत्तरखण्डे त्रिपाद्विभूतेर्लोकास्तु असङ्ख्याः परिकीर्तिताः । शुद्धसत्त्वमयाः सर्वे ब्रह्मानन्दसुखाह्वयाः ॥ सर्वे नित्या निर्विकारा हेयरागविवर्जिताः । सर्वे हिरण्मयाः शुद्धाः कोटिसूर्यसमप्रभाः ॥ सर्वे वेदमया दिव्याः कामक्रोधादिवर्जिताः । नारायणपदाम्भोजभक्त्य्एकरससेविनः ॥ निरन्तरं सामगानपरिपूर्णसुखं श्रिताः । सर्वे पञ्चोपनिषदस्वरूपया वेदवर्चसः ॥ इत्यादि ॥ अत्र त्रिपाद्विभुतिशब्देन प्रपञ्चातीतलोकोऽभिधीयते पादविभूति शब्देन तु प्रपञ्च इति । यथोक्तं तत्रैव त्रिपाद्व्याप्तिः परं धाम्नि पादोऽस्येहाभवत्पुनः । त्रिपाद्विभूतेर्नित्यं स्यातनित्यं पादमैश्वरम् ॥ नित्यं तद्रूपमीशस्य परं धाम्नि स्थितं शुभम् । अच्युतं शाश्वतं दिव्यं सदा यौवनमाश्रितम् ॥ नित्यं सम्भोगमीश्वर्या श्रिया भूम्या च संवृत्तम् ॥ इति ॥ अतएव तद्अनुसारेण द्वितीयस्कन्धोऽप्येवं योजनीयः । तत्र सोऽमृतस्याभयस्येशो मर्त्यमन्नं यदत्यगात् । महिमैष ततो ब्रह्मन् पुरुषस्य दुरत्ययः ॥ [भागवतम् २.६.१७] अमृतादिद्वयं तत्तृतीयत्वेअ वक्ष्यमाणस्य क्षेमस्याप्युपलक्षणम् । श्रुतौ च उतामृतत्वस्येशान इत्यत्रामृतत्वं तद्युगलोपलक्षम् । अत्र धर्मिप्रधाननिर्देशः, श्रुतौ तु तत्र धर्ममात्रनिर्देशस्यापि तत्रैव तात्पर्यम् । तत्रामृतं स्वदृष्टवद्भिर्पुरुषैरभिष्टुतमिति । परं न यत्परम् [भागवतम् २.९.९] इत्याद्युक्तानुसारेण परमानन्दः । अतएव अमृत विष्णुमन्दिरमिति तत्पर्यायः । अभयं न च कालविक्रम [भागवतम् २.९.१०] इत्यादि भयमात्राभावः । अतएव द्विजा धामाकुतोभयम् [भागवतम् १२.११.१९] इत्युक्तम् । क्षेमं न यत्र माया [भागवतम् २.९.१०] इत्याद्य् उक्तानुसारेण भगवद्बहिर्मुखताकरगुणसम्बन्धाभावाद् भगवद्भजनमङ्गलाश्रयत्वं ज्ञेयम् । तथा च नारदीये सर्वमङ्गलमूर्धन्या पूर्णानन्दमयी सदा । द्विजेन्द्र तव मय्यस्तु भक्तिरव्यभिचारिणी ॥ इति ॥ अतेव क्षेमं विन्दन्ति मत्स्थानम् [भागवतम् ११.२०.३७] इत्युक्तम् । तत्र तत्तच्छब्देन लक्षणामयकष्टकल्पनया जनलोकादिवाच्यतां निषेधन् हेतुं न्यस्यति मर्त्यं ब्रह्मणोऽपि भयं मत्तो द्विपरार्ध परायुष [भागवतम् ११.१०.३०] इत्यादि न्यायेन मरणधर्मकम् । अन्नं कर्मादि फलं त्रिलोक्यादिकं यस्मादत्यगाततिक्रम्यैव तत्र विराजत इति । एषः अमृताद्यैश्वर्यरूपः । दुरत्ययः ब्रह्मचर्यादिभिः केनचिन्मनसाप्य् अवरोद्धुमशक्यः । [८२] तदेवममर्त्यमैश्वर्यं त्रिपात्, मर्त्यमेकपातिति तस्य चतुष्पाद् ऐश्वर्यं पुनर्विवृणोति ॥ पादेषु सर्वभूतानि पुंसः स्थितिपदो विदुः । अमृतं क्षेममभयं त्रिमूर्ध्नोऽधायि मूर्धसु ॥ [भागवतम् २.६.१८] तिष्ठन्त्यत्र सर्वभूतानीति स्थितयो मर्ताद्यैश्वर्याणि तानि पादा इवाधिष्ठानभूतानि यस्य तस्य स्थित्पदः पादेषु चतुर्ष्वेव ऐश्वर्य भागेषु सर्वभूतानि पार्षदपर्यन्तानि । पादान् दर्शयति । त्रयाणां सात्त्विकादिपदर्थानां मूर्धैव मूर्धा प्रवृत्तिः तस्य त्रयाणां मूर्धसु तदुपरि विराजमानेषु श्रीवैकुण्ठलोकेषु अमृतं क्षेमम् अभयं चाधायि नित्यं धृतमेव तिष्ठतीत्यर्थः । ततः पूर्वस्य मर्त्यान्नमात्रात्मकत्वादेकपात्त्वम्, उत्तरस्यामृतादि त्रयात्मकत्वात्त्रिपात्त्वमिति भावः । तदनेन पादोऽस्य विश्वा भूतानि त्रिपादस्यामृतं दिवि इत्यस्यार्थो दर्शितः । अस्य पादस्तथास्यैव दिशि वैकुण्ठे यदमृताद्य्आत्मकं त्रिपात्तच्च विश्वा भूतानीत्यर्थः । अत्राधिष्ठानाधिष्ठेययोरैक्योक्तिः । [८३] अथ चतुष्पात्त्वे च त्रिलोकीव्यवस्थावत्पक्षान्तरं दर्शयति । पादास्त्रयो बहिश्चासन्न् अप्रजानां य आश्रमाः । अन्तस्त्रिलोक्यास्त्वपरो गृहमेधोऽबृहद्व्रतः ॥ [भागवतम् २.६.१९] चशब्दः उक्तसमुच्चयार्थः । प्रपञ्चाद्बहिः पादास्त्रय आसन्नेव प्रपञ्चात्मकस्य चतुर्थपादस्यैव विभागविपक्षायां तु त्रिलोक्या बहिश् चान्ये पादास्त्रय आसन्नित्येवं मन्त्रोऽपि हि तथैव पुनः शब्दः । ते के? अप्रजानां ब्रह्मचारिवनस्थयतीनामाश्रमाः प्राप्या ये लोकाः । [८४] अतएव धर्मत्रयप्राप्यत्वात्चतुर्णामपि त्रिपात्त्वम् । अपरस्तु चतुर्थः पादस्त्रिलोक्या अन्तरिति गृहमेधस्तत्प्राप्यः अतएवोभयथापि पुरुषश् चतुष्पादित्याह । सृती विचक्रमे विश्वम् साशनानशने उभे । यदविद्या च विद्या च पुरुषस्तूभयाश्रयः ॥ [भागवतम् २.६.२०] विष्वङ्सर्वव्यापी । पुरुषः पुरुषोत्तमः । एते सृती ते प्रपञ्चाप्रपञ्च लक्षणे जीवस्य गती । विचक्रमे आक्रम्य स्थितः । कथम्भूते ? साशनानशने कर्मादिफलभोगतद्अतिक्रमयुक्ते । तस्यैव एतद् आक्रमणे हेतुः । यत्ययोः सृत्योः अविद्या मायैकत्र विद्या चिच्छक्तिर् अन्यत्राश्रय इत्यर्थः । पुरुषोत्तमस्तु तयोर्द्वयोरप्याश्रयः । वक्ष्यते च यस्माद्दण्डं विराड्जज्ञे [भागवतम् २.६.२१] इत्यादिना । तस्मात् सर्वैश्वर्येणैकदेशैश्वर्येण च चतुष्पात्त्वमिति भावः ॥ ॥ २.६ ॥ श्रीब्रह्मा श्रीनारदम् ॥ ८४ ॥ [८५] एवं शान्तरङ्गवैभवस्य भगवतः स्वरूपभूतयैव शक्त्या प्रकाशमानत्वात्स्वरूपभूतत्वम् । सा च शक्तिविशिष्टस्यैव स्वरूपत्वात् स्वरूपान्तःपातेऽपि भेदलक्षणां वृत्तिं भजन्ती तत्र प्रकाशविशेषं वैचित्रीवृन्दं च प्रकटयति । तत्र तत्र तादृशत्वे भ्रमोपासनासिद्ध गुरव एवास्माकं प्रमाणम् । तदेतदाह चतुर्दशभिः एवं तदैव भगवानरविन्दनाभः स्वानां विबुध्य सद्अतिक्रममार्यहृद्यः । तस्मिन् ययौ परमहंसमहामुनीनाम् अन्वेषणीयचरणौ चलयन् सहश्रीः ॥ [भागवतम् ३.१५.३७] तं त्वागतं प्रतिहृतौपयिकं स्वपुम्भिस् ते ञ्चक्षताक्षविषयं स्वसमाधिभाग्यम् । हंसश्रियोर्व्यजनयोः शिववायुलोलच् छुभ्रातपत्रशशिकेसरशीकराम्बुम् ॥ [भागवतम् ३.१५.३८] कृत्स्नप्रसादसुमुखं स्पृहणीयधाम स्नेहावलोककलया हृदि संस्पृशन्तम् । श्यामे पृथावुरसि शोभितया श्रिया स्वश् चूडामणिं सुभगयन्तमिवात्मधिष्ण्यम् ॥ [भागवतम् ३.१५.३९] पीतांशुके पृथुनितम्बिनि विस्फुरन्त्या काञ्च्यालिभिर्विरुतया वनमालया च । वल्गुप्रकोष्ठवलयं विनतासुतांसे विन्यस्तहस्तमितरेण धुनानमब्जम् ॥ [भागवतम् ३.१५.४०] विद्युत्क्षिपन्मकरकुण्डलमण्डनार्ह गण्डस्थलोन्नसमुखं मणिमत्किरीटम् । दोर्दण्डषण्डविवरे हरता परार्ध्य हारेण कन्धरगतेन च कौस्तुभेन ॥ [भागवतम् ३.१५.४१] अत्रोपसृष्टमिति चोत्स्मितमिन्दिरायाः स्वानां धिया विरचितं बहुसौष्ठवाढ्यम् । मह्यं भवस्य भवतां च भजन्तमङ्गं नेमुर्निरीक्ष्य न वितृप्तदृशो मुदा कैः ॥ [भागवतम् ३.१५.४२] तस्यारविन्दनयनस्य पदारविन्द किञ्जल्कमिश्रतुलसीमकरन्दवायुः । अन्तर्गतः स्वविवरेण चकार तेषां सङ्क्षोभमक्षरजुषामपि चित्ततन्वोः ॥ [भागवतम् ३.१५.४३] ते वा अमुष्य वदनासितपद्मकोशम् उद्वीक्ष्य सुन्दरतराधरकुन्दहासम् । लब्धाशिषः पुनरवेक्ष्य तदीयमङ्घ्रि द्वन्द्वं नखारुणमणिश्रयणं निदध्युः ॥ [भागवतम् ३.१५.४४] पुंसां गतिं मृगयतामिह योगमार्गैर् ध्यानास्पदं बहुमतं नयनाभिरामम् । पौंसं वपुर्दर्शयानमनन्यसिद्धैर् औत्पत्तिकैः समगृणन् युतमष्टभोगैः ॥ [भागवतम् ३.१५.४५] श्रीकुमारा ऊचुः योऽन्तर्हितो हृदि गतोऽपि दुरात्मनां त्वं सोऽद्यैव नो नयनमूलमनन्त राद्धः । यर्ह्येव कर्णविवरेण गुहां गतो नः पित्रानुवर्णितरहा भवद्उद्भवेन ॥ [भागवतम् ३.१५.४६] तं त्वां विदाम भगवन् परमात्मतत्त्वं सत्त्वेन सम्प्रति रतिं रचयन्तमेषाम् । यत्तेऽनुतापविदितैर्दृढभक्तियोगैर् उद्ग्रन्थयो हृदि विदुर्मुनयो विरागाः ॥ [भागवतम् ३.१५.४७] नात्यन्तिकं विगणयन्त्यपि ते प्रसादं किम्वन्यदर्पितभयं भ्रुव उन्नयैस्ते । येऽङ्ग त्वद्अङ्घ्रिशरणा भवतः कथायाः कीर्तन्यतीर्थयशसः कुशला रसज्ञाः ॥ [भागवतम् ३.१५.४८] कामं भवः स्ववृजिनैर्निरयेषु नः स्ताच् चेतोऽलिवद्यदि नु ते पदयो रमेत । वाचश्च नस्तुलसिवद्यदि तेऽङ्घ्रिशोभाः पूर्येत ते गुणगणैर्यदि कर्णरन्ध्रः ॥ [भागवतम् ३.१५.४९] प्रादुश्चकर्थ यदिदं पुरुहूत रूपं तेनेश निर्वृतिमवापुरलं दृशो नः । तस्मा इदं भगवते नम इद्विधेम योऽनात्मनां दुरुदयो भगवान् प्रतीतः ॥ [भागवतम् ३.१५.५०] अथ क्रमेण व्याख्यायते । एवं तदैवेति । टीका च एवं स्वानां महत्सु अतिक्रममपतराधं तत्क्षणमेव विबुध्य, तस्मिन् यत्र ते सनकादयस्ताभ्यां जयविजयाभ्यां रुद्धाः । तं देशं ययौ । आर्याणां हृद्यः मनोज्ञः । चरणौ चलयन्निति । अयं भावः मच् चरणदर्शन्प्रतिघातजं क्रोधं तौ दर्शयन् शमयिष्यामीति त्वरा व्याजेन पद्भ्यामेव ययौ । श्रीसाहित्यं च निष्कामानपि विभूतिभिः पूरयित्वा क्षमापयितुमिति । इत्येषा । अत्र तेषामात्मारामाणामप्यानन्ददानार्थं चरणदर्शनेन तस्य सच्चिदानन्दघनत्वम् । श्रीसाहित्येन तच्छक्तिविलासस्यापि स्वरूपानितरत्वं विवक्षितम् । स्वानामिति बहुवचनं द्वयोरप्य् अपराधः सर्वेष्वेव परिवारेष्वापततीत्यपेक्षया तयोर्बहुमानाद्वा । स्वशब्देन मुनीनां न तादृशं तद्आत्मीयत्वमिति विवक्षितम् । तत्र तैर्दृष्टं देवमनुवर्णयति पञ्चभिः । तं त्वागतमिति । ते सनकादयः स्वसमधिना भाग्यं भजनीयं फलं यद्ब्रह्म तद् एवाक्षविषयम् । यद्वा स्वसमाधेः स्वय्स हृदि ब्रह्माकारेण परतत्त्व स्फूर्तेर्भाग्यं फलरूपम् । यतोऽक्षविषयं तदीयस्वप्रकाशकता शक्तिसंस्कृतनिखिलधीन्द्रियस्फुरितत्वेन सम्प्रति विस्पष्टम् एवानुभूयमानम् । अनेन पूर्ववत्तस्य शब्दस्पर्शरूपरस गन्धाख्यानां सर्वेषामेव धर्माणां सच्चिद्आनन्दघनात्मत्वं साधितम् । तथा नित्यमेव तथाविधसततोदित्वरमाधुरी वैचित्र्यानुभवपूर्वकं परमप्रेमानन्दसन्दोहेन सेवमानैस् तस्यात्मीयैः पुरुषैरानीत सेवोपविक [?] नानावस्तुभिः सेव्यमानं भगवन्तं कथञ्चित्क्वचित्कदाचिदेव तदानीं केनापि समाधिज भाग्योदयेन केवलमपश्यन्निति तेषां परमविदुषां स्पृहास्पदावस्थेषु श्रीवैकुण्ठपुरुषेषु कस्या अपि भगवद्आनन्द शक्तेर्विलासमयत्वं दर्शितम् । अथ तेषां भगवद्रतेरुद्दीपनत्वेन चित्तक्षोभकत्वात्तत् परिच्छदादीनामपि तादृशत्वमाह हंसेति सार्धैस्त्रिभिः । केशरा मुक्तामयप्रलम्बाः । कृत्स्नप्रसादेति । कृत्स्नस्य द्वारपालमुनि वृन्दस्य प्रसादे सुमुखमिति स्पृहणीयानां गुणानां धाम स्थानमिति । तत्तद्गुणानां तादृशत्वं दर्शितम् । स्नेहावलोकेति विलासस्य । स्वः सुख भोगस्थानानि नित्यानन्तानन्दरूपित्वात् । तेषां चूडामणिमात्मधिष्ण्यं स्वस्वरूपं स्थानं श्रीवैकुण्ठम् । तादृशत्वेऽप्युरसि शोभितया श्रिया कृत्वा सुभगयन्तमिव तत्र भूषणविशेषं निदधानमिव । इवेति वाक्यालङ्कारे । अनेन श्रीवैकुण्ठस्य । उक्तं च तद्विश्वगुर्वित्यादौ आपुः परां मुदमित्यादि [भागवतम् ३.१६.२६] । वक्ष्यते च अथ ते मुनयो दृष्ट्वा नयनानन्दभाजनम् । वैकुण्ठं तद्अधिष्ठानं विकुण्ठं च स्वयंप्रभम् ॥ [भागवतम् ३.१६.२७] भगवन्तं परिक्रम्य प्रणिपत्यानुमान्य च । प्रतिजग्मुः प्रमुदिताः शंसन्तो वैष्णवीं श्रियम् ॥ [भागवतम् ३.१६.२८] पीतांशुके इति । काञ्च्या वनमालया चेत्यत्रेत्थ्मभूतलक्षणे तृतीया । विद्युदिति । हरता मनोहरेण । तदेवं परिच्छदादीनामपि तादृशत्वं वर्णयित्वा पुनस्तस्यैवातिमनो हरत्वमाह अवोपसृष्टमिति[*Eण्ड्ण्Oट्E ॰२५] । इन्दिराया उत्स्मितं गर्वः अव भगवति उपसृष्टम् । अस्य कान्तस्य नित्येन लाभेन नित्यमेवाधिकम् आविर्भावितमिति तदीयानां धिया वितर्कितम् । अत्र हेतुः बहु सौष्ठवाढ्यमनन्तस्वरूपगुणसम्पद्भिर्युक्तम् । नन्वेवम्भूतस्य लक्ष्म्या अपि रहस्यमहानिधिरूपस्य परमवस्तुनः कथं प्रकाशः स्मभवतीत्यत आह मह्यमिति । मदादीनां भक्तानां कृते अङ्गं भजन्तं मूर्तिं प्रकटयन्तमस्मद्विषयकमङ्गीकारं भजन्तमित्यर्थः । उल्लङ्घितत्रिविधसीमसमातिशायि सम्भावनं तव परिव्रढिमस्वभावम् मायाबलेन भवतापि निगुह्यमानं पश्यन्ति केचिदनिशं त्वद्अनन्यभावाः ॥ [ष्तोत्ररत्न, १३] इतिवत् । भक्तिरेवैनं नयति भक्तिरेवैनं दर्शयतीत्यादि श्रुतेः । तथाभूतं तमचक्षतेति । निरीक्ष्य च मुदा कैः शिरोभिर्नेमुः । न विशेषेण तृप्ता दृशो नेत्राणि येषां ते । तस्येति [३.१५.४३]। टीका च स्वरूपानन्दादपि तेषां भजनानन्दाधिक्यम् इत्याह । तस्य पदारविन्दकिञ्जल्कैः केशरैर्मिश्रा या तुलसी तस्या मकरन्देन युक्तो यो वायुः, स्वविवरेण नासाच्छिद्रेण, अक्षरजुषां ब्रह्मानन्दसेविनामपि, संक्षोभं चित्तेऽतिहर्षं तनौ रोमाञ्चम् । इत्य् एषा ॥ अत्र पदयोररविन्दकिञ्जल्कमिश्रा या तुलसीति व्याख्येयम् । अरविन्द तुलस्यौ च तदानीं वनमालास्थिते एव ज्ञेये । अस्तु तावद्भगवद्आत्म भूतानां तेषामङ्गोपाङ्गानां तेषु क्षोभकारित्वं तत्समन्धि समन्धिनो वायोरपीति भावः । हर्षकारितं सम्भ्रममाह द्वाभ्याम् । ते वा [३.१५.४४] इति । ते वै किल, वदनमेव असितपद्मकोषः ईषद्विकसितं नीलाम्बुजं तमुतूर्ध्वं वीक्ष्य लब्धमनोरथाः सन्तः, नया एवारुणमणयः तेषां श्रयणम् आश्रयभूतमङ्घ्रिद्वन्द्वं पुनरवेक्ष्य अधोदृष्ट्या वीक्ष्य पुनः पुनरेवं वीक्ष्य युगपत्सर्वाङ्गलावण्यग्रहणाशक्तेः पश्चान् निदधुश्चिन्तयामासुः, युगपदेव कथमिदमिदं सर्वं पश्येमेत्य् उत्कण्ठाभिः स्थायिभावपोषकं चिन्ताख्यं भावमापुरित्यर्थः । पुंसामिति । बहुमतं ब्रह्मणोऽपि धनप्रकाशत्वादत्यादरास्पदम् । पौंस्नं [?] वपुर्दर्शयानमिति । पुरुषस्य गर्भोदशायिनो गुणावतार रूपं श्रीविष्ण्व्आख्यं यद्वपुस्तदभिन्नतया स्वं वपुर्दर्शयन्तं, न तु ब्रह्मादिवदन्यथात्वेनेत्यर्थः । अनन्येन स्वेनैव सिद्धै’स्वरूप भूतैरित्यर्थः । अतएवोत्पत्तिकैः तद्वदेवानादिसिद्धैरित्यर्थः । अणिमाद्य्अष्टैश्वर्ययुतं विशिष्टं न तूपलक्षितम् । अनेन त्तेषां स्तुत्य् आस्पदविशेषणत्वेन ऐश्वर्योपलक्षितसमस्तभगानां तादृशत्वं व्यञ्जितम् । समगृणन् सम्यगस्तुवन्निति । अथ श्रीभगवतस्तादृशभावव्यञ्जिनीं निजामुक्तिं तेषामेव स्व हार्दाभिव्यक्तिकरेण स्तुतिवाक्येन प्रमाणयति, श्रीकुमारा ऊचुरिति । स्तुतिमाह य इति पञ्चभिः । अत्राक्षरजुषामपि [भागवतम् ३.१५.४३] इत्यनुसृत्य व्याख्यायते । नित्यं ब्रमरूपेण प्रकाशसे न तच्चित्रम् । इदानीं तु विशुद्धसत्त्वलक्सणेन स्वरूपशक्तिवृत्तिविशेषेण प्रकाशितया घन प्रकाशपरतत्त्वैकरूपया मूर्त्या प्रत्यक्षोऽसि, अहो भाग्यमस्माकम् इत्याहुः । हे अनन्त यस्त्वं हृद्गतोऽपि दुरात्मनामन्तर्हितो न स्फुरसि, स नोऽस्माकमन्तर्हितो न भवसि, नयनमूलं त्वयैव राद्धः प्राप्तोऽसि । तथा च अपि संराधने प्रत्यक्षानुमानाभ्यामित्यस्य विषयवाक्यम् पराञ्चि यानि व्यतृणत्स्वयम्भूस्तस्मात्पराङ्पश्यसि नान्तरात्मन् । कश्चिद्धीरः प्रत्यग्आत्मानमैक्षदावृत्तचक्षुरमृतत्वमिच्छन्निति । अन्तर्धानाभावे हेतुः भवद्उद्भवेन ब्रह्मणा तेनास्मत्पित्रा यर्हि यदैवानुवर्णितरहा उद्दिष्टब्रह्माख्यरहस्यः, तदैव नः कर्म मार्गेण तद्रूपतया गुहाः बुद्धिं गतोऽस्मीति । ननु, पित्रोपदिष्टं भवतामदृश्यमात्मतत्त्वाख्यं रहः, अहं त्वन्य एव स्यां दृश्यत्वात् । नैवम् । अस्मत्प्रत्यभिज्ञया भेदनिरासादित्याहुः तं त्वामिति । हे भगवन् परं केवलमात्मतत्त्वं ब्रह्मस्वरूपं त्वां विदाम विद्मः प्रत्यभिजानीमः । केन प्रत्यभिजानीथ? सम्प्रति अधुना सत्त्वेन, अस्मास्वेतद्रूपाविर्भावेन । एतावन्तं कालं न ज्ञातवन्तो वयं, अधुना तु साक्षाद्अनुभवेन निश्चितवन्तः स्म इत्यर्थः । त्वं शुद्ध चित्तवृत्तौ ब्रह्मवत्नेत्रेऽप्यस्माकं स्फुरसि, न तु दृश्यत्वेनेति भावः । न केवलं प्रत्यभिज्ञामात्रमित्याहुः । एषामस्माकं रतिं रचयन्तम् अन्यथा रतिरपि त्वय्यस्माकं नोद्भवेदिति भावः । निरहंमानादित्वेनान्येषामप्यात्मारामाणामन्यतो रत्य्अभावमेव द्योतयन्तस्तद्आत्मतत्त्वमाहुः तत्रैव साधनवशिष्ट्यात्किमपि वैशिष्ट्यं चाहुः । यत्त्वद्रूपत्वेनाविर्भवद्आत्मतत्त्वं तेऽनुतापः कृपा, तेनैव विदितैर्दृढभक्तियोगैर्विदुः । यद्वा अनुतापो दैन्यं तेन विदितैस्ते तव दृढभक्तियोगैः । कीदृशाः ? उद्ग्रन्थयो निरहंमानाः । अतएव विरागाः । तदेवं पित्रानुवर्णितरहा इत्यत्र रहःशब्दश्चतुः श्लोकीरीत्या प्रेमभक्तेरेव वाचक इति व्यञ्जितम् । अथ पूर्वमभेदमतयोऽपि सम्प्रति स्वरूपानन्दशक्तिविलासैर्विचित्रित मतयो भूयोऽपि भेदात्मिकां भक्तिमेव प्रार्थयितुं भक्तानां सुखातिशयमाहुः, नात्यन्तिकमिति । आत्यन्तिकं मोक्षलक्षणं प्रसादम् अपि, किमुतान्यदिन्द्रादिपदम् । इदानीं स्वापराधं द्योतयन्तो भक्तिं प्रार्थयन्ते काममिति । हे भगवन्म्, अतः पूर्वमस्माकं वृजिनं नाभवत् । इदानीं तु सर्वाण्यपि जातानि यतस्त्वद्भक्तौ शप्तौ । अतस्तैर्वृजिनैर्निरयेषु कामं नोऽस्माकं भवो जन्म स्यात् । अनेन तद्अधिगम उत्तरपूर्वार्धयोर् अश्लेषविनाशौ तद्व्यपदेशादिति न्यायेनासम्भवतद्भावानां ब्रह्म ज्ञानिनामपि स्वेषां बहुनरककारिवृजिनापातक्षमापणेन तयोर् इत्थम्भूतगुणो हरिरितिवत्सर्वाद्भुतमहत्तमत्वं सूचितम् । अहो निरया अपि भवेयुरेव, न तावतापि पर्याप्तं, तेभ्यश्च नास्माकमपि भयम् । अत्र तु मूलं दुष्फलं भगवत्पराङ्मुखीभाव एव, स त्वस्माकं माभूदिति सकाकु प्रार्थयन्ते । नु वितर्के । यदि तु नश्चेतस्ते पदयो रमेत, तत्राप्यलिरदेव केवलतन्माधुर्यास्वादापेक्षया, न तु ब्रह्मात्मानुभवापेक्षया, एवं वाचश्चेत्यादि । अत्र भतापराधस्य भगवता क्षमा तद्इच्छामात्रकृततत्क्रोधजननात्तेषाम् अपराधाभासत्वेनेति ज्ञेयम् । श्लोकद्वयेऽस्मिन् कैवल्यान्नरकोऽपि त्वद्भक्तिमात्रं कामयमानानाम् अस्माकं तद्अविरोधत्वात्श्रेयानिति स्वारस्यलब्धं, तथापीत्थं कृतार्थत्वमस्माकमतिचित्रमित्याहुः प्रादुरिति । अनात्मनामात्मनस् तव एकान्तभक्तिरहितानामप्रकटोऽपि इतित्थं यः प्रतीतोऽसि, तस्मै तुभ्यं नम इदं विधेमेति । तत्रैतदुक्तं भवति । एते ब्रह्मविद्या सिद्धानां परावरगुरूणामपि गुरवः । अतएव परमहंसमहा मुनीनामित्युक्तम् । तं त्वामहं ज्ञानघनं स्वभाव प्रध्वस्तमायागुणभेदमोहैः । सनन्दनाद्यैर्हृदि संविभाव्यम्[*Eण्ड्ण्Oट्E ॰२६] [भागवतम् ९.८.२३] इति श्रीमद्अंशुमद्वाक्यादौ इहात्मतत्त्वं सम्यग्जगाद मुनयो यद् अचक्षतात्मन्निति [भागवतम् २.७.५] ब्रह्मवाक्यादौ, तस्मै मृदितकषायाय तमसः पारं दर्शयति भगवान् सनत्कुमार इत्यादि श्रुतौ च तथा प्रसिद्धम् । आसन्नानुभवस्यैव तु सिद्धस्याणिमादिभिर्विघ्नोऽपि सम्भाव्यः । न तु सिद्धानुभवस्य, तं सप्रपञ्चमधिरूढसमाधि योगः स्वाप्नं पुनर्न भजते प्रतिबुद्धवस्तुरिति [भागवतम् ३.२८.३८] श्री कपिलदेववाक्यात् । अतेव तेषां प्रध्वस्तमायागुणभेदमोहानां क्रोधादिकमपि दुर्घटघटनाकारिण्या श्रीभगवद्इच्छयैव जातमिति तैरपि व्याख्यातम् । तदेवं तेषां सततब्रह्मानन्दमग्नत्वं सिद्धम् । तद् उक्तम् अक्षरजुषामपीति [भागवतम् ३.१५.४३], योऽन्तर्हित [भागवतम् ३.१५.४६] इत्यादि च । श्रूयते चान्यत्र ब्रह्मजुषामविक्षिप्तचित्तत्वम् । यथा सप्तमे श्री नारदवाक्यम् कामादिभिरनाबिद्धं प्रशान्ताखिलवृत्तिर्यत् । चित्तं ब्रह्मसुखस्पृष्टं नैवोत्तिष्ठेत कर्हिचित् ॥ इति [भागवतम् ७.१५.३५] तथापि तेषां भगवद्आनन्दाकृष्टचित्तत्वमुच्यते । एवमन्येषामप्य् आत्मारामाणां तादृशत्वं श्रूयते । स्वसुखनिभृतचेतास्तद्व्युदस्तान्य् अभावोऽप्यजितरुचिरलीलाकृष्टसारः [भागवतम् १२.१२.६८] इत्यादिषु । अथ लोकसङ्ग्रहार्थैर्वेषा तेषां भक्तिप्रक्रिया प्राचीनसंस्कारवशा वा ? नैवम् । उभयत्रापि वासो यथा परिकृतं मदिरामदान्ध [भागवतम् ३.२८.३७] इतिवत्तत्रावेशासम्भवात् । दृश्यते त्वन्यत्रानावेशः मानसा मे सुता युष्मत्पूर्वजाः सनकादयः । चेरुर्विहायसा लोकान् लोकेषु विगत स्पृहा [भागवतम् ३.१५.१२] इत्यभिधानात् । भगवति त्वावेशः परमहंस महामुनीनामन्वेषणीयचरणौ [भागवतम् ३.१५.३७] इत्यत्र यादृच्छिकताविरोध्य्अन्वेषणीयत्वाभिधानात् । पञ्चमे तु, असङ्गनिशित ज्ञानानलविधूताशेषमलानां भवत्स्वभावनामात्मरामाणां मुनीनामनवरतपरिगुणितगुणगण [भागवतम् ५.३.११] इत्यत्र गद्ये तद्एक निष्ठत्वमप्युक्तम् । अजितरुचिरलीलाकृष्टसार इत्य्[भागवतम् १२.१२.६९] अत्रैव च । अत्रापि तेनेश निवृत्तिमवापुरलं दृशो न [भागवतम् ३.१५.५०] इत्यादौ सुखदत्वमपि साक्षादेवोक्तम् । अत्र पूर्वोक्तहेतोश्च स्तुतौ प्रतुतोपालम्भप्रसङ्गाच्च स्नेहावलोककलया हृदि संस्पृशन्तमिति [भागवतम् ३.१५.३९] साक्षादुक्तेश्च दृशामेव सुखं जातमित्यनासक्तिरेव व्यञ्जितेत्य् अपि न व्याख्येयम् । तस्मादात्मारामाणां रमणास्पदत्वाद्ब्रह्माख्यमात्मवस्त्वेव श्री भगवान् । तत्रापि चकार तेषां संक्षोभमक्षरजुषामपि चित्ततन्वोर् इति [भागवतम् ३.१५.४३] श्रवणात्ततोऽपि घनप्रकाशः । तत्तद्विचित्रश्रीभगवद् अङ्गोपाङ्गाद्य्अभिनिवेशदर्शनानन्दवैचित्री चोपलभ्यते, सा चान्यथानुपपत्त्या स्वरूपशक्तिविलासरूपैवेति । ननु, भवतु तेषामानन्दाधिक्यात्तस्मिन्निर्विशेषस्वरूपानन्दस्यैव घनप्रकाशता, उपाधिवैशिष्ट्यात् । यतः, विशुद्धसत्त्वांशभावितायां चित्तवृत्तौ यद्ब्रह्म स्फुरति । तदेव घनीभूताखण्डविशुद्धसत्त्व मये भगवति स्फुरत्तद्अध्यस्ततया तदैक्यमापन्नायां तस्यां विशेषत एव स्फुरति । अतएव श्रीविग्रहादिपरब्रह्मणोरभेदवाक्यम् अपि तदत्यन्ततादात्म्यापेक्षयैव । अतएव तत्र तत्रोपाधावेक एव निर्भेदपरमानन्दः समुपलभ्यते, न तु विशेषाकारगन्धोऽपि, तत्तद् उपाधेरपेक्षणं तु प्रतिपदतद्आनन्दसमाधिकौतुकनिबन्धनं तस्मात्कथमनेन प्रमाणेन तत्तद्उपाधीनामपि परतत्त्वाकारत्वं साध्यते इति । उच्यते भवन्मते तावत्शुद्धचित्तवृत्तौ परब्रह्म स्फुरति सम्यगेव स्फुरति । भेदांशलेशपरित्यागेनैव ब्रह्म विद्यात्वाङ्गीकारात् । असम्यग्ज्ञानस्य तत्त्वानङ्गीकारात्तेन कैवल्यासम्भवाच्च । अतो न श्रीविग्रहादावधिकाविर्भावाङ्गीकारो युज्यते । किं च, शुद्धसत्त्वमया विग्रहादिलक्षणोपाधय इति वदतस्तव कोऽभिप्रायः ? किं तत्परिणामास्ते तत्प्रचुरा वा ? नाद्यः, रजोऽसद् भावेन परिणामासम्भव इति ह्युक्तम् । न चान्त्यः, येषु विग्रहादिषु तत् प्राचुर्यं ते मिश्रसत्त्वस्य कार्यभूता इत्यर्थापत्तौ सत्त्वं विशुद्धं श्रयते भवान् स्थितौ [भागवतम् १०.२.३४] इत्यादिवचनजाते विशुद्धपद वैयर्थ्यमिति चोक्तमेव । अस्तु वा विमिश्रत्वं तथापि तादृशे ब्रह्म स्फुरणयोग्यतैव न सम्भवेत्किं पुनर्विशेषणेत्युद्देश्यविस्मृतिश्च स्यात् । अथाखण्डविशुद्धसत्त्वाश्रयत्वेन तेऽपि तद्रूपतयैवोच्यन्ते । ततश्च तेष्वनुभूताखण्डशुद्धसत्त्वे तस्मिन् ब्रह्मानुभवन्तीति चेत्, ततयुक्तं कल्पनागौरवात्, तेऽचक्षताक्षविषयं स्वसमाधिभाग्यम् इति [भागवतम् ३.१५.३८] साक्षादेव गोचरीकृतत्वेन उक्ततया परम्परादृष्टत्व प्रतिघाताच्च । तस्य शुद्धसत्त्वस्य प्राकृतत्वं तु निषिद्धमेव । तस्मान् न ते प्राकृतसत्त्वपरिणामा न वा तत्प्रचुराः, किन्तु स्वप्रकाशत्ता लक्षणशुद्धसत्त्वप्रकाशिता इति प्राक्तनमेवोक्तं व्यक्तम् । अतएव तेषामुपाधित्वनिराकृतेस्तत्तद्अनुभवानन्दवैचित्री च सम्पद्यते । तथैव तमेवमेवम्भूतमचक्षतेति तत्तद्विषयसौन्दर्यवर्णनन्ं प्रस्तुतोपकारित्वात्सार्थकं स्यात् । अखण्डशुद्धसत्त्वमय मात्रेणैवाभिप्रेतसिद्धेः । अतएव निरीक्ष्य च न वितृप्तदृश [भागवतम् ३.१५.४२] इति दृक्सम्बन्धि त्वद्रूपकृतैवातृप्तिरुक्ता । तथैव च शब्देनैवाक्षरजयित्वं पदारविन्दपरिमलात्मकवायु लक्षणस्यतद्विशेषस्यदर्शितम् । अन्यथोभयत्रापि ब्रह्मानन्दस्यैव निर्विशेषतयोपलभ्यमानत्वे विद्याजुषामपीत्युपाधिप्रधानमेवोच्यते । उपाधियुगलस्यैव मिथः स्पर्धित्वप्राप्तेः । अनेनाक्षरानुभव मुखजयित्वकथनेन वैशिष्ठादीनं पुत्रशोकादिकमिव तद् आवेशाभास एवायमित्यपि निरस्तम् । अत एवमेवोक्तं श्रीस्वामिभिरपि स्वरूपानन्दादपि तेषां भजनानन्दाधिक्यमाहेति । तस्मादस्ति वैचित्र्यम् । इति । अतएव तैरपि विचित्रतयैव प्रार्थितं चेतोऽलिवद्यदि नु ते पदयो रमेत [भागवतम् ३.१५.४९] इत्यादौ । अक्क चेन्मधु विन्देत किमर्थं पर्वतं व्रजेतिति न्यायेन तद्उपाध्य्अन्तरान्वेषणवैयर्थ्यात्तेषाम् अतद्अन्वेषणकौतुकाभावाच्च । किं च, न तेषामभेदात्मकोऽनुभवो वा दृश्यते, प्रत्युत नेमुर्निरीक्ष्य न वितृप्तदृशो मुदा कैः [भागवतम् ३.१५.४२], कामं भवः स्ववृजिनैर्निरयेषु नः स्तादित्यादौ [भागवतम् ३.१५.४९], तत्प्रतियोगिनमस्काराद्य्उपलक्षित भेदात्मकभक्तिसुखमेव दृश्यते । तस्मान्मायिकोपाधिनिहीनत्वाद् धेयांशतया प्रतिभातत्वाच्च न तज्जातीयं सुखमन्यजातीयं कर्तुं शक्नोतीति सन्त्येवान्यथानुपपत्तिसिद्धायाःस्वरूपशक्तेरेव विलासाः । अपि च अस्तु तावज्जीवन्मुक्तदशायां तन्मते विद्योपाधि प्रतिफलितस्यैव सतो ब्रह्मणः सकाशात्श्रीभगवतो घनप्रकाशतो सर्वोपाधिविनिर्मुक्तमुक्तिदशायामपि साक्षात्तादृशतास्त्येवेति सुव्यक्तं नात्यन्तिकं विगणयन्त्यपि ते प्रसादम् [भागवतम् ३.१५.४८] इत्यादौ तस्मान्नोपाधितारम्यचिन्ता । भवतः कथाया [भागवतम् ३.१५.४८] इत्यनेन निरुपाधिब्रह्मभूतादुपरि च वैचित्री स्फुटमेवासौ स्वीकृता । तस्मात् सान्तरङ्गवैभवस्य भगवतः सुखैकरूपत्वं, तद्रूपत्वेऽपि ब्रह्मतोऽपि घनप्रकाशत्वं, स्वरूपशकित्विलासवैचित्री चेति विद्वद् अनुभवप्रमाणेन निर्णीतम् । तत्र, मुक्ता अपि लीलया विग्रहं कृत्वा भजन्त इति । यं सर्वे देवा आमनन्ति मुमुक्षवो ब्रह्मवादिनश्चेत्यत्र श्रुतावद्वैतवादगुरवोऽपि । कृष्णो मुक्तैरिज्यते वीतमोहैरिति भारते । ब्रह्मभूतः प्रसन्नात्मा न शोचति न काङ्क्षति । समः सर्वेषु भूतेषु मद्भक्तिं लभते पराम् ॥ इति [गीता १८.५४] श्रीभगवद्गीतोपनिषत्सु । मुक्तानामपि भक्तिर्हि नित्यानन्दस्वरूपिणीति भारततात्पर्ये प्रमाणिता श्रुतिश्च । तथा आप्रायणात्तत्रापि हि दृष्टमित्यत्र च मध्वभाष्य प्रमाणिता सौपर्णश्रुतिः । सर्वदैनमुपासीत यावन्मुक्तिमुक्ता ह्य् एनमुपासत इति । अतेव श्रीप्रह्लादबलिप्रभृतिमहाभागवत सम्बन्धमभिप्रेत्य श्रीविष्णुपुराणे[*Eण्ड्ण्Oट्E ॰२७]ऽप्युक्तं पाताले तस्य न प्रीतिर्विमुक्तस्यापि जायते इति । ॥ ३.१५ ॥ श्रीब्रह्मा देवान् ॥८५॥ [८६] अतएव शेषपुरुषार्थस्वरूप एवासाविति स्फुटमेवाहुर्गद्येन अथानयापि न भवत इज्ययोरुभारभरया समुचितमर्थम् इहोपलभामहे । आत्मन एवानुसवनमञ्जसाव्यतिरेकेण बोभूयमानाशेषपुरुषार्थस्वरूपस्य ॥ [भागवतम् ५.३.७८] टीका च आत्मनः स्वत एवानुसरणं सर्वदा अञ्जसा साक्षाद्वोभूयमाना अतिशयेन भवन्तो ये अशेषाः पुरुषार्थास्ते स्वरूपं यस्य परमानन्दस्य इत्येषा । श्रुतिश्च सर्वकामः सर्वगन्धः सर्वरसः इत्यादौ ॥ ॥ ५.३ ॥ ऋत्विग्आदयः श्रीयज्ञपुरुषम् ॥८६॥ [८७] तदेवं ब्रह्मणोऽपि यत्श्रीभगवति प्रकाशसम्यक्त्वं तत्पूर्वमेव विद्वद्अनुभववचनप्रचयेन सिद्धमपि विशेषतो विचार्यते । तत्रैकम् एव तत्त्वं द्विधा शब्द्यत इति न वस्तुनो भेद उपपद्यते । आविर्भावस्यापि भेददर्शनात्न च संज्ञामात्रस्य, किन्तुस्वस्वदर्शनयोग्यताभेदेन द्विविधोऽधिकारी द्विधा दृष्टं तदुपास्त इति । तत्राप्येकस्य दर्शनस्य वास्तवत्वमन्यस्य भ्रमजत्वमिति न मन्तव्यमुभयोरपि याथार्थ्येन दर्शितत्वात् । न चैकस्य वस्तुनः शक्त्या विक्रिअय्माणांशकत्वादंशतो भेदः । विकृतत्वनिएधात्तयोः । तस्माद् दृष्टेरसम्यक्सम्यक्त्व [?] सत्यपि सम्यक्त्वे तद्अननुसन्धानाद्वा एकस्मिन्नधिकारिण्येकदेशेन स्फुरदेकभेदः परस्मिन्नखण्डतया द्वितीयो भेदः । एवं सति यत्र विशेषं विनैव वस्तुनः स्फूर्तिः, सा दृष्टिर् असम्पूर्णा, यथा ब्रह्माकारेण, यत्र स्वरूपभूतनानावैचित्री विशेषवद्आकारेण, सा सम्पूर्णा, यथा श्रीभगवद्आकारेणेति लभ्यते । त एतदभिप्रेत्य प्रथमं दृष्टितारतम्येन तद्अभिव्यक्तितारतम्यं तन् महापुराणाविर्भावकारणाभ्यां प्रतिपाद्यते षड्भिः । श्रीनारद उवाच जिज्ञासितमधीतं च ब्रह्म यत्तत्सनातनम् । तथापि शोचस्यात्मानम् अकृतार्थ इव प्रभो ॥ [भागवतम् १.५.४] श्रीव्यास उवाच अस्त्येव मे सर्वमिदं त्वयोक्तं तथापि नात्मा परितुष्यते मे । तन्मूलमव्यक्तमगाधबोधं पृच्छामहे त्वात्मभवात्मभूतम् ॥ [भागवतम् १.५.५] स वै भवान् वेद समस्तगुह्यम् उपासितो यत्पुरुषः पुराणः । परावरेशो मनसैव विश्वं सृजत्यवत्यत्ति गुणैरसङ्गः ॥ [भागवतम् १.५.६] श्रीनारद उवाच भवतानुदितप्रायं यशो भगवतोऽमलम् । येनैवासौ न तुष्येत मन्ये तद्दर्शनं खिलम् ॥ [भागवतम् १.५.८] नैष्कर्म्यमप्यच्युतभाववर्जितं न शोभते ज्ञानमलं निरञ्जनम् । कुतः पुनः शश्वदभद्रमीश्वरे न चार्पितं कर्म यदप्यकारणम् ॥ [भागवतम् १.५.१२] ओं नमो भगवते तुभ्यं वासुदेवाय धीमहि । प्रद्युम्नायानिरुद्धाय नमः सङ्कर्षणाय च ॥ [भागवतम् १.५.३७] इति मूर्त्य्अभिधानेन मन्त्रमूर्तिममूर्तिकम् । यजते यज्ञपुरुषं स सम्यग्दर्शनः पुमान् ॥ [भागवतम् १.५.३८] श्लोका अमी बहुभिः संमिश्रा अप्यविस्तरत्वाय झटित्यर्थप्रत्ययस्य च संक्षिप्यैव समुद्धताः । क्रमेणार्था यथा जिज्ञासितमिति । टीका च यत् सनातनं नित्यं परं ब्रह्म, तच्च त्वया जिज्ञासितं विचारितम्, अधीतम् अधिगतं प्राप्तं चेत्यर्थः । तथापि शोचसि तत्किमर्थमिति शेषः । इत्य् एषा । त्वमिति त्वमर्क इव त्रिलोकीं पर्यटन् तथा वैष्णवयोगबलांशेन च प्राणवायुरिव सर्वप्राणिनामन्तश्चरः सनात्मनां सर्वेषामेव साक्षी बहिरन्तर्वृत्तिज्ञः । अतः परे ब्रह्मणि धर्मतो योगेन निष्टातस्य । तदुक्तं याज्ञवल्क्येन इज्याचारदयाहिंसा दानस्वाध्यायकर्मणाम् । अयं परमो लाभो यद् योगेनात्मदर्शनम् ॥ इति । अवरे च ब्रह्मणि वेदाख्ये व्रतैः स्वाध्यायनियमैर्निष्णातस्यापि मे अलम अत्यर्थं यन्न्यूनं तत्स्वयमेव विचक्ष्व वितर्कय । भवतेति । भगवद्यशोवर्णनोपलक्षणं भजनं विना येनैव रुक्षब्रह्म ज्ञानेन असौ भगवान् तु तुष्येत, तदेव दर्शनं ज्ञानं खिलं न्यूनं मन्ये तदेव स्पष्टयति । नैष्कर्म्यमिति । टीका च निष्कर्म ब्रह्मवेदेकाकारत्वान्निष्कर्मतारूपं नैष्कर्म्यम् अज्यतेऽनेनेत्यञ्जनमुपाधिः तन्निवर्तकं निरञ्जनम् । एवम्भूतमपि ज्ञानमच्युते भावो भक्तिस्तद्वर्जितं चेतलमत्यर्थं न शोभते सम्यग्अपरोक्षत्वाय न कल्पत इत्यर्थः । तदा शाश्वत्साधनकाले फल काले च अभद्रं दुःखस्वरूपं यत्काम्यं कर्म, यदप्यकारणम् अकाम्यं तच्चेति चकारस्यान्वयः । तदपि कर्म ईश्वरे नार्पितं चेत्कुतः पुनः शोभते ? बहिर्मुखत्वेन सत्त्वशोधकत्वाभावात् । इत्येषा । यद्वा निरञ्जनमिति निरूपाधिकमपीत्यर्थः । परमादरणीयत्वादेव द्वादशान्ते श्रीसूतेनापि पुनः कृतमिदं पद्यम् । तस्मादुक्तिरेव सम्यग्दर्शनहेतुरित्युपसंहरति द्वाभ्यां नम इति । मन्त्रमूर्तिं मन्त्रोक्तमूर्तिं, मन्त्रोऽपि मूर्तिर्यस्येति वा । अमूर्तिकं मन्त्रोक्तव्यतिरिक्तमूर्तिशून्यं, प्राकृतमूर्तिरहितं वा, मूर्ति स्वरूपयोरेकत्वात्प्राकृतवन्न विद्यते पृथक्त्वेन मूर्तिर्यस्य तथाभूतं वा । स पुमान् सम्यग्दर्शनः साक्षाच्छ्रीभगवतः साक्षात् कर्तृत्वादिति भावः ॥ ॥ १.५ ॥ श्रीसुतः ॥८७॥ [८८] तदेवं दृष्टितारतम्यद्वारा तद्अभिव्यक्ततारतम्येन श्रीभगवत उत्कर्ष उक्तः । अथ लिङ्गान्तरैरपि दर्श्यते । तत्रात्मरामजनाकर्ष लिङ्गेन गुणोत्कर्षविशेषेण तस्यैव पूर्णतामाह । आत्मारामाश्च मुनयो निर्ग्रन्था अप्युरुक्रमे । कुर्वन्त्यहैतुकीं भक्तिम् इत्थम्भूतगुणो हरिः ॥ [भागवतम् १.७.१०] टीका च निर्ग्रन्था ग्रन्थेभ्यो निर्गताः । तदुक्तं गीतासु यदा ते मोहकलिलं बुद्धिर्व्यतितरिष्यति । तदा गन्तासि निर्वेदं श्रोतव्यस्य श्रुतस्य च ॥ [गीता २.५२] इति । यद्वा ग्रन्थिरेव ग्रन्थः निर्वृत्तहृदयग्रन्थय इत्यर्थः । ननु मुक्तानां किं भक्त्येत्यादिसर्वाक्षेपपरिहारार्थमाह इत्थम्भूत गुणः । इत्येषा ॥ ॥ १.७ ॥ श्रीसूतः ॥८८॥ [८९] आरोहभूमिकाक्रमेणापि तस्यैवाधिक्यमाह मनो ब्रह्मणि युञ्जानो यत्तत्सदसतः परम् । गुणावभासे विगुण एकभक्त्यानुभाविते ॥ [भागवतम् ३.२४.४२] निरहङ्कृतिर्निर्ममश्च निर्द्वन्द्वः समदृक्स्वदृक् । प्रत्यक्प्रशान्तधीर्धीरः प्रशान्तोर्मिरिवोदधिः ॥ [भागवतम् ३.२४.४३] वासुदेवे भगवति सर्वज्ञे प्रत्यग्आत्मनि । परेण भक्तिभावेन लब्धात्मा मुक्तबन्धनः ॥ [भागवतम् ३.२४.४४] आत्मानं सर्वभूतेषु भगवन्तमवस्थितम् । अपश्यत्सर्वभूतानि भगवत्यपि चात्मनि ॥ [भागवतम् ३.२४.४५] इच्छाद्वेषविहीनेन सर्वत्र समचेतसा । भगवद्भक्तियुक्तेन प्राप्ता भागवती गतिः ॥ [भागवतम् ३.२४.४६] एकभक्त्या अव्यभिचारिण्या साधनलक्षणया भक्त्या, अनुभाविते निरन्तरमपरोक्षीकृते, तां विना कस्यचिदप्यर्थस्यासिद्धेः । निरहङ्कृतित्वादेव निर्ममः । तद्द्वयाभावादेव मनादीनामप्य् अभावः सिध्यति । समदृक्भेदाग्राहकः । स्वदृक्स्वस्वरूपाभेदेन ब्रह्मैव पश्यन् । प्रत्यकन्तर्मुखी प्रशान्ता विक्षेपरहिता धीर्ज्ञानं यस्य सः । तदेवं ब्रह्मज्ञानमिश्रभक्तिसाधनवशेन ब्रह्मानुभवे जातेऽपि भक्तिसंस्कारबलेन लब्धप्रेमादेस्तद्ऊर्ध्वमपि श्रीभगवद् अनुभवमाह । वासुदेव इति । प्रत्यग्आत्मनि सर्वेषामाश्रयभूते परेण प्रेमलक्षणेन भक्तिभावेन तत्सत्तयैव लब्धा आत्मानस्तदीयात्मका अहङ्कारादयो येनेति । ब्रह्मज्ञानेन प्राकृताहङ्कारादिलयानन्तरम् आविर्भूतान् प्रेमानन्दात्मकशुद्धसत्त्वमयान् लब्धवानित्यर्थः । ननु त एव प्रत्यावर्तन्तां किं वा पूर्ववदमी अपि बन्धहेतवो भवन्तु । नेत्याह, मुक्तबन्धनः । अनावृत्तिः शब्दादिति न्यायात्भक्त्य् अतिशयेन लब्धात्मत्वमेव प्रतिपादयति, आत्मानमिति । आत्मात्र परमात्मा, सर्वथा तस्य भगवानेवास्फुरदिति वाक्यार्थः । ततः साक्षादेव तत्प्राप्तिमाह, इच्छाद्वेषेति । तदेवं तेन भागवती गतिः प्राप्ता । हेयत्वादन्यत्रेच्छाद्वेषविहीनेन तस्मादेव हेतोः सर्वत्र समचेतसा । तदुक्तम् नारायणपराः सर्वे न कुतश्चन बिभ्यति । स्वर्गापवर्गनरकेष्व् अपि तुल्यार्थदर्शिनः ॥ [भागवतम् ६.१७.२८] यद्वा, मया लक्ष्म्या सह वर्तते इति सम इति सहस्रनामभाष्यात् भगवच्चेतसेति प्राप्तो भागवतीं गतिमिति पाठे, स कर्दम एव तां गतिं प्राप्तः । अत्र भगवद्भक्तियोगेनेत्येव विशेष्यमिति । एवमेवोक्तं श्रीभगवद्गीतोपनिषत्सु बुद्ध्या विशुद्धया युक्तो धृत्यात्मानं नियम्य च । शब्दादीन् विषयांस्त्यक्त्वा रागद्वेषौ व्युदस्य च ॥ [गीता १८.५१] विविक्तसेवी लघ्वाशी यतवाक्कायमानसः । ध्यानयोगपरो नित्यं वैराग्यं समुपाश्रितः ॥ [गीता १८.५२] अहंकारं बलं दर्पं कामं क्रोधं परिग्रहम् । विमुच्य निर्ममः शान्तो ब्रह्मभूयाय कल्पते ॥ [गीता १८.५३] ब्रह्मभूतः प्रसन्नात्मा न शोचति न काङ्क्षति । समः सर्वेषु भूतेषु मद्भक्तिं लभते पराम् ॥ [गीता १८.५४] भक्त्या मामभिजानाति यावान् यश्चास्मि तत्त्वतः । ततो मां तत्त्वतो ज्ञात्वा विशते तद्अनन्तरम् ॥ [गीता १८.५५] इति । अत्र विंशतिर्मिलनार्थः, यथा दुर्योधनं परित्यज्य युधिष्ठिरं प्रविष्टवानयं राजेति । श्रीदशमेऽपि श्रीगोपैर्ब्रह्मसम्पत्त्य् अनन्तरमेव वैकुण्ठो दृष्ट इति श्रीस्वामिभिरेव च व्याख्यातम् ॥ ॥ ३.२४ ॥ श्रीमैत्रेयः ॥८९॥ [९०] तथा तस्माज्ज्ञानेन सहितं ज्ञात्वा स्वात्मानमुद्धव । ज्ञानविज्ञानसम्पन्नो भज मां भक्तिभावितः ॥ [भागवतम् ११.१३.५] स्वात्मानं जीवस्वरूपम् । ज्ञानं विज्ञानं च बाह्यम् । किं बहुना अत्र श्रीचतुःसनशुकादय एवोदाहरणमिति ॥ ॥ ११.१३ ॥ श्रीभगवान् ॥९०॥ [९१] श्रीभगवता शब्दब्रह्ममयकम्बुस्पृष्टकपोलः तत्प्रकाशित यथार्थनिगदो ध्रुवो बालकोऽपि तथा विवृतवानित्येवमानन्द चमत्कारविशेषश्रवणादपि तस्यैव पूर्णत्वमाह । या निर्वृतिस्तनुभृतां तव पादपद्म ध्यानाद्भवज्जनकथाश्रवणेन वा स्यात् सा ब्रह्मणि स्वमहिमन्यपि नाथ मा भूत् किं त्वन्तकासिलुलितात्पततां विमानात् ॥ [भागवतम् ४.९.१०] स्वमहिमनि असाधारणमाहात्म्येऽपि माभूत्न भवतीत्यर्थः । अन्तकासिः कालः ॥ ॥ ४.९ ॥ ध्रुवः श्रीध्रुवप्रियम् ॥ ९१ ॥ [९२] परमसिद्धिरूपाद्ब्रह्मणि लयादपि तद्भजनस्य गरीयस्त्वेन तस्यैव गरीयस्त्वमुपदिशति । अनिमित्ता भागवति भक्तिः सिद्धेर्गरीयसी ॥ [भागवतम् ३.२५.३] सिद्धेर्मुक्तेरपि टीका च । सिद्धेर्ज्ञानात्मुक्तेर्वेति श्रीभगवन्नाम कौमुदी । ॥ ३.२५ ॥ श्रीकपिलदेवः ॥ ९२ ॥ [९३] तदेवं श्रीभगवानेवाखण्डं तत्त्वं साधकविशेषाणां तादृश योग्यत्वाभावात्सामान्याकारोदयत्वेन तदसम्यक्स्फूर्तिरेव ब्रह्मेति साक्षादेव वक्ति द्वाभ्याम् ज्ञानयोगश्च मन्निष्ठो नैर्गुण्यो भक्तिलक्षणः । द्वयोरप्येक एवार्थो भगवच्छब्दलक्षणः ॥ [भागवतम् ३.३२.३२] यथेन्द्रियैः पृथग्द्वारैर् अर्थो बहुगुणाश्रयः । एको नानेयते तद्वद् भगवान् शास्त्रवर्त्मभिः ॥ [भागवतम् ३.३२.३३] टीका च अनेन च ज्ञानयोगेन भगवानेव प्राप्यः यथा भक्ति योगेनेत्याह । नैर्गुण्यो ज्ञानयोगश्च मन्निष्ठो भक्तिलक्षणश्च यो योगः तयोर्द्वयोरप्येक एवार्थः प्रयोजनम् । कोऽसौ ? भगवच्छब्दो लक्षणं ज्ञापको यस्य । तदुक्तं गीतासु ते प्राप्नुवन्ति मामेव सर्व भूतहिते रताः [गीता १२.४] इति । ननु ज्ञानयोगस्य लाभः फलं शास्त्रेणावगम्यते । भक्तियोगस्य तु भजनीयेश्वरप्राप्तिः । कुतस्तयोरेकार्थत्वमित्याशङ्क्य दृष्टान्तेनोपपादयति । यथा बहूनां रूपरसादीनां गुणानामाश्रयः क्षीरादिरेक एवार्थो मार्गभेदप्रवृत्तैरिन्द्रिअय्र्नाना प्रतीयते । चक्षुषा शुक्ल इति रसनेन मधुरैति स्पर्शेन शीत इत्यादि तथा भगवान् एक एव तत्तद्रूपेणआवगम्यते । इत्येषा । अत्र भगवानेवाङ्गित्वेन निगदितः । अतः सर्वांशप्रत्यायकत्वाद्भक्ति योगश्च मनःस्थानीयो ज्ञेयः ॥ ॥ ३.३२ ॥ श्रीकपिलदेवः ॥ ९३ ॥ [९४] अतएव तद्अंशत्वेनैव ब्रह्म श्रूयते । अहं वै सर्वभूतानि भूतात्मा भूतभावनः । शब्दब्रह्म परं ब्रह्म ममोभे शाश्वती तनू ॥ [भागवतम् ६.१६.५१] टीका च सर्वभूतान्यहमेव । भूतानामात्मा भोक्ताप्यहमेव । भोक्तृभोग्यात्मकं विश्वं मद्व्यतिरिक्तं नास्तीत्यर्थः । यतोऽहं भूत भावनः भूतानां प्रकाशकः कारणं च । ननु शब्दब्रह्म प्रकाशक्ं परब्रह्म कारणं प्रकाशकं च सत्यं ते उभे ममैव रूपे इत्याह, शब्दब्रह्मेति । शाश्वती शाश्वत्यौ । इत्येषा ॥ अत्र शब्दब्रह्मणः साहचर्यात्परब्रह्मणोऽप्यंशत्वमेवायाति । ॥ ६.१६ ॥ श्रीसङ्कर्षणश्चित्रकेतुम् ॥ ९४ ॥ [९५] अतो भगवतोऽसम्यक्प्रकाशत्वाद्विभूतिनिर्विशेषमेव तदित्यप्याह मदीयं महिमानं च परब्रह्मेति शब्दितम् । वेत्स्यस्यनुगृहीतं मे सम्प्रश्नैर्विवृतं हृदि ॥ [भागवतम् ८.२४.३८] ॥ ८.२४ ॥ श्रीमत्स्यदेवः सत्यव्रतम् ॥ ९५ ॥ [९६] तथा च विभूतिप्रसङ्ग एव पृथिवी वायुराकाश आपो ज्योतिरहं महान् । विकारः पुरुषोऽव्यक्तं रजः सत्त्वं तमः परम् ॥ [भागवतम् ११.१६.३७] टीका च परं ब्रह्म च इत्येषा ॥ अतएव श्रीवैष्णवसाम्प्रदायिकैः श्रीमद्भिर्बालमन्दराचार्य महानुभवचरणैरप्युक्तम् यदण्डमण्डान्तरगोचरं च यद्दशोत्तराण्यवरणानि यानि च । गुणाः प्रधानं पुरुषः परं पदं परात्परं ब्रह्म ते विभूतयः ॥ इति ॥ ॥ ११.१६ ॥ श्रीभगवान् ॥९६॥ [९७] अतो ब्रह्मरूपे प्रकाशे तद्वैशिष्ट्यानुपलम्भनात्तत्प्रभावत्व लक्षणमपि तस्य व्यपदिश्यते । रूपं यत्तत्प्राहुरव्यक्तमाद्यं ब्रह्मज्योतिर्[भागवतम् १०.३.२४][*Eण्ड्ण्Oट्E ॰२८] इत्यादि । ब्रह्मैव ज्योतिः प्रभा यस्य तथाभूतं रूपं श्रीविग्रहम् । तथा चोक्तं ब्रह्मसंहितायां यस्य प्रभा प्रभवतो जगाण्डकोटि कोटिष्वशेषवसुधादिविभूतिभिन्नम् । तद्ब्रह्म निष्कलमनन्तमशेषभूतं गोविन्दमादिपुरुषं तमहं भजामि ॥ [Bरह्मष्५.४०] इति ॥ ॥ १०.३ ॥ श्रीदेवकी श्रीभगवन्तम् ॥ ९७ ॥ [९८] अतो ब्रह्मणः परत्वेन श्रीभगवन्तं कण्ठौक्त्यैवाह । यः परं रहसः साक्षात् त्रिगुणाज्जीवसंज्ञितात् । भगवन्तं वासुदेवं प्रपन्नः स प्रियो हि मे ॥ [भागवतम् ४.२४.२८] रहो ब्रह्म तस्मादपि परं ततः सुतरां त्रिगुणात्प्रधानाज्जीव संज्ञितात्जीवात्मनः परं भगवन्तं यः साक्षात्श्रवणादिनैव न तु कर्मार्पणादिना प्रपन्न इत्यन्वयः । तथा च विष्णुधर्मे नरक द्वादशीव्रते श्रीविष्णुस्तवः आकाशादिषु शब्दादौ श्रोत्रादौ महद्आदिषु । प्रकृतौ पुरुषे चैव ब्रह्मण्यपि च स प्रभुः ॥ येनैक एव सर्वात्मा वासुदेवो व्यवस्थितः । तेन सत्येन मे पापं नरकार्तिप्रदं क्षयम् ॥ प्रयातु सुकृतस्यास्तु ममानुदिवसं जय ॥ इति ॥ अत्र प्रकरणानुरूपेण सर्वात्मशब्देन चान्यथा समाधानं पराहतम् । तथा च तत्रोचरं क्षत्रबन्धूपाख्याने यन्मयं परमं ब्रह्म तद्अव्यक्तं च यन्मयम् । यन्मयं व्यक्तमप्येतद्भविष्यामि हि तन्मयः ॥ इति ॥ तत्रैव मासर्क्षपूजाप्रसङ्गे ततः परत्वं स्फुटमेवोक्तं यथाच्युतस्त्वं परतः परस्मात् स ब्रह्मभूतात्परमः परात्मन् । तथाच्युत त्वं वाञ्छितं तन् ममापदं चापहराप्रमेय ॥ इति ॥ श्रीविष्णुपुराणे च स ब्रह्मपारः परपारभूत इति । अक्षरात्ततः परतः पर इति श्रुतेः ॥ ॥ ४.२४ ॥ श्रीरुद्रः प्रचेतसम् ॥ ९८ ॥ [९९] तदेवमेवाभिप्रायेण स वा एष पुरुषोऽन्नरसमय इत्यादाव्[टैत्तू २.१] अन्तरङ्गान्तरङ्गैकैकात्मकथनान्ते इदं पुच्छं प्रतिष्ठा पृथिवी पुच्छं प्रतिष्ठा महः पुच्छं प्रतिष्ठा ब्रह्म पुच्छं प्रतिष्ठेति [टैत्तू २.१] श्रुत्य्उक्तायाः पञ्चम्या अपि प्रतिष्ठाया उपरि । श्रीगीतोपनिषदो यथा ब्रह्मणो हि प्रतिष्ठाहम् [गीता १४.२७] इत्यत्र ब्रह्मशब्दसन्निहितप्रतिष्ठाशब्देन सा श्रुतिः स्मर्यते । ततश्चैवम् एव व्याख्येयम् । हिशब्दः, मां च योऽव्यभिचारेण भक्तियोगेन सेवते । स गुणान् समतीत्यैतान् ब्रह्मभूयाय कल्पते ॥ [गीता १४.२६] इत्यस्य निरन्तरप्राचीनवचनस्य हेतुतया विवक्षया । अतो गुणातीत ब्रह्मणः प्रकृतार्थत्वात्प्राचीनार्थहेतुवचनेऽस्मिन्नुपचारेण तच् छब्दस्य ब्रह्मशक्तिरूपं हिरण्यगर्भरूपं वा अर्थान्तरमयुक्तं किन्त्वेवमेव युक्तं यथा । ननु त्वद्भक्त्या कथं निर्गुणब्रह्मधर्मप्राप्तिः । सा तु तद् एकानुभवेन तत्राह ब्रह्मणो हीति । हि यस्मात्ब्रह्मपुच्छं प्रतिष्ठेति परमप्रतिष्ठत्वेन श्रुतौ यत्प्रसिद्धं तच्च तस्यामेव श्रुतौ आनन्दमयाङ्गत्वेन दर्शितं तस्य पुच्छत्वरूपितब्रह्मणः । आनन्द मयोऽभ्यासादिति सूत्रकारसम्मतपरब्रह्मभाव आनन्दमयाख्यः प्रचुरप्रकाशो रविरितिवत्प्रचुरश्चानन्दरूपः श्रीभगवानहं प्रतिष्ठा ते । यद्यपि ब्रह्मणो मम च न भिन्नवस्तुत्वं तथापि श्रीभगवद् रूपेणैवोदिव मयि प्रतिष्ठात्वस्य परा काष्ठेत्यर्थः । स्वरूपशक्ति प्रकाशेनैव स्वरूपप्रकाशस्याप्याधिक्यार्हत्वात् । निर्विशेषब्रह्म प्रकाशस्याप्युपरि श्रीभगवत्प्रकाशश्रवणात् । अत एकस्यापि वस्तुनस् तथा तथा प्रकाशभेदो रजनीखण्डिनो ज्योतिषो मार्तण्डमण्डलगत गभस्तिभेदवदुत्प्रेक्ष्यः । अतो ब्रह्मप्रकाशस्यापि मद्अधीनत्वात्कैवल्यकामनया कृतेन मद् भजनेन ब्रह्मणि नीयमानो ब्रह्मधर्ममपि प्राप्नोतीत्यर्थः । अत्र श्रीविष्णुपुराणमपि सम्प्रवदते शुभाश्रयः स चित्तस्य सवर्गस्य तथात्मनः इति [Vइড়् ६.७.७६] । व्याख्यातं च तत्रापि स्वामिभिः । सवर्गस्यात्मनः परब्रह्मणोऽप्याश्रयः प्रतिष्ठा । तदुक्तं भगवता ब्रह्मणो हि प्रतिष्ठाहमिति । अत्र च तैर्व्याख्यातम् । ब्रह्मणोऽहं प्रतिष्ठा घनीभूतं ब्रह्मैवाहम् । यथा घनीभूत प्रकाश एव सूर्यमण्डलं तद्वदित्यर्थः । इति । अत्र च्विप्रत्ययस्तु तत्तद्उपासकहृदि तत्प्रकाशस्याभूतत्वं ब्रह्मण उपचर्यते इतीत्थमेव । अत्रैव प्रतिष्ठा प्रतिमेति टीका मत्सरकल्पिता । न हि तत्कृता असम्बन्धत्वात् । न हि निराकारस्य ब्रह्मणः प्रतिमा सम्भवति । न च तत्प्रकाशस्य प्रतिमा सूर्यः । न चामृतस्याव्ययस्येत्य् आद्य्अनन्तरपादत्रयोक्तानां मोक्षादीनां प्रतिमात्वं घटते । न वा श्रुतिशैलीविष्णुपुराणयोः संवादितास्ति । तस्मान्न आदरणीया यदि वादरणीया तदा तच्छब्देनाप्याश्रय एव वाचनीयः । प्रतिलक्षीकृत्य नातिपरिमितं भवति यत्रेति तदेतत्सर्वमभिप्रेत्याहुः । दृतय इव श्वसन्त्यसुभृतो यदि तेऽनुविधा महद्अहम्आदयोऽण्डमसृजन् यदनुग्रहतः । पुरुषविधोऽन्वयोऽत्र चरमोऽन्नमयादिषु यः सद्असतः परं त्वमथ यदेष्ववशेषमृतम् ॥ [भागवतम् १०.८७.१७] असुभृतो जीवा दृतय इव श्वसद्आभासा अपि यदि ते तवानुविधा भक्ता भवन्ति तदा श्वसन्ति प्राणन्ति । तेषु तद्भक्तानामेव जीवानां जीवनं मन्यामहे इति भावः । कथं यस्य तव अनुग्रहतः समष्टिव्यष्टि रूपमखण्डं देहं महद्अहम्आदयोऽसृजनतः स्वयमेव तथाविधात् त्वत्तः पराङ्मुखानामन्येषां दृतितुल्यत्वं युक्तमेवेति भावः । अनुग्रहमेव दर्शयन्ति अत्र महद्अहम्आदिषु अन्वयः प्रविष्टस्त्वम् इति । कथं मद्आदेशमात्रेण तेषां तथा सामर्थ्यं स्यात् । तत्राहुः यद् यस्मात्सत आनन्दमयाख्यब्रह्मणोऽवयवस्य प्रियादेरसतस्तद् अन्यस्मादन्नम्यादेश्च यत्परं पुच्छभूतं सर्वप्रतिष्ठा ब्रह्म तत्खलु त्वं तत्रापि एषु प्रतिष्ठावाक्येषु अवशेषं वाक्यशेषत्वेन स्थितं ब्रह्मणो हि प्रतिष्ठाहमित्यादावन्यत्र प्रसिद्धम् । आत्मतत्त्व विशुद्ध्य्अर्थ्यं यदाह भगवानृतमित्यादौ ऋतत्वेनापि प्रसिद्धं श्री भगवद्रूपमेव त्वमतोऽन्नमयादिषु पुरुषविधः पुरुषाकारो यश् चरमः प्रियमोदप्रमोदानन्दब्रह्मणामवयवी आनन्दमयः स त्वमिति । तस्मान्मूलपरमानन्दरूपत्वात्तवैव प्रवेशेन तेषां तथा सामर्थ्यं युक्तमेवेति भावः । को ह्येवान्यात्कः प्राण्याद्यदेष आकाश आनन्दो न स्यादिति [टैत्तू २.७.१] श्रुतेः । प्रकरण्ऽस्मिन्नेतदुक्तं भवति । यद्यप्येकस्स्वरूपेऽपि वस्तुनि स्वगतनानाविशेषो विद्यते तथापि तादृश शक्तियुक्ताया एव दृष्टेस्तत्तत्सर्वविशेषग्रहणे निमित्तता दृश्यते न त्व् अन्यस्याः । यथा मांसमयी दृष्टिः सूर्यमण्डलं प्रकाशमात्रत्वेन गृह्णाति, दिव्या तु प्रकाशमात्रस्वरूपत्वेऽपि तद्अन्तर्गतदिव्यसभादिकं गृह्णाति । एवमत्र भक्तेरेव सम्यक्त्वेन तयैव सम्यक्तत्त्वं दृश्यते । तच्च ब्रह्मेति तस्य असम्यग्रूप्तवम् । तत्र च सामान्यत्वेनैव ग्रहणे कारणस्य ज्ञानस्य तद्अन्तरीणावान्तरभेदपर्यालोचनेष्वसामार्थ्याद् बहिरेवावस्थितेन तेन भागवतपरमहंसवृन्दानुभवासिद्धनाना प्रकाशविचित्रेऽपि स्वप्रकाशः । लक्षणपरतत्त्वे प्रकाशसामान्य मात्रं यद्गृह्यते तत्तस्य प्रमारूपत्वेनैवोत्प्रेक्ष्यते । ततश्चात्मत्वम् अंशत्वं विभूतित्वं च व्यपदिश्यते तस्य । तस्मादखण्डतत्त्वरूपो भगवान् सामान्यकारस्फूर्तिलक्षणत्वेन स्वप्रभाकारस्य ब्रह्मणोऽप्याश्रय इति युक्तमेव । अतएव यस्य पृथिवी शरीरं यस्य आत्मा शरीरं यस्याव्यक्तं शरीरं यस्याक्षरं शरीरमेष सर्वभूतान्तरात्मा अपहतपाप्मा दिव्यो देव एको नारायण इत्येतच्छ्रुत्य्अन्तरं चाक्षरशब्दोक्तस्य ब्रह्मणोऽप्य् आत्मत्वेन नारायणं बोधयति । उक्तात्मादिशब्दपारिशेष्यप्रमाणेन चकार तेषां सङ्क्षोभमक्षर जुषामपीति प्रयोगदृष्ट्या चात्र ह्यक्षरशब्देन ब्रह्मैव वाच्यम् । तथा श्रीभगवता साङ्ख्यकथने । कालो मायामये जीवे [भागवतम् ११.२४.२७] इत्यादौ महाप्रलये सर्वावशिष्टत्वेन ब्रह्मोपदिश्य तदापि तस्य द्रष्टृत्वं स्वस्मिन्नुक्तम् । एष साङ्ख्यविधिः प्रोक्तः संशयग्रन्थिभेदनः । प्रतिलोमानुलोमाभ्यां परावरदृशा मया ॥ [भागवतम् ११.२४.२९] इत्यत्र परावरदृशेत्यनेन सोऽयं चात्र विवेकः । साङ्ख्यं ख्यानं तच् छास्त्रं खलु स्वरूपभूततद्विशेषमनुसन्धाय यत्तत्स्वरूप मात्रं तदानीमवशिष्टं वदति तदेव च ब्रह्माख्यं तदेव च प्रपञ्चावच्छिन्नचरमप्रदेशे प्रपञ्चलयाद्वैकुण्ठ इव स्वरूप भूतविशेषप्रकाशादवैशिष्यमानत्वेन वक्तुं युज्यते । तच्च स्वविशेष्यमात्रं स्वरूपशक्तिविशिष्टेन वैकुण्ठस्थेन श्री भगवता पृथगिव तत्रानुभूयत इति । तदेवं निर्विशेषत्वेन स्पर्शरूप रहितस्यापि तस्य भगवत्प्रभारूपत्वमनुत्प्रेक्ष्य तद्अभिन्नत्वेन ब्रह्मत्वं व्यपदिष्टम् । ततः स्वरूपादिमाधुरीधारितया सविशेषस्य साक्षाद्भगवद्अङ्गज्योतिषः सुतरामेव तत्सिध्यति । यथोक्तं श्री हरिवंशे महाकालपुराख्याने श्रीमद्अर्जुनं प्रति स्वयं भगवता । ब्रह्मतेजोमयं दिव्यं महद्यद्दृष्टवानसि । अहं स भरतश्रेष्ठ मत्तेजस्तत्सनातनम् ॥ प्रकृतिः सा मम परा व्यक्ताव्यक्ता सनातनी । तां प्रविश्य भवन्तीह मुक्ता योगविद्उत्तमाः ॥ सा साङ्ख्यानां गतिः पार्थ योगिनां च तपस्विनाम् । तत्परं[*Eण्ड्ण्Oट्E ॰२९] परमं ब्रह्म सर्वं विभजते जगत् ॥ मामेव[*Eण्ड्ण्Oट्E ॰३०] तद्घनं तेजो ज्ञातुमर्हसि भारत ॥ इति ॥ [ःV २.११४.९१२] प्रकृतिरिति तत्प्रभात्वेन स्वरूपशक्तित्वमपि तस्य निर्दिष्टम् । एवं पूर्वोदाहृतकौस्तुभभविष्यकविष्णुपुराणवाक्यमप्येतद् उपोद्वलकत्वेन द्रष्टव्यम् । तस्माद्दृतय इवेत्यपि साध्वेव व्याख्यातम् । ॥ १०.८७ ॥ श्रुतयः श्रीभगवन्तम् ॥ ९९ ॥ [१००] ततश्च यस्मिन् परमबृहति सामान्याकारसत्तायास्ताङ्गज्योतिषोऽपि बृहत्वेन ब्रह्मत्वं तस्मिन्नेव मुख्या तच्छब्दप्रवृत्तिः । तथा च ब्राह्मे अनन्तो भगवान् ब्रह्म आनन्देत्यादिभिः पदैः । प्रोच्यते विष्णुरेवैकः परेषामुपचारतः ॥ इति । यथा पाद्मे पृथग्वक्तुं गुणास्तस्य न शक्यन्तेऽमितत्वतः । यतोऽतो ब्रह्मशब्देन सर्वेषां ग्रहणं भवेत् ॥ एतस्माद्ब्रह्मशब्दोऽसौ विष्णोरेव विशेषणम् । अमितो हि गुणो यस्मान्नान्येषां तमृते विभुम् ॥ इति । अत्र निर्गोलितोऽयं महाप्रकरणार्थः । यदद्वयं ज्ञानं तदेव तत्त्वम् इति तत्त्वविदो दो [?] वदन्ति । तच्च वैशिष्ट्यं विनैवोपलभ्यमानं ब्रह्मेति शब्द्यते वैशिष्ट्येन सह तु श्रीभगवानिति । स च भगवान् पूर्वादित लक्षणश्रीमूर्त्यात्यात्मक एव न तु अमूर्तः । अथ, भूप मूर्तममूर्तं च परं चापरमेव च इति [Vइড়् ६.७.४७] विष्णु पुराणपद्ये[*Eण्ड्ण्Oट्E ॰३१] तस्य चतुर्विधत्वमङ्गीकुर्वद्भिर्यद्य् अमूर्तत्वमपि पृथगङ्गीकर्तव्यं तदा ब्रह्मत्ववत्तद्उपासकदृष्टि योगयतानुरूपमेवास्तु । तथा हि यस्य समीचीना भक्तिरस्ति तस्य पर मूर्त्या श्यामसुन्दरचतुर्भुजादिरूपतया प्रादुर्भवति । यस्यार्वाचीनोपासनारूपा तस्यापरमूर्त्या पातालपादादिकल्पनामय्य् एव । यस्य च रुक्षं ज्ञानं तस्य परेण ब्रह्मलक्षणमूर्तत्वेन । यस्य ज्ञानप्रचुरा भक्तिस्तस्य त्वपरेणेश्वरलक्सणमूर्तत्वेनेति । अत्रापरत्वं परममूर्त्याविर्भावाननतरसोपानत्वेन न ब्रह्मवद् अतीव मूर्तत्वानपेक्ष्यमित्येवम् । न त्वश्रेष्ठत्वविवक्षयेति ज्ञेयम् । परमूर्तापेक्षया परत्वं वा । तत्रैव तद्विश्वरूपं वैरूप्यमन्यद् धरेर्महदिति विश्वाधिष्ठानत्वेन नित्यत्वविभूत्वे । मूर्तं भगवतो रूपं सर्वापाश्रयनिःस्पृहमिति [Vइড়् ६.७.७८] निरुपाधित्वम् । चिन्तयेद् ब्रह्म भूतं तमिति [Vइড়् ६.७.८३] परतः लक्षणत्वम् । त्रिभावभावनातीत [Vइড়् ६.७.७६] इति तत्र प्रसिद्धकर्ममयज्ञान कर्मसमुच्चयमयकेवलज्ञानमयभावनात्रयातीतत्वेन पर तत्त्वलक्षणत्वेऽपि भक्त्यैकाविर्भावितया सम्यक्प्रकाशत्वं मूर्तस्यैव व्यञ्जितम् । अतएव शुभाश्रयः स चित्तस्य सर्वगस्याचलात्मनः[*Eण्ड्ण्Oट्E ॰३२] [Vइড়् ६.७.७६] इत्युक्तम् । ततश्च तस्याः श्रीमूर्तेरपि सकाशात्तद्अन्ते प्रत्याहारोक्तिः केवला भेदोपासकं प्रति वय्वस्थापिता भवतीत्यप्यनुसन्धेयम् । अत्र तद् विश्वरूपवैरूप्यमित्य्[Vइড়् ६.७.७०] एतत्पद्यं मूर्तपरमेव ज्ञेयम् । समस्तशक्तिरूपाणि यत्करोति नरेश्वरः । देवतिर्यङ्मनुष्याख्या चेष्टावन्ति स्वलीलया ॥[*Eण्ड्ण्Oट्E ॰३३] [Vइড়् ६.७.७१] इत्यनन्तरवाक्यबलात् । प्रथमस्य तृतीये यस्याम्भसि शयानस्य योगनिद्रां वितन्वतः [भागवतम् १.३.२] इत्य्अद्य्उक्तलक्सणस्य मूर्तस्यैव तत्तद्अवतारित्वं दर्शितम्, एतन् नानावताराणां निधानं बीजमव्ययमिति [भागवतम् १.३.५] । तद्विश्वरूप वैरूप्यमिति [Vइড়् ६.७.७०] पठद्भिः श्रीरामानुजचरणैरपि मूर्त परत्वेनैव व्याख्यातम् । विश्वरूपाद्वैरूप्यं वैलक्सण्यं यत्र तद् विश्वलक्षणं मूर्तं स्वरूपमिति । तदेवं तस्य वस्तुनः श्रीमूर्त्य्आत्मकत्व एव सिद्धे यत्सर्वतः पाणि पादादिलक्षणा मूर्तिः श्रूयते सापि पूर्वोक्तिलक्षणायाः श्रीमूर्तेर्न पृथगिति विभुत्वप्रकरणान्ते व्यञ्जितमेव । यत्तु बृहच्छरीरोऽभिविमानरूपो युवा कुमारत्वमुपेयिवान् हरिः । रेमे श्रियाऽसौ जगतां जनन्या स्वज्योत्स्नया चन्द्र इवामृतांशुः ॥ इति पाद्मोत्तरखण्डवचनम् । अत्र परब्रह्मस्वरूपशरीरः सर्वतोभावेन विगतपरिमाणोऽपि नित्यं कैशोराकारमेव प्राप्तः सन् श्रिया सह रेमे इत्यर्थः । उपेयिवानित्युक्ताव् अपि नित्यत्वमपहतपाप्मेतिवत् । तत्रैव तदीयतच्छ्रीमूर्त्य् अधिष्ठातृकत्रिपाद्विभूतेरपि प्रघट्टकेन वाक्यसमूहकेन परम नित्यताप्रतिपादनात् । तथा चोक्तं तत्रैव अच्युतं शाश्वतं दिव्यं सदा यौवनमाश्रितम् । नित्यं सम्भोगमीश्वर्या श्रिया भूम्या च संवृतम् ॥ इति ॥ तस्मात्श्रीभगवान् यथोक्तलक्षण एव । स एव वदन्तीत्यस्य मुख्यार्थभूतं मूलं तत्त्वमिति पर्यवसानम् । तदुक्तं मोक्ष धर्मे श्रीनारायणोपाख्याने तत्त्वं जिज्ञासमानानां हेतुभिः सर्वतोमुखैः । तत्त्वमेको महायोगी हरिर्नारायणः प्रभुः ॥ इति [ंBह्१२.३३५.८३] । नारायणोपनिषदि च नारायणः परं ब्रह्म तत्त्वं नारायणः परमिति [ंणू १३.४] । अत्र श्रीरामानुजोदाहृताः श्रुतयश्च यस्य पृथिवी शरीरम् इत्यारभ्य एष सर्वभूतान्तरात्मा दिव्यो देव एको नारायण इत्याद्या बह्व्यः । इह श्रीभगवद्अंशभूतानां पुरुषादीनां परमतत्त्व विग्रहतासाधनं वाक्यजातमपि तस्यांशिनस्तद्रूपविग्रहत्वं कैमुत्येनाभिव्यनक्तीति पूर्वत्र चोत्तरत्र ग्रन्थे तथोदाहरणानि । विष्णुपुराणे तु साक्षात्श्रीभगवन्तमधिकृत्य तथोदाहरणम् द्वे रूपे ब्रह्मणस्तस्य मूर्तं चामूर्तमेव च । क्षराक्षरस्वरूपे ते सर्वभूतेष्ववस्थिते । अक्षरं तत्परं ब्रह्म क्षरं सर्वमिदं जगत् ॥ [Vइড়् १.२२.५५] इत्युक्त्वा जगन्मध्ये ब्रह्मविष्ण्व्ईशरूपाणि च पठित्वा पुनरुक्तम् तदेतदक्षरं नित्यं जगन्मुनिवराखिलम् । आविर्भावतिरोभाव जन्मनाशविकल्पनात् ॥ इति [Vइড়् १.२२.६०] तदेतदक्षराख्यं परब्रह्म नित्यमखिलं जगत्तु आविर्भावादिभेदवदित्यर्थः । तत्राविर्भावतिरोभावादिकत्वेनैव पूर्वेषां ब्रह्मादीनां तद्अन्तःपातव्यपदेशो न वस्तुत इत्यर्थः । अथ सदा स्वधाम्नि विराजमानत्वेन क्षररूपतो मूर्तत्वादिना चाक्षरतोऽपि विलक्षणं तृतीयं रूपं भगवतः परमं स्वरूपमिति पुनर् उच्यते । सर्वशक्तिमयो विष्णुः स्वरूपं ब्रह्मणोऽपरम् । मूर्तं तद्योगिभिः पूर्वं योगारम्भेषु चिन्त्यते ॥[Vइড়् १.२२.६१] स परः सर्वशक्तीनां ब्रह्मणः समनन्तरम् । मूर्तं ब्रह्म महाभाग सर्वब्रह्ममयो हरिः ॥ [Vइড়् १.२२.६३] तत्र सर्वमिदं प्रोतम् ओतं चैवाखिलं जगत् ॥ [Vइড়् १.२२.६४] इति । ब्रह्मसाक्षात्कारात्पूर्वं योगिभिश्चिन्त्यते । तथा ब्रह्मणः समनन्तरमुपासनानुक्रमेण यथाग्रेऽक्षरादनन्तरं तदुक्तम्, यथा ब्रह्मभूतः प्रसन्नात्मेत्य्[गीता १८.५५] आद्यानुसारेण ब्रह्म[व]साक्षात्कारानन्तराविर्भावी च स इत्यर्थः । यतः सर्वासां शक्तीनां स्वरूपभूतादीनां परमाश्रयः । अतएव सर्वब्रह्म मयोऽखण्डब्रह्मस्वरूपश्च । अक्षराख्यस्य पूर्वस्य शक्तिहीनत्वेन खण्डत्वात् । यद्वा अतएव सर्ववेदवेद्य इत्यर्थः । तत एव च तत्र सर्वमित्यादीति । एवं यस्मात्क्षरमतीतोऽहम् अक्षरादपि चोत्तमः । अतोऽस्मि लोके वेदे च प्रथितः पुरुषोत्तमः ॥ इत्यादि [गीता १५.१८] श्रीगीतोपनिषदपि योज्या । अत्र यद्यपि कूटस्थोऽक्षर उच्यते इत्य्[गीता १५.१६] अक्षरशब्देन शुद्ध जीव एव प्रस्तूयते तथापि परब्रह्म एव च लक्षणम् । अक्षरं परमं ब्रह्म [गीता ८.३] इति तच्च तत्र पूर्वोक्तमिति । अनयोश्चिन्मात्र वस्तुत्वेनैकार्थत्वादिति तदेतदभिप्रेत्य मल्लानामशनिर्नॄणां नरवर इत्यादौ मूर्तस्यैव स्वयं भगवत एव लक्षणत्वं [तल् लक्ष्यत्वं] साक्षादेवाह तत्त्वं परं योगिनाम् [भागवतम् १०.४३.१७] इति । योगिनां चतुःसनादीनामिति ॥ ॥ १०.४३ ॥ श्रीशुकः ॥ १०० ॥ [१०१] अतएव श्रीमद्भागवतस्य निगमकल्पतरुपरमफलभूतस्य श्रैष्ठ्ये सत्यपि तथाभूतस्यापि भगवद्आख्यपरमतत्त्वस्योत्कर्ष विद्यारूपत्वादेव परमश्रैष्ठ्यमाह धर्मः प्रोज्झितकैतवोऽत्र परमो निर्मत्सराणां सतां वेद्यं वास्तवमत्र वस्तु शिवदं तापत्रयोन्मूलनम् । श्रीमद्भागवते महामुनिकृते किं वा परैरीश्वरः सद्यो हृद्यवरुध्यतेऽत्र कृतिभिः शुश्रूषुभिस्तत्क्षणात् ॥ [भागवतम् १.१.२] अत्र यस्तावद्धर्मो निरूप्यते स खलु स वै पुंसां परो धर्मो यतो भक्तिरधोक्षजे इत्य्[भागवतम् १.२.६] आदिकया अतः पुम्भिर्द्विजश्रेष्ठा वर्णाश्रमविभागशः । स्वानुष्ठितस्य धर्मस्य संसिद्धिर्हरितोषणम् ॥ [भागवतम् १.२.१३] इत्यन्तया रीत्या भगवत्सन्तोषणैकतात्पर्येण शुद्धभक्त्य् उत्पादकतया निरूपणात्परम एव । यतः सोऽपि तद्एकतात्पर्यत्वात् प्रकर्षेण उज्झितं कैतवं फलाभिसन्धिलक्सणं कपटं यस्मिन् तथाभूतः । प्रशब्देन सालोक्यादिसर्वप्रकारमोक्षाभिसन्धिरपि निरस्तः । यत एवासौ तद्एकतात्पर्यत्वेन निर्मत्सराणां फल कामुकस्यैव परोत्कर्षासहनं मत्सरः तद्रहितानामेव तद् उपलक्षणत्वेन पश्व्आलम्भने, दयालूनामेव च सतां स्वधर्म पराणां विधीयते इति एवमीदृशस्पष्टमनुक्तवतः कर्मशास्त्राद् उपासनाशास्त्राच्चास्य तत्तत्प्रतिपादकांशे श्रैष्ठ्यमुक्तम् । उभयत्रैव धर्मोत्पत्तेः । तदेवं सति साक्षात्कीर्तनादिरूपस्य वार्ता ति दूरत एव आस्तामिति भावः । अथ ज्ञानकाण्डशाखेभ्योऽप्यस्य पूर्ववत्श्रैष्ठ्यमाह वेद्यमिति । भगवद्भक्तिनिरपेक्षप्रायेषु तेषु प्रतिपादितमपि श्रेयःसृतिं भक्तिमुदस्य [भागवतम् १०.१४.४] इत्य्आदिन्यायेन वेद्यं निश्चेयं भवतीत्य् अत्रैव वेद्यमित्यर्थः । तापत्रयमुन्मूलयति तन्मूलभूताविद्यापर्यन्तं खण्डयतीति तथा शिवं परमानन्दं ददात्यनुभावयतीति तथा । अन्यत्र मुक्ताव् अनुभवामनने ह्यपुरुषार्थत्वापातः स्यातिति तन्मननादत्र तु वैशिष्ट्यमिति । न चास्य तत्तद्दुर्लभवस्तुसाधनत्वे तादृशनिरूपण सौष्ठवमेव कारणम् । अपि तु स्वरूपमपीत्याह श्रीमद्भागवत इति । श्रीमद्भागवतत्वं भगवत्प्रतिपादकत्वं श्रीमत्त्वं श्रीभगवन्नामादेरिव तादृश स्वभाविकशक्तिमत्त्वम् । नित्ययोगे मतुप् । अतएव समस्ततयैव निर्दिश्य नीलोत्पलादिवत्त्वन्नामत्वमेव बोधितम् । अन्यथा त्वविमृष्ट विधेयांशदोषः स्यात् । अत उक्तं श्रीगारुडे ग्रन्थोऽष्टादशसाहस्रः श्रीमद्भागवताभिधः । इति टीकाकृद्भिरपि श्रीभागवताभिधः सुरतरुरिति । अतः क्वचित्केवलभागवताख्यत्वं तु सत्यभामा भामा इतिवत् । तादृश प्रभावत्वे कारणं परमश्रेष्ठकर्तृत्वमप्याह । महामुनिः श्री भगवान् तस्यैव परमविचारपारङ्गतमहाप्रभावगण शिरोमणित्वाच्च । स मुनिर्भूत्वा समचिन्तयदिति श्रुतेः । तेन प्रथमं चतुःश्लोकीरूपेण सङ्क्षेपतः प्रकाशिते कस्मै येन विभाषितोऽयमित्य् [भागवतम् १२.१३.१९][*Eण्ड्ण्Oट्E ॰३४] आद्य्अनुसारेन सम्पूर्ण एव प्रकाशिते । तदेवं श्रैष्ठ्यजातमन्यत्रापि प्रायः सम्भवतु नाम सर्वज्ञान शास्त्रपरमज्ञेयपुरुषार्थशिरोमणिश्रीभगवत्साक्षात्कारस्तत्रैव सुलभ इति वदन् सर्वोर्धप्रभावमाह किं वेति । परैः शास्त्रैस्तद्उक्त साधनैर्वा ईश्वरो भगवान् हृदि किं वा सद्य एवावरुध्यते स्थिरीक्रियते । वाशब्दः कटाक्षे । किन्तु विलम्बेन कथञ्चिदेव । अत्र तु शुश्रूषुभिः श्रोतुमिच्छद्भिरेव तत्क्षणादवरुध्यते । ननु इदमे एव तर्हि सर्वे किमिति न शृण्वन्ति तत्राह कृतिभिरिति सुकृतिभिर् इत्यर्थः । श्रवणेच्छा तु तादृशसुकृतिं विना नोत्पद्यत इति भावः । अथवा अपरैर्मोक्षपर्यन्तकामनारहितेश्वराराधनलक्षणधर्म ब्रह्मसाक्षात्कारादिभिरुक्तैरनुक्तैर्वा साध्यैस्तैरत्र किं वा कियद् वा माहात्म्यमुपपन्नमित्यर्थः । यतो य ईश्वरः कृतिभिः कथञ्चित्तत् तत्साधनानुक्रमलब्धया भक्त्या कृतार्थैः सद्यस्तद्एकक्षणमेव व्याप्य हृदि स्थिरीक्रैयते स एवात्र श्रोतुमिच्छद्भिरेव तत्क्षणम् आरभ्य सर्वदैवेति । तस्मादत्र काण्डत्रयरहस्यस्य प्रव्यक्त प्रैत्पादनादेर्विशेषत ईश्वराकर्षिविद्यारूपत्वाच्च इदमेव सर्व शास्त्रेभ्यः श्रेष्ठम् । अतएवात्र इति पदस्य त्रिर्उक्तिः कृता । सा हि निर्धारणार्थेति । अतो नित्यमेतदेव सर्वैरेव श्रोतव्यमिति भावः ॥ ॥ १.१ ॥ वेदव्यासं श्रीशुकम् ॥ १०१ ॥ [१०२] तदेवं श्रीशुकहृदयमपि सङ्गमितं स्यात् । अतश्चतुःश्लोकीप्रसङ्गेऽपि श्रीभगवानेवार्थः । स हि स्वज्ञानाद्य्उपदेशेन स्वमेवोपदिदेश । तत्र परमभागवताय ब्रह्मणे श्रीमद्भागवताख्यं निजं शास्त्रम् उपदेष्टुं तत्प्रतिपाद्यतमं वस्तुचतुष्टयं प्रतिजानीते । ज्ञानं परमगुह्यं मे यद्विज्ञानसमन्वितम् । सरहस्यं तद्अङ्गं च गृहाण गदितं मया ॥ [भागवतम् २.९.३०] मे मम भगवतो ज्ञानं शब्दद्वारा याथार्थ्यनिर्धारणं मया गदितं सत्गृहाण इत्यन्यो न जानातीति भावः । यतः परमगुह्यं ह्य् अज्ञानादपि रहस्यतमं मुक्तानामपि सिद्धानाम् [भागवतम् ६.१४.५] इत्यादेः । तच्च विज्ञानेन तद्अनुभावेनापि युक्तं गृहाण । न चैतावदेव । किं च सरहस्यं तत्रापि रहस्यं यत्किमप्यस्ति तेनापि सहितम् । तच्च प्रेम भक्तिरूपमित्यग्रे व्यञ्जयिष्यते । तथा तद्अङ्गं च गृहाण । तच्च सति त्वपराधाख्यविघ्ने न झटिति ।विज्ञानरहस्ये प्रकटयेत् । तस्मात्तस्य ज्ञानस्य सहायं च गृहाणेत्यर्थः । तच्च श्रवणादिभक्तिरूपमित्यग्रे व्यञ्जयिष्यते । यद्वा सरहस्यमिति तद्अङ्गस्यैव विशेषणं ज्ञेयम् । हृदेरिव मिथः संवर्धकयोरेकत्रावस्थानात् ॥ [१०३] अत्र साध्ययोर्विज्ञानरहस्ययोराविर्भावार्थमाशिषं ददाति यावानहं यथाभावो यद्रूपगुणकर्मकः तथैव तत्त्वविज्ञानम् अस्तु ते मद्अनुग्रहात्[भागवतम् २.९.३१] यावान् स्वरूपतो यत्परिमाणकोऽहम् । यथा भावः सत्ता यस्येति । यल् लक्षणोऽहमित्यर्थः । यानि स्वरूपान्तरङ्गानि रूपाणि श्यामत्वचतुर् भुजत्वादीनि गुणा भक्तवात्सल्याद्याः कर्माणि तत्तल्लीला यस्य स यद् रूपगुणकर्मकोऽहम् । तथैव तेन तेन सर्वप्रकारेणैव तत्त्व विज्ञानं याथार्थ्यानुभवो मद्अनुग्रहात्ते तवास्तु भवतादिति । एतेन चतुःश्लोक्य्अर्थस्य निर्विशेषत्वं स्वयमेव परास्तम् । वक्ष्यते च चतुःश्लोकीमेवोद्दिशता श्रीभगवता स्वयमुद्धवं प्रति । पुरा मयेत्यादौ ज्ञानं परं मन्महिमावभासमिति [भागवतम् ३.४.१३] । तत्र विज्ञानपदेन रूपादीनामपि स्वरूपभूतत्वं व्यक्तम् । अत्र्र विज्ञानाशीः स्पष्टा । रहस्याशीश्च परमानन्दात्मकतत्तद् याथार्थ्यानुभवेनावश्यं प्रेमोदयात् ॥ [१०४] तदेव उपदेश्यचतुष्टयं चतुःश्लोक्या निरूपयन् प्रथमं ज्ञान विज्ञानार्थं स्वलक्षणं प्रतिपादयति द्वाभ्याम् । तत्र ज्ञानार्थमाह अहमेवासमेवाग्रे नान्यद्यत्सद्असत्परम् । पश्चादहं यदेतच्च योऽवशिष्येत सोऽस्म्यहम् ॥ [भागवतम् २.९.३२] अत्राहंशब्देन तद्वक्ता मूर्त एवोच्यते न तु निर्विशेषं ब्रह्म तद् अविषयत्वात् । आत्मज्ञानतात्पर्यके तु तत्त्वमसीतिवत्त्वमेवात्येव वतुर्म् उपयुक्तवात् । ततश्चायमर्थः सम्प्रति भवन्तं प्रति प्रादुर्भवन्न् असौ परममनोहरश्रीविग्रहोऽहमेवाग्रे महापरलयकालेऽप्यासम् एव । वासुदेवो वा इदमग्र आसीन्न ब्रह्मा न च शङ्करः । एको नारायण आसीन्न ब्रह्मा नेशान इत्यादि श्रुतिभ्यः । भगवानेक आसेदमग्र आत्मात्मनां विभुरित्य्[भागवतम् ३.५.२३] आदि तृतीयात् । अतो वैकुण्ठतात्पार्षद् आदीनामपि तद्उपाङ्गत्वादहंपदेनैव ग्रहणं राजासौ प्रयातीतिवत् । ततस्तेषां च तद्वदेव स्थितिर्बोध्यते । तथा च राजप्रश्नः स चात्र स चापि यत्र पुरुषो विश्वस्थित्य्उद्भवाप्ययः । मुक्तात्ममायां मायेशः शेते सर्वगुहाशयः ॥ [भागवतम् २.८.१०] इति । श्रीविदुरप्रश्नश्च तत्त्वानां भगवंस्तेषां कतिधा प्रतिसङ्क्रमः । तत्रेमं क उपासीरन् क उ स्विदनुशेरत ॥ इति [भागवतम् ३.७.३७] । काशीखण्डेऽप्युक्तं श्रीध्रुवचरिते न च्यवन्ते हि मद्भक्ता महत्यां प्रलयापदि । अतोऽच्युतोऽखिले लोके स एकः सर्वगोऽव्ययः ॥ इति । अहमेवेत्येवकारेणकर्त्अन्तरस्यारूपत्वादिकस्य च व्यावृत्तिः । आसमेवेति तत्रासम्भावनाया निवृत्तिः । तदुक्तं यद्रूपगुणकर्मक [भागवतम् २.९.३२] इति । अतएव । यद्वा आसमेवेति ब्रह्मादिबहिर्जनज्ञानगोचरसृष्ट्य्आदि लक्षणक्रियान्तरस्यैव व्यावृत्तिः । न तु स्वान्तरङ्गलीलाया अपि । यथाधुनासौ राजा कार्यं न किञ्चित्करोतीत्युक्ते राज्यसम्बन्धिकार्यम् एव निषिध्यते न तु शयनभोजनादिकमपीति तद्वत् । यद्वा अस गति दीप्त्य्आदानेष्वित्यस्मातासं साम्प्रतं भवता दृश्यमानैर्विशेषैरेभिर् अग्रेऽप्रि विराजमान एवातिष्ठमिति निराकारत्वादिकस्यैव विशेषतो व्यावृत्तिः । तदुक्तमनेन श्लोकेन साकारनिराकारविष्णुलक्षणकारिण्यां मुक्ता फलटीकायामपि । नापि साकारेष्वव्याप्तिः । तेषामाकारातिरोहितत्वादिति । ऐतरेयकश्रुतिश्[?] च आत्मैवेदमग्र आसीत्पुरुषविध [Bआऊ ४.१.१] इति । एतेन प्रकृतीक्षणतोऽपि प्राग्भावात्पुरुषादप्युत्तमत्वेन भगवज् ज्ञानमेव कथितम् । ननु क्वचिन्निर्विशेषमेव ब्रह्म आसीदिति श्रूयते तत्राह नान्यद्यत्सद् असत्परमिति । सत्कार्यमसत्कारणं तयोः परं यत्ब्रह्म तन्न मत्तोऽन्यत् । क्वचिदधिकारिणि शास्त्रे वा स्वरूपभूतविशेषव्युत्पत्त्य् असमर्थे सोऽयमहमेव निर्विशेषतया प्रतिभातीत्यर्थः । यदा तदानीं प्रपञ्चे विशेषाभावान्निर्विशेषचिन्मात्राकारेण विकुण्ठे तु सविशेष भगवद्रूपेणेति शास्त्रद्वयव्यवस्था । एतेन च ब्रह्मणो हि प्रतिष्ठाहमित्यत्रोक्तं भगवज्ज्ञानमेव प्रतिपादितम् । अतएवास्य परमगुह्यत्वमुक्तम् । ननु सृष्टेरनन्तरं नोपलभ्यसे । तत्राह पश्चात्सृष्टेरनन्तरमप्य् अहमेवास्म्येव वैकुण्ठेषु भगवद्आद्याकारेण प्रपञ्चेष्वन्तर्याम्य् आकारेणेति शेषः । एतेन सृष्टिस्थितिप्रलयहेतुरस्येत्यादि प्रतिपादितं भगवज्ज्ञानमेवोपदिष्टम् । ननु सर्वत्र घटपटाकारा ये दृश्यन्ते ते तु तद्रूपाणि न भवन्तीति तवापूर्णत्वप्रसक्तिः स्यादित्याशङ्क्याह । यदेतद्विश्वं तदप्यहम् एव मद्अनन्यत्वान्मद्आत्मकमेवेत्यर्थः । अनेन सोऽयं तेऽभिहितस्तात भगवान् विश्वभावनः । समासेन हरेर्नान्यदन्यस्मात्सद्असच्च यद् इत्याद्युक्तं भगवज्ज्ञानमेवोपदिष्टम् । तथा प्रलये योऽवशिष्यते सोऽहमेवास्म्येव । एतेन भवानेकः शिष्यते शेषसंज्ञ इत्युक्तं भगवज्ज्ञानमेवोपदिष्टम् । तथा पूर्वं स्वानुग्रहप्रकाश्यत्वेन प्रतिज्ञातं यावत्त्वं सर्वकालदेशापरिक्च्छेद्यत्वज्ञापनायोपदिष्टम् । एवं नान्यद्यत्सद्असत्परमित्यनेन ब्रह्मणो हि प्रतिष्ठाहमिति ज्ञापनया यथाभावत्वम् । सर्वाकारावयवभगवद्आकारनिर्देशेन विलक्षणानन्तरूपत्वज्ञापनया यद्रूपत्वम् । सर्वाश्रयातिनिर्देशेन विलक्षणानन्तगुणत्वज्ञापनया यद्गुणत्वम् । सृष्टिस्थिति प्रलयोपलक्षितविविधक्रियाश्रयत्वकथनेन लौकिकानन्तकर्मत्व ज्ञापनया यत्कर्मत्वं च । [१०५] अथ तादृशरूपादिविशिष्टस्यात्मनो व्यतिरेकमुखेन विज्ञानार्थं माया लक्सणमाह ऋतेऽर्थम् [भागवतम् २.९.३३] इत्यादि । पूर्वं व्याख्यातमेव[*Eण्ड्ण्Oट्E ॰३५] । सङ्क्षेपश्चायमर्थः । परमपुरुषार्थभूतं मामृते मद्दर्शनादन्यत्रैव यत्प्रतीयते यच्चात्मनि न प्रतीयेत मां विना स्वतः प्रतीतिरपि यस्य नास्तीत्यर्थः तद् वस्तु आत्मनो मम परमेश्वरस्य मायां विद्यात् । अत्र दृष्टान्तः । यथाऽऽभासः प्रतिबिम्बरश्मिः । यथा च तमस्तिमिरमिति । तत्राभासस्य तादृशत्वं स्पष्टमेव । तमसोऽपि ज्योतिर्दर्शनादन्यत्रैव प्रतीतेर्ज्योतिर् आत्मकं चक्षुर्विना चाप्रतीतिरिति । विद्यादिति प्रथमपुरुष निर्देशस्यायं भावः । अन्यान् प्रत्येव खल्वयमुपदेशः । त्वं तु मद् दत्तशक्त्या साक्षादेवानुभवन्नसीति । एवं मायिकदृष्टिमतीत्यैव रूपादिविशिष्टं मामनुभवेदिति । व्यतिरेकमुखेनानुभावनस्यायं भावः । शब्देन निर्धारितस्यापि सत्स्वरूपादेर् मायाकार्यावेशेनैवानुभवो न भवति । अतस्तद्अर्थं मायात्यजनमेव कर्तव्यमिति । एतेन तद्अविनाभावात्प्रेमाप्यनुभावित इति गम्यते । [१०६] अथ तस्यैव प्रेम्नो रहस्यत्वं बोधयति यथा महान्ति भूतानि भूतेषूच्चावचेष्वनु प्रविष्टान्यप्रविष्टानि तथा तेषु न तेष्वहम् [भागवतम् २.९.३४] यथा महाभूतानि भूतेष्वप्रविष्टानि बहिःस्थितान्यपि अनुप्रविष्टान्य् अन्तःस्थितानि भान्ति । तथा लोकातीतवैकुण्ठस्थितत्वेनाप्रविष्टोऽप्यहं तेषु तत्तद्गुणविख्यातेषु न तेषु प्रणतजनेषु प्रविष्टो हृदि स्थितोऽहं भामि । अत्र महाभूतानामंशभेदेन प्रवेशाप्रवेशौ तस्य तु प्रकाशभेदेनेति भेदेऽपि प्रवेशाप्रवेशमात्रसाम्येन दृष्टान्तः । तद् एवं तेषां तादृग्आत्मवशकारिणी प्रेमभक्तिर्नाम रहस्यमिति सूचितम् । तथा च ब्रह्मसंहितायाम् आनन्दचिन्मयरसप्रतिभाविताभिस् ताभिर्य एव निजरूपतया कलाभिः । गोलोक एव निवसत्यखिलात्मभूतो गोविन्दमादिपुरुषं तमहं भजामि ॥ [Bरह्मष्५.२९] प्रेमाञ्जनच्छुरितभक्तिविलोचनेन सन्तः सदैव हृदयेषु विलोकयन्ति । यं श्यामसुन्दरमचिन्त्यगुणस्वरूपं गोविन्दमादिपुरुषं तमहं भजामि ॥ [Bरह्मष्५.३०] अचिन्त्यगुणस्वरूपमपि प्रेमाख्यं यदञ्जनं तेन च्छुरितवतुच्चैः प्रकाशमानं भक्तिरूपं विलोचनं तेन इत्यर्थः । ये भजन्ति तु मां भक्त्या मयि ते तेषु चाप्यहम् । इति [गीता ९.२९] गीतोपनिषदश्च । यद्वा तेषु यथा तानि बहिःस्थितानि चान्तःस्थितानि च भान्ति तद्वत् भक्तेषु अहमन्तर्मनोवृत्तिषु बहिर्इन्द्रियवृत्तिषु च स्फुरामीति च । भक्तेषु सर्वथाऽनन्यवृत्तिताहेतुर्नाम किमपि स्वप्रकाशं प्रेमाख्यमानन्दात्मकं वस्तु मम रहस्यमिति व्यञ्जितम् । तथैव श्रीब्रह्मणोक्तम् न भारती मेऽङ्ग मृषोपलक्ष्यते न वै क्वचिन्मे मनसो मृषा गतिः । न मे हृषीकाणि पतन्त्यसत्पथे यन्मे हृदौत्कण्ठ्यवता धृतो हरिः ॥ [भागवतम् २.६.३४] इति । यद्यपि व्याख्यान्तरानुसारेणायमर्थोऽपलपनीयः स्यात्तथाप्यस्मिन्न् एवार्थे तात्पर्यं प्रतिज्ञाचतुष्टयसाधनायोपक्रान्तत्वात्तद्अनुक्त्रम गतत्वाच्च । किं तस्मिन्नर्थे न तेषु इति छिन्नपदमपि व्यर्थं स्याद् दृष्टान्तस्यैव क्रियाभ्यामन्वयोपपत्तेः । अपि च रहस्यं नाम ह्येतद् एव यत्परमदुर्लभं वस्तु दुष्टोदासीनजनदृष्टिनिवारणार्थं साधारणवस्त्व्अन्तरेणाच्छाद्यते । यथा चिन्तामणिः सम्पुटादिना । अतएव परोक्षवादा ऋषयः परोक्षं च मम प्रियमिति [भागवतम् ११.२१.३५] श्री भगवद्वाक्यं च । तदेवं परोक्षं क्रियते यददेयं विरलप्रचारं महद्वस्तु भवति । अस्यैवादेयत्वं विरलविचारत्वं महत्त्वं च । मुक्तिं ददाति कर्हिचित्स्म न भक्तियोगमित्य्[भागवतम् ५.६.१८] आदिषु बहुत्र व्यक्तम् । इदं भागवतं नाम यन्मे भगवतोदितम् । सङ्ग्रहोऽयं विभूतीनां त्वमेतद्विपुली कुरु ॥ [भागवतम् २.७.५१] यथा हरौ भगवति नृणां भक्तिर्भविष्यति । सर्वात्मन्यखिलाधारे इति सङ्कल्प्य वर्णय ॥ [भागवतम् २.७.५२] तस्मात्साधु व्याख्यातं स्वामिचरणैरपि रहस्यं भक्तिरिति ॥ [१०७] अथ कथं तथाभूतं रहस्यमुदयेतेत्यपेक्षायां क्रमप्राप्तं तद् अङ्गभूतं तदीयसाधनमुपदिशति । एतावदेव जिज्ञास्यं तत्त्वजिज्ञासुनात्मनः । अन्वयव्यतिरेकाभ्यां यत्स्यात्सर्वत्र सर्वदा ॥ [भागवतम् २.९.३५] आत्मनो मम भगवतस्तत्त्वजिज्ञासुना प्रेमरूपं रहस्यम् अनुभवितुमिच्छुना एतावदेव जिज्ञास्यं श्रीगुरुचरणेभ्यः शिक्षणीयम् । किं तत्? सदेकमेव अन्वयव्यतिरेकाभ्यां विधिनिषेधाभ्यां सदा सर्वत्र स्यादुपपद्यते । यथा न ह्यतोऽन्यः शिवः पन्था विशतः संसृताविह । वासुदेवे भगवति भक्तियोगो यथा भवेत् ॥ [भागवतम् २.२.३३] इति व्यतिरेकेणोपक्रम्य तद्उपसंहारे तस्मात्सर्वात्मना राजन् हरिः सर्वत्र सर्वदा । श्रोतव्यः कीर्तितव्यश्च स्मर्तव्यो भगवान्नॄणाम् ॥ [भागवतम् २.२.३६] इत्यन्वयेन सर्वदेत्युक्तम् । तस्मात्स्वज्ञानविज्ञानरहस्यतद्अङ्गानामुपदेशेन चतुःश्लोक्यामपि स्वयं श्रीभगवच्छब्देन ददर्श तत्राखिलसात्वतां पतिम् [भागवतम् २.९.१५] इत्यत्र तापनीश्रुत्य्अनुकूलितं श्रीकृष्णलिङ्गत्वेन च अस्य वक्तुः श्री भगवत्त्वमेव स्फुटम् । न जातु तद्अंशभूतनारायणाख्य गर्भोदशायि पुरुषत्वम् । अतएवास्य महापुराणस्यापि श्रीभागवतमित्येव व्याख्या । तथैवोक्तम् कस्मै केन विभाषितोऽयमतुलो ज्ञानप्रदीपः पुरा इत्यादौ तच् छुद्धं विमलं विशोकममृतं सत्यं परं धीमहि इत्य्[भागवतम् १२.१३.१९] अत्र परशब्देन भगच्वक्तृत्वम् । आद्योऽवतारः पुरुषः परस्येति द्वितीये भेदाभिधानात् । अत इदं भगवता पूर्वं ब्रह्मणे नाभिपङ्कजे । स्थिताय भवभीताय कारुण्यात्सम्प्रकाशितमित्यत्रापि भगवच्छब्द प्रयोगः । श्रीनारायणनाभिपङ्कजे स्थितं ब्रह्माणं प्रति स्वयं श्री भगवता तत्रैव व्यापिमहावैकुण्ठं प्रकाश्येदं पुराणं प्रकाशितम् इत्यर्थः । अनुगतं चैतत्द्वितीयस्कन्धेतिहासस्येति । ॥ २.९ ॥ श्रीभगवान् ब्रह्माणम् ॥ १०२१०७ ॥ [१०८] तदेतत्सर्वशास्त्राणां समन्वयस्तस्मिन्नेव भगवति । तथा च सर्वैश् च वेदैः परमो हि देवो जिज्ञास्यो नान्यो वेदैः प्रसिध्येत् । तस्मादेनं सर्ववेदानधीत्य विचार्य च ज्ञातुमिच्छेन्मुमुक्षुरिति चतुर्वेद शिखायाम् । यं सर्वदेवा आनमन्ति मुमुक्षवो ब्रह्मवादिनश्चेति श्री नृसिंहतापन्याम् [ण्टू २.४.१०] । न वेदविन्मनुते तं बृहन्तं सर्वानुभूतमात्मानं साम्पराये । त्वं त्वौपनिषदं पुरुषं पृच्छामीत्य्[Bआऊ ३.९.२७] आदिरन्यत्र । वेदैश्च सर्वैरहमेव वेद्यो वेदान्तकृद्वेदविदेव चाहम् इति [गीता १५.१५] श्री गीतोपनिषत्सु । सिद्धान्ते पुनरेक एव भगवान् विष्णुः समस्तागम व्यापारेषु विवेचनव्यतिकरं नीतेषु निश्चीयत इति पाद्मे । सर्व नामाभिधेयश्च सर्ववेदेडितश्च स इति स्कान्दे । नताः स्म सर्वजगतां वचसां प्रतिष्ठा यत्र शाश्वती इति [Vइড়् १.१४.२३] वैष्णवे । सर्ववेदान् सेतिहासान् सपुराणान् सयुक्तिकान् । सपञ्चरात्रान् विज्ञाय विष्णुर्ज्ञेयो न चान्यथा ॥ इति ब्रह्मतर्के । तदेवं सर्ववेदसमन्वयं स्वस्मिन् श्रीभगवत्येव स्वयमाह मां विधत्तेऽभिधत्ते मां विकल्प्यापोह्यते ह्यहम् । [भागवतम् ११.२१.४२] ॥ ११.२१ ॥ श्रीभगवान् ॥ १०८ ॥ [१०९] तदेवं भगवत एव सर्ववेदार्थत्वं दर्शितम् । तत्र राज्ञः प्रश्नः । श्रीविष्णुरात उवाच ब्रह्मन् ब्रह्मण्यनिर्देश्ये निर्गुणे गुणवृत्तयः । कथं चरन्ति श्रुतयः साक्षात्सद्असतः परे ॥ [भागवतम् १०.८७.१] अस्यार्थः । श्रुतयस्तावच्छब्दमात्रस्य साधारण्याद्गुणेषु सत्त्वादिषु वृत्तिर्यासां तादृशो दृश्यन्ते । ब्रह्म तु निर्गुणं सत्त्वादिगुणातीतं तस्माद् एवानिर्देश्यम् । तत्तद्गुणकार्यभूतजातिगुणक्रियाख्याननां गुणान्तराणामभावास्पदत्वात्तादृशद्रव्यस्याप्यप्रसिद्धत्वाद् अनिर्देश्यं सत्त्वादि कार्यं भूताभ्यां सद्असद्भ्यां कार्यकारणाभ्यां परमिति तेन तेनासम्बन्धं चेत्यर्थः । तथा च सति यथा डित्थवाचि कस्मिंश्चिदद्वितीये द्रव्ये तच्छब्दस्य मुख्या वृत्तिः प्रवर्तते । यथा च सिंहो देवदत्त इत्यत्र गौण्या वृत्त्या शौर्यगुणयुक्ते देवदत्ते सिंह शब्दः प्रवर्तते । यथा च गङ्गायां घोष इत्यत्रलक्षणया वृत्त्या गङ्गाशब्दस्तस्मिन्नित्यसम्बन्धे तटे प्रवर्तते । तथा तत्तद् भावास्पदे ब्रह्मणि तया तया वृत्त्या श्रुतयः कथं प्रवर्तेरन् । श्रुतीनां च शास्त्रयोनित्वादिति [Vस्१.१.३] न्यायेन तत्प्रतिपादकतायाम् अनन्यानां तत्र प्रवृत्तिरवश्यं वक्तव्या । तस्मात्तस्मिंस्ताः साक्षाद् रूपतया मुख्यया वृत्त्या केन प्रकारेण चरन्ति । तं प्रकारं विशेषः कृपयापि स्वयमुपदिशेति । अन्यथा पदार्थत्वायोगादपदार्थस्य च वाच्यार्थत्वायोगान्न श्रुतिगोचरत्वं ब्रह्मणः स्यादिति स्थिते कुतस्तरां तदुपरि चरस्फूर्तेर्भगवतस्तद्गोचरत्वं तत्कथमेवं स्वभक्तयोरित्यादौ स्वतां स्वतः प्रमाणभूतानां वेदानां मार्गं भगवत्परत्वमादिश्येत्युक्तमिति । [११०] अत्र श्रीशुकदेवेन दत्तमुत्तरमाह ऋषिरुवाच बुद्धीन्द्रियमनःप्राणान् जनानामसृजत्प्रभुः । मात्रार्थं च भवार्थं च आत्मनेऽकल्पनाय च ॥ [भागवतम् १०.८७.२] बुद्ध्यादीनुपाधीन् जनानामनुशायिनां जीवानां मात्राद्य्अर्थं प्रभुः परमेश्वरोऽसृजत न तु जनाः स्वाविद्ययासृजन्निति विवर्तवादः परिहृतः । मीयन्त इति माया विषयाः तद्अर्थम् । भवार्थं भवः जन्म लक्षणं कर्म तत्प्रभृतिकर्मकरणार्थमित्यर्थः । आत्मने लोकान्तरगामिने आत्मनस्तत्तल्लोकभोगायेत्यर्थः । अकल्पनाय कल्पनानिवृत्तये मुक्तये इत्यर्थः । अर्थधर्मकाममोक्षार्थमिति क्रमेण पदचतुष्टयस्यार्थः । मोक्षोऽप्यत्र चिन्मात्रतयावस्थितिरूपः । यथावर्णविधानमपवर्गश्च भवति, योऽसौ भगवतीत्यादिना अनन्यनिमित्तभक्तियोगलक्षणो नानागतिनिमित्ताविद्याग्रन्थिरन्धन द्वारेणेत्य्[भागवतम् ५.१९.२०] अन्तेन पञ्चमोक्तगद्येन तथा निरुक्तत्वात्साध्य भक्तिप्रादुर्भावलक्षणं चेति द्विविधो ज्ञेयः । उभयत्रापि कल्पना रूपाविद्याया निवृत्तेः । एतदुक्तं भवति । यस्मात्स्वयमीश्वरस्तत्तद् अर्थं तत्तत्साधकत्वेन दृश्यमानानां बुद्ध्यादीन् सृष्टवान् तस्मात्तत् तत्सम्पादनशक्तिनिधानयोग्यतया तेषु कृतवानिति लभ्यते । तत्र त्रिवर्गसम्पादिकाः शक्तयः कल्पनात्मिका मायावृत्त्य्अविद्याशक्तेरंशाः बहिर्मुखकर्मात्मकत्वात्स्वरूपान्यथाभावसंसारित्वहेतुत्वाच्च । एवं च यावज्जीवानां भगवद्बहिर्मुखता तावत्केवलं कल्पनात्मिकानामविद्याशक्तीनां प्रकाशात्तत्प्रधाना बुद्ध्य्आदयः सगुणा एवेति निर्गुणं साक्सान्न कुर्वत इत्येवं सत्यमेव । यदा तु तद् अन्तर्मुखता तदा तेषु चिच्छक्तेः प्रादुर्भावात्तं साक्षात्कुर्वत एव इति स्थितम् । बुद्ध्यादिमयत्वाद्वचसोऽपि तथा व्यवहारः सिध्यति । तद् अत्रैवाभेदेन सिद्धान्तितमन्ते । तदेतद्वर्णितं राजन् यो नः प्रश्नः कृतस्त्वया । यथा ब्रह्मण्यनिर्देश्ये नरिगुण्येऽपि मनश्चरेत् ॥ इत्यत्र मन इति । तत्र बुद्ध्य्आदौ चिच्छक्तिस्तदीयाप्राकृतपरमानन्दस्वरूपतादृश गुणादौ स्वयं प्रकाशमयी वचसि च तत्तन्निर्देशमयीति ज्ञेया । अतोऽप्राकृततादृशस्वरूपाद्यालम्बनेन श्रुतयश्चरन्तीति सिद्धान्त सिद्धये । तदेवं पौरुषस्यापि वचसो भगवच्चरित्रं सिद्धम् । यथोक्तम् यस्मिन् प्रति श्लोकमबद्धवत्य्[भागवतम् १.५.११] अपीति । तथा च सति तथाविधवचादीनामेकाश्रयस्य साक्षाद्भगवन् निश्वासाविर्भाविनोऽपौरुषेयस्य तच्चारित्वं किमुत । तस्मात्साक्षात्चरन्त्य् एव श्रुतयः । वक्ष्यते च क्वचिदजयात्मना च चरतोऽनुचरेन् निगम[*Eण्ड्ण्Oट्E ॰३६] इति । तथा च प्रणवमुद्दिश्योक्तं द्वादशे स्वधाम्नो ब्रह्मणः साक्षाद् वाचकः परमात्मनः । ससर्वमन्त्रोपनिषद् वेदबीजं सनातनम् ॥ [भागवतम् १२.६.४१] इति । श्रुतौ च ओमित्येतद्ब्रह्मणो नेदिष्ठं नामेति नेदिष्ठं लक्षणादि व्यवधानं विनेत्यर्थः । अतएव केन च प्रकटिण साक्षाच्चरन्ति स कथ्यतामित्येवं राजाभिप्रायः । अत्र शब्दो निर्देश्यत्वे दोषस्त्वग्रे द्युपतय इत्य्[भागवतम् १०.८७.४१] अत्र परिहार्यः । अथ श्रुतिष्वपि याः काश्चित्त्रिवर्गपरत्वेन बहिर्मुखाः प्रतीयन्ते तासाम् अप्यन्तर्मुखतायामेव पर्यवसानम् । तथा हि परमेश्वरस्य सतत परमार्थबहिर्मुखतापराहतजीवनिकायविषयकृपाविलास पर्यवसायिनिःश्वासरूपाः श्रुतयः प्रथमतः स्वविषयकं विश्वासं जनयितुमदृष्टवस्त्वनभिज्ञानसततदृष्टमैहिकमेवार्थम् ईहमानांस्तान् प्रति तत्सम्पादकं पुत्रेष्ट्यादिकं विदधति । ततश्च तेन जातविश्वासानैहिकस्यात्यन्तमस्थिरत्वे प्रदर्श्य दिव्यानन्दचमत्कार विचित्रस्य पारलौकिकस्वर्गादिलक्षणतत्तत्कामस्य जनकेऽग्निष्टोमादौ प्रवर्तयन्ति । ततस्तेषां निरन्तरतद्अभ्यासाद्धर्म एव रुचिं जनयन्ति । अथ लब्धधर्मरुचीनां शुद्धान्तःकरणानां तद्अर्तहविचार पराणां जगदप्यनित्यमिति ज्ञानवतां संसारभयदीनानां निर्वाणानन्दाभिलाषं सम्पादयन्ति । निर्वाणानन्दश्च पर तत्त्वाविर्भावरूप एवेति । तदुक्तं श्रीसूतेन धर्मस्य ह्यापवर्ग्यस्य नार्थोऽर्थायोपकल्पते । नार्थस्य धर्मैकान्तस्य कामो लाभाय हि स्मृतः ॥ [भागवतम् १.२.९] कामस्य नेन्द्रियप्रीतिर् लाभो जीवेत यावता । जीवस्य तत्त्वजिज्ञासा नार्थो यश्चेह कर्मभिः ॥ [भागवतम् १.२.१०] इति । ततश्च यथा बुद्ध्यादयोऽन्तर्मुखतातारतम्येन चिच्छक्त्याविर्भावात् परे तत्त्वे तारतम्येन चरन्ति, तथा श्रुतिलक्षणं वचनमपि चिच्छक्ति प्रकाशानुक्रमेण त्रैगुण्यविषयत्वमतिक्रम्य केवलनैर्गुण्य विषयमेव सत्तस्मिन्निर्गुणे तत्त्वे सम्यगेव चरितुं शक्नोति । अगुण वृत्तित्वेन योग्यत्वात् । तदुक्तं द्वादशे प्रणवमुपलक्ष्य ततोऽभूत्त्रिवृदोङ्कारो योऽव्यक्तप्रभवः स्वराट् । यत्तल्लिङ्गं भगवतो ब्रह्मणः परमात्मनः ॥ [भागवतम् १२.६.३९] इति ॥ तत्र तत्तत्त्वं द्विधा स्फुरति भगवद्रूपेण ब्रह्मरूपेण चेति । चिच् छक्तिरपि द्विधा तदीयस्वयंप्रकाशादिमयभक्तिरूपेण तन्मय ज्ञानरूपेण च । ततो भक्तिमयश्रुतयो भगवति चरन्ति ज्ञानमय श्रुतयो ब्रह्मणीति सामान्यतः सिद्धान्तितम् । [१११] अथ तत्र विशेषं वक्तुं तदीय एवेतिहास उपक्षिप्यते । श्रीसनन्दन उवाच स्वसृष्टमिदमापीय शयानं सह शक्तिभिः । तदन्ते बोधयाञ्चक्रुस् तल्लिङ्गैः श्रुतयः परम् ॥ [भागवतम् १०.८७.१२] स्वयं निर्मितमिदं विश्वं लयसमये आपीय संहृत्य शक्तिभिः सह शयानं प्रकृतिं पुरुषं तद्अंशांशश्चात्मसात्कृत्य तत्कार्यं प्रति निमीलिताक्षं परं भगवन्तं तद्अन्ते प्रलयकालावसानप्राये तल्लिङ्गैस् तत्प्रतिपादकैर्वाक्यैः श्रुतयः प्रबोधयाञ्चक्रुः प्रातः प्रबोधनः स्तुतिभङ्ग्या तुष्टुवुरित्यर्थः । अस्य भगवत्त्वमेव गम्यते न तु पुरुष त्वं भगवानेक आसेदम् अग्र आत्मात्मतां विभुः । आत्मेच्छानुगतावात्मो नानामत्युपलक्षणः ॥ [भागवतम् ३.५.२३] इति तृतीयस्कन्धप्रकरणे तदानीं पुरुषस्य तद्अन्तर्भावश्रवणात् । [११२] पूर्वपद्यार्थे दृष्टान्तः । यथा शयानं सम्राजं वन्दिनस्तत्पराक्रमैः । प्रत्यूषेऽभ्येत्य सुश्लोकैर् बधियन्त्यनुजीविनः ॥ [भागवतम् १०.८७.१३] तस्य सम्राजः पराक्रमो य एतैर्न तु निर्विशेषत्वव्यञ्जकैः शोभनैः श्लोकैः । यथा शयानं सम्राजमित्यस्यायमभिप्रायः । यथा रात्रौ सम्राट्महिषिभिः क्रीडन्नपि बहिःकार्यं परित्यज्यान्तर्गृहादौ स्थितत्वात्तज्जनैः शयान एवोच्यते । वन्दिभिश्च तत्प्रभावमयश्लोक कृतप्रबोधनभङ्ग्या स्तूयते तथायं भगवान् तदानीं जगत् कार्याकृतदृष्टिर्निगूढं निजधाम्नि निजपरिकरैः क्रीडन्नपीति । अनुजीविन इत्यनेन ते यथा तन्मर्मज्ञास्तथा न अपीति सूचितम् । [११३] तत्र प्रथमतो ज्ञानादिगुणसेवितेन सम्यग्दर्शनकारणेन भक्ति योगेनानुभूयमानं भगवद्आकारमखण्डमेव तत्त्वं स्व प्रतिपाद्यत्वेन दर्शयन्त्यो ब्रह्मस्वरूपमपि तथात्वेन क्रोडीकुर्वन्त्यः श्रुतयः ऊचुः । जय जय जह्यजामजित दोषगृभीतगुणां त्वमसि यदात्मना समवरुद्धसमस्तभगः । अगजगद्ओकसामखिलशक्त्य्अवबोधक ते क्वचिदजयात्मना च चरतोऽनुचरेन्निगमः ॥ [भागवतम् १०.८७.१४] बोहजित जय जय निजोत्कर्षमाविष्कुरु । आदरे वीप्सा । अत्राजितेति सम्बोधनेनेदं लभ्यते । नामव्याहरणं विष्णोर्यतस्तद्विषया मतिर् इति [भागवतम् ६.२.१०] न्यायेन नाम्ना भगवानसौ साक्षादभिमुखीक्रियत इति लिङ्गादेव तच्छ्रीविग्रहवत्तदपि तत्स्वरूपभूतमेव भवति । तद् विजानीये तद्अभिमुखीकरणार्हत्वात् । अतएव भयद्वेषादौ श्रीमूर्तेः स्फूर्तेरिव साङ्गेत्य्आदावप्यस्य प्रभावः श्रूयते । विशेषतश्चात्र श्रुति विद्वद्० नुभआवपि पूर्वमेव प्रमाणीकृतौ । तस्मात्यत्त्वं श्री विग्रहरूपेण चक्षुरादावुदयते तदेव नामरूपेण वाग्आदाविति स्थितम् । तस्मान्नामनामिनोः स्वरूपाभेदेन तत्साक्षात्कारे तत्साक्षात् कार एवेत्यतः किं वक्तव्यमन्यत्रान्यवद्भगवति श्रुतयोऽपि जात्यादि कृतसंज्ञासंज्ञिसङ्केतादिरीत्या रूढ्यादिवृत्तिभिश्चरन्तीति । यासां श्रुत्य् अभिधानां वल्लीनां साक्षात्तथाभूतानि नामान्येव फलानीति । उत्कर्षमाविष्कुर्वित्यनेन इत्थं सर्वोत्कृष्टतागुणयोगेन मुख्ययैव वृत्त्या श्रुतयस्तस्मिंश्चरन्तीति दर्शितम् । श्रुतयश्च न ते महि त्वामन्व् अश्नुवन्ति [?], न तत्समश्चाभ्यधिकश्च दृश्यते [श्वेतू ६.८] इत्याद्याः । अत्र श्रुतयो जय जयेति स्वभक्त्याविष्कारात्भक्तिमेव तत्प्रकाशे हेतुं गमयन्ति । केन व्यापारेणोत्कर्षमाविष्करवाणीत्याशङ्क्य माया निरसनद्वारा स्वभक्तिदानेनेत्याहुः । अजां मायां जहि । ननु माया नाम विद्याविद्यावृत्तिका शक्तिः । तर्हि तद् धनने विद्याया अपि हतिः स्यादित्यत्र आह दोषगृभीतगुणां जीवानाम् आत्मविस्मृतिहेतावविद्यालक्षणे दोषे एव गृभीतो गृहीतस्तत्स्मृतिहेतोर् विद्यालक्षणो गुणो यया ताम् । स्वयमेव स्वावेशेनाविद्यालक्षणं दोषम् उत्पाद्य क्वचिदेव कदाचिदेव कथञ्चिदेव कञ्चिदेव जीवं त्यजतीति तस्यास् त्यागात्मकविद्याख्यगुणेऽपि दोष एव । तस्मात्तां निर्मूलां विधाय जीवेभ्यो निजचरणारविन्दविषयां भक्तिमेव दिशेति तात्पर्यम् । अतो मायाघातकयोग्यशक्तित्वेन तद्अतीतत्वं व्यपदिश्य सच्चिद्आनन्द घनत्वं भगवतो व्यञ्जयन्त्योऽतन्निरसनमुखेन तात्पर्यवृत्त्या श्रुतयश्चरन्तीति व्यञ्जितम् । श्रुतयश्च मायां तु प्रकृतिं विद्यान् मयिनं तु महेश्वरम् [श्वेत्४.१०][*Eण्ड्ण्Oट्E ॰३७] इति । अजामेकामिति । सर्वस्याधिपतिः सर्वस्येशानः [Bआऊ ४.४.२२] स वा एष नेति नेतीत्य्[*Eण्ड्ण्Oट्E ॰३८] आद्याः । ननु मायानाशं सम्प्रार्थ्य मम तद्उपाधिकमैश्वर्यादिकमपि नाशयितुमिच्छथेत्यत्र समाधत्ते त्वमिति । यद्यस्मात्त्वमात्मना स्वरूपेणैव समवरुद्धसमस्तभगप्राप्तत्रिपाद्विभूत्य्आख्य सर्वैश्वर्यादिरसि । तस्मात्तव तुच्छया तद्उपाधिकैश्वर्यादिभिर्वा किम् इत्यर्थः । तथा च स यदजया त्वजामित्यत्र पद्ये टीका नहि निरन्तराह्लादिसंवित् कामधेनुवृन्दपतेरजया कृत्यमिति । तथा न ह्यन्येषामिव देश कालादिपरिच्छिन्नं तवाष्टगुणितमैश्वर्यमपि तु परिपूर्ण स्वरूपानुबन्धित्वादपरिमितमित्यर्थः । इत्येषा । अत्रात्मशब्देन स्वरूपमात्रवाचकेन तथा भगशब्देन स्वरूप भूतगुणवाचकेनेदं ध्वन्यते । स्वरूपादिशब्दा ईश्वरादिशब्दाश्च स्वरूपमात्रावलम्बनया स्वरूपभूतगुणावलम्बनयापि रूढ्या निर्देष्टुं शक्नुवन्तीति । श्रुतयश्च यद्आत्मको भगवान् तद्आत्मिका व्यक्तिः इत्य्[?] आद्याः परास्य शक्तिर्विविधैव श्रॣयते इत्य्[श्वेतू ६.८] आदिकाश् च । सा च स्वरूपशक्तिः सर्वैरेवावगम्यत इत्याहुः अगानि स्थावराणि जगन्ति जङ्गमानि ओकांसि शरीराणि येषां तेषां सर्वेषामेव जीवानां या अखिलाः शक्तयस्तासामवधकेति सम्बोधनम् । तेषु विचित्रशक्तिलहरीरत्नाकर इत्यनुमीयत इत्यर्थः । यद्वा । ननु मायाहननेन तद्उपाधेर्जीवस्य तु शक्तिहानिः स्यात् तत्राहुः अगेति । अथ पूर्ववदेव । ततः स्वरूपशक्त्यैव प्रत्युत तेषां सुखैकप्रदा पूर्णा शक्तिर्भविष्यतीति भावः । अत्रेत्थं तटस्थ लक्षणेन श्रुतयश्चरन्तीत्युक्तम् । श्रुतयश्च को ह्येवान्याद्[टैत्ति २.७] इत्यादिकाः प्राणस्य प्राणमित्यादिकाः । तमेव भान्तम् [Kअठऊ २.२.१५] इत्यादिकाः । देहान्ते देवस्तारकं ब्रह्म व्याचष्टे [ण्टू १.७][*Eण्ड्ण्Oट्E ॰३९] इति । यस्य देवे परा भक्तिर्[श्वेतू ६.२३] इत्याद्याश्च । ननु विशेषतो भवत्यः कथं जानन्ति यदजया मम कृत्यं नास्ति तथा सच्चिद्आनन्दघन एव स्वरूपशक्त्या समवरुद्धसमस्तभग इति तत्राहुः क्वचिदिति । क्वचित्कदाचित्सृष्ट्यादिसमये पुरुषरूपेण अजया मायया चरतः क्रीडतः नित्यं च स्वरूपशक्त्याविष्कृतस्वरूपभूत भगेन सत्यज्ञानानन्दैकरसेनात्मना चरतस्तवास्मल्लक्षणो निगमः शब्दरूपेण देवतारूपेण च अनुचरेत्सेवते । तस्माद्वयं सत्सर्वं जानीम इत्यर्थः । कर्मणि षष्ठी । एतदुक्तं भवति । अत्र द्विविधो वेदस्त्रैगुण्यविषयो निस्त्रैगुण्यविषयश् च । तत्र त्रैगुण्यविषयस्त्रिविधः । प्रथमप्रकारस्तावत्तद् अवलम्बनताटस्थ्येन तल्लक्षकः । यथा यतो वा इमानि भूतानीत्यादिः । द्वितीयप्रकारश्च त्रिगुणमयतद्ईशितव्यादिवर्णनादिद्वारा तन् महिमादिदर्शकः । यथा इन्द्रो यतोऽवसितस्य राजेत्यादिः । तृतीयप्रकारश् च त्रैगुण्यनिरासेन परमवस्तूद्देशकः । सोऽप्ययं द्विविधः । निषेध द्वारा सामानाधिकरण्यद्वारा च । तत्र पूर्वद्वारा अस्थूलमनणु नेति नेतीत्य्[Bआऊ ३.७.८] आदिः । उत्तरद्वारा सर्वं खल्विदं ब्रह्म तत्त्वमसीत्य् आदिः । पूर्ववाक्ये । तज्जातत्वादिति हेतोः सर्वस्यैव ब्रह्मत्वं निर्दिश्य तत्राविष्कृतः सदिदमिति प्रतीतिपरमाश्रयो योऽंशः स एव शुद्धं ब्रह्मेत्युद्दिश्यते । उत्तरवाक्ये त्वंपदार्थस्य तद्वच्चिद्आकारतच् छक्तिरूपत्वेन तत्पदार्थैक्यं यदुपपाद्यते तेनापि तत्पदार्थो ब्रह्मैवोद्दिश्यते । तत्पदार्थज्ञानं विना त्वंपदार्थज्ञानमात्रम् अकिञ्चित्करमिति तत्पदोपन्यासः । त्रैगुण्यातिक्रमस्तूभयत्रापि । अत्र त्रैगुण्यनिरासेन तद्उद्देशेन यत्र तदीयधर्माः स्पष्टमेव गम्यते तत्र भगवत्परत्वं यत्र त्वस्पष्टं तत्र ब्रह्मपरत्वमित्य् अवगन्तव्यम् । व्याख्यातस्त्रैगुण्यविषयः । तदेतदजया चरतोऽनुचरे व्याख्यातम् । अथ निस्त्रैगुण्योऽपि द्विविधः । ब्रह्मपरो भगवत्परश्च । यथा आनन्दो ब्रह्मेत्यादि । न तस्य कार्यं करणं च विद्यते न तत्समश्चाभ्यधिकश्च दृश्यते । परास्य शक्तिर्विविधैव श्रूयते स्वाभाविकी ज्ञानबलक्रिया च ॥ [श्वेतू ६.८] इत्यादिश्च । तदेतदात्मना चरतोऽनुचरे इति व्याख्यातम् । अतः श्रुतेस्तच्चारित्वं सिद्धम् । साक्षाच्चारित्वं च निस्त्रैगुण्यानां स्वत एव अन्येषां तु तद्एक वाक्यतया ज्ञेयम् । मायानिरसनार्थमेव तत्तद्गुणानुवादः क्रियते पश्चादखण्डमेव तां निरस्य साक्षाद्भगवत्स्वरूपगुणादिकं निर्दिश्यते इति तदेकवाक्यताद्योतनया स एष एव सिद्धान्तोऽस्मिन्न् उपक्रमवाक्ये समुद्दिष्टः । तथोपसंहारे च श्रुतयस्त्वयि हि फलन्त्य् अतन्निरसनेन भवन्निधना [भागवतम् १०.८७.४१] इति । श्रुतयश्च मध्व भाष्यप्रमाणिताः न चक्षुर्न श्रोत्रं न तर्को न स्मृतिर्वेदो ह्येवैनं वेदयति इत्याद्या । औपनिषदः पुरुष इत्य्[Bआऊ ३.९.२६] आद्याश्च । [११४] अथ विशेषतो ब्रह्मण्यपि यथा चरन्ति ब्रह्मणि चरन्तीनामपि यथा भगवत्येव पर्यवसानं तथैवोद्दिशन्ति । बृहद्उपलब्धमेतदवयन्त्यवशेषतया यत उदयास्तमयौ विकृते दिवाविकृतात् । अत ऋषयो दधुस्त्वयि मनोवचनाचरितं कथमयथा भवन्ति भुवि दत्तपदानि नॄणाम् ॥ [भागवतम् १०.८७.१५] एतत्सर्वं बृहद्ब्रह्मैवोपलब्धमवगतम् । तत्कथं विकृते विश्वस्मात् सकाशादवशिष्यमाणत्वेन सर्वं घटादिद्रव्यं मृदेवोपलब्धा दृष्टा तथा बृहदपीत्यर्थः । तत्र हेतुः । यतो बृहतः सकाशाद्विकृतेरुदयास् तमयौ अवयन्ति मन्यन्ते श्रुतयः यतो वा इमानीत्याद्याः । तस्मान्मृत साम्यं तस्य युज्यत इति भावः । तर्हि कथं तद्विकारि त्वमपि नेत्याहुः । अविकृतात् । श्रुतेस्तु शब्दमूलत्वादिति न्यायेनाचिन्त्यशक्त्या तथाप्य् अविकृतमेव यत्तस्मादित्यर्थः । यद्यप्यत्रापि सशक्तिकमेव बृहद् उपपद्यते तथाप्याविष्कृतभगवत्त्वेनानुपादानात्ब्रह्मैवोपपादितं भवति । सर्वथा शक्तिपरित्यागे तद्उपपादानात्सामर्थ्यात्तुच्छत्वापाताच् च । तस्मादत्र ब्रह्मैवोदाहृतम् । अतएव मृन्मात्रदृष्टान्तेन कर्तृत्वादिकमपि तत्र नोपस्थापितम् । तदेतद्ब्रह्मप्रतिपादनमपि श्रीभगवत्येव पर्यवस्यतीत्याहुः । अत इति । अतो ब्रह्मप्रतिपादनादपि ऋषयो वेदास्त्वयि श्रीभगवत्येव मनस आचरितं तात्पर्यं वचनस्याचरितमभिधानं च दधुर्धृतवन्तः । द्वयोरेकवस्तुत्वाद् भगादीनामाविष्कारानाविष्कारदर्शनमात्रेण भेदकल्पनाच्च तत्रार्थान्त्रन्यासः । नॄणां भूचराणां सम्यग्दर्शिनामसम्यग् दर्शिनां वा भुवि दत्तानि निक्षिप्तानि पदानि कथमयथा भवन्ति भुवं न प्राप्नुवन्ति अपि तु तत्रैव पर्यवस्यन्ति । तस्माद्यथा कथमपि प्रतिपादयन्तु फलितं तु त्वय्येव भवतीति भावः । तदुक्तं ज्ञानयोगश्च मन्निष्ठो नैर्गुण्यो भक्तिलक्षणः । द्वयोरप्येक एवार्थो भगवच्छब्दलक्षणः ॥ इति । [भागवतम् ३.३२.३२] अत्र श्रुतयश्मध्वभाष्यप्रमाणिताः हन्त तमेव पुरुषं सर्वाणि नामान्यभिवदन्ति यथा नद्यः स्यन्दमानाः समुद्रायणाः समुद्रम् अभिनिविशन्ति एवमेवैतानि नामानि सर्वाणि पुरुषमभिविशन्तीति । [११५] तदेवं भगवत्त्वेन ब्रह्मत्वेन न त्वमेव तात्पर्याभिधानाभ्यां सर्वनिगमगोचर इत्युक्तम् । तच्च यथार्थमेव न तु काल्पनिकमित्य् आहुः । इति तव सूरयस्त्र्य्अधिपतेऽखिललोकमल क्षपणकथामृतामवगाह्य तपांसि जहुः । किमुत पुनः स्वधामविधुताशयकालगुणाः परम भजन्ति ये पदमजस्रसुखानुभवम् ॥ [भागवतम् १०.८७.१६] भोस्त्र्यधिपते त्रयाणां ब्रह्मादीनां पतिस्तत्तद्अवतारी नारायणाख्यः पुरुषस्तस्याप्युपरिचरस्वरूपत्वादधिपतिर्भगवान् । ततो हे सर्वेश्वरेश्वर यस्मात्त्वय्येव वेदानां तात्पर्यमभिधानं च पर्यवसितमिति अतो हेतोरेव सूरयो विवेकिनः परम्परात्वत् प्रतिपादनमयं वेदभागमपि परित्यज्य केवलं तवाखिललोकम् अलक्षपणकथामृताब्धिं सकलवृजिननिरसनहेतुकीर्तिसुधासिन्धुम् अवगाह्य श्रद्धया निषेव्य तपःप्राधान्येन तापकत्वेन वा तपांसि कर्माणि तानि जहुस्त्यक्तवन्तः । तेषां साधकानामपि यदि तत्रैवं तदा किमुत वक्तव्यं स्वधामविधुताशयकालगुणाः शुद्धात्मस्वरूप स्फुरणेन निर्जितमन्तःकरणं जरादिहेतुः कालप्रभावः सत्त्वादयो गुणाश्च यैस्ते ये पुनः तवाजस्रसुखानुभवस्वरूपं पदं ब्रह्माख्यं तत्त्वं भजन्ति ते तमवगाह्य तानि जहुरिति । किं तर्हि ब्रह्ममात्रानुभ्वनिष्ठामपि जहुरित्यर्थः । एतदुक्तं भवति । अत्र तावत्त्रिविधा जना मुग्धा विवेकिनः कृतार्थाश्च इति । तत्र सर्वानेवाधिकृत्य वेदानामकल्पनामयत्वेनैव भगवन् निर्देशकता दृश्यते । तथा हि यदि तथात्वेनैव सा न दृश्येत तदा वस्तुतस् तत्सम्बन्धाभावादखिललोकमलक्षपणत्वेन पदपदार्थज्ञान हीनानां मुग्धानामपि यत्पापहारित्वं वेदान्तर्वर्तिन्या भगवत् कथायाः प्रसिद्धं तन्न स्यात् । अस्पृष्टानललोहदाहकतावत् । किं च तस्याः कल्पनामयत्वे सति विवेकिनस्तु न तत्र प्रवेर्तेरन् बन्ध्यायाः सुप्रजस्त्वगुणश्रवणवत् । प्रवर्तन्तां वा तद्आवेशेन स्वधर्मं पुनर् न त्यजेयुः । राजयशसो गङ्गात्वश्रवणेन तीर्थान्तरसेवनवत् । अपि च तथा सति ये पुनरात्मारामत्वेन परमकृतार्थास्ते तद्अनादरेण तत् कथां नैवावगाहेरन् । अमृतसरसीमवगाढा आरोपिततद्अधिकगुणक नदीवत् । श्रूयते च तस्यास्तत्तद्गुणकत्वम् । यथा वैष्णवे हन्ति कलुषं श्रोत्रं स यातो हरिर्[Vइড়् ?.?.?] इत्यादौ । अत्रैव त्वद्अगवमी न वेत्तीत्यादौ । प्रथमे हरेर्गुणाक्षिप्तमतिरित्य्[भागवतम् १.७.११] आदौ । तस्माद् गुणानां गुणादिप्रतिपादकवेदानां च भगवतो सम्बन्धः स्वाभाविक एव सर्वथेति सिद्धम् । अत्र श्रुतयः ओमास्य जानन्त इत्याद्याः । यथा पुष्करपलाशमापो न श्लिष्यन्ति एवमेवंविदं पापं कर्म न श्लिष्यति । न कर्मणा लिप्यते पापकेन तत्सुकृतदुष्कृते विधुनुते । एवं वाव न तपति किमहं साधु करवं किमहं नाकरवमित्याद्या मुक्ता ह्येनम् उपासत इत्याद्याश्च । एवमन्येऽपि श्लोका उपासनादिवाक्यानां भगवत् परतादर्शका यथायथं योजयितव्या इत्यभिप्रेत्य नोद्धियन्ते । ननु तर्हि भवन्मते शब्दनिर्देश्यत्वे प्राकृतत्वमेव तत्रापतति । किं च श्रुतिभिरपि यतो वाचो निवर्तन्ते अप्राप्य मनसा सह । अवचनेनैव प्रोवाच । यद्वाचानभ्युदितं येन वागभ्युद्यते यत्श्रोत्रं न शृणोति येन श्रोत्रमिदं श्रुतमित्यादौ शब्दनिर्देश्यत्वमेव तस्य निषिध्यत इत्याशङ्कायामुच्यते । यथा साक्षान्निर्देश्यत्वे दोषस्तथा लक्ष्यत्वेऽपि कथं न स्यात् । उभयत्रापि शब्दवृत्तिविषयत्वेनाविशेषात् । किं च न तस्य प्राकृतवत्साक्षान्निर्देश्यत्वं किन्त्वनिर्देश्यत्वेनैव तथा निर्देश्यत्वम् इति सिद्धान्त्यते । [११६] तथैव तासां महावाक्योपसंहारः द्युपतयः एव ते न ययुरन्तमनन्ततया त्वमपि यद्अन्तरान्तनिचया ननु सावरणाः । ख एव रजांसि वान्ति वयसा सह यच्छ्रुतयस् त्वयि हि फलन्त्यतन्निरसनेन भवन्निधनाः ॥ [भागवतम् १०.८७.४१] अत्र स्वरूपगुणयोर्द्वयोरपि द्विधैवानिर्देश्यत्वम् । आनन्त्येन इदम् इत्तं तदिति निर्देशासम्भवेन च । तत्र प्रथममानन्त्यमाहुः । हे भगवन् ते तव अन्तमेतावत्त्वं द्युपतयः स्वर्गादिलोकपतयो ब्रह्मादयोऽपि न ययुर्न विदुः । तत्कुतः । अनन्ततया । यदन्तव तत्किम् अपि न भवसीति । आसतां ते यस्मात्त्वमै आत्मनोऽन्तं न यासि । कुतस्तर्हि सर्वज्ञता सर्वशक्तिता वा तत्राप्याहुः । अनन्ततयेति अन्ताभावेनैव । नहि शशविषाणाज्ञानं सार्वज्ञ्यं तद्अप्राप्तिर्वा शक्तिवैभवं विहन्ति । श्रुतिश्च योऽस्याध्यक्षः परमे व्योमन् । सोऽङ्ग वेद यदि वा न वेदेति [ऋग्वेद १०.१३०.१८] । अनन्तत्वमेवाहुः यदन्तरिति यस्य तवान्तरा मध्ये । ननु अहो सावरणा उत्तरोत्तरदशगुणसप्तावरणयुक्ता अण्डनिचया वान्ति परिभ्रमन्ति वयसा कालचक्रेण खे रजांसि इव सह एकदैव न तु पर्यायेण । अनेन ब्रह्माण्डानामनन्तानां तत्र भ्रमणात्स्वरूपगतमानन्त्यं तेषां विचित्रगुणानामाश्रयत्वात्गुणगतं च ज्ञेयम् । श्रुतयश्च यदूर्ध्वं गार्गि दिवः यदर्वाक्पृथिव्या यदन्तरं द्यावापृथिवी इमे यद्भूतं भवच्च भविष्यच्चेत्य्[Bआऊ ३.७.३] आद्याः । विष्णोर्नु कं वीर्याणि प्रवोचं यं पार्थिवानि विममे रजांसि इत्याद्याश्च । हि यस्मादेवमतः श्रुतयश्त्वयि पर्यवस्यन्ति । अतः श्रुतावपि प्राजापत्यानन्दतः शतगुणानन्दत्वमभिधाय पुनर्यतो वाच इत्य् आदिना अनन्तत्वेन वाग्अतीतसङ्ख्यानन्दत्वं ब्रह्मण उक्तम् । यदुक्तम् न तदीदृगिति ज्ञेयं न वाच्यं न च तर्क्यते । पश्यन्तोऽपि न जानन्ति मेरो रूपं विपश्चितः ॥ इति ॥ अतोऽत्रानिर्देश्यत्वेनैव निर्देश्यत्वम् । यत्तु सत्यं ज्ञानमित्यादौ स्वरूपस्य साक्षादेव निर्देशः । स्वाभाविकी ज्ञानबलक्रिया चेत्यादौ गुणस्य च श्रूयते तत्र च तथैव इत्याहुः । अतन्निरसनेन भवन्निधना इति । अतत्प्राकृतं यद्वस्तु तन्निरस्यैव भवत्पर्यवसानात् । अयमर्थः । बुद्धिर्ज्ञानमसंमोहमित्यादिना ह्रीर्धीर्भीरेतत्सर्वं मन एवेत्यादिना च यत्प्राकृतं ज्ञानादिकमभिधीयते तत्सर्वं ब्रह्म न भवति इति नेति नेतीत्यादिना न तस्य कार्यं करणं च विद्यते इत्यादिना च निषिध्यते । अथ च सत्यज्ञानादिवाक्येन स्वाभाविकी ज्ञानबलक्रिया चेत्यादि वाक्येन च तदभिधीयते । न तस्मात्प्राकृतादन्यदेव तज्ज्ञानादि इति तेषां ज्ञानादिशब्दानामतन्निरसनेनैव त्वै पर्यवसानमिति । ततश्च बुद्ध्य्अगोचरवस्तुत्वादनिर्देश्यत्वं तथापि तद्रूपं किञ्चिदस्ति इति उद्दिश्यमानत्वादनिर्देश्यत्वं च । तथा परोक्षज्ञाने च दशमस्त्वमसीतिवद्वाक्यमात्रेणैव तस्य स्वप्रकाशरूपस्यापि वस्तुनो विशुद्धचित्ते सुप्रकाशदर्शनात्श्रुति शब्दस्य स्वप्रकाशताशक्तिमयत्वमेवावसीयते । शब्दब्रह्म परं ब्रह्म ममोभे शाश्वती तनू इति [भागवतम् ६.१६.५१][*Eण्ड्ण्Oट्E ॰४०] । वेदस्य चेश्वरात्मत्वात्[भागवतम् ११.३.४४] इति । वेदो नारायणः साक्षात्स्वयम्भूरिति शुश्रुम इति [भागवतम् ६.१.४०] । किं वा परैरीश्वरः सद्यो हृद्यवरुध्यतेऽत्र कृतिभिः शुश्रूषुभिस्तत्क्षणादिति [भागवतम् १.१.२] । अतएवौपनिषदः पुरुषः इत्यत्रोपनिषन्मात्रगम्यत्वं श्रुतिर्बोधयति । चाक्सुषं रूपमितिवत् । ततश्च श्रुतिमय्या स्वप्रकाशताशक्त्या प्राकृततत्तद्वस्तुजातं तम इव निरस्य स्वयं प्रकाशते । तस्मान्न तत्रापि निर्देश्यत्वम् । नहि स्वेन प्रकाशेन रविः प्रकाश्यो भवति यथा तेन घट इति वक्तुं युज्यते स्वाभिन्नत्वात् । यदि च शक्तिशक्तिमतोर्भेदपक्षः स्वीक्रियते तदा निर्देश्यत्वमपीत्यत्रानिर्देश्यत्वेनैव निर्देश्यत्वं सिद्धम् । अतएवोक्तं गारुडे अप्रसिद्धेरवाच्यं तद् वाच्यं सर्वागमोक्तितः । अतर्क्यं तर्क्यमज्ञेयं ज्ञेयमेवं परं स्मृतम् ॥ इति । श्रुतौ च अन्यदेव तद्वदितादथो [इत्यादयो?] अविदितादधीति । इदम् अभिप्रेत्योक्तं श्रीपराशरेणापि । यस्मिन् ब्रह्मणि सर्वशक्तिनिलये मानानि नो मानिनां निष्ठायै प्रभवन्ति हन्ति कलुषं श्रोत्रं स यातो हरिर् ॥ इति । [Vइড়् ६.८.५९] नन्वाविष्कृतशक्तेर्भगवद्आख्यस्य ब्रह्मणः स्वप्रकाशताशक्ति स्वरूपत्वं वेदस्य स्मभवति । ततश्चानाविष्कृतशक्तेर्ब्रह्मणः प्रकाशस्तस्मात्कथमिति । उच्यते अस्मन्मते तस्यापि प्रकाशो भगवच् छक्त्यैव । तदुक्तम् मदीयं महिमानं च परब्रह्मेति शब्दितम् । वेत्स्यस्यनुगृहीतं मे सम्प्रश्नैर्विवृतं हृदि ॥ इति । [भागवतम् ८.२४.३८][*Eण्ड्ण्Oट्E ॰४१] न चैते न परप्रकाश्यत्वमापतति । ब्रह्मभगवतोरभिन्नवस्तुत्वात् । अत्र लौकिकशब्देनापि यः कश्चित्तद्उपदेशः स तु तद्अनुगतेस्तया श्रुत्यैवानुगृहीततया सम्भवतीत्युक्तम् । अतस्तद्अनुशीलनावसरे तद् भक्त्य्अनुभावरूपस्य तच्छब्दस्य तु सुतरां तत्स्वरूपशक्तिविलास मयत्वात्न तत्र निषेधः । किं तर्हि मनोविलासमयस्यैवेति सर्वम् अनवद्यम् । अतएव सुपर्णश्रुतौ प्रकृतिश्च प्राकृतं च यन्न जिघ्रन्ति जिघ्रन्ति, यन्न पश्यन्ति पश्यन्ति, यन्न शृण्वन्ति शृण्वन्ति, यन् जानन्ति जानन्ति च इति । ॥ १०.८७ ॥ श्रुतयः श्रीभगवन्तम् ॥ १०९११६ ॥ [११७] अथैकमेव स्वरूपं शक्तित्वेन शक्तिमत्त्वेन च विराजतीति । यस्य शक्तेः स्वरूपभूतत्वं निरूपितं तच्छक्तिमत्ताप्राधान्येन विराजमानं भगवत्संज्ञामाप्नोति तच्च व्याख्यातम् । तदेव च शक्तित्व प्राधान्येन विराजमानं लक्ष्मीसंज्ञामाप्नोतीति दर्शयितुं तस्याः स्व वृत्तिभेदेनानन्तायाः कियन्तो भेदा दर्श्यन्ते । यथा श्रिया पुष्ट्या गिरा कान्त्या कीर्त्या तुष्ट्येलयोर्जया । विद्ययाविद्यया शक्त्या मायया च निषेवितम् ॥ [भागवतम् १०.३९.५५] शक्तिर्महालक्ष्मीरूपा स्वरूपभूता । शक्तिशब्दस्य प्रथमप्रवृत्त्य् आश्रयरूपा भगवद्अन्तरङ्गमहाशक्तिः । माया च बहिरङ्गा शक्तिः । श्र्य्आदयस्तु तयोरेव वृत्तिरूपया चेति सर्वत्र ज्ञेयम् । तत्र पूर्वस्याः भेदः । श्रीर्भागवती सम्पत् । न त्वियं महालक्ष्मीरूपा तस्या मूल शक्तित्वात् । तदग्रे विवरणीयम् । उत्तरस्याः भेदः । श्रीर्जागती सम्पत् । इमामेवाधिकृत्य न श्रीर्विरक्तमपि मां विजहातीत्यादिवाक्यम् । यत उक्तं चतुर्थशेषे श्रीनारदेन । श्रियमनुचरतीं तद्अर्थिनश्च द्विपदपतीन् विबुधांश्च यः स्वपूर्णः । न भजति निजभृत्यवर्गतन्त्रः कथममुमुद्विसृजेत्पुमान् रसज्ञः ॥ [भागवतम् ४.३१.२२] इति । तत्र तद्अर्थिद्विपदपत्यादिसहभाव उपजीव्यः । तथा दुर्वाससः शाप नष्टायास्त्रैलोक्यलक्ष्म्या आविर्भावं साक्षाद्भगवत्प्रेयसीरूपा स्वयं क्षीरोदादाविर्भूय दृष्ट्या कृतवतीति श्रूयते । एवमपरापि । तत्र इला भूस्तदुपलक्षणत्वेन लीला अपि । तत्र च पूर्वस्या भेदो विद्या तत्त्वावबोधकारणं संविद्आख्यायास्तद्वृत्तेर्वृत्तिविशेषः । उत्तरस्या भेदस्तस्या एव विद्यायाः प्रकाशद्वारम् । अविद्यालक्षणो भेदः पूर्वस्या भगवति विभुत्वादिविमृतिहेतुर्मातृभावादिमयप्रेमानन्द वृत्तिविशेषः । अतएव गोपीजनविद्याकलाप्रेरक इति तापन्यां श्रुतौ । यथावसरमेतदपि विवरणीयम् । उत्तरस्याः स भेदः संसारिणं स्वस्वरूपविस्मृत्यादिहेतुरावरणात्मक वृत्तिविशेषः चकारात्पूर्वस्याः । सन्धिनी संविथ्लादिनी भक्त्य्आधार शक्तिमूर्तिविमलाजयायोगा प्रह्वीशानानुग्रहादयश्च ज्ञेयाः । अत्र सन्धिन्येव सत्या जयैवोत्कर्षिणी योगैव योगमाया संविदेव ज्ञानाज्ञान शक्तिः शुद्धसत्त्वं चेति ज्ञेयम् । प्रह्वी विचित्रानन्तसामर्थ्यहेतुः । ईशाना सर्वाधिकारिताशक्तिहेतुरिति भेदः । एवमुत्तरस्याश्च यथायथमन्या ज्ञेयाः । तदेवमप्यत्र मायावृत्तयो न विव्रियन्ते । बहिरङ्गसेवित्वात् । मूले तु सेवांशभतपुरुषस्य विदूर वर्तितयिअवाश्रित्यत्वात् । तथा च दशमस्य सप्तत्रिंशे नारदेन भगवान् श्रीकृष्ण एवास्तावि विशुद्धविज्ञानघनं स्वसंस्थया समाप्तसर्वार्थममोघवाञ्छितम् । स्वतेजसा नित्यनिवृत्तमाया गुणप्रवाहं भगवन्तमीमहि ॥ त्वामीश्वरं स्वाश्रयमात्ममायया विनिर्मिताशेषविशेषकल्पनम् । क्रीडार्थमद्यात्तमनुष्यविग्रहं नतोऽस्मि धुर्यं यदुवृष्णिसात्वताम् ॥ इति । [भागवतम् १०.३७.२३२४] अनयोरर्थः । विशुद्धं यद्विज्ञानं परमतत्त्वं तदेव घनः श्री विग्रहो यस्य । स्वसंस्थया स्वरूपकारेण स्वरूपशक्त्यैव वा सम्यग् आप्ता इवाप्ता नित्यसिद्धाः पूर्णा वा सर्वे अर्था ऐश्वर्यादयो यत्र । अतएव न विद्यते अतितुच्छत्वात्मोघे वृथाभूते जगत्कार्ये वाञ्छितं वाञ्छा यस्य । क्वचिदवाञ्छितस्यापि सम्बन्धो दृश्यते इत्याशङ्क्याह । स्वतेजसा स्वरूपशक्तिप्रभावेण नित्यमेव निवृत्तो दूरीभूतया शक्त्या युक्तम् । गुणमय्या विरहितमिति । तं भगवन्तं शरणं व्रजेम । तथा त्वां श्रीकृष्णाख्यं भगवन्तमेव स्वांशेनेश्वरमन्तर्यामि पुरुषमपि सन्तं नतोऽस्मि । कथ्मभूतमीश्वरं स्वरूपशक्त्या स्वाश्रयमपि आत्ममायया आत्मात्र जीवात्मा तद्विषयया मायया । विनिर्मित्ता अशेषविशेषाकारा कल्पना येन । यद्वा आत्ममायया स्वरूप शक्त्या स्वाग्रं विनिर्मिता अशेषविशेषा यया तथाभूता कल्पना माया शक्तिर्यस्य कीदृशं त्वाम् । सम्प्रति त्वाविर्भावसमये तस्यापीश्वरस्य त्वयि भगवत्येव प्रवेशात् । युगपद्विचित्रतत्तच्छक्तिप्रकाशेन या क्रीडा तद्अर्थमभ्यात्तः अभि भक्ताभिमुख्येन आत्तः आनीतः प्रकटितो मनुष्याकारो नराकृतिः परं ब्रह्मेति स्मरणात्तद्रूपो भगवद्आख्यो विग्रहो येन । तमेव पुनर्विशिनष्टि । यदुवृष्टिसात्वतां धुर्यम् । तेषां नित्यपरिकराणां प्रेमभारवहमिति । अथवा मूलपद्ये शक्त्येति सर्वत्रैव विशेष्यपदम् । श्रीर्मूलरूपा । पुष्ट्यादयस्तद्अंशाः । विद्या ज्ञानम् । आ समीचीना विद्या भक्तिः । राजविद्या राजगुह्यमित्याद्युक्तेः । माया बहिरङ्गा । तद्वृत्तयः श्र्य्आदयस्तु पृथक्ज्ञेयाः । शिष्टं समम् । ततश्चात्र शुद्धभगवत्प्रकरणे स्वरूपशक्तिवृत्तिष्वेव गणनायां पर्यवसितासु विवेचनीयमिदम् । प्रथमं तावदेकस्यैव तत्त्वस्य सच्चिदानन्दत्वाच्छक्तिरप्येका त्रिधा भिद्यते । तदुक्तं विष्णुपुराणे श्रीध्रुवेण[*Eण्ड्ण्Oट्E ॰४२] ह्लादिनी सन्धिनी संवित् त्वय्येका सर्वसंस्थितौ । ह्लादतापकरी मिश्रा त्वयि नो गुणवर्जिते ॥ इति [Vइড়् १.१२.६८] व्याख्यातं च स्वामिभिः । ह्लादिनी आह्लादकरी सन्धिनी सन्तता संविद् विद्याशक्तिः । एका मुख्या अव्यभिचारिणी स्वरूपभूतेति यावत् । सा सर्व संस्थितौ सर्वस्य सम्यक्स्थितिर्यस्मात्तस्मिन् सर्वाधिष्ठानभूते त्वय्य् एव न तु जीवेषु च सा गुणमयी त्रिविधा सा त्वयि नास्ति । तामेवाह ह्लाद तापकरी मिश्रा इति । ह्लादकरी मनःप्रसादोत्था सात्त्विकी । तापकरी विषयवियोगादिषु तापकरी तामसी । तद्उभयमिश्रा विषयजन्या राजसी । तत्र हेतुः सत्त्वादिगुणवर्जिते । तदुक्तं सर्वज्ञसूक्तौ ह्लादिन्या संविद्आश्लिष्टः सच्चिद्आनन्द ईश्वरः । स्वाविद्यासंवृतो जीवः सङ्क्लेशनिकराकरः ॥ इति [Bहावार्थदीपिका १.७.६] अत्र क्रमादुत्कर्षेण सन्धिनीसंविद्ध्लादिन्या ज्ञेयाः । तत्र च सति घटानां घटत्वमिव सर्वेषां सतां वस्तूनां प्रतीतेर्निमित्तमिति क्वचित् सत्तास्वरूपत्वेन आम्नातोऽप्यसौ भगवान् सदेव सोम्येदमग्र आसीदित्य् अत्र सद्रूपत्वेन व्यापदिश्यमाना मया सत्तां दधाति धारयति च सा सर्वदेशकालद्रव्यादिप्राप्तिकरी सन्धिनी । तथा संविद्रूपोऽपि यया संवेत्ति संवेदयति च सा संवित् । तथा ह्लादरूपोऽपि यया संविदुत्कट रूपया तं ह्लादं संवेत्ति संवेदयति च सा ह्लादिनीति विवेचनीयम् । तदेवं तस्या मूलशक्तेस्त्र्य्आत्मकत्वेन सिद्धे येन स्वप्रकाशता लक्षणेन तद्वृत्तिविशेषेण स्वरूपं स्वयं स्वरूपशक्तिर्वा विशिष्टम् आविर्भवति तद्विशुद्धसत्त्वम् । तच्चान्यनिरपेक्षयस्तत्प्रकाश इति ज्ञापनज्ञानवृत्तिकत्वात्संविदेव । अस्य मायया स्पर्शाभावात् विशुद्धत्वम् ।[*Eण्ड्ण्Oट्E ॰४३] उक्तं च तस्य सत्त्वस्य प्राकृतादन्यतरत्वं द्वादशे श्रीनारायणर्षिं प्रति मार्कण्डेयेन । सत्त्वं रजस्तम इतीश तवात्मबन्धो मायामयाः स्थितिलयोद्भवहेतवोऽस्य । लीलाधृता यदपि सत्त्वमयी प्रशान्त्यै नान्ये नॄणां व्यसनमोहभियश्च याभ्याम् ॥ [भागवतम् १२.८.३९] तस्मात्तवेह भगवन्नथ तावकानां शुक्लां तनुं स्वदयितां कुशला भजन्ति । यत्सात्वताः पुरुषरूपमुशन्ति सत्त्वं लोको यतोऽभयमुतात्मसुखं न चान्यद् ॥ [भागवतम् १२.८.४०] [*Eण्ड्ण्Oट्E ॰४४] अनयोरर्थः । हे ईश यदपि सत्त्वं रजस्तम इति तवैव मायाकृता लीलाः । कथम्भूताः अस्य विश्वस्य स्थित्यादिहेतवः तथापि या सत्त्वमयी सैव प्रशान्त्यै प्रकृष्टसुखाय भवति । नान्ये रजस्तमोमय्यौ । न केवलं प्रशान्त्यभावमात्रमनयोः । भजने[*Eण्ड्ण्Oट्E ॰४५] किन्त्वनिष्टं चेत्याह व्यसनेति । हे भगवन् तस्मात्तव शुक्लां सत्त्वमय लीलाधिष्ठात्रीं तनुं श्रीविष्णुरूपां ते कुशला निपुणा भजन्ति सेवन्ते । न त्वन्यां ब्रह्मरुद्ररूपान् । तथा तावकानां जीवानां मध्ये शुक्लां सत्त्वैकनिष्ठां तनुं भगवद्भक्तलक्षणस्वायम्भुवमन्वादिरूपां[*Eण्ड्ण्Oट्E ॰४६] ये भजन्ति अनुसरन्ति । न तु दक्षभैरवादिरूपाम् । कथम्भूतां स्वस्य तवापि दयितां लोकशान्तिकरत्वात् । ननु मम स्वरूपमपि सत्त्वात्मकमिति प्रसिद्धम् । तर्हि कथं तस्यापि मायामयत्वमेव । नहि नहीत्याह सात्वताः श्रीभागवता यत्सत्त्वं पुरुषस्य तव रूपं प्रकाशमुशन्ति मन्यन्ते । यतश्च सत्त्वात्लोको वैकुण्ठाख्यः प्रकाशते । तदभयमात्मसुखं परब्रह्मानन्द स्वरूपमेवब्न त्वन्यत्प्रकृतिजं सत्त्वं तदिति । अत्र सत्त्वशब्देन स्व प्रकाशताब्लक्षणस्वरूपशक्तिवृत्तिविशेष उच्यते । सत्त्वं विशुद्धं वसुदेवशब्दितं यदीयते तत्र पुमानपावृतः । [भागवतम् ४.३.२१] इति श्रीशिववाक्यानुसारात्च् । अगोचरस्य गोचरत्वे हेतुः प्रकृतिगुणः । सत्त्वमित्यशुद्धसत्त्वलक्षणप्रसिद्ध्य्अनुसारेण तथाभूतश्चिच् छक्तिविशेषः सत्त्वमिति सङ्गतिलाभाच्च । ततश्च तस्य स्वरूपशक्ति वृत्तित्वेन स्वरूपात्मतैवेत्युक्तम् । तदभयमात्मसुखमिति द्शक्ति प्राधान्यविवक्षयोक्तं लोको यत इतिद् । अर्थान्तरे भगवद्विग्रहं प्रति रूपं यदेतद्[भागवतम् २.८.२] इत्यादौ शुद्धस्वरूपमात्रत्वप्रतिज्ञा भङ्गः । अभयमित्यादौ प्राञ्जलताहानिश्च भवति । अन्यत् पदस्यैकस्यैव रजस्तमश्चेति द्विर्आवृत्तौ प्रतिपत्तिगौरव उत्पद्यते । पूर्वमपि नान्य इति द्विवचनेनैव हे परामृष्टे । तस्मादस्ति प्रसिद्धाद् अन्यत्स्वरूपभूतं सत्त्वम् । यदेवैकादशे यत्काय एष भुवनत्रयसन्निवेश [भागवतम् ११.४.४] इत्यादौ ज्ञानं स्वत इत्यत्र टीकाकृन्मतं यस्य स्वरूपभूतात्सत्त्वात्तनु भृतां ज्ञानमित्यनेन यथा ब्रह्मणः स्तवान्ते एतत्सुहृद्भिश्चरितमित्य् अत्र व्यक्तेतरं व्यक्ताज्जडप्रपञ्चादितरत्शुद्धसत्त्वात्मकमित्यादिना । तथा परो रजः सवितुर्जातवेदा देवस्य भर्ग [भागवतम् ५.७.१४] इत्यादौ श्री भरतजाप्ये तन्मतम् । परो रजः रजसः प्रकृतेः परं शुद्ध सत्त्वात्मकमित्यादिना । अतएव प्राकृताः सत्त्वादयो गुणा जीवस्यैव न त्व् ईशस्येति श्रूयते । यथैकादशे सत्त्वं रजस्तम इति गुणा जिवस्य नैव मे । [११.२५.१२] इति । श्रीभगवद्उपनिषत्सु च ये चैव सात्त्विका भावा राजसास्तामसाश्च ये । मत्त एवेति तान् विद्धि न त्वहं तेषु ते मयि ॥ त्रिभिर्गुणमयैर्भावैर् एभिः सर्वमिदं जगत् । मोहितं नाभिजानाति मामेभ्यः परमव्ययम् ॥ दैवी ह्येषा गुणमयी मम माया दुरत्यया । मामेव ये प्रपद्यन्ते मायामेतां तरन्ति ते ॥ [गीता ७.१२१४] यथा दशमे हरिर्हि निर्गुणः साक्षात् पुरुषः प्रकृतेः परः । स सर्वदृगुपद्रष्टा तं भजन्निर्गुणो भवेत् ॥ [भागवतम् १०.८८.४] श्रीविष्णुपुराणे सत्त्वादयो न सन्तीशे यत्र च प्राकृता गुणाः । स शुद्धः सर्वशुद्धेभ्यः पुमानाद्यः प्रसीदतु ॥ इति । [Vइড়् १.९.४४] तथा च दशमे देवेन्द्रेणोक्तम् विशुद्धसत्त्वं तव धाम शान्तं तपोमयं ध्वस्तरजस्तमस्कम् । मायामयोऽयं गुणसंप्रवाहो न विद्यते तेऽग्रणानुबन्धः ॥ इति [भागवतम् १०.२७.४] अयमर्थः । धाम स्वरूपभूतप्रकाशशक्तिः । विशुद्धत्वमाह विशेषणद्वयेन । ध्वस्तरजस्तमस्कं तपोमयमिति च । तपोऽत्र ज्ञानं स तपोऽतप्यत इति श्रुतेः । तपोमयं प्रचुरज्ञानस्वरूपं जाड्यांशेनापि रहितमित्यर्थः । आत्मा ज्ञानमयः शुद्ध इतिवत् । धृतः[*Eण्ड्ण्Oट्E ॰४७] प्राकृतसत्त्वमपि व्यावृत्तम् । अत एव मायामयोऽयं सत्त्वादिगुणप्रवाहस्ते तव न विद्यते । यतोऽसाव् अज्ञानेनैवानुबन्ध इति । अतएव श्रीभगवन्तं प्रति ब्रह्मादीनां सयुक्तिकं वाक्यम् । सत्त्वं विशुद्धं श्रयते भवान् स्थितौ शरीरिणां श्रेयोपायनं वपुः । वेदक्रियायोगतपःसमाधिभिस् तवार्हणं येन जनः समीहते ॥ [भागवतम् १०.२.३४] सत्त्वं न चेद्धातरिदं निजं भवेद् विज्ञानमज्ञानभिदापमार्जनम् । गुणप्रकाशैरनुमीयते भवान् प्रकाशते यस्य च येन वा गुणः ॥ [भागवतम् १०.२.३५] अयमर्थः । सत्त्वं तेन प्रकाशमानत्वात्तद्अभिन्नतया रूपितं वपुर् भवान् श्रयते प्रकटयति । कथम्भूतं सत्त्वं विशुद्धम् । अन्यस्य रजस्तमोभ्याममिश्रस्यापि[*Eण्ड्ण्Oट्E ॰४८] प्राकृतत्वेन जाड्यांश संवलितत्वान्न विशेषेण शुद्धत्वम् । एतत्तु स्वरूपशक्त्य्आत्म[क]त्वेन तद्अंशस्याप्यस्पर्शादतीव शुद्ध[त्व]मित्यर्थः । किमर्थं श्रयते । शरीरिणां स्थितौ निजचरणारविन्दे मनःस्थैर्याय सर्वत्र [भक्तेषु] भक्तिसुखदानस्यैव त्वदीयमुख्यप्रयोजनत्वाद् इति भावः । भक्तियोगविधानार्थमिति [भागवतम् १.८.१९] श्रीकुन्तीवाक्यात् । कथम्भूतं वपुः श्रेयसां सर्वेषां पुरुषार्थानामुपायनमाश्रयम् । नित्यानन्तपरमानन्दरूपमित्यर्थः । अतो वपुषस्तव च भेद निर्देशोऽयम्[*Eण्ड्ण्Oट्E ॰४९] औपचारिक एवेति भावः । अतएव येन वपुषा यद्वपुरालम्बनेनैव जनस्तवार्हणं पूजां करोति । कैः साधनैः वेदादिभिस्त्वद्आलम्बनकैरित्यर्थः । साधारणैस्त्वर्पितैरेव त्वद् अर्हणप्रायतासिद्धावपि । वपुषोऽनपेक्षत्वात् । तादृशए वपुषोऽनपेक्ष्यत्वात्तादृशए[*Eण्ड्ण्Oट्E ॰५०]वपुःप्रकाशहेतुत्वेन स्वरूपात्मकत्वं स्पष्टयन्ति । हे धातश्चेद्यदि इदं सत्त्वं यत्तव निजं विज्ञानमनुभवं[ः] तदात्मिका स्वप्रकाशताशक्तिरित्यर्थः । तन्न भवेत् । तर्हि त्वज्ञान भिदा स्वप्रकाशस्य तवानुभवfप्रकार एव मार्जनं शुद्धिमवाप । सैव जगति पर्यवसीयते न तु तवानुभवf[*Eण्ड्ण्Oट्E ॰५१]लेशोऽपीत्य् अर्थः । ननु प्राकृतसत्त्वगुणेनैव ग्ममानुभवोग्[*Eण्ड्ण्Oट्E ॰५२] भवतु किं निजह्ग्रहण्ह्[*Eण्ड्ण्Oट्E ॰५३]एन तत्राह । प्राकृतगुणप्रकाशैर् भवान् केवलमनुमीयते न तु साक्षात्क्रियत इत्यर्थः । अथवा तव विज्ञानरूपमज्ञानभिदाया अपमर्जनं च यन्निजं सत्त्वं तद्यदि न भवेन्नाविर्भवति तदैव प्राकृतसत्त्वादिगुणप्रकाशैर्भवान् अनुमीयते । त्[व्]अन्निजसत्ताविर्भावेण तु साक्षात्क्रियत एवेत्यर्थः । तद् एव स्पष्टयितुं तत्रानुमाने द्वैविध्यमाहुर्यस्य गुणः प्रकाशत इयेन वा गुणः प्रकाशतै[*Eण्ड्ण्Oट्E ॰५४] इति । अस्वरूपभूतस्यैव [प्राकृत ]सत्त्वादिगुणस्य त्वद्अव्यभिचारिसम्बन्धित्वमात्रेण वा त्वद्एक प्रकाश्यमानतामात्रेण वा त्वल्लिङ्गत्वमित्यर्थः । यथा अरुणोदयस्य सूर्योदयसान्निध्यलिङ्गत्वं यथा वा धूमस्याग्निलिङ्गत्वमिति । तत उभयथापि तव साक्षात्कारे तस्य साधकतमत्वाभावो युक्त इति भावः । तदेवमप्राकृतसत्त्वस्य तदीयस्वप्रकाशतारूपत्वं येन स्वप्रकाशस्य तव साक्षात्कारो भवतीति स्थापितम् । अत्र ये विशुद्धसत्त्वं नाम प्राकृतमेव रजस्तमःशून्यं मत्वा तत्कार्यं भगवद् विग्रहादिकं मन्यन्ते ते तु न केनाप्यनुगृहीताः । रजः सम्बन्धाभावेन स्वतः प्रशान्तस्वभावस्य सर्वत्रोदासीनताकृतिहेतोस् तस्य क्षोभासम्भवात्विद्यामयत्वेन यथावस्थितवस्तुप्रकाशितामात्र धर्मत्वात्, तस्य कल्पनान्तरायोग्यत्वाच्च । तदुक्तमप्यगोचरस्य गोचरत्वे हेतुः प्रकृतिगुणः सत्त्वम् । गोचरस्य बहुरूपत्वे रजः । बहुरूपस्य तिरोहितत्वे रजः[*Eण्ड्ण्Oट्E ॰५५] । तथा परस्परोदासीनत्वे सत्त्वम् । उपकारित्वे रजः । अपकारित्वे तमः । गोचरत्वादीनि स्थित्सृष्टि संहाराः उदासीनत्वादीनि चेति । अथ रजोलेशे तत्र मन्तव्ये विशुद्धपदवैयर्थ्यमित्यलं तन्मत रजोज्लेशे तत्र मन्तव्ये विशुद्धपदवैयर्थ्यमित्यलं तन् मतज्[*Eण्ड्ण्Oट्E ॰५६]रजो घटप्रघट्टनयेति ।[*Eण्ड्ण्Oट्E ॰५७] क्तत्र चेदमेव विशुद्धसत्त्वं सन्धिन्य्अंशप्रधानं चेदाधार शक्तिः । संविद्अंशप्रधानमात्मविद्या । ह्लादिनीसारांशप्रधानं गुह्यविद्या । युगपत्शक्तित्रयप्रधानं मूर्तिः । अत्राधारशक्त्या भगवद्धाम प्रकाशते । तदुक्तं यत्सात्वताः पुरुषरूपमुशन्ति सत्त्वं लोको यत [भागवतम् १२.८.४०][*Eण्ड्ण्Oट्E ॰५८] इति । तथा ज्ञानतत्प्रवरकलक्षणवृत्तिद्वयकयात्मविद्यया तद्वृत्ति रूपमुपासकाश्रयं ज्ञानं प्रकाशते । एवं भक्तितत्प्रवर्तकलक्षण वृत्तिद्वयकया गुह्यविद्यया तद्वृत्तिरूपा प्रीत्यात्मिका भक्तिः प्रकाशते । एते एव विष्णुपुराणे लक्ष्मीस्तवे स्पष्टीकृते यज्ञविद्या महाविद्या गुह्यविद्या च शोभते । आत्मविद्या च देवि त्वं विमुक्तिफलदायिनी ॥ [Vइড়् १.९.११८] इति । यज्ञविद्या कर्म । महाविद्या अष्टाङ्गयोगः । गुह्यविद्या भक्तिः । आत्मविद्या ज्ञानम् । तत्तत्सर्वाश्रयत्वात्त्वमेव तत्तद्रूपा विविधानां मुक्तीनामन्येषां च विविधानां फलानां दात्री भवसीत्यर्थः ।क्[*Eण्ड्ण्Oट्E ॰५९] अथ मूर्त्या परतत्त्वात्मकः श्रीविग्रह प्रकाशते । इयमेव वसुदेवाख्या । तदुक्तं चतुर्थस्य तृतीये महादेवेन सत्त्वं विशुद्धं वसुदेवशब्दितं यदीयते तत्र पुमानपावृतः । सत्त्वे च तस्मिन् भगवान् वासुदेवो ह्यधोक्षजो मे मनसा विधीयते ॥ इति । [भागवतम् ४.३.२३] । अस्यार्थः । विशुद्धं स्वरूपशक्तिवृत्तित्वाज्जाड्यांशेनापि रहितमिति विशेषेण शुद्धं तदेव वसुदेवशब्देनोक्तम् । कुतस्तस्य सत्त्वता वसुदेवता वा तत्राह यद्यस्मात्तत्र तस्मिन् पुमान् वासुदेव ईयते प्रकाशते । आद्ये तावदगोचरगोचरताहेतुत्वेन लोकप्रसिद्धसत्त्व साम्यात्सत्त्वता व्यक्ता । द्वितीये त्वयमर्थः । वसुदेवे भवति प्रतीयत इति वासुदेवः परमेश्वरः प्रसिद्धः । स च विशुद्धसत्त्वं प्रतीयते । अतः प्रत्ययार्थेन प्रसिद्धेन प्रकृत्य्अर्थो निर्धार्यते । ततश्च वासयति देवमिति व्युत्पत्त्या व वसत्यस्मिन्निति वा वसुः । तथा दीव्यति द्योतत इति देवः । स चासौ स चेति वासुदेवः । धर्म इष्टं धनं नॄणामिति स्वयं भगवदुक्ते वसुभिर्भगवद्धर्मलक्षणैः पुण्यैः प्रकाशत इति वा वसुदेवः । तस्माद्वसुदेवशब्दितं विशुद्धसत्त्वम् । इत्थं स्वयं प्रकाशज्योतिर्एकविग्रहभगवज्ज्ञानहेतुत्वेन कैवल्यं सात्त्विकं ज्ञानं रजो वैकल्पिकं तु यत् । प्राकृतं तामसं ज्ञानं मन्निष्ठं निर्गुणं स्मृतम् ॥ इत्यादौ [भागवतम् ११.२५.२४] बहुत्र गुणातीतावस्थायामेव भगवज्ज्ञानश्रवणेन न च सिद्धमत्र विशुद्धपदावगतं स्वरूपशक्तिवृत्तिभूतस्वप्रकाशतालक्षणत्वं तस्य व्यक्तम् । ततश्च सत्त्वे प्रतीयत इत्यत्र करण एवाधिकरण विवक्षया ॥ स्वरूपशक्तिवृत्तित्वमेव विशदयति । अपावृत आवरणशून्यः सन् प्रकाशते । प्राकृतं सत्त्वं चेत्तर्हि तत्र प्रतिफलनमेवावसीयते । ततश्च दर्पणे मुखस्येव तद्अन्तर्गततया तस्य तत्रावृतत्वेनैव प्रकाशः स्यादिति भावः । फलितार्थमाह एवम्भूते सत्त्वे तस्मिन्नित्यम् एव प्रकाशमानो भगवान्मे मया मनसा विशेषेण विधीयते चिन्त्यत इत्य् अर्थः । तत्सत्त्वं तादात्म्यापन्नमे एवअन्यथा नैव मनसा चिन्तयितुं शक्यते इति पर्यवसितम् । ननु केवलेन मनसैव चिन्त्यतां किं तेन सत्त्वेन तत्राह । हि यस्माद् अधोक्षजः अधःकृतमतिक्रान्तमक्षजमिन्द्रियज्ञानं येन सः । नमसेति पाठे हि शब्दस्थानेऽप्यनुशब्दः पठ्यते । ततश्च विशुद्ध सत्त्वाख्यया स्वप्रकाशताशक्त्यैव प्रकाशमानोऽसौ नमस्कारादिना केवलमनुविधीयते सेव्यते । न तु केनापि प्रकाश्यत इत्यर्थः । तदेव सोऽदृश्यत्वेनैव स्फुरन्नसौ अदृश्येनैव नमस्कारादिना अस्माभिः सेव्यत इति तत्प्रकरणसङ्गतिश्च गम्यते । तथा यतो भगवद्विग्रहप्रकाशकविशुद्धसत्त्वस्य मूर्तित्वं वसुदेवत्वं च तत एव तत्प्रादुर्भावविशेषे धर्मपत्न्या मूर्तित्वं प्रसिद्धम् । श्रीमद्आनकदुन्दुभौ च वसुदेवत्वमिति विवेचनीयम् । अत्र श्रद्धा पुष्ट्य्आदिलक्षणप्रादुर्भूतं भगवच्छक्त्यंशरूपस्य भगिनीतया पाठसाहचर्येण मूर्तेस्तस्यास्तच्छक्त्य्अंशप्रादुर्भावत्वम् उपलभ्यते । तुर्ये धर्मकलासर्गे नरनारायणावृषी इत्य्[भागवतम् १.३.९] अत्र कलाशब्देन च शक्तिरेवाभिधीयते । ततः शक्तिलक्षणायां तस्यां च नर नारायणाख्यभगवत्प्रकाशफलदर्शनात्वसुदेवाख्यशुद्ध सत्त्वरूपत्वमेवावसीयते । तदेवमेव तस्या मूर्तिरित्याख्याऽप्युक्ता । मूर्तिः सर्वगुणोत्पत्तिर्नर नारायणावृषी इति [भागवतम् ४.१.५२] । सर्वगुणस्य भगवतः उत्पत्तिः प्रकाशो यस्याः सा तावसूतेति पूर्वेणान्वयः । भगवद्आख्यायाः सच्चिद्आनन्द मूर्तेः प्रकाशहेतुत्वात्मूर्तिरित्यर्थः तथैव तत्प्रकाशफलत्व दर्शनेन च नास्यैक्येन च श्रीमद्आनकदुन्दुभेरपि शुद्धसत्त्वादि भावत्वं ज्ञेयम् । तच्चोक्तं नवमे वसुदेवं हरेः स्थानं वदन्त्यानकदुन्दुभिम् । इति । [भागवतम् ९.२४.३०] अन्यथा हरेः स्थानमिति विशेषणस्य अकिञ्चित्करत्वं स्यादिति । तदेवं ह्लादिन्य्आद्य्एकतमांशविशेषप्रधानेन विशुद्धसत्त्वेन यथायथं श्रीप्रभृतीनामपि प्रादुर्भावो विवेक्तव्यः । तत्र च तासां भगवति सम्पद्रूपत्वं तद्अनुग्राह्ये सम्पत्सम्पादकरूपत्वं सम्पद् अंशजत्वं चेत्य्आदित्रिजगत्वं ज्ञेयम् । तत्र तासां केवलशक्ति मात्रत्वेनामूर्तानां भगवद्विग्रहाद्यैकाम्येन स्थितस्तद्अधिष्ठात्री रूपत्वेन मूर्तीनां तु तद्आवरणतयेति द्विरूपत्वमपि ज्ञेयमिति दिक् ॥ ॥ १०.३९ ॥ श्रीशुकः ॥ ११७ ॥ [११८] लथैवं भूतानन्तवृत्तिका या स्वरूपशक्तिः सा त्विह भगवद् धामांशवर्तिनी मूर्तिमती लक्ष्मीरेवेत्याह अनपायिनी भगवती श्रीः साक्षादात्मनो हरेः ॥ इति ॥ [भागवतम् १२.११.२०] टीका च अनपायिनी हरेः शक्तिः तत्र हेतुः साक्षादात्मनः स्वस्वरूपस्य चिद्रूपत्वात्तस्यास्तद्अभेदादित्यर्थः । इत्येषा । अत्र साक्षाच्छब्देन विलज्जमानया यस्य स्थातुमीक्षापथेऽमुया इत्य्[भागवतम् २.५.१३] आद्युक्ता माया नेति ध्वनितम् । तत्रानपायित्वं यथा । श्रीहायशीर्षपञ्चरात्रे परमात्मा हरि देवस् तच्छक्तिः श्रीरिहोदिता । श्रीर्देवी प्रकृतिः प्रोक्ता केशवः पुरुषः स्मृतः । न विष्णुना विना देवी न हरिः पद्मजां विना ॥ इति । श्रीविष्णुपुराणे नित्यैव सा जगन्माता विष्णोः श्रीरनपायिनी । यथा सर्वगतो विष्णुस् तथैवेयं द्विजोत्तम ॥ इति । [Vइড়् १.८.१७]क्[*Eण्ड्ण्Oट्E ॰६०] तत्रान्यत्र एवं यथा जगत्स्वामी देवदेवो जनार्दनः । अवतारं करोत्येषा तथा श्रीस्तत्सहायिनी ॥ [Vइড়् १.९.१४२] इति । चिद्रूपत्वमपि स्कान्दे अपरं त्वक्षरं या सा प्रकृतिर्जडरूपिका । श्रीः परा प्रकृतिः प्रोक्ता चेतना विष्णुसंश्रया ॥ तामक्षरं परं प्राहुः परतः परमक्षरम् । हरिरेवाखिलगुण अक्षरत्रयमीरितम् ॥ इति । अत एव श्रीविष्णुपुराणे एव कलाकाष्ठानिमेषादि[*Eण्ड्ण्Oट्E ॰६१] कालसूत्रस्य गोचरे । यस्य शक्तिर्न शुद्धस्य प्रसीदतु स मे हरिः ॥ प्रोच्यते परमेशो यो यः शुद्धोऽप्युपचारतः । प्रसीदतु स नो विष्णुर् आत्मा यः सर्वदेहिनाम् ॥ इति [Vइড়् १.९.४५४६] अत्र स्वामिभिरेव व्याख्यातं च । कलाकाष्ठानिमेषादिकाल एव सूत्रवत् सूत्रं जगच्चेष्टा नियामकत्वात्तस्य गोचरे विषये यस्य शक्तिर्लक्ष्मीर्न वर्तते । स्वरूपाभिन्नत्वान्नित्यैव सा कालाधीना न भवतीत्यर्थः ॥ अतएव तस्याः स्वरूपाभेदाच्छुद्धस्येत्युक्तम् ॥ ननु यदि लक्ष्मीस्तत्स्वरूपाभिन्ना कथं तर्हि लक्ष्म्याः पतिरित्युच्यते तत्राह प्रोच्यते इति परा चासौ मा च लक्ष्मीस्तस्या ईशो यः शुद्धः केवलोऽपि उपचारतो भेदविवशया प्रोच्यते । द्वितीयो यच्छब्दः प्रसिद्धाव् इति एवमेवाभिप्रेत्य प्रार्थितं श्रीब्रह्मणा तृतीये । एष प्रपन्न वरदे रमयात्मशक्त्या यद्यत्करिष्यति गृहीतगुणावतारः । तस्मिन् स्वविक्रममिदं सृजतोऽपि चेतो युञ्जीत कर्म शमलं च यथा विजह्याम् ॥ इति [भागवतम् ३.९.२३] । अतो यत्तु साक्षाच्छ्रीः प्रेषिता देवैर् दृष्ट्वा तं महदद्भुतम् । अदृष्टाश्रुतपूर्वत्वात् सा नोपेयाय शङ्किता ॥ इति [भागवतम् ७.९.२] श्रीनृसिंहप्रादुर्भूतावुक्तम् । ॥ १२.११ ॥ श्रीसूतः ॥ ११८ ॥ [११९] तदेवं सच्चिदानन्दैकरूपः स्वरूपभूताचिन्त्यविचित्रानन्तशक्तियुक्तो धर्मत्व एव धर्मित्वं निर्भेदत्व एव नाना भेदवत्त्वमपरुपित्व एव रूपित्वं, व्यापकत्व एव मध्यमत्वं, सत्यमेवेत्यादिपरस्पर विरुद्धानन्तगुणनिधिः । स्थूलसूक्ष्मविलक्षणस्वप्रकाशाखण्ड स्वस्वरूपभूतश्रीविग्रहस्तथाभूतभगवद्आख्यामुख्यैक विग्रहव्यञ्जिततादृशानन्तविग्रहस्तादृशस्वानुरूपस्वरूप शक्त्याविर्भावलक्षणलक्ष्मीरञ्जितवामावशः स्वप्रभाविशेषाकार परिच्छेदपरिकरनिजधामसु विराजमानाकारः स्वरूपशक्तिविलास लक्षणाद्भुतगुणलीलादिचमत्कारितात्मारामादिगुणो जिजसामान्य प्रकाशाकारब्रह्मतत्त्वो निजाश्रयैकजीवनजीवाख्यतटस्थशक्तिर् अनन्तप्रपञ्चव्यञ्जितस्वाभासशक्तिगुणो भगवानिति विद्वद् उपलब्धार्थशब्दैर्व्यञ्जितम् । तत्र तत्स्वभावं वस्त्व्अन्तरम् अपश्यतामविदुषामसम्भावना न युक्तेति विविदिषून् श्रद्दापयितुं प्रक्रियते तत्रैकेन तस्याविदुषां ज्ञानगोचरत्वं, किन्तु वेदैकवेद्यत्वम् एवेत्याहुः क इह नु वेद बतावरजन्मालयोऽग्रसरं यत उदगादृषिर्यमनु देवगणो उभये । तर्हि न सन्नचासदुभयं न च कालजवः किमपि न तत्र शास्त्रमवकृष्य शयीत यदा ॥ [भागवतम् १०.८७.२४] बत अहो भगवनिह जगति अग्रसरं पूर्वसिद्धं त्वामवरजन्मालयः अर्वाचीनोत्पत्तिनाशवान् कोऽपि पुमान् वेद जानाति । ईश्वरस्य पूर्वसिद्धाव् अन्यस्य चार्वाचीनत्वे कारणं वदन्त्यो ज्ञानकारणाभावमाहुः । यत उदगादिति यतस्त्वत्त एव ऋषिर्ब्रह्मा उत्पन्नः । अतोऽर्वाचीनाः सर्वे । यदा तु भवान् शास्त्रं स्वविज्ञापकं वेदमवकृष्य वैकुण्ठ एवाकृष्य शयीत जगत्कार्यं प्रति दृष्टिं निमीलयति तर्हि तदा अनुशायिनं जीवानां ज्ञानसाधनं नास्ति । यतस्तदा न सत्स्थूलमाकाशादि न चासत्सूक्ष्मं महद्आदि न चोभयं सदसद्भ्यामारब्धं शरीरम् । न च कालजवः तन्निमित्तीभूतं कालवैषम्यमेवं सति तत्र तदा किमपि इन्दिर्य प्राणाद्यपि न । अयमर्थः । यदा सृष्टिगतत्वात्देहाद्य्उपाधि कृतान्तरत्वात् । कालकर्मवशेन मलिनसत्त्वात्तेषां तद्अवधारणे सामर्थ्यं नास्ति । यदा तु प्रलये समये न बह्व्अन्तरमपि तदापि तेषां वेदानर्धानमहातमोमयसुषुप्तिभ्यां साधनाभावान्न तवानुभवसामर्थय्मिति । तथा श्रुतयः न तं विदाथ य इमा जजानान्यद्युष्माकमन्तरं बभूव [?] । यतो वाचो निवर्तन्ते अप्राप्य मनसा सह [टैत्तू २.४.१] । को अद्धा वेद क इह प्रावोचत् । कुत आयाता कुत इयं विसृष्टिः [?] अर्वाग्देवा अस्य विसर्जनेनाथ को वेद यत आवभूव [?] । अनेजदेकं मनसो जवीयो नेदं देवा आप्नुवन् पूर्वमर्शद् । तद्धावतोऽन्यानत्येति तिष्ठत् तस्मिन्नपो मातरिश्वा दधाति ॥ [ईशोपनिषद्, ४] न चक्षुर्न श्रोत्रं न तर्को न स्मृतिर्वेदो ह्येवैनं वेदयति इत्याद्याः । ॥१०.८७॥ श्रुतयः श्रीभगवन्तम् ॥११९॥ [१२०] अथ तत्पूर्वकं विदुषां भक्त्यैव साक्षादनुभवतीयत्वमाह त्रिभिः न पश्यति त्वां परमात्मनोऽजनो न बुध्यतेऽद्यापि समाधियुक्तिभिः । कुतोऽपरे तस्य मनः शरीरधीर् विसर्गसृष्टा वयमप्रकाशाः ॥ [भागवतम् ९.८.२१] अपरे अर्वाचीनास्तु कुतस्त्वां पश्येयुर्बुध्येरनर्वाचीनत्वे हेतुः तस्य ब्रह्मणः । मनश्च शरीरं च धीश्च सत्त्वतमोरजःकार्याणि ताभिर् विविधा ये देवतिर्यङ्नराणां सर्गास्तेषां सृष्टाः । तत्रापि वयम् अप्रकाशाः अतो कुतः पश्येम इत्यर्थः । [१२१] अपरे तर्हि किं पश्यन्ति तत्राह । ये देहभाजस्त्रिगुणप्रधाना गुणान् विपश्यत्युत वा तमश्च । मन्मायया मोहितचेतसस्त्वां विदुः स्वसंस्थं न बहिः प्रकाशाः ॥ [भागवतम् ९.८.२२] ये देहभाहस्ते स्वस्मिन् सम्यक्स्थितमपि त्वां न विदुः । किन्तु गुणान् एव विपश्यन्ति कदाचिच्च केवलं तम एव पश्यन्ति यतस्त्रिगुणा बुद्धिरेव प्रधानं येषाम् । बुद्धिपरतन्त्रतया जाग्रत्स्वप्नयोर्विषयान् पश्यन्ति सुषुप्तौ तु तम एव न तु स्वस्तुतो निर्गुणानां सर्वेषामात्मारामाणाम् आत्मभूतं त्वाम् । सर्वत्र हेतुः ! यत्यतः मायया यस्य तव मायया वा मोहितं चेतो येषां ते तथापि त्वं विचारेण ज्ञास्यसीति । यतो नास्मद् विधानां ज्ञानगोचरस्त्वं किन्तु भक्तानामेवेत्याह । तं त्वामहं ज्ञानघनं स्वभाव प्रध्वस्तमायागुणभेदमोहैः । सनन्दनाद्यैर्हृदि संविभाव्यम् कथं विमूढः परिभावयामि ॥[*Eण्ड्ण्Oट्E ॰६२] [भागवतम् ९.८.२३] तं नानाश्चर्यवृत्तिकपरशक्तिनिधानं त्वां कथं परिभावयामि । किं स्वरूपं ज्ञानघनं सत्यज्ञानानन्तानन्दैकरसमूर्तिमतएव अनिर्देश्यवपुरिति सहस्रनामस्तवे । अयं भावः । ज्ञानघनत्वान्न तावत्ज्ञानविषयस्त्वं विचारविषयत्वेऽपि मायागुणैरभिभूतोऽहं न विचारे समर्थ इति । ननु तर्हि मम तथाविधत्वे किं प्रमाणं तत्राह । स्वेन त्वदीयेन भावेन भक्त्या स्वस्यात्मनो स्वभावेनाविर्भावेनैव वा प्रध्वस्ता मायागुणप्रकारकृतमोहा येभ्यस्तैः सनन्दनाद्यैर्भगवत्तत्त्व विद्भिर्मुनिभिर्विभाव्यं विचार्यं साक्षादनुभवईयं चेत्यर्थः । तस्मादुलूकैः प्रकाशगुणकत्वेनासम्मतेऽपि रवौ यथान्यैर् उपलभ्यमानतद्गुणकत्वमस्त्येव तथार्वाग्दृष्टिभिर् असम्भाव्यमानमपि त्वयि तद्गुणकत्वं तद्भक्तविद्वत्प्रत्यक्ष सिद्धमस्त्येवेति भावः । तथा च श्रुतिः पराञ्चि खानि व्यतृणत्स्वयम्भू स्तस्मात्पराङ्पश्यति नान्तरात्मन् । कश्चिद्धीरः प्रत्यगात्मानमैक्श दावृत्तचक्शुरमृतत्वमिच्छन् ॥ [Kअठऊ २.१.१] भक्तिरेवैनं नयति भक्तिरेवैनं दर्शयति । भक्तिवशः पुरुषः भक्तिरेव भूयसी ॥ [ंाठरश्रुति] यमेवैष वृणुते तेन लभ्यः तस्यैष आत्मा विवृणुते तनूं स्वाम् [Kअठऊ १.२.२३] ॥ ९.८ ॥ अंशुमान् श्रीकपिलदेवम् ॥ १२०१२१ ॥ विवृतौ ब्रह्मभगवन्तौ ॥ इति श्रीकलियुगपावनस्वभजनविभाजनप्रयोजनावतारश्रीश्री भगवत्कृष्णचैतन्यदेवचरणानुचरविश्ववैष्णवराजसभाजन भाजनश्रीरूपसनातनानुशासनभारतीगर्भे श्रीभागवतसन्दर्भे भगवत्सन्दर्भो नाम द्वितीयः सन्दर्भः ॥ [*Eण्ड्ण्Oट्E ॰१] ईतिस्लुदिच्रोउस्तो चोन्सिदेर्थे मङ्गलाचरण वेर्सेसस् सेपरतेल्य्नुम्बेरेद्सेच्तिओन्स्. [*Eण्ड्ण्Oट्E ॰२] Fरों थिस्, ई wओउल्दस्सुमे थत्थिसिस्नोत्मेअन्त्तो बे अ सेपरते सेच्तिओन्, बुत्रेfएर्स्बच्क्तो थे प्रेविओउस्॰८. [*Eण्ड्ण्Oट्E ॰३] ठिस्परग्रफिस्तकेनस सेपरते सेच्तिओन्नुम्बेर्२४ इन् थे य़दव्पुरेदितिओन्, बुत्थिस्दोएस्न्ऽत्सेएं तो बे नेचेस्सर्य्. [*Eण्ड्ण्Oट्E ॰४] णोत्fओउन्दिन् ंहोपनिषद्. [*Eण्ड्ण्Oट्E ॰५] षेए सेच्तिओन् ३०. [*Eण्ड्ण्Oट्E ॰६] ठे वेर्से थत्fओल्लोwस्थिसिन् ळBहाग्: द्वारवत्यां यथा कृष्णः प्रत्यक्षं प्रति मन्दिरम् । चित्रं बतैतदित्यादिप्रमाणेन स सेत्स्यति ॥ [*Eण्ड्ण्Oट्E ॰७] षेए ॠउओते fरोम् Kआलिकापुराण इन् सेच्तिओन् २६ अबोवे. [*Eण्ड्ण्Oट्E ॰८] ठे मेत्रे ओन् थिस्वेर्से इसिन्चोर्रेच्त्, मिxएद्जगती अन्द् त्रिष्टुभ्. ठे सेचोन्द्लिने अप्पेअर्स्तो बे मिस्सिन्ग स्य्ल्लब्ले. ईतिस्प्रोबब्ल्य्fरोम् ড়द्मড়्, ऊत्तरखण्ड. [*Eण्ड्ण्Oट्E ॰९] षो wहेरे दोएस्थिस्रेfएरेन्चे चोमे fरोम्? भागवतम् १२.१२.६९? ठिस् इस्fइर्स्त्मेन्तिओन् हेरे. [*Eण्ड्ण्Oट्E ॰१०] ठिसिस्थे ङित ড়्रेस्स्रेअदिन्ग्. ङ्ড়् अल्सो हस्प्रमाणानि नोत् प्रमाणानाम्. [*Eण्ड्ण्Oट्E ॰११] ईन् सेच्तिओन् २१ अबोवे. [*Eण्ड्ण्Oट्E ॰१२] त्वमस्य लोकस्य विभो रिरक्षिषुर्गृहेऽवतीर्णोऽसि ममाखिलेश्वरः । राजन्यसंज्ञासुरकोटियूथपैर्निर्व्यूह्यमाना निहनिष्यसे चमूः ॥ [*Eण्ड्ण्Oट्E ॰१३] हन्तृजीववद् [*Eण्ड्ण्Oट्E ॰१४] कर्तरीय [*Eण्ड्ण्Oट्E ॰१५] रूपं यत्तत्प्राहुरव्यक्तमाद्यं ब्रह्म ज्योतिर्निर्गुणं निर्विकारम् । सत्तामात्रं निर्विशेषं निरीहं स त्वं साक्षाद्विष्णुरध्यात्मदीपः ॥ [*Eण्ड्ण्Oट्E ॰१६] ़ुओतेद्fरों णारायणाध्यात्म इन् षेच्तिओन् ४७ अबोवे. [*Eण्ड्ण्Oट्E ॰१७] डिस्चुस्सेदबोवे इन् षेच्तिओन् ८. [*Eण्ड्ण्Oट्E ॰१८] यतो [*Eण्ड्ण्Oट्E ॰१९] ठे Bहगवत्सन्दर्भ रेअदिन्ग्wअस्परीत्य लोकान् कर्मचितान्... नात्यकृतः. [*Eण्ड्ण्Oट्E ॰२०] ंुण्डकऊ २.२.७: दिव्ये ब्रह्मपुरे ह्येष व्योम्न्यात्मा प्रतिष्ठितः ॥ [*Eण्ड्ण्Oट्E ॰२१] तद्वा एतत्परमं धाम मन्त्रराजाध्यापकस्य यत्र न सूर्यस्तपति यत्र न वायुर्वाति यत्र न चन्द्रमा भाति यत्र न नक्षत्राणि भान्ति यत्र नाग्निर्दहति यत्र न मृत्युः प्रविशति यत्र न दुःखं सदानन्दं परमानन्दं शान्तं शाश्वतं सदाशिवं ब्रह्मादि वन्दितं योगिध्येयं परमं पदं यत्र गत्वा न निवर्तन्ते योगिनः ॥ [*Eण्ड्ण्Oट्E ॰२२] ण्टू ५.१० ॠउओतेदबोवे. [*Eण्ड्ण्Oट्E ॰२३] ठिस्सेच्तिओनिस्fउल्लोf ॠउओतेस्fरों ष्रुति थत्स्होउल्द्बे पोइन्तेदोउत्. ठे सेच्तिओनिसल्सो ॠउओतेदिन् ळBहाग्१.५.२४७२५०. [*Eण्ड्ण्Oट्E ॰२४] आल्तेर्नतिवे नुम्बेरिन्ग्गिवेनस्६.२५५.५६६४ [*Eण्ड्ण्Oट्E ॰२५] आल्त्. अत्रोपसृष्टम्. षेए ३.१५.४२ अबोवे. [*Eण्ड्ण्Oट्E ॰२६] Vअरिअन्त् सनन्दनाद्यैर्मुनिभिर्विभाव्यम्. [*Eण्ड्ण्Oट्E ॰२७] ई चोउल्द्न्ऽत्fइन्द्थिस्वेर्से इन् थे Vइড়्. [*Eण्ड्ण्Oट्E ॰२८] ठिस्वेर्से हसल्रेअद्य्बेएन् रेfएरेद्तो इन् सेच्तिओन्स्४८ अन्द्५६. ठे चोम्प्लेते वेर्से इस्: रूपं यत्तत्प्राहुरव्यक्तमाद्यं ब्रह्मज्योतिर्निर्गुणं निर्विकारम् । सत्तामात्रं निर्विशेषं निरीहं स त्वं साक्षाद्विष्णुरध्यात्मदीपः ॥ [*Eण्ड्ण्Oट्E ॰२९] पदमिनोरिगिनल्ःV. ठेसे वेर्सेसरे १०४.९१३ इन् थे च्रितिचलेदितिओन्. [*Eण्ड्ण्Oट्E ॰३०] मामेव इनोरिगिनल्ःV. [*Eण्ड्ण्Oट्E ॰३१] ़ुओतेदबोवे इन् सेच्तिओन् ५१. [*Eण्ड्ण्Oट्E ॰३२] ठे Bहग्ष्रेअद्स्सर्वगस्य तथात्मा, wहिछिसोब्विओउस्ल्य् wरोन्ग्. [*Eण्ड्ण्Oट्E ॰३३] ठे Vइড়् रेअदिन्गिस्समस्तशक्तिरूपाणि तत्करोति जनेश्वर । देवतिर्यङ्मनुष्यादिचेष्टावन्ति स्वलीलया ॥ [*Eण्ड्ण्Oट्E ॰३४] ठिस्वेर्से इसल्सो चितेदिन् सेच्तिओन्स्४८ अन्द्१०७. [*Eण्ड्ण्Oट्E ॰३५] षेच्तिओन् १८ अबोवे. [*Eण्ड्ण्Oट्E ॰३६] ई चन्ऽत्fइन्द्थे सोउर्चे ओf थिसन्द्थे प्रेविओउस्वेर्से. ठे रेअदिन्ग्सेएम्स्तो बे चोर्रुप्त् क्वाचिदजयत्त्मना... [*Eण्ड्ण्Oट्E ॰३७] ़ुओतेदबोवे इन् ४.१०. [*Eण्ड्ण्Oट्E ॰३८] ठिस्फ्रसे इस्fओउन्दिन्मन्य्प्लचेसिस्थे Bऋहद्आरण्यक ऊपनिषद्. [*Eण्ड्ण्Oट्E ॰३९] देहान्ते देवः परमं ब्रह्म तारकं व्याचष्टे । ठे Bहग्ष्तेxथस् तारकः fओर्तावकम्. [*Eण्ड्ण्Oट्E ॰४०] ़ुओतेदबोवे इन् सेच्तिओन् ९४. [*Eण्ड्ण्Oट्E ॰४१] षेच्तिओन्स्४ अन्द्९५ अबोवे. [*Eण्ड्ण्Oट्E ॰४२] ठिसेन्तिरे सेच्तिओनेन्दिन्ग्wइथ्स्पर्शाभावाद् विशुद्धत्वमिस्fओउन्दिनृआधाकृष्ण्¸अर्चनदीपिका, पगेस्१०११. [*Eण्ड्ण्Oट्E ॰४३] णोतॄउइते सुरे wहेरे श्रीधर ष्वामीऽस्चोम्मेन्तर्येन्द्स्. [*Eण्ड्ण्Oट्E ॰४४] Bओथ्वेर्सेसॄउओतेदबोवे इन् सेच्तिओन् ८. ठिस्wहोले सेच्तिओन् इस्fओउन्द्थेरे, wओर्द्fओर्wओर्द्. ठिसिस्प्रोबब्ल्यनेर्रोर्, सुर्प्रिसिन्ग्ल्य्नोत्चल्लेद् इन्तो ॠउएस्तिओन् ब्य्थे ञदव्पुरेदितोर्. आनोथेर्ंषिस्नेएदेद्fओर्चोम्परिसोन्. [*Eण्ड्ण्Oट्E ॰४५] ठिस्wओर्दिस्नोतिन् थे व्याख्या गिवेनिन् सेच्तिओन् ७, wहिछ् ओथेर्wइसे fओल्लोwस्wओर्द्fओर्wओर्दुन्तिल्??. ठिसिस्प्रोबब्ल्यनेर्रोर्, सुर्प्रिसिन्ग्ल्य्नोत्चल्लेदिन्तो ॠउएस्तिओन् ब्य्थे ञदव्पुरेदितोर्. आनोथेर्ंषिस् नेएदेद्fओर्चोम्परिसोन्. [*Eण्ड्ण्Oट्E ॰४६] ठे सेच्तिओन् बेत्wएएन् सुपेर्स्च्रिप्तऽसिस्नोतिन् थे एअर्लिएर् व्याख्या ओf थेसे वेर्सेस्, बुतोब्विओउस्ल्य्बेलोन्ग्सन्दिस्लिकेल्यिन् थे ओरिगिनल् वेर्सिओन्. ठे समे गोएस्fओरोथेर्फ्रसेसिन् बेत्wएएन् सुपेर्स्च्रिप्तेद्लेत्तेर्सिन् थे पस्सगे बेलोw. [*Eण्ड्ण्Oट्E ॰४७] अतः [*Eण्ड्ण्Oट्E ॰४८] मिश्रस्यापि [*Eण्ड्ण्Oट्E ॰४९] निर्देशोभयम् [*Eण्ड्ण्Oट्E ॰५०] ए. णोतिन् थे सेच्तिओन् ११७ वेर्सिओन्. [*Eण्ड्ण्Oट्E ॰५१] f. नोतिन् थे सेच्तिओन् ११७ वेर्सिओन्. [*Eण्ड्ण्Oट्E ॰५२] णोतिन् थे सेच्तिओन् ८ वेर्सिओन्. [*Eण्ड्ण्Oट्E ॰५३] णोतिन् थे सेच्तिओन् ८ वेर्सिओन्. [*Eण्ड्ण्Oट्E ॰५४] णोतिन् ११७. [*Eण्ड्ण्Oट्E ॰५५] इन् सेच्तिओन् ११७ तमः [*Eण्ड्ण्Oट्E ॰५६] णोतिन् सेच्तिओन् ८. [*Eण्ड्ण्Oट्E ॰५७] ठिस्सेएम्स्तो बे थे एन्दोf थे चोम्मोन्मतेरिअल्. [*Eण्ड्ण्Oट्E ॰५८] ठिसप्पेअर्स्तो बे एविदेन्चे थत् ८ इस्थे ओरिगिनल्सोउर्चे ओf थे मतेरिअल्, नोत्११७. टो बे fओल्लोwएद्. [*Eण्ड्ण्Oट्E ॰५९] क्. ठिस्सेच्तिओन् चन् बे fओउन्दिनृKआड् १२१३. [*Eण्ड्ण्Oट्E ॰६०] क्. ठिस्सेच्तिओनिस्fओउन्दिनृKआड्१३१४. [*Eण्ड्ण्Oट्E ॰६१] मुहूर्तादि इन् थे Vइড়् वेर्सिओन्. ठेरे इसनोथेर्वेर्से थत् बेगिन्स्थिस्wअयत्३.५.१८. [*Eण्ड्ण्Oट्E ॰६२] डिस्चुस्सेदबोवे इन् षेच्तिओन् ८५.  षट्सन्दर्भनामक श्रीभागवतसन्दर्भे तृतीयः परमात्मसन्दर्भः तौ सन्तोषयता सन्तौ श्रीलरूपसनातनौ । दाक्षिणात्येन भट्टेन प्नुअरेतद्विविच्यते ॥ि॥ तस्याद्यं ग्रन्थनालेखं क्रान्तमुत्क्रान्तखण्डितम् । पर्यालोच्याथ पर्यायं कृत्वा लिखति जीवकः ॥िइ॥ [१] अथ परमात्मा विव्रियते । अत्र तं जगद्गतजीवनिरूपणपूर्वकं निरूपयति द्वाभ्याम् क्षेत्रज्ञ एता मनसो विभूतीर् जीवस्य मायारचितस्य नित्याः । आविर्हिताः क्वापि तिरोहिताश्च शुद्धो विचष्टे ह्यविशुद्धकर्तुः ॥ [भागवतम् ५.११.१२] क्षेत्रज्ञ आत्मा पुरुषः पुराणः साक्षात्स्वयं ज्योतिरजः परेशः । नारायणो भगवान् वासुदेवः स्वमाययात्मन्यवधीयमानः ॥ [भागवतम् ५.११.१३] यः शुद्धोऽपि मायातः परोऽपि मायारचितस्य वक्ष्यमाणस्य सर्व क्षेत्रस्य मायया कल्पितस्य मनसोऽन्तःकरणस्यैताः विभूतीर्वृत्तीर् विचष्टे विशेषेण पश्यति, पश्यंस्तत्राविष्टो भवति, स खल्वसौ जीवनामा स्वशरीरद्वयलक्षणक्षेत्रस्य ज्ञातृत्वात्क्षेत्रज्ञ उच्यते इत्यर्थः । तदुक्तम् यया संमोहितो जीवो आत्मानं त्रिगुणात्मकं परोऽपि मनुतेऽनर्थं तत्कृतं चाभिपद्यते ॥ [भागवतम् १.७.५] इति । तस्य मनसः कीदृशतया मायारचितस्य तत्राह जीवध्य जीवोपाधितया जीवतादात्म्येन रचितस्य । ततश्च तत्तयोपचर्यमाणस्येत्यर्थः । ततश् च कीदृशस्य, अविशुद्धं भगवद्बहिर्मुखं कर्म करोतीति तादृशस्य । कीदृशीर्विभूतीर्नित्या अनादित एवानुगताः । अत्र स कदा कीदृशीरित्यपेक्षायामाह जाग्रत्स्वप्नयोराविर्भूताः सुषुप्तौ तिरोहिताश्चेति । यस्तु पुराणो जगत्कारणभूतः पुरुषः आद्योऽवतारः पुरुषः परस्येत्यादि [भागवतम् २.६.४१] द्वितीयादौ प्रसिद्धः । साक्षादेव स्वयं ज्योतिः स्वप्रकाशो तनु जीववदन्यापेक्षया । अजो जन्मादिशून्यः । परेषां ब्रह्मादीनामपीशः । नारं जीवसमूहः स्वनियम्यत्वेनायनं यस्य सः । भगवानैश्वर्याद्य्अंशत्वात् । वासुदेवः सर्वभूतानामाश्रयः । स्वमायया स्वस्वरूपशक्त्या आत्मनि स्व स्वरूपे अवधीयमानः अवस्थाप्यमानः । कर्मकर्तृप्रयोगः । मायायां मयिकेऽप्यन्तर्यामितया प्रविष्टोऽपि स्वरूपशक्त्या स्वरूपस्य एव न तु तत्संसक्त इत्यर्थः । वासुदेवत्वेन सर्वक्षेत्रज्ञातृत्वात्सोऽपरः । मायामोहितात्जीवादन्यः मायारहितः शुद्धः । क्षेत्रज्ञः आत्मा परमात्मेति । तदेवमपि मुख्यं क्षेत्रज्ञत्वं परमात्मन्येव । तदुक्तम् सर्वं पुमान् वेद गुणांश्च तज्ज्ञो न वेद सर्वज्ञमनन्तमीडे इति [भागवतम् ६.४.२५] । श्रीगीतोपनिषत्सु इदं शरीरं कौन्तेय क्षेत्रमित्यभिधीयते । एतद्यो वेत्ति तं प्राहुः क्षेत्रज्ञ इति तद्विदः ॥ [गीता १३.१] क्षेत्रज्ञं चापि मां विद्धि सर्वक्षेत्रेषु भारत । क्षेत्रक्षेत्रज्ञयोर्ज्ञानं यत्तज्ज्ञानं मतं मम ॥ [गीता १३.१] अत्र खलु क्षेत्रज्ञं चापि मां विद्धीति सर्वेष्वपि क्षेत्रेषु मां च क्षेत्रज्ञं विद्धि, न तु जीवमिव स्वक्षेत्र एव इत्येवार्थं वहति । न च जीवेशयोः समानाधिकरण्येन निर्विशेषचिद्वस्त्वेव ज्ञेयतया निर्दिशति । सर्वक्षेत्रेष्वित्यस्य विअयर्थ्यापत्तेः । ज्ञेयं यत्तत्प्रवक्ष्यामीत्यादौ सर्वतः पाणिपादं तद्सर्वतोऽक्षिशिरोमुखमित्य्[गीता १३.१३] आदिना सविशेषस्यैव निर्देक्ष्यमाणत्वात् । अमानित्वमित्यादिना ज्ञानस्य च तथौपदेक्ष्यमाणत्वात् । किं च क्षेत्रज्ञं चापीत्यत्र त्त्वमसीतिवत्सामानाधिकरण्येन तन् निर्विशेषज्ञाने विवक्षिते क्षेत्रज्ञेश्वरयोर्ज्ञानमित्येवनानूद्येत न तु क्षेत्रक्षेत्रज्ञयोत्ज्ञानमिति । किन्तु क्षेत्रक्षेत्रज्ञयोरित्यस्यायमर्थः । द्विव्दिहयोरपि क्षेत्रक्षेत्रज्ञयोर्ज्ञानं तन्ममैव ज्ञानं मतम् । अन्यार्थस्तु परामर्श इति न्यायेन यज्ज्ञानैकतात्पर्यकमित्यर्थः । ज्ञेयस्यैकत्वेनैव निर्दिष्टत्वात्योग्यत्वाच्च । न च निरीश्वरसाङ्ख्यवत् क्षेत्रक्षेत्रज्ञमात्रविभागादत्र ज्ञानं मतं ममेत्य् अनेनेश्वरस्यावेक्षितत्वात् । न च विवर्तवादवदीश्वरस्यापि भ्रममात्र प्रतीतपुरुषत्वम् । तद्वचनलक्षणसवेदगीतादिशास्त्राणाम् अप्रामाण्याद्बौद्धवादापत्तेः । तस्यां च सत्यां बौद्धानामिव विवर्त वादिनां तद्व्याख्यानायुक्तेः । न च तस्य सत्यपुरुषत्वेऽपि निर्विशेष ज्ञानमेव मोक्षसाधनमिति तदीयशास्त्रान्तरतः समाहार्यम् । एवं सततयुक्ता ये [१२.१] इत्यादि पूर्वाध्याये निर्विशेषज्ञानस्य हेयत्वेन विवक्षितत्वात् । तत्रैव च ये तु सर्वाणि कर्माणि इत्य्[१२.६] आदिनानन्यभक्तान् उद्दिश्य तेषामहं समुद्धर्ता मृत्युसंसारसागरादित्य्[१२.७] अनेन तज् ज्ञानापेक्षापि नादृतेति । तदुक्तमेकादशे स्वयं भगवता यत्कर्मभिर् यत्तपसेत्यादि [भागवतम् ११.२०.३२] । मोक्षधर्मे च य वै साधनसम्पत्तिः पुरुषार्थचतुष्टये । तया विना तदाप्नोति नरो नारायणाश्रयः ॥ इति । अत्र तु पूर्वाध्यायविश्लाघितं तदेवावृथाकर्तुं सविशेषतया निर्दिश्य इति क्षेत्रं तथा ज्ञानं ज्ञेयं चोक्तं समासतः मद्भक्त एतद्विज्ञाय मद्भावायोपपद्यते ॥ [गीता १३.१८] इत्यन्तेन भक्तिसंवलिततया सुकरार्थप्रायं कृतम् । अतएवात्र व्यष्टि क्षेत्रज्ञ एव भक्तत्वेन निर्दिष्टः समष्टिक्षेत्रज्ञस्तु ज्ञेयत्वेनेति क्षेत्रज्ञानाभ्यां सह ज्ञेयस्य पाठादनुस्मार्य तद्अनन्तरं च तस्य तस्य च जीवत्वमीश्वरत्वं च क्षरं नेति दर्शितम् । यतः पुरुषः प्रकृतिस्थो हि भुङ्क्ते प्रकृतिजान् गुणान् । कारणं गुणसङ्गोऽस्य सद्असद्योनिजन्मसु ॥ [गीता १३.२१] इति जीवस्य प्रकृतिस्थत्वं निर्दिश्य स्वतस्तस्याप्राकृतत्वदर्शनया स्फुटम् एवाक्षरत्वं ज्ञापितम् । उपद्रष्टानुमन्ता च भर्ता भोक्ता महेश्वरः परमात्मेति चाप्युक्तो देहेऽस्मिन् पुरुषः परः ॥ [गीता १३.२२] इति जीवात्परत्वेन निर्दिष्टस्य परमात्माख्यपुरुषस्य तु कैमुत्येनैव तद्दर्शितम् । द्वाविमौ पुरुषौ लोके क्षरश्चाक्षर एव च क्षरः सर्वाणि भूतानि कूटस्थोऽक्षर उच्यते ॥ [गीता १५.१६] उत्तमः पुरुषस्त्वन्यः परमात्मेत्युदाहृतः यो लोकत्रयमाविश्य बिभर्त्यव्यय ईश्वरः ॥ [गीता १५.१७] इत्यत्र जीवस्याप्यक्षरत्वं कण्ठोक्तमेव । तत्रोपद्रष्टा परमसाक्षी, अनुमन्ता तत्तत्कर्मानुरूपः प्रवर्तकः । भर्ता पोषकः । भोक्ता पालयिता । महेश्वरः सर्वाधिकर्ता । परमात्मा सर्वान्तर्यामीति व्याख्येयम् । उत्तरपद्ययोस्तु । कूटस्थ एकरूपतया तु यः कालव्यापी स कूटस्थ इत्य् अमरकोषादवगतार्थः । असौ शुद्धजीव एव उत्तमः पुरुषस्त्वन्य इत्य् उत्तरात् । तदेवमत्रापि क्षेत्रक्षेत्रज्ञसर्वक्षेत्रज्ञा उक्ताः । अत्र चोत्तरयोरन्य इत्यनेन भिन्नयोरेव सतोरक्षरयोर्न तत्तद्रूपता परित्यागः सम्भवेदिति न कदाचिदपि निर्विशेषरूपेनावस्थितिरिति दर्शितम् । तस्मान्मद्भावायोपपद्यते इति यदुक्तं तदपि तत्सार्ष्टि प्राप्तितात्पर्यकम्[*Eण्ड्ण्Oट्E ॰१] । तदेवं द्वयोरक्षरत्वेन साम्येऽपि जीवस्य हीनशक्तित्वात्प्रकृत्य्आविष्टस्य तन्निवृत्त्य्अर्थमीश्वर एव भजनीयत्वेन ज्ञेय इति भावः । तस्मादिदं शरीरमित्यादिकं पुनरित्थं विवेचनीयम् । इदं स्व स्वापरोक्षमित्यर्थः । शरीरक्षेत्रयोरेकैकत्वेन ग्रहणमत्र व्यक्ति पर्यवसानेन जातिपुरस्कारेणैवेति गम्यते । सर्वक्षेत्रेष्विति बहु वचनेनानुवादात् । एतद्यो वेत्ति इत्यत्र देहोऽसवोऽक्षामनव इत्यादौ सर्वं पुमान् वेदगुणांश्च तज्ज्ञः [भागवतम् ६.४.२५] इत्य्उक्तदिशा क्षेत्रज्ञ एता मनसो विभूतीरित्य्उक्तदिशा च जानातीत्यर्थः । क्षेत्रज्ञं चापि मां विद्धीति । तदुक्तम् विष्टभ्याहमिदं कृत्स्नम् एकांशेन स्थितो जगत्[गीता १०.४२] । यत्र गत्य्अन्तरं नास्ति तत्रैव लक्षणा मयकष्टमाश्रीयेत । तथापि तेन सामानाधिकरण्यं यदि विवक्षितं स्यात्तर्हि क्षेत्रज्ञं चापि मां विद्धीत्येतावदेव तं च मां विद्धीत्य् एतावदेव वा प्रोच्येत, न तु सर्वक्स्रेषु भारतेत्यधिकमपि । किन्तु क्षेत्रज्ञ एता मनसो व्भूतीरित्यादिवत्क्षेत्रज्ञद्वयमपि वक्तव्यमेव स्यात् । तथा च ब्रह्मसूत्रं गुहां प्रविष्टावात्मानौ हि तद्दर्शनादिति [Vस् १.२.११] तद्वैध्यमेव चोपसंहृतम् । पुरुषः प्रकृतिस्थो हीत्यादिना । तस्मादुपक्रमार्थस्योपसंहाराधीनत्वादेष एवार्थः समञ्जसः । यथोक्तं ब्रह्मसूत्रकृद्भिः असद्व्यपदेशान्नेति चेन्न धर्मान्तरेण वाक्यशेषादिति [Vस्२.१.१७] । अथ क्षेत्रक्षेत्रज्ञयोर्ज्ञानमित्यत्र यत्क्षेत्रे ज्ञानेन्द्रियगतं चेतना गतं च ज्ञानं दर्शयिष्यते यच्च पूर्वक्षेत्रज्ञे निजनिजक्षेत्रज्ञानं दर्शितं तत्तत्मज्ज्ञानांशस्य क्षेत्रेषु च्छायारूपत्वात्क्षेत्रज्ञेषु यत् किञ्चिदंशांशतया प्रवेशान्ममैव ज्ञानं मतमिति । तस्मात्साधूक्तं मुख्यं क्षेत्रज्ञत्वं परमात्मन्येवेति । अत्र श्रीभगवतः परमात्मरूपेणाविर्भावोऽपि । अजनि च यन्मयं तद् अविमुच्यनियन्तृ भवेदित्य्उक्तदिशा [भागवतम् १०.८७.३०] शक्तिविशेषालिङ्गित्वाद् यस्मादेवांशाज्जीवानामाविर्भावस्तेनैवेति ज्ञेयम् । तदुक्तं तत्रैव विष्टभ्याहमित्यादि । श्रीविष्णुपुराणे च यस्यायुतांशांशे विश्वशक्तिरियं स्थिता । परब्रह्मस्वरूपस्य प्रणमाम तमव्ययम् ॥ इति [Vइড়् १.९.५३] पूर्णशुद्धशक्तिस्तु कलाकाष्ठानिमेषादित्यनेन दर्शिता । तथा श्री नारदपञ्चरात्रे नारद उवाच शुद्धसर्गमहं देव ज्ञातुमिच्छामि तत्त्वतः । सर्गद्वयस्य चैवस्य यः परत्वेन वर्तते ॥ तत्रैतत्पूर्वोक्तः प्राधानिकः शाक्तश्चेत्येतत्सर्गद्वयस्येति ज्ञेयम् । श्रीभगवानुवाच यः सर्वव्यापको देवः परब्रह्म च शाश्वतम् । चित्सामान्यं जगत्यस्मिन् परमानन्दलक्षणम् ॥ वासुदेवादभिन्नस्तु बह्न्अर्केन्दुशतप्रभम् । वासुदेवोऽपि भगवांस्तद्धर्मा परमेश्वरः ॥ स्वां दीप्तिं क्षोभयत्येव तेजसा तेन वै युतम् । प्रकाशरूपो भगवानच्युतं चासकृद्द्विज ॥ सोऽच्युतोऽच्युततेजाश्च स्वरूपं वितनोति वै । आश्रित्य वासुदेवं च स्वस्थो मेघो जलं यथा ॥ क्षोभयित्वा स्वमात्मानं सत्यभास्वरविग्रहम् । उत्पादयामास तदा समुद्रोर्मिजलं यथा ॥ स चिन्मयः प्रकाशात्मा उत्पाद्यात्मानमात्मना । पुरुषाख्यमनन्तं च प्रकाशप्रसरं महत् ॥ स च वै सर्वजीवानामाश्रयः परमेश्वरः । अन्तर्यामी च तेषां वै तारकाणामिवाम्बरम् ॥ सेन्धनः पावको यद्वत्स्फुलिङ्गनिचयं द्विज । अनिच्छातः प्रेरयति तद्वदेव परः प्रभुः ॥ प्राग्वासनानिबन्धानां बन्धानां च विमुक्तये । तस्माद्विद्धि तद्अंशांशस्तान् सर्वांशत्वमजं प्रभुम् ॥ इति । अतएव यत्तु ब्रह्मादौ श्रीप्रद्युम्नस्य मन्वादौ श्रीविष्णोः, रुद्रादौ श्रीसङ्कर्षणस्यान्तर्यामित्वं श्रूयते तन्नानांशमादायावतीर्णस्य तस्यैव तत्तद्अंशेन तत्तद्अन्तर्यामित्वमिति मन्तव्यम् । अतएव रुद्रस्य सङ्कर्षणप्रकृतित्वं पुरुषप्रकृतित्वं चेत्युभयमप्याम्नातं प्रकृतिमात्मनः सङ्कर्षणसंज्ञां भव उपधावतीत्यादौ [भागवतम् ५.१७.१६] आदावभूच्छतधृतिरित्यादौ च [भागवतम् ११.४.५] । एष एव भूतात्मा चेन्द्रियात्मा च प्रधानात्मा तथा भवान् । आत्मा च परमात्मा च त्वमेकः पञ्चधा स्थितः ॥ इत्य्[Vइড়् ५.१८.५०] आदौ विवृतम् । तस्मात्सर्वान्तर्यामी पुरुष एव ब्रह्मेति परमात्मेतीत्यादौ परमात्मत्वेन निर्दिस्ट इति स्थितम् । व्याख्यातं च स्वामिभिः । नमस्तुभ्यं भगवते ब्रह्मणे परमात्मन [भागवतम् १०.२८.६] इत्यत्र वरुणस्तुतौ । परमात्मने सर्वजीवनियन्त्रे इति । अस्य परमात्मनो मायोपाधितया पुरुषत्वं तूपचरितमेव । तदुक्तं वैष्णवे एव नान्तोऽस्ति यस्य न च यस्य समुद्भवोऽस्ति वृद्धिर्न यस्य परिणामविवर्जितस्य । नापेक्षयं च समुपैत्य विकल्पस्वस्तु यस्तं नतोऽस्मि पुरुषोत्तममाद्यमीड्यम् ॥ [Vइড়् ६.८.६०] तस्यैव योऽनुगुणभुग्बहुधैक एव शुद्धोऽप्यशुद्ध इव मूर्तिविभागभेदैः । ज्ञानान्वितः सकलसत्त्वविभूतिकर्ता तस्मै नतोऽस्मि पुरुषाय सदाव्ययाय ॥ [Vइড়् ६.८.६१] इति । तस्यैवानुपूर्वोक्तात्परमेश्वरात्समनन्तरम् । बहुधा ब्रह्मादि रूपेण । अशुद्ध इव सृष्ट्य्आदिष्वासक्त इव । मूर्तिविभागानां दक्षादि मन्व्आदिरूपाणां भेदैः । अर्वसत्त्वानां विभूतीकर्ता विस्तारकृतिति स्वामी । तत्र गुणभुगिति षाड्गुण्यानन्दभोक्तेत्यर्थः । यत्तत्सूक्ष्ममविज्ञानमव्यक्तमचलं ध्रुवम् । इन्द्रियैरिन्द्रियार्थैश्च सर्वभूतैश्च वर्जितम् ॥ स ह्यन्तरात्मा भूतानां क्षेत्रज्ञश्चेति कथ्यते । त्रिगुणव्यतिरिक्तो वै पुरुषश्चेति कल्पितः ॥ [ंBह्१२.३२१.२८२९] इति मोक्षधर्मेऽपि नारायणीयोपाख्याने । श्रुतयोऽप्येनं शुद्धत्वेनैव वर्णयन्ति एको देवो सर्वभूतेषु गूढः सर्वव्यापी सर्वभूतान्तरात्मा । कर्माध्यक्षः सर्वभूताधिवासः साक्सी चेताः केवलो निर्गुणश्च ॥ [श्वेतू ६.११] । अजामेकां लोहितशुक्लकृष्णां बह्वीः प्रजाः सृजमाना सरूपाः । अजो ह्येको जूषमाणोऽनुशेते जहात्य् एनां भुक्तभोगामजोऽन्यः ॥ इत्याद्याः [श्वेतू ४.५] तस्मात्साधु व्याख्यातं क्षेत्रज्ञ एता इत्यादिपद्यद्वयम् ॥ ॥ ५.११ ॥ श्रीब्राह्मणो रहूगणम् ॥ १ ॥ [२] अथ तस्याविर्भावे योग्यताप्राग्वद्भक्तिरेव ज्ञेया । आविर्भावस्तु त्रिधा यथा नारदीये तन्त्रे[*Eण्ड्ण्Oट्E ॰२] विष्णोस्तु त्रीणि रूपाणि पुरुषाख्यान्यथो विदुः । एकं तु महतः स्रष्टृ द्वितीयं तन्तुसंस्थितम् । तृतीयं सर्वभूतस्थं तानि ज्ञात्वा विमुच्यते ॥ अत्र प्रथमो यथाग्नेः क्षुद्रा विस्फुलिङ्गा व्युच्चरन्ति स ऐक्षतेत्याद्युक्तेः । महासमष्टिजीवप्रकृत्योरेकतापन्नयोर्द्रष्टेत्य् एक एव । अयमेव सङ्कर्षण इति महाविष्णुरिति च । ब्रह्मसंहितायां यथा तल्लिङ्गं भगवान् शम्भुर्ज्योतीरूपं सनातनम् । तस्मिन्नाविरभूल्लिङ्गे महाविष्णुर्जगत्पतिः ॥ [Bरह्मष्५.८] सहस्रशीर्षा पुरुष इत्यारभ्य [Bरह्मष्५.११] नारायणः स भगवानापस्तस्मात्सनातनात् । आविरासन् कारणार्णोनिधिं सङ्कर्षणात्मकः । योगनिद्रां गतस्तस्मिन् सहस्रांशः स्वयं महान् ॥ [Bरह्मष्५.१२] तद्रोमबिलजालेषु बीजं सङ्कर्षणस्य च । हैमान्यण्डानि जातानि महाभूतावृतानि तु ॥ ईत्यादि [Bरह्मष्५.१३] लिङ्गमिति यस्यायुतायुतांशांशे विश्वशक्तिरियं स्थितेत्य्[Vइড়् १.९.५३] अनुसारेण तस्य महाभगवतः श्रीगोविन्दस्य पुरुषोत्पादकत्वाल्लिङ्गम् इव लिङ्गं यः खल्वंविशेषस्तदेव शम्भुः । शम्भुशब्दस्य मुख्याया वृत्तेराश्रय इत्यर्थः । अथ द्वितीयपुरुषस्तत्सृष्ट्वा तदेवानुप्रविशदित्याद्युक्तः समष्टि जीवान्तर्यामी । तेषां ब्रह्माण्डात्मकानां बहुभेदाद्बहुभेदः । तत्रैव सूक्ष्मान्तर्यामी प्रद्युम्नः स्थूलान्तर्याम्यनिरुद्ध इति क्वचित् । अनेन महावैकुण्ठस्थाः सङ्कर्षणादयस्तद्अंशिनः । ये तु चित्ताद्य् अधिष्ठातारो वासुदेवादयस्ते तद्अंशा एवेत्यादि विवेचनीयम् । तृतीयोऽपि पुरुषः द्वा सुपर्णा सयुजा सखाया समानं वृक्षं परिषस्वजाते । तयोरन्यः पिप्पलं स्वाद्वत्त्य् अनश्नन्नन्योऽभिचाकशीति ॥ [ऋग्वेद १.१६३.२०, ंुण्डू ७.१.१] इत्य्आद्य्उक्तो व्यष्ट्य्अन्तर्यामी । तेषां बहुभेदाद्बहुभेदः । तत्र प्रथमस्याविर्भावो यथा आद्योऽवतारः पुरुषः परस्येति [भागवतम् २.६.४१] । टीका च परस्य भूम्नः पुरुषः प्रकृतिप्रवर्तकः । यस्य सहस्रशीर्षेत्य् आद्युक्तो लीलाविग्रहः स आद्योवतारः । इत्येषा ॥ अत्र चान्यत्र चावतारत्वं नामैकपादविभूत्य्आविर्भावत्वं ज्ञेयम् ॥ २.६ ॥ श्रीब्रह्मा नारदम् ॥२॥ [३] द्वितीयस्य यथा कालेन सोऽजः पुरुषायुषाभि प्रवृत्तयोगेन विरूढबोधः स्वयं तदन्तर्हृदयेऽवभातम् अपश्यतापश्यत यन्न पूर्वम् ॥ मृणालगौरायतशेषभोग पर्यङ्क एकं पुरुषं शयानम् । [भागवतम् ३.८.२३] अयं गर्भोदकस्थः सहस्रशीर्षा प्रद्युम्न एव । पुरुषायुषा वत्सर शतेन । योगो भक्तियोगः । एतदग्रेऽप्यव्यक्तमूलमित्यत्र अव्यक्तं प्रधानं मूलमधोभागो यस्येत्यर्थः । भुवनाङ्घ्रिपेन्द्रमिति । भुवनानि चतुर्दश तद्रूपा अङ्घ्रिपास्तेषामिन्द्रं तन्नियन्तृत्वेन वर्तमानमित्यर्थः ॥ ३.८ ॥ श्रीमैत्रेयो विदुरम् ॥ ३ ॥ [४] तृतीयस्याविर्भावो यथा केचित्स्वदेहान्तर्हृदयावकाशे प्रादेशमात्रं पुरुषं वसन्तम् । चतुर्भुजं कञ्जरथाङ्गशङ्ख गदाधरं धारणया स्मरन्ति ॥ [भागवतम् २.२.८] प्रादेशस्तर्जन्य्अङ्गुष्ठेयोर्विस्तारस्तत्प्रमाणं हृद्यपेक्षया मनुष्याधिकारत्वादिति न्यायेन ॥ २.२ ॥ श्रीशुकः ॥४॥ [५] एवं पुरुषस्यानेकविधत्वेऽपि दृष्टान्तेनैक्यमुपपादयति । यथानिलः स्थावरजङ्गमानाम् आत्मस्वरूपेण निविष्ट ईशेत् । एवं परो भगवान् वासुदेवः क्षेत्रज्ञ आत्मेदमनुप्रविष्टः ॥ [भागवतम् ५.११.१४] आत्मस्वरूपेण प्राणरूपेण ईशेदीशेत नियमयति । इदं विश्वम् । श्रुतिश् च वायुर्यथैको भुवनं प्रविष्टो रूपं रूपं प्रतिरूपो बभूव । एकस्तथा सर्वभूतान्तरात्मा रूपं रूपं प्रतिरूपो बहिश्च ॥ इति काठके [Kअठू २.२.१०] ॥ ५.११ ॥ श्रीब्राह्मणो रहूगणम् ॥५ ॥ [६] तथा, एक एव परो ह्यात्मा सर्वेषामेव देहिनाम् । नानेव गृह्यते मूढैर्यथा ज्योतिर्यथा नभः ॥ [भागवतम् १०.५४.४४] देहिनां जीवानाम् । आत्मा परमात्मा ॥ १०.५४ ॥ श्रीबलदेवः श्री रुक्मिणीम् ॥६॥ [७] एवमेक एव परो ह्यात्मा भूतेष्वात्मन्यवस्थितः । यथेन्दुरुदपात्रेषु भूतान्येकात्मकानि च ॥ [भागवतम् ११.१८.३२] भूतेषु जीवेषु एक एव पर आत्मा न त्वसौ जीववत्तत्र तत्र लिप्तो भवति इत्याह आत्मनि स्वस्वरूप एवावस्थितः । भूतानि जीवदेहा अपि येन कारण रूपेणैकात्मकानीति ॥ ११.१८ ॥ श्रीभगवानुद्धवम् ॥७॥ [८] एवमेकस्य पुरुषस्य नानात्वमुपपाद्य तस्य पुनरंशा विव्रियन्ते । अत्र द्विविधा अंशा स्वांशा विभिन्नांशाश्च । विभिन्नांशा तटस्थशक्त्य्आत्मका जीवा इति वक्ष्यते । स्वांशास्तु गुणलीलाद्य्अवतारभेदेन विविधाः । तत्र लीलाद्य्अवताराः प्रसङ्गसङ्गत्या श्रीकृष्णसन्दर्भे वक्ष्यते । गुणावतारा यथा आदावभूच्छतधृती रजसास्य सर्गे, विष्णुः स्थितौ क्रतुपतिर्द्विजधर्मसेतुः । रुद्रोऽप्ययाय तमसा पुरुषः स आद्य इत्युद्भवस्थितिलयाः सततं प्रजासु ॥ [भागवतम् ११.४.५] स युगपत्गुणत्रयाधिष्ठाद्यः पुरुषः पृथक्पृथगपि तत्तद् गुणाधिष्ठानलीलयैव आदौ रजसा अस्य जगतः सर्गे विसर्गे कार्ये शत धृतिर्ब्रह्माभूत् । स्थितौ विष्णुः सत्त्वेनेति शेषः । तत्र साक्षाद्गुणानुक्तिश् च तयातिरोहितस्वरूपतया तत्सम्बन्धोपचारस्याप्युट्टङ्कनमयुक्तम् इत्यभिप्रायेण । पालनकर्तृत्वेन क्रतुपतिस्तत्फलदाता । यज्ञरूपस्तु लीलावतारमध्य एव श्रीब्रह्मणा द्वितीये गणितः । द्विजानां धर्मानां च सेतुः पालक इत्यर्थः । नमसा तस्याप्ययाय रुद्रोऽभूतित्यनेन प्रकारेणोद्भवस्थितिलया भवन्तीति । अत्र ब्रह्मरुद्रयोरवतारावसरो मोक्षधर्मे विवृत्तोऽस्ति । यथा ब्राह्मे रात्रिक्षये प्राप्ते तस्य ह्यमिततेजसः प्रसादात्प्रादुरभवत्पद्मं पद्मनिभेक्षण तत्र ब्रह्मा समभवत्स तस्यैव प्रसादजः अह्नः क्षये ललाताच्च सुतो देवस्य वै तथा क्रोधाविष्टस्य संजज्ञे रुद्रः संहारकारकः [ंBह्१२.३२८.१५१६] श्रीविष्णोस्तु तृतीये दृश्यते तल्लोकपद्मं स उ एव विष्णुः प्रावीविशत्सर्वगुणावभासम् । तस्मिन् स्वयं वेदमयो विधाता स्वयम्भुवं यं स्म वदन्ति सोऽभूत् ॥ [भागवतम् ३.८.१५] अस्यार्थः तल्लोकात्मकं पद्मम् । सर्वगुणान् जीवभोग्यानर्थान् अवभासयतीति तथा । तत्यस्माज्जातं श्रीनारायणाख्यः पुरुष एव विष्णु संज्ञः सन् स्थापनरूपान्तर्यामितायै प्रावीविशत्प्रकर्षेनालुप्त शक्तितयैवाविशत् । स्वार्थे णिच् । तस्मिन् श्रीविष्णुना लब्धस्थितौ पद्मं पुनः सृष्ट्य्अर्थं स्वयमेव ब्रह्माभूत्स्थितस्यैव मृदादेर् घटादितया सृष्टेः । अतएव स्थित्य्आदये हरिविरिञ्चिरेति संज्ञा इत्य् अन्यत्रापि ॥ ॥ ११.४ ॥ द्रुमिलो निमिम् ॥ ८ ॥ [९] एवं यो वा अहं च गिरिशं च विभुः स्वयं चे इत्य्[भागवतम् ३.९.३] आदौ त्रिपाद् इति । टीका च यो वै एकस्त्रिपात्त्रयो ब्रह्मादयः पादाः स्कन्धा यस्य इत्य् एषा । वृक्षरूपत्वेन तद्वर्णनादेषां स्कन्धत्वम् ॥३.९॥ ब्रह्मा गर्भोदशायिनम् ॥९॥ [१०] तेषामाविर्भावो यथा तप्यमानं त्रिभुवनं प्राणायामैधसाग्निना । निर्गतेन मुनेर्मूर्ध्नः समीक्ष्य प्रभवस्त्रयः ॥ अप्सरोमुनिगन्धर्वसिद्धविद्याधरोरगैः । वितायमानयशसस्तद्आश्रमपदं ययुः ॥ इत्यादि ॥ [भागवतम् ४.१.२१२२] मुनेरत्रेः । श्रीमैत्रेयः ॥१०॥ [११] यथा वा सरस्वत्यास्तटे राजनृषयः सत्रमासते । वितर्कः समभूत्तेषां त्रिष्वधीशेषु को महान् ॥ [भागवतम् १०.८९.१] इत्यादिरितिहासः । श्रीविष्णोः स्थानं च क्षीरोदादिकं पाद्मोत्तर खण्डादौ जगत्पालननिमित्तकनिवेदनार्थं ब्रह्मादयस्तत्र मुहुर् गच्छतीति प्रसिद्धेः । विष्णुलोकतया प्रसिद्धेश्च । बृहत्सहस्रनाम्नि च क्षीराब्धिमन्दिर इति तन्नामगणे पठ्यते । श्वेतद्वीपपतेः क्वचिद् अनिरुद्धतया ख्यातिश्च तस्य साक्षादेवाविर्भाव इत्यपेक्षयेति ॥ ॥ १०.८९ ॥ श्रीशुकः ॥११॥ [१२] एवं परोक्षया तत्र त्रिदेव्यास्तारतम्यमपि स्फुटम् । तथा चान्यत्र द्वयेनाह सत्त्वं रजस्तम इति प्रकृतेर्गुणास्तैर् युक्तः परमपुरुष एक इहास्य धत्ते । स्थित्य्आदये हरिविरिञ्चिहरेति संज्ञाः श्रेयांसि तत्र खलु सत्त्वतनोर्नॄणां स्युः ॥ [भागवतम् १.२.२३] इह यद्यप्येक एव परः पुमानस्य विश्वस्य स्थित्य्आदये सृष्टिस्थिति लयार्थं तैः सत्त्वादिभिर्युक्तः सन् हरिविरिञ्चहरेति संज्ञा भिन्ना धत्ते तत्तद्रूपेणाविर्भवतीत्यर्थः । तथापि तत्र तेषां मध्ये श्रेयांसि धर्मार्थकाममोक्षभक्त्य्आख्यानि शुभफलानि सत्त्वतनोर् अधिष्ठितसत्त्वशक्तेः श्रीविष्णोरेव स्युः । अयं भावः । उपाधिदृष्ट्या तौ द्वौ सेव्यमाने रजस्तमसोर्घोरमूढत्वात्भवन्तोऽपि धर्मार्थ कामा नातिसुखदा भवन्ति तथोपाधित्यागेन सेवमाने भवन्नपि मोक्षो न साक्षान्न च झटिति किन्तु कथमपि परमात्वांश एवायमित्य् अनुसन्धानाभ्यासेनैव परमात्मन एव भवति । अथोपाधिदृष्ट्यापि श्रीविष्णुं सेव्यमाने सत्त्वस्य शान्त्तत्वात्धर्मार्थकामा अपि सुखदाः । तत्र निष्कामत्वेन तु तं सेव्यमाने सत्त्वात्सञ्जायते ज्ञानमिति [गीता १४.१७] कैवल्यं सात्त्विकं ज्ञानम् [भागवतम् ११.२५.२४] इति चोक्तेर्मोक्षस्य साक्षात् । अत उक्तं स्कान्दे बन्धको भवपाशेन भवपाशाच्च मोचकः । कैवल्यदः परं ब्रह्म विष्णुरेव सनातनः ॥ इति । उपाधिपरित्यागेन तु पञ्चमपुरुषार्थो भक्तिरेव भवति तस्य परमात्माकारेणैव प्रकाशात् । तस्मात्श्रीविष्णोरेव श्रेयांसि स्युरिति । अत्र तु यत्त्रयाणामभेदवाक्येनोपजप्तमतयो विवदन्ते तत्रेदं ब्रूमः । यद्यपि तारतम्यमिदमधिष्ठानगतमेव अधिष्ठाता तु परः पुरुष एक एवेति भेदासम्भवात्सत्यमेवाभेदवाक्यं तथापि तस्य तत्र तत्र साक्षात्त्वासाक्षात्त्वभेदेन प्रकाशेन तारतम्यं दुर्निवारमेवेति सट्टष्टान्तमाह ॥ [१३] पार्थिवाद्दारुणो धूमस् तस्मादग्निस्त्रयीमयः । तमसस्तु रजस्तस्मात् सत्त्वं यद्ब्रह्मदर्शनम् ॥ [भागवतम् १.२.२४] पार्थिवान्न तु धूमवद्अंशेनाग्नेयात्तत एव वेदोक्तकर्मणः साक्षात् प्रवृत्तिप्रकाशरहिताद्दारुणो यज्ञीयान्मथनकाष्ठात्सकाशाद् अंशेनाग्नेयो धूमस्त्रयीमयः पूर्वापेक्षया वेदोक्तकर्मस्थानीयस्य तत्तद्अवतारिणः पुरुषस्य प्रकाशद्वारम् । तुशब्देन लयात्मकात् तमसः सकाशाद्रजसः सोपाधिकज्ञानहेतुत्वेनेषद्गुणविप्रादुर्भाव रूपं किञ्चित्ब्रह्मदर्शनप्रत्यासत्तिमात्रमुक्तं न तु सर्वथा विक्षेपकत्वम् । यदग्निस्थानीयं सत्त्वं तत्साक्षात्ब्रह्मणो दर्शनम् । साक्षादेव सम्यक्तत्तद्गुणरूपाविर्भावद्वारं शान्तस्वच्छ स्वभावात्मकत्वात् । अतो ब्रह्मशिवयोरसाक्षात्त्वं श्रीविष्णौ तु साक्षात्त्वं सिद्धमिति भावः । तथा च श्रीवामनपुराणे ब्रह्मविष्ण्व्ईशरूपाणि त्रीणि विष्णोर्महात्मनः । ब्रह्मणि ब्रह्मरूपः स शिवरूपः शिवे स्थितः ॥ पृथगेव स्थितो देवो विष्णुरूपी जनार्दनः ॥ इति । तदुक्तं ब्रह्मसंहितायां भास्वान् यथाश्मशकलेषु निजेषु तेजः स्वीयं कियत्प्रकटयत्यपि तद्वदत्र । ब्रह्मा य एव जगद्अण्डविधानकर्त्रा गोविन्दमादिपुरुषं तमहं भजामि ॥ [Bरह्मष्५.४८] क्षीरं यथा दधिविकारविशेषयोगात् सञ्जायते न तु ततः पृथगस्ति हेतोः । यः शम्भुतामपि तथा समुपैति कार्याद् गोविन्दमादिपुरुषं तमहं भजामि ॥ [Bरह्मष्५.४५] दीपार्चिरेव हि दशान्तरमभ्युपेत्य दीपायते विवृतहेतुसमानधर्मा । यस्तादृगेव हि च विष्णुतया विभाति गोविन्दमादिपुरुषं तमहं भजामि ॥ इत्यादि [Bरह्मष्५.४६]। न च दधिदृष्टान्तेन विकारित्वमायातम् । तस्य श्रुतेस्तु शब्दमूलत्वाद् इति न्यायेन मुहुः परिहृतत्वात् । यथोक्तम् यत उदयास्तमयौ विकृतेर्मृद् इवाविकृतादिति । दृष्टान्तत्रयेण तु क्रमेणेदं लभ्यते । सूर्यकान्तस्थानीये ब्रह्मोपाधौ सूर्यस्येव तस्य किञ्चित्प्रकाशः । दधिस्थानीये शम्भूपाधौ क्षीरस्थानीयस्य न तादृगपि प्रकाशः । दशान्तर स्थानीये विष्णूपाधौ तु पूर्ण एव प्रकाश इति ॥ १.२ ॥ श्रीसूतः ॥१३॥ [१४] एवमेवाह त्रिभिः शिवः शक्तियुतः शश्वत् त्रिलिङ्गो गुणसंवृतः । वैकारिकस्तैजसश्च तामसश्चेत्यहं त्रिधा ॥ [भागवतम् १०.८८.३] ततो विकारा अभवन् षोडशामीषु कञ्चन । उपधावन् विभूतीनां सर्वासामश्नुते गतिम् ॥ [भागवतम् १०.८८.४] हरिर्हि निर्गुणः साक्षात् पुरुषः प्रकृतेः परः । स सर्वदृगुपद्रष्टा तं भजन्निर्गुणो भवेत् ॥ इति [भागवतम् १०.८८.५] शश्वच्छक्तियुतः प्रथमतस्तावन्नित्यमेव शक्त्या गुणसाम्यावस्थ प्रकृतिरूपोपाधिना युक्तः । गुणक्षोभे सति त्रिलिङ्गो गुणत्रयोपाधिः । प्रकटेश्च सद्भिस्तैर्गुणैः संवृतश्च । ननु तमोपाधित्वमेव तस्य श्रूयते कथं तत्तद्उपाधित्वं तत्रावैकारिक इति । अहमहंतत्त्वं हि तत्तद्रूपेण त्रिधा । स च तद् अधिष्ठात्यर्थः । ततस्तेन भगवत्प्रतिनिधिरूपेणाधिष्ठितादहन् तत्त्वात्षोडशविकारा ये अभवनमीषु विकारेषु मध्ये सर्वासां विभूतीनां सम्बन्धिनं कञ्चन उपधावन् तद्उपाधिकत्वेन तम् उपासीनो गतिं प्राप्यं फलं लभते । हि प्रसिद्धौ हेतौ वा । हरिस्तु प्रकृतेरुपाधितः परस्तद्धर्मैरस्पृष्टः । अतएव त्रिर्गुणोऽपि कुतस् त्रिलिङ्गत्वादिकमिति भावः । तत्र हेतुः साक्षादेव पुरुष ईश्वरः । न तु प्रतिबिम्बवद्व्यवधानेनेत्यर्थः । अतो विद्याविद्ये मम तनू [भागवतम् ११.११.३] इतिवत्तनुशब्दोपादानात्कुत्रचित्सत्त्वशक्तित्वश्रवणमपि प्रेक्षादिमात्रेणोपकारित्वादिति भावः । अतएव सर्वेषां शिवब्रह्मादीनां दृक्ज्ञानं यस्मात्तथाभूतः सन्नुपद्रष्टा तद्आदिसाक्षी भवति । अतः स तं भजन्निर्गुणो भवेद्गुणातीतफलभाग्भवतीति ॥ १०.८८ ॥ श्री शुकः ॥१४॥ [१५] अतएव विष्णोरेव परमपुरुषेण साक्षादभेदोक्तिमाह सृजामि तन्नियुक्तोऽहं हरो हरति तद्वशः । विश्वं पुरुषरूपेण परिपाति त्रिशक्तिधृक् ॥ इति [भागवतम् २.६.३१] अहं ब्रह्मा । श्रुतिश्चात्र स ब्रह्मणा सृजति स रुद्रेण विलापयति । सोऽनुत्पत्तिरलय एव हरिः परः परमानन्दः ॥ इति महोपनिषदि[*Eण्ड्ण्Oट्E ॰३] ॥ ॥ २.६ ॥ ब्रह्मा नारदम् ॥१५॥ [१६] तत्रैवाह अत्रानुवर्ण्यतेऽभीक्ष्णं विश्वात्मा भगवान् हरिः । यस्य प्रसादजो ब्रह्मा रुद्रः क्रोधसमुद्भवः ॥ [भागवतम् १२.५.१] अत्र श्रीविष्णुर्न कथित इति तेन साक्षादभेद एवेत्यायातम् । तदुक्तम् स उ एव विष्णुरिति [भागवतम् ३.८.१५] । श्रुतिश्च पुरुषो वै नारायणोऽकामयत अथ नारायणादजोऽजायत यतः प्रजाः सर्वाणि भूतानि [णारायणऊ] । नारायणः परं ब्रह्म तत्त्वं नारायणः परम् । ऋतं सत्यं परं ब्रह्म पुरुषं कृष्णपिङ्गलम् ॥ इति । [ंहाणू १३.४] एको ह नारायण आसीन्न ब्रह्मा न च शङ्करः । स मुनिर्भूत्वा समचिन्तयत् । तत एव व्यजायन्त विश्वो हिरण्यगर्भोऽग्निर्वरुणरुद्रेन्द्रा इति च । तस्मात्तस्यैव वर्णनीयत्वमपि युक्तम् ॥१२.५॥ श्रीसूतः ॥१६॥ [१७] ननु त्रयाणामेकभावानां यो न पश्यति वै भिदां, तथा न ते मय्य् अच्युतेऽजे च भिदामण्वपि चक्षते इत्य्[भागवतम् १२.१०.१७] आदावभेदः श्रूयत पुराणान्तरे च विष्णुतस्तयोर्भेदे नरकः श्रूयते सत्यं वयमपि भेदं न ब्रूमः । परमपुरुषस्यैव तत्तद्रूपमित्येकात्मत्वेनैवोपक्रान्तत्वात् । शिवो ब्रह्मा च भिन्नस्वभावादितया दृश्यमानोऽपि प्रलये सृष्टौ न तस्मात् स्वतन्त्र एकान्य ईश्वर इति न मन्तव्यं किन्तु विष्वात्मक एव सः इति हि तत्रार्थः । तदुक्तं ब्रह्मणि ब्रह्मरूपः स इत्य्[Vआमनড়्] आदि । न च प्रकाशस्य साक्षादसाक्षाद्रूपत्वाद्तारतम्यं वयं कल्पयामः परं शास्त्रमेव वक्ति । शास्त्रं तु दर्शितम् । एवं भगवद् अवतारानुक्रमणिकासु त्रयाणां भेदमङ्गीकृत्यैव केवलस्य श्रीदत्तस्य गणना सीमदूर्वासोस्त्वगणना । किं च ब्राह्मे ब्रह्मवैवर्ते च ब्रह्मवाक्यं नाहं शिवो न चान्ये च तच्छक्त्येकांभागिनः । बालक्रीडनकैर्यद्वत् क्रीडतेऽस्माभिरच्युतः ॥ इति । अतएव श्रुतौ यं कामये तमुग्रं कृणोमि तं ब्रह्माणं तमुषिं तं सुमेधामित्युक्त्वा मम योनिरप्स्वन्तरिति [ऋग्वेद १०.१२५.५,७] शक्ति वचनम् । अप्स्वन्तरिति कारणोदशायी सूच्यते । आपो नारा इति प्रोक्ता इत्यादेः । योनिः कारणम् । एवमेव स्कान्दे ब्रह्मेशानादिभिर्देवैर् यत्प्राप्तुं नैव शक्यते । तद्वत्स्वभावः कैवल्यं स भवान् केवओल्हरे ॥ इति । तथा विष्णुसामान्यदर्शिनो दोषः श्रूयते । यथा वैष्णवतन्त्रे न लभेयुः पुनर्भक्तिं हरेरैकान्तिकीं जडाः । ऐका यं मनसश्चापि विष्णुसामान्यदर्शिनः ॥ इति । अन्यत्र यस्तु नारायणं देवं ब्रह्मरुद्रादिदैवतैः । समत्वेनैव वीक्षेत स पाषण्डी भवेद्ध्रुवम् ॥ इति [Vऐष्णवतन्त्र] । तथा च मन्त्रवर्णः । मध्ये वामनमासीनं विश्वे देवा उपासत [Kअठऊ २.२.३] इति । ननु क्वचिदन्यशास्त्रे शिवस्यैव परमदेवत्वमुच्यते सत्यं तथापि शास्त्रस्य सारासारत्वविवेकेन तद्वाधितमिति । तथा च पाद्मशैवयोर् उमां प्रति श्रीशिवेन श्रीविष्णुवाक्यमनुकृतम् त्वामाराध्य तया शम्भो ग्रहीष्यामि वरं सदा । द्वापरादौ युगे भूत्वा प्रलया मनुषादिषु ॥ स्वागमैः कल्पितैस्त्वं तु जनान्मद्विमुखं कुरु । मां च गोपय येन स्यात्सृष्टिरेषोत्तरोत्तरा ॥ इति । वाराहे च एष महीं सृजाम्याशु यो जनान्मोहयिष्यति । त्वं च रुद्र महाबाहो मोहशास्त्राणि कारय ॥ अतथ्यानि वितथ्यानि दर्शयस्व महाभुज । प्रकाशं कुरु चात्मानमप्रकाशं च मां कुरु ॥ इति । पुराणानां च मध्ये यद्यत्तामसकल्पकथामयं तच्छिवादिमहिम परमिति श्रीविष्णुप्रतिपादकपुराणस्यैव सम्यग्ज्ञानप्रदत्वम् । सत्त्वात्सञ्जायते ज्ञानमिति दर्शनात् । तथा च मात्स्ये सात्त्विकेषु च कल्पेषु माहात्म्यमधिकं हरेः । राजसेषु च माहात्म्यमधिकं ब्रह्मणो विदुः ॥ तद्वदग्नेश्च माहात्म्यं तामसेषु शिवस्य च । सङ्कीर्णेषु सरस्वत्याः पितॄणां च निगद्यते ॥ इति । अत उक्तं स्कान्दे षण्मुखं प्रति श्रीशिवेन शिवशास्त्रेषु तद्ग्राह्यं भगवच्छास्त्रयोगिषत् । परमो विष्णुरेवैकस्तज्ज्ञानं मोक्षसाधनम् । शास्त्राणां निर्णयस्त्वेषस्तदन्यन्मोहनाय हि ॥ इति । तथैव च द्रष्टुं मोक्षधर्मे नारायणोपाख्याने सांख्यं योगं पञ्चरात्रं वेदाः पाशुपतं तथा । ज्ञानान्येतानि राजर्षे विद्धि नाना मतानि वै ॥ सांख्यस्य वक्ता कपिलः परमर्षिः स उच्यते । हिरण्यगर्भो योगस्य वेत्ता नान्यः पुरातनः ॥ अपान्तरतमाश्चैव वेदाचार्यः स उच्यते । प्राचीन गर्भं तमृषिं प्रवदन्तीह के चन ॥ उमापतिर्भूतपतिः श्रीकन्थो ब्रह्मणः सुतः । उक्तवानिदमव्यग्रो ज्ञानं पाशुपतं शिवः ॥ पञ्चरात्रस्य कृत्स्नस्य वेत्ता तु भगवान् स्वयम् । सर्वेषु च नृपश्रेष्ठ ज्ञानेष्वेतेषु दृश्यते ॥ यथागमं यथा ज्ञानं निष्ठा नारायणः प्रभुः । न चैनमेवं जानन्ति तमो भूता विशां पते ॥ तमेव शास्त्रकर्तारं प्रवदन्ति मनीषिणः । निष्ठां नारायणमृषिं नान्योऽस्तीति च वादिनः ॥ निःसंशयेषु सर्वेषु नित्यं वसति वै हरिः । ससंशयान् हेतुबलान्नाध्यावसति माधवः ॥ पञ्चरात्रविदो ये तु यथाक्रमपरा नृप । एकान्तभावोपगतास्ते हरिं प्रविशन्ति वै ॥ सांख्यं च योगं च सनातने द्वे वेदाश्च सर्वे निखिलेन राजन् । सर्वैः समस्तैरृषिभिर्निरुक्तो नारायणो विश्वमिदं पुराणम् ॥ इति [ंBह्१२.३३७.५९६८] अत्रोपान्तरतमा इति श्रीकृष्णद्वैपायनस्यैव जन्मान्तरनामविशेष इति तत्रैव ज्ञेयम् । अत्रैवं व्याख्येयम् । पञ्चरात्रसम्मतं श्रीनारायणम् एव सर्वोत्तमत्वेन वक्तुं नानामतं दर्शयति । साङ्ख्यमिति । तत्र पञ्चरात्रमेव गरिष्ठमाचष्टै पञ्चरात्रस्यैत्नादौ भगवान् स्वयम् इति । अथ द्वौ भूतसर्गौ लोकेऽस्मिन् दैव आसुर एव च इति श्रीगीतासु [गीता १६.६] श्रूयते । यदेव तानि नानामतानीत्युक्तं तत्त्वासुरप्रकृत्य् अनुसारेणेति ज्ञेयम् । दैवप्रकृतयस्तु तत्तत्सर्वावलोकेन पञ्चरात्र प्रतिपाद्ये श्रीनारायण एव पर्यवस्यन्तीत्याह सर्वेष्विति । आसुरास्तु निन्दति न चैनमिति । तदुक्तं विष्णुधर्माग्निपुराणयोः द्वौ भूतसर्गौ लोकेऽस्मिन् दैव आसुर एव च । विष्णुभक्तिपरो दैव आसुरस्तद्विपर्ययः ॥ इति । ननु तत्र तत्र नानामतय एव दृश्यन्ते तत्राह तमेव इति । पञ्चरात्रेतरशास्त्रकर्तारो हि द्विविधाः किञ्चिज्ज्ञाः सर्वज्ञाश्च । तत्राद्या यथा स्वस्वज्ञानानुसारेण यत्किञ्चित्तत्त्वैकदेशं वदन्ति नासाभिरासुराणां मोहनार्थमेव कृतानि शास्त्राणि किन्तु दैवानां व्यतिरेकेण बोधनार्थम् । ते हि रजस्तमःशबलस्य खण्डस्य च तत्त्वस्य तथा क्लेशबहुलस्य साधनस्य प्रतिपादकान्येतानि शास्त्राणि दृष्ट्वा वेदांश्च दुर्गान् दृष्ट्वा निर्विद्य सर्ववेदार्थसारस्य शुद्धाखण्ड तत्त्वश्रीनारायणस्य सुखमयतद्आराधनस्य च सुष्ठु प्रतिपादके पञ्चरात्रे एवे गाढं प्रवेक्ष्यन्तीति । तदेतदाह निःसंशयेष्विति । तस्माज् झटिति वेदार्थप्रतिपत्तये पञ्चरात्रमेवाधेतव्यमित्याह । पञ्चरात्रेति । यत एवं तत उपसंहरति साङ्ख्यं च योगश्चेति । तदेवं पञ्चरात्रप्रतिपाद्यस्य श्रीभगवत एवमुत्कर्षे स्थिते आत्मारामाश्च मुनय इत्याद्यसकृदपूर्वमुपदिशता श्रीभागवतेन प्रतिपाद्य रूपस्य तस्य किमुतेत्यपि विवेचनीयम् । तदेतदुक्तानुसारेण सदा शिवेश्वरत्रिदेवीरूपव्यूहोऽपि निरस्तः । तस्मादेव च श्रीभगवत् पुरुषयोरेव शैवागमे सदाशिवादिसंज्ञे तन्महिमख्यापनाय धृत इति गम्यते । सर्वशास्त्रशिरोमणौ श्रीभागवते तु त्रिदेव्यामेव तत् तारतम्यजिज्ञासा पुरुषभगवतोस्तु तत्प्रसङ्ग एव नास्ति । ननु न ते गिरित्राखिललोकपालविरिञ्चिवैकुण्ठसुरेन्द्रगम्यम् । ज्योतिः परं यत्र रजस्तमश्च सत्त्वं न यद्ब्रह्म निरस्तभेदमित्य्[भागवतम् ८.७.३१] अत्र तस्य परत्वं श्रूयते एवाष्टमे । मैवम् । महिम्ना स्तूयमाना हि देवा वीर्येण वर्धतु इति वैदिक न्यायेन तद्युक्तेः । स हि स्तवः कालकूटनाशनार्थ इति । तत्रैव प्रीते हरौ भगवति प्रीयेऽहं सचराचर इति [भागवतम् ८.७.४०] । तथा नवमे वयं न तात प्रभवाम भूम्नि यस्मिन् परेऽन्येऽप्यजजीवकोषाः । भवन्ति काले न भवन्ति हीदृशाः सहस्रशो यत्र वयं भ्रमामः ॥ इति [भागवतम् ९.४.५६] एते वयं यस्य वशे मतात्मनः स्थिताः शकुन्ता इव सूत्रयन्त्रिताः । इति च तद्वाक्यविरोधातथवा यत्शिवस्य ज्योतिस्तत्र स्थितं परमात्माख्यं चैतन्यं तत्सम्यग्ज्ञाने तस्याप्यक्षमता युक्तैव । यदुक्तम् द्युपतयः एव ते न ययुरन्तमनन्ततया त्वमसीति [भागवतम् १०.८७.४१] । ब्रह्मसंहितमते तु भगवद्अंशविशेष एव सदाशिवो न त्वन्यः । यथा तत्रैव सर्वादिकारणगोविन्दकथने नियतिः सा रमादेवी तत्प्रिया तद्वशंवदा । तल्लिङ्गे भगवान् शम्भुर्ज्योती रूपः सनातनः ॥ या योनिः सा परा शक्तिरित्यादि तस्मिनाविर्भभूल्लिङ्गे महाविष्णुरित्याद्यन्तम् ॥ तदेतदभिप्रेत्य सदाशिवत्वादिप्रसिद्धिमप्याक्षिप्याह । अथापि यत्पदनखावसृष्टं जगद्विरिञ्चोपहृतार्हणाम्भः । सेशं पुनात्यन्यतमो मुकुन्दात् को नाम लोके भगवत्पदार्थः ॥ [भागवतम् १.१८.२१] स्पष्टम् ॥ १.१८ ॥ श्रीसूतः ॥१७॥ [१८] तस्मान्नाहं न च शिवोऽन्ये च तच्छक्त्य्एकांशभागिनः इत्येवोक्तं साध्येव इत्याह । ब्रह्मा भवोऽहमपि यस्य कलाः कलाया इति [भागवतम् १०.६८.३७] । शेषं स्पष्टम् ॥ १०.६८ ॥ श्रीबलदेवः ॥१८॥ [१९] अथ परमात्मपरिकरेषु जीवस्तस्य च तटस्थलक्षणं क्षेत्रज्ञ एता इत्य् एवोक्तं स्वरूपलक्षणं पाद्मोत्तरखण्डादिकमनुसृत्य श्री रामानुजाचार्यादतिप्राचीनेन श्रीवैष्णवसम्प्रदायगुरुणा श्री जामातृमुनिनोपदिष्टम् । तत्र प्रणवव्याख्याने पाद्मोत्तरखण्डं यथा ज्ञानाश्रयो ज्ञानगुणश्चेतनः प्रकृतेः परः । न जातो निर्विकारश्च एकरूपः स्वरूपभाक् ॥ अणुर्नित्यो व्याप्तिशीलश्चिद्आनन्दात्मकस्तथा । अहमर्थोऽव्ययः क्षेत्री भिन्नरूपः सनातनः ॥ अदाह्योऽच्छेद्य अक्लेद्य अशोष्योऽक्षर एव च । एवमाधिगुणैर्युक्तः शेषभूतः परस्य वै ॥ मकारेणोच्यते जीवः क्षेत्रज्ञः परवान् सदा । दासभूतो हरेरेव नान्यस्यैव कदाचन ॥ इति । श्रीजामातृमुनिनाप्युपदिष्टं, यथा आत्मा न देवो न नरो न तिर्यक्स्थावरो न च । न देहो नेन्द्रियं नैव मनः प्राणो न नापि धीः ॥ न जडो न विकारी च ज्ञानमात्रात्मको न च । स्वस्मै स्वयं प्रकाशः स्यादेकरूपः स्वरूपभाक् ॥ चेतनो व्याप्तिशीलश्च चिदानन्दात्मकस्तथा । अहमर्थः प्रतिक्षेत्रं भिन्नोऽणुर्नित्यनिर्मलः ॥ तथा ज्ञातृत्वकर्तृत्वभोक्तृत्वनिजधर्मकः । परमात्मैकशेषत्वस्वभावः सर्वदा स्वतः ॥ इति । श्रीरामानुजभाष्यानुसारेण व्याख्या चेयम् । तत्र देवादित्वं निरस्तम् एवास्ति तत्त्वसन्दर्भे । अण्डेषु पेशिषु तरुष्वविनिश्चितेषु प्राणो हि जीवमुपधावति तत्र तत्र । सन्ने यदिन्द्रियगणेऽहमि च प्रसुप्ते कूटस्थ आशयमृते तदनुस्मृतिर्नः ॥ [भागवतम् ११.३.३९] इत्यनेन ॥ देहादित्वं निरस्यन्नाह विलक्षणः स्थूलसूक्ष्माद् देहादात्मेक्षिता स्वदृक् । यथाग्निर्दारुणो दाह्याद् दाहकोऽन्यः प्रकाशकः ॥ [भागवतम् ११.१०.८] विलक्षणत्वे हेतुरीक्षिता तस्य द्रष्टा प्रकाशकश्च स्वयं तु स्वदृक्स्व प्रकाश इति ॥ श्रीभगवान् ॥१९॥ [२०] जडत्वं निरस्यन्नाह जाग्रत्स्वप्नसुषुप्तं च गुणतो बुद्धिवृत्तयः । तासां विलक्षणो जीवः साक्षित्वेन विनिश्चितः ॥ [भागवतम् ११.१३.२७] या तु मयि तुर्ये स्थितो जह्यादित्यादौ [भागवतम् ११.१३.२८] परमेश्वरेऽपि तुर्यत्व प्रसिद्धिः सान्यथैव । विराठिरण्यगर्भश्च कारणं चेत्युपाधयः । ईश्वरस्य यत्त्रिभिर्हीनं तुरीयं तत्पदं विदुः ॥[*Eण्ड्ण्Oट्E ॰४] इत्याद्य्उक्तेर्वासुदेवस्य चतुर्व्यूहे तुर्यकक्षाक्रान्तत्वाद् वा ॥ ११.१३ ॥ श्रीभगवान् ॥ २० ॥ [२१] विकारित्वं निरस्यन्नाह विसर्गाद्याः श्मशानान्ता भावा देहस्य नात्मनः । कलानामिव चन्द्रस्य कालेनाव्यक्तवर्त्मना ॥ [भागवतम् ११.७.४८] चन्द्रस्य जलमयमण्डलत्वात्कलानां सूर्यप्रतिच्छविरूपज्योतिर् आत्मत्वात्यथा कलानामेव जन्माद्या नाशान्ता भावा न तु चन्द्रस्य तथा देहस्यैव ते भावा अव्यक्तवर्त्मना कालेन भवन्ति न त्वात्मन इत्यर्थः । श्रीदत्तात्रेयो यदुम् ॥२१॥ [२२] ज्ञानात्मको न चेति किं तर्हि ज्ञानमात्रत्वेऽपि ज्ञानशक्तित्वं प्रकाशस्य प्रकाशनशक्तित्ववत्तादृक्त्वमपि । नात्मा जजान न मरिष्यति नैधतेऽसौ न क्षीयते सवनविद्व्यभिचारिणां हि । सर्वत्र शश्वदनपाय्युपलब्धिमात्रं प्राणो यथेन्द्रियबलेन विकल्पितं सत् ॥ इत्यनेन [भागवतम् ११.३.३७] तत्त्वसन्दर्भ एव दर्शितम् । उपलब्धिमात्रत्वेऽपि सबलवत्त्वेनोक्तेः । अतएव शुद्धो विचष्टे ह्यविशुद्धकर्तुरित्युक्तम् । प्रकारान्तरेणापि तद् आह गुणैर्विचित्राः सृजतीं सरूपाः प्रकृतिं प्रजाः । विलोक्य मुमुहे सद्यः स इह ज्ञानगूहया ॥ [भागवतम् ३.२६.५] अज्ञानेनावृतं ज्ञानं तेन मुह्यन्ति जन्तवः [गीता ५.१५] इति ॥ ३.२६ ॥ श्रीकपिलदेवः ॥२२॥ [२३] शक्त्य्अन्तरं चाहुः स यदजया त्वजामनुशयीत गुणांश्च जुषन् भजति सरूपतां तदनु मृत्युमुपेतभग इति [भागवतम् १०.८७.३८] ॥ टीका च स तु जीवः यद्यस्मादजया मायया अजामविद्यामनुशयीत आलिङ्ग्येत ततो गुणांश्च देहेन्द्रियादीन् गुषन् सेवमानः आत्मतया अध्यस्यन् तदनु तद्अनन्तरं सरूपतां तद्धर्मयोगं च जुषनपेत भगः पिहितानन्दादिगुणः सन्मृत्युं संसारं भजति प्राप्नोति इत्य् एषा ॥ १०.८७ ॥ श्रुतयः ॥२३॥ [२४] तथा तत्सङ्गभ्रंितैश्वर्यं संसरन्तं कुभार्यवत् । तद्गतीरबुधस्येह किमसत्कर्मभिर्भवेत् ॥[भागवतम् ६.५.१५] तस्याः पुंश्चलीरूपाया मायायाः सङ्गेन भ्रंशितमैश्वर्यं किञ्चित् स्वीयज्ञानादिसामर्थ्यं यस्य तम् । तस्या गतीः संस्मरन्तं गच्छन्तं जीवं स्वस्वरूपमबुधस्याजानत इत्यर्थः ॥६.५॥ हर्यश्वाः ॥२४॥ [२५] तथा ईश्वरस्य विमुक्तस्य कार्पण्यमुत बन्धनम् ॥ [भागवतम् ३.७.९] ईश्वरस्य किञ्चिज्ज्ञानादिशक्तिमतः ॥ ३.७ ॥ मैत्रेयः ॥२५॥ [२६] तथा विप्रलब्धो महिष्यैवं सर्वप्रकृतिवञ्चितः । नेच्छन्ननुकरोत्यज्ञः क्लैब्यात्क्रीडामृगो यथा ॥ [भागवतम् ४.२५.६२] महिष्या पुरञ्जन्या विप्रलब्धः पुरञ्जनः सर्वया प्रकृत्या ज्ञानादिरूपया वञ्चितः त्याजितः सन्नेच्छन् तद्इच्छयैवेत्यर्थः । अनुकरोति तद्धर्मात्मन्यध्यस्यति । अत्र जीवस्य शक्तिमत्तायां पराभिध्यानात्तु तिरोहितं ततो ह्यस्य बन्धविपर्ययावित्येतत्सूत्रम् अप्यनुसन्धेयम् ॥ श्रीनारदः प्राचीनबर्हिषम् ॥२६॥ [२७} पूर्वोक्तमेवार्थं व्यञ्जयितुं स्वस्मै स्वयं प्रकाश इत्युक्तम् । तथाभूतत्वं च विलक्षण इत्याद्युक्तपद्य एव स्वदृगित्यनेन व्यक्तम् अस्ति । तत्र प्रकाशस्तावद्गुणद्रव्यभेदेन द्विविधः । प्रथमो निजाश्रयस्य स्फूर्तिरूपः । द्वितीयः स्वपरस्फूर्तिनिदानं वस्तुविशेषः । तत्रात्मनो द्रव्यत्वादयमेव गृह्यते । यथा दीपश्चक्षुः प्रकाशयन् स्वरूपस्फूर्तिं स्वयमेव करोति न तु घटादिप्रकाशवत्तद्आदि साक्षेपः । तस्मादयं स्वयं प्रकाशः । तथापि स्वं प्रति न प्रकाशते यत एव जड इत्युच्यते । तस्मात्तु स्वं परं च प्रकाशयन् स्वात्मानं प्रति प्रकाशमानत्वात्स्वस्मै स्वयं प्रकाशः । यत एव चिद्रूप उच्यते । तद् उक्तमन्यैरपि । स्वयं प्रकाशत्वं स्वव्यवहारे परानपेक्षत्वात् अवेद्यत्वे सत्यपरोक्षव्यवहारयोग्यत्वं चेति ।तत्र पूर्वत्र स्वस्मैपदमपेक्ष्यमुत्तरत्र तु स्पष्टार्थम् । अतः स्वदृक्स्वस्मै स्वयं प्रकाश इत्यर्थः । न चासौ परमात्मप्रकाश्यत्वे घटवत्पर प्रकाश्यः परमात्मनस्तत्परमस्वरूपत्वेन परप्रकाश्यत्वाभावात् । एवमेवाह द्वाभ्याम् । ममाङ्ग माया गुणमय्यनेकधा विकल्पबुद्धीश्च गुणैर्विधत्ते । वैकारिकस्त्रिविधोऽध्यात्ममेकम् अथाधिभूतमधिदैवमन्यत् ॥ दृग्रूपमार्कं वपुरत्र रन्ध्रे परस्परं सिध्यति यः स्वतः खे । आत्मा यदेषामपरो य आद्यः स्वयानुभूत्याखिलसिद्धसिद्धिः ॥ [भागवतम् ११.१२.३०३१] विकल्पं भेदं तद्बुद्धीश्च । अनेकधात्वं प्रपञ्चयति वैकारिक इति । अनेकविकारवानप्यस्यौ स्थूलदृष्ट्या तावत्त्रिविधः । त्रैविध्यमाह अध्यात्म इत्यादिना । तानि क्रमेणाह दृग्आदित्रयेण । वपुरंशः । अत्र रन्ध्रे दृग्गोलके प्रविष्टं तत्त्रयं च परस्परमेव सिध्यति न तु स्वतः । यस्तु खे आकाशे अर्को वर्तते स पुनः स्वतः सिध्यति । चक्षुर् विषयत्वेऽपि स्वविरोधिनः प्रतियोग्यप्रेक्षाभावमात्रेण स्वत इत्युक्तम् । एवं यथा मण्डलात्मार्कः स्वतः सिध्यति तथात्मापीत्याह । यद्यतः पूर्वोक्तदृष्टान्तहेतोरात्मा एषामध्यात्मादीनां योऽपर आद्यस्तेषाम् आश्रयः । सोऽपि स्वतः सिध्यति किन्तु स्वयानुभूत्येति चिद्रूपत्वाद्विशेषः । न केवलमेतावदपि तु अखिलानां परस्परसिद्धानां सिद्धिर्यस्मात् तथाभूतः सन्निति ॥ ॥ ११.१२ ॥ श्रीभगवान् ॥२७॥ [२८] यस्मात्स्वरूपभूतयैव शक्त्या तथा प्रकाशते तस्मादेकरूपस्वरूप भाक्त्वमपि दीपवदेव । नात्मा जजानेत्यादाव्[भागवतम् ११.३.३७][*Eण्ड्ण्Oट्E ॰५] उपलब्धिमात्रमित्यनेनैवोक्तं मात्रपदं तद्धर्माणामपि स्वरूपानतिरिक्तत्वं ध्वनयति । अथ चेतनत्वं नाम स्वस्य चिद्रूपत्वेऽप्यन्यस्य देहादेश्चेतयितृत्वं दीपादिप्रकाशयितृत्ववत् । तदेतद्विलक्षण इत्यादावेव दृष्टान्तेनोक्तम् । प्रकाशक इति चेतयितृत्वे हेतुः । व्याप्तिशीलत्वमुदाहरिष्यमाण आत्मेत्यादौ श्रीप्रह्लादवाक्ये व्यापक इत्यनेनोक्तं व्याप्तिशीलत्वमतिसूक्ष्मतया सर्वाचेतनान्तः प्रवेशस्वभावत्वम् । ज्ञानमात्रात्मको न चेत्यत्र चिद्आनन्दात्मक इत्य् अपि हेत्व्अन्तरम् । तत्र तस्य जडप्रतियोगित्वेन ज्ञानत्वं दुःख प्रतियोगित्वेन तु ज्ञानत्वमानन्दत्वं च । ज्ञानत्वं तूदाहृतम् । आनन्दत्वं निरुपाधिप्रेमास्पदत्वेन साधयति । तस्मात्प्रियतमः स्वात्मा सर्वेषामेव देहिनाम् । तदर्थमेव सकलं जगच्चैतच्चराचरम् ॥ [भागवतम् १०.१४.५४] स्पष्टम् ॥ १०.१४ ॥ श्रीशुकः ॥२८॥ [२९] तस्मिंश्चानन्दात्मके ज्ञाने प्रतिस्वं युष्मद्अर्थत्वं न भवति । किन्त्व् आत्मत्वादस्मद्अर्थत्वमेव । तच्चास्मद्अर्थत्वमहम्भाव एव । ततोऽहमित्येतच्छब्दाभिधेयाकारमेवअ ज्ञानं शुद्ध आत्मा प्रकृत्यावेशोऽन्यथा नोपपद्यते । यत एवावेशात्तदीयसङ्खात एवाहम् इत्यहस्मावान्तरं प्राप्नोति तदेतदभिप्रेत्य तस्याहमत्वमाह । एवं पराभिध्यानेन कर्तृत्वं प्रकृतेः पुमान् । कर्मसु क्रियमाणेषु गुणैरात्मनि मन्यते ॥ [भागवतम् ३.२६.६] पराभिध्यानेन प्रकृत्यावेशेन प्रकृतिरेवाहमिति मननेन प्रकृति गुणैः क्रियमाणेषु कर्मसु कर्तृत्वमात्मनि मन्यते । अत्र निरहम्भावस्य पराभिध्यानासम्भवात्परावेशजाताहङ्कारस्य चावरकत्वादस्त्येव तस्मिन्नन्योऽहम्भावविशेषः । स च शुद्ध स्वरूपमात्रनिष्ठत्वान्न संसारहेतुरिति स्पष्टम् । एतदेवाहङ्कार द्वयं सन्ने यदिन्द्रियगणेऽहमि च प्रसुप्ते कूटस्थ आशयमृते तद् अनुस्मृतिर्न इत्यत्र [भागवतम् ११.३.३९] दर्शितम्[*Eण्ड्ण्Oट्E ॰६] । उपाध्वभिमानात्मकस्याहङ्कारस्य प्रसुप्तत्वात्तद्अनुस्मृतिर्न इत्य् अनेन सुखमहमस्वाप्स्वमित्यात्मनोऽहतयैव परामर्शाच्च अतएव मामहं नाज्ञासिषमित्यत्र परामर्शेऽपि उपाध्यभिमानिनोऽनुसन्धानाभावः अन्यस्य त्वज्ञान साक्षित्वेनानुसन्धानमिति दिक् । ॥ ३.२६ ॥ श्रीकपिलदेवः ॥२९॥ [३०] तथा नृत्यतो गायतः पश्यन् यथैवानुकरोति तान् । एवं बुद्धिगुणान् पश्यन्न् अनीहोऽप्यनुकार्यते ॥ [भागवतम् ११.१२.५३] पूर्ववत् ॥ ११.१२ ॥ श्रीभगवान् ॥३०॥ [३१] एवमेव स्वप्नदृष्टान्तमपि घटयन्नाह । यद्अर्थेन विनामुष्य पुंस आत्मविपर्ययः । प्रतीयत उपद्रष्टुः स्वशिरश्छेदनादिकः ॥ [भागवतम् ३.७.१०] उपद्रष्टुरमुष्येति स्वप्नद्रष्ट्रा अमुना जीवेनेत्यर्थः ॥ ३.७ ॥ श्री मैत्रेयः ॥३१॥ [३२] साधिते च सव्रूपभूतेऽहम्भावे प्रतिक्षेत्रं भिन्नत्वमपि साधितम् । यत्तु वस्तुनो यद्यनानात्वम् आत्मनः प्रश्न ईदृशः । कथं घटेत वो विप्रा वक्तुर्वा मे क आश्रयः ॥ [भागवतम् ११.१३.२२] इत्यादौ ज्ञानिनो लौकिकगुरुरीतिं तदीयप्राकृतदृष्टिं वानुसृत्य स्वस्य जीवान्तरसाधारण्यकल्पनामये श्रीहंसदेववाक्ये जीवात्मनाम् एकत्वम् । तत्खलु अंशभेदेऽपि ज्ञानेच्छून् प्रति ज्ञानोपयोगित्वेन तम् अविविच्यैव समानाकारत्वेन । भेदव्यपदेशः यथा तत्रैव । पञ्चात्मकेषु भूतेषु समानेष्वपि वस्तुतः । को भवानिति वः प्रश्नो वाचारम्भो ह्यनर्थकः ॥ [भागवतम् ११.१३.२३] इति । तत्राप्यंशभेदोऽस्त्येव । अत उक्तं स्वयं भगवता शुनि चैव श्वपाके च पण्डिताः समदर्शिनः [गीता ५.१८] इति । निर्दोषं हि समं ब्रह्म इत्यादि च [गीता ५.१९] । अत्र ब्रह्मेति जीवब्रह्मैवोच्यते । यथा यथाहमेतत्सद् असत्स्वमायया पश्ये मयि ब्रह्मणि कल्पितं परे इति । मयि ब्रह्मणि देहात्मकं परे ब्रह्मणि च जगद्आत्मकं सद्असत्कार्यकारण सङ्घातं स्वविषयकमायया जीवमायाख्यया देह एवाहं तथा इन्द्र चन्द्राद्य्आत्मकं जगदेवेश्वर इतीदं कल्पितमेव यया मत्या पश्ये पश्यामीत्यर्थः । समानकारणत्वादेव पूर्ववदन्यत्र च सोऽहं स च त्वमिति । तदेवं सर्वेषामेव जीवानामेकाकारत्वे सति । यावत्स्याद्गुण वैषम्यं तावन्नानात्वमात्मनः । नानात्वमात्मनो यावत्पारतन्त्र्यं तदैव हीत्य्आदिषु देवादिदेहभेदकृतागन्तुकनानात्वं निगद्यते । वेणुरन्ध्रविभेदेन भेदः षड्जादिसंज्ञ्तः । अभेदव्यापिनी वायोस् तथा तस्य महात्मनः ॥ इत्य्[Vइড়् २.१४.३२] आदिकं तु परमात्मविषयकम् एव । तदेतत्सर्वमभिप्रेत्य जीवानां प्रतिक्षेत्रं भिन्नत्वं स्वपक्षत्वेन निर्दिशन्ति । अपरिमिता ध्रुवास्तनुभृतो यदि सर्वगता इति ॥ [भागवतम् १०.८७.३०] अत्र यदिशब्दात्पूर्वपाठेनापरिमितत्वं ध्रुवत्वं चासन्दिग्धमिति तत्र स्वपक्षत्वं पश्चात्पाठेन सर्वगतत्वं तु सन्दिग्धमिति । तत्र परपक्षत्वं स्पष्टमेव । अतएव एको देवः सर्वभूतेषु गूढ इत्य् आदिकं पर्मात्मपरं वाक्यं जीवानामेकत्वं बोधयति ॥ १०.८७ ॥ श्रुतयः ॥३२॥ [३३] प्रतिक्षेत्रभिन्नत्वे हेत्व्अन्तरमणुरिति । अणुः परमाणुरित्यर्थः । परमाणुश्च यस्य दिग्भेदेऽप्यंशो न कल्पयितुं शक्यते स एवांशस्य परा काष्ठेति तद्विदः । अणोरप्यखण्डदेहचेतयितृत्वं प्रभाव विशेषाद्गुणादेव भवति । यथा शिर आदुअ धार्यमाणस्य जतु जठितस्यापि महौषधिखण्डस्याखण्डदेहपुष्टीकरणादिहेतुः प्रभावः । यथा वायस्कान्तादेर्लौहचालनादिहेतुः प्रभाव एव तद्वत् । तदेतदणुत्वमाह सूक्ष्माणामप्यहं जीव इति [भागवतम् ११.१६.११] तस्मात्सूक्ष्मतापराकाष्ठाप्राप्तो जीव इत्यर्थः । दुर्ज्ञेयत्वाद्यत् सूक्ष्मत्वं तदत्र न विवक्षितम् । महतां च महानहं सूक्ष्माणाम् अप्यहं जीव इति परस्परप्रतियोगित्वेन वाक्यद्वयस्यानन्दर्यौक्तौ स्वारस्यभङ्गात् । प्रपञ्चमध्ये हि सर्वकारणत्वान्महत्तत्त्वस्य महत्त्वं नाम व्यापकत्वं न तु पृथिव्याद्य्अपेक्षया सुज्ञेयत्वं यथा तद्वत्प्रपञ्चे जीवानामपि सूक्ष्मत्वं परमाणुत्वमेवेति स्वारस्यम् । श्रुतयश्च एषोऽणुरात्मा चेतसा वेदितव्यो यस्मिन् प्राणः पञ्चधा संविवेशेति [ंुण्डू ३.१.९] । बालाग्रशतभागस्य शतधा कल्पितस्य च । भागो जीवः स विज्ञेयः [श्वेतू ५.९] इति । आराग्रमात्रो ह्यपरोऽपि दृष्ट इति च ॥ ११.१६ ॥ श्रीभगवान् ॥३३॥ [३४] तथा अपरिमिता ध्रुवास्तनुभृतो यदि सर्वगतास् तर्हि न शास्यतेति नियमो ध्रुव नेतरथा । अजनि च यन्मयं तदविमुच्य नियन्तृ भवेत् सममनुजानतां यदमतं मतदुष्टतया ॥ [भागवतम् १०.८७.३०] अयमर्थः परमात्मनोऽंशत्वं तस्माज्जायमानत्वं च जीवस्य श्रूयते । तत्र ममैवांशो जीव लोके [गीता १५.७] इत्यादि सिद्धेऽंशत्वे तावत् तस्य विभुत्वमुक्तमित्याहुः । अपरिमिता वस्तुत एवानन्तसङ्ख्या नित्याश् च ये तनुभृतो जीवास्ते यदि सर्वगता विभवाः स्युः, तर्हि तेषां व्याप्यत्वाभावेन समत्वात्शास्यतेति नियमो न स्यात् । ईश्वरो नियन्ता जीवो नियम्य इति वेदकृतनियमो न घटत इत्यर्थः । हे ध्रुव इतरथा जीवस्याणुत्वेन व्याप्यभावे तु सति न तन्नियमो न अपि तु स घटत एवेत्य् अर्थः । अथ यतो वा इमानि भूतानि जायन्ते इति जायमानत्वावस्थायामपि व्याप्य व्यापकत्वेनैव नियन्तृत्वं भवति । सर्वत्रैव कार्यकारणयोस् तथाभावदर्शनादित्याहुः अजनीति । यन्मयं यद्उपादानकं यदजनि जायत इत्यर्थः । तद्उपादानं कर्तृ तस्य जायमानस्य यन्नियन्तृ भवेत् तदविमुच्य किञ्चिदप्यनुक्ता व्याप्यैवेत्यर्थः । किं च यद्उपादान रूपं परमात्माख्यं तत्त्वं केनाप्यपरेण समं समानमित्य् अनुजानतां यः कश्चित्तथा वदति तत्रानुज्ञामपि ददताममतं ज्ञातं न भवतीत्यर्थः । तत्र हेतुः मतदुष्टतया तस्य मतस्याशुद्धत्वेन । तत्राशुद्धत्वं श्रुत्वा च विरोधात् । श्रुतिश्च असमो वा एष परो न हि कश्चिदेव दृश्यते सर्वे त्वेते न वा जायन्ते च म्रियते सर्वे ह्यपूर्णाश्च भवन्तीति चतुर्वेदशिखायाम् । न तत्समश्चाभ्यधिकश्च दृश्यते इति । अथ कस्मादुच्यते ब्रह्मा बृंहति बृंहयति चेति चान्यत्र । बृहत्वाद् बृंहणत्वाच्च यद्ब्रह्म परमं विदुरिति [Vइড়् १.१२.५७] श्रीविष्णुपुराणे । अतः परमात्मन एव सर्वव्यापकत्वम् । एको देवः सर्वभूतेषु गूढः सर्वव्यापी सर्वभूतान्तरात्मा इत्यादौ । तस्मादणुरेव जीव इति । यत्तु श्रीभगवद्गीतासु नित्यः सर्वगतः स्थाणुरित्यादिना जीव निरूपणं तत्र सर्वगतः श्रीभगवानेव तत्स्थस्तद्आश्रितश्चासाव् अगुणश्च इति सर्वगतः स्थाणुर्जीवः प्रोक्तः ॥ १०.८७ ॥ श्रुतयः ॥३४॥ [३५] अथ शुद्धस्वरूपत्वान्नित्यनिर्मलत्वमुदाहृतमेव । शुद्धो विचष्टे ह्यविशुद्धकर्तुरित्यनेन । तथा तेनैव शुद्धस्यापि ज्ञातृत्वमप्य् उदाहृतम् । ज्ञानं च नित्यस्य स्वाभाविकधर्मत्वान्नित्यम् । अतएव न विक्रियात्मकमपि । तथा चैतन्यसम्बन्धेन देहादेः कर्तृत्वदर्शनात् । क्वचिदचेतनस्य कर्तृत्वं च । न ऋते तत्क्रियते किं च नारे इत्यादाव् अन्तर्यामिचैतन्यसम्बन्धेन भवतीत्यङ्गीकाराच्च शुद्धादेव कर्तृत्वं प्रवर्तते । तदुक्तम् देहेन्द्रियप्राणमनोधियोऽमी यद्अंश बिद्धाः प्रचरन्ति कर्मस्विति [भागवतम् ६.१६.२४] । तत्तूपाधिप्राधान्येन प्रवर्तमानमुपाधिधर्मत्वेन व्यपदिश्यते । यथा कार्यकारण कर्तृत्वे कारणं प्रकृतिं विदुरित्य्[भागवतम् ३.२६.८] आदौ । परमात्म प्राधान्येन प्रवर्तमानं तु निरुपाधिकमेवेत्याह । सात्त्विकः कारकोऽसङ्गी रागान्धो राजसः स्मृतः । तामसः स्मृतिविभ्रष्टो निर्गुणो मद्अपाश्रयः ॥ [भागवतम् ११.२५.२६] स्पष्टम् ॥ ११.२५ ॥ श्रीभगवान् ॥३५॥ [३६] अथ भोक्तृत्वं संवेदनरूपत्वेन यथा तथा तत्रैव चिद्रूपे पर्यवस्यतीत्याह भोक्तृत्वे सुखदुःखानां पुरुषं प्रकृतेः परमिति [भागवतम् ३.२६.८] ॥ कारणमिति पूर्वेणैवान्वयः ॥ ३.२६ ॥ श्रीकपिलदेवः ॥३६॥ [३७] अथ परमात्मैकशेषत्वेति व्याख्येयम् । एकः परमात्मनोऽन्यः शेषोऽंशः । स चासौ स च एकशेषः । परमात्मन एकशेषः परमात्मैक शेषः । तस्य भावस्तत्त्वं तदेव स्वभावः प्रकृतिर्यस्य स परमात्मैकशेषत्वस्वभावः । तथाभूतश्चायं सर्वदा मोक्ष दशायामपीत्यर्थः । एतादृशत्वं चास्य स्वतः स्वरूपत एव न तु परिच्छेदादिना । तदीयस्वाभाविकाचिन्त्यशक्त्या स्वाभाविकतदीयरश्मि परमाणुस्थानीयत्वातौपाधिकावथायास्त्वंशेन प्रकृतिशेषत्वमपि भवति इति च स्वत इत्यस्य भावः । शक्तिरूपत्वं चास्य तटस्थशक्त्य् आत्मकत्वात्, तथा तदीयरश्मिस्थानीयत्वेऽपि नित्यतद्आश्रयित्वात्तद् व्यतिरेकेण व्यतिरेकात् । हेतुर्भावोऽस्य सर्गादेरित्यनुसारेण जगत्सृष्टौ तत्साधनत्वात् । द्रव्यस्वरूपत्वेऽपि प्रधानसाम्याच्चावगम्यते । उक्तं च प्रकृतिविशेषत्वेन तस्य शक्तित्वम् विष्णुशक्तिः परा प्रोक्ता क्षेत्रज्ञाख्या तथा परा । अविद्या कर्मसंज्ञाख्या तृतीया शक्तिरुच्यते ॥ इति विष्णुपुराणे [Vइড়् ६.७.६१] । भूमिरापोऽनलो वायुरित्य्[गीता ७.४] आदौ भिन्ना प्रकृतिरष्टधेत्य् अनन्तरम् । अपरेयमितस्त्वन्यां प्रकृतिं विद्धि मे पराम् । जीवभूतां महाबाहो ययेदं धार्यते जगत् ॥ इति श्रीगीतोपनिषत्सु च । विष्णुशक्तिः परा प्रोक्तेत्यादि विष्णुपुराणवचने तु तिसॄणामेव पृथक् शक्तित्वनिर्देशात्क्षेत्रज्ञस्याविद्याकर्मसम्बन्धेन शक्तित्वमिति परास् तम् । किन्तु स्वरूपेनैवेत्यायातम् । तथा च गीतं ममैवांश इति । अतएवापरेयमितस्त्वन्यामित्युक्तम् । क्षेत्रज्ञ एता मनसो विभूतीरित्य् आदौ क्षेत्रज्ञशब्दश्च शुद्धेऽपि प्रवर्तते क्षेत्रशब्दस्योपलक्षण मात्रत्वात् । तदेवं शक्तित्वेऽप्यन्यत्वमस्य तटस्थत्वात् । तटस्थत्वं च मायाशक्त्य् अतीतत्वात् । अस्याविद्यापराभवादिरूपेण दोषेण परमात्मनो लेपाभावाच् चोभयकोटावप्रवेशात् । तस्य तच्छक्तित्वे सत्यपि परमात्मनस्तल् लेपाभावश्च यथा क्वचिदेकदेशस्थे रश्मौ छायया तिरस्कृतेऽपि सूर्यस्यातिरस्कारस्तद्वत् । उक्तं च तटस्थत्वं श्रीनारदपञ्चरात्रे यत्तटस्थं तु चिद्रूपं स्वसंवेद्याद्विनिर्गतम् । रञ्जितं गुणरागेण स जीव इति कथ्यते ॥ इत्यादौ । अतो विष्णुपुराणेऽप्यन्तराल एव पठितोऽसौ । अन्यत्वं च श्रुतौ अस्मान् मायी सृजते विश्वमेतत्तस्मिंश् चान्यो मायया संनिरुद्धः [श्वेतू ४.९] । तयोरन्यः पिप्पलं स्वाद्वत्ति इत्यादौ । अतएवोक्तं वैष्णवे विभेदजनके ज्ञाने नाशमात्यन्तिकं गते । आत्मनो ब्रह्मणो भेदमसन्तं कः करिष्यतीति । देवत्वमनुष्यत्वादिलक्षणो विशेषतो यो भेदस्तस्य जनकेऽप्य् अज्ञाने नाशं गते ब्रह्मणः परमात्मनः सकाशादात्मनो जीवस्य यो भेदः स्वाभाविकस्तं भेदमसन्तं कः करिष्यति अपि तु सन्तं विद्यमानमेव सर्व एव करिष्यतीत्यर्थः । उत्तरत्र पाठे नासन्तमित्य् एतस्य विधेयत्वादन्यार्थः कष्टसृष्ट एवेति मोक्षदायामपि तद् अंशत्वाव्यभिचारः स्वाभाविकशक्तित्वादेव । अतएवाविद्याविमोक्ष पूर्वकस्वरूपावस्ह्तितिलक्षणायां मुक्तौ तल्लीनस्य तत्साधर्म्यापत्तिर् भवति । निरञ्जनः परमं साम्यमुपैतीत्यादिश्रुतिभ्यः । इदं ज्ञानम् उपाश्रित्य मम साधर्म्यमागताः । स्वर्गेऽपि नोपजायते प्रलये न व्यथन्ति चेति श्रीगीतोपनिषद्भ्यश्च । अतएव ब्रह्म वेद ब्रह्मैव भवतीत्य्[ंुण्ड्३.२.९] आदिषु च ब्रह्मतादात्म्यमेव बोधयति । स्वाभाव्यापत्तिरुपपत्तेरितिवत् । तदेवं शक्तित्वे सिद्धे शक्तिशक्तिमतोः परस्परानुप्रवेशात्शक्तिमद्व्यतिरेके शक्तिव्यतिरेकात्चित्त्वाविशेषाच्च क्वचिदभेदनिर्देश एकस्मिन्नपि वस्तुनि शक्तिवैविध्यदर्शनात्भेद निर्देशश्च नासमञ्जसः । श्रीरामानुजीयास्तु अधिष्ठानाधिष्ठात्रोरपि जीवेशयोरभेदव्यपदेशो व्यक्तिजात्योर्गवादिव्यपदेशवदिति मन्यन्ते । यथा श्रीविष्णुपुराणे[*Eण्ड्ण्Oट्E ॰७] योऽयं तवागतो देव समीपं देवतागणः । स त्वमेव जगत्स्रष्टा यतः सर्वगतो भवान् ॥ इति । श्रीगीतासु च सर्वं समाप्नोषि ततोऽसि सर्व इति । तत्र ज्ञानेच्छून् प्रति शास्त्रमभेदमुपदिशति भक्तीच्छून् प्रति तु भेदमेव । क्वचित्तु परमात्मप्रतिबिम्बत्वं यदस्य श्रूयते, यथा यथा पुरुष आत्मानमेकमादर्शचक्षुषोर्द्विधाभूतमेवेक्षेत तथैवान्तरमावयोरिति । तदपि ज्ञानेच्छून् प्रत्यभेददृष्टि पोषणार्थमेवोच्यते न वास्तववृत्त्यैव प्रतिबिम्बत्वेन । अद्वयवाद गुरुमतेऽप्यम्बुवदग्रहणाद्[*Eण्ड्ण्Oट्E ॰८] इति [Vस्३.२.१९] न्याय विरोधाद्वृद्धिह्रासभाक्त्वमन्त्रभावादुभयसामञ्जस्यादेवमिति [Vस्३.२.२०] न्यायेन यथाकथञ्चित्प्रतिबिम्बसादृश्यमात्राङ्गीकाराच्च । तदेतत्तस्य पर्मात्मांशरूपताया नित्यत्वं श्रीगीतोपनिषद्भिरपि दर्शितं ममैवांशो जीवलोके जीवभूतः सनातन इति । तदेवमंशत्वं तावदाह तत्र समष्टेः एष ह्यशेषसत्त्वानाम् आत्मांशः परमात्मनः । आद्योऽवतारो यत्रासौ भूतग्रामो विभाव्यते ॥ [भागवतम् ३.६.८] टीका च अशेषसत्त्वानां प्राणिनामात्मा व्यष्टीनां तद्अंशत्वातंशो जीवः । अवतारतोक्तिस्तस्मिन्नारायणाविर्भावाभिप्रायेणेत्येषा ॥ ३.६ ॥ श्री शुकः ॥ ३७ ॥ [३८] अथ व्यष्टेः एकस्यैव ममांशस्य जीवस्यैव महामते । बन्धोऽस्याविद्ययानादेर् विद्यया च तथेतरः ॥ [भागवतम् ११.११.४] इतरो मोक्षः । अत्र रश्मिपरमाणुस्थानीयो व्यष्टिः । तत्र सर्वाभिमानी कश्चित्समष्टिरिति ज्ञेयम् ॥ ११.११ ॥ श्रीभगवान् ॥३८॥ [३९] तत्र शक्तित्वेनैवांशत्वं व्यञ्जयन्ति स्वकृतपुरेऽप्यमीष्वबहिर्अन्तरसंवरणं तव पुरुषं वदन्त्यखिलशक्तिधृतोऽंशकृतम् । [भागवतम् १०.८७.२०] इति । अबहिर्अन्तरसंवर्णं बहिर्बहिरङ्गाणि कारणानि कार्याणि अन्तर् अन्तरङ्गानि तैरसंवरणं कार्यकारणैरसंस्पृष्टम् । अंशकृतम् अंशमित्यर्थः । अखिलशक्तिधृतः सर्वशक्तिधरस्येति विशेषणं जीव शक्तिविशिष्टस्यैव तव जीवोऽंशो न तु शुद्धस्येति गमयित्वा जीवस्य तच् छक्तिरूपत्वेनैवांशत्वमित्यनेनैवांशत्वमित्येतद्व्यञ्जयन्ति । अथ तटस्थत्वं च स यदजया त्यजामनुशयीतेत्यादौ व्यक्तमस्ति उभयकोटावप्रविष्टत्वादेव ॥ १०.८७ ॥ श्रुतयः श्रीभगवन्तम् ॥३९॥ [४०] अथ ज्ञानेच्छुं प्रति जीवेशयोरभेदमाह अहं भवान्न चान्यस्त्वं त्वमेवाहं विचक्ष्व भोः । न नौ पश्यन्ति कवयश् छिद्रं जातु मनागपि ॥ [भागवतम् ४.२८.६२] स्पष्टम् ॥ ४.२८ ॥ श्रीपरमात्मा पुरञ्जनम् ॥ ४० ॥ [४१] तत्र पूर्वोक्तरीत्या प्रथमं तावत्सर्वेषामेव तत्त्वानां परस्परानुप्रवेश विवक्षयैक्यं प्रतीयते इत्येवं शक्तिमति परमात्मनि जीवाख्यशक्त्य् अनुप्रवेशविवक्षैव तयोरैक्यपक्षे हेतुरित्यभिप्रैते श्रीभगवान् परस्परानुप्रवेशात् तत्त्वानां पुरुषर्षभम् । पौर्वापर्यप्रसङ्ख्यानं यथा वक्तुर्विवक्षितम् ॥ [भागवतम् ११.२२.७] टीका च अन्योन्यस्मिन्ननुप्रवेशाद्वक्तुर्यथा विवक्षितं तथा पूर्वा अल्पसङ्ख्या अपरा अधिकसङ्ख्या तयोर्भावः परुवापर्यं तेन प्रसङ्ख्यानं गणनमित्येषा ॥ ११.२२॥ श्रीभगवान् ॥ ४१ ॥ [४२] अथाव्यतिरेकेण चिद्रूपत्वाविशेषेणापि तयोरैक्यमुपदिशति पुरुषेश्वरयोरत्र न वैलक्षण्यमण्वपि । तद्अन्यकल्पनापार्था इति [भागवतम् ११.२२.११] । टीका च कथं तर्हि पञ्चविंशतिपक्षस्तत्राह पुरुषेति । वैलक्षण्यं विसदृशत्वं नास्ति द्वयोरपि चिद्रूपत्वात् । अतस्तयोरत्यन्तमन्यत्व कल्पनापार्था इत्येषा । अत्र सदृशत्वानन्यत्वाभ्यां तयोः शक्ति शक्तिमत्त्वं दर्शितम् । तेनाव्यतिरेकोऽपि ॥ ११.२१ ॥ श्रीभगवान् ॥४२॥ [४३] अथ भक्तीच्छुं प्रति तयोर्भेदमुपदिशति । यदा रहितमात्मानं भूतेन्द्रियगुणाशयैः । स्वरूपेण मयोपेतं पश्यन् स्वाराज्यमृच्छति ॥ [भागवतम् ३.९.३३] आत्मानं जीवं स्वरूपेण तस्या जीवशक्तेराश्रयभूतेन शक्तिमता मया उपेतं युक्तम् । स्वाराज्यं सार्ष्ट्यादिकम् ॥ ३.९ ॥ ग्रभोदशायी ब्रह्माणम् ॥४३॥ [४४] तत्र भेदे हेतुमाह अनाद्य्अविद्यायुक्तस्य पुरुषस्यात्मवेदनम् । स्वतो न सम्भवादन्यस् तत्त्वज्ञो ज्ञानदो भवेत् ॥ [भागवतम् ११.२२.१०] टीका च स्वतो न सम्भवति, अन्यतस्तु सम्भवात् । स्वतः सर्वज्ञः पर्मेश्वरोऽन्यो भवेदिति अड्विंशतितत्त्वपोअक्षाभिप्रायः इत्येषा । ज्ञानदत्वमत्र ज्ञानाज्ज्ञातुश्च वैलक्षण्यमीश्वरस्य बोधयत्येवेति भावः । एवं त्वत्तो ज्ञानं हि जीवानां प्रमोषस्तेऽत्र शक्तितः [भागवतम् ११.२२.२८] इत्युद्धववाक्यं चाग्रे । अत्र यदि जीवाज्ञानकल्पितमेव तस्य परमेश्वरत्वं स्यात्तर्हि स्थाणु पुरुषवत्तस्य ज्ञानदत्तमपि न स्यादित्यतः सत्य एव जीवेश्वरभेद इत्येवं श्रीमद्ईश्वरेणैव स्वयं तस्य पारमर्थिकेश्वराभिमानित्वेनैवास्तित्वं मूढान् प्रति बोधितमिति स्पष्टम् । भेदवादिनश्चात्रैव प्रकरणे यथा विविक्तं यद्वक्त्रं गृह्णीमो युक्तिसम्भवादित्यत्र परमविवेकजस्तु भेद एवेति । तथा, मायां मदीयामुदगृह्य वदतां किं नु दुर्घटमिति [भागवतम् ११.२२.४] च मन्यते । ननु, श्रुतिः प्रत्यक्षमैतिह्यमनुमानं चतुष्टयम् । प्रमाणेष्वनवस्थानाद्विकल्पान् स विरज्यते ॥ इत्य्[भागवतम् ११.१९.१७] अत्र भेदमात्रं निषिध्यते विकल्पशब्दस्य संशयार्थत्वात् । संशयं परित्यज्य वस्तुन्येव निष्ठा करोतीत्यर्थः । अतएव कर्मणां परिणामित्वादाविरिञ्च्यादमङ्गलम् । विपश्चिन्नश्वरं पश्येददृष्टम् अपि दृष्टवदित्यत्रास्योत्तरश्लोकेऽपि विरिञ्चमेवावधिं कृत्वा नश्वरत्व दृष्टिरुक्ता न तु वैकुण्ठादिकमपीति ॥ ११.१९ ॥ श्रीभगवान् ॥४४॥ [४५] अन्यत्रापि श्रीजामातृमुनिभिरुपदिष्टस्य जीवलक्षणस्यविओपजीव्यत्वेन तं लक्षयति त्रिभिः अहं ममाभिमानोत्थैः कामलोभादिभिर्मलैः । वीतं यदा मनः शुद्धम् अदुःखमसुखं समम् ॥ [भागवतम् ३.२५.१६] तदा पुरुष आत्मानं केवलं प्रकृतेः परम् । निरन्तरं स्वयंज्योतिर् अणिमानमखण्डितम् ॥ [भागवतम् ३.२५.१७] ज्ञानवैराग्ययुक्तेन भक्तियुक्तेन चात्मना । परिपश्यत्युदासीनं प्रकृतिं च हतौजसम् ॥ [भागवतम् ३.२५.१८] स्पष्टैव योजना । तवाहमिति पद्येन स आत्मा नित्यनिर्मल इति । आत्मानम् इत्यनेनैवाहमर्थ इति । अन्यथा ह्यात्मत्वप्रतीत्य्अभावः स्यात् । केवलमित्यनेनैकरूपस्वरूपभागिति । प्रकृतेः परमित्यनेन विकार रहितः । भक्तियुक्तेनेत्यनेन परमात्मप्रसादाधीनतत्प्रकाशत्वात् निरन्तरमित्यनेन नित्यत्वात्परमात्मैकशेषत्वमिति । स्वयं ज्योतिरित्य् अनेन स्वस्मै स्वयं प्रकाश इति ज्ञानमात्रात्मको न च इति च । अणिमानम् इत्यनेनाणुरेवेति प्रतिक्षेत्रं भिन्न इति च । अखण्डितमित्यनेन विच्छिन्न ज्ञानादिशक्तित्वात्ज्ञातृत्वकर्तृत्वभोक्तृत्वनिजधर्मक इति व्यञ्जितम् ॥ ३.२५ ॥ श्रीकपिलदेवः ॥४५॥ [४६] तथेदमपि प्राक्तनलक्षणाविरुद्धम् आत्मा नित्योऽव्ययः शुद्ध एकः क्षेत्रज्ञ आश्रयः । अविक्रियः स्वदृघेतुर् व्यापकोऽसङ्ग्यनावृतः ॥ [भागवतम् ७.७.१९] एतैर्द्वादशभिर्विद्वान् आत्मनो लक्षणैः परैः । अहं ममेत्यसद्भावं देहादौ मोहजं त्यजेत् ॥ [भागवतम् ७.७.२०] अव्ययः अपक्षयशून्यः । एको न तु देहेद्रियादिसङ्घातरूपः । क्षेत्रज्ञो ज्ञातृत्वादिधर्मकः । इन्द्रियादीनामाश्रयः । स्वाभाविकज्ञातृत्वाद् एवाविक्रियः । स्वदृक्स्वस्मै स्वयं प्रकाशः । हेतुः सर्गादिनिमित्तम् । तद् उक्तं श्रीसूतेन हेतुर्जीवोऽस्य सर्गादेरविद्याकर्मकारक [भागवतम् १२.७.१८] इति । व्यापको व्याप्तिशीलः । असङ्गी अनावृतश्च स्वतः प्रकाशरूपत्वात् । अहं ममेत्यसद्भावं देहादौ मोहजं त्यजेदिति देहाद्य्अधिकरणकस्य मोहजस्यैव त्यागो न तु स्वरूपभूतस्येत्यहम अर्थ इति । व्यज्जते । तद् एवं जीवस्तअद्अंशत्वात्सूक्ष्मज्योतीरूप इत्येके । तथैव हि कौस्तुभांशत्वेन व्यञ्जितम् । तथा च स्कान्दप्रभासखण्डे जीव निरूपणे न तस्य रूपं वर्णा वा प्रमाणं दृश्यते क्वचित् । न शक्यं कथितुं वापि सूक्ष्मश्चानन्तविग्रहः ॥ बालाग्रशतभागस्य शतधा कल्पितस्य च । तस्मात्सूक्ष्मतरो देवः स चानन्त्याय कल्प्य्ते ॥ आदित्यवर्णं सूक्ष्माभमब्बिन्दुमिव पुष्करे । नक्षत्रमिव पश्यन्ति योगिनो ज्ञानचक्षुषा ॥ इति ॥ ॥७.९॥ श्रीप्रह्लादोऽसुरबालकान् ॥४६॥ [४७] तदेवमनन्ता एव जीवाख्यास्तटस्थाः शक्तयः । तत्र तासां वर्ग द्वयम् । एको वर्गोऽनादित एव भगवद्उन्मुखः अन्यस्त्वनादित एव भगवत्पराङ्मुखः । स्वभावतस्तदीयज्ञानभावात्तदीय ज्ञानाभावाच्च । अत्र प्रथमोऽन्तरङ्गाशक्तिविलासानुगृहीतो नित्य भगवत्परिकररूपो गरुडादिकः । यथोक्तं पाद्मोत्तरखण्डे त्रिपाद् विभूतेर्लोकास्त्वित्यादौ भगवत्सन्दर्भोदाहृते (८१) । अस्य च तटस्थत्वं जीवत्वप्रसिद्धेरीश्वरत्वकोटावप्रवेशात् । अपरस्य तत् पराङ्मुखत्वदोषेण लब्धच्छिद्रया मायया परिभूतः संसारी । यथोक्तं हंसगुह्यस्तवे सर्वं पुमान् वेद गुणांश्च तज्ज्ञो न वेद सर्वज्ञमनन्तमीडे इति [भागवतम् ६.४.२५] । एकादशे च भयं द्वितीयाभिनिवेशतः स्यादिति [भागवतम् ११.२.३७] । तद्वर्गद्वयमेवोक्तं श्रीविदुरेणापि तत्त्वानां भगवंस्तेषां कतिधा प्रतिसङ्क्रमः । तत्रेमं क उपासीरन् क उ स्विदनुशेरते ॥ [भागवतम् ३.७.३७] इत्यनेन । तत्र परमेश्वरपराड्मुखानां शुद्धानामपि तच्छक्तिविशिष्टान् परमेश्वरात्सोपाधिकं जन्म भवति । तच्च जन्म निजोपाधिजन्मना निजज्नमाभिमानहेतुकाध्यात्मिकावस्थाप्राप्तिरेव । तदेतदाहुः न घटत उद्भवः प्रकृतिपुरुषयोरजयोर् उभययुजा भवन्यसुभृतो जलबुद्बुदवत् । त्वयि न इमे ततो विविधनामगुणैः परमे सरित इवार्णवे मधुनि लिख्युरशेषरसाः ॥ [भागवतम् १०.८७.३१] प्रकृतेस्त्रैगुण्यं पुरुषं शुद्धौ जीवस्तयोर्द्वयोरप्यजत्वादुद्भवो न घटते ये चासुभृत आध्यात्मिकरूपाः सोपाधयो जीवा जायन्ते तत्तद् उभयशक्तियुजा परमात्मनैव कारणेन जायन्ते प्रकृतिविकारप्रलयेण सुप्तवासनत्वात्शुद्धास्ताः परमात्मनि लीना जीवाख्याः शक्तयः सृष्टि काले विकारिणीं प्रकृतिमासृज्य क्ष्भितवासनाः सत्यः सोपाधिकावस्थां प्राप्नुवन्त्य एव व्युच्चरन्तीत्यर्थः । एतदभिप्रेत्यैव भगवानेक आसेदमित्य्[३.५.२३] आदि तृतीयस्कन्धप्रकरणे कालवृत्त्या तु मायायां गुणमय्यामधोक्षजः । पुरुषेणात्मभूतेन वीर्यमाधत्त वीर्यवान् ॥ [भागवतम् ३.५.२६] इत्यनेन वीर्यशब्दोक्तस्य जीवस्य प्रकृतावाधानमुक्तम् । एवं श्री गीतोपनिषत्स्वपि मम योनिर्महद्ब्रह्म तस्मिन् गर्भं दधाम्यहम् इत्य्[गीता १४.३] अत्रोक्तम् । टीकाकारैश्च ब्रह्मशब्देन प्रकृतिर्व्याख्याता गर्भशब्देन जीव इति । पुनरेष एव तृतीये दैवात्क्षुभितधर्मिण्यां स्वस्यां योनौ परः पुमान् । आधत्त वीर्यं सासूत महत्तत्त्वं हिरण्मयम् ॥ [भागवतम् ३.२६.१९] इत्यत्र वीर्यं चिच्छक्तिमिति टीकायां व्याख्यातमतः शक्तित्वमस्य टीका सम्मतम् । ततोऽकस्मादुद्भवमात्रांशे दृष्टान्तः । जलबुद्बुदवदिति । अतः पुनरपि प्रलयसमये इमे सोपाधिका जीवास्त्वयि बिम्बस्थानीय मूलचिद्रूपे रश्मिस्थानीयचिद्एकलक्षणशुद्धजीवशक्तिमये । तत एव स्वमपीतो भवतीत्यादि श्रुतौ स्वशब्दाभिधेये परमे परमात्मनि विविधनामगुणैर्विविधाभिर्देवादि संज्ञाभिर्विविधैः शुभाशुभ गुणैश्च सह लिल्युर्लीयन्ते । पूर्ववत्प्रलयेऽपि दृष्टान्तः सरित इवार्णव इति अशेषरसा इव मधुनि इति च । अत्र देवमनुष्यादिनामरूप परित्यागेन तस्मिन् लीनेऽपि स्वरूपभेदोऽस्त्येव तत्तद्अंशसद्भावादित्य् अभिप्रायः । अत्र श्रुतयः अजामेकामित्य्[श्वेतू ५.५] आदि । यथा नद्यः स्यन्दमानाः समुद्रे ऽस्तं गच्छन्ति नामरूपे विहाय । तथा विद्वान्नामरूपाद्विमुक्तः परात्परं पुरुषमुपैति दिव्यम् ॥ [ंुण्डू ३.२.८] इति । यथा सौम्येमा मधुकृतो निस्तिष्ठन्ति नानारूपाणां वृक्षाणां रसान् समवहारम् एकतां रसं गमयन्ति ॥ [Cहाऊ ६.९.१] ते यथा विवेकं न लभन्ते अमुषाहं वृक्षस्य रसोऽस्मीत्येवं खलु सौम्येमाः सर्वाः प्रजाः सति सम्पद्य न विदुः सति सम्पद्यामह इति ॥ इति [Cहाऊ ६.९.२] ॥ १०.८७ ॥ श्रुतयः श्रीभगवन्तम् ॥४७॥ [४८] तदेवं परमात्मनस्तटस्थाख्या शक्तिर्विवृता । अन्तराङ्गाख्या तु पूर्ववदेव ज्ञेया । अथ बहिरङ्गाख्या विव्रियते । एषा माया भगवतः सृष्टिस्थित्य्अन्तकारिणी त्रिवर्णा वर्णितास्माभिः किं भूयः श्रोतुमिच्छसि ॥ [भागवतम् ११.३.१८] भगवतः स्वरूपभूतैश्वर्यादेः । परमात्मन एषा तटस्थलक्षणेन पूर्वोक्ता जगत्सृष्ट्य्आदिकारिणी मायाख्या शक्तिः । त्रयो वर्णा यस्याः सा । तथा चाथर्वणिकाः पठन्ति । सितासिता च कृष्णा च सर्वकामदुघा विभोर् इति । उक्तं च दैवी ह्येषा गुणमयी मम माया दुरत्यया [गीता ७.१४] इति ॥११.३॥ अन्तरीक्षो विदेहम् ॥४८॥ [४९] तस्या मायायाश्चांशद्वयम् । तत्र गुणरूपस्य मायाख्यस्य निमित्तांशस्य द्रवरूपस्य प्रधानाख्यस्योपादानांशस्य च परस्परं भेदमाह चतुर्भिः । अथ ते सम्प्रवक्ष्यामि साङ्ख्यं पूर्वविनिश्चितम् । यद्विज्ञाय पुमान् सद्यो जह्याद्वैकल्पिकं भ्रमम् ॥ [भागवतम् ११.२४.१] टीका च अद्वितीयात्परमात्मनो मायया प्रकृतिपुरुषद्वारा सर्वं द्वैतमुदेति पुनस्तत्रैव लीयते इत्यनुसन्दधानस्य पुरुषस्य द्वन्द्व भ्रमो निवर्तते इति वक्तुं साङ्ख्यं प्रस्तौति अथ ते इत्येषा । अत्र प्रधान पर्यायः प्रकृतिशब्धः ॥४९॥ [५०] आसीज्ज्ञानमयो अर्थं एकमेवाविकल्पितम् । यदा विवेकनिपुणा आदौ कृतयुगे युगे ॥ [भागवतम् ११.२४.२] टीका च अथो शब्दः कार्त्स्न्ये । ज्ञानं द्रष्टृ । तेन दृश्यरूपः कृत्स्नोऽप्य् अर्थश्च विकल्पशून्यमेकमेव । ब्रह्मण्येव लीनमासीदित्यर्थः । इत्येषा । तृतीयस्कन्धे च भगवानेक आसेदमग्र आत्मात्मनां विभुरित्य्[भागवतम् ३.५.२३] आदौ यद्भगवत्त्वेन शब्द्यते तदेवात्र ब्रह्मत्वेन शब्द्यते इति वदन्तीत्यादिवदुभत्रैकमेव वस्तु प्रतिपाद्यम् । अन्ते तु एष साङ्ख्य विधिः प्रोक्त इत्यादौ परावरदृशा मयेत्यनेन भगवद्रूपेणाप्य् अवस्थितिः स्पष्टैव । कदेत्यपेक्षायामाह । यदा आदौ कृतयुगे विवेक निपुणा जना भवन्ति तस्मिन् युगे तत्पूर्वस्मिन् प्रलयसमय इत्य् अर्थः ॥५०॥ [५१] तन्मायाफलरूपेण केवलं निर्विकल्पितम् । वाङ्मनोगोचरं सत्यं द्विधा समभवद्बृहत् ॥ [भागवतम् ११.२४.३] टीका च तद्बृहद्ब्रह्म वाङ्मनोगोचरं यथा भवति तथा । माया दृश्यम् । फलं तत्प्रकाशः । तद्रूपेण मायारूपेण विलासरूपेण च द्विधाभूदित्येषा । अत्र माया दृश्यमिति फलं तत्प्रकाश इति छेदः । तेन ब्रह्मणा यद्दृश्यं वस्तु तन्माया । तस्य ब्रह्मणो यः प्रकाश विकाशः स फलमित्यर्थः ॥५१॥ [५२] तयोरेकतरो ह्यर्थः प्रकृतिः सोभयात्मिका । जानन्त्यन्यतमो भावः पुरुषः सोऽभिधीयते ॥ [भागवतम् ११.२४.४] टीका च तयोर्द्विधाभूतयोरंशयोर्मध्ये उभयात्मिका कार्यकारण रूपिणी । इत्येषा । श्रीविष्णुपुराणे विष्णोः स्वरूपात्परतो हि तेऽन्ये रूपं प्रधानं पुरुषश्च विप्र इत्य्[Vइড়् १.२.२४] अत्र तेषामेव टीका च परतो निरुपादेर्विष्णोः स्वरूपात्ते प्रागुक्ते प्रधानं पुरुषं चेति द्वे रूपे अन्ये मायाकृते इति ॥ ११.२४ ॥ भगवान् ॥५२॥ [५३] अन्यत्र तयोरुपादाननिमित्तयोरंशयोर्वृत्तिभेदेन भेदानप्याह कालो दैवं कर्म जीवः स्वभावो द्रव्यं क्षेत्रं प्राणमात्मा विकारः । तत्सङ्घातो बीजरोहप्रवाहस् तन्मायैषा तन्निषेधं प्रपद्ये ॥ [भागवतम् १०.६३.२६] टीका च कालः क्षोभकः । कर्म निमित्तं तदेव फलाभिमुखम् अभिव्यक्तं दैवम् । स्वभावस्तत्संस्कारः । जीवस्तद्वान् । द्रव्यं भूत सूक्ष्माणि । क्षेत्रं प्रकृतिः । प्राणः सूत्रम् । आत्मा अहङ्कारः । विकार एकादेशेन्द्रियाणि महाभूतानि चेति षोडशकः तत्सङ्घातो देहः । तस्य च बीजरोहवत्प्रवाहः । रोहोऽङ्कुरः । देहाद्बीजरूपं कर्म । ततोऽङ्कुर रूपो देहः । ततः पुनरेवमिति प्रवाहः । तं त्वां निषेधावधिभूतं प्रपद्ये भजे इति । इत्येषा । अत्र कालदैवकर्मस्वभावा निमित्तांशाः अन्ये उपादानांशास्तद्वान् जीवस्तूभयात्मकस्तथोपादानवर्गे निमित्तशक्त्य्अंशोऽप्यनुवर्तते । यथा जीवोपाधिलक्षणेऽहम्आख्ये तत्त्वे तदीयाहम् (अंह?)भावः स ह्य् अविद्यापरिणाम इत्यादि । यथोक्तं तृतीयस्य षष्ठे आत्मानं चास्य निर्भिन्नम् अभिमानोऽविशत्पदम् । कर्मणांशेन येनासौ कर्तव्यं प्रतिपद्यते ॥ [भागवतम् ३.६.२५] इति । अत्रात्मानमहङ्कारमभिमानो रुद्रः कर्मणाहंवृत्त्या इति टीका च । अत्र च यन्निर्भिन्नं तद्अधिष्ठात्नं वाग्आदीन्द्रियं तृतीयान्त मध्यात्ममिति प्रकरणनिर्णयष्टीकायामेव कृतोऽस्ति । बीजरूपत्वं कारणतामात्रविवक्षया । तदेवमत्रापि मूलमायायाः सर्वोपादानांशमूलभूतं क्षेत्रशब्दोक्तं प्रधानमप्यंशरूपम् इत्यधिगतम् । जीवस्तद्वानित्यनेन शुद्धजीवस्य मायातीतत्वं बोधयति ॥ १०.६२ ॥ ज्वरः श्रीभगवन्तम् ॥५२॥ [५४] अथ निमित्तरूपांशस्य प्रथमे द्वे वृत्ती आह विद्याविद्ये मम तनू विद्ध्युद्धव शरीरिणाम् । बन्धमोक्षकरी आद्ये मायया मे विनिर्मित्ते ॥ [भागवतम् ११.११.३] टीका च तन्येते बन्धमोक्षावावाभ्यामिति तनू शक्ती मे मायया विनिर्मिते । मायावृत्तिरूपत्वाद्बन्धमोक्षकरीत्येकवचनं द्वि वचनार्थे । ननु तत्कार्यत्वे बन्धमोक्षयोरनादित्वनित्यत्वे न स्यातां तत्राह आद्ये अनादी । ततो यावदविद्यां प्रेरयामि तावद्बन्धः यदा विद्यां ददामि तदा मोक्षः स्फुरतीत्यर्थः । इत्येषा । अत्र मायावृत्तित्वादिति वस्तुतो मायावृत्ती एव ते । विनिर्मितत्वं त्व् अपरानन्तवृत्तिकया तया प्रकाशमानत्वादेवोच्यते । यतोऽनादी इत्यर्थः । तथा स्फुरतीत्यस्य मोक्ष इत्यनेनैवान्वयः । जीवस्य स्वतो मुक्तत्वम् एव । बन्धस्त्वविद्यामात्रेण प्रतीतः । विद्योदये तु तत्प्रकाशते मात्रम् । ततो नित्य एव मोक्ष इति भावः । न च वाच्यमेषा मायेत्यादौ सामान्यलक्षणो मोक्षप्रदत्वं तस्या नोक्तमित्यसम्यअक्त्वमिति । अन्तकारित्वेनात्यन्तप्रलयरूपस्य मोक्षस्याप्युपलक्षितत्वात् । अत्र व्दियाख्या वृत्तिरियं स्वरूपशक्तिवृत्तिविशेषविद्याप्रकाशे द्वारमेव न तु स्वयमेव सेति ज्ञेयम् । अथाविद्याख्यस्य भागस्य देव वृत्ती । आवरणात्मिका विक्षेपात्मिका च । तत्र पूर्वा जीव एव तिष्ठन्ती तदीयं स्वाभाविकं ज्ञानमावृण्वाना । उत्तरा च तं तद्अन्यथाज्ञानेन सञ्चयन्ती वर्तत इति ॥ ११.११ ॥ श्रीभगवान् ॥५४॥ [५५] अत्र निमित्तांशस्त्वेवं विवेचनीयः । यथा निमित्तांशरूपया मायाख्ययैव प्रसिद्धा शक्तिस्त्रिधा दृश्यते ज्ञानेच्छाक्रियारूपत्वेन । तत्र तस्याः परमेश्वरज्ञानरूपत्वं यथा तृतीये । सा वा एतस्य संद्रष्टुः शक्तिः सद्असद्आत्मिका । माया नाम महाभाग ययेदं निर्ममे विभुः ॥ [भागवतम् ३.५.२५] इति । अस्य टीकायाम् । सा वै दृअष्टृदृश्यानुसन्धानरूपा । सहदृश्यमसद् दृश्यमात्मा स्वरूपम् । सद्असतीरात्मा यस्यास्तद्उभयानुसन्धान रूपत्वादिति । तद्इच्छारूपत्वं यथा तत्रैव । आत्मेच्छानुगतावात्मेत्य् अस्य टीकायाम् । आत्मेच्छा माया तस्यानुगतौ लये सतीति । तत्क्रियारूपत्वं चैकादशे एषा माया भगवत इत्युदाहृतवचने एव द्रष्टव्यम् । यद्यदि परमेश्वरस्य साक्षाज्ज्ञानादिकं न माया । किन्तु स्वरूपशक्तिरेव । तथापि तज्ज्ञानादिकं प्राकृते कार्ये न तद्अर्थं प्रवर्तते । किन्तु भक्तार्थमेव प्रवर्तमानमनुषङ्गेन्नैव प्रवर्तत इत्यग्रे विवेचनीयत्वात् । तत्प्रवृत्त्याभाससंवलितं यन्मायावृत्तिरूपं ज्ञानादिकमन्यत्तदेव तज्ज्ञानादिशब्देनोच्यते । तथाभूतं च तज् ज्ञानादिकं द्विविधम् । स्वभावसिद्धत्वात्केवलपरमेश्वरनिष्ठं तद्दत्तत्वात्जीवनिष्ठं च । तत्र प्रथमं द्रष्टृदृश्यानुसन्धान सिसृक्षाकालादिरूपं द्वितीयं विद्याविद्याभोगेच्छाकर्मादिरूपमिति । अथोपादानांशस्य प्रधानस्य लक्षणम् । यत्तत्त्रिगुणमव्यक्तं नित्यं सद्असद्आत्मकम् । प्रधानं प्रकृतिं प्राहुर् अविशेषं विशेषवत् ॥ [भागवतम् ३.२६.१०] यत्खलु त्रिगुणं सत्त्वादिगुणत्रयसमाहारस्तदेवाव्यक्तं प्रधानं प्रकृतिं च प्राहुः । तत्राव्यक्तसंज्ञत्वे हेतुरविशेषं गुणत्रयसाम्य रूपत्वादनभिव्यक्तविशेषमतएवाव्याकृतसंज्ञं चेति गमितम् । प्रधानसंज्ञत्वे हेतुः विशेषवत्स्वकार्यरूपाणां महद्आदिविशेषाणाम् आश्रयरूपतया तेभ्यः श्रेष्ठम् । प्रकृतिसंज्ञत्वे हेतुः । सद्असद् आत्मकं सद्असत्सु कार्यकारणरूपेषु महद्आदिषु कारणत्वादनुगत आत्मा स्वरूपं यस्य तत् । तथा नित्यं प्रलये कारणमात्रात्मनावस्थित सर्वांशत्वेन सृष्टिस्थित्योश्च पञ्चीकृतांशत्वेनाविकृतं स्वरूपं यस्य तादृशमिति ब्रह्मत्वं महद्आदिरूपत्वं च व्यावृत्तम् । ब्रह्मणो निर्गुणत्वात्महद्आदीनां चाव्यक्तापेक्षया कार्यरूपत्वात् । एवं च श्री विष्णुपुराणे अव्यक्तं कारणं यत्तत् प्रधानमृषिसत्तमैः । प्रोच्यते प्रकृतिः सूक्ष्मा नित्यं सद्असद्आत्मकम् ॥ अक्षय्यं नान्यदाधारम् अमेयमजरं ध्रुवम् । शब्दस्पर्शविहीनं तद् रूपादिभिरसंहितम् ॥ त्रिगुणं तज्जगद्योनिर् अनादिप्रभवाप्ययम् । तेनाग्रे सर्वमेवासीद् व्याप्तं वै प्रलयादनु ॥ इत्यादि [Vइড়् १.२.१९२१] । इदमेव प्रधानमनादेर्जगतः सूक्ष्मावस्थारूपम् अव्याकृताव्यक्ताद्य्अभिधं वेदान्तिभिरपि परमेश्वराधीनतया मन्यते तद्अधीनत्वादर्थवदित्य्[Vस्१.४.३] आदिन्यायेषु निषिध्यते तु साङ्ख्यवत् स्वतन्त्रतया आनुमानिकमप्येकेषामिति चेन्न शरीररूपकविन्यस्त गृहीतेर्दर्शयति च इत्यादिन्यायेषु [Vस्१.४.१] । श्वेताश्वतरोपनिषदि प्रधानशब्दश्च श्रूयते । प्रधानक्षेत्रज्ञपतिर्गुणेशः संसार बन्धस्थितिमोक्षहेतुरित्यादौ ॥३.२६॥ श्रीकपिलदेवः ॥५५॥ [५६] तदेवं सन्दर्भद्वये शक्तित्रयविवृतिः कृता । तत्र नामाभिन्नताजनित भ्रान्तिहानाय सङ्ग्रहश्लोकाः माया स्यादन्तरङ्गायां बहिरङ्गा च सा स्मृता । प्रधानेऽपि क्वचिद्दृष्टा तद्वृत्तिर्मोहिनी च सा । आद्ये त्रये स्यात्प्रकृतिश्चिच्छक्तिस्त्वन्तरङ्गिका । शुद्धजीवेऽपि ते दृष्टे तथेशज्ञानवीर्ययोः ॥ चिन्मायाशक्तिवृत्त्योस्तु विद्याशक्तिरुदीर्यते । चिच्छक्तिवृत्तौ मायायां योगमाया समा स्मृता ॥ प्रधानाव्याकृताव्यक्तं त्रैगुण्ये प्रकृतौ परम् । न मायायां न चिच्छक्तावित्याद्यूह्यं विवेकिभिः ॥ इति । अथ मायाकार्यं जगल्लक्ष्यते ततस्तेनानुविद्धेभ्यो युक्तेभ्योऽण्डमचेतनम् । उत्थितं पुरुषो यस्माद् उदतिष्ठदसौ विराट् ॥ [भागवतम् ३.२६.५१] एतदण्डं विशेषाख्यं क्रमवृद्धैर्दशोत्तरैः । तोयादिभिः परिवृतं प्रधानेनावृतैर्बहिः यत्र लोकवितानोऽयं रूपं भगवतो हरेः ॥ [भागवतम् ३.२६.५२] तेनेश्वरेणानुबिद्धेभ्यः क्षुभ्तेभ्यो महद्आदिभ्योऽण्डमचेतनम् उत्थितम् । यस्मादण्डासौ विराट्पुरुषस्तूदतिष्ठत् । भगवतः पुरुषस्य ॥ ३.२६ ॥ श्रीकपिलदेवः ॥५६॥ [५७] तदेवं भगवतो रूपमित्युक्तेस्तस्यापि प्राग्वद्अप्राकृतत्वमापतति । तन्निषेधायाह । अमुनी भगवद्रूपे मया ते ह्यनुवर्णिते । उभे अपि न गृह्णन्ति मायासृष्टे विपश्चितः ॥ [भागवतम् २.१०.३५] अमुनी अमू उपासनार्थं भगवत्यारोपिते जगद्आत्मके स्थूल सूक्ष्माख्ये विराठिरण्यगर्भापरपर्याये समष्टिशरीरे ये मया तुभ्यमनुवर्णिते ते उभे अपि विपश्चितो न गृह्णन्ति वस्तुतया नोपासते किं तर्हि तदीयबहिरङ्गाधिष्ठानतयैवेत्यर्थः । तदुक्तं वैष्णवे यदेतद्दृश्यते मूर्तम् एतज्ज्ञानात्मनस्तव । भ्रान्तिज्ञानेन पश्यन्ति जगद्रूपमयोगिनः ॥ इति [Vइড়् १.४.३९] । एतन्मूर्तं जगद्भ्रान्तिज्ञानेनैव तव रूपं जानन्तीत्यर्थः । श्रुतिश्च नेदं यदिदमुपासत इति । यदिदं जगदुपासते प्राणिनः नेदं ब्रह्मेति श्रीरामानुजभाष्यम् । अतएव न गृह्णन्तीत्यत्र हेतुर्माया सृष्टे न तु स्वरूपशक्तिप्रादुर्भाविते । अनेन चतुर्भुजादिलक्षणस्य साक्षाद्रूपस्य मायातीतत्वमपि व्यक्तम् । अत्रास्य जगतो मायामयस्य पुरुषरूपत्वे पुरुषगुणावताराणां विष्ण्व्आदीनां सत्त्वादिअमयास्तद् अंशा रूपाणीति ज्ञेयम् । तान्यपेक्ष्य चोक्तं मार्कण्डेये विष्णुः शरीरग्रहणमहमीशान एव च । कारितास्ते यतोऽतस्त्वां कः स्तोतुं शक्तिमान् भवेत् ॥ इति । शरीरशब्दस्य तत्तन्निजशरीरवाचित्वे तु तद्ग्रहणात्पूर्वं विष्ण्व्आदि भेदासम्भवात्तन्निर्देशानुपपत्तेः ॥ २.१० ॥ श्रीशुकः ॥ ५७ ॥ [५८] पूर्वं मायासृष्टे इत्युक्तम् । तत्र मायाशब्दस्य नाज्ञानार्थत्वम् । तद् वादे हि सर्वमेव जीवादिद्वैतमज्ञानेनैव स्वस्वरूपे ब्रह्मणि कल्प्यते इति मतम् । निरहङ्कारस्य केनचिद्धर्मान्तरेणापि रहितस्य सर्व विलक्षणस्य चिन्मात्रस्य ब्रह्मणस्तु नाज्ञानाश्रयत्वं न चाज्ञान विषयत्वं न च ब्रह्महेतुत्वं सम्भवतीति । परमालौकिकवस्तुत्वाद् अचिन्त्यशक्तित्वं तु सम्भवेत् । यत्खलु चिन्तामण्य्आदावपि दृश्यते,यता त्रिदोषघ्नौषधिवत्परस्परविरोधिनामपि गुणानां धारिण्या तस्य निरवयवत्वादिके सत्यपि सावयवत्वादिकमङ्गीकृतम् । तत्र शब्दश्चास्ति प्रमाणम् । विचित्रशक्तिः पुरुषः पुराणः चान्वेषां शक्तयस्तादृशः स्युर् इत्यादिकाः श्वेताश्वतरोपनिषद्आदौ । आत्मेश्वरोऽतर्क्यसहस्रशक्तिरित्य् [भागवतम् ३.३३.३] आदिकः श्रीभागवतादिषु । तथा च ब्रह्मसूत्रम् आत्मनि चैवं विचित्राश्च हि इति [Vस्. २.१.२८] । तत्र द्वैतान्यथानुपपत्त्यापि ब्रह्मण्य्अज्ञानादिकं कल्पयितुं न शक्तये असम्भवादेव । ब्रह्मण्यचिन्त्यशक्तिसद्भावस्य युक्तिलब्धत्वात् श्रुतत्वाच्च द्वैतान्यथानुपपत्तिश्च दूरे गता । ततश्चाचिन्त्यशक्तिरेव द्वैतोपपत्तीकारणं पर्यवसीयते । तस्मान्निर्विकारादिस्वभावेन सतोऽपि परमात्मनोऽचिन्त्यशक्त्या विश्वाकारत्वादिना परिणामादिकं भवति चिन्तामण्य्अयस्कान्तादीनां सर्वार्थप्रसवलोहचालवादिवत् । तदेतद् अङ्गीकृतं श्रीबादरायणेन श्रुतेस्तु शब्दमूलत्वादिति [Vस्२.१.२७] । ततस्तस्य तादृशशक्तित्वात्प्राकृतवन्मायाशब्दस्येन्द्रजालविद्या वाचित्वमपि न युक्तम् । किन्तु मीयते विचित्रं निर्मीयतेऽनयेति विचित्रार्थ करशक्तिवाचित्वमेव । तस्मात्परमात्मपरिणाम एव शास्त्र सिद्धान्तः । तदेतच्च भगवत्सन्दर्भे विवृतमस्ति । तत्र चापरिणतस्यैव मतोऽचिन्तया शक्त्या परिणाम इत्यासौ सन् मात्रतावभासमानस्वरूपव्यूहरूपद्रव्याख्यशक्तिरूपेणैव परिणमते न तु स्वरूपेणेति गम्यते । यथैव चिन्तामणिः । अतस्तन् मूलत्वान्न परमात्मोपादानतासम्प्रतिपत्तिभङ्गः । तदुक्तम् एकादशे श्रीभगवता प्रकृतिर्यस्योपादानम् आधारः पुरुषः परः । सतोऽभिव्यञ्जकः कालो ब्रह्म तत्त्रितयस्त्वहम् ॥ [भागवतम् ११.२४.१९] इति । अतएव क्वचिदस्य ब्रह्मोपादानत्वं क्वचित्प्रधानोपादानत्वं श्रूयते । तत्र सा मायाख्या परिणामशक्तिश्च द्विविधा वर्ण्यते । निमित्तांशो माया उपादानांशः प्रधानमिति । तत्र केवला शक्तिर्निमित्तं तद्व्यूहमयी तूपादानमिति विवेकः । अतएव श्रुतावपि विज्ञानं चाविज्ञानं चेति [टैत्तू २.६.१] कस्च्यचिद्भागस्याचेतनता श्रूयते । अथ मूलप्रमाणे श्रीभागवतेऽपि तृतीयादौ मुख्य एव सृष्टिप्रस्तावे च ज्ञानवैराग्याङ्गत्वेन च पुर्णान्तरगतिसामान्यसेवितः प्रधान परिणाम एव स्फुटमुपलभ्यते । क्व च स्तुत्य्आदौ ज्ञान वैराग्याङ्गतयैव विवर्तोऽपि यः श्रूयते सोऽपि जगतो नान्यथासिद्धतापरः किन्तु परमात्मयूहप्रधानपरिणामेन सिद्धस्यैव तस्य समष्टि व्यष्टिरूपस्य यथायथं शुद्धे परमात्मनि तद्अंशरूपात्मनि वात्मात्मीयताध्यारोपितापरः । तत्र परमात्मनि विराद्धुपासनावाक्यादिश्रवणं हेतुरात्मनि तु तत् तद्आवेशो हेतुरिति विवेचनीयम् । अन्यत्र सिद्धस्य वस्तुन एवान्यत्रारोपो मिथ्याखपुष्पादेरारोपासम्भवात्पूर्वपूर्वविवर्तमात्र सिद्धानादिपरम्परात्वे दृष्टान्ताभावाच्च । किं च पूर्वं वारिदर्शनाद् वार्य्आकारा वृत्तिर्जातापि तद्अप्रसङ्गसमये सुप्ता तिष्ठति तत्तुल्यवस्तु दर्शनेन तु जागर्ति, तद्विशेषानुसन्धानं विना तद्अभेदेन स्व तन्त्रारोपयति तस्मान्न वारि मिथ्या, न वा स्मरणमयी तद्आकारा वृत्तिर्, न वा तत्तुल्यं मरीचिकादि वस्तु किन्तु तद्अभेदेनारोप एवायथार्थत्वान् मिथ्या । स्वप्ने च मायामात्रं तु कार्त्स्न्येनानभिव्यक्तस्वरूपत्वादिति न्यायेन [Vस्३.२.३] जाग्रद्दृष्टवस्त्व्आकारायां मनोवृत्तौ परमात्म माया तद्वस्त्व्अभेदमारोपयतीति पूर्ववत् । तस्माद्वस्तु तस्य न क्वचिद् अपि मिथ्यात्वम् । शुद्ध आत्मनि परमात्मनि वा तादृशतद्आरोप एव मिथ्या न तु विश्वं मिथ्येति । ततो जगतः परमात्मजातत्वेन साक्षात्तद् आत्मीयत्वाभावादबुधानामेव तत्र शुद्धे तत्तद्बुद्धिः । यद्यपि शुद्धाश्रयमेव जगत्तथापि जगता तत्संसर्गो नास्ति । तदुक्तम् असक्तं सर्वभृच्चैव इति गीतासु [गीता १३.१४] । तथा देहगेहादाव् आत्मात्मीयताज्ञानं तेषामेव स्यादित्युभयत्रैवारोपः शास्त्रे श्रूयते । यथा यदेतद्दृश्यते मूर्तमित्य्[Vइড়् १.४.३९] आदिकं विष्णुपुराणे । यथा वा त्वामात्मानं परं मत्वा परमात्मानमेव च । आत्मा पुनर्बहिर्मृग्य अहो अक्षजनाज्ञता ॥ इति [भागवतम् १०.१४.२७] । त्वामात्मानं सर्वेषां मूलरूपं परमितरं तद्विपरीतं मत्वा तथा परमितरं जीवमेव च मूलरूपात्मानं मत्वा साङ्ख्यविद इव तस्य तथा मन्यमानस्य पुनः स जीवात्मा बहिर्मृग्यो भवति । तस्य तेनैव हेतुना लब्धच्छिद्रया मायया देहात्मबुद्धिः कार्यत इत्यर्थः । अहो अज्ञजनताया अज्ञता क्रमाज्ज्ञानभ्रंश इत्यर्थः । तदुक्तं हंस गुह्यस्तवे देहोऽसवोऽक्षा मनवो भूतमात्राम् आत्मानमन्यं च विदुः परं यत् । सर्वं पुमान् वेद गुणांश्च तज्ज्ञो न वेद सर्वज्ञमनन्तमीडे ॥ [भागवतम् ६.४.२५] इति । तथा श्रीभगवद्उद्धवसंवादे आत्मा परिज्ञानमयो विवादो ह्यस्तीति नास्तीति भिदात्मनिष्ठः । व्यर्थोऽपि नैवोपरमेत पुंसां मत्तः परावृत्तधियां स्वलोकात् ॥ इति [भागवतम् ११.२२.३४] किं च विवर्तस्य ज्ञानादिप्रकरणपठित्वेन गौणत्वात्परिणामस्य तु स्वप्रकरणपठितत्वेन मुख्यत्वात्ज्ञानाद्य्उभयप्रकरण पठितत्वेन सद्अंशन्यायसिद्धप्राबल्याच्च परिणाम एव श्री भागवततात्पर्यमिति गम्यते । तच्च भगवद्अचिन्त्यैश्वर्यज्ञानार्थं मिथ्यात्वाभिधानं तु नश्वरत्वाभिधानवत्विश्वस्य परमात्म बहिर्मुखत्वापादकत्वाद्धेयताज्ञानमात्रार्थं न तु वस्त्वेव तन्न भवतीति जीवेशस्वरूपैक्यज्ञानमात्रार्थं वैधर्म्याच्च न स्वप्नादिवत्[Vस्२.२.२९] इति न्यायेन । तथा च नारदीये जगद्विलापयामासुर् इत्युच्येताथ तत्स्मृतेः । न च तत्स्मृतिमात्रेण लयो भवति निश्चितम् ॥ इति । तत्र मुख्य एव सृष्टिप्रस्तावे प्रधानपरिणाममाह कालवृत्त्या तु मायायां गुणमय्यामधोक्षजः । पुरुषेणात्मभूतेन वीर्यमाधत्त वीर्यवान् ॥ [भागवतम् ३.५.२६] ततोऽभवन्महत्तत्त्वम् अव्यक्तात्कालचोदितात् । विज्ञानात्मात्मदेहस्थं विश्वं व्यञ्जंस्तमोनुदः ॥ [भागवतम् ३.५.२७] भगवानेक आसेदमिति [भागवतम् ३.५.२३] प्राक्तनानन्तरग्रन्थादधोक्षजो भगवान् पुरुषेण प्रकृतिद्रष्ट्र्आत्मभूतेन स्वांशेन द्वारभूतेन कालो वृत्तिर्यस्यास्तया मायया निमित्तभूतया गुणमय्यां मायायाम् अव्यक्ते वीर्यं जीवाख्यमाधत्त । हन्तेमास्तिस्रो देवता इत्यादिश्रुतेः । विज्ञानात्मैव महत्तत्त्वम् । तमोनुदः प्रल्यगताज्ञानध्वंस कर्ता ॥ ३.५ ॥ श्रीमैत्रेयः ॥ ५८ ॥ [५९] ज्ञानाद्य्अङ्गत्वेऽप्याह एको नारायणो देवः पूर्वसृष्टं स्वमायया । संहृत्य कालकलया कल्पन्त इदमीश्वरः ॥ एक एवाद्वितीयोऽभूदात्माधारोऽखिलाश्रयः । कालेनात्मानुभावेन साम्यं नीतासु शक्तिषु । सत्त्वादिष्वादिपुरुषः प्रधानपुरुषेश्वरः ॥ परावराणां परम आस्ते कैवल्यसंज्ञितः । केवलानुभवानन्दसन्दोहो निरुपाधिकः ॥ केवलात्मानुभावेन स्वमायां त्रिगुणात्मिकाम् । सङ्क्षोभयन् सृजत्यादौ तया सूत्रमरिन्दम ॥ तामाहुस्त्रिगुणव्यक्तिं सृजन्तीं विश्वतोमुखम् । यस्मिन् प्रोतमिदं विश्वं येन संसरते पुमान् ॥ यथोर्णनाभिर्हृदयादूर्णां सन्तत्य वक्त्रतः । तया विहृत्य भूयस्तां ग्रसत्येवं महेश्वरः ॥ [भागवतम् ११.९.१६२१] कालः कला यस्यास्तया स्वाधीनतया मायया । श्रुतिश्च यथोर्णनाभिः सृजते गृह्णते च यथा पृथिव्यामोषधयः संभवन्ति । यथा सतः पुरुषात्केशलोमानि तथाऽक्षरात्संभवतीह विश्वम् ॥ इति [ंुण्डू १.१.७] ॥ ११.९ ॥ श्रीदत्तात्रेयो यदुम् ॥ ५९ ॥ [६०] तदेवं सूक्ष्मचिद्अचिद्वस्तु रूपशुद्धजीवाव्यक्तशक्तेः परमात्मनः स्थूलचेतनाचेतनवस्तुरूपाण्याध्यात्मिकजीवादिपृथिव्य् अन्तानि जायन्त इत्युक्तम् । ततः केवलस्य परमात्मनो निमित्तत्वं शक्ति विशिष्टस्योपादानत्वमित्युभयरूपतामेव मन्यन्ते । प्रकृइतिं च प्रतिज्ञा दृष्टान्तानुरोधादित्यादौ । तदेवं तस्य सदा शुद्धत्वमेव । तत्र शक्तेः शक्तिमद्अव्यतिरेकादननयत्वमुक्तम् । तथा सत्कार्य वादाङ्गीकारे स्वान्तः स्थितस्वधर्मविशेषाभिव्यक्तिलब्धविकाशेन कारणस्यैवांशेन कार्यत्वमित्येवं वाचारम्भणं विकारो नामधेयं मृत्तिकेत्येव सत्यमित्यादिश्रुइत्सिद्धं कार्यस्य कारणादन्यत्वं कारणस्य तु कार्यादन्यत्वमित्यायाति । तदेवं जगत्कारणशक्तिविशिष्टात्परमात्मनोऽनन्यदेवेदं जगतस्त्व् अभावन्य एवेत्याह इदं हि विश्वं भगवानिवेतरो यतो जगत्स्थाननिरोधसम्भवाः तद्धि स्वयं वेद भवांस्तथापि ते प्रादेशमात्रं भवतः प्रदर्शितम् ॥ [भागवतम् १.५.२०] इदं विश्वं भगवानिव भगवतोऽनन्यदित्यर्थः । तस्मादितरस् तटस्थाख्यो जीवश्च स इवेति पूर्ववत् । अतएव एतद्आत्म्यमिदं सर्वमिति सर्वं खल्विदं ब्रह्मेति श्रुत्ः । यतो भगवतः । भवतो भवन्तं प्रति प्रदेशमात्रं किञ्चिन्मात्रं दर्शितमित्यर्थः ॥ १.५ ॥ श्रीनारदः श्री व्यासम् ॥ ६० ॥ [६१] स्पष्टमेवाह सोऽयं तेऽभिहितस्तात भगवान् विश्वभावनः । समासेन हरेर्नान्यद् अन्यस्मात्सद्असच्च यत् ॥ [भागवतम् २.७.५०] सोऽयं समासेन सङ्क्षेपेणाभिहितः । कथं तटस्थलक्षणेनैवेत्याह । सत्कार्यं स्थूलमशुद्धजीवजगद्आख्यं चेतनाचेतनं वस्तु । असत् करणं सूक्ष्मं शुद्धजीवप्रधानाख्यं चिद्अचिद्वस्तु च यत्तत्सर्वं हरेरन्यन्न भवति सूक्ष्मस्य तच्छक्तिरूपत्वात्स्थूलस्य तत्कार्य रूपत्वादिति भावः । इदमेव श्रीहंसदेवेनोक्तं अहमेव न मत्तोऽन्यदिति बुध्यध्वमञ्जसा इति [भागवतम् ११.१३.२४] । जगतस्तद्अनन्यत्वेऽपि शुद्धस्य तस्य तद्दोषसाङ्कर्यं नास्तीत्याह अन्यस्मादिति ॥ २.७ ॥ श्री ब्रह्मा श्रीनारदम् ॥६१॥ [६२] तत्रानन्यत्वे युक्तिं विवृणोति पञ्चभिः आदावन्ते जनानां सद् बहिरन्तः परावरम् । ज्ञानं ज्ञेयं वचो वाच्यं तमो ज्योतिस्त्वयं स्वयम् ॥ [भागवतम् ७.१५.५७] जनानां देहादीनामादौ कारणत्वेन अन्ते चावधित्वेन यत्परमात्म लक्षणं सर्वकारणं वस्तु सद्वर्तमानं तदेव स्वयं बहिर्भोग्यं अन्तभोक्तृ परवरं चोच्चनीचं तमोऽप्रकाशः ज्योतिः प्रकाशश्च स्फुरति नान्यत् । अन्यस्य तद्विना स्वतः स्फुरणानिरूप्यत्वादिति भावः । [६३] ननु कथं तर्हि तस्मादत्यन्तपृथगिवाथजातं प्रतीयते तत्राह आबाधितोऽपि ह्याभासो यथा वस्तुतया स्मृतः । दुर्घटत्वादैन्द्रियकं तद्वदर्थविकल्पितम् ॥ [भागवतम् ७.१५.५८] आबाधितस्तर्कविरोधेन सर्वतो बाधितः स्वातन्त्र्यसत्तायाः सकाशान् निरस्तोऽपि यथा आभासः सूर्यादिप्रतिरश्मिर्बालादिभिः पृथक्प्रकाशम् आनतादर्थनाद्वस्तुतया स्वतन्त्रपदार्थतया स्मृतः कल्पितः तद्वद् ऐन्द्रियक सर्वं मूढैः स्वतन्त्रार्थत्वेन विविधं कल्पितं तत्तु न तत्त्वदृष्ट्या स्वातन्त्र्यनिरूपणस्य दुर्घटत्वादित्यर्थः । [६४] तदेवाह द्वाभ्याम् क्षित्य्आदीनामिहार्थानां छाया न कतमापि हि । न सङ्घातो विकारोऽपि न पृथङ्नान्वितो मृषा ॥ [भागवतम् ७.१५.५९] क्षित्य्आदीनां पञ्चभूतानां छाया ऐक्यबुद्ध्यालम्बनरूपं देहादि सङ्घातारम्भपरिणामानां मध्ये कतमाप्यन्यतमापि न भवति । न तावत्तेषां सङ्घातो वृक्षाणामिव वनमेकदेशाकर्षणे सर्वाकर्षणानुपपत्तेः । न ह्येकस्मिन् वृक्ष आकृष्टे सर्वं वनम् आकृष्यते । न च विकारः आरब्धोऽवयवी । अपिशब्दात्परिणामोऽपि । कुतः । किमवयवेभ्यः पृथगारभ्यते परिणमते च तद्अन्वितो वा । न तावद् अत्यन्तं पृथक्तथा अप्रतीतेः । न चान्वितः । स किं प्रत्यवयवमन्वेति अंशेन वा । आद्ये अङ्गुलिमात्रेऽपि देहबुद्धिः स्यात् । द्वितीये तस्याप्य् अंशाङ्गीकारे सत्यनवस्थापातः स्यात् । अतो देहादेः स्वातन्त्र्येणावस्थितिर् मृषैवेति । [६५] एवं देहादेः स्वातन्त्र्येणानिरूप्यत्वमुक्त्वा तद्धेतूनां क्षित्य्आदीनाम् अपि तथैवानिरूप्यत्वमाह धातवोऽवयवित्वाच्च तन्मात्रावयवैर्विना । न स्युर्ह्यसत्यवयविन्य् असन्नवयवोऽन्ततः ॥ [भागवतम् ७.१५.६०] धारयन्तीति । धातवो महाभूतानि तन्मात्रैः सूक्ष्मैरवयवैर्विना न स्युः । अवयवित्वात्तेषामपि । तर्ह्यवयव एव स्वतन्त्र इति चेत्तत्राह उक्त प्रकारेणावयविनि निरूपयितुमसति अवयवोऽप्यन्ततो निरूपयितुमसन्निव स्यात् । अवयविप्रतीत्य्अन्यथानुपपत्तिं विना परमाणुलक्षणावयवसद् भावे प्रमाणाभावादित्यर्थः । तदुक्तं पञ्चमे एवं निरुक्तं क्षितिशब्दवृत्तमित्य्[भागवतम् ५.१२.९] आदि । तस्मादैक्य बुद्ध्यालम्बनरूपं यत्प्रतीयते तत्सर्वत्र परमात्मलक्षणं सर्व कारणं वस्त्वेवेति साधूक्तमादावन्ते जनानां सदित्यादिना । एवमेव तृतीयेऽप्युक्तम् इति तासां स्वशक्तीनां सतीनामसमेत्य सः । प्रसुप्तलोकतन्त्राणां निशाम्य गतिमीश्वरः ॥ कालसंज्ञा ततो देवीं विभ्रच्छक्तिमुरुक्रमः । त्रयोविंशतित्तत्त्वानां गणं युगपदाविशत् ॥ सोऽनुप्रविष्टो भगवांश्चेष्टारूपेण तं गणम् भिन्नं संयोजयामास सुप्तं कर्म प्रबोधयन् ॥ इति [भागवतम् ३.६.१३] अतएव यस्य पृथिवी शरीरमित्यादिश्रुतौ [Bऋहदू ३.७.३] सर्वस्य परमात्मशरीरत्वेन प्रसिद्धिः परमात्मनस्तु शरीरत्वेन । तदेवम् अवयवरूपेण प्रधानपरिणामः सर्वत्रावयवी तु परमात्मवस्त्वेवेति सिद्धम् । ततोऽप्यमिथ्यात्वमेव जगत उपपद्येत ॥ [६६] ननु यदि परमात्मवस्त्वेव सर्वत्रावयवी देहः स्यात्ततश्च तत्रैव ब्राह्मणत्वादिसंज्ञाप्राप्ते गुणदोषहेतू विधिनिषेधावपि स्याताम् । तौ च न सम्भवतः । तस्मादन्य एवावयवी युज्यते । इत्याशङ्क्याह स्यात्सादृश्यभ्रमस्तावद् विकल्पे सति वस्तुनः । जाग्रत्स्वापौ यथा स्वप्ने तथा विधिनिषेधता ॥ [भागवतम् ७.१५.६१] वस्तुनः परमात्मनो विकल्पे संशये सतीति तस्य तादृशत्वेन निर्णयो यावन् न स्यातित्यर्थः । तावदेव तस्मात्सर्वैक्यबुद्धिनिदानात्पृथग् देहैक्यबुद्धिः सादृश्यभ्रमः स्यात् । पूर्वापरावयवानुसन्धाने सति परस्परमासज्यैकत्र स्थितत्वेनावयवत्वसाधारण्येन चैक्यसादृश्यात् प्रत्यवयवमेकतया प्रतीतेः । सोऽयं देह इति भ्रम एव भवतीत्यर्थः । प्रतिवृक्षं तदिदं वनमितिवत् । यथोक्तं स्वयं भगवता सोऽयं दीपोऽर्चिषां यद्वत्स्रोतसां तदिदं जलम् । सोऽयं पुमानिति नॄणां मृषा धीर्गोर्मृषायुषाम् ॥ इति [भागवतम् ११.२२.४५] । ततश्च तत्रैव ब्राह्मणत्वाद्य्अभिमाने सति स्वप्नवैषयकौ जाग्रत् स्वप्नाविव तद्विषयकौ विधिनिषेधौ स्यातामित्याह जाग्रदिति । तथा तेन प्रकारेण विधेर्विधिता निषेधस्य निषेधतेत्यर्थः । एवं परस्वभावकर्मणि न प्रशंसेन्न गर्हयेत् । विश्वमेकात्मकं पश्यन् प्रकृत्या पुरुषेण च ॥ [भागवतम् ११.२८.१] इत्यादिरेकादशाष्टविंशतितमाध्यायो ज्ञेयः । तत्र च किं भद्रं किम् अभद्रं वा द्वैतस्यावस्तुनः कियदित्यादिकं स्यात्सादृश्यभ्रमस्तावद् इत्याद्य्अनुसारेणैव व्याख्येयम् । अवस्तु यद्द्वैतं तस्येत्यर्थः । तस्मात् स्वातन्त्र्येण निरूपणाशक्त्या परमात्मनो ‘नन्यदेव सर्वमिति प्रकरणार्थः ॥ ॥७.१५ ॥ श्रीनारदः श्रीयुधिष्ठिरम् ॥ ६६॥ [६७] अत आह त्वं वायुरग्निरवनिर्वियदम्बु मात्राः प्राणेन्द्रियाणि हृदयं चिदनुग्रहश्च । सर्वं त्वमेव सगुणो विगुणश्च भूमन् नान्यत्त्वदस्त्यपि मनोवचसा निरुक्तम् ॥ [भागवतम् ७.९.४८] हृदयमन्तर्इन्द्रियं मनो बुद्ध्याहङ्कारचित्तात्मकं, चित्शुद्दो जीवः । अनुग्रहः स्वसम्मुखीकरणशक्तिः । किं बहुना सगुणो मायिकः विगुणश्चामायिकः सर्वार्थस्त्वमेवेति ॥ ७.९ ॥ श्रीप्रह्लादः श्री नृसिंहम् ॥६७॥ [६८] अथ तस्य मायाशक्तिकार्यमायाजीवेभ्योऽन्यत्वं च स्पष्टयति यथोल्मुकाद्विस्फुलिङ्गाद् धूमाद्वापि स्वसम्भवात् । अप्यात्मत्वेनाभिमताद् यथाग्निः पृथगुल्मुकात् ॥ [भागवतम् ३.२८.४०] भूतेन्द्रियान्तःकरणात् प्रधानाज्जीवसंज्ञितात् । आत्मा तथा पृथग्द्रष्टा भगवान् ब्रह्मसंज्ञितः ॥ [भागवतम् ३.२८.४१] अयमर्थः । स्वसम्भवात्स्वोपादानकारणातुल्मुकात्काष्ठमुष्ट्य् उपाधिकात् । अग्नेर्हेतोर्या विस्फुलिङ्गो यश्च धूमस्तस्मात्तस्माद्यथा तत्तद्उपादानमग्निः पृथग्यथा च तस्मादुल्मुकात्तद्उपादान, असाव् अग्निः पृथक् । कीदृशादपि तत्त्रयादप्यात्मत्वेनाभिमतात्नापकतया धूमेऽग्न्य्अंशसद्भावेनाग्निस्वरूपतया प्रतीतादपि तथा विस्फुलिङ्ग स्थानीयाज्जीवसंज्ञिताज्जीवातुल्मुकस्थानीयात्प्रधानात् प्रधानोपाधिकभगवत्तेजसः धूमस्थानीयाद्भूतादेः सर्वोपादान रूपो भगवान् पृथक् । य एवात्मा स्वांशेन तत्तद्अन्तर्यामितया परमात्मा । क्वचिदधिकारिणि निर्विशेषचिन्मात्रतया स्फुरन् ब्रह्म संज्ञितश्च । यत एव द्रष्टा तेषामादिमध्यान्तावस्था साक्षीति ॥ ३.२८ ॥ श्रीकपिलदेवः ॥६८॥ [६९] तत्र येषां मनः परमात्मनि नास्ति, ते परमात्मात्मके जगत्यसदंशम् एव गृह्णन्ति, ये तु परमात्मविदस्ते सद्अंशमेव गृह्णन्तीत्याहुर् भागवताः । सदिव मनस्तिर्वृत्त्वयि विभात्यसदामनुजात् सदभिमृशन्त्यशेषमिदमात्मतयात्मविदः । न हि विकृतिं त्यजन्ति कनकस्य तद्आत्मतया स्वकृतमनुप्रविष्टमिदमात्मतयावसितम् ॥ [भागवतम् १०.८७.२६] त्वय्यसदवर्तमानं यन्मनस्तत्खलु त्रिवृत्त्रिगुणकार्ये जगति वर्तमानं सत्त्वयि सदिव वर्तमानमिव विभाति । दर्वीसूपरस न्यायेन स्वावगाढे जगति सतोऽपि परमात्मनो ग्रहणाभावात् । न तु वर्तमानमेव विभातीत्यर्थः । अतएवासद्अंशस्य त्रिगुणमायामयत्वं मनोमयत्वं चोक्तम् यदिदं मनसा वाचा चक्षुर्भ्यां श्रवणादिभिः । नश्वरं गृह्यमाणं च विद्धि मायामनोमयम् ॥ इति । [भागवतम् ११.७.७] ये त्वात्मविदस्त्वद्धेतोरअस्ते आमनुजात्सोपाधिकजीवस्वरूपम् अभिव्याप्य इदमशेषं जगदेव आत्मतया त्वद्रूपतया सदभिमृशन्ति तेषां सद्अंश एव दृष्टिर्नान्यत्रेत्यर्थः । तत्र दृष्टान्तः न हि विकृतमिति । तेषां कनकमात्रं मृगयमानानां कनकवणिजां हि कनकविकारे सुन्दरकुरूपाकारतायां दृष्टिर्नास्ति । शुद्धकनकमात्रगृआहित्वात्तथात्मविदामपीति भावः । दार्ष्टान्तिकेऽपि तद्आत्मत्वे हेतुत्रयमाहुः इदं जगत्स्वेन सच्छक्ति विशिष्टेन उपादानरूपेण त्वया कृतं पश्चात्सिद्धेऽपि कार्ये कारणांश व्यभिचारितयान्तर्यामितया च स्वेन त्वया प्रविष्टं पुनः प्रलयेऽप्य् आत्मतया सच्छक्तिविशिष्टसद्रूपतयैवावसितं चेति । एवं दृष्टान्तेऽपि विवेचनीयम् । तदेतत्सर्वमभिप्रेत्योक्तं वैष्णवे ज्ञानस्वरूपमखिलं जगदेतदबुद्धयः । अर्थस्वरूपं पश्यन्तो भ्राम्यन्ते मोहसम्प्लवे ॥ ये तु ज्ञानविदः शुद्ध चेतसस्तेऽखिलं जगत् । ज्ञानात्मकं प्रपश्यन्ति त्वद्रूपं परमेश्वर ॥ इति ॥ [Vइড়् १.४.४०४१] ॥१०.८७॥ श्रुतयः ॥६९॥ [७०] तदेवं परिणामादिकं साधितम् । विवर्तश्च परिहृतः । ततो विवर्त वादिनामिव रज्जुसर्पवन्न मिथ्यात्वं किन्तु घटवन्नश्वरत्वमेव तस्य । ततो मिथ्यात्वाभावेऽपि त्रिकालव्यभिचारभावाज्जगतो न सत्त्वम् । विवर्तपरिणामासिद्धत्वेन तद्दोषद्वयाभाववत्येव हि वस्तूनि सत्त्वं विधीयते । यथा परमात्मनि तच्छक्तौ वा । सदेव सौम्येदमग्र आसीद् इत्यादौ इदंशब्दोक्तं जगत् । सूक्ष्मावस्थालक्षणतच्छक्तिब्रह्मणोर् मिथस्तादात्म्यापन्नयोः सच्छब्दवचनात् । अतः सत्कार्यवादश्च सूक्ष्मावस्थामवलम्ब्यैव प्रवर्तते । तदेवं स्थितेऽपि पुनराशङ्कते । ननु सद्उपादानं जगत्कथं तद्वन्नश्वरतामपि भजन्न खलु सत् स्यात् । यदि च नश्वरं स्यात्तर्हि कथं शुक्तिरजतवत्व्यभिचारित्वेन केवलविवर्तान्तः पाति न स्यात् । तदेतत्प्रश्नमुट्टङ्क्य परिहरन्ति ॥ सत इदमुत्थितं सदिति चेन्ननु तर्कहतं व्यभिचरति क्व च क्व च मृषा न तथोभययुक् । व्यवहृतये विकल्प इषितोऽन्धपरम्परया भ्रमयति भारती त उरुवृत्तिभिरुक्थजडान् ॥ [भागवतम् १०.८७.३६] इदं विश्वं धर्मि सदिति साध्यो धर्मः सत उत्पन्नत्वात्यद्यत उत्पन्नं तत्खलु तद्आत्मकमेव दृष्टम् । यथा कनकादुत्पन्नं कुण्डलादिकं तद्आत्मकं तद्वत् । तत्रोत्थितमेव न तु शुक्तौ रजतमिव । तत्रारोपितमिति सिद्धान्तिनः स्वमतमनूदितं नैवेत्याहुः । ननु तर्कहतमिति । अपादाननिर्देशेन भेदप्रतीतेर्विरुद्धहेतुत्वात् । ननु नामेदं साधयामः । किन्तु तत उत्पन्नत्वेन कुण्डलादिवद्भेदम् अनूद्य प्रतिषेधामः । तत्राभेद एव स्यादित्याशङ्क्यानैकान्तिकत्वेन हेतुं दूषयति । व्यभिचरति क्व चेति । क्व च कुत्रापि कारणधर्मानुगतिर् व्यभिचरति । कार्यकारणधर्मस्य सवांशेनानुगतं भवतीति नियमो न विद्यत इत्यर्थः । दहनाद्य्उद्भवए प्रभादौ दाहकत्वादि धर्मादर्शनादिति भावः । द्वे रूपे ब्रह्मणस्तस्य मूर्तं चामूर्तमेव च । क्षराक्षरस्वरूपे ते सर्वभूतेष्ववस्थिते ॥ अक्षरं तत्परं ब्रह्म क्षरं सर्वमिदं जगद् । इत्य्[Vइড়् १.२२.५५] आद्य् अनन्तरम् । एकदेशस्थितस्याग्नेर्ज्योत्स्ना विस्तारिणी यथा । परस्य ब्रह्मणः शक्तिस्तथेदमखिलं जगत् ॥ इत्य्[Vइড়् १.२२.५६] एतद् । एवं व्याख्यातं श्रीस्वामिभिरेव श्रीविष्णुपुराणे नन्वक्षरस्य पर ब्रह्मणस्तद्विलक्षणं क्षररूपं कथं स्यादित्याशङ्क्य दृष्टान्तेनोपपादयति एकदेशेति । प्रादेशिकस्याग्नेर्दीपादेर्दाहकस्यापि तद्विलक्षणा ज्योत्स्ना प्रभा यथा तत्प्रकाशविस्तारस्तथा ब्रह्मणः शक्तिकृतविस्तार इदमखिलं जगदिति । प्रकृतमनुसरामः । ननु तर्हि व्यभिचारित्वे शुक्तिरजतवदेवास्तु । तत्राहुः क्व च मृषेति । क्व च शुक्तादावेव प्रातीतिकमात्रसत्ताकं रजतादिकं मृषा । अन्यत्र यत्र उभयं प्रतीतिमर्थक्रियाकारित्वं च युनक्ति भजते तत्र न तथा मृषेति । ननु कूटताम्रिकादिष्वर्थक्रियाकारितापि दृश्येते इत्याशङ्क्याहुः व्यवृतय इति । क्रयविक्रयादिलक्षणव्यवहारायैव विकल्पो भ्रम इष्टः । न तु तत्तत्प्रसिद्धसम्यग्अर्थक्रियाकारितायै । तद्दानादौ यथावत् पुण्यफलादिकं क्रीत्वा शुण्ठीज्ञानेन भक्षितमपि नारोग्यजनकं प्रतुय्त मारकमेव इति । तस्मात्तत्तत्प्रसिद्धसम्यग्अर्थक्रिया कारितयैव सत्यत्वमङ्गीक्रियते । एकाङ्गेन सा कूटसर्पादौ भयादि रूपा त्वस्त्येवेति न तद्धेतुः । किं चान्धपरम्परयेति । स च क्रयविक्रयादिलक्षणव्यवहारोऽपि न तु यथार्थताम्रिकस्येव तद् व्यवहारकुशलेष्वपि किन्त्वन्धपरम्परयैव । अतस्तत्र तदीय कुशलेष्वसिद्धत्वेन व्यवहारस्याभ्यासमात्रत्वात्तस्मादन्यथा नानुमेयम् । धूमाभासे हि वह्निव्यभिचारस्यौचित्यमेवेति भावः । तद् एवमर्थक्रियाकारित्वेनास्त्येवेतरस्य भ्रमवस्तुवैलक्ष्यात्सत्यत्वम् इति विवर्तवादिनि निरस्ते पुनरनश्वरवादी प्रत्युत्तिष्ठते । नन्वपाम सोमममृता अभूम अक्षय्यं ह वै चातुर्मासयाजिनः सुकृतं भवतीति [आथर्वशिर ऊपनिषद्३] श्रुत्यैव कर्मफलस्य नित्यत्वप्रतिपादनान्नश्वरत्वं न घटते इत्याशङ्क्याहुः भ्रमयतीति । हे भगवन् ते तव भारती उरुवृत्तिभिः वह्नीभिर्गौणलक्षणादिभिर् वृत्तिभिः उक्थजडानुक्थानि यज्ञे शस्यन्ते तत्र जडाः कर्मश्रद्धा भराक्रान्तमन्दमतय इत्यर्थः तान् भ्रमयति । अयं भावः न हि वेदः कर्मफल:अ नित्यमभिप्रैति । किन्तु लक्षणया प्राशस्त्यमात्रम् । अन्येषां वाक्यानां विध्य्एकवक्यत्वेन विधावेव तात्पर्यात् । अन्यथा वाक्यभेदप्रसङ्गः तद्यथेह कर्मजितो लोकः क्षीयते एवमेवामुत्र पुण्यजितो लोकः क्षीयत [Cहाऊ ८.१.६] इति न्यायोपार्त हि श्रुत्य्अन्तरविरोधश् च । अतः कर्मजडानामिदं भ्रममात्रं जगत्तु सत्यमपि परिणाम धर्मत्वेन नश्वरमेवेति । तदुक्तं भट्टेनैव अथवेतिहासपुराण प्रामाण्यात्सृष्टिप्रलयावपीष्येते इति । अथवा नाभेदं साधयाम इत्यादिकमाशङ्क्य प्रसिद्धस्य सत्तात्रयस्य मिथो वैलक्षण्यात्परिहरति । क्व च घटादौ अर्थक्रियाकारिण्यपि व्यभिचरति सत्तेति शेषः । वस्त्व्अन्तरस्यार्थक्रियाकारितायामसाम्र्थ्यात् देशान्तरे स्वयमैद्यमानत्वात्कालान्तरे तिरोभावित्वाच्च । क्व च शुक्ति रजतादौ तत्रापि तदानीमपि मृषा अर्थक्रियाकारित्वाभावात् । या तूभय युकुभयत्र घटादिसत्तायां शुक्तिरजतादिसत्तायां च युग्योगो यस्याः । यया सा सत्ता लब्धपदा भवतीत्यर्थः । सा परमकारणसत्ता न तथा किन्तु सर्वत्रापि सर्वदापि तत्तद्उपाध्य्अनुरूपसर्वार्थक्रियाद्य् अधिष्ठानरूपेत्यर्थः । तस्मादर्थक्रियाकारित्वेन सत्यमपि परिणतत्वेन घटवन्नश्वरमेव जगत्न प्रतीतमात्रसत्ताकं न चानश्वरसत्ताकमिति परस्परवैलक्षण्यदर्शनात्कथमेकमन्यद् भवितुमर्हतीति भावः । कूटताम्रिकत्वमाशङ्क्याहुः व्यवहृतय इति । विकल्प्यते अन्यत्रारोप्यते इति विकल्पः स्वतःसिद्धस्ताम्रिकादिरर्थः स एव व्यवहृतये इषितः । अयम् अर्थः । अत्र कूटताम्रिकेण यं व्यवहारं मन्यसे सोऽपि न तेन सिध्यति । किं तर्हि सत्यताम्रिकेणैव । अर्थान्तरं व्यवहर्तुर्हृदि तस्यैव प्रत्यक्षत्वात् । कूटताम्रिकमत्रोपलक्षणमेव क्वचित्तं विनापि तव गृहे ताम्रिको दत्त इति पश्चाद्दातव्य इति वा छलप्रयोगे स्मर्यमाणेनापि तेन तथा व्यवहारसिद्धेः । तस्माद्व्यवहाररूपाप्यर्थक्रियाकारिता तस्यैव भवतीति स सत्य एव । अन्यथा सत्यस्य ताम्रिकस्याभावे शतमप्य् अन्धानां न पश्यतीति न्यायेन कूटताम्रिकपरम्परयापि व्यवहारोऽपि न सिध्येदित्याहुः । अन्धपरम्परयेति । अन्धपरम्परा दोषात्स एव व्यवहृतय इषित इत्यन्वयः । यथान्धपरम्परया व्यवहारो न सिध्येत् तथा कूटताम्रिकपरम्परयापीत्यर्थः । इत्थमेव विज्ञानवादोऽपि निराकृतः । शङ्करशारीरिकेऽपि अनादित्वेऽप्यन्धपरम्परा न्यायेनाप्रतिष्ठैवानवस्था व्यवहारविलोपिनी स्यात् । नाभिप्रायसिद्धिर् इत्युक्तम् । एतदुक्तं भवति यथेदं सुवर्णं केन क्रीतमिति प्रश्ने कश्चिदाह अनेनान्धेनेति । अनेन कथं परिचितमिति पुनराह तेनान्धेन परिचायितम् । तेन च कथ्मित्याह केनाप्यपरेणान्धेनेत्य् अन्धपरम्परयापि न सिधेद्व्यवहारः । किन्तु तत्रान्धपरम्परायाय्ं यद्येकोऽपि चक्ष्ष्मान् सर्वादिप्रवर्तको भवति तदैव सिध्यति । यथा च तत्र सर्वेष्वपि चक्षुष्मत एव व्यवहारसाधकत्वम् । तथा कस्मिंश्चित् ताम्रिके प्रथमं सत्ये सत्येव व्यवहारः सिध्यति । तत्र च सत्यसैव व्यवहारसाधकत्वम् । तदनुसन्धानेनैव तत्र प्रवृत्तेश्चक्षुष्मत इव प्रवर्तकत्वात्ततश्च न ताम्रिक सत्य इति स्थिते, यत्र तद्व्यवहारकुशलः परीक्षया सत्यतावगम्यते स एव कूटताम्रिकेऽप्यारोप्यमाणः सत्यो भवेत् । तदेवमर्थक्रियाकारित्वेन तस्य सत्यत्वे तद्उपलक्षितं विश्वम् एव भ्रमवस्तुविलक्षणं सत्यमिति सिद्धम् । परमात्मन एवावयवित्व व्यवहारसाधितत्वाद्युक्तमेव तत् । तथा च भ्रमादिभिः स्तुतम् सत्यस्य योनिम् [भागवतम् १०.२.२६] इति । तत्सत्यमित्याचक्षत इति श्रुतिश्च । शिष्टम् अन्यत्समानम् । [७१] एवं जगतः सत्यत्वमङ्गीकृतं तच्च नश्वरमिति । तत्र नश्वरत्वं नात्यन्तिकं किन्त्वव्यक्ततया स्थितेरदृश्यतामात्रमेव । सत्कार्यता सम्प्रत्तिपत्तेः । यद्भूतं भवच्च भविष्यच्चेत्यादि श्रुतेः । अतएव शुक्तित्वे रजत्वमिव तस्याव्यक्तरूपत्वे जगत्त्वमसन्न भवति । पटवच् च इति [Vस्२.१.२०] न्यायेन जगदेव हि सूक्ष्मतापन्नमव्यक्तमिति दृश्यत्वेन भ्रान्तिरजतकक्षमपि जगत्तद्विलक्षणसत्ताकं तथात्मवदपरिणतत्वाभावेन नैकावस्थसत्ताकमित्येवमर्थ सिद्धये तद्अनन्तरमेवाहुः । न यदिदमग्र आस न भविष्यदतो निधनाद् अनुमितमन्तरा त्वयि विभाति मृषैकरस । अत उपमीयते द्रविणजातिविकल्पपथैर् वितथमनोविलासमृतमित्यवयस्न्त्यबुधाः ॥ [भागवतम् १०.८७.३७] यद्यदि इदं विश्वमग्रे सृष्टेः पूर्वं नासत्नासीत्तदा न भविष्यन् नाभविष्यदेव अडागमाभाव आर्षः आकाशे कुसुममिवेति । श्रुतयशासीद् एवेति वदन्ति सदेव सौम्येदमग्र आसीतात्मा वा यदिदमग्र आसीदित्य् आद्याः । तदेवं सूक्ष्मतया त्वत्तादात्म्येन स्थितं कारणावस्थमिदं जगत्विस्तृततय कार्यावस्थं भवति । अतो यन्निधनान्नाशमात्राद्धेतोः शुक्तौ रजतमिव त्वयि तदिदमन्तरा सृष्टिमध्य एव न त्वग्रे चान्ते च विभातीत्यनुमितं तन्मृषेति प्रमाणसिद्धं न भवतीत्यर्थः । तत्र हेतुमाहुरेकरसे इति । अनुभवान्तराविषयानन्दस्वाद इति । यस्मिन्न् अनुभूते सति विषयान्तरस्फूर्तिर्न सम्भवति तस्मिंस्त्वयि शुक्त्य्आदि निकृष्टवस्तूनीव विषयारोपः कथं स्यादित्यर्थः । दधति सकृन्मनस्त्वयि य आत्मनि नित्यसुखे न पुनरुपासते पुरुषसारहरावस्थान् ॥ इत्य्[भागवतम् १०.८७.३५] अस्माकम् एवोक्तेः ॥ अतोऽचिन्त्यशक्त्या स्वरूपादच्युतस्यैव तव परिणामस्वीकारेण द्रविण जातीनां द्रव्यमात्राणां मृल्लोहादीनां विकल्पा भेदा घट कुण्डलादयस्तेषां पन्थानो मार्गाः प्रकारास्तैरेवास्माभिरुपमीयते न तु कुत्रापि भ्रमरजतादिभिः । यस्मादेवं तस्माद्वितथा मनो विलासाः य एतादृशमेव ऋतं तद्रूपं ब्रह्म वेदं जगदित्यबुधा एवावयन्ति मन्यन्ते । तस्य तद्अधिष्ठानत्वासमभवादिति भावः । इत शब्दप्रयोगस्त्वत्र मिथ्यासम्बन्धराहित्यव्यञ्जनार्थं व कृत इति ज्ञेयम् । अत्र सत्कार्यवादिनामयमभिप्रायः । मृत्पिण्डादिकारकैर्यो घट उत्पद्यते सन्नसन् वा । आद्ये पिष्टपेषणम् । द्वितीये क्रियायाः कारकैश्च तत्सिद्धिरिति दिक् । तस्मान्न प्रकटमेव सन्न चात्यन्तमसन् किन्त्व् अव्यक्ततया मृत्पिण्डे एव स्थितोऽसौ यथा कारकतन्निष्पन्नक्रियायोगेन व्यज्यते । तथा परमकारणे त्वयि स्थितं विश्वं त्वत्स्वाभाविकशक्तितन् निष्पन्नक्रियायोगेनेति । अत्र स्ववेदान्तित्वप्रख्यापकानामन्यथा युक्तिविरुद्धमेव । मन एव भूतकार्यमिति हि तत्र प्रसिद्धं युक्ति विरुद्धं च । मनोऽहङ्कारादीनां मनःकल्पितत्वासम्भवात् । तथा हि सति वेदविरुद्धोऽनीश्वरवादश्च प्रसज्येत । स च निन्दितः पाद्मे श्रुतयः स्मृतयश्चैव युक्तयश्चेश्वरं परम् । वदन्ति तद्विरुद्धं यो वदेत्तस्मान्न चाधमः ॥ इति । असत्यमप्रतिष्ठन्ते जगदाहुरनीश्वरम् । अपरस्परसम्भूतं किमन्यत्कामहैतुकम् ॥ इति [गीता १६.८] श्रीगीतोपनिषदमनीश्वरवादिन एव व्याचक्षते । असत्यं मिथ्याभूतं सत्यासत्याभ्यामनिर्वचनीयत्वेनाप्रतिष्ठं निर्देशशून्यं स्थाणौ पुरुषत्ववत्ब्रह्मणीश्वरत्वस्याज्ञानमात्रकल्पितत्वादीश्वराभिमानी तत्र कश्चिन्नास्तीत्यनीश्वरमेव जगतपरस्परसम्भूतमनाद्य् अज्ञानपरम्परासम्भूतमपरस्पराः क्रियासातत्ये अतः कामहैतुकं मनः सङ्कल्पमात्रजातं स्वप्नवदित्यर्थः । अत्र प्रवृत्तिं चेत्यादिना तेषां संस्कारदोष उक्तः । एतां दृष्टिमित्य्[गीता १६.९] आदिना तु गतिश्च निन्दिष्यते इति ज्ञेयमेभिरेव ब्रह्मण ऐश्वर्योपादिर्मायापि जीवाज्ञानकल्पिता तयैव जगत्सृष्टिरिति मतम् । यदुक्तं तदीयभाष्ये तद्अनन्यत्वमित्य्[Vस्२.१.१५] आदिसूत्रे सर्वज्ञेश्वरस्यात्मभूते इवाविद्याकल्पिते नामरूपे तत्वातत्त्वाभ्याम् अनिर्वचनीये संसारप्रपञ्चबीजभूते सर्वज्ञेश्वरस्य मायाशक्तिः प्रकृतिरिति श्रुतिस्मृत्योरभिलप्येते इति । किन्त्वत्र विद्याविद्ये मम तनू इत्य् [भागवतम् ११.११.३] आदि श्रीभगवद्वाक्येन तु विरुद्धमिति । अतो मायावादतया चायं वादः ख्यायते । तदेवं च पाद्मोत्तरखण्डे देवीं प्रति पाषण्डशास्त्रं गणतया श्री महादेवेनोक्तम् मायावादमसच्छास्त्रं प्रच्छन्नं बौद्धमुच्यते । मयैवं कथितं देवि कलौ ब्राह्मणरूपिणा ॥ वेदान्ते तु महाशास्त्रे मायावादमवैदिकम् । मयैव वक्ष्यते देवि जगतां नाशकारणात् ॥ इति । तच्चासुराणां मोहनार्थं भगवत एवाज्ञयेति तत्रैवोक्तमस्ति । तया च पाद्म एवान्यत्र शैवे च द्वापरादौ युगे भूत्वा कलया मानुषादिषु । स्वागमैः कल्पतैस्त्वं च जनान्मद्विमुखान् कुरु ॥ इति श्रीभगवद्वाक्यमिति दिक् । अतएवोक्तं श्रीनृसिंहपुराणे यम वाक्यम् विषधरकणभक्षशङ्करोक्तीर् दशबलपञ्चशिखाक्षपादवादान् । महदपि सुविचार्य लोकतन्त्रं भगवद्उक्तिमृते न सिद्धिरस्ति ॥ इति । सर्वेऽत्र वादग्रन्था एव निर्दिष्टा न तु मन्त्रग्रन्था इति नामाक्षरम् एव साक्षान्निर्दिष्टमिति च नान्यथा मननीयम् । अतो यत्क्वचित्तत्तत् प्रशंसा वा स्यात् तदपि नितान्तनास्तिकवादं निर्जित्यांशेनाप्यास्तिक्य वादः ख्यापित इत्यपेक्षया ज्ञेयम् । तस्मात्स्वतन्त्र ईश्वर एव सर्व स्रष्टा न तु जीवः । स्वाज्ञानेन स्वशक्त्यैवेत्यायातम् । तदुक्तं श्री बादरायणेनापि बहुत्र संज्ञामूर्तिक्प्तिस्तु त्रिवृत्कुर्वत उपदेशादित्य् [Vस्२.४.२०] आदिषु । अतस्तन्मनोऽसृजत मनः प्रजापतिमित्यादौ मनःशब्देन समष्टि मनोऽधिष्ठाता श्रीमाननिरुद्ध एव । बहु स्यां प्रजायेय इति [Cहा ६.२.३] तत्सङ्कल्प एव वा वाच्यः । सत्यस्वाभाविकाचिन्त्यशक्तिः परमेश्वरस् तुच्छमायिकमपि न कुर्यात्चिन्तामणीनामधिपतिः स्वयं चिन्तामणिर् एव वा कूटकनकादिवत् । तथा च माध्वभाष्यप्रमाणिता श्रुतिः अथैनमाहुः सत्यकर्मेति सत्यं ह्येवेदं विश्वमसृजत इति । एवं च सत्यव्रतं सत्यपरं त्रि सत्यं सत्यस्य योनिं निहितं च सत्ये । सत्यस्य सत्यमृत सत्यनेत्रं सत्यात्मकं त्वां शरणं प्रपन्नः ॥ [भागवतम् १०.२.२६] इत्यत्र सत्यसङ्कल्पत्वं सत्यपारायणत्वं सृष्ट्य्आदिलीलात्रयेषु सत्यत्वं सत्यस्य विश्वस्य कारणत्वं सत्य एव विश्वस्मिन्नन्तर्यामितया स्थितत्वं सत्यस्य तस्य स्थितताहेतुत्वं सत्यवचनस्याव्यभिचारिदिष्टेश्च प्रवर्तकत्वं सत्यरूपत्वमित्येतेषामर्थानामाकूतं परिपाटी च सङ्गच्छते । अन्यथा सत्यस्य योनिमित्य् आदौ त्रये तत्रापि निहितं च सत्य इत्यत्राकस्माद् अर्धजरतीयन्यायेन कष्टकल्पनामयार्थान्तरे तु भगवता स्वप्रतिश्रुतं सत्यकृतं यत्तत्तद्युक्तमेवेत्यतो ब्रह्मादिभिस्तथा स्तवे स्वारस्यभङ्गः स्यात्प्रक्रमभङ्गश्च । तस्मात्सत्यमेव विश्वमिति स्थितम् ॥ १०.८७ ॥ श्रुतयः श्रीभगवन्तम् ॥७१॥ [७२] तदेव न यदिदमग्र आसेत्यनेन प्राकृतलयोऽपि सत्कार्य वादेऽनुगमितः । आत्यन्तिके तु मोक्षलक्षणलये न पृथिव्यादीनां नाशः । जीवकृतेन तथा भावनामात्रेण स्वाभाविकपरमात्मशक्तिमयानां तेषां नाशायुक्तेः । लब्धमोक्षेषु श्रीपरीक्षितादिषु तद्देहस्थानामपि पृथिव्य्आद्य्अंशानां स्थितेः श्रवणात्तथा हिरण्यगर्भांशानां बुद्ध्य् आदीनामपि भविष्यति । अतस्तेष्वध्यासपरित्याग एवात्यन्तिकलय इत्य् उच्यते । अतएव घटे भिन्ने घटाकाश आकाशः स्याद्यथा पुरा । एवं देहे मृते जीवो ब्रह्म सम्पद्यते पुनः ॥ इत्यत्र । तथा एवं समीक्ष्य चात्मानमात्मन्याधाय निष्कले । दशन्तं तक्षकं पादे लेलिहानं विषानलम् ॥ न द्रक्ष्यसि शरीरं त्वं विश्वं च पृथग्आत्मनः ॥ [भागवतम् १२.५.१२] इत्यत्राप्युपाधेः संयोग एव पर्तियज्यते न तु तस्य मिथ्यात्वं प्रतिपाद्यते । तथा हि बुद्धीन्द्रियेत्यादिप्रकरणम् । तत्र तद्आश्रयत्वतत् प्रकाश्यत्वतद्अव्यतिरिक्तत्वेभ्यो हेतुभ्यो बुद्धीन्द्रियादीनां परमात्मस्वभावशक्तिमयत्वमाह । बुद्धीन्द्रियार्थरूपेण ज्ञानं भाति तद्आश्रयम् । दृश्यत्वाव्यतिरेकाभ्याम् आद्य्अन्तवदवस्तु यत् ॥ [भागवतम् १२.४.२३] अन्तःकरणबहिःकरणविषयरूपेण परमात्मलक्षणं ज्ञानमेव भाति तस्मादन्यदेव बुद्ध्य्आदिवस्त्वित्यर्थः । यतस्तद्आश्रयं तेषाम् आश्रयरूपं तज्ज्ञानम् । क्लीब्त्वमार्षम् । तथापि राजभृत्ययोरिवात्यन्त भेदः स्यात् । तत्र हेत्व्अन्तरेऽप्याह । दृश्यत्वं तत्प्रकाश्यत्वम् अव्यतिरेकस्तद्व्यतिरेके व्यतिरेकः ताभ्याम् । तस्मातेकदेशस्थितस्याग्नेर् ज्योत्स्ना विस्तारिणी यथा । इत्य्[Vइড়् १.२२.५६] आदिवद्बुद्ध्य्आदीनां तत् स्वाभाविकशक्तिमयत्वमेव सेत्स्यतीति भावः । यत्खल्वाद्य्अन्तवत् शुक्त्य्आदौ कदाचिदेवारोपितं रजतं तत्पुनरवस्तु तद्आश्रयकत्वतत् प्रकाशकत्वतद्अव्यतिरेकाभावात् । शुक्त्य्आदिवस्तु न भवति शुक्त्य् आदिभ्योऽनन्यन्न भवतीत्यर्थः । ततश्चैकविज्ञानेन सर्वविज्ञान प्रतिज्ञा विरुद्धेतेति भावः ॥७२॥ [७३] एवमसत्कार्यवादान्तरेऽपि ज्ञेयम् । एकस्यापि वस्तुनोऽंशभेदेनाश्रयाश्रयित्वं स्वयमेव दृष्टान्तेन स्पष्टयति दीपश्चक्षुषश्च रूपं च ज्योतिषो न पृथग्भवेत् । एवं धीः खानि मात्राश्च न स्युरन्यतमादृतात् ॥ [भागवतम् १२.४.२४] दीपश्चकूरूपाणां महाभूतज्योतिर्अंशरूपत्वात्दीपादिकं न ततः पृथक् । एवं धीप्रभृतीनि ऋतात्परमात्मनो न पृथक्स्युः । तथापि यथा महाभूतज्योतिर्दीपादिदोषेण न लिप्यते तथा बुद्ध्यदिदोषेण परमात्मापि । तद्वदस्याप्यन्यतमत्वादित्याह अन्यतमादिति । [७४] तदेवं धीप्रभृतीनां परमात्मस्वाभाविकशक्तिमयत्वमुक्त्वा तथापि तेभ्यो बहिरङ्गअशक्तिमयेभ्योऽन्तरङ्गशक्तितटस्थशक्ति विशिष्टपरमात्मनोऽन्यतमत्वेन तेषामशुद्धत्वव्यञ्जनया स दोषत्वमुक्त्वा तेष्धीवृत्तिषु तावच्छुद्धस्यैव जीवस्य सकारणम् अध्यासमाह बुद्धेर्जागरणं स्वप्नः सुषुप्तिरिति चोच्यते । मायामात्रमिदं राजन् नानात्वं प्रत्यग्आत्मनि ॥ [भागवतम् १२.४.२५] बुद्धिवृत्तिरूपं जागरणं स्वप्नः सुषुप्तिरितीदं प्रत्यग्आत्मनि शुद्ध जीवे विश्वतैर्जसप्राज्ञत्वाख्यं नानात्वं मायामात्रं मायाकृताध्यास मात्रेण जातमित्यर्थः । [७५] ततः परमात्मनि बुद्ध्य्आदिमयस्य जगतः सतोऽपि सम्पर्कः सुतरां नास्तीत्यर्थं चाह यथा जलधरा व्योम्नि भवन्ति न भवन्ति च । ब्रह्मणीदं तथा विश्वम् अवयव्युदयाप्ययात् ॥ [भागवतम् १२.४.२६] यथा व्योम्नि व्योमकार्यवायुज्योतिःसलिलपार्थिवांशधूमपरिणता जलधराः स्वेषामेवावयविनामुदयाद्भवन्ति दृश्यन्ते । अप्ययान्न भवन्ति न दृश्यन्ते च ते च तन्न स्पृशन्तीति ज्ञेयम् । तथा ब्रह्मणीदं विश्वमिति योज्यम् । ततः सूक्ष्मरूपेण तस्य स्थितिरस्त्येव जगच्छक्ति विशिष्टकारणास्तित्वात् । इत्थमेवोक्तं सतोऽभिव्यञ्जकः काल इति ॥७५॥ [७६] तदेवं वक्तुं कारणास्तित्वं दृष्टान्तेन प्रतिपादयति सत्यं ह्यवयवः प्रोक्तः सर्वावयविनामिह । विनार्थेन प्रतीयेरन् पटस्येवाङ्ग तन्तवः ॥ [भागवतम् १२.४.२७] सर्वेषामवयविनां स्थूलवस्तूनामवयवः कारणं सत्यं सत्यो व्यभिचाररहितः प्रोक्तः । लोके यथा दर्श्नादित्याह विनेति ॥७६॥ [७७] अर्थेन स्थूलरूपेण पटेनापि विना तस्मिन् कार्यास्तित्वमपि व्यतिरेकेण प्रतिपादयति । यत्सामान्यविशेषाभ्याम् उपलभ्येत स भ्रमः । [भागवतम् १२.४.२८] अयमर्थः । यद्येवमुच्यते पूर्वं सूक्ष्माकारेणापि जगन्नासीत्किन्तु सामान्यं केवलं शुद्धं ब्रह्मैवासीत्तदेव शक्त्या निमित्तभूतया विशेषाकारेण जगद्रूपेण परिणतमिति तदसत् । यतः यदेव सामान्य विशेषाभ्यामुपलभ्येत स भ्रमो विवर्तवाद एव । तत्र हि शुद्धं ब्रह्मैवाज्ञानरूपया शक्त्या जगत्तया विवृतमिति मतं न चास्माकं तद् अभ्युपपत्तिः परिणामवादस्य सत्कार्यतापूर्वकत्वादित्यर्थः ॥७७॥ [७८] नन्वपूर्वमेव कार्यमारम्भविवर्तवादिनामिव युष्माकमपि ज्ञायतां तत्राह अन्योन्यापाश्रयात्सर्वम् आद्यन्तवदवस्तु यत् ॥ [भागवतम् १२.४.२८] यदाद्यन्तर्वदपूर्वं कार्यं तत्पुनरवस्तु निरूपणासहमित्यर्थः । तत्र हेतुरन्योन्योपश्रयात् । यावत्कार्यं न जायते तावत्कारणत्वं मृत् शुक्त्य्आदेर्न सिध्यति कारणत्वासिद्धौ च कार्यं न जायत एवेति परस्पर सापेक्षत्वदोषात् । ततः कारणत्वसिद्धये कार्यशक्तिस्तत्रावश्यम् अभुपगन्तव्या । सा च कार्यसूक्ष्मावस्थैवेति कार्यास्तित्वं सिध्यति । तथापि स्थॣलरूपतापादकत्वान्मृद्आदेः कारणत्वमपि सिध्यतीति भावः । [७९] तदेवं स्वाभावैकशक्तिमयमेव परमात्मनो जगदित्युपसंहरति विकारः ख्यायमानोऽपि प्रत्यग्आत्मानमन्तरा । न निरूप्योऽस्त्यणुरपि स्याच्चेच्चित्सम आत्मवत् ॥ [भागवतम् १२.४.२९] यद्यपि ख्यायमामनः प्रकाशमान एव तथापि स्वल्पोऽपि विकारः प्रत्यग् आत्मानं परमात्मानं विना तद्व्यतिरेकेण स्वतन्त्रतया न निरूप्योऽस्ति । तदुक्तं तद्अनन्यत्वविवरण एव । यदि च तं विनापि स्यात्तदा चित्समः स्याच्चिद्रूपेण समः स्वप्रकाश एवाभविष्यत् । आत्मवत्परमात्मवन् नित्यैकावस्थश्चाभविष्यत् । [८०] ननु यदि परमात्मानं विना विकारो नास्ति तर्हि परमात्मनः सोपाधित्वे निरुपाधित्वं न सिध्यति । तस्मात्सोपाधेर्निरुपाधिरन्येव किमित्य् अत्राह न हि सत्यस्य नानात्वम् अविद्वान् यदि मन्यते । नानात्वं छिद्रयोर्यद्वज् ज्योतिषोर्वातयोरिव ॥ [भागवतम् १२.४.३०] सत्यस्य परमात्मनो नानात्वं न हि विद्यते । यदि तस्य नानात्वं मन्यते तर्ह्यविद्वान् यतस्तस्य निरुपाधित्वसोपाधित्वलक्षणं नानात्वं महाकाशघटाकाशयोर्यद्वत्तद्वद्गृहाङ्गनगतसर्वव्यापितेजसोर् इव बाह्यशरीरवाय्वोरिव चेति । [८०] यस्माद्विकारः ख्यायमानोऽपि प्रत्यग्आत्मानमन्तरा न निरूप्योऽस्त्यणुर् अपि तस्मात्सर्वशब्दवाच्योऽपि स एवेति सदृष्टान्तमाह यथा हिरण्यं बहुधा समीयते नृभिः किर्याभिर्व्यवहारवर्त्मसु । एवं वचोभिर्भगवानधोक्षजो व्याख्यायते लौकिकवैदिकैर्जनैः ॥ [भागवतम् १२.४.३१] क्रियाभिस्तत्तद्वचनभेदैर्बहुधा कटककुण्डादिरूपेण यथा सुवर्णमेव वचोभिस्तत्तन्नामभिः प्रतीयते तथा लौकिअक्वैदिकैः सर्वैरेव वचोभिर्भगवानेव व्याख्यायते । तदुक्तम् सर्व नामाभिधेयश्च सर्ववेदेडितश्च सः इति स्कान्दे । [८१] तदेवं जगतः परमात्मस्वाभाविकशक्तिमयत्वमुक्त्वा तेन च जीव कर्तृकेण ज्ञानेन तन्नाशनसामर्थ्यं व्यज्य मोक्षार्थं तद्अध्यास परित्यागमुपदेष्टुं परमात्मशक्तिमयस्यापि तस्योपाध्यध्यात्मकस्य जीवस्वरूपप्रकाशावरकत्वरूपं दोषं सदृष्टान्तमुपपादयति यथा घनोऽर्कप्रभवोऽर्कदर्शितो ह्यर्कांशभूतस्य च चक्षुषस्तमः । एवं त्वहं ब्रह्मगुणस्तद्ईक्षितो ब्रह्मांशकस्यात्मन आत्मबन्धनः ॥ [भागवतम् १२.४.३२] अर्करश्मय एव मेघरूपेण परिणता वर्षन्ति । (!) अग्नौ प्राप्ताहुतिः सम्यगादित्यमुपतिष्ठते । आदित्याज्जायत वृष्टिर्वृष्टेरन्नं ततः प्रजाः । इति वचनात् । अयमर्थः । यथार्कप्रभवोऽर्केणैव दर्शितः प्रका शितश्च घनो निविडो मेघः । अर्कांशभूतस्य चक्षुषस्तमः दिवि भूमौ च महान्धकाररूपो भवति । एवमहं प्राकृताहङ्कारो ब्रह्मगुणः परमात्मशक्तिकार्यभूतः तदीक्षितस्तेनैव परमात्मना प्रकाशितश्च ब्राह्मांशकस्य तटस्थशक्तिरूपत्वात् परमात्मनो यो हीनांशस्तस्यात्मनो जीवस्यात्मबन्धनः स्वरूप प्रकाशावरको भवति । [८२] स चाध्यासपरित्यागः स्वतो न भवति किन्तु परमात्मजिज्ञासया तत् प्रभावेनैवेति वक्तुं पूर्ववदेव दृष्टान्तपअरिपाटीमाह घनो यदार्कप्रभवो विदीयर्यते चक्षुः स्वरूपं रविमीक्षते तदा । यदा ह्यहङ्कार उपाधिरात्मनो जिज्ञासया नश्यति तर्ह्यनुस्मरेत् ॥ [भागवतम् १२.४.३३] घनो यथार्कप्रभवो विदीर्यते इति दृष्टान्तांशे तद्विदारणस्य न चक्षुःशक्तिसाध्यत्वं किन्तु सूर्यप्रभावसाध्यत्वमिति व्यक्तम् । अनेन दार्ष्टान्तिकेऽपि आत्मनः परमात्मनो जिज्ञासया जातेन तत् प्रसादेनाहङ्कारो नश्यति पलायते इत्यत्रांशे पुरुषज्ञानसाध्यत्वम् अहङ्कारनाशस्य खण्डितम् । अतो विवर्तवादो नाभ्युपगतः । अत्र चोपाधिरिति विशेषणेन स्वरूपभूताहङ्कारस्त्वन्य एवेति स्पष्टीभूतम् । एवं यथा दृष्टान्तेघनप्रायमहान्धकारावरणाभावात्तत् प्रभावेण योग्यतालाभाच्च चक्ष्ः कर्तृ भूतं स्वरूपं कर्मभूतम् ईक्षते स्वस्वरूपप्रकाशमस्तित्वेन जानाति स्वशक्तिप्राकट्यं लभत इत्य् अर्थः । कदाचित्तदीक्षणोन्मुखः सन् रविं चेक्षते तथा दार्ष्टान्तिकेऽप्य् अनुस्मरेत्स्मर्तुरनुसन्धातुं योग्यो भवति, आत्मानं चेति शेषः । [८३] निगमयति यदैवमेतेन विवेकहेतिना मायामयाहङ्कारणात्मबन्धनम् । च्छित्वाच्युतात्मानुभवोऽवतिष्ठते तमाहुरायन्तिकमङ्ग सम्प्लवम् ॥ [भागवतम् १२.४.३४] एतेन पूर्वोक्तविवेकशस्त्रेण । मायामयेति विशेषणं स्वरूप भूताहङ्कारस्य व्यवच्छेदार्थम् । अवतिष्ठते स्वस्वरूपेणावस्थितो भवति । न केवलमेतावदेव अच्युत्मानुभवः अच्युतेऽच्युतनाम्न्यात्मनि परमात्मन्यनुभवो यस्य तथाभूत एव सन्नवतिष्ठते ॥ १२.४ ॥ श्री शुकः ॥८४॥ [८४] अत्रायमप्येकेषां पक्षः परमेश्वरस्य शक्तिद्वयमस्ति स्वरूपाख्या मायाख्या चेति । पूर्वया स्वरूपवैभवप्रकाशनमपरया त्विन्द्र जालवत्तयैव मोहितेभ्यो जीवेभ्यो विश्वसृष्ट्य्आदिदर्शनम् । दृश्यते चैकस्य नानाविद्यावतः कस्यापि तथा व्यवहारः । न चैवम् अद्वैतवादिनामिव वेदनमापतितम् । सत्येनैव कर्त्रा सत्यमेव द्रष्टारं प्रति सत्ययैव तथा शक्त्या वस्तुनः स्फोरणात्लोकेऽपि तथैव दृश्यत इति भवत्वपीदं नाम । यतः सत्यं न सत्यं नः कृष्णपादाब्जामोदमन्तरा । जगत्सत्यमसत्यं वा कोऽयं तस्मिन् दुराग्रहः ॥ तदेतन्मते सत इदमुत्थितमित्यादिवाक्यानि प्रायो यथा टीका व्याख्यानमेव ज्ञेयानि । क्वचित्तत्कृतानुमानादौ भेदमात्रस्यासत्त्वे प्रसक्ते वैकुण्ठादीनामपि तथात्वप्रसक्तिस्तन्मते स्यादित्यत्र तु तेषामयमभिप्रायः । वयं हि यल्लोकप्रत्यक्षादिसिद्धं वस्तु तदेव तत्सिद्धवस्त्व्अन्तरदृष्टान्तेन तद्धर्मकं साधयामः । यत्तु तद् असिद्धं शास्त्रविद्अनुभवैकगम्यतादृशत्वं तत्पुनस्तद्दृष्टान्त परार्धादिनाप्यन्यथाकर्तुं न शक्यत एवेति । जीवेश्वराभेदस्थापना च चिद्रूपतामात्र एवेति । अथ स्वाभाविकमायाशक्त्या परमेश्वरो विश्व सृष्ट्य्आदिकं करोति जीव एव तत्र मुह्यतीत्युक्तम् । तत्र सन्देहं प्रश्नोत्तराभ्यां परिहरत्यष्टभिः श्रीविदुर उवाच ब्रह्मन् कथं भगवतश् चिन्मात्रस्याविकारिणः । लीलया चापि युज्येरन् निर्गुणस्य गुणाः क्रियाः ॥ [भागवतम् ३.७.२] हे ब्रह्मन् चिन्मात्रस्य चिन्मात्रस्वरूपस्य सतः स्वरूपशक्त्या भगवतः श्रीवैकुण्ठादिगततादृशैश्वर्यादियुक्तस्य अतएव निर्गुणस्य प्राकृतगुणास्पृष्टस्य तत एवाविकारिणस्तादृक्स्वरूपशक्तिविलास भूतानां क्रियाणामनन्तानामपि सदोदितवरानन्तविधप्रकाशे तस्मिन् नित्यसिद्धत्वात्तत्तत्क्रियाविर्ग्भावकर्तुस्तस्यावस्थाअन्तर प्राप्तत्वाभावात्प्राकृतकर्तुरिव न विकारापत्तिरिति । निर्विकारस्य च कथं सत्त्वादयः प्राकृतगुणाः कथं वा तदासङ्गहेतुकाः स्थित्य् आदयः क्रियाश्च युज्येरन् । ततश्च चिन्मात्रवस्तुविरोधादेव ते च ताश्च न युज्यन्ते । भगवत्त्वे तु स्वैरचेष्टयापि न युज्येरनित्याह लीलया वापीति । अत्राविकारित्वनिर्गुणत्वाभ्यां सह चिन्मात्रभगवत्त्वं चेत्य् उभयमपि स्वीकृत्यैव पूर्वपक्षिणा पृष्टम् । [८५] ततश्च तस्य चिन्मात्रस्वरूपस्य भवतु भगवत्त्वं तत्रास्माकं न सन्देहः । किन्तु तस्य कथमितरगुणादिस्वीकारो युज्यते इत्येव पृच्छत इति वाक्यार्थः । ततश्चिन्मात्रत्वे भगवत्त्वे च तस्य तुच्छा गुणाः क्रियाश् च न सम्भवन्त्येवेति द्विगुणीभूयैव प्रश्नः । लीलया वापि कथं युज्येरनिति विशदयति । क्रीडायामुद्यमोऽर्भस्य कामश्चिक्रीडिषान्यतः । स्वतस्तृप्तस्य च कथं निवृत्तस्य सदान्यतः ॥ [भागवतम् ३.७.३] उद्यमयैत्प्रवर्तयति इत्युद्यमः । अर्भकस्य क्रीडायां प्रवृत्तिहेतुः कामोऽस्ति । अन्यतस्तु वस्त्व्अन्तरेण बालान्तरप्रवर्तनेन वा तस्य क्रीडेच्छा भवति । भगवतस्तु स्वतः स्वेनात्मना स्वरूपवैभवेन च तृप्तस्य अत एवान्यतः सदा निवृत्तस्य च कथमन्यतो जीवाज्जगच्च निमित्तात्चिक्रीडिषेति । न च तस्य ते गुणास्ताङ्क्रियाश्च न विद्यन्ते इत्य् अपलपनीयम् । [८६] तथैव प्रसिद्धेरित्याह अस्राक्षीद्भगवान् विश्वं गुणमय्यात्ममायया । तया संस्थापयत्येतद् भूयः प्रत्यपिधास्यति ॥ [भागवतम् ३.७.४] गुणमय्या त्रैगुण्यव्यञ्जिन्या आत्माश्रितया मायया संस्थापयति पालयति प्रत्यपिधास्यति प्रातिलौम्येन तिरोहितं करिष्यति । जीवस्य च कथं माया मोहितत्वं [८८] घटतीत्याक्षेपान्तरमाह देशतः कालतो योऽसाव् अवस्थातः स्वतोऽन्यतः । अविलुप्तावबोधात्मा स युज्येताजया कथम् ॥ [भागवतम् ३.७.५] योऽसौ देशादिभिरविलुप्तावबोध आत्मा जीवः स कथमजयाविद्यया युज्येत । तत्र देशव्यवधानतो देशगतदोषतो वा चक्षुः प्रकाश इव कालतो विद्युदिव अवस्थातः स्मृतिरिव स्वतः शुक्तिरजतमिव अन्यतो घटादिवस्त्विव न तस्यावबोधो लुप्यते अव्याहतस्वरूपभूत ज्ञानाश्रयत्वादेवेत्यर्थः ॥ [८९] तत्रैव विरोधान्तरमाह भगवानेक एवैष सर्वक्षेत्रेष्ववस्थितः । अमुष्य दुर्भगत्वं वा क्लेशो वा कर्मभिः कुतः ॥ [भागवतम् ३.७.६] एष एक एव भगवान् परमात्मापि सर्वक्षेत्रेषु सर्वस्य जीवस्य क्षेत्रेषु देहेष्ववस्थितः । तत्र सति कथममुष जीवस्य दुर्भगत्वं स्वरूप भूतज्ञानादिलोपः कर्मभिः क्लेशश्च तस्य वा कुतो नास्ति । न ह्येकस्मिन् जलादौ स्थितयोर्वस्तुनोः कस्यचित्तत्संसर्गः कस्यचिन्नेति युज्यत इत्य् अर्थः । [९०] तत्र केवलं चिन्मात्रत्वं न सम्भवतीति भत्गवत्त्वमेवाङ्गीकृत्य श्री मैत्रेय उवाच सेयं भगवतो माया यन्नयेन विरुध्यते । ईश्वरस्य विमुक्तस्य कार्पण्यमुत बन्धनम् ॥ [भागवतम् ३.७.९] यया विश्वसृष्ट्य्आदिकं भवति सेयं भगवतोऽचिन्त्यस्वरूपशक्तेर् मायाख्या शक्तिः । यद्या च नयेन तर्केण विरुध्यते तर्कातीततया सेयम् अप्यचिन्त्येत्यर्थः । यद्यप्येवं द्वयोरप्यचिन्त्यत्वं तथापि भगवतो म्>अयेत्यनेन व्यक्तत्वात्स्वरूपशक्तेरन्तरङ्गत्वाद्बहिरङ्गाया मायाया गुणैः सत्त्वादिभिस्तत्कार्यैः स्थापनादिलीलाभिश्च नासौ स्पृशत इत्यर्थः । तन्त्रेण चायमर्थः । यद्यया मायया येन भगवता सह न विरुध्यते नासौ विरोधविषयीक्रियत इति च एवमेव षष्ठे नवमाध्याये दुरवबोध इव तवायमित्य्[भागवतम् ६.९.३४] आदिना गद्येन तस्य सगुण कर्तृत्वं विरुध्य पुनरथ तत्रभवानिति [भागवतम् ६.९.३५] गद्येनान्तर्यामितया गुणविसर्गपतितत्वेन जीववद्भोक्तृत्वयोगं सम्भाव्य, न हि विरोध उभयमित्य्[भागवतम् ६.९.३६] आदि गद्येन तत्र तत्रावितर्क्यशक्तित्वमेव च सिद्धान्ते योजितम् । तत्र स्वरूपशक्तेरवितर्क्यत्वं भगवतीत्यादिभिर्विशेषणैर्मायायाश् चात्ममायामित्यनेन दर्शितम् । तत्र स्वरूपद्वयाभावादित्यस्य तथाप्यचिन्त्यशक्त्या तत्कर्तृत्वं तद्अन्तःपातित्वं च विद्यते इत्यर्थः । समविषममतीनामिति [भागवतम् ६.९.३७] तु गद्यं तथाप्युच्चावचबुद्धीनां तथा स्फुरसीति प्रतिपत्त्य्अर्थं ज्ञेयम् । दुरवबोध इवेति प्राक्तनगद्ये त्वशरीर इति शरीरचेष्टां विना अशरण इति भूम्य्आद्य्आश्रयं विना इत्य् अर्थः । अथ तत्रेत्यादौ स्वकृतेऽपि तस्यापि हेतुकर्तृत्वाद्योजनीयम् । तस्मादत्रापि स्वरूपशक्तेरेव प्राधान्यं दर्शितम् । अतएव ऋतेऽर्थं यत्प्रतीयेत इत्य् [भागवतम् २.९.३४] आदौ मायाया आभासस्थानीयत्वं प्रदर्श्य तद्अस्पृश्यत्वम् एव भगवतो दर्शितम् । त्वमाद्यः पुरुषः साक्षादित्यादौ मायां व्युदस्य चिच्छक्त्या इत्य्[भागवतम् १.७.२३] अनेन च तथा ज्ञापितम् । माया परैत्य् अभिमुखे च विलज्जमाना इत्य्[भागवतम् २.७.४७] अनेन च । तदेवं भगवति तद् विरोधं परिहृत्य जीवेऽप्यविद्यासम्बन्धमतर्क्यत्वेन दर्शितया तन् माययैव समादधति । ईश्वरस्येति यदित्यनेनैव सम्बध्यते । अर्थवशादत्र च तृतीयया परिणम्यते । यद्यया ईश्वरस्य स्वरूप ज्ञानादिभिः समर्थस्य अतएव विमुक्तस्य जीवस्य कार्पण्यं तत्तत् प्रकाशतिरोभावस्तथा बन्धनं तद्दर्शिगुणमयजालप्रवेशश्च भवतीति । तदुक्तम् तत्सङ्गभ्रंशितैश्वर्यमिति [भागवतम् ६.५.१५] । तदेतत् सर्वमभिप्रेत्य श्रुतयोऽप्याहुः स यदजया त्वजामित्यादावपेत भग इति [भागवतम् १०.८७.३८] च । अत्र मूलपद्ये भगवतो मायेत्यनेन भगवत्त्वं तु मायिकमित्य् आयातम् । इन्द्रस्य मायेत्यत्र यथेन्द्रत्वम् । [९१] एवं पूर्वत्रापि ज्ञेयम् । पुनरपि जीवस्य वस्तुतः स्वीयतत्तद् अवस्थत्वाभावेऽपि भगवन्माययैव तत्तत्प्रतीतिरिति सदृष्टान्तम् उपपादयति । यदर्थेन विनामुष्य पुंस आत्मविपर्ययः । प्रतीयत उपद्रष्टुः स्वशिरश्छेदनादिकः ॥ [भागवतम् ३.७.१०] यद्यस्य । मायया हेतोरर्थेन विनापि । यद्यपि तस्य त्रिकालमेव सोऽर्थो नास्ति तथाप्यात्मविपर्ययः आत्मविस्मृतिपूर्वकपराभिमाने नाहमेव तद्धर्मीत्येवंरूपः सोऽर्थः स्यात् । उपद्रष्टुर्जीवस्य । तृतीयार्थे षष्ठी । स्वप्नावस्थायां जीवेन स्वशिरश्छेदनादिकोऽतीवासम्भवोऽर्थः प्रतीयते । न हि तस्य शिरश्छिन्नं न तु वा स्वशिरश्छेदं कोऽपि पश्येत् । किन्तु भगवन्मायैवान्यत्रसिद्धं तद्रूपमर्थं तस्मिन्न् आरोपयतीति । [९२] मायामात्रं तु कार्त्स्न्येनानभिव्यक्तस्वरूपत्वादिति न्यायेन । अतएव शुद्धस्यापि सतो जीवस्यौपाधिकेनैव रूपेणोपाधिधर्मापत्तिरिति दृष्टान्तान्तरेणोपपादयतीति यथा जले चन्द्रमसः कम्पादिस्तत्कृतो गुणः । दृश्यतेऽसन्नपि द्रष्टुर् आत्मनोऽनात्मनो गुणः ॥ [भागवतम् ३.७.११]॥ यथा जले प्रतिबिम्बितस्यैव चन्द्रमसो जलोपाधिकृतः कम्पादिगुणो धर्मो दृश्यते न त्वाकाशस्थितस्य तद्वदनात्मनः प्रकृतरूपोपाधेर् धर्मः आत्मन शुद्धस्यासन्नपि अहमेव सोऽयमित्यावेशान् माययोपाधितादात्म्यापन्नाहङ्काराभासस्य प्रतिबिम्बस्थानीयस्य तस्य द्रष्टुराध्यात्मिकावस्थस्यैव यद्यपि स्यात्तथापि शुद्धोऽसौ तद् अभेदाभिमानेन तं पश्यतीत्यर्थः । तदुक्तमेकादशे श्रीभगवता नृत्यतो गायतः पश्यन् यथैवानुकरोति ताम् । एवं बुद्धिगुणान् पश्यन्न् अनीहोऽप्यनुकार्यते ॥ [भागवतम् ११.२२.५३] इति । तथैवोक्तम् शुद्धो विचष्टे ह्यविशुद्धकर्तुरिति । विशब्दस्य चात्र तद् आवेश एव तात्पर्यं तस्माद्भगवतोऽचिन्त्यस्वरूपान्तरङ्गमहाप्रवल शक्तित्वाद्बहिरङ्गया प्रवलयाप्यचिन्तयापि माययापि न सृष्टिः । जीवस्य तु तया सृष्टिरिति सिद्धान्तितम् ॥ ३.७ ॥ श्रीशुकः ॥ ८५९२ ॥ [९३] एवं सृष्ट्य्आदिलीलात्रये योजिनेऽपि पुनर्विशेषतः संशय्य सिद्धान्तः क्रियते स्थूणानिखननन्यायेन । ननु पालनलीलायां ये येऽवतारास्तथा तत्रैव स्वप्रसादव्यट्जकस्मिताभयमुद्रादिचेष्टया सुरपक्षपातो युद्धादिचेष्टया दैत्यसंहार इत्यादिका या या वा लीलाः श्रूयन्ते ते च ताश् च स्वयं परमेश्वरेण क्रियन्ते न वा । आद्ये पूर्वपक्षस्तदत्रस्थ एव प्रत्युत पक्षपातादिना वैषम्यं च । अन्ते तेषामवताराणां लीलानां च न स्वरूपभूतया सिध्यतीति सम्प्रतिपत्तिभङ्गः । अत्रोच्यते । सत्यं विश्व पालनार्थं परमेश्वरो न किञ्चित्करोति किन्तु स्वेन सहैवावतीर्णान् वैकुण्ठपार्षदान् तथाधिकारिकदेवाद्य्अन्तर्गतान् तथा तटस्थान् अन्यांश्च भक्तानानन्दयितुं स्वरूपशक्त्याविष्कारेणैव नानावतारान् लीलाश्चासौ प्रकाशयति । तदुक्तं पाद्मे मुहूर्तेनापि संहर्तुं शक्तो यद्यपि दानवान् । मद्भक्तानां विनोदार्थं करोमि विविधाः क्रियाः ॥ दर्शनध्यानसंस्पर्शैर्मत्स्यकूर्मविहङ्गमाः । स्वान्यपत्यानि पुष्णन्ति तथाहमपि पद्मज ॥ इति । हरिभक्तिसुधोदये नित्यं च पूर्णकामस्य जन्मानि विविधानि मे । भक्तसर्वेष्टदानाय तस्मात्किं ते प्रियं वद ॥ इति । तथा श्रीकुन्तीदेवीवचनं च भक्तियोगविधानार्थं कथं पश्येम हि स्त्रिय इति [भागवतम् १.८.२०] । अत्र भक्तियोगविधानार्थं तद्अर्थमवतीर्णं त्वामिति टीका च । श्रीब्रह्मवचनं च प्रपञ्चं निष्प्रपञ्चोऽपि विडम्बयसि भूतले । प्रपन्नजनतानन्द सन्दोहं प्रथितुं प्रभो ॥ [भागवतम् १०.१४.३७] स्वरूपशक्त्यैवाविष्कारश्च श्रीब्रह्मणैव दर्शितः एष प्रपन्नवरदो रमयात्मशक्त्या यद्यत्करिष्यति गृहीतगुणावतार [भागवतम् ३.९.२३] इत्यादिना । गृहीता गुणाः कारुण्यादयो यत्र तथाभूतोऽवतारो यस्येत्यर्थः । तदेवं भक्तानन्दार्थमेव तान् प्रकटयतस् तस्याननुसंहितमपि सुरपक्षपातादिविश्वपालनरूपं तन्माया कार्यं स्वत एव भवति । लोके यथा केचिद्भक्ताः परस्परं भगवत् प्रेममुखोल्लासाय मिलितास्तदनभिज्ञानपि कांश्चिन्मार्दङ्गिकादीन् सङ्गृह्य तद्गुणगानानन्देनोन्मत्तवन्नृत्यन्तो विश्वेषामेवामङ्गलं घ्नन्ति मङ्गलमपि वर्धयन्तीति । तदुक्तं वाग्गद्गदेत्यादौ मद् भक्तियुक्तो भुवनं पुनातीति [भागवतम् ११.१४.२४] । एवमेवोक्तम् सृष्ट्य्आदिकं हरेर्नैव प्रयोजनमपेक्ष्य तु । कुरुते केवलानन्दाद् यथा मर्त्यस्य नर्तनम् ॥ इति । [णारायणसंहिता] न च वक्तव्यं स्वेन तेषां तैरपि स्वस्यानन्दने स्वतस्तृप्तताहानिः स्यात् तथान्यान् परित्यज्य च तेषामेवानन्दने वैषम्यान्तरमपि स्यादिति । तत्राद्ये विशुद्धोर्जितसत्त्वतनुमाश्रितेऽपि मुनिजने स्वतस्तृप्ति पराकाष्ठां प्राप्तो भक्तवात्सल्यदर्शनात्तद्अनुचर एवासौ गुणो न तु तत्प्रतिघातीति लभ्यते । यथा सर्वान्मुनीन् प्रति श्रीपरीक्षिद्वाक्यम् नेहाथ नामुत्र च कश्चनार्थ ऋते परानुग्रहमात्मशीलम् । [भागवतम् १.१९.२३] तथा जडभरतचरितादौ सिन्धुपतय आत्मसतत्वं विगणयतः परानुभावः परमकारुणिकतयोपदिश्य इत्यादि [भागवतम् ५.१३.२४] श्रीनारदपूर्वजन्मनि चक्रुः कृपां यद्यपि तुल्यदर्शनाः; शुश्रूषमाणे मुनयोऽल्पभाषिणि । [भागवतम् १.५.२४] तथा कुन्तीस्तवे नमोऽकिञ्चनवित्ताय निवृत्तगुणवृत्तये । आत्मारामाय शान्ताय कैवल्यपतये नमः ॥ [भागवतम् १.८.२७] अकिञ्चना भक्ता एव वित्तं सर्वस्वं यस्येति टीका च । ततोऽन्यथा चाकृतज्ञतादोषश्च निर्दोषे भगवत्यापतति । ततः सिद्धे तथाविधस्यापि भक्तवात्सल्ये भक्तानां दुःखहान्या सुखप्राप्त्या वा स्वानन्दो भवतीत्यायातमेव । किं च परमसारअभूताया अपि स्वरूपशक्तेः सार भूता ह्लादिनी नाम या वृत्तिस्तस्या एव सारभूतो वृत्तिविशेषो भक्तिः सा च रत्य्अपरपर्याया । भक्तिर्भगवति भक्ते च निक्षिप्तनिजोभयकोटिः सर्वदा तिष्ठति । अतएवोक्तं भगवान् भक्तभक्तिमानिति । तस्माद् भक्तस्थया तया भगवतस्तृप्तौ न स्वतस्तृप्तिर्ताहानिः । प्रत्युत शक्तित्वेन स्वरूपतो भिन्नाभिन्नाया अपि तस्याः ये यथा मां प्रपद्यन्ते तांस्तथैव भजाम्यहमिति न्यायेन भक्तचित्तस्फुरिताया भेदवृत्तेर् एव स्फुरणात्भगवतो मां ह्लादयत्यस्य भक्तिरिति आनन्दचमत्कारातिशयश्च भवति । शक्तितद्वतोर्भेदमतेऽपि विशिष्टस्यैव स्वरूपत्वं सम्प्रतिपन्नम् । तदेतत्सर्वमभिप्रेत्य भणितं दुर्वाससं प्रति श्रीविष्णुना अहं भक्तपराधीनो ह्यस्वतन्त्र इव द्विज । साधुभिर्ग्रस्तहृदयो भक्तैर्भक्तजनप्रियः ॥ नाहमात्मानमाशासे मद्भक्तैः साधुभिर्विना । श्रियं चात्यन्तिकीं ब्रह्मन् येषां गतिरहं परा ॥ ये दारागारपुत्राप्त प्राणान् वित्तमिमं परम् । हित्वा मां शरणं याताः कथं तांस्त्यक्तुमुत्सहे ॥ मयि निर्बद्धहृदयाः साधवः समदर्शनाः । वशे कुर्वन्ति मां भक्त्य् सत्स्त्रियः सत्पतिं यथा ॥ मत्सेवया प्रतीतं ते सालोक्यादिचतुष्टयम् । नेच्छन्ति सेवया पूर्णाः कुतोऽन्यत्कालविप्लुतम् ॥ साधवो हृदयं मह्यं साधूनां हृदयं त्वहम् । मद्अन्यत्ते न जानन्ति नाहं तेभ्यो मनागपि ॥ [भागवतम् ९.४.६३६८] इति । अत्र ये दारागारेति त्रयमकृतज्ञतानिवारणे साधवो हृदयं मह्यमिति स्वतस्तृप्तिपरिहारे । भक्तेः स्वरूपशक्तिसारह्लादिनीसारत्वे च अहं भक्तपराधीन इति द्वयम् । तत्रैव भक्तेष्वपि भक्तिरूपेण तत्प्रवेशे सति विशेषतो मत्सेवया प्रतीतमित्यपि ज्ञेयम् । ततो न प्राक्तनो दोषः । द्वितीयेऽप्येवम् आचक्ष्महे । परानन्दने प्रवृत्तिर्द्विधा जायते परतो निजाभीष्ट सम्पत्त्यै क्वचित्तद्अभीष्टमात्रसम्पत्त्यै च । तत्र प्रथमो नात्राप्य् अयुक्तः सात्मार्थमात्रतया कुत्रापि पक्षपाताभावात् । अत्रोत्तरपक्षे परसुखस्य परदुःखस्य चानुभवेनैव परानुकूल्येनैव प्रवृत्तीच्छा जायते न तु यत्किञ्चिज्ज्ञानमात्रेण चित्तस्य परदुःखास्पर्शे कृपारूप विकारासम्भवात् । यथा कण्टकबिद्धाङ्गो जन्तोर्नेच्छति तां व्यथाम् । जीवसाम्यं गतो लिङ्गैर् न तथाबिद्धकण्टकः ॥ इति न्यायात् । ततश्च सदा परमानन्दैकरूपेऽपहतकल्मषे भगवति प्राकृतस्य सुखाभिधदुःखस्य प्रसिद्धदुःखस्य च सूर्य पेचकचक्षुर्ज्योतिष इव तमस इव चात्यन्ताभावात्तत्तद्अनुभवो नास्त्येव । यत्तु भगवति दुःखसम्बन्धं परिजिहीर्षन्तोऽपि केचिदेवं वदन्ति, तस्मिन् दुःखानुभवज्ञानमस्त्येव, तच्च परकीयत्वेनैव भासते न तु स्वीयत्वेनेति । तदपि घट्टकुड्यां प्रभातम् दुःखानुभवो नाम हि अन्तःकरणे दुःखस्पर्शः, स च स्वस्माद्भवतु परस्माद्वेति दुःखसम्बन्धाविशेषात् । असर्वज्ञतादोषश्च सूर्यदृष्टान्तेनैव परिहृतः, प्रत्युत गुणत्वेनैव दर्शितश्च । तस्मात्तस्मिन् यत्किञ्चिद् दुःखज्ञानमस्तु, दुःखानुभवस्तु नास्त्येव । यत एव कर्तुमकर्तुम् अन्यथाकर्तुं समर्थे परमकरुणामयनिचयशिरोमणौ तस्मिन् विराजमानेऽप्यद्यापि जीवाः संसारदुःखमनुभवन्तीत्यत्र नैर्घृण्य परिहारश्च भवति । यत्तु भक्तानां सुखं तत्तस्य भक्तिरूपमेव, तथा तेषां दुःखं भगवत्प्राप्त्य्अन्तरायेणैव भवति, तत्र चाधिका भगवत्येव चित्तार्द्रता जायते सा च भक्तिरेवेति । क्वचिद्गजेन्द्रादीनामपि प्राकृत एव दुःखे स एव मम शरणमित्य् आदिना तथैव भक्तिरुद्भूतैवेति । क्वचिद्यमलार्जुनादिषु श्रीनारदादि भक्तानां भक्तिः स्फुटैवेति च सर्वथा दैन्यात्मकभक्तभक्त्य् अनुभव एव तं करुणयति न तु प्राकृतं दुःखं, योग्ये कारुणे सत्य् अयोग्यस्य कल्पनानौचित्यआत्दुःखसद्भावोऽस्त्येव कारणत्वे सर्व संसारोच्छित्तेः । अथ तस्य परम्पराकारणत्वमस्त्येव चेदस्स्तु न कापि हानिरिति । तस्माद् उभयथा भक्तानन्दने तद्भक्त्य्अनुभव एव भगवन्तं प्रवर्तयतीति सिद्धम् । ततेतदुक्तं भवति । यद्यन्यस्य सुखदुःखम् अनुभूयापि तत्तत्त्यागेनेतरस्य सुखः दुःखहानिं वा सम्पादयति तदैव वैषम्यमापतति । श्रीभगवति तु प्राकृतसुख दुःखानुभवाभावान्न तदापतति, यथा कल्पतरौ । तदुक्तं श्रीमद् अक्रूरेण न तस्य कश्चिद्दयितः सुहृत्तमो न चाप्रियो द्वेष्य उपेक्ष्य एव वा । तथापि भक्तान् भजते यथा तथा सुरद्रुमो यद्वदुपाश्रितोऽर्थदः ॥ इति [भागवतम् १०.३८.२२] । अत्र भक्तादन्य एव कश्चिदिति ज्ञेयम् । कः पण्डितस्त्वद्अपरं शरणं समीयाद्भक्तप्रियादृतगिरः सुहृदः कृतज्ञादित्य्[भागवतम् १०.४८.२६] एतद्वाक्येनैव तत्प्रियत्वप्रोक्तेः । श्री महादेवेनाप्युक्तम् न ह्यस्यास्ति प्रियः कश्चिन् नाप्रियः स्वः परोऽपि वा । आत्मत्वात्सर्वभूतानां सर्वभूतप्रियो हरिः ॥ तस्य चायं महाभागश् चित्रकेतुः प्रियोऽनुगः । सर्वत्र समदृक्शान्तो ह्यहं चैवाच्युतप्रियः ॥ [भागवतम् ६.१७.३३३४] तथोक्तं श्रीप्रह्लादेनापि चित्रं तवेहितमहोऽमितयोगमाया लीलाविसृष्टभुवनस्य विशारदस्य । सर्वात्मनः समदृशोऽविषमः स्वभावो भक्तप्रियो यदसि कल्पतरुस्वभावः ॥ [भागवतम् ८.२३.८] इति । अर्थश्च यत्त्वं भक्तप्रियोऽसि सोऽपि समदृशस् तव स्वभावोऽविषमः विषमो न भवति । तत्र हेतुगर्भविशेषणं कल्पतरुस्वभाव इति । तस्माद्विषमस्वभावतया प्रतीतेऽपि त्वय्यवैष्यमित्यतीव चित्रमिति । अथवा परत्रापि कल्पवृक्षादिलक्षणे समान एवाश्रयणीये वस्तुनि भक्त पक्षपातरूपवैषम्यदर्शनाद्वैषम्यमपि समस्यैव स्वभाव इत्य् एव व्याख्येयम् । तथा पूर्वत्रापि भक्तान् भजत इति वैषम्य एव योजनीयमिति । वस्तुतस्तु श्रीभगवत्यचिन्त्यमैश्वर्यमेव मुख्यस् तद्अविरोधे हेतुः । यदुक्तम् नमो नमस्तेऽस्त्वृषभाय सात्वतामित्य् [भागवतम् २.४.१४] आदौ द्वितीयस्य चतुर्थे टीकायाम् । तदेवं वैषम्यप्रतीताव् अप्यदोषत्वायाचिन्त्यमैश्वर्यमाहेति । तदुक्तं श्रीभीष्मेण सर्वात्मनः समदृशो ह्यद्वयस्यानहङ्कृतेः । तत्कृतं मतिवैषम्यं निरवद्यस्य न क्वचित् ॥ तथाप्येकान्तभक्तेषु पश्य भूपानुकम्पितम् । यन्मेऽसूंस्त्यजतः साक्षात्कृष्णो दर्शनमागतः ॥ इति [भागवतम् १.९.२१२२] तथा श्रीभगवता समोऽहं सर्वभूतेषु न मे द्वेष्योऽस्ति न प्रियः ये भजन्ति तु मां भक्त्या मयि ते तेषु चाप्यहम् ॥ इति [भागवतम् ९.२९] तदेवं तत्तद्दोषे भक्तपक्षपातस्य स्वरूपशक्तिसारभूतत्वे भक्तविनोदार्थमेव स्वरूपशक्त्यैव स्वयमेव च तत्तद्अवतारलीलाः करोति भगवान् ततो विश्वपालनं तु स्वयमेव सिध्यतीति स्थिते न वैदुर प्रश्नस्तद्अवस्थः । अत्र देवादीनां प्राकृततया तैः सह लीलायां स्वतस् तृप्तताहानिस्तेषु तद्अंशावेशादिस्वीकारेणाग्रे परिहर्तव्या । तथा न चावतारादीनां स्वरूपशक्त्य्आत्मताहानिः । तथा भक्तविनोदैक प्रयोजनकस्वैरलीलाकैवल्येन चान्यत्र रागद्वेषाभावान्न वैषम्यम् अपि प्रत्युत पित्तदूषितजिह्वानां खण्डाद्वैरस्य इव तस्मान्निग्रहेऽप्य् अनुभूयमाने तेषां दुष्टतादिक्षपणलक्षणं हितमेव भवति । अत्र न ह्यस्य जन्मनो हेतुः कर्मणो वा महीपते । आत्ममायां विनेशस्य परस्य द्रष्टुरात्मनः । यन्मया चेष्टितं पुंसः स्थित्य्उत्पत्त्य्अप्ययाय हि । अनुग्रहस्तन्निवृत्तेरात्मलाभाय चेष्यते ॥ [भागवतम् ९.२४.५७५८] इति नवमान्तस्थश्रीशुकवाक्यानुसारेण प्रलये लीनोपाधेर्जीवस्य धर्माद्य्असम्भवादुपाधिसृष्ट्य्आदिना धर्मादिसम्पादनेनानुग्रह इति तदीय=टीकानुसारेण च । तथा, लोके भवान् जगति नः कलयावतीर्णः सद्रक्षणाय खलनिग्रहणाय चान्यः । कश्चित्तदीयमभियाति निदेशमीश किं वा जनः स्वकृतमृछति तन्न विद्मः ॥ [भागवतम् १०.७०.२७] इति जरासन्धबद्धराजवृन्दनिवेदनेऽपि ईश्वरे त्वयि सद्रक्षणार्थम् अवतीर्णेऽपि चेदस्माकं दुःखं स्यात्तर्हि किमन्यः कश्चिज्जरासन्धादिस् त्वद्आज्ञामपि लङ्घयति किं च त्वया वक्ष्यमाणोऽपि जनः स्वकर्म दुःखं प्राप्नोतीत्येवेति न विद्मः । न चैतदुभयमपि युक्तमिति भावः । इति तदीयटीकानुसारेण च लीलायाः स्वैरत्वेऽपि दुर्घटनी मायैव तदा तदा देवानुसरादीनां तत्तत्कर्मोद्बोधसन्धानमपि घटयति । यथा स्वस्वकर्मणा पृथगेव चेष्टमानानां जीवानां चेष्टाविशेषाः परस्परशुभाशुभशकुन्ततया घटिता भवतीत्यादिकं लोकेऽपि दृश्यते । यत्र तु क्वचिदेषा तल्लीलाजवमनुगन्तुं न शक्नोति तत्रैव परमेशितुः स्वैरता व्यक्तीभवति । यथा गुरुपुत्रमिहानीतं निजकर्मनिबन्धनम् । आनयस्व महाराज मच्छासनपुरस्कृतः ॥ [भागवतम् १०.४५.४५] इति यमविषयकश्रीभगवद्आदेशादौ । ततश्च तस्यातिविरलप्रचारत्वान् न सर्वत्र कृतहान्य्अकृताभ्यागमप्रसङ्गश्च । अथ यदि केचिद्भक्तानामेव द्विषन्ति तदा तदा भक्तपक्ष पातान्तःपातित्वाद्भगवता स्वयं तद्द्वेषेऽपि न दोषः । प्रत्युत भक्त विषयकतद्रतेः पोषकत्वेन ह्लादिनीवृत्तिभूतानन्दोल्लासविशेष एवासौ । येन हि द्वेषेण प्रतिपदप्रोन्मीलत्सान्द्रानन्दवैचित्रीसमतिरिक्तभक्ति रसमरुस्थलब्रह्मकैवल्यापादानरूपत्वेन तदीयभक्तिरसमहा प्रतियोगितया ततोऽन्यथा दुश्चिकित्सतया च तत्रोचितम् । तद्उत्थभगवत् तेजसा तत्स्वरूपशक्तेरपि तिरस्कारेण ध्वंसाभावतुल्यत्वम् । स्वर्गापवर्गनरकेष्वपि तुल्यार्थदर्शिन इति [भागवतम् ६.१७.२८] न्यायेनान्येषामतीव दुःसहं तेषामपि कामुकानां निकामम् अनभीष्टमुद्दण्डदण्डविशेषं कुर्वत्येव भगवति तस्य सर्वहित पर्यवसायिचारित्रस्वभावत्वादेव तत्तद्दुर्वारदुर्वासनामयाशेष संसारक्लेशनाशोऽपि भवति । यः खल्वभेदोपासकानामतिकृच्छ्र साध्यः पुरुषार्थः । क्वचिच्च परमार्थवस्त्व्अवभिज्ञानां नरक निर्विशेषं तेषां कामिनां तु निकाममभीष्टं विटकीटानामिवामेध्यं स्वर्गविशेषं तेभ्यो ददाति स परमेश्वरः । अतएवोक्तं नागपत्नीभिः रिपोः सुतानामपि सुतवत् पाल्यानां देवानामित्य्[भागवतम् १०.१६.३३] अर्थः । दममिति यतो दम अपीत्य् अर्थः । यत्तु पूतनादावुत्तमभक्तगतिः श्रूयत तद्भक्तानुकरण माहात्म्येनैवेति तत्र तत्र स्पष्टमेव । यथा सद्वेषादपि पूतनापि सकुलेत्य्[भागवतम् १०.१४.३५] आदि । अथ यदि केचिद्भक्ता एव सन्तो भक्तान्त्रेषु कथञ्चिदपराध्यन्ति तदा तेनैवापराधेन भक्तेषु भगवति च विवर्तमानं द्वेषबाडवानल ज्वालालापमनुभूय चिरात्कथञ्चित्पुनः सद्वेषेणापि भगवत् संस्पर्शादिना सपरिकरे तद्अपराधदोषे विनष्टे स्वपदमेव प्राप्नुवन्ति । न तु ब्रह्मकैवल्यं भक्तिलक्षणबीजस्यानश्वर वभावत्वात् । तेषु भगवतः क्रोधश्च बालेषु मातुरिवेति ॥ [९३] तथा हि श्रीराजोवाच समः प्रियः सुहृद्ब्रह्मन् भूतानां भगवान् स्वयम् । इन्द्रस्यार्थे कथं दैत्यान् अवधीद्विषमो यथा ॥ [भागवतम् ७.१.१] परमात्मत्वेन समः सुहृथितकारी प्रियः प्रीतिविषयो भगवान् । एवं सति साम्येनैवोपकर्तव्यत्वेन प्रीतिविषयत्वेन न च सर्वेष्वेव प्राप्तेषु कथं विषम इव दैत्यानवधीत् । विषमत्वमुपलक्षणम् असुहृदि वा प्रिय इव चेति । [९४] किं च यस्य यैः प्रयोजनं सिध्यति स तत्पक्षपाती भवति । येभ्यो बिभेति तान् द्वेषेण हन्ति न तु तदत्रास्तीत्याह न ह्यस्यार्थः सुरगणैः साक्षान्निःश्रेयसात्मनः । नैवासुरेभ्यो विद्वेषो नोद्वेगश्चागुणस्य हि ॥ [भागवतम् ७.१.२] निःश्रेयसं परमानन्दः । [९५] अतः इति नः सुमहाभाग नारायणगुणान् प्रति । संशयः सुमहान् जातस् तद्भवांश्छेत्तुमर्हति ॥ [भागवतम् ७.१.३] गुणाननुग्रहनिग्रहादीन् प्रति तत्तत्संशयम् । [९६] अत्र श्र्यृष्रुवाच साधु पृष्टं महाराज हरेश्चरितमद्भुतम् । यद्भागवतमाहात्म्यं भगवद्भक्तिवर्धनम् ॥ [भागवतम् ७.१.४] हे महाराज । इदं यत्पृष्ठं तत्साधु सुविचारितमेव । किन्तु हरेश् चरितमद्भुतमपूर्वमवैषम्येऽपि विषमतया प्रतीयमानत्वेन विचारातीतत्वात् । यद्यत्र हरेश्चरित्रे भगवद्भक्तिवर्धनं भागवत माहात्म्यं भागवतानां प्रह्लादोपलक्षितभक्तवृन्दानां माहात्म्यं वर्तते । अनेन भागवतार्थमेव सर्वं करोति भगवान्न त्वन्यार्थम् इत्यस्यैवार्थस्य पर्यवसानं भविष्यतीति व्यञ्जितम् । टीका च स्वभक्तपक्षपातेन तद्विपक्षविदारणम् । नृसिंहमद्भुतं वन्दे परमानन्दविग्रहम् ॥ इत्येषा । [९७] अतो गीयते परमं पुण्यम् ऋषिभिर्नारदादिभिः । नत्वा कृष्णाय मुनये कथयिष्ये हरेः कथाम् ॥ [भागवतम् ७.१.५] परमं पुण्यं यथा स्यात्तथा या गीयते तां कथामिति यत् तदोरध्याहारेणान्वयः । अत्र च तैर्गीयमानत्वेन भक्तैकसुख प्रयोजनत्वमेव व्यञ्जितम् । [९८] तत्र तत्र तावद्व्यञ्जितार्थानुरूपमेव प्रश्नस्योत्तरमाह निर्गुणोऽपि ह्यजोऽव्यक्तो भगवान् प्रकृतेः परः । स्वमायागुणमाविश्य बाध्यबाधकतां गतः ॥ [भागवतम् ७.१.६] यस्मात्प्रकृतेः परस्तस्मान्निर्गुणः प्राकृतगुणरहितः तत एवाजो नित्य सिद्धः तत एव चाव्यक्तः प्राकृतदेहेन्द्रियादिरहितत्वान्नान्येन व्यज्यते इति स्वयं प्रकाशदेहादिरित्यर्थः । ततश्च प्रकृतिगुणोत्थरागद्वेषादि रहितश्चेति भावः । एवमेवम्भूतोऽपि स्वेषु भक्तेषु या माया कृपा तत्रोपितो यो गुणो लीलाकौतुकमयविशुद्धोर्जितसत्त्वाख्यस्तम् आविश्यालम्ब्य भगवान्नित्यमेव प्रकाशितषड्गुणैश्वर्यः सन्, एतदप्य् उपलक्षणं कदाचिदित्यादौ जातः सन् लोकेन्द्रियेषु व्यक्तोऽपि सन् बाध्य बाधकतां गतः । निजदृष्टिपथेऽपि स्थातुमसमर्थेषु अतिक्षुद्रेषु देवासुरादिषु स्वसाहाय्यप्रतियोद्धृत्वसम्पादनाय स्वयं सञ्चारितं किञ्चित्तद्अंशलक्षणमेव तेजः समाश्रित्य बाध्यतां बाधकतां च गतः । युद्धलीलावैचित्र्याय प्रतियोद्धृषु तदानीं स्वस्मिन् प्रकाश्यमानादपि तेजसोऽधिकं तेजोऽंशं सञ्चार्य बाध्यतां पराजयं कदाचित्तु तस्मान्नूनं सञ्चार्य बाधकतां जयं प्राप्त इत्यर्थः । स्यात् कृपादम्भयोर्माया इति विश्वप्रकाशः । अत्र सत्यप्यर्थान्तरे भागवतानुग्रहप्रयोजनत्वेनैवोपक्रान्तत्वाद् उपसंहरिष्यमाणत्वाच्च गतिसामान्याच्च छलमयमायया तत्तत् कर्तृत्वेऽप्यधिकदोषापाताच्च तन्नापेक्षते । तस्माद्भक्तविनोदैक प्रयोजनकस्वैरलीलाकैवल्येनान्यत्र रागद्वेषाभावान्नात्र वैषम्यम् इति भावः । अतएव बाध्यतामपि यातीति बाधक्तया सहैवोक्तम् । तथा निज स्वरूपशक्तिविलासलक्षणलीलाविष्कारेण सर्वेषामेव हितं पर्यवस्यतीति सुहृत्तादिकं च नापयातीति ध्वनितम् । [९९] अथ कथं सोऽपि विशुद्धसत्त्वाख्यो गुणः प्राकृतो न भवति कदा वा कुत्र तं वीर्यातिशयं सञ्चारयति कथां वा कृतहान्यकृताभ्याभ्यागम प्रसङ्गो न भवतीत्यादिकमाशङ्क्याह द्वाभ्याम् सत्त्वं रजस्तम इति प्रकृतेर्नात्मनो गुणाः । न तेषां युगपद्राजन् ह्रास उल्लास एव वा ॥ [भागवतम् ७.१.७] सत्त्वादयो गुणाः प्रकृतेरेव नात्मनः । आत्मनः परमेश्वरस्य तस्य तु ये सर्वेऽपि नित्यमेवोल्लासिनो गुणास्ते तु ते न भवन्तीत्यर्थः । तदुक्तम् सत्त्वादयो न सन्तीश [Vइড়् १.९.४४] इति । ह्लादिनी सन्धिनी संवित् त्वय्येव सर्वसंस्थितौ इति [Vइড়् १.१२.६९] च । यस्मान्नात्मनस्ते तस्मादेव युगपथ्रास एव वा उल्लास एव वा नास्ति, किन्तु विकारित्वेन परस्परमुपमर्द्यत्वात्कस्यचित्कदाचिथ्रासः कदाचित् कदाचिदुल्लासो भवतीत्यर्थः । [१००] ततश्च देवादीनां तत्साहाय्ये सुरादीनां च तद्युद्धे योग्यतां दर्शयति । तथा सत्त्वाद्य्उल्लासकाले तल्लीलायास्तद्अधीनत्वमिव यत् प्रतीयते तदनुवदन् परिहरति जयकाले तु सत्त्वस्य देवर्षीन् रजसोऽसुरान् । तमसो यक्षरक्षांसि तत्कालानुगुणोऽभजत् ॥ [भागवतम् ७.१.८] सत्त्वस्य जयकाले देवानृषींश्चाभजत्भजति भगवान् तत्तद्देहेषु सत्त्वोपाधिकनिजतेजः सञ्चारयति येन च तान् सहायमानान् करोतीत्य् अर्थः । एवं रजसो जयकाले असुरेषु रजोपाधिकं तमसो जयकाले यक्ष रक्षःसु तमोपाधिकमिति योजनीयम् । ततश्च येन तान् यक्षादीन् प्रतियोद्दॄन् कुर्वन् देवादीन् पराजितान् करोति स्वयमपि तथा दर्शयतीत्यर्थः । तदेवं भक्तरसपोषलीला वैचित्र्याय बाध्यबाधकतां यातीति दर्शितम् । यच्च क्षीरोदमथने श्रूयते । तथा सुराणाविशदासुरेण रूपेण तेषां बलवीर्यमीरयन् । उद्दीपयन् देवगणांश्च विष्णुर् देवेन नागेन्द्रमबोधरूपः ॥ [भागवतम् ८.७.११] इति । तत्रापि तद्वैचित्र्यार्थमेव तथा तत्तद्आवेशस्तस्येति लभ्यते । नन्वायाता तस्य तत्तद्गुणोद्बोधकालपारवश्येन स्वैरलीलताहानिः । ततश्च गुणसम्बन्धातिशये वैष्यादिकं च स्पष्टमेवेत्याशङ्क्याह तत् कालानुगुण इति । तेषां सत्त्वादीनां काल एवानुगुणो यस्य सः । भगवच् छरण इतिवत्समासः । स्वैरमेव क्रीडति तस्मिन्नित्यमेव तद् अनुगतिकया मायया तद्अनुसारेणैवानादिसिद्धप्रवाहं तं जगत्कर्म समुदायं प्रेर्य स्ववृत्तिविशेषरूपत्वेन प्रवर्त्यमानः सत्त्वादि गुणानां काल एव तद्अधीनो भवतीत्यर्थः । कालस्य मायावृत्तित्वम् उदाहृतं कालो दैवमित्यादौ त्वन्मायैषेति । यद्वा तेषां कालोऽपि सदानुगतो भक्तानुग्रहमात्रार्थस्वैरचेष्टात्मकप्रभावलक्षणो गुणो यस्य स इत्यर्थः । ततोऽपि तच्चेष्टानुसारेणैव मायया तत्तत् प्रवर्तनमिति भावः । यदुक्तम् योऽयं कालस्तस्य तेऽव्यक्तबन्धो चेष्टामाहुश्चेष्टते येन विश्वम् ॥ [भागवतम् १०.३.२६] इति । तथा चोभयथापि न पारवश्यमित्यायातम् । इत्थमेव श्रीकपिलदेवोऽपि यः कालः पञ्चविंशक इति [भागवतम् ३.२६.१५] । प्रभावं पौरुषं प्राहुः कालमेके यतो भयमिति [भागवतम् ३.२६.१६] च । तत्र मायाव्यङ्गत्वपुरुष गुणत्वलक्षणमतद्वयमुपन्यस्तवान् । अत्र तस्य चेष्टा प्रभावस्य भक्तविनोदायैव मुख्या प्रवृत्तिः । गुणोद्बोधादिकार्यं तु तत्र स्वत एव भवतीति तत्र प्रवृत्त्याभास एव । ततश्च पूर्वोऽंशः स्वयमेवेति स्वरूपशक्तेरेव विलासः परस्तद्आभासरूप एवेत्याभासशक्तेर् मायाया एवान्तर्गतः । योऽयं काल इत्यादौ निमेषादिरित्युक्तिस्तु द्वयोर् अभेदविवक्षयैवेति ज्ञेयम् । अत एवं व्याख्येयम् । यथा भृत्यस्यानुगतो भृत्योऽनुभृयः तथात्र प्रभावलक्षणस्य गुणस्यानुगत आभासरूपो गुणोऽनुगुणः । तथा च तेषां कालोऽप्यनुगुणो न तु साक्षाद्गुणो यस्येति ॥ [१०१] ननु तेषु तेषु तेनावेश्यमानं तेजः कथं न लक्ष्यते । तत्राह ज्योतिर्आदिरिवाभाति सङ्घातान्न विविच्यते । विदन्त्यात्मानमात्मस्थं मथित्वा कवयोऽन्ततः ॥ [भागवतम् ७.१.९] यद्यपि तेषु तेषु निजतेजोऽंशेनाविष्टोऽसौ सङ्घातात्सम्मिश्रत्वात्न विविच्यते लोकैर्विवेक्तुं न शक्यते तथापि कवयो विवेकनिपुणा अन्ततो मथित्वा तस्यापि साहाय्यं तेनापि युद्धमित्यादिकासम्भवार्थनिषेधेन विविच्य तद्अंशेनात्मस्थं तत्तद्आत्मनि प्रविष्टमात्मानमीश्वरं विदन्ति जानन्ति । तत्र हेतुगर्भो दृष्टान्तः । यस्मात्तत्तेजः ज्योतिर्आदि पदार्थ इवाभाति द्रष्टृष्विति विशेषः । अयमर्थः । यथा नेदं मणेस्तेजः पूर्वमदर्शनात्, किन्तु तदातप संयोगेन सौरं तेज एवात्र प्रविष्टमिति सूर्यकान्तादौ तूलादिदाहेन तद् अनुभविषु तदा भाति । यथा च पूर्ववदेव वायोरयं गन्धः पार्थिव एव प्रविष्ट इति तेष्वाभाति । तथात्रापीति । अथवा नन्वेवं तर्हि तैरपि क्रीडतीति दृश्यत तत्राह ज्योतिरिति । यथा चक्ष्र्आदिज्योतिभिः स्वांशे रूपमात्रेऽपि प्रकाश्यमाने गन्धादिगुण पञ्चका मृदेवासुअ प्रकाशत इति प्रतीयते । यथा च कर्णादिनभसा स्वांशे शब्दमात्रेऽपि गृह्यमाने दुन्दुभिरेवासाविति प्रतीयते । तच्च तत् तद्गुणानां संमिश्रत्वादेव भवति न वस्तुतः । तथा कवयः आत्मानम् ईश्वरं तत्तत्सङ्घातस्थत्वेनान्यैरविविक्तमपि आत्मस्थं स्वांश तेजोभिरेव क्रीडन्तं जानन्तीत्यर्थः । [१०२] यदेवं युद्धादिनिजलीलाभिर्भक्तविनोदनमेव प्रयोजनं, विश्व पालनं तु ततः स्वत एव भवतीत्युक्त्वा, सृष्टिप्रलययोः प्रकृतीक्षणादाव् अपि सर्वाशङ्कनिरासार्थमतिदिशन् त्रिष्वप्यविशेषमाह यदा सिसृक्षुः पुर आत्मनः परो रजः सृजत्येष पृथक्स्वमायया । सत्त्वं विचित्रासु रिरंसुरीश्वरः शयिष्यमाणस्तम ईरयत्यसौ ॥ [भागवतम् ७.१.१०] यदा यत्र स्वचेष्टालक्षणे काले एष परः परमेश्वरः स्वमायया भक्तकृपया आत्मनः पुरः प्राचीनसृष्टिगतसाधकभक्तरूपाणि स्वस्याधिष्ठानानि सिसृक्षुर्भवति प्रकृत्या सह तेषु लीनेषु आविर्भावनार्थामीक्षां करोति तदा पृथक्स्वरूपशक्तेरितरासौ जीव मायाख्या शक्तिः पूर्ववत्तच्चेष्टात्मकप्रभावाभासोद्दीप्ता रजः सृजति स्वांशभूताद्गुणत्रयसाम्यादव्यक्ताद्विक्षिपति उद्बोधयतीति वा । यद् वा पृथङ्मायानुगत एष काल एव सृजति तथासौपदेन च काल एवोच्यते । अथ विचित्रासु नानागुणवैचित्रीमतीषु तल्लक्षणासु पूर्षु यदा रन्तुम् इच्छुर्भवति तदासौ सत्त्वं सृजति, यदा पुनस्ताभिरेव मिलित्वा शयिष्यमाणः शयितुमिच्छुर्भवतीत्यर्थः । तदासौ तमः सृजतीति । ततो भक्तनिमित्तमेव सर्वा एव सृष्ट्य्आदिक्रियाः प्रवर्तन्ते इति भावः । यथाङ्गीकृतमेकादशस्य तृतीये टीकाकृद्भिरपि । किमर्थं ससर्ज स्व मात्रात्मप्रसिद्धये । स्वं मिमीते प्रमिमीते आत्मानमुपास्ते यः स स्व माता तस्यात्मनो जीवस्य प्रकृष्टा ये सिद्धय इति शयनमत्र पुरुषावतारस्य कदाचित्प्रलयोदधौ योगनिद्रा कदाचिद्भगवत्प्रवेशो वा । यद्यपि सर्वेष्वपि जीवेषु अन्तर्यामितया परमेश्वरस्तिष्ठति तथापि तत्रासंसक्तत्वादस्थित एव भवति तद्भक्तेषु तु समासक्तत्वान्न तथेति । न च तत्सङ्गादौ तस्येच्छेति यथोक्तव्याख्यानमेव बलवत् । तथा च श्रीभगवद्उपनिषदः मत्स्थानि सर्वभूतानि न चाहं तेष्ववस्थितः । न च मत्स्थानि भूतानि पश्य मे योगमैश्वरम् ॥ [गीता ९.४५] इति ये भजन्ति तु मां भक्त्या मयि ते तेषु चाप्यहम् ॥ [गीता ९.२९] इति च । उक्तं च हरिभक्तिसुधोदये भक्तानां हृदयं शान्तं सश्रियो मे प्रियं गृहम् । वसामि तत्र शोभैव वैकुण्ठाख्यादिवर्णना ॥ इति । [१०३] एवं प्रसङ्गेन सृष्टिप्रलयावपि व्याख्याय पुनः पालनमेव व्याचक्षाणः प्रकरणमुपसंहरति सार्धेन कालं चरन्तं सृजतीश आश्रयं प्रधानपुम्भ्यां नरदेव सत्यकृत् । य एष राजन्नपि काल ईशिता सत्त्वं सुरानीकमिवैधयत्यतः । तत्प्रत्यनीकानसुरान् सुरप्रियो रजस्तमस्कान् प्रमिणोत्युरुश्रवाः ॥ [भागवतम् ७.१.११] सत्यकृत्स्वरूपशक्तिविलासेनैव स्वयं परमार्थसत्यक्रियाविर्भावक एव सन् स्वचेष्टारूपं कालं सृजति व्यञ्जयति । किं कुर्वन्तं प्रधान पुंभ्यां च चरन्तं तत्तत्सम्बन्धानां साधकभक्तानां देवादि प्रविष्टं निजतेजोऽंशानां च साहाय्यअहेतोरेव सृज्यमानतया उत्पत्तैवाव्यक्तजीवसङ्घाताभ्यां चरन्तमतएव सन्निधानेनैव तयोस् तत्तद्अवस्थानामाश्रयमुद्भवहेतुं च । नरद्देवेति सम्बोधनेन यथा निजैषया मुख्यमेव कार्यं कुर्वतस्तव तथैवानयदपि क्षुद्रतरं स्वयमेव सिध्यति तद्वदिहापीति बोधितम् । ततो य एष चेष्टा रूपः काल स सत्त्वं सत्र्त्वप्रधानं सुरानीकमेघयतीव तत एव त प्रत्यनीकान् रजस्तमःप्रधानानसुरान् प्रमिणोतीव हिन्स्तीव, ये तु देवेषु भक्ता असुरेषु भक्तद्वेषिणस्तान् स्वयं पालयति चैवेति पूर्वेम् एवोक्तम् । यस्मात्तच्चेष्टालक्षणस्य कालस्यैवं वार्ता तस्मादीशितापि एधयतीव प्रमिणोतीव चेति । हे राजन्निति पूर्वाभिप्रायमेव । ननु यदि चेशितुः प्रयोजनं न भवति तर्हि कथं कदाप्यसुरानपि स्व पक्षान् विधाय देवैर्न युध्येत, तत्राह सुरप्रियः । सुरेषु वर्तमानाः प्रिया भक्ता यस्य सः । सत्त्वप्रधानेषु सुरेषु प्रायशस्तेषां सर्वेषाम् अनुगमनेनैव तस्यानुगमनम् । कदाचिद्बृहस्पत्य्आदिषु महत्स्व् अपराधे तु तेषां मालिन्येन सुरत्वाच्छादनात्तेषां तस्य चैतेष्व् अननुगमनं स्यादिति । जयकाले तु सत्त्वस्येत्याद्युक्तमिति भावः । ननु कथं तेऽपि तान्नानुगच्छन्ति तत्राह रजस्तमस्कानिति । अत्यन्त भगवद्बहिर्मुखताकरयोर्गुणयोररोचकत्वादेवेति भावः । तर्यसौ सदैवासुराणां निग्रहमेव करोतीत्यथाप्यसमञ्जस्यमित्याशङ्क्याह उरुश्रवाः । उरु सर्वतो विस्तृतं महत्तमं वा श्रवः कीर्तिर्यस्य स तेषाम् अप्यनुग्रहं करोतीति भावः । [१०४] तदेवं सिद्धान्तं प्रदर्श्य तत्र स्वभक्तानुग्रहमात्रप्रयोजनस्तत् तत्करोति परेश इति प्रतिज्ञातार्थोदाहरणाय प्रह्लादजयविजयादिकृपायाः सूचकमितिहासविशेषमाह अत्रैवोदाहृतः पूर्वम् इतिहासं सुरर्षिणा । प्रीत्या महाक्रतौ राजन् पृच्छतेऽजातशत्रवे ॥ इत्य्[भागवतम् ७.१.१२] आदि । टीकैव दृश्या ॥ ७.१ ॥ श्री शुकः ॥९३१०४॥ [१०५१०६] तदेवं सर्वे अपि वैषम्यनैर्घृण्ये परिहृते । ईश्वरस्तु पर्यन्यवद् द्रष्टव्य इत्यस्य ब्रह्मसूत्रनिर्गतार्थन्यायस्याप्यत्रैवान्तर्भाव सिद्धेः । इति ब्रह्मभगवत्परमात्मानो विवृताः । तदेवं त्रिव्यूहत्वम् एव व्याख्यातम् । क्वचिद्वासुदेवादिचतुर्व्यूहादित्वं च दृश्यते । स च भेदः कस्यचित्केनचिदभेदविवक्षया च नायुक्तः। तदुक्तं मोक्ष धर्मे नारायणीये एकव्यूहविभागो वा क्वचिद्द्विव्यूहसंज्ञितः । त्रिव्यूहश्चापि सङ्ख्यातश्चतुर्व्यूहश्च दृश्यते ॥ इति [ंभ्१२.३३६.५३] श्रुतिश्च स एकधा भवति द्विधा भवतीत्य्[Cहा ७.२६.२] आद्या । अथ पूर्वरीत्या चतुर्व्यूहत्वाद्य्अविसंवादितया यदत्र त्रिव्यूहत्वं तत्र प्रथमव्यूहस्य श्रीभगवत एव मुख्यत्वं यत्प्रतिपादकत्वेनैवास्य श्रीभागवतमित्याख्या । यथोक्तम् इदं भागवतं नाम पुराणं ब्रह्मसम्मितमिति । तस्य हि प्राधान्ये षड्विधेन लिङ्गेन तात्पर्यमपि पर्यालोच्यते । उपक्रमोपसंहारावभ्यासोऽपूर्वता फलम् । अर्थवादोपपत्ती च लिङ्गं तात्पर्यनिर्णये ॥ इत्युक्तप्रकारेण । तथा हि तावदुपक्रमोपसंहारयोरैक्येन जन्माद्यस्य यतोऽन्वयादितरतश्चार्थेष्वभिज्ञः स्वराट् तेने ब्रह्म हृदा य आदिकवये मुह्यन्ति यत्सूरयः । तेजोवारिमृदां यथा विनिमयो यत्र त्रिसर्गोऽमृषा धाम्ना स्वेन सदा निरस्तकुहकं सत्यं परं धीमहि ॥ [भागवतम् १.१.१] कस्मै येन विभासितोऽयमतुलो ज्ञानप्रदीपः पुरा तद्रूपेण च नारदाय मुनये कृष्णाय तद्रूपिणा । योगीन्द्राय तद्आत्मनाथ भगवद्राताय कारुण्यतस् तच्छुद्धं विमलं विशोकममृतं सत्यं परं धीमहि ॥ [भागवतम् १२.१३.१९] तत्र पुर्वस्यार्थः । अर्थोऽयं ब्रह्मसूत्राणामिति गारुडोक्तेरस्य महा पुराणस्य ब्रह्मसूत्राकृत्रिमभाष्यात्मकत्वात्प्रथमं तद् उपादायैवावतारः । तत्र पूर्वमथातो ब्रह्म जिज्ञासेति व्याचष्टे तेजोवारि मृदामित्य्आद्य्अर्धेन । योजनायां प्राथमिकत्वादस्य पूर्वत्वम् । तत्र ब्रह्मजिज्ञासेति व्याचष्टे परं धीमहीति । परं श्रीभगवन्तं धीमहि ध्यायेम । तदेवं मुक्तप्रग्रहया योगवृत्त्या बृहत्वाद् ब्रह्म यत्सर्वात्मकं तद्बहिश्च भवति । तत्तु निजरश्म्य्आदिभ्यः सूर्य इव सर्वेभ्यः परमेव स्वतो भवतीति मूलरूपत्वप्रदर्शनाय परपदेन ब्रह्मपदं व्याख्यायते । तच्चात्र भगवानेवेत्य् अभिमतम् । पुरुषस्य तद्अंशत्वान्निर्गुणस्य ब्रह्मणो गुणादिहीनत्वात् । उक्तं च श्रीरामानुजचरणैः सर्वत्र बृहत्वगुणयोगेन हि ब्रह्म शब्दः । बृहत्वं च स्वरूपेण गुणैश्च यत्रानवधिकातिशयः सोऽस्य मुखोऽर्थः । स च सर्वेश्वर एवेति । उक्तं प्रचेतोभिः नह्यन्तो यद् विभूतीनां सोऽनन्त इति गीयते । अतएव विव्धमनोहरानन्ताकारत्वेऽपि तत् तद्आकाराश्रयपरमाद्भुतमुख्याकारत्वमपि तस्य व्यञ्जितम् । तद् एवं मूर्तत्वे सिद्धे तेनैव परत्वेन न तस्य विष्ण्व्आदिरूपक भगवत्त्वमेव सिद्धम् । तस्यैव ब्रह्मशिवादिपरत्वेन दर्शितत्वात् । अत्र जिज्ञासेत्यस्य व्याख्या धीमहीति । यतस्तज्जिज्ञासास्तात्पर्यं तद् ध्यान एव । तदुक्तमेकादशे स्वयं भगवता शब्दब्रह्मणि निष्णातो निष्णायात्परे यदि । श्रुतस्तस्य श्रमफलो ह्यधेनुमिव रक्षत ॥ [भागवतम् ११.११.१८] इति । ततो धीमहीत्यनेन श्रीरामानुजमतं जिज्ञासापदं निदिध्यासन परमेवेति । स्वीयत्वेनाङ्गीकरोति श्रीभागवतनामा सर्ववेदादिसार रूपोऽयं ग्रन्थ इत्यायातम् । धीमहीति बहुवचनं कालदेशपरम्परा स्थितस्य सर्वस्यापि तत्कर्तव्यताभिप्रायेण अनन्तकोटि ब्रह्माण्डान्तर्यामिनां पुरुषाणामंशिभूते भगवत्येव ध्यानस्याभिधानात् । अनेनैकजीववादजीवनभूतो विवर्तवादोऽपि निरस्तः । ध्यायतिरपि भगवतो मूर्तत्वमपि बोधयति ध्यानस्य मूर्त एवाकष्टार्थत्वात् । सति च सुसाध्ये पुमर्थोपाये दुःसाध्यस्य पुरुषाप्रवृत्त्या स्वत एवापकर्षात्तद्उपासकस्यैव युक्ततमत्वनिर्णयाच् च । तथा च गीतोपनिषदः मय्यावेश्य मनो ये मां नित्ययुक्ता उपासते । श्रद्धया परयोपेतास्ते मे युक्ततमा मताः ॥ [गीता १२.२] ये त्वक्षरमनिर्देश्यमव्यक्तं पर्युपासते । ते प्राप्नुवन्ति मामेव सर्वभूतहिते रताः ॥ [गीता १२.३४] क्लेशोऽधिकतरस्तेषामव्यक्तासक्तैतसाम् अव्यक्ता हि गतिर्दुःखं देहवद्भिरवाप्यते ॥ [गीता १२.५] इदमेव च विवृतं ब्रह्मणा श्रेयःसृतिं भक्तिमुदस्य ते विभो क्लिश्यन्ति ये केवेलबोधलब्धये । तेषामसौ क्लेशल एव शिष्यते नान्यद्यथा स्थूलतुषावघातिनाम् ॥ [भागवतम् १०.१४.४] इति । अतएवास्य ध्येयस्य स्वयं भगवत्त्वमेव साधितम् । शिवादयश्च व्यावृत्ताः । तथा धीमहीति लिङ्गा ध्योतिता पृथग्अनुसन्धानरहिता प्रार्थना ध्यानोपलक्षितभगवद्भजनमेव परम्पुरुषार्थत्वेन व्यनक्ति । ततो भग्वतस्तु तथात्वं स्वयमेव व्यक्तम् । ततश्च यथोक्त परममनोहरमूर्तित्वमेव लक्ष्यते । तथा च वेदानां सामवेदोऽस्मीति [गीता १०.२२]। तत्र च बृहत्साम तथा साम्नामित्य्[गीता १०.३५] उक्तमहिम्नि बृहत्साम्नि बृहद्धामं बृहत्पार्थिवं बृहद्अन्तरीक्षं बृहद्दिवं बृहद्वामं बृहद्भ्यो वामं वामेभ्यो वाममिति । तदेवं ब्रह्म जिज्ञासेति व्याख्यातम् । अथात इत्यस्य व्याख्यामाह सत्यमिति । यतस्तत्राथशब्द आनन्तर्ये अतः शब्दो वृत्तस्य हेतुभावे वर्तते तस्मादथेति स्वाध्यायक्रमतः प्राक् प्राप्तकर्मकाण्डे पूर्वमीमांसया सम्यक्कर्मज्ञानादनन्तरमित्य् अर्थः । अत इति तत्क्रमतः समनन्तरं प्राप्तब्रह्मकाण्डे तूत्तर मीमांसया निर्णेयसम्यग्अर्थेऽधीतचराद् यत्किञ्चिद्अनुसंहितार्थात् कुतश्चिद्वाक्याद्धेतोरित्यर्थः । पूर्वमीमांसायाः पूर्व पक्षत्वेनोत्तरमीमांसानिर्णयोत्तरपक्षेऽस्मिन्नवय्श्यापेक्ष्यत्वाद् अविरुद्धांशे सहायत्वात्कर्मणः शान्त्य्आदिलक्षणसत्त्वशुद्धिहेतुत्वाच् च तद्अनन्तरमित्येव लभ्यम् । वाक्यानि चैतानि तद्यथेह कर्मजितो लोकः क्षीयते एवामेवामुत्र पुण्यजितो लोकः क्षीयते । अथ य इहात्मानम् अनुविद्य व्रजन्त्येतांश्च सत्यकामांस्तेषां सर्वेषु लोकेषु कामचारो भवतीति न स पुनरावर्तते इति स चानन्त्याय कल्पते इति निरञ्जनः परमं साम्यमुपैतीति । इदं ज्ञानमुपाश्रित्य मम साधर्म्यमागताः । सर्गेऽपि नोपजायन्ते प्रलये न व्यथन्ति च ॥ इति [गीता १४.२] । तदेतदुभयं विवृतं रामानुजशारीरके मीमासापूर्वभागज्ञातस्य कर्मणोऽल्पास्थिरफलत्वं तद्उपरितनभागावसेयस्य ब्रह्मज्ञानस्य त्वनन्ताहप्रफलत्वं श्रूयते । अतः पूर्ववृत्तान् कर्मज्ञानादनन्तरं ब्रह्म ज्ञातव्यमित्युक्तं भवति । तदाह सर्वादिवृत्तिकारो भगवान् बौधायनः वृत्तान् कर्माधिगमादनन्तरं ब्रह्म विविदिषेतीति । एतदेव पुरञ्जनोपाख्याने च दक्षिणवामकर्णयोः पितृहूद्वहूशब्द निरुक्तौ व्यक्तमस्ति । तदेवं सम्यक्कर्मकाण्डज्ञानानन्तरं ब्रह्म काण्डगतेषु केषुचिद्वाक्येषु स्वर्गाद्य्आनन्दस्य वस्तुविचारेण दुःख रूपत्वव्यभिचारिसत्ताकत्वज्ञानपूर्वकं ब्रह्मणस्त्वव्यभिचारि परतमानन्दत्वेन सत्यत्वज्ञानमेव ब्रह्मजिज्ञासायां हेतुरिति अर्थात इत्यस्यार्थे लब्धे तन्निर्गलितार्थमेवाह सत्यमिति । सर्व सत्तादात्रव्यभिछारिसत्ताकमित्यर्थः । परमित्यनेनान्वयात्सत्यं ज्ञानमनन्तं ब्रह्मेत्यत्र [टैत्त्२.१.३] श्रुतौ च ब्रह्मेत्यनेन । तदेवमन्यस्य तद्इच्छाधीनसत्ताकत्वेन व्यभिचारिसत्ताकत्वमायाति । तदेवमत्र तदेतदवधि व्यभिचारिसत्ताकमेव ध्यातवन्तो वयम् इदानीं त्वव्यभिचारिसत्ताकं ध्यायेमेति भावः । अथ परत्वमेव व्यनक्ति धाम्नेति । अत्र धामशब्देन प्रभाव उच्यते प्रकाशो वा । गृहदेहत्विट्प्रभावा धामनीत्यमरादिनानार्थवर्गात् । न तु स्वरूपम् । तथा कुहकशब्देनात्र प्रतारणकृदुच्यते । तच्च जीव स्वरूपावरणविक्षेपकारित्वादिना मायावैभवमेव । ततश्च स्वेन धाम्ना स्वप्रभावरूपया स्वप्रकाशरूपया वा शक्त्या सदा नित्यमेव निरस्तं कुहकं मायावैभवं यस्मात्तम् । तदुक्तं मायां व्युदस्य चिच्छक्त्येति । तस्या अपि शक्तेरागन्तुकत्वेन स्वेनेत्यस्य वैयअर्थ्यं स्यात् । स्वस्वरूपेणेत्येवं व्याख्याने तु स्वेनेत्यनेनैव चरितार्थता स्यात् । यथा कथञ्चित्तथा व्याख्यानेऽपि कुहकनिरसनलक्षणा शक्तिरेवापद्यते । सा च साधकतमरूपया तृतीयया व्यक्तेति । एतेन मायातत्कार्यविलक्षणं यद्वस्तु तत्तस्य स्वरूपमिति स्वस्वरूपलक्षणमपि गम्यम् । तच्च सत्यं ज्ञानमानन्दं ब्रह्मेति विज्ञानमानन्दं ब्रह्मेति [टैत्त्२.१.३] श्रुतिप्रसिद्धमेव । एतच्छ्रुतिलक्षकमेव च सत्यमिति विन्यस्तम् । तद् एवं स्वरूपशक्तिश्च साक्षादेवोपक्रान्ता ततः सुतरामेवास्य भगवत्त्वं स्पष्टम् । अथ मुख्ये सत्यत्वे युक्तिं दर्शयति यत्रेति । ब्रह्मत्वात्सर्वत्र स्थिते वासुदेवे भगवति यस्मिन् स्ह्तितस्त्रयाणां गुणानां भूतेन्द्रिय देवतात्मको यस्यैवेशितुः सर्गोऽप्ययमृषा शक्त्यादौ रजतादिकम् इवारोपितो न भवति । किन्तु यतो वा इमानीति श्रुतिप्रसिद्धे ब्रह्मणि यत्र सर्वदा स्थितत्वात्संज्ञामूर्तिक्प्तिस्तु त्रिवृत्कुर्वत उपदेशादिति [Vस्. २.४.२०] यदेककर्तृकत्वाच्च सत्य एव । तत्र दृष्टान्तेनाप्यमृषात्वं साधयति तेजादीनां विनिमयः परस्परांशव्यत्ययः परस्परस्मिन्न् अंशेनावस्थितिरित्यर्थः । स यथा मृषा न भवति किन्तु यथैवेश्वर निर्माणं तथेत्यर्थः । हतेमास्तिस्रो देवतास्त्रिवृदेकैका भवति । तद् अग्ने रोहितं रूपं तेजसस्तद्रूपं यत्शुक्लं तदपां यत्कृष्णं तत् पृथिव्याः तदन्नस्येति श्रुतेः [Cहाऊ ६.४.१] । तदेवमर्थस्यास्य श्रुतिमूलत्वात्कल्पनामूलस्त्वन्योऽर्थः स्वत एव परास्तः । तत्र च सामान्यतया निर्दिष्टानां तेजादीनां विशेषत्वे सङ्क्रमणं न शाब्दिकानां हृदयमध्यारोहति । यदि च तदेवामंस्यत तदा वारादीनि मरीचिकादिषु यथेत्येवावक्ष्यते । किं च तन्मते ब्रह्मतस् त्रिसर्गस्य मुख्यं जन्म नास्ति किन्त्यारोप एव जन्मेत्युच्यते । स पुनर् भ्रमादेव भवति । भ्रमश्च सादृश्यावलम्बी । सादृश्यं तु काल भेदेनोभयमेवाधिष्ठानं करोति । रजतेऽपि शुक्तिभ्रमसम्भवात् । न चैकात्मकं भ्रमाधिष्ठानं बह्व्आत्मकं तु भ्रमकल्पितमित्य् अस्ति नियमो मिथो मिलितेषु विदूरवर्तिधूमपर्वतवृक्षेष्वखण्ड मेघभ्रमसम्भवात् । तदेवं प्रकृतेऽप्यनादित एव त्रिसर्गः प्रत्यक्षं प्रतीयते । ब्रह्म च चिन्मात्रतया स्वत एव स्फुरदस्ति । तस्मादनाद्यज्ञानाक्रान्तस्य जीवस्य यथा सद्रूपतासादृश्येन ब्रह्मणि त्रिसर्गभ्रमः स्यात्तथा त्रिसर्गेऽपि ब्रह्मभ्रमः कथं न कदाचित्स्यात् । ततश्च ब्रह्मण एवाधिष्ठानत्वमित्यनिर्णये सर्वनाशप्रसङ्गः । आरोपकत्वं तु जडस्यैव चिन्मात्रस्यापि न सम्भवति । ब्रह्म च चिन्मात्रमेव तन् मतमिति । ततश्च श्रुतिमूल एव व्याख्याने सिद्धे सोऽयमभिप्रायः । यत्र हि यन्नास्ति किन्त्वन्यत्रैव दृश्यते तत्रैव तद्आरोपः सिद्धः । ततश् च वस्तुतस्तद्अयोगात्तत्र तत्सत्तया तत्सत्ता कर्तुं न शक्यत एव । त्रि सर्गस्य तु तच्छक्तिविशिष्टाद्भगवतो मुख्यवृत्त्यैव जातत्वेन श्रुतत्वात्तद्व्यतिरेकात्तत्रैव सर्वात्मके सोऽस्ति । ततस्तस्मिन्न चारोपितं च । आरोपस्तु तथापि धाम्नेत्यादिरीत्यैवाचिन्त्यशक्तित्वात्तेन लिप्तत्वाभावेऽपि तच्छाङ्कररूप एव । तथा च एकदेशस्थितस्याग्नेर् ज्योत्स्ना विस्तारिणी यथेत्यनुसारेण तत्सत्तया तत्सत्ता भवति । ततो भगवतो मुख्यं सत्यत्वं त्रिसर्गस्य च न मिथ्यात्वमिति । तथा च श्रुतिः सत्यस्य सत्यमिति तथा प्राणा वै सत्यं तेषामेव सत्यमिति (Bऋह्ददू २.३.६) । प्राणशब्दोदितानां स्थूलसूक्ष्मभूतानां व्यवहारतः सत्यत्वेनाधिगतानां मूलकारणभूतं परमसत्यं भगवन्तं दर्शयतीति । अथ तमेव तटस्थलक्षणेन च तथा व्यञ्जयन् प्रथमं विशदार्थतया ब्रह्मसूत्राणामेव विवृतिरियं संहितेति बिबोदयिषया च तद्अन्तरं सूत्रमेव प्रथममनुवदति जन्माद्यस्य यत इति । जन्मादीनि सृष्टि स्थितिप्रलयम् । तद्गुणस:अविज्ञानबहुव्रीहि । अस्य विश्वस्य ब्रह्मादिस्तम्बपर्यन्तानेककर्तृभोक्तृसंयुक्तस्य प्रतिन्यतदेशकाल निमित्तक्रियाफलाश्रयस्य मनसाप्यचिन्त्यविविधचित्ररचनारूपस्य यतो यस्मादचिन्त्यशक्त्या स्वयमुपादानरूपात्कर्त्रादिरूपाच्च जन्मादि तं परं धीमहीत्यन्वयः । अत्र विषयावाक्यं च भूगुर्वै वारुणिर्वरुणं पितरमुपससार अधीहि भो भगवो ब्रह्मेत्यारभ्य यतो वा इमानि भूतानि जायन्ते येन जातानि जीवन्ति यत्प्रयन्त्यभिसंविशन्ति तद्विजिज्ञासस्व तद्ब्रह्म इति (टैत्तू ३.१.१.) तत्तेजोऽसृजत इत्यादि (Cहाऊ ६.२.३) च । जन्मादिकमिहो लक्षणं न तु विशेषणम् । ततस्तद्ध्याने तन्न प्रविशन्ति । किन्तु शुद्ध एव ध्येय इति । किं च अत्र प्रागुक्तविशेषण विशिष्टविश्वजन्मादेस्तादृशहेतुत्वेन सर्वशक्तित्वं सत्यसङ्कल्पत्वं सर्वज्ञत्वं सर्वेश्वरत्वं च तस्य सूचितम् । यः सर्वज्ञः सर्वविद्यस्य ज्ञानमयं तपः सर्वस्य वशी इत्यादि श्रुतेः [ंुण्ड्१.१.९, २.२.७]। तथा परत्वेन निरस्ताखिलहेयप्रत्यनीकस्वरूपत्वं ज्ञानाद्य्अनन्तकल्याण गुणत्वं सूचितम् । न तस्य कार्यं कारणं च विद्यते इत्यादि श्रुतेः । ये तु निर्विशेषवस्तु जिज्ञास्यमिति वदन्ति तन्मते ब्रह्मजिज्ञासायां जन्म्¨द्यस्य यत इत्यसङ्गतं स्यात् । निरतिशयबृहद्बृंहणं चेति निर्वचनात् । तच्च ब्रह्म जगज्जन्मादिकारणमिति वचनाच्च । एवमुत्तरेष्वपि सूत्रेषु सूत्रोदाहृतश्रुतयश्च न तत्र प्रमाणम् । तर्कश्च साध्य धर्माव्यभिचारिसाधनधर्मान्वितवस्तुविषयत्वान्न निर्विशेष वस्तुनि प्रमाणम् । जगञ्जन्मादिभ्रमो यतस्तद्ब्रह्मति स्वोत्प्रेक्ष पक्षे च न निर्विशेषवस्तुसिद्धिः । भ्रम्मूलमज्ञानमज्ञानसाक्षि ब्रह्मेति उपयमात् । साक्षित्वं हि प्रकाशैकरसतयोच्यते । प्रकाशत्वं तु जडाद्व्यावर्तकं स्वस्य परस्य च व्यवहारयोग्यतापादनस्वभावेन भवति । तथा सति स्वैशेषत्वं तद्अभावे प्रकाशतैव न स्यात् । तुच्छतैव स्यात् । किं च तेजोवारिमृदामित्यनेनैव तेषां विवक्षितं सेत्स्यतीति जन्माद्यस्य यत इत्यप्रयोजकं स्यात् । अतस्तद्विशेषत्वे लब्धे स विशेषः शक्तिरूप एव । शक्तिश्चान्तराङ्गा बहिरङ्गा तडस्था चेति त्रिधा दर्शिता । तत्र विकारात्मकेषु जगज्जन्मादिषु साक्षाद्धेतुना बहिरङ्गाया एव स्याद् इति सा मायाख्या चोपक्रान्ता । तटस्था च वयं धीमहीत्यनेन । अथ यद्यपि भगवतोऽंशात्तद्उपादानभूतप्रकृत्याख्यशक्तिविशिष्टात् पुरुषादेवास्य जन्मादि तथापि भगवत्येव तद्धेतुना पर्यवसति । समुद्रैकदेशे यस्य जन्मादि तस्य समुद्र एव जन्मादीनि । यथोक्तम् प्रकृतिर्यस्योपादानम् आधारः पुरुषः परः । सतोऽभिव्यञ्जकः कालो ब्रह्म तत्त्रितयं त्वहम् ॥ [भागवतम् ११.२४.१९] तस्य च भगवतो जन्माद्यस्य यत इत्यनेनापि मूर्तत्वमेव लभ्यते । यतो मूर्तस्य जगतो मूरित्शक्तेर्निधानरूपतादृशानानन्तपरशक्तीनां निधानरूपोऽसावित्याक्षिप्यते । तस्य परमकारुणत्वाङ्गीकारात् । न च तस्य मूर्तत्वे सत्यन्यतो जन्मापतेतनवस्थापत्तेर् एकस्यैवादित्वेनाङ्गीकारात् । साङ्ख्यानामव्यक्तस्येव । स कारणं करणाधिपाधिपो न चास्य कश्चिज्जनिता न चाधिपः [श्वेतू ६.९] इति श्रुतिनिषेधात् । अनादुसिद्धाप्राकृतस्वाभाविकमूर्तित्वेन तस्य तत् प्रसिद्धिश्च । तदेवं मूर्तत्वे सिद्धे स च मूर्तो विष्णुनारायआदि साक्षाद्रूपकः श्रीभगवानेव नान्यः । तथा च यतः सर्वाणि भूतानि भवन्त्यादियुगागमे । यस्मिंश्च प्रलयं यान्ति पुनरेव युगक्षये ॥ इत्यादि तत्प्रतिपादकसहस्रनामादौ तत्रैव तु यथोक्तमनिर्देश्य वपुः श्रीमानिति । एवं च स्कान्दे स्रष्टा पाता च संहर्ता स एको हरिरीश्वरः । स्रष्टृत्वादिकमन्येषां दारुयोषावदुच्यते ॥ एकदेशक्रियावत्त्वान्न तु सर्वात्मनेरितम् । सृष्ट्य्आदिकं समस्तं तु विष्णोरेव परं भवेत् ॥ इति । महोपनिषदि च स ब्रह्मणा सृजति स रुद्रेण विलापयति इत्यादिकम् । अत एव विवृतं निमित्तं परमीशस्य विश्वसर्गनिरोधयोः । हिरण्यगर्भः सर्वश्च कालस्यारूपिणस्तव ॥ इति । तव यो रूपरहितः कालः कालशक्तिस्तस्य निमित्तमात्रमिति व्यधिकरण एव षष्ठी । तथा आद्योऽवतारः पुरुषः परस्येत्यादि । यद्अंशतोऽस्य स्थिति जन्मनाशा इत्यादि च । तदेवमत्रापि तथाविधमूर्तिर्भगवानेवोपक्रान्तः । तदेवं तटस्थलक्षणेन परं निर्धार्य तदेव लक्षणं ब्रह्मसूत्रे शास्त्र योनित्वात्, तत्तु समन्वयादित्येतत्सूत्रद्वयेन (१.१.३४) स्थापितमस्ति तत्र पूर्वसूत्रस्यार्थः । कुतो ब्रह्मणो जगज्जन्मादिहेतुत्वं तत्राह शास्त्रं योनिर्ज्ञानकारणं यस्य तत्त्वात् । यतो वामानि भूतानीत्यादिशास्त्र प्रमाणकत्वादिति । नात्र दर्शनानतरवत्तर्कप्रमाणकत्वम् । तर्काप्रतिष्ठानातन्त्यन्तातीन्द्रियत्वेन प्रत्यक्षादिप्रमाणविषयत्वाद् ब्रह्मणश्चेति भावः । वैनाशिकास्त्वविरोधाध्याये तर्केणैव निराकरिष्यन्ते । अत्र तर्काप्रतिष्ठानं चैवम् ईश्वरः कर्ता न भवति प्रयोजनशून्यत्वान्मुक्तात्मवत् । तनुभुवनादिकं जीवकर्तृकं कार्यत्वात घटवत् । विमतिविषयः कालो न लोकशून्यः कालत्वात् वर्तमानकालवदित्यादि । तदेवं दर्शनानुगुण्य्नेश्वरानुमानं दर्शनान्तरप्रातिकूल्यपराहतमिति शास्त्रैकप्रामाणिकः परब्रह्म भूतः सर्वेश्वरः पुरुषोत्तमः । शास्त्रं तु सकलेतरप्रमाणपरिदृष्ट समस्तवस्तुविजातीयसार्वज्ञ्यसत्यसङ्कल्पत्वादि मिश्रानवधिकातिशयापरिमितोदारविचित्रगुणसागरं निखिलहेय प्रत्यनीकस्वरूपं प्रतिपादयतीति न प्रमाणान्तरावसितवस्तुसाधर्म्य प्रयुक्तदोषगन्धः । अतएव स्वाभाविकानन्तनित्यमूर्तिमत्त्वमपि तस्य सिध्यति । अथोत्तरसूत्रस्यार्थः । ब्रह्मणः कथं शास्त्रप्रमाणकत्वं तत्राह तत् त्विति । तु शब्दः प्रसक्ताशङ्कनिवृत्त्य्अर्थः । तच्छास्त्रप्रमाणकत्वं ब्रह्मणः सम्भवत्येव । कुतः समन्वयात् । अन्वयव्यतिरेकाभ्याम् उपपादनं समन्वयस्तस्मात् । तत्रान्वयः सत्यं ज्ञानमनन्तं ब्रह्मेति [टैत्त्२.१.३] आनन्दो ब्रह्मेति एकमेवाद्वितीयं ब्रह्म इति । तत्सत्यं स आत्मा इति । सदेव सोम्येदमग्र आसीदिति । आत्मा वा इदमेक एवाग्र आसीत्पुरुष विध इति । पुरुषो ह वै नारायण इति । एको ह वै नारायण आसीदिति । बहु स्यां प्रजायेय इति [Cहा ६.२.३] । तस्माद्वा एतस्मादात्मन आकाशः सम्भूत इति । तत्तेजोऽसृजत इति । यतो वा इमानि भूतानि जायन्त इति । पुरुषो ह वै नारायणोऽकामयत अथ नारायणादजोऽज्¨आयत यतः प्रजाः सर्वाणि भूतानि नारायणं परं ब्रह्म तत्त्वं नारायणः परमृतं सत्यं परं ब्रह्म पुरुषं पिङ्गलमित्यादिषु च । अथ व्यतिरेकः । कथमसतः सज्जायेत इति । को ह्येवान्यात्कः प्राण्याद्यद् एष आकाश आनन्दो न स्यादिति । एको ह वै नारायण आसीन्न ब्रह्मा न च शङ्कर इत्यादिना । स चैवं परमानन्दरूपत्वेनैव समन्वितो भवतीति तदुपलब्ध्यैव परमपुरुषार्ह्तत्वसिद्धेर्न प्रयोजनशून्यत्वम् अपि । तदेवं सूत्रद्वयार्थे स्थिते तदेतद्व्याचष्टे, अन्वयादितरतश्चार्थेष्व् इति । अर्थेषु नानाविधेषु वेदवाक्यार्थेष्सत्स्वन्वयातन्वयमुखेन यतो यस्मातेकस्मादस्य जन्मादि प्रतीयते तथेतरतो व्यतिरेकमुखेन च यस्मादेवास्य ततः प्रतीयत इत्यर्थः । अतएव तस्य श्रुत्य्अन्वय व्यतिरेकदर्शितेन परमसुखरूपत्वेन परमपुरुषार्थत्वं च ध्वनितम् । एको ह वै नारायण आसीदित्यादिशास्त्रप्रमाणत्वेन प्राक् स्थापितरूपं चेति । अथेक्षतेर्नाशब्दमिति व्याचष्टे अभिज्ञ इति । अत्र सूत्रार्थः इदमाम्नायते छान्दोग्ये सदेव सोम्येदमग्र आसीदेकमेवाद्वितीयं ब्रह्म तदैक्षत बहु स्यां प्रजाययेति । [Cहा ६.२.३] । तत्तेजोऽसृजतेत्यादि । अत्र परोक्तं प्रधानमपि जगत्कारणत्वेनायाति । तच्च नेत्याह ईक्षतेरिति । यस्मिन् शब्द एव प्रमाणं न भवति तद्अशब्दमानुमानिकं प्रधानमित्य् अर्थः । न तदिह प्रतिपाद्यम् । कुतोऽशब्दत्वं तस्येत्याशङ्क्याह ईक्षतेः । न तदिह प्रतिपाद्यम् । कुतोऽशब्दत्वं तस्येत्याशङ्क्याह ईक्षतेः । सच् छब्दवाच्यसम्बन्धिव्यापारविशेषाभिधायिअ ईक्षतेर्धातोः श्रवणात् । तदैक्षतेतीक्षणं चाचेतने प्रधाने न सम्भवेत् । अन्यत्र चेक्षापूर्विकैव सृष्टिः । स ऐक्षत लोकानुसृजा इति स इमान् लोकानसृजतेत्य् आदौ । ईक्षणं चात्र तदेशसृज्यविचारात्मकत्वात्सर्वज्ञत्वमेव क्रोडीकरोति । तदेतदाह अभिज्ञ इति । ननु तदानीयमेवाद्वितीयमित्युक्तेस्तस्येक्षणसाधनं न सम्भवति तत्राह स्वराडिति । स्वस्वरूपेणैव तथा राजत इति । न तस्य कार्यं करणं च व्दियत इत्यादौ स्वाभाविकी ज्ञानबलक्रिया चेत्यादि श्रुतेः । एतेनेक्षणवन्मूर्तिमत्त्वमपि तस्य स्वाभावैकमित्यायातम् । निःश्वतितस्यान्यग्रे दर्शयिष्यमाणत्वात् । तच्च यथोक्तमेवेति च । अत्र शास्त्रयोनित्वादित्यस्यार्थान्तरं व्याचष्टे तेन इति । तच्चार्थान्तरं यथा कथं तस्य जगज्जन्मादिकर्तृत्वं कथं वा नान्यतन्त्रोक्तस्य प्रधानस्य न चान्यस्येति तत्राह । शास्त्रस्य वेदलक्षणस्य योनिः कारणं तद्रूपत्वात् । एवं वा अरे अस्य महतो भूतस्य निश्वसितमेतद्यदृग्वेदो यजुर्वेदः सामवेदोऽथ वाङ्गिरस इतिहासपुराणं विद्या उपनिषदः श्लोकाः सूत्राण्युपसूत्राणि व्याख्यानानीति श्रुतेः । शास्त्रं हि सर्व प्रमाणागोचरविविधानन्तज्ञानमयं तस्य च कारणं ब्रह्मैव श्रूयत इति । तदेवं मुख्यं सर्वज्ञं तादृशं सर्वज्ञत्वं विना च सर्वशृष्ट्य् आदिकमन्यस्य नोपपद्यतिति प्रोक्तलक्षणं ब्रह्मैव जगत्कारणं न प्रधानं न जीवान्तरमिति । तदेव विवृत्याह तेने ब्रह्म हृदा य आदिकवय इति । ब्रह्म वेदमादिकवये ब्रह्मणे ब्रह्माणणं हृदान्तः करणद्वारैव, न तु वाक्यद्वारा । तेने आविर्भावितवान् । अत्र बृहद्वाचकेन ब्रह्मपदेन सर्वज्ञानमयत्वं तस्य ज्ञापितम् । हृदेत्यनेनान्तर्यामित्वं सर्वशक्तिमयत्वं च ज्ञापितम् । आदिकवय इत्य् अनेन तस्यापि शिक्षानिदानत्वाच्छास्त्रयोनित्वं चेति । श्रुतिश्चात्र यो ब्रह्माणं विदधाति पूर्वं यो वै वेदांश्च प्रहिणोति तस्मै । तं ह देवमात्मबुद्धिप्रकाशं मुमुक्षुर्वै शरणमहं प्रपद्ये ॥ [श्वेतू ६.१८] । मुक्तजीवा अपि तत्कारणं नेत्याह मुह्यन्तीति । यत्र ब्रह्मणि वेदख्ये सूरयः शेषादयोऽपि । अनेन च शयनलीलाव्यञ्जितनिश्वसितमयवेदो ब्रह्मादिविविधाननलोचनश्च यः पद्मनाभस्तद्आदिमूर्तिकः श्री भगवानेवाभिहितः । विवृतं चैतत् । प्रचोदिता येन पुरा सरस्वतीत्य्[भागवतम् २.४.२२] आदिना । अथ तत्तु समन्वयादित्यस्यान्तरं, यथा शास्त्रयोनित्वे हेतुश्च दृश्यते इत्याह तत्त्विति । समन्वयोऽत्र सम्यक्सर्वतोमुखोऽन्वयो व्युत्पत्तिर् वेदार्थपरिज्ञातं यस्मात्तु शास्त्रनिदानत्वं निश्चीयत इति जीवे सम्यक् । ज्ञानमेव नास्ति प्रधानं त्वचेनमेवेति भावः । स वेत्ति विश्वं न हि तस्य वेत्तेति श्रुतेः । यदेतदस्य तदीयसम्यग्ज्ञानं व्यतिरेकमुखेन बोधयितुं जीवानां सर्वेषामपि तदीयसम्यग्ज्ञानाभावमाह मुह्यन्तीति । सूरयः शेषादयोऽपि यद्यत्र शब्दब्रह्मणि मुह्यन्ति । तद् एतद्विवृतं स्वयं भगवता किं विधत्ते किमाचष्टे किमनूद्य विकल्पयेत् । इत्यस्या हृदयं लोके नान्या मद्वेद कश्चन ॥ इति (भागवतम् ११.२१.४२) । अनेन च साक्षाद्भगवानेवाभिहितः । अथेक्षतेर्नाशब्दमित्यस्यार्थान्तरमभिइज्ञ इत्यत्रैव व्यञ्जितमस्ति । अत्र सूत्रार्थः नन्वशब्दमस्पर्शमरूपमव्ययमित्यादि श्रुतेः । कथं तस्य शब्दयोनित्वं, तत्र हि प्रकृतब्रह्म शब्दहीनं न भवति । कुतः । ईक्षतेः । तदैक्षत बहु स्यां प्रज्यायेयेत्यत्र बहु स्यामिति शब्दात्मकेक्षधातोः श्रवणात् । तदेतदाह, अभिज्ञः । बहु स्यामित्यादि शब्दात्मकविचारविदग्धः । स च शब्दादिशक्तिसमुदायस्तस्य न प्राकृतः प्रकृतिक्षोभात्पूर्वत्रापि सद्भावात् । ततः स्वरूपभूत एवेत्य् आह स्वराडिति । अत्र पूर्ववत्तादृशं सधर्मकत्वं मूर्तिमत्त्वमपि सिद्धम् । यथाहुः सूत्रकाराः अन्तस्तद्धर्मोपदेशादिति (Vस्१.१.१०) । अतोऽशब्दत्वादिकं प्राकृतशब्दहीनत्वादिमेवेति ज्ञेयम् । अत्रोत्तरमीमांसाध्याय चतुष्टयस्याप्यर्थो दर्शितः । तत्रान्वयादितरतश्चेति समन्वयाध्यायस्य सत्यं परमिति फलाध्याययेति । तथा गायत्र्य्अर्थोऽपि स्पष्टः । तत्र जन्माद्यस्य यत इति प्रणवार्थः सृष्ट्य्आदिशक्तिमत्त्ववाचित्वात् । तदेवम् एवाग्निपुराणे गायत्रीव्याख्याने प्रोक्तं तज्ज्योतिर्भगवान् विष्णुर्जगज् जन्मादिकारणमिति । यत्र त्रिसर्गो मृषेति व्याहृतित्रयार्थः । उभयत्रापि लोकत्रयस्य तद्अनन्यत्वेन विवक्षितत्वात् । स्वराडिति सवितृप्रकाशक परमतेजोवाचि । तेने ब्रह्म हृदेति बुद्धिप्रवृत्तिप्रेरणा प्रार्थना सूचिता । तदेव कृपया स्वध्यानायास्माकं बुद्धिवृत्तीः प्रेरयतादिति भावः । एवमेवोक्तं गायत्र्या च समारम्भ इति । तच्च तेजस्तत्र अन्तस् तद्धर्मोपदेशादित्यादिना सम्प्रतिपन्नं यन्मूर्तं तद्आद्य्अनन्त मूर्तिमदेव ध्येयमिति । तत्र चाग्निपुराणक्रमवचनानि एवं सन्ध्याविधिं कृत्वा गायत्रीं च जपेत्स्मरेत् । गायत्र्य्उक्थानि शास्त्राणि भर्गं प्राणांस्तथैव च ॥ ततः स्मृतेयं गायत्री सावित्री यत एव च । प्रकाशिनी सा सवितुर्वाग्रूपत्वात्सरस्वती ॥ तज्ज्योतिः परमं ब्रह्म भर्गस्तेजो यतः स्मृतः । भर्गः स्यात्भ्राजत इति बहुलं छन्दसीरितम् ॥ वरेण्यं सर्वतेजोभ्यः श्रेष्ठं वै परमं परम् । सर्गापवर्गकामैर्वा वरणीयं सदैव हि ॥ वृणोतेर्वरणार्थत्वात्जाग्रत्स्वप्नादिवर्जितम् । नित्यं शुद्धं बुद्धमेकं नित्यं भर्गम् अधीश्वरम् ॥ अहं ब्रह्म परं ज्योतिर्ध्यायेम हि विमुक्तये । तज्ज्योतिर्भगवान् विष्णुर्जगज्जन्मादिकारणम् ॥ शिवं केचित्पठन्ति स्म शक्तिरूपं पठन्ति च । केचित्सूर्यं केचिदग्निं दैवतान्यग्निहोत्रिणः ॥ अग्न्य्आदिरूपो विष्णुर्हि वेदादौ ब्रह्म गीयते । तत्पदं परमं विष्णोर्देवस्य स्वैतुः स्मृतम् ॥ दधातेर्वा धीमहीति मनसा धारयेमहि । नोऽस्माकं यच्च भर्गस्तत्सर्वेषां प्राणिनां धियः ॥ चोदयात्प्रेरयाद्बुद्धिं भोक्तॄणां सर्वकर्मसु । दृष्टादृष्टविपाकेषु विष्णुः सूर्याग्निरूपभाक् ॥ ईश्वरप्रेरितो गच्छेत्स्वर्गं वा श्वभ्रमेव वा । ईशावास्यमिदं सर्वं महद्आदिजगद्धरिः ॥ स्वर्गाद्यैः क्रीडते देवी यो हंसः पुरुषः प्रभुः । ध्यानेन पुरुषोऽयं च द्रष्टव्यः सूर्यमण्डले ॥ सत्यं सदाशिवं ब्रह्म विष्णोर्यत्परमं पदम् । देवस्य स्वैतुर्देवो वरेण्यं हि तुरीयकम् ॥ योऽसावादित्यपुरुषः सोऽसावहमनुत्तमम् । जनानां शुभकर्मादीन् प्रवर्तयति यः सदा ॥ इत्यादि । यत्राधिकृत्य गायत्रीं वर्ण्यते धर्मविस्तरः । वृत्रासुरवधोत्सिक्तं तद्भागवतमुच्यते ॥ इत्यादीनि च । तस्माद्भग ब्रह्म परा विष्णुर्भगवतच्छब्दाभिन्नवर्णतया तत्र तत्र निर्दिष्टा अपि भगवत्प्रतिपादका एव ज्ञेयाः । मध्ये मध्ये त्व् अहंग्रहोपासनानिर्देशस्तत्साम्य इव लब्धे हि तद्उपासनायोग्यता भवतीति । तथा दशलक्षणर्थोऽप्यत्रैव दृश्यः । तत्र सर्गविसर्ग स्थाननिरोधा जन्द्माद्यस्य यतः इत्यत्र । मन्वन्तरेशानुकथने च स्थानान्तर्गते पोषणं तेन इत्यादौ । ऊतिर्मुह्यन्तीत्यादौ । मुक्तिर् जीवानामपि तत्सान्निध्ये सति कुहकनिरसनव्यञ्जके धाम्नेत्य् आदौ । आश्रयः सत्यं परमित्यादौ[*Eण्ड्ण्Oट्E ॰९] । स च स्वयंभगवत्त्वेन निर्णीयत्वात्श्रीकृष्ण एवेति पूर्वोक्तप्रकार एव व्यक्त इति । तदेवमस्मिन्नुपक्रमवाक्ये सर्वेषु पदवाक्यतात्पर्येषु तस्य ध्येयस्य सविशेषत्वं मूर्तित्वं भगवद्आकारं च व्यक्तम् । तच्च युक्तम् । स्वरूपवाक्यान्तरव्यक्तत्वात् । योऽस्योत्प्रेक्षक आदिमध्यनिधने योऽव्यक्तजीवेश्वरो यः सृष्ट्येदमनुप्रविश्य ऋषिणा चक्रपुरः शास्ति ताः । यं सम्पद्य जहात्यजामनुशयी सुप्तः कुलायं यथा तं कैवल्यनिरस्तयोनिमभयं ध्यायेदजस्रं हरिम् ॥ इति ।[भागवतम् १०.८७.५०] अतो धर्मः प्रोज्झितेत्यादावनन्तरवाक्येऽपि किं वा परैरित्यादिना तत्रैव तात्पर्यं दर्शितम् । तथोपसंहारवाक्याधीनार्थत्वादुपक्रमस्य नातिकमणीयमेव । कस्मै येन विभासितोऽयमित्यादिदर्शितं तस्य तादृशविशेषवत्त्वादिकम् । यथैव आत्मगृहीतिरितरवदुत्तरादित्यत्र (Vस्३.३.१६) शङ्कर शारीरकस्यापरस्यां योजनायामुपक्रमोक्तस्य सच्छब्द वाच्यस्यात्मत्वमुपसंहारस्थादात्मशब्दाल्लभ्यते तद्वदिहापि चतुःश्लोकीवक्तुर्भगवत्त्वं दर्शितं च श्रीव्याससमाधावपि तस्यैव ध्येयत्वम् । तदेव च स्वसुखनिभृतेत्यादि श्रीशुकहृदयानुगतम् इति ॥ १.१ ॥ श्रीव्यासः ॥१०५॥ अथोपसंहार[*Eण्ड्ण्Oट्E ॰१०]वाक्यस्याप्ययमर्थः । कस्मै गर्भोदकशायिपुरुषनाभिकमलस्थाय ब्रह्मणे तत्रैव येन महा वैकुण्ठं दर्शयता द्वितीयस्कन्धवर्णिततादृशश्रीमूर्त्य्आदिना भगवता विभासितः प्रकाशितः न तु तदापि रचितः अयं श्रीभागवत रूपः पुरा पूर्वपरार्धादौ तद्रूपेण ब्रह्मरूपेण तद्रूपिणा श्री नारदरूपिणा योगीन्द्राय श्रीशुकाय तद्आत्मना श्रीकृष्णद्वैपायन रूपेण । तद्आत्मनेत्यस्योत्तरेणान्वयः । तत्र तद्आत्मना श्रीशुक रूपेणेति ज्ञेयम् । तद्रूपेणेत्यादिभिस्त्रिभिः पदैर्न केवलं चतुःश्लोक्य् एव तेन प्रकाशिता किं तर्हि तत्र तत्राविष्टेनाखण्डमेव पुराणमिति द्योतितम् । अत्र मद्रूपेण च युष्मभ्यमिति सङ्कोचेनानुक्तोऽपि श्रीसूतवाक्यशेषो गम्यः । एवं सर्वस्यापि श्रीभागवतगुरोर्महिमा दर्शितः । सङ्कर्षण सम्प्रदायप्रवृत्तिस्तु कृष्णद्वैपायनकर्तृकप्रकाशनान्तर्गतैवेति पृथङ्नोच्यते । तत्परं सत्यं श्रीभगवद्आख्यं तत्त्वं धीमहि । यत्तत्परम् अनुत्तममिति सहस्रनामस्तोत्रात्परशब्देन च श्रीभगवानेवोच्यते । आद्योऽवतारः पुरुषः परस्येति द्वितीयात् । ब्रह्मादीनां बुद्धिवृद्धि प्रेरकत्वेनाभिधानाद्गायत्र्या अप्यर्थोऽयं ग्रन्थ इति दर्शयति । तद् उक्तं गायत्रीभाष्यरूपोऽसौ भारतार्थविनिर्णयः ॥ इति ॥ ॥१२.१३॥ श्रीसूतः ॥ १०६॥ [१०७] अथाभ्यासेन कलिमलसंहतिकालनोऽखिलेशो हरिरितरत्र न गीयते ह्यभीक्ष्णम् । इह तु पुनर्भगवानशेषमूर्तिः परिवृतोऽनुपदं कथाप्रसङ्गैः ॥ [भागवतम् १२.१२.६६] कालेनोनाशनः । इतरत्र कर्मब्रह्मादिप्रतिपादकशास्त्रान्तरे । अखिलेशो विराड्अन्तर्यामी नारायणोऽपि तत्पालको विष्णुर्वापि न गीयते क्वचिद्गीयते वा तत्र त्वभीक्ष्णं नैव गीयते तुशब्दोऽवधारणे साक्षात्श्रीभगवान् पुनरिह श्रीभागवते एवाभीक्ष्णं गीयते । नारायणादयो वा येऽत्र वर्णितास्तेऽप्यशेषा एव मूर्तयोऽवतारा यस्य सः । तथाभूत एव गीयते न त्वितरत्रैव तद्अविवेकेनेत्यर्थः । अतएव तत्तत्कथाप्रसङ्गैरनुपदं पदं पदमपि लक्ष्यीकृत्य भगवानेव परि सर्वतोभावेन पठितो व्यक्तमेवोक्त इति । अनेनापूर्वतापि व्याख्याता अन्यत्रानधिगतत्वात् ॥ १२.१२ ॥ श्रीसूतः ॥१०७॥ [१०८] अथ फलेनापि पिबन्ति ये भगवत आत्मनः सतां कथामृतं श्रवणपुटेषु सम्भृतम् । पुनन्ति ते विषयविदूषिताशयं व्रजन्ति तच्चरणसरोरुहान्तिकम् ॥ [भागवतम् २.२.३७] सतामात्मनः प्राणेश्वरस्य यद्वा व्यधिकरणे षष्ठी सतामात्मनः स्वस्य यो भगवांस्तस्येत्यर्थः । तेषां भगवति स्वामित्वेन ममतास्पदत्वात् अत्र कथामृतं प्रक्रम्यमाणं श्रीभागवताख्यम् एव मुख्यम् । यस्यां वै श्रूयमाणायामित्य्[भागवतम् १.७.७] आदिकं च तथैवोक्तमिति ॥२.२॥ श्रीशुकः ॥१०८॥ [१०९] अथार्थवादेन यं ब्रह्म वरुणेन्द्ररुद्रमरुतः स्तुन्वन्ति दिव्यैः स्तवैर् वेदैः साङ्गपदक्रमोपनिषदैर्गायन्ति यं सामागाः । ध्यानावस्थिततद्गतेन मनसा पश्यन्ति यं योगिनो यस्यान्तं न विदुः सुरासुरगणा देवाय तस्मै नमः ॥ [भागवतम् १२.१३.१] स्तवैर्वेदैश्च स्तुन्वन्ति स्तुवन्ति । ध्यानेनावस्थितं निश्चलं तद्गतं यन्मनस्तेन ॥ १२.१३ ॥ श्रीसूतः ॥ १०९ ॥ [११०] अथोपपत्त्या भगवान् सर्वभूतेषु लक्षितः स्वात्मना हरिः । दृश्यैर्बुद्ध्य्आदिभिर् द्रष्टा लक्षणैरनुमापकैः ॥ [भागवतम् २.२.३५] प्रथमद्रष्टा जीवो लक्षितः । कैर्दृश्यैर्बुद्ध्य्आदिभिः । तदेव द्वेधा दर्शयति दृश्यानां जडानां बुद्ध्य्आदीनां दर्शनं स्वप्रकाशं द्रष्टारं विना न घटत ज्ञानोपपत्तिद्वारा लक्षणैः स्वप्रकाश द्रष्टृअलक्षकैः तथा बुद्ध्य्आदीनि कर्तृ प्रयोज्यानि करणत्वाद् वास्यादिवदिति व्याप्तिद्वारानुमापकैरिति । अथ भगवानपि लक्षितः । केन सर्वभूतेषु सर्वेषु तेषु द्रष्टृषु प्रविष्टेन स्वात्मना स्वांशरूपेणान्तर्यामिणा । आदौ सर्वैर्द्रष्टृभिर् अन्तर्यामी लक्षितः ततस्तेन भगवानपि लक्षित इत्यर्थः । स च स च पूर्ववत्द्विधैव लक्ष्यते । तथा हि कर्तृत्वभोक्तृत्वयोरस्वातत्न्र्य दर्शनात्कर्मणो जडत्वात्कर्मणो जडत्वात्सर्वेषामपि जीवानां तत्र तत्र प्रवृत्तिरन्तःप्रयोजकविशेषं विना न घटत इत्यनुपपत्ति द्वारान्तर्यामी लक्ष्यते । एष ह्यनेनात्मना चक्षुषा दर्शयति श्रोत्रेण श्रावयति मनसा मानयति बुद्ध्या बोधयति तस्मादेता बाहुः । मृतिर् अमृतिरिति भाल्लवेयश्रुतिश्च । अतएव गीतोपनिषत्सु अथवा बहुनैतेन किं ज्ञातेन तवार्जुन । विष्टभ्याहमिदं कृत्स्नमेकांशेन स्थितो जगत् ॥ इति । विष्णुपुराणे च स्वशक्तिलेशावृतभूतसर्ग इति । तथा जीवाः प्रयोजक कर्तृप्रेरितव्यापाराः । अस्वातन्त्र्यात् । तक्षादिकर्मकरजनवदित्येवम् अन्तर्यामिणि तत्त्वे व्याप्तिद्वारा सिद्धेः । पुनस्तेनैव भगवानपि साध्यते । तुच्छवैभवजीवान्तर्यामिस्वरूपमीश्वरतत्त्वं निजांशित्वाश्रयं तथैव पर्याप्तेः । राजप्रभुत्वाश्रिततक्षकादिकर्म कर प्रयोजकप्रभुत्वादिवदिति । अथवात्र यथेन्द्रियैः पृथग्द्वारैरर्थो बहुगुणाश्रयः । एको नानेयते तद्वद्भगवान् शास्त्रवर्त्मभिः ॥ [भागवतम् ३.३२.३३] इत्य् एवोदाहरणीयम् । अनेनैव गतिसामान्यं च सिध्यतीति ॥ २.२ ॥ श्री शुकः ॥ ११० ॥ प्रत्यवस्थापितं वदन्तीत्यादिपद्यम् । इति श्रीकलियुगपावनस्वभजनविभाजनप्रयोजनावतारश्रीश्री भगवत्कृष्णचैतन्यदेवचरणानुचरविश्ववैष्णवराजसभाजन भाजनश्रीरूपसनातनानुशासनभारतीगर्भे श्रीभागवतसन्दर्भे परमात्मसन्दर्भो नाम तृतीयः सन्दर्भः ॥ श्रीभागवतसन्दर्भे सर्वसन्दर्भगर्भगे । परमात्माभिधेयोऽसौ सन्दर्भोऽभूत्तृतीयकः ॥ समाप्तोऽयं तृतीयः सन्दर्भः ॥ [*Eण्ड्ण्Oट्E ॰१] ठे य़दव्पुरेदितिओन्मकेस्रेfएरेन्चे तो ष्रिधर्ऽस् चोम्मेन्तर्य्तो ३.२९.१३. [*Eण्ड्ण्Oट्E ॰२] ईन् ळघुभागवतामृत १.२.९, थिसिस्गिवेनस्¨षात्वत तन्त्र. [*Eण्ड्ण्Oट्E ॰३] णोत्fओउन्दिन्म्येदितिओन्. [*Eण्ड्ण्Oट्E ॰४] ठिस्वेर्से इस्fइर्स्तॄउओतेदिन् श्रीधरऽस्चोम्मेन्तर्य्तो भागवतम् ११.१५.१६ अन्द्लतेरत्CC १.२.५३. [*Eण्ड्ण्Oट्E ॰५] ़ुओतेदबोवे इन् सेच्तिओन् २२. [*Eण्ड्ण्Oट्E ॰६] आबोवे, सेच्तिओन् १९. [*Eण्ड्ण्Oट्E ॰७] णोत्fओउन्दिन् ङित ড়्रेस्सेदितिओन्. [*Eण्ड्ण्Oट्E ॰८] अम्बुवदग्रहणात्तु न तथात्वमिस्थे fउल्ल्सूत्र. [*Eण्ड्ण्Oट्E ॰९] षेए टत्त्वसन्दर्भ ५५५६. भागवतम् २.१०.१७. [*Eण्ड्ण्Oट्E ॰१०] ठे वेर्से इस्गिवेनबोवे अत्थे बेगिन्निन्गोf १०६. कस्मै येन, एत्च्.  श्रीकृष्णसन्दर्भ तौ सन्तोषयता सन्तौ श्रीलरूपसनातनौ । दाक्षिणात्येन भट्टेन पुनरेतद्विविच्यते ॥ो॥ तस्याद्यं ग्रन्थनालेखं क्रान्तमुत्क्रान्तखण्डितम् । पर्यालोच्याथ पर्यायं कृत्वा लिखति जीवकः ॥ो॥ [१] अथ पूर्वसन्दर्भत्रयेण यस्य सर्वपरत्वं साधितं तस्य श्री भगवतो निर्धारणाय सन्दर्भोऽयमारभ्यते । तत्र प्रथमस्य द्वितीये वदन्ति [भागवतम् १.२.११] इत्यादिना [Vऋ. अद्द्स्: नानाविर्भावत्वात्तानि वचनानि तत्त्वनिर्धारणार्थमुद्ध्रियन्ते । एन्द्Vऋ.] तदेकमेव तत्त्वं ब्रह्मादितया शब्द्यत इत्युक्तम् । तदेव ब्रह्मादित्रयं तृतीयं विविच्यते । ब्रह्म त्विह यत्रेमे सद्असद्रूपे प्रतिषिद्धे स्वसंविदा । अविद्ययात्मनि कृते इति तद्ब्रह्मदर्शनम् ॥ [भागवतम् १.३.३३] इत्यादिना तत्र विविक्तमपि । एकाकाराविर्भावतया संशयाभावान् नोपयुक्तमिति तद्वचनं नोदाहरणीयम् । श्रीभगवत्परमात्मनोस्तु उदाह्रियते । तत्र ईश्वरो नाम निराकारो नास्तीति पूर्वं निर्णीतं, परमात्मशब्देन च सर्वान्तर्यामिपुरुषः प्रतिपादितः तेष्वेव सन्दर्भेषु । तथा च सति तस्मिंस्तृतीयाध्यायारभ्य एवमाभास्यम् । ननु पूर्वं ब्रह्मादितया त्रिधैव तत्त्वमेकमुक्तम् । तत्र ब्रह्मणः किं लक्षणं भगवत्परमात्मनोर्वा तत्र विशेषः कश्चिद्वा किमस्तीति श्रीमद्ईश्वराकारादिषु बहुषु च सत्सु श्रीभगवन्नाम कतमाकारः परमात्मा वा तयोश्च किं स्वरूपादिकमिति श्रीशौनकादिप्रश्नम् आशङ्क्य प्रथमं श्रीभगवत्परमात्मनौ निर्धारयन् श्रीसूत उवाच जगृहे पौरुषं रूपं भगवान्महद्आदिभिः । सम्भूतं षोडशकलमादौ लोकसिसृक्षया ॥ [भागवतम् १.३.१] [पगे २] आदौ जीवाविर्भावमहद्आदिसृष्टितः पूर्वं पौरुषं रूपं जगृहे प्रकटितवान् । केन हेतुना ? लोकसिसृक्षया । लोकानां समष्टिव्यष्टि जीवानां तद्अधिष्ठानानां च प्रादुर्भावार्थमित्यर्थः । तस्मिन् हि तानि लीनान्यासन्निति । अतस्तत्प्रादुर्भावस्तृतीये तद्द्वारैव उक्तः । भगवानेक आसेदम् [भागवतम् ३.५.२३] इत्य्आदिप्रकरणे कालवृत्त्या तु मायायां गुणमय्यामधोक्षजः । पुरुषेणात्मभूतेन वीर्यमाधत्त वीर्यवान् ॥ [भागवतम् ३.५.२६] इति । तत्र तेषां सद्भावं विवृणोति महद्आदिभिः सम्भूतं मिलितम् । अन्तर्भूतमहद्आदितत्त्वमित्यर्थः । सोऽन्तःशरीरेऽर्पितभूतसूक्ष्मा [भागवतम् ३.८.११] इति तृतीयादेव । सम्पूर्वो भवतिः सङ्गमार्थे प्रसिद्ध एव, सम्भूयाम्भोधिमभ्येति महानद्या नगापागेति [शिश्V २.१००] इत्यादौ । तदेवं विष्णोस्तु त्रीणि रूपाणि इत्यादौ महत्स्रष्टृत्वेन प्रथमं पुरुषाख्यं रूपं यच्छ्रूयते यच्च ब्रह्मसंहितादौ कारणार्णव शायिसङ्कर्षणत्वेन श्रूयते । तदेव जगृहे इति प्रतिपादितं तस्य जगत् सृष्ट्य्आदिकर्तृत्वेन । ततोऽपि परत्रैश्वर्यसम्भावनार्थमाह षोडश कलं सम्पूर्णसर्वशक्तियुक्तमित्यर्थः । पूर्णत्वं चात्रापेक्षिकं स्वरूपशक्तिनिधिरपि स्वसान्निध्येन मायावृत्तिभिर्जगत्सृष्ट्य्आदिकर्ता भगवद्अंशी स्वरूपशक्त्य्एकविलासवानित्यभिहितम् । [२] तदेवं सामान्यतो भगवत्परमात्मानौ निरूप्य परमात्मानं तावद् अनेकैः स्थानकर्मस्वरूपाकारविशेषैर्निर्धारयति त्रिभिः यस्याम्भसि शयानस्य योगनिद्रां वितन्वतः । नाभिह्रदाम्बुजादासीद्ब्रह्मा विश्वसृजां पतिः ॥ [भागवतम् १.३.२] यस्य पौरुषरूपस्याम्भसि प्रलयकालीनगर्भोदके शयानस्य सतः । [ठे Vऋ. एदितिओन् दिffएर्स्बेत्wएएनादौ अन्द्शयानस्य सतः: यः श्रीभगवान् पूर्णषड्ऐश्वर्यत्वेन पूर्वं निर्दिष्टः । स एव पौरुषं रूपं पुरुषत्वेनाम्न्यायते । यद्रूपं तदेवादौ सर्गारम्भे जगृहे । प्राकृत प्रलयेष्वस्मिन् लीनं सत्प्रकटतया स्वीकृतवान् । किमर्थम् ? तत्राह लोकसिसृक्षया । तस्मिन्नेव लीनानां लोकानां समष्टिव्यष्टिजीवानां सिसृक्षया प्रादुर्भावनार्थमित्यर्थः । कीदृशं सत्? तद्रूपं लीनमासीत्तत्राह महद्आदिभिः सम्भूतं मिलितमन्तर्भूतमहद्आदितत्त्वमित्यर्थः । सम्भूयाम्भोधिम् अभ्येति महानद्या नगापागेति [शिश्V २.१००] इति सम्भवतिर्मिलनार्थः । तत्र हि महद्आदीनि लीनान्यासन्निति । तदेवं विष्णोस्तु त्रीणि रूपाणि इत्यादौ महत्स्रष्टृत्वेन प्रथमं पुरुषाख्यं रूपं यच्छ्रूयते यच्च ब्रह्मसंहितादौ कारणार्णव शायिसङ्कर्षणत्वेन श्रूयते । तदेव जगृहे इति प्रतिपादितम् । पुनः कीदृशं तद्रूपम् ? तत्राह षोडशकलं तत्सृष्ट्य्उपयोगिपूर्णशक्तीत्य् अर्थः । तदेवं यस्तद्रूपं जगृहे स भगवान् । यत्तु तेन गृहीतं तत्तु स्वसृज्यानामाश्रयत्वात्परमात्मेति पर्यवसितम् । तस्य पुरुषरूपस्य विसर्गनिदानत्वमपि प्रतिपादयितुमाह सार्धेन यस्याम्भसि शयानस्य योगनिद्रां वितन्वतः । नाभिह्रदाम्बुजादासीद्ब्रह्मा विश्वसृजां पतिः । यस्यावयवसंस्थानैः कल्पितो लोकविस्तरः ॥ [भागवतम् १.३.३] यस्य पौरुषरूपस्य द्वितीयेन व्यूहेन ब्रह्माण्डं प्रविश्य अम्भसि गर्भोदके शयानस्येत्यादि योज्यम् । यस्य च तादृशत्वेन तत्र शयानस्य अवयवसंस्थानैः साक्षाच्छ्रीचरणादिसन्निवेशे लोकस्य विस्तारो विराड् आकारः प्रपञ्चः कल्पितः । यथा तद्अवयवसन्निवेशास्तथैव पातालम् एतस्य हि पादमूलम् [भागवतम् २.१.२६] इत्यादिना नवीनोपासकान् प्रति मनः स्थैर्याय प्रख्यापितः । न तु वस्तुतस्तदेव यस्य रूपमित्यर्थः । यद् वा चन्द्रमा मनसो जातः इत्यारभ्य पद्भ्यां भूमिर्दिशः श्रोत्रात्तथा लोकानकल्पयतिति श्रुतेस्[ऋक्१०.९०.१३१४] तैर्हेतुभूतैर्लोकविस्तारो रचित इत्यर्थः । [एन्द्Vऋ. रेअदिन्ग्.] तथा च भारते मोक्षधर्मनारायणीये अस्मन्मूर्तिश्चतुर्थी या सासृजच्छेषमव्ययम् । स हि संकर्षणः प्रोक्तः प्रद्युम्नं सोऽप्यजीजनत् ॥ प्रद्युम्नादनिरुद्धोऽहं सर्गो मम पुनः पुनः । अनिरुद्धात्तथा ब्रह्मा तत्रादि कमलोद्भवः ॥ ब्रह्मणः सर्वभूतानि चराणि स्थावराणि च ॥ [ंभ्१२.३२६.६८७०] तत्रैव व्यासः परमात्मेति यं प्राहुः सांख्ययोगविदो जनाः । महापुरुष संज्ञां स लभते स्वेन कर्मणा ॥ तस्मात्प्रसूतमव्यक्तं प्रधानं तद्विदुर्बुधाः । अव्यक्ताद्व्यक्तमुत्पन्नं लोकसृष्ट्यर्थमीश्वरात् ॥ अनिरुद्धो हि लोकेषु महानात्मेति कथ्यते । योऽसौ व्यक्तत्वमापन्नो निर्ममे च पितामहम् ॥ [ंभ्१२.३२७.२४२६] इति । [Vऋ. अद्द्स्हेरे:] तदेवं सङ्कर्षणस्य वैभवमुक्त्वानिरुद्धस्याप्याह अनिरुद्धो हीति । लोकेषु प्रत्येकं ब्रह्माण्डेषु महानात्मा परमात्मा । व्यक्तत्वं प्राकट्यं प्रद्युम्नादिति शेषः । सुतेन त्वभेदविवक्षया प्रद्युम्नः पृथङ्नोक्तः विष्णोस्तु त्रीणि रूपाणि इतिवत् । सेयं प्रक्रिया द्वितीयस्य सष्ठे दृश्यते यथा स एष आद्यः पुरुषः [भागवतम् २.९.३९] इत्यादि पद्ये टीका स एष आद्यो भगवान् यः पुरुषावतारः सन् सृष्ट्य्आदिकं करोति इत्येषा । एवमाद्योऽवतारः पुरुषः परस्य [भागवतम् २.६.४२] इत्यत्र टीका परस्य भूम्नः पुरुषः प्रकृतिप्रवर्तको यस्य सहस्रशीर्षा [ऋक्१०.९०.१] इत्याद्य्उक्तो लीलाविग्रहः स आद्योऽवतारः इत्येषा । तथा तृतीयस्य विंशे देवेन [भागवतम् ३.२०.१२] इत्यादिकं सोऽनु इत्यन्तं सटीकमेव प्रकरणम् अत्रानुसन्धेयम् । तस्माद्विराट्त्वेन तद्रूपं न व्याख्यातम् । तस्माच्च वासुदेवस्थानीयो भगवान् पुरुषादन्य एवेत्यायातम् । अथ यस्य रूपद्वयस्य सामान्यत ऐकविध्येन स्वरूपमाह तद्वै भगवतो रूपं विशुद्धं सत्त्वमूर्जितम् [भागवतम् १.३.३] इति । तत्श्रीभगवतः पौरुषं रूपं वै प्रसिद्धौ विशुद्धोऽर्जितसत्त्वाभिव्यक्तत्वाच्छक्ति स्वरूपयोरभेदाच्च तद्रूपमेवेत्यर्थः । उक्तं च द्वितीयं पुरुष व्यूहमधिकृत्य स्वरूपत्वं तद्रूपस्य नातः परं परम यद्भवतः स्वरूपम् [भागवतम् ३.९.३] इत्यत्र । विशुद्धं जाड्यांशेनापि रहितम्, स्वरूप शक्तिवृत्तित्वात् । ऊर्जितं सर्वतो बलवत्परमानन्दरूपत्वात् को ह्येवान्यात् कः प्राण्यात्यदेष आकाश आनन्दो न स्यात्[टैत्तू २.७.१] इति श्रुतेः । तस्माच् छाक्षाद्भगवद्रूपे तु कैमुत्यमेवायातम् । तदेवं पुरुषस्य द्विधा स्थानकर्मणी उक्त्वा स्वरूपवदाकारं त्वेकप्रकारमाह पश्यन्त्यदो [षेए पर. ४] [Eन्दोf Vऋ. अद्दितिओन्.] ततोऽत्रावान्तरभेदेऽप्यभेदस्वीकारेण द्विव्यूहोक्तिरित्येव विशेष इति वासुदेवस्थानीयो भगवांस्तस्मादन्य एवेत्यायातम् । एवमेकादशे च [पगे ४] भूतैर्यदा पञ्चभिरात्मसृष्टैः पुरं विराजं विरचय्य तस्मिन् । स्वांशेन विष्टः पुरुषाभिधानम् अवाप नारायण आदिदेवः ॥ [भागवतम् ११.४.३] इत्यत्र तैरेव व्याख्यातम् । आदौ पुरुषावतारमाह भूतैरिति । यदा स्वसृष्टैः भूतैः विराजं ब्रह्माण्डं पुरं निर्माय तस्मिन् लीलया प्रविष्टः, न तु भोक्तृत्वेन । प्रभूतपुण्यस्य जीवस्य तत्र भोक्तृत्वादित्य् एवमस्योत्तरत्र श्लोकद्वयेऽप्येवमेवार्थो दृश्यते । तथा द्वितीयस्य षष्ठे स एष आद्यः पुरुषः [भागवतम् २.६.३९] इत्यादिपद्ये च टीका स एष आद्यो भगवान् यः पुरुषावतारः सन् सृष्ट्य्आदिकं करोति इत्येषा । एवम् आद्योऽवतारः पुरुषः परस्य [भागवतम् २.६.४२] इत्यस्य टीका च दर्शितैव । तथा तृतीयस्य विंशे दैवेन [भागवतम् ३.२०.१२] इत्यादिकं सोऽनु [भागवतम् ३.२०.१७] इत्यन्तम् सटीकमेव प्रकरणमत्रानुसन्धेयम् । तस्माद्विराट्त्वेन तद्रूपं न व्याख्यातम् । अत्र महत्स्रष्टृब्रह्माण्डप्रविष्टपुरुषयोर् अभेदेनैवोक्तिः । [३] अथ तटस्थस्वरूपलक्षणाभ्यां तदेव विशिनष्टि यस्यावयवसंस्थानैः कल्पितो लोकविस्तरः । तद्वै भगवतो रूपं विशुद्धं सत्त्वमूर्जितम् ॥ [भागवतम् १.३.३] अवयवसंस्थानैः साक्षाच्छ्रीचरणादिसन्निवेशैर्लोकविस्तरो विराड् आकारः प्रपञ्चः कल्पितः । यथा तद्अवयवसन्निवेशास्तथैव पातालम् एतस्य हि पादमूलम् [भागवतम् २.१.२६] इत्यादिना नवीनोपासकान् प्रति मनः स्थैर्याय प्रख्यापितः । न तु वस्तुतस्तदेव तस्याङ्गमित्यर्थः । तच् छ्रीभगवतः पौरुषं रूपम् । वै प्रसिद्धौ । विशुद्धोर्ज्जित सत्त्वाभिव्यक्तत्वाच्छक्तिस्वरूपयोरभेदाच्च तद्रूपमेवेत्यर्थः । उक्तं च स्वरूपत्वं तद्रूपस्य नातः परं परम यद्भवतः स्वरूपम् [भागवतम् ३.९.३] इत्यत्र । विशुद्धं जाड्यांशेनापि रहितं स्वरूपशक्तिवृत्तित्वात् । ऊर्जितं सर्वतो बलवत्परमानन्दरूपत्वात् । को ह्येवान्यात्कः प्राण्यात् यदेष आकाश आनन्दो न स्याद्[टैत्तू २.७.१] इति श्रुतेः । [४] तदेवं स्थानकर्मस्वरूपाण्यभिधाय आकारमप्याह पश्यन्त्यदो रूपमदभ्रचक्षुषा सहस्रपादोरुभुजाननाद्भुतम् । सहस्रमूर्धश्रवणाक्षिनासिकं सहस्रमौल्य्अम्बरकुण्डलोल्लसत् ॥ [भागवतम् १.३.४] (पगे ५) अदः पौरुषरूपमदभ्रचक्षुषा भक्त्य्आख्येन । पुरुषः स परः पार्थ भक्त्या लभ्यस्त्वनन्यया [गीता ८.२२] इत्युक्तेः । अस्य सहस्र पादादित्वं च व्यञ्जितं तृतीयस्याष्टमे श्रीमैत्रेयेण वेणु भुजाङ्घ्रिपाङ्घेः [भागवतम् ३.८.२४] इति, दोर्दण्डसहस्रशाखम् [भागवतम् ३.८.२९] इति, किरीटसाहस्रहिरण्यशृङ्गम् [भागवतम् ३.८.३०] इति च । तथा नवमस्य चतुर्दशे श्रीशुकेन सहस्रशिरसः पुंसो नाभिह्रदसरोरुहात् । जातस्यासीत्सुतो धातुरत्रिः पितृसमो गुणैः ॥ [भागवतम् ९.१४.२] इति । [५] तस्य पूर्णत्वमेव विवृणोति [B. रेअद्स्हेरे: तत्र श्रीभगवन्तं सुष्ठु स्पष्टीकर्तुं गर्भोदक स्थस्य द्वितीयस्य पुरुषस्य व्यूहस्य नानावतारित्वं विवृणोति [एन्द्Vऋ. रेअदिन्ग्.] एतन्नानावताराणां निधानं बीजमव्ययम् । यस्यांशांशेन सृज्यन्ते देवतिर्यङ्नरादयः ॥ [भागवतम् १.३.५] एतदिति ब्रह्माण्डस्थम् । निधानं सरोवराणां समुद्र इव स्वराश्मीन् सूर्य इव सदैवाश्रयः । अतएवाव्ययमनपक्षयम् । बीजमुद्गम स्थानम् । न केवलमवताराणां बीजं जगतोऽपीत्याह यस्येति । [६] अथ प्राचुर्येण तद्अवतारान् कथयंस्तद्ऐक्यविवक्षया तद्अंशांशिनोर् अप्यविर्भावमात्रं गणयति विंशत्या स एव प्रथमं देवः कौमारं सर्गमाश्रितः । चचार दुश्चरं ब्रह्मा ब्रह्मचर्यमखण्डितम् ॥ [भागवतम् १.३.६] योऽम्भसि शयानो यश्च सहस्रपादादिरूपः स एव पुरुषाख्यो देवः । एते चांशकलाः पुंसः [भागवतम् १.३.२८] इत्युपसंहारस्यापि संवादात् । कौमारं चतुःसनरूपम् । ब्रह्मा ब्रह्मणो भूत्वा । [७] द्वितीयं तु भवायास्य रसातलगतां महीम् । उद्धरिष्यन्नुपादत्त यज्ञेशः सौकरं वपुः ॥ [भागवतम् १.३.७] अस्य विश्वस्य उद्भवाय । [८] तृतीयमृषिसर्गं वै देवर्षित्वमुपेत्य सः । तन्त्रं सात्वतमाचष्ट नैष्कर्म्यं कर्मणां यतः ॥ [भागवतम् १.३.८] ऋषिसर्गमुपेत्य तत्रापि देवर्षित्वं नारदत्वमुपेत्य । सात्वतं वैष्णवम् । तन्त्रं पञ्चरात्रागमम् । कर्मणा कर्माकारेणापि सतां श्री भगवद्धर्माणां यतस्तन्त्रान्नैष्कर्म्यं कर्मबन्धमोचकत्वेन कर्मभ्यो निर्गतत्वं तेभ्यो भिन्नत्वं प्रतीयते इति शेषः । [९] तुर्ये धर्मकलासर्गे नरनारायणावृषी । भूत्वात्मोपशमोपेतमकरोद्दुश्चरं तपः ॥ [भागवतम् १.३.९] स्पष्टम् । [१०] पञ्चमः कपिलो नाम सिद्धेशः कालविप्लुतम् । प्रोवाचासुरये साङ्ख्यं तत्त्वग्रामविनिर्णयम् ॥ [भागवतम् १.३.१०] आसुरिनाम्ने विप्राय । [११] षष्ठमत्रेरपत्यत्वं वृतः प्राप्तोऽनसूयया । आन्वीक्षिकीमलर्काय प्रह्लादादिभ्य ऊचिवान् ॥ [भागवतम् १.३.११] अत्रिणा तत्सदृशपुत्रोत्पत्तिमात्रं प्रकटं याचितमिति चतुर्थाद्य् अभिप्रायः । एतद्वाक्येनानसूयया तु कदाचित्साक्षादेव श्रीमद् ईश्वरस्यैव पुत्रभावो वृतोऽस्तीति लभ्यते । उक्तं च ब्रह्माण्डपुराणे पतिव्रतोपाख्याने अनसूयाब्रवीन्नत्वा देवान् ब्रह्मेशकेशवान् । (पगे ६) यूयं यदि प्रसन्ना मे वरार्हा यदि वाप्यहम् । प्रसादाभिमुखो भूत्वा मम पुत्रत्वमेष्यथ ॥ इति । आन्वीक्षिकीमात्मविद्याम् । श्रीविष्णोरेवावतारोऽयम् । [१२] ततः सप्तम आकूत्यां रुचेर्यज्ञोऽभ्यजायत । स यामाद्यैः सुरगणैरपात्स्वायम्भुवान्तरम् ॥ [भागवतम् १.३.१२] स यज्ञस्तदा स्वयमिन्द्रोऽभूदित्यर्थः । [१३] अष्टमे मेरुदेव्यां तु नाभेर्जात उरुक्रमः । दर्शयन् वर्त्म धीराणां सर्वाश्रमनमस्कृतम् ॥ [भागवतम् १.३.१३] उरुक्रम ऋषभो जातः । [१४] ऋषिभिर्याचितो भेजे नवमं पार्थिवं वपुः । दुग्धेमामोषधीर्विप्रास्तेनायं स उशत्तमः ॥ [भागवतम् १.३.१४] पार्थिवं राजदेहं पृथुरूपम् । उशत्तमः कमनीयतमः ॥ [१५] रूपं स जगृहे मात्स्यं चाक्षुषोदधिसम्प्लवे । नाव्यारोप्य महीमय्यामपाद्वैवस्वतं मनुम् ॥ [भागवतम् १.३.१५] चाक्षुषमन्वन्तरे य उदधिसम्प्लवस्तस्मिन् । वैवस्वतमिति भाविनी संज्ञा सत्यव्रतस्य । प्रतिमन्वन्तरावसानेऽपि प्रलयः श्रूयते । श्रीविष्णु धर्मोत्तरे प्रथमकाण्डे मन्वन्तरे परिक्षीणे कीदृशी द्विज जायते [१.७५.१] इति श्रीवज्रप्रश्नस्य मन्वन्तरे परिक्षीणे इत्यादि मार्कण्डेय दत्तोत्तरे ऊर्मिमाली महावेगः सर्वमावृत्य तिष्ठति । भूर्लोकमाश्रितं सर्वं तदा नश्यति यादव ॥ न विनश्यन्ति राजेन्द्र विश्रुताः कुलपर्वताः । नौर्भूत्वा तु महादेवी इत्यादि च । [१.७५.५६, ९] एवमेव मन्वन्तरेषु संहार इत्यादि प्रकरणं श्रीहरिवंशे तदीय टीकासु च स्पष्टमेव । अतश्चाक्षुषे वैवस्वतमित्युपलक्षणम् । [१६] सुरासुराणामुदधिं मथ्नतां मन्दराचलम् । दध्रे कमठरूपेण पृष्ठ एकादशे विभुः ॥ [भागवतम् १.३.१६] स्पष्टम् । [१७] धान्वन्तरं द्वादशमं त्रयोदशममेव च । अपाययत्सुरानन्यान्मोहिन्या मोहयन् स्त्रिया ॥ [भागवतम् १.३.१७] बिभ्रदित्युत्तरेणान्वयः । द्वादशमं धान्वन्तरं रूपं बिभ्रत् । त्रयोदशं मोहिनीरूपं बिभ्रत् । सुरानपाययत्सुधामिति शेषः । केन रूपेण ? मोहिन्या स्त्रिया तद्रूपेणेत्यर्थः । किं कुर्वन् ? अन्यान् सुरान् मोहयन्, धन्वन्तरिरूपेण सुधां चोपहरन्निति शेषः । अजितस्यावतारा एते त्रयः । [१८] चतुर्दशं नारसिंहं बिभ्रद्दैत्येन्द्रमूर्जितम् । ददार करजैरूरावेरकां कटकृद्यथा ॥ [भागवतम् १.३.१८] नारसिंहं रूपं बिभ्रत् । [१९] पञ्चदशं वामनकं कृत्वागादध्वरं बलेः । पदत्रयं याचमानः प्रत्यादित्सुस्त्रिपिष्टपम् ॥ [भागवतम् १.३.१९] कृत्वा प्रकटय्य । [२०] अवतारे षोडशमे पश्यन् ब्रह्मद्रुहो नृपान् । त्रिःसप्तकृत्वः कुपितो निःक्षत्रामकरोन्महीम् ॥ [भागवतम् १.३.२०] अवतारे श्रीपरशुरामाभिधे । स्पष्टम् । [२१] ततः सप्तदशे जातः सत्यवत्यां पराशरात् । चक्रे वेदतरोः शाखा दृष्ट्वा पुंसोऽल्पमेधसः ॥ [भागवतम् १.३.२१] [२२] नरदेवत्वमापन्नः सुरकार्यचिकीर्षया । समुद्रनिग्रहादीनि चक्रे वीर्याण्यतः परम् ॥ [भागवतम् १.३.२२] नरदेवत्वं श्रीराघवरूपेण । अतः परमष्टादशे । अयं साक्षात् पुरुष एव । स्कान्दे श्रीरामगीतायां विश्वरूपं दर्शयतस्तस्य ब्रह्म विष्णुरुद्रकृतस्तुतेः श्रवणात् । (पगे ७) [२३] एकोनविंशे विंशतिमे वृष्णिषु प्राप्य जन्मनी । रामकृष्णाविति भुवो भगवानहरद्भरम् ॥ [भागवतम् १.३.२३] भगवानिति साक्षाद्भगवत एवाविर्भावोऽयं न तु पुरुष संज्ञस्यानिरुद्धस्येति विशेषप्रतिपत्त्य्अर्थम् । तत्र तस्य साक्षाद्रूपत्वात् श्रीकृष्णरूपेण निजांशरूपत्वाद्रामरूपेणापि भारहारित्वं भगवत एवेत्युभयत्रापि भगवानहरद्भरमिति श्लिष्टमेव । अतो रामस्याप्य् अनिरुद्धावतारत्वं स्वयं प्रत्याख्यातम् । श्रीकृष्णस्य वासुदेवत्वाच् छ्रीरामस्य च सङ्कर्षणत्वाद्युक्तमेव च तदिति । [२४] ततः कलौ सम्प्रवृत्ते सम्मोहाय सुरद्विषाम् । बुद्धो नाम्नाञ्जनसुतः कीकटेषु भविष्यति ॥ [भागवतम् १.३.२४] कीकटेषु गयाप्रदेशेषु । [२५] अथासौ युगसन्ध्यायां दस्युप्रायेषु राजसु । जनिता विष्णुयशसो नाम्ना कल्किर्जगत्पतिः ॥ [भागवतम् १.३.२५] युगसन्ध्यायां कलेरन्ते । [२६] अथ श्रीहयग्रीवहरिहंसपृश्निगर्भविभुसत्यसेनवैकुण्ठाजित सार्वभौमविश्वक्सेनधर्मसेतुसुधामयोगेश्वरबृहद्भान्व् आदीनां शुक्लादीनां चानुक्तानां सङ्ग्रहार्थमाह अवतारा ह्यसङ्ख्येया हरेः सत्त्वनिधेर्द्विजाः । यथाविदासिनः कुल्याः सरसः स्युः सहस्रशः ॥ [भागवतम् १.३.२६] असङ्ख्येयत्वे हेतुः सत्त्वनिधेः सत्त्वस्य तत्प्रादुर्भावशक्तेः सेवधि रूपस्य । तत्रैव दृष्टान्तः यथेति । अविदासिन उपक्षयशून्यात्सरसः सकाशात् । [Vऋ. अद्द्स्: कुल्यास्तत्स्वभावकृता निर्झरा अविदासिन्यः सहस्रशः सम्भवन्तीति । Vऋ. अद्दितिओनेन्द्स्.] अत्र येऽंशावतारास्तेषु चैष विशेषो ज्ञेयः । श्रीकुमारनारदादिष्वाधिकारिकेषु ज्ञानभक्ति शक्त्यांशावेशः । श्रीपृथ्व्आदिषु क्रियाशक्त्य्अंशावेशः । क्वचित्स्वयम् आवेशस्तेषां भगवानेवाहमिति वचनात् । अथ श्रीमत्स्यदेवादिषु साक्षाद्अंशत्वमेव । तत्र चांशत्वं नाम साक्षाद्भगवत्त्वेऽप्य् अव्यभिचारितादृशतद्इच्छावशात्सर्वदैकदेशतयैवाभिव्यक्तशक्त्य् आदिकत्वमिति ज्ञेयम् । तह्तैवोदाहरिष्यते रामादिमूर्तिषु कलानियमेन तिष्ठन् [Bरह्मष्५.५०] इति । [२७] अथ विभूतीराह ऋषयो मनवो देवा मनुपुत्रा महौजसः । कलाः सर्वे हरेरेव सप्रजापतयः स्मृताः ॥ [भागवतम् १.३.२७] कला विभूतयः । अल्पशक्तेः प्रकाशाद्विभूतित्वं महाशक्तेस्त्व् आवेशत्वमिति भेदः । [२८] तदेवं परमात्मानं साङ्गमेव निर्धार्यं प्रोक्तानुवादपूर्वकं श्रीभगवन्तमप्याकारेण निर्धारयति एते चांशकलाः पुंसः कृष्णस्तु भगवान् स्वयम् । इति [भागवतम् १.३.२८] (पगे ८) एते पूर्वोक्ताः । चशब्दादनुक्ताश्च प्रथममुद्दिष्टस्य पुंसः पुरुषस्यांशकलाः । केचिदंशाः स्वयमेवांशाः साक्षाद् अंशत्वेनांशांशत्वेन च द्विविधाः । केचिदंशाविष्टत्वादंशाः, केचित्तु कलाविभूतयः । इह यो विंशतितमावतारत्वेन कथितः स कृष्णस्तु भगवान् । पुरुषस्याप्यवतारी यो भगवान् स एष एवेत्यर्थः । अत्र अनुवादमनुक्त्वैव न विधेयमुदीरयेदिति वचनात्कृष्णस्यैव भगवत्त्वलक्षणधर्मित्वे सिद्धे मूलावतारित्वमेव सिध्यति न तु ततः प्रादुर्भूतत्वम् । एतदेव व्यनक्ति स्वयमिति । तत्र च स्वयमेव भगवान्, न तु भगवतः प्रादुर्भूततया न तु वा भगवत्त्वाध्यासेनेत्य् अर्थः । न चावतारप्रकरणेऽपि पठित इति संशयः । पौर्वापर्ये पूर्व दौर्बल्यं प्रकृतिवदिति न्यायात् । यथाग्निष्टोमे यद्युद्गाता विच्छिद्याद् अदक्षिणेन यजेत यदि प्रतिहर्ता सर्वस्वदक्षिणेनेति श्रुतेः । तयोश्च कदाचिद्द्वयोरपि विच्छेदे प्राप्ते विरुद्धयोः प्रायश्चित्तयोः समुच्चयासम्भवे च परमेव प्रायश्चित्तं सिद्धान्तितं तद्वदिहापि इति । अथवा कृष्णस्त्विति श्रुत्या प्रकरणस्य बाधात् । यथा शङ्करशारीरिके भाष्ये श्रुत्य्आदिबलीयस्त्वाच्च न बाधः [Vस्३.३.५०] इति सूत्रे, ते हैते विद्याचित एव इति श्रुतिर्मनश्चिद्आदीनामग्नीनां प्रकरणप्राप्तं क्रियानुप्रवेशप्रकरणेऽप्यन्यत्र क्वचिदपि भगवच्छब्दमकृत्वा तत्रैव भगवानहरद्भरम् [भागवतम् १.३.२३] इत्यनेन कृतवान् । ततश्चास्यावतारेषु गणनात्तु स्वयं भगवानप्यसौ स्वरूपस्थ एव निजपरिजनवृन्दानामानन्दविशेषचमत्काराय किमपि माधुर्यं निजजन्मादिलीलया पुष्णन् कदाचित्सकललोकदृश्यो भवतीत्य् अपेक्षयैवेत्यायातम् । यथोक्तं ब्रह्मसंहितायाम् रामादिमूर्तिषु कलानियमेन तिष्ठन् नानावतारमकरोद्भुवनेषु किन्तु । कृष्णः स्वयं समभवत्परमः पुमान् यो गोविन्दमादिपुरुषं तमहं भजामि ॥ [Bष्५.३९] अवताराश्च प्राकृतवैभवेऽवतरणमिति । श्रीकृष्णसाहचर्येण श्री रामस्यापि पुरुषांशत्वात्ययो ज्ञेयः । अत्र तुशब्दोऽंशकलाभ्यः पुंसश् च सकाशाद्भगवतो वैलक्षण्यं बोधयति । यद्वानेन तुशब्देन सावधारणा श्रुतिरियं प्रतीयते । ततः सावधारणा श्रुतिर्बलवतीति न्यायेन श्रुत्यैव श्रुतमप्यन्येषां महानारायणादीनां स्वयं भगवत्त्वं गुणीभूतमापद्यते । एवं पुंस इति भगवानिति च प्रथममुपक्रमोद्दिष्टस्य शब्दद्वयस्य तत्सहोदरेण तेनैव शब्देन च प्रतिनिर्देशात्तावेव खल्वेताविति स्मारयति । उद्देशप्रतिनिर्देशयोः प्रतीति(पगे ९)स्थगिततानिरसनाय विद्वद्भिरेक एव शब्दः प्रयुज्यते तत्समवर्णो वा । यथा ज्योतिष्टोमाधिकरणे वसन्ते वसन्ते च ज्योतिषा यजेत इत्यत्र ज्योतिःशब्दो ज्योतिष्ठोमविषयो भवतीति । अत्र तत्त्ववादगुरवस्तु चशब्दस्थाने स्वशब्दं पठित्वैवमाचक्षते एते प्रोक्ता अवताराः । मूलरूपी स्वयमेव । किंस्वरूपा ? स्वांशकला न तु जीववद्भिन्नांशाः । यथा वाराहे स्वांशश्चाथ विभिन्नांश इति द्वेधांश इष्यते । अंशिनो यत्तु सामर्थ्यं यत्स्वरूपं यथा स्थितिः ॥ तदेव नाणुमात्रोऽपि भेदः स्वांशांशिनोः क्वचित् । विभिन्नांशोऽल्पशक्तिः स्यात्किञ्चित्सामर्थ्यमात्रयुक् ॥ इति । अत्रोच्यते अंशानामंशिसामर्थ्यादिकं तद्ऐक्येनैव मन्तव्यम् । तत्र यथाविदासिन इत्यादौ तस्याक्षयत्वेन तासामक्षयत्वं यथा तद्वत् अंशांशित्वानुपपत्तेरेव । तथा च श्रीवासुदेवानिरुद्धयोः सर्वथा साम्ये प्रसक्ते कदाचिदनिरुद्धेनापि श्रीवासुदेवस्याविर्भावना प्रसज्यते । तच्च श्रुतिविपरीतमित्यसदेव । तस्मादस्त्येवावतार्य् अवतारयोस्तारतम्यम् । अतएव तृतीयाष्टमे आसीनमुर्व्यां भगवन्तमाद्यं सङ्कर्षणं देवमकुण्ठसत्त्वम् । विवित्सवस्तत्त्वमतः परस्य कुमारमुख्या मुनयोऽन्वपृच्छन् ॥ स्वमेव धिष्ण्यं बहु मानयन्तम् । यद्वासुदेवाभिधमामनन्ति । [भागवतम् ३.८.३४] इत्यादौ वासुदेवस्य सङ्कर्षणादपि परत्वं श्रूयते । यत्तु तेषां तथा व्याख्यानमत्र कृष्णस्त्वित्यनर्थकं स्यात् । भगवान् स्वयमित्य् अनेनैवाभिप्रेतसिद्धेः । किं च तैः स्वयमेव प्रकाशादिवन्नैव परः [Vस्२.३.४५] इति सूत्रे स्फुटमंशांशिभेदो दर्शितः । अंशत्वेऽपि न मत्स्यादि रूपी पर एवंविधो जीवसदृशः । यथा तेजोऽंशस्यैव सूर्यस्य खद्योतस्य च नैकप्रकारतेत्यादिना । तस्मात्स्थिते भेदे साध्वेव व्याख्यातं कृष्णस्तु भगवान् स्वयमिति । इन्द्रारीति पद्यार्धं तत्र नान्वेति । तुशब्देन वाक्यस्य भेदनात् । तच्च तावतैवाकाङ्क्षापरिपूर्तेः । एकवाक्यत्वे तु चशब्द एवाकरिष्यत् । ततश् चेन्द्रारीत्यत्रार्थात्त एव पूर्वोक्ता एव मृडयन्तीत्यायाति । ॥ १.३ ॥ श्रीसूतः ॥ २२८ ॥ [२९] तदेवं श्रीकृष्णो भगवान् पुरुषस्तु सर्वान्तर्यामित्वात्परमात्मेति निर्धारितम् । तत्राशङ्क्यते नन्विदमेकमंशित्वप्रतिपादकं वाक्यम् अंशत्वप्रतिपादकबहुवाक्यविरोधे गुणवादः स्यात् । अत्रोच्यते तानि किं श्रीभागवतीयानि परकीयाणि वा । आद्ये जन्मगुह्याध्यायो ह्ययं सर्व भगवद्अवतारवाक्यानां सूत्रं सूचकत्वात्प्राथमिकपाठात्तैर् उत्तरत्र तस्यैव विवरणाच्च । तत्र चैते चांशकलाः पुंस इति परिभाषेति । अवतारवाक्येषु अन्यान् पुरुषांशत्वेन जानीयात् । कृष्णस्तु स्वयं भगवत्त्वेनेति प्रतिज्ञाकारेण ग्रन्थार्थनिर्णायकत्वात् । तदुक्तं अनियमे नियमकारिणी परिभाषा इति । अथ परिभाषा च सकृदेव पठ्यते शास्त्रे न त्वभ्यासेन । [Vऋ. अद्द्स्: यथा प्रतिषेधे परं कार्यमिति ।] ततश्च वाक्यानां कोटिरप्य् एकेनैवामुना शासनीया भवेदिति नास्य गुणवादत्वं प्रत्युतैतद् विरुद्धायमानानामेतदनुगुणार्थमेव वैदुषी । न च परिभाषिकत्वात्तच्छास्त्र एव स व्यवहारो ज्ञेयः । न सर्वत्रेति गौणत्वम् आशङ्क्यम् । परमार्थवस्तुपरत्वाच्छ्रीभागवतस्य (पगे १०) तत्राप्य् आर्थिकत्वाच्च तस्याः परिभाषायाः । किं च प्रतिज्ञावाक्यमात्रस्य च दृश्यते परत्रापि नाना वाक्यान्तरोपमर्दकत्वम् । यथाकाशस्यानुत्पत्तिश्रुतिः प्राणानां च तच् छ्रुतिः स्वविरोधिनी नान्या श्रुतिश्च आत्मनि विज्ञाते सर्वमिदं विज्ञातं भवति [Bआऊ ४.५.६] इदं सर्वं यदयमात्मा [Bआऊ २.४.६] इत्य् आदिनोपमर्द्यते । अतएव स्वामिप्रभृतिभिरप्येतदेव वाक्यं तत्तद् विरोधनिरासाय भूयो भूय एव दर्शितम् । तदेवं श्रीभागवतमते सिद्धे च तस्य वाक्यस्य बलवत्तमत्वे श्री भागवतस्य सर्वशास्त्रोपमर्दकत्वेन प्रथमे सन्दर्भे प्रतिपन्नत्वात् अस्मिन्नेव प्रतिपत्स्यमानत्वाच्च परकीयाणामप्येतदानुगुण्यमेव विद्वज्जनदृष्टम् । यथा राज्ञः शासनं तथैव हि तद्अनुचराणामपीति । तत्र श्रीभागवतीयानि वाक्यानि तद्अनुगतार्थतया दर्श्यन्ते । तत्रांशेनावतीर्णस्य [भागवतम् १०.१.२] इत्यंशेन बलदेवेन सह इत्यर्थः । कलाभ्यां नितरां हरेः [भागवतम् १०.२०.४८] इति हरेः कला पृथ्वी, आभ्यां राम कृष्णाभ्यामिति । दिष्ट्याम्ब ते कुक्षिगतः परः पुमान् अंशेन साक्षाद्भगवान् भवाय नः ॥ [भागवतम् १०.२.४१] इत्यत्र यो मत्स्यादिरूपेणांशेनैव पूर्वं नोऽस्माकं भवायाभूथे अम्ब स तु साक्षात्स्वयमेव तव कुक्षिगतोऽस्तीति । ततो जगन्मङ्गलम् अच्युतांशम् [भागवतम् १०.२.१८] इति तु सप्तम्य्अन्यपदार्थो बहुव्रीहिः । तस्मिन्न् अंशिन्यवतरति तेषामंशानामप्यत्र प्रवेशस्य व्याख्यास्यमानत्वात् । पूर्णत्वेनैव तत्र सर्वात्मकमात्मभूतमित्युक्तम् । तथा च नातिविद्वज्जनवाक्ये एतौ भगवतः साक्षाद्धरेर्नारायणस्य हि । अवतीर्णाविहांशेन वसुदेवस्य वेश्मनि ॥ [भागवतम् १०.४३.२३] इत्यत्रापि सरस्वतीप्रेरिततया अंशेन सर्वांशेन सहैवेत्यर्थः । एवमेव ताविमौ वै भगवतो हरेरंशाविहागतौ । भारव्ययाय च भुवः कृष्णौ यदुकुरूद्वहौ ॥ [भागवतम् ४.१.५९] इत्यत्र आगताविति कर्तरि निष्ठा । कृष्णाविति कर्मणि द्वितीया । ततश्च भगवतो नानावतारबीजस्य हरेः पुरुषस्य ताविमौ नरनारायणाख्यौ अंशौ कर्तृभूतौ कृष्णौ कृष्णार्जुनौ कर्मभूतावागतवन्तौ तयोः प्रविष्टवन्तावित्यर्थः । कीदृशौ कृष्णौ ? भुवो भारव्ययाय । च काराद्भक्तसुखदनानालीलान्तराय च । यदुकुरूद्वहौ यदुकुरु वंशयोरवतीर्णावित्यर्थः । अर्जुने तु नरावेशः कृष्णो नारायणः स्वयम् इत्यागमवाक्यं श्रीमद्अर्जुने नरप्रवेशापेक्षया । यस्तु स्वयम् अनन्यसिद्धो नारायणो नारायणस्त्वं न हि सर्वदेहिनाम् [भागवतम् १०.१४.१४] इत्यादिना दर्शितः । स पुनः कृष्ण इत्यर्थान्तरापेक्षया मन्तव्यम् । ययोर् एव समं वीपर्यम् [भागवतम् १०.६०.१५] इत्यादि न्यायात् । तथा विष्णुधर्मे यस्त्वां वेत्ति स मां वेत्ति यस्त्वामनु स मामनु । अभेदेनात्मनो वेद्मि त्वामहं पाण्डुनन्दन ॥ इति । तं प्रति श्रीभगवद्वाक्याच्चार्जुनस्यापि श्रीकृष्णसखत्वेन नारायण सखान्नरात्पूर्णत्वात्तत्र प्रवेशः समुचित एव । कुत्रचिच्चांशादिशब्द प्रयोगः नाहं प्रकाशः सर्वस्य योगमायासमावृतः [गीता ७.१५] इति श्री गीतोपनिषद्दिशा पूर्णस्यापि साधारणजने खण्डांशप्रकाशात्(ড়गे ११) तत्प्रतीतावेवांश इवांश इति ज्ञेयम् । नारायणसमो गुणैः [भागवतम् १०.८.१९] इत्यत्रापि नारायणः परव्योमाधिप एव गुणैः समो यस्येत्येव गर्गाभिप्रायः । तदेवं महाकालपुराख्यानेऽपि प्रतिज्ञावाक्यमिदम् अधिकुर्यात् । किं च शास्त्रं हि शासनात्मकम् । शासनं चोपदेशः । स च द्विधा साक्षादर्थान्तरद्वारा च । साक्षाद्उपदेशस्तु श्रुतिरिति परिभाष्यते । साक्षात्त्वं चात्र निरपेक्षत्वमुच्यते । तदुक्तं निरपेक्ष रवा श्रुतिरिति । तथा च सति श्रुतिलिङ्गवाक्यप्रकरणस्थान समाख्यानां समवाये पारदौर्बल्यमर्थविप्रकर्षात्[ञैमिनीसूत्र ३.३.१४] इत्युक्तानुसारेण चरमस्य पूर्वापेक्षया दूरप्रतीत्य्अर्थत्वे कृष्णस् तु भगवान् स्वयमिति श्रीशौनकं प्रति श्रीसूतस्य साक्षाद्उपदेशेन इतिहासद्वारोपदेशो बाध्यते । न च मे कलावतीर्णौ [भागवतम् १०.८९.५८] इति च महाकालपुराधिप एव श्रीकृष्णं साक्षादेवोपदिष्टवानिति वाच्यम् । श्री कृष्णस्य सार्वज्ञ्याव्यभिचारेण वक्तृश्रोतृभावपूर्वक सङ्गमाप्रस्तावेन द्विजात्मजा मे युवयोर्दिदृक्षुणा [भागवतम् १०.८९.५८] इति कार्यान्तरतात्पर्यदर्शनेन च । तस्यैतन्महापुराणस्य च तत्त्वोपदेष्टृसूतादिवत्तद्उपदेशे तात्पर्याभावाद्वक्ष्यमाणार्थान्तर एव नैकट्येन पदसम्बन्धाच्च । किं च भवतु वा तुष्यतु न्यायेन श्रीकृष्णस्य तमपेक्ष्यापूर्णत्वम्, तथापि सर्वेषामप्यवताराणां नित्यमेव स्वस्थत्वेन दर्शयिष्यमाणत्वात्केषांचिन्मते तु स्वयं पुरुषत्वेऽपि स्वतन्त्र स्थितित्वात् । युवां नरनारायणावृषी [भागवतम् १०.८९.५९] इति, त्वरयेतामन्ति मे [भागवतम् १०.८९.५९] इति च तत्तद्अर्थत्वे विरुध्येत । अस्तु तावदस्माकमन्या वार्ता, न च कुत्रापि महाकालोऽयमंशेन तत्तद्रूपेणावतीर्ण इत्य् उपख्यायते वा । ततश्चाप्रसिद्धकल्पना प्रसज्जते । तत्रैव च त्वरयेतम् अन्ति मे इति युवां नरनारायणावृषी धर्ममाचरतामित्यादेशद्वयस्य पारस्परिकविरोधः स्फुट एव । किं च, यदि तस्य तावंशावभविष्यतां तर्हि करतलमणिवत्सदा सर्वम् एव पश्यन्नसौ तावपि दूरतोऽपि पश्यन्नेवाभविष्यत् । तच्च युवयोर् दिदृक्षुणेति तद्वाक्येन व्यभिचारितम् । यदि स्वयमेव श्रीकृष्णस्तत्तद् रूपावात्मानौ दर्शयति तदैव तेन तौ दृश्येयातामित्यानीतं च । तथा च सति, तयोर्दृश्यत्वाभावादंशत्वं नोपपद्यते । तस्मादप्यधिक शक्तित्वेन प्रत्युत पूर्णत्वमेवोपपद्यते । एवमपि यत्त्वर्जुनस्य तज्ज्योतिःप्रताडिताक्षत्वं तद्दर्शनजात साध्वसत्वं च जातं तत्र स्वयमेव भगवता तत्तल्लीलारसौपयिक मात्रशक्तेः प्रकाशनादन्यस्याः स्थिताया अपि कुण्ठनान्न विरुद्धम् । दृश्यते च स्वस्यापि क्वचिद्युद्धे प्राकृतादपि पराभवादिकम् । यथात्रैव तावत्स्वयमेव वैकुण्ठादागतानामप्यश्वानां प्राकृततमसा भ्रष्टगतित्वम् । तदेवमेव श्रीकृष्णस्य तस्मिन् भक्तिभर दर्शनेनाप्यन्यथा न मन्तव्यम् । श्रीरुद्रादौ श्रीनारदादौ च तथा दर्शनात् । एवमत्र परत्र वा तदीयलीलायां तु पूर्वपक्षो नास्ति तस्य स्वराचरणत्वात् । अतस्तदीयतात्पर्य(पगे १२)शब्दोत्थावर्थावेवमेव दृश्येते । तत्तात्पर्योत्थो यथासौ श्रीकृष्णः स्वयं भगवानपि यथा गोवर्धनमखलीलायां श्रीगोपगणविस्मापनकौतुकाय काञ्चिन्निजां दिव्यमूर्तिं प्रदर्शयन् तैः सममात्मनैवात्मानं नमश्चक्रे । तथैवार्जुनविस्मापनकौतुकाय महाकालरूपेणैवात्मना द्विज बालकान् हारयित्वा पथि च तं तं चमत्कारमनुभाव्य महाकालपुरे च तां कामपि निजां महाकालाख्यं दिव्यमूर्तिं दर्शयित्वा तेन समं तद्रूपमात्मानं नमश्चक्रे । तद्रूपेणैव सार्जुनमात्मानं तथा बभाषे च । तदुक्तं तस्मै नमो व्रजजनैः सहचक्रेऽत्मनात्मनै [भागवतम् १०.२४.३६] इतिवत् । अत्रापि बबन्ध आत्मानमनन्तमच्युतः [भागवतम् १०.८९.३१] इति । अतएव हरिवंशे तत्समीपज्योतिरुद्दिश्य चार्जुनं प्रति श्री कृष्णेनोक्तं मत्तेजस्तत्सनातनम् [ःV २.११४.९] इति । अथ शब्दोत्थोऽप्यर्थो यथा तत्र श्रीमहाकालमुद्दिश्य पुरुषोत्तमोत्तमम् [भागवतम् १०.८९.५४] इति विशेषणस्यार्थः । पुरुषो जीवस्तस्माद् उत्तमस्तद्अन्तर्यामी तस्मादुत्तमं भगवत्प्रभावरूपमहाकाल शक्तिमयं तमिति । अथ श्रीमहाकालवाक्यस्य द्विजात्मजा मे युवयोर्दिदृक्षुणा मयोपनीता भुवि धर्मगुप्तये । कलावतीर्णाववनेर्भरासुरान् हत्वेह भूयस्त्वरयेतमन्ति मे ॥ [भागवतम् १०.८९.५९] इत्यस्य युवयोर्युवां दिदृक्षुणा मया द्विजपुत्रा मे मम भुवि धाम्नि उपनीता आनीता इत्येकं वाक्यम् । वाक्यान्तरमाह हे धर्मगुप्तये कलावतीर्णौ कला अंशास्तद्युक्ताववतीर्णौ मध्यमपदलोपी समासः । कलायामंशलक्षणे मायिकप्रपञ्चेऽवतीर्णौ वा पादोऽस्य विश्वा भूतानि [ऋव्१०.९०.३] इति श्रुतेः । भूयः पुनरपि अवैशिष्टानवनेर् भरासुरान् हत्वा मे मम अन्ति समीपाय समीपमागमयितुं युवां त्वरयेतं त्वरतम् । अत्र प्रस्थाप्य तान्मोचयतमित्यर्थः । तद्धतानां मुक्तिप्रसिद्धेः । महाकालज्योतिरेव मुक्ताः प्रविशन्तीति ब्रह्म तेजोमयं दिव्यं महद्यद्दृष्टवानसि [ःV २.११४.९] इति श्रीहरिवंशोक्तेश् च । त्वरयेतमिति प्रार्थनायां हेतुणिज्अन्तस्य लिङि रूपमन्तीत्य्अव्ययाच् चतुर्थ्यां लुक्, चतुर्थी च एधोभ्यो व्रजतीतिवत्क्रियार्थोपपस्य च कर्मणि स्थानिनः [पाणिनि २.३.१४] इति स्मरणात् । कटं कृत्वा प्रस्थापयतीतिवदुभयोर् एकेनैव कर्मणान्वयः । तस्मादेक एवार्थः स्पष्टमकष्टो भवति । अर्थान्तरे तु सम्भवत्येकपदत्वे पदच्छेदः कष्टाय कल्प्यते । तथा पूर्णकामावपि युवां नरनारायणावृषी । धर्ममाचरतां स्थित्यै ऋषभौ लोकसङ्ग्रहम् ॥ [भागवतम् १०.८९.६०] इत्यस्य न केवलमेतद्रूपेणैव युवां लोकहिताय प्रवृत्तौ । अपि वैभवान्तरेणापीति स्तौति पूर्णेति । स्वयं भगवत्त्वेन तत्सखत्वेन च ऋषभौ सर्वावतारावतारिश्रेष्ठावपि (पगे १३) पूर्णकामावपि स्थित्यै लोकरक्षणाय लोकसङ्ग्रहं लोकेषु तत्तद्धर्मप्रचारहेतुकं धर्ममाचरतां कुर्वतां मध्ये युवां नरनारायणावृषी इत्यनयोर् अल्पांशत्वेन विभूतिवन्निर्देशः । उक्तं चैकादशे श्रीभगवता विभूति कथन एव नारायणो मुनीनां च [भागवतम् ११.१६.२५] इति । धार्मिकमौलित्वाद् द्विजपुत्रार्थमवश्यमेष्यथ इत्यत एव मया तथा व्यवसितमिति भावः । तथा च हरिवंशे श्रीकृष्णवाक्यम् मद्दर्शनार्थं ते बाला हृतास्तेन महात्मना । विप्रार्थमेष्यते कृष्णो नागच्छेदन्यथा त्विह ॥ [ःV २.११४.८] अत्राचरतमित्यर्थे आचरतामिति प्रसिद्धमित्यतश्च तथा न व्याख्यातम् । तस्मान्महाकालतोऽपि श्रीकृष्णस्यैवाधिक्यं सिद्धम् । तद् एतन्महिमानुरूपमेवोक्तं निशाम्य वैष्णवं धाम पार्थः परमविस्मितः । यत्किञ्चित्पौरुषं पुंसां मेने कृष्णानुकम्पितम् ॥ [भागवतम् १०.८९.६३] अत्र महाकालानुभावितमिति तु नोक्तम् । एवमेव स चेतिक्षणो भगवान् श्रीकृष्ण एवेति दर्शयितुमाख्यानान्तरमाह एकदा [भागवतम् १०.८९.२१] इति । श्री स्वामिलिखितैतत्प्रकरणचूर्णिकापि सुसङ्गता भवति । अथ परकीयाण्यपि विरुद्धायमानानि वाक्यानि तद्अनुगतार्थतया दृश्यन्ते । तत्र श्रीविष्णुपुराणे उज्जहारात्मनः केशौ सितकृष्णौ महा मुने [Vइড়् ५.१.५९] इति । महाभारते [१.१८९.३१३२] स चापि केशौ हरिरुद्बबर्ह शुक्लमेकमपरं चापि कृष्णम् । तौ चापि केशौ विशतां यदूनां कुले स्त्रियो रोहिणीं देवकीं च । तयोरेको बलभद्रो बभूव योऽसौ श्वेतस्तस्य देवस्य केशः । कृष्णो द्वितीयः केशवः सम्बभूव केशो योऽसौ वर्णतः कृष्ण उक्तः ॥ इति ॥[*Eण्ड्ण्Oट्E ॰१] अत्र तात्पर्यं स्वामिभिरित्थं विवृतं भूमेः सुरेतरवरूथ [भागवतम् २.७.२६] इत्यादिपद्ये । सितकृष्णकेश इत्यत्र सितकृष्णकेशत्वं शोभैव न तु वयःपरिणामकृतमविकारित्वात् । यच्च उज्जहारात्मनः केशावित्यादि तत्तु न केशमात्रावताराभिप्रायं किन्तु भूभारावतारणरूपं कार्यं कियदेतदात्मकेशौ एव तत्कर्तुं शक्ताविति द्योतनार्थं रामकृष्णयोर् वर्णसूचनार्थं च केशोद्धरणमिति गम्यते । कृष्णस्तु भगवान् स्वयमित्येतद्विरोधनाच्चेति । इदमप्यत्र तात्पर्यं सम्भवति । ननु देवाः किमर्थं मामेवातारयितुं भवद्भिरागृह्यते अनिरुद्धाख्यपुरुषप्रकाशविशेषस्य क्षीरोदश्वेतद्वीपधाम्नो मम यौ केशाविव स्वस्वशिरोधार्यभूतौ तावेव श्रीवासुदेव सङ्कर्षणौ स्वयमेवावतरिष्यतः । ततश्च भूभारहरणं ताभ्याम् ईषत्करमेवेति । अथ उज्जहारात्मनः केशावित्यस्यैव शब्दोऽर्थोऽपि मुक्ताफलटीकायां केशौ सुखस्वामिनौ सितो रामः आत्मनः सकाशाद् उज्जहार उद्धृतवान् । हरिवंशे हि कस्यांचिद्गिरिगुहायां भगवान् स्वमूर्तिं निक्षिप्य गरुडं च तत्रावस्थाप्य स्वयमत्रागत इत्युक्तम् । तदुक्तं स देवान् अभ्यनुज्ञाय [ःV १.५५.५०] इत्यादि । यैस्तु यथाश्रुतमेवेदं व्याख्यातं ते न सम्यक्परामृष्टवन्तः यतः सुरमात्रस्यापि निज्ररत्वप्रसिद्धिः । अकालकलिते भगवति जरानुदयेन केशशौक्ल्यानुपपत्तिः । न चास्य केशस्य नैसर्गिकसितकृष्णतेति प्रमाणमस्ति । अतएव नृसिंहपुराणे कृष्णावतारप्रसङ्गे शक्तिशब्द एव प्रयुज्यते न तु केशशब्दः । तथा हि वसुदेवाच्च देवक्यामवतीर्य यदोः कुले । सितकृष्णे च मच्छक्ती कंसाद्यान् घातयिष्यतः ॥ (णृसिंहড়् ५३.३०३१) इत्यादिना । अस्तु तर्हि अंशोपलक्षकः केशशब्दः । (पगे १४) न, अविप्लुत सर्वशक्तित्वेन साक्षाद्आदिपुरुषत्वेन निश्चेत्तुं शक्यत्वात् । कृष्णविष्ण्व् आदिशब्दानामविशेषतः पर्यायप्रतीतेश्च । नैवमवतारान्तरस्य कस्य वान्यस्य जन्मदिनं जयन्त्याख्ययातिप्रसिद्धम् । अतएवोक्तं भारते (१.१.१९३?)[*Eण्ड्ण्Oट्E ॰२] भगवान् वासुदेवश्च कीर्त्यतेऽत्र सनातनः । शाश्वतं ब्रह्म परमं योगिध्येयं निरञ्जनम् ॥ इति । तस्याकालकलितत्वं योऽयं कालस्तस्य तेऽव्यक्तबन्धो चेष्टामाहुः [भागवतम् १०.३.२६] इत्यादौ श्रीदेवकीदेवीवाक्ये, नताः स्म ते नाथ सदाङ्घ्रिपङ्कजं विरिञ्चिवैरिञ्च्यसुरेन्द्रवन्दितम् । परायणं क्षेममिहेच्छतां परं न यत्र कालः प्रभवेत्परः प्रभुः ॥ [भागवतम् १.११.६] इत्यादौ श्रीद्वारकावासिवाक्ये च प्रसिद्धम् । अतो यत्प्रभासखण्डे केशस्य बालत्वमेव तत्सितिम्नः कालकृतपलित लक्षणत्वमेव च दर्शितम्, तस्य शरीरिणां शुक्लवैराग्यप्रतिपादन प्रकरणपतितत्वेन सुरमात्रनिर्जरताप्रसिद्धत्वेन चामुख्यार्थत्वान् न स्वार्थप्रामाण्यम् । ब्रह्मा येन इत्यारभ्य, विष्णुर्येन दशावतारग्रहणे क्षिप्तो महासङ्कटे । रुद्रो येन कपालपाणिरभितो भिक्षाटनं कारितम् ॥ [ङर्ড়् १.११३.१५] इत्यादौ तस्मै नमः कर्मणे इति गरुडवचनात् । किन्तु तत्प्रतिपादनाय शब्दसाम्येन छलोक्तिरेवेयम् । यथा अहो कनकदौरात्म्यं निर्वक्तुं केन युज्यते । नामसाम्यादसौ यस्य धूस्तरोऽपि मदप्रदः ॥ इति । शिवशास्त्रीयत्वाच्च नात्र वैष्णवसिद्धान्तविरुद्धस्य तस्योपयोगः । यत उक्तं स्कान्द एव षण्मुखं प्रति श्रीशिवेन शिवशास्त्रेऽपि तद्ग्राह्यं भगवच्छास्त्रयोगि यतिति । अन्यतात्पर्यकत्वेन स्वतस्तत्राप्रामाण्याद् युक्तं चैतत्यथा पङ्केन पङ्काम्भ [भागवतम् १.८.५२] इत्यादिवत् । पाद्मोत्तरखण्डे च शिवप्रतिपादकानां पुराणानामपि तामसत्वमेव दर्शितम् । मात्स्येऽपि तामसकल्पकथामयत्वमिति युक्तं च तस्य वृद्ध सूतस्य श्रीभागवतमपठितवतः श्रीबलदेवावज्ञातुः श्रीभगवत् तत्त्वासम्यक्ज्ञानजं वचनमेवं वदन्ति राजर्षे ऋषयः केचनान्विताः [भागवतम् १०.७७.३०] इतिवत् । एतादृश श्रीभागवतवाक्येन स्वविरुद्ध पुराणान्तरवचनबाधनं च । यथेह कर्मजितो लोकः क्षीयत [Cहाऊ ८.१.६] इत्यादि वाक्येन उपाम सोमममृता अभूम [ऋक्८.४८.३] इत्यादिवचन बाधनवज्ज्ञेयम् । अत्रापि यत्स्ववचो विरुद्धेत नूनं ते न स्मरन्त्य् अमुम् [भागवतम् १०.७७.३०] इति युक्तिसद्भावओ दृश्यते । तत्रैवात्मनः सन्दिघ्दत्वमेव तेन सूतेन व्यञ्जितम् । अचिन्त्या खलु ये भावा न तांस् तर्केण योजयेदित्यादिना । किं च तत्रैवोत्तरग्रन्थे कलङ्कापत्तिकारणकथने श्रीकृष्णावतार प्रसङ्गे स्वयं विष्णुरेवेत्युक्तत्वात्स्वेनैव विरोधश्च । तस्मान्न केशावतारत्वेऽपि तात्पर्यं केशशब्दस्य बालत्ववाचनं च । छलतो भगवत्तत्त्वाज्ञानतो वेति । अतो वैष्णवादिपद्यानां शब्दोत्तमर्थमेवं पश्यामः अंशवो ये प्रकाशन्ते मम ते केशसंज्ञिताः । सर्वज्ञाः केशवं तस्मान्मामाहुर्मुनिसत्तम ॥ [ंBह्१२.३२८.४३] इति सहस्रनामभाष्योत्थापितभारतवचनात्केशशब्देनांशुरुच्यते । तत्र च सर्वत्र केशेतरशब्दाप्रयोगात्नानावर्णांशूनां श्रीनारद(पगे १५)दृष्टतया मोक्षधर्मप्रसिद्धेश्च । तथा चांशुत्वे लब्धे तौ चांशू वासुदेवसङ्कर्षणावतारसूचकतया निर्दिष्टाविति तयोरेव स्याताम् इति गम्यते । तदीययोरपि तयोरनिरुद्धेऽभिव्यक्तिश्च युज्यत एव । अवतारितोजोऽन्तर्भूतत्वादवतारस्य । एवमेव सत्त्वं रजस्तम [भागवतम् १.२.२३] इत्यादिप्रथमस्कन्धपद्यप्राप्तमनिरुद्धाख्यपुरुषावतारत्वं भवानीनाथैर्[भागवतम् ५.१७.१६] इत्य्आदिपञ्चमस्कन्धगद्यप्राप्तं सङ्कर्षणावतारत्वं च भवस्य संगच्छते । ततश्चोज्जहारेत्यस्यायम् अर्थः आत्मनः सकाशात्श्रीवासुदेवसङ्कर्षणांशभूतौ केशावंशू उज्जहार उद्धृतवान् प्रकटीकृत्य दर्शितवानित्यर्थः । अत्रायं सुमेरुर् इत्येकदेशदर्शनेनैवाखण्डमेरुनिर्देशवत्तद्दर्शनेनापि पूर्णस्यैवाविर्भावनिर्देशो ज्ञेयः । अथ च सापि केशावित्यादिकव्याख्या । उद्वदर्हे योगबलेनात्मनः सकाशाद् विच्छिद्य दर्शयामास । स चापीति चशब्दः पूर्वमुक्तं देवकर्तृकं निवेदनरूपमर्थं समुच्चिनोति । अपिशब्दस्तद्उद्बर्हणे श्रीभगवत् सङ्कर्षणौ स्वयं हेतुकर्तृत्वं सूचयति । तौ चापीति चशब्दोऽनुक्त समुच्चयार्थत्वेन भगवत्सङ्कर्षणौ स्वयमाविविशतुः । पश्चात्तौ च तत्तादात्म्येनाविविशतुरिति बोधयति । अपिशब्दो यत्रानुस्यूतावमू सोऽपि तद्अंशा अपीति गमयति । तयोरेको बलभद्रो बभूवेत्य्आदिकं तु नरो नारायणो भवेत् । हरिरेव भवेन्नर इत्यादिवत्तद्ऐक्यावाप्त्य्अपेक्षया । केशवः श्रीमथुरायां केशवस्थानाख्यमहायोगपीठाधिपत्वेन प्रसिद्धः । स एव कृष्ण इति । अत एवोदाहरिष्यते भूमेः सुरेतर [भागवतम् २.७.२६] इत्यादि । श्रीनृसिंहपुराणे सितासिते च मच्छक्ती इति तच्छक्तिद्वारैव श्री कृष्णेन ताद्घातनापेक्षया । अर्जुने तु नरावेशः कृष्णो नारायणः स्वयम् इत्यागमवाक्यं तु श्रीमद्अर्जुने नरप्रवेशापेक्षया । यस्तु स्वयम् अन्यथा सिद्धो नारायणः नारायणस्त्वं न हि सर्वेदेहिनामित्यादौ दर्शितः । स पुनः कृष्ण इत्यर्थान्तर्अपेक्षया च मन्तव्यम् । अतएव पुरुषनारायणस्य तथागमनप्रतिपादकश्रीहरिवंशवाक्यमपि तत् तेजःसमाकर्षणविवक्षयैवोक्तम् । सर्वेषां प्रवेशश्च तस्मिन् स युक्तिकमेवोदारणीयः । अतः पाद्मोत्तरखण्डे नृसिंहरामकृष्णेषु षाड्गुण्यं परिपूरणमित्य् आवतारान्तरसाधारण्यमपि न मन्तव्यम् । किन्त्ववताराणां प्रसङ्गे तेषु श्रेष्ठे विविदिषिते सामान्यतस्तावत्सर्वश्रेष्ठास्त्रय उक्तास्तेष्वप्य् उत्तरोत्तरत्राधिक्यक्रमाभिप्रायेण श्रीकृष्णश्रैष्ठ्यं विवक्षितम् । अतएव श्रीविष्णुपुराणे मैत्रेयेण हिरण्यकशिपुत्वादिषु तयोरमुक्ति मुक्तिकारणे पृष्टे श्रीपराशरोऽपि (पगे १६) श्री कृष्णस्यैवात्युद्भटैश्वर्यमाह । किं च श्रीकृष्णमप्राप्यान्यत्र त्व् असुराणां मुक्तिर्न सम्भवति । एवकारद्वयेन स्वयमेव श्रीगीतासु तथा सूचनात् तानहं द्विषतः क्रूरान् संसारेषु नराधमान् । क्षिपाम्यजस्रमशुभानासुरीष्वेव योनिषु ॥ आसुरीं योनिमापन्ना मूढा जन्मनि जन्मनि । मामप्राप्यैव कौन्तेय ततो यान्त्यधमां गतिम् ॥ [गीता १६.१९२०] इति । कुत्रचिद्भगवद्द्वेषिणां तत्स्मरणादिप्रभावेन श्रूयतां वा मुक्तिः । सर्वेषामपि तद्द्वेषिणां तु मुक्तिप्रदत्वमन्यत्रावतारेऽवतारिणि वा न क्वचित्श्रूयते । तस्मात्तेषामपि मुक्तिदातृत्वाय श्रीकृष्ण एवैश्वर्याधिक्यं युक्तमेव वर्णायामास श्रीपराशरः । अतएव पूर्वम् ऐश्वर्यसाक्षात्कारस्य मुक्तिहेतुत्वमुक्त्वा पुनः पूतनादिमोक्षं विचिन्त्य कालनेम्य्आदीनां च तद्अभावमाशङ्क्य तदप्यसहमानस् तस्य तु श्रीकृष्णाख्यस्य भगवतः परमाद्भुतस्वभाव एवायमित्य् उवाच सर्वान्तिमगद्येन अयं हि भगवान् कीर्तितः संस्मृतश्च द्वेषानुबन्धेनाप्यखिलसुरासुरादिदुर्लभं फलं प्रयच्छति किमुत सम्यक्भक्तिमताम् [Vइড়् ४.१५.१७] इत्यनेन । अतः श्रीभागवतमते तयोर्जन्मत्रयनियमश्च श्रीकृष्णादेव मोक्षः सम्भवेदित्यपेक्षयैवेति ज्ञेयम् । अतएव श्रीनारदेनापि तम् उद्दिश्यैवोक्तं वैरेण यं नृपतयः [भागवतम् ११.५.४८] इत्यादि । सर्वेषां मुक्तिदत्वं च तस्य कृष्णस्य निजप्रभावातिशयेन यथा कथञ्चित्स्मर्तृ चित्ताकर्षणातिशयस्वभावात् । अन्यत्र तु तथा स्वभावो नास्तीति नास्ति मुक्तिदत्वम् । अतएव वेणस्यापि विष्णुद्वेषिणस्तद्वदावेशाभावात्मुक्त्य् अभाव इति । अतएवोक्तं तस्मात्केनाप्युपायेन मनः कृष्णे निवेशयेत्[भागवतम् ७.१.३१] इति । तस्मादस्त्येव सर्वतोऽप्याश्चर्यतमा शक्तिः श्रीकृष्णस्य इति सिद्धम् । तद् एवं विरोधपरिहारेण विरुद्धार्थानामप्यर्थानुकूल्येन श्रीकृष्णस्य स्वयं भगवत्त्वमेव दृढीकृतम् । तत्र च वेदान्तसूत्रादावप्येकस्य महावाक्यस्य नानावाक्यविरोधपरिहारेणैव स्थापनीया दर्शनान् नाप्यत्रैवेदृशमित्यश्रद्धेयम् । वाक्यानां दुर्बलबलित्वमेव विचारणीयम्, न तु बह्व्अल्पता । दृश्यते च लोके एकेनापि युद्धे सहस्र पराजय इति । एवं च बहुव्विरोधपरिहारेणैव स्वस्मिन् श्रीकृष्णाख्ये परब्रह्मणि सर्ववेदाभिधेयत्वमाह किं विधत्ते किमाचष्टे किमनूद्य विकल्पयेत् । इत्यस्या हृदयं लोके नान्यो मद्वेद कश्चन ॥ मां विधत्तेऽभिधत्ते मां विकल्प्यापोह्यते त्वहम् । एतावान् सर्ववेदार्थः शब्द आस्थाय मां भिदाम् ॥ [भागवतम् ११.२१.४२४३] इति । विकल्प्य विविधं कल्पयित्वा अपोह्यते, तत्तन्निषेधेन सिद्धान्त्यते यत्तद् अहं श्रीकृष्णलक्षणं वस्त्विति ॥ ॥ ११.१२ ॥ श्रीभगवान् ॥ २९ ॥ [३०] तदेवं कृष्णस्तु भगवान् स्वयमित्येतत्प्रतिज्ञावाक्याय महावीर राजायेवात्मनैव निर्जित्यात्मसात्कृतविरोधिशतार्थायापि शोभाविशेषेण प्रेक्षावतामानन्दनार्थं चतुरङ्गिनीं सेनामिवान्यामपि वचन श्रेणीमुपहरामि । तत्र तस्य लीलावतारकर्तृत्वमाह मत्स्याश्वकच्छपनृसिंहवराहहंस राजन्यविप्रविबुधेषु कृतावतारः त्वं पासि इत्य्आदि [१०.२.४०] । स्पष्टम् ॥ ॥ १०.२ ॥ देवाः श्रीभगवन्तम् ॥ ३० ॥ (पगे १७) [३१] तथा, सुरेष्वृषिष्वीश तथैव [भागवतम् १०.१४.२] इत्यादि । स्पष्टम् ॥ ॥ १०.१४ ॥ ब्रह्मा तम् ॥ ३१ ॥ [३२] तथा, बहूनि सन्ति नामानि रूपाणि च सुतस्य ते [भागवतम् १०.८.१५] इत्यादि । स्पष्टम् ॥ ॥ १०.८ ॥ गर्गः श्रीव्रजेश्वरम् ॥ ३२ ॥ [३३] एवं, यस्यावतारा ज्ञायन्ते शरीरेष्वशरीरिणः [भागवतम् १०.१०.३४] इत्यादि । शरीरेष्वशरीरिण इत्यपि ज्ञाने हेतुगर्भविशेषणम् । शरीरिषु मध्येऽप्यवतीर्णस्य यतः सतः स्वयमशरीरिणः । नातः परं परम यद्भवतः स्वरूपम् [भागवतम् ३.९.३] इत्यादि द्वितीयसन्दर्भोदाहरण प्रघट्टकदृष्ट्या जीववद्देहदेहिपार्थक्याभावेन मुख्यमत्वार्थाभावात् । ॥ १०.१० ॥ यमलार्जुनौ श्रीभगवन्तम् ॥ ३३ ॥ [३४] अपरं च यत्पादपङ्कजरजः शिरसा बिभर्ति श्रीरब्जजः सगिरिशः सह लोकपालैः लीलातनुः स्वकृतसेतुपरीप्सया यः कालेऽदधत्स भगवान्मम केन तुष्येत् ॥ [भागवतम् १०.५८.३७] ॥ स्पष्टम् ॥ १०.५८ ॥ नग्नजिच्छ्रीभगवन्तम् ॥ ३४ ॥ [३५] परं च नमस्तस्मै भगवते कृष्णायाकुण्ठमेधसे । यो धत्ते सर्वभूतानामभवायोशतीः कलाः ॥ [भागवतम् १०.८७.४६] टीका च नम इति श्रीकृष्णावतारतया नारायणं स्तौति । एते चांशकलाः पुंसः कृष्णस्तु भगवान् स्वयमित्युक्तेरित्येषा । अतएव तच् छ्रवणानन्तरं तस्मा एव नमस्कारात्श्रुतिस्तुतावपि श्रीकृष्ण एव स्तुत्य इत्यायातम् । तथैव श्रुतिभिरपि निभृतमरुन्मनोऽक्ष [भागवतम् १०.८७.२३] इत्य् आदिपद्ये निजारिमोक्षप्रदत्वाद्य्असाधारणलिङ्गेन स एव व्यञ्जितः । स्पष्टम् । ॥ १०.८७ ॥ श्रीनारदः ॥ ३५ ॥ [३६] तथा गुणावतारकर्तृत्वमाह इत्युद्धवेनात्य्अनुरक्तचेतसा पृष्टो जगत्क्रीडनकः स्वशक्तिभिः । गृहीतमूर्तित्रय ईश्वरेश्वरो जगाद सप्रेममनोहरस्मितः ॥ [भागवतम् ११.२९.७] स्पष्टम् । अत्र अजानतां त्वत्पदवीम् [भागवतम् १०.१४.२९] इत्युदाहृतं वचनम् अप्यनुसन्धेयम् ॥ ॥ ११.२९ ॥ श्रीशुकः ॥ ३६ ॥ [३७] अथ पुरुषावतारकर्तृत्वमाह इति मतिरुपकल्पिता वितृष्णा भगवति सात्वतपुङ्गवे विभूम्नि । स्वसुखमुपगते क्वचिद्विहर्तुं प्रकृतिमुपेयुषि यद्भवप्रवाहः ॥ [भागवतम् १.९.३२] टीका च परमफलरूपां श्रीकृष्णरतिं प्रार्थयितुं प्रथमं स्व कृतमर्पयति इतीति । विगतो भूमा यस्मात्तस्मिन् । यमपेक्ष्यान्यस्य महत्त्वं नास्तीत्यर्थः । तदेव पारमैश्वर्यमाह स्वसुखं स्वरूप भूतं परमानन्दमुपगते प्राप्तवत्येव । क्वचित्कदाचिद्विहर्तुं क्रीडितुं प्रकृतिमुपेयुषि स्वीकृतवति, न तु स्वरूपतिरोधानेन जीववत् पारतन्त्र्यमित्यर्थः । विहर्तुमित्युक्तं प्रपञ्चयति यद्यतो भव प्रवाहः सृष्टिपरम्परा भवति इत्येषा ॥ [B रेअद्स्हेरे: एवमेव तं प्रत्युक्तं देवैरप्येकादशे तत्त्वः पुमान् समधिगम्य ययास्य वीर्यं धत्ते महान्तमिव गर्भममोघवीर्यः [भागवतम् ११.६.१६] इति । टीका च तत्त्वः पुरुषो वीर्यं शक्तिं समधिगम्य प्राप्य यया मायया सह महान्तं धत्ते । कमिव ? अस्य विश्वस्य गर्भम् इव इत्येषा ॥[B एन्द्स्.] ॥ १.९ ॥ भीष्मः श्रीभगवन्तम् ॥ ३७ ॥ [३८] (पगे १८) अतएव भवभयमपहर्तुं [भागवतम् ११.२९.४९] इत्यादौ तस्यादिपुरुषत्वं श्रेष्ठत्वमप्याह पुरुषमृषभमाद्यं कृष्णसंज्ञं नतोऽस्मि इति । कृष्णेति संज्ञां यस्येति मूर्त्य्अन्तरं निषिध्यते । तन्मूर्तेर् नमस्क्रियमाणत्वेन च नित्यसिद्धत्वं दर्श्यते । अत्रैव टीकाकृद्भिरपि तं वन्दे परमानन्दं नन्दनन्दनरूपिणमित्युक्तम् ॥ ॥ ११.२९ ॥ श्रीशुकः ॥ ३८ ॥ [३९] तदेवं जगृहे इत्यादिप्रकरणे यत्स्वयमुत्पेक्षितं तच्छ्रीस्वामि सम्मत्या दृढीकृतम् । पुनरपि तत्सम्मतिरभ्यस्यते यथा श्रुत्वाजितं जरासन्धं नृपतेर्ध्यायतो हरिः । आहोपायं तमेवाद्य उद्धवो यमुवाच ह ॥ [भागवतम् १०.७२.१५] टीका च आद्यो हरिः श्रीकृष्ण इत्येषा ॥ ॥ १०.७२ ॥ श्रीशुकः ॥ ३९ ॥ [४०] किं च अथाहमंशभागेन देवक्याः पुत्रतां शुभे । प्राप्स्यामि [भागवतम् १०.२.९] इत्यादि । अंशभागेनेत्यत्र पूर्णोचितमेवार्थं बहुधा योजयद्भिर्मध्ये अंशेन उरुषरूपेण मायया भागो भजनमीक्षणं यस्य तेनेति च व्याचक्षाणैरन्ते सर्वथा परिपूर्णरूपेणेति विवक्षितम् । कृष्णस्तु भगवान् स्वयमित्युक्तत्वात् । इत्येवं हि तैर्व्याख्यातम् । ॥ १०.२ ॥ श्रीभगवान् योगमायाम् ॥ ४०॥ [४१] एवम् यस्यांशांशांशभागेन विश्वोत्पत्तिलयोदयाः । भवन्ति किल विश्वात्मंस्तं त्वाद्याहं गतिं गता ॥ [भागवतम् १०.८५.३१] टीका च यस्यांशः पुरुषस्तस्यांशो माया तस्या अंशा गुणास्तेषां भागेन परमाणुमात्रलेशेन विश्वोत्पत्त्य्आदयो भवन्ति । तं त्वा त्वां गतिं शरणं गतास्मि इत्येषा ॥ ॥ १०.८५ ॥ श्रीदेवकी भगवन्तम् ॥ ४१ ॥ [४२] यथा च नारायणस्त्वं न हि सर्वदेहिनामित्यादौ नारायणोऽङ्गं नरभूजलायनातिति । [भागवतम् १०.१४.१४] टीका च नरादुद्भूता येऽर्थाः तथा नराज्जातं यज्जलं तद्अयनाद्यो नारायणः प्रसिद्धः सोऽपि तवाङ्गं मूर्तिरित्येषा । अत्र स तवाङ्गं त्वं पुनरङ्गीत्यसौ तु विशदोऽर्थः । न तु स्तुतिमात्रमिदम् । दृष्ट्वाघासुरमोक्षणं प्रभवतः प्राप्तः परं विस्मयम् [भागवतम् १०.१३.१५] इत्युक्तरीत्या क्वचिदप्यवतार्य्अवतारान्तरेषु तादृशस्यापि मोक्षम् अदृष्टगोचरं दृष्ट्वा विस्मयं प्राप्तवान् ब्रह्मा । द्रष्टुं मञ्जुम् अहित्वमन्य अपि तद्वत्सानितो वत्सपान्नीत्वान्यत्र कुरुद्वहान्तरधाद् इत्युक्तरीत्या तस्यापरमपि माहात्म्यं दिदृक्षुस्तथा माहात्म्यं ददर्शेति प्रकरणसारस्येनापि लब्धम् । न चापरमाहात्म्यदर्शनं सम्भावनामात्रम् । तावत्सर्वे वत्सपालाः पश्यतो ञ्जस्य तत्क्षणात् । व्यदृश्यन्त घनश्यामाः पीतकौशेयवाससः ॥ [भागवतम् १०.१३.४६] इत्यादिना शक्तिभिरजाद्याभिरैश्वर्यैरणिमाद्यैश्चतुर्विंशतिसङ्ख्य तत्त्वैर्महद्आदिभिः तत्सहकारिभिः कालस्वभावाद्यैस्तत्सम्भूतैर् ब्रह्माण्डैः तद्अन्तर्भूतस्रष्टृभिर्ब्रह्मादिभिर्जीवैश्च स्तम्ब पर्यन्तः पृथक्पृथगुपासितास्तादृशब्रह्माण्डेश्वरकोटयः श्री कृष्णेनैव तत्तद्अंशांशेनाविर्भाव्य ब्रह्माणं प्रति साक्षादेव दर्शिता इति ह्युक्तं तदीदृशमेव कृष्णस्तु भगवान् स्वयमित्यत्राविष्कृतसर्व शक्तित्वादित्येतत्(पगे १९)स्वामिव्याख्यानस्यासाधारणं बीजं भवेत् । विश्वरूपदर्शनादीनां तत्तद्ब्रह्माण्डान्तर्यामिपुरुषाणाम् एकतरेणापि शक्यत्वात् । तस्माद्विराट्पुरुषयोरिव पुरुषभगवतोरपि जगृहे पौरुषं रूपमित्यादावुपासनार्थमेव तैरभेदव्याख्या कृतेति गम्यते । वस्तुतस्तु परमाश्रयत्वेन श्रीकृष्ण एव तैरङ्गीकृतोऽस्ति । यथा विश्वसर्गविसर्गादिनवलक्षणलक्षितम् । श्रीकृष्णाख्यं परं धाम जगद्धाम नमामि तत् ॥ दशमे दशमं लक्ष्यमाश्रिताश्रयविग्रहम् । क्रीडद्यदुकुलाम्भोधौ परानन्दमुदीर्यते ॥ इति [Bहावार्थदीपिका, १०.२.१]। यद्यन्येषामपि परमाश्रयत्वं तन्मतं तदा दशम इत्यनर्थकं स्यात् । तस्मान्नारायणोऽङ्गमिति युक्तमुक्तम् ॥ ॥ १०.१४ ॥ ब्रह्मा श्रीकृष्णम् ॥ ४२ ॥ [४३] अवतारप्रसङ्गेऽपि तथैव स्पष्टम् गिरं समाधौ गगने समीरितां निशम्य वेधास्त्रिदशानुवाच ह । गां पौरुषीं मे शृणुतामराः पुनर् विधीयतामाशु तथैव मा चिरम् ॥ पुरैव पुंसावधृतो धराज्वरो भवद्भिरंशैर्यदुषूपजन्यताम् । स यावदुर्व्या भरमीश्वरेश्वरः स्वकालशक्त्या क्षपयंश्चरेद्भुवि ॥ वसुदेवगृहे साक्षाद्भगवान् पुरुषः परः । जनिष्यते तत्प्रियार्थं सम्भवन्तु सुरस्त्रियः ॥ [भागवतम् १०.१.२१२३] पौरुषीं पुरुषेण सृजामि तन्नियुक्तोऽहम् [भागवतम् २.६.३०] इत्य्आद्य्अनुसारात् पुरुषाभिन्नेन विष्णुरूपेण क्षीरोदशायिना स्वयमेवोक्तां गां वाचम् । पुरुषस्यैव वाचमनुवदति पुरैवेति । पुंसा आदिपुरुषेण कृष्णः स्वयं समभवत्परमः पुमान् यः [Bरह्मष्५.४९] इत्यनुसारात् । स्वयं भगवत्ता श्रीकृष्णस्येत्यर्थः । अंशैः श्रीकृष्णस्यांशभूतैस्तत् पार्षदैः श्रीमद्उद्धवादिभिः सह । इत्थमेव प्राचुर्येणोक्तम् नन्दाद्या ये व्रजे गोपा याश्चामीषां च योषितः । वृष्णयो वसुदेवाद्या देवक्य्आद्या यदुस्त्रियः ॥ सर्वे वै देवताप्राया उभयोरपि भारत । ज्ञातयो बन्धुसुहृदो ये च कंसमनुव्रताः ॥ [भागवतम् १०.१.६२६३] इति । तस्मादादिपुरुषत्वमेव व्यनक्ति स इति सर्वान्तर्यामित्वात् । पुरुषस्तावद् ईश्वरः । तस्याप्यंशित्वात्स आदिपुरुषः श्रीकृष्णः पुनरीश्वरेश्वरः त्र्य्अधीशशब्दवत् । तथा च दशमस्य पञ्चाशीतितमे श्रीमद् आनकदुन्दुभिनोक्तम् युवां न नः सुतौ साक्षात्प्रधानपुरुषेश्वरौ [भागवतम् १०.८५.१८] इति । स्वकालशक्त्या स्वशक्त्या कालशक्त्या च । ईश्वरेश्वरत्वे हेतुः साक्षात्स्वयमेव भगवानिति । तदलं मयि तत्प्रार्थनयेति भावः । तत्प्रियार्थं तत्प्रीत्यै । अमरस्त्रियः श्रीमद्उपेन्द्रप्रेयस्य् आदिरूपाः काश्चित्सम्भवन्तु मिलिता भवन्तु । साक्षादवतरतः श्री भगवतो नित्यानपायिमहाशक्तिरूपासु तत्प्रेयसीष्ववतरन्तीषु श्री भगवति तद्अंशान्तरवत्ता अपि प्रविशन्त्वित्यर्थः । तत्प्रियाणां तासाम् एव दास्य्आदिप्रयोजनाय जायन्तामिति वा । अनेन तैरपार्थितस्याप्य् अस्यार्थस्यादेशेन परमभक्ताभिस्ताभिर्लीलाविशेष एव भगवतः स्वयमवतितीर्षायां कारणम् । भारावतरणं चानुषङ्गिकम् (पगे २०) एव भवतीति व्यञ्जितम् । तदेवं श्रुतीनां च दण्डकारण्यवासिनां मुनीनां चाग्निपुत्राणां च श्रीगोपिकादित्वप्राप्तिर्यत्श्रूयते तदपि पूर्ववदेव मन्तव्यम् । अत्र प्रसिद्धार्थे नायं श्रियोऽङ्ग उ नितान्तरतेः प्रसादः स्वर्योषितां नलिन गन्धरुचां कुतोऽन्याः [भागवतम् १०.४७.६०] इति विरुध्येत । न च सुरस्त्रीणां सम्भववाक्यं श्रीमहिषीवृन्दपरं, तासामपि तन्निजशक्ति रूपत्वेन दर्शयिष्यमाणत्वात् । ॥ १०.१ ॥ श्रीशुकः ॥ ४३ ॥ [४४] तदेवमवतारप्रसङ्गेऽपि श्रीकृष्णस्य स्वयं भगवत्त्वमेवायातम् । यस्मादेवं तस्मादेव श्रीभागवते महाश्रोतृवक्तॄणामपि श्रीकृष्ण एव तात्पर्यं लक्ष्यते । तत्र श्रीविदुरस्य यच्चान्यदपि कृष्णस्य भवान् भगवतः प्रभोः । श्रवः सुश्रवसः पुण्यं पूर्वदेहकथाश्रयम् ॥ भक्ताय मेऽनुरक्ताय तव चाधोक्षजस्य च । वक्तुमर्हसि योऽदुह्यद्वैन्यरूपेण गामिमाम् ॥ [भागवतम् ४.१७.६७] पूर्वदेहः पृथ्व्अवतारः । लोकदृष्टावभिव्यक्तिरीत्या पूर्वत्वम् । तत् कथैवाश्रयो यस्य तत् ॥ ॥४.१७॥ विदुरः ॥४४॥ [४५] अथ श्रीमैत्रेयस्य तद्अनन्तरमेव चोदितो विदुरेणैवं वासुदेवकथां प्रति । प्रशस्य तं प्रीतमना मैत्रेयः प्रत्यभाषत ॥ [भागवतम् ४.१७.८] तत्प्रशंसया प्रीतमनस्त्वेन चास्यापि तथैव तात्पर्यं लभ्यते । अतएवात्र वसुदेवनन्दनत्वेनैव वासुदेवशब्दः प्रयुक्तः । ॥४.१७॥ श्रीसुतः ॥४५॥ [४६] अथ श्रीपरीक्षितः अथो विहायेमममुं च लोकं विमर्शितौ हेयतया पुरस्तात् । कृष्णाङ्घ्रिसेवामधिमन्यमान उपाविशत्प्रायममर्त्यनद्याम् ॥ [भागवतम् १.१९.५] टीका च श्रीकृष्णाङ्घ्रिसेवामधिमन्यमानः सर्वपुरुषार्थाधिकां जाननित्येषा । ॥ १.१९ ॥ श्रीसुतः ॥४६॥ [४७] न वा इदं राजर्षिवर्य चित्रं भवत्सु कृष्णं समनुव्रतेषु । येऽध्यासनं राजकिरीटजुष्टं सद्यो जहुर्भगवत्पार्श्वकामाः ॥ [भागवतम् १.१९.२०] भवत्सु पाण्डोर्वश्येषु ये जहुरिति श्रीयुधिष्ठिराद्य्अभिप्रायेण । अतएव तत्र स्थितानां सर्वश्रोतॄणामपि श्रीकृष्ण एव तात्पर्यमायाति । ॥ १.१९ ॥ श्रीमहर्षयः परीक्षितम् ॥४७॥ [४८] अपि मे भगवान् प्रीतः कृष्णः पाण्डुसुतप्रियः । पैतृष्वसेयप्रीत्य्अर्थं तद्गोत्रस्यात्तबान्धवः ॥ अन्यथा तेऽव्यक्तगतेर्दर्शनं नः कथं नृणाम् । नितरां म्रियमाणानां संसिद्धस्य वनीयसः ॥ [भागवतम् १.१९.३५३६] तेषां पैतृष्वसेयाणां पाण्डुसुतानां गोत्रस्य मे आत्तं स्वीकृतं बान्धवं बन्धुकृत्यं येन ते तव श्रीकृष्णस्यैकरसिकस्य वनीयसः अत्युदारतया मां याचेथा इति प्रवर्तकस्येत्यर्थः । ॥ १.१९ ॥ राजा श्रीशुकम् ॥ ४८ ॥ [४९] स वै भागवतो राजा पाण्डवेयो महारथः । बालक्रीडनकैः क्रीडन् कृष्णक्रीडां य आददे ॥ [भागवतम् २.३.१५] या या श्रीकृष्णस्य वृन्दावनादौ बालक्रीडा श्रुतास्ति तत्प्रेमावेशेन तत् सख्यादिभाववान् तां तामेव क्रीडां यः कृतवानित्यर्थः ॥ ॥ २.३ ॥ श्रीशौनकः ॥ ४९ ॥ [५०] एवं जातीयानि बहून्येव वचनानि विराजन्ते तथा कथितो वंशविस्तारः [भागवतम् १०.१.१] इत्यारभ्य, नैषातिदुःसहा क्षुन्माम् [भागवतम् १०.१.१३] इत्यन्तं दशमस्कन्धप्रकरणम् (पगे २१) अप्यनुसन्धेयम् । किं च इत्थं द्विजा यादवदेवदत्तः [भागवतम् १०.१२.४०] इत्यादि । येन श्रवणेन नितरां गृहीतं वशीकृतं चेतो यस्य सः । ॥ १०.१२ ॥ श्रीसुतः ॥ ५० ॥ [५१] तथा, येन येनावतारेण इत्यादि यत्शृण्वतोऽपैत्यरतिः [भागवतम् १०.७.१२] इत्यादि च । टीका च कृष्णार्भकसुधासिन्धुसम्प्लवानन्दनिर्भरः । भूयस्तदेव सम्प्रष्टुं राजान्यदभिनन्दति ॥ येन येन मत्स्याद्यवतारेणापि यानि कर्माणि करोति तानि नः कर्ण सुखावहानि मनः प्रीतिकराणि च भवन्त्येव । तथापि यच्छृण्वतः पुंसः पुंमात्रस्यारतिर्मनोग्लानिस्तन्मूलभूता विविधा तृष्णा चापगच्छति, तथा सत्त्वशुद्धिहरिभक्तिहरिदास्यसख्यानि च भवन्त्य् अचिरेणैव तदेवं हारं हरेश्चरितं मनोहरं वा वद अनुग्रहं यदि करोषि इत्येषा । ॥ १०.७ ॥ राजा ॥ ५१ ॥ [५२] अथ श्रीशुकदेवस्य अपि मे भगवान् प्रीतः कृष्णः पाण्डुसुतप्रियः [भागवतम् १.१९.३५] इत्यादिना श्रीकृष्ण एव स्वरतिं व्यज्य म्रियमाणानां श्रोतव्यादि प्रश्नेनैवान्तकाले श्रीकृष्ण एव मय्युपदिश्यतामिति राजाभिप्रायानन्तरं वरीयानेष ते प्रश्नः कृतो लोकहितं नृप । आत्मवित्सम्मतः पुंसां श्रोतव्यादिषु यः परः ॥ [भागवतम् २.१.१] ते त्वया पुंसां श्रोतव्यादिषु मध्ये यः परः श्रीकृष्ण श्रवणाभिप्रायेण परमः प्रश्नः कृत एष वरीयान् सर्वावतारावतारि प्रश्नेभ्यः परममहान् । लोकहितं यथा स्यात्तथैव कृतः । त्वं तु तथाभूतश्रीकृष्णैकनिबद्धप्रेमत्वात्कृतार्तहेवेति भावः । तद् उक्तम् वैयासकेरिति वचस्तत्त्वनिश्चयमात्मनः । उपधार्य मतिं कृष्णे औत्तरेयः सतीं व्यधात् ॥ [भागवतम् २.४.१] सती विद्यमाना कृष्णे या मतिस्तामेव विशेषेण धृतवानित्यर्थः । एतद् एव व्यक्तीकरिष्यते राज्ञा हरेरद्भुतवीर्यस्य कथा लोकसुमङ्गला । कथयस्व महाभाग यथाहमखिलात्मनि । कृष्णे निवेश्य निःसङ्गं मनस्त्यक्ष्ये कलेवरम् ॥ इति [भागवतम् २.८.२] ॥ २.१ ॥ श्रीशुकः ॥ ५२ ॥ [५३] एवमेव कथितो वंशविस्तारम् [भागवतम् १०.१.१] इत्याद्य्अनन्तरं सम्यग् व्यवसिता बुद्धिः [भागवतम् १०.१.१५] इत्यादि । पूर्वं मया नानावतारादिकथाभिरभिनन्दितस्यापि यत्श्रीवसुदेव नन्दनस्यैव कथायां नैष्ठिकी स्थायिरूपा रतिर्जाता एषा बुद्धिस्तु सम्यग्व्यवसिता परमविदग्धेत्यर्थः ॥ ॥ १०.१ ॥ श्रीशुकः ॥ ५३ ॥ [५४] तथा, इत्थं द्विजा यादवदेवदत्तः श्रुत्वा स्वरातुश्चरितं विचित्रम् [भागवतम् १०.१२.४०] इत्यनन्तरं इत्थं स्म पृष्टः स तु बादरायणिस् तत्स्मारितानन्तहृताखिलेन्द्रियः । कृच्छ्रात्पुनर्लब्धबहिर्दृशिः शनैः प्रत्याह तं भागवतोत्तमोत्तम ॥ [भागवतम् १०.१२.४४] अनन्तः प्रकटितपूर्णैश्वर्यः श्रीकृष्णः । सर्वदा तेन स्मर्यमाणेऽपि तस्मिन् प्रतिक्षणं नव्यत्वेन तत्स्मारितेत्युक्तम् ॥ ॥ १०.१२ ॥ श्रीसुतः ॥ ५४ ॥ [५५] अतएव स वै भागवतो राजा [भागवतम् २.३.१५] इत्याद्य्अनन्तरं राज्ञा समान वासनात्वेनैव तमाह वैयासकिश्च भगवान् वासुदेवपरायणः । उरुगायगुणोदाराः सतां स्युर्हि समागमे ॥ [भागवतम् २.३.१६] (पगे २२) चशब्दः प्राग्वर्णितेन समानवासनत्वं बोधयति । तस्मात्श्री वसुदेवनन्दनत्वेनैवात्रापि वासुदेवशब्दो व्याख्येयः । अन्येषामपि सतां समागमे तावदुरुगायस्य गुणोदाराः कथा भवन्ति । तयोस्तु श्री कृष्णचरितप्रधाना एव ता भवेयुरिति भावः ॥ ॥ २.३ ॥ श्रीशुकः ॥ ५५ ॥ [५६] किं बहुना, श्रीशुकदेवस्य श्रीकृष्ण एव तात्पर्ये तद्एकचरितमयौ ग्रन्थार्धायमानौ दशमैकादशस्कन्धावेव प्रमाणम् । स्कन्धान्तरेष्वन्येषां चरितं संक्षेपेणैव समाप्य ताभ्यां तच् चरितस्यैव विस्तारितत्वात् । अत आरभ्य एव तत्प्रसादं प्रार्थयते श्रियः पतिः इत्यादौ पतिर्गतिश्चान्धकवृष्णिसात्वतां प्रसीदतां मे भगवान् सतां गतिः ॥ [भागवतम् २.४.२०] ॥ स्पस्टम् ॥ २.४ ॥ श्रीशुकः ॥ ५६ ॥ [५७] अथ श्रीव्यासदेवस्य अनर्थोपशमं साक्षाद्भक्तियोगमधोक्षजे । लोकस्याजानतो विद्वांश्चक्रे सात्वतसंहिताम् ॥ यस्यां वै श्रूयमाणायां कृष्णे परमपूरुषे । भक्तिरुत्पद्यते पुंसः शोकमोहभयापहा ॥ [भागवतम् १.७.६७] अधोक्षजे श्रीकृष्णे । अधोऽनेन शयानेन शकटान्तरचारिणा । राक्षसी निहता रौद्रा शकुनीवेशधारिणी ॥ पूतना नाम घोरा सा महाकाया महाबला । विषदिग्धस्तनं क्षुद्रा प्रयच्छन्ती जनार्दने ॥ ददृशुर्निहतां तत्र राक्षसीं वनगोचराः । पुनर्जातोऽयमित्याहुरुक्तस्तस्मादधोक्षजः ॥ [ःV २.१०१.३०३२] इति हरिवंशे श्रीवासुदेवमाहात्म्ये तन्नाम्नः श्रीकृष्णविषयताया प्रसिद्धेः । अतएवोत्तरत्रपद्ये साक्षात्कृष्ण इत्येवोक्तम् । श्रीभगवन् नामकौमुदीकाराश्च कृष्णशब्दस्य तमालश्यामलत्विषि यशोदा स्तनन्धये परब्रह्मणि रूढिः इति प्रयोगप्राचुर्यात्तत्रैव प्रथमतः प्रतीतेरुदय इति चोक्तवन्तः । सामोपनिषदि च कृष्णाय देवकीनन्दनाय इति । अत्र ग्रन्थफलत्वं तस्यैव व्यक्तमिति चैकेनैवानेन वचनेन तत् परिपूर्णता सिध्यति ॥ ॥ १.७ ॥ श्रीसूतः ॥ ५७ ॥ [५८] अथ श्रीनारदस्य तत्रान्वहं कृष्णकथाः प्रगायताम् अनुग्रहेणाशृणवं मनोहराः । ताः श्रद्धया मेऽनुपदं विशृण्वतः प्रियश्रवस्यङ्ग ममाभवद्रुचिः ॥ [भागवतम् १.५.२६] येन येनावतारेण [भागवतम् १०.७.१] इत्येतच्छ्रीपरीक्षिद्वचनपद्यद्वयम् अप्यत्र श्रीयशोदास्तनन्धयत्वे साधकं श्रुतिसामान्यन्यायेन ॥ ॥ १.५ ॥ श्रीनारदः श्रीवेदव्यासम् ॥ ५८ ॥ [५९] तच्छब्दस्यैवाभ्यासो दृश्यते एवं कृष्णमतेः [भागवतम् १.६.२८] इत्यादौ । अन्यत्र च यूयं नृलोके बत भूरिभागा लोकं पुनाना मुनयोऽभियन्ति । येषां गृहानावसतीति साक्षाद् गूढं परं ब्रह्म मनुष्यलिङ्गम् ॥ स वा अयं ब्रह्म महद्विमृग्य कैवल्यनिर्वाणसुखानुभूतिः । प्रियः सुहृद्वः खलु मातुलेय आत्मार्हणीयो विधिकृद्गुरुश्च ॥ न यस्य साक्षाद्भवपद्मजादिभी रूपं धिया वस्तुतयोपवर्णितम् । मौनेन भक्त्योपशमेन पूजितः प्रसीदतामेष स सात्वतां पतिः ॥ [भागवतम् ७.१०.४८५०] (पगे २३) टीका च अहो प्रह्लादस्य भाग्यं येन देवो दृष्टः । वयं तु मन्द भाग्या इति विषीदन्तं राजानं प्रत्याह यूयमिति त्रिभिरित्येषा । मनुष्यस्य दृश्यमानमनुष्यस्येव लिङ्गं करचरणादिसन्निवेशो यस्य तं रूपं श्रीविग्रहः । वस्तुतया नोपवर्णितं तद्रूपस्यैव पर ब्रह्मत्वेन किमिदं वस्त्विति निर्देष्टुमशक्यत्वात् । यथोक्तं सहस्र नामस्तोत्रे अनिर्देश्यवपुरिति । एषामेव पद्यानां सप्तमान्तेऽपि परमामोदकत्वात्पुनरावृत्तिर्दृश्यते ॥ ॥ ७.१० ॥ स श्रीयुधिष्ठिरम् ॥ ५९ ॥ [६०] अत्र च स्पष्टम् देवदत्तामिमां वीणां स्वरब्रह्मविभूषिताम् । मूर्च्छयित्वा हरिकथां गायमानश्चराम्यहम् ॥ प्रगायतः स्ववीर्याणि तीर्थपादः प्रियश्रवाः । आहूत इव मे शीघ्रं दर्शनं याति चेतसि ॥ [भागवतम् १.६.३३३४] देवः श्रीकृष्ण एव । लिङ्गपुराणे उपरिभागे तेनैव स्वयं तस्य वीणा ग्रहणं हि प्रसिद्धम् । अत्र यद्रूपेण वीणा ग्राहिता तद्रूपेणैव चेतसि दर्शनं स्वारस्यलब्धम् । देवदत्तामिति कृतोपकारतायाः स्मर्यमाणत्वेन तमनुसन्धायैव तद्उक्तेः । ॥ १.६ ॥ श्रीनारदः श्रीवेदव्यासम् ॥ ६० ॥ [६१] अत एतदेवमेव व्याख्येयम् । त्वमात्मनात्मानमवेह्यमोघदृक् परस्य पुंसः परमात्मनः कलाम् । अजं प्रजातं जगतः शिवाय तन् महानुभावाभ्युदयोऽधिगण्यताम् ॥ [भागवतम् १.५.२१] हे अमोघदृक्त्वमात्मना स्वयमात्मानं स्वं परस्य पुंसः कलाम् अंशभूतमवेहि अनुसन्धेहि । पुनश्च जगतः शिवायाधुनैव श्री कृष्णरूपेण यश्चाजोऽपि प्रजातस्तमवेहि । तदेतद्द्वयं ज्ञात्वा महानुभावस्य सर्वावतारावतारिवृन्देभ्योऽपि दर्शितप्रभावस्य तस्य श्रीकृष्णस्यैवाभ्युदयो लीला अधि अधिकं गण्यतां निरूप्यताम् । स्वयम् ईश्वरोऽपि भवान्निजाज्ञानरूपां मायां न प्रकटयत्विति भावः ॥ ॥ १.५ ॥ स तम् ॥६१ ॥ [६२] अतएव पुराणप्रादुर्भावाय श्रीव्यासं श्रीनारदेन चतुर्व्यूहात्मक श्रीकृष्णमन्त्र एवोपदिष्टस्तद्उपायकस्य सर्वोत्तमत्वं च । यथा नमो भगवते तुभ्यम् [भागवतम् १.५.३७] इत्यादि स सम्यग्दर्शनः पुमान् [भागवतम् १.५.३८] इत्यन्तम् । स्पष्टम् । ॥ १.५ ॥ स तम् ॥ ६२ ॥ अथ श्रीब्रह्मणः भूमेः सुरेतरवरूथविमर्दितायाः क्लेशव्ययाय कलया सितकृष्णकेशः । जातः करिष्यति जनानुपलक्ष्यमार्गः कर्माणि चात्ममहिमोपनिबन्धनानि ॥ [भागवतम् २.७.२६] असुरसेनानिपीडितायाः भूमेः क्लेशमपहर्तुं परमात्मनोऽपि परत्वाज् जनैरस्माभिरनुपलक्ष्यमार्गोऽपि प्रादुर्भूतः सन् कर्माणि च करिष्यति । कोऽसौ कलया अंशेन सितकृष्णकेशो यः । यत्र सितकृष्णकेशौ देवैर्दृष्टाविति शास्त्रान्तरप्रसिद्धिः । सोऽपि यस्यांशेन स एव भगवान् स्वयमित्यर्थः । तद्अविनाभावित्वाच्छ्रीबलदेवस्यापि ग्रहणं द्योतितम् । ननु पुरुषादपि परोऽसौ भगवान् कथं भूभारावतारणमात्रार्थं (पगे २४) स्वयमवतारिष्यतीत्याशङ्क्याह आत्मनो महिमानः परम माधुरीसम्पद उपनिबध्यन्ते निजभक्तैरधिकं वर्ण्यन्ते येषु तानि कर्माणि च करिष्यति । यद्यपि निजांशेनैव वा निजेच्छाभासेनैव वा भू भारहरणमीषत्करं तथापि निजचरणारविन्दजीवातुवृन्दम् आनन्दयन्नेव लीलाकादम्बिनीर्निजमाधुरीवर्षणाय वितरिषमाणोऽवतरिष्यतीत्यर्थः । एतदेव व्यक्तीकृतं तोकेन जीवहरणम् [भागवतम् २.७.२७] इत्यादौ । इतरथा स्वमाधुरीसम्पत्प्रकाशनेच्छाम् अन्तरेण मधुरतरं तोकादिभावं दधता तेन पूतनादीनां जीवन हरणादिकं कर्म न भाव्यं न सम्भावनीयम् । तथा च तथायं चावतारस्ते [भागवतम् १.७.२५] इत्यादौ तैरेव व्याख्यातम् । किं भूभारहरणं मद्इच्छामात्रेण न भवति तत्राह स्वानामितीति । जयति जननिवास [भागवतम् १०.९०.४८] इत्यत्र च इच्छामात्रेण निरसनसमर्थोऽपि क्रीडार्थं दोर्भिरधर्ममस्यन्निति तदेवमादिभिः श्रीकृष्णस्यैव सर्वाद्भुततावर्णनाभिनिवेशप्रपञ्चो ब्रह्मणि स्पष्ट एव । अस्तु तावत् तद्भूरि भाग्यमिह जन्म किमप्यटव्याम् [भागवतम् १०.१४.३४] इत्यादि ॥ ॥ २.७ ॥ ब्रह्मा श्रीनारदम् ॥ ६३ ॥ [६४] एवं चतुःश्लोकीवक्तुः श्रीभगवतोऽपि [Vऋ. इन्सेर्त्स्] श्रीकृष्णत्वमेव । तथा हि ददर्श तत्राखिलसात्वतां पतिं श्रियः पतिं यज्ञपतिं जगत्पतिम् । सुनन्दनन्दप्रबलार्हणादिभिः स्वपार्षदाग्रैः परिसेवितं विभुम् ॥ [भागवतम् २.९.१४] इति । व्याख्या च अखिलसात्वतां सर्वेषां सात्वतानां यादववीराणां पतिम् । श्रियः पतिर्यज्ञपतिः प्रजापतिर् धियां पतिर्लोकपतिर्धरापतिः । पतिर्गतिश्चान्धकवृष्णिसात्वतां प्रसीदतां मे भगवान् सतां पतिः ॥ [भागवतम् २.४.२०] इत्येतद्वाक्यसंवादितत्त्वात् । पुरा मया प्रोक्तमजाय नाभ्ये पद्मे निषण्णाय ममादिसर्गे । ज्ञानं परं मन्महिमावभासं यत्सूरयो भागवतं वदन्ति ॥ [भागवतम् ३.४.१३] इति तृतीये उद्धवं प्रति श्रीकृष्णवाक्यानुसारेण च यो ब्रह्माणं विदधाति पूर्वं यो विद्यास्तस्मै गोपायति स्म कृष्णः । तं ह दैवमात्मबुद्धिप्रकाशं मुमुक्षुर्वै शरणमनुव्रजेत ॥ [ङ्टू १.२२] इति श्रीगोपालतापन्य्अनुसारेण च तस्यैवोपदेष्टृत्वश्रुतेः तदु होवाच ब्राह्मणोऽसावनवरतं मे ध्यातः स्तुतः परार्धान्ते सोऽबुध्यत । गोप वेशो मे पुरुषः पुरस्तादाविर्बभूव ॥ [ङ्टू १.२५] इति श्रीगोपालतापन्य् अनुसारेण क्वचित्कल्पे श्रीगोपालरूपेण सृष्ट्य्आदावित्थमेव ब्रह्मणे दर्शितनिजरूपत्वाद्धाम्ना महावैकुण्ठत्वेन साधयिष्यमाणत्वाच् च । तथा च ब्रह्मसंहितायाम् सिसृक्षायां मतिं चक्रे पूर्वसंस्कारसंस्कृतः । ददर्श केवलं ध्वान्तं नान्यत्किमपि सर्वतः ॥ उवाच पुरतस्तस्मै तस्य दिव्य सरस्वती । कामः कृष्णाय गोविन्द हे गोपीजन इत्यपि । वल्लभाय प्रिया वह्नेर्मन्त्रं ते दास्यति प्रियम् ॥ तपस्त्वं तप एतेन तव सिद्धिर्भविष्यति । अथ तेपे स सुचिरं प्रीणन् गोविन्दमव्ययम् ॥ [Bरह्मष्५.२२२५] इत्यादि । सुनन्द प्रबलार्हणाधिभिः [भागवतम् २.९.१४] इत्यत्र तु द्वारकायां प्राकट्यावसरे श्रुतसुनन्दनन्दादिसाहचर्येण प्रबलादयोऽपि ज्ञेयाः । यथोक्तं प्रथमे सुनदनन्दशीर्षण्या ये चान्ये सात्वतर्षभाः [भागवतम् १.१४.३२] इति । [एन्द्Vऋ. अद्दितिओन्] [आ रेअद्सिन्स्तेअदोf अबोवे] श्रीकृष्णत्वेनैव दर्शितत्वात्तस्य च अहमेवासम् एवाग्रे [भागवतम् २.९.३२] इत्युक्तेस्तस्मिन्नेव तात्पर्यं स्पष्टम् [एन्दा] । (पगे २५) किं बहुना, नानावतारावतारिष्वपि सत्सु महापुराणप्रारम्भ एव श्री शौनकादीनां श्रीकृष्णे तात्पर्यम् । अत्र पूर्वे सामान्यतोऽस्माभिरेकान्त श्रेयस्त्वेन सर्वशास्त्रसारत्वेन आत्मसु प्रसादहेतुत्वेन च यत्पृष्टं तदेतदेवास्माकं भाति यत्श्रीकृष्णस्य लीलावर्णनमित्यभिप्रेत्याहुः । सूत जानासि भद्रं ते भगवान् सात्वतां पतिः । देवक्यां वसुदेवस्य जातो यस्य चिकीर्षया ॥ [भागवतम् १.१.१२] भद्रं त इति श्रीकृष्णलीलाप्रश्नसहोदरौत्सुक्येनाशीर्वादः । भगवान् स्वयमेवावतारी । सात्वतां यादवानाम् । [Vऋ. अद्द्स्: सम्पूर्णैश्वरादियुक्तः । सात्वतां सात्वतानां पतिः । नुड्अभावे आर्षः । यादवानामित्यर्थः । जातो जगद्दृश्यो बभूव । [एन्द्Vऋ.] [६५] तन्नः शुष्रूषमाणानामर्हस्यङ्गानुवर्णितुम् । यस्यावतारो भूतानां क्षेमाय च भवाय च ॥ [भागवतम् १.१.१३] अङ्गे हे सूत सामान्यतस्तावद्यस्यावतारमात्रं क्षेमाय पालनाय भवाय समृद्धये च । तत्प्रभावमनुवर्णयन्तस्तद्यशः श्रवणौत्सुक्यमाविष्कुर्वन्ति । [६६] आपन्नः संसृतिं घोरां यन्नाम विवशो गृणन् । ततः सद्यो विमुच्येत यद्बिभेति स्वयं भयम् ॥ [भागवतम् १.१.१४] विवशोऽपि यस्य श्रीकृष्णस्य नाम तस्यावतारित्वादवतारनाम्नामपि तत्रैव पर्यवसानात् । अतएव साक्षात्श्रीकृष्णादपि तत्तन्नामप्रवृत्ति प्रकारान्तरेण श्रूयते श्रीविष्णुपुराणे । तत्र त्वखिलानामेव भगवन् नाम्नां कारणान्यभवन्निति हिस्तदीयं गद्यम् । ततः संसृतेः । यद्यतो भयमपि स्वयं बिभेति । [६७] किं च यत्पादसंश्रयाः सूत मुनयः प्रशमायनाः सद्यः पुनन्त्युपस्पृष्टाः स्वर्धुन्य्आपोऽनुसेवया ॥ [भागवतम् १.१.१५] यस्य श्रीकृष्णस्य पादौ संश्रयौ येषाम् । अतएव प्रशमायनाः शमो भगवन्निष्ठबुद्धिता । शमो मन्निष्ठता बुद्धेरिति [भागवतम् ११.१९.३६] स्वयं श्रीभगवद्वाक्यात्स एव प्रकृष्टः शमः प्रशमः । साक्षात् पूर्णभगवत्श्रीकृष्णसम्बन्धित्वात् । प्रशम एवायनं वर्त्म आश्रयो वा येषां ते श्रीकृष्णलीलारसाकृष्टचित्ता मुनयः श्रीशुकदेवादयः । उपस्पृष्टाः सन्निधिमात्रेण सेविताः सद्यः पुनन्ति सवासनपापेभ्यः शोधयन्ति । स्वर्धुनी गङ्गा तस्या आपस्तु योऽसौ निरञ्जनो देवश्चित् स्वरूपा अपि साक्षाच्छ्रीवामनदेवचरणान्निःसृता अपि, अनुसेवया साक्षात् सेवाभ्यासेनैव तथा शोधयन्ति न सन्निधिमात्रेण सेवया । साक्षात् सेवयापि न सद्य इति तस्या अपि श्रीकृष्णाश्रितानामुत्कर्षात्तस्योत्कर्षः । एवमेव ततस्तद्यशसोऽप्याधिक्यं वर्ण्यते । तीर्थं चक्रे नृपोनं यद् अजनि यदुषु स्वःसरित्पादशौचमिति [भागवतम् १०.९०.४७] । (पगे २६) टीका च इतः पूर्वं स्वःसरिदेव सर्वतोऽधिकं तीर्थमित्यासीदिदानीं यदुषु यदजनि जातं तीर्थं श्रीकृष्णकीर्तिरूपमेतत्स्वःसरिद्रूपं पादशौचं तीर्थमूनमल्पं चक्रे इत्येषा । [६८] एतस्य दशमस्कन्धपद्यस्यैव संवादितां व्यनक्ति । को वा भगवतस्तस्य पुण्यश्लोकेड्यकर्मणः । शुद्धिकामो न शृणुयाद्यशः कलिमलापहम् ॥ [भागवतम् १.१.१६] स्पष्टम् ॥ [६९] यस्मादेव तस्मात् । तस्य कर्माण्युदाराणि परिगीतानि सूरिभिः । ब्रूहि नः श्रद्दधानानां लीलया दधतः कलाः ॥ [भागवतम् १.१.१७] उदाराणि परमानन्ददातॄणि जन्मादीनि स्वयं परिपूर्णस्य लीलया अन्या अपि कलाः पुरुषादिलक्षणा दधतस्तत्तद्अंशानप्यादाय तस्यावतीर्णस्य सत इत्यर्थः । [७०] अथाख्याहि हरेर्धीमन्नवतारकथाः शुभाः । ईला विदधतः स्वैरमीश्वरस्यात्ममायया ॥ [भागवतम् १.१.१८] श्री कृष्णस्य तावन्मुख्यत्वेन कथय अथ तद्अनन्तरम् आनुषङ्गिकतयैवेत्यर्थः । हरेः श्रीकृष्णस्य प्रकरणबलात् । अवताराः पुरुषस्य गुणावतारा लीलावताराश्च । तेषां कथा लीलाः सृष्ट्य्आदिकर्म रूपा भूभारहरणादिरूपाश्च । [७१] औत्सुक्येन पुनरपि तच्चरितान्येव श्रोतुमिच्छन्तस्तत्रात्मनस्तृप्त्य् अभावमावेदयन्ति । वयं तु न वितृप्याम उत्तमश्लोकविक्रमे । यच्छृण्वतां रसज्ञानां स्वादु स्वादु पदे पदे ॥ [भागवतम् १.१.१९] योगयागादिषु तृप्ताः स्मः । भगवद्विक्रममात्रे तु न तृप्याम एव तत्रापि तीर्थं चक्रे नृपोनमित्याद्य्उक्तलक्षणस्य सर्वतोऽप्य् उत्तमश्लोकस्य विक्रमे विशेषेण न तृप्यामः । अलमिति न मन्यामहे । तत्र हेतुः । यद्विक्रमं शृण्वताम् । यद्वा अन्ये तृप्यन्तु नाम वयं तु नेति तुशब्दस्यान्वयः । [७२] कृतवान् किल कर्माणि सह रामेण केशवः । अतिमर्त्यानि भगवान् गूढः कपटमानुषः ॥ [भागवतम् १.१.२०] टीका च अतः श्रीकृष्णचरितानि कथयेत्याशयेनाहुः कृतवानिति । अतिमर्त्यानि मर्त्यानतिक्रान्तानि गोवर्धनोद्धरणादीनि । मनुष्येष्व् असम्भावितानीत्यर्थः इत्येषा । ननु कथं मानुषः सन्नतिमर्त्यानि कृतवान् ? तत्राह कपटमानुषः । पार्थिवदेहविशेष एव मानुषशब्दः प्रतीतः तस्मात्कपटेनैवासौ तथा भातीत्यर्थः । वस्तुतस्तु नराकृतेरेव परब्रह्मत्वेनासत्यपि प्रसिद्धमानुषत्वे नराकृतिनरलीलात्वेन लब्धमप्रसिद्ध मानुषत्वमस्त्येव । (पगे २७) तत्पुनरैश्वर्याव्याघातकत्वान्न प्रत्याख्यायत इति भावः । अतएव स्यमन्तकाहरणे पुरुषं प्राकृतं मत्वा [भागवतम् १०.५३.२२] इत्यनेन जाम्बवतोऽन्यथाज्ञानव्यञ्जकेन तस्य प्राकृतत्वं निषिध्य पुरुषत्वं स्थाप्यते । एवं मायामनुष्यस्य वदस्व विद्वन्न् [भागवतम् १०.१.७] इत्यादिष्वपि ज्ञेयम् । यस्मात्कपटमानुषस्तस्मादेव गूढः स्वतस्तु तद् रूपतयैव भगवानिति ॥ ॥ १.१ ॥ श्रीशौनकः ॥ ६४७२ ॥ [७३] अथ श्रीसूतस्यापि इति सम्प्रश्नसंहृष्टः [भागवतम् १.२.१] इत्याद्य्अनन्तरं नारायणं नमस्कृत्य [भागवतम् १.२.२] इत्य्आद्य्अन्ते पुराणमुपक्रम्यैवाह मुनयः साधु पृष्टोऽहं भवद्भिर्लोकमङ्गलम् । यत्कृतः कृष्णसम्प्रश्नो येनात्मा सुप्रसीदति ॥ [भागवतम् १.२.५] टीका च तेषां वचः प्रतिपूज्येति यदुक्तं तत्प्रतिपूजनं करोति । हे मुनयः साधु यथा भवति तथाहं पृष्टः । यतो लोकानां मङ्गलम् एतत् । यतः कृष्णविषयः संप्रश्नः कृतः । सर्वशास्त्रार्थसारोद्धार प्रश्नस्यापि कृष्णे पर्यवसानादेवमुक्तम् । इत्येषा । इत्येवोत्तरेष्वपि पद्येषु अधोक्षजवासुदेवसात्वतांपतिकृष्णशब्दास् तत्प्राधान्यविवक्षयैव पठिता । अत्र श्रेयःप्रश्नस्याप्युत्तरं लोक मङ्गलमित्यनेनैव दत्तं भवति । तथात्मसुप्रसादहेतोश्च येनात्मा सुप्रसीदति इत्यनेन । ॥ १.२ ॥ श्रीसूतः ॥ ७३ ॥ [७४] तदेवं श्रोतृवक्तॄणामैकमत्येन च तात्पर्यं सिद्धम् । [Vऋ. अद्द्स्हेरे: अथ श्रुतिलिङ्गादिभिः षड्भिरपि प्रमाणैः स एव प्रमीयते । तत्र निरपेक्षरवा श्रुतिर्दर्शितैव कृष्णस्तु भगवान् स्वयम् इत्यत्र । अथ श्रुतिसामर्थ्यरूपं लिङ्गं च । तावत्सर्वे वत्सपालाः पश्यतोऽजस्य तत्क्षणात् । व्यदृश्यन्त घनश्यामाः पीतकौशेयवाससः ॥ [भागवतम् १०.१३.४६] इत्यादौ ज्ञेयम् । किन्त्वन्यत्र बर्हिर्देवसदनं दामि इत्यस्य मन्त्ररूपस्य लिङ्गस्य बलात् श्रुतिः कल्प्यते । अत्र तु कृष्णस्तु भगवान् स्वयमिति साक्षादेव तद् रूपोऽस्तीति विशेषोऽप्यस्ति । अथाकाङ्क्षायोग्यतासत्तिमद्अनेकपद विशिष्टैकार्थ्यप्रतिपादकशब्दरूपं वाक्यं च यस्यां वै श्रूयमानायां [भागवतम् १.७.७] इति अश्वाभिधानीमादत्ते इति ब्राह्मणवाक्याद् अश्वरसनादाने विनियोगः प्रतीयते । तथात्रापि भक्तियोगेन मनसि सम्यक्प्रणिहितेऽमले । अपश्यत्पुरुषं पूर्णं [भागवतम् १.७.६] इत्यत्र पूर्ण पुरुषत्वेनोक्तस्य कृष्णत्वम् । यस्यां वै श्रूयमानायां कृष्णे परम पूरुषे [भागवतम् १.७.७] इति वाक्याद्व्यज्यते इति । तथारभ्याधीतरूपं प्रकरणं चात्र सूत जानासि भद्रं ते [भागवतम् १.१०.१२] इत्यादिरूपम् । यथा दर्शपूर्णमासाभ्यां यजेत इत्यत्र तृतीयया श्रुत्या दर्शपूर्णमासयोः प्रकरणत्वेन प्राप्ते करणस्य चेति कर्तव्यताकाङ्क्षायामग्निष्टोमेन स्वर्गकामो यजेत इति तदारभ्य प्रकरणार्थारब्धेन स्वर्गकाम इत्य् अनेन योजना । तथा सूत जानासि भद्र ते इत्यत्र श्रवणारम्भ एव श्री कृष्णस्यावतारे हेतुं विज्ञातुमिच्छद्भिः शौनकादिभिस्तत्र परमाद्भुततां व्यज्य श्रीकृष्णस्यैव सर्वत्र ज्ञेयत्वेन योजना गम्येति तस्यैव स्वयं भगवत्त्वं व्यक्तम् । दर्शितं तच्च सर्वश्रोतृवक्तॄणां तदैकमत्यप्रकरणेनेति । अथ क्रमवर्तिनां पदार्थानां क्रमवर्तिभिः पदार्थैः यथाक्रम सम्बन्धरूपं स्थानं चात्र सूत जानासि भद्रं ते इत्यादावेव ज्ञेयम् । यथा दर्शपौर्णमासप्रकरणे कानिचित्कर्माणि उपांशुयागप्रभृतीनि दर्विरसि इत्यादयः केचन मन्त्राश्च समाम्नायन्ते । तत्र यस्य क्रमेण यो मन्त्रः समास्नातस्तेनैव तस्य च सम्बन्धस्तथा मुनयः साधु पृष्टोऽहं भवद्भिर्लोकमङ्गलम् । यत्कृतं कृष्णसम्प्रश्नः इत्यत्र कृष्णशब्दस्य प्रथमप्रश्नोत्तरगतत्वेन पठितस्य देवकीजात वाचकत्वमेव लभ्यते । अथ नामादिना तुल्यताख्यानरूपा समाख्या च जगृहे पौरुषं रूपं भगवानित्यस्य एते चांशकलाः पुंसः कृष्णस्तु भगवान् स्वयमित्यत्र पर्यवसानमित्येवं ज्ञेयम् । यथाध्वर संज्ञानां मन्त्राणामग्निर्यज्ञं नयतु प्रजाननित्यादीनामाध्वर्य संज्ञके कर्मणि नियोग इति । [एन्द्Vऋ. अद्दितिओन्.] किं च एतस्यामष्टादशसाहस्र्यां संहितायां श्रीकृष्णस्यैवाभ्यास बाहुल्यं दृश्यते । तत्र प्रथमदशमैकादशेष्वतिविस्तरेणैव । द्वितीये श्रीब्रह्म(पगे २८)नारदसंवादे । तृतीये श्रीविदुरोद्धवसंवादे । चतुर्थे ताविमौ वै भगवतो हरेरंशाविहागताव्[भागवतम् ४.१.५७] इत्यादौ, यच्चान्यदपि कृष्णस्य [भागवतम् ४.१७.६] इत्यादौ च । पञ्चमे राजन् पतिर्गुरुर् अलम् [भागवतम् ५.६.१८] इत्यादौ । षष्ठे मां केशवो गदया प्रातरव्याद्गोविन्द आसङ्गवमात्तवेणुः [भागवतम् ६.८.२०] इत्यत्र । सप्तमे नारदयुधिष्ठिर संवादे । अष्टमे तन्महिमविशेषबीजारोपरूपे कालनेमिवधे तादृश श्रीमद्अजितद्वारापि तस्य मुक्तिर्नाभवत्किन्तु पुनः कंसत्वे तद् द्वारैवेति तत्तन्महिमविशेषकथनप्रथमाङ्गत्वात् । नवमे सर्वान्ते । द्वादशे च श्रीकृष्णकृष्णसखवृष्ण्य्ऋषभावनिध्रुग् राजन्यवंशदहनानपवर्ग्यवीर्य [भागवतम् १२.११.२५] इत्यादौ । श्रीभागवतानुक्रमणिकायां च उत्तरोत्तरत्र सर्वतोऽपि भूयस्त्वेन गीयते । तथा च यस्याभ्यासस्तदेव शास्त्रे प्रधानमित्य् आनन्दमयोऽभ्यासाद्[Vस्४.१.१२] इत्यत्रापरैरपि समर्थितत्वादिहापि श्री कृष्ण एव प्रधानं भवेदितीति तस्यैव मूलभगवत्त्वं सिध्यति । यत् प्रतिपादकत्वेनास्य शास्त्रस्य भागवतमित्याख्या । अपि च न केवलं बहुत्र सूचनमात्रमत्राभ्यासनमपि त्वर्धादप्यधिको ग्रन्थस्तत् प्रस्तावको दृश्यते । तत्रापि सर्वाश्चर्यतया । तस्मात्साधूक्तमेते चांस कलाः पुंसः कृष्णस्तु भगवान् स्वयम् [भागवतम् १.३.२८] इति । तदेवमस्य वचनराजस्य सेनासङ्ग्रहो निरूपितः । तथा तस्य प्रतिनिधि रूपाणि वाक्यान्तराणि अपि दृश्यन्ते । यथा अष्टमस्तु तयोरासीत्स्वयमेव हरिः किल ॥ इति [भागवतम् ९.२४.५५] किलशब्देन कृष्णस्त्विति प्रसिद्धिः सूच्यते । ततो हरिरत्र भगवानेव । यथोक्तम् वसुदेवगृहे साक्षाद्भगवान् पुरुषः परः [भागवतम् १०.१.२३] इति च । ॥ ९.२४ ॥ श्रीशुकः ॥ ७४ ॥ [७५] यथा वा अहो भाग्यमहो भाग्यमित्यादि ॥ [भागवतम् १०.१४.३२] ब्रह्मत्वेनैव बृहत्तमत्वे लब्धेऽपि पूर्णमित्यधिकं विशेषणम् अत्रोपजीव्यते ॥ ॥ १०.१४ ॥ श्रीब्रह्मा भगवन्तम् ॥ ७५ ॥ [७६] अतएव स्वयं त्वसाम्यातिशयस्त्र्यधीशः स्वाराज्यलक्ष्म्य्आप्तसमस्तकामः । बलिं हरद्भिश्चिरलोकपालैः किरीटकोटीडितपादपीठः ॥ [भागवतम् ३.२.२१] न साम्यातिशयौ यस्य यमपेक्ष्यान्यस्य साम्यमतिशयश्च नास्तीत्य् अर्थः । तत्र हेतवस्त्र्य्अधीशस्त्रिषु सङ्कर्षणप्रद्युम्नानिरुद्धेष्वप्य् अधीशः । सर्वांशित्वादतएव स्वाराज्यलक्ष्म्या सर्वाधिकपरमानन्द स्वरूपसम्पत्त्यैव प्राप्तसमस्तभोगः । बलिं तद्इच्छानुसरणरूपम् अर्हणं हरद्भिः समर्पयद्भिश्चिरैर्लोकपालैर्भगवद्दृष्ट्य् अपेक्षया ब्रह्मादयस्तावदचिरलोकपालाः अनित्यत्वात्ततश्च चिर कालीनैर्लोकपालैरनन्तब्रह्माण्डान्तर्यामिपुरुषैः किरीटकोटिद्वारा ईडितं स्तुतं पादपीठं यस्य सः । अत्यन्ततिरस्कृतवाच्यध्वनिना परमश्रेष्ठ इत्यर्थः । समस्तपादपाठेऽपि (पगे २९) स एवार्थः । श्रीकृष्ण इति कृष्णस्तु भगवान् स्वयमितिवत्स्वयं भगवत्तामेव व्यनक्ति । ॥ ३.२ ॥ श्रीमद्उद्धवो विदुरम् ॥ ७६ ॥ [७७] तदेतत्पूर्णत्वं दृष्टान्तद्वारापि दर्शितमस्ति । देवक्यां देवरूपिण्यां विष्णुः सर्वगुहाशयः । आविरासीद्यथा प्राच्यां दिशीन्दुरिव पुष्कलः ॥ [भागवतम् १०.३.८] यथा यथावत्स्वस्वरूपेणैवेत्यर्थः ॥ ॥ १०.३ ॥ श्रीशुकः ॥ ७७ ॥ [७८] यथा च अखण्डमण्डलो व्योम्नि रराजोडुगणैः शशी । यथा यदुपतिः कृष्णो वृष्णिचक्रावृतो भुवि ॥ [भागवतम् १०.२०.४४] स्पष्टम् ॥ १०.२० ॥ श्रीशुकः ॥ ७८ ॥ [७९] तथा श्रीकृष्णप्रतिनिधिरूपत्वादस्य महापुराणस्य श्रीकृष्ण एव मुख्योऽभिधेय इत्यप्याह । कृष्णे स्वधामोपगते धर्मज्ञानादिभिः सह । कलौ नष्टदृशामेष पुराणार्कोऽधुनोदितः ॥ [भागवतम् १.३.४३] स्पष्टम् ॥ १.३ ॥ श्रीसूतः ॥ ७९ ॥ [८०] तदेवं श्रीकृष्णस्य स्वयं भगवत्त्वं दर्शितम् । तत्तु गतिसामान्येनापि लभ्यते । यथा महाभारते सर्वे वेदाः सर्वविद्याः सर्वशास्त्राः सर्वे यज्ञाः सर्व ईड्यश्च कृष्णः । विदुः कृष्णं ब्राह्मणास्तत्त्वतो ये तेषां राजन् सर्वाज्ञाः समाप्ताः ॥ इति । अत्र सर्वसमन्वयसिद्धेः पूर्णत्वमेव लभ्यते । एवं श्रीभगवद् उपनिषत्सु च वेदैश्च सर्वैरहमेव वेद्यो वेदान्तकृद्वेदविदेव चाहम् [Bग्१५.१५] इति, ब्रह्मणो हि प्रतिष्ठाहम् [Bग्१४.२७] इत्यादि च । ब्रह्मसंहितायाम् [५.२९] चिन्तामणिप्रकरसद्मसु कल्पवृक्ष लक्षावृतेषु सुरभीरभिपालयन्तमित्यादिकमुपक्रम्य यस्यैकनिश्वसितकालमथावलम्ब्य जीवन्ति लोमविलजा जगद्अण्डनाथाः । विष्णुर्महान् स इह यस्य कलाविशेषो गोविन्दमादिपुरुषं तमहं भजामि ॥ इति [Bरह्मष्५.३०] । ननु पाद्मोत्तरखण्डादौ सर्वावतारी परव्योमाधिपतिर्नारायण एवेति श्रूयते । पञ्चरात्रादौ तु वासुदेवः, न च स कृष्ण एवेति वक्तव्यम् । तत्तु स्थानपरिकरनामरूपाणां भेदात् । तर्हि कथं श्रीकृष्णस्यैव सर्वावतारित्वं स्वयंभगवत्त्वं वा ? तत्रोच्यते श्रीभागवतस्य सर्व शास्त्रचक्रवर्तित्वं प्रथमसन्दर्भे प्रघट्टकेनैव दर्शितम् । पूर्णज्ञानप्रादुर्भावानन्तरमेव श्रीवेदव्यासेन तत्प्रकाशितमिति च तत्रैव प्रसिद्धम् । स्फुटमेव दृश्यते चास्मिन्नपर शास्त्रोपमर्दकत्वम् । इत्यङ्गोपदिशन्त्येके विस्मृत्य प्रागुदाहृतम् । मुनिवासनिवासे किं घटेतारिष्टदर्शनम् ॥ [भागवतम् १०.५७.३१] इत्यादौ । एवं वदन्ति राजर्षे [भागवतम् १०.७७.३०] इत्यादौ च । अतएव नवमेऽप्युक्तम् हित्वा स्वशिष्यान् पैलादीन् भगवान् बादरायणः । मह्यं पुत्राय शान्ताय परं गुह्यमिदं जगौ ॥ [भागवतम् ९.२२.२२] इति । तदेवं सर्वशास्त्रोपचरितत्वं सिद्धम् । तत्र श्रीकृष्णस्यैव स्वयं भगवत्त्वं निरूपितम् । दृश्यते च प्रशंसितुर्वैशिष्ट्येन प्रशंस्यस्यापि वैशिष्ट्यम् । यथा ग्रामाध्यक्ष्यराजसभयोः सर्वोत्तमत्वेन प्रशस्यमानौ वस्तुविशेषौ तारतम्यमापद्येते । (पगे ३०) तदेवं सत्स्व् अप्यन्येषु तेष्वन्यत्र प्रशस्तेषु श्रीभागवतप्रशंस्यमानस्य श्री कृष्णस्यैव परमाधिक्यं सिध्यति । अतएव कृष्णस्तु भगवान् स्वयमिति सावधाराणा श्रुतिरन्यश्रुतिबाधिकेति युक्तमेव व्याख्यातं पूर्वम् अपि । ततश्च ते तु परव्योमाधिपनारायणवासुदेवादयः श्रीकृष्णस्यैव मूर्तिविशेषा भवेयुः । स्वयं श्रीकृष्णस्तु नारायणस्त्वमित्याद्युक्तो महानारायणो द्वारकादिप्रसिद्धो महावासुदेवश्च भवेत् । ततश्च नारायणवासुदेवोपनिषदोः स एव व्यक्तः । ब्रह्मण्यो देवकीपुत्र इति [णाऊ ४], देवकीनन्दनो निखिलमानन्दयादिति च । तदित्थमेव तं वासुदेवमपि विभूतिनिर्विशेषतया स्वयमेव स्पष्टमाह वासुदेवो भगवताम् [भागवतम् ११.१९.२९] इति स्पष्टम् । [८१] तथा सात्वतां नवमूर्तीनामादिमूर्तिरहं परा ॥ इति [भागवतम् ११.१९.३२] टीका च सात्वतां भागवतानां नवव्यूहार्चने वासुदेवसङ्कर्षण प्रद्युम्नानिरुद्धनारायणहयग्रीववराहनृसिंहब्रह्माण इति या नवमूर्तयस्तासां मध्ये वासुदेवाख्या । इत्येषा । अतएव दृश्यते चाद्वैतवादिनामपि सन्न्यासिनां व्यासपूजापद्धतौ श्री कृष्णस्य मध्यसिंहासनस्थत्वं वासुदेवादीनां व्यासादीनां चावरण देवतात्वमिति । अतएव क्रमदीपिकायामष्टाक्षरपटले वासुदेवादयस् तद्आवरणत्वेन श्रूयन्ते । यत्तु वृष्णीनां वासुदेवोऽस्मि [गीता १०.३७] इति भगवद्उपनिषदः । तत्र वासुदेवशब्देन वसुदेवापत्यार्थेन श्री बलदेव एवोच्यते । वक्ता हि तत्र श्रीकृष्ण एव । ततश्च स्वविभूतिं कथयति तस्मिन्नपि विभूतित्वारोपो न युज्यते । वक्तुरन्यत्रैव श्रोतृभिस् तत्प्रतीतेः । ततो मुख्यार्थबाधे तथैव व्याख्या समुचिता । तस्मात् साधु व्याख्यातम् वासुदेवो भगवतामित्यादि [भागवतम् ११.१९.२९] । ॥ ११.१९ ॥ श्रीभगवान् ॥ ८०८१ ॥ [८२] यस्मादेवं सर्वतोऽपि तस्योत्कर्षस्तस्मादेवान्यतस्तदीयनामादीनाम् अपि महिमाधिक्यमिति गतिसामान्यान्तरं च लभ्यते । तत्र नाम्नो यथा ब्रह्माण्डपुराणे श्रीकृष्णाष्टोत्तरशतनामामृतस्तोत्रे सहस्रनाम्नां पुण्यानां त्रिर्आवृत्त्या तु यत्फलम् । एकावृत्त्या तु कृष्णस्य नामैकं तत्प्रयच्छति ॥ इति । व्यक्तीक्रियते चाधिकफलत्वं कृष्णनाम्नः पाद्मे पातालखण्डे श्री मथुरामाहात्म्ये श्रीमहादेवस्यैव वाक्ये तारकाज्जायते मुक्तिः प्रेमभक्तिस्तु पारकादिति । पूर्वमत्र मोचकत्वप्रेमदत्वाभ्यां तारकपारकसंज्ञे रामकृष्णनाम्नोर्हि विहिते । तत्र च रामनाम्नि मोचकत्वशक्तिरेवाधिका श्रीकृष्णनाम्नि तु मोक्षसुखतिरस्कारि प्रेमानन्ददातृत्वशक्तिः समधिकेति भावः । इत्थमेवोक्तं विष्णु धर्मोत्तरे यच्छक्तिर्नाम यत्तस्य तस्मिन्नेव च वस्तुनि । साधकं पुरुषव्याघ्र सौम्यक्रूरेषु वस्तुषु ॥ इति । किं च श्रीकृष्णनाम्नो माहात्म्यं निगदेनैव श्रूयते प्रभासपुराणे श्रीनारदकुशध्वजसंवादे श्रीभगवद्उक्तौ नाम्नां मुख्यतमं नाम कृष्णाख्यं मे परन्तप इति । तदेवं गतिसामान्येन नाममहिम द्वारा तन्महिमातिशयः साधितः । तथा तदीयगुणरूपलीलामथुरादि स्थानानामपि तत्तच्छास्त्रप्रतिपाद्यमानैः सर्वाधिकमहिमभिरप्य् असावनुसन्धेयः । विस्तरभिया तु नोदाह्रियते । (पगे ३१) [षर्वसंवादिनी: एतदनन्तरं गतिसामान्यप्रकरण्श्रीकृष्णनाम माहात्म्ये सहस्रनाम्नामित्यादिब्रह्माण्डवाक्यानन्तरमेव व्याख्येयम् । यथा सर्वार्थशक्तियुक्तस्य देवदेवस्य चक्रिणः । यच्चाभिरुचितं नाम तत्सर्वार्थेषु योजयेत् ॥ इति विष्णुधर्मदृष्ट्या सर्वेषामेव भगवन्नाम्नां निरङ्कुश महिमत्वे सति समाहृतानामुच्चारणमपि नानार्थकं संस्कारप्रचय हेतुत्वादेकस्यैवोच्चारारप्रचयवदिति नामकौमुदीकारैरङ्गीकृतम् । तथा समाहृतसहस्रनामत्रिर्आवृत्तिशक्तेः कृष्णनामोच्चारणवश्यं मन्तव्यम् । अत्र देवदेवस्य यदभिरुचितं प्रियं नाम तत्सर्वार्थेषु योजयेदित्यपि केचिद्व्याचक्षते । यथा हरेः प्रियेण गोविन्दनाम्ना निहतानि सद्यः इति । ननु बृहत्सहस्रनामस्तोत्रं नित्यमेव पठन्तीं देवीं प्रति सहस्र नामतत्तुल्यं रामनाम वरानने इत्याद्य्उपपत्त्या रामनाम्नैव सहस्रनामफलं भवतीति बोधयन् श्रीमहादेवस्तत्सहस्र नामान्तर्गतकृष्णनाम्नामपि गौणत्वं बोधयति । तर्हि कथं ब्रह्माण्डवचनमविरुद्धं भवति । उच्यते प्रस्तुतस्य बृहत्सहस्र नामस्तोत्रस्यैवैकया वृत्त्या यत्फलं तद्भवतीति रामनाम्नि प्रौढिः । कृष्णनाम्नि तु द्विगावसम्भवात्सहस्रनाम्नामिति बहु वचनात्तादृशानां बहूनां सहस्रनामस्तोत्राणां त्रिर्आवृत्त्या तु यत् फलं तद्भवतीति ततोऽपि महती प्रौढिः । अतएव तत्र समस्तजपयज्ञानां फलदं पापनाशनम् । शृणु देवि प्रवक्ष्यामि नाम्नामष्टोत्तरं शतम् ॥ इत्युक्त्वा अन्येषामपि जपानां वेदाद्य्उक्तानां फलमन्तर्भावितम् । ततश्च प्रौङ्ह्याधिक्यादुत्तरस्य पूर्वस्माद्बलवत्त्वे सति पूर्वस्य महिमापि तद्अविरुद्ध एव व्याख्येयः । तदा हि यद्यप्येवमेव श्री कृष्णवत्तन्नाम्नोऽपि सर्वतः शक्तिपूर्णतया सर्वेषामपि नाम्नाम् अवयवित्वमेव तथापि अवयवसाधारण्येन फलं भवेत् । यथा साक्षान् मुक्तेरपि दातुः श्रीविष्णोराधानस्य यज्ञाङ्गत्वेन क्रियमाणस्य स्वर्ग मात्रप्रदत्वम् । यथा वा वेदजपतस्तद्अन्तर्गतभगवन्मन्त्रेणापि न ब्रह्मलोकाधिकफलप्राप्तिः । यथात्रैव तावत्केवलं रामनामैव सकृद्वदतोऽपि बृहत्सहस्रनामफलमन्तर्भूतरामनामैकोन सहस्रनामकं सम्पूर्णम् । बृहत्सहस्रनामापि पठतो बृहत्सहस्र नामफलं न त्वधिकमेकोनसहस्रनामफलमिति । अतएव साधारणानां केशवादिनाम्नापि तदीयतावैलक्षण्येनागृह्यमाणानाम् अवतारान्तरनामसाधारणफलमेव ज्ञेयम् । नामकौमुद्यां तु सर्वानर्थक्षय एव ज्ञानाज्ञानविशेषो निषिद्धः न तु प्रेमादिफल तारतम्ये । तदेवं कृष्णनाम्नः साधारणफलदत्त्वे सति सहस्र नामभिस्तुल्यं रामनाम वरानन इत्यपि युक्तमुक्तम् । वस्तुतस्त्वेवं सर्वावतारावतारिणामभ्यः श्रीकृष्णनाम्नोऽभ्यधिकं फलं स्वयं भगवत्त्वात्तस्य । ननु यथा दर्शपौर्णमास्याद्य्अङ्गभूतया पूर्णाहूत्या सर्वान् कामान् अवाप्नोति इत्यादावर्थवादत्वं तथैवात्रोभयत्रापि भविष्यतीति चेत्, न । बृहत्सहस्रनामस्तोत्रं पठित्वैव भोजनकारिणीं देवीं प्रति राम नामैव सकृत्कीर्तयित्वा कृतकृत्या सती मया सह भुङ्क्ष्वेति साक्षाद् भोजने श्रीमहादेवेन प्रवर्तनात् । कृष्ण्नाम्नि तु तथार्थवादत्वं दूरोत्सारितमेवेति ॥ [Eन्द्षर्वसंवादिनी] इत्थमेव श्रीकृष्णस्यैवासमोर्द्ध्वमहिमत्वात्स्वयमेव तेनापि सकल भक्तवृन्दवन्दितभगवत्प्रणयं श्रीमद्अर्जुनं प्रति सर्व शास्त्रार्थसारभूतश्रीगीतोपसंहारवाक्ये निजाखिलप्रादुर्भावान्तर भजनमतिक्रम्य स्वभजनमेव सर्वगुह्यतमत्वेनोपदिष्टम् । यथाह कर्तुं नेच्छसि यन्मोहात्करिष्यस्यवशोऽपि तद्[गीता १८.६०] इत्य् अनन्तरम् ईश्वरः सर्वभूतानां हृद्देशेऽर्जुन तिष्ठति । भ्रामयन् सर्वभूतानि यन्त्रारूढानि मायया ॥ तमेव शरणं गच्छ सर्वभावेन भारत । तत्प्रसादात्परां शान्तिं स्थानं प्राप्स्यसि शाश्वतम् ॥ इति ते ज्ञानमाख्यातं गुह्याद्गुह्यतरं मया । विमृश्यैतदशेषेण यथेच्छसि तथा कुरु ॥ सर्वगुह्यतमं भूयः शृणु मे परमं वचः । इष्टोऽसि मे दृढमिति ततो वक्ष्यामि ते हितम् ॥ मन्मना भव मद्भक्तो मद्याजी मां नमस्कुरु । मामेवैष्यसि सत्यं ते प्रतिजाने प्रियोऽसि मे ॥ सर्वधर्मान् परित्यज्य मामेकं शरणं व्रज । अहं त्वा सर्वपापेभ्यो मोक्षयिष्यामि मा शुचः ॥ [गीता १८.६१६६] एषामर्थः अशोच्यानन्वशोचस्त्वमित्यादि [गीता २.११] ग्रन्थो न युद्धाभिधायकः, यतः कर्तुमित्यादि ततः परमार्थाभिधायक एवायं तत्रापि गुह्यतरं सर्वगुह्यतमं च शृणु इत्याह । ईश्वर इत्यादि । य एक सर्वान्तर्यामी ईश्वरः स एव सर्वाणि संसारयन्त्रारुढानि भूतानि मायया भ्रामयन् तेषामेव हृद्देशे तिष्ठति सर्वभावेन पुरुष एवदं सर्वम् [श्वेतू ३.१५] इति भावनायाः सर्वेन्द्रियप्रवणतया वा परां शान्तिं तदीयां परमां भक्तिं शमो मन्निष्ठता बुद्धेर्[भागवतम् ११.१९.३६] इत्युक्तेः । स्थानं तदीयं धाम गुह्याद्ब्रह्मज्ञानादपि गुह्यतरं द्वयोः प्रकर्षे तरप् । अथेदमपि निजैकान्तभक्तवराय तस्मै न पर्याप्तमिति अवध्याय स्वयमेव महाकृपाभरेणोद्घाटितपरमरहस्यः श्रीभगवान् अन्यामपि प्रद्युम्नसङ्कर्षणवासुदेवपरमव्योमाधिपलक्षण भजनीयतारतम्यगम्यां भजनक्रमभूमिकामतिक्रम्यैव सर्वतोऽप्युपादेयमेव सहसोपदिशति सर्वगुह्यतमं भूयः [१८.६४] इति । यद्यपि गुह्यतमत्वोक्तेरेव गुह्यगुह्यतराभ्यामपि प्रकृष्टमिदम् इत्यायाति तथापि सर्वशब्दप्रयोगो गुह्यतममपि परमव्योमाधिपादि भजनार्थशास्त्रान्तरवाक्यमत्येति, तस्य यावद्अर्थवृत्तिकत्वात् । बहूनां प्रकर्षे तमप् । अतएव परमम् । स्वकृततादृशहितोपदेश श्रवणे हेतुमाह इष्टोऽसि मे दृढमितीति । परमाप्तस्य ममैतादृशं वाक्यं त्वयावश्यं श्रोतव्यमिति भाव इत्यर्थः । स्वस्य च तादृशरहस्यप्रकाशने हेतुमाह तत इति । ततस्तादृशेष्टत्वाद् एव हेतोः । तदेवमौत्सुक्यमुच्छलय्य किं तदित्यपेक्षायां सप्रणयाश्रुकृताञ्जलिमेतं प्रत्याह मन्मना इति । मयि त्वन्मित्रतया साक्षादस्मिन् स्थिते श्रीकृष्णे मनो यस्य तथाविधो भव । एवं मद् भक्तो मद्एकतात्पर्यको भवेत्यादि । सर्वत्र मच्छब्दावृत्त्या मद् भजनस्यैव नानाप्रकारतया आवृत्तिः कर्तव्या । न त्वीश्वरतत्त्वमात्र भजनस्येति बोध्यते । साधनानुरूपमेव फलमाह मामेवैष्यसीति । अनेनैवकारेणाप्यात्मनः सर्वश्रेष्ठत्वं सूचितम् । अन्यस्य (पगे ३२) का वार्ता मामेवेति । एतदेव फलं श्रीपरीक्षितापि व्यक्तीकरिष्यते कलिं प्रति । यस्त्वं कृष्णे गते दूरं सह गाण्डीवधन्वना । शोच्योऽस्यशोच्यान् रहसि प्रहरन् वधमर्हसि ॥ [भागवतम् १.१७.६] इति । सत्यं ते इत्यनेनात्रार्थे तुभ्यमेव शपेऽहमिति प्रणयविशेषो दर्शितः । पुनरप्यतिकृपया सर्वगुह्यतममित्यादि वाक्यार्थानां पुष्ट्य्अर्थम् आह प्रतिजाने इति । ननु नानाप्रतिबन्धविक्षिप्तस्य मम कथं त्वन्मनस्त्वादिकमेव सिध्येत्तत्राह सर्वेति । सर्वशब्देन नित्यपर्यन्ता धर्माः विवक्षिताः । परिशब्देन तेषां स्वरूपतोऽपि त्यागः समर्थितः । पापानि प्रतिबन्धास् तद्आज्ञया परित्यागे पापानुत्पत्तेः । तदेव व्यतिरेकेन द्रढयति मा शुच इति । तत्र अशोच्यानन्वशोचस्त्वं प्रज्ञावादांश्च भाषसे । गतासूनगतासूंश्च नानुशोचन्ति पण्डिताः ॥ [गीता २.११] इत्युपक्रमवाक्ये तस्यापण्डितत्वं व्यज्य शोकपरित्यागेन मत् कृतोपदेशमेव गृहाणेति विवक्षितम् । ततश्च तारतम्यज्ञानार्थमेव बहुधोपदिश्यापि महोपसंहारवाक्यस्थस्य त्वस्योपदेशस्य परमत्वं निर्दिश्य शोकपरित्यागेन तमेतमेवोपदेशं त्वं गृहाणेति द्वयोर् वाक्ययोरेकार्थप्रवृत्तत्वमपि स्पष्टम् । षर्वसंवादिनी अथ ईश्वरः सर्वभूतानामित्यादिश्रीगीतापद्य षट्के व्याख्यानान्तरमेव व्याख्येयम् । तथा हि अत्र कश्चिद्वदति ईश्वरः सर्वभूतानामित्यादौ सर्व एवेदमीश्वर इति भावेन यद् भजनं, तत्र ज्ञानांशस्पर्शः । इह तु मन्मना भवेत्यादिशुद्धैव भक्तिरुपदिष्टेत्यत एव सर्वगुह्यत्मत्वम् । किं वा पूर्वेण वाक्येन परोक्षतयैवेश्वरमुद्दिश्यापरेण तमेवापरोक्षतया निर्दिष्टवानित्यत एव न च वक्तवयम् । पूर्वमपि मन्मना भव मद्भक्तो मद्याजी मां नमस्कुरु । मामेवैष्यसि युक्त्वैवम् आत्मानं मत्परायणः ॥ [९.३४] इत्यादिभिः शुद्धभजनस्योक्तत्वात् । तथापि अधियज्ञोऽहमेवात्र देहे देहभृतां वरः [गीता ८.४] इत्यादौ च स्वस्यान्तर्यामित्वेन चोक्तत्वात् । सर्वगुह्यतमत्वगुह्यतरत्वयोरनुपपत्तिरिति । यद्यदेव पूर्वं सामान्यतयोक्तं तस्यैवान्ते विविच्य निर्दिष्टत्वात् । उच्यते न तावद्भजन तारतम्यम् । अत्र भजनीयतारतम्यस्यापि सम्भवे गौणमुख्य न्यायेन भजनीय एवार्थसम्प्रतीतेः । मुख्यत्वं च तस्य फलमत उपपत्तेरिति [Vस्३.२.२९] न्यायेन । विशेषतस्तु तच्छब्देन न स्वयमेव तद् रूप इति मच्छब्देन स्वयमेवैतद्रूप इति च भेदस्य विद्यमानत्वात् उपदेशद्वये निजेनौदासीन्येनावेशेन च लिङ्गेनापूर्णत्वोपलम्भनात् । फलभेदव्यपदेशेनैवकारेण च तद्अर्थस्यैव पुष्टत्वात् । साक्षादेव भजनीयतारतम्यमुपलभ्यते । वस्तुतस्तु सर्वभावेनेत्यस्य सर्वेन्द्रियप्रवणतयेत्येवार्थः । गौणमुख्यन्यायेनैव ज्ञान मिश्रस्य सर्वात्मताभावनालक्षणभजनरूपार्थस्य बाधितत्वात् । स्थानं प्राप्स्यसि शाश्वतमिति लोकविशेषप्राप्तेरेव निर्दिष्टत्वात् । तस्मान् न च भजनावृत्तितारतम्यावकाशः । न च भजनीयस्यैव परोक्षापरोक्षतया निर्देशयोस्तारतम्यम् । तदैव तया प्राचीनयार्वाचीनया चानया गतिक्रियया सङ्कोचवृत्तिरियं कल्पनीया । यद्यन्तर्यामिणः सकाशादन्या परावस्था न श्रूयते, शास्त्रे श्रूयते तु तद्अवस्थातः परा, ततोऽपि परा च सर्वत्र । अत्रैव तावत् साधिभूताधिदैवं मां चाधियज्ञं च ये विदुः [गीता ७.३०] इत्यादौ भेदव्यपदेशात् । तत्र सहयुक्तेऽप्रधाने [पाणिनि २.३.१७] इति स्मरणेनाधियज्ञस्यान्तर्यामिणः सहार्थतृतीयान्ततया लब्धसमास पदस्य स्वस्मादप्रधानत्वोक्तेस्ततः परत्वं श्रीकृष्णस्य व्यक्तमेव । अधियज्ञोऽहमेवात्र [गीता ८.४] इत्यादौ च तदेव व्यज्यते । एष वै भगवान् द्रोणः प्रजारूपेण वर्तते [भागवतम् १.७.४५] इतिवत् । तस्माद्भजनीय तारतम्यविवक्षयैवोपदेशतारतम्यं सिद्धम् । एष तु वातिवदति यः सत्येनातिवदति [Cहाऊ ७.१६.१] इतिवत्यः सत्येन ब्रह्मणैव प्रतिपाद्य भूतेन सर्वं वादिनमतिक्रम्य वदति एष एव सर्वमतिक्रम्य वदतीत्य् अर्थः । तदेवमर्थे सति यथा तत्र वादस्यातिशायितालिङ्गेन नामादि प्राणपर्यन्तानि तत्प्रकरण उत्तरोत्तरभूमतयोपदिष्टान्यपि सर्वाणि वस्तून्यतिक्रम्य ब्रह्मण एव भूमत्वं साध्यते तद्वदत्राप्य् उपदेशाधिक्येन प्रतिपाद्याधिक्यमिति । अतः श्रीकृष्णस्यैवाधिक्यमित्य् अन्तेऽप्युक्तमिति दिक् । [एन्द्षर्वसंवादिनी] अतः श्रीकृष्णस्यैवाधिक्यं सिद्धम् । अतएव असद्व्यपदेशान्नेति चेन्न धर्मान्तरेण वाक्यशेषाद्[Vस्. २.१.१७] इति न्यायाद् उपसंहारस्यैवोपक्रमार्थस्य च सर्वशास्त्रार्थत्वात्तत्रोक्तं विश्व रूपमभि तद्अधीनामेव । तच्च युक्तम् । तेनैव दर्शितत्वात् । तत्र च इत्यर्जुनं वासुदेवस्तथोक्त्वा स्वकं रूपं दर्शयामास भूयः ॥ [गीता ११.५०] इत्य्नराकारचतुर्भुजरूपस्यैव स्वकत्वनिर्देशात् । तद्विश्वरूपं न तस्य साक्षात्स्वरूपमिति स्पष्टम् । अतएव परमभक्तस्यार्जुनस्यापि न तद्अभीष्टम्, किन्तु तदीयं स्वयं रूपमेवाभीष्टम् । अदृष्टपूर्वं हृषितोऽस्मि दृष्ट्वा भयेन च प्रव्यथितं मनो मे [गीता ११.४५] । इत्याद्य् उक्तेः । तद्दर्शनार्थमर्जुनं प्रति दिव्यदृष्टिदानलिङ्गेन तस्यैव माहात्म्यमिति तु बालकोलाहलः । नराकृति परं ब्रह्म इति, तदमितं ब्रह्माद्वयं शिष्यते इति [भागवतम् १०.१४.१८], यन्मित्रं परमानन्दम् [भागवतम् १०.१४.३२] इति, स एव नित्यात्मसुखानुभूत्य्अभिव्युदस्तमायः [भागवतम् १०.१२.३९] इति, स त्वं विभो कथमिहाक्षपथः प्रतीत इति च, तथा ब्रह्मणो हि प्रतिष्ठाहम् [गीता १४.२७] इति, नाहं प्रकाशः सर्वस्य [गीता ७.२५] इति च श्रवणेन प्रकृष्टदृष्टेस्तत्राप्यकरणत्वाद्भगवच्छक्तिविशेष संवलितदृष्टेरेव तत्र करणत्वात् । ततस्तस्या दृष्टेर्दिव्यत्वं दानं च नराकारपरब्रह्मदर्शनहेतुलक्षणायास्तत्स्वाभाविकदृष्टेर् अन्यासौ देववपुर्दर्शनहेतुरित्यपेक्षयाइव । तच्च नराकृतिपर ब्रह्म दिव्यदृष्टिभिरपि दुर्दर्शमित्युक्तम् सुदुर्दर्शमिदं रूपं दृष्टवानसि यन्मम । देवा अप्यस्य रूपस्य नित्यं दर्शनकाङ्क्षिणः ॥ [गीता ११.५२] इत्यादिना । किन्तु भक्त्यैव सुदर्शनमित्यप्युक्तम् । भक्त्या त्वनन्यया शक्य अहमेवंविधोऽर्जुन । ज्ञातुं द्रष्टुं च तत्त्वेन प्रवेष्टुं च परंतप ॥ [गीता ११.५४] इत्यादिना । न च सुदुर्दर्शम् (पगे ३३) इत्यादिकं विश्वरूपपरम् । दृष्ट्वेदं मानुषं रूपम् [गीता ११.५१] इत्यादेरेवाव्यवहितपूर्वोक्तत्वात्विश्वरूप प्रकरणस्य तद्व्यवधानाच्च । तथा चैकादशे सर्वेषां देवादीनाम् आगमने व्यचक्षतावितृप्ताक्षाः कृष्णमद्भुतदर्शनम् [भागवतम् ११.६.५] इति । तत्रैवान्यत्र गोविन्दभुजगुप्तायाम् [भागवतम् ११.२.१] इत्यादि । सप्तमे यूयं नृलोके [७.१०.४८] इत्यादि च । तृतीये च विस्मापनं स्वस्य च [३.२.१२] । अत उपसंहारानुरोधेन स्ववाक्यतात्पर्येण चास्यापि प्रकरणस्य श्री कृष्णपरत्वमेव । तस्मात्श्रीकृष्णगीतासु च श्रीकृष्णस्यैव स्वयं भगवत्त्वं सिद्धम् । तदुक्तम् एकं शास्त्रं देवकीपुत्रगीतम् एको देवो देवकीपुत्र एव । कर्माप्येकं देवकीपुत्रसेवा मन्त्रोऽप्येको देवकीपुत्रनाम ॥ इति । तथा श्रीगोपालपूर्वतापनीश्रुतावपि मुनयो ह वै ब्रह्माणमूचुः, कः परमो देवः [ङ्टू १.२] इत्याद्य्अनन्तरं तदु होवाच ब्राह्मणः । कृष्णो वै परमं दैवतम् [ङ्टू १.३] इत्यादि । उपसंहारे च तस्मात्कृष्ण एव परो देवस्तं ध्यायेत्तं रसेत्तं यजेदित्यों तत्सद्[ङ्टू १.४९] इति । किं बहुना सर्वावतारावतारिविलक्षणा महाभगवत्तामुद्राः साक्षाद् एव तत्र वर्तन्त इति श्रूयते पाद्माध्यायत्रयेण । यथा तदीया कियन्तः श्लोकाः । ब्रह्मोवाच शृणु नारद वक्ष्यामि पादयोश्चिह्नलक्षणम् । भगवत्कृष्णरूपस्य ह्यानन्दैकघनस्य च ॥ अवतारा ह्यसङ्ख्येयाः कथिता मे तवानघ । परं सम्यक्प्रवक्ष्यामि कृष्णस्तु भगवान् स्वयम् ॥ देवानां कार्यसिद्ध्य्अर्थमृषीणां च तथैव च । आविर्भूतस्तु भगवान् स्वानां प्रियचिकीर्षया ॥ यैरेव ज्ञायते देवो भगवान् भक्तवत्सलः । तान्यहं वेद नान्योऽस्ति सत्यमेतन्मयोदितम् ॥ षोडशैव तु चिह्नानि मया दृष्टानि तत्पदे । दक्षिणेनाष्टचिह्नानि इतरे सप्त एव च ॥ ध्वजाः पद्मं तथा वज्रमङ्कुशो यव एव च । स्वस्तिकं चोर्ध्वरेखा च अष्टकोणस्तथैव च ॥ सप्तान्यानि प्रवक्ष्यामि साम्प्रतं वैष्णवोत्तम । इन्द्रचापं त्रिकोणं च कलसं चार्धचन्द्रकम् ॥ अम्बरं मत्स्यचिह्नं च गोष्पदं सप्तमं स्मृतम् । अङ्कान्येतानि भो विद्वन् दृश्यन्ते तु यदा कदा ॥ कृष्णाख्यं तु परं ब्रह्म भुवि जातं न संशयः । द्वयं वाथ त्रयं वाथ चत्वारः पञ्च एव वा ॥ दृश्यन्ते वैष्णवश्रेष्ठ अवतारे कथञ्चन ॥ इत्यादि । षोडशं तु तथा चिह्नं शृणु देवर्षिसप्तम् । जम्बूफलसमाकारं दृश्यते यत्र कुत्रचित् ॥ इत्यन्तम् । षर्वसंवादिनी: अथ शृणु नारद प्रवक्ष्यामीत्य्आदिचरणचिह्न प्रतिपादकपाद्मवचनान्तमादिशब्दादेतान्यपि पद्यानि ज्ञेयानि । मध्ये ध्वजा तु विज्ञेया पद्मं त्र्याङ्गुलमानतः । वज्रं वै दक्षिणे पार्श्वे अङ्कुशो वै तद्अग्रतः ॥ यवोऽप्यङ्गुष्ठमूले स्यात्स्वस्तिकं यत्र कुत्रचित् । आदिं चरणमारभ्य यावद्वै मध्यमा स्थिता ॥ तावद्वै चोर्ध्वरेखा च कथिता पाद्मसंज्ञके । अष्टकोणं तु भो वत्स मानं चाष्टाङ्गुलैश्च तत् ॥ निर्दिष्टं दक्षिणे पादे इत्याहुर्मुनयः किल । एवं पादस्य चिह्नानि तान्येव वैष्णवोत्तम ॥ दक्षिणेतरस्थानानि संवदामीह साम्प्रतम् । चतुरङ्गुलमानेन त्वङ्गुलीनां समीपतः ॥ इन्द्रचापं ततो विद्यादन्यत्र न भवेत्क्वचित् । त्रिकोणं मध्यनिर्दिष्टं कलसो यत्र कुत्रचित् ॥ अष्टाङ्गुलप्रमाणेन तद्भवेदर्धचन्द्रकम् । अर्धचन्द्रसमाकारं निर्दिष्टं तस्य सुव्रत ॥ बिन्दुर्वै मत्स्यचिह्नं च आद्यन्ते वै निरूपितम् । गोष्पदं तेषु विज्ञेयमाद्याङ्गुलप्रमाणतः ॥ इत्यादि । तद्अग्रे च षोडशं तु तथा चिह्नं शृणु देवर्षिसत्तम । जम्बूफलसमाकारं दृश्यते यत्र कुत्रचित् । तच्चिह्नं षोडशं प्रोक्तमित्याहुर्मुनयोऽनघाः ॥ इति । अत्र वैष्णवोत्तमेत्य्आदिकं श्रीनारदसम्बोधनम् । यदा कदेति यदा कदाचिदेवेत्यर्थः । मध्यमापार्ष्णिपर्यन्तयोः समदेशो मध्यस् तत्र ध्वजा ध्वजः । त्र्य्अङ्गुलमानतः । पादाग्रे त्र्य्अङ्गुलप्रमाण देशं परित्यज्येत्यर्थः । पद्यस्याधो ध्वजं धत्ते सर्वानर्थजय ध्वजमिति स्कान्दसंवादात् । अत्र कुत्रचित्परित इत्यर्थः आदिमङ्गुष्ठ तर्जनीसन्धिमारभ्य मध्यमा यावत्तावदूर्ध्वरेखा व्यवस्थिता पाद्मसंज्ञके पुराणे कथितेत्यर्थः । अष्टाङ्गुलैर्मानं तदिति मध्यमाङ्गुल्य्अग्राद् अष्टाङ्गुलमानं परित्यज्येत्यर्थः । तावद्विस्तारत्वेन व्याख्यायां स्थानासमावेशः । अतएव पूर्वमपि तथा व्याख्यातम् । एवमुत्तरत्रापि ज्ञेयम् । इन्द्रचापं त्रिकोणार्धचन्द्रकाणि क्रमादधोऽअधोभाग स्थानानि । अन्यत्रेति । श्रीकृष्णादन्यत्रेत्यर्थः । बिन्दुरम्बरम् । आदौ चरणस्यादिदेश तद्अङ्गुलसमीपे बिन्दुः । अन्ते पार्ष्णिदेशे मत्स्यचिह्नं षोडशचिह्नमुभयोरपि ज्ञेयम् । दक्षिणाद्य्अनियमेनोक्तत्वात् । अत्र दक्षिणाङ्गुष्ठाधश्चक्रं वामाङ्गुष्ठाधस्तन्मुखं दरं च स्कान्दोक्तानुसारेण । ते हि श्रीकृष्णेऽप्यन्यत्र श्रूयते । यथा आदिवाराहे मथुरामण्डलमाहात्म्ये यत्र कृष्णेन संकीर्णं क्रीडितं च यथासुखम् । चक्राङ्कितपदा तेन स्थाने ब्रह्ममये शुभे ॥ इति । श्रीगोपालतापन्यां शङ्खध्वजातपत्रैस्तु चिह्नितं च पदद्वयम् [ङ्टू २.६२] इति । आतपत्रमिदं चक्राधस्ताज्ज्ञेयम् । दक्षिणस्य प्राधान्यात् तत्रैव स्थानसमावेशाच्च । अङ्गुलिपरिमाणमात्रदैर्घ्याच् चतुर्दशांशेन तद्विस्तारात् । षष्ठांशेन ज्ञेयम् । अन्यत्र दैर्घ्ये चतुर्दशाङ्गुलिपरिमाणत्वेन विस्तारे षड्अङ्गुलिपरिमाणत्वेन प्रसिद्धेर् इति । [एन्द्षर्वसंवादिनी] तस्मादस्त्येव स्वयं भगवत्त्वं श्रीकृष्णस्यैव । [Vऋ. हेरे रेअद्स् तथा च ब्रह्मवैवर्ते भगवद्अवतारप्रसङ्गे सूत वाक्यम् अवतारा ह्यसङ्ख्येया आसन् सत्त्वस्वभाविनः । विशतिस्तेषु मुख्यान् यान् श्रुत्वा मुच्येन्महांहसः ॥ इत्यादिना प्रायशः श्रीभागवतवत्श्रीकृष्णसंहितांस्तान् गणयित्वा पुनराह नरसिंहादयोऽन्येऽपि सर्वपापविनाशनाः । यद्विभूतिविशेषेणालङ्कृतं भुवि जायते । तत्सर्वमवगन्तव्यं कृष्णांशांशसमुद्भवम् ॥ [एन्द्Vऋ. सेच्तिओन्] तदित्थं सर्वमभिप्रेत्य महोपक्रमं श्लोकमेव श्रीविष्णुपुराणीय भगवच्छब्दनिरुक्तिवत्साक्षात्श्रीकृष्णाभिधेयत्वेनापि योजयति जन्माद्यस्य [भागवतम् १.१.१] इति । नराकृति (पगे ३४) परं ब्रह्म इति [Vऋ. रेअद्स्हेरे: पुराणवर्गात्, तस्मात् कृष्ण एव परो देवः [ङ्टू १.४९] इति गोपालतापनीश्रुतेश्च । [एन्द्Vऋ. अद्दितिओन्] परं श्रीकृष्णं धीमहि । अस्य स्वरूपलक्षणमाह सत्यमिति । सत्यव्रतं सत्यपरं त्रिसत्यम् [भागवतम् १०.२.२६] इत्यादौ तथाश्रुतत्वात् । [Vऋ. रेअद्स्हेरे: “ सत्ये प्रतिष्ठितः कृष्णः सत्यमत्र प्रतिष्ठितम् । सत्यात्सत्यं च गोविन्दस्तस्मात्सत्यो हि नामतः ॥ [ंभ्५.६८.१२] इत्युद्यमपर्वणि सञ्जयकृतश्रीकृष्णनामनिरुक्तौ च तथा श्रुतत्वात् । [एन्द्Vऋ. अद्दितिओन्] एतेन तद्आकारस्याव्यभिचारित्वं दर्शितम् । तटस्थलक्षणमाह धाम्ना स्वेन इत्याह । स्वेन स्वस्वरूपेण धाम्ना श्रीमथुराख्येन सदा निरस्तं कुहकं मायाकार्यलक्षणं येन तम् । मथ्यते तु जगत्सर्वं ब्रह्मज्ञानेन येन वा । तत्सारभूतं यद्यस्यां मथुरा सा निगद्यते ॥ [ङ्टू २.६६] इति गोपालोत्तरतापनीप्रसिद्धेः । लीलामाह आद्यस्य नित्यमेव श्रीमद्आनकदुन्दुभिव्रजेश्वर नन्दनतया श्रीमथुराद्वारकागोकुलेषु विराजमानस्यैव तस्य कस्मैचिदर्थाय लोके प्रादुर्भावापेक्षया । यतः श्रीमद्आनकदुन्दुभि गृहाज्जन्म तस्माद्य इतरतश्च इतरत्र श्रीव्रजेश्वरगृहेऽपि अन्वयात् पुत्रभावतस्तद्अनुगतत्वेनागच्छत् । उत्तरेणैव य इति पदेनान्वयः । यत इत्यनेन तस्मादिति स्वयमेव लभ्यते । कथमन्वयात्? तत्राह अर्थेषु कंसवञ्चनादिषु तादृशभाववद्भिः श्रीगोकुलवासिभिरेव सर्वानन्दकदम्बकादम्बिनीरूपा सा सा कापि लीला सिध्यतीति तल्लक्षणेषु वा अर्थेषु अभिज्ञः । ततश्च स्वराट्स्वैर् गोकुलवासिभिरेव राजते इति । तत्र तेषां प्रेमवशतामापन्नस्याप्य् अव्याह । तद्ऐश्वर्यमाह तेन इति । य आदिकवये ब्रह्मणे ब्रह्माणं विस्मापयितुं हृदा सङ्कल्पमात्रेणैव ब्रह्मसत्यज्ञानानन्तानन्द मात्रैकरसमूर्तिमयं वैभवं तेने विस्तारितवान् । यद्यतस्तथाविध लौकिकालौकिकतासमुचितलीलाहेतोः सूरयस्तद्भक्ता मुह्यन्ति प्रेमातिशयोदयेन वैवश्यमाप्नुवन्ति । यदित्युत्तरेणाप्यन्वयात् । यद् यत एव तदृशलीलातस्तेजोवारिमृदामपि यथा यथावद्विनिमयो भवति । तत्र तेजसश्चान्द्रादेर्विनिमयो निस्तेजोवस्तुभिः सह धर्मपरिवर्तः । तत्श्रीमुखादिरुचा चन्द्रादेर्निस्तेजस्त्वाविधानात्निकटस्थनिस्तेजो वस्तुनः स्वभासा तेजस्वितापादनाच्च । तथा वारि द्रवश्च कठिनं भवति । वेणुवाद्येन मृत्पाषाणादिः द्रवतीति । यतः श्रीकृष्णे त्रिसर्गः श्रीगोकुलमथुराद्वारकावैभवप्रकाशः अमृषा सत्य एवेति । ॥ १.१ ॥ वेदव्यासः ॥ ८२ ॥ [८३] एवं सर्वोपसंहारवाक्यमपि तत्रैव संगच्छते कस्मै येन विभासित इत्यादि [भागवतम् १२.१३.१९] । यो ब्रह्माणं विदधाति पूर्वं यो विद्यास्तस्मै गापयति स्म कृष्णः । तं हि देवमात्मबुद्धिप्रकाशं मुमुक्षुर्वै शरणममुं व्रजेत् ॥ [ङ्टू १.२६] इति गोपालपूर्वतापनीश्रुतेः । व्याकृतं च द्वितीयसन्दर्भे तस्यैव चतुः श्लोकीवक्तृत्वमपि ॥ ॥ १२.१३ ॥ श्रीसूतः ॥ ८३ ॥ [८४] तदेवमभ्यासादीन्यपि तस्मिन् विस्पष्टान्येव पूर्वोदाहृतवाक्येषु । तद् एतत्श्रीमद्गीतागोपालतापन्यादिशास्त्रगणसहायस्य निखिलेतरशास्त्र शतप्रणतचरणस्य श्रीभागवतस्याभिप्रायेण श्रीकृष्णस्य स्वयं भगवत्त्वं करतल इव दर्शितम् । श्रीभागवतस्य च स (पगे ३५) एव प्रतिपाद्य इति पुराणान्तरेणैव च स्वयं व्याख्यातम् । यथा ब्रह्माण्ड पुराणे श्रीकृष्णाष्टोत्तरशतनामामृतस्तोत्रे श्रीकृष्णस्य नामविशेष एव शुकवाग्अमृताब्धीन्दुरिति । अथ तस्य महावासुदेवत्वे सिद्धे श्रीबलदेवादीनामपि महा संकर्षणादित्वं स्वत एव सिद्धम् । यद्रूपः स्वयं भगवान् तद्रूपा एव ते भवितुर्महन्तीति । अतः श्रीबलरामस्य यत्कश्चिदावेशावतारत्वं मन्यते तदसत् । दृश्यते च श्रीकृष्णरामयोर्युगलतया वर्णनेन सम प्रकाशत्वम् तावङ्घ्रियुग्ममनुकृष्य सरीसृपन्तौ [भागवतम् १०.८.२२], यद् विश्वेश्वरयोर्याच्ञां [भागवतम् १०.२३.३७], ददर्श रामं कृष्णं च [भागवतम् १०.३८.२७], तौ रेजतू रङ्गगतौ महाभुजौ [भागवतम् १०.४३.१९] इत्यादौ । लोकेऽपि सूर्यचन्द्रमसावेव युगलतया वर्ण्येते । न तु सूर्यशुक्रौ । अतएव हरिवंशेऽपि वासुदेवमाहात्म्ये रामकृष्णयोर्दृष्टान्तः सूर्याचन्द्रमसाविति । तथा ध्वजवज्राङ्कुशाम्भोजैश्चिह्नितैरङ्घ्रिभिर् व्रजम् । शोभयन्तौ महात्मानौ [भागवतम् १०.३८.३०] इत्येवं भगवल्लक्षणान्य् अपि तत्र श्रूयन्ते, न त्वेवं पृथ्व्आदिषु । तस्मादेष तन्महिमापि वर्ण्यते नैतच्चित्रं भगवति ह्यनन्ते जगद्ईश्वरे । ओतं प्रोतमिदं यस्मिंस्तन्तुष्वङ्ग यथा पटः ॥ [भागवतम् १०.१५.३५] स्पष्टम् ॥ १०.१५ ॥ श्रीशुकः ॥ ८४ ॥ [८५] किं च सप्तमो वैष्णवं धाम यमनन्तं प्रचक्षते । गर्भो बभूव देवक्यां हर्षशोकविवर्धनः ॥ [भागवतम् १०.२.५] गर्भो बभूव न तु गर्भे बभूवेति सप्तम्य्अन्तानुक्त्या साक्षाद् एवावतारत्वं सूचितम् ॥ ॥ १०.२ ॥ स एव ॥८५॥ [८६] अत इदमप्येवमेव व्याख्येयम् वासुदेवकलानन्तः सहस्रवदनः स्वराट् । अग्रतो भविता देवो हरेः प्रियचिकीर्षया ॥ [भागवतम् १०.१.२४] श्रीवसुदेवनन्दनस्य वासुदेवस्य कला प्रथमोऽंशः श्रीसंकर्षणः । तस्य श्रीसंकर्षणत्वं स्वयमेव न तु संकर्षणावतारत्वेनेत्याह स्वराट्स्वेनैव राजते इति । अतएवानन्तः कालदेशपरिच्छेदरहितः । अतएव मायया तस्य गर्भसमय आकर्षणं च युक्तम् । पूर्णस्य वास्तवाकर्षणासम्भवादिति केचित् । एतद्विधकार्ये च तद् अकुण्ठेच्छात्मकचिच्छक्त्य्आविष्टैव सा प्रभवेत् । उक्तं च तदानीं तद् आविष्टत्वं तस्याः आदिष्टा प्रभुनांशेन कार्यार्थे सम्भविष्यति [१०.१.२५] इति । मिलिष्यतीति तत्र ह्यर्थः । अतएव एकानंशेति । तस्या नाम । एकोऽनंशो यत्रेति निरुक्तिरिति केचित् । य एव शेषाख्यः सहस्रवदनोऽपि भवति । यतो देवो नानाकारतया दीव्यतीति । तद्उक्तं श्रीयमुनादेव्या राम राम महाबाहो न जाने तव विक्रमम् । यस्यैकांशेन विधृता जगती जगतः पतेः ॥ [भागवतम् १०.६५.२८] इति । एकांशेन शेषाख्येन इति टीका च । अन्यथा तद्एकावयवैकदेश रूपार्थत्वे येनैकांशेनेति यच्छब्दस्य करृत्वनिर्देश एव युक्तः स्यात् । तद्अंशावयवैकदेशरूपार्थत्वे येनैकांशेनेति यच्छब्दस्य कर्तृत्व निर्देश एव युक्तः स्यात् । तद्अंशावतारलक्षणार्थान्तरप्रतीतिनिरसनाय महाविद्वद्वाक्यत्वात् । सम्बन्धनिर्देशेन तु टीकाव्याख्यैव स्फुटतरा । एकांशे मुख्यस्यैव (पगे ३६) कर्तृत्वस्य निर्वाजप्रतीतिर्न त्वौपचारिकस्येति । एवं श्रीलक्ष्मणस्याप्यन्तिमदशानुकरणस्याप्यन्तिमदशानुकरण लीलायां श्रूयते स्कान्दीयायोध्यामाहात्म्ये ततः शेषात्मतां यातं लक्ष्मणं सत्यसङ्गरम् । उवाच मधुरं शक्रः सर्वस्य च सः पश्यतः ॥ इन्द्र उवाच लक्ष्मणोत्तिष्ठ शीघ्रं त्वमारोहस्व पदं स्वकम् । देवकार्यं कृतं वीर त्वया रिपुनिसूदन ॥ वैष्णवं परमं स्थानं प्राप्नुहि स्वं सनातनम् । भवन्मूर्तिः समायाता शेषोऽपि बिलसत्फणः ॥ इत्यादि । ततश्च इत्युक्त्वा सुरराजेन्द्रो लक्ष्मणं सुरसङ्गतः । शेषं प्रस्थाप्य पाताले भूभारधरणक्षमम् ॥ लक्ष्मणं यानमारोप्य प्रतस्थे दिवमादरात् ॥ इति । अतो नारायणवर्मण्यपि यज्ञश्च लोकादवतात्कृतान्ताद्बलो गणात् क्रोधवशादहीन्द्रः ॥ इति बलदेवस्य शेषादन्यत्वं शक्त्य्अतिशयश्च दर्शितः । जनान्तादिति पाठेऽपि जनानां नाशादिति स एवार्थः । अतः शेषाख्यं धाम मामकमिति [भागवतम् १०.२.८] इत्यत्रापि शिष्यते शेषसंज्ञ इतिवतव्यभिचार्यांश एवोच्यते । सेषस्याख्या ख्यातिर्यस्मादिति वा । श्रीमद्आनकदुन्दुभिना च श्रीकृष्णसाम्येनैव निर्दिष्टम् युवां न नः सुतौ साक्षात्प्रधानपुरुषेश्वरौ [भागवतम् १०.८५.१८] इति । अत्र साक्षादेवेति त्वधिकमुपजीव्यम् । अथ यदि प्रायो मायां तु मे भर्तुर्नान्या मेऽपि विमोहिनी [भागवतम् १०.१३.३७] तद् वाक्यानुसारेणावेशावतारत्वं मन्तव्यं तदा पूर्वग्रन्थबलात्श्री बलदेवे स्वांशत्वमेवेति, किन्तु शेषाख्यतद्आविष्टपार्षदविशेषस्य तद् अन्तःपातात्तद्अंशेनैव तद्व्यवहार इत्यपि मन्तव्यम् ॥ [Vऋ. रेअद्स्हेरे: तदेवमेकरूपत्वेऽपि प्रायो मायां तु मे भर्तुर्नान्या मेऽपि विमोहिनी इत्यादौ यत्तस्मिंस्तस्य भक्तिः श्रूयते तत्तु लक्ष्म्या इव द्रष्टव्यम् । [एन्द्Vऋ. अद्दितिओन्] ॥ १०.२ ॥ श्रीब्रह्मा देवान् ॥ ८६ ॥ [८७] अथ श्रीप्रद्युम्नस्यापि शिवनेत्रदग्धः स्मरो जातोऽयमिति यच्छ्रूयते तदप्येकदेशप्रस्तावमात्रम् । तस्य श्रीगोपालतापनीश्रुत्य्आदौ यत्रासौ संस्थितः कृष्णस्त्रिभिः शक्त्या समाहितः । रामानिरुद्धप्रद्युम्नै रुक्मिण्या सहितो विभुः ॥ [ङ्टू २.३६] इत्यादिना नित्यश्रीकृष्णचतुर्व्यूहान्तःपातिततया प्रसिद्धेस्तथा सम्भवाभावात् । तस्य स्मरस्यापि साधारणदेवताविशेषमात्रत्वेन प्रसिद्धत्वे चतुर्व्यूहान्तःपातितायामयोग्यतमत्वात् । तस्माद् वक्ष्यमाणाभिप्रायेणैवैतदाह कामस्तु वासुदेवांशो दग्धः प्राग्रुद्रमन्युना । देहोपपत्तये भूयस्तमेव प्रत्यपद्यत ॥ [भागवतम् १०.५५.१] अवेदज्ञस्यापि ब्राह्मण्ये सत्येव ब्राह्मणस्तु वेदज्ञ इतिवत्तु शब्दोऽत्र मुख्यतां सूचयति । ततः कामस्तु वासुदेवांश इत्यस्य वासुदेवांशो यः कामः स एव मुख्य इत्यर्थः । तुशब्दोऽयं भिन्नोपक्रमे वा । ततो वासुदेवांशस्तु काम इत्यन्वयेऽपि पूर्ववदेवार्थः । तदेवं सति यः प्राग्रुद्रस्य मन्युना दग्धो देवताविशेषः कामः स देहोपपत्तये तत् कोपदग्धतया नित्यमेवानङ्गतां प्राप्तस्य स्वतो देहापत्त्य्अभावाद् देहप्राप्त्य्अर्थं तमेव वासुदेवांशं प्रद्युम्नाख्यं काममेव प्रत्यपद्यत प्रविष्टवान् । भूयःशब्देन प्रद्युम्नादेव पूर्वमप्य् उद्भूतोऽसाविति बोध्यते । यद्वा यस्तु प्राग्रुद्रकोपेनादग्धो न दग्धः स भूयः प्रकटलीलायां देहोपपत्तये (पगे ३७) स्वमूर्ति प्रकाशनार्थं, तं वासुदेवमेव प्रविष्टवान् । अदग्धत्वे हेतुर् वासुदेवांश इति ॥ [८८] पूर्वोक्तमेव व्यनक्ति स एव जातो वैदर्भ्यां कृष्णवीर्यसमुद्भवः । प्रद्युम्न इति विख्यातः सर्वतोऽनवमः पितुः ॥ [भागवतम् १०.५५.२] यः कृष्णवीर्यसमुद्भवो यश्च प्रद्युम्न इति विख्यातः, स एव प्रकट लीलावसरेऽपो वैदर्भ्यां जात आविर्भूतः । न त्वन्यः प्राकृतकाम एव । तत्र हेतुः सर्वतो गुणरूपादिष्वशेषेष्वेव धर्मेषु पितुः श्रीकृष्णाद् अनवमः तुल्य एवेति । अन्यथा तादृशानवमत्वं न कल्पत इति भावः । तस्माद्यथा महाभारते सर्वत्र श्रीमद्अर्जुनस्य नरत्वप्रसिद्धावपि पञ्चेन्द्रोपाख्याने इन्द्रत्वप्रसिद्धिः इन्द्रस्यापि तत्र प्रवेशविवक्षया घटते तद्वदत्रापि । अतः श्रीनारदेन रत्यै तथोपदेशस्तथा तत्प्राप्तिश्च न दोषाय । पूर्व पद्यस्य उत्तरस्मिन्नर्थे श्रीनारदोपदेशबलेनैव दग्धकामस्य प्रवेशस्तत्र गम्यः । ततः साक्षात्प्रद्युम्नसङ्गमे योग्यता चास्याः स्पर्शमणिवत्तत्सामीप्यगुणादेव मन्तव्या । श्रीप्रद्युम्नस्य निज शक्तिस्तु श्रीमद्अनिरुद्धमातैवेति ज्ञेयम् । अतः तापनीश्रुतिलब्धोऽर्थः समञ्जसः ॥ ॥ १०.५५ ॥ श्रीशुकः ॥ ८७८८ ॥ [८९] एवमनिरुद्धस्यापि साक्षाच्चतुर्व्यूहत्वे लिङ्गमाह अपि स्विदास्ते भगवान् सुखं वो यः सात्वतां कामदुघोऽनिरुद्धः । यमामनन्ति स्म हि शब्दयोनिं मनोमयं सत्त्वतुरीयतत्त्वम् ॥ [भागवतम् ३.१.३४] शब्दयोनिं निश्वासव्यञ्जितवेदवृन्दम् । एवं वा अरे अस्य महतो भूतस्य निश्वसितमेतद्यदृग्वेदः [Bआऊ २.४.१०] इत्यादिश्रुतेः । मनोमयं चित्ते वासुदेववन्मनस्युपास्यम् । सत्त्वं शुद्धसत्त्वात्मकः श्रीवासुदेवादि रूपो भगवान् तत्र तुरीयं रूपम् । अतो बाणयुद्धादौ बन्धनानुकरणादिकमात्मेच्छामयी लीलैव श्रीरामचन्द्रादिवत् । अस्य पाद्मबृहत्सहस्रनाम्नि माहात्म्यनामानि चैतानि अनिरुद्धो बृहद्ब्रह्म प्राद्युम्निर्विश्वमोहनः । चतुर्आत्मा चतुर्वर्णश्चतुर्युगविधायकः ॥ चतुर्भेदैकविश्वात्मा सर्वोत्कृष्टांशकोटिसूः । आश्रयात्मा... ॥ इति । अतः श्रीकृष्णव्यूहत्वेन महानिरुद्धत्वादस्यैवाविर्भावविशेषः प्रलयार्णवादिधामा पुरुष इति ज्ञेयम् । अत एवाभेदेन जगृहे पौरुषं रूपं भगवान् [भागवतम् १.३.१] इत्य्आद्य्उक्तं मूलसङ्कर्षणाद्य्अंशैरेव हीतरसङ्कर्षणाद्य्अवस्थात्रयं पुरुषं प्रकाशयतीति । तथैवाभेदेन विष्णुधर्मोत्तरेऽपीदमुक्तं तत्र । श्रीवज्रप्रश्नः कस्त्वसौ बालरूपेण कल्पान्तेषु पुनः पुनः । दृष्टो यो न त्वया ज्ञातस्तत्र कौतूहलं मम ॥ श्रीमार्कण्डेयोत्तरं च भूयो भूयस्त्वसौ दृष्टो मया देवो जगत्पतिः । कल्पक्षयेण विज्ञातः स मायामोहितेन वै ॥ कल्पक्षये व्यतीते तु तं देवं प्रपितामहात् । अनिरुद्धं विजानामि पितरं ते जगत्पतिम् ॥ इति । [१.७९.१३] [Vऋ. अद्द्स्हेरे: भीष्मपर्वणि दुर्योधनं प्रति भीष्मशिक्षायां श्री कृष्णस्यावतारारम्भे गन्धमादनमागतस्य ब्रह्मणस्तद्आविर्भावं मनसि पश्यतस्तु बालस्य तदिदं वचनम् सृष्ट्वा संकर्षणं देवं स्वयमात्मानमात्मना । कृष्ण त्वमात्मनास्राक्षीः प्रद्युम्नं चात्मसंभवम् ॥ प्रद्युम्नाच्चानिरुद्धं त्वं यं विदुर्विष्णुमव्ययम् । अनिरुद्धोऽसृजन्मां वै ब्रह्माणं लोकधारिणम् ॥ वासुदेवमयः सोऽहं त्वयैवास्मि विनिर्मितः ॥ [ंBह्६.६१.६५६७] [Vऋ अद्दितिओन् एन्द्स्] अतएव च पूर्वमपि च जगृहे पौरुषं रूपमित्यत्र श्रीकृष्णस्य अनिरुद्धावतारान्तःपातित्वं न व्याख्यातम् ॥ ॥ ३.१ ॥ विदुरः श्रीमद्उद्धवम् ॥ ८९ ॥ [९०] तदेतत्तस्य चतुर्व्यूहात्मकस्यैव पूर्णत्वं व्याख्यातम् । श्री गोपालोत्तरतापन्यामपि (पगे ३८) तथैवायं प्रणवार्थत्वेन दर्शितः रोहिणीतनयो रामो अकाराक्षरसम्भवः । तैजसात्मकः प्रद्युम्नो उकाराक्षरसम्भवः ॥ प्राज्ञात्मकोऽनिरुद्धो मकाराक्षरसम्भवः । अर्धमात्रात्मकः कृष्णो यस्मिन् विश्वं प्रतिष्ठितम् ॥ इति [ङ्टू २.५५५६] अथ श्रीकृष्णेऽवतरति तत्तद्अंशावताराणामपि प्रवेश इति यदुद्दिष्टं तद्यथा अत्र कृष्णस्तु भगवान् स्वयमित्यादिकं सिद्धमेव तथा तस्य तद्रूपेणैव श्रीवृन्दावनादौ सर्वदावस्थायित्वं प्रतिपादयिष्यामः । अथ च श्रीहरिवंशमते उपेन्द्र एवावततारेति । जयविजयशापप्रस्तावे च यास्यामि भवनं ब्रह्मन्नेतद्अन्ते एवानघ [भागवतम् ११.३.३१] इत्यत्र च पाहि वैकुण्ठकिङ्करान् [भागवतम् ११.६.२७] इत्यत्र च स्वामिव्याख्यानुसारेण विकण्ठासुत एवेति क्वचित्क्षीरोदशाय्य एवेति क्वचित्पुरुष एवेति, क्वचिन् नारायणर्षिरेवेति बृहत्सहस्रनाम्नि लक्ष्मणस्यैव बलरामत्व कथनेन श्रीराघव एवेति क्वचिन्नारायणकेश एवेत्यादिकं नाना विधत्वं श्रूयते । एवं चैकं सन्धित्सतोऽन्यत्प्रच्यवतोऽत्र सत्यं च सर्वं वाक्यम् । [Vऋ. अद्द्स्: यथा स्वमत्य्अनुभवानुरूपात्नानावाक्यैकवाक्यता च । यथा क्रममुक्तिमार्गेऽर्चिर्आदिक्रम एवाङ्गी, नाडीरश्म्य्आदिमार्गास् तु तद्अङ्गत्वेनैव अर्चिर्आदिना तत्प्रथितेः [Vस्. ४.३.१] इति सूत्रे स्वीक्रियन्ते तद्वत् । यतः स्वयं भगवत्यवतरति सर्वेऽपि ते प्रविष्टा इति यदा यत् किञ्चिद्येनानुभूतम्, तदा तेन तदेव निर्दिष्टमिति । [Vऋ. एन्द्स्हेरे.] तस्माद्विद्वद्भिरेवं विचार्यताम् स्वयं भगवति तस्मिन् प्रवेशं विना कथं तत्सम्भवेदिति । दृश्यते च तस्मात्केषांचिदंशानां पुनर् आविर्भावः यथा प्रद्युम्नादीनाम् । अतएव विकुण्ठासुतस्य प्रवेशाभिप्रायेणैव शिशुपालदन्तवक्रयोः श्रीकृष्णसायुज्यमेव तदानीं जातम् पुनरवतारलीलामाप्तौ श्रीविकुण्ठासुते स्वधाम गते पार्षदत्वप्राप्तिः । यथोक्तं श्रीनारदेन वैरानुबन्धतीव्रेण ध्यानेनाच्युतसात्मताम् । नीतौ पुनर्हरेः पार्श्वं जग्मतुर्विष्णुपार्षदौ ॥ [भागवतम् ७.१.४६] इति । तथा हरिवंशे च क्षीरोदशायिनो मुकुटे दैत्यापहृते दैत्यमारणाय गरुडो यावत्कृतविलम्बस्तावत्श्रीकृष्णोऽवततार । ततश्चासौ मुकुटम् आहृत्य तत्र चोर्ध्वलोके कुत्रापि भगवन्तमदृष्ट्वा गोमन्तशिरसि श्री कृष्णायैव समर्पितवानिति प्रसिद्धिः । [Vऋ. अद्द्स्: एवमेव बलिसद्गतयोः श्रीकृष्णरामयोस्तद्द्वारस्थविष्णु दर्शनम् । किन्तु तत्तद्वाक्यार्थपर्यालोचनया केषांचिन्मूर्त्य्आकर्षणं हरिवंशगतगिरिगुहाशयनपर्यालोचनया तु तच्छक्त्य्आकर्षणमिति लभ्यते । तच्च तदानीमात्मनि सर्वेषामेव भक्तानामेकतानताकृति लीलाकौतुकार्थमेवेति च गम्यते । [Vऋ. अद्दितिओनेन्द्स्हेरे.] अतो यथा क्रममुक्तिमार्गेऽर्चिर्आदिक्रम एवाङ्गी नाडीरश्म्य्आदिविधि क्रमस्तु तद्अङ्गत्वेनैव प्रस्तूयते तद्वदिहापीति । अर्चिर्आदिना तत् प्रथितेः [Vस्. ४.३.१] इत्येष न्यायोऽत्र दृष्टान्तयितव्यः । त्वं ब्रह्म परमं व्योम पुरुषः प्रकृतेः परः । अवतीर्णोऽसि भगवन् स्वेच्छोपात्तपृथग्वपुः ॥ [भागवतम् ११.११.२८] (पगे ३९) साक्षाद्भगवानेव त्वमवतीर्णोऽसि । भगवत एव वैभवमाह ब्रह्मत्वं परमव्योमाख्यो वैकुण्ठस्त्वं प्रकृतेः परः पुरुषोऽपि त्वमिति । भगवानपि कथम्भूतः सन्नवतीर्णः । [Vऋ. अद्द्स्: स्वेच्छामयस्य इत्यनुसारेण स्वेषां सर्वेषामेव भक्तानां या इच्छा तां पूरयितुमुपात्तानि ततस्ततः स्वतः आकृष्टानि पृथग्वपूंषि निजतत्तद्आविर्भावा येन तथाभूतः सन्निति । तं प्रति यथाह जाम्बवान् यस्येषद्उत्कलितरोषकटाक्षमोक्षैर् वर्त्मादिशत्क्षुभितनक्रतिमिङ्गिलोऽब्धिः । सेतुः कृतः स्वयश उज्ज्वलिता च लङ्का रक्षःशिरांसि भुवि पेतुरिषुक्षतानि ॥ [भागवतम् १०.५६.५८] यथा च देवाः केतुस्त्रिविक्रमयुतस्त्रिपतत्पताको यस्ते भयाभयकरोऽसुरदेवचम्वोः । स्वर्गाय साधुषु खलेष्वितराय भूमन् पादः पुनातु भगवन् भजतामघं नः ॥ [भागवतम् ११.६.१३] यथा वा ब्रह्मा नारायणस्त्वमित्यादौ नारायणोऽङ्ग नरभूजलायनात् [भागवतम् १०.१४.४] इति । अतएवाक्रूरः अद्भुतानीह यावन्ति भूमौ वियति वा जले । त्वयि विश्वात्मके तानि किं मेऽदृष्टं विपश्यतः ॥ [भागवतम् १०.४१.४] अतएव गोविन्दभुजगुप्तायां द्वारवत्यां कुरूद्वह । अवात्सीन्नारदोऽभीक्ष्णं कृष्णोपासनलालसः ॥ [भागवतम् ११.२.१] [Vऋ. अद्दितिओन् एन्द्स्हेरे.] स्वेच्छयोपात्तानि ततस्तत आकृष्टानि पृथग्वपूंषि निजतत्तद्आविर्भावा येन तथाभूतः सन्निति । ॥ ११.११ ॥ उद्धवः श्रीभगवन्तम् ॥ ९० ॥ [९१] तदेवं प्रमाणवत्त्वे प्रयोजनवत्त्वे स्थिते तमेव प्रवेशमाह स्वशान्तरूपेष्वितरैः स्वरूपैर् अभ्यर्द्यमानेष्वनुकम्पितात्मा । परावरेशो महद्अंशयुक्तो ह्यजोऽपि जातो भगवान् यथाग्निः ॥ [भागवतम् ३.२.१५] तच्च जन्म निजतत्तद्अंशान्यादायैवेत्याह महद्अंशयुक्तः । महतः स्वस्यैवांशैर्युक्तः । महान्तं विभुमात्मानम् [Kअठू १.२.२२] इत्यादि श्रुतेः, महच्चेति [Vस्१.४.८] न्यायप्रसिद्धेश्च । महान्तो ये पुरुषादयोऽंशास्तैर्युक्त इति वा । लोकनाथं महद्भूतमितिवद् आत्मत्वाव्यभिचारः । महद्भिरंशिभिरंशैश्च युक्त इति वा ॥ ॥ ३.२ ॥ विदुरं श्रीमद्उद्धवः ॥ ९१ ॥ [९२] तथैवमथाहमंशभागेन [भागवतम् १०.२.९] इत्यादावप्येवं व्याख्येयम् । अंशानां भागो भजनं प्रवेशो यत्र तेन परिपूर्णरूपेण । अंशानां भजनेन लक्षितो वा प्राप्स्यामीति प्रकटलीलाभिप्रायेण भविष्यन्निर्देशः । अतएव तद्अवतारसमये युगावताराश्च स एवेत्य् अभिप्रेत्याह आसन् वर्णास्त्रयो ह्यस्य गृह्णतोऽनुयुगं तनूः । शुक्लो रक्तस्तथा पीत इदानीं कृष्णतां गतः ॥ [भागवतम् १०.८.१३] अस्य तव पुत्रस्य प्रतियुगं तनुः युगावतारलीलावतारान् गृह्णतः प्रकटयतो यद्यपि शुक्लादयस्त्रयोऽप्यन्ये वर्णा आसन् तथापि इदानीम् अस्य प्रादुर्भाववति अस्मिन् द्वापरे तु स शुक्लो युगावतारस्तथा रक्तः पीतोऽपि । एतदप्युपलक्षणमन्यद्वापरयुगावतारः (पगे ४०) शुक पक्षवर्णोऽपि कृष्णतामेव गत एतस्मिन्नन्तर्भूत इत्यर्थः । तस्मात् कृष्णीकर्तृत्वात्स्वयं कृष्णत्वात्सर्वाकर्षकत्वाच्च कृष्ण इत्येकमस्य नामेति प्राकरणिकोऽप्यर्थः श्रेयान् । तदानीं श्रीकृष्णस्यैव द्वापर युगावतारत्वं श्रीकरभाजनेन युगावतारोपासनायामुक्तम्, न तु द्वापरान्तरवच्छुकपक्षवर्णस्यान्यस्य द्वापरे भगवाञ्श्यामः पीतवासा निजायुधः । श्रीवत्सादिभिरङ्कैश्च लक्षणैरुपलक्षितः ॥ तं तदा पुरुषं मर्त्या महाराजोपलक्षणम् । यजन्ति वेदतन्त्राभ्यां परं जिज्ञासवो नृप ॥ नमस्ते वासुदेवाय नमः सङ्कर्षणाय च । प्रद्युम्नायानिरुद्धाय तुभ्यं भगवते नमः ॥ [भागवतम् ११.५.२७२९] इति । [Vऋ. अद्द्स्हेरे:] अत्र श्रीकृष्णत्वे लिङ्गं महाराजोपलक्षणमिति वासुदेवायेत्यादि च श्रीहरिवंशोक्तराजराजाभिषेकाद्द्वारकायां चतुर् व्यूहत्वप्रसिद्धेश्च । [एन्दोf Vऋ. अद्दितिओन्.] ॥ १०.८ ॥ गर्गः श्रीनन्दम् ॥ ९२ ॥ [९३] तदेवं श्रीकृष्णस्य स्वयं भगवत्त्वे सुष्ठु निर्धारिते नित्यमेव तद् रूपत्वेनावस्थितिरपि स्वयमेव सिद्धा । तथापि मन्दधियां भ्रान्ति हानार्थमिदं विविरियते । तत्र तावदाराधनावाक्येनैव सा सिध्यति । आराध्यस्याभावे आराधनानोदनाया विप्रलिप्साजन्यत्वापत्तेः । तच्च परमाप्ते शास्त्रे न सम्भवति । सम्भवे च पुरुषार्थाभावात् शास्त्रानर्थक्यम् । षर्वसंवादिनी अथ द्विनवतितमवाक्यानन्तरं नित्यत्वप्रकरणे “शास्त्रानर्थक्यम्” इत्यस्यानन्तरमिदं विवेचनीयम् । ननु बालातुराद्य् उपच्छन्दनवाक्यवत्तज्ज्ञानमात्रेणापि पुरुषार्थसिद्धिर्दृश्यते । ततो नार्थान्तरसद्भावे तत्स्मारकवाक्यं कारणम् । किन्तु प्रथमतस्तद् अभिरुचिते तदानीमसत्यपि वस्तुविशेषे तदीयहितवस्त्व्अन्तर चित्तावताराय बालादीनिव मात्रादिवाक्यं सगुणविशेषे साधकान् प्रवर्तयति शास्त्रम् । पश्चाद्यथा स्वहिते क्रमेण स्वयमेव प्रवर्तन्ते बालादयस्तथा बलवच्छास्त्रान्तरं दृष्ट्वा निर्गुणे वा नित्यप्राकट्य वैकुण्ठनाथलक्षणगुणे वा प्रवर्तस्यन्त इति । तन्न । अनन्तगुण रूपादिवैभवनित्यास्पदत्वात् । तद्रूपेणावस्थितिर्नासम्भवितेति । यद् गतं भवच्च भविष्यच्च [Bआऊ ३.८.३] इति श्रुतेः । सम्भावितायां तु तस्यामवतारवाक्यं चावतारस्य प्रपञ्चगततदीय प्रकाशमात्रलक्षणत्वात् । नारायणादीनां च तत्रैवावतारे प्रवेश मात्रविवक्षातो न विरुध्यते । किं चोत्तरमीमांसायां तत्तद्उपासना शास्त्रोक्ता या या मूर्तिस्तद्वती एव देवता इति सिद्धान्तग्रहः । ततश्च तं पीठगं ये तु यजन्ति धीरास्तेषां सुखं शाश्वतं नेतरेषाम् [ङ्टू १.२०] इत्यादिका गोपालतापन्य्उपनिषदि येनायथार्था मन्यते तस्य तु महद् एव साहसम् । अत्र च शाश्वतसुखफलप्राप्तिश्रवणात्तत्पीठस्य यजनं विना ज्ञानमयं ज्ञानात्मोक्ष इति श्रुतेः । तत्रैव घोरा इति विशेषणात्बालातुरवद्भावस्तेषां दूर एवोत्सारितः । नेतरेषामिति निर्धारणे तद्यजनस्य परम्पराहेतुत्वमपि निषिध्यते । अतएव नाम ब्रह्मेत्युपासीत [Cहाऊ ७.१.५] इतिवदत्रारोपोऽपि न मन्तव्यः । तस्माद् आराधनवाक्येन तस्य नित्यत्वं सिध्यत्येव स्वाध्यायादिष्टदेवता सम्प्रयोग इति स्मरणं चात्रोपष्टम्भकमिति । [एन्द्षर्वसंवादिनी] आरोपश्च परिच्छिन्नगुणरूप एव वस्तुनि कल्प्यते नानन्तगुणरूपे । श्रीस्वामिचरणैरपीदमेव पुष्टमेकादशसमाप्तौ धारणाध्यान मङ्गलम् [भागवतम् ११.३१.६] इत्यत्र धारणाया ध्यानस्य च मङ्गलं शोभनं विषयमितरथा तयोर्निर्विषयत्वम् । दृश्यते चाद्याप्युपासकानां साक्षात्कारस्तत्फलस्प्राप्तिश्चेति भावः । श्रूयते चैवं पञ्चमे नवसु वर्षेषु तत्तद्अवतारोपासनादि । यथोक्तं नवस्वपि वर्षेषु भगवान् नारायणो महापुरुषः पुरुषाणां तद्अनुग्रहायात्मतत्त्व व्यूहेनात्मनाद्यापि सन्निधीयते । [भागवतम् ५.१७.१४] इति । सन्निधानं चेदं साक्षाद्रूपेण श्रीप्रद्युम्नादौ गतिविलासादेर् वर्णितत्वात् । तत्र चात्मना स्वयमेवेत्युक्तम् । तथा नित्यत्वे एव शालग्रामशिलादिषु नरसिंहत्वादिभेदश्च संगच्छते । तत्तद्अवतार सान्निध्यादेव हि तत्तद्भेदः । तथा श्रीकृष्णमधिकृत्यापि गीतं श्री कृष्णसहस्रनामप्रारम्भे श्रीविष्णुधर्मोत्तरे तस्य हृष्टाशयः स्तुत्या विष्णुर्गोपाङ्गनावृतः । तापिञ्छश्यामलं रूपं पिञ्छोत्तंसमदर्शयत् ॥ इति । अग्रे च तद्वाक्यम् मामवेहि महाभाग कृष्णं कृत्यविदां वर । पुरस्कृतोऽस्मि त्वद्भक्त्या पूर्णाः सन्तु मनोरथाः ॥ इति । तथा पाद्मे निर्माणखण्डे पश्य त्वं दर्शयिष्यामि स्वरूपं वेद गोपितमिति श्रीभगवद्वाक्यानन्तरं ब्रह्मवाक्यम् ततोऽपश्यमहं भूप बालं कालाम्बुदप्रभम् । गोपकन्यावृतं गोपं हसन्तं गोपबालकैः ॥ कदम्बमूल आसीनं पीतवाससमद्भुतम् । वनं वृन्दावनं नाम नवपल्लवमण्डितम् ॥ इत्यादि । त्रैलोक्यसंमोहनतन्त्रे श्रीमद्अष्टादशाक्षरजपप्रसङ्गे अहर्निशं जपेद्यस्तु मन्त्री नियतमानसः । स पश्यति न सन्देहो गोपवेशधरं हरिम् ॥ इति । [षर्वसंवादिनी: त्रैलोक्यसंमोहनतन्त्रवचनानन्तरं चैवं व्याख्येयम् । यदि वा श्रीकृष्णादीनां स्वयंभगवत्त्वादिकम् अननुसन्धायैव प्रलापिभिरुपासनानुसारेणान्यदापि कश्चिन्मूलभूत भगवान् तद्रूपेणोपासकेभ्यो दर्शनं ददातीति मन्तव्यम् । तथापि श्रुत्य्आदिप्रसिद्धानां तत्तद्उपासनाप्रवाहाणां स्वयं समुत्तीर्य सुदुस्तरं द्युमन् भवार्णवं भीममदभ्रसौहृदाः । भवत्पदाम्भोरुहनावमत्र ते निधाय याताः सद्अनुग्रहो भवान् ॥ [भागवतम् १०.२.३१] इत्यनुसारेणाविच्छिन्नसम्प्रदायत्वेनादिसिद्धत्वातनन्तत्वात्केषांचित् तच्चरणारविन्दैकसेवामात्रपुरुषार्थानां ये यथा मां प्रपद्यन्ते [गीता ४.११] इति न्यायेन नित्यतद्एकोपलब्धत्वात्श्रीभगवतः सर्वदैव तत्तद्रूपेणावस्थितिर्गम्यते एव । अतएव भगवत्पदाम्भोरुह नावमात्र ते निधायेत्युक्तम् । तदेतामपि परिपाटीं पश्चाद्विधायाह । [एन्द्ष्ष्.] गौतमीये च सद्आचारप्रसङ्गे अहर्निशं जपेन्मन्त्रं मन्त्री नियतमानसः । स पश्यति (पगे ४१) न सन्देहो गोपवेशधरं हरिम् ॥ इति । श्रीगोपालतापनीश्रुतिश्चैवम् तदु होवाच ब्रह्मणोऽसावन्वरतं मे ध्यातः स्तुतः परमेश्वरः परार्धान्ते सोऽबुध्यत । गोपवेशो मे पुरुषः पुरस्तादाविर्बभूव ॥ [ङ्टू १.२९] इति सिद्धनिर्देशोऽपि श्रूयते यथा वन्दे वृन्दावनासीनमिन्दिरानन्दमन्दिरम् [णार्ড়् १.१.१] इति बृहन् नारदीयारम्भे मङ्गलाचरणम् । गृहं सन्तिष्ठते यस्य माहात्म्यं दैत्यनायक । द्वारकायाः समुद्भूतं सान्निध्यं केशवस्य च । रुक्मिणीसहितः कृष्णो नित्यं निवसते गृहे ॥ इति स्कान्दे द्वारकामाहात्म्ये बलिं प्रति श्रीप्रह्लादवाक्यम् । व्रतिनः कार्त्तिके मासि स्नातस्य विधिवन्मम । गृहाणार्घ्यं मया दत्तं दनुजेन्द्रनिषूदन ॥ [ড়द्मড়् ६.९३.२४] इति पाद्मकार्त्तिकमाहात्म्ये तत्प्रातःस्नानार्घ्यमन्त्रः । एवं च श्रीमद्अष्टादशाक्षरादयो मन्त्रास्तत्तत्परिकरादि विशिष्टतयिवाराध्यत्वेन सिद्धनिर्देशमेव कुर्वन्ति । तद्आवरणादिपूजा मन्त्राश्च । किं बहुना कर्मविपाकप्रायश्चित्तशास्त्रेऽपि तया श्रूयते । यदाह बोधायनः होमस्तु पूर्ववत्कार्यो गोविन्दप्रीतये ततः इत्याद्य् अनन्तरं गोविन्द गोपीजनवल्लभेश कंसासुरघ्न त्रिदशेन्द्रवन्द्य । गोदानतृप्तः कुरु मे दयालो अंशोविनाशं क्षपितारिवर्ग ॥ इति । अन्यत्र च यथा गोविन्द गोपीजनवल्लभेश विध्वस्तकंस त्रिदशेन्द्रवन्द्य । गोवर्धनादिप्रवरैकहस्त संरक्षिताशेषगवप्रवीण ॥ गोनेत्रवेणुक्षपण प्रभूतम् आन्ध्यं तथोग्रं तिमिरं क्षिपांशु ॥ इति । स्पष्टं च तथात्वं श्रीगोपालतापन्यां गोविन्दं सच्चिद्आनन्द विग्रहं वृन्दावनसुरभूरुहतलासीनं सततं समरुद्गणोऽहं तोषयामि [ङ्टू १.३७] इति । अतएव पुरस्कृतोऽस्मि त्वद्भक्त्या इत्येवोक्तमिति । अलं चैवांविध प्रमाणसङ्ग्रहप्रपञ्चेन । यतश्चिच्छक्त्य्एकव्यञ्जितानां तत् परिच्छदादीनामपि तथा नित्यावस्थितित्वेनाविर्भावतिरोभावावेव द्वितीय सन्दर्भे साधितौ स्तः । सर्वथोत्पत्तिनाशौ तु निषिद्धौ । ततस्तद् अवताराणां किमुत स्वयं भगवतो वा तस्य किमुततरामिति । यथा च व्याख्यातं जगृहे पौरुषं रूपमित्यत्र तत्त्ववादगुरुभिः । व्यक्त्य् अपेक्षया जगृहे । तथा च तन्त्रभागवते अहेयमनुपादेयं यद्रूपं नित्यमव्ययम् । स एवापेक्ष्यरूपाणां व्यक्तिमेव जनार्दनः ॥ अगृह्णाद्व्यसृजच्चेति रामकृष्णादिकां तनुम् । पठ्यते भगवानीशो मूढबुद्धिव्यपेक्षया ॥ तमसा ह्युपगूढस्य यत्तमःपानमीशितुः । एतत्पुरुषरूपस्य ग्रहणं समुदीर्यते ॥ कृष्णरामादिरूपाणां लोके व्यक्तिव्यपेक्षया ॥ इति । एवमेव प्रथमे द्वादशाध्याये विधूय [भागवतम् १.१२.११] इत्य्आदिपद्ये स्वामिभिरपि व्याख्यातम् यत्र दृष्टस्तत्रैवान्तर्हितः न त्वन्यत्र गतः । यतो विभुः सर्वगत इति । तथा माध्वभाष्यप्रमाणिता श्रुतिश्च वासुदेवः सङ्कर्षणः प्रद्युम्नोऽनिरुद्धोऽहं मत्स्यः कूर्मो वराहो नरसिंहो वामनो रामो रामो रामः कृष्णो बुद्धः कल्किरहं शतधाहं सहस्रधाहमितोऽहमनन्तोऽहं नैवैते जायन्ते नैते म्रियन्ते । नैषाम् अज्ञानबन्धो न मुक्तिः सर्व एव ह्येते पूर्णा अजरा अमृताः परमा परमानन्दा इति चतुर्वेदशिखायाम् । तथा च श्रीनृसिंहपुराणे युगे युगे विष्णुरनादिमूर्तिमास्थाय विश्वं परिपाति दुष्टहा इति । तथा च नृसिंहतापन्यां तद्भाष्यकृद्भिर्व्याख्यातम् एतन्नृसिंह विग्रहं नित्यमिति । श्रुतिश्च सेयमृतं सत्यं परं ब्रह्म पुरुषं नृ केशरिविग्रहमिति । एवं च ब्राह्मपाद्मोत्तरखण्डादावपि श्रीमत्स्य देवादीनां च पृथक्पृथग्वैकुण्ठादिलोकाः श्रूयन्ते । एवमेव जलेषु मां (पगे ४२) रक्षतु मत्स्यमूर्तिरिति नारायणवर्माद्य्उक्तमपि सङ्गच्छते । तस्मात्स्वयं भगवति श्रीकृष्णेऽप्यन्यथासम्भावनमनादिपाप विक्षेप एव हेतुः । तदेवमभिप्रेत्य तान् दुर्बुद्धीनपि बोधयितुं तस्य स्वोपास्यत्वं प्रतिपादयन्नाह पतिर्गतिश्चान्धकवृष्णिसात्वतां प्रसीदतां मे भगवान् सतां पतिः ॥ [भागवतम् २.४.२०] इति । स्पष्टम् । ॥ २.४ ॥ श्रीशुकः ॥ ९३ ॥ [९४] तथा देवे वर्षति यज्ञविप्लवरुषा इत्य्आदौ प्रीयान्न इन्द्रो गवाम् [भागवतम् १०.२६.२५] इति । स्पष्टम् । ॥ १०.२६ ॥ श्रीशुकः ॥ ९४ ॥ [९५] तथा श्रीकृष्ण कृष्णसख वृष्ण्य्ऋषभावनिध्रुग् राजन्यवंशदहनानपवर्गवीर्य । गोविन्द गोपवनिताव्रजभृत्यगीत तीर्थश्रवः श्रवणमङ्गल पाहि भृत्यान् ॥ [भागवतम् १२.११.२५] स्पष्टम् ॥ १२.११ ॥ श्रीसूतः ॥ ९५ ॥ [९६] अपि च स्वयमेव स्वविग्रहमेव लक्ष्यीकृत्याह तदा वां परितुष्टोऽहममुना वपुषानघे । तपसा श्रद्धया नित्यं भक्त्या च हृदि भावितः ॥ प्रादुरासं वरदराड्युवयोः कामदित्सया । व्रियतां वर इत्युक्ते मादृशो वां वृतः सुतः ॥ [भागवतम् १०.३.३७३८] इत्युपक्रम्य अदृष्ट्वान्यतमं लोके शीलौदार्यगुणैः समम् । अहं सुतो वामभवं पृश्निगर्भ इति श्रुतः ॥ तयोर्वां पुनरेवाहमदित्यामास कश्यपात् । उपेन्द्र इति विख्यातो वामनत्वाच्च वामनः ॥ तृतीयेऽस्मिन् भवेऽहं वै तेनैव वपुषाथ वाम् । जातो भूयस्तयोरेव सत्यं मे व्याहृतं सति ॥ [भागवतम् १०.३.४१४३] अमुना श्रीकृष्णस्य मम प्रादुर्भावसमयेऽत्र प्रकाशमानेनैतेन श्रीकृष्णाख्येनैव । तृतीय इति तेनैव पूर्वं वरार्थं प्रादुर्भावितेनैव । अतएव पृश्निगर्भादित्वे तेनैव वपुषेत्युक्तत्वान्न तु तदानीमधुनेव स्वयमेव बभूव किन्त्वंशेनैवेति गम्यते । पृश्निगर्भस्तु ते बुद्धिम् आत्मानं भगवान् परः [भागवतम् १०.६.१२] इत्यत्राप्येतदेव गीर्देव्या सूचितम् अस्ति । अतएव तृतीय एव भवे तत्सदृशसुतप्राप्तिलक्षणवरस्य परम पूर्णत्वापेक्षया तत्रैव सत्यं मे व्याहृतमित्युक्तं चतुर्भुजत्वं चेदं रूपं श्रीकृष्ण एव । कृष्णावतारोत्सवः [भागवतम् १०.३.११] इत्य्आदिभिस्तस्यात्यन्त प्रसिद्धेः ॥ ॥ १०.३ ॥ श्रीभगवान् देवकीदेवीम् ॥ ९६ ॥ [९७] एवं च देवक्यां देवरूपिण्याम् [भागवतम् १०.३.८] इत्यादि । स्पष्टम् । ॥ १०.३ ॥ श्रीशुकः ॥ ९७ ॥ [९८] ननु सत्यं तस्य चतुर्भुजाकाररूपस्य तादृशत्वं किन्तु रूपं चेदं पौरुषं ध्यानधिष्ण्यं मा प्रत्यक्षं मांसदृशां भो कृषीष्ठाः [भागवतम् १०.३.२८] इति मातृविज्ञापनानुसारेण । एतद्वां दर्शितं रूपं प्राग्जन्मस्मरणाय मे । नान्यथा मद्भवं ज्ञानं मर्त्यलिङ्गेन जायते ॥ [भागवतम् १०.३.४४] इति प्रत्युत्तरय्य इत्युक्त्वासीद्धरिस्तूष्णीं भगवानात्ममायया । पित्रोः सम्पश्यतोः सद्यो बभूव प्राकृतः शिशुः ॥ [भागवतम् १०.३.४६] इत्युक्तदिशा यन्मानुषाकाररूपं स्वीकृतवान् तत्र सन्दिग्धमिव भाति । अत्र च भवतु वा हरिरपि तत्याज आकृतिं त्र्य्अधीश इति [भागवतम् ३.४.२८] त्यक्षन् देहमिति [भागवतम् ३.४.२९] च तन्त्रभागवतानुसारेणान्तर्धापनार्थत्वाद् असहायम् । ययाहरद्भुवो भारं तां तनुं विजहावजः । कण्टकं कण्टकेनेव द्वयं चापीशितुः समम् ॥ यथा मत्स्यादिरूपाणि धत्ते जह्याद्यथा नटः । (पगे ४३) भूभारः क्षपितो येन जहौ तच्च कलेवरम् ॥ [भागवतम् १.१५.३४३५] इति तु परिपोषकम् । एतदेव श्रीवसुदेववचनेऽपि लभ्यते सूतीगृहे ननु जगाद भवानजो नौ सञ्जज्ञ इत्यनुयुगं निजधर्मगुप्त्यै । नानातनूर्गगनवद्विदधज्जहासि को वेद भूम्न उरुगाय विभूतिमायाम् ॥ [भागवतम् १०.८५.२०] अत्रोच्यते तत्तद्वचनमन्यार्थत्वेन दृश्यमिति । एकस्मिन्नेव तस्मिन् श्री विग्रहे कदाचित्चतुर्भुजत्वस्य कदाचिद्द्विभुजत्वस्य च प्रकाश श्रवणेनाविशेषापाताद्भूभारक्षपणे द्वयोरपि सामान्यात् । सूतीगृहे इत्यादिवाक्यस्य चतुर्भुजविषयत्वाच्च । किं च यैर्विद्वद्अनुभवसेवित शब्दसिद्धैर्नित्यत्वादिभिर्धर्मैः श्रीविग्रहस्य परमतत्त्वाकारत्वं साधितम् । ते प्रायशो नराकारमधिकृत्यैव ह्युदाह्रियन्ते स्म द्वितीय सन्दर्भे । तथात्रैव चोपासकेषु साक्षात्कारादिलिङ्गेन सिद्धनिर्देशेन च तद्आकारस्यापि नित्यसिद्धत्वं दृढीकृतम् । उदाहरिष्यते च सिद्ध निर्देशः मां केशवो गदया प्रातरव्याद्गोविन्द आसङ्गव मात्तवेणुः [भागवतम् ८.९.२०] इति । संप्रत्यन्यदपि तत्रोदाह्रियते । तत्र नित्यत्वं यथा कंसो बताद्याकृत मेऽत्य्अनुग्रहं द्रक्ष्येऽङ्घ्रिपद्मं प्रहितोऽमुना हरेः । कृतावतारस्य दुरत्ययं तमः पूर्वेऽतरन् यन्नखमण्डलत्विषा ॥ यदर्चितं ब्रह्मभवादिभिः सुरैः श्रिया च देव्या मुनिभिः ससात्वतैः । गोचारणायानुचरैश्चरद्वने यद्गोपिकानां कुचकुङ्कुमाङ्कितम् ॥ [भागवतम् १०.३८.७८] अत्र पूर्व इत्यादिद्योतितं गोचारणाय इत्य्आदिलब्धस्य स्फुटं श्री नराकारस्यैव नित्यावस्थायित्वं लभ्यते ॥ ॥ १०.३८ ॥ श्रीमद्अक्रूरः ॥ ९८ ॥ [९९] तथा या वै श्रियार्चितमजादिभिराप्तकामैर् योगेश्वरैरपि यदात्मनि रासगोष्ठ्याम् । कृष्णस्य तद्भगवतश्चरणारविन्दं न्यस्तं स्तनेषु विजहुः परिरभ्य तापम् ॥ [भागवतम् १०.४७.६२] सदा भूतवर्तमानभविष्यत्कालेषु श्र्य्आदीनां सर्वदावस्थायित्वेन प्रसिद्धेः । सदेत्यस्य तथैव ह्यर्थप्रतीतिः । सङ्कोचवृत्तौ कष्टतापत्तेः । श्रीभगवति तादृशत्वासम्भवाच्च । तथा च श्रुतौ गोविन्दं सच्चिद्आनन्दविग्रहं वृन्दावनसुरभूरुहतलासीनं सततं समरुद्गणोऽहं तोषयामि [ङ्टू १.३७] इति ब्रह्मवाक्यम् । [Vऋ. रेअद्स्हेरे:। तद्उत्तरतापनीश्रुतौ श्रीगोपीः प्रति दुर्वाससो वाक्यम् जन्मजराभ्यां भिन्नः स्थानुरयमच्छेद्योऽयं योऽसौ सौर्ये तिष्ठति । योऽसौ गोषु तिष्ठति, योऽसौ गाः पालयति, योऽसौ गोपेषु तिष्ठति स वो हि स्वामी भवति ॥ [ङ्टू २.२३] इति । [एन्द्Vऋ. अद्दितिओन्.] ॥ १०.४७ ॥ श्रीमद्उद्धवः ॥ ९९ ॥ [१००] एवं च यत्पादपांसुर्बहुजन्मकृच्छ्रतो धृतात्मभिर्योगिभिरप्यलभ्यः । स एव यद्दृग्विषयः स्वयं स्थितः किं वर्ण्यते दिष्टमतो व्रजौकसाम् ॥ [भागवतम् १०.१२.१२] अत्र स्वयमित्यनेन तु बाढमेवान्यथाप्रतीतिर्दुर्धियां निरस्ता ॥ [Vऋ. रेअद्स्हेरे:। स्थित इति वर्तमाने क्त । यच्च किञ्चिज्जगत्सर्वं व्याप्य नारायण स्थितः [ंहानारायण ऊपनिषद्९.५] इतिवत् । [एन्द्Vऋ. अद्दितिओन्.] ॥ १०.१२ ॥ इति शुकः ॥ १०० ॥ (पगे ४४) [१०१] अतएव स्वभावसिद्धत्वं पूर्णैश्वर्याद्य्आश्रयत्वं च गोप्यस्तपः किमचरन् यदमुष्य रूपं लावण्यसारमसमोर्ध्वमनन्यसिद्धम् । दृग्भिः पिबन्त्यनुसवाभिनवं दुरापम् एकान्तधाम यशसः श्रिय ऐश्वरस्य ॥ [भागवतम् १०.४४.१४] अनन्यसिद्धमन्येन तत्सिद्धमिति न, किन्तु स्वाभाविकमेवेत्यर्थः । अन्यत्रासिद्धमिति तु व्याख्यापि पिष्टपेषणम् । असमोर्ध्वमिति हि युक्तम् एव ॥ [Vऋ. अद्द्स्हेरे: तदिदं च तासां वाक्यं श्रीशुकदेवादिभिः स्वयम् अनुमोदितमिति नान्यथा मन्तव्यम् । [Vऋ. अद्दितिओनेन्द्स्.] ॥ १०.४४ ॥ मथुरापुरस्त्रियः परस्परम् ॥ १०१ ॥ [१०२] अथ विभुत्वं न चान्तर्न बहिर्यस्य [भागवतम् १०.९.१३] इत्यादौ । प्राकृत वस्त्व्अतिरिक्तत्वं त्वक्श्मश्रुरोमनखकेशपिनद्धम् [भागवतम् १०.६०.४५] इत्यादौ स्पष्टम् । स्वप्रकाशलक्षणत्वम् अस्यापि देववपुषो मद्अनुग्रहस्य स्वेच्छामयस्य न तु भूतमयस्य कोऽपि । नेशे महित्ववसितुं मनसान्तरेण साक्षात्तवैव किमुतात्मसुखानुभूतेः ॥ [भागवतम् १०.१४.२] अस्य नौमीड्य ते [भागवतम् १०.१४.१] इत्यादिना वर्णितलक्षणस्य श्रीमन् नराकरस्य तव सम्प्रति बालकवत्साद्य्अंशैर्दर्शितेषु एकमपि देव रूपं चतुर्भुजाकारं यद्वपुस्तस्यापि । [Vऋ. अद्द्स्: अस्तु वा तावत् समस्तानामित्यर्थः । एन्द्Vऋ. अद्दितिओन्.] एवं च सति साक्षादेतद् रूपस्यांशिनस्तव, किमुत देववपुषो विशेषणं मद्अनुग्रहस्येत्यादि । ममानुग्रहो यस्मात्तस्य तद्दर्शनेनैव भवन्महिमज्ञानात् । कथम्भूतस्य तव ? आत्मसुखानुभूतेः । आत्मना स्वेनैव न त्वन्येन सुखस्यानुभूतिरनुभवो यस्य तस्यानन्यवेद्यानन्दस्येत्यर्थः । ॥ १०.१४ ॥ ब्रह्मा श्रीभगवन्तम् ॥ १०२ ॥ [१०३] कैमुत्येन स्वयंरूपत्वनिर्देशश्च सकृद्यद्अङ्गप्रतिमान्तर्आहिता मनोमयी भागवतीं ददौ गतिम् । स एव नित्यात्मसुखानुभूत्य्अभि व्युदस्तमायोऽन्तर्गतो हि किं पुनः ॥ [भागवतम् १०.१२.३९] स्पष्टम् ॥ ॥ १०.१२ ॥ श्रीशुकः ॥ १०३ ॥ [१०४] अतएव साक्षात्परब्रह्मत्वमेव दर्शितम् अद्यैव त्वद्ऋतेऽस्य [भागवतम् १०.१४.१८] इत्यादौ अहो भाग्यमहो भाग्यम् [भागवतम् १०.१४.३२] इत्यादौ च । अतएवोक्तं गूढं परं ब्रह्म मनुष्यलिङ्गम् [भागवतम् ७.१५.७५] इति । वैष्णवे च यदोर्वंशं नरः श्रुत्वा सर्वपापैः प्रमुच्यते । यत्रावतीर्णं कृष्णाख्यं परं ब्रह्म नराकृति ॥ [Vइড়् ४.११.२] इति । नराकृति परं ब्रह्मेति बृहत्सहस्रनामस्तोत्रे च । एतेन श्रीकृष्णस्य नराकृतित्वमेवेति । द्विभुजत्व एव श्रीकृष्णत्वं नराकृतिकैवल्यान् मुख्यं, चतुर्भुजत्वे तु श्रीकृष्णत्वं नराकृतिभूयिष्ठत्वात्तद् अनन्तरमेव । अतएव चतुर्भुजत्वेऽपि मनुषरूपत्वं वर्णितं श्रीमद् अर्जुनेन तेनैव रूपेण चतुर्भुजेन सहस्रबाहो भव विश्वमूर्ते [गीता ११.५१] इत्युक्त्वा, दृष्ट्वेदं मानुषं रूपं तव सौम्य जनार्दन, इदानीम् अस्मि संवृत्तः [गीता ११.५१] इत्युक्तत्वात् । एवंजातीयकानि बहूनि, तानि च द्रष्टव्यानि । अतएव सा नराकारा मूर्तिरेव परमकारणं वस्तुतत्त्वमित्याह नारायणे कारणमार्त्यमूर्तौ [भागवतम् १०.४६.३३] सर्वकारणं यत्तत्त्वं तद् एव मर्त्याकारा मूर्तिर्यस्य । तदुक्तं तत्त्वं परं योगिनाम् [भागवतम् १०.४३.१७] इति । तथा च पाद्मनिर्माणखण्डे श्रीवेदव्यासवाक्यम् दृष्टातिहृष्टो ह्यभवं सर्वभूषणभूषणम् । गोपालमबलासङ्गे मुदितं वेणुवादिनम् ॥ ततो मामाह भगवान् वृन्दावनचरः स्वयम् । (पगे ४५) यदिदं मे त्वया दृष्टं रूपं दिव्यं सनातनम् ॥ निष्कलं निष्क्रियं शान्तं सच्चिद्आनन्दविग्रहम् । पूर्णं पद्यपलाशाक्षं नातःपरतरं मम ॥ इदमेव वदन्त्येते वेदाः कारणकारणम् ॥ इत्यादि । ॥ १०.४६ ॥ उद्धवः श्रीव्रजेश्वरम् ॥ १०४ ॥ [१०५] अतएव बहूंश्चतुर्भुजान् दृष्टवानपि श्रीनराकारस्यैव विशेषतः स्तुत्यत्वं प्रतिजानीते । नौमीड्य तेऽभ्रवपुषे तडिद्अम्बराय [भागवतम् १०.१४.१] इत्यादि । इदमेव तव परमं तत्त्वमित्यज्ञात्वा पूर्वमहं भ्रान्तवान् । अधुना तु अद्यैव त्वद्ऋतेऽस्य किम् [भागवतम् १०.१४.१८] इत्यादिदिदर्शितया भवतः कृपया ज्ञातवानित्यतस्तत्र तद्आकारमेव त्वां लब्धुं स्तौमीति तात्पर्यम् । ॥ १०.१४ ॥ ब्रह्मा श्रीभगवन्तम् ॥ १०५ ॥ [१०६] तदेवं साधूक्तं तत्तद्वचनमन्यार्थत्वेन दृश्यमिति । तथा हि पूर्वरीत्या चतुर्भुजत्वद्विभुजत्वयोर्द्वयोरपि ध्यानधिष्ण्यत्वे सति, यत्पूर्वस्य जनन्या निगूहनप्रार्थनं तत्तु तस्य प्रसिद्धत्यआ सर्व एव ज्ञास्यतीति जन्म ते मय्यसौ पापो मा विद्यान्मधुसूदन [भागवतम् १०.३.२९] इत्य् आद्य्उक्तलक्षणया कंसभिया विश्वं यदेतत्स्वतनौ निशान्ते [भागवतम् १०.३.३१] इत्य्आद्य्उक्तलक्षणया मांसदृक्शब्दोक्तभगवत्स्वरूपशक्ति विलासतज्जन्मादिलीलातत्त्वानभिज्ञप्राकृतदृग्भ्यो लज्जया च । न पुनर् अपरस्य गूढं परं ब्रह्म मनुष्यलिङ्गम् [भागवतम् ७.१५.३५] इत्यादौ गूढत्वेन कथितस्य ध्यानधिष्ण्यत्वाभावविवक्षया । श्रीगोपाल तापनीश्रुतावप्युभयोरपि ध्यानधिष्ण्यत्वं श्रूयते मथुरायां विशेषेण मां ध्यायन्मोक्षमश्नुते । अष्टपत्रं विकसितं हृत्पद्मं तत्र संस्थितम् ॥ [ङ्टू २.५८५९] इत्यादिषु मध्ये चतुर्भुजं शङ्खचक्र [ङ्टू २.६०] इत्यादिकमुक्त्वा सर्वान्ते शृङ्गवेणुधरं तु वा [ङ्टू २.६०] इत्युक्तम् । एवमागमेऽपि द्विभुजध्यानं श्रूयते तस्मान्निगूढत्वविवक्षयैव समीचीना । तथैव तद्विवक्षया नान्यथा मद्भावं मर्त्यलिङ्गेन जायते [भागवतम् १०.३.४४] इति श्रीभगवतोक्तम् । तथा च पाद्मनिर्माणखण्डे श्रीभगवद्वाक्यं व्यासवाक्ये पश्य त्वं दर्शयिष्यामि स्वरूपं वेदगोपितम् । ततोऽपश्यमहं भूप बालं कालाम्बुदप्रभम् । गोपकन्यावृतं गोपं हसन्तं गोपबालकैः ॥ इति । एवमित्युक्त्वासीद्धरिस्तूष्णीम् [भागवतम् १०.३.४६] इत्यादौ च व्याख्येयम् । आत्ममायया स्वेच्छया आत्ममाया तद्इच्छा स्यादिति महासंहितोक्तेः । प्रकृत्या स्वरूपेणैव व्यक्तः प्राकृतः । न त्वौपाधिकतया शैषिकोऽण् । तत्र हि भगवद्विग्रहे शिशुत्वादयो विचित्रा एव धर्माः स्वाभाविकाः सन्तीति को वेत्ति भूमन् [भागवतम् १०.१४.२१] इत्यस्य व्याख्याने द्वितीयसन्दर्भे दर्शितमेव । अत्र श्रीरामानुजाचार्यसम्मतिरपि । श्रीगीतासु प्रकृतिं स्वामवष्टभ्य सम्भवाम्यात्ममायया [गीता ४.६] इत्यत्र स्वमेव स्व्भावमास्थाय आत्ममायया स्वसङ्कल्परूपेण ज्ञानेनेत्यर्थः । माया व्यूनं ज्ञानम् इति नैर्घण्टुकाः । महाभारते च अवताररूपस्याप्यप्राकृतत्वमुच्यते न भूतसङ्घसंस्थानो देहोऽस्य परमात्मनः इति । अथ बृहद्वैष्णवेऽपि यो वेत्ति भौतिकं देहं कृष्णस्य परमात्मनः । स सर्वस्माद्बहिष्कार्यः श्रौतस्मार्तविधानतः । मुखं तस्यावलोक्यापि सचेलः स्नानमाचरेत् । पश्येत्सूर्यं स्पृशेद्गां च धृतं प्राश्य विशुद्ध्यति ॥ इति । [पगे ४६] अथ यथाहरद्भुवो भारम् [भागवतम् १.१५.३४] इत्यादौ चैवं मन्तव्यम् । तनुरूपकलेवरशब्दैरत्र श्रीभगवतो भूभारजिहीर्षालक्षणो देवादिपिपालयिषालक्षणश्च भाव एवोच्यते । यथा तृतीये विंशतितमे तत् तच्छब्दैर्ब्रह्मणो भाव एवोक्तः । यदि तत्रैव तह्ता व्याख्येयं तदा सुतरामेव श्रीभगवतीति । ततश्च तस्य भावस्य भगवति तद्आभास रूपत्वात्कण्टकदृष्टान्तः सुसङ्गत एव । तथा द्वयमेवेशितुः साम्यम् अपि । तत्तु तृतीये सन्दर्भ एव विवृतं मत्स्यादिरूपाणि [भागवतम् १.१५.३५] मत्स्याद्य्अवतारेषु तत्तद्भावान् । अथ नटदृष्टान्तेऽपि नटः श्राव्यरूपकाभिनेता । व्याख्यातं च टीका कृद्भिः प्रथमस्यैकादशे नटा नवरसाभिनयचतुरा [Bहावार्थ दीपिका १.११.२१] इति । ततो यथा श्रव्यरूपकाभिनेता नटः स्वरूपेण स्व वेशेन च स्थित एव पूर्ववृत्तमभिनयेन गायन्नायकनायिकादिभावं धत्ते जहाति च तथेति । अतएव तृतीये प्रदर्श्यातप्ततपसामवितृप्तदृशां नृणाम् । आदायान्तरधाद्यस्तु स्वबिम्बं लोकलोचनम् ॥ [भागवतम् ३.२.११] इत्यत्रापि लोकलोचनरूपं स्वबिम्बं निजमूर्तिं प्रदर्श्य पुनरादायैव च अन्तरधात् । न तु त्यक्त्वेत्युक्तं श्रीसूतेन यथा मत्स्यादिरूपाणि [भागवतम् १.१५.३५] इत्यनन्तरमपि तथोक्तं यदा मुकुन्दो भगवानिमां महीं जहौ स्वतन्वा [भागवतम् १.१५.३६] इति । त्यागोऽत्र स्वतनुकरणक इति न तु स्व तन्वा सहेति व्याख्येयम् । अध्याहार्यापेक्षागौरवातुपपदविभक्तेः कारकविभक्तिर्बलीयसीति न्यायाच्च । [Vऋ. रेअद्स्हेरे: अथवा नाहं प्रकाशः सर्वस्य योगमायासमावृतः [गीता ७.२५] इति श्रीगीतवचनेन । योगिभिर्दृश्यते भक्त्या नाभक्त्या दृश्यते क्वचित् । द्रष्टुं न शक्यो रोषाच्च मत्सराच्च जनार्दनः ॥ इति पाद्मोत्तरखण्डनिर्णयेन । मल्लानामशनिः [भागवतम् १०.४३.१७] इति श्री भागवतदर्शनेन । आत्मविनाशाय भगवद्धस्तचक्रांशु मालोज्ज्वलमक्षयतेजःस्वरूपं परमब्रह्मभूतमपगतद्वेषादि दोषो भगवन्तमद्राक्षीत्[Vइড়् ४.१५.१५] इति शिशुपालमुद्दिश्य विष्णु पुराणगद्येन चासुरेषु यद्रूपं स्फुरति । तत्तस्य स्वरूपं न भवति किन्तु मायाकल्पितमेव । स्वरूपे दृष्टे द्वेषश्चापयातीति ततश्चासुरेषु स्फुरत्या यया तन्वा भुवो भाररूपमसुरवृन्दमहरत्तां तनुं विजहौ । पुनस्तत्प्रत्य्आयनं न चकारेत्यर्थः । भक्तिदृश्या तनुस्तु तस्य नित्यसिद्धवेत्याह अज [गीता ४.६] इति, देवक्यां देवरूपिण्याम् [भागवतम् १०.३.८] इत्यादेः, कृष्णं च तत्र छन्दोभिः स्तूयमानम् [भागवतम् १०.२८.१७] इत्यत्र गोलोकाधिष्ठातृत्वनिर्देशाच्च । ततश्च यथा मत्स्यादिरूपाणि इत्यस्याप्ययमेवार्थः । यथा नट ऐन्द्रजालिकः कश्चित्स्वभक्षकानां बकादीनां निग्रहाय मस्त्याद्य् आकाआन् धत्ते, स्वस्मिन् प्रत्यायाति तन्निग्रहे सति यथा च तानि जहाति, तथा सोऽयमजोऽपि येन मायित्वेन लक्ष्यतां प्रापितेन रूपेण भूभार रूपासुरवर्गः क्षपिततद्वर्गं क्षपितवानित्यर्थः । तच्च कलेवरम् अजो जहौ अन्तर्धापितवानित्यर्थः । किन्तु श्रीगीतापद्ये योगमाया समावृतः [गीता ७.२५] सर्पकञ्चुकवन्मायारचितवपुर्आभाससमावृत इत्यर्थः । विष्णुपुराणगद्ये आत्मविनाशाय इति आत्मनः स्वस्य शिशुपालस्येत्यर्थः । भगवता अस्तं क्षिप्तं यच्चक्रं तस्यांशुमालया उज्ज्वलं यथास्यात् तथाद्राक्षीत् । यतः उपगतद्वेषादिदोष इति । तया तस्य दृष्टावुज्ज्वलायां सत्यामपगतद्वेषादिदोषः सन् दूरीकृतमायिकनिजावरणं भगवन्तमद्राक्षीदित्यर्थः । किं च, तन्मते कल्पान्तरगततत् कथायां शिशुपालादिद्वयमुक्तिविषयकमैत्रेयपराशरप्रश्नोत्तर रीत्या जयविजययोः शापसङ्गतिर्नास्तीत्यन्यावेव तावसुरौ ज्ञेयौ । युक्तं च तत्, प्रतिकल्पं तयोः शापकदर्थनाया अयुक्तत्वात् ॥ [एन्द्. Vऋ. अद्दितिओन्.] [पगे ४७] अथ सूतीगृहे [भागवतम् १०.८५.२०] इत्यस्यार्थः । एतत्प्राक्तनवाक्येषु श्री भगवन्महिमज्ञानभक्तिप्रधानोऽसौ विशुद्धसत्त्व प्रादुर्भावस्याप्यात्मनो मनुष्यलीलामेव दैन्यातिशयतः प्राकृत मानुषत्वेन स्थापयित्वा श्रीभगवत्य्अपत्यबुद्धिमाक्षिप्तवान् । ततश्च ननु तर्हि कथमपत्यबुद्धिं कुरुषे इति श्रीभगवत्प्रश्नम् आशङ्क्य तत्र तद्वाक्यगौरवमेव मम प्रमाणं न तूपत्तिरित्याह सूतीगृह इति । नौ आवयोरनुयुगम् । अत एव भवान् संजज्ञे अवतीर्णवानिति सूतीगृहे भगवाननुजगाद । ननु मया तदपि भवद्आदितनुप्रवेशनिर्गमापेक्षयैव जज्ञे इत्य् उक्तम्, न तु मम प्रव्शनिर्गमलिङ्गेनैव जन्म वाच्यम् । जीवसखेन व्यष्टेः समष्टेर्वान्तर्यामिरूपेण तं दुर्दशं गूढमनुप्रविष्टं गुहाहितं गह्वरेष्ठं पुराणम् [Kअठू १.२.१२] तत्सृष्ट्वा तदेवानुप्राविशत्[टैत्तू २.६.२] इत्यादौ च तत्तदनुप्रवेशादि दर्शनसामान्यात् । ततस्तद्वदिदमुपचरितमेवेति मन्यताम् । तत्राह नानेति । स्वकृतविचित्रयोनिषु विशन्निव हेतुतया [भागवतम् १०.८७.१९] इत्यादिश्रवणात्गगनवदसङ्ग एव त्वं यज्जीवानां नानातनूर्विदधत् प्रविशन् जहासि । मुहुः प्रविशसि जहासि चेत्यर्थः । तद्भूम्नस्तव विभूतिविशेषरूपां मायां को वेद बहु मन्यते, नो कोऽपीत्यर्थः । इदं त्वावाभ्यां जन्म सर्वैरेव स्तूयते इति भावः । ततो विद्वद्आदरोऽप्य् अत्रास्तु प्रमाणं मम तु तत्सर्वथा न बुद्धिगोचर इति व्यञ्जितम् । अत्र विद्धातोः प्रवेशार्थो नानुपपन्नः । यथोक्तं सहस्रनामभाष्ये शिष्टान् करोति पालयति इति । सामान्यवचनो धातुर्विशेषवचने दृष्टः । कुरु काष्ठानीत्याहरणे यथा तद्वदिति । तदेवं श्रीकृष्णस्य स्वयं बहगवत्त्वं तस्यैव नराकृतिपरब्रह्मणो नित्यमेव तद्रूपेणावस्थायित्वं दर्शितम् । तथा प्रथमे पृथिव्यापि सत्यं शौचं दया शौचिः [भागवतम् १.१६.२७] इत्यादिना तदीयानां कान्तिसहौजो बलानां स्वाभाविकत्वमव्यभिचारित्वं च दर्शितम् । अतएव ब्रह्माण्डे चाष्टोत्तरशतनामस्तोत्रे नराकृतित्वं प्रकृत्यैवोक्तम् नन्दव्रजजनानन्दी सच्चिद्आनन्दविग्रहः । नवनीतविलिप्ताङ्गी नवनीतनटोऽनघ ॥ इति । श्रीगोपालपूर्वतापन्यामपि तथैव नित्यो नित्यानां चेतनश्चेतनानाम् एको बहूनां यो विदधाति कामान् । तं पीठगं येऽनुभजन्ति धीरास् तेषां सिद्धिः शाश्वती नेतरेषाम् ॥ [ङ्टू १.२०] इति । तमेकं गोविन्दं सच्चिद्आनन्दविग्रहम् [ङ्टू १.३३] इत्यादि च । तस्माच् चतुर्भुजत्वे द्विभुजत्वे च श्रीकृष्णत्वस्याव्यभिचारित्वमेवेति सिद्धम् । अथ कतमत्तत्पदं यत्रासौ विहरति । तत्रोच्यते या यथा भुवि वर्तन्ते पुर्यो भगवतः प्रियाः । तास्तथा सन्ति वैकुण्ठे तत्तल्लीलार्थमादृताः ॥ इति स्कान्दवचनानुसारेण वैकुण्ठे यद्यत्स्थानं वर्तते तत्तदेवेति मन्तव्यम् । तच्चाखिलवैकुण्ठोपरिभाग एव । यतः पाद्मोत्तरखण्डे दशावतारगणने श्रीकृष्णमेव नवमत्वेन वर्णयित्वा क्रमेण पूर्वादिषु तद्दशावतारस्थानानां परमव्योमाभिध वैकुण्ठस्यावरणत्वेन गणनया श्रीकृष्णलोकस्य ब्रह्मदिशि प्राप्ते सर्वोपरिस्थायित्वमेव पर्यवसितम् । आगमादौ हि दिक्क्रमस्तथैव दृश्यते । तत्रास्माभिस्तु तत्तच्छ्रवणात्श्रीकृष्णलोकस्य स्वतन्त्रैव स्थितिः । किन्तु परमव्योमपक्षपातित्वेनैव [पगे ४८] पाद्मोत्तरखण्डे तद्आवरणेषु प्रवेशितोऽसाविति मन्तव्यम् । पाद्मोत्तरखण्ड प्रतिपाद्यस्य गौणत्वं तु श्रीभागवतप्रतिपाद्यापेक्षया वर्णितमेव । स्वायम्भुवागमे च स्वतन्त्रतयैव सर्वोपरि तत्स्थानमुक्तम् । यथा ईश्वरदेवीसंवादे चतुर्दशाक्षरध्यानप्रसङ्गे पञ्चाशीतितमे पटले ध्यायेत्तत्र विशुद्धात्मा इदं सर्वं क्रमेण तु । नानाकल्पलताकीर्णं वैकुण्ठं व्यापकं स्मरेत् ॥ अधःसाम्यं गुणानां च प्रकृतिं सर्वकारणम् । प्रकृतेः कारणान्येव गुणांश्च क्रमशः पृथक् ॥ ततस्तु ब्रह्मणो लोकं ब्रह्मचिह्नं स्मरेत्सुधीः । ऊर्ध्वं तु सीम्नि विरजां निःसीमां वरवर्णिनि ॥ वेदाङ्गस्वेदजनिततोयैः प्रस्रावितां शुभाम् । इमाश्च देवता ध्येया विरजायां यथाक्रमम् ॥ इत्याद्य्अनन्तरम् ततो निर्वाणपदवीं मुनीनामूर्ध्वरेतसाम् । स्मरेत्तु परमव्योम यत्र देवाः सनातनाः ॥ ततोऽनिरुद्धलोकं च प्रद्युम्नस्य यथाक्रमम् । सङ्कर्षणस्य च तथा वासुदेवस्य च स्मरेत् ॥ लोकाधिपान् स्मरेत्... इत्याद्य्अनन्तरं च पीयूषलतिकाकीर्णां नानासत्त्वनिषेविताम् । सर्वर्तुसुखदां स्वच्छां सर्वजन्तुसुखावहाम् ॥ नीलोत्पलदलश्यामां वायुना चालितां मृदु । वृन्दावनपरागैस्तु वासितां कृष्णवल्लभाम् ॥ सीम्नि कुञ्जतटां योषित्क्रीडामण्डपमध्यमाम् । कालिन्दीं संस्मरेद्धीमान् सुवर्णतटपङ्कजाम् ॥ नित्यनूतनपुष्पादिरञ्जितं सुखसङ्कुलम् । स्वात्मानन्दसुखोत्कर्षशब्दादिविषयात्मकम् ॥ नानाचित्रविहङ्गादिध्वनिभिः परिरम्भितम् । नानारत्नलताशोभिमत्तालिध्वनिमन्द्रितम् ॥ चिन्तामणिपरिच्छिन्नं ज्योत्स्नाजालसमाकुलम् । सर्वर्तुफलपुष्पाढ्यं प्रवालैः शोभितं परि ॥ कालिन्दीजलसंसर्गवायुना कम्पितं मुहुः । वृन्दावनं कुसुमितं नानावृक्षविहङ्गमैः ॥ संस्मरेत्साधको धीमान् विलासैकनिकेतनम् । त्रिलोकीसुखसर्वस्वं सुयन्त्रं केलिवल्लभम् ॥ तत्र सिंहासने रम्ये नानारत्नमये सुखे । सुमनोऽधिकमाधुर्यकोमले सुखसंस्तरे ॥ धर्मार्थकाममोक्षाख्यचतुष्पादैर्विराजते । ब्रह्मविष्णुमहेशानां शिरोभूषणभूषिते ॥ तत्र प्रेमभराक्रान्तं किशोरं पीतवाससम् । कलायकुसुमश्यामं लावण्यैकनिकेतनम् ॥ लीलारससुखाम्भोधिसंमग्नं सुखसागरम् । नवीननीरदाभासं चन्द्रिकाङ्चितकुन्तलम् ॥ इत्यादि । (पगे ४९) [Vऋ. हेरे अद्द्स्. मृत्युसञ्जयतन्त्रे च ब्रह्माण्डस्योर्ध्वतो देवि ब्रह्मणः सदनं महत् । तद्ऊर्ध्वं देवि विष्णूनां तद्ऊर्ध्वं रुद्ररूपिणाम् ॥ तद्ऊर्ध्वं च महाविष्णोर्महादेव्यास्तद्ऊर्ध्वगम् । कालातिकालयोश्चाथ परमानन्दयोस्ततः । पारे पुरी महादेव्याः कालः सर्वभयावहः । ततः श्रीरत्नपीयूषवारिधिर्नित्यनूतनः ॥ तस्य पारे महाकालः सर्वग्राहकरूपधृक् । तस्योत्तरे समुद्भासी रत्नद्वीपः शिवाह्वयः ॥ उद्यच्चन्द्रोदयः क्षुब्धरत्नपीयूषवारिधेः । मध्ये हेममयीं भूमिं स्मरेन्माणिक्यमण्डिताम् ॥ षोडशद्वीपसंयुक्तां कलाकौशलमण्डिताम् । वृन्दावनसमूहैश्च मण्डितां परितः शुभैः ॥ तन्मध्ये नन्दनोद्यानं मदनोन्मादनं महत् । अनल्पकोटिकल्पद्रुवाटीभिः परिवेष्टितम् ॥ इत्यादि तन्मध्ये विपुलां ध्यायेद्वेदिकां शतयोजनाम् । सहस्रादित्यसङ्काशाम्... इत्यादि तस्यान्तरे महापीठं महाचक्रसमन्वितम् । तन्मध्ये मण्डपं ध्यायेद्व्याप्तब्रह्माण्डमण्डलम् ॥ इत्यादि । ध्यायेत्तत्र महादेवीं स्वयमेव तथाविधः । रक्तपद्मनिभां देवीं बालार्ककिरणोपमाम् ॥ इत्यादि । पीतवस्त्रपरिधानां वंशयुक्तकराम्बुजाम् । कौस्तुभोद्दीप्तहृदयां वनमालाविभूषिताम् ॥ श्रीमत्कृष्णाङ्कपर्यङ्कनिलयां परमेश्वरीम् ॥ इत्यादि । इति ध्यात्वा तथा भूत्वा तस्या एव प्रसादतः । तद्आज्ञया परानन्दमेत्यानन्दकलावृतम् ॥ तद्आकर्णय देवेशि कथयामि दवानघे । एतद्अन्तर्महेशानि श्वेतद्वीपमनुत्तमम् ॥ क्षीराम्भोनिधिमध्यस्थं निरन्तरसुरद्रुमम् । उद्यद्अर्धेन्दुकिरणदूरीकृततमोभरम् ॥ कालमेघसमालोकनृत्यद्बर्हिकदम्बरम् । कूजत्कोकिलसङ्घेन वाचालितजगत्त्रयम् ॥ नानाकुसुमसौगन्ध्यवाहिगन्धवहान्वितम् । कल्पवल्लीनिकुञ्जेषु गुञ्जद्भृङ्गगणान्वितम् ॥ रम्यावाससहस्रेण विराजितनभस्तलम् । रम्यनारीसहस्रौघैर्गायद्भिः समलङ्कृतम् ॥ गोवर्धनेन महता रम्यावासविनोदिना । शोभितं शुभचिह्नेन मानदण्डेन चापरम् ॥ अवाचीप्राच्य्उदीच्य्आशाः क्रमायतविवृद्धया । व्याप्ता यमुनया देव्या नीलमेघाम्बुशोभया ॥ तन्मध्ये स्फटिकमयं भवनं महदद्भुतम् । इत्यादि । तत्तद्अन्तर्महाकल्पमन्दारादिद्रुमैर्वृतम् । तत्तन्मध्ये समुद्भासिवृन्दावनकुलाकुलम् ॥ इत्यादि । कुत्रचिद्रत्नभवनं कुत्रचित्स्फटिकालयम् ॥ इत्यादि । गोगोपैरसङ्ख्यातैः सर्वतः समलङ्कृतम् । विपापं विलयं रम्यं सदा षड्ऊर्मिविवर्जितम् ॥ इत्यादि । तस्य मध्ये मणिमयं मण्डपं तोरणान्वितम् । तन्मध्ये गरुडोद्वाहिमहामणिमयासनम् ॥ इत्यादि । कल्पवृक्षसमुद्भासिरत्नभूधरमस्तके । ध्यायेत्तत्र परमानन्दं रम्योपास्यं परं महः ॥ स्मरेद्वृन्दावने रम्ये मोहयन्तमनारतम् । वल्लवीवल्लभं कृष्णं गोपकन्याः सहस्रशः ॥ इत्यादि । फुल्लेन्दीवरकान्तिमिन्दुवदनम् [ড়्व्४६] इत्यादि च । एतदनन्तरं नित्यानित्यलोकविवेके देव्या पृष्टे श्रीशिव आह ब्रह्मादीनां च सर्वेषां भवनानां च पार्वति । विनाशोऽस्तीह सर्वेषां विना तद्भवनं तयोः ॥ इति पूर्वोक्तयोः श्रीभगवन्महादेव्योरित्यर्थः ॥ [Vऋ. अद्दितिओनेन्द्स् हेरे.] [पगे ४९] तस्माद्या यथा भुवि वर्तन्ते इति न्यायाच्च स्वतन्त्र एव द्वारकामथुरा गोकुलात्मकः श्रीकृष्णलोकः स्वयं भगवतो विहारास्पदत्वेन भवति सर्वोपरीति सिद्धम् । अतएव वृन्दावनं गोकुलमेव सर्वोपरिविराजमानं गोलोकत्वेन प्रसिद्धम् । ब्रह्मसंहितायां ईश्वरः परमः कृष्णः इत्य् उपक्रम्य सहस्रपत्रकमलं गोकुलाख्यं महत्पदम् । तत्कर्णिकारं तद्धाम तद्अनन्तांशसम्भवम् ॥ कर्णिकारं महद्यन्त्रं षट्कोणं वज्रकीलकम् षड्अङ्गषट्पदीस्थानं प्रकृत्या पुरुषेण च ॥ प्रेमानन्दमहानन्दरसेनावस्थितं हि यत् ज्योतीरूपेण मनुना कामबीजेन सङ्गतम् ॥ तत्किञ्जल्कं तद्अंशानां तत्पत्राणि श्रियामपि ॥ चतुर्अस्रं तत्परितः श्वेतद्वीपाख्यमद्भुतम् चतुर्अस्रं चतुर्मूर्तेश्चतुर्धाम चतुष्कृतम् ॥ चतुर्भिः पुरुषार्थैश्च चतुर्भिर्हेतुभिर्वृतम् शूलैर्दशभिरानद्धमूर्ध्वाधो दिग्विदिक्ष्वपि ॥ अष्टभिर्निधिभिर्जुष्टमष्टभिः सिद्धिभिस्तथा मनुरूपैश्च दशभिर्दिक्पालैः परितो वृतम् ॥ श्यामैर्गौरैश्च रक्तैश्च शुक्लैश्च पार्षदर्षभैः शोभितं शक्तिभिस्ताभिरद्भुताभिः समन्ततः ॥ इति । (पगे ५०) तथाग्रे ब्रह्मस्तवे चिन्तामणिप्रकरसद्मसु कल्पवृक्ष लक्षावृतेषु सुरभिरभिपालयन्तम् । लक्ष्मीसहस्रशतसम्भ्रमसेव्यमानं गोविन्दमादिपुरुषं तमहं भजामि ॥ इति । व्याख्यामाह सहस्राणि पत्राणि यत्र तत्कमलं चिन्तामणिमयं पद्मं तद्रूपम् । तच्च महत्सर्वोत्कृष्टं पदं महतो महाभगवतो वा पदं श्रीमहावैकुण्ठमित्यर्थः । तत्तु नानाप्रकारमित्य् आशङ्क्य प्रकारविशेषत्वेण निश्चिनोति गोकुलाख्यमिति । गोकुलमित्याख्या प्रसिद्धिर्यस्य तत्गोगोपालसरूपमित्यर्थः । रूढिर्योगमपहरति इति न्यायेन तस्यैव प्रतीतेः । तत एतदनुगुणत्वेनैवोत्तरग्रन्थोऽपि व्याख्येयः । तस्य श्रीकृष्णस्य धाम नन्दयशोदादिभिः सह वास योग्यं महान्तःपुरम् । तस्य स्वरूपमाह तदिति । अनन्तस्य श्री बलदेवस्यांशात् । सम्भवो नित्याविर्भावो यस्य तत् । तथा तन्त्रेणैतदपि बोध्यते । अनन्तोऽंशो यस्य तस्य श्रीबलदेवस्यापि सम्भवो निवासो यत्र तद् इति । सर्वमन्त्रगणसेवितस्य श्रीमद्अष्टादशाक्षरमहामन्त्रराजस्य बहुपीठस्य मुख्यं पीठमित्याह कर्णिकारमिति द्वयेन । महद् यन्त्रमिति । यत्प्रतिकृतिरेव सर्वत्र यन्त्रत्वेन पूजार्थं लिख्यते इत्य् अर्थः । यन्त्रत्वमेव दर्शयति । षट्कोणा अभ्यन्तरे यस्य तद्वज्र कीलकं कर्णिकारे (बीजरूप)हीरककीलकशोभितम् । षट्कोणत्वे प्रयोजनमाह । षटङ्गानि यस्याः सा या षट्पदी श्रीमद्अष्टादशाक्षरी तस्याः स्थानं प्रकृतिर्मन्त्रस्य स्वरूपं स्वयमेव श्रीकृष्णः कारण स्वरूपत्वात् । पुरुषश्च स एव तद्देवतारूपः । ताभ्यामवस्थितम् अधिष्ठितम् । द्वयोरपि विशेषणं प्रेमेति । प्रेमरूपा ये आनन्द महानन्दरसास्तत्परिपाकभेदास्तद्आत्मकेन, तथा ज्योतीरूपेण स्व प्रकाशेन मनुना मन्त्ररूपेण च कामबीजेन अवस्थितमिति मूल मन्त्रान्तर्गतत्वेऽपि पृथग्उक्तिः कुत्रचिद्वैशिष्ट्यापेक्षया । तदेवं तद्धामोक्त्वा तद्आवरणान्याह तदिति । तस्य कर्णिकारस्य किञ्जल्कास्तल्लग्नाभ्यन्तरवलय इत्यर्थः । तद्अंशानां तस्मिन्नंशो दायो विद्यते येषां तेषां सजातीयानां धामेत्यर्थः । गोकुलाख्यमित्य् उक्तेरेव । तेषां तज्जातीयत्वं श्रीशुकदेवेन च उक्तम् एवं ककुद्मिनं हत्वा स्तूयमानः द्विजातिभिः । विवेश गोष्ठं सबलो गोपीनां नयनोत्सवः ॥ [भागवतम् १०.३६.१५] इति । तस्य कमलस्य पत्राणि श्रियां तत्प्रेयसीनां श्रीराधादीनामुपवन रूपाणि धामानीत्य्अर्थः । अत्र पत्राणामुच्छ्रितप्रान्तानां मूल सन्धिषु वर्त्मानि अग्रिमसन्धिषुगोष्ठानि ज्ञेयानि । अखण्डकमलस्य गोकुलाख्यत्वात्तथैव समावेशाच्च । अथ गोकुलावरणान्याह चतुरस्रमिति । तद्बहिश्चतुरस्रं तस्य गोकुलस्य बहिः सर्वतश्चतुरस्रं चतुष्कोणात्मकं स्थलं श्वेतद्वीपाख्यमिति तद् अंशे गोकुलमिति नामविशेषाभावात् । किन्तु चतुरस्राभ्यन्तरमण्डलं वृन्दावनाख्यं बहिर्मण्डलं केवलं श्वेतद्वीपाख्यं ज्ञेयं, गोलोक इति यत्पर्यायः । तदिह क्रोडीकृतगोकुलं वृन्दावनाख्ययातिप्रसिद्धमिति न निर्दिष्टम् । क्रोडीकृततत्सर्वमस्य तु बहिर्मण्डलं गोलोक श्वेतद्वीपाख्यं ज्ञेयम् । [Vऋ. रेअद्सिन् थे प्लचे ओf थे लस्त्त्wओ सेन्तेन्चेस्: तदेतदुपलक्षणं गोकोकाख्यं चेत्यर्थः । यद्यî गोकुलेऽपि श्वेतद्वीपत्वमस्त्येव, तद् अवान्तरभूमिमयत्वात्तथापि विशेषनाम्नाम्नातत्वातेनैव तत् प्रतीयते इति तथोक्तम् । किन्तु चतुरस्रेऽप्यन्तर्मण्डलं श्री वृन्दावनाख्यं ज्ञेयं बृहद्वामनस्वायम्भुवागमयोस्तथा दृष्टत्वात् । एन्द्Vऋ.] चतुर्मूर्तेश्चतुर्व्यूहस्य श्रीवासुदेवादिचतुष्टयस्य चतुष्कृतं चतुर्धा विभक्तं चतुर्धाम । किन्तु देवलीलत्वात्तद्उपरि व्योमयानस्था एव ते ज्ञेया । हेतुभिः पुरुषार्थसाधनैर्मनुरूपैः स्वस्वमन्त्रात्मकैर् इन्द्रादिभिः । श्यामैरित्यादिभिरिति चतुर्भिर्वेदैरित्यर्थः । कृष्णं च तत्र छन्दोभिः स्तूयमानं सुविस्मिताः [भागवतम् १०.२८.१८] इति श्रीदशमोक्तेः । शक्तिभिरिति श्रीविमलादिभिरित्यर्थः । इयं च बृहद्वामनपुराण प्रसिद्धिः । यथा श्रीभगवति श्रुतिप्रार्थनापूर्वकाणि पद्यानि आनन्दरूपमिति यद्विदन्ति हि पुराविदः । तद्रूपं दर्श्यास्माकं यदि देयो वरो हि नः ॥ श्रुत्वैतद्दर्शयामास स्वलोकं प्रकृतेः परम् । केवलानुभवानन्दमात्रमक्षरमव्ययम् ॥ यत्र वृन्दावनं नाम वनं कामदुघैर्द्रुमैः । मनोरमनिकुञ्जाढ्यं सर्वर्तुसुखसंयुतम् ॥ यत्र गोवर्धनो नाम सुनिर्झरदरीयुतः । रत्नधातुमयः श्रीमान् सुपक्षिगणसङ्कुलः ॥ यत्र निर्मलपानीया कालिन्दी सरिता वरा । रत्नबद्धोभयतटा हंसपद्मादिसङ्कुला ॥ शश्वद्रासरसोन्मत्तं यत्र गोपीकदम्बकम् । तत्कदम्बकमध्यस्थः किशोराकृतिरच्युतः ॥ इति । एतद्अनुसारेण श्रीहरिवंशवचनमप्येव व्याख्येयम् । तद्यदाह शक्रः स्वर्गादूर्ध्वं ब्रह्मलोको ब्रह्मर्षिगणसेवितः । तत्र सोमगतिश्चैव ज्योतिषां च महात्मनाम् ॥ तस्योपरि गवां लोकः साध्यास्तं पालयन्ति हि । स हि सर्वगतः कृष्ण महाकाशगतो महान् ॥ उपर्युपरि तत्रापि गतिस्तव तपोमयी । यां न विद्मो वयं सर्वे पृच्छन्तोऽपि पितामहम् । गतिः शमदमाढ्यानां स्वर्गः सुकृतकर्मणाम् ॥ ब्राह्म्ये तपसि युक्तानां ब्रह्मलोकः परा गतिः । गवामेव तु यो लोको दुरारोहो हि सा गतिः ॥ स तु लोकस्त्वया कृष्ण सीदमानः कृतात्मना । धृतो धृतिमता वीर निघ्नतोपद्रवान् गवाम् ॥ [ःV २.१९.२९३५] इति । अस्यार्थः । स्वर्गशब्देन भूर्लोकः कल्पितः पद्भ्यां भुवर्लोकोऽस्य नाभितः । स्वर्लोकः कल्पितो मूर्ध्ना इति वा लोककल्पना ॥ [भागवतम् २.५.४२] इति द्वितीयोक्तानुसारेण स्वर्लोकमारभ्य सत्यलोकपर्यन्तं लोक पञ्चकमुच्यते । तस्मादूर्ध्वमुपरि ब्रह्मलोको ब्रह्मात्मको वैकुण्ठाख्यः सच्चिद्आनन्दरूपत्वात् । ब्रह्मणो भगवतो लोक इति वा ददृशुर्ब्रह्मलोकं ते यत्राक्रूरोऽध्यगात्पुरा [भागवतम् १०.२८.१७] इति दशमात् । एवं द्वितीये मूर्धभिः सत्यलोकस्तु ब्रह्मलोकः सनातनः [भागवतम् २.५.३८] इति । टीका च ब्रह्मलोको वैकुण्ठाख्यः । सनातनो नित्यः । न सृज्यान्तर्वर्तीत्यर्थः । इत्येषा । ब्रह्माणि मूर्तिमन्तो वेदाः । ऋषयश्च श्रीनारदादयः । गणाश्च श्री गरुडविष्वक्सेनादयः । तैर्निषेवितः । एवं नित्याश्रितानुक्त्वा तद् गमनाधिकारिण आह । तत्र ब्रह्मलोके उमया सह वर्तत इति सोमः श्री शिवस्तस्य गतिः । [Vऋ. इन्सेर्त्स्: स्वधर्मनिष्ठः शतजन्मभिः पुमान् विरिञ्चतामेति ततः परं हि माम् । अव्याकृतं भागवतोऽथ वैष्णवं पदं यथाहं विबुधाः कलात्यये ॥ [भागवतम् ४.२४.२९] इति चतुर्थे श्रीरुद्र गीतम् । [एन्द्Vऋ. अद्दितिओन्.] सोमेति सुपां सुलुगित्यादिना (पगे ५२) षष्ठ्या लुक्छान्दसः । तत उत्तरत्रापि गतिपदान्वयः । ज्योतिर्ब्रह्म तद्ऐकात्म्यभावानां मुक्तानामित्यर्थः । न तु तादृशानामपि सर्वेषामित्याह महात्मनां महाशयानां मोक्षनिरादरतया भजतां श्रीसनकादितुल्यानामित्य् अर्थः मुक्तानामपि सिद्धानां नारायणपरायणः सुदुर्लभः प्रशान्तात्मा कोटिष्वपि महामुने ॥ [भागवतम् ६.१४.५] इत्यादौ, योगिनामपि सर्वेषां मद्गतेनान्तरात्मना । श्रद्धावान् भजते यो मां स मे युक्ततमो मतः ॥ [गीता ६.४७] इत्यादावपि तेष्वेव महत्त्वपर्यवसनात् । तस्य च ब्रह्मलोकस्योपरि सर्वोर्ध्वप्रदेशे गवां लोकः श्रीगोलोक इत्यर्थः । तं च श्रीगोलोकं साध्या अस्माकं प्रापञ्चिकदेवानां प्रसादनीया मूलरूपा नित्यतदीय देवगणाः पालयन्ति । तत्र तत्र दिक्पालत्वेनावरणरूपा वर्तन्ते, ते ह नाकं महिमानः सचन्तः यत्र पूर्वे साध्याः सन्ति देवाः [ऋक्१०.९०.१६] इति श्रुतेः । तत्र पूर्वे ये च साध्या विश्वे देवाः सनातनाः । ते ह नाकं महिमानः सचन्ते शुभदर्शनाः ॥ [ড়द्मড়् ६.२२७.७६] इति पाद्मोत्तरखण्डाच्च । यद्वा तद्भूरिभाग्यमिह जन्म किमप्यटव्यां यद्गोकुलेऽपि [भागवतम् १०.१४.३४] इत्याद्य्उक्त्यानुसारेण तद्विधपरमभक्तानामपि साध्यास् तादृशसिद्धिप्राप्तये प्रासादनीयाः श्रीगोपगोपीप्रभृतयः । तं पालयन्ति अधिकृत्य भुञ्जन्ति । हि प्रसिद्धौ । स गोलोकः सर्वगतः श्री कृष्णवत्सर्वप्रापञ्चिकाप्रापञ्चिकवस्तुव्यापकः । अतएव महान् भगवद्रूप एव । महान्तं विभुमात्मानम् [Kअठू २.२२] इति श्रुतेः । तत्र हेतुः । महाकाशः परमव्योमाख्यः ब्रह्मविशेषणलाभाद् आकाशस्तल्लिङ्गाद्[Vस्१.१.२२] इति न्यायप्रसिद्धेश्च । तद्गतः । ब्रह्माकारोदयान्तरमेव वैकुण्ठप्राप्तेः । यथा श्रीगोपानां वैकुण्ठदर्शने तैरेव व्याख्यातम् । यथा वा श्रीमद्अजामिलस्य वैकुण्ठगमनम् । यद्वा महाकाशः परमव्योमाख्यो महा वैकुण्ठस्तद्गतस्तद्ऊर्ध्वभागस्थितः । एवमुपर्युपरि सर्वोपर्य् अपि विराजमाने तत्र श्रीगोलोकेऽपि तव गतिः । नानारूपेण वैकुण्ठादौ क्रीडतस्तव तत्रापि श्रीगोविन्दरूपेण क्रीडा विद्यत इत्यर्थः । अतएव सा च गतिः साधारणी न भवति किन्तु तपोमयी अनवच्छिन्नैश्वर्यमयी परमं यो महत्तपः इत्यत्र सहरनाम भाष्येऽपि तपःशब्देन तथैव व्याख्यातम् । अतएव ब्रह्मादि दुर्वितर्क्यत्वमप्याह यामिति । अधुना तस्य श्रीगोलोकेत्याख्या बीजम् अभिव्यञ्जयति गतिरिति । ब्राह्मे ब्रह्मणो लोकप्रापके तपसि विष्णु विषयकमनःप्रणिधाने युक्तानां रतचित्तानां प्रेमभक्तानामित्य् अर्थः । ब्रह्मलोको वैकुण्ठलोकः । परा प्रकृत्यतीता । गवां मोचयन् व्रजगवां दिनतापम् [भागवतम् १०.३५.२५] इत्य्उक्तानुसारेण अत्रैव निघ्नतोपद्रवान् गवामित्युक्त्या च गोलोकवासिमात्राणां स्वतस्तद् भावभावितानां च साधनवशेनेत्यर्थः । अतएव तद् भावस्यासुलभत्वाद्दुरारोहा । तदेवं गोलोकं वर्णयित्वा तस्य गोकुलेन सहाभेदमाह स त्विति । स एव तु स लोको धृतो रक्षितः । श्रीगोवर्धनोद्धरणेनेति । यथा मृत्युसञ्जय तन्त्रे । एकदा सान्तरीक्षाच्च वैकुण्ठं स्वेच्छया भुवि । गोकुलत्वेन संस्थाप्य (पगे ५३) गोपीमयमहोत्सवा । भक्तिरूपां सतां भक्तिमुत्पादितवती भृशम् ॥ इति । अत्र शब्दसाम्यभ्रमप्रतीतार्थान्तरे स्वर्गादूर्ध्वं, ब्रह्मलोक इत्य् अयुक्तं लोकत्रयमतिक्रम्योक्तेः । तथा सोमगतिरित्यादिकं न सम्भवति । यतो ध्रुवलोकादधस्तादेव चन्द्रसूर्यादीनां गतिर् महर्लोकेऽपि न वर्तते । तथावरसाध्यगणानां तुच्छत्वात्सत्य लोकस्यापि पालनं न युज्यते कुतस्तद्उपरिलोकस्य श्रीगोलोकाख्यस्य । तथा सर्वगतत्वं चासम्भाव्यं स्यात् । अतएव तत्रापि एव गतिरित्यापि शब्दो विस्मये प्रयुक्तः । यां न विद्म इत्यादिकं च । अन्यथा यथोक्तिर्न सम्भवति स्वेषां ब्रह्मणश्च तद्अज्ञानज्ञापनात् । तस्मात्प्राकृत गोलोकादन्य एवासौ सनातनो गोलोको ब्रह्मसंहितावत्श्रीहरिवंशेऽपि परोक्षवादेन निरूपितः । एवं च नारदपञ्चरात्रे विजयाख्याने तत्सर्वोपरि गोलोके श्रीगोविन्दः सदा स्वयम् । विहरेत्परमानन्दी गोपीगोकुलनायकः ॥ इति । एवं चोक्तं मोक्षधर्मे नारायणीये तथा स्कान्दे च एवं बहुविधै रूपैश्चरामीह वसुन्धराम् । ब्रह्मलोकं च कौन्तेय गोलोकं च सनातनम् ॥ [ंभ्१२.३३०.६८] इति । तदेवं सर्वोपरि श्रीकृष्णलोकोऽस्तीति सिद्धम् । स च लोकस्तत्तल्लीला परिकरभेदेनांशभेदात्द्वारकामथुरागोकुलाख्यस्थान त्रयात्मक इति निर्णीतम् । अन्यत्र तु भुवि प्रसिद्धान्येव तत्तद्आख्यानि स्थानानि तद्रूपत्वेन श्रूयन्ते तेषामपि वैकुण्ठान्तरवत् प्रपञ्चातीतत्वनित्यत्वालौकिकरूपत्वभगवन्नित्यास्पदत्वकथनात् । तत्र द्वारकायास्तत्तरं स्कान्दप्रह्लादसंहितादावन्वेष्टव्यम् । इयं च श्रुतिरुदाहरणीया अन्तःसमुद्रे मनसा चरन्तं ब्राह्मान्वविन्दन् दशहोतारमर्णे । समुद्रेऽन्तः कवयो विचक्षते मरीचीनां पदमन्विच्छन्ति वेधसः ॥ इत्याद्या । श्रीमथुरायाः प्रपञ्चातीतत्वं यथा वाराहे अन्यैव काचित्सा सृष्टिर् विधातुर्व्यतिरेकिणी इति । नित्यत्वमपि यथा पाद्मे पातालखण्डे ऋषिर् माथुरनामात्र तपः कुर्वति शाश्वते इति । अत्र मथुरामण्डले शाश्वते नित्ये कुर्वति करोति । अलौकिकरूपत्वं यथा आदिवाराहे भूर्भुवः स्वस्तलेनापि न पातालतलेऽमलम् । नोर्ध्वलोके मया दृष्टं तादृक्क्षेत्रं वसुन्धरे ॥ इति । श्रीभगवन्नित्यास्पदत्वं यथा अहोऽतिधन्या मथुरा यत्र सन्निहितो हरिः ॥ इति । न च वक्तव्यमुपासनास्थानमेवेदम्, यतो आदिवाराहे मथुरायाः परं क्षेत्रं त्रैलोक्ये न हि विद्यते । तस्यां वसाम्यहं देवि मथुरायां तु सर्वदा ॥ इति । तत्र वासस्यैव कण्ठोक्तिः । अत्रेदृशं श्रीवराहदेववाक्यमंशांशिनोर् ऐक्यविवक्षयैव न तु तस्यैवासौ निवासः श्रीकृष्णक्षेत्रत्वेनैव प्रसिद्धेः । तथैव पातालखण्डे अहो मधुपुरी धन्या यत्र तिष्ठति कंसहा इति । वायुपुराणे तु स्वयं साक्षादेवेत्युक्तम् चत्वारिंशद्योजनानां ततस्तु मथुरा स्मृता । यत्र देवो हरिः साक्षात्स्वयं तिष्ठति कंसहा ॥ इति । अत्र साक्षाच्छब्देन सूक्ष्मरूपता । स्वयंशब्देन श्रीमत्प्रतिमा रूपता च निषिद्धा । तत इति पूर्वोक्तात्पुष्कराख्यतीर्थातित्यर्थः । मथुरायाः परं क्षेत्रमित्यनेन वराहवचनेन पूर्यामेव तिष्ठतीति निरस्तम् । [पगे ५४] अत्र श्रीगोपालतापनीश्रुतिश्च स होवाच तं हि नारायणो देवः सकाम्या मेरोः शृङ्गे यथा सप्तपूर्यो भवन्ति तथा निष्काम्याः सकाम्याश्च भूगोलचक्रे सप्तपूर्यो भवन्ति । तासां मध्ये साक्षाद्ब्रह्म गोपाल पुरी हीति ॥ सकाम्या निष्काम्या देवानां सर्वेषां भूतानां भवति यथा हि वै सरसि पद्मं तिष्ठति तथा भूम्यां तिष्ठतीति चक्रेण रक्षिता हि मथुरा तस्मात्गोपालपुरी भवति । बृहद्बृहद्वनं मधोर्मधु वनम् [ङ्टू २.२६२८] इत्यादिका । पुनश्च एतैरावृता पुरी भवति तत्र तेष्वेव गहनेष्वेवमित्यादिका । तथा द्वे वने स्तः कृष्णवनं भद्रवनं तयोरन्तर्द्वादशवनानि पुण्यानि पुण्यतमानि तेष्वेव देवास्तिष्ठन्ति सिद्धाः सिद्धिं प्राप्ताः । तत्र हि रामस्य राममूर्तिः [ङ्टू २.३१३२] इत्यादिका । तदप्येते श्लोका भवन्ति । प्राप्य मथुरां पुरीं रम्यां सदा ब्रह्मादिसेवितम् । शङ्खचक्रगदाशार्ङ्गरक्षितां मुषलादिभिः ॥ यत्रासौ संस्थितः कृष्णस्त्रिभिः शक्त्या समाहितः । रामानिरुद्धप्रद्युम्नै रुक्मिण्या सहितो विभुः ॥ [ङ्टू २.३५३६] इति । किं तस्य स्थानमिति श्रीगान्धर्व्याः प्रश्नस्योत्तरमिदम् । एवमेव श्री रघुनाथस्याप्ययोध्यायां श्रूयते, यथा स्कान्दायोध्यामाहात्म्ये स्वर्गद्वारमुद्दिश्य चतुर्धा च तनुं कृत्वा देवदेवो हरिः स्वयम् । अत्रैव रमते नित्यं भ्रातृभिः सह राघवः ॥ इति । अतएव, यत्र यत्र हरेः स्थानं वैकुण्ठं तद्विदुर्बुधा इत्यनुसारेण महाभगवतः स्थानत्वात्महावैकुण्ठ एवासौ । यतो वैकुण्ठात्तस्य गरीयस्त्वं श्रूयते । यथा पातालखण्डे एवं सप्तपुरीणां तु सर्वोत्कृष्टं च माथुरम् । श्रूयतां महिमा देवि वैकुण्ठो भुवनोत्तमः ॥ इति । अतएव तत्रैव अहो मधुपुरी धन्या वैकुण्ठाच्च गरीयसी । इति । [B रेअद्स्हेरे] आदिवाराहे मथुरायां ये वसन्ति विष्णुरूपा हि ते खलु । अज्ञानास्तान्न पश्यन्ति पश्यन्ति ज्ञानचक्षुषा ॥ इति । [एन्द्Vऋ.] अथ श्रीवृन्दावनस्य प्रपञ्चातीतत्वादिकं मथुरामण्डलस्यैव तत्त्वेन सिद्धम् । यथा च श्रीगोविन्दवृन्दावनाख्यबृहद्गौतमीये तन्त्रे नारदप्रश्नस्योत्तरं श्रीकृष्णस्योत्तरम् । तत्र प्रश्नः किमिदं द्वादशाभिख्यं वृन्दारण्यं विशाम्पते । श्रोतुमिच्छामि भगवन् यदि योगोऽस्मि मे वद ॥ अथोत्तरम् इदं वृन्दावनं रम्यं मम धामैव केवलम् । अत्र ये पशवः पक्षिवृक्षा कीटा नरामराः । ये वसन्ति ममाधिष्ण्ये मृता यान्ति ममालयम् ॥ अत्र या गोपकन्याश्च निवसन्ति ममालये । योगिन्यस्ता मया नित्यं मम सेवापरायणाः ॥ पञ्चयोजनमेवास्ति वनं मे देहरूपकम् । कालिन्दीयं सुषुम्नाख्या परमामृतवाहिनी ॥ अत्र देवाश्च भूतानि वर्तन्ते सूक्ष्मरूपतः । सर्वदेवमयश्चाहं न त्यजामि वनं क्वचित् ॥ आविर्भावस्तिरोभावो भवेन्मेऽत्र युगे युगे । तेजोमयमिदं रम्यमदृश्यं चर्मचक्षुषा ॥ इति विशेषतस्तादृग्अलौकिकरूपत्वभगवन्नित्यधामत्वे तु दिव्य कदम्बाशोकादिवृक्षादयोऽप्यद्यापि महाभागवतैः साक्षात्क्रियन्ते इति प्रसिद्धावगतेः । यथा वाराहे कालीयह्रदमाहात्म्ये अत्रापि महदाश्चर्यं पश्यन्ति पण्डिता नराः । कालीयह्रदपूर्वेण कदम्बो महितो द्रुमः । शतशाखं विशालाक्षि पुण्यं सुरभिगन्धि च । स च द्वादशमासानि मनोज्ञः शुभशीतलः । पुष्पायति विशालाक्षि प्रभासन्तो दिशो दश ॥ इति । शतानां शाखानां समाहारः शतशाखं तद्यत्र प्रवर्ततित्यर्थः । प्रभासन्तः प्रभासयन्नित्यर्थः । तत्रैव तदीयब्रह्मकुण्ड माहात्म्ये तत्राश्चर्यं प्रवक्ष्यामि तच्छृणु त्वं वसुन्धरे । लभन्ते मनुजाः सिद्धिं मम कर्मपरायणाः ॥ तस्य तत्रोत्तरे पार्श्वेऽशोकवृक्षः सितप्रभः । वैशाखस्य तु मासस्य शुक्लपक्षस्य द्वादशी ॥ स पुष्पति च मध्याङ्गे मम भक्तसुखावहः । न कश्चिदपि जानाति विना भागवतं शुचिम् ॥ इत्यादि । द्वादशीति द्वादश्यामित्यर्थः । सुपां सुलुगित्यादिनैव पूर्वसवर्णः । शुचित्वमत्र तद्अनन्यवृत्तित्वम् । अनेन पृथिव्यापि तस्य तस्य तादृशरूपं न ज्ञायते इत्यायातम् । अतएव तदीयतीर्थान्तरमुद्दिश्य यथा चादिवाराहे कृष्णक्रीडासेतुबन्धं महापातकनाशनम् । वलभीं तत्र क्रीडार्थं कृत्वा देवो गदाधरः ॥ गोपकैः सहितस्तत्र क्षणमेकं दिने दिने । तत्रैवे रमणार्थं हि नित्यकालं स गच्छति ॥ इति । एवं स्कान्दे ततो वृन्दावनं पुण्यं वृन्दादेवीसमाश्रितम् । हरिणाधिष्ठितं तच्च ब्रह्मरुद्रादिसेवितम् ॥ इति । श्रुतिश्च दर्शिता गोविन्दं सच्चिद्आनन्दविग्रहं वृन्दावनसुरभूरुहतलासीनं सततं समरुद्गणोऽहं परितोषयामि । [ङ्टू १.३७] इति । एवं पातालखण्डे यमुनाजलकल्लोले सदा क्रीडति माधवः । इति । यमुनाया जलकल्लोला यत्र एवंभूते वृन्दावने इति प्रकरणाल्लब्धम् । तत्राजहल्लक्षणया तीरह्रदावेव गृह्येते । तीरं च वृन्दावनलक्षणं तत्र प्रस्तुतम् । अतएवास्य श्रीवृन्दावनस्य वैकुण्ठत्वमेव कण्ठोक्त्या कृष्णतापन्यां श्रुतौ दर्शितं गोकुलं वनवैकुण्ठम् [Kऋष्णोपनिषत्७] इति । तस्मान्नित्यधामत्वश्रवणात्श्रीमथुरादीनां तत्स्वरूप विभूतित्वमेव स भगवः कस्मिन् प्रतिष्ठित इति स्वे महिम्नि [Cहाऊ १.२४.१] इति श्रुतेः । अतएव तापनीश्रुतिः साक्षाद्ब्रह्म गोपालपुरी हि [ङ्टू २.२६] इति । बृहद् गौतमीयतन्त्रे च तेजोमयमिदं रम्यमदृश्यं चर्मचक्षुषा इति । तद्ईदृशरूपता काशीमुद्दिश्य ब्रह्मवैवर्ते त्वित्थं समाधीयते । यथा श्रीविष्णुं प्रति मुनीनां प्रश्नः छत्राकारं तु किं ज्योतिर्जलादूर्ध्वं प्रकाशते । निमग्नायां धरायां तु न वै मज्जति तत्कथम् ॥ किमेतच्छाश्वतं ब्रह्म वेदान्तशतरूपितम् । तापत्रयार्तिदग्धानां जीवनं छत्रतां गतम् ॥ दर्शनादेव चास्याथ कृतार्थाः स्मो जगद्गुरो । वारं वारं तवाप्यत्र दृष्टिर्लग्ना जनार्दन ॥ परमाश्चर्यरूपोऽपि साश्चर्य इव पश्यसि ॥ अथ श्रीविष्णूत्तरम् छत्राकारं परं ज्योतिर्दृश्यते गगनेचरम् । तत्परं परमं ज्योतिः काशीति प्रथितं क्षितौ ॥ रत्नं सुवर्णे खचितं यथा भवेत् तथा पृथिव्यां खचिता हि काशिका । न काशिका भूमिमयी कदाचित् ततो न मज्जेन्मम सद्गतिर्यतः ॥ जडेषु सर्वेष्वपि मज्जमानेष्व् इयं चिद्आनन्दमयी न मज्जेत् ॥ इत्यादि । [पगे ५६] तथाग्रे च चेतनाजडयोरैक्यं यद्वन्नैकस्थयोरपि । तथा काशी ब्रह्मरूपा जडा पृथ्वी च सङ्गता ॥ निर्माणं तु जडस्यात्र क्रियते न परात्मनः । उद्धरिष्यामि च महीं वाराहं रूपमास्थितः ॥ तदा पुनः पृथिव्यां हि काशी स्थास्यामि मत्प्रिया ॥ इति । चेतनाशब्देनात्रान्तर्यामी उपलक्ष्यते । जडशब्देन तु देहः परमात्मन इत्युक्तत्वात् । ततश्च केचित्स्वदेहान्तर्हृदयावकाशे प्रादेश मात्रं पुरुषं वसन्तम् [भागवतम् २.२.८] इत्यादिना चतुर्भुजत्वेन वर्णितोऽन्तर्यामी देहे स्थितोऽपि यथा देहवेदनादिना न स्पृश्यते तद्वदिति ज्ञेयम् । तदेवं तद्धाम्नामुपर्य्अधः प्रकाशमात्रत्वेनोभयविधत्वं प्रसक्तम् । वस्तुतस्तु श्रीभगवन्नित्याधिष्ठानत्वेन तच्छ्री विग्रहवदुभयत्र प्रकाशाविरोधात्समानगुणनाम रूपत्वेनाम्नातत्वाल्लाघवाच्चैकविधत्वमेव मन्तव्यम् । एकस्यैव श्रीविग्रहस्य बहुत्र प्रकाशश्च द्वितीयसन्दर्भे दर्शितः । चित्रं बतैतदेकेन वपुषा युगपत्पृथक् गृहेषु द्व्य्अष्टसाहस्रं स्त्रिय एक उदावहत् ॥ [भागवतम् १०.६९.१] इत्यादिना । एवंविधत्वं च तस्याचिन्त्यशक्तिस्वीकारेण सम्भावितमेव । स्वीकृतं चाचिन्त्यशक्तित्वं श्रुतेस्तु शब्दमूलत्वात्[Vस्२.१.२७] इत्यादौ । तदेवम् उभयाभेदाभिप्रायेणैव श्रीहरिवंशेऽपि गोलोकमुद्दिश्य स हि सर्व गतो महान् [ःV २.१९.३०] इत्युक्तम् । भेदे तु ब्रह्मसंहितायामपि गोलोक एव निवसत्यखिलात्मभूतः [Bरह्मष्५.४८] इत्येवकारोऽत्र स्वकीयनित्य विहारप्रतिपादकवाराहादिवचनैर्विरुध्येत । अविरोधस्तूभयेषाम् ऐक्येनैव भवतीति तं न्यायसिद्धमेवार्थं ब्रह्मसंहिता तु गृह्णाति । अतएव श्रीहरिवंशेऽपि शक्रेण स तु लोकस्त्वया कृष्ण सीदमानः कृतात्मना । धृतो धृतिमता वीर निघ्नतोपद्रवान् गवाम् ॥ [ःV २.१९.३५] इति । गोलोकगोकुलयोरभेदेनैवोक्तम् । तस्मादभेदेन च भेदेन चोपक्रान्तत्वादेकविधान्येव श्रीमथुरादीनि प्रकाशभेदेनैव तूभयविधत्वेनाम्नातानीति स्थितम् । दर्शयिष्यते चाग्रे । क्षौणि प्रकाशमान एव श्रीवृन्दावने श्रीगोलोकदर्शनम् । ततोऽस्यैवापरिच्छिन्नस्य गोलोकाख्यवृन्दावनीयप्रकाशविशेषस्य वैकुण्ठोपर्यपि स्थितिर्माहात्म्यावलम्बनेन भजतां स्फुरतीति ज्ञेयम् । अयमेव मथुराद्वारकागोकुलप्रकाशविशेषात्मकः श्री कृष्णलोकस्तद्विरहिणा श्रीमद्उद्धवेनापि समाधावनुभूत इत्याह शनकैर्भगवल्लोकान्नृलोकं पुनरागतः । विमृज्य नेत्रे विदुरं प्रीत्याहोद्धव उत्स्मयन् ॥ [भागवतम् ३.२.६] स्पष्टम् ॥ ३.२ ॥ श्रीशुकः ॥ १०६ ॥ [१०७] इममेव लोकं द्युशब्देनाप्याह विष्णोर्भगवतो भानुः कृष्णाख्योऽसौ दिवं गतः । तदाविशत्कलिर्लोकं पापे यद्रमते जनः ॥ यावत्स पादपद्माभ्यां स्पृशनास्ते रमापतिः । तावत्कलिर्वै पृथिवीं पराक्रन्तुं न चाशकत् ॥ [भागवतम् १२.२.२९३०] यदा गुणावतारस्य भगवतो विष्णोस्तद्अंशत्वाद्रश्मिस्थानीयस्य कृष्णाख्यो भानुः सूर्यमण्डलस्थानीयो दिवं प्रापञ्चिकलोकागोचरं मथुरादीनामेव प्रकाशविशेषरूपं वैकुण्ठलोकं गतस्तदा कलिर् लोकमाविशत् । एषां स च प्रकाशः पृथिवीस्थोऽप्यन्तर्धानशक्त्या ताम् अपृशन्नेव विराजते । अतस्तया न स्पृश्यते पृथिव्य्आदिभूतमयैरस्माभिर् वाराहोक्तमहाकदम्बादिरिव । यस्तु प्रापञ्चिकलोकगोचरो मथुरादि प्रकाशः सोऽयं कृपया पृथिवीं स्पृशन्नेवावतीर्णः । अतस्तया च स्पृश्यते तादृशैरस्माभिर्दृश्यमानकदम्बादिरिव । अस्मिंश्च (पगे ५७) प्रकाशे यदावतीर्णो भगवांस्तदा तत्स्पर्शेनापि तत्स्पर्शात्तां स्पृशन्नेवास्ते स्म । सम्प्रति तद्अस्पृष्टप्रकाशे विरहमाणः पुनरस्पृशन्नेव भवति । [Vऋ. अद्द्स्. यद्यप्येवं तथापि क्वचिद्द्वयोर्भेदेन क्वचिद् अभेदेन च विवक्षा तत्रावगन्तव्या । एन्द्Vऋ.] तदेतदभिप्रेत्याह यावद् इति । पराक्रन्तुमित्यनेन तत्पूर्वमपि कंचित्कालं प्राप्य प्रविष्टोऽसाव् इति ज्ञापितम् ॥ ॥ १२.२ ॥ श्रीशुकः ॥ १०७ ॥ [१०८] तेने धीरा अपि यन्ति ब्रह्मविद उत्क्रम्य स्वर्गलोकमितो विमुक्ताः [Bआऊ ४.४.८] इति श्रुत्य्अनुसारेण स्वर्गशब्देनाप्याह यातुधान्यपि सा स्वर्गम् आप जननीगतिम् [भागवतम् १०.६.३८] इति । अत्र जननीगतिमिति विशेषणेन लोकान्तरं निरस्तम् । तत्प्रकरण एव तदादीनां बहुशो गत्य्अन्तरनिषेधात् । सद्वेषादिव पूतनापि सकुला त्वामेव देवापिता [भागवतम् १०.१४.३५] इत्यत्र साक्षात्तत्प्राप्तिनिर्धारणाच्च । तथा च केनोपनिषदि दृश्यते केनेषितं मनः पतति प्राणस्य प्राणमुत चक्षुषश्चक्षुरतिमुच्य धीराः प्रेत्यास्माल्लोकादमृता भवन्ति [Kएनऊ १.१२] इत्युपक्रम्य, तदेव ब्रह्म त्वं विद्धि [Kएनऊ १.४] इति मध्ये प्रोच्य, अमृतत्वं हि विदन्ते [Kएनऊ २.४], सत्यमायतनं [Kएनऊ ४.८] यो वा एतामेवमुपनिषदं वेदापहत्य पाप्मानमनन्ते स्वर्गे लोके प्रतिष्ठति [Kएनऊ ४.९] इति उपसंहृतम् । ततः को वासुदेवः किं तद्वनं को वा स्वर्गः किं तद्ब्रह्म इत्यपेक्षायां पुरुषो ह वै नारायणः इत्य् उपक्रम्य, पुनश्चाभ्यासेन नित्यो देव एको नारायणः इत्युक्त्वा नारायणोपासकस्य च स्तुतिं कृत्वा तद्ब्रह्म नारायण एवेति व्यज्य स्वर्गं प्रतिपादयितुं वैकुण्ठं वनलोकं गमिष्यति तदिदं पुरमिदं पुण्डरीकं विज्ञानघनं तस्मात्तदिहावभासमिति वनलोकाकारस्य वैकुण्ठस्यानन्दात्मकत्वं प्रतिपाद्य स च तद्अधिष्ठाता नारायणः कृष्ण एवेत्युपसंहरति ब्रह्मण्यो देवकीपुत्रः इति । ॥ १०.६ ॥ श्रीशुकः ॥ १०८ ॥ [१०९] काष्ठाशब्देनापि तमेवोद्दिशति ब्रूहि योगेश्वरे कृष्णे ब्रह्मण्ये धर्मवर्मणि । स्वां काष्ठामधुनोपेते धर्मः कं शरणं गतः ॥ [भागवतम् १.१.२३] स्वां काष्ठां दिशम् । यत्र स्वयं नित्यं तिष्ठति तत्रैव प्रापञ्चिकलोक सम्बन्धं त्यक्त्वा गते सतीत्यर्थः । ॥ १.१ ॥ श्रीशौनकः ॥ १०९ ॥ [११०] तदेवमभिप्रेत्य द्वारकायास्तावन्नित्यश्रीकृष्णधामत्वमाह सत्यं भयादिव गुणेभ्य उरुक्रमान्तः शेते समुद्र उपलम्भनमात्र आत्मा । नित्यं कद्इन्द्रियगणैः कृतविग्रहस्त्वं त्वत्सेवकैर्नृपपदं विधुतं तमोऽन्धम् ॥ [भागवतम् १०.६०.३५] अयमर्थः । पूर्वं श्रीकृष्णदेवेन श्रीरुक्मिणीदेव्यै राजभ्यो बिभ्यतः सुभ्रु समुद्रं शरणं गतान् । बलवद्भिः कृतद्वेषान् प्रायस्त्यक्तनृपासनान् ॥ [भागवतम् १०.६०.१२] कस्मान्नो ववृषे इति परिहसितम् । अत्रोत्तरमाह सत्यमिति । अत्रात्मा त्वम् इत्येतयोः पदयोर्युगपच्छेतु इति क्रियान्वयायोगात्विशेषणविशेष्य भावः प्रतिहन्येत । वाक्यच्छेदे तु कष्टतापतेत् । ततश्चोपमानोपमेय भावेनैव ते उपतिष्ठतः । इयं च लुप्तोपमा । तथा च आत्मा साक्षी यथा गुणेभ्यः सत्त्वादिविकारेभ्यस्तद्अस्पर्शालिङ्गाद्भयादिव समुद्रे तद्वदगाधे विषयाकारैरपरिच्छिन्ने उपलम्भनमात्रे ज्ञानमात्र स्वशक्त्याकारेऽन्तर्हृदये नित्यं शेते, अक्षुब्धतया प्रकाशते । हे उरुक्रम तथा त्वमपि तेभ्यः सम्प्रति तद्विकारमयेभ्यो राजभ्यो भयादिव उपलम्भनमात्रे वैकुण्ठान्तरवत्चिद्एकविलासे अन्तः समुद्रे द्वारकाख्ये धाम्नि नित्यमेव शेषे स्वरूपानन्दविलासैर्गूढं विहरसि । अर्थवशाद्विभक्तिविपरिणामः प्रसिद्ध एव । उदाहरिष्यते च नित्यस्थायित्वं द्वारकां हरिणा त्यक्ताम् [भागवतम् ११.३१.२३] (पगे ५८) इत्यादौ नित्यं सन्निहितस्तत्र भगवान्मधुसूदनः [भागवतम् ११.३१.२४] इति । अतो वस्तुतस्तस्य तदाश्रयकस्य जीवचैतन्यस्य यदि तेभ्यो भयं नास्ति तदा सुतरामेव तव नास्ति किन्तूभयत्रापि स्वधामैक्यविलासित्वात् तत्रौदासीन्यमेव भयत्वेनोत्प्रेक्षत इति भावः । एवं तस्य एव च समञ्जसता । तेषां तु दौरात्म्यमेवेत्याह । तथाप्यात्मा कुत्सितानाम् इन्द्रियाणां गणैस्तदीयनानावृत्तिरूपैः कृतो विग्रहो यत्र तथाविधस् त्वमपि कुत्सित इन्द्रियगणो येषां तथाभूतैः राजभिः कृतविग्रहः । उभयत्राप्यावरणधार्ष्ट्यम् । यद्येवम्भूतस्त्वं तर्हि का तव नृपासनपरित्यागे हानिः । तत्तु त्वत्सेवकैः प्राथमिकत्वद् भजनोन्मुखैरेव विधुतं त्यक्तम् । तच्चोक्तं तयैव यद्वाञ्छया नृपशिखामणयः [भागवतम् १०.६०.४१] इत्यादिना । यतोऽन्धं तम एव तत्प्राकृत सुखमयत्वात् । अतः श्रीद्वारकाया नित्यत्वमपि ध्वनितम् । ॥ १०.६० ॥ श्रीरुक्मिणी श्रीभगवन्तम् ॥ ११० ॥ [१११] अथ श्रीमथुरायाः । मथुरा भगवान् यत्र नित्यं सन्निहितो हरिः ॥ [भागवतम् १०.१.२८] अर्थात्तत्रत्यानाम् । ॥ १०.१ ॥ श्रीशुकः ॥ १११ ॥ [११२] तत्तात गच्छ भद्रं ते यमुनायास्तटं शुचि । पुण्यं मधुवनं यत्र सान्निध्यं नित्यदा हरेः ॥ [भागवतम् ४.८.४२] स्पष्टम् ॥ ४.८ ॥ श्रीनारदो ध्रुवम् ॥ ११२ ॥ [११३] तस्य हरेः श्रीकृष्णत्वमेव व्यनक्ति इत्युक्तस्तं परिक्रम्य प्रणम्य च नृपार्भकः । ययौ मधुवनं पुण्यं हरेश्चरणचर्चितम् ॥ [भागवतम् ४.८.६२] [Vऋ. हेरे रेअद्स्: पाद्मकल्पारम्भकथने प्रथमस्वायम्भुव मन्वन्तरे तस्मिन् हरेश्चरणचर्चितवं श्रीमथुरायास्तन्नित्यत्वात्श्री कृष्णावतारस्य । तथा हरिशब्देनाप्यत्र श्रीकृष्ण एव विवक्षितः श्रुत्य् आदौ तद्अवस्थितिप्रसिद्धेः । Eन्दद्दितिओन्.] प्रतिकल्पमाविर्भावात्तस्यैव चरणाभ्यां चर्चितमिति श्रीकृष्णस्यैव नित्यसान्निध्यत्वं गम्यते । अतएव द्वादशाक्षरविद्यादैवतस्य श्री ध्रुवाराध्यस्य त्वन्यत एव तत्रागमनमभिहितमिति मधोर्वनं भृत्यदिदृक्षया गतः [भागवतम् ४.९.१] इत्यनेनेति । ॥ ४.८ ॥ श्रीमैत्रेयः ॥ ११३ ॥ [११४] अथ श्रीवृन्दावनस्य पुण्या बत व्रजभुवो यदयं नृलिङ्ग गूढः पुराणपुरुषो वनचित्रमाल्यः । गाः पालयन् सहबलः क्वणयंश्च वेणुं विक्रीडयाञ्चति गिरित्ररमार्चिताङ्घ्रिः ॥ [भागवतम् १०.४४.१२] अत्र पूर्वोदाहृतश्रुत्य्आद्य्अवष्टम्भेन तिष्ठन्ति पर्वता इतिवदञ्चति सदैव विहरतीति मथुरास्त्रीणां श्रीभगवत्प्रसादजा यथावद्भारती निःसृतिरियमिति व्याख्येयम् । (पगे ५९) ॥ १०.४४ ॥ पुरस्त्रियः परस्परम् ॥ ११४ ॥ [Vऋ. रेअद्स्fओर्थिस्सेच्तिओन्: स च वृन्दावनगुणैर्वसन्त इव लक्षितः । यत्रास्ते भगवान् साक्षाद्रामेण सह केशवः ॥ [भागवतम् १०.१८.३] अत्र यत्रासीदित्यप्रोच्य यत्रास्ते इत्युक्त्या नित्यस्थितित्वमेव व्यक्तीकृतम् ॥ ॥ १०.१८ ॥ श्रीशुकः ॥ ११४ ॥ Eन्दल्तेर्नतिवे रेअदिन्ग्.] [११५] अथवा त्रिष्वप्येतदेवोधारणीयम् जयति जननिवासो देवकीजन्मवादो यदुवरपरिषत्स्वैर्दोर्भिरस्यन्नधर्मम् । स्थिरचरवृजिनघ्नः सुस्मित श्रीमुखेन व्रजपुरवनितानां वर्धयन् कामदेवम् ॥ [भागवतम् १०.९०.४८] यदुवराः परिषत्सभ्यरूपा यस्य सः । देवकीजन्मवादस्तज् जन्मत्वेन लब्धख्यातिः । देवक्यां जन्मेति वादस्तत्त्वबुभुत्सुकथा यस्य स इति वा । श्रीकृष्णो जयति पर्मोत्कर्षेण सदैव विराजते । लोहितोष्णीषाः प्रचरन्तीतिवत्यदुवरसभ्यविशिष्टतयैव जयाभिधानम् । अत्र यदुवरशब्देन श्रीव्रजेश्वरतद्भ्रातरोऽपि गृह्यन्ते तेषामपि यदुवंशोत्पन्नत्वेन प्रसिद्धत्वात् । तथा च भारत तात्पर्ये श्रीमध्वाचार्यैरेवं ब्रह्मवाक्यत्वेन लिखितम् तस्मै वरः स मया सन्निसृष्टः स चास नान्दाख्य उतास्य भार्या । नाम्ना यशोदा स च शूरतात सुतस्य वैश्याप्रभवस्य गोपः ॥ इति । शूरतातसुतस्य शूरसपत्नीमातृजस्य वैश्यायां तृतीयवर्णायां जातस्य सकाशातास बभूव इत्यर्थः । अतएव श्रीमद्आनकदुन्दुभिना तस्मिन् भ्रातरिति मुहुः सम्बोधनमक्लिष्टार्थं भवति भ्रातरं नन्दम् आगतम् [भागवतम् १०.५.२०] इति श्रीमन्मुनीन्द्रवचनं च । तदेतदप्य् उपलक्षणं तद्भ्रातॄणाम् । [Vऋ. अद्द्स्हेरे : यथा स्कान्दे मथुराखण्डे रक्षिता यादवाः सर्वे इन्द्र वृष्टिनिवारणातिति । यत्राभिषिक्तो भगवान्मघोना यदुवैरिणा इति च, यादवानां हितार्थाय धृतो गिरिवरो मया इति चान्यत्र । Vऋ. अद्दितिओनेन्द्स्.] यथा च यादवमध्यपातितत्वेनैव तेषु निर्धारणमयं श्रीराम वचनं श्रीहरिवंशे यादवेष्वपि सर्वेषु भवन्तो मम बान्धवाः [ःV ८३.१५] इति । सप्तम्या ह्यस्य जातावेव निर्धारणमुच्यते पुरुषेषु क्षत्रियः शूर इतिवत् । विजातीयत्वे तु श्रोघ्नेभ्यो मथुरा ह्याढ्यतमा इतिवत् यादवेभ्योऽपि सर्वेभ्यो इत्येवोच्यतेति ज्ञेयम् । अत्र जयतीत्यत्र लोड्अर्थत्वं न सङ्गच्छते सदैवोत्कर्षानन्त्यमिति तस्मिन्नासीर्वादानवकाशात् । तद् अवकाशो वा आशीर्वादविषयस्य तदानीमाशीर्वादककृतानुवादविशेष विशिष्टतयैव स्थितेरवगमात्प्रतिपिपादयिषितं तादृशत्वेनैव तात्कालिकत्वमागच्छत्येव । यथा धार्मिकसभ्योऽयं राजा वर्धताम् इति । तदेवं पतिर्गतिश्चान्धकवृष्णिसात्वताम् [भागवतम् २.४.२०] इत्यत्राप्य् अनुसन्धेयम् । अनेन यदुवराणामपि तथैव जयो विवक्षितः । नन्वेवं तथा विहरणशीलश्चेत्पुनः कथमिव देवकीजन्म वादोऽभूत् । तत्राह स्वैर्दोर्भिर्दोर्भ्यां चतुर्भिश्चतुर्भुजैरधर्मं तद्बहुलमसुरराजवृन्दमस्यन्निहन्तुम् । तदर्थमेव लोकेऽपि तथा प्रकटीभूत इत्यर्थः । किं वा किं कुर्वन् जयति ? स्वैः कालत्रयगतैरपि [पगे ६०] भक्तैरेव दोर्भिस्तद्द्वारा अधर्मं जगद्गतपाप्मानमस्यन्नाशयन्नेव । तद् उक्तम् मद्भक्तियुक्तो भुवनं पुनाति [भागवतम् १०.१४.२४] इति । पुनः किमर्थं देवकीजन्मवादः ? तत्राह स्थिरचरवृजिनघ्नः निजाभिव्यक्त्या निखिलजीवानां संसारहन्ता तद्अर्थमेवेत्यर्थः । तद् उक्तं यत एतद्विमुच्यते [भागवतम् १०.२९.१६] इति । किं वा कथम्भूतो जयति ? व्रजयदुपुरवासिनां स्थावरजङ्गमानां निजचरणवियोगदुःखहन्ता सन् । नित्यविहारे प्रमाणमाह जन निवासः । जनशब्दोऽत्र स्वजनवाचकः । सालोक्येत्य्[भागवतम् ३.२९.१३] आदिपद्ये जना इतिवत् । स्वजनहृदये तत्तद्विहारत्वेन सर्वदेवावभासमान इत्य् अर्थः । सर्वप्रमाणचयचूडामणिभूतो विद्वद्अनुभव एवात्र प्रमाणमिति भावः । स्वयं तु किं कुर्वन् जयति ? व्रजवनितानां मथुराद्वारकापुर वनितानां च कामलक्षणो यो देवः स्वयमेव तद्रूपस्तं वर्धयन् सदैवोद्दीपयन् । अत्र तदीयहृदयस्थकामतद्अधिदेवयोरभेद विवक्षा तादृशतद्भावस्य तद्वदेव परमार्थताबोधनाय श्रीकृष्ण स्फूर्तिमयस्य तादृशभावस्याप्राकृतत्वात्परमानन्दपराकाष्ठा रूपत्वाच्च । श्रीकृष्णस्य कामरूपोपासना चागमे व्यक्तास्ति । वनिता जनितात्यर्थानुरागायां च योषिति इति नामलिङ्गानुशासनम् । व्रजेति श्रैष्ठ्येन पूर्वनिपातः । अतएव पूर्वं मेरुदेव्यां सुदेवीति संज्ञावत् देवकीशब्देन श्रीयशोदा च व्याख्येया द्वे नाम्नी नन्दभार्याया यशोदा देवकीति च । अतः सख्यमभूत्तस्या देवक्या शौरिजायया ॥ इति पुराणान्तरवचनम् । तदेवं त्रिष्वपि नित्यविहारित्वं सिद्धम् । ॥ १०.९० ॥ श्रीशुकः ॥ ११५ ॥ [११६] अथ यदुक्तं श्रीवृन्दावनस्यैव प्रकाशविशेषे गोलोकत्वम् । तत्र प्रापञ्चिकलोकप्रकटलीलावकाशत्वेनावभासमानप्रकाशो गोलोक इति समर्थनीयम् । प्रकटलीलायां तस्मिंस्तच्छब्दप्रयोगादर्शनात् भेदांशश्रवणाच्च । प्रकटाप्रकटतया लीलाभेदश्चाग्रे दर्शयितव्यः । तदेवं वृन्दावन एव तस्य गोलोकाख्यप्रकाशस्य दर्शनेनाभिव्यनक्ति नन्दस्त्वतीन्द्रियं दृष्ट्वा लोकपालमहोदयम् । कृष्णे च सन्नतिं तेषां ज्ञातिभ्यो विस्मितोऽब्रवीत् ॥ ते चौत्सुक्यधियो राजन्मत्वा गोपास्तमीश्वरम् । अपि नः स्वगतिं सूक्ष्मामुपाधास्यदधीश्वरम् ॥ इति स्वानां स भगवान् विज्ञायाखिलदृक्स्वयम् । सङ्कल्पसिद्धये तेषां कृपयैतदचिन्तयत् ॥ जनो वै लोक एतस्मिन्नविद्याकामकर्मभिः । उच्चावचासु गतिषु न वेद स्वां गतिं भ्रमन् ॥ इति सञ्चिन्त्य भगवान्महाकारुणिको हरिः । दर्शयामास लोकं स्वं गोपानां तमसः परम् ॥ सत्यं ज्ञानमनन्तं यद्ब्रह्मज्योतिः सनातनम् । यद्धि पश्यन्ति मुनयो गुणापाये समाहिताः ॥ ते तु ब्रह्मह्रदं नीता मग्नाः कृष्णेन चोद्धृताः । ददृशुर्ब्रह्मणो लोकं यत्राक्रूरोऽध्यगात्पुरा ॥ नन्दादयस्तु तं दृष्ट्वा परमानन्दनिर्वृताः । कृष्णं च तत्र च्छन्दोभिः स्तूयमानं सुविस्मिताः ॥ [भागवतम् १०.२८.१०१७] अतीन्द्रियमदृष्टपूर्वम् । लोकपालः वरुणः । स्वगतिं स्वधाम । (पगे ६१) सूक्ष्मां दुर्ज्ञेयाम् । उपाधास्यनुपधास्यति नोऽस्मान् प्रति प्रापयिष्यतीति सङ्कल्पितवन्त इत्यर्थः । जन इति । [Vऋ. रेअद्स्हेरे:] जनशब्देन तदीयस्वजन एवोच्यते । सालोक्यसार्ष्टि इत्यादि पद्ये जना इतिवत् । अत्रैते मत्सेवनं विना प्राप्यमाणा सालोक्यादि परित्यागेन तत्सेवैकवाञ्छाव्रताः साधका एवेति लभ्यते । न वेद स्वां गतिमित्यत्र तु श्रीभगवता तस्मिन् लोके स्वीयत्वतदीयत्वयोरेकत्वम् अनेन स्वाभेद एव प्रतिपादित इति परम एवासौ तदीयस्वजनः । अतएव तस्मान्मच्छरणं गोष्ठं मन्नाथं मत्परिग्रहम् । गोपाये स्वात्मयोगेन सोऽयं मे व्रत आहितः ॥ [भागवतम् १०.२५.१८] इति स्वयमेव भगवता मत्परिग्रहमित्यनेन स्वस्मिंस्तत्परिकरता मच्छरणमित्यादिक्रमप्राप्तबहुव्रीहिणा दर्शिता । सोऽयं मे व्रतः इत्यनेन स्वस्य तद्गोपनव्रतता च तदेवं व्रजवासिजन एव लब्धे तं प्रत्येव करुणया दर्शितवान् । न त्वन्यान् स्वां गतिमिति सामानाधिकरण्ये एव व्यक्ते । न तु ताभ्यां पदाभ्यां वस्तुद्वयम् उच्यते । स्वगतिं सूक्ष्मामिति पूर्वोक्तमपि तथा । तस्मात्तल्लोक दर्शनमेवोभयत्र विवक्षितम् । विवक्षिते च तल्लोके स तु जनमात्रस्य स्वगतिर्न भवतीति च जनशब्देन तद्विशेष एव व्याख्यातः । तदेवं सत्ययमर्थः । [Vऋ. अद्दितिओनेन्द्स्.] [जनोऽसौ व्रजवासी मम स्वजनः ।] एतस्मिन् प्रापञ्चिकलोके । अविद्यादिभिः कृता या उच्चावचा गतयो देवतिर्यग्आदयः । तासु स्वां गतिं भ्रमन् ताभ्यो निर्विशेषतया जानन् तामेव स्वां गतिं न वेदेत्यर्थः । [ठे Vऋ. एदितिओनद्द्स्हेरे: ततो मामपि सर्वोत्तमतया प्रेमभक्त्या सर्वोत्तमतया द्रष्टुरेतस्य यद्यपि तत्तल्लीलारसपोषाय मदीयलीला शक्त्यैव भ्रमादिकं कल्पितम् । न पुनरविद्यादिभिः । इति नन्दादयो गोपाः कृष्णरामकथां मुदा । कुर्वन्तो रममाणाश्च नाविन्दन् भववेदनाम् ॥ [भागवतम् १०.११.५८] इति । यद्धामार्थसुहृत्प्रियात्मतनयप्राणाशयास्त्वत्कृते [भागवतम् १०.१४.२५] इत्य् आदि । तथाप्येतस्येच्छानुसारेण क्षणकतिपयमेतदीयाम् । [Eन्द्Vऋ. एद्.] ततोऽयं भ्रमो यद्यपि तत्तल्लीलापोषायैव मदीयलीलाशक्त्या कल्पितस् तथापि तद्इच्छानुसारेण क्षणकतिपयं तदीयां सर्वविलक्षणां स्वां गतिं दर्शयन् तमपनेष्यामीति भावः । वैलक्षण्यं चाग्रे व्यञ्जनीयम् । गोपानां स्वं लोकं श्रीगोलोकम् । यः खलु [Vऋ. एदितिओनोन्ल्य्:] गोपीगोपैर् असङ्ख्यातैः सर्वतः समलङ्कृतमिति मृत्युसञ्जयतन्त्रे वर्णितः । तथा पद्माकृतिपुरोद्वारि लक्षमण्डलनायिकाः । रामादयस्तु गोपालाश्चतुर्दिक्षु महेश्वराः ॥ इति नारदपञ्चरात्रे विजयाख्याने वर्णितः । [एन्द्Vऋ. अद्दितिओन्] चिन्तामणि प्रकरसद्मसु इत्यादिभिर्बहुवर्णितव्यक्तवैभवातिक्रान्तप्रपञ्च लोकमहोदयस्तम् । तमसः प्रकृतेः परं प्रपञ्चानभिव्यक्तत्वेन तदीयेनाप्यसङ्करम् । अतएव सच्चिदानन्दरूप एवासौ लोक इत्याह सत्यमिति । सत्यादिरूपं यद् ब्रह्म यच्च गुणात्यये पश्यन्ति तदेव स्वरूपशक्तिवृत्तिविशेष प्राकट्येन सत्यादिरूपाव्यभिचारिणं गोलोकं सन्तं दर्शयामासेति पूर्वेनान्वयः । यथान्यत्रापि वैकुण्ठे भगवत्सन्दर्भोदाहृतं पाद्मादिवचनं ब्रह्माभिन्नतावाचित्वेन दर्शितं तद्वत् । अथ श्रीवृन्दावने च तादृशदर्शनं कतमदेशस्थितानां तेषां जातम् इत्यपेक्षायामाह ब्रह्मह्रदमक्रूरतीर्थं कृष्णेन नीताः पुनश्च तद्आज्ञयैव मग्नाः, पुनश्च तस्मात्तीर्थात्श्रीकृष्णेनैवोद्धृताः । उद्धृत्य वृन्दावनमध्यदेशमानीतास्तस्मिन्नेव नराकृतिपर ब्रह्मणः श्रीकृष्णस्य लोकं गोलोकाख्यं ददृशुः । [V एदितिओनद्द्स्:] कोऽसौ ब्रह्मह्रदः ? तत्राह यत्रेति । पुरेत्येतत् प्रसङ्गाद्भाविकाल इत्यर्थः । पुरा पुराणे निकटे प्रबन्धातीत भाविषु इति कोषकाराः । [एन्द्V. अद्दितिओन्] यत्र च ब्रह्मह्रदेऽध्यगाद्(पगे ६२) अस्तौत अधिगतवानिति वा । सर्वत्रैव श्रीवृन्दावने यद्यपि तत्प्रकाशविशेषोऽसौ गोलोकः दर्शयितुं शक्यः स्यात्तथापि तत्तीर्थमाहात्म्यज्ञापनार्थमेव वा विनोदार्थम् एव वा तस्मिन्मज्जनमिति ज्ञेयम् । [ठे Vऋ. एदितिओन् हेरे रेअद्स्: नन्दादय इति कर्त्र्अन्तरानिर्देशाच्छन्दोभिर् एव मूर्तैः कर्तृभिः । तद्अभिज्ञापनार्थं तज्जन्मादिलीलया स्तूयमानम् । अन्तरङ्गाः परिकरास्तु पूर्वदर्शितरीत्या गोगोपादय एव । अतएव कृष्णं यथा ददृशुस्तथा तत्परिकरान्तराणां दर्शनानुक्तेस्तत्र क एव तत्र परिकरा इत्यभिव्यज्यते । त एव च पूर्वदर्शितमृत्यु सञ्जयादितन्त्रहरिवंशादिवचनानुसारेण प्रकटाप्रकटप्रकाश गततया द्विधाभूताः सम्प्रत्यप्रकटप्रकाशप्रवेशे सत्येकरूपा एव जाता इति पृथग्दृष्टाः । यदा तत्प्रकाशभेदो भवति, तदा तत्तल्लीलारसपोषाय तेषु प्रकाशेषु तत्तल्लीलाशक्तिरेवाभिमानभेदं परस्परमनुसन्धानं च प्रायः सम्पादयतीति गम्यते । उदाहरिष्यते चाग्रे । अतएवोक्तं न वेद स्वां गतिं भ्रमनिति । तथा च सतीदानीं श्रीव्रजवासिनां कथञ्चिज्जातया तादृशेच्छया तेभ्यस्तेषामेव तादृशलोकप्रकाशविशेषादिकं दर्शितम् इति गम्यते । न च प्रकाशान्तरसम्भावनीयम् । परमेश्वरत्वेन तच्च श्रीविग्रहपरिकरधामलीलादीनां युगपदेकत्राप्यनन्तविध वैभवप्रकाशशीलत्वात् । Eन्दोf Vऋ. अद्दितिओन्.] अत्र स्वां गतिमिति तदीयतानिर्देशो गोपानां स्वं लोकमिति षष्ठीस्व शब्दयोर्निर्देशः । कृष्णमिति साक्षात्तन्निर्देशश्च वैकुण्ठान्तरं व्यवच्छिद्य श्रीगोलोकमेव प्रतिपादयति । अतएव तेषां तद्दर्शनात् परमानन्दनिर्वृतत्वं सुविस्मितत्वमपि युक्तमुक्तम् । तस्यैव पूर्णत्वात् । तथापि तेषां पुत्रादिरूपेणैवोदयाच्च ।[*Eण्ड्ण्Oट्E ॰३] तथा तत्र कृष्णं यथा ददृशुस्तथा तत्परिकराणामन्येषां दर्शनानुक्तेस्त एक एव तत्र परिकरा इत्यभिव्यज्यते । ततश्च लीलाद्वये कृष्णवत्तेषाम् एव प्रकाशभेदः । यदा च प्रकाशभेदो भवति तदा तत्तल्लीलारस पोषाय तेषु प्रकाशेषु तत्तल्लीलाशक्तिरेवाभिमानभेदं परस्परम् अननुसन्धानं च प्रायः सम्पादयतीति गम्यते । उदाहरिष्यते चाग्रे । अतएवोक्तं न वेद स्वां गतिं भ्रमनिति । तथा च सतीदानीं श्रीव्रज वासिनां कथञ्चिज्जातया तादृशेच्छया तेभ्यस्तेषामेव तादृशं प्रकाश विशेषादिकं दर्शितमिति गम्यते । न च प्रकाशान्तरमसम्भावनीयम् । परमेश्वरत्वेन तत्श्रीविग्रहपरिकरधामलीलादीनां युगपद् एकत्राप्यनन्तविधवैभवप्रकाशशीलत्वात् । तदेवमुक्तोऽर्थः समञ्जस एव । ॥ १०.२८ ॥ श्रीशुकः ॥ ११६ ॥ [११७] एवं द्वारकादीनां तस्य नित्यधामत्वं सिद्धम् । अथ तत्र के तावदस्य परिकराः । उच्यते पूर्योर्यादवादयो वने श्रीगोपादयश्चेति । श्री कृष्णस्य द्वारकादिनित्यधामत्वेन तेषां स्वतःसिद्धेः । तद्रूपत्वे परिकरान्तराणामयुक्तत्वादश्रवणत्वाच्च । तत् परिकरत्वेनैवाराधनादिवाक्यानि दर्शितानि दर्शयितव्यानि च । अतएवोक्तं पाद्मे कार्तिकमाहात्म्ये श्रीकृष्णसत्यभामासंवादे एते हि यादवाः सर्वे मद्गणा एव भामिनि । सर्वदा मत्प्रिया देव मत्तुल्यगुणशालिनः ॥ [ড়द्मড়् ६.८९.२२[*Eण्ड्ण्Oट्E ॰४]] एवकारान्न देवादयः । श्रीहरिवंशेऽप्यनिरुद्धान्वेषणे तादृशत्वम् एवोक्तमक्रूरेण देवानां च हितार्थाय वयं याता मनुष्यताम् [ःV २.१२१.५७][*Eण्ड्ण्Oट्E ॰५] इति । श्रीमथुरायां त्ववतारावसरेणाभिव्यक्ता अपि निगूढतया केचित्तस्यामेव वर्तमानाः श्रूयन्ते । यथा श्री गोपालोत्तरतापन्याम् यत्रासौ संस्थितः कृष्णस्त्रिभिः शक्त्या समाहितः । रामानिरुद्धप्रद्युम्नै रुक्मिण्या सहितो विभुः ॥ [ङ्टू २.३६] इति । श्रीवृन्दावने (पगे ६३) तैः सदा विहाराश्च । यथा पाद्मपातालखण्डे श्रीयमुनामुद्दिश्य अहो अभाग्यं लोकस्य न पीतं यमुनाजलम् । गोवृन्दगोपिकासङ्गे यत्र क्रीडति कंसहा ॥ इति । स्कान्दे च वत्सैर्वत्सतरीभिश्च सदा क्रीडति माधवः । वृन्दावनान्तरगतः सरामो बालकैर्वृतः ॥ इति । न तु प्रकटलीलागतेभ्य एते भिन्नाः, एते हि यादवाः सर्वे इत्यनुसारात् । तथा हि पाद्मनिर्माणखण्डे च श्रीभगवद्वाक्यम् नित्यां मे मथुरां विद्धि वनं वृन्दावनं तथा । यमुनां गोपकन्याश्च तथा गोपालबालकान् ॥ ममावतारो नित्योऽयमत्र मा संशयं कृथाः ॥ इति । अतस्तानेवोद्दिश्य श्रुतौ च तत्र ऋक्षु तां वां वास्तून्युश्मसि गमध्यै यत्र गावो भूरिशृङ्गा अयासः । अत्राह तदुरुगायस्य वृष्णः परमं पदमवभाति भूरि ॥ इति । व्याख्यातं च तां तानि वां युवयोः कृष्णरामयोर्वास्तूनि लीलास्थानानि गमध्यै गन्तुं प्राप्तुमुश्मसि कामयामहे । तानि किंविशिष्टानि ? यत्र येषु भूरिशृङ्गा महाशृङ्ग्यो गावो वसन्ति । यथोपनिषदि भूमवाक्ये धर्मिपरेण भूमशब्देन महिष्ठमेवोच्यते न तु बहुतरमिति । यूथदृष्ट्यैव वा भूरिशृङ्गा बहुशृङ्ग्यो बहुशुभलक्षणा इति वा । अयासः शुभाः । अत्र भूमौ तल्लोकवेदप्रसिद्धं श्रीगोलोकाख्यं उरुगायस्य स्वयं भगवतो वृष्णः सर्वकामदुघचरणारविन्दस्य परमं प्रपञ्चातीतं पदं स्थानं भूरि बहुधा अवभातीत्याह वेद इति । यजुःसु माध्यन्दिनीयास्तु या ते धामन्युश्मसि इत्यादौ । [याति धामन्युश्मसि इति वा पाठः] पाद्मोत्तरखण्डे तु यत्त्वियं श्रुतिः परमव्योमप्रस्ताव उदाहृता तत् परमव्योमगोलोकयोरेकतापत्त्य्अपेक्षयेति मन्तव्यम् । गोशब्दस्य सास्नादिमत्येव प्रचुरप्रयोगेण झटित्यर्थप्रतीतेः । श्रीगोलोकस्य ब्रह्मसंहिताहरिवंशमोक्षधर्मादिषु प्रसिद्धत्वाच्च । अथर्वणि च श्रीगोपालतापन्यां जन्मजराभ्यां भिन्नः स्थाणुरयमच्छेद्योऽयं योऽसौ सौर्ये तिष्ठति योऽसौ गोषु तिष्ठति योऽसौ गाः पालयति । योऽसौ गोपेषु तिष्ठति [ङ्टू २.२२] इत्यादि । तदेवमुभयेषामपि नित्यपार्षदत्वे सिद्धे यत्तु शस्त्राघातक्षत विषपानमूर्च्छातत्त्वबुभुत्सासंसारसारनिस्तारोपदेशास्पदत्वादिकं श्रूयते, तद्भगवत इव नरलीलौपायिकतया प्रपञ्चितमिति मन्तव्यम् । यथा तवेयं विषमा बुद्धिर्[भागवतम् १०.५४.४२] इत्यादिकं साक्षात्श्रीरुक्मिणीं प्रति श्रीबलदेववाक्ये । यच्च श्रीमद्उद्धवमुद्दिश्य स कथं सेवया तस्य कालेन जरसं गतः [भागवतम् ३.२.३] इत्युक्तम् । तदपि चिरकालसेवा तात्पर्यकमेव । तत्र प्रवयसोऽप्यासन् युवानोऽ तिबलौजसः [भागवतम् १०.४५.१९] इति विरोधात् । क्वचिच्च प्रकटलीलायाः प्रापञ्चिकलोकमिश्रत्वात्यथार्थमेव तद् आदिकम् । यथा शतधन्ववधादौ । अन्तरङ्गानां भगवत्साधारण्यं तु यादवानुद्दिश्योक्तम् मत्तुल्यगुणशालिनः इति । गोपानुद्दिश्य च गोपैः समानगुणशीलवयोविलासवेश्यैश्च इति । पाद्मनिर्माणखण्डे गोपाला मुनयः सर्वे वैकुण्ठानन्दमूर्तयः इति । यतो यो वैकुण्ठः श्रीभगवान् स इवानन्दमूर्तयस्ते ततस्तत्परमभक्तत्वादेव मुनय इत्युच्यते । न तु मुन्य्अवतारत्वादिति ज्ञेयम् । नैते सुरेशा ऋषयो न वैते इत्यादिकं श्रीबलदेववाक्यं च भगवद्आविर्भावलक्षण गोपादीनां केयं वा कुत आयाता दैवी वा नार्युतासुरी [भागवतम् १०.१३.३७] इत्यादि प्राप्तमन्यत्वमेव निषेधति, न तु पूर्वेषां च तद्विदधाति कल्पना गौरवादिति ज्ञेयम् । [B अद्दितिओन्: इत्थं सतां ब्रह्मसुखानुभूत्या इत्य् आदेः तद्भूरिभाग्यमित्यादेश्च । एन्द्Vऋ.] युक्तं चैषां तत्सादृश्यं तस्यात्मतन्त्रस्य हरेरधीशितुः (पगे ६४) परस्य मायाधिपतेर्महात्मनः । प्रायेण दूता इह वै मनोहराश् चरन्ति तद्रूपगुणस्वभावाः ॥ [भागवतम् ६.३.१८] इति श्रीयम वाक्यानुगतत्वात् । दृष्टं च प्रथमे प्राविशत्पुरम् [भागवतम् १.११.११] इत्यारभ्य मधुभोज दशार्हार्हकुकुरान्धकवृष्णिभिः आत्मतुल्यबलैर्गुप्ताम् [भागवतम् १.११.१२] इत्यादि । अतएव गोपजातिप्रतिच्छन्ना देवा गोपालरूपिणम् । ईडिरे कृष्णं रामं च नटा इव नटं नृपः ॥ [भागवतम् १०.१८.११] इत्यत्र साम्यमेव सूचितम् । अर्थश्च देवाः श्रीकृष्णावरणे मद्भक्त पूजाभ्यधिका इति न्यायेन तद्वदेवोपास्या अपि श्रीदामादयो गोपजात्या प्रतिच्छन्ना अन्यगोपसामान्यभावेन प्रायस्तादृशावपि तौ तद्रूपिणौ तथा तेऽपीत्यर्थः (?) । अत्र देवा इत्यनेन गुणसाम्यं चाभिप्रेतमिति । [११८] तत्र यादवादीनां तत्पार्षदत्वं योजयति अहं यूयमसावार्य इमे च द्वारकौकसः । सर्वेऽप्येवं यदुश्रेष्ठ विमृग्याः सचराचरम् ॥ [भागवतम् १०.८५.२३] यूयं श्रीमद्आनकदुन्दुभ्य्आदयो विमृग्याः परमार्थरूपत्वाद् अन्वेषणीयाः । तथान्यदपि द्वारकौको जङ्गमस्थावरसहितं यत्किञ्चित् तद्अन्वेष्यम् । अहं श्रीकृष्ण इति दृष्टान्तत्वेनोपन्यस्तम् । ततश्च नराकारब्रह्मणि स्वस्मिन्निव तन्नित्यपरिकरे सर्वत्रैव परम पुरुषार्थत्वमिति भावः । तस्माद्यथा पूर्वं सत्त्वं रजस्तमः इत्य् आदिना सत्त्वादिगुणानां तद्वृत्तीनां च ब्रह्मणि त्रैकालिकस्पर्श सम्भवान्माययैव तद्अध्यासो भवता वर्णितस्तथा दृष्टिरत्र तु नकार्येति तात्पर्यम् । लौकिकाध्यात्मगोष्ठीत्येवमेवेत्याह द्वयेन आत्मा ह्येकः स्वयंज्योतिर्नित्योऽन्यो निर्गुणो गुणैः । आत्मसृष्टैस्तत्कृतेषु भूतेषु बहुधेयते ॥ [भागवतम् १०.८५.२४] अत्रानुगतार्थान्तरं च दृश्यते । द्वारकायामिति प्रकरणेन लभ्यते । हि यस्मादेक एवात्मा भगवत्त्वमात्मसृष्टैः स्वरूपादेवोल्लसितैर्गुणैः स्वरूपशक्तिवृत्तिविशेषैः कर्तृभिस्तत्कृतेषु तस्मिन् स्वरूपे एव प्रादुर्भावितेषु भूतेषु परमार्थसत्येषु द्वारकान्तर्वर्तिवस्तुषु बहुधा तत्तद्रूपेण ईयते प्रकाशते । सहस्रनामभाष्ये लोकनाथं महद्भूतमित्यत्र च भूतं परमार्थसत्यमिति व्याख्यातम् । तथा तथा च प्रकाशः स्वरूपगुणापरित्यागेनैवेत्याह स्वयं ज्योतिः स्व प्रकाश एव सन्, नित्य एव सन्, अन्यः प्रपञ्चेऽभिव्यक्तोऽपि तद्विलक्षण एव सन्, निर्गुणः प्राकृतगुणरहित एव च सन्निति । [११९] अत्र चार्थान्तरं यथा तर्हि कथं भवत आत्यन्तिकं सममेवात्र सर्वम् इत्याशङ्क्य तथापि मय्यस्ति वैशिष्ट्यमित्याह खं वायुर्ज्योतिरापो भूस्तत्कृतेषु यथाशयम् । आविस्तिरोऽल्पभूर्येको नानात्वं यात्यसावपि ॥ [भागवतम् १०.८५.२५] सत्कार्यवादाभ्युपगमात्तस्य कारणानन्यत्वाभ्युपगमाच्च । यथा खादीनि भूतानि तत्कृतेषु तत्स्वरूपेणैव विकासितेषु वाय्व्आदिघटान्तेषु यथाशयं वाय्व्आद्य्आविर्भावाद्य्अनुरूपमेवाविर्भावादिकं यान्ति न तु तेष्वधिकम् । अत्र यावान् वायुर्गृह्यते तावानेव तत्राकाशधर्मः शब्दोऽपि गृह्यते । यावज्ज्योतिस्तावानेव वायुधर्मः स्पर्शोऽपीत्यादिकं ज्ञेयम् । तथा स्वरूपेणैव विकासितेषु द्वारकावस्तुषु असौ भगवद्आख्य आत्मापि । तस्मादहं तु तत्सर्वमयः सर्वस्मात्पृथक्परिपूर्णश्चेत्य् अस्ति वैशिष्ट्यमिति भावः । अनेन दृष्टान्तेन (पगे ६५) मत्त एवोल्लसिता मद्धर्मा एव ते भवितुमर्हन्ति न त्वाकाशे धूसरत्वादिवन्मयि केवलमध्यस्था इति च ज्ञापितम् । अत्र यथा तथेति व्याख्यानमपि शब्देन द्योत्यते । ॥ १०.८५ ॥ श्रीभगवान् श्रीवसुदेवम् ॥ ११९ ॥ [१२०] अतएवाह तद्दर्शनस्पर्शनानुपथप्रजल्प शय्यासनाशनसयौनसपिण्डबन्धः । येषां गृहे निरयवर्त्मनि वर्ततां वः स्वर्गापवर्गविरमः स्वयमास विष्णुः ॥ [भागवतम् १०.८२.२०] येषां वो युष्माकं वृष्णीनां गृहे विष्णुः श्रीकृष्णाख्यो भगवान् स्वयम् आत्मना स्वभावत एव आस निवासं चक्रे न त्वन्येन हेतुनेत्यर्थः । कथम्भूतेऽनिरयवर्त्मनि निरयः संसारस्तद्वर्त्म प्रपञ्चः ततोऽन्यस्मिन्, प्रपञ्चातीत इत्यर्थः । कीदृशानां वस्तस्मिन्नेव वर्तमानानाम् । स्वयं कथम्भूतः स्वर्गापवर्गविरमः स्वर्गस्यापवर्गस्य च विरमो येन । यो निजभक्तेभ्यस्तद् बहिर्मुखताकरं स्वर्गं न ददाति तद्भक्त्य्उदासीनं केवलं मोक्षं च न ददाति किन्तु तान् स्वचरणारविन्दतल एव रक्षतीत्यर्थः । येषां युष्माकं तु गृहे स एवम्भूत एवासेत्याह तद्दर्शनेति । तस्य युष्मत् कर्तृकं दर्शनं च अनुपथोऽनुगतिश्च प्रजल्पो गोष्ठी च, तथा युष्मत् संवलिता शय्या शयनं च आसनं च अशनं भोजनं च तैर्विशिष्टैश्चासौ सयौनसपिण्डबन्धश्चेति शाकपार्थिवादिवन्मध्यपदलोपी कर्म धारयः । तत्र वृष्णिभिः सह यौनबन्धो विवाहसम्बन्धः, सपिण्ड बन्धो दैहिकसम्बन्धस्ताभ्यां सह वर्तमानोऽसाविति बहुव्रीहि गर्भता । ॥ १०.८२ ॥ राजानं श्रीमद्उग्रसेनम् ॥ १२० ॥ [१२१] किं च सङ्ख्यानं यादवानां कः करिष्यति महात्मनाम् । यत्रायुतानामयुत लक्षेणास्ते सदाहुकः ॥ [भागवतम् १०.९०.४२] आहुकः उग्रसेनः । यत्रास्त इति वर्तमानप्रयोगेण तत्रापि सदेति नित्यता वाचकाव्ययेन तेषां नित्यपार्षदत्वं सुव्यक्तम् ॥ ॥ १०.९० ॥ श्रीशुकः ॥ १२१ ॥ [१२२] अतस्तेषां श्रीभगवत्पार्षदत्वे योग्यतामव्यभिचारित्वमपि दृष्टान्तेन स्पष्टयति तत्रोपविष्टः परमासने विभुर् बभौ स्वभासा ककुभोऽवभासयन् वृतो नृसिंहैर्यदुभिर्यदूत्तमो यथोडुराजो दिवि तारकागणैः ॥ [भागवतम् १०.७०.१८] स्पष्टम् । एवमेव दुर्योधनं प्रति स्वयं विश्वरूपं दर्शयता श्री भगवता तेषां यादवादीनां निजावरणरूपत्वं दर्शितमित्युद्यम पर्वणि प्रसिद्धिः ॥ ॥ १०.७० ॥ श्रीशुकः ॥ १२२ ॥ [१२३] यश्चैषामेकादशस्कन्धान्ते तद्अन्यथाभावः श्रूयते, स तु श्रीमद् अर्जुनपराजयविमोहपर्यन्तो मायिक एव । तथावचनं च ब्रह्म शापानिवर्त्यताख्यापनायैव गोब्राह्मणहितावतारिणा भगवता विहितम् इति ज्ञेयम् । दृश्यते च बृहद्अग्निपुराणादौ रावणहृतायाः (पगे ६६) सीताया मायिकत्वं यथा तद्वत्[*Eण्ड्ण्Oट्E ॰६] । तथा हि तदानीमेवाह त्वं तु मद्धर्ममास्थाय ज्ञाननिष्ठ उपेक्षकः । मन्मायारचितामेतां विज्ञायोपशमं व्रज ॥ [भागवतम् ११.३०.४९] त्वं तु दारुको ज्ञाननिष्ठो मदीयलीलातत्त्वज्ञः, मद्धर्मं मम स्वभक्तप्रतिपालयितृत्वरूपं स्वतुल्यपरिकरसङ्गित्वरूपं च स्वभावमास्थाय विश्रभ्य एतामधुना प्रकाशितां सर्वामेव मौषलादिलीलां मम इन्द्रजालवद्रचितां विज्ञाय उपेक्षको बहिर्दृष्ट्या जातं शोकमुपेक्षमाण उपशमं चित्तक्षोभात्निवृत्तिं व्रज प्राप्नुहि । तुशब्देनान्ये तावन्मुह्यन्तु तव तु तथा मोहो न युक्त एवेति ध्वनितम् । अत्र श्रीदारुकस्य स्वयं वैकुण्ठावतीर्णत्वेन सिद्धत्वादेतामित्य् अत्रातिसन्निहितार्थलाभाच्चान्यथाव्याख्यानमेव प्रथमप्रतीत्य विषय इति विवेक्तव्यम् । ॥ ११.३० ॥ श्रीभगवान् दारुकम् ॥ १२३ ॥ [१२४] तथा च पद्यत्रयम् राजन् परस्य तनुभृज्जननाप्ययेहा मायाविडम्बनमवेहि यथा नटस्य । सृष्ट्वात्मनेदमनुविश्य विहृत्य चान्ते संहृत्य चात्ममहिनोपरतः स आस्ते ॥ [भागवतम् ११.३१.११] परस्य श्रीकृष्णस्य ये तनुभृतः प्रयुज्यमाने मयि तां शुद्धां भागवतीं तनुम् [भागवतम् १.६.२९] इति श्रीनारदोक्त्य्अनुसारेण तदीयां तनुम् एव धारयन्तस्तत्पार्षदा यादवादयस्तेषां जननाप्ययरूपा ईहाश् चेष्टाः केवलं परस्यैव मायया अनुकरणमवेहि यथा इन्द्रजालवेत्ता नटः कश्चिज्जीवत एव मारयित्वेव दग्ध्वेव पुनश्च तद्देहं जनयित्वेव दर्शयति तस्येव । विश्वसर्गादिहेत्व्अचिन्त्यशक्तेस्तस्य तादृश शक्तित्वं न च चित्रमित्याह सृष्ट्वेति । एवं सति श्रीसङ्कर्षणादौ मुग्धानामन्यथाभानहेतूदाहरणाभासः सुतरामेव मायिकलीला वर्णने प्रवेशितो भवति । स्कान्दे श्रीलक्ष्मणस्याप्यन्यादृशत्वं न सम्प्रतिपन्नम् । नारायणवर्मणि च शेषाद्विलक्षणशक्तित्वेन नित्यम् एवोपासकपालकत्वेन तथैवानुमतमिति दर्शितम् । अतएव जरासन्ध वाक्ये तव राम यदि श्रद्धा [भागवतम् १०.५०.१८] इत्यत्र श्रीस्वामिभिरपीत्थं वास्तवार्थो व्यञ्जितः । अच्छेद्यदेहोऽसाविति स्वयमेव मत्वा अपरितोषात्पक्षान्तरमाह यद्वा मां जहीति । तदेवं चानेन व्याख्यानेन लोकाभिरामां स्वतनुं [भागवतम् ११.३१.६] इत्यादिपद्येषु योगिजनशक्तिविलक्षणभगवच्छक्तिव्यञ्जकक श्रीस्वामिचरणानामदग्ध्वेत्यादिपदच्छेदादिमयव्याख्या सौष्ठवं कैमुत्यातिशयेन सुष्ठ्वेव स्थापितम् । यत एव दृश्यते चाद्याप्युपासकानामित्यादिकं च तद्उक्तं सुसङ्गतं भवति । तत्तत् परिकरेणैव सार्धं तेषु तत्साक्षात्कार इति । अप्राकृतदेहानां तेषां तन् न सम्भवतीयास्ताम् । [१२५] श्रीकृष्णपाल्यत्वेनैव न सम्भवतीत्याह मर्त्येन यो गुरुसुतं यमलोकनीतं त्वां चानयच्छरणदः परमास्त्रदग्धम् । जिग्येऽन्तकान्तकमपीशमसावनीशः किं स्वानने स्वरनयन्मृगयां सदेहम् ॥ [भागवतम् ११.३१.१२] यः श्रीकृष्णः यमलोकं गतमपि गुरुसुतं गुरोर्जातेन पञ्चजन भक्षितेन तेन मर्त्येन देहेनैवानयत् । न च ब्रह्मतेजसो बलवत्त्वं मन्तव्यम् । त्वां च ब्रह्मास्त्रदग्धं यस्तस्माद्ब्रह्मास्त्रादानयद् रक्षितवानित्यर्थः । किमन्यद्वक्तव्यम् ? यश्चान्तकानामन्तकम् ईशं श्रीरुद्रमपि बाणसङ्ग्रामे जितवान् । अहो यश्च तं जराख्यं मृगयुमपि स्वः स्वर्गं वैकुण्ठविशेषं सशरीरमेव प्रापितवान् । स कथं स्वानां यदूनाम् (पगे ६७) अवने ईशो न भवति ? तस्मात्तेष्व् अन्यथादर्शनं न तात्त्विकलीलानुगतम् । सशरीरं तु तेषां स्वलोक गमनमतीव युक्तमित्यर्थः । [१२६] ननु गच्छन्तु ते सशरीरा एव स्वं धाम तत्रापि स्वयं भगवान् विराजत एवेति न तेषां तद्विरहदुःखमपि । श्रीभगवांस्तु तथासमर्थश्चेत् तर्हि कथमन्यांस्तादृशानाविर्भाव्य तैः सह मर्त्यलोकानुग्रहार्थम् अपरमपि कियन्तं कालं मर्त्यलोकेऽपि प्रकटो नासीदित्यत्र सिद्धान्तयन् तेषां श्रीभगवतश्च सौहार्दभरेणापि परस्परमव्यभिचारित्वमाह तथाप्यशेषस्थितिसम्भवाप्ययेष्व् अनन्यहेतुर्यदशेषशक्तिधृक् । नैच्छत्प्रणेतुं वपुरत्र शेषितं मर्त्येन किं स्वस्थगतिं प्रदर्शयन् ॥ [भागवतम् ११.३१.१३] यद्यप्युक्तप्रकारेण अशेषस्थितिसम्भवाप्ययेषु अनन्यहेतुः यत् यस्मात्तद्ऊर्ध्वमप्यनन्ततादृशशक्तिधृक्, तथापि यादवान् अन्तर्धाप्य निजं वपुरत्र शेषितं प्रणेतुं किञ्चित्कालं स्थापयितुं नैच्छत्, किन्तु स्वमेव लोकमनयत् । तत्र हेतुः । तान् विना मर्त्येन लोकेन किं मम प्रयोजनमिति स्वस्थानां तद्धामगतानां तेषां गतिमेव स्वस्याभिमतत्वेन प्रकृष्टां दर्शयन्निति । ॥ ११.३१ ॥ श्रीशुकः ॥ १२४१२६ ॥ [१२७] अतस्तेषां श्रीभगवद्वदन्तर्धानमेव न त्वन्यदस्तीति श्री भगवद्अभिप्रायकथनेनाप्याह मिथो यदैषां भविता विवादो मध्व्आमदाताम्रविलोचनानाम् । नैषां वधोपाय इयानतोऽन्यो मय्युद्यतेऽन्तर्दधते स्वयं स्म ॥ [भागवतम् ३.३.१५] एषां यदूनां यदा मिथो विवादस्तदाप्येषां पृथिवीपरित्याजने वध रूप उपायो न विद्यते किमुतान्येन विवादे स न स्यादिति । तर्हि तेषां ममाभिलषिते पृथिवीपरित्याजने कतम उपायो भवेत् । तत्र पुनः परामृशति । अतो वधादन्य एव इयानेतावानेव उपायो वर्तते । कोऽसौ मयि उद्यते ममेच्छया एते स्वयमन्तर्दधत इति यः । स्मेति निश्चये । यद्वा वधस्योपायो न विद्यत इत्येवं व्याख्याय अतो वधोपायादन्य इयान् वधोपायतुल्य उपायो विद्यते इति व्याख्येयम् । अन्यत्समानम् । ॥ ३.३ ॥ श्रीमदुद्धवो विदुरम् ॥ १२७ ॥ [१२८] अतएवान्तर्हिते भगवति श्रीमद्उद्धवस्य विदुरिति वर्तमानप्रत्यय निर्देशवाक्येन तदानीमन्तर्हितस्यापि तद्वर्गस्य इव श्रीभगवतैव सह संवासो व्यज्यते यथा दुर्भगो बत लोकोऽयं यदवो नितरामपि । ये संवसन्तो न विदुर्हरिं मीना इवोडुपम् ॥ [भागवतम् ३.२.८] अयं मम हृदये स्फुरन् द्वारकावासी लोकः । ये संवसन्तः सह वसन्तोऽपि न विदुर्न जानन्ति । अहं तु संवासभाग्यहीनो न जानामीति नाश्चर्यमिति भावः । अत्र तदानीं यदि संवासो नाभविष्यत्तदा नावेदिषुर् इत्येवावक्ष्यदिति ज्ञेयम् । [१२९] नन्वधुनापि न जानन्तीति कथं जानासीत्याशङ्क्य हेतुं प्राचीन निजानुभवमाह इङ्गितज्ञाः पुरुप्रौढा एकारामाश्च सात्वताः । सात्वतामृषभं सर्वे भूतावासममंसत ॥ [भागवतम् ३.२.९] यं सात्वतां स्वेषामेव ऋषभं नित्यकुलपतित्वेन वर्तमानं स्वयं भगवन्तमपि भूतावासं तद्अंशरूपं भूतान्तर्यामिनम् एवामंसतेति । मे एको देव (पगे ६८) इत्यादौ सर्वभूताधिवास [श्वेतू ६.१८] इत्यन्तर्यामिश्रुतेः । उक्तं च वृष्णीनां परदैवता [भागवतम् १०.४३.२७] इति । ॥ ३.२ ॥ श्रीमद्उद्धवो श्रीविदुरम् ॥ १२८१२९ ॥ [१३०] यमेव संवासं पूर्वमपि प्रार्थयामास नाहं तवाङ्घ्रिकमलं क्षणार्धमपि केशव । त्यक्तुं समुत्सहे नाथ स्वधाम नय मामपि ॥ [भागवतम् ११.६.४३] स्वधामद्वारकाया एव प्रापञ्चिकाप्रकटप्रकाशविशेषमपीति । यथा यादवानन्यान्नयसि तथा मामपि नयेत्यर्थः । अर्थान्तरे त्वपि शब्दवैयर्थ्यं स्यात् । ॥ ११.६ ॥ श्रीमानुद्धवः ॥ १३० ॥ [१३१] पाद्मोत्तरखण्डे कार्त्तिकमाहात्म्ये च यादवानां तदृशत्वं यथा सौमित्रिभरतौ यथा सङ्कर्षणादयः । तथा तेनैव जायन्ते निजलोकाद्यदृच्छया ॥ पुनस्तेनैव गच्छन्ति तत्पदं शाश्वतं परम् । न कर्मबन्धनं जन्म वैष्णवानां च विद्यते ॥ [ড়द्मড়् ६.२२९.५७५८] इति । अत्र निजलोकादिति तत्पदमिति च रामकृष्णादिवैकुण्ठं पाद्मोत्तर खण्डमतम् । श्रीमत्स्याद्य्अवताराणां पृथक्पृथक्वैकुण्ठावस्थितेस् तत्र साक्षादुक्तत्वात् । तादृशानां भगवत इव भगवद्इच्छयैव जन्मादिकारणं चोक्तं श्रीविदुरेण अजस्य जन्मोत्पथनाशनाय कर्माण्यकर्तुर्ग्रहणाय पुंसाम् नन्वन्यथा कोऽर्हति देहयोगं परो गुणानामुत कर्मतन्त्रम् ॥ [भागवतम् ३.१.४४] इति । को वान्योऽपीति टीका च । तदेवं तेषां श्रीकृष्णनित्यपरिकरत्वे सिद्धे साधिते श्रीवसुदेवादीनां प्राग्जन्मनि साधकत्वादिकथनं च भगवत इव भगवद्इच्छयैव लोकसङ्ग्रहाद्य्अर्थमंशेनैवावतारात् क्वचिज्जीवान्तरावेशात्सम्भवति । पुनश्च स्वयमवतरत्सु तेषु तद्अंश प्रवेशकथारीत्या त्वेकत्वेन कथनमिति ज्ञेयम् । यथा प्रद्युम्नस्य व्याख्यातम् । एवं तृतीये वेदाहमित्यादि भगवद्वाक्ये उद्धवं प्रति वस्व्अंशत्वापेक्षयैव वसो इति सम्बोधनं तादृशांश पर्यवसानास्पदांशिरूपत्वेन चरमजन्मतोक्तिश्च ज्ञेया । अतएवाह त्वमेव पूर्वसर्गेऽभूः पृश्निः स्वायम्भुवे सति । तदायं सुतपा नाम प्रजापतिरकल्मषः ॥ [भागवतम् १०.३.३२] त्वं श्रीदेवकीदेव्येव पृश्निरभूः न तु पृश्निस्त्वमभूदिति । एवं तदायमपीति । ॥ १०.३ ॥ श्रीभगवान् ॥ १३१ ॥ [१३२] एवमेवाह वसुदेवं हरेः स्थानं वदन्त्यानकदुन्दुभिम् [भागवतम् ९.२४.३०] इति । सत्त्वं विशुद्धं वसुदेवशब्दितं यदीयते तत्र पुमान् अपावृतः [भागवतम् ४.३.२३] इत्यादौ प्रसिद्धं वसुदेवाख्यं हरेः स्थानम् अत्रानकदुन्दुभिं वदन्ति मुनय इति ॥ ॥ ९.२४ ॥ श्रीशुकः ॥ १३२ ॥ [१३३] तथात्राप्येवं व्याख्येयं देवक्यां देवरूपिण्याम् [भागवतम् १०.३.८] वसुदेवस् तद्रूपिण्यां शुद्धसत्त्ववृत्तिरूपायामेवेति । अतएव विष्णुपुराणे तां प्रति देवस्तुतौ त्वं परा प्रकृतिः सूक्ष्मा [भागवतम् ५.२.७] इत्य्आदि बहुतरम् ॥ ॥ १०.३ ॥ श्रीशुकः ॥ १३३ ॥ [१३४] अतएवाहमिव नित्यमेव मत्पितृरूपेणाप्रकटलीलायां वर्तमानौ युवामधुना (पगे ६९) प्रकटलीलामनुगतौ पुनरप्रकटलीला प्रवेशं यदृच्छयैवाप्स्यथ इत्याह युवां मां पुत्रभावेन ब्रह्मभावेन चासकृत् । चिन्तयन्तौ कृतस्नेहौ यास्येथे मद्गतिं पराम् ॥ [भागवतम् १०.३.४५] ब्रह्मभावेन नराकृतिपरब्रह्मबुद्ध्या । परां प्रकटलीलातोऽन्यां मद्गतिं लीलाम् । [१३५] युवयोः प्रागंशेनाविर्भूतयोरपि मद्एकनिष्ठासीदित्याह अजुष्टग्राम्यविषयावनपत्यौ च दम्पती । न वव्राथेऽपवर्गं मे मोहितौ देवमायया ॥ [भागवतम् १०.३.३९] मम मायया मद्विषयस्नेहमय्या शक्त्येत्यर्थः । वैष्णवीं व्यतनोन् मायां पुत्रस्नेहमयीं विभुर्[भागवतम् १०.८.४७] इति व्रजराज्ञीं प्रति च दर्शनात् । तादृशस्नेहजनिकया मम कृपयेति वा । माया दम्भे कृपायां च इति विश्वप्रकाशात् । तत्प्रेम्णैव ह्यपवर्गस्य तिरस्कारः सर्वत्र श्रूयते, यद्यपि मोक्षवरणे हेतुरस्तीत्याह अजुष्टेति । विषयावेशाभावाद् वैराग्योत्पत्तेरिति भावः ॥ ॥ १०.३ ॥ श्रीभगवान् पितरौ ॥ १३४१३५ ॥ [१३६] अथ श्रीगोपादीनामपि तन्नित्यपरिकरत्वम् । जयति जननिवास इत्यादाव् एव व्यक्तम् । अतएवाह तस्मान्मच्छरणं गोष्ठं मन्नाथं मत्परिग्रहम् । गोपाये स्वात्मयोगेन सोऽयं मे व्रत आहितः ॥ [भागवतम् १०.२५.१८] स्पष्टम् ॥ १०.२५ ॥ श्रीभगवान् ॥ १३६ ॥ [१३७] तथा तत आरभ्य नन्दस्य व्रजः सर्वसमृद्धिमान् । हरेर्निवासात्मगुणै रमाक्रीडमभून्नृप ॥ [भागवतम् १०.५.१८] हरेर्निवासभूतो य आत्मा तस्य ये गुणास्तैरेव सर्वसमृद्धिमान्, नित्य योगे मत्वर्थीयेन नित्यमेव सर्वसमृद्धियुक्तः । श्रीनन्दस्य व्रजः ततस्तं श्रीकृष्णप्रादुर्भावमारभ्य तु रमाक्रीडां चिन्तामणिप्रकरसद्मसु कल्पवृक्ष लक्षावृतेषु सुरभिरभिपालयन्तम् । लक्ष्मीसहस्रशतसम्भ्रमसेव्यमानमित्यत्र प्रसिद्ध्या । रमाणां महालक्ष्मीणां श्रीव्रजदेवीनामपि साक्षाद्विहारास्पदं बभूव । हरिनिवासात्मनि तत्र श्रीकृष्णो यावन्निगूढतया विहरति स्म तावत्ता अपि तथैव विहरन्ति स्म । व्यक्ततया तु ता अपि व्यक्ततयेत्यर्थः । ॥ १०.५ ॥ श्रीशुकः ॥ १३७ ॥ [१३८] एतदेव प्रपञ्चयति षड्भिः अहो भाग्यमहो भाग्यं नन्दगोपव्रजौकसाम् । यन्मित्रं परमानन्दं पूर्णं ब्रह्म सनातनम् ॥ [भागवतम् १०.१४.३२] भाग्यमनिर्वचनीया कापि श्रीकृष्णस्य कृपा । तस्य पुनर्उक्त्य्आदरेण सर्वथैवापरिच्छेद्यत्वमुक्तम् । पूर्णपरमानन्दब्रह्मत्वेनैव सनातनत्वे सिद्धे यत्पुनस्तद्उपादानं तन्मित्रपदस्यैव विशेषणत्वेन लभ्यम् । अथवा विधेयस्य विशेषप्रतिपत्त्य्अर्थमनूद्यं विशिष्यते । यथा मनोरमं सुवर्णमिदं कुण्डलं जातमिति कुण्डलस्यैव मनोरमत्वं साध्यम् । तस्मादत्राप्यनूद्यस्य श्रीकृष्णाख्यस्य पर ब्रह्मणः परमानन्दपूर्णत्वलक्षणं विशेषणद्वयं विधेयाया मित्रताया एव तत्तद्भावं साधयतीति तद्एकार्थप्रवृत्तं सनातनत्वं तस्यास्तद्भावं साधयेत् । किं चात्र मित्रमिति कालविशेषयोगनिर्देशाभावात्कालसामान्यमेव भजते । ततश्च तस्य मित्रतालक्षणस्य विधेयस्य कालत्रयावस्थितत्वम् एव स्पष्टम् । कालान्तरासंजननं तु कष्टम् । अत्र चोत्तरयोरर्थयोः श्री कृष्णस्य सनातनत्वे शब्दलब्धे सति तदीयमैत्रीमतां परिकराणामपि सनातनत्वं नासम्भवमपि श्रीरुक्मिणीप्रभृतीनां तथा दर्शनात् । (पगे ७०) [१३९] अहो अस्तु तावदेषां नित्यमेव श्रीकृष्णमैत्रीपरमानन्दम् अनुभवतां भाव्यं, सम्प्रति अस्माकमपि तत्किमपि जातमित्याह एषां तु भाग्यमहिमाच्युत तावदास्ताम् एकादशैव हि वयं बत भूरिभागाः । एतद्धृषीकचषकैरसकृत्पिबामः शर्वादयोऽङ्घ्र्य्उदजमध्व्अमृतासवं ते ॥ [भागवतम् १०.१४.३३] एका अखण्डिता नित्येति यावत् । सा भाग्यमहिमा भाग्यमाहात्म्यमेषां तावदास्तां सम्प्रति शर्वादयो दशदिक्पालदेवा एव वयं भूरिभागाः । परमभक्तत्वात्तेषु मुख्यत्वाच्च शर्वादय इत्युक्तम् । भूरि भागत्वमेव दर्शयति हृषीकचषकैश्चक्षुर्आदिलक्षणपानपात्रैः कृत्वा वयमप्येतत्साक्षादेव यथा स्यात्तथा ते तव अङ्घ्र्य्उदज मध्व्अमृतासवमसकृत्पुनः पुनरिहागत्य पिबाम इति । चरण सौन्दर्यादिकमेवातिमनोहरत्वात्मध्व्आदितया त्रिधापि रूपितं समाहारद्वन्द्वेन । एतदिति चास्यैव वा विशेषणस्य । अत्र तुष्यतु दुर्जनः इति न्यायेन श्रीव्रजवासिनां प्राकृतदेहित्वमतेऽपि तेषां करणैर्देवता कर्तृकभोगो न युज्येत तस्य च नित्यत्वात्[Vस्२.४.१७] इत्यत्र श्री शङ्कराचार्येण च करणपक्षस्यैव हि देवता न भोक्तृपक्षस्य इत्य् आत्मनः एव भोक्तृत्वनिर्धारणात् । [१४०] अतः पूर्वमपि तदस्तु मे नाथ स भूरिभागः [भागवतम् १०.१४.३०] इत्यादि यत् प्रार्थितं तदेतदेवेत्याह तद्भूरिभाग्यमिह जन्म किमप्यटव्यां यद्गोकुलेऽपि कतमाङ्घ्रिरजोऽभिषेकम् । यज्जीवितं तु निखिलं भगवान्मुकुन्दस् त्वद्यापि यत्पदरजः श्रुतिमृग्यमेव ॥ [भागवतम् १०.१४.३४] अनेन श्रीगोकुलजन्मलाभादेव तव पादनिषेवालक्षणो याचितो भूरि भागः सदैव सेत्स्यतीति सूचितम् । [षर्वसंवादिनी: तत्रावतीर्णः श्रीभगवान् तत्र इह श्रीमथुरा मण्डले । तत्रापि अटव्यां श्रीवृन्दावने तत्रापि श्रीगोकुले । कथम्भूतं जन्म ? गोकुलवासिनां मध्ये अपि कतमस्य यस्य कस्यापि अङ्घ्र् रजसाभिषेको यस्मिन् तत् । Eन्द्ष्ष्.] [१४१] तस्मात्तेषां भागधेयं किं वर्णनीयम् । अहो येषां भक्त्या भवानपि नित्यमृणितामापन्नो येषु रुद्ध एवास्ते इत्याह एषां घोषनिवासिनामुत भवान् किं देव रातेति नश् चेतो विश्वफलात्फलं त्वद्अपरं कुत्राप्ययन्मुह्यति । सद्वेषादपि पूतनापि सकुला त्वामेव देवापिता यद्धामार्थसुहृत्प्रियात्मतनयप्राणाशयास्त्वत्कृते ॥ [भागवतम् १०.१४.३५] सतां शुद्धचित्तानां धात्र्य्आदिजनानामिव वेषात् । [Vऋ. अद्द्स् लेभे गतिं धात्र्य्उचिताम् [भागवतम् ३.२.२३] इति तृतीयोक्तेः [एन्द्Vर्.] । तस्मादनादिकल्प परम्परागतत्वादवतारत एवैवं प्राप्तत्वेन तैरेकैरेव भक्ति रुद्धत्वात्सनातनं मित्रमित्येवं साधूक्तम् । ततश्च तद्भूरि भाग्यमित्यादिकमपि साध्वेव प्रार्थितमिति भावः । [षर्वसंवादिनी: इत्यत्र राता दाता त्व त्वत्तः । अयतितस्ततो गच्छत् । Eन्द् ष्ष्.] [१४२] नन्वेषां मनुष्यान्तरवत्रागादिकं दृश्यते । कथं तर्हि स्वयं भगवतो नित्यपरिकरत्वं तत्र कैमुत्यमाह तावद्रागादयः स्तेनाः तावत्कारागृहं गृहम् । तावन्मोहोऽङ्घ्रिनिगडो यावत्कृष्ण न ते जनाः ॥ [भागवतम् १०.१४.३६] स्तेनाः पुरुषसारहराः । अन्येषां प्राकृतजनानामपि तावदेव रागादयश्चौरादयो भवन्ति यावत्ते जनास्ते तव न भवन्ति सर्वतो भावेन त्वय्यात्मानं न समर्पयन्ति । समर्पिते चात्मनि तेषां रागादयोऽपि त्वन्निष्ठा एवेति रागादीनां प्राकृतत्वाभावान्न चौरादित्वं प्रत्युत परमानन्दरूपत्वम् (पगे ७१) एवेत्यर्थः । तथैव प्रार्थितं श्रीप्रह्लादेन या प्रीतिरविवेकानां विषयेष्वनपायिनी । त्वामनुस्मरतः सा मे हृदयान्नापसर्पतु ॥ [Vइড়् १.२०.१९] इति । अतो यदि साधकानामेवं वार्ता तदा किं वक्तव्यं, नित्यमेव तादृश प्रियत्वेन सतां श्रीगोकुलवासिनामेवमिति । इत्थमेवोक्तम् इति नन्दादयो गोपाः कृष्णरामकथां मुदा । कुर्वन्तो रममाणाश्च नाविन्दन् भववेदनाम् ॥ [भागवतम् १०.११.५८] इति । भवन्त्यस्मिन्निति भवः प्रपञ्चः । यद्यपि प्रपञ्चजनेष्वभिव्यक्तास् ते तथापि तत्सम्बन्धिनी या वेदना विषयदुःखादिज्ञानं तां नाविन्दन्न् इत्यर्थः । वेदना ज्ञानपीडयोः इति कोषज्ञाः । [१४३] तर्हि कथं गोकुले प्रपञ्चवद्भानं लोकानां भवति तत्राह प्रपञ्चं निष्प्रपञ्चोऽपि विडम्बयसि भूतले । प्रपन्नजनतानन्द सन्दोहं प्रथितुं प्रभो ॥ [भागवतम् १०.१४.३७] प्रपञ्चादतीतोऽपि त्वं भूतले स्थितं प्रपञ्चं विडम्बयसि (जन्मादि लीलया ममायं पिता ममेयं माता इत्यादि भावलिङ्गतः) स्वयमनेन प्रस्तुतेन गोकुलरूपेणानुकरोषि । वस्तुतस्तु श्रीगोकुलरूपमिदं तव स्वरूपं प्रपञ्चवदेव भाति न तु प्रपञ्चरूपमेवेति तात्पर्यम् । तद्वच्च भानं किमर्थं तत्राह प्रपन्नेति । एतादृशलौकिकाकार लीलयैव हि प्रपन्नजनवृन्दस्य परमानन्दो भवतीत्येतदर्थम् । तस्मात्साधूक्तमहो भाग्यमित्यादि । ॥ १०.१४ ॥ ब्रह्मा श्रीभगवन्तम् ॥ १३८१४३ ॥ [१४४] अतएवाह तासामविरतं कृष्णे कुर्वतीनां सुतेक्षणम् । न पुनः कल्पते राजन् संसारोऽज्ञानसम्भवः ॥ [भागवतम् १०.६.४०] तासां श्रीगोपपुरस्त्रीणां संसारः संसारित्वं प्रापञ्चिकत्वं न पुनः कल्प्यते न तु घटते, किन्तु अप्रापञ्चिकत्वमेव घटत इत्यर्थः । यतोऽसावज्ञानसम्भवः । तासां तु कथम्भूतानां ? अज्ञानतमः सूर्यस्य ज्ञानस्योपरिविराजमानो यः प्रेमा तस्याप्युपरि वर्तमानं यत् सुतेक्षणं पुत्रभावो वात्सल्याभिधः प्रेमा तदेव तत्राप्यविरतं नित्यमनादित एव श्रीकृष्णे कुर्वतीनामिति ॥ [Vर्. हेरे अद्द्स्: इति स्थिते तन्नामसिद्धश्रीकृष्णनामविशेषाङ्कित विदितानां श्रीकृष्णेन सहान्तरङ्गतया तन्महायोगपीठध्येयानां तद्वदन्यास्वपि लीलासु तादृशतया दर्शयितव्यानां तासां श्रीकृष्ण प्रेयसीनां तु किं वक्तव्यम् । Vऋ. सेच्तिओनेन्द्स्.] ॥ १०.६ ॥ श्रीशुकः ॥ १४४ ॥ [१४५] यस्मादेवं श्रीगोपादीनां तदीयनित्यपरिकरत्वं (पगे ७२) तस्मादेतत् प्रकरणत्वसिद्धदेहानां साधकचरीणां कासांचिदपेक्षया । यद्वा एतदभिप्रायं तच्च अन्तर्गृहगता [भागवतम् १०.२९.९] इत्यादिकं, न चैवं विस्मयः कार्यः [भागवतम् १०.२९.१६] इत्याद्य्अन्तम् । [षर्वसंवादिनी: अन्तर्गृहगताः काश्चिद्गोप्योऽलब्धविनिर्गमाः । कृष्णं तद्भावनायुक्ता दध्युर्मीलितलोचनाः ॥ दुःसहप्रेष्ठविरहतीव्रतापधुताशुभाः । ध्यानप्राप्ताच्युताश्लेषनिर्वृत्या क्षीणमङ्गलाः ॥ तमेव परमात्मानं जारबुद्ध्यापि सङ्गताः । जहुर्गुणमयं देहं सद्यः प्रक्षीणबन्धनाः ॥ राजोवाच कृष्णं विदुः परं कान्तं न तु ब्रह्मतया मुने । गुणप्रवाहोपरमस्तासां गुणधियां कथम् ॥ श्रीशुक उवाच उक्तं पुरस्तादेतत्ते चैद्यः सिद्धिं यथा गतः । द्विषन्नपि हृषीकेशं किमुताधोक्षजप्रियाः ॥ नॄणां निःश्रेयसार्थाय व्यक्तिर्भगवतो नृप । अव्ययस्याप्रमेयस्य निर्गुणस्य गुणात्मनः ॥ कामं क्रोधं भयं स्नेहमैक्यं सौहृदमेव च । नित्यं हरौ विदधतो यान्ति तन्मयतां हि ते ॥ न चैवं विस्मयः कार्यो भवता भगवत्यजे । योगेश्वरेश्वरे कृष्णे यत एतद्विमुच्यते ॥ [भागवतम् १०.२९.९१६] Eन्द्ष्षद्दितिओन्.] [Vर्. रेप्लचेसबोवे परग्रफ्wइथ्थे fओल्लोwइन्ग्: तदेवमेव तासां श्री कृष्णवदानन्दविग्रहाणां तैरेव विग्रहैः श्रीकृष्णसङ्गः प्रोक्तः । उक्तं च तासां विग्रहमाहात्म्यं तत्रातिशुशुभे ताभिर्भगवान् देवकी सुतः [भागवतम् १०.३३.६] इत्यादिभिः । श्रीमद्उद्धवेन च तान्नमस्यता प्रथममेताः परं तनुभृतः [भागवतम् १०.४७.५८] इत्यनेन तासामेव परम तनुभृतत्वं प्रदर्श्य मध्ये क्वेमाः स्त्रियः [भागवतम् १०.४७.५९] इत्यनेन परमतमनूद्य तत्खण्डयता नायं श्रियोऽङ्ग [भागवतम् १०.४७.६०] इत्यनेन लक्ष्मीतोऽपि विलक्षणं तासु तत्प्रेयसीरूपत्वं प्रदर्श्य परमनित्यत्वं स्थापयित्वा तत्र च यः प्रसाद उदगातित्यनेन तत्प्रसादस्य सदान्तर्भूय स्थायित्वं सूचयित्वा पुनः आसामहो चरण [भागवतम् १०.४७.६१] इत्य् आदिना स्वीयपरमपुरुषार्थचरणरेणुत्वं दर्शितम् । यत्र भेजुर् मुकुन्दपदवीं श्रुतिभिर्विमृग्याम् [भागवतम् १०.४७.६१] इत्यनेन यदेव पुरुषार्थतया स्थापितम् । यत्र वृन्दावने इत्यादिना वृन्दावनस्य च तादृशत्वं स्थापितम् । तदेतद्व्यतिरेकेण द्रढयितुमन्यासाम् आगन्तुकानामसिद्धदेहानां विग्रहत्यागेनैव तत्सङ्गप्राप्तिरित्याह अन्तर्गृहगता [भागवतम् १०.२९.९] इत्यादिकेन, न चैवं विस्मयः कार्यः [भागवतम् १०.२९.१६] इत्याद्य्अन्तेन । अन्तर्गृहगताः शुश्रूषन्त्यः पतीन् काश्चितित्य् अत्रोक्ता इत्यर्थः । विशेषव्याख्या च क्रमसन्दर्भे दर्शयिष्यते । Vऋ. सेच्तिओनेन्द्स्.] अत्र अन्तरिति स्फुटमेव । अशुभं [भागवतम् १०.२९.१०] श्रीकृष्णप्राप्ताव् अन्तरायरूपं गुरुभयादिकम् । मङ्गलं श्रीकृष्णप्राप्तौ साधनं सख्यादिसाहाय्यचिन्तनम् । न कर्मबन्धनं जन्म वैष्णवानां च विद्यते [ড়द्मড়् ६.२२९.५८] इति ह्युक्तमेव । दृश्यते चान्यत्रापि तद् असम्भवस्थले तच्छब्दप्रयोगः वत्स्यत्युरसि मे भूतिर्भवत्पाद हतांहसः [भागवतम् १०.८९.११] इत्यादौ । तत्र यथा श्रीभगवद्वाक्य याथार्थ्यायार्थान्तरमनुसन्धेयं तद्वदिहापीति । परमात्मानम् [भागवतम् १०.२९.११] इति ब्रह्मस्तम्बान्तनिर्दिष्टसिद्धान्तरीत्या श्रीकृष्णस्य स्वभावत एव परमप्रेमास्पदत्वं दर्शितम् । जार इति या बुद्धिस्तयापि तन्मात्रेणापि सङ्गताः न तु साक्षादेव जाररूपेण प्राप्तिर् इति । तद्भावपुरस्कारेण भजनस्य प्राबल्यं व्यञ्जितम् । जारशब्देन निर्देशात्लोकधर्ममर्यादातिक्रमं दर्शयित्वा तथाविध भावस्यातिनिरर्गलत्वं दर्शितम् । बन्धनं श्रीकृष्णप्राप्तिविरोधिगुरु जनमध्यवासादिरूपम् । अत्र गुणमयं देहं जहुरित्यत्र राज्ञः सन्देहः कृष्णं विदुर्[भागवतम् १०.२९.१२] इति । हे मुने, ताः श्रीकृष्णं परं केवलं कान्तं निगूढ वल्लभं विदुर्न तु ब्रह्मेति । तर्हि कथं तासां गुणप्रवाहस्योपरमः सम्भवति ? यस्य ब्रह्मभावना स्यात्तत्र तस्य निर्गुणस्यैवोदयाद् भवेत्प्राचीनमायिकगुणप्रवाहोपरमः । तासु तु कान्ततयैव भावयन्तीषु प्राकृतगुणातीतगुणस्यैव तस्योदयात्प्राकृतगुणाभावेऽपि तद्गुणानुबन्धगुणत्वात्परमपुरुषार्थानुगतानां तेषां गुणानां कथमुपरम इत्यर्थः । यद्वा तासां गुणप्रवाहः कथमुपरमः पारमर्थिको न भवति, येन ततो मुक्तिं कथयसीति भावः । ब्रह्मतया वेदनावैलक्षण्यं प्रतिपादयति गुणधियां ब्रह्मनिष्ठाया अपि त्याजके तस्य परमसौन्दर्यादिगुणे धीश्चेतो यासाम् । तत्रोत्तरमुक्तिमिति । पुरञ्जनेतिहासादिवद्दुरूहत्वात्स्वयमुक्तस्य व्याख्यानमिदम् । एवं हि दृष्टान्तबलेन लभ्यते । यथा चैद्यशब्देनात्र कारुषोऽपि गृहीतः तौ च जयविजयौ तयोश्च देहेन्द्रियासुहीनानां वैकुण्ठपुरवासिनाम् । देहसम्बन्धसम्बद्धमेतदाख्यातुमर्हसि ॥ [भागवतम् ७.१३.३४] इति श्रीयुधिष्ठिरप्रश्नदृशा त्वप्राकृतविग्रहत्वेनानश्वरविग्रहयोर् एव सतोः भगवाननुगावाह यातं मा भैष्टमस्तु शम् । ब्रह्मतेजः समर्थोऽपि हन्तुं नेच्छे मतं तु मे ॥ [भागवतम् ३.१६.२९] इति भगवद्उक्त्य्अनुसारेण । इत्थं जयविजयौ सनकादिशापव्याजेन केवलं भगवतो लीलार्थं संसृताववतीर्य इति पाद्मोत्तरखण्ड गद्यानुसारेण च स्वभक्तचित्ताकर्षविनोदाय युद्धादिक्रीडा निमित्ततया तस्य दुर्घटघटनाकारिण्येच्छया एव वारत्रयं स्वीयस्य अणिमादिसिद्धिमयपरमज्योतिर्देहस्य गुणमयपार्थिवदेहान्तर प्रवेशः । अतएव सप्तमे कृष्णचक्रहतांहसौ [भागवतम् ७.१.४५] इत्यत्र टीका च कृष्ण चक्रेण (पगे ७३) हतमंहो ययोस्तौ । तयोः पापमेव हतं न तु तौ इत्य् एषा । तथा तद्अर्थमेव श्रीकृष्णेच्छयैवात्रापि तासामप्राकृतविग्रहाणाम् एव तद्अभिसारप्रतिरोधसमये नासूयन् खलु कृष्णाय मोहितास्तस्य मायया । मन्यमानाः स्वपार्श्वस्थान् स्वान् स्वान् दारान् व्रजौकसः ॥ [भागवतम् १०.३३.३७] इतिवत् । तात्कालिककल्पितो यो गुणमयो देहस्तत्र प्रवेशः । इममेवापेक्ष्य दार्ष्टान्तिकेऽप्युक्तं जहुर्गुणमयं देहम् [भागवतम् १०.२९.११] इति, विशेषण वैयर्थ्यान्न तु स्वमित्यर्थः । तत्र च यथा तयोः सह द्वेषाभासस् तस्याप्यनुस्मरणस्य (सद्वेषस्याप्यनुस्मरणस्य) प्रभावेन तादृशोपाधिपरित्यागात्ततोऽन्तर्धाय भगवत्प्राप्तिस्तथा सुतरामेव सप्रीतेस्तस्य प्रभावेन तत्प्राप्तिः । अत्र च भक्तचित्ताकर्षणमेवं सम्भवति अहो तादृशोऽसौ श्रीकृष्णे मधुरिमा येन ताः स्व साक्षात्काराय प्राणानपि त्याज्यन्ते स्मेति । नॄणाम् [भागवतम् १०.२९.१४] इति सामान्यतो जीवानामेव निःश्रेयसाय व्यक्तौ सत्यां भक्तानां तु सुतरामेवेत्यायातम् । अन्यथा तस्य व्यक्तिरेव न सम्भवेदित्याह । अव्ययस्येति । निर्गुणस्य प्राकृतगुणरहितस्य गुणात्मनः । तत्र ये चैश्वर्यादयो गुणास्ते आत्मनः स्वरूपाण्येव यस्य तस्य । तर्ह्येतादृशलीलया कथं नॄणां निःश्रेयसं भवति । उच्यते । एतद् बोधनेन भवतीत्याह कामम् [भागवतम् १०.२९.१५] इति । अत्र तन्मयताशब्देन तत्प्रचुरतोच्यते । तत्र कामस्नेहादिषु तद्अनुरक्तात्मतेति पर्यवसानं स्त्रीमयो जाल्म इतिवत् । क्रोधभयैक्येषु ते प्रायस्तत्प्रलीनतेति दुग्ध मयं जलमितिवत् । एकस्यैव शब्दस्य विशेषणवशादर्थभेदश्च युज्यते स्याच्चैकस्य ब्रह्म शब्दवद्[Vस्. २.३.४] इति न्यायेन । क्रोध भययोरत्र पठनमन्येषु कैमुत्यापादनायैव न तु तद्उपदेश विवक्षया । न च श्रीगोपिकादीनां ये कामादयो भावास्तद्अनुसरणेनान्ये कृतार्था भवन्तीति चित्रमित्याह । न चेति । किं वक्तव्यमेकेषां विमुक्तिर् जगतोऽपि सम्भवतीत्याह यत इति । [Vऋ. अद्द्स्: एके तु प्रकटलीलायामाराधनपाकादागन्तुकस्य एवैता न तु नित्यसिद्धवत्सच्चिद्आनन्ददेहं प्राप्ताः । ततो न दोष इति वर्णयन्ति । [एन्द्Vऋ. अद्दितिओन्.] ॥ १०.२९ ॥ श्रीशुकः ॥ १४५ ॥ [१४६१५०] अथ पूर्ववदिहापि श्रीव्रजेश्वरादीनां प्राचीनजन्मादिकं व्याख्येयम् । तथा हि त्रय्या चोपनिषद्भिश्च साङ्ख्ययोगैश्च सात्वतैः । उपगीयमानमाहात्म्यं हरिं सामन्यतात्मजम् ॥ [भागवतम् १०.८.४५] इत्येतत्, नेमं विरिञ्चो न भवः [भागवतम् १०.९.२०] इति वक्ष्यमाणानुसारिमहा माहात्म्यं श्रुत्वा विस्मितमनाः श्रीराजोवाच नन्दः किमकरोद्ब्रह्मन् श्रेय एवं महोदयम् । यशोदा च महाभागा पपौ यस्याः स्तनं हरिः ॥ पितरौ नान्वविन्देतां कृष्णोदारार्भकेहितम् । गायन्त्यद्यापि कवयो यल्लोकशमलापहम् ॥ [भागवतम् १०.८.४६७] ययोः प्रसन्नोऽवतीर्णस्तौ पितरावपि । तदेवं प्रश्नमवधार्य श्री शुक उवाच द्रोणो वसूनां प्रवरो धरया भार्यया सह । करिष्यमाण आदेशान् ब्रह्मणस्तमुवाच ह ॥ [भागवतम् १०.८.४८] आदेशान् गोपालनादिलक्षणान् । किमुवाच तदाह जातयोर्नौ महादेवे भुवि विश्वेश्वरे हरौ । भक्तिः स्यात्परमा लोके ययाञ्जो दुर्गतिं तरेत् ॥ [भागवतम् १०.८.४९] (पगे ७४) स्पष्टम् । ततश्च अस्त्वित्युक्तः स एवेह व्रजे द्रोणो महायशाः । जज्ञे नन्द इति ख्यातो यशोदा सा धराभवत् ॥ ततो भक्तिर्भगवति पुत्रीभूते जनार्दने । दम्पत्योर्नितरामासीद्गोपगोपीषु भारत ॥ [भागवतम् १०.८.५०५१] अन्येषां यः पुत्रो नासीत्तस्मिंस्तु तयोः पुत्रतां प्राप्त इति च्वि प्रत्ययार्थः । भक्तिविशेषमात्रेणैवोदयविशेषनियमात् । वात्सल्याभिधप्रेमविशेषेणैव श्रीकृष्णः पुत्रतयोदेति, न तु स्व देहादावाविर्भावेन, हिरण्यकशिपुसभास्तम्भे श्रीनृसिंहस्य ब्रह्मणि श्रीवराहस्य च पितृत्वाप्रयोगात् । न च गर्भप्रवेशेन परीक्षिद् रक्षणार्थं तत्प्रविष्टस्यापि तस्योत्तरामातृत्वाश्रवणात् । तादृशप्रेमा तु शुद्धः समुद्रिक्तश्च श्रीव्रजेश्वरयोरेव । अतएव गर्भ प्रवेशादिकं विनापि तयोः पुत्रतया तस्य प्रसिद्धिः । यथा नन्दस्त्व् आत्मज उत्पन्न [भागवतम् १०.५.१] इत्यादौ, तथोपासना च यथा सकललोक मङ्गलो नन्दगोपतनयः इत्यादौ । न त्वेवं स्तम्भादेः । किं च श्रीमदानकदुन्दुभिप्रभृतिष्वाविर्भावोऽपि न प्राकृतवत् तदीयचरमधात्व्आदौ प्रवेशः । किं तर्हि, सच्चिद्आनन्दविग्रहस्य तस्य तन्मनस्यावेश एव । तदुक्तम् ततो जगन्मङ्गलमच्युतांशं समाहितं शूरसुतेन देवी । दधार सर्वात्मकमात्मभूतं काष्ठा यथानन्दकरं मनस्तः ॥ [भागवतम् १०.२.१८] इति । ततः श्रीनारदप्रह्लादध्रुवादिषु दर्शनात्सर्वसम्मतत्वात्तादृश प्रेमविषयत्वेन साक्षात्श्रीभगवद्आविर्भावाव्यवहितपूर्वप्रचुर कालं व्याप्य सन्ततस्तद्आवेशः श्रीव्रजेश्वरयोरप्यवश्यमेव कल्प्यते । ब्रह्मवरप्रार्थनयापि तदेव लभ्यत इति समान एव पन्थाः । वात्सल्यं त्वत्राधिकं, येन विना तस्य पुत्रभावो न सम्भवतीत्यत्रैव पुत्रतां मन्यामह इति पुत्रीभूत इत्यस्य भावः । इदं प्रकटायामेव लीलायां समाहितम्, अप्रकटायां तु तयोर्नित्य सिद्धत्वे एव पुरतोऽवधारयिष्यमाणे लक्ष्मीविष्णोरनादितया आदिरस सिद्धदाम्पत्यवत्श्रीव्रजेश्वरयोस्तस्य चानादितो वत्सलरससिद्धपितृ पुत्रभावो विद्यत एव । अतः पुत्रभूत इति च क्वचित्पाठः । [Vऋ. अद्द्स्हेरे: प्रागयं वसुदेवस्य क्वचिज्जातस्तवात्मजः [भागवतम् १०.८.१४] इत्य् अत्र सत्यवचसः श्रीगर्गस्याप्ययमभिप्रायः । श्रीदेवक्यामुपसंहर विश्वात्मन्नदो रूपमलौकिकम् [भागवतम् १०.३.३०] इति प्रार्थितवत्यां श्री भगवान् श्रीदेवकीमनसि स्फुरितचरं सम्प्रति बहिश्चाविर्भूतं चतुर्भुजत्वमन्तर्भाव्य श्रीव्रजेश्वरीमनसि स्फुरितं द्विभुजत्वं तत्राविर्भावितवान् । तस्यास्त्वरया मनसि स्फूर्तिभेदश्च तथा तथाविर्भावभेदाद्गम्यते । फलेन फलकारणमनुमीयते इति । Eन्द् Vऋ. अद्दितिओन्.] अतएव न ह्यस्यास्ति प्रियः कश्चिद्[भागवतम् १०.४६.३७] इत्यादि प्रकरणे, युवयोरेव नैवायमात्मजो भगवान् हरिः । सर्वेषामात्मजो ह्यात्मा पिता माता स ईश्वरः ॥ [भागवतम् १०.४६.४२] इत्येतत्श्रीव्रजेश्वरौ प्रति श्रीमद्उद्धववाक्यं तद्औदासीन्य प्रकटनेनापातसान्त्वनमात्रतात्पर्यकबाह्यार्थमपि वास्तवम् अर्थं त्वेवं वहति । पूर्वोक्तप्रकारेणायं प्रियाप्रियादिमातापित्रादि (पगे ७५)रहितोऽपि भगवान् हरिः यः सोऽयं कृष्णरूपत्वेन विशेषाकारः सन् युवयोरेवात्मजो नैव सर्वेषाम् । स एवेश्वररूपत्वेन सामान्याकारस् तु सर्वेषामात्मजादिसर्वरूपः स्यात् । किन्तु परत्र मायामयत्वात् नास्माकमादरः । पूर्वत्र तु मुमुक्षुमुक्तभक्तश्लाघ्य प्रेममयत्वादत्यादर इति भावः । तथोक्तं प्रागेव तयोरित्थं भगवति कृष्णे नन्दयशोदयोः । वीक्ष्यानुरागं परमं नन्दमाहोद्धवो मुदा ॥ युवां श्लाघ्यतमौ नूनं देहिनामिह मानद । नारायणेऽखिलगुरौ यत्कृता मतिरीदृशी ॥ [भागवतम् १०.४६.२९३०] इति । तथा स पिता सा च जननी यौ पुष्णीतां स्वपुत्रवत् । शिशून् बन्धुभिरुत्सृष्टानकल्पैः पोषरक्षणे ॥ [भागवतम् १०.४५.२२] इति श्रीव्रजेश्वरं प्रति श्रीकृष्णरामाभ्यां सान्त्वनं च । श्रीरामस्यैव परपुत्रमपेक्ष्येति ज्ञेयम् । यथोक्तं तत्रैव तेन यात यूयं व्रजं तात वयं च स्नेहदुःखितान् । ज्ञातीन् वो द्रष्टुमेष्यामो विधाय सुहृदां सुखम् ॥ [भागवतम् १०.४५.२३] इति । द्रष्टुमेष्यामः । मम तत्रागमनस्य भवद्दर्शनमेव पुरुषार्थ इत्यनेन युष्मानपश्यन्त एव स्थास्याम इत्यर्थः । [Vऋ. अद्दितिओन्: यद्वा तथापि भूमन्महिमागुणस्य ते विबोद्धुमर्हति [भागवतम् १०.१४.६] इत्यत्र विबोद्धुं बोधगोचरीभवितुमितिवद्द्रष्टुं दर्शनगोचरीभवितुमित्यर्थः । तत्र हेतुः ज्ञातीनिति । Eन्द्Vऋ. अद्दितिओन्.] तस्मादनयोरेव मुख्यं पुत्रत्वं श्रीकृष्णे विराजते इति सिद्धम् । प्रकृतमनुसरामः । गोपगोपीनामपि तस्मिन् प्रेमासीदेव । दम्पत्योस् तयोस्तु तास्वपि नितरामासीदिति । उपसंहरति कृष्णो ब्रह्मण आदेशं सत्यं कर्तुं व्रजे विभुः । सहरामो वसंश्चक्रे तेषां प्रीतिं स्वलीलया ॥ [भागवतम् १०.८.५२] स्वेषु भक्तजनविशेषेषु या लीला तद्भक्तिविशेषवशलीलाविशेषस्तयैव तेषां सर्वेषामपि प्रीतिं चक्रे । द्वावपि तौ प्रति तेन वरदानादिति भावः । यद्यप्येवं तथापि ब्रह्मण आदेशं सत्यं कर्तृ महद्आशीर् अन्यथा न स्यादिति दर्शयितुमपीत्यर्थः । यद्वा स्वलीलया तेषां प्रीतिं कर्तुं व्रजे वसन् ब्रह्मण आदेशं सत्यं चक्रे । तदनुषङ्गतः स्वयम् आदृत्य सर्वत्राव्यभिचारिणं चकारेति । ॥ १०.८ ॥ श्रीशुकः ॥ १४६१५० ॥ [१५११५२] तदेतत्कारणं तद्आभासमेव मन्यमानस्तयोर्ब्रह्मादिभ्योऽपि सौभाग्यातिशयस्य ख्यापनार्थमनन्तरमेव एकदा गृहदासीषु [भागवतम् १०.९.१] इत्याद्य्अध्यायमारब्धवान् । तत्रैव च साक्षाच्छ्रीभगवद् बन्धनरूपमहावशीकरणकारणवात्सल्यमपि विदितं, तेन ब्रह्मणोऽपि शिवलक्ष्मीभ्यामपि दुर्लभं भगवत्प्रसादभरमाह नेमं विरिञ्चो न भवो न श्रीरप्यङ्गसंश्रया । प्रसादं लेभिरे गोपी यत्तत्प्राप विमुक्तिदात् ॥ [भागवतम् १०.९.२०] स आदिदेवो जगतां पुरो गुरुर्[भागवतम् २.९.५] इत्युक्तेः विरिञ्चिस्तावद्भक्तादि गुरुः । (पगे ७६) स च भवस्तु वैष्णवानां यथा शम्भुः [भागवतम् १२.१३.१६] इत्यादिदर्शनात्ततोऽप्युत्कर्षवान् । सा च श्रीस्तु तयोरपि भगवद्भक्ति शिक्षानिदर्शनप्रथमरूपत्वात्परमोत्कर्षवती । तदेवमुत्तरोत्तर विन्यासेन यथोत्तरमहिमानं सूचयित्वा श्रीस्तु न केवलं भक्तिमात्रेण तादृश्येव । किं तर्हि परमसख्येन ततोऽप्यनिर्वचनीयमाहात्म्येत्य् आह । अङ्गसंश्रयेति । एवंभूतापि सा च प्रसादं लेभिरे एव । कस्मात्? विमुक्तिदात् अस्त्वेवमङ्ग भजतां भगवान्मुकुन्दो मुक्तिं ददाति कर्हिचित्स्म न भक्तियोगम् । [भागवतम् ५.६.१८] इत्युक्तरीत्या प्रायो विमुक्तिमेव ददाति न तु तथाभूतं प्रसादं, तस्मात् श्रीभगवत एव किन्तु गोपी श्रीगोपेश्वरी यत्तदनिर्वचनीयं प्रसाद शब्देनापि वक्तुं शङ्कनीयं, तस्मात्प्राप, तद्रूपप्रसादं विरिञ्चिश्च भवश्च श्रीश्च न लेभिरे न लेभिरे ने लेभिरे इत्यर्थः । लेभिरे इत्यस्य प्रत्येकं नञ्त्रयेणान्वयः । नञस्त्रिर्आवृत्तिश्च निषेधस्यातिशयार्था । पूर्वोत्तराध्यायद्वये श्र्बादरायणेर्विवक्षितमिदम् । द्रोणधरयोस् तावत्साधारणदेवतात्वं चेत्तर्हि तयोः श्रीशिवादिदुर्लभ चरणारविन्दस्फूर्तिलेशस्य श्रीकृष्णस्य तथा प्राप्तौ स्वतः सम्भावना नास्ति । न च तयोस्तादृशगाढभजनादिकं कुत्रचिद्वर्ण्यते । अन्यथा तद् एवाहमाख्यास्यम् । न च ताभ्यां यदीदृशं फलं लब्धं तद्ब्रह्मणि पूर्वं प्रार्थितं, किन्तु दुर्गतितरणहेतुत्वेनोत्तमभक्तिमात्रम् । न च ब्रह्मापि श्रीकृष्णस्य महाभक्तैरपि दुर्लभपुत्रत्वादिकं विशिष्य ताभ्यां वरं दत्तवान् । न च नेमं विरिञ्चिः इत्यादिनोच्यमानतादृश प्रसादाप्तिराहित्यस्य ब्रह्मणो वरस्तादृशफलदाने भवति समर्थः । वक्ष्यते च तत्प्रसादाप्तिराहित्यातिशयः । तद्भूरिभाग्यमिह जन्म किम् अप्यटव्यां यद्गोकुलेऽपि कतमाङ्घ्रिरजोऽभिषेकम् [भागवतम् १०.१४.३४] इत्य् आदिना । तस्मात्तयोस्तादृशमहोदये कारणं नास्ति किन्तु निष्कारणत्वेन तयोर्नित्यामेव तादृशीं स्थितिं विज्ञाय मया श्रीभगवल्लीलयैव [Vऋ. अद्द्स्: स्वभक्तिविशेषप्रचारकारणकश्रीभगवद्इच्छयैव एन्द् अद्दितिओन्.] द्रोणधरारूपेणांशेनैवावतीर्णयोरैक्यविवक्षया यथा कथञ्चित्कारणाभास एवोपन्यस्त इति । किं च श्रीमद्भागवतेऽस्मिन् श्री भगवत्प्रेमैव सर्वपुरुषार्थशिरोमणित्वेनोद्घुष्यते । तस्य च परमाश्रयरूपं श्रीगोकुलमेव । तत्रापि श्रीव्रजेश्वरौ । ततस्तत् परमाश्रयनित्यत्वे सिद्ध एव तादृशग्रन्थप्रयत्नः सकलः स्यात् । यत एव श्रीब्रह्मादिभिस्तत्र यत्किञ्चिज्जन्म प्रार्थ्यते इति । तस्मात्स्वाभाविक्य् एव तयोस्तादृशी स्थितिरिति प्रतिपादयंस्तत्सम्बन्धेनैव भजतां सुखापो नान्येषामित्याह नायं सुखापो भगवान् देहिनां गोपिकासुतः । ज्ञानिनां चात्मभूतानां यथा भक्तिमतामिह ॥ [भागवतम् १०.९.२१] सुखेनाप्यत इति सुखापः । अयं श्रीगोपिकासुतः भगवान् देहिनां देहाभिमानिनां तपादिना न सुखापः न सुलभः किन्तु तैरतिचिरेणैव तेन शुद्धेऽन्तःकरणे कथञ्चिद्(पगे ७७) भक्तावलोकनलेशेन जातसद् बुद्धिभिस्तदेव तपादिकं तस्मिन्नर्पयद्भिः कथञ्चिदेवासौ लभ्यते । तथा आत्मभूतानामाविर्भूताद्वैतवृत्तीनां निवृत्त देहाभिमानानां ज्ञानिनामपि तादृशेन ज्ञानेन न सुखापः किन्तु पूर्वेणैव करणेन जाततद्आसत्तिभिस्तेन ज्ञानेन यद्ब्रह्म स्फुरति तद् एवायमिति चिन्तयद्भिस्तैः कथञ्चिदेवासौ लभ्यते । ततश्च द्वयोरपि तयोः साधनयोर्हीनत्वात्तल्लाभश्च न साक्षात्किन्तु केनचिदंशेन व्यञ्जितं ते प्राप्नुवन्ति मामेव सर्वभूतहिते रताः [गीता १२.४], क्लेशोऽधिकतरस्तेषामव्यक्तासक्तचेतसाम् [गीता १२.५] इति श्रीभगवद् उक्तेः । शाब्दे परे ब्रह्मणि धर्मतो व्रतैः स्नातस्य मे न्यूनमलं विचक्ष्व [भागवतम् १.५.७] इति श्रीव्यासप्रश्नानन्तरात् । भवतानुदितप्रायं यशो भगवतोऽमलम् । येनैवासौ न तुष्येत मन्ये तद्दर्शनं खिलम् ॥ [भागवतम् १.५.८] इति श्रीनारदप्रतिवचनाच्च । सुखापस्तु केषामित्यपेक्षायां निदर्शनमाह इह गोपिकासुते भक्तिमतां यथा [Vऋ एदितिओन् हेरे अद्द्स्: तथा च श्रीब्रह्मोक्तिः ज्ञाने प्रयासमुदपास्य [भागवतम् १०.१४.३] इत्यादि, श्री नारदोक्तिश्च यजते यज्ञपुरुषं स सम्यग्दर्शनः पुमान् [भागवतम् १.५.३८] इति । Vऋ अद्दितिओनेन्द्स्.] सुखाप इति श्रीगोपिकायास्तु सुखाप इति किं वक्तव्यम् । तस्याः सुत एवायं भगवानित्यतो गोपिकासुत इति विशेषणं दत्तम् । सुखमापयतीति वा सुखापः । यतश्चायं न देहाभिमानिनां सुखापः यतो गोपिकासुतस्तत्सुतत्वलीलायाः स्वसाधारणदृष्ट्यानादरात् । तथा ज्ञानिनामपि न सुखापः यतो गोपिकासुतः सर्वात्मैकवृत्त्य्उदयेन भगवत्स्वरूपानन्दवैचित्रीसारोपरिचरतल्लीलातत्त्वानुभवात् । यथेह श्रीगोपिकासुते भक्तिमतामिति निदर्शनम् । सुखेनाप्यते ज्ञायते इति वा सुखापः सुबोधः । ततश्चायं देहाभिमानिभिस्[Vऋ. अद्दितिओन्] तर्कादिना न सुबोधः । तथा ज्ञानिभिरपि ज्ञानेन न सुबोधः । तत्र पूर्ववद्धेतुर्गोपिकासुत इति । देहेभिः देहाभिमानिभिरपि । [एन्द्Vऋ. अद्दितिओन्] तत्तद्अलौकिककर्मलिङ्गकात् तर्कात्ज्ञानिभिरप्यनावृतब्रह्मत्वावगमात्सुबोध एव । सत्यं तथापि यथेह श्रीगोपिकासुते भक्तिमद्भिः सुबोधस्तथा न । ते हि श्रीकृष्ण भक्ताः स्वसुखनिभृतचेतास्तद्व्युदस्तान्यभावोऽप्यजितरुचिर लीलाकृष्टसारः [भागवतम् १२.१२.६९] इत्यादिदर्शनात्तादृशलीलानुभवस्यैव परमपुरुषार्थत्वमवगच्छन्तीति भावः । अत्रार्थत्रयोऽपीहपदेन श्रीपरव्योमनाथादिभक्तिमन्तोऽपि व्यावृत्ताः । गोपिकासुत इति विशेषणेन च त्रैकालिकतद्भक्तानां तत्सम्बन्धिसुखापत्वं प्रति तत्सुतत्वायोग तद्अन्यत्वयोगौ व्यवच्छिद्येते । इत्यतो विद्वद्अनुभवयाथार्थ्येन नित्य एव तत्सम्बन्धो विवक्षितः । (पगे ७८) अतएवायं गोपिकासुत इति स्वयमपि साक्षादङ्गुल्या निर्दिश्यते । तस्मादपि साधूक्तं नित्य एव श्रीव्रजेश्वरयोस्तत्सम्बन्ध इति । अत्र एकदा गृह दासीषु [भागवतम् १०.९.१] इत्यादिकम्, नेमं विरिञ्चः [भागवतम् १०.९.२०] इत्यादि पद्य द्वयान्तमिदमुत्तरवाक्यं, द्रोणो वसूनां प्रवरः [भागवतम् १०.८.४८] इत्य् आदिकस्य पूर्ववाक्यस्य बाधकत्वेनैवोक्तं, पूर्वविरोधधर्मान्तर प्रतिपादनादयुक्तत्वाच्च पूर्वस्य असद्व्यपदेशान्नेति चेन्न धर्मान्तरेण वाक्यशेषाद्[Vस्२.१.१७] इतिवत् । तत्र च यथिवासच्छब्दस्य गत्य्अन्तरं चिन्त्यते तथात्रापि । तच्च पूर्वमेव दर्शितं पूर्वोत्तराध्यायद्वये बादरायणे विवक्षितमिदमारभ्य प्रकरणेन । ॥ १०.८ ॥ श्रीशुकः ॥ १५११५२ ॥ [१५३] तदेवं श्रुतिपुराणादिनिगमोक्त्य्अनुसारेण श्रीकृष्णस्य नित्याभिव्यक्तित्वं द्वारकादिषु नित्यविहारित्वं नित्ययादवादिपरिकरत्वं च दर्शितम् । इत्थमेव च कृष्णस्तु भगवान् स्वयमिति सुसिद्धम् । अथाशङ्कते यदि नित्यमेव तथाविधः श्रीकृष्णाख्यः स्वयं भगवान् तत्र तत्र एतैर्निजपरिकरैः सार्धं विहरति तर्हि ब्रह्मादिप्रार्थनया श्रीनारायण एतावततारेति श्रूयते । तस्य यदि श्रीकृष्णे प्रवेशः तर्हि च कथं नित्यमेव द्वारकादिषु विराजमानं स्वयं भगवन्तं परित्यज्य ते तस्मै निवेदयितुं गताः । कथं वा जन्मादिलीलया क्रमेण मथुरां गोकुलं पुनर्मथुरां द्वारकां च त्यक्त्वा वैकुण्ठमारूढवानिति । अत्रेदमुच्यते यो द्वारकादौ नित्यं विहरति स श्रीकृष्णाख्यः स्वयं भगवान् परात्परो ब्रह्मादिष्वप्रकट एव प्रायशः । यस्तु क्षीरोदादि लीलाधामा नारायणादिनामा पुरुषः स एव विष्णुरूपः साक्षाद्वा निजांशेन वा तेषु प्रकटः सन् ब्रह्माण्डपालनादिकर्तेत्युक्तमेव । तत्र ब्रह्माण्डाधिकारिणो ब्रह्मादयोऽपि ब्रह्माण्डकार्यं तस्मा एव निवेदयितुमर्हन्ति । ततस्तदापि तस्मा एव पृथिवीभारावताराय निवेदितवन्तः । अनन्तरं सोऽपि पुरुषस्तान् प्रति केशदर्शनेन स यावद् उर्व्यां भरमीश्वरेश्वरः [भागवतम् १०.१.२२] इत्यादिवाक्येन च स्वयं भगवत एवावतारसमयोऽयमिति सूचयित्वा स्वयमप्यवतितीर्षां चकार । सा चावतितीर्षा पूर्वयुक्त्या प्रकटीभवति स्वयं भगवति प्रवेशायैव । तदेदं वैकुण्ठाद्य्आरोहणमपि तत्तद्अंशेनैव । स्वयं तु तत्र तत्रैव पुनर्निगूढं लीलायते । अत्रोदाहृतं तन्त्रभागवतादिवाक्यं वाराहादि वाक्यं चानुसन्धेयम् । उदाहरिष्यते च नित्यं सन्निहितस्तत्र भगवान् मधुसूदनः [भागवतम् ११.३१.२४] इत्यादिकम् । एष चाभिसन्धिर्न सर्वैर् एवावबुध्यतेति । यथ स्वस्वदृष्टमेव मुनिभिस्तादृग्वर्ण्यते । यथा समुद्रतीरस्थ दृष्ट्यैव अद्भुतो वा एष प्रातरुदेत्यपः सायं प्रविशति इति श्रुतिः । प्रवर्तते न तु वस्तुत इति प्राञ्चः । यदि तत्र सुमेरुपरिक्रमादि वाक्येनान्यथा गतिः क्रियते तदात्रापि स्वयं भगवत्तानित्यविहारितादि प्रतिपादकवाक्येन कथं नाम न क्रियताम् । तथा मथुरादि परित्यागाद्य्उक्तिरवतारे प्रापञ्चिकजनप्रकटलीलापेक्षयैव । तद् अप्रकटा तु लीला नित्यमेव विद्यते एव । तस्मान्नित्यत्वेन जन्मादिमयत्वेन च लीलाप्रतिपादकानां वाक्यानां समन्वयस्वारस्याद् इदं लभ्यते । यथा य एव श्रीकृष्णस्तत्र तत्र नित्यमप्रकटो विहरति स एव स्वयं जन्मादिलीलया प्रकटो भवति । तत्र नारायणादयोऽपि प्रविशन्तीति सर्वं शान्तम् । तदेवं तत्र श्रीकृष्णलीला द्विविधा अप्रकटरूपा प्रकटरूपा च । प्रापञ्चिकलोकाप्रकटत्वात्तत्प्रकटत्वाच्च । तत्राप्रकटा (पगे ७९) यत्रासौ संस्थितः कृष्णस्त्रिभिः शक्त्या समाहितः । रामानिरुद्धप्रद्युम्नै रुक्मिण्या सहितो विभुः ॥ [ङ्टू २.३६] इति । मथुरातत्त्वप्रतिपादकश्रीगोपालतापन्य्आदौ चिन्तामणिप्रकर सद्मसुकल्पवृक्ष [भागवतम् ५.४०] इत्यादि वृन्दावनतत्त्वप्रतिपादकब्रह्म संहितादौ च प्रकटलीलातः किञ्चिद्विलक्षणत्वेन दृष्टा, प्रापञ्चिकलोकैस् तद्वस्तुभिश्चामिश्रा, कालवद्आदिमध्यावसानपरिच्छेदरहितस्व प्रवाहा, यादवेन्द्रत्वव्रजयुवराजत्वाद्य्उचिताहरहर्महा सभोपवेशगोचारणविनोदादिलक्षणा । प्रकटरूपा तु श्रीविग्रहवत् कालादिभिरपरिच्छेद्यैव सती भगवद्इच्छात्मकस्वरूपशक्त्यैव लब्धारम्भसमापना प्रापञ्चिकाप्रापञ्चिकलोकवस्तुसंवलिता तदीय जन्मादिलक्षणा । तत्राप्रकटा द्विविधा । मन्त्रोपासनामयी स्वारसिकी च । प्रथमा यथा तत्तद्एकतरस्थानादिनियतस्थितिका तत्तन्मन्त्रध्यानमयी । यथा बृहद्ध्यानरत्नाभिषेकादिप्रस्तावः क्रमदीपिकायाम् । यथा वा अथ ध्यानं प्रवक्ष्यामि सर्वपापप्रणाशनम् । पीताम्बरधरं कृष्णं पुण्डरीकनिभेक्षणम् ॥ इत्यादि गौतमीय तन्त्रे । यथा वा वेणुं क्वणन्तमरविन्ददलायताक्षम् बर्हावतंसमसिताम्बुदसुन्दराङ्गम् । कन्दर्पकोटिकमनीयविशेषशोभं गोविन्दमादिपुरुषं तमहं भजामि ॥ आलोलचन्द्रकलसद्वनमाल्यवंशी रत्नाङ्गदं प्रणयकेलिकलाविलासम् । श्यामं त्रिभङ्गललितं नियतप्रकाशं गोविन्दमादिपुरुषं तमहं भजामि ॥ इति ब्रह्मसंहितायाम् [५.३९४०] । होमस्तु पूर्ववत्कार्यो गोविन्दप्रीतये ततः इत्य्आद्य्अनन्तरं गोविन्दं मनसा ध्यायेत्गवां मध्ये स्थितं शुभम् । बर्हापीडकसंयुक्तं वेणुवादनतत्परम् ॥ गोपीजनैः परिवृतं वन्यपुष्पावतंसकम् ॥ इति बोधायनकर्मविपाक प्रायश्चित्तस्मृतौ । तदु होवाच हैरण्यो गोपवेशमभ्राभं तरुणं कल्पद्रुमाश्रितम् । तदिह श्लोका भवन्ति सत्पुण्डरीकनयनं मेघाभं वैद्युताम्बरम् । द्विभुजं मौनमुद्राढ्यं वनमालिनमीश्वरम् ॥ गोपगोपीगवावीतं सुरद्रुमतलाश्रितम् । दिव्यालङ्करणोपेतं रक्तपङ्कजमध्यगम् ॥ कालिन्दीजलकल्लोलसङ्गिमारुतसेवितम् । चिन्तयंश्चेतसा कृष्णं मुक्तो भवति संसृतेः ॥ इति श्रीगोपालतापन्याम् [१.१११५] गोविन्दं गोकुलानन्दं सच्चिद्आनन्द विग्रहम् [ङ्टू १.३७] इत्यादि च । या तु तत्तत्कामनात्मकप्रयोगमयी पूतनावधादिरूपा यद्यद् धिया त उरुगाय विभावयन्ति तत्तद्वपुः प्रणयसे सद्अनुग्रहाय [भागवतम् ३.९.११] इत्युक्तानुसारेणाद्यापि साधकहृदि कदाचित्साम्प्रतीव स्फुरति सा खलु मन्त्रोपासनामयीत्वेऽपि स्वारसिक्यामेव पर्यवस्यति अतीतत्वेन सर्वत्र निर्दिष्टत्वात् । अथ स्वारसिकी च यथोदाहृतमेव स्कान्दे वत्सैर्वत्सतरीभिश्च सदा क्रीडति माधवः । वृन्दावनान्तरगतः सरामो बालकैः सह ॥ इत्यादि । तत्र चकारात्श्रीगोपेन्द्रादयो गृह्यन्ते । राम (पगे ८०) शब्देन रोहिण्य् अपि । तथा तेनैव क्रीडतीत्यादिना व्रजागमनशयनादिलीलापि । क्रीडा शब्दस्य विहारार्थत्वाद्विहारस्य नानास्थानानुसारणरूपत्वादेक स्थाननिष्ठाया मन्त्रोपासनामय्या भिद्यतेऽसौ । यथावसरविविध स्वेच्छामयी स्वारसिकी । एवं ब्रह्मसंहितायाम् चिन्तामणिप्रकरसद्मसु कल्पवृक्ष लक्षावृतेषु सुरभिरभिपालयन्तम् लक्ष्मीसहस्रशतसम्भ्रमसेव्यमानं गोविन्दमादिपुरुषं तमहं भजामि ॥ [Bरह्मष्५.२८] इति । अत्र कथा गानं नात्यं गमनमपि वंशी [Bरह्मष्५.५२] इत्य् अत्रानुसन्धेयम् । तत्र नानालीलाप्रवाहरूपतया स्वारसिकी गङ्गेव । एकैकलीलात्मतया मन्त्रोपासनामयी तु लब्धतत्सम्भवह्रदश्रेणिर् इव ज्ञेया । किं च मन्त्रोपासनामय्यामपि व्रजराजादिसम्बन्धः श्रूयते किमुत स्वारसिक्यामिति न कुत्रापि तद्रहितता कल्पनीया । तदेतत्सर्वं मूलप्रमाणेऽपि दृश्यते । तत्र प्रकटरूपा विस्पष्टैव । अथाप्रकटायां मन्त्रोपासनामयीमाह मां केशवो गदया प्रातरव्याद् गोविन्द आसङ्गवमात्तवेणुः । [भागवतम् ६.८.२] इति । आत्तवेणुरिति विशेषेण गोविन्दः श्रीवृन्दावनमथुराप्रसिद्धमहा योगपीठयोस्तन्नाम्नैव सहितौ प्रसिद्धौ । तौ च तत्र तत्र प्रापञ्चिकलोकदृष्ट्यां श्रीमत्प्रतिमाकारेणाभातः स्वजनदृष्ट्यां साक्षाद्रूपवृन्दप्रकरण एव एतौ पठितौ । ततश्च नारायण वर्माख्यमन्त्रोपास्यदेवतात्वेन (श्रीगोपालतापन्यादिप्रसिद्ध स्वतन्त्रमन्त्रान्तरोपास्यदेवतात्वेन) च मन्त्रोपासनामय्यामिदम् उदाहृतम् ॥ ॥ ६.८ ॥ विश्वरूप इन्द्रम् ॥ १५३ ॥ [१५४] वक्ष्यमाणभगवद्अभिप्रायानुसारेण स्पष्टार्थत्वेन च वस्तुतः स्वारसिकीमाह मा खिद्यतं महाभागौ द्रक्ष्यथः कृष्णमन्तिके । अन्तर्हृदि स भूतानामास्ते ज्योतिरिवैधसि ॥ [भागवतम् १०.४६.३६] हे महाभागौ श्रीव्रजेश्वरौ मा खिद्यतं यतः श्रीकृष्णं द्रक्ष्यथः । कथं यतः सोऽन्तिक एवास्ते । तस्यान्तिकस्थितेरव्यभिचारे दृष्टान्तः । भूतानामन्तर्हृदि परमात्मलक्षणं ज्योतिरिव एधसि चाग्निलक्षणं ज्योतिरिवेति । तत्र निरन्तरस्तत्स्फूर्तिरेव भवतां प्रमाणमिति भावः । अर्थान्तरे तूत्तरार्धस्य हेतुत्वास्पष्टत्वात् परमात्मरूपेणान्तर्हृदिस्थितस्यापि दर्शनानियमात् । ॥ १०.४६ ॥ उद्धवः श्रीव्रजेश्वरीम् ॥ १५४ ॥ [१५५] एवं श्रीभगवानुवाच भवतीनां वियोगो मे न हि सर्वात्मना क्वचित् ॥ [भागवतम् १०.४७.२९] ये मया सह भवतीनां योऽयं वियोगः स सर्वात्मना सर्वेणापि प्रकाशेन न विद्यते । किं तर्ह्येकेन प्रकटलीलायां विराजमानेन प्रकाशेन वियोगः । अप्रकटलीलायां त्वन्येन (पगे ८१) प्रकाशेन संयोग एवेत्य् अर्थः । अत्रैतदुक्तं भवति न चान्तर्न बहिर्यस्य इत्यादि दामोदरलीला प्रघट्टकदृष्ट्या मृद्भक्षणलीलादौ श्रीव्रजेश्वर्य्आदीनां तथानुभूत्या च श्रीविग्रहस्य मध्यमत्व एव विभुत्वं दृश्यते । तच्च परस्परविरोधिधर्मद्वयमेकत्राचिन्त्यविभुत्वशक्तिमति तस्मिन्न् आसम्भवं श्रुतेस्तु शब्दमूलत्वादित्येतन्न्यायेन इत्येवं भगवत् सन्दर्भे प्रघट्टकेन विवृतमस्ति । तदेवं विभुत्वे सति युगपदनेकस्थानाद्य्अधिष्ठानार्थं रूपान्तर सृष्टिः पिष्टपेषिता । किन्तु युगपन्मध्यमत्वविभुत्वप्रकाशिकया तथैवाचिन्त्यशक्त्या तद्इच्छानुसारेणैक एव श्रीविग्रहोऽनेकधा प्रकाशते । बिम्ब इव स्वच्छोपाधिभिः । किन्तु अत्रोपाधिमात्रजीवनत्वेन साक्षात्स्पर्शाद्य्अभावेन वैपरीत्योदयनियमेन बिम्बस्य परिच्छिन्नत्वेन च प्रतिबिम्बत्वम् । अत्र तु स्वाभावैकशक्तिस्फुरितत्वेन साक्षात्स्पर्शादिभावेन यथेच्छमुदयेन श्रीविग्रहस्य विभुत्वेन च बिम्बत्वमेवेति विशेषः । एवमेव सर्वेषामपि प्रकाशानां पूर्णत्वम् आह श्रुतिः पूर्णमदः पूर्णमिदं पूर्णात्पूर्णमुदच्यते । पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॥ [Bआऊ ६.५.४] इति । तत्र च तेषां प्रकाशानां तथैवाचिन्त्यशक्त्या पृथक्पृथगेव क्रियादीनि भवन्ति । अतएव युगपदाविर्भूतानां प्रकाशभेदावलम्बिनीनां निमेषोन्मेषणादिक्रियाणामविरोधः । अतएव विभोरपि परस्पर विरुद्धक्रियागणाश्रयस्यापि तत्तत्क्रियाकर्तृत्वं यथार्थमेव । तद् यथार्थत्वे बहुशः श्रीभागवतादिवर्णितं विदुषां तु तद्उद्भवं सुखं नोपपद्यत इति तद्अन्यथानुपपत्तिश्चात्र प्रमाणम् । इत्थम् एवाभिप्रेत्य श्रीनारदेन चित्रं बतैतदेकेन वपुषा युगपत्पृथक्[भागवतम् १०.६९.१] इत्यादौ वपुषा एकत्वेऽपि पृथक्प्रकाशत्वं तेषु प्रकाशेषु पृथक् पृथक्क्रियाधिष्ठानादित्वं तादृशशक्तिस्त्वन्यत्र मुनिजनादौ न सम्भवतीति स्वयं चित्रत्वं चोक्तम् । एष एव प्रकाशः क्वचिदात्म शब्देनोच्यते क्वचिद्रूपादिशब्देन च । यथा तत्रैव न हि सर्वात्मना क्वचिदिति, अन्यत्र कृत्वा तावन्तमात्मानम् [भागवतम् १०.३३.१९] इति, तावद्रूप धरोऽव्ययः [भागवतम् १०.५९.४२] इति, कृष्णेनेच्छाशरीरिणा [भागवतम् १०.३०.४०] इति च । तत्र नानाक्रियाद्य्अधिष्ठानत्वादेव लीलारसपोषाय तेषु प्रकाशेष्व् अभिमानभेदं परस्परमननुसन्धानं च प्रायः स्वेच्छयोरीकरोतीत्य् अपि गम्यते । एवं तच्छक्तिमयत्वात्तत्परिकरेष्वपि ज्ञेयम् । तत्र तेष्व् अपि प्रकाशभेदः, यथा कन्याषोडशसहस्रविवाहे श्रीदेवक्य्आदिषु । उक्तं हि टीकाकृद्भिः अनेन देवक्यादिबन्धुजनसमागमोऽपि प्रति गृहं यौगपद्येन सूचित इति । तेषु श्रीकृष्णे च प्रकाशभेदादभिमान क्रियाभेदो यथा श्रीनारददृष्टयोगमायावैभवे तत्र ह्येकत्र दीव्यन्तमक्षैस्तत्रापि प्रियया चोद्धवेन च । पूजितः परया भक्त्या प्रत्युत्थानासनादिभिः ॥ [भागवतम् १०.६९.२०] इति । मन्त्रयन्तं च कस्मिंश्चिन्मन्त्रिभिश्चोद्धवादिभिः । [भागवतम् १०.६९.२७] तत्रान्यत्र इति भावभेदादभिमानभेदो लक्ष्यते । अयमेव तद् अवस्थोऽहमत्रास्मीति । एवं षोडशसहस्रविवाहे कुत्रचित्श्रीकृष्ण समक्षं माङ्गलिकं कर्म कुर्वत्या देवक्यास्तद्दर्शनसुखं भवति । तत्परोक्षं तु तद्दर्शनोत्कण्ठेति । तथा योगमायावैभवदर्शन एव क्वचिद्(पगे ८२) उद्धवेन संयोगः क्वचिद्वियोग इति विचित्रता । तदेवं तत्र प्रकाशभेदे सति तद्भावेनाभिमानक्रियाभेदे च स्थिते तदानीं वृन्दावनप्रकाशविशेषे स्थितेन श्रीकृष्णस्याप्रकटप्रकाशेन तासामप्रकटप्रकाशात्मिकानां संयोगस्तत्प्रकाशविशेषे प्राक्स्थितेन सम्प्रति मथुरां गतेन तत्प्रकटप्रकाशेनैव स्वीकृतेन स्थानत्रयेऽपि सपरिकरश्रीकृष्णनित्यावस्थायितावाक्यमनुपहतं स्यात् । प्रकट लीलायामन्यत्र सपरिकरस्य तस्य कदाचिद्गमनेऽपि प्रकाशान्तरेणावस्थानादिति । तस्मात्साधूक्तं भवतीनां वियोगो मे [भागवतम् १०.४७.२९] इत्यादि । सेयं च नित्यसंयोगिता परमरहस्येति ब्रह्मज्ञानसादृश्यभङ्ग्या समाच्छाद्यैवोपदिष्टा । दृश्यते चान्यत्रापि रहस्योपदेशेऽर्थान्तर समाच्छन्नोक्तिः । यथा महाभारते जतुगृहे गच्छतः पाण्डवान् प्रति विदुरस्य । यथा वा षष्ठे हर्याश्वादीन् प्रति श्रीनारदस्य । [१५६] तदेवं पुनरपि तथैवोपदिशति यथा भूतानि भूतेषु खं वाय्व्अग्निर्जलं मही । तथाहं च मनःप्राण भूतेन्द्रियगुणाश्रयः ॥ [भागवतम् १०.४७.२९] यथा खादीनि कारणरूपाणि भूतानि वाय्व्आदिषु स्वस्वकार्यरूपेषु भूतेष्ववस्थितानि, तत्राकाशस्य स्थितिर्वायौ वायोरग्नावित्यादि । तथा भवतीष्वहं बहिर्अनुपलभ्यमानोऽपि नित्यं तिष्ठाम्येवेत्यर्थः । कथम्भूतोऽहम् ? भवतीनां मद्एकजीवातूनां मनाद्य्आश्रयः । अन्यथा निमेषमपि मद्वियोगेन तान्यपि न तिष्ठेयुरिति भावः । यद्वा, किंरूपस्तिष्ठसीत्याकाङ्क्षायामाह, भवतीनां मनाद्य् आश्रयभूतो यो द्विभुजश्यामसुन्दरवेणुविनोदिरूपस्तद्रूप एवेति । [१५७] नन्वित्थं प्रकाशवैचित्री कथं स्यात्यया विरहसंयोगयोर्युगपदेव स्थितिरित्याशङ्क्याह आत्मन्येवात्मनात्मानं सृजे हन्म्यनुपालये । आत्ममायानुभावेन भूतेन्द्रियगुणात्मना ॥ [भागवतम् १०.४७.३०] आत्मनि अनन्तप्रकाशमये श्रीविग्रहलक्षणे स्वस्मिनात्मना स्वयम् आत्मानं प्रकाशविशेषं सृजे अभिव्यञ्जयामि । केन ? निमित्तभूतेन आत्मामायानुभावेन अचिन्त्यायाः स्वरूपशक्तेः प्रभावेन । स्वरूप भूतया नित्यशक्त्या मायाख्यया युत इति मध्वभाष्यधृतचतुर्वेद शिखातः । कीदृशेन ? भूतेन्द्रियगुणात्मना भूतानि परमार्थसत्यानि यानि ममेन्द्रियाणि ये च गुणा रूपरसादयस्तेषामात्मना प्रकाशकेनेत्य् अर्थः । बुद्धीन्द्रियेति पाठे आत्मनेत्यस्य विशेषणम् । बुद्धयोऽन्तः करणानि, इन्द्रियाणि बहिःकरणानि, गुणा रूपादयः, तानि सर्वाण्यपि आत्मा स्वरूपं यत्र, तेनेति । तदेवमाविर्भूय अनु पश्चात्कदापि हन्मि, ततोऽन्यत्र गच्छामि । हन् हिंसागतयोः । कदाप्यनु पश्चात्पुनः पालये स्वयमागत्य पालयामि निजविरहदूनानिति शेषः । एतत्कारणं तु यत्त्वहं भवतीनां वै [भागवतम् १०.४७.३४] इत्यादौ वक्ष्यते । हन्तेरर्थान्तरे त्रयाणामेककर्मकर्तृत्वेऽपि तमात्मानं प्रकाशं कदाचित्तिरोधापयामि । तस्मात्तं प्रकाशमाकृष्य प्रकाशवैविध्यमेकीकरोमीत्यर्थः । एवमेव दशमसप्ततिममाध्याये स्वामिभिरपि व्याख्यातम् एवं सर्वगृहेभ्यः पृथक्पृथङ्निर्गत्यानन्तरमेक एव सुधर्मां प्राविशत् [१०.७०.१७] इति । यथा च माध्वभाष्यधृत(पगे ८३) स्वामि(?)वचनम् स देवो बहुधा निर्गुणः पुरुषोत्तमः । एकीभूयः पुनः शेते निर्दोषो हरिरादिकृत् ॥ इति । श्रुतिश्च शङ्करभाष्यधृता स एकधा भवति, द्विधा भवति इत्य् आद्या । तद्अनन्तरं पुनरपि तमात्मानं पालये पुनरभिव्यज्य निज श्रेष्ठजनैः सह क्रीडया सम्भूतानन्दं करोमीत्यर्थः । एवं हन्तिर् अश्लीलोऽपि स्ववियोगिजनविषयकारुण्यकृतभावान्तरेण स्वयमेव प्रयुक्त इति न दोष आशङ्क्यः छिन्द्यां स्वबाहुमपि वः प्रतिकूलवृत्तिम् [भागवतम् ३.१६.६] इतिवत् । [१५८] ननु प्रकटमेव मथुरायां विक्रीडसि तर्ह्यत्राप्यधुना विर्कीडसीत्य् अत्रास्माकं सम्भावना कथं जायतामित्याशङ्क्य तासामेवानुभवं प्रमाणयति आत्मा ज्ञानमयः शुद्धो व्यतिरिक्तोऽगुणान्वयः । सुषुप्तिस्वप्नजाग्रद्भिर्मायावृत्तिभिरीयते ॥ [भागवतम् १०.४७.३१] यद्वा आस्तां तावदप्रकटलीलायां मद्वियोगाभाववार्ता । प्रकट लीलायामपि तयानुसन्धीयतामित्याह आत्मा ज्ञानमय इत्यादि । अर्थश् चायम् आत्मशब्दोऽस्मिन्नस्मच्छब्दपरः । ततश्च आत्माहं श्री कृष्णलक्षणो भवतीनां सुषुप्त्य्आदिलक्षणाभिर्मनोवृत्तिभिरीयते अनुभूयत एव । कीदृशः ? ज्ञानमयो नानाविद्याविदग्धः । शुद्धो दोषरहितः । विगतोऽतिरिक्तो यस्मादिति वा विशेषेणातिरिक्त इति वा व्यतिरिक्तः सर्वोत्तमो गुणान्वयः सर्वगुणशाली । अतएव स च स्फूर्तिरूपोऽयमनुभवः कदाचित्साक्षात्कारद्वारापि कल्प्यते इति चिरकालविरहेऽपि तासां सन्धुक्षणकारणं ज्ञेयम् । अत्र सुषुप्तेऽपि तत् स्फूर्तिनिर्देशः सर्वदैव स्फुरामीतिमात्रतात्पर्यकः । यद्वा तत्र तासां स्वप्नजाग्रतोरनन्यवृत्तित्वं सिद्धमेव । वृत्त्य्अन्तरासम्भवात् तु श्रीकृष्णसमाधिलक्षणे सुषुप्तेऽपि तस्मिन्नेव स्वप्नजाग्रद्गतानां वृत्तिवैचित्रीणां तद्अनुभावितामात्रावशेषतया प्रवेशो भवति । तद् उत्तरकाले प्राकृतैः सुखमहमस्वाप्समितिवत्ताभिः स इति एवानुसन्धीयते इति तथोक्तम् । तथा हि गारुडे जाग्रत्स्वप्नसुसुप्तिषु योगस्थस्य च योगिनः । या काचिन्मनसो वृत्तिः स भवत्यच्युताश्रयः ॥ इति । [१५९] ननु तथाप्यस्माकं विरह एव सर्वोपमर्दकः स्फुरति । किं कुर्म इत्य् आशङ्क्य, हन्त यदि मद्वियोगिताभिमानिमनोवृत्तिं कथमपि रोद्धुं शक्नुथ तदा स्वत एव नित्यसंयोगित्वमुद्देष्यतीत्येवमुपदेशेन वक्तुं योगशास्त्रप्रक्रियामाह द्वाभ्यां येनेन्द्रियार्थान् ध्यायेत मृषा स्वप्नवदुत्थितः । तन्निरुन्ध्यादिन्द्रियाणि विनिद्रः प्रत्यपद्यत ॥ [भागवतम् १०.४७.३२] उत्थितः पुमान् यथा मिथ्याभूतमेव स्वप्नं ध्यायति एवं बाधितानपि इन्द्रियार्थान् शब्दादीन् येन मनसा ध्यायेत चिन्तयेत्, ध्यायंश्च येनेद्रियानि प्रत्यपद्यत प्राप, तन्मनो विनिद्रोऽनलसः सन्निरुन्ध्यान् नियच्छेदिति । यद्यपि स्वप्नादिवत्तद्विरहस्तासु नाज्ञानाध्यस्तः, प्रकटलीलायां तस्याप्राप्तेस्तासामेवानुभवसिद्धत्वात्तथाप्य् अप्रकटलीलायां नित्यसंयोगमनुसन्धापयितुं तस्य तादृशत्वेनैवोपदेशो भगवता योग्य इति तथोक्तम् । एकांशेऽपि संयोगे वियोगो नास्त्येवेति वा । [१६०] तं मनोनिरोधमेव स्तौति एतद्अन्तः समाम्नायो योगः साङ्ख्यं मनीषिणाम् । त्यागस्तपो दमः सत्यं समुद्रान्ता इवापगाः ॥ [भागवतम् १०.४७.३३] (पगे ८४) एष मनोनिरोधोऽन्तः समाप्तिः फलं यस्य सः । समाम्नायो वेदः । स तत्र पर्यवस्यतीत्यर्थः । मार्गभेदेऽप्येकत्र प्रयवसाने दृष्टान्तः । समुद्रान्ता आपगता नद्य इव इति । यस्मात्सर्वैरेव वेदादिविद्भिः प्रशस्यते मनोनिरोधस्तस्माद्यूयमपि मद्वियोगाभिमानिमनोवृत्तिं नियच्छथेति पद्यद्वयेन ध्वनितम् । [१६१] ननु, अहो यदि तद्विरहेण वयमतिदुःखिता इत्यतः कृपालुचित्त एव त्वम् अस्मभ्यं निजप्राप्तिसाधनमुपदिशसि । तर्हि स्वयं किमु प्रकटमेव नायासि, तस्मात्कैतवमेवेदं तव कृपालुत्वमित्याशङ्क्याह यत्त्वहं भवतीनां वै दूरे वर्ते प्रियो दृशाम् । मनसः सन्निकर्षार्थं मद्अनुध्यानकाम्यया ॥ [भागवतम् १०.४७.३४] साम्प्रतं भवतीनां दृशां प्रियोऽप्यहं यद्दूरे वर्ते, तद्भवतीनां मद्अनुध्यानेच्छया यो मनसः सन्निकर्षस्तद्अर्थं मम भवन् निकटस्ह्तितौ मद्अर्थं भवतीनां दृश्ये वावेशः स्याद्, भवद्दूरे तु मनस्येवेति तत्र मम सन्निकर्षः स्यादित्येतद्अर्थः । [१६२] तदेव निदर्शयति यथा दूरचरे प्रेष्ठे मन आविश्य वर्तते । स्त्रीणां च न तथा चेतः सन्निकृष्टेऽक्षिगोचरे ॥ [भागवतम् १०.४७.३५] चकारात्स्त्रीषु प्रेष्ठस्य च । [१६३] मनःसन्निकर्षे किं स्यात्श्रीघ्रमेव लब्धो भव्ष्यामीति ज्ञायतामित्य् आह मय्यावेश्य मनः कृत्स्नं विमुक्ताशेषवृत्ति यत् । अनुस्मरन्त्यो मां नित्यमचिरान्मामुपैष्यथ ॥ [भागवतम् १०.४७.३६] विमुक्ता अशेषा विरहतत्कारणभावनारूपा वृत्तयो येन तन्मनो मयि कृष्णरूपे आवेश्य मां कृष्णरूपमेवानुस्मरन्त्यो मां कृष्णरूपम् एवाचिरादेव समीप एवैष्यथ, अनन्यवेद्यतया प्राप्स्यथ । [१६४] तर्हि कथं प्रकटं नागच्छसि तत्राह तस्य झटिति प्राप्तेर्वृन्दावन एव लीलान्तरनित्यास्तितायाश्च प्रतीत्य्अर्थं निदर्शनमप्याह या मया क्रीडता रात्र्यां वनेऽस्मिन् व्रज आस्थिताः । अलब्धरासाः कल्याण्यो मापुर्मद्वीर्यचिन्तया ॥ [भागवतम् १०.४७.३७] तद्बहिर्विघ्नवञ्चनार्थमित्यर्थः । ता हि तद्रात्रिप्रकटरास मात्रमलब्धवत्योऽप्यस्मिन् वृन्दावन एव सर्वविघ्नास्पृष्टाः प्रकट विचित्रक्रीडानिधानं मामापुरेवेति । तथा च वासनाभाष्यधृतं मार्कण्डेयवचनम् तदानीमेव तं प्राप्ताः श्रीमन्तं भक्तवत्सलम् । ध्यानतः परमानन्दं कृष्णं गोपालनायिकाः ॥ इति । तत्रापि हे कल्याण्यः सर्वविघ्नरहिताः । अर्थान्तरे सशरीरा एव च । [Vऋ. अद्द्स्: सशरीरा इति तत्तद्देहत्यागेन भवतीनां मत्प्राप्तिर्न स्यात्, किन्त्व् अनेनैव देहेन मत्प्राप्तिः स्यादिति भावः । [एन्द्. Vऋ. अद्दितिओन्] तासां शरीरपरित्यागादिकं तु मायिकमेवेति भावः । तस्मात्तासां व्रजे प्राकट्येनानुपलम्भात्तथा मयि भक्तिर्हि भूतानाम् [भागवतम् १०.८२.४४] इत्य् आदि वक्ष्यमाणानुसारेण मार्कण्डेयवचनानुसारेण च तदीयाभीप्सित रूपविलासस्यैव मम प्राप्तेः सिद्धत्वाच्च विद्यत एव प्रकटाया अस्या लीलाया पृथक्तस्मिन्नन्या लीला, तस्यां च ममेव युष्माकमपि स्थितिर् अध्यवसीयताम् । यामेव लीलां मदीयव्रजागमनासकृत्प्रतिज्ञानुसारेण (पगे ८५) शीघ्रमेव यदुपुर्याः सकाशाद्भवत्प्रेमयन्त्रिततया समागत्याहं (सर्वसमञ्जसतया भवतीनां तत्तद्विघ्ननिवारण पूर्वकं) सर्वेभ्य एव व्रजवासिभ्यः सन्ततं दर्शयिष्यामीति भावः । अस्मिन्निति निर्देशात्तदानीमपि स्वस्य वृन्दावनस्थत्वं सूचयति । प्रकरणेऽस्मिन्निदमुक्तं भवति । न ह्यत्र तासामध्यात्मविद्या श्रेयस्करी भवति । तस्मान्मद्भक्तियुक्तस्य योगिनो वै मद्आत्मनः । न ज्ञानं न च वैराग्यं प्रायः श्रेयो भवेदिह ॥ [भागवतम् ११.२०.३१] इति श्रीभगवता । ज्ञाने प्रयासमुदपास्य नमन्त एव जीवन्ति [भागवतम् १०.१४.३] इति ब्रह्मणा च साधारणभक्तानामप्यनुपादेयत्वेनोक्तत्वात् । न च तच्छ्रवणेन तासां विरहज्वाला शाम्यति । तं श्यामं मनोहरं विना साधारणभक्तानामपि स्वर्गापवर्गनरकेष्वपि तुल्यार्थदर्शिनः [भागवतम् ६.१७.१८] इत्युक्तदिशा, नात्यन्तिकं विगणयन्त्यपि ते प्रसादम् [भागवतम् ३.१५.४८] इत्य्आद्य्उक्तदिशा वा हेयरूपत्वेनैवानुभवात् । तासां तु स्वरसस्य परमविरोध्येव तत् । पूर्वं च श्रूयतां प्रियसन्देशो भवतीनां सुखावहः [भागवतम् १०.४७ .२८] इत्येवोक्तम् । अत उक्तं तासामेवाभिप्रायकथने श्रीस्वामिभिरपि ननु किम् अन्यानिवास्मानात्मविद्यया लोभयसि ? वयं तु सर्वसुन्दर सर्वालङ्करणेन त्वया विरहं नैव सहामहे [Bहावार्थदीपिका तो १०.४७.३४] इति । तस्माद्विदुरस्येव कूटोक्तिरियमित्युक्त एवार्थी भवत्य् अन्तरङ्गः । स च युधिष्ठिरस्येव तासामेव गम्य इति । ॥ १०.४७ ॥ श्रीभगवान् श्रीव्रजदेवीः ॥ १५५१६४ ॥ [१६५] पूर्वव्याख्यानुसारेणैवाह एवं प्रियतमादिष्टमाकर्ण्य व्रजयोषितः । ता ऊचुरुद्धवं प्रीतास्तत्सन्देशागतस्मृतीः ॥ [भागवतम् १०.४७.३८] तत्सन्देशेनागता स्मृतिर्नित्यसंयोगानुसन्धानरूपा यासां तादृश्यः । अतएव प्रीताः । इतः परं कदाचित्प्रकटलीलानुभवे सति तासां सन्तोषः प्रकटलीलादर्शनतस्तु विरह एवेति भावद्वैतं लक्ष्यते । [१६६] तच्च सन्तोषमाह ततस्ताः कृष्णसन्देशैर्व्यपेतविरहज्वराः । उद्धवं पूजयां चक्रुर्ज्ञात्वात्मानमधोक्षजम् ॥ [भागवतम् १०.४७.५३] तथा तेन सन्दिष्टं तथैवात्मानमनुभूयाधोक्षजं चानुभूयेत्य् अर्थः । ॥ १०.४७ ॥ श्रीशुकः ॥ १६५१६६ ॥ [१६७] स्वविरहं व्यञ्जयन्ति अप्येष्यतीह दाशार्हस्तप्ताः स्वकृतया शुचा । सञ्जीवयन्नु नो गात्रैर्यथेन्द्रो वनमम्बुदैः ॥ [भागवतम् १०.४७.४४] स्वनिमित्तेन शोकेन तप्ताः नोऽस्मान् गात्रैः करस्पर्शादिभिः सञ्जीवयन् किं नु इहैष्यतीति ॥ ॥ १०.४७ ॥ श्रीव्रजदेव्य उद्धवम् ॥ १६७ ॥ [१६८] एवं तथा श्रीमद्उद्धवद्वारोपदिष्टं तथा कुरुक्षेत्रे साक्षादपि स्वयमुपदिष्टम् । (पगे ८६) [Vऋ. अद्द्स्:] कुरुक्षेत्रयात्रायामपि अपि स्मरथ नः सख्यः स्वानामर्थचिकीर्षया । गतांश्चिरायिताञ्छत्रु पक्षक्षपणचेतसः ॥ [भागवतम् १०.८२.४१] इत्यनेन स्वागमनविलम्बे कारणं विज्ञाप्य पुनश्च । [Vऋ. एन्द्स्.] मयि भक्तिर्हि भूतानाममृतत्वाय कल्पते । दिष्ट्या यदासीन्मत्स्नेहो भवतीनां मद्आपनः ॥ [भागवतम् १०.८२.४४] इत्यत्र तादृशीनां साक्षादेव तत्प्राप्तिः फलं नान्येषामिवामृतत्व मात्रमित्येतत्तासामाश्वासनरूपभगवद्वचनानन्तरम् । ननु त्वं द्वारकायामेव सदा क्रीडसि वयं तु वृन्दावनवासिन्यः कथं प्राप्स्याम इत्याशङ्क्य युष्माभिर्नित्यसंयुक्त एवाहमस्मीति तथाविधमात्मानमुपदिशति द्वाभ्यां [Vऋ. रेअद्सिन्स्तेअदोf थे अबोवे परग्रफ्: इत्यनेन तासां स्वप्राप्तिम् अवश्यम्भाविनीं प्रोच्य तत्रापि तासां कालविलम्बाक्षमत्वं विलोक्य झटिति सान्त्वनार्थमुद्धवद्वारा प्रहितचरसन्देशवदेव स्वेन नित्य संयोगमुपदिशति Eन्द्Vऋ. रेअदिन्ग्.] अहं हि सर्वभूतानामादिरन्तोऽन्तरं बहिः । भौतिकानां यथा खं वार्भूर्वायुर्ज्योतिरङ्गनाः ॥ एवं ह्येतानि भूतानि भूतेष्वात्मात्मना ततः । उभयं मय्यथ परे पश्यताभातमक्षरे ॥ [भागवतम् १०.८२.४५४६] यथाहमहङ्कारो भूतादिः सर्वेषां भूतानां खादीनामाद्यन्तादि रूपः । अहङ्कारान्तर्गतान्येव खादीनीत्यर्थः । यथा च खादीनि भूतानि भौतिकानां शरावसैन्धवादीनामाद्य्अन्तादिरूपाणि, खादीनामन्तर्गतान्येव तानीत्यर्थः । एवमेतानि प्रकटलीलायाम् अनुभूयमानानि युष्माकं ममतास्पदानि भूतानि परमार्थसत्य वस्तूनि श्रीवृन्दावनादीनि भूतेष्वप्रकटलीलागतेषु परमार्थसत्य वस्तुषु तेषु वर्तन्ते । युष्माकं प्रकटलीलाभिमान्य्अहन्तास्पदमात्मा चाप्रकटलीलाभिमान्यहन्तास्पदेनात्मना ततो व्याप्तः । एवम् इदन्ताहन्तास्पदं यदुभयं तच्च पुनः परे प्रकटमत्र दृश्यमानेऽपि तस्यां वृन्दाटव्यां विहरमाणेऽक्षरे नित्यमेव युष्मत् सङ्गिनि मय्याश्रयरूपे आभातं विराजमानं पश्यतेति । तस्मात्प्रकाश भेदादेव तत्तद्वस्त्व्आदिभेदव्यपदेशो विरहसंयोगव्यवस्था चेतीदमत्रापि व्यक्तम् । [१६९] श्रीभगवच्छिक्षानुरूपमेव श्र्यृषिरुवाच अध्यात्मशिक्षया गोप्य एवं कृष्णेन शिक्षिताः । तद्अनुस्मरणध्वस्तजीवकोशास्तमध्यगन् ॥ [भागवतम् १०.८२.४७] अध्यात्मशिक्षया तद्उपदेशेन आत्मानं श्रीकृष्णमधिकृत्य या शिक्षा तया वा । तथाविधं यदुपदिष्टं तद्अनुस्मरणेन नित्यसिद्धाप्रकट लीलायाः पुनरनुसन्धानेन ध्वस्तस्त्यक्तप्रायो जीवकोषः प्रपञ्चस् तत्र प्राकट्याभिनिवेशो याभिस्ताः । तं स्वयमुपदिष्टं नित्यसंयुक्त रूपं श्रीकृष्णमध्यगन् प्रणिहितवत्यः । तत्रापि पूर्वदर्शितश्रुति पुराणादिगतनित्यतावाक्यं मयि भक्तिर्हि [भागवतम् १०.८२.४४] इति । फलभेद वाक्यं च न ज्ञानं न च वैराग्यम् [भागवतम् ११.२०.३१] इत्याद्य्अयुक्तताव्यञ्जि वाक्यं चानुसन्धाय परोक्षवादार्थप्रयुक्तमर्थान्तरं न प्रमेयम् । [१७०] अथ ज्ञानरूपं प्रकटार्थमस्वीकुऋवाणा नित्यलीलारूपं रहस्यार्थं स्वीकुर्वाणा अपि पूर्ववत्पुनश्च प्रकटलीलाभिनिवेशेन विरहभीताः परमदैन्योत्तरमेवं प्रार्थयामासुरित्याह आहुश्च ते नलिननाभ पदारविन्दं योगेश्वरैर्हृदि विचिन्त्यमगाधबोधैः संसारकूपपतितोत्तरणावलम्बं गेहं जुषामपि मनस्युदियात्सदा नः ॥ [भागवतम् १०.८२.४८] आस्तां तावद्दुर्विधिहतानामस्माकं त्वद्दर्शनगन्धवार्तापि । हे नलिननाभ तव पदारविन्दं त्वद्उपदेशानुसारेणास्माकं मनस्य् उदियात् । ननु (पगे ८७) किमिवात्रासम्भाव्यम् ? तत्राहुः योगेश्वरैरेव हृदि विचिन्त्यं न त्वस्माभिस्त्वत्स्मरणारम्भ एव मूर्च्छागामिनीभिः । तद् उक्तमुद्धवं प्रति स्वयं भगवता मयि ताः प्रेयसां प्रेष्ठे दूरस्थे गोकुलस्त्रियः । स्मरन्त्योऽङ्ग विमुह्यन्ति विरहौत्कण्ठ्यविह्वलाः ॥ [भागवतम् १०.४६.५] इति । तदेवोपपादयन्ति अगाधबोधैः साक्षाद्दर्शनेऽप्यक्षुभित बुद्धिभिः । न त्वस्माभिरिव त्वद्दर्शनेच्छया क्षुभितबुद्धिभिः । चरणस्यारविन्दतारूपकं च त्वत्स्पर्शेनैव दाहशान्तिर्भवति न तु तथा त्वत्स्मरणेनेति ज्ञापनाय । ननु तथा निदिध्यासनमेव योगेश्वराणां संसारदुःखमिव भवतीनां विरहदुःखं दूरीकृत्य तद्उदयं करिष्यतीति आशङ्क्याह संसारकूपपतितानामेवोत्तरणावलम्बं न त्वस्माकं विरहसिन्धु निमग्नानाम् । त्वच्चिन्तनारम्भे दुःखवृद्धेरेवानुभूयमानत्वाद् इति भावः । नन्वधुनैवागत्य मुहुर्मां साक्षादेवानुभवत, तत्राह गेहं जुषां परगृहिणीनामस्वाधीनानामित्यर्थः । यद्वा गेहं जुषामिति तव सङ्गतिश्च त्वत्पूर्वसङ्गमविलासधाम्नि तत्तद्अस्मत्कामदुघे स्वाभाविकास्मत्प्रीतिनिलये निजगेहे गोकुल एव भवतु, न तु द्वारकादाव् इति स्वमनोरथविशेषेण तस्मिन्नेव प्रीतिमतीनामित्यर्थः । यः कौमारहरः स एव हि वरः इत्यादिवत् । तस्मादस्माकं मनसि भवच् चरणचिन्तनसामर्थ्याभावात्स्वयमागमनस्यासामर्थ्यादनभिरुचेर् वा साक्षादेव श्रीवृन्दावन एव यद्यागच्छसि तदैव निस्तार इति भावः । [Vऋ एदितिओनद्द्स्हेरे: तमेतमेव भावं श्रीभगवानङ्गीचकार । यथोक्तमेतद्अनन्तरम् त एवं लोकनाथेन परिपृष्टाः सुसत्कृताः । प्रत्यूचुर्हृष्टमनसस्तत्पादेक्षाहतांहसः ॥ [भागवतम् १०.८३.२] [एन्द्Vऋ अद्दितिओन्] ॥ १०.८२ ॥ श्रीशुकः ॥ १६८१७० ॥ [१७१] तदेवं स्वारसिक्यप्रकटलीला दर्शिता । अथाप्रकटलीले द्वे अप्यर्थ विशेषेणाह गोपीनां तत्पतीनां च सर्वेषामेव देहिनाम् । योऽन्तश्चरति सोऽध्यक्षः क्रीडनेनेह देहभाक् ॥ [भागवतम् १०.३३.३५] अन्तर्अन्तःस्थितमप्रकटं यथा स्यात्तथा गोपीनां तत्पतीनां च तत् पतिंमन्यानां क्रीडनदेहभाक्सन् तेषामेव गोकुलयुवराजतया अध्यक्षश्च सन् यश्चरति क्रीडति स एव प्रकटलीलागतोऽपि भूत्वा सर्वेषां विश्ववर्तिनां देहिनामपि क्रीडनदेहभाक्सन् तेषां पालकत्वेनाध्यक्षोऽपि सन् चरति । तस्मादनादित एव ताभिः क्रीडाशालित्वेन स्वीकृतत्वात्तच्छक्तिरूपाणां तासां सङ्गमे वस्तुत एव परदारता दोषोऽपि नास्ति । ततस्तेषां तत्पतित्वं च । नासूयन् खलु कृष्णाय [भागवतम् १०.३३.३७] इत्यादि वक्ष्यमाणदिशा, तेषां तासां च प्रातीतिकमात्रं न तु दैहिकम् । तादृश प्रतीतिसम्पादनं च तासामुत्कण्ठापोषार्थमिति तत्प्रकरण सिद्धान्तस्य पराकाष्ठा दर्शिता ॥ ॥ १०.३३ ॥ श्रीशुकः ॥ १७१ ॥ (पगे ८८) [१७२] एवं तत्तल्लीलाभेदेनैकस्यापि तत्तत्स्थानस्य प्रकाशभेदः श्री विग्रहवत् । तदुक्तम् वृष्णः परमं पदमवभाति भूरि इति श्रुत्या । तत्र त्वितरलीलान्तःपातिभिः प्रायश इतरलीलावकाशविशेषो नोपलभ्यते । दृश्यते च प्रकटलीलायामप्यसङ्करीभावेनैव विचित्रावकाशत्वम् । यथा द्वादशयोजनमात्रप्रमितायामेव द्वारकान्तःपुर्यां क्रोश द्वयप्रमितगृहकोटिप्रभृतिवस्तूनि । यथा स्वल्पे गोवर्धनगर्ते तद् असङ्ख्यगोकुलप्रवेशः । यथा ब्रह्मणा दृष्ट्या वृन्दावनस्य सवृक्ष तृणपक्ष्याद्य्अवकाशता ब्रह्माण्डाद्य्अनन्तवस्त्व्अवकाशता च । यथा च श्रीनारददृष्टयोगमायावैभवे समकालमेव द्वारकायां प्रातस्त्यमाध्याह्निकसायन्तनलीला इत्यादि । तदेवं वृन्दावनस्य तावत् प्रकाशभेदा उदाह्रियन्ते । तत्राप्रकटलीलानुगतो यथा यामले रुद्र गौरीसंवादे वीथ्यां वीथ्यां निवासोऽधरमधुसुवचस्तत्र सन्तानकानाम् एके राकेन्दुकोट्य्आतपविशदकरास्तेषु चैके कमन्ते । रामे रात्रेर्विरामे समुदिततपनद्योतिसिन्धूपमेया रत्नाङ्गानां सुवर्णाचितमुकुररुचस्तेभ्य एके द्रुमेन्द्राः ॥ यत्कुसुमं यदा मृग्यं यत्फलं च वरानने । तत्तदैव प्रसूयन्ते वृन्दावनसुरद्रुमाः ॥ अर्थश्च हे अधरमधुसुवचः अधरमधुतुल्यानि सुवचांसि यस्याः तथाभूते हे गौरि ! तत्र श्रीवृन्दावने रथाङ्गानां सन्तानकानां मध्ये एके द्रुमेन्द्रा राकेन्दुकोट्य्आतपविशदकराः । हे रामे, तेषु सन्तानकेषु च एके रात्रेर्विरामे समुदिततपनद्योतिसिन्धूपमेयाः कमन्ते विराजन्ते । तेभ्यस्तानतिक्रम्य एके कमन्ते । कथम्भूताः सुवर्णाचितमुकुररुच इति । तत्र च यदा यत्कुसुमं मृग्यं भवति यदा च यत्फलं मृग्यं भवति तदैव तद्वृन्दावनसुरद्रुमाः प्रसूयन्त इति । एवं ब्रह्मसंहितायामपि आदिपुरुषगोविन्दस्तोत्र एव श्रियः कान्ताः कान्तः परमपुरुषः कल्पतरवो द्रुमा भूमिश्चिन्तामणिगणमयि तोयममृतम् । कथा गानं नाट्यं गमनमपि वंशी प्रियसखि चिद्आनन्दं ज्योतिः परमपि तदास्वाद्यमपि च ॥ स यत्र क्षीराब्धिः स्रवति सुरभीभ्यश्च सुमहान् निमेषार्धाख्यो वा व्रजति न हि यत्रापि समयः । भजे श्वेतद्वीपं तमहमिह गोलोकमिति यं विदन्तस्ते सन्तः क्षितिविरलचाराः कतिपये ॥ [Bरह्मष्५.५६] इति । ज्योतिर्लौकिकलीलामाधुर्याय महाप्रलयेऽप्यनश्वरसूर्यादिरूपं यत् तत्र वर्तते तथा तेषामासाद्यमपि यत्किञ्चित्तत्चिदानन्दरूपं परम् अपि परमतत्त्वमेव न तु प्राकृतम् । चन्द्रार्कयोः स्थितिश्च तत्र विलक्षणत्वेनैव गौतमीयतन्त्रे कथिता समानोदितचन्द्रार्कमिति हि वृन्दावनविशेषणम् । समानत्वं च रात्रो रात्रौ राकाचन्द्रमयत्वाद् इति । अपि चेति परेणान्वयः । (पगे ८९) रसावेशेन तद्अज्ञानादेव समयो न व्रजतीत्युक्तम् । अन्यथा पौर्वापर्याभावे सति चेष्टात्मिकाया लीलायाः स्वरूपहानिः स्यात् । श्वेतं शुभ्रं दोषरहितमित्यर्थः । द्वीपं तद् इवान्यासङ्गशून्यं सर्वतः परमित्यर्थः । तदुक्तं श्रुत्या यथा हि सरसि पद्मं तिष्ठति तथा भूम्यां तिष्ठति [ङ्टू २.३०] इति । किं च ब्रह्म संहितायामेव तत्स्तवादौ चिन्तामणिप्रकरसद्मसु कल्पवृक्ष लक्षावृतेषु [Bरह्मष्५.२९] इत्यादि । एवं नारदपञ्चरात्रे च श्रुतिविद्यासंवादे ततः श्वेतमहाद्वीपश्चतुर्दिक्षु विदिक्षु च । अधश्चोर्ध्वं च दिङ्नाथास्तोयं क्षीरामृतार्णवः ॥ महावृन्दावनं तत्र केलिवृन्दावनानि च । वृक्षाः सुरद्रुमाश्चैव चिन्तामणिमयी स्थली ॥ क्रीडाविहङ्गलक्षं च सुरभीनामनेकशः । नानाचित्रविचित्रश्रीरासमण्डलभूमयः ॥ केलिकुञ्जनिकुञ्जानि नानासौख्यस्थलानि च । प्राचीनच्छत्ररत्नानि फणाः शेषस्य भान्त्यहो ॥ यच्छिरोरत्नवृन्दानामतुलद्युतिवैभवम् । ब्रह्मैव राजते तत्र रूपं को वक्तुमर्हति ॥ इति । इत्थं श्रीवृन्दावनस्याप्रकटलीलानुगतप्रकाश एव गोलोक इति व्याख्यातम् । तत्राप्रकटलीलाया द्वैविध्ये मन्त्रोपासनामय्यां किञ्चिद् विलक्षणः । स च तत्तन्मन्त्रेषु यथादर्शितप्रतिनियतलीलास्थान सन्निवेशः । यथा पूर्वतापन्यां, यथा च स्कान्दे श्रीनारदवाक्यम् यस्मिन् वृन्दावने पुण्यं गोविन्दस्य निकेतनम् । तत्सेवकसमाकीर्णं तत्रैव स्थीयते मया ॥ भुवि गोविन्दवैकुण्ठं तस्मिन् वृन्दावने नृप । यत्र वृन्दादयो भृत्याः सन्ति गोविन्दलालसाः ॥ इति । अथ प्रकटलीलानुगतप्रकाशः श्रीविष्णुपुराणहरिवंशादौ प्रसिद्धः । स एष एव प्रकाशस्तदानीं प्राकृतैरपि कैश्चिद्भाग्य विशेषोदयवद्भिर्ददृशे सम्प्रत्यस्माभिरपि तद्अंशो दृश्यते । अत्र तु यत्प्राकृतप्रदेश इव रीतयोऽवलोक्यन्ते तत्तु श्रीभगवतीव स्वेच्छया लौकिकलीलाविशेषाङ्गीकारनिबन्धनमिति ज्ञेयम् । श्रीभगवद् धाम्नां तेषां सर्वथा प्रपञ्चातीतत्वादिगुणैः श्रुतिस्मृतिभ्यां कृत प्रमाणत्वात् । अतएवोक्तमादिवाराहे वसन्ति ये मथुरायां विष्णुरूपा हि ते खलु । अज्ञानास्तान्न पश्यन्ति पश्यन्ति ज्ञानचक्षुषः ॥ इति । तदेतन्मूलप्रमाणेऽप्यप्रकटलीलानुगतः प्रकाशः श्रीवृन्दावनस्य ते चौत्सुक्यधियो राजन्मत्वा गोपास्तमीश्वरः [भागवतम् १०.२८.११] इत्यादौ दर्शित एव । प्रकटलीलानुगतो यथा अहो अमी देववरामरार्चितं पादाम्बुजं ते सुमनःफलार्हणम् । नमन्त्युपादाय शिखाभिरात्मनस् तमोऽपहत्यै तरुजन्म यत्कृतम् ॥ [भागवतम् १०.१५.५] इत्यादि । आत्मनः सुमनः फलरूपमर्हणमुपादायात्मन एव शिखाभिर् नमन्ति । यद्यैः । शृण्वतां पश्यतां च संसारिणां तमोऽपहत्यै तरु जन्मैतत्कृतमिति । यत्कृतमिति तृतीयातत्पुरुषो वा ॥ ॥ १०.१५ ॥ श्रीभगवान् श्रीबलदेवम् ॥ १७२ ॥ [१७३] यथा च सपद्येवाभितः पश्यन् दिशोऽपश्यत्पुरःस्थितम् । वृन्दावनं जनाजीव्य द्रुमाकीर्णं समाप्रियम् ॥ यत्र नैसर्गदुर्वैराः सहासन्नृमृगादयः । मित्राणीवाजितावास द्रुतरुट्तर्षकादिकम् ॥ [भागवतम् १०.१३.५९६०] इत्यादि । (पगे ९०) समानामात्मारामाणामपि समस्य सहचरस्य श्रीभगवतोऽपि वा । आ सर्वतोभावेन सर्वांशेनैव प्रियमिति । तत्रासद्अंशत्वं निषिध्य सर्वतोऽप्यानन्दातिशयप्रदत्वं प्रदर्शितम् ॥ ॥ १०.१३ ॥ श्रीशुकः ॥ १७३ ॥ [१७४] तदेवं श्रीकृष्णलीलास्पदत्वेन तान्येव स्थानानि दर्शितानि । तच् चावधारणं श्रीकृष्णस्य विभुत्वे सति व्यभिचारि स्यात् । तत्र समाधीयते तेषां स्थानानां नित्यतल्लीलास्पदत्वेन श्रूयमानत्वात्तद्आधारशक्ति लक्षणस्वरूपविभूतित्वमवगम्यते स भगवः कस्मिन् प्रतिष्ठित इति स्वे महिम्नि [Cहाऊ ७.२४.१] इति श्रुतेः । साक्षाद्ब्रह्मगोपालपुरी [ङ्टू २.२६] इत्यादेश्च । ततस्तत्रैवाव्यवधानेन तस्य लीला । अन्येषां प्राकृतत्वात्न साक्षात्तत् स्पर्शोऽपि सम्भवति धारणशक्तिस्तु नतराम् । यत्र क्वचिद्वा प्रकट लीलायां तद्गमनादिकं श्रूयते । तदपि तेषामाधारशक्तिरूपाणां स्थानानामावेशादेव मन्तव्यम् । वैकुण्ठान्तरस्य त्वप्राकृतत्वेऽपि श्रीकृष्णविलासास्पदताकरनिजयोग्यताविशेषाभावान्न तादृशत्वमिति ज्ञेयम् । अथाप्रकटप्रकटलीलयोः समन्वयस्त्वेवं विवेचनीयः । तत्र यद्यपि तस्य (मन्त्रोपासनामय्य्)अप्रकटलीलायां बाल्यादिकमपि वर्तते तथापि (स्वारसिकलीलामय)किशोराकारस्यैव मुख्यत्वात् । तमाश्रित्यैव सर्वं प्रवर्तते इति प्रकटलीलापि तमाश्रित्यैव वक्तव्या । यद्वा द्वारकायाम् अपि मथुरायामपि वृन्दावनेऽपि युगपदेक एव किशोराकृतिः श्री कृष्णाख्यो भगवान् श्रीमद्आनकदुन्दुभिव्रजराजनन्दनरूपेण प्रापञ्चिकलोकाप्रकटं नित्यमेव लीलायमान आस्ते । अथ कदाचित्भक्तियोगविधानार्थं कथं पश्येम हि स्त्रियः [भागवतम् १.८.२०] इत्याद्य्उक्तदिशा सत्यप्यानुसङ्गिके भूभारहरणादिके कार्ये, स्वेषाम् आनन्दचमत्कारपोषायैव लोकेऽस्मिंस्तद्रीतिसहयोगचमत्कृतनिज जन्मबाल्यपौगण्डकैशोरात्मकलौकिकलीलाः प्रकटयन् तद्अर्थं प्रथमत एवावतारितश्रीमद्आनकदुन्दुभिगृहे तद्विधयदुवृन्द संवलिते स्वयमेव बालरूपेण प्रकटीभवति । अथ च तत्र तत्र स्थाने वचनजातसिद्धनिजनित्यावस्थितकैशोरआदि विलाससम्पादनाय तैरेव प्रकाशान्तरेणाप्रकटमपि स्थितैः परिकरैः साकं निजप्रकाशान्तरेणाप्रकटमपि विहरत्येव । अथ श्रीमद्आनकदुन्दुभिगृहेऽवतीर्य च तद्वदेव प्रकाशान्तरेणाप्रकटमपि स्थित्यैव स्वयं प्रकटीभूतस्य सव्रजश्री व्रजराजस्य गृहेऽपि तदीयामनादित एव सिद्धां स्ववात्सल्यमाधुरीं जातोऽयं नन्दयति । बालोऽयं रिङ्गति । पौगण्डोऽयं विक्रीडतीत्य्आदिस्व विलासविशेषैः पुनः पुनर्नवीकर्तुं समायाति । तत्र च सकलमाधुरी शिरोमणिमञ्जरीमाकैशोरबाल्यकेलिलक्ष्मीमुल्लास्य गोकुलजनान् नितरामात्मवशीकृतान्तर्बहिर्इन्द्रियाण्यापद्य पुनरपि तेषां समधिकामपि प्रेमर्द्धिं संवर्धयन् । श्रीमदानकदुन्दुभि प्रभृतीनपि नन्दयन् भूभारराजन्यसङ्घमपि संहरन्मथुरायां प्रयाति । ततश्च द्वारकाख्यं स्वधामविशेषं प्रकाशयितुं समुद्रं गत्वा तत्तल्लीलामाधुरीं परिवेशयति । अथ सिद्धासु निजापेक्षितासु तत्तल्लीलासु च तत्र तत्र नित्य (पगे ९१) सिद्धमप्रकटत्वमेवोरीकृत्य तावप्रकटलीलाप्रकाशौ प्रकटलीला प्रकाशाभ्यामेकीकृत्य तथाविधतत्तन्निजवृन्दमप्रत्यूहम् एवानन्दयतीति । तत्र पूर्णकैशोरव्यापिन्येव व्रजे प्रकटलीला ज्ञेया क्व चातिसुकुमाराङ्गौ किशोरौ नाप्तयौवनौ [भागवतम् १०.४४.८] इति । नास्मत्तो युवयोस्तात नित्योत्कण्ठितयोरपि । बाल्यपौगण्डकैशोराः पुत्राभ्यामभवन् क्वचित् ॥ [भागवतम् १०.४५.३] इति । मनांसि तासामरविन्दलोचनः प्रगल्भलीलाहसितावलोकैः । जहार मत्तद्विरदेन्द्रविक्रमो दृशां ददच्छ्रीरमणात्मनोत्सवम् ॥ [भागवतम् १०.४१.२७] इत्यपि हि श्रूयते । अतएव एकादशसमास्तत्र गूढार्चिः सबलोऽवसद्[भागवतम् ३.२.२६] इत्य् अत्रैकादशसमा व्याप्य गूढार्चिरित्येष एवार्थः । अथवा एकादशभिरेव समाभिस्तस्य पूर्णकैशोरत्वं ज्ञेयम् । कालेनाल्पेन राजर्षे रामः कृष्णश्च गोकुले । अघृष्टजानुभिः पद्भिर्विचक्रमतुरञ्जसा ॥ [भागवतम् १०.८.२६] [Vऋ. रेअद्स्हेरे: गूढार्चिरिति । यथा गूढार्चिः कुत्राप्यग्निः प्राप्तं प्राप्तमिन्धनं दहति, तथा गोपलीलाया गूढप्रभाव एव सन् प्राप्तं प्राप्तमसुरं दहन्नित्यर्थः । एकादशपर्यन्तं गूढार्चिः । ततः परं पञ्चदशपर्यन्तं प्रकटार्चिरिति साध्याहारं व्याख्यानं त्व् अघटमानं च । एकादशाभ्यन्तरे तत्तत्प्रभावस्य मध्ये मध्ये प्रसृतत्वात् । [Vऋ. अद्दितिओनेन्द्स्.] तदेवं स्थिते लीलाद्वयसमन्वये त्वप्रकटलीलैकानुभावसमन्वयश् चैवमनुसन्धेयः । प्रथमं श्रीवृन्दावने ततो द्वारकामथुरयोर् इति । सर्वप्रकटलीलापर्यवसाने युगपदेव हि द्वारकामथुरयोर्लीला द्वयैक्यं मथुराप्रकटलीलाया एव द्वारकायामनुगमनात् । अतएव रुक्मिणीप्रभृतीनां मथुरायामप्रकटप्रकाशः श्रूयते । वृन्दावने त्वियं प्रक्रियां विशिष्य लिख्यते । तत्र प्रथमं श्रीवृन्दावनवासिनां तस्य प्राणकोटिनिर्मञ्छनीयदर्शनलेशस्य विरहस्ततः श्रीमद् उद्धवद्वारा सान्त्वनम् । पुनश्च पूर्ववदेव तेषां महाव्याकुलताया मुद्रितायां श्रीबलदेवद्वारापि तथैव समाधानम् । अथ पुनरपि परमोत्कण्ठाकोटिविस्फुटहृदयानां सूर्योपराग व्रज्याव्याजया तद्अवलोकनकाम्यया कुरुक्षेत्रगतानां तेषां घर्मान्ते चातकानामिव निजाङ्गनवघनसङ्घावलोकदानेन तादृशसंलाप मन्त्रगर्जितेन च पुनर्जीवनसञ्चारणम् । अथ दिनकतिपयसहवासादिना च तानतिक्षीणतरानन्नेन दुर्भिक्ष दुःखितानिव संतर्प्य तैः सह निजविहारविशेषणामेकमेव रम्यम् आस्पदं श्रीवृन्दावनं प्रत्येव पूर्ववत्सम्भावितया निजागमनाश्वास वचनरचनया प्रस्थापनम् । सूर्योपरागयात्रा त्वियं दूरतः प्रस्तुतापि कंसवधान्नातिबहुसंवत्सरानन्तरा शिशुपालशाल्वदन्तवक्त्रवधात् प्रागेव ज्ञेया । श्रीबलदेवतीर्थयात्रा हि दुर्योधनवधैककालीना । तस्मिन् तस्यां कुरुक्षेत्रमागते खलु दुर्योधनवधः । सा च सूर्योपरागयात्रायाः पूर्वं पठिता । सूर्योपरागयात्रा च श्रीभीष्म द्रोणदुर्योधनाद्य्आगमनमयीति । तत्रायं क्रमः प्रथमं सूर्योपरागयात्रा । ततः श्रीयुधिष्ठिर सभा । तस्यां शिशुपालवधः, ततः कुरुपाण्डवद्यूतं, तदैव शाल्व वधो वनपर्वणि प्रसिद्धः । दन्तवक्त्रवधश्च ततः । ततः पाण्डवानां वनगमनं, ततः श्रीबलदेवस्य तीर्थयात्रा, ततो दुर्योधनवध इति । तस्मादुपरागयात्रा कंसवधान्नातिकाल विलम्बेनाभवदिति लक्ष्यते । यत्तु तस्यामेव आस्तेऽनिरुद्धो रक्षायां (पगे ९२) कृतवर्मा च यूथपः [भागवतम् १०.८२.६] इति । तदपि श्री प्रद्युम्नानिरुद्धयोरल्पकालादेव यौवनप्राप्त्या सम्भवति । यथोक्तं नातिदीर्घेन कालेन स कार्ष्णो रूढयौवनः [भागवतम् १०.५५.९] इति । अथवा अनिरुद्धनामा कश्चित्कृष्णनन्दन एव यो दशमान्तेऽष्टादश महारथमध्ये गणितः । तथैव च व्याख्यातं तत्र तैरिति । अतः कुरुक्षेत्रयात्रायामेव श्रीमद्आनकदुन्दुभिना श्रीकुन्तीदेवीं प्रत्य् उक्तं कंसप्रतापिताः सर्वे वयं याता दिशं दिशम् । एतर्ह्येव पुनः स्थानं दैवेनासादिताः स्वसः ॥ [भागवतम् १०.८२.२१] इति । अतः प्रथमदर्शनादेव द्रौपदीश्रीकृष्णमहिषीणां परस्पर विवाहप्रश्नोऽपि सङ्गच्छते । अत्र आगमिष्यत्यतिदीर्घेण कालेन व्रजम् अच्युतः [भागवतम् १०.४६.३४] इत्यादिकमपि पद्यं सहायं भवेत् । प्रकृतमनुसरामः । अथ वृन्दावनं प्रस्थापितानामपि तेषां पुनरपि निजादर्शनेन महासन्तापवृद्धिमतीवोत्कण्ठाभिः श्रीगोविन्दः सस्मार । यामेव साक्षाद्दृष्टवान् परमोत्कण्ठः श्रीमदुद्धवः । तमवसरं लब्धा प्रसावान्तरे गायन्ति गायन्ति ते विशदकर्म गृहेषु देव्यो राज्ञां स्वशत्रुवधमात्मविमोक्षणं च । गोप्यश्च कुञ्जरपतेर्जनकात्मजायाः पित्रोश्च लब्धशरणो मुनयो वयं च ॥ [भागवतम् १०.७१.९] इति व्यञ्जयामास । ततश्च राजसूयसमाप्त्य्अनन्तरं शाल्वदन्तवक्त्रवधान्ते झटिति स्वयं गोकुलमेव जगाम । तथा च पाद्मोत्तरखण्डे गद्यपद्यानि अथ शिशुपालं निहतं श्रुत्वा दन्तवक्त्रः कृष्णेन योद्धुं मथुराम् आजगाम । कृष्णस्तु तच्छ्रुत्वा रथमारुह्य तेन योद्धुं मथुराम् आययौ । दन्तवक्त्रवासुदेवयोरहोरात्रं मथुरापुरद्वारि यमुनातीरे सङ्ग्रामः समवर्तत कृष्णस्तु गदया तं जघान । स तु चूर्णितसर्वाङ्गो वज्रनिर्भिन्नमहीधर इव गतासुरवनितले पपात । सोऽपि हरेः सायुज्यं योगिगम्यं नित्यानन्दसुखं शाश्वतं परमं पदमवाप । इत्थं जय विजयौ सनकादिशापव्याजेन केवलं भगवतो लीलार्थं संसृताववतीर्य जन्मत्रयेऽपि तेनैव निहतौ जन्मत्रयावसाने मुक्तिमवाप्तौ । कृष्णोऽपि तं हत्वा यमुनामुत्तीर्य नन्दव्रजं गत्वा प्राक्तनौ पितराव् अभिवाद्य आश्वास्य ताभ्यां साश्रुकण्ठमालिङ्गितः सकलगोपवृद्धान् प्रणम्याश्वास्य रत्नाभरणादिभिस्तत्रस्थान् सन्तर्पयामास । कालिन्द्याः पुलिने रम्ये पुण्यवृक्षसमावृते । गोपनारीभिरनिशं क्रीडयामास केशवः ॥ रम्यकेलिसुखेनैव गोपवेषधरो हरिः । बद्धप्रेमरसेनात्र मासद्वयमुवास ह ॥ [ড়द्मড়् ६.२५२.१९२७] इत्यत्रेदं ज्ञेयम् । दन्तवक्त्रस्य मथुरायामागमनं राजसूयानन्तरम् इन्द्रप्रस्थे श्रीकृष्णावस्थानं ज्ञात्वा जरासन्धवधार्थं श्रीमद् उद्धवयुक्तिच्छायामवलम्ब्य गदाकुशलंमन्यत्वेनैकाकिनं द्वन्द्वयुद्धाय तमाह्वयितुं तदर्थमेव तद्राष्ट्रं तद् उपद्रावयितुं च । पुनश्च द्वारकागतं तं श्रुत्वा प्रस्थितस्य तस्य मथुराद्वारगतेन सङ्गमः । यत्स्थानमद्यापि द्वारकादिग्गतं दतिहेति प्रसिद्धं वर्तते । सर्वमेतत्श्रीनारदस्य श्रीभगवद्रथस्य च मनोमयत्वात्सम्भवति । अतः श्रीभागवतेनापि विरोधो नास्तीति अलं कल्पभेदकल्पनया । अतएव झटिति तस्य शाल्ववधश्रवणमपि तत्रोक्तं सम्पद्यते । तथा श्रीकृष्णस्य (पगे ९३) गोकुलगमनं च श्री भागवतसंमतमेव तास्तथा तप्यतीर्वीक्ष्य स्वप्रस्थाने यदूत्तमः । सान्त्वयामास सप्रेमैरायास्य इति दौत्यकैः ॥ [भागवतम् १०.३९.३५] इति । यात यूयं व्रजं तात वयं च स्नेहदुःखितान् । ज्ञातीन् वो द्रष्टुमेष्यामो विधाय सुहृदां सुखम् ॥ [भागवतम् १०.४५.२३] इति । हत्वा कंसं रङ्गमध्ये प्रतीपं सर्वसात्वताम् । यदाह वः समागत्य कृष्णः सत्यं करोति तत् ॥ [भागवतम् १०.४६.३५] इति । आगमिष्यत्यतिदीर्घेण कालेन व्रजमच्युतः । प्रियं विधास्यते पित्रोर्भगवान् सात्वतां पतिः ॥ [भागवतम् १०.४६.३४] इति च । तस्य श्रीमुखेन भक्तजनमुखेन च बहुशः सङ्कल्पानाम् अन्यथानुपपत्तेः सत्यसङ्कल्पः [ंैत्रू १.१] इति हि श्रुतिः । ईश्वराणां वचः सत्यम् [भागवतम् १०.३३.३१] इति स्वयं श्रीभागवतं च । न केवलमेतावदेव कारणं, तस्य व्रजागमनमपि स्फुटमेवेत्याहुः यर्ह्यम्बुजाक्षापससार भो भवान् कुरून्मधून् वाथ सुहृद् दिदृक्षया [भागवतम् १.११.९] इति । अत्र मधून्मथुरां वेति व्याख्याय तदानीं तन्मण्डले सुहृदो व्रजस्था एव प्रकटा इति तैरप्यभिमतम् । तत्र योग प्रभावेन नीत्वा सर्वजनं हरिः [भागवतम् १०.५०.५१] इत्यत्र सर्वशब्दात् । [ठे Vऋ एदितिओन् हेरे अद्द्स्: बलभद्रः कुरुश्रेष्ठ भगवान् रथमास्थितः । सुहृद्दिदृक्षुरुत्कण्ठः प्रययौ नन्दगोकुलम् ॥ [भागवतम् १०.६५.१] इत्यत्र प्रसिद्धत्वात् । Vऋ अद्दितिओनेन्द्स्.] ॥ १.११ ॥ द्वारकावासिनः श्रीभगवन्तम् ॥ १७४ ॥ [१७५] तदेतद्आगमनं दन्तवक्त्रवधानन्तरमेव श्रीभागवतसम्मतं, यतः ज्ञातीन् वो द्रष्टुमेष्यामो विधाय सुहृदां सुखम् [भागवतम् १०.४५.२३] इति कंसवधान्ते अपि स्मरथ नः सख्यः स्वानामर्थचिकीर्षया । गतांश्चिरायिताञ्छत्रु पक्षक्षपणचेतसः ॥ [भागवतम् १०.८२.४१] इति कुरुक्षेत्रयात्रायां च श्रीभगवद्वाक्येन तद्आगमने दन्तवक्त्र वधान्तं तच्छत्रुपक्षक्षपणलक्षणं सुखादानमेवापेक्षितम् आसीत् । तदेवं मासद्वयं प्रकटं क्रीडित्वा श्रीकृष्णोऽपि तानात्म विरहार्तिभयपीडितानवधाय पुनरेव माभूदिति भूभारहरणादि प्रयोजनरूपेण निजप्रियजनसङ्गमान्तरायेण संवलितप्रायां प्रकटलीलां तल्लीलाबहिरङ्गेणापरेण जनेन दुर्वेद्यतया तद्अन्तराय सम्भावनालेशरहितया तया निजसन्तताप्रकटलीलयैकीकृत्य पूर्वोक्ताप्रकटलीलावकाशरूपं श्रीवृन्दावनस्यैव प्रकाशविशेषं, तेभ्यः कृष्णं च तत्र छन्दोभिः स्तूयमानम् [भागवतम् १०.२८.१८] इत्याद्य्उक्त दिशा स्वेन नाथेन सनाथं श्रीगोकुलाख्यं पदमाविर्भावयामास । एकेन प्रकाशेन च द्वारवतीं च जगामेति । तथा पाद्मोत्तरखण्ड एव तद्अनन्तरं गद्यम् अथ तत्रस्था नन्दादयः सर्वे जनाः पुत्रदारसहिताः पशुपक्षि मृगादयश्च वासुदेवप्रसादेन दिव्यरूपधरा विमानमारूढा परमवैकुण्ठलोकमवापुरिति । कृष्णस्तु नन्दगोपव्रजौकसां सर्वेषां परमं निरामयं स्वपदं दत्त्वा दिवि देवगणैः संस्तूयमानो द्वारवतीं विवेश ॥ [ড়द्मড়् ६.२५२.२८२९] इति च । इत्थं माथुरहरिवंशेऽपि प्रसिद्धिरस्तीति श्रूयते । तत्र नन्दादयः पुत्रदारसहिताः इत्यनेन पुत्राः श्रीकृष्णादयः । दाराः श्रीयशोदादय इति लब्धे पुत्रादिरूपैरेव श्रीकृष्णादिभिः सह तत्प्राप्तेः कथनात् । प्रकाशान्तरेण तत्र तेषां स्थितिश्च तैरपि नावगतेति (पगे ९४) लभ्यते । वासुदेवप्रसादेनाकस्मातागमनरूपेण परमप्रसादेन दिव्यरूप धरास्तदानन्दोत्फुल्लतया पूर्वतोऽप्याश्चर्यरूपाविर्भावं गता इत्य् अर्थः । विमानमारूढा इति गोलोकस्य सर्वोपरिस्थितिदृष्ट्य्अपेक्षया वस्तुतस्त्वयमभिसन्धिः । कृष्णोऽपि तं हत्वा यमुनामुत्तीर्य इति गद्यानुसारेण यमुनाया उत्तरपारे एव व्रजवासस्तदानीमित्य् अवगम्यते । स च तेषां वृन्दावनदर्शनाक्षमतया एव तत्परित्यागेन तत्र गतत्वात् । ततश्च विमानशिरोमणिना स्वेनैव रथेन पुनः तस्याः दक्षिणपारप्रापणपूर्वकं श्रीमद्गोपेभ्यः श्रीवृन्दावन एव पूर्वं गोलोकतया दर्शिते तत्प्रकाशविशेष एव निगूढं निवेशनं वैकुण्ठावाप्तिरिति । अक्के चेन्मधु विन्देत किमर्थं पर्वतं व्रजेदिति न्यायेन । समीपार्थेऽव्ययमक्केशब्दः । न वेद स्वां गतिं भ्रमन्न् [भागवतम् १०.२८.१४] इति वदता श्रीभगवता तेषां गतित्वेनापि विभावितोऽसौ लोकः । तस्माद्वृन्दावने निगूढप्रवेश एव समञ्जसः । अत्र वृन्दावननित्य लीलावाक्यवृन्दं चाधिकमप्यस्ति प्रमाणम् । [Vऋ अद्द्स्] एवमेव श्रीगर्गवाक्यं कृतार्थं स्यात् एष वः श्रेय आधास्यद्गोपगोकुलनन्दनः । अनेन सर्वदुर्गाणि यूयमञ्जस्तरिष्यथ ॥ [भागवतम् १०.८.१६] इति । [Vऋ अद्दितिओन् एन्द्स्.] अथ गद्यान्ते द्वारवतीं विवेश इति च शाल्ववधार्थं निर्गतैः श्री भगवत्प्रत्यागमनं प्रतीक्षमाणैः यादवैः सहैवेति श्री भागवतवदेव लभ्यते । तं विना स्वयं गृहप्रवेशानौचित्यात् । क्षणार्धं मेनिरेऽर्भकाः [भागवतम् १०.१४.४३] इतिवदल्पकालभावनेन वा । तदेवं पुनः श्रीगोकुलागमनाभिप्रायेणैव श्रीवृन्दावन नाथोपसनामन्त्रे निहतकंसत्वेन तद्विशेषणं दत्तम् । यथा बोधायनोक्तेः गोविन्दं मनसा ध्यायेद्गवां मध्ये स्थितं शुभमिति ध्यानानन्तरं, गोविन्दं गोपीजनवल्लभेश कंसासुरघ्न त्रिदशेन्द्र वन्द्य इत्यादि । अन्यत्र च गोविन्द गोपीजनवल्लभेश विध्वस्तकंस इत्य् आदि । [Vऋ अद्द्स्] एवमेव गौतमीये श्रीमद्दशाक्षरोपासनायां वैश्यविशेस गोपाललीलाय तस्मै यज्ञसूत्रसमर्पणं विहितं यज्ञसूत्रं ततो दद्यादथवा स्वर्णनिर्मितम् । [Vऋ अद्दितिओनेन्द्स्.] इत्थमेव पुनः प्राप्त्य्अभिप्रायेणोक्तम् अनुस्मरन्त्यो मां नित्यमचिरान् मामुपैष्यथ [भागवतम् १०.४७.३६] इति, दिष्ट्या यदासीन्मत्स्नेहो भवतीनां मद्आपनः [भागवतम् १०.८२.४४] इति । अथानुगृह्य भगवान् गोपीनां स गुरुर्गतिः [भागवतम् १०.८३.१] इति च । तथैव केवलेन हि भावेन [भागवतम् ११.१२.८] इत्य्आदिपद्य द्वयकृतेन साधकचरीणां गोपीनां प्रथमं तत्प्राप्तिप्रस्तावेन नित्यप्रेयसीनामपि तन्महावियोगानन्तरप्राप्तिं तस्य वियोगस्यातीतत्व निर्देशाद्द्रढयति द्वाभ्याम् रामेण सार्धं मथुरां प्रणीते श्वाफल्किना मय्यनुरक्तचित्ताः । विगाढभावेन न मे वियोग तीव्राधयोऽन्यं ददृशुः सुखाय ॥ तास्ताः क्षपाः प्रेष्ठतमेन नीता मयैव वृन्दावनगोचरेण । क्षणार्धवत्ताः पुनरङ्ग तासां हीना मया कल्पसमा बभूवुः ॥ [भागवतम् ११.१२.१०११] अत्र विगाढभावेन वियोगतीव्राधयः सत्यो मत्तोऽन्यं निजसख्य्आदिकम् अपि न सुखाय ददृशुः । ततश्चाधुना तु सुखाय पश्यन्तीति वियोगो नास्तीत्य् अर्थः । एवं तास्ताः (पगे ९५) क्षपाः मया हीनाः सत्यः कल्पसमा बभूवुरधुना तु तादृश्यो न भवन्तीति नास्त्येव वियोग इत्यर्थः । [Vऋ अद्द्स्] पूर्वं त्वेतमेवोद्धवं प्रति मयि ताः प्रेयसां प्रेष्ठे दूरस्थे गोकुलस्त्रियः । स्मरन्त्योऽङ्ग विमुह्यन्ति विरहौत्कण्ठ्यविह्वलाः ॥ धारयन्त्यतिकृच्छ्रेण प्रायः प्राणान् कथञ्चन । प्रत्यागमनसन्देशैर्बल्लव्यो मे मद्आत्मिकाः ॥ [भागवतम् १०.४६.५६] इत्यत्र वर्तमानप्रयोग एव कृत इति सोऽयमर्थः स्पष्ट एव प्रतिपत्तव्यः । [Vऋ अद्दितिओनेन्द्स्.] [१७६] ततश्च प्रकटाप्रकटलीलयोः पृथक्त्वाप्रतिपत्त्यैवाप्रकटभावम् आपद्य स्वनामरूपयोरेव ताः स्थिता इत्याह ता नाविदन्मय्यनुषङ्गबद्ध धियः स्वमात्मानमदस्तथेदम् । यथा समाधौ मुनयोऽब्धितोये नद्यः प्रविष्टा इव नामरूपे ॥ [भागवतम् ११.१२.१२] तास्तथाभूतविरहौत्कण्ठ्यातिशयेनाभिव्यक्तदुर्धरमहाभावाः सत्यः, (तथा आगमिष्यत्यतिदीर्घेन कालेन व्रजमच्युतः [भागवतम् १०.४६.३४] इति भगवद्उक्त्य्अनुसारेण यर्ह्यम्बुजाक्षापससार भो भवान् कुरून् मधून् वा [भागवतम् १.११.९] इति द्वारकावासिप्रजावचनानुसारेण च,) कदाचित् तासां दर्शनार्थं गते मयि लब्धो योऽनुषङ्गो महामोदन भावाभिव्यक्तिकारी पुनश्च संयोगस्तेन बद्धा धीर्यासां तथाभूताः सत्यः स्वं ममतास्पदमात्मानमहङ्कारास्पदं चादः अप्रकट लीलानुगतत्वेनाभिमतं वा तथेदं प्रकटलीलानुगतत्वेनाभिमतं वा यथा स्यात्तथा नाविदन्, किन्तु द्वयोरैक्येनैवाविदुरित्यर्थः । प्रकटाप्रकटतया भिन्नं प्रकाशद्वयमभिमानद्वयं लीलाद्वयं चभेदेनैवाजानन्निति विवक्षितम् । ततश्च नाम च रूपं च तस्मिन् तत्तन् नामरूपात्मनि अप्रकटप्रकाशविशेषे प्रविष्टा इव, न तु प्रविष्टा वस् त्वभेदादित्यर्थः । नामरूप इति समाहारः । तत्र प्रकटाप्रकटलीलागतयोर्नामरूपयोरभेदे दृष्टान्तः यथा समाधौ मुनयः इति । समाधिरत्र शुद्धजीवस्येति गम्यम् । तयोर् लीलयोर्भेदावेदने दृष्टान्तस्त्वयं लीलाब्धे आवेदनांश एव, न तु सर्वावेदनांशे लोकवत्तु लीलाकैवल्यम् [Vस्. २.१.३३] इतिवत् । [१७७] तदेवं प्रकटाप्रकटलीलयोर्द्वयोरपि तासां स्वप्राप्तौ भाव एव कारणं दर्शितम् । ततश्चाप्रकटलीलायां प्रविष्टा अपि यादृशं तस्य स्वरूपं प्राप्तास्तद्दर्शयन्नन्यदप्यनुवदति मत्कामा रमणं जारमस्वरूपविदोऽबलाः । ब्रह्म मां परमं प्रापुः सङ्गाच्छतसहस्रशः ॥ [भागवतम् ११.१२.१३] [B रेअद्स्हेरे: अयमर्थः यथा भीष्ममुदारं दर्शनीयं कटं करोति इत्यत्र क्रिया खलु विशेषस्य कृतिं प्रत्यायन्ती विशेषणानामपि प्रत्याययति । कटं करोति तं च भीष्ममित्यादिरीत्या । तथात्रापि प्रतीयते विशेष्यं चात्र ब्रह्मैव । सर्वविशेषणाश्रयणीयपरम वस्तुतया तेषु विशेषणेषु तस्याभेदेनानुगमातेकमेवाद्वितीयं ब्रह्म [Cहाऊ ६.१.१] इति श्रुतेः । परमित्यादीनि तु विशेषणानि तद्अभिन्नत्वेऽपि प्रतिस्वं भेदकत्वात्स एकधा भवति द्विधा भवति इत्यादि श्रुतेः । तद् एवं स्थिते क्रमोऽप्यत्रार्थिक एव गृह्यते पच्यन्तां विविधाः पाकाः [भागवतम् १०.२४.२६] इत्यादौ, सर्वदोहश्च गृह्यतामितिवतग्निहोत्रं जुहोति यवागं पचति इत्यादिवच्च । ततश्च [एन्द्Vऋ. अद्दितिओन्] (पगे ९६) एवं पूर्वोक्तरीत्या ता अबला ब्रह्म प्रापुस्तच्च परमं भगवद्रूपं प्रापुः । ब्रह्मणो हि प्रतिष्ठाहम् [गीता १४.२७] इत्यादेः । तदेवं स्थिते तासां मद्अंशभूतानां नित्यप्रियाणां सङ्गादन्या अपि तदानीमेव गोकुलभाजः शतसहस्रशः प्रापुः । सङ्गस्य तत्प्रापकत्वं च झटिति समानभावजनकत्वात् । यथोक्तमेतत्पूर्वमेव केवलेन हि भावेन गोप्यो गावः [भागवतम् ११.१२.८९] इत्यादि । एवं गवादिष्वपि द्विविधत्वं गम्यम् । किमाख्यं प्रापुस्तत्राह मां कृष्णाख्यमेव नराकृति परं ब्रह्मेति पुराणवर्गात् । योऽवताराणां मध्ये श्रेष्ठोऽवतारः को भविता कथम् अस्यावतारस्य ब्रह्मता भवति [ङ्टू २.१३] तापनीभ्यश्च । कीदृशसम्बन्धं त्वां प्रापुस्तत्राह रमणं जारमिति । रमणः पतिर् नन्दनशब्दवद्यौगिकत्वबाधात् । यथा मित्रापुत्रो मित्रानन्दन एवोच्यते, न तु मित्रापतिः । मित्रापतिरपि मित्रारमण एवोच्यते, न तु मित्रापुत्र इति । ततश्चायमर्थः । यथा भीष्ममुदारं दर्शनीयं कटं करोति इत्यत्र क्रिया खलु विशेषस्य कृतिं प्रत्यायन्ती विशेषणानामपि प्रत्याययति । कटं करोति तं च भीष्ममित्यादिरीत्या । तथात्रापि प्राप्तं ब्रह्म प्रापुस्तच्च परमं भगवद्रूपं तच्च मां श्रीकृष्णाख्यं स्वयं भगवद्रूपमित्यादिरीत्या । किन्तु जारमित्युक्तेरेव रमणविशेषत्वे लब्धे रमणपदमधिकं स्यादित्यक्षराधिक्येनार्थाधिक्यमिति न्यायादधिकार्थमेव बोधयति । तत्र चाधिकपदस्यैवार्थः पर्यवस्यतीति प्रयत्ने नोपादानाज्जारत्वं च प्रातीतिकमात्रम् । गोपीनां तत्पतीनां चेत्यादेः । किन्तु साधारणीष्वपि परब्रह्मणः सर्वांशित्वात् सर्वपातृत्वाच्पतित्वमेव । यथोक्तं पिङ्गलया आत्मना रमणेन वै [भागवतम् ११.८.३९] इति, रेमेऽनेन यथा रमा [भागवतम् ११.८.३४] इति । लक्ष्मीदेव्या च, स वै पतिः स्यादकुतोभयः (पगे ९७) स्वयं समन्ततः पाति भयातुरं जनम् [भागवतम् ५.१८.२०] इति । तस्मात्पूर्वं यं जारत्वेन प्रतीतं प्रापुः पश्चान्निज रूपमेव तं प्रापुरिति । तथा जारमित्येवोक्ते पर्यवसितं न सिद्ध्येदिति (पगे ९८) रमणमित्युच्यते । रमणमित्येवोक्ते भगवत्त्वं श्रीकृष्ण रूपत्वं च न सिद्ध्यति, मामित्येवोक्ते ब्रह्मत्वं भगवत्त्वं च प्रमाणान्तरसाकाङ्क्षं भवति इति साक्षादेव तत्तदुच्यते । पूर्व प्रतीतत्वाद्रमणपदेनापि जारत्वमेव प्रतीयेतेति तन्निरासार्थं तत्तद् अनुवादश्चावश्यं कार्यः । (पगे ९९) ब्रह्म मां परममित्येषु पदेषु पाठक्रमस्याविवक्षितत्वाज्जारभावस्य च पूर्वत्वादार्थिक एव क्रमो लभ्यते । एष एव च सर्वत्र बलीयान् । ततो न विपर्ययेणार्थश्च कार्यः । किं चाप्राप्ते हि शास्त्रमर्थवदिति न्यायेन । दध्ना जुहोतीत्यादिवद् अप्राप्ते रमणपदे एव तात्पर्यं न तु पूर्वपूर्वप्राप्ते ब्रह्मादिजार पर्यन्ते । नन्दगोपसुतं देवि पतिं मे कुरु ते नमः [भागवतम् १०.२२.४] इति कृत जपानां कुमारीणां तु पतिभावनापूर्तेति चेत्तर्हि तासामनवद्य भावानां सङ्कल्पसिद्धिरेव श्रीभगवता सुतरां कार्या । तत्रैव च स्वयमङ्गीकृतं याताबला [भागवतम् १०.२२.२१] इत्यादौ सिद्धा इति मया इति च । [ठे अबोवे सेच्तिओन् स्तर्तिन्ग्wइथ्“ब्रह्मणो हि प्रतिष्ठाहम्” उप्तो “इति मयेति च” इस्नोत्fओउन्दिन् Vऋ. ईत्रेअद्सस्fओल्लोwस्: परमं यो महद्ब्रह्म इति सहस्रनामस्तोत्रात् । शुभाश्रयः स्वचित्तस्य सर्वगस्य तथात्मनः [Vइড়् ६.७.७५] इति विष्णुपुराणाच्च । तादृशं तं च मां कृष्णाख्यमेव प्रापुः कृष्णाकृति परं ब्रह्म इति पुराणवर्गात् । ब्रह्मणो हि प्रतिष्ठाहम् [गीता १४.२७] इति श्रीगीतोपनिषद्भ्यः । तद् रूपस्यैव स्वस्य प्राप्तिस्तासु स्वयमेव श्रीभगवता प्रोक्ता [भागवतम् १०.४.३६] । मय्यावेश्य मनः कृत्स्नं विमुक्ताशेषवृत्तिर्यत् । अनुस्मरन्त्यो मां नित्यमचिरान्मामुपैष्यथ ॥ [भागवतम् १०.४७.३६] इति । मयि भक्तिर्हि भूतानाममृतत्वाय कल्पते । दिष्ट्या यदासीन्मत्स्नेहो भवतीनां मद्आपनः ॥ [भागवतम् १०.८२.४४] इति च । अथ तादृशं च मां भावविशेषसंवलितमेव प्रापुरित्याह, मत्कामा रमणं जारमस्वरूपविदः इति, रमणशब्देन पतिरेवोच्यते, नन्दन शब्देन पुत्र इव रूढ्या यौकितत्वबाधात् । यथा मित्रानन्दन शब्देनात्र मित्रापुत्र एवोच्यते न तु मित्रापतिः । मित्रारमणशब्देन च मित्रापतिः । न तु मित्रापुत्रः तद्वदत्रापि । कोषमते च रमण शब्दः पत्यावेव रूढः । पटोलमूले रमणं स्यात्तथा रमणः प्रिये श्रीस्त्रीजातिसम्बन्धे सति रमणशब्दवत्प्रियशब्देन पतिरेवोच्यते तथैव प्रसिद्धेः । धवः प्रियः पतिर्भर्ता इत्यमरकोषाच्च । पतित्वं तूद्वाहेन कन्यायाः स्वीकारित्वमिति लोक एव भगवति तु स्वभावेनापि दृश्यते परमव्योमाधिपस्य महालक्ष्मीपतित्वं ह्यनादिसिद्धमिति । जारशब्देन सर्वत्रोपपतिरेवोच्यते जारस्तूपपतिः समौ इत्यमरकोषात् । उपपतित्वं चाधर्मेण प्रतीयमानत्वम् । यथोपधर्मत्वमधर्मे धर्मीयमानत्वमिति । उभयत्रापि (पगे ९७) वेदविरुद्धत्वात् । तदेव जारः पापपतिः समौ इति त्रिकाण्डशेषः । ततश्च जारत्वं रमणे नास्ति, रमणत्वं जारे नास्ति । धर्मोपधर्मयोरिव द्रव्यस्य स्वामिचौरयोरिव च विरुद्धवस्तुत्वादिति स्थिते ब्रह्म मां परममितिवन् नैकाधिकरणत्वं जारत्वरमणत्वयोः सम्भवति । तस्माद् अधिकारिणीनां तासां विशेषणभेदेन तद्द्वयं समादधत्तद्अर्थं चैकस्य वास्तवत्वमन्यस्य त्ववास्तवत्वं दर्शयति मत्कामा रमणम् इति जारमस्वरूपविदः इत्याभ्यां तत्र जारत्वस्यैव प्रातीतिकमात्रत्वाद् अवास्तवत्वं स्वामिभिरङ्गीकृतं नान्यस्य । जारबुद्धिवेद्यमपि इत्य् उक्तत्वात् । स्थापयिष्यते च तदिदमस्माभिरुत्तरत्र । ततश्चायमर्थः । स्वरूपं मन्नित्यप्रेयसीरूपत्वमजानन्त्यो जन्मादिलीलाशक्त्या विस्मरन्त्यो मां जारं प्रापुः धर्मविरुद्धतया प्रतीतावपि रागातिशयेन जारतयापि स्वीकृतं प्रापुरित्यर्थः । तथा तत् प्राप्तावपि मत्कामाः इति यत्पत्य्अपत्य्सुहृदामनुवृत्तिरङ्ग [भागवतम् १०.२९.३२] इत्य्आदिरीत्या मयि कामोऽभिलाषविशेषः कथमन्यत्र पतित्वं स्वप्नवद्विलीयते । श्रीकृष्ण एव पतित्वं जाग्रद्वदाविर्भवेदित्येवंरूपो यासां तादृश्यः सत्यो रमणरूपमेव मां प्रापुरिति । एतदर्थमेव पृथक्कृत्य तासां विशेषणाभ्यां सह स्वविशेषणद्वयं मत्कामा रमणमिति । जारस्वरूपविदः इति यथायोगं च पठितम् । न तु ब्रह्म मां परमम् इत्येभिः सह कृतम् । तदिदं स्वेषु तदीयस्वीयात्वं प्रकटयितुमपि तासां प्रार्थनापि दृश्यते । यस्मातपि बत मधुपुर्यामार्य पुत्रोऽधुनास्ते [भागवतम् १०.४७.२१] इत्यत्र तदीयात्व एव स्वामिमतिं व्यज्य तत्र च किङ्करीणामित्यनेन दैन्यात्पुनस्तदपलाप्य पुनरुत्कण्ठया भुजमगुरुसुगन्धम् [भागवतम् १०.४७.२१] इत्यादिना स्पष्टतयैव स्वीयात्वेन स्वेषु तदीयस्वीकारस्याभिकाङ्क्षाव्यञ्जना श्रीराधादेव्या कृतेति हि गम्यते । दैन्यं चात्र पतित्वकामनायामपि श्यामसुन्दर ते दास्यः [भागवतम् १०.२२.१५] इतिवद्गम्यम् । स्पष्टं च तत्स्वीकरणप्रार्थना च । यद्यपि मामेव दयितं प्रेष्ठमात्म्नानं मनसा गताः [भागवतम् १०.४६.४] इत्यनेन बल्लव्यो मे मद्आत्मिकाः इत्यनेन चास्मासु स्वीयात्वभावस् तस्यापि मनसि वर्तते एव, तथापि धारयन्त्यतिकृच्छ्रेण इत्यादि स्वाभिप्रायेण यद्यागत्य स्पष्टमेव स्वीक्रियामहे तदैवास्माकं निस्तारः स्यादिति तस्याभिप्रायः । तस्मात्साध्वेव तथा व्याख्यातं मत् कामा रमणमिति । अथ प्रस्तुतमेवानुसरामः । जारतया प्रतीतत्वेन रमणत्वेन च प्राप्तौ हेतुः अबला इति । एतत्पदेन हि तासु निजकारुण्यं व्यञ्जितम् । तेन च तस्य कारणं रामेण सार्धमित्याद्युक्तं तासां महाप्रेम स्मारितम् । तस्मात् तथा मत्प्राप्तौ तादृशमहाप्रेमैव हेतुरित्यर्थः । तदेवम् उभयथाप्राप्तावपि मत्कामा इत्यनेन रमणतया प्राप्तावेव पर्याप्तिः दर्शिता । तद्यथा तु अहं भक्तपराधीनः [भागवतम् ९.४.६३] इति, स्वेच्छामयस्य [भागवतम् १०.१४.२] इति, ये यथा मां प्रपद्यन्ते [गीता ४.११] इति च प्रतिज्ञाहानिः स्यात् । तत्र ये यथा इति येन कामनाप्रकारेणेत्यर्थः तत् क्रतुन्यायात् । तदेवं तासामभीष्टपूरणं कैमुत्येनैवायातम् । ततश्चास्तां तासां तदीयपरमलक्ष्मीरूपाणां वार्ता । तत्सङ्गादन्या अपि शतसहस्रशस् तथा मां प्रापुरित्याह सङ्गादिति । अत्रैवं विवेचनीयं तासां नित्य प्रेयसीनां तस्मिन् जारत्वं न सम्भवत्येव । श्रीमद्दशार्णादौ हि तन् नाम्ना तासां पतित्वेनैवासावभिधीयते वल्लभो दयितेऽध्यक्षे इति विश्व प्रकाशादिगतवल्लभशब्दस्य द्व्य्अर्थत्वेऽपि दयितत्वस्य तास्वर्हत्वात् । गौतमीयतन्त्रे च तन्मन्त्रव्याख्यायां पतित्वेनैव तद्व्याख्या दृश्यते । तन्नाम्नः खलु ब्रह्मत्वेश्वरत्वयोगेन व्याख्याद्वयं विधायोत्तरपक्षत्वेनाभीष्टं व्याख्यानमाह गौतमीयतन्त्रे द्वितीयाध्याये दशार्णव्याख्यायां अनेकजन्मसिद्धानां गोपीनां पतिरेव वा । नन्दनन्दन इत्युक्तस्त्रैलोक्यानन्दवर्धनः ॥ इति । अत्रानेकजन्मसिद्धत्वमनादिकल्पपरम्पराप्रादुर्भूतत्वम् एवोच्यते बहूनि मे व्यतीतानि जन्मानि तव चार्जुन [गीता ४.५] इतिवत् । वैवस्वतमन्वन्तरान्तर्गतावश्यम्भावं तत्प्रादुर्भावं विना कल्पाभावात् । अनादिसिद्धवेदप्राप्ततद्उपासनासिद्धानादित्वात् । तद् एकपतित्वं च तत्तन्मन्त्रोपासनाशास्त्रे (पगे ९८) तासां कालानवच्छेदेन तद्आराधनतत्परतया स्थितानां ध्यातुं विधीयमानत्वात्, पत्य्अन्तरसम्बन्धगन्धस्याप्यश्रवणात् । तथा च ब्रह्मसंहितायां आनन्दचिन्मयरसप्रतिभाविताभिस् ताभिर्य एव निजरूपतया कलाभिः । गोलोक एव निवसत्यखिलात्मभूतो गोविन्दमादिपुरुषं तमहं भजामि ॥ [Bरह्मष्५.४८] इति । लक्ष्मीसहस्रशतसम्भ्रमसेव्यमानमित्युक्तरीत्यामन्त्रतस्तच् छब्दप्राप्त्या च गोपीरूपाभिः सह गोलोक एव निवसति इति प्रकट लीलायामिव परकीयात्वप्रपञ्चं निषिद्धम् । कलात्वेनैव निजरूपत्वे प्राप्ते निजरूपतयेत्यस्य तथैव सार्थकत्वात् । तथैवोक्तं श्रियः कान्ताः कान्तः परमपुरुषः [Bरह्मष्५.५६] इति । अत्र श्रीपरमपुरुषयोरौपपत्यं न सम्भवतीति युक्तं च दर्शितवान् । तपन्यां ताः प्रति दुर्वाससो वचनं, स वो हि स्वामी [ङ्टू २.२७] इति । पति रमणवल्लभशब्दवत्स्वामिशब्दश्च तथा प्रसिद्धः स्वामिनो देवृ देवरौ इत्यमरकोषात् । ते च शब्दा एकनिष्ठत्वेन प्रयोगादन्योन्यम् अन्यार्थतां निरस्यन्ति कृष्णाय वासुदेवाय देवकीनन्दनाय च [भागवतम् १.८.२१] इत्यादिवत् । आस्तामप्रकटलीलाया वार्ता गुप्ततादृशतायां प्रकट लीलायामपि रसप्रसङ्गे श्रीशुकेनापि सुखावेशादगुप्तमेव कृष्ण वध्वः [भागवतम् १०.३३.७] इत्युक्तम् । ऋषभस्य जगुः कृतानि इत्यत्र स्वामिनापि ऋषभस्य पत्युः इति व्याख्यातम् । गोपीपतिरनन्तोऽपि वंशध्वनिवशं गतः इति सङ्गीतशास्त्रे । श्रीयमुनास्तवे श्रीशङ्कराचार्यवचनैरप्य् उक्तम्, विधेहि तस्य राधिकाधवाङ्घ्रिपङ्कजे रतिमिति । श्रीगीतगोविन्दे श्रीजयदेवचरणैश्च पत्युर्मनः कीलितमिति । तस्मात्स्वयं भगवता साध्वेव दर्शितम् जारमस्वरूपविदः इति मत् कामा रमणमिति च । पूर्वं ययैव लीलाशक्त्या तासामुक्तण्ठातिशय प्रकटनार्थं तन्नित्यप्रेयसीत्वस्वरूपानुसन्धानावरणपूर्वकं श्रीकृष्णे जारत्वं प्रत्यायितमायत्यामपि तथैव पुनस्तस्मिन् स्वाभाविकपतित्वप्रकाशमयसुखचमत्कारकरतादृश स्वरूपानुसन्धानं क्रियते इति भावः । आस्तां नित्यप्रेयसीनां तासां वार्ता । तत्सङ्गात्प्राप्तवतीनामन्यासामपि तस्मिन् रमणत्वमेव सिध्यति, न तु जारत्वम् । तदेव व्यञ्जितम् मत्कामा इत्यनेन ब्रह्म मां परमं प्रापुः इत्य् अनेन च परमब्रह्मणः सर्वांशित्वात्सर्वपातृत्वाच्च सर्वाधिपत्यम् एव सिध्यति न तु परत्वम् । तत्र च सति तासु तादृशमत्कामासु पतित्वम् एव स्यान्न जारत्वमित्यभिप्रायात् । तदुक्तं दत्तात्रयेणापि पारमार्थिक तद्विवेकश्लाघागर्भगुरुत्वेन मतया पिङ्गलया आत्मना रमणेन वै [भागवतम् ११.८.४०] इति, रेमेऽनेन यथा रमा [भागवतम् ११.८.३५] इति । रमादेव्या च स वै पतिः स्यादकुतोभयः स्वयं समन्ततः पाति भयातुरं जनम् [भागवतम् ५.१८.२०] इति । तस्माद्वास्तववस्तुन एव फलत्वपर्यवसानाज्जारबुद्ध्यापि प्राप्ते तस्मिन् रमणतया प्राप्तेरेव लालसाविषयत्वाच्च पतित्वमेव पर्यवस्यति । तदेवमेवोक्तं तमेव परमात्मानं जारबुद्ध्यापि सङ्गताः जहुर्गुणमयं देहं सद्यः प्रक्षीणबन्धनाः ॥ [भागवतम् १०.२९.११] अत्र जिघांसयापि हरये स्तनं दत्त्वाप सद्गतिम् [भागवतम् १०.६.३५] इति यथा विगीतार्थेन जिघांसयापदेन संसजन्नपिशब्दो जिघांसायास् तत्राप्रवर्तनीयत्वं व्यनक्ति, तथापि पुरुषार्थः सिद्ध इति विषयस्य शक्तिमेव स्थापयति, तथा विगीतार्थेन जारपदेन संसजनजारत्वस्य तथात्वं विषयस्य च तां गमयति रमणत्वं तु न तथा विगीतम्, प्रत्युत याः सम्पर्यचरन् प्रेम्णा पादसंवाहनादिभिः । जगद्गुरुं भर्तृबुद्ध्या तासां किं वर्ण्यते तपः ॥ [भागवतम् १०.९०.२७] इत्यादिना सुष्ठु स्तुतमेव न च आसामहो चरणरेणुजुषाम् [भागवतम् १०.४७.६१] इत्यादिना जारत्वमपि स्तुतं, किन्तु तासां राग एव स्तुतः । येन जारत्वेनाप्यसौ स्वीकृत इति । जारबुद्ध्या सहेति या जारवादिनः कल्पना सा (पगे ९९) त्वसत्यैव । अनर्हत्वाज्जारपदसंसक्तस्यापिशब्दस्यान्यथा प्रत्यायकत्वेन दर्शितत्वात् । सहपदसापेक्षत्वेन कष्टत्वात् । उपपद विभक्तेः कारकविभक्तिर्बलीयसी इति न्यायात् । साधकतमस्यान्यस्य कल्पनीयत्वाच्च । ते सर्वे स्त्रीत्वमापन्नाः समुद्भूताश्च गोकुले । हरिं सम्प्राप्य कामेन ततो मुक्ता भवार्णवात् ॥ इति पाद्मोत्तरखण्डश्रवणादेताः खलु तदापि न सिद्धदेहा इति पर्यवसीयते । ततश्च तस्य देहस्य पत्युश्च त्यागेन श्रीकृष्णप्राप्तौ परकीयात्वानुपपत्तिः । किमुत मायामात्रेण परकीयात्वेन प्रतीयमानानां नित्यप्रेयसीनाम् । एवमेव च स्वयं भगवतापि दर्शितं या मया क्रीडता रात्र्यां [भागवतम् १०.४७.३०] इत्यादिना । किन्तु जारपदमेतादृग् अश्लीलम् । यत्खलु जारतया भजन्तीभिरपि न जारं प्रतिवचन विषयीक्रियते । किन्तु रमणादिपदमेवेति तदभिधेयं कथमिव फलाय कल्पते । तदेवं जारमिति ब्रह्मेत्य्आद्यनूद्यवर्गान्तःपात्येव । किन्तु भ्रममयत्वान्निन्दितत्वाच्च जारत्वस्य हेयत्वम् । रमणमिति तु विधेयमिति यदुक्तम् । तत्खलु प्रकटलीलायां पूर्वस्य स्पष्टतया वर्णितत्वेन श्रोतरि प्रसिद्धत्वादुत्तरस्य तद्वदवर्णितत्वेनापि प्रसिद्धत्वादपि सिध्यति । प्रसिद्धत्वाप्रसिद्धत्वे एव तयोः प्रवृत्तिहेतुः ब्राह्मण्योऽयं पण्डितः इतिवत् । न च अनुवादमनुक्त्वा तु न विधेयम् उदीरयेतिति सर्वत्रोपलभ्यते । यस्य पर्णमयी जुहुर्भवति इत्यत्र वैपरीत्यदर्शनात्, अप्राप्ते हि शास्त्रमर्थवतिति न्यायेन च दध्ना जुहोति इत्यादिवदप्राप्ते रमणत्व एव तात्पर्यम् । न च पूर्वपूर्वप्रसिद्धे ब्रह्मत्वादिजारत्वपर्यन्ते अनधिगतार्थगन्तृप्रमाणमिति च वृद्धाः । किं च जारत्वस्य वास्तवत्वेऽश्लीलता दुर्निवारा । अवास्तवत्वे व्यभिचारित्वम् एवेति । सर्वथा तद्विधेयं न भवत्येव वेत्यलमतिविस्तरेण । अत्र ब्रह्मेत्येवोक्ते भगवन्तं, श्रुतनिर्विशेषब्रह्मवादस्य कस्यचित् सन्देहविषयो भवतीति परममित्युक्तम् । परममित्युक्ते श्रीकृष्ण रूपत्वं न प्रतीयते इति मामित्युक्तम् । मामित्येवोक्ते ब्रह्मत्वं परमत्वं च प्रमाणान्तरसापेक्षं भवतीति तत्तदुच्यते । तथा जारम् इत्येवोक्ते पर्यवसितं न सिध्यतिईति रमणमित्युक्तम् । रमणमित्येवोक्ते पूर्वप्रतीतत्वाद्रमणपदेनापि कथञ्चिज्जारत्वमेव लक्ष्येतेति तन् निरासार्थं जारमिति चानूद्यते । परमाभीष्टत्वादपि रमणत्वस्यैव विधेयत्वं, न तु जारत्वस्य । [एन्द्Vऋ. रेअदिन्ग्.] तथापि सर्वत्र पर्यवसाननिरुपद्रवेष्टप्राप्तिरेव खलु सिद्धान्त रसशास्त्रयोः सम्मतीः । प्राचीनैराधुनिकैश्च लौकिकालौकिअवर्णकैः कविभिस्तथैवोपाख्यायते । श्रीमद्अस्मद्उपजीव्यचरणैरपि ललित माधवेपूर्णमनोरथनामन्यङ्के तथैव समार्पितं तदेवोज्ज्वल नीलमणौ प्रमाणीकृत्य सर्वरसपूरकः समृद्धिमयः सम्भोग उदाहृतः । श्रीभगवता च यत्त्वहं भवतीनां वै [भागवतम् १०.४७.३४] इत्य् आदिना, या मया क्रीडता रात्र्याम् [भागवतम् १०.४७.३७] इत्याद्य्अन्तेन तथैवाभिप्रेतम् । जारभावमयः सङ्गमश्च सदैव सोपद्रवस् तस्मादसौ पर्यवसानपुरुषार्थत्वे तत्तच्छास्त्र (पगे १००) सम्मतो न स्यात् । तथा परकोटिसङ्ख्यानां निजपदाब्जदलैः [भागवतम् १०.३५.१६] इत्य् आदियुगले, कुजगतिं गमिता न विदामः कश्मलेन कवरं वसनं वा [भागवतम् १०.३५.१७] इति चेत्यादिरीतीनामुद्भटमहाभावानां तासां व्रजे भावसंगोपनं पूर्वमपि दुष्करमासीत् । महाविरहे तु जाते निवारयामः समुपेत्य माधवं किं नोऽकरिष्यन् कुल वृद्धबान्धवाः [भागवतम् १०.३९.२८] इति, विसृज्य लज्जां रुरुदुः स्म सुस्वरं गोविन्द दामोदर माधवेति [भागवतम् १०.३९.३१] चेति, ता मन्मनस्का मत्प्राणा मद्अर्थे त्यक्तदैहिकाः [भागवतम् १०.४६.४] इति, कृष्णदूते व्रजायाते उद्धवे त्यक्तलौकिकाः [भागवतम् १०.४७.९] इति, गतह्रियः [भागवतम् १०.४७.१०] इति, काचिन् मधुकरं दृष्ट्वा [भागवतम् १०.४७.११] इति, या दुस्त्यजं स्वजनमार्यपथं च हित्वा [भागवतम् १०.४७.६१] इति, गोप्यो हसन्त्यः पप्रच्छू रामदर्शनादृताः [भागवतम् १०.६५.९] इति, मातरं पितरं भ्रातॄन् पतीन् पुत्रान् स्वसॄनपि । यद्अर्थे जहिम दाशार्ह दुस्त्यजान् स्वजनान् प्रभो ॥ [भागवतम् १०.६५.११] इति च श्रूयते । अत्र निवारयाम इत्यादिकं यथा सङ्क्प्ते तथैव विसृज्य लज्जामित्य् आदिनाचरितम् । तासां लज्जात्यागः खलु भावव्यक्त्यैव स्यात्, सर्वेषां गोइकुलवासिनां रोदनादिसाम्यात् । ततस्तद्व्यक्तिपूर्वैकरोदनद्वारेण ताभिर्निवारणमपि योग्यमिति । एवं त्यक्तलौकिका इत्य्आदिषु च सुष्ठ्वेव भावव्यक्तिर्गम्यते । किं बहुना, मातरमित्यादौ मात्रादीन् जहिम इत्युक्तं न तु पूर्वरागवत् पतिसुतान्वयभ्रातृबान्धवानतिविलङ्घ्य [भागवतम् १०.३१.१६] इत्य्मात्रम् उक्तम् । गोप्यो हसन्त्य इति तून्मादलक्षणम् । तदानीं हासायोग्यत्वात्, यथैव काचिन्मधुकरं दृष्ट्वा इत्यादावुन्माद एव दृश्यते । तदेवं तदानीं तु दुर्धरमहाभावेनोन्मत्तचेष्टानां निरपत्रप व्यञ्जितभावानां त्यक्तमात्रादीनां तासामसङ्ख्यानां भावस्य संगोपनं नोपपद्यत एव । किन्तु ज्ञातोऽप्यसौ महाविरहपीडया स वैरज्ञात इव आसीत् । अनन्तरं त्वनुसन्दध एव । स तु भाव सङ्गोपनयैव कालकतिपयं स्वस्य रसतामावहति । व्यक्तत्वे तु स्वस्य परेषामपि सर्वत्र वस्तुतो धर्ममयत्वप्रतीतौ जातायामेवेति रस विदां मतम् । अधर्ममयत्वप्रतीत त्वश्लीलतया व्याहन्यत एव रसः । अधर्ममयत्वं च द्विधां परकीयात्वेन परस्पर्शेन च । तस्माद् यथैश्वर्यज्ञानमय्यां श्रीपरीक्षित्सभायामैश्वर्यज्ञानरीत्यैव तत्परिहृत्य रसावहत्वं समाहितम् । तथा लोकवल्लीलाकैवल्यावलम्बने प्रेममय्यां श्रीगोकुलसभायां लोकरीत्यैव समाधेयम् । तथा हि नासूयन् खलु कृष्णाय मोहितास्तस्य मायया । मन्यमानाः स्वपार्श्वस्थान् स्वान् स्वान् दारान् व्रजौकसः । [भागवतम् १०.३३.३७] इति यत्श्रूयते (पगे १०१) तच्चात्राप्यवश्यमेव सङ्गमनीयं तस्याप्य् असमर्थः । तस्य मायया मोहिताः सन्तो नासूयन् तस्य स्वनित्यप्रेयसी स्वीकारलक्षणे कथमसावस्मद्धामार्थसुहृतप्रियात्मतनय प्राणाशयजीवातुतमः परदारस्वीकारामङ्गलमङ्गीकरोतीति दोषारोपं नाकुर्वन्नित्यर्थः । मायामोहितत्वमेवाह मन्येति । स्वरूप सिद्धानां भगवद्दाराणामपरकर्तृकबलात्कारपरिहारार्थं तत् तद्आकारतया मायाकल्पिता ये स्वे स्वे दारास्तान् स्वपार्श्वस्थान् मन्यमानाः स्वमत्या निश्चिन्वाना इत्यर्थः । तदेवमन्तर्गृहगताः काश्चित्[भागवतम् १०.२९.९] इत्यत्रोक्तानामपि समाधानं ज्ञेयम् । परमसमर्थायास्तस्याः मायाया निजप्रभु प्रेयसीनां तद्एकानुरागस्वभावानां मर्यादारक्षणार्थं परिणयम् आरभ्य सदैव सावधानतायाः योग्यत्वात्तद्दिनमुपलक्षणमेवेति । [Vऋ. अद्द्स्] श्रूयते च कूर्मपुराणे द्वात्रिंशाध्यायस्यान्ते पति व्रतामात्रस्य परात्परिभवो न सम्भवतीति कैमुत्येन श्रीसीतादेव्य् उदाहृता पतिव्रताधर्मपरा रुद्राण्येव न संशयः । नास्यां पराभावं कर्तुं शक्नोतीह जनः क्वचित् ॥ यथा रामस्य सुभगा सीता त्रैलोकविश्रुता । पत्नी दाशरथेर्देवी विजिग्ये राक्षसेश्वरम् ॥ रामस्य भार्यां विमलां रावणो राक्षसेश्वरः । सीतां विशालनयनां चकमे कालचोदितः ॥ गृहीत्वा मायया वेशं चरन्तीं विजने वने । समाहर्तुं मतिं चक्रे तापसः किल भाविनीम् ॥ विज्ञाया सा च तद्भावं स्मृत्वा दाशरथिं पतिम् । जगाम शरणं वह्निमावसथ्यं शुचिस्मिता ॥ उपतस्थे महायोगं सर्वपापविनाशनम् । कृताञ्जली रामपत्नी साक्षात्पतिमिवाच्युतम् ॥ नमस्यामि महायोगं कृतान्तं गहनं परम् । दाहकं सर्वभूतानामीशानं कालरूपिणम् ॥ इत्यादि । इति वह्निं पूज्य जप्त्वा रामपत्नी यशस्विनी । ध्यायन्ती मनसा तस्थौ राममुन्मीलितेक्षणा ॥ अथाववस्थ्याद्भगवान् हव्यवाहो महेश्वरः । आविरासीत्सुदीप्तात्मा तेजसैव दहन्निव । सृष्ट्वा मायामयीं सीतां स रावणवधेच्छया ॥ सीतामादाय धर्मिष्ठां पावकोऽन्तरधीयत । तां दृष्ट्वा तादृशीं सीतां रावणो राक्षसेश्वरः । समादाय ययौ लङ्कां सागरान्तरसंस्ह्तिताम् । कृत्वा च रावणवधं रामो लक्षणसंयुतः । समादायाभवत्सीतां शङ्काकुलितमानसः । सा प्रत्ययाय भूतानां सीता मायामयी पुनः । विवेश पावकं दीप्तं ददाह ज्वलनोऽपि ताम् । दग्ध्वा मायामयीं सीतां भगवानुग्रदीधितिः । रामायादर्शयत्सीतां पावकोऽभूत्सुरप्रियः । प्रगृह्य भर्तुश्चरणौ कराभ्यां सा सुमध्यमा । चकार प्रणतिं भूमौ रामाय जनकात्मजा ॥ दृष्ट्वा हृष्टमना रामो विस्मयाकुललोचनः । ननाम वह्निं शिरसा तोषयामास राघवः ॥ उवाच वह्ने भगवन् किमेषा वरवर्णिनी । दग्ध्वा भगवता पूर्वं दृष्ट्या मत्पार्श्वमागता ॥ तमाह देवो लोकानां दाहको हव्यवाहनः । यथा वृत्तं दाशरथिं भूतानामेव सन्निधौ ॥ [Kऊर्मড়् ३२.५१३५३०] इत्य् आदि । एवमग्निपुराणमपि दृश्यम् । तदेवमपि यत्तु वाल्मीकिना नेदं स्पष्टीकृतं तत्खलु करुणरसपोषआर्थमेवेति गम्यते । सेयं च तस्य परिपाटी क्वचिदन्येनाप्युपजीव्यते इति ज्ञेयम् । तदेवं पतिव्रतामात्राणां विशेषतः श्रीभगवत्प्रेयस्या प्रभावे सति य एतस्मिन्महाभागे प्रीतिं कुर्वन्ति मानवाः । नारयोऽभिभवन्त्येतान् विष्णुपक्षानिवासुराः ॥ [भागवतम् १०.२६.२१] इति सामान्यविषये गर्गवचने च सति तादृशीनां भ्रमेऽपि तं नित्यकान्तं परित्यजन्तीनां नित्यं तत्कान्तं परिचरन्ती माया श्रीरामावसथ्याग्निवद् अपि किं रक्षां न कुर्वीत किन्तु तकीय लीलानाट्यरक्षार्थं [Vऋ अद्दितिओन् एन्द्स्हेरे.] तदेवं च तत्पतिंमन्यादिष्वेव विवाहादिशयनादिसमयेष्वेव च स्वरूपसिद्धा आवव्रिरे । अन्येषु चान्यदा च कल्पिता एवेति गम्यते । तावदेव च युक्तं तासु मर्यादारक्षणोत्कण्ठावर्धनैकप्रयोजनत्वात्तस्याः । (पगे १०२) यथैव हि तव सुतः सति यदाधरबिम्बे दत्तवेणुः [भागवतम् १०.३५.१४] इत्य् आदौ, शुश्रूषन्त्यः पतीन् काश्चित्[भागवतम् १०.२९.७] इत्यादौ, ता वार्यमाणाः पतिभिः [भागवतम् १०.२९.८] इत्यादौ च स्वरूपसिद्धानामेव दर्शनं तत्र तत्रावगतम् । एवमन्यत्राप्यवगम्यम् । तासामन्यकृत ध्वंसाभावस्य कारणं प्रभावश्च सम्भाव्यते य एतस्मिन्महाभागाः प्रीतिं कुर्वन्ति मानवाः । नारयोऽभिभवन्त्येतान् विष्णुपक्षानिवासुराः ॥ [भागवतम् १०.८.१८] इति कैमुत्यप्राप्तेः । अथ तासामपत्यश्रवणं च यातृमानिनीप्रभृतीनामपत्ये तद् व्यवहारात् । [Vऋ. ओमित्स्बेत्wएएन् यथैव हि अन्द्प्रभृतीनामपत्ये तद्व्यवहारात्: अथ तासामपत्यश्रवणं च यातृमानिनीप्रभृतीनापत्येषु तद्व्यवहारात् । साम्बलक्षणा प्रयानयने श्रीबलदेवमुद्दिश्य ससुतः सस्नुषः प्रायात्सुहृद्भिरभिनन्दितः इतिवत् । Eन्द्Vऋ. रेअदिन्ग्.] स्वापत्यत्वे सति विभाववैगुण्येन रसाभासत्वमापद्येत । ततश्च भजते तादृशीः क्रीडा याः श्रुत्वा तात्परो भवेत्[भागवतम् १०.३३.३६] इति, सिषेव इत्यादौ सर्वाः शरत्काव्यकथारसाश्रया [भागवतम् १०.३३.२६] इति च विरुध्यते । पर पुत्रत्वप्रतिपादनायैव हि पाययन्त्यः शिशून् पय इत्येवोक्तं न तु सुतान् स्तनमिति । अतएव मातरः पितरः पुत्रा भ्रातरः पतयश्च वः [भागवतम् १०.२९.२०] इति परिहासत्वेनैव श्रीभगवद्वाक्यं रसाय सम्पद्यते । वास्तवत्वेन तु वैरस्यायैव स्यात्, तासामङ्गीकरिष्यमाणत्वात् । क्वचित् ताभिरेव तेषु यत्पतिशब्दः प्रयुक्तस्तद्बहिर्लोकव्यवहारत एव नान्तर्दृष्टितः यत्पत्य्अपत्यसुहृदामनुवृत्तिरङ्ग [भागवतम् १०.२९.३२] इत्य् आदिना तद्अङ्गीकारात् । मामेव दयितं श्रेष्ठमात्मानं मनसा गताः [भागवतम् १०.४६.४] इति भगवता तासामन्तःकरणप्रकाशनात् । [Vऋ. अद्द्स्: परं सौख्यं हि नैराश्यं स्वैरिण्यप्याह पिङ्गला [भागवतम् १०.४७.४७] इत्यादिना ताभिः स्वेषां तद्एकनिष्ठताव्यञ्जनात् । Eन्द्Vऋ. रेअदिन्ग्.] गोप्यः किमाचरयदयमित्यादौ दामोदराधरसुधामपि गोपिकानां भुङ्क्ते स्वयम् [भागवतम् १०.२१.९] इत्यनेन अपि बत मधुपुर्यामार्य पुत्रोऽधुनास्ते [भागवतम् १०.४७.२१] इत्यनेन ताभिः स्वयमुक्तेश्च । तत एतद् उक्तं भवति रासपञ्चाध्याय्यां नासूयन् खलु कृष्णाय [भागवतम् १०.३३.३७] इत्य् उक्तदिशा, स वो हि स्वामी [ङ्टू २.२२] इत्य्ताः प्रति तापनीस्थितदुर्वाससो वाक्यवत् । कृष्णवध्व इत्य्उक्तरीत्या च याः खलु योगमायामुपाश्रित्य इति श्रवणात्तत्तद्अर्थभगवन्नियुक्तयोगमायाकल्पिताकल्पिततया योगमायैकविदिताः स्वतः परतश्च प्रच्छन्नद्विविधायमाना आसन्, तास् तु पश्चाद्योगमाययैव देव्या प्रापञ्चिताभ्यां मर्यादोत्कलिताभ्यां स्व पालितस्य रसपोषतरोः पर्यवसाननिरुपद्रवमहासुखप्राप्तिरूपाय फलाय मुन्य्आकाशादिवाण्य्आदिकं द्वारीकृत्य वा स्वयमेव प्रकटीभूय एव वा श्रीगोकुलवासिनः प्रति तथैव व्यक्तीकृताः, स्वरूपेण मामेव रमणं प्राप्ताः, नासूयन् खलु कृष्णाय इत्याद्य् उक्तासूयापरिहारस्य सम्यक्त्वाय तत्कल्पितास्तु स्वस्वपतिमित्येव श्री भगवन्तम् । दृश्यते च संज्ञाछायादिवत्कल्पनाया व्यक्तत्वमेव परिणामः सर्वत्र । तदित्थमेव मातापित्र्आदीनामभीष्टं सिध्यति ॥ [Vऋ. अद्द्स्हेरे: तस्मिन्नेव तेषां वात्सल्यस्य विश्रान्तेः । न च दाम्पत्ये प्रकटे बहु वार्यते यतः खलु यत्र प्रच्छन्नकामुकत्वं च । या च मिथो दुर्लभता सा परमा मन्मथस्य रतिः ॥ [ऊण्१.२०] इति भरतानुसृतनिवारणाद्य्अभावाद्रसनिष्पत्तिर्न स्यादिति वाच्यम् । तस्य निवारणं खलु न भयदानेन भवेत्सर्वातिशायिसामर्थ्यात्, किन्तु लज्जादानेनैव । लज्जा तु कुलीनकुमाराणां स्वस्त्रीगतरहस्यविहार विशेषस्य परेणानुमितावपि जायते, किमुत यत्र ह्रीः श्रीः स्थिता तत्र यत्र श्रीस्तत्र सन्नतिः । सन्नतिर्ह्रीस्तथा श्रीश्च नित्यं कृष्णे महात्मनि ॥ [ःV २.१०१.७३ (९६.७२)] इति हरिवंशाद्य्उक्तानुसारेण परमलज्जादिगुणनिधानस्य व्रजे नव वयः श्रीलतामेवाभिव्यञ्जतस्तस्य सिद्धे च लज्जालुत्वे स्वयमेव निवारणादित्रयं सिध्यति । किन्तु लज्जा द्विविधा सङ्गोप्य न्याय्यकर्मणि सङ्कोचमात्रकरी, अन्याय्यकर्मणि न्यक्कारकरी च । अत्र पूर्वाव्याजान्तराच्छन्ना नातिविरोधिनी उत्तरा यशः प्रियेण तेन कृत्तेऽपि व्याजे तस्यानुमितिश्चेद्द्विगुणीभूय विरोधिनी । तदेवं सति गोपनारीभिरनिशं क्रीडयामास केशवः [ড়द्मড়् ६.२५२.२६] श्रुतानिशक्रीडा पारदार्ये सर्वथा न सम्भवति, स्वदारत्वे तु तासाम् असङ्ख्यानां स्वस्वरूपपत्य्अप्राप्ता जातपरमदुःखानां गुरुभिरपि सम्मतः सान्त्वनादिरूपो य आवश्यकधर्मस्तद्विधव्याजेन सम्भवति । यच्च रम्यकेलिसुखेनैव गोपवेशधरः प्रभुः । बहुप्रेमरसेनात्र मासद्वयमुवास ह ॥ इत्येतत्पद्यं तद्अनन्तरं च सर्वेषां मनोरमत्वं बहुप्रेमरस प्रदत्वं च इत्थमेव सङ्गच्छते इति । न च गोपनारीभिरिति परदारत्वं शब्दलब्धम् । देवहुत्यां सा त्वं ब्रह्मन्नृपवधूरिति कर्दमं प्रति भगवद्वाक्याज्जात्य्अपेक्षयापि सम्भवात् । न च निवारणादिभिरौपपत्यमेव भरतमतं रत्नावलीनाटिकायां ययातिचरितादिवद्दाम्पत्येऽपि सम्भवात् । नेष्टा यदङ्गिनि रसे कविभिर् परोढा [ऊण्५.३] इति विरोधात् । तदेवं गूढतया मायया प्रणीतानां रमणतया तस्य प्राप्तौ मत्कामा रमणमिति पद्यं योजितम् । नन्दगोपसुतं देवि पतिं मे कुरु ते नमः इति कृतजपानां कुमारीत्वेन प्रसिद्धानां परासामपि सङ्कल्पसिद्धिर् एव श्रीभगवता कृता । तत्रैव हि स्वयमङ्गीकृतं याताबला व्रजं सिद्धाः इति । तदेतत्पक्षेऽपि पूर्ववदेव गुप्तपतित्वाज्जारमिव जारमिति सङ्गमनीयम् । तस्माच्च श्रीगोपालोत्तरतापन्यां ताः प्रति दुर्वाससा यद् उक्तं तदेव निगमनीयं जन्मजराभ्यां भिन्नं स्थाणुरयमित्यादौ स वो हि स्वामी भवति इति । [एन्द्Vऋ. अद्दितिओन्.] ॥ ११.१२ ॥ श्रीभगवानुद्धवम् ॥ १७५१७७ ॥ (पगे १०३) [१७८] पूर्वोक्त एवाप्रकटलीलाप्रवेशप्रकटलीलाविष्काररूपोऽर्थस्तद् अनन्तरप्रश्नोत्तराभ्यामप्यभिप्रेतोऽस्ति । प्रश्नस्तावत्श्र्युद्धव उवाच संशयः शृण्वतो वाचं तव योगेश्वरेश्वर । न निवर्तत आत्मस्थो येन भ्राम्यति मे मनः ॥ [भागवतम् ११.१२.१६] तव वाचं शृण्वतोऽवधारयतोऽपि ममात्मस्थः संशयो मयोदितेष्ववहित इत्यादिकाध्यायत्रयगतमहावाक्यार्थपर्यालोचनासामर्थ्यं न निवर्तते । कुतः ? येन यत एव रामेण सार्धं मथुरां प्रणीते [भागवतम् ११.१२.१०] इत्यादि लक्षणात्तव वाक्यान्मम मनो भ्राम्यति । हन्त तासाम् अनेन सङ्गमः कुत्र कथं विद्यते इति चिन्तया न स्वस्थं वर्तते इत्य् अर्थः । [१७९] तथोत्तरं तत्र तस्य संशयमपनेतुं द्वाभ्यां तावत्तच्चित्तं स्वस्थयन् श्रीभगवानुवाच स एष जीवो विवरप्रसूतिः प्राणेन घोषेण गुहां प्रविष्टः । मनोमयं सूक्ष्ममुपेत्य रूपं मात्रा स्वरो वर्ण इति स्थविष्ठः ॥ [भागवतम् ११.१२.१७] स एव मल्लक्षणो जीवो जगतो जीवनहेतुः विशेषतो व्रजस्य जीवनहेतुर्वा परमेश्वरः प्राणेन मत्प्राणतुल्येन घोषेण व्रजेन सह विवर प्रसूतिर्विवरादप्रकटलीलातः प्रसूतिः प्रकटलीलायामभिव्यक्तिर्यस्य तथाभूतः सन् पुनर्गुहामप्रकटलीलामेव प्रविष्टः । (पगे १०४) कीदृशः सन् ? किं कृत्वा ? मात्रा मम चक्षुर्आदीनि स्वरो भाषागानादि वर्णो रूपमिति इत्थं स्थविष्टः स्वपरिजनानां प्रकट एव सनन्येषां सूक्ष्ममदृश्यं बहिरङ्गभक्तानां च मनोमयं कथञ्चिन्मनस्येव गम्यं यद्रूपं प्रकाशस्तदुपेत्य । [१८०] प्रकटलीलाविष्कारं च सदृष्टान्तं स्पष्टयति यथानलः खेऽनिलबन्धुरुष्मा बलेन दारुण्यधिमथ्यमानः । अणुः प्रजातो हविषा समेधते तथैव मे व्यक्तिरियं हि वाणी ॥ [भागवतम् ११.१२.१८] दृष्टान्तोऽयं गर्भादिक्रमेणाविर्भावमात्रांशे । तृतीयेऽपि तदुक्तं श्रीमद्उद्धवेनैव अजोऽपि जातो भगवान् यथाग्निः [भागवतम् ३.२.१५] इति । व्यक्तिराविर्भावः । हि यस्मादियं स्वरहस्यैकविज्ञस्य ममैव वाणी, नात्रासम्भावना विधेयेत्यर्थः । ततश्चानन्तरं वक्ष्यमाण एवं गदिर् [भागवतम् ११.१२.१९] इत्यादि ग्रन्थस्तु संशयापत्तोदने व्याख्येयः । एवं पूर्वोक्तवाक्यस्यैवार्थभेदेन गदिर्लौकिकभाषणमिति ज्ञेयम् । तस्याप्युत्पत्तिर्ज्ञेयेत्यर्थः । स च सतात्पर्यकोऽर्थभेदष्टीकायामेव दृश्यते इति ॥ ॥ ११.१२ ॥ श्रीशुकः ॥ १७९१८० ॥ [१८१] तदेवं श्रीमद्भागवते पुनर्व्रजागमनादिरूपोऽयमर्थो बहुधा लब्धोऽपि पाद्मोत्तरखण्डवद्यन्न स्पष्टतया वर्णितस्तत्खलु निजेष्टदेवत्वस्य बहिर्मुखान् प्रत्याच्छादनेच्छया अन्तर्मुखान् प्रत्युत्कण्ठावर्धनेच्छयेति गम्यते । अतएवोक्तम् परोक्षवादा ऋषयः परोक्षं च मम प्रियम् [भागवतम् ११.२१.३५] इति । यदेतत्तु मया क्षुद्रेण तरलायितं क्षमतां तत्क्षमाशीलः श्रीमान् गोकुलवल्लभः । तदेतत्श्रीलवृन्दावने लीलाद्वयस्य मिलनं सावसरमेव प्रस्तुतम् । द्वारकायां तु प्रसिद्धमेव । तत्र मौषलादिलीला मायिक्येवेति पूर्वम् एव दर्शितम् । वस्तुतस्तु द्वारकायामेव सपरिकरस्य श्रीभगवतो निगूढतया स्थितिर्यादवानां च नित्यपरिकरत्वात्तत्त्यागेन स्वयं भगवत एवान्तर्धाने तैरतिक्षोभेणोन्मत्तचेष्टैरुपमर्दिता पृथिव्य् एव नश्येदिति प्रथमं तेषामन्तर्धापनम् । अतएवोक्तम् भूभारराजपृतना यदुभिर्निरस्य गुप्तैः स्वबाहुभिरचिन्तयदप्रमेयः । मन्येऽवनेर्ननु गतोऽप्यगतं हि भारं यद्यादवं कुलमहो अविषह्यमास्ते ॥ [भागवतम् ११.१.३] इति । अत्र तेषामधार्मिकतया तु पृथिवीभारत्वं न मन्तव्यम् । ब्रह्मण्यानां वदान्यानां नित्यं वृद्धोपसेविनाम् । विप्रशापः कथमभूद्वृष्णीनां कृष्णचेतसाम् ॥ [भागवतम् ११.१.८] इत्यादौ शय्यासनाटनालाप क्रीडास्नानादिकर्मसु । न विदुः सन्तमात्मानं वृष्णयः कृष्णचेतसः ॥ [भागवतम् १०.९०.४६] इत्यादौ च परमसाधुत्व प्रसिद्धेः । पृथ्वीभारश्च व्यक्तिबाहुल्यमात्रेण नेष्यते । पर्वतसमुद्रादीनाम् अनन्तानां विद्यमानत्वात् । तथा न वस्तव्यम् [भागवतम् ११.७.५] इत्यादि भगवद् वाक्यस्य तात्पर्यमिदम् । माययापि यदूनां तादृशत्वदर्शनं ममानन्दवैभवधाम्नि मदीयजनसुखदमद्विलासैकनिधौ द्वारकायां नोचितं, प्रभासे तु तत्तद्योगादुचितमिति । अथ च जिजीविषुभिः [भागवतम् ११.६.३४] इत्युक्त्वा वृजिनानि तरिष्यामः [भागवतम् ११.६.३८] इति चोक्त्वा वस्तुतस्तु तेषां तादृशत्वं न भविष्यतीत्येवोक्तम् । (पगे १०५) तत्र चास्माभिः इति वयमिति चोक्त्वा स्वेनैक्यसूचनया स्वात्मवद् अन्यथाभावत्वमेकगतित्वं व्यञ्जितमिति । तदेवं स्थिते तैः साकं श्रीभगवतो द्वारकायामेव नित्यां स्थितिमाह द्वारकां हरिणा त्यक्तां समुद्रोऽप्लावयत्क्षणात् । वर्जयित्वा महाराज श्रीमद्भगवद्आलयम् ॥ नित्यं सन्निहितस्तत्र भगवान्मधुसूदनः । स्मृत्याशेषाशुभहरं सर्वमङ्गलमङ्गलम् ॥ [भागवतम् ११.३१.२३२४] लोकदृष्ट्यैव हरिणा त्यक्तामत्यक्तामिति वा, नित्यं सन्निहित इति वक्ष्यमाणत्वात् । ततश्चोभयथाप्याप्लावनं परितो जलेन परिखावद् आवरणं तज्जलमज्जनं च समुद्रेणैव श्रीभगवद्आज्ञया त्यक्त भूमिलक्षणस्य हस्तिनापुरप्रस्थापितबहिर्जनगृहाद्य्अधिष्ठान बहिर्आवरणस्यैव । तथा रचनं विश्वकर्मणा तस्यैव प्रकटलीलायाः प्रापञ्चिकमिश्रत्वात् । अतः सुधर्मादीनां स्वर्गादागमनं च युज्यते । अप्रकटलीलायां ततोऽपि दिव्यतरं सभान्तरादिकमपि स्यात् । श्रीमान् यादवादिगृहवृन्दलक्षणशोभोपशोभावान् यो भगवद्आलयस्तं वर्जयित्वा । तदेवमद्यापि समुद्रमध्ये कदाचिदसौ दूरतः किञ्चिद् दृश्यते इति तत्रत्यानां महती प्रसिद्धिः । अत्र महाराजेति सम्बोधनं दृष्टान्तगर्भम् । यद्वा महान्तो राजानो यादवलक्षणा यत्र तथाभूतं तद्आलयं श्रीकृष्णनित्यधामरूपं द्वारकापुरम् । न केवलं पुरमात्रास्तित्वं तत्र च श्रीमति भगवद्आलये मधुसूदनः श्रीकृष्णो नित्यमेव सन्निहितः । अर्थात्तत्रत्यानां किं वा न तत्र सन्निहितः । भगवान् यादवादिलक्षणाखिलनिजैश्वर्यवानेव । तद्आलयमेव विशिनष्टि स्मृत्येति । साक्षादधुना व्यक्ततद् दर्शनाभावात्स्मृत्येत्युक्तम् । यः स्वयमेवम्भूतस्तस्य त्वन्यथा सम्भावितत्वमपि नास्तीति । एवमेव विष्णुपुराणे प्लावयामास तां शून्यां द्वारकां च महोदधिः । नित्यं सन्निहितस्तत्र भगवान् केशवो यतः ॥ तदतीव महापुण्यं सर्वपापप्रणाशनम् । विष्णुक्रीडान्वितं स्थानं दृष्ट्वा पापात्प्रमुच्यते ॥ [Vइড়् ५.३८.९१०] इति । [Vऋ. अद्द्स्हेरे: तथैव श्रीहरिवंशे यादवान् प्रतीन्द्रप्रेषितस्य नारदस्य वाक्यम् कृष्णो भोगवतीं रम्यामृषिकान्तां महायशाः । द्वारकामात्मसात्कृत्वा समुद्रं गमयिष्यति ॥ [ःV २.१०२.३२] इत्यत्र आत्मसात्कृत्वा इति न तु त्यक्त्वेति । Vऋ. अद्दितिओनेन्द्स्.] ॥ ११.३१ ॥ श्रीशुकः ॥ १८१ ॥ [१८२] तदेवमप्रकटप्रकटलीलयोः समन्वयो दर्शितः । एते एव पाद्मोत्तर खण्डे भोगलीलाशब्दाभ्यामुच्येते भोगे नित्यस्थितिस्तस्य लीलां संहरते कदा [भागवतम् ६.२२६.९] इत्यादिना । यां कदाचित्संहरते सा लीलेत्य् अर्थः । तत्र प्रकटलीलागतभावस्य विरहसंयोगादिलीलावैचित्रीभर वाहित्वेन बलवत्तरत्वातुभयलीलैकीभावानन्तरमपि तन्मयस्तेषाम् अभिमानोऽनुवर्तते एव । तत्रैश्वर्यज्ञानसंवलितभावानां श्री यादवानां स तावन्नूनमेवं सम्भवति । अहो सर्वदैवान्यजीवातूनाम् अस्माकमीशिता श्रीकृष्णाख्यो भगवानयं नानालीलामृतनिर्झरैः सान्द्रानन्दचमत्कारमास्वादयितुं यादवशिखामणेर्नित्यमेव पितृ भावसमृद्धस्य श्रीमद्आनकदुन्दुभेर्गृहे स्वजन्मना स्वान् स्वान् अलंचकार । ततश्च साधितास्मद्आनन्दसत्रप्रधानविविधकार्यः परमबान्धवोऽसौ परमेश्वरस्तत्तद्रूपानेवास्मान् पुनर् ब्रह्माद्यैरपि दुरधिगमे श्रीमथुरानाम्नि श्रीद्वारकानाम्नि वा परमधाम्नि नानामाधुरीधुरीणाभिरात्मलीलाभिरनुशीलित एव (पगे १०६) विभ्राजते इति । सोऽयमभिमानः श्रीवृन्दावने तु निजनिज सम्बन्धसन्धायकप्रेमैकानुसारिणां श्रीव्रजवासिनां नूनमेव समुज्जृम्भते अहोयोऽसौ गोकुलकुलभागधेयपुञ्जमञ्जुलप्रकाशो मादृशां दृशां जीवनसञ्चयनिर्मञ्छनीयपादलाञ्छनलेशो वाञ्छातीतसुखसन्ततिसन्तानको महावनव्रजमहाखनिजनिनीनील मणिराविरासीत् । योऽसौ दुष्टभोजराजविसृष्टैः पूतनादिग्रहसमूहैर् उपरकोऽपि मुहुरनुकूलेन विधिना तेषां स्वयमेव विनाशपूर्वकं चकोरेभ्यः चन्द्रमा इवास्मभ्यं वितीर्ण एवासीत् । योऽसौ तादृशतदीय महागुणगणादेव परितुष्यद्भिर्मुनिदेवैरिव दत्तेन केनापि प्रभावेण मुहुरपि विपद्गणादात्मक्लेशमगणयन्नेव नः परित्रातवान् । योऽसौ निजशीललावण्यरूपगुणविलासकेलिविनिगूढ सौहृद्यप्रकटनचातुरीगुम्फितमाधुरीभिरस्मान् सुस्ठु पुष्टांश् चकार । योऽसौ लघुनापि गुणाभासेनास्माकमानन्दसन्दोहम् अभिविन्दमानो यद्यदपि मादृशामभिलषितं तद्अतीता वा तत्तदपि प्रतिलवमप्याश्चर्यभूतं निजमाधुर्यवर्यमुल्लासितवान् । योऽसौ सकलसाधुजनावनाय विख्यापितयादवसम्बन्धस्तद्द्वारा स्वयम् अपि च राजन्यासुरसङ्घसंहरणाय यदुपुरीं प्रस्थितवान् । योऽसौ कार्यानुरोधेन तत्रैव चिराय तिष्ठत आत्मनो विप्रयोगेन सतप्तबुद्धीन् उद्धवादिभिरस्मानसकृदाश्वासयामास । योऽसौ पुनर्उत्कण्ठाकोटि समाकृष्टमूर्तिभिस्तीर्थव्रज्याव्याजेन कुरुक्षेत्रप्रगतैरस्माभिः श्वासमात्रावशिष्टैरिवामृतवारिधिरूपलब्धो बभूव । योऽसौ तथाविधानस्मानात्मसन्निधौ मासकतिपयं संवास्य परम स्वजनया मुधैव कृताभिमानेभ्यो यादवेभ्यो निगूढां कामपि स्नेह मुद्रामस्मासु समुद्घटय्य भवतामेवाहमिति व्यञ्जनया मुहुर् एवास्मानभितः सन्धुक्षितवान् । योऽसौ श्रीवृन्दावनमेवास्माकम् आत्मनोऽपि परममभीष्टमिति निष्टङ्क्य शपथादिना निजझटित्य् आगमने विस्रभ्य साग्रहमस्मानत्रैव प्रस्थापितवान् । सोऽयमहो अकृतापरकर्तव्यशेष एवास्मान्निजागमनं विना समारब्धप्राणकोटि मोचनव्यवसायानाशङ्क्य झटिति स्वयमेव गोकुलं साम्प्रतमागम्य निजविरहकालव्यालमुखान्निष्कास्य च स्वावलोकनामृतपूरेण सिञ्चन्न् एवास्ते । तत्र च प्रतिक्षणमपि नवनवीकृतेनानन्यसाधारणेन केनापि स्नेह सन्दोहमयेन केवलेन निजस्वभावविशेषेण तत्रापि निजसौन्दर्य वर्यामृतपूरप्रपाचयचयनेन, तत्रापि विविधपुष्पादिविभूषणपर भागपराभोगेन, तत्रापि विलासमाधुरीधुराविशेषाधानेन, तत्रापि विचित्रगुणगणोल्लासचमत्कारविद्याविनोदेन, तत्रापि गोपालन गवाकारणबाल्यक्रीडनमोहनमन्त्रायितमुरलीवादनादिविभ्रमेण, तत्रापि गोकुलनिर्गमनप्रवेशादिलीलाचातुरीमाधुर्याडम्बरेण, तत्रापि सुहृदां यथायथमनुसन्तर्पणकेलिकलाविशेषप्रकाशित स्नेहातिशयेनास्मानुपलालयन्नेवास्ते । तेन वयमहो समयगमनागमनमपि सम्भालयितुं न पारयाम इति । एतद्अनुसारेण द्वारकातः समागते श्रीकृष्णे केषाञ्चिद्व्रजवासिनामेव तदानीन्तनमुल्लासवचनं जयति जननिवास [भागवतम् १०.९०.४८] इत्य्आदिकं श्री शुकमुखादाविर्भूतमिति व्रजैकान्तभक्ता व्याचक्षन्ते । अक्लेशेनैवार्थविशेषस्फूर्तेः । सम्भवति च श्रीभागवतस्य विचित्रार्थत्वं, विद्वत्कामधेनुरूपत्वात् । तथा हि जयति इत्यादि । कोऽपि सोऽयमस्माकं जीवनकोटिप्रियतमो विष्वक्प्रचारेण श्री वृन्दावनस्यैव (पगे १०७) विशेषतः स्थावराणां जङ्गमानां च तद् विरहाद्यद्दुःखं तन्निहन्ता जयति सर्वोत्कर्षेण वर्तते । अर्थाच्छ्री वृन्दावन एव । श्रीवृन्दावनस्य स्थावराणामपि भावो वर्णित एव, केवलेनैव भावेन इत्यादिना । केन विशिष्टः ? सुस्मितेन श्रीमुखेन । एतेन सदातनमानन्दैकरसत्वं स्वेषु सदैव सुप्रसन्नत्वं च तस्य प्रकाशितम् । किं कुर्वन् ? व्रजरूपं यत्पुरं तत्सम्बन्धिन्यो या वनिता जनितानुरागाः कुलवध्वस्तासां कामदेवं सर्व प्रेमानन्दोपरिविराजमानत्वात्तासां कामस्तु देवः परमदिव्यरूपस् तं वर्धयन् । ननु श्रीदेवक्याः पुत्रोऽयमित्येवं वदन्ति, तत्कथं युस्माकम् अत्रास्मदीयत्वेनाभिमानः ? तत्राह देवक्यां जन्मेति वादो मिथ्यैव लोक ख्यातिर्यस्य सः । तर्हि कथं वासुदेव इति नामेत्याशङ्क्याह जननिवासो जनानां स्वजनानामस्माकं निवासत्वादाश्रयत्वादेव तथाभिधीयत इत्यर्थः । स्वजनेष्वस्मासु कृतवासत्वादेव वा । ततश्चाधिकरणे कर्तरि वौणादिको वासुः । स च दीव्यति क्रीडतीति देवश्च स इति विग्रहः । प्रागयं वासुदेवस्य [भागवतम् १०.८.१४] इत्यादिका श्रीगर्गोक्तिरपि नास्मभ्यं भातीति भावः । किमर्थमसौ देवकीजन्मवादोऽभूदित्याशङ्कायामाह यदुवराः परिषत्सहायरूपा यत्र तादृशं यथा स्यात्तथा, स्वैर्दोर्भिर् भुजप्रायैरर्जुनादिभिरधर्मं तत्प्रचुरं दुष्टकुलमस्यन् निहन्तुं, लक्षणहेत्वोः, क्रियायाः शतृप्रत्ययस्मरणात् । तस्यामात्म जन्मनि ख्यापिते ते ते सहाया भविष्यन्तीत्येवमनुसन्धायेत्यर्थः । तथोक्तं कंसवधानन्तरं श्रीकृष्णेन श्रीव्रजेश्वरं प्रति ज्ञातीन् वो द्रष्टुमेष्यामो विधाय सुहृदां सुखम् [भागवतम् १०.४५.२३] इति । अत्र विशेषेणेनैव श्रीकृष्णरूपविशेष्यपदमुपस्थाप्यते अयमुदयति मुद्राभञ्जनः पद्मिनीनामितिवत् ॥ ॥ १०.९० ॥ श्रीशुकः ॥ १८२ ॥ [१८३] अथ तेषां तेन परमानन्देन समयाननुसन्धानमप्युक्तं व्रजति न हि यत्रापि समयः [Bरह्मष्५.५६] इति । अतस्तेषां श्रीकृष्णागमन परमानन्दमत्तानामद्यैवायमागत इतीव सदा हृदि वर्तते । [Vऋ. अद्द्स्हेरे:] स एष यद्वदप्रकटस्वारसिक्यां प्रकटलीलागतभाव प्रवेशस्तथा तद्वैभवरूपासु मन्त्रोपासनामयीष्वपि स्वस्व प्राक्तनतद्भावप्रवेशो ज्ञेयः । गङ्गाया भावस्तदीयह्रदश्रेणीष्व् एव । उभयत्राप्यसौ समान एव दर्शितः । पाद्मपातालखण्डे गोगोप गोपिकासङ्गे यत्र क्रीडति कंसहा इति गोविन्द गोपीजनवल्लभेश कंसासुरघ्न इत्याभ्याम् । एवं यथा स्वारसिक्यामिव मन्त्रमय्यामपि नन्दनन्दनत्वमनुगच्छेदेवं श्रूयते सकललोकमङ्गलो नन्द गोपतनयो देवता इत्यत्र गौतमीयतन्त्रे द्वितीयाध्याये नन्दनन्दन इत्युक्तः इत्यत्र च । [Vऋ. अद्दितिओनेन्द्स्.] तदेवं प्रकटलीलागतभावविशेषस्याप्रकटलीलायां प्रवेशाद्बहिर् अन्तर्धानलीलाद्वितीयस्यैक्यं वर्णितम् । तत्र यद्यपि पूर्वपूर्वमपि तादृशभावस्तेषामनादित एवानुवर्तते तथापि तमेव नवनवीकृत्य समुद्दीपयितुं पुनः पुनरवतार इति ज्ञेयम् । तदेवं श्रीकृष्णस्य स्वयं भगवत्त्वं दर्शितम् । तत्रापि श्रीगोकुले तत् प्रकाशातिशयो दृश्यते । स चैश्वर्यगतस्तावत्सत्यज्ञानानन्तानन्दरस मात्रैकमूर्तिब्रह्माण्डकोटीश्वरदर्शनादौ । कारुण्यगतश्च पूतनाया अपि साक्षान्मातृगतिदाने । माधुर्यगतश्च । व्रजस्त्रियो यद्वाञ्छन्ति पुलिन्द्यस्तृणवीरुधः । गावश्चारयतो गोपाः पादस्पर्शं (पगे १०८) महात्मनः ॥ [भागवतम् १०.८३.४३] इति श्रीपट्टमहिषीप्रार्थनादौ । अत्र स्थितेऽपि सर्वतोऽपि प्रेमवरीयसीनां तासां तत्पादस्पर्शसौभाग्ये तन्माधुर्यप्रकाशातिशयवैशिष्ट्याभिप्रायेणैव तथोक्तिः सङ्गच्छते । तथैव चोक्तं त्रैलोक्यसौभगमिदं च निरीक्ष्य रूपं यद्गोद्विजद्रुममृगान् पुलकान्यबिभ्रत् ॥ [भागवतम् १०.२९.४०] इत्यादिषु । अतो लीलागतश्चासौ श्लाघ्यते पितरौ नान्वविन्देतां कृष्णोदारार्भके हितम् [भागवतम् १०.८.४७] इत्यादिषु । अतस्तदीयानामप्युत्कर्ष उक्तः वृन्दावनं गोवर्धनं यमुनापुलिनानि च [भागवतम् १०.११.३६] वीक्ष्यामीत्यादौ । ततः परिकराणां तु अहो भाग्यमहो भाग्यम् [भागवतम् १०.१४.३२] इत्यादौ । इत्थं सताम् [भागवतम् १०.१२.११] इत्यादौ, नन्दः किमकरोत्[भागवतम् १०.८.४३] इत्यादौ, एताः परम् [भागवतम् १०.४७.५१] इत्यादौ, गोप्यस्तपः किमचरन् [भागवतम् १०.४४.१४] इत्य् आदौ । तत्रापि तत्रातिशुशुभे ताभिः [भागवतम् १०.३३.६] इत्यादौ च तासु प्रकाशातिशयसीमा दर्शिता । ततः सर्वास्वपि तासु अनयाराधितो नूनं भगवान् हरिरीश्वरः [भागवतम् १०.३०.२८] इत्यादिभिः । प्रेमवरीयस्त्वेन प्रसिद्धायां श्रीराधिकायां तु किमुतेति ज्ञेयम् । अत्र चेदं तत्त्वम् । द्वितीये सन्दर्भे खलु परमत्वेन श्रीभगवन्तं निरूप्य तस्य शक्ति द्वयी निरूपिता । तत्र प्रथमा श्रीवैष्णवानां श्रीभगवद्उपास्या तदीयस्वरूपभूता यन्मय्येव खलु तस्य सा भगवत्ता । द्वितीया चाथ तेषां जगद्वद्उपेक्षणीया मायालक्षणा, यन्मय्येव खलु तस्य जगत्ता । तत्र पूर्वस्यां शक्तौ शक्तिमति भगवच्छब्दवल्लक्ष्मीशब्दः प्रयुज्यत इत्यपि द्वितीय एव दर्शितम् । ततोऽस्मिन् सन्दर्भे तु स च भगवान् श्रीकृष्णाख्य एवेति निर्धारिते तदीया स्वरूपशक्तिस्तु किमाख्येति निर्धार्यम् । तत्र द्वयोरपि पुर्योः श्रीमहिसाख्या ज्ञेया । मथुरायाम् अप्यप्रकटलीलायां श्रुतौ रुक्मिण्याः प्रसिद्धेरन्यासामुपलक्षणात् । श्रीमहिषीणां तदीयस्वरूपशक्तित्वं स्कान्दप्रभासखण्डे श्रीशिव गौरीसंवादे गोप्यादित्यमाहात्म्ये दृष्टम् पुरा कृष्णो महातेजा यदा प्रभासमागतः । सहितो यादवैः सर्वैः षट्पञ्चाशत्प्रकोटिभिः ॥ षोडशैव सहस्राणि गोप्यस्तत्र समागताः । लक्षमेकं तथा षष्ठिरेते कृष्णसुताः प्रिये ॥ इत्युपक्रम्य, ततो गोप्यो महादेवि विद्यायाः षोडश स्मृताः । तासां नामानि ते वक्ष्ये तानि ह्येकमनाः शृणु ॥ लम्बिनी चन्द्रिका कान्ता क्रूरा शान्ता महोदया । भीषणी नन्दिनी शोका सुपूर्वविमला क्षया ॥ शुभदा शोभना पुण्या हंसस्यैताः कला क्रमात् । हंस एव मतः कृष्णः परमात्मा जनार्दनः ॥ तस्यैताः शक्तयो देवि षोडशैव प्रकीर्तिताः । चन्द्ररूपी मतः कृष्णः कलारूपास्तु ताः स्मृताः ॥ सम्पूर्णमण्डला तासां मालिनी षोडशी कला । प्रतिपत्तिथिमारभ्य सञ्चरत्यासु चन्द्रमाः ॥ षोडशैव कला यास्तु गोपीरूपा वराणने । एकैकशस्ताः सम्भिन्नाः सहस्रेण पृथक्पृथक् ॥ एवं ते कथितं देवि रहस्यं ज्ञानसम्भवम् । य एवं वेद पुरुषः स ज्ञेयो वैष्णवो बुधैः ॥ [१०८.५८, १०१६] इति । अत्र गोप्यो राज्ञ्यः इत्यर्थः । गोपो भूपेऽपि इति नामलिङ्गानुशासनात् । लम्बिनी अवतारशक्तिः । सुपूर्वविमला सुविमला । हंसशीतेत्यत्र प्राप्तस्य हंसयेत्यस्य वाच्यमाह हंस एवेति । स च चन्द्ररूपी चन्द्र दृष्टान्तेनोद्देश्य इत्यर्थः । कलारूपा इति ताश्च शक्तयश्च चन्द्रस्यामृतेत्यादिकलादृष्टान्तेनोद्देश्या इत्यर्थः । अनुक्तामन्तिमां महाशक्तिमाह सम्पूर्णेति । सेयं तु (पगे १०९) कलासमष्टिरूपा ज्ञेया । दृष्टान्तोपपादनाय चन्द्रस्य तादृशत्वमाह प्रतिपदिति । आसु एतत्तुल्यासु कलासु । विवक्षितमाह षोडशैवेति षोडशानामेव विद्यारूपत्वात् । एतद् उपदेशस्य ज्ञानसम्भवरहस्यत्वात् । तज्ज्ञानस्य वैष्णवतानुमापक लिङ्गत्वाच्च । क्रूराभीषणीशोकानामपि भगवत्स्वरूपभूतानामेव सतीनां मल्लानामशनिः [भागवतम् १०.४७१७] इतिवत्श्रीकृष्णस्य कठिनत्व प्रत्यायकत्वात् । मृत्युर्भोजपतेरितिवद्दुर्जनवित्रासकत्वात्, असतां शास्ता इतिवत्तदीयशोकहेतुत्वादेव च तत्तन्निरुक्तिरुपपद्यते । यथा प्रकाशैकरूपाया एव सूर्यकान्तेरुलूकेषु तमादिव्यञ्जकतेति । अतश् चन्द्ररूपी मतः कृष्णः कलारूपास्तु ताः स्मृताः इति स्फुटमेव स्वरूपभूतत्वं दर्शितम् । तदेवं तासां स्वरूपशक्तिभूतत्वे लक्ष्मीत्वं सिध्यत्येव । तदेवम् अभिप्रेत्य लक्ष्मीत्वमाह गृहेषु तासामनपाय्यतर्ककृन् निरस्तसाम्यातिशयेष्ववस्थितः । रेमे रमाभिर्निजकामसम्प्लुतो यथेतरो गार्हकमेधिकांश्चरन् ॥ [भागवतम् १०.५९.३४] टीका च रमाभिर्लक्ष्म्या अंशभूताभिरित्येषा । स्वरूपशक्तित्वादेव रेमे इत्युक्तम् । अतएव निजः स्वकीयः परमानन्दशक्तिवृत्तिविशेषोदय रूपप्रेमविशेषस्वरूपो यः कामस्तेन सम्प्लुतो व्याप्त इति ॥ ॥ १०.४९ ॥ श्रीशुकः ॥ १८३ ॥ [१८४] इत्थमष्टानां श्रीपट्टमहिषीणां तु तत्स्वरूपशक्तित्वं कैमुत्येनैव सिध्यति । तत्र श्रीसत्यभामाया भूशक्तिरूपत्वं पाद्मोत्तरखण्डादौ प्रसिद्धम् । श्रीयमुनायाः कृपाशक्तिरूपत्वं स्कान्दयमुनामाहात्म्यादावित्याद्य्अन्वेषणीयम् । किन्तु श्री हरिवंशादौ सत्यभामायाः सौभाग्यातिशयस्य विख्यातत्वात्प्रेमशक्ति प्रचुरभूशक्तित्वं ज्ञेयम् । स्वयं लक्ष्मीस्तु श्रीरुक्मिणी द्वारकायामभूद्राजन्महामोदः पुरौकसाम् । रुक्मिण्या रमयोपेतं दृष्ट्वा कृष्णं श्रियः पतिम् ॥ [भागवतम् १०.५४.६] इत्यादिषु तस्यामेव भूरिशः प्रसिद्धेः । अतः स्वयं लक्ष्मीत्वेनैव परस्परयोग्यतामाह अस्यैव भार्या भवितुं रुक्मिण्यर्हति नापरा । असावप्यनवद्यात्मा भैष्म्याः समुचितः पतिः ॥ [भागवतम् १०.५३.३७] स्पष्टम् । ॥ १०.५३ ॥ विदर्भपुरवासिनः परस्परम् ॥ १८४ ॥ [१८५] तथा तां रुक्मिणीं श्रियमित्यादौ या लीलया धृततनोरनुरूपरूपा [भागवतम् १०.६०.९] इति । स्पष्टम् । अतः स्वयं भगवतोऽनुरूपत्वेन स्वयं लक्ष्मीत्वं सिद्धमेव । अतएव वैदर्भीं भीष्मकसुतां श्रियो मात्रां स्वयंवरे [भागवतम् १०.५२.१६] इत्यत्र माति अन्तर्भवत्यस्यामिति मात्रापदं बाहुल्यादधिकरण एवौणादिकं ज्ञेयम् । कार्त्स्न्ये अवधारणे मात्रमितिवत् । ततश्च वैकुण्ठप्रसिद्धाया लक्ष्म्या अन्तर्भावास्पदत्वादेषैव लक्ष्मीः सर्वतः परिपूर्णेत्यर्थः । यत्तु नन्वेवमेतदरविन्दविलोचनाह यद्वै भवान् भगवतोऽसदृशी विभूम्नः । क्व स्वे महिम्न्यभिरतो भगवांस्त्र्य्अधीशः क्वाहं गुणप्रकृतिरज्ञगृहीतपादा ॥ [भागवतम् १०.६०.३४] इति तस्या एवोक्तिस्तत्र निजांशाभासमेव दैन्येन स्वं मत्वोक्तमिति मन्तव्यम् । यद्वा, गुणा गौणी प्रकृतिः स्वभावो यस्याः सा अपकृष्ट रूपेत्यर्थः । यथा तत्रैव, स्यान्मे तवाङ्घ्रिररणं सृतिभिर् भ्रमन्त्याः [भागवतम् १०.६०.४३] इति मनुष्यावतारताभिनिवेशात्तस्या एव दैन्योक्तिः । अत्र दैवप्रेरितो वास्तवोऽर्थस्त्वेवं (पगे ११०) हेऽरविन्द लोचन भगवतस्तवासदृश्यहमित्येतद् । यद्भवानाह ननु निश्चितं तत्त्वेवं वक्ष्यमाणप्रकारकं न त्वन्यप्रकारकम् । तथैवाह स्वे स्वरूपभूते महिम्नि ऐश्वर्यादावभिरतो भगवान् क्व कुत्रान्यत्र, तथाहं ता ते गुणा ऐश्वर्यादय एव प्रकृतिः स्वरूपं यस्यास्तथाभूता क्व कुत्रान्यत्र, किन्तु न कुत्रचिदन्यत्रेति द्वयोरेकत्र एव स्वरूपे स्थितिर् इत्यर्थः । अतएवाज्ञैरस्य श्रीविष्णोस्तव तत्त्वज्ञैर्गृहीतौ सेवितौ पादौ यस्यास्तथाभूताहं तस्माच्छक्तिशक्तिमतोरत्यन्तभेदाभावाद् एवोपमानोपमेयत्वाभावेन सादृश्याभाव इति भावः । एवं सृतिभिर् भ्रमन्त्या इत्यत्रापि हि त्वदीयपदवीभिरित्येव वास्तवोऽर्थः । तदुक्तम् देवत्वे देवदेहैयं मनुष्यत्वे च मानुषी [Vइড়् १.९.१४३] इति । एवमेव अस्त्वम्बुजाक्ष मम ते चरणानुराग आत्मन् रतस्य मयि चानतिरिक्तदृष्टेः । यर्ह्यस्य वृद्धय उपात्तरजोऽतिमात्रो मामीक्षसे तदु ह नः परमानुकम्पा ॥ [भागवतम् १०.६०.४६] इत्यत्रापि तस्याः प्रकृतित्वं दैन्यजेनाभेदोपचारेणैव व्याख्येयम् । यद् वा अस्य गार्हस्थस्य उपात्ता अङ्गीकृता रजोऽतिमात्रो सर्व भूतानुरञ्जनातिशयो येन सः । वास्तवार्थस्त्वेवं यदुक्तं उदासीना वयमित्यादि, श्रीभगवता तत्राह अस्त्विति । हे अम्बुजाक्ष आत्मनात्मनि मयि च रतस्य ते चरणानुरागो ममास्तु । मयि रतत्वं चोक्तं तथाहमपि तच्चित्तो निद्रां च न लभे निशि [भागवतम् १०.५३.२] इति स्वयमेवेति भावः । नन्वात्मरतस्य मम कथं त्वयि रतिस्तत्राह अनतिरिक्तदृष्टेः । शक्तिमत्यात्मनि शक्तौ च मय्यनतिरिक्ता पृथग्भावशून्या दृष्टिर् यस्य । शक्तिशक्तिमतोरपृथग्वस्तुत्वाद्द्वयोरपि मिथो विशिष्टतयैवावगमाद्वा युज्यत एव मय्यपि रतिरिति भावः । तदेवं सत्यामपि स्वाभाविक्यां रतौ विशेषतस्तु, यर्ह्यस्य रत्याख्यस्य भावस्य वृद्धये उपात्ता रजोऽतिमात्रा रागातिशयो येन तथाभूतस्त्वं मामीक्षसे सभावमालोकयसि तदासौ नोऽस्मान् प्रति परमैवानुकम्पेति । एवमुदासीनत्वं तव साक्षान्मत्सम्बन्धाद् अन्यत्रैवेति मम सुदृढ एव विश्वास इति भावः । तस्मात्साधूक्तं या लीलया धृततनोः [भागवतम् १०.६०.९] इत्यादिना श्रीरुक्मिणीदेव्याः स्वयं लक्ष्मीत्वम् । ॥ १०.६० ॥ श्रीशुकः ॥ १८५ ॥ [१८६१८७] अथ वृन्दावने तदीयस्वरूपशक्तिप्रादुर्भावाश्च श्रीव्रजदेव्यः । यथा ब्रह्मसंहितायाम् आनन्दचिन्मयरसप्रतिभाविताभिस् ताभिर्य एव निजरूपतया कलाभिः । गोलोक एव निवसत्यखिलात्मभूतो गोविन्दमादिपुरुषं तमहं भजामि ॥ [Bरह्मष्५.३०] इति । ताभिः श्रीगोपीभिर्मन्त्रे तच्छब्दप्रयोगात् । कलाभिः शक्तिभिः । निज रूपतया स्वस्वरूपतया । शक्तित्वं च तासां पूर्वोक्तोत्कर्षेण परम पूर्णप्रादुर्भावानां सर्वासामपि लक्ष्मीत्वमेव । तदुक्तं तत्रैव लक्ष्मीसहस्रशतसम्भ्रमसेव्यमानमिति, श्रियः कान्ताः कान्तः परमपुरुषः इति च । एतदभिप्रेत्यैव स्वायम्भुवागमेऽपि श्रीभूलीला शब्दैस्तत्प्रेयसीविशेषत्रयमुपदिष्टम् । तस्माल्लक्ष्मीतोऽप्युत्कर्ष वर्णनमासां (पगे १११) परव्योमादिस्थिताभ्यस्तन्नाम्नैव लक्ष्मीभ्य आधिक्यविवक्षयेति मन्तव्यम् । श्रीवृन्दावनलक्ष्म्यस्त्वेता एवेति । एवमेव पादन्यासैर्भुजविधूतिभिः [भागवतम् १०.३३.७] इत्यादौ कृष्ण वध्वः इत्युक्तम् । अतएव गोपीजनाविद्याकलाप्रेरकः [ङ्टू १.८] इत्यत्र तापनीवाक्ये श्रीमद्दशाक्षरस्थनामनिरुक्तौ ये गोपीजनास्ते आ सम्यग्या विद्या परमप्रेमरूपा तस्याः कला वृत्तिरूपा इति व्याख्येयम् । राजविद्या राजगुह्यम् [गीता ९.२] इत्यादि श्रीगीताप्रकरणात् । (अविद्या कलाशब्देन अविद्यैव कला वृत्तिर्यस्याः सा सर्वेन्द्रियविमोहकारिणी प्रेमशक्तिरेवाख्याता ।) व्याख्यान्तरे भगवत्यविद्यासंश्लेषाभावात् । तदुक्तं ह्लादिन्या संविद्आश्लिष्टः सच्चिदानन्द ईश्वरः । स्वाविद्यासंवृतो जीवः संक्लेशनिकराकरः ॥ इति स्वामिसूक्तौ । तथा ह्लादिनी सन्धिनी संवित्त्वय्येका सर्वसंश्रये । ह्लादतापकरी मिश्रा त्वयि नो गुणवर्जिते ॥ इति [Vइড়् १.१२.६९] विष्णुपुराणे च । [B हेरे अद्द्स्: अथवा वैभवमात्राभिज्ञान् प्रति विराड्उपासनावत्गोपीजन शब्दस्यान्यनिरुक्तिरियम् । यथा तत्रैव गोपालपदनिरुक्तौ सृष्टि पर्यन्तमालातीत्युक्तम् । तत्राविद्याकलाशब्देन मायैवोच्यते इति । B अद्दितिओनेन्द्स्.] ततस्तासां प्रेरकस्तत्तत्क्रीडायां प्रवर्तक इति वल्लभ शब्देनैकार्थ्यमेव । स वो हि स्वामी इति तस्यामेव श्रुतौ ताः प्रति दुर्वाससो वाक्यात् । यच्च तासां क्वचित्पूर्वजन्मनि साधकत्वमिव श्रूयते । तत्तु पूर्वासामेव व्याख्येयम् । तास्तु नित्यसिद्धा एव । अत इदम् इत्थमेव व्याख्येयम् ताभिर्विधूतशोकाभिर्भगवानच्युतो विभुः । व्यरोचताधिकं तात पुरुषः शक्तिभिर्यथा ॥ [भागवतम् १०.३२.१०] यथा यथावत् । अतएवाधिकं व्यरोचत इत्युक्तमुपपद्यते स्वशक्त्य्एक प्रकाशकत्वात्श्रीभगवतः गोप्यो लब्ध्वाच्युतं कान्तं श्रिय एकान्तवल्लभम् । गृहीतकण्ठ्यस्तद्दोर्भ्यां गायन्त्यस्तं विजह्रिरे ॥ [भागवतम् १०.३३.१५] गोप्य एव श्रियः । कान्तं मनोहरम् । एकान्तवल्लभं रहोरमणम् (अपाणिग्राहकत्वात्) । ॥ १०.३२ ॥ श्रीशुकः ॥ १८६१८७ ॥ [१८८] तासां महत्त्वं तु ह्लादिनीसारवृत्तिविशेषप्रेमरससारविशेष प्राध्यान्यात् । तदुक्तमानन्दचिन्मयरसप्रतिभाविताभिः [Bरह्मष् ५.३०] इति । आनन्दचिन्मयरसेन प्रेमरसविशेषेण प्रतिभाविताभिरित्य् अर्थः । अतएव तत्प्राचुर्यप्रकाशेन श्रीभगवतोऽपि तासु परमोल्लास प्रकाशो भवति । येन ताभी रमणेच्छा जायते । तथैवाह भगवानपि ता रात्रीः शरदोत्फुल्लमल्लिकाः । वीक्ष्य रन्तुं मनश्चक्रे योगमायामुपाश्रितः ॥ [भागवतम् १०.२९.१] योगमायां दुर्घटसम्पादिकां स्वरूपशक्तिं तत्तल्लीलासौष्ठव घटनायोपाश्रित इति तस्मै तां प्रवर्त्येत्यर्थः । ॥ १०.२९ ॥ श्रीशुकः ॥ १८८ ॥ [१८९] [पगे ११२] अथ तासां नामानि श्रूयन्ते भविष्योत्तरे मल्लद्वादशीप्रसङ्गे श्री कृष्णयुधिष्ठिरसंवादे गोपीनामानि राजेन्द्र प्राधान्येन निबोध मे । गोपाली पालिका धन्या विशाखा ध्याननिष्ठिका । राधानुराधा सोमाभा तारका दशमी तथा ॥ इति । दशम्यपि तारकानाम्न्येवेत्यर्थः । स्कान्दे प्रह्लादसंहितायां द्वारकामाहात्म्ये मयनिर्मितसरःप्रस्तावे श्रीललितोवाचेत्यादिना ललिता श्यामला धन्या विशाखा राधा शैव्या पद्मा भद्रेत्येतान्यष्टैव गृहीतानि । अथ वर्णिताशतकोटिभिरित्यागमप्रसिद्धेरन्यान्यपि लोकशास्त्रयोर् अवगन्तव्यानि । अत्र शतकोटित्वान्यथानुपपत्त्य्आदिना तासां तन्महा शक्तित्वमेवावगम्यते । तदेवं परममधुरप्रेमवृत्तिमयीषु तास्वपि तत्सारांशोद्रेक मयी श्रीराधिका तस्यामेव प्रेमोत्कर्षपराकाष्ठाया दर्शितत्वात्प्रीति सन्दर्भे दर्शयिष्यमाणत्वाच्च । यत्र च तत्प्रेमवैशिष्ट्यं तत्रैव । यस्यास्ति भक्तिर्भगवत्यकिञ्चन [भागवतम् ५.१८.१२] इत्यादिवत्सर्वा अप्य् ऐश्वर्यादिरूपा अन्याः शक्तयो नात्यादृता अप्यनुगच्छन्तीति श्रीवृन्दावने श्रीराधिकायामेव स्वयंलक्ष्मीत्वम् । अतएव सतीष्वन्यास्वपि मुख्याभिप्रायेणैव तस्या एव वृन्दावनाधिपत्येन नामग्रहणम् । यथा पाद्मे कार्त्तिकमाहात्म्ये शौनकनारदसंवादे वृन्दावनाधिपत्यं च दत्तं तस्यै प्रत्युष्यता । कृष्णेनान्यत्र देवी तु राधा वृन्दावने वने ॥ [ড়द्मড়् ५.७७.३९] इत्यनेन । अन्यत्र साधारणे देशे देव्येवाधिकारिणी श्रीवृन्दावनाभिधे वने तु श्रीराधिकैवेत्यर्थः । एवं स्कान्दे वाराणस्यां विशालाक्षी विमला पुरुषोत्तमे । रुक्मिणी द्वारवत्यां च राधा वृन्दावने वने ॥ इति । तथा मात्स्येऽपि । शक्तित्वमात्रसाधारण्येनैव लक्ष्मीसीतारुक्मिणी राधानामापि देव्या सह गणनम् । वैशिष्ट्यं तु लक्ष्मीवत्सीतादिष्वपि ज्ञेयम् । तस्मान्न देव्या सह लक्ष्म्य्आदीनामैक्यम् । श्रीरामतापनी श्रीगोपालतापन्य्आदौ तासां स्वरूपभूतत्वेन कथनात् । श्रीराधिकायाश् च यामले पूर्वोदाहृतपद्यत्रयानन्तरम् भुजद्वययुतः कृष्णो न कदाचिच्चतुर्भुजः । गोप्यैकया युतस्तत्र परिक्रीडति सर्वदा ॥ इति । अत्र वृन्दावनविषयकतत्सहितसर्वदाक्रीडित्वलिङ्गावगतेन परस्पराव्यभिचारेण स्वरूपशक्तित्वम् । सतीष्वप्यन्यासु एकया इत्यनेन (पगे ११३) तत्रापि परमुख्यात्वमभिहितम् । [Vऋ. ओमित्स्fरोमतएव सतीष्वन्यासु अन्देन्दिन्गभिहितम्, अन्धसिन्स्तेअद् यत्तु मात्स्ये देव्या दक्षं प्रति रुक्मिणी द्वारवत्यां तु राधा वृन्दावने वने । देवकी मथुरायां तु पाताले परमेश्वरी । चित्रकुटे यथा सीता विन्ध्ये विन्ध्यवासिनी ॥ इत्यादिना स्वरूपशक्तिव्यूहरुक्मिणीराधादेवकीसीतानां मायांश रूपेण स्वेन सहाभेदकथनं तत्खलु यथा देवेन्द्रः प्रतर्दनं प्रति प्राणोऽस्मि प्रज्ञात्मा इत्यादिकम् । यथा वा वासुदेवश्चाहं मनुरभवं सूर्यश्च इत्यादिकं परमात्मना सहाभेदं मत्वावादीति । न वक्तुर् उपदेशादि वेदान्तसूत्रेषु शास्त्रदृष्ट्या तूपदेशो वामदेववत्[Vस्. १.१.३०] इत्यनेन विचारितं तद्वदिहापीति गम्यते । शास्त्रं खलु चतुर्धा परावरयोरभेदं दर्शयति यथा तत्त्वमसि इति परमात्माजीअयोश्चित् साम्येन, यथा सर्वं समाप्नोषि ततोऽसि सर्वः [गीता ११.४०] इत्य् अधिष्ठानाधिष्ठात्रोरभेदोपचारेण । यथा वा रामोऽहमित्यादिकम् अहङ्ग्रहोपासनेनेति । यत्रापि यथास्वं मन्तव्यम् । विशेषतः श्री राधायाः स्वयं लक्ष्मीत्वम् । [एन्द्Vऋ. अद्दितिओन्] तथा च बृहद्गौतमीये श्रीबलदेवं प्रति श्रीकृष्णवाक्यम् सत्त्वं तत्त्वं परत्वं च तत्त्वत्रयमहं किल । त्रितत्त्वरूपिणी सापि राधिका मम वल्लभा ॥ प्रकृतेः पर एवाहं सापि मच्छक्तिरूपिणी । सात्त्विकं रूपमास्थाय पूर्णोऽहं ब्रह्मचित्परः ॥ ब्रह्मणा प्रार्थितः सम्यक्सम्भवामि युगे युगे । तया सार्धं त्वया सार्धं नाशाय देवताद्रुहाम् ॥ इत्यादि । सत्त्वं कार्यत्वं तत्त्वं कारणत्वं ततोऽपि परत्वं चेति यत्तत्त्वत्रयं तद् अहमित्यर्थः । अतएव श्रीराधिकाप्रसङ्गे तत्पुरतोऽपि देवी कृष्णमयी प्रोक्ता राधिका परदेवता । सर्वलक्ष्मीमयी सर्वकान्तिः संमोहिनी परा ॥ इति । ऋक्परिशिष्टश्रुतिश्च तथैवाह राधया माधवो देवो माधवेनैव राधिका । विभ्राजन्ते जनेष्वा । विभ्राजन्ते विभ्राजते । आ सर्वत इति श्रुति पदार्थः । [Vऋ अद्द्स्: अतएव तस्याः सर्वोत्तमत्वं सौभाग्यातिशयत्वं चादिवाराहे तत् कुण्डप्रसङ्गे द्रष्टव्यम् । श्रीभागवते अनयाराधितो नूनमित्यादौ च । [Eन्द्Vऋ अद्दितिओन्.] एतत्सर्वमभिप्रेत्य मूर्धण्यश्लोके तादृशोऽप्यर्थः सन्दधै । तत्र तयोर्महामहैश्वर्यप्रतिपादकोऽर्थः पूर्ववत्स्वयम् अनुसन्धेयः । परममाधुरीप्रतिपादकोऽर्थस्तु यथा जन्माद्यस्य इति । यतोऽन्वयादनुगच्छति सदा निजपरमानन्दशक्तिरूपायां तस्यां श्री राधायामासक्तो भवतीत्यन्वयः श्रीकृष्णस्तस्माद्यस्मात्तथा इतरत इतरस्याश्च तस्य सदा द्वितीयायाः श्रीराधाया एव । यतो यस्या आद्यस्यादि रसस्य जन्म प्रादुर्भावः यावेवादिरसविद्यायाः परमनिधानमित्य् अर्थः । अतएव तयोरत्यद्भुतविलासमाधुरीधुरीणतामुद्दिशति योऽर्थेषु तत्तद्विलासकलापेषु अभिज्ञो विदग्धः । या च स्वेन तथा विधेनात्मना राजते विलासतीति स्वराट् । अतएव सर्वतोप्याश्चर्यरूपयोस्तयोर्वर्णने मम तत्कृपैव सामग्रीत्य् आह आदिकवये प्रथमं तल्लीलावर्णनमारभमाणाय मह्यं श्री वेदव्यासाय हृदा अन्तःकरणद्वारैव ब्रह्म निजलीलाप्रतिपादकं शब्दब्रह्म यस्तेने । आरम्भसमकालमेव युगपत्सर्वमिदं महा पुराणं मम हृदि प्रकाशितवानित्यर्थः । एतच्च प्रथमस्य स्पत्म एव व्यक्तम् । यद्यस्यां च सूरयः शेषादयोऽपि मुह्यन्ति स्वरूपसौन्दर्य गुणादिभिः अत्यद्भुता केयमिति निर्वक्तुमारब्धा निशेतुं न शक्नुवन्ति । एवं भूत्वा सा यदि कृपां नाकरिष्यत्तदा लब्धमाधवतादृश कृपस्यापि मम तैस्तैः पदैस्तत्पदवीमन्विच्छन्त्योऽग्रतोऽबलाः । वध्वाः पदैः सुपृक्तानि विलोक्यार्ताः समब्रुवन् ॥ [भागवतम् १०.३०.२६] इत्यादिना तस्या लीलावर्णनलेशोऽपि साहससिद्धिरसौ नाभविष्यदेवेति भावः । तयोराश्चर्यरूपत्वमेव व्यनक्ति तेजोवारिमृदां चैतन्यानाम् अपि यथा येन प्रकारेण विनिमयः परस्परं स्वभावविपर्ययोर्भवति तथा यो विभ्राजित इति शेषः । वाक्यशेषं च भावाभिभूतत्वेन न वक्तुं शक्तवानिति गम्यते । तत्र तेजसश्चन्द्रादेस्तत्पदनखकान्तिविस्फारतादिना (पगे ११४) वारि मृद्वन्निस्तेजस्त्वधर्मावाप्तिः । वारिणो नद्यादेश्च तत्संसर्गवंशी वाद्यादिना वह्न्य्आदितेजोवदुच्छूनताप्राप्तिः पाषाणादिमृद्वच्च स्तम्भप्राप्तिः । मृदश्च पाषाणादेस्तत्कान्तिकन्दईल्च्छुरित्वेन तेजोवद् उज्ज्वलताप्राप्तिर्वंशीवाद्यादिना वारिवच्च द्रवताप्राप्तिरिति । तदेतत्सर्वं तस्य लीलावर्णने प्रसिद्धमेव । यत्र यस्यां च विद्यमानायां तिर्धामसर्गः श्रीभूलीलेतिशक्तित्रयीप्रादुर्भावो वा । द्वारकामथुरावृन्दावनानीतीस्थानत्रयगतशक्तिवर्गत्रय प्रादुर्भावो वा । वृन्दावने एव रसव्यवहारेण सुहृद्उदासीनप्रतिपक्ष नायिकारूपत्रिभेदानां सर्वासामपि व्रजदेवीनामेव प्रादुर्भावो वा मृषा मिथ्यैव । यस्याः सौन्दर्यादिगुणसम्पदा तास्ताः कृष्णस्य न किञ्चिदिव प्रयोजनमर्हन्तीत्यर्थः । तद्धीमहीति यच्छब्दलब्धेन तच्छब्देनान्वयः । परमभक्तिशक्तिमत्त्वेनातिशायितमहाभावरसेन वा परस्परभिन्नतां गतयोरैक्येनैव विवक्षितं तदिति । अतएव सामान्यतया परामर्शान्नपुंसकत्वं च । कथम्भूतम् ? स्वेन धाम्ना स्वस्वप्रभावेन सदा निरस्तं स्वलीला प्रतिबन्धकानां जरतीप्रभृतीनां प्रतिपक्षनायिकानां च कुहकं माया येन तत् । तथा सत्यं तादृशत्वेन नित्यसिद्धम् । यद्वा परस्परं विलासादिभिरनवरतमानन्दसन्दोहदाने कृतसत्यमिव जातम् । तत्र निश्चलमित्यर्थः । अतएव परमन्यत्र कुत्राप्यदृष्टगुणलीलादिभिर् विश्वविस्मापकत्वात्सर्वतोऽप्युत्कृष्टम् । अत्रैकोऽपि धर्मो भिन्न वाचकतया वाक्यतो निरिदिष्ट इत्युभयसादृश्यावगमात्प्रतिवस्तूपमा नामालङ्कारोऽयम् । इयं च मुहुरुपमितिमालाप्रतिवस्तूपमा । तेन तैस् तैर्गुणैर्मिथो योग्यतया निबद्धत्वात्समनामापि । एतद्अलङ्कारेण च अहो परस्परं परस्मात्परमपि तन्मिथुनभूतं किमपि तत्त्वं मिथो गुणगणमाधुरीभिः समतामेव समवाप्तमिति सकलजीवजीवातुर् तमरसपीयूषधाराधाराधरतासम्पदा कस्मै वा निजचरणकमल विलासं न रोचयतीति स्वतः सम्भवि वस्तु व्यज्यते । तदाहुः प्रतिवस्तूपमा सा स्याद्वाक्ययोर्गम्यसाम्ययोः । एकोऽपि धर्मः सामान्यो यत्र निर्दिश्यते पृथक् ॥ [षाह्ड्१०.४९] इति । इयं मालयापि दृश्यते इति । एवं समं स्यादानुरूप्येण श्लाघा योग्यस्य वस्तुन इति । तथा वस्तु वालङ्कृतिर्वापि द्विधार्थः सम्भवी स्वतः । कवेः प्रौढोक्तिसिद्धो वा तन्निबद्धस्य वेति षट् । षड्भिस्तैर्व्यज्यमानस्तु वस्त्व्अलङ्काररूपकः । अर्थशक्त्य्उद्भवो व्यङ्ग्यो याति द्वादशभेदताम् ॥ इति । तदुक्तं श्रुत्या राधया माधवो देवः इत्यादिना । तदुक्तमादिपुराणे वेदान्तिनोऽपि इति पद्यानन्तरम् अहमेव परं रूपं नान्यो जानाति कश्चन । जानाति राधिका पार्थ अंशानर्चन्ति देवताः ॥ इति । तयोर्नित्यविलासस्त्वित्थं यथा वर्णितोऽस्मद्उपजीव्यचरणाम्बुजैः वाचा सूचितशर्वरीरतिकलाप्रागल्भ्यया राधिकां व्रीडाकुञ्चितलोचनां विरचयन्नग्रे सखीनामसौ । तद्वक्षोरुहचित्रकेलिमकरीपाण्डित्यपारं गतः कैशोरं सफलीकरोति कलयन् कुञ्जे विहारं हरिः ॥ इति [Bऋष्२.१.२३१] । तदेवं सन्दर्भचतुष्टयेन सम्बन्धो व्याख्यातः । तस्मिन्नपि सम्बन्धे श्रीराधामाधवरूपेणैव प्रादुर्भावस्तस्य सम्बन्धिनः परमः प्रकर्षः । तदुक्तं श्रुत्या राधया माधवो देव इति । एतद् अर्थमेव व्यतानिषमिमाः सर्वा अपि परिपाटीरिति पूर्णः सम्बन्धः । गौरश्यामरुचोज्ज्वलाभिरमलैरक्ष्णोर्विलासोत्सवैर् नृत्यन्तीभिरशेषमादनकलावैदग्ध्यदिग्धात्मभिः । अन्योन्यप्रियतासुधापरिमलस्तोमोन्मदाभिः सदा राधामाधवमाधुरीभिरभितश्चित्तं ममाक्राम्यताम् ॥ इति श्रीकलियुगपावनस्वभजनविभाजनप्रयोजनावतारश्रीश्री भगवत्कृष्णचैतन्यदेवचरणानुचरविश्ववैष्णवराजसभाजन भाजनश्रीरूपसनातनानुशासनभारतीगर्भे श्रीभागवतसन्दर्भे श्रीकृष्णसन्दर्भो नाम चतुर्थः सन्दर्भः ॥ श्रीभागवतसन्दर्भे सर्वसन्दर्भगर्भगे । श्रीकृष्णसन्दर्भनामा सन्दर्भोऽभूच्चतुर्थकः ॥ समाप्तोऽयं श्रीकृष्णसन्दर्भः ॥ [*Eण्ड्ण्Oट्E ॰१] ... इतिओन् दोएस्नोथवे थे सेचोन्दन्द्fओउर्थ्लिनेसोf थे सेचोन्द्स्तन्श. [*Eण्ड्ण्Oट्E ॰२] भगवान् वासुदेवश्च कीर्त्यतेऽत्र सनातनः स हि सत्यमृतं चैव पवित्रं पुण्यमेव च शाश्वतं ब्रह्म परमं ध्रुवं ज्योतिः सनातनम् [*Eण्ड्ण्Oट्E ॰३] ठिस्पोर्तिओनुप्तो थे एन्दोf थे परग्रफिस्मोस्त्ल्य् ओमित्तेदिन् Vऋ. [*Eण्ड्ण्Oट्E ॰४] ठे सेचोन्द्लिने इस्नोत्fओउन्द्. [*Eण्ड्ण्Oट्E ॰५] १०९.५३ इन् थे च्रितिचलेदितिओन्. ठे लिने रेअद्स्थेरे: देवतार्थं वयं चापि मानुषत्वमुपागताः. [*Eण्ड्ण्Oट्E ॰६] ठे V. एदितिओन् हस्कूर्मपुराणे व्यासगीतायां सद् आचारप्रसङ्गे पतिव्रतामाहात्म्ये. Cहत्तेर्जेए ॠउओतेस्थे fओल्लोwइन्ग्वेर्से fरोमाग्नि ড়ुरन सीतया राधितो वह्निश्छायासीतामजीजनत् । तां जग्राह दशग्रीवः सीता वह्निपुरं गता ॥  श्रीभक्तिसन्दर्भः तौ सन्तोषयता सन्तौ श्रीलरूपसनातनौ । दाक्षिणात्येन भट्टेन पुनरेतद्विविच्यते ॥ो॥ तस्याद्यं ग्रन्थनालेखं क्रान्तमुत्क्रान्तखण्डितम् । पर्यालोच्याथ पर्यायं कृत्वा लिखति जीवकः ॥ो॥ [१] तत्र पूर्वसन्दर्भचतुष्टयेन सम्बन्धो व्याख्यातः । तत्र पूर्ण सनातनपरमानन्दलक्षणपरतत्त्वरूपं सम्बन्धि च ब्रह्म परमात्मा भगवानिति त्रिधाविर्भावतया शब्दितमिति निरूपितम् । तत्र च भगवत्त्वेनैवाविर्भावस्य परमोत्कर्षः प्रतिपादितः । प्रसङ्गेन विष्ण्व् आद्याश्चतुःसनाद्याश्च तद्अवतारा दर्शिताः । स च भगवान् स्वयं श्री कृष्ण एव इति निर्धारितम् । परमात्मवैभवगणने च तटस्थशक्तिरूपाणां चिद्एकरसानामपि अनादिपरतत्त्वज्ञानसंसर्गाभावमयतद्वैमुख्यलब्धच्छिद्रया तन्माययावृतस्वरूपज्ञानानां तयैव सत्त्वरजस्तमोमये जडे प्रधाने रचितात्मभावानां जीवानां संसारदुःखं च ज्ञापितम् । तथा चोक्तमेकादशे श्रीभगवता आत्मा परिज्ञानमयो विवादो ह्यस्तीति नास्तीति भिदात्मनिष्ठः । व्यर्थोऽपि नैवोपरमेत पुंसां मत्तः परावृत्तधियां स्वलोकात् ॥ [भागवतम् ११.२२.३४] इति । अतस्तद्अर्थं परमकारुणिकं शास्त्रमुपदिशति । तत्र ये जीवा ये केचित् जन्मान्तरावृत्ततद्अर्थानुभवसंस्कारवतो ये च तदैव वा लब्ध महत्कृपातिशयदृष्टिप्रभृतयस्तेषां तादृशपरतत्त्वलक्षण वस्तूपदेशश्रवणारम्भमात्रेणैव तत्कालमेव युगपदेव तत् साम्मुख्यं तद्अनुभवोऽपि ज्ञायते । यथोक्तं किं वा परैरीश्वरः सद्यो हृद्यवरुध्यतेऽत्र कृतिभिः शुश्रूषुभिस्तत्क्षणातिति [भागवतम् १.१.१] । अतस्तेषां नोपदेशान्तरापेक्षा । यादृच्छिकमुपदेशान्तरश्रवणं तु तत् तल्लीलाश्रवणवत्तदीयरसस्यैवोद्दीपकं, यथा श्रीप्रह्लादादीनाम् । तथान्येषां तादृशत्वं बीजायमानमपि कामादिवैगुण्येन तद्इतर दोषेणैव प्रतिहतं तिष्ठति । [पगे २] नैतन्मनस्तव कथासु विकुण्ठनाथ सम्प्रीयते दुरितदुष्टमसाधु तीव्रम् । कामातुरं हर्षशोकभयैषणार्तं तस्मिन् कथं तव गतिं विमृशामि दीनः ॥ [भागवतम् ७.९.३९] इति दीनंमन्यश्रीप्रह्लादवचनानुसारेणान्येषामेव तत्प्राप्तेः । अतएवोक्तं ब्रह्मवैवर्ते यावत्पापैस्तु मलिनं हृदयं तावदेव हि । न शास्त्रे सत्यबुद्धिः स्यात्सद्बुद्धिः सद्गुरौ तथा ॥ अनेकजन्मजनितपुण्यराशिफलं महत् । सत्सङ्गशास्त्रश्रवणादेव प्रेमादि जायते ॥ इति । ततो मुख्येन तात्पर्येण परतत्त्वे पर्यवसितेऽपि तेषां परतत्त्वाद्य् उपदेशस्य किमभिधेयं प्रयोजनं चेत्यपेक्षायां तद्अवान्तर तात्पर्येण तद्द्वयमुपदेष्टव्यम् । तत्राभिधेयं तद्वैमुख्य विरोधित्वात्तत्साम्मुख्यमेव । तच्च तद्उपासनालक्षणं यत एव तज् ज्ञानमाविर्भवति । प्रयोजनं च तद्अनुभवः । स चान्तर्बहिः साक्षात्कारलक्षणः यत एव स्वयं कृत्स्नदुःखनिवृत्तिर्भवति । तदेतद्द्वयं यद्यपि पूर्वत्र सिद्धोपदेश एव अभिप्रेतमस्ति, यथा तव गृहे निधिरस्ति इति श्रुत्वा कश्चिद्दरिद्रस्तद्अर्थं प्रयतते लभते च तम् इति । तद्वत्तथापि तच्छैथिल्यनिरासाय पुनस्तद्उपदेशः । तदेवं तान् प्रति अनादिसिद्धतज्ज्ञानसंसर्गाभावमयतद्वैमुख्यादिकं दुःखहेतुं वदन् व्याधिनिदानवैपरीत्यमयचिकित्सानिभं तत् साम्मुख्यादिकमुपदिशति । भयं द्वितीयाभिनिवेशतः स्याद् ईशादपेतस्य विपर्ययोऽस्म्र्तिः । तन्माययातो बुध आभजेत्तम् भक्त्यैकयेश गुरुदेवतात्मा ॥ [भागवतम् ११.२.३७] टीका च ननु किमेवं परमेश्वरभजनेनाज्ञानकल्पितभयस्य ज्ञानैकनिवर्तकत्वादित्याशङ्क्याह भयमिति । यतो भयं तन्मायया भवेत्ततो बुद्धिमान् तमेव आभजेदुपासीत । ननु भयं द्वितीयाभिनिवेशत’य्स्यात् । स च देहाद्य्अहङ्कारतः । स च स्वरूपास्फुरणात्किमत्र तस्य माया करोति । अत आह ईशादपेतस्येति । ईश विमुखस्य तन्मायया अस्मृतिः स्वरूपस्फूर्तिर्भवति ततो विपर्ययो देहोऽस्मीति । ततो द्वितीयाभिनिवेशाद्भयं भवति । एवं हि प्रसिद्धं लौकिकीष्वपि मायासु । उक्तं च भगवता दैवी ह्येषा गुणमयी मम माया दुरत्यया । मामेव ये प्रपद्यन्ते मायामेतां तरन्ति ते ॥ [गीता ७.१४] इति । [पगे ३] एकया अव्यभिचारिण्या भजेत् । किं च गुरुदेवतात्मा गुरुरेव देवता ईश्वर आत्मा प्रेष्ठश्च यस्य तथादृष्टिः सन्नित्यर्थः । इत्येषा ॥ ॥११.२॥ कविर्विदेहम् ॥१॥ [२] किं च एवं स्वचित्ते स्वत एव सिद्ध आत्मा प्रियोऽर्थो भगवाननन्तः । तं निर्वृतो नियतार्थो भजेत संसारहेतूपरमश्च यत्र ॥ [भागवतम् २.२.६] टीका च तदा अनेन किं कर्तव्यं, हरिस्तु सेव्य इत्याह । एवं विरक्तः सन् तं भजेत । भजनीयत्वे हेतवः स्वचित्ते स्वत एव सिद्धः । यत आत्मा अतएव प्रियः । प्रियस्य च सेवा सुखरूपैव । अर्थः सत्यः । न तु अनात्मवत् मिथ्या । भगवान् भजनीयगुणश्च अनन्तश्च नित्यः । यत एवम्भूतस् तं भजेत । नियतार्थश्निश्चितस्वरूपः । भगवद्अनुभवानन्देन निर्वृतः सन्, इति स्वतः सुखात्मकत्वं दर्शितम् । किं यत्र यस्मिन् भजने सति संसारहेतोरविद्याया उपरमो नाशो भवति इत्येषा । अत्र चकारात्तत् प्राप्तिर्ज्ञेया ॥ ॥२.२॥ श्रीशुकः ॥२॥ [३] तत्र यद्यपि श्रवणमननादिकं ज्ञानसाधनमपि तत्साम्मुख्यम् एव । ब्रह्माकारस्यानुभवहेतुत्वात्, अतएव तत्परम्परोपयोगित्वात् साङ्ख्याष्टाङ्गयोगकर्माण्यपि तत्साम्मुख्यान्येव । तथा तेषां कथञ्चिद्भक्तित्वमपि जायते । कर्मणस्तद्आज्ञापालनरूपत्वेन तद् अर्पितत्वादिना च करणात् । ज्ञानादीनां चान्यत्रानासक्तिहेतुत्वादिद्वारा भक्तिसचिवतया विधानात्तथापि पूर्वं भक्त्या भजेतेत्यनेन कर्म ज्ञानादिकं नादृतं किन्तु साक्षाद्भक्त्या श्रवणकीर्तनादिलक्षणयैव भजेत इत्युक्तम् । तथैव सहेतुकं श्रीसूतोपदेशोपक्रमत एव दृश्यते । यथाह द्वाविंशत्या स वै इत्य्आदिना अतो वै कवय इत्यन्तेन ग्रन्थेन स वै पुंसां परो धर्मो यतो भक्तिरधोक्षजे । अहैतुक्यप्रतिहता ययात्मा सुप्रसीदति ॥३॥ [भागवतम् १.२.६] यत्खलु महापुराणारम्भे पृष्टं सर्वशास्त्रसारमैकान्तिकं श्रेयो ब्रूहीति तत्रोत्तरं स वै इत्य्आदि । यतो धर्मादधोक्षजे भक्तिस्तत्कथा श्रवणादिषु रुचिर्भवति । धर्मः स्वनुष्ठित इत्य्आदौ [भागवतम् १.२.८] व्यतिरेकेण दर्श्यैष्यमाणत्वात् । स वै स एव स्वनुष्ठितस्य धर्मस्य संसिद्धिर्हरितोषणमिति [भागवतम् १.२.१३] वक्ष्यमाणरीत्या तत्सन्तोषार्थम् एव कृतो धर्मः परः सर्वतः श्रेष्ठः न निवृत्तिमात्रलक्षणोऽपि, वैमुख्याविशेषात् । तथा च श्रीनारदवाक्यम् नैष्कर्म्यमप्यच्युत भाववर्जितमित्य्आदौ कुतः पुनः शश्वदभद्रमीश्वरे न चार्पितं कर्म यदप्यकारणमिति [भागवतम् १.५.१२] । अतो वक्ष्यते अतः पुम्भिरित्य्[भागवतम् १.२.१३] आदि । ततः स एवैकान्तिकं श्रेयः इत्यर्थः । अनेन भक्तेस्तादृश धर्मतोऽपि अतिरिक्तत्वम् । तस्याः भक्तेः स्वरूपगुणमाह, स्वत एव सुखरूपत्वादहैतुकी फलान्तरानुसन्धानरहिता । अप्रतिहता तद्उपरि सुखदपदार्थान्तराभावात्केनापि व्यवधातुमशक्या च । जातायां च तस्यां रुचिलक्षणायां भक्त्या तयैव श्रवणादिलक्षणो भकियोगः प्रवर्तितः स्यात् । [४] ततश्च यस्यास्ति भक्तिर्भगवत्यकिञ्चना सर्वैर्गुणैस्तत्र समासते सुराः [भागवतम् ५.१८.१२] इत्य्आद्य्अनुसारेण भगवत्स्वरूपादिज्ञानं ततोऽन्यत्र वैराग्यं च तद्अनुगाम्येव स्यादित्याह वासुदेवे भगवति भक्तियोगः प्रयोजितः । जनयत्याशु वैराग्यं ज्ञानं च यदहैतुकम् ॥ [भागवतम् १.२.७] अहैतुकं शुष्कतर्काद्य्अगोचरमौपनिषदं ज्ञानमाशु ईषत्श्रवण मात्रेण जनयतीत्यर्थः । व्यतिरेकेणाह धर्मः स्वनुष्ठितः पुंसां विष्वक्सेनकथासु यः । नोत्पादयेद्यदि रतिं श्रम एव हि केवलम् ॥ [भागवतम् १.२.८] वासुदेवालम्बनाभावेन यदि तत्कथासु तल्लीलावर्णनेषु रतिं रुचिं नोत्पादयेत्तदा श्रमः स्यान्न तु फलम् । कथारुचेः सर्वत्रैवाद्यत्वात् श्रेष्ठत्वाच्च सैवोक्ता । तद्उपलक्षणत्वेन भजनान्तररुचिरप्य् उपदिष्ठा । एवशब्देन प्रवृत्तिलक्षणकर्मफलस्य स्वर्गादेः क्षयिष्णुत्वं, हिशब्देन तत्रैव च तद्यथेह कर्मजितो लोकः क्षीयते [Cहा ८.१.६] इति सोपपत्तिकश्रुतिप्रमाणत्वम् । केवलशब्देन निवृत्तिमात्र लक्षणधर्मफलस्यासाध्यत्वं, सिद्धस्यापि नश्वरत्वम् । तत्रापि तेनैव हिशब्देन यस्य देवे परा भक्तिर्[श्वेत्६.२३] इत्य्आदि, श्रेयःसृतिं भक्तिमुदस्य ते विभो क्लिश्यन्ति ये केवलबोधलब्धये इत्य्आदि [भागवतम् १०.१४.४], आरुह्य कृच्छ्रेण परं पदं ततः पतन्त्यधोऽनादृतयुष्मद् अङ्घ्रयः [भागवतम् १०.२.३२] इत्य्आदि वचनप्रमाणत्वं च सूचितम् । श्लोक द्वयेन भकिर्निरपेक्षा, ज्ञानवैराग्ये तु तत्सापेक्षे इति लभ्यते । तद् एवं भक्तिफलत्वेनैव धर्मस्य साफल्यमुक्तम् । [५६] तत्र यदन्ये मन्यन्ते धर्मस्यार्थः फलं, तस्य कामस्तस्य चेन्द्रिय प्रीत्स्तत्प्रीतेश्च पुनरपि धर्मादिपरम्परेति तच्चान्यथैवेत्याह द्वाभ्यां धर्मस्य ह्यापवर्ग्यस्य नार्थोऽर्थायोपकल्पते । नार्थस्य धर्मैकान्तस्य कामो लाभाय हि स्मृतः ॥ कामस्य नेन्द्रियप्रीतिर्लाभो जीवेत यावता । जीवस्य तत्त्वजिज्ञासा नार्थो यश्चेह कर्मभिः ॥ [भागवतम् १.२.९१०] आपवर्गस्य यथावर्णविधान अपवर्गश्च भवति । योऽसौ भगवति सर्वात्मन्यनात्म्येऽनिरुक्तेऽनिलयने परमात्मनि वासुदेवेऽनन्यनिमित्त भक्तियोगलक्षणो नानागतिनिमित्ताविद्याग्रन्थिबन्धनद्वारेण यदा हि महापुरुषपुरुषप्रसङ्ग इति [भागवतम् ५.१९.१९२०] पञ्चमस्कन्ध गद्यानुसारेण अपवर्गो भक्तियोगः । तथा च स्कान्दे रेवाखण्डे निश्चला त्वयि भक्तिर्या सैव मुक्तिर्जनार्दन । मुक्ता एव हि भक्तास्ते तव विष्णो यतो हरे ॥ इति । अत उक्तरीत्या भक्तिसम्पादकस्येत्यर्थः । अर्थाय फलत्वाय । तथार्थस्याप्येवम्भूतधर्माव्यभिचारिणः कामो लाभाय फलत्वाय न हि स्मृतस्तत्त्वविद्भिः । कामस्य विषयभोगस्येन्द्रियप्रीतिलाभः फलं न भवति किन्तु यावता जीवेत तावानेव कामस्य लाभः । तादृश जीवनपर्यन्त एव कामः सेव्य इत्यर्थः । जीवस्य जीवनस्य च पुनर् धर्मानुष्ठानद्वारा कर्मभिर्य इह प्रसिद्धः स्वर्गादिः सोऽर्थो न भवति, किन्तु तत्त्वजिज्ञासैवेति । तदेवं तत्त्वज्ञानं यस्या भक्तेर् अवान्तरफलमुक्तं सैव परमं फलमिति भावः । [७] किं तत्त्वमित्यपेक्षायां पद्यमेकं तूदाहृतम् वदन्ति तत्तत्त्वविदस्तत्त्वं यज्ज्ञानमद्वयम् । ब्रह्मेति परमात्मेति भगवानिति शब्द्यते ॥ [भागवतम् १.२.११] इति । अद्वयमिति तस्याखण्डत्वं निर्दिश्यान्यस्य तद्अनन्यत्वविवक्षया तच् छक्तित्वमेवाङ्गीकरोति । तत्र शक्तिवर्गलक्षणतद्धर्मातिरिक्तं केवलं ज्ञानं ब्रह्मेति शब्द्यते । अन्तर्यामित्वमयमायाशक्तिप्रचुर चिच्छक्त्य्अंशविशिष्टं परमात्मेति । परिपूर्णसर्वशक्तिविशिष्टं भगवानिति । विवृतं चैतत्प्राक्तनसन्दर्भत्रयेण । तच्च त्रिधाविर्भावयुक्तमेव तत्त्वं भक्त्यैव साक्षात्क्रियत इत्याह तच्छ्रद्दधाना मुनयो ज्ञानवैराग्ययुक्तया । पश्यन्त्यात्मनि चात्मानं भक्त्या श्रुतगृहीतया ॥ [भागवतम् १.२.१२] भक्त्या तत्कथारुचेरेव परावस्थारूपया प्रेमलक्षणया तत् पूर्वोक्ततत्त्वमात्मनि शुद्धे चेतसि पश्यन्ति च । ज्ञानमात्रस्य का वार्ता । साक्षादपि कुर्वन्तीत्यर्थः । कीदृशं तद्आत्मानम् । स्वरूपाख्य जीवाख्यमायाशक्तीनामाश्रयम् । ज्ञानवैराग्ययुक्तया ज्ञानं च वैराग्यं च, ताभ्यां युक्तया स्वात्मजाभ्यां ताभ्यां सेवितया । अतएव ते मुनयः पृथक्च विशिष्टं च स्वेच्छया पश्यन्तीत्यायाति । तदेवं श्रुत गृहीतया मुनयः श्रद्दधाना इति पदत्रयेण तस्या एव भक्तेर् दौर्लभ्यं दर्शितम् । सद्गुरोः सकाशाद्वेदान्ताद्य्अखिलशास्त्रार्थ विचारश्रवणद्वारा यदि स्वावश्यकपरमकर्तव्यत्वेन ज्ञायते । पुनश् च भगवान् ब्रह्म कार्त्स्न्येन त्रिरन्वीक्ष्य मनीषया तदध्यवस्यत्कूटस्थो रतिरात्मन् यतो भवेत् ॥ [भागवतम् २.२.३४] इतिवद्यदि विपरीतभावनात्याजकौ मननयोग्यतामननाभिनिवेशौ स्यातां, ततः च्रद्दधानैश्च सा भक्तिरुपासनाद्वारा लभ्यते इति । [८] अतः श्रुतिरपि तद्अर्थमागृह्णाति । आत्मा वारे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्य इति [Bऋहदू २.४.४.६] इति । अत्र निदिध्यासनम् उपासनम् । दर्शनं साक्षात्कार उच्यते । सा चैवं दुर्लभा भक्तिः हरि तोषणे प्रयुक्तात्स्वाभाविकधर्मादपि लभ्यते इति । तस्माद्धरि तोषणमेव तस्य परमफलमित्याह [पगे ६] अतः पुम्भिर्द्विजश्रेष्ठा वर्णाश्रमविभागशः । स्वनुष्ठितस्य धर्मस्य संसिद्धिर्हरितोषणम् ॥ [भागवतम् १.२.१३] स्वनुष्ठितस्य बहुप्रयत्नेनाच्छिद्रमुपार्जितस्य इति तुच्छे स्वर्गादिफले तत्प्रयोगोऽतीवायुक्त इति भावः । यद्येवं श्रीहरिसन्तोषकस्यापि धर्मस्य फलं श्रवणादिरुचिलक्षणा भक्तिरेव तत्प्रवर्तिताया भक्तेश् चानुगता ज्ञानवैराग्यादिगुणा इत्यायातं तदा साक्षाच्छ्रवणादिरूपा भक्तिरेव कर्तव्या । [९] किं तत्तद्आग्रहेणेत्याह तस्मादेकेन मनसा भगवान् सात्वतां पतिः । श्रोतव्यः कीर्तितव्यश्च ध्येयः पूज्यश्च नित्यदा ॥ [भागवतम् १.२.१४] एकेन कर्माद्याग्रहशून्येन । श्रवणमत्र नामगुणादीनां तथा कीर्तनं च । [१०] तत्रैवान्तिमभूमिकापर्यन्तां सुगमां शैलीं वक्तुं धर्मादिकष्ट निरपेक्षेण युक्तिमात्रेण तत्प्रथमभूमिकां श्रीहरिकथारुचिम् उत्पादयन् तस्य गुणं स्मारयति यद्अनुध्यासिना युक्ताः कर्मग्रन्थिनिबन्धनम् । छिन्दन्ति कोविदास्तस्य को न कुर्यात्कथारतिम् ॥ [भागवतम् १.२.१५] कोविदा विवेकिनो युवताः संयतचित्ता यस्य हरेरनुध्या अनुध्यानं चिन्तनमात्रमेवासिः खड्गस्तेन ग्रन्थिं नानादेहेष्वहङ्कारं निबध्नाति यत्तत्कर्म छिन्दन्ति । तस्यैवम्भूतस्य परमदुःखाद् उद्वर्तुः कथायां रतिं को नु कुर्यात् । [११] नन्वेवमपि तस्य कथारुचिर्मन्दभाग्यानां न जायत इत्याशङ्क्य तत्रोपायान् वदन् तामारभ्य नैष्ठिकभक्तिपर्यन्तां भक्तिमुपदिशति पञ्चभिः । शुश्रूषोः श्रद्दधानस्य वासुदेवकथारुचिः । स्यान्महत्सेवया विप्राः पुण्यतीर्थनिषेवणात् ॥ [भागवतम् १.२.१६] भुवि पुरुपुण्यतीर्थसदनान्यृषयो विमदाः इत्य्आद्य्अनुसारेण [भागवतम् १०.८७.३५] प्रायस्तत्र महत्सङ्गो भवतीति तदीयटीकानुमत्या च पुण्य तीर्थनिषेवणाद्धेतोर्लब्धा यदृच्छया या महत्सेवा तया वासुदेव कथारुचिः स्यात् । कार्यान्तरेणापि तीर्थे भ्रमतो महतां प्रायस्तत्र भ्रमतां तिष्ठतां वा दर्शनस्पर्शनसम्भाषणादिलक्षणा सेवा स्वत एव सम्पद्यते । तत्प्रभावेण च तदीयाचरणे श्रद्धा भवति । तदीय स्वाभाविकपरस्परभगवत्कथायां किमेते सङ्कथयन्ति तत्शृणोमीति तच्इच्छा जायते । तच्छ्रवणेन च तस्यां रुचिर्जायते इति । तथा च महद्भ्य एव श्रुता झटिति कार्यकरीति भावः । तथा च कपिलदेव वाक्यम् सतां प्रसङ्गान्मम वीर्यसंविदो भवन्ति हृत्कर्ण रसायनाः कथाः [भागवतम् ३.२५.२२] इत्य्आदि । [१२] ततश्च, शृण्वतां स्वकथाः कृष्णः पुण्यश्रवणकीर्तनः । हृद्यन्तःस्थो ह्यभद्राणि विधुनोति सुहृत्सताम् ॥ [भागवतम् १.२.१७] कथाद्वारा अन्तःस्थो भावनापदवीं गतः सन् हरिरभद्राणि वासनाः । [पगे ७] [१३] ततश्च, नष्टप्रायेष्वभद्रेषु नित्यं भागवतसेवया । भगवत्युत्तमश्लोके भक्तिर्भवति नैष्ठिकी ॥ [भागवतम् १.२.१८] नष्टप्रायेषु न तज्ज्ञानमिव सम्यङ्नष्टेष्वेवेति भक्तेर्निरर्गल स्वभावत्वमुक्तम् । भागवतानां भागवतशास्त्रस्य वा सेवया भक्तिर् अनुध्यानरूपा नैष्ठिकी सन्तता एव भवति । [१४] तदैव त्रिभुवनविभवहेतवेऽप्यकुण्ठस्मृतिर्[भागवतम् ११.२.५३] इत्य्आद्य् उक्तरीत्या सर्ववासनानाशात्चित्तं शुद्धसत्त्वमग्रं सत्भगवत् तत्त्वसाक्षात्कारयोग्यं भवतीत्याह तदा रजस्तमोभावाः कामलोभादयश्च ये । चेत एतैरनाविद्धं स्थितं सत्त्वे प्रसीदति ॥ [भागवतम् १.२.१९] रजस्तमश्च ये च तत्प्रभावा भावाः कामादय एतैरित्यन्वयः । [१५] एवं प्रसन्नमनसो भगवद्भक्तियोगतः । भगवत्तत्त्वविज्ञानं मुक्तसङ्गस्य जायते ॥ [भागवतम् १.२.२०] एवं पूर्वोक्तप्रकारेण प्रसन्नमनसस्ततो मुक्तसङ्गस्य त्यक्त कामादिवासनस्य भक्तियोगतः पुनरपि क्रियमाणात्तस्माद्विज्ञानं साक्षात्कारो मनसि बहिर्वा भावनां विनैवानुभवो यः स जायते । [१६] तस्य च परमानन्दैकरूपत्वेन स्वतःफलरूपस्य साक्षात् कारस्यानुषङ्गिकं फलमाह भिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्वसंशयाः । क्षीयन्ते चास्य कर्माणि दृष्ट एवात्मनीश्वरे ॥ [भागवतम् १.२.२१] हृदयग्रन्थिरूपोऽहङ्कारः । सर्वसंशयाश्छिद्य्नते इति श्रवण मननादिप्रधानानामपि तस्मिन् दृष्ट एव सर्वे संशयाः समाप्यन्ते इत्य् अर्थः । तत्र श्रवणेन तावज्ज्ञेयगतासम्भावनाश्छिद्यन्ते इति । मननेन तद्गतविपरीतभावनाः । साक्षात्कारेण त्वात्मयोग्यतागतासम्भावनाविपरीतभावने इति ज्ञेयम् । क्षीयन्ते तद् इच्छामात्रेण तद्आभासः किञ्चिदेव तेष्ववशिष्यत इत्यर्थः । [१७] अत्र प्रकरणार्थे सद्आचारं दर्शयन्नुपसंहरति । अतो वै कवयो नित्यं भक्तिं परमया मुदा । वासुदेवे भगवति कुर्वन्त्यात्मप्रसादनीम् ॥ [भागवतम् १.२.२२] आत्मप्रसादनीं मनसः शोधनीम् । न केवलमेतावद्गुणत्वं तस्याः । किं च परमया मुदेति कर्मानुष्ठानवन्न साधनकाले साध्यकाले वा भक्त्य्अनुष्ठानं दुःखरूपं प्रत्युत सुखरूपमेवेत्यर्थः । अतएव नित्यं साधकदशायां सिद्धदशायां च तावत्कुर्वन्तीत्युक्तम् ॥ ॥१.२॥ श्रीसूतः ॥ ३१७ ॥ [१८] तदेवं कर्मज्ञानवैराग्ययत्नपरित्यागेन भगवद्भक्तिरेव कर्तव्येति मतम् । कर्मविशेषरूपं देवतान्तरभजनमपि न कर्तव्यमित्याह सप्तभिः । तत्रान्येषां का वार्ता । सत्यपि श्रीभगवत (पगे ८) एव गुणावतारत्वे श्रीविष्णुवत्साक्षात्परब्रह्मत्वाभावात् सत्त्वमात्रोपकारकत्वाभावाच्च प्रत्युत रजस्तमोबृंहणत्वाच्च ब्रह्मशिवावपि श्रेयोऽर्थिभिर्नोपास्यावित्यत्र द्वौ श्लोकौ परमात्म सन्दर्भे एवोदाहृतौ सत्त्वं रजस्तम इति प्रकृतेर्गुणास्तैर् युक्तः परमपुरुष एक इहास्य धत्ते । स्थित्य्आदये हरिविरिञ्चिहरेति संज्ञाः श्रेयांसि तत्र खलु सत्त्वतनोर्नॄणां स्युः ॥ [भागवतम् १.२.२३] पार्थिवाद्दारुणो धूमस्तस्मादग्निस्त्रयीमयः । तमसस्तु रजस्तस्मात्सत्त्वं यद्ब्रह्मदर्शनम् ॥ [भागवतम् १.२.२४] इति । सत्त्वतनोः सत्त्वशक्तेः । त्रयीमयस्त्रय्युक्तकर्मप्रचुरः । दारुस्थानीयं तमः । धूमस्थानीयं रजः । अग्निस्थानीयं सत्त्वम् । त्रय्युक्तकर्मस्थानीयं ब्रह्म । ततश्च त्रय्य्उक्तकर्म यथाग्नाव् एव साक्षात्प्रवर्तते नान्ययोस्तद्वत्परब्रह्मभूतो भगवानपि सत्त्व एवेत्यर्थः । देवतान्तरपरित्यागेनापि भगवद्भक्तौ सद्आचारं प्रमाणयति भेजिरे मुनयोऽथाग्रे भगवन्तमधोक्षजम् । सत्त्वं विशुद्धं क्षेमाय कल्पन्ते येऽनु तानिह ॥ [भागवतम् १.२.२५] अथ अतो हेतोः । अग्रे पुरा । सत्त्वं विशुद्धं विशुद्धसत्त्वात्मकमूर्तिं भगवन्तम् । प्रकृतसत्त्वातीतत्वं च तस्य विवृतं भगवत्सन्दर्भे । अतो ये तामनुवर्तन्ते त इह संसारे क्षेमाय कल्पन्ते । [१९] नन्वन्यान् भैरवादीन् देवानपि केचिद्भजन्तो दृश्यन्ते । सत्यं यतस्ते सकामाः । किन्तु मुमुक्षवोऽप्यन्यान्न भजन्ते । किमुत तद्भक्तियिक पुरुषार्था इत्याह मुमुक्षवो घोररूपान् हित्वा भूतपतीनथ । नारायणकलाः शान्ता भजन्ति ह्यनसूयवः ॥ [भागवतम् १.२.२६] भूतपतीनिति पितृप्रजेशादीनामुपलक्षणम् । अनसूयवो देवतान्तर निन्दकाः सन्तः । [२०] ननु कामलोभोऽपि लक्ष्मीपतिभजने भवत्येव तर्हि कथमन्यांस्ते भजन्ते ? रजस्तमःप्रकृतयः समशीला भजन्ति वै । पितृभूतप्रजेशादीन् श्रियैश्वर्यप्रजेप्सवः ॥ [भागवतम् १.२.२७] तत्राह, रजस्तमःप्रकृतित्वेनैव पित्रादिभिः समं शीलं येषां, सम शीलत्वादेवं तद्भजने प्रवृत्तिरित्यर्थः । [२१] ततो वासुदेव एव भजनीय इत्युक्तम् । सर्वशास्त्रतात्पर्यं च तत्रैवेत्य् आह द्वाभ्याम् । वासुदेवपरा वेदा वासुदेवपरा मखाः । वासुदेवपरा योग वासुदेवपराः क्रियाः ॥ वासुदेवपरं ज्ञानं वासुदेवपरं तपः । वासुदेवपरो धर्मो वासुदेवपरा गतिः ॥ [भागवतम् १.२.२८९] (पगे ९) टीका च वासुदेवपरस्तात्पर्यगोचरो येषां ते । ननु वेदा मखपरा दृश्यन्ते इत्याशङ्क्य तेऽपि तद्आराधनार्थत्वात्तत्परा एवेत्युक्तम् । योगा योगशास्त्राणि । तेषामप्यासनप्राणायामादिक्रियापरत्वमाशङ्क्य तासामपि तत्प्राप्त्य्उपायत्वात्तत्परत्वमुक्तम् । ज्ञानं ज्ञानशास्त्रम् । ननु तज्ज्ञानपरमेवेत्याशङ्क्य ज्ञानस्यापि तत्परत्वमुक्तम् । तपोऽत्र ज्ञानम् । धर्मो धर्मशास्त्रं दानव्रतादिविषयम् । ननु तत्स्वर्गादिपरमित्याशङ्क्य गम्यते इति गतिः स्वर्गादिफलम् । सापि तदानन्दांशरूपत्वात्तत्परैवेत्युक्तम् । यद्वा वेदा इत्यनेनैव तन् मूलत्वात्सर्वशास्त्राणि वासुदेवपराणीत्युक्तम् । ननु तेषां मखयोगक्रियादिनानार्थपरत्वान्न तद्एकपरत्वमित्य् आशङ्क्य मखादीनामपि तत्परत्वमुक्तमिति द्रष्टव्यमित्येषा । अत्र योगादीनां कथञ्चिद्भक्तिसचिवत्वेनैव तत्परत्वं मुख्यं द्रष्टव्यम् । [२२] वेदाश्च कर्मकाण्डपरा एव ज्ञेयाः केषाञ्चित्साक्षाद्भक्तिपरत्वमपि दृश्यत इति यस्य देवे परा भक्तिः यथा देवे तथा गुरौ । तस्यैते कथिता ह्यर्थाः प्रकाशन्ते महात्मनः ॥ [श्वेतू ६.२३] इत्य्आदेः । तदेवं द्वात्रिंश्या तद्भजनस्यैवाभिधेयत्वं दर्शयित्वा पूर्वोक्तं सर्वशास्त्रसमन्वयमेव स्थापयति स एवेदं ससर्जाग्रे भगवानात्ममायया । सद्असद्रूपया चासौ गुणमय्यगुणो विभुः ॥ [भागवतम् १.२.३०] टीका च ननु जगत्सर्गप्रवेशनियमनादिलीलायुक्ते वस्तुनि सर्व शास्त्रसमन्वयो दृश्यते, कथं वासुदेवपरत्वं सर्वस्य । तत्राह स एवेति चतुर्भिरित्येषा । इदं महद्आदिविरिञ्चिपर्यन्तम् । एवं प्रवेशादिकाप्य् उत्तरश्लोकेषु द्रष्टव्या ॥ ॥१.२॥ श्रीसुतः श्रीशौनकम् ॥१९२२॥ [२३] श्रीभागवतादिर्भावकारणे श्रीनारदव्याससंवादेऽपि नैष्कर्म्यमप्यच्युतभाववर्जितं न शोभते ज्ञानमलं निरञ्जनम् कुतः पुनः शश्वदभद्रमीश्वरे न चार्पितं कर्म यदप्यकारणम् ॥ [भागवतम् १.५.१२] इत्य्आद्युदाहृतम् । टीका च निष्कर्म ब्रह्म तद्एकाकारत्वान्निष्कर्मता रूपं नैष्कर्म्यम् । अज्यते अनेनेत्यञ्जनमुपाधिस्तन्निवर्तकं निरञ्जनमेवम्भूतमपि ज्ञानमुच्यते भावो भक्तिस्तद्वर्जितं चेद् अलमत्यर्थं न शोभते सम्यगपरोक्षाय न कल्पते इत्यर्थः । तदा शश्वत्साधनकाले फलकाले च अभद्रं दुःखरूपं यत्काम्यं कर्म यदप्यकारणमकाम्यं तच्चेति चकारस्यान्वयः । तदपि कर्म ईश्वरे नार्पितं चेत्कुतः पुनः शोभते, बहिर्मुखत्वेन सत्त्व शोधकत्वाभावादित्येषा । तदेवं ज्ञानस्य भक्तिसंसर्गं विना कर्मणश्तद्उपपादकत्वं विना व्यर्थत्वं व्यक्तम् । (पगे १०) किं च जुगुप्सितं धर्मकृतेऽनुशासतः स्वभावरक्तस्य महान् व्यतिक्रमः ॥ [भागवतम् १.५.१५] इत्य्आदिकमुक्त्वाह त्यक्त्वा स्वधर्मं चरणाम्बुजं हरेर् भजन्नपक्वोऽथ पतेत्ततो यदि । यत्र क्व वाभद्रमभूदमुष्य किं को वार्थ आप्तोऽभजतां स्वधर्मतः ॥ [भागवतम् १.५.१७] टीका च इदानीं तु नित्यनैमित्तिकस्वधर्मनिष्ठामप्यनादृत्य केवलं हरिभक्तिरेवोपदेष्टव्या इत्याशयेनाह त्यक्त्वेति । ननु स्वधर्मत्यागेन भजन् भक्तिपरिपाकेन यदि कृतार्थो भवेत्तदा न काचिच्चिन्ता । यदि पुनरपक्व एव म्रियेत भ्रश्येद्वा तदा तु स्वधर्म त्यागनिमित्तोऽनर्थः स्यादित्याशङ्क्याह, ततो भजनात्पतेत्कथञ्चिद् भ्रश्येन्म्रियेत वा यदि तदापि भक्तिरसिकस्य कर्मानधिकारान् नानर्थशङ्का । अङ्गीकृत्याप्याह, वाशब्दः कटाक्षे, यत्र क्व वा नीचयोनावपि अमुष्य भक्तिरसिकस्य अभद्रमभूत्किम्? नाभूदेवेत्य् अर्थः । भक्तिवासनासद्भावादिति भावः । अभजतामभजद्भिस्तु केवलं स्वधर्मतः को वार्थ आप्तः । अभजतामिति षष्ठी सम्बद्न मात्रविवक्षयेत्येषा । ॥ १.५ ॥ श्रीनारदः श्रीव्यासम् ॥२३॥ [२४] तदेवं भक्तिरेवाभिधेयं वस्त्वित्युक्तम् । तथैव श्रीशुकपरीक्षित् संवादोपक्रमेऽपि श्रोतव्यादीनि राजेन्द्र नृणां सन्ति सहस्रशः । अपश्यतामात्मतत्त्वं गृहेषु गृहमेधिनाम् ॥ [भागवतम् २.१.२] इत्य्आदि । गृहेष्वित्य्आदिकमुपलक्षणं बहिर्मुखानाम् । आत्मतत्त्वं भगवत् तत्त्वं, तथा निगमयिष्यमानत्वात् । [२५] निगमयति तस्माद्भारत सर्वात्मा भगवानीश्वरो हरिः । श्रोतव्यः कीर्तितव्यश्च स्मर्तव्यश्चेच्छताभयम् ॥ [भागवतम् २.१.५] टीका च सर्वात्मेति प्रेष्ठत्वमाह, भगवानिति सौन्दर्यम् । ईश्वर इत्य् आवश्यकत्वं हरिरिति बन्धहारित्वमभयं मोक्षमिच्छतेत्येषा । मोक्षस्तु सर्वक्लेशशान्तिपूर्वकभगवत्प्राप्तिरेवेति ज्ञेयम् । [२६] एतद्अनन्तरं विराड्धारणामुक्त्वा तद्अपवादेनापि भक्तिं तामाह स सर्वधीवृत्त्य्अनुभूतसर्व आत्मा यथा स्वप्नजनेक्षितैकः । तं सत्यमानन्दनिधिं भजेत नान्यत्र सज्जेद्यत आत्मपातः ॥ [भागवतम् २.१.३९] टीका च सर्वेषां श्रीवृत्तिभिरनुभूतं सर्वं येन स एक एव सर्वान्तरात्मा । तमेव सत्यं भजेत । अन्यत्रोपलक्षणे न सज्जेत । यत आसङ्गादात्मनः पातः संसारो भवति । एकस्य तत्तद्इन्द्रियैः सर्वानुभूतौ दृष्टान्तः स्वप्नजनानामीक्षिता यथेति । स्वप्नेऽपि कदाचिद् बहून् देहान् प्रकल्प्य जीवस्तत्तद्इन्द्रियैः सर्वं पश्यति तद्वदीश्वरस्य तु विद्याशक्तित्वान्न बन्ध इत्येषा । अत्र स्वधीवृत्तिभिः पश्यन्नेव सर्वेषां धीवृत्तिभिरपि सर्वं पश्यतीत्य् एवं तथोक्तम् । स ऐक्षत इत्यत्र सर्वधीवृत्तिसृष्टेः पूर्वमपि तच् छ्रवणात् । तथा स्वप्नदेहानामीश्वरकर्तृकत्वेऽपि जीवकर्तृक प्रकल्पनकथनं तत्सङ्कल्पद्वारैवेश्वरः करोतीत्यपेक्षायाम् उक्तम् । यः सर्वधीत्यनुक्तत्वात्सत्यं भजेतेति योजयितव्यस्य कर्तुर् विद्यमानत्वादयमेवार्थः । स तथाभूतो दृष्टान्तः आत्मा स्वप्न द्रष्टा जीवो यथा स्वप्नगतानां सर्वेषां जनानां तद्उपलक्षितानां वस्तूनां च एक एव ईक्षिता भवतीति तद्वत् । अत्र तमित्यनेन स ऐक्षतेति [आइतू १.१.२] स्वाभाविकी ज्ञानबलक्रिया च इति [श्वेतू ६.८], श्रुतिप्रसिद्ध परानपेक्षज्ञानादिसिद्धेस्तथा सन्ध्ये सृष्टिराह हि [Vस्३.२.१], मायामात्रं तु कार्त्स्न्येनानभिव्यक्तस्वरूपत्वाद्[Vस्३.२.३] इति न्याय प्राप्तेन स्वप्नस्यापि कर्तृत्वेन जाग्रद्आदिमयजगत्कर्तृत्वस्य पूर्णत्व प्राप्ते वैलक्षण्यं दर्शितं सत्यादिद्वयेन परमपुरुषार्थत्वं चेति ज्ञेयम् । ॥२.१॥ श्रीशुकः ॥ २४२६ ॥ [२७] एतद्अनन्तराध्यायेऽपि तथैवाह यावन्न जायेत परावरेऽस्मिन् विश्वेश्वरे द्रष्टरि भक्तियोगः । तावत्स्थवीयः पुरुषस्य रूपं क्रियावसाने प्रयतः स्मरेत ॥ [भागवतम् २.२.१४] परे ब्रह्मादयोऽवरे यस्मात् । विश्वेश्वरे द्रष्टरि न तु दृश्ये चैतन्य घनत्वात् । भक्तियोगः केचित्स्वदेहान्तर्हृदयावकाशे प्रादेशमात्रं पुरुषं वसन्तं चतुर्भुजमित्य्आदि नोक्त्साधनलक्षणाभिनिवेशः । क्रियावसाने आवश्यककर्मानुष्ठानानन्तरम् । अनेन कर्मापि भक्ति योगपर्यन्तमित्युक्तम् । [२८] अनन्तरं च स्थिरं सुखं चासनमास्थितो यतिर्यदा जिहासुर्[भागवतम् २.२.१५] इत्य्आदिना, यदि प्रयास्यन्नृप पारमेष्ठ्यं वैहायसानामुत यद् विहारमित्य्[भागवतम् २.२.२२] आदिना च, क्रमेण सद्योमुक्तिक्रममुक्त्य्उपायौ ज्ञानयोगावुक्त्वा ततोऽपि श्रेष्ठत्वं भक्तियोगहेतुभगवद्अर्पित कर्मणः एवोक्त्वा साक्षाद्भक्तियोगस्य कैमुत्यमेवानीतम् । यथा न ह्यतोऽन्यः शिवः पन्था विशतः संसृताविह । वासुदेवे भगवति भक्तियोगो यतो भवेत् ॥ [भागवतम् २.२.३३] टीका च सन्ति संसरतः पुंसो बहवो मोकमार्गास्तपोयोगादयः । समीचीनस्त्वयमेवेत्य् आह न हीति । यतोऽनुष्ठिताद्भक्तियोगो भवेद् अतोऽन्यः शिवः सुखरूपो निर्विघ्नश्च नास्त्येव इत्येषा । यच्छब्देनात्र भगवत्सन्तोषार्थकं कर्मोच्यते स वै पुंसां परो धर्म इत्युक्तेः । [२९] स च भक्तियोगः सर्ववेदसिद्ध इत्याह भगवान् ब्रह्म कार्त्स्न्येन त्रिरन्वीक्ष्य मनीषया । तदध्यवस्यत्कूटस्थो रतिरात्मन्यतो भवेत् ॥ [भागवतम् २.२.३४] भगवान् ब्रह्मा । कूटस्थः निर्विकार एकाग्रचित्तः सन्नित्यर्थः । त्रिस् त्रीन् वारान् कार्त्स्न्येन साकल्येन ब्रह्म वेदमन्वीक्ष्य विचार्य यत आत्मनि हरौ रतिर्भवेत्तदेव भक्तियोगाख्यं वस्तु मनीषयाध्यवस्यत्निश्चितवान् । अत्राप्युपसंहारानुरोधेन आत्म शब्दस्य हरिवाचकता । निरुक्तं च आतत्वाच्च मातृत्वादात्मा हि परमो हरिरिति । अथवा भगवान् स्वप्रकाशसार्वज्ञ्यादिगुणः परमेश्वरोऽपि सर्ववेदाभिधेयसाराकर्षणलीलार्थमन्वीक्ष्य तत्र शास्त्र विदन्तराणामीक्षणमनुकृत्य अनन्तवैकुण्ठवैभवादिमयानाम् अनन्तविरिञ्चपाठ्यभेदानां वेदानां तथेक्षणं च तेनैव सम्भवतीत्याह कूटस्थ एकरूपतयैव कालव्यापीति । अतएवोक्तं स्वयम् एव किं विधत्ते किमाचष्टे किमनूद्य विकल्पयेत् । इत्यस्या हृदयं लोके नान्यो मद्वेद कश्चन ॥ [भागवतम् ११.२१.४२] इति । [३०] तथैव यच्छ्रोतव्यम् [भागवतम् १.१९.३८] इत्य्आदिना प्रश्नस्योत्तरत्वेनोपसंहरति तस्मात्सर्वात्मना राजन् हरिः सर्वत्र सर्वदा । श्रोतव्यः कीर्तितव्यश्च स्मर्तव्यो भगवान्नृणाम् ॥ [भागवतम् २.२.३६] चकारात्पादसेवादयोऽपि गृह्यन्ते । अनन्तरं च श्रवणादिफलं यद् दर्शितं तत्तूदाहृतम् पिबन्ति ये भगवत आत्मनः सतां कथामृतं श्रवणपुटेषु सम्भृतम् पुनन्ति ते विषयविदूषिताशयं व्रजन्ति तच्चरणसरोरुहान्तिकम् ॥ [भागवतम् २.२.३७] इति । अत्र पूनन्तीयनेन पूर्वोक्तः स्थूलधारणमार्गः परिहृतः । भक्ति योगस्यैव स्वतः पावनत्वादलं तत्प्रयासेनेति ॥ ॥ २.२ ॥ श्रीशुकः ॥ २८३० ॥ [३१] एवं प्राक्तनाध्यायाभ्यां कर्मयोगज्ञानेभ्यः श्रेष्ठत्वमुक्त्वा तद् उत्तराध्यायेऽपि सर्वदेवतोपासनेभ्यः श्रेष्ठत्वप्रवचनेन भगवद् भक्तियोगस्यैवाभिधेयत्वमाह ब्रह्मवर्चसकामस्तु यजेत ब्रह्मणः पतिम् [भागवतम् २.३.२] इत्य्आद्य्अनन्तरम् अकामः सर्वकामो वा मोक्षकाम उदारधीः । तीव्रेण भक्तियोगेन यजेत पुरुषं परम् ॥ [भागवतम् २.३.१०] टीका च अकाम एकान्तभक्तः उक्तानुक्तकामो वा सर्वकामो वा । पुरुषं पूर्णं निरुपाधिमित्येषा । तीव्रेण दृढेन स्वभावत एव अनुपघात्येनेति विघ्नानवकाशतोक्ता । कामना तु यथा कथञ्चित्कृतेनापि स्यात् । यथोक्तं भारते भक्तक्षणः क्षणो विष्टोः स्मृतिः सेवा स्ववेश्मनि । स्वभोग्यस्यार्पणं दानं फलमिन्द्रादिदुर्लभम् ॥[*Eण्ड्ण्Oट्E ॰१] (पगे १३) तदुक्तं श्रीकपिलेन श्रीकर्दमं प्रति । न वै जातु मृषैव स्यात् प्रजाध्यक्ष मद्अर्हणमिति [भागवतम् ६.२१.२४] । अथवा यत्तत्कामस्तीव्रेणैव यजेत ततश्च शुद्धभक्ति सम्पादनायैवान्ते पर्यवसिष्यतीत्यभिप्रायेण सविशेषणमुपदिष्टम् । तदनेन एकान्तभक्तेषु मुमुक्षौ वा तद्भक्तियोगस्यैवाभिधेयत्वं किं वक्तव्यमपि तु सर्वकामेष्वपीति तदेव सर्वथापि निर्णीतम् । [३२] किं च एतावानेव यजतामिह निःश्रेयसोदयः । भगवत्यचलो भावो यद्भागवतसङ्गतः ॥ [भागवतम् २.३.११] टीका च पूर्वोक्तनानादेवतायजनस्यापि संह्योगपृथक्त्वेन भक्तियोगफलत्वमाह एतावानिति । इन्द्रादीनपि यजतामिह तत्तद्यजने भागवतानां सङ्गतो भावो भक्तिर्भवतीति यदेतावानेव निःश्रेयसस्य परमपुरुषार्थसोदयः लाभः अन्यत्तु सर्वं तुच्छमित्यर्थमित्य् एषा । अत्र इन्द्रमिन्द्रियकामस्त्वित्य्आद्युक्तम् । इन्द्रियपाटवादिकं पृथक्त्वेन फलम् । भागवतेन संयोगे तु भावः फलं खादिरयूपसंयोगे यागस्य फलवैशिष्ट्यवदिति ज्ञेयम् ॥ ॥२.३॥ श्रीशुकः ॥ ३१३२ ॥ [३३] अनन्तरं श्रीशौनकेनापि व्यतिरेकोक्त्या तस्यैवाभिधेयत्वं दृढीकृतम् । यथाह आयुर्हरति वै पुंसामुद्यन्नस्तं च यन्नसौ । तस्यर्ते यत्क्षणो नीत उत्तमश्लोकवार्तया ॥ [भागवतम् २.३.१७] असौ सूर्यः यनुद्गच्छनस्तं च यन् गच्छन् हरति वृथागामित्वाद् आच्छिनत्तीव । यत्क्षणोऽपि येन नीतः उत्तमः श्लोकवार्तया तस्यायुः ऋते वर्जयित्वा । तावतैव सर्वसाफल्यादिति भावः । [३४] ननु जीवनादिकमेव तेषामायुषः फलमस्तु । तत्राह तरवः किं न जीवन्ति भस्त्राः किं न श्वसन्त्युत । न खादन्ति न मेहन्ति किं ग्रामे पशवोऽपरे ॥ [भागवतम् २.३.१८] न मेहन्ति न मैथुनं कुर्वन्ति । तमपि नराकारं पशुं मत्वाह अपरे इति । [३५] तदेवाह श्वविड्वराहोष्ट्रखरैः संस्तुतः पुरुषः पशुः । न यत्कर्णपथोपेतो जातु नाम गदाग्रजः ॥ [भागवतम् २.३.१९] श्वादितुल्यैस्तत्परिकरैः सम्यक्स्तुतोऽप्यसौ पुरुषः पशुः । तेषामेव मध्ये श्रेष्ठश्चेत्तर्हि महापशुरेवेत्यर्थः । [३६४०] तस्याङ्गानि निष्फलानीत्याह पञ्चभिः बिले बतोरुक्रमविक्रमान् ये न शृण्वतः कर्णपुटे नरस्य । जिह्वासती दार्दुरिकेव सूत न चोपगायत्युरुगायगाथाः ॥ [भागवतम् २.३.२०] न शृण्वतः अशृण्वतो नरस्य ये कर्णपुटे ते बिले ते वृथारन्ध्रे इत्य् अर्थः । असती दुष्टा । भारः परं पट्टकिरीटजुष्टम् अप्युत्तमाङ्गं न नमेन्मुकुन्दम् । शावौ करौ नो कुरुते सपर्यां हरेर्लसत्काञ्चनकङ्कणौ वा ॥ [भागवतम् २.३.२१] पट्टवस्त्रौष्णीषेण किरीटेन वा जुष्टमपि । अप्यर्थे वा शब्दः । बर्हायिते ते नयने नराणां लिङ्गानि विष्णोर्न निरीक्षतो ये । पादौ नृणां तौ द्रुमजन्मभाजौ क्षेत्राणि नानुव्रजतो हरेर्यौ ॥ [भागवतम् २.३.२२] द्रुमवज्जन्मभाजाविति तथा वृक्षमूलतुल्यावित्यर्थः । जीवञ्छवो भागवताङ्घ्रिरेणुं न जातु मर्त्योऽभिलभेत यस्तु । श्रीविष्णुपद्या मनुजस्तुलस्याः श्वसञ्छवो यस्तु न वेद गन्धम् ॥ [भागवतम् २.३.२३] जात्वपि श्रीविष्णुपद्यास्तत्पादलग्नायाः । तदश्मसारं हृदयं बतेदं यद्गृह्यमाणैर्हरिनामधेयैः न विक्रियेताथ यदा विकारो नेत्रे जलं गात्ररुहेषु हर्षः ॥ [भागवतम् २.३.२४] अश्मवत्सारो बलं काठिन्यं यस्य । विक्रियालक्षणमथेति । यदा तद् विकारो भवेत्तदा नेत्रादौ जलादिकं भवतीत्यर्थः । इदमेवान्वयेन श्रीमता राज्ञा दृढीकरिष्यते । सा वाग्यया तस्य गुणान् गृणीते इत्य् आदिभ्याम् [भागवतम् १०.८०.३४] । तदेवं श्रीशुकवाक्यारम्भाध्याय एवाभिधेयत्वेन श्रीभक्तिरेव लब्धा । टीका च तत्रतु प्रथमेऽध्याये कीर्तणश्रवणादिभिः । स्थविष्ठे भगवद्रूपे मनसो धारणोच्यते ॥ द्वितीये तु ततः स्थूलधारणातो जितं मनः । सर्वसाक्षिणि सवशे विष्णौ धार्यमितीर्यते ॥ तृतीये विष्णुभक्तेस्तु वैशिष्ट्यं शृण्वतो मुनेः । भत्य्उद्रेकेण तत्कर्मश्रवणादर ईर्यते ॥ इत्येषा ॥ ॥ २.३ ॥ श्रीशौनकः ॥ ३३४० ॥ [४१] श्रीब्रह्मनारदसंवादेऽपि सम्यक्कारुणिकस्येदं वत्स ते विचिकित्सितम् । यदहं चोदितः सौम्य भगवद्वीर्यदर्शने ॥ [भागवतम् २.५.९] अग्रे च सर्वशास्त्रसमन्वयेन नारायणपरा वेदा इत्य्आदि [भागवतम् २.५.१५] श्रीनारायण एवोपास्यत्वेन परः तात्पर्यविषयो येषां ते वेदाः । नन्व् अन्येऽपि देवास्तत्रोपास्यत्वेनाभिधीयन्ते । सत्यं तेऽपि नारायणाङ्ग प्रभवत्वेनैव तथा वर्ण्यन्त इत्यर्थः । येऽपि तद्आश्रयाः [पगे १५] लोकास् तत्पदप्राप्तिहेतवोऽन्ये मखाश्च ते तत्परा एव । तद्आनन्दांशाभास रूपत्वात्तत्साधनत्वाच्चेति भावः । तथा योगोऽष्टाङ्गः साङ्ख्यं च । तत्साध्यं तपश्चित्तैकाग्र्यम् । तत् साध्यं ब्रह्मज्ञानं च तत्परम् । तदीयसामान्याकारप्रकाशत्वात्तज् ज्ञानस्य । योगतपसोस्तत्साधनत्वाच्चेति भावः । किं बहुना । गतिस्तत्प्राप्यं ब्रह्मापि तत्परा तदीयसामान्याकारप्रकाशत्वेन तद् अधीनाविर्भावत्वात् । तदुक्तं श्रीमत्स्यदेवेन सत्यव्रतं प्रति मदीयं महिमानं च परं ब्रह्मेति शब्दितम् । वेत्स्यस्यनुगृहीतं मे सम्प्रश्नैर्विवृतं हृदि ॥ इति [भागवतम् ८.२४.३८] ॥ २.५ ॥ श्रीब्रह्मा नारदम् ॥ ४१४२ ॥ [४३] श्रीविदुरमैत्रेयसंवादेऽपि । तत्र प्रश्नो यथा तत्साधुवर्यादिश वर्त्म शं नः संराधितो भगवान् येन पुंसाम् । हृदि स्थितो यच्छति भक्तिपूते ज्ञानं सतत्त्वाधिगमं पुराणम् ॥ [भागवतम् ३.५.४] अत्र शं सुखरूपं वर्त्मेति । टीका च भक्तिपूते प्रेमविमले । स तत्त्वं तत्त्वं तच्च ब्रह्मभगवत्परमात्मेत्य्आद्य्आविर्भावः ॥ ॥ ३.५ ॥ श्रीविदुरः श्रीमैत्रेयम् ॥ ४३ ॥ [४४] तत्राजानजदेवस्तुतिद्वारैवोत्तरम् पानेन ते देव कथासुधायाः प्रवृद्धभक्त्या विशदाशया ये । वैराग्यसारं प्रतिलभ्य बोधं यथाञ्जसान्वीयुरकुण्ठधिष्ण्यम् ॥ तथापरे चात्मसमाधियोग बलेन जित्वा प्रकृतिं बलिष्ठाम् । त्वामेव धीराः पुरुषं विशन्ति तेषां श्रमः स्यान्न तु सेवया ते ॥ [भागवतम् ३.५.४५४६] अकुण्ठधिष्ण्यं वैकुण्ठलोकमिति । टीका विशदाशयाः प्रोज्झित कैतवाः सेवैकपुरुषार्थाः । अपरे मोक्षमात्रकामाः । तन्मात्र पुरुषार्थेऽपि तेषां श्रमः स्यात् । ये तु सेवैकपुरुषार्थास्तेषां सेवया श्रमो न स्यात् । सदैव सेवया परमानन्दमनुभवतामानुषङ्गिकत्या मोक्षश्च स्यादित्यर्थः । ॥ ३.५ ॥ अजानजदेवाः श्रीपरमात्मानम् ॥ ४४ ॥ [४५] अतएव स्वयं तत्श्लाघ्यते सत्सेवनीयो बत पूरुवंशो यल्लोकपालो भगवत्प्रधानः । बभूविथेहाजितकीर्तिमालां पदे पदे नूतनयस्यभीक्ष्णम् ॥ [भागवतम् ३.८.१] तस्मात्कथोपलक्षिता भक्तिरेव परं श्रेय इति भावः । ॥ ३.८ ॥ श्रीमैत्रेयः ॥ ४५ ॥ [४६४७] श्रीकापिलेयेऽपि यथाह न युज्यमानया भक्त्या भगवत्यखिलात्मनि । सदृशोऽस्ति शिवः पन्था योगिनां ब्रह्मसिद्धये ॥ [भागवतम् ३.२५.१९] ब्रह्मसिद्धिः परतत्त्वाविर्भावः । यथा एतावानेव लोकेऽस्मिन् पुंसां निःश्रेयसोदयः । तीव्रेण भक्तियोगेन मनो मय्यर्पितं स्थिरम् ॥ [भागवतम् ३.२५.४१] भक्तियोगेन श्रवणादिना मय्यर्पितं सत्मनः स्थिरं भवतीति यद् एतावानेव । अत्रास्मिनित्यनेनान्यस्मिंस्तु एतावतोऽप्यधिको नास्तीति व्यज्यते ॥ ॥३.२५॥ श्रीकपिलदेवः ॥४६४७॥ [४८] श्रीकुमारोपदेशेऽपि ज्ञानोपदेशानन्तरम् यत्पादपङ्कजपलाशविलासभक्त्या कर्माशयं ग्रथितमुद्ग्रथयन्ति सन्तः । तद्वन्न रिक्तमतयो यतयोऽपि रुद्ध स्रोतोगणास्तमरणं भज वासुदेवम् ॥ कृच्छ्रो महानिह भवार्णवमप्लवेशां षड्वर्गनक्रमसुखेन तितीर्षन्ति । तत्त्वं हरेर्भगवतो भजनीयमङ्घ्रिं कृत्वोडुपं व्यसनमुत्तर दुस्तरार्णम् ॥ [भागवतम् ४.२२.३७३८} टीका च तमवेहीति ज्ञानमुपदिष्टम् । तस्य तु दुष्करत्वेन भक्तिम् उपदिशति द्वाभ्यां यत्पादपङ्कजेत्य्आदिकमारभ्य । ननु ब्रह्मविद् आप्नोति परमिति श्रुतेः [टैत्तू २.१.१] । कथं यतयो नोद्ग्रथयन्तीत्युच्यते तत्राह कृच्छ्र इति । अप्लवेशां न प्लवस्तरणहेतुरीड, ईशो येषां, तेषाम् इह तरणे महान् कृच्छ्रः क्लेशः । ते हि असुखेन इन्द्रियषड्वर्गग्राहं भवार्णवं तितीर्षन्ति ।तस्मादुडुपं प्लवं दुस्तरार्णं दुस्तरार्णवमित्य् एषा । समानप्राप्ययोरपि पथोरेकस्य दुर्गमत्व कथनेनान्यस्याभिधेयत्वं स्वत एव सिध्यति । अत्र तितीर्षन्ति मात्रं न तु तरन्तीत्यर्थो ज्ञेयः । ॥४.२२॥ श्रीसनत्कुमारः श्रीपृथुम् ॥४८॥ [४९] अतो यच्च ज्ञानमुपदिष्टं तदपि तद्उपदेशाव्यर्थतासम्पादनेच्छा मात्रेणानुष्ठीयमानं तेन भक्तिरसादेव कृतमित्याह सनत्कुमारो भगवान् यदाहाध्यात्मिकं परम् योगं तेनैव पुरुषमभजत्पुरुषर्षभः । भगवद्धर्मिणः साधोः श्रद्धया यततः सदा भक्तिर्भगवति ब्रह्मण्यनन्यविषयाभवत् ॥ [भागवतम् ४.२३.७८] तेनैव द्वारीकृतेन ॥ ॥४.२३॥ श्रीमैत्रेयः ॥४९॥ [५०] श्रीरुद्रगीतेऽपि इदं जपत भद्रं वो विशुद्धा नृपनन्दनाः । स्वधर्ममनुतिष्ठन्तो भगवत्यर्पिताशयाः ॥ तमेवात्मानमात्मस्थं सर्वभूतेष्ववस्थितम् । पूजयध्वं गृणन्तश्च ध्यायन्तश्चासकृद्धरिम् ॥ [भागवतम् ४.२४.६४६५] अथ तमेव पूजयध्वं न तु स्वधर्मानुष्ञ्हानाग्रहादिकमपि कुरुध्वमित्येवकारार्थः । आत्मस्थं स्वान्तर्यामित्वेन स्थितम् । तद्वद् अपरेष्वपि भूतेष्ववस्थितमात्मानं परमात्मानं गृणन्तः कीर्तयन्तो ध्यायन्तश्चेत्यन्यत्र मनोवचो व्यापारोऽपि निषिद्धः । असकृदिति एकस्यां पूजायां समाप्यमानायामेवान्यारभ्द्यव्या न तु कर्माद्याग्रहेण विच्छेदः कर्तव्य इत्यर्थः ॥ ॥ ४.२४ ॥ श्रीरुद्रः प्रचेतसः ॥ ५० ॥ (पगे १७) [५१] एतदेव श्रीनारदेनापि स्फुटीकरिष्यते अन्वयव्यतिरेकाभ्याम् । यथाह तज्जन्म तानि कर्माणि तदायुस्तन्मनो वचः । नॄणां येन हि विश्वात्मा सेव्यते हरिरीश्वरः ॥ किं जन्मभिस्त्रिभिर्वेह शौक्रसावित्रयाज्ञिकैः । कर्मभिर्वा त्रयीप्रोक्तैः पुंसोऽपि विबुधायुषा ॥ श्रुतेन तपसा वा किं वचोभिश्चित्तवृत्तिभिः । बुद्ध्या वा किं निपुणया बलेनेन्द्रियराधसा ॥ किं वा योगेन साङ्ख्येन न्यासस्वाध्याययोरपि । किं वा श्रेयोभिरन्यैश्च न यत्रात्मप्रदो हरिः ॥ श्रेयसामपि सर्वेषामात्मा ह्यवधिरर्थतः । सर्वेषामपि भूतानां हरिरात्मात्मदः प्रियः ॥ [भागवतम् ४.३१.९१३] शौक्रं शुक्रसम्बन्धि जन्म विशुद्धमातापितृभ्यामुत्पत्तिः । सावित्रमुपनयनेन । याज्ञिकं दीक्षया । इन्द्रियराधसा तत्पाटवेन । अत्र साङ्ख्येन देहादिव्यतिरिक्तात्मज्ञानमात्रेणेति टीका । अथ श्रेयसामित्य्आदिटीका च नन्वेषां नानाफलसाधनानां हरि सेवनाभावमात्रेण कुतो वैयर्थ्यम् । तत्राह, श्रेयसां फलानाम् आत्मैवावधिः पराकाष्ठा । अर्थतः परमार्थतः आत्मार्थत्वेनैवान्येषां प्रियत्वादित्यर्थः । भवत्वात्मावधिः । हरेः किमायातम् । तत्राह सर्वेषामपीति । आत्मदश्च अविद्यानिरासेन स्वरूपाभिव्यञ्जकः । ऐश्वरेणापि रूपेण बलिप्रभृतिभ्य इव आत्मप्रदः । प्रियश्च परमानन्दरूपत्वादित्येषा । अत्र सर्वेषां भूतानां शुद्धजीवानामपि आत्मा परमात्मेति ज्ञेयम् । रश्मिस्थानीयानां जीवानां सूर्यस्थानीयत्वात्तस्य । तदुक्तम् तस्मात्प्रियतमः स्वात्मा सर्वेषामेव देहिनाम् । तदर्थमेव सकलं जगच्चैतच्चराचरम् । कृष्णमेनमवेहि त्वमात्मानमखिलात्मनाम् ॥ [भागवतम् १०.१४.५४] इति । आत्मानौ जीवतादात्म्यापन्नब्रह्मेश्वराख्यौ ददाति यथायथं स्फोरयति वशीकारयति च यः स आत्मद इति स्वाम्य्अभिप्रायः ॥ [५२] किं च यथा तरोर्मूलनिषेचनेन तृप्यन्ति तत्स्कन्धभुजोपशाखाः । प्राणोपहाराच्च यथेन्द्रियाणां तथैव सर्वार्हणमच्युतेज्या ॥ [भागवतम् ४.३१.१२] टीका च किं च नानाकर्मभिस्तत्तद्देवताप्रीतिनिमित्तान्यपि फलानि हरिप्रीत्या भवन्ति । केवलतत्तद्देवताराधनेन तु न किञ्चिदिति सदृष्टान्तमाह यथेत्य्आदिना ॥ ॥ ४.३१ ॥ श्रीनारदः प्रचेतसः ॥५२॥ [५३] श्र्यृषभदेवकृतस्वपुत्रशिक्षणेऽपि ये वा मयीशे [भागवतम् ५.५.३] इत्य् आदिकं, मत्तोऽप्यनन्तादित्य्आदिकं [भागवतम् ५.५.२५] चाग्रे दर्शनीयम् । ब्राह्मणरहूगणसंवादान्तेऽपीदमस्ति रहूगण त्वमपि ह्यध्वनोऽस्य; सन्न्यस्तदण्डः कृतभूतमैत्रः । असज्जितात्मा हरिसेवया शितं; ज्ञानासिमादाय तरातिपारम् ॥ [भागवतम् ५.१३.२०] (पगे १८) ज्ञानमत्र भवत्याश्रयमेव । तथोक्तमेतद्अनन्तरं श्री रहूगणेनैव अहो नृजन्माखिलजन्मशोभनं किं जन्मभिस्त्वपरैरप्यमुष्मिन् न यद्धृषीकेशयशःकृतात्मनां महात्मनां वः प्रचुरः समागमः ॥ [भागवतम् ५.१३.२१] न ह्यद्भुतं त्वच्चरणाब्जरेणुभिर् हतांहसो भक्तिरधोक्षजेऽमला । मौहूर्तिकाद्यस्य समागमाच्च मे दुस्तर्कमूलोऽपहतोऽविवेकः ॥ [भागवतम् ५.१३.२१] स्पष्टम् । ॥५.१३॥ श्रीब्राह्मणो रहूगणम् ॥५३॥ [५४] तथा चित्रकेतुं प्रति श्रीसङ्कर्षणोपदेशान्तेऽपि दृष्टश्रुताभिर्मात्राभिर् इत्य्[भागवतम् ६.१६.६२] आदौ मद्भक्तः पुरुषो भवेदित्यग्रत उदाहार्यम् । असुरबालानुशासनेऽपि कौमार आचरेत्प्राज्ञो धर्मान् भागवतानिह । दुर्लभं मानुषं जन्म तदप्यध्रुवमर्थदम् ॥ यथा हि पुरुषस्येह विष्णोः पादोपसर्पणम् । यदेष सर्वभूतानां प्रिय आत्मेश्वरः सुहृत् ॥ [भागवतम् ७.६.१२] इहैव मानुषजन्मनि भागवतान् धर्मानाचरेत्यतोऽर्थदमेतज् जन्म । देवादिजन्मनि महाविषयावेशात्पश्व्आदिजन्मनि विवेकाभावाच् च, मानुषं जन्म च प्राप्य न विलम्बेतेत्याह कौमारे, कौमारम् आरभ्य इत्यर्थः । यतस्तदपि जन्म ध्रुवं पुनर्दुर्लभं च । शास्त्रस्य च प्राधान्येन मनुष्यमधिकृत्य प्रवृत्तत्वात्तद् अनुवादेनोक्तिरियम् । तद्बुद्ध्य्आदिसाम्येन मानुषत्वमारोप्यैवेति ज्ञेयम् । तत्र भागवतधर्माचरणस्यैव युक्तत्वं दर्शयति यथा हीत्य् आदि । इह पुरुषस्य च विष्णोः पादोपसर्पणमेव यथानुरूपं योग्यमित्य् अर्थः । यद्यस्मादेव भूतानां स्वभावत एव प्रियः प्रीतिविषयः प्रेम कर्ता । तत्र हेतुः आत्मा परमात्मा । पादोपसर्पणे हेत्व्अन्तरं यस्माच् चैष ईश्वरः कर्तुमकर्तुमन्यथाकर्तुं समर्थः । सुहृत्सर्वेषां हितं चिकीर्षुश्चेति । [५५] तदेतदुपक्रम्योपसंहरति । धर्मार्थकाम इति योऽभिहितस्त्रिवर्ग ईक्षा त्रयी नयदमौ विविधा च वार्ता । मन्ये तदेतदखिलं निगमस्य सत्यं स्वात्मार्पणं स्वसुहृदः परमस्य पुंसः ॥ [भागवतम् ७.६.२४] ईक्षा आत्मविद्या । तदेतत्सर्वं निगमस्यार्थजातं स्वसुहृदः स्वान्तर्यामिनः परमस्य पुंसस्तस्मै स्वात्मार्पणसाधनं चेत्तर्हि सत्यं मन्ये सत्यफलत्वात् । यद्वा, सत्यमर्थक्रियाकारकं सफलम् इति यावत् । अन्यथा धर्मादीनां निष्फलत्वमेवेति भावः ॥ ॥ ७.६ ॥ श्रीप्रह्लादोऽसुरबालकान् ॥५४५५॥ [५६] अग्रे च तत्रोपायसहस्राणामयं भगवतोदितः । यदीश्वरे भगवति यथा यैरञ्जसा रतिः ॥ [भागवतम् ७.७.२४] तत्र पूर्वोक्ते त्रिगुणात्मककर्मणां बीजनिर्हरणेऽपि उपायसहस्राणां मध्ये अयमेव उपायः भगवता श्रीनारदेन मां प्रत्युपदिष्टः । यैर् उपायसहस्रैः सिद्धाद्यद्यस्मादुपायाद्यथा यथावदीश्वरे भगवति अञ्जसा व्यवधानानन्तरं विनैव रतिः प्रीतिर्भवति । अतः कर्मबीजनिर्हरणमपि तस्यानुषङ्गिकमेव फलमिति भावः । (पगे १९) [५७] अग्रे च गुरुशुश्रूषया भक्त्या [भागवतम् ७.७.३०] इत्य्आदिभिस् तस्यैवोपायस्याङ्गान्युक्त्वाह एवं निर्जितषड्वर्गैः क्रियते भक्तिरीश्वरे । वासुदेवे भगवति यया संलभ्यते रतिः ॥ [भागवतम् ७.७.३३] एवं पूर्वोक्तगुरुशुश्रूषादिप्रकारेणैव, न तु तद्अर्थे पृथक् प्रयत्नेन । निर्जितकर्मबीजलक्षणकामक्रोधलोभमोहमद मात्सर्यैर्जनैः पुनरपि भक्तिः क्रियत एव । यथा वासुदेवे रतिरपि संलभ्यत इत्यर्थः ॥ ॥ ७.७ ॥ प्रह्लादस्तान् ॥५६५७॥ [५८] वर्णाश्रमाचारकथनारम्भे नरमात्रधर्मकथनेऽपि धर्ममूलं हि भगवान् सर्ववेदमयो हरिः । स्मृतं च तद्विदां राजन् येन चात्मा प्रसीदति ॥ [भागवतम् ७.११.७] धर्मस्य मूलं प्रमाणं भगवान् । यतः सर्ववेदमयः । स्मृतं स्मृतिश्च, तद्विदां वेदमयभगवद्विदां, तस्य प्रमाणम् । आभ्यां तद्बहिर्मुखधर्मस्यापार्थत्वं भगवद्धर्मस्यैवावश्यकत्वं चोक्तम् । अतएव वेदोऽखिलो धर्ममूलं स्मृतिशीले च तद्विदाम् । आचारश्चैव साधूनामात्मनस्तुष्टिरेव च ॥ [ंनु २.६] इति मनुस्मृतिवाक्यादप्यत्र विशिष्टतयोपदिष्टं, तच्च युक्तम् धर्मः प्रोज्झितकैतवोऽत्र परमो निर्मत्सराणां सतां वेद्यं वास्तवमत्र वस्तु शिवदं तापत्रयोन्मूलनम् । [भागवतम् १.१.२] इत्य् उक्तत्वात् । येनैव धर्मेण मनः प्रसीदतीत्यनेन येनात्मा सुप्रसीदतीतिवत्सु शब्दविशिष्टतयानुक्तत्वात्तच्छ्रवणादिलक्षणसाक्षाद्भक्तेरेव प्रशस्तत्वं च बोधितम् । तत्तत्सर्वधर्मकथनान्ते तु स्वयमेव स्वस्य तृतीये गन्धर्वजातौ जन्मानुषङ्गिकं भगवत्तत्त्वज्ञान मात्रं सत्कर्मोक्त्वा द्वितीये च शूद्रजातौ जन्मनि सत्सङ्गजश्रवणादि मात्रं तदुक्त्वा, स्वस्य तादृशभगवत्पार्षदत्वपर्यन्तफलप्राप्तौ तथाविधमपि स्वधर्मलक्षणं कारणान्तरं नादृतवान् । तथा हि तत्रैव यूयमित्य्[भागवतम् ७.१०.४८] अस्य टीका च एतच्च सर्व साधारणमुक्तं भक्तस्य तु भक्तिरेव सर्वपुरुषार्थत्वे हेतुरिति पाण्डवानेव लक्ष्यीकृत्याह यथा हीत्येषा । तस्मादत्रापि साक्षात्भक्ताव् एव तात्पर्यम् । अथात्र त्यक्त्वा स्वधर्मं चरणाम्बुजं हरेर्भजन्न् अपक्वोऽथ पतेत्ततो यदि [भागवतम् १.५.१७] इत्य्आदौ भक्तेर्धर्मातिरिक्तत्वेऽपि श्रवणं कीर्तनं चास्य स्मरणं महतां गता [भागवतम् ७.११.१०] इत्य्आदिनोत्तर ग्रन्थे धर्मत्वविधानं सर्वेष्वप्पि प्राणिष्वावश्यकत्वापेक्षया परमश्रेयोरूपत्वापेक्षया च लाक्षणिकमेव । वस्तुतस्तु पञ्चमे तत्रापीत्यादिगद्ये [भागवतम् ५.९.३] भगवतः कर्मबन्धविध्वंसन श्रवणस्मरणेत्यादिना श्रीजडभरतस्य या भक्तिनिष्ठोक्ता तस्या पितर्य् उपरत इत्य्आदिगद्ये [भागवतम् ५.९.७] त्रय्यां विद्यायामेव पर्यवसितमतयो न परविद्यायामित्य्आदिना तद्अवज्ञातॄणां तद्भ्रातॄणामज्ञत्वबोधनेन धर्मातिरिक्तत्वं परविद्यात्वं च बोधितम् । अतएवोक्तं श्रीनारसिंहे (पगे २०) सनकादयो निवृत्ताख्ये ते च धर्मे नियोजिताः । प्रवृत्ताख्ये मरीचाद्यामुक्त्वैकं नारदं मुनिम् ॥ इति । [णार्ড়् ४.४] तेन ब्रह्मणेति प्राकरणिकम् । तथा लक्षणामयकष्ठकल्पनया श्रवणादीनां स्वधर्मान्तर्गणना च बहिर्मुखानामपि साक्षाद्भक्ति प्रवर्तनायैव । एवमन्यत्राप्यन्यमिश्रभक्त्य्उदेशवाक्येषु ज्ञेयम् । तस्मादपि भक्तावेव तात्पर्यमिति ॥ ॥ ७.११ ॥ श्रीनारदो युधिष्ठिरम् ॥५८॥ [५९६०] जायन्तेयोपाख्यानेऽपि अत आत्यन्तिकं क्षेमं पृच्छाम [भागवतम् ११.२.२८] इत्य् अस्योत्तरम् मन्येऽकुतश्चिद्भयमच्युतस्य पादाम्बुजोपासनमत्र नित्यम् । उद्विग्नबुद्धे रसदात्मभावाद् विशात्मना यत्र निवर्तते भीः ॥ [भागवतम् ११.२.३३] टीका च प्रथममात्यन्तिकं क्षेमं कथयति मन्ये इत्य्आदिका । पुनश् च धर्मान् भागवतान् ब्रूते [भागवतम् ११.२.३१] इत्युत्तरत्वेन ये वै भगवता प्रोक्ता उपाया ह्यात्मलब्धये [भागवतम् ११.२.३४] इत्य्आदिपद्यत्रयमुक्त्वा भयं द्वितीयाभिनिवेशतः स्यादित्य्आदिपद्ये बुध आभजेत्तम् भक्त्यैकयेशम् [भागवतम् ११.२.३७] इत्यत्र भक्त्येत्यनेन तस्या ज्ञानाद्य्अमिश्र श्रवणकीर्तनादिलक्षणत्वम् । एकयेत्यनेन नैरन्तर्यलक्षणम् अव्यभिचारित्वं चोपदिष्टम् । तत्र यद्यपि कायेन वाचा मनसेन्द्रियैर्वेत्य् आदिप्राक्तनवाक्ये [भागवतम् ११.२.३६] लौकिकस्यापि कर्मणो भगवद्अर्पणाद् भागवतधर्मत्वं सिध्यतीति यथोक्तं तस्य नैरन्तर्यमपि सम्भवति । तथापि श्रवणकीर्तनादिलक्षणमात्रत्वं व्याहन्येत, तस्मात् तत्राव्यभिचारित्वं, तन्मात्रत्वं च यथा भवेत्तथोपायं तद्अनन्तरम् आह द्वाभ्याम् । तत्र प्रथममव्यभिचारित्वोपायमाह प्रथमेन अविद्यमानेऽप्यवभाति हि द्वयो ध्यातुर्धिया स्वप्नमनोरथौ यथा । तत्कर्मसंकल्पविकल्पकं मनो बुधो निरुन्ध्यादभयं ततः स्यात् ॥ [भागवतम् ११.२.३८] द्वयः प्रधानादिद्वैतपञ्चः । यद्यप्यविद्यमान आत्मनि शुद्धे न विद्यत एवेत्यर्थस्तथापि ध्यातुरविद्यामयध्यानयुक्तस्य सतस्तस्य धियावभाति, तस्मिन् शुद्धेऽपि कल्पत एवेत्यर्थः । यथा स्वप्नो मनोरथश्च तथेत्यर्थः । तत्तस्मात्कर्माणि सङ्कल्पयति विकल्पयति च यन्मनस्तन्नियच्छेत् । ततश्चाव्यभिचारिण्या भक्त्या भजनादभयं स्यादिति भावः । [६१] ननु तथापि मनोनिरोधरूपेण योगाभ्यासेन भक्तिकैवल्यव्यभिचारः स्यादित्याशङ्क्य भक्त्यैव क्रियमाणया तद्आसक्तत्वेन स्वत एव मनो निरोधोऽपि स्यादिति । तन्मात्रत्वोपायमाह द्वितीयेन शृण्वन् सुभद्राणि रथाङ्गपाणेर् जन्मानि कर्माणि च यानि लोके । गीतानि नामानि तद्अर्थकानि गायन् विलज्जो विचरेदसङ्गः ॥ [भागवतम् ११.२.३९] तद्अर्थकाणि तानि जन्मानि कर्माणि चार्थो येषां तानि नामानि । एतान्यपि साकल्येन ज्ञातुमशक्यानीत्याशङ्क्याह यानि लोके गीतानि प्रसिद्धानि, तानि शृण्वन् गायंश्च विचरेत् । असङ्गो निःस्पृहः ॥ ॥ ११.२ ॥ श्रीकविर्विदेहम् ॥ ५९६१ ॥ [६२] अग्रे च कर्मादीन् परिहरन् साक्षाद्भक्तिमेव विधत्ते परोक्षवादो वेदोऽयं बालानामनुशासनम् । कर्ममोक्षाय कर्माणि विधत्ते ह्यगदं यथा ॥ नाचरेद्यस्तु वेदोक्तं स्वयमज्ञोऽजितेन्द्रियः । विकर्मणा ह्यधर्मेण मृत्योर्मृत्युमुपैति सः ॥ वेदोक्तमेव कुर्वाणो निःसङ्गोऽर्पितमीश्वरे । नैष्कर्म्यं लभते सिद्धिं रोचनार्था फलश्रुतिः ॥ य आशु हृदयग्रन्थिं निरिजिहीर्षुः परात्मनः । विधिना च यजेद्देवं तन्त्रोक्तेन च केशवम् ॥ [भागवतम् ११.३.४४४७] इत्यादि । परोक्षेति टीका च यत्रान्यथा स्थितोऽर्थः सङ्गोपयितुमन्यथा कृत्वोच्यते स परोक्षवादः । तथा च श्रुतिः तं वा एतं चतुर्छुतं (?) सन्तं चतुर्होतेत्याचक्षते परोक्षेण परोक्षप्रिया एव हि वेदा इति । परोक्ष वादमेवाह कर्ममोक्षायेति । ननु स्वर्गाद्य्अर्थं कर्माणि विधत्ते न कर्ममोक्षार्थं तत्राह बालानामनुशासनं यथा तथा । अत्र दृष्टान्तः अगदमौषधं यथा पिता बालमगदं पाययन् खण्ड लड्डुकादिभिः प्रलोभ्यन् पाययति ददाति च तानि खण्डलड्डुकादीनि । नैतावता अगदस्य तल्लाभः प्रयोजनमपित्वारोग्यम् । तथा वेदोऽप्य् अवान्तरफलैः प्रलोभयन् कर्ममोक्षायैव कर्माणि विधत्त इत्येषा । अज्ञो न विद्यते ज्ञा श्रीभगवतः कथाश्रवणादौ श्रद्धालक्षणा धी वृत्तिर्यस्य सः । अतएव तस्मिन्न प्रवर्तत इत्यर्थः । तथैवाजितेन्द्रियो ब्रह्मजिज्ञासुः सन् पारमेष्ठ्यपर्यन्तभोगे विरक्तो वा न भवतीत्य् अर्थः । तावत्कर्माणि कुर्वीत इत्य्आदौ [भागवतम् ११.२.९] परसपरनिरपेक्षयोः श्रद्धाविरक्तयोर्द्वयोरेव तत्तन्मर्यादात्वेनोक्तेः । विकर्मणा विहिताकरणरूपेण मृत्योरनन्तरं मृत्युं मरणतुल्यां यातनाम् उपैति । पुनः पुनर्मरणमुपैत्यातनान् चोपैतीत्यर्थः । अतस्तेषां विहितकर्मत्यागे कथञ्चिन्न निस्तारः । ईश्वरप्रयोजककर्तृकस्य कर्मणः ईश्वरार्पणलक्षणयथार्थानुष्ठानेन तत्प्रसादे त्वसौ सुतरामेवं स्यादित्याह वेदोक्तमिति । तस्माद्वेदोक्तमेव कुर्वाणो न तु निषिद्धम् । नैष्कर्म्यां कर्मबन्धागोचरतारूपां सिद्धिं लभते । ननु कर्मणि क्रियमाणे तस्मिन्नासक्तिस्तत्फलं च स्यान्न तु नैष्कर्म रूपा सिद्धिरत आह निःसङ्गोऽनभिनिवेशवान् । ईश्वरे तन्निमित्तमेव तत्रार्पितं न तु फलोद्देशेन । ननु फलस्य श्रुतत्वात्कर्मणि कृते फलं भवेदेव । न, रोचनार्थेति कर्मणि रुच्य्उत्पादनार्था अगदपाने खण्डलड्डुकादिवत् । ततश्च (पगे २२) कर्माभिरुच्या वेदार्थं सम्यग्विचारयति । अथ च यो वा एतद् अक्षरमविदित्वा गार्ग्यस्माल्लोकात्प्रैति स कृपण [Bऋहद्३.८.१०] इत्य् अनेनाब्रह्मज्ञस्य कृपणतां, तमेतं वेदानुवचनेन बाह्मणा विविदिषन्ति ब्रह्मचर्येण [Bऋहद्४.४.२२] इत्यादिना यज्ञादीनां ज्ञानशेषतां चावधार्य निष्कामेषु कर्मसु प्रवर्तते । ततः स्वर्गकामो यजेत इत्य् आदिभिः कामितस्यैव स्वर्गादेः फलत्वेनावगमादकामितोऽसौ न भवतीति नैष्कर्म्यसिद्धिः स्वत एव भवतीति स्थिते किमुत श्रीमद्ईश्वरार्पणेन तत्प्रसादे सतीत्यर्थः । तदेवं विलम्बेनैव नैष्कर्म्यसिद्धेर्हेतुमुक्त्वा यथा तरोर्मूल निषेचनेन [भागवतम् ४.३१.१४] इति न्यायेन सर्वधर्मपर्याप्तिहेतुंनैष्कर्म सिद्धिसाध्यहृदयग्रन्थिभेदस्यापि शीघ्रोपायं स्वातन्त्र्येनाह य आश्व् इति । य आशु शीघ्रमेव देहद्वयात्परस्य आत्मनो जीवस्य हृदयग्रन्थिं देहाहङ्कारं निरह्र्तुमिच्छुर्भवति स त्वन्यत्कर्मादिक्ं स्वरूपत एव त्यक्त्वा तन्त्रोक्तेनागममार्गेण चकारात्वेदोक्तेन च विधिना प्रकारेण केशवं देवमर्चयेत् । [६३] अन्यदेवदृष्टिपरित्यागार्थस्तथोपसहारश्च । एवमग्न्य्अर्कतोयादतिथौ हृदये च यः । यजतीश्वरमात्मानमचिरान्मुच्यते हि सः ॥ [भागवतम् ११.३.५५] आत्मानं परमात्मानम् ॥ ॥११.३॥ श्रीमद्आविर्होत्रो विदेहम् ॥६३॥ [६४] अग्रे च व्यतिरेकमुखेन भगवन्तं हरिं प्रायो न भजन्त्यात्मवित्तमाः । तेषामशान्तकामानां का निष्ठा विजितात्मनाम् ॥ [भागवतम् ११.५.१] इत्य्एतत्प्रश्नोत्तरम् मुखबाहूरुपादेभ्यः पुरुषस्याश्रमैः सह । चत्वारो जज्ञिरे वर्णा गुणैर्विप्रादयः पृथक् ॥ य एवं पुरुषं साक्षादात्मप्रभवमीश्वरम् । न भजन्त्यवजानन्ति स्थानाद्भ्रष्टाः पतन्त्यधः ॥ [भागवतम् ११.५.२३] पूर्वं श्रीद्रविडोपदेशेऽपि देवकृतश्रीनारायणस्तुतौ त्वां सेवतां सुरकृता बहवोऽन्तरायाः स्वौको विलङ्घ्य परमं व्रजतां पदं ते । नान्यस्य बर्हिषि बलीन् ददतः स्वभागान् धत्ते पदं त्वमविता यदि विघ्नमूर्ध्नि ॥ [भागवतम् ११.४.१०] इत्युक्तम् । तत्र च यज्ञे स्वभागान् ददतः सुरकृता विघ्ना न भवन्ति । त्वां सेवमानानां तु मात्सर्येण तत्कृतास्ते भवन्ति किन्तु यदीति निश्चये यदि वेदाः प्रमाणमितिवन्निश्चितमेव त्वं तेषामवितेति । त्वां सेवमानो विघ्नमूर्ध्नि पदं च धत्ते प्रतुत तमेव सोपानमिव कृत्वा व्रजतीत्य् अर्थः । तदेवं श्रुत्वा संसार एव तिष्ठतां यत्पर्यवसानं भवेत्तत् पृष्ठं भगवन्तमित्यादिना तत्रोत्तरयन् प्रथमं तेषां प्रत्यवायित्वमाह मुखेति पादोनद्वयेन । पर्यवसानमाह स्थानाद् इति पादेन ॥ ॥ ११.५ ॥ श्रीचमसो विदेहम् ॥६४॥ [६५] अग्रे च पूर्वोक्तप्रकारेण भक्तेरेवाभिहितत्वे भवेत्तस्य तद्विशेष प्रश्नोऽपि युक्तः । कस्मिन् काल इत्यादिना [भागवतम् ११.५.१८] तथैवोत्तरितम् । कृतं त्रेता द्वापरं च कलिरित्येषु केशवः । नानावर्णाभिधाकारो नानैव विधिनेज्यते ॥ [भागवतम् ११.५.२०] नानैव विधिना विविधेन मार्गेन ॥ ॥ ११.५ ॥ श्रीकरभाजनो विदेहम् ॥६५॥ [६६] श्रीभगवद्उद्धवसंवादेऽपि त्वं तु सर्वं परित्यज्य स्नेहं स्वजनबन्धुषु मय्यावेश्य मनः सम्यक्समदृग्विचरस्व गाम् ॥ [भागवतम् ११.७.६] नोद्धवोऽण्वपि मन्न्यून [भागवतम् ३.४.३१] इत्य्आदिभिः श्रीमद्उद्ध्वस्य सिद्धत्वेनैव प्रसिद्धत्वात्तं लक्ष्यीकृत्य तद्द्वारान्येभ्य एवोपदेशोऽयम् । एवमन्यत्र ज्ञेयम् । ततश्च जहल्लक्षणया त्वं त्वदीय मार्गानुगतो भक्तो विचरस्व विचरत्वित्येवार्थः । समदृक्त्वं च मां विनान्यत्र हेयोपादेयत्वाभावात् । तुशब्दो बहिर्मुखनिवृत्त्य्अर्थः । तेनापि पूर्वमिदमभिप्रेतम् । त्वयोपयुक्तस्रग्गन्धवासोऽलङ्कारचर्चिताः । उच्छिष्टभोजिनो दासास्तव मायां जयेमहि ॥ मुनयो वातवासनाः[*Eण्ड्ण्Oट्E ॰२] श्रमणा ऊर्ध्वमन्थिनः । ब्रह्माख्यं धाम ते यान्ति शान्ताः सन्न्यासिनोऽमलाः ॥ वयं त्विह महायोगिन् भ्रमन्तः कर्मवर्त्मसु । त्वद्वार्तया तरिष्यामस्तावकैर्दुस्तरं तमः ॥ स्मरन्तः कीर्तयन्तश्च कृतानि गदितानि ते । गत्य्उत्स्मितेक्षितक्ष्वेलि यन्नृलोकविडम्बनम् ॥ [भागवतम् ११.६.४६५०] इति । ॥ ११.७ ॥ श्रीभगवान् ॥६६॥ [६७] अग्रे च ज्ञानयोगस्य केवलयासाध्यत्वं भक्तियोगस्य तु सुख साध्यत्वमानुषाङ्गिकतया ज्ञानजनकत्वं स्वयमपि पुरुषार्थत्वं चेति । यथा न कुर्यान्न वदेत्किञ्चिन्न ध्यायेत्साध्वसाधु वा । आत्मारामोऽनया वृत्त्या विचरेज्जडवन्मुनिः ॥ [भागवतम् ११.११.१७] इत्यन्तेन ज्ञानयोगमुक्त्वा भक्तियोगमुद्द्भावयितुमाह शब्दब्रह्मणि निष्णातो निष्णायात्परे यदि । श्रुतस्तस्य श्रमफलो ह्यधेनुमिव रक्षत ॥ [भागवतम् ११.११.१८] अत्र परब्रह्मपदेन परतत्त्वमात्रमुच्यते ।न तु ब्रह्मत्व भगवत्त्वादिविवेकेनेति ज्ञेयम्, सर्वत्र तत्साम्यात् । तदेवं शब्द ब्रह्माभ्यासस्य परब्रह्माभ्यासः प्रयोजनमित्युक्तम् । तत्र सर्वेष्व् एवांशेषु विशेषतः उपनिषद्भागेषु शब्दब्रह्मणस्तत्प्रतिपादकत्वे स्थितेऽपि तद्विचारकोटिभिरपि परब्रह्मनिष्ठा न जायते, किन्तु तस्मिन् यस्मिन्नंशे श्रीभगवद्आकारपरब्रह्मलीलादिकं प्रतिपाद्यते तद् अभ्यासेनैव भगवद्आकारे च निष्ठा जायते । तदुक्तम् संसारसिन्धुमतिदुस्तरमुत्तितीर्षोर् नान्यः प्लवो भगवतः पुरुषोत्तमस्य । लीलाकथारसनिषेवणमन्तरेण पुंसो भवेद्विविधदुःखदवार्दितस्य ॥[भागवतम् १२.४.४०] (पगे२४) श्रेयःसृतिं भक्तिमुदस्य ते विभो क्लिश्यन्ति ये केवेलबोधलब्धये । तेषामसौ क्लेशल एव शिष्यते नान्यद्यथा स्थूलतुषावघातिनाम् ॥ [भागवतम् १०.१४.४] इत्य्आदि च । [६८६९] अतएव मदीयलीलाशून्यां वैदिकीमपि वाचं नाभसेदित्याह द्वाभ्याम् गां दुग्धदोहामसतीं च भार्यां देहं पराधीनमसत्प्रजां च । वित्तं त्वत्तीर्थीकृतमङ्ग वाचं हीनां मया रक्षति दुःखदुःखी ॥ [भागवतम् ११.११.१९] मया श्रीभगवता हीनां मम लीलादिशून्याम् । मया हीनां वाचमित्य् उक्तं विवृणोति यस्यां न मे पावनमङ्ग कर्म स्थितुद्भवप्राणनिरोधमस्य । लीलावतारेप्सितजन्म वा स्याद् बन्ध्यां गिरं तां विभृयान्न धीरः ॥ [भागवतम् ११.११.२०] यस्यां मे जगतः शोधकं चरितं न स्यात्किं तदस्य विश्वस्य स्थित्य्आदि रूपं तद्धेतुरित्यर्थस्ततोऽप्युत्कृष्टतमत्वेन विमृष्याह लीलावतारेषु ईप्सितं जगतः प्रेमास्पदं श्रीकृष्णरामादिजन्म वा न स्यात्, तां निष्फलां गिरं वेदलक्षणामपि धीरो धीमान्न धारयेत् । तदुक्तं श्रीनारदेन इदं हि पुंसस्तपमः श्रुतस्य वा [Bह्य्ড়् १.५.२२] इत्यादि । अतएव गीतं कलियुगपावनावतारेण श्रीभगवता श्रुतमप्यौपनिषदं दूरे हरिकथामृतम् । यन्न सन्ति द्रवच्चित्तकम्पाश्रुपुलकादयम् ॥ [ড়द्यावली, ३९] इति । [७०] तदेवं भक्त्यैव ज्ञानं सिध्यतीत्युक्त्वा तं च ज्ञानमार्गम् उपसंहरति एवं जिज्ञासयापोह्य नानात्वभ्रममात्मनि । उपारमेत विरजं मनो मय्यर्प्य सर्वगे ॥ [भागवतम् ११.११.२१] जिज्ञासया बद्धो मुक्त इति व्याख्या गुणतो मे न वस्तुतः [भागवतम् ११.११.१] इत्य् आदिपूर्वोक्तप्रकारकविचारेण । आत्मनि शुद्धजीवे । नानात्वं देवत्व मनुष्यत्वादिभेदमपोह्य । एवं मल्लीलादिश्रवणेन मनो मयि ब्रह्माकारे सर्वगे अर्प्य धारयित्वा उपारमेत । [७१] तदेवं ज्ञानमिश्रां भक्तिमुपदिश्य तद्अनादरेणानुषङ्गसिद्ध ज्ञानगुणां शुद्धामेव भक्तिमुपदिशति चतुर्भिः यद्यनीशो धारयितुं मनो ब्रह्मणि निश्चलम् । मयि सर्वाणि कर्माणि निरपेक्षः समाचर ॥ [भागवतम् ११.११.२२] यदीति निश्चये । टीकायां धत्ते पदं त्वमविता यदि विघ्नमूर्ध्नि [भागवतम् ११.४.१०] इत्य्आदिवत् । अत्र ज्ञानेच्छुरेव प्रकृतेः । श्रीमद्उद्धवं प्रति च तादृशत्वमारोप्यैवेदमुच्यते । ततश्च श्रेयःसृतिं भक्तिमुदस्य ते विभो क्लिश्यन्ति [भागवतम् १०.१४.४] इत्य्आदिप्रमाणेन भक्तिं विना केवलज्ञान मार्गेण मनो ब्रह्मणि धारयितुं निश्चितमेवानीशो भवसि । ततोऽपि स्वतो ज्ञानादिसर्वगुणसेवितं भक्तियोगमेवाश्रयेति तत्सोपानमुपदिशति मयीत्य्आदिना । [७२] अथवा प्राक्तनभक्ति(पगे २५) बलाभावाद्ब्रह्मज्ञानेच्छुर्यदि तत्र मनो धारयितुमनीशः स्यात्, तदाधुनाप्येवं कुर्वीतेति योज्यम् । समाचर अर्पय । निरपेक्षो वाञ्छान्तररहितः । श्रद्धालुर्मत्कथाः शृण्वन् सुभद्रा लोकपावनीः । गायन्ननुस्मरन् कर्म जन्म चाभिनयन्मुहुः ॥ मद्अर्थे धर्मकामार्थानाचरन्मद्अपाश्रयः । लभते निश्चलां भक्तिं मय्युद्धव सनातने ॥ [भागवतम् ११.११.२३४] टीका च मद्अर्पणः कर्मभिर्विशुद्धसत्त्वस्यान्तरङ्गां भक्तिमाह श्रद्धालुरितीत्येषा । अभिनयन् जन्मकर्मलीलयोर्मध्ये येऽंशा निजाभीष्टभावभक्ति गतास्तान् स्वयमनुकुर्वन् भगवद्गतां भक्तान्तरगतांश्च तानन्य द्वारानुकुर्वन्नित्यर्थः । किं च, यो धर्मो गोदानादिलक्षणस्तमपि मद्अर्थे मदीयजन्मादिमहोत्सवाङ्गत्वेनैव । यश्च कामो महा प्रासादवासादिलक्षणस्तमपि मद्अर्थे मदीयसेवाद्य्अर्थे मन् मन्दिरवासादिलक्सणत्वेनैव । यश्चार्थो धनसङ्ग्रहस्तमपि मद् अर्थे मत्सेवामात्रोपयोगित्वेनैवाचरन् सेवमानः । मद्अपाश्रयः मद् अर्थे आश्रयान्तरशून्यचेताश्च सन् तामेव कथाश्रवणादिलक्षणां भक्तिं मयि निश्चलां कालत्रयेऽप्यव्यभिचारिणीं लभते, तत्सुखेन कैवल्यादावप्यनादरात् । न च भजनीयस्य चलतया वा सा चलिष्यतीति मन्तव्यमित्याह सनातन इति । [७३७४] नन्वेवम्भूतभक्तिमार्गप्रवृत्तिर्निष्ठा वा कथं स्यादित्याशङ्क्य तत्र हेतुमाह सत्सङ्गलब्धया भक्त्या मयि मां स उपासिता । इति भक्त्या भक्तिरुच्या स भक्तो मामुपासिता भजमानो भवति । तस्य च भक्तस्य मदीयं ब्रह्माकारं भगवद्आकारं च सर्वमपि स्वरूप विज्ञानमनायासेनैव भवतीत्याह स वै मे दर्शितं सद्भिरञ्जसा विन्दते पदम् ॥ [भागवतम् ११.११.२५] इति । अञ्जसा भक्त्य्अनुषङ्गेनैव । पदं स्वरूपम् ॥ ॥ ११.११ ॥ श्रीभगवान् ॥ ६७७५ ॥ [७५] अग्रे च भक्तियोगस्यैव प्राक्सिद्धता, साक्षात्श्रीभगवत्प्रवर्तितता स्वयमेव मुख्यता । परेषामर्वाचीनता यथारुचिनानआजनप्रवर्तितता तुच्छता चेति । यथा, श्रीमद्उद्धव उवाच वदन्ति कृष्ण श्रेयांसि बहूनि ब्रह्मवादिनः । तेषां विकल्पप्राधान्यमुताहो एकमुख्यया ॥ भवतोदाहृतः स्वामिन् भक्तियोगोऽनपेक्षितः । निरस्य सर्वतः सङ्गं येन त्वय्याविशेन्मनः ॥ [भागवतम् ११.१४.१२] टीका च श्रेयांसि श्रेयःसाधनानि । किं विकल्पेन प्राधान्यमुताहो किं वा एकस्यैव मुख्यता, एकमुख्यतापेक्षोत्थापने कारणं भवतेति । न अपेक्षितमनपेक्षा यस्मिन् स अहैतुकः । अयमर्थो भवता यो भक्ति योग उक्तः, अन्ये च यानि निःश्रेयससाधनानि वदन्ति त्तेषां किं फल साधनत्वेन प्राधान्यमेव सर्वेषामुताङ्गाङ्गित्वम् । प्राधान्येनापि सर्वेषां किं विकल्पेन तुल्यफलत्वं यद्वा कश्चिद्विशेष इत्येषा । [७६] अत्रोत्तरं श्रीभगवानुवाच कालेन नष्टा प्रलये वाणीयं वेदसंज्ञिता । मयादौ ब्रह्मणे प्रोक्ता धर्मो यस्यां मद्आत्मकः ॥ [भागवतम् ११.१४.३] (पगे २६) टीका च तत्र भक्तिरेव महाफलत्वेन मुख्या, अन्यानि तु स्वस्व प्रकृत्य्अनुसारेण खपुष्पस्थानीयस्वर्गादिफलबुद्धिभिः प्राणिभिः प्राधान्येन परिकल्पितानि क्षुल्लकफलानीति विवेक्तुं प्रकृत्य्अनुसारेण बहुधा प्रतिपत्तिमाह कालेनेति सप्तभिः । मद्अत्मको मय्येवात्मा चित्तं येन स इत्येषा । यद्वा मदात्मको मत्स्वरूपभूतो निर्गुणत्वास्मत्स्वरूपभूतो भक्ति लक्षणो धर्मः प्रोक्तः सर्वसमन्वये प्रतिपादितमित्यर्थः । [७७८०] तदेवं सति तस्यामेवानेकविधश्रेयोवदने हेतुमाह मन्मायामोहितधियः पुरुषाः पुरुषर्षभ । श्रेयो वदन्त्यनेकान्तं यथाकर्म यथरुचि ॥ [भागवतम् ११.१४.९] तत्प्रकृतीनां मायागुणमूलत्वाद्मन्मायामोहितधियः । अनेकान्तं नानाविधम् । श्रेयः पुरुषार्थं तत्साधनं च । यतः न साधयति मां योगो न साङ्ख्यं धर्म उद्धव । न स्वाध्यायस्तपस्त्यागो यथा भक्तिर्ममोर्जिता ॥ [भागवतम् ११.१४.२०] न साधयति न वशीकरोति । तपो ज्ञानम् । त्यागः सन्न्यासः । धर्मः सत्यदयोपेतो विद्या वा तपसान्विता । मद्भक्त्यापेतमात्मानं न सम्यक्प्रपुनाति हि ॥ [भागवतम् ११.१४.२२] धर्मो निष्कामः । विद्या शास्त्रीयं ब्रह्मज्ञानम् । तपस्तद्ईक्षणम् । भक्तिलक्षणैस्तु यथा यथात्मा परिमृज्यतेऽसौ मत्पुण्यगाथाश्रवणाभिधानैः । तथा तथा पश्यति वस्तु सूक्ष्मं चक्षुर्यथैवाञ्जनसम्प्रयुक्तम् ॥ [भागवतम् ११.१४.२६] टीका च ननु ब्रह्मविदाप्नोति परम् [टैत्तू २.१.१] तमेव विदित्वातिमृत्युमेति [श्वेतू ६.१५] इत्यादिश्रुतिभ्यो ज्ञानादेवाविद्यानिवृत्त्या त्वत्प्राप्तिरवगम्यते कुतो भक्तियोगेनेत्युच्यते । अत्राह यथा यतेति । आत्मा चित्तं परिमृज्यते शोद्यते मत्पुण्यगाथानां श्रवणैरभिधानैश् च । भक्तरेवावान्तरव्यापारो ज्ञानं न पृथगित्यर्थम् । इत्येषा । ॥ ११.१४ ॥ श्रीभगवान् ॥७७८०॥ [८१८३] अग्रे च कर्मज्ञानभक्तियोगान् तत्तद्अधिकारितायां पृथघेतूंश् चोक्त्वा ज्ञानकर्मानादरेण (पगे २७) भक्तेरेवाभिधेयत्वमाह पञ्चभिः । तत्र ज्ञानाभ्यासानादरं वक्तुं तद्अधिकारहेतु वैराग्याभ्यासानादरं विधत्ते प्रोक्तेन भक्तियोगेन भजतो मासकृन्मुनेः । कामा हृदय्या नश्यन्ति सर्वे मयि हृदि स्थिते ॥ [भागवतम् ११.२०.२९] ज्ञानाभ्यासानादरं विधत्ते भिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्वसंशयाः । क्षीयन्ते चास्य कर्माणि मयि दृष्टेऽखिलात्मनि ॥ [भागवतम् ११.२०.३०] भक्त्यैव दृष्टे साक्षात्कृते । तथैवाह तस्मान्मद्भक्तियुक्तस्य योगिनो वै मद्आत्मनः । न ज्ञानं न च वैराग्यं प्रायः श्रेयो भवेदिह ॥ [भागवतम् ११.२०.३१] टीका च तदेवं व्यवस्ह्तयाधिकारित्रयमुक्तम् । तत्र भक्तेरन्य निरपेक्षत्वादन्यस्य च तत्सापेक्षत्वाद्भक्तियोग एव श्रेष्ठ इत्य् उपसंहरति तस्मादिति त्रिभिः ।मद्आत्मनो मयि आत्मा चित्तं यस्य तस्य श्रेयःसाधनमित्येषा । अत्र प्रायोग्रहणस्यायं भावः । भजतां ज्ञानवैराग्याभ्यासेन प्रयोजनं नास्त्येव । तत्र यथास्थितेऽपि सद्यो मुक्तिमार्गे केषांचित् क्रममुक्तिमार्गे प्रवृत्तिर्जायते । तथा ब्रह्मभूतः प्रसन्नात्मा [गीता १८.५४] इत्यादि श्रीगीतानुसारेण यदि क्रमभक्तिमार्गे प्रवृत्तिः स्यात् तदा भवत्विति । तदेवं भक्तेः प्रेमलक्षणे सर्वफलराजे स्वफले नास्त्येव ज्ञानाद्य्अपेक्षा । [८४] पृथक्पृथक्ज्ञानादिफलेऽपि साध्ये नास्तीत्याह यत्कर्मभिर्यत्तपसा ज्ञानवैराग्यतश्च यत् । योगेन दामधर्मेण श्रेयोभिरितरैरपि ॥ सर्वं मद्भक्तियोगेन मद्भक्तो लभतेऽञ्जसा । स्वर्गापवर्गं मद्धाम कथञ्चिद्यदि वाञ्छति ॥ [भागवतम् ११.२०.३२३३] इतरैस्तीर्थयात्राव्रतादिभिरपि यद्भाव्यं तत्सर्वं मद्भक्तियोगेन मद्भक्तौ लभते । तत्राप्यञ्जसा अनायासेनैव किं तत्सर्वम् । तदाह स्वर्गावर्गमिति । स्वर्गः प्रापञ्चिकसुखं सत्त्वशुद्ध्य्आदि क्रमेणापवर्गो मोक्षसुखं च । तद्अतिक्रमिसुखं च भवतीत्याह मद्धाम वैकुण्ठं चेति । कथञ्चिद्भक्त्य्उपकरणत्वेनैव यदि वाञ्छति कश्चित्, तत्र श्रीचित्रकेत्व्आदिवत्स्वर्गवाञ्छा । तस्य भक्त्य् उपकरणत्वं चोक्तं रेमे विद्याधरस्त्रीभिर्गापयन् हरिमीश्वरम् [भागवतम् ६.१७.३] इति । श्रीशुकादिवद्अपवर्गवाञ्छा । तत्प्रार्थनया गो शृङ्गोपरिसर्षपस्थितिकालं व्याप्य श्रीकृष्णेन दूरीकृतायां मायायां सत्यां मातृगर्भाद्बहिर्बभूव इति ब्रह्मवैवर्तकथा । तत्र च भक्त्य्उपकरणत्वं ब्रह्मभूतः प्रसन्नात्मा इत्य्आदिगीतावचनात् । तथा प्राप्तभगवत्पार्षदतदीयवृन्दविशेषवद्वैकुण्ठेच्छा । ते हि प्रेम्णा साक्षात्श्रीभगवच्चरणारविन्दसेवेच्छयैव तत्प्रार्थ्यं (पगे २८) प्राप्तवन्तः । यच्च व्रजन्त्यनिमिषामृषभानुवृत्त्या [भागवतम् ३.१५.२५] ॥ ११.२० ॥ श्रीभगवान् ॥ ८१८४॥ [८५] अन्ते च एषा बुद्धिमतां बुद्धिर्मनीषा च मनीषिणाम् । यत्सत्यमनृतेनेह मर्त्येनाप्नोति मामृतम् ॥ [भागवतम् ११.२९.२२] टीका च अतो मद्भजनमेव बुद्धेर्विवेकस्य मनीषायाश्चातुर्यस्य च फलमित्याह एषेति । तामेव दर्शयति सत्यममृतं च मा माम् अनृतेनासत्येन मर्त्येन विनाशिना मनुष्यदेहेन इह अस्मिन्नेव जन्मनि प्राप्नोतीति यत्सैव बुद्धिर्मनीषा चेति । बुद्धिर्विवेको मनीषा चातुर्यम् इत्येषा । पूर्वं भक्तिप्रकरणस्य गतत्वादित्यतो हेतूपन्यासः कृतः हरिश्चन्द्रो रन्तिदेव उञ्छवृत्तिः शिविर्बलिः । व्याधः कपोतो बहवो ह्यध्रुवेण ध्रुवं गताः ॥ [भागवतम् १०.७२.१९] इति । ॥ ११.२९ ॥ ८५ ॥ [८६] श्रीशुकोपदेशोपसंहारे च श्रवणमुपलक्ष्य संसारसिन्धुमतिदुस्तरमुत्तितीर्षोर् नान्यः प्लवो भगवतः पुरुषोत्तमस्य । लीलाकथारसनिषेवणमन्तरेण पुंसो भवेद्विविधदुःखदवार्दितस्य ॥ [भागवतम् १२.४.४०] टीका च अन्यः प्लव उत्तरणसाधनं न भवेदुपायान्तराभावादित्य् एषा । अन्यासामपि भक्तीनां तत्पूर्वकत्वेनैव प्रवृत्तेर् उपायान्तरासम्भवत्वमुक्तम् । एतद्अनन्तराध्यायश्च तादृशोपक्रमोपसंहारमय एव । अत्रानुगीयतेऽभीक्ष्णं भगवान् हरिरीश्वरः । यस्य प्रसादजो ब्रह्मा रुद्रः क्रोधसमुद्भवः ॥ [भागवतम् १२.५.१] इत्युपक्रम्य, एतत्कथितं तात यदात्मा पृष्टवान्नृपः [भागवतम् १.१९.५] हरेर् विश्वात्मनश्चेष्टां किं भूयः श्रोतुमिच्छसि [भागवतम् १२.५.१४] इत्य् उपसंहारेऽपि । तादृशमहिमत्वेन पूर्वोक्तलीलाकथाश्रवणस्यैव प्राधान्यातत उपक्रमोपसंहारनिर्दिष्टत्वात्श्रवणोपलक्षितभक्तेर् एवात्रापि प्राधान्यम् । यस्तु तन्मध्ये त्वं तु राजन्मरिष्यति [भागवतम् १२.५.२] इत्यादिना ज्ञानोपदेशः स च तस्य या प्रागवगता भक्तिनिष्ठाया एव स्वयं दर्शयिष्यमाणत्वात् । तत्र प्राचीना तन्निष्ठा यथा प्रथमे कृष्णाङ्घ्रिसेवामधिमन्यमानः [भागवतम् १.१९.५] इति । दध्यौ मुकुन्दाङ्घ्रिमनन्यभावः [भागवतम् १.१९.७] इत्यादि तन्निष्ठतैव । तद् भयपरित्यागो यथा तद्वाक्ये (पगे २९) द्विजोपसृष्टः कुहकस्तक्षको वा दशत्वलं गायत विष्णुगाथाः ॥ [भागवतम् १.१९.१५] इति । तज्ज्ञानोपदेशमबहु मत्वा श्रवणलक्षणया भक्त्यैव स्व कृतार्थत्वमुक्तम् । सिद्धोऽस्म्यनुगृहीतोऽस्मि भवता करुणात्मना । श्रावितो यच्च मे साक्षादनादिनिधनो हरिः ॥ नात्यद्भुतमहं मन्ये महतामच्युतात्मनाम् । अज्ञेषु तापतप्तेषु भूतेषु यद्अनुग्रहः ॥ पुराणसंहितामेतामश्रौष्म भवतो वयम् । यस्यां खलूत्तमःश्लोको भगवाननुवर्ण्यते ॥ [भागवतम् १२.६.२४] इति । पुनश्चैकेन पद्येन तद्वाक्यगौरवमात्रेणाङ्गीकृतस्य ब्रह्म ज्ञानस्य तक्षकादिभयनिवृत्तिहेतुत्वमुक्त्वाप्यन्येन तद्ऊर्ध्वम् अधोक्षज एव वाक्चेतसोस्तन्नामकीर्तनध्यानावेशानुज्ञा प्रार्थिता । भगवंस्तक्षकादिभ्यो मृत्युं यो न बिभेम्यहम् । प्रविष्टो भ्रमनिर्वाणमभयं दर्शितं त्वया ॥ अनुजानीहि मां ब्रह्मन् वाचं यच्छाम्यधोक्षजे । मुक्तकामाशयं चेतः प्रवेश्य विसृजाम्यसून् ॥ [भागवतम् १२.६.५६] इति । अथ पुनरन्येन पद्येनाज्ञाननिरासकज्ञानविज्ञानसिद्धिश्च भगवत् पदारविन्ददर्शनानन्दान्तर्भूतैव मम स्फुरतीति विज्ञापितम् । यथा अज्ञानं च निरस्तं मे ज्ञाविज्ञाननिष्ठया । भवता दर्शितं क्षेमं परं भगवतः पदम् ॥ [भागवतम् १२.६.७] इति । अत्र पदशब्दस्य चरणारविन्दाभिधायकत्वे ज्ञानेन वैयासकिशब्दितेन भेजे खगेन्द्रध्वजपादमूलम् [भागवतम् १.१८.१६] इत्येवास्ति प्रथमे साधकम् । तदेतत्प्रकरणार्थस्तत्र श्रीसूतेनैव स्पष्टीकृतः । ब्रह्मकोपोत्थिताद्यस्तु तक्षकात्प्राणविप्लवात् । न सम्मुमोहोरुभयाद्भगवत्यर्पिताशयः ॥ [भागवतम् १.१८.२] नोत्तमश्लोकवार्तानां जुषतां तत्कथामृतम् । स्यात्सम्भ्रमोऽन्तकालेऽपि स्मरतां तत्पदाम्बुजम् ॥ [भागवतम् १.१८.४] इति । तथा पूर्वं द्वादशस्यैव तृतीये प्रथमस्कन्धान्तःस्थस्य अतः पृच्छामि संसिद्धिं योगिनां परमं गुरुम् । पुरुषस्येह यत्कार्यं म्रियमाणस्य सर्वथा ॥ [भागवतम् १.१९.३४] इत्यस्य राजप्रश्नस्योत्तरत्वेन भगवद्ध्यानकीर्तने एव स्वयं श्री शुकदेवेनाप्युपदिष्टे तस्मात्सर्वात्मना राजन् हृदिस्थं कुरु केशवम् । म्रियमाणो ह्यवहितस्ततो याति परां गतिम् ॥ म्रियमाणैरभिध्येयो भगवान् परमेश्वरः । आत्मभावं नयत्यङ्ग सर्वात्मा सर्वसम्भवः ॥ कलेर्दोषनिधे राजन्नस्ति ह्येको महान् गुणः कीर्तनादेव कृष्णस्य मुक्तसङ्गः परं व्रजेत् ॥ [भागवतम् १२.३.४८५०] इत्यादिना ततस्तत्र केशव अवहितः कृतावधान आत्मभावमात्मनो भक्तिम् । अस्तु तावदायास(पगे ३०) साध्यं ज्ञानम् । हि यस्मादनायास साध्यात्कीर्तनादेवेत्यर्थः । द्वितीयस्कन्धेऽपि न ह्यतोऽन्यः शिवः पन्था [भागवतम् २.२.३३] इत्यादिना एवमेतन्निगदितम् [भागवतम् २.३.१] इत्यन्तेन ग्रन्थेन नानाङ्गवान् शुद्धभक्तियोग एव तत्रोत्तरत्वेन पर्यवसितः । तत्रापि पिबन्ति ये भगवतः [भागवतम् २.२.३७] इत्यादिना लीलाकथाश्रवण एव परमपर्यवसानं दृश्यते । तस्मात्साधूक्तं त्वं तु राजन्मरिष्येति इत्य् आदिकं तद्भक्तिनिष्ठाप्रकटनार्थमेवेति । यथो भक्तावेव तद् उपदेशस्य तात्पर्यम् । अतएव द्वितीयस्याष्टमे राजप्रार्थना च नान्यथा स्यात् । कृष्णे निवेश्य निःसङ्गं मनस्त्यक्ष्ये कलेवरम् [भागवतम् २.८.२] इत्यादि । ॥ १२.४ ॥ श्रीशुकः ॥ ८६ ॥ [८७९१] श्रीसूतोपदेशान्तेऽपि पञ्चभिः नैष्कर्म्यमप्यच्युतभाववर्जितं न शोभते ज्ञानमलं निरञ्जनम् । कुतः पुनः शश्वदभद्रमीश्वरे न चार्पितं कर्म यदप्यकारणम् ॥ [भागवतम् १२.१२.५२] टीका च इदानीं ज्ञानकर्मादरादपि भगवत्कीर्तनादिष्वेवादरः कर्तव्य इत्याह नैष्कर्म्यं तत्प्रकाशकं यज्ज्ञानं यतो निरञ्जनम् उपाधिनिवर्तकं, तदपि अच्युतभक्तिवर्जितं चेन्न शोभते नापरोक्ष पर्यन्तं भवतीत्यर्थ इत्यादिका । यशःश्रियामेव परिश्रमः परो वर्णाश्रमाचारतपःश्रुतादिषु । अविस्मृतिः श्रीधरपादपद्मयोर् गुणानुवादश्रवणादिभिर्हरेः ॥ [भागवतम् १२.१२.५३] टीका च किं च वर्णाश्रमाचारादिषु यः परो महान् परिश्रमः स यशो युक्तायां श्रियामेव कीर्तो सम्पदि वा केवलं न परमपुरुषार्थः । गुणानुवादादिभिस्तु श्रीधरपादपद्मयोरविस्मृतिर्भवति इत्येषा । तथा अविस्मृतिः कृष्णपदारविन्दयोः क्षिणोत्यभद्राणि च शं तनोति च । सत्त्वस्य शुद्धिं परमां च भक्तिं ज्ञानं च विज्ञानविरागयुक्तम् ॥ [भागवतम् १२.१२.५४] स्पष्टम् । तथा यूयं द्विजाग्र्या बत भूरिभागा यच्छश्वद्आत्मन्य्अखिलात्मभूतम् । नारायणं देवमदेवमीशम् अजस्रभावा भजताविवेश्य ॥ [भागवतम् १२.१२.५५] टीका च तदेवं श्रोतॄणात्मानं चाभिनन्दयन्नाह । तथा यूयमिति द्वाभ्याम् । त्था हि द्व्जाग्र्या यद्यस्मादात्मन्यन्तःकरणे श्री नारायणमाविवेश्य शश्वद्भजत । सम्भावनायां लोट् । अतो भूरिभागा बहुपुण्यवन्तः कथम्भूतमखिलात्मभूतं सर्वानर्यामिणमत एव देवं सर्वोपास्यम् । अदेवं न देवोऽन्यो यस्य तम् । कुत ईशम् । यद्वा यस्माद्यूयं भूरिभागास्तप आदिना सम्पन्नास्ततो नारायणं भजतेति विधिः इत्येषा । (पगे ३१) अत्र तपादिसम्पत्तेः सार्थकत्वं नारायणभजनेन भवतीति स्वाम्य् अभिप्रायः । तथा अहं च संसारित आत्मतत्त्वं श्रुतं पुराणे परमर्षिवक्त्रात् । प्रायोपवेशे नृपतेः परीक्षितः सदस्य् ऋषीणां महतां च शृण्वताम् ॥ [भागवतम् १२.१२.५६] एतत्प्रसङ्गेनाहं चात्मतत्त्वमखिलात्मभूतं नारायणं स्मारितः । तं प्रति परमोत्कण्ठितीकृतोऽस्मीत्यर्थः । यदात्मतत्त्वं मे मया महर्षिवक्त्राच्छ्रुतम् ॥ ॥ १२.१२ ॥ श्रीसूतः ॥ ८७९१ ॥ [९२] तदेवमस्मिन् श्रीमति महापुराणे गुरुशिष्यभावेन प्रवृत्तानाम् उपदेशशिक्षावाक्येषु हक्तेरेवाभिधेयत्वं साधितम् । तथा तत्कथ्यतां महाभाग यदि कृष्णकथाश्रयम् । अथवास्य पदाम्भोज मकरन्दलिहां सताम् ॥ [भागवतम् १.१६.६] इत्यनुसारेण सर्वेषामितिहासानामपि तन्मात्रतात्पर्यत्वं ज्ञेयम् । विस्तरभिया तु न विव्रियते । अन्यत्र च तदेव दृश्यते । तत्रान्वयेन यथा एतावानेव लोकेऽस्मिन् पुंसां धर्मः परः स्मृतः । भक्तियोगो भगवति तन्नामग्रहणादिभिः ॥ [भागवतम् ६.३.२२] पुंसां जीवमात्राणां परः धर्मः सार्वभौमो धर्म एतावानेव स्मृतो नैतदधिकः । एतावत्त्वमेवाह तन्नामग्रहणादिभिर्यो भक्तियोगः साक्षाद्भक्तिरिति । एवकारेणान्यव्यावृत्तत्वं स्पष्टयति भवतीति । नामग्रहणादीन्यपि यदि कर्मादौ तत्साद्गुण्याद्य्अर्थं प्रयुज्यन्ते । तदा तस्य परत्वं नास्ति । तुच्छफलार्थप्रयोज्यत्वेन तद् अपराधादित्यर्थः । तथैव क्षयिष्णुफलदातृत्वं च भवतीति भावः । ॥ ६.३ ॥ श्रीयमः स्वभटान् ॥ ९२ ॥ [९३] तथा च सध्रीचीनो ह्ययं लोके पन्थाः क्षेमोऽकुतोभयः । सुशीलाः साधवो यत्र नारायणपरायणाः ॥ [भागवतम् ६.१०.१७] अयं पन्थाः श्रीनारायणभक्तिमार्गः ॥ ॥ ६.१ ॥ श्रीशुकः ॥ ९३ ॥ [९४] तत्रैवान्वयेन सर्वशास्त्रफलत्वं सकैमुत्यमाह श्रुतस्य पुंसां सुचिरश्रमस्य नन्वञ्जसा सूरिभिरीडितोऽर्थः । तत्तद्गुणानुश्रवणं मुकुन्द पादारविन्दं हृदयेषु येषाम् ॥ [भागवतम् ३.१३.४] (पगे ३२) पुंसां श्रुतस्य वेदार्थावगतेरयमेवार्थः प्रयोजनमीडितः श्लाघितः । कोऽसौ ? मुकुन्दस्य पादारविन्दं येषां हृदयेषु वर्तते तेषां तद्गुणानां भगवद्भक्त्य्आत्मकानामनुस्मरणं तत्सोऽयमिति । ततः सुतरामेव श्रीमुकुन्दस्येत्यर्थः । एवमेवोक्तं वासुदेवपरा वेदाः [भागवतम् २.२.२८] इत्यादि । भगवान् ब्रह्म कार्त्स्न्येन त्रिरन्वीक्ष्य मनीषया । तदध्यवस्यत्कूटस्थो रतिरात्मन् यतो भवेत् ॥ [भागवतम् २.२.३४] तथा च पाद्मे बृहत्सहस्रनाम्नि स्मर्तव्यः सततं विष्णुर्विस्मर्तव्यो न जातुचित् । सर्वे विधिनिषेधाः स्युरेतयोरेव किङ्कराः ॥ स्कान्दे प्रभासखण्डे, लिङ्गपुराणे च आलोड्य सर्वशास्त्राणि विचार्य च पुनः पुनः । इदमेव सुनिष्पन्नं ध्येयो नारायणः सदा ॥ [ळिড়् २.७.११] अत एव वेदाद्य्अर्पणमन्त्र इति विद्यातपोध्यानयोनिरयोनिर्विष्णुरीडितः । ब्रह्मयज्ञस्ततो देवः प्रीयतां मे जनार्दनः ॥ ॥ ३.१३ ॥ श्रीविदुरः ॥९४॥ [९५] यतो यश्च शास्त्रे वर्णाश्रमाचारो विधीयते तस्याप्यनुपमचरितं फलं भक्तिरेव । यथा दानव्राततपोहोम जपस्वाध्यायसंयमैः । श्रेयोभिर्विविधैश्चान्यैः कृष्णे भक्तिर्हि साध्यते ॥ [भागवतम् १०.४७.२१] दानादिभिः श्रीकृष्णसन्तोषार्थेरिति ज्ञेयम् । तज्जन्म तानि कर्माणि तद् आयुस्तन्मनः [भागवतम् ४.३१.७] इत्यादि । बृहन्नारदीये (१.३९.५१) जन्मकोटिसहस्रेषु पुण्यं यैः समुपार्जितम् । तेषां भक्तिर्भवेच्छुद्धा देवदेवे जनार्दने ॥ इति । अगस्त्यसंहितायाम् व्रतोपवासनियमजन्मकोट्याप्यनुष्ठितैः । यज्ञैश्च विविधैः सम्यग्भक्तिर्भवति माधवे ॥ इति । एतदेव व्यतिरेकेणोक्तं धर्मः स्वनुष्ठितः पुंसाम् [भागवतम् १.२.८] इत्यादौ । यशः श्रियामेव [भागवतम् १२.१२.४] इत्यादौ च । ॥ १०.४७ ॥ उद्धवः श्रीव्रजदेवीम् ॥९५॥ [९६] यच्च यत्र ज्ञानमभिधीयते तदपि भक्त्य्अन्तर्भूततयिअव लभ्यम् । यथा पुरेह भूमन् बहवोऽपि योगिनस् त्वद्अर्पितेहा निजकर्मलब्धया । विबुध्य भक्त्यैव कथोपनीतया प्रपेदिरेऽञ्जोऽच्युत ते गतिं पराम् ॥ [भागवतम् १०.१४.५] हे भूमन्, इह लोके पूर्वं बहवो योगिनोऽपि सन्तो योगैर्ज्ञानमप्राप्य पश्चात्त्वयि अर्पितेहा लौकिक्यप्पि चेष्टा । तथार्पितानि यानि निजानि कर्माणि तैर्लब्धया कथारुचिर्रूपया, पुनश्च (पगे ३३) कथोपनीतया त्वत् समीपं प्रापितया भक्त्यैवाञ्जसा सुखेन विभुध्यात्मतत्त्वमारभ्य श्रीभगवत्तत्त्वपर्यन्तमनुभूय तव परामन्तरङ्गां गतिं प्राप्ताः । श्रीगीतोपनिषत्सु च अहं सर्वस्य प्रभवो मत्तः [गीता १०.८] इत्य् आदिभिः शुद्धां भक्तिमुपदिश्याह तेषामेवानुकम्पार्थमहमज्ञानजं तमः । नाशयाम्यात्मभावस्थो ज्ञानदीपेन भास्वता ॥ [गीता १०.११] इति । ॥ १०.१४ ॥ ब्रह्मा श्रीभगवन्तम् ॥ ९६ ॥ [९७] यान्यन्यानि सर्वाणि तत्र पुरुषार्थसाधनान्युच्यन्ते तान्यपि तथैव भक्तिमूलान्येव । यथा स्वर्गापवर्गयोः पुंसां रसायां भुवि सम्पदाम् । सर्वासामपि सिद्धीनां मूलं तच्चरणार्चनम् ॥ [भागवतम् १०.८१.१९] मन्त्रतस्तन्त्रतश्छिद्रम् [भागवतम् ८.२३.१६] इत्यादिन्यायेन मुखबाहूरु पादेभ्यः [भागवतम् ११.५.२] इत्याद्य्उक्तनित्यत्वेन च सर्वथा तद् बहिर्मुखानां तु तत्तद्अलाभ एव स्यादित्यर्थः । यथा स्कान्दे विष्णुभक्तिविहीनानां श्रौताः स्मार्ताश्च याः क्रियाः । कायक्लेशः फलं तासां स्वैरिणीव्यभिचारवत् ॥ इति । तदुक्तं श्रीयुधिष्ठिरेण त्वत्पादुके अविरतं परि ये चरन्ति ध्यायन्त्यभद्रनशने शुचयो गृणन्ति । विन्दन्ति ते कमलनाभ भवापवर्गम् आशासते यदि त आशिष ईश नान्ये ॥ [भागवतम् १०.७२.४] इति । अत उक्तं बृहन्नारदीये (१.४.४) यथा समस्तलोकानां जीवनं सलिलं स्मृतम् । तथा समस्तसिद्धीनां जीवनं भक्तिरिष्यते ॥ ॥ १०.८२ ॥ श्रीदामविप्रः ॥९७॥ [९८] तदेवं तानि साधनानि भक्तिजीवनान्येवेति भक्तेरेव सर्वत्राभिधेयत्वम् । तानि विनापि भक्तेरेव श्रीविष्णुपुराणे (१.११.४८) पुलहवाक्यम् यो यज्ञपुरुषो यज्ञे योगे च परमः पुमान् । तस्मिंस्तुष्टे यदप्राप्यं किं तदस्ति जनार्दने ॥ अतएव मोक्षधर्मे या वै साधनसम्पत्तिः पुरुषार्थचतुष्टये । तया विना तदाप्नोति नरो नारायणाश्रयः ॥ इति । तस्मात्साधूक्तं सर्वशास्त्रश्रवणफलत्वेन तद्अभिधेयत्वम् । अतएव प्रथमं स्वयं भगवता सैव प्रवर्तितेत्युक्तं कालेन नष्टा प्रलये वाणीयं वेदसंज्ञिता मया [भागवतम् ११.१४.३] इत्य्आदिना । तदेवं सति ये तु नातिकोविदास्ते तत्तद्अर्थं कर्माद्य्अङ्गत्वेनैव श्री विष्णूपासनं कुर्वते । (पगे ३४) ततस्तद्अपराधेन निजकामनामात्र फलप्रदत्वम् । न च तत्तन्मात्रदानेन पर्याप्तिः किन्तु पर्यावसाने परमफलप्रदत्वमेवेति । ततस्तस्या एव परमहितत्वेनाभिधेयत्वम् आह सत्यं दिशत्यर्थितमर्थितो नृणां नैवार्थदो यत्पुनरर्थिता यतः । स्वयं विधत्ते भजतामनिच्छताम् इच्छापिधानं निजपादपल्लवम् ॥ [भागवतम् ५.१९.२८] अर्थितः प्रार्थितः सन्नॄणामर्थितं सत्यमेव ददाति । न तत्र कदाचिद् व्यभिचार इत्यर्थः । किन्तु तथापि तन्मन्त्रेणार्थदो न भवति, तन् मात्रं दत्त्वा निवृत्तो न भवतीत्यर्थः । यत उपासकस्तत्रापूर्णत्वाद् भोगक्षये सति तदैव पुनरर्थिता भवति । न जातु कामः कामानां [ंनुष्२.९४] इत्यादेः । तदेवमभिप्रेत्य स तु परमकारुणिकस्तत्पाद पल्लवमेव विधत्ते तेभ्यो ददातीत्यर्थः । यथा माता चर्व्यमाणां मृत्तिकां बालकमुखादपसार्य तत्र खण्डं ददाति तद्वदिति भावः । एवमप्युक्तमकामः सर्वकामो वा [भागवतम् २.३.१०] इत्यादौ तीव्रत्वं भक्तेः । तथोक्तं गारुडे यद्दुर्लभं यदप्राप्तं मनसो यन्न गोचरम् । तदप्यप्रार्थितं ध्यातो ददाति मधुसूदनः ॥ [ङर्ড়् २.२३४.१२] इति । एवं श्रीसनकादीनामपि ब्रह्मज्ञानिनां भक्त्य्अनुवृत्त्या तत्पाद पल्लवप्राप्तिर्ज्ञेया ॥ ॥ ५.१९ ॥ देवाः परस्परम् ॥९८॥ [९९] अथ व्यतिरेके कर्मानादरेणाह । तत्र कर्मणः फलप्राप्ताव् अनिश्चयवत्त्वं दुःखरूपत्वं च भक्तेस्तु तस्यामावश्यकत्वं, साधकदशायामपि सुखरूपत्वं चेत्याहुः कर्मण्यस्मिन्ननाश्वासे धूमधूम्रात्मनां भवान् । आपाययति गोविन्द पादपद्मासवं मधु ॥ [भागवतम् १.१८.१२] अस्मिन् कर्मणि सत्र अनाश्वास अविश्वसनीये वैगुण्यबाहुल्येन कृषिवत् फलनिश्चयाभावादनेन भक्तेर्विश्वसनीयत्वं ध्वनितम् । धूमेन धूम्रो विरञ्जितौ आत्मानौ शरीरचित्ते येषां, कर्मणि षष्ठी, तानस्मान् इत्यर्थः । पादपद्मस्य यशोरूपमासवं मकरन्दं मधु मधुरम् । अत्र सत्रवत्कर्मान्तरम्, यशःश्रवणवद्भक्त्य्अन्तरं चेति ज्ञेयम् । तदेवं भक्तिं विना कर्मादिभिरस्माकं दुःखमेवासीदिति व्यतिरेकत्वमत्र गम्यते । तदुक्तं यशःश्रियामेव परिश्रमः परः [भागवतम् १२.१२.४०] इत्यादि । अतो वै कवयो नित्यम् [भागवतम् १.२.२२] इत्यादि च । ब्रह्म वैवर्ते च शिवं प्रति श्रीविष्णुवाक्यम् यदि मां प्राप्तुमिच्छन्ति प्रापुन्वन्त्येव नान्यथा । कलौ कलुषचित्तानां वृथायुःप्रभृतीनि च । भवन्ति वर्णाश्रमिणां न तु मच्छरणार्थिनाम् ॥ इति । ॥ १.१८ ॥ श्र्यृषयः सूतम् ॥ ९९ ॥ [१००] तथा त्यक्ता स्वधर्मं [भागवतम् १.५.१७] इत्यादिकमनुसन्धेयम् । एवं महा वित्तमहायासादिसाध्येन कर्मादिना तुच्छं स्वर्गादिफलं स्वल्पायास स्वल्पवित्तादिसाध्यया भक्त्या (पगे ३५) तद्आभासेन च परममहत् फलं तत्र तत्रानुसन्धाय भक्तावेव शास्त्रतात्पर्यं पर्यालोचनीयम् । तस्मात्तत्तच्छास्त्राणामपि भक्तिविधेयतद्अनुवादेन प्रवृत्तत्वान्न वैफल्यमित्यपि ज्ञेयम् । किं च विप्राद्द्विषड्गुणयुतादरविन्दनाभ पादारविन्दविमुखात्श्वपचं वरिष्ठम् । मन्ये तद्अर्पितमनोवचनेहितार्थ प्राणं पुनाति स कुलं न तु भूरिमानः ॥ [भागवतम् ७.९.१०] टीका च भक्त्यैव केवलया हरेस्तोषः सम्भवतीत्युक्तम् । इदानीं भक्तिं विना नान्यत्किञ्चित्तत्तोषहेतुरित्याह विप्रादिति । मन्ये धनाभिजनरूपतपःश्रुतौजस् तेजःप्रभावबलपौरुषबुद्धियोगाः ॥ [भागवतम् ७.९.९] इत्यादौ पूर्वोक्ता ये धनादयो द्विषड्द्वादशगुणास्तैर्युक्ताद्विप्राद् अपि श्वपचं वरिष्ठं मन्ये । यद्वा सनत्सुजातोक्ता द्वादश धर्मादयो गुणा द्रष्टव्याः धर्मं च सत्यं च दमस्तपश्च विमत्सरं ह्रीस्तितिक्षानसूया । यज्ञश्च दानं च धृतिः श्रुतं च व्रतानि वै द्वादश ब्राह्मणस्य ॥ इति । कथम्भूतं श्वपचं, तस्मिन्नरविन्दनाभेऽर्पिता मन आदाय येन तम् । ईहितं कर्म । वरिष्ठत्वे हेतुः स एवम्भूतः श्वपचः सर्वकुलं पुनाति । भूरिमानो गर्वो यस्य स तु विप्र आत्मानमपि न पुनाति, कुतः कुलम् । यतो भक्तिहीनस्यैते गुणा गर्वायैव भवन्ति, न तु शुद्धये । अतो हीन इति भावः । इत्येषा ॥ मुक्ताफलटीका द्विषट्द्वादशगुणा धनाभिजनादयः । यद्वा शमो दमस्तपः शौचं क्षान्त्य्आर्जवविरक्तयः । ज्ञानविज्ञानसन्तोषः सत्यास्तिक्यं द्विषड्गुणाः ॥ इत्यत्रोक्ता इत्येषा । स्कान्दे श्रीनारदवाक्यम् कुलाचारविहीनोऽपि दृढभक्तिर्जितेन्द्रियः । प्रशस्तं सर्वलोकानां न त्वष्टादशविद्यकः । भक्तिहीनो द्विजः शान्तः सज्जातिधर्मिकस्तथा ॥ काशीखण्डे च ब्राह्मणः क्षत्रियो वैश्यः शूद्रो वा यदि वेतरः । विष्णुभक्तिसमायुक्तो ज्ञेयः सर्वोत्तमोत्तमः ॥ बृहन्नारदीये विष्णुभक्तिविहीना ये चण्डालाः परिकीर्तिताः । चण्डाला अपि वै श्रेष्ठा हरिभक्तिपरायणाः ॥ [णार्ড়् १.३७.१२] नारदीये च श्वपचोऽपि महीपाल विष्णोर्भक्तो द्विजाधिकः । विष्णुभक्तिविहीनो यो द्विजातिः श्वपचाधमः ॥ [णार्ড়् १.३३.४१] इति । अत्र मूलपद्ये स कुलं पुनातीत्युक्ते स्वं पुनातीति सुतरामेव सिद्धम् । यथोक्तं किरातहूणान्ध्रपुलिन्दपुल्कशा आभीरशुम्भा यवनाः खसादयः । येऽन्ये च पापा यद्अपाश्रयाश्रयाः शुध्यन्ति तस्मै प्रभविष्णवे नमः ॥ [भागवतम् २.४.१८] इति । ॥ ७.९ ॥ प्रह्लादः श्रीनृसिंहम् ॥ [१०१] अतएवाहुः (पगे ३६) धिग्जन्म नस्त्रिवृद्विद्यां धिग्व्रतं धिग्बहुज्ञताम् । धिक्कुलं धिक्क्रियादीक्षां विमुखा ये त्वधोक्षजे ॥ [भागवतम् १०.२३.४०] टीका च त्रिवृत्शौक्रं सावित्रं दैक्षमिति त्रिगुणितं जन्म । व्रतं ब्रह्मचर्यम् । क्रियाः कर्माणि दाक्ष्यं चेत्यादिका । तथोक्तं किं जन्मभिस्त्रिभिः [भागवतम् ४.३१.८] इत्यादि ॥ ॥ १०.१३ ॥ याज्ञिकविप्राः ॥ १०१ ॥ [१०२] मय्येव मन आधत्स्व मयि बुद्धिं निवेशय निवसिष्यसि मय्येव अत ऊर्ध्वं न संशयः अथ चित्तं समाधातुं न शक्नोषि मयि स्थिरम् अभ्यासयोगेन ततो मामिच्छाप्तुं धनंजय अभ्यासेऽप्यसमर्थोऽसि मत्कर्मपरमो भव मदर्थमपि कर्माणि कुर्वन् सिद्धिमवाप्स्यसि अथैतदप्यशक्तोऽसि कर्तुं मद्योगमाश्रितः सर्वकर्मफलत्यागं ततः कुरु यतात्मवान् ॥ [गीता १२.८११] अत्र पाद्मे कार्त्तिकमाहात्म्येतिहासोऽनुसन्धेयः । यथा चोलदेशराजस्य कस्यचिद्विष्णुदासनाम्ना विप्रेण शुद्धमर्चनमेव कुर्वता सह कस्य पूर्वं भगवत्प्राप्तिः स्यादिति स्पर्धया बहून् यज्ञान् भगवद् अर्पितानपि सुष्ठु विदधतो न भगवत्प्राप्तिरभूत् । किन्तु विप्रस्य भगवत्प्राप्तौ दृष्टायां तान् परित्यज्य यत्स्पर्धया मया चैतद्यज्ञदानादिकं कृतम् । स विष्णुरूपधृग्विप्रो याति वैकुण्ठमन्दिरम् ॥[ড়द्मড়् ६.१०९.२२] तस्माद्दानैश्च यज्ञैश्च नैव विष्णुः प्रसीदति । भक्तिरेव परं तस्य निदानं दर्शने विभोः ॥[ড়द्मড়् ६.१०९.२५] इति मुद्गलं प्रत्युक्ता । विष्णो भक्तिं स्थिरां देहि मनोवाक्कायकर्मभिः । इत्युक्त्वा सोऽपतद्वह्नौ सर्वेषामेव पश्यताम् ॥[ড়द्मড়् ६.१०९.२९] इत्युक्ता शुद्धभक्तिशरणतामेव मुहुर्दैन्येनाङ्गीकृत्य होमकुण्डे देहं त्येजतः पश्चादेव तत्प्राप्तिरिति । योगानादरेणाह युञ्जानानामभक्तानां प्राणायामादिभिर्मनः अक्षीणवासनं राजन् दृश्यते पुनरुत्थितम् ॥ [भागवतम् १०.५१.६०] उत्थितं विषयाभिमुखम् ॥ ॥ १०.५१ ॥ श्रीभगवान्मुचुकुन्दम् ॥१०२॥ [१०३] तथा यमादिभिर्योगपथैः कामलोभहतो मुहुः । मुकुन्दसेवया यद्वत्तथात्माद्धा न शाम्यति ॥ [भागवतम् १.६.३६] (पगे ३७) अतः सुतरामेव न साधयति मां योगः [भागवतम् ११.१४.२०] इत्य्आदिकम् इति भावः । ॥ १.६ ॥ श्रीनारदो व्यासम् ॥१०३॥ [१०४] अथ ज्ञानानादरेणोदाह्रियते । तत्र तस्य कृच्छ्रसाधनत्वेनानादरो दर्शित एव पानेन ते देवकथासुधायाः [भागवतम् ३.५.४४] इत्य्आदिभ्याम् । श्री गीतासु च श्री अर्जुन उवाच एवं सततयुक्ता ये भक्तास्त्वां पर्युपासते । ये चाप्यक्षरमव्यक्तं तेषां के योगवित्तमाः ॥ श्रीभगवानुवाच मय्यावेश्य मनो ये मां नित्ययुक्ता उपासते । श्रद्धया परयोपेतास्ते मे युक्ततमा मताः ॥ ये त्वक्षरमनिर्देश्यमव्यक्तं पर्युपासते । सर्वत्रगमचिन्त्यं च कूटस्थमचलं ध्रुवम् ॥ संनियम्येन्द्रियग्रामं सर्वत्र समबुद्धयः । ते प्राप्नुवन्ति मामेव सर्वभूतहिते रताः ॥ क्लेशोऽधिकतरस्तेषामव्यक्तासक्तचेतसाम् । अव्यक्ता हि गतिर्दुःखं देहवद्भिरवाप्यते ॥ [गीता १२.१५] भक्तिमार्गे तु श्रमो न स्यात् । तद्वशीकारितारूपं फलं चापूर्वमित्य् आह ज्ञाने प्रयासमुदपास्य नमन्त एव जीवन्ति सन्मुखरितां भवदीयवार्ताम् । स्थाने स्थिताः श्रुतिगतां तनुवाङ्मनोभिर् ये प्रायशो ञ्जित जितोऽप्यसि तैस्त्रिलोक्याम् ॥ [भागवतम् १०.१४.३] उदपास्य इषदप्यकृत्वा स्थाने निवास एव स्थिता अपि यदृच्छया सङ्गतैः सद्भिर्मुखरितां स्वत एव नित्यं प्रकटितां भवदीयवार्तां तत्स्वत एव श्रुतिगतां श्रवणं प्राप्तां तनुवाङ्मनोभिर्नमन्तः सन्निधि मात्रेण कुर्वन्तो ये जीवन्ति केवलं यद्यपि नान्यत्कुर्वन्ति तैः प्रायशस् त्रिलोक्यामन्यैरजितोऽपि त्वं जितोऽसि वशीकृतोऽसि । अतएवोक्तं श्रीनृसिंह पुराणे पत्रेषु पुष्पेषु फलेषु तोयेष्व् अक्रीतलभ्येषु सदैव सत्सु । भक्त्या सुलभ्ये पुरुषे पुराणे मुक्तौ किमर्थं क्रियते प्रयत्नः ॥ इति । वस्तुतस्तु श्रेयःसृतिं भक्तिमुदस्य ते विभो क्लिश्यन्ति ये केवेलबोधलब्धये । तेषामसौ क्लेशल एव शिष्यते नान्यद्यथा स्थूलतुषावघातिनाम् ॥ [भागवतम् १०.१४.४] टीका च भक्तिं विना नैव ज्ञानं सिध्यतीत्याह श्रेय इति । श्रेयसाम् अभ्युदयापवर्गलक्षणानां सृतिर्यस्याः सरस इव निर्झराणां तां ते तव भक्तिमुदस्य त्यक्त्वा तेषां क्लेशल एवावशिष्यते । अयं भावः । यथाल्प प्रमाणं धान्यं परित्यज्यान्तःकणहीनान् स्थूलधान्याभासान् येऽवघ्नन्ति तेषां न किञ्चित्फलम् । एवं भक्तिं तुच्छिकृत्य ये केवल बोधाय प्रयतन्ते (पगे ३८) तेषामपि । इत्येषा । अत्र विभो इतिवत्केवलशुद्ध इत्यपि सम्बोधनम् । असौ दृश्यमानः क्लेशलः सन्न्यासादीन्येवेति च ज्ञेयम् । श्रीगीतासु च श्रीभगवानुवाच अमानित्वमदम्भित्वम् [गीता १३.७] इत्य्आदिकं ज्ञानयोगमार्गम् उपक्रम्य, मध्ये तत्त्वज्ञानार्थदर्शनम् [गीता १३.११] इति समाप्याह एतज्ज्ञानमिति प्रोक्तमज्ञानं यदतोऽन्यथा [गीता १३.११] इति । ततो भक्ति योगं विना ज्ञानं न भवतीत्यर्थः । ततोऽनेत्ऽप्युक्तं मद्भक्त एतद् विज्ञाय मद्भावायोपपद्यते [गीता १३.१८] इति । अन्यत्र च अश्रद्दधानाः पुरुषा धर्मस्यास्य परन्तप । अप्राप्य मां निवर्तन्ते मृत्युसंसारवर्त्मनि ॥ [गीता ९.३] इति । अस्य सततं कीर्तयन्तो मां [गीता ९.१४] इत्य्आदिपूर्वोक्तलक्षणस्येत्यर्थः । अत एवास्फुटभक्तीनां मुद्गलादीनामपि कृतचरी साधनभक्तिर् अनुसन्धेया ॥ ॥ १०.१४ ॥ ब्रह्मा श्रीभगवन्तम् ॥ १०५ ॥ [१०६] आश्रयान्तरस्वातन्त्र्यानादरेणाह अविस्मितं तं परिपूर्णकामं स्वेनैव लाभेन समं प्रशान्तम् । विनोपसर्पत्यपरं हि बालिशः श्वलाङ्गुलेनातितितर्ति सिन्धुम् ॥ [भागवतम् ६.९.२२] अविस्मितं ततोऽन्यस्यापूर्ववस्तुनोऽसद्भावाद्विस्मयरहितम् । अतः स्वेनैव स्वीयेनैव स्वस्यैव कर्मभूतस्य क्रियाभूतेन लाभेन परिपूर्णकामं नान्यस्येत्यर्थः । अतः सर्वत्र समं प्रशान्तं चित्त दोषरहितम् । अतितितर्ति अतितर्तुमिच्छतीत्यर्थः । तथोक्तं रजस्तमः प्रकृतयः [भागवतम् १.२.२७] इत्यादि । स्कान्दे श्रीब्रह्मनारदसंवादे वासुदेवं परित्यज्य योऽन्यं देवमुपासते । स्वमातरं परित्यज्य श्वपचीं वन्दते हि सः ॥ तथैवान्यत्र च वासुदेवं परित्यज्य योऽन्यं देवमुपासते । त्यक्त्वामृतं स मूढात्मा भुङ्क्ते हलाहलं विषम् ॥ महाभारते यस्तु विष्णुं परित्यज्य मोहादन्यमुपासते । स हेमराशिमुत्सृज्य पांशुराशिं जिघृक्षति ॥ इति । (पगे ३९) अतएवोक्तं श्रीसत्यव्रतेन न यत्प्रसादायुतभागलेशम् अन्ये न देवा गुरवो जनाः स्वयम् । कर्तुं समेताः प्रभवन्ति पुंसस् तमीश्वरं वै शरणं प्रपद्ये ॥ इति । श्रीब्रह्मशिवावपि वैष्णवत्वेनैव भजेत । स आदिदेवो जगतां परो गुरुः [भागवतम् २.९.५] वैष्णवानां यथा शम्भुः [भागवतम् १२.१३.१६] इत्य्आद्य् अङ्गीकारात् । अतएव द्वादशे श्रीशिवं प्रति मार्कण्डेयवचनम् वरमेकं वृणेऽथापि पूर्णात्कामाभिवर्षणात् । भगवत्यच्युतां भक्तिं तत्परेषु तथा त्वयि ॥ [भागवतम् १२.१०.३४] त्वय्यपि त्वपर इत्यर्थः । अतएवाष्टमे प्रजापतिकृतश्रीशिवस्तुतौ ये त्वात्मरामगुरुभिर्हृदि चिन्तिताङ्घ्रिद्वन्द्वम् [भागवतम् ८.७.२६] इति । चतुर्थे श्रीमद्अष्टभुजं प्रति श्रीप्रचेतोभिरपि वयं तु साक्षाद्भगवन् भवस्य प्रियस्य सख्युः क्षणसङ्गमेन । [भागवतम् ४.३०.३८] इति । वैष्णवस्य सतः समदर्शिनस्तु न भक्तिलाभः प्रत्यवायश्च । यथा वैष्णवतन्त्रे न लभेयुः पुनर्भक्तिं हरेरैकान्तिकीं जडाः । एकाग्रमनसश्चापि विष्णुसामान्यदर्शिनः ॥ यस्तु नारायणं देवं ब्रह्मरुद्रादिदैवतैः । समत्वेनैव वीक्षेत स पाषण्डी भवेद्ध्रुवम् ॥ इति । अतएवाभेददृष्टिवचनं समभक्तज्ञान्य्आदिपरमेव । यथा श्री मार्कण्डेयोपाख्याने द्वादश एव श्रीशिववाक्यम् ब्राह्मणाः साधवः शान्ता निःसङ्गा भूतवत्सलाः । एकान्तभक्ता अस्मासु निर्वैराः समदर्शिनः ॥ सलोका लोकपालास्तान् वन्दन्त्यर्चन्त्युपासते । अहं च भगवान् ब्रह्मा स्वयं च हरिरीश्वरः ॥ न ते मय्यच्युतेऽजे च भिदामण्वपि चक्षते । नात्मनश्च जनस्यापि तद्युष्मान् वयमीमहि ॥ [भागवतम् १२.१०.२०२२] इति । तत्ततोऽपि तानप्यतिक्रम्य युष्मान्मार्कण्डेयादीन् शुद्धवैष्णवान् वयमीमहि भजामित्यर्थः । तदुक्तं श्रीशिवेनैव प्रचेतसं प्रति अथ भागवता यूयं प्रियाः स्थ भगवान् यथा । न मद्भागवतानां च प्रेयानन्योऽस्ति कर्हिचित् ॥ [भागवतम् ४.२४.२६] इति । अन्यत्र च प्रीते हरौ भगवति प्रीयेऽहं सचराचरः इति च । तस्य शुद्ध वैष्णवत्वं चोक्तमेव तत्पूर्वं नैवेच्छत्याशिषः क्वापि ब्रह्मर्षिर्मोक्षमप्युत । भक्तिं परां भगवति लब्धवान् पुरुषेऽव्यये ॥ [भागवतम् १२.१०.६] इति । श्रीमार्कण्डेयमुद्दिश्य श्रीशिवेन । तथा श्रीशिवस्य तच्चेतस्य् आविर्भावात्समाधिविरामेण तदेव व्यञ्जितम् । यथा किमिदं कुत एवेति समाधेर्विरतो मुनिः [भागवतम् १२.१०१.६] इति । (पगे ४०) किं च ब्राह्मणाः साधवः [भागवतम् १२.१०.१६] इत्यादावभेदाददृष्टिवचनेऽपि स्वयं च हरि ईश्वरः [भागवतम् १२.१०.१६] इत्यनेन तस्यैव प्राधान्यमुक्तम् । तस्यैव स्वयं चेश्वरत्वमुक्तं पार्थिवाद्दारुणः [भागवतम् १.२.२४] इत्यादिना । ब्रह्मपुराणे श्रीशिववाक्यमपि तथैव यो हि मां द्रष्टुमिच्छेत ब्रह्माणं वा पितामहम् । द्रष्टव्यस्तेन भगवान् वासुदेवः प्रतापवान् ॥ [Bरह्मড়् २२६.४६] इति । तद्विज्ञानेन सर्वविज्ञानादिति भावः । तदेवं वैष्णवत्वेनैव शिव भजनं युक्तम् । केचित्तु वैष्णवास्तत्पूजनमावश्यकत्वेनोपस्थितं चेत् तर्हि तस्मिन्नधिष्ठाने श्रीभगवन्तमेव पूजयन्ति । यथा श्रीविष्णु धर्मान्तिमोऽयमितिहासः विष्वक्सेननामा कश्चिद्विप्र एकान्त भागवतः पृथिवीं विचरन्नासीत् । स कदाचिदेक एव वनान्त उपविष्टः । तथार्थ ग्रामाध्यक्षसुतः कश्चिदागतस्तमुवाच कोऽसीति । ततः कृत स्वाख्यानं तमुवाच मम शिरःपीडाद्या जातेति निजेष्टदेवं शिवं पूजयितुं न शक्नोमि, ततो मम प्रतिनिधित्वेन त्वमेव तं पूजयेति । एतद् अनन्तरं च तत्रत्यं सार्धं पद्यम् एतदुक्तं प्रत्युवाच वयमेकान्तिनः श्रुताः । चतुरात्मा हरिः पूज्यः प्रादुर्भावगतोऽथवा । पूजयामश्च नैवान्यं तस्मात्त्वं गच्छ मा चिरम् ॥ [Vइढ्ড়् ३.३५४.१२१३] इति । ततस्तस्मिंस्तद्अङ्गीकृतवति स खड्गमुन्नमितवान् शिरश्छेत्तुम् । ततश् चासौ विप्रस्तद्धस्तेन मृत्युमनभीप्सन् विचार्योक्तवान् भद्रं तत्र गच्छाम इति । गत्वा चेदं मनसि चिन्तितम् अयं रुद्रः प्रलयहेतुतया तमोवर्धनत्वात्तमोभावः । श्रीनृसिंहदेवश्च तामसदैत्यगण विदारकतया तमोभञ्जनकर्तृत्वात्तद्भञ्जनार्थमेव तत्रोदयेत सूर्य इव तमोराशेः । अतो रुद्राकाराधिष्ठानेऽपि तद्उपासकानामेषां तद्भजनकृते श्रीनृसिंहपूजामेवास्मिन् करिष्यामीति । अथ श्रीनृसिंहाय नम इति गृहीतपुष्पाञ्जलौ तस्मिन् पुनः क्रोधाविष्टेन ग्रामाध्यक्षपुत्रेण खड्गः समुद्यमितः । ततश्चाकस्मात्तदेव लिङ्गं स्फोटयित्वा श्रीनृसिंहदेवः स्वयमाविर्भूय तं ग्रामाध्यक्ष पुत्रं सपरिकरं जघान । दक्षिणस्यां दिशि लिङ्गस्फोटनामा स्वयं च तत्र स्थितवानिति । केचित्कदाचित्तद्अधिष्ठानत्वेनैव वा । अतएवोक्तमादि वाराहे जन्मान्तरसहस्रेषु समाराध्य वृषध्वजम् । वैष्णवत्वं लभेद्धीमान् सर्वपापक्षये सति ॥ इति । अतएव श्रीनृसिंहशिवभक्त्योरनन्तरं बृहदेव श्रीनृसिंहतापन्यां श्रुतौ अनुपनीतशतमेकमेकेनोपनीतेन तत्समम् । उपनीतशतमेकमेकेन गृहस्थेन तत्समम् । गृहस्थशतमेकमेकेन वानप्रस्थेन तत्समम् । वानप्रस्थशतमेकमेकेन यतिना तत्समम् । यतीनां तु शतं पूर्णम् एकमेकेन रुद्रजापकेन तत्समम् । रुद्रजापकशतमेकमेकेन अथर्वशिरःशिखाध्यापकेन[*Eण्ड्ण्Oट्E ॰३] तत्समम् । अथर्वशिरः शिखाध्यापकशतमेकमेकेन तापनीयोपनिषद्अध्यापकेन तत्समम् । तापनीयोपनिषद्अध्यापकशतमेकमेकेन मन्त्रराजाध्यापकेन तत् समम् । [ण्टू ५.८] इति । (पगे ४१) मन्त्रराजश्च तत्र श्रीनृसिंहमन्त्र एवेति । स्वतन्त्रत्वेन भजने तु भृगुशापो दुरत्ययः । यथा चतुर्थे भृगुः प्रत्यसृजच्छापं ब्रह्मदण्डं दुरत्ययम् । भवव्रतधरा ये च ये च तान् समनुव्रताः । पाषण्डिनस्ते भवन्तु सच्छास्त्रपरिपन्थिनः ॥ [भागवतम् ४.२.२७२८] इत्य्आदि । वेदविहितमेवात्र भवव्रतमनूद्यते अन्यविहितत्वे पाषण्डिनत्व विधानायोगः स्यात् । पूर्वत एव पाषण्डित्वसिद्धेः । अथ तत्परिपन्थिनां श्रीभागवतादीनां सच्छास्त्रत्वमायातम् । तत्पुरस्कृतानां सूत संहितादीनामसच्छास्त्रत्वं स्पष्टमेव । तस्मात् स्वतन्त्रत्वेनैवोपासनायामयं दोषः । यतश्च तत्रैव तेन श्री जनार्दनस्यैव वेदमूलत्वमुक्तम् एष एव हि लोकानां शिवः पन्थाः सनातनः । यं पूर्वे चानुसन्तस्थुर्यत्प्रमाणं जनार्दनः ॥ [भागवतम् ४.२.३१] इति । एष वेदलक्षणो यत्प्रमाणं यत्र मूलमियर्थः । अत एवान्वयेनापि श्रीविष्णुभक्तिर्दृढीकृता सत्त्वं रजस्तमः [भागवतम् १.२.२३] इत्यादिना । तथा श्रीहरिवंशे शिववाक्यम् हरिरेव सदा ध्येयो भवद्भिः सत्त्वसंस्थितैः । विष्णुमन्त्रं सदा विप्राः पठध्वं ध्यात केशवम् ॥ इति । तस्मात्श्रीशिवभक्तेरप्येवम्भूते स्थिते पराणामपि देवतानां वैष्णवागमादौ तद्बहिरङ्गावरणसेवकत्वेनाप्राकृतानामेव पूजा विधानं श्रीभगवल्लोकसङ्ग्रहपराणां तल्लीलौपायिकनरलीला पार्षदानां वा श्रीभगवत्प्रीणनयज्ञादौ तु युधिष्ठिरराजसूयवद् अन्यासामपि तद्विभूतित्वेनैवेति ज्ञेयम् । ततः सम्पूज्य शिरसा ववन्दे परमेष्ठिनम् । भवं प्रजापतीन् देवान् प्रह्रादो भगवत्कलाः ॥ [भागवतम् ७.१०.३२] इति । तदुक्तं श्रीयुधिष्ठिरेणैव क्रतुराजेन गोविन्द राजसूयेन पावनीः यक्ष्ये विभूतीर्भवतस्तत्सम्पादय नः प्रभो ॥ [भागवतम् १०.७२.३१] विभूतित्वेनैवमुक्तं पाद्मे कार्त्तिकमाहात्म्ये श्रीसत्यभामां प्रति श्रीभगवता शैवाः सौराश्च गाणेशा वैष्णवाः शक्तिपूजकाः । मामेव प्राप्नुवन्तीह वर्षाम्भः सागरं यथा ॥ एकोऽहं पञ्चधा जातः क्रीडयन्नामभिः किल । देवदत्तो यथा कश्चित्पुत्राद्य्आह्वाननामभिः ॥ [ড়द्मড়् ६.८८.४३४४] इति । वस्तुतस्तु सर्वापेक्षया श्रीवैष्णवा एव श्रेष्ठाः । तदुक्तं स्कान्दे ब्रह्मनारदसंवादे तथैवान्यत्र प्रह्लादसंहितायामेकादशी जागरणप्रसङ्गे च न सौरो न च शैवो वा न ब्राह्मो न च शाक्तिकः । न चान्यदेवताभक्तेः भवेद्भागवतोपमः ॥ इति । तादृशसौरादीनां तत्प्राप्तिश्च न केवलं तद्धेतुत्वेन किन्तु भगवत् प्रीत्य्अर्थकृतजपतपस्तज्जात(पगे ४२) शुद्धभक्तिद्वारा श्री विस्णुक्षेत्रमरणादिप्रभावेण वा । यथा तत्रैव वर्णितयोर्देवशर्म चन्द्रशर्मनाम्नोः सूर्यमाराधयतोः । तदुक्तं श्रीभगवता तत्क्षेत्रस्य प्रभावेण धर्मशीलतया पुनः । वैकुण्ठभवनं नीतौ मत्परौ मत्समीपगैः ॥ यावज्जीवन्तु यत्ताभ्यां सूर्यपूजादिकं कृतम् । तेनाहं कर्मणा ताभ्यां सुप्रीतो ह्यभवं किल ॥ इति । तत्क्षेत्रं मायापुरी । तौ च श्रीकृष्णावतारे सत्राजिद्अक्रूराख्यौ जाताव् इति च तत्र प्रसिद्धिः । एवं पुण्डरीकस्यापि पितृसेवया तत्प्राप्तिश्च योजनीया । स्वतन्त्रोपासनायां तत्प्राप्तिः श्रीगीतोपनिषदि निषिद्धः येऽप्यन्यदेवताभक्ता यजन्ते श्रद्धयान्विताः । तेऽपि मामेव कौन्तेय यजन्त्यविधिपूर्वकम् ॥ अहं हि सर्वयज्ञानां भोक्ता च प्रभुरेव च । न तु मामभिजानन्ति तत्त्वेनातश्च्यवन्ति ते ॥ यान्ति देवव्रता देवान् पितॄन् यान्ति पितृव्रताः । भूतानि यान्ति भूतेज्या यान्ति मद्याजिनोऽपि माम् ॥ [गीता ९.२३२५] तस्मात्तदीयत्वेनोपासनायां कश्चिद्गुणोऽपि भवति । अवज्ञादौ तु दोषः श्रद्धां भागवते शास्त्रेऽनिन्दामन्यत्र चापि हि [भागवतम् ११.३.२६] इतिवत् । यथा पाद्मे हरिरेव सदाराध्यः सर्वदेवेश्वरेश्वरः । इतरे ब्रह्मरुद्राद्या नावज्ञेयाः कदाचन ॥ इति । गौतमीये च गोपालं पूजयेद्यस्तु निन्दयेदन्यदेवताम् । अस्तु तावत्परो धर्मः पूर्वधर्मोऽपि नश्यति ॥ [ङौतमीयट्३३.८४] इति । अतएव हयशीर्षा मां पथि देवहेलनात्[भागवतम् ६.८.१५] इति श्रीनारायण वर्मणि तद्आगःप्रायश्चित्तम् । विष्णुधर्मे चायमितिहासः पूर्वं श्र्मद्अम्बरीषो बहुदिनं श्री भगवद्आराधनं तओप्ऽनुष्ठितवान् । तद्अन्ते च भगवानेवेद्न्र रूपेणैरावतीकृतं गरुडमारुह्य तं वरेण छन्दयामास । स चेन्द्र रूपं दृष्ट्वा तं नमस्कारादिभिरादृत्यापि तस्माद्वरं नेष्टवान् । उक्तवांश्च ममाराध्याकारो यः स एव मम वरदाता भवेन्नान्य इति । अथ तद्देयवरमहमेव दास्यामीति पुनरुक्त्य्वत्यपीन्द्रे तं नेष्टवन्तं तं प्रति वज्रं समुद्यतवान् । तदापि तं वरं नाङ्गीकृतवति तस्मिन् सुप्रसन्नो भूवा तद्रूपमन्तर्धाप्य स्वरूपमाविर्भावयन्न् अनुजग्राहेति । तत्र च शिवावज्ञादौ महानेव दोषः । यथा चतुर्थे एव नन्दीश्वर शापः । संसरन्त्विह ये चामुमनु शर्वावमानिनम् [भागवतम् ४.२.२४] इति । इदम् अपि यत्किञ्चिदेव, श्रीशिवस्य महाभागवतत्वेन दोषस्य स्वयमेव सिद्धत्वात् । हेलनं गिरिशभ्रातुर्धनदस्य त्वया कृतम् [भागवतम् ४.११.३२] इत्य् उक्तरीत्या नूनं तत्सख्यमनुस्मृत्यैव कुबेरादपि श्रीध्रुवेण भगवद्भक्तिस्वभावकृतसर्वविषयकविनयपुनःपुनर्भ्भक्त्य् अभिलाषाभ्यां युक्तेन सता कृतं भगवद्भक्तिवरप्रार्थनमिति चतुर्थाभिप्रायः । अतएवोक्तं (पगे ४३) यो मां समर्चयेन्नित्यमेकान्तं भावमाश्रितः । विनिन्दन् देवमीशानं स याति नरकं ध्रुवम् ॥ इति । दृष्टं च यथा चित्रकेतुचरिते । श्रीकपिलदेवेन साधारणानामपि प्राइनामवमानादिकं निन्दितं किमुत तद्विधानाम् । तथा हि अहं सर्वेषु भूतेषु भूतात्मावस्थितः सदा तमवज्ञाय मां मर्त्यः कुरुतेऽर्चाविडम्बनम् ॥ [भागवतम् ३.२९.२१] भूतेषु वक्ष्यमाणरीत्या प्राणभृज्जीवमारभ्य भगवद्अर्पितात्म जीवपर्यन्तेषु भूतात्मा तद्अन्तर्यामी । तं मामवज्ञाय तेषाम् अवज्ञया तद्अधिष्ठानकस्य ममैवावज्ञां कृत्वेत्यर्थः । ततस्तां कृत्वा योऽर्चां मत्प्रतिमां कुरुते स तद्विडम्बनं तस्या अवज्ञामेव कुरुत इत्यर्थः । यतः यो मां सर्वेषु भूतेषु सन्तमात्मानमीश्वरम् । हित्वार्चां भजते मौढ्याद्भस्मन्येव जुहोति सः ॥ [भागवतम् ३.२९.२२] मौढ्यात्शैली दारुमयो वा काचित्प्रतिमेयमिति मूढबुद्धित्वाद्यं सर्वेषु भूतेषु वर्तमानं परमात्मानमीश्वरं मां हित्वा तस्या मयैक्यमविभाव्यार्चां मदीयां प्रतिमां भजते केवललोकरीतिदृष्ट्या तस्यै जलादिकमर्पयति । यथाग्निपुराणे दशरथमारितपुत्रस्य तपस्विनो विलापे शिलाबुद्धिः कृता किं वा प्रतिमायां हरेर्मया । किं मया पथि दृष्टस्य विष्णुभक्तस्य कर्हिचित् ॥ तन्मुद्राङ्कितदेहस्य चेतसानादरः कृतः । येन कर्मविपाकेन पुत्रशोको ममेदृशः ॥ इति । यथा चोक्तं विष्ण्व्अर्चायां शिलाधीर्गुरुषु नरमतिर्वैष्णवे जातिबुद्धिर् विष्णोर्वा वैष्णवानां कलिमलमथने पादतीर्थेऽम्बुबुद्धिः । श्रीविष्णोर्नाम्नि मन्त्रे सकलकलुषहे शब्दसामान्यबुद्धिर् विष्णौ सर्वेश्वरेशे तद्इतरसमधीर्यस्य वा नारकी सः ॥ [ড়्व्११४] इति । तस्य च मूढस्य मद्दृष्ट्य्अभावात्सर्वभूतावज्ञापि भवति । ततस्तद् दोषेण भस्मनि यथा जुहोति कश्चित्तथा तस्याश्रद्दधानस्य फलाभाव इत्यर्थः । ये शास्त्रविधिमुत्सृज्य यजन्ते श्रद्धयान्विताः [गीता १७.१] इत्य् आद्य्उक्तरीत्या लोकपरम्परामात्रजाते यत्किञ्चिच्छ्रद्धासद्भावे तु कनिष्ठभागवतत्वमेव । अर्चायामेव हरये पूजां यः श्रद्धयेहते । न तद्भक्तेषु चान्येषु स भक्तः प्राकृतः स्मृतः ॥ [भागवतम् ११.२.४७] इत्य् उक्तेः । यद्यपि यथाकथञ्चिद्भजनस्यैवावश्यकफलावसानतास्त्येव तथापि झटिति न भवतीत्येव तथोक्तम् । वक्ष्यते च साफल्यमर्चादावर्चयेत् तावद्[भागवतम् ३.२९.२०] इत्यादिना । अवज्ञामात्रस्य तादृशत्वे सुतरां तु द्विषतः परकाये मां मानिनो भिन्नदर्शिनः । भूतेषु बद्धवैरस्य न मनः शान्तिमृच्छति ॥ [भागवतम् ३.२९.१८] इत्युक्तेः । (पगे ४४) भिन्नदर्शिनः सर्वत्रान्तर्याम्य्एकदृष्टिरहितस्य अतएव मानिन अतएव तद्धवैरस्य च । तथा च महाभारते पितेव पुत्रं करुणो नोद्वेजयति यो जनः । विशुद्धस्य हृषीकेशस्तस्य तूर्णं प्रसीदति ॥ किं च अहमुच्चावचैर्द्रव्यैः क्रिययोत्पन्नयानघे । नैव तुष्येऽर्चितोऽर्चायां भूतग्रामावमानिनः ॥ [भागवतम् ३.२९.२४] अवमानिनो निन्दाकर्तुः । निन्दापि द्वेषसमा । किं वा न तथा तप्यते विद्धः पुमान् बाणैर्हि मर्मगैः । यथा तुदन्ति मर्मस्था असतां पुरुषेषवः ॥ इत्य्आद्य्उक्तरीत्या ततोऽधिका इति नायं व्युत्क्रम्य इत्यभिप्रेत्य न द्वेषात् पूर्वमसौ पठिता । तदेवमीश्वरज्ञानाभावाद्भक्तावश्रद्दधानस्य दोष उक्तः । अथ तच्छ्रद्धाहेतुतज्ज्ञानस्य स्वधर्मसंयुक्तं तद्अर्चनमेव कारणमुपदिशन् तादृशार्चनस्याप्यव्यर्थतामङ्गीकरोति अर्चादावर्चयेत्तावदीश्वरं मां स्वकर्मकृत् । यावन्न वेद स्वहृदि सर्वभूतेष्ववस्थितम् ॥ [भागवतम् ३.२९.२५] तावदेव स्वकर्मकृत्सनर्चादावर्चयेद्यावत्सर्वभूतेष्ववस्थितम् ईश्वरं मां न वेद न जानाति । अत्र स्वकर्मसहायत्वमजातश्रद्धस्य शुद्धभक्तावनधिकारात्तत्प्रतिपादयिष्यते जातश्रद्धो मत्कथासु [भागवतम् ११.२०.२७] इत्यादिना । अतो भगवज्ज्ञानादूर्ध्वं जातश्रद्धस्तु स्व कर्मकृत्सन्नार्चयेत्किन्तु शुद्धमर्चादिकमेव कुर्वीतेत्यायातम् । तच् च प्रतिपादयिष्यते तावत्कर्माणि कुर्वीत [भागवतम् ११.२०.९] इत्यादिना, न त्वर्चां परित्यजेदित्यर्थः । प्रतिष्ठितार्चा न त्याज्या यावज्जीवं समर्चयेत् । वरं प्राणपरित्यागः शिरसो वापि कर्तनम् ॥ इति श्रीहयशीर्षपञ्चरात्रविरोधात् । अथ स्वधर्मपूर्वकमर्चनं कुर्वंश्च भूतदयां विना न सिद्ध्यतीत्याह आत्मनश्च परस्यापि यः करोत्यन्तरोदरम् । तस्य भिन्नदृशो मृत्युर्विदधे भयमुल्बणम् ॥ [भागवतम् ३.२९.२६] अन्तरोदरमुदरभेदेन भेदं करोति न तु मद्अधिष्ठानत्वेनात्म समं पश्यति । ततश्च क्षुधितादिकमपि दृष्ट्वा स्वोदरादिकमेव केवलं बिभर्तीत्यर्थः । तस्य भिन्नदृशो मृत्युरूपोऽहमुल्बणं भयं संसारम् । निगमयति अथ मां सर्वभूतेषु भूतात्मानं कृतालयम् । अर्हयेद्दानमानाभ्यां मैत्र्याभिन्नेन चक्षुषा ॥ [भागवतम् ३.२९.२७] अथ अतो हेतोः यथायुक्तं यथाशक्ति दानेन तद्अभावे मानेन चाभिन्नेन चक्षुषेति पूर्ववत् । तथोक्तं सनकादीन् प्रति श्रीवैकुण्ठ देवेन ये मे तनूर्द्विजवरान् दुहतीर्मदीया भूतान्यलब्धशरणानि च भेदबुद्ध्या ॥ [भागवतम् ३.१६.१०] इत्यादि । यद्वाभिन्नेन चक्ष्षान्यत्र या दृष्टिस्ततोऽतिविलक्षणया दृष्ट्या सर्वोत्कृष्टदृष्ट्येत्यर्थः । तत्र सर्वेषां साधारण्येनेवार्हणे प्राप्ते विशेषयति (पगे ४५) जीवाः श्रेष्ठा ह्यजीवानां ततः प्राणभृतः शुभे । ततः सचित्ताः प्रवरास्ततश्चेन्द्रियवृत्तयः ॥ तत्रापि स्पर्शवेदिभ्यः प्रवरा रसवेदिनः । तेभ्यो गन्धविदः श्रेष्ठास्ततः शब्दविदो वराः ॥ रूपभेदविदस्तत्र ततश्चोभयतोदतः । तेषां बहुपदाः श्रेष्ठाश्चतुष्पादस्ततो द्विपात् ॥ ततो वर्णाश्च चत्वारस्तेषां ब्राह्मण उत्तमः । ब्राह्मणेष्वपि वेदज्ञो ह्यर्थज्ञोऽभ्यधिकस्ततः ॥ अर्थज्ञात्संशयच्छेत्ता ततः श्रेयान् स्वकर्मकृत् । मुक्तसङ्गस्ततो भूयानदोग्धा धर्ममात्मनः ॥ तस्मान्मय्यर्पिताशेष क्रियार्थात्मा निरन्तरः । मय्यर्पितात्मनः पुंसो मयि सन्न्यस्तकर्मणः । न पश्यामि परं भूतमकर्तुः समदर्शनात् ॥ [भागवतम् ३.२९.२८३३] पुर्वस्मादुत्तरोत्तरस्मिनेकैकगुणाधिक्येनाधिक्यम् । धर्मम् अदोग्धा निष्कामकर्मा । निरन्तरो ज्ञानाद्य्अव्यवहितभक्तिः । अकर्तुर् अर्पितात्मत्वेन स्वभरणादिकर्मानपेक्षमाणात् । यद्भगवति भक्तिः क्रियते तत्रापि स्वस्य भगव्दधीनत्वं ज्ञात्वा तद्अभिमानशून्याच्च । समदर्शनाद्भगवद्अधिष्ठातृत्वसाम्येनात्मवत्परेष्वपि हितम् आशंसनेन श्रवणादिकर्मापेक्षमाणात्जीवाः श्रेष्ठा ह्यजीवानामित्य् आदिना भेदो हि विवक्षितः । ततो मद्भक्तेष्वेवादरबाहुल्यं कर्तव्यम् अन्यत्र च यथाप्राप्तं यथाशक्ति चेति भावः । तथैवोक्तम् मनसैतानि भूतानि प्रणमेद्बहुमानयन् । ईश्वरो जीवकलया प्रविष्टो भगवानिति ॥ [भागवतम् ३.२९.३४] जीवकलया तत्कलनया तद्अन्तर्यामितयेत्यर्थः । तदेवं प्रथमोपासकानां सर्वभूतादरो विहितः । सश्रद्धसाधकानां तु भगवद्वैभवस सार्वत्रिकतास्फूर्त्या भवत्येवासौ । यथोक्तं स्कान्दे एतेन ह्यद्भुता व्याध तवाहिंसादयो गुणाः । हरिभक्तौ प्रवृत्ता ये न ते स्युः परतापिनः ॥ इति । वक्ष्यमाणरीत्या शुद्धबन्धुत्वादिभावसाधकानामपि शुद्ध बन्धुभावसिद्धश्रीगोकुलवास्य्अनुशीलनानुसारेण तादृशभगवद् गुणानुस्मरणेन चासौ जायते । जातभावानां त्वहिंसोपरमश्च स्वीय एव स्वभावः । यथा यत्रानुरकात्ः सहसैव धीरा व्यपोह्य देहादिषु सङ्गमूढम् । व्रजन्ति तत्पारमहंस्यमन्त्यं यस्मिन्न हिंसा परमः स्वधर्मः ॥ इत्यनुसारेण सिद्ध एव सः । तत्र परमसिद्धानां च सर्वभूतेषु यः पश्येद्भगवद्भावमात्मनः [भागवतम् ११.२.४५] इत्य्आद्य्अनुसारेण सिद्ध एव सः । तत्र साधकानां यत्तु यथा तरोर्मूलनिषेचनेन [भागवतम् ४.३१.१२] इत्य् आदौ तद्अन्योपासनानां पुनरुक्तत्वमुपलभ्यते, तत्पुनः केवल स्वतन्त्रतत्तद्दृष्ट्योपासनानामेव । अत्र तु तत्तद्अधिष्ठानक भगवद्उपासनमेव विधीयते । तद्आदरावश्यकत्वं च तत् सम्बन्धेनैव सम्पाद्यत इति भेदः । तच्चान्यत्र झटिति रागद्वेष विश्लेषार्थमिति ज्ञेयम् । अतएव केवलभूतानुकम्पया भगवद्अर्चनं त्यक्तवतो भरतस्यान्तरायः । तस्माद्भूतदयैव भगवद्भक्तिर् मुख्या नार्चनमिति निरस्तम् । तथा वैतदव्यवहितपूर्वं निर्गुण भक्त्य्अपायत्वेन (पगे ४६) क्रियायोगेन शस्तेन नातिहिंस्रेण नित्यशः इत्य् अत्र अतिशब्देन पाञ्चरात्रिकार्चनलक्षणक्रियायोगार्था पत्र पुष्पावचयादिलक्षाणा किञ्चिद्धिंसापि विहिता । तस्मादनादरो न कर्तव्यस् तत्सम्बन्धेनादरादिकं च कर्तव्यम् । स्वातन्त्र्येणोपासनं तु धिक्कृतम् इति साध्वेवोक्तमविस्मितं तं परिपूर्णकाममित्यादि । ॥ ६.९ ॥ देवाः श्रीमद्आदिपुरुषम् ॥ १०६ ॥ [१०७] तथा कः पण्डितस्त्वदपरं शरणं समीयाद् भक्तप्रियादृतगिरः सुहृदः कृतज्ञात् । सर्वान् ददाति सुहृदो भजतोऽभिकामान् आत्मनमप्युपचयापचयौ न यस्य ॥ [भागवतम् १०.४८.२६] सुहृदो हितकारिस्वभावात्तत्रापि कृतज्ञादुपकाराभासेऽपि बहुमाननात् । यो भजतो भजमानाय सर्वान् कामानभीष्टानभि सर्वतोभावेन ददाति । अत्र सुहृदः सुहृदे प्रीतये त्वात्मानमपि ददाति । न च सर्वतो भावेन दाने तादृशेभ्यो बहुभ्यो दाने वा समावेशाभावः स्यादित्याह उपचयेति ॥ ॥ १०.४८ ॥ अक्रूरः श्रीभगवन्तम् ॥ १०७ ॥ [१०८] तद्अभक्तमात्रानादरेणाह येऽभ्यर्थितामपि च नो नृगतिं प्रपन्ना ज्ञानं च तत्त्वविषयं सहधर्मं यत्र । नाराधनं भगवतो वितरन्त्यमुष्य सम्मोहिता विततया बत मायया ते ॥ [भागवतम् ३.१५.२४] यत्र यस्यां भगवद्धर्मपर्यन्तो धर्मो भवति भगवत्पर्यन्तस्य तत्त्वस्य ज्ञानं च भवतीत्यर्थः । तां प्राप्ता अपि सर्वेषां धर्माणां ज्ञानानां च मूलं ये भगवद्आराधनं न वितरन्ति न कुर्वन्ति । तद् उक्तं बिले बतोरुक्रमविक्रमान् ये [भागवतम् २.३.२०] इत्यादि । तथा च ब्रह्म वैवर्ते प्राप्यापि दुर्लभतरं मानुष्यं विबुधेप्सितम् । यैराश्रितो न गोविन्दस्तैरात्मा वञ्चितश्चिरम् ॥ अशीतिचतुरश्चैव लक्षांस्तान् जीवजातिषु । भ्रमद्भिः पुरुषैः प्राप्य मानुष्यं जन्मपर्ययात् ॥ तदप्यफलतां जातं तेषामात्माभिमानिनाम् । वराकानामनाश्रित्य गोविन्दचरणद्वयम् ॥ इति । ॥ ३.१५ ॥ श्रीब्रह्मा देवान् ॥ १०८ ॥ [१०९] तथा यस्यास्ति भक्तिर्भगवत्यकिञ्चना सर्वैर्गुणैस्तत्र समासते सुराः । हरावभक्तस्य कुतो महद्गुणा मनोरथेनासति धावतो बहिः ॥ [भागवतम् ५.१८.१२] अकिञ्चना निष्कामा । गुणैर्ज्ञानवैराग्यादिभिः सह सर्वे ब्रह्मादयो देवाः सम्यगासते । ॥ ५.१८ ॥ भद्रश्रवः श्रीहयशीर्षम् ॥ १०९ ॥ [११०] अतएव तत्तन्मार्गसिद्धमुनीनामप्यनादरः अह्न्यापृतार्तकरणा निशि निःशयाना नानामनोरथधिया क्षणभग्ननिद्राः । दैवाहतार्थरचना ऋषयोऽपि देव युष्मत्प्रसङ्गविमुखा इह संसरन्ति ॥ [भागवतम् ३.९.१०] (पगे ४७) अह्न्यापृतार्त इत्यादिस्वभावा युष्मद्भजनविमुखाः संसारिणो भवन्ति । किं बहुना, तत्तन्मार्गसिद्धा मुनयोऽपि युष्मत्प्रसङ्ग विमुखाश्चेदिह जगति तद्वदेव संसरन्ति । अथवा मुनयोऽपि त्वद् विमुखाश्चेत्तर्हि संसरन्त्येव । कथम्भूताः सन्तः संसरन्ति इत्यत्राह अह्न्यापृतेत्यादि । आरुह्य कृच्छ्रेण परं पदम् [भागवतम् १०.२८.३२] इत्यादेः । अत उक्तं श्रीधर्मेण धर्मं तु साक्षाद्भगवत्प्रणीतं न वै विदुरृषयो नापि देवाः । न सिद्धमुख्या असुरा मनुष्याः कुतो नु विद्याधरचारणादयः ॥ स्वयम्भूर्नारदः शम्भुः कुमारः कपिलो मनुः । प्रह्लादो जनको भीष्मो बलिर्वैयासकिर्वयम् ॥ द्वादशैते विजानीमो धर्मं भागवतं भटाः । गुह्यं विशुद्धं दुर्बोधं यं ज्ञात्वामृतमश्नुते ॥ एतावानेव लोकेऽस्मिन् पुंसां धर्मः परः स्मृतः । [भागवतम् ६.३.१९२२] एते धर्मप्रवर्तका विजानीम एव न तु स्वस्मृत्य्आदिषु प्रायेणोपदिशाम इत्यर्थः । यतो गुह्यमप्रकाश्यं दुर्बोधमन्यैस्तथा ग्रहीतुम् अशक्यं च । गृह्यत्वे हेतुर्यज्ज्ञात्वेति । अतएव वक्ष्यते प्रायेण वेद तद् इदं न महाजनोऽयम् [भागवतम् ६.३.२५] इत्यादि । महाजनो द्वादशभ्यस्तद् अनुगृहीतसम्प्रदायिभ्यश्चान्यो महागुणयुक्तोऽपीत्यर्थः । तस्मात् साधूक्तमह्न्यापृच्छतार्तेत्यादि । ॥ ३.९ ॥ ब्रह्मा गर्भोदशायिनम् ॥११०॥ [१११] तदेवं श्रीभगवद्उक्तेरेव सर्वोर्ध्वमभिधेयत्वं स्थितम् तपस्विभ्योऽधिको योगी ज्ञानिभ्योऽपि मतोऽधिकः । कर्मिभ्यश्चाधिको योगी तस्माद्योगी भवार्जुन ॥ योगिनामपि सर्वेषां मद्गतेनान्तरात्मना । श्रद्धावान् भजते यो मां स मे युक्ततमो मतः ॥ [गीता ६.४६४७] इति । अत्र योगिनामपि सर्वेषामिति च पञ्चम्यर्थ एव षष्ठी, तपस्विभ्य इत्य् आदिना तथैवोपक्रमाद्भजतः सर्वाधिक्य एव विख्यातस्य । सर्व शब्दोऽत्र देवमेवापरे यज्ञं योगिनः पर्युपासते [गीता ४.२५] इत्यादिना पूर्वपूर्वोक्तं न सर्वानुपायिनो गृह्णातीति ज्ञेयम् । तदेवमभक्तनिन्दाश्रवणात्श्रीमद्भगवद्भक्तेः सर्वेषु नित्यत्वमपि सिद्धम् । उक्तं च श्रीभगवता उद्धवं प्रति भिक्षोर् धर्मः शमोऽहिंसा तप ईक्षा वनौकसः [भागवतम् ११.१८.४४] इत्यादौ सर्वेषां मद्उपासनम् [भागवतम् ११.१८.४३] इति । तथा नारदेन च सार्ववर्णिकस्वधर्म कथने, श्रवणं कीर्तनं चास्य [भागवतम् ७.११.१०] इत्यादि । तथा च महाभारते मातृवत्परिरक्षन्तं सृष्टिसंहारकारकम् । यो नार्चयति देवेशं प्तं विद्याद्ब्रह्मघातकम् ॥ इत्यादि । श्रीगीतोपनिषत्सु न मां दुष्कृतिनो मूढाः प्रपद्यन्ते नराधमाः । माययापहृतज्ञाना आसुरं भावमाश्रिताः ॥ [गीता ७.१५] (पगे ४८) इत्यादि । आग्नेये विष्णुधर्मे च द्विविधो भूतसर्गोऽयं दैव आसुर एव च । विष्णुभक्तिपरो दैव आसुअरस्तद्विपर्ययः ॥ अन्यदप्युदाहृतम् विप्राद्द्विषड्गुणयुतादरविन्दनाभ पादारविन्दविमुखात्[भागवतम् ७.९.१०] इति श्वपचोऽपि महीपालः इत्यादि च । तथा गारुडे अन्तं गतोऽपि वेदानां सर्वशास्त्रार्थवेद्यपि । यो न सर्वेश्वरे भक्तस्तं विद्यात्पुरुषाधमम् ॥ [ङर्ড়् १.२३१.१७] बृहन्नारदीये हरिपूजाविहीनाश्च वेदविद्वेषिणस्तथा । गोद्विजद्वेषनिरता राक्षसाः परिकीर्तिता ॥ [णार्ড়् १.३७.५] इति । अपरं च येऽन्येऽरविन्दाक्ष विमुक्तमानिनस् त्वय्यस्तभावादविशुद्धबुद्धयः । आरुह्य कृच्छ्रेण परं पदं ततः पतन्त्यधोऽनादृतयुष्मद्अङ्घ्रयः ॥ [भागवतम् १०.२.३२] इति । प्रथमतस्तावत्त्वय्यस्तभावादविशुद्धबुद्धयः । धर्मः सत्यदयोपेतो विद्या वा तपसान्विता । मद्भक्त्यापेतमात्मानं न सम्यक्प्रपुनाति हि ॥ [भागवतम् ११.१४.२२] इत्य्आद्य्उक्तेः । तथा ज्ञानमार्गमाश्रित्य विमुक्तमानिनो देहद्वयातिरिक्तत्वेनात्मानं भावयन्तः, ततः क्लेशोऽधिकतरस्तेषामव्यक्तासक्तचेतसाम् [गीता १२.५] इत्य्आद्य्उक्तेः कृच्छ्रेण जीवन्मुक्तिरूपामारुह्य प्राप्यापि ततोऽधः पतन्ति भ्रश्यन्ति । कदेत्यपेक्षायामाह नादृतेति । यदीति शेषः । तेषां भक्तिप्रभावस्याननुवृत्तेरबुद्धिपूर्वकस्य त्वद्अनादरस्य निवर्तकाभावात् । तथापि दग्धानामपि पापकर्मणां महाशक्तिश्री भगवत्पादपद्मावज्ञया पुनर्विरोहात् । तथा च वासना भाष्योत्थापितं भगवत्परिशिष्टवचनम् जीवन्मुक्ता अपि पुनर्बन्धनं यान्ति कर्मभिः । यद्यचिन्त्यमहाशक्तौ भगवत्यपराधिनः ॥ अतएव तत्रैव जीवन्मुक्ताः प्रपद्यन्ते क्वचित्संसारवासनाम् । योगिनो वै नो लिप्यन्ते कर्मभिर्भगवत्पराः ॥ इति । तथा रथयात्राप्रसङ्गे विष्णुभक्तिचन्द्रोदयादिधृतं पुराणान्तर वचनम् नानुव्रजति यो महाद्व्रजन्तं परमेश्वरम् । ज्ञानाग्निदग्धकर्मापि स भवेद्ब्रह्मराक्षसः ॥ इति । एवमुक्तं यो नादृती नरकभाग्भिरसत्प्रसङ्गैः [भागवतम् ३.९.४] इति । अतएवोपदिष्टम् तस्माज्ज्ञानेन सहितं ज्ञात्वा स्वात्मानमुद्धव । ज्ञानविज्ञानसम्पन्नो भज मां भक्तिभावतः ॥ [भागवतम् ११.१९.५] तस्मात्सुतरामेव सर्वेषां श्रीहरिभक्तिर्नित्येत्यायातम् ॥ ॥ १०.२ ॥ देवाः श्रीभगवन्तम् ॥१११॥ [११२] (पगे ४९) प्रेमकृतकर्माशयनिधूननातरमपि भक्तिः श्रूयते यथाग्निना हेम मलं जहाति ध्मातं पुनः स्वं भजते च रूपम् । आत्मा च कर्मानुशयं विधूय मद्भक्तियोगेन भजत्यथो माम् ॥ [भागवतम् ११.१४.२५] तथैवात्मा जीवो मत्प्रेम्णा कर्माशयं विधूय ततः शुद्धस्वरूपं च प्राप्य मां भजतीत्यर्थः । तदुक्तं मुक्ता अपि लीलया विग्रहं कृत्वा भगवन्तं भजन्ते इति । ॥ ११.१४ ॥ श्रीभगवान् ॥११२॥ एवमप्युक्तं स्कान्दे रेवाखण्डे इन्द्रो महेश्वरो ब्रह्मा परं ब्रह्म तदैव हि । श्वपचोऽपि भवत्येव यदा तुष्टोऽसि केशव ॥ श्वपचादपकृष्टत्वं ब्रह्मेशानादयः सुराः । तदैवाच्युत यान्त्येते यदैव त्वं पराङ्मुखः ॥ इति । तथैवाह यच्छौचनिःसृतसरित्प्रवरोदकेन तीर्थेन मूर्ध्न्यधिकृतेन शिवः शिवोऽभूत् । [भागवतम् ३.२८.२२] इति । स्पष्टम् । तस्माद्भक्तेर्महानित्यत्वेनाप्यभिधेयत्वमायातम् । अग्रे स्वकृत पुरेषु [भागवतम् १०.८७.२०] इत्यादौ जीवानां स्वभावसिद्धा सेवेति व्याख्येयम् ॥ ॥ ३.२८ ॥ श्रीकपिलदेवः ॥ ११३ ॥ [११४] तदेवमवान्तरतात्पर्येण भक्तेरेवाभिधेयत्वं षड्विधैरपि लिङ्गैर् अवगम्यते । तत्रोपक्रमोपसंहारयोरेक्तवेन यथा जन्माद्यस्य यतः [भागवतम् १.१.१] इत्यादावुपक्रमपद्ये सत्यं परं धीमहि इति । अत्र श्री गीतासु एवं सततयुक्ता ये भक्तास्त्वां पर्युपासते [गीता १२.१] इत्यादौ श्रीभगवत्येव ध्यानस्याकष्टार्थत्वेन तद्ध्यानिनो युक्ततमत्वेन चोक्तत्वात् । ब्रह्मणो हि प्रतिष्ठाहम् [गीता १४.७] इत्यादौ परत्वस्य श्री भगवद्रूप एव पर्यवसानात् । तस्यैव सर्वज्ञत्वसर्वशक्तित्वाभ्यां जगज्जन्मादिहेतुत्वात्तत्र श्रीभगवत्येव ध्यानमभिधीयते । तथैव हि तत्पद्यं परमात्मसन्दर्भे विवृतमस्ति । कस्मै येन विभाषितोऽयमतुलो ज्ञानप्रदीपः पुरा [भागवतम् १२.१३.१४] इत्यादावुपसंहार पद्येऽपि सत्यं परं धीमहि [भागवतम् १.१.२] इति । अतएव स्पष्टमेवास्य श्री भगवत्त्वं श्रीभागवतवक्तृत्वात् । पूर्वं च तेने ब्रह्म हृदा य आदि कवये इत्युक्तम् । अभ्यासेनोदाहरणं पूर्वं दर्शितमदर्शितं चानेक विधमेव । अपूर्वतया फलेन च दर्शितं श्रीव्याससमाधौ अनर्थोपशमं साक्षात्[भागवतम् १.७.६] इत्यादि । प्रशंसालक्षणेनार्थवादेन चाभ्यासवद्बहुविधमेव तत्रास्ति । उपपत्त्या च भयं द्वितीयाभिनिवेशतः स्यात्[भागवतम् ११.२.३५] इत्याद्यनेकमिति । अत्र गतिसामान्ये च इदं हि पुंसस्तपसः श्रुतस्य वा [भागवतम् १.५.२२] इत्यादि । तथाह मुनिर्विवक्षुर्भगवद्गुणानां सखापि ते भारतमाह कृष्णः ॥ [भागवतम् ३.५.१२] इत्यादि । स्पष्टम् । ॥ ३.५ ॥ श्रीविदुरः ॥ ११४ ॥ (पगे ५०) [११५] इयमेव भक्तिः धर्मः प्रोज्झितकैतवोऽत्र परमो निर्मत्सराणां सताम् [भागवतम् १.१.२] इत्यत्रोक्ता । अत्र सर्गो विसर्गश्च [भागवतम् २.१०.१] इत्यादौ दश लक्षण्यामपि सद्धर्म इत्येकलक्षणत्वेनोक्ता । तस्या अभिधेयत्वं श्री भागवतबीजरूपायां चतुःश्लोक्यामप्युदाहृतम् । एतावदेव जिज्ञास्यं तत्त्वजिज्ञासुनात्मनः । अन्वयव्यतिरेकाभ्यां यत्स्यात्सर्वत्र सर्वदा ॥ [भागवतम् २.९.३५] पूर्वं हि ज्ञानविज्ञानरहस्यतद्अङ्गानि वक्तव्यत्वेन चत्वार्येव प्रतिज्ञातानि । तत्र चतुःश्लोक्यां प्राक्तनास्त्रयोऽर्था अपि क्रमेणैव प्राक्तनश्लोकत्रये व्याख्याताः । रहस्यशब्देनात्र प्रेमभक्तिः तद् अङ्गशब्देन साधनभक्तिरुच्यते । टीका च रहस्यं भक्तिस्तद्अङ्गं साधनमित्येषा । ततः क्रमप्राप्तत्वेन कालेन नष्टा प्रलये वाणीयं वेदसंज्ञिता । मयादौ ब्रह्मणे प्रोक्ता धर्मो यस्यां मद्आत्मकः ॥ [भागवतम् ११.१४.३] इति भगवद्वाक्यानुसारेण च चतुर्थेऽस्मिन् पद्ये साधनभक्तिरेव व्याख्याता । अत्र च पुनर्व्याख्याविवरणायोत्थाप्यते । तथा हि आत्मनो मम भगवतः तत्त्वजिज्ञासुना प्रेमरूपं रहस्यमनुभवैतुम् इच्छुना एतावन्मात्रं जिज्ञासितव्यं, श्रीगुरुचरणेभ्यः शिक्षणीयम् । किं तत्? यदेकमेव अन्वयेन विधिमुखेन व्यतिरेकेण निषेधमुखेन च स्यादुपपद्यते । तत्रान्वयेन यथा एतावानेव लोकेऽस्मिन् [भागवतम् ६.३.२२] इत्य् आदि, मन्मना भव मद्भक्तः [गीता ९.२४] इत्यादि च । व्यतिरेकेण यथा मुखबाहूरुपादेभ्यः पुरुषस्याश्रमैः सह । चत्वारो जज्ञिरे वर्णा गुणैर्विप्रादयः पृथक् ॥ य एषां पुरुषं साक्षादात्मप्रभवमीश्वरम् । न भजन्त्यवजानन्ति स्थानाद्भ्रष्टाः पतन्त्यधः ॥ [भागवतम् ११.५.२३] न मां दुष्कृतिनो मूढा [गीता ७.१५] इत्यादि । यावज्जनो भजति नो भुवि विष्णुभक्ति वार्तासुधारसमशेषरसैकसारम् । तावज्जरामरणजन्मशताभिघात दुःखानि तानि लभते बहुदेहजानि ॥ [ড়द्मড়् ५.८५.३३] इति पद्मपुराणात् । कुत्र कुत्रोपपद्यते ? सर्वत्र शास्त्रकर्तृदेशकरणद्रव्यक्रियाकार्य फलेषु समस्तेष्वेव । तत्र समस्तशास्त्रेषु यथा स्कान्दे ब्रह्मनारद संवादे संसारेऽस्मिन्महाघोरे जन्ममृत्युसमाकुले । पूजनं वासुदेवस्य तारकं वादिभिः स्मृतम् ॥ तत्राप्यन्वयेन यथा भगवन् ब्रह्म कार्त्स्न्येन त्रिरन्वीक्ष्य मनीषया [भागवतम् २.२.३४] इत्यादि । तथा पाद्मे स्कान्दे च आलोड्य सर्वशास्त्राणि विचार्य च पुनः पुनः । इदमेकं सनिष्पन्नं ध्येयो नारायणः सदा ॥ (पगे ५१) इति । व्यतिरेकेण यथा पारङ्गतोऽपि वेदानामित्यादिकं सर्वमवगन्तव्यम् । तच्चान्ते दर्शयिष्यते । सर्वकर्तृषु, यथा ते वै विदन्त्यतितरन्ति च देवमायां स्त्रीशूद्रहूणशबरा अपि पापजीवाः । यद्यद्भुतक्रमपरायणशीलशिक्षास् तिर्यग्जना अपि किमु श्रुतधारणा ये ॥ [भागवतम् २.७.४६] इति । गारुडे कीटपक्षिमृगाणां च हरौ सन्न्यस्तचेतसाम् । ऊर्ध्वमेव गतिं मन्ये किं पुनर्ज्ञानिनां नॄणाम् ॥ [ङर्ড়् १.२३४.३१] अत्रैव साचारे दुराचारे, ज्ञानिन्यज्ञानिनि, विरक्ते रागिणि, मुमुक्षौ मुक्ते, भक्त्य्असिद्धे भक्तिसिद्धे, तस्मिन् भगवत्पार्षदतां प्राप्ते तस्मिन् नित्यपार्षदे च सामान्येन दर्शनादपि सार्वत्रिकता । तत्र साचारे दुराचारे यथा अपि चेत्सुदुराचारो भजते मामनन्यभाक् । साधुरेव स मन्तव्यः सम्यग्व्यवसितो हि सः ॥ [गीता ९.३०] इति । सद्आचारस्तु किं वक्तव्य इत्यपेरर्थः । ज्ञानिन्यज्ञानिनि च ज्ञात्वाज्ञात्वाथ ये वै माम् [भागवतम् ११.११.३३] इत्यादि । हरिर्हरति पापानि दुष्टचित्तैरपि स्मृतः इत्यादि । विरक्ते रागिणि च बाध्यमानोऽपि मद्भक्तो विषयैरजितेन्द्रियः । प्रायः प्रगल्भया भक्त्या विषयैर्नाभिभूयते ॥ [भागवतम् ११.१४.१७] इति । अबाध्यमानस्तु सुतरां नाभिभूयत इत्यपेरर्थः । मुमुक्षौ मुक्ते च मुमुक्षवो घोररूपान् [भागवतम् १.२.२६] इत्यादि । आत्मारामाश्च मुनयः [भागवतम् १.७.१०] इत्यादि । भक्त्य्असिद्धे भक्तिसिद्धे च केचित्केवलया भक्त्या वासुदेवपरायणाः । अघं धुन्वन्ति कार्त्स्न्येन नीहारमिव भास्करः ॥ [भागवतम् ६.१०.१५] इति । न चलति भगवत्पदारविन्दाल् लवनिमिषार्धमपि स वैष्णवाग्र्यः ॥ [भागवतम् ११.२.५१] इति । भगवत्पार्षदतां प्राप्ते मत्सेवया प्रतीतं ते सालोक्यादिचतुष्टयम् । नेच्छन्ति सेवया पूर्णाः कुतोऽन्यत्कालविप्लुतम् ॥ [भागवतम् ९.४.६७] इति । नित्यपार्षदे वापीषु विद्रुमतटास्वमलामृताप्सु प्रेष्यान्विता निजवने तुलसीभिरीशम् । अभ्यर्चती स्वलकमुन्नसमीक्ष्य वक्त्रम् उच्छेषितं भगवतेत्यमताङ्ग यच्छ्रीः ॥ [भागवतम् ३.१५.२२] सर्वेषु वर्षेषु भुवनेषु ब्रह्माण्डेषु तेषां बहिश्च तैस्तैः श्री भगवद्उपासनायाः क्रियमाणायाः श्रीभागवतादिषु प्रसिद्धिः सिद्धैवेति सर्वदेशोदाहरणं ज्ञेयम् । सर्वेषु करणेषु यथा मानसेनोपचारेण परिचर्य हरिं मुदा । परेऽवाङ्मनसागम्यं तं साक्षात्प्रतिपेदिरे ॥ इत्यादि । एवम्भूतवचने ह्यस्तु तावद्बहिर्इन्द्रियेण मनसा वचसापि तत्सिद्धिर् इति प्रसिद्धिः । सर्वद्रव्येषु यथा पत्रं पुष्पं फलं तोयं यो मे भक्त्या प्रयच्छति । तदहं भक्त्य्उपहृतमश्नामि प्रयतात्मनः ॥ [गीता ९.२६, भागवतम् १०.८१.४] इति । (पगे ५२) सर्वक्रियासु यथा श्रुतोऽनुपठितो ध्यात आदृतो वानुमोदितः । सद्यः पुनाति सद्धर्मो देवविश्वद्रुहोऽपि हि ॥ [भागवतम् ११.२.११] यत्करोषि यदश्नासि यज्जुहोषि ददासि यत् । यत्तपस्यसि कौन्तेय तत्कुरुष्व मदर्पणम् ॥ [गीता ९.२७] एवं भक्त्य्आभासेषु भक्त्याभासापराधेष्वपि अजामिलमूषिकादयो दृष्टान्ता गम्याः । सर्वेषु कार्येषु यथा यस्य स्मृत्या च नामोक्त्या तपोयज्ञक्रियादिषु । नूनं सम्पूर्णतां याति सद्यो वन्दे तमच्युतम् ॥ इति । सर्वफलेषु यथा अकामः सर्वकामो वा मोक्षकाम उदारधीः [भागवतम् २.३.१०] इत्यादि । यथा तरोर्मूलनिषेचनेन [भागवतम् ४.३१.१२] इत्यादिवाक्येन हरि परिचर्यायां क्रियमाणायां सर्वेषामन्येषामपि देवादीनामुपासना स्वत एव सिध्यतीत्यतोऽपि सार्वत्रिकता । यथोक्तं स्कान्दे ब्रह्मनारद संवादे अर्चिते देवदेवेश शङ्खचक्रगदाधरे । अर्चिताः सर्वदेवाः स्युर्यतः सर्वगतो हरिः ॥ एवं यो भक्तिं करोति यद्गवादिकं भगवते दीयते येन द्वारभूतेन भक्तिः क्रियते, यस्मै श्रीभगवत्प्रीणनार्थं दीयते, यस्माद्गवादिकात् पयादिकमादाय भगवते निवेद्यते, यस्मिन् देशादौ कुले वा कश्चिद् भक्तिमनुतिष्ठति तेषामपि कृतार्थत्वं पुराणेषु दृश्यते इति कारक गता । एवं सार्वत्रिकत्वं साधितम् । सदातनत्वमाह सर्वदेति । तत्र सर्गादौ यथा कालेन नष्टा प्रलये वाणीयं वेदसंज्ञिता [भागवतम् ११.१४.३] इति विदुरप्रश्ने । सर्वेषु युगेषु कृते यद्ध्यायतो विष्णुं त्रेतायां यजतो मखैः । द्वापरे परिचर्यायां कलौ तद्धरिकीर्तनात् ॥ [भागवतम् १२.३.५२] इति । किं बहुना सा हानिस्तन्महच्छिद्रं स मोहः स च विभ्रमः । यन्मुहूर्तं क्षणं वापि वासुदेवो न चिन्त्यते ॥ इति वैष्णवे । सर्वावस्थास्वपि गर्भे श्रीनारदकारितश्रवणे प्रह्लादे प्रसिद्धम् । बाल्ये श्रीध्रुवादिषु । यौवने श्रीमद्अम्बरीषादिषु । वार्धक्ये धृतराष्ट्रादिषु । मरणेऽजामिलादिषु । स्वर्गितायां श्रीचित्रकेत्व्आदिषु । नारकितायामपि यथा यथा हरेर्नाम कीर्तयन्ति स्म नारकाः । तथा तथा हरौ भक्तिम् उद्वहन्तो दिवं ययुः ॥ [णृसिंहড়् ८.३१] इति श्रीनृसिंहपुराणात् । अतएवोक्तं दुर्वाससा मुच्येत यन्नाम्न्युदिते नारकोऽपि [भागवतम् ९.४.४५] इति । यथा एतन्निर्विद्यमानानामिच्छतामकुतोभयम् । योगिनां नृप निर्णीतं हरेर्नामानुकीर्तनम् ॥ [भागवतम् २.१.११] इत्यत्रापि । (पगे ५३) तत्र तत्र व्यतिरेकोदाहरणानि च कियन्ति दर्श्यन्ते किं वेदैः किमु शास्त्रैर्वा किं वा तीर्थनिषेवणैः । विष्णुभक्तिविहीनानां किं तपोभिः किमध्वरैः ॥ [णारदড়् १.३०.१११] इति । किं तस्य बहुभिः शास्त्रैः किं तपोभिः किमध्वरैः । वाजपेयसहस्रैर्वा भक्तिर्यस्य जनार्दने ॥ इति बृहन्नारदीयपाद्मवचनादीनि । तपस्विनो दानपरा यशस्विनो मनस्विनो मन्त्रविदः सुमङ्गलाः । क्षेमं न विन्दन्ति विना यद्अर्पणं तस्मै सुभद्रश्रवसे नमो नमः ॥ [भागवतम् २.४.१७] न यत्र वैकुण्ठकथासुधापगा न साधवो भागवतास्तदाश्रयाः । न यत्र यज्ञेशमखा महोत्सवाः सुरेशलोकोऽपि न वै स सेव्यताम् ॥ [भागवतम् ५.१९.२४] ययाच आनम्य किरीटकोटिभिः पादौ स्पृशन्नच्युतमर्थसाधनम् । सिद्धार्थ एतेन विगृह्यते महान् अहो सुराणां च तमो धिगाठ्यताम् ॥ [भागवतम् १०.५९.४१] सालोक्यसार्ष्टिसालोक्य [भागवतम् ३.२९.११] इत्यादि, नो दानं नो तपो नेज्या [भागवतम् ७.७.४४] इत्यादि । नैष्कर्म्यमप्यच्युतभाववर्जितम् [भागवतम् १.५.१२] इत्यादि । नात्यन्तिकं विगणयन्त्यपि ते [भागवतम् ३.१५.४८] इत्यादि च । अथ सदा सर्वत्र यदुपपद्यते [भागवतम् २.९.३५] इत्यादि योजनिकार्थो युगपद् यथा तस्मात्सर्वात्मना राजन् हरिः सर्वत्र सर्वदा [भागवतम् २.२.३६] इत्यादि । अन्वयव्यतिरेकाभ्यां सदा सर्वत्र यदुपपद्यते इत्यादि । यथा स्मर्तव्यः सततं विष्णुर्विस्मर्तव्यो न जातुचित् । सर्वे विधिनिषेधाः स्युरेतस्यैव विधिङ्कराः ॥ [ড়द्मড়् ६.७१.१००] इति । अन्वयव्यतिरेकाभ्यां सदा सर्वत्र यदुपपद्यते इति साकल्येन यथा न ह्यतोऽन्यः शिवः पन्थाः [भागवतम् २.२.३३] इत्युपक्रम्य, तद्उपसंहारे तस्मात्सर्वात्मना राजन् हरिः सर्वत्र सर्वदा । श्रोतव्यः कीर्तितव्यश्च स्मर्तव्यो भगवान्नॄणाम् ॥ [भागवतम् २.२.३६] इति । नॄणां जीवानामिति नृगतिं विविच्य कवयः [भागवतम् १०.८७.१६] इतिवत् । एतदुक्तं भवति यत्कर्म तत्सन्न्यासभोगशरीरप्राप्त्य्अवधि योगः सिद्ध्य् अवधिः । साङ्ख्यमात्मज्ञानावधि । ज्ञानं मोक्षावधि । तथा तथा तत् तद्योग्यतादिकानि च सर्वाणि । एवं तेषु कर्मादिषु शास्त्रादिव्यभिचारिता ज्ञेया । हरिभक्तेस्तु अन्वयव्यक्तिरेकाभ्यां सदा सर्वत्र तत्तन् महिमभिरुपपन्नत्वात्तथाभूतस्य रहस्यस्याङ्गत्वं युइक्तम् । यतो रहस्याङ्गत्वेन च ज्ञानरूपार्थान्तराच्छन्नतयैवेदमुक्तमिति । तदेवं श्रीभागवतं सङ्क्षेपेणोपदेक्ष्यन्तं श्रीनारदं श्रीब्रह्मापि तथैव सङ्कल्पं कारितवान् यथा हरौ भगवति नृणां भक्तिर्भविष्यति सर्वात्मन्यखिलाधारे इति सङ्कल्प्य वर्णय ॥ [भागवतम् २.७.५२] (पगे ५४) भविष्यति अवश्यं भवेदितीमं प्रकारं सङ्कल्प्य नियमेनाङ्गीकृत्य । ॥ २.७ ॥ श्रीब्रह्मा नारदम् ॥ ११५ ॥ [११६] श्रीनारदेनापि तन्महापुराणाविर्भावार्थं तथैवोपदिष्टम् अथो महाभाग भवानमोघदृक् शुचिश्रवाः सत्यरतो धृतव्रतः । उरुक्रमस्याखिलबन्धमुक्तये समाधिनानुस्मर तद्विचेष्टितम् ॥ [भागवतम् १.५.१३] अथो अतो नैष्कर्म्यमप्यच्युतभाववर्जितम् [भागवतम् १.५.१२] इत्यादि कारणात् । [११७] अन्ते च त्वमप्यदभ्रश्रुत विश्रुतं विभोः समाप्यते येन विदां बुभुत्सितम् । प्राख्याहि दुःखैर्मुहुरर्दितात्मनां सङ्क्लेशनिर्वाणमुशन्ति नान्यथा ॥ [भागवतम् १.५.४०] विदां विदुषाम् । ॥ १.५ ॥ श्रीनारदः श्रीव्यासम् ॥ ११६११७ ॥ [११८] श्रीव्यासोऽपि तन्महापुराणप्रचारणारम्भे भक्तिमेव परमश्रेयः प्रदत्वेन समाधावनुभूतवानिति प्रथमसन्दर्भे दर्शितं भक्ति योगेन मनसि [भागवतम् १.७.४] इत्य्आदिप्रकरणे । तथैव को लाभ इति प्रश्नान्तरं ११.१९.२८] श्रीभगवतैव सम्मतम् । भगो मे [भागवतम् ११.१९.३७] इत्यादौ लाभो मद्भक्तिरुत्तमः [भागवतम् ११.१९.३७] इति । स्पष्टम् ॥ ॥ ११.१९ ॥ श्रीभगवान् ॥ ११८ ॥ [११९] अतएव स्वगतं विचारयति स्म किं वा भागवता धर्मा न प्रायेण निरूपिताः । प्रियाः परमहंसानां त एव ह्यच्युतप्रियाः ॥ [भागवतम् १.४.३१] स्पष्टम् । ॥ १.४ ॥ श्रीव्यासः ॥ ११९ ॥ [१२०] अशेषोपदेष्टुरपि तद्उपदेशेनैव भगवतः परम उत्कर्ष उच्यते । यथा जितमजित तदा भवता यदाह भागवतं धर्ममनवद्यम् [भागवतम् ६.१६.४०] इति । जितमित्यत्र भवतेति ज्ञेयम् । आहेत्यत्र भगवानिति । ॥ ६.१६ ॥ चित्रकेतुः श्रीसङ्कर्षणम् ॥ १२० ॥ [१२१] तदेवं भक्तेरेवाभिधेयत्वं स्थितम् । तत्र यद्बहुत्र कर्मादि मिश्रत्वेन तद्धर्म उपदिश्यते, तत्तु तत्तन्मार्गनिष्ठान् भक्ति सम्बन्धेन कृतार्थयितुं तानेव कांश्चिद्भक्त्य्आस्वादनेन शुद्धायाम् एव भक्तौ प्रवर्तयितुं चेति ज्ञेयम् । पुनश्च सर्वत्र तस्या एवाभिधेयत्वं वक्तुं तदीयो महिमा पूर्वत्र व्याख्यातोऽपि क्रमेण व्याख्यायते सर्वैरेव । विशेषतो भक्तेरन्यत्तु न कर्तव्यमित्य् अभिप्रायेण । तत्र तस्याः परमधर्मत्वं सर्वकामप्रदत्वं च एतावानेव लोकेऽस्मिन् [भागवतम् ३.२५.४१] इत्यादौ । अकामः सर्वकामो वा [भागवतम् २.३.१०] इत्यादौ, सर्वासामपि सिद्धानां [भागवतम् १०.८१.१६] इत्यादौ च दर्शितम् एव । स्कान्दे च श्रीसनात्कुमारमार्कण्डेयसंवादे विशिष्टः सर्वधर्माणां धर्मो विष्ण्व्अर्चनं नृणाम् । सर्वयज्ञतपोहोमतीर्थस्नानैश्च यत्फलम् ॥ (पगे ५५) तत्फलं कोटिगुणितं विष्णुं सम्पूज्य चाप्नुयात् । तस्मात्सर्वप्रयत्नेन नारायणमिहार्चयेत् ॥ बृहन्नारदीये च अश्वमेधसहस्राणां सहस्रं यः करोति वै । न तत्फलमवाप्नोति मद्भक्तैर्यदवाप्यते ॥ इति । अशुभघ्नत्वमपि सध्रीचीनो ह्ययं लोके पन्थाः [भागवतम् ६.१.१५] इत्यादौ दर्शितम् । टीका च अतो न ज्ञानमार्ग इवासहायतानिमित्तं भयं नापि कर्ममार्गवन्मत्सरादियुक्तेभ्यो भयमिति भावः इत्येषा । तथा च स्कान्दे द्वारकामाहात्म्ये परमेश्वरवाक्यम् मद्भक्तिं वहतां पुंसामिह लोके परेऽपि वा । नाशुभं विद्यते लोके कुलकोटिं नयेद्दिवम् ॥ इति । श्रीविष्णुपुराणे स्मृते सकलकल्याणभाजनं यत्र जायते । पुरुषं तमजं नित्यं व्रजामि शरणं हरिम् ॥ [Vइড়् ५.१७.१७] सर्वान्तरायनिवारकत्वमाहुः तथा न ते माधव तावकाः क्वचिद् भ्रश्यन्ति मार्गात्त्वयि बद्धसौहृदाः । त्वयाभिगुप्ता विचरन्ति निर्भया विनायकानीकपमूर्धसु प्रभो ॥ [भागवतम् १०.२.३३] पूर्वं येऽन्येऽरविन्दाक्ष [भागवतम् १०.२.२६*] इत्यादिना मुक्तानामपि भगवद् अनादरेण पारमार्थिको भ्रंश उक्तः । भक्तानां स नास्तीत्याह तथेति । तथा पूर्वमारूढपरमपदत्वावस्थातोऽपि भ्रश्यन्ति तथा तावका मार्गात्साधनावस्थातोऽपि न भ्रश्यन्तीत्यर्थः । श्रीवृत्रगजेन्द्र भरतादीनां सज्जन्मतो भ्रंशेऽपि भक्तिवासनानुगतिदर्शनात् । मुक्ता अपि प्रपद्यन्ते पुनः संसारवासनाम् । यद्यचिन्त्यमहाशक्तौ भगवत्यपराधिनः ॥ तेषां तु पुनः संसारवासनानुगतेः । यतस्त्वयि बद्धसौहृदाः । सौहृदमत्र श्रद्धा । मार्गादिति साधकत्वप्रतीतेरेव । त्वद्बद्ध सौहृदत्वादेव त्वयेत्यादि । तथोक्तं त्वां सेवतां सुरकृताः [भागवतम् ११.४.१०] इत्यादौ । धावन्निमील्य वा नेत्रे न स्खलेन्न पतेत्[भागवतम् ११.२.३३] इत्यादौ च । ॥ १०.२ ॥ श्रीब्रह्मादयः श्रीभगवन्तम् ॥ १२१ ॥ [१२२] न वै जातु मृषैव स्यात्प्रजाध्यक्ष मद्अर्हणम् । भवद्विधेष्वतितरां मयि सङ्गृभितात्मनाम् ॥ [भागवतम् ३.२१.२४] मयि संगृभितः संगृहीतो बद्ध आत्मा येषाम् । तथा बाध्यमानोऽपि [भागवतम् ११.१४.१७] इत्यादिकमत्रोदाहरणीयम् । अत्र प्रायो बाध्यमानत्वं कदाचित् तद्ध्यानादित आकृष्यमाणत्वमेव गम्यते । तथाप्यनभिभूतत्वं वेद दुःखात्मकान् कामान् परित्यागेऽप्यनीश्वरः [भागवतम् ११.२०.२७] इत्य्आदि न्यायेन । तत्रापि भगवन्तं प्रति निजदैन्यादिवेदनादिना भक्तेर् एवानुवृत्तिरिति ज्ञेयम् । ॥ ३.२१ ॥ श्रीशुकः कर्दमम् ॥ १२२ ॥ [१२३] दुष्टजीवादिभयनिवारकत्वमाह दिग्गजैर्दन्दशूकेन्द्रैरभिचारावपातनैः । मायाभिः सन्निरोधैश्च गरदानैरभोजनैः ॥ (पगे ५६) हिमवाय्व्अग्निसलिलैः पर्वताक्रमणैरपि । न शशाक यदा हन्तुमपापमसुरः सुतम् ॥ चिन्तां दीर्घतमां प्राप्तस्तत्कर्तुं नाभ्यपद्यत । [भागवतम् ७.५.४३४५] अत्र दन्ता गजानां कुलिशास्त्रनिष्ठुराः [Vइড়् १.१७.४४] इत्यादिकं वैष्णव वचनजातमनुसन्धेयम् । न यत्र श्रवणादीनि [भागवतम् १०.६.३] इत्यादिकं च । यथा बृहन्नारदीये यत्र पूजापरो विष्णोर्वह्निस्तत्र न बाधते । राजा वा तस्करो वापि व्याधयश्च न सन्ति हि ॥ प्रेताः पिशाचाः कूष्माण्डग्रहा बालग्रहास्तथा । डाकिन्यो राक्षसाश्चैव न बाधन्तेऽच्युतार्चकम् ॥ [णार्ড়् १.१०.८९] ॥ ७.५ ॥ श्रीनारदः श्रीयुधिष्ठिरम् ॥ १२३ ॥ [१२४] तथा शारीरा मानसा दिव्या वैयासे ये च मानुषाः । भौतिकाश्च कथं क्लेशा बाधन्ते हरिसंश्रयम् ॥ [भागवतम् ३.२२.३७] एवमप्युक्तं गारुडे न च दुर्वाससः शापो वज्रं चापि शचीपतेः । हन्तुं समर्थं पुरुषं हृदिस्थे मधुसूदने ॥ [ङर्ড়् १.२३४.३३] इति । ॥ ३.२२ ॥ श्रीमैत्रेयो विदुरम् ॥ १२४ ॥ [१२५] अथ पापघ्नत्वे तावदप्रारब्धपापघ्नत्वमाह यथाग्निः सुसमृद्धार्चिः करोत्येधांसि भस्मसात् । तथा मद्विषया भक्तिरुद्धवैनांसि कृत्स्नशः ॥ [भागवतम् ११.१४.१९] टीका च पादाद्य्अर्थं प्रज्वालितोऽग्निर्यथा काष्ठानि भस्मीकरोति तथा रागादिनापि कथञ्चिन्मद्विषया भक्तिः समस्तपापानीति । भगवानपि स्वभक्तिमहिमाश्चर्येण सम्बोधयति अहो उद्धव । विस्मयं शृणु इत्य् एषा । पाद्मपातालखण्डस्थवैशाख्यमाहात्म्ये च यथाग्निः सुसमृद्धार्चिः करोत्येधांसि भस्मसात् । पापानि भगवद्भक्तिस्तथा दहति तत्क्षणात् ॥ [ড়द्मড়् ५.८५.३१] इति । यद्यî हरिरित्यवशेनापि पुमान्नार्हति यातनार्थम् [भागवतम् ६.२.१५] इत्यादौ लिङ्गादिप्रत्ययविरहेऽपि पूषाप्रविष्टभागो यदाग्नेयाष्टाकपालो भवति इत्यादिवद्विधित्वमस्ति । तस्माद्भारत सर्वात्मा भगवानीश्वरो हरिः । श्रोतव्यः कीर्तितव्यश्च स्मर्तव्यश्चेच्छताभयम् ॥ [भागवतम् २.१०.५] इत्यादौ साक्षाद्विधित्वश्रवणमप्यस्ति । तस्मादिति हेतुर्निर्देशश् चाकरणे दोषं क्रोडीकरोति । तथापि विधिसापेक्षेयं न भवतीति तथाभूतस्वभावाग्निलक्षणवस्तुदृष्टान्तेन सूचितम् । अतएव यान् आस्थाय नरो राजन् [भागवतम् ११.२.३३] इत्यादिकमपि दृश्यते । सुसमिद्धार्चिरित्य् अनेन साधनान्तरसापेक्षत्वमशक्यसाध्यत्वं विलम्बितत्वं च निराकृतम् । तदेव व्यक्तं पाद्मात्तत्क्षणादिति । ॥ ११.१४ ॥ श्रीभगवान् ॥ १२५ ॥ (पगे ५७) [१२६] तथा च केचित्केवलया भक्त्या वासुदेवपरायणाः । अघं धुन्वन्ति कार्त्स्न्येन नीहारमिव भास्करः ॥ [भागवतम् ६.१.१५] टीका च केचिदित्यनेनैवम्भूता भक्तिप्राधाना विरला इति दर्शयति । केवलया तपादिनिरपेक्षया वासुदेवपारायणा इति नाधिकारिविशेषणम् एतत्किन्तु अन्येषामश्रद्धया तत्र प्रवृत्तेरर्थात्तेष्वेव पर्यवसानाद् अनुवादमात्रमित्येषा । अत्र भास्करोऽपि केवलेन स्वरश्मिना स्वस्व्>अवत एव नीहारं निःशेषं धुनोति । न तदर्थं प्रयत्नतस्तथा वासुदेवपरायणा अपि भक्त्येति ज्ञेयम् । [१२७] किं च न तथा ह्यघवान् राजन् पूयेत तपादिभिः । यथा कृष्णार्पितप्राणस्तत्पुरुषनिषेवया ॥ [भागवतम् ६.१.१६] टीका च एतच्च ज्ञानमार्गादपि श्रेष्ठमित्याह न तथा पूयेत शुध्येत् । तत्पुरुषनिषेधया कृष्णे अर्पिताः प्राणा येन इत्येषा । अत्र प्रायश्चित्तं विमर्शनम् [भागवतम् ६.१.१०] इति ज्ञानस्यापि प्रायश्चित्तत्वं पूर्वमुक्तम् । अतएव टीकोक्तमेतच्चेत्यादि । तदेवमृतम्भरध्यान निवारिताघः [भागवतम् ६.१३.१३] इत्याद्य्उक्त्या भगवद्ध्याननिवारितवृत्र हत्यापापस्येन्द्रस्य तं च [भागवतम् ६.१३.१४] इत्यादौ पुनरश्वमेध विधानं साधारणलोके पापप्रसिद्धेरेव निवारणार्थमिति ज्ञेयम् । ननु कथं तदानीमप्याविर्भूतभगवत्प्रेमत्वात्परम भागवतस्य वृत्रस्य हत्या भगवद्आराधनेनापि गच्छतु । महद् अपराधमात्रमपि भोगैकनाश्यं तत्प्रसादनाश्यं वेति मतम् । उच्यते, तथापि भगवत्प्रेरणया तत्र प्रवृत्तस्येन्द्रस्य न तादृशो दोष इति तद्आराधनमेवात्र प्रायश्चित्तं विहितम् । श्रीभगवतापि तद्आसुर भवनिवारणायैव तथोपदिष्टमित्यनवद्यम् । ॥ ६.१ ॥ श्रीशुकः ॥ १२६१२७ ॥ [१२८] क्वचित्प्रारब्धपापहार्त्वमप्याह द्वाभ्याम् यन्नामधेयश्रवणानुकीर्तनाद् यत्प्रह्वणाद्यत्स्मरणादपि क्वचित् । श्वादोऽपि सद्यः सवनाय कल्पते कुतः पुनस्ते भगवन्नु दर्शनात् ॥ अहो बत श्वपचोऽतो गरीयान् यज्जिह्वाग्रे वर्तते नाम तुभ्यम् । तेपुस्तपस्ते जुहुवुः सस्नुरार्या ब्रह्मानूचुर्नाम गृणन्ति ये ते ॥ [भागवतम् ३.३३.६७] श्वादत्वमत्र श्वभक्षकजातिविशेषत्वमेव श्वानमत्तीति निरुक्तेर् वर्तमानप्रयोगात्क्रव्यादवत्तच्छीलत्वप्राप्तेः । कादाचित्कभक्षण् प्रायश्चित्तविवक्षायां त्वतीतः प्रयोगः क्रियेत । रूढिर्योगमपहरतीति न्यायेन च तद्विरुध्यते । अतएव श्वपच इति तैर्व्याख्यातम् । सवनं चात्र सोमयाग उच्यते । ततश्चास्य भगवन्नामश्रवणाद्य्एकतरात्सद्य एव सवनयोग्यताप्रतिकूलदुर्जातित्वप्रारम्भकप्रारब्धपापनाशः प्रतिपद्यते । उद्धवं प्रति भगवता च तस्मात्भक्तिः (पगे ५८) पुनाति मन्निष्ठा श्वपाकानपि सम्भवात्[भागवतम् ११.१४.२०] इति कैमुत्यार्थमेव प्रोक्तमित्यायाति । किन्तु योग्यत्वमत्र श्वपचत्वप्रापकप्रारब्धपाप विच्छिन्नत्वमात्रमुच्यते । सवनार्थं तु गुणान्तराधानमपेक्षत एव । ब्राह्मणकुमाराणां शौक्रे जन्मनि योग्यत्वे सत्यपि सावित्रदैक्स्य जन्मापेक्षावत् । सावित्रादिजन्मनि तु सद्आचारप्राप्तेरिति सवने प्रवृत्तिर् न युज्यते । तस्मात्पूज्यत्वमात्रे तात्पर्यमित्यभिप्रेत्य टीकाकृद्भिरप्य् उक्तमनेन पूज्यत्वं लक्ष्यत इति । तथापि जातिदोषहरत्वेन प्रारब्ध हारित्वं तु व्यक्तमेवायातम् । टीका च तदुपपादयति अहो बत आश्चर्ये, यस्य जिह्वाग्रे तव नाम वर्तते श्वपचोऽपि । अतस्तस्मादेव हेतोर्गरीयान् यद्यस्माद्वर्तत इति वा कुत इत्य् अत आह त एव तपस्तेपुरित्यादिका । त्वन्नामकीर्तने तपाद्य्अन्तर् भूतं ततस्ते पुण्यतमा इत्यन्ता । उद्धवं प्रति श्रीभगवता चोक्तं भक्तिः पुनाति मन्निष्ठा श्वपाकान् अपि सम्भवात्[भागवतम् ११.१४.२०] इति । अत्र जातिदोषहरत्वेन प्रारब्धहारित्वं स्पष्टम् । एवं प्रारब्धहेतुव्याध्य्आदिहरत्वं च स्कान्दे आधयो व्याधयो यस्य स्मरणान्नामकीर्तनात् । तदेव विलयं यान्ति तमनन्तं नमाम्यहम् ॥ इति । उक्तं च नामकौमुद्याम् प्रारब्धपापहरत्वं च क्वचिद् उपासकेच्छावशातिति । ॥ ३.३३ ॥ श्रीदेवहूतिः ॥ १२८ ॥ [१२९] तद्वासनाहारित्वमाह तैस्तान्यघानि पूयन्ते तपोदानव्रतादिभिः । नाधर्मजं तद्धृदयं तदपीशाङ्घ्रिसेवया ॥ [भागवतम् ६.२०.१७] अधर्माज्जातं तेषामघानां हृदयं संस्काराख्येन शुद्ध्यति तद् अपीशाङ्घ्रिसेवया शुद्ध्यतीत्यर्थः । पाद्मे च अप्रारब्धफलं पापं कूटं बीजं फलोन्मुखम् । क्रमेणैव प्रलीयेत विष्णुभक्तिरतात्मनाम् ॥ इति । अप्रारब्धफलं वक्ष्यमाणेभ्योऽन्यत् । कूटं बीजत्वोन्मुखं बीजं प्रारब्धोन्मुखं फलोन्मुखं प्रारब्धमित्यर्थः । ॥ ६.२ ॥ श्रीविष्णुदूता यमदूतान् ॥ १२९ ॥ [१३०] अविद्याहरत्वमाह त्वं प्रत्यग्आत्मनि तदा भगवत्यनन्त आनन्दमात्र उपपन्नसमस्तशक्तौ । भक्तिं विधाय परमां शनकैरविद्या ग्रन्थिं विभेत्स्यसि ममाहमिति प्ररूढम् ॥ [भागवतम् ४.११.३०] तथा च पाद्मे कृतानुयात्राविद्याभिर्हरिभक्तिरनुत्तमा । अविद्यां निर्दहत्याशु दावज्वालेव पन्नगीम् ॥ इति । ॥ ४.११ ॥ श्रीमनुर्ध्रुवम् ॥ १३० ॥ [१३१] सर्वप्रीणनहेतुत्वमुक्तम् यथा तरोर्मूलनिषेचनेन [भागवतम् ४.३१.१२] इत्य् आदिना । तथाह सुरुचिस्तं समुत्थाप्यपादावनतमर्भकम् । परिष्वज्याह जीवेति बाष्पगद्गदया गिरा । (पगे ५९) यस्य प्रसन्नो भगवान् गुणैर्मैत्र्य्आदिभिर्हरिः । तस्मै नमन्ति भूतानि निम्नमाप इव स्वयम् ॥ [भागवतम् ४.९.४७] सुरुचिर्निजविद्वेषिणी मातुः सपत्न्यपि त॰ भगवद्आराधनत आयातं श्रीध्रुवम् । यथा पाद्मे येनार्चितो हरिस्तेन तर्पितानि जगन्त्यपि । रज्यन्ति जन्तवस्तत्र जन्गमाः स्थावरा अपि ॥ इति । ॥ ४.९ ॥ श्रीमैत्रेयः ॥ १३१ ॥ [१३२] ज्ञानवैराग्यादिसद्गुणहेतुत्वमुक्तं यस्यास्ति भक्तिर्भगवत्य् अकिञ्चना [भागवतम् ५.१८.१२] इत्यादिना । स्वर्गापवर्गभगवद्धामादि सर्वानन्दहेतुत्वमप्युक्तं यत्कर्मभिर्यत्तपसा [भागवतम् ११.२०.३२] इत्य् आदिना । स्वतः परमसुखदानेन कर्मादिज्ञानानन्तसाधनसाध्य वस्तूनां हेयत्वकारितामाह न पारमेष्ठ्यं न महेन्द्रधिष्ण्यं न सार्वभौमं न रसाधिपत्यम् । न योगसिद्धीरपुनर्भवं वा मय्यर्पितात्मेच्छति मद्विनान्यत् ॥ [भागवतम् ११.१४.१४] रसाधिपत्यं पातालादिस्वाम्यम् । अपुनर्भवं ब्रह्मकैवल्यरूपं मोक्षम् । किं बहुना यत्किञ्चिदपि साध्यजातं तत्सर्वं नेच्छत्येव, किन्तु मद्मां विना तादृशभक्तिसाध्यं मामेव सर्व पुरुषार्थाधिकमिच्छतीत्यर्थः । मय्यर्पितात्मा कृतात्मनिवेदनः । ॥ ११.१४ ॥ श्रीभगवान् ॥ १३२ ॥ [१३३] अथ साक्षाद्भक्तेर्निर्गुणत्वं वक्तुं भगवद्अर्पितकर्मारभ्य सर्वेषां कर्मणां तावत्सगुणत्वमाहैकेन मद्अर्पणं निष्फलं वा सात्त्विकं निजकर्म तत् । राजसं फलसङ्कल्पं हिंसाप्रायादि तामसम् ॥ [भागवतम् ११.२५.२३] मयि अर्पणं यस्य मद्अर्पितमित्यर्थः । निष्फलं निष्कामम् । फलं सङ्कल्प्यते यस्मिन् तत् । आदिशब्दाद्दम्भमात्सर्यादिभिः कृतम् । [१३४] अथानुष्ठानान्तराणां त्रिगुणान्तर्गतत्वं वदन् चतुर्थकक्षायां साक्षाद्भक्तेर्निर्गुणत्वमाह चतुःषु कैवल्यं सात्त्विकं ज्ञानं रजो वैकल्पिकं तु यत् । प्राकृतं तामसं ज्ञानं मन्निष्ठं निर्गुणं स्मृतम् ॥ [भागवतम् ११.२५.२३] प्राकृतं बालमूकादिज्ञानतुल्यम् । वैकल्पिकं देहादिविषयं यत्तद्रजो राजसम् । केवलस्य निर्विशेषस्य ब्रह्मणः शुद्धजीवभेदेन ज्ञानं कैवल्यं, त्वत्पदार्थमात्रज्ञानस्य केवलत्वानुपपत्तिः । तत्पदार्थ ज्ञानसापेक्षत्वात् । सत्त्वयुक्ते हि चित्ते प्रथमतः शुद्धं सूक्स्मं जीव चैतन्यं प्रकाशते । ततश्चिद्एकाकारत्वाभेदेन तस्मिन् शुद्धं पूर्णं ब्रह्मचैतन्यमप्यनुभूयते । ततः सत्त्वगुणस्यैव तत्र कारणता प्राचुर्यात्सात्त्विकत्वम् । तथा च श्रीगीतोपनिषदः सत्त्वात्सञ्जायते ज्ञानं [गीता १४.१७] इति । भगवज्ज्ञानस्य तु देवानां शुद्धसत्त्वानामृषीणां चामलात्मनाम् । भक्तिर्मुकुन्दचरणे न प्रायेणोपजायते ॥ [भागवतम् ६.१४.२] मुक्तानामपि सिद्धानां नारायणपरायणः सुदुर्लभः प्रशान्तात्मा कोटिष्वपि महामुने ॥ [भागवतम् ६.१४.५] (पगे ६०) इत्याद्य्उक्त्या सत्त्वादिसद्भावेऽप्यभावात् रजस्तमःस्वभावस्य ब्रह्मन् वृत्रस्य पाप्मनः । नारायणे भगवति कथमासीद्दृढा मतिः ॥ [भागवतम् ६.१४.१] इत्य्उक्त्या तद्अभावेऽपि सद्भावान्न तत्कारणत्वम् । किन्तु तद्उत्तरत्वेन तस्य पूर्वजन्मनि नारदादिसङ्गवर्णनया । नैषां मतिस्तावदुरुक्रमाङ्घ्रिं स्पृशत्यनर्थापगमो यद्अर्थः । महीयसां पादरजोऽभिषेकं निष्किञ्चनानां न वृणीत यावत् ॥ [भागवतम् ७.५.३२] इत्युक्त्या च भगवत्कृपापरिमलपात्रभूतस्य श्रीमतो महतः सङ्ग एव कारणम् । तत्सङ्गश्च तुलयाम लवेनापि न स्वर्गं नापुनर्भवम् । भगवत्सङ्गिसङ्गस्य मर्त्यानां किमुताशिषः ॥ [भागवतम् १.१८.१३, ४.३०.३३] इत्युक्त्या निर्गुणावस्थातोऽप्यधिकत्वात्परमनिर्गुण एव । स तमस्य च प्रथमे च समः प्रियः सुहृद्ब्रह्मन् [भागवतम् ७.१.१] इत्यादौ सगुणे देवादौ तस्य कृपा वास्तवी न भवति, किन्तु श्रीमत्प्रह्लादादिष्वेवेति प्रतिपादनान्महतां निर्गुणत्वाभिव्यक्त्या सत्सङ्गस्यापि निर्गुणत्वं व्यक्तम् । तथा भक्तेरपि गुणसङ्गनिर्धूननानन्तरं चानुवृत्तिः श्रूयते । यदुक्तमुद्धवं प्रति श्रीभगवता तस्माद्देहमिमं लब्ध्वा ज्ञानविज्ञानसम्भवम् । गुणसङ्गं विनिर्धूय मां भजन्तु विचक्षणाः ॥ [भागवतम् ११.२५.३३] इति । परमेश्वरज्ञानस्य नैर्गुण्यहेतुत्वेन निर्गुणत्वोक्तिस्तु लक्षणामय कष्टकल्पना । तथा कैवल्यज्ञानस्यापि नैर्गुण्यहेतुत्वाद् अवैशिष्ट्येनोदाहरणभेदाप्रवृत्तिश्च स्यात् । तस्मात्स्वत एव निर्गुणं भगवज्ज्ञानम् । अतएव सात्त्विकं सुखमात्मोत्थं विषयोत्थं तु राजसम् । तामसं मोहदैन्योत्थं निर्गुणं मद्अपाश्रयम् ॥ [भागवतम् ११.२५.२९] इत्यत्र तत्सुखस्यापि निर्गुणत्वं वक्ष्यते । श्रवणादिलक्षणक्रिया रूपाया अपि भक्तेः शुश्रूषोः श्रद्दधानस्य वासुदेवकथारुचिः स्यान् महत्सेवया [भागवतम् १.२.१३] इत्युक्त्या तद्एकनिदानत्वेन निर्गुणत्वमेव । ननु मदीयं महिमानं च परं ब्रह्मेति शब्दितम् । वेत्स्यस्यनुगृहीतं मे सम्प्रश्नैर्विवृतं हृदि ॥ [भागवतम् ८.२४.३८] इति । श्रीमत्स्यदेववचनेन ब्रह्मज्ञानमपि श्रीभगवत्प्रसादोत्थं श्रूयते, तत्कथं तस्य सगुणत्वम् ? उच्यते ब्रह्मज्ञानं द्विविधानां जायते । तत्र भगवद्उपासकानामानुषङ्गिकत्वेन ब्रह्मोपासकानां स्वतन्त्रत्वेन । भगवद्उपासकैस्तु भगवच्छक्तिरूपया भक्त्या किञ्चिद्भेदेनैव गृह्यते तच्च ब्रह्मभूतः प्रसन्नात्मा [गीता १८.५४] इत्य् आदिश्रीगीतोक्तानुसारेण आत्मारामाश्च (पगे ६१) मुनयः [भागवतम् १.७.१०] इत्य् आद्य्अनुसारेण च भगवतः पराख्यभक्तिपरिकरो भवति । ब्रह्मोपासकैस्तु पूर्ववदभेदेनैव गृह्यते । तत्फलस्य नात्यन्तिकं विगणयत्यपि ते प्रसादम् [भागवतम् ६.१५.४८] इत्य्उक्तदिशा परैरात्यन्तिकत्वेन मतस्यापि परमविद्वद्भिरादृतत्वात् । तथा भक्तिविरुद्धत्वेन स्वर्गापवर्गनरकेष्वपि तुल्यार्थदर्शिनः [भागवतम् ६.१७.२३] इत्युक्त्या नरकवदपवर्गस्यापि हेयत्वात्प्रसादाभास एवासौ । स्वमत्य्अनुसारेण प्रसादतया गृह्यमाणस्तन्मतिकल्पितत्वात्सगुण एव । ततः कैवल्य ज्ञानमपि तथा । विशेषतस्तस्य सगुणसम्बन्धेन जन्माङ्गीकृतमस्ति । ननु अन्तर्बहिश्च करणं पुरुषस्य गुणमयमेव । तद्उद्भवयोर् भक्तिरूपयोः कथं निर्गुणत्वम् ? उच्यते, ज्ञानशक्तिः क्रियाशक्तिर्वा न तावज्जडस्य त्रैगुण्यस्य धर्मे घटस्येव । न च चिद्रूपस्यापि जीवस्य ईश्वराधीनशक्तित्वेनामुख्यत्वाद्देवताविष्टपुरुषस्येवातः परमात्मचैतन्यस्येइवेत्यायातम् । तथोक्तं देहेन्द्रियप्राणमनोधियोऽमी यद्अंशविद्धाः प्रचरन्ति कर्मसु । [भागवतम् ६.१६.२४] इति । तथा च श्रुतिः प्राणस्य प्राण उत चक्षुषश्चक्षुरुत श्रोत्रस्य श्रोत्रं मनसो मन इति न ऋते तत्क्रियते किं च नारे इत्यादिका । [श्रोत्रस्य श्रोत्रं मनसो मनो यद् वाचो ह वाचं स उ प्राणस्य प्राणः । चक्षुषश्चक्षुरतिमुच्य धीराः प्रेत्यास्माल्लोकादमृता भवन्ति ॥ Kएनऊ १.२॥] तदेवं सति त्रैगुण्यकार्यप्राधान्येन भवन्त्यौ ते गुणमयत्वेनोच्येते । परमेश्वरप्राधान्येन तु स्वतो गुणातीते एव ते । तद् उक्तं देवामृतपानाध्याये श्रीशुकेन यद्युज्यतेऽसुवसुकर्ममनोवचोभिर् देहात्मजादिषु नृभिस्तदसत्पृथक्त्वात् । तैरेव सद्भवति यत्क्रियतेऽपृथक्त्वात् सर्वस्य तद्भवति मूलनिषेचनं यत् ॥ [भागवतम् ८.९.२९] इति । पृथक्त्वात्परमात्मेतराश्रयत्वात् । अपृथक्त्वात्तद्एकाश्रयत्वादित्य् अर्थः । अतो युक्तमेव ज्ञानक्रियात्मिकाया हरिभक्तेर्निर्गुणत्वम् । विशेषतस्तस्य भक्तेर्गुणसम्बन्धेन जन्माभावश्चाङ्गीकृत इति न तु ब्रह्मज्ञानस्येव गुणसम्बन्धेन जन्मभाव इति । ततोऽसौ भक्तिस् तस्यापि प्रीणनत्वादिगुणैरुदाहरिष्यते । यत्तु श्रीकपिलदेवेन भक्तेर् अपि निर्गुणसगुणावस्थाः कथितास्ताः पुनः पुरुषान्तःकरणगुणा एव तस्यामुपचर्यन्त इति स्थितम् । तदेवमभिप्रेत्य ज्ञानरूपाया भक्तेर्निर्गुणत्वमुक्त्वा क्रियारूपाया व्याचष्टे । तत्राप्यस्तु तावत्श्रवणकीर्तनादिरूपाया भगवत् सम्बन्धेन वासमात्ररूपाया आह वनं तु सात्त्विको वासो ग्रामो राजस उच्यते । तामसं द्यूतसदनं मन्निकेतं तु निर्गुणम् ॥ [भागवतम् ११.१५.२४] वनं वास इति तत्सम्बन्धिनी वसनक्रियेत्यर्थो वानप्रस्थानामिति ज्ञेयम् । एवं ग्राम्य इति गृहस्थानाम् । तामसमिति दुराचाराणाम् । द्यूत सदनमित्युपलक्षणम् । मन्निकेतमिति (पगे ६२) मत्सेवापराणामिति च । वनादीनां वासेन सह आयुर्घृतमितिवदेकाधिकरणत्वम् । वनस्य वृक्षषण्डरूपस्य रजस्तमःप्राधान्यात् । अतएव विव्क्तत्वलक्षण तदीयसात्त्विकगुणस्यापि तद्युगलमिश्रत्वेन गौणत्वम् । वासक्रियायास् तु सत्त्वोपपन्नत्वात्तद्वर्धनत्वाच्च सात्त्विकत्वे मुख्यत्वमिति तस्या एवाभिधेयत्वमुचितम् । अतएव ग्राम्य इति तद्धितान्त एव पठितः । एवं द्यूतसदनमित्यत्र च वासक्रियैव विवक्षिता । मन्निकेतमित्यत्रापि । किन्तु भगवत्सम्बन्धमाहात्म्येन निकेतस्यापि निर्गुणत्वं भवेत् स्पर्शमणिन्यायेन तादृशत्वं तु तादृशभक्तिचक्षुर्भिर् एवोपलब्धव्यम् । दिविष्ठास्तत्र पश्यन्ति सर्वानेव चतुर्भुजानितिवत् । एवमेव टीका च भगवन्निकेतं तु साक्षात्तद्आविर्भावान्निर्गुणं स्थानमित्येषा । [१३६] एवं वासमात्रस्य तादृशत्वमुक्त्वा सर्वासामेव तत्क्रियाणां तादृशत्वम् आह सात्त्विकः कारकोऽसङ्गी रागान्धो राजसः स्मृतः । तामसः स्मृतिविभ्रष्टो निर्गुणो मद्अपाश्रयः ॥ [भागवतम् ११.२५.२६] अत्र च क्रियायामेव तात्पर्यं न तद्आश्रिते द्रव्ये । सात्त्विककारकस्य शरीरादिकं हि गुणत्रयपरिणतमेव । [१३७] तदेवं क्रियामात्रस्य तादृशत्वमुक्त्वा तत्प्रवृत्तिहेतुभूतायाः श्रद्धाया अप्याह सात्त्विक्याध्यात्मिकी श्रद्धा कर्मश्रद्धा तु राजसी । तामस्यधर्मे या श्रद्धा मत्सेवायां तु निर्गुणा ॥ [भागवतम् ११.२५.२७] अधर्मोऽत्र परधर्मः । अन्यत्पूर्ववत् । ॥ ११.२५ ॥ श्रीभगवान् ॥ १३३१३७ ॥ [१३८] अत आह धर्मं भागवतं शुद्धं त्रैविद्यं च गुणाश्रयम् । [भागवतम् ६.२.२४] शुद्धं निर्गुणमिति । त्रैविद्यं वेदत्रयप्रतिपाद्यं गुणाश्रयमिति । टीका च वेदशब्देनात्र कर्मकाण्डमेवोच्यते एवं त्रयीधर्मम् [गीता ९.२१] इत्यादेः । ॥ ६.२ ॥ श्रीशुकः ॥ १३८ ॥ [१३९] अतएव भक्तेः श्रीभगवत्स्वरूपशक्तिबोधकत्वं स्वयम्प्रकाशत्वम् आह यज्ञाय धर्मपतये विधिनैपुणाय योगाय साङ्ख्यशिरसे प्रकृतीश्वराय । नारायणाय हरये नम इत्युदारं हास्यन्मृगत्वमपि यः समुदाजहार ॥ [भागवतम् ५.१४.४५] य आर्षभेयो भरतो मरणसमये तत्रापि मृगशरीरे तद्वचन जन्मात्यन्तासम्भावात्स्वप्रकाशत्वमेव तस्याः कीर्तनलक्षणाया भक्तेः सिध्यति । एवं गजेन्द्रेऽपि ज्ञेयम् ॥ ॥ ५.१४ ॥ श्रीशुकः ॥ १३९ ॥ [१४०] परमसुखरूपत्वं च दृश्यते । तत्र साधनदशायामतो वै कवयो नित्यम् [भागवतम् १.२.१२] इत्यादौ कर्मण्यस्मिन्ननाश्वासे [भागवतम् १.१८.१२] इत्यादौ च तद्रूपत्वाभिव्यक्तिर्दर्शितैव सिद्धदशायां तु सुतरां प्रकटीभवति । यथा (पगे ६३) मत्सेवया प्रतीतं ते सालोक्यादिचतुष्टयम् । नेच्छन्ति सेवया पूर्णाः कुतोऽन्यत्कालविप्लुतम् ॥ [भागवतम् ९.४.६७] अत्रान्यस्य कालविप्लुतत्वमिति सेवायास्तद्अभावे निर्गुणित्वं सिद्धम् । अकालविप्लुतसालोक्यादिभ्योऽतिशये किमुतेति । ॥ ९.४ ॥ श्रीविष्णुर्दुर्वाससम् ॥ १४० ॥ [१४१] श्रीभगवद्विषयकरतिप्रदत्वमुक्तम् । एवं निर्जितषड्वर्गैः क्रियते भक्तिरीश्वरे [भागवतम् ७.७.३३] इत्यादिना । यत्तु अस्त्वेवमङ्ग भगवान् भजतां मुकुन्दो मुक्तिं ददाति कर्हिचित्स्म न भक्तियोगम् [भागवतम् ५.६.१८] इत्युक्त्यापि तद्रतिर्न प्राप्यत इति शङ्क्यते तत्खल्वविवेकादेव । कर्हिचिद् इति भक्तियोगाख्यतद्रतिपुरुषार्थतायां शैथिल्ये सत्येवेत्यर्थलाभात् कर्हिचिदप्यनुक्तत्वातसाकल्ये तु चिच्चनौ इत्यमरकोषाच्च । तथा यद्य् अतिचिरमावृत्तिः स्यात्तदा रतिमपि ददाति सत्यं दिशत्यर्थितमर्थितो नॄणाम् [भागवतम् ५.१९.२४] इत्यादेरिति च कर्हिचित्पदेन गम्यते । भक्तिविषयक भगवत्प्रीत्य्एकहेतुत्वमप्युदाहृतम् । नालं द्विजत्वं देवत्वम् [भागवतम् ७.७.४३] इत्यादि । तथा चाह मन्ये धनाभिजनरूपतपःश्रुतौजस् तेजःप्रभावबलपौरुषबुद्धियोगाः । नाराधनाय हि भवन्ति परस्य पुंसो भक्त्या तुतोष भगवान् गजयूथपाय ॥ [भागवतम् ७.९.९] अभिजनः सत्कुलजन्म । बुद्धिर्ज्ञानयोगः । योगोऽष्टाङ्गः ॥ ॥ ७.९ ॥ श्रीप्रह्लादः श्रीनृसिंहदेवम् ॥ १४१ ॥ [१४२] ननु निरतिशयनित्यानन्दरूपस्य भगवतः कथं तया सुखमुत्पद्येत निरतिशयत्वनित्यत्वयोर्विरोधात् । उच्यते शास्त्रे खलु निरतिशयानन्दत्वं नित्यत्वं च भगवतः श्रूयते । भक्तेरपि तथा तत्प्रीतिहेतुत्वं श्रूयते । तत एवं गम्यते तस्य परमानन्दैकरूपस्य स्वपरानन्दिनी स्वरूप शक्तिर्या ह्लादिनी नाम्नी वर्तते प्रकाशवस्तुनः स्वपरप्रकाशन शक्तिवत्परमवृत्तिरूपैवैषा । तां च भगवान् स्ववृन्दे निक्षिपन्नेव नित्यं वर्तते । तत्सम्बन्धेन च स्वयमतितरां प्रीणातीति । अतएव तस्य प्रीतिरूपस्यापि भक्तिप्रीणनीयत्वमाह यत्प्रीणनाद्बर्हिषि देवतिर्यङ् मनुष्यवीरुत्तृणमाविरिञ्चात् । प्रीयेत सद्यः स ह विश्वजीवः प्रीतः स्वयं प्रीतिमगाद्गयस्य ॥ [भागवतम् ५.१५.१३] विश्वबीजः सर्वजीवनहेतुः । देवादीनां द्वन्द्वैक्यम् । प्रीतिः सुख रूपोऽपि ॥ ॥ ५.१५ ॥ श्रीशुकः ॥ १४१ ॥ अतएव तथाभूतत्वेनात्मारामस्य पूर्णकामस्यापि तस्य क्षुद्रगुणवस्त्व् अपि कल्पत इति दृष्टानेनाह (पगे ६४) तत्रोपनीतबलयो रवेर्दीपमिवादृताः आत्मारामं पूर्णकामं निजलाभेन नित्यदा । प्रीत्य्उत्फुल्लमुखाः प्रोचुर्हर्षगद्गदया गिरा पितरं सर्वसुहृदमवितारमिवार्भकाः ॥ [भागवतम् १.११.४५] अत्र श्रीद्वारकायां रवेरुपहाररूपं दीपमादृतवन्तो जना इवेत्य् अर्थः । एवं स्तुत्यादिकमपि तत्प्रीणनतामर्हतीत्याह प्रीत्येति । पितरम् अर्भका इवेति दृष्टान्तः । तस्य प्रीतावसाधारणगुणविशेषमप्याह सर्वसुहृदमिति । सर्वसुहृत्त्वे लिङ्गमवितारमिति । तथा आत्माराम पूर्णकामत्वेऽपि तादृशस्य स्वसम्बन्धाभिमानिप्रीतिमत्पुत्रादिषु प्रीतिविशेषोदयो यथा दृश्यते तेषु तं प्रीतिमन्तमित्यर्थः । एवं कल्पतरुदृष्टान्तेऽपि भगवतो भक्तिविषयिका कृपा यथार्थम् एवोपपद्यते ये खलु स्हजतत्प्रीतिमेवात्मनि प्रार्थयमाना भजन्ते तेभ्यस्तद्दानयाथार्थ्यअस्यावश्यकत्वात् । तस्मादस्त्येवानन्द रूपस्यापि भक्तावानन्दोल्लास इति । ॥ १.११ ॥ श्रीसूतः ॥ १४३ ॥ [१४४] एवं भक्तिरूपायास्तच्छक्तेर्जीवेऽभिव्यक्तौ भगवानेव कारणम् । तद् इन्द्रियादिप्रवृत्तऔ स च एवेति । तस्मिंस्तया जीवस्योपकाराभासत्वमेव । तथापि भक्तानुरज्यदात्मत्वे भगवतः स्वकृपाप्राबल्यमेव कारणम् इति वदन् पूर्वार्थमेव साधयति किं वर्णये तव विभो यद्उदीरितोऽसुः संस्पन्दते तमनु वाङ्मनेन्द्रियाणि । स्पन्दन्ति वै तनुभृतामजशर्वयोश्च स्वस्याप्यथापि भजतामसि भावबन्धुः ॥ [भागवतम् १२.८.४०] हे विभो । तव किमहं वर्णये । त्वत्कृपालुतायाः कियन्तमंशं वर्णयेयमित्यर्थः । यतो येन त्वयैव उदीरितः प्रेरितोऽसुः प्राणः संस्पन्दन्ते प्रवर्तते, तमसुमनु च वाग्आदयः स्पन्दन्ति तत्र हेतुर् वै अन्वयव्यतिरेकाभ्यां श्रोत्रस्य श्रोत्रम् [Kएनऊ १.२] इत्य्आदिश्रुतिभ्यश् च तत्प्रसिद्ध इत्यर्थः । न केवलं प्राकृतानां तनुभृतां किन्तु अज शर्वयोश्च । अतः स्वस्य ममापि तथैव । एवं सत्यपि न क्वचिदपि कस्यापि स्वातन्त्र्यम् । तथापि दारुयन्त्रवत्प्रवर्तितैरपि वाग्आदिभिर्भजतां पुंसां भावेन स्वदत्तयैव भक्त्या बन्धुरसीति । ॥ १२.८ ॥ मार्कण्डेयः श्रीनरनारायणौ ॥ १४४ ॥ [१४५] श्रीभगवद्अनुभवकर्तृत्वेऽनन्यहेतुत्वमाह शृण्वन्ति गायन्ति गृणन्त्यभीक्ष्णशः स्मरन्ति नन्दन्ति तवेहितं जनाः । त एव पश्यन्त्यचिरेण तावकं भवप्रवाहोपरमं पदाम्बुजम् ॥ [भागवतम् १.८.३६] स्पष्टम् ॥ १.८ ॥ श्रीकुन्ती श्रीभगवन्तम् ॥ १४५ ॥ [१४६] श्रीभगवत्प्रापकत्वमाह भक्त्योद्धवानपायिन्या सर्वलोकमहेश्वरम् । सर्वोत्पत्त्य्अप्ययं ब्रह्म कारणं मोपयाति सः ॥ [भागवतम् ११.१८.४५] (पगे ६५) टीका च महेश्वरत्वे हेतुः सर्वोत्पत्त्य्अप्ययं सर्वस्योत्पत्त्य् अप्ययौ यस्मात्तम् । अतएव तत्कारणं मां ब्रह्मस्वरूपं वैकुण्ठ निवासिनम् । यद्वा ब्रह्मणो वेदस्य कारणं मामुपयाति सामीप्येन प्राप्नोति इत्येषा । श्रीगीतासु च पुरुषः स परः पार्थ भक्त्या लभ्यस्त्व् अनन्यया [गीता ८.२२] इति । ॥ ११.१८ ॥ श्रीभगवान् ॥ १४६ ॥ [१४७] तथा मनसोऽप्यगोचरफलदाने श्रीध्रुवचरितं प्रमाणं परम भक्तिसंवलितस्वलोकदानात् । तद्वशीकारित्वं तूदाहृतं न साधयति मां योगो [भागवतम् ११.१४.२०] इत्यादि । तथा तत्पद्यान्ते भक्त्याहमेकया ग्राह्यः श्रद्धयात्मा प्रियः सताम् [भागवतम् ११.१४.२१] इति । अत्रैव विवेचनीयम् । यद्यप्यस्य वाक्यस्यैकादशचतुर्दशाध्याय प्रकरणे साध्यसाधनभक्त्योरविविक्ततयैव महिमनिरूपणमिति साधनपरत्वं दुर्निर्णेयं, तथापि फलभक्तिमहिमद्वारापि साधनमहिमपरत्वमेव यत्रेदृशमपि फलं भवतीति । वदन्ति कृष्ण श्रेयांसि [भागवतम् ११.१४.१] इत्यादिप्रश्नमारभ्य साधनस्योपक्रान्तत्वात् । यथा यथात्मा परिमृज्यतेऽसौ मत्पुण्यगाथा श्रवणाभिधानैः । [भागवतम् ११.१४.२६] इत्यादिना तस्यैवोपसंहृतत्वाच्च । विशेषस्तु तत्र बाध्यमानोऽपि मद्भक्तो [भागवतम् ११.१४.१८] इत्यादिकं धर्मः सत्यदयोपेतः [भागवतम् ११.१४.२२] इत्य्आद्य्अन्ततदीयमुक्तप्रकरणं प्राय साधनमहिमपरमेव । तत्र बाध्यमानोऽपि इति पद्यं साध्यभक्तौ जातायां बाध्यमानत्वायोगात् दधति सकृन्मनस्त्वयि य आत्मनि नित्यसुखे न पुनरुपासते पुरुषसारहरावसथान् ॥ [भागवतम् १०.८७.३५] इत्युक्तेः । विषयाविष्टचित्तानां विष्ण्व्आवेशः सुदूरतः । वारुणीदिग्गतं वस्तु व्रजन्नैन्द्रीं किमाप्नुयात् ॥ इति विष्णुपुराणाच्च तन्महिमपरत्वेन गम्यते । अत्रैव तद्वक्ष्यते कथं विना रोमहर्षं द्रवता चेतसा विना । विनानन्दाश्रुकलया शुध्येद्भक्त्या विनाशयः ॥ [भागवतम् ११.१४.२३] इत्यनेन, मद्भक्तियुक्तो भुवनं पुनाति [भागवतम् ११.१४.२४] इति कैमुत्यवाक्येन च साध्यभक्तेः संस्कारहारित्वम् । ततो विषया एव बाध्यमाना भवन्तीति । अथ यथाग्निः सुसमृद्धार्चिः [भागवतम् ११.१४.१९] इति पद्यं नामाभासादेः सर्वपापक्षयकारित्वप्रसिद्धेस्तत्परम् । अथ न साधयति मां योगः इत्येतत्सार्धपद्यं योगादीनां साधनरूपाणां प्रतियोगित्वेन निर्दिष्टत्वात्श्रद्धासहायत्वेन विधानाच्च तत्परम् । साध्यायां श्रद्धोल्लेखः पुनर्उक्त इति । यद्यपि फलभक्तिद्वारैव तद् वशीकारित्वं तस्यास्तथाप्यत्र साधकरूपाया मुख्यत्वेन प्रातत्वात् तत्रैवोदाहृतम् । किं वा (पगे ६६) अस्त्वेवमङ्ग भगवान् भजतां मुकुन्दो मुक्तिं ददाति कर्हिचित्स्म न भक्तियोगम् [भागवतम् ५.६.१८] इति न्यायेन नावशः सन् प्रेमाणं ददातीति तस्या एव साक्षात्तद्गुणकत्वं ज्ञेयम् । अथ धर्मः सत्यदयोपेतः [भागवतम् ११.१४.२१] इति पद्यं च धर्मादि साधनप्रतियोगित्वेन निर्देशात् । साध्यभक्तेरेवान्यत्रापि तत् फलतयोदाहृतत्वाच्च तत्परम् । यत्तु कथं विना [भागवतम् ११.१४.२२] इत्यादिकं तच्च साधनभक्तिफलस्य शोधकत्वातिशयप्रतिपादनेन तत्परमिति । तस्मात्साध्वेव बाध्यमानोऽपि [भागवतम् ११.१४.१७] इत्यादिपद्यानि तत्प्रसङ्गे दर्शितानि । ॥ ११.१४ ॥ श्रीभगवान् ॥ १४७ ॥ [१४८] तथास्तु तस्याः साक्षाद्भक्तेः परधर्मत्वादिकम् । भगवद्अर्पण सिद्धतद्अनुगतिकस्य लौकिककर्मणोऽपि परधर्ममुदाहरिष्यते यो यो मयि परे धर्मः [भागवतम् ११.२९.२१] इत्यादौ । तथा पापघ्नत्वादिकं तस्याः श्रवणादिनापि भवतीत्युक्तं श्रुतोऽनुपठितो ध्यातः [भागवतम् ११.२.३] इत्यादौ । पाद्मे माघमाहात्म्ये देवदूतवाक्यं च प्राहास्मान् यमुनाभ्राता सादरं हि पुनः पुनः । भवद्भिर्वैष्णवस्त्याज्यो विष्णुं चेद्भजते नरः ॥ वैष्णवो यद्गृहे भुङ्क्ते येषां वैष्णवसङ्गतिः । तेऽपि वः परिहार्याः स्युस्तत्सङ्गहतकिल्बिषाः ॥ इति । बृहन्नारदीये यज्ञमाल्य्उपाख्यानान्ते हरिभक्तिपराणां तु सङ्गिनां सङ्गमात्रतः । मुच्यते सर्वपापेभ्यो महापातकवानपि ॥ [णार्ড়् १.३६.६१] इति । ततः सुतरामेवेदमादिदेश जिह्वा न वक्ति भगवद्गुणनामधेयं चेतश्च न स्मरति तच्चरणारविन्दम् । कृष्णाय नो नमति यच्छिर एकदापि तानानयध्वमसतोऽकृतविष्णुकृत्यान् ॥ [भागवतम् ६.३.२९] आस्तां तावत्तानानयध्वमित्यादिकेनैतत्पूर्वद्वितीयपद्येनोक्तानां मुकुन्दपादारविन्दविमुखानामानयनवार्ता । तथा ते देवसिद्धः [भागवतम् ६.३.२७] इत्यादिकेन तत्पूर्वतृतीयपद्येनोक्तानां देवसिद्धपरिगीत पवित्रगाथानां साधूनां समदृशां भगवत्पराणां निकटगमन निषेधवार्तापि । यद्यस्य जिह्वापि श्रीभगवतो गुणं च नामधेयं चैकदा जन्ममध्ये यदा कदाचिदपि न वक्ति । जिह्वाया अभावे चेतश्च तच्चरणारविन्दमेकदापि न स्मरति । चेतसो विक्षिप्तत्वे शिरश्च कृष्णाय कृष्णं लक्षीकृत्य न नमतीति । (पगे ६७) शठेनापि नमस्कारं कुर्वतः शार्ङ्गधन्विने । शतजन्मार्जितं पापं तत्क्षणादेव नश्यति ॥ इति स्कान्दोक्तमहिमानं नमस्कारं न करोति तानानयध्वम् । तत्र हेतुर् असतः । असत्त्वे हेतुरकृतविष्णुकृत्यान् । यथा स्कान्दे रेवाखण्डे श्री ब्रह्मोक्तौ स कर्ता सर्वधर्माणां भक्तो यस्तव केशव । स कर्ता सर्वपापानां यो न भक्तस्तवाच्युत ॥ पापं भवति धर्मोऽपि तवाभक्तैः कृतो हरे । निःशेषधर्मकर्ता वाप्यभक्तो नरके हरे । सदा तिष्ठति भक्तस्ते ब्रह्महापि विमुच्यते ॥ पाद्मे (?) च मन्निमित्तं कृतं पापमपि क्षेमाय कल्पते । मामनादृत्य धर्मोऽपि पापं स्यान्मत्प्रभावतः ॥ युक्तं चैतत्श्रवणं कीर्तनं चास्य [भागवतम् ७.११.१०] इत्यादिना । मुख बाहूरुपादेभ्यः [भागवतम् ११.५.२] इत्यादिना । सर्वविधिनिषेधाः स्युः इत्य् आदिना च परमनित्यत्वादिप्रतिपादनात् । एषां कीर्तनादीनां त्रयाणामपि सुकराणामभावे परेषां सुतरामेवाभावो भवेदिति सामान्येनैव विष्णुकृत्यरहितत्वमुक्तम् । जिह्वादीनां करणभूतानामपि कर्तृत्वेन निर्देशः पुरुषानिच्छयापि यथा कथञ्चित्कीर्तनादिकमादत्ते । चरणारविन्दमिति विशेषाङ्गनिर्देशः श्रीयमस्य भक्तिख्यापक एव न तु तन्मात्रस्मरणनियामकः । अत्राभक्तानामानयनेन भक्तानाम् आनयनमेव विधीयते । आनयनस्योत्सर्गसिद्धत्वात्वैवस्वतं संयमनं प्रजानामिति श्रुतेः । सकृन्मनः कृष्णपदारविन्दयोर् निवेशितं तद्गुणरागि यैरिह । न ते यमं पाशभृतश्च तद्भटान् स्वप्नेऽपि पश्यन्ति हि चीर्णनिष्कृताः ॥ [भागवतम् ६.१.१९] इत्यत्र तद्गुणरागीति विशेषणं तु तेषां तद्दृष्टिपथगमन सामर्थ्यस्यापि घातकं तादृशतत्स्मरणस्य प्रभावविशेषमेव बोधयतीति ज्ञेयम् । यथैव नारसिंहे अहममरगणार्चितेन धात्रा यम इति लोकहिताहिते नियुक्तः । हरिगुरुविमुखान् प्रशास्मि मर्त्यान् हरिचरणप्रणतान्नमस्करोमि ॥ [णृसिंहড়् ९.२] इति । तथैवामृतसारोद्धारे स्कान्दवचनम् न ब्रह्मा न शिवाग्नीन्द्रा नाहं नान्ये दिवौकसः । शक्तास्तु निग्रहं कर्तुं वैष्णवानां महात्मनाम् ॥ इति ॥ ॥ ६.३ ॥ श्रीयमस्तद्दूतान् ॥ १४८ ॥ [१४९] तथा सकृद्भजनेनैव सर्वमप्यायुः सफलमित्युदाहृतमेव श्री शौनकवाक्येन आयुर्हरति वै पुंसामुद्यन्नस्तं च यन्नसौ [भागवतम् २.३.१७] इत्यादिग्रन्थेन । एवं भक्त्य्आभासेनाप्यजामिलादेः पापघ्नत्वं च दृश्यते । तथा सर्वकर्मादिविध्वंसपूर्वकपरमगतिप्राप्तावपि स्वलायासेनैव भक्तेः कारणत्वं च श्रूयते । लघुभागवते वर्तमानं च यत्पापं यद्भूतं यद्भविष्यति । तत्सर्वं निर्दयत्याशु गोविन्दानलकीर्तनात् ॥ इति । (पगे ६८) तथैव च तत्र यथा कथञ्चित्तद्भक्तिसम्बन्धस्य कारणत्वं दृश्यते । ब्रह्मवैवर्ते स समाराधितो देवो मुक्तिकृत्स्याद्यथा तथा । अनिच्छयापि हृतभुक्संस्पृष्टो दहति द्विज ॥ इति । स्कान्दे उमामहेश्वरसंवादे दीक्षामात्रेण कृष्णस्य नरा मोक्षं लभन्ति वै । किं पुनर्ये सदा भक्त्या पूजयन्त्यच्युतं नराः ॥ बृहन्नारदीये अकामादपि ये विष्णोः सकृत्पूजां प्रकुर्वते । न तेषां भवबन्धस्तु कदाचिदपि जायते ॥ [णार्ড়् ३६.५८] पाद्मे देवद्युतिस्तुतौ सकृदुच्चारयेद्यस्तु नारायणमतन्द्रितः । शुद्धान्तःकरणो भूत्वा निर्वाणमधिगच्छति ॥ तथान्यत्र सम्पर्काद्यदि वा मोहाद्यस्तु पूजयते हरिम् । सर्वपापविनिर्मुक्तः प्रयाति परमं पदम् ॥ इतिहाससमुच्चये श्रीनारदपुण्डरीकसंवादे ये नृशंसा दुराचाराः पापाचाररताः सदा । तेऽपि यान्ति परं धाम नारायणपदाश्रयाः ॥ लिप्यन्ते न च पापेन वैष्णवा वीतकल्मषाः । पुनन्ति सकलान् लोकान् सहस्रांशुरिवोदितः ॥ जन्मान्तरसहस्रेषु यस्य स्यान्मतिरीदृशी । दासोऽहं वासुदेवस्य सर्वान् लोकान् समुद्धरेत् ॥ स याति विष्णुसालोक्यं पुरुषो नात्र संशयः । किं पुनस्तद्गतप्राणाः पुरुषाः संयतेन्द्रियाः ॥ अतएव सकृदेव प्रपन्नो यस्तवास्मीति च याचते । अभयं सर्वदा तस्मै ददाम्येतद्व्रतं हरेः ॥ इति च गरुडपुराणे । तथा चाह आपन्नः संसृतिं घोरां यन्नाम विवशो गृणन् । ततः सद्यो विमुच्येत यद्बिभेति स्वयं भयम् ॥ [भागवतम् १.१.१४] इति । स्पष्टम् ॥ १.१ ॥ श्रीशौनकः ॥ १४९ ॥ [१५०] तथा न हि भगवन्नघटितमिदं त्वद्दर्शनान्नृणामखिलपापक्षयः । यन्नाम सकृच्छ्रवणात् पुक्कशोऽपि विमुच्यते संसारात् ॥ [भागवतम् ६.१६.४४] स्पष्टम् ॥ ६.१६ ॥ चित्रकेतुः श्रीसङ्कर्षणम् ॥ १५० ॥ [१५१] अतएवोक्तं श्रीविष्णुधर्मोत्तरे जीवितं विष्णुभक्तस्य वरं पञ्च दिनानि वै । न तु कल्पसहस्राणि भक्तिहीनस्य केशवे ॥ इति । अत्र यत्तृतीये गर्भस्थस्य जीवस्य स्तुतिः श्रूयते । तस्यैव संसारोऽपि वर्ण्यते । तत्रोच्यते जात्य्एकत्वेनैकवर्णनमिति । वस्तुतस्तु कश्चिदेव जीवो भाग्यवान् भगवन्तं स्तौति । स च (पगे ६९) निस्तरत्यपि । न तु सर्वस्यापि भगवज्ज्ञानं भवति । तथा च नैरुक्ताः पठन्ति नवमे सर्वाङ्ग सम्पूर्णो भवतीति पठित्वामृतश्चाहं पुनर्जातो जातश्चाहं पुनर् मृतः इत्यादितद्भावनापाठान्तरं अवाङ्मुखः पीड्यमानो जन्तुभिश्च समन्वितः । साङ्ख्ययोगं समभ्यसेत्पुरुषं वा पञ्चविंशकम् ॥ ततश्च दशमे मासि प्रजायते इत्यादि । अत्र पुरुषं वेति वाशब्दात्कस्यचिदेव भगवज्ज्ञानमिति गम्यते । सर्वाव् अप्यवस्थासु भक्तेः समर्थत्वं च वर्णितम् । भेदेऽप्येकवद्वर्णनम् अन्यत्रापि दृश्यते । तृतीये यथा पादकल्पसृष्टिकथनेऽपि श्रीसनकादीनां सृष्टिः कथ्यत इति । टीकायां च ब्रह्मकृतसृष्टिमात्रकथन साम्येनैकीकृत्योरियमिति योजितं श्रीवराहावतारवच्च । तत्र प्रथम मन्वन्तरस्यादौ पृथिवीमज्जने ब्रह्मनासिकातोऽवतीर्णः श्रीवराहस् तामुद्धरन् हिरण्याक्षेण संग्रामं कृतवानिति वर्ण्यते । हिरण्याक्षश् च षष्ठमन्वन्तरावसानजातप्राचेतसदक्षकन्याया दितेर्जातः । तस्मात्तथा वर्णनं तद्अवतारमात्रत्वपृथिवीमज्जनमात्रत्वैक्य विवक्षयैव घटते तद्वदत्रापीति । कश्चिदेवान्यो जीवः स्तौत्यन्यः संसरतीत्येव मन्तव्यम् । अत्र पूर्ववत् परमगतिप्राप्तौ भक्तेः परम्पराकारणत्वं च दृश्यते । बृहन् नारदीये ध्वजारोपणमाहात्म्ये यतीनां विष्णुभक्तानां परिचर्यापरायणाः । ते दूताः सहसा यान्ति पापिनोऽपि परां गतिम् ॥ [णारदড়् १.२०.७३] श्रीविष्णुधर्मे कलानां शतमागामि समतीतं तथा शतम् । कारयन् भगवद्धाम नयत्यच्युतलोकताम् ॥ ये भविष्यन्ति येऽतीता आकल्पात्पुरुषाः कुले । तांस्तारयति संस्थाप्य देवस्य प्रतिमां हरेः ॥ दूतान् प्रति यमाज्ञा चेयम् येनार्चा भगवद्भक्त्या वासुदेवस्य कारिता । नवायुतं तत्कुलजं भवतां शासनातिगम् ॥ इति । यथाह त्रिःसप्तभिः पिता पूतः पितृभिः सह तेऽनघ । यत्साधोऽस्य कुले जातो भवान् वै कुलपावनः ॥ [भागवतम् ७.१०.१८] त्रिःसप्तभिः प्राचीनकल्पागततदीयपूर्वजन्मसम्बन्धिभिः पितृभिः सह अस्मिन् जन्मनि हिरण्यकशिपुमरीचिब्रह्माण एव तत्पितर इति ॥ ॥ ७.१० ॥ श्रीनृसिंहः प्रह्लादम् ॥ १५१ ॥ [१५२] तथा भक्त्य्आभासस्यापि सर्वपापक्षयपूर्वकश्रीविष्णुपद प्रापकत्वं यथा बृहन्नारदीये कोकिलमानिनोर्मदिरोन्मत्तयोर्धृत चीरखण्डदण्डयोर्जीर्णभगवन्मन्दिरे नृत्यतोर्ध्वजारोपणफल प्राप्त्या तादृशत्वं जातम् । तथा व्याघतस्य पक्षिणः कुक्कुरमुख गतस्य तत्पलायनवृत्त्या भगवन्मन्दिरपरिक्रमणफलप्राप्त्या तादृशत्वप्राप्तिरिति । क्वचित्तत्र महाभक्तिप्राप्तिश्च । यथा बृहन् नारदीयपुराण श्रीप्रह्लादस्य । तस्य प्राग्जन्मनि वेश्यया सह विवादेन श्रीनृसिंहचतुर्दश्यां दैवादुपवासः सम्पन्नो जागरणं चेति । तथा चाह यस्यावतारगुणकर्मविडम्बनानि नामानि येऽसुविगमे विवशा गृणन्ति । तेऽनैकजन्मशमलं सहसैव हित्वा संयान्त्यपावृतामृतं तमजं प्रपद्ये ॥ [भागवतम् ३.९.१५] (पगे ७०) असुवगमेऽपीति तदानीन्तननाममात्रत्वमशुद्धवर्णत्वं च व्यञ्जितम् । विवशा इति तद्इच्छां विनापि केनचित्कारणान्तरेणापीत्यर्थः । वशकान्तौ इत्यमरः । तादृशशक्तित्वे हेतुमाहावतारेति । अवतारादि सदृशानि तत्तुल्यशक्तीनीत्यर्थः । कर्मविडम्बनानि तद्विषय प्रयुक्तानि गिरिधरेत्यादीनि तान्यपि । किमुत साक्षात्तन्नामानि कृष्ण गोविन्देत्य्आदीनीत्यर्थः । ॥ ३.९ ॥ ब्रह्मा श्रीगर्भोदकशायिनम् ॥ १५२ ॥ [१५३] अस्तु तावत्शुद्धभक्त्य्आभासस्य वार्ता । अपराधत्वेन दृश्यमानोऽप्य् असौ महाप्रभावो दृश्यते । यथा विष्णुधर्मे भगवन्मन्त्रेण कृत निजरक्षं विप्रं प्रति राक्षसवाक्यं त्वामत्तुमागतः क्षिप्तौ रक्षया कृतया त्वया । तत्संस्पर्शाच्च मे ब्रह्मन् साध्वेतन्मनसि स्थितम् ॥ का सा रक्षा न तां वेद्मि वेद्मि नास्याः परायणम् । किन्त्वस्याः सङ्गमासाद्य निर्वेदं प्रापितः परम् ॥ इति । यथा वा विष्णुधर्माद्य्उदाहृतायाः श्रीभगवद्गृहदीपतैलं पिबन्त्याः कस्याश्चिन्मूषिकाया दैवतो मुखोद्धृतवर्तौ दीपे समुज्ज्वलिते सति मुखदाहेन मरणात्राजीत्वं प्राप्य दीपदानादिलक्षणभक्ति निष्ठाप्राप्तिरन्ते परमपदप्राप्तिश्च । यथा ब्रह्माण्डपुराणे जन्माष्टमीमाहात्म्ये कृतजन्माष्टमीकाया दास्या दुःसङ्गेनापि कस्यचित्तत्फलप्राप्तिः । तथा च बृहन्नारदीये तादृशदुष्टकार्यार्थम् अपि भगवन्मन्दिरं मार्जयित्वा कश्चिदुत्तमां गतिमवाप । न त्व् ईदृशत्वं ब्रह्मज्ञानस्यापि । यथोक्तं ब्रह्मवैवर्ते दृष्टः पश्येदहरहः संश्रितः प्रतिसंश्रयेत् । अर्चितश्चार्चयेन्नित्यं स देवो द्विजपुङ्गव ॥ इति । यथा च श्रीविष्णुधर्मे श्रीनारदवाक्यम् तुलसीदलमात्रेण जलस्य चुलुकेन च । विक्रीणीते स्वमात्मानं भक्तेभ्यो भक्तवत्सलः ॥ इति । तदीदृशं माहात्म्यवृन्दं न प्रशंसामात्रमजामिलादौ प्रसिद्धत्वात् । दर्शिताश्च न्यायाः श्रीभगवन्नामकौमुद्य्आदौ । तथैव नाम्न्यर्थवादकल्पनायां दोषोऽपि श्रूयते तथार्थवादो हरि नाम्नि [ःBV ११.२८४] इति नामापराधगणने । अर्थवादं हरेर्नाम्नि सम्भावयति यो नरः । स पापिष्ठो मनुष्याणां निरये पतति स्फुटम् ॥ इति कात्यायनसंहितायाम् । (पगे ७१) मन्नामकीर्तनफलं विविधं निशम्य न श्रद्दधाति मनुते यदुतार्थवादम् । यो मानुषस्तमिह दुःखचये क्षिपामि संसारघोरविविधार्तिनिपीडिताङ्गम् ॥ इति ब्रह्मसंहितायां बोधायनं प्रति श्रीपरमेश्वरोक्तौ । ततोऽन्तर्भूत नामानुसन्धानेष्वन्येषु तद्भजनेषु च सुतरामेवार्थवादे दोषोऽवगम्यते तदेवं यथार्थ एव तन्माहात्म्ये सत्यपि यत्र सम्प्रति तद्भजने फलोदयो न दृश्यते। कुत्रचिच्छास्त्रे च पुरातनानामप्य् अन्यथा श्रूयते तत्र नामार्थवादकल्पना वैष्णवानादरादयो दुरन्ता अपराधा एव प्रतिबन्धकारणं वक्तव्यम् । अतएवोक्तं श्रीशौनकेन तदश्मसारं हृदयं बतेदं यद्गृह्यमाणैर्हरिनामधेयैः । न विक्रियेताथ यदा विकारो नेत्रे जलं गात्ररुहेषु हर्षः ॥ [भागवतम् २.३.२४] इति । यथा प्रायेणाधुनिकानाम् ब्रह्मण्यस्य वदान्यस्य तव दासस्य केशव । स्मृतिर्नाद्यापि विध्वस्ता भवत्सन्दर्शनार्थिनः ॥ [भागवतम् १०.६४.२५] तद्उक्तरीत्याध्यवसितभक्तेरपि नृगस्य जिह्वा न वक्ति [भागवतम् ६.३.२९] इत्य् आदियमवाक्यविरुद्धं यमलोकगमनं प्राप्तवतो विना चार्थवाद कल्पनामयं भावं श्रुतशास्त्रस्यापि तस्य सत्यां तादृशमाहात्म्यायां भक्तौ श्रीमद्अम्बरीषादिवत्सेवाग्रहं परित्यज्य दानकर्माग्रहो न स्यात् । तादृशापराधे भक्तिस्तम्भश्च श्रूयते । यथा पाद्मे नामापराधभञ्जनस्तोत्रे नामैकं यस्य वाचि स्मरणपथगतं श्रोत्रमूलं गतं वा शुद्धं वाशुद्धवर्णं व्यवहितरहितं तारयत्येव सत्यम् । तच्चेद्देहद्रविणजनतालोभपाषण्डमध्ये निक्षिप्तं स्यान्न फलजनकं शीघ्रमेवात्र विप्र ॥ देहादिलोभार्थं ये पाषण्डा गुर्व्अवज्ञादिदशापराधयुक्तास्तन् मध्य इत्यर्थः । स्कान्दे प्रह्लादसंहितायां द्वारकामाहात्म्ये पूजितो भगवान् विष्णुर्जन्मान्तरशतैरपि । प्रसीदति न विश्वात्मा हरिस्तस्य पूजां द्वादशवर्षिकीम् ॥ दृष्ट्वा भागवतं विप्रं नमस्कारेण नार्चयेत् । देहिनस्तस्य पापस्य न च वै क्षमते हरिः ॥ इति । एवं बहून्येवापराधान्तराण्यपि दृश्यते । एवमेव श्रीविष्णुपुराणे शतधनुर्नाम्नो राज्ञो भगवद्आराधन तत्परस्यापि वेदवैष्णवनिन्दकाल्पसम्भाषयैव कुक्कुरादियोनि प्राप्तिरुक्ता । अतः शुश्रूषोः श्रद्दधानस्य [भागवतम् १.२.१६] इत्यादौ आवृत्तिर् असकृद्उपदेशात्[Vस्४.१.१] इत्यादौ च पुरुषाणां प्रायः सापराधत्वाभि (पगे ७२) प्रायेणैवावृतिविधानम् । सापराधानामावृत्त्य्अपेक्षा चोक्ता पाद्मे नामापराधभञ्जनस्तोत्रे नामोपलक्ष्य नामापराधयुक्तानां नामान्येव हरन्त्यघम् । अविश्रान्तिप्रयुक्तानि तान्येवार्थकराणि च ॥ इति । एतद्अपेक्षयैव त्रैलोक्यसम्मोहनतन्त्रादावष्टादशाक्षरादेरावृत्ति विधानम् । यथा इदानीं शृणु देवि त्वं केवलस्य मनोर्विधिम् । दशकृत्वो जपेन्मन्त्रमापत्कल्पेन मुच्यते ॥ सहस्रजप्तेन यथा मुच्यते महतैनसा । अयुतस्य जपेनैव महापातकनाशनम् ॥ इत्यादि । तथा ब्रह्मवैवर्ते नामोपलक्ष्य हनन् ब्राह्मणमत्यन्तं कामतो वा सुरां पिबन् । कृष्ण कृष्णेत्यहोरात्रं सङ्कीर्त्य शुचितामियात् ॥ इत्यादि । अत्रापराधालम्बनत्वेनैव वर्तमानानां पापवासनानां सहैवापराधेन नाश इति तात्पर्यम् । एतादृशप्रतिबन्धोपेक्षयैवोक्तं विष्णुधर्मे रागादिदूषितं चित्तं नास्पदं मधुसूदने । बध्नाति न रतिं हंसः कदाचित्कर्दमाम्बुनि ॥ न योग्या केशवं स्तोतुं वाग्दुष्टा चानृतादिना । तमसो नाशनायालं नेन्दोर्लेखा घनावृता ॥ इति । सिद्धानामावृत्तिस्तु प्रतिपदमेव सुखविशेषोदयार्था । असिद्धानाम् आवृत्तिनियमः फलपर्यापित्पर्यन्तः । तद्अन्तरायेऽपराधावस्थिति वितर्कात् । यतः कौटिल्यमश्रद्धा भगवन्निष्ठाच्यावकस्त्व् अन्तराभिनिवेशो भक्तिशैथिल्यं स्वभक्त्य्आदिकृतमानित्वमित्येवम् आदीनि महत्सङ्गादिलक्षाणभक्त्यापि निवर्तयितुं दुष्कराणि चेत्तर्हि तस्यापराधस्यैव कार्याणि । तान्येव च प्राचीनस्य तस्य लिङ्गानि । अतएव कुटिलात्मनामुत्तममपि नानोपचारादिकं नाङ्गीकरोति भगवान् यथा दूत्यगतो दुर्योधनस्य । आधुनिकानां च श्रुतशास्त्राणामपराध दोषेन भगवति श्रीगुरौ तद्भक्तादिषु चान्तरानादरादावपि सति बहिस् तद्अर्चनाद्य्आरम्भः कौटिल्यम् । अतएवाकुटिलमूढानां भजनाभासादिनापि कृतार्थत्वमुक्तम् । कुटिलानां तु भक्त्य्अनुवृत्तिरपि न सम्भवतीति । स्कान्दे श्रीपराशरवाक्ये दृश्यते अपुण्यवतां लोके मूढानां कुटिलात्मनाम् । भक्तिर्भवति गोविन्दे कीर्तनं स्मरणं तथा ॥ इति । तदपेक्षयैवोक्तं विष्णुधर्मे सत्यं शतेन विघ्नानां सहस्रेण तथा तपः । विघ्नायुतेन गोविन्दे नॄणां भक्तिर्निवार्यते ॥ इति । अतएवाह तं सुखाराध्यमृजुभिरनन्यशरणैर्नृभिः । कृतज्ञः को न सेवेत दुराराध्यमसाधुभिः ॥ [भागवतम् ३.१९.३६] (पगे ७३) स्पष्टम् ॥ ३.११ । श्रीसूतः ॥ १५३ ॥ [१५४] यथैव भगवद्भक्ता अप्यकुटिलात्मनोऽज्ञाननुगृह्णन्ति न तु कुटिलात्मनो विज्ञानिति दृश्यते । यथा दूरे हरिकथाः केचिद्दूरे चाच्युतकीर्तनाः स्त्रियः शूद्रादयश्चैव तेऽनुकम्प्या भवादृशाम् । विप्रो राजन्यवैश्यौ वा हरेः प्राप्ताः पदान्तिकम् श्रौतेन जन्मनाथापि मुह्यन्त्याम्नायवादिनः ॥ [भागवतम् ११.५.५] टीका च तत्र येऽज्ञास्ते भवद्विधानामनुग्राह्या इत्याह दूर इति । ज्ञानबलदुर्विदग्धास्त्वचिकित्स्यत्वादुपेक्ष्या इत्याशयेत्नाह विप्र इति । इत्येषा । ॥ ११.५ ॥ चमसो निमिम् ॥ १५४ ॥ [१५५] अथाश्रद्धा दृष्टे श्रुतेऽपि तन्महिमादौ विपरीतभावनादिना विश्वासाभावः । यथा दुर्योधनस्यैव विश्वरूपदर्शनादावपि । अतएव यथा आपन्नः संसृतिं घोरां यन्नाम विवशो गृणन् [भागवतम् १.१.१४] इत्यादि शौनकस्य, दन्ता गजानां कुलिशाग्रनिष्ठुराः [Vइড়् १.१७.४४] इति श्री प्रह्लादस्यानुभवसिद्धं न तथा सर्वेषाम् । ईदृशमानुषङ्गिकं फलं तु शुद्धभक्तैर्भगवन्महिमख्यापनेच्छा यदि स्यात् तदैवेष्यते न तु स्वरक्षणाय स्वमहिमदर्शनाय वा । यथैवोक्तं दन्ता गजानां कुलिशाग्रनिष्ठुराः शीर्णा यदेते न बलं ममैतत् । महाविपत्पातविनाशनोऽयं जनार्दनानुस्मरणानुभावः ॥ [Vइড়् १.१७.४४] श्रीपरीक्षित्प्रभृतिभिस्तु तदपि नेष्टं, यथा द्विजोपसृष्टः कुहकस्तक्षको वा दशत्वलं गायत विष्णुगाथाः ॥ [भागवतम् १.१९.१५] ॥ स्पष्टम् । १.१९ ॥ राजा ॥ १५५ ॥ [१५६] अतएवाधुनिकेषु महानुभावलक्षणवत्सु तद्अदर्शनेऽपि नाविश्वासः कर्तव्यः । कुत्रचिद्भगवद्उपासनाविशेषेणैव तादृशमानुषङ्गिकं फलमुदयते । यथा यदैकपादेन स पार्थिवार्भकस् तस्थौ तद्अङ्गुष्ठनिपीडिता मही । ननाम तत्रार्धमिभेन्द्रधिष्ठिता तरीव सव्येतरतः पदे पदे ॥ [भागवतम् ४.८.७९] अत्र सर्वात्मकतयैव विष्णुसमाव्धिना तादृक्फलमुदितम् । एतादृश्य् उपासना चास्य भाविज्योतिर्मण्डलात्मकविश्वचालनपदोपयोगितयोदितेति ज्ञेयम् ॥ ॥। ४.९ ॥ श्रीमैत्रेयः ॥ १५६ ॥ [१५७] अथ भगवन्निष्ठाच्यावकवस्त्व्अन्तराभिनिवेशो यथा एवमघटमानमनोरथाकुलहृदयो मृगदारकाभासेन स्वारब्ध कर्मणा योगारम्भणतो विभ्रंशितः स योगतापसो भगवद्आराधन लक्षणाच्च । [भागवतम् ५.८.२६] इति । (पगे ७४) स श्रीभरतः । अत्रैवं चिन्त्यं भगवद्भक्त्य्अन्तरायकं सामान्यम् आरब्धकर्म न भवितुमर्हति दुर्बलत्वात् । ततः राचीनापराधात्मकमेव तल्लभ्यत इन्द्रद्युम्नादीनामिवेति ॥ ॥ ५.८ ॥ श्रीशुकः ॥ १५७ ॥ [१५८] केचित्तु साधारणस्यैव प्रारब्धस्य तादृशेषु भक्तेषु प्राबल्यं तद् उत्कण्ठावर्धनार्थं स्वयं भगवतैव क्रियत इति मन्यन्ते । सा च वर्णिता मृगदेहं प्राप्तस्य तस्य । तथैव श्रीनारदस्य पूर्वजन्मनि जातरतेरपि कषायरक्षणमाह हन्तास्मिन् जन्मनि भवान्मा मां द्रष्टुमिहार्हति । अविपक्वकषायाणां दुर्दर्शोऽहं कुयोगिनाम् ॥ [भागवतम् १.६.२२] स्पष्टम् ॥ १.६ ॥ श्रीभगवान् ॥ १५८ ॥ [१६०] तदेवमपराधहेतुकतद्अभिनिवेशोदाहरणं गजेन्द्रादीनां विषयावस्थायां कार्यम् । अथ भक्तिशैथिल्यं येनाध्यात्मिकादिसुख दुःखनिष्ठैवोल्लसति । भक्तितत्पराणां तु तत्रानादरो भवति । यथा सहस्रनामस्तोत्रे न वासुदेवभक्तानामशुभं विद्यते क्वचित् । जन्ममृत्युजराव्याधिभयं चाप्युपजायते ॥ इति । या तु सत्साधकस्य मनुष्यदेहरिरक्षिषा जायते साप्युपासनावृद्धि लोभेन न तु देहमात्ररिरक्षिषयेति । न तया च भक्तितात्पर्यहानिः । तदेवं विवेकसामर्थ्ययुक्तस्यापि भक्तितात्पर्यव्यतिरेकगम्यं तच् छैथिल्यं मध्ये मध्ये रुच्यमानया भक्त्या यद्दूरीक्रियते तद् अपराधालम्बनमे एवेति गम्यते । अतएवापराधानुमानाप्रवृत्तेर्मूढे चासमर्थे चाल्पेन सिद्धिः समर्थेव । तत्र दीनदयालोः श्रीभगवतः कृपा चाधिका प्रवर्तते । किं च विवेकसामर्थ्ययुक्ते स्मप्रत्यपि योऽपराधापातो भवति सोऽत्यन्त दौरात्म्यादेव तद्विपरीते तु नातिदौरात्म्यादिति विदुषः समर्थस्य शतधनुपोऽन्तरायोऽनन्तरविहितभगवद्उपासनस्यापि युक्त एव । मूढानां तु मूषिकादीनामपराधेऽपि सिद्धिस्तथैव युक्ता । दौरात्म्याभावेन भजनस्वरूपप्रभावस्यापराधमतिक्रम्योदयात् । अथ भक्त्यादिकृताभिमानत्वं चापराधकृतमेव वैष्णवावमानादि लक्सणापराधान्तरजनकत्वात् । यथा दक्षस्य प्राक्तनश्री शिवापराधेन प्राचेतसत्वावस्थायां श्रीनारदापराधजन्मापि दृश्यते । तदेवं यः सकृद्भजनादिनैव फलोदय उक्तस्तद्यथावदेव, यदि प्राचीनोऽर्वाचीनो वापराधो न स्यात् । मरणे तु सर्वथा सकृदेव यथा कथञ्चिदपि भजनमपेक्षते, तत्र हि तस्यैव सकृदपि भगवन्नाम ग्रहणादिकं जायते, यस्य पूर्वत्र वात्र वा जन्मनि सिद्धेन भगवद् आराधनादिना तदानीं स्वीयप्रभावं प्रकटयतानन्तरमेव भगवत् साक्षात्कारो गम्यते । यं यं वापि स्मरन् भावं त्यजन्त्यन्ते कलेवरम् । तं तमेवैति कौन्तेय सदा तद्भावभावितः ॥ [गीता ८.६] (पगे ७५) इति श्रीगीतोपनिषद्भ्यः । ततोऽपराधाभावा तत्क्षयार्थं न तत्रावृत्त्य्अपेक्षया । यथाजामिलस्य न तथा कृततन्नामश्रवणादीनामपि यमदूतानाम् । यथाह अथापि मे दुर्भगस्य विबुधोत्तमदर्शने । भवितव्यं मङ्गलेन येनात्मा मे प्रसीदति ॥ [भागवतम् ६.२.३२] पूर्वेण मङ्गलेन महता पुण्येनेति टीका च । [१६०] व्यतिरेकेणाह अन्यथा म्रियमाणस्य नाशुचेर्वृषलीपतेः । वैकुण्ठनामग्रहणं जिह्वा वक्तुमिहार्हति ॥ [भागवतम् ६.२.३३] स्पष्टम् ॥ ६.२ ॥ श्रीमानजामिलः ॥ १५९१६० ॥ [१६१] यत्तु श्रीभरतस्य मृगशरीरं त्यजतो नामानि गृहीत्वापि शरीरान्तर प्राप्तिस्तत्रापि साक्षाद्भावप्राप्तिरेव तादृशानां हृदि सदाविर्भावात् । एवमजामिलस्य पूर्वशरीरस्थितावपि ज्ञेयम् । ततो मरणसमये सकृद् भजनस्यानन्तरमेव कृतार्थत्वप्रापणे व्यभिचारो न स्यात् । अतएवाह एतावान् साङ्ख्ययोगाभ्यां स्वधर्मपरिनिष्ठया । भगवत्यचलो भावो यद्भागवतसङ्गतः ॥ [भागवतम् २.३.११] टीका च एतावानेव जन्मनो लाभः फलम् । तमाह नारायणस्मृतिरिति । साङ्ख्यादिभिः साध्य इति तेषां स्वातन्त्र्येण लाभत्वं वारयति । अन्ते च स्मृतिः परो लाभो न तन्महिमा वक्तुं शक्यते इत्येषा । नामकौमुदीकारैश्चान्तिमप्रत्ययोऽभ्यर्हित इत्युक्तम् ॥ ॥ २.१ ॥ श्रीशुकः ॥ १६१ ॥ [१६२] अतएवाजामिलस्यान्यदापि पुत्रोपचारितं नारायणनाम गृह्णतः प्रयाणे चाप्रयाणे च यन्नाम स्मरतां नॄणाम् । सद्यो नश्यति पापौघो नमस्तस्मै चिद्आत्मने ॥ इति पाद्मदेवद्युतिस्तोत्रानुसारेण जरामरणदशायामपि सकल कश्मलनिरसनानि तव गुणकृतनामधेयानि [भागवतम् ५.३.१४] इति पञ्चमोक्त स्थितापिशब्देन च प्रथमनामग्रहणादेव क्षीणसर्वपापस्यापि मरणे यन्नामग्रहणं तत्प्रशंसैव श्रूयते । तत्राप्यावृत्त्या अथैनं मापनयत कृताशेषाघनिष्कृतम् । यदसौ भगवन्नाम म्रियमाणः समग्रहीत् ॥ [भागवतम् ६.२.१३] इत्यादि । अशेषशब्दोऽत्र वासनापर्यन्तः । अघशब्दश्चापराधपर्यन्त इति । अत्र मरणे सर्वेषां दैन्यादयोऽपि श्रीभगवत्कृपातिशयद्वारमिति द्रष्टव्यम् । ॥ ६.१ ॥ श्रीविष्णुदूताः यमदूतान् ॥ १६२ ॥ [१६३] तदेवमधिकारिविशेषं प्राप्यैव तत्तत्फलोदयो द्रष्टव्यः । यथैव पूर्वमुदाहृतम् । यथा च जातरुचिं प्राप्य (पगे ७६) तव विक्रीडितं कृष्ण नृणां परममङ्गलम् । कर्णपीयूषमासाद्य त्यजन्त्यन्यस्पृहां जनाः ॥ [भागवतम् ११.६.४४] अतएवोक्तम् न क्रोधो न च मात्सर्यं न लोभो न शुभा मतिः । भवन्ति कृतपुण्यानां भक्तानां पुरुषोत्तम ॥ इति ॥ ॥ ११.६ ॥ श्रीमद्उद्धवः ॥ १६३ ॥ [१६४] जातप्रेमाणं प्राप्य नैषातिदुःसहा क्षुन्मां त्यक्तोदमपि बाधते । पिबन्तं त्वन्मुखाम्भोज च्युतं हरिकथामृतम् ॥ [भागवतम् १०.१.१३] स्पष्टम् ॥ १०.१ ॥ श्रीराजा ॥ १६४ ॥ [१६५] व्याख्याते यथा कथञ्चिद्भजनसम्यग्भजनावृत्ती । तदेवं भगवद् अर्पितधर्मादिसाध्यत्वात्तां विनान्येषामकिञ्चित्करत्वात्तस्याः स्वत एव समर्थत्वात्स्वलेशेन स्वाभासादिनापि परमार्थपर्यन्तप्रापकत्वात् सर्वेषां वर्णानां नित्यत्वात्साक्षाद्भक्तिरूपं तत्साम्मुख्यम् एवात्राभिधेयं वस्त्विति स्थितम् । इयमेव केवलत्वादनन्यताख्या । अनन्याश्चिन्तयन्तो मां ये जनाः पर्युपासते । तेषां नित्याभियुक्तानां योगक्षेमं वहाम्यहम् ॥ येऽप्यन्यदेवताभक्ता यजन्ते श्रद्धयान्विताः । तेऽपि मामेव कौन्तेय यजन्त्यविधिपूर्वकम् ॥ [गीता ९.२२२३] इति वाक्यद्वयेऽन्वयव्यतिरेकोक्त्या । अनन्यत्वं नाम ह्यन्योपासना राहित्येन तद्भजनमुच्यते । इत्थमेवाङ्गीकृतम् अपि चेत्सुदुराचारो भजते मामनन्यभाक्[गीता ९.३०] इत्यादौ । तस्याश्च महादुर्बोधत्वं महादुर्लभत्वं चोक्तम् धर्मं तु साक्षाद्भगवत्प्रणीतं न वै विदुरृषयो नापि देवाः [भागवतम् ६.३.१९] इत्यादौ, येऽभ्यर्थितामपि च नो नृ गतिं प्रपन्ना [भागवतम् ३.१५.२४] इत्यादौ च । तदेवं तस्याः श्रवणादिरूपायाः साक्षाद्भक्तेः सर्वविघ्ननिवारण पूर्वकसाक्षाद्भगवत्प्रेमफलदत्वे स्थिते परमदुर्लभत्वे च सत्य् अन्यकामनया च नाभिधेयत्वम् । तथा चतुर्थे तं दुराराध्यमाराध्य सतामपि दुरापया । एकान्तभक्त्या को वाञ्छेत्पादमूलं विना बहिः ॥ [भागवतम् ४.२४.५५] इति । तन्मात्रकामनायां च भक्तेरेवाकिञ्चनत्वमकामत्वं च संज्ञापितम् । मत्तोऽप्यनन्तात्परतः परस्मात् स्वर्गापवर्गाधिपतेर्न किञ्चित् । येषां किमु स्यादितरेण तेषाम् अकिञ्चनानां मयि भक्तिभाजाम् ॥ [भागवतम् ५.५.२५] इति श्र्यृषभदेववाक्यात् । अकामः सर्वकामो वा इत्यादेश्च । तथा इयम् एवैकान्तितेत्युच्यते एकान्तिनो यस्य न कञ्चनार्थं वाञ्छन्ति ये वै भगवत्प्रपन्नाः [भागवतम् ८.३.२०] इति गजेन्द्रवाक्यम् । (पगे ७७) एवं प्रलोभ्यमानोऽपि वरैर्लोकप्रलोभनैः । एकान्तित्वाद्भगवति नैच्छत्तानसुरोत्तमः ॥ [भागवतम् ७.९.५५] इति नारदवाक्याच्च । अतएवोक्तं गारुडे एकान्तेन सदा विष्णौ यस्मादेव परायणाः । तस्मादेकान्तिनः प्रोक्तास्तद्भागवतचेतसः ॥ [ङर्ড়् १.२३१.१४] इति । एषैवोपदिष्टा श्रीगीतोपनिषत्सु भक्त्या त्वनन्यया शक्य अहमेवंविधोऽर्जुन । ज्ञातुं द्रष्टुं च तत्त्वेन प्रवेष्टुं च परन्तप ॥ मत्कर्मकृन्मत्परमो मद्भक्तः सङ्गवर्जितः । निर्वैरः सर्वभूतेषु यः स मामेति पाण्डव ॥ [गीता ११.५४५५] मत्कर्म श्रवणकीर्तनादि । अहमेव परमः साधनत्वेन साध्यत्वेन च यस्य । अतएव साधनसाध्यान्तरसङ्गविवर्जित इति व्याख्येयम् । इमाम् एव भक्तिमाह तस्मादर्थाश्च कामाश्च धर्माश्च यद्अपाश्रयाः । भजतानीहयात्मानमनीहं हरिमीश्वरम् ॥ [भागवतम् ७.७.४८] यद्अपाश्रया यद्अधीनाः । तं हरिमित्यन्वयः । अनीहया कामना त्यागेन । अनीहं तथैव कामनाशून्यम् । इच्छाकाङ्क्षास्पृहेहातृङित्य् अमरः । ॥ ७.७ ॥ श्रीप्रह्लादोऽसुरबालकान् ॥ १६५ ॥ [१६६] तथैवोभयोः कामनाशून्यत्वं स्वयमेवाह आशासानो न वै भृत्यः स्वामिन्याशिष आत्मनः । न स्वामी भृत्यतः स्वाम्यमिच्छन् यो राति चाशिषः ॥ अहं त्वकामस्त्वद्भक्तस्त्वं च स्वाम्यनपाश्रयः । नान्यथेहावयोरर्थो राजसेवकयोरिव ॥ [भागवतम् ७.१०.५] स्पष्टम् ॥ ७.१० ॥ श्रीप्रह्लादः श्रीनृसिंहदेवम् ॥ १६६ ॥ [१६७] एवमेवाह नैवात्मनः प्रभुरयं निजलाभपूर्णो मानं जनादविदुषः करुणो वृणीते । यद्यज्जनो भगवते विदधीत मानं तच्चात्मने प्रतिमुखस्य यथा मुखश्रीः ॥ [भागवतम् ७.९.११] अयं प्रभुरात्मनो मानं जनान्निजभक्तान्न वृणीते नेच्छति । तत्र हेतुर्निजस्य भक्तस्यैव लाभेन पूर्णः परमसन्तुष्टः । हेत्व्अन्तरं करुणः पूजार्थं तत्प्रयासादावसहिष्णुः । कथम्भूताज्जनाद् अविदुषः । पितुरग्रे बालकवत्तस्याग्रे न किञ्चिदपि जानतः । एषा स्वस्य जनैकवर्गत्वेन दैन्योक्तिः यद्वा तद्आवेशेनान्यत्किञ्चिदपि न जानत इत्य् अर्थः । उभयत्र पक्षेऽपि तच्च तस्य कारुण्यहेतुरिति भावः । तर्हि किं जनस्तस्य पूजां न कुरुत इत्याशङ्क्याह यदिति । स च (पगे ७८) जनो यं यं मानं भगवते विदधीत सम्पादयति स सर्वोऽप्यात्मार्थमेव । तत् सम्भावनामात्रेणैव स्वसम्माननाभिमननात्सुखं मन्यमानस् तन्मानं करोत्येवेत्यर्थः । तत्सम्मानमात्रेण स्वसम्मानश्च । तद्एकजीवनस्य तज्जनस्य युक्त एवेति दृष्टान्तमाह यथा मुखे या शोभा क्रियते तन्मात्रमेव प्रतिमुखस्य शोभैव भवति नान्यदिति ॥ ॥ ७.९ ॥ श्रीप्रह्लादः श्रीनृसिंहम् ॥ १६७ ॥ [१६८] अतएवाह नालं द्विजत्वं देवत्वमृषित्वं वासुरात्मजाः । प्रीणनाय मुकुन्दस्य न वृत्तं न बहुज्ञता ॥ न दानं न तपो नेज्या न शौचं न व्रतानि च । प्रीयतेऽमलया भक्त्या हरिरन्यद्विडम्बनम् ॥ [भागवतम् ७.७.५१५२] अमलया निष्कामया विडम्बनं नटनमात्रम् । अतः सकामभक्तस्यापि भक्तेर्नटनमात्रत्वात् । यथा परेषामपि नटानां क्वचित्तद् अनुकरणं तथैवेति । तत्र सकामत्वमैहिकं पारलौकिकं चेति द्विविधं तत्सर्वमेव निषिध्यते । श्रीनागपत्नीवचनादौ न पारमेष्ठ्यं न महेन्द्रधिष्ण्यमित्यादिना । तस्माद्वैवस्वतमनुपुत्रस्य पृषध्रस्य तु मुमुक्षोरपि एकान्तित्वव्यपदेशो गौण एव बोद्धव्यः । मा मां प्रलोभयोत्पत्त्या सक्तंकामेषु तैर्वरैः । तत्सङ्गभीतो निर्विण्णो मुमुक्षुस्त्वामुपाश्रितः ॥ [भागवतम् ७.१०.२] इत्यत्र श्रीप्रह्लादवाक्ये मुमुक्षा तु कामत्यागेच्छैव । यदि दास्यसि मे कामान् वरांस्त्वं वरदर्षभ । कामानां हृद्यसंरोहं भवतस्तु वृणे वरम् ॥ [भागवतम् ७.१०.७] इति वक्षमाणात् । भक्तियोगस्य तत्सर्वमन्तरायतयार्भकः [भागवतम् ७.१०.१] इति श्रीनारदेन प्रागुक्तत्वाच्च । एवं श्रीमद्अम्बरीषस्य यज्ञविधानमपि लोक सङ्ग्रहार्थकमेव ज्ञेयम् । तमुद्दिश्याप्येकान्तभक्तिभावेनेत्य् उक्तमस्ति । तत्र चैहिकं निष्कामत्वं भक्त्या जीविकाप्युपार्जनं यत्तद् अभावमयमपि बोद्धव्यम् । विष्णुं यो नोपजीवति इत्गारुडे शुद्ध भक्तलक्षणम् । मौनव्रतश्रुततपोऽध्ययनस्वधर्म व्याख्यारहोजपसमाधय आपवर्ग्याः । प्रायः परं पुरुष ते त्वजितेन्द्रियाणां वार्ता भवन्त्युत न वात्र तु दाम्भिकानाम् ॥ [भागवतम् ७.९.४६] इति श्रीप्रह्लादवाक्यवत् । मौनादय एवाजितेन्द्रियाणां वार्ता जीवनोपाया भवन्ति । दाम्भिकानां तु वार्ता अपि भवन्ति न वा दम्भस्यानियत फलत्वादित्यर्थः । अतएवोक्तं आराधनं भगवत ईहमाना निराशिषः । ये तु नेच्छन्त्यपि परं ते स्वार्थकुशलाः स्मृताः ॥ [भागवतम् ६.१८.७४] इति । (पगे ७९) परं मोक्षमपीति टीका च । तस्मात्साधूक्तं नालं द्विजत्वमित्यादि । ॥ ७.७ ॥ श्रीप्रह्लादोऽसुरबालकान् ॥ १६८ ॥ [१६९] ततोऽस्या एव भक्तेः सर्वशास्त्रसारत्वमाह श्रवणं कीर्तनं विष्णोः स्मरणं पादसेवनम् । अर्चनं वन्दनं दास्यं सख्यमात्मनिवेदनम् ॥ इति पुंसार्पिता विष्णौ भक्तिश्चेन्नवलक्षणा । क्रियेत भगवत्यद्धा तन्मन्येऽधीतमुत्तमम् ॥ [भागवतम् ७.५.२३२४] श्रवणकीर्तने तदीयनामादीनां स्मरणं च । पादसेवनं परिचर्या । अर्चनं विध्य्उक्तपूजा । वन्दनं नमस्कारः । दास्यं तद्दासोऽस्मीत्य् अभिमानम् । सख्यं बन्धुभावेन तदीयहिताशंसनम् । आत्म निवेदनं गवाश्वादिस्थानीयस्य स्वदेहादिसङ्घातस्य तद्एक भजनार्थं विक्रयस्थानीयं तस्मिन्नर्पणं, यत्र तद्भरणपालन चिन्तापि स्वयं न क्रियते । उदाहृतानि चैतानि प्राचीनैः । श्रीविष्णोः श्रवणे परीक्षिदभवद्वैयासकिः कीर्तने प्रह्लादः स्मरणे तद्अङ्घ्रिभजने लक्ष्मीः पृथुः पूजने । अक्रूरस्त्वभिवन्दने कपिपतिर्दास्येऽथ सख्येऽर्जुनः सर्वस्वात्मनिवेदने बलिरभूत्कृष्णाप्तिरेषां परा ॥ [ড়द्यावली ५३] इति नवलक्षणानि यस्याः सा भगवति तद्विषयिका । अद्धा साक्षाद्रूपां न तु कर्माद्य्अर्पणरूपा पारम्परिकी भक्तिरियम् । तत्रापि श्रीविष्णाव् एवार्पिता तद्अर्थमेवेदमिति भाविता । न तु धर्मार्थादिष्वर्पिता । एवम्भूता चेत्क्रियते तदा तेन कर्त्रा यदधीतं तदुत्तमं मन्य इत्य् अर्थम् । तथा च श्रीगोपालतापनीश्रुतिः भक्तिरस्य भजनम् । तदिहामुत्रोपाधिनैरास्येनैवामुष्मिन्मनः कल्पनम् । एतदेव च नैष्कर्म्यम् ॥ [ङ्टू १.१४] अतएव नवलक्षणेति समुच्चयो नावश्यकः । एकेनैवाङ्गेन साध्याव्यभिचारश्रवणात् । क्वचिदन्याङ्गमिश्रणं तु तथापि भिन्न श्रद्धारुचित्वात् । ततो नवलक्षणशब्देन भक्तिसामान्योक्त्या तन् मात्रानुष्ठानं विधीयत इति ज्ञेयम् । ततो नवलक्षणत्वं चास्या अन्येषाम् अप्यङ्गानां तद्अन्तर्भावादुक्तम् ॥ ॥ ७.५ ॥ श्रीप्रह्लादः स्वपितरम् ॥ १६९ ॥ [१७०] अथास्या अकिञ्चनाख्याया भक्तेः सर्वोर्ध्वभूमिकावस्थितिः । अधिकारि विशेषनिष्ठत्वं च दर्शयितुं प्रक्रियान्तरम् । तत्र परतत्त्वस्य वैमुख्यस्य परिहाराय यथाकथञ्चित्साम्मुख्यमात्रं कर्तव्यत्वेन लभ्यते । तच्च त्रिधा निर्विशेषरूपस्य तदीयब्रह्माख्याविर्भावस्य ज्ञानरूपम् । सविशेषरूपस्य च तदीयभगवद्आख्याविर्भावस्य भक्तिरूपमिति द्वयम् । तृतीयं च तस्य द्वयस्यैव द्वारं कर्मार्पण रूपमिति । तदेतत्त्रयं पुरुषयोग्यता भेदेन व्यवस्थापयितुं लोके ज्ञानकर्मभक्तीनामेवोपायत्वं नान्येषामित्यनुवदति (पगे ८०) योगास्त्रयो मया प्रोक्ता नॄणां श्रेयोविधित्सया । ज्ञानं कर्म च भक्तिश्च नोपायोऽन्योऽस्ति कुत्रचित् ॥ [भागवतम् ११.२०.६] योगाः उपायाः । मया शास्त्रयोनिना श्रेयांसि मुक्तित्रिवर्गप्रेमाणि । अनेन भक्तेः कर्मत्वं च व्यावृत्तम् । [१७१] तेष्वधिकारिहेतूनाह द्वाभ्याम् निर्विण्णानां ज्ञानयोगो न्यासिनामिह कर्मसु । तेष्वनिर्विण्णचित्तानां कर्मयोगस्तु कामिनाम् ॥ यदृच्छया मत्कथादौ जातश्रद्धस्तु यः पुमान् । न निर्विण्णो नातिसक्तो भक्तियोगोऽस्य सिद्धिदः ॥ [भागवतम् ११.२०.७८] इह एषां मध्ये निर्विण्णामैहिकपारलौकिकविषयप्रतिष्ठासुखेषु विरक्तानामत एव तत्साधनभूतेषु लौकिकवैदिककर्मसु न्यासिनां तानि त्यक्तवतामित्यर्थः । पदद्वयेन दृढजातमुमुक्षूणाम् अत्राभिप्रेतम् । एषां ज्ञानयोगः सिद्धिद इत्युत्तरेणान्वयः । कामिनां तत् तत्सुखेषु रागिणामतएव तेषु कर्मसु अनिर्विण्णचित्तानां तानि त्यक्तम् असमर्थानां कर्मयोगः सिद्धिदः तत्सङ्कल्पानुरूपफलदः । अथ ते वै विदन्त्यतितरन्ति न देवमायाम् [भागवतम् २.५.४५] इत्यादौ तिर्यग्जना अपि इत्यनेन भक्त्य्अधिकारे कर्मादिवत्जात्यादिकृतनियमातिक्रमात् श्रद्धामात्रं हेतुरित्याह यदृच्छयेति । यदृच्छया केनापि परम स्वतन्त्रभगवद्भक्तसङ्गतत्कृपाजातमङ्गलोदयेन । यदुक्तं शुश्रूषोः श्रद्दधानस्य [भागवतम् १.२.१६] इत्यादि । तदेतत्पद्यं स्वयमेवाग्रे व्याख्यास्यते द्वाभ्यां जातश्रद्धो मत्कथासु निर्विण्णः सर्वकर्मसु वेद दुःखात्मकं कामान् परित्यागेऽप्यनीश्वरः ततो भजेत मां प्रीतः श्रद्धालुर्दृठनिश्चयः जुषमाणश्च तान् कामान् दुःखोदर्कांश्च गर्हयन् ॥ [भागवतम् ११.२०.२७२८] कथेत्युपलक्षणं मत्कथादिषु एतदेव केवलं परमं श्रेय इति जात विश्वासः । अतएवान्येषु कर्मसु उद्विग्नः किन्तु वर्तमानेषु प्राचीनपुण्य कर्मफलभागेषु एवम्भूत इत्याह वेदेति । ततस्तान् वेदेत्य्आदिव्याख्या । तान्न निर्विण्णो नातिसक्त इत्येवंलक्षणाम् अवस्थामारभ्यैवेत्यर्थः । मां भजेत मदीयानन्याख्यभक्त्य् अधिकारी स्यात्, न तु ज्ञानवज्जाते सम्यग्वैराग्य एव तस्याः स्वतः शक्तिमत्त्वेनान्यनिरपेक्षत्वादित्यर्थः अनन्तरं च वक्ष्यते तस्मान्मद्भक्तियुक्तस्य योगिनो वै मद्आत्मनः । न ज्ञानं न च वैराग्यं प्रायः श्रेयो भवेदिह ॥ यत्कर्मभिर्यत्तपसा ज्ञानवैराग्यतश्च यत् । [भागवतम् ११.२०.३१३२] इत्यादि । न च कर्मनिर्वेद सापेक्षत्वमापतितम् । स तु भक्तेः सर्वोत्तमत्व विश्वासेन स्वत एव प्रवर्तते । निर्विण्ण इत्यनुवादमात्रम् । अतएव यद्यपि ज्ञानकर्मणोरपि श्रद्धापेक्षास्त्येव (पगे ८१) तां विना बहिरन्तः सम्यक्प्रवृत्त्य्अनुपपत्तेस्तथाप्यत्र श्रद्धामात्रस्य कारणत्वेन विशेषतस्तद्अङ्गीकारः । अत्रापि च तद्अपेक्षा पूर्ववत्सम्यक्प्रवृत्त्य् अर्थैव, तां विना अनन्यताख्यभक्तिस्तथा न प्रवर्तते । कदाचित्किञ्चित् प्रवृत्त्या च नश्यतीति । अतएव न निर्विण्णो नातिसक्तः [भागवतम् ११.२०.८] इत्य् अस्यानन्तरमपि मत्कथाश्रवणादौ वा [भागवतम् ११.२४.९] इत्यत्र श्रद्धायां जातायामेव कर्मपरित्यागो विहितः । भक्तिमात्रं तु तां विना सिद्ध्यति । सकृदपि परिगीतं श्रद्धया हेलया वा भृगुवर नरमात्रं तारयेत्कृष्णनाम । इत्यादौ । सतां प्रसङ्गान्मम वीर्यसंविदो भवन्ति हृत्कर्णरसायनाः कथाः । तज्जोषणादाश्वपवर्गवर्त्मनि श्रद्धा रतिर्भक्तिरनुक्रमिष्यति ॥ [भागवतम् ३.२५.२५] इत्यादौ च तत्पूर्वतोऽपि तस्याः फलदातृत्वश्रवणात् । म्रियमाणो हरेर्नाम गृणन् पुत्रोपचारितम् । अजामिलोऽप्यगाद्धाम किमुत श्रद्धया गृणन् ॥ [भागवतम् ६.२.४९} इत्यादौ तथा फलदातृत्वसौष्ठवश्रवणाच्च । सा च श्रद्धा शास्त्राभिधेयावधारणस्यैवाङ्गं तद्विश्वासरूपत्वात् । ततो नानुष्ठानाङ्गे प्रविशति । भक्तिश्च फलोत्पादने विधिसापेक्षापि न स्याद् दाहादिकर्मणि वह्न्य्आदिवत् । भगवच्छ्रवणकीर्तनादीनां स्वरूपस्य तादृशशक्तित्वात् । ततस्तस्याः श्रद्धाद्य्अपेक्षा कुतः स्यात् । अतः श्रद्धां विना च क्वचिन्मूढादावपि सिद्धिर्दृश्यते श्रद्धया हेलया वा इत्यादौ । हेला त्वपराधरूपाद्य्अबुद्धिपूर्वककृता चेद्दौरात्म्याभावे न भक्त्या बाध्यत इत्युक्तमेव । ज्ञानबलदुर्विदग्धादौ तु तद् वैपरीत्येन बाध्यते । यथा मत्सरेण नामादिकं गृह्णाति वेणे । क्वचिद् वस्तुशक्तिर्बाधिता दृश्यते । आर्द्रेन्धनादौ वह्निशक्तिरिव । श्रद्धयोपाहृतं प्रेष्ठं भक्तेन मम वार्यपि । भूर्यप्यभक्तोपहृतं न मे तोषाय कल्पते ॥ [भागवतम् ११.२७.१८] इत्यत्र श्रद्धाभक्तिशब्दाभ्यामादर एवोच्यते । स तु भगवत्तोष लक्षणफलविशेषस्योत्पत्तावनादरलक्षणतद्विघातकापराधस्य निरसनपरः । तस्मात्श्रद्धा न भक्त्य्अङ्गं किन्तु कर्मण्यर्थि समर्थविद्वत्तावदनन्यताख्यायां भक्तौ अधिकारिविशेषणमेवेत्य् अतएव तद्विशेषणत्वेनैवोक्तं यदृच्छया मत्कथादौ जातश्रद्धस्तु यः पुमान् [भागवतम् ११.२०.८] इति, जातश्रद्धो मत्कथासु [भागवतम् ११.२०.२७] इति च । अत्र तामारभ्येत्यर्थेन ल्यब्लोपे पञ्चम्य्अन्तेन तत इति पदेनानवधिकनिर्देशेनात्मारामतावस्थायामपि सा केषांचित्प्रवर्तत इति तस्याः साम्राज्यमभिप्रेतम् । अनन्तरं च वक्ष्यते न किञ्चित्साधवो धीराः [भागवतम् ११.२०.३४] इति । अतः साम्राज्यज्ञापनया तां विना कर्मज्ञाने अपि न सिध्यत इति च ज्ञापितम् । तदेवमनन्यभक्त्य्अधिकारे हेतुं श्रद्धा मात्रमुक्त्वा स यथा भजेत्तथा शिक्षयति स श्रद्धालुर्विश्वासवान् । प्रीतो जातायां रुचावासक्तः । दृढनिश्चयः साधनाध्यवसायभङ्ग रहितः सन् सहसा त्यक्तुम् (पगे ८२) असमर्थत्वात्कामान् जुषमाणश्च गर्हयंश्च । गर्हणे हेतुः दुःखोदर्कान् शोकादिकृद्उत्तरकालानिति । अत्र कामा अपापकरा एव ज्ञेयाः । शास्त्रे कथञ्चिदप्य् अन्यानुविधानायोगात् । प्रत्युत परपत्नीपरद्रव्यपरहिंसासु यो मतिम् । न करोति पुमान् भूप तोष्यते तेन् केशवः ॥ [Vइড়् ३.८.१४] इति विष्णुपुराणवाक्यादौ कर्मार्पणात्पूर्वमेव तन्निषेधात् । अत्रैव च निष्कामकर्मण्यपि यद्यन्यन्न समाचरेत्[भागवतम् ११.२०.१०] इति वक्ष्यमाणनिषेधात् । कर्मपरित्यागविधानेन सुतरां दुष्कर्म परित्यागप्रत्यासत्तेः । विष्णुधर्मे मर्यादां च कृतां तेन यो भिनत्ति स मानवः । न विष्णुभक्तो विज्ञेयः साधुधर्मार्चितो हरिः ॥ इति वैष्णवेष्वपि तन्निषेधात् । यत्पादसेवाभिरुचिस्तपस्विनाम् अशेषजन्मोपचितं मलं धियः । सद्यः क्षिणोत्यन्वहमेधती सती यथा पदाङ्गुष्ठविनिःसृता सरित् ॥ [भागवतम् ४.२१.३१] इत्यत्र सद्यःशब्दप्रयोगेण जातमात्ररुचीनाम् यदा नेच्छति पापानि यदा पुण्यानि वाञ्छति । ज्ञेयस्तदा मनुष्येण हृदि तस्य हरिः स्थितः ॥ इति विष्णुधर्मे । नियमेन विकर्म य चोत्पतितं कथञ्चिद्धुनोति सर्वं हृदि सन्निविष्टः [भागवतम् ११.५.३८] इत्यत्रापि कथञ्चित्शब्दप्रयोगेण लब्धभक्तीनां च स्वतस् तत्प्रवृत्त्य्अयोगात् । नाम्नो बलाद्यस्य हि पापबुद्धिर्न विद्यते तस्य यमैर्हि शुद्धिः इति पाद्मे नामापराधभञ्जनस्तोत्रादौ हरिभक्ति बलेनापि तत्प्रवृत्तावपराधापाताच्च । अपि चेत्सुदुराचारः [गीता ९.३०] इति तु तद्अनादरदोषपर एव, न तु दुराचारताविधानपरः । क्षिप्रं भवति धर्मात्मा [गीता ९.३१] इत्यनन्तरवाक्ये दुराचारतापगमस्य श्रेयस्त्वनिर्देशादिति ॥ ॥ ११.२० ॥ श्रीभगवान् ॥ १७२ ॥ [१७३] नन्वेवं केवलानां कर्मज्ञानभक्तीनां व्य्वस्थोक्ता । नित्यनैमित्तिकं कर्म तु सर्वेष्वावश्यकं, तर्हि साङ्कर्ये कथं शुद्धे ज्ञानभक्ती प्रवर्तेयातां तदेतदाशङ्क्य तयोः कर्माधिकारितां वारयति । तावत्कर्माणि कुर्वीत न निर्विद्येत यावता । मत्कथाश्रवणादौ वा श्रद्धा यावन्न जायते ॥ [भागवतम् ११.२०.९] कर्माणि नित्यनैमित्तिकादीनीति टीका च । अतएव श्रुतिस्मृती ममैवाज्ञे यस्ते उल्लङ्घ्य वर्तते । आज्ञाच्छेदी मम द्वेषी मद्भक्तोऽपि न वैष्णवः ॥ इत्युक्तदोषोऽप्यत्र नास्ति आज्ञाकरणात् । प्रत्युत तयोरपि निर्वेद श्रद्धयोस्तत्करण एवाज्ञाभङ्गः स्यात् । यथा च व्याख्यातमाज्ञायैव गुणान् दोषान् [भागवतम् ११.११.३२] इत्यस्य (पगे ८३) टीकायां भक्तिदार्ढ्येन निवृत्ताधिकारतया सन्त्यज्येति । निवृत्ताधिकारित्वं चोक्तं श्रीकरभाजनेन देवर्षिभूताप्तनृणां पितॄणां न किङ्करो नायमृणी च राजन् । सर्वात्मना यः शरणं शरण्यं गतो मुकुन्दं परिहृत्य कर्तम् ॥ [भागवतम् ११.५.४१] इति तेषां न किङ्करः किन्तु श्रीभगवत एव इत्यनधिकारित्वम् । कर्तं कृत्यम् । कर्तं भेदमित्यर्थे ततो देवतादीनां स्वातन्त्र्यमिति यावत् । एवमेवोक्तं गारुडे अयं देवो मुनिर्वन्द्य एष ब्रह्मा बृहस्पतिः । इत्याख्या जायते तावद्यावन्नार्चयते हरिम् ॥ [ङर्ড়् १.२३५.२०] न च विकर्मप्रायश्चित्तरूपं कर्मान्तरं कर्तव्यं तस्य तच्छरणस्य विकर्मप्रवृत्त्य्अभावात् । कथञ्चिदापतितेऽपि विकर्मणि तद् अनुस्मरणेनैव प्रायश्चित्तस्याप्यानुषङ्गिकसिद्धिरित्यप्युक्तम् अनन्तरपद्येनैव स्वपादमूलं भजतः प्रियस्य त्यक्तान्यभावस्य हरिः परेशः । विकर्म यच्चोत्पतितं कथञ्चिद् धुनोति सर्वं हृदि सन्निविष्टः ॥ [भागवतम् ११.५.४२] इति । त्यक्तोऽन्यत्र देवतान्तरे भगवतीव भावो भक्तिर्येनेति व्याख्येयम् । अत्र कर्मपरित्यागहेतुत्वेनाभिधानात्श्रद्धाशरणापत्त्योरैकार्थ्यं लभ्यते, तच्च युक्तम् । श्रद्धा हि शास्त्रार्थविश्वासः । शास्त्रं च तद् अशरणस्य भयं तच्छरणस्याभयं वदति । ततो जातायाः श्रद्धायाः शरणापत्तिरेव लिङ्गम् । न च वेदादीनां तर्पणमात्रतात्पर्येणापि पृथक्पृथग्आराधनं कर्तव्यम् । यथा तरोर्मूलनिषेचनेन [भागवतम् ४.३१.१२] इत्यादौ तत्पौनरुक्त्यप्राप्तेः । न च त्यक्तकर्मणो मध्ये विघ्नस्थगितायामपि भक्तौ तत्त्यागानुतापो युज्यते त्यक्त्वा स्व धर्मं [भागवतम् १.५.१७] इत्य्आद्य्उक्तेः । श्रीगीतासु सर्वधर्मान् परित्यज्य मामेकं शरणं व्रज । अहं त्वा सर्वपापेभ्यो मोक्षयिष्यामि मा शुचः ॥ [गीता १८.६६] इत्यस्य देवर्षिभूताप्तनॄणां [भागवतम् ११.५.३७] इत्यादिद्वयेनैकार्थ्यं दृश्यते । अतो भक्त्य्आरम्भ एव तु स्वरूपत एव कर्मत्यागः कर्तव्यः । परित्यज्येत्यत्र परिशब्दस्य हि तथैवार्थः । गौतमीये च न जपो नार्चनं नैव ध्यानं नापि विधिक्रमः । केवलं सततं कृष्णचरणाम्भोजभाविनाम् ॥ [ङौतमीयट्३३.५७] मन्मना भव मद्भक्तो मद्याजी मां नमस्कुरु । [गीता ९.३४] इत्य् आदिना चानन्यामेव भक्तिमुपदिदेश । यथा विष्णुपुराणेऽपि भरतम् उद्दिश्य यज्ञेशाच्युत गोविन्द माधवानन्त केशव । कृष्ण विष्णो हृषीकेशेत्याह राजा स केवलम् । नान्यज्जगाद मैत्रेय किञ्चित्स्वप्नान्तरेष्वपि ॥ [Vइড়् ?] अत्र वचनान्तरस्यानवकाशात् । सुतरामेव तद्वचनमयकर्मान्तर परित्यागोऽङ्गीकृतः । कथञ्चित्(पगे ८४) क्रियमाणमपि तन्नाम्नैव कृतमित्यवगतेश्च सर्वत्र तद्ईक्षणाच्छुद्धभक्तित्वम् एवाङ्गीकृतम् । यथोक्तं पाद्मे सर्वधर्मोज्झिता विष्णोर्नाममात्रैकजल्पकः । सुखेन यां गतिं यान्ति न तां सर्वेऽपि धर्मिकाः ॥ [ড়द्मড়् ६.७१.९९] इति । तस्मान्मतान्तरेणाप्युचितः श्रद्धावतोऽनन्यभक्त्य्अधिकारः कर्माद्य् अनधिकारश्चेति । किन्तु श्रद्धासद्भाव एव कथं जायते इति विचार्यम् । तत्र च लिङ्गत्वेन पूर्वं शरणापत्तिरुपदिष्टैव । यस्माच्च शरणापत्तौ वक्ष्यमाणानि आनुकूल्यस्य सङ्कल्पः इत्यादीनि लिङ्गानि । तथा व्यवहार कार्पण्याद्य्अभावोऽपि श्रद्धालिङ्गं ज्ञेयम् । शास्त्रं हि तथैव श्रद्धाम् उत्पादयति । अनन्याश्चिन्तयन्तो मां ये जनाः पर्युपासते । तेषां नित्याभियुक्तानां योगक्षेमं वहाम्यहम् ॥ [गीता ९.२२] किं च श्रद्धावतः पुरुषस्य भगवत्सम्बन्धिद्रव्यजातिगुण क्रियाणां शास्त्रे श्रूयमाणेष्वैहिकव्यवहारिकप्रभावेष्वपि न कथञ्चिदनाश्वासो भवति । ततस्तासु प्राकृतद्रव्यादिसाधारणदृष्ट्या दोषविशेषानुसन्धानतो न कदाचिदप्रवृत्तिः स्यात् । ते च तादृश प्रभावाः अकालमृत्युशमनं सर्वव्याधिविनाशनम् । सर्वदुःखोपशमनं हरिपादोदकं स्मृतम् ॥ [णार्ড়् ३७.१६] इत्यादयः । केचित्तु तत्र श्रद्धावन्तोऽपि स्वापराधदोषेण सम्प्रति तत्फलं नोदेष्यतीति स्थगितायन्ते । यत्तु यः स्मरेत्पुण्डरीकाक्षं स बाह्याभ्यन्तरशुचिः इत्यादौ श्रद्दधाना अपि स्नानादिकमाचरन्ति । तत् खलु श्रीमन्नारदव्यासादिसत्परम्पराचारगौरवादेव । अन्यथा तद् अतिक्रमेऽप्यपराधः स्यात् । ते च तथा मर्यादां लोकस्य कदर्यवृत्त्यादि निरोधायैव स्थापितवन्त इति ज्ञेयम् । किं च, जातायां श्रद्धायां सिद्धे वासिद्धौ च स्वर्णसिद्धिलिप्सोरिव सदा तद्अनुगतिचेष्टैव स्यात् । सिद्धिश्चात्रान्तःकरणकामादिदोषक्षयकारि परमानन्दपरमाकाष्ठागामिश्रीहरिस्फुरणरूपैव ज्ञेया । तस्यां स्वार्थसाधनानुप्रवृत्तौ च दम्भप्रतिष्ठादिलिप्सादिमयचेष्टा लेशोऽपि न भवति । न तेषां सुतरां ज्ञानपूर्वकं महद् अवज्ञादयोऽपराधाश्चापतन्ति, विरोधादेव । अतएव चित्रकेतोः श्री महादेवापराधः तस्य स्वचेष्टान्तरेणाच्छन्नस्वभावस्य भागवत तत्त्वज्ञानादेव मन्तव्यः । यदि वा श्रद्धावतोऽपि प्रारब्धादिवशेन विषयसम्बन्धाभ्यासो भवति । तथापि तद्बाधया विषयसम्बन्ध समयेऽपि दैन्यात्मिका भक्तिरेवोच्छलिता स्यात् । यथोक्तं जुषमाणश्च तान् कामान् दुःखोदर्कांश्च गर्हयेत्[भागवतम् ११.१४.१७] इत्यत्र बाध्यमानोऽपि मद्भक्तः [भागवतम् ११.१४.१८] इत्यादौ च । अपि चेत्सुदुराचारः [गीता ९.३०] इत्य्आद्य्उक्तस्यानन्यभाक्त्वेन लक्षिता तु या श्रद्धा सा खलु ये शास्त्रविधिमुत्सृज्य यजन्ते श्रद्धयान्विताः [गीता १७.१] इतिवल्लोकपरम्पराप्राप्ता, न तु शास्त्रावधारणजाता । शास्त्रीय श्रद्धायां तु जातायां सुदुराचारत्वायोगः स्यात् । परपत्नीपरद्रव्य [Vइড়् ३.८.१४] (पगे ८५) इत्य्आदिविष्णुतोषणशास्त्रविरोधात् । मर्यादां कृतां तेन इत्यादिना तद्भक्तत्वविरोधाच्च । न तु सा दुराचारता तद्भक्ति महिमश्रद्धाकृतैव । अपिशब्देन दुराचारत्वस्य हेयत्वव्यञ्जनात् । तथा क्षिप्रं भवति धर्मात्मा इत्य्उत्तराप्रतिपत्तेः । नाम्नो बलाद्यस्य हि पापबुद्धिः इत्यादिनापराधापाताच्च । ततः सा श्रद्धा न शास्त्रीयभक्त्य्अधिकारिणां विशेषणत्वे प्रवेशनीया, किन्तु भक्तिप्रशंसायामेव । तादृश्यापि श्रद्धया भक्तेः सत्त्वहेतुत्वं न तु देवान्तरयजनवत् । ये शास्त्रविधिमुत्सृज्य [गीता १७.१] इत्य्आदाव् एवोक्तमन्यादृशत्वमिति । अस्याः श्रद्धायाः पूर्णतावस्था तु ब्रह्मवैवर्ते किं सत्यमनृतं चेति विचारः सम्प्रवर्तते । विचारेऽपि कृते राजन्नसत्यपरिवर्जनम् । सिद्धं भवति पूर्णा स्यात्तदा श्रद्धा महाफला ॥ तदेवंलक्सणेषु श्रद्धोत्पत्तिलक्षणेषु सत्सु विधीयते । मत्कथा श्रवणादौ वा [भागवतम् ११.२०.९] इत्यादि च । अतएवानधिकार्य्अधिकारिविषयत्व विवक्षयैव श्रीभगवन्नारदयोर्वाक्ये व्यवतिष्ठते न बुद्धिभेदं जनयेदज्ञानां कर्मसङ्गिनाम् । जोषयेत्सर्वकर्माणि विद्वान् युक्तः समाचरन् ॥ [गीता ३.२६] इत्यादि । जुगुप्सितं धर्मकृतेऽनुशासतः स्वभावरक्तस्य महान् व्यतिक्रमः । यद्वाक्यतो धर्म इतीतरः स्थितो न मन्यते तस्य निवारणं जनः ॥ [भागवतम् १.५.१५] इति च । एवमजितवाक्यं च तद्अधिकारिविषयमेव स्वयं निःश्रेयसं विद्वान्न वक्त्यज्ञाय कर्म हि । न राति रोगिणोऽपथ्यं वाञ्छतोऽपि भिषक्तमः ॥ इति । अत्र यद्यप्यधिकारितायां श्रद्धैव हेतुः सा चाज्ञस्य न सम्भवतीति नैतत्तद्विषयं स्यात् । तथापि कथमपि प्राचीनसंस्कारवितर्केण तद् अधिकारित्वनिर्णयान्न दोष इति ज्ञेयम् । अन्यथोपदेष्टुरेव दोषापातः स्यात् । अश्रद्दधाने विमुखेऽप्यशृण्वति यश्चोपदेशः इति वक्ष्यमाणापराधश्रवणात् । अथ प्रकृतमनुसरामः । तदेवं योगत्रयं तद्अधिकारहेतुश्चोक्त्वा कर्मणोऽपि यथा भगवत्सम्मुख्यरूपत्वं स्यात्तथाह स्वधर्मस्थो यजन् यज्ञैरनाशीःकाम उद्धव । न याति स्वर्गनरकौ यद्यन्यन्न समाचरेत् ॥ अस्मिŸ लोके वर्तमानः स्वधर्मस्थोऽनघः शुचिः । ज्ञानं विशुद्धमाप्नोति मद्भक्तिं वा यदृच्छया ॥ [भागवतम् ११.२०.१२१३] अनाशीः कामोऽफलकामः । अन्यन्निषिद्ध्॰॰ । नरकयानं हि द्विधैव भवति विहितान्तिक्रमान्निषिद्धाचरणाद्वा । अतः स्वधर्मस्थत्वान् निषिद्धवर्जनाच्च नरकं न याति । अफलकामत्वान्न स्वर्गमपीत्य् अर्थः । किन्त्वस्मिन् लोके अस्मिन्नेव देहे अनघो निषिद्धपरित्यागी । अतः शुचिर्निवृत्तरागादिमलः । यदृच्छयेति केवलज्ञानादपि भक्ते दुर्लभतां द्योतयतीत्येषा ।(पगे ८६) अत्राफलकामत्वं केवलेश्वराज्ञाबुद्ध्या कुर्वाणत्वम् । अत्र ज्ञानिसङ्गे सति तन्मात्रत्वमेव भगवद्अर्पणं भवेत् । भक्तसङ्गे तु सतोषमयत्वमतो यदृच्छयेति पूर्ववद्भक्तसङ्गतत्कृपालक्षणं भाग्यं बोधितम् । यदुक्तमेतावानेव यजताम् [भागवतम् २.३.११] इत्यादि । तद् एवं कर्मार्पणकेवलज्ञानकेवलभक्तयोऽधिकारिभेदेन व्यवस्थापिताः । अतः स्वाधिकारानुसारेणैव स्थातव्यमित्याह स्वे स्वेऽधिकारे या निष्ठा स गुणः परिकीर्तितः [भागवतम् ११.२१.२] स्पष्टम् । ॥ ११.२१ ॥ श्रीभगवान् ॥ १७५ ॥ [१७६] तत्र साम्मुख्यद्वारभूतस्य कर्मणः साक्षात्साम्मुख्यरूपज्ञान भक्त्य्उदयपर्यन्तत्वात्स्वयमेव ताभ्यां न्यक्कारः । तत्र साक्षात् साम्मुख्ये च निर्विशेषसाम्मुख्यं ज्ञानम् । सविशेषस्यापि तत्त्वस्य भगवत्त्वं परमात्मत्वं चेति मुख्यमाविर्भावद्वयमिति । सविशेष साम्मुख्यरूपाया भक्तेस्तु मुख्यं भेदद्वयं च भगवन् निष्ठत्वं परमात्मनिष्ठत्वं च । तदेतत्त्रयं तत्र श्रीगीतासूक्तम् । तत्र अक्षरं ब्रह्म परमम् [गीता ८.३] इत्यक्षरशब्देन पूर्वोक्तं ब्रह्म । तत्साम्मुख्यरूपं ज्ञानात्मकमुपासनं चोत्तरोक्तं यथा यदक्षरं वेदविदो वदन्ति [गीता ८.११] इत्यादि । यथा परमात्मानमपि पुरुषश्चाधिदैवतम् [गीता ८.४] इति, अधियज्ञोऽहमेवात्र देहे देहभृतां वर [गीता ८.४] इति च, विराड्व्यष्टिरूपाधिष्ठानद्वयभेदेन भिन्न प्रायमुक्त्वा भक्तिरीतिद्वयी तयोरेकप्राया दर्शिता । अभ्यासयोग युक्तेन [गीता ८.८] इत्य्आदिनैका । कविपुराणमनुशासितारम् [गीता ८.९] इत्य् आदिनान्या । तथा मत्शब्दोक्तश्रीकृष्णाख्यस्य भगवद्भक्तिप्रकाशश् चायम् अनन्यचेताः सततं यो मां स्मरति नित्यशः । तस्याहं सुलभः पार्थ नित्ययुक्तस्य योगिनः ॥ [गीता ८.१४] तदेतत्साम्मुख्यत्रयं श्रीकपिलदेवेनाप्युक्तम् । ज्ञानमात्रं परं ब्रह्म परमात्मेश्वरः पुमान् । दृश्य्आदिभिः पृथग्भावैर्भगवानेक ईयते ॥ [भागवतम् ३.३२.२६] इति । दृशिर्ज्ञानं पृथक्परम्परमन्यादृशो भावो भावना । येष्यु तथाविधैर्ज्ञानादिभिरेक एव परिपूर्णस्वरूपगुणः परं ब्रह्मेयते परमात्मेयते भगवांश्चेयते । तत्र ज्ञानेन परब्रह्मतया ज्ञायते । भक्तिविशेषेण परमात्मतया पूर्णया भक्त्या भगवत्तयेति ज्ञेयम् । परब्रह्मणः स्वरूपलक्षणं ज्ञानमात्रमिति परमात्मन ईश्वरः पुमानिति । भगवतो भगवानित्येव । विवृतं चैतत्साम्मुख्यत्रयं भगवत्परमात्मसन्दर्भयोः । ब्रह्मणः तथापि भूमन् [भागवतम् १०.१४.६] इत्यादिना । परमात्मनः केचित्स्वदेहान्तर्हृदयावकाशे प्रादेशमात्रं पुरुषं वसन्तम् [भागवतम् २.२.८] इत्यादिना । भगवतो भक्तियोगेन मनसि [भागवतम् १.७.४] इत्यादिना च । तथा च यद्यपि साम्मुख्यत्वेनाविशिष्टं ज्ञानादित्रयमपि तद् वैमुख्यप्रतियोगि भवेत् । तथापि (पगे ८७) श्रेयःसृतिं भक्तिमुदस्य ते विभो [भागवतम् १०.१४.४] इत्यादिना भक्तिं विना केवलज्ञानस्याकिञ्चित्करत्वात् तत्रापि च तस्मान्मद्भक्तियुक्तस्य [भागवतम् ११.२०.३१] इत्यादौ भक्तेस्तन् निरपेक्षत्वात्यत्कर्मभिर्यत्तपसा [भागवतम् ११.२०.३२] इत्यादावानुसङ्गिक सर्वफलत्वाच्च ज्ञानमपि न्यक्कृतम् । ततोऽवशिष्टायां सविशेषोपासनरूपायां, भक्तौ च श्रीविष्णुरूपम् अबहुमन्यमानाः केचिन्निराकारेश्वरस्य वोपासनां यां मन्यन्ते सापि न्यक्कृतास्ति । यतो हिरण्यकशिपोरपि नित्य आत्माव्ययः शुद्धः [भागवतम् ७.२.१८] इत्यादितद्वाक्येन यदृच्छयेशः सृजतीदमव्ययः [भागवतम् ७.२.३४] इत्य्आदितद् उदाहृतेतिहासवाक्येन तत्कृतब्रह्मस्तवेन च ब्रह्मज्ञानं निराकारेश्वरज्ञानमन्याकारेश्वरज्ञानं तस्यास्तीति वर्ण्यते । श्रीविष्णौ देवतासामान्यदृष्टेर्निन्द्यते च स इति । तथान्यत्राहंग्रहोपासना च न्यक्कृता, पौण्ड्रकवासुदेवादौ यदुभिरिव शुद्धभक्तैर् उपहास्यत्वात् । सालोक्यसार्ष्टिसारूप्य [भागवतम् ३.२९.११] इत्य्आदिषु तत्फलस्य हेयतया निर्देशात् । तदुक्तं श्रीहनुमता को मूढो दासतां प्राप्य प्राभवं पदमिच्छति इति । तदेतत्सर्वमभिप्रेत्य्निष्किञ्चनां भक्तिम् एव तादृशभक्तप्रशंसाद्वारेण सर्वोर्ध्वमुपदिशति, न किञ्चित्साधवो धीरा भक्ता ह्येकान्तिनो मम । वाञ्छन्त्यपि मया दत्तं कैवल्यमपुनर्भवम् ॥ [भागवतम् ११.२०.३४] टीका च धीरा धीमन्तो यतो ममैकान्तिनो मय्येव प्रीतियुक्ताः । अतो मया दत्तमपि न गृह्णन्ति, किं पुनर्वक्तव्यं न वाञ्छन्तीत्यर्थः । अपुनर्भवमात्यन्तिककैवल्यमित्येषा । ईदृशामेकान्तिनामेव परममहिमा गारुडे ब्राह्मणानां सहस्रेभ्यः सत्रयाजी विशिष्यते । सत्रयाजिसहस्रेभ्यः सर्ववेदान्तपारगः ॥ सर्ववेदान्तवित्कोट्यां विष्णुभक्तो विशिष्यते । वैष्णवानां सहस्रेभ्यः एकान्त्येको विशिष्यते ॥ इति । यस्मादेवं सर्वानन्दातिक्रमलिङ्गेन परमानन्दस्वरूपासौ भक्तिस् तस्मात्तत्र स्वभावत एव प्रवृत्तिर्गुणः । तथाभूतामपि तन्माधुरीं स्वदोषेणानुभवितुमसमर्थानां तु केवलविधिनिषेधसम्भवगुण दोषदृष्ट्यैवप्रवृत्तिरपि पूर्वापेक्षया दोष एव । यथोक्तमेतत् पूर्वाध्याये शमो मन्निष्ठताबुद्धिः [भागवतम् ११.१९.३३] इत्यादौ, साक्षाद् भक्तेरपि विधानाविधानयोर्गुणदोषतां किं वर्णितेन बहुना [भागवतम् ३.२९.११] इत्यन्तेन ग्रन्थेन प्रतिपाद्य गुणदोषदृशिर्दोषो गुणस्तूभय वर्जितः [भागवतम् ११.१९.४३] इति । अतएव लब्धतन्माधुर्यानुभावनां तद्विधि निषेधकृतगुणदोषौ नस्त एवेत्याह न मय्येकान्तभक्तानां गुण दोषोद्भवा गुणाः [भागवतम् ११.२०.३६] । टीका च गुणदोषैर्विहितप्रतिषिद्धैरुद्भवा येषां ते गुणाः पुण्य पापादय इत्येषा । ॥ ११.२० ॥ श्रीभगवान् ॥ १७७ ॥ [१७८] इयमकिञ्चनाख्या भक्तिरेव जीवानां स्वभावत उचिता । स्वाभाविकतद् आश्रया हि जीवाः । स कारणं कारणाधिपाधिपः इति श्रुतेः । अंशत्वेऽपि बहिरङ्गवस्वीकारात्तद्आश्रयत्वं सूर्यमण्डलबहिर्आतप परमाणूनामिव । अतएव पाद्मोत्तरखण्डे प्रणवव्याख्याने (पगे ८८) अकारश्चाप्युकारश्च मकारश्च ततः परम् । वेदत्रयात्मकं प्रोक्तं प्रणवं ब्रह्मणः पदम् ॥२२॥ अकारेणोच्यते विष्णुः श्रीरुकारेण चोच्यते । मकारस्त्वनयोर्दासः पञ्चविंशः प्रकीर्तितः ॥ [ড়द्मড়् ६.२२६.२२२३] अन्ते चबहगवच्छेषरूपोऽसौ मकाराख्यः सचेतनः इति । तथा अवधारणवाच्येवमुकारः कैश्चिदुच्यते । श्रीश्च तत्पक्षपातित्वादकारेणैव चोच्यते । भास्करस्य प्रभा यद्वत्तस्य नित्यानपायिनी ॥ [ড়द्मড়् ६.२२६.२९३०] इत्य् आदि । अतएव श्रीवैष्णवानां प्रणव एव महावाक्यमिति स्थितम् । तथाष्टादशाक्षरव्याख्याने श्रीमते विष्णवे तस्मै दास्यं सर्वं करोम्यहम् । देशकालाद्य्अवस्थासु सर्वासु कमलापतेः ॥ इति स्वरूपसंसिद्धं सुखं दास्यमवाप्नुयात् । एवं विदित्वा मन्त्रार्थं तद्भक्तिं सम्यगाचरेत् ॥ दासभूतमिदं तस्य जगत्स्थावरजङ्गमम् । श्रीमन्नारायणः स्वामी जगतां प्रभुरीश्वरः ॥ [ড়द्मড়् ६.२२६.३६३८] इति । तदेतदाहुः स्वकृतपुरेष्वमीष्वबहिर्अन्तरसंवरणं तव पुरुषं वदन्त्यखिलशक्तिधृतोऽंशकृतम् । इति नृगतिं विविच्य कवयो निगमावपनं भवत उपासतेऽङ्घ्रिमभवं भुवि विश्वसिताः ॥ [भागवतम् १०.८७.२०] स्वयेन त्वा कृतेषु परेषु देहेषु वर्तमानं पुरुषं जनं तवैवांश रूपेण कृतं नित्यसिद्धं वदन्ति । तत्राखिलशक्तिधृतस्तव इत्युक्त्वा तद् अखिलशक्तिगुणान्तःपातिजीवाख्यतटस्थशक्तिविशिष्टस्यैव तवांशो न तु स्वरूपशक्तिविशिष्टस्य केवलस्वरूपस्येत्यायातम् । ततो मूलमण्डल स्थानीयत्वद्आश्रयकस्त्वदेवजीवनश्चासौ जीव इति तत्त्वं विविच्य ज्ञात्वा कवयः पण्डिताः विश्वसिताः श्रद्दधाना भवत एवाङ्घ्रिमुपासते । विश्वासे हेतुर्निगमावपनं सकलवेदबीजोज्जीवनैकाश्रयक्सेत्रं शास्त्र योनिमित्यर्थः । अतो नित्यत्वाश्रयैकजीवनानामपि तेषां त्वद् वैमुख्येन यत्संसारदुःखं भवति तदपि स्वयमेव पलायत इत्य् आहुः अभवमिति । न विद्यते भवः संसारो यत्रेति । अथवा भजनीयस्य नित्यत्वेन भक्तेरप्यनश्वरत्वं प्रतिपादयन्ति अभवं जन्मरहितम् अङ्घ्रिमिति । तस्मादकिञ्चानाख्या भक्तिरेव सर्वोर्ध्वमभिधेया ॥ ॥ १०.८७ ॥ श्रुतयः श्रीभगवन्तम् ॥ १७८ ॥ [१७९] अथ तस्या एव प्रकारान्तरेण स्थापनाय प्रकरणान्तरं यावत्तल्लक्षण प्रकरणम् । तदेवं परमदुर्लभस्वरूपं परमदुर्लभफलं चाकिञ्चनाख्यसाक्षाद्भक्तिरूपं साम्मुख्यं कथं स्यादिति वक्तुं साम्मुख्यमात्रस्य निदानमुपलक्षयति । (पगे ८९) भवापवर्गो भ्रमतो यदा भवेज् जनस्य तर्ह्यचुत सत्समागमः । सत्सङ्गमो यर्हि तदैव सद्गतौ परावरेशे त्वयि जायते मतिः ॥ [भागवतम् १०.५१.५३] यदा भ्रमतः संसरतो भवापवर्गो भवेत्सम्प्राप्तकालः स्यात्, तदा सत्सङ्गमो भवेत् । तदा भवापवर्गो भवेदिति वक्तव्ये वैपरीत्येन निर्देशस्तत्र सत्सङ्गमस्य श्रीघ्रतयावश्यकतया च हेतुताविवक्षया तथोक्तं नलकूवरमणिग्रीवौ प्रति श्रीभगवता साधूनां समचित्तानां सुतरां मत्कृतात्मनाम् । दर्शनान्नो भवेद्बन्धः पुंसोऽक्ष्णोः सवितुर्यथा ॥ [भागवतम् १०.१०.४१] इति । अतएवातिशयोक्तिनामालङ्कारस्य चतुर्थो भेदोऽयमित्यालङ्कारिकाः । तद् उक्तं तद्विवृत्तौ चतुर्थी सा कारणस्य गदितुं शीघ्रकारिताम् । या हि कार्यस्य पूर्वोक्तिः इति । तत्र हेतुर्यर्हि यदा सत्सङ्गमस्य दैवपरावरेशे त्वयि मतिर्भवति तद्वैमुख्यकरानादिसिद्धतज्ज्ञानसंसर्गाभावान्ते तत् साम्मुख्यकरं तज्ज्ञानं जायत इत्यर्थः । अतएवोक्तं श्रीविदुरेण जनस्य कृष्णाद्विमुखस्य दैवाद् अधर्मशीलस्य सुदुःखितस्य । अनुग्रहायेह चरन्ति नूनं भूतानि भव्यानि जनार्दनस्य ॥ [भागवतम् ३.५.३] इति । अत्र दैवात्प्राचीनकर्मणो हेतोस्तदावेशादधर्मशीलस्य भगवद् धर्मरहितस्येत्यर्थः । मूलपद्ये यर्हि यदेति निर्देशान्न काल विलम्बेन । तत्र चैवकारान्नान्यदा कदाचिदपीत्यर्थः । तेन तन्मतौ हेतुः सद्गतौ यत्र यत्रसन्तः सङ्गच्छन्ते तत्र तत्र गतिः स्फुरणं यस्य तस्मिंस्त्वयीति । तथा च इतिहाससमुच्चये यत्र रागादिरहिता वासुदेवपरायणाः । तत्र सन्निहितो विष्णुर्नृपतेर्नात्र संशयः ॥ इति । सतां गतावित्यत्र व्याखानेऽपि असतां त्वसौ न गतिः । अतस्तद् द्वारैवान्येषां तल्लाभो युक्त इति पूर्ववदेव । पिङ्गलाया अपि सत्सङ्गे विदेहानां पुरे ह्यस्मिन्नहमेकैव मूढधीः [भागवतम् ११.८.३३] इत्यत्र व्यक्तोऽस्ति । टीका च सत्सङ्गतौ सत्यामप्यहो मे मोह इत्याह विदेहानामिति इत्येषा । तदेवं यत्र नोपलभ्यते सत्सङ्गस्तत्राप्याधुनिकः प्राक्तनो वा पारम्परिको वानुमेय एव । अत्र कृतश्रीनारदादिदर्शनादेरपि देवतादेः श्रीनलकूवरादिवत्तादृशत्वप्राप्तिर्न श्रूयत इत्यत एवं विवेचनीयम् । यद्यप्यपराधसद्भावो वर्तते पुरुषे तदा तद्दोषेण सत्सु निरादराणां साधारणपुण्यादिदृष्टीनां च तद्दोषशान्त्य्अर्थं सत्सङ्गस्य भगवत्साम्मुख्यकारणत्वेऽपि तत्कृपासाहाय्यमपेक्षते । निरपराधत्वे सति तत्सङ्गेनैव जातपरमोत्तमदृष्टीनां तेषु मनोऽवधानाभावेऽपि सत्सङ्गमात्रं तत्कारणमिति । अतः सापराधान् एवाधिकृत्योक्तमजानजदेवैः (पगे ९०) तान् वै ह्यसद्वृत्तिभिरक्षिभिर्ये पराहृतान्तर्मनसः परेश । अथो न पश्यन्त्युरुगाय नूनं ये ते पदन्यासविलासलक्ष्याः ॥ [भागवतम् ३.५.४४] ते तव पदन्यासविलासक्षण्याः सम्बन्धिओ ये भक्ता इत्यर्थः । ते तान् नूनं प्रायो न पश्यन्ति न कृपादृष्टिविषयीकुर्वन्तीत्यर्थः । कान् ? य असद्वृत्तिभिः सापराधचेष्टैरक्षिभिरिन्द्रियैः परकृतान्तर्मनसो दूरीकृतान्तर्मुखचित्तवृत्तयो बहिर्मुखा इत्येवं व्याख्यानमत्राप्य् अनुसन्धेयम् । अत्र साधारणासद्वृत्तित्वं न गृह्यते । सर्वस्य तत्कृपायाः प्राक्तथाभूतत्वात् । जनस्य कृष्णाद्विमुखस्य दैवाद्[भागवतम् ३.५.३] इत्य् आदिकविषयं स्यादिति तस्मादपराधासद्वृत्तौ तेषां कृपा प्रवर्तत एव । कथञ्चिदपराधाभावेन तद्अप्रवृत्तावपि सङ्गमात्रेणैव तेषां सम्मतिः स्यात् । यत्र तु सापराधेऽपि स्वैरतयैव कृपां कुर्वन्ति तस्यैव तन्मतिः स्यान्नान्यस्य नलकूवरवत्साधारणदेवतावच्चेति । तथा श्री भरतस्य रहूगणे यथा चोपरिचर वसोर्वृत्तं विष्णुधर्मेस हि देव साहाय्यायैव दैत्यान् हत्वा विरज्य च भगवद्अनुध्यानाय पातालं च प्रविष्टवान् । तं च निवृत्तमपि हन्तुं लब्धच्छिद्रा दैत्याः समागत्य तत्प्रभावेणोद्यतशस्त्रा एवातिष्ठन् । ततश्च व्यर्थोद्यमाः पुनः शक्रोपदेशेन तं प्रति पाषण्डमार्गमुपदिशन्तोऽपि जातया तत्कृपया भगवद्भक्ता बभूवुः [Vइढ्ড়् ३.३४६] इति । अत उक्तं विष्णुधर्म एव अनेकजन्मसंसाररचिते पापसमुच्चये । नाक्षीणे जायते पुंसां गोविन्दाभिमुखी मतिः ॥ इति । ननु, नैतान् विहाय कृपणान् विमुमुक्ष एको नान्यं त्वदस्य शरणं भ्रमतोऽनुपश्ये ॥ [भागवतम् ७.९.४४] इत्येवं श्रीप्रह्लादस्य सर्वस्मिन्नपि संसारिणि कृपा जाता तर्हि कथं न सर्वमुक्तिः स्यात्? उच्यते, जीवानाम् अनन्तत्वान्न ते सर्वे मनसि तस्यारूढा यावन्तो दृष्ट्वा श्रुतास्तच् चेतस्यारूढास्तावतां तत्प्रसादाद्भविष्यत्येव मोक्षः । नैतानित्येतच् छब्दप्रयोगात् । ये चान्ये तेषामपि तत्कीर्तनस्मरणमात्रेणैव कृतार्थतावरं स्वयमेव कृपया दत्तवान् श्रीनृसिंहदेवः य एतत्कीर्तयेन्मह्यं त्वया गीतमिदं नरः । त्वां च मां च स्मरन् काले कर्मबन्धात्प्रमुच्यते ॥ [भागवतम् ७.१०.१४] इति । यस्त्वां कीर्तयेदपि किं पुनस्त्वं यान् कृपया स्मरसीति भावः । तस्मात् साधूक्तं भवापवर्गो भ्रमतो यदा भवेदिति । ॥ १०.५१ ॥ मुचुकुन्दः श्रीभगवन्तम् ॥ १७९ ॥ [१८०] ततः सत्सङ्गस्यैव तत्र निदानत्वं सिद्धम् । तच्च युक्तमनादिसिद्ध तज्ज्ञानमयतद्वैमुख्यवताम् । अन्यथा हि तद्असम्भवः । तदुक्तम् तर्कोऽप्रतिष्ठः श्रुतयो विभिन्ना नासावृषिः यस्य मतं न भिन्नम् । धर्मस्य तत्त्वं निहितं गुहायां महाजनो येन गतः स पन्थाः ॥ [ंभ्३.३१३.११७] (पगे ९१) तथैव श्रीप्रह्लादवाक्यम् मतिर्न कृष्णे परतः स्वतो वा मिथोऽभिपद्येत गृहव्रतानाम् । [भागवतम् ७.५.३०] इत्युपक्रम्य नैषां मतिस्तावदुरुक्रमाङ्घ्रिं स्पृशत्यनर्थापगमो यद्अर्थः । महीयसां पादरजोऽभिषेकं निष्किञ्चनानां न वृणीत यावत् ॥ [भागवतम् ७.५.३२] तथा तद्विमुखकर्मादिभिस्तत्साम्मुख्यप्रतिपत्तेश्चात्यान्तायोगः । कृताकृतादन्यत्र भूताच्च भव्याच्च इति श्रुत्य्आदेः । तमेतमात्मानं वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन दानेन तपसानशकेन [Bआऊ ४.४.२] इति श्रुत्य्आदिकं तु तत्साम्मुखेनैव प्रयुक्तानि कर्माण्य् अभिदधाति । तर्हि तदेव साम्मुख्यं कथं स्यादिति पुनरपि हेतुरेव प्रष्टव्यः स्यात् । अथ भगवत्कृपैव तत्साम्मुख्ये प्राथमिकं कारणमिति च गौणम् । सा हि संसारदुरन्तानन्तसन्तापसन्तप्तेष्वपि तद्विमुखेषु स्वतन्त्रा न प्रवर्तते तद्असम्भवात् । कृपारूपश्चेतोविकारो हि परदुःखस्य स्व चेतसि पर्श सत्येव जायते । तस्य तु सदा परमानन्दैकरसत्वेनापहत कल्मषत्वेन च श्रुतौ जीवविलक्षणत्वसाधनात् । तेजोमालिनस् तिमिरायोगवत्तच्चेतस्यपि तमोमयदुःखस्पर्शनासम्भवेन । तत्र तस्या जन्मासम्भवः अतएव सर्वदा विराजमाणेऽपि कर्तुमकर्तुमन्यथा कर्तुं समर्थे तस्मिंस्तद्विमुखानां न संसारसन्तापाः सन्ति । अतः सत् कृपैकावशिष्यते । सन्तोऽपि तदानीं यद्यपि सांसारिकदुःखैर्न स्पृश्यन्त एव तथापि लब्धजागराः स्वप्नदुःखवत्ते कदाचित्स्मरेयुरपीत्यतस् तेषां संसारिकेऽपि कृपा भवति । यथा श्रीनारदस्य नलकूवर मणिग्रीवयोः । तस्मात्प्रस्तुतेऽपि संसारिकदुःखस्य तद्धेतुत्वाभावात् । परमेश्वरकृपा तु स एवात्र मम शरणमित्यादिदैन्यात्मिका भक्ति सम्बन्धेनैव जायते, यथा गजेन्द्रादौ व्यतिरेके नारक्यादौ । भक्तिर्हि भक्तकोटिप्रविष्टतद्आर्द्रीभावयितृतच्छक्तिविशेष इति विवृतं विवरिष्यते च । दैन्यसम्बन्धेन च साध्वियमुच्छलिता भवतीति तत्र तद्आधिक्यम् । तस्माद्या कृपा तस्य सत्सु वर्तते सा सत्सङ्गवाहनैव वा सत्कृपावाहनैव वा सती जीवान्तरे सङ्क्रमते न स्वतन्त्रेति स्थितम् । तथैव चाहुः स्वयं समुत्तीर्य सुदुस्तरं द्युमन् भवार्णवं भीममदभ्रसौहृदाः । भवत्पदाम्भोरुहनावमत्र ते निधाय याताः सद्अनुग्रहो भवान् ॥ [भागवतम् १०.२.३१] हे द्युमन् स्वप्रकाश भवत्पदाम्भोरुहलक्षणा या नौर्भवार्णव तरणोपायस्तामत्र भवार्णवपारे निधाय उत्तरोत्तरजनेषु प्रकाश्येत्य् अर्थः । ननु कथं तां न स्वयं प्रकाशयामि । कथमिव तेषामपेक्षा । तत्र सद्भिरेव द्वारभूतैरन्याननुगृह्णाति यः स सद्अनुग्रहो भवान् इति । यद्वा सन्त एवानुग्रहो यस्य सः । तवानुग्रहो यः प्रापञ्चिके चरति स तद्आकारतयैव चरति नान्यरूपतयेत्यर्थः । तथोक्तं श्रीरुद्रगीते (पगे ९२) अथानघाङ्घ्रेस्तव कीर्तितीर्थयोर् अन्तर्बहिःस्नानविधूतपाप्मनाम् । भूतेष्वनुक्रोशसुसत्त्वशीलिनां स्यात्सङ्गमोऽनुग्रह एष नस्तव ॥ [भागवतम् ४.२४.५८] इति । सत्स्वनुग्रहो यस्येति व्याख्यानेऽपि तद्विमुखेष्वसत्सु तवानुग्रहो नास्तीति प्राप्तेः सद्द्वारैव तत्प्रकाशनमुचितमित्येवायाति । तदेवं जायमानं हि पुरुषं यं पश्येन्मधुसूदनः । सात्त्विकस्तु स विज्ञेयो भवेन्मोक्षे च निश्चितः ॥ [ंभ्१२.३३६.६८] इति मोक्षधर्मवचनमपि सत्सङ्गानन्तरजन्मपरमेव बोद्धव्यम् । ॥ १०.२ ॥ देवाः भगवन्तम् ॥ १८० ॥ [१८१] ततः सत्सङ्गहेतुश्च सतां स्वैरचारितैव नान्यः । यथाह त एकदा निमेः सत्रमुपजग्मुर्यदृच्छया । [भागवतम् ११.२.२४] ते नवयोगेश्वरा यदृच्छया स्वैरतया न तु हेत्व्अन्तरप्रयुक्तेत्यर्थः । यदृच्छा स्वैरिता इत्यमरः । सत्सु परमेश्वरप्रयोक्तृत्वं च सद् इच्छानुसारेणैव । तदुक्तं स्वेच्छामयस्य [भागवतम् १०.१४.२] इति । अहं भक्त पराधीनः [भागवतम् ९.४.४६] इति च । ॥ ११.२ ॥ श्रीनारदः ॥ १८१ ॥ [१८२] तथा तस्यैकदा तु भवनमङ्गिरा भगवानृषिः । लोकाननुचरन्नेतानुपागच्छद्यदृच्छया ॥ [भागवतम् ६.१४.१४] तस्य चित्रकेतोः । अत्रापि तदैव तस्य साम्मुख्यं जायम् । कालान्तरे तु प्रादुर्भूतमिति मन्तव्यम् । अतएव तद्विलापसमये श्रीमताङ्गिरसैव ब्रह्मण्यो भगवद्भक्तो नावसीदितुमर्हति [भागवतम् ६.१५.१२] इत्युक्तम् । ॥ ६.१४ ॥ श्रीशुकः ॥ १८२ ॥ [१८३] सतां कृपा च दुरवस्थादर्शनमात्रोद्भवा न स्वोपासनाद्य्अपेक्षा, यथा श्रीनारदस्य नलकूवरमणिग्रीवयोः । तदाह भजन्ति ये यथा देवान् देवा अपि तथैव तान् । छायेव कर्मसचिवाः साधवो दीनवत्सलाः ॥ [भागवतम् ११.२.६] इति । स्पष्टम् ॥ ११.२ ॥ श्रीमानानकदुन्दुभिः ॥ १८३ ॥ [१८४] तदेवं सत्सङ्गमात्रस्य तत्साम्मुख्यमात्रे निदानत्वमुक्तम् । एतद् एव व्यक्तिरेकेणाह न ह्यम्मयानि तीर्थानि न देवा मृच्छिलामयाः । ते पुनन्त्युरुकालेन दर्शनादेव साधवः ॥ [भागवतम् १०.८४.११] ते कथं नाद्रियन्ते गौणत्वादित्याह ते पुनन्तीति । ॥ १०.८४ ॥ श्रीभगवान्मुनिवर्गम् ॥ १८४ ॥ [१८५] तदेवं सत्सङ्गमात्रस्य तत्साम्मुख्यमात्रे निदानत्वमुक्तम् । एतद् एव व्यतिरेकेणाह ज्ञानं विशुद्धं परमार्थमेकम् अनन्तरं त्वबहिर्ब्रह्म सत्यम् । प्रत्यक्प्रशान्तं भगवच्छब्दसंज्ञं यद्वासुदेवं कवयो वदन्ति ॥ रहूगणैतत्तपसा न याति न चेज्यया निर्वपणाद्गृहाद्वा । (पगे ९३) न च्छन्दसा नैव जलाग्निसूर्यैर् विना महत्पादरजोऽभिषेकम् ॥ [भागवतम् ५.१२.१२] तर्हि किं सत्यम् ? ज्ञानं सत्यम् । व्यावहारिकसत्यत्वं व्यावर्तयति । परमार्थम् । वृत्तिज्ञानव्यवच्छेदार्थानि षड्विशेषणानि । विशुद्धं तत् तु आविद्यकम् । एकं तत्तु नानारूपम् । अनन्तरं तु बहिर्बाह्याभ्यन्तर शून्यं तत्तु विपरीतं ब्रह्म परिपूर्णं तत्तु परिच्छिन्नम् । प्रत्यक्तत् तु विषयाकारम् । प्रशान्तं निर्विकारं, तत्तु सविकारम् । तदेवं स्वरूपं ज्ञानं सत्यमित्युक्तम् । कीदृशं तत्? ऐश्वर्यादिषड्गुणत्वेन भगवच् छब्दः संज्ञा यस्य । यच्च ज्ञानं वासुदेवं वदन्ति । तत्प्राप्तिश्च महत्सेवां विना न भवतीत्याह हे रहूगण । एतज्ज्ञानं तपसा पुरुषो न याति इज्यया वैदिककर्मणा निर्वपणादन्नादिसंविभागेन गृहाद्वा तन्निमित्तपरोपकारेण छन्दसा वेदाभ्यासेन जलाग्न्य्आदिभिरुपासितैर् इत्येषा । अत्र ब्रह्मत्वादिना जीवस्वरूपं सूक्ष्मत्वादिधर्मकं ज्ञानमपि निरस्तं वेदितव्यम् ॥ ॥ ५.१२ ॥ श्रीब्राह्मणो रहूगणम् ॥ १८५ ॥ [१८६] तदेवं सत्सङ्ग एव तत्साम्मुख्ये द्वारमित्युक्तम् । ते च सन्तस्तत् सम्मुखा एवात्र गृह्यन्ते । न तु वैदिकाचारमात्रपरा अनुपयोगित्वात् । तत्र यादृशः सत्सङ्गस्तादृशमेव साम्मुख्यं भवतीति वक्तुं तेषु सत्सु ये महान्तस्तेषां द्वैविध्यमाह सार्धेन । महान्तस्ते समचित्ताः प्रशान्ता विमन्यवः सुहृदः साधवो ये । ये वा मयीशे कृतसौहृदार्था जनेषु देहम्भरवार्तिकेषु ॥ गृहेषु जायात्मजरातिमत्सु न प्रीतियुक्ता यावद्अर्थाश्च लोके ॥ [भागवतम् ५.५.२३] ये समचित्ता निर्विशेषब्रह्मनिष्ठास्ते महान्तस्तेषां शीलमाह प्रशान्ता इत्यादि । महद्विशेषमाह ये वेति । वाशब्दः पक्षान्तरे । उत्तरपक्षत्वादस्यैव श्रेष्ठत्वं मयि कृतं सिद्धं यत्सौहृदं प्रेम तदेव अर्थः पुरुषार्थो येषां यथाभूता ये ते महान्त इति पूर्वेणान्वयः । यतो मयि सौहृदार्थास्तत एव देअम्भअरवार्तिकेषु विषयवार्तानिष्ठेषु जनेषु तथा गेहेषु जायात्मजबन्धुवर्गयुक्तेषु न प्रीतियुक्ताः, किन्तु यावद्अर्थः यावानर्थः श्रीभगवद् भजनानुरूपं प्रयोजनं तावानर्थो धनं येषां तथाभूता इत्यर्थः । उभयोर्महत्त्वं च महाज्ञानित्वान्महाभागवतत्वाच्च, न तु द्वयोः साम्याभिप्रायेण । मुक्तानामपि सिद्धानां नारायणपरायणः [भागवतम् ६.१४.५] इत्याद्य्उक्तेः । अत्र ज्ञानमार्गे ब्रह्मानुभविनो महान्तो भक्ति मार्गे लब्धभगवत्प्रेमाणो महान्त इति लक्षणसामान्यमिति ज्ञेयम् । ॥ ५.५ ॥ श्र्यृषभः स्वपुत्रान् ॥ १८६ ॥ [१८७] अत्र चैवं विवेचनीयम् । तत्तन्मार्गे सिद्धा महान्तो द्विविधा दर्शिताः । अत्र च ज्ञानसिद्धाः । देहं च नश्वरमवस्थितमुत्थितं वा सिद्धो न पश्यति यतोऽध्यगमत्स्वरूपम् [भागवतम् ११.१३.३५] इत्यादौ वर्णिताः । (पगे ९४) अत्र भक्तसिद्धास्त्रिविधाः । प्राप्तभगवत्पार्षददेहा निर्धूत कषाया मूर्च्छितकषायाश्च । यथा श्रीनारदादयः श्रीशुकादयः प्राग् जन्मगतनारदादयः । प्रयुज्यमाने मयि तां शुद्धां भागवतीं तनुम् । आरब्धकर्मनिर्वाणो न्यपतत्पाञ्चभौतिकः ॥ [भागवतम् १.६.२९] इत्यादौ । स्वसुखनिभृतचेतास्तद्व्युदस्तान्यभावोऽप्यजितरुचिरलीलाकृष्टसारः [भागवतम् १२.१२.५२] इत्यादौ । हन्तास्मिन् जन्मनि भवान् मा मां द्रष्टुमिहार्हति । अविपक्वकषायाणां दुर्दर्शोऽहं कुयोगिनाम् ॥ [भागवतम् १.६.२२] इत्यादौ च प्रसिद्धेः । श्रीनारदस्य पूर्वजन्मनि स्थितकषायस्य प्रेम वर्णितं स्वयमेव । प्रेमातिभरनिर्भिन्न पुलकाङ्गोऽतिनिर्वृतः । आनन्दसम्प्लवे लीनो नापश्यमुभयं मुने ॥ [भागवतम् १.६.१८] इत्यादौ । श्रीभरत एवात्रोदाहरणीयः । तस्य च भूतपिपालयिषारूपः प्रारब्धालम्बनः सात्त्विककषायो निगूढ आसीत्प्रेमा च वर्णित इति । तद् एवं ¨समानप्रेम्णि त्रिविधे पूर्वपूर्वाधिक्यं ज्ञेयम् । क्वचित्स्थ्तितेऽपि प्राकृतदेहादित्वे यदि प्रेम्णः परिणामतः स्वरूपतो वाधिक्यं दृश्यते तदा प्रेमाधिक्येनैवाधिक्यं ज्ञेयम् । तच्च भजनीयस्य भगवतोऽंशांशित्वभेदेन भजतश्च दास्यसख्यादिभेदेन स्वरूपाधिक्यं, प्रेमाङ्कुरप्रेमादिभेदेन परिमाणाधिक्यं च प्रीति सन्दर्भे विवृत्य दर्शयिष्यामः । साक्षात्कारमात्रस्यापि यद्यपि पुरुष प्रयोजनत्वं तथापि तस्मिन्नपि साक्षात्कारे यावान् यावान् श्रीभगवतः प्रियत्वदर्मानुभवस्तावांस्तावानुत्कर्षः । निरुपाधि प्रीत्यास्पदतास्वभावस्य प्रियत्वधर्मानुभवं विना तु साक्षात्कारोऽप्य् असाक्षात्कार एव माधुर्यं विना दुष्टजिह्वया खण्डस्येव । अतएवोक्तं श्र्यृषभदेवेन प्रीतिर्न यावन्मयि वासुदेवे; न मुच्यते देहयोगेन तावत् । [भागवतम् ५.५.६] इति । ततः प्रेमतारतम्येनैव भक्तमहत्त्वतारतम्यं मुख्यम् । अतएव मयीशे कृतसौहृदार्थाः [भागवतम् ५.५.३] इत्येव तल्लक्षणत्वेनोक्तम् । यत्र तु प्रेमाधिक्यं साक्षात्कारः कषायादिराहित्यादिकमप्यस्ति स परमो मुख्यः । तत्रैकैकाङ्गवैकल्ये न्यून इति ज्ञेयम् । तदेवं ये वा मयीशे [भागवतम् ५.५.३] इत्यादिना ये उक्तास्ते तु प्राप्तपार्षददेहा न भवन्ति, तथा विषयवैराग्येऽपि गूढसंस्कारवन्तोऽपि सम्भवन्ति । अतस्तद्विवेचनाय प्रकरणान्तरमुत्थाप्यते । यथा राजोवाच अथ भागवतं ब्रूत यद्धर्मो यादृशो नृणाम् । यथार्चरति यद्ब्रूते यैर्लिङ्गैर्भगवत्प्रियः ॥ [भागवतम् ११.२.४४] अथानन्तरं भागवतं ब्रूत तज्ज्ञानार्थम् । स च ब्रूणां मध्ये यद् धर्मो यत्स्वभावस्तं स्वभावं ब्रूत । यथा च स आचरति अनुतिष्ठति तद्अनुष्ठानं ब्रूत । यद्ब्रूते तद्वचनं च ब्रूतेति मानसकायिक वाचिकलिङ्गपृच्छा । [१८८] ननु पूर्वं शृण्वन् सुभद्राणि रथाङ्गपाणेः [भागवतम् ११.२.३७] इत्यादिना (पगे ९५) ग्रन्थेन तत्तल्लिङ्गं श्रीकविर्नैवोक्तम् । सत्यम् । तथापि पुनस्तद्अनुवादेन तेषु लिङ्गेषु यैर्लिङ्गैर्भगवत्प्रियो यादृश उत्तम मध्यमतादिभेदविविक्तो भवति तानि लिङ्गानि विविच्य ब्रूतेत्यर्थः । तत्रोत्तरं श्रीहरिरुवाच सर्वभूतेषु यः पश्येद्भगवद्भावमात्मनः । भूतानि भगवत्यात्मन्येष भागवतोत्तमः ॥ [भागवतम् ११.२.४५] तत्र तत्तद्अनुभवद्वारावगम्येन मानसलिङ्गेन महाभागवतं लक्षयति सर्वभूतेष्वित्यादि । एवंव्रतिः स्वप्रियनामकीर्त्या जातानुरागो द्रुतचित्त उच्चैः [भागवतम् ११.२.३८] इति श्रीकविवाक्योक्तरीत्या यश्चित्तद्रव हासरोदनाद्य्अनुभावकानुरागवशत्वात्खं वायुमग्निम् [भागवतम् ११.२.३९] इत्यादितद्उक्तप्रकारेणैव चेतनाचेतनेषु सर्वभूतेषु आत्मनो भगवद्भावमात्माभीष्टो यो भगवद्आद्य्अनुभवस्तमेवेत्यर्थः पश्येदनुभवति । अतस्तानि च भूतानि आत्मनि स्वचित्ते तथा स्फुरति यो भगवान् तस्मिन्नेव तद्आश्रितत्वेनैव अनुभवति । एष भागवतोत्तमो भवति । इदमेव श्रीव्रजदेवीभिरुक्तम् वनलतास्तरव आत्मनि विष्णुं व्यञ्जयन्त्य इव पुष्पफलाढ्याः [भागवतम् १०.३५.५] यद्वा आत्मनो यो भगवति भावः प्रेमा, तमेव चेतनाचेतनेषु भूतेषु पश्यति । शेषं पूर्ववत् । अतएव भक्तरूपाधिष्ठानबुद्धिजातभक्त्या तानि नमस्करोतीति खं वायुमित्यादौ पूर्वमुक्तमिति भावः । तथैव चोक्तं ताभिरेव नद्यस्तदा तदुपधार्य मुकुन्दगीतम् आवर्तलक्षितमनोभवभग्नवेगाः ॥ [भागवतम् १०.२१.१५] इत्यादि । श्रीपट्टमहिषीभिरपि कुररि विलपसि त्वम् [भागवतम् १०.९०.७] इत्यादि । अत्र न ब्रह्मज्ञानान्यभिधीयन्ते भागवतैस्तज्ज्ञानस्य तत्फलस्य च हेयत्वेन जीवभगवद्विभागाभावेन च भागवत्वविरोधात् । अहैतुक्य् अव्यवहिता [भागवतम् ३.२९.१०] इत्यादौ ह्यैकान्तिकभक्तिलक्षणानुसारेण सुतरामुत्तमत्वविरोधाच्च । न च निराकारेश्वरज्ञानं प्रणय रशनया धृताङ्घ्रिपद्मः [भागवतम् ११.२.५३] इत्युपसंहारगतलक्षण परमकाष्ठाविरोधादेवेति विवेचनीयम् । [१८९] अथ मानसलिङ्गविशेषणेनैव मध्यमभागवतं लक्षयति ईश्वरे तद्अधीनेषु बालिशेषु द्विषत्सु च । प्रेममैत्रीकृपोपेक्षा यः करोति स मध्यमः ॥ [भागवतम् ११.२.४६] परमेश्वरे प्रेम करोति । तस्मिन् भक्तियुक्तो भवतीत्यर्थः । तथा तद् अधीनेषु भक्तेषु च मैत्रीं बन्धुभावम् । बालिशेषु तद्भक्तिम् अजानत्सु उदासीनेषु कृपाम् । यथोक्तं श्रीप्रह्लादेन शोचे ततो विमुखचेतस इन्द्रियार्था मायासुखाय भरमुद्वहतो विमूढान् । [भागवतम् ७.९.४२] इति । आत्मनो द्विषत्सु उपेक्षाम् । तदीयद्वेषे चित्ताक्षोभेनोदासीन्यमित्यर्थः । तेष्वपि बालिशत्वेन कृपांशसद्भावात् । यथैव श्रीप्रह्लादो हिरण्यकशिपौ । भगवतो भागवतस्य वा द्विषत्सु तु सत्यपि चित्तक्षोभे तत्रानभिनिवेश इत्यर्थः । अस्य बालिशेषु कृपायाः स्फुरणं द्विषत्सूपेक्षाया एव । न तु प्राग्वत्सर्वत्र प्रेम्णा वा स्फुरणम् । ततो मध्यमत्वम् । अथोत्तमस्यापि (पगे ९६) तद्अधीनदर्शनेन तत् स्फुरणानन्दोदयो विशेषत एव । ततश्च तस्मिन्नधिकैव मत्री यद् भवति तन्न निषिध्यते किन्तु सर्वत्र तद्भावावश्यकता विधीयते । परमोत्तमेऽपि तथा दृष्टम् क्षणार्धेनापि तुलये न स्वर्गं नापुनर्भवम् । भगवत्सङ्गिसङ्गस्य मर्त्यानां किमुताशिषः ॥ [भागवतम् ४.२४.५७] अथ भागवता यूयं प्रियाः स्थ भगवान् यथा [भागवतम् ४.२५.३०] इति च रुद्र गीतात् । हरेर्गुणाक्षिप्तमतिर् भगवान् बादरायणिः । अध्यगान्महदाख्यानं नित्यं विष्णुजनप्रियः ॥ [भागवतम् १.७.११] इति सूतवाक्याच्च । एवं भोजानां कुलपांसनाः [भागवतम् १०.१.२४] इत्यादौ तत्र बादरायणि प्रभृतीनां द्वेषोऽपि दृश्यते । किन्तु मध्यमानां तत्रानाभिनिवेश एव स्फुरति । तेषां तु तत्रापि तद्विधशास्तृत्वेन निजाभीष्टदेवपरिस्फूर्तिर् न व्याहन्येत इति विशेषः । तद्दृष्ट्यैव च श्रीमद्उद्धवादीनामपि श्री दुर्योधनादौ नमस्कारः । सत्त्वं विशुद्धं वसुदेवशब्दितं यदीयते तत्र पुमानपावृतः । [भागवतम् ४.३.२१] इत्यादि श्रीशिववाक्यवत् । उक्तं च लक्ष्मणाहरणे सोऽभिवन्द्याम्बिकापुत्रम् [भागवतम् १०.६८.१७] इत्य् आदौ दुर्योधनश्चेति । यत्र पक्षे च स्वकीयभावस्यैव सर्वत्र परिस्फूर्तेः श्रीभगवद्आदिद्विषत्स्वपि सा पर्यवस्यति, तत्र च नायुक्तता, यतस्ते निजप्राणकोटिनिर्मञ्छनीयतच्चरणपङ्कज परागलेशास्तेषां दुर्व्यवहारदृष्ट्या क्षुभ्यन्ति । स्वीयभावानुसारेण त्वेवं मन्यन्ते अहो ईदृशश्चेतनो वा कः स्याद्यः पुनरस्मिन् सर्वानन्दकदम्बके निरुपाधिपरमप्रेमास्पदे सकललोकप्रसादक सद्गुणमणिभूषिते सर्वहितपर्यवसायिचर्यामृते श्रीपुरुषोत्तमे तत् प्रियजने वा प्रीतिं न कुर्वीत । तद्द्वेषकारणं तु सुतरामेवास्मद् बुद्धिपद्धतिमतीतम् । तस्माद्ब्रह्मादिस्थावरपर्यन्ता अदुष्टा दुष्टाश्च तस्मिन् बाढं रज्यन्त एवेति । तदुक्तं श्रीशुकेन गोविन्दभुजगुप्तायां द्वारवत्यां कुरूद्वह । अवात्सीन्नारदोऽभीक्ष्णंकृष्णोपासनलालसः ॥ को नु राजन्निन्द्रियवान्मुकुन्दचरणाम्बुजम् । न भजेत्सर्वतोमृत्युरुपास्यनमरोत्तमैः ॥ [भागवतम् ११.२.१२] इति । [१९०] अथ भगवद्धर्माचरणरूपेण कायिकेन किञ्चिन्मानसेन च लिङ्गेन कनिष्ठं लक्षयति अर्चायामेव हरये पूजां यः श्रद्धयेहते । न तद्भक्तेषु चान्येषु स भक्तः प्राकृतः स्मृतः ॥ [भागवतम् ११.२.४७] अर्चायां प्रतिमायामेव तद्भक्तेषु अन्येषु च सुतरां न भगवत् प्रेमाभावद्भक्तमाहात्म्यज्ञानाभावात्सर्वादरलक्षणभक्त गुणानुदयाच्च । स प्राकृतः प्रकृतिप्रारब्धोऽधुनैव प्रारब्धभक्तिर् इत्यर्थः । इयं च श्रद्धा न शास्त्रार्थावधारणजाता । यस्यात्मबुद्धिः कुणपे त्रिधातुके स्वधीः कलत्रादिषु भौम इज्यधीः । यत्तीर्थबुद्धिः सलिले न कर्हिचिज्[भागवतम् १०.८४.१३] (पगे ९७) इत्यादि शास्त्र ज्ञानात् । तस्माल्लोकपरम्पराप्राप्तैवेति पूर्ववत् । अतश्चाजातप्रेमाशास्त्रीय श्रद्धायुक्तः साधकस्तु मुख्यो कनिष्ठो ज्ञेयः । [१९१] अथ टीका पुनरष्टभिः श्लोकैरभ्यर्हितत्वादुत्तमस्यैव लक्षणान्य् आह गृहीत्वा इत्येषा । तथा हि गृहीत्वापीन्द्रियैरर्थान् यो न द्वेष्टि न हृष्यति । विष्णोर्मायामिदं पश्यन् स वै भागवतोत्तमः ॥ [भागवतम् ११.२.४८] पूर्वोक्तप्रकारेण तदाविष्टचित्तो न गृह्णाति तावद्इन्द्रियैरर्थान् गृहीत्वापीत्यपिशब्दार्थः । इदं विश्वं मायां बहिरङ्गशक्तिविलासत्वाद् धेयमित्यर्थः । अत्रापि कायिकमानसयोः साङ्कर्यम् । [१९२] अथ केवलमानसलिङ्गेनाह यावत्प्रकरणम् देहेन्द्रियप्राणमनोधियां यो जन्माप्ययक्षुद्भयतर्षकृच्छ्रैः । संसारधर्मैरविमुह्यमानः स्मृत्या हरेर्भागवतप्रधानः ॥ [भागवतम् ११.२.४९] यो हरेः स्मृत्या देहादीनां संसारधर्मैर्जन्माप्ययादिभिर् अविमुह्यमानो भवति स भागवतप्रधानः उक्तं च श्रीगीतासु येषां त्वन्तगतं पापं जनानां पुण्यकर्मणाम् । ते द्वन्द्वमोहनिर्मुक्ता भजन्ते मां दृढव्रताः ॥ [गीता ७.२८] [१९३] तथा न कामकर्मबीजानां यस्य चेतसि सम्भवः । वासुदेवैकनिलयः स वै भागवतोत्तमः ॥ [भागवतम् ११.२.५०] बीजानि वासनाः । वासुदेवमत्राश्रयः । [१९४] तथा न यस्य जन्मकर्मभ्यां न वर्णाश्रमजातिभिः । सज्जतेऽस्मिन्नहम्भावो देहे वै स हरेः प्रियः ॥ [भागवतम् ११.२.५१] जन्म सत्कुलम् । कर्म तपादि । जातयः अनुलोमजा मूर्धाभिषिक्तादयः । एताभिर्यस्यास्मिन् देह अहम्भावो न सज्जते किन्तु भगवत्सेवौपयिक साध्यदेह एव सज्जत इत्यर्थः स हरेः प्रियो भागवतोत्तम इति पूर्वेणान्वयः । प्रकरणार्थत्वाद्धरेः प्रिय इति भागवतमात्रवाचि भागवतत्वादेव । [१९५] तथा न यस्य स्वः पर इति वित्तेष्वात्मनि वा भिदा । सर्वभूतसमः शान्तः स वै भागवतोत्तमः ॥ [भागवतम् ११.२.५२] वित्तेषु ममतास्पदमात्रेषु स्वीयं परकीयमिति आत्मनि स्वः पर इति । अत्र वित्तवदात्मनि च स्वपक्षपातमात्रं निषिध्यते न व्यक्तिभेदः । तथोक्तं स्कान्दे मार्कण्डेयभगीरथसंवादे परदुःखेनात्मदुःखं मन्यन्ते ये नृपोत्तम । भगवद्धर्मनिरतास्ते नरा वैष्णवोत्तमाः ॥ [१९६] किं च त्रिभुवनविभवहेतवेऽप्यकुण्ठ स्मृतिरजितात्मसुरादिभिर्विमृग्यात् । न चलति भगवत्पदारविन्दाल् लवनिमिषार्धमपि यः स वैष्णवाग्र्यः ॥ [भागवतम् ११.२.५३] अचलेन हेतुस्त्रिभुवनेति । तत्र हेतुरजिते हरावेव आत्मा येषां तैर् ब्रह्मेशप्रभृतिभिः सुरादिभिरपि विमृग्याद्दुर्लभादित्यर्थः । (पगे ९८) [१९७] अपि च विषयाभिसन्धिना चलनं कामेनातिसन्तापे सति भवेत् । स तु भगवत्सेवानिर्वृतौ न सम्भवतीत्याह भगवत उरुविक्रमाङ्घ्रिशाखा नखमणिचन्द्रिकया निरस्ततापे । हृदि कथमुपसीदतां पुनः स प्रभवति चन्द्र इवोदितेऽर्कतापः ॥ [भागवतम् ११.२.५४] उरुविक्रमौ च तावङ्घ्री । तयोः शाखा अङ्ग लयः । चन्द्रिका तापहारिणी दीप्तिः । तापः कामादिसन्तापः । [१९८] तथा विसृजति हृदयं न यस्य साक्षाद् धरिरवशाभिहितोऽप्यघौघनाशः ॥ [भागवतम् ११.२.५५] टीका च उक्तसमस्तलक्षणसारमाह विसृजतीति । हरिरेव स्वयं साक्षाद्यस्य हृदयं न विसृजति न मुञ्चति । अवशेनाप्यभिहितमात्रोऽप्य् अघौघं नाशयति यः सः । तत्किं न विसृजति । यतः प्रणयरशनया धृतं हृदये बद्धमङ्घ्र्पद्मं यस्य स भागवतप्रधान उक्तो भवति इत्येषा । अत्र कामादीनामसम्भवे हेतुः साक्षादिति पदमुत्तरकालत्वात् साक्सात्कारस्य । तथा हरिरवशाभिहितोऽपीत्यादिना यत्तादृशप्रणयवांस् तेनानेन तु सर्वदा पर्मावेशेनैव कीर्त्यमानः सुतरामेवाघौघ नाशः स्यादित्यभिहितम् । उक्तं च एतन्निर्विद्यमानानामिच्छतामकुतो भयम् [भागवतम् २.१.११] इत्यादि । तत उभयथैव तेषामघसंस्कारोऽपि न स्थातुमिष्ट इति ध्वनितम् । अनेन वाचिकलिङ्गमपि निर्दिश्य यद्ब्रूते [भागवतम् ११.२.४२] इत्यस्योत्तरमुक्तम् । प्रकरणेऽस्मिन् गृहीत्वापि [भागवतम् ११.२.४३] इत्य् आदीनामुत्तमभागवतलक्षणपद्यानाममीषामपृथक्पृथक्च वाक्यत्वं ज्ञेयम् । तथाभूतभगवद्वशीकारवति भागवतोत्तमे तत्तल् लक्षणानामन्तर्भावात् । क्वचित्द्वित्रादिमात्रलक्षणदर्शनाच्च । तत्रापृथग्वाक्यतायामेकैकवाक्यगतेनैकैकेनैव लक्षणेन अयमेव सर्वभूतेषु इत्य्आद्य्उक्तो महाभागवतो लक्ष्यते । तत्तद्धर्म हेतुत्वेन तु विसृततीत्यादिना सर्वलक्ष्णसारोपन्यासः । या च तत्रापि स्मृत्या हरेरित्यादिना हेतुत्वेन स्मृतिरुक्ता । तस्या एव विवरणमिदम् अन्तिमवाक्यमिति समर्थनीयम् । अतएव पृथक्पृथग्भागवतोत्तम इत्य् आद्य्अनुवादोऽपि सङ्गच्छते । पृथग्वाक्यतायां यत्र साक्षाद्भगवत् सम्बन्धो न श्रूयते । तत्र भागवतपदबलेनैव प्रकरणबलेनैव वा ज्ञेयः । पूर्वोत्तरपद्यस्थस्मृत्येत्यादिपदं वा योजनीयम् । तथात्र पक्षे चापेक्षिकमेवान्यत्रअ भागवतोत्तमत्वम् । तत्रोत्तरश्रैष्ठ्य क्रमोऽयम् । अर्चायामेव इति । न यस्य जन्मकर्माभ्यामिति । न यस्य स्वः परः इति । गृहीत्वापीन्द्रियैः इति । देहेन्द्रियप्राण इति । अस्य संस्कारोऽस्ति । किन्तु तेन विमोहो न स्यादिति मूर्च्छितसंस्कारोऽयं जातनवीन प्रेमाङ्कुरः स्यात् । तथा न कामकर्मबीजानामित्यस्यैव विवरणं त्रिभुवनविभवहेतवेऽपि इति । इयमेव नैष्ठिकी (पगे ९९) भक्तिर् ध्यानाख्या धुर्वानुस्मृतिरित्युच्यते । अस्य प्रेमाङ्कुरोऽप्य् अनाच्छाद्यतया जातोऽस्ति । अन्यथा तादृशस्मरणसातत्यभावः स्यात् । अयं हि निर्धूतकषायो निरूद्ःप्रेमाङ्कुर इति लभ्यते । अत ऊर्ध्वं साक्षात् प्रेमजन्मतः ईश्वरे तद्अधीनेषु इति । अस्य मैत्र्य्आदिकं त्रयमपि भक्तिहेतुकमेवेति न कषायस्थितिरवगन्तव्या । निर्धूतकषायमहा प्रेमसूचकस्य सर्वभूतेषु इत्यस्य तु विवरणं विसृजति इति । तापादिपञ्चसंस्कारो नवेज्याकर्मकारकः । अर्थपञ्चकविद्विप्रो महाभागवतः स्मृतः ॥ [ড়द्मড়् ६.२५३.२७] इति पाद्मोत्तरखण्ड वचनम् । महत्त्वं चार्चनमार्गपराणां मध्य एव ज्ञेयमसिद्धप्रेमत्वात् । अत्र तापादिपञ्चसंस्कारादि तापः पुण्ड्रं तथा नाम [ড়द्मড়् ६.२२६.६] इत्य् आदिना तत्रैव दर्शितम् । नवेज्याकर्मकारकत्वं चानेन वचनेन दृश्यते अर्चनं मन्त्रपठनं योगो यागो हि वन्दनम् । नामसङ्कीर्तनं सेवा तच्चिह्नेरङ्कनं तथा ॥ तदीयाराधनं चेज्या नवधा भिद्यते शुभे । नवकर्मविधानेज्या विप्राणां सततं स्मृता ॥ इति । अर्थपञ्चकवित्त्वं तु श्रीभगवान् तत्परमंपदं तद्द्रव्यं तन् मन्त्रो जीवात्मा चेति पञ्चतत्त्वज्ञातृत्वम् । तच्च श्रीहायशीर्षे विवृतं सङ्क्षिप्य लिख्यते एक एवेश्वरः कृष्णः सच्चिद्आनन्दविग्रहः । पुण्डरीकविशालाक्षः कृष्णच्छुरितमूर्धजः ॥ वैकुण्ठाधिपतिर्देव्या लीलया चित्स्वरूपया । स्वर्णकान्त्या विशालाख्या स्वभावाद्गाढमाश्रितः ॥ नित्यः सर्वगतः पूर्णो व्यापकः सर्वकारणम् । वेदगुह्यो गभीरात्मा नानाशक्त्योदयो नरः ॥ इत्यादि । स्थानतत्त्वमतो वक्ष्ये प्रकृतेः परमव्ययम् । शुद्धसत्त्वमयं सूर्यचन्द्रकोटिसमप्रभम् ॥ चिन्तामणिमयं साक्षात्सच्चिद्आनन्दलक्षणम् । आधारं सर्वभूतानां सर्वप्रलयवर्जितम् ॥ इत्यादि । द्रव्यतत्त्वं शृणु ब्रह्मन् प्रवक्ष्यामि समासतः । सर्वभोगप्रदा यत्र पादपाः कल्पपादपाः ॥ भवन्ति तादृशा वल्ल्यस्तद्भवं चापि तादृशम् । गन्धरूपं स्वादुरूपं द्रव्यं पुष्पादिकं च यत् ॥ हेयांशानामभावाच्च रसरूपं भवेद्धि तत् । त्वग्बीजं चैव हेयांशं कठिनांशं च यद्भवेत् ॥ सर्व तद्भौतिकं विद्धि न ह्यभूतमयं च तत् । रसस्य योगतो ब्रह्मन् भौतिकं स्वादुवद्भवेत् ॥ तस्मात्साध्यो रसो ब्रह्मन् रसः स्याद्व्यापकः परः । रसवद्भौतिकं द्रव्यमत्र स्याद्रसरूपकम् ॥ इति । वाच्यत्वं वाचकत्वं च देवतन्मन्त्रयोरिह । अभेदेनोच्यते ब्रह्मंस्तत्त्वविद्भिर्विचारितः ॥ इत्यादि । मरुत्सागरसंयोगे तरङ्गात्कणिका यथा । जायन्ते तत्स्वरूपाश्च तद्उपाधिसमावृताः ॥ आश्लेषादुभयोस्तद्वदात्मनश्च सहस्रशः । सञ्जाताः सर्वतो ब्रह्मन्मूर्तामूर्तस्वरूपतः ॥ (पगे १००) इत्याद्यपि । किन्तु श्रीभगवद्आविर्भावादिषु स्वस्वोपासनाशास्त्रानुसारेणापरोऽपि भेदः कश्चिज्ज्ञेयः । जीवनिरूपणं चेदम् । न घटत उद्भवः [भागवतम् १०.८७.३१] इत्याद्य् अनुसारेणोपाधिसहितमेव कृतम् । निरुपाधिकं तु विष्णुशक्तिः परा प्रोक्ता क्षेत्रज्ञाख्या तथापरा । अविद्याकर्मसंज्ञान्या तृतीया शक्तिरिष्यते ॥ [Vइড়् ६.७.६१] इति विष्णुपुराणानुसारेण । तथा अपरेयमितस्त्वन्यां प्रकृतिं विद्धि मे पराम् । जीवभूतां महाबाहो ययेदं धार्यते जगत् ॥ [गीता ७.५] इति । ममैवांशो जीवलोके जीवभूतः सनातनः [गीता १५.७] इति च गीतानुसारेण । तथा यत्तटस्थं तु चिद्रूपं स्वसंवेद्याद्विनिर्गतम् । रञ्जितं गुणरागेण स जीव इति कथ्यते ॥ इति श्रीनारदपञ्चरात्रानुसारेण ज्ञेयम् ॥ ॥ ११.२ ॥ हरियोगेश्वरो निमिम् ॥ १८७१९८ ॥ [१९९] तदेवमुपदिष्टा भागवतसत्सु मूर्च्छितकषायादया महद्भेदां भागवतसन्मात्रभेदाश्च तत्सन्मात्रभेदेषु अर्चायामेव हरये [भागवतम् ११.२.४५] इत्यादिना तत्तद्गुणाविर्भावतारतम्याल्लब्धतारतम्याः कतिचिद्दर्शिताः । अथ साधनतारतम्येनापि तेषां तारतम्यमाह पञ्चभिः । तत्रावरं मिश्रभक्तिसाधकमाह त्रिभिः कृपालुरकृतद्रोहस्तितिक्षुः सर्वदेहिनाम् । सत्यसारोऽनवद्यात्मा समः सर्वोपकारकः ॥ कामैरहतधीर्दान्तो मृदुः शुचिरकिञ्चनः । अनीहो मितभुक्शान्तः स्थिरो मच्छरणो मुनिः ॥ अप्रमत्तो गभीरात्मा धृतिमाञ्जितषड्गुणः । अमानी मानदः कल्यो मैत्रः कारुणिकः कविः ॥ [भागवतम् ११.११.२९३१] टीका च कृपालुः परदुःखासहिष्णुः । सर्वदेहिनां केषाञ्चिदप्यकृत द्रोहः । तितिक्षुः क्षमावान् । सत्यं सारं स्थिरं बलं वा यस्य सः । अनवद्यात्मा असूयादिरहितः । सुखदुःखयोः समः । यथाशक्ति सर्वेषामप्यकारकः । कामैरक्षुभितचित्तः । दान्तः संयत बाह्येन्द्रियः । मृदुरकठिनचित्तः । अकिञ्चनः अपरिग्रहः । अनीहो दृष्ट क्रियाशून्यः । मितभुक्लघ्व्आहारः । शान्तो नियतान्तःकरणः स्थिरः स्वधर्मे । मच्छरणो मद्एकाश्रयः । मुनिर्मननशीलः । अप्रमत्तः सावधानः । गभीरात्मा निर्विकारः । धृतिमान् विपद्यप्यकृपणः । जित षड्गुणः शोकमोहौ जरामृत्यू क्ष्त्पिपासे षड्ऊर्मय एते जिता येन सः । अमानी न मानाकाङ्क्षी । अन्येभ्यो मानदः । कल्यः परबोधने दक्षः मैत्रः अवञ्चकः । कारुणिकः करुणयैव प्रवर्तमानो न तु दृष्ट लोभेन । कविः सम्यक्ज्ञानी इत्येषा । अत्र मच्छरण इति विशेष्यम् । उत्तरत्र स च सत्तम (पगे १०१) इति चकारेण तु पूर्वोक्तो यथा सत्तमः तथायमपि सत्तम इति व्यक्तिरेवमेवम्भूतो मच्छरणः सत्तम इत्याक्षिप्यते । [२००] मध्यमममिश्रसाक्षाद्भक्तिसाधकमाह आज्ञायैवं गुणान् दोषान्मयादिष्टानपि स्वकान् । धर्मान् सन्त्यज्य यः सर्वान्मां भजेत स तु सत्तमः ॥ [भागवतम् ११.११.३२] टीका च मया वेदरूपेणादिष्टानपि स्वधर्मान् सन्त्यज्य यो मां भजत्सोऽप्येवं पूर्वोक्तवत्सत्तमः । किमज्ञानाद्नास्तिक्याद्वा ? न । धर्माचरणे सत्त्वशुद्ध्य्आदीन् गुणान् विपक्षे सन्त्यज्य । यद्वा भक्ति दार्ढ्येन निवृत्ताधिकारतया सन्त्यज्य इत्येषा । यथा हायशीर्ष पञ्चरात्रोक्तनारायणव्यूहस्तवे ये त्यक्तलोकधर्मार्था विष्णुभक्तिवशं गताः । ध्यायन्ति परमात्मानं तेभ्योऽपीह नमो नमः ॥ इति । अत्र त्वेवं व्याख्या यदि च स्वात्मनि तत्तद्गुणयोगाभावस्तथाप्य् एवं पूर्वोक्तप्रकारेण गुणान् कृपालत्वादीन् दोषांस्तद्विपरीतांश् चाज्ञाय हेयोपादेयत्वेन निशिच्त्यापि यो मया तेषु गुणेषु मध्ये तत्रादिष्टानपि स्वकान्नित्यनैमित्तिकलक्षणान् सर्वानेव वर्णाश्रम विहितान् धर्मान् तद्उपलक्षणं ज्ञानमपि मद्अनन्यभक्ति विघातकतया सन्त्यज्य मां भजेत्स च सत्तमः । चकारात्पूर्वोक्तोऽपि सत्तम इत्युत्तरस्य तत्तद्गुणाभावेऽपि पूर्वसाम्यं बोधयति । ततो यस् तु तत्तद्गुणान् लब्ध्वा धर्मज्ञानपरित्यागेन मां भजति केवलं स तु परमसत्तम एवेति व्यक्त्य्अनन्यभक्तस्य पूर्वत आधिक्यं दर्शितम् । अत्र अद्वेष्टा सर्वभूतानां [गीता १२.१२] इत्यादि श्रीगीताद्वादशाध्याय प्रकरणमप्यनुसन्धेयम् । सत्तम इत्यनेन तदवरत्रापि समत्वम् अप्यस्तीति दर्शितम् । अस्तु तावत्सदाचारस्य तद्भक्तस्य सत्त्वम् । अनन्य देवताभक्तत्वमात्रेणापि दुराचारस्यापि सत्तान्यार्यायं साधुत्वं विधीयते अपि चेत्सुदुराचारः [गीता ९.३०] इत्यादौ । अत्र साधुसङ्ग प्रस्तावे यत्तादृशं लक्षणं नोत्थापितं तत्खलु तादृशसङ्गस्य भक्त्य् उन्मुखेऽनुपयुक्तताभिप्रायेण । यथोक्तं श्रीप्रह्लादेन सङ्गेन साधुभक्तानाम् [भागवतम् ७.७.२५] इति । साधुरत्र सद्आचारः । तदेवमीश्वर बुद्ध्या विधिमार्गभक्तयोस्तारतम्यमुक्तम् । तत्रैवोत्तरस्यानन्यत्वेन श्रेष्ठत्वं दर्शितम् । तत्रैवार्चनमार्गे त्रिविधत्वं लभ्यते पाद्मोत्तरखण्डात् । तत्र महत्त्वं तापादिपञ्च संस्कारी इत्यादौ । मध्यमत्वम् तापं पुण्ड्रं तथा नाम मन्त्रो यागश्च पञ्चमः । अमी पञ्चैव संस्काराः परमैकान्तिहेतवः ॥ इत्यत्र । कनिष्ठत्वं शङ्खचक्राद्य्ऊर्ध्वपुण्ड्रधारणाद्य्आत्मलक्षणम् । तन्नमस्करणं चैव वैष्णवत्वमिहोच्यते ॥ इत्यत्र । (पगे १०२) [२०१] अथ शुद्धदास्यसख्यादिभावमात्रेण योऽनन्यः स तु सर्वोत्तम इत्य् आह ज्ञात्वाज्ञात्वाथ ये वै मां यावान् यश्चास्मि यादृशः । भजन्त्यनन्यभावेन ते मे भक्ततमा मताः ॥ [भागवतम् ११.११.३३] यावान् देशकालाद्य्अपरिच्छिनः । यश्च सर्वात्मा । यादृशः सच्चिद्आनन्द रूपः । तं मां ज्ञात्वाज्ञात्वा वा ये केवलमनन्यभावेन श्रीव्रजेन्द्र नन्दन आलम्बनो यः स्वभीप्सितो दास्यादीनामेकतरो भावस्तेनैव भजन्ति न कदाचिदन्येन इत्यर्थः । ते तु मया भक्ततमा मताः । अतएव चतुर्थे श्रीयोगेश्वरैरपि प्रार्थितम् प्रेयान्न तेऽन्योऽस्त्यमुतस्त्वयि प्रभो विश्वात्मनीक्षेन्न पृथग्य आत्मनः । अथापि भक्त्येश तयोपधावताम् अनन्यवृत्त्यानुगृहाण वत्सल ॥ [भागवतम् ४.७.३८] इति । श्रीगीतासु ज्ञानं तेऽहं सविज्ञानमिदं वक्ष्याम्यशेषतः । यज्ज्ञात्वा नेह भूयोऽन्यज्ज्ञातव्यमवशिष्यते ॥ [गीता ७.२] इत्युक्त्वाह भूमिरापोऽनलो वायुः खं मनो बुद्धिरेव च । अहंकार इतीयं मे भिन्ना प्रकृतिरष्टधा ॥ अपरेयमितस्त्वन्यां प्रकृतिं विद्धि मे पराम् । जीवभूतां महाबाहो ययेदं धार्यते जगत् ॥ एतद्योनीनि भूतानि सर्वाणीत्युपधारय । अहं कृत्स्नस्य जगतः प्रभवः प्रलयस्तथा ॥ मत्तः परतरं नान्यत्किं चिदस्ति धनंजय । मयि सर्वमिदं प्रोतं सूत्रे मणिगणा इव ॥ [गीता ७.४७] इति । प्रधानाख्यजीवाक्यनिजशक्तिद्वारा जगत्कारणत्वम् । तच् छक्तिमयत्वेन जगतस्तद्अनन्यत्वम् । स्वस्य तु तयोः परत्वं तद् आश्रयत्वं च वदन्निजज्ञानमुपदिष्टवान् । प्रसङ्गेन जीवस्वरूप ज्ञानं च । स चैवम्भूतो ज्ञानीमत्स्वरूपमन् महिमानुसन्धानकृत्त्वाद्ज्ञानिभक्तार्तभक्तादीनतिक्रम्य मत्प्रियो भवतीत्यप्यन्तेऽभिहितवान् चतुर्विधा भजन्ते मां जनाः सुकृतिनोऽर्जुन । आर्तो जिज्ञासुरर्थार्थी ज्ञानी च भरतर्षभ ॥ तेषां ज्ञानी नित्ययुक्त एकभक्तिर्विशिष्यते । प्रियो हि ज्ञानिनोऽत्यर्थमहं स च मम प्रियः ॥ उदाराः सर्व एवैते ज्ञानी त्वात्मैव मे मतम् । आस्थितः स हि युक्तात्मा मामेवानुत्तमां गतिम् ॥ [गीता ७.१६१८] इति । ततश्चायमर्थः । यस्त्वयि विश्वात्मन्यात्मनि जीवानीक्षेत्त्वच्छक्त्त्वाद् अनन्यत्वेनैव जानाति न तु पृथक्स्वतन्त्रत्वेनेक्षेत । मौत अमुष्माद् यद्यपि ते प्रेयान्नास्ति तथापि हे वत्सल हे भृत्यप्रिय भृत्येशभावेन ये भजन्ति तेषां यानन्या वृत्तिरव्यभिचारिणी निजा भक्तिस्तयैवानुगृहाण । प्रस्तुतत्वेनास्मान् ज्ञानिभक्तानिति लभ्यत इति । अथ मूलपद्ये ज्ञात्वाज्ञात्वेत्यत्र ज्ञानाज्ञानयोर्हेयोपादेयत्वं निषिद्धम् । भक्ततमा इत्यत्र पूर्ववाक्यस्थसत्पदमतिक्रम्य विशेषतो (पगे १०३) भक्तपदनिर्देशाद्भक्तेः स्वरूपाधिक्यमत्रैव विवक्षितम् । ते मे मता इत्यत्र मम तु विशिष्टा सम्मतिरत्रैवेति सूचितम् ईदृशानुक्तचरत्वात् । अतएव प्रकरणप्राप्तिमेकवचननिर्देशमप्य् अतिक्रम्य गौरवेणैव ये त इति बहुवचनं निर्दिष्टम् । ततः किमुत तद् भावसिद्धप्रेमाण इति भावः । एषां भावभजनविवृत्तिरग्रे रागानुगाकथने ज्ञेया । ॥ ११.११ ॥ श्रीभगवान् ॥ २००२०१ ॥ [२०२] एते हि वैष्णवाः सन्तो महत्त्वेन सन्मात्रत्वेन च विभिद्य निर्दिष्टाः । सन्मात्रभेदे तारतम्यं चात्र यदविविक्तं तद्भक्तिभेदनिरूपणे पुरतो विवेचनीयम् । अन्ये तु स्वगोष्ठ्य्अपेक्षया वैष्णवाः । तत्र कर्मिषु तद्अपेक्षया यथा स्कान्दे मार्कण्डेयभगीरथसंवादे धर्मार्थं जीवितं येषां सन्तानार्थं च मैथुनम् । पचनं विप्रमुख्यार्थं ज्ञेयास्ते वैष्णवा नराः ॥ इत्यादि । अत्र श्रीविष्णोराज्ञाबुद्ध्यैव तत्तत्क्रियत इति वैष्णवपदेन गम्यते । श्रीविस्णुपुराणे च न चलति निजवर्णधर्मतो यः सममतिरात्मसुहृद्विपक्षपक्षे । न हरति न हन्ति किञ्चिदुच्चैः स्थितमनसं तमवेहि विष्णुभक्तम् ॥ [Vइড়् ३.७.२०] इति । तद्अर्पणे तु सुतरामेव वैष्णवत्वम् । यथा पातालखण्डे वैशाख माहात्म्ये जीवितं यस्य धर्मार्थं धर्मो हर्य्अर्थमेव च । अहोरात्राणि पुण्यार्थं तं मन्ये वैष्णवं भुवि ॥ [ড়द्मড়् ५.९४.८] इति । तथैव शैवेषु तद्अपेक्षया यथा बृहन्नारदीये शिवे च परमेशाने विष्णौ च परमात्मनि । समबुद्ध्या प्रवर्त्तन्ते ते वै भागवतोत्तमाः ॥ [णार्ড়् १.५.७२] इति । शैवगोष्ठीषु भागवतोत्तमत्वं तत्रैव प्रसिद्धमिति तथोक्तम् । वैष्णवतन्त्रे तु तन्निन्दैव यस्तु नारायणं देवं ब्रह्मरुद्रादिदैवतैः । समत्वेनैव वीक्षेत स पाषण्डी भवेद्ध्रुवम् ॥ इति । तदेवं तेषां बहुभेदेषु सत्सु तेषामेव प्रभावतारतम्येन कृपा तारतम्येन भक्तिवासनातारतम्येन सत्सङ्गात्कालशैघ्र्यस्वरूप वैशिष्ट्याभ्यां भक्तिरुदयते । एवं ज्ञानिसङ्गाच्च ज्ञानं ज्ञेयम् । अत्र यद्यप्यकिञ्चना भक्तिरेवाभिधेयेति तत्कारणत्वेन तद्भक्तसङ्ग एवाभिधेये भक्तोऽपि स एव लक्षयितव्यस्तथापि तत्परीक्षार्थमेव तत् तद्अनुवादः क्रियते । तत्र प्रथमं तावत्तत्तत्सङ्गाज्जातेन तत्तच् छ्रद्धातत्तत्कथारुच्य्आदिना जातभगवत्साम्मुख्यस्य तत्तद् अनुषङ्गेनैव तत्तद्भजनीये भगवद्आविर्भावविशेषे तत्तद्भजन मार्गविशेषे च रुचिर्जायते । ततश्च विशेषबुभुत्सायां सत्यान्तेष्व् एकतोऽनेकतो वा श्रीगुरुत्वेनाश्रिताच्छ्रवणं क्रियते । तच् चोपक्रमोपसंहारादिभिरर्थावधारणं पुनश्चासम्भावनाविपरीत भावनाविशेषेवता स्वयं तद्विचाररूपं मननमपि क्रियते । ततो भग्वतः सर्वस्मिन्नेवाविर्भावे तथाविधोऽसौ सदा सर्वत्र विराजत इत्य् एवंरूपा श्रद्धा जायते । तत्रैकस्मिंस्त्वनया प्रथमजातया रुच्या सह निजाभीष्टदानसार्थ्याद्य्अतिशयवतानिर्धाररूपत्वेन सैव श्रद्धा समुल्लसति । तत्र यद्यप्येकत्रैवातिशयितापर्यवसानं सम्भवति न तु सर्वत्र, तथापि केषांचित्ततो विशिष्टस्याज्ञानादन्यत्रापि तथाबुद्धिरूपा श्रद्धा सम्भवत्येवं भजनमार्गविशेषश्च व्याख्यातव्यः । तदेवं सिद्धे ज्ञानविज्ञानार्थं निदिध्यासनलक्षणतत्तद्उपासनामार्ग भेदोऽनुष्ठीयत इत्येवं विचारप्रधानानां मार्गो दर्शितः । रुचिप्रधानां तु न तादृग्विचारापेक्षा जायते । किन्तु साधुसङ्गलीला कथनश्रवणरुचि (पगे १०४) श्रद्धाश्रवणाद्य्आवृत्तिरूप एवासौ मार्गो यथा शुश्रूषोः श्रद्दधानस्य [भागवतम् १.२.१६] इत्यादिना पूर्वं दर्शितः । सतां प्रसङ्गात्मम वीर्यसंविदः [भागवतम् ३.२५.२२] इत्यादौ च द्रष्टव्यः । प्रीतिलक्षणभक्तीच्छानां तु रुचिप्रधानमार्ग एव श्रेयान् । नाजातरुचीनामिव विचारप्रधानः । यथोक्तं प्रह्लादेन नैते गुणा न गुणिनो महद्आदयो ये सर्वे मनः प्रभृतयः सहदेवमर्त्याः । आद्य्अन्तवन्त उरुगाय विदन्ति हि त्वाम् एवं विमृश्य सुधियो विरमन्ति शब्दात् ॥ तत्तेऽर्हत्तम नमः स्तुतिकर्मपूजाः कर्म स्मृतिश्चरणयोः श्रवणं कथायाम् । संसेवया त्वयि विनेति षड्अङ्गया किं भक्तिं जनः परमहंसगतौ लभेत ॥ [भागवतम् ७.९.४९५०] इति । कर्म परिचर्या । कर्मस्मृतिर्लीलास्मरणम् । चरणयोरिति सर्वत्रान्वितं भक्तिव्यञ्जकम् । तदेतदुभयस्मिन्नपि तद्भजनविधिशिक्षागुरुः । प्राक्तनः श्रवण गुरुरेव भवति तथाविदस्य प्राप्तत्वात् । प्राक्तानां बहुत्वेऽपि प्रायस्तेष्व् एवान्यतरोऽभिरुचितः । पूर्वस्मादेव हेतोः श्रीमन्त्रगुरुस्त्वेक एव निषेत्स्यमानत्वाद्बहूनाम् । अथात्र प्रमाणानि । तत्र तदाविर्भावविशेषे रुचिः महापुरुषमभ्यर्चेन्मूर्त्याभिमतयात्मनः [भागवतम् ११.३.४८] इत्य् आदौ श्रीमद्आविर्होत्रादिनाभ्प्रेता । भजनविशेषरुचिश्च वैदिकस्तान्त्रिको मिश्र इति मे त्रिविधो मखः । त्रयाणामीप्सितेनैव विधिना मां समर्चयेत् ॥ [भागवतम् ११.२७.७] इत्यादौ श्रीभगवताभिप्रेता । अथ श्रवणगुरुमाह तस्माद्गुरुं प्रपद्येत जिज्ञासुः श्रेय उत्तमम् । शाब्दे परे च निष्णातं ब्रह्मण्युपशमाश्रयम् ॥ [भागवतम् ११.३.२२] शाब्दे ब्रह्मणि वेदे विचारतात्पर्येण । परे ब्रह्मणि भगवद्आदि रूपाविर्भावेऽपरोक्षानुभवेन निष्णातं तथैव निष्ठां प्राप्तम् । यथोक्तं श्रीपुरञ्जनोपाख्याद्य्उपसंहारे श्रीनारदेन स वै प्रियतमश्चात्मा यतो न भयमण्वपि । इति वेद स वै विद्वान् यो विद्वान् स गुरुर्हरिः ॥ [भागवतम् ४.२९.५१] इति । ॥ ११.३ ॥ श्रीप्रबुद्धो निमिम् ॥ २०२ ॥ [२०३] अत्र ब्रह्मवैवर्ते विशेषः वक्ता सरागो नीरागो द्विविधः परिकीर्तितः । सरागो लोलुपः कामी तदुक्तं हृन् न संस्पृशेत् ॥ उपदेशं करोत्येव न परीक्षां करोति च । अपरीक्ष्योपदिष्टं यल्लोकनाशाय तद्भवेत् ॥ किं च कुलं शीलमथाचारमविचार्य परं गुरुम् । भजेत श्रवणाद्य्अर्थी सरसं सारसागरम् ॥ सरसत्वादिकं च व्यञ्जितं तत्रैवान्यत्र । (पगे १०५) कामक्रोधादियुक्तोऽपि कृपणोऽपि विषादवान् । श्रुत्वा विकाशमायाति स वक्ता परमो गुरुः ॥ इति । एवम्भूतगुरोरभावाद्युक्तिभेदबुभुत्सया बहूनप्याश्रयन्ते केचित् । यथा न ह्येकस्माद्गुरोर्ज्ञानं सुस्थिरं स्यात्सुपुष्कलम् । ब्रह्मैतदद्वितीयं वै गीयते बहुधर्षिभिः ॥ [भागवतम् ११.९.३१] स्पष्टम् ॥ ११.९ ॥ श्रीदत्तात्रेयो यदुम् ॥ २०३ ॥ [२०४] तत्र रुचिप्रधानानां श्रवणादिकम् तत्रान्वहं कृष्णकथाः प्रगायताम् अनुग्रहेणाशृणवं मनोहराः । ताः श्रद्धया मेऽनुपदं विशृण्वतः प्रियश्रवस्यङ्ग ममाभवद्रुचिः ॥ [भागवतम् १.५.२६] इत्य्आद्य्उक्तप्रकारम् । विचारप्रधानानां श्रवणं यथा चतुःश्लोक्यादीनाम् । मननं यथा भगवान् ब्रह्म कार्त्स्न्येन [भागवतम् २.२.३४] इत्यादौ । अथ तज्जाता भगवति श्रद्धा, यथा अस्ति यज्ञपतिर्नाम केषाञ्चिदर्हसत्तमाः । इहामुत्र च लक्ष्यन्ते ज्योत्स्नावत्यः क्वचिद्भुवः ॥ मनोरुत्तानपादस्य ध्रुवस्यापि महीपतेः । प्रियव्रतस्य राजर्षेरङ्गस्यास्मत्पितुः पितुः ॥ ईदृशानामथान्येषामजस्य च भवस्य च । प्रह्लादस्य बलेश्चापि कृत्यमस्ति गदाभृता ॥ दौहित्रादीनृते मृत्योः शोच्यान् धर्मविमोहितान् । वर्गस्वर्गापवर्गाणां प्रायेणैकात्म्यहेतुना ॥ [भागवतम् ४.२१.२७३०] हे अर्हसत्तमाः यज्ञपतिर्नाम सर्वकर्मफलदातृत्वेन श्रुति प्रतिपादितः परमेश्वरः केषांचित्श्रुत्य्अर्थतत्त्वविज्ञानां मते तावद् अस्ति तथापि विप्रतिपत्तेर्न तत्सिद्धिरित्याशङ्क्य तत्र जगद् वैचित्र्यान्यथानुपपत्तिप्रमाणमप्युपोद्वलकमित्याह । इह प्रत्यक्षेणामुत्रशास्त्रेण तद्वदित्यनुमानेन च ज्योत्स्नावत्यः कान्तमत्यो भुवो भोगभूमयो देहाश्च क्वचिदेवोपलभ्यन्ते न सर्वत्रेत्ययं भावः । न तावज्जडस्य कर्मणस्तत्तत्फलदातृत्वं घञते फलमत उपपत्तेः [Vस्३.२.३८] इति न्यायात् । न चार्वाग्देवतानां स्वातन्त्र्यमन्तर्यामिश्रुतिः । न च कर्मसाम्ये फलतारतम्यं क्वचिच् च तद्असिद्धिः सम्भवति । अतः स्वतन्त्रेण परमेश्वरेण भाव्यम् । अत्र विद्वद्अनुभवोऽपि प्रमाणमित्याह मनोरिति त्रिभिः । अस्मत् पितामहस्याङ्गस्य । प्रह्लादबली तदानीं शास्त्रादेव ज्ञात्वा गणितौ । गदाभृता परमेश्वरेण कृत्यमस्ति हृदये बहिरप्याविर्भूय तेषां मुहुः कृत्यसम्पादनात्तेन यत्कृत्यं करणीयं तत्तेषामस्तीत्यर्थः । तेषामेव तेन सह कृत्यमस्ति नान्येषामित्यर्थो वा । तद्अन्यांस्तु निन्दितत्वेनाह मृत्योर्दौहित्रादीन् वेणप्रभृतीन् धर्मविमोहितान् । (पगे १०६) गदाभृच्छब्देन तन्नाम्ना प्रसिद्धात्श्रीविष्णोरन्यत्र परमेश्वरत्वं वारयति । श्रुतियुक्तिविद्वद्अनुभवेषु तं गदाभृतं विशिनष्टि । वर्गेति वर्गोऽत्र त्रिवर्गः । स्वर्गो धर्धरस्य फलम् । अपवर्गो मोक्षः । तेषामैकात्म्येनैकरूपेण सर्वान्तर्गतेन हेतुना । तत्रापि प्रायेण प्रचरेण हेतुना । तदुक्तं स्कान्दे बन्धको भवपाशेन भवपाशाच्च मोचकः । कैवल्यदः परं ब्रह्म विष्णुरेव सनातनः ॥ इति । [२०५] अथ भजनश्रद्धा यत्पादसेवाभिरुचिस्तपस्विनाम् अशेषजन्मोपचितं मलं धियः । सद्यः क्षिणोत्यन्वहमेधती सती यथा पदाङ्गुष्ठविनिःसृता सरित् ॥ विनिर्धुताशेषमनोमलः पुमान् असङ्गविज्ञानविशेषवीर्यवान् । यद्अङ्घ्रिमूले कृतकेतनः पुनर् न संसृतिं क्लेशवहां प्रपद्यते ॥ [भागवतम् ४.२१.३१३२] तपस्विनां संसारतप्तानम् । तत्पादसम्बन्धस्यैवेष महिमेति दृष्टान्तेनाह यथेति । असङ्गस्ततोऽन्यत्रानासक्तिस्तेन विज्ञानविशेषो भगवतो नानाविर्भावत्वात्तेषां मध्ये कस्याप्याविर्भावस्य साक्षात्कारस्तदेव वीर्यं विद्यते यस्य सः । यस्याङ्क्घ्रिमूले कृताश्रमः सन् । ॥ ४.२१ ॥ श्रीपृथुराजः सभ्यान् ॥ २०४२०५ ॥ [२०६] अथ श्रवणगुरुभजनशिक्षागुर्वोः प्रायिकमेकत्वमिति तथैवेत्याह तत्र भागवतान् धर्मान् शिक्षेद्गुर्व्आत्मदैवतः । अमाययानुवृत्त्या यैस्तुष्येदात्मात्मदो हरिः ॥ [भागवतम् ११.३.२२] तस्माद्गुरुं प्रपद्येत इति पूर्वोक्तेस्तत्र श्रवणगुरौ । गुरुरेवात्मा जीवनं दैवतं निजेष्टदेवततयाभिमतश्च यस्य तथाभूतः सन् । अमायया निर्दम्भयानुवृत्त्या तद्अनुगत्या शिक्षेत् । यैर्धर्मैः । आत्मा परमात्मा । भक्तेभ्यः आत्मप्रदः श्रीबलिप्रभृतिभ्य इव । अस्य शिक्षा गुरोर्बहुत्वमपि प्राग्वज्ज्ञेयम् । ॥ ११.३ ॥ श्रीप्रबुद्धो निमिम् ॥ २०६ ॥ [२०७] मन्त्रगुरुस्त्वेक एवेत्याह लब्ध्वानुग्रह आचार्यात्तेन सन्दर्शितागमः । महापुरुषमभ्यर्चेन्मूर्त्याभिमतयात्मनः ॥ [भागवतम् ११.३.४८] अनुग्रहो मन्त्रदीक्षारूपः । आगमो मन्त्रविधिशास्त्रम् । अस्यैकत्वम् एकवचनत्वेन बोध्यते । बोधः कलुषितस्तेन दौरात्म्यं प्रकटीकृतम् । गुरुर्येन परित्यक्तस्तेन त्यक्तः पुरा हरिः ॥ इति ब्रह्मवैवर्तादौ तत्त्यागनिषेधात् । तद्अपरितोषेणाप्यन्यो गुरुः क्रियते ततोऽनेकगुरुकरणे पूर्वत्याग एव सिद्धः । एतच्चापवादवचन द्वारापि श्रीनारदपञ्चरात्रे बोधितम् अवैष्णवोपदिष्टेन मन्त्रेण निरयं व्रजेत् । पुनश्च विधिना सम्यग्ग्राहयेद्वैष्णवाद्गुरोः ॥ इति ।[*Eण्ड्ण्Oट्E ॰४] ॥ ११.३ ॥ श्र्याविर्होत्रो निमिम् ॥ २०७ ॥ [२०८] तत्र श्रवणगुरुसंसर्गेणैव शास्त्रीयविज्ञानोत्पत्तिः स्यात्नान्यथेत्याह आचार्योऽरणिराद्यः स्यादन्तेवास्युत्तरारणिः । तत्सन्धानं प्रवचनं विद्यासन्धिः सुखावहः ॥ [भागवतम् ११.१०.१२] (पगे १०७) आद्योऽधरः । तत्सन्धानं तयोर्मध्यमं मन्थनकाष्ठं प्रवचनमुपदेशः । विद्या शास्त्रोक्तज्ञानं तु सन्धौ भवोऽग्निरिव । तथा च श्रुतिः आचार्यः पूर्वरूपमित्यादि । अतएव तद्विज्ञानार्थं स गुरुमेवाभिगच्छेद्[ंुण्डू १.१.१२] इति, आचार्यवान् पुरुषो वेद [Cहाऊ ६.१४.२] इति, नैषा तर्केण मतिरपनेया प्रोक्तान्येनैव सुज्ञानाय प्रेष्ठा [Kअठू १.२.९] इति । ॥ ११.१० ॥ श्रीभगवान् ॥ २०८ ॥ [२०९] शिक्षागुरोरप्यवश्यकत्वमाहुः विजितहृषीकवायुभिरदान्तमनस्तुरगं य इह यतन्ति यन्तुमतिलोलमुपायखिदः । व्यसनशतान्विताः समवहाय गुरोश्चरणं वणिज इवाज सन्त्यकृतकर्णधरा जलधौ ॥ [भागवतम् १०.८७.३३] ये गुरोश्चरणं समवहाय अतिलोलमदान्तमदमितं मन एव तुरगं विजितैरिन्द्रियैः प्राणैश्च कृत्वा यन्तुं भगवदुन्मुखीकर्तुं प्रयतन्ते ते उपायखिदः । तेषु तेषु उपायेषु खिद्यन्ते । अतो व्यसन शतान्विता भवन्ति । अतएव इह संसारे तिष्ठन्त्येव । हे अज अकृत कर्णधरा अस्वीकृतनाविका जलधा यथा तद्वत् । श्रीगुरुपददर्शित भगवद्भजनप्रकारेण भगवद्वर्त्मज्ञाने सति तत्कृपया व्यसनानभिभूतौ सत्यां शीघ्रमेव मनो निश्चलं भवतीति भावः । अतो ब्रह्मवैवर्ते गुरुभक्त्या स मिलति स्मरणात्सेव्यते बुधैः । मिलितोऽपि न लभ्येत जीवैरहमिकापरैः ॥ श्रुतिश्च यस्य देवे परा भक्तिर्यथा देवे तथा गुरुः । तस्यैते कथिता ह्यर्थाः प्रकाशन्ते महात्मनः ॥ [श्वेतू ६.२३] ॥ १०.८७ ॥ श्रुतयः ॥ २०९ ॥ [२१०] अतो मन्त्रगुरोरावश्यक्तवं सुतरामेव । तदेतत्परमार्थगुर्व् आश्रयो व्यवहारिकगुर्व्आदित्यागेनापि कर्तव्य इत्याह गुरुर्न स स्यात्स्वजनो न स स्यात् पिता न स स्याज्जननी न सा स्यात् । दैवं न तत्स्यान्न पतिश्च स स्यान् न मोचयेद्यः समुपेतमृत्युम् ॥ [भागवतम् ५.५.१८] समुपेतः सम्प्राप्तो मृत्युः संसारो येन तम् । अत उक्तं श्रीनारदेन जुगुप्सितं धर्मकृतेऽनुशासतः स्वभावरक्तस्य महान् व्यतिक्रमः । [भागवतम् १.५.१५] इत्यादि । तस्मात्तावदेव तेषां गुर्व्आदिव्यवहारो यावत्मृत्युमोचकं श्रीगुरु चरणं नाश्रियत इत्यर्थः । ॥ ५.५ ॥ श्र्यृषभदेवः स्वपुत्रान् ॥ २१० ॥ [२११] अन्यदा स्वगुरौ कर्मिभिरपि भगवद्दृष्टिः कर्तव्येत्याह आचार्यं मां विजानीयान्नावमन्येत कर्हिचित् । न मर्त्यबुद्ध्यासूयेत सर्वदेवमयो गुरुः ॥ [भागवतम् ११.१७.२७] ब्रह्मचारिधर्मान्तःपठितमिदम् । ॥ ११.१७ ॥ श्रीभगवान् ॥ २११ ॥ [२१२] अतः सुतरामेव परमार्थिभिस्तादृशे गुरावित्याह (पगे १०८) यस्य साक्षाद्भगवति ज्ञानदीपप्रदे गुरौ । मर्त्यासद्धीः श्रुतं तस्य सर्वं कुञ्जरशौचवत् ॥ एष वै भगवान् साक्षात्प्रधानपुरुषेश्वरः । योगेश्वरैर्विमृग्याङ्घ्रिर्लोको यं मन्यते नरम् ॥ [भागवतम् ७.१५.२६२७] एष श्रीकृष्णलक्षणोऽपि । ततः प्राकृतदृष्टिर्न भगवत्तत्त्वग्रहणे प्रमाणमिति भावः । ॥ ७.१५ ॥ श्रीनारदो युधिष्ठिरम् ॥ २१२ ॥ [२१३] शुद्धभक्तास्त्वेके श्रीगुरोः श्रीशिवस्य च भगवता सहाभेददृष्टिं तत्प्रियतमत्वेनैव मन्यन्ते । यथा वयं तु साक्षाद्भगवन् भवस्य प्रियस्य सख्युः क्षणसङ्गमेन । सुदुश्चिकित्स्यस्य भवस्य मृत्योर् भिषक्तमं त्वाद्य गतिं गताः स्म ॥ [भागवतम् ४.३०.३८] टीका च तव यः प्रियः सखा तस्य भवस्य । अत्यन्तमचिकित्सस्य भवस्य जन्मनो मृत्योश्च भिषक्तमं सद्वैद्यं त्वां गतिं प्राप्ता इत्येषा । श्री शिवो ह्येषां वकृणां गुरुः । ॥ ४.३० ॥ श्रीप्रचेतसः श्रीअद्अष्टभुजपुरुषम् ॥ २१३ ॥ [२१४] तदेवं रुच्य्आदिना गुर्व्आश्रयान्ते उपासनापूर्वाङ्गरूपः साम्मुख्य भेदो बहुविधो दर्शितः । अथ साक्षादुपासनालक्षणस्तद्भेदोऽपि बहुविधो दर्श्यते । अत्र साम्मुख्यं द्विविधं निर्विशेषमयं सविशेष मयं च । अत्र पूर्वं ज्ञानम् । उत्तरं तु द्विविधम् अहङ्ग्रहोपासना रूपं भक्तिरूपं च । अस्य ज्ञानस्य लक्षणं ज्ञानं चैकात्म्यदर्शनम् [भागवतम् ११.१९.२५] इति । अभेदोपासनं ज्ञानमित्यर्थः । ॥ ११.१९ ॥ श्रीभगवान् ॥ २१४ ॥ [२१५] तत्साधनप्रकारं चैवं बहुविधस्तत्र तत्रोक्तिः । स च ज्ञानम् एवोच्यते । तत्र श्रवणं श्रीपृथुसनत्कुमारसंवादादौ द्रष्टव्यम् । तद्अनुसारेण मननं च ज्ञेयम् । प्रथमतः श्रोतॄणां हि विवेकस्तावान् एव यावता जडातिरिक्तचिन्मात्रं वस्तूपस्थितं भवति । तस्मिंश्चिन् मात्रेऽपि वस्तुनि ये विशेषाः स्वरूपभूतशक्तिसिद्धा भगवत्तादिरूपा वर्तन्ते तांस्तु ते विवेक्तुं न क्षमन्ते, यथा दिवारजनीखण्डिनि ज्योतिषि ज्योतिर्मात्रत्वेऽपि ये मण्डलान्तर्बहिश्च दिव्यविमानादिपरस्परपृथग् भूतरश्मिपरमाणुरूपा विशेषास्तांश्चर्मचक्षुषो विवेक्तुं न क्षमन्ते तद्वत् । पूर्ववच्च यदि महत्कृपाविशेषणदिव्यदृष्टिता भवति तदा विशेषोपलब्धिश्च भवेत् । न चेन्निर्विशेषचिन्मात्र ब्रह्मानुभवेन तल्लीनमेव भवति । तथैव निदिध्यासनमपि तेषाम् । तद्यथा स्थिरं सुखं चासनमास्थितो यतिर् यदा जिहासुरिममङ्ग लोकम् । काले च देशे च मनो न सज्जयेत् प्राणान्नियच्छेन्मनसा जितासुः ॥ मनः स्वबुद्ध्यामलया नियम्य क्षेत्रज्ञ एतां निनयेत्तमात्मनि । आत्मानमात्मन्यवरुध्य धीरो लब्धोपशान्तिर्विरमेत कृत्यात् ॥ [भागवतम् २.२.१५१६] एतां बुद्धिं क्षेत्रज्ञे बुद्ध्यादिद्रष्टरि निलयेत्प्रविलापयेत् । तं च क्षेत्रज्ञं स्वरूपभूतया बुद्ध्या आत्मनि तद्द्रष्टृत्वादिरहिते शुद्धे जीवे, तं च शुद्धमात्मानमात्मनि ब्रह्मण्यवरुध्य तद्एकत्वेन विचिन्त्य लब्धोपशान्तिः प्राप्तनिर्वृतिः सन् कृत्याद्विरमेत्, तस्य ततः परं प्राप्याभावात् । ॥ २.२ ॥ श्रीशुकः ॥ २१५ ॥ (पगे १०९) तदेवं ज्ञानमुक्तिमिदमेव स्वाभावोऽध्यात्ममुच्यते इत्यनेन श्री गीतासूक्तम् । स्वस्य शुद्धस्यात्मनो भावो भावना आत्मन्यधिकृत्य वर्तमानत्वादध्यात्मशब्देनोच्यत इत्यर्थः । अथाहंग्रहोपासनं तच्छक्तिविशिष्ट ईश्वर एवाहमिति चिन्तनम् । अस्य फलं स्वस्मिंस्तच्छक्त्य्आद्य्आविर्भावः यथा विष्णुपुराणे नागपाशादि यन्त्रितः श्रीप्रह्लादस्तादृशमात्मानं स्मरन्नागपाशादिकम् उत्सारितवान् । अत्रान्तिमफलं च कीटपेशस्कृत्न्न्यायेन सारूप्य सार्ष्ट्यादिकं ज्ञेयम् । अथ भक्तिः । तस्यास्तटस्थलक्षणं स्वरूपलक्षणं च यथा गरुड पुराणे विष्णुभक्तिं प्रवक्ष्यामि यया सर्वमवाप्यते । यथा भक्त्या हरिस्तुष्येत तथा नान्येन केनचित् ॥ इत्युक्त्वाह भज इत्येष वै धातुः सेवायां परिकीर्तितः । तस्मात्सेवा बुधैः प्रोक्ता भक्तिः साधनभूयसी ॥ इति । यया सर्वमवाप्यते इति तटस्थलक्सणम् । अत्र च अकामः सर्वकामो वा इत्यादिसिद्धत्वादव्याप्त्य्अभावः । यथा भक्त्या इत्य्आद्य्उक्तत्वाद् अतिव्याप्त्य्अभाव । बुधैः प्रोक्तत्वादसम्भवाभावश्च । सेवाशब्देन स्वरूपलक्षणम् । सा च सेवा कायिकवाचिकमासआत्मिका त्रिविधैवानुगतिर् उच्यते । अतएव भयद्वेषादीनामहङ्ग्रहोपासनायाश्च व्यावृत्तिः । साधनभूयसी साधनेषु श्रेष्ठेत्यर्थः । तदेवं लक्षणद्वयं प्रकारान्तरेणाह ये वै भगवता प्रोक्ता उपाया ह्यात्मलब्धये । अञ्जः पुंसामविदुषां विद्धि भागवतान् हि तान् ॥ [भागवतम् ११.२.३४] अविदुषां पुंसां तन्माहात्म्यमविद्वद्भिरपि कर्तृभिः । आत्मनो ब्रह्म परमात्मा भगवानित्याविर्भावभेदवतः स्वस्य धर्मभूतस्य अञ्जः अनायासेनैव लब्धये लाभाय उपायाः साधनानि स्वयं भगवता कालेन नष्टा प्रलये वाणीयं वेदसंज्ञिता । मयादौ ब्रह्मणे प्रोक्ता धर्मो यस्यां मद्आत्मकः ॥ [भागवतम् ११.१४.३] इत्यनुसारेण प्रोक्ताः । तानुपायान् भागवतान् धर्मान् विद्धि भागवतीं भक्तिं जानीहीत्यर्थः । हि प्रसिद्धौ । तत्र साक्षाद्भक्तेरपि भागवत धर्माख्यत्वमेतावानेव लोकेऽस्मिन् [भागवतम् ११.३.२३] इत्यत्र परम धर्मत्वख्यापनाय दर्शितम् । अत्र आत्मलब्धये प्रोक्ता इति तटस्थ लक्सणम् । अन्येन तद्अलाभादव्यभिचारि । आत्मलब्धय उपाया इति स्वरूपलक्षणम् । तल्लाभोपायो हि तद्अनुगतिरेव । ॥ ११.२ ॥ श्रीकविर्निमिम् ॥ २१६ ॥ [२१७] सा भक्तिस्त्रिविधा । आरोपसिद्धा, सङ्गसिद्धा, स्वरूपसिद्धा च । तत्रारोपसिद्धा स्वतो भक्तित्वाभावेऽपि भगवद्अर्पणादिना भक्तित्वं प्राप्ता कर्मादिरूपा । सङ्गसिद्धा स्वतो भक्तित्वाभावेऽपि तत्परिकरतया संस्थापनेन तत्र भागवतान् धर्मान् शिक्षेद्गुर्व्आत्मदैवतः [भागवतम् ११.३.२४] इत्यादिप्रकरणेषु सर्वतो मनसोऽसङ्गम् [भागवतम् ७.५.१८] इत्यादिना लब्धतद्अन्तःपाता ज्ञानकर्मतद्अङ्गरूपा । स्वरूपसिद्धा चाज्ञानादिनापि तत्प्रादुर्भावे भक्तित्वाव्यभिचारिणी साक्षात्तद् अनुगत्यात्मा तदीयश्रवणकीर्तनादिरूपा । श्रवणं कीर्तनं विष्णोः (पगे ११०) इत्यादौ विष्णोः श्रवणं विष्णोः कीर्तनमिति विशिष्टस्यैव विवक्षितत्वत्तेषामपि नारोपसिद्धत्वं प्रत्युत मूढप्रोन्म्मत्तादिषु तद्अनुकर्तृष्वपि कथञ्चित्सम्बन्धेन फलप्रापकत्वात्स्वरूप सिद्धत्वं, यथा श्रीप्रह्लादस्य पूर्वजन्मनि श्रीनृसिंहचतुर्दश्य् उपवासः । यथा कुक्कुरमुखगतस्य श्येनस्य भगवन्मन्दिर परिक्रमः । एवमन्यदृष्ट्यादिना मूढादिभिः कृतस्य वन्दनस्यापि ज्ञेयम् । तदेवं त्रिविधापि सा पुनरकैतवा सकैतवा चेति द्विविधा ज्ञेया । तत्रारोपसङ्गसिद्धयोर्यस्या भक्तः सम्बन्धेन भक्तिपदप्राप्त्यां सामर्थ्यं तन्मात्रापेक्षत्वं चेदकैतवत्वं स्वीयान्यदीयफलापेक्ष परिकरत्वं चेदकैतवत्वं प्रयोजनान्तरापेक्षया कर्मज्ञान परिकरत्वं चेत्सकैतवत्वम् । स्वरूपसिद्धायाश्च यस्य भगवतः सम्बन्धेन तादृशं माहात्म्यं तन्मात्रापेक्षपरिकरत्वं चेद् अकैतवत्वं प्रयोजनान्तरापेक्षया कर्मज्ञानपरिकरत्वं चेत् सकैतवत्वम् । इयमेवाकैतवाकिञ्चनाख्यत्वेन पूर्वमुक्ता । धर्मः प्रोज्झितकैतवोऽत्र परमः [भागवतम् १.१.२] इत्यत्र चास्यास्तद्उभयविधत्वे प्रमाणं ज्ञेयम् । तथोक्तं प्रीयतेऽमलया भक्त्या हरिरन्यद् विडम्बनम् [भागवतम् ७.७.५२] इति । अथारोपसिद्धा एतद्अर्थमेव नैष्कर्म्यमप्यच्युतभाववर्जितम् [भागवतम् १.५.१२] इत्यादौ सकामनिष्कामयोर्द्वयोरपि कर्मणोर्निन्दा । भगवद्वैमुख्याविशेषात् । तत्र यादृच्छिकचेष्टाया अपि भगवद्अर्पितत्वे भगवद्धर्मत्वं भवति किमुत वैदिककर्मण इति वक्तुं तस्या अपि तद्रूपत्वमाह कायेन वाचा मनसेन्द्रियैर्वा बुद्ध्यात्मना वानुसृतस्वभावात् । करोति यद्यत्सकलं परस्मै नारायणायेति समर्पयेत्तत् ॥ [भागवतम् ११.२.३६] पूर्वं हि धर्मान् भागवतान् ब्रूत [भागवतम् ११.२.३१] इति प्रश्नानन्तरं ये वै भगवता प्रोक्ता [भागवतम् ११.२.३४] इत्यादिना मुख्यत्वेन साक्षात्तल्लब्धये उपायभूताः श्रवणकीर्तनादयो भागवता धर्मा लक्षिताः ते चात्रैव शृण्वन् सुभद्राणि रथाङ्गपाणेर्[भागवतम् ११.२.३९] इत्य्आदिना कतिचिद्दर्शिताः । उत्तराध्याये च तत्र भागवतान् धर्मान् शिक्षेद्गुर्व्आत्मदैवतः [भागवतम् ११.३.२२] इत्युपक्रमवाक्यादनन्तरमिति भागवतान् धर्मान् शिक्षयन् भक्त्या तद्उत्थया [भागवतम् ११.३.३३] इत्युपसंहारवाक्यस्य प्राग् भागवतधर्मत्वेनान्यसङ्गत्यागादिकमपि वक्ष्यते । सर्वतो मनसोऽसङ्गम् [भागवतम् ११.३.२३] इत्यादिना । तस्मात्लौकिककर्माद्य्अर्पणम् इदं यथा कथञ्चित्तद्धर्मसिद्ध्य्अर्थमेवोच्यते । अर्थश्चायं टीकायाम् आत्मना चित्तेनाहङ्कारेण वा अनुसृतो यः स्वभावस् तस्मात् । अयमर्थः न केवलं विधितः कृतमेवेति नियमः स्वभावानुसारि लौकिकमपीति । श्रीगीतासु च यत्करोषि यदश्नासि यज्जुहोषि ददासि यत् । यत्तपस्यसि कौन्तेय तत्कुरुष्व मद्अर्पणम् ॥ [गीता ९.२७] इति । इतः पूर्वं प्राणबुद्धिधर्माधिकारतः इत्यादिमन्त्रश्च तथा । अत्र स्वाभाविककर्मणोऽर्पणे दुष्कर्मणो द्विविधा गतिः । ज्ञानेच्छूनाम् अविशेषेण । भक्तीच्छूनां तु अनेन दुर्वासनदुःखदर्शनेन च स करुणामयः करुणां करोत्विति वा (पगे १११) या प्रीतिरविवेकानां विषयेष्वनपायिनी । त्वामनुस्मरतः सा मे हृदयान्नापसर्पतु ॥ [Vइড়् १.२०.१९] इति विष्णुपुराणोक्तप्रकारेण । युवतीनां यथा यूनि यूनां च युवतौ यथा । मनोऽभिरमते तद्वन्मनोऽभिरमतां त्वयि ॥ [ড়द्मড়् ६.१२८.२५८] इति पाद्मोक्तप्रकारेण च मम सुकर्मणि दुष्कर्मणि यद्रागसामान्यं तत्सर्वतोभावेन भगवद्विषयमेव भवत्विति समाध्येयम् । कामिनां तु न सर्वथैव सर्वदुष्कर्मार्पणम् । वेदोक्तमेव कुर्वाणो निःसङ्गोऽर्पितमीश्वरे [भागवतम् ११.३.४] इत्यत्र पुनर्वैदिकमेवेश्वरेऽर्पितं कुर्वाण इत्युक्तम् ॥ ॥ ११.२ ॥ श्रीकविर्निमिम् ॥ २१७ ॥ [२१८] अथ वैदिककर्मार्पणस्य प्रशंसामाहुः क्लेशभूर्य्अल्पसाराणि कर्माणि विफलानि वा । देहिनां विषयार्तानां न तथैवार्पितं त्वयि ॥ [भागवतम् ८.५.४७] विषयार्तानां कर्माणि क्वचित्क्लेशो भूरिर्येषु तथाप्यल्पं फलं येषु तथाप्यभूतानि भवन्ति, क्वचित्कृष्यादिवद्विफलानि वा भवन्ति, त्वय्य् अर्पितं कर्म तु न तथा । किन्तु क्लेशं विना यथा कथञ्चित्कृतस्य कामनयाप्यर्पणे तत्कामस्यावश्यकप्राप्तिः । सा च सर्वत उत्कृष्टा भवति । तथा तन्मात्रफलेन च पर्याप्तिर्न भवति संसारविध्वंसादि फलत्वादित्यर्थः । तदुक्तम् यानास्थाय नरो राजन्न प्रमाद्येत कर्हिचित् । धावन्निमील्य वा नेत्रे न स्खलेन्न पतेदिह ॥ [भागवतम् ११.२.३५] इति । सत्यं दिशत्यर्थितमर्थितो नॄणाम् [भागवतम् ५.१९.२८] इत्यादि च । यथैव नाभिः ऋषभदेवरूपं भगवन्तं पुत्रत्वेनापि लेभे । श्रीगीतासु च नेहाभिक्रमनाशोऽस्ति प्रत्यवायो न विद्यते । स्वल्पमप्यस्य धर्मस्य त्रायते महतो भयात् ॥ [गीता २.४०] इति । ॥ ८.५ ॥ देवाः श्रीमद्अजितम् ॥ २१८ ॥ [२१९] तदेव कर्मार्पणमुपपादयति त्रिभिः एतत्संसूचितं ब्रह्मंस्तापत्रयचिकित्सितम् । यदीश्वरे भगवति कर्म ब्रह्मणि भावितम् ॥ [भागवतम् १.५.३२] ब्रह्मन् हे श्रीवेदव्यास एतत्तापत्रयस्य चिकित्सितं चिकित्सा तैश् चातुर्मास्यवासिभिः परमहंसैः सूचितम् । किं तत्? भगवति कर्म यत् समर्पितं भवति । तत्र कर्म समर्पणमेवेत्यर्थः । कथम्भूते ? स्वयं भगवति पूर्णस्वरूपैक्श्वर्यादिमत्तया सर्वांशिन्येव केनचिद् अंशेन जीवादिनियन्तृतया ईश्वरे परमात्मशब्दवाच्ये स्वरूपभूत विशेषणेन विना केवलचिन्मात्रतया प्रतिपाद्यत्वेन ब्रह्मनि तच्छब्द वाच्ये । [२२०] ननु उत्पत्त्यैव तत्तत्सङ्कल्पेन विहितत्वात्संसारहेतोः कर्मणः कथं तापत्रयनिवर्तकत्वम् । उच्यते सामग्रीभेदेन घटत इति यथा (पगे ११२) आमयो यश्च भूतानां जायते येन सुव्रत । तदेव ह्यामयं द्रव्यं न पुनाति चिकित्सितम् ॥ [भागवतम् १.५.३३] आमयो रोगो येन घृतादिना जायते तदेव केवलमामयकारणं द्रव्यं तमामयं न निवर्तयति किन्तु चिकित्सितं द्रव्यान्तरैर्भावितं सत् निवर्तयत्येव । [२२१] एवं नृणां क्रियायोगाः सर्वे संसृतिहेतवः । त एवात्मविनाशाय कल्पन्ते कल्पिताः परे ॥ [भागवतम् १.५.३४] परे भगवति कल्पिताः कामनयाप्यर्पिताः सन्तः संसारध्वंसपर्यन्त फलत्वादात्मविनाशाय कर्मनिवृत्तये कल्पन्ते । ॥ १.५ ॥ श्रीनारदो व्यासम् ॥ २१९२२१ ॥ [२२२] किं च कर्मफलं वस्तुतो भगवद्आश्रयमेव । तत्तु दुर्बुद्धेरात्म सात्कुर्वतो युक्त्यवतुछफलप्राप्तिः संसारश्च । सुधियस्तु तत्साक्षात् कुर्वतस्तद्वैपरीत्यमित्याह गद्याभ्याम् सम्प्रचरत्सु नानायागेषु विरचिताङ्गक्रियेष्वपूर्वं यत्तत्क्रियाफलं धर्माख्यं परे ब्रह्मणि यज्ञपुरुषे सर्वदेवतालिङ्गानां मन्त्राणामर्थनियामकतया साक्षात्कर्तरि परदेवतायां भगवति वासुदेव एव भावयमान आत्मनैपुण्यमृदितकषायो हविःष्व् अध्वर्युभिर्गृह्यमाणेषु स यजमानो यज्ञभाजो देवांस्तान् पुरुषावयवेष्वभ्यध्यायत् । [भागवतम् ५.७.६] इति । टीका च सम्प्रचरत्सु प्रवर्तमानेषु विरचिता अनुष्ठिता अङ्गक्रिया येषां तेषु यदपूर्वं तद्वासुदेव एव भावयमानश्चिन्तयन् स यजमानो यज्ञभागभाजो ये देवास्तान् पुरुषस्य वासुदेवस्य आवयवेषु चक्सुर्आदिषु अभ्यध्यायत्, न तु तत्पृथक्त्वेनेत्यन्वयः । अपूर्वे पक्षद्वयं मीमांसकानाम् । तदानीमेव सूक्ष्मत्वेनोत्पन्नं फलमेवापूर्वं कालान्तरफलोत्पादिका कर्मशक्तिर्वेति । तदुक्तम् यागादेव फलं तद्धि शक्तिद्वारेण सिध्यति । सूक्ष्मशक्त्य्आत्मकं वापि फलमेवोपजायते ॥ इति । तदेतदाह क्रियाफलं धर्माख्यम् [भागवतम् ५.७.६] इति च । ननु यद्यङ्गं देवता कर्म प्रधानमिति मतं तर्हि कर्तृनिष्ठम् अपूर्वं स्यात् । तदुक्तम् कर्मभ्यः प्रागयोग्यस्य कर्मणः पुरुषस्य वा । योग्यता शास्त्रगम्या या परा सापूर्वमिष्यते ॥ इति । अथ देवता प्रधानं कर्म तु देवताराधनार्थं, तदा देवताप्रसाद् रूपत्वादपूर्वस्य देवताश्रत्वमेव युक्तं प्रोक्षणाद्य्अपूर्वस्येव व्रीह्य्आद्य्आश्रयत्वम् । कुतो वासुदेवाश्रयमपूर्वं भावयति ? उच्यते । यदि कर्तृनिष्ठमपूर्वं स्यात्तर्हि वासुदेवस्यान्तर्यामिणः प्रवर्तकत्वेन मुख्यकर्तृत्वात्तद्आश्रयमेवापूर्वं, न तु तत्प्रयोज्य यजमानाश्रयं, शास्त्रफलं प्रयोक्तरीति न्यायात् । अन्यथा ऋत्विजामप्य् अपूर्वाश्रयत्वप्रसङ्गात् । तदेवाह साक्षात्कर्तरीति । देवताश्रयत्वेऽपि वासुदेवाश्रयत्वमेवेत्याह परदेवतायामिति । परदेवतात्वे हेतुः सर्वदेवतालिङ्गानां तत्तद्देवताप्रकाशकानां मन्त्राणां येऽर्था इन्द्रादिदेवतास्तेषां नियामकतया तस्यैव प्रसादनीयत्वात्फलदातृत्वाच् च युक्तसेवाश्रयत्वमित्यर्थः । एवं भावनमेवात्मनो नैपुण्यं कौशलं तेन मृदिताः क्षीणाः कषाया रागादयो यस्य । अध्वर्युभिरिति बहुवचनं नानाकर्माभिप्रायेण इत्येषा । (पगे ११६) अत्र विष्णोरङ्गित्वेन तद्भजनं च दोष इति लभ्यते । अत्र पाद्मोत्तर खण्डे यथा उद्दिश्य देवता एव जुहोति च ददाति च । स पाषण्डीति विज्ञेयः स्वतन्त्रो वापि कर्मसु ॥ [ড়द्मড়् ६.२३५.८] इति । पाषण्डत्वमत्र वैष्णवमार्गाद्भ्रष्टत्वमित्यर्थः । श्रीगीतासु येऽप्यन्यदेवताभक्ता यजन्ते श्रद्धयान्विताः । तेऽपि मामेव कौन्तेय यजन्त्यविधिपूर्वकम् ॥ अहं हि सर्वयज्ञानां भोक्ता च प्रभुरेव च । न तु मामभिजानन्ति तत्त्वेनातश्च्यवन्ति ते ॥ [गीता ९.२३.२४] अतो वास्तवविचारे सर्व एव वेदमार्गाः श्रीभगवत्येव पर्यवस्यन्तीत्य् अभिप्रेत्योक्तं श्रीमद्अक्रूरेण सर्व एव यजन्ति त्वां सर्वदेवमयेश्वरम् । येऽप्यन्यदेवताभक्ता यद्यप्यन्यधियः प्रभो ॥ यथाद्रिप्रभवा नद्यः पर्जन्यापूरिताः प्रभो । विशन्ति सर्वतः सिन्धुं तद्वत्त्वां गतयोऽन्ततः ॥ [भागवतम् १०.४०.९१०] इति । गतयो मार्गाः । अन्ततो विचारपर्यवसानेन । अथ द्वितीयं गद्यम् एवं कर्मविशुद्ध्या विशुद्धसत्त्वस्यान्तर्हृदयाकाशशरीरे ब्रह्मणि भगवति वासुदेवे महापुरुषरूपोपलक्षणे श्रीवत्सकौस्तुभवन मालारिदरगदादिभिरुपलक्षिते निजपुरुषहृल्लिखितेनात्मनि पुरुष रूपेण विरोचमान उच्चैस्तरां भक्तिरनुदिनमेधमानरयाजायत [भागवतम् ५.७.७] इति । एवं पूर्वोक्तप्रकारेण कर्मविशुद्ध्या विशुद्धसत्त्वस्य भक्तिः स श्रद्धश्रवणकीर्तनादिलक्षणा जायतेत्यन्वयः । क्व ? भगवति वासुदेवे पूर्णस्वरूपभगाभ्यां सर्वनिवासेन च तत्तन्नाम्ना प्रसिद्धोऽन्तर्हृदये य आकाशः स एव शरीरं स्वस्यैवाविर्भाव विशेषाधिष्ठानं यस्य तस्मिनन्तर्यामिणि परमात्माख्ये ब्रह्मणि निर्विशेषाविर्भावात्तद्आख्ये च भगवतो निराकारत्वं वारयति महा पुरुषस्य यद्रूपं शास्त्रे श्रूयते तद्रूपं लक्ष्यते दृश्यते यत्र तस्मिन् । किं च श्रीवत्सादिभिरपि चिह्निते । एधमानरया वर्धमानप्रकर्षा । ॥ ५.७ ॥ श्रीशुकः ॥ २२३ ॥ [२२४] तदेतत्कर्मार्पणं द्विविधम् । भगवत्प्रीणनरूपं, तस्मिंस्तत्त्याग रूपं चेति । यथोक्तं कौर्मे प्रीणातु भगवानीशः कर्मणानेन शाश्वतः । करोति सततं बुद्ध्या ब्रह्मार्पणमिदं परम् ॥ यद्वा फलानां सन्न्यासं प्रकुर्यात्परमेश्वरे । कर्मणामेतदप्याहुर्ब्रह्मार्पणमनुत्तमम् ॥ इति । अत्र निमित्तानि च त्रीणि कामना नैष्कर्म्यं भक्तिमात्रं चेति । निष्कामस् तु केवलं न सम्भवति । यद्यद्धि कुरुते जन्तुस्तत्तत्कामस्य चेष्टितम् इत्युक्तेः । अत्र कामनानैष्कर्म्ययोः प्रायः कर्मत्यागः । प्रीणनं तु तद्आभास एव स्वार्थपरत्वात् । भक्तौ पुनः प्रीणनमेव भक्तेस्तु तद्एकजीवनत्वात् । कामनाप्राप्तिर्यथा क्लेशभूर्य्अल्पसाराणि इत्यादि । यथा चाङ्गस्य राज्ञः पुत्राथके (पगे ११४) यज्ञे । नैष्कर्म्यप्राप्तिश्च वेदोक्तमेव कुर्वाणो निःसङ्गोऽर्पितमीश्वरे । नैष्कर्म्यां लभते सिद्धिं [भागवतम् ११.३.४७] इत्यत्र । भक्तिप्राप्तिश्च एवं कर्मविशुद्धिं [भागवतम् ५.७.७] इत्य्आदिगद्ये दर्शितैव । यदत्र क्रियते कर्म भगवत्परितोषणम् । ज्ञानं यत्तदधीनं हि भक्तियोगसमन्वितम् ॥ [भागवतम् १.५.३५] इत्यत्र च । भक्तियोगसयचरअत्वाद्ज्ञानमत्र भगवज्ज्ञानम् । परमभक्तास्तु भगवत्परितोषणं प्रीणनमेव प्रार्थयन्ते यन्नः स्वधीतं गुरवः प्रसादिता विप्राश्च वृद्धाश्च सद्आनुवृत्त्या । आर्या नताः सुहृदो भ्रातरश्च सर्वाणि भूतान्यनसूययैव ॥ [भागवतम् ४.३०.३९] ते तव परितोषणाय भवत्विति वृणीमहे । ॥ ४.३० ॥ प्रचेतसः श्रीमद्अष्टभुजं पुरुषम् ॥ २२४ ॥ [२२५] तदेवमारोपसिद्धा दर्शिता । अथ सङ्गसिद्धोदाहरणप्राप्ता मिश्रा भक्तिर्दर्श्यते । स्वरूपसिद्धासङ्गेन ह्यन्येषामपि भक्तित्वं दर्शितम् । तत्र भागवतान् धर्मानित्यादिश्रीप्रबुद्धवाक्यप्रकरणे सर्वासङ्गदयामैत्रादीनामपि भागवतधर्मत्वाभिधानात् । तत्र कर्ममिश्रा त्रिविधा सम्भवति सकामा कैवल्यकामा, भक्ति मात्रकामा च । यद्यपि कामवैकल्ये अपि या वै साधनसम्पत्तिः पुर्षार्थचतुष्टये । तया विना तदाप्नोति नरो नारायणाश्रयः ॥ इत्युक्तेः केवलयैव भक्त्या सम्भवतस्तथापि तत्तद्वासनानुसारेण तत्र तत्र रुचिर्जायते इत्येवं तत्तद्अर्थं तन्मिश्रता जायत इत्य् अवगन्तव्यम् । ततः सकामा प्रायः कर्ममिश्रैव । तत्र कर्मशब्देन धर्म एव गृह्यते । तल्लक्षणं च यमदूतैः सामान्यत उक्तं वेद प्रणिहितो धर्मः [भागवतम् ६.२.३६] इति । वेदोऽत्र त्रैगुण्यविषयः त्रैगुण्य विषया वेदाः [गीता २.४५] इति श्रीगीतोक्तेः । तत्प्रवर्तनमात्रत्वेन सिद्धः न तु भक्तिवदज्ञानेनापीत्यर्थः । श्रीगीतास्वेवान्यत्र तस्य कर्म संज्ञितत्वं चोक्तं भूतभावोद्भवकरो विसर्गः कर्मसंज्ञितः [गीता ८.३] इति । विसर्गो देवतोद्देशेन द्रव्यत्यागः । तद्उपलक्षितः सर्वोऽपि धर्मः कर्मसंज्ञित इत्यर्थः । स च भूतानां प्राणिनां ये भावा वासनास्तेषामुद्भवकर इति विशेषणाद्भगवद्भक्तिर्व्यावृत्ता । अथ भक्तिसङ्गाय धर्मस्य वैशेष्ट्यं चैकादशे । श्रीभगवतोक्तं धर्मो मद्भक्तिकृत्प्रोक्तः [भागवतम् ११.१९.२५] इति । भगवद्अर्पणेन भक्ति परिकरीकृतत्वेन च भक्तिकृत्त्वमुच्यते । तदेवमीदृशेन कर्मणा मिश्रा सकामा भक्तिर्यथा (पगे ११५) प्रजाः सृजेति भगवान् कर्दमो ब्रह्मणोदितः । सरस्वत्यां तपस्तेपे सहस्राणां समा दश ॥ ततः समाधियुक्तेन क्रियायोगेन कर्दमः । सम्प्रपेदे हरिं भक्त्या प्रपन्नवरदाशुषम् ॥ [भागवतम् ३.२१.६७] अत्र तद्दर्शनजातभगवद्अश्रुपातलिङ्गेन निष्कामस्याप्यस्य । ब्रह्मादेशगौरवेणैव कामना ज्ञेया । ॥ ३.२१ ॥ श्रीमैत्रेयः ॥ २२५ ॥ [२२६] अथ कैवल्यकामा क्वचित्कर्मज्ञानमिश्रा क्वचिद्ज्ञानमिश्रा च । तत्र ज्ञानं ज्ञानं चैकात्म्यदर्शनमिति दर्शितम् । तदीयश्रवणादीनां वैराग्ययोगसाङ्ख्यानां च तद्अङ्गत्वात्तद्अन्तःपातः । अथ कर्म ज्ञानमिश्रा । यथा अनिमित्तनिमित्तेन स्वधर्मेणामलात्मना । तीव्रया मयि भक्त्या च श्रुतसम्भृतया चिरम् ॥ ज्ञानेन दृष्टतत्त्वेन वैराग्येण बलीयसा । तपोयुक्तेन योगेन तीव्रेणात्मसमाधिना ॥ प्रकृतिः पुरुषस्येह दह्यमाना त्वहर्निशम् । तिरोभवित्री शनकैरग्नेर्योनिरिवारणिः ॥ [भागवतम् ३.२७.२१२३] निमित्तं फलं न तन्निमित्तं प्रवर्तकं यस्मिन् तेन निष्कामेन । अमलात्मना निर्मलेन मनसा । ज्ञानेन शास्त्रोत्थेन । योगो जीवात्म परमात्मनो ध्यानं योगः सन्नहनोपायध्यानसङ्गतियुक्तिषु इति नानार्थवर्गात् । ध्यानमेव ध्यातृध्येयविवेकरहितं समाधिः । अत्र सर्वासामेव सिद्धीनां मूलं तच्चरणार्चनम् [भागवतम् १०.८१.१६] इत्युक्त्या भक्तेरङ्गित्वेऽपि अङ्गवन्निर्देशस्तेषां तत्र साधनान्तरसामान्य दृष्टिरित्यभिप्रायेण । अतएव तेषां मोक्षमात्रफलमिति । ॥ ३.२७ ॥ श्रीकपिलदेवः ॥ २२६ ॥ [२२७] ज्ञानमिश्रामाह विविक्तक्षेमशरणो मद्भावविमलाशयः । आत्मानं चिन्तयेदेकमभेदेन मया मुनिः ॥ [भागवतम् ११.१८.२१] भावो भावना । ॥ ११.१८ ॥ श्रीभगवान् ॥ २२७ ॥ [२२८] तदेवं कैवल्यकामायां ज्ञानमिश्रोक्ता । अथ भक्तिमात्रकामायां कर्ममिश्रा यथा श्रद्धामृतकथायां मे शश्वन्मद्अनुकीर्तनम् । परिनिष्ठा च पूजायां स्तुतिभिः स्तवनं मम ॥ [भागवतम् ११.१९.२०] इति । मद्अर्थेऽर्थपरित्यागो भोगस्य च सुखस्य च । इष्टं दत्तं हुतं जप्तं मद्अर्थं यद्व्रतं तपः ॥ एवं धर्मैर्मनुष्याणामुद्धवात्मनिवेदिनाम् । मयि सञ्जायते भक्तिः कोऽन्योऽर्थोऽस्यावशिष्यते ॥ [भागवतम् ११.१९.२३२४] (पगे ११६) इत्यन्तम् । मद्अर्थे मद्भजनार्थं तद्विरोधितोऽर्थस्य परित्यागः । भोगस्य तत् साधनस्य चन्दनादेः । सुखस्य पुत्रोपलालनादेः । इष्टादिवैदिकं यत् कर्म तदपि मद्अर्थं कृतं भक्तेः कारणमित्यर्थः । धर्मैर् भागवताभिधैः । एवं कायवाङ्मनोभिस्तद्अर्थमात्र चेष्टावत्त्वेनानुष्ठितैर्भगवद्धर्मैरात्मनिवेदिनाम् । यस्यास्ति भक्तिर्भगवत्यकिञ्चना [भागवतम् ५.१८.१२] इत्यादिन्यायेनास्य भक्तिमात्र कामस्य अन्यः कोऽर्थः साधनरूपः साध्यरूपो वावशिष्यते । सर्वोऽस्यानादृतोऽपि तद्आश्रितो भवतीत्यर्थः । ॥ ११.१९ ॥ श्रीभगवान् ॥ २२८ ॥ [२२९] कर्मज्ञानमिश्रा यथा निषेवितेनानिमित्तेन स्वधर्मेण महीयसा । क्रियायोगेन शस्तेन नातिहिंस्रेण नित्यशः ॥ मद्धिष्ण्यदर्शनस्पर्श पूजास्तुत्य्अभिवन्दनैः । भूतेषु मद्भावनया सत्त्वेनासङ्गमेन च ॥ महतां बहुमानेन दीनानामनुकम्पया । मैत्र्या चैवात्मतुल्येषु यमेन नियमेन च ॥ आध्यात्मिकानुश्रवणान्नामसङ्कीर्तनाच्च मे । आर्जवेनार्यसङ्गेन निरहङ्क्रियया तथा ॥ मद्धर्मणो गुणैरेतैः परिसंशुद्ध आशयः । पुरुषस्याञ्जसाभ्येति श्रुतमात्रगुणं हि माम् ॥ [भागवतम् ३.२९.१५१९] निषेवितेन सम्यगनुष्ठितेन अनिमित्तेन च निषामेन स्वधर्मेण । महीयसा श्रद्धादियुक्तेन । क्रियायोगेन पञ्चरात्राद्य्उक्त वैष्णवानुष्ठानेन । शस्तेन उत्तमदेशकालादिमता निष्कामेन च । नातिहिंस्रेण अतिहिंसारहितेन । अतिशब्दः प्राणादिपीडापरित्यागफल पत्रादिजीवावयवस्वीकारार्थः । मद्धिष्ण्यं मद्अर्चादि । भूतेष्व् अन्तर्यामित्वेन मद्भावनया । सत्त्वेन धैर्येण । असङ्गमेन वैराग्येण च । अहिंसास्तेयब्रह्मचर्यपरिग्रहा यमाः । शौचसन्तोषतपः स्वाध्याएश्वरप्रणिधानानि नियमाः । आध्यात्मिकमात्मानमात्म विवेकशास्त्रम् । निरहङ्क्रियया गर्वराहित्येन । मद्धर्मणः मद् धर्मानुष्ठातुः पुरुषस्याशयः । श्रुतमात्रगुणं मामञ्जसाभ्येति मद्गुणश्रुतिमात्रेण मयि [भागवतम् ३.२९.११] इत्य्आद्य्उक्तलक्षणां ध्रुवानुस्मृतिं प्राप्नोतीत्यर्थः । अत्राध्यात्मिकश्रवणादिना ज्ञान मिश्रत्वमपि । ॥ ३.२९ ॥ श्रीकपिलदेवः ॥ २२९ ॥ [२३०] अथ ज्ञानमिश्रा दृष्टश्रुताभिर्मात्राभिर्निर्मुक्तः स्वेन तेजसा । ज्ञानविज्ञानसन्तृप्तो मद्भक्तः पुरुषो भवेत् ॥ [भागवतम् ६.१६.६२] दृष्टेति ऐहिकामुष्मिकविषयैः । स्वेन तेजसा विवेकबलेन । ॥ ६.१६ ॥ श्रीसङ्कर्षणश्चित्रकेतुम् ॥ २३० ॥ [२३१] अथ केवलस्वरूपसिद्धोदाह्रियते । तत्र सकामा कैवल्यकामा चोपासक सङ्कल्पगुणैस्तत्तद्गुणत्वेनोपचर्यते । ततः सकामा द्विविधा तामसी राजसी च । पूर्वा यथा अभिसन्धाय यो हिंसां दम्भं मात्सर्यमेव वा । संरम्भी भिन्नदृग्भावं मयि कुर्यात्स तामसः ॥ [भागवतम् ३.२९.८] अभिसन्धाय सङ्कल्प्य । संरम्भी सक्रोधः । भिन्नदृक्स्वस्मिन्निव सर्वत्र यत्र सुखं दुःखं च तत्तद्देवता निरनुकम्प इत्यर्थः । [२३२] उत्तरा यथा (पगे ११७) विषयानभिसन्धाय यश ऐश्वर्यमेव वा । अर्चादावर्चयेद्यो मां पृथग्भावः स राजसः ॥ [भागवतम् ३.२९.९] पृथक्मत्तोऽन्यत्र विषयादिष्वेव भावः स्पृहा यस्य न तु मयीति राजसत्वहेतुता दर्शिता । [२३३] अथ कैवल्यकामा सात्त्विक्येव । सा यथा कर्मनिर्हारमुद्दिश्य परस्मिन् वा तद्अर्पणम् । यजेद्यष्टव्यमिति वा पृथग्भावः स सात्त्विकः ॥ [भागवतम् ३.२९.१०] [२३४] अथ यस्या एवोत्कर्षज्ञानार्थमेते भक्तिभेदा निरूपिताः सा भक्ति मात्रकामत्वान्निष्कामा निर्गुणा केवला स्वरूपसिद्धा निरूप्यते । इयम् एवाकिञ्चनाख्यत्वेन सर्वोर्ध्वं पूर्वमप्यभिहिता । तामाह मद्गुणश्रुतिमात्रेण मयि सर्वगुहाशये । मनोगतिरविच्छिन्ना यथा गङ्गाम्भसोऽम्बुधौ ॥ लक्षणं भक्तियोगस्य निर्गुणस्य ह्युदाहृतम् । अहैतुक्यव्यवहिता या भक्तिः पुरुषोत्तमे ॥ सालोक्यसार्ष्टिसामीप्य सारूप्यैकत्वमप्युत । दीयमानं न गृह्णन्ति विना मत्सेवनं जनाः ॥ स एव भक्तियोगाख्य आत्यन्तिक उदाहृतः । येनातिव्रज्य त्रिगुणं मद्भावायोपपद्यते ॥ [भागवतम् ३.२९.१११५] मद्गुणश्रुतिमात्रेण न तु तत्रोद्देशान्तरसिद्ध्य्अभिप्रायेण । प्राकृत गुणमयकरणानां सर्वेषां गुहा करणागोचरपदवी तस्यां शेते गुह्यतया निश्चलतया च तिष्ठति यस्तस्मिन्मयि अविच्छिन्ना विषयान्तरेण व्च्चेत्तुमशक्या या मनोगतिः सा । अविच्छिन्नत्वे दृष्टान्तो यथेति । गतिरिति पूर्वस्मादाकृष्यते नित्यापेक्षात्वात् । लक्षणं स्वरूपम् । ननु तस्या गुणश्रुतेः का वार्ता उद्देश्यान्तराभावेन मनोगतित्वाभावेन च द्विधापि निर्देष्टुमशक्त्यत्वात् । तत्राह अहैतुकी फलानुसन्धान रहिता । अव्यवहिता स्वरूपसिद्धत्वेन साक्षाद्रूपा न त्वारोपसिद्धत्वेन व्यवधानात्मिका । तादृशी या भक्तिः श्रोत्रादिना सेवनमात्रं सा च तस्य स्वरूपमित्यर्थः । मात्रपदेनाविच्छिन्नेत्यनेन च मनोगतेर् अहैतुकीत्वादिसिद्धेः पृथग्योजनानर्हत्त्वात् । सात्त्विकः कारकोऽसङ्गी [भागवतम् ११.२५.२५] इत्यादिषु निर्गुणो मद्अपाश्रयः [भागवतम् ११.२५.२५] इत्यादिभिस्तद् आश्रयक्रियादीनां निर्गुणत्वस्थापनात् (पगे ११८) मां भजन्ति गुणाः सर्वे निर्गुणं निरपेक्षकम् । सुहृदं प्रियमात्मानं साम्यासङ्गादयोऽगुणाः ॥ [भागवतम् ११.१३.४०] इत्यत्र तद्गुणानामप्यप्राकृतत्वश्रवणादहैतुकीत्वमेव विशेषतो दर्शयति । जना मदीयाः । सालोक्यादिकमपि उत अपि दीयमानमपि न गृह्णाति । मत्सेवनं विनेति गृह्णन्ति चेत्तर्हि मत्सेवार्थमेव गृह्णन्ति न तु तद्अर्थमेवेत्यर्थः । सार्ष्टिः समानैश्वर्यम् । एकत्वं भगवत् सायुज्यं ब्रह्मसायुज्यं च । अनयोस्तल्लीनात्मकत्वेन तत् सेवनार्थत्वाभावादग्रहणावश्यकत्वमेवेति भावः । तस्मात्स एव चात्यन्तिकफलतया भवतीत्यपवर्ग इत्यर्थः । नात्यन्तिकं विगणयन्ति [भागवतम् ३.१५.४८] इत्यादेरात्यन्तिकप्रलयतया तत्प्रसिद्धेश्च । ननु गुणत्रयात्ययपूर्वकभगवत्साक्षात्कार एवापवर्ग इति चेत्तस्यापि तादृशधर्मत्वं स्वतः सिद्धमेवेत्याह येनेति । येन कदाचिदप्य् अपरित्याज्येन मम भावाय विद्यमानतायै साक्षात्कारायेत्यर्थः । उपपद्यते समर्थो भवति । यथोक्तं पञ्चमे यथा वर्णविधानम् अपवर्गश्च भवति [भागवतम् ५.१९.१९] योऽसौ भगवति [भागवतम् ५.१९.२०] इत्यादिकम् अनन्यनिमित्तभक्तियोगलक्षणो नानागतिनिमित्ताविद्याग्रन्थिरन्धन द्वारेण [भागवतम् ५.१९.२०] इत्यन्तम् । अतो निर्गुणापि बहुधैवावगन्तव्या । एवमुक्तमेतत्प्रकरणारम्भे भक्तियोगो बहुविधो मार्गैर्भामिनि भाव्यते । स्वभावगुणमार्गेण पुंसां भावो विभिद्यते ॥ [भागवतम् ३.२९.७] इति । मार्गः प्रकारविशेषैः । अतः स्वस्य भक्तियोगस्यैव मार्गेण वृत्ति भेदेन श्रवणादिना भावयाभिमानस्य तद्भेदेन दास्यादिना गुणानां तमादीनां च तद्भेदेन हिंसादिना पुंसां भावोऽभिप्रायो विभिद्यत इत्य् अर्थः । अत्र मुक्ताफलटीका च अयमात्यन्तिकस्ततः परं प्रकारान्तराभावात् । अस्यैव भक्तियोग इत्याख्या । अन्वर्थेन भक्ति शब्दस्यात्रैव मुख्यत्वात् । इतरेषु फल एवानुरागो न तु विष्णौ फल लाभेन भक्तित्यागातित्येषा । श्रीगोपालतापनीश्रुतौ च भक्तिरस्य भजनम् । तदिहामुत्रोपाधि नैरास्येनैवामुष्मिन्मनःकल्पनम् । एतदेव च नैष्कर्म्यम् [ङ्टू १.१४] इति । शतपथश्रुतौ स होवाच याज्ञवल्क्यस्तत्पुमानात्महिताय प्रेम्णा हरिं भजेतिति । प्रेम्णा प्रीतिमात्रकामनया यद्आत्महितं तस्मै इत्यर्थः । ॥ ३.२९ ॥ श्रीकपिलदेवः ॥ २३१२३४ ॥ (पगे ११९) [२३५] तदेवं बहुधा साधितैषाकिञ्चनात्यन्तिकीत्यादिसंज्ञा भक्तिर्द्विविधा वैधी रागानुगा च इति । तत्र वैधी शास्त्रोक्तविधिना प्रवर्तिता । स च विधिर्द्विविधः । तत्र प्रथमः प्रवृत्तिहेतुर्ः । तद्अनुक्रम कर्तव्याकर्तव्यानां ज्ञानहेतुश्च । प्रथमस्तूदाहृतः तस्मादेकेन मनसा भगवान् सात्वतां पतिः । श्रोतव्यः कीर्तितव्यश्च ध्येयः पूज्यश्च नित्यदा ॥ [भागवतम् १.२.१४] इत्यादिना । द्वितीयश्चार्चनव्रतादिगतः । तमाह मामेव नैरपेक्ष्येण भक्तियोगेन विन्दति । भक्तियोगं स लभत एवं यः पूजयेत माम् ॥ [भागवतम् ११.२७.५३] नैरपेक्ष्येण अहैतुकेन । अहैतुकभक्तियोग एव कथं स्यात्तत्राह भक्तियोगमिति । एवं यदा स्वनिगमेनोक्तं द्विजत्वं प्राप्य पूरुषः । यथा यजेत मां भक्त्या श्रद्धया तन्निबोध मे ॥ [भागवतम् ११.२७.८] इत्याद्युक्तविधिना । ॥ ११.२७ ॥ श्रीभगवान् ॥ २३५ ॥ [२३६] एवमेकादशीजन्माष्टम्यादिगतोऽपि ज्ञेयः । अथ वैधीभेदाः शरणापत्तिश्रीगुर्व्आदिसत्सेवाश्रवणकीर्तनादयः । एते च प्रत्येकम् अपि द्वित्रादयः समुत्यापि कारणानि भवन्ति । तथा श्रवणात् । तत्र प्रथमतः शरणापत्तिः । षड्वर्गाद्य्अविकृतसंसारभयबाध्यमान एव हि शरणं प्रविशत्यनन्यगतिः । भक्तिमात्रकामोऽपि तत्कृत भगवद्वैमुख्यबाध्यमानः । अनन्यगतित्वं च द्विधा दर्श्यते । आश्रयान्त्रस्याभावकथनेन अति प्रज्ञया कथञ्चिदाश्रितस्यान्यस्य त्याजनेनअ च । पूर्वेण यथा मर्त्यो मृत्युव्यालभीतः पलायन् लोकान् सर्वान्निर्भयं नाध्यगच्छत् । त्वत्पादाब्जं प्राप्य यदृच्छयाद्य सुस्थः शेते मृत्युरस्मादपैति ॥ [भागवतम् १०.३.२७] उत्तरेण यथा तस्मात्त्वमुद्धवोत्सृज्य चोदनां प्रतिचोदनाम् । प्रवृत्तिं च निवृत्तिं च श्रोतव्यं श्रुतमेव च ॥ मामेकमेव शरणमात्मानं सर्वदेहिनाम् । याहि सर्वात्मभावेन मया स्या ह्यकुतोभयः ॥ [भागवतम् ११.१२.१४१५] इति । चोदनां श्रुतिं प्रतिचोदनां स्मृतिमिति टीका च । श्रीगीतासु च सर्वधर्मान् परित्यज्य [गीता १८.६६] इत्यादि । तस्या शरणापत्तेर्लक्षणं वैष्णवतन्त्रे आनुकूल्यस्य सङ्कल्पः प्रतिकूल्यविवर्जनम् । रक्षिष्यतीति विश्वासो गोप्तृत्वे वरणं तथा । आत्मनिक्षेपकार्पण्ये षड्विधा शरणागतिः ॥ इति । अङ्गाङ्गिभेदेन षड्विधा । तत्र गोप्तृत्वे वरणमेवाङ्गि शरणागति शब्देनैकार्थ्यात् । (पगे १२०) अन्यानि त्वङ्गानि तत्परिकरत्वात् । आनुकूल्य प्रातिकूल्ये तद्भक्तादीनां शरणागतस्य भावस्य वा । रक्षिष्यतीति विश्वासः । क्षेमं विधास्यति स नो भगवांस्त्र्य्अधीशस्तत्रास्मदीय विमृशे न कियानिहार्थः [भागवतम् ३.१६.३५] इत्यादिप्रकारः । आत्मनिक्षेपः केनापि देवेन ऋदि स्थितेन यथा नियुक्तोऽस्मि तथा करोमि इति गौतमीयतन्त्रोक्तप्रकारः । यथोक्तं पाद्मोत्तरखण्डे चाष्टाक्षरस्य नमःशब्दव्याख्याने अहङ्कृतिर्मकारः स्यान्नकारस्तन्निषेधकः । तस्मात्तु नमसा चात्र स्वातन्त्र्यं प्रतिषिध्यते ॥ भगवत्परतन्त्रोऽसौ तदा यत्तश्च जीवति । तस्मात्स्वसामर्थ्यविधिं त्यजेत्सर्वमशेषतः ॥ ईश्वरस्य तु सामर्थ्यान्नालभ्यं तस्य विद्यते । तस्मिन्न्यस्तभवः शेते तत्कर्मैव समाचरेत् ॥ [ড়द्मড়् ६.२२६.४१४६] अतएव ब्रह्मवैवर्ते अहैकारनिवृत्तानां केशवो न हि दूरगः । अहङ्कारयुतानां हि मध्ये पर्वतराशयः ॥ [भागवतम् ३.९.९] इति । कार्पण्यं परमकारुणिको न भवेत्परः परमशोच्यतमो न च मत् पर इत्यादिप्रकारम् । गोप्तृत्वे वरणं च यथा नारसिंहे त्वां प्रपन्नोऽस्मि शरणं देवदेवं जनार्दनम् । इति यः शरणं प्राप्तस्तं क्लेशादुद्धराम्यहम् ॥ इति प्रकारम् । तदपि त्रिप्रकारं कायिकत्वादिभेदेन यथोक्तं ब्रह्मपुराणे कर्मणा मनसा वाचा येऽच्युतं शरणं गताः । न समर्थो यमस्तेषां ते मुक्तिफलभागिनः ॥ इति । व्याख्यातं श्रीहरिभक्तिविलासे तवास्मीति वदन् वाचा तथैव मनसा विदन् । तत्स्थानमाश्रितस्तन्वा मोदते शरणागतः ॥ [ःBV ११.६७७] इति । तदेवं यस्य सर्वाङ्गसम्पन्ना शरणापत्तिस्तस्य झटित्येव सम्पूर्ण फला अन्येषां तु यथासम्पत्ति यथाक्रमं चेति ज्ञेयम् । तामेतां शरणापत्तिं श्लाघते तापत्रयेणाभिहतस्य घोरे सन्तप्यमानस्य भवाध्वनीश । पश्यामि नान्यच्छरणं तवाङ्घ्रि द्वन्द्वातपत्रादमृताभिवर्षात् ॥ [भागवतम् ११.१९.९] शरणागतानां सर्वदुःखदूरीकरणं निजमाधुरीणां सर्वतोवर्षं चात्राभिहितम् । ॥ ११.१९ ॥ उद्धवः श्रीभगवन्तम् ॥ २३६ ॥ [२३७] तदेवं शरणापत्तिर्विवृता । अस्याश्च पूर्वत्वं तां विना तदीयत्वासिद्धिः । तत्र शरणापत्त्यैव यद्यपि सर्वं सिध्यति । शरणं तं प्रपन्ना ये ध्यानयोगविवर्जिताः । ते वै मृत्युमतिक्रम्य यान्ति तद्वैष्णवं पदम् ॥ (पगे १२१) इति गारुडात् । तथापि वैशिष्ठ्यलिप्सुः शक्तश्चेत्ततो भगवच्छास्त्रोपदेष्टॄणां भगवन्मन्त्रोपदेष्टॄणां वा श्रीगुरुचरणानां नित्यमेव विशेषतः सेवां कुर्यात् । तत्प्रसादः स्वस्वनानाप्रतीकारदुस्त्यजानर्थहानौ परमभगवत्प्रसादसिद्धौ च मूलम् । पूर्वत्र यथा सप्तमे श्री नारदवाक्यम् असङ्कल्पाज्जयेत्कामं क्रोधं कामविवर्जनात् । अर्थानर्थेक्षया लोभं भयं तत्त्वावमर्शनात् ॥ आन्वीक्षिक्या शोकमोहौ दम्भं महद्उपासया । योगान्तरायान्मौनेन हिंसां कामाद्य्अनीहया ॥ कृपया भूतजं दुःखं दैवं जह्यात्समाधिना । आत्मजं योगवीर्येण निद्रां सत्त्वनिषेवया ॥ रजस्तमश्च सत्त्वेन सत्त्वं चोपशमेन च । एतत्सर्वं गुरौ भक्त्या पुरुषो ह्यञ्जसा जयेत् ॥ [भागवतम् ७.१५.२२२५] इति । उत्तरत्र वामनकल्पे ब्रह्मवाक्यम् यो मन्त्रः स गुरुः साक्षाद्यो गुरुः स हरिः स्वयम् । गुरुर्यस्य भवेत्तुष्टस्तस्य तुष्टो हरिः स्वयम् ॥ इति । अन्यत्र हरौ रुष्टे गुरुस्त्राता गुरौ रुष्टे न कश्चन । तस्मात्सर्वप्रयत्नेन गुरुमेव प्रसादयेत् ॥ इति । अतएव सेवामात्रं तु नित्यमेव । यथा चान्यत्र परमेश्वरवाक्यम् प्रथमं तु गुरुः पूज्यः ततश्चैव ममार्चनम् । कुर्वन् सिद्धिमवाप्नोति ह्यन्यथा निष्फलं भवेत् ॥ इति । अतएव नारदपञ्चरात्रे वैष्णवं ज्ञानवक्तारं यो विद्याद्विष्णुवद्गुरुम् । पूजयेद्वाङ्मनःकायैः स शास्त्रज्ञः स वैष्णवः ॥ श्लोकपादस्य वक्तापि यः पूज्यः स सदैव हि । किं पुनर्भगवद्विष्णोः स्वरूपं वितनोति यः ॥ इत्यादि । पाद्मे देवहूतिस्तुतौ भक्तिर्यथा हरौ मेऽस्ति तद्वन्निष्ठा गुरौ यदि । ममास्ति तेन सत्येन स्वं दर्शयतु हरिः ॥ इति । तस्मादन्यद्भगवज्जनमपि नापेक्षते । यथोक्तमागमे पुरश्चरण फलप्रसङ्गे यथा सिद्धरसस्पर्शात्ताम्रं भवति काञ्चनम् । सन्निधानाद्गुरोरेवं शिष्यो विष्णुमयो भवेत् ॥ इति । तदेतदाह नाहमिज्याप्रजातिभ्यां तपसोपशमेन वा । तुष्येयं सर्वभूतात्मा गुरुशुश्रूषया यथा ॥ [भागवतम् १०.८०.३४] टीका च ज्ञानप्रदाद्गुरोरधिकः सेव्यो नास्तीत्युक्तम् । अतएव तद् भजनादधिको धर्मश्च नास्तीत्याह नाहमिति । इज्या गृहस्थधर्मः । प्रजातिः प्रकृष्टं जन्म उपनयनं तेन ब्रह्मचारिधर्म उपलक्ष्यते ताभ्याम् । तथा तपसा वनस्थधर्मेण । उपशमेन यतिधर्मेण वा । अहं परमेश्वरस्तथा न तुष्येय यथा सर्वभूतात्मापि गुरु शुश्रूषया । इत्येषा । अत्र ज्ञानं ब्रह्मनिष्ठं भगवन्निष्ठं चेति द्विविधम् । तत्र पूर्वत्र तथैव व्याख्या । उक्तं त्वेवम् (पगे १२२) इज्या पूजा । प्रजाति वैष्णव दीक्षा । तपः समाधिः । उपशमो भगवन्निष्ठेति ॥ ॥ १०.८० ॥ श्रीभगवान् श्रीदामविप्रम् ॥ २३७ ॥ [२३८] श्रीगुर्व्आज्ञया तत्सेवनाविरोधेन चान्येषामपि वैष्णवानां सेवनं श्रेयः । अन्यथा दोषः स्यात् । यथा श्रीनारदोक्तौ गुरौ सन्निहिते यस्तु पूजयेदन्यमग्रतः । स दुर्गतिमवाप्नोति पूजनं तस्य निष्फलम् ॥ इति । यः प्रथमं शाब्दे परे च निष्णातं [भागवतम् ११.३.२१] इत्याद्युक्तलक्षणं गुरुं नाश्रितवान् तादृशगुरोश्च मत्सरादितो महाभागवतसत्कारादाव् अनुमतिं न लभते स प्रथमत एव त्यक्तशास्त्रो न विचार्यते । उभय सङ्कटपातो हि तस्मिन् भवत्येव । एवम्आदिकाभिप्रायेणैव यो वक्ति न्यायरहितमन्यायेन शृणोति यः । तावुभौ नरकं घोरं व्रजतः कालमक्षयम् ॥ इति नारदपञ्चरात्रे । अत एव दूरत एवाराध्यस्तादृशो गुरुः । वैष्णवविद्वेषी चेत्परित्याज्य एव । गुरोरप्यवलिप्तस्य कार्याकार्यमजानतः । उत्पथप्रतिपन्नस्य कार्यं भवति शासनम् ॥ [ंभ्५.१७८.२४] इति स्मरणात् । तस्य वैष्णवभावराहित्येणावैष्णवतया अवैष्णवोपदिष्टेनेत्यादि वचनविषयत्वाच्च । यथोक्तलक्षणस्य गुरोरविद्यमानायां तु तस्यैव महाभागवतस्यैकस्य नित्यसेवनं परमश्रेयः । स च श्रीगुरुवत् समवासनः स्वस्मिन् कृपालुचित्तश्च ग्राह्यः । यस्य यत्सङ्गतिः पुंसो मणिवत्स्यात्स तद्गुणः । स्वकुलर्द्ध्यै ततो धीमान् स्वयूथान्येव संश्रयेत् ॥ इति श्रीहरिभक्तिसुधोदयदृष्ट्या कृपां विना तस्मिन् चित्तारत्या च । अथ सर्वस्यैव भागवतचिह्नधारिमात्रस्य तु यथायोग्यं सेवाविधानम् । तत्र महाभागवतसेवा द्विविधः प्रसङ्गरूपा परिचर्यारूपा च । तत्र प्रसङ्गरूपा यथा नो रोधयति मां योगो न साङ्ख्यं धर्म एव च । न स्वाध्यायस्तपस्त्यागो नेष्टापूर्तं न दक्षिणा ॥ व्रतानि यज्ञश्छन्दांसि तीर्थानि नियमा यमाः । यथावरुन्धे सत्सङ्गः सर्वसङ्गापहो हि माम् ॥ [भागवतम् ११.१२.१२] पूर्वाध्याये इष्टापूर्तेन मामेवं यो यजेत समाहितः । लभते मयि सद्भक्तिं मत्स्मृतिः साधुसेवया ॥ [भागवतम् ११.११.४७] इत्यनेन साधुसेवया भक्तिनिष्ठाजनने साधनानन्तरसेव्य् अपेक्षत्वमिवोक्तम् । अत्रेष्टशब्देन सप्तमस्कन्धोक्तरीत्याग्निहोत्रदर्शपौर्णमास चातुर्मास्ययागपशुयागवैश्वदेवबलिहरणान्युच्यन्ते [भागवतम् ७.१५.४८४९] । पूर्तशब्देन सुरालयारामकूपवापीतडागप्रपा । सत्राण्युच्यन्ते [भागवतम् ७.१५.४९] अत्र तु इष्टं हविषाग्नौ यजेत माम् [भागवतम् ११.११.४२] (पगे १२३) । इत्यादौ अग्निहोत्राद्युपलक्षितं पूर्तमुद्यानोपवनाक्रीडेत्याद्युपलक्षितं ज्ञेयम् । एवं पूर्वोक्तप्रकारेणेष्टापूर्तेन यो मां यजेत स मत्स्मृतिस् तत्र साधुसेवया सतां प्रसङ्गेन सभक्तिम् । अन्तरङ्गभक्तिनिष्ठां प्राप्नोतीत्यर्थः । तत्राग्निहोत्रादीनां भक्तौ प्रवेशोऽग्न्य्अन्तर्यामि रूपभगवद्अधिष्ठानत्वेनाग्न्यादिसन्तर्पणात् । कूपारामादीनां च तत् परिचर्यार्थं क्रियमाणत्वात्तत्र प्रवेशः । तदेवं सत्सङ्गस्य सर्वापेक्षत्वमुक्तम् । पुनश्च तत्र च तस्य स्वातन्त्र्येण यथेष्टफल दातृत्वं सर्वापेक्षया परमसामर्थ्यं च वक्तुं परमगुह्यम् उपदिष्टम् । अथैतत्परमं गुह्यं शृण्वतो यदुनन्दन । सुगोप्यमपि वक्ष्यामि त्वं मे भृत्यः सुहृत्सखा ॥ [भागवतम् ११.११.४९] इति । एतादृशमहिमत्वेनानूक्तत्वात्तदेतत्परमगुह्यत्वमाह न रोध्यतीति । त्यागः सन्न्यासः । दक्षिणा दानमात्रम् । यज्ञो देवपूजा । छन्दांसि रहस्यमन्त्राः । यथा सत्सङ्गो मामवरुन्धे वशीकरोतीति तथा योगो न वशीकरोति न च साङ्ख्यमित्यादिकोऽन्वयः । ततस्तेऽपि किञ्चिद् वशीकुर्वन्तीत्यर्थलब्धेर्भगवत्परा एव ज्ञेया न च साधारणाः । अतएव च व्रतान्येकादश्यादीनीति टीकाकाराः । न चैतावतैषां नित्यानां वैष्णवव्रतानामकर्तव्यत्वं प्राप्तमेकस्य फलातिशयसामर्थ्य प्रशंसयेतरस्य नित्यत्वनिराकरणायोगात् । यथा कर्माधिकारिणः न ह्यग्निमुखतोऽयं वै भगवान् सर्वयज्ञभुक् । इज्येत हविषा राजन् यथा विप्रमुखे हुतैः ॥ [भागवतम् ७.१४.१७] इति श्रुत्वापि पूर्वोक्तमग्निहोत्रादिना यजेत इति विधिं न परित्यक्तुं शक्नुवन्ति तद्वत्भक्त्य्अधिकारिणश्च यथा मद्भक्तपूजाभ्यधिका [भागवतम् ११.१९.२९] इत्य्श्रुत्वापि दीक्षानन्तरं नित्यतया प्राप्तां भगवत्पूजां त्यक्तुं न शक्नुवन्ति तद्वदिति । अत एव षड्भिर्मासोपवासैस्तु यत्फलं परिकीर्तितम् । विष्णोर्नैवेद्यसिक्थेन तत्फलं भुञ्जतां कलौ ॥ इत्यपि न बाधकम् । एकादश्य्आदौ हि नित्यत्वेऽप्यानुषङ्गिकमेव महाफलकत्वं तत्र तत्र मतम् । अतएव नित्यत्वरक्षणार्थमपि तादृशं वैष्णवं व्रतमवश्यम् एव कर्तव्यमित्यागतम् । नित्यवैष्णवव्रतत्वादिकं चैकादश्यादेर् अर्चनप्रसङ्गं किञ्चिद्दर्शयिष्यामः । अतएव पूर्वाध्याये टीकाकारैरपि आज्ञायैव गुणान् दोषान् [भागवतम् ११.११.३२] इत्यत्र बिद्धैकादशीकृष्णैकादश्य् उपवासानुपवासानिवेद्यश्राद्धादयो ये भक्तिविरुद्धा धर्मास्तान् सन्त्यज्य इत्यर्थ इत्युक्तम् । प्रथमे च श्रीभीष्मयुधिष्ठिरसंवादे भगवद्धर्मान् [भागवतम् १.९.२४] इत्यत्र हरितोषणाद्द्वादश्य्आदिनियम रूपानित्य्व्याख्यातम् । व्रतानि चेरे हरितोषणानि [भागवतम् ३.१.१९] इत्यत्र तृतीय एकादश्यादीनीति । अतएव भगवन्महाप्रसादैकव्रतस्य श्रीमद् अम्बरीषस्य सच्छिरोमणे’राचारदर्शनाय तदेव निश्चीयत इति । अथ प्रस्तुतमनुसरामः । वशीकरणमत्र द्विविधम् मुख्यं गौणं च । तत्र मुख्येन प्रेम लभ्यते । (पगे १२४) अस्त्वेवमङ्ग भगवान् भजतां मुकुन्दो मुक्तिं ददाति कर्हिचित्स्म न भक्तियोगम् [भागवतम् ५.६.१८] इति न्यायेन । अतएव गौणेनान्यत्फलम् । अत्र मुख्यं श्रीगोप्यादौ । गौणं बाणादौ । उत्तरत्र वशीकरणत्वं फलदानोन्मुखीकरणतयोपचर्यते । तदेतद् वशीकरणे दृष्टान्तमाह सत्सङ्गेन हि दैतेया यातुधाना मृगाः खगाः । गन्धर्वाप्सरसो नागाः सिद्धाश्चारणगुह्यकाः ॥ विद्याधरा मनुष्येषु वैश्याः शूद्राः स्त्रियोऽन्त्यजाः । रजस्तमःप्रकृतय तस्मिंस्तस्मिन् युगे युगे ॥ बहवो मत्पदं प्राप्तास्त्वाष्ट्रकायाधवादयः । वृषपर्वा बलिर्बाणो मयश्चाथ विभीषणः ॥ सुग्रीवो हनुमानृक्षो गजो गृध्रो वणिक्पथः । व्याधः कुब्जा व्रजे गोप्यो यज्ञपत्न्यस्तथापरे ॥ [भागवतम् ११.१२.३६] दैतेयास्तद्उपलक्षितासुरदानवाश्च । यातुधाना राक्षसाः । तज्जातिषु दिग्दर्शनं त्वाष्ट्रेत्यादि । त्वाष्ट्रा वृत्रासुरः । वृतासुरस्य सत्सङ्गः प्राग्जन्मनि श्रीनारदाङ्गिरसोः सङ्गः श्रीसङ्कर्षणसङ्गश्च प्रसिद्धः । कायाधवः कयाधुपुत्रः प्रह्लादः । अस्य गर्भे श्रीनारदसङ्गः । आदिशब्दगृहीतान् पूर्वोक्तजातिक्रमेण कतिचिद्गणयति वृषेति । वृषपर्वा दानवः । अयं हि जातमात्रमातृपरित्यक्तो मुनिपालिता विष्णुभक्तो बभूवेति पुराणान्तरप्रसिद्धिः । बलेः श्रीप्रह्लादसङ्गः श्रीवामनसङ्गश्च । तद्अनन्तरमेव भक्त्य् उद्बोधदर्शनात् । बाणस्य बलिमहेशभगवत्सङ्गः । अस्य भुज कर्तनानन्तरं ज्ञातविष्णुमहिम्नो महाभागवतमहेशप्राप्तिरेव स्वप्राप्तिरित्युच्यते । मयो दानवः । अस्य सभानिर्माणादौ पाण्डव सङ्गो भगवत्सङ्गश्च । अन्ते तत्प्राप्तिस्तु ज्ञेया । विभीषणो यातुधानः । अस्य हनूमसङ्गो भगवत्सङ्गश्च । सुग्रीवाद्या गजान्ता मृगाः । तत्र ऋक्षो जाम्बवान् । अस्य भगवत्सङ्गः । गजो गजेन्द्रः । अस्य पूर्वजन्मनि सत्सङ्ग उन्नेयः । उत्तरजन्मान्ते भगवत्सङ्गश्च । गृध्रो जटायुनामा खगः । अस्य श्रीगरुड दशरथादिसङ्गः । श्रीसीतादर्शनं श्रीभगवद्दर्शनं च । गन्धर्वादीस्त्वनतिप्रसिद्धत्वेनानुदाहृत्य मनुष्येषु वैश्यादीन् उदाहरति । वणिक्पथस्तुलाधारः । अस्य भारते जाजलिमुनिगन्धर्व प्रसङ्गे प्रोक्तमहिम्नः सत्सङ्गोऽन्वेषणीयः । व्याधो धर्मव्याधः शूद्रोऽन्त्यजोऽपि । अत्र आदिवाराहे कथेयम् क्वचित् प्राचीनकलियुगे वसुनाम्ना वैष्णवेन राज्ञा प्राग्जन्मनि मृग भ्रान्त्या निहतो ब्राह्मणो ब्रह्मराक्षसतां प्राप्तस्तस्य राज्ञः प्रापञ्चिकविष्णुलोकगमनसमये तच्छरीरं प्रविष्टः । पुनश्च तस्य तद्भोगान्ते राजतां प्राप्तस्य देहात्तत्कर्तृकब्रह्म पाराख्यस्तवपाठतेजसा निर्गतस्तत्कृतधर्मव्याधसंज्ञो हिंसातिशयविमुखः पर्यवसाने दृष्टनीलाद्रिनाथस्तं च स्तुतवान् । प्राप्ततद्आलिङ्गनस्तत्सायुज्यमवापेति । कुब्जाया भगवत्सङ्गः पूर्वजन्मनि च नारदसङ्ग इति माथुरहरि वंशप्रसिद्धम् । गोप्योऽत्र साधारण्यः श्रीकृष्णव्रजे तदानीं विवाहादिना समागताः । आसां तन्नित्यप्रेयसीवृन्दसङ्गः श्रीकृष्ण दर्शनादिरूपो भगवत्सङ्गश्च । यज्ञपत्नीनां श्रीकृष्णगुण कथकलोकसङ्गस्तत्सङ्गश्च । अपरे दैतेयादयोऽनेय्च । [२४०] तेषां सत्सङ्गव्यतिरिक्तसाधनाभावमाह ते नाधीतश्रुतिगणा नोपासितमहत्तमाः । अव्रतातप्ततपसो मत्सङ्गान्मामुपागताः ॥ [भागवतम् ११.१२.७] (पगे १२५) नाधीताः श्रुतिगणाः यैः । तद्अर्थं च नोपासिता महत्तमा यैः । किं च अकृतव्रता अकृततपस्काश्च । पूर्ववदध्ययनादिकं भगवत्प्रीणनम् एव ग्राह्यम् । अत्रैकेषां वृत्रादीनां प्राग्जन्मादौ साधनानन्तरं यत् तदपि सत्सङ्गानुषङ्गसिद्धमित्यभिप्रेत्य सत्सङ्गस्यैव तत्तत् फलमुक्तम् । धर्मव्याधादीनां तु केवलस्यैव तस्येति ज्ञेयम् । सत्सङ्गशब्देनात्र मम सङ्गो मदीयादीनां च सङ्ग इत्यभिधाप्यते । उभयतापि मत्सम्बन्धित्वादित्यभिप्रायेण । तत्र स्वस्यापि सत्त्वात्सत् सङ्गोऽप्यन्त्रभावितः । यत्तु पुरा भागवतसङ्गेनैव भगवत्कृपा भवतीत्युक्तं तत्तु तत्साम्मुख्यजन्मन्येव । अत्र तु स एव भागवत सङ्गः साधनविशेषत्वेनोच्यत इति न दोषः । यदि वात्र कुत्रचित् साम्मुख्यजन्मकारणमपि भगवत्सङ्गो भवेत्तदाप्येवम् आचक्ष्महे । सच्छब्दार्थमवतारसङ्गीकृत्य यत्कदाचित्सर्वत्र कृपां वितनोति भगवान् तच्च सत्सम्बन्धेनैवेत्यतो नाभ्युपगमहानिरिति । [२४१] अथ मुख्यं वशीकरणमसम्भावितसाधनान्तरेण सत्सङ्गमात्रेण श्रीगोप्य्आदीनां दर्शयति केवलेन हि भावेन गोप्यो गावो नगा मृगाः । येऽन्ये मूठधियो नागाः सिद्धा मामीयुरञ्जसा ॥ [भागवतम् ११.१२.८] भावेन प्रकरणप्राप्तमत्सङ्गमात्रजन्मना प्रीत्या । भावोऽत्र वशीकारमुख्यत्वे चिह्नम् । वशे कुर्वन्ति मां भक्त्या सत्स्त्रियः सत्पतिं यथा [भागवतम् ९.४.४८] इत्यादेः । भक्त्याहमेकया ग्राह्यः [भागवतम् ११.१४.२०] इत्य् आदेश्च । गावोऽपि गोपीवदागन्तुक्य एव ज्ञेयाः । नगा यमलार्जुनादयः । मृगा अपि पूर्ववत् । नागाः कालियादयः । यमलार्जुनकालिययोः प्राप्तिस् तदानीन्तनतत्क्षणिकभगवत्प्राप्त्य्आवश्यम्भाविनित्यप्राप्तिम् अपेक्ष्योक्ता । सिद्धाः पूर्ववद्द्विविधात्सत्सङ्गात् । स तु तेषां भावो योगादिभिरप्राप्य एवेति । यथावरुन्धे [भागवतम् ११.१२.२] इत्यत्र यथा शब्दार्थस्य पराकाष्ठा । [२४२] तामेव व्यनक्ति यं न योगेन साङ्ख्येन दानव्रततपोऽध्वरैः । व्याख्यास्वाध्यायसन्न्यासैः प्राप्नुयाद्यत्नवानपि ॥ [भागवतम् ११.१२.९] यं भावम् । अत्रापि योगादयो भगवत्परा एव । योगादिभिर्यत्नवानपीत्य् अनेन तत्प्राप्त्य्अर्थं प्रयुज्यमानत्वावगमात् । एष्वपि श्रीगोपीनां परमकाष्ठाप्राप्तिं दर्शयितुम् अस्यैतत्परमं गुह्यं शृण्वतो यदुनन्दन इत्येतत्पूर्वोक्तपरमगुह्यत्वस्य [भागवतम् ११.११.४८] परम काष्ठां दर्शयितुं रामेण सार्धं [भागवतम् ११.१२.९]इत्य्आदिप्रकरणम् अनुसन्धेयम् । ॥ ११.१२ ॥ श्रीभगवान् ॥ २३८२४२ ॥ [२४३] एष च सत्सङ्गो ज्ञानं विनापि कृतोऽर्थद एव स्यादित्याह सङ्गो यः संसृतेर्हेतुरसत्सु विहितोऽधिया । स एव साधुषु कृतो निःसङ्गत्वाय कल्पते ॥ [भागवतम् ३.२३.५५] अधिया अज्ञानेन । यत्तु पूर्वं श्रीनारदादौ मुन्यन्तरसाधारण दृष्टिर्निन्दिता तदिहास्निग्धे ज्ञानलवदुर्विदग्धे च ज्ञेयम् । ॥ ३.२३ ॥ श्रीदेवहूतिः ॥ २४३ ॥ [२४४] तदेवं महाभागवतप्रसङ्गफलमुक्तम् । तत्परिचर्याफलमाह यत्सेवया भगवतः कूटस्थस्य मधुद्विषः । रतिरासो भवेत्तीव्रः पादयोर्व्यसनार्दनः ॥ [भागवतम् ३.७.१९] (पगे १२६) येषां युष्माकं महाभागवतानां सेवया परिचर्यया कूटस्थस्य नित्यस्य भगवतः पादयो रतिरासः प्रेमोत्सवो भवेत् । तीव्र इति विशेषणं प्रसङ्गमात्रात्परिचर्यायां विशिष्टं फलं द्योतयति । आनुषङ्गिकं फलमाह व्यसनार्दन इति । व्यसनं संसारः । यत एवोक्तं मद्भक्त पूजाभ्यधिका [भागवतम् ११.१९.१९] इति । मम पूजातोऽप्यभि सर्वतोभावेनाधिका अधिकमत्प्रीत्यकरीत्यर्थः । एवं पाद्मोत्तरखण्डे आराधनानां सर्वेषां विष्णोराराधनं परम् । तस्मात्परतरं देवि तदीयानां समर्चनम् ॥ [ড়द्मড়् ६.२५३.१७६] इति । ॥ ३.७ ॥ विदुरः श्रीमैत्रेयम् ॥ २४४ ॥ [२४५] व्यतिरेकेणाह यस्यात्मबुद्धिः कुणपे त्रिधातुके स्वधीः कलत्रादिषु भौम इज्यधीः । यत्तीर्थबुद्धिः सलिले न कर्हिचिज् जनेष्वभिज्ञेषु स एव गोखरः ॥ [भागवतम् १०.८४.१३] जडत्वात्कुणपे स्वयं मृततुल्ये शरीरे । चिद्योगेऽपि त्रिभिर्वातपित्तादिभिर् दूषित इत्यर्थः । भौमे देवताप्रतिमादौ । यत्यस्य । अभिज्ञेषु तत्त्ववित्सु ता बुद्धयो न सन्ति । तत्रात्मबुद्धिः परमप्रीत्यास्पदत्वम् । स एव गोखरो गोनिकृष्ट उच्यते । यद्वा सिन्धुसौवीरप्रसिद्धो वन्य गर्दभजातिविशेषो म्लेच्चजातिविशेषो वा स न त्वन्यः प्रसिद्धः । विवेकित्वाभिमानितायां सत्यामप्यविवेकित्वात्ततोऽपि निकृष्टत्वं तस्येति । भौम इज्यधीरिति साधारणदेवताविषयकमेव पूर्वं तथैवोपक्रान्तत्वात् । अर्चायामेव हरये [भागवतम् ११.२.४५] इत्यादिविरोधाच्च । तदेवं यथा तरोर्मूलनिषेचनेन [भागवतम् ४.३१.१२] इत्यादिवाक्यमत्र नावतार्यितवम् ॥ ॥ १०.८४ ॥ भगवान्मुनिवृन्दम् ॥ २४५ ॥ [२४६] अथ महाभागवतसेवासिद्धलक्षणम् ते न स्मरन्त्यतितरां प्रियमीश मर्त्यं ये चान्वदः सुतसुहृद्गृहवित्तदाराः । ये त्वब्जनाभ भवदीयपदारविन्द सौगन्ध्यलुब्धहृदयेषु कृतप्रसङ्गाः ॥ [भागवतम् ४.९.१२] परमप्रियमपि मर्त्यं वपुः । ये चादो वपुरनुलक्षीकृत्य सुतादयो वर्तन्ते तानपि न स्मरन्ति । के त इत्यपेक्षायामाह ये त्विति । ॥ ४.९ ॥ ध्रुवः श्रीध्रुवप्रियम् ॥ २४६ ॥ [२४७] वैष्णवमात्राणां च यथायोग्यमाराधनं यथा इतिहाससमुच्चये तस्माद्विष्णुप्रसादाय वैष्णवान् परितोषयेत् । प्रसादसुमुखो विष्णुस्तेनैव स्यान्न संशयः ॥ इति । तत्र सर्वत्रास्खलितादेशः सप्तद्वीपैकदण्डधृक् । अन्यत्र ब्राह्मणकुलादन्यत्राच्युतगोत्रतः ॥ [भागवतम् ४.२१.१२] इति श्रीपृथुचरितानुसारेण यत्किञ्चिज्जातावप्युत्तमत्वमेव मन्तव्यम् । यस्य यल्लक्षणं प्रोक्तं पुंसो वर्णाभिव्यञ्जकम् । यदन्यत्रापि दृश्येत तत्तेनैव विनिर्दिशेत् ॥ [भागवतम् ७.११.३५] (पगे १२७) इति नारदोक्तिदृष्टान्तेन वा । यथोक्तं पाद्ममाघमाहात्म्ये श्वपाकमिव नेक्षेत लोके विप्रमवैष्णवम् । वैष्णवो वर्णबाह्योऽपि पुनाति भुवनत्रयम् ॥ न शूद्रा भगवद्भक्तास्ते तु भागवता नराः । सर्ववर्णेषु ते शूद्रा ये न भक्ता जनार्दने ॥ इतिहाससमुच्चये स्मृतः सम्भाषितो वापि पूजितो वा द्विजोत्तम । पुनाति भगवद्भक्तश्चाण्डालोऽपि यदृच्छया ॥ अन्यथा दोषश्रवणं च तत्रैव शूद्रं वा भगवद्भक्तं निषादं श्वपचं तथा । वीक्षते जातिसामान्यात्स याति नरकं ध्रुवम् ॥ इति । भक्तिवैशिष्ट्येन तु वैशिष्ट्यमपि दृश्यते । यथा गारुडे मद्भक्तजनवात्सल्यं पूजायां चानुमोदनम् । मत्कथाश्रवणे प्रीतिः स्वरनेत्रादिविक्रिया ॥ विष्णोश्च कारणं नृत्यं तद्अर्थे दम्भवर्जनम् । स्वयमभ्यर्चनं चैव यो विष्णुं नोपजीवति ॥ भक्तिरष्टविधा ह्येषा यस्मिन्म्लेच्छेऽपि वर्तते । स विप्रेन्द्रो मुनिश्रेष्ठः स ज्ञानी स च पण्डितः । तस्मै देयं ततो ग्राह्यं स च पूज्यो यथा हरिः ॥ इति । अत एवाह भगवान् न मे भक्तश्चतुर्वेदी मद्भक्तः श्वपचः प्रियः । तस्मै देयं ततो ग्राह्यं स च पूज्यो यथा ह्यहम् ॥ इति । अतएव भक्तिमहिम्ना सता दुर्वाससापि श्रीमद्अम्बरीषस्य तत्रैव वन्दनाच्च पादग्रहणमप्याचरितम् । किन्तु अम्बरीषस्यानभीष्टम् एव तदिति तत्रैव व्यक्तत्वात्श्रीभगवता श्रीमद्उद्धवादिभिश्च ब्राह्मणमात्रस्य वन्दनाच्च इतरवैष्णवैस्तु तत्सर्वथा न मन्तव्यम् । विप्रं कृतागसमपि नैव द्रुह्यत मामकाः । घ्नन्तं बहु शपन्तं वा नमस्कुरुत नित्यशः ॥ [भागवतम् १०.६४.४१] इति भगवद्आदेशभङ्गप्रसङ्गाच्च । श्वपाकमिव नेक्षेत इत्यादिकं तु तद्दर्शनासक्तिनिषेधपरत्वेन समाधेयम् । दृश्यते युधिष्ठिर द्रौपद्य्आदीनामश्वत्थाम्नि तथा व्यवहारः । वैष्णवपूजकैस्तु वैष्णवानामाचारोऽपि न विचारणीयः । अपि चेत्सुदुराचारः [गीता ९.३०] इत्य् आदेः । यथोक्तं गारुडे विष्णुभक्तिसमायुक्तो मिथ्याचारोऽप्यनाश्रमी । पुनाति सकलान् लोकान् सहस्रांशुरिवोदितः ॥ इति । तदेतदुदाहृतमेव अहो बत श्वपचोऽतो गरीयान् यज्जिह्वाग्रे वर्तते नाम तुभ्यम् [भागवतम् ३.३३.७] इत्यादौ । अत्र श्वपचशब्दो यौगिकार्थ पुरस्कारेणैव वर्तते । ततो दुर्जातित्वेन दुराचारत्वेनापि नावमन्तव्यस् तद्भक्तजनः । स्ववमन्तृत्वे तु सुतराम् । अतएवोक्तं गारुडे रुक्षाक्षरं तु शृण्वन् वै तथा भागवतेरितम् । प्रणामपर्वं तं क्षान्त्या यो वदेद्वैष्णवो हिस्सः ॥ इति । (पगे १२८) तदेवं महद्आदिसेवा दर्शिता । अस्याश्च श्रवणादितः पूर्वत्वं महत् सेवां द्वारमाहुर्विमुक्तेस्तमोद्वारं योषितां सङ्गिसङ्गम् [भागवतम् ५.५.२] इत्युक्तेः तेभ्यो महद्भ्यस्त्वन्यदपि किमपि परममङ्गलायनं जायते । यथा तेषु नित्यं महाभाग महाभागेषु मत्कथाः । सम्भवन्ति हि ता न्.णां जुषतां प्रपुनन्त्यघम् ॥ ता ये शृण्वन्ति गायन्ति ह्यनुमोदन्ति चादृताः । मत्पराः श्रद्दधानाश्च भक्तिं विन्दन्ति ते मयि ॥ भक्तिं लब्धवतः साधोः किमन्यदवशिष्यते । मय्यनन्तगुणे ब्रह्मण्यानन्दानुभवात्मनि ॥ यथोपश्रयमाणस्य भगवन्तं विभावसुम् । शीतं भयं तमोऽप्येति साधून् संसेवतस्तथा ॥ [भागवतम् ११.२६.२८३१] तेषु सन्तोऽनपेक्षा मच्चित्ताः [भागवतम् ११.२६.२७] इत्य्आद्य्उक्तलक्षणेषु । भक्तिं प्रेम । अतएवोक्तं श्रीरुद्रेण क्षणार्धेनापि तुलये न स्वर्गं नापुनर्भवम् । भगवत्सङ्गिसङ्गस्य मर्त्यानां किमुताशिषः ॥ [भागवतम् ४.२४.५७] इति । श्रीशौनकेनापि तुलयाम लवेनापि न स्वर्गमित्यादि पूर्ववत् । ततानुषङ्गिकं फलं सदृष्टान्तमाह यथेति । विभावसुमग्निम् । उपास्यबुद्ध्या श्रयमानस्य होमाद्य्अर्थं ज्वालयत इत्यर्थः । तस्य तथा शीतादिकमपैति । भयं दुष्टजीवादिकृतम् । तथा साधून् सेवमानस्य कर्मादिजाड्यम् । आगामि संसारभयं तन्मूलमज्ञानं च नश्यतीत्यर्थः । ॥ ११.२६ ॥ श्रीभगवान् ॥ २४७ ॥ [२४८] अथ क्रमप्राप्तं श्रवणम् । तच्च नामरूपगुणलीलामयशब्दानां श्रोत्रस्पर्शः । तत्र नामश्रवणं यथा न हि भगवन्नघटितमिदं त्वद्दर्शनान्नृणामखिलपापक्षयः । यन्नाम सकृच्छ्रवणात् पुक्कशोऽपि विमुच्यते संसारात् ॥ [भागवतम् ६.१६.४४] तादृशस्यापि सकृच्छ्रवणेऽपि मुक्तिफलप्राप्तेरुत्तमस्य तच्छ्रवणे तु परमभक्तिरेव फलमित्यभिप्रेतम् । ॥ ६.१६ ॥ चित्रकेतुः श्रीसङ्कर्षणम् ॥ २४८ ॥ [२४९] अथ रूपश्रवणम् ये तु त्वदीयचरणाम्बुजकोशगन्धं जिघ्रन्ति कर्णविवरैः श्रुतिवातनीतम् । भक्त्या गृहीतचरणः परया च तेषां नापैषि नाथ हृदयाम्बुरुहात्स्वपुंसाम् ॥ [भागवतम् ३.९.५] तुशब्दो यो नादृतो नरकभाग्भिरसत्प्रसङ्गैः [भागवतम् ३.९.४] इति पूर्वोक्त निन्दितानां भगवद्रूपानादरवतां प्रतियोग्य्अर्थनिर्देशे निर्दिष्टः । अनेन येऽत्र एतद्विरोधिनो भवन्ति त एव (पगे १२९) पूर्वोक्ता असत्प्रसङ्गा इति गम्यते । चरणमात्रनिर्देशो भक्त्य्अतिशयेन । गन्धं वर्णाकारादि माधुर्यं कर्णविवरैर्जिघ्रन्ति नासाविवरैः परमामोदमिव तैर् आस्वादयन्तीत्यर्थः । श्रुतिर्वेदस्तद्अनुगामिशब्दान्तरं च सैव वातस् तेन प्रापितम् । ततः परया च भक्त्या प्रेमलक्षणया गृहीतचरणस्त्वं नापयातुं शक्नोषि । ॥ ३.९ ॥ ब्रह्मा श्रीगर्भोदशायिनम् ॥ २४९ ॥ [२५०] अथ गुणश्रवणम् कथा इमास्ते कथिता महीयसां विताय लोकेषु यशः परेयुषाम् । विज्ञानवैराग्यविवक्षया विभो वचोविभूतीर्न तु पारमार्थ्यम् ॥ यत्तूत्तमःश्लोकगुणानुवादः सङ्गीयतेऽभीक्ष्णममङ्गलघ्नः । तमेव नित्यं शृणुयादभीक्ष्णं कृष्णेऽमलां भक्तिमभीप्समानः ॥ [भागवतम् १२.३.१४१५] टीका च राजवंशानुकीर्तनस्य तात्पर्यमाह कथा इमा इति । विज्ञानं विषयासारताज्ञानम् । ततो वैराग्यम् । तयोर्विवक्षया । परेयुषां मृतानां वचोविभूतीर्वाग्विलासमात्ररूप्¸अः । पारमार्थ्यं परमार्थयुक्तं कथनं न भवतीत्यर्थ । कस्तर्हि पुरुषाणामुपादेयः परमार्थस् तमाह यस्त्विति । नित्यं प्रत्यहम् । तत्र्¨¨अप्यभीक्ष्णमित्येषा । अत्र यत क्वचिच्छ्रीरामलक्ष्मणादयोऽपि तेषां राज्ञां मध्ये वैराग्यार्थअ छत्रिन्यायेन पठ्यन्ते तन्निरस्यते । अतो यद्यपि निगम कल्पतरोरित्याद्य्अनुसारेण सर्वस्यैव प्रसङ्गस्य रसरूपत्वं तथापि क्वचित्साक्षाद्भक्तिमयशान्तादिरसरूपत्वं क्वचित्तद्उपकरण शान्तादिरसरूपत्वं च समर्थनीयम् । अस्ति हि तत्र तत्र भक्तिरसेष्वपि तारतम्यमिति । गुणाः कारुण्यादयः । तद्गुणकीर्तिः स्वभाव एवासाविति श्रीगीतास्वपि दृष्टम् स्थाने हृषीकेश तव प्रकीर्त्या जगत्प्रहृष्यत्य् अनुरज्यते च [गीता ११.३६] इत्यादौ । अत्र महाभागवतानामपि भगवत इव गुणश्रवणं मतम् तत्कथ्यतां महाभाग यदि कृष्णकथाश्रयम् । अथवास्य पदाम्भोज मकरन्दलिहां सताम् ॥ [भागवतम् १.१६.६] इति शौनकोक्तेः । यद्यप्यत्र गुणशब्देन रूपलीलयोरपि सौष्ठवं गृह्यते तथापि तत्प्राधान्यनिर्देशात्पृथग्ग्रहणम् । एवमुत्तरत्रापि ज्ञेयम् । भक्तिं प्रेमाणम् । अमलां कैवल्यादीच्छारहिताम् । ॥ १२.३ ॥ श्रीशुकः ॥ २५० ॥ [२५१] किं च यत्रोत्तमश्लोकगुणानुवादः प्रस्तूयते ग्राम्यकथाविघातः । निषेव्यमाणोऽनुदिनं मुमुक्षोर् मतिं सतीं यच्छति वासुदेवे ॥ [भागवतम् ५.१२.१३] मुमुक्षोरपि किं पुनर्भक्तिमात्रेच्छोः । सतीं मुमुक्षाद्य्अन्य कामनारहिताम् । तदन्या तु व्यभिचारिणीति भावः । ॥ ३.९ ॥ श्रीब्राह्मणो रहूगणम् ॥ २५१ ॥ (पगे १३०) [२५२] व्यतिरेकेण च निवृत्ततर्षैरुपगीयमानाद् भवौषधाच्छ्रोत्रमनोऽभिरामात् । क उत्तमश्लोकगुणानुवादात् पुमान् विरज्येत विना पशुघ्नात् ॥ [भागवतम् १०.१.४] निवृत्त्य्आदिविशेषणत्रयेण मुक्तमुमुक्षुविषयिजनानां ग्रहणम् । पशुघ्नो व्याधः । तस्य हि राजपुत्र चिरं जीव मा जीव मुनिपुत्रक । जीव वा मर वा साधो व्याधो मा जीव मा मर ॥ इति न्यायेन विषयसुखेऽपि तात्पर्यं नास्ति । न च तद्अभिज्ञत्वमस्ति विशेषतस्तु कथारसज्ञाने । परममूढत्वात् सामर्थ्यं नास्त्येव । यद्वा दैत्यस्वभावस्य यस्य निन्दामात्र तात्पर्यं स एव हिंसकत्वेन पश्यघ्नशब्देनोच्यते । पशुघ्नो व्याधः । सोऽपि मृगादीनां सौन्दर्यादिकगुणमगणयन्नेव हिंसामात्रतत्पर इति । ततो रसग्रहणाभावाद्युक्तमुक्तं विना पशुघ्नादिति । उभयथापि तद्बहिर्मुखेभ्यो गालिप्रदान एव तात्पर्यम् । यथा तृतीये श्री मैत्रेयस्य को नाम लोके पुरुषार्थसारवित् पुराकथानां भगवत्कथासुधाम् । आपीय कर्णाञ्जलिभिर्भवापहाम् अहो विरज्येत विना नरेतरम् ॥ [भागवतम् ३.१३.५१] इति । ॥ १०.१ ॥ श्रीराजा श्रीशुकम् ॥ २५२ ॥ [२५३] अथ लीलाश्रवणम् ज्ञानं यदाप्रतिनिवृत्तगुणोर्मिचक्रम् आत्मप्रसाद उत यत्र गुणेष्वसङ्गः । कैवल्यसम्मतपथस्त्वथ भक्तियोगः को निर्वृतो हरिकथासु रतिं न कुर्यात् ॥ [भागवतम् २.३.१२] यत्यासु कथासु ज्ञानं भवति । कीदृशं ? आ सर्वतः प्रतिनिवृत्तमुपरतं गुणोर्मीआं रागादीनां चक्रं समूहो यस्मात् । यतो यत्र यासु कथासु तद् धेतुरात्मप्रसादश्च तत्प्रसादहेतुर्विषयानासक्तिश्च । किं बहुना ? तत्फलं यत्कैवल्यं तदपि । ब्रह्मभूतः प्रसन्नात्मा इत्याद्य् उक्तानुसारेण । सम्मतः पन्थाः प्राप्तिद्वारं यत्र स प्रेमाख्यो भक्ति योगोऽपि । यास श्रुतमात्रासु तत्तद्अनपेक्ष्यैव भवति तासु हरिकथासु तच्चरितेषु कं श्रवणसुखेन निर्वृतः सनन्यत्रानिर्वृतो वा रतिं रागं न कुर्यात् । ॥ २.३ ॥ श्रीशुकः ॥ २५३ ॥ [२५४] किं बहुना, एतद्अर्थमेवास्य महापुराणाविर्भाव इति भवतानुदित प्रायं यशो भगवतोऽमलम् [भागवतम् १.५.८] इत्यादौ समाधिनानुस्मर तद् विचेष्टितम् [भागवतम् १.५.१६] इत्यादौ च वर्णितम् । सा च लीला द्विविधा सृष्ट्य्आदिरूपा लीलावतारविनोदरूपा च । तयोरुत्तरा तु प्रशस्ततरेत्याशयेनाह प्राधान्यतो यानृष आमनन्ति लीलावतारान् पुरुषस्य भूम्नः । आपीयतां कर्णकषायशोषान् अनुक्रमिष्ये त इमान् सुपेशान् ॥ [भागवतम् २.६.४६] यद्यपि पूर्वमाद्योऽवतारः पुरुषः परस्य [भागवतम् २.६.४०] इत्यादिग्रन्थेन पुरुषं कालादि (पगे १३१) तच्छक्तिं मन आदितत्कार्यं ब्रह्मादितद् गुणावतारान् दक्षादितत्तद्विभूतींश्चोक्तवानस्मि, तेन च सृष्ट्य्आदि लीलाः, तथापि यान् हे ऋषे पुरुषस्य भूम्नो लीलावतारान् प्राधान्येन आमनन्ति तानेव इमान्मम हृदयाधिरूढान् कर्णकषायशोषान् तद् इतरश्रवणरागहन्तॄन् किं च सुपेशाम् । परममनोहरान् अनुक्रमिष्ये । तद्अनुक्रमेण आ सम्यक्पीयताम् । ॥ २.६ ॥ श्रीब्रह्मा नारदेन ॥ २५४॥ [२५५] एवं दुरवगमात्मतत्त्वनिगमाय [भागवतम् १०.८७.१७] इत्यादौ वेदस्तुतावपि तच्छ्लाघा द्रष्टव्या । अतएव प्रथमे भावयत्येषः [भागवतम् १.२.३३] इत्य् आदौ, लीलावतारानुरत [भागवतम् १.२.३३] इति तद्विशेषणं दत्तम् । तथा च श्री भगवद्गीतासु जन्म कर्म च मे दिव्यमेवं यो वेत्ति तत्त्वतः । त्यक्त्वा देहं पुनर्जन्म नैति मामेति सोऽर्जुन ॥ [गीता ४.९] इति । एषा खलु मर्त्यशरीरमपि पार्षदभावेन जितमृत्यकं विदधाति । यद् आह साधु वीर त्वया पृष्टमवतारकथां हरेः । यत्त्वं पृच्छसि मर्त्यानां मृत्युपाशविशातनीम् ॥ ययोत्तानपदः पुत्रो मुनिना गीतयार्भकः । मृत्योः कृत्वैव मूर्ध्न्यङ्घ्रिमारुरोह हरेः पदम् ॥ [भागवतम् ३.१४.५६] मुनिना श्रीनारदेन । अतस्तेन भगवद्अवतारकथापि तं प्रति श्रावितास्तीति गम्यते । तेन शरीरेणैव मृत्युजयः पार्षदत्वं चोक्तम् परीत्याभ्यर्च्य धिष्ण्याग्र्यं पार्षदावभिवन्द्य च । इयेष तदधिष्ठातुं बिभ्रद्रूपं हिरण्मयम् ॥ [भागवतम् ४.१२.२९] इति । ॥ ३.१४ ॥ श्रीमैत्रेयः ॥ २५५ ॥ [२५६] तदेवं नामादिश्रवणमुक्तमत्र तत्परिकरश्रवणमपि ज्ञेयम् श्रुतस्य पुंसां सुचिरश्रमस्य नन्वञ्जसा सूरिभिरीडितोऽर्थः । तत्तद्गुणानुश्रवणं मुकुन्द पादारविन्दं हृदयेषु येषाम् ॥ [भागवतम् ३.१३.४] इत्यादौ । तत्र यद्यप्येकतरेणापि व्युत्क्रमेणापि सिद्धिर्भवत्येव तथापि प्रथमं नाम्नः श्रवणमन्तःकरणशुद्ध्य्अर्थमपेक्ष्यम् । शुद्धे चान्तःकरणे रूपश्रवणेन तद्उदययोग्यता भवति । सम्यग् उदिते च रूपे गुणानां स्फुरणं सम्पद्यते । ततस्तेषु नामरूपगुणेषु तत्परिकरेषु च सम्यक्स्फुरितेष्वेव लीलानां स्फुरणं सुष्ठु भवतीत्य् अभिप्रेत्य साधनक्रमो लिखितः । एवं कीर्तनस्मरणयोर्ज्ञेयम् । इदं च श्रवणं श्रीमन्महन्मुखरितं चेन्महामाहात्म्यं जात रुचीनां परमसुखदं च । तच्च द्विविधं महद्आविर्भावितं महत् कीर्त्यमानं चेति । तत्र श्रीभागवतमुपलक्ष्य पूर्वं यथा इदं भागवतं नाम पुराणं ब्रह्मसम्मितम् । उत्तमश्लोकचरितं चकार भगवानृषिः ॥ [भागवतम् १.३.४०] अत्र तन्माहात्म्यसूचनार्थमेव तत्कर्तृकत्ववचनम् । ॥ १.३ ॥ श्रीसूतः ॥ २५६ ॥ [२५७] यथा वा निगमकल्पतरोर्गलितं फलं शुकमुखादमृतद्रव संयुतम् [भागवतम् १.१.३] (पगे १३२) इत्यादौ । अत्र श्रीशुकमुखादमृत द्रवसंयुतत्वेन परमसुखदत्वमुक्तम् । एतद्उपलक्षणत्वेन श्री लीलाशुकाद्यार्भावितकर्णामृतादिग्रन्था अपि क्रोडीकर्तव्याः । अथ महत्कीर्त्यमानं यथा स उत्तमश्लोक महन्मुखच्युतो भवत्पदाम्भोजसुधा कणानिलः । स्मृतिं पुनर्विस्मृततत्त्ववर्त्मनां कुयोगिनां नो वितरत्यलं वरैः ॥ [भागवतम् ४.२०.२५] न कामये नाथ तदपि [भागवतम् ४.२०.२१] इत्यादि पूर्वोक्तानुसारात्स्व सुखातिशयेन कैवल्यसुखतिरस्कारी महतां मुखाद्विगलितो भवत् पादाम्भोजमाधुर्यलेशस्यापि सम्बन्धी शब्दात्मकोऽनिलो । विस्मृत परमतत्त्वात्मकत्वदीयज्ञानानामस्माकं त्वदीयां स्मृतिमपि यच् चेति । त्स्मात्तथाविधस्य तस्य परमसाध्यसाधनात्मकत्वादलम् अन्यैर्वरैरित्यर्थः । ॥ ४.२० ॥ पृथुः श्रीविष्णुम् ॥ २५७ ॥ [२५८२५९ ] तदेव महामाहात्म्यं महासुखप्रदत्वं चोक्तम् । तदेतदुभयम् अप्यत्राह द्वाभ्याम् तस्मिन्महन्मुखरिता मधुभिच् चरित्रपीयूषशेषसरितः परितः स्रवन्ति । ता ये पिबन्त्यवितृषो नृप गाढकर्णैस् तान्न स्पृशन्त्यशनतृड्भयशोकमोहाः ॥ [भागवतम् ४.२९.४०] अस्मिन् साधुसङ्गे । महद्भिर्मुखरिताः कीर्तिताः । शेषः सारः । अवितृषोऽलंबुद्धिशून्याः । गाढत्वं सावधानत्वम् । अशनं क्षुत् । एतैरुपद्रुतो नित्यं जीवलोकः स्वभावजैः । न करोति हरेर्नूनं कथामृतनिधौ रतिम् ॥ [भागवतम् ४.२९.४१] यैरेतैरशनादिभिरुपद्रुतैः सन् कथामृतनिधौ रतिं न करोति तान् एतान्महत्कीर्त्यमानानि भगवद्यशांसि स्वमाहात्म्येन दूरीकृत्य स्व सुखमनुभावयन्तीति पद्यद्वययोजनार्थः ॥ ॥ ३.२९ ॥ श्रीनारदः प्राचीनबर्हिषम् ॥ २५८२५९ ॥ [२६०] तत्रापि श्रवणे श्रीभागवतश्रवणं तु परमश्रेष्ठम् । तस्य तादृश प्रभावमयशब्दात्मकत्वात्परमरसमयत्वाच्च । तत्र पूर्वस्माद् यथा श्रीमद्भागवते महामुनिकृते किं वा परैरीश्वरः सद्यो हृद्यवरुध्यतेऽत्र कृतिभिः शुश्रूषुभिस्तत्क्षणात् ॥ [भागवतम् १.१.२] इति । महामुनिः सर्वमहन्महनीयचरणपङ्कजः श्रीभगवान् । अत्र किं वा परैरित्यादिना शब्दस्वाभाविकमाहात्म्यं दर्शितम् । ॥ १.१ ॥ श्रीव्यासः ॥ २६० ॥ [२६१] उत्तरस्माद्यथा सर्ववेदान्तसारं हि श्रीभागवतमिष्यते । तद्रसामृततृप्तस्य नान्यत्र स्याद्रतिः क्वचित् ॥ [भागवतम् १२.१३.१२] तद्रस एवामृतं तेन तृप्तस्य । ॥ १२.१३ ॥ श्रीसूतः ॥ २६१ ॥ [२६२] अत्रैव विवेचनीयम् श्रीभगवन्नामादेः श्रवणं तावत्परमं श्रेयः । तत्रापि महद्आविर्भावित्प्रबन्धादेः । तत्र महत्कीर्त्यमानस्य ततोऽपि श्रीभागवतस्य । तत्रापि च महत्कीर्त्यमानस्येति । अत्र मूर्त्याभिमतयात्मनः इतिवत्निजाभीस्टनामादिश्रवणं तु मुहुर् आवर्तयितव्यम् । (पगे १३३) तत्रापि सवासनमहानुभवमुखात्सर्वस्य श्रीकृष्णनामादिश्रवणं तु परमभाग्यादेव सम्पद्यते तस्य पूर्ण भगवत्त्वादिति । एवं कीर्तनादिष्वप्यनुसन्धेयम् । तत्र यत्स्वयं सम्प्रति कीर्त्यते तदपि श्रीशुकदेवादि महत्कीर्तितचरत्वेनानुसन्धाय कीर्तनीयमिति । तदेव श्रवणं दर्शितम् । अस्य च कीर्तनादितः पूर्वत्वं तद्विना तत्तद् अज्ञानात् । विशेषतश्च यदि साक्षादेव महत्कृतस्य श्रवणभाग्यं न सम्पद्यते तदैवं स्वयं पृथक्कीर्तनीयमिति तत्प्राधान्यात् । अतएवोक्तं तद्वाग्विसर्गो जनताघविप्लवः [भागवतम् १.५.११, १२.१२.५२] इत्यादौ । टीकाकृद्भिः यद्यानि नामानि वक्तरि सति शृण्वन्ति श्रोतरि सति गृणन्ति अन्यदा तु स्वयमेव गायन्ति इति । अथातः कीर्तनम् । तत्र पूर्ववन्नामादिक्रमो ज्ञेयः । नाम्नो यथा सर्वेषामप्यघवतामिदमेव सुनिष्कृतम् । नामव्याहरणं विष्णोर्यतस्तद्विषया मतिः ॥ [भागवतम् ६.२.१०] टीका च सुनिष्कृतं श्रेष्ठं प्रायश्चित्तमिदमेव । तत्र हेतुः यतो नामव्याहरणात्तद्विषया नामोच्चारकपुरुषविषया मदीयोऽयं मया सर्वतो रक्षणीय इति विष्णोर्मतिर्भवति इत्येषा । अतः स्वाभाविकतदीयावेशहेतुत्वेन तदीयस्वरूपभूतत्वात्परम भागवतानां तद्एकदेशश्रवणमपि प्रीतिकरम् । यथा पाद्मोत्तर खण्डे श्रीरामाष्टोत्तरशतनामस्तोत्रे श्रीशिववाक्यम् रकारादीनि नामानि शृण्वतो देवि जायते । प्रीतिर्मे मनसो नित्यं रामनामविशङ्कया ॥ [ড়द्मড়् ६.२५४.२१*] इति । तदेवं सति पापक्षयमात्रफलं कियदिति भावः । ॥ ६.२ ॥ श्रीविष्णुदूता यमदूतान् ॥ २६२ ॥ [२६३] फलं त्विदमेव, यदाह एवंव्रतः स्वप्रियनामकीर्त्या जातानुरागो द्रुतचित्त उच्चैः । हसत्यथो रोदिति रौति गायत्य् उन्मादवन्नृत्यति लोकबाह्यः ॥ [भागवतम् ११.२.४०] एवं शृण्वन् सुभद्राणि रथाङ्गपाणेः [भागवतम् ११.२.३८] इत्य्आद्य्उक्तप्रकारं व्रतं वृत्तं यस्य तथाभूतोऽपि स्वप्रियाणि स्वाभीष्टानि यानि नामानि तेषां कीर्तनेन जातानुरागस्तत एव चित्तद्रवाद्द्रुतचित्तः । तत्रोचितभाव वैचित्रीभिर्हसतीत्यादि । अत्र तृतीयाश्रुत्या नामकीर्तनस्यैव साधकत्वमत्वं लब्धम् । तदेवं व्रत इत्यत्रापि शब्दोऽप्यध्याहृतः । अतएव भक्तिः परेशानुभवो विरक्तिः [भागवतम् ११.२.४०] इत्याद्य्उत्तरपद्ये टीकाचूर्णिका नन्वियमारूढयोगिनामपि बहुजन्मभिर्दुर्लभा गतिः कथं नामकीर्तनमात्रेणैकास्मिन् जन्मनि भवेदित्याशङ्क्य स दृष्टान्तमाह भक्तिरिति इत्येषा । इत्थमुत्थापितं च श्रीभगवन्नामकौमुद्यां सहस्रनामभाष्ये च पुराणान्तरवचनम् नक्तं दिवा च गतभीर्जितनिद्र एको निर्विण्ण ईक्षितपथो मितभुक्प्रशान्तः । यद्यच्युते भगवति स मनो न सज्जेन् नामानि तद्रतिकराणि पठेद्विलज्जः ॥ इति । अत्र गतभीत्यादयो गुणा नामैकतत्परतासम्पादनार्था न तु कीर्तनाङ्गभूता । भक्ति (पगे १३४) मात्रस्य निरपेक्षत्वं तस्य तु सुतरां तादृशत्वमिति । यथा विष्णुधर्मसर्वपातकातिपातक महापातककारिद्वितीयक्षत्रबन्धूपाख्याने ब्राह्मण उवाच यद्येतदखिलं कर्तुं न शक्नोषि ब्रवीमि ते । स्वल्पमनन्यन्मयोक्तं भो करिष्यति भवान् यदि ॥ क्षत्रबन्धुरुवाच अशक्यमुक्तं भवता चञ्चलत्वाद्धि चेतसः । वाक्शरीरविनिष्पाद्यं यच्छक्यं तदुदीरय ॥ ब्राह्मण उवाच उत्तिष्ठता प्रस्वपता प्रस्थितेन गमिष्यता । गोविन्देति सदा वाच्यं क्षुत्तृट्प्रस्खलितादिषु ॥ इति । ॥ ११.३ ॥ श्रीकविर्विदेहम् ॥ २६३ ॥ [२६४] अन्यत्र च न निष्कृतैरुदितैर्ब्रह्मवादिभिस् तथा विशुद्ध्यत्यघवान् व्रतादिभिः । यथा हरेर्नामपदैरुदाहृतैस् तदुत्तमश्लोकगुणोपलम्भकम् ॥ [भागवतम् ६.२.११] [२६५] अतएव प्रथमस्कन्धान्तस्थितानां राज्ञः श्रेयोविविदिषावाक्यानाम् अनन्तरं द्वितीयस्कन्धारम्भे सर्वोत्तममुत्तरं वक्तुम् इदं भागवतं नाम पुराणं ब्रह्मसम्मितम् । अधीतवान् द्वापरादौ पितुर्द्वैपायनादहम् ॥ परिनिष्ठितोऽपि नैर्गुण्य उत्तमश्लोकलीलया । गृहीतचेता राजर्षे आख्यानं यदधीतवान् ॥ तदहं तेऽभिधास्यामि महापौरुषिको भवान् । यस्य श्रद्दधतामाशु स्यान्मुकुन्दे मतिः सती ॥ [भागवतम् २.१.८१०] इति श्रीभागवतस्य परममहिमानमुक्त्वा तद्अनन्तरं श्री भागवतमुपक्रममाण एव तस्य नानाङ्गवतः श्रीभगवद् उन्मुखतया तन्नामकीर्तनमेवोपदिशति । तत्रापि सर्वेषामेव परम साधनत्वेन परमसाध्यत्वेन चोपदिशति एतन्निर्विद्यमानानामिच्छतामकुतोभयम् । योगिनां नृप निर्णीतं हरेर्नामानुकीर्तनम् ॥ [भागवतम् २.१.११] टीका च साधकानां सिद्धानां च नातः परमन्यच्छ्रेयोऽस्तीत्याह एतद् इति । इच्छतां कामिनां तत्तत्फलसाधनमेतदेव । निर्विद्यमानानां मुमुक्षूणां मोक्षसाधनमेतदेव । योगिनां ज्ञानिनां फलं चैतद् एव निर्णीतम् । नात्र प्रमाणं वक्तव्यमित्यर्थः । इत्येषा । नामकीर्तनं चेदमुच्चैरेव प्रशस्तम् नामान्यनन्तस्य हतत्रपः पठन् [भागवतम् १.५.११] इत्यादौ । अथ पाद्मोक्ता दशाप्यपराधाः परित्याज्याः । यथा सनत्कुमारवाक्यम् सर्वापराधकृदपि मुच्यते हरिसंश्रयात् । हरेरप्यपराधान् यः कुर्याद्द्विपदपांसवः ॥ नामाश्रयः कदाचित्स्यात्तरत्येव स नामतः । नाम्नोऽपि सर्वसुहृदो ह्यपराधात्पतत्यधः ॥ इति । अपराधाश्चैते सतां निन्दा नाम्नः परममपराधं वितनुते यतः ख्यातिं यातं कथमु सहते तद्विगर्हाम् । शिवस्य श्रीविष्णोर्य इह गुणनामादिसकलं धिया भिन्नं पश्येत्स खलु हरिनामाहितकरः ॥ (पगे १३५) गुरोरवज्ञा श्रुतिशास्त्रनिन्दनम् तथार्थवादो हरिनाम्नि कल्पनम् । नाम्नो बलाद्यस्य हि पापबुद्धिर् न विद्यते तस्य यमैर्हि शुद्धिः ॥ धर्मव्रतत्यागहुतादिसर्व शुभक्रियासाम्यमपि प्रमादः । अश्रद्दधाने विमुखेऽप्यशृण्वति यश्चोपदेशः शिवनामापराधः ॥ श्रुत्वापि नाममाहात्म्ये यः प्रीतिरहितोऽधमः । अहंममादिपरमो नाम्नि सोऽप्यपराधकृत् ॥ इति । अत्र सर्वापराधकृदपि इत्यादौ श्रीविष्णुयामलवाक्यमप्य् अनुसन्धेयम् मम नामानि लोकेऽस्मिन् श्रद्धया यस्तु कीर्तयेत् । तस्यापराधकोटीस्तु क्षमाम्येव न संशयः ॥ इति । सतां निन्दा इत्यनेन हिंसादीनां वचनागोचरत्वं दर्शितम् । निन्दादयस् तु यथा स्कान्दे श्रीमार्कण्डेयभगीरथसंवादे निन्दां कुर्वन्ति ये मूढा वैष्णवानां महात्मनाम् । पतन्ति पितृभिः सार्धं महारौरवसंज्ञिते ॥ हन्ति निन्दन्ति वै द्वेष्टि वैष्णवान्नाभिनन्दति । क्रुध्यते याति नो हर्षं दर्शने पतनानि षट् ॥ इति । तन्निन्दाश्रवणेऽपि दोष उक्तः निन्दां भगवतः शृण्वन् तत्परस्य जनस्य वा । ततो नापैति यः सोऽपि यात्यधः सुकृताच्च्युतः ॥ [भागवतम् १०.७६.२६] इति । ततोऽपगमश्चासमर्थस्यैव । समर्थेन तु निन्दकजिह्वा छेत्तव्या । तत्राप्यसमर्थनस्वप्राणपरित्यागोऽपि कर्तव्यः । यथोक्तं देव्या कर्णौ पिधाय निरयाद्यदकल्प ईशे धर्मावितर्यसृणिभिर्नृभिरस्यमाने । छिन्द्यात्प्रसह्य रुशतीमसतीं प्रभुश्चेज् जिह्वामसूनपि ततो विसृजेत्स धर्मः ॥ [भागवतम् ४.४.१७] इति । शिवस्य श्रीविष्णोरित्यत्रैवमनुसन्धेयम् । श्रूयतेऽपि यद्यद्विभूतिमत्सत्त्वं श्रीमदूर्जितमेव वा । तत्तदेवावगच्छ त्वं मम तेजोऽंशसंभवम् ॥ [गीता १०.४१] इति । ब्रह्मा भवोऽहमपि यस्य कलाः कलायाः [भागवतम् १०.६८.२६] इति । यत्पादनिःसृतसरित्प्रवरोदकेन तीर्थेन मूर्ध्नाधिकृतेन शिवः शिवोऽभूत्[भागवतम् ३.२८.२२] इति । सृजामि तन्नियुक्तोऽहं हरो हरति तद्वशः । विश्वं पुरुषरूपेण परिपाति त्रिशक्तिधृक् ॥ [भागवतम् २.६.३०] तथा माध्वभाष्यदर्शितानि वचनानि ब्रह्माण्डे रुजं द्रावयते यस्माद्रुद्रस्तस्माज्जनार्दनः । ईशनादेव चेशानो महादेवो महत्त्वतः ॥ पिबन्ति ये नरा नाकं मुक्ताः संसारसागरात् । तद्आधारो यतो विष्णुः पिनाकीति ततः स्मृतः ॥ शिवः सुखात्मकत्वेन सर्वसरोधनाद्धरः । कृत्यात्मकमिमं देहं यतो वस्ते प्रवर्तयन् ॥ कृत्तिवासास्ततो देवो विरिञ्चिश्च विरेचनात् । बृंहणाद्ब्रह्मनामासौ ऐश्वर्यादिन्द्र उच्यते ॥ एवं नानाविधैः शब्दैरेक एव त्रिविक्रमः । वेदेषु च पुराणेषु गीयते पुरुषोत्तमः ॥ इति । वामने न तु नारायणादीनां नाम्नामन्यत्र संशयः । अन्यनाम्नां गतिर्विष्णुरेक एव प्रकीर्तितः ॥ इति । स्कान्दे ऋते नारायणादीनि नामानि पुरुषोत्तमः । अदादन्यत्र भगवान् राजेवर्ते स्वकं पुरम् ॥ इति । ब्राह्मे चतुर्मुखः शतानन्दो ब्रह्मणः पद्मभूरिति। उग्रो भस्मधरो नग्नः कपालीति शिवस्य च । विशेष्नामानि ददौ स्वकीयान्यपि केशवः ॥ इति । तदेवं श्रीविष्णोः सर्वात्मकत्वेन प्रसिद्धत्वात्तस्मात्सकाशात्शिवस्य गुणनामादिकं भिन्नं शक्त्य्अन्तरसिद्धमिति यो धियापि पश्येदित्य् अर्थः । द्वयोरभेदतात्पर्येण षष्ठ्य्अन्तत्वे सति श्रीविष्णोश्चेत्य् अपेक्ष्य चशब्दः क्रियेत । तत्प्राधान्यविवक्षयैव श्रीशब्दश्च तत्रैव दत्तः । अतएव शिवनामापराध इति शिवशब्देन मुख्यतया श्रीविष्णुर् एव प्रतिपादित इत्यभिप्रेतम् । सहस्रनामादौ च स्ह्ताणुशिवादिशब्दास् तथैव । अथ श्रुतिशास्त्रनिन्दनम् यथा पाषण्डमार्गेण दत्तात्रेयर्षभ देवोपासकानां पाषण्डिनाम् । तथार्थवादः स्तुतिमात्रमिदमिति मननम् । कल्पनं तन्माहात्म्य गौणताकरणाय गत्य्अन्तरचिन्तनम् । यथोक्तं कौर्मे व्यासगीतायां देवद्रोहाद्गुरुद्रोहः कोटिकोटिगुणाधिकः । ज्ञानापवादो नास्तिक्यं तस्मात्कोटिगुणाधिकम् ॥ इति । यत्तु श्रुतनाम्माहात्म्यस्याप्यजामिलस्य सोऽहं व्यक्तं पतिष्यामि नरके भृशदारुणे [भागवतम् ६.२.२७] इत्येतद्वाक्यं तत्खलु स्वदौरात्म्य मात्रदृष्ट्या । नाममाहात्म्यदृष्ट्या त्वग्रे वक्ष्यते तथापि मे दुर्भगस्य [भागवतम् ६.२.३०] इत्यादि द्वयम् । नाम्नो बलादिति । यद्यî भवेन्नाम्नो बलेनापि कृतस्य पापस्य तेन नाम्ना क्षयः । तथापि येन नाम्नो बलेन परमपुरुषार्थस्वरूपं सच् चिद्आनन्दसान्द्रं साक्षाच्छ्रीभगवच्चरणारविन्दं साधयितुं प्रवृत्तस्तेनैव परमघृणास्पदं पापविषयं साधयतीति परम दौरात्म्यम् । ततः कदर्थयत्येव तं तन्नाम चेति तत्पापकोटि महत्तमस्यापराधस्यापातो बाढमेव । ततो यमैर्बहुभिर्यम नियमादिभिः कृतप्रायश्चित्तस्य क्रमेण पात्पाधिकारैरनेकैरपि दण्ड धरैर्वा कृतदण्डस्य तस्य शुद्ध्य्अभावो युक्त एव । नामापराध युक्तानामित्यादि वक्ष्यमाणानुसारेण पुनरपि सततनामकीर्तन मात्रस्य तत्र प्रायश्चित्तत्वात् । सर्वापराधकृदपि इत्याद्युक्त्य्अनुसारेण नामापराधयुक्तस्य भगवद्भक्तिमतोऽप्यधःपातलक्षणभोग नियमाच्च । तत इन्द्रस्याश्वमेधाख्यभगवद्यजनबलेन वृत्रहत्या प्रवृत्तिस्तु लोकोपद्रवशान्तिं तदीयासुरभावखण्डनं चेच्छूआम् ऋषीणामङ्गीकृतत्वान्न दोष इति मन्तव्यम् । (प्१३७) अथ धर्मव्रतत्यागेति धर्मादिभिः साम्यमननमपि प्रमादः । अपराधो भवतीत्यर्थः । अत एव च वेदाक्षराणि यावन्ति पठितानि द्विजातिभिः । तावन्ति हरिनामानि कीर्तितानि न संशयः ॥ इत्यतिदेशेनापि नाम्न एव माहात्म्यमायाति । उक्तं हि मधुरमधुरम् एतन्मङ्गलं मङ्गलानां सकलनिगमवल्लीसत्फलं चित्स्वरूपमिति । तथा श्रीविष्णुधर्मे ऋग्वेदो हि यजुर्वेदः सामवेदोऽप्यथर्वणः । अधीतास्तेन येनोक्तं हरिरित्यक्षरद्वयम् ॥ स्कान्दे पार्वत्य्उक्तौ मा ऋचो मा यजुस्तात मा साम पठ किञ्चन । गोविन्देति हरेर्नाम गेयं गायस्व नित्यशः ॥ पाद्मे श्रीरामाष्टोत्तरशतनामस्तोत्रे विष्णोरेकैकनामैव सर्ववेदाधिकं मतम् [ড়द्मড়् ६.२५४.२७] इति । अथ अश्रद्दधाने इत्यादिनोपदेष्टुरपराधं दर्शयित्वोपदेशस्याह श्रुत्वेति । यतः अहंममादिपरमः अहन्ताममताद्य्एकतात्पर्येण तस्मिन्ननादरवानित्यर्थः । नामैकं यस्य वाचि स्मरणपथगतम् इत्यादौ देहद्रविणादिनिमित्तकपाषण्डशब्देनन् च दशापराधा लक्ष्यन्ते पाषण्डमयत्वात्तेषाम् । तथा तद्विधानामेवापराधान्तरम् उक्तं पाद्मवैशाखमाहात्म्ये अवमन्य च ये यान्ति भगवत्कीर्तनं नराः । ते यान्ति नरकं घोरं तेन पापेन कर्मणा ॥ [ড়द्मড়् ५.९६.६३] इति । एषां चापराधानामनन्यप्रायश्चित्तत्वमेवोक्तं तत्रैव नामापराधयुक्तानां नामान्येव हरन्त्यघम् । अविश्रान्तप्रयुक्तानि तान्येवार्थकराणि च ॥ इति । अत्र स्तप्रभृतिष्वपराधे तु तत्सन्तोषार्थमेव सन्ततनाम कीर्तनादिकं समुचितम् । अम्बरीषचरितादौ तद्एक क्षम्यत्वेनापराधानां दर्शनात् । उक्तं च नामकौमुद्याम् महद् अपराधस्य भोग एव निवर्तकः तद्अनुग्रहो वा इति । तस्मादगत्य् अन्तराभावात्साधूक्तमेतन्निर्विद्यमानानाम् [भागवतम् २.१.११] इति । ॥ २.१ ॥ श्रीशुकः ॥ २६५ ॥ [२६६] एवं श्रीनारदेनोक्तं बृहन्नारदीये महिम्नामपि यन्नाम्नः पारं गन्तुमनीश्वरः । मनवोऽपि मुनीन्द्राश्च कथं तं क्षुण्णधीर्भजे ॥ इति । अथ श्रीरूपकीर्तनम् । प्रत्याक्रष्टुं नयनमबला इत्यादौ यच्छ्रीर्वाचां जनयति रतिं कीर्त्यमाना कवीनाम् ॥ [भागवतम् ११.३०.३] इति । यस्य श्रीकृष्णरूपस्य शोभासम्पत्तिः कीर्त्यमाना सती कवीनां तत् कीर्तकानां वाचां तत्कीर्तनेष्वेव रागं जनयति । अथोक्तं श्री चतुःसनेन कामं भवः सवृजिनैर्निरयेषु नस्तात्[भागवतम् ३.१५.४९] इत्यादौ । वाचश्च नस्तुलसिवद्यदि तेऽङ्घ्रिशोभाः इति । ॥ ११.३० ॥ राजा श्रीशुकम् ॥ २६६ ॥ [२६७] अथ गुणकीर्तनम् इदं हि पुंसस्तपसः श्रुतस्य वा स्विष्टस्य सूक्तस्य च बुद्धिदत्तयोः । अविच्युतोऽर्थः कविभिर्निरूपितो यदुत्तमःश्लोकगुणानुवर्णनम् ॥ २६७ ॥ [भागवतम् १.५.२२] (प्१३८) श्रुतं वेदाध्ययनम् । स्विष्टं यागादि । सूक्तं मन्त्रादिजयः । बुद्ध’शास्त्रीयबोधः । दत्तं दानम् । एतेषां भगवद्अर्पितानां सताम् एवाविच्युतोऽर्थः नित्यं फलम् । किं तत्? उत्तमःश्लोकस्य गुणानुकीर्तनं यत् । जातायामपि गुणानुवर्णनसाध्यायां परमपुरुषार्थरूपायां रतौ गुणानुवर्णनस्य प्रत्युत नित्यनित्योल्लासादविच्युतत्वमुक्तम् । तस्मादविच्युतत्वेन रतिमेवास्य फलं सूचयति । ॥ १.५ ॥ श्रीनारदः श्रीव्यासम् ॥ २६७ ॥ [२६८] अथ लीलाकीर्तनम् शृण्वतः श्रद्धया नित्यं गृणतश्च स्वचेष्टितम् । कालेन नातिदीर्घेन भगवान् विशते हृदि ॥ [भागवतम् २.८.३] नातिदीर्घेन स्वल्पेनैव । विशते स्फुरति । ॥ २.८ ॥ श्रीपरीक्षित् ॥ २६८ ॥ [२६९] तथा मृषा गिरस्ता ह्यसतीरसत्कथा न कथ्यते यद्भगवानधोक्षजः । तदेव सत्यं तदु हैव मङ्गलं तदेव पुण्यं भगवद्गुणोदयम् ॥ [भागवतम् १२.१२.४९] इत्यादि । यदुत्तमःश्लोकयशोऽनुगीयते [भागवतम् १२.१२.५०] असतीरसत्यः । असतां भगवतस्तद्भक्तेभ्यश्चान्येषां कथा यासु ताः । यद्यासु गीर्षु न कथ्यते । उत्तमःश्लोकस्य यशोऽनुगीयअ इति तु यत्तत् तदीयलीलामयानुगानमेव । सत्यमित्यादि । कथं सत्यत्वं मङ्गलत्वं च । तत्राह भगवद्गुणानामुदयो गायकहृदि स्फूर्तिर्यस्मात्तत् । तदीयरतिप्रदमित्यर्थः । स्कान्दे यत्र यत्र महीपाल वैष्णवी वर्तते कथा । तत्र तत्र हरिर्याति गौर्यथा सुतवत्सला ॥ विष्णुधर्मे स्कान्दे च भगवद्उक्तौ मत्कथावाचकं नित्यं मत्कथाश्रवणे रतम् । मत्कथाप्रीतिमनसं नाहं त्यक्ष्यामि तंनरम् ॥ इति । अत्र चानुगीयत इत्यनेन सुकण्ठता चेद्गानमेव कर्तव्यं तच्च प्रशस्तमित्यायातम् । एवं नामादीनामपि । उक्तं च गीतानि नामानि तद्अर्थकानि गायन् विलज्जो विचरेदसङ्गः । एवंव्रतः स्वप्रियनामकीर्त्या जातानुरागो द्रुतचित्त उच्चैः ॥ [भागवतम् १२.२.३७] इति । अन्यत्र च यानीह विश्वविलयोद्भववृत्तिहेतुः कर्माण्यनन्यविषयाणि हरिश्चकार । यस्त्वङ्ग गायति शृणोत्यनुमोदते वा भक्तिर्भवेद्भगवति ह्यपवर्गमार्गे ॥ [भागवतम् १०.६९.२९] इति । गानशक्त्य्अभावे स्वस्मादुत्कृष्टतरस्य प्राप्तौ वा तच्छृणोति । तदा शक्त्य्अभावे तदनुमोदतेऽपीत्यर्थः । श्रीविष्णुधर्मे श्रीविष्णूक्तौ रागेणाकृष्यते चेतो गान्धर्वाभिमुखं यदि । मयि बुद्धिं समास्थाय गायेथा मम सत्कथाः ॥ इति । पाद्मे च कार्त्तिकमाहात्म्ये श्रीभगवद्उक्तौ नाहं वसामि वैकुण्ठे योगिनां हृदये न च । मद्भक्ता यत्र गायन्ति तत्र तिष्ठामि नारद ॥ तेषां पूजादिकं गन्धधूपाद्यैः क्रियते नरैः । तेन प्रीतिं परां यामि न तथा मम पूजनात् ॥ इति । ते च प्राणिमात्राणामेव परमोपकर्तारः किमुत स्वेषाम् । यथोक्तं नारसिंहे श्रीप्रह्लादेन (पगे १३९) ते सन्तः सर्वभूतानां निरुपाधिकबान्धवाः । ये नृसिंह भवन्नाम गायन्त्युच्चैर्मुदान्विताः ॥ इति । अत्र च बहुभिर्मिलित्वा कीर्तनं सङ्कीर्तनमित्युच्यते । त्त्तु चमत्कार विशेषपोषात्पूर्वतोऽप्यधिकमिति ज्ञेयम् । अस्त्र च नामसङ्कीर्तने यथोपदिष्टं कलियुगपावनावतारेण श्रीभगवता तृणादपि सुनीचेन तरोरपि सहिष्णुना । अमानिना मानदेन कीर्तनीयः सदा हरिः ॥ [ড়द्यावली ३२] इति । ॥ १२.१२ ॥ श्रीसूतः ॥ २६९ ॥ [२७०} इयं च कीर्तनाख्या भक्तिर्भगवतो द्रव्यजातिगुणक्रियाभिर्दीन जनैकविषयापारकरुणामयीति श्रुतिपुराणादिविश्रुतिः । कलौ च दीनत्वं यथा ब्रह्मवैवर्ते अतः कलौ तपोयोगविद्यायाज्ञादिकाः क्रियाः । साङ्गाः भवन्ति न कृताः कुशलैरपि देहिभिः ॥ इति । अतएव कलौ स्वभावत एवातिदीनेषु लोकेष्वाविर्भूय ताननायासेनैव तत् तद्युगगतमहासाध्नानां सर्वमेव फलं ददाना सा कृतार्थयति । अतएव तयैव कलौ भगवतो विशेषतश्च सन्तोषो भवति । तथा चैवोत्तमं लोके तपः श्रीहरिकीर्तनम् । कलौ युगे विशेषेण विष्णुप्रीत्यै समाचरेत् ॥ इति स्कान्दचातुर्मास्यमाहात्म्यवचनानुसारेण । तदेवमाह कृते यद्ध्यायतो विष्णुं त्रेतायां यजतो मखैः । द्वापरे परिचर्यायां कलौ तद्धरिकीर्तनात् ॥ [भागवतम् १२.३.५२] यद्यत्कृतादिषु तेन तेन साधनेन स्यात्तत्सर्वं कलौ हरिकीर्तनाद् भवतीति । अन्यत्र च [Vइড়् ६.२.१७] ध्यायन् कृते यजन् यज्ञैस्त्रेतायां द्वापरेऽर्चयन् । यदाप्नोति तदाप्नोति कलौ सङ्कीर्त्य केशवम् ॥ इति । ॥१२.३॥ श्रीशुकः ॥ २७० ॥ [२७१] अतएव कलिं सभाजयन्त्यार्या गुणज्ञाः सारभागिनः । यत्र सङ्कीर्तनेनैव सर्वस्वार्थोऽभिलभ्यते ॥ [भागवतम् ११.५.३६] गुणज्ञाः कीर्तनप्रचाररूपं तद्गुणं जानन्तः । अतएव तद्दोष ग्रहणात्सारभागिनः सारमात्रग्रहणाः कलिं सभाजयन्ति । गुणमेव दर्शयति यत्र प्रचारितेन सङ्कीर्तनेनैव साधनान्तरनिरपेक्षेण तेनेत्य् अर्थः । सर्वो ध्यानादिभिः कृतादिषु साधनसहस्रैः साध्यः । [२७२] कीर्तनस्यैव महिमानमाह न ह्यतः परमो लाभो देहिनां भ्राम्यतामिह । यतो विन्देत परमां शान्तिं नश्यति संसृतिः ॥ [भागवतम् ११.५.३७] अतः कीर्तनात् । यतो यस्मात्कीर्तनात् । परमां शान्तिं शमो मन्निष्ठता बुद्धिः इति भगवद्वाक्यानुसारेण ध्यानादिभिरप्यसाध्यां सर्वोत्कृष्टां भगवन्निष्ठां प्राप्नोति । अनुषङ्गेण (पगे १४०) संसारश् च नश्यति । अत एव ध्याननिष्ठा अपि कृतादिप्रजा एतादृशीं भगवन् निष्ठां न प्राप्तवत्यः । महाभागवता नित्यं कलौ कुर्वन्ति कीर्तनम् इति स्कान्दाद्य्अनुसारेण कृतादिषु प्रजा राजन् कलाविच्छन्ति सम्भवम् तादृशनिष्ठाकारणं कीर्तनमाहात्म्यं च । दीनैककृपातिशयशालिना भगवता तदानीं तत्तत्सामर्थ्यावसरे यस्मात्न प्रकाशितं तस्मात् ध्यानादिसमर्थास्ताः प्रजा जिह्वौष्ठस्पन्दनमात्रस्य नातिसाधनत्वं भवेदिति मत्वा तन्न श्रद्धितवत्यश्च । [२७३] ततः कलिप्रजानां परमभगवन्निष्ठतां श्रुत्वा तद्अर्थं कलावेव केवलं निजजन्म प्रार्थयन्त इत्याह कृतादिषु प्रजा राजन् कलाविच्छन्ति सम्भवम् । कलौ खलु भविष्यन्ति नारायणपरायणाः ॥ [भागवतम् ११.५.३५] तत्परायणत्वमत्र तदीयप्रेमातिशयवत्त्वम् । एतदेव परमां शान्तिम् इत्यनेन कार्यद्वारा व्यञ्जितं मुक्तानामपि सिद्धानां नारायण परायणः सुदुर्लभः प्रशान्तात्मा [भागवतम् ६.१४.५] इत्यत्र यद्वत् । अत्र कलिसङ्गेन कीर्तनस्य गुणोत्कर्ष इति न वक्तव्यं भक्तिमात्रे काल देशनियमस्य निषिद्धत्वात् । विशेषतो नामोपलक्ष्य च विष्णुधर्मे च चक्रायुधस्य नामानि सदा सर्वत्र कीर्तयेतिति । स्कान्द एव च न देशकालावस्थात्मशुद्ध्य्आदिकमपेक्षते । किन्तु स्वतन्त्रमेवैदं तन्नाम कामितकामदम् ॥ इति । विष्णुधर्मे च कलौ कृतयुगं तस्य कलिस्तस्य कृते युगे । यस्य चेतसि गोविन्दो हृदये यस्य नाच्युत ॥ इति । न च कलावन्यसाधनसमर्थत्वादेव तेनाल्पेनापि महत्फलं भवति न तु तस्य गरीयस्त्वेनेति मन्तव्यम् । यस्मिन्न्यस्तमतिर्न याति नरकं स्वर्गोऽपि यच्चिन्तने विघ्नो यत्र निवेशितात्ममनसां ब्राह्मोऽपि लोकोऽल्पकः । मुक्तिं चेतसि यः स्थितोऽमलधियां पुंसां ददात्यव्ययः किं चित्रं यदघं प्रयाति विलयं तत्राच्युते कीर्तिते ॥ [Vइড়् ६.८.५७} इति समाधिपर्यन्तादपि स्मरणात्कौमुत्येन कीर्तनस्यैव गरीयस्त्वं श्रीविष्णुपुराणे दर्शितम् । अतएवोक्तमेतन्निर्विद्यमानानां [भागवतम् २.१.११] इत्यादि । तथा च अघच्छित्स्मरणं विष्णोर् बह्व्आयासेन साध्यते । ओष्ठस्पन्दनमात्रेण कीर्तनं तु ततो वरम् ॥ इति वैष्णवचिन्तामणौ । येन जन्मशतैः पूर्वं वासुदेवः समर्चितः । तन्मुखे हरिनामानि सदा तिष्ठन्ति भारत ॥ इत्यन्यत्र । सर्वापराधकृदपि इत्यादिनामापराधभजनस्तोत्रे च । तस्मात् सर्वत्रैव युगे श्रीमत्कीर्तनस्य समानमेव सामर्थ्यम् । कलौ च श्री भगवता कृपया तद्ग्राह्यत इत्यपेक्षयैव तत्र तप्रशंसेति स्थितम् । अतएव यद्यपि अन्यभक्तिः कलौ कर्तव्या तदा तत्संयोगेनैवेत्युक्तम् यज्ञैः सङ्कीर्तन(पगे १४१) प्रायैर्यजन्ति हि सुमेधसः [भागवतम् ११.५.२९] इति । अत्र च स्वतन्त्रमेव नामकीर्तनमत्यन्तप्रशस्तम् हरेर्नाम हरेर्नाम हरेर्नामैव केवलम् । कलौ नास्त्येव नास्त्येव नास्त्येव गतिरन्यथा ॥ इत्यादौ । तस्मात्साधूक्तं कलिं सभाजयन्त्यार्याः [भागवतम् ११.५.३] इत्यादित्रयम् ॥ ॥११.५॥ श्रीकरभाजनो निमिम् ॥ २७१२७३ ॥ [२७४] तदेवं कलौ नामकीर्तनप्रचारप्रभावेणैव परमभगवत् परायणत्वसिद्धिर्दर्शिता । तत्र पाषण्डप्रवेशेन नामापराधिनो ये तेषां तु तद्बहिर्मुखत्वमेव स्यादिति व्यतिरेकेण तद्द्रढयति कलौ न राजन् जगतां परं गुरुं त्रिलोकनाथानतपादपङ्कजम् । प्रायेण मर्त्या भगवन्तमच्युतं यक्ष्यन्ति पाषण्डविभिन्नचेतसः ॥ यन्नामधेयं म्रियमाण आतुरः पतन् स्खलन् वा विवशो गृणन् पुमान् । विमुक्तकर्मार्गल उत्तमां गतिं प्राप्नोति यक्ष्यन्ति न तं कलौ जनाः ॥ [भागवतम् १२.३.३७३८] स्पष्टम् ॥ ॥ १२.३ ॥ श्रीशुकः ॥ २७४ ॥ [२७५] तदेवं कीर्तनं व्याख्यातम् । तत्रास्मिन् कीर्तने निजदैन्यनिजाभीष्ट विज्ञप्तिस्तवपाठावप्यन्तर्भाव्यौ । तथा तत्र श्रीभागवतस्थित नामादिकीर्तनं तु पूर्ववदन्यदीया नामादिकीर्तनादधिकं ज्ञेयम् । कलौ तु प्रशस्तं तत् । कृष्णे स्वधामोपगते धर्मज्ञानादिभिः सह । कलौ नष्टदृशामेष पुराणार्कोऽधुनोदितः ॥ [भागवतम् १.३.४२] इति । अथ शरणापत्त्य्आदिभिः शुद्धान्तःकरणश्चेतेतन्निर्विध्यमानानाम् इच्छतामकुतोभयम् [भागवतम् २.१.११] इत्याद्य्उक्तत्वान्नाम कीर्तनापरित्यागेन स्मरणं कुर्यात् । तच्च मनसानुसन्धानम् । यदेव नामादिसम्बन्धित्वेन बहुविधं भवति । तत्र स्मरणसामान्यम् एतावान् योग आदिष्टो मच्छिष्यैः सनकादिभिः । सर्वतोमन आकृष्य मय्यद्धावेश्यते यथा ॥ [भागवतम् ११.१३.१४] यथा यथावत्मय्यावेश्यत इत्येतावानित्यर्थः । तथा च स्कान्दे ब्रह्मोक्तौ आलोड्य सर्वशास्त्राणि विचार्य च पुनः पुनः इत्यादि ॥ ॥ ११.१३ ॥ श्रीभगवान् ॥ २७५ ॥ [२७६] तत्र नामस्मरणम् हरेर्नाम परं जप्यं ध्येयं गेयं निरन्तरम् । कीर्तनीयं च बहुधा निर्वृतीर्बहुधेय्च्छता ॥ इति जाबालिसंहिताद्य्अनुसारेण ज्ञेयम् । नामस्मरणं तु शुद्धान्तः करणतामपेक्षते । तत्कीर्तनाच्चावरमिति मूले तु नोदाररणस्पष्टता । रूपस्मरणमाह अविस्मृतिः कृष्णपदारविन्दयोः क्षिणोत्यभद्राणि च शं तनोति । सत्त्वस्य शुद्धिं परमात्मभक्तिं ज्ञानं च विज्ञानविरागयुक्तम् ॥ [भागवतम् १२.१२.५०] (पगे १४२) परमात्मनि श्रीकृष्णे प्रेमलक्षणां भक्तिमिति मुख्यं फलमन्यानि त्वानुषङ्गिकाणि । ॥ १२.१२ ॥ श्रीसूतः ॥ २७६ ॥ [२७७] किं च स्मरतः पादकमलमात्मानमपि यच्छति । किं न्वर्थकामान् भजतो नात्य्अभीष्टान् जगद्गुरुः ॥ [भागवतम् १०.८०.११] स्मरतः स्मरते । साक्षात्प्रादुर्भूय आत्मानं स्मर्तुर्वशीकरोतीत्य् अर्थः । अर्थकामानिति बहुवचनं मोक्षमप्यन्तर्भावयैत्लिङ्ग समवायन्यायेन । यस्मादेवं तन्माहात्म्यं तस्मादेव गारुडेऽपीदम् उक्तम् । एकस्मिन्नप्यतिक्रान्ते मुहूर्ते ध्यानवर्जिते । दस्युभिर्मुषितेनैव युक्तमाक्रन्दितुं भृशम् ॥ इति । ॥ १०.८० ॥ श्रीदामविप्रभार्या तम् ॥ २७७ ॥ [२७८] अथ पूर्ववत्क्रमसोपानरीत्या सुखलभ्यं गुणपरिकरसेवालीला स्मरणं चानुसन्धेयम् । तदिदं स्मरणं पञ्चविधम् । यत्किञ्चिद् अनुसन्धानं स्मरणम् । सर्वतश्चित्तमाकृष्य सामान्याकारेण मनो धारणं धारणा । विशेषतो रूपादिविचिन्तनं ध्यानम् । अमृतधारावद् अविच्छिन्नं तद्ध्रुवानुस्मृतिः । ध्येयमात्रस्फुरणं समाधिरिति । तत्र स्मरणम् येन केनाप्युपायेन स्मृतो नारायणोऽव्ययः । अपि पातकयुक्तस्य प्रसन्नः स्यान्न संशयः ॥ [णार्ড়् १.१.७७] इति बृहन्नारदीयादौ । धारणा विषयान् ध्यायतश्चित्तं विषयेषु विसज्जते । मामनुस्मरतश्चित्तं मय्येव प्रविलीयते ॥ [भागवतम् ११.१४.२७] इत्यादौ । ध्यानम् भगवच्चरणद्वन्द्वध्यानं निर्द्वन्द्वमीरितम् । पापिनोऽपि प्रसङ्गेन विहितं सुहितं परम् ॥ इति नारसिंहादौ । तत्र निर्द्वन्दवं शीतोष्णादिमयदुःखपरम्परातीतम् । ईरितं शास्त्र विहितम् । तच्च पापिनोऽपि प्रसङ्गेनापि परमुत्कृष्टं सुहितं विहितं तत्रैवेत्यर्थः । ध्रुवानुस्मृतिश्च मद्गुणस्मृतिमात्रेण [भागवतम् ३.२९.१०] इत्यादौ त्रिभुवनविभवहेतवेऽप्यकुण्ठस्मृतिः [भागवतम् ११.२.५१] इत्यादौ च । एषैव श्रीरामानुजभगवत्पादैः प्रथमसूत्रे दर्शितास्ति । समाधिमाह तयोरागमनं साक्षादीशयोर्जगद्आत्मनोः । न वेद रुद्धधीवृत्तिरात्मानं विश्वमेव च ॥ [भागवतम् १२.१०.९] तयो रुद्रतत्पत्न्योः । भगवद्अंशतच्छक्तित्वात्जगद्आत्मनोः तत् प्रवर्तकयोरपि । तत्र हेतुः रुद्धधीवृत्तिर्भगवद्आविष्टचित्तः भक्तिं परां भगवति लब्धवान् [भागवतम् १२.१०.६] इति पूर्वोक्तेः । तस्माद् असम्प्रज्ञातनाम्नो ब्रह्मसमाधितो भिन्न एवासौ । ॥ १२.१० ॥ श्रीसूतः ॥ २७८ ॥ [२७९] क्वचिल्लीलादियुक्ते च तस्मिन्ननन्या स्फूर्तिः समाधिः स्यात् । यथाह उरुक्रमस्याखिलबन्धमुक्तये समाधिनानुस्मर तद्विचेष्टितम् ॥ [भागवतम् १.५.१३] (पगे १४३) इति स्पष्टम् । एतद्रूपो दासादिभक्तानाम् । पूर्वं तु प्रायः शान्त भक्तानाम् । स्वसुखनिभृतचेतास्तद्व्युदस्तान्यभावोऽप्यजितरुचिर लीलाकृष्टसारः [भागवतम् १२.१२.६९] इत्याद्य्उक्तिभ्यः । ॥ १.५ ॥ श्रीनारदो व्यासम् ॥ २७९ ॥ [२८०] अथ रुचिः शक्तिश्च चेत्तद्अपरित्यागेन पादसेवा च कर्तव्या । सेवा स्मरणसिद्ध्य्अर्थं च सा कैश्चित्क्रियते । तथा च विष्णुरहस्ये परमेश्वरवाक्यम् न मे ध्यानरताः सम्यग्योगिनः परितुष्टये । तथा भक्तिश्च देवर्षे क्रियायोगरता यथा । क्रियाक्रमेण योगोऽपि ध्यानिनः सम्प्रवर्तते ॥ इति । योगोऽत्र समाधिः । पादसेवायां पादशब्दो भक्त्यैव निर्दिष्टः । ततः सेवायाः सादरत्वं विधीयते । सेवा च कालदेशाद्य्उचिता परिचर्यादि पर्याया । सा यथा यत्पादसेवाभिरुचिस्तपस्विनाम् अशेषजन्मोपचितं मलं धियः । सद्यः क्षिणोत्यन्वहमेधती सती यथा पदाङ्गुष्ठविनिःसृता सरित् ॥ [भागवतम् ४.२१.३१] तपस्विनां संसारतप्तानामलं तत्तद्वासनाम् । तत्पादस्यैवैष महिमेति दृष्टान्तेनाह यथेति । ॥ ४.२१ ॥ पृथुः श्रीविष्णुम् ॥ २८० ॥ [२८१] तथा न कामयेऽन्यं तव पादसेवनाद् अकिञ्चनप्रार्थ्यतमाद्वरं विभो । आराध्य कस्त्वां ह्यपवर्गदं हरे वृणीत आर्यो वरमात्मबन्धनम् ॥ [भागवतम् १०.५१.५५] अकिञ्चना मोक्षपर्यन्तकामनारहिताः । तत्र हेतुः त्वामाराध्य कस् त्वामपवर्गदं सन्तमपवर्गदतयाविर्भवन्तं वृणीत समाश्रयेतेत्य् अर्थः । वरमित्यव्ययमीषत्प्रिये । वरमात्मनो बन्धनमेव वृणीत । अनन्तरं चास्य तस्माद्विसृज्याशिषः [भागवतम् १०.५१.५६] इत्यादिवाक्ये निरञ्जनम् इत्यादि । अत्र सेव्यपादत्वेनैव प्राप्तस्य तस्य पुरुषोत्तमस्य सच्चिद्आनन्दत्वम् एवाभिप्रेतम् । ॥ १०.५१ ॥ मुचुकुन्दः श्रीभगवन्तम् ॥ २८२ ॥ [२८३] अत्र पादसेवायां श्रीमूर्तिदर्शनस्पर्शपरिक्रमानुव्रजनभगवन् मन्दिरगङ्गापुरुषोत्तमद्वारकामथुरादितदीयतीर्थस्नान गमनादयोऽप्यन्तर्भाव्याः । तत्परिकरप्रायत्वात् । यावज्जीवं तन् मन्दिरादिनिवासस्तु शरणापत्तावन्तर्भवति । गङ्गादीनां तत्स्थप्राणि वृन्दानां च परमभागवतत्वमेवेति । पक्षे तु तत्सेवादिकं महत् सेवादावेव पर्यवस्यति । ततो गङ्गादिष्वपि भक्तिनिदानत्वं भवेत् । अतएव शुश्रूषोः श्रद्दधानस्य वासुदेवकथारुचिः । स्यान्महत्सेवया विप्राः पुण्यतीर्थनिषेवणात् ॥ [भागवतम् १.२.१६] (पगे १४४) इत्यत्र पुण्यतीर्थशब्दोक्तस्य गङ्गादेः पृथक्कारणत्वं व्याख्येयम् । यथा तृतीये यत्पादनिःसृतसरित्प्रवरोदकेन तीर्थेन मूर्ध्न्य् अधिकृतेन शिवः शिवोऽभूत्[भागवतम् ३.२८.२२] इति । शिवत्वं नाम ह्यत्र परम सुखप्राप्तिरिति टीकाकृन्मतम् । तादृशसुखत्वं च भक्तावेव पर्यवसितम् । तत ऊर्ध्वं सुखान्तराभावात् । ब्राह्मे पुरुषोत्तमम् उद्दिश्य अहो क्षेत्रस्य माहात्म्यं समन्ताद्दशयोजनम् । दिविष्ठा यत्र पश्यन्ति सर्वानेव चतुर्भुजान् ॥ स्कान्दे संवत्सरं वा षण्मासान्मासं मासार्धमेव वा । द्वारकावासिनः सर्वनरा नार्यश्चतुर्भुजाः ॥ पाद्मपातालखण्डे अहो मधुपुरी धन्या वैकुण्ठाच्च गरीयसी । दिनमेकं निवासेन हरौ भक्तिः प्रजायते ॥ आदिवाराहे तामुद्दिश्य जन्मभूमिः प्रिया मम इति । एषु च स्वोपासना स्थानमधिकं सेव्यम् । श्रीकृष्णस्य पूर्णभगवत्त्वात्तत्स्थानं तु सर्वेषामेव पूर्णपुरुषार्थदं भवेत् । अतएव आदिवाराहे मथुरां च परित्यज्य योऽन्यत्र कुरुते रतिम् । मूढो भ्रमति संसारे मोहितो मम मायया ॥ इति । तदेवं तुलसीसेवा च सत्सेवायामन्तर्भाव्या परमभगवत्प्रियत्वात् तस्याः । यथा अगस्त्यसंहितायां गारुडसंहितायां च विष्णोस्त्रैलोक्यनाथस्य रामस्य जनकात्मजा । प्रिया तथैव तुलसी सर्वलोकैकपावनी ॥ इति । स्कान्दे रतिं बध्नाति नान्यत्र तुलसीकाननं विना । देवदेवो जगत्स्वामी कलिकाले विशेषतः ॥ निरीक्षिता नरैर्यैस्तु तुलसीवनवाटिका । रोपिता यैस्तु विधिना सम्प्राप्तं परमं पदम् ॥ स्कान्द एव तुलसीस्तवे तुलसीनाममात्रेण प्रीणात्यसुरदर्पहा इति । तदेवं पादसेवा व्याख्याता । प्रसङ्गसङ्गत्या गङ्गादिसेवा च । तच्चागमोक्तावाहनादिक्रमकम् । तन्मार्गे श्रद्धा चेदाश्रितमन्त्र गुरुस्तं विशेषतः पृच्छेत् । तथोदाहृतम् लब्ध्वानुग्रह आचार्यात्तेन सन्दर्शितागमः [भागवतम् ११.३.४८] इत्यादिना । यद्यपि श्रीभागवतमते पञ्चरात्रादिवदर्चनमार्गस्यावश्यकत्वं नास्ति, तद्विनापि शरणापत्त्य्आदीनामेकतरेणापि पुरुषार्थसिद्धेर् अभिहितत्वात्, तथापि श्रीनारदादिवर्त्मानुसरद्भिः श्रीभगवता सह सम्बन्धविशेषं दीक्षाविधानेन श्रीगुरुचरणसम्पादितं चिकीर्षद्भिः कृतायां दीक्षायामर्चनमवश्यं क्रियेतैव । दिव्यं ज्ञानं यतो दद्यात्कुर्यात्पापस्य सङ्क्षयम् । तस्माद्दीक्षेति सा प्रोक्ता देशिकैस्तत्त्वकोविदैः ॥ अतो गुरुं प्रणम्यैवं सर्वस्वं विनिवेद्य च । गृह्णीयाद्वैष्णवं मन्त्रं दीक्षापूर्वं विधानतः ॥ [ःBV २.९१०] (पगे १४५) इत्यागमात् । दिव्यं ज्ञानं ह्यत्र श्रीमति मन्त्रे भगवत्स्वरूपज्ञानं, तेन भगवता सम्बन्धविशेषज्ञानं च । यथा पाद्मोत्तरखण्डादाव् अष्टाक्षरादिकमधिकृत्य विवृतमस्ति ये तु सम्पत्तिमन्तो गृहस्थास्तेषां त्वर्चनमार्ग एव मुख्यः । यथोक्तं श्रीवासुदेवं प्रति मुनिभिः अयं स्वस्त्य्अयनः पन्था द्विजातेर्गृहमेधिनः । यच्छ्रद्धयाप्तवित्तेन शुक्लेनेज्येत पूरुषः ॥ [भागवतम् १०.८४.३७] इति । तदकृत्वा हि निष्किञ्चनवत्केवलस्मरणादिनिष्ठत्वे वित्तशाठ्य विप्रतिपत्तिः स्यात् । परद्वारा तत्सम्पादनं व्यवहार निष्ठत्वस्यालसत्वस्य वा प्रतिपादकम् । ततोऽश्रद्धामयत्वाद्धिनमेव तत् । ततश्च योऽमायया सततयानुवृत्त्या इत्याद्य्उपदेशाद्भ्रश्येत् । किं च गृहस्थानां परिचर्यामार्गे द्रव्यसाध्यतयार्चनमार्गाद् अविशेषेण प्राप्तेऽप्यर्चनमार्गस्यैव प्राधान्यमत्यन्तविधि सापेक्षत्वात्तेषाम् । तथा गार्हस्थ्यधर्मस्य देवतायागस्य शाखा पल्लवादिसेकस्थानीयस्य मूलसेकरूपं तद्अर्चनमित्यपि तद्अकरणे महान् दोषः । अतः स्कान्दे श्रीप्रह्लादवाक्यम् केशवार्चा गृहे यस्य न तिष्ठति महीपते । तस्यान्नं नैव भोक्तव्यमभक्ष्येण समं स्मृतम् ॥ इति । दीक्षितानां तु सर्वेषां तद्अकरणे नरकपातः श्रूयते । यथा विष्णु धर्मोत्तरे एककालं द्विकालं वा त्रिकालं पूजयेद्धरिम् । अपूज्यभोजनं कुर्वन्नरकाणि व्रजेन्नरः ॥ इत्यादि । अशक्तमयोग्यं प्रति च आग्नेये पूजितं पूज्यमानं वा यः पश्येद्भक्तिमतो हरिम् । श्रद्धया मोदयेद्यस्तु सोऽपि योगफलं लभेत् ॥ इति । योगोऽत्र पञ्चरात्राद्य्उक्तः क्रियायोगः । क्वचिदत्र मानसपूजा च विहितास्ति । तथा च पाद्मोत्तरखण्डे साधारणं हि सर्वेषां मानसेज्या नॄणां प्रिया इति । किं चास्मिन्नर्चनमार्गेऽवश्यं विधिरपेक्षणीयः । ततः पूर्वं दीक्षा कर्तव्या । अथ शास्त्रीयं विधानं च शिक्षणीयम् । दीक्षा यथागमे द्विजानामनुपेतानां स्वकर्माध्ययनादिषु । यथाधिकारो नास्तीह स्याच्चोपनयनादनु ॥ तथात्रादीक्षितानां तु मन्त्रदेवार्चनादिषु । नाधिकारोऽस्त्यतः कुर्यादात्मानं शिवसंस्तुतम् ॥ [ःBV २.३४] इति । शास्त्रीयविधानं च यथा विष्णुरहस्ये अविज्ञाय विधानोक्तं हरिपूजाविधिक्रियाम् । कुर्वन् भक्त्या समाप्नोति शतभागं विधानतः ॥ इति । भक्त्या परमादरेणैव शतभागवं प्राप्नोति । अन्यथा तावन्तमपि नेत्यर्थः । विधौ तु वैष्णवसम्प्रदायानुसार एव प्रमाणम् । यतो विष्णुरहस्ये अर्चयन्ति सदा विष्णुं मनोवाक्कायकर्मभिः । तेषां हि वचनं ग्राह्यं ते हि विष्णुसमा मताः ॥ कौर्मे संस्पृष्ट्वा वैष्णवान् विप्रान् विष्णुशास्त्रविशारदान् । चीर्णव्रतान् सदाचारान् तदुक्तं यत्नतश्चरेत् ॥ (पगे १४६) वैष्णवतन्त्रे येषां गुरौ च जप्ये च विष्णौ च परमात्मनि । नास्ति भक्तिः सदा तेषां वचनं परिवर्जयेत् ॥ इति । तथाह एवं सदा इत्यादौ तन्निष्ठविप्राभिहितः शशास ह [भागवतम् ३.४.१८] इति । अम्बरीष इति प्रकरणलब्धम् ॥ ॥ ९.४ ॥ श्रीशुकः ॥ २८६ ॥ [२८७] ननु भगवन्नामात्मका एव मन्त्राः । तत्र विशेषेण नमःशब्दाद्य् अलंकृताः श्रीभगवता श्रीमद्ऋषिभिश्चाहितशक्तिविशेषाः श्रीभगवता सममात्मसम्बन्धविशेषप्रतिपादकाश्च । तत्र केवलानि श्रीभगवन् नामान्यपि निरपेक्षाण्येव परमपुरुषार्थफलपर्यन्तदान समर्थानि । ततो मन्त्रेषु नामतोऽप्यधिकसामर्थ्ये लब्धे कथं दीक्षाद्य्अपेक्षा । उच्यते । यद्यपि स्वरूपतो नास्ति तथापि प्रायः स्वभावतो देहादिसम्बन्धेन कदर्थशीलानां विक्षिप्तचित्तानां जनानां तत्तत् संकोचीकरणाय श्रीमद्ऋषिप्रभृतिभिरत्रार्चनमार्गे क्वचित्क्वचित्काचित् काचिन्मर्यादा स्थापितास्ति । ततस्तद्उल्लङ्घने शास्त्रं प्रायश्चित्तम् उद्भावयति । तत उभयमपि नासमञ्जसमिति तत्र तत्तद्अपेक्षा नास्ति । यथा श्री रामचन्द्रमुद्दिश्य रामार्चनचन्द्रिकायां वैष्णवेष्वपि मन्त्रेषु राममन्त्राः फलाधिकाः । गाणपत्य्आदिमन्त्रेभ्यः कोटिकोटिगुणाधिकाः ॥ विनैव दीक्षां विप्रेन्द्र पुरश्चर्यां विनैव हि । विनैव न्यासविधिना जपमात्रेण सिद्धिदाः ॥ इति । एवं साध्यत्वादिपरीक्षानपेक्षा च क्वचित्श्रूयते । यथोक्तं मन्त्रदेव प्रकाशिकायाम् सौरमन्त्राश्च येऽपि स्युर्वैष्णवा नारसिंहकाः । साध्यसिद्धसुसिद्धारिविचारपरिवर्जिताः ॥ इति । तन्त्रान्तरे नृसिंहार्कवराहाणां प्रसादप्रवणस्य च । वैदिकस्य च मन्त्रस्य सिद्धादीन्नैव शोधयेत् ॥ इति । सनत्कुमारसंहितायाम् साध्यः सिद्धः सुसिद्धश्च अरिश्चैव च नारद । गोपालेषु न बोद्धव्यः स्वप्रकाशो यतः स्मृतः ॥ अन्यत्र सर्वेषु वर्णेषु तथाश्रमेषु नारीषु नानाह्वयजन्मभेषु । दाता फलानामभिवाञ्छितानां प्रागेव गोपालकमन्त्र एषः ॥ इत्यादि । मर्यादा यथा ब्रह्मयामले श्रुतिस्मृतिपुराणादिप चरात्रविधिं विना । ऐकान्तिकी हरेर्भक्तिरुत्पातायैव कल्पते ॥ इत्थमभिप्रेतं श्रीपृथिव्या चतुर्थे अस्मिन् लोकेऽथवामुष्मिन्मुनिभिस्तत्त्वदर्शिभिः । दृष्टा योगाः प्रयुक्ताश्च पुंसां श्रेयःप्रसिद्धये ॥ तानातिष्ठति यः सम्यगुपायान् पूर्वदर्शितान् । अवरः श्रद्धयोपेत उपेयान् विन्दतेऽञ्जसा ॥ ताननादृत्य योऽविद्वानर्थानारभते स्वयम् । तस्य व्यभिचरन्त्यर्था आरब्धाश्च पुनः पुनः ॥ [भागवतम् ४.१८.३५] अतएवोक्तं पाद्मे श्रीनारायणनारदसंवादे (पगे १४७) मद्भक्तो यो मद्अर्चां च करोति विधिवदृषे । तस्यान्तरायाः स्वप्नेऽपि न भवन्त्यभयो हि सः ॥ इति । तदेतद्अर्चनं द्विविधं केवलं कर्ममिश्रं च । तयोः पूर्वं निरपेक्षाणां श्रद्धावतां दर्शितमाविर्होत्रेण य आशु हृदयग्रन्थिम् इत्यादौ । उक्तं च श्रीनारदेन यदा यस्यानुगृह्णाति भगवानत्मभावितः । न जहाति मतिं लोके वेदे च परिनिष्ठिताम् ॥ [भागवतम् ४.२९.४७] इति । अत्र श्रीमद्अगस्त्यसंहिता च यथा विधिनिषेधौ च मुक्तं नैवोपसर्पतः । तथा न स्पृशतो रामोपासकं विधिपूर्वकम् ॥ इति । उत्तरं व्यवहारचेष्टातिशयवत्तायादृच्छिकभक्त्य् अनुष्ठानवतादिलक्षणलक्षितश्रद्धानां तथा तद्वैपरीत्यलक्षित श्रद्धानामै प्रतिष्ठितानां भक्तिवार्तानभिज्ञबुद्धिषु साधारण वैदिककर्मानुष्ठानलोपोऽपि माभूदिति लोकसङ्ग्रहपराणां गृहस्थानां दर्शितम् । यथा न ह्यन्तोऽनन्तपारस्य [भागवतम् ११.२७.६] इत्यादौ सन्ध्योपास्त्यादिकर्माणि वेदेनाचोदितानि मे । पूजां तैः कल्पयेत्सम्यक्सङ्कल्पः कर्मपावनीम् ॥ [भागवतम् ११.२७.११] इत्य् आदि । स्पष्टम् । ॥ ११.२७ ॥ श्रीभगवान् ॥ २८४ ॥ [२८५] श्रीनारदपञ्चरात्रे चैवमेव श्रीनारायणवाक्यं श्राद्ध कथनारम्भे नाचरेद्यस्तु सिद्धोऽपि लौकिकं धर्ममग्रतः । उपप्लवाच्च धर्मस्य ग्लानिर्भवति नारदः ॥ विवेकज्ञैरतः सर्वैर्लोकाचारो यथास्थितः । आदेहपाताद्यत्नेन रक्षणीयः प्रयत्नतः ॥ इति । एतेषां च द्विविधा कर्मव्यवस्था श्रीनारदपञ्चरात्रादौ अन्तर्यामि श्रीभगवद्दृष्ट्यैव सर्वाराधानं विहितं विष्णुयामलादौ तु विष्णुपादोदकेनैव पितॄणां तर्पणक्रिया । विष्णोर्निवेदितान्नेन यष्टव्यं देवतान्तरम् ॥ इत्यादिप्रकारेण विहितम् इति । ये तु तत्र श्रीभगवत्पीठावरणपूजायां गणेशदुर्गाद्या वर्तन्ते ते हि विष्वक्सेनादिवद्भगवतो नित्यवैकुण्ठसेवकाः । ततश्च ते गणेश दुर्गाद्या, ये परे मायाशक्त्यात्मका गणेशदुर्गाद्यास्ते तु न भवन्ति । न यत्र माया किमुतापरे हरेः [भागवतम् २.९.१०] इति द्वितीयोक्तेः । ततो भगवत् स्वरूपभूतशक्त्यात्मका एव ते । यत एव च श्रीकृष्णस्वरूपभूत शक्तिवृत्तिविशेषस्याधिष्ठातृत्वं श्रूतितन्त्रादिष्वादिष्वपि दृश्यते । यथा नारदपञ्चरात्रे श्रुतिविद्यासंवादे भक्तिर्भजनसम्पत्तिर्भजते प्रकृतिः प्रियम् । ज्ञायतेऽत्यन्तदुःखेन सेयं प्रकृतिरात्मनः ॥ दुर्गेति गीयते सद्भिरखण्डरसवल्लभा ॥ इति । अतएव श्रीभगवद्अभेदेनोक्तं गौतमीयकल्पे यः कृष्णः सैव दुर्गा स्याद्या दुर्गा कृष्ण एव सः इति । त्वमेव परमेशानि अस्याधिष्ठातृदेवता इत्यादिकं तु विराट्पुरुषमहापुरुषयोरिव (पगे १४८) केषांचिद् अभेदोपासनाविवक्षयैवोक्तम् । सा हि मायांशरूपा तद्अधीने प्राकृतेऽस्मिन् लोके मन्त्ररक्षालक्षणसेवार्थं नियुक्ता चिच्छक्त्यात्मक दुर्गाया दासीयते न तु सेवाधिष्ठात्री । मायातीतवैकुण्ठावरण कथने पाद्मोत्तरखण्डे सत्याच्युतानन्तदुर्गाविष्वक्सेनगजाननाः । शङ्खपद्मनिधी लोकाश्चतुर्थावरणं शुभम् ॥ ऐन्द्रपावकयाम्यानि नैरृतं वारुणं तथा । वायव्यं सौम्यमैशानं सप्तमं मुनिभिः स्मृतम् ॥ साध्या मरुद्गणाश्चैव विश्वेदेवास्तथैव च । नित्याः सर्वे परे धाम्नि ये चान्ये च दिवौकसः ॥ ते वै प्राकृतलोकेऽस्मिन्ननित्यास्त्रिदशेश्वराः । ते ह नाकं महिमानः सचन्त इति वै श्रुतिः ॥ [ড়द्मড়् ६.२२८.६०, ६४६६] इति । किं च भगवत्स्वरूपा एव ते । यथोक्तं त्रैलोक्यसम्मोहनतन्त्रे अष्टादशाक्षरषड्अङ्गादिदेवताभेदकथनारम्भे सर्वत्र देवदेवोऽसौ गोपवेशधरो हरिः । केवलं रूपभेदेन नामभेदः प्रकीर्तितः ॥ इति । अतो नाममात्रसाधारण्येनानन्यभक्तैर्न भेतव्यम् । किन्तु भगवतो नित्यवैकुण्ठसेवकत्वाद्विष्वक्सेनादिवत्सत्कार्या एव ते । यस्यात्म बुद्धिः कुणपे त्रिधातुके [भागवतम् १०.८४.८] इत्यादौ, अर्चयित्वा तु गोविन्दं तदीयान्नार्चयेत्तु यः [ড়द्मড়् ६.२५३.१७७] इत्यादिपाद्मोत्तरखण्ड वचनेन तद्असत्कारे दोषश्रवणात् । अतस्तानेवोद्धिश्याह दुर्गां विनायकं व्यासं विष्वक्सेनं गुरून् सुरान् । स्वे स्वे स्थाने त्वभिमुखान् पूजयेत्प्रोक्षणादिभिः ॥ [भागवतम् ११.२७.२९] पाद्मोत्तरखण्ड एव च तस्मादवैदिकानां च देवानामर्चनं त्यजेत् । स्वतन्त्रपूजनं यत्र वैदिकानामपि त्यजेत् ॥ अर्चयित्वा जगद्वन्द्यं देवं नारायणं हरिम् । तद्आवरणसंस्थानं देवस्य परितोऽर्चयेत् ॥ हरेर्भुक्तावशेषेण बलिं तेभ्यो विनिःक्षिपेत् । होमं चैव प्रकुर्वीत तच्छेषेणैव वैष्णवः ॥ [ড়द्मড়् ६.२५३.१०३६] इत्य् आदि । ॥ ११.२७ ॥ श्रीभगवान् ॥ २८५ ॥ [२८६] भूतादिपूजा तु तत्पूजाङ्गत्वे विहितापि न कर्तव्या । तद्आवरण देवतात्वाभावात् । निषिद्धं च तत्रैव यक्षाणां च पिशाचानां मद्यमांसभुजां तथा । दिवौकसां तु भजनं सुरापानसमं स्मृतम् ॥ [ড়द्मড়् ६.२५३.९५] इति । अतएवावश्यकपूज्यानामन्येषां तत्स्वीकृतैरपि मद्यादिभिः पूजा निषिद्धा । यथा सङ्कर्षणादीनाम् । अथ पीठपूजायां येऽप्यधर्माद्या वर्तन्ते गुणत्रयं च । तानि तु पाद्मोत्तरखण्डे स्पष्टान्यपि न सन्ति । तथा स्वायम्भुवागमेऽपि । तस्मान्नादरणीयानि । केचित्तु नारदपञ्चरात्रदृष्ट्या तान्यन्यथैव व्याचक्षते । यथोक्तं तत्रैव अधर्माद्य्आद्यचतुष्कं तु अश्रेयसि नियोजनमिति अधार्मिकादिषु तत्तद्अन्तर्यामिशक्तिरधर्माद्यमित्य् अर्थः । तथा पीठपूजायां भगवद्धामे श्रीगुरुपादुकापूजनम् एवं सङ्गच्छते । यथा य एव भगवानत्र व्यष्टिरूपतया भक्तावतारत्वेन श्रीगुरुरूपो वर्तते, स एव तत्र समष्टिरूपतया स्व वामप्रदेशे साक्षाद्अवतारत्वेनापि तद्रूपो वर्तत इति । तथा (पगे १४९) ये चात्र श्रीरामाद्य्उपासनायामैन्द्रद्विविदादय आवरणदेवतास्ते तु तदीयनित्यधामगता नित्याः शुद्धाश्च ज्ञेयाः । यथाक्रूराघमर्षणे तेन श्रीप्रह्लादादयो दृष्टाः । य एव श्रीप्रह्लादः पृथ्वीदोहनेऽपि वत्सोऽभूत्, तदानीं तज्जन्माभावात् । चाक्षुषमन्वन्तर एव हिरण्यकशिपोर्जातत्वात् । अन्ये तु स्वस्वधाम्नि नित्यप्राकट्यस्यैव श्रीरामादेः प्रपञ्च प्राकाट्यावसरं प्राप्य तत्साहाय्यार्थं नित्यपार्षदमैन्द्रद्विविदादि शक्त्यावेशिनो जीवाः सुग्रीवादिभागवतद्वेषिबालिप्रभृति=सम्बन्धाद् उत्तरकाले भगवद्विद्वेषिनरकासुरादिसङ्गाच्च दुष्टभावा भवन्तीत्यवधेयम् । प्रपञ्चलोकमिश्रत्वेनैव प्राकट्यसम्भवात् । अथ श्रीकृष्णगोकुलोपासनायामपि यत्श्रीरुक्मिण्य्आदीनामावरणत्वं तत्तु तच्छक्तिविशेषरूपाणां तासां विमलादीनामिवान्तर्धान गतत्वेनैव । न तु तत्तल्लीलागतप्राकट्येनेति ज्ञेयम् । अतएव ध्याने ता नोक्ताः । केचित्तु रुक्मिण्य्आदिनामानि श्रीराधादिनामान्तरत्वेनैव मन्यन्ते । यथा ते शङ्खचक्रगदामुद्रादिधारणं श्रीकृष्णचरण चिह्नत्वेनैव स्वीकुर्वन्ति, यथा च द्वारान्तःपार्श्वयोर्गङ्गायमुनयोः पूज्यमानयोर्गङ्गा श्रीगोवर्धने प्रसिद्धा मानसगङ्गेति मन्यन्ते । तथा च विष्वक्सेनादयो भद्रसेनादय इति । श्रीकृष्णपीठपूजायां श्वेतद्वीपक्षीरसमुद्रपूजा च गोलोकाख्यस्य तद्धाम्नोऽपि श्वेतद्वीपेतिनामत्वात् । कामधेनुकोटिनिःसृतदुग्धपरविशेषस्य च तत्र स्थितत्वात् । यथोक्तं ब्रह्मसंहितायां तद्वर्णनान्ते स यत्र क्षीराब्धिः स्रवति सुरभीभ्यश्च सुमहान् निमेषार्धाख्यो वा व्रजति न हि यत्रापि समयः । भजे श्वेतद्वीपं तमहमिह गोलोकमिति यं विदन्तस्ते सन्तः क्षितिविरलचाराः कतिपये ॥ इति । एवमन्यत्रापि ज्ञेयम् । तथा सोमसूर्याग्निमण्डलान्यप्राकृतान्य् अतिशैत्यतापगुणपरित्यागेनैव वर्तन्ते । तत्र सर्वकल्याणगुण वस्तूनामेवाभिधानाय प्राकृतनिषेधात् । यथा नृसिंहतापन्याम् तद् वा एतत्परमं धाम मन्त्रराजाध्यापकस्य यत्र न दुःखादि यत्र न सूर्यस्तपति यत्र न वायुर्वाति यत्र न चन्द्रमा भाति यत्र न नक्षत्राणि भान्ति यत्र नाग्निर्दहति यत्र न मृत्युः प्रविशति यत्र न दोषः । [णृसिंहटाप्५.९] इत्यादि । तदेवं कर्ममिश्रत्वादिनिरसनप्रसङ्गसङ्गत्या तत्परिकरा व्याख्याताः । अथ तेषां शुद्धभक्तानां भूतशुद्ध्य्आदिकं यथामति व्याख्यायते । तत्र भूतशुद्धिर्निजाभिलषितभगवत्सेवौपयिकतत्पार्षददेह भावनापर्यन्तैव तत्सेवैकपुरुषार्थिभिः कार्या निजनुकुल्यत् । एवं यत्र यत्रात्मनो निजाभीष्टदेवतारूपत्वेन चिन्तनं विधीयते तत्र तत्रैव पार्षदत्वे ग्रहणं भाव्यम् । अहङ्ग्रहोपासनायाः शुद्ध भक्तैर्द्विष्टत्वात् । ऐक्यं च तत्र साधारण्यप्रायमेव । तदीयचिच् छक्तिवृत्तिविशुद्धसत्त्वांशविग्रहत्वात्पार्षदानाम् । (पगे १५०) अथ केशवादिन्यासादीनां यत्राधमाङ्गविषयत्वं तत्र तन्मूर्तिं ध्यात्वा तत्तन्मन्त्रांश्च जप्त्वैव तत्तद्अङ्गस्पर्शमात्रं कुर्यात् । न तु तत्तन्मन्त्रदेवतास्तत्र तत्र न्यस्ता ध्यायेत् । भक्तानां तद् अनौचित्यात् । अथ मुख्यं ध्यानं श्रीभगवद्धामगतमेव । हृदयकमल गतं तु योगिमतम् । स्मरेद्वृन्दावने रम्ये इत्याद्य्उक्तत्वात् । अतएव मानसपूजा च तत्रैव चिन्तनीया । कामगायत्रीध्यानं च यत्सूर्य मण्डले श्रूयते तत्रैव चिन्त्यम् । गोलोक एव निवसत्यखिलात्मभूतः इत्य् अत्रैवकारात् । तत्र श्रीवृन्दावननाथः साक्षान्न तिष्ठति किन्तु तेजोमयप्रतिमाकारेणैवेति । अथ बहिरुपचारैरन्तःपूजायां वेण्व्आदिपूजा तद्अङ्गज्योतिर् विलीनाङ्गस्य स्वस्याङ्गे तानि भाव्यन्त इति पूर्वहेतोरेव । तथा मानसादि पूजायां भूतपूर्वतत्परिकरलीलासंवलितत्वमपि न कल्पनामयं किन्तु यथार्थमेव । यतस्तस्य प्राकट्यसमये लीलास्तत्परिकराश्च ये प्रादुर्बभूवुस्तादृशाश्चाप्रकटमपि नित्यं तदीये धाम्नि सङ्ख्यातीता एव वर्तन्ते । असुरास्तु न तत्र चेतना किन्तु मन्त्रमयतत्प्रतिमानिभा ज्ञेयाः । एवं विहारैः [भागवतम् १०.१४.५७] इत्यादौ, निलायनैः सेतुबन्धैर् मर्कटप्लवनादिभिः [भागवतम् १०.१४.५७] इतिवत्तत्तल्लीलानां नानाप्रकाशैः कौतुकेनानुक्रियमाणत्वाद्भगवत्सन्दर्भादौ हि तथा सन्यायं दर्शितास्ति । अथ मानसपूजामाहात्म्यं यथा नारदपञ्चरात्रे श्रीनारायण वाक्यम् अयं यो मानसो योगो जराव्याधिभयापहः इत्यादौ यश्चैतत्परया भक्त्या सकृत्कुर्यान्महामते । क्रमोदितेन विधिना तस्य तुष्याम्यहं मुने ॥ इति । एषा क्वचित्स्वतन्त्रापि भवति । मनोमय्यां मूर्तेरष्टमतया स्वातन्त्र्येण विधानात् अर्चादौ हृदये वापि यथोपलब्धोपचारकैः [भागवतम् ११.३.५१] इत्याविर्होत्रवचनेन वाशब्दात् । अथ पूजास्थानानि विचार्यन्ते । तानि च विविधानि । तत्र शालग्रामादिकं तत् तद्भगवद्आकाराधिष्ठानमिति चिन्त्यम् । आकारवैलक्षण्यात् । शालग्रामशिला यत्र तत्र सन्निहितो हरिः इत्याद्य्उक्तेः । तत्र च स्वेष्टाकारस्यैव भगवतोऽधिष्ठानं सुष्ठु सिद्धिकरम् । तस्मिन्न् एवायत्नतस्तदीयप्राकट्यात् । मूर्त्याभिमतयात्मनः [भागवतम् ११.३.४९] इत्य् उक्तेः । श्रीकृष्णादीनां तु मथुरादिक्षेत्रं महाधिष्ठानम् । मथुरा भगवान् यत्र नित्यं सन्निहितो हरिः [भागवतम् १.१०.२८] इत्य्आद्य्उक्तेः । तथा तत् तन्मन्त्रध्येयवैभवत्वेन मथुरावृन्दावनादीनां श्रीगोपाल तापन्यादौ प्रख्यातत्वात् । मथुरादिक्षेत्राण्येवान्यत्राधिष्ठाने ध्यानेन प्रकाश्य तेषु भगवांश्चिन्त्यते । अथ श्रीमत्प्रतिमायां तु तद्आकारकरूपतयैव चिन्तयन्ति आकारैक्यात् । शिलाबुद्धिः (पगे १५१) कृता किं वा प्रतिमायां हरेर्मया इति भावनान्तरे दोषश्रवणाच्च । एवमेव श्रीभगवता चलाचलेति द्विविधा प्रतिष्ठा जीवमन्दिरम् [भागवतम् ११.२७.१३] इत्युक्तम् । प्रतिष्ठा प्रतिमा जीवस्य जीवयितुः परमात्मनो मम मन्दिरं मद्अङ्गप्रत्यङ्गैरेकाकारतास्पदमित्य् अर्थः । यद्वा प्रतिष्ठालक्षणेन कर्मणा पूर्वोक्ता प्रतिमा मम तद् आस्पदं भवतीत्यर्थः । तथा च श्रीहयशीर्षपञ्चरात्रे श्रीमूर्ति प्रतिष्ठाप्रसङ्गे विष्णो सन्निहितो भव इति सान्निध्यकरणमन्त्र विशेषानन्तरं मन्त्रान्तरम् यच्च ते परमं तत्त्वं यच्च ज्ञानमयं वपुः । तत्सर्वमेकतो लीनमस्मिन् देहे विबुध्यताम् ॥ इति । अथवा जीवमन्दिरं सर्वजीवानां परमाश्रयः साक्षाद्भगवानेव प्रतिष्ठेत्यर्थः । परमोपासकाश्च साक्षात्परमेश्वरत्वेनैव तां पश्यन्ति । भेदस्फूर्तेर्भक्तिविच्छेदकत्वात्तथैव ह्युचितम् । इत्थम् एवोक्तं भगवता वस्त्रोपवीताभरण पत्रस्रग्गन्धलेपनैः । अलङ्कुर्वीत सप्रेम मद्भक्तो मां यथोचितम् ॥ [भागवतम् ११.२७.२८] इत्यत्र मामिति सप्रेमेति च । अतएव विष्णुधर्मे तामधिकृत्य अम्बरीषं प्रति श्रीविष्णुवाक्यम् तस्यां चित्तं समावेश्य त्यज चान्यान् व्यापाश्रयान् । पूजिता सैव ते भक्त्या ध्याता चैवोपकारिणी ॥ गच्छंस्तिष्ठन् स्वपन् भुञ्जंस्तामेवाग्रे च पृष्ठतः । उपर्य्अधस्तथा पार्श्वे चित्नयंस्तामथात्मनः ॥ इत्यादि । अतएव तत्पूजायामावाहनादिकमित्थं व्याख्यातमागमे आवाहनं चादरेण सम्मुखीकरणं प्रभोः । भक्त्या निवेशनं तस्य संस्थापनमुदाहृतम् ॥ तवास्मीति तदीयत्वदर्शनं सन्निधापनम् । क्रियासमाप्तिपर्यन्तस्थापनं सन्निबोधनम् ॥ सकलीकरणं प्रोक्तं तत्सर्वाङ्गप्रकाशनम् ॥ इति । अत्र शूद्रादिपूजितार्चापूजानिषेधवचनमवैष्णवशूद्रादिपरमेव न शूद्रा भगवद्भक्तास्ते तु भागवता नराः । सर्ववर्णेषु ते शूद्रा ये न भक्ता जनार्दने ॥ इत्युक्तेः । अथ सप्तमे पात्रम् [भागवतम् ७.१४.२८] इत्यादौ श्रीनारदोक्तौ अधिष्ठान विचारे श्रीमद्अर्चातोऽपि यः पूरुषमात्रातिशयस्तत्रापि ज्ञानिनः, स च कैवल्यकामो भक्त्य्आश्रयः, तस्मिन् प्रकरणे ज्ञाननिष्ठाय देयानि [भागवतम् ७.२५.१] इत्युपसंहारे ज्ञानिन एव दानपात्रत्वेन पर्मोत्कर्षोक्तेः । अन्यत्र तु न मे भक्तश्चतुर्वेदी, नायं सुखापो भगवानित्यादौ, मुक्तानामपि सिद्धानाम् [भागवतम् ६.१४.४] इत्यादौ च भक्तस्यैव ततोऽप्य् उत्कर्षः । किमुत तद्उपास्यायाः श्रीमद्अर्चायाः । अतएव तामुद्दिश्योक्तं नानुव्रजति यो मोहात्[भागवतम् ६.१४.४] इत्यादि । तथापि पात्रमित्यादीनाम् अर्थोऽपि क्रमेण दर्श्यते (पगे १५२) पात्रं त्वत्र निरुक्तं वै कविभिः पात्रवित्तमैः । हरिरेवैक उर्वीश यन्मयं वै चराचरम् ॥ देवर्ष्य्अर्हत्सु वै सत्सु तत्र ब्रह्मात्मजादिषु । राजन् यदग्रपूजायां मतः पात्रतयाच्युतः ॥ [भागवतम् ७.१४.३४३५] [२८७] तत्र राजसूये जीवराशिभिराकीर्ण [भागवतम् ७.१४.३६] इत्यादि । [२८८] सर्वेषां जीवानामात्मनश्च तर्पणरूपा सैव भवतीत्यर्थः पुराण्य् अनेन [भागवतम् ७.१४.३७] इत्यादि । [२८९] जीवेन जीवयित्वा जीवान्तर्यामिरूपेणेत्यर्थः तेष्वेव भगवान् [भागवतम् ७.१४.३८] इत्यादि । तस्मात्तारतम्यवर्तनात्पुरुषः प्रायो मनुष्यः पात्रम् । तत्र ज्ञानादिकं विशिष्टमिति भगवद्वर्तनस्यातिशयात् । तत्रापि आत्मा यावान् यथा ज्ञानादिपरिमाणादिकस्तथासौ पात्रमित्यर्थः । [२९०] एवं स्थितेऽपि कालेनोपासकदोषोत्पत्तौ सत्यां भेददृष्ट्या विशिष्टम् अधिष्ठानान्तरं प्रकाशितमित्याह दृष्ट्वा तेषां मिथो नृणामवज्ञानात्मतां नृप । त्रेतादिषु हरेरर्चा क्रियायै कविभिः कृता ॥ [भागवतम् ७.१४.३८] मिथोऽवज्ञानमसम्मानंस्तस्मिन्नात्मा बुद्धिर्येषां भावं दृष्ट्वा क्रियायै पूजाद्य्अर्थमर्चा कृता तत्परिचर्यामार्गदर्शनाय सा प्रकाशितेत्यर्थः । एतेन तादृशदोषयुक्तेष्वपि कार्यसाधकत्वात् श्रीमद्अर्चाया आधिक्यमेव व्यञ्जितम् । प्रतिमा स्वल्पबुद्धीनामित्यत्र च अल्पबुद्धीनामपीत्यर्थः । नृसिंहपुरानादौ ब्रह्माम्बरीषादीनामपि तत्पूजाश्रवणात् । [२९१] ततोऽर्चायां [भागवतम् ७.१४.४०] । तत एवं प्रभावात् । केचिदित्यधिष्ठान वैशिष्ट्येन पूर्वतोऽप्युत्तमसाधनतत्परा इत्यर्थः । नन्ववज्ञावद् द्वेषेऽपि सिद्धिः स्यादित्याशङ्क्यातिप्रसङ्गवारणेच्छया प्रस्तुतपुरुष रूपाधिष्ठानादररक्षेच्छया च तं वारयति उपास्तापि इति । [२९२] अथ पुरुषेषु पूर्वोक्तविशेषं जात्य्आदिना विवृणोति पुरुषेष्वपि [भागवतम् ७.१४.४१] इति । यो धत्ते तं सुपात्रं विदुः । [२९३] पूर्वोक्तं ब्राह्मणरूपं पात्रमेव स्तौति नन्वस्य [भागवतम् ७.१४.४२] इत्य् आदिना । जगद्आत्मनो जगति लोकसङ्ग्रहधर्माधिप्रवर्तनेन तन् नियन्तुरित्यर्थः । दैवतं पूज्यत्वेन दर्शितम् । ॥ ७.१४ ॥ श्रीनारदो युधिष्ठिरम् ॥ २८६२९३ ॥ [२९४] अथ तद्अनन्तराध्यायस्यादावेव तेषु सर्वोत्कृष्टमाह द्वाभ्याम् कर्मनिष्ठाः [भागवतम् ७.१५.१] इत्यादि । अनेन यथात्र मुमुक्षुप्रभृतीनां ज्ञानिपूजैव मुख्या, पुरुषान्तर पूजा तु तद्अभाव एव तथा प्रेमभक्तिकामानां प्रेमभक्तपूजा ज्ञेया । ततः प्रेमभक्तानामपि यच्चित्तस्य परमाश्रयरूपं (पगे १५३) तदभिव्यक्तेः सुतरामेवार्चाया आधिक्यमपि । एवं तद्आश्रयरूपस्य विलक्षणप्रकाशस्थानत्वादेव श्रीविष्णोर्व्यापकत्वेऽपि शालग्रामादिषु निर्धारणम् । तच्च पुरुषवन्नान्तर्यामिदृष्ट्य्अपेक्षम् । किन्तु स्वभावनिर्देशपरमेव । तन्निवासक्षेत्रादीनां महा तीर्थत्वापादनादिना कीकटादीनामपि कृतार्तह्त्वकथनात् । तथा च स्कान्दे शालग्रामशिला यत्र तत्तीर्थं योजनत्रयम् । तत्र दानं जपो होमः सर्वं कोटिगुणं भवेत् ॥ पाद्मे शालग्रामसमीपे तु क्रोशमात्रं समन्ततः । कीकटेऽपि मृतो याति वैकुण्ठभुवनं नरः ॥ इति । तस्मादर्चाया आधिक्यमेव हि स्थितम् । ॥ ७.१५ ॥ श्रीनारदो युधिष्ठिरम् ॥ २९४ ॥ [२९५] अथाधिष्ठानन्तराणि चैवम् । यथा सूर्योऽग्निर्ब्राह्मणा गावो वैष्णवः खं मरुज्जलम् । भूरात्मा सर्वभूतानि भद्र पूजापदानि मे ॥ सूर्ये तु विद्यया त्रय्या हविषाग्नौ यजेत माम् । आतिथ्येन तु विप्राग्र्ये गोष्वङ्ग यवसादिना ॥ वैष्णवे बन्धुसत्कृत्या हृदि खे ध्याननिष्ठया । वायौ मुख्यधिया तोये द्रव्यैस्तोयपुरःसरैः ॥ स्थण्डिले मन्त्रहृदयैर्भोगैरात्मानमात्मनि । क्षेत्रज्ञं सर्वभूतेषु समत्वेन यजेत माम् ॥ धिष्ण्येष्वित्येषु मद्रूपं शङ्खचक्रगदाम्बुजैः । युक्तं चतुर्भुजं शान्तं ध्यायन्नर्चेत्समाहितः ॥ [भागवतम् ११.११.४२४६] टीका च इदानीमेकादश पूजाधिष्ठानान्याह सूर्य इति । हे भद्र ! अधिष्ठानभेदेन पूजासाधनभेदमाह सूर्य इति त्रिभिः । त्रय्या विद्यया सूक्तैरुपस्थानादिना । अङ्ग हे उद्धव ! मुख्यधिया प्राण दृष्ट्या । तोये तोयादिभिर्द्रव्यैस्तर्पणादिना । स्थण्डिले भुवि । मन्त्र हृदयै रहस्यमन्त्रन्यासैः । सर्वाधिष्ठानेषु ध्येयमाह धिष्णेष्व् एतेष्विति । इति अनेन प्रकारेण एष धिस्ण्येषु । इत्येषा । अत्र सर्वत्र चतुर्भुजस्यैवानुसन्धाने सत्यपि द्विधा गतिः । एकाधिष्ठानपरिचर्यैवाधिष्ठातुरुपासनालक्षणा । मन्दिर लेपनादिना तद्अधिष्ठातृप्रतिष्ठाया इव । यथा वैष्णवे बन्धुसत् कृत्या गोष्वङ्ग यवसादिनेत्यादि । यतो बन्धुसत्कारो वैष्णवविषयक ईश्वरे तु प्रभुभाव उपदिश्यते । ईश्वरे तद्अधीनेषु [भागवतम् ११.२.४४] इत्य् आदौ । तथा गोसम्प्रदानकमेव यवसादिभोजनदानं युज्यते । न तु श्रीचतुर्भुजसमप्रदानकमभक्ष्यत्वात् । यद्यदिष्टतमं लोके यच्चातिप्रियमात्मनः । तत्तन्निवेदयेन्मह्यं तदानन्त्याय कल्पते ॥ [भागवतम् ११.११.४१] इति तत्र च पूर्वमुक्तम् । अन्या तु साक्षादधिष्ठातुरुपासनालक्षणा । यथा हृदि खे ध्याननिष्ठया तोये द्रव्यैस्तोयपुरस्कृतैरित्यादि । अत्राग्न्य्आदौ तद्अन्तर्यामिरूपस्यैव चिन्तनं कार्यम् । न जातु निजप्रेमसेवाविशेषाश्रयस्वाभीष्टरूपविशेषस्य । स तु सर्वथा परमसुकुमारत्वादिबुद्धिजनितया प्रीत्यैव सेवनीयः । यथोक्तं श्रीभगवतैव वस्त्रोपवीताभरणैः [भागवतम् ११.२७.२९] (पगे १५४) इत्यादि । तेषां यथाभक्तिरीत्या परमेश्वरस्यापि तथाभावः श्रूयते । यथा नारदीये भक्तिग्राह्यो हृषीकेशो न धनैर्धरणीधर । भक्त्या संपूजितो विष्णुः प्रददाति मनोरथम् ॥ तस्माद्विप्राः सदा भक्तिः कर्तव्या चक्रपाणिनः । जनेनापि जगन्नाथः पूजितः क्लेशहा भवेत् ॥ [णार्ড়् २.३.३४] इति । अत्र दृष्टान्त उपजीव्यः । वैपरीत्ये दोषश्च । यथा ग्रीष्मे जलस्य पूजा प्रशस्ता वर्षासु निन्दिता । यदुक्तं गारुडे शुचिशुक्रगते काले येऽर्चयिष्यन्ति केशवम् । जलस्थं विविधैः पुष्पैर्मुच्यन्ते यमताडनात् ॥ धनागमे प्रकुर्वन्ति जलस्थं वै जनार्दनम् । ये जना नृपतिश्रेष्ठ तेषां वै नरकं ध्रुवम् ॥ इति । एवमन्यत्रापि परिचर्याविधौ तद्देशकालसुखदानि शतशो विहितानि । तद्विपरीतानि निषिद्धानि च । विष्णुयामले विष्णोः सर्वर्तुचर्यामिति । अतएवोक्तं यद्यदिष्टतमो लोके [भागवतम् ११.११.४०] इत्यादि । तत्र तत्रेष्ट मन्त्रध्यानस्थलं च सर्वर्तुमुखमयमनोहररूपरसगन्ध स्पर्शशब्दमयत्वेनैव ध्यातुं विहितमस्ति । अन्यथा तत्तद्आग्रहस्य वैयर्थ्यं स्यात् । तस्मादग्न्य्आदौ तत्तद्अन्तर्यामिरूप एव भाव्य इति स्थितम् । ॥ ११.११ ॥ श्रीभगवान् ॥ २९५ ॥ [२९६२९७] अथ नैवेद्यार्पणप्रसङ्गे यः क्रमदीपिकादर्शितो निरुद्ध नामात्मको मन्त्रस्तस्य स्थाने श्रीकृष्णैकान्तिकभक्तास्तु तन्मूल मन्त्रमेवेच्छन्ति । तथा यच्च तन्मुखज्योतिर्अनुगतत्वेन ध्यातुं विधीयते, तत्तु भोजनसमये तन्मुखप्रसादमेव मन्यन्ते । भोजनं तु यथा लोकसिद्धमेव नरलीलात्वात्श्रीकृष्णस्य । अथ जपे मन्त्रार्थस्य नानात्वेऽपि पुरुषार्थानुकूल एवासौ चिन्त्यः । यथा श्रीमद्अष्टाक्षरादावात्मनिवेदनलक्षणचतुर्थ्याद्यभाववति मन्त्रे तद्अनुसन्धानेनएति । एवमन्येऽपि पूजाविधयो यथायथं योजनीयाः । शुद्धभक्तिसिद्ध्य्अर्थं सर्वासां भक्तीनामेव शुद्धत्वाशुद्धत्व रूपेण द्विविधो हि भेदः सम्मत इति । तदेतद्अर्चनं फलेनाह एवं क्रियायोगपथैः पुमान् वैदिकतान्त्रिकैः । अर्चन्नुभयतः सिद्धिं मत्तो विन्दत्यभीप्सिताम् ॥ [भागवतम् ११.२७.४९] उभयत इहामुत्र च । यथा मामेव नैरपेक्ष्येण भक्तियोगेन विन्दति । भक्तियोगं स लभत एवं यः पूजयेत माम् ॥ [भागवतम् ११.२७.५३] नैरपेक्ष्येण निरुपाधिना भक्तियोगेन प्रेम्णा । स च भक्तियोग एवं पूजायाः स्यादित्याह भक्तीति । ॥ ११.२७ ॥ श्रीभगवान् ॥ २९६२९७ ॥ [२९८] यानि चात्र वैष्णवचिह्नान निर्माल्यधारणचरणामृतपानादीन्यङ्गानि तेषां च पृथक्पृथक्माहात्म्यवृन्दं शास्त्रसहस्रेष्वनुसन्धेयम् । अथार्चनाधिकारिनिर्णयः । एतद्वै सर्ववर्णानामाश्रमाणां च सम्मतम् । श्रेयसामुत्तमं मन्ये स्त्रीशूद्राणां च मानद ॥ [भागवतम् ११.२७.४] (पगे १५५) सर्ववर्णानां त्रैवर्णिकानाम् । तथा च स्मृत्य्अर्थसारे पाद्मे च वैशाखमाहात्म्ये आगमोक्तेन मार्गेण स्त्रीशूद्रैरपि पूजनम् । कर्तव्यं श्रद्धया विष्णोश्चिन्तयित्वा पतिं हृदि ॥ शूद्राणां चैव भवति नाम्ना वै देवतार्चनम् । सर्वेऽप्यागममार्गेण कुर्युर्वेदानुकारिणा ॥ स्त्रीणामप्यधिकारोऽस्ति विष्णोराराधनादिषु । पतिप्रियरतानां च श्रुतिरेषा सनातनी ॥ [ড়द्मড়् ६.८४.४८, ५२४] इति । विष्णुधर्मे[*Eण्ड्ण्Oट्E ॰५] देवतायां च मन्त्रे च तथा मन्त्रप्रदे गुरौ । भक्तिरष्टविधा यस्य तस्य कृष्णः प्रसीदति ॥ तद्भक्तजनवात्सल्यं पूजायां चानुमोदनम् । सुमना अर्चयेन्नित्यं तद्अर्थे दम्भवर्जनम् ॥ तत्कथाश्रवणे रागस्तद्अर्थे चाङ्गविक्रिया । तद्अनुस्मरणं नित्यं यस्तन्नामोपजीवति ॥ भक्तिरष्टविधा ह्येषा यस्मिन्म्लेच्छेऽपि वर्तते । स मुनिः सत्यवादी च कीर्तिमान् स भवेन्नरः ॥ इति । किं च तत्त्वसागरे यथा काञ्चनतां याति कांस्यं रसविधानतः । तथा दीक्षाविधानेन द्विजत्वं जायते नॄणाम् ॥ इति । अथ कृते शुक्लश्चतुर्बाहुः [भागवतम् ११.५.१९] इत्यादिना युगभेदे यश् चोपासनायामाविर्भावभेद उच्यते, स च प्रायिक एव । तेभ्यश् चतुर्भ्योऽन्येषामुपासना शास्त्रादेव । अन्यथेतरोपासनायाः कालासमावेशः स्यात् । श्रूयन्ते च सर्वत्र युगे सर्वोपासकाः । तस्मात्सर्वैर् अपि सर्वदापि यथेच्छं सर्व एवाविर्भावाः पूज्या इति स्थ्तिअम् । अत एतद्वै सर्ववर्णानां [भागवतम् ११.२७.४] इत्यादिकं सर्वसम्मतमेव ॥ ॥ ११.२७ ॥ उद्धवः श्रीभगवन्तम् ॥ २९८ ॥ [२९९] तदेतद्अर्चनं व्याख्यातम् । अस्याङ्गानि चागमादौ ज्ञेयानि । तथा श्री कृष्णजन्माष्टमीकार्त्तिकव्रतैकादशीमाघस्नानादिकमत्रैवान्तर भाव्यम् । तत्र जन्माष्टमी यथा विष्णुरहस्ये ब्रह्मनारदसंवादे तुष्ट्य्अर्थं देवकीसूनोर्जयन्तीसम्भवं व्रतम् । कर्तव्यं वित्ताशाठ्येन भक्त्या भक्तजनैरपि । अकुर्वन् याति निरयं यावदिन्द्राश्चतुर्दश ॥ इति । तथा कृष्णजन्माष्टमीं त्यक्त्वा योऽन्यद्व्रतमुपासते । नाप्नोति सुकृतं किञ्चिद्दृष्टं श्रुतमथापि वा ॥ इति । वित्ताशाठ्यं चोक्तमष्टमे धर्माय यशसेऽर्थाय कामाय स्वजनाय च । पञ्चधा विभजन् वित्तमिहामुत्र च मोदते ॥ [भागवतम् ८.१९.३७] इति । अथ कार्त्तिको यथा स्कान्दे एकतः सर्वतीर्थानि इत्यादिकमुक्त्वा एकतः कार्त्तिको वत्स सर्वदा केशवप्रियः । यत्किञ्चित्क्रियते पुण्यं विष्णुमुद्दिश्य कार्त्तिके । तद्अक्षयं भवेत्सर्वं सत्योक्तं तव नारद ॥ इति । अव्रतेन क्षिपेद्यस्तु मासं दामोदरप्रियम् । तिर्यग्योनिमवाप्नोति सर्वधर्मबहिष्कृतः ॥ इति । अथैकादशी तत्र तावदस्या अवैष्णवेऽपि नित्यत्वम् । तत्र सामान्यतः विष्णुधर्मे वैष्णवो वाथ सौरो वा कुर्यादेकादशीव्रतमिति । सौरपुराणे वैष्णवो वाथ शैवो वा सौरोऽ (पगे १५६) प्येतत्समाचरेतिति । विशेषतश्च नारदपञ्चरात्रे दीक्षानन्तरावश्यकृत्यकथने समयाश्च प्रवक्ष्यामि इत्यादौ । एकादश्यां न भुञ्जीत पक्षयोरुभयोरपि । जागरं निशि कुर्वीत विशेषाच्चार्चयेद्विभुम् ॥ इति । विष्णुयामलेऽपि तत्कथने दिग् । बिद्धैकादशीव्रतम् शुक्लाकृष्णाविभेदश्चासद्व्यापारो व्रते तथा । शक्तौ फलादिभुक्तिश्च श्राद्धं चैकादशीदिने ॥ द्वादश्यां च दिवास्वापस्तुलस्यावचयस्तथा ॥ तत्र विष्णोर्दिवा स्नानमपि निषिद्धत्वेनोक्तम् । पाद्मोत्तरखण्डे च वैष्णवधर्मकथने द्वादशीव्रतनिष्ठता इति । तथा स्कान्दे काशी खण्डे सौपर्णद्वारकामाहात्म्ये चचन्द्रशर्मणो भगवद्धर्म प्रतिज्ञा अद्यप्रभृति कर्तव्यं यन्मया कृष्ण तच्छृणु । एकादश्यां न भोक्तव्यं कर्तव्यो जागरः सदा ॥ महाभक्त्यात्र कर्तव्यं प्रत्यहं पूजनं तव । पलार्धेनापि बिद्धं तु मोक्तव्यं वासरं तव ॥ त्वत्प्रीत्याष्टौ मया कार्या द्वादश्यां व्रतसंयुताः ॥ इत्यादिकाः । अत उक्तमाग्नेये एकादश्यां न भोक्तव्यं तद्व्रतं वैष्णवं महत् । इति । गौतमीये वैष्णवो यदि भुञ्जीत एकादश्यां प्रमादतः । विष्ण्व्अर्चनं वृथा तस्य नरकं घोरमाप्नुयात् ॥ मत्स्यभविष्यपुराणयोः एकादश्यां निराहारो यो भुङ्क्ते द्वादशीदिने । शुक्ला वा यदि वा कृष्णा तद्व्रतं वैष्णवं महत् ॥ इति । स्कान्दे मातृहा पितृहा चैव भ्रातृहा गुरुहा तथा । एकादश्यां तु यो भुङ्क्ते विष्णुलोकच्युतो भवेत् ॥ इति । अत्र वैष्णवानां निराहारत्वं नाम महाप्रसादान्नपरित्याग एव । तेषामन्यभोजनस्य नित्यमेव निषिद्धत्वात् । यथोक्तं नारद पञ्चरात्रे प्रसादान्नं सदा ग्राह्यमेकादश्यां न नारद । रमादिसर्वभक्तानामितरेषां च का कथा ॥ इति । ब्रह्माण्डपुराणे पत्रं पुष्पं फलं तोयमन्नपानाद्यमौषधम् । अनिवेद्य च भुञ्जीत यदाहाराय कल्पितम् ॥ अनिवेद्यं तु भुञ्जानः प्रायश्चित्ती भवेन्नरः । तस्मात्सर्वं निवेद्यैव विष्णोर्भुञ्जीत सर्वदा ॥ इति । जागरस्यापि नित्यत्वं यथा स्कान्दे उमामहेश्वरसंवादे सम्प्राप्ते वासरे विष्णोर्ये न कुर्वन्ति जागरम् । भ्रश्यते सुकृतं तेषां वैष्णवानां च निन्दया ॥ मतिर्न जायते यस्य द्वादश्यां जागरं प्रति । न हि तस्याधिकारोऽस्ति पूजने केशवस्य हि ॥ इति । तद्वत्तस्य विष्णुप्रीतिदत्वं च श्रूयते पाद्मोत्तरखण्डे (पगे १५७) शृणु देवि प्रवक्ष्यामि द्वादश्याश्च विधानकम् । तस्याः स्मरणमात्रेण सन्तुष्टः स्याज्जनार्दनः ॥ [ড়द्मড়् ६.२३४.३] भविष्ये एकादशी महापुण्या सर्वपापविनाशिनी । भक्तेस्तु दीपनी विष्णोः परमार्थगतिप्रदा ॥ इति । अतएव श्रीमद्अम्बरीषादीनां भक्त्य्एकनिष्ठानां महाप्रसादभुजां तद्व्रतं दर्शयता श्रीभागवतेनापि तद्अन्तरङ्गवैष्णवधर्मत्वेन सम्मतमिति दिक् । पाद्मे कार्त्तिकमाहात्म्ये च ब्राह्मणकन्यायाः कार्त्तिकव्रतैकादशीव्रतप्रभावात्श्रीमत्सत्यभामाख्यभगवत् प्रयसीपदप्राप्तिरपि श्रूयते । किं बहुना । अथ माघः सौपर्णे दुर्लभो माघमासस्तु वैष्णवानामतिप्रियः । देवतानामृषीणां च मुनीनां सुरनायक । विशेषेण शचीनाथ माघवस्यातिवल्लभः ॥ इति । स्कान्दे ब्रह्मनारदसंवादे सर्वपापविनाशाय कृष्णसन्तोषणाय च । माघस्नानं सदा कार्यं वर्षे वर्षे च नारद ॥ इति । भविष्योत्तरे एकविंशगणैः सार्धं भोगान् त्यक्त्वा यथेप्सितम् । माघमास्युषसि स्नात्वा विष्णुलोकं स गच्छति ॥ इति । एवं श्रीरामनवमीवैशाखव्रतादयश्चात्र ज्ञेयाः । एतत्सर्वमपि सद्आचारकथनद्वारा विधत्ते गां पर्यटन् [भागवतम् ३.१.१८] इत्यादौ व्रतानि चेरे हरतोषणानि इति ॥ व्रतानि एकादश्यादीनीति । विदुर इति प्रकरणलब्धम् । ॥ ३.१ ॥ श्रीशुकः ॥ २९९ ॥ [३००] एवं तादृशव्रतेष्वपि तत्तद्उपासकानां स्वस्वेष्टदैवतव्रतं सुष्ठ्व् एव विधेयमित्यागतम् । तथास्मिन् पादसेवार्चनमार्गे यानैर्वा पादुकैर्वापि गमनं भगवद्गृहे इत्यादिना आगमोक्ता ये द्वात्रिंशद् अपराधास्तथा राजन्नभक्षणं चैवमित्यादिना तद्उक्ता ये चान्ये बहवस्ते सर्वे ममार्चनापराधा ये कीर्त्यन्ते वसुधे मया । वैष्णवेन सदा ते तु वर्जनीयाः प्रयत्नतः ॥ इति वाराहानुसारेण । परित्याज्या इत्याशयेनाह श्रद्धयोपाहृतं प्रेष्ठं भक्तेन मम वार्यपि । भूर्यप्यभक्तोपहृतं न मे तोषाय कल्पते ॥ [भागवतम् ११.२७.१८] श्रद्धाभक्तिशब्दाभ्यामत्रादर एव विधीयते । अपराधास्तु सर्वेऽनादरात्मका एव । प्रभुत्ववमानतश्च आज्ञावमानतश्च । तस्माद् अपराधनिदानमत्रानादर एव परित्याज्य इत्यर्थः । ॥ ११.२७ ॥ श्रीभगवान् ॥ ३०० ॥ [३०१] महतामनादरस्तु सर्वनाशक इत्याह न भजति कुमनीषिणां स इज्यां हरिरधनात्मधनप्रियो रसज्ञः । श्रुतधनकुलकर्मणां मदैर्ये विदधति पापमकिञ्चनेषु सत्सु ॥ [भागवतम् ४.३१.२१] (पगे १५८) अधनाश्च ते आत्मधनाश्च ते प्रिया यस्य सः । रसज्ञो भक्तिरसिको हरिः । के कुमनीषिण इत्यपेक्षायामाह श्रुतेति । पापमपराधम् ॥ ॥ ४.३१ ॥ श्रीनारदः प्रचेतसः ॥ ३०१ ॥ [३०२] किं च न विक्रिया विश्वसुहृत्सखस्य साम्येन वीताभिमतेस्तवापि । महद्विमानात्स्वकृताद्धि मादृङ् नङ्क्ष्यत्यदूरादपि शूलपाणिः ॥ [भागवतम् ५.१०.२५] स्पष्टम् ॥ ५.१० ॥ रहूगनः श्रीभरतम् ॥ ३०२ ॥ [३०३] अथ तथापि प्रामादिके भगवद्अपराधे पुनर्भगवत्प्रसादनानि कर्तव्यानि । यथा स्कान्दे अवन्तीखण्डे श्रीव्यासोक्तौ अहन्यहनि यो मर्त्यो गीताध्यायं पठेत्तु वै । द्वात्रिंशद्अपराधांस्तु क्षमते तस्य केशवः ॥ इति । तत्रैव द्वारकामाहात्म्ये सहस्रनाममाहात्म्यं यः पठेच्छृणुयादपि । अपराधसहस्रेण न स लिप्येत्कदाचन ॥ इति । तत्रैव रेवाखण्डे द्वादश्यां जागरे विष्णोर्यः पठेत्तुलसीस्तवम् । द्वात्रिंशद्अपराधानि क्षमते तस्य केशवः ॥ इति । तत्रैवान्यत्र तुलस्या रोपणं कार्यं श्रावणेषु विशेषतः । अपराधसहस्राणि क्षमते पुरुषोत्तमः ॥ इति । तत्र वान्यत्र कार्त्तिकमाहात्म्ये तुलस्या कुरुते यस्तु शाग्रामशिलार्चनम् । द्वात्रिंशद्अपराधांश्च क्षमते तस्य केशवः ॥ इति । अन्यत्र यः करोति हरेः पूजां कृष्णशत्राङ्कितो नरः । अपराधसहस्राणि नित्यं हरति केशवः ॥ इति । आदिवाराहे संवत्सरस्य मध्ये तु तीर्थे शौकरके मम । कृतोपवासः स्नानेन गङ्गायां शुद्धिमाप्नुयात् ॥ मथुरायां तथाप्येवं सापराधः शुचि भवेत् । अनयोस्तीर्थयोरेकं यः सेवेत सुकृती नरः ॥ सहस्रजन्मजनितानपराधान् जहाति सः ॥ इति । शौकरके शूकरक्षेत्राख्ये । महद्अपराधस्तु चाटुकारादिना वा तत् प्रीत्य्अर्थकृतेन निरन्तर=दीर्घकालीनभगवन्नामकीर्तनेन वा तं प्रसाद्य क्षमापनीय इत्यवोचामैव । तत्प्रसादं विना तद्असिद्धेः । अतएवोक्तं श्रीशिवं दक्षेण योऽसौ मयाविदिततत्त्वदृशा सभायां क्षिप्तो दुरुक्तिविशिखैर्विगणय्य तन्माम् । अर्वाक्पतन्तमर्हत्तमनिन्दयापाद् दृष्ट्यार्द्रया स भगवान् स्वकृतेन तुष्येत् ॥ [भागवतम् ४.७.१५] इति । एवमुत्तरत्रापि ज्ञेयम् । अथ वन्दनम् । तच्च यद्यप्यर्चनाङ्गत्वेनापि वर्तते तथापि कीर्तन स्मरणवत्स्वातन्त्र्येणादीत्यभिप्रेत्य पृथग्विधीयते । एवमन्यत्रापि ज्ञेयम् । वन्दनस्य पृथग्विधानं चानन्तगुणैश्वर्यश्रवणात्तद् गुणानुसन्धानपादसेवादौ विधृतदैन्यानां नमस्कारमात्रे कृताध्यवसायानामर्थे । स एव नमस्कारस्तस्यार्चनत्वेनाप्यतिदिष्टः । यथा नारसिंहे (पगे १५९) नमस्कारः स्मृतो यज्ञः सर्वयज्ञेषु चोत्तमः । नमस्कारेण चकेन साष्टाङ्गेन हरिं व्रजेत् ॥ इति । तदेतद्वन्दनं यथा तत्तेऽनुकम्पां सुसमीक्षमाणो भुञ्जान एवात्मकृतं विपाकम् । हृद्वाग्वपुर्भिर्विदधन्नमस्ते जीवेत यो मुक्तिपदे स दायभाक् ॥ [भागवतम् १०.१४.८] यस्माद्गुणात्मनस्तेऽपि गुणान् विमातुम् [भागवतम् १०.१४.७] इत्यादिना तादृशत्वम् उच्यते तत्तस्मात् । नमो नमस्कारम् । मुक्तिपदे नवमपदार्थस्य मुक्तेरप्याश्रये परिपूर्णदशमपदार्थे । यद्वा मुक्तिरिह पञ्चम स्थगद्यानुसारेण प्रेमैव तत्पदे तद्विषये परिपूर्णभगवल्लक्षणे त्वयि दायभाग्भवति । भ्रातृवण्टन इव त्वं तस्य दायत्वेन वर्तस इत्य् अर्थः । मुक्तिमात्रं तु सकृन्नमस्कारेणैवासन्नं स्यात् । यथा विष्णु धर्मे दुर्गसंसारकान्तारमपारमभिधावताम् । एकः कृष्णे नमस्कारो मुक्तितीरस्य देशिकः ॥ इति । तत्ते इत्यत्र सुसमीक्षमाणः इति टीका । यद्वा प्रतिक्षणं निरुपाधि कृपयैव प्रभुणा तथा तथा क्रियमाणामनुकम्पां सुष्ठुरूपाम् ईक्षमाणस्तत्रानन्दीभवन् तां सम्यक्पश्यन् विभावयन् तथा हृदा यद् वा वाचा यद्वा वपुषा नमो विदधज्जन इत्यादि व्याख्या ज्ञेया । नमस्कारेऽप्यपराधाश्चैते परिहर्तव्याः विष्णुस्मृत्य्आदिदृष्ट्या । ये खलु एकहस्तकृतत्ववस्त्रावृतदेहत्वभगवद्अग्रपृष्ठवाम भागात्यन्तनिकटगर्भमन्दिरगतत्वादिमयाः । ॥ १०.१४ ॥ श्रीब्रह्मा भगवन्तम् ॥ ३०३ ॥ [३०४] अथ दास्यम् । तच्च श्रीविष्णोर्दासंमन्यत्वम् । जन्मान्तरसहस्रेषु यस्य स्यान्मतिरीदृशी । दासोऽहं वासुदेवस्य सर्वान् लोकान् समुद्धरेत् ॥ इत्युक्तलक्षणम् । अस्तु तावद्भजनप्रयासः केवलतादृशत्वाभिमानेनापि सिद्धिर्भवतीत्य् अभिप्रेत्यैवोत्तरत्र निर्देशश्च तस्य । यथोक्तं जन्मान्तर इत्येतत् पद्यस्यैवान्ते किं पुनस्तद्गतप्राणाः पुरुषाः संयतेन्द्रियाः इति । श्री प्रह्लादस्तुतौ तत्तेऽर्हत्तम [भागवतम् ७.९.४९] इत्यादिपद्ये तु नमस्तुतिसर्व कर्मार्पणपरिचर्याचरणस्मृतिकथाश्रवणात्मकं दास्यं टीकायां सम्मतम् । श्रीमद्उद्धववाक्ये च त्वयोपभुक्तस्रग्गन्ध वासोऽलङ्कारचर्चिताः । उच्छिष्टभोजिनो दासास्तव मायां जयेम हि ॥ [भागवतम् ११.६.४६] इति । तत्र तत्र च कार्यद्वारैव निर्दिष्टम् । उदाहरणं तु स वै मनः कृष्णपदारविन्दयोः [भागवतम् ९.४.१५] इत्यादौ । कामं च दास्ये न तु काम काम्यया [भागवतम् ९.४.१७] भोगेच्छया तं चकार इति वासनान्तरव्यवच्छेदः ॥ ॥ ९.४ ॥ श्रीशुकः ॥ ३०४ ॥ [३०५] तदेतद्दास्यसम्बन्धेनैव सर्वमपि भजनं महत्तरं भवतीत्य् आह यन्नामश्रुतिमात्रेण पुमान् भवति निर्मलः । तस्य तीर्थपदः किं वा दासानामवशिष्यते ॥ [भागवतम् ९.५.१६] यस्य भगवतो नामश्रवणमात्रेण यथा कथञ्चित्तच्छ्रवणेन किं पुनः सम्यक्तत्तद्भजनेनेत्यर्थः । (पगे १६०) तर्हि दासोऽस्मीत्य् अभिमानेन सम्यगेव भजतां सर्वत्र साधने साध्ये च किमवशिष्यते । तद्अधिकमन्यत्किमपि नास्तीत्यर्थः ॥ ॥ ९.५ ॥ दुर्वासा श्रीमद्अम्बरीषम् ॥ ३०५ ॥ [३०६] अथ सख्यम् । तच्च हिताशंसनमयं बन्धुभावलक्षणम् । यन् मित्रं परमानन्दम् [भागवतम् १०.१४.३०] इत्यत्र तथैव मित्रपदन्यासात् । यथा रामार्चनचन्द्रिकायाम् परिचर्यापराः केचित्प्रासादादिषु शेरते । मनुष्यमिव तं द्रष्टुं व्यवहर्तुं च बन्धुवत् ॥ इति । अस्य चोत्तरत्र पाठः प्रेमविश्रम्भवद्भावनामयत्वेन दास्यादप्य् उत्तमत्वापेक्षया । किं च परमेश्वरेऽपि यत्सख्यं शास्त्रे विधीयते तन् नाश्चर्यम् । न देवो देवमर्चयेतिति तद्भावस्यापि विधानश्रवणात् । किन्तु तद्भावस्तत्सेवाविरुद्ध इति शुद्धभक्तैरुपेक्ष्यते । सख्यं तु परमसेवानुकूलमित्युपादीयत इति । तदेतत्साक्षाद्भजनात्मकं दास्यं सख्यं च टीकायामपि दर्शितमस्ति तस्यैव मे सौहृदसख्यमैत्री दास्यं पुनर्जन्मनि जन्मनि स्यात् । [भागवतम् १०.८१.२९] इत्यत्र श्रीदामविप्र वाक्ये । यथा श्रीकृष्णस्य भक्तवात्सल्यं दृष्ट्वा तद्भक्तिं प्रार्थयते तस्येति । सौहृदं प्रेम च सख्यं हिताशंसनं च मैत्री उपकारित्वं च दास्यं सेवकत्वं च । तत्समाहार एकवचनम् । तस्य सम्बन्धि मे मम स्यात्, न तु विभूतिरित्येतत् । तत्र नवविधायां साध्यत्वात्प्रेमा नान्तर्भाव्यते । मैत्री तु सख्य एवान्तर्भाव्येति दास्यसख्ये द्वे एव गृहीते । अत्र च ताभ्यां कर्मार्पणविश्वासौ न व्याख्यातौ साक्साद् भक्तित्वाभावात् । कर्मार्पणस्य फलं भक्तिर्विश्वासश्च भक्त्य् अभिनिवेशहेतुरितीह पूर्वमुक्तम् । तच्च भगवद्विषयहिताशंसन मयं सख्यम् । भगवत्कृतहिताशंसनस्य नित्यत्वात्, तेन सह तस्य नित्य सहवासाच्च । भजनविशेषेणापि विशिष्टं सम्पादयितुं नातिदुष्करं स्याद् इत्याह कोऽतिप्रयासोऽसुरबालका हरेर् उपासने स्वे हृदि छिद्रवत्सतः । स्वस्यात्मनः सख्युरशेषदेहिनां सामान्यतः किं विषयोपपादनैः ॥ [भागवतम् ७.७.३८] छिद्रवदाकाशवदलिप्तत्वेन सदा वर्तमानस्य । नातिप्रयासे हेतुः सर्वेषां देहिनां य आत्मा शुद्धं स्वरूपं तस्य । सामान्यतः सर्वत्र निर्विशेषतयैव सखा । यथावसरं बहिर्अन्तःकरणविषयादिलक्षण मायिक्या निजप्रेमादिलक्षणामायिक्याश्च सम्पत्तेर्दानेन हिताशंसी यस् तस्य हरेः । तस्मादारोपितानां नश्वराणां विषयाणां जायापत्यादीनाम् उपार्जनैः किमिति । ॥ ७.७ ॥ श्रीप्रह्लादोऽसुरबालकान् ॥ ३०६ ॥ [३०७] तद्यथा मयि निर्बद्धहृदयाः साधवः समदर्शनाः । वशे कुर्वन्ति मां भक्त्या सत्स्त्रियः सत्पतिं यथा ॥ [भागवतम् ९.४.६६] अत्र दृष्टान्तेनांशतः सख्यात्मका भक्तिर्लक्ष्यते । ॥ ९.४ ॥ श्रीवैकुण्ठो दुर्वाससम् ॥ ३०७ ॥ [३०८] एवं च शान्ताः समदृशः शुद्धाः सर्वभूतानुरञ्जनाः । यान्त्यञ्जसाच्युतपदमच्युतप्रियबान्धवाः ॥ [भागवतम् ४.१२.३७] (पगे १६१) अच्युत एव प्रियबान्धवो येषाम् । अच्युतस्य पदं तत्सनाथं लोकम् । अच्युतशब्दावृत्त्या फलस्य केनाप्यंशेन व्यभिचारित्वं नेति दृश्यते ॥ ॥ ४.१२ ॥ श्रीमैत्रेयः ॥ ३०८ ॥ [३०९] अथ आत्मनिवेदनम् । तच्च देहादिशुद्धात्मपर्यन्तस्य सर्वतोभावेन तस्मिन्नेवार्पणम् । तत्कार्यं चात्मार्थचेष्टाशून्यत्वं तन्न्यस्तात्म साधनसाध्यत्वं तद्अर्थैकचेष्टामयत्वं च । इदं ह्यात्मार्पणं गो विक्रयवत विक्रीतस्य गोर्वर्तनार्थं विर्कीतवता चेष्टा न क्रियते । तस्य च श्रेयःसाधकस्तत्क्रीतवानेव स्यात् । स च गौस्तस्यैव कर्म कुर्यात् । न पुनर्विक्रीतवतोऽपीति । इदमेवात्मार्पणं श्रीरुक्मिणीवाक्ये तन्मे भवान् खलु वृतः पतिरङ्ग जायाम् आत्मार्पितश्च भवतोऽत्र विभो विधेहि । [भागवतम् १०.५२.३९] इति । अथ केचिद्देहार्पणमेवात्मार्पणमिति मन्यन्ते । यथा भक्तिविवेके चिन्तां कुर्यान्न रक्षायै विक्रीतस्य यथा पशोः । तथार्पयन् हरौ देहं विरमेदस्य रक्षणात् ॥ इति । केचिच्छुद्धक्षेत्रज्ञार्पणमेव । यथा श्रीमद्आलबन्दारुस्तोत्रे वपुर्आदिषु योऽपि कोऽपि वा गुणतोऽमानि यथातथाविधः । तदयं तव पादपद्मयोर् अहमद्यैव मया समर्पितः ॥ [ष्तोत्ररत्नम् ४९] इति । केचिच्च दक्षिणहस्तादिकमप्यर्पयन्तस्तेन तत्कर्ममात्रं कुर्वते, न तु देहादिकर्मेत्यद्यापि दृश्यते । तदेतत्सर्वात्मकं सकार्यमात्म निवेदनं यथा स वै मनः कृष्णपदारविन्दयोर् वचांसि वैकुण्ठगुणानुवर्णने करौ हरेर्मन्दिरमार्जनादिषु श्रुतिं चकाराच्युतसत्कथोदये ॥ मुकुन्दलिङ्गालयदर्शने दृशौ तद्भृत्यगात्रस्पर्शेऽङ्गसङ्गमम् । घ्राणं च तत्पादसरोजसौरभे श्रीमत्तुलस्या रसनां तद्अर्पिते ॥ पादौ हरेः क्षेत्रपदानुसर्पणे शिरो हृषीकेशपदाभिवन्दने । कामं च दास्ये न तु कामकाम्यया यथोत्तमश्लोकजनाश्रया रतिः ॥ [भागवतम् ९.४.१८२०] चकार अर्पयामास । कृष्णपदारविन्दयोरित्यादिकमुपलक्षणं तत् सेवादीनाम् । लिङ्गं श्रीमूर्तिः । आलयस्तद्भक्तस्तन्मन्दिरादिः । श्रीमत् तुलस्यास्तत्पादसरोजसम्बन्धि यत्सौरभं तस्मिन् । तद्अर्पिते महा प्रसादान्नादौ । कामं सङ्कल्पं च दास्ये निमित्ते कथं चकार । यथा येन प्रकारेण उत्तमःश्लोकजनाश्रया रतिः सा भवेदिति । अत्र सर्वथा तत्रैव सङ्ख्यातात्मनिक्षेपः कृत इति वैशिष्ट्यापत्त्या स्मरणादिमयोपासनस्यैवात्मार्पणत्वम् । एवमेवोक्तम् श्रद्धामृत कथायां मे शश्वन्मद्अनुकीर्तनम् [भागवतम् ११.१९.१९] इत्यारभ्य एवं धर्मे मनुष्याणां [भागवतम् ११.१९.२२] इति । यथा स्मरणकीर्तनपादसेवन मयमुपासनमेव आगमोक्तविधिमयत्ववैशिष्ट्यापत्त्यार्चनमित्य् अभिधीयते । ततो नाविविक्तत्वम् । स्नानपरिधानादिक्रिया चास्य भगवत् सेवायोग्यत्वायैवेति तत्रापि नात्मार्पणभक्तिहानिरित्यनुसन्धेयम् । (पगे १६२) एतदात्मार्पणं श्रीबलावपि स्फुटं दृश्यते । उदाहृतं चेदम् आत्मार्पणं धर्मार्थकामः [भागवतम् ७.६.२४] इत्यादिना श्रीप्रह्लादमते । मर्त्यो यदा त्यक्तसमस्तकर्मा निवेदितात्मा [भागवतम् ११.२९.३२] इत्यादिना श्री भगवन्मतेऽपि । तदेतदात्मनिवेदनं भावं विना भाववैशिष्ट्येन च दृश्यते । पूर्वं यथा मर्त्यो यदा इत्यादि । उत्तरं यथैकादश एव दास्येनात्मनिवेदनम् [भागवतम् ११.११.३५] इति । यथा च रुक्मिणीवाक्ये मात्मार्पितश्च भवतः [भागवतम् १०.५२.१] इति । ॥ ९.४ ॥ श्रीशुकः ॥ ३०९ ॥ [३१०] तदेवं वैधी भक्तिर्दर्शिता । अस्याश्चोक्तानामङ्गानामनुक्तानां च कुत्रचित्कस्याप्यङ्गस्यान्यत्र तु तद्इतरस्य यन्महिमाधिक्यं वर्ण्यते । तत्तच्छ्रद्धाभेदेन तत्तत्प्रभावोल्लासापेक्षयेति न परस्पर विरुद्धत्वम् । अधिकारभेदेन ह्यौषधादीनामपि तादृशत्वं दृश्यते । अथ रागानुगा । तत्र विषयिणः स्वाभाविको विषयसंसर्गेच्छातिशयमयः प्रेमा रागः । यथा चक्षुर्आदीनां सौन्दर्यादौ । तादृश एवात्र भक्तस्य श्रीभगवत्यपि राग इत्युच्यते । स रागो विशेषणभेदेन बहुधा दृश्यते येषामहं प्रिय आत्मा सुतश्च सखा गुरुः सुहृदो दैवमिष्टम् [भागवतम् ३.२५.३५] इत्यादौ । तत्र प्रियो यथा तदीयप्रेयसीनाम् । आत्मा परब्रह्म रूपः श्रीसनकादीनाम् । सुतः श्रीव्रजेश्वरादीनाम् । सखा श्री श्रीदामादीनाम् । गुरुः श्रीप्रद्युम्नादीनाम् । कस्यापि भ्राता कस्यापि मातुलेयः कस्यापि वैवाहिक इत्य्आदिरूपः स एक एव तेषु बहुप्रकारत्वेन सुहृदः सम्बन्धिनाम् । दैवमिष्टं तदीयसेवकानां श्रीदारुक प्रभृतीनामिति प्रसिद्धम् । अत्र श्रीमत्यां मोहिन्यां यः खलु रुद्रस्य भावो जातः स तु नाङ्गीकृतः, अनुक्तत्वात् । तस्य मायामोहिततयैव तादृशभावाभ्युपगमाच्च । तदेवं तत्तद्अभिमानलक्षणभावविशेषणेन स्वाभाविकरागस्य वैशिष्ट्ये सति तत्तद्रागप्रयुक्ता श्रवणकीर्तनस्मरणपादसेवन वन्दनात्मनिवेदनप्राया भक्तिस्तेषां रागात्मिका भक्तिरित्युच्यते । तस्याश्च साध्यायां रागलक्षणायां भक्तिगङ्गायां तरङ्गरूपत्वात् साध्यत्वमेवेति न तु साधनप्रकरणेऽस्मिन् प्रवेशः । अतो रागानुग कथ्यते । यस्य पूर्वोक्तं रागविशेषे रुचिरेव जातास्ति न तु रागविशेष एव स्वयं, तस्य तादृशरागसुधाकरकराभाससमुल्लसित हृदयस्फटिकमणेः शास्त्रादिश्रुतासु तादृश्या रागात्मिकाया भक्तेः परिपाटीष्वपि रुचिर्जायते । ततस्तदीयं रागं रुच्य्अनुगच्छन्ती सा रागानुगा तस्यैव प्रवर्तते । एषैवाविहितेति केषाञ्चित्संज्ञा । रुचिमात्र प्रवृत्त्या विधिप्रयुक्तत्वेनाप्रवृत्तत्वात् । न च वक्तव्यं विध्य् अनधीनस्य न सम्भवति भक्तिरिति । प्रायेण मुनयो राजन्निवृत्ता विधिषेधतः । नैर्गुण्यस्था रमन्ते स्म गुणानुकथने हरेः ॥ [भागवतम् २.१.७] इति श्रूयते । ततो विधिमार्गभक्तिर्विधिसापेक्षेति सा दुर्बला । इयं तु स्वतन्त्रैव प्रवर्तते इति प्रबला च ज्ञेया । अतएवास्या जन्मलक्षणं भक्ति व्यतिरेकेणान्यत्रानभिरुचिमुपलक्ष्य सा श्रद्दधानस्य विवर्धमाना विरक्तिमन्यत्र करोति पुंसः । हरेः पदानुस्मृतिनिर्वृतस्य समस्तदुःखाप्ययमाशु धत्ते ॥ [भागवतम् ३.५.१३] इति । (पगे १६३) सा पूर्वोक्ता कथा गृहीता मतिस्तद्रुचिरित्यर्थः । विधिनिरपेक्षत्वादेव पूर्वाभ्यां दास्यसख्याभ्यामेतदीययोस्तयोर्भेदश्च ज्ञेयः । एवम् एवोक्तं तन्मन्येऽधीतमुत्तममिति । अतएव विध्य्उक्तक्रमोऽपि नास्याम् अत्यादृतः । किन्तु रागात्मिकाश्रुतक्रम एव । तत्र रागात्मिकायां रुचिर्यथा सुहृत्प्रेष्ठतमो नाथ आत्मा चायं शरीरिणाम् । तं विक्रीयात्मनैवाहं रमेऽनेन यथा रमा ॥ [भागवतम् ११.८.३५] अत्र स्वाभाविकसौहृद्यादिधर्मैस्तस्मिन्नेव स्वाभावैकपतित्वं स्थापयित्वा परस्यौपाधिकपतित्वमित्यभिप्रेतम् । अन्यत्र पत्यावेकत्वं सा गता यस्माच्चरुमन्त्राहुतिव्रता इति छान्दोग्यपरिशिष्टानुसारेण कृत्रिममेवात्मत्वम् । तस्मिन् परमात्मनि तु स्वभावत एवेत्यात्म शब्दस्याप्यभिप्रायः । इदं यद्यपि तस्मिन् पतित्वमनाहार्यमेवास्ति तथापि आत्मनैव मूलभूतेनैव तं विशेषतः क्रीत्वा यथान्यापि कन्या विवाहात्मकेन स्वात्मसमर्पणेन कञ्चित्पतित्वेनोपादत्ते । तथाभावेनाश्रित्यानेन परममनाहररूपेण तेन सह रमे रमा लक्ष्मीर्यथा । [३११] तदेवं तस्याः पिङ्गलाया रागे स्वरुचिर्द्योतिता । रागानुगायां प्रवृत्तिर् अपीदृशी । सन्तुष्टा श्रद्दधत्येतद्यथालाभेन जीवती । विहराम्यमुनैवाहमात्मना रमणेन वै ॥ [भागवतम् ११.८.४०] अमुनेति भावगर्भरमणेन सह । आत्मना मनसैव तावद्विहरामि । रुचिप्रधानस्य मार्गस्यास्य मनःप्रधानत्वम् । तत्प्रेयसी रूपेणासिद्धायास्तादृशभजने प्रायो मनसैव युक्तत्वात् । अनेन श्रीमत् प्रतिमादौ तादृशीनामप्यौद्धत्यं परिहृतम् । एवं पितृत्वादिभावेष्व् अप्यनुसन्धेयम् ॥ ॥ ११.८ ॥ श्रीपिङ्गला ॥ ३११ ॥ [३१२३१४] एवं प्रेयसीत्वाभिमानमयी दर्शिता । एषा ब्रह्मवैवर्ते कामकलायाम् अपि दृष्टा । सेवकत्वाद्याभिमानमय्यां रुचिभक्तिश्चान्यत्र ज्ञेया । तस्मा अमूस्तनुभृताम् [भागवतम् ७.९.२४] इत्यादौ उपनय मां निजभृत्यपार्श्वम् इति श्रीप्रह्लादवचनम् । यथा श्रीनारदपञ्चरात्रे कदा गम्भीरया वाचा श्रिया युक्तो जगत्पते । चामरव्यग्रहस्तं मामेवं कुर्विति वक्ष्यसि ॥ इति । यथा स्कान्दे सनत्कुमारप्रोक्तसंहितायां प्राभाकरराजोपाख्याने अपुत्रोऽपि स वै नैच्छत्पुत्रं कर्मानुचिन्तयन् । वासुदेवं जगन्नाथं सर्वात्मानं सनातनम् ॥ अशेषोपनिषद्वेद्यं पुत्रीकृत्य विधानतः । अभिषेचयितुं राजा स्वराज उपचक्रमे ॥ न पुत्रमभ्यर्थितवान् साक्षाद्भूताज्जनार्दनात् । अग्रे भगवद्वरश्च अहं ते भविता पुत्रः ॥ इत्यादि । अतएवोक्तं श्रीनारायणव्यूहस्तवः पतिपुत्रसुहृद्भ्रातृपितृवन्मैत्रवद्धरिम् । ये ध्यायन्ति सदोद्युक्तास्तेभ्योऽपीह नमो नमः ॥ इति । अत्र पत्य्आदिवदिति ध्येयस्य पितृवदिति ध्यातुर्विशेषणं ज्ञेयम् । तथा मातृवदिति वतिप्रत्ययेन प्रसिद्धतन्मातृजनाभेदभावना नैवाङ्गीक्रियते । किन्तु तद्अनुगतभावनैव । एवं पितृभावादावपि ज्ञेयम् । अन्यथा भगवत्यहङ्ग्रहोपासनावत्तेष्वपि दोषः स्यात् । तथा (पगे १६४) ध्यायन्तीति पूर्वोक्तं मनःप्रधानत्वमेवोरीकृतम् । अपि शब्देन तत्तद्रागसिद्धानां कैमुत्यमाक्षिप्यते । ननु, चोदनालक्षणोऽर्थो धर्मः [ড়ूर्वमीमांसा १.१.२] इत्यनेन पूर्व मीमांसायां विधिनैवापूर्वं जायत इति श्रूयते । तथा श्रुतिस्मृति पुराणादिपञ्चरात्रविधिं विना इत्यादिना यामले श्रुत्य्आद्य्एकतरोक्त क्रमनियमं विना दोषः श्रूयते । तथा श्रुतिस्मृती ममैवाज्ञे यस्ते उल्लङ्घ्य वर्तते । आज्ञाच्छेदी मम द्वेषी मद्भक्तोऽपि न वैष्णवः ॥ इति । अत्र श्रुत्य्आद्य्उक्तावश्यकक्रियानिषेधयोरुल्लङ्घनं वैष्णवत्व व्याघातकं श्रूयते । कथं तर्हि विधिनिरपेक्षया तया सिद्धिः । उच्यते श्रीभगवन्नामगुणादिषु वस्तुशक्तेः सिद्धत्वान्न धर्मवद्भक्तेश् चोदनासापेक्षत्वम् । अतो ज्ञानादिकं विनापि फललाभो बहुत्र श्रुतोऽस्ति । चोदना तु यस्य स्वतःप्रवृत्तिर्नास्ति तद्विषयैव । तथा क्रमाविधिश्च तद्विषयः । तस्मिन्नेव नानाविक्षेपवति रुच्य्अभावेन रागात्मिकभक्ति शैलीमनभिजानाति । सत्यामपि धावन्निमील्य वा नेत्रे [भागवतम् ११.२.३५] इत्य् आदिन्यायेन यथा कथञ्चिदनुष्ठानतः सिद्धौ सुष्ठु वर्त्म प्रवेशाय क्रमशश्चित्ताभिनिवेशाय च मर्यादारूपः स निर्मीयते । अन्यथा सन्तततद्भक्त्य्उन्मुखताकरतादृशरुच्य्अभावान् मर्यादानभिपत्तेश्चाध्यात्मिकादिभिरुत्पातैर्विहन्यते च स इति । न तु स्वयं प्रवृत्तिमत्यपि मर्यादानिर्माणम् । तस्य रुच्यैव भगवन् मनोरमरागात्मिकाक्रमविशेषाभिनिवेशात् । तदुक्तं स्वयमेव ज्ञात्वाज्ञात्वाथ ये वै माम् [भागवतम् ११.११.३३] इत्यादिना । रागात्मिकभक्तिमतां दुरभिसन्धिताप्यनुकरणमात्रेण तादृशत्व प्राप्तिः श्रूयते । यथा धात्रीत्वानुकरणेन पूतनायाः । तदुक्तम् सद् वेशादिव पूतनापि सकुला [भागवतम् १०.१४.३५] इति । किमुत तदीयरुचिमद्भिस् तादृशनिरन्तरसम्यग्भक्त्य्अनुष्ठानेन । तदुक्तम् पूतना लोकबालघ्नी राक्षसी रुधिराशना । जिघांसयापि हरये स्तनं दत्त्वाप सद्गतिम् ॥ किं पुनः श्रद्धया भक्त्या कृष्णाय परमात्मने । यच्छन् प्रियतमं किं नु रक्तास्तन्मातरो यथा ॥ [भागवतम् १०.६.२६२७] इति । अत उक्तं न मय्येकान्तभक्तानां गुणदोषोद्भवा गुणाः [भागवतम् १०.२०.४] इति । एकान्तित्वं खलु भक्तिनिष्ठा । सा रुच्यैव वा शास्त्रविध्य्आदरेणैव वा जायते । ततो रुचेर्विरलत्वादुत्तराभावेनापि यदैकान्तिकीत्वं तत् तस्यैकान्तिकमानिनो दम्भमात्रमित्यर्थः । ततस्तद्अनद्यैव निन्दा श्रुतिस्मृतिपुराण इत्यादिना, न तु रुचिभावेऽपि तन्निन्दा युक्ता पूतना इत्य् आदेः । तथा चोक्तं पाद्मोत्तरखण्डे स्वातन्त्र्यात्क्रियते कर्म न च वेदोदितं महत् । विनैव भगवत्प्रीत्या ते वै पाषण्डिनः स्मृताः ॥ इति । प्रीतिरत्र तादृशरुचिः । तदेवमत्र शात्रानादरस्यैव निन्दा । न तु तद् अज्ञानस्य धावन्निमील्य वै इत्यादेः । गौतमीयतन्त्रे त्विदमप्युक्तम् (पगे १६५) न जपो नार्चनं नैव ध्यानं नापि विधिक्रमः । केवलं सन्ततं कृष्णचरणाम्भोजभाविनाम् ॥ अजाततादृशरुचिना तु सद्विशेषादरमात्रादृता रागानुगापि वैधी संवलितैवानुष्ठेया । तथा लोकसंग्रहार्थं प्रतिष्ठितेन जाततादृश रुचिना च । अत्र मिश्रत्वे च यथायोग्यं रागानुगयैकीकृत्यैव वैधी कर्तव्या । केचिदष्टादशाक्षरध्यानं गोदोहनसमयवंशीवाद्य समाकृष्टतत्तत्सर्वमयत्वेन भावयन्ति । यथा चैके तादृशमुपासनं साक्षाद्व्रजजनविशेषायैव मह्यं श्रीगुरुचरणैर्मद्अभीष्ट विशेषसिद्ध्य्अर्थमुपदिष्टं भावयामि । साक्षात्तु श्रीव्रजेन्द्र नन्दनं सेव्यमान एवासा इति भावयन्ति । अथ श्रुतिस्मृती ममैवाज्ञे इत्य्आदिनिन्दितमात्रस्वावश्यकक्रिया निषेधयोरुल्लङ्घनं द्विविधम् । तौ हि धर्मशास्त्रोक्तौ भक्ति शास्त्रोक्तौ चेतै । भगवद्भक्तिविश्वासेन दौःशील्येन वा पूर्वयोरकरणकरणप्रत्यासत्तौ न वैष्णवभावाद्भ्रंशः । देवर्षि भूताप्तनॄणां [भागवतम् ११.५.३७] इत्याद्य्उक्तेः, अपि चेत्सुदुराचारः [गीता ९.३०] इत्य्आद्य्उक्तेश्च । तादृशरुचिमति तु तयैव रुच्या द्विष्टत्वाद् अपुनर्भवाद्य्आनन्दस्यापि वाञ्छा नास्ति किमुत परमघृणास्पदस्य । अतस्तत्र स्वत एव न प्रवृत्तिः । प्रमादादिना कदाचिज्जातं चेद्विकर्म तत् क्षणादेव नश्यत्यपि । उक्तं चविकर्म यच्चोत्पतितं कथंचिद्धुनोति सर्वं हृदि सन्निविष्टः [भागवतम् ११.५.३८] इति । अथ वैष्णवशास्त्रोक्तौ । तौ तर्हि विष्णुसन्तोषैकप्रयोजनावेव भवतः । तयोश्च तादृशत्वे श्रुते सति तदीयरागरुचिमतः स्वत एव प्रवृत्त्य्अप्रवृत्तौ स्याताम् । तत्सन्तोषैकजीवनत्वात्प्रीतिजातेः । अतएव न तत्र स्वानुगम्यमानरागात्मकसिद्धभक्तविशेषेण कृतत्वाकृतत्वयोर् अनुसन्धानं चापेक्ष्यं स्यात् । किन्तु तत्कृतत्वे सति विशेषणाग्रहो भवतीत्य् एव विशेषः । अत्र क्वचिच्छास्त्रोक्तक्रमविध्य्अपेक्षा च रागरुच्यैव प्रवर्तितेति रागानुगान्तःपात एव । ये च श्रीगोकुलादिविराजिरागात्मिकानुगास्तत्परास् ते तु श्रीकृष्णक्षेमतत्संसर्गान्तरायाभावादिकाम्यात्मकतद् अभिप्रायरीत्यैव विअष्णवलौकिकधर्मानुष्ठानं कुर्वन्ति । अतएव रागानुगायां रुचेरेव सद्धर्मप्रवर्तकत्वात्श्रुतिस्मृती ममैवाज्ञे इत्येतद्वाक्यस्य न तद्वर्त्मभक्तिविषयत्वम् । किन्तु बाह्यशास्त्र निर्मितबुद्धर्षभदत्तात्रेयादिभजनवर्त्मविषयत्वमेव । तथोक्तम् वेदधर्मविरुद्धात्मा यदि देव प्रपूजयेत् । स याति नरकं घोरं यावदाहूतसम्प्लवम् ॥ इति रागानुगायां विध्य्अप्रवर्तितायामपि न वेदबाह्यत्वम् । वेदवैदिक प्रसिद्धैव सा तत्र तत्र रुचित्वात् । वेदेषु बुद्धादीनां तु वर्णनं वेद बाह्यं विरुद्धत्वेनैव यथा ततः कलौ सम्प्रवृत्ते सम्मोहाय सुरद्विषाम् । बुद्धो नाम्नाञ्जनसुतः कीकटेषु भविष्यति ॥ [भागवतम् १.३.२४] इत्यादि । तस्माद्भवत्येव रागानुगा समीचीना । तथा वैधीतोऽप्यतिशयवती च । मर्यादावचनं ह्यावेशार्थमेवेति दर्शितम् । स पुनरावेशो यथा रुचि विशेषलक्षणमानसभावेन स्यान्न तथा (पगे १६६) विधिप्रेरणया । स्वारसिकमनोधर्मत्वात्तस्य । तत्र चास्तां तावद्अनुकूलभावः । परमनिषिद्धेन प्रतिकूलभावेनाप्य् आवेशो झटिति स्यात् । तद्आवेश सामर्थ्येन प्रतिकूलदोषहानिः स्यात् । सर्वानर्थनिवृत्तिश्च स्यादिति भावमार्गस्य बलवत्त्वे दृष्टान्तोऽपि दृश्यते । तत्र यद्यनुकूलभावः स्यात्तदा परमैकान्तिसाध्य एवाप्तौ । अथ भावमार्गसामान्यस्य बलवत्त्वं प्रकरणमुत्थाप्यते । श्री युधिष्ठिर उवाच अहो अत्य्अद्भुतं ह्येतद्दुर्लभैकान्तिनामपि । वासुदेवे परे तत्त्वे प्राप्तिश्चैद्यस्य विद्विषः ॥ [भागवतम् ७.१.१५] एकान्तिनां परमज्ञानिनामपि यतस्तस्य सा न सम्भवति । एतद्वेदितुमिच्छामः सर्व एव वयं मुने । भगवन्निन्दया वेनो द्विजैस्तमसि पातितः ॥ [भागवतम् ७.१.१६] तमसि नरके । बहुनरकादिभोगानन्तरमेव पृथुजन्म प्रभावोदयेन तस्य सद्गतिश्रवणात् । एषः दमघोषसुतः पाप आरभ्य कलभाषणात् । सम्प्रत्यमर्षी गोविन्दे दन्तवक्रश्च दुर्मतिः ॥ [भागवतम् ७.१.१७] इत्यादि । स्पष्टम् । ॥ ७.१ ॥ युधिष्ठिरो नारदम् ॥ ३१२३१४ ॥ [३१५३२०] तत्रोत्तरं श्रीनारद उवाच अहो भगवन्निन्दकस्य नरकपातेन भाव्यमिति वदतस्तव कोऽभिप्रायः ? भगवत्पीडाकरत्वाद्वा तद् अभावेऽपि सुरापानादिवन्निषिद्धनिन्दाश्रवणाद्वा । तत्र तावद् विमूढैर्जनैर्निन्दादिकं प्राकृतान् तम आदेइगुणानुद्धिश्यैव प्रवर्तते । ततः प्रकृतिपर्यन्ताश्रयस्य तत्कृतनिन्दादेरप्राकृतगुण विग्रहादौ तस्मिन् प्रवृत्तिर्नास्त्येव । न च जीववत्प्रकृतिपर्यन्ते वस्तु जाते भगवद्अभिमानोऽस्ति । ततश्च तेन तस्य पीडापि नास्त्येव । तदेतद् आह सार्धैस्त्रिभिः निन्दनस्तवसत्कार न्यक्कारार्थं कलेवरम् । प्रधानपरयो राजन्नविवेकेन कल्पितम् ॥ [भागवतम् ७.१.२२] निन्दनं दोषकीर्तनम् । न्यक्कारस्तिरस्कारः । निन्दनस्तुत्य्आदि ज्ञानार्थं प्रधानपुरुषयोरविवेकेन जीवानां कलेवरं कल्पितं रचितम् । ततश्च हिंसा तद्अभिमानेन दण्डपारुष्ययोर्यथा । वैषम्यमिह भूतानां ममाहमिति पार्थिव ॥ यन्निबद्धोऽभिमानोऽयं तद्वधात्प्राणिनां वधः । तथा न यस्य कैवल्यादभिमानोऽखिलात्मनः ॥ परस्य दमकर्तुर्हि हिंसा केनास्य कल्प्यते ॥ [भागवतम् ७.१.२३२५] इह प्राकृते लोके । यथा तत्कलेवराभिमानेन भूतानां ममाहमिति वैषम्यं भवति, यथा तत्कृताभ्यां दण्डपारुष्याभ्यां ताडन निन्दाभ्यां निमित्तभूताभ्यां हिंसा च भवति, यथा यस्मिन् निबद्धोऽभिमानस्तस्य देहस्य वधात्प्राणिनां वधश्च भवति, यथा यस्याभिमानो नास्तीत्यर्थः । अस्य परमेश्वरस्य हिंसा केन हेतुना कल्प्यते । अपि तु न केनापीत्यर्थः । तथाभिमाभावे हेतुः कैवल्यात् । देहेन्द्रियासुहीनानां वैकुण्ठपुरवासिनाम् [भागवतम् ७.१.३५] इति कैमुत्यादि प्राप्तशुद्धत्वात् । तादृशनिन्दाद्य्अगम्यशुद्धसच्चिदानन्द विग्रहादित्वादित्यर्थः । तस्य तद्अगम्यत्वं च (पगे १६७) नाहं प्रकाशः सर्वस्य योगमायासमावृतः [गीता ७.२५] इति श्रीभगवद्गीतातः । तादृशवैलक्षण्येन हेतुः अखिलानामात्मभूतस्य । तत्र हेतुः परस्य प्रकृतिवैभवसङ्गरहितस्य । हिंसाया अविषयत्वे हेत्व्अन्तरं दमकतुः परमाशर्यानन्तशक्तित्वात्सर्वेषामेव शिक्षाकर्तुरिति । तदेवं यस्माद् भगवतो निन्दादिकृतं वैषम्यं नास्ति तस्माद्येन केनाप्युपायेन सकृद् यद्अङ्गप्रतिमान्तराहिता [भागवतम् १०.१२.३९] इत्यादिवत्तद्आभासमपि ध्यायतस्तद्आवेशात्तत्र वैरेणापि ध्यायतस्तद्आवेशेनैव निन्दादिकृत पापस्यापि नाशात्तत्सायुज्यादिकं युक्तमित्याशयेनाह तस्मादित्यादिभिः । तथा हि तस्माद्वैरानुबन्धेन निर्वैरेण भयेन वा । स्नेहात्कामेन वा युञ्ज्यात्कथञ्चिन्नेक्षते पृथक् ॥ [भागवतम् ७.१.२६] युञ्ज्यादिति स्नेहकामादीनां विधातुमशक्यत्वात्सम्भावनायामेव लिङ् । वैरानुबन्धादीनामेकतरेणापि युञ्ज्याद्ध्यायेच्चेत्तदा भगवतः पृथग्नेक्षते तद्आविष्टो भवतीत्यर्थः । वैरानुबन्धो वैर भावाविच्छेदः । निर्वैरो वैराभावमात्रमौदासीन्यमुच्यते । तेन कामादिराहित्यमप्यायाति । वैरादिभावराहित्यमित्यर्थः । तेन वा वैराद्भावराहित्येन युञ्ज्यात् । विहितत्वमात्रबुद्ध्या ध्यायेत । ध्यानोपलक्षितं भक्तियोगं कुर्यादित्यर्थः । स्नेहः कामातिरक्तः परस्परमकृत्रिमः प्रेमविशेषः । स तु साधके तद्अभिरुचिरेव । तद् एवं सर्वेषां तद्आवेश एव फलमिति स्थिते झटिति तद्आवशसिद्धये तेषु भावमयमार्गेषु निन्दितेनापि वैरेण विधिमय्या भक्तेर्न साम्यम् इत्याह यथा वैरानुबन्धेन मर्त्यस्तन्मयतामियात् । न तथा भक्तियोगेन इति मे निश्चिता मतिः ॥ [भागवतम् ७.१.२७] वैरानुबन्धेनेति भयस्याप्युपलक्षणम् । यथाशैघ्र्येण तन्मयतां तद्आविष्टता भक्तियोगेन विहितत्वमात्रबुद्ध्या क्रियमाणेन तु न तथा । आस्तां तादृशवस्तुशक्तियुक्तस्य तेषु प्रकाशमानस्य भगवतो भगवद्विग्रहाभासस्य वा वार्ता । प्राकृतेऽपि तद्भावमात्रस्य भाव्यावेशफलं महद्दृश्यत इति सदृष्टान्तं तदेव प्रतिपादयति कीटः पेशस्कृता रुद्धः कुड्यायां तमनुस्मरन् । संरम्भभययोगेन विन्दते तत्स्वरूपताम् ॥ एवं कृष्णे भगवति मायामनुज ईश्वरे । वैरेण पूतपाप्मानस्तमापुरनुचिन्तया ॥ [भागवतम् ७.१.२८२९] संरम्भो द्वेषो भयं च ताभ्यां योगस्तद्आवेशस्तेन । तत्स्वरूपतां तस्य स्वमात्मीयरूपमाकृतिर्यत्र तत्तां तत्सारूप्यमित्यर्थः । एवम् इति एव अपीयर्थः । नराकृतिपरब्रह्मत्वाद्माययैव प्राकृतमनुजतया प्रतीयमाने । ननु कीटस्य प्रेशस्कृद्द्वेषे पापं न भवति । तत्र तु तत्स्यादित्य् आशङ्क्याह वैरेण यानुचिन्ता तद्आवेशस्तयैव पूतपाप्मानस्तद् ध्यानावेशस्य तादृक्शक्तित्वादिति भावः । न च शास्त्रविहितेनैव भगवद्धर्मेण सिद्धिः स्यान्न च तद्विहितेन कामादिनेति वाच्यम् । (पगे १६८) कामाद्द्वेषाद्भयात्स्नेहाद्यथा भक्त्येश्वरे मनः । आवेश्य तद्अघं हित्वा बहवस्तद्गतिं गताः ॥ [भागवतम् ७.१.२९] यथा विहितया भक्त्य ईश्वरे मन आविश्य तद्गतिं गच्छन्ति तथिअवाविहितेनापि कामादिना बहवो गता इत्यर्थः । तद्अघं तेषु कामादिषु मध्ये यद्द्वेषभययोरघं भवति तद्धित्वैव । भयस्यापि द्वेषसंवलितत्वादघोत्पादकत्वं ज्ञेयम् । अत्र केचित्काममप्यघं मन्यन्ते । तत्रेदं विचार्यते भगवति केवलं काम एव केवलपापावहः किं वा पतिभावयुक्तः । अथवा उपपति भावयुक्त इति । स एव केवल इति चेत्स किं द्वेषादिगणपतित्वात्तद्वत् स्वरूपेणैव वा । परमशुद्धे भगवति यद्अधरपानादिकं यच्च कामुकाद्य्आरोपणं तेनातिक्रमेण वा पापश्रवणेन वा । नाद्येन उक्तं पुरस्तादेतत्ते चैद्यः सिद्धिं यथा गतः । द्विषन्नपि हृषीकेशं किमुताधोक्षजप्रियाः ॥ [भागवतम् १०.२९.१३] इत्यत्र द्वेषादेर्न्यक्कृतत्वात्तस्य तु स्तुतत्वात् । अतश्च प्रिया इति स्नेहवत् कामस्यापि प्रीत्यात्मकत्वेन तद्वदेव न दोषः । तादृशीनां कामो हि प्रेमैकरूपः । यत्ते सुजातचरणाम्बुरुहं स्तनेषु भीताः शनैः प्रिय दधीमहि कर्कशेषु [भागवतम् १०.३१.१९] इत्यादावतिक्रम्यापि स्वसुखं तदानुकूल्य एव तात्पर्यदर्शनात्सैरिन्ध्र्यास्तु भावो रिरंसाप्रायत्वेन श्रीगोपिकानामिव केवलतत्तात्पर्याभावात्तद्अपेक्षयैव निन्द्यते न तु स्वरूपतः । सानङ्गतप्तकुचयोः [भागवतम् १०.४८.६] इत्यादौ अनन्तचरणेन रुजो मृजन्ति इति परिरभ्य कान्तमानन्दमूर्तिमिति कार्यद्वारा तत् स्तुतैः । तत्रापि सहोष्यतामिह प्रेष्ठ [भागवतम् १०.४८.८] इत्यत्र प्रीत्य् अभिव्यक्तश्च । अतएव सैवं कैवल्यनाथं तं प्राप्य दुष्प्राप्यमीश्वरम् । अङ्गरागार्पणेनाहो दुर्भगेदमयाचत ॥ [भागवतम् १०.४८.८] दुराराध्यं समाराध्य विष्णुं सर्वेश्वरेश्वरम् । यो वृणीते मनोग्राह्यमसत्त्वात्कुमनीष्यसौ ॥ [भागवतम् १०.४८.११] इति चैवं योजयन्ति । कैवल्यमेकान्तित्वम् । तेन यो नाथः सेवनीयस्तम् । पुरा तादृशत्रिवक्रत्वादिलक्षणदौर्भाग्यवत्यपि । अहो आश्चर्यमङ्ग रागार्पणलक्षणेन भगवद्धर्मांशेन कारणेन सम्प्रतीदं सहोष्यतामिह प्रेष्ठ दिनानि कतिचिन्मया रमस्व [भागवतम् १०.४८.८] इत्यादि लक्षणं सौभाग्यमयाचत इति । अतः किमनेन कृतं पुण्यमवधूतेन भिक्षुणा । श्रिया हीनेन लोकेऽस्मिन् गर्हितेनाधमेन च ॥ [भागवतम् १०.८०.२५] इति श्रीदामविप्रमुद्दिश्य पुरजनवचनवदेव तथोक्तिः । ननु कामुकी सा किमिति श्लाघ्यते । तत्राह दुराराध्यमिति । यो मनोग्राह्यं प्राकृतम् एव विषयं वृणीते कामयत असावेव कुमनीषी । सा तु भगवन्तकेव कामयत इति परमसुमनीषिण्येवेति भावः । तदेवं तस्य (पगे १६९) कामस्य द्वेषादिगणान्तःपातित्वं परिहृत्य तेन पापावहत्वं परिहृतम् । अथ कामुकत्वाद्य्आरोपणाद्य्अधरपानादिरूपस्तत्र व्यवहारोऽपि नातिक्रमहेतुः । यतो लोकवत्तु लीलाकैवल्यमिति न्यायेन लीला तत्र स्वभावत एव सिद्धा । अत्र च श्रीभूर्लीलादीभिस्तस्य तादृशलीलायाः श्री वैकुण्ठादिषु नित्यसिद्धत्वेन स्वतन्त्रलीलाविनोदस्य तस्याभिरुचि तत्त्वेनैवावगम्यते । तथा तत्प्रेयसीजनानामपि तत्स्वरूपशक्ति विग्रहत्वेन परम्शुद्धरूपत्वात्ततो न्यानताभावाच्च तद्अधर पानादिकमपि नानुरूपं पूर्वयुक्त्या तद्अभिरुचितमेव च । न च प्राकृतवामाजनेन दोषः प्रसञ्जनीयः । तद्योग्यं तादृशं भावं स्वरूपशक्तिविग्रहत्वं च प्राप्यैव तद्इच्छयैव तत्प्राप्तेः । अथ पापश्रवणेन च न पापावहोऽसौ कामः । तद्अश्रवणादेव । अततः पतिभावयुक्ते च तत्र सुतरां न दोषः, प्रत्युत स्तुतिः श्रूयते । याः सम्पर्यचरन् प्रेम्णा पादसंवाहनादिभिः । जगद्गुरुं भर्तृबुद्ध्या तासां किं वर्ण्यते तपः ॥ [भागवतम् १०.९.२७] इति । महानुभावमुनीनामपि तद्भावः श्रूयते । यथा श्रीमाध्वाचार्य धृतं कौर्मवचनम् अग्निपुत्रा महात्मानस्तपसा स्त्रीत्वमापिरे । भर्तारं च जगद्योनिं वासुदेवमजं विभुम् ॥ इति । अतएव वन्दितं पतिपुत्रसुहृद्भ्रातृ इत्यादिना । अथोपपतिभावेन न च पापावहोऽसौ यत्पत्य्अपत्यसुहृदामनुवृत्तिर् अङ्ग [भागवतम् १०.२९.१९] इत्यादिना ताभिरेवोत्तरितत्वात् । गोपीनां तत्पतीनां च [भागवतम् १०.३३.३५] इत्यादिना श्रीशुकवचनेन च । न पारयेऽहं निरवद्यसंयुजां स्वसाधुकृत्यं विबुधायुषापि वः [भागवतम् १०.३२.२२] इत्यत्र निरवद्यसंयुजामित्यनेन स्वयं श्रीभगवता च । तादृशानाम् अन्येषामपि तद्भावो दृश्यते । यथा पाद्मोत्तरखण्डवचनम् पुरा महर्षयः सर्वे दण्डकारण्यवासिनः । दृष्ट्वा रामं हरिं तत्र भोक्तुमैच्छत्सुविग्रहम् ॥ ते सर्वे स्त्रीत्वमापन्नाः समुद्भूतास्तु गोकुले । हरिं सम्प्राप्य कामेन ततो मुक्ता भवार्णवात् ॥ [ড়द्मড়् ६.२४५.१६४] इति । अतः पुरुषेष्वपि स्त्रीभावेनोद्भवाद्भगवद्विषयत्वान्न प्राकृत कामदेवोद्भावितः प्राकृतः कामोऽसौ किन्तु साक्षान्मन्मथमन्मथः [भागवतम् १०.३२.२] इति श्रवणात् । आगमादौ तस्य कामत्वेनोपासनाच्च भगवतैवोद्भावितोऽप्राकृत एवासौ काम इति ज्ञेयम् । श्रीमद् उद्धवादीनां परमभक्तानामपि च तच्छ्लाघा श्रूयते एताः परं तनुभृतो भुवि गोपवध्वः [भागवतम् १०.४७.५१] इत्यादौ । किं बहुना श्रुतीनाम् अपि तद्भावो बृहद्वामने प्रसिद्धः । यतस्तत्र श्रुतयोऽपि नित्य (पगे १७०) सिद्धगोपिकाभावाभिलाषिण्यस्तद्रूपेणैव तद्गणान्तःपातिन्यो बभूवुरिति प्रसिद्धिः । एतत्प्रसिद्धिसूचकमेवैतदुक्त ताभिरेव निभृतमरुन्मनोऽक्षदृठयोगयुजो हृदि यन् मुनय उपासते तदरयोऽपि ययुः स्मरणात् । स्त्रिय उरगेन्द्रभोगभुजदण्डविषक्तधियो वयमपि ते समाः समदृशोऽङ्घ्रिसरोजसुधाः ॥ [भागवतम् १०.८७.२३] इति । विस्पष्टश्चायमर्थः । यद्ब्रह्माख्यं तत्त्वं शास्त्रदृष्ट्या प्रयास बाहुल्येन मुनय उपासते तदरयोऽपि यस्य स्मरणात्तद्उपासनं विनैव ययुः । तथा स्त्रियः श्रीगोपसुभ्रुवस्ते तव श्रीनन्दनन्दनरूपस्य उरुगेन्द्रदेहत्तुल्यौ यौ भुजदण्डौ तव विषक्तधियः सत्यस् तवैवाङ्घ्रिसरोजसुधास्तदीयस्पर्शविशेषजातिप्रेममाधुर्याणि ययुः । वयं श्रुतयोऽपि समदृशस्तत्तुल्यभावाः सत्यः समास्तादृश गोपिकात्वप्राप्त्या तत्साम्यमाप्तास्ता एवाङ्घ्रिरजोसुधां यातवत्य इत्य् अर्थः । अर्थवशाद्विभक्तिपरिणामः ।ङ्घ्रीति सादरोक्तिः । अत्र तदरयोऽपि ययुः स्मरणादित्यनेन भावमार्गस्य झटित्यर्थसाधनत्वं दर्शितम् । समदृश इत्यनेन रागानुगाया एव तत्र साधकतमत्वं व्यञ्जितम् । अन्यथा सर्वसाधनसाध्यविदुष्यः श्रुतयोऽन्यत्रैव प्रवर्तेरन् । तथा स्मरणपरयुग्मद्वयेऽस्मिन् स्वस्वयुग्मे प्रथमस्य मुख्यत्वं द्वितीयस्य गौणत्वं दर्शितम् । उभयत्राप्यपिशब्दसाहित्येनोत्तरत्र पाठादेकार्थताप्राप्तेः । अतः स्त्रिय इति नित्याः श्रीगोपिका एव ता ज्ञेयाः । तथैव श्रुतिभिरिति श्रीकृष्णनित्यधाम्नि ता दृष्टा इति बृहद्वामन एव प्रसिद्धम् । तदेवं साधु व्याख्यातं कामाद्द्वेषातित्यादौ तद्अघं हित्वा इत्यत्र तेषु मध्ये द्वेषभययोर्यद्अघमित्यादि । [३२१] अथ बहवस्तद्गतिं गता इत्यत्र निदर्शयमाह गोप्यः कामाद्भयात्कंसो द्वेषाच्चैद्यादयो नृपाः । सम्बन्धाद्वृष्णयः स्नेहाद्यूयं भक्त्या वयं विभो ॥ [भागवतम् ७.१०.३०] गोप्य इति साधकचरीणां गोपीविशेषाणां पूर्वावस्थामेवावलम्ब्योच्यते । वयमिति यथा श्रीनारदस्य हि प्र्युज्यमाने मयि तां शुद्धां भागवतीं तनुम् [भागवतम् १.६.२८] इत्य्आद्य्उक्तरीत्या पार्षददेहत्वे सिद्धे तेन स्वयं वयमिति पूर्वावस्थामवलम्ब्योच्यते । तत्रैव वैधी भक्तिः । अधुना लब्धरागस्य तस्य न मय्येकान्तभक्तानां गुणदोषोद्भवा गुणाः [भागवतम् ११.२०.३६] इति न्यायेन विध्य्अनधीना रागात्मिकैव विराजत इति । अतएव तद्गतिं गताः इति तेषां फलप्राप्तेरप्यतीतत्वनिर्देशः । अत्र ता गोप्य इवाधुन्क्यश्च तद्गुणादिश्रवणेनैव तद्भावा भवेयुः । यथोक्तम् श्रुतमात्रोऽपि यः स्त्रीणां प्रसह्याकर्षते मनः । उरुगायोरुगीतो वा पश्यन्तीनां च किं पुनः ॥ [भागवतम् १०.९०.१७] इति । अथवा पार्षदचरस्यापि चैद्यस्यागन्तुकोपद्रवाभासनाशदर्शनेनैव साधकत्वनिर्देशः । सम्बन्धाद्यः स्नेहो रागस्तस्माद्वृष्णयो यूयं च इत्येकम् । तस्माद्वैरानुबन्धेन इत्यादौ कामातित्यादौ चोक्तस्यैवार्थस्योदाहरणवाक्येऽस्मिन् तद्ऐकार्त्याकश्यमत्वात् । पञ्चानाम् (पगे १७१) इति वक्ष्यमाणानुरोधात् । उभयत्रापि सम्बन्ध स्नेहयोर्द्वयोरपि विद्यमानत्वाच्च सम्बन्धग्रहणं रागस्यैव विशेषत्वज्ञापनार्थम् । गोपीवदत्रापि साधकचरा वृष्णिविशेषाः पाण्डवसम्बन्धिविशेषाश्च पूर्वावस्थामवलम्ब्य साधकत्वेन निर्दिष्टाः । अतः सम्बन्धजस्नेहेऽपि तद्अभिरुचिमात्रं ज्ञेयम् । भक्त्या विहितया । अस्या एव प्रतिलब्धत्वेन भावमार्गं निर्देष्टुम् उपक्रान्तत्वात् । [३२२] यदि द्वेषेणापि सिद्धिस्तर्हि वेणः किमिति नरके पातित इत्याशङ्क्याह कतमोऽपि न वेनः स्यात्पञ्चानां पुरुषं प्रति [भागवतम् ७.१.३१] पुरुषं भगवन्तं प्रति लक्ष्यीकृत्य पञ्चानां वैरानुबन्धादीनां मध्ये वेणः कतमोऽपि न स्यात् । तस्य तं प्रति प्रासङ्गिकनिन्दा मात्रात्मकं वैरं न तु वैरानुबन्धः । ततस्तीव्रध्यानाभावात् पापमेव तत्र प्रतिफलितमिति भावः । ततोऽसुरतुल्यस्वभावैरपि तस्मिन् स्वमोक्षार्थं वैरभावानुष्ठानसाहसं न कर्तव्यमित्य् अभिप्रेतम् । अतएव ये वै भगवता प्रोक्ताः [भागवतम् ११.२.३२] इत्यादेरप्य् अतिव्याप्तिर्व्याहन्यते अनभिप्रेतत्वेनाप्रोक्तत्वात् । [३२३] यस्मादेवं तस्मात्केनाप्युपायेन मनः कृष्णे निवेशयेत् ॥ [भागवतम् ७.१.३१] इति । अत्रापि पूर्ववन्निवेशयेदिति सम्मतिमात्रं न विधिः । केनापि तेष्वप्य् उपायेषु युक्ततमेनैकेनेत्यर्थः । अज्पुअस्त्>अदृ<चबहुप्रयत्नसाध्य वैधीभक्तिमार्गेण चिरात्साध्यते स एवाचिराद्भावविशेषमात्रेण तत्र च द्वेषादिनापि । तस्मादेवंभूते परमसद्गुणस्वभावे तस्मिन् दूरेऽस्तु पामरजनभाव्यस्य वैरस्य वार्ता को वाधम औदास्यम् अवलम्ब्य प्रीतिमपि न कुर्यादिति रागानुगायामेव तच्च युक्ततमत्वम् अङ्गीकृतं भवति । ॥ ७.१ ॥ श्रीनारदः युधिष्ठिरम् ॥ ३१२३२३ ॥ [३२४] तदेवं भावमार्गसामान्यस्यैव बलवत्त्वेऽपि कैमुत्येन रागानुगायाम् एवाभिधेयत्वमाह वैरेण यं नृपतयः शिशुपालपौण्ड्र शाल्वादयो गतिविलासविलोकनाद्यैः । ध्यायन्त आकृतधियः शयनासनादौ तत्साम्यमापुरनुरक्तधियां पुनः किम् ॥ [भागवतम् ११.५.४८] आकृतिधियस्तत्तद्आकारा धीर्येषाम् । एवमेवोक्तं गारुडे अज्ञानिनः सुरवरं समधिक्षिपन्तो यं पापिनोऽपि शिशुपालसुयोधनाद्याः । मुक्तिं गताः स्मरणमात्रविधूतपापाः कः संशयः परमभक्तिमतां जनानाम् ॥ इति । अत्प्यथा वैरानुबन्धेन [भागवतम् ७.१.२६] इत्यत्र वैरानुबन्धस्य सर्वत आधिक्यं न योजनीयम् । यच्च मयि संरम्भयोगेन निस्तीर्य ब्रह्महेलनम् । प्रत्येष्यतं निकाशं मे कालेनाल्पीयसा पुनः ॥ [भागवतम् ३.१६.३०] इति । इति जयविजयौ प्रति वैकुण्ठवचनम् । तदपि तद्अपराधाभास भोगार्थमेव संरम्भयोगाभासं विधत्ते तत्प्राप्तेस्तयोः स्वाभावैकसिद्धत्वात् । युद्धलीलार्थमेव तत्प्रपञ्चनात् । अत्र द्वेषादावपि केचिद्भक्तित्वं मन्यन्ते । तदसत् । भक्तिसेवादि शब्दानामानुकूल्य एव (पगे १७२) प्रसिद्धेर्वैरे तद्विरोधत्वेन तद् असिद्धेश्च । पाद्मोत्तरखण्डे च भक्तिद्वेषादीनां च भेदोऽवगम्यते योगिभिर्दृश्यते भक्त्या नाभक्त्या दृश्यते क्वचित् । द्रष्टुं न शक्यो रोषाच्च मत्सराद्वा जनार्दनः । [ড়द्मড়् ६.२३८.८३] इत्य् अत्र च । ननु मन्येऽसुरान् भागवतान् [भागवतम् ३.२.२४] इत्यादौ श्रीमद्उद्धववाक्ये तेषामपि भागवतत्वं निर्दिश्यते । मैवम् । यतो मन्य इत्य् अनेनोत्प्रेक्षावगमान्न स्वयं भागवतत्वं तत्रास्तीयेवं सिध्यतीति । सा चोत्प्रेक्षा तेन तच्छोकौत्कण्ठ्यवता केवलदर्शनभाग्यांशेनैव रचिता युक्तैव । यथा हन्त वयमेव बहिर्मुखाः । येषामन्तिसमये तन्मुखचन्द्रमसो दर्शनसम्भावनापि न विद्यते । येभ्यश्चासुरा अपि भागवताः । ये खलु तदानीं तन्मुखचन्द्रमसो दर्शन सौभाग्यं प्रापुरिति । तस्मान्न द्वेषादौ कथञ्चिदपि भक्तित्वम् । ॥ ११.५ ॥ श्रीनारदः श्रीवसुदेवम् ॥ ३२४ ॥ [३२५] तदेवं रागानुगा साधिता । सा च श्रीकृष्ण एव मुख्या । गोप्यः कामात् [भागवतम् ७.१.२९] इत्यादिना तस्मिन्नेव दर्शितत्वात् । दैत्यानामपि द्वेषेणापि तस्मिन्नेवावेशलाभदर्शनात् । सिद्धिप्राप्तेश्च । नान्यत्र तु कुत्राप्य् अंशिन्यंशे वा । अतएवोक्तं तस्मात्केनाप्युपायेन मनः कृष्णे निवेशयेत् इत्यादि । अतस्तादृशझटित्य्आवेशहेतूपासनालाभादेव स्वयमेकादशे वैधोपासना स्वस्मिन्नोक्ता । किन्त्वन्यत्र चतुर्भुजाकार एव । तत्र च शुद्धस्य रागस्य श्रीगोकुल एव दर्शनात्तत्र तु रागानुगा मुख्यतमा यत्र खलु स्वयं भगवानपि तेषां पुत्रादिभावेनैव विलसति । ये यथा मां प्रपद्यन्ते [गीता ४.११] इत्यादेः । मल्लानामशनिर्[भागवतम् १०.४३.१४] इत्यादेः । स्वेच्छामयस्य [भागवतम् १०.१४.२] इत्यस्माच्च । ततश्च भक्तकर्तृक भोजनपानस्नपनबीजनादिलक्षणलालनेच्छापि तस्याकृत्रिमैव जायते । साधारणभक्तिसद्भावेनैव हि पत्रं पुष्पं फलंतोयं यो मे भक्त्या प्रयच्छति । तदहं भक्त्य्उपहृतमश्नामि प्रयतात्मनः ॥ [भागवतम् १०.८१.३] इत्य् उक्तम् । श्रीशुकदेवेन च तदेतदेवाकाङ्क्षया श्लाघितम् । पादसंवाहनं चक्रुः केचित्तस्य महात्मनः । अपरे हतपाप्मानो व्यजनैः समबीजयत् ॥ [भागवतम् १०.१५.१५] इत्यादिना । नानेन चैश्वर्यस्य हानिः । तदानीमपि तस्यैश्वर्यस्यान्यत्र स्फुरद् रूपत्वात् । भक्तेच्छामयत्वस्य चेशितरि प्रशंसनीयस्वभावत्वादेव । यथा श्रीव्रजेश्वरीबद्ध एव यमलार्जुनमोक्षं कृतवान् तादृशैश्वर्येऽपि तस्मिन् श्रीव्रजेश्वरीवश्यतैव श्रीशुकदेवेन वन्दिता एवं सन्दर्शिता ह्यङ्ग [भागवतम् १०.९.१९] इत्यादिना । तस्माद्ये चाद्यापि तदीय रागानुगापरास्तेषामपि श्रीव्रजेन्द्रनन्दनत्वादिमात्रधर्मैर् उपासना युक्ता । यथा श्रीगोवर्धनोद्धरणलब्धविस्मयान् श्रीगोपान् प्रत्युक्तं स्वयं भगवतैव विष्णुपुराणे यदि वोऽस्ति मयि प्रीतिः श्लाघ्योऽहं भवतां यदि । तद्आत्मबन्धुसदृशी बुद्धिर्वः क्रियतां मयि ॥ [Vइড়् ५.१३.११] इति । (पगे १७३) तदार्चा बन्धुसदृशीं बान्धवाः क्रियतां मयि इति वा पाठः । तथा नाहं देवो न गन्धर्वो न यक्षो न च दानवः । अहं वो बान्धवो जातो नातश्चिन्त्यमतोऽन्यथा ॥ [Vइড়् ५.१३.१२] इति । युवां मां पुत्रभावेन वासकृत्[भागवतम् १०.३.३६] इत्यत्र तु श्री वसुदेवादीनामैश्वर्यज्ञानप्रधानत्वाद्द्व्यत्मिकैव भगवद् अनुमतिर्ज्ञेया । प्राग्जन्मन्यपि तयोस्तपादिप्रधानैव भक्तिरुक्ता । अतः श्रीव्रजेश्वर्याः पुनस्तन्मुखदृष्टवैभवत्वमश्लाघित्वा पुत्रस्नेहमयीं मायाद्य्एकपर्यायां तत्कृपामेव बहुमन्यमानस् तादृशभाग्यं च श्रीव्रजेश्वरस्य च भाग्यं तादृशबाल्य लीलोच्छल्यमानपुत्रभावेन राजमानमतिश्लाघितवान् राजा नन्दः किम् अकरोद्ब्रह्मन् [भागवतम् १०.८.३६] इत्यादिद्वयेन । श्रीमुनिराजश्च तादृशतत् प्रेमैव श्लाघितवान् एवं सन्दर्शिता ह्यङ्ग हरिणा [भागवतम् १०.९.२९] इत्य् आदिना । तदेवं श्रीवसुदेवदेवक्यावुपलक्ष्य श्रीनारदो साधकान् प्रति दर्शनालिङ्गनालापैः [भागवतम् ११.५.४३] इत्यादिना यदुपदिष्टवान् । तत्र टीका च यथा पुत्रोपलालनेनैव भागवतधर्मसर्वस्वनिष्पत्तेः इत्येषा । तथा मापत्यबुद्धिमकृथाः कृष्णे सर्वेश्वरेश्वरे [भागवतम् ११.५.४५] इति । एतद् अपि तद्अविरोधेन टीकायामेवमवतारितम् । यथा ननु, पुत्रस्नेहश्चेन् मोक्षहेतुस्तर्हि सर्वेऽपि मुच्येरन् तत्राह मापत्यबुद्धिमिति इत्येतत् । तस्मिन्नपत्यत्वं प्राप्तेऽपि तस्मिंस्तादृशभावनावशं गतेऽपि अस्ति स्वाभाविकं पारमैश्वर्यमधिकमिति भावः । यद्वा पूर्ववन्न् आर्षोऽडागमः किन्त्वकारो निषेधे अभावे न ह्यनो न इत्य्शब्दकोषात् । ततो निषेधद्वयादपत्यबुद्धिमेव कुरु इत्यर्थः । अतएव ज्ञानाज्ञानयोरनादरेण केवलरागानुगाया एवानुष्ठितिः प्रशस्ता । ज्ञात्वाज्ञात्वाथ ये वै माम् [भागवतम् ११.११.३३] इत्यादिना । तस्मात्श्रीगोकुल एव रागात्मिकायाः शुद्धत्वात्तद्अनुगा भक्तिरेव मुख्यतमा इति साद्व् एवोक्तम् । तदेवमन्यत्रासम्भवतया रागानुगामात्मदृष्ट्या पूर्णभगवत्ता दृष्ट्या च श्रीकृष्णभजनस्य माहात्म्यं महदेव सिद्धम् । तत्रापि गोकुललीलात्मकस्य । अथ तद्भजनमात्रस्य माहात्म्यमुपक्रमत एव यथा मुनयः साधु पृष्टोऽहं भवद्भिर्लोकमङ्गल । यत्कृतः कृष्णसम्प्रश्नो येनात्मा सुप्रसीदति ॥ [भागवतम् १.२.५] इति । तत्रैतद्वक्तव्यं पूर्वं मनसः प्रसादहेतुः पृष्टः । अनेन तु श्री कृष्णप्रश्नमात्रस्य तद्धेतुनोक्ता । न तु स वै पुंसां परो धर्मः [भागवतम् १.२.६] इत्यादिना तदीयानन्तरप्रकरणे यथा महता प्रयत्नेन कर्मार्पणमारभ्य भक्तिनिष्ठापर्यन्त एव जाते प्रादुर्भावानन्तर भजनस्य तद्धेतुनोक्ता तथेति । अतएवावतारान्तरकथाया अपि तद् अभिनिवेश एव फलमित्याह हरेरद्भुतवीर्यस्य कथा लोकसुमङ्गलाः । कथयस्व महाभाग यथाहमखिलात्मनि ॥ कृष्णे निवेश्य निःसङ्गं मनस्त्यक्ष्ये कलेवरम् । [भागवतम् २.८.३४] इति । हरेस्तद्अवताररूपस्य । अखिलात्मनि सर्वांशिनि कृष्णे श्रीमद्अर्जुन सखे ॥ ॥ २.८ ॥ राजा ॥ ३२५ ॥ (पगे १७४) [३२६] तथा श्रीमद्उद्धवसंवादान्ते च यथा । तत्र यद्यपि पूर्वाध्याय समाप्तौ उक्ताया ज्ञानयोगचर्याया भक्तिसहभावेनैव स्वफल जनकत्वं श्रीभगवतोक्तं तथापि तां ज्ञानयोगचर्यामंशतोऽप्य् अनङ्गीकुर्वता परमैकान्तिना श्रीमद्उद्धवेन सुदुस्तरामिमां मन्ये योगचर्यामनात्मनः । यथाञ्जसा पुमान् सिध्येत्तन्मे ब्रूह्यञ्जसाच्युत ॥ प्रायशः पुण्डरीकाक्ष युञ्जन्तो योगिनो मनः । विषीदन्त्यसमाधानान्मनोनिग्रहकर्शिताः ॥ [भागवतम् ११.२९.१२] इति । अत्र स्ववाक्ये तस्या दुष्करत्वेन प्रायः फलपर्यवसायित्वाभावेन चोक्तत्वात् । शुश्रूष्यमाणाया भक्तेस्तु सुकरत्वेनावश्यकफल पर्यवसायित्वेन चाभिप्रेतत्वात् । तद्भक्तिरेव कर्तव्येति स्वाभिप्रायो दर्शितः । तदेवं तां ज्ञानयोगचर्यामनादृत्य भक्तिमेवापि कुर्वाणास् तव श्रीकृष्णरूपस्यैव भक्तिं तादृशास्तु ज्ञानयोगादिफलानादरेणैव कुर्वन्तीति पुनराह चतुर्भिः अथात आनन्ददुघं पदाम्बुजं हंसाः श्रयेरन्नरविन्दलोचन । सुखं नु विश्वेश्वर योगकर्मभिस् त्वन्माययामी विहता न मानिनः ॥ [भागवतम् ११.२९.३] यस्मादेवं केचन विषीदन्ति अथान्त अत एव ये हंसा सारासारविवेक चतुराः ते तु समस्तानन्दपूरकं पदाम्बुजमेव तु निशिच्तं सुखं यथा स्यात्तथा श्रयेरन् सेवन्ते । पदाम्बुजस्य सम्बन्धिपदानुरक्तिः साक्षाद्दृश्यमानत्वदीयपदाम्बुजाभिव्यञ्जनार्था । अमी च शुद्ध भक्ता योगकर्माभिस्त्वन्मायया च विहता कृतभक्तानुष्ठानान्तराया न भवन्ति । यतो न च मानिनस्ते मानिनोऽपि न भवन्ति । पुरुषार्थ साधने भगवतो निरुपाधिदीनजनकृपाया एव साधकतमत्वं मन्यन्ते न योगिप्रभृतिवत्स्वप्रयत्नस्येत्यर्थः । [३२७] एवम्भूतस्य भक्तस्य ज्ञानयोगादीनां यत्फलं तन्मात्रं न किन्त्व् अन्यन्महदेवेत्याह किं चित्रमच्युत तवैतदशेषबन्धो दासेष्वनन्यशरणेषु यदात्मसात्त्वम् । योऽरोचयत्सह मृगैः स्वयमीश्वराणां श्रीमत्किरीटतटपीडितपादपीठः ॥ [भागवतम् ११.२९.४] अशेषबन्धो दासेष्वनन्यशरणेषु, यद्वा अशेषाणामसुरपर्यन्तानां यो बन्धुर्मोक्षादिदानैर्निरुपाधिहितकारी हे तथाभूत तवैतत्किं चित्रं यद्अनन्यशरणेषु ज्ञानयोगकर्माद्य्अनुष्ठानविमुखेषु दासेषु शुद्धभक्तेषु बलिप्रभृतिषु आत्मसत्त्वं तेषां य आत्मा तद् अधीनत्वमित्यर्थः । तदुक्तम् न साधयति मां योगः [भागवतम् ११.१२.१] इत्य् आदि । तस्य तव तथाभूतेषु न जातिगुणाद्य्अपेक्षा चेत्यन्तरङ्गलीलायाम् अपि दृश्यत इत्याह यः इति । सहेति सहभावं सख्यमित्यर्थः । मृगैर् वृन्दावनचारिभिः । स्वयं तु कथम्भूतोऽपि ईश्वराणामित्यादि लक्षणोऽपि । ईश्वराः श्रीशिवब्रह्मादयः । ज्ञानयोगादिपरमफल रूपाणि या मुक्तिस्तां दैत्येभ्यो ददासि । पाण्डवादिसख्यदौत्य वीरासनादिस्थितिवद्दासानां तु स्वयमधीनो भवसि । अतएवम्भूतस्य श्रीकृष्णस्यैव तव भक्तिर्मुख्येति भावः । [३२८] फलितमाह (पगे १७५) तं त्वाखिलात्मदयितेश्वरमाश्रितानां सर्वार्थदं स्वकृतविद्विसृजेत को नु । को वा भजेत्किमपि विस्मृतयेऽनु भूत्यै किं वा भवेन्न तव पादरजोजुषां नः ॥ [भागवतम् ११.२९.५] तमेवम्भूतं त्वां स्वकृतवित्प्रसन्नवदनाम्भोजं पद्म गर्भारुणेक्षणम् [भागवतम् ७.२८.१३] इत्यादिश्रीकपिलदेवोपदेशतः स्व सौन्दर्यादिस्फूर्तिलक्षणं स्वस्मिन् कृतं त्वदीयोपकारं यो वेत्ति स को नु विसृजेत्तच्चापि चित्तबडिशं शनकैर्वियुङ्क्ते [भागवतम् ७.२८.३४] इति तद् उपदिष्¸ओआधिकारिविशेषवत्परित्यज्यते ? न कोऽपीत्यर्थः । तस्माद्यस् त्यजति स कृतघ्न एवेति भावः । कथम्भूतं त्वाम् ? स्वरूपत एवाखिलानामात्मना दयितं प्राणकोटिप्रेष्ठमीश्वरं चेत्यादि । तथा नु वितर्के, त्वद्व्यतिरिक्तं किमपि देवतान्तरं धर्मज्ञानादिसाधनं भूत्यै ऐश्वर्याय संसारस्य विस्मृतये मोक्षाय वा को भजेत । न कोऽपीत्य् अर्थः । अस्माकं तु तत्तत्फलमपि त्वभक्तेरेवान्तर्भूतमित्याह किं चेति । वाशब्देन तत्राप्यनादरः सूचितः । तदुक्तं यत्कर्मभिर्यत्तपसा [भागवतम् ११.२०.३२] इत्यादि । नैवोपयन्त्यपचितिं कवयस्तवेश ब्रह्मायुषापि कृतमृद्धमुदः स्मरन्तः । योऽन्तर्बहिस्तनुभृतामशुभं विधुन्वन्न् आचार्यचैत्त्यवपुषा स्वगतिं व्यनक्ति ॥ [भागवतम् ११.२९.६] हे ईश ! कवयः सर्वज्ञाः ब्रह्मतुल्यायुषोऽपि तत्कालपर्यन्तं भजन्तोऽपीत्यर्थः । तव कृतमुपकारमृद्धमुद उपचितत्वद्भक्ति परमानन्दाः सन्तः स्मरन्तोऽपचितिं प्रत्युपकारमानृण्यमिति यावत् । तां न उपयन्ति पश्यन्ति । तस्मान्न विसृजेदित्युक्तम् । कृतमाह यो भवान् तनुभृतां त्वत्कृपाभाजनत्वेन केषांचित्सकलतनुधारिणां बहिराचार्यवपुषा गुरुरूपेण, अन्तश्चैत्त्यवपुषा चित्तस्फुरित ध्येयाकारेणाशुभं त्वद्भक्तिप्रतियोगि सर्वं विधुन्वन् स्वगतिं स्वानुभवं व्यनक्ति इति । ॥ ११.२९ ॥ श्रीमद्उद्धवः ॥ ३२६३२९ ॥ [३३०] तथैव स्वभक्तेरतिशयित्वं श्रीभगवानपि तद्अनन्तरमुवाच । तत्र च तादृशान् प्रति शुद्धां स्वभक्तिं हन्त ते कथयिष्यामि [भागवतम् ११.२९.८] इत्य् आदिचतुर्भिरुक्त्वाप्येतादृशान् प्रति च करुणया स्वभजन प्रवर्तनार्थमन्यद्विचारितवान् चतुर्भिः । यतः प्रायशो लोकाः स्पर्धादिपराः कथञ्चिदन्तर्मुखत्वेऽपि सर्वान्तर्यामिरूपत्वद् भजनमात्रज्ञानिन इत्यालोच्य कृपया तेषां स्पर्धादीन् झटिति दूरीकर्तुं स्वस्मिन्नेवान्तर्मुखीकर्तुं च विष्टभ्याहमिदं कृत्स्नम् एकांशेन स्थितो जगत्[गीता १०.४२] इत्याद्य्उक्ततद्अन्तर्यामिरूपस्वांशस्य भजनस्थाने स्वभजनमुपदिष्टवान् । यथा मामेव सर्वभूतेषु बहिरन्तरपावृतम् । ईक्षेतात्मनि चात्मानं यथा खममलाशयः ॥ [भागवतम् ११.२९.१२] टीका च अन्तरङ्गां भक्तिमाह मामिति त्रिभिः । सर्वभूतेष्वात्मनि चात्मानमीश्वरस्थितं मामेव ईक्षेत इत्येषा । (पगे १७६) कथम्भूतमीश्वरम् ? बहिरन्तः पूर्णमित्यर्थः । तत्कुतः ? अपावृतमनावरणम् । तदपि कुतः ? यथा खमनङ्गत्वाद्विभुत्वाच् चेत्यर्थः । अत्र मामेवेति श्रीकृष्णरूपमेवेक्षत, न तु केवलान्तर्यामिरूपमित्यभिप्रायेणैवान्तरङ्गां भक्तिमाहेति व्याख्यातम् । [३३१] ततश्च इति सर्वाणि भूतानि मद्भावेन महाद्युते । सभाजयन्मन्यमानो ज्ञानं केवलमाश्रितः ॥ ब्राह्मणे पुक्कसे स्तेने ब्रह्मण्येऽर्के स्फुलिङ्गके । अक्रूरे क्रूरके चैव समदृक्पण्डितो मतः ॥ [भागवतम् ११.२९.१३१४] केवलं ज्ञानमन्तर्यामिदृष्टिमाश्रितोऽपीति पूर्वोक्तप्रकारेण सर्वाणि भूतानि मद्भावेन तेषु मम श्रीकृष्णरूपस्य यो भावोऽस्तित्वं तद् विशिष्टतया मन्यमानः सभाजयन् पण्डितो मतः । मद्दृष्ट्या ब्राह्मणादिषु समदृक्समं मामेव पश्यतीति । [३३२] ततश्च नरेष्वभीक्ष्णम् [भागवतम् ११.२९.१५] इत्यादिना तादृशस्वोपासना विशेषस्य झटिति स्पर्धादिक्सयलक्षणं फलमुक्त्वा विसृज्य [भागवतम् ११.२९.१६] इत्यादिना तथादृष्टसाधनं सर्वनमस्कारमुपदिश्य यावत् [भागवतम् ११.२९.१७] इत्यादिना तादृशोपासनाया अवधिं च सर्वत्र स्वतः स्व स्फूर्तिमुक्त्वा सर्वं [भागवतम् ११.२९.१८] इत्यादिना नव्यवद्धृदये यज्ज्ञो ब्रह्मैतद्ब्रह्मवादिभिः । न मुह्यन्ति न शोचन्ति न हृष्यन्ति यतो गताः ॥ [भागवतम् ४.३०.२०] इति प्रचेतसः प्रति श्रीभगवद्वाक्ये तट्टीकायां च तस्य भगवतः प्रतिपदनव्यस्फूर्तिरेव ब्रह्मेतीति यदुक्तं तदेव तत्फलमित्य् उक्त्वा, यद्वा कथमन्यावतारस्य ब्रह्मता भवतीति गोपालतापनी प्रसिद्धब्रह्मेत्य्अभिधाननराकृतिपरब्रह्मरूपस्फूर्तिस्तत् फलमित्युक्त्वा तेनैव तादृशोपासनां सर्वोर्ध्वमपि प्रशंसति अयं हि सर्वकल्पानां सध्रीचीनो मतो मम । मद्भावः सर्वभूतेषु मनोवाक्कायवृत्तिभिः ॥ [भागवतम् ११.२९.१९] सर्वकल्पानां सर्वोपायानां सध्रीचीनः समीचीनः । मद्भावो मम श्रीकृष्णरूपस्य भावना । [३३३] एतच्च श्रीकृष्णभजनस्यान्तर्यामिभजनादप्याधिक्यं श्री गीतोपसंहारानुसारेणैवोक्तम् ईश्वरः सर्वभूतानां हृद्देशेऽर्जुन तिष्ठति । भ्रामयन् सर्वभूतानि यन्त्रारूढानि मायया ॥ तमेव शरणं गच्छ सर्वभावेन भारत । तत्प्रसादात्परां शान्तिं स्थानं प्राप्स्यसि शाश्वतम् ॥ इति ते ज्ञानमाख्यातं गुह्याद्गुह्यतरं मया । विमृश्यैतदशेषेण यथेच्छसि तथा कुरु ॥ पगे १७७) सर्वगुह्यतमं भूयः शृणु मे परमं वचः । इष्टोऽसि मे दृढमिति ततो वक्ष्यामि ते हितम् ॥ मन्मना भव मद्भक्तो मद्याजी मां नमस्कुरु । मामेवैष्यसि सत्यं ते प्रतिजाने प्रियोऽसि मे ॥ सर्वधर्मान् परित्यज्य मामेकं शरणं व्रज । अहं त्वा सर्वपापेभ्यो मोक्षयिष्यामि मा शुचः ॥ [गीता १८.६१६६] इति । अत्र च गुह्यं पूर्वाध्यायोक्तं ज्ञानम् । गुयतरमन्तर्यामिज्ञानम् । सर्वगुह्यतमं तन्मनस्त्वादिलक्षणं तद्एकशरणत्वलक्षणं च तद्उपासनमिति समानम् । एवं श्रीगीतास्वेव नवमाध्यायेऽपि इदं तु ते गुह्यतमं प्रवक्ष्याम्यनसूयवे । ज्ञानं विज्ञानसहितं यज्ज्ञात्वा मोक्ष्यसेऽशुभात् ॥ [गीता ९.१] राजविद्या राजगुह्यम् [गीता ९.२] इत्यादिना वक्ष्यमानार्थं प्रशस्य श्री कृष्णरूपस्वभजनश्रद्धाहीनान्निन्दंस्तच्छ्रद्धावतः प्रशस्तवान् स्वयमेव । यथा अवजानन्ति मां मूढा मानुषीं तनुमाश्रितम् । परं भावमजानन्तो मम भूतमहेश्वरम् ॥ मोघाशा मोघकर्माणो मोघज्ञाना विचेतसः । राक्षसीमासुरीं चैव प्रकृतिं मोहिनीं श्रिताः ॥ महात्मानस्तु मां पार्थ दैवीं प्रकृतिमाश्रिताः । भजन्त्यनन्यमनसो ज्ञात्वा भूतादिमव्ययम् ॥ [गीता ९.१११३] इति । मामेव अनादरेण मानुषीं तनुमाश्रितं जानन्तीत्यर्थः । तस्मात् सर्वान्तर्यामिभजनादप्युत्तमत्वेन तद्अनन्तरं च सर्वगुह्यतमम् इत्यत्र सर्वग्रहणात्सर्वत उत्तमत्वेन श्रीकृष्णभजने सिद्धे तद् अवतारान्तरभजनात्सुतरामेवोत्तमता सिध्यति । अथ तामेव कैमुत्येनाप्याह यो यो मयि परे धर्मः कल्प्यते निष्फलाय चेत् । तद्आयासो निरर्थः स्याद्भयादेरिव सत्तम ॥ [भागवतम् ११.२९.२१] मयि मद्अर्पितत्वेन कृतो यो योउ धर्मो वेदविहितः स स यदि निष्फलाय फलाभावाय कल्प्यते फलकामनया नार्प्यत इत्यर्थः । तदा तत्र तत्रायासः श्रान्तिरनिरर्थः स्याद्व्यर्थो न भवति । निष्फलायेति विशेषणं फलभोगादिरूपतद्भक्त्य्अन्तरायाभावेनानिरर्थतातिशयतात्पर्यम् । तत्रानिरर्थत्वे कैमुत्येन श्रीकृष्णलक्षणस्य स्वस्यासाधारण भजनीयताव्यञ्जको दृष्टान्तो भयादेरिवेति । यथा कंसादौ मत् सम्बन्धमात्रेण भयादेरप्यायासो निरर्थो न भवति मोक्ष सम्पादकत्वादित्यर्थः । [३३४] अथ श्रीमद्उद्धववत्श्रीकृष्णैकानुगतानां साधनत्वे साध्यत्वे च स्वयं श्रीकृष्णरूप एव परमोपादेय इत्याह (पगे १७८) ज्ञाने कर्मणि योगे च वार्तायां दण्डधारणे यावानर्थो नृणां तात तावांस्तेऽहं चतुर्विधः ॥ [भागवतम् ११.२९.३३] ज्ञानादौ यावान् धर्मादिलक्षणश्चतुर्विधोऽर्थस्तावान् सर्वोऽप्यहम् एव । तत्र ज्ञाने मोक्षः । कर्मणि धर्मः कामश्च । योगे नानाविध सिद्धिलक्षणो लौकिको वार्तायां दण्डधारणे च नानाविधलौकिकश् चार्थ इति चतुर्विधत्वं ज्ञेयम् । ॥ ११.२९ ॥ श्रीभगवान् ॥ ३३०३३४ ॥ [३३५] पुनरेवमेव श्रीमद्उद्धवोऽपि प्रार्थितवान् नमोऽस्तु ते महायोगिन् प्रपन्नमनुशाधि माम् यथा त्वच्चरणाम्भोजे रतिः स्यादनपायिनी ॥ [भागवतम् ११.२९.४०] टीका च एवं यद्यपि त्वया बहु कृतं तथाप्येतावत्प्रार्थय इत्याह नमोऽस्त्विति । अनुशाधि अनुशिक्षय । अनुशासनीयत्वमेवाह यथेति । मुक्ताव् अप्यनपायिनी इत्येषा । ॥ ११.२९ ॥ श्रीमानुद्धवः ॥ ३३५ ॥ [३३६] अतएवान्यत्रायभिप्रायाय यथा त्वामरविन्दाक्ष यादृशं वा यद्आत्मकम् । ध्यायेन्मुमुक्षुरेतन्मे ध्यानं त्वं वक्तुमर्हसि ॥ [भागवतम् ११.१४.३१] टीका च मुमुक्षुस्त्वां यथा ध्यायेत्तन्मे वकुत्मर्हसि जिज्ञासोः कथनाय मे । पुनरेतत्त्वद्दास्यमेव पुरुषार्थः । न तु ध्यानेन कृत्यमस्तीति । तदुक्तं त्वयोपभुक्तस्रग्गन्ध [भागवतम् ११.६.३१] इत्य्आदि इत्य् एषा । ॥ ११.१४ ॥ श्रीमानुद्धवः ॥ ३३६ ॥ [३३७] तस्य सर्वावतारावतारिष्वप्रकटितं परमशुभस्वभावत्वं च स्मृत्वाह अहो बकी यं स्तनकालकूटं जिघांसयापाययदप्यसाध्वी । लेभे गतिं धात्र्य्उचितां ततोऽन्यं कं वा दयालुं शरणं व्रजेम ॥ [भागवतम् ३.२.२३] धात्र्या या उचिता गतिस्तामेव ॥ ॥ ३.२ ॥ स एव ॥ ३३७ ॥ [३३८] अथ गोकुलेऽपि श्रीमद्व्रजवधूसहितरासादिलीलात्मकस्य परम वैशिष्ट्यमाह विक्रीडितं व्रजवधूभिरिदं च विष्णोः श्रद्धान्वितो यः शृणुयादथ वर्णयेद्वा । भक्तिं परां भगवति परिलभ्य कामं हृद्रोगमाश्वपहिनोत्यचिरेण धीरः ॥ [भागवतम् १०.३३.३९] चकारादन्यच्च । अथेति वाथ । शृणुयाद्वा वर्णयेद्वा । उपलक्षणं चैतद्ध्यानादेः । परां यतः परा नान्या कुत्रचिद्विद्यते तादृशीम् । हृद् रोगं कामादिकमपि शीघ्रमेव त्यजति । अत्र सामान्यतोऽपि परमत्व सिद्धेस्तत्रापि परमश्रेष्ठश्रीराधासंवलितलीलामयतद्भजनं तु परमतममेवेति स्वतः सिध्यति । किन्तु रहस्यलीला तु पौरुष विकारवदिन्द्रियैः पितृपुत्रदासभावैश्च नोपास्या (पगे १७९) स्वीय भावविरोधात् । रहस्यत्वं च तस्याः क्वचिदल्पांशेन क्वचित्तु सर्वांशेनेति ज्ञेयम् । ॥ १०.३३ ॥ श्रीशुकः ॥ ३३८ ॥ [३३९] तत्र ते भक्तिमार्गाः दर्शिताः । अत्र च श्रीगुरोः श्रीभगवतो वा प्रसाद लब्धं साधनसाध्यगतं स्वीयसर्वस्वभूतं यत्किमपि रहस्यं तत् तु न कस्मैचित्प्रकाशनीयम् । यथाह नैतत्परस्मा आख्येयं पृष्टयापि कथञ्चन । सर्वं सम्पद्यते देवि देवगुह्यं सुसंवृतम् ॥ [भागवतम् ८.१७.२०] सम्पद्यते फलदं भवति । ॥ ८.१७ ॥ श्रीविष्णुरदितिम् ॥ ३३९ ॥ [३४०] तदेवं साधनात्मिका भक्तिर्दर्शिता । तत्र सिद्धिक्रमश्च श्री सूतोपदेशारम्भे शुश्रूषोः श्रद्दधानस्य [भागवतम् १.२.१६] इत्यादिना दर्शितः । यथा च श्रीनारदवाक्ये अहं पुरातीतभवेऽभवम् [भागवतम् १.५.२३] इत्य् आदौ । यथा च श्रीकपिलदेववाक्ये सतां प्रसङ्गान्मम वीर्यसंविदः [भागवतम् ३.२५.२२] इत्यादौ । अत्र कैवल्यकामायां भक्त्या पुमान् जातविरागः [भागवतम् ३.२५.२३] इत्यादिना । शुद्धायां नैकात्मतां मे स्पृहयन्ति केचित्[भागवतम् ३.२५.३१] इत्यादिना क्रमो ज्ञेयः । तथा शुद्धायामेव श्रीप्रह्लादकृत दैत्यबालानुशासने गुरुशुश्रूषया [भागवतम् ७.७.२५] इत्यादिना । तमेवं क्रममेव सङ्क्षिप्य सदृष्टान्तमाह भक्तिः परेशानुभवो विरक्तिर् अन्यत्र चैष त्रिक एककालः । प्रपद्यमानस्य यथाश्नतः स्युस् तुष्टिः पुष्टिः क्षुद्अपायोऽनुघासम् ॥ इत्यच्युताङ्घ्रिं भजतोऽनुवृत्त्या भक्तिर्विरक्तिर्भगवत्प्रबोधः । भवन्ति वै भागवतस्य राजंस् ततः परां शान्तिमुपैति साक्षात् ॥ [भागवतम् ११.२.४२४३] टीका च प्रपद्यमानस्य हरिं भजतः पुंसो भक्तिः प्रेमलक्षणा परेशानुभवः प्रेमास्पदभगवद्रूपस्फूर्तिस्तया निर्वृतस्य ततोऽन्यत्र गृहादिषु विरक्तिरित्येषा । त्रिक एककालो भजनसमकाल एव स्यात् । यथाश्नतो भुञ्जानस्य तुष्टिः सुखं पुष्टिरुदरभरणं क्ष्न् निवृत्तिश्च प्रतिग्रासं स्युः । उपलक्षणमेतत्प्रतिसिक्थमपि यथा स्युस् तद्वत् । एवमेवैकस्मिन् भजने किञ्चित्प्रेमादित्रिके जायमान अनुवृत्त्या भजतः परमप्रेमादि जायते बहुग्रासभोजिन इव परमतुष्ट्य्आदि । ततश्च भगवत्प्रसादेन कृतार्थो भवतीत्याह इत्यच्युताङ्घ्रिमित्य् एषा । शान्तिं कृतार्थत्वम् । साक्षादन्तर्बहिश्च प्रकटितपरम पुरुषार्थत्वादव्यवधानेनैवेत्यर्थः । पूर्वपद्यभक्त्य्आदीनां तुष्ट्य्आदयः क्रमेणैव दृष्टान्ता ज्ञेयाः । उत्तरत्राप्येतत्क्रमेण भक्तितुष्ट्योः सुखैकरूपत्वात्पुष्ट्य्अनुभवयोरात्मभरणैक रूपत्वात् । क्षुद्अपायविरक्त्योः शान्त्य्एकरूपत्वात् । यद्यपि भुक्तवतोऽन्नेऽपि वैतृष्ण्यं जायते भगवद्अनुभविनस्तु विषयान्तर एवेति वैधर्म्यम् । तथापि वस्त्व्अन्तरवैतृष्ण्यांश एव दृष्टान्तो गम्यत इति ॥ ॥ ११.२ ॥ श्रीकविर्निमिम् ॥ ३४० ॥ तदेतद्व्याख्यातमभिधेयम् । अत्रान्योऽपि विशेषः शास्त्रमहाजन दृष्ट्य्अनुसन्धेयः । (पगे १८०) गुरुः शास्त्रं श्रद्धा रुचिरनुगतिः सिद्धिरिति मे यदेतत्तत्सर्वं चरणकमलं राजति ययोः । कृपामाध्वीकेन स्नपितनयनाम्भोजयुगलौ सदा राधाकृष्णाव्शरणगती तौ मम गतिः ॥ इति श्रीकलियुगपावनस्वभजनविभाजनप्रयोजनावतारश्रीश्री भगवत्कृष्णचैतन्यदेवचरणानुचरविश्ववैष्णवराजसभाजन श्रीरूपसनातनानुशासनभारतीगर्भे श्रीभागवतसन्दर्भे श्री भक्तिसन्दर्भो नाम पञ्चमः सन्दर्भः ॥ समाप्तश्चायं श्रीभक्तिसन्दर्भः ॥ [*Eण्ड्ण्Oट्E ॰१] णोत्fओउन्द्. [*Eण्ड्ण्Oट्E ॰२] वातवासना ये मुनयो ओरृषयः । [*Eण्ड्ण्Oट्E ॰३] ञीवऽस्रेअदिन्घसङ्गिरसशाखाध्यापकेन. ःे अल्सो स्किप्स्मेन्तिओनोf थे तापनीयोपनिषद्अध्यापक. [*Eण्ड्ण्Oट्E ॰४] अवैष्णवोपदिष्टेन मन्त्रेण न परा गतिः ॥ अवैष्णवोपदिष्टं चेत्पूर्वमन्त्रवरं द्वयम् । पुनश्च विधिना सम्यक्वैष्णवाद्ग्राहयेद्गुरोः ॥ [ড়द्मড়् ६.२२६.१२] [*Eण्ड्ण्Oट्E ॰५] ईन् ःBV ११.६१५, थेसे वेर्सेसरे अत्त्रिबुतेद्तो थे ङौतमीय तन्त्रई  श्रीप्रीतिसन्दर्भः तौ सन्तोषयता सन्तौ श्रीलरूपसनातनौ । दाक्षिणात्येन भट्टेन प्नुअरेतद्विविच्यते ॥ो॥ तस्याद्यं ग्रन्थनालेखं क्रान्तमुत्क्रान्तखण्डितम् । पर्यालोच्याथ पर्यायं कृत्वा लिखति जीवकः ॥ो॥ [१] अथ प्रीतिसन्दर्भो लेख्यः । इह खलु शास्त्रप्रतिपाद्यं परमतत्त्वं सन्दर्भचतुष्टयेन पूर्वं सम्बद्धम् । तद्उपासना च तद्अनन्तर सन्दर्भेणाभिहिता । तत्क्रमप्राप्तत्वेन प्रयोजनं खल्वधुना विविच्यते । पुरुषप्रयोजनं तावत्सुखप्राप्तिर्दुःखनिवृत्तिश्च । श्रीभगवत् प्रीतौ तु सुखत्वं दुःखनिवर्तकत्वं चात्यन्तिकमिति । एतदुक्तं भवति यत्खलु परमतत्त्वं शास्त्रप्रतिपाद्यत्वेन पूर्वं निर्णीतं, तदेव सद् अनन्तपरमानन्दत्वेन सिद्धम् । श्रुतावपि सैषानन्दस्य मीमांसा भवति इत्यारभ्य मानुषानन्दतः प्राजात्यानन्दपर्यन्तं दशकृत्वः शतगुणिततया क्रमेण तेषामानन्दोत्कर्षपरिमाणं प्रदर्श्य पुनश् च ततोऽपि शतगुणत्वेन परब्रह्मानन्दं प्रदर्श्याप्यपरितोषात्यतो वाचो निवर्तन्ते इत्यादि श्लोकेन तद्आनन्दस्यानन्त्यत्वमेव स्थापितं विलक्षणत्वं च । को ह्येवान्यात्कः प्राण्यात्यदेष आकाश आनन्दो न स्याद् इत्यनेन नानास्वरूपधर्मतोऽपि तस्य केवलानन्दस्वरूपत्वमेव च दर्शितम् । तथाभूतमार्तण्डादिमण्डलस्य केवलज्योतिष्ट्ववत् । अथ जीवश्च तदीयोऽपि तज्ज्ञानसंसर्गाभावयुक्तत्वेन तन्माया पराभूतः सन्नात्मस्वरूपज्ञानलोपान्मायाकल्पितोपाध्यावेशाच् चानादिसंसारदुःखेन सम्बध्यत इति परमात्मसन्दर्भादावेव निरूपितमस्ति । तत इदं लभ्यते परमतत्त्वसाक्षात्कारलक्षणं तज् ज्ञानमेव परमानन्दप्राप्तिः । सैव परमपुरुषार्थ इति । स्वात्माज्ञाननिवृत्तिः दुःखात्यन्तनिवृत्तिश्च निदाने तद्अज्ञाने गते सति स्वत एव सम्पद्यते । पूर्वस्याः परमतत्त्वस्वप्रकाशताभिव्यक्ति लक्षणमात्रात्मकत्वादुत्तरस्याश्च ध्वंसाभावरूपत्वाद् अनश्वरत्वम् । उक्तं च पूर्वस्याः परमपुरुषार्थत्वं धर्मस्य ह्य् अपवर्गस्य इत्यादिना [भागवतम् १.२.९], तच्छ्रद्दधाना मुनयो ज्ञानवैराग्ययुक्तया । पश्यन्त्यात्मनि चात्मानं भक्त्या श्रुतगृहीतया ॥ इत्यन्तेन [भागवतम् १.२.१२] । स्वतः सर्वदुःखनिवृत्तिश्च तत्रैवोक्ता भिद्यते हृदयग्रन्थिर्[भागवतम् १.२.१३] इत्यादिना । श्रीविष्णुपुराणे च निरस्तातिशयाह्लादसुखभावैकलक्षणा । भेषजं भगवत्प्राप्तिरेकान्तात्यन्तिकी मता ॥ [Vइড়् ६.५.५९] इति । श्रुतौ च आनन्दं ब्रह्मणो विद्वान्न बिभेति कुतश्चनेति [टैत्तू २.४.१] । एष एव च मुक्तिशब्दार्थः । संसारबन्धच्छेदपूर्वकत्वात् । यथोक्तं श्रीसूतेन यदैवमेतेन विवेकहेतिना मायामयाहङ्करणात्मबन्धनम् । छित्त्वाच्युतात्मानुभवोऽवतिष्ठते तमाहुरात्यन्तिकमङ्ग सम्प्लवम् ॥ [भागवतम् १२.४.३४] इति । अच्युताख्ये आत्मनि परमात्मनि अनुभवो यस्य तथाभूतः सनवतिष्ठते यत्तमात्यन्तिकं सम्प्लवं मुक्तिमाहुरित्यर्थः । अथ मुक्तिर्हित्वान्यथारूपं स्वरूपेण व्यवस्थितिरित्य्[भागवतम् २.१०.६] एतदपि तत्तुल्यार्थमेव । यतः स्वरूपेण व्यवस्थितिर्नाम स्वरूपसाक्षात्कार उच्यते । तद्अवस्थानमात्रस्य संसारदशायामपि स्थितत्वात् । अन्यथा रूपत्वस्य च तद्अज्ञानमात्रार्थत्वेन तद्धानौ तज्ज्ञानपर्यवसानात् । स्वरूपं चात्र मुख्यं परमात्मलक्षणमेव । रश्मिपरमाणूनां सूर्य इव स एव हि जीवानां परमोऽंशिस्वरूपः । यथोक्तं ब्रह्माणं प्रति श्रीमता गर्भोदशायिना यदा रहितमात्मानं भूतेन्द्रियगुणाशयैः । स्वरूपेण मयोपेतं पश्यन् स्वाराज्यमृच्छति ॥ [भागवतम् ३.९.३३] इति । उपेतं युक्तमित्येवाक्लिष्टोऽर्थः । जीवस्वरूपस्यैव गौणानन्दत्वं दर्शितम् । तस्मात्प्रियतमः स्वात्मेत्युक्त्वा [भागवतम् १०.१४.५४] कृष्णमेनमवेहि त्वमात्मानमखिलात्मनाम् । जगद्धिताय सोऽप्यत्र देहीवाभाति मायया ॥ इत्यनेन [भागवतम् १०.१४.५५], जीवपरयोरभेदवादस्तु परमात्मसन्दर्भादौ विशेषतोऽपि परिहृतोऽस्ति । अतएव निरधारयच्छ्रुतिः रसो वै सः रसं ह्येवायं लब्ध्वानन्दी भवति [टैत्त्२.७.१] इति । अत्रांशेनांशिप्राप्तिश्च द्विधा योजनीया । तत्राद्या ब्रह्मप्राप्तिर्मायावृत्त्य्अविद्यानाशानन्तरं केवल तत्स्वरूपशक्तिलक्षणतद्विज्ञानाविर्भावमात्रम् । सा च स्वस्थान एव वा स्यात् । क्रमेण सर्वलोकसर्वावरणातिक्रमानन्तरं वा स्यात् । उपासना विशेषानुसारेण । द्वितीया भगवत्प्राप्तिश्च तस्य विभोरप्यसर्व प्रकटस्यतस्मिन्नेवाविर्भावेन । विभुनापि वैकुण्ठे सर्वप्रकटेन तेनाचिन्त्यशक्तिना स्वचरणारविन्दसान्निध्यप्रापणया च । तदेवं स्थिते, सा च मुक्तिरुत्क्रान्तदशायां जीवदशायामपि भवति । उत्क्रान्तस्योपाध्य्अभावेऽपि तदीयस्वप्रकाशतालक्षण धर्माव्यवधानस्यैतत्साक्षात्काररूपत्वात् । जीवतस्तत्साक्षात्कारेण मायाकल्पितस्यान्यथाभावस्य मिथात्वावभासात्सैषा मुक्तिर् एवात्यन्तिकपुरुषार्थतयोपदिश्यते तत्रापि मोक्ष एवार्थ आत्यन्तिकतयेष्यते । त्रैवर्ग्योऽर्थो यतो नित्यं कृतान्तभयसंयुतः ॥ [भागवतम् ४.२२.३५] इति श्रीपृथुं प्रति श्रीसनत्कुमारेण । श्रुतिश्च येनाहं नामृतः स्यां किमहं तेन कुर्याम् [Bआऊ २.४.३] इति । तदेवं परमतत्त्व साक्षात्कारात्मकस्य तस्य मोक्षस्य परमपुरुषार्थत्वे स्थिते पुनर् विविच्यते । तच्च परमं तत्त्वं द्विधाविर्भवति । अस्पष्टविशेषत्वेन स्पष्टस्वरूपभूतविशेषत्वेन च । तत्र ब्रह्माख्यास्पष्टविशेषपर तत्त्वसाक्षात्कारतोऽपि भगवत्परमात्माद्य्आख्यस्पष्टविशेषतत् साक्षात्कारस्योत्कर्षं भगवत्सन्दर्भे [८७] जिज्ञासितमधीतं च ब्रह्म यत्तत्सनातनम् । तथापि शोचस्यात्मानमकृतार्थ इव प्रभो ॥ [भागवतम् १.५.४] इत्यादिप्रकरणप्रघट्टकेन दर्शितवानस्मि । अत्रापि वचनान्तरं दर्शयिष्यामि । तस्मात्परमात्मत्वादिलक्षणनानावस्थभगवत् साक्षात्कार एव तत्रापि परमः । तत्र सत्यपि निरुपधिप्रीत्य्आस्पदत्व स्वभावस्य तस्य स्वरूपधर्मान्तरवृन्दसाक्षात्कृतौ परमत्वे प्रीति भक्त्य्आदिसंज्ञं प्रियत्वलक्षणधर्मविशेषसाक्षात्कारमेव परमतमत्वेन मन्यन्ते । तया प्रीत्यैवात्यन्तिकदुःखनिवृत्तिश्च । यां प्रीतिं विना तत्स्वरूपस्य तद्धर्मान्तरवृन्दस्य च साक्सात्कारो न सम्पद्यते । यत्र सा तत्रावश्यमेव सम्पद्यते । यावत्येव प्रीतिसम्पत्तिस् तावत्येव तत्सम्पत्तिः । सम्पद्यमाने सम्पन्ने च तस्मिन् साधिकम् आविर्भवति । तदेतत्सर्वमपि युक्तमेव । परमसुखं खलु भगवतस् तद्गुणवृन्दस्य च स्वरूपम् । सुखं च निरुपाधिप्रीत्य्आस्पदम् । ततस् तद्अनुभवे प्रीतेरेव मुख्यत्वमिति । तस्मात्पुरुषेण सैव सर्वदान्वेषितव्येति पुरुषप्रयोजनत्वं तत्रैव परमतममिति स्थितम् । क्रमेणोदाह्रियते । तत्र सत्यपीत्यादिकम् सर्वं मद्भक्तियोगेन मद्भक्तो लभतेऽञ्जसा स्वर्गापवर्गं मद्धाम कथञ्चिद्यदि वाञ्छति ॥ [भागवतम् ११.२०.३३] इत्यादि श्रीभगवद्वाक्यादौ । तयेत्यादिकम् । प्रीतिर्न यावन्मयि वासुदेवे न मुच्यते देहयोगेन तावत् । [भागवतम् ५.५.६] इति श्र्यृषभदेववाक्ये । यामित्यादिकं भक्त्याहमेकया ग्राह्यः श्रद्धयात्मा प्रियः सताम् । [भागवतम् ११.१४.२१] इति श्रीभगवद्वाक्ये । सम्पद्यमाने इत्यादिकं मद्रूपमद्वयं ब्रह्म मध्याद्यन्तविवर्जितम् । स्वप्रभं सच्चिदानन्दं भक्त्या जानाति चाव्ययम् ॥ इति वासुदेवोपनिषदि । यत्रेत्यादिकं भक्तिरेवैनं नयति, भक्तिरेवैनं दर्शयति भक्तिवशः पुरुषो भक्तिरेव भूयसी ॥ इति माठरश्रुतौ । यावतीत्यादिकम् भक्तिः परेशानुभवो विरक्तिर् अन्यत्र चैष त्रिक एककालः । प्रपद्यमानस्य यथाश्नतः स्युस् तुष्टिः पुष्टिः क्षुद्अपायोऽनुघासम् ॥ कवियोगेश्वरवाक्ये [भागवतम् ११.२.४२] एवं तत्त्वमसि [Cहू ६.८.७] इत्य्आदिशास्त्रमपि तत्प्रेमपरमेव ज्ञेयम् । त्वमेवामुक इतिवत् । किं च लोकव्यवहारोऽपि तत्पर एव दृश्यते । सर्वे हि प्राणिनः प्रीतितात्पर्यका एव । तद्अर्थमात्मव्ययादेरपि दर्शनात् । किन्तु योग्यविषयमलब्ध्वा तैस्तत्र तव सा परिवर्ज्यते । अतः सर्वैरेव योगतद्विषयेऽन्वेष्टुमिष्टे सति श्रीभगवत्येव तस्याः पर्यवसानं स्यादिति । तदेवं भगवत्प्रीतेरेव परमपुरुषार्थत्वे समर्थिते साधूक्तं “अथ प्रीतिसन्दर्भो लेख्य” इत्यादि । स एष एव परमपुरुषार्थः क्रमरीत्या सर्वोपरि दर्शयितुं संदृभ्यते । तत्रोक्तलक्षणस्य मुक्तिसामान्यस्य शास्त्रप्रयोजनत्वम् आह सर्ववेदान्तेत्यादौ कैवल्यैकप्रयोजनमिति [भागवतम् १२.१३.१२] । केवलः शुद्धः तस्य भावः कैवल्यम् । तदेकमेव प्रयोजनं परम पुरुषार्थत्वेन प्रतिपाद्यं यस्य तदिदं श्रीभागवतमिति पूर्व श्लोकस्थेनान्वयः । दोषमूलं हि जीवस्य परमतत्त्वज्ञानाभाव एवेत्य् उक्तम् भयं द्वितीयाभिनिवेशतः स्यादित्यादौ [भागवतम् १२.२.३७], ईशाद् अपेतस्येत्यादिभिः । अतस्तज्ज्ञानमेव शुद्धत्वमिति कैवल्यशब्दस्यात्र पूर्ववत्तद्अनुभव एव तात्पर्यम् । अथवा कैवल्यशब्देन परमस्य स्वभाव एवोच्यते । यथा स्कान्दे ब्रह्मेशानादिभिर्देवैर्यत्प्राप्तुं नैव शक्यते । स यत्स्वभावः कैवल्यं स भवान् केवलो हरे ॥ इति । क्वचित्स्वार्थिकतद्धितान्तेन कैवल्यशब्देनापि परम उच्यते । यथा श्री दत्तात्रेयशिक्षायां परावराणां परम आस्ते कैवल्यसंज्ञितः । केवलानुभवानन्दसन्दोहो निरुपाधिकः ॥ इति [भागवतम् ११.९.१८] । तथाप्युभयथैव तद्अनुभव एव तात्पर्यम् । तत्स्वभावमेव वा । तमेवानुभावयितुमिदं शास्त्रं प्रवृत्तमित्यर्थः । ॥ १२.१३ ॥ श्रीसूतः ॥ १ ॥ [२] तथा चान्यत्र एतावानेव मनुजैर्योगनैपुण्यबुद्धिभिः । स्वार्थः सर्वात्मना ज्ञेयो यत्परात्मैकदर्शनम् ॥ [भागवतम् ६.१६.६३] टीका च न चातः परः पुरुषोऽस्तीत्याह एतावानिति । परस्यात्मन एकं दर्शनमिति यतेतावानेवेत्येषा । परमात्मनः केवलस्य दर्शनमिति वा । ॥ ६.१६ ॥ श्रीशङ्कर्षणश्चित्रेकेतुम् ॥ २ ॥ [३] सैषा हि मुक्तिरुत्क्रान्तदशायां द्विधा भवति सद्य एव च, क्रमरीत्या च । तत्र पूर्वा । द्वितीये स्थिरं सुखं चासनम् [भागवतम् २.२.१५] इत्यादि प्रकरणान्ते विसृजेत्परं यत इत्यत्र [भागवतम् २.२.२१] । उत्तरा च तद्अनन्तरं यदि प्रयास्यन्नृप पारमेष्ट्यमित्यादौ [भागवतम् २.२.२२] तेनात्मनात्मानम् उपैति शान्तमित्यत्र [भागवतम् २.२.३१] । जीवद्दशायामपि सा तु तद्विशेषष्व् अग्रतो दर्शनीया । तत्र ब्रह्मसाक्षात्कारलक्षणां जीवन्मुक्तिमाह यत्रेमे सद्असद्रूपे प्रतिषिद्धे स्वसंविदा । अविद्ययात्मनि कृते इति तद्ब्रह्मदर्शनम् ॥ [भागवतम् १.३.३३] यत्र यस्मिन् दर्शने स्थूलसूक्ष्मरूपे शरीरे स्वसंविदा जीवात्मनः स्वरूपज्ञानेन प्रतिषिद्धे भवतः । केन प्रकारेण ? वस्तुत आत्मनि ते न स्त एव किन्त्वविद्ययैवात्मनि कृते अध्यस्ते इति एतत्प्रकारेणेत्यर्थः । तद्ब्रह्मदर्शनमिति यत्तदोरन्वयः । ब्रह्मणो दर्शनं साक्षात्कारः । यत्र स्वसंविदेत्युक्त्या जीवस्वरूपज्ञानमपि तद्आश्रयम् एव भवति इति । तथा केवलस्वसंविदा ते निषिद्धे न भवत इति च ज्ञापितम् । ततश्च जीवत एवाविद्याकल्पितमायाकार्यसम्बन्ध मिथ्यात्वज्ञापकजीवस्वरूपसाक्षात्कारेण तादात्म्यापन्नब्रह्म साक्षात्कारो जीवन्मुक्तिविशेष इत्यर्थः ॥ ॥१.३॥ श्रीसूतः ॥ ३ ॥ [४] ईदृशमेव तन्मुक्तिलक्षणं श्रीकापिलेये मुक्ताश्रयम् (भागवतम् ३.२८.३५३८) इत्यादिचतुष्टये दर्शितम् । तत्र हि प्रतिनिवृत्तगुणप्रवाहः सनात्मानम् पर्मात्मानमीक्षत इति मुक्ताश्रयमित्यादौ स्वस्वरूपभूते महिम्नि अवस्थितो निष्ठां प्राप्तः सन्नुपलब्धपरात्मकाष्ठ इति सोऽप्येतयेत्य् आदौ स्वरूपं जीवब्रह्मणो याथात्म्यअमध्यगमदिति देहं चेत्य् आदौ । एवं प्रतिबुद्धवस्तुरिति देहोऽपीत्यादौ चेति । तस्मादस्य प्रारब्धकर्ममात्राणामनभिनिवेशेनैव भोगः । एवमेवोक्तं तत्र को मोहः कः शोक एकत्वमनुपश्यत इति (ईशोपनिषद्७) । अथान्तिमां ब्रह्मसाक्षात्कारलक्षणां मुक्तिमाह यद्येषोपरता देवी माया वैशारदी मतिः । सम्पन्न एवेति विदुर्महिम्नि स्वे महीयते ॥ (भागवतम् १.३.३४) एषा जीवन्मुक्तिदशायां स्थिता विशारदेन परमेश्वरेण दत्ता देवी द्योतमाना मतिर्विद्या तद्रूपा या माया स्वरूपशक्तिवृत्तिभूत विद्याविर्भावद्वारलक्षणा सत्त्वमयी मायावृत्तिः सा यदि उपरता निवृत्ता भवति । तदा व्यवधानाभासस्यापि राहित्यात्सम्पन्नो लब्ध ब्रह्मानन्दसम्पत्तिरेवेति विदुर्मुनयः । ततश्च तत्सम्पत्तिलाभात्स्वे महिम्नि स्वरूपसम्पत्तावपि महीयते पूज्यते । प्रकृष्टप्रकाशो भवतीत्यर्थः ॥ ॥ १.३ ॥ श्रीसुतः ॥ ४ ॥ [५] अत्र पूर्वे तत्त्वभगवत्परमात्मसन्दर्भेष्वेवं मूल्येन श्रुत्य् आदिभिश्च पर्तिपादितम् । (पगे ६) जीवाख्यसमष्टिशक्तिविशिष्टस्य परमतत्त्वस्य खल्वंश एको जीवः । स च तेजोमण्डलस्य बहिश्चररश्मिपरमाणुरिव परमचिद्एकरसस्य तस्य बहिश्चरचित्परमाणुः । तत्र तस्य व्यापकत्वात्तद्एकदेशत्वमेव जीवे स्यात् । निराकारतया तद्एकदेशत्वं न विरुद्धम् । तथापि बहिश्चरत्वं तद्आश्रयित्वात् । तज्ज्ञानाभावात्छायया रश्मिवत् माययाभिभाव्यत्वाच्च बहिश्चरत्वं व्यपदिश्यते । रश्मिस्थानीयत्वं च तद्व्यतिरेकाद्व्यतिरेकितया यस्तदाश्रयिभावः । या च पूर्वयुक्त्या बहिश्चरत्वेऽप्येकवस्तुत्वश्रुतिस्तदादिभिर्गम्यते । शक्तित्वं च तद् रूपतयैव तदीयलीलोपकरणत्वात् । अणुत्वं च शब्दाथरिचन्दन बिन्दुवत्तस्य प्रभावलक्षणगुणेनैव सर्वदेहव्याप्तेः । सर्वं चैतत् परमस्याचिन्त्यशक्तिमयत्वादविरुद्धमिति पूर्वं दृढीकृतमस्ति श्रुतेस् तु शब्दमूलत्वात्[Vस्२.१.१७] इति न्यायेन, एकदेशस्थितस्याग्नेरित्यादिना च । तत्र जीवेश्वरयोरत्यन्ताभेदे युगपदविद्याविद्याश्रत्वाय्अनुपपत्तिश्च पूर्वं विवृता । तत्त्वमसि इत्यादौ लक्षणा त्वत्यन्ताभेदे तद्अंशत्वे च समानैव । परमतत्त्वस्य निरंशत्वश्रुतिस्तु द्विधा प्रवर्तते । तत्र केवलविशेष्यलक्षणनिर्देशपराया मुख्यैव प्रवृत्तिः । आनन्द मात्रत्वात्तस्य । आनन्दैकरूपस्य तस्य स्वरूपशक्तिविशिष्टस्य निर्देश परायास्तु प्राकृतांशलेशराहित्यमात्रे तात्पर्याद्गौणी प्रवृत्तिः । सर्व शक्तिविशिष्टस्य तस्य तु सर्वांशित्वं गीतमेव । तदेवं तस्य रश्मिपरमाणुस्थानीयांशत्वे सिद्धे तद्वत्सर्वस्यामपि दशायां कर्तृत्वभोक्तृत्वादिस्वरूपधर्मा अपि सिध्यन्ति । तद्वदेव च परमेश्वरशक्त्य्अनुग्रहेणैव ते कार्यक्षमा भवन्ति तत्र तेषां प्रकृतिविकारमयकर्तृत्वादिकं तदीयमायाशक्तिमयानुग्रहेण । अतएव तत्सम्बन्धात्तेषां संसारः । स्वानुभवब्रह्मानुभव भगवद् (पगे ७) अनुभवकर्तृत्वादिकं तु तदीयस्वरूपशक्त्य् अनुग्रहेण । यत्र तस्य सर्वमात्मैवाभूत्तत्केन कं पश्येद्[Bआऊ २.४.१४] श्रुतिश्च । तत्स्वरूपशक्तिं विना तद्दर्शनासामार्थ्यं द्योतयति यमेवैष वृणुते तेन लभ्य [Kअठू १.२.२३] इत्यादिश्रुतेः । अतएव स्वरूपशक्तिसम्बन्धान्मायान्तर्धाने तेषां संसारनाशः । येषां तु मते मुक्तावानन्दानुभवो नास्ति । तेषां पुमर्थता न सम्पद्यते । सतोऽपि वस्तुनः स्फुरणाभावे निरर्थकत्वाअत् । न च सुखम् अहं स्यामिति कस्यचिदिच्छा, किन्तु सुखमहननुभवामि इत्येव । ततश् च प्रवृत्त्य्अभावात्तादृशपुरुषार्थसाधनप्रेरणापि शास्त्रे व्यर्थैव स्यात् । तन्मते केवलानन्दरूपस्याज्ञानदुःखसम्बन्धासम्भवात्तन् निवृत्तिरूपश्च पुरुषार्थो न घटते । विगीतं त्वीदृशपुरुषार्थत्वं प्राचीनबर्हिषं प्रति श्रीनारदवाक्ये दुःखहानिः सुखावाप्तिः श्रेयस् तन्नेह चेष्यते [भागवतम् ४.२५.४] तस्मादस्त्येवानुभवः । तथा च श्रुतिः रसं ह्येवायं लब्ध्वानन्दी भवति इति । आत्मरतिः आत्मक्रीडः [Cहाऊ ७.२५.२] इत्यादिश्च । यथा विष्णुधर्मे भिन्ने दृतौ यथा वायुर्नैवान्यः सह वायुना । क्षीणपुण्याघबन्धस्तु तथात्मा ब्रह्मणा सह ॥ ततः समस्तकल्याणसमस्तसुखसम्पदाम् । आह्लादमन्यमकलङ्कमवाप्नोति शाश्वतम् ॥ ब्रह्मस्वरूपस्य तथा ह्यात्मनो नित्यदैव सः । व्युत्थानकाले राजेन्द्र आस्ते हि अतिरोहितः ॥ आदर्शस्य मलाभावाद्वैमल्यं काशते यथा । ज्ञानाग्निदग्धहेयस्य स ह्लादो ह्यात्मनस्तथा ॥ यथा हेयगुणध्वंसादवबोधादयो गुणाः । प्रकाशन्ते न जन्यन्ते नित्या एवात्मनो हि ते ॥ ज्ञानं वैराग्यमैश्वर्यं धर्मश्च मनुजेश्वर । आत्मनो ब्रह्मभूतस्य नित्यमेव चतुष्टयम् ॥ एतदद्वैतमाख्यातमेष एव तवोदितः । अयं विष्णुरिदं ब्रह्म तथैतत्सत्यमुत्तमम् ॥ इति । अत्र जीवब्रह्मणोरंशांित्वांशेनैव वायुदृष्टान्तः । अंशत्वेऽपि बहिरङ्गत्वं त्वन्यतो ज्ञेयम् । अतः पृथग्ईश्वरे स्वरूपभूतानुभवे च सति तद्वैमुख्येनानादिना लब्धच्छिद्रयेशमायया तद्अनुभव लोपादेः सम्भवात्कथञ्चित्साम्मुख्येन तद्अनुग्रहान्निवृत्तिश्चास्ति । आनन्दं ब्रह्मणो विद्वान् [टैत्तू २.४.१] इत्यादि श्रुतेः । न तस्मात्प्राणा उत्क्रामन्ति अत्रैव समवलीयन्ते ब्रह्मैव सन् ब्रह्माप्येति [Bआऊ ४.४.६] इत्य् अत्रापि । अन्यो ब्रह्मभावस्तथान्यो ब्रह्मण्यप्यय इति स्पष्टम् । ब्रह्म भावानन्तरं तद्अप्ययस्य पुनरभिधानात् । अप्येतेः कर्मतया ब्रह्म निर्देशाच्च । ततश्च ब्रह्मैव सन्निति तत्साम्यतत्तादात्म्यापत्त्याव् अभेदनिर्देशः । एवं ब्रह्म वेद ब्रह्मैव भवति [ंुण्डू ३.२.८] इत्य् अत्रापि व्याख्येयम् । क्वचिदेकत्वशब्देनापि तथैवोच्यते । अत्र तत्साम्यं यथोक्तम् निरञ्जनं परमसाम्यमुपैति [ंुण्डू ३.२.३] इत्यादि श्रुतौ । इदं ज्ञानम् उपाश्रित्य मम साधर्म्यमागता (पगे ८) [गीता १४.२] इति गीतोपनिषत्सु च । उभयं चोक्तं स्पष्टमेव यथोदकं शुद्धे शुद्धमासिक्तं तादृगेव भवति । एवं मुनेर्विजानत आत्मा भवति गौतम ॥ [Kअठू २.१.१५] तत्रैवकारेण न तु तदेव भवति न तु वा तद्असाधर्म्येण पृथग् उपलभ्यत इति द्योत्यते । स्कान्दे च उदके तूदकं सिक्तं मिश्रमेव यथा भवेत् । तद्वै तदेव भवति यतो बुद्धिः प्रवर्तते ॥ एवमेवं हि जीवोऽपि तादात्म्यं परमात्मना । प्राप्तोऽपि नासौ भवति स्वातन्त्र्यादिविशेषणात् ॥ इति । बिम्बप्रतिबिम्बनिर्देशश्च अम्बुदग्रहणाद्[Vस्. ३.२.१९] इत्यादिसूत्र द्वये गौण एव योजितः । एवमेवैष संप्रसादोऽस्माच्छरीरात्समुत्थाय परं ज्योतिरुपसंपद्य स्वेन रूपेणाभिनिष्पद्यते [Cहाऊ ८.१२.३] इत्यत्रापि तथैव भेदः प्रतिपादितः । श्रीविष्णुपुराणेऽपि विभेदजनकेऽज्ञाने नाशम् [Vइড়् ६.७.८४] इत्यादौ देवादिभेदनाशानन्तरं ब्रह्मात्मनोर् भेदं न कोऽप्यसन्तं करिष्यति अपि तु सन्तमेव करिष्यतीति व्याख्यातम् एव । एवमेव टीकाकृद्भिः सम्मतं श्रीगोपानां ब्रह्मसम्पत्त्य्अनन्तरम् अपि वैकुण्ठदर्शनम् । तस्मात्साधु व्याख्यातं यद्येषोपरत इत्यादि [भागवतम् १.३.३४] तदेवं ब्रह्मसम्पत्तिर्व्याख्याता । तत्र श्रीविष्णुपुराणे परमार्थनिर्णये रहूगणं प्रति जडभरत वाक्यं यथा । तत्र केवलब्रह्मानुभवस्यैव पर्मार्थत्वं निर्णेतुं यज्ञाद्य्अपूर्वस्य तावदपरमार्थत्वं चतुर्भिरुक्तम् ऋग्यजुःसामनिष्पाद्यं यज्ञकर्ममतं तव । परमार्थभूतं तत्रापि श्रूयतां गदतो मम् ॥ यत्तु निष्पाद्यते कार्यं मृदा कारणभूतया । तत्कारणानुगमनाज्जायते नृप मृन्मयम् ॥ एवं विनाशिद्रव्यैः समिद्आज्यकुशादिभिः । निष्पाद्यते क्रिया या तु सा भवित्री विनाशिनी ॥ अनाशी परमार्थश्च प्राज्ञैरभुपगम्यते । तत्तु नाशि न सन्देहो नाशिद्रव्योपपादितम् ॥ [Vइড়् २.१४.२१२४] इति । एतद्दृष्टान्तेन पूजादिमयभक्तेरपि तादृशत्वं नानुमेयम् । अपूर्ववद्भक्तेर्निष्पाद्यत्वाभावात् । गुणमयं हि निष्पाद्यं स्यात् नागुणमयम् । कैवल्यं सात्त्विकं ज्ञानम् [भागवतम् ११.२५.२४] इत्यारभ्य एकादशे श्रीभगवतैवागुणमयत्वमङ्गीकृतम् । अतः स्वरूपशक्ति वृत्तिविशेषत्वेन तस्याः भगवत्प्रसादे सति स्वयमाविर्भाव एव न जन्म । (पगे ९) स चाविर्भावोऽनन्त एव तदीयफलानन्त्यश्रवणात् । तस्मात् पर्मेश्वरानाश्रयत्वं तत्रोपाधिर्भविष्यति । हिंसायां पापोत्पत्त्य् अनुमितावविहिततत्ववत् । ज्ञानप्रकरणे चास्मिन् भक्तिर्न प्रस्तूयत इति साधारणयज्ञादिकमुपादायैव प्रवृत्तिश्चेयम् । तदेवं यज्ञादि कर्मापूर्वस्य विनाशित्वादपरमार्थत्वमुक्त्वा निष्कामकर्मणोऽपि साह्दनत्वेनार्थान्तरस्यैव साध्यत्वात्तादृशत्वमुक्तमेकेन तदेवाफलदं कर्म परमार्थो मतस्तव । मुक्तिसाधनभूतत्वात्परमार्थो न साधनम् ॥ [Vइড়् २.१४.२५] इति । अत्र भक्तेः साधनभूतत्वे न तादृशत्वं मन्तव्यम् । भगवत्प्रेम विलासरूपतया सिद्धानामपि तद्अत्यागश्रवणात् । तस्मादिदमपि पूर्ववत्ज्ञेयम् । ननु, शुद्धजीवात्मध्यानस्य परमार्थत्वं भवेत्, मुक्तिदशायामपि स्फूर्त्य्अङ्गीकारेण तद्रूपस्य तस्यानश्वरत्वात् । तद्आच्छादनादधुना संसार इति तस्यैव साध्यत्वाच्च । तत्रोक्तमेकेन ध्यानं चेदात्मनो भूप परमार्थार्थशब्दितम् । भेदकारिपरेभ्यस्तत्परमार्थो न भेदवान् ॥ [Vइড়् २.१४.२६] इति । यद्विज्ञानेन सर्वविज्ञानं भवति तदेव ब्रह्म श्रुतौ परमार्थत्वेन प्रतिज्ञातम् । सर्वविज्ञानमयत्वं च तस्य सर्वात्मत्वात् । अग्निविज्ञानं हि ज्वालाविस्फुलिङ्गादेरपि विज्ञापकं भवति । एकस्य जीवस्य तु तदीयजीव शक्तिलक्षणांशपरमाणुत्वमित्यतस्तस्य तत्स्फुरणस्य च भेदवतो न परमार्थत्वमित्यर्थः । ननु जीवात्मपरमात्मनोरेकत्रस्थितिभावनयात्यन्तसंयोगे प्रादुर्भूते सति तस्यापि सर्वात्मना स्यात्, तद्अभेदापत्तेः । स च योगो न विनश्वरः । ज्ञानानन्तरसिद्धत्वात् । तस्मात्तयोर्योग एव परमार्थो भवतु । तत्रोक्तमेकेन परमात्मात्मनोर्योगः परमार्थ इतीष्यते । मिथ्यैतदन्यद्द्रव्यं हि नैति तद्द्रव्यतां यतः ॥ [Vइড়् २.१४.२७] इति । एतत्परमार्थत्वं मिथ्यैवेष्यत इत्यर्थः । हि निश्चितम् । यतो यस्मात्जीव लक्षणमन्यद्द्रव्यं तद्द्रव्यतां परमात्मलक्षणद्रव्यतां न याति । तस्मात्महातेजः प्रविष्टस्वल्पतेजोवदत्यन्तसंयोगतोऽप्य् अभेदानुपपत्तेस्तयोर्योगोऽपि न परमार्थ इति भावः । अथवात्र योग शब्देनैकत्वमेवोच्यते । ततश्चैतदेकत्वमिति व्याख्येयम् । शेषं पूर्ववत् । तदेवं पूर्वपक्षान्निषिध्य उत्तरपक्षं स्थापयितुमुपक्रान्तम् एकेन तस्मात्श्रेयांस्यशेषाणि नृपैतानि न संशयः । परमार्थस्तु भूपालअ सङ्क्षेपाच्छ्रूयतां मम ॥ [Vइড়् २.१४.२८] इति । श्रेयांसि परमार्थसाधनानि । परमार्थनिर्देशस्त्रयेणोक्तः एको व्यापी समः शुद्धो निर्गुणः प्रकृतेः परः । जन्मवृद्ध्यादिरहित आत्मा सर्वगतोऽव्ययः ॥ परज्ञानयोऽसद्भिर्नामजात्य्आदिभिर्विभुः । न योगवान्न न युत्कोऽभून्नैव पार्थिव योक्ष्यति ॥ तस्यात्मपरदेहेषु सतोऽप्येकमयं हि यत् । विज्ञानं परमार्थोऽसौ द्वितनोऽतथ्यदर्शिनः ॥ [Vइড়् २.१४.२९३१] इति । एकः । न तु जीवा इवानेके । ज्वालाविस्फूलिङ्गेष्वग्निरिव स्वशक्तिषु स्व कार्येषु सर्वेषु व्याप्नोतीति व्यापि । सर्वगत इत्यनेन जीव इव नाखण्डे देहे प्रभावेनैव व्यापीति ज्ञापितम् । जीवज्ञानादपि परं यज्ज्ञानं तन् मयः तत्प्रकाशप्रधानः । असद्भिरिति विशेषणात्भगवद्रूपे प्रकाश्येऽपि सद्भिः स्वरूपसिद्धैरेव नामादिभिर्योगवान् भवतीति विज्ञापितम् । तस्यैवंलक्षणस्य परमात्मरूपेणात्मपरदेहेषु आत्मनः परेषामपि देहेषु तत्तद्उपाधिभेदेन पृथक्पृथगिव सतोऽपि एकं तदीयं स्वस्वरूपं तन्मयं तद्आत्मकं यद्विज्ञानं तद् अनुभवः (पगे १०) असावेव परमार्थः । अनाशित्वात्साध्यत्वात्सर्व विज्ञानान्तर्भाववत्त्वाच्चेति भावः । ये तु द्वैतिनः तत्तद्उपाधिदृष्ट्या तस्यापि भेदं मन्यन्ते । तद्विज्ञानेन सर्वविज्ञानान्तर्भावं च न मन्यन्ते । ते पुनरतथ्यदर्शिन एवेति । तत्रोपाधिभेदैरंशभेदेऽप्यभेदो दृष्टान्तेन साधितो द्वाभ्याम् वेणुरन्ध्रविभेदेन भेदः षड्जादिसंज्ञ्तः । अभेदव्यापिनी वायोस् तथा तस्य महात्मनः ॥ एकत्वं रूपभेदश्च बाह्यकर्मप्रवृत्तिजः । देवादिभेदमध्यास्ते नास्त्येवाचरणो हि सः ॥ [Vइড়् २.१४.३२३३] इति । तथा तस्यैकत्वमित्यन्वयः । रूपस्य तत्तद्आकारस्य भेदस्तु बाह्यस्य तदीयबहिरङ्गचिद्अंशस्य जीवस्य या कर्मप्रवृत्तिस्ततो जातः । स तु परमात्मा देवादिभेदमन्तर्यामितयैवाधिष्ठायास्ते तत्तद्उपाधि सम्बन्धाभावाच्च नास्त्येवावरणं यस्य तथाभूतः सन्निति । तस्मात् तस्य देवादिरूपता तु स्वलीलामय्येवेति भावः । अथ श्रीभगवत्साक्सात्कारस्य मुक्तित्वमाह ततो विदूरात्परिहृत्य दैत्या; दैत्येषु सङ्गं विषयात्मकेषु । उपेत नारायणमादिदेवं; स मुक्तसङ्गैरिषितोऽपवर्गः ॥ [भागवतम् ७.६.१८] टीका च यस्मात्स एवापवर्ग इष्टः इत्येषा । अत्र नारायणस्यापवर्गत्वं तत्साक्षात्कृतावेव पर्यवस्यति । तस्या एव संसारध्वंसपूर्वक परमानन्दप्राप्तिरूपत्वात्तद्अस्तित्वमात्रत्वे तादृशत्वाभावाच्च ॥ ॥ ७.६ ॥ श्रीप्रह्लादः ॥ ५ ॥ [६] तथा सत्याशिषो हि भगवंस्तव पादपद्मम् आशीस्तथानुभजतः पुरुषार्थमूर्तेः । अप्येवमर्य भगवान् परिपाति दीनान् वाश्रेव वत्सकमनुग्रहकातरोऽस्मान् ॥ [भागवतम् ४.९.१७] टीका च हे भगवन् ! पुरुषार्थः परमानन्दः स एव मूर्तिर्यस्य तस्य एव पादपद्मम् । आशिषो राज्यादेः सकाशात्सत्या आशीः परमार्थफलम् । हि निश्चितम् । कस्य, तथा तेन प्रकारेण त्वमेव पुरुषार्थ इत्येवं निष्कामतया अनुभजतः । यद्यप्येवं तथापि हे अर्य हे स्वामिन् दीनान् सकामानप्यस्मानित्यादिका । ॥ ४.९ ॥ ध्रुवः श्रीध्रुवप्रियम् ॥ ६ ॥ [७] स चात्मसाक्षात्कारो द्विविधः । अन्तराविर्भावलक्षणो बहिर्आविर्भाव लक्षणश्च । (पगे ११) यथा प्रगायतः स्ववीर्याणि तीर्थपादः प्रियश्रवाः । आहूत इव मे शीघ्रं दर्शनं याति चेतसि ॥ [भागवतम् १.६.३४] इत्यादौ । तेऽचक्षताक्षविषयं स्वसमाधिभाग्यम् ॥ [भागवतम् ३.१५.३८] इत्यादौ च । तत्रान्तःसाक्षात्कारे योग्यता श्रीरुद्रगीते न यस्य चित्तं बहिर्अर्थविभ्रमं तमोगुहायां च विशुद्धमाविशत् । यद्भक्तियोगानुगृहीतमञ्जसा मुनिर्विचष्टे ननु तत्र ते गतिम् ॥ [भागवतम् ४.२४.५९] तत्र तेषां पूर्वोक्तानां सतां भक्तियोगेनानुगृहीतं विशुद्धं यस्य चित्तं बाह्येष्वर्थेषु भ्रान्तं न भवति तमोरूपायां गुहायां च न विशति स मुनिरित्यादिकं च व्याख्येयम् । बहिःसाक्षात्कारेऽपि व्यतिरेकेण तथैव नारदं प्रति श्रीभगवतोक्तम् हन्तास्मिन् जन्मनि भवान्मा मां द्रष्टुमिहार्हति । अविपक्वकषायाणां दुर्दर्शोऽहं कुयोगिनाम् ॥ [भागवतम् १.६.२२] इति । न केवलं शुद्धचित्तत्वमेव योग्यता । किं तर्हि ? तद्भक्ति विशेषाविष्कृततद्इच्छामयतदीयस्वप्रकाशताशक्तिप्रकाश एव मूल रूपा सा, यत्प्रकाशेन तदपि निःशेषं सिध्यति । यथा अन्तःसाक्षात्कारे भिद्यते हृदयग्रन्थिर्[भागवतम् १.२.२१] इत्यादि । तथा बहिःसाक्षात्कारेऽपि श्रीसङ्कर्षणं प्रति चित्रकेतुवाक्ये, न हि भगवन् न घटितमिदं त्वद्दर्शनान्नॄणामखिलपापक्षयः [भागवतम् १.१६.४४] इति । प्रह्लादं प्रति श्रीनृसिंहवाक्ये स त्वं शाधि स्वभृत्यान्नः किं देव करवाम हे । एतद्अन्तो नृणां क्लेशो यद्भवानक्षिगोचरः ॥ [भागवतम् १०.८६.४९] इति । तदेवं तत्प्रकाशेन निःशेषशुद्धचित्तत्वे सिद्धे पुरुषकरणानि तदीयस्वप्रकाशता शक्तितादात्म्यापन्नतयैव तत् प्रकाशताभिमानवन्ति स्युः । तत्र भक्तिविशेषसापेक्षत्वमुक्तं तच् छ्रद्दधाना मुनयः [भागवतम् १.२.१२] इत्यादौ । तद्इच्छामयेत्याद्य् उदाहरणं च ब्रह्मभगवतोरविशेषतयैव दृश्यते । यथा सत्यव्रतं प्रति श्रीमत्स्यदेववाक्ये मदीयं महिमानं च परं ब्रह्मेति शब्दितम् । वेत्स्यस्यनुगृहीतं मे सम्प्रश्नैर्विवृतं हृदि ॥ [भागवतम् ८.२४.३८] इति । (पगे १२) तथैव हि ब्रह्माणं प्रति श्रीभगवद्वाक्ये मनीषितानुभावोऽयं मम लोकावलोकनम् [भागवतम् २.९.२१] इति । श्रीनारायणाध्यात्मे नित्याव्यक्तोऽपि भगवानीक्ष्यते निजशक्तितः । तामृते पुण्डरीकाक्षं कः पश्येतामितं प्रभुम् ॥ इति । श्रुतौ च यमेवैष वृणुते तेन लभ्यस्तस्यैष आत्मा विवृणुते तनुं स्वाम् [Kअठू १.२.२३] इति । ततस्तत्करणशुद्ध्य्अपेक्षापि तच्छक्तिप्रतिफलनार्थमेव ज्ञेया । एवमपि भक्त्या तं दृष्ट्वापि मुचुकुन्दादौ या मृगयापापाद्यस्थिता श्रीभगवता कीर्तिता, सा तु प्रेमवर्धिन्या झटितिभगवद्अप्राप्ति शङ्काजन्मनस्तद्उत्कण्ठाया वर्धनार्थं विभीषिकयैव कृता । यत्तु तदीयस्निग्धानां श्रीयुधिष्ठिरादीनां नरकदर्शनं तत्खलु इन्द्र मायामयमेवेति स्वर्गारोहणपर्वण्येव व्यक्तमस्ति । विष्णुधर्मे तृतीइयजन्मनि दत्ततिलधेनोरपि विप्रस्य प्रसङ्गमात्रेण नरकाणाम् अपि स्वर्गतुल्यरूपताप्राप्तिवर्णनात् । श्रीभागवतेन तु तदपि नाङ्गीक्रियते । तद्अनुपाख्यानात्प्रत्युताव्यवहितभगवत्प्राप्ति वर्णनाच्च । अथ यद्अवतारादावशुद्धचित्तानामपि तत्साक्षात्कारः श्रूयते, तत्खलु तद्आभास एव ज्ञेयः । नाहं प्रकाशः सर्वस्य योगमायासमावृतः [गीता ७.२५] इति श्रीगीतोपनिषद्भ्यः । योगिभिर्दृश्यते भक्त्या नाभक्त्या दृश्यते क्वचित् । द्रष्टुं न शक्यो रोषाच्च मत्सराद्वा जनार्दनः ॥ [ড়द्मড়् ६.२३८.८३] इति पाद्मोत्तरखण्डाच्च । अदर्शनं चानवतारसमये व्यापकस्यापि दर्शनाभावः । अवतारसमये तु परमानन्देऽपि दुःखदत्वं, मनोरमेऽपि भीषणत्वम्, सर्वसुहृद्य् अपि दुर्हृत्त्वमित्यादिविपरीतदर्शनमेव । तद्अप्रकाशे योगमाया प्रकाशे च मूलं कारणं तद्भक्तापराधादिमयपुरुष चित्तास्वाच्छ्यम् । यत्खलु तदानीन्तने तस्य सार्वत्रिकप्रकाशेऽपि वज्रलेपायते । अतएव मुक्तिर्हित्वा [भागवतम् २.१०.६] इत्य्आदिलक्षणस्याव्याप्तेर्न तस्य साक्षात्काराभासस्य मुक्तिसंज्ञत्वमपि । अतएव श्रीविष्णुपुराणे तच् च रूपम् [Vइড়् ४.१५.८] इत्यादिगद्येन यद्यपि शिशुपालस्य तद्दर्शनम् उक्तम् । तथापि निर्दोषदर्शनं त्वन्तकाल एव उक्तम् । आत्मवधाय यावद्भगवद्धस्तचक्रांशुमालोज्ज्वलमक्षयतेजःस्वरूपं ब्रह्म भूतमपगतद्वेषादिदोषं भगवन्तमद्राक्षीत्[Vइড়् ४.१५.९] इत्यनेन । एतद्अन्तो नॄणां क्लेशो यद्भवानक्षिगोचरः [भागवतम् १०.८३.४३] इत्यादिकं च नृषु ये स्वच्छचित्ता ये च तद्भक्तापराधेतरदोषमलिनचित्तास्तेषां क्लेशनाशस्य तदात्वापेक्षया, ये त्वन्यादृशास्तेषां तन् नाशस्योन्मुखतापेक्षयैव तेभ्यः स्ववीक्षणविनष्टतमिस्र दृग्भ्यः क्षेमं तिर्लोकगुरुरर्थदृशं च यच्छन् [भागवतम् १०.८३.८१] इति श्रवणात्, श्रीविष्णुपुराणाद्य्अनुसाराच्च । ते चास्वच्छचित्ता द्विविधाः भगवद्बहिर्मुखा भगवद्विद्वेषिणश्च । तद्बहिर्मुखा द्विविधाः लब्धे तद्दर्शनेऽपि विषयाद्य्अभिनिवेशवन्तस् तद्अवज्ञातारश्च । यथा तद्अवतारसमये साधारणदेव मनुष्यादयः, यथा च कृष्णं मर्त्यमुपाश्रित्य [भागवतम् १०.२५.३] इत्यादि दुर्वचसो महेन्द्रादयः । यत उक्तं श्रुतिभिः दधति सकृन्मनस्त्वयि य आत्मनि नित्यसुखे न पुनरुपासते पुरुषसारहरावसथान् । [भागवतम् १०.८७.३५] इति । महेन्द्रं प्रति श्रीभगवता च मामैश्वर्यश्रीमदान्धो दण्डपाणिं न पश्यति । तं भ्रंशयामि सम्पद्भ्यो यस्य चेच्छाम्यनुग्रहम् ॥ [भागवतम् १०.२७.१६] इति । श्रीगोपानां तु विषयसम्बन्धो न स्वार्थः । किन्तु तत्सेवोपयोगार्थ एव । यथा (पगे १३) यद्धामार्थसुहृत्प्रियात्मतनयप्राणाशयास्त्वत् कृते [भागवतम् १०.१४.३५] इति । कृष्णेऽर्पितात्मसुहृद्अर्थकलत्रकामा [भागवतम् १०.१६.१०] इति । कृष्णः कमलपत्राक्षः पुण्यश्रवणकीर्तनः [भागवतम् १०.१५.४२] इति च । श्रीयादवपाण्डवानां स्वार्थ इवापि तत्सम्बन्धस्तद्आभास एव । यथोक्तम् शय्यासनाटनालाप क्रीडास्नानाशनादिषु । न विदुः सन्तमात्मानं वृष्णयः कृष्णचेतसः ॥ [भागवतम् १०.९०.४६] इति । किं ते कामाः सुरस्पार्हा मुकुन्दमनसो द्विजाः । अधिजह्रुर्मुदं राज्ञः क्षुधितस्य यथेतरे ॥ [भागवतम् १.१२.६] इति । अतः, एवं गृहेषु सक्तानां प्रमत्तानां तद्ईहया [भागवतम् १.१३.१७] इत्यादिकं जहल्लक्षणया तद्उपलक्षितान् धृतराष्ट्रादीनपेक्ष्योक्तम् । अतएवानन्तरं विदुरस्तदभिप्रेत्य [भागवतम् १.१३.१८] इत्यादौ । तेन धृतराष्ट्रस्यैव शिक्षा, न तु तेषामपि । क्वचिच्च लीलाशक्तिरेव स्वयं तल्लीलामाधुर्यपोषाय प्रतिकूलेष्व् अनुकूलेषु चात्मोपकरणेषु तादृशशक्तिं विन्यस्य तादृशतत्प्रियजनानाम् अपि विषयावेशाद्य्आभासं सम्पादयति । यथा पूतनावर्णने वल्गु स्मितापाङ्गविसर्गवीक्षितैर्मनो हरन्तीं वनितां व्रजौकसाम् [भागवतम् १०.१६.६] इति । तद्आभासत्वविवक्षया च मनो हरन्तीं मनोहरेवाचरन्तीम् इति शिष्टमुक्तम् । तद्दत्तशक्तित्वं च तस्यास्तत्रैव सूचितम् न यत्र श्रवणादीनि रक्षोघ्नानि स्वकर्मसु । कुर्वन्ति सात्वतां भर्तुर्यातुधान्यश्च तत्र हि ॥ [भागवतम् १०.६.३] इत्यनेन । तथैवेदं घटते अमंसताम्भोजकरेण रूपिणीं गोप्यः श्रियं द्रष्टुमिवागतां पतिम् ॥ [भागवतम् १०.६.६] इति । श्रियं प्राकृतसम्पद्अधिष्ठात्रीं पतिं यं कञ्चित्तद्उचितप्राचीन पुण्यभाजमित्यर्थः । पूर्ववदेव तां तीक्ष्णचित्ताम् [भागवतम् १०.६.९] इत्य् आदौ तत्प्रभया च धर्षिते निरीक्ष्यमाणे जननी ह्यतिष्ठताम् [भागवतम् १०.६.९] इत्युक्तम् । एवमेव क्वचित्तादृशानामपि मायाभिभवाभासो मन्तव्यः । यथा प्रायो मायास्तु मे भर्तुर्नान्या मेऽपि विमोहिनी [भागवतम् १०.१३.३७] इत्यादिषु श्रीबलदेवादीनाम् । यथा दैत्यजन्मनि जयविजययोः । अत्र पूर्वेषांस्वल्प एव तद्आभासः । तयोस्तु सम्यगिति विशेषः, तत् प्रेमादीनामनावरणादावरणाच्च । तत्र तयोर्वैरभावप्राप्तौ खलु मुनिकृतत्वं न स्यात् । मतं तु मे [भागवतम् ३.१६.२९] इत्यत्र भगवद् इच्छायास्तत्कारणत्वेन स्थाप्तितत्वात् । नापि सा तदीयवैरभावाय सम्पद्यते स्वेच्छामयस्य इत्यादिभ्यः । त्रैवर्गिकायासविघातमस्मत्पतिर्विधत्ते पुरुषस्य शक्र [भागवतम् १०.१४.२] इत्यादिभिः कैमुत्यापाताच्च । यथा चोक्तम् तथा न ते माधव तावकाः क्वचिद्भ्रश्यन्ति मार्गात्त्वयि बद्धसौहृदाः [भागवतम् १०.२.३३] इति । न च तयोर् एव स्वापराधभोगशीघ्रनिस्तारार्थमपि तादृशीच्छा जाता इति वाच्यम् । तादृशैः परमभक्तैः हि भक्तिं विना सालोक्यादिकमपि नाङ्गीक्रियते । तत्सद्भावे निरयोऽप्यङ्गीक्रियत इति (पगे १४) नात्यन्तिकं विगणयन्त्यपि [भागवतम् ३.१५.४८] इत्यादेः । कामं भवः स्ववृजिनैर्निरयेषु नस्ताद्[भागवतम् ३.१५.४९] इत्यादेश्च । अतएवाभ्यामपि तथैव प्रार्थितम् मा वोऽनुतापकलया भगवत्स्मृतिघ्नो मोहो भवेदिह तु नौ व्रजतोरधोऽधः [भागवतम् ३.१५.३६] इत्यनेन । न च तयोर्वास्तववैरभावे सति भक्तान्तराणामपि सुखं स्यादिति वाच्यम् । भक्तिस्वभावभक्तसौहृदविरोधादेव । तस्मात्तयोर्वैर भावाभासत्व एव श्रीभगवतस्तयोरन्येषां भक्तानामपि रसोदयः स्यादिति स्थितम् । तत एवमर्थापत्तिलब्धं सर्वभक्तसुखदश्री भगवद्अभिमतयुद्धकौतुकादिसम्पादनार्थं वैरभावात्मकमायिकोपाधिं स्वाभीकाणिमादिसिद्धिकेन शुद्ध सत्त्वात्मकस्वविग्रहेण प्रविश्य स्वसान्निध्येन चेन्तईकृत्य च विलीय स्थिताया अपि भक्तिवासनायाः प्रभावेण तत्रानाविष्टावेव तिष्ठतः । अतो वैरभावजस्मरणेन वैरभावोऽपगत इत्युभयमपि बाह्यम् । एतद् अभिप्रेत्यैव श्रीवैकुण्ठेनाप्युक्तम् यातं मा भैष्टमस्तु शम् [भागवतम् ३.१६.२९] इति । तथा हि हिरण्याक्षयुद्धे परानुषक्तं [भागवतम् ३.१८.९] इत्यादिपद्ये टीका च प्रचण्डमन्युत्वमधिक्षेपादिकं चानुकरणमात्रं दैत्यवाक्य भीतानां देवानां भयनिवृत्तये । वस्तुतस्तेन तथानुक्तत्वेन कोपादि हेत्व्अभावादित्येषा । कराला [भागवतम् ३.१९.८] इति पद्ये च इवेति वस्तुतः क्रोधाभावः इत्येषा । तदेवं स्यमन्तकोपाख्यानमहाकालपुरोपख्यान मौषलोपाख्यानादौ श्रीबलदेवार्जुननारदादीनां क्रोधाद्य्आवेशोऽपि तद्आभासत्वलेशेनैव सङ्गमयितव्यः । तत्र श्रीबलदेवार्जुनादीनां श्री भगवन्मताज्ञानेन श्रीनारदादीनां तु तज्ज्ञानेनेति विवेकः कोपिता मुनयः शेपुर्भगवन्मतकोविदाः [भागवतम् ३.३.२४] इति तृतीये श्रीमद् उद्धववाक्यात् । तस्मात्येषां लिङ्गान्तरेण निष्णात एव साक्षात्कारो गम्यते, तेषामस्वच्छान्तःकरणत्वं प्रतीयमानमपि तद्आभास एव । येषां तु न गम्यते विषयावेशादिकं च दृश्यते, तेषां साक्षात्काराभास एवेति निर्णीतम् । तदेवमस्वच्छचित्तेषु बहिर्मुखाः पश्यन्तोऽपि न पश्यन्तीत्युक्तम् । तद्द्वेषिणश्च द्विविधाः । एके सौन्दर्यादिकं गृह्णन्ति तथापि तन् माधुर्याग्रहणात्तत्रैवारुच्या द्विषन्ति यथा कालयवनादयः । अन्ये तु वैकृत्यमेव प्रतियन्ति ततो द्विषन्ति च यथा मल्लादयः । तदेवं पूर्वोत्तरयोश्चतुर्ष्वपि भेदेषु सदोषजिह्वाः खण्डाशिनो दृष्टान्ताः । एके हि (पगे १५) पित्तवातजदोषवन्तस्तद्आस्वादं न गृह्णन्ति, किन्तु सर्वादरमवधाय नावजानन्ति । अन्ये त्वभिमानिनोऽवजानन्त्यपि । अथापरे मधुररसमिदमिति गृह्णन्ति किन्तु तिक्ताम्लादिरसप्रियास्तम् एव रसं द्विषन्ति । अवरे च तिक्ततयैव तद्गृह्णन्ति, द्विषन्ति चेति । सर्वेषां चैषां निजदोषसव्यवधानखण्डग्रहणवत्तद्आभासत्वम् । तेषां भगवत्स्वभावानुभवश्च युक्त एव ज्ञानभक्तिशुद्धप्रीत्य् अभावेन सच्चिद्आनन्दत्वपारमैश्वर्य्परममाधुर्यलक्षणानां तत् स्वभावानां ग्रहीतुमशक्यत्वात् । तद्अग्रहणेऽपि कालान्तरे निस्तारः खण्डसेवनवदेव ज्ञेयः । यथोक्तं विष्णुपुराणे ततस्तम् एवाक्रोशेषूच्चारयन् [Vइড়् ४.१५.९] इत्यादिना अपगतद्वेषादिदोषं भगवन्तमद्राक्षीत्[Vइড়् ४.१५.१४] इत्यन्तेन । तस्मात्स्वच्छचित्तानामेव साक्षात्कारः, स एव च मुक्तिसंज्ञ इति स्थितम् । तस्य ब्रह्मसाक्षात्कारादप्युत्कर्षस्तु भगवत्सन्दर्भे सनकादि वैकुण्ठदर्शनप्रस्तावे श्रीनारदव्याससंवादादिमयब्रह्म भगवत्तारतम्यप्रकरणे च दर्शित एव । यत्र तस्यारविन्दनयनस्य [भागवतम् ३.१५.४३] इत्यादिकं, जिज्ञासितमधीतं च [भागवतम् १.५.४] इत्यादिकं च वचन जातं प्रबलतमम् । तथैव श्रीध्रुवोक्तम् या निर्वृतिस्तनुभृताम् [भागवतम् ४.९.१०] इत्यादि श्रीभागवतवक्तृतात्पर्यं च तत्रैव स्वमुखनिभृत चेतास्तद्व्युदस्तान्यभावः [भागवतम् १२.१२.६९] इत्यादिना दर्शितम् । श्री गीतोपनिषत्सु च ब्रह्मभूतः प्रसन्नात्मा [गीता १८.५४] इत्यादिना तेद् एवाङ्गीकृतम् । अतएव श्रीप्रह्लादस्य भगवत्साक्षात्कारकृत सर्वावधूननपूर्वकब्रह्मसाक्षात्कारानन्तरभगवत्साक्षात्कार विशेषात्मकनिर्वृतिं पर्माभीष्टत्वेनाह स तत्करस्पर्शधुताखिलाशुभः सपद्यभिव्यक्तपरात्मदर्शनः तत्पादपद्मं हृदि निर्वृतो दधौ हृष्यत्तनुः क्लिन्नहृद्अश्रुलोचनः ॥ [भागवतम् ७.९.६] ॥ ७.९ ॥ श्रीशुकः ॥ ७ ॥ [८] ईदृशेऽपि भगवत्साक्षात्कारे बहिःसाक्षात्कारस्योत्कर्षमाह गृहीत्वाजादयो यस्य श्रीमत्पादाब्जदर्शनम् । मनसा योगपक्वेन स भवान्मेऽक्षिगोचरः ॥ [भागवतम् १२.९.५] टीका च यस्य तव श्रीमत्पादाब्जदर्शनं मनसापि गृहीत्वा प्राप्य प्राकृता अप्यजादयो भवन्ति स भवान्मेऽक्षिगोचरो जातोऽस्ति किमतः परं वरेणेत्यर्थः इत्येषा । अत्र यत्पादपांशुर्बहुजन्मकृच्छ्रतः [भागवतम् १०.१२.१२] इत्यादिकमप्यनुसन्धेयम् । अतएव प्रगायतः स्ववीर्याणि तीर्थपादः प्रियश्रवाः । आहूत इव मे शीघ्रं दर्शनं याति चेतसि ॥ [भागवतम् १.६.३४] इत्येवम्भाववानपि गोविन्दभुजगुप्तायां द्वारवत्यां कुरूद्वह । अवात्सीन्नारदोऽभीक्ष्णंकृष्णोपासनलालसः ॥ [भागवतम् ११.२.१] इत्युक्तम् । ॥ १२.९ ॥ मार्कण्डेयः श्रीनारायनर्षिम् ॥ ८ ॥ [९] अथैतस्यां भगवत्साक्षात्कारलक्षणायां मुक्तौ जीवद्अवस्थायामाह (पगे १६) अकिञ्चनस्य दान्तस्य शान्तस्य समचेतसः मया सन्तुष्टमनसः सर्वाः सुखमया दिशः ॥ [भागवतम् ११.१४.१३] भगवन्तं विना किञ्चनान्यदुपादेयत्वेन नास्तीत्यकिञ्चनस्य । तत्र हेतुः मेयेति । अकिञ्चनत्वेनैव हेतुना विशेषणत्रयं दान्तस्येति । अन्यत्र हेयोपादेयतारोहित्यात्समचेतसः । सर्वत्र तस्यैव साक्सात्कारात्सर्वा इत्य् उक्तम् ॥ ॥ ११.१४ ॥ श्रीभगवान् ॥ ९ ॥ {१०] तत्रोत्क्रान्तावस्था च श्रीप्रह्लादस्तुतौ उशत्तम तेऽङ्घ्रिमूलं प्रीतोऽपवर्गशरणं ह्वयसे कदा नु [भागवतम् ७.९.१६] इत्यादौ ज्ञेया । सैवान्तिमा । मुक्तिश्च पञ्चधा सालोक्यसार्ष्टिसारूप्य सामीप्यसायुज्यभेदेन । तत्र सालोक्यं समानलोकत्वं श्रीवैकुण्ठ वासः । सार्ष्टिस्तत्रैव समानैश्वर्यमपि भवतीति । सारूप्यं तत्रैव समानरूपतादि प्राप्यत इति । सामीप्यं समीपगमनाधिकारित्वम् । सायुज्यं केषांचित्भगवच्छ्रीविग्रह एव प्रवेशो भवतीति । सालोक्यादि शब्दानां मुक्त्य्आदिशब्दसामानादिकरण्यं च सालोक्यादित्व प्राधान्येन । तत्र सालोक्यसार्ष्टिसारूप्यमात्रे प्रायोऽन्तःकरण साक्षात्कारः । सामीप्ये प्रायो बहिः । सायुज्ये चान्तर एव । तथापि प्रकट स्फूर्तिलक्षणं तत्सुषुप्तिवदनतिप्रकटस्फूर्तिलक्षणात्ब्रह्म सायुज्याद्भिद्यते । उत्क्रान्तमुक्त्य्अवस्थायामपि विशेषस्फूर्तिः श्रुताव् एव सम्मता स एवाधस्तात्स उपरिष्टात्स पश्चात्स पुरस्तात्स दक्षिणतः स उत्तरतः स एवेदं सर्वमित्यथातोऽहंकारादेश एवाहमेवाधस्तादहमुपरिष्टाद् अहं पश्चादहं पुरस्तादहं दक्षिणतोऽहमुत्तरतोऽहमेवेदं सर्वम् इति । [Cहू ७.२५.१] इति । एषा च पञ्चविधापि गुणातीतैव । निर्गुणायां भूमविद्यायामेव स एकधा भवति त्रिधा भवति [Cहू ७.२६.२] इत्यादिना तद्विधस्य मुक्तस्य स्वेच्छया नानाविधरूपप्राकट्यश्रवणात्न यत्र माया [भागवतम् २.९.१०] इत्य् आदौ वैकुण्ठस्य मायातीतत्वश्रवणात् । अत्रावृत्तिराहित्यं चाङ्गीकृतम् अनावृत्तिः शब्दाद्[Vस्. ४.४.२३] इत्यनेन न स पुनरावर्तते [Cहाऊ ८.१५.१] इति श्रुतेः । तथोक्तं हिरण्यकशिपूपद्रुतदेवैः तस्यै नमोऽस्तु काष्ठायै यत्रात्मा हरिरीश्वरः । यद्गत्वा न निवर्तन्ते शान्ताः सन्न्यासिनोऽमलाः ॥ [भागवतम् ७.४.२२] इति । श्रीकपिलदेवेन च न कर्हिचिन्मत्पराः शान्तरूपे नङ्क्ष्यन्ति नो मेऽनिमिषो लेढि हेतिः ॥ [भागवतम् ३.२५.३९] इति । तथैव आब्रह्मभुवनाल्लोकाः पुनरावर्तिनोऽर्जुन । मामुपेत्य तु कौन्तेय पुनर्जन्म न विद्यते ॥ [गीता ८.१६] इति । यद्गत्वा न निवर्तन्ते तद्धाम परमं मम । [गीता १५.४] इति । तत्प्रसादात्परां शान्तिं स्थानं प्राप्स्यसि शाश्वतम् । [गीता १८.६२] इति च श्रीगीतोपनिषदश्च दृश्याः । पाद्मसृष्टिखण्डे च आब्रह्मसदनादेव दोषाः सन्ति महीपते । अतएव हि नेच्छन्ति स्वर्गप्राप्तिं मनीषिणः ॥ आब्रह्मसदनादूर्ध्वं तद्विष्णोः परमं पदम् । शुभ्रं सनातनं ज्योतिः परब्रहेति तद्विदुः ॥ न तत्र मूढा गच्छन्ति पुरुषा विषयात्मकाः । दम्भलोभभयद्रोहक्रोधमोहैरभिद्रुताः ॥ निर्ममा निरहङ्कारा निर्द्वन्द्वाः संयतेन्दिर्याः । ध्यानयोगरताश्चैव तत्र गच्छन्ति साधवः ॥ इति । तत्रैव सुबाहुनृपवाक्यम् ध्यानयोगेन देवेशं यजिष्ये कमलाप्रियम् । भवप्रलयनिर्मुक्तं विष्णुलोकं व्रजाम्यहम् ॥ इति । (पगे १७) सालोक्यादीनामविच्युतस्त्वं दर्शयिष्यते च मत्सेवया प्रतीतं ते सालोक्यादिचतुष्टयम् । नेच्छन्ति सेवया पूर्णाः कुतोऽन्यत्कालविप्लुतम् ॥ [भागवतम् ९.५.६७] इत्यादिषु तद्इतरत्रैव कालविप्लुतत्वाङ्गीकारात् । तस्मात्क्वचिदावृत्ति श्रवणं तु प्रपञ्चान्तर्गततद्धामत्वापेक्षया कादाचित्कतल्लीला कौतुकापेक्षया च मन्तव्यम् । पश्चात्तु नित्यसालोक्यमेव, यथा भविष्योत्तरे एवं कौन्तेय कुरुते योऽरण्यद्वादशीं नरः । स देहान्ते विमानस्थदिव्यकन्यासमावृतः ॥ याति ज्ञातिसमायुक्तः श्वेतद्वीपं हरेः पुरम् । यत्र लोका पीतवस्त्रा इत्यादि । तिष्ठन्ति विस्णुसान्निध्ये यावद्आहूतसम्प्लवम् । तस्मादेत्य महावीर्याः पृथिव्यां नृप पूजिताः । मर्त्यलोके कीर्तिमन्तः सम्भवन्ति नरोत्तमाः ॥ ततो यान्ति परं स्थानं मोक्षमार्गं शिवं सुखम् । यत्र गत्वा न शोचन्ति न संसारे भ्रमन्ति च ॥ इति । उत्क्रान्तमुक्तिदशायां तु तेषां भगवत्तुल्यत्वमेवाह वसन्ति यत्र पुरुषाः सर्वे वैकुण्ठमूर्तयः । येऽनिमित्तनिमित्तेन धर्मेणाराधयन् हरिम् ॥ [भागवतम् ३.१५.१४] निमित्तं फलं न तन्निमित्तं प्रवर्तकं यस्मिन् तेन निष्कामेनेत्यर्थः । धर्मेण भागवताख्येन । वैकुण्ठस्य भगवतो ज्योतिर्अंशभूता वैकुण्ठलोकशोभारूपा या अनन्ता मूर्तयस्तत्र वर्तन्ते । तासामेकया सह मुक्तस्यैकस्य मूर्तिः भगवता क्रियत इति वैकुण्ठस्य मूर्तिरिव मूर्तिर्येषामित्युक्तम् । ॥ ३.१५ ॥ श्रीब्रह्मा देवान् ॥ १० ॥ [११] यथैवाह प्रयुज्यमाने मयि तां शुद्धां भागवतीं तनुम् । आरब्धकर्मनिर्वाणो न्यपतत्पाञ्चभौतिकः ॥ [भागवतम् १.६.२९] हित्वावद्यमिमं लोकं गन्ता मज्जनतामसि [भागवतम् १.६.२४] इति या तनुः श्री भगवता दातुं प्रतिज्ञाता, तां भागवतीं भगवद्अंशज्योतिर्अंशरूपां शुद्धां प्रकृतिस्पर्शशून्यां तनुं प्रति श्रीभगवतैव मयि प्रयुज्यमाने नीयमाने आरब्धं यत्कर्म तन्निर्वाणं समाप्तं यस्य स पाञ्चभौतिको न्यपतदिति । प्राक्तनलिङ्गशरीरभङ्गोऽपि लक्षितः । तादृशभगवन्निष्ठे प्रारब्धकर्मपर्यन्तमेव तत्स्थितेः । इत्थम् एव टीका च अनेन पार्षदतनूनामकर्मारब्धत्वं शुद्धत्वं नित्यत्वमित्यादि सूचितं भवति इत्येषा । ॥ १.६ ॥ श्रीनारदः श्रीव्यासम् ॥ ११ ॥ [१२] एतां मूर्तिमुद्दिश्यैवाह यं धर्मकामार्थ [भागवतम् ८.३.१९] इत्यादौ रात्य् अपि देहमव्ययमिति । टीका च देहमप्यव्ययं राति इत्येषा । ॥ ८.६ ॥ श्रीगजेन्द्रः ॥ १२ ॥ (पगे १८) [१३] तदेतत्ताण्डिनां श्रुतावप्युक्तं अश्व इव रोमाणि विधूय धूत्वा शरीरमकृतं कृताम्ता ब्रह्मलोकमभिसम्भवानि [Cहाऊ ८.१३.१] इति । क्वचित्प्राकृत्यपि मूर्तिरचिन्त्यया भगवच्छक्त्या तादृशत्वमापद्यते । यथोक्तं श्रीध्रुवमुद्दिश्य बिभ्रद्रूपं हिरण्मयम् [भागवतम् ४.१२.२९] इति । तदेवं रूपं हिरण्मयं बिभ्रदिति टीका च । तथा सार्ष्टिश्च दर्शिता भक्तिसन्दर्भे । मर्त्यो यदा त्यक्तसमस्तकर्मा इत्यादौ मयात्म भूयाय च कल्पते वै [भागवतम् १२.२९.३५] इत्यनेन । श्रुतिश्चात्र स तत्र पर्येति जक्षन् क्रीडन् रममाण [Cहाऊ ८.१२.३] इत्यादिका, आप्नोति स्वाराज्यं सर्वेऽस्मै देवा बलिमाहरन्ति [टैत्तू १.६.२, १.५.३], तस्य सर्वेषु लोकेषु कामचारो भवति [Cहाऊ ७.२५.२] इत्यादिका, सर्वेश्वरः [Bआऊ ४.४.२२] इत्यादिका च । किन्तु, जगद्व्यापारवर्जम् [Vस्४.४.१७] इत्यादिन्यायेन सृष्टिस्थित्य्आदि सामर्थ्यं तस्य न भवति कुतो वैकुण्ठैश्वर्यादिकम् । उक्तं च अदृष्ट्वान्यतमं लोके [भागवतम् १०.३.४१] इत्यादि । ततो भाक्तमेव समानैश्वर्यम् । अतएवाणिमादिप्राप्तिरप्यंशेनैव ज्ञेया । श्रीभगवत्प्रसादलब्धसम्पत्तेश्चाविनश्वरत्वमाह द्वयेनैव ये मे स्वधर्मनिरतस्य तपःसमाधि विद्यात्मयोगविजिता भगवत्प्रसादाः । तानेव ते मद्अनुसेवनयावरुद्धान् दृष्टिं प्रपश्य वितराम्यभयानशोकान् ॥ अन्ये पुनर्भगवतो भ्रुव उद्विजृम्भ विभ्रंशितार्थरचनाः किमुरुक्रमस्य । सिद्धासि भुङ्क्ष्व विभवान्निजधर्मदोहान् दिव्यान्नरैर्दुरधिगान्नृपविक्रियाभिः ॥ [भागवतम् ३.२३.७८] तपश्च समाधिश्च विद्या च उपासना तासु य आत्मयोगिश्चित्तैकाग्र्यम् । अन्ये पुनर्भोगाः किमुरुक्रमसम्बन्धिनः । अपि तु नेत्यर्थः । अतएव भगवतो ध्रुव इत्यादि ॥ ॥ ३.२३ ॥ श्रीकर्दमो देवहूतिम् ॥ १३ ॥ [१४] तदेवं सारूप्यमपि ज्ञेयम् । यथा गजेन्द्रो भगवत्स्पर्शाद्विमुक्तो ‘ज्ञानबन्धनात् । प्राप्तो भगवतो रूपं पीतवासाश्चतुर्भुजः ॥ [भागवतम् ८.४.६] स्पष्टम् । ॥ ८.४ ॥ श्रीशुकः ॥ १४ ॥ [१५] सामीप्यमप्युदाहृतं भगवत्सन्दर्भे कर्दमनिर्याणवर्णनया । मनो ब्रह्मणि युञ्जान [भागवतम् ३.२४.४३] इत्यारभ्य मध्ये च लब्धात्मा मुक्तबन्धन [भागवतम् ३.२४.५५] इत्युक्त्वा सर्वान्ते, भगवद्भक्तियोगेन प्राप्तो भागवती गतिम् [भागवतम् ३.२४.४७] इत्येवमुक्तरीत्या । अथ सायुज्यमघासुरादिदृष्टान्तेन साधकानामपि गम्यम् । सालोक्यादिवत्स्वाभिमतत्वाभावात्स्पष्टोदाहरणं श्रीमता भागवतेन न कृतमिति । अस्य भगवल्लक्षणानन्दनिमग्नतास्फूर्तिरेव प्रधानं, क्वचिदिच्छया तद्अनुग्रहेण तदीयतच्छक्तिलेशप्राप्त्यैव यथायुक्तं बहिस्तद्दत्ताप्राकृततद्भोगोच्छिष्टलेशमेवानुभवतीत्येके । तत्र च न तु तमेव सर्वमेव चानुभवतीत्यभ्युपगम्यम् । सर्वथा तत् प्राप्तेरनभ्युपगमत्वात् । जगद्व्यापारादिनिषेधेन इदमेवोक्तं यदैनं मुक्तो न प्रविशति मोदते च कामांश्चैवानुभवति [Bआऊ] इति बृहच्छ्रुतौ, ब्रह्माभिसम्पद्य ब्रह्मणा पश्यति ब्रह्मणा शृणोति इत्यादिमाध्यदिनायनश्रुतौ । आदत्ते हरिहस्तेन इत्यादिकमपि तच्छक्तिलेशप्राप्त्य्आद्य्अभिप्रायेणैवोक्तम् । (पगे १९) क्वचिदिच्छया लीलार्थं बहिरपि निष्कामयति पार्षदत्वेन च संयोजयति । यथा शिशुपालदन्तवक्रौ लब्धसायुज्यावपि पुनः पार्षदतामेव प्राप्तौ । वैरानुबन्धतीव्रेण ध्यानेनाच्युतसात्मताम् । नीतौ पुनर्हरेः पार्श्वं जग्मतुर्विष्णुपार्षदौ ॥ [भागवतम् ७.१.४६] इति तावुद्दिश्य श्रीनारदवाक्यात् । तत्रैषां सालोक्यादीनामनवच्छिन्नभगवत्प्राप्तिरूपतया तत् साक्षात्कारविशेषत्वेन ब्रह्मकैवल्यादाधिक्यं प्राचीनवचनैः सुतरामेव सिद्धम् । अतएव क्रममुक्तिवत्क्रमभगवत्प्राप्तौ ब्रह्मप्राप्त्य्अनन्तरभावित्वमपि क्वचित्श्रूयते । यथा श्रीमतोऽजामिलस्य सिद्धिप्राप्तौ स तस्मिन् देवसदन आसीनो योगमास्थितः । प्रत्याहृतेन्द्रियग्रामो युयोज मन आत्मनि ॥ ततो गुणेभ्य आत्मानं वियुज्यात्मसमाधिना । युयुजे भगवद्धाम्नि ब्रह्मण्यनुभवात्मनि ॥ यर्ह्युपारतधीस्तस्मिन्नद्राक्षीत्पुरुषान् पुरः । उपलभ्योपलब्धान् प्राग्ववन्दे शिरसा द्विजः ॥ हित्वा कलेवरं तीर्थे गङ्गायां दर्शनादनु । सद्यः स्वरूपं जगृहे भगवत्पार्श्ववर्तिनाम् ॥ साकं विहायसा विप्रो महापुरुषकिङ्करैः । हैमं विमानमारुह्य ययौ यत्र श्रियः पतिः ॥ [भागवतम् ६.२.४०४४] स्पष्टम् । एवं सद्यो भगवत्प्राप्त्यावप्याधिक्यमवगतम् । ॥ ६.२ ॥ श्रीशुकः ॥ १५ ॥ [१६] सालोक्यादिषु च सामीप्यस्याधिक्यं बहिः साक्षात्कारमयत्वात्तस्यैव ह्य् आधिक्यं दर्शितम् । तदेवं मुक्तिर्दर्शिता । तत्र विष्णुधर्मोत्तरे श्री वज्रप्रश्नः कल्पानां जीवसाम्ये हि मुक्तिर्नैवोपपद्यते । कदाचिदपि धर्मज्ञ तत्र पृच्छामि कारणम् ॥ एकैकस्मिन्नरे मुक्तिं कल्पे कल्पे गते द्विज । अभविष्यज्जगच्छून्यं कालस्यादेर्भावतः ॥ अथ श्रीमार्कण्डेयस्योत्तरम् जीवस्यान्यस्य सर्गेण नरे मुक्तिमुपागते । अचिन्त्यशक्तिर्भगवान् जगत्पूरयते सदा ॥ ब्रह्मणा सह मुच्यन्ते ब्रह्मलोकमुपागताः । सृज्यन्ते च महाकल्पे तद्विधाश्चापरे जनान् ॥ [Vइढ्ড়् १.८१.१११४] इति । अत्र क्वचिदपि कल्पे केषांचिदपि जीवानामनुद्बुद्धकर्मत्वेन सुषुप्तवत्प्रकृतावपि लीनानामनन्तब्रह्माण्डगतानामिवानन्तानाम् एकस्त्योपाधिसृष्ट्या ब्रह्माण्डप्रवेशेनं सर्ग इति ज्ञेयम् । अपूर्वसृष्टौ सादित्वे कृतहान्यकृताभ्यागमः स्यात् । अथ मुक्तिभ्यो भगवत्प्रीतेराधिक्यं विव्रियते । तत्र यद्यपि तत्प्रीतिं विना ता पै न सन्त्येव तथापि केषाञ्चित्तेषां स्वस्य दुःखहानौ सामीप्यादिलक्षणसम्पत्तावपि तात्पर्यं, न तु श्रीभग्तवत्येवेति तेषु न्यूनता । तत्र कैवल्यैकप्रयोजनम् [भागवतम् १२.१३.१२] इति यदुक्तम् । तस्य चार्थस्य तत्रैव विश्रान्तिः । तथैव सर्ववेदान्त इत्यादिप्राक्तनपाद त्रयस्य विश्रान्तिस्तत्त्वभगवत्सन्दर्भाभ्यां श्रीभगवत्येव दर्शिता । तत्रैव तत्त्वपदार्थस्य पूर्णत्वस्थापनात् । तथैतत्पूर्वमपि हरिलीलाकथा (पगे २०) व्रातामृतानन्दितसत्सुरम् [भागवतम् १२.१३.११] इति ग्रन्थस्वभाववर्णने तत्प्रीतेरेव मुख्यत्वं दर्शितम् । हरिलीलाकथाव्रात एवामृतं, सन्त आत्मरामा एव सुरा इति । इत्थं सतां ब्रह्मसुखानुभूत्या [भागवतम् १०.१२.११] इति प्रसिद्धेः । परिनिष्ठितोऽपि नैर्गुण्ये [भागवतम् २.१.९] इत्यादेश्च । अतः कैवल्यशब्दश्च तत् तद्अनुसारेण व्याख्यातव्यः । तथा हि यदि तत्र केवलशब्देन शुद्धत्वं वक्तव्यं तदा तत्प्रीत्येकतात्पर्या एव परमशुद्धा इति तस्यामेव तात्पर्यम् । पूर्वं भक्तिसन्दर्भेऽपि शुद्धशब्देनैकान्तिभक्त एव प्रतिपादितः । तदुक्तमन्यस्य सदोषत्वकथनेन । धर्मः प्रोज्झितकैतवोऽत्र परमः [भागवतम् १.१.२] इत्यत्र । टीका च प्रशब्देन मोक्षाभिसन्धिरपि निरस्तः इत्येषा । अत्र भागवतधर्मे मोक्षाभिसन्धिरपि कैतवम् । यदि च तत्र कैवल्यशब्देन भगवानेवोक्तस्तत्स्वभावो वा, तथापि प्रीतिमतामेव । कामं भवः स्ववृजिनैर्निरयेषु नस्ताच्चेतोऽलिवद्यदि नु ते पदयो रमेत [भागवतम् ६.१५.४९] इति न्यायेन तद्एकानुशीलनमात्र तात्पर्यात्प्रीतावेव विश्रान्तिः । अतएव कैवल्यान्मोक्षादप्येकः श्रेष्ठो यो भगवत्प्रीतिलक्षणोऽर्थस् तत्प्रयोजनमिति व्याख्यान्तरम् । वस्तुतस्तूक्तन्यायेन कैवल्यादिशब्दाः शुद्धभक्तिवाचकताप्रधाना एव । तथैवाह गद्याभ्याम् यथा वर्णविधानमपवर्गश्चापि भवति [भागवतम् ५.१९.१९] इति, योऽसौ भगवति सर्वभूतात्मन्यनात्म्येऽनिरुक्तेऽनिलयने परमात्मनि वासुदेवेऽनन्य निमित्तभक्तियोगलक्षणो नानागतिनिमित्ताविद्याग्रन्थिरन्धन द्वारेण यदा हि महापुरुषपुरुषप्रसङ्गः [भागवतम् ५.१९.२०] इति च । यस्य वर्णस्य यद्विधानं भगवद्अर्पितस्वस्वधर्मानुष्ठानं, तद् अनुक्रमेणापवर्गश्च भवति । तस्यापवर्गस्य स्वरूपमाह द्वितीयेन योऽसौ इति । आत्मनि भवमात्म्यं रागादि तद्रहिते । स हि भक्त सुखार्थमेव प्रयतते, न तु पृथक्स्वसुखार्थम् । यथा हि भक्तस्तत् सुखार्थमेवेति । अनिरुक्ते स्वरूपतो गुणाश्च वाचामगोचरे । अनिलयने निलयनमन्तर्धानं तद्रहिते, सदैव प्रकाशमान इत्यर्थः । अनन्य निमित्तो मोक्षाद्य्उपाधिरहितो यो भक्तियोगः स एव लक्षणं स्वरूपं यस्य सः । तत्रोपवर्गशब्दस्य प्रवृत्तिं घटयति । नानागतीनां निमित्तं योऽविद्याग्रन्थिस्तस्य रन्धनम् । अपवर्जनं छेदनमिति यावत्तद् द्वारेण योऽसावपवर्ग उच्यते इत्यर्थः । अपवृज्यते येनेति निरुक्त्या इति भावः । पाद्मोत्तरखण्डे च विष्णोरनुचरत्वं हि मोक्षमाहुर् मनीषिणः इति । तथा स्कान्दे रेवाखण्डे निश्चला त्वयि भक्तिर्या सैव मुक्तिर्जनार्दन । मुक्ता एव हि भक्तास्ते तव विष्णो यतो हरेः ॥ इति । श्रीरुक्मिणीसान्त्वने श्रीभगवताप्येवमभिप्रेतं तां प्रति सन्ति ह्य् एकान्तभक्तायास्तव [भागवतम् १०.६०.५०] इत्युक्त्वा, मां प्राप्य मानिन्य् अपवर्गसम्पदं वाञ्छन्ति ये सम्पद एव तत्पतिम् [भागवतम् १०.६०.५३] इति । अतएव कैवल्यसम्मतपथस्त्वथ भक्तियोगः [भागवतम् २.३.१२] इत्यत्र टीकाकारैरप्युक्तम् कैवल्यमित्येव सम्मतः पन्था यो भक्तियोगः इति । पन्था भगवत्प्राप्त्य्उपायभूतोऽपीत्यर्थः । स खलु कदा स्यात् तत्राह यदा हीति ॥ ॥ ५.१९ ॥ श्रीशुकः ॥ १६ ॥ [१७] तदेवमत्र सर्गो विसर्गश्च [भागवतम् २.१०.१] इत्यादिषु दशस्वेतन्महा पुराणप्रतिपाद्येषु अर्थेषु मुक्तिशब्दस्य तत्रैव विश्रान्तिः । पोषणेऽपि तदेव मुख्यं प्रयोजनम् । पोषण (पगे २१) शब्देन ह्यनुग्रह उच्यते । तस्य च पराकाष्ठाप्राप्तिः स्वप्रीतिदान एव । तदुक्तं मुक्तिं ददाति कर्हिचित्स्म न भक्तियोगम् [भागवतम् ५.६.१८] इति । तथैवान्यत्रापि श्री पृथुं प्रति वरं च मत्कञ्चनमानवेन्द्र वृणीष्व [भागवतम् ४.२०.१६] इत्य् उक्त्वा, यथा चरेद्बालहितं पिता स्वयं तथा त्वमेवार्हसि नः समीहितुम् [भागवतम् ४.२०.३१] इति तद्वाक्यानन्तरं, तमाह राजन्मयि भक्तिरस्तु ते [भागवतम् ४.२०.३१] इति । भक्तिः प्रीतिलक्षणा । ॥ ४.२० ॥ श्रीविष्णुः ॥ १७ ॥ [१८] एवमेव श्रीभागवतग्रन्थश्रवणफलत्वेनापि सैव परम पुरुषार्थतया निर्णीतास्ति तत्त्वसन्दर्भे सङ्क्षेपतात्पर्ये । श्रीव्यास समाधिना श्रीशुकहृदयेण च तथैव निर्णयो विहितः यस्यां वै श्रूयमाणायाम् [भागवतम् १.६.७] इत्यादिषु । स्वसुखनिभृतचेताः [भागवतम् १२.१२.६९] इत्यादौ च । प्रतिज्ञा चेदृश्येव धर्मः प्रोज्झितः कैतवोऽत्र [भागवतम् १.१.२] इत्यादौ किं वा परैरीश्वरः सद्यो हृद्यवरुध्यतेऽत्र कृतिभिः शुश्रूषुभिस्तत्क्षणातिति । अतएव चतुःश्लोक्यां रहस्यशब्देन सैवोक्ता । सैव च तृतीयश्लोकार्थत्वेन भगवत्सन्दर्भे विस्पष्टीकृतास्ति । तदेवं श्रीमत्प्रीतेरेवावपवर्गत्वेन परमभगवद्अनुग्रह मयत्वं श्रीभागवतश्रवणफलत्वं पुरुषार्थेषु तस्याः परमत्व साधनाय दर्शितम् । तथैव श्रीनारद आक्षेपद्वार शिक्षितवांश्च तत् संहितामाविर्भावयिष्यन्तं श्रीव्यासम् । यथाह यथा धर्मादयश्चार्था मुनिवर्यानुकीर्तिताः । न तथा वासुदेवस्य महिमा ह्यनुवर्णितः ॥ [भागवतम् १.५.९] चशब्दोऽप्य्अर्थे । महिमानुवर्णनं तत्प्रीत्य्उद्बोधनं भवेदित्य् आशयेनैवमुक्तम् ॥ ॥ १.५ ॥ श्रीनारदः ॥ १८ ॥ [१९] तथान्येषामपवर्गाणामपि तया तिरस्कृतौ मुक्तकण्ठा एव शब्दा उदाहार्याः । सा च तिरस्कृतिः क्वचित्तत्स्वरूपेण क्रियते । क्वचित्तत्परिकर द्वारा च । तत्र तत्स्वरूपेण तिरस्कृतिमाह गद्येन यस्यामेव कवय आत्मानमविरतं विविधवृजिनसंसार परितापोपतप्यमानमनुसवनं स्नापयन्तस्तयैव परया निर्वृत्या ह्य् अपवर्गमात्यन्तिकं परमपुरुषार्थमपि स्वयमासादितं नो एवाद्रियन्ते भगवदीयत्वेनैव परिसमाप्तसर्वार्थाः । [भागवतम् ५.६.१७] इति । यस्यां पूर्वगद्योक्तलक्षणायां भक्तौ मुक्तादिसम्पदां भक्ति सम्पद्अनुचरीत्वात्परस्माप्तसर्वार्थत्वम् । तथोक्तं श्रीनारद पञ्चरात्रे हरिभक्तिमहादेव्याः सर्वा मुक्त्य्आदिसिद्धयः । भुक्तयश्चाद्भुतास्तस्याश्चेटिकावदनुव्रताः ॥ इति । अतएवानादरोऽपि । यथोक्तं श्रीवृत्रं प्रति महेन्द्रेण यस्य भक्तिर्भगवति हरौ निःश्रेयसेश्वरे । विक्रीडतोऽमृताम्भोधौ किं क्षुद्रैः खातकोदकैः ॥ [भागवतम् ६.१२.२२] इति । ॥ ६.१२ ॥ श्रीशुकः ॥ १९ ॥ (पगे २२) [२०] अथ तत्परिकरेषु तदीयकार्यद्वारा, यथा तत्र तदीयगुण कथानुशीलनद्वारा तामाहुः दुरवगमात्मतत्त्वनिगमाय तवात्ततनोश् चरितमहामृताब्धिपरिवर्तपरिश्रमणाः । न परिलषन्ति केचिदपवर्गमपीश्वर ते चरणसरोजहंसकुलसङ्गविसृष्टगृहाः ॥ [भागवतम् १०.८७.२१] आत्मतत्त्वं तादृशसच्चिद्आनन्दमूर्तित्वादिकं निजयाथात्म्यं निगमोऽनुभावना । आत्ततनोः प्रकटितस्वमूर्तेः, परिवर्जनार्थः । चरितमहामृताब्धेः पर्वर्तेनाभ्यासेन वर्जितश्रमाः । चरणसरोज हिंसानां श्रीशुकदेवादीनां यानि कुलानि शिष्योपशिष्यपरम्पराः । तेषां सङ्गेन विसृष्टमात्रगृहा अपि यद्यपवर्गं न परिलषन्ति, तदा चरण सरोजहंसादयस्तु किमुतेत्यर्थः ॥ ॥ १०.८७ ॥ श्रुतयः ॥ २० ॥ [२१] तदीयपादसेवातदीयगुणकथाद्वारा मुक्तिविशेषस्य तिरस्कृतिर्भक्ति सन्दर्भे दर्शितास्ति श्रीकपिलदेववाक्येन नैकात्मतां मे स्पृहयन्ति केचिद्[भागवतम् ३.२५.३४] इत्यादिना । एकात्मतां ब्रह्मसायुज्यं भगवत्सायुज्यम् अपि । एवं सेवाद्वारा मुक्तिविशेषाणां च श्रीविष्णुवाक्येन मत्सेवया प्रतीतं ते [भागवतम् ९.४.६७] इत्यादिना, श्रीकपिल्देववाक्येन सालोक्यसार्ष्टी [भागवतम् ३.२९.१३] इत्यादिना । अथ पुरुषार्थान्तरवन्मुक्तिरपि हेयैवेति वक्तुं तैरपि साध्यं तस्यास् तिरस्कृतिर्निर्दिश्यते । तत्र भक्तेः स्वरूपेण मुक्तिसामान्यस्य तिरस्कृतिर् उदाहृतैवास्ति भक्तिसन्दर्भादौ । न किञ्चित्साधवो धीराः [भागवतम् ११.२०.३४] इत्यादिना । नैवेच्छत्याशिषः क्वापि ब्रह्मर्षिर्मोक्षमप्युत । भक्तिं परां भगवति लब्धवान् पुरुषेऽव्यये ॥ [भागवतम् १२.१०.६] इति चान्यत्र । अथ कार्यद्वारेषु तत्रापततमहासुखदुःखान्तरतिरस्कारितद्आसक्ति द्वारा तामाह नारायणपराः सर्वे न कुतश्चन बिभ्यति । स्वर्गापवर्गनरकेष्वपि तुल्यार्थदर्शिनः ॥ [भागवतम् ६.१७.१८] स्वर्गादीनां तुल्यहेयत्वात्तेषु तुल्यभगवद्एकपुरुषार्थत्वाच्च तुल्य दर्शिनः ॥ ॥ ६.१७ ॥ श्रीरुद्रो देवीम् ॥ २१ ॥ [२२] तदीयपादसेवापरमोत्कण्ठाद्वारा तामाह को न्वीश ते पादसरोजभाजां सुदुर्लभोऽर्थेषु चतुर्ष्वपीह । तथापि नाहं प्रवृणोमि भूमन् भवत्पदाम्भोजनिषेवणोत्सुकः ॥ [भागवतम् ३.४.१५] हे ईश ॥ ॥ ३.४ ॥ उद्धवः श्रीभगवन्तम् ॥ २२ ॥ [२३] सर्वात्मार्पणकारिभजनीयविषयकाभिलाषद्वारा तामाह न पारमेष्ठ्यं न महेन्द्रधिष्ण्यं न सार्वभौमं न रसाधिपत्यम् । न योगसिद्धीरपुनर्भवं वा मय्यर्पितात्मेच्छति मद्विनान्यत् ॥ [भागवतम् ११.१४.१४] टीका चरसाधिपत्यं पातालादिसाम्यम् । अपुनर्भवं मोक्षमपि । मद् विना मां हित्वान्यन्नेच्छति । अहमेव तस्य प्रेष्ठ इत्यर्थः । इत्येषा । सार्वभौमं श्रीप्रियव्रतादीनामिव महाराज्यम् । पारमेष्ठ्यादि चतुष्टयस्यानुक्रमश्चाधोऽधोविवक्षया न्यूनत्वअविवक्षया च । ततश् चोत्तरोत्तरं कैमुत्यमपि । योगसिद्ध्य्आदिद्वयं तु सार्वत्रिकमिति पश्चाद्विन्यस्तम् । अनयोस्तूत्तरश्रैष्ठ्यम् ॥ ॥ ११.१४ ॥ श्रीभगवान् ॥ २३ ॥ (पगे २३) [२४] तथैवाह न नाकपृष्ठं न च पारमेष्ठ्यं न सार्वभौमं न रसाधिपत्यम् । न योगसिद्धीरपुनर्भवं वा समञ्जस त्वा विरहय्य काङ्क्षे ॥ [भागवतम् ६.११.२५] नाकपृष्ठं ध्रुवपदम् । अत्र च चतुष्टये पूर्ववत्न्यूनत्वविवक्षया कैमुत्यम् । ध्रुवपदस्य श्रैष्ठ्यं विष्णुपदसन्निहितत्वात् ॥ ॥ ६.११ ॥ श्रीवृत्रः ॥ २४ ॥ [२५] गाढतत्प्रपत्तिद्वाराहुः न नाकपृष्ठं न च सार्वभौमं न पारमेष्ठ्यं न रसाधिपत्यम् । न योगसिद्धीरपुनर्भवं वा वाञ्छन्ति यत्पादरजःप्रपन्नाः ॥ [भागवतम् १०.१६.३७] तत्र नाकपृष्ठमपि न वाञ्छन्ति किमुत सार्वभौमम् । पारमेष्ठ्यमपि न वाञ्छन्ति किमुत रसाधिपत्यमिति पूर्वार्धे योज्यम् । उत्तरार्धे वाशब्दोऽप्य्अर्थे । पादरजःशब्देन भक्तिविशेष ज्ञापनाय गाढप्रपत्तिर्ज्ञाप्यते । ॥ १०.१६ ॥ नागपत्न्यः श्रीभगवन्तम् ॥ २५ ॥ [२६] गुणगानद्वाराह तुष्टे च तत्र किमलभ्यमनन्त आद्ये किं तैर्गुणव्यतिकरादिह ये स्वसिद्धाः । धर्मादयः किमगुणेन च काङ्क्षितेन सारं जुषां चरणयोरुपगायतां नः ॥ [भागवतम् ७.६.२५] अगुणेन मोक्षेण । सारंजुषां तन्माधुर्यास्वादिनां सताम् ॥ ॥ ७.६ ॥ श्रीप्रह्लादो दैत्यबालकान् ॥ २६ ॥ [२७] गुणश्रवणद्वाराह वरान् विभो त्वद्वरदेश्वराद्बुधः कथं वृणीते गुणविक्रियात्मनाम् । ये नारकाणामपि सन्ति देहिनां तानीश कैवल्यपते वृणे न च ॥ न कामये नाथ तदप्यहं क्वचिन् न यत्र युष्मच्चरणाम्बुजासवः । महत्तमान्तर्हृदयान्मुखच्युतो विधत्स्व कर्णायुतमेष मे वरः ॥ [भागवतम् ४.२०.२३२४] तदपि कैवल्यमपि ॥ ॥ ४.२० ॥ पृथुः श्रीविष्णुम् ॥ २७ ॥ [२८] तदीयनिजसेवकताप्राप्तिकामनाद्वाराह यो दुस्त्यजान् क्षितिसुतस्वजनार्थदारान् प्रार्थ्यां श्रियं सुरवरैः सदयावलोकाम् । नैच्छन्नृपस्तद्उचितं महतां मधुद्विट् सेवानुरक्तमनसामभवोऽपि फल्गुः ॥ [भागवतम् ५.१४.४४] य आर्षभेय्यो भरतः । ॥ ५.१४ ॥ श्रीशुकः ॥ २८ ॥ [२९] लोकपालतामात्रलक्षणतत्सेवाभिमानद्वाराप्याह प्रत्यानीताः परम भवता त्रायता नः स्वभागा दैत्याक्रान्तं हृदयकमलं तद्गृहं प्रत्यबोधि । कालग्रस्तं कियदिदमहो नाथ शुश्रूषतां ते मुक्तिस्तेषां न हि बहुमता नारसिंहापरैः किम् ॥ [भागवतम् ७.८.४२] स्पष्टम् । ॥ ७.८ ॥ महेन्द्रः श्रीनृसिंहम् ॥ २९ ॥ [३०] अथ कारणेषु महाभागवतसङ्गद्वाराह क्षणार्धेनापि तुलये न स्वर्गं नापुनर्भवम् । भगवत्सङ्गिसङ्गस्य मर्त्यानां किमुताशिषः ॥ [भागवतम् ४.२४.५७] टीका चतत्पादमूले प्रविष्टस्य कृतान्तभयाभावः कियानयं लाभः । यावता तद्भक्तसङ्ग एव सकलपुरुषार्थश्रेणिशिरसि नरीनर्ति इत्यादि । ॥ ४.२४ ॥ श्रीरुद्रः प्रचेतसः ॥ ३० ॥ [३१] तथैवाहुः यावत्ते मायया स्पृष्टा भ्रमाम इह कर्मभिः । तावद्भवत्प्रसङ्गानां सङ्गः स्यान्नो भवे भवे ॥ तुलयाम लवेनापि न स्वर्गं नापुनर्भवम् । भगवत्सङ्गिसङ्गस्य मर्त्यानां किमुताशिषः ॥ [भागवतम् ४.३०.३२३३] (पगे २४) तद्बहिर्मुखताप्राप्त्य्आशङ्कया तत्परिहार्कारणं प्रार्थयन्ते यावद् इति । नैतावत्त्वं तत्सङ्गस्य किन्त्वपारमहिमत्वमेवेत्याहुः तुलयामेवेति । अतो यावदित्यादिकं प्रेम्नैव भगवच्चरणसामीप्य प्राप्त्य्आशयोक्तं न सामीप्याद्मुक्तिसम्पत्त्याशयेति ज्ञेयम् । ॥ ४.३० ॥ प्रचेतसः श्रीमद्अष्टभुजं पुरुषम् ॥ ३१ ॥ [३२] अन्यत्रापीदृशोऽर्थो दृश्यते । तत्र तत्तच्छास्त्रस्य परमफलत्वे । यथा माध्वभाष्यधृतं बृहत्तन्त्रम् यथा श्रीनित्यमुक्तापि प्राप्तकामापि सर्वदा । उपास्ते नित्यशो विष्णुमेवं भक्तो भवेदपि ॥ ब्रह्मवैवर्ते च न ह्रासो न च वृद्धिर्वा मुक्तानां विद्यते क्वचित् । विद्वत्प्रत्यक्षसिद्धत्वात्कारणाभावतोऽनुमा ॥ हरेरुपासना चात्र सदैव सुखरूपिणी । न च साधनभूता सा सिद्धिरेवात्र सा यतः ॥ इति । तद्उत्थापिता सौपर्णश्रुतिश्च सर्वदैतमुपासीत यावद्विमुक्तिर्मुक्ता ह्येतमुपासते । इति । तदीयभारततात्पर्ये च श्रुत्य्अन्तराभिधानम् मुक्तानामपि भक्तिर्हि परमानन्दरूपिणी इति । एष एवार्थः श्रीबृहद्गौतमीयेऽपि दृश्यते, यथा एवं दीक्षां चरेद्यस्तु पुरुषो वीतकल्मषः । स लोके वर्तमानोऽपि जीवन्मुक्त प्रमोदते ॥ उदिताकृतिरानन्दः सर्वत्र समदर्शकः । पूर्णाहन्तामयी साक्षाद्भक्तिः स्यात्प्रेमलक्षणा ॥ अन्यत्र हानोपादानवृद्धिरहितत्वात्समदर्शित्वं ज्ञेयम् । अत्र मुनय ऊचुः कथं भक्तिर्भवेत्प्रेम्ना जीवन्मुक्तस्य नारद । जीवन्मुक्तशरीराणां चित्सत्तानिःस्पृहा यतः । विरक्तेः कारणं भक्तिः सा तु मुक्तेस्तु साधनम् ॥ नारद उवाच भद्रमुक्तं भवद्भिश्च मुक्तिस्तुर्यातीता निगद्यते । कृष्णधाममयं ब्रह्म क्वचित्कुत्रापि भासते ॥ निर्बीजेन्द्रियगं तत्तु आत्मस्थं केवलं सुखम् । कृष्णस्तु परिपूर्णात्मा सर्वत्र सुखरूपकः । भक्तिवृत्तिकृताभ्यासात्तत्क्षणाद्गोचरीकृतः ॥ इति । तादृग्अर्थत्वेनैवाद्वैतवादगुरुभिरपि सम्मता श्रीनृसिंहतापनी च यं ह वै सर्वे वेदा आनमन्ति मुमुक्षवो ब्रह्मवादिनश्च [ण्टू २.४] इति । यथा मुक्ता अपि लीलया विग्रहं कृत्वा भगवन्तं भजन्ते इति हि तद् भाष्यम् । ब्रह्मणा वदितुं स्थिरीभवितुं शीलमेषामिति ब्रह्मवादिनी मुक्ता इति वद स्थैर्ये [पाणिनि ७.२.७] इति स्मरणात् । श्रीगीतोपनिषदश्च तेषां ज्ञानी नित्ययुक्त एकभक्तिर्विशिष्यते [गीता ७.१०] इति । अथ तस्याः परमभगवद्अनुग्रहप्राप्यत्वे नारदपञ्चरात्रीय जितं ते स्तोत्रं, यथा मोक्षसालोक्यसारूप्यान् प्रार्थये न धराधर । इच्छामि हि महाभाग कारुण्यं तव सुव्रत ॥ पुरुषार्थान्तरयतिरस्कारे हयशीर्षीयश्रीनारायणव्यूहस्तवः न धर्मं काममर्थं वा मोक्षं वा वरदेश्वर । प्रार्थये तव पादाब्जे दास्यमेवाभिकामये ॥ पुनः पुनर्वरान् दित्सुर्विष्णुर्मुक्तिं न याचितः । भक्तिरेव वृता येन प्रह्लादं तं नमाम्यहम् ॥ (पगे २५) यदृच्छया लब्धमपि विष्णोर्दाशरथेस्तु यः । नैच्छन्मोक्षं विना दास्यं तस्मै हनुमते नमः ॥ इति । पुनर्जितंतेस्तोत्रं च धर्मार्थकाममोक्षेषु नेच्छा मम कदाचन । तत्पादपङ्कजस्याधो जीवितं दीयतां मम ॥ इति । न च तादृशभगवत्प्रीत्या तत्तत्पुरुषार्थतिरस्कारोऽद्भुत इव । यस्यास्ति भक्तिर्भगवत्यकिञ्चना सर्वैर्गुणैस्तत्र समासते सुराः [भागवतम् ५.१८.१२] इति भक्तिस्वाभाविकभूतअकारुण्यगुणेनाप्यसौ श्रूयते । यथाह न कामयेऽहं गतिमीश्वरात्पराम् अष्टर्द्धियुक्तामपुनर्भवं वा । आर्तिं प्रपद्येऽखिलदेहभाजाम् अन्तःस्थितो येन भवन्त्यदुःखाः ॥ [भागवतम् ९.२१.१२] स्पष्टम् । न चात्र यथा दयावीरस्यास्य दयामात्रेणाप्यपरित्यागः । न तु सारासारत्वज्ञानेन । तथा उपस्थितमहार्थपरित्यागित्वाद्दान वीराणां तेषामपि भगवत्प्रीतिजनोत्साहमात्रेणेत्याशङ्क्यम् । सर्व तत्त्वानुभविनां परमार्थैकनिष्ठाग्रहाणां श्रीशुकदेवादीनामपि तत्रोदाहृतत्वाद् । तस्मादस्त्येव भगवत्प्रीतेः सर्वस्मादप्यपवर्गाद् उपादेयत्वम् ॥ ॥ ९.२१ ॥ रन्तिदेवः ॥ ३२ ॥ [३३] अतएवान्येषामपि वैदिकानां साधनानां सैव मुख्यं फलमिति निर्दिशति पूर्तेन तपसा यज्ञैर्दानैर्योगसमाधिना । राद्धं निःश्रेयसं पुंसां मत्प्रीतिस्तत्त्वविन्मतम् ॥ [भागवतम् ३.९.४१] टीका चन च मत्प्रीतेरप्यधिकं किञ्चिदस्ति इत्याहुः पूर्तादिभी राद्धं सिद्धं यन्निःश्रेयसं फलम् । तत्मत्प्रीतेरेवेति तत्त्वविदां मतमित्येषा । [३४] अन्यत्तु फलमतत्त्वविदां मतं तत्राह अहमात्मात्मनां धातः प्रेष्ठः सन् प्रेयसामपि । अतो मयि रतिं कुर्याद्देहादिर्यत्कृते प्रियः ॥ [भागवतम् ३.९.४२] आत्मनां रश्मिस्थानीयानां शुद्धजीवानामपि आत्मा मण्डलस्थानीयः परमात्माहम् । कृष्णमेनमवेहि त्वमात्मानमखिलात्मनाम् [भागवतम् १०.१४.५५] इति च वक्ष्यते । अतः प्रेयसामात्मनामपि प्रेष्ठः सन् निरवद्यः । येषामात्मनां कृते देहादिरर्थोऽपि प्रियो भवति । कुर्यात् सर्व एव कर्तुमर्हतीत्यर्थः । अतो मद्अज्ञानदोषेणैव न करोतीत्य् भावः ॥ ॥ ३.९ ॥ श्रीगर्भोदशायी ब्रह्माणम् ॥ ३३३४ ॥ [३५] अतएव शुद्धप्रीतिमत एव सर्वतः श्रैष्ठ्यमाह रजोभिः समसङ्ख्याताः पार्थिवैरिह जन्तवः । तेषां ये केचनेहन्ते श्रेयो वै मनुजादयः ॥ प्रायो मुमुक्षवस्तेषां केचनैव द्विजोत्तम । मुमुक्षूणां सहस्रेषु कश्चिन्मुच्येत सिध्यति ॥ मुक्तानामपि सिद्धानां नारायणपरायणः । सुदुर्लभः प्रशान्तात्मा कोटिष्वपि महामुने ॥ [भागवतम् ६.१४.३५] श्रेयः परलोकसुखसाधनं धर्मादि । मुच्येत जीवन्मुक्तओ भवति । जीवन्मुक्तस्य च यस्य भगवद्आद्य्अपराधो दैवान्न स्यात्स एव सिध्यति तत्तल्लक्षणामनित्मां मुक्तिं प्राप्नोति । आरुह्य कृच्छ्रेण परं पदं ततः पतन्त्यधोऽनादृत्ययुष्मद्अङ्घ्रयः ॥ [भागवतम् १०.२.३२] जीवन्मुक्ताः प्रपद्यन्ते पुनः संसारवासनाम् । यद्यचिन्त्यमहाशक्तौ भगवत्यपराधिनः ॥ [Bहागवतपरिशिष्ट] नानुव्रजति यो मोहाद्व्रजन्तं परमेश्वरम् । ज्ञानाग्निदग्धकर्मापि स भवेद्ब्रह्मराक्षसः ॥ इत्यादि भक्ति सन्दर्भे दर्शितप्रमाणेभ्यः । (पगे २६) तत्र जीवन्मुक्तानां सिद्ध मुक्तानां च याः कोटयस्तास्वपि नायं सुखापो भगवान् [भागवतम् १०.९.२१] इत्य् आदेः । मुक्तिं ददाति कर्हिचित्स्म न भक्तियोगम् [भागवतम् ५.६.१८] इत्यतश्च नारायणपरायणः सुदुर्लभ एव यतः स एव प्रशान्तात्मा प्रकृष्ट भगवत्तत्त्वनिष्ठावरिष्ठ इत्यर्थः । शमो मन्निष्ठता बुद्धेः [भागवतम् ११.१९.१६] इति श्रीभगवता स्वयं व्याख्यातत्वात् । ॥ ६.१४ ॥ राजा श्रीशुकम् ॥ ३५ ॥ [३६] अतएव प्रायेण मुनयो राजन्निवृत्ता विधिषेधतः । नैर्गुण्यस्था रमन्ते स्म गुणानुकथने हरेः ॥ [भागवतम् २.१.७] इत्यादित्रयेणात्मारामश्रेष्ठानां भक्तिं प्रदर्श्य तद्अभाववतां निन्दा तद्अश्मसारं हृदयं बतेदं [भागवतम् २.३.२४] इत्यादिना । अतएवाह तथापि ब्रूमहे प्रश्नांस्तव राजन् यथाश्रुतम् । सम्भाषणीयो हि भवानात्मनः शुद्धिमिच्छता ॥ [भागवतम् ७.१३.२३] शुद्धिं शुद्धभक्तिवासनारूपाम् । ॥ ७.१३ ॥ श्रीदत्तात्रेयः श्रीप्रह्लादम् ॥ ३६ ॥ [३७] अतएव वाग्गद्गदा द्रवते यस्य चित्तं रुदत्यभीक्ष्णं हसति क्वचिच्च । विलज्ज उद्गायति नृत्यते च मद्भक्तियुक्तो भुवनं पुनाति ॥ [भागवतम् ११.१४.२४] स्पष्टम् । [३८] तथा निरपेक्षं मुनिं शान्तं निर्वैरं समदर्शनम् । अनुव्रजाम्यहं नित्यं पूयेयेत्यङ्घ्रिरेणुभिः ॥ [भागवतम् ११.१४.१६] निरपेक्षं निष्किञ्चनभक्तम् । अतएव शान्तं क्षोभरहितमतएवान्यत्र निर्वैरं समदर्शनं च हेयोपादेयभावनारहितं मुनिं श्री नारदादिमनुव्रजामि । यतस्तस्य तादृशनिष्कपटभक्तिमयसाधुत्व दर्शनेन ममापि तत्र भक्तिविशेषो जायते । कथं गोपनीय इत्याह पूयेयेति । मद्भक्त्य्अनिष्कृतिदोषात्पवित्रितः स्यामिति भावेनेति भावः । ॥ ११.१४ ॥ श्रीभगवान् ॥ ३७३८ ॥ [३९] अतएवाह गुणैरलमसङ्ख्येयैर्माहात्म्यं तस्य सूच्यते ॥ वासुदेवे भगवति यस्य नैसर्गिकी रतिः ॥ [भागवतम् ७.४.३६] तस्य श्रीप्रह्लादस्य । ॥ १.४ ॥ श्रीशुकः ॥ ३९ ॥ [४०] तस्मात्प्रीतेरेवे पुरुषार्थश्रेष्ठत्वं सिद्धम् । यथाहुर्गद्येन अथ ह वाव तव महिमामृतरससमुद्रविप्रुषा सकृदवलीढया स्व मनसि निष्यन्दमानानवरतसुखेन विस्मारितदृष्टश्रुतविषयसुख लेशाभासाः परमभागवता एकान्तिनो भगवति सर्वभूतप्रियसुहृदि (पगे २७) सर्वात्मनि नितरां निरन्तरं निर्वृतमनसः कथमु ह वा एते मधुमथन पुनः स्वार्थकुशला ह्यात्मप्रियसुहृदः साधवस्त्वच् चरणाम्बुजानुसेवां विसृजन्ति न यत्र पुनरयं संसारपर्यावर्तः [भागवतम् ६.९.३९] इति । सकृदपि इति चित्तं ब्रह्मसुखस्पृष्टं नैवोत्तिष्ठेत कर्हिचित्[भागवतम् ७.१५.३५] इति वदत्रापि सूचितम् । आत्मा त्वमेव प्रियः सुहृच्च येषां ते । ॥ ६.९ ॥ देवाः श्रीपुरुषोत्तमम् ॥ ४० ॥ [४१] अतएवाह तस्यैव हेतोः प्रयतेत कोविदो न लभ्यते यद्भ्रमतामुपर्यधः । तल्लभ्यते दुःखवदन्यतः सुखं कालेन सर्वत्र गभीररंहसा ॥ न वै जनो जातु कथञ्चनाव्रजेन् मुकुन्दसेव्यन्यवदङ्ग संसृतिम् । स्मरन्मुकुन्दाङ्घ्र्य्उपगूहनं पुनर् विहातुमिच्छेन्न रसग्रहो जनः ॥ [भागवतम् १.५.१८१९] स्पष्टम् । ॥ १.५ ॥ श्रीनारदः ॥ ४१ ॥ [४२] तथा भजन्त्यथ त्वामत एव साधवो व्युदस्तमायागुणविभ्रमोदयम् । भवत्पदानुस्मरणादृते सतां निमित्तमन्यद्भगवन्न विद्महे ॥ [भागवतम् ४.२०.२९] टीका च यतस्त्वं दीनवत्सलः अतएव साधवो निष्कामा । अथ ज्ञानान्तरमपि त्वां भजन्ति । कथम्भूतम् । मायागुणानां विभ्रमो विलासः तस्योदयः कार्यं स निरस्तो यस्मिन् तम् । ते किमर्थं भजन्ति ? तत्राह भवत्पदानुस्मरणादिना अन्यत्तेषां फलं न विद्महे इत्येषा । ॥ ४.२० ॥ पृथुः श्रीविष्णुम् ॥ ४२ ॥ [४३] तस्मात्तत्तद्भक्तानां तत्प्रीतिमनोरथ एवोपादेयः । तदन्यस्तु सर्वोऽपि हेय इत्याह सुखोपविष्टः पर्यङ्के रामकृष्णोरु मानितः । लेभे मनोरथान् सर्वान् पथि यान् स चकार ह ॥ किमलभ्यं भगवति प्रसन्ने श्रीनिकेतने । तथापि तत्परा राजन्न हि वाञ्छन्ति किञ्चन ॥ [भागवतम् १०.३९.१२] सोऽक्रूरः । यान् किं मयाचरितं भद्रं किं तप्तं परमं तपः । किं वाथाप्यर्हते दत्तं यद्द्रक्ष्याम्यद्य केशवम् ॥ [भागवतम् १०.३८.३] इत्यादिभक्तिवासनामयान् । ननु मुक्त्य्आदिकमपि कथं न प्रार्थितम् । तत्राह किमलभ्यमिति । ॥ १०.३९ ॥ श्रीशुकः ॥ ४३ ॥ [४४] यथैवाह पुनश्च भूयाद्भगवत्यनन्ते रतिः प्रसङ्गश्च तद्आश्रयेषु । महत्सु यां यामुपयामि सृष्टिं मैत्र्यस्तु सर्वत्र नमो द्विजेभ्यः ॥ [भागवतम् १.१९.१६] सृष्टिं जन्म, अन्यत्र तु सर्वत्र मैत्री अविष्मा दृष्टिरस्तु । ब्राह्मणेषु त्वादरविशेषोऽस्त्वित्याह नम इति । ॥ १.१९ ॥ राजा ॥ ४४ ॥ [४५] अतएवाह न वै मुकुन्दस्य पदारविन्दयो रजोजुषस्तात भवादृशा जनाः । वाञ्छन्ति तद्दास्यमृतेऽर्थमात्मनो यदृच्छया लब्धमनःसमृद्धयः ॥ [भागवतम् ४.९.३६] यदृच्छया अनायासेनैव लब्धा मनः समृद्धिर्येषां ते । स्वतो भक्ति माहात्म्यबलेन सर्वपुरुषार्थप्रतीक्षितकृपादृष्टिलेशा अपीत्यर्थः । एतद्अनुसारेण नैच्छन्मुक्तिपतेर्मुक्तिं तेन तापमुपेयिवान् [भागवतम् ४.९.२९] इत्यत्र श्रीध्रुवमुद्दिश्य पूर्वोक्तेऽपि पद्ये मुक्तिशब्देन दास्यमेव वाच्यम् । तदुक्तं विष्णोरनुचरत्वं हि मोक्षमाहुर्मनीषिणः [ড়द्मড়् ६] इति । ॥ ४.९ ॥ श्रीमैत्रेयः ॥ ४५ ॥ (पगे २८) [४६] एतदेवान्यनिन्दाशुद्धभक्तस्तवाभ्यां द्रढयति गद्यपञ्चकेन यत्तद्भगवतानधिगतान्योपायेन याच्‘आच्छलेनापहृतस्व शरीरावशेषितलोकत्रयो वरुणपाशैश्च सम्प्रतिमुक्तो गिरिदर्यां चापविद्ध इति होवाच । नूनं बतायं भगवानर्थेषु न निष्णातो योऽसाव् इन्द्रो यस्य सचिवो मन्त्राय वृत एकान्ततो बृहस्पतिस्तमतिहाय स्वयम् उपेन्द्रेणात्मानमयाचतात्मनश्चाशिषो नो एव तद्दास्यमतिगम्भीर वयसः कालस्य मन्वन्तरपरिवृत्तं कियल्लोकत्रयमिदम् । यस्यानुदास्यमेवास्मत्पितामहः किल वव्रे न तु स्वपित्र्यं यद् उताकुतोभयं पदं दीयमानं भगवतः परमिति भगवतोपरते खलु स्वपितरि । तस्य महानुभावस्यानुपथममृजितकषायः को वास्मद् विधः परिहीणभगवद्अनुग्रह उपजिगमिषतीति ॥ [भागवतम् ५.२४.२३२६] टीका च तस्यैकान्तभक्तिं सप्रपञ्चमाह इत्यादिका । यत्तद् अतिप्रसिद्धम् । इति एतदुवाच श्रीबलिः । तमुपेन्द्रं प्रति । अतिहाय पुरुषार्थत्वेनानभिलष्य । स्वयमुपेन्द्रेणैव द्वारभूतेन आत्मानं मां परमक्षुद्रं प्रति परमक्षुद्रं लोकत्रयमयाचत । अनुदास्यं नय मां निजभृत्यपार्श्वम् [भागवतम् ७.९.२४] इत्यनेन तद्दासदास्यम् । स्व पित्र्यं त्रैलोक्यराज्यम् । यदुत अकुतोभयं पदं मोक्षम् । तन्न तु वव्रे । कथं भगवतः परमन्यदिदमिति कृत्वा । तद्अंशाभासस्तद् अंशमात्रात्मकत्वात्तयोः । कदैवं व्यवहृतमित्याशङ्क्याह भगवतेति । ॥ ५.२४ ॥ श्रीशुकः ॥ ४६ ॥ [४७] अतएवान्यसुखदुःखनैरपेक्ष्येणैव शुद्धत्वं भक्तानामिति सिद्धम् । तदुक्तं नारायणपराः सर्वे [भागवतम् ६.१७.२८] इत्यादि । श्रीभगवान् अपि तथाविधानुकम्प्यानां सर्वमन्यद्दूरीकरोति । यथोक्तं स्वयमेव ब्रह्मन् यमनुगृह्णामि तद्द्विषो विधुनोम्यहम् [भागवतम् ८.२२.२४] इति । यथाह त्रैवर्गिकायासविघातमस्मत् पतिर्विधत्ते पुरुषस्य शक्र । ततोऽनुमेयो भगवत्प्रसादो यो दुर्लभोऽकिञ्चनगोचरोऽन्यैः ॥ [भागवतम् ६.११.२३] पुरुषस्य स्वात्यन्तिकभक्तस्य यदि कथञ्चित्त्रैवर्गिकायास आपतति तदा स्वयमेव तद्विघातं विधत्त इत्यर्थः । अकिञ्चनस्तु गोचरो विषयो यस्येत्यनेन मोक्षआयास्यापि विघातविधानं व्यञ्जितम् । अकिञ्चन शब्दस्य शुद्धभक्त्य्अर्थत्वं हि भक्तिसन्दर्भे दर्शितम् । ॥ ६.११ ॥ श्रीमान् वृत्रः शत्रुम् ॥ ४७ ॥ [४८] तदेवं तादृशानामपि यदि कदाचिदन्यत्प्रार्थनं दृश्यते तदा तत्प्रीति सेवोपयोगितयैव न तु स्वार्थत्वेन तदिति मन्तव्यम् । यथा यक्ष्यति त्वां मखेन्द्रेण राजसूयेन पाण्डवः । पारमेष्ठ्यकामो नृपतिस्तद्भवाननुमोदताम् ॥ [भागवतम् १०.७०.४१] इति । परमेष्ठिशब्देनात्र श्रीद्वारकापतिरुच्यते । यथा पृथुकोपाख्याने तावच्छ्रीर्जगृहे हस्तं तत्परा परमेष्ठिनः । [भागवतम् १०.८१.१०] इति । ततः पारमेष्ट्यशब्देन द्वारकिश्वर्यमुच्यते । ततश्च पारमेष्ट्य काम इति तत्समानैश्वर्यं कामयमानः इत्यर्थः ।(पगे २९) तत्कामना च द्वारकावदिन्द्रप्रस्थेऽपि श्रीकृष्णनिवासनयोग्यसम्पत्तिसिद्ध्य् अर्थैव ज्ञेया नान्यार्था । तानुद्दिश्यैव किं ते कामाः सुरस्पार्हा मुकुन्दमनसो द्विजाः । अधिजह्रुर्मुदं राज्ञः क्षुधितस्य यथेतरे ॥ [भागवतम् १.१२.६] इत्याद्य्उक्तेः । श्रीभगवत्प्रसादत इहैव च तथैव तत्प्राप्तिरपि तस्य दृश्यते सभायां मयक्प्तायां क्वापि धर्मसुतोऽधिराट् । वृतोऽनुगैर्बन्धुभिश्च कृष्णेनापि स्वचक्षुषा ॥ आसीनः काञ्चने साक्षादासने मघवानिव । पारमेष्ठ्यश्रिया जुष्टः स्तूयमानश्च वन्दिभिः ॥ [भागवतम् १०.७५.३३३४] इत्य् अत्र । अत्र स्वचक्षुषेति विशेषणमपि तेषामनन्यकामत्वायोपजीव्यम् । यथा चक्षुष्मता जनेनानूजनागोचरसम्पत्तिविशेषश्चक्ष्ण्ड्रर्थमेव काम्यते कदाचित्तन्मुद्रणादौ तु स सर्वोऽपि वृथैव । तथा कृष्णनाथैर् अपीति भावः । तथोक्तं श्रीमत्पाण्डवानुद्दिश्य श्रीपरीक्षितं प्रति मुनिभिः न वा इत्यादौ येऽध्यासनं राजकिरीटजुष्ट्ं सद्यो जहुर् भगवत्पार्श्वकामा [भागवतम् १.१९.२०] इति । अतएव तद्भवाननुमोदितामिति नारदवाक्यानुसारेण परमैकान्तिषु श्रीभगवानपि तदनुमोदते । अन्यत्र च तथैव स्वयमाह यान् यान् कामयसे कामान्मय्यकामाय भामिनि । सन्ति ह्येकान्तभक्तायास्तव कल्याणि नित्यदा ॥ [भागवतम् १०.६०.५०] न विद्यते कामो यत्रेति विग्रहेन शुद्धप्रीतिमयभक्तिलक्षणोऽर्थः खल्वत्राकाम इत्युच्यते । अकामः सर्वकामो वा [भागवतम् २.३.१०] इत्यादौ भक्तिमात्रकाम इव । तथोक्तं भक्तिलक्षणं वदता श्रीप्रह्लादेन भृत्यलक्षणजिज्ञासुर्[भागवतम् ७.१०.३] इत्यादौ । तस्मादकामाय प्रीतिसेवा सम्पत्त्य्अर्थं यान् यानर्थान् कामयसे हे देवि ते तव नित्यलक्ष्मीदेवी रूपप्रेयसीत्वात्नित्यं सन्त्येवेति व्याख्येयम् । तत्रैकान्तभक्ताया इति स्वार्थकामनानिषेधः । कामिनीति मद्एककामिनीत्यर्थः । कल्याणीति तादृशसेवासम्पत्तेरविघ्नत्वं दर्शयतीति ज्ञेयम् । ॥ १०.६० ॥ श्रीभगवान् रुक्मिणीम् ॥ ४८ ॥ [४९] एवं सद्यो जहुर्भगवत्पार्श्वकामा इत्यत्र तत्सामीप्यकामनापि व्याख्येया । तत्प्रीतिविशेषातिशयवतां हि तेषां तत्कृतार्तिभरेणैव तत् स्फूर्तावप्यतृप्तौ सत्यां तत्सामीप्यप्राप्तेश्च तत्प्राप्तिविघातकंस सारबन्धनत्रोटनस्य च प्रार्थनं दृश्यते । पितृमातृप्रीत्य्एक सुखिनां विदूरबद्धानां बालकानामिव । यथाह त्रस्तोऽस्म्यहं कृपणवत्सल दुःसहोग्र संसारचक्रकदनाद्ग्रसतां प्रणीतः । बद्धः स्वकर्मभिरुशत्तम तेऽङ्घ्रिमूलं प्रीतोऽपवर्गशरणं ह्वयसे कदा नु ॥ [भागवतम् ७.९.१६] त्वद्बहिर्मुखव्यापारमयत्वाद्दुःखसहमनुशीलयितुमशक्यम् । त्वद्भक्तिविरोधिव्यापारमयत्वात्तूग्रं भयानकं यत्संसारचक्रं तस्माद्यत्कदनं लोकानां मनोदौस्थं तस्मादहं त्रस्तोऽस्मि त्वद् अभिमुखीभवितुं न पारय इत्यर्थः । एवमेव वक्ष्यते श्रीनारद उवाच भक्तियोगस्य तत्सर्वमन्तरायतयार्भकः । मन्यमानो हृषीकेशं स्मयमान उवाच ह ॥ श्रीप्रह्राद उवाच (पगे ३०) मा मां प्रलोभयोत्पत्त्या सक्तंकामेषु तैर्वरैः । तत्सङ्गभीतो निर्विण्णो मुमुक्षुस्त्वामुपाश्रितः ॥ [भागवतम् ७.१०.१२] इत्य् अनेन । यद्यप्येवं त्रस्तोऽस्मि तथाप्यहो ग्रसतां भगवद्विरोधित्वेन मादृश सर्वङ्गिलानामेषामसुराणां मध्ये स्वकर्मभिर्बद्धः सन् प्रणीतो निक्षिप्तोऽस्मि । ततस्तव विरहदूनतया इदं याचे । कदा नु प्रीतः सन् अपवर्गभूतमरणं शरणं तवाङ्घ्रिमूलं त्वसमीपं प्रति माम् आह्वास्यसीति ॥ ॥ ७.९ ॥ प्रह्लादः श्रीनृसिंहम् ॥ ४९ ॥ [५०] अतएव विष्णुपुराणे तस्य श्रीमत्प्रह्लादस्य केवलप्रीतिवरयां चापि नानेन विरुद्धा, यथा नाथ योनिसहस्रेषु येषु येषु व्रजाम्यहम् । तेषु तेष्वच्युता भक्तिरच्युतेऽस्तु सदा त्वयि ॥ या प्रीतिरविवेकानां विषयेष्वनपायिनी । त्वामनुस्मरतः सा मे हृदयान्नापसर्पतु ॥ कृतकृत्योऽस्मि भगवन् वरेणानेन यत्त्वयि । भवित्री त्वत्प्रसादेन भक्तिरव्यभिचारिणी ॥ धर्मार्थकामैः किं तस्य मुक्तिस्तस्य करे स्थिता । समस्तजगतां मूले यस्य भक्तिः स्थिरा त्वयि ॥ [Vइড়् १.२०.१८१९, २६२७] तत्र श्रीमत्परमेश्वरवाक्यमपि तथैव यथा ते निश्चलं चेतो मयि भक्तिसमन्वितम् । तथा त्वं मत्प्रसादेन निर्वाणं परमाप्स्यति ॥ [Vइড়् १.२०.२८] यथा येन प्रकारेण, तथा तेन प्रकारेणैव परं मदीयचरण सेवोचितत्वेन महदित्यर्थः । सेवानुरक्तमनसामभवोऽपि फल्गुर् [भागवतम् ५.१४.४४] इत्युक्तत्वात् । तथा वक्ष्यमाणाभिप्रायेणैवेतदाह अहं किल पुरानन्तं प्रजार्थो भुवि मुक्तिदम् । अपूजयं न मोक्षाय मोहितो देवमायया ॥ [भागवतम् ११.२.२८] सुतपोनाम्ना निजांशेनाहमनन्तमन्यत्र मुक्तिदमपि तल्लक्षण प्रजाप्रयोजनक एवापूजयम् । न तु मोक्षायापूजयम् । यतो देवे तस्मिन् तद्दर्शनोत्थिता या माया कृपा पुत्रभावस्तेन मोहितः । माया दम्भे कृपायां च इति विश्वप्रकाशात् । किलेति सूतीगृहे श्रीकृष्णवाक्यमपि प्रमाणीकृतम् । अथ यथा विचित्रव्यसनाद्[भागवतम् ११.२.९] इत्यादितद् वाक्यान्तरेषु च । व्यसनं श्रीकृष्णविच्छेदहेतुः । भयं भावितद् विच्छेदशङ्केति व्याख्येयम् । तत्र मन्येऽकुतश्चिद्[भागवतम् ११.२.३३] इत्यादि श्री नारदोदाहृतवाक्यमुत्तरं गम्यम् । अत्र हि विश्वशब्दादुक्तभय निवर्तनमपि प्रतिपद्यामहे । संवादान्ते त्वमप्येतान् [भागवतम् ११.५.४५] इत्य् आदिद्वयं चातिदेशेन साक्षात्श्रीकृष्णप्राप्तिगमकमेव तयोरिति । ॥ ११.२ ॥ श्रीमद्आनकदुन्दुभिः श्रीनारदम् ॥ ५० ॥ [५१] तदेवं तेषां तत्तत्प्रार्थनमपि तत्प्रीतिविलास एव । अत्रेदं तत्त्वम् एकान्तिनस्तावद्द्विविधाः अजातजातप्रीतित्वभेदेन । जातप्रीतयश्च त्रिविधाः । एके तदीयानुभवमात्रनिष्ठाः शान्तभक्तादयः । अन्ये तदीयदर्शनसेवनादिरसमयाः परिकरविशेषाभिमानिनः । स्वयं परिकरविशेषाश्च । तत्र तेषु अजातप्रतीतिभिः सर्वपुरुषार्थत्वेन तत् प्रीतिरेव प्रार्थनीया । अथ जातप्रीतिषु शान्तभक्तादयस्तु कदाचिद्दर्शनादिकं वा प्रार्थयन्ते सेवादिकं विनैव । तद्वासनाया अभावात् । सकृदपि कृपा दृष्ट्य्आदिलाभेन तृप्ताश्च भवन्ति । नातिक्षामं भगवतः स्निग्धापाङ्गविलोकनाद्[भागवतम् ७.१२.४६] इति श्रीकर्दमवर्णनात् । अतएव तत् सामीप्यादिकेऽपि तेषामनाग्रहः । ये तु तत्परिकर (पगे ३१) विशेषाभिमानिनस्ते खलु तत्तत्प्रीतिविशेषोत्कण्ठिनो यदा भवन्ति तदा तत्तत्सेवाविशेषेच्छया प्रार्थयन्त एव तत्सामीप्यादिकम् । तत्प्रार्थना च प्रीतिविलासरूपैव । पुष्णाति च तामिति गुण एव । यदा च तेषां दैन्येन तत्प्राप्त्य्असम्भावना जायते तदापि च तत्प्रीत्य्अविच्छेदमात्रं प्रार्थयन्ते । सोऽपि च गुण एव । यत्तु केवलसंसारमोक्षतत् सामीप्यानन्दविशेषप्रार्थनं प्रीतिविकारताशून्यं तत्पुनः सर्वथा केषांचिदप्येकान्तिनां नाभिरुचितम् । अतएव सर्वं मद्भक्तियोगेन [भागवतम् ११.२०.३३] इत्यादौ कथञ्चिद्भक्त्य्उपयोगित्वेनैवेति । एवं सालोक्यसार्ष्टि [भागवतम् ३.२९.१३] इत्यादौ । तेषां मध्ये सेवनं विना यत्तन्न गृह्णन्ति इति कथ्यते । तत्रैकत्वलक्षणं सायुज्यं तु स्वरूपत एव तद्विनाभूतम् । अन्यत्तु वासनाभेदेन । सारूप्यस्य तु सेवोपकारित्वं शोभाविशेषेण । श्री वैकुण्ठेऽपि तदीयनित्यसेवकानां तथैव तादृशत्वम् । लोकेऽपि किशोर विदग्धक्षितिपतिपुत्रैः समानरूपवयस्का सेवकाः सङ्गृहीता दृश्यन्ते श्लाघ्यन्ते च लोकैः । तस्माद्यथा तथा श्रीमत्प्रीतेरेव पुरुषार्थत्वम् इत्यायातम् । ते प्रीत्य्एकपुरुषार्थिनोऽपि भावविशेषेणान्यद्वाञ्छन्तु न वाञ्छन्तु वा स्वस्वभक्तिजात्य्अनुरूपा भक्तिपरिकराः पदार्थाः संसारध्वंसपूर्वकमुदयन्त एव । न ते कदाचिद्व्यभिरचन्ति च । तद् एतदुक्तम् अनिमित्ता भागवती भक्तिः सिद्धेर्गरीयसी । जरयत्याशु या कोशं निगीर्णमनलो यथा ॥ नैकात्मतां मे स्पृहयन्ति केचिन् मत्पादसेवाभिरता मद्ईहाः । येऽन्योन्यतो भागवताः प्रसज्य सभाजयन्ते मम पौरुषाणि ॥ पश्यन्ति ते मे रुचिराण्यम्ब सन्तः प्रसन्नवक्त्रारुणलोचनानि । रूपाणि दिव्यानि वरप्रदानि साकं वाचं स्पृहणीयां वदन्ति ॥ तैर्दर्शनीयावयवैरुदार विलासहासेक्षितवामसूक्तैः । हृतात्मनो हृतप्राणांश्च भक्तिर् अनिच्छतो मे गतिमण्वीं प्रयुङ्क्ते ॥ अथो विभूतिं मम मायाविनस्ताम् ऐश्वर्यमष्टाङ्गमनुप्रवृत्तम् । श्रियं भागवतीं वास्पृहयन्ति भद्रां परस्य मे तेऽश्नुवते तु लोके ॥ न कर्हिचिन्मत्पराः शान्तरूपे नङ्क्ष्यन्ति नो मेऽनिमिषो लेढि हेतिः । येषामहं प्रिय आत्मा सुतश्च सखा गुरुः सुहृदो दैवमिष्टम् ॥ [भागवतम् ३.२५.३३३९] इति । अण्वीं दुर्ज्ञेयां पार्षदलक्षणामित्यर्थः । तदेवं तत्क्रतुन्यायेन च शुद्धभक्तानामन्या गतिर्नास्त्येव । श्रुतिश्च यथा क्रतुरस्मिन् लोके पुरुषो भवति तथेतः प्रेत्य भवति [Bआऊ ३.१४.१] इति, क्रतुरत्र सङ्कल्प इति भाष्यकाराः । श्रुत्य्अन्तरं च स यथाकामो भवति तत् क्रतुर्भवति यत्क्रतुर्भवति तत्कर्म कुरुते यत्कर्म कुरुते तद् अभिसम्पद्यते [Bआऊ ४.४.६] इति । अन्यच्च यद्यथा यथोपासते तदेव भवन्ति इति । श्रीभगवत्प्रतिज्ञा च ये यथा मां प्रपद्यन्ते तांस् तथैव भजाम्यहम् [गीता ४.११] इति । तथैव ब्रह्मवैवर्ते यदि मां प्राप्तुमिच्छन्ति प्राप्नुवन्त्येव नान्यथा इति । तत्र श्रीव्रजदेवीनां सा गतिः श्रीकृष्णसन्दर्भे सङ्गमितैवास्ति । मयि भक्तिर्हि भूतानाममृतत्वाय कल्पते दिष्ट्या यदासीन्मत्स्नेहो भवतीनां मद्आपनः ॥ [भागवतम् १०.८२.४४] इत्य्आदिबलेन वचनान्तराणामर्थान्तरस्थापनेन च । तथैव ताः प्रति स्वयमभुपगच्छति सङ्कल्पो विदितः साध्व्यो भवतिनां मदर्चनम् । मयानुमोदितः सोऽसौ सत्यो भवितुमर्हति ॥ न मय्यावेशितधियां कामः कामाय कल्पते । (पगे ३२) भर्जिताः क्वथिता धाना प्रायो बीजाय नेष्यते ॥ [भागवतम् १०.२२.२५२६] मद्अर्चनं पतिभावमयमद्आराधनात्मको भवतीनां सङ्कल्पो विदितोऽनुमोदितश्च सन् सत्यः सर्वदा तादृशमद्अर्चनाव्यभिचारी भवितुमर्हति युज्यते एव । स च परमप्रेमवतीनां नान्यवत् फलान्तरापेक्षः किन्तु स्वयमेवास्वाद्यः । यतः न मय्यावेशितधियाम् इति । मय्यावेशितधियामेकान्तभक्तमात्राणां कामो मद्अर्चनात्मकः सङ्कल्पः कामाय फलान्तराभिलाषाय न कल्पते, किन्तु स्वयमेवास्वाद्यो भवतीत्यर्थः । तत्रार्थान्तरन्यासः भर्जिता इति । प्राय इति वितर्के । धाना भृष्टयवाः ताः स्वरूपत एव भर्जिताः पुनः स्वादविशेषार्थं धृतेन वा भर्जिता गुडादिभिः क्वथिताश्च सत्यो बीजाय बीजत्वाय नेशते न कल्पन्ते । यववत् ताभिरन्ययवफलनं नेष्यते किन्तु ता एवास्वाद्यन्त इत्यर्थः । तस्मात् तादृशमद्अर्चनमेव भवतीनां परमफलमिति भावः । यच्च विषयमहिम्ना शान्तिरेवासां भविष्यतीति शान्तानामुत्प्रेक्षितम् । तच्च ताभिः स्वयमेवानुभूयान्यविषयत्वेनैव इतररागविस्मारणमित्य् अनेन । श्रीकृष्णविषयत्वे तु तद्अशान्तिरेव दर्शिता सुरतवर्धनमित्य् अनेन । ॥ १०.२२ ॥ श्रीभगवान् व्रजकुमारीः ॥ ५१ ॥ [५२] तथा श्रीपट्टमहिष्य्आदीनां श्रीयादवादीनां च गतिस्तथैव सङ्गमितास्ति । एते हि यादवाः सर्वे मद्गणा एव भामिनि इत्यादि, रेमे रमाभिर्निजकामसम्प्लुत [भागवतम् १०.५९.४३] इत्यादिवचनबलेन । जयति जननिवासः [भागवतम् १०.९०.४८] इत्य्आदिस्फुटार्थदर्शनेन लीलान्तरस्यैन्द्र जालिकत्वात् । कूर्मपुराणगतसाक्षात्सीताहरणप्रत्याख्यायिमायिक सीताहरणाख्यानतुल्यत्वस्थापनाय च । तथैव तदीयनित्यगण विशेषाणां श्रीमत्पाण्डवानामपि गतिर्व्याख्येया । तत्र श्रीमद् अर्जुनस्य, यथा एवं चिन्तयतो जिष्णोः कृष्णपादसरोरुहम् । सौहार्देनातिगाढेन शान्तासीद्विमला मतिः ॥ वासुदेवाङ्घ्र्य्अनुध्यान परिबृंहितरंहसा । भक्त्या निर्मथिताशेष कषायधिषणोऽर्जुनः ॥ गीतं भगवता ज्ञानं यत्तत्सङ्ग्राममूर्धनि । कालकर्मतमोरुद्धं पुनरध्यगमत्प्रभुः ॥ विशोको ब्रह्मसम्पत्त्या सञ्छिन्नद्वैतसंशयः । लीनप्रकृतिनैर्गुण्यादलिङ्गत्वादसम्भवः ॥ [भागवतम् १.१५.२८३१} शान्ता चेतसि चक्षुषीव भगवद्आविर्भावेन दुःखरहिता । अतएव विमला तद्वृत्तिभूता ये कालुषविशेषास्तैरपि रहिता । वासुदेवेत्यादिनोत्तर पद्यद्वयेन तस्यैव विवरणम् । तत्रानुध्यानं पूर्वोक्ता चिन्तैव । कषायः पूर्वोक्तं मलमेव । मामेवैष्यसि [गीता १८.६५] इत्यन्तम् । कालो भगवल्लीलेच्छामयः । कर्म तल्लीला । तमस्तल्लीलावेशेन तद् अनुसन्धानम् । अध्यगमत्तन्महाविच्छेदस्य तस्यान्तेऽपि तथा तत् प्राप्तः पुनर्मामेवैष्यसि इत्येतद्वाक्यं यथार्थत्वेनानुभूतवान् । ततश्च कृतार्थोऽभवदित्याह विशोक इत्यादि । ब्रह्मसम्पत्त्या श्रीमन् नराकारपरब्रह्मसाक्षात्कारेण । संछिन्न इयं (पगे ३३) मम चेतसि स्फूर्तिरेव । साक्षात्कारस्त्वन्य इति द्वैते संशयो येन सः । तदा भगवत् प्राप्तौ नान्यवज्जन्मान्तरप्राप्तिकालसन्धिरप्यन्तरायोऽभवदित्य् आह लीनेति । लीना पलायिता प्रकृतिर्गुणकारणं यस्मादेवम्भूतं यन् नैर्गुण्यं तस्माद्धेतोः । गुणतत्कारणातीतत्वादित्यर्थः । तथैव अलिङ्गत्वात्प्राकृतशरीररहितत्वाच्च । असम्भवो जन्मान्तररहितः । तस्मादनन्तरं चक्षुष्य्आविर्भवतीत्येव विशेष इति भावः । अतः कलिं प्रति श्रीपरीक्षिद्वचनं चाग्रे यस्त्वं दूरं गते कृष्णे सह गाण्डीव धन्वना [भागवतम् १.१७.६] इति, एवं येऽध्यासनं राजकिरीटजुष्टं सद्यो जहुर् भगवत्पार्श्वकामाः [भागवतम् १.१९.२०] इति श्रीमुनिवृन्दवाक्यं च । तस्मात् सर्वेषां पाण्डवानां तदीयानां च सैव गतिः व्याख्येया । श्रीविदुरादीनां यमलोकादिगतिश्च तत्तद्अंशेनैव स्वस्वाधिकारपालनार्थं लीलया कायव्यूहेनेति ज्ञेयम् । तदित्थमेव श्रीभागवतभारतयोरविरोधः स्यादिति ॥ ॥ १.१५ ॥ श्रीसुतः ॥ ५२ ॥ [५३] अथ श्रीपरीक्षितो गतिश्च स वै महाभागवतः परीक्षिद् येनापवर्गाख्यमदभ्रबुद्धिः । ज्ञानेन वैयासकिशब्दितेन भेजे खगेन्द्रध्वजपादमूलम् ॥ [भागवतम् १.१८.१६] इत्यनेन दर्शिता । एवमेवाहुः सर्वे वयं तावदिहास्महेऽथ कलेवरं यावदसौ विहाय । लोकं परं विरजस्कं विशोकं यास्यत्ययं भागवतप्रधानः ॥ [भागवतम् १.१९.२१] लोकशब्देन चात्र नान्यल्लक्ष्यते । भगवत्पार्श्वकामा इति तेषामेवोक्ति स्वारस्यात् । श्रीभागवतप्रधान इति च । तस्मादन्ते चेद्ब्रह्मकैवल्यं मन्यते, तथापि क्रमभगवत्प्राप्तिरीत्या तद्अनन्तरं भगवत्प्राप्तिस् त्ववश्यं मन्येतैव । यथाजामिलस्य दर्शितम् । ॥ १.१९ ॥ श्रीमुनयः ॥ ५३ ॥ [५४] अथ सम्पद्यमानमाज्ञाय भीष्मं ब्रह्मणि निष्कले [भागवतम् १.९.४४] इत्य् अत्रापि पूर्ववदेव समाधानम् । किं वा निष्कलब्रह्मशब्देन मायातीतो नराकृतिपरब्रह्मभूतः श्रीकृष्ण एवोच्यते । तस्मिन् सम्पद्यमानता तत्सङ्गतिरेव । तथाह अधोक्षजालम्भमिहाशुभात्मनः शरीरिणः संसृतिचक्रशातनम् । तद्ब्रह्मनिर्वाणसुखं विदुर्बुधास् ततो भजध्वं हृदये हृद्ईश्वरम् ॥ [भागवतम् ७.७.३७] हृदये वर्तमानं हृदि भजध्वम् । ॥ ७.७ ॥ श्रीप्रह्लादोऽसुरबालकान् ॥ ५४ ॥ [५५] सा च कृतसङ्गतिस्तस्य प्रापञ्चिकागोचरतयापि कृष्णरूपेणैवानन्तधा प्रकाशमानस्य श्रीकृष्णस्यैव प्रकाशान्तरे सम्भवेत् । अन्यथा विजय सखे रतिरस्तु मेऽनवद्या [भागवतम् १.९.३३] इति सङ्कल्पानुरूपा फलप्राप्तिर् विरुध्येत । अथ श्रीपृथोर्गतिरपि श्रीपरीक्षिद्वदेव व्याख्येया । तस्यापि ब्रह्म धारणान्तरं ब्रह्मकैवल्यविलक्षणां श्रीकृष्णलोकप्राप्तिमेव तद् भार्याया अर्चिषो गतिदर्शनया सूचयन्ति अहो इयं वधूर्धन्या या चैवं भूभुजां पतिम् । सर्वात्मना पतिं भेजे यज्ञेशं श्रीर्वधूरिव ॥ सैषा नूनं व्रजत्यूर्ध्वमनु वैन्यं पतिं सती । पश्यतास्मानतीत्यार्चिर्दुर्विभाव्येन कर्मणा ॥ [भागवतम् ४.२३.२५२६] (पगे ३४) टीका च त्रयोविंशे सभार्यस्य वने नित्यसमाधितः । विमानमधिरुह्याथ वैकुण्ठगतिरीर्यते ॥ इत्येषा ॥ ॥ ४.२ ॥ देव्यः परस्परम् ॥ ५५ ॥ [५६] श्रीभागवतस्यान्ते भक्तिनिष्ठाया एव सूचितत्वात्नान्या गतिश्चिन्त्या । यथा तमुद्दिश्य तत्रापि इत्यादि गद्ये भगवतः कर्मबन्ध विध्वंसनश्रवणस्मरणगुणविवरणचरणारविन्दयुगलं मनसा विदधद्[भागवतम् ५.९.१] इत्यादि । स्पष्टम् ॥ ॥ ५.९ ॥ श्रीशुकः ॥ ५६ ॥ [५७] रहूगणमहिमानमुद्दिश्य च एवं हि नृप भगवद् आश्रिताश्रितानुभावः [भागवतम् ५.१३.२५] इति स्पष्टम् । ॥ ५.१३ ॥ श्रीशुकः ॥ ५७ ॥ [५८] यो दुस्त्यज [भागवतम् ५.१४.४४] इत्यादौ मधुद्विट् सेवानुरक्तमनसामभवोऽपि फल्गुः इति च । स्पष्टम् । ॥ ५.१४ ॥ श्रीशुकः ॥ ५८ ॥ [५९] अतो विष्णुपुराणाद्य्उक्ता ज्ञानिभरताद्याः कल्पभेदेनान्ये एव ज्ञेया । अधनोऽयं धनं प्राप्य माद्यन्नुच्चैर्न मां स्मरेत् । इति कारुणिको नूनं धनं मेऽभूरि नाददात् ॥ [भागवतम् १०.८१.२०] अभूर्यपि । यथा च नूनं ब्१ तैतन्मम दुर्भगस्य शश्वद्दरिद्रस्य समृद्धिहेतुः महाविभूतेरवलोकतोऽन्यो नैवोपपद्येत यदूत्तमस्य ॥ [भागवतम् १०.८१.३३] इत्यनन्तरम्, नन्वब्रुवाणो दिशते समक्षम् [भागवतम् १०.८१.३४] इत्यादिकं, किञ्चित्करोत्युर्व् अपि यत्स्वदत्तम् [भागवतम् १०.८१.३५] इत्यादिकं चोक्त्वा तद्गुणोद्दीपितप्रीतिराह तस्यैव मे सौहृदसख्यमैत्री दास्यं पुनर्जन्मनि जन्मनि स्यात् महानुभावेन गुणालयेन विषज्जतस्तत्पुरुषप्रसङ्गः ॥ [भागवतम् १०.८१.३६] निरुपाधिकोपकारमयं सौहृदम् । सहविहारितामयं तदेव सख्यम् । मैत्री स्निग्धत्वम् । दास्यं सेवकत्वमात्रमपि स्यात् । द्वन्द्वैक्यम् । महानुभावेन तेनैव । अतएव सा सम्पत्तिरपि भगवत्सेवार्थमेव तेन नियुक्तेत्यायातम् । ॥ १०.८१ ॥ श्रीदामविप्रः ॥ ५९६० ॥ [६१] तदेवं भगवत्प्रीतेरेव परमपुरुषार्थता स्थापिता । अथ तस्याः स्वरूपलक्षणं श्रीविष्णुपुराणे प्रह्लादेनातिदेशद्वारा दर्शितम् या प्रीतिरविवेकानां विषयेष्वनपायिनी । त्वामनुस्मरतः सा मे हृदयान्नापसर्पतु ॥ [Vइড়् १.२०.१९] इति । या यल्लक्षणा सा तल्लक्षणा इत्यर्थः । न तु या सैवेति वक्ष्यमाण लक्षणैक्यात् । तथापि पूर्वस्या मायाशक्तिवृत्तिमयत्वेन उत्तरस्याः स्वरूपशक्तिमयत्वेन भेदात् । एतदुक्तं भवति प्रीतिशब्देन खलु मृत्प्रमोदहर्सानन्दादिपर्यायं सुखमुच्यते । भावहार्द सौहृदादिपर्याया प्रियता चोच्यते । तत्र उल्लासात्मको ज्ञानविशेषः सुखम् । तथा विषयानुकूल्यात्मकस्तद्आनुकूल्यानुगततत्स्पृहातद् अनुभवहेतुकोल्लासमयज्ञानविशेषः प्रियता । अतएवास्यां सुखत्वेऽपि पूर्वतो वैशिष्ट्यम् । तयोः प्रतियोगिणौ च क्रमेण दुःखद्वेषौ । अतः सुखस्य उल्लासमात्रात्मकत्वादाश्रय एव (पगे ३५) विद्यते, न तु विषयः । एवं तत्प्रतियोगिनो दुःखस्य च प्रियतायास्त्वानुकूल्यस्पृहात्मकत्वाद् विषयश्च विद्यते । एवं प्रातिकूल्यात्मकस्य तत्प्रतियोगिनो द्वेषस्य च । तत्र सुखदुःखयोराश्रयौ सुष्ठुदुष्टकर्माणौ जीवौ । प्रियताद्वेषयोर् आश्रयौ प्रीयमाणद्विषन्तौ विषयौ च तत्प्रियद्वेष्यौ । तत्र प्रीत्य् अर्थानां क्रियाणां विषयस्याधिकरणत्वमेव दीप्त्य्अर्थवत् । द्वेषार्थानां तु विषयस्य कर्मत्वं हन्त्यर्थवत् । एतदुक्तं भवति कर्तुरीप्सिततमं खलु कर्म । ईप्सिततमत्वं च या क्रियारभ्यते साक्षात् तयैव साधयितुमिष्टतमत्वम् । साधनं चोत्पाद्यत्वेन विकार्यत्वेन संस्कार्यत्वेन प्राप्यत्वेन च सम्पादनमिति चतुर्विधम् । तस्मादन्तर्भूतण्यर्थो घो धातुः स एव सकर्मकः स्यात्, नान्यः । यथा घटं करोतीत्युक्ते घटे उत्पद्यते तम् उत्पादयतीति गम्यते । तण्डुलं पचतीति तण्डुलो विक्लिद्यति तं विक्लेदयतीत्य् आदि । सत्तादीप्त्य्आदीनां तु न तादृशत्वं गम्यत इत्यकर्मकत्वमेवेति । न च प्रीतेर्ज्ञानरूपत्वेन सकर्मकत्वमाशङ्क्यम् । चेततिप्रभृतीनां तद्विनाभावदर्शनात् । अतो ब्रह्मज्ञानवद्भूतरूपोऽयमर्थो, न च यज्ञादिज्ञानवद्भव्यरूपो विधिसापेक्ष इति सिद्धम् । तदेवं प्रीतिशब्दस्य सुखपर्यायत्वे प्रियतापर्यार्थत्वे च स्थिते या प्रीतिरविवेकानामित्यत्र तूत्तरत्रत्वमेव स्पष्टम् । न पूर्वत्वम् । पूर्वत्वे सति विषयेष्वनुभूयमानेषु या प्रीतिः सुखमित्यर्थः । उत्तरत्वे तु विषयेषु या प्रीतिः प्रियतेत्यर्थः । ततश्चानुभूयमानेष्वित्य् अध्याहारकल्पनया क्लिष्टा प्रतिपत्तिरिति । तदेवं पुत्रादिविषयकप्रीतेस्तद्आनुकूल्याद्य्आत्मकत्वेन भगवत् प्रीतेरपि तथाभूतत्वेन समानलक्षणत्वमेव । तत्र पूर्वस्या माया शक्तिवृत्तिमयत्वमिच्छा द्वेषः सुखं दुःखम् [गीता १३.६] इत्यादिना श्री गीतोपनिषद्आदौ व्यक्तमस्ति । उत्तरस्यास्तु स्वरूपशक्तिवृत्तिमयत्वम् अन्तिके दर्शयिष्यामः । तस्मात्साधु व्याख्यातं या यल्लक्षणा सा तल् लक्षणा इति । इयमेव भगवत्प्रीतिर्भक्तिशब्देनाप्युच्यते परमेश्वर निष्ठत्वात्पित्रादिगुरुविषयकप्रीतिवत् । अतएव तद्अव्यवहितपूर्वपद्ये भक्तिशब्देनैविपादाय प्रार्थितासौ नाथ योनिसहस्रेष्व्[Vइড়् १.२०.१८] इत्यादौ । अत्र या प्रार्थिता, सैव हि स्वरूपनिर्देशपूर्वकमुत्तरश्लोकेन या प्रीतिरित्यादिना विविच्य प्रार्थिता । अतएव न पौनरुक्त्यमपि । अतो द्वयोरैक्यादेव श्रीमत् परमेश्वरेणाप्यनुगृह्णता तयोरेकयोक्त्यैवानुभाषितं भक्तिर्मयि तवास्त्येव भूयोऽप्येवं भविष्यति [Vइড়् १.२०.२०] इति । तयोर्भेदे तु तद्वत्प्रीतिरप्यनुभाष्येत । अतएव हे माप लक्ष्मीपते सा विषयप्रीतिर्मम हृदयात्सर्पतु पलायतामिति विरक्तिप्रार्थना मयोऽर्थोऽपि न सङ्गच्छते । तस्या अप्यनुभाषणाभावात्नापसर्पत्विति प्रसिद्धपाठान्तर्विरोधाच्च । ततस्तद्भक्तेरपि तत्प्रीतिपर्यायत्वे स्थितेऽपि प्रीणातिवन्न भजतिः सर्वप्रत्ययान्त एव प्रीतिं [दृष्ट्वा] वदति प्र्योगादर्शनात्[प्रयोगदर्शनात्] । प्रयोगस्तु क्तिन्क्तप्रत्ययान्त एव दृश्यते । यदा च प्रीत्य्अर्थवृत्तिस्तदा प्रीणातिवदकर्मक एव भवतीति । तदेवं विषयप्रीति (पगे ३६) दृष्टान्तेन श्रीभगवद् विषयानुकूल्यात्मकस्तद्अनुगतस्पृहादिमयो ज्ञानविशेषस्तत्प्रीतिरिति लक्षितम् । विषयमाधुर्यानुभववत्भगवन्माधुर्यानुभवस्तु ततोऽन्यः । अतएव भक्तिर्विरक्तिर्भगवत्प्रबोधः [भागवतम् ११.२.४३] इति भेदेनाम्नातम् । भक्त्या त्वनन्यया शक्य अहमेवंविधोऽर्जुन । ज्ञातुं द्रष्टुं च तत्त्वेन प्रवेष्टुं च परंतप ॥ [ङीत ११.५४] अथैनं भगवत्प्रीतिं साक्षादेव लक्षयति सार्धेन देवानां गुणलिङ्गानामानुश्रविककर्मणाम् । सत्त्व एवैकमनसो वृत्तिः स्वाभाविकी तु या ॥ अनिमित्ता भागवती भक्तिः सिद्धेर्गरीयसी ॥ [भागवतम् ३.२५.३२] पूर्वं श्रद्धा रतिर्भक्तिरनुक्रमिष्यति [भागवतम् ३.२५.२५] इत्युक्तम् । अत्र यद्यपि रतिभक्त्योर्द्वयोरपि तारतम्यमात्रभेदयोः प्रीतित्वमेव तथापि प्रीत्य्अतिशयलक्षणायां प्रेमाख्यायां भक्तौ तदतिस्फुटं स्याद् इति कृत्वा भक्तिपदेन तामुपादाय लक्षयति । अर्थश्चायम् गुण लिङ्गानां गुणत्रयोपाधीनाम् । आनुश्रविकं श्रुतिपुराणादिगम्यं कर्माचरितं येषां ते तथोक्ताः । तेषां देवानां श्रीविष्णुब्रह्मशिवानां मध्ये सत्त्वे सान्निध्यमात्रेण सत्त्वगुणोपकारके स्वरूपशक्तिवृत्ति भूतशुद्धसत्त्वात्मके वा श्रीविष्णौ । एतच्चोपलक्षणम् । श्रीभगवद् आद्य्अनन्ताविर्भावेष्वेकस्मिन्नपीत्यर्थः । एवकारेण नेतरत्र न च तत्रापि चेतरत्रापि च । एकमनसः पुरुषस्य या वृत्तिस्तद्आनुकूल्यात्मको ज्ञानविशेषः । अनिमित्ता फलाभिसन्धिशून्या । स्वाभाविकी स्वरसत एव विषयसौन्दर्यादयत्नेनैव जायमाना न च बलादापाद्यमाना । सा भागघती भक्तिः प्रीतिरित्यर्थः । प्रीतिसम्बन्धादेवान्यस्या भक्तेः स्वाभाविकत्वं स्यात् । तस्माद्वृत्तिशब्देन प्रीतिरेवात्र मुख्यत्वेन ग्राह्येति । सा च सिद्धेर्मोक्षाद्गरीयसी इति । सालोक्यसार्ष्टि इत्यादि श्रवणात् । अतएव ज्ञानसाध्यस्यापि तिरस्कारप्रसिद्धेर्ज्ञानमात्र तिरस्कारार्थसिद्धेर्ज्ञानादिति व्याख्यानमसदृशम् । अत्र मोक्षाद् गरीयस्त्वत्वेन तस्या वृत्तेर्गुणातीतत्वं ततोऽपि घनपरमानन्दत्वं च दर्शितम् । ॥ ३.२५ ॥ श्रीकपिलदेवः ॥ ६१ ॥ [६२] अथ तदेव गुणातीतत्वादिकं दर्शयितुं पुनः प्रक्रिया । तत्र तस्यां भगवत्सम्बन्धिज्ञानरूपत्वेन तत्सम्बन्धिसुखरूपत्वेन च गुणातीतत्वं श्रीभगवतैव दर्शितम् कैवल्यं सात्त्विकं ज्ञानं रजो वैकल्पिकं च यत् । प्राकृतं तामसं ज्ञानं मन्निष्ठं निर्गुणं स्मृतम् ॥ [भागवतम् ११.२५.२४] इति । सात्त्विकं सुखमात्मोत्थं विषयोत्थं तु राजसम् । तामसं मोहदैन्योत्थं निर्गुणं मद्अपाश्रयम् ॥ [भागवतम् ११.२५.२९] इति च । एवमेव च श्रीप्रह्लादस्य सर्वाधधूननब्रह्मानुभवानन्तरं परमप्रेमोदयो दर्शितः । तथास्याः स्वाभाविकानिमित्ततद्भक्ति रूपत्वेन च निर्गुणत्वं सिद्धमस्ति । मद्गुणश्रुतिमात्रेण [भागवतम् ३.२९.११] इत्यादि श्रीकपिलदेववाक्येन । एतद्अनन्तरं च सालोक्य इत्य्आदिपद्ये सर्वाभ्योऽपि मुक्तिभ्यः परमानन्दरूपत्वं दर्शितम् । अन्येषु च तस्याः परमपुरुषार्थतानिर्णयवाक्येषु परितस्तदेव व्यक्तम् । तत्र यथा वर्णविधानम् [भागवतम् ५.१९.१८] इत्यादिगद्ये तस्या अपवर्गत्वनिर्देशेन गुणातीतत्वं नियत्वं च दर्शितम् । मुक्तिं ददाति कर्हिचिदित्यादौ मुक्ति दानमतिक्रम्यापि भगवत्प्रसादविशेषमयत्वेन तत्त्रयम् । (पगे ३७) वरान् विभो [भागवतम् ४.२०.२३] इत्यादिद्वयेऽपि कथं वृणीते गुणविक्रियात्मनाम् इत्यत्रागुणविकारत्वं तत एव नित्यत्वम् । न कामये नाथ [भागवतम् ४.२०.२४] इत्य् आदौ ततोऽप्यानन्दातिशयो दर्शितः । यस्यां वै श्रूयमानायाम् [भागवतम् १.७.७] इत्यादौ परमार्थवस्तुपर्तिपादकश्रीभागवतस्य फलत्वेनापि तत् त्रयम् । तत्रैवात्मारामाणामपि तत्सुखश्रवणेन ताद्दार्ढ्यम् । मायातीतवैकुण्ठादिवैभवगतानां तत्पार्षदानां तच्छ्रवणेन तु किमुत । तथैव तुष्टे च तत्र [भागवतम् ७.८.४२] इत्यादौ, किं तैर्गुणव्यतिकराद् इह ये स्वसिद्धाः धर्मादयः इत्युक्त्वा गुणातीतत्वं, किमगुणेन च काङ्क्षितेन इत्युक्त्वा मोक्षादपि परमानन्दरूपत्वं दर्शितम् । प्रत्यानीता [भागवतम् ७.८.४२] इत्यत्रान्यस्य कालग्रस्तत्वमुक्त्वा मुक्तेस्तस्याश् चाकाकग्रस्तत्वेन साम्येऽपि तस्या आनन्दाधिक्यमुक्तम् । एवं नात्यन्तिकं विगणयन्ति [भागवतम् ३.१५.४८] इत्यादौ, मत्सेवया प्रतीतं ते [भागवतम् ९.४.६७] इत्यादौ, या निर्वृतिस्तनुभृताम् [भागवतम् ४.९.१०] इत्यादि श्रीध्रुववाक्येऽपि योज्यम् । सर्वमेतत्यस्यामेव कवयः [भागवतम् ५.६.१७] इत्यादिगद्ये व्यक्तमस्ति । तत्रैव तया परया निर्वृत्या इत्यनेन साक्षादेव तस्या मोक्षादपि परमत्वमानन्दैकरूपत्वं च निगदेनैवोक्तमस्ति । किं बहुना परमानन्दैकरूपस्य सर्वानन्दकदम्बावलम्बस्य श्रीभगवतोऽप्य् आनन्दचमत्कारिता तस्याः प्रीतेः श्रूयते । यथोक्तं प्रीतः स्वयं प्रीतिम् अगाद्गायस्य [भागवतम् ५.१५.१३] इति । अथा चाह अहं भक्तपराधीनो ह्यस्वतन्त्र इव द्विज साधुभिर्ग्रस्तहृदयो भक्तैर्भक्तजनप्रियः यथा ह्यस्वतन्त्रो जीवः पराधीनो भवति तथैवाहं स्वतन्त्रोऽपि भक्त पराधीन इत्यर्थः । तत्र हेतुः भक्तज्नेषु प्रियः तत्प्रीति लाभेनातिप्रीतिमान् । [६३] भगवद्आनन्दः खलु द्विधा स्वरूपानन्दः स्वरूपशक्त्य्आनन्दश् च । अन्तिमश्च द्विधा मानसानन्द ऐश्वर्यानन्दश्च । तत्रानेन तदीयेषु मानसानन्देषु भक्त्य्आनन्दस्य साम्राज्यं दर्शितम् । स्वरूपानन्देषु ऐश्वर्यानन्देषु चाह पद्याभ्याम् नाहमात्मानमाशासे मद्भक्तैः साधुभिर्विना । श्रियं चात्यन्तिकीं ब्रह्मन् येषां गतिरहं परा ॥ [भागवतम् ९.४.६४] नाशासे न स्पृहयामि ॥ ॥ ९.४ । श्रीविष्णुर्दुर्वाससम् ॥ ६२६३ ॥ [६४] तथैव भक्तश्रेष्ठत्वेन श्रीमद्उद्धवं लक्ष्यीकृत्याह न तथा मे प्रियतम आत्मयोनिर्न शङ्करः । न च सङ्कर्षणो न श्रीर्नैवात्मा च यथा भवान् ॥ [भागवतम् ११.१४.१५] यथा भक्तत्वातिशयद्वारा भवान्मे प्रियतमः तथात्मयोनिर्ब्रह्मा पुत्रत्वद्वारा न प्रियतमः । न च शङ्करो गुणावतारत्वद्वारा, न च सङ्कर्षणो भ्रातृत्वद्वारा । न च श्रीर्जायात्वव्यवहारद्वारा । न चात्मा परमानन्दघनस्वरूपताद्वारेत्यर्थः । ॥ ११.१४ ॥ श्रीभगवान् ॥ ६४ ॥ [६५] अथ श्रुतौ भक्तिरेवैनं नयति, भक्तिरेवैनं दर्शयति भक्तिवशः पुरुषो भक्तिरेव भूयसी इति श्रूयते । तस्मादेवं विविच्यते । या चैवं भगवन्तं स्वानन्देन मदयति सा (पगे ३८) किं लक्षणा स्यादिति । न तावत् साङ्ख्यानामिव प्राकृतसत्त्वमयमायिकानन्दरूपा । भगवतो मायानभिभाव्यत्वश्रुतेः स्वतस्तृप्तत्वाच्च । न च निर्विशेषवादिनामिव भगवत्स्वरूपानन्दरूपा, अतिशयानुपपत्तेः । अतो नतरां जीवस्य स्वरूपानन्दरूपा, अत्यन्तक्षुद्रत्वात्तस्य । ततो ह्लादिनी सन्धिनी संवित्त्वय्येका सर्वसंश्रये । ह्लादतापकरी मिश्रा त्वयि नो गुणवर्जिते ॥ इति [Vइড়् १.१२.६९] इति विष्णुपुराणानुसारेण ह्लादिन्य्आख्यतदीयस्वरूपशक्त्य्आनन्दरूपर् वेत्यवशिष्यते । यया खलु भगवान् स्वरूपानन्दमनुभवति । यद् आनन्देनानन्दविशेषीभवति । ययैवं तं तमानन्दमन्यानप्य् अनुभावयतीति । अथ तस्या अपि भगवति सदैव वर्तमानतयातिशयानुपपत्तेस्त्वेवं विवेचनीयम् । श्रुतार्थान्यथानुपपत्त्य्अर्थापत्तिप्रमाणसिद्धत्वात्तस्या ह्लादिन्या एव कापि सर्वानन्दातिशायिनी वृत्तिर्नित्यं भक्तवृन्देष्वेव निक्षिप्यमाणा भगवत्प्रीत्य्आख्यया वर्तते । अतस्तद्अनुभवेन श्री भगवानपि श्रीमद्भक्तेषु प्रीत्य्अतिशयं भजत इति । अतएव तत्सुखेन भक्तभगवतोः परस्परमावेशमाह साधवो हृदयं मह्यं साधूनां हृदयं त्वहम् । मद्अन्यत्ते न जानन्ति नाहं तेभ्यो मनागपि ॥ [भागवतम् ९.४.६८] मह्यं मम । हृदयेन स्वस्य सामानाधिकरण्ये बीजमाह मद्अन्यद् इति । अत्यन्तावशेनैकतापत्त्या ज्वलल्लोहादावग्निव्यपदेशवदत्राप्य् अभेदनिर्देश इत्यर्थः । ॥ ९.४ ॥ श्रीविष्णुर्दुर्वाससम् ॥ ६५ ॥ [६६] तेनैव परस्परं वशवर्तित्वमाह अजित जितः सममतिभिः; साधुभिर्भवान् जितात्मभिर्भवता । विजितास्तेऽपि च भजताम्; अकामात्मनां य आत्मदोऽतिकरुणः ॥ [भागवतम् ६.१६.३४] टीका चहे अजित अन्यैरजितोऽपि भवान् साधुभिर्भक्तैर्जितः । स्वाधीन एव कृतः । यतो भवानतिकरुणः । तेऽपि च निष्कामा अपि भवता विजिताः । यो भवानकामात्मनामात्मानमेव ददाति इत्येषा । हरिभक्तिसुधोदये च प्रह्लादं प्रति श्रीमुखवाक्यम् सभयं सम्भ्रमं वत्स मद्गौरवकृतं त्यज । नैष प्रियो मे भक्तेषु स्वाधीनप्रणयी भव ॥ अपि मे पूर्णकामस्य नवं नवमिदं प्रियम् । निःशङ्कप्रणयाद्भक्तो यन्मां पश्यति भाषते ॥ सदा मुक्तोऽपि बद्धोऽस्मि भक्तेषु स्नेहरज्जुभिः । अजितोऽपि जितोऽहन्तैरवश्योऽपि वशीकृतः ॥ त्यक्तबन्धुजनस्नेहो मयि यं कुरुते रतिम् । एकस्तस्यास्मि स च मे न चान्योऽस्त्यावयोः सुहृत् ॥ तस्मात्साधु व्याख्यातं भगवत्प्रतीतिरूपा वृत्तिर्मायादिमयी न भवति । किं तर्हि स्वरूपशक्त्य्आनन्दरूपा यदानन्दपराधीनः श्री भगवानपीति । यथा च श्रीमती गोपालोत्तरतापनी श्रुतिः विज्ञानघन आनन्दघनः सच्चिद्आनन्दैकरसे भक्तियोगे तिष्ठति [ङ्टू २.७९] इति । ॥ ६.१६ ॥ चित्रकेतुः श्रीसङ्कर्षणम् ॥ ६६ ॥ (पगे ३९) [६७] तदेवं तस्याः स्वरूपलक्षणमुक्तम् । तटस्थलक्षणमप्याह स्मरन्तः स्मारयन्तश्च मिथोऽघौघहरं हरिम् । भक्त्या सञ्जातया भक्त्या बिभ्रत्युत्पुलकां तनुम् ॥ [भागवतम् ११.३.३१] स्पष्टम् । ॥ ११.३ ॥ श्रीप्रबुद्धो निमिम् ॥ ६७ ॥ [६८] तथा कथं विना रोमहर्षं द्रवता चेतसा विना । विनानन्दाश्रुकलया शुध्येद्भक्त्या विनाशयः ॥ [भागवतम् ११.१४.२३] टीका च रोमहर्षादिकं विना कथं भक्तिर्गम्यते भक्त्या च विना कथमाशयः शुद्धेदित्येषा । ॥ ११.१४ ॥ श्रीभगवान् ॥ ६८ ॥ [६९] तदेवं प्रीतेर्लक्षणं चित्तद्रवस्तस्य च श्रीरोमहर्षादिकम् । कथञ्चिज्जातेऽपि चित्तद्रवे रोमहर्षादिके वा न चेदाशयशुद्धिस्तदापि न भक्तेः सम्यग्आविर्भाव इति ज्ञापितम् । आशयशुद्धिर्नाम चान्य तात्पर्यपरित्यागः प्रीतितात्पर्यं च । अतएव अनिम्त्ता स्वाभाविकी [भागवतम् ३.२५.२३] च इति तद्विशेषणम् । यथाहाक्रूरमुद्दिश्य देहंभृतामियानर्थो हित्वा दम्भं भियं शुचम् । सन्देशाद्यो हरेर्लिङ्ग दर्शनश्रवणादिभिः ॥ [भागवतम् १०.३८.२७] टीका चननु किमर्थमेवं व्यलुठत् । नास्ति प्रेमसंरम्भे फ्लोद्देश इत्याह देहंभृतामिति । देहभाजामेतावानेव पुरुषार्थः । कंसस्य सन्देशमारभ्य हरेः लिङ्गदर्शनश्रवणादिभिर्योऽयमक्रूरस्य वर्णितः इत्येषा । अत्र दम्भं शुचं भयं हित्वा योऽयं जात इति योजनिकया चैवं गम्यते । यथाक्रूरस्य तत्र दम्भो नासीत् । न मय्युपैष्यन्यरिबुद्धिमच्युत [भागवतम् १०.३८.१८] इत्य्आदिचिन्तनात् । तथान्तःसुखान्तरतात्पर्यलक्षणो यदि दम्भो न स्यात्, यथा च कंसप्रतापितो यो बन्धुवर्गः, तत् प्रतापयितव्यश्च यः तस्य तस्य हेतोर्निजकुलरक्षावतीर्णश्रीकृष्ण पुरतो व्यञ्जितः शोको भीश्च तादृशावेशे हेतुर्नासीत् । तद्दर्शनाह्लाद [भागवतम् १०.३८.२६] इत्याद्य्उक्तेः । प्रेमविभिन्नधैर्यः ॥ १०.३८ ॥ श्रीशुकः ॥ ६९ ॥ [७०] लौकिकशुद्धप्रीतिनिदर्शनेनापि स्वयं तथैव द्रढयति मिथो भजन्ति ये सख्यः स्वार्थैकान्तोद्यमा हि ते । न तत्र सौहृदं धर्मः स्वार्थार्थं तद्धि नान्यथा ॥ भजन्त्यभजतो ये वै करुणाः पितरो यथा । धर्मो निरपवादोऽत्र सौह्र्दं च सुमध्यमाः ॥ [भागवतम् १०.३२.१७१८] स्पष्टम् । [७१] ततोऽपि स्वप्रीतेर्वैशिष्ट्यमाह नाहं तु सख्यो भजतोऽपि जन्तून् भजाम्यमीषामनुवृत्तिवृत्तये । यथाधनो लब्धधने विनष्टे तच्चिन्तयान्यन्निभृतो न वेद ॥ [भागवतम् १०.३२.२०] भजन्त्यभजत इत्यत्र न करुणादीनां दयनीयादिकर्तृक प्रीत्यास्वाकापेक्षा । तथा दयनीयादीनां करुणादिविषया या प्रीतिः सा करुणादिभजनजीवना स्यादित्यायाति । अत्र तु श्रीकृष्णस्य स्वभक्तेषु स्वप्रेमातिशयोदये प्रयत्नः । तद्उदये च सति तद्आस्वादाद्भक्त विषयकप्रेमचमत्कारोऽतिशयेन स्यादिति तद्भक्तानां च तत् कृतौदासीन्येऽपि प्रेम्नोरेव वृद्धिः स्यादिति वैशिष्ट्यमागतम् । ॥ १०.३२ ॥ श्रीभगवान् व्रजदेवीः ॥ ७०७१ ॥ (पगे ४०) [७२] सा च शुद्धा प्रीतिः श्रीमतो वृत्रस्य दृश्यते । यथा अहं हरे तव पादैकमूल दासानुदासो भवितास्मि भूयः । मनः स्मरेतासुपतेर्गुणांस्ते गृणीत वाक्कर्म करोतु कायः ॥ [भागवतम् ६.११.२४] न नाकपृष्ठम् [भागवतम् ६.११.२५] इत्यादि । अजातपक्षा इव मातरं खगाः स्तन्यं यथा वत्सतराः क्षुध्आर्ताः । प्रियं प्रियेव व्युषितं विषण्णा मनोऽरविन्दाक्ष दिदृक्षते त्वाम् ॥ ममोत्तमश्लोकजनेषु सख्यं संसारचक्रे भ्रमतः स्वकर्मभिः । त्वन्माययात्मात्मजदारगेहेष्व् आसक्तचित्तस्य न नाथ भूयात् ॥ [भागवतम् ६.११.२६२७] अजातेति अत्राजातपक्षा इत्यनेनानन्याश्रयत्वं तद्अनुगमनासमर्थत्वं च । तथा तत्सहितेन मातरमित्यनेन अनन्यस्वाभाविकदयालुत्वं तदीयदयाधिक्यं च व्यञ्जितम् । तेन तेन च मातरि तेषामपि प्रीत्य् अतिशयो दर्शितः । ततस्तत्साम्येन तद्वदात्मनोऽपि भगवति प्रीत्याधिक्य हेतुका दिदृक्षा व्यञ्जिता । तथापि तन्मात्रा यद्वस्त्व्अन्तरमुपक्रियते तद् एव तेषामुपजीव्यमास्वाद्यं चेति केवलतन्निष्ठत्वाभावादपरितोषेण दृष्टान्तरमाह स्तन्यमिति । अत्र दिदृक्षायोजनार्थं मातरमित्य् एवानुवर्तयितव्ये स्तन्यमित्युक्तिस्तस्यास्तैस्तद्अंशतया च तद्अभेद विवक्षार्था । ततः स्तन्यं स्तन्यरूपतद्अंशमयीं मातरमित्येव लब्धे तादृशी मातैव तैरुपजीव्यते आस्वाद्यते चेति पूर्वतः श्रैष्ठ्यं दर्शितम् । तथा वत्सतरा अत्यन्तबालवत्सास्तत एव स्वामिबद्धतया तद् अनुगतावसमर्था इति साधारण्येऽपि बहुसमयातिक्रमात्क्षुधार्ताइत्य् अनेन पूर्वतो वैशिष्ट्यम् । तथा गोजातेः स्नेहातिशयस्वाभाव्येन च तद् अनुसन्धेयम् । अथ तथाप्युत्तरदृष्टान्ते स्तन्यगवोः कार्यकारणभावेन भेदं वितर्क्यदृष्टान्तद्वयेऽप्यजातपक्षत्वादिविशेषणैरायत्यां तादृश प्रीतेरस्थिरतां चालोक्य दृष्टान्तान्तरमाह प्रियमिति । सत्स्वपि वाचकान्तरेषु तयोः प्रियशब्देनैव निर्देशात्स्वाभाविकाव्यभिचारि प्रीतिमन्तावेव तौ गृहीतौ । यत्र वार्धक्ये बाल्येऽपि सहमरणादिकं दृश्यते ततस्तादृशी कापि प्रिया यथा तादृशं प्रियं व्युषितं विदूरप्रोषितं सन्तमनन्योपजीवित्वेन विषण्णा सती दिदृक्षते लोचनद्वारा तदास्वादाय भृशमुत्कण्ठते, तथा मम मनोऽपि त्वामित्यर्थः । अत्र दार्ष्टान्तिकेऽपि स्वकर्तृत्वमनुक्त्वा मनःकर्तृत्वोल्लेखेनाबुद्धि पूर्वकप्रवृत्तिप्राप्तौ प्रीतेः स्वाभाविकत्वेनाव्यभिचारित्वं व्यक्तम् । तथारविन्दाक्षेति मनसो भ्रमरतुल्यासूचनेन भगवतः परम मधुरिमोल्लेखेन च तस्यैवोपजीव्यत्वमास्वाद्यत्वं च दर्शितम् । अथ तद्दर्शनभाग्यं स्वस्यासम्भवयन्निदमपि मम स्यादिति स बाष्पमाह ममोत्तमेति । तदेतच्छुद्धप्रेमोद्गारमयत्वेनैव श्रीमद्वृत्रवधोऽसौ विलक्षणत्वाच्छ्रीभागवतलक्षणेषु पुराणान्तरेषु गण्यते । वृत्रासुरवधोपेतं तद्भागवतमिष्यते [आग्निড়्] इति । ॥ ६.११ ॥ श्रीवृत्रः ॥ ७२ ॥ [७३] तस्मात्केवलतन्माधुर्यतात्पर्यत्वेनैव प्रीतित्वे सिद्धे तात्पर्यान्तरादौ सति प्रीतेरस्मयग्आविर्भाव इति सिद्धम् । स च द्विविधः । तद्आभासस्यैवोदयः ईषद्उद्गमश्च । अन्त्यश्च द्विविधः । कदाचिद् उद्भवत्तच्छविमात्रत्वं तस्या एवोदयावस्था च । तत्र यत्रान्य तात्पर्यं तत्र तद्आभासत्वम् । यत्र प्रीतितात्पर्याभावस्तत्र कदाचिद् उद्भवत्तच् (पगे ४१) छविमात्रत्वम् । यत्र तत्तात्पर्यमन्यासङ्गस् तु दैवात्तत्र तस्या उदयावस्था च । अन्यासङ्गस्य गौणत्वम् । तच्च द्विविधम् । नष्टप्रायत्वमाभासमात्रत्वं च । तयोः पूर्वत्र तस्याः प्रथमोदयावस्था । उत्तरत्र प्रकटोदयावस्था । तस्मात्प्रथमोदय पर्यन्त एवासम्यग्आविर्भावः । प्रकटोदयस्य तु सम्यक्त्वमेव । यत्र त्वन्यासङ्ग एव न विद्यते तत्र दर्शितप्रभावनामान आविर्भावा ज्ञेयाः । तत्र प्रकटोदयमारभ्यैव भक्त्य्आरब्धेऽपवर्गे जीवन् मुक्ताः । प्राप्तायां भगवत्पार्षदतायां परममुक्ताः । नित्यपार्षदास् तु नित्यमुक्ता ज्ञेयाः । तत्राभासमाह एवं हरौ भगवति प्रतिलब्धभावो भक्त्या द्रवद्धृदय उत्पुलकः प्रमोदात् । औत्कण्ठ्यबाष्पकलया मुहुरर्द्यमानस् तच्चापि चित्तबडिशं शनकैर्वियुङ्क्ते ॥ [भागवतम् ३.२८.३४] एवं पूर्वोक्तयोगमिश्रभक्त्य्अनुष्ठानेन हरौ प्रतिलब्धभावो भवति । तत्र लिङ्गं भक्तेत्यादि । भक्त्या स्मरणादिना अपि एवमपि लब्ध ध्येयमधुरत्वस्य भावेन तादृशतापन्नं तस्य चित्तं शनकैर्वियुङ्क्ते विमुक्तमपि भवति । येन योगाङ्गतया भक्तिरनुष्ठिता, तस्मात् कैवल्येच्छाकैतव्दोषादेवेति भावः । यथोक्तं धर्मः प्रोज्झितः कैतवोऽत्र परमः [भागवतम् १.१.२] इत्यत्र प्रशब्देन मोक्षाभिसन्धिरपि कैतवमिति । अतएव बडिशशब्देन काठिन्यमरसवित्त्वं दाम्भिकत्वं स्वार्थमात्रसाधनत्वं च व्यञ्जितम् । शुद्धभक्तास्तु न कदाचित्तया तं ध्येयं त्यजन्ति । यथोक्तं राज्ञा धौतात्मा पुरुषः कृष्ण पादमूलं न मुञ्चति । मुक्तसर्वपरिक्लेशः पान्थः स्वशरणं यथा ॥ [भागवतम् २.८.६] इति । श्रीनारदेन च न वै जनो जातु कथञ्चनाव्रजेन् मुकुन्दसेव्यन्यवदङ्ग संसृतिम् । स्मरन्मुकुन्दाङ्घ्र्य्उपगूहनं पुनर् विहातुमिच्छेन्न रसग्रहो जनः ॥ [भागवतम् १.५.१९] इति । यो रसग्रहः स तु न त्यजतीत्यनेनान्येषां लौहपाषाणादितुल्यत्वं सूचितम् । न तु भगवानपि ततोऽन्यथा कुर्यात् । यदुक्तं श्रीब्रह्मणा भक्त्या गृहीतचरणः परया च तेषां नापैषि नाथ हृदयाम्बुरुहात्स्वपुंसाम् ॥ [भागवतम् ३.९.५] इति । अतएव पूर्वत्र स्वपुंसामित्यत्र स्वेति विशेषणम् । तदेवम् आभासोदाहरणे श्रीकपिलदेवस्यैव वाक्यं भक्त्या पुमान् जातविरागः [भागवतम् ३.२५.२६] इत्यादिकमपि ज्ञेयम् । तथा हि, अस्य पूर्वत्र श्रद्धा रतिर् भक्तिरनुक्रमिष्यति [भागवतम् ३.२५.२५] इति भक्तिमात्रं दर्शितम् । उत्तरत्र तस्या लक्षणे पृष्टे तल्लक्षणं वदतानेन भक्तिर्सिद्धेर्गरीयसी [भागवतम् ३.२५.३२] इति । नैकात्मतां मे स्पृहयन्ति केचिद्[भागवतम् ३.२५.३४] इति च मोक्ष निरपेक्षतयैव तस्य मुख्याभिधेयत्वमुक्तम् । जरयत्याशु या कोषम् [भागवतम् ३.३५.३३] इति च मायाकोषध्वंसनस्य तु तद्आनुषङ्गिकगुणत्वम् उक्तम् । अत्र भक्त्या पुमानित्यादौ तु तादृश्या अपि तस्या भक्तेर्ज्ञानादि साहाय्येनैव मोक्षमात्रसाधकत्वमुक्त्वा गौणाभिधेयत्वमुक्तम् । तस्मादत्रापि तस्याः (पगे ४२) भक्तेराभास एव प्रथमतो दर्शितः । एवं दृष्ट्वा तमवनौ सर्व ईक्षणाह्लादविक्लवाः । दण्डवत्पतिता राज‘ छनैरुत्थाय तुष्टुवुः ॥ [भागवतम् ६.९.३] इत्यत्रापि वृत्राख्यशत्रुनाशस्वाराज्यप्राप्तितात्पर्यवतां देवानां भक्त्य्आभासत्वमुदाहार्यम् । ॥ ६.९ ॥ श्रीकपिलदेवः ॥ ७३ ॥ [७४] अथ कदाचिदुद्भवत्तच्छविमात्रत्वमाह सकृन्मनः कृष्णपदारविन्दयोर् निवेशितं तद्गुणरागि यैरिह । न ते यमं पाशभृतश्च तद्भटान् स्वप्नेऽपि पश्यन्ति हि चीर्णनिष्कृताः ॥ [भागवतम् ६.१.१९] रागो रञ्जनमात्रम्, न तु तद्गुणमाधुरीयाथार्थ्यज्ञानेन साक्षात् प्रीतिः । अतएव तत्र तात्पर्याभावात्सकृदपीत्युक्तम् । तथाप्यस्त्य् अजामिलादिभ्यो विशेष इत्याह न ते यममित्यादि । ॥ ६.१ ॥ श्रीशुकः ॥ ७४ ॥ [७५] अथ प्रथ्मोदयावस्थामाह यत्रानुरक्ताः सहसैव धीरा व्यपोह्य देहादिषु सङ्गमूढम् । व्रजन्ति तत्पारमहंस्यमन्त्यं यस्मिन्नहिंसोपशमः स्वधर्मः ॥ [भागवतम् १.१८.२२] अन्त्यं पारमहंस्यं भागवतपरमहंसत्वम् । तस्यानुषङ्गिको गुणः यस्मिन्निति । ॥ १.१८ ॥ श्रीसूतः ॥ ७५ ॥ [७६] प्रकटोदयावस्थां श्रीप्रियव्रतमधिकृत्याह प्रियव्रतो भागवतआत्मारामः कथं मुने । गृहेऽरमत यन्मूलः कर्मबन्धः पराभवः ॥ [भागवतम् ५.१.१] इत्यादेः । संशयोऽयं महान् ब्रह्मन् दारागारसुतादिषु । सक्तस्य यत्सिद्धिरभूत्कृष्णे च मतिरच्युता ॥ [भागवतम् ५.१.४] इत्यन्त्यस्य राजप्रश्नस्यानन्तरेण गद्येन बाढमुक्तं भगवत उत्तमश्लोकस्य श्रीमच्चरणारविन्दमकरन्द रस आवेशितचेतसो भागवतपरमहंसदयितकथां किञ्चिदन्तराय विहतां स्वां शिवतमां पदवीं न प्रायेण हिन्वन्ति [भागवतम् ५.१.५] इति । टीका चाङ्गीकृत्य परिहरति बाढमिति । बाढमभिनिवेशादिकं नास्तीति सत्यमेव तथापि विघ्नवशेन तेषां प्रवृत्तिः पूर्वाभ्यासबलेन पुनर् निवृत्तिश्च सङ्गच्छत इत्याह भगवत इत्यादिका । अतएवोक्तं पृथुं प्रति श्रीविष्णुना । दृष्टासु सम्पत्सु विपत्सु सूरयो; न विक्रियन्ते मयि बद्धसौहृदाः [भागवतम् ४.२०.२१] इति । अगस्त्यस्य चेन्द्रद्युम्ने स्वावमाननया न कोपः । किन्तु वैष्णवोचितमहद्आदरचर्यायाः परित्यागे शिक्षार्थमेव मन्तव्यः । तयोरनुग्रहार्थाय शापं दास्यन्न् इदं जगौ [भागवतम् १०.१०.७] इतिवत् । अथ परीक्षितो ब्राह्मणावमानना तु श्रीकृष्णस्य तद्व्याजेन स्वपार्श्व नयनेच्छातेव । तस्यैव मेऽघस्य परावरेशो व्यासक्तचित्तस्य गृहेष्वभीक्ष्णम् । निर्वेदमूलो द्विजशापरूपो यत्र प्रसक्तो भयमाशु धत्ते ॥ [भागवतम् १.१९.१४] इति तद्उक्तेः । एवमन्यत्रापि योजनीयम् । तस्माच्छ्रीप्रियव्रतस्यापि अभिनिवेशाद्य् आसङ्गाभासत्वमेवायातम् । तदपि दुःखदमेव तद्विधानामिति चाग्रे तन्निर्वेदेन दर्शयिष्यते अहो असाध्वनुष्ठितम् [भागवतम् ५.१.३७] इत्यादिना । ॥ ५.१ ॥ श्रीशुकः ॥ ७६ ॥ [७७] प्रकटोदयावस्थायाश्चिह्नान्तरमाह स उत्तमश्लोकपदारविन्दयोर् निषेवयाकिञ्चनसङ्गलब्धया । तन्वन् परां निर्वृतिमात्मनो मुहुर् दुःसङ्गदीनस्य मनः शमं व्यधात् ॥ [भागवतम् ७.४.४२] (पगे ४३) टीका चात्मनः परा निर्वृतिं तन्वन् दुःसङ्गदीनस्य अपि मनः शमं शान्तं व्यधायि इत्येषा । शमं स्वमनसस्तुल्यमिति वा व्याख्येयम् । ॥ ७.४ ॥ श्रीनारदो युधिष्ठिरं प्रति ॥ ७७ ॥ [७८] अथ दर्शितप्रभावास्तद्आविर्भावास्तु श्रीशुकदेवादिषु द्रष्टव्याः । यथा च श्रीनारदपञ्चरात्रे भावोन्मत्तो हरेः किञ्चिन्न वेद सुखमात्मनः । दुःखं चेति महेशानि परमानन्द आप्लुतः ॥ इति । तदेवं सभेदा प्रीत्याख्या भक्तिर्दर्शिता । एषा श्रीगीतोपनिषत्सु च स्वरूपद्वारा गुणद्वारा च कथिता अहं सर्वस्य प्रभवो मत्तः सर्वं प्रवर्तते । इति मत्वा भजन्ते मां बुधा भावसमन्विताः ॥ मच्चित्ता मद्गतप्राणा बोधयन्तः परस्परम् । कथयन्तश्च मां नित्यं तुष्यन्ति च रमन्ति च ॥ [गीता १०.८९] इति । अथ श्रीभगवत्प्रीतिलक्षणवाक्यानां निष्कर्षः । निखिलपरमानन्द चन्द्रिकाचन्द्रमसि सकलभुवनसौभाग्यसारसर्वस्वसत्त्व गुणोपजीव्यानन्तविलासमयामायिकविशुद्धसत्त्वानवरतोल्लासाद् असमोर्ध्वमधुरे श्रीभगवति कथमपि चित्तावतारादनपेक्षित विधिः स्वरसत एव समुल्लसन्ती विषयान्तरैरनवच्छेद्या तात्पर्यान्तरम् असहमाना ह्लादिनीसारवृत्तिविशेषस्वरूप भगवद्आनुकूल्यात्मकतद् अनुगततत्स्पृहादिमयज्ञानविशेषाकारा तादृशभक्तमनोवृत्तिविशेष देहा पीयूषपूरतोऽपि सरसेन स्वेनैव स्वदेहं सरसयन्ती भक्त कृतात्मरहस्यसङ्गोपननगुणमयरसनाबाष्पमुक्तादिव्यक्त परिष्कारा सर्वगुणैकनिधानस्वभावा दासीकृताशेषपुरुषार्थ सम्पत्तिका भगवत्पातिव्रत्यव्रतवर्यापर्याकुला भगवन् मनोहरणैकोपायहारिरूपा भगवति भागवती प्रीतिस्तमुपसेवमाना विराजत इति । सेयमखण्डापि निजालम्बनस्य भगवत आविर्भाव तारतम्येन स्वयं तारतम्येनैवाविर्भवति । तदेवं सति श्रीकृष्णस्यैव स्वयंभगवत्त्वेन तत्सन्दर्भे दर्शितत्वात् तत्रैव तस्या परा प्रतिष्ठिता । अतएव बाहुल्येन तत्प्रीतिपरिपाटीम् एवाधिकृत्य प्रक्रिया दर्शयितव्या । या च क्वचिदन्याधिकर्तव्या सा खलु कैमुत्येन तस्या एव पोषणार्थं ज्ञेया । अथ श्रीकृष्णे स्वयं भगवत्येवाविर्भावपूर्णत्वदर्शनेन तस्याः पूर्णत्वं दर्शयति अद्य नो जन्मसाफल्यं विद्यायास्तपसो दृशः । त्वया सङ्गम्य सद्गत्या यदन्तः श्रेयसां परः ॥ [भागवतम् १०.८४.२१] सतां त्वद्एकनिष्ठानां तद्विशेषाणां गत्या त्वया श्रीकृष्णआख्येन सङ्गम्य नोऽस्माकं वशिष्ठचतुःसनवामदेवमार्कण्डेयनारद कृष्णद्वैपायनादीनां ब्रह्मानुभवतां भगवदीयनानाभक्तिरस विदां दृष्टनानाभगवद्आविर्भावानामपि अद्य ईदृश प्राकट्यावच्छिन्नेऽस्मिन्नेवावसरे जन्मनः साफल्यं जातम् । यदेव साफल्यं पूर्वलब्धानां तत्तद्आविर्भावजाततत्तत्साफल्यरूपाणां श्रेयसां परमपुरुषार्थानां परोऽन्तरः परमोऽवधिरिति । ॥ १०.८४ ॥ महामुनयः श्रीभगवन्तम् ॥ ७८ ॥ (पगे ४४) [७९] एवमन्यत्रापि अथ ब्रह्मात्मजैर्देवैः प्रजेशैरावृतोऽभ्यगात् । भवश्च भूतभव्येशो ययौ भूतगणैर्वृतः ॥ [भागवतम् ११.६.१] इत्य्आदिकम् उपक्रम्याह व्यचक्षतावितृप्ताक्षः कृष्णमद्भुतदर्शनम् । [भागवतम् ११.६.५] इति । अत्राप्यद्भुतत्वं प्राकट्यान्तरापेक्षयैव ॥ ॥ ११.६ ॥ श्रीशुकः ॥ ७९ ॥ [८०] किं च यन्मर्त्यलीलौपयिकं स्वयोग मायाबलं दर्शयता गृहीतम् । विस्मापनं स्वस्य च सौभगर्द्धेः परं पदं भूषणभूषणाङ्गम् ॥ [भागवतम् ३.२.१२] स्वयोगमायाबलं स्वचिच्छक्तेर्वीर्यम् । एतादृशसौभाग्यस्यापि प्रकाशिकेयं भगवतीत्येवंविधं दर्शयताविष्कृतम् । सकलस्व वैभवविद्वद्गणविस्मापनायेति भावः । न केवलमेतावत्स्वस्यैव रूपान्तरे तादृशत्वाननुभवात् । तत्रापि प्रतिक्षणमप्यपूर्वप्रकाशात् स्वस्यापि विस्मापनम् । यतः सौभगर्द्धेः परं पदं परा प्रतिष्ठा । ननु तस्य भूषणं त्वस्ति सौभगहेतुरित्याह भूषणेति । कीदृशं मर्त्यलीलौपायिकं नराकृतीत्यर्थः । तस्मात्सुतरां युक्तमुक्तं श्री महाकालपुराधिपेनापि द्विजात्मजा मे युवयोर्दिदृक्षुणा मयोपनीताः [भागवतम् १०.८९.५८] इत्यादि । श्रीहरिवंशे श्रीकृष्णवचनेन च मद् दर्शनार्थं ते बाला हृतास्तेन महात्मना [ःV २.११४.८] इति । ॥ ३.२ ॥ श्रीमानुद्धवो विदुरम् ॥ ८० ॥ [८१] अतएव परीक्षिद्गुणवर्णने तद्गुणोपमात्वेनैकमेकं गुणं श्रीराम रमेशयोर्दर्शयित्वा सर्वसाद्गुण्योपमात्वेन श्रीकृष्णं दर्शयितुम् अत्यन्तोत्कर्षदृष्ट्याशङ्कमानैर्ब्राह्मणैः एष कृष्णमनुव्रतः [भागवतम् १.१२.२४] इत्येवोक्तम् । न तु स इवेति । अतएव परमप्रेमजनक स्वभावत्वमपि तस्य दृश्यते । विजयरथकुटुम्बः [भागवतम् १.९.३९] इत्यादौ, यमिह निरीक्ष्य हता गताः स्वरूपमित्यनन्तरं, ललितगतिविलासवल्गुहास प्रणयनिरीक्षणकल्पितोरुमानाः । कृतमनुकृतवत्य उन्मदान्धाः प्रकृतिमगन् किल यस्य गोपवध्वः ॥ [भागवतम् १.९.४०] तत्स्वभावमहिम्नः स्वारूप्यप्रापणत्वं नाम क्रियानुत्कर्षः । यत एतावतोऽपि प्रेम्नो जनकत्वं दृश्यत इत्याह ललितेति । अत्र कृतानुकरणं नाम लीलाख्यो नायिकानुभावः । तदुक्तं क्रियानुकरणं लीला [ऊण्१०.२८] इति । प्रकृतिं स्वभावम् । तादृशप्रेमावेशो जातः । येन तत्स्वभावनिज स्वभावयोरैक्यमेव तासु जातमित्यर्थः । यथा श्रीमद्उज्ज्वल नीलमणौ महाभावोदाहरणम् राधाया भवतश्च चित्तजतुनी स्वेदैर्विलाप्य क्रमात् युञ्जन्नद्रिनिकुञ्जकुञ्जरपते निर्धूतभेदभ्रमम् । चित्राय स्वयमन्वरञ्जयदिह ब्रह्माण्डहर्म्योदरे भूयोभिर्नवरागहिङ्गुलभरैः शृङ्गारकारुः कृती ॥ [ऊण्१५.१५५] इति । ॥ १.९ ॥ भीष्मः श्रीभगवन्तम् ॥ ८१ ॥ [८२] तथा यस्याननं मकरकुण्डलचारुकर्ण भ्राजत्कपोलसुभगं सविलासहासम् । नित्योत्सवं न ततृपुर्दृशिभिः पिबन्त्यो नार्यो नराश्च मुदिताः कुपिता निमेश्च ॥ [भागवतम् ९.२४.६५] (पगे ४५) टीका चतत्र प्रदर्शनार्थं मुखशोभामाह इत्यादिका । तद् दर्शनेऽपि निमेषकर्तृत्वेन निमेर्नियमे कुपिता बभूवुः । इयं खलु महाभावस्य गतिः । सा च तत्स्वभावतः सिद्धेत्यभिधानाद्युक्तम् अत्रास्योदाहरणम् । ॥ ९.२४ ॥ श्रीशुकः ॥ ८२ ॥ [८३] किं च का स्त्र्यङ्ग ते कलपदायत इत्यादौ यद्गोदिव्जद्रुममृगाः पुलकान्यभिभ्रन्न् [भागवतम् १०.२९.४०] इति । अन्यत्र च अस्पन्दनं गतिमतां पुलकस्तरूणाम् [भागवतम् १०.२९.४०] इत्यादि । अतएवोक्तं श्रीबिल्वमङ्गलेन सन्त्ववतारा बहवः पुष्करनाभस्य सर्वतोभद्राः । कृष्णादन्यः को वा लतास्वपि प्रेमदो भवति ॥ [KKआ २.८५] इति । ॥ १०.२९ ॥ श्रीव्रजदेव्यः श्रीभगवन्तम् ॥ ८३ ॥ [८४] तदेवं श्रीभगवद्आविर्भावतारतम्येन तत्प्रीतेराविर्भाव तारतम्यं दर्शितम् । अथ तस्या एव गुणान्तरोत्कर्षतारतम्येन तारतम्यान्तरं भेदाश्च दर्श्यन्ते । तत्र गुणाः द्विविधाः । भक्तचित्त संस्क्रियाविशेषस्य हेतव एके, तद्अभिमानविशेषस्य हेतवश्चान्ये । तत्र पूर्वेषां गुणानां स्वरूपाणि तैस्तस्यास्तारतम्यं भेदाश्च यथा प्रीतिः खलु भक्तचित्तमुल्लासयति, ममतया योजयति, विस्रम्भयति, प्रियत्वातिशयेनाभिमानयति, द्रावयति, स्वविषयं प्रत्यभिलाषातिशयेन योजयति, प्रतिक्षणमेव स्वविषयं नवनवत्वेनानुभावयति, असमोर्ध्वचमत्कारेणोन्मादयति च । तत्रोल्लासमात्राधिक्यव्यञ्जिका प्रीतिः रतिः यस्यां जातायां तद्एक तात्पर्यमन्यत्र तुच्छत्वबुद्धिश्च जायते । ममतातिशयाविर्भावेन समृद्धा प्रीतिः प्रेमा । यस्मिन् जाते तत्प्रीतिसमृद्धिश्चान्यत्रापि दृश्यते । यथोक्तं मार्कडेये मार्जारभक्षिते दुःखं यादृशं गृहकुक्कुटे । न तादृङ्ममताशून्ये कलविङ्केऽथ मूषिके ॥ इति । अतएव प्रेमलक्षणायां भक्तौ प्रचुरहेतुत्वज्ञापनार्थं ममताया एव भक्तित्वनिर्देशः पञ्चरात्रे अनन्यममता विष्णौ ममता प्रेमसङ्गता । भक्तिरित्युच्यते भीष्मप्रह्लादोद्धवनारदैः ॥ इति । अन्यममतावर्जिता ममेत्यन्वयः । तदुक्तं सत्त्व एवैकमनसः [भागवतम् ३.२५.३२] इत्येवकारेण । अथ विस्रम्भातिशयात्मकः प्रेमा प्रणयः, यस्मिन् जाते सम्भ्रमादि योग्यतायामपि तद्अभावः । प्रियत्वातिशयाभिमानेन कौटिल्याभास पूर्वकभाववैचित्रीं दधत्प्रणयो मानः । यस्मिन् जाते श्रीभगवान् अपि तत्प्रणयकोपात्प्रेममयं भयं भजते । चेतोद्रवातिशयात्मकः प्रेमैव स्नेहः । यस्मिन् जाते तत्सम्बन्धाभासेनापि महाबाष्पादि विकारः प्रियदर्शनाद्य्अतृप्तिस्तस्य परमसामर्थ्यादौ सत्यपि केषांचिद् अनिष्टाशङ्का च जायते । स्नेह एवाभिलाषातिशआत्मको रागः । यस्मिन् जाते क्षणिकस्यापि विरहस्यात्यन्तैवासहिष्णुता । तत्संयोगे परं दुःखमपि सुखत्वेन भाति, तद्वियोगे तद्विपरीतम् । स एव रागोऽनुक्षणं स्वविषयं नवनवत्वेनानुभावयन् स्वयं च नवनवीभवन्ननुरागः । यस्मिन् जाते परस्परवशीभावातिशयः । प्रेमवैचित्त्यं तत्सम्बन्धिन्यप्राणिन्य् अपि जन्मलालसा । विप्रलम्भे विस्फूर्तिश्च जायते । अनुराग एवासमोर्ध्व चमत्कारेणोन्मादको महाभावः । यस्मिन् (पगे ४६) जाते योगे निमेषासहता कल्पक्षणत्वमित्यादिकम् । वियोगे क्षणकल्पत्वमित्य् आदिकम् । उभयत्र महोद्दीप्ताशेषसात्त्विकविकारादिकं जायते इति संस्कार हेतवो गुणा दर्शिताः । अथ भक्ताभिमानविशेषहेतवो गुणास्तत्कृताः प्रीतेर्भक्तानां च भेदास्तारतम्यं च यथासैव खलु प्रीतिर्भगवत्स्वभाव विशेषाविर्भावयोगमुपलभ्य कञ्चिदनुग्राह्यत्वेनाभिमानयति कञ्चिद् अनुकम्पित्वेन कञ्चिन्मित्रत्वेन, कञ्चित्प्रियात्वेन च । भगवत्स्वभाव विशेषाविर्भावहेतुश्च यस्य भगवत्प्रियविशेषस्य सङ्गादिना लब्धा प्रीतिस्तस्य प्रीतेरेव गुणविशेषो बोद्धव्यः । नित्यपरिकराणां नित्यमेव तद्द्वयम् । तत्रानुग्राह्यताभिमानमयी प्रीतिर्भक्तिशब्देन प्रसिद्धा । आराध्यत्वेन ज्ञानं भक्तिरिति हि तद्अनुगतम् । यथैवोक्तं मायावैभवे स्नेहानुबन्धो यस्तस्मिन् बहुमानपुरःसरः । भक्तिरित्युच्यते सैव कारणं परमेशितुः ॥ इति । स्नेहोऽत्र प्रीतिमात्रम् । एवं पाद्मे महित्वबुद्धिर्भक्तिस्तु स्नेह पूर्वाभिधीयते इति । तथापि भक्तेर्भगवति प्रीतिसामान्यपर्यायता मुनिभिर्भक्त्या प्रयुज्यत इति पूर्वमुक्तम् । क्वचिद्विशेषवाचका अपि सामान्ये प्रयुज्यन्ते । जीवसामान्ये नृपभृतिशब्दवत् । क्वचिद्भक्त्य्अतिशय लक्षणप्रेमण्यपि भक्तिशब्दप्र्योगो ब्राह्मणगोष्ठीषु ब्राह्मण्यातिशयवति अयं ब्राह्मण इतिवत् । यथोक्तं पाञ्चरात्रे माहात्म्यज्ञानपूर्वस्तु सुदृढः सर्वतोऽधिकः । स्नेहो भक्तिरिति प्रोक्तस्तया सार्ष्ट्य्आदि नान्यथा ॥ इति । मनोगतिगमनादीनां तु तत्सम्बन्धेनैव क्वचिद्भक्तिशब्द वाच्यतोक्ता । तद्अनुग्राह्यताभिमानमयी प्रीतिरेव भक्तिशब्दस्य मुख्योऽर्थः । ते चानुग्राह्याभिमानिनो द्विविधाः । पोषणमनुकम्पा चेत्यनुग्रहस्य द्वैविध्यात् । पोषणमत्र भगवता स्वरूपद्वारा स्व गुणद्वारा चानन्दनम् । अनुकम्पा च पूर्णेऽपि स्वस्मिन्निजसेवाद्य् अभिलाषं सम्पाद्य सेवकादिषु सेवादिसौभाग्यसम्पादिका भगवदश् चित्तार्द्रतामयी तद्उपकारेच्छा । तेषु द्विविधेषु केषुचिद्भगवति निर्ममाः केषुचित्सममाश्च । तत्र भगवति परमात्मपरब्रह्म भावेनानन्दनीयाभिमानिनो निर्ममा ज्ञानिभक्ताः श्रीसनकादयः । तेषां तद्अभिमानित्वेऽपि तत्र निर्ममत्वम् सत्यपि भेदापगमे नाथ तवाहं न मामकीनस्त्वम् । सामुद्रो हि तरङ्गः क्वचन समुद्रो न तारङ्गः ॥ इतिवत् । तव चन्द्रदर्शनवन्ममतां विनापि तेषां भगवद्दर्शनं प्रीतिदं स्यात् । आनुकूल्यं चात्र तत्प्रवणत्वतत्स्तुत्य्आदिना ज्ञेयम् । एषां प्रीतिश्च ज्ञानभक्त्य्आख्या । ज्ञानत्वं ब्रह्मघनत्वेनैवानुभवात् । एषैव शान्त्य्आख्ययोच्यते । शमप्रधानत्वात् । शमो मन्निष्ठता बुद्धेर्[भागवतम् ११.१९.३६] इति भगवद्वाक्यम् । अथानुकम्प्याः सममा भक्ताः । एषां हि अस्माकं प्रभुरयमिति भावेन ममतोद्भूता । एतदभिप्रेत्यैवानन्यममतेत्यादिवक्तृत्वं केवलभक्तानां श्रीभीष्मोद्धवप्रह्लादनारदादीनामेवोक्तं न तु सनकादीनामपि । अतो ममतोद्भवादेवानुकम्प्यास्तद्अभिमानिनश्च ते । अनुकम्प्यत्वं त्रिविधम् । पाल्यत्वं भृत्यत्वं लाल्यत्वं च । तत्त्रैविध्येन क्रमात्ते श्रीभगवति पालक इति भावा द्वारकाप्रजादयः । सेव्य इति भावाः श्रीदारुकादिसेवकाः गुरुरिति भावाः श्रीप्रद्युम्नगद प्रभृतिपुत्रा नृजादय इति । एषां त्रिविधानामपि प्रीतिर्भक्तिरे एव । पूर्वापेक्षया चैषां प्रीतेरानुकूल्यात्मताधिक्यादाव् ऋतज्ञानांशत्वेनास्यामेव श्रीरसामृतसिन्धौ प्रीतिरित्य्(पगे ४७) एवाख्या कृता । सा च भक्तिः क्रमेण पाल्यानामाश्रयात्मिका, भृत्यानां दास्यात्मिका, लाल्यानां प्रश्रयात्मिका ज्ञेया । या तु महद्बुद्ध्या चित्तादरलक्षणभक्तिर्नमस्कारादिकार्यव्यङ्ग्या सा खलु प्रीतिर्न भवतीति नात्र गण्यते । तत्तद्भावं विनैव केवलादरमयी प्रीतिश्चेद् भक्तिसामान्यत्वेन ज्ञेया । अथ पुत्रोऽयमित्यादिभावेनानुकम्पित्वाभिमानमयी प्रीइत्र्वात्सल्यम् । वत्सं वक्षो लातीति निरुक्तिर्हि तत्रैव झटिति प्रतीतिं गमयति । प्रीतिमात्रे तु तद्उपलक्षणत्वेनैव प्रयोगः । लौकिकरसज्ञाश्च केचिदत्रैव वत्सलाख्यं रसं मन्यन्ते । तथोदाहृतं श्रीदेवहूत्याः पुत्रवियोगे वत्से गौरिव वत्सला [भागवतम् ३.३३.२१] इति । तस्माद्वात्सल्यं श्रीव्रजेश्वरीणाम् । अथ मत्सममधुरशीलवचनयं निरुपाधिमत्प्रणयाश्रय्विशेष इति भावेन मित्रत्वाभिमानमयी प्रीतिः मैत्र्य्आख्या द्विविधाः । परस्पर निरुपाधिकोपकाररसिकतामयी सौहृदाख्या । सहविहारशालि प्रणयमयी सख्याख्या चेति । ततो मित्राणि च द्विविधानि । सुहृदः सखायश् चेति । तत्र सौहृदं श्रीयुधिष्ठिरभीष्मद्रौपदीपद्यादिष्वंशेन दृश्यते । सख्यं श्रीमद्अर्जुनश्रीदामादिषु । अथ कान्तोऽयमिति प्रीतिः कान्तभावः । एष एव प्रियताशब्देन श्री रसामृतसिन्धौ परिभाषिता । प्रियाया भावः प्रियतेति । लौकिकरसिकैर् अत्रैव रतिसंज्ञा स्वीक्रियते । एष एव कामतुल्यत्वात्श्रीगोपिकासु कामादि शब्देनाप्यभिहितः । स्मराख्यकामविशेषस्त्वन्यः वैलक्षण्यात् । काम सामान्यं खलु स्पृहासामान्यात्मकम् । प्रीतिसामान्यं तु विषयानुकूल्यात्मकस्तद्अनुगतविषयस्पृहादिमयो ज्ञानविशेष इति लक्षितम् । ततो द्वयोः सामान्यप्रायचेष्टत्वेऽपि कामसामान्यस्य चेष्टा स्वीयानुकूल्यतात्पर्या । तत्र कुत्रचिद्विषयानुकूल्यं च स्वसुखकार्य भूतमेवेति तत्र गौणवृत्तिरेव प्रीतिशब्दः । शुद्धप्रीतिमात्रस्य चेष्टा तु प्रियानुकूल्यतात्पर्यैव । तत्र तद्अनुगतमेव चात्मसुखमिति मुख्यवृत्तिरेव प्रीतिशब्दः । अतएव यथापूर्वं सुखप्रीतिसामान्ययोरुल्लासात्मकतया साम्येऽप्य् आनुकूल्यांशेन प्रीतिसामान्यस्य वैशिष्ट्यं दर्शितम् । तथा कामप्रीति सामान्ययोरपि स्पृहाविशेषात्मकतया साम्येऽपि तेनैव वैशिष्ट्यं सिद्धम् । अत्र तु यत्ते सुजातचरणाम्बुरुहं स्तनेषु भीताः शनैः प्रिय दधीमहि कर्कशेषु [भागवतम् १०.३१.१९] इत्यादिभिरतिक्रम्यापि स्वानुकूल्यं प्रियानु (पगे ४८) कूल्यतात्पर्यस्यैव दर्शितत्वात्शुद्धप्रीतिविशेष रूपत्वमेव लभ्यते । अतस्तद्विशेषत्वं च स्पृहाविशेषात्मकत्वात् सिद्धम् । ततोऽत्र श्रीकृष्णविषयत्वेन कुब्जादिसम्बन्धिकामवद् अप्राकृतकामत्वस्याप्यनभ्युपगमे सति प्राकृतकामत्वं तु सुतराम् असिद्धम् । तथा दर्शितं च विक्रीडितं व्रजवधूभिरिदं च विष्णोः श्रद्धान्वितो यः शृणुयादथ वर्णयेद्वा । भक्तिं परां भगवति परिलभ्य कामं हृद्रोगमाश्वपहिनोत्यचिरेण धीरः ॥ [भागवतम् १०.३३.४०] इत्यनेन । यद्विक्रीडितं खलु निजश्रवणद्वाराप्यन्येषां दूरदेशकाल स्थितानामपि शीघ्रमेव यं काममपनयत्परमं प्रेमाणं वितनोति । तत्पुनस्तत्काममयं न स्यात् । अपि तु परमप्रेमविशेष मयमेव । न हि पङ्केन पङ्कं क्षाल्यते । न तु स्वयमस्नेहः स्नेहयति । अतएव तस्य भावस्य शुद्धप्रेममयत्वं निगदेनैवोक्त्वा शुद्धत्वे हेतुतया पुनस्तेन भगवत्प्रसादश्च दर्शितः । भगवानाह ता वीक्ष्य शुद्धभावप्रसादितः [भागवतम् १०.२२.१] इति । तस्यात्मरामशिरोमणेस्तेन रमणं च दर्शितम्कृत्वा तावन्तमात्मानम् [भागवतम् १०.३३.१९] इत्य्आदिभिः । वशीकृतत्वं च स्वयं दर्शितंन पारयेऽहं निरवद्यसंयुजाम् [भागवतम् १०.३२.२२] इत्यादिना । तत्र निरवद्येति प्रीतेः शुद्धत्वम् । स्वसाधुकृत्यमिति परमोत्तमोत्कृष्टत्वम् । न पारय इति स्ववशीकारत्वम् । अतः शुद्ध प्रेमजातिषु तस्य परम्त्वादेव श्रीमद्उद्धवेनाप्येवमुक्तम् वाञ्छन्ति यद्भवभियो मुनयो वयं च [भागवतम् १०.४७.५८] इति । तस्मात्सर्वतः परमैव कान्तभावरूपा प्रीतिरिति स्थितम् । तदेवं ज्ञानभक्तिर्भक्तिर्वात्सल्यं मैत्री कान्तभाव इति तद् भावाभिमानयोर्भेदेन पञ्चविधा प्रीतिः । एताश्च ज्ञानभक्त्य्आदयः क्वचित्मिश्रतयापि वर्तन्ते । तत्र श्रीभीष्मादौ ज्ञानभक्त्य्आश्रय भक्ती । श्रीयुधिष्ठिरे सौहृद्यान्तर्भूते आश्रयभक्तिवात्सल्ये । श्री भीमस्य सख्यमपि । श्रीकुन्त्यामाश्रयभक्त्य्अन्तर्भूतं वात्सल्यम् । श्रीवसुदेवदेवक्योर्भक्तिसामान्यवात्सल्ये । तथा तथा दर्शनात् । श्रीमद्उद्धवस्य दास्यान्तर्भूतं सख्यंत्वं मे भृत्यः सुहृत्सखा [भागवतम् ११.११.४८] इति श्रीभगवद्उक्तेः । श्रीबलदेवस्य सख्यवात्सल्य भक्तयः । तत्र वात्सल्यसख्ये क्वचित्क्रीडापरिश्रान्तं गोपोत्सङ्गोपबर्हणम् । स्वयं विश्रमयत्यार्यं पादसंवाहनादिभिः ॥ नृत्यतो गायतः क्वापि वल्गतो युध्यतो मिथः । गृहीतहस्तौ गोपालान् हसन्तौ प्रशशंसतुः ॥ [भागवतम् १०.१५.१४१५] इत्यादिषु । भक्तिश्च प्रायो मायास्तु मे भर्तुः [भागवतम् १०.१३.३७] इत्य्आदितद्उक्तिषु । अत्र च तस्य व्रजे सख्यान्तर्भूते वात्सल्यसख्ये ऐश्वर्यप्रकाशमय लीलाविष्कारात् । व्रजे तस्याग्रजत्वं श्रीवसुदेवनन्दनयोर्भ्रातृत्व प्रसिद्धेः । श्रीमन्नन्देन पुत्रतया पालनाच्च । यथोक्तं भ्रातर्मम सुतः कच्चिन्मात्रा सह भवद्व्रजे । तातं भवन्तं मन्वानो भवद्भ्यामुपलालितः ॥ [भागवतम् १०.५.२७] इति । वदन्ति तावका ह्येते कुमारास्तेऽग्रजोऽप्ययम् [भागवतम् १०.८.३४] इति च । एवं श्रीपट्टमहिषीषु दास्यमिश्रः कान्तभावः । श्रीमद्व्रजदेवीषु सख्यमिश्र इत्यादिकं ज्ञेयम् । (पगे ४९) अथ तत्तद्भावाभिमानो विनां तु या प्रीतिः सा सामान्या तादृशत्वायोग्यानां भवति । यथा मिथिलाप्रयाण आनर्तधन्वकुरुजाङ्गलकङ्कमत्स्य पाञ्चालकुन्तिमधुकेकयकोशलार्णाः । अन्ये च तन्मुखसरोजमुदारहास स्निग्धेक्षणं नृप पपुर्दृशिभिर्नृनार्यः ॥ [भागवतम् १०.८६.२०] इत्यत्र केषांचित् । एते च निर्ममा ज्ञेयाः । किं च तेष्वेतेषु भगवत्प्रियेषु सामान्यशान्तौ तटस्थाख्यौ । अनयोः प्रीतिश्च तटस्थाख्या । तेषु च पाल्यभृत्यौ अनुगतौ । तयोर्भक्तिश्च सम्भ्रमप्रीत्य्आख्या । लाल्यादयस्तु बान्धवाः । तेषां प्रीतिश्च बान्धवताख्या ज्ञेया । तैरेतैः प्रीतिभेदैः प्रियभेदान् प्रति स्वस्य भजनीयताभेदा उक्ताः येषामहं प्रिय आत्मा सुतश्च सखा गुरुः सुहृदो दैवमिष्टम् [भागवतम् ३.२५.३८] इति । प्रियः कान्तः । आत्मा परमात्मा । सुतः पुत्रभ्रातृजादिरूपः अनुजरूपश्च । सखा प्रणयपूर्वकः सह खेलति यः । गुरुपित्रादिरूपः । सुहृदो द्विविधाः सम्बन्धिनो निरुपाधिहितकारिणश्च । तत्र पूर्वेषां प्रियत्वादौ प्रवेशादुत्तरे गृह्यन्ते । दैवमिष्टमाश्रयणीयः सेव्यश्चेत्यर्थः । एतान् भावांश्च विना सामान्यप्रीतिविषय इति भावः । अथ पूर्वोक्ता रत्य्आदिभावा उदाह्रियन्ते । तत्र रतिमाह तत्रान्वहं कृष्णकथाः प्रगायताम् अनुग्रहेणाशृणवं मनोहराः । ताः श्रद्धया मेऽनुपदं विशृण्वतः प्रियश्रवस्यङ्ग ममाभवद्रुचिः ॥ तस्मिंस्तदा लब्धरुचेर्महामते प्रियश्रवस्यस्खलिता मतिर्मम । ययाहमेतत्सद्असत्स्वमायया पश्ये मयि ब्रह्मणि कल्पितं परे ॥ [भागवतम् १.५.२६२७] मयि शुद्धजीवे व्यष्टिरूपं परे ब्रह्मणि च समष्टिरूपम् अध्यारोपितम् । ॥ १.५ ॥ श्रीनारदः श्रीव्यासम् ॥ ८४ ॥ [८५] प्रेमाणमाह उपलब्धं पतिप्रेम पातिव्रत्यं च तेऽनघे । यद्वाक्यैश्चाल्यमानाया न धीर्मय्यपकर्षिता ॥ [भागवतम् १०.६०.५१] ॥ १०.६० ॥ श्रीभगवान् रुक्मिणीदेवीम् ॥ ८५ ॥ [८६] प्रणयमाह उवाह कृष्णो भगवान् श्रीदामानं पराजितः [भागवतम् १०.१८.२४] इति । स्पष्टम् ॥ ॥ १०.१८ ॥ श्रीशुकः ॥ ८६ ॥ [८७] मानमाह एका भ्रूकुटिमाबद्ध्य प्रेमसंरम्भविह्वला [भागवतम् १०.३२.६] इति । स्पष्टम् ॥ ॥ १०.३२ ॥ श्रीशुकः ॥ ८७ ॥ [८८] स्नेहमाह सत्सङ्गान्मुक्तदुःसङ्गो हातुं नोत्सहते बुधः । कीर्त्यमानं यशो यस्य सकृदाकर्ण्य रोचनम् ॥ तस्मिन्न्यस्तधियः पार्थाः सहेरन् विरहं कथम् । दर्शनस्पर्शसंलाप शयनासनभोजनैः ॥ सर्वे तेऽनिमिषैरक्षैस्तमनु द्रुतचेतसः । वीक्षन्तः स्नेहसम्बद्धा विचेलुस्तत्र तत्र ह ॥ न्यरुन्धन्नुद्गलद्बाष्पमौत्कण्ठ्याद्देवकीसुते । निर्यात्यगारान्नोऽभद्रमिति स्याद्बान्धवस्त्रियः ॥ [भागवतम् १.१०.१११४] (पगे ५०) विचेलुः अर्हणाद्यानयनार्थमितस्ततश्चलन्ति स्म । अभद्रं यात्रासमये दुःशकुनं प्राभूदिति न्यरुन्धनाछादिअवत्यः । ॥ १.१० ॥ श्रीसूतः ॥ ८८ ॥ [८९] रागमाह विपदः सन्तु ताः शश्वत्तत्र तत्र जगद्गुरो । भवतो दर्शनं यत्स्यादपुनर्भवदर्शनम् ॥ [भागवतम् १.८.२५] भवतः कर्मभूतस्य दर्शनमवलोकनम् । यत्यासु । अपुनर्भवम् अन्यत्र कुत्रापि तादृशमाधुर्याभावात्पुनर्न जातं दर्शनं साम्य प्रतीतिर्यस्य तदपूर्वमित्यर्थः । ॥ १.८ ॥ श्रीकुन्ती श्रीभगवन्तम् ॥ ८९ ॥ [९०] अनुरागमाह यद्यप्यसौ पार्श्वगतो रहोगतस् तथापि तस्याङ्घ्रियुगं नवं नवम् । पदे पदे का विरमेत तत्पदाच् चलापि यच्छ्रीर्न जहाति कर्हिचित् ॥ [भागवतम् १.११.३४] असौ श्रीकृष्णः । तासां श्रीमहिषीणां पार्श्वगतः समीपस्थः । तत्रापि रहोगतः एकान्ते वर्तते । पदे पदे प्रतिक्षणम् । तच्च तासां स्वाभाविकानुरागवतीनां नाश्चर्यम् । यतः का वा अन्यापि तत्पदाद् विरमेत तत्पदास्वादेन तृप्ता भवेत् । तत्र कैमुत्येनोदाहरणं चलापीति । जगति चञ्चलस्वभावत्वेन दृष्टापि । अत्रोदाहरणपोषार्थं प्राकृताप्राकृतश्रियोरभेदविवक्षा । ॥ १.११ ॥ श्रीसूतः ॥ ९० ॥ [९१] महाभावमाह गोपीनां परमानन्द आसीद्गोविन्ददर्शने । क्षणं युगशतमिव यासां येन विनाभवत् ॥ [भागवतम् १०.१९.१६] स्पष्टम् । ॥ १०.१९ ॥ श्रीशुकः ॥ ९१ ॥ [९२] एषा प्रीतिजाती रतिमात्रात्मा ज्ञानिभक्तेषु परमानन्दघन मात्रतयानुभवसुखस्य ममत्वाभावेनातिशयकारणत्वायोगात् । एवं समान्येष्वपि । कामं भवः स्ववृजिनैर्निरयेषु नस्तात्[भागवतम् ३.१५.४९] इत्य् आदौ तु सनकादीनां तादृशरागप्रार्थनैव, न तु साक्षादेव राग इति समाधेयम् । अथ पाल्येषु प्रेमपर्यन्तैव । ममतायाः स्पष्टत्वात् । न तु स्नेहादि पर्यन्ता । विदूरसम्बन्धेन तस्या अनौचित्यात् । यत्तु यर्ह्य् अम्बुजाक्षापससार भो भवान् [भागवतम् १.११.९] इत्यादौ तत्राब्दकोटिप्रतिमः क्षणो भवेदिति द्वारकाप्रजावाक्ये तद्अतिशयः प्रतीयते । तत्खलु तत्रैव केषांचिन्नापितमालाकारादीनां साक्षात्तत्सेवाभाग्यवतां भाव विशेषधारिणमुक्तित्वेन सङ्गतम् । अथ श्रीमद्भृत्येषु रागपर्यन्तापि सम्भाव्यते । तेषां ममताधिक्येन सन्तततत्सेवालम्पटत्वेन तद्एकजीवनत्वात् । लाल्येषु साक्षाच्छ्री विग्रहसम्बन्धेन ततोऽपि ममताविशेषोर्जितत्वात्रागातिशयो मन्तव्यः । तेभ्यः सखिभ्योऽपि ममताधिक्याद्वत्सलमुख्ययोः पित्रोः सर्वतस्तद् अतिशयः । अन्यत्राषि प्रायः विपदः सन्तु ताः शश्वत्[भागवतम् १.८.२५] इत्यादि श्री कुन्तीवाक्यात्सखिषु प्रणयोत्कर्षांशेन तु तद्आधिक्यमस्ति । सुहृत्सु नातिसन्निकर्षात्प्रेमातिशय एव । प्रणयमानौ तु सखिप्रेयस्योरेव सम्भवतः । अथ श्रीप्रेयसीषु श्रीमत्पट्टमहिषीणां महाभावतोन्मुखानुराग पर्यन्तैव । यद्विवर्तविशेषः प्रेमवैचित्त्याख्यो विप्रलम्भशृङ्गारस् तासामूचुर्मुकुन्दैकधियः [भागवतम् १०.९०.१४] इत्यादिना (पगे ५१) इतीदृशेन भावेन इत्यन्तेन वर्णितः । ततोऽधिकं न च श्रूयते । ताभ्योऽन्यत्र त्व् अनुरागोऽपि न श्रूयते । ननु सतामयं सारभृतां निसर्गः [भागवतम् १०.१३.२] इत्यादौ अन्यत्राप्यनुरागो वर्ण्यते । प्रतिक्षणं नव्यत्वस्फुरणात् । नैवमनुरागस्यन तादृशस्फुरणमात्रलक्षणत्वं किन्तूल्लासादि दुःखसुखत्वभानपर्यन्तरत्य्आदिगुणक्षणत्वमपि । अत्र तु सर्वत्र तत्तल्लक्षणोदयासम्भावनया नानुरागो निर्णीयते इति । तथा नव्यवदित्युक्तं न च नव्यमिति । श्रीव्रजदेवीनां तु महा भावपर्यन्तता । तास्ताः क्षपाः प्रेष्ठतमेन नीता मयैव वृन्दावनगोचरेण । क्षणार्धवत्ताः पुनरङ्ग तासां हीना मया कल्पसमा बभूवुः ॥ [भागवतम् ११.१२.११] इत्यादिप्रसिद्धेः । निमेषासहत्वं तासामेव कुटिलकुन्तलं श्रीमुखं च ते जड उदीक्षितां पक्ष्मकृत्दृशाम् [भागवतम् १०.३१.१५] इति । यस्याननम् [भागवतम् ९.२४.३५] इत्य्आदिकस्य नार्यो नराश्च मुदिताः कुपिता निमेश् च इत्यत्र सामान्यतो नरा नार्यश्च तावन्मुदिता बभूवुः । चकारात् तत्रैव काश्चिच्छ्रीगोप्यो निमेर्नियमे निमेषकर्त्रे कुपिता बभूवुरित्य् अर्थः । अन्यत्र तद्अश्रवणादेव । अन्यथा कुरुक्षेत्रयात्रायाम् । गोप्यश्च कृष्णमुपलभ्य चिरादभीष्टं यत्प्रेक्षणे दृशिषु पक्ष्मकृतं शपन्ति । दृग्भिर्हृदीकृतमलं परिरभ्य सर्वास् तद्भावमापुरपि नित्ययुजां दुरापम् ॥ [भागवतम् १०.८२.३९] इत्यत्र यत्प्रेक्षण इत्यादौ वैशिष्ट्यानापत्तिश्च स्यात् । यद्यपि श्री कृष्णस्य तादृशभावजनकत्वं स्वभाव एव तथाप्याधारगुणमप्य् अपेक्षते स्वात्य्अम्बुनो मुक्तादिजनकत्वमिव । अत्र च तद्भावमापुर् इति श्रीकृष्णविषयकमहाभावविशेषाभिव्यक्तिं दधुरियर्थः । अतएव नित्ययुजां दुरापमित्युक्तम् । नित्ययुक्शब्देनाप्यत्र तत्स लक्षणाः पट्टमहिष्य एव लभ्यन्ते । न तद्विलक्षणा अन्ये दूर प्रतीतत्वात् । ततश्च नित्ययुजामेता विरहिण्यो वयं तु प्रियसंयोगं दिनन्दिनमेव प्राप्नुम इति प्रेष्ठन्मन्यानामपीत्यर्थः । अतएव श्रुत्वा पृथा सुबलपुत्र्यथ याज्ञसेनी माधव्यथ क्षितिपपत्न्य उत स्वगोप्यः । कृष्णेऽखिलात्मनि हरौ प्रणयानुबन्धं सर्वा विसिस्म्युरलमश्रुकलाकुलाक्ष्यः ॥ [भागवतम् १०.८४.१] इत्यत्र क्वचिदन्यत्रादृष्टचरेण व्रजस्त्रियो यद्वाञ्छन्ति [भागवतम् १०.८३.४३] इत्यादितदीयपूर्वोक्तरीत्या स्वीयभावतुल्यतास्पर्शिना प्रणयानुबन्धेन विस्मितानामपि श्रीगोपीनां विशेषणत्वेन स्वशब्दः पठितः परमान्तरङ्गताविबोधिषया । तथा अहो अलं श्लाघ्यतमं यदोः कुलम् [भागवतम् १.१०.२६] इत्यादिपद्यत्रयात्मके प्रथमस्कन्धसम्बन्धिनि पुरस्त्रीवाक्येऽपि, तेषु प्रथमद्वयं सर्वस्य मथुराव्रजद्वारका वासिनो जनस्य भाग्यमहिमाप्रतिपादकम् । (पगे ५२) तृतीयं खलु नूनं व्रतस्नानहुतादिनेश्वरः समर्चितो ह्यस्य गृहीतपाणिभिः । पिबन्ति याः सख्यधरामृतं मुहुर् व्रजस्त्रियः सम्मुमुहुर्यद्आशयाः ॥ [भागवतम् १.१०.२८] इत्येतत् । अत्र पट्टमहिषीणां भाग्यश्लाघायामपि श्रीव्रजदेवीनामेव हि पर्मोत्कृष्टत्वमास्वादाभिज्ञतरत्वं चायातम् । यस्यामृतस्य माधुर्य स्मरणे देवा अपि मुह्यन्ति तन्मनुष्येणाप्यनेनास्वाद्यत इतिवत् । तस्मात् तासामेव सर्वोत्तमभावना । अयमत्र सन्दर्भः श्रीभगवतः स्वभावस्तावदुभयविधः । ब्रह्मत्वलक्षणो भगवत्त्वलक्षणश् चेति । भक्ताश्च सामान्यतो द्विविधा उक्ताः तटस्थाः परिकराश्चेति । तत्रैके तटस्था ब्रह्मतापुरस्कारेण तत्स्वभावेन प्रीयमाणाः शान्ताख्याः । अन्ये च तटस्थाः परिकरवद्भगवत्ताविशेषेणापि प्रीयमाणाः परिकरत्वाभिमानमप्राप्ताः । ततः स्फुटमेवैते परिकरात्प्रीतिविहीनाः । अथाद्या अपि प्रीतिकारणस्य प्रीतिकार्यस्य च निर्हीनत्वात्परिकरात्प्रीति निर्हीनाः । कारणं चात्र साहाय्यम् । सहायो द्विविधाः । ममता लक्षणोऽर्थस्तद्अङ्गं ब्रह्मत्वानुभवादयस्तद्उपाङ्गानीति । अत्र तेषां ममत्वं नास्तीति दर्शितमेव । तच्च युक्तं सम्बन्धविशेषास्फुरणात् । ततोऽङ्गनिर्हीणत्वम् । उपाङ्गेषु च तेषां ब्रह्मज्ञानमेव मुख्यम् । तद्अनुशीलनस्वाभाव्यात् । भगवत्ताज्ञानं तु तद्अनुगतम् । तस्या एव तादृशभावेन तेषामाकर्षणात् । यदुक्तम्आत्मारामाश्च इत्यादौ इत्थम्भूतगुणो हरिः [भागवतम् १.७.११] इति । वस्तुतस्तु प्रीतिसाहाय्ये भगवत्ताया एव मुख्यत्वं तैरनुभूतम् । तस्यारविन्दनयनस्य पदारविन्द [भागवतम् ३.१५.४३] इत्यादौ चकार तेषां सङ्क्षोभमक्षरजुषामपि चित्ततन्वोः इति । तथापि तादृश स्वभावत्वापरित्यागादुपाङ्गनिर्हीनत्वम् । अथ प्रीतिकार्यमपि तेषां निर्हीनत्वम् । यतः प्रायशो भगवत्स्मरणम् एव तत्कार्यम् । तद्दर्शनं तु कादाचित्कमेव । परिकराणां पुनः साक्षात् तद्अङ्गसेवादिकमपि सन्ततमेव । अतएव तेषामेव सौभाग्यातिशय वर्णनम् । श्रीजयविजयशापप्रस्तावे तस्मिन् ययौ परमहंसमहामुनीनाम् । अन्वेषणीयचरणौ चलयन् सहश्रीः ॥ [भागवतम् ३.१५.३७] इत्युक्त्वा, तं त्वागतं प्रतिहृतौपयिकं स्वपुम्भिस् तेऽचक्षताक्षविषयं स्वसमाधिभाग्यम् । [भागवतम् ३.१५.३८] इति । तथा विनतासुतांसे विन्यस्तहस्तम् [भागवतम् ३.१५.४०] इति । तथा तदा जयविजययोरेव (पगे ५३) भगवत आत्मीयत्वं स्पष्टमस्ति । मुनिषु तु गौरवम् । तत्र श्रीब्रह्मवाक्ये एवं तदैव भगवानरविन्दनाभः । स्वानां विबुध्य सद्अतिक्रममार्यहृद्यः ॥ [भागवतम् ३.१५.३७] इति । श्रीवैकुण्ठनाथवाक्ये च तद्वः प्रसादयाम्यद्य ब्रह्म दैवं परं हि मे । तद्धीत्यात्मकृतं मन्ये यत्स्वपुम्भिरसत्कृताः ॥ [भागवतम् ३.१६.४] तच्च परिकराणां सौभाग्यं स्वयमपि दृष्ट्वा ते मुनयश्च तयोः स्व कृतशापादलज्जन्त यं वानयोर्दममधीश भवान् विधत्ते वृत्तिं नु वा तदनुमन्महि निर्व्यलीकम् । अस्मासु वा य उचितो ध्रियतां स दण्डो येऽनागसौ वयमयुङ्क्ष्महि किल्बिषेण ॥ [भागवतम् ३.१६.२५] तथा तयोस्तस्यात्मीयत्वेनैव सहकारुण्यमपि मुनिषु निर्गतेषु व्यक्तम् अस्ति भगवाननुगावाह यातं मा भैष्टमस्तु शम् । ब्रह्मतेजः समर्थोऽपि हन्तुं नेच्छे मतं तु मे ॥ [भागवतम् ३.१६.२९] इति । तस्मात्कार्यनिर्हीनत्वमपि । तेभ्यश्च सर्वनिर्हीनत्वेभ्यस्तटस्थान् अतिक्रम्य परिकराणां प्रीत्य्उत्कर्षो दर्शितः । ननु निरुपाधिप्रेमास्पदस्य प्रीतौ परिकरत्वाभिमान उपाधिः स्यात् । ततो ज्ञानात्मिकां सामान्यां च प्रीतिमपेक्ष्य तद्अभिमानिप्रीतयो गौण्य एव स्युः । किं च ममतायाः प्रीतिहेतुत्वे जाते च यस्यात्मनः सम्बन्धात् प्रीतिर्भवेत्तस्मिन्नेव तद्आधिक्यं स्यात् । नैवं श्रीभगवतो येन स्वभावेनैवानुभूतेनाभिमानविशेषं विनापि तेषां प्रीतिरुदयते तेनापि परिकराणामुदयते । तथा निजस्वभावसिद्धो वा तात्कालिको वा योऽभिमानविशेषस्तेनाप्युदयते । समुच्चये को विरोधः । प्रत्युतोल्लास एव । तत्र भगवत्स्वभावमयत्वं भक्ततात्कालिकाभिमान विशेषमयत्वं चाह गोगोपीनां मातृतास्मिन्नासीत्स्नेहर्धिकां विना । पुरोवद्[भागवतम् १०.१३.२५] इति । स्पष्टम् । ॥ १०.१३ ॥ श्रीशुकः ॥ ९२ ॥ [९३] उभयस्वभावमयत्वमाह यथा भ्राम्यत्ययो ब्रह्मन् स्वयमाकर्षसन्निधौ । तथा मे भिद्यते चेतश्चक्रपाणेर्यदृच्छया ॥ [भागवतम् ७.५.१४] स्पष्टम् । ॥ ७.५ ॥ श्रीप्रह्लादः ॥ ९३ ॥ [९४] किं च भक्ताभिमानविशेषमयश्च प्रेमा भगवत्स्वभावाविर्भूत एवेति ब्रूमः । भगवति हि स्वरूपसिद्धाः सर्वे प्रकाशा नित्यमेव वर्तन्ते इति श्रीभगवत्सन्दर्भादौ दर्शितमस्ति । आगमादावपि नानोपासनाः श्रूयन्ते । तत्र यथा यत्र प्रकाशस्तथा तत्राभिमान विशेषमयी प्रीतिरुदयते । प्रकाशवैशिष्ट्यहेतुश्च भक्तविशेषसङ्ग एव नित्यसिद्धेषु तु नित्यसिद्ध एव तथाप्रकाशः प्रीतिरभिमानश्च । अथ प्रीत्यैव सहोदयात्तादृशोऽभिमानोऽपि प्रीतिवृत्तिविशेष इत्युक्तम् । तस्मादपि न तत्समवायेन प्रीतिहानिः प्रत्युतात्यन्तसन्निकर्ष व्यञ्जकेन तत्तद्अभिमानेन तस्या उल्लास एव । किं च लौकिकोऽपि ममता विशेष आत्मनोऽप्याधिक्येन स्वास्पदे प्रीतिं जनयति । पुत्राद्य्अर्थमात्म व्ययादिकं दृश्यते । तथैवोक्तं व्रजेश्वरं प्रति श्रीभगवतैव पित्रोर् अप्यधिका प्रीतिरात्मजेष्वात्मनोऽपि हि [भागवतम् १०.४५.२१] इति । भगवद्विषया ममता तु स्वात्मगततदीयाभिमानविशेषहेतुकैव । तद्अभिमान विशेषश्च तत्स्वभावविशेषहेतुक इत्युक्तम् । स च प्रथमम् आविर्भवति । तद्अनन्तरमेव ममताविशेष आविर्भवतीति । तस्माद्यथा (पगे ५४) तथा तत्स्वभाव एव तत्प्रीतेर्मूलकारणम् ब्रह्मन् परोद्भवे कृष्णे इयान् प्रेमा कथं भवेत् । योऽभूतपूर्वस्तोकेषु स्वोद्भवेष्वपि कथ्यताम् ॥ [भागवतम् १०.१४.४९] इति राज प्रश्नोत्तरं श्रीशुकदेवेन श्रीकृष्णप्रीतौ तत्स्वभावसिद्धत्वम् उक्तम् । तत्स्वभावाविर्भावविशेषाविर्भूतममताविशेषेण तु केवल ममताहेतुकप्रीतिमतिक्रम्य वैशिष्ट्यं चाभिप्रेतम् । तस्मात्सर्वथा ममतासम्बन्धेन प्रीते वैशिष्ट्यमेव भवतीति सिद्धम् । भगवत् सम्बन्धेनात्मन्यपि तेषां प्रीतिर्जायते । तथैवाहुः सुदुस्तरान्नः स्वान् पाहि कालाग्नेः सुहृदः प्रभो । न शक्नुमस्त्वच्चरणं सन्त्यक्तुमकुतोभयम् ॥ [भागवतम् १०.१७.२४] टीका चन मृत्योर्विभीमः । किन्तु त्वच्चरणवियोगादित्याहुः न शक्नुम इति इत्येषा । न च त्वच्चरणं निजवियोगभयं न दूरीकर्तुम् अर्हतीत्याहुः । अकुतोभयमिति । यद्वा तव चर्णसन्निधाने सत्यस्माकं सर्वमेव सुखाय कल्पते अन्यदा तु दुःखायैवेत्याहुः । न विद्यते कुतश्चिद्भयं येनेति । ॥ १०.१७ ॥ श्रीव्रजौकसः श्रीभगवन्तम् ॥ ९४ ॥ [९५] तथा तत्प्रीतेरेव तत्तद्अभिमानोल्लासित्वम् । ततः श्रीभगवतोऽपि तत्तद् अभिमानित्वमाह एष वै भगवान् साक्षाद्[भागवतम् १.९.१८] इत्यादौ यं मन्यसे मातुलेयं प्रियं मित्रं सुहृत्तमम् । अकरोः सचिवं दूतं सौहृदादथ सारथिम् ॥ सर्वात्मनः समदृशो ह्यद्वयस्यानहङ्कृतेः । तत्कृतं मतिवैषम्यं निरवद्यस्य न क्वचित् ॥ तथाप्येकान्तभक्तेषु पश्य भूपानुकम्पितम् । यन्मेऽसूंस्त्यजतः साक्षात्कृष्णो दर्शनमागतः ॥ [भागवतम् १.९.२०२२] सौहृदात्तादृशप्रेम्ण एव हेतोः । यं मातुलेयं मन्यसे प्रियं प्रीति विषयं मित्रं प्रीतिकर्तारं सुहृत्तममुपकार्नानपेक्षोपकारकं च मन्यसे । अथ सारथिं सारथिमपीत्यर्थः । स एष साक्षाद्भगवानित्य् आदिकः पूर्वेणान्वयः । ननु भवतु प्रीतिविशेषेणास्माकं तस्मिंस्तथा मतिस्तस्य सर्वेषां परमात्मनस्तस्मादेव समदृशः परमात्मत्वादेव सर्वेषां तच् छक्तिवैभवरूपाणामात्मनां ततोऽनन्यत्वादद्वयस्य तस्मादेव मातुलेयोऽहमित्याद्य्अभिमानशून्यस्य, तथा निर्दोषस्य च कथमहम् अस्य मातुलेयः । न त्वमुषेत्वादिरूपं मातुलेयत्वादिकृतं मति वैषम्यं स्यादित्यादिपूर्वपक्षोट्टङ्कनपूर्वकं सिद्धान्तयति सर्वात्मन इत्यादि द्वाभ्याम् । यद्यपि तादृशस्य तन्न सम्भवति तथापि हे भूप एकान्तभक्तेषु युष्मासु अनुकम्पां पश्य । येषां भक्तिविशेषेण परवशः सन्नसावपि तथा तथात्मानं बाढमेवाभिमन्यत इत्यर्थः । यः खलु शरीरस्यापि सम्बन्धहेतुः सोऽभिमान एव हि सम्बन्धहेतुर्मुख्यः, न शरीरम् । एवं सति, स्वाविर्भावादिना शरीरसम्बन्धेऽपि तस्य मातुलेयत्वादिकं सुतरामेव सिध्यतीति तात्पर्यम् । तत्र हेतुगर्भो दृष्टान्तः यन्मेऽसून् इति । यस्मात्युष्मत्सम्बन्धादेव हेतोः । तदेवं परमोपादेयत्वज्ञानादेव तत्सम्बन्धात्मक एव श्री भगवानुत्क्रान्तावपि मुहुरेव निजालम्बनीकृतः विजयसखे रतिरस्तु मेऽनवद्या [भागवतम् १.९.३३] इति, पार्थसखे रतिर्ममास्तु [भागवतम् १.९.३५] इति, विजय रथकुटुम्बः [भागवतम् १.९.३९] इत्यारभ्य भगवति रतिरस्तु मे मुमूर्षोः इति च । ॥ १.९ ॥ भीष्मः श्रीयुधिष्ठिरम् ॥ ९५ ॥ [९६] तमेवाभिमानममताभ्यां प्रीतेरतिशयं दर्शयति (पगे ५५) राजन् पतिर्गुरुरलं भवतां यदूनां दैवं प्रियः कुलपतिः क्व च किङ्करो वः । अस्त्वेवमङ्ग भगवान् भजतां मुकुन्दो मुक्तिं ददाति कर्हिचित्स्म न भक्तियोगम् ॥ [भागवतम् ५.६.१८] यस्यामेव कवयः [भागवतम् ५.६.१७] इत्यादि प्राक्तनगद्ये मुक्त्य्अधिकतया सामान्या प्रीतिलक्षणभक्तिरुक्ता । अत्र तु हे राजन् भवतां यदूनामपि पत्य्आदिरूपो भगवान् । एवं नाम दूरेऽस्तु श्रीभगवतस्तादृशत्व प्रापकस्य प्रेमविशेषस्यास्य वार्ता सर्वेषामपि दूरे स्थितेत्यर्थः । यतोऽन्येषां नित्यं भजतामपि मुकुन्दोऽसौ मुक्तिमेव ददाति, न तु भक्तियोगं पूर्वोक्तमहिमप्रीतिसामान्यमपीति पतित्वादिभावमय्यां परमवैशिष्ट्यमुक्तम् । अतस्तेष्वेव यत्किञ्चिद्रूपत्वमपि श्री ब्रह्मणा प्रार्थितं तदस्तु मे नाथ स भूरिभागः [भागवतम् १०.१४.३०] इत्य् आदिना । ॥ ५.६ ॥ श्रीशुकः ॥ ९६ ॥ [९७] अथ परिकराणामपि भावेषु तारतम्यं विवेचनीयं, येषां भगवत्तैवोपजीव्या । तत्र भगवत्ता तावत्सामान्यतो द्विविधैव । परमैश्वर्यरूपा परममाधुर्यरूपा चेति । ऐश्वर्यं प्रभुता । माधुर्यं नाम च शीलगुणरूपवयोलीलानां सम्बन्धविशेषाणां च मनोहरत्वं, परमत्वं च चासमोर्ध्वत्वम् । अथ भक्तादिचतुर्विधाः परिकराअपि द्विविधाः । परमैश्वर्यानुभव प्रधानाः परममाधुर्यानुभवप्रधानाश्च । तत्रैश्वर्यमात्रस्य साध्वससम्भ्रमगौरवबुद्धिजनकत्वं माधुर्यमात्रस्य प्रीति जनकत्वमिति सर्वानुभवसिद्धमेव । ततस्तत्रैश्वर्यमाधुर्ययोः परमत्वमिति ताभ्यां यथासङ्ख्यं साध्वसादीनां प्रीतेश्च परमत्वमेव स्यात् । अतएव देवकी वसुदेवश्च विज्ञाय जगद्ईश्वरौ । कृतसंवन्दनौ पुत्रौ सस्वजाते न शङ्कितौ ॥ [भागवतम् १०.४४.५१] पितरावुपलब्धार्थौ विदित्वा पुरुषोत्तमः । मा भूदिति निजां मायां ततान जनमोहिनीम् ॥ उवाच पितरावेत्य साग्रजः सात्वतर्षभः । प्रश्रयावनतः प्रीणन्नम्ब तातेति सादरम् ॥ [भागवतम् १०.४५.१२] इत्याद्य् अनन्तरम्, इति मायामनुष्यस्य हरेर्विश्वात्मनो गिरा । मोहितावङ्कमारोप्य परिष्वज्यापतुर्मुदम् ॥ सिञ्चन्तावश्रुधाराभिः स्नेहपाशेन चावृतौ । न किञ्चिदूचतू राजन् बाष्पकण्ठौ विमोहितौ ॥ [भागवतम् १०.४५.१०११] उपलब्धो जातो जगदीश्वरत्वलक्षणोऽर्थो याभ्यां तथाभूतौ ज्ञात्वा । माभूदिति । समारूढपितृत्वपदवीकत्वेन ज्ञानिभक्तजनकेवल भक्तजनादिदुर्लभपरमप्रेमैकयोग्ययोस्तयोस्तद्आच्छादकं तज् ज्ञानं न भवत्विति निजां मायामावरणशक्तिं निज जगदीश्वरत्वाच्छादनाय ततान विस्तारितवान् । तद्अनन्तरं निजतादृश प्रेमपोष्कं माधुर्यमेव व्यञ्जितवानित्याह उवाचेत्यादि । अथवा माया दम्भे कृपायां च इति विश्वप्रकोशात्निजां स्वविषयां मायां कृपां तद्आत्मिकां वात्सल्याख्यां प्रीतिं तयोस्ततान आविर्भावितवान् । कीदृशीं या निजमाधुर्येण सर्वमेव जनं मोहयति ताम् । कथं ततानेत्याशङ्क्य निजैश्वर्याच्छादकनिजमाधुर्य प्रकाशनेनेत्याह उवाचेति । अथवा माया वयुनं ज्ञानमिति निघण्टुदृष्ट्या निजां तादृशप्रेम जनकत्वेनान्तरङ्गां मायां निजमाधुर्यज्ञानं ततान । तत्प्रकारम् आह उवाचेति । मायामनुष्यस्याशेषविद्याप्रचुरस्य नराकृतिपर ब्रह्मण इति । ॥ १०.४५ ॥ श्रीशुकः ॥ ९७ ॥ [९८] तदेवं पारमैश्वर्यस्य भक्तौ यत्क्वचिदुद्दीपनत्वं, तत्तु सम्भ्रमगौरवादि तद्अवयवस्यैव । तत्राप्यवयविनि प्रीत्यंशे तु माधुर्यस्यैवोद्दीपनत्वम् । उभयसमाहारस्य पुनः परमेश्वर (पगे ५६) भक्तिजनकत्वमिति विवेक्तव्यम् । तदेवं माधुर्यस्यैव प्रीतिजनकत्वे स्थिते तद्अनुभवश्च श्रीमद् गोकुलस्य स्वभावसिद्धः । आगन्तुकः खल्वैश्वर्यानुभवः । तथैव श्रीगोवर्धनोद्धरणानन्तरे एवंविधानि कर्माणि गोपाः कृष्णस्य वीक्ष्य ते । अतद्वीर्यविदः प्रोचुः समभ्येत्य सुविस्मिताः ॥ [भागवतम् १०.२६.१] इत्य्आद्य् अध्याये, दुस्त्यजश्चानुरागोऽस्मिन् सर्वेषां नो व्रजौकसाम् । नन्द ते तनयेऽस्मासु तस्याप्यौत्पत्तिकः कथम् ॥ [भागवतम् १०.२६.१३] इति श्रीगोपगणप्रश्ने, श्रीव्रजेश्वरेण च तद्ऐश्वर्यमाप्तवाक्य द्वारैव तेषां समाधानायोक्तं, माधुर्यं तु स्वानुभवसिद्धत्वेन व्यञ्जितम् । यथाह श्रूयतां मे वचो गोपा व्येतु शङ्का च वोऽर्भके । एनं कुमारमुद्दिश्य गर्गो मे यदुवाच ह ॥ [भागवतम् १०.२६.१५] इत्यादि, इत्यद्धा मां समादिश्य गर्गे च स्वगृहं गते । मन्ये नारायणस्यांशं कृष्णमक्लिष्टकारिणम् ॥ [भागवतम् १०.२६.२३] इत्यन्तम् । अथ गर्गो मां यदुवाच ह इति शब्दद्वारा परोक्षं ज्ञानमुक्तम् । तत्रापि मन्ये इति वितर्क एव । अर्भककुमारशब्दप्रयोगस्तु बालभाव मयमाधुर्ये स्वस्वभावानुभवस्य सूचक इत्यवगम्यते । ॥ १०.२६ ॥ श्रीव्रजेश्वरः ॥ ९८ ॥ [९९] तथा मत्कामा रमणं जारमस्वरूपविदोऽबलाः [भागवतम् ११.१२.१३] इति श्री भगवता चोक्तम् । न चैवं तेषामज्ञानं च वक्तव्यम् । माधुर्य ज्ञानेनैव परमभगवत्ताज्ञानसद्भावात् । यत एव तेषाम् अन्यत्रानावेशः । यदेव खल्वात्मारामाणामपि मोदनम् । न च सर्वापि भगवत्ता सर्वेणोपास्यते अनुभूयते वा । अपि तु स्वस्वाधिकारप्राप्तैव अनन्तत्वाद् अनुपयुक्तत्वाच्च । अतएव वेदान्तेऽपि गुणोपासनावाक्येषु तत्तद्विद्यायां गुणसमाहारः पृथक्पृथगेव सूत्रकारेण व्यवस्थापितः । तथैवोक्तं यस्य यस्य हि यः कामस्तस्य तस्य ह्युपासनम् । तादृशानां गुणानां च समाहारं प्रकल्पयेत् ॥ इति । तथा मल्लानामशनिः [भागवतम् १०.४३.१७] इत्यादौ च टीका चूर्णिकातत्र च शृङ्गारादिरसकदम्बमूर्तिर्भगवांस्तत्तद्अभिप्रायानुसारेण बभौ, न साकल्येन सर्वेषामित्याह इत्येषा । अत्र परमतत्त्वतया जानतामपि न सम्यग्ज्ञानमित्यायातम् । युक्तं चेदं तत्तन्माधुर्य विशेषाननुभवात् । माधुर्यानुभाविनां भक्तानां तु यस्यास्ति भक्ति भगवत्यकिञ्चना सर्वैर्गुणैस्तत्र समासते सुराः [भागवतम् ५.१८.१२] इत्यादि न्यायेनानादृतमपि सर्वं ज्ञानं समयप्रतीक्षकमेव स्यात् । पूर्वत्रैव पद्ये तेषां परमविद्वत्तामभिप्रैति । यथा मल्लानामशनिर्नृणां नरवरः स्त्रीणां स्मरो मूर्तिमान् गोपानां स्वजनोऽसतां क्षितिभुजां शास्ता स्वपित्रोः शिशुः । मृत्युर्भोजपतेर्विराडविदुषां तत्त्वं परं योगिनां वृष्णीनां परदेवतेति विदितो रङ्गं गतः साग्रजः ॥ [भागवतम् १०.४३.१७] अत्र खलु पद्ये त्रिविधा जना उक्ताः प्रतिकूलज्ञानाः, मूढाः, विद्वांसश् च । तत्र निरुपाधिपरमप्रेमास्पदतास्वभावे तस्मिन् विरोधलिङ्गेन मल्लानां कंसपक्षीयासत्क्षितिभुजां कंसस्य च प्रतिकूलज्ञानत्वं बोध्यते । विराडविदुषामिति पृथग्उपादानेन (पगे ५७) विराट्त्व ज्ञानिनामेव मूढत्वम् । पारिशेष्यप्रमाणेनान्येषां तु विद्वत्तैव । तत्र विराट्त्वं नाम विराद्अंशेभौतिकदेहत्वं यत्किञ्चिन्नरदारकत्वमित्य् अर्थः । अतस्तत्र मूढता । ते च भगवद्याच्ञामश्रद्दधानैर्याज्ञिक विप्रैः सदृशाः । केचित्तद्अवज्ञातारो न द्वेष्टारो न च प्रीयमाणाः । अत्र तेषां भौतिकत्व स्फूर्तौ भक्तानां जुगुप्सां जायत इति बीभत्सरसश्च भगवता पोष्यते । नरवरत्वे तु तन्माधुर्यप्रभावयोरंशेनैव नरेषु तस्य श्रेष्ठत्वमनुभूतमिति तद्अनुभवसद्भावात्साधारणनॄणामपि विद्वत्ता । अतएव च सामान्यभक्ताः । यथैव तेषां प्रीतिर्वर्णिता । निरीक्ष्य तावुत्तमपुरुषौ जना मञ्चस्थिता नागरराष्ट्रका नृप । प्रहर्षवेगोत्कलितेक्षणाननाः [भागवतम् १०.४३.२०] इत्यादिना । एतेषां प्रजात्वेऽपि प्रायस्तदानीमजातममत्वान्न पाल्यान्तःप्रवेशः । अथैवं तेषामपि विद्वत्तायामन्येषां सुतरामेव सा । तत्रापि किमुत श्रीगोपानाम् । तथा हि तत्र नॄणां सामान्यभक्तानां योगिनां तल्लीला दिदृक्षागताकाशादिस्थितचतुःसनप्रभृतिज्ञानिभक्तानां च ममत्व सूचकपदविन्यासो न कृतः । तथा तद्बलाबलवद्युद्धं समेताः सर्वयोषितः । ऊचुः परस्परं राजन् सानुकम्पा वरूथशः ॥ [भागवतम् १०.४४.६] इत्यादौ । क्व व्रजसारसर्वाङ्गौ [भागवतम् १०.४४.८] इत्यादितद् वाक्योदाहृतानुकम्पामयपरमप्रीतिविकाराणां नानाभावस्त्रीणां मध्ये स्मरत्वेन विदितकृष्णानां गोप्यस्तपः किमचरन् [भागवतम् १०.४४.१४] इत्यादिकगिरां स्त्रीविशेषाणां कान्तभावाख्यप्रीतेर्लोकप्रसिद्ध स्मरेणापि मिश्रत्वेन श्रीव्रजदेवीवच्छुद्धत्वाभावः । तत्काल दृष्टत्वेन ममत्वाभावश्चागतश्च । वृष्णिपितृगोपानां तु तत्तच् छब्दैर्ममताविशेषः सूचितः । तस्मादेतेष्वेव परममाधुर्यानुभवेषूत्तमत्वं मतम् । तत्र च गोपानां स्वजनो वृष्णीनां परदेवतेत्यनेन श्रीगोपानां बान्धव भावापादकमाधुर्यज्ञानं स्वाभाविकं, वृष्णीनां तु पर देवताभावापादकैश्वर्यज्ञानं स्वाभाविकमित्यङ्गीकृतम् । सम्बन्धाद्वृष्णयः [भागवतम् ७.१.३०] इति तु तथा गौणस्यापि बन्धुभावस्य तद्अनुगतौ स्वतः प्राबल्यापेक्षयोक्तम् । किं च, तेषु यथा कंसादयः प्रतिकूलज्ञाना वृष्ण्य्अधमाः । तथैवाविद्वांसः शतधन्वप्रभृतयः सन्ति । तद्अपेक्षयैव न यं विदन्त्यमी भूपा एकारामाश्च सात्वताः [भागवतम् १०.८४.२३] इत्यादिकं ज्ञेयम् । अत उत्तमवृष्णितया सामान्यतो लब्धमैश्वर्यज्ञानमुत्तममेव श्री वसुदेवदेवक्योः सम्मतम् । ततः तत्संसृष्टत्वेऽपि लीलाविशेषादेव पित्रोः शिशुरित्यनेन माधुर्यज्ञानं व्यज्यते । अतो गौणत्वादेव नातिचित्रमिदं विप्रा वसुदेवो बुभुत्सया । कृष्णं मत्वार्भकं यन्नः पृच्छति श्रेय आत्मनः ॥ [भागवतम् १०.८४.३०] इत्यादौ श्रीनारदेन तन् नानुमोदितम् । राज्ञा तु स्वाभाविकत्वात्श्रीव्रजेश्वरयोस्तद्अनुमोदितम् । नन्दः किम् अकरोद्ब्रह्मन् [भागवतम् १०.८.४६] इत्यादौ । तयोरैश्वर्यज्ञानस्य स्वाभाविकत्वं च जन्मक्षणमारभ्य तादृशस्तुत्य्आदौ प्रसिद्धम् । अतएवअ पितरावुपलब्धार्थो विदित्वा [भागवतम् १०.४५.१] इत्यत्र टीकाकारैरपि तयोरैश्वर्यज्ञानं सिद्धमेव । पुत्रतया प्रेम तु दुर्लभमित्य् उक्तम् । तथा श्रीगोपानां स्वजनत्वं सामान्यतो निर्दिष्टम् । तच्च वृष्णि कंसादिवन्न व्रजे क्वचिदपि (पगे ५८) जने व्यभिचरति आबालवृद्धवनिताः सर्वेऽङ्ग पशुवृत्तयः । निर्जग्मुर्गोकुलाद्दीनाः कृष्णदर्शनलालसाः ॥ [भागवतम् १०.१६.१५] इत्यादि दर्शनात् । तदेवं सति स्वयमेव गोपराजे कदाप्यव्यभिचारिवात्सल्ये वैशिष्ट्यम् आयातमिति तस्यापि शिशुरिति किं वक्तव्यमिति भावः । ॥ १०.४३ ॥ श्रीशुकः ॥ ९९ ॥ [१००] तदेवं परममाधुर्यातिशयानुभवस्वभावत्वेन परमज्ञानित्वम् एव श्रीगोपालानामङ्गीकृतम् । अतएव दृष्टचतुर्भुजाद्य्अनन्ततद् आविर्भावेनापि ब्रह्मणा तेषामालम्बनं रूपमेव निजालम्बनीकृतम् नौमीड्य तेऽभ्रवपुषे [भागवतम् १०.१४.१] इत्यादिना । तेषामपि यत् स्वभावत्वेनैव चागन्तुकादन्यज्ञानात्नासौ प्रीतिर्व्यभिचरति । प्रत्युत तदेव तिरस्करोति । तेनानतरायप्राये वर्धते च विषयिणां विषयप्रीतिर् इव । यतो विषयिणां विषयेषु सदोषत्वे श्रुते दृष्टेऽपि रागप्राप्त गुणवत्त्वबुद्धिः प्रबला दृश्यते । तथैवोक्तं या प्रीतिरविवेकानां [Vइড়् १.२०.१९] इति । अत्र च श्रीसङ्कर्षणं प्रति श्रीमन्नन्दयशोदा वचनम् चिरं नः पाहि दाशार्ह सानुजो जगद्ईश्वरः । इत्यारोप्याङ्कमालिङ्ग्य नेत्रैः सिषिचतुर्जलैः ॥ [भागवतम् १०.६५.३] इत्य्आदि । येन वसुदेवपुत्रत्वे क्षत्रियत्वे परमेश्वरत्वे च व्यक्ते श्री बलदेवस्यापि तत्पुत्रोचितभावो नान्यथा ज्ञातः । यथा तत्पूर्वमुक्तम् बलभद्रः कुरुश्रेष्ठ भगवान् रथमास्थितः । सुहृद्दिदृक्षुरुत्कण्ठः प्रययौ नन्दगोकुलम् ॥ परिष्वक्तश्चिरोत्कण्ठैर्गोपैर्गोपीभिरेव च । रामोऽभिवाद्य पितरावाशीर्भिरभिनन्दितः ॥ [भागवतम् १०.६५.१२] इति । परमैश्वर्यादिज्ञानस्वभावानामपि प्रीतिप्राबल्यमये तत्तिरस्कारो दृश्यते । यथा श्रीदेवहूत्याः वनं प्रव्रजिते पत्यावपत्यविरहातुरा । ज्ञाततत्त्वाप्यभून्नष्टे वत्से गौरिव वत्सला ॥ [भागवतम् ३.३३.२१] इति । श्रीदेवकीदेव्याःसमुद्विजे भवद्धेतोः कंसादहमधीरधीः [भागवतम् १०.२.२९] इति । श्रीयुधिष्ठिरस्य अजातशत्रुः पृतनां गोपीयाय मधुद्विषः । परेभ्यः शङ्कितः स्नेहात्प्रायुङ्क्ते चतुरङ्गिणीम् ॥ [भागवतम् १.१०.३२] इयं च तस्य प्रशंसामर्थमेवोक्तम् अथ दूरागतान् शौरिः कौरवान् विरहातुरान् । संनिवर्त्य दृढस्निग्धान् प्रायाद्स्वनगरीं प्रियैः ॥ [भागवतम् १.१०.३३] इत्युक्तवाक्येऽपि तादृग् अभिप्रायात् । तथा श्रीसङ्कर्षणस्य च श्रुत्वैतद्भगवान् रामो विपक्षीयनृपोद्यमम् । कृष्णं चैकं गतं हर्तुं कन्यां कलहशङ्कितः ॥ बलेन महता सार्धं भ्रातृस्नेहपरिप्लुतः । त्वरितः कुण्डिनं प्रागाद्गजाश्वरथपत्तिभिः ॥ [भागवतम् १०.५३.२०२१] भगवान् सर्वज्ञोऽपीत्यर्थः । अतएव कृष्णं महाबकग्रस्तं दृष्ट्वा रामादयोऽर्भकाः [भागवतम् १०.११.४९] इत्यादिकमपि । तदेवं माधुर्यज्ञानस्यैव बलवत्सुखमयत्वे स्थिते तस्मिंश्च श्री गोपानामेव स्वाभाविकतया लब्धे ब्रह्मत्वेश्वरत्वानुभवमतिक्रम्य तेषामेव भाग्येन श्रीशुकदेवोऽपि युक्तमेव चमत्कृतिमवाप इत्थं सतां ब्रह्मसुखानुभूत्या [भागवतम् १०.१२.११] इत्यादौ, नेमं विरिञ्चो न भवः [भागवतम् १०.९.२०] इत्यादौ, नायं सुखाप इत्यादिकस्य गोपिकासुत [भागवतम् १०.९.२१] अत्र, नायं श्रियोऽङ्ग [भागवतम् १०.४७.६०] इत्यादौ च । क्वचिच्च तादृश स्वभावेषु तेष्वैश्वर्यप्रकटनमपि विस्मयद्वारा माधुर्यज्ञानम् एव पुष्णाति । अस्माकं पुत्रादि (पगे ५९) रूपोऽयं कथमीदृशक्रियावान् इति । तथा नन्दादयस्तु तं दृष्ट्वा परमानन्दनिर्वृताः । कृष्णं च तत्र च्छन्दोभिः स्तूयमानं सुविस्मिताः ॥ [भागवतम् १०.२८.१७] इत्यादि । तदेवं शुद्धत्वाच्छ्रीगोकुलबालिकानामेव प्रीतिः प्रशस्ता । यथोक्तं एषां घोषनिवासिनामुत भवान् [भागवतम् १०.१४.३५] इति । यत्रैव पशूनामपि परमः स्नेहो दृश्यते । यथा कालीह्रदावगाहे गावो वृषा वत्सतर्यः क्रन्दमानाः सुदुःखिताः । कृष्णे न्यस्तेक्षणा भीता रुदत्य इव तस्थिरे ॥ [भागवतम् १०.१६.११] इति । तथा तत उत्थाने नरा गावो वृषा वत्सा लेभिरे परमां मुदाम् [भागवतम् १०.१७.१६] इति । तथा स्थावराणामपि तत्रैव कृष्णं समेत्य लब्धेहा आसन् शुष्का नगा अपि [भागवतम् १०.१७.६५] इति । अतएव श्रीब्रह्मणापि प्रार्थितम् तद्भूरिभाग्यमिह जन्म किमप्यटव्यां यद्गोकुलेऽपि कतमाङ्घ्रिरजोऽभिषेकम् । [भागवतम् १०.१४.३४] इति । तदेवं परममाधुर्यैकज्ञाननिधौ श्रीमति गोकुलेऽपि अनुगता बान्धवाश्चेति द्विविधानां तत्प्रियाणां मध्ये ममताविशेषधारित्वाद् अन्त्यानां महानेवोत्कर्षः । यथोक्तं अहो भाग्यमहो भाग्यम् [भागवतम् १०.१४.३२] इत्यादिना । अत्र व्रजौकसां कनिष्ठेष्वपि तेन मित्रतया स्वीकार इति यदुच्यते तत्खलु मित्रतायाः प्रशंसामेवावहतीति । अथ तेष्वपि सखीनां तावदुत्कर्षमाह इत्थं सतां ब्रह्मसुखानुभूत्या दास्यं गतानां परदैवतेन । मायाश्रितानां नरदारकेण साकं विजह्रुः कृतपुण्यपुञ्जाः ॥ [भागवतम् १०.१२.११] सतां ज्ञानिनां ब्रह्मत्वेन स्फुरंस्तावद्विरलप्रचारः । दास्यं गतानां मुक्तानामपि सिद्धानां नारायणपरायणः । सुदुर्लभः प्रशान्तात्मा कोटिष्वपि महामुने ॥ [भागवतम् ६.१४.३५] इत्यनुसारेण परदैवत्वेन स्फुरंस्ततोऽपि विरलप्रचारः । मायाश्रितानां तु ज्ञानभक्तिमैत्रीहीनानां चिद्एकरूपत्वेन न स्फुरति । न च परमेश्वरत्वेन, न च प्रेमास्पदत्वेन । ततस्तदीयासाधारणतास्फूर्तौ योग्यताश्रयाभावात् । अवजानन्ति मां मूढा मानुषीं तनुमाश्रितम् [गीता ९.११] इति न्यायेन अलभ्य एवेति पादत्रयेण तस्योदयमात्र दौर्लभ्यं विवक्षितम् । ततश्चैवम्भूतो योऽसुलभस्फूर्तिः श्रीकृष्णस्तेन समं साक्षादेव प्रेमभूमिकोत्कर्षमधिरूढेन परमसख्येनापि विजह्रुरिति श्री शुकदेवस्य चमत्कारः । अथवा योऽयमहो तदानीं विषूचीनया कृपया मायाश्रितानां साधारण जनानामपि दर्शितसर्वाकारातिक्रमित्माहात्म्येन साक्षान्नराकृतिपर ब्रह्मत्वेन स्फुरंस्ततोऽपि तथा तथा लब्धे लाभे बन्धुभावस्तु तैर् न लब्धः । सखायस्तु तथाभूतेन तेन सार्धं बन्धुभावोत्कर्ष रूपेण सख्येन विजह्रुरित्यतस्त एव कृतपुण्यपुञ्जाः श्रीभगवत् पारितोषिकानेकसत्कर्मकारिवृन्देषु परमश्रेष्ठा इत्यर्थः । अतएव बान्धवान्तरेषु नेदृशं सख्यमस्तीति तेभ्योऽपि माहात्म्यमायातम् । अतएव किमेषां सखीनां साक्षात्तेन समं प्रणयलक्षणहार्द विशेषेण विहरतां (पगे ६०) भाग्यं वर्णनीयम् । ये साधारणा अपि व्रज वासिनस्तेषामप्यास्तां तत्तदन्यद्भाग्यम् । तद्दर्शनमात्र भाग्यमपि परेषां महामुनीनां परमदुर्लभमेवेत्यभिप्रायेण यत्पादांशुर्बहुजन्मकृच्छ्रत [भागवतम् १०.१२.१२] इत्यनन्तरपद्यमपि व्याकृत्यैतदेव सखीनां महाभाग्यवर्णनं पोषणीयम् । अतएवाक्रूरेण अथावरूढ [भागवतम् १०.३८.१५] इत्यत्र नमस्य आभ्यां च सखीन् वनौकस इति चोक्तम् । तदेतत्तावदस्तु येषु सखिषु वत्सेष्वपि ब्रह्मणा हृतेषु अन्यान् सृज्यां तत्तुल्यान् दृष्ट्वा स्वयमेवैतत्तया बभूव । तेष्वपि परितोषमप्राप्य तान् सखीनेवानिनायेत्यप्यनुसन्धेयम् । ॥ १०.१२ ॥ श्रीशुकः ॥ १०० ॥ [१०१] अथ तेभ्योऽपि श्रीपित्रोरुक्तं ततो भक्तिर्भगवति पुत्रीभूते जनार्दने । दम्पत्योर्नितरामासीद्गोपगोपीषु भारत ॥ [भागवतम् १०.८.५१] इत्यनेन । भक्तिः प्रेम । नितरां स्नेहरागपराकाष्ठाध्यारूढत्वात् । गोपाः सर्वे । गोप्यस्तत्प्रेयसीवर्गवनिताः । वक्ष्यमाणानुरोधात् । अथ सर्वेभ्योऽपि मुनिगणप्रशस्तत्या सर्वतोऽपि प्रेमप्रणयमानराग वैशिष्ट्यपुष्टया विशेषतोऽनुरागमहाभावसम्पत्तिधारिण्या स्व प्रीत्या वशीकृतकृष्णानां श्रीव्रजदेवीनां त्वसमोर्धमेव तद् वैभवम् । एतत्क्रमेणैवोद्धवस्याप्यनुज्ञापनक्रमो दृश्यते । यथा अथ गोपीरनुज्ञाप्य यशोदां नन्दमेव च । गोपानामन्त्र्य दाशार्हो यास्यन्नारुरुहे रथम् ॥ [भागवतम् १०.४७.६४] स्पष्टम् । ॥ १०.४७ ॥ श्रीशुकः ॥ १०१ ॥ [१०२] अतएव सर्वमपि श्रीगोकुलमतिक्रम्य दृष्ट्वैवम्आदि गोपीनां कृष्णावेशात्मविक्लवम् । उद्धवः परमप्रीतस्ता नमस्यन्निदं जगौ ॥ एताः परं तनुभृतो भुवि गोपवध्वो गोविन्द एव निखिलात्मनि रूढभावाः । वाञ्छन्ति यद्भवभियो मुनयो वयं च किं ब्रह्मजन्मभिरनन्तकथारसस्य ॥ [भागवतम् १०.४७.५७५८] परं केवलमेतास्तनुभृतः सफलजन्मानः । अतोऽखिलमात्मनि परमात्मत्वेन सर्वेषामपि दुर्लभस्फूर्तिमात्रे स्वसन्निधौ तु गोविन्दे साक्षात्श्रीगोकुलेन्द्रतया विराजमाने एवमीदृशभावविशेष माधुर्येण रूढभावाः उद्भूतमहाभावा जाताः । यदेव महाभावतात्पर्यान्तगतिसमर्थं भावविशेषमाधुर्यं यदि यदृच्छया वर्णनद्वारा कर्णगोचरं स्यात्, तदा स्वस्वभावं परित्यज्य यदयं भावं प्रेम्णः पराकाष्टेयमित्यनुभावमहिमद्वारा वितर्क्य भवभियो मुमुक्षवो मुनयो प्राप्नुमः । एतासामिवास्माकं तन्माधुर्यविशेषास्वादयोग्यत्वाभावादिति भावः । तत्र तद्अवाञ्छकं निन्दति । अनन्तस्यानन्तलीलस्य श्रीकृष्णस्य कथासु कथामात्रेषु किमुत ईदृशीषु कथासु अरसो रसाभावो यस्य तस्य साङ्ख्यैर्विरिञ्चजन्मभिरपि किं, न किञ्चिदपीत्यर्थः । [१०३] ननु ते मुक्ता मुमुक्षवश्च तत्तद्भावेन शास्त्रप्रशस्ता एव । भक्तास् त्वतितमाम् । तर्हि तद्विधानां कथमन्यत्र वाञ्छा । तत्राह क्वेमाः स्त्रियो वनचरीर्व्यभिचारदुष्टाः कृष्णे क्व चैष परमात्मनि रूठभावः । नन्वीश्वरोऽनुभजतोऽविदुषोऽपि साक्षाच् छ्रेयस्तनोत्यगदराज इवोपयुक्तः ॥ [भागवतम् १०.४७.५९] तत्र तासु श्रीमद्उद्धवस्योपक्रमोपसंहारादिषु महाभक्तेरेव स्पष्टत्वात्, तासां श्रीकृष्णभजने व्यभिचारित्वस्य सुतरां तद्दोषस्य च रासान्ते गोपीनां तत्पतीनां च सर्वेषामपि देहिनाम् । (पगे ६१) योऽन्तश्चरति सोऽध्यक्षः क्रीडनेनेह देहभाक् ॥ [भागवतम् १०.३३.३५] इत्यादिना निराकृतत्वात् । स्वयमेवाधुनापि परमात्मनीति तस्यैव सूच्यमानत्वात् । दुर्धियां मते वा तासां व्यभिचारशीलत्वस्य तु आर्यपथं हित्वा [भागवतम् १०.४७.६१] इति प्राप्यस्यैव परित्यागोपपत्तेः स्वयमेव निराक्रियमाणत्वाद् अन्यथार्थस्याप्रस्ताव्यत्वमिति वक्ष्यमाण एवार्थः समञ्जसः । यथा इमा वनचर्यः वृन्दावनविहारिण्यः स्त्रियः कृष्णे तद्रूपे आश्रये क्व कां वा भूमिकामधिकृत्य वर्तन्ते । तया व्यभिचारदुष्टा एतादृश भावोत्कर्षाभावेन यो व्यभिचारो गाढतद्आसक्त्य्अभावस्तेन दुष्टा अन्ये भवभीप्रभृतयो वयं वा तस्मिन् क्व कां भूमिकामधिकृत्य वर्तामहे । ततो महदेवान्तरमिति भावः । कथम् ? एष श्रीगोप वधूष्वेतासु दृश्यमानः परमात्मनि सर्वेषामेव भजनीयत्वेन स्पृहास्पदे परमेश्वरे रूढभावः उद्भूतमहाभावः समुज्जृम्भते । न त्वस्मास्विति । तर्हि ताभिरनुभूयमानस्य ताड्शभावजनकस्य श्रीकृष्णगुण विशेषस्यानभिज्ञा यूयं कथं तद्वाञ्छयापि तत्प्राप्स्यथ, तत्राह नन्व् इति । अविदुषोऽपि । तत्र ममैव अकस्मात्स्वयमत्र प्रस्थापितस्य दृष्टान्तत्वमिति भावः । यथोक्तं स्वयमेव विरहेण महाभागा महान्मेऽनुग्रहः कृतः [भागवतम् १०.४७.२७] इति । अथवा पूर्वमेवार्थं तद्रसविमुखीनां महापतिव्रतानामपि निन्दया द्रढत्यति क्वेमा इति । इमाः श्रीवृन्दावनविहारिण्यः श्रीकृष्ण प्रेयस्यः स्त्रियः क्व । अकारप्रश्लेषेण याश्च वनचर्यस्तद्वन विहारिणीभ्यस्ताभ्यो भिन्नाः । अथ च स्त्रियो व्रतिअस्त्वाम् [भागवतम् ५.१८.१९] इत्य् आदि केतुमालवर्षवर्णनस्थितलक्ष्मीवचनरीत्या परमात्मनि स्वतः सर्वपतौ श्रीकृष्णे वैमुख्येन व्यभिचारदुष्टाः स्त्रियः क्व । महद् एवान्तरमिति भावः । यतश्चैतास्वेष सर्वपुरुषार्थशिरोमणिरूपो रूढभावो दृश्यते न तु तास्विव तल्लेशस्याप्यभाव इति । [१०४] एवं परमप्रेमवतीष्वासुअ तस्य सौदृदमपि परमकाष्ठापन्नं भवेत् । यतो भक्तमात्राणां स्वभावत एव सुहृदसावित्याह नन्विति । किं बहुना नायं श्रियोऽङ्ग उ नितान्तरतेः प्रसादः स्वर्योषितां नलिनगन्धरुचां कुतोऽन्याः । रासोत्सवेऽस्य भुजदण्डगृहीतकण्ठ लब्धाशिषां य उदगाद्व्रजवल्लभीनाम् ॥ [भागवतम् १०.४७.६०] अङ्गे तदीये श्रीवैकुण्ठनाथाख्यश्रीविग्रहविशेषे परमप्रेयसी रूपायाः श्रियो या नितान्तरतिः प्रगाढः कान्तभावः तस्या अपि अयं एतावान् प्रसादः सौख्यप्रकाशो नास्ति । यदि श्रियोऽपि नास्ति तदा नलिनस्य तत्रत्यदिव्यस्वर्णकमलस्येव गन्धो रूक्कान्तिश्च यासां तादृशीनामपि स्वर्योषितां वैकुण्ठपुराङ्गनानामन्यासां सुतरामेव नास्ति । ततः कुतोऽन्याः । अन्याः पुनर्दूरतोऽपि निरस्ता इत्यर्थः । कासामिव कियान् प्रसादो नास्ति, तत्राह रासेति । अस्य श्रीव्रजेन्द्रनन्दनरूपस्य । यद् वाञ्छया श्रीर्ललनाचरत्तपः [भागवतम् १०.१६.३६] इत्युक्तदिशा तस्या अपि स्पृहणीयस्य इत्यर्थः । ततो न केवलं विप्रलम्भ एवासामीदृशो भावोत्कर्षः परन्तु सम्भोगेऽपि लक्ष्या अपि स्पृहणीयः । तेन मद् विधानां का वार्ता इति भावः । भुजदण्डगृहीतकण्ठलब्धाशिषां परमावेशेन गृहीतकण्ठतया प्राप्तपरममनोरथानां रासोत्सवे वः यावानुदगात्सततं निगूढमन्तः सन्नपि प्राकट्यं प्रापेति । अपि यत् स्पृहा श्रीः [भागवतम् १०.१५.८] इत्यत्र (पगे ६२) लक्ष्मीस्पर्धामयवाक्ये व्रज सुन्दरीणामिति सुन्दरीपदविन्यासः सौन्दर्यादिकमपि तासां तद्वद् अधिकमिति सूचयति । तच्च युक्तं यस्यास्ति भक्तिर्भगवत्यकिञ्चना [भागवतम् ५.१८.१२] इति न्यायेन तद्उत्कर्षत उत्कर्षप्राप्तेः । अत्र सर्वभाव शिरोमणिना कान्तभावांशेनैवोभयत्र तारतम्यं दर्शितम् । न तु न च सङ्कर्षणो न श्रीः [भागवतम् ११.१४.१५] इत्यादाविव भक्तिजायात्वांशाभ्याम् । ततो नान्येन साधारण्यं मन्तव्यम् । श्रीकृष्णलक्षणस्वयंभगवद् विषयतया विशेषान्तरं स्वस्त्येवेति ज्ञेयम् । [१०५] तस्मादास्तां तावदासां भावच्छविलाभाभिलाषः । मम त्विदमेव प्रार्थनीयमिथाह आसामहो चरणरेणुजुषामहं स्यां वृन्दावने किमपि गुल्मलतौषधीनाम् । या दुस्त्यजं स्वजनमार्यपथं च हित्वा भेजुर्मुकुन्दपदवीं श्रुतिभिर्विमृग्याम् ॥ [भागवतम् १०.४७.६१] अयमर्थः मय्यासां श्रीकृष्णप्रेमविशेषच्छविस्पर्शोऽपि न सम्भवत्येव विजातीयजन्मवासनत्वात् । ततश्च साक्षाच्चरणस्पर्शोऽपि नेति किं वक्तव्यम् । यद्येवं तदासां चरणस्य यो रेणुस्तस्य स्पर्श भागधेयानां श्रीगुल्मलतौषधीनां मध्ये किमपि यत्किञ्चिद् अनादृतरूपमिति स्यामिति । अहो इत्यभिलाषकृतहृदयार्तौ । कथम्भूतानामित्याह या इति । याः खलु कुलवधूत्वादापातविचारेण स्वयं दुस्त्यजं स्वजनमार्यपथं च हित्वा रागातिशयेन लोकवेद मर्यादामुल्लङ्घ्येत्यर्थः । वस्तुतस्तु श्रुतिभिर्विमृग्यां सर्वश्रुति समन्वयेन परमपुरुषार्थशिरोमणितया निर्णेयामीदृशपरम प्रेमलक्षणां मुकुन्दस्य प्रस्तुतत्वात्श्रीव्रजेन्द्रनन्दनरूपस्य पदवीं तदीयसंयोगानन्दपद्धतिं भेजुरिति । [१०६] तदेवमार्यपथं त्यजाम इति तु तासां भ्रम एवेति भावः । य एव तत् संयोगानन्दः श्रीप्रभृतीनां परमदुर्लभ एवेति स्वयमेव व्यनक्ति । या वै श्रियार्चितमजादिभिराप्तकामैर् योगेश्वरैरपि यदात्मनि रासगोष्ठ्याम् । कृष्णस्य तद्भगवतश्चरणारविन्दं न्यस्तं स्तनेषु विजहुः परिरभ्य तापम् ॥ [भागवतम् १०.४७.६२] या रासगोष्ठ्यां विराजमानस्य श्रीकृष्णस्य भगवतः परम माधुर्यसारभगवत्ताप्रकाशिनस्तद्अनिर्वचनीयमाधुर्यक प्रकृष्टं पदारविन्दं न्यस्तं, तेन स्वयमर्पितं परिरभ्य तापं साक्षात्तद्अप्राप्तिहेतुकमाधिं जहुः । तत्तु योगेश्वरैर्भक्तियोग प्रवीणैः श्रीशुकादिभिरपि आत्मनि मनस्येवार्चितम् । यद्वाञ्छया श्रीर् ललनाचरत्तपः [भागवतम् १०.१६.३६] इत्युक्तदिशा श्रियापि यत्प्राप्तुं मनस्य् एवार्चितम् । तच्च सदैवानादित एव न तु कदाचिदपि साक्षात्प्राप्तम् । तद् अश्रवणादिति भावः । [१०७] एवं तासामेव साक्षान्नमस्कारे कृतचित्ततया तथाविधं गायन्नेवासौ पुनरपि महामहिमस्फूर्तेरतिदैन्यभरसङ्कुचिततया तत्राप्य् आत्मनोऽनधिकारितां मन्यमानस्तत्पादरेणुमेव नमस्कुर्वन् तत्रापि दैन्येन तद्एकवर्गसम्बन्धात्साधारणव्रजस्त्रीणामेव नमस्करोति वन्दे नन्दव्रजस्त्रीणां पादरेणुमभीक्ष्णशः । यासां हरिकथोद्गीतं पुनाति भुवनत्रयम् ॥ [भागवतम् १०.४७.६३] उत्तरार्धेन तादृशीनामप्यासां साक्षादेव पादरेणुं वन्दे, तदेतद् अप्यहो अस्माकं (पगे ६३) भाग्यमस्तीत्येतदपि महदद्भुतमिति भावः । अत्रैतदुक्तं भवति एते हि यादवाः सर्वे मद्गणा एव भामिनि । [ড়द्मড়् ६.८९.२२] सर्वदा मत्प्रिया देवि मत्तुल्यगुणशालिनः ॥ इति पाद्मकार्तिकमाहात्म्यदृष्टश्रीभगवद्वाक्यानुसारेण शय्यासनाटनालापे [भागवतम् १०.९०.४६] इत्याद्य्अनुसारेण च यादवा एव तावत् स्वयं भगवतः श्रीकृष्णदेवस्य परमप्रेष्ठाः । अतः प्रादुर्भावान्तरभक्तास्तु स्वतो दूरत एव स्थिता । अथ भक्तान्तरेषु यादवेष्वपि त्वं तु भागवतेष्वहम् [भागवतम् ११.१६.२९], त्वं मे भृत्यः सुहृत्सखा [भागवतम् ११.११.४९], नोद्धवोऽण्वपि मन्न्यूनः [भागवतम् ३.४.३१], न च सङ्कर्षणो न श्रीर्नैवात्मा च यथा भवान् [भागवतम् ११.१४.१५] इत्यादि कामकृच्छ्रीकृष्णवाक्यानुसारात्भक्त्य्अंशेन तु सर्वतोऽप्युद्धव एव श्रेयान्, तस्य तु श्रीव्रजदेवीष्वेवैवं दैन्य वचनं, न जातु महिषीस्वपीति जातान्धस्यापि चाक्ष्षमेवेदं तासां यशो राकाचन्द्रमःसौन्दर्यमिति ॥ ॥ १०.४७ ॥ श्र्युद्धवः ॥ १०२१०७ ॥ [१०८] तत्र स्वेभ्यः षोडशसहस्रसङ्ख्याभ्यः श्रीयदुदेवस्य पत्नीभ्यस् तथाष्टभ्यः पट्टमहीषिभ्यश्च तासां माहात्म्यं वदन्त्यः परमकाष्ठापन्नतया श्रीराधिकादेव्या आहुः न वयं साध्वि साम्राज्यं स्वाराज्यं भौज्यमप्युत । वैराज्यं पारमेष्ठ्यं च आनन्त्यं वा हरेः पदम् ॥ कामयामह एतस्य श्रीमत्पादरजः श्रियः । कुचकुङ्कुमगन्धाठ्यं मूर्ध्ना वोठुं गदाभृतः ॥ व्रजस्त्रियो यद्वाञ्छन्ति पुलिन्द्यस्तृणवीरुधः । गावश्चारयतो गोपाः पादस्पर्शं महात्मनः ॥ [भागवतम् १०.८३.४१४३] हे साध्वि, साम्राज्यादिकं न कामयामहे । तत्र साम्राज्यं सार्वभौमं पदम् । स्वाराज्यमैन्द्रं पदं भोज्यं तद्उभयभोगभाक्त्वम् । भुनक्तीति भुक्तस्य भाव इति । विविधं राजत इति विराट्तस्य भावो वैराज्यम् । अणिमादिसिद्धिभाक्त्वमित्यर्थः । पारमेष्ट्यं ब्रह्म पदम् । आनन्त्यं ये ते शतम् [टैत्तू २.८.२] इत्यादिश्रुतिरीत्या मनुष्यानन्दमारभ्य शतशतगुणितत्वेन प्राजापत्यस्य गणनायाः परां काष्ठां दर्शयित्वा परब्रह्मणि तु यतो वाचो निवर्तन्ते [टैत्तू २.४.१] इत्यनेन यदानन्दस्यानन्त्यं दर्शितं तदपीत्यर्थः । किं बहुना, हरेः श्रीपतेः पदं सामीप्यादिकमपि यत्तदेतदपि न कामयामहे । नाधीनं कर्तुमिच्छाम इत्यर्थः । तर्हि किमधिकं लब्धं कामयध्वे ? न, तत्राहुः एतस्यास्मत्पतित्वेन सर्वविज्ञातस्य गदाभृतः श्रीमत्पादरज एव तावन्मूर्ध्ना वोड्ध्रुं कामयामहे । तत्रापि यत्श्रियः कुचकुङ्कुमगन्धेनाढ्यं तद् गन्धेन प्राप्तसम्पद्विशेषं तत्पुनरधिकं कामयामह इत्यर्थः । ननु, श्रीपतेरेव पदं श्रीकुङ्कुमगन्धाढ्यं [Vऋ. हेरे अद्द्स्: तत् सामीप्यादित्यागात्तत्तु भवत्यस्त्यक्तवत्य एव । यदि च श्रीरत्र रुकुम्ण्यभिप्रेयते तर्हि तत्तु भवतीनां प्राप्तमेव । तस्मात्तत्तद् विलक्षणाया एव श्रियः कुचकुङ्कुमगन्धाढ्यम् । Vऋ. अद्दितिओनेन्द्स्.] तत् स्यादिति गम्यते । ततस्तद्अवबोधनाय पुनर्विशिष्यताम् । तत्राहुः व्रज स्त्रिय इति । पूर्णाः पुलिन्द्य उरुगाय [Bह्प्१०.२१.१७] इत्यादि स्ववाक्याद्य् अनुसारेण व्रजस्त्र्य्आदयो यद्वाञ्छन्ति ववाञ्छुरित्यर्थः । वर्तमान प्रयोगेण तत्तद्अविच्छेद उत्प्रेक्ष्यते । अत्र पुलिन्द्य्आदिनिर्देशस्तु स्वेषाम् अपि तत्प्राप्तियोग्यताविवक्षया । तृणवीरुधो (पगे ६४) दूर्वाद्याः । आसां तादृग्अनुभवश्च तत्कुचकुङ्कुमसौरभवासितत्वाविच्छिन्नतत् पादपभावादेवेति भावः । गावो गाः । चारयतश्चारयन्तः । गोपा इत्यन्ते निर्देशस्तु केषांचित्प्रियनर्मसखादीनां तद्अनुमोदकारित्वेऽपि पुरुषत्वात्तत्रायोग्यताविवक्षया । अयं भावः श्रीत्वेन प्रसिद्धायाः श्रियस्तत्र कामनैव श्रूयते, न तु सङ्गतिः । यद्वाञ्छया श्रीर्[भागवतम् १०.१६.३६] इति नागपत्नीनां, या वै श्रियार्चितम् [भागवतम् १०.४७.६२] इत्युद्धवस्याप्य् उक्तेः । न च रुक्मिणीत्वेन प्रसिद्धाया श्रियस्तत्र सङ्गतिः । कालदेशयोर् अन्यतमत्वात् । न च व्रजस्त्रीणां श्रीसम्बन्धलालसा युक्ता नायं श्रियोऽङ्ग [भागवतम् १०.४७.६०] इत्य्आदिना ततोऽपि परमाधिक्यश्रवणात् । तस्माद् रुक्मिणी द्वारवत्यां तु राधा वृन्दावने वने इति मात्स्यानुसारेण रुक्मिण्या सह पठिता । शास्त्रदृष्ट्या तूपदेशो वामदेवाद्[Vस्. १.१.३०] इति न्यायरीत्या महेन्द्रेण परमेश्वर इव दुर्गयाप्यहंग्रहोपासना शास्त्रदृष्ट्या स्वाभेदेनोपदिष्टा । श्रीराधा तु सर्वतः पूर्णा तल् लक्ष्मीः । तथा देवी कृष्णमयी प्रोक्ता राधिका इत्यादि बृहद्गौतमीयानुसारेण, राधया माधवो देवो माधवेनैव राधिका इत्यादि ऋक्परिशिष्टानुसारेण च तासु राधात्वेन प्रसिद्धा सर्वतो विलक्षणा या श्रीर्विराजते ताम् उद्दिश्यैव तासां तदिदं वाक्यम् । यथा च अनयाराधितो नूनं भगवान् [भागवतम् १०.३०.२८] इत्यादि । अप्येणपत्न्य्उपगत [भागवतम् १०.३०.११] इत्य्आदिद्वयं च । ततश्च तासां यथा तत्र स्पृहास्पन्दता तथास्माकं चेति । तदेवं तादृशप्रेमस्फूर्तिमयतद्गन्धाढ्यतायाः सम्प्रत्यप्य् अस्मासु प्रकाशः स्यादिति दर्शितम् । न केवलं तादृशं तद्रज एव वाञ्छन्ति अपि तु तादृशपादस्पर्शं च । अतो वयमपि तं कामयामह इत्यर्थः । यद्वा तद्रजस एव विशेषणं पादस्पर्शमिति । तद्अव्यभिचारि फलत्वादभिन्नमेवेत्यर्थः । एतस्य तत्र कीदृशस्य ? महान् सर्वत्रत्यादपि स्वभावादुत्तम आत्मा सौन्दर्यादिप्रकाशमयः स्वभावो यस्य तादृशस्य तत्रातिशुशुभे ताभिर् भगवान् [भागवतम् १०.३३.६] इति श्रीशुकोक्तेः ॥ ॥ १०.८३ ॥ श्रीमहिष्यो द्रौपदीम् ॥ १०८ ॥ (पगे ६५) [१०९] अथ तत्रैव श्रीराधादेव्याः, आदिपुराणे त्रैलोक्ये पृथिवी धन्या तत्र वृन्दावनं पुनः । तत्रापि गोपिकाः पार्थ तत्र राधाभिधा मम ॥ इति । पाद्मे कार्त्तिकमाहात्म्ये यथा राधा प्रिया विष्णोस्तस्याः कुण्डं प्रियं तथा । सर्वगोपीषु सैवैका विष्णोरत्यन्तवल्लभा ॥ इति । अतएव तस्या एव प्रमाधिक्यं वर्णितमाग्नेये वासनाभाष्योद्धृतं वचनम् गोप्यः पप्रच्छुरुषसि कृष्णानुचरमुद्धवम् । हरिलीलाविहारांश्च तत्रैकां राधिकां विना । राधा तद्भावसंलीना वासनाया विरामिता ॥ इति । नवमावस्थाप्राप्तत्वेन प्रश्नादिवासनाया विरामिता तस्यामसमर्थ्येत्य् अर्थः । तस्मादनेन सर्वव्रजदेवीष्वपि श्रैष्ठ्यादिचिह्नेन श्रीरास विहारे ताभिरेव स्वयं कस्याः पदानि [भागवतम् १०.३०.२७] इत्यादिना वर्णित सौभाग्यातिशया श्रीराधिकैव भवेत् । अतस्तन्नाम्नैव ताः सूचयामासुः अनयाराधितो नूनं भगवान् हरिरीश्वरः । यन्नो विहाय गोविन्दः प्रीतोऽयमनयद्रहः ॥ [भागवतम् १०.३०.२८] अनया राधया भगवान् राधितः साधितो वशीकृत इत्यर्थः । नूनमिति वितर्के । यतश्च राधयतीति निरुक्त्या तस्या राधेति संज्ञापि जातेति भावः । राधितत्वे हेतुः यन्न इति । गोविन्दः श्रीगोकुलेन्द्रः ॥ ॥ १०.३० ॥ श्रीव्रजदेव्यः ॥ १०९ ॥ [११०] तदेवं तथाभूतश्रीभगवत्प्रीतिमाधुरीषु श्रीराधायास्तन् माधुरीसर्वोर्ध्वमधिरूढेत्येतावत्तत्परावस्थास्थापना पर्यन्तेन सन्दर्भेण तत्प्रीतिजातितारतम्यं दर्शितम् । एषा च तत्प्रीतिर्लौकिककाव्यविदां रत्य्आदिवत्कारणकार्यसहायैर् मिलित्वा रसावस्थामापुन्वती स्वयं स्थायी भाव उच्यते । कारणाद्याश्च क्रमेण विभावानुभावव्यभिचारिण उच्यन्ते । तत्र तस्या भावत्वं प्रीति रूपत्वादेव । स्थायित्वं च विरुद्धैरविरुद्धैर्वा भावैर्विच्छिद्यते न यः । आत्मभावं नयत्यन्यान् स स्थायी लवणाकरः ॥ [डशरूपक ४.३४] इति रसशास्त्रीयलक्षणव्याप्तेः । अन्येषां विभावत्वादिकं च तद्विभावनादिगुणेन दर्शयिष्यमाणत्वात् । ततः कारणादिस्फूर्तिविशेषव्यक्तस्फूर्तिविशेषा तन्मिलिता भगवत्प्रीतिस् तदीयप्रीतिमयरस उच्यते । भक्तिमयो रसो भक्तिरस इति च । यथाहुः भावा एवाभिसम्पन्नाः प्रयान्ति रसरूपतामिति । यत्तु प्राकृतरसिकै रससामग्रीविरहाद्भक्तौ रसत्वं नेष्टं, तत् खलु प्राकृतदेवादिविषयमेव सम्भवेत् । सामग्री हि रसत्वापत्तौ त्रिविधा । स्वरूपयोग्यता, परिकरयोग्यता, पुरुषयोग्यता च । तत्र लौकिकेऽपि रसे रत्य्आदेः स्थायिनः स्वरूपयोग्यता । स्थायिभावरूपत्वात् सुखतादात्म्याङ्गीकारादेव च । भगवत्प्रीतौ तु स्थायिभावत्वं तद् विधाशेषसुखतरङ्गार्णवब्रह्मसुखादधिकतमत्वं च प्रतिपादितमेव । तथा तत्र कारणादयस्तत्परिकराश्च लौकिकत्वाद्विभावनादिषु स्वतोऽक्षमाः । किन्तु सत्कविनिबन्धचातुर्यादेवालौकिकत्वमापन्नास् तत्र योग्या भवन्ति । तत्र तु ते स्वत एवालौकिकाद्भुतरूपत्वेन दर्शिता दर्शनीयाश्च । पुरुषयोग्यता च श्रीप्रह्लादादीनामिव तादृशवासना । तां विना च लौकिककाव्येनापि तन्निष्पत्तिं न मन्यते । यथोक्तम् पुण्यवन्तः प्रमिण्वन्ति योगिवद्रससन्ततिम् ॥ [षाहित्यदर्पण ३.२] इति । न जायते तद् आस्वादो विना (पगे ६६) रत्य्आदिवासनाम् ॥ [षाहित्यदर्पण ३.८] इति च । लौकिकरसस्योत्पत्तिः स्वरूपमास्वादप्रकारश्चैवमेवोच्यते । यथा सत्त्वोद्रेकादखण्डस्वर्प्रकाशानन्दचिन्मयः । वेद्यान्तरस्पर्शशून्यो ब्रह्मास्वादसहोदरः ॥ लोकोत्तरचमत्कारप्राणः कैश्चित्प्रमातृभिः । स्वाकारवदभिन्नत्वेनायमास्वाद्यते रसः ॥ [षाहित्यदर्पण ३.२] इति । अत्र तु अप्राकृतविशुद्धसत्त्वहेतुत्वं सत्त्वं विशुद्धं वसुदेव शब्दितमित्यादेः । दर्शितं चास्य सत्त्वस्याप्राकृतत्वं भगवत्सन्दर्भे । तथा ब्रह्मास्वादादप्यधिकत्वं या निर्वृतिस्तनुभृतां [भागवतम् ४.९.१०] इत्य् आदेः । नात्यन्तिकं विगणयन्त्यपि ते प्रसादम् [भागवतम् ३.१५.४८] इत्यादेश्च । ततश्चमत्कारश्च सुतरामेव । विस्मापनं स्वस्य च सौभगार्द्धेः [भागवतम् ३.२.१२] इत्यादेः । किं चालौकिकरसविदां प्राचीनानामपि मतानुसारेण सिध्यत्यसौ रसः । तत्र सामान्यतः श्रीभगवन्नामकौमुदीकारैर्दर्शितः । तस्य विशेषतस्तु शान्तादिषु पञ्चसु भेदेषु वक्तव्येषु श्रीस्वामिचरणैर् मल्लानामशनिर्[भागवतम् १०.४३.१७] इत्यादौ ते पञ्चैव दर्शिताः । स्त्रीणां शृङ्गारः । समवयसां गोपानां हास्यशब्दसूचितनर्ममयसख्य स्थायी सख्यमयः प्रेयान् । ततस्तन्मते गोपानां श्रीदामादीनामित्य् एवार्थः । पित्रोर्दयापरपर्यायवात्सल्यस्थायी वत्सलः । योगिनां ज्ञान भक्तिमयः शान्तः । वृष्णीनां भक्तिमय इति । तथा सामान्यप्रीतिमय रसश्च नॄणां दर्शितः । तत्राद्भुतत्वनिर्देशश्च सर्वस्यैव रसस्य तत् प्राणत्वात्शान्तत्वादिवैशिष्ट्याभावे तदेव निर्दिष्टमिति । यथाह धर्मदत्तः रसे सारश्चमत्कारः सर्वत्राप्यनुभूयते । तच्चमत्कारसारत्वे सर्वत्राप्यद्भुतो रसः । तस्मादद्भुतमेवाह कृती नारायणो रसम् ॥ [षाहित्यदर्पण ३.२] इति । ये तु मल्लादीनां रौद्रादिरसास्तत्रैव स्वामिभिरङ्गीकृतास्ते खलु प्रीतिर्विरोधित्वान्नात्रादृताः । तदेतदलौकिकरसविन्मतम् । तथा कैश्चिल्लौकिकरसविद्भिर्भोजराजादिभिः प्रेयान् वत्सलश्च रसः सम्मतोऽस्ति । तथा चोक्तम् स्नेहस्थायिभावः प्रेयान् । यथा यदेव रोचते मह्यं तदेव कुरुते प्रिया । इति वेत्ति न जानाति तत्प्रियं यत्करोति सा ॥ [षरस्वतीकण्ठाभरणम् ५] इति । दम्पत्योरनयोः सख्यविशेषविवक्षया तदिदमुदाहृतम् । एवं स्फुटं चमत्कारितया वत्सलं च रसं विदुः । (पगे ६७) स्थायी वत्सलतास्येह पुत्राद्य्आलम्बनं मतम् ॥ [षाहित्यदर्पण ३.२०१] इत्य् आदि । तथा सुदेवाद्यैर्भक्तिमयश्चेति । किं च लौकिकस्य रत्यादेः सुख रूपत्वं यथाकथञ्चिदेव वस्तुविचारे दुःखपर्यवसायित्वात् । तदुक्तं स्वयं भगवता सुखं दुःखसुखात्ययः दुःखं कामसुखापेक्षा [भागवतम् ११.१९.४१] इति । तदीयः शमोऽपि शमो मन्निष्ठता बुद्धेः [भागवतम् ११.१९.३६] इति वदता तेनैवानादृतः । जुगुप्सादीनां तु सुखरूपता लौकिकैर् अपि द्वेष्या । तत्तन्निन्दा भागवतरसश्लाघा च श्रीनारदवाक्ये न यद्वचश्चित्रपदं हरेर्यशो जगत्पवित्रं प्रगृणीत कर्हिचित् । तद्वायसं तीर्थमुशन्ति मानसा न यत्र हंसा निरमन्त्युशिक्क्षयाः ॥ तद्वाग्विसर्गो जनताघविप्लवो यस्मिन् प्रतिश्लोकमबद्धवत्यपि । नामान्यनन्तस्य यशोऽङ्कितानि यत् शृण्वन्ति गायन्ति गृणन्ति साधवः ॥ [भागवतम् १.५.१०११] इति । श्रीरुक्मिणीवाक्येऽपि त्वक्श्मश्रुरोमनखकेशपिनद्धमन्तर् मांसास्थिरक्तकृमिविट्कफपित्तवातम् । जीवच्छवं भजति कान्तमतिर्विमूठा या ते पदाब्जमकरन्दमजिघ्रती स्त्री ॥ [भागवतम् १०.६०.४५] इति । तस्माल्लौकिकस्यैव विभावादेः रसजनकत्वं न श्रद्धेयम् । तज् जनकत्वे च सर्वत्र बीभत्सजनकत्वमेव सिध्यति । श्रीभागवतरसस्य तु विष्यिणमारभ्य मुक्तपर्यन्ते जने तद्वदहो अनिन्द्रिये चैतन्य शून्येऽपि विकारहेतुत्वात्कथं तत्रासम्भावनापि स्यात् । यथोक्तं निवृत्त तर्षैरुपगीयमानात्[भागवतम् १०.१.४] इत्यादि । अस्पन्दनं गतिमतां पुलकस् तरूणां [भागवतम् १०.२१.१९] इति । कृष्णं समेत्य लब्धेहा आसन् शुष्का नगा अपि [भागवतम् १०.१७.१५] इति । तदेतदभिप्रेत्य श्रीभगवत्प्रीत्य्एकव्यञ्जकस्य श्री भागवतपुराणस्य रसात्मकत्वं शब्देनैव निर्दिशति निगमकल्पतरोः [भागवतम् १.१.३] इत्यादि । हे भावुकाः परममङ्गलायनाः । ये रसिका भगवत्प्रीतिरसज्ञा इत्य् अर्थः । ते यूयं वैकुण्ठात्क्रमेण भुवि पृथिव्यामेव गलितमवतीर्णं निगमकल्पतरोः सर्वफलोत्पत्तिभुवः शाखोपशाखाभिर्वैकुण्ठम् अध्यारूढस्य वेदरूपतरोर्यत्खलु रसरूपं श्रीभागवताख्यं फलं तत्भुव्यपि स्थिताः पिबत आस्वाद्यान्तर्गतं कुरुत । अहो इत्यलभ्य लाभव्यञ्जना भागवताख्यं यच्छास्त्रं तत्खलु रसवदपि रसैकमयताविवक्षया रसशब्देन निर्दिष्टम् । भागवतशब्देनैव तस्य रसस्यान्यदीयत्वं व्यावृत्तम् । भागवतस्य तदीयत्वेन रसस्यापि तदीयत्वाक्षेपात् । शब्दश्लेषेण च भगवत्सम्बन्धिरसमिति गम्यते । स च रसो भगवत्प्रीतिमय एव । यस्यां वै श्रूयमाणायाम् [भागवतम् १.७.७] इत्य् आदिफलश्रुतेः । यन्मयत्वेनैव श्रीभगवति रसशब्दः श्रुतौ प्रयुज्यते रसो वै सः [टैत्तू २.७.१] इति । स एव च प्रशस्यते रसं ह्येवायं लब्ध्वानन्दी भवति इति । तत्र रसिका इत्यनेन प्राचीनार्वाचीन संस्काराणामेव तद्विज्ञत्वं दर्शितम् । गलितमित्यनेन तस्य सुपाकिम्त्वेनाधिकस्वादुमत्त्वमुक्त्वा शास्त्रपक्षे सुनिष्पन्नार्थत्वेनाधिकस्वादुत्वं दर्शितम् । रसमित्यनेन फलपक्षे त्वग्अष्ट्य्आदिराहित्यं व्यज्यात्र च पक्षे हेयांशराहित्यं दर्शितम् । तथा भागवतमित्यनेन सत्स्वपि फलान्तरेषु निगमस्य परम फलत्वेनोक्त्वा तस्य परमपुरुषार्थत्वं दर्शितम् । एवं तस्य रसात्मकस्य फलस्य स्वरूपतोऽपि वैशिष्ट्ये सति परमोत्कर्ष बोधनार्थं वैशिष्ट्यान्तरमाह शुकेति । अत्र फलपक्षे कल्पतरु वासित्वादलौकिकत्वेन शुकोऽप्यमृतमुखोऽभिप्रेयते । (पगे ६८) ततस्तन् मुखं प्राप्य यथा तत्फलं विशेषतः स्वादु भवति तथा परम भागवतमुखसम्बन्धं भगवद्वर्णनमपि । ततस्तादृशपरम भागवतवृन्दमहेन्द्रश्रीशुकदेवमुखसम्बन्धं किमुतेति भावः । अतएव परमस्वादपरमकाष्ठाप्राप्तत्वात्स्वतोऽन्यतश्च तृप्तिरपि न भविष्यतीत्यालयं मोक्षानन्दमप्यभिव्याप्य पिबतेत्य् उक्तम् । तथा च वक्ष्यते परिनिष्ठितोऽपि [भागवतम् २.१.९] इत्यादि । अनेनास्वाद्यान्तरवन्नेदं कालान्तरेऽप्यास्वादकबाहुल्येऽपि व्ययिष्यतीत्य् अपि दर्शितम् । यद्वा, तत्र तस्य रसस्य भगवत्प्रीतिमयत्वेऽपि द्वैविध्यम् । तत्प्रीत्य् उपयुक्तत्वं तत्प्रीतिपरिणामत्वं चेति । यथोक्तं द्वादशे कथा इमास्ते कथिता महीयसां विताय लोकेषु यशः परेयुषाम् । विज्ञानवैराग्यविवक्षया विभो वचोविभूतीर्न तु पारमार्थ्यम् ॥ यत्तूत्तमःश्लोकगुणानुवादः सङ्गीयतेऽभीक्ष्णममङ्गलघ्नः । तमेव नित्यं शृणुयादभीक्ष्णं कृष्णेऽमलां भक्तिमभीप्समानः ॥ [भागवतम् १२.३.१४१५] इति । ततः सामान्यतो रसत्वमुक्त्वा विशेषतोऽप्याह अमृतेति । अमृतं तल्लीला रसः । हरिलीलाकथाव्रातामृतानन्दितसत्सुरम् [भागवतम् १२.१३.११] इति द्वादशे श्रीभागवतविशेषणात् । लीलाकथारसनिषेवणम् [भागवतम् १२.४.४०] इति तस्यैव रसत्वनिर्देशाच्च । सत्सुरमिति सन्तोऽत्रात्मारामाः । इत्थं सताम् [भागवतम् १०.१२.११] इत्यादिवत् । त एव सुराः । अमृतमात्रस्वादित्वात् । अत्र त्वमृत द्रवपदेन लीलारसस्य सार एवोच्यते । तस्मादेवं व्याख्येयम् । यद्यपि प्रीतिमयरस एव श्रेयान् तथाप्यस्त्यत्र विवेकः । रसानुभविनो ह्यत्र द्विविधाः । पिबतेत्युपदेश्याः । स्वतस्तद्अनुभविनो लीलापरिकराश्च । तत्र लीलारसानुभविनो ह्यत्र परिकरा एव तस्य सारमनुभवन्ति अन्तरङ्गत्वात् । परे तु यत्किञ्चिदेव बहिरङ्गत्वात् । यद्यप्येवं तथापि तद्अनुभवमयं रससारं स्वानुभवमयेन रसेनैकतया विभाव्य पिबत । यतस्तादृशतया तादृशशुकमुखाद्गलितं प्रवाहरूपेण वहन्तमित्यर्थः । तदेवं भगवत्प्रीतेः परमरसत्वापत्तिः शब्दोपात्तैव । अन्यत्र च सर्ववेदान्तसारं हि [भागवतम् १२.१३.१५] इत्यादौ तद्रसामृततृप्तस्य इत्यादि । एवमेवाभिप्रेत्य भावुका इत्यत्र रसविशेषभावनाचतुरा इति टीका । तथा स्मरन्मुकुन्दाङ्घ्र्य्उपगूहनं पुनर्विहातुमिच्छेन्न रस ग्रहो जनः [भागवतम् १.५.१९] इत्यादि । ॥ १.१ ॥ श्रीवेदव्यासः ॥ ११० ॥ [१११] एवं विभावादिसंयोगेन भगवत्प्रीतिमयो रसो व्यक्तीभवति । तत्र लौकिकनाट्यरसविदामपि पक्षचतुष्कम् । रसस्य मुख्यया वृत्त्यानुकार्ये प्राचीने नायक एव वृत्तिः । नटे तूपचारादित्येकः पक्षः । पूर्वत्र लौकिकत्वात्पारिमित्याद्भयादिसान्तरायत्वाच्चानुकर्तरि नट एव द्वितीयः । तस्य शिक्षामात्रेण शून्यचित्ततयैव तद्अनुकर्तृत्वात् सामाजिकेष्वेवेति तृतीयः । यदि च द्वितीये सचेतस्त्वं तदोभयत्रापि कथं न स्यादिति चतुर्थ इति । श्रीभागवतानां तु सर्वत्रैव तत्प्रीतिमयरस स्वीकारः । लौकिकत्वादिहेतोरभावात् । तत्रापि विशेषतोऽनुकार्येषु तत् परिकरेषु येषां नित्यमेव हृदयमध्यारूढः पूर्णो रसोऽनुकर्त्रादिषु सञ्चरति । तत्र भगवत्प्रीतेरलौकिकत्वमपरिमितत्वं च स्वत एव सिद्धम् । न तु लौकिकरत्य्आदिवत्काव्यक्प्तम् । तच्च स्वरूपनिरूपणे स्थापितम् । भयाद्य्अनवच्छेद्यत्वं श्रीप्रह्लादादौ श्रीव्रजदेव्यादौ च व्यक्तम् । जन्मान्तराव्यवच्छेद्यत्वं श्रीवृत्रगजेन्द्रादौ दृष्टम् । श्रीभरतादौ वा । किं बहुना, (पगे ६९) ब्रह्मानन्दाद्य् अनवच्छेद्यत्वमपि श्रीशुकादौ प्रसिद्धम् । एवं तत्कारणादेश् चालौकिकत्वं ज्ञेयम् । तत्रालम्बनकारणस्य श्री भगवतोऽसमोर्ध्वातिशयिभगवत्त्वादेव सिद्धम् । तत्परिकरस्य च तत् तुल्यत्वादेव । तच्च श्रुतिपुराणादिदुन्दुभिघोषितम् । अथोद्दीपनकारणानां तदीयानां च तदीयत्वादेव । तच्च यथा दर्शितम् तस्यारविन्दनयनस्य [भागवतम् ३.१५.४३] इत्यादौ चकार तेषां संक्षोभम् अक्षरजुषामथ चित्ततन्वोः इति, गोप्यस्तपः किमचरन् [भागवतम् १०.४४.१४] इत्य् आदि, का स्त्र्यङ्ग [भागवतम् १०.२९.४०] इत्यादौ यद्गोद्विजद्रुममृगान् पुलकान्य् अबिभ्रतिति, विविधगोपचरणेषु विदग्ध [भागवतम् १०.३५.१४] इत्यादि । वेणुवाद्यवर्णने सवनशस्तद्उपधार्य सुरेशाः शक्रशर्वपरमेष्ठिपुरोगाः । कवय आनतकन्धरचित्ताः कश्मलं ययुरनिश्चिततत्त्वाः ॥ [भागवतम् १०.३५.१५] इति । आगन्तुका अपि तच्छक्त्य्उपबृंहितत्वेन सादृश्यात्तत्स्फूर्तिमयत्वेन चालौकिकीं दशामाप्नुवन्ति । यथोक्तं प्रावृट्श्रियं च तां वीक्ष्य सर्वकालसुखावहाम् भगवान् पूजयां चक्रे आत्मशक्त्य्उपबृंहिताम् ॥ [भागवतम् १०.२०.३१] यथा मेघादयश्च, तथा कार्यरूपाः पुलकादयोऽप्यलौकिकाः । ये खलु अस्पन्दनं गतिमतां पुलकस्तरूणाम् [भागवतम् १०.२१.१९] इत्यादौ तर्व्आदिष्व् अप्युद्भवन्तो मनुष्येषु स्वस्यात्यद्भुतोदयमेव ज्ञापयन्ति । एवं निर्वेदाद्याः सहायाश्चालौकिका मन्तव्याः । यत्र लोकविलक्षण वैचित्त्यविप्रलम्भादिहेतव उन्मादादय उदाहरिष्यन्ते । क्वचित्तु सर्वेषामपि स्वत एवालौकिकत्वम् । श्रीब्रह्मसंहितायाम् श्रियः कान्ताः कान्तः परमपुरुषः कल्पतरवो द्रुमा भूमिश्चिन्तामणिगणमयि तोयममृतम् कथा गानं नाट्यं गमनमपि वंशी प्रियसखि चिद्आनन्दं ज्योतिः परमपि तदास्वाद्यमपि च स यत्र क्षीराब्धिः स्रवति सुरभीभ्यश्च सुमहान् निमेषार्धाख्यो वा व्रजति न हि यत्रापि समयः भजे श्वेतद्वीपं तमहमिह गोलोकमिति यं विदन्तस्ते सन्तः क्षितिविरलचाराः कतिपये ॥ [Bरह्मष्५.६७६८] इति । गानं नाट्यमिति तद्वद्रसाधायकमित्यर्थः । तदेवमलौकिकत्वादिनानुकार्येऽपि रसे रसत्वापादानशक्तौ सत्यां प्रीति कारणादयस्ते तदापि विभावाद्याख्यां भजन्ते । तथैव हि तेषां तत्तद् आख्या । यथोक्तं विभावनं रत्यादेर्विशेषेणास्वादाङ्कुरयोग्यतानयनम् । अनुभावनम् एवम्भूतस्य रत्यादेः समनन्तरमेव रसादिरूपतया भावनम् । सञ्चारणे तथाभूतस्य तस्यैव सम्यक्चारणम् [षाहित्यदर्पणम् ३.१३] इति । किं च स्वाभाविकालौकिकत्वे सति यथा लौकिकरसविदां लौकिकेभ्योऽपि काव्यसंश्रयादलौकिकशक्तिं दधानेभ्यो विभावाद्य्आख्याप्राप्त कारणादिभ्यः शोकादावपि सुखमेव जायते इति रसत्वापत्तिस् तथैवास्माभिर्वियोगादावपि मन्तव्यम् । तत्र बहिस्तदीयवियोगमय दुःखेऽपि परमानन्दघनस्य भगवतस्तद्भावस्य च हृदि स्फूर्तिर् विद्यत एव । परमानन्दघनत्वं च तयोस्त्यक्तुमशक्यत्वात् । ततः क्षुधातुराणामत्युष्णमधुरदुग्धवन्न तत्र रसत्वव्याघातः । तदा तद्भावस्य परमानन्दरूपस्यापि वियोगदुःखनिमित्तत्वं चन्द्रादीनां तापनत्वमेव ज्ञेयम् । तथा तस्य दुःखस्य च भावाननन्दजन्यत्वादायत्यां संयोगसुख (पगे ७०) पोषकत्वाच्च सुखान्तःपात एव । तथा तदीयस्य करुणस्यापि रसस्य सर्वज्ञवचनादिरचितप्राप्त्य्आशामयत्वात्संयोगावशेषत्वात्तत्र तथैव गतिः सिद्धा । तदेवमनुकार्ये रसोदयः सिद्धः । स एव च मुख्यः । श्रवणजानुरागाद्दर्शनजानुरागस्य श्रेष्ठत्वात् श्रुतमात्रोऽपि यः स्त्रीणां प्रसह्याकर्षते मनः । उरुगायोरुगीतो वा पश्यन्तीनां च किं पुनः ॥ [भागवतम् १०.९०.२६] इति न्यायेन । अतस्तव विक्रीडितं ब्रह्मन् [भागवतम् ११.६.४४] इत्यादिकोद्भववचनमयं पद्यद्वयं चाहार्यम् । अथ अनुकर्ताप्यत्र भक्त एव सम्मतः । अन्येषां सम्यक्तद् अनुकरणासामार्थ्यात् । ततस्तत्रापि तद्रसोदयः स्यादेव । किन्तु भक्तेर् भक्तिविषयको भगवद्रसः प्रायो नोदयते भक्तिविरोधादेव । ततो नानुक्रियते च । तद्अनुभवश्च भगवत्सम्बन्धित्वेनैव भवति नात्मीयत्वेन । स च भक्तिरसोद्दीपकत्वेनैव चरितार्थतामापद्यते । ततः क्वचिच्छ्रुद्धभक्तानामपि यदि तद्अनुभावानुकरणं स्यात्तदा तदीयत्वेनैव तैस्तद्भाव्यते न तु स्वीयत्वेनेति समाधेयम् । यत्र तु भक्तविरोधः । यथा गदादितुल्यभावानां वसुदेवादौ तत्रोदयतेऽपि । अथ सामाजिका अपि भक्ता एवेष्टा इति । तत्रापि सिद्धिः । इति दृश्यकाव्येषु रस भावनाविधिः । श्रव्यकाव्येष्वपि वर्णनीयवर्णश्रोतृभेदेन यथायथं बोधव्यः । किं चात्र प्रायस्तत्तद्अपेक्षा रत्य्अङ्कुरवताम् एव । प्रेमादिमतां तु यथाकथञ्चित्स्मरणमपि तत्र हेतुः येषां षड्जादिमयस्वरमात्रमपि तत्र हेतुर्भवति । यथोक्तं श्रीनारदम् उद्दिश्य षष्ठे स्वरब्रह्मणि निर्भात हृषीकेशपदाम्बुजे । अखण्डं चित्तमावेश्य लोकाननुचरन्मुनिः ॥ [भागवतम् ६.५.२२] इति । ततः प्रेमादिभाव एव तेषु सर्वां सामग्रीमुद्भावयति । यथोक्तं श्री प्रह्लादमुद्दिश्य क्वचिद्रुदति वैकुण्ठचिन्ताशवलचेतनः [भागवतम् ७.४.३६] इत्यादिना क्वचिदुत्पुलकस्तूष्णीमास्ते संस्पर्शनिर्वृतः । अस्पन्दप्रणयानन्द सलिलामीलितेक्षणः ॥ [भागवतम् ७.४.४१] इत्यन्तेन । लौकिकरसज्ञैरपि हीनाङ्गत्वेऽपि तत्तद्अङ्गसमाक्षेपाद्रसनिष्पत्तिर् अभिमता । किं च, भगवत्प्रीतिरसिकाः द्विविधाः तदीयलीलान्तःपातिनस्तद्अन्तः पातिताभिमानिनश्च । तत्र पूर्वेषां प्राक्तनयुक्त्या स्वत एव सिद्धो रसः । उत्तरेषां तु द्विविधा गतिः । तत्तल्लीलान्तःपातिसहितभगवच् चरितश्रवणादिनैका । भगवन्माधुर्यादिश्रवणादिना चान्या । तत्र पूर्वत्र यदि समानवासनस्तल्लीलान्तःपाती भवेत्तदा स्वयं सदृशो भाव एव तस्य तल्लीलान्तःपातिविशेषस्य विभावादिकं तादृशत्वाभिमानिनि साधारणी करोति । यथा परस्य न परस्येति ममेति न ममेति च । (पगे ७१) तद्आस्वादे विभावादेः परिच्छेदो न विद्यते ॥ [षाह्ड्३.१२] इति । यदि तु विलक्ष्णवासनस्तदा विभावानां सञ्चारिणामनुभावानां च प्रायश एव साधारण्यं भवति । तेन तद्भावविशेषस्योद्दीपनमात्रं स्यात्, न तु रसोद्बोधः । यदि तु विरुद्धवासनः स्यात्, यथा वत्सलेन प्रेयसी, तदापि तस्य प्रीतिसामान्यस्यैव वात्सल्यादिदर्शनेनोद्दीपनं भवति । न भावविशेषस्य । न च रसोद्बोधो जायते । अथोत्तरत्र श्रीभगवन्माधुर्यादिश्रवणादौ तल्लीलान्तःपातिवत् स्वतन्त्र एव रसोद्बोध इति । तदेवं भगवत्प्रीते रसत्वापत्तौ सिद्धायामेवं विभाव्यते । विभावादिभिः संवलिता तत्प्रीतिस्तत्प्रीतिमयो रस इति । तदुक्तं यथा खण्डमरिचादीनां सम्मेलनादपूर्व एव कश्चिदास्वादः प्रपानकरसे जायते, विभावादिसम्मेलनादिहापि तथा [षाह्ड्३.१५] इति । स चायं रसो भगवन्माधुर्यानुकूल्यानुभवलक्षणास्वादेनोद्दीपन विभावरूपेण स्वांशेनास्वादरूपः । भगवद्आदिलक्षणालम्बन विभावादिरूपेणास्वाद्यरूपश्च । अत उभयथा व्यपदेशः । तत्र विभावा द्विविधाः । आलम्बनमुद्दीपनश्च । यथोक्तमग्निपुराणे विभाव्यते हि रत्यादिर्यत्र येन विभाव्यते । विभावो नाम स द्वेधालम्बनोद्दीपनात्मकः ॥ [आড়् ३३९३५३६] आलम्बनो द्विविधः । प्रीतिविषयत्वेन स्वयं भगवान् श्रीकृष्णः । तत् प्रीत्य्आधारत्वेन तत्प्रियवर्गश्च । उभयत्रैव यत्रेति सप्तम्य्अर्थत्व व्याप्तेः । तत्र श्रीकृष्णो यथा पूर्वमुदाहृतः यस्याननं मकरकुण्डलं [भागवतम् ९.२४.६५] इत्यादिना । गोप्यस्तपः किमचरन् यदमुष्य रूपम् [भागवतम् १०.४४.२४] इत्यादिना च । तस्य तत्तन्माधुर्यानभिव्यक्तावपि स्वभावत एव प्रियतमत्वं स्वयं दर्शयति प्राणबुद्धिमनःस्वात्मदारपत्यधनादयः । यत्सम्पर्कात्प्रिया आसंस्ततः को न्वपरः प्रियः ॥ [भागवतम् १०.२३.२७] स्वः शुद्धो जीवः । आत्मा देहः । यस्य मम सम्पर्कात् परम्परासम्बन्धात् । अहं तावत्परमानन्दघनरूप इति स्वतः प्रियः । स्वस्य ममांशत्वादन्तर्यामी पुरुषोऽपि प्रियः । तस्य च जीव रूपोऽंश इति मत्सम्बन्धपरम्परया प्रियः । तद्अध्याससम्बन्ध परम्परया च प्राणादयः प्रिया इत्यर्थः । एवं व्यक्तीकृतरूपान्तरेऽपि श्रीरामेणानुभूतम् किमेतदद्भुतमिव वासुदेवेऽखिलात्मनि । व्रजस्य सात्मनस्तोकेष्वपूर्वं प्रेम वर्धते ॥ [भागवतम् १०.१३.३६] इति । ततः श्यामं हिरण्यपरिधिं वनमाल्यबर्ह धातुप्रवालनटवेषमनुव्रतांसे । विन्यस्तहस्तमितरेण धुनानमब्जं कर्णोत्पलालककपोलमुखाब्जहासम् ॥ [भागवतम् १०.२३.२२] इत्येतल्लक्षणेषु ममाविर्भावेषु युष्माकं प्रीत्य्उत्कर्षोदयो नापूर्व इति भावः । ॥ १०.२३ ॥ श्रीभगवान् यज्ञपत्नीः ॥ १११ ॥ [११२११४] तथा तत्प्रियवर्गश्च पूर्वं दर्शितः । तुलयाम लवेनापि [भागवतम् १.१८.१३] इत्य् आदिना । अस्य भगवद्विषयप्रीत्य्आलम्बनत्वमपि युक्तम् । स्मरणादि पथं गते ह्यस्मिंस्तद्आधारा सा प्रीतिरनुभूयते । आलम्बनशब्दश्च विषयाधारयोर्वर्तन इति । अतएवोक्तं तत्कथ्यतां महाभाग यदि कृष्णकथाश्रयम् । अथवास्य पदाम्भोज मकरन्दलिहां सताम् ॥ [भागवतम् १.१६.६] इति । तदेवमपि यमाश्रित्य श्रीभगवति स प्रीतिविशेषः प्रवर्तते स एवालम्बनो ज्ञेयः । अन्ये तूद्दीपनाः । अथैवं सवासनभिन्नवासनक द्विध (पगे ७२) तत्प्रियवर्गविषया च या प्रीतिः सापि तत्प्रीत्य् आधारत्वेनैव न तु स्वसम्बन्धादिना । अतएव तत्प्रियवर्गेऽपि स्व सम्बन्धहेतुकां प्रीतिं निषिध्य श्रीभगवत्येव तामभ्यर्थ्य पुनस् तत्प्रियवर्गे तद्आधारत्वेनैव प्रीतिमङ्गीकरोति ॰ अथ तत्र निषेधः अथ विश्वेश विश्वात्मन् विश्वमूर्ते स्वकेषु मे । स्नेहपाशमिमं छिन्धि दृढं पाण्डुषु वृष्णिषु ॥ [भागवतम् १.८.४१] अथ अभ्यर्थना त्वयि मेऽनन्यविषया मतिर्मधुपतेऽसकृत् । रतिमुद्वहतादद्धा गङ्गेवौघमुदन्वति ॥ [भागवतम् १.८.४२] अथ अङ्गीकारः श्रीकृष्ण कृष्णसख वृष्ण्य्ऋषभावनिध्रुग् राजन्यवंशदहनानपवर्गवीर्य । गोविन्द गोद्विजसुरार्तिहरावतार योगेश्वराखिलगुरो भगवन्नमस्ते ॥ [भागवतम् १.८.४३] ॥ १.८ ॥ श्रीकुन्ती श्रीभगवन्तम् ॥ ११२११४ ॥ [११५] एवं वृक्नः इत्यादिद्वयं श्रीमद्उद्धववाक्यमपि सङ्गमनीयम् । यथा वृक्णश्च मे सुदृठः स्नेहपाशो दाशार्हवृष्ण्य्अन्धकसात्वतेषु । प्रसारितः सृष्टिविवृद्धये त्वया स्वमायया ह्यात्मसुबोधहेतिना ॥ नमोऽस्तु ते महायोगिन् प्रपन्नमनुशाधि माम् । यथा त्वच्चरणाम्भोजे रतिः स्यादनपायिनी ॥ [भागवतम् ११.२९.३९४०] सृष्टिविवृद्धये त्वया स्वाधीनया मायया यो देहादिसम्बन्धजः स्नेह पाशः प्रसारितः स वृक्णश्छिन्नः । केन ? आत्मसुबोधहेतिना, त्वदीय प्रीत्य्उत्पादकशोभनज्ञानलक्षणशस्त्रेण । अधुना त्वत् सम्बन्धेनैव स भातीत्यर्थः । अतएवोत्तरपद्यमपि तथैव । इयं चोक्तिः श्रीमद्उद्धवस्य सिद्धत्वान्न सम्बहवतीति स्वव्याजेनान्यान् उद्दिश्यैवेति ज्ञेयम् । अथ श्रीकुन्तीवाक्यस्यान्यावतारिका, यथा गमने पाण्डवानामकुशलं अगमने वृष्णीनामित्युभयतो व्याकुलचित्ता सती [Vऋ हेरे अद्द्स्: तेषु स्नेह निवृत्तिः प्रार्थयते अथेति । एवमप्युभयेषां तादृशतद्एकालम्बनता दर्शनेन तेष्वधिकभगवत्प्रीत्य्आधारत्वं स्वस्याधिकस्नेहहेतुर् इति । Eन्द्Vऋ अद्दितिओन्] तेषु स्नेहच्छेदव्याजेनोभयेषामपि त्वद्अविच्छेद एव क्रियतामिति च व्यज्यते । ततश्चोत्तरत्र श्रीसुतवाक्ये तां बाढमित्य् उपामन्त्र्ये [भागवतम् १.८.४५] इत्यत्र भगवद्अभ्युपगमोऽपि सर्वत्रैव सङ्गच्छते । तथाप्यस्य वृक्णश्चेत्यादिवाक्यस्य सङ्गमनार्थं तत् तथावअतारितम् । ॥ ११.२९ ॥ श्रीमद्उद्धवः ॥ ११५ ॥ [११६] एवं श्रीदेवक्याः षड्गर्भानयने तान् प्रति यः स्नेहो दृश्यते स खलु स्वपीतशेषस्तन्यप्रसादेन तद्उद्धरणार्थं श्रीभगवतैव प्रपञ्चितः । यथोक्तम् अपाययत्स्तनं प्रीता सुतस्पर्शपरिस्नुतम् । मोहिता मायया विष्णोर्यया सृष्टिः प्रवर्तते ॥ पीत्वामृतं पयस्तस्याः पीतशेषं गदाभृतः ॥ [भागवतम् १.८५.५४५५] इत्यादि । ययुर्विहायसा धाम [भागवतम् १०.८५.५६] इत्यन्तम् । तथापि तन्माया तत् सहोदरतास्फूर्तिमेवावलम्ब्य तां मोहितवतीति मन्तव्यम् । अथ श्रीरुक्मिण्या रुक्मिण्यापि स्नेहस्तद्दैन्यादिकौतुकं दिदृक्षुणा श्री भगवतैव (पगे ७३) वा तद्अर्थं तल्लीलाशक्त्यैव वा रक्षितोऽस्तीति लभ्यते । स च भक्तिस्फोरणांशमेवावलम्ब्य, तस्या ह्यैश्वर्यज्ञान संवलितत्वादन्तःकरणमेवं जातम् अयं परमेश्वरः । अयं त्व् अतिनिकृष्टः । तस्मादस्मिन्नयं विप्रकुर्वन्नपि किञ्चित्कर्तुमशक्त एव । ततोऽतिदीनोऽयमिति तथा श्रीभगवच्चरणाश्रिताया मम देह सम्बन्धवानिति, दीनदयालोर्भक्तसम्बन्धपरम्परा मात्रेणाभयदादस्मात्तन्नार्हतीति । एवं ह्यैश्वर्यदृष्ट्यैव तत् प्रार्थनं योगेश्वराप्रमेयात्मन् [भागवतम् १०.५४.३३] इत्यादि । अथ श्रीबलदेवस्य स्वशिष्यीभूतदुर्योधनपक्षपातोऽप्येवं मन्तव्यः । क्वचित्तत्र तत्क्षयकरः क्रोधोऽपि दृश्यते । यथा लक्ष्मणा हरणे । सर्वमेतत्तु वैचित्रीपोषार्थं श्रीभगवल्लीलाशक्त्यैव प्रपञ्च्यते इत्युक्तम् । अथ उद्दीपनाः । यद्विशिष्टतया श्रीकृष्ण आलम्बनस्त एव भाव विभावनहेतुत्वेन पृथङ्निर्दिष्टा उद्दीपनाः कथ्यन्ते । ते च तस्य गुण जातिक्रियाद्रव्यकालरूपाः । गुणाश्त्रिविधाः कायवाङ्मानसाश्रयाः । सर्व एवैते न प्राकृता इत्युक्तम् मां भजन्ति गुणाः सर्वे निर्गुणं निरपेक्षकम् । सुहृदं प्रियमात्मानं साम्यासङ्गादयोऽगुणाः ॥ [भागवतम् ११.१३.४०] इत्यादिना । तानेव श्रीकृष्णमालम्बनीकृत्य समुद्दिश्य सत्यं शौचं दया क्षान्तिस्त्यागः सन्तोष आर्जवम् । शमो दमस्तपः साम्यं तितिक्षोपरतिः श्रुतम् ॥ ज्ञानं विरक्तिरैश्वर्यं शौर्यं तेजो बलं स्मृतिः । स्वातन्त्र्यं कौशलं कान्तिर्धैर्यं मार्दवमेव च ॥ प्रागल्भ्यं प्रश्रयः शीलं सह ओजो बलं भगः । गाम्भीर्यं स्थैर्यमास्तिक्यं कीर्तिर्मानोऽनहङ्कृतिः ॥ एते चान्ये च भगवन्नित्या यत्र महागुणाः । प्रार्थ्या महत्त्वमिच्छद्भिर्न वियन्ति स्म कर्हिचित् ॥ [भागवतम् १.१६.२८३१] सत्यं यथार्थभाषणम् । शौचं शुद्धत्वम् । दया परदुःखासहनम् अनेन शरणागतपालकत्वं भक्तसुहृत्त्वं च । क्षान्तिः क्रोधापत्तौ चित्तसंयमः । त्यागो वदान्यता । सन्तोषः स्वतस्तृप्तिः । आर्जवमवक्रता । शमो मनोनैश्चल्यमनेन सुदृढत्वं च । दमो बाह्येन्द्रिय नैश्चल्यम् । तपः क्षत्रियत्वादिलीलावतारानुरूपः स्वधर्मः । साम्यं शत्रुमित्रादिबुद्ध्य्अभावः । तितिक्षा स्वस्मिन् परापराधसहनम् । उपरतिर्लाभप्राप्तावौदासीन्यम् । श्रुतं शास्त्रविचारः । ज्ञानं पञ्चविधम् बुद्धिमत्त्वं कृतज्ञत्वं देशकालपात्रज्ञत्वं सर्वज्ञत्वमात्मज्ञत्वं च । विरक्तिरसद्विषयवैतृष्ण्यम् । ऐश्वर्यं नियन्तृत्वम् । शौर्यं सङ्ग्रामोत्साहः । तेजः प्रभावः । अनेन प्रतापश्च । स च प्रभावविख्यातिः । बलं दक्षत्वम् । तच्च दुष्करक्षिप्रकारित्वम् । धृतिरिति पाठे क्षोभकारणे प्राप्तेऽव्याकुलत्वम् । स्मृतिः कर्तव्यार्थानुसन्धानम् । स्वातन्त्र्यमपराधीनता । कौशलं त्रिविधं क्रियानिपुणता युगपद्भूरिसमाधानकारिता लक्षणा चातुरी कलाविलासविद्वत्तालक्षणा वैदग्धी च । कान्तिः कमनीयता । एषा चतुर्विधा अवयवस्य हस्ताद्य्अङ्गादिलक्षणस्य वर्ण रसगन्धस्पर्शशब्दानाम् । तत्र रसश्चाधारचरणस्पृष्टवस्तु निष्ठो ज्ञेयः । वयसश्चेति । एतया नारीगणमनोहारित्वमपि । धैर्यं अव्याकुलता । (पगे ७४) मार्दवं प्रेमार्द्रचित्तत्वम् । अनेन प्रेम वश्यत्वं च । प्रागल्भ्यं प्रतिभातिशयः । अनेन वावदूकत्वं च । प्रश्रयो विनयः । अनेन ह्रीमत्त्वम् । यथायुक्तसर्वमानदातृत्वम् । प्रियंवदत्वं च । शीलं सुस्वभावः । अनेन साधुसमाश्रयत्वं च । सहो मनःपाटवम् । ओजो ज्ञानेन्द्रियपाटवम् । बलं कर्मेन्द्रियपाटवम् । भगस्त्रिविधः भोगास्पदत्वं सुखित्वं सर्वसमृद्धिमत्त्वं च । गाम्भीर्यं दुर्विबोधाशयत्वम् । स्थैर्यमचञ्चलता । आस्तिक्यं शास्त्र चक्षुष्ट्वम् । कीर्तिः साद्गुण्यख्यातिः । अनेन रक्तलोकत्वं च । मानः पूज्यत्वम् । अनहङ्कृतिस्तथापि गर्वरहितत्वम् । चकाराद्ब्रह्मण्यत्वम् । सर्वसिद्धिनिषेवितत्वम् । सच्चिद्आनन्दघनविग्रहत्वादयो ज्ञेयाः । महत्त्वमिच्छद्भिः प्रार्थ्या इति महागुणा इति च । वरीयस्त्वमपि गुणान्तरम् । एतेन तेषां गुणानामन्यत्र स्वल्पत्वं चञ्चलत्वं च । तत्रैव पूर्णत्वमविनश्वरत्वं चोक्तम् । अतएव श्रीसूतवाक्यम् नित्यं निरीक्षमाणानां यदपि द्वारकौकसाम् । न वितृप्यन्ति हि दृशः श्रियो धामाङ्गमच्युतम् ॥ [भागवतम् १.११.२६] इति । तथा नित्या इति न वियन्तीति सदा स्वरूपगुणान्तरम् । अन्ये च जीवालभ्या यथा तत्राविर्भावमात्रत्वेऽपि सत्यसङ्कल्पत्वम् । वशीकृताचिन्त्यमायत्वम् । आविर्भावविशेषत्वेऽप्यखण्डसत्त्वगुणस्य केवलस्वयम्अवलम्बनत्वम् । जगत्पालकत्वम् । यथा तथा हतारिस्वर्ग दातृत्वम् । आत्मारामगणाकर्षित्वम् । ब्रह्मरुद्रादिसेवितत्वम् । परमाचिन्त्यशक्तित्वम् । आनन्त्येन नित्यनूतनसौन्दर्याद्य् आविर्भावत्वम् । पुरुषावतारत्वेऽपि मायानियन्तृत्वम् । जगत्सृष्ट्य्आदि कर्तृत्वम् । गुणावतारादिबीजत्वम् । अनन्तब्रह्माण्डाश्रयरोम विवरत्वम् । वासुदेवत्वनारायणत्वादिलक्षणभगवत्त्वाविर्भावेऽपि स्वरूपभूतपरमाचिन्त्याखिलमहाशक्तिमत्त्वम् । स्वयं भगवल् लक्ष्णकृष्णत्वे तु हतारिमुक्तिभक्तिदायकत्वम् । स्वस्यापि विस्मापक रूपादिमाधुर्यवत्त्वम् । अनिन्द्रियाचेतनपर्यन्ताशेषसुखदातृस्व सान्निध्यत्वमित्यादयः । ॥ १.१६ ॥ ॥ श्रीपृथिवी धर्मम् ॥ ११६ ॥ [११७] तदेतद्दिङ्मात्रदर्शनम् । यत आह गुणात्मनस्तेऽपि गुणान् विमातुं हितावतीर्णस्य क ईशिरेऽस्य [भागवतम् १०.१४.७] इत्यादि । स्पष्टम् । ॥ १०.१४ ॥ ब्रह्मा श्रीभगवन्तम् ॥ ११७ ॥ [११८] ते च तस्य गुणाः केचिन्मिथो विरुद्धा अपि अचिन्त्यशक्तित्वेनैकाश्रयाः । श्रुतेस्तु शब्दमूलत्वात्[Vस्२.१.२७] इति न्यायेन । मल्लानामशनिः [भागवतम् १०.४३.१७] इत्यादिदर्शनात् । शिशोरनोऽल्पकप्रवालमृद्व्अङ्घ्रिहतं व्यवर्तते [भागवतम् १०.७.७] इत्य्आदेश्च । तत्र केवलकौमल्यगुणाविष्कारे सति क्वचित्पल्लवतल्पेषु नियुद्धश्रमकर्षितः [भागवतम् १०.१५.१६] इत्यादिकमपि यथार्थमेव । एवमेव श्रीदामविप्रानीतकदन्नभोजननिवारणे लक्ष्म्या अपि प्रवृत्तिः । यथैव तच्चरितेन व्यक्तम् बालव्यजनमादाय रत्नदण्डं सखीकरात्[भागवतम् १०.६०.७] इत्यादौ । अतएव इति (पगे ७५) मुष्टिम् [भागवतम् १०.८१.१०] इत्यादौ सा तत्परा इत्युक्तम् । अत्र च एतेनैव मद्अंशलेशरूपाया विभूतेरनुग्रहभाजनमयं जात इति कदन्नभोजनेनालमिति भावः । विरुद्धार्थसद्भावेऽपि न तु दोषास्तत्र सम्भाव्याः अयमात्मापहत पाप्मा [Cहाऊ ८.१५] इति श्रुतेः । यथा चोक्तं कौर्मे ऐश्वर्ययोगाद्भगवान् विरुद्धार्थोऽभिधियते । तथापि दोषाः परमे नैवाहार्याः समन्ततः ॥ इति । ततस्तद्गुणानामन्यदीयानामिव दोषमिश्रत्वं निषेधति ततस्ततो नूपुरवल्गु शिञ्जितैर् विसर्पती हेमलतेव सा बभौ । विलोकयन्ती निरवद्यमात्मनः पदं ध्रुवं चाव्यभिचारिसद्गुणम् । गन्धर्वसिद्धासुरयक्षचारण त्रैपिष्टपेयादिषु नान्वविन्दत ॥ [भागवतम् ८.८.१९२०] सा लक्ष्मीः । पदमाश्रयं ध्रुवं नित्यम् । अव्यभिचारिणो नित्याः सन्तश् च गुणा यस्मिन् । [११९] तदेव व्यनक्ति त्रिभिः नूनं तपो यस्य न मन्युनिर्जयो ज्ञानं क्वचित्तच्च न सङ्गवर्जितम् । कश्चिन्महांस्तस्य न कामनिर्जयः स ईश्वरः किं परतो व्यपाश्रयः ॥ धर्मः क्वचित्तत्र न भूतसौहृदं त्यागः क्वचित्तत्र न मुक्तिकारणम् । वीर्यं न पुंसोऽस्त्यजवेगनिष्कृतं न हि द्वितीयो गुणसङ्गवर्जितः ॥ क्वचिच्चिरायुर्न हि शीलमङ्गलं क्वचित्तदप्यस्ति न वेद्यमायुषः । यत्रोभयं कुत्र च सोऽप्यमङ्गलः सुमङ्गलः कश्च न काङ्क्षते हि माम् ॥ [भागवतम् ८.८.२१२३] अत्र तपादिभिरपि न साम्यं विवक्षितम् । असाम्यप्रसिद्धेः । यथोक्तं इमे च [भागवतम् १.१६.३०] इत्यादौ प्रार्थ्या महत्त्वमिच्छद्भिरिति । [Vऋ. अद्दितिओनल्रेअदिन्ग्: किन्त्वन्यदीयतपादिलेशानां सतामपि दोषान्तरोपरक्तत्वमित्येवमत्यन्तासाम्यमेव विवक्षितम् । Vऋ. एन्द्] यस्य दुर्वासादेः । क्वचिद्गुरुशुक्रादौ । कश्चिद्ब्रह्मसोमादिः । यः परतो व्यपाश्रयः परापेक्ष इन्द्रादिः । स किमीश्वरः । क्वचित् परशुरामादितुल्ये तदानीन्तने न भूतसौहृदम् । शिविराजतुल्ये न मुक्तिकारणं त्यागः । पुंसः कार्तवीर्यादितुल्यस्य वीर्यमस्ति, किन्त्वज वेगनिष्कृतं कालवेगपरिहृतं न भवति । यतस्तेषां तत्तद्गुणत्वम् अपि मायागुणकृतमेव न तु तद्अतीततत्तद्गुणत्वमिति परामृशति । न हीति । हि यस्मात्द्वितीयः श्रीमुकुन्दादन्यः । अनेन सनकादय आत्मारामा अपि परिहृताः । तेषां शमदमादिगुणानां मायिकत्वात् । तथा शिवोऽपि परिहृत शिवः शक्तियुतः शश्वत्त्रिलिङ्गो गुणसंवृतः [भागवतम् १०.८८.३] इति । हरिर्हि निर्गुणः साक्षात्[भागवतम् १०.८८.५] इत्याद्य्उक्तेः । अथ प्रकारान्तरेण शिवं परिहर्तुमुपक्रमते । क्वचिन्मार्कण्डेयादौ चिरायुश्चिरजीविता । शीलमङ्गलशब्देनात्र भोग उच्यते । इन्द्रियदमन शीलत्वादिति टीकायां हेतुविन्यासात् । अभोगिनो ह्यमङ्गस्वभावत्वेन लोके नामाग्रहणदर्शनाच्च । यद्वा क्वचिन्मयदानवादौ चिरजीवितास्ति । शीले स्वभावे मङ्गलं माङ्गल्यं नास्तीत्यर्थः । असुरस्वभावत्वादेव । बलिप्रभृतिषु शीलमङ्गलमप्यस्ति, किन्त्वायुषो वेद्यं वेदनं नास्ति (पगे ७६) मरणानिश्चयात् । यत्र शिवे मङ्गलः स्वभावो नित्यत्वाच्चायुषो वैद्यत्वं चेत्युभयमप्यस्ति । सोऽप्यमङ्गलः बहिः श्मशानवासाद्य् अमङ्गलचेष्टितः । श्रीमुकुन्दं लक्ष्यीकृत्याह कश्च कोऽपि तत्तद् गुणातिक्रम्यानन्तगुणत्वात्तत्तद्दोषहीनत्वाच्च सुमङ्गलः अतिशयेन सर्वेषां मङ्गलनिधानरूपः । स तु मां स्वरूपेण परमानन्दरूपां शक्त्या च सर्वसम्पत्तिदायिनीमपि न हि काङ्क्षति । स एव स्वरूपगुण सम्पत्तिभिः पूर्ण इत्यर्थः । अथ च प्रेमवशोऽसौ प्रेमवतीं मां कथं नाकाङ्क्षेदित्यभिप्रेत्य श्लेषेण कश्चन कोऽपि सुमङ्गलोऽसौ हि निश्चितं मां काङ्क्षतीत्यपि भावितम् ॥ [१२०] इदमत्र तत्त्वम् । परमानन्दरूपे तस्मिन् गुणादिसम्पल्लक्षणानन्त शक्तिवृत्तिका स्वरूपशक्तिर्द्विधा विराजते । तद्अन्तरेऽनभिव्यक्तनिज मूर्तित्वेन तद्बहिरप्यभिव्यक्तलक्ष्म्य्आख्यमूर्तित्वेन । इयं च मूर्तिर् मती सती सर्वगुणसम्पद्अधिष्ठात्री भवति । ततः स्वस्मिन् परमानन्दत्वस्य सर्वगुणसम्पत्तेश्च स्वरूपसिद्धपरम पूर्णत्वादुभयथापि न तां पृथग्भूय स्थितां मूर्तिमतीमपेक्षते । यथा खल्वन्यः । किन्तु भक्तवश्यतास्वभावेन तां प्रेमवतीम् अपेक्षत एवेति प्रकरणं निगमयति एवं विमृश्याव्यभिचारिसद्गुणैर् वरं निजैकाश्रयतयागुणाश्रयम् । वव्रे वरं सर्वगुणैरपेक्षितं रमा मुकुन्दं निरपेक्षमीप्सितम् ॥ [भागवतम् ८.८.२४] मुकुन्दः वरं वव्र इत्यन्वयः । तं विशिनष्टि । अव्यभिचारिभिः सद्भिर् निर्दोषैश्च गुणैर्वरं सर्वोत्तमम् । निजैकाश्रयतया अन्य निरपेक्षत्वेनैव च गुणाश्रयं स्वरूपसिद्धतत्तद्गुणमित्यर्थः । अतएव तेषां गुणानां प्रकृतिसम्बन्धित्वमपि खण्डितम् । स्वतः परमानन्दघनरूपत्वात्सर्वगुणैरपेक्षितं स्वयं निरपेक्षम् । अतएव निजाभीप्सितम् इति । ॥ ८.८ ॥ श्रीशुकः ॥ ११८१२० ॥ [१२१] अथ पूर्वोक्तगुणविरोधित्वाद्दोषमात्रं तस्मिन्नास्त्येव । तत्र सामान्यैश्वर्ये दयाविपरीतं परमसमर्थस्य तस्याभक्तनरकादि संसारदुःखानुद्धारित्वं प्राकृतदुःखास्पृष्टचित्तत्वेन परमात्म सन्दर्भादौ परिहृतमस्ति । पाण्डवादिवत्क्वचित्प्राकृतदुःखाभावात् तद्वियोगाद्वा उत्थिते भक्तिरससञ्चारिलक्षणभक्तदैन्येऽपि कदाचित् तत्प्रसाददर्शनाभावश्च, तेन पुष्टेन सञ्चारिणा भक्तिरस पोषणार्थ एव भक्तियोगविधानार्थं कथं पश्येम हि स्त्रियः [भागवतम् १.८.२०] इति तस्यैव मुख्यप्रयोजनत्वात् । ब्रह्मन् यमनुगृह्णामि तद्विशो विधुनोम्यहम् [भागवतम् ८.२२.२४] इति । सुदुस्तरान्नः स्वान् पाहि [भागवतम् १०.१७.२४] इत्यादौ । न शकुन्मस्त्वच्चरणं सन्त्युक्तमिति । विपदः सन्तु ताः शश्वत्[भागवतम् १.८.२५] इति । नाहं तु सख्यो भजतोऽपि [भागवतम् १०.३२.२०] इति च दैन्येन तत्पोषणश्रवणात् । एतमेव श्रीमद्व्रजबालानां ब्रह्म द्वारा मोहनमपि व्याख्येयम् । तस्मिन् बहिर्मोहेऽपि तेषां मनसि भोजनमण्डलावस्थितमात्मानमनुसन्दधानानां वत्सान्वेषणार्थागतश्रीकृष्णप्रत्यागमनभावना सातत्येन प्रेम रसपोषणात् । यथोक्तम् ऊचुश्च सुहृदः कृष्णं स्वागतं तेऽतिरंहसा । नैकोऽप्यभोज्कबल एहीतः साधु भुज्यताम् ॥ [भागवतम् १०.१४.४५] इति । यज्ञपत्नीनामस्वीकारस्तासां ब्राह्मणीत्वात्तादृशलीलायां सर्वेषाम् (पगे ७७) अनभिरूचेः भजते तादृशीः क्रीडा याः श्रुत्वा तत्परो भवेत् [भागवतम् १०.३३.३६] इति न्यायात् । नैतत्पूर्वैः कृतं त्वद्ये न करिष्यन्ति चापरे । यस्त्वं दुहितरं गच्छेरनिगृह्याङ्गजं प्रभुः ॥ [भागवतम् ३.१२.३०] तेजीयसामपि ह्येतन्न सुश्लोक्यं जगद्गुरो इत्यत्र तेजीयसामपि तद् अनुचिन्तता श्रूयते इति । एवमेवाह न प्रीतयेऽनुरागाय ह्यन्गसन्गो नृणामिह । तन्मनो मयि युञ्जाना अचिरान्मामवाप्य्स्यथ ॥ [भागवतम् १०.२३.३२] इह ब्राह्मणजन्मनि भवतीनामङ्गसङ्गः साक्षान्मत्परिचर्या रूपोऽर्थो नृणामेतच्चरितद्रष्टृश्रोतॄणां प्रीतये रुचिमात्राय न भविष्यति, किमुत नानुरागायेति । तत्तस्मादचिरादनन्तरजन्मनि इति । ॥ १०.२३ ॥ श्रीभगवान् यज्ञपत्नीः ॥ १२१ ॥ [१२२] अनेन क्वचित्भक्तसुहृत्त्ववैपरीत्याभासोऽपि व्याख्यातः । किं च भक्ता द्विविधाः दूरस्थाः परिकराश्च । तत्र दूरस्थभक्तार्थं क्वचिद् भक्तसुहृत्त्वलक्षणेन परमप्रबलेन गुणेन ब्रह्मण्यत्वाद्य् आवरणमपि प्रायो दृश्यते श्रीमद्अम्बरीषचरितादौ । पर्करार्थं तु न दृश्यते श्रीजयविजयशापादौ । स्कान्दद्वारकामाहात्म्यगत दुर्वाससो दुर्वृत्तविशेषे च उभयमपि तत्र तत्र सुहृत्त्वस्यैव चिह्नम् । तथैव हि पूर्वत्रात्मीयत्वमुत्तरत्र चात्मैकत्वं प्रसिध्यति । तथोक्तं अहं भक्तपराधीनः [भागवतम् ९.४.६३] इत्यादिना । तद्धि ह्यात्मकृतं मन्ये यत्स्वपुम्भिरसत्कृता [भागवतम् ३.१६.४] इत्यादिना च । तदेवं भक्तमहत्त्वमात्रस्य तादृशत्वे स्थिते प्रेमार्द्रत्वं तद् वश्यत्वं च सुतरामेव सर्वाच्छादकम् । तच्च प्रेम्णः स्वरूपनिरूपणे दर्शितम् । अतएव सर्वोद्दीपनगुणमुख्यत्वेन तत्र तत्र सचमत्कारम् अनुस्मृतम् । तत्रोद्भास्वराख्येनानुभावेन व्यञ्जितं तस्य प्रेमार्द्रत्वं, यथा भगवानथ विश्वात्मा पृथुनोपहृतार्हणः । समुज्जिहानया भक्त्या गृहीतचरणाम्बुजः ॥ प्रस्थानाभिमुखोऽप्येनमनुग्रहविलम्बितः । पश्यन् पद्मपलाशाक्षो न प्रतस्थे सुहृत्सताम् ॥ [भागवतम् ४.२०.१९२०] स आदिराजो रचिताञ्जलिर्हरिं विलोकितुं नाशकदश्रुलोचनः इत्यादि । स्पष्टम् । ॥ ४.२० ॥ श्रीशुकः ॥ १२२ ॥ [१२३] अथ सात्त्विकेनापि व्यञ्जितं यथा । तत्र भक्त्य्आर्द्रत्वमाह यस्मिन् भगवतो नेत्रान्न्यपतन्नश्रुबिन्दवः । कृपया सम्परीतस्य प्रपन्नेऽर्पितया भृशम् ॥ तद्वै बिन्दुसरो नाम [भागवतम् ३.२१.३८३९] इत्यादि । भगवतः श्रीशुबलाख्यस्य । प्रपन्ने भक्ते श्रीकर्दमाख्ये ॥ ॥ ३.१२ ॥ श्रीमैत्रेयः ॥१२३॥ [१२४] वात्सल्यार्द्रत्वमाह कृष्णरामौ परिष्वज्य पितरावभिवाद्य च । न किञ्चनोचतुः प्रेम्णा साश्रुकण्ठौ कुरूद्वह ॥ [भागवतम् १०.८२.३३] पितरौ कुरुक्षेत्रमिलितौ श्रीयशोदानन्दाख्यौ मातापितरौ । ॥ १०.८२ ॥ श्रीशुकः ॥ १२४ ॥ (पगे ७८) [१२५] मैत्र्यार्द्रत्वमाह तं विलोक्याच्युतो दूरात्प्रियापर्यङ्कमास्थितः । सहसोत्थाय चाभ्येत्य दोर्भ्यां पर्यग्रहीन्मुदा ॥ सख्युः प्रियस्य विप्रर्षेरङ्गसङ्गातिनिर्वृतः । प्रीतो व्यमुञ्चदब्बिन्दून्नेत्राभ्यां पुष्करेक्षणः ॥ [भागवतम् १०.८०.१८१९] तं श्रीदामविप्रम् ॥ ॥ १०.८० ॥ श्रीशुकः ॥ १२५ ॥ [१२६] कान्ताभावार्द्रत्वमाह तासामतिविहारेण श्रान्तानां वदनानि सः । प्रामृजत्करुणः प्रेम्णा शन्तमेनाङ्ग पाणिना ॥ [भागवतम् १०.३३.२१] तासां श्रीगोपीनाम् । प्रेम्णा करुणः साश्रुणेत्र इत्यर्थः । सात्त्विकान्तरं चोक्तं वैष्णवे गोपीकपोलसंश्लेषमभिपत्य हरेर्भुजौ । पुलकोद्गमशस्याय स्वेदाम्बुघनतां गतौ ॥ [Vइড়् ५.१३.५५] ॥ १०.३३ ॥ श्रीशुकः ॥ १२६ ॥ [१२७] अथ प्रेमवश्यत्वं, यथा तत्र श्रीभक्तिवश्यत्वमाह गद्येन यस्य भगवान् स्वयमखिलजगद्गुरुर्नारायणो द्वारि गदापाणिरवतिष्ठते निजजनानुकम्पितहृदयः [भागवतम् ५.२४.२७] इति । यस्य श्रीबलेः । ॥ ५.२४ ॥ श्रीशुकः ॥ १२७ ॥ [१२८] वात्सल्यवश्यत्वमाह गोपीभिः स्तोभितोऽनृत्यद्भगवान् बालवत्क्वचित् । उद्गायति क्वचिन्मुग्धस्तद्वशो दारुयन्त्रवत् ॥ [भागवतम् १०.११.७] इत्यादि । स्पष्टम् । ॥ १०.११ ॥ श्रीशुकः ॥ १२८ ॥ [१२९] मैत्रीवश्यत्वमाह सारथ्यपारषदसेवनसख्यदौत्य वीरासनानुगमनस्तवनप्रणामान् । स्निग्धेषु पाण्डुषु जगत्प्रणतिं च विष्णोर् भक्तिं करोति नृपतिश्चरणारविन्दे ॥ [भागवतम् १.१६.१८] स्निग्धेषु पाण्डुषु विष्णोर्यानि सारथ्यादीनि कर्माणि तानि शृण्वंस्तथा विष्णोर्जगत्कर्तृकां प्रणतिं च शृण्वन्नृपतिः परीक्षिद्विष्णोश् चरणारविन्दे भक्तिं करोति । पारषदं पार्षदत्वं सभापतित्वम् । सेवनं चित्तानुवृत्तिः । वीरासनं रात्रौ खड्गहस्तस्य तिष्ठतो जागरणम् । ॥ १.१६ ॥ श्रीसूतः ॥ १२९ ॥ [१३०] कान्तभाववश्यत्वमाह न पारयेऽहं निरवद्यसंयुजां स्वसाधुकृत्यं विबुधायुषापि वः । यामाभजन् दुर्जरगेहशृङ्खलाः संवृश्च्य तद्वः प्रतियातु साधुना ॥ [भागवतम् १०.३२.२२] निरवद्या परमशुद्धभावविशेषमात्रेण प्रवृत्तत्वात्परमशुद्धा संयुक्संयोगे यासां तासां वः स्वसाधुकृत्यं तद्अनुरूपमदीय परमसुखदसेवां न पारये । न प्रत्युपकारेणानुकर्तुं शक्नोमीत्य् अर्थः । केनापि न पारये । विगतो बुधो गणनाविज्ञो यस्मात्तेन स्वभाव नित्येनाप्यायुषेत्यर्थः । तासामनुरागस्य साधिष्ठत्वं लोक धर्मातिक्रान्तत्वादाह या इति । तस्माद्वः साधुना सौशील्येनैव तत् प्रतियातु प्रत्युपकृतं भवतु । अहं तु भवतीनामृणी एवेति भावः । ॥ १०.३२ ॥ श्रीशुकः ॥ १३० ॥ [१३१] तदेवं तस्य प्रेमार्द्रत्वादिके स्थिते तद्आदिकस्य तस्मिन् परमसाधु गणे च परमहृद्यसुखदत्वात्तद्धेतुकं कादाचित्कं सत्यादि वैपरीत्यमपि परमगुणशिरोमणिशोभां भजते । तत्र सत्यविरोध्य् अपि गुणो यथा स्वनिगममपहाय मत्प्रतिज्ञाम् ऋतमधिकर्तुमवप्लुतो रथस्थः ॥ [भागवतम् १.९.३७] स्पष्टम् । ॥ १.९ ॥ श्रीभीष्मः ॥ १३१ ॥ (पगे ७९) [१३२] शौचविरोधी यथा अंसन्यस्तविषाणोऽसृङ् मदबिन्दुभिरङ्कितः [भागवतम् १०.४३.१५] इत्यादि । स्पष्टम् ॥ ॥ १०.४३ ॥ श्रीशुकः ॥ १३२ ॥ [१३३] क्षान्तिविरोधी च, यथा यस्तान् द्वेष्टि स मां द्वेष्टि यस्ताननु स माम् अनु इत्य्आदिमहाभारतस्थश्रीभगवद्वाक्यात् । यथा धनं हरत गोपानाम् [भागवतम् १०.४४.३२] इत्याद्य्अनन्तरमेवं विकत्थमाने वै कंसे प्रकुपितोऽव्ययः [भागवतम् १०.४४.३४] । स्पष्टम् । ॥ १०.४४ ॥ श्रीशुकः ॥ १३३ ॥ [१३४] सन्तोषविरोधी च अपि मे पूर्णकामस्य इत्यादेः भक्तिसुधोदयस्थ भगवद्वाक्यात्[१४.२८] । यथा तमङ्कमारूढमपाययत्स्तनं स्नेहस्नुतं सस्मितमीक्षती मुखम् । अतृप्तमुत्सृज्य [भागवतम् १०.९.५] इत्यादि । एवं जघास हैयङ्गवमन्तरं गतः [भागवतम् १०.९६] इत्यादौ रहोऽपि तत्तल् लीलावेशः । ॥ १०.९ ॥ श्रीशुकः ॥ १३४ ॥ [१३५] एवं बालिप्रभृतावार्जवादिगुणविरोधी च सुग्रीवहनुमद्आदि पक्षपातमयो ज्ञेयः । सर्वशुभङ्करत्वं च क्रोधोऽपि देवस्य वरेण तुल्यः इति न्यायेन सिद्धम् । अथ शमविरोधी कामश्च तस्य प्रेष्ठजनविशेषरूपासु तासु प्रेम विशेषरूप एव । तथा हि स एष नरलोकेऽस्मिन्नवतीर्णः स्वमायया । रेमे स्त्रीरत्नकूटस्थो भगवान् प्राकृतो यथा ॥ [भागवतम् १.११.३६] स्वेषु निजजनेषु या माया कृपा तत्सुखचिकीर्षामयप्रेमा तया लोकेऽवतीर्ण इति तस्या एव सर्वावतारप्रयोजननिमित्तत्वात्स्त्रीरत्न कूटस्थोऽपि तादृशरमणवशकारिप्रेमविशेषरूपया तयैव रेमे, न तु प्रसिद्धकामेनेत्यर्थः । अत्र रत्नपदेन तासामपि तद्योग्यत्वं बोधयित्वा तादृशप्रेमविशेषमयत्वं बोधितम् । एवं भाव वैलक्षण्येऽपि क्रियया साम्यमित्याह प्राकृतो यथा इति । अत्र श्री भगवतोऽप्यप्राकृतत्वं दर्शयित्वा तद्वत्कामविषयत्वं निराकृतम् । [१३६] अथ पुनरपि तादृशप्रेमवतीषु तास्वपि प्राकृतकामाधिकारो नास्तीति दर्शनेन तस्यापि कामुकवैलक्षण्येन तदेव स्थापयति उद्दामभावपिशुनामलवल्गुहास व्रीडावलोकनिहतो मदनोऽपि यासाम् सम्मुह्य चापमजहात्प्रमदोत्तमास्ता; यस्येन्द्रियं विमथितुं कुहकैर्न शेकुः ॥ [भागवतम् १.११.३७] मदनः प्राकृतः कामः । उद्भटभावसूचकनिर्मलमनोहराभ्यां हासव्रीडावलोकाभ्यां निहतस्तन्महिमदर्शनेन स्वयम् एवोक्तार्थीकृतस्वास्त्रादिबलोऽभूत । अतएव संमुह्य चापमजहात्भ्रू पल्लवं धनुरपाङ्गतरङ्गितानि बाणा इत्य्आदिवत् । तत्र निजास्त्रप्रयोगं न कुरुत एवेत्यर्थः । तथाभूता अपि प्रमदोत्तमाः प्रमदेन प्रकृष्ट प्रेमानन्दविशेषेण परमोत्कृष्टास्ताः स्ववृन्द एव याः स्वतोऽप्य् उत्कृष्टप्रेमवत्यस्तासां साम्येच्छया कुहकैस्तादृशप्रेमाभावेन कपटांशप्रयुक्तः सद्भिः कपटादिभिर्यस्येन्द्रियं विमथितुं (पगे ८०) तद्वद्विशेषेण मथितुं न शेकुः किन्तु स्वप्रेमानुरूपमेव शेकुर् इति । तस्मात्प्रेममात्रोत्थायित्विकारत्वात्तस्य कामुकवैलक्षण्यमिति भावः । [१३७] तस्मादेतत्तत्त्वमविज्ञायैव तमयं मन्यते लोको ह्यसङ्गमपि सङ्गिनम् । आत्मौपम्येन मनुजं व्यापृण्वानं यतोऽबुधः ॥ [भागवतम् १.११.३८] अयं साधारणो लोकः असक्तमपि प्राकृतगुणेष्वनासक्तमपि । यतः आत्मौपम्येन मनुजं व्यापृण्वानं कामादिव्यापारयुक्तं मन्यते । यथा आत्मनः प्राकृतमनुष्यत्वादि तथैव मन्यत इत्यर्थः । अतएवाबुधः एवासौ लोक इति । [१३८] प्राकृतगुणेष्वसक्तत्वे हेतुः एतदीशनमीशस्य प्रकृतिस्थोऽपि तद्गुणैः । न युज्यते सदात्मस्थैर्यथा बुद्धिस्तद्आश्रया ॥ [भागवतम् १.११.३९] अवतारादौ प्रकृतिगुणमये प्रपञ्चे तिष्ठन्नपि सदैव तद्गुणैर्न युज्यते इति यदेतदीशस्येशनमैश्वर्यम् । तत्र व्यतिरेके दृष्टान्तः, यथेति । एवमेवोक्तं श्रीमद्उद्धवेन तृतीये भगवानपि विश्वात्मा लोकवेदपथानुगः । कामान् सिषेवे द्वार्वत्यामसक्तः साङ्ख्यमास्थितः ॥ [भागवतम् ३.३.१९] [१३९] ननु तादृशमैश्वर्यं तस्य ताः किं जानन्ति । यदि जानन्ति तदा रहोलीलायां त्रुट्यत्येव तादृशप्रेमेत्याशङ्क्याह तं मेनिरेऽबला मूढाः स्त्रैणं चानुव्रतं रहः । अप्रमाणविदो भर्तुरीश्वरं मतयो यथा ॥ [भागवतम् १.११.४०] ईश्वरमपि तं रह एकान्तलीलायां मौढ्यात्तादृशप्रेममोहाद्भर्तुर् अप्रमाणविदस्तादृशैश्वर्यअज्ञानरहिताः स्त्रैणमात्मवश्यम् अनुव्रतमनुसृतं च मेनिरे । तच्च नायुक्तमित्याह, यथा तासां मतयः प्रेमवासनास्तथैव स इति ये यथा माम् [गीता ४.११] इत्यादेः । स्वेच्छामयस्य [भागवतम् १०.१४.२] इत्यादेश्च प्रामाण्यादिति भावः । ॥ १.११ ॥ श्रीसूतः ॥ १३५१३९ ॥ [१४०] तथा चान्यत्र गृहादनपगं वीक्ष्य राजपुत्र्योऽच्युतं स्थितम् । प्रेष्ठं न्यमंसत स्वं स्वं न तत्तत्त्वविदः स्त्रियः ॥ [भागवतम् १०.६१.२] आत्मानं प्रत्येकमेव प्रेष्ठं सर्वतः प्रियतमममंस्तेत्यर्थः । अतएवातत्त्वविदः । ऊर्ध्वोर्ध्वप्रेयसीसद्भावात् । [१४१] नन्वात्मारामस्य कथं पत्नीषु प्रेम, उच्यते । तासु रमणत्वेनैव लोकवन्न तस्य प्रेम, किन्तु शुद्धप्रेमसम्बन्धेनैव । तथा हि चार्व्अब्जकोशवदनायतबाहुनेत्र सप्रेमहासरसवीक्षितवल्गुजल्पैः । सम्मोहिता भगवतो न मनो विजेतुं स्वैर्विभ्रमैः समशकन् वनिता विभूम्नः ॥ [भागवतम् १०.६१.३] अत्र सप्रेमेति तासु श्रीकृष्णप्रेम दर्शितम् । अतएव वनिताशब्द प्रयोगः । वनिताजनितात्यर्थानुरागायां च योषिति इति नानार्थवर्गात् । तेन तस्मिन् तासां च (पगे ८१) प्रेम दर्शितम् । अतस्तत्प्रेममात्रविजितं यद् भगवतो मनस्तत्तु स्वैः केवलस्त्रीजातीयैर्विभ्रमैर्विजेतुं न शेकुर् इत्यर्थः । [१४२] स्त्रीजातीयविभ्रमानुवादपूर्वकं पूर्वार्थमेव विशदयति स्मायावलोकलवदर्शितभावहारि भ्रूमण्डलप्रहितसौरतमन्त्रशौण्डैः । पत्न्यस्तु षोडशसहस्रमनङ्गबाणैर् यस्येन्द्रियं विमथितुं करणैर्न शेकुः ॥ [भागवतम् १०.६१.४] स्वयमेवानङ्गबाणरूपैः करणैर्भावहावादिभिर्न शेकुः । तानि विशिनष्टि स्मायेति । स्मायः स्मितम् । भावोऽभिप्रायः । तादृशभ्रू मण्डलैः प्रहिता विक्षिप्ताश्च ते सौरतमन्त्रैः सुरतरूपार्थसाधक मन्त्रैः शौण्डाः प्रगल्भाश्च ते तादृशैः ॥ ॥ १०.६१ ॥ श्रीशुकः ॥ १४११४२ ॥ [१४३] अथ श्रीरघुनाथचरिते स्त्रीसङ्गिनां गतिमिति प्रथयंश्चचार [भागवतम् ९.१०.११] इत्यादिकवाक्येष्वन्तस्तत्प्रेमवश एव स्त्रीसङ्गिनां कामिनां गतिं प्रथयन् क्रियासाम्येन बहिर्विख्यापयनित्येवाभिप्रायः । उक्तं च तद्अध्यायान्ते प्रेम्णानुवृत्त्या शीलेन प्रश्रयावनता सती । भिया ह्रिया च भावज्ञा भर्तुः सीताहरन्मनः ॥ [भागवतम् ९.१०.५६] इति । तद्अनन्तराध्यायेऽपि तच्छ्रुत्वा भगवान् रामो रुन्धन्नपि धिया शुचः । स्मरंस्तस्या गुणांस्तांस्तान्नाशक्नोद्रोद्धुमीश्वरः ॥ [भागवतम् ९.११.१६] इत्यनेनान्तस्तत्प्रेमवशतां भक्तिविशेषसौख्याय व्यज्य बहिः कामुकक्रियासाम्यदर्शनया साधारणजनवैराग्यजननायोक्तम् स्त्रीपुंप्रसङ्ग एतादृक्सर्वत्र त्रासम्आवहः । [भागवतम् ९.११.१७] इत्यादि । युक्तं चोभयविधत्वं भगवच्चरितस्य चतुरस्रहितत्वात् । तस्मात्तत् कामस्य प्रेयसीविषयकप्रीतिविशेषमात्रशरीरत्वम् । अतो न दोषश्च । तन्मात्रशरीरत्वेनैवं विशिष्योक्तम् रेमे रमाभिर्निजकामसम्प्लुतः [भागवतम् १०.५९.४३] इति स सत्यकामोऽनुरताबलागणः [भागवतम् १०.३३.२५] इति । अथ साम्यमपि भक्तादन्यत्रैव । समोऽहं सर्वभूतेषु न मे द्वेष्योऽस्ति न प्रियः । ये भजन्ति तु मां भक्त्या मयि ते तेषु चाप्यहम् ॥ [गीता ९.२९] इत्यादेः । अथ भक्तप्रेमविशेषमयनरलीलावेशमये क्वचित्तत्प्रकाशविशेषे कदाचित्सर्वज्ञत्वादिविरोधिमोहादिकोऽपि दृश्यते । सोऽपि गुण एव । तादृश मोहादिकस्य तल्लीलामाधुर्यवाहित्वेन विदुषामपि प्रीतिसुखदत्वात्न तु दोषः । स्वेच्छयाङ्गीकृतत्वात् । अतएवाह रक्षो विदित्वाखिलभूतहृत्स्थितः स्वानां निरोद्धुं भगवान्मनो दधे ॥ [भागवतम् १०.१२.२५] तावत्प्रविष्टास्त्वसुरोदरान्तरं परं न गीर्णाः शिशवः सवत्साः ॥ [भागवतम् १०.१२.२६] इति । तथा ततो वत्सानदृष्ट्वैत्य [भागवतम् १०.१३.१६] इत्यादि । ॥ १०.१२ ॥ श्रीशुकः ॥ १४३ ॥ [१४४] यदा च तस्य स्वेच्छा न भवति प्रतिकुलैर्मोहादिना योजयितुमिष्यते च सः । तदा सर्वथा तेन न युज्यते एव । यथा शाल्वमायया तस्य मोहाभावं स्थापयन्नाहैवं वदन्ति राजर्षे ऋषयः केचनान्विताः [भागवतम् १०.७७.३०] इत्यादौ । क्व शोकमोहौ स्नेहो वा भयं वा येऽज्ञसम्भवाः । क्व चाखण्डितविज्ञान ज्ञानैश्वर्यस्त्वखण्डितः ॥ [भागवतम् १०.७७.३३] इत्यादि । पूर्वोक्तरीत्यैवोक्तं ये त्वज्ञसम्भवाः परमायादिपारवश्यमात्र कृताः शोकादयस्ते क्वेति । ॥ १०.७७ ॥ श्रीशुकः ॥ १४४ ॥ (पगे ८२) [१४५] भक्तप्रेमपारावश्यसम्बन्धेन तु शोकादयोऽपि वर्णिता एव श्रुत्वा तां भगवान् रामः [भागवतम् ९.११.१६] इत्यादौ श्रीरामचरिते । सख्युः प्रियस्य विप्रर्षेः [भागवतम् १०.८०.१९] इत्यादौ श्रीदामादिविप्रचरिते । तथाह गोप्याददे त्वयि कृतागसि दाम तावद् या ते दशाश्रुकलिलाञ्जनसम्भ्रमाक्षम् । वक्त्रं निनीय भयभावनया स्थितस्य सा मां विमोहयति भीरपि यद्बिभेति ॥ [भागवतम् १.८.३१] तत्र भीरपि यद्बिभेति इत्युक्त्या तस्य ऐश्वर्यज्ञानं व्यक्तम् । ततो यदि सा भीः सत्या न भवति तदा तस्या मोहोऽपि न सम्भवेदिति गम्यते । स्फुटमेव चान्तर्भयमुक्तं भयभावनया स्थितस्येति । ॥ १.८ ॥ श्रीकुन्ती श्रीभगवन्तम् ॥ १४५ ॥ [१४६] अथ स्वान्तन्त्र्यं भक्तसम्बन्धं विनैव अहं भक्तपराधीनः [भागवतम् ९.४.६३] इत्यादेः । अथ गोचारणादावपि सुखित्वगुणानुकूल्यमेव मन्तव्यम् । तद्व्याजेन नानाक्रीडासुखमेव ह्युपचीयते । यथाह व्रजविक्रीडतोरेवं गोपालच्छद्ममायया । ग्रीष्मो नामर्तुरभ्वन्नातिप्रेयान् शरीरिणाम् ॥ स च वृन्दावनगुणैर्वसन्त इव लक्षितः ॥ [भागवतम् १०.१८.२३] क्रियाकृतस्य दुःखस्य निषेधः । व्रजे विक्रीडतोरिति । छद्म व्याजः । माया वञ्चनम् । गोपालव्याजेन यद्वञ्चनं तेन विक्रीडतोः । प्रातस्तद् व्याजेन नानाजनान् वञ्चयित्वा व्रजाद्वनं गत्वा स्वच्छन्दं निजाभीष्टाः क्रीडाः कुर्वतोरित्यर्थः । सायं व्रजावासागमने चान्या इति । कालकृतस्य दुःखस्य निषेधः । स चेति । अनेन देशकृतस्य च इति ज्ञेयः । ॥ १०.१८ ॥ श्रीशुकः इति ॥ १४६ ॥ [१४७] अथ पूर्ववत्स्थैर्यविरोधी बाल्यादिचाञ्चल्यमपि गुणत्वेनैव स्फुटं दृश्यते । यथा वत्सान्मुञ्चन् क्वचिदसमये [भागवतम् १०.८.२९] इत्यादि । अथ रक्तलोकत्वं च यथाह स्निग्धस्मितावलोकेन वाचा पीयूषकल्पया । चरित्रेणानवद्येन श्रीनिकेतेन चात्मना ॥ इमं लोकममुं चैव रमयन् सुतरां यदून् । रेमे क्षणदया दत्त क्षणस्त्रीक्षणसौहृदः ॥ [भागवतम् ३.३.२०२१] रजन्या दत्तावसरः स्त्रीणां क्षणमुत्सवरूपं सौहृदं यस्य ॥ ॥ ३.३ ॥ श्रीमानुद्धवः ॥ १४७ ॥ [१४८] अत्र एवं लीलानरवपुः [भागवतम् १०.२३.३३] इत्य्आदिकमपि उदाहार्यम् । एवमपि यदसुराणामपरक्तत्वम् । तत्र कारणमाह पापच्यमानेन हृदातुरेन्द्रियः समृद्धिभिः पूरुषबुद्धिसाक्षिणाम् । अकल्प एषामधिरोढुमञ्जसा परं पदं द्वेष्टि यथासुरा हरिम् ॥ [भागवतम् ४.३.२१] स्पष्टम् । ॥ ४.३ ॥ श्रीशिवः ॥ १४८ ॥ [१४९] यद्यप्येषां गुणानां सर्वेषामपि भगवति नित्यत्वमेव तथापि तत्तल् लीलासिद्ध्य्अर्थं तेषां क्वचित्कस्यचित्प्रकाशः कस्यचिदप्रकाशश्च भवति । अतएवाह अश्रूयन्ताशिषः सत्यास्तत्र तत्र द्विजेरिताः । नानुरूपानुरूपाश्च निर्गुणस्य गुणात्मनः ॥ [भागवतम् १.११.१९] निर्गुणस्य मध्यपदलोपेन निर्गता गुणेभ्यो गुणा यस्य तस्य, प्राकृत गुणातीतनित्य (पगे ८३) गुणस्य नानुरूपाः नित्यतत्परिपूर्णत्वेन लाभान्तरायोगात् । गुणात्मनः तदाशीर्वादाङ्गीकारद्वारा तत्तद्गुण विशेषप्रवर्तकनिवर्तकस्य अनुरूपाश्च । तद्अङ्गीकारे हेतुः सत्या इति । तदेवं प्रकाशनाप्रकाशनहेतोरेव श्रीभगवतश्चन्द्रपर परार्धोज्ज्वलतादिके सत्यपि तल्लीलामाधुर्यविस्तारकस्तमिस्रादि व्यवहारः सिध्यति । ॥ १.१० ॥ श्रीसूतः ॥ १४९ ॥ [१५०] अतएवावसरविशेषं प्राप्य तत्तद्गुणसमुदायविशेषाविर्भावादेक एवासौ तत्र तत्र पृथक्पृथगिव धीरोदात्तादिव्यवहारचतुष्टयमपि प्रकाशयति । तत्र धीरोदात्तो यथा गम्भीरो विनयी क्षन्ता करुणः सुदृढव्रतः । अकत्थनो गूढगर्वो धीरोदात्तः सुसत्त्वभृत् ॥ [Bऋष्२.१.२२६] इति । एते च गुणा गोवर्धनोद्धारणादिशक्रसम्भाषान्तलीलायां व्यक्ताः सन्ति । अथ धीरललितः विदग्धो नवतारुण्यः परिहासविशारदः । निश्चिन्तो धीरललितः स्यात्प्रायः प्रेयसीवशः ॥ [Bऋष्२.१.२३०] एते च श्रीमद्व्रजदेवीसहितलीलायां सुष्ठु व्यक्ताः । अथ धीरशान्तः शमप्रकृतिकः क्लेशसहनश्च विवेचकः । विनयादिगुणोपेतो धीरशान्त उदीर्यते ॥ [Bऋष्२.१.२३३] एते च तादृशानां युधिष्ठिरादीनां सन्निधौ तत्पालनलीलायाम् उज्जृम्भते । अथ धीरोद्धतः मात्सर्यवानहङ्कारी मायावी रोषणश्चलः । विकत्थनश्च विद्वद्भिर्धीरोद्धत उदाहृतः ॥ [Bऋष्२.१.२३६] एते च तादृशानसुरान् प्राप्य क्वचिदुदयन्ते । अतएव दुष्टदण्डन हेतुत्वादेषां गुणत्वं च । तदेवमुद्दीपनेषु गुणा व्याख्याताः । अथ तेषु जातिर्द्विविधाः । तस्य तत्सम्बन्धसम्बन्धिनां चेति । तत्र तस्य जातिर् गोपत्वक्षत्रियत्वादिका । श्यामत्वकिशोरत्वादिकमन्यत्र तद्उपमा बुद्धिजनकत्वं च । तत्सम्बन्धिनां जातिस्तु गोत्वादिका ज्ञेया । अथोद्दीपनेषु क्रिया लीला एव । ताश्च द्विविधाः । तत्र तत्सान्निध्येन मायया दर्शिताः । सृष्ट्य्आदयो मायिक्यः । तदीयश्रीविग्रहचेष्टास्तु स्मितविलासखेलानृत्ययुद्धादयः स्वरूपशक्तिमय्यः । श्रीविग्रहस्य स्वरूपानन्दैकरूपत्वात् । रमयात्मशक्त्या यद्यत्करिष्यति [भागवतम् ३.९.२३] इति तृतीयस्थब्रह्मस्तवाच्च । ईश्वरस्यापि तस्य वर्तत एव स्वाभाविकं तद्इच्छाकौतुकं लोकवत्तु लीलाकैवल्यम् [Vस्२.१.३३] इति न्यायेन । यथाह एक एवेश्वरस्तस्मिन् सुरकार्ये सुरेश्वरः । विहर्तुकामस्तानाह समुद्रोन्मथनादिभिः ॥ [भागवतम् ८.६.१७] एक एवेश्वरः समर्थोऽपीति टीका च । अतएव तत्तज्जातिलीलाभिनिवेशः श्रूयते, यथा विष्णुधर्मोत्तरे यस्यां यस्यां यदा योनौ प्रादुर्भवति कारणात् । तद्योनिसदृशं वत्स तदा लोके विचेष्टते ॥ संहर्तुं जगदीशानः समर्थोऽपि तदा नृप । तद्योनिसदृशोपायैर्वध्यान् हिंसति यादव ॥ इत्यादि । ॥ ८.६ ॥ श्रीशुकः ॥ १५० ॥ [१५१] तत्र श्रीविग्रहचेष्टा द्विविधाः । ऐश्वर्यमय्यो माधुर्यमय्यश्चेति । तत्र निजजनप्रेममयत्वान्माधुर्यमय्य एव रमणाधिक्ये हेतवः । यथैव परमविस्मयहर्षाभ्यामाह (पगे ८४) एवं निगूढात्मगतिः स्वमायया गोपात्मजत्वं चरितैर्विडम्बयन् । रेमे रमालालितपादपल्लवो ग्राम्यैः समं ग्राम्यवदीशचेष्टितः ॥ [भागवतम् १०.१५.१९] श्रीनारायणादिरूपेषु स्वाविर्भावेषु रमालालितपादपल्लवोऽपि स्वेषु अलौकिकेष्वपि व्रजवासिषु निरीक्ष्य तद्वपुरलमम्बरे चरत्[भागवतम् १०.१८.२७] इत्यादौ हलधर ईषदत्र सतिति न्यायलब्धेन तल्लीला माधुर्यस्थितिः सन् लौकिकं यद्गोपात्मजत्वं तदेव अलौकिक गोपात्मजमयिश्चरितैर्विडम्बयननुकुर्वन् रेमे स्वयमपि रतिम् उवाह । अतस्तादृशरमणेषु यथा तद्इच्छा । न तथा रमालालितपाद पल्लवत्वेऽपीति दर्शितम् । रमणमेव दर्शयति । यथाधुनापि ग्राम्यैर्बालकैः समं कश्चिद् ग्रामाधिपबालको रमते तद्वत् । तत्तल्लीलाप्रधान एव रमते न त्व् ऐश्वर्यप्रधान इत्यर्थः । दृश्यते च तत्तल्लीलावेशः । स जातकोप स्फुरितारुणाधरः [भागवतम् १०.९.६] इत्यादौ । रहोऽपि जाततादृशभावात् । तान् वीक्ष्य कृष्णः [भागवतम् १०.१२.२७] इत्यादौ बालानां स्वकरापच्युतताजातानुतापाद् दिष्टकृतत्वमननाच्च । अतएव तस्य तत्तल्लीलासु लोकानुसारि यद्यद् बुद्धिकर्मसौष्ठवं तत्तत्सुष्ठु मुनिभिरपि सचमत्कारं वर्ण्यते । यथोक्तं श्रीशुकेन जरासन्धयुद्धान्ते स्थित्य्उद्भवान्तं भुवनत्रयस्य यः समीहितेऽनन्तगुणः स्वलीलया । अन तस्य चित्रं परपक्षनिग्रहस् तथापि मर्त्यानुविधस्य वर्ण्यते ॥ [भागवतम् १०.५०.३०] इति । तेषु चरितेषु यद्अलौकिकमासीत्तदपि तत्तल्लीलारसमात्रासक्तस्य तस्य स्वभावसिद्धैश्वर्यत्वेन लीलाख्या शक्तिरेव स्वयं सम्पादितवतीत्याह ईशं तत्तल्लीलोचितसुघटदुर्घटसर्वार्थसाधकं चेष्टितं लीलैव यस्य स इति । यथोक्तम् अथोवाच हृषीकेशं नारदः प्रहसन्निव । योगमायोदयं वीक्ष्य मानुषीमीयुषो गतिम् ॥ [भागवतम् १०.६९.३७] यथा च यद्येवं तर्हि व्यादेही त्युक्तः स भगवान् हरिः । व्यादत्ताव्याहतैश्वर्यः क्रीडामनुजबालकः ॥ [भागवतम् १०.८.३६] सा तत्र ददृशे विश्वम् [भागवतम् १०.८.३७] इति । अत्र यदि सत्यगिरस्तर्हि समक्षं पश्य मे मुखम् [भागवतम् १०.८.३५] इत्यन्ता तदीयसरसकृतैव लीला पूर्वम् उक्ता । अव्याहतैश्वर्य इत्यादिका तु तत्तल्लीलाशक्तिकृतैव । सा च श्री व्रजेश्वर्या वात्सल्यपोषिके विस्मयशङ्के पुष्णाति । नाहं भकृइतवान् अम्ब [भागवतम् १०.८.३५] इति सम्भ्रमेण मिथ्यैव कृष्णवाक्यं च सत्यापयति । एवं श्रीदामोदरलीलायां यावत्तस्य बन्धनेच्छा न जातासीत्तावद्रज्जु परम्पराभ्यस्तस्मिन् द्व्य्अङ्गुलाधिकत्वप्रकाशः । तदुक्तं तद्दामा [भागवतम् १०.८.१५] इत्यादिना । यदा तु मातृश्रमेण तद्इच्छा जाता तदा न तत् प्रकाशः । तदुक्तं स्वमातुः स्विन्नगात्रायाः [भागवतम् १०.९.१८] इत्यादिना । एवं श्रीकृष्णकृपादृष्टिप्रभावेणैव विषमयमोहात्सखीनां समुद्धरणं तद्आवेशेनैव दावाग्निपाने चिकीर्षितमात्रे स्वयं तन् नाश इत्यादिकं ज्ञेयम् । क्रीडामनुजबालक इति क्रीडया लीलया मनुजा बालकस्थितिं प्राप्तोऽपीत्यर्थः । अन्यत्र च क्रीडामानुषरूपिणः [भागवतम् १०.१६.६८] इति । एवं कार्यमानुषः [भागवतम् १०.१६.६०] इत्यत्रापि कार्यं क्रीडैव । तस्मात्साधु व्याख्यातमेवं निगूढात्मगतिः इत्यादि । ॥ १०.१५ ॥ श्रीशुकः ॥ १५१ ॥ (पगे ८५) [१५२] अन्यत्र च पूर्वरीत्यैवाह कृत्वा तावन्तमात्मानं यावतीर्गोपयोषितः । रेमे स भगवांस्ताभिरात्मारामोऽपि लीलया ॥ [भागवतम् १०.३३.२०] तादृशोऽपि ताभिः सह रेमे । तस्यारविन्दनयनस्य [भागवतम् ३.१५.४३] इत्यादौ चकार तेषां सङ्क्षोभमक्षरजुषामपि चित्ततन्वोः इतिवत् । तत्र सर्वाभिरेव युगपल्लीलेच्छा यदा जाता तदैव तावत्प्रकाशा अपि तथैव लीलाशक्त्या घटिता इत्याह कृत्वेति । लीलया लीलाशक्तिद्वारैव, न तु स्व द्वारा । तावन्तमात्मानमात्मनः प्रकाशं कृत्वा प्रकटय्य । ॥ १०.३३ ॥ श्रीशुकः ॥ १५२ ॥ [१५३] तदेवं माधुर्यमय्या लीलाया उत्कर्षो दर्शितः । अस्यां माधुर्यमय्यां च युगपद्विचित्रलीलाविधानस्य तस्यापि रमणाधिक्यहेतुत्वेन पूर्व दर्शितविलासमय्येव श्रीशुकदेवादीनामपि श्रीशिवब्रह्मादीनामपि परममधुरत्वेन भासते । पूर्वत्र यथा इत्थं सतां ब्रह्म सुखानुभूत्या [भागवतम् १०.१२.११] च तादृशत्वेन वर्णनात् । उत्तरत्र शक्रशर्व परमेष्ठिपुरोगाः [भागवतम् १०.३५.१५], कश्मलं ययुरित्यादिषु तत्रैव मोह श्रवणाच्च । अथ क्रीडामानुषरूपिणस्तस्यान्या लोकमर्यादामयी धर्मानुष्ठान लीला तु धर्मवीरादिभक्तानामेव मधुरत्वेन भासते न तादृशानाम् । यथाह ब्रह्मन् धर्मस्य वक्ताहं कर्ता तद्अनुमोदिता । तच्छिक्षयन् लोकमिममास्थितः पुत्र मा खिदः ॥ [भागवतम् १०.६९.६०] तत्र हि श्रीनारदो नानाक्रीडान्तरदर्शनेन सुखं लब्धवान् धर्मानुष्ठानदर्शनेन तु खेदं तत्राह ब्रह्मन्निति । ॥ १०.६९ ॥ श्रीभगवान्नारदम् ॥ १५३ ॥ [१५४] अथ पूर्ववदेव कनिष्ठज्ञानिभक्तानामेव मधुरत्वेन भासमानां तद्औदासीन्यलीलामप्याह तस्यैवं रममाणस्य संवत्सरगणान् बहून् । गृहमेधेषु योगेषु विरागः समजायत ॥ [भागवतम् ३.३.२२] गृहमेधेषु गार्हस्थ्योचितधर्मानुष्ठानेषु वैराग्यमौदासीन्यम् । ॥ ३.३ ॥ श्रीमानुद्धवो विदुरम् ॥ १५४ ॥ [१५५] अथोद्दीपनेषु तदीयद्रव्याणि च परिष्कारास्त्रवादिक्रस्थानचिह्न परिवारभक्ततुलसीनिर्माल्यादीनि । तत्र परिष्कारा वस्त्रालङ्कार पुष्पादयः । ते च तदीयास्तत्स्वरूपभूतत्वेनैव भगवत्सन्दर्भे दर्शिताः । तथापि भूषणभूषणाङ्गम् [भागवतम् ३.२.११] इति न्यायेन तत् सौन्दर्यसौरभ्यादिपरिष्क्रियमाणतयैव तं परिष्कुर्वन्ति न केवलस्व गुणेन । स च तत्तद्रूपान् तान् स्वशक्तिविलासान् प्राप्य स्वीयतत्तद्गुणान् विशेषतः प्रकाशयतीति तस्य तत्तद्अपेक्षापि सिध्यति । अतएव पीताम्बर धरः स्रग्वी साक्षान्मन्मथमन्मथः [भागवतम् १०.३२.२] इत्यादौ अभिव्यक्तासमोर्ध्वसौन्दर्यस्यापि परिष्कारत्वेन वर्णितयोः स्रक् पीताम्बअयोरपि तादृशत्वं गम्यते । ईदृशान्येव वासांसि नित्यं गिरि वनेचराः [भागवतम् १०.४१.३५] इति रजकवाक्यं त्वासुरदृष्ट्या श्रीविष्णुपुराणे लौकिकदृष्ट्यापि सुवर्णाञ्जनचूर्णाभ्यां तौ तदा भूषिताम्बरौ [Vइড়् ५.९.५] इत्युत्तमागमत्वावगमात् । तथा मूले च श्यामं हिरण्यपरिधिम् [भागवतम् १०.२३.२२] इत्यादि । आस्तां तदपि कालियवरुणगोविन्दाभिषेककर्तृ महेन्द्राद्य्उपहृतासख्यवस्त्रादीनां तद्दिने चावश्यं विचित्र परिहितानां तेनान्यथा प्रतीयमानत्वमेव जायते । ततः (पगे ८६) कंसाहृतवाससां स्वीकारश्च तदीयस्वरूपशक्त्यैकप्रादुर्भाव रूपाणां नरकाहृतकन्यानामिवेति ज्ञेयम् । अथास्त्राणि यष्टिचक्रादीनि । वादित्राणि वेणुशङ्खादीनि । स्थानानि वृन्दावनमथुरादीनि । चिह्नानि पदाङ्कादीनि । परिवारा गोपयादवाद्याः । निर्मल्याणि गोपीचन्दनादीनि यथायथं तत्र तत्र ज्ञेयानि । अथोद्दीपनेषु कालाश्च तदीय जन्माष्टम्यादयः । तथा भक्तस्य स्वयोग्यता च तद्उद्दीपनत्वेन दृश्यते । यथा ततो रूपगुणौदार्य सम्पन्ना प्राह केशवम् । उत्तरीयान्तमाकृष्य स्मयन्ती जातहृच्छया ॥ [भागवतम् १०.४२.९] स्पष्टम् । ॥ १०.४२ ॥ श्रीशुकः ॥ १५५ ॥ [१५६] तथा तद्रसविशेषेषु श्रीभगवद्अङ्गविशेषा अपि उद्दीपनवैशिष्ट्यं भजन्ते । यथा श्रियो निवासो यस्योरः पानपात्रं मुखं दृशाम् । बाहवो लोकपालानां सारङ्गाणां पदाम्बुजम् ॥ [भागवतम् १.११.२७] श्रियः प्रेयस्याः । याः सर्वेषामेव प्रियवर्गाणां दृशश्चक्षूंषि तासाम् । लोकपालानां पाल्यानाम् । सारङ्गाणां सर्वेषामपि भक्तानां निवास आश्रयः । यथास्वं भावोद्दीपनत्वात् । ॥ १.११ ॥ श्रीसूतः ॥ १५६ ॥ [१५७] क्वचिद्विरोधिनोऽपि प्रतियोगिमुखेन तद्उद्दीपना भवन्ति । सूर्यादितापा इव जलाभिलाषस्य । यथा श्रुत्वैतद्भगवान् रामो विपक्षीयनृपोद्यमम् । कृष्णं चैकं गतं हर्तुं कन्यां कलहशङ्कितः ॥ बलेन महता सार्धं भ्रातृस्नेहपरिप्लुतः । [भागवतम् १०.५३.२०२१] इत्यादि । एवं वात्सल्यादौ श्रीकृष्णस्य धूलिपङ्कक्रीडादिकृतमालिन्यादयोऽपि ज्ञेयाः । कान्तभावादौ वृद्धादिप्रातिकूल्यादयोऽपि यदा च ते भयानकादिगौणरससप्तकं जनयन्ति तदापि पञ्चविधमुख्यप्रीति रसपोषकतामेव प्रपद्यन्ते । यथोक्तं भक्तिरसामृतसिन्धौ अमी पञ्चैव शान्ताद्या हरेर्भक्तिरसा मताः । एषु हास्यादयः प्रायो बिभ्रति व्यभिचारिताम् ॥ [Bऋष्४.७.१४] इति । ॥ १०.५३ ॥ श्रीशुकः ॥ १५७ ॥ [१५८] तदेवमुद्दीपना उद्दिष्टाः । एषु च श्रीवृन्दावनसम्बन्धिनस्तु प्रकृष्टाः । अहो यत्र सर्वेषामेव परमप्रीत्य्एकास्पदस्य श्री कृष्णस्यापि परमप्रीत्य्आस्पदत्वं श्रूयतेवृन्दावनं गोवर्धनम् [भागवतम् १०.११.१६] इत्यादौ, श्लाघितं च स्वयमेव अहो अमी देववरामरार्चितम् [भागवतम् १०.१५.५] इत्यादिभिः । तथा तदीयपरमभक्तैश्च तद्भूरिभाग्यमिह जन्म [भागवतम् १०.१४.३४] इत्यादिना, आसामहो चरणरेणुजुषाम् [भागवतम् १०.४७.६१] इत्यादिना, वृन्दावनं सखि भुवो वितनोति कीर्तिं [भागवतम् १०.२१.१०] इत्यादिना च । अतएव श्रीकृष्णस्यापि तत्रस्थाः प्रकाशा लीलाश्च परमवरीयांसः । यथा त्रैलोक्यसंमोहन तन्त्रे तदीयश्रीमद्अष्टादशाक्षरप्रस्तावे सन्ति तस्य महाभागा अवताराः सहस्रशः । तेषां मध्येऽवताराणां बालत्वमतिदुर्लभम् ॥ इति । बाल्यं च षोडशवर्षपर्यन्तमिति प्रसिद्धम् । तथा हरिलीलाटीकायाम् उदाहृता स्मृतिः गर्भस्थसदृशो ज्ञेय आष्टमाद्वत्सराच्छिशुः । बालश्चाषोडशाद्वर्षात्पौगण्डश्चेति प्रोच्यते ॥ इति । अन्यत्र च श्लाघितम् नन्दः किमकरोद्ब्रह्मन् श्रेय एवं महोदयम् । यशोदा च महाभागा पपौ यस्याः स्तनं हरिः ॥ (पगे ८७) पितरौ नान्वविन्देतां कृष्णोदारार्भकेहितम् । गायन्त्यद्यापि कवयो यल्लोकशमलापहम् ॥ [भागवतम् १०.८.४६४७] अतएव एकादशे सर्वश्रीकृष्णचरितकथान्ते सामान्यतः श्रीकृष्ण चरितस्य भक्त्य्उद्दीपनत्वमुक्त्वा वैशिष्ट्यविवक्षया बाल्यचरितस्य पृथग्उक्तिः इत्थं हरेर्भगवतो रुचिरावतार वीर्याणि बालचरितानि च शन्तमानि । अन्यत्र चेह च श्रुतानि गृणन्मनुष्यो भक्तिं परां परमहंसगतौ लभेत ॥ [भागवतम् ११.३१.२८] इति । सोऽयं च तत्प्रकाशलीलानामुत्कर्षो बहुविधः । ऐश्वर्यगतस्तावत् सत्यज्ञानानन्तानन्दमात्रैकरसमूर्तिब्रह्माण्डकोटीश्वर दर्शनादौ । कारुण्यगतश्च पूतनायामपि साक्षान्मातृगतिदाने, माधुर्यगतस्तु तावङ्घ्रियुग्ममनुकृष्य सरीसृपन्तौ [भागवतम् १०.८.२२] इत्यादौ, वत्सान्मुञ्चन् क्वचिदसमये [भागवतम् १०.८.२९] इत्यादौ, गोपीभिः स्तोभितोऽनृत्यत्[भागवतम् १०.११.७] इत्यादौ, क्वचिद्वादयतो वेणुम् [भागवतम् १०.११.३९] इत्यादौ, क्वचिद्विनाशाय मनो दधद्व्रजात्[भागवतम् १०.२१.१] इत्यादौ, क्वचिद् गायति गायत्सु [भागवतम् १०.१५.१०] इत्यादौ, तं गोरजश्छुरितकुन्तलबद्ध बर्ह [भागवतम् १०.१५.४२] इत्यादौ, कृष्णस्य नृत्यतः केचिद्[भागवतम् १०.१८.१०] इत्यादौ, धेनवो मन्दगामिन्यः [भागवतम् १०.२०.२६] इत्यादौ, अक्षण्वतां फलम् [भागवतम् १०.२१.७] इत्यादौ, श्यामं हिरण्यपरिधिम् [भागवतम् १०.२३.२२] इत्यादौ, भगवान् अपि ता रात्रीः [भागवतम् १०.२९.१] इत्यादौ, वामबाहुकृतवामकपोलः [भागवतम् १०.३५.२] इत्यादौ च । किं बहुना सर्वत्रैव सहृदयैः सर्व एवावगन्तव्यः । अथ अनुभावास्तु चित्तस्थभावानामवबोधकाः । [Bऋष्२.२.१] । ते द्विविधाः उद्भास्वराख्याः सात्त्विकाख्याश्च । तत्र भावजा अपि बहिश् चेष्टाप्रायसाध्या उद्भास्वराः । ते चोक्ताः नृत्यं विलुठितं गीतं क्रोशनं तनुमोटनम् । हुङ्कारो जृम्भणं श्वासभूमा लोकानपेक्षिता । लालास्रवोऽट्टहासश्च घूर्णाहिक्कादयोऽपि च ॥ [Bऋष्२.२.२] इति । अथ सात्त्विकाः अन्तर्विकारैकजन्याः । यत्रान्तर्विकारोऽपि तद्अंश इति भावत्वमपि तेषां मन्यन्ते । तत्र ते स्तम्भस्वेदरोमाञ्चाः स्वरभेदोऽथ वेपथुः । वैवर्ण्यमश्रु प्रलय इत्यष्टौ सात्त्विकाः स्मृताः ॥[Bऋष्२.३.१६] एषु प्रलयो नष्टचेष्टता । भगवत्प्रीतिहेतुकप्रलये च बहिश्चेष्टा नाशः । नअ त्वन्तर्भगवत्स्फूर्त्य्आदेरपि । यथोक्तं श्रीमद्उद्धवम् उद्दिश्य स मुहूर्तमभूत्तूष्णीं कृष्णाङ्घ्रिसुधया भृशम् । तीव्रेण भक्तियोगेन निमग्नः साधु निर्वृतः ॥ [भागवतम् ३.२.४] इत्यादिना । शनकैर्भगवल्लोकान्नृलोकं पुनरागतः ॥ [भागवतम् ३.२.६] इत्यन्तेन । यथा गारुडे जाग्रत्स्वप्नसुसुप्तेषु योगस्थस्य च योगिनः । या काचिन्मनसो वृत्तिः सा भवेदच्युताश्रयः ॥ इति । अतएव तदानीं तत्तद्रसानामास्वादभेदस्फूर्तिरप्यवगन्तव्या । अथ सञ्चारिणः । ये व्यभिचारिणश्च भण्यन्ते । सञ्चारयन्ति भावस्य गतिं [Bऋष्२.४.२] इति (पगे ८८) विशेषेणाभिमुख्येन चरन्ति स्थायिनं प्रति [Bऋष् २.४.१] इति च निरुक्तेः । ते च त्रयस्त्रिंशत् निर्वेदोऽथ विषादो दैन्यं ग्लानिश्रमौ च मदगर्वौ । शङ्कात्रासावेगा उन्मादापस्मृती तथा व्याधिः ॥ मोहो मृतिरालस्यं जाड्यं व्रीडावहित्था च । स्मृतिरथ वितर्कचिन्तामतिधृतयो हर्ष उत्सुकत्वं च ॥ औग्र्यमर्षासूयाश्चापल्यं चैव निद्रा च । सुप्तिर्बोध इतीमे भावा व्यभिचारिणः समाख्याताः ॥ [Bऋष्२.४.४६] एषां लक्षणमुज्ज्वले दर्शनीयम् । एषु त्रासः कृष्णवत्सलादिषु भयानकादिदर्शनात् । तद्अर्थं तत्सङ्गतिहानितर्केणात्मार्थं च भवति । निद्रा तच्चिन्तया शून्यचित्तत्वेन तत्सङ्गत्य्आनन्दव्याप्त्या च भवति । श्रमः परमानन्दमयतद्अर्थायासतादात्म्यापत्तौ भवति । आलस्यं तादृशश्रमहेतुकं कृष्णेतरसम्बन्धिक्रियाविषयकं भवति । बोधश्च तद्दर्शनादिवासनायाः स्वयमुद्बोधेन भवतीत्यादिकं ज्ञेयम् । किं च निर्वेदादीनां चामीषां लौकिकगुणमय भावायमानानामपि वस्तुतो गुणातीतत्वमेव तादृशभगवत्प्रीत्य् अधिष्ठानत्वात् । अथैतत्संवलनात्मको भगवत्प्रीतिमयो रसोऽपि व्यञ्जित एव स्मरन्तः स्मारयन्तश्च मिथोऽघौघहरं हरिम् । भक्त्या सञ्जातया भक्त्या बिभ्रत्युत्पुलकां तनुम् ॥ क्वचिद्रुदन्त्यच्युतचिन्तया क्वचिद् धसन्ति नन्दन्ति वदन्त्यलौकिकाः । नृत्यन्ति गायन्त्यनुशीलयन्त्यजं भवन्ति तूष्णीं परमेत्य निर्वृताः ॥ [भागवतम् ११.३.३१३२] इत्यनेन । अत्र हरिरालम्बनो विभावः । स्मरणमुद्दीपनः । स्मारणादिक उद्भास्वराख्योऽनुभावः । पुलकः सात्त्विकः । चिन्तादयः सञ्चारिणः । संजातया भक्त्येति स्थायी । भवन्ति तूष्णीं परमेत्य निर्वृता इति तत् संवलनम् । परं परमरसात्मकं वस्त्वित्यर्थः । एष च भगवत् प्रीतिमयरसः पञ्चधा प्रीतेर्भेदपञ्चकेन । ते च ज्ञानभक्तिमय भक्तिमयवत्सलमैत्रीमयोज्ज्वलाख्याः क्रमेण ज्ञेयाः । एतेषां च स्थायिनां भावान्तराश्रयत्वात्नियताधारत्वाच्च मुख्यत्वम् । तत्प्रीतिसम्बन्धेनैव भागवतरसान्तःपातात्पञ्चविधेषु प्रियेषु कादाचित्कोद्भवत्वेनानियताधारत्वाच्च गौणता । ततस्तदीयरसानामपि गौणता । तत्र मुख्याः मधुरेण समापयेतिति न्यायेन गौणरसानां रसाभासानामप्युपरि विवरणीयाः । गौणाः सम्प्रति विव्रियन्ते । येषु विस्मयादयो विभाववैशिष्ट्यवशेन स्वयं तत्प्रीत्य्उत्था अपि तत्प्रीतिमात्मसात्कृत्य वर्धमानाः स्थायितां प्रपद्यन्ते । ते च अद्भुतो हास्यवीरौ च रौद्रो भीषण इत्यपि । बीभत्सः करुणश्चेति गौणाः सप्त रसाः स्मृताः ॥ तत्र तत्प्रीतिमयोऽयमद्भुतो रसः । यत्रालम्बनो लोकोत्तराकस्मिक क्रियादिमत्त्वेन विस्मयविषयः श्रीकृष्णः । तद्आधारस्तत्प्रियश्च । उद्दीपनास्तादृशतच्चेष्टाः । (पगे ८९) अनुभावाः नेत्रविस्ताराद्याः । व्यभिचारिणश्चावेगहर्षजाद्य्आद्याः । स्थायी तत्प्रीतिमयो विस्मयः । तद् उदाहरणं च चित्रं बतैतदेकेन वपुषा युगपत्पृथक् । गृहेषु द्व्य्अष्टसाहस्रं स्त्रिय एक उदावहत् ॥ [भागवतम् १०.६९.२] इत्यादिकं ज्ञेयम् । अथ तन्मयो हास्यो रसः । तत्रालम्बनश्चेष्टावाग्वेषवैकृत्य विशेषवत्त्वेन तत्प्रीतिमयहासविषयः श्रीकृष्णः । तद्आधारस्तत् प्रियश्च । तथा यदि तद्विशेषवत्त्वेनैव तत्प्रियाप्रियौ च तत्प्रीतिमय हासविषयौ भवतस्तदापि तत्कारणस्य प्रीतेर्विषयः श्रीकृष्ण इति स एव मूलमालम्बनम् । हास्यस्यापि तद्विशिष्टत्वेनैव प्रवृत्तेस्तु सुतरामेव । अतः केवलस्य हासांशस्य विषयत्वेन विकृततत्प्रियाप्रियौ बहिरङ्गाव् एवावलम्बनाविति । एवं दानयुद्धवीररसादिष्वपि ज्ञेयम् । उद्दीपनास् तु तज्जनकस्य चेष्टावाग्वेषवैकृतादयः । अनुभावाश्च नासौष्ठ गण्डकिस्पन्दनादयः । व्यभिचारिणो हर्षालस्यावहित्थादयः । स्थायी च तत्प्रीतिमयो हासः । स च स्वविषयानुमोदनात्मकस्तद्उत्प्रासात्मको वा चेतोविकाशः । ततस्तद्आत्मकत्वेन विषयोऽप्यस्यास्ति । तस्योदाहरणेऽनुमोदनात्मको यथा वत्सान्मुञ्चन् क्वचिदसमये क्रोशसञ्जातहासः [भागवतम् १०.८.२९] इत्यादि, हस्ताग्राह्ये रचयति विधिं [भागवतम् १०.८.३०] इति, एवं धार्ष्ट्यान्युशति कुरुते [भागवतम् १०.८.३१] इत्यादि इत्थं स्त्रीभिः सभननयनश्रीमुखालोकिनीभिर्व्याख्यातार्था प्रहसितमुखी न ह्य् उपालब्धुमैच्छतित्यन्तम् । व्याख्यातस्तदीयचापल्यलक्षणोऽर्थो यस्यै सा । ॥ १०.८ ॥ श्रीशुकः ॥ १५८ ॥ [१५९] उत्प्रासात्मको यथा तासां वासांस्युपादाय नीपमारुह्य सत्वरः । हसद्भिः प्रहसन् बालैः परिहासमुवाच ह ॥ [भागवतम् १०.२२.९] स्पष्टम् । ॥ १०.२२ ॥ श्रीशुकः ॥ १५९ ॥ [१६०] यथा च कत्थनं तदुपाकर्ण्य पौण्ड्रकस्याल्पमेधसः । उग्रसेनादयः सभ्या उच्चकैर्जहसुस्तदा ॥ [भागवतम् १०.६६.७] स्पष्टम् । ॥ १०.६६ ॥ श्रीशुकः ॥ १६० ॥ [१६१] अथ तत्प्रीतिमयो वीररसः । तत्र वीररसश्चतुर्धा धर्मदयादान युद्धात्मकत्वेनोत्साहस्य स्थायिनश्चातुर्विध्यात् । तत्र धर्मवीररसः । तत्रालम्बनो धर्मचिकीर्षातिशयलक्षणस्य धर्मोत्साहस्य विषयाभावात् प्रीतिमयत्वेनैव लब्धो विषयः श्रीकृष्णः । तद्आधारस्तद्भक्तश्च । उद्दीपनाः सच्छास्त्रश्रवणादयः । अनुभावा विनयश्रद्धादयः । व्यभिचारिणो मतिस्मृत्य्आदयः । स्थायी तत्प्रीतिमयो धर्मोत्साहः । तद् उदाहरणं च क्रतुराजेन गोविन्द राजसूयेन पावनीः । यक्ष्ये विभूतीर्भवतस्तत्सम्पादय नः प्रभो ॥ [भागवतम् १०.७२.३] इत्य् आदिकम् । अथ तन्मयो दयावीररसः । अत्रालम्बनस्तत्प्रीतिजातया तदीयतावगत सर्वभूतविषयकदययात्मव्ययेनापि सन्तर्प्यमाणदीनवेषाच् छन्ननिजरूपः श्रीकृष्णः । तादृशदयाधारो भक्तः । पित्रादीनां तादृशी दया तु वत्सलादिकमेव पुष्णाति करुणं वा । उद्दीपनास्तद्आर्ति व्यञ्जनादयः । अनुभावा आश्वासनोक्त्य्आदयः । व्यभि(पगे ९०)चारिणः औत्सुख्यमतिहर्षादयः । स्थायी तत्प्रीतिमयो दयोत्साहः । उदाहरणं च कृच्छ्रप्राप्तकुटुम्बस्य क्षुत्तृड्भ्यां जातवेपथोः । अतिथिर्ब्राह्मणः काले भोक्तुकामस्य चागमत् ॥ तस्मै संव्यभजत्सोऽन्नमादृत्य श्रद्धयान्वितः । हरिं सर्वत्र सम्पश्यन् [भागवतम् ९.२१.५६] इत्यारभ्य, एवं (इति) प्रभाष्य पानीयं म्रियमाणः पिपासया पुल्कसायाददाद्धीरो निसर्गकरुणो नृपः । तस्य त्रिभुवनाधीशाः फलदाः फलमिच्छताम् आत्मानं दर्शयां चक्रुर्माया विष्णुविनिर्मिताः ॥ [भागवतम् ९.२१.१५] इत्यन्तम् । स्पष्टम् । ॥ ९.२१ ॥ श्रीशुकः ॥ १६१ ॥ [१६२] अथो तन्मयो दानवीररसः । द्विधा चायं सम्पद्यते । बहुप्रदत्वेन समुपस्थितदुरापार्थत्यागेन च । तत्र प्रथमस्यालम्बनमन्य सम्प्रदानके च दाने दानद्रव्येण तत्तृप्तेरेव मुख्योद्देशेन तद् उद्देशे पर्यवसानात् । तत्सम्प्रदानके तु स्पष्टतद्उद्देशाद्दित्सातिशय लक्षणस्य दानोत्साहस्य विषयः श्रीकृष्णस्तद्आधारस्तत्प्रियश्च । अन्यः सम्प्रदानवीररसस्तु बहिरङ्गः । उद्दीपनाः सम्प्रदानवीक्षाद्याः । अनुभावा वाञ्छाधिकदानस्मिताद्याः । व्यभिचारिणो वितर्कौत्सुक्य हर्षाद्याः । स्थायी तत्प्रीतिमयो दानोत्साहः । उदाहरणं च नन्दस्त्व् आत्मज उत्पन्ने जाताह्लादो महामनाः [भागवतम् १०.५.१] इत्यादि । स्पष्टम् । ॥ १०.५ ॥ श्रीशुकः ॥ १६२ ॥ तथा, एवं शप्तः स्वगुरुणा सत्यान्न चलितो महान् । वामनाय ददावेनामर्चित्वोदकपूर्वकम् ॥ [भागवतम् ८.२०.१६] एतां पृथ्वीम् । ॥ ८.२० ॥ श्रीशुकः ॥ १६३ ॥ [१६४] अथ द्वितीयस्यालम्बनः । उपस्थितदुरापार्थत्यागेच्छातिशयलक्षणस्य तद्उत्साहस्य धर्मोत्साहवदेव विषयः श्रीकृष्णस्तद्आधारस्तद् भक्तश्च । उद्दीपनाः कृष्णालापस्मितादयः । अनुभावास्तद्उत्कर्ष वर्णनद्रढिमादयः । सञ्चारिणो धृतिप्रचुराः । स्थायी तत्प्रीतिमयस् त्यागोत्साहः । तद्उदाहरणम्सालोक्यसार्ष्टिसारूप्य [भागवतम् ३.२९.१३] इत्य् आदिकमेव । अथ तन्मयो युद्धवीररसः । तत्र योद्धा तत्प्रियतमः । तस्यैव तत् प्रीतिमययुद्धोत्साहात् । प्रतियोद्धा तु क्रीडायुद्धे श्रीकृष्णो वा तत् पुरस्तस्यैव मित्रविशेषो वा । साक्षाद्युद्धे पुनस्तत्प्रतिपक्षः । तत्र श्रीकृष्णप्रतियोद्धृकत्वे तत्प्रीतिमययुयुत्सातिशयलक्षणतद्उत्साह विषयतया तस्यैवालम्बनत्वं सर्वथा सिद्धम् । इतरप्रतियोद्धृकत्वेऽपि हास्यरसवत्तत्प्रीतिमयत्वेन मूलमालम्बनत्वं तस्यैव । तत् प्रतिपक्षस्तु युयुत्सांशमात्रस्य बहिरङ्ग आलम्बनः । तत्र योद्धृ प्रतियोद्धारौ मित्रविशेषावाधारत्वविषयत्वाभ्यामालम्बनाविति । उद्दीपनाः प्रतियोद्धृकस्मितादयः । अनुभावाः योद्धृकस्मितादयः । व्यभिचारिणो गर्वावेगादयः । स्थायी तत्प्रीतिमयो योद्धोत्साहः । उदाहरणं च त्रिविधप्रतियोद्धृक्रमेण भ्रामणैर्लङ्घनैः क्षेपैरास्फोटनविकर्षणैः । चिक्रीडतुर्नियुद्धेन काकपक्षधरौ क्वचित् ॥ [भागवतम् १०.१८.१२] काकपक्षश्चूडाकरणात्प्राक्तनाः केशाः । तद्धारिणौ रामकृष्णौ । नियुद्धेन बाहुयुद्धेन तद्भेदैर्भ्रामणादिभिः । एवमेव हरि वंशे तथा गाण्डीवधन्वानं (पगे ९१) विक्रीडन्मधुसूदनः । जिगाय भरतश्रेष्ठं कुन्त्याः प्रमुखतो विभुः ॥ इति । ॥ १०.१८ ॥ श्रीशुकः ॥ १६४ ॥ [१६५] तथा रामकृष्णादयो गोपा ननृतुर्युयुधुर्जगुः ॥ [भागवतम् १०.१८.१२] अत्र तद्अग्रे परेऽपि गोपास्तं सन्तोषयन्तो युयुधुरित्यागतम् । ॥ १०.१८ ॥ श्रीशुकः ॥ १६५ ॥ [१६६] तथा जरासन्धवधे सञ्चिन्त्यारिवधोपायं भीमस्यामोघदर्शनः । दर्शयामास विटपं पाटयन्निव संज्ञया ॥ तद्विज्ञाय महासत्त्वो भीमः प्रहरतां वरः । गृहीत्वा पादयोः शत्रुं पातयामास भूतले ॥ [भागवतम् १०.७२.४१४२] स्पष्टम् । ॥ १०.७२ ॥ श्रीशुकः ॥ १६६ ॥ [१६७] अथ तत्प्रीतिमयो रौद्ररसः । तत्रालम्बनस्तत्प्रीतिमयक्रोधस्य विषयः श्रीकृष्णस्तद्आधारस्तत्प्रियजनश्च । तस्य विषयश्चेत्तद्धितस् तद्अहितः स्वाहितो वा भवति तद्आदि पूर्ववत्तत्प्रीतेर्विषयत्वेन तस्यैव मूलमालम्बनत्वम् । अन्ये तु क्रोधांशमात्रस्य बहिरङ्गालम्बनाः । तत्र प्रमादादिना श्रीकृष्णात्सख्या अत्याहिते सख्याः क्रोधविषयः श्री कृष्णः । तेन बध्वादीनामवगते सङ्गमे वृद्धादीनां च स एव । अथ तद्धितश्च प्रमादेन तद्अनवेक्षणादन्यस्य क्रोधविषयः स्यात् । तद् अहितो दैत्यादिः । स्वाहितस्तु स्वस्य तत्सम्बन्धबाधकः । अथोद्दीपनाः क्रोधविषयस्यावज्ञादयः । अनुभावाः हस्तनिष्पेषादयः । व्यभिचारिण आवेगादयः । स्थायी तत्प्रीतिमयः क्रोधः । वृद्धायास्तत् प्रीतिमयः क्रोधः । वृद्धयास्तत्प्रीतिमयत्वं व्रजजनत्वात्तदापि स्वाभाविक्याः प्रीतेरन्तर्भावमात्रेण अन्वेषां तद्विकारत्वेन । तच्च तस्यैव मङ्गलकामनाप्रायतया । तत्र पूर्वेषां त्रयाणामुदाहरणम् अन्यत्रान्वेष्यम् । उत्तरयोर्द्वयोस्तु यथा ततः पाण्डुसुताः क्रुद्धा मत्स्यकैकयसृञ्जयाः । उदायुधाः समुत्तस्थुः शिशुपालजिघांसवः ॥ [भागवतम् १०.७४.४१] स्पष्टम् । ॥ १०.७४ ॥ श्रीशुकः ॥ १६७ ॥ [१६८] तथा मैतद्विधस्याकरुणस्य नाम भूद्; अक्रूर इत्येतदतीव दारुणः । योऽसावनाश्वास्य सुदुःखितं जनं प्रियात्प्रियं नेष्यति पारमध्वनः ॥ [भागवतम् १०.३९.२६] स्पष्टम् । ॥ १०.३९ ॥ श्रीगोप्यः ॥ १६८ ॥ [१६९] अथ तत्प्रीतिमयो भयानकरसः । तत्रालम्बनश्चिकीर्षिततत्पीडनाद् दारुणात्यत्तदीयप्रीतिमयं भयं तस्य विषयश्श्रीकृष्णः । तद् आधारस्तत्प्रियजनश्च । किं च स्वस्य तद्विच्छेदं कुर्वाणाद्यत्तादृशं भयं यच्च स्वापराधकदर्थितान् श्रीकृष्णादेव वा स्यात्तस्य तस्य स्व विषयकत्वेऽपि पूर्ववत्प्रीइतेर्विषयत्वात्श्रीकृष्ण एव मूलालम्बनः । भयहेतुस्तूद्दीपन एव भवेत् । विभाव्यते हिस्रत्यादिर्यत्र [भागवतम् २.१.१०] इति सप्तम्य्अर्थत्वस्य पूर्वत्रैव व्याप्तेः । येनेति तृतीयार्थस्य तूत्तरत्रैव व्याप्तेश्च । स्वविषयत्वे तु य एव विषयः स एवाधार इति भयांशमात्र विषयत्वेन पूर्ववद्बहिरङ्ग एवालम्बनोऽसौ । तद्आधारत्वेन त्व् अन्तरङ्गोऽपि । अथोद्दीपनाः भीषणभ्रूकुट्याद्याः । अनुभावा मुखशोषाद्याः । व्यभिचारिणश्चापल्याद्याः । स्थायी तत्प्रीतिमयं भयम् । तद्उदाहरणं च (पगे ९२) जन्म ते मय्यसौ पापो मा विद्यान्मधुसूदन । समुद्विजे भवद्धेतोः कंसादहमधीरधीः ॥ [भागवतम् १०.३.२९] अत्र विषयत्वेनैव हेतुत्वं न तु कारकान्तरत्वेन । ॥ १०.३ ॥ श्रीदेवकी श्रीभगवन्तम् ॥ १६९ ॥ [१७०] तथा शङ्खचूडदौरात्म्ये क्रोशन्तं कृष्ण रामेति विलोक्य स्वपरिग्रहम् ॥ [भागवतम् १०.३४.२७] इति । स्पष्टम् । ॥ १०.३४ ॥ श्रीशुकः ॥ १७० ॥ [१७१] अतः (अथ) क्षमस्वाच्युत मे रजोभुवो ह्यजानतस्त्वत्पृथगीशमानिनः । अजावलेपान्धतमोऽन्धचक्षुष एषोऽनुकम्प्यो मयि नाथवानिति ॥ [भागवतम् १०.१४.१०] स्पष्टम् । ॥ १०.१४ ॥ ब्रह्मा श्रीभगवन्तम् ॥ १७१ ॥ [१७२] अथ तन्मयो बीभत्सरसः । अत्रापि अन्यजुगुप्सायास्तत्प्रीतिमयत्वेन पूर्ववत्तत्प्रीतिविषयत्वाच्छ्रीकृष्ण एव मूलालम्बनः । तद्आधारस्तत् प्रियजनश्च । जुगुप्सामात्रांशस्य विषयोऽन्यस्तु बहिरङ्गालम्बनः । उद्दीपना अन्यगतामेध्यतादयः । अनुभावाः निष्ठीवनादयः । व्यभिचारिणो विषादादयः । स्थायी च तत्प्रीतिमयी जुगुप्सा । उदाहरणं च त्वक्श्मश्रूरोमनखकेशपिनद्धम् [भागवतम् १०.६०.४५] इत्यादिकम् । श्री रुक्मिणीवाक्यमेव । अथ तन्प्रीतिमयः करुणरसः । तत्रालम्बनः केवलबन्धुभाव मयप्रेम्णानिष्ठाप्तिपदतावेद्यत्वेन तत्प्रीतिमयकरुणाविषयः श्री कृष्णस्तद्आधारस्तत्प्रियश्च । उद्दीपनास्तत्कर्मगुणरूपाद्याः । अनुभावा मुखशोषविलापाद्याः । व्यभिचारिणो जाड्यनिर्वेदादयः । स्थायी च तत्प्रीतिमयः शोकः । उदाहरणं च अन्तर्ह्रदे भुजगभोगपरीतमारात् कृष्णं निरीहमुपलभ्य जलाशयान्ते । गोपांश्च मूढधिषणान् परितः पशूंश्च सङ्क्रन्दतः परमकश्मलमापुरार्ताः ॥ [भागवतम् १०.१६.१९] स्पष्टम् । ॥ १०.१६ ॥ श्रीशुकः ॥ १७२ ॥ [१७३] अथ कृष्णप्रीतिमतो जनस्य च यद्यन्योऽपि तत्कृपाहीनो जनः शोचनीयो भवति तदा तत्रापि तन्मय एव करुणः स्यात् । यथा न ते विदुः स्वार्थगतिं हि विष्णुं दुराशया ये बहिर्अर्थमानिनः । अन्धा यथान्धैरुपनीयमानास् तेऽपीशतन्त्र्यामुरुदाम्नि बद्धाः ॥ [भागवतम् ७.५.३१] स्पष्टम् । ॥ ७.५ ॥ श्रीप्रह्लादो गुरुपुत्रम् ॥ १७३ ॥ [१७४] किं च, त एव विस्मयादयो यदि श्रीकृष्णाधारा भवन्ति त एव तत्प्रीति मयचित्तेषु सञ्चरन्ति, तदापि तत्प्रीतिमयाद्भुतरसादयो भवन्ति । यथा अहो अमी देववरामरार्चितम् [भागवतम् १.१५.५] इत्यादिषु अजातप्रीतीनां तु तत्सम्बन्धेन ये विस्मयादयो भावास्तदीयरमाश्च दृश्यन्ते तेऽत्र तद्अनुकारिण एव ज्ञेयाः । अथ रसानामाभासतापत्यादिज्ञानायाश्रयनियमः परस्परं व्यवहारोऽप्युद्दिश्यते । तत्र आश्रयनियमः श्रीकृष्णसम्बन्धानुरूप एव । यथा पित्रादिषु प्राकृतस्य वात्सल्यस्याश्रयत्वं नियतम् । तथा मुख्यानां पञ्चानां मिथो व्यवहारस्तद्आश्रयाणां जनानामिव स च कुलीनलोकत एवावगन्तव्यः । ततो येषां यैर्मिलित्वा नर्मविहारादौ यथा सङ्कोचार्हता । तदीयानां रसानां तदीयै रसैरपि मिलने तथा तद् अर्हता । यथा न, तथा (पगे ९४) न यथोल्लासस्तथोल्लास इति । यथा तत् प्रेयस्यादीनां तद्वत्सलादिभिस्तद्आदिकम् । अथ गुणानां सप्तानामपि रसानां तेषु मुख्येषु पञ्चसु प्रतीपत्वम् उदासीनत्वमनुगामित्वं च यथायुक्तमवगन्तव्यम् । यथा हास्यस्य वियोगात्मकेषु भक्तिमयादिषु चतुर्षु प्रतीपत्वम् । शान्त उदासीनत्वं, अन्यत्रानुगामित्वमित्यादि । अथ गौणानां गौणैरपि वैरमाध्यस्थमैत्राणि ज्ञेयानि । यथा हास्यस्य करुणभयानकौ वैरिणौ । वीरादयो मध्यस्थाः । अद्भुतो मित्रमित्यादि । एवं तेषु द्वादशस्वपि स्थायिनां सञ्चारिणाम् अनुभावानां विभावानां विषयान्तरगतभावादीनामपि प्रतीपत्वौदासीन्यानुगामित्वानि विवेचनीयानि । तदेवं स्थिते श्रीकृष्ण सम्बन्धिषु जनेषु काव्येषु च रसस्यायोग्यरसान्तरादिसङ्गत्या बाध्यमानास्वाद्यत्वमाभासत्वम् । यत्र तु तत्सङ्गतिर्भङ्गिविशेषेण योग्यस्य स्थायिन उत्कर्षाय भवति तत्र रसोल्लास एव । केनाप्य् अयोग्यस्योत्कर्षे तु रसाभासस्यैवोल्लास इति । अथ तत्र मुख्यस्य मुख्यसङ्गत्य्आभासित्वं, यथा स वै किलायं पुरुषः पुरातनो य एक आसीदविशेष आत्मनि । [भागवतम् १.१०.२१] इति । नूनं व्रतस्नानहुतादिनेश्वरः समर्चितो ह्यस्य गृहीतपाणिभिः । पिबन्ति याः सख्यधरामृतं मुहुर् व्रजस्त्रियः सम्मुमुहुर्यद्आशयाः ॥ [भागवतम् १.१०.२८] इत्याद्य्अन्तम् । ज्ञानविवेकादिप्रकाशेनात्र हि शान्त एवोपक्रान्तः । उपसंहृतश्चोज्ज्वलः । तेन चास्य वस्तलेनैव मिलने सङ्कोच एवेति परस्परमयोग्य सङ्गत्याभास्यते । अत्र समाधीयते चान्यैः । स वै किल इत्यादिकमन्यासां वाक्यम् । नूनमित्यादिकं त्वन्यासाम् । एवंविधा वदन्तीनाम् [भागवतम् १.१०.३१] इत्यादि श्रीसूतवाक्यं च सर्वानन्दनपरमेवेति । ॥ १.१० ॥ कौरवेन्द्रपुरस्त्रियः ॥ १७४ ॥ [१७५] तथा अथाभजे त्वाखिलपूरुषोत्तमं गुणालयं पद्मकरेव लालसः । अप्यावयोरेकपतिस्पृधोः कलिर् न स्यात्कृतत्वच्चरणैकतानयोः ॥ जगज्जनन्यां जगद्ईश वैशसं स्यादेव यत्कर्मणि नः समीहितम् करोषि फल्ग्वप्युरु दीनवत्सलः स्व एव धिष्ण्येऽभिरतस्य किं तया ॥ [भागवतम् ४.२०.२७२८] इत्यादि । अत्र दासभावाख्यभक्तिमयस्य प्रकृतत्वेन योग्यस्य तद्अयोग्योज्ज्वल सङ्गत्याभासितत्वम् । तत्र दासभावस्तत्प्रकरणसिद्ध एव । उज्ज्वल सङ्गतिश्च पद्मकरेव लालस इत्यादिनावगम्यते । अत्र समाधानं च । न खल्वस्य तद्वत्कान्तभाववासना जाता किन्तु भक्तिवासनैव । दृष्टान्तस्तत्र तस्या भक्त्य्अंश एव । तया स्पर्धा तु तत्परम कृपोन्नद्धत्वेन वीराख्यदासतां प्राप्तस्य नायोग्येति । अन्ये त्वेवं मन्यन्ते । तत्खलु तदीयदीनविषयककृपासूचकस्वप्रेमवचन विनोदमात्रं, न तु लक्ष्मीस्पर्धावहम् । करोषि फल्ग्वप्युरु दीन वत्सलः [भागवतम् ४.२०.२८] इति स्वस्मिंस्तुच्छत्वमननात् । एवं श्रीत्रिविक्रमेण बलिशिरसि चरणेऽर्पिते नेमं विरिञ्चो लभते प्रसादम् [भागवतम् ८.२३.६] इति श्री प्रह्लादवाक्यमपि दृष्टम् । श्रीनृसिंहकृपायां स्वानुकम्पायामपि क्वाहं रजःप्रभव ईश तमोऽधिकेऽस्मिन् जातः सुरेतरकुले क्व तवानुकम्पा । न ब्रह्मणो न तु भवस्य न वै रमाया यन्मेऽर्पितः शिरसि पद्मकरः प्रसादः ॥ [भागवतम् ७.९.२६] अत्र ब्रह्मादेरधुना विद्यमानस्यापि ममैव शिरसीत्यर्थः । अत उभयत्रापि तत्तद्अवतारसमयापेक्षयैव तादृशप्रसादाभावो विवक्षित इति ज्ञेयम् । ॥ ४.२० ॥ पृथुः श्रीविष्णुम् ॥ १७५ ॥ (पगे ९४) [१७६] तथा श्रीवसुदेवादीनामपि पित्रादित्वेन वात्सल्यस्य तद्अयोग्यभक्ति मयसङ्गत्य्आभासितत्वं तत्र तत्र दृश्यते । तत्र समाधानं चाग्रे । अथ बलदेवादावित्यादौ चिन्त्यम् । मनसो वृत्तयो नःय्स्युः [भागवतम् १०.४७.६६] इत्य् आदिकानि श्रीव्रजेश्वरादिवाक्यानि तु न तादृशानि । अभिप्रायविशेषेण वत्सलरसस्यैव पुष्टतया स्थापयिष्यमाणत्वात् । तथा किमस्माभिरनिर्वृत्तं देवदेव जगद्गुरो । भवता सत्यकामेन येषां वासो गुरोरभूत् ॥ [भागवतम् १०.८०.४४] इत्यादि । अथ सख्यमयस्यैश्वर्यज्ञानसंवलितभक्तिमय सङ्गमेनाभासीकृतिः । अस्य श्रीदामविप्रस्य सख्यं हि कृष्णस्यासीत्सखा कश्चित्[भागवतम् १०.८०.६] इत्यादिना, कथयञ्चक्रतुः [भागवतम् १०.८०.२७] इत्यादौ, करौ गृह्य परस्परमित्यनेन च प्रकृतं दृश्यते इति । अत्र च समाधानं श्री बलदेवादिवदेव चिन्त्यम् । ॥ १०.८० ॥ श्रीशुकः ॥ १७६ ॥ [१७७] तथा त्वं न्यस्तदण्डमुनिभिर्गदितानुभाव आत्मात्मदश्च जगतामिति मे वृतोऽसि ॥ [भागवतम् १०.६०.३९] इति । आत्मा परमात्मा । आत्मदो मोक्षेषु तत्तद्आत्माविर्भावप्रकाशकः । अत्र कान्तात्वेन योग्य उज्ज्वल आत्मादिशब्दव्यञ्जिततद्अयोग्यशान्त सङ्गमेनाभास्यते । अत्र समाधीयते च । अस्याः स्वीयात्वेन कान्तभावे दासीत्वाभिमानमयी भक्तिरपि युज्यत एव पतिव्रताशिरोमणित्वात् । यथोक्तं तद्आद्या एवोद्दिश्यदासीशता अपि विभोर्विदधुः स्म दास्यम् [भागवतम् १०.५९.४] इति । श्रीरुक्मिण्यास्तु लक्ष्मीरूपत्वेनैश्वर्यस्वरूपज्ञान मिश्रतादृशभक्तिमिश्रकान्तभावत्वादत्र तादृशभक्तिमात्र पोषाय तादृगप्युक्तं युक्तमिति । ॥ १०.६० ॥ श्रीरुक्मिणी ॥ १७७ ॥ [१७८] अथ तन्माधुर्यमात्रानुभवमयकेवलकान्तभावानामपि श्री व्रजदेवीनां न खलु गोपिकानन्दनो भवान् [भागवतम् १०.३१.४] इत्यादिषु या शान्तादिसङ्गतिर्दृश्यते, सा तु पुरतः सोपालम्भादिश्लेषवाग्भङ्गि मयत्वेन व्याख्यास्यमानत्वात् । प्रत्युत रसोल्लासायैव स्यात् । तथा बद्धान्यथा स्रजा काचित्[भागवतम् १०.३०.२३] इत्यादौ वात्सल्यसङ्गतिः सङ्गत्य् अन्तरेण व्याख्यास्यते । तथा प्रकृतोज्ज्वले रसे रासवर्णने दुःसह प्रेष्ठविरहः [भागवतम् १०.२९.१०] इत्यादिकं श्रीमुनीन्द्रवचनं, तथा तद् अनन्तरं, कृष्णं विदुः परं कान्तम् [भागवतम् १०.२९.१२] इत्यादिके राज मुनीश्वरप्रश्नोत्तरे च मोक्षप्रस्तावव्यञ्जितशान्तरससङ्गत्या रसाभासत्वमकुर्वन्नित्यत्र समाधानं च श्रीकृष्णसन्दर्भे तथैवाग्रे च तात्कालिकश्रीकृष्णप्राप्त्य्अन्तरायनिरासमात्रमेव तत् प्रसङ्गे दर्शितं, न त्वन्यो मोक्ष (पगे ९५) इत्यतश्चिन्त्यम् । तथा तं काचिन्नेत्ररन्ध्रेण [भागवतम् १०.३२.८] इत्यादौ योगीवानन्दसम्प्लुता इति चैवं व्याख्यायते । योगीति क्लीबैकवचनं, तच्च क्रियाविशेषणम् । लज्जया यद्यî मनसि निधायैवोपगुह्यास्ते तथाप्यत्यन्ताभिनिवेशेन योगि संयोगि यथा स्यात्तदिवोपगुह्यास्ते इत्यर्थः । एवमन्यत्रान्यत्रापि यथायोगं समाधेयम् । अथ श्रीबलदेवादौ विरुद्धभावावस्थानं चैव चिन्त्यम् । यथैव श्री कृष्णस्तद्भक्तसुखव्यञ्जकनानालीलार्थे विरुद्धानपि गुणान् धारयति न च तैर्विरुध्यते अचिन्त्यशक्तित्वात्, तथा तल्लीलाधिकारिणस् तेऽपि । अस्ति चैषां तद्योग्यता । यथा श्रीबलदेवस्य ज्येष्ठत्वाद् वत्सलत्वम् । एकात्मत्वाद्बाल्यमारभ्य सहविहारित्वाच्च सख्यम् । पारमैश्वर्यज्ञानसद्भावाद्भक्तित्वमिति । ततः श्रीकृष्णस्य यादृश लीलासमयस्तादृश एव भावस्तद्विधस्याविर्भवति । ततो न विरोधोऽपि । ततः शङ्खचूडवधप्राक्तनहोरिकालीलायां श्रीकृष्णेन समं युग्मीभूय गानादिकं तद्द्वारा द्वारकातः श्रीव्रजदेवीषु सन्देशश्च नासमञ्जसः । एवं श्रीमद्उद्भवादीनामपि व्याख्येयम् । अथ मुख्यस्यायोग्यगौणसङ्गत्याभासत्वम् देवकी वसुदेवश्च विज्ञाय जगद्ईश्वरौ । कृतसंवन्दनौ पुत्रौ सस्वजाते न शङ्कितौ ॥ [भागवतम् १०.४४.५१] इत्यादिषु ज्ञेयम् । अत्र श्रीकृष्णविभावितभयानकसङ्गत्या तद्विषयो वत्सल आभास्यते । अत्र समाधानं च प्राक्तनमेव । अथ गौणस्यायोग्यगौणसङ्गत्य् आभासत्वम् । यथा कालियहृदयप्रवेशलीलायाम् तांस्तथा कातरान् वीक्ष्य भगवान्माधवो बलः । प्रहस्य किंचिन्नोवाच प्रभावज्ञोऽनुजस्य सः ॥ [भागवतम् १०.१६.१६] अत्र श्रीबलदेवस्य ऐश्वर्यज्ञानवतोऽप्याधुनिकसामाजिकभक्तस्येव व्रजजनाधारककरुणानुभवमयः करुणो योग्यः । स च हास सङ्गत्याभास्यते । समाधानं च पूर्ववन्नानाभावस्यापि तद्विधस्य तल्लीलाविशेषरक्षासमयानुरूपभावोदयात् । तद्विधा हि तस्य लीला प्रवर्तकपरिकरा इति । हासस्य कारणं प्रभावज्ञानं हि अत्र तेषां प्राणरक्षार्थमेव भावान्तराण्यतिक्रम्योदितम् । ततश्चैवं हि तेषां ज्ञानमभूत् । अयं चेतस्य परमप्रेष्ठो मर्मवेत्ता च हसति तदा नास्त्येव काचिच्चिन्तेति । पुनरपि तद्अर्थैव तस्य चेष्टा दृष्टा कृष्णप्राणान्निर्विशतो नन्दादीन् वीक्ष्य तं ह्रदम् । प्रत्यषेधत्स भगवान् रामः कृष्णानुभाववित् ॥ [भागवतम् १०.१६.२२] इत्यत्र लीलान्ते पुनः श्रीकृष्णलाभे रामश्चाच्युतमालिङ्ग्य जहासास्यानुभाववित्[भागवतम् १०.१७.१६] इत्यत्र तु हासः श्रीकृष्णं प्रत्युपालम्भव्यञ्जक एव । श्रीरुक्मिणीहरणलीलादौ तु भ्रातृस्नेह परिप्लुतत्वं वर्णितम् । तस्मात्तद्इष्टलीलानुरूप्यान्न वैरूप्यमिति तत्र हास्योऽपि नायोग्यः । ॥ १०.१६ ॥ श्रीशुकः ॥ १७८ ॥ [१७९] अथ स्थायिभावयोग्यत्वं प्रीतिलक्षणत एव प्रतिपन्नम् । ततः प्रीत्य् आभासत्वेऽवगते रसाभासत्वमप्यवगम्यम् । अथायोग्यसञ्चारिसङ्गत्य् आभासत्वं यथा स्ववचस्तदृतं कर्तुमस्मद्दृग्गोचरो भवान् । यदात्थैकान्तभक्तान्मे नानन्तः श्रीरजः प्रियः ॥ [भागवतम् १०.८६.३२] अथ भक्तिरनन्तादिहेलनलक्षणगर्वसङ्गत्याभास्यते । तत् समाधानं च व्याख्यान्तरेण । (पगे ९६) तद्यथा एकान्तभक्तान्मे मम अनन्तः सवधामत्वेनापि , श्रीर्जायात्वेनापि, अजः पुत्रत्वेनापि न प्रियः । किन्तु तेऽप्येकान्तभक्तश्रेष्ठत्वेनैव मम प्रेष्ठा इत्यर्थः । तदेतद्यदात्थ तत्स्ववचः ऋतं सत्यं कर्तृ दर्शयितुं भवानस्मद् दृग्गोचरोऽभूत् । तद्अनुगामितांशेनैवास्मान् प्रत्यपि कृपां कृतवानित्य् अर्थः ॥ ॥ १०.८६ ॥ मैथिलः श्रीभगवन्तम् ॥ १७९ ॥ [१८०] तथा तयोरित्थं भगवति कृष्णे नन्दयशोदयोः । वीक्ष्यानुरागं परमं नन्दमाहोद्धवो मुदा ॥ [भागवतम् १०.४६.२९] इत्थं तद्वियोगजमहादुःखव्यञ्जनाप्रकारेण । अत्र श्रीव्रजेश्वरयोः श्रीकृष्णवियोगदुःखानुभवमयी श्रीमद्उद्धवस्य भक्तिस्तद् अयोग्येन हर्ष्येणाभास्यते । समाधानं च श्रीबलदेवहासवदेव कार्यम् । तेषां सान्त्वनार्थमागतस्य तसापि दुःखाभिव्यक्तिर्न योग्या । ततस्तद्योग्यस्तदीयानुरागमहिमचमत्कारजो हर्ष एव तद्अर्थम् उदितः । अनन्तरं तथैव सान्त्विताश्च ते इति । ॥ १०.४६ ॥ श्रीशुकः ॥ १८० ॥ [१८१] तथा एहि वीर गृहं यामो न त्वां त्यक्तुमिहोत्सहे । त्वयोन्मथितचित्तायाः प्रसीद पुरुषर्षभ ॥ [भागवतम् १०.४२.१०] अत्र नायिकायाः सर्वेषामग्रत एतादृशं चापल्यमत्ययोग्यम् । तत्सङ्गतिश् चोज्ज्वलमाभासयति । समाधानं चास्याः सामान्यत्वाददोष इति । ॥ १०.४२ ॥ सैरिन्ध्री भगवन्तम् ॥ १८१ ॥ [१८२] अत्र तव सुतः सति यदाधरबिम्बे [भागवतम् १०.३५.१४] इत्यादिके तु न तथा चापल्यं मन्तव्यम् । तेषां पद्यानां युगलेन युगलेन पृथक्पृथक् संवादसङ्ग्रहरूपत्वा । श्रीव्रजेश्वईसभास्थितायाश्चास्याः सामान्यतस्तन्माधुर्यवर्णनमेव । तेन च सक्रादीनामेव मोह उक्तः । न तु व्रजति तेन वयम् [भागवतम् १०.३५.१७] इत्यादिवत् । व्योमयानवनिता [भागवतम् १०.३५.३] इत्यादिवच्च स्वभावस्य सजातीयभावस्य वा प्रकाशनमिति । एवं कुन्ददाम [भागवतम् १०.३५.२०] इत्यादावपि ज्ञेयम् । तथा मैवं विभोऽर्हति भवान् [भागवतम् १०.२९.३१] इत्यादिषु प्रकटतत्सङ्गप्रार्थन दैन्यादिकमयोग्यत्वेन प्रतीतमपि पुरतः श्लेषेण निषेधार्थादितया व्याख्यास्यमानत्वात्परमरसावहत्वेनैव स्थापनीयम् । अथायोग्यानुभावसङ्गत्य्आभासत्वं यथा यद्यप्यसावधर्मेण मां बध्नीयादनागसम् । तथाप्येनं न हिंसिष्ये भीतं ब्रह्मतनुं रिपुम् ॥ [भागवतम् ८.२०.१२] इत्यादिद्वयम् । अत्र शुक्रत्वं च नार्थप्रयुक्तस्यापि अधर्मादिशब्दप्रयोगस्य तत्रायोग्यत्वादाभास्यत एव भक्तिमयः । समाधानं च तदानीं साक्षात् भक्तेरजातत्वात्श्रीत्रिविक्रमपादस्पर्शानन्तरमेव च जातत्वान्न विरोध इति । ॥ ८.२० ॥ श्रीबलिः शुक्रम् ॥ १८२ ॥ [१८३] तथा जरासन्धवधः कृष्णभूर्य्अर्थायोपकल्पते [भागवतम् १०.७१.१०] इति । (पगे ९७) अत्रायोग्येन साक्षान्नाम्ना सम्बोधनेन दास्यमय आभास्यते । वस्तुतस् तु तद्आदिनाम्नां तत्परममहिममयत्वात्तन्मयनाम्नां च दासादिभिरपि साक्षाद्ग्रहणदर्शनात्तद्अदोष इति । यस्य नाम महद् यशः [श्वेतू ४.१९] इति श्रुतेः । ॥ १०.७१ ॥ उद्धवः श्रीभगवन्तम् ॥ १८३ ॥ [१८४] तथा सतां शुश्रूषणे जिष्णुः कृष्णः पादावनेजने [भागवतम् १०.७५.५] । पादवनेजने इति णिज्अन्तम् । अत्र पाण्डवराजकृततादृशश्रीकृष्ण नियोगस्यायुक्तत्वात्तस्य भक्तिमयस्तेनाभास्यते । वस्तुतस्तु बान्धवाः परिचर्यायां तस्यासन् प्रेमबन्धना [भागवतम् १०.७५.३] इत्युक्तत्वात्तेषु नियोज्येषु बान्धवाः स्वयमेवावर्तन्ते, नेतरे इव तन्नियुक्ता एव । ततः श्रीकृष्णस्य तु सुतरामेव स्वेच्छाप्रवृत्तिः । तेन च चिन्तितमिदमिति गम्यते । सर्वाणि कर्माण्यन्यैः सेत्स्यन्ते । पादावनेजनं तु नान्यैः साभिमानत्वात् । ततश्च मम बन्धूनामेषां कर्म विगीताङ्गं स्यादिति मयिवात्राग्रहीतव्यमिति । तदेवं तस्येच्छायास्तद्आश्रितैर्दुर्लङ्घत्वात्तद्बलादेव तत्र तस्य प्रवृत्तिः । एवं स्वयमेव नारदादिपादप्रक्षालनेऽपि दृष्टम् । तं प्रति च स्वेच्छयैव हि भगवान् ब्राह्मणत्वेन भक्तत्वेन च व्यवहरति । तत एव क्वचित्पुत्र मा खिदः [भागवतम् १०.६९.४०] इत्यपि वदतीति । ॥ १०.७५ ॥ श्रीशुकः ॥ १८४ ॥ [१८५] तथा श्रीदामा नाम गोपालो रामकेशवयोः सखा । सुबलस्तोककृष्णाद्या गोपाः प्रेम्णेदमब्रुवन् ॥ राम राम महाबाहो कृष्ण दुष्टनिबर्हण । इतोऽविदूरे सुमहद्वनं तालालिसङ्कुलम् ॥ [भागवतम् १०.१५.२१२२] इत्यादि । अत्रायोग्येन भयस्थानगमननियोगेन सख्यमय आभास्यते । वस्तुतस् तु समानशीलत्वेन श्रीकृष्णस्य वीर्यज्ञानात्तैस्तन्नियोगोऽपि नायोग्यः । प्रत्युत तेषां तद्वद्वीरस्वभावानां तन्मयप्रीतिपोषायैव भवति साकं कृष्णेन सन्नद्धो विहर्तुं विपिनं महत् । बहुव्यालमृगाकीर्णं प्राविशत्परवीरहा ॥ [भागवतम् १०.५८.१४] इत्यर्जुनचरितवत् । अतएव प्रेम्णेति महासत्त्वदुष्टनिवर्हणेति चोक्तम् । अन्यत्र च अस्मान् किमत्र ग्रसिता निविष्टान्; अयं तथा चेद्बकवद्विनङ्क्ष्यति [भागवतम् १०.१२.१४] इति । ॥ १०.१५ ॥ श्रीशुकः ॥ १८५ ॥ [१८६] एवं द्वारकाजलविहारे न चलसि [भागवतम् १०.९०.२२] इत्यादौ वसुदेव नन्दनाङ्घ्रिमिति । अत्रायोग्येन श्वशुरनामग्रहणेन स्वीयानां कान्ताभाव आभास्यते । वस्तुतस्तु देवस्य परमाराध्यस्य श्वशुरस्य यो नन्दनो मुख्यः पुत्रः । अस्मत्पतिरित्यर्थः । तस्याङ्घ्रिं वसु परमधनस्वरूपमित्य् एव तन्मनसि स्थितम् । तथापि दैवात्तन्नामानुकरणदोषसमाधानं चोन्मत्तवचस्त्वेनोपक्रान्तत्वात् । ॥ १०.९० ॥ श्रीपट्टमहिष्यः ॥ १८६ ॥ [१८७] तथा तमात्मजैर्दृष्टिभिरन्तरात्मना दुरन्तभावाः परिरेभिरे पतिम् । निरुद्धमप्यास्रवदम्बु नेत्रयोर् विलज्जतीनां भृगुवर्य वैक्लवात् ॥ [भागवतम् १.११.३३] (पगे ९८) दुरन्तभावा उद्भटभावा, अतएव निरुद्धमप्यास्रवम् । अत्रात्मज द्वारालिङ्गनेन कान्तभाव आभास्यते । तद्द्वारा तत्सम्भोगायोग्यत्वात् । समाधानं च प्रीतिसामान्यपरिपोषायैव तथाचरितं न तु कान्तभाव पोषाय । तत्पोषस्तु दृष्टादिद्वारैव । तस्मान्न दोष इति । ॥ १.११ ॥ श्रीसूतः ॥ १८७ ॥ [१८८] अथायोग्यविभावसङ्गत्याभासत्वमुदाह्रियते । तत्रायोग्योद्दीपन सङ्गत्या यथा यद्अर्चितम् [भागवतम् १०.३८.८] इत्यादौ, यद्गोपिकानां कुच कुङ्कुमाङ्कितमिति । अत्रानेन रहस्यलीलाचिह्नेन दासानुसन्धानायोग्येन दास्यभावमय आभास्यते । समाधानं च । अत्रास्य भक्तिमात्रसुलभत्व चिन्तनेऽभिनिवेशः । न तु तादृशलीलाविशेषानुसन्धाने । यथोक्तं टीकायाम्यद्गोपिकानामिति प्रेममात्रसुलभत्वमित्येतत् । ततोऽननुसन्धायैव तद्विशेषं भक्तिमात्रोद्वलकत्वेन निर्दिष्टत्वान्न दोष इति । एवं समर्हणं यत्र [भागवतम् १०.३८.१७] इत्यादिकं व्याख्येयम् । ॥ १०.३८ ॥ अक्रूरः ॥ १८८ ॥ [१८९] एवमुज्ज्वलेऽपि पुत्ररूपस्योद्दीपनत्वायोग्यता यं वै मुहुर्[भागवतम् १०.५५.४०] इत्यादौ गम्या । तच्चाग्रे समाधानं व्याख्येयम् । अथाल्म्बनायोग्यतायां तादृशप्रीत्य्आधारायोग्यतयाभासत्वे यज्ञपत्नीनां पुलिन्दी हरिण्य्आदिन्यां तत्तज्जातिरूपमयोग्यम् उदाहार्यम् । अथ तादृशप्रीतिविषयायोग्यत्वं यथाक्षण्वताम् [भागवतम् १०.२१.७] इत्यादौ वक्त्रं व्रजेशसुतयोः इत्यादि । अत्र यद्यपि श्रीरामोऽपि श्रीकृष्णव्यूहत्वात्स एव, तथापि श्री कृष्णत्वाभावात्तत्प्रेयसीभावविशेषायोग्य एव । ततस्तेनात्रोज्ज्वलम् आभास्यते । वस्तुतस्त्वग्रेऽवहित्थागर्भेण व्रजेशसुतयोर्मध्ये अनु पश्चात्वेणुजुष्टं यन्मुखमित्यादि व्याख्यानेन रसोत्कर्ष एव साधयितव्यः । एवमेव टीकायामपि । रामः क्षपासु भगवान् गोपीनां रतिमावहत्[भागवतम् १०.६५.१७] इत्यत्र व्याख्यातम्गोपीनां रतिमिति श्रीकृष्ण क्रीडासमयेऽनुत्पन्नान्नातिबालानां चान्यासामित्यभियुक्तप्रसिद्धिरिति । ॥ १०.२१ ॥ श्रीव्रजदेव्यः ॥ १८९ ॥ [१९०] अथायोग्यस्य विषयान्तरगतभावादिकस्य सङ्गत्य्आभासत्वं यथा देवहूतिवर्णनेकामः स भूयात्[भागवतम् ३.२२.१६] इत्यादौ क्षिपतीमिव श्रियम् इति । अत्र देवहूतिगतेनेदृशवर्णनरूपेणानुभावेन श्रीकर्दमस्य भक्तिर् आभास्यते । वस्तुतस्तु तेन जगत्सम्पत्तिरूपां प्राकृतीं श्रियमेवोद्दिश्य तयोक्तमिति न दोषः ॥ ॥ ३.२२ ॥ श्रीकर्दमः ॥ १९० ॥ [१९१] तथा उवास तस्यां कतिचिन्मिथिलायां समा विभुः । मानितः प्रीतियुक्तेन जनकेन महात्मना । ततोऽशिक्षद्गदां काले धार्तराष्ट्रः सुयोधनः ॥ [भागवतम् १०.५७.२६] विभुः श्रीसङ्कर्षणः । मानित इत्यादिकं च तस्यैव विशेषणमिति समाधानं च । ॥ १०.५७ ॥ श्रीशुकः ॥ १९१ ॥ [१९२] एवमग्रे च केचिदन्ये रसाभासाः परिहरिष्यन्ते । अथ यदुक्तमयोग्य सङ्गतिरपि भङ्गीविशेषेण योग्यस्य स्थायिन उत्कर्षाय चेत्तदा रसोल्लासः इति । तत्र मुख्यसङ्गत्या (पगे ९९) मुख्यस्योल्लासो, यथाहो भाग्यम् अहो भाग्यम् [भागवतम् १०.१४.३२] इत्यादौ । अत्र ब्रह्मणा व्रजवासिप्रसङ्गे ज्ञानभक्तिबन्धुभावौ भावितौ । योग्यश्चात्र बन्धुभाव एव भावयितुम् । तदीयस्वाभाविकतद्भावास्वादे सत्यन्यस्य विरसत्व प्रतिभानात् । तथापि तत्र परमब्रह्मपदव्यञ्जिताया ज्ञानभक्तेर् अयोग्याया भावना ज्ञानभक्त्य्अंशवासितसहृदयचमत्काराय तदीय भाग्यप्रशंसावैशिष्ट्यशंसनभङ्ग्या तमेवोत्कर्षयितुं प्रवर्तितेत्य् उल्लसत्येव रसः । एवमित्थं सतां ब्रह्मसुखानुभूत्या [भागवतम् १०.१२.११] इत्यादिकमपि व्याख्येयम् । तथा भ्रात्रेयो भगवान् कृष्णः शरण्यो भक्तवत्सलः । पैतृष्वस्रेयान् स्मरति रामश्चाम्बुरुहेक्षणः ॥ [भागवतम् १०.४९.९] अत्र पितृष्वसुस्तस्या ऐश्वर्यज्ञानमयी भक्तिरयोग्या, वात्सल्यं तु योग्यम् । तथापि भगवद्आदिपदव्यञ्जिततादृशसङ्गतिर्यासीत् । ताम् अतिक्रम्य भ्रात्रेय इति पैतृष्वसेयानिति । अम्बुरुहेक्षण इति चोक्तिभङ्ग्या वात्सल्यस्योत्कर्षे सति रसोल्लासः । ॥ १०.४९ ॥ श्रीकुन्ती ॥ १९२ ॥ [१९३] एवं श्रीराघवेन्द्रस्य केवलमाधुर्यमयलीलायां हनुमतः केवल तन्मयदासभावोऽपि स्वरूपैश्वर्यादिज्ञानमयतद्भावसङ्गतिर् नातिर्योग्यापि पश्चान्माधुर्यमय एव पर्यवसायिताभङ्ग्या तस्यैवोकर्षाय जातेत्रसोल्लास एव योजनीयः । तत्रैश्वर्यमाधुर्ययोर् महिमज्ञानं तस्याह ओं नमो भगवते उत्तमश्लोकाय [भागवतम् ५.१९.३] इत्य् आदि । [१९४] अत्र भगवत इत्यैश्वरमुत्तमश्लोकायेति माधुर्यं दर्शितम् । स्वरूप ज्ञानमाह यत्तद्विशुद्धानुभवमात्रमेकम् [भागवतम् ५.१९.४] इत्यादि । यत्तत्प्रसिद्धं श्रीरामचन्द्रस्य दुर्वादश्यामलरूपम् । अत्र प्रकाशैकलक्षणवस्तुनः सूर्यादिज्योतिषः प्रकाशत्वं शौक्लादिमत्त्वम् इत्यादि धर्मवत्गुणरूपादिलक्षणतत्स्वरूपधर्मस्यापि तद् आत्मकत्वदृष्ट्या तन्मात्रत्वमुक्तम् । य एव धर्मः स्वरूपशक्तिरिति भगवत्सन्दर्भादौ स्थापितम् । अतएवैकमपि । तस्याश्च शक्तेर् मायातिरिक्तत्वमाह स्वतेजसा ध्वस्तगुणव्यक्वस्थमिति । स्वरूपशक्त्या दूरीभूता त्रैगुण्यात्मिका माया शक्तिर्यस्मात्यत् । अतः प्रशान्तं सर्वोपद्रवरहितम् । अनुभावमात्रत्वे हेतुः प्रत्यग्दृश्यादन्यत् । न चक्षुषा पश्यन्त रूपमस्य [Kअठू २.३९], यमेवैष वृणुते तेन लभ्यस् तस्यैषा आत्मा विवृणुते तनुं स्वाम् [Kअठू १.२.२३] इति श्रुतेः । तत्कुतः । अनामरूपमेतास्तिस्रो देवता अनेन जीवेनात्मनानुप्रविश्य नामरूपे व्याकरवाणी [Cहा ६.३.२] इति प्रसिद्धप्राकृतनामरूपरहितम् । तत्र हेतुः निरीहमिति । आत्मशब्देन हि श्रुतावस्यां परमात्मनो जीवाख्य शक्तिरूपोऽंश उच्यते । अनेनेति (पगे १००) पृथक्त्वनिर्देशात् । तद्रूपेण च प्रवेशो नाम देवताशब्दवाच्यतेजोवारिमृल्लक्षणोपाध्य्अभिनिवेशः । स च तस्य जीवस्य तत्राहन्ताध्यासादेव भवति । ततोऽन्तर्यामिरूपेण स्वयं तत्र स्थितस्यापि तद्अध्यासाभावादुपाधिकृतनामरूपराहित्यं युक्तमेवेत्यर्थः । सर्वथाहङ्कारराहित्ये सति व्याकरवाणीति प्रयोगस्यानर्हत्वादिति भावः । [१९५] ननु, श्रीरामरूपं न सर्वैरेव प्रतीयते तत्राह सुधियोपलम्भनम् । शुद्धचित्तेन स्वरूपतयिवोपलभ्यत इत्यर्थः । नातः परं परम यद् भवतः स्वरूपम् [भागवतम् ३.९.३] इत्यादि श्रीब्रह्मवाक्यात् । नन्वेवंभूतस्य मर्त्येषु प्राकट्ये किं प्रयोजनम् । उच्यते । गौणे सत्य् अपि प्रयोजनान्तरे मुख्यं तु भक्तेषु लीलामाधुर्याभिव्यञ्जनमेवेत्य् आह मर्त्यावतारस्त्विह मर्त्यशिक्षणं रक्षोवधायैव न केवलं विभोः । कुतोऽन्यथा स्याद्रमतः स्व आत्मनः सीताकृतानि व्यसनानीश्वरस्य ॥ [भागवतम् ५.१९.५] तुशब्द आशङ्कानिवृत्त्य्अर्थः । मर्त्यलोके योऽवतार आविर्भावः । स तु साधुजनोद्वेजकरक्षोबधायैव केवलं न भवति किन्तु मर्त्य शिक्षणमपि । मर्त्येषु शिक्षणं तद्अर्थप्रकाशनं यत्तन्मयमपि । तत्र बहिर्मुखेषु विषयासङ्गदुर्वारताप्रकाशनमानुषङ्गिकम् । उद्देश्यं तु स्वभक्तिवासनेषु चित्तार्द्रताकरविरहसंयोगमयनिज लीलाविशेषमाधुर्यप्रकाशनम् । ततस्तद्अर्थमेवेत्यर्थः । अन्यथा यदि केवलं तद्वधायैव स्यात्तदा आत्मनः परमात्मत्वेन परिपूर्णस्येश्वरस्य सर्वान्तर्यामिणः स्वे स्वस्वरूपे तद्एकरूपे वैकुण्ठे च रममाणस्य सीताकृतव्यसनानीति कुतः स्यात् । मनसैव तद् वधे शक्तत्वात्तद्व्यसनासम्भवाच्च । निजमाधुर्यप्रकाशनपक्षे तु तत्तत्सम्भवत्येवेति भावः । [१९६] अत्र कृपारूपं तादृशलीलारूपं च माधुर्यमधिकं श्लाघितम् । तत्र श्रीसीतावियोगदुःखं च लीलामाधुर्यान्तर्गतमेवेति न दोष इत्यपि दर्शितम् । तादृशलीला च न प्राकृतवत्कामादिसक्ततया, किन्तु स्वजन विशेषविषयककृपाविशेषेणैवेत्याह न वै स आत्मात्मवतां सुहृत्तमः सक्तस्त्रिलोक्यां भगवान् वासुदेवः । न स्त्रीकृतं कश्मलमश्नुवीत न लक्ष्मणं चापि विहातुमर्हति ॥ [भागवतम् ५.१९.६] स वै खलु त्रिलोक्यां न सक्तः । तत्र हेतुः । आत्मा परमात्मा भगवान् परिपूर्णैश्वर्यादिः वासुदेवः सर्वाश्रयश्चेति । किन्तु आत्मवतामात्मा स्वयमेव नाथत्वेन विद्यते येषां तेषां स्वविषयकममताधारिणां भक्तविशेषाणामित्यर्थः । तेषामेव सुहृत्तमः । तस्माद्यथान्यो स्त्रीत्वहेतुकं कश्मलश्नुवते तथा नासावश्नुवीत । अतस्तस्या आत्मवत्त्वेनैव तादृशकश्मलहेतुतत्प्रीतिविषयतापीति भावः । तथा देवदूतसमयातिक्रमेण आत्मवतोऽपि लक्ष्मणस्य परित्यागो यः, स खलु नात्यन्तिक इत्याह, न लक्ष्मणमिति । विहातुमपि नार्हति न शक्नोति । अनन्तरं झटित्येव स्वर्गस्थतया स्वागमनं प्रतीक्षमाणैस्तद् आदिभिः सह स्वधिष्ण्यारोहात् । अधुनापि तेन सीतादिभिश्च सहैवास्मिन् (पगे १०१) किंपुरुषवर्षेऽप्यस्माभिर्दृश्यमानत्वात् । ततो मर्यादा रक्षार्थमेव किञ्चित्तत्तद्अनुकरणमिति भावः । [१९७] पूर्वार्थमेव स्थापयितुं भक्त्य्एककारणकारुण्यप्रमुखपरम माधुर्यं सर्वोर्ध्वमाह द्वाभ्यां न जन्म नूनं महतो न सौभगं न वाङ्न बुद्धिर्नाकृतिस्तोषहेतुः । तैर्यद्विसृष्टानपि नो वनौकसश् चकार सख्ये बत लक्ष्मणाग्रजः ॥ [भागवतम् ५.१९.७] महतः पुरुषाज्जन्म । सौभगं सौन्दर्यम् । आकृतिर्जातिः । यद्यस्मात् । तैर्जन्मादिभिर्विसृष्टान् त्यक्तानस्मान् तदीयपरमभक्तश्री सीतान्वेषणादिभक्तितुष्टत्वेन बताहो लक्ष्मणस्य सर्वसद्गुणलक्ष्म लक्षितस्य सुमित्रानन्दनस्याग्रजोऽपि सखित्वे कृतवान् दास्यायोग्यानपि सह विहारादिना सखीनिव कृतवानित्यर्थः । सुग्रीवमुपलक्ष्य वा तथोक्तम् । [१९८] तस्मात् सुरोऽसुरो वाप्यथ वानरो नरः सर्वात्मना यः सुकृतज्ञमुत्तमम् भजेत रामं मनुजाकृतिं हरिं य उत्तराननयत्कोसलान् दिवमिति ॥ [भागवतम् ५.१९.८] पूर्वं स्वरूपज्ञानमयभक्त्या मनुजकृतावेव परमस्वरूपत्वं दर्शितवान् । सम्प्रति माधुर्यज्ञानमयभक्त्यापि विशिष्य तम् एवाराधयति मनुजाकृतिं हरिमिति । तत्रापि श्रीकपिलादिकं व्यावर्तयति राममिति । उत्तममसमोर्ध्वगुणं सुकृतज्ञं स्वल्पयापि भक्त्या सन्तुष्यन्तमिति । ॥ ५.१९ ॥ श्रीहनूमान् ॥ १९३१९८ ॥ [१९९] तथा मैवं विभोऽर्हति [भागवतम् १०.२३.३१] इत्यादौ प्रेष्ठो भवांस्तनुभृतां किल बन्धुरात्मा [भागवतम् १०.२९.३२] इत्यत्रापि नर्मालापमयश्लेषमङ्ग्या स्वीयभावोत्कर्षेण रसोल्लासः पुरतो दर्शनीयः । अथायोग्यगौण सङ्गत्यापि मुख्यस्योल्लासो यथा त्वक्श्मश्रुरोमनखकेश [भागवतम् १०.६०.४५] इत्यादिकं श्रीरुक्मिणीवाक्यम् । अत्र प्रतीपत्वेनायोग्यस्यापि बीभत्स्यस्य सङ्गतिः प्रकृतकृष्णविषयककान्तभावप्रशंसाकारि वचनभङ्ग्यैव कृतेति तद्उत्कर्षायैव जाता । ततो रसोल्लास एवेति । तथान्यत्र एताः परं स्त्रीत्वमपास्तपेशलं निरस्तशौचं बत साधु कुर्वते । यासां गृहात्पुष्करलोचनः पतिर् न जात्वपैत्याहृतिभिर्हृदि स्पृशन् ॥ [भागवतम् १.१०.३०] स्त्रीत्वं स्त्रीजातिः । सा च श्रीरुक्मिण्याद्य्अवरतज्जातिभेदत्वेनैवात्र गृहीता । अपास्तपेशलत्वादिकं हि तज्जात्य्अन्तराश्रयं न तु रुक्मिण्याद्याश्रयम् । ताभिस्तासामपि साधुत्वकरणात् । ततश्चान्यां तत् तद्दोषयुक्तां स्त्रीजातिमपि य निजकीर्त्य्आदिना शुद्धां कुर्वन्तीत्य् अर्थः । तासां तत्तद्दोषरहितसर्वगुणालङ्कृतत्वे तद्अवरासां साधुत्वविधाने च हेतुमाह यासामिति । स्वयं तथाविधोऽपि आहृतिभिः प्रेयसीजनोचितगुण (पगे १०२) समाहारैर्या एव हृदि स्पृशन् मनस्यासज्जन् यासां गृहादपि न जात्वपैतीति । तस्मादत्रापि बीभत्स सङ्गतिः पूर्ववद्व्याख्येया । ॥ १.१० ॥ कौरवेन्द्रपुरस्त्रियः ॥ १९९॥ [२००] अथ गौणेष्वयोग्यमुख्यानां सङ्गतावपि पूर्वरीत्या रसोल्लासो, यथा गोप्योऽनुरक्तमनसो भगवत्यनन्ते तत्सौहृदस्मितविलोकगिरः स्मरन्त्यः । ग्रस्तेऽहिना प्रियतमे भृशदुःखतप्ताः शून्यं प्रियव्यतिहृतं ददृशुस्त्रिलोकम् ॥ [भागवतम् १०.१६.२०] अत्र गौणः करुणरस एव योग्यः । तत्र स्वप्रतीपे सम्भोगाख्य उज्ज्वलस् त्वयोग्यः । तथापि तत्र स्मितविलोकादिरूपतत्सङ्गतिः स्मर्यमाण मात्रत्वेन तत्तद्भावाभिव्यञ्जनभङ्ग्या शोकमुत्कर्षयति । ततो रसोल्लास एवेति । ॥ १०.६० ॥ श्रीशुकः ॥ २०० ॥ [२०१] अथ मुख्येष्वयोग्यसञ्चारिसङ्गतावपि यथा ता वार्यमाना पतिभिः [भागवतम् १०.२९.८] इत्यादि । अथ च तेषामग्रे तादृशं चापल्यमयोग्यमपि तदानीं मोहातिरेकाभिव्यञ्जनाभङ्ग्या महाभावाख्यं सर्वानुसन्धानरहितं कान्तभावस्य उत्कर्षमेव गमयामास । तत उल्लसत्येव रस इति । ॥ १०.२९ ॥ श्रीशुकः ॥ २०१ ॥ [२०२] एवमुदाहरणान्तराण्यप्युन्नेयानि । अथ यदुक्तमयोग्यस्योत्कर्षे तु रसाभासत्वस्यैव उल्लास इति तत्रोदाहरणम् युवां न नः सुतौ साक्षात् प्रधानपुरुषेश्वरौ [भागवतम् १०.६५.१८] इति । अत्र पितृभावेनाभिव्यक्तस्य श्रीवसुदेवस्य एव योग्यं वात्सल्यम् अतिक्रम्य सङ्गता भक्तिर्न रसत्वायोपपद्यते इति । समाधानं च पूर्वानुसारेण श्रीबलदेववदेव योजनीयम् । रसाभासप्रसङ्गे समाधानानि चैतानि तेष्वेव निर्दोषेषु क्रियन्ते । तद्इतरेषु तु न तद् अर्थमनुगृह्यते । तस्मात्सर्वथा परिहार्यस्तत्प्रसङ्गः । योग्येन योग्यसङ्गत्या रसोल्लासस्योदाहरणानि तु स्वयमुह्यानि । ॥ १०.६५ ॥ श्रीवसुदेवः ॥ २०२ ॥ [२०३] अथ तत्प्रीतिविशेषमया रसाः प्रकर्तव्याः । तत्र शान्तापरनामा ज्ञान भक्तिमयो रसः । तत्रालम्बनः परब्रह्मत्वेन स्फुरन् ज्ञानभक्ति विषयश्चतुर्भुजादिरूपः श्रीभगवान् । तद्आधारा भगवल्लीलागत महाज्ञानिभक्ताश्च । तत्र भगवानेवं तदैव भगवानरविन्द नाभः [भागवतम् ३.१५.२७] इत्यादिभिः श्रीसनकादीनां वैकुण्ठगमने दर्शितः । ज्ञानिभक्ताश्च आत्मारामाश्च मुनयः [भागवतम् १.७.१०] इत्यादिना वर्णिताः । तेषु च श्रीचतुःसनाद्या (पगे १०३) एव तादृशाः । श्री शुकदेवस्य तु लीलारसमाधुर्याकृष्टतया श्रीभागवताभिनिवेशाद् यत्रैव श्रीमद्भागवतं सर्वोत्तमत्वमभिप्रैति तत्रैव गृध्नुना भवेत् । अथोद्दीपनाश्च तस्य गुणक्रियाद्रव्यप्रायाः तत्र गुणाः । सच्चिद् आनन्दसान्द्राङ्गत्वं, सदा स्वरूपसम्प्राप्तत्वं, भगवत्त्वं, परमात्मत्वं, विद्याशक्तिप्रधानत्वं, विभुत्वं, हतारिमुक्ति दायकत्वं, शान्तभक्तप्रियत्वं, समत्वं, दान्तत्वं, शान्तत्वं, शुचित्वं, अद्भुतरूपवत्त्वमित्यादयः । क्रियाश्च भक्तपालनाद्याः । द्रव्याणि च महोपनिषज्ज्ञानिभक्तपादरजस्तुलसीतदीयस्थानादीनि । अथानुभावाः । तत्तद्गुणादिप्रशंसा परब्रह्मपरमात्मादि नामोच्चारणं ब्रह्मसुखावधीरणापूर्वकभगवद्उन्मुखत्वमित्य् आदयः । नासाग्रन्यस्तदृष्टित्वावधूतचेष्टाज्ञानमुद्रादिपूर्वक जृम्भाङ्गमोटनहरिनतिस्तुतिप्रभृतयश्च । सात्त्विकाश्च प्रायः प्राकृता एव । अथ सञ्चारिणः । निर्वेदधृतिहर्षमतिस्मृतिविषादोत्सुकतावेग वितर्काद्याः । अथ स्थायी ज्ञानभक्तिः । सा च योऽन्तर्हितो हृदि गतोऽपि दुरात्मनां त्वम् । सोऽद्यैव नो नयनमूलमनन्त राद्धः ॥ [भागवतम् ३.१५.४६] इत्यादिभिर् व्यञ्जिता । तन्मयरसव्यञ्जकं च तत्रैव तस्यारविन्दनयनस्य पदारविन्द किञ्जल्कमिश्रतुलसीमकरन्दवायुः । अन्तर्गतः स्वविवरेण चकार तेषां सङ्क्षोभमक्षरजुषामपि चित्ततन्वोः ॥ [भागवतम् ३.१५.४३] इत्यादिकम् । अत्रारविन्दनयन आलम्बनः । वायुरुद्दीपनः । तनुसङ्क्षोभरूप उद्भास्वरविशेषः सात्त्विकविशेषश्चानुभावः । चित्तसङ्क्षोभरूपो हर्षः सञ्चारी । अक्षरजुषामपीति निर्देशविशिष्टेन तन्निर्देशेन लब्धा ज्ञानभक्तिः स्थायी । तत्समूहस्यैकत्रानुभवेन समर्थनात्ज्ञान भक्तिमयो रस इति विवेचनीयम् । अथ भक्तिमयेषु रसेषु आश्रयभक्तिमयो रस उदाहृइयते । तत्रालम्बनः पालकत्वेन स्फुरन्नाश्रयभक्त्य्आश्रयः श्रीकृष्णस्तदा धारास्तल्लीलागतपरमपाल्याश्च । अत्र श्रीकृष्णोऽन्यत्रत्येषु श्रीमन्नराकारताप्रधानः परमेश्वराकारश् च । श्रीमद्व्रजवासिषु तु परमधुरपरमप्रभावश्रीमन् नराकार एव । अथ ते पाल्या द्विविधाः । साधारणाः प्रपञ्चकार्याधिकृता बहिरङ्गाः तदीयचरणच्छायैकजीवनाश्चान्तराङ्गाः । तत्र पूर्वेषां ब्रह्म शिवादयस्तु भक्तिविशेषसद्भावात्तद्अन्तरङ्गा एव । अथोत्तरे त्रिविधाः । साधारणाः श्रीयदुपुरवासिनः । श्रीमद्व्रजपुर वासिनश्च । तत्र प्रथमे जरासन्धबद्धराजादयो मुनिविशेषादयश् च । उत्तरवर्गद्वयं श्रेणीजनादिकम् । अथोद्दीपनेषु गुणाः । तत्र परमेश्वराकारावलम्बनानां भगवत्त्वमवतारावईबीजत्वम् आत्मारामाकर्षित्वं पुतनादीनामपि तद्वेशानुकरणेन महाभक्त भावदातृत्वं परमात्मत्वमनन्तब्रह्माण्डाश्रयैकरोम विवरांशत्वमित्यादयो वक्ष्यमाणमिश्राः । श्रीमन् नराकारावलम्बनानां कृपाम्बुधित्वमाश्रितपालकत्वमविचिन्त्यमहा शक्तित्वं परमाराध्यत्वं सर्वज्ञत्वं सुदृढव्रतत्वं समृद्धिमत्त्वं क्षमाशीलत्वं दाक्षिण्यं सत्यं दाक्ष्यं सर्वशुभङ्करत्वं धार्मिकत्वं शास्त्रचक्षुष्ट्वं भक्तसुहृत्त्वं वदान्यत्वमोजः कीर्तिः तेजः सहो बलानि प्रेमवश्यत्वादयश्च । अथ जातयः पूर्वेषां तत्तद्अनुकारितया प्रतीता गोपत्वादयः तत् स्मारकाः श्यामत्वादयश्च । उत्तरेषां तत्तच्छ्रेष्ठत्वेनैव प्रतीतास्ते उभये । अथ क्रियाः । पूर्वेषां सृष्टिस्थित्य्आदिकृतो विश्वरूपदर्शनाद्याः वक्ष्यमानमिश्राः । उत्तरेषां परपक्षनिबर्हणस्वपक्षपालन सानुग्रहावलोकनाद्याः । अथ द्रव्याणि । तदीयास्त्रवादित्रभूषणस्थानपदाङ्कभक्तादीनि । तानि च (पगे १०४) पूर्वेषामलौकिकतयैव स्पष्टानि । उत्तरेषां चैतान्येवालौकिकत्वेऽपि लौकिकायमानतयैव दर्शितप्रभावानि । अथ कालाश्चोभयत्र तज्जन्मतद्विजयादिसम्बन्धित इति । अथानुभावाः । तत्सम्बन्धेनैव वसतिस्तत्प्रभावादिमयगुणनामकीर्तनमित्य् आदयः । तथा पूर्वोक्ता अपि । अथ सञ्चारिणः । तत्र योगे हर्षगर्व धृतयः । अयोगे क्लमव्याधी । उभयत्र निर्वेदशङ्काविषाददैन्य चिन्तास्मृतिव्रीडामत्य्आदयो मृतिश्च । सा योगेऽपि यथा श्रीभीष्मान्तिम चरिते विशुद्धया धारणये [भागवतम् १.९.३१] । एवं तत्र युधि तु गगरजः [भागवतम् १.९.३४] इत्यादौ मम निशितशरैर् विभिद्यमानत्वची इत्यनेनैव स्वापराधद्योतकवाक्ये दैन्यम् उदाहार्यम् । शितविशिखहतः [भागवतम् १.९.३८] इत्यादिकेऽपि । ॥ १.९ ॥ श्रीसूतः ॥ २०३ ॥ [२०४] अथ स्थायी चाश्रयभक्त्य्आख्यः । यथा भवाय नस्त्वं भव विश्वभावन त्वमेव माताथ सुहृत्पतिः पिता । त्वं सद्गुरुर्नः परमं च दैवतं यस्यानुवृत्त्या कृतिनो बभूविम ॥ [भागवतम् १.११.७] अत्र विभावोद्भास्वरानुभाववैशिष्ट्येनऐव सात्त्विकादीनामपि लब्धत्वात्तत्संवलनचमत्कारात्म्करसोदाहरणमपि ज्ञेयम् । यथोक्तम् सद्भावश्चेद्विभावादेर्द्वयोरेकस्य वा भवेत् । झटित्यन्यसमाक्षेपात्तदा दोषो न विद्यते ॥ [षाह्ड्३.१७] अन्यसमाक्षेपश्च प्रकरणवशादिति । ॥ १.११ ॥ द्वारकाप्रजाः श्रीभगवन्तम् ॥ २०४ ॥ [२०५] आश्रयभक्तिमयो रसो द्विविधः । अयोगात्मको योगात्मकश्च । अयोगो द्विविधः । प्रथमाप्राप्तिर्वियोगश्च । योगश्च द्विविधः । क्रमेण द्विविधायोगानन्तरजः सिद्धिस्तुष्टिश्चेति । तत्र प्रथमा प्रात्य्आत्मकम् अयोगमाह इति मागधसंरुद्धा भवद्दर्शनकाङ्क्षिणः । प्रपन्नाः पादमूलं ते दीनानां शं विधीयताम् ॥ [भागवतम् १०.७०.३१] अत्र भगवद्दर्शनकाङ्क्षिण इत्यनेन तद्दर्शनाथैव बन्ध मुमुक्षापि विज्ञापिता । ततः स्थायी दर्शितः । पादमूलमालम्बनम् । संरोधी विरोधमुखेनोद्दीपनः । प्रपत्तिरुद्भास्वरः । औत्सुक्यं दैन्यं च सञ्चारिणौ । ताभ्यां सात्त्विकादयश्च ज्ञेयाः । ॥ १०.६० ॥ राजदूतः श्रीभगवन्तम् ॥ २०५ ॥ [२०६] एतद्अनन्तरं सिद्ध्य्आख्यं योगं तेषामेवाह ददृशुस्ते घनश्यामं पीतकौशेयवाससम् । श्रीवत्साङ्कं चतुर्बाहुं [भागवतम् १०.७३.२३] इत्यारभ्य पिबन्त इव चक्षुर्भ्यां लिहन्त इव जिह्वया ॥ जिघ्रन्त इव नासाभ्यां रम्भन्त इव बाहुभिः । प्रणेमुर्हतपाप्मानो मूर्धभिः पादयोर्हरेः ॥ कृष्णसन्दर्शनाह्लाद ध्वस्तसंरोधनक्लमाः । प्रशशंसुर्हृषीकेशं गीर्भिः प्राञ्जलयो नृपाः ॥ [भागवतम् १०.७३.५७] पिबन्त इत्यादाविव शब्द उत्प्रेक्षायाम् । तद्अद्भुतरूपदर्शनेन चक्षुषोरत्यन्तविस्फारणात्पिबन्त इवेत्युक्तम् । एवं तदीयमधुर गन्धजातचरणारविन्दलेहनलोभात्पुनः पुनर्या जृम्भा जाता तल् लिङ्गेन तच्चरणारविन्दं लिहन्त इवेत्युक्तम् । अतएव जिघ्रन्त इव नासाभ्यामिति । नासापुटफुल्लतालिङ्गेन तस्य सर्वाङ्गमेव युगपज् जिघ्रन्त इवेत्युक्तम् । तद्अर्थमिव तद्विस्तारणं कृतमित्यर्थः । तथापि भक्तत्वात्तच्चरणस्यैवावले (पगे १०५) हेच्छा युक्तेति तथा व्याख्यातम् । एवमुत्तरत्रापि । परमावेशकृतबाहुचालनलिङ्गेन तच् चरणारविन्दं श्लिष्यन्त इवापीति सर्वथा तद्आवेश एव तात्पर्यम् । ॥ १०.७३ ॥ श्रीशुकः ॥ २०६ ॥ [२०७] अथ वियोगः । यर्ह्यम्बुजाक्षापससार [भागवतम् १.११.९] इत्यादौ श्रीद्वारका प्रजावाक्ये तासां प्रभावो व्यक्तः । श्रीव्रजप्रजानां च यदुपतिर् द्विरदराजविहारः [भागवतम् १०.३५.२५] इत्यादौमोचयन् व्रजगवां दिनतापम् इत्यनेन सूचितः । व्रज एव तिष्ठतां बुद्धबालगवामपि किमुत मनुष्याणामित्यर्थः । अथ तद्अनन्तरजं तुष्ट्य्आख्यं योगं द्वारकआप्रजानामाह आनर्तान् स उपव्रज्य स्वृद्धा‘ जनपदान् स्वकान् । दध्मौ दरवरं तेषां विषादं शमयन्निव ॥ [भागवतम् १.११.१] इवेति वाक्यालङ्कारे । ॥ १.११ ॥ श्रीसूतः ॥ २०७ ॥ [२०८] श्रीव्रजप्रजानामपि मोचयन्नित्यादिनैव व्यक्तः । तथा व्रजवन स्थितानामपि श्रीव्रजदेवीवाक्यैः वृन्दावनं सखि भुवो वितनोति कीर्तिम् [भागवतम् १०.२१.१०] इत्यादिभिः । हन्त चित्रमबला शृणुतेदम् [भागवतम् १०.३५.४] इत्यादिभिश्च ज्ञेयः । अथ दास्यभक्तिमयो रसः । तत्रालम्बनः प्रभुत्वेन स्फुरन् दास्य भक्त्य्आश्रयः श्रीकृष्णः । तद्आधाराः श्रीकृष्णलीलागतस्वोत्कृष्ट तदीयभृत्याश्च । श्रीकृष्ण इह परमेश्वराकारः श्रीमन्नराकारश्चेति द्विविधः पूर्वोक्ताविर्भाव एव । तद्भृत्याश्च तत्तद्अनुशीलत्वेन द्विविधाः । पुनस्ते च त्रिविधाः । अङ्गसेवकाः पार्षदाः प्रेष्याश्च । तत्राङ्गसेवका अङ्गाभ्यञ्जकताम्बूलवस्त्रगन्धसमर्पकादयः । पार्षदा मन्त्रिसारथिसेनाध्यक्षधर्माध्यक्षदेशाध्यक्षादयः । विद्याधदिचातुर्येण सभारञ्जकाश्च । पुरोहितस्य प्राधान्याद्गुरु वर्गान्तःपात एव । पार्षदत्वमप्यंशेन । प्रेष्याः सादिपदातिशिल्पि प्रभृतयः । एते च यथापूर्वं प्रायः प्रियतराः । श्रीमद्उद्धव दारुकप्रभृतीनां त्वङ्गसेवादिवैशिष्ट्यमप्यस्तीति सर्वतोऽप्य् आधिक्यम् । तत्रापि श्रीमद्उद्धवस्य बहुशोऽपि त्वं मे भृत्यः सुहृत् सखा [भागवतम् ११.११.४९] इत्याद्युक्तेः । अथोद्दीपनाः पूर्वोक्ता एव । तत्र विशेषतोऽङ्गसेवकेषु गुणाः सौन्दर्य सौकुमार्यादयः । क्रिया शयनभोजनादिकाः । द्रव्याणि तत्सेवोपयोग्यानि तद्उच्छिष्टानि च । पार्षदेषु गुणाः प्रभुत्वादयः । प्रेष्येषु प्रतापादय इत्यादि । अथानुभावाः प्रायः पूर्वोक्ता एव । तथा योगे स्वस्वकर्मणि तात्पर्यम् । यत्खलु सेवासमये कम्पस्तम्भाद्य्उद्भवमपि विलापयति तत्तत् कर्मतात्पर्यं हि तस्यासाधारणो धर्मः । कम्पादिस्तु सर्वसाधारणस् ततः पूर्वस्यैव बलवत्त्वमिति । एवमन्यत्रापि रसे यथायथमुन्नेयम् । अथायोगेऽपि स्वस्वकर्मानुसन्धानं तद्अर्चास्वपि तत्तत्कृतिरेव वा । अथ सञ्चारिणोऽपि प्राग्उक्ता एव । अथ स्थायी च दास्यभक्त्य्आख्यः । स चाक्रूरादीनामैश्वर्यज्ञानप्रधानः । श्रीमद्उद्धवादीनां तत्तत् सद्भावेऽपि माधुर्यज्ञानप्रधानः । श्रीव्रजस्थानं तु माधुर्येक मय एव । अथाप्येषां प्रीतेर्भक्तित्वं श्रीगोपराजकुमारत्वपरमगुण प्रभावत्वादिनैवादरसद्भावात् । तत्राक्रूरस्य ददर्श रामं कृष्णं च व्रजे गोदोहनं गतौ [भागवतम् १०.२८.२८] इत्यादि लीलायामनुभूततादृश माधुर्यस्यापि यमुनाह्रदे दृष्टेन तद्ऐश्वर्यविशेषेणैव चमत्कार परिपोषात्तत्प्रधानत्वं व्यक्तम् । श्रीमद्उद्धवस्य माधुर्य प्रधानत्वं (पगे १०६) तु श्रीगोकुलवासिभाग्यश्लाघायां स्फुटमेव व्यक्तम् । अतएव तादृशस्यापि तस्यैवं स्वेच्छामयनरलीला माधुर्यावेशः स्मर्यमाणो मम तद्वियोगखेदं वर्धयतीति भगवद्अन्तर्धानानन्तरमुद्धवः स्वयमाह मां खेदयत्येतदजस्य जन्म विडम्बनं यद्वसुदेवगेहे । व्रजे च वासोऽरिभयादिव स्वयं पुराद्व्यवात्सीद्यद्अनन्तवीर्यः ॥ [भागवतम् ३.२.१६] इति । [२०९] अतएव श्लाघितं यन्मर्त्यलीलौपायिकम् [भागवतम् ३.२.१२] इति । अग्रे परम मधुरत्वेन तां लीलामपि वर्णयति वसुदेवस्य देवक्यां जातो भोजेन्द्रबन्धने । चिकीर्षुर्भगवानस्याः शमजेनाभियाचितः ॥ ततो नन्दव्रजमितः पित्रा कंसाद्विबिभ्यता । एकादश समास्तत्र गूढार्चिः सबलोऽवसत् ॥ परीतो वत्सपैर्वत्सांश्चारयन् व्यहरद्विभुः । यमुनोपवने कूजद् द्विजसङ्कुलिताङ्घ्रिपे ॥ कौमारीं दर्शयंश्चेष्टां प्रेक्षणीयां व्रजौकसाम् । रुदन्निव हसन्मुग्ध बालसिंहावलोकनः ॥ [भागवतम् ३.२.२५२८] इत्यादि । रुदन्निव हसन्निति जनन्य्आद्य्अग्रे कौमारचेष्टाविशेषः ॥ ॥ ३.२ ॥ श्रीमानुद्धवः ॥ २०८२०९ ॥ [२१०] अथ श्रीव्रजस्थानां माधुर्यज्ञानैकमयत्वमाह पादसंवाहनं चक्रुः केचित्तस्य महात्मनः । अपरे हतपाप्मानो व्यजनैः समवीजयन् ॥ [भागवतम् १०.१५.१८] महात्मानो महागुणगणगुणितस्य हतपाप्मानो न तु वयमिव तादृशभाग्यान्तरायलक्षणपापयुक्ता इति श्रीशुकदेवस्य दैन्योक्तिस्तत् स्पृहातिशयं व्यञ्जयति । ॥ १०.१५ ॥ श्रीशुकः ॥ २१० ॥ [२११] तथा हन्तायमद्रिरबला हरिदासवर्यः [भागवतम् १०.२१.१८] इत्यादि । स्पष्टम् ॥ ॥ १०.२१ ॥ श्रीगोप्यः ॥ २११ ॥ [२१२] तदेतद्विभावादिस्थाय्यन्तसंवलनचमत्कारात्मको रसो ज्ञेयः । स च पूर्ववत्प्रथ्माप्राप्त्य्आत्मको यथा अप्यद्य विष्णोर्मनुजत्वमीयुषो भारावताराय भुवो निजेच्छया । लावण्यधाम्नो भवितोपलम्भनं मह्यं न न स्यात्फलमञ्जसा दृशः ॥ [भागवतम् १०.३८.१०] स्पष्टम् । ॥ १०.३८ ॥ श्र्यक्रूरः ॥ २१२ ॥ [२१३] तद्अनन्तरप्राप्तिलक्षणसिद्ध्य्आत्मको, यथा भगवद्दर्शनाह्लाद बाष्पपर्याकुलेक्षणः । पुलकाचिताङ्ग औत्कण्ठ्यात्स्वाख्याने नाशकन्नृप ॥ [भागवतम् १०.३८.२५] स्वाख्याने अक्रूरोऽहं नमस्करोमि इत्येतल्लक्षणे । ॥ १०.३८ ॥ श्रीशुकः ॥ २१३ ॥ [२१४] अथ भगवद्अन्तर्धानान्तरं वियोगात्मको यथा इति भागवतः पृष्टः क्षत्त्रा वार्तां प्रियाश्रयाम् । प्रतिवक्तुं न चोत्सेह औत्कण्ठ्यात्स्मारितेश्वरः ॥ यः पञ्चहायनो मात्रा प्रातर्आशाय याचितः । तन्नैच्छद्रचयन् यस्य सपर्यां बाललीलया ॥ स कथं सेवया तस्य कालेन जरसं गतः । पृष्टो वार्तां प्रतिब्रूयाद्भर्तुः पादावनुस्मरन् ॥ [भागवतम् ३.२.१३] भागवतः श्रीमानुद्धवः । क्षात्रा विदुरेण । जरसं वर्षाणां पञ्चविंशत्य्उत्तरशतस्य तादृशानां प्राकट्यमर्यादाकालस्यान्तिमं भागमित्येव विवक्षितं न तु जीर्णत्वम् । (पगे १०७) श्रीकृष्णसवयसस् तस्यापि तद्वन्नित्यवयसत्वेन श्रीकृष्णसन्दर्भे स्थापितत्वात् नोद्धवोऽण्वपि मन्न्यूनः [भागवतम् ३.४.३१] इति श्रीभगवद्वाक्य वैशिष्ठ्यात् । तत्र प्रवयसोऽप्यासन् युवानोऽतिमहौजस [भागवतम् १०.४५.१९] इत्य् आदिना कैमुत्याच्च ॥ ॥ ३.२ ॥ श्रीशुकः ॥ २१४ ॥ [२१५] अत्र कृष्णद्युमणिनिम्लोचे [भागवतम् ३.२.७] इत्यादौ दुर्भगो बत लोकोऽयम् [भागवतम् ३.२.८] इत्यादिषु चात्मात्मीयविगर्हादिलक्षणो विलापश्च ज्ञेयः । अथ वियोगानन्तरयोगलक्षणतुष्ट्य्आत्मक उदाहार्यः । तत्र साक्षात्कार तुल्यस्फूर्तात्मको यथा तद्अनन्तरमेव श्रीमद्उद्धवस्य स मुहूर्तमभूत्तूष्णीं कृष्णाङ्घ्रिसुधया भृशम् । तीव्रेण भक्तियोगेन निमग्नः साधु निर्वृतः ॥ [भागवतम् ३.२.४] इत्यादि । स्पष्टम् । ॥ ३.२ ॥ श्रीशुकः ॥ २१५ ॥ [२१६] एवमेव व्रजे तद्विरहदुःखमग्ने कृपया व्यवहाररक्षार्थं केषुचिदव्यवच्छेदेनैव स्फुरतीत्यत एव श्रीमद्उद्धवप्रवेशे केषांचित्सुखमपि वर्णितम् । वासितार्थेऽभियुद्धद्भिः [भागवतम् १०.४६.९] इत्य् आदिभिश्च । तां दीपदीप्तैर्मणिभिर्विरेजुः [भागवतम् १०.४६.४५] इत्यादिना च । अतएव श्रीभगवतापि प्रायः पितरौ प्रेयसीश्चैवोद्दिश्य सन्दिष्टम् गच्छोद्धव व्रजं सौम्य [भागवतम् १०.४६.३] इत्यादिना । पित्रादीनां तु सर्वत्र दुःखमात्रस्फुरणादन्येषां सुखमपि नानुभवपदवीमारोहति । अपि स्मरति नः कृष्णो मातरं सुहृदः सखीन् । गोपान् व्रजं चात्मनाथं गावो वृन्दावनं गिरिम् ॥ [भागवतम् १०.४६.१८] इत्यादि श्रीव्रजेश्वरवचनात् । तत्र श्रीमद्उद्धववासे तु प्रायः सर्वेषामपि तादृशीं स्फूर्तिं वर्णयति उवास कतिचिन्मासान् गोपीनां विनुदन् शुचः । कृष्णलीलाकथां गायन् रमयामास गोकुलम् ॥ यावन्त्यहानि नन्दस्य व्रजेऽवात्सीत्स उद्धवः । व्रजौकसां क्षणप्रायाण्यासन् कृष्णस्य वार्तया ॥ सरिद्वनगिरिद्रोणीर्वीक्षन् कुसुमुतान् द्रुमान् । कृष्णं संस्मारयन् रेमे हरिदासो व्रजौकसाम् ॥ [भागवतम् १०.४७.५४५६] संसारयन् स्फोरयन्नित्यर्थः । अतएव विनुदन् शुच इत्यादिकमुक्तम् । ॥ १०.४७ ॥ श्रीशुकः ॥ २१६ ॥ [२१७] अथ साक्षात्कारलक्षणतुष्ट्य्आत्मकं श्रीमद्उद्धवस्याह ततस्तमन्तर्हृदि सन्निवेश्य गतो महाभागवतो विशालाम् । यथोपदिष्टां जगद्एकबन्धुना तपः समास्थाय हरेरगाद्गतिम् ॥ [भागवतम् ११.२९.४७] (पगे १०८) गम्यते इति गतिः । यथोपदिष्टां गतिमित्यस्य तृतीयानुसारेणायमर्थः । पूर्वं तत्र तं प्रति श्रीभगवता वेदाहमन्त्रमनसीप्सितं ते ददामि यत्तद्दूरवापमन्यैः [भागवतम् ३.४.११] इत्यनेन तद्अभीप्सितं दातुं प्रतिश्रुतम् । त्वद्ईप्सितपूर्त्य्अर्थं यद्अन्यैर्दुरवापं तद्ददामीत्य् अर्थः । तच्च देयं पुरा मया प्रोक्तमजाय नाभा [भागवतम् ३.४.१३] इत्यादिना सङ्क्षेपभागवतरूपमित्युद्दिष्टम् । अथ तादृशतत्प्रतिश्रुतश्रवणेन परमोत्सुकतया परमनिजाभीप्सितम् असौ स्वयमेव निवेदितवान् को न्वीश ते पादसरोजभाजां सुदुर्लभोऽर्थेषु चतुर्ष्वपीह । तथापि नाहं प्रवृणोमि भूमन् भवत्पदाम्भोजनिषेवणोत्सुकः ॥ [भागवतम् ३.४.१५] इत्यनेन । अथागन्तुकं निजमोहविशेषं च निवेदितवान्कर्माण्यनीहस्य भवोऽभवय [भागवतम् ३.४.१६] इत्यादिभ्याम् । तच्च साक्षात्तद्उपदेशबलेन प्रायः परप्रत्यायनार्थमेव ज्ञेयं नोद्धवोऽण्वपि मन्न्यूनः [भागवतम् ३.४.३१] इत्यादेः । अथ तत्तद्अर्थोपयुक्तत्या भगवद्उद्दिष्टार्थमपि प्रार्थितवान् । ज्ञानं परं स्वात्मरहः प्रकाशं प्रोवाच कस्मै [भागवतम् ३.४.१८] इत्यादिना । तत्र यद्वृजिनं तरेम इति वृजिनं तादृशसेवाविरहदुःखम् । तादृशलोक मोहदुःखं च । तत्तरणस्य तद्रहस्यज्ञानाधीनत्वादिति भावः । ततश्च मद्अभीष्टं श्रीभगवानपि सम्पादितवानिति श्रीविदुरं प्रति कथितं श्रीमद्उद्धवेन स्वयमेव इत्यावेदितहार्दाय मह्यं स भगवान् परः । आदिदेशारविन्दाक्ष आत्मनः परमां स्थितिम् ॥ [भागवतम् ३.४.१९] इति । द्वितीये ब्रह्मणेऽपि परमवैकुण्ठं दर्शयता तेनात्मनः परम भगवत्तारूपा स्थितिर्दर्शिता । सा च श्रीद्वारकावैभवरूपेति श्री भगवत्सन्दर्भे स्थापितमस्ति । सङ्क्षेपश्रीभागवतरूपया चतुः श्लोक्या च । तस्य तादृशत्वेऽपि विचित्रलीलाभक्तपरवशत्वरूपासाविति तत्रैव बोधितम् ।ततस्तद्अनुभवेनोभयत्रापि श्रीमद्उद्धवस्य धैर्यं जातमिति तत्तद्उपयोगः । ततश्च तामेव तद्उपदिष्टां गतिं जगामेत्यर्थः । तथैवोप्द्दिष्टमन्ते तं प्रत्येकादशे ज्ञाने कर्मणि योगे च वार्तायां दण्डधारणे । यावानर्थो नृणां तात तावांस्तेऽहं चतुर्विधः ॥ [भागवतम् ११.२९.३३] इति । तस्य श्रीकृष्णरूपा गतिश्चेयं श्रीशुकद्वारा श्रीभागवतप्रचारात् पूर्वमेव ज्ञेया । स्वज्ञानप्रचारार्थमेव हि सोऽयं पृथिव्यां रक्षितः । तद्अनन्तरं चरितार्थत्वात्न प्रयोजनमिति । किन्तु कामव्यूहेन श्रीमद् व्रजेऽप्यस्य तत्प्राप्तिर्ज्ञेया । आसामहो चरणरेणुजुषामहं स्याम् [भागवतम् १०.४७.६१] इति दृढमनोरथावगमात् । ॥ ११.२९ ॥ श्रीशुकः ॥ २१७ ॥ [२१८] अथ प्रश्रयभक्तिमयो रसः । तत्रालम्बनो लालकत्वेन स्फुरन् प्रश्रय भक्तिविषयः श्रीकृष्णश्च पूर्ववत्परमेश्वराकारः श्रीमन्नराकारश् चेति द्विविधाविर्भावः । तत्तद्आश्रयत्वेन च लाल्याश्च त्रिविधाः । तत्र परमेश्वराकाराश्रया ब्रह्मादयः । श्रीमन्नराकाराश्रयाः श्री दशाक्षरध्यानदर्शितश्रीगोकुलपृथुकाः । उभयाश्रयाः श्री द्वारकाजन्मानः । ते (पगे १०९) च सर्वे यथायथं पुत्रानुज भ्रातुष्पुत्रादयः । तत्र पुत्राः केचिद्गुणतः केचिदाकारतः केचिद् उभयतश्च तद्अनुहारिप्रायाः । तत्र गुणानुहारित्वमाह एकैकशस्ताः कृष्णस्य पुत्रान् दशदशाबलाः । अजीजनन्ननवमान् पितुः सर्वात्मसम्पदा ॥ [भागवतम् १०.६१.१] [२१९] तत्र साम्बादीनां श्रीकृष्णश्लाघितगुणत्वमाह जाम्बवत्याः सुता ह्य् एते साम्बाद्याः पितृसम्मताः [भागवतम् १०.६१.१२] इति । [२२०] अतः श्रीसाम्बस्यैकादशादो श्रुतमन्यथाचेष्टितं श्रीकृष्णस्य मर्यादादर्शकतत्तल्लीलेच्छयैव । तत्र श्रीरुक्मिणीपुत्रास्तु तेष्वपि श्रेष्ठा इत्याहप्रद्युमप्रमुखा जाता रुक्मिण्यां नावमाः पितुः [भागवतम् १०.६१.९] इति । अत्र पुनरुक्तिरेव श्रैष्ठ्यबोधिका । ॥ १०.६१ ॥ श्रीशुकः ॥ २१८२२० ॥ [२२१] तत्र श्रीप्रद्युम्नस्यातिशयमाह कथं त्वनेन सम्प्राप्तं सारूप्यं शार्ङ्गधन्वनः । आकृत्यावयवैर्गत्या स्वरहासावलोकनैः ॥ [भागवतम् १०.५५.३३] स्पष्टम् । ॥ १०.५५ ॥ श्रीरुक्मिणी ॥ २२१ ॥ [२२२] किं च यं वै मुहुः पितृसरूपनिजेशभावास् तन्मातरो यदभजन् रहरूठभावाः । चित्रं न तत्खलु रमास्पदबिम्बबिम्बे कामे स्मरेऽक्षविषये किमुतान्यनार्यः ॥ [भागवतम् १०.५५.४०] यं प्रद्युम्नं तन्मातरो मुहुरभजन् द्रष्टुमागताः पुनर्लज्जया रह एकान्तदेशं च अभजन्निलिल्युरित्यर्थः । तदेवं यदभजन् तत् खलु रमास्पदबिम्बस्य लक्ष्मीविलासभुमिमुर्तेर्बिम्बे प्रतिमूर्तौ तस्मिन्न चित्रम् । बालकस्य पितृसादृश्ये मातॄणां वात्सल्योद्दीप्ति सम्भवात् । तत्र यच्च रहः अभजन् तदपि न चित्रमित्याह पितृस्वरूप निजेशभावाः । तद्अनन्तरं पितुः श्रीकृष्णस्य सरूपेण सारूप्यातिशयेन निजेशस्य आत्मीयप्रभुमात्रबुद्ध्यावगतस्य न तु रमण बुद्ध्यावगतस्य श्रीकृष्णस्य भावः स्फूर्तिर्यासु ताः । ततो लज्जाहेतुकं रहोभजनलक्षणं पलायनमप्युचितमेवेति भावः । तथोक्तमेतत् प्रागेव तं दृष्ट्वा जलदश्यामम् [भागवतम् १०.५५.२७] इत्यादौ कृष्णं मत्वा स्त्रियो ह्रीता निलिल्युस्तत्र तत्र ह [भागवतम् १०.५५.२८] इति । तत्र प्रभुत्वमात्र स्फूर्तौ हेतुः रूढभावाः रूढः श्रीकृष्णे बद्धमूलः भावः कान्ताभावो यासां ताः । कदाचिदन्यत्र चेतने तत्सादृश्यातिशयेनेश्वर भावः स्फुरतु नाम रमणभावस्तु न सर्वेथेत्यर्थः । श्री रुक्मिण्यास्तत्सदृशवत्सलाया अन्यस्याश्चेश्वरभावोऽपि नोदयते किन्तु सर्वथा पुत्रभाव एव तत्सारूप्येणोद्दीप्तः स्यात् । यथोक्तं श्रीरुक्मिणी देव्यैव कथं त्वनेन सम्प्राप्तम् [भागवतम् १०.५५.३३] इत्याद्य्अनन्तरं स एव वा भवेन्नूनं यो मे गर्भे धृतोऽर्भकः । अमुष्मिन् प्रीतिरधिका वामः स्फुरति मे भुजः ॥ [भागवतम् १०.५५.३४] तदेवं तासामपि यत्र रमास्पदबिम्बबिम्बत्वेन तादृशी भ्रान्तिस्तत्र परममोहने रमास्पदबिम्बस्यैवाप्राकृतकामरूपांशे जगद्गत निजांशेन स्मरे स्मरणपथं गत्वापि क्षोभके सम्प्रति तु स्वयम् एवाक्षविषयतां प्राप्ते सति अन्यनार्यः किमुत सृष्ट्वैव मोहं प्राप्तम् उइच्ता इत्यर्थः । ॥ १०.५५ ॥ श्रीशुकः ॥ २२२ ॥ (पगे ११०) अथ उद्दीपनाः । गुणाः स्वविषयकश्रीकृष्णवात्सल्यस्मितप्रेक्षादयः । तया तस्य कीर्तिबुद्धिबलादीनां परममहत्त्वं च तथा जाति क्रियादयोऽपि यथायोगमगन्तव्याः । अथ अनुभावाः । बाल्ये मुहुस्तं प्रति मृदुवाचा स्वैरप्रश्न प्रार्थनादिकम् । तद्अङ्गुलिबाह्व्आद्य्आलम्बनेन स्थितिः । तद् उत्सङ्गोपवेशः । तत्ताम्बुलचर्वितदानमित्याद्याः । अन्यदा तद्आज्ञा प्रतिपालनतच्चेष्टानुसरणस्वैरताविमोक्षादयः । उभयत्र तद् अनुगतिः । सात्त्विकाश्च सर्वे । अथ व्यभिचारिणः पूर्वोक्ता एव । अथ स्थायी च प्रश्रयभक्त्य्आख्यः । तत्र बाल्येऽतिलाल्यताभिमानमयत्वेन प्रश्रय बीजस्य दैन्यांशस्य सद्भागात्तद्आख्यत्वम् । तत्र बाल्योदाहरणम् अवगन्तव्यम् । अन्यदीयं यथानिशम्य प्रेष्ठमायान्तम् [भागवतम् १.११.१६] इत्यादौ । प्रद्युम्नश्चारुदेष्णश्च साम्बो जाम्बवतीसुतः । प्रहर्षवेगोच्छशितशयनासनभोजनाः ॥ वारणेन्द्रं पुरस्कृत्य ब्राह्मणैः ससुमङ्गलैः । शङ्खतूर्यनिनादेन ब्रह्मघोषेण चादृताः । प्रत्युज्जग्मू रथैर्हृष्टाः प्रणयागतसाध्वसाः ॥ [भागवतम् १.११.१९] प्रणयोऽत्र भक्तिविशेषः । ॥ १.११ ॥ श्रीसुतः ॥ २२३ ॥ [२२४] एवमत्र विभावादिसंवलनात्मके प्रश्रयभक्तिमये रसे पूर्ववद् योगादयोऽपि भेदा ज्ञेयाः । इति भक्तिमयो रसः । अथ वात्सल्यमयो वत्सलाख्यो रसः । तत्रालम्बनः लाल्यत्वेन स्फुरन् वात्सल्यविषयः श्रीकृष्णस्तद्आधारास्तत्पित्रादिरूपा गुरवश्च । तत्र श्रीकृष्णः श्रीमन्नराकार एव । अथ गुरवः । तत्र भक्त्य्आदिमिश्राः श्रीवसुदेवदेवकीकुन्तीप्रभृतयः । शुद्धास्तु श्रीयशोदानन्दतत् सवयोबल्लवीबल्लवप्रभृतयः । स्वाभाविकं चैषां वात्सल्योपयोगि वैदुष्यं गोप्यः संस्पृष्टसलिला अङ्गेषु करयोः पृथक् । न्यस्यात्मन्यथ बालस्य बीजन्यासमकुर्वत ॥ [भागवतम् १०.६.२१] इत्यादिभिः स्पष्टम् । अथोद्दीपनेषु गुणाः । तत्र प्रथमतस्तस्य तदीयलाल्यभावमाह तां स्तन्यकाम आसाद्य मथ्नन्तीं जननीं हरिः । गृहीत्वा दधिमन्थानं न्यषेधत्प्रीतिमावहन् ॥ [भागवतम् १०.९.४] स्पष्टम् । ॥ १०.९ ॥ श्रीशुकः ॥ २२४ ॥ [२२५] एवम् उवाच पितरावेत्य साग्रजः सात्वतर्षभः । प्रश्रयावनतः प्रीणन्नम्ब तातेति सादरम् ॥ [भागवतम् १०.४५.२] इत्यादि । इति मायामनुष्यस्य [भागवतम् १०.४५.१०] इत्याद्य्अन्तम् । पितरौ श्रीदेवकी वसुदेवौ । प्रीणन् प्रीणयन् । ॥ १०.४५ ॥ श्रीशुकः ॥ २२५ ॥ [२२६] अथ शैशवचापल्यमाह शृङ्ग्य्अग्निदंष्ट्र्य्असिजलद्विजकण्टकेभ्यः क्रीडापरावतिचलौ स्वसुतौ निषेद्धुम् । गृह्याणि कर्तुमपि यत्र न तज्जनन्यौ शेकात आपतुरलं मनसोऽनवस्थाम् ॥ [भागवतम् १०.८.२५] [२२७] तथा कृष्णस्य गोप्यो रुचिरं वीक्ष्य कौमारचापलम् । शृण्वन्त्याः किल तन्मातुरिति होचुः समागताः ॥ [भागवतम् १०.८.२८] वत्सान्मुञ्चन् क्वचिदसमये [भागवतम् १०.८.२९] इत्यादि । [२२८] गोप्यश्चेमाः श्रीव्रजेश्वर्याः स्ववयसः सम्बन्धिन्यः श्रीकृष्णस्यैव प्रौढभ्रातृजायाश्च । अन्यदा प्रश्रयो लज्जा प्रियंवदत्वं सारल्यं दातृत्वमित्यादयः । तत्राद्योदाहरणं कुरुक्षेत्रयात्रायां कृष्णरामौ परिष्वज्य पितरावभिवाद्य च [भागवतम् १०.८२.३४] इत्यादिकम् । (पगे १११) अतो बालत्वेन मतत्वादिन्द्रमखप्रसङ्गे प्रागल्भ्यमपि तेषां सुखदम् । कान्त्वयववयसां सौन्दर्यं सर्वसल्लक्षणत्वं पूर्ण कैशोरपर्यन्तं वृद्धिरित्यादयस्तु सर्वदैव । तत्रान्त्या यथा कालेन व्रजताल्पेन गोकुले रामकेशवौ । जानुभ्यां सह पाणिभ्यां रिङ्गमाणौ विजह्रतुः ॥ [भागवतम् १०.८.२१] इत्यादि । [२२९] तथा कालेनाल्पेन राजर्षे रामः कृष्णश्च गोकुले । अघृष्टजानुभिः पद्भिर्विचक्रमतुरञ्जसा ॥ [भागवतम् १०.८.२६] स्पष्टम् । ॥ १०.८ ॥ सः ॥ २२६२२९ ॥ [२३०] जातिस्तु पूर्वोक्ता । क्रियाश्च जन्मबाल्यक्रीडादयः । तत्र नन्दस्त्वात्मज उत्पन्नः [भागवतम् १०.५.१] इत्यादिना जन्म दर्शितम् । बाल्यक्रीडामाह तावङ्घ्रियुग्ममनुकृष्य सरीसृपन्तौ घोषप्रघोषरुचिरं व्रजकर्दमेषु । तन्नादहृष्टमनसावनुसृत्य लोकं मुग्धप्रभीतवदुपेयतुरन्ति मात्रोः ॥ [भागवतम् १०.८.२२] इत्यादि । यर्ह्यङ्गनादर्शनीयकुमारलीलाव् अन्तर्व्रजे तदबलाः प्रगृहीतपुच्छैः । वत्सैरितस्तत उभावनुकृष्यमाणौ प्रेक्षन्त्य उज्झितगृहा जहृषुर्हसन्त्यः ॥ [भागवतम् १०.८.२४] स्पष्टम् । ॥ १०.८ ॥ सः ॥ २३१ ॥ [२३२] आदिग्रहणात्पौगण्डादौ माल्यमाननादयो ज्ञेयाः । अथ द्रव्याणि च तत् क्रीडाभाण्डवसनादीनि । कालाश्च तज्जन्मदिनादयः । तत्र जन्मदिनं यथा कदाचिदौत्थानिककौतुकाप्लवे जन्मर्क्षयोगे समवेतयोषिताम् । वादित्रगीतद्विजमन्त्रवाचकैश् चकार सूनोरभिषेचनं सती ॥ [भागवतम् १०.४.७] इत्यादि । स्पष्टम् । ॥ १०.८ ॥ सः ॥ २३२ ॥ [२३३] अथानुभावेषूद्भास्वराः । तत्र लालनम् तयोर्यशोदारोहिण्यौ पुत्रयोः पुत्रवत्सले । यथाकामं यथाकालं व्यधत्तां परमाशिषः ॥ गताध्वानश्रमौ तत्र मज्जनोन्मर्दनादिभिः । नीवीं वसित्वा रुचिरां दिव्यस्रग्गन्धमण्डितौ ॥ जनन्य्उपहृतं प्राश्य स्वाद्वन्नमुपलालितौ । संविश्य वरशय्यायां सुखं सुषुपतुर्व्रजे ॥ [भागवतम् १०.१५.४४४६] स्पष्टम् । ॥ १०.८ ॥ सः ॥ २३३ ॥ [२३४] शिरोघ्राणम् । नन्दः स्वपुत्रमादाय प्रेत्यागतमुदारधीः । मूर्ध्न्युपाघ्राय परमां मुदं लेभे कुरूद्वह ॥ [भागवतम् १०.६.४३] स्पष्टम् । ॥ १०.६ ॥ सः ॥ २३४ ॥ [२३५] आशीर्वादः ता आशिषः प्रयुञ्जानाश्चिरं जीवेति बालके । हरिद्राचूर्णतैलाद्भिः सिञ्चन्त्योऽजनमुज्जगुः ॥ [भागवतम् १०.५२.१५] स्पष्टम् । ॥ १०.१५ ॥ सः ॥ २३५ ॥ [२३६] हितोपदेशदानम् । कृष्ण कृष्णारविन्दाक्ष तात एहि स्तनं पिब । अलं विहारैः क्षुत्क्षान्तः क्रीडाश्रान्तोऽसि पुत्रक ॥ [भागवतम् १०.११.१५] इत्यादि । स्पष्टम् । ॥ १०.११ ॥ श्रीव्रजेश्वरी श्रीकृष्णम् ॥ २३६ ॥ [२३७] इदमखिलं साधारणवत्सलानामपि स्यात् । पित्रोस्तु विशेषतः । तत्र हित प्रवर्तनार्थतर्जनादिकं यथा एकदा क्रीडमानास्ते रामाद्या गोपदारकाः । कृष्णो मृदं भक्षितवानिति मात्रे न्यवेदयन् ॥ (पगे ११२) सा गृहीत्वा करे कृष्णमुपालभ्य हितैषिणी । यशोदा भयसम्भ्रान्त प्रेक्षणाक्षमभाषत ॥ कस्मान्मृदमदान्तात्मन् भवान् भक्षितवान् रहः । वदन्ति तावका ह्येते कुमारास्तेऽग्रजोऽप्ययम् ॥ [भागवतम् १०.८.३२३४] स्पष्टम् । ॥ १०.८ ॥ सः ॥ २३७ ॥ [२३८] यदा च दधिमण्डभाजनभेदनादिचापल्यानन्तरं कृतागसं तं प्ररुदन्तमक्षिणी कषन्तमञ्जन्मषिणी स्वपाणिना । उद्वीक्षमाणं भयविह्वलेक्षणं हस्ते गृहीत्वा भिषयन्त्यवागुरत् ॥ त्यक्त्वा यष्टिं सुतं भीतं विज्ञायार्भकवत्सला । इयेष किल तं बद्धुं दाम्नातद्वीर्यकोविदा ॥ [भागवतम् १०.९.१११२] स्पष्टम् । ॥ १०.९ ॥ सः ॥ २३८ ॥ [२३९] अथ तर्जनविस्वादौषधपायनादिवत्तदात्वभवं तत्सुखमप्य् अतिक्रम्यायातिभद्रायैतत्समृद्धये चेष्टा यथा तमङ्कमारूढमपाययत्स्तनं स्नेहस्नुतं सस्मितमीक्षती मुखम् । अतृप्तमुत्सृज्य जवेन सा ययाव् उत्सिच्यमाने पयसि त्वधिश्रिते ॥ [भागवतम् १०.९.५] यद्धामार्थसुहृत्प्रियात्मतनयप्राणाशयास्त्वत्कृते [भागवतम् १०.१४.३५] इत्य् अनेन कैमुत्यप्राप्तेस्तद्गृहसम्पत्तिसम्पादनप्रयत्नस्तु सुतराम् एव तदायतिसमृद्ध्य्अर्थ एव । तत्र गोपजातीनां सत्यपि महासम्पत्त्य् अन्तरे तत्कारणे च दुग्धहेतुकसम्पत्त्य्अर्थमेव्व महानाग्रहः स्वाभाविकः । तस्मादायतीयतत्सम्पत्तिवर्धनार्थं दुग्धरक्षायाम् औत्सुख्यमिदं वात्सल्यविलसितमेव सत्वात्सल्यं पुष्णाति समुद्रमिव तरङ्गसङ्घः । अत्र तस्या हृडयमीदृशमयं सम्पत्तिरक्षां न जानाति । ततः सम्प्रति मद्एककर्तव्यासाविति । अत्र च स्नेहस्नुतमिति स्वाभाविकगाढस्नेहं दर्शयित्वा तथैव सूचितम् । एवं तत्कृते दधि मण्डभाण्डभङ्गेऽपि तस्या बहिरेव कोपाभासो दर्शितः । मनसि तु प्रबलचापल्यदर्शनेन हर्ष एव । यथाह उत्तार्य गोपी सुशृतं पयः पुनः प्रविश्य संदृश्य च दध्य्अमत्रकम् । भग्नं विलोक्य स्वसुतस्य कर्म तज् जहास तं चापि न तत्र पश्यती ॥ [भागवतम् १०.९.७] स्पष्टम् । ॥ १०.९ ॥ सः ॥ २४० ॥ [२४१] अथ दुःखेऽपि तत्प्रस्तोभनार्थं उलूखलं विकर्षन्तं दाम्ना बद्धं स्वमात्मजम् । विलोक्य नन्दः प्रहसद् वदनो विमुमोच ह ॥ [भागवतम् १०.११.६] प्रहसद्वदनमिति तु पाठः क्वचित् । ॥ १०.११ ॥ सः ॥ २४१ ॥ [२४२] अथ दुष्टजीवादिभ्योऽनिष्टशङ्खामाह जन्म ते मय्यसौ पापो मा विद्यान्मधुसूदन । समुद्विजे भवद्धेतोः कंसादहमधीरधीः ॥ [भागवतम् १०.३.२९] स्पष्टम् । ॥ १०.३ ॥ श्रीदेवकी ॥ २४२ ॥ [२४३] एवं शृङ्ग्य्अग्निर्दंष्ट्र्य्अहिजलद्विज [भागवतम् १०.८.१५] इत्यादिकं दर्शितम् । अथ तच्छ्रेयोनिबन्धना देवादिपूजा तैस्तैः कामैरदीनात्मा यथोचितमपूजयत् । विष्णोराराधनार्थाय स्वपुत्रस्योदयाय च ॥ [भागवतम् १०.५.१६] अनेन विष्णुः प्रीणातु तेन च मत्पुत्रस्योदयो भवत्विति सङ्कल्प्य सर्वा यथोचितामपूजयदित्यर्थः । ॥ १०.५ ॥ सः ॥ २४३ ॥ [२४४] तथान्येषां सम्यङ्निर्णीत एव प्रभावे तत्कार्यस्य प्रकारान्तर कारणताभावना सम्भवति । यथा अहो बतात्य्अद्भुतमेष रक्षसा (पगे ११३) बालो निवृत्तिं गमितोऽभ्यगात्पुनः । हिंस्रः स्वपापेन विहिंसितः खलः साधुः समत्वेन भयाद्विमुच्यते ॥ [भागवतम् १०.७.३१] इति । श्रीमत्पित्रोस्तु सम्यङ्निर्णीतेऽपि सम्भवति यथा श्रीमती माता किं स्वप्नः [भागवतम् १०.८.४०] इत्यादिना श्रीकृष्णस्य विश्वोदरादित्वं स्वभावं मत्वापि पुनस्तदसम्भवं मन्वाना अथो यथावन्न वितर्कगोचरम् [भागवतम् १०.८.१४] इत्यादिना । तच्च परमेश्वरनिर्मितमित्यङ्गीकृतवती । उत्पातवत्तन्निवृत्त्य्अर्थं तच्चरणारविन्दमेव शरणत्वेनाश्रतवती च । पुनश्च अहं ममासौ [भागवतम् १०.८.४१] इत्यादिना निजभावमेव दृढीकृत्य तच्छरणत्वमेवावधारितवती । अहं ममासौ पतिरेष मे सुतः इत्य् आदिकमिदन्तानिर्दिष्टत्वेन प्रत्यक्षसिद्धमेव । तथापि यन् माययेत्थं [भागवतम् १०.८.४२] एतन्नानाप्रकारेण विश्वरूपदर्शनाकारा कुमतिः । स एवेश्वरो मम गतिरित्यर्थः । यच्च इत्थं विदिततत्त्वायां [भागवतम् १०.८.४३] इत्यादिकं तद्अन्ते श्रीशुक वाक्यं तत्रापि तत्त्वं पुत्रत्वम् । स ईश्वरः [भागवतम् १०.८.४३] श्री कृष्णस्यैवेश्वररूपो य आविर्भावविशेषः । यत्रैव प्रणतास्मि तत्पदम् [भागवतम् १०.८.४१] इति तद्वाक्यानुसन्धानजमपि पर्यवसितं, स एव व्यज्यते । वैष्णवीमिति विशेषएएन मायाशब्दस्य शक्तिमात्रवाचकत्वेन तस्यास्तत् स्वरूपशक्तित्वं बोध्यते । दयामात्रवाचकत्वेन वा । अतएव त्रय्या चोपनिषद्भिश्च [भागवतम् १०.८.४५] इत्यादिना, नायं सुखापो भगवान् [भागवतम् १०.९.२१] इत्य्आद्य्अन्तेन ग्रन्थेन तत्प्रशंसापि कृता । एवम् अपि स्मरति नः कृष्णः [भागवतम् १०.४६.१८] इत्य्आदिकस्य, अप्यायास्यति गोविन्दः [भागवतम् १०.४६.१९] इत्य्आदिकस्य च स्वभावोचितश्रीव्रजेश्वरवाक्यस्यान्ते लोक रीत्या तद्दुःखशान्त्य्अर्थं श्रीमद्उद्धवेन युवां श्लाघ्यतमौ नूनं [भागवतम् १०.४६.३०] इत्यादिना तत्स्तुतिगर्भतत्त्वोपदेशे कृतेऽपि तद्भाव नैश्चल्यं दर्शितम् । एवं निशा सा ब्रुवतोर्व्यतीता नन्दस्य कृष्णानुचरस्य राजन् [भागवतम् १०.४६.४४] इति । एवं श्रीव्रजेश्वरस्य वियोगदुःखव्यञ्जनाप्रकारेण श्रीमद् उद्धवस्य तत्सान्त्वनाप्रकारेणेत्यर्थः । अतस्तद्भावनैश्चल्यम् । तत्त्वोपदेशस्य वास्तवमर्थान्तरं तु श्रीकृष्णसन्दर्भे दर्शितमस्ति । एवं कुरुक्षेत्रयात्रायां परितः स्तुवत्स्वपि तादृशमहा० उनिगोष्ठी प्रभृतिषु विख्यायमानेऽपि श्रीवसुदेवपुत्रत्वे श्रीव्रजेश्वरयोस्तद् भावनैश्चल्यं, यथा तावात्मासनमारोप्य बाहुभ्यां परिरभ्य च । यशोदा च महाभागा सुतौ विजहतुः शुचः ॥ [भागवतम् १०.८२.३५] इति । अतएव मनसो वृत्तयो नः स्युः [भागवतम् १०.४७.६६] इत्य्आदिद्वये श्रीमद्उद्धवं प्रति श्रीकृष्णैश्वर्यप्रतिपादकतद्उपदेशाभ्युपगमवादेनापि तथोक्तम् । तादृशेऽपि तस्मिन् प्रतिजन्मैव स्वीयां रतिमेव प्रार्थयामह इत्यर्थः । एषा तेषां रतिप्रार्थना चानुरागमय्येव न तु (पगे ११४) तद् अभावमयी तं निर्गतं समासाद्य नानोपायनपाणयः । नन्दादयोऽनुरागेण प्रावोचन्नश्रुलोचनाः ॥ [भागवतम् १०.४७.६५] इत्युक्तत्वात् । तस्मात्तदीयानुरागयोग्यमेव व्याख्येयम्, न त्वैश्वर्यज्ञानकृत भक्तियोग्यम् । यथा यद्यपि तत्प्राप्तिभाग्यमस्माकं दूरे वर्तते तथापि तदीया रतिरस्तु मापयात्विति काकुः । तादृशरागानुरूपमेव जीवान्तरसाधारण्येनोक्तम् कर्मभिर्भ्राम्यमाणानाम् [भागवतम् १०.४७.६७] इति । तदेवं केवलवात्सल्यानुरूपमर्थान्तरं च सिध्यति, यतः पादशब्द प्रयोगो वात्सल्येऽपि सम्प्रति प्राप्त्य्असम्भावनामयात्दूरदेशवियोगाद् दैन्येन युक्तः । तथैव हि चित्रेकेतोः करुणरसे दृष्टमस्ति । तत् प्रह्वणश्च तत्कर्तृकं प्रह्वणं नमस्कार इत्यर्थः । पूर्ववदीश्वर शब्दश्च लालनयैव प्रयुक्तः । लोकेऽपि तादृग्उक्तिदर्शनादिति । इत्यादयः उद्भास्वराः । अथ सात्त्विकाश्च पूर्ववदष्टौ । मातुस्तु नव, स्तन्यस्रवसहितत्वात् । अथ सञ्चारिणोऽप्यत्र प्रसिद्धा एव । ते च साक्षाच्छ्रीकृष्णकृतलीलाजातास् तल्लीलाशक्तिकृतैश्वर्यमयलीलाजाताश्च ज्ञेयाः । क्रमेण यथा कस्मान्मृदमदान्तात्मन् [भागवतम् १०.८.३४] इत्यादावमर्षः । सा तत्र ददृशे विश्वं [भागवतम् १०.८.३७] इत्यादौ विस्मयः शङ्का चेत्यादि । अथ वात्सल्याख्यः स्थायी । स यथा तन्मातरौ निजसुतौ घृणया स्नुवन्त्यौ पङ्काङ्गरागरुचिरावुपगृह्य दोर्भ्याम् दत्त्वा स्तनं प्रपिबतोः स्म मुखं निरीक्ष्य मुग्धस्मिताल्पदशनं ययतुः प्रमोदम् ॥ [भागवतम् १०.८.२३] तयोः श्रीकृष्णरामयोर्मातरौ । घृणया कृपया ॥ ॥ १०.८ ॥ श्रीशुकः ॥ २४४ ॥ [२४५] तदेवं विभावादिसंवलनचमत्कारात्मको वत्सलरसः । तस्य च प्रथमप्राप्तिमयो भेदो यथा गोप्यश्चाकर्ण्य मुदिता यशोदायाः सुतोद्भवम् । आत्मानं भूषयां चक्रुर्वस्त्राकल्पाञ्जनादिभिः ॥ [भागवतम् १०.५.९] इत्यादि । स्पष्टम् । ॥ १०.५ ॥ सः ॥ २४५ ॥ [२४६] अथ च तद्अनन्तरप्राप्तिलक्षणसिद्ध्य्आत्मको, यथा स आशिषः [भागवतम् १०.५.१२] इत्यादौ । अथ वियोगात्मको, यथा इति संस्मृत्य संस्मृत्य नन्दः कृष्णानुरक्तधीः । अत्य्उत्कण्ठोऽभवत्तूष्णीं प्रेमप्रसरविह्वलः ॥ यशोदा वर्ण्यमानानि पुत्रस्य चरितानि च । शृण्वन्त्यश्रूण्यवास्राक्षीत्स्नेहस्नुतपयोधरा ॥ [भागवतम् १०.४६.२७२८] स्पष्टम् । ॥ १०.४६ ॥ सः ॥ २४६ ॥ [२४७] अथ तद्अनन्तरतुष्ट्य्आत्मको यथा तावात्मासन्नमारोप्य [भागवतम् १०.८२.३५] इत्यादौ । यथा च तत्रैव नन्दस्तु सख्युः प्रियकृत्प्रेम्णा गोविन्दरामयोः । अद्य श्व इति मासांस्त्रीन् यदुभिर्मानितोऽवसत् ॥ [भागवतम् १०.८४.६६] गोविन्दरामयोः प्रेम्णा हेतुना मांसांस्त्रीनवसत् । तच्च मासत्रयम् अद्य श्व इति कृत्वा अवसदित्यर्थः । अत्यन्तपरमानन्देन तत्र दिन द्वयमिवावसदित्यर्थः । कथम्भूतः सन्नवसत् । सख्युः श्री वसुदेवस्य प्रियकृदेव सन् तद्अग्रे श्रीकृष्णं प्रति स्वपुत्र भावाप्रकटनेन व्यवहरंस्तस्य व्रजनयनाग्रहं साक्षान्न कुर्वन्न् इत्यर्थः । तथा यदुभिर्मानितश्चावसदिति । [२४८] तद्अनन्तरमपि पुनर्वियोगात्मको यथा ततः कामैः पूर्यमाणः सव्रजः सहबान्धवः । परार्ध्याभरणक्षौम नानानर्घ्यपरिच्छदैः ॥ वसुदेवोग्रसेनाभ्यां कृष्णोद्धव(पगे ११५) बलादिभिः । दत्तमादाय पारिबर्हं यापितो यदुभिर्ययौ ॥ नन्दो गोपाश्च गोप्यश्च गोविन्दचरणाम्बुजे । मनः क्षिप्तं पुनर्हर्तुमनीशा मथुरां ययुः ॥ [भागवतम् १०.८४.६७६९] कामैः श्रीकृष्णव्रजागमनादि श्रीकृष्णव्रजागमनादिरूपैर् अभिलाषैर्निभृतं श्रीकृष्णेन पूर्यमाणः तद्अङ्गीकारेण सन्तोष्यमाण इत्यर्थः । श्रीरामव्रजागमने तानुद्दिश्य कृष्णे कमलपत्राक्षे सन्न्यस्ताखिलराधसः [भागवतम् १०.६५.६] इति श्रीशुकोक्तेः । तत्रैव कृष्णे कृष्ण प्राप्त्य्अर्थं कमलपत्राक्षे सन्न्यस्ताखिलराधसस्त्यक्तसर्वविषया इति टीकोक्तिः । ततः श्रीवसुदेवादिभिः कर्तृभिः परार्ध्याभरणादिभिः कृत्वा दत्तं यत्पारिबर्हं तत्तेषां प्रीतिमयत्वेनैवादायेत्यर्थः । यापितो महता सैन्येन प्रस्थापितः । तद्अनन्तरं तेषां पुनरत्यन्त प्रेमावेशं वर्णयति नन्द इत्यादि । माथुरानिति तत्रैव तेन रूपेणैव केवलस्वसम्भन्धितया तेषां श्रीकृष्णप्राप्त्य्आग्रहो दर्शितः । ॥ १०.८४ ॥ सः ॥ २४७२४८ ॥ [२४९] एतद्अनन्तरं यर्ह्यम्बुजाक्षापससार भो भवान् कुरून्मधून् वाथ सुहृद्दिदृक्षया [भागवतम् १.११.९] इति श्रीद्वारकाप्रजावाक्यानुसारेण श्री कृष्णसन्दर्भोत्थापितपाद्मगद्यानुसारेण च नित्यैव तुष्टिर् अवगन्तव्या । इति वात्सल्याख्यो रसः । अथ मैत्रीमयः । तत्रालम्बनः मित्रत्वेन स्फुरन्मैत्रीविषयः श्री कृष्णस्तद्आश्रयरूपाणि तल्लीलागतानि स्वोत्कृष्टसजातीयभावानि तदीय मित्राणि च । तत्र श्रीकृष्णः क्वचिच्चतुर्भुजोऽपि श्रीमन्नराकारत्वेनैव प्रतीतः । यथा श्रीगीतासु श्रीमद्अर्जुनेन तेनैव रूपेण चतुर्भुजेन सहस्रबाहो भव विश्वमूर्ते [गीता ११.४६] इति स्वप्रार्थनानन्तरं तद्रूपे प्रादुर्भूते, दृष्ट्वेदं मानुषं रूपं तव सौम्यं जनार्दन । इदानीमस्मि संवृत्तः सचेताः प्रकृतिं गतः ॥ [गीता ११.५१] इत्युक्तम् । अतएव विश्वरूपादीनां तद्दर्शनजातसाध्वसादिभावानां च न कथम् अपि तद्अभीष्टत्वम् । अथ तन्मित्राणि । सुहृदः सखायश्च । तत्र पूर्वोक्तलक्षणाः सुहृदः श्रीभीमसेनद्रौपदीप्रभृतयः । सखायः श्रीमद्अर्जुनश्रीदाम विप्रादयः । श्रीमति गोकुले श्रीदामादयश्च । ते च श्रीभागवतादौ प्रसिद्धाः । तथागमे वसुदामकिङ्किण्य्आदयः । भविष्योत्तरे मल्ल लीलायां सुभद्रमण्डलीभद्रभद्रवर्धनगोभटाः । यक्षेन्द्रभटः इत्याद्या गणिताः । गणानां तु तेनैव साकं पृथुकाः [भागवतम् १०.१२.२] इत्युक्त्या एषामपि श्रीकृष्णसाम्यमेव । गोपैः समानगुणशीलवयोविलासवेषैश्च इत्यादौ दर्शितम् । गोपजाति प्रतिच्छन्नाः [भागवतम् १०.१८.११] इत्यादिपद्ये श्रीकृष्णसन्दर्भे तथैव व्याख्यातम् । एषां स्वाभाविकवैदुष्यलक्षकमपि दीक्षायाः पशु संस्थायाः [भागवतम् १०.२३.८] इत्यादिपद्यमस्ति । वैदग्ध्यमपि क्वचिन्नृत्यत्सु बालेषु [भागवतम् १०.१८.१३] इत्यादौ श्रीभगवतापि श्लाघितगुणत्वेन व्यञ्जयिष्यते । ते च त्रिविधाः सखायः प्रियसखाः प्रियनर्मसखाश्च तत्तद्भाव वैशिष्ट्यात् । तत्र श्रीदामादयः परममाधुर्यैकमयप्रणयातिशयि विहारलालित्येनाधिकाः इत्थं सताम् [भागवतम् १०.१२.११] इत्य्आदिनोक्तेः । तत्र श्री कृष्णस्यालम्बनत्वं च बर्हापीडं नटवरवपुः [भागवतम् १०.२१.५] इत्यादिना वर्णितम् । अथोद्दीपनेषु गुणाः अभिव्यक्तमित्रभावता आर्जवं कृतज्ञत्वं बुद्धिः पाण्डित्यं प्रतिभा दाक्ष्यं शौर्यं बलं क्षमा कारुण्यं रक्तलोकत्वम् इत्यादयः । अवयववयःसौन्दर्यसर्वसल्लक्षणत्वमित्यादयश्च । तत्र सौहृद्यमये आर्जवादीनां प्राधान्यम् (पगे ११६) सख्यमये तु वैदग्ध्यसौन्दर्यादिमिश्राणां तेषाम् । तद्उभयाशमिश्रायां मैत्र्यां तु यथा स्वमंशद्वयम् । तत्राभिव्यक्ततत्तद्भावता श्रीमद् अर्जुनानुतापे यथा, सख्यं मैत्रीं सौहृदं च [भागवतम् १.१५.४] इत्यग्रे वक्ष्यते । श्रीगोपेषु च तां व्यनक्ति तान् दृष्ट्वा भयसन्त्रस्तानूचे कृष्णोऽस्य भीभयम् । मित्राण्याशान्मा विरमते हानेष्ये वत्सकानहम् ॥ [भागवतम् १०.१३.१३] इत्यादि । ततो वत्सानदृष्ट्वैत्य पुलिनेऽपि च वत्सपान् । उभावपि वने कृष्णो विचिकाय समन्ततः ॥ [भागवतम् १०.१३.१६] इत्यन्तम् । स्पस्टम् । ॥ १०.१३ ॥ श्रीशुकः ॥ २४९ ॥ [२५०] तथा ते सम्प्रतीतस्मृतयः समुत्थाय जलान्तिकात् । आसन् सुविस्मिताः सर्वे वीक्षमाणाः परस्परम् ॥ [भागवतम् १०.१५.५२] स्पस्टम् । ॥ १०.१५ ॥ सः ॥ २५० ॥ [२५१] अहोऽतिरम्यं पुलिनं वयस्याः [भागवतम् १०.१३.५] इत्यादि । स्पष्टम् । ॥ १०.१३ ॥ श्रीभगवान् ॥ २५१ ॥ [२५२] तथा क्वचित्पल्लवतल्पेषु नियुद्धश्रमकर्शितः । वृक्षमूलाश्रयः शेते गोपोत्सङ्गोपबर्हणः ॥ [भागवतम् १०.१५.१७] स्पष्टम् । ॥ १०.१५ ॥ श्रीशुकः ॥ २५२ ॥ [२५३] तथा कुन्ददाम [भागवतम् १०.३५.२०] इत्यादौ नर्मदः प्रणयिणां विजहार इति । [२५४] मणिधरः [भागवतम् १०.३५.२०] इत्यादौ प्रणयिनोऽनुचरस्य कदांसे प्रक्षिपन् भुजमगायत यत्र इति । स्पष्टम् । ॥ १०.३५ ॥ श्रीगोप्यः ॥ २५३२५४ ॥ [२५५] अथ जातिश्च क्षत्रियत्वम् । यत्र सौहृदमयस्य प्राचुर्यम् । तथा गोपत्वं यत्र सख्यमयस्य प्राचुर्यम् । अथ क्रियाश्च सौहृदमये विक्रान्त्य्आदि प्रधानाः । सख्यमये तु नर्मगाननानाभाषांशनगवाह्वान वेणुवाद्यादिकलाबाल्याद्य्उचितक्रीडादयः । तत्र नर्म, यथा बिभ्रद्वेणुं जठरपटयोः शृङ्गवेत्रे च कक्षे । वामे पाणौ मसृणकवलं तत्फलान्यङ्गुलीषु ॥ [भागवतम् १०.१३.११] स्पष्टम् । ॥ १०.१३ ॥ सः ॥ २५५ ॥ [२५६] अन्याश्च, यथा एवं वृन्दावनं श्रीमत्कृष्णः प्रीतमनाः पशून् । रेमे सञ्चारयन्नद्रेः सरिद्रोधःसु सानुगः ॥ क्वचिद्गायति गायत्सु मदान्धालिष्वनुव्रतैः । उपगीयमानचरितः पथि सङ्कर्षणान्वितः ॥ [भागवतम् १०.१५.९१०] इत्यादि । [२५७] तथा मेघगम्भीरया वाचा नामभिर्दूरगान् पशून् । क्वचिदाह्वयति प्रीत्या गोगोपालमनोज्ञया ॥ [भागवतम् १०.१५.१३] चकोरक्रौञ्च [भागवतम् १०.१५.१४] इत्यादि । स्पष्टम् । ॥ १०.१५ ॥ सः ॥ २५७ ॥ [२५८] तथा तत्रोपहूय गोपालान् कृष्णः प्राह विहारवित् । हे गोपा विहरिष्यामो द्वन्द्वीभूय यथायथम् ॥ [भागवतम् १०.१८.१९] स्पष्टम् । ॥ १०.१८ ॥ सः ॥ २५८ ॥ [२५९] तथा बर्हप्रसूननवधातुविचित्रिताङ्गः प्रोद्दामवेणुदलशृङ्गरवोत्सवाढ्यः । वत्सान् गृणन्ननुगगीतपवित्रकीर्तिर् गोपीदृग्उत्सवदृशिः प्रविवेश गोष्ठम् ॥ [भागवतम् १०.१४.४७] इत्यादि । स्पष्टम् । ॥ १०.१४ ॥ सः ॥ २५९ ॥ (पगे ११७) [२६०] अनेन गोपवेषश्च दर्शितः । गागोपकैरनुवनं नयतोः [भागवतम् १०.२१.१९] इत्यादौ निर्योगपाशकृतलक्षणयोर्विचित्रमित्यनेन च । विचित्रत्वं चात्र पट्टसूत्रमुक्तादिमयत्वेनावगन्तव्यम् । तथा बर्हिणस्तवकधातु पलाशैर्बद्धमल्लपरिबर्हविडम्बः । [भागवतम् १०.३५.६] इत्यादिषु मल्ल वेषः । श्यामं हिरण्यपरिधिमित्यादौ नटवेषमित्यनेन नटवेषः । महार्हवस्त्राभरण कञ्चुकोष्णीषभूषिताः । गोपाः समाययू राजन् [भागवतम् १०.५.८] इत्यनुसारेण राजवेषश्च । एष तु द्वारकाद्दौ प्रचुरः । तथा तत्र गोकुले च परिधानीयोत्तरीयाभ्यां धार्मिकगृहस्थवेषश्चावगन्तव्यः । एष एव नीविं वसित्वा रुचिराम् [भागवतम् १०.१५.४५] इत्यनेन दर्शितः । तैस्तैरेव हि तत्तल् लीलाः शोभन्त इति । अथ द्रव्याणि च वसनभूषणशङ्खचक्रशृङ्गवेणुयष्टिप्रेष्ठ जनप्रभृतीनि । कालाश्च तत्तत्क्रीडोचिताः । ते तु, यथा एवं वनं तद्वर्षिष्ठं पक्वखर्जूरजम्बुमत् । गोगोपालैर्वृतो रन्तुं सबलः प्राविशद्धरिः ॥ [भागवतम् १०.२०.२५] धेनवो मन्दगामिन्य [भागवतम् १०.२०.२६] इत्यादि, वनौकसः प्रमुदिता [भागवतम् १०.२०.२७] इत्यादि, क्वचिद्वनस्पतिक्रोडे [भागवतम् १०.२०.२८] इत्यादि, दध्य्ओदनं समानीतं [भागवतम् १०.२०.२९] इत्यादि, शद्वलोपरि संविश्य [भागवतम् १०.२०.३०] इत्यादि, प्रावृट्श्रियं च तां वीक्ष्य [भागवतम् १०.२०.३१] इत्याद्य्अन्तम् । स्पष्टम् । ॥ १०.२० ॥ सः ॥ २६० ॥ [२६१] एवमन्येऽपि स्मर्तव्याः । अथानुभावेषूद्भास्वराः । तत्र सौहृदमये निरुपाधितदीयहितानुसन्धानयुक्तायुक्तादिकथनसस्मितगोष्ठी प्रभृतयः । सख्यमये असङ्कुचितप्रीतिमयचेष्टाः । ताश्च सह नाना क्रीडासङ्गीतादिकलाभ्यासभोजनोपवेशशयनादयः । नर्मरहो लीलाकर्णनकथादयश्च ज्ञेयाः । इत्थं [भागवतम् १०.१२११] इत्यादिना या एव प्रशस्ताः तथोदाह्रियन्ते प्रवालबर्हस्तबक स्रग्धातुकृतभूषणाः । रामकृष्णादयो गोपा ननृतुर्युयुधुर्जगुः ॥ कृष्णस्य नृत्यतः केचिज्जगुः केचिदवादयन् । वेणुपाणितलैः शृङ्गैः प्रशशंसुरथापरे ॥ गोपजातिप्रतिच्छन्ना देवा गोपालरूपिणौ । ईडिरे कृष्णरामौ च नटा इव नटं नृप ॥ भ्रामणैर्लङ्घनैः क्षेपैरास्फोटनविकर्षणैः । चिक्रीडतुर्नियुद्धेन काकपक्षधरौ क्वचित् ॥ क्वचिन्नृत्यत्सु चान्येषु गायकौ वादकौ स्वयम् । शशंसतुर्महाराज साधु साध्विति वादिनौ क्वचिद्बिल्वैः क्वचिद्कुम्भैः [भागवतम् १०.१८.९१४] इत्यादि । स्पष्टम् । ॥ १०.१८ ॥ श्रीशुकः ॥ २६१ ॥ [२६२] तथा कृष्णस्य विष्वक्पुरुराजिमण्डलैर् अभ्याननाः फुल्लदृशो व्रजार्भकाः । सहोपविष्टा विपिने विरेजुश् छदा यथाम्भोरुहकर्णिकायाः ॥ [भागवतम् १०.१३.८] केचिद्पुष्पदलैः केचिद्[भागवतम् १०.१३.९] इत्यादि । सर्वे मिथो दर्शयन्तः स्वस्वभोज्यरुचिं पृथक् । हसन्तो हासयन्तश्चा भ्यवजह्रुः सहेश्वराः ॥ [भागवतम् १०.१३.१०] स्पष्टम् । ॥ १०.१३ ॥ सः ॥ २६२ ॥ [२६३] एवमन्या अपि । तथा सौहृदसख्ययोः सात्त्विकाश्चोन्नेयाः । तत्र सौहृदेऽश्रुर्यथा तं मातुलेयं परिरभ्य निर्वृतो भीमः स्मयन् प्रेमजलाकुलेन्द्रियः । यमौ किरीटी च सुहृत्तमं मुदा प्रवृद्धबाष्पाः परिरेभिरेऽच्युतम् ॥ [भागवतम् १०.७१.२७] (पगे ११८) अत्र सत्यप्यग्रजानुजत्वव्यवहारे सुहृत्तममित्यनेन तद् अंशस्यैवोल्लासोऽभुपगतः । ॥ १०.७१ ॥ सः ॥ २६३ ॥ [२६४] सख्ये प्रलयोऽपि, यथा तं नागभोगपरिवीतमदृष्टचेष्टम् आलोक्य तत्प्रियसखाः पशुपा भृशार्ताः । कृष्णेऽर्पितात्मसुहृदर्थकलत्रकामा दुःखानुशोकभयमूढधियो निपेतुः ॥ [भागवतम् १०.१६.१०] स्पष्टम् । ॥ १०.१६ ॥ सः ॥ २६४ ॥ [२६५] एवं तत्र तत्र सञ्चारिणश्चोन्नेयाः । यथा सौहृदे तं मातुलेयम् [भागवतम् १०.७१.२७] इत्यादौ हर्षः । यथा च सख्ये कृष्णं ह्रदाद्विनिष्क्रान्तम् [भागवतम् १०.१७.१३] इत्याद्य्अनन्तरम् उपलभ्योत्थिताः सर्वे लब्धप्राणा इवासवः । प्रमोदनिभृतात्मानो गोपाः प्रीत्याभिरेभिरे ॥ [भागवतम् १०.१७.१४] स्पष्टम् । ॥ १०.१७ ॥ सः ॥ २६५ ॥ [२६६] अथ स्थायी मैत्र्य्आख्यः । स चैश्वर्यज्ञानसङ्कुचितः श्रीदाम विप्रादीनाम् । सङ्कोचितैश्वर्यज्ञानः श्रीमद्अर्जुनादीनाम् । शुद्धः श्री गोपबालानाम् । अतएव कदाचिदपि न विकरोति । तथैव श्रीराम व्रजागमने समुपेत्याथ गोपालान् हास्यहस्तग्रहादिभिः [भागवतम् १०.६५.५] इत्य् आदिकव्यवहारः । तत्र सौहृद्आख्यो भेदः तं मातुलेयं परिरभ्य निर्वृतः [भागवतम् १०.७१.२७] इत्यादौ ज्ञेयः । सख्यं, यथा एकदा रथमारुह्य विजयो वानरध्वजम् । गाण्डीवं धनुरादाय तूणौ चाक्षयसायकौ ॥ साकं कृष्णेन सन्नद्धो विहर्तुं विपिनं महत् । बहुव्यालमृगाकीर्णं प्राविशत्परवीरहा ॥ [भागवतम् १०.५८.१३१४] कृष्णेन साकं विहर्तुमित्यन्वयः । ॥ १०.५८ ॥ सः ॥ २६६ ॥ [२६७] यथा च तेनैव साकं पृथुकाः सहस्रशः स्निग्धाः सुशिग्वेत्रविषाणवेणवः । स्वान् स्वान् सहस्रोपरिसङ्ख्ययान्वितान् वत्सान् पुरस्कृत्य विनिर्ययुर्मुदा ॥ [भागवतम् १०.१२.२] एवकारेण तदासत्तिरूपोऽनुभावो दर्शितः । यथा यदि दूरं गतः कृष्णो वनशोभेक्षणाय तम् । अहं पूर्वमहं पूर्वमिति संस्पृश्य रेमिरे ॥ [भागवतम् १०.१२.६] स्पष्टम् ॥ ॥ १०.१२ ॥ सः ॥ २६८ ॥ [२६९] यथा च ऊचुश्च सुहृदः कृष्णं स्वागतं तेऽतिरंहसा । नैकोऽप्यभोज्कबल एहीतः साधु भुज्यताम् ॥ [भागवतम् १०.१४.४५] स्पष्टम् ॥ ॥ १०.१४ ॥ सः ॥ २६९ ॥ [२७०] श्रीकृष्ण एव तेषां जीवनमित्याह कृष्णं महाबकग्रस्तं दृष्ट्वा रामादयोऽर्भकाः । बभूवुरिन्द्रियाणीव विना प्राणं विचेतसः ॥ [भागवतम् १०.११.४९] मुक्तं बकास्यादुपलभ्य बालका रामादयः प्राणमिवेन्द्रियो गणः । स्थानागतं तं परिरभ्य निर्वृताः प्रणीय वत्सान् व्रजमेत्य तज्जगुः ॥ [भागवतम् १०.११.५३] स्पष्टम् ॥ ॥ १०.११ ॥ सः ॥ २७० ॥ [२७१] तदेवं विभावादिसंवलनात्मको मैत्रीमयो रसः । अस्य च सौहृदमयः सख्यमय इति भेदद्वयं तत्र तत्रावगन्तव्यम् । तस्य प्रथमाप्राप्त्य् आत्मकसिद्ध्य्आत्मकौ भेदौ पूर्ववदूह्यौ । वियोगात्मको भेदो यथा एवं कृष्णसखः कृष्णो भ्रात्रा राज्ञा विकल्पितः । (पगे ११९) नानाशङ्कास्पदं रूपं कृष्णविश्लेषकर्शितः ॥ शोकेन शुष्यद्वदन हृत्सरोजो हतप्रभः । विभुं तमेवानुस्मरन्नाशक्नोत्प्रतिभाषितुम् ॥ कृच्छ्रेण संस्तभ्य शुचः पाणिनामृज्य नेत्रयोः । परोक्षेण समुन्नद्ध प्रणयौत्कण्ठ्यकातरः ॥ सख्यं मैत्रीं सौहृदं च सारथ्यादिषु संस्मरन् । नृपमग्रजमित्याह बाष्पगद्गदया गिरा ॥ [भागवतम् १.१५.१४] कृष्णोऽर्जुनः । अविकल्पित इति च्छेदः । नानाशङ्कास्पदं रूपमालक्ष्य विकल्पित इत्यर्थः । शुचः शोकाश्रूणि आमृज्य च । परोक्षेण दर्शआगोचरेण श्रीकृष्णेन हेतुना । अतएवानिष्टशङ्काया अभावात्नात्र करुण रसावकाशः । तद्अभावश्चैषामैश्वर्यज्ञानसमुध्भाविनां भवत्य् एव इति । वञ्चितोऽहम् [भागवतम् १.१५.५] इत्यादिकं वक्ष्यमाणं विलापम् । [२७२] अथ तद्अनन्तरं तुष्ट्य्आत्मकयोगो यथा ते साधुकृतसर्वार्था ज्ञात्वात्यन्तिकमात्मनः । मनसा धारयामासुर्वैकुण्ठचरणाम्बुजम् ॥ तद्ध्यानोद्रिक्तया भक्त्या विशुद्धधिषणाः परे । तस्मिन्नारायणपदे एकान्तमतयो गतिम् ॥ अवापुर्दुरवापां ते असद्भिर्विषयात्मभिः । विधूतकल्मषा स्थानं विरजेनात्मनैव हि ॥ [भागवतम् १.१५.४६४८] ते पाण्डवाः साधु यथा स्त्यात्तथा कृतसर्वार्था वशीकृतधर्मार्थ काममोक्षा अपि वैकुण्ठस्य श्रीकृष्णस्य चरणाम्बुजमेव आत्यन्तिकं परमपुरुषार्थं ज्ञात्वा तदेव मनसा धारयामासुः । नारायणः श्री कृष्णः । पूर्णगतिमेव विशिनष्टि । विधूतकल्मसं यदास्थानं नित्य श्रीकृष्णप्रकाशास्पदं तदीया सभा । आत्मना स्वशरीरेणैव । तत्र हेतुः विरजेनाप्राकृतेन । हिशब्दोऽसम्भावनानिवृत्त्य्अर्थः । [२७३] तथा द्रौपदी च तदाज्ञाय पतीनामनपेक्षताम् । वासुदेवे भगवति ह्येकान्तमतिराप तम् ॥ [भागवतम् १.१५.५०] आत्म्नानं प्रति अनपेक्षमाणानाम् । तत्कृष्णसङ्गमनमाज्ञाय सम्यग् ज्ञात्वा । वासुदेवे श्रीवसुदेवनन्दने । हि प्रसिद्धौ । तस्मिन्नेकान्त मतिस्तमेव प्राप्तवती । ॥ १.१५ ॥ श्रीसूतः ॥ २७१२७३ ॥ [२७४] श्रीव्रजकुमाराणां देशान्तरवियोगात्मओदाहरणं तद्अनन्तरतुष्ट्य् आत्मोदाहरणं च वत्सलानुसारेणैव ज्ञेयम् । इति मईत्रीमयो रसः ॥ अथ उज्ज्वलः । अत्रालम्बनः कान्तत्वेन स्फुरन् कान्तभावविषयः श्री कृष्णः । तद्आधारआः सजातीयभावास्तदीयपरमवल्लभाश्च । तत्र श्रीकृष्णो यथा श्रुत्वा गुणान् भुवनसुन्दर शृण्वतां ते निर्विश्य कर्णविवरैर्हरतोऽङ्गतापम् । रूपं दृशां दृशिमतामखिलार्थलाभं त्वय्यच्युताविशति चित्तमपत्रपं मे ॥ [भागवतम् १०.५२.३७] स्पष्टम् । ॥ श्रीरुक्मिणी ॥ २७४ ॥ [२७५] यथा च तासामाविरभूच्छौरिः स्मयमानमुखाम्बुजः । पीताम्बरधरः स्रग्वी साक्षान्मन्मथमन्मथः ॥ [भागवतम् १०.३२.२] ॥ १०.३२ ॥ श्रीशुकः ॥ २७५ ॥ [२७६] अथ तद्वल्लभासु सामान्या सैरिन्ध्री कूर्मपुराणोक्ताः कैलासवासिन्यश् च । तत्र पूर्वोक्ता (पगे १२०) यथा सैवं कैवल्यनाथं तं प्राप्य दुष्प्राप्यमीश्वरम् । अङ्गरागार्पणेनाहो दुर्भगेदमयाचत ॥ [भागवतम् १०.४८.८] इति दर्शिता । पूर्वं तादृशदुर्भगापि अङ्गरागार्पणमात्रलक्षणेन भजनेन तं प्राप्य । अहो आश्चर्यम् । तेन हेतुना इदं सहोष्यताम् [भागवतम् १०.४८.९] इत्यादि लक्षणमपि अयाचत याचितुं योग्याभूत् । तं कथम्भूतमपि । केवलः शुद्धप्रेमवांस्तस्य भावः कैवल्यं, तत्रैव नाथं वल्लभमपि । अतोऽस्या आत्मतर्पणैकतात्पर्यायाः सम्प्रत्यपि श्रीव्रजदेव्य्आदिवच् छुद्धप्रेमाभावो दर्शितः । स्वीयाः श्रीरुक्मिण्य्आदयः । या एवोद्दिश्य स्तौति याः सम्पर्यचरन् प्रेम्णा पादसंवाहनादिभिः । जगद्गुरुं भर्तृबुद्ध्या तासां किं वर्ण्यते तपः ॥ [भागवतम् १०.९०.२७] स्पष्टम् । ॥ १०.९० ॥ श्रीशुकः ॥ २७६ ॥ [२७७] तथा इत्थं रमापतिमवाप्य पतिं स्त्रियस्ता ब्रह्मादयोऽपि न विदुः पदवीं यदीयाम् । भेजुर्मुदाविरतमेधितयानुराग हासावलोकनवसङ्गमलालसाद्यम् ॥ प्रत्युद्गमासनवरार्हणपादशौच ताम्बूलविश्रमणवीजनगन्धमाल्यैः । केशप्रसारशयनस्नपनोपहार्यैर् दासीशता अपि विभोर्विदधुः स्म दास्यम् ॥ [भागवतम् १०.६१.५६] अतएव ये मां भजन्ति दाम्पत्या [भागवतम् १०.६०.५२] इत्यादि निन्दा त्वन्य परत्वेनैव निर्दिष्टा । दिष्ट्या गृहेश्वरी [भागवतम् १०.६०.५४] इत्याद्य्उत्तर वाक्यात् । यथैव केतुमालवर्षे श्रीकामदेवाख्यभगवद्व्यूहस्तुतौ लक्ष्मीवाक्यम्स्त्रियो व्रतैस्त्वा हृषीकेश्वरं स्वतो ह्याराध्य लोके पतिम् आशासतेऽन्यम् [भागवतम् ५.१८.१९] इत्यादिकम् । ॥ १०.६१ ॥ श्रीशुकः ॥ २७७ ॥ [२७८] अथ वस्तुतः परमस्वीया अपि प्रकटलीलायां परकीयायमाणाः श्रीव्रज देव्यः । या एवासमोर्ध्वं स्तुताः नायं श्रियोऽङ्ग उ नितान्तरतेः प्रसादः स्वर्योषितां नलिनगन्धरुचां कुतोऽन्याः । रासोत्सवेऽस्य भुजदण्डगृहीतकण्ठ लब्धाशिषां य उदगाद्व्रजवल्लभीनाम् ॥ [भागवतम् १०.४७.३०] इत्यादिषु । गोप्यस्तपः किमचरन् यदमुष्य रूपं [भागवतम् १०.४४.१४] इत्यादौ या एवासमोर्ध्वं रूपं पश्यन्तीत्यत्र । तथा चाह या दोहनेऽवहनने मथनोपलेप [भागवतम् १०.४४.१५] इत्यादौ धन्या व्रजस्त्रिय उरुक्रमचित्तयानाः । उरुक्रमचित्तमेव यानं यासां ताः । यास्तच्चित्तं यत्र यत्र गच्छति तत्र तत्रैव तद्आरूढास्तिष्ठन्ति इत्यर्थः । चिन्तायाना इति पाठे चिन्तश्चिन्ता भवनेति पूर्ववदेवार्थः । ॥ १०.४४ ॥ श्रीमाथुरस्त्रियः ॥ २७८ ॥ [२७९} अतएवासामेव तत्र तत्र दर्शित उत्कर्षः । परकीयायमानत्वेन निवारणादिमात्रांशे लौकिकरसविदामपि मतेन सेवितः । यथाह भरतः बहु वार्यते यतः खलु यत्र प्रच्छन्नकामुकत्वं च । या च मिथो दुर्लभता सा परमा मन्मथस्य रतिः ॥ [ऊण्१.२०] इति । रुद्रः वामता दुर्लभत्वं च स्त्रीणां या च निवारणा । तदेव पञ्चबाणस्य मन्ये परममायुधम् ॥ [ऊण्३.२०] विष्णुगुप्तः यत्र निषेधविशेषः सुदुर्लभत्वं च यन्मृगाक्षीणाम् । तत्रैव नागराणां निर्भरमासज्जते हृदयम् ॥ [ऊण्३.२१] इति । (पगे १२१) अतएव कासाञ्चिद्गोपकुमारीणां कात्यायनीजपानुसारेण पतिभावेऽप्य् आधिक्यमनुवर्तते इति । केचित्तु वारणादित एवासां प्रेमाधिक्यं मन्यन्ते । तन्न, जातितोऽप्याधिक्यात् । तच्च व्रजस्त्रियो यद्वाञ्छन्ति [भागवतम् १०.८३.४३] इति, वाञ्छन्ति यद्भवभियः [भागवतम् १०.४७.५८] इत्यादिना व्यक्तम् । न हि वारणाद्य्अंशमङ्गीकृत्य तेषां लोभो जातः, अनभीष्टत्वात् । अतो जात्य् अंशमेवेति गम्यते । अतः प्रबलजातित्वान्निवारणादिकमप्ययम् अतिक्रामतीत्येवमेव श्लाघ्यते या दुस्त्यजम् [भागवतम् १०.४७.६१] इत्यादिना । मत्तहस्तिनां बलस्य दुर्गातिक्रमवन्निवारणाद्य्अतिक्रमो हि तासां प्रेमबलस्य व्यञ्जक एव न तूत्पादकः । जात्य्अंशेनैव प्राबल्ये सति निवारणादिसाम्येऽपि तासां स्वेषु प्रेमतारतम्यं सम्भवति । यथा ताभिर् अपि श्रीराधायाः प्रेमवैशिष्ट्येन श्रीकृष्णवशीकारित्ववैशिष्ट्यं दर्शितम् । अनयाराधितो नूनम् [भागवतम् १०.३०.२८] इत्यादिना । या च तासां क्षोभे सति प्रेम्णः प्रफुल्लता सा खलु कृष्णसर्पस्येव स्वत एव सिद्धतया न त्वपरत आहार्यतया । केवलौपपत्यस्य प्रेम वर्धनत्वं तु ताभिरेव स्वयं निःस्वं त्यजन्ति गणिकाः [भागवतम् १०.४७.७], जारा भुक्त्वा रतां स्त्रियम् [भागवतम् १०.४७.८] इति निन्दितम् । यत्तु कश्चित्परकीयासु लघुत्वं वक्ति तत्खलु प्राकृतनायकम् अवलम्बमानासु युक्तं, तत्रैव जुगुप्सितत्वात् । अत्र तु गोपीनां तत्पतीनां च [भागवतम् १०.३३.३५] इत्यादिना तत्प्रत्याख्यानात् । अत्र च तत्पतीनामिति तद् व्यवहारदृष्टिमात्रेणोक्तं, न तु परमार्थदृष्ट्या । तद्दृष्ट्या तु श्री कृष्णसन्दर्भे तासां स्वरूपशक्तित्वमेवात्र परत्र स्थापितम् । तथास्य श्रीकृष्णलक्षणस्य नायकस्य तादृशभावेनैव प्राप्तौ एताः परं तनु भृतः [भागवतम् १०.४७.५८] इत्यादिषु सर्वोर्ध्वश्लाघाश्रवणात्परम गरीयस्त्वमेव । अतएवोक्तम् नेष्टा यदङ्गिनि रसे कविभिर्परोढा तद्गोकुलाम्बुजदृशां कुलमन्तरेन । आशांसया रसविधेरवतारितानां कंसारिणा रसिकमण्डलशेखरेण ॥ [ऊण्५.३] इति । अथ तासां स्वपत्याभाससम्बन्धमपि वारयितुं योजयति नासूयन् खलु कृष्णाय मोहितास्तस्य मायया । मन्यमानाः स्वपार्श्वस्थान् स्वान् स्वान् दारान् व्रजौकसः ॥ [भागवतम् १०.३३.३७] तदेवं भावत उत्कर्षो दर्शितः । दैहिकं तमाहताभिः समेताभिर् उदारचेष्टितः [भागवतम् १०.२९.४३] इत्यादौ व्यरोचतैणाङ्क इवोडुभिर्वृतः इति । स्पष्टम् । ॥ १०.२९ ॥ सः ॥ २८० ॥ [२८१] किं च तत्रातिशुशुभे ताभिर्भगवान् देवकीसुतः । (पगे १२२) मध्ये मणीनां हैमानां महामरकतो यथा ॥ [भागवतम् १०.३३.७] स्पष्टम् । ॥ १०.३३ ॥ सः ॥ २८१ ॥ [२८२] गुणवैभवकृतमप्याह ताभिर्विधूतशोकाभिर्भगवानच्युतो विभुः । व्यरोचताधिकं तात पुरुषः शक्तिभिर्यथा ॥ [भागवतम् १०.३२.१०] स्पष्टम् । ॥ १०.३२ ॥ सः ॥ २८२ ॥ [२८३] कलावैदग्धीकृतमाह पादन्यासैर्भुजविधुतिभिः [भागवतम् १०.३३.७] इत्य् आदि । उच्चैर्जगुर्नृत्यमाना रक्तकण्ठ्यो रतिप्रियाः । कृष्णाभिमर्शमुदिता यद्गीतेनेदमावृतम् ॥ [भागवतम् १०.३३.९] इदं जगत् । अद्यापि यासां गीतांशा एव जगति प्रचरन्तीत्यर्थः । यदुक्तं सङ्गीतसारे तावन्त एव रागाः स्युर्यावत्यो जीवजातयः । तेषु षोडशसाहस्री पुरा गोपीकृता वरा ॥ इति । अन्ते च तेषामेव विभागश्च तत्र स्वर्गादिषु दर्शित इति । किं च काचित्समं मुकुन्देन स्वरजातीरमिश्रिताः । उन्निन्ये पूजिता तेन प्रीयता साधु साध्विति । तदेव ध्रुवमुन्निन्ये तस्यै मानं च बह्वदात् ॥ [भागवतम् १०.३३.१०] स्वराः षड्जादयः सप्त जातयस्तेषु रागोत्पत्तिहेतवः । ता उभयोरपि परमप्रवीणत्वात्स्वरान्तरेण जात्य्अन्तरेण चामिश्रिताः शुद्धा एव उन्निन्ये उत्कर्षेण जगौ । तत्र शक्रशर्वरपरमेष्टिपुरोगानिश्चित तत्त्वगानस्य श्रीमुकुन्दस्यापि सहार्थत्वेनाप्राधान्यं विवक्षितम् । तत्राप्युच्छब्देन ।तएव तेन पूजिता । तदैव तालान्तरेण निबद्धं गीतं ध्रुवाख्यं तालविशेषं कृत्वा या ततोऽप्युत्कर्षेण जगौ तस्यै पूर्वस्या अप्यधिकं मानमदात् । ॥ १०.३३ ॥ सः ॥ २८४ ॥ [२८५] अथ तासु सामान्यासु सैरिन्ध्री मुख्या । सर्वत्र ख्यातत्वात् । स्वकीयासु पट्टमहिषीषु श्रीरुक्मिणीसत्यभामे मुख्ये । यथा श्रीहरिवंशे कुटुम्बस्येश्वरी यासीद्रुक्मिणी भीष्मकात्मजा । सत्यभामोत्तमा स्त्रीणां सौभाग्ये चाधिकाभवत् ॥ अथ श्रीव्रजदेवीषु मुख्या भविष्योत्तरोक्ताः गोपाली पालिका धन्या विशाखा ध्याननिष्ठिका । राधानुराधा सोमाभा तारका दशमी तथा ॥ इति । दशम्यपि तारकानाम्नीत्यर्थः । स्कान्दे प्रह्लादसंहितायां तु ललिता शैव्या पद्मा चतस्रोऽन्याः । अन्यत्र चन्द्रावली च श्रूयते । सा चात्रार्थ साम्यात्सोमाभैवानुमेया । कार्त्स्न्येन तु प्रमदाशतकोटिभिराकुलिता इत्यागमोपदेशः । एतास्वपि श्रीराधिकैव मुख्या । सैव रासोत्सवे श्री कृष्णेन परमप्रेम्णान्तर्धापितेति श्रीकृष्णसन्दर्भे सन्दर्शितमस्ति । प्रसिद्धा च तथा सैव सर्वत्रेति । अतः श्रैष्ठ्यचिह्नेन गोपालतपन्य् उक्ता गान्धर्विकैव सेत्यनुमेया । अथ ताः श्रीकृष्णवल्लभास्त्रिधा दृश्यन्ते मुग्धा मध्या प्रगल्भा इति । तादृश्यं च नवयौवनस्पष्टयौवनसम्यग्यौवनैर्वयोभेदैस्तत् तच्चेष्टाभिश्च । सम्यग्यौवनं च प्राप्तषोडशवर्षत्वमेव नाधिकं कन्याभिर्द्व्य्अष्टवर्षाभिः इति गौतमीयतन्त्रात् । तथा स्वभावभेदेन धीरा अधीरा मिश्रगुणाश्चेति पुनस्त्रिधावगन्तव्याः । प्रेमतारतम्येन श्रेष्ठाः समाः लघव इति च । अथ ता लीलावस्थाभेदेनैकैका । अभिसारिका वासकसज्जोत्कण्ठिता खण्डिता विप्रलब्धा (पगे १२३) कलहान्तरिता प्रोषितभर्तृका स्वाधीनभर्तृका इत्य् अष्टौ नामानि भजन्ति । तथा परस्परं भावानां सादृश्यकिञ्चित् सादृश्यास्फुटसादृश्यानि । विरोधित्वं चैतद्भेदचतुष्टयात्पुनश् चत्वारि सखी सुहृत्तटस्था प्रातिपक्षिकी चेति । भावभेदाश्च स्थायि निरूपणे ज्ञेयाः । तत्र सखी यथा अप्येणपत्नी [भागवतम् १०.३३.११] इत्यादि द्वये पुरतो दर्शनीया । अत्र हि तन्वन् दृशां सखि सुनिर्वृतिमिति स्वीयतद् दिदृक्षाद्योतनात् । सखीति तद्दर्शनसुखोपभोगसौभाग्यभागिता साम्येन तस्यां सख्यारोपणात्कान्तेति कृष्णसङ्गिन्याः सौभाग्यातिशयस्य चानुमोदनात्सख्यमेव स्पष्टम् । अतएव तल्लीलानुमोदनमपि बाहुं प्रियांसा [भागवतम् १०.३०.१२] इत्यादिना । सुहृद्यथा अनयाराधितो नूनं भगवान् हरिरीश्वरः । यन्नो विहाय गोविन्दः प्रीतोऽयमनयद्रहः ॥ [भागवतम् १०.३०.२८] अस्याश्च तद्भाग्यमात्रप्रशंसनात्व्यक्तं सौहृद्यम् । [२८६] तटस्था यथा पृच्छतेमा लता बाहूनप्याश्लिष्टा वनस्पतेः । नूनं तत्करजस्पृष्टा बिभ्रत्युत्पुलकान्यहो ॥ [भागवतम् १०.३०.१३] अत्र सखीवचनं श्रुत्वापि ततौदासीन्यात्ताटस्थ्यमेव व्यक्तम् । एवम् अनयाराधितो नूनमिति सुहृद्वाक्यानन्तरमपि धन्या अहो अमी आल्यः [भागवतम् १०.३०.२९] इत्य्आदिवाक्ये च । [२८७] अथ प्रातिपक्षिका यथा अस्या अमूनि नः क्षोभं कुर्वन्त्युच्चैः पदानि यत् । यैकापहृत्य गोपीनां रहो भुङ्क्तेऽच्युताधरम् ॥ [भागवतम् १०.३०.३०] अथ प्रकट एव मत्सर इति ताभ्यो विलक्षणत्वम् । तथैव श्री हरिवंशादौ पारिजातहरणे श्रीरुक्मिणीं प्रति सत्यभामायाः । स्पष्टम् । ॥ १०.३० ॥ श्रीशुकः ॥ २८५२८७ ॥ [२८८] अत्र विचार्यते । ननु भगवद्भक्तेषु परस्परं प्रतिपक्षित्वम् असम्भवमहृद्यं च । तथा तासां तत्सौभगमदम् [भागवतम् १०.२९.४८] इत्य् आदौ तद्ईर्षामदमानादिदूरीचिकीर्षां श्रीभगवतोऽपि दृश्यते । तथा श्रीमता मुनिना स्वयमपि ताभिस्तत्र दौरात्म्यशब्दः प्रयुक्तोऽस्तीति । तत्रोच्यते सर्वैव हि श्रीभगवतः क्रीडा प्रीतिपोषायैव प्रवर्तते । भजते तादृशीः क्रीडा याः श्रुत्वा तत्परो भवेत्[भागवतम् १०.३३.३६] इत्यादि । श्रुत्वापीत्यर्थः । तत्र शृङ्गारक्रीडायाश्चास्याः स्वभावोऽयं यत्खल्व् ईर्षामदमानादिलक्षण (पगे १२४) तत्तद्भाववैचित्रीपरिकरतयैव रसं पुष्णाति । यत एव तादृशतयैव कविभिर्वर्ण्यते । श्रीभगवता च स्व=लीलायामङ्गीक्रियते । स्वस्मिन्नपि दक्षिणानुकूलशठधृष्टतेति चतुर्भेदनायकत्वं यथास्थानं व्यज्यते । तस्मात्तल्लीलाशक्तिरेव तासु तत्तद्भावं दधाति । तं च भावानुरूपेणैवेति दर्शितम् । अतएव यदा सर्वासामेव तद्विरहो भवति तदा दैन्यनैकजातीय भावत्वापत्त्या सर्वत्र सख्यमेवाभिव्यज्यते । यथा अन्विच्छन्त्यो भगवतो मार्गे गोप्योऽविदूरतः । ददृशुः प्रियविश्लेषान्मोहितां दुःखितां सखीम् ॥ [भागवतम् १०.३०.४१] इत्यत्र तस्यां पूर्वासामेव सखीत्वव्यञ्जना । विरहलीला च तासां झटिति श्रीकृष्णविषयकतृष्णातिशयवर्धनार्थैव । नागरचूडामणीन्द्राय श्रीकृष्णाय च तासां तद्वृद्धिरथ्यर्थं रोचते । यथोक्तं नाहं तु सख्यो भजतोऽपि जन्तून् [भागवतम् १०.३२.१०] इत्यादिना । तस्मान्मध्ये विरहोऽपि भवति । तदा श्रीकृष्णस्य मदमानादिविनोदमतिक्रम्यापि तद् अध्यवसायः स्यात् । ततो मदमानयोः प्रशमाय स्वविषयक तृष्णातिशयरूपप्रसादाय चेति तासां तत्सौभगेत्यत्रार्थः । सर्व समुदितरासलीलार्थं मदस्य प्रशमाय मानस्य च प्रसादाय प्रसादनायेत्यर्थो वा । ततस्तद्वर्धनेच्छाप्यानुषङ्गीति समानम् । अथ जाते च विरहे दैन्येनैव तासां तत्र दौरात्म्यबुद्धिः । न तु वस्तुत एव तद्दौरात्म्यं प्रेमैकविलासरूपत्वात् । श्रीमुनीन्द्रोऽपि तद् भावानुसारित्वेनैव तद्वाक्यमनुवदति तया कथित्माकर्ण्य [भागवतम् १०.३०.४२] इत्यादि । स्वयं तु पूर्वं तस्मिंस्तदीये मदे दोषं प्रत्याख्यातवानस्ति । यथा रेमे तया चात्मरत आत्मारामोऽप्यखण्डितः । कामिनां दर्शयन् दैन्यं स्त्रीणां चैव दुरात्मताम् ॥ [भागवतम् १०.३०.३५] स्वात्मरतः स्वतस्तुष्टोऽपि आत्मरामः स्वक्रीडोऽपि अखण्डितः । तस्यां सततासक्तः सन् रेमे । तादृशश्चेत्किमिति तद्आसक्तो बभूव, तथा रेमे च । अत आह तया इत्थम्भूतगुणो हरिः [भागवतम् १.७.१०] इतिवत्तथाभूतगुणतया तदीयप्रेमसर्वस्वसाररूपयेत्यर्थः । अतस्तस्यान्येन तादृशत्वासम्भवात्प्रेमविशेष एवासौ स्फुरति न तु कामः । स च प्रेमविशेष ईदृशप्रबलः यत्कामिवदेव दैन्यादिकं तयोः प्रकटीभवतीत्याह कामितामिति । मदमानाद्य्आत्मके कामिनीनां प्रेम्णि कामिनां यद्दैन्यं लोकप्रसिद्धं तदेव स्वद्वारा तत्प्रेम विशेषपारवेश्येन दर्शयन् प्रकटयन् रेमे । यद्वा ययैव लीलया स्वयम् एव तुच्छीभूताः सर्वेऽप्यन्ये नागरंमन्या इत्याह कामिनामिति । स्व लीलामहिम्ना कामिनां प्राकृतानां दैन्यं रससम्पत्तिहीनत्वं स्त्रीणां च प्राकृतानां तं विनान्यस्य भजनेन दुरात्मतां दुष्टभावतां दर्शयन्निति दर्शयद्विधुपराजयं रसावक्तुमुल्लसति धूतलाञ्छनम् इतिवत् । ॥ १०.३० ॥ श्रीशुकः ॥ २८८ ॥ (पगे १२५) [२८९] इत्यालम्बनो व्याख्यातः । अथोद्दीपनेषु गुणाः । नारीमोहनशीलत्वम् । अवयववर्णरसगन्धस्पर्शशब्दसल्लक्षणनवयौवनानां कमनीयता । नित्यनूतनत्वमभिव्यक्तभावत्वं प्रेमवश्यत्वं सौबुद्ध्यसत्प्रतिभादयश्च । तत्र नारीमोहनशीलत्वादिकं, यथा कृष्णं निरीक्ष्य वनितोत्सवरूपशीलम् [भागवतम् १०.२१.१२] इति । स्पष्टम् । ॥ १०.२१ ॥ श्रीव्रजदेव्यः ॥ २८९ ॥ [२९०] नित्यनूतनं च यद्यप्यसौ पार्श्वगतः [भागवतम् १.११.३४] इत्यादौ दृष्टम् । अथाभिव्यक्तभावत्वम् । तत्र पूर्वरागे शरद्उदाशये साधुजातसत्सरसिजोदरे श्रीमुषा दृषा । सुरतनाथ तेऽशुल्कदासिका वरद निघ्नतो नेह किं वधः ॥ [भागवतम् १०.३१.२] हे दृशैव सुरतयाचक तत्रापि हे कात्यायन्य्अर्चनान्ते वरप्रद, तत्राइ भावविशेषदर्शितया दृशा कृत्वैवाशुल्कदासिकातुल्यत्वं प्राप्तास्तयैव पुनर्निघ्नतस्तव न किं वधः स्त्रीहत्यापि न भवति । दृशस्तादृशत्वे महामोहनचौरत्वं दर्शयति । शरद्उदाशय इत्यादि । तत्र मोहनत्वं द्विविधंस्वरूपकृतं दुष्करक्रियाकृतं च । तद् उभयमपि तत्तद्विशेषणैर्व्यक्तम् । तथा मधुरया गिरा वल्गुवाक्यया बुधमनोज्ञया पुष्करेक्षण । विधिकरीरिमा वीर मुह्यतीर् अधरसीधुनाप्याययस्व नः ॥ [भागवतम् १०.३१.८] मधुरयेति स्वरूपमाधुर्यं वल्गुवाक्ययेत्यर्थमाधुर्यं बुध मनोज्ञयेति बुधानां तादृशभावाभिज्ञानामेव मनोज्ञयेति भाव विशेषमाधुर्यं व्यञ्जितम् । [२९२] तथा प्रहसितं प्रिय प्रेमवीक्षणं विहरणं च ते ध्यानमङ्गलम् । रहसि संविदो या हृदिस्पृशः कुहक नो मनः क्षोभयन्ति हि ॥ [भागवतम् १०.३१.१०] संविदाः सङ्केतनर्माणि । [२९३] तथा दिनपरिक्षये नीलकुन्तलैर् वनरुहाननं बिभ्रदावृतम् । घनरजस्वलं दर्शयन्मुहुर् मनसि नः स्मरं वीर यच्छसि ॥ [भागवतम् १०.३१.१२] मुहुः पुनः पुनर्व्याजेन परावृत्येत्यर्थः । [२९४] तथा पतिसुतान्वयभार्तृबान्धवान् अतिविलङ्घ्य तेऽन्त्यच्युतागताः । गतिविदस्तवोद्गीतमोहिताः कितव योषितः कस्त्यजेन्निशि ॥ रहसि संविदं हृच्छयोदयं प्रहसिताननं प्रेमवीक्षणम् । बृहद्उरः श्रियो वीक्ष्य धाम ते मुहुरतिस्पृहा मुह्यते मनः ॥ [भागवतम् १०.३१.१६१७] गतिविदस्तवोद्गीतमोहिता इति अस्माकं मोहनप्रकारज्ञानेनैव त्वं तथा वेणुना गीतवानित्यर्थः । ॥ १०.३१ ॥ श्रीगोप्यः परोक्षस्थितं श्रीभगवन्तम् ॥ २९२२९४ ॥ [२९५] एवं गवां हिताय तुलसि गोपीनां रतिहेतवे । वृन्दावने त्वं वपिता सेविता विष्णुना स्वयम् ॥ इति स्कान्दे रेवाखण्डीयतुलसीस्तववचनमपि तत्पूर्वरागे दर्शनीयम् । तथा सम्भोगेऽपि इति विक्लवितं तासाम् [भागवतम् १०.२९.४२] इत्यादौ प्रहस्य इति ताभिः समेताभिरुदारचेष्टितः [भागवतम् १०.२९.४३] इति, उदारहास द्विजकुन्ददीधिति [भागवतम् १०.२९.४६] चाभिव्यक्तभावत्वोदाहरणम् । अथ प्रेम्णा वश्यत्वं द्विविधम् । प्रेमान्तरेण प्रेयसीप्रेम्णा च । तत्र पूर्वेण नर्मदः प्रणयिनां (पगे १२६) विजहार १०.३५.२०] इत्यत्र दर्शितम् । तथोत्तरेण । तत्र पूर्वरागात्मकेन यथा तथाहमपि तच्चित्तो निद्रां च न लभे निशि [भागवतम् १०.५३.२] इति । स्पष्टम् । ॥ १०.५३ ॥ श्रीभगवान् रुक्मिणीदूतम् ॥ २९५ ॥ [२९६] तथा भगवानपि ता रात्रीः शरदोत्फुल्लमल्लिकाः । वीक्ष्य रन्तुं मनश्चक्रे योगमायामुपाश्रितः ॥ [भागवतम् १०.२९.१] योगमायां तासामसङ्ख्यानामसङ्ख्यवाञ्छापूरिकां स्वशक्तिं स्वभावत एवाश्रित्य इत्यर्थः । [२९७] सम्भोगात्मकेन यथा इति विक्लवितं तासां श्रुत्वा योगेश्वरेश्वरः । प्रहस्य सदयं गोपीरात्मारामोऽप्यरीरमत् ॥ [भागवतम् १०.२९.४२] अत्र विक्लवितमिति तासां प्रेमातिशयज्ञापकं सदयमिति तस्य तत्प्रेम वश्यत्वातिशयाभिधायकम् । आत्मारामोऽपीति तासां प्रेमगुणमाहात्म्य दर्शकम् । आत्मारामाश्च मुनयः [भागवतम् १.७.१०] इत्यादौ इत्थम्भूतगुणो हरिः इतिवत् । ॥ १०.२९ ॥ श्रीशुकः ॥ २९६२९७ ॥ [२९८] एवं रेमे स्वयं स्वरतिरत्र गजेन्द्रलीलः [भागवतम् १०.३३.२३] इति । स्वासु तासु रतिर्यस्य सः । तथा तासां रतिविहारेण [भागवतम् १०.३३.२०] इत्य् आदिकम् । गोपीकपोलसंश्लेषः [Vइড়् ५.१३.५४] इत्यादिकं विष्णुपुराणपद्यम् अप्युदाहृतम् । [२९९] किं च एवं परिष्वाङ्गकराभिमर्श स्निग्धेक्षणोद्दामविलासहासैः । रेमे रमेशो व्रजसुन्दरीभिर् यथार्भकः स्वप्रतिबिम्बविभ्रमैः ॥ [भागवतम् १०.३३.१७] अत्र रमेश इत्यनेन तस्य रमावशीकारित्वं दर्शितम् । परिष्वङ्गेत्यादिना तत्रापि स्निघेक्षणेत्वादिना रेम इत्यनेन च तासां प्रेम्णा तस्य वश्यत्वं व्यक्तम् । दृष्टान्तेन तु तदा तस्य तासां चार्भकप्रतिबिम्बयोरिव गान नृत्यादिविलासेषु एकचेष्टतापत्तिसूचनया मिथः परमप्रेमासक्तिर् दर्शिता । [३००] अपि च एवं शशाङ्कांशुविराजिता निशाः स सत्यकामोऽनुरताबलागणः । सिषेव आत्मन्यवरुद्धसौरतः सर्वाः शरत्काव्यकथारसाश्रयाः ॥ [भागवतम् १०.३३.२६] एवं पूर्वोक्तप्रकारेण अनुरतो निरन्तरमनुरक्तोऽबलागणो यत्र तादृशः स श्रीकृष्णचन्द्र आत्मनि चित्तेऽवरुद्धं समन्तान्निगृह्य स्थापितं सौरतं सुरतसम्बन्धिभावहावादिकं येन तथाभूतः सन् । अतएव सत्यकामः व्यभिचाररहितप्रेमविशेषः सन् शरत्सम्बन्धिन्यो यावत्यो रसाश्रयाः काव्यकथाः सम्भवन्ति ताः सर्वा एव सिषेवे । शरच् छब्दोऽत्राखण्डमेव वा संवत्सरं वदति । ततः शशङ्कांशुविराजितत्वम् उपलक्षणमिति व्याख्येयम् । एवं सौरतसंलापैः [भागवतम् १०.६०.५८] इति श्री रुक्मिणीपरिहासेऽपि सौरतशब्दस्तादृशत्वेन प्रयुक्तः । ॥ १०.३३ ॥ श्रीशुकः ॥ ३०० ॥ (पगे १२७) [३०१] अत्रैवमपि स्वयमुक्तं न पारयेऽहम् [भागवतम् १०.३२.१२] इत्यादि । अथ प्रवासात्मकेन, यथा वृष्णीनां प्रवरो मन्त्री कृष्णस्य दयितः सखा । शिष्यो बृहस्पतेः साक्षादुद्धवो बुद्धिसत्तमः ॥ तमाह भगवान् प्रेष्ठं भक्तमेकान्तिनं क्वचित् । गृहीत्वा पाणिना पाणिं प्रपन्नार्तिहरो हरिः ॥ गच्छोद्धव व्रजं सौम्य पित्रोर्नौ प्रीतिमावह । गोपीनां मद्वियोगाधिं मत्सन्देशैर्विमोचय । ता मन्मनस्का मत्प्राणा मद्अर्थे त्यक्तदैहिकाः ॥ [भागवतम् १०.४६.१४] इत्य् आदि । तथा च स्कान्दप्रह्लादसंहिताद्वारकामाहात्म्ये ताः प्रति श्रीमद् उद्धववाक्यम् भगवानपि दाशार्हः कन्दर्पशरपीडितः । न भुङ्क्ते न स्वपिति च चिन्तयन् वो ह्यहर्निशम् ॥ इति । एवं राजकुमारीणां परिणयोऽपि ताभिर्गोपकुमारीभिरेकात्मत्वात्प्रायस् तद्विरहकालक्षपणार्थ एव तासां प्राणपरित्यागपरिहारार्थमेव च । यथोक्तं पाद्मेकैशोरे गोपकन्यास्ता यौवने राजकन्यका इति । यथा च श्रीरुक्मिणीवाक्यम् यर्ह्यम्बुजाक्ष न लभेय भवत्प्रसादं जह्यामसून् व्रतकृशान् शतजन्मभिः स्यात् ॥ [भागवतम् १०.५२.४३] इति । [३०२] अथोद्दीपनेषु जातिः । तत्र गोपत्वरूपामाह विविधगोपचरणेषु विदग्धो वेणुवाद्य उरुधा निजशिक्षाः ॥ [भागवतम् १०.३५.१५] इत्यादिना । स्पष्टम् । ॥ १०.३५ ॥ श्रीव्रजदेव्यः ॥ ३०१३०२ ॥ [३०३] यादवत्वरूपां सादृश्यरूपां चाह मेघः श्रीमंस्त्वमसि दयितो यादवेन्द्रस्य नूनम् [भागवतम् १०.९०.२०] इत्यादिना ॥ स्पष्टम् । ॥ १०.९० ॥ श्रीपट्टमहिष्यः ॥ ३०३ ॥ [३०४] अथ क्रियाः । ताश्च द्विविधाः । भावसम्बन्धिन्यः स्वाभाविकविनोद मय्यश्च । पूर्वा यथा निशम्य गीतं तद्अनङ्गवर्धनम् [भागवतम् १०.२९.४] इत्यादि । स्पष्टम् । ॥ १०.२९ ॥ श्रीशुकः ॥ ३०४ ॥ [३०५] उत्तराः वामबाहुकृतवामकपोलो वल्गितभ्रूरधरार्पितवेणुम् ॥ [भागवतम् १०.३५.२] इत्यादि । स्पष्टम् । ॥ १०.३५ ॥ श्रीव्रजदेव्यः ॥ ३०५ ॥ [३०६] विविधगोपचरणेषु [भागवतम् १०.३५.१४] इत्यादौ च ता ज्ञेयाः । अथ द्रव्याणि । तत्र तस्य प्रेयस्यो यथा उषस्युत्थाय गोत्रैः स्वैरन्योन्याबद्धबाहवः । कृष्णमुच्चैर्जगुर्यान्त्यः कालिन्द्यां स्नातुमन्वहम् ॥ [भागवतम् १०.२२.६] गोत्रैर्वर्गैः । ॥ १०.२२ ॥ श्रीशुकः ॥ ३०६ ॥ [३०७] तद्व्रजस्त्रिय आश्रुत्य [भागवतम् १०.२१.३] इत्यादौ च स्वसखीभ्योऽन्ववर्णयन्न् इत्युदाहार्यम् । तत्परिकराः तं वीक्ष कृष्णानुचरं व्रजस्त्रियः [भागवतम् १०.४७.१] इत्यादि । स्पष्टम् । ॥ १०.४७ ॥ सः ॥ ३०७ ॥ [३०८] मण्डनम् पूर्णाः पुलिन्द्य उरुगायपदाब्जेअरागश्रीकुङ्कुमेन दयिता [भागवतम् १०.२१.१७] इत्यादि । [३०९] वंशीगोप्यः किमाचरदयं कुशलं स्म वेणुः [भागवतम् १०.२१.१७] इत्यादि । स्पष्टम् । ॥ १०.२१ ॥ ताः ॥ ३०९ ॥ [३१०] पदाङ्कः पदानि व्यक्तमेतानि नन्दसूनोर्महात्मनः [भागवतम् १०.३०.२५] इत्यादि । [३११] पदधूलिः धन्या अहो अमी आल्यो गोविन्दाङ्घ्र्य्अब्जरेणवः । यान् ब्रह्मेशो रमा देवी दधुर्मूर्ध्न्यघनुत्तये ॥ [भागवतम् १०.३०.२९] (पगे १२८) अत्र प्रेमैव तद्उत्कर्षं गमयति न त्वैश्वर्यज्ञानम् । स्वभावः खल्व् अयं प्रीतिपरमोत्कर्षस्य यत्स्वविषयं सर्वत उत्कर्षेणानुभावयति । यथादिभरतेन मृगप्रेम्णा तदीयखुरस्पर्शात्पृथिव्या अपि महा भागधेयत्वं वर्णितम्किं वा अरे आचरितं तपस्तपस्विन्या यदियम् अवनिः [भागवतम् ५.८.२३] इत्यादिना । एवमेव किं ते कृतं क्षिति तपो बत केशवाङ्घ्रि स्पर्शोत्सवोत्पुलकिताङ्गरुहैर्विभासि । अप्यङ्घ्रिसम्भव उरुक्रमविक्रमाद्वा आहो वराहवपुषः परिरम्भणेन ॥ [भागवतम् १०.३०.१०] अत्र पूर्वार्धे प्रेम्णा श्रीकृष्णमाधुर्यमहिमोक्तिः । उत्तरार्धे तेनैवान्यत्र हेयतोक्तिः । अत्र च अपीति किमर्थे । ततश्च एषोऽङ्घ्रि सम्भवो हर्षविकारः उरुक्रमस्य त्रिविक्रमस्य विक्रमाद्वापि पाद विक्षेपाद्वापि किं जातः । आहो इति पक्षान्तरे । वराहवपुषः कान्त भावतोऽपि परिरम्भणेन वा एषोऽङ्घ्रिसम्भवः किं जातः । न हि न हीत्य् अर्थः । अपीति स्तोकार्थे वा सर्पिषोऽपि स्यादितिवत् । ततश्च उरुक्रमविक्रमाद् अपि एषोऽङ्घ्रिसम्भवो विकारः स्यात् । किन्तु स्तोक एव स्यादित्यर्थः । ॥ १०.३० ॥ ताः ॥ ३१२ ॥ [३१३] नखाङ्कः पृच्छतेमा लता बाहून् [भागवतम् १०.३०.३१] इत्यादावेव ज्ञातः । एवं वृन्दावनयमुनादीन्यप्युदाहार्याणि । अथ कालश्च रासोत्सवादि सम्बन्धी । स यथाताः किं निशाः स्मरति यासु [भागवतम् १०.४७.४३] इत्यादि । स्पष्टम् । ॥ १०.४७ ॥ ताः ॥ ३१३ ॥ [३१४] तदेवं यथा तदीयगुणादयः उद्दीपनास्तथैव तादृशसेवोपयोगित्वेन तत्प्रेयसीगुणा अपि ज्ञेयाः । ते च तासामात्मसम्बन्धिन आत्माभीष्ट तद्वल्लभासम्बन्धिनश्चेत्युभयेऽप्यूह्याः । अथानुभावाः । तत्र सैरिन्ध्र्यादीनां, यथा सा मज्जनालेपदुकूलभूषण स्रग्गन्धताम्बूलसुधासवादिभिः । अप्रसाधितात्मोपससार माधवं [भागवतम् १०.४८.५] इत्यादि । स्पष्टम् । ॥ १०.१५ ॥ श्रीशुकः ॥ ३१४ ॥ [३१५] श्रीपट्टमहिषीणामित्थं रमापतिमवाप्य [भागवतम् १०.५९.४४] इत्यादिद्वय एव विदितः । श्रीव्रजदेवीनां यथा, आसामहो [भागवतम् १०.४७.६१] इत्यादौ । या दुस्त्यजमित्यादि । तत्र च विवरणम् तं गोरजश्छुरितकुन्तलबद्धबर्ह वन्यप्रसूनरुचिरेक्षणचारुहासम् । वेणुं क्वणन्तमनुगैरुपगीतकीर्तिं गोप्यो दिदृक्षितदृशोऽभ्यगमन् समेताः ॥ पीत्वा मुकुन्दमुखसारघमक्षिभृङ्गैस् तापं जहुर्विरहजं व्रजयोषितोऽह्नि । तत्सत्कृतिं समधिगम्य विवेश गोष्ठं सव्रीडहासविनयं यदपाङ्गमोक्षम् ॥ [भागवतम् १०.१५.४२४३} इत्यादि स्पष्टम् । ॥ १०.१५ ॥ श्रीशुकः ॥ ३१५ ॥ [३१६] अथ प्रायः सर्वासां ते चतुर्विधाः उद्भास्वरसात्त्विकालङ्कार वाचिकाख्याः । तत्रोद्भास्वरा उक्ताः नीव्य्उत्तरीयधम्मिल्लस्रंसनं गात्रमोटनम् । जृम्भा घ्राणस्य फुल्लत्वं निश्वासाद्याश्च ते मताः ॥[ऊण्१०.७०] इति । यथा तद्अङ्गसङ्गप्रमुदाकुलेन्द्रियाः केशान् दुकूलं कुचपट्टिकां वा । नाञ्जः प्रतिव्योढुमलं व्रजस्त्रियो विस्रस्तमालाभरणाः कुरूद्वह ॥ [भागवतम् १०.३३.१७] इत्यादि । (पगे १२९) [३१७] सात्त्विकाः तत्रैकांसगतं बाहुं कृष्णस्योत्पलसौरभम् । चन्दनालिसमाघ्राय हृष्टरोमा चुचुम्ब ह ॥ [भागवतम् १०.३३.१२] स्पष्टम् । ॥ १०.३३ ॥ श्रीशुकः ॥ ३१७ ॥ [३१८] निर्विकारात्मके चित्ते भावः प्रथमविक्रिया ॥ ऊण्११.६] । स यथा चित्तं सुखेन भवतापहृतं गृहेषु [भागवतम् १०.२९.३४] इत्यादि । स्पष्टम् । ॥ १०.२९ ॥ श्रीगोप्यः ॥ ३१८ ॥ [३१९] ग्रीवारेचकसंयुक्तो भ्रूनेत्रादिविकाशकृत् । भावादीषत्प्रकाशो यः स हाव इति कथ्यते ॥ [ऊण्११.९] इति । स यथा श्रीलक्ष्मणास्वयंवरे उन्नीय वक्त्रमुरुकुन्तलकुण्डलत्विड् गण्डस्थलं शिशिरहासकटाक्षमोक्षैः । राज्ञो निरीक्ष्य परितः शनकैर्मुरारेर् अंसेऽनुरक्तहृदया निदधे स्वमालाम् ॥ [भागवतम् १०.८३.२९] इति । ॥ १०.८३ ॥ सैव ॥ ३१९ ॥ [३२०] एवं हाव एव भवेद्धेला व्यक्तशृङ्गारसूचकः [ऊण्११.११] इति लक्षणानुसारेण हेलाप्युदाहार्या । सा शोभा रूपभोगाद्यैर्यत्स्याद् अङ्गविभूषणम् [ऊण्११.१३] । सा यथा तासामतिविहारेण [भागवतम् १०.३३.२१] इत्यादि, गोप्यः स्फुरत्पुरटकुण्डल कुन्तलत्विड्गुणश्रिया सुधितहासनिरीक्षणेन [भागवतम् १०.३३.२२] [३२१] माधुर्यं नाम चेष्टानां सर्वावस्थासु चारुता [ऊण्११.१९] । तद्यथा काचिद्रासपरिश्रान्ता पार्श्वस्थस्य गदाभृतः । जग्राह बाहुना स्कन्धं श्लथद्वलयमल्लिका ॥ [भागवतम् १०.३३.११] स्पष्टम् ॥ ॥ १०.३३ ॥ श्रीशुकः ॥ ३२१ ॥ [३२२] निःशङ्कत्वं प्रयोगेषु बुधैरुक्ता प्रगल्भता ॥ [ऊण्११.२१] सा च तत्रैकांसगतं बाहुम् [भागवतम् १०.३३.११] इत्यादौ दर्शिता । औदार्यं विनयं प्राहुः सर्वावस्थागतं बुधाः । [ऊण्११.१५] तद्यथामृगयुरिव कपीन्द्रम् [भागवतम् १०.४७.१७] इत्यादौ दुस्त्यजस्तत् कथार्थः इति । स्पष्टम् । ॥ १०.४७ ॥ सैव ॥ ३२३ ॥ [३२४] एवं शोभैव कान्तिराख्याता मन्मथाप्यायनोज्ज्वला ॥ [ऊण्११.१५] कान्तिरेव वयोभोगदेशकालगुणादिभिः । उद्दीपितातिविस्तारं प्राप्ता चेद्दीप्तिरुच्यते ॥ [ऊण्११.१७] इत्यनुसारेण कान्तिदीप्ती अप्युदाहार्ये । प्रियानुकरणं लीला रम्यैर्वेशक्रियादिभिः । [ऊण्११.२८] तस्यां वेश क्रियया तच्चेष्टानुकरणं यथा अन्तर्हिते भगवति [भागवतम् १०.३०.१] इत्याद्यनन्तरं गत्यानुरागस्मित [भागवतम् १०.३०.२] इत्यादि ॥(पगे १३०) [३२५] तास्ताः बाहुप्रसारा [भागवतम् १०.२९.४६] इत्यादिनोक्तास्तदीयलीला इत्यर्थः । पश्चादावेशेन रूपं तद्अभेदभावनारूपम् । गतिस्मितप्रेक्षण भाषणादिषु [भागवतम् १०.३०.३] इत्यादि । एवं स्वविलासरूपां लीलामुद्भाव्यापि तासां निजो भावो निगूढं तिष्ठत्य् एव, यथा वक्ष्यते यतन्त्युन्निदधेऽबरम् [भागवतम् १०.३०.२०] इत्यत्र यतन्तीति । अथैतदग्रेऽपि कालक्षेपार्थं या लीला याभिर्गातुं प्रवर्तिताः प्रेमावेशेन ता लीला एव तास्वाविष्ठा इति तत्तद्अनुकरणविशेषे हेतुर् ज्ञेयः । एतद्अनुकरणं च प्रायो न लीलाशब्दवाच्यम् । बाल्यादि रूपस्यानालम्बनत्वेनोज्ज्वलरसाङ्गत्वाभावात् । तत्र पूतनादीनां प्रीति मात्रविरोधिभावानामपि तथा श्रीकृष्णजनन्य्आदीनां निजप्रीति विशेषविरोधिभावानामपि चेष्टानुकरणं श्रीकृष्णानुकर्त्रीणां गोपिकानां सखीभिस्तासां विरहकालक्षेपाय तत्तद्भावपोषार्थं कृत्रिमतयिवाङ्गीकृतं, न तु तत्तद्भावेनेति समाधेयम् । केचिच्चैवं व्याचक्षते, पूतनावधलीलास्मरणावेशे सति कासाञ्चित्पूतनानुकरणम् अपि श्रीकृष्णानिष्ठाशङ्कया भयेनैव भवति । यथा लोकेऽपि आत्म निष्ठाशङ्कया भयोन्मत्तस्य तद्भयहेतुव्याघ्राद्य्अनुकरणं भवति । ततस्तद्अनुकरणेऽपि आत्मनीव श्रीकृष्णे प्रीतिरेवोल्लसति न तु द्वेषः । सा प्रीतिर्यथात्मनि तद्रूपतयैव तिष्ठति तथैव तासां श्री कृष्णेऽपि स्वभावोचितैवानुवर्तते । ततः बद्धान्यया स्रजा काचिद्[भागवतम् १०.३०.२३] इत्यादौ श्रीयशोदानुकरणं च तथैव मन्तव्यम् । पूर्वं हि दामोदरलीलास्मरणावेशेन तस्याः श्री कृष्णभावः । ततश्च वक्त्रं निनाय भयभावनया स्थित्स्य [भागवतम् १.८.३१] इत्य्उक्तरीत्या श्रीयशोदातो भयमपि जातम् । बाल्यस्वभावानुस्मरणेन तद्अनुकरणं च । ततश्च सैव स्वयमन्यां काञ्चीतल्लीलावेशेनैव कृष्णायमानां च बबन्ध । तथापि पूर्ववत्स्वभावोचितैव प्रीतिस्तस्याम् अन्तर्वर्तत एव । सा हि प्रीतिस्तत्तद्भावस्य परमाश्रयरूपा । ततो बहिर् एव तत्तद्अनुकरणात्श्रीयशोदाभावस्य च मध्ये श्रीकृष्णभाव व्यवधानेन निजभावास्पर्शान्न विरोध इति । ॥ १०.३० ॥ श्रीशुकः ॥ ३२५ ॥ [३२६] गतिस्थानासनादीनां मुखनेत्रादिकर्मणाम् । तात्कालिकं तु वैशिष्ट्यं विलासः प्रियसङ्गजम् ॥ [ऊण्११.३१] स यथा तं विलोक्यागतं प्रेष्ठं प्रीत्य्उत्फुल्लदृशोऽबलाः [भागवतम् १०.३२.३] इति स्पष्टम् । ॥ १०.३२ ॥ सः ॥ ३२६ ॥ [३२७] गर्वाभिलाषरुदितस्मितासूयाभयक्रुधाम् । सङ्करीकरणं हर्षादुच्यते किलकिञ्चितम् ॥[ऊण्११.४४] तद्यथा तस्य तत्क्ष्वेलितं श्रुत्वा बालाः प्रेमपरिप्लुताः [भागवतम् १०.२२.१२] इत्य् आदि, एवं ब्रुवति गोविन्दे [भागवतम् १०.२२.१३] इत्यादि, मानयं भोः कृथा [भागवतम् १०.२२.१४] इत्यादि, श्यामसुन्दर ते दास्यः [भागवतम् १०.२२.१५] इत्याद्यन्तम् । स्पष्टम् । ॥ १०.२२ ॥ सः ॥ ३२७ ॥ [३२८] वल्लभप्राप्तिवेलायां मदनावेशसम्भ्रमात् । विभ्रमो हारमाल्यादिभूषास्थानविपर्ययः ॥ [ऊण्११.३९] स यथा व्यत्यस्तवस्त्राभरणाः काश्चित्कृष्णान्तिकं ययुः [भागवतम् १०.२९.७] इति । (पगे १३१) इष्टेऽप्य्गर्व मानाभ्यां बिब्बोकः स्यादनादरः [ऊण्११.५२] । स च एका भ्रूकुटिमाबध्य [भागवतम् १०.३२.६] इत्यादावुदाहरिष्यते । विन्यासभङ्गिरङ्गानां भ्रूविलासमनोहराः । सुकुमारा भवेद्यत्र ललितं तद्उदीरितम् । [ऊण्११.५६] । तच्च पूर्वत्रैव ज्ञेयम् । ॥ १०.३२ ॥ सः ॥ ३२८ ॥ [३२९] कान्तस्मरणवार्तादौ हृदि तद्भावभावतः । प्राकट्यमभिलाषस्य मोट्टायितमुदीर्यते ॥ [ऊण्११.४७] तच्च कृष्णं निरीक्ष्य वनितोत्सव [भागवतम् १०.२१.१२] इत्यादावेव ज्ञेयम् । ह्रीमानेर्ष्यादिभिर्यत्र नोच्यते स्वविवक्षितम् । व्यज्यते चेष्टयैवेदं विकृतं तद्विदुर्बुधाः ॥ [ऊण्११.५८] तद्यथा परिधाय स्ववासांसि प्रेष्ठसङ्गमसज्जिताः । गृहीतचित्ता नो चेलुस्तस्मिन् लज्जायितेक्षणाः ॥ [भागवतम् १०.२२.२३] स्पष्टम् । ॥ १०.२२ ॥ सः ॥ ३२९ ॥ [३३०] आकल्पकल्पनाल्पापि विच्छित्तिः कान्तिपोषकृत् ॥ [ऊण्११.३४] स्तनाधरादिग्रहणे हृत्प्रीतावपि सम्भ्रमात् । बहिः क्रोधो व्यथितवत्प्रोक्तं कुट्टमितं बुधैः ॥ [ऊण्११.४९] एवमित्यनुसारेण विच्छित्तिकुट्टुमिते अपि ज्ञेये । अथ वाचिकाः । तत्र चाटुप्रियोक्तिरालापः [ऊण्११.८०] । स यथा का स्त्र्य् अङ्ग ते कलपदायतमूर्च्छितेन [भागवतम् १०.२९.४०] इत्यादि । स्पष्टम् । ॥ १०.२९ ॥ श्रीगोप्यः ॥ ३३० ॥ [३३१] विलापो दुःखजं वचः [ऊण्११.८३] । स यथा परं सौख्यं हि नैराश्यं [भागवतम् १०.४७.४७] इत्यादि । स्पष्टम् । ॥ १०.४७ ॥ ताः ॥ ३३१ ॥ [३३२] उक्तिप्रत्युक्तिमद्वाक्यं संलाप इति कीर्त्यते [ऊण्११.८५] । स यथास्वागतं वो महाभागाः [भागवतम् १०.२९.१८] इत्यादिकम् । व्यक्तं भवान् व्रजभयार्ति हरोऽभिजातः [भागवतम् १०.२९.४१] इत्याद्य्अन्तम् । अत्र श्रीकृष्णवाक्येषु प्रथमोऽर्थस्तासु वेण्व्आदिमोहितास्वपि वाम्यम् आचरन्तीषु सङ्गप्रार्थनारूपः । द्वितीयस्तु परिहासाय तद्भाव परीक्षणाय च तद्आगमनकारणस्वसङ्गप्रत्याख्यानरूपः । तथैव तासां वाक्येष्वपि तत्प्रार्थनाप्रत्याख्यानरूपः । अतएव पारस्परिक समानवैदग्धीमयत्वादतितरां रसः पुष्यते । स्वागतमिति उभयत्र समानमेव । रजन्येषा । यदि कथञ्चिदागता एव तदाधुना तु रजन्या घोररूपादित्वात्व्रजं प्रति न यात, यातुं नार्हथ । किन्तु स्त्रीभिर्युष्माभिरिह मम वीरस्य सन्निधावेव स्थेयं स्थातुं योग्यमिति । सुमध्यमा इति पुनर्गमने खेदमपि दर्शितवान् । न च मत्सन्निधाववस्थाने बन्धुभ्यो भेतव्यमित्याह मातरः [भागवतम् १०.२९.२०] इति । बन्धुभ्यः साध्वसं मा कृढ्वं यतस्ते मात्रादयो बन्धवो रात्रावस्मिनपश्यन्त एव विचिन्वन्ति । ततो नास्ति तेषाम् अत्रागमनसम्भावनेति भावः । पुत्रा देवरंमन्यादिपुत्राः सपत्न्यादिपुत्रा वा । निजारामदर्शनया तासां भावमुद्दीपयति दृष्टं वनं [भागवतम् १०.२९.२१] इति । निगमयति तद्यात [भागवतम् १०.२९.२२] इति यस्माद्रजन्येषा घोररूपा इत्य् आदिको हेतुः, तत्तस्माच्चिरकालं व्याप्य घोषं मा यात । अचिरमधुनैव मा यातेति वा । ततस्तत्र गत्वा पतीन् युष्मत्पतित्वेन क्प्तां तानपि मा शुश्रूषध्वम् । हे सतीः सत्यः परमोत्तमाः । ये च वत्सादयस्ते च मा क्रन्दन्ति (पगे १३२) ततस्तान्मा पाययत तद्अर्थं मा दुह्यत चेति । यदि स्वयमेव भवत्यो मद्अनुरागेणैवागता न तत्र मत् प्रार्थनापेक्षापि, तदा तदतीव युक्तमाचरितमित्याह अथवा [भागवतम् १०.२९.२३] इति । मम मयि । यदि जन्तुमात्राण्येव मयि प्रीयन्ते तदा भवतीनां कामिनीनां कान्तभावात्मक एव सः स्नेहो भवेदिति भावः । ननु भर्तृशुश्रूषणपरित्यागे स्त्रीणां दोषस्तत्राह भर्तुः शुश्रूषणं [भागवतम् १०.२९.२४] इति । अमायया यो भर्ता तस्यैव शुश्रूषणं परो धर्मः । तथा तद्बन्धूनां च । युष्माकं तु अनुपभुक्तात्वेन लक्ष्यमाणानां दाम्पत्यव्यवहाराभावात्केनापि माययैव तत्कल्पितमिति लक्ष्यते । ततो न दोष इति भावः । अङ्गीकृत्यापि पतित्वं प्रकारान्तरेण तत्सेवां स्मृतिवाक्यद्वारापि परिहरति दुःशीलः [भागवतम् १०.२९.२५] इति । अपातक्येव न हातव्यः । ते तु पातकिन एवेति सासूयो भावः । अपातकित्वाङ्गीकारमाशङ्क्य छलेन स्मृतिवाक्यान्तरमन्यार्थतया व्यञ्जयन्नपि तत्सेवां प्रत्याचष्टे अस्वर्ग्यम् [भागवतम् १०.२९.२६] इति । उप समीपे पतिर्यस्याः सा उपपतिस्तस्या भाव औपपत्यं पतिसामीप्यमित्य् अर्थः । तत्खल्वस्वर्ग्यादिति । अथ मय्यपि जातो भावः क्लेशायैव भवतीत्याशङ्क्यापि मा पराङ्मुखीभवतेत्याह श्रवणाद्[भागवतम् १०.२९.२७] इति । यथा श्रवणादिना मद्भावो मद्अप्राप्त्या दुःखमयस्तथा सन्निकर्षेण मत्प्राप्त्या न भवति । ततस्तस्माद्गृहान् गृहसदृशान् कुञ्जान् प्रति यात प्रविशत । पर्युदासोऽत्र नञिति । तदेवं श्रीकृष्णवाक्यस्य प्रार्थनारूपोऽर्थो व्याख्यातः । अर्थान्तरं तु प्रसिद्धम् । तत्र पुत्रा इति सपरिहासदोषोद्गारेणापि प्रत्याख्यानम् । अथ तादृशकृष्णवाक्यश्रवणानन्तरं तासामवस्थावर्णनमिति विप्रियमाकर्ण्य [भागवतम् १०.२९.२८] इत्य्आदिभिस्त्रिभिः । अर्थद्वितयस्यैव तर्केण तद्अभिप्रायनिश्चयाभावादुत्कण्ठास्व्याभाव्येन प्रत्याख्यानस्यैव सुष्ठु स्फुरितत्वात्तद्वाक्यस्य विप्रियत्वं तासां विषादादिकं च । तत्रोभयत्रापि चिन्ताया युक्तत्वात्मुखनमनादिचेष्टास्व् अपि न रसभङ्गः । पदा भ्रूलेखनं चात्र नायिकया स्वयमभियोगेऽप्य् उक्तमस्ति । अथ तासामपि तद्अनुरूपं वाक्यं मैवं [भागवतम् १०.२९.३१] इत्यादि । मेति तत् प्रार्थनानिराकरणे सर्वविषयान् पतिपुत्रादीन् सन्त्यज्य यास्तव पाद मूलं भक्तास्ता एव दुरवग्रहं निरर्गलं यथा स्यात्तथा भजस्व । पादमूलमिति तासु निजोत्कर्षख्यापनम् । अस्मान् पुनरतथाभूताना सम्यग्दर्शनप्रसङ्गादिष्वपि त्यज । तत्रान्यासां भजने स्वेषां त्यागे च सद्आचारं दृष्टान्तयति देव इति । स हि त्यक्तविषयकर्मादितया स्वं भजतो मुमुक्षूनेव भजति नान्यानिति । अथ शास्त्रार्थद्वारा तद्उपदेशं निराकुर्वन्ति यत्पत्य्अपत्य [भागवतम् १०.२९.३२] इति । स्वधर्मः सुष्ठु अधर्मः । धर्मविदेति सोपहासम् । उक्तं छलेन प्रतिपादितम् । भर्तुः शुश्रूषणमित्यादावन्यथा योजनाभिप्रायात् । एतदधर्मनिराकरणोपदेशवाक्यम् । तत्पदे उपदेष्टरि ईशे स्वतन्त्राचारे त्वय्येवास्तु त्वमेवाधर्मान्निवर्तस्व इत्य् अर्थः । ततो युष्माकं किमित्यत आहुः प्रेष्ठ इति । बन्धुरात्मा सुन्दर स्वभावो भवान् प्राणिमात्राणां किल प्रेष्ठः । ततस्तेनैव सर्वे वयः मङ्गलिनः स्यामेत्यर्थः । अथवा मद्अभिस्नेहादित्यादिकं निराकुर्वन्ति कुर्वन्ति हि [भागवतम् १०.२९.३३] इति । आर्तिं द्यन्ति छिन्दन्ति इति तादृशैः पत्यादिभिर्हेतुभूतैः स्वे (पगे १३३) आत्मनि देहादौ नित्यप्रिये सति याः कुशला भवन्ति ताः किं त्वयि रतिं कान्तभावं कुर्वन्ति अपि तु नैवेत्यर्थः । तत्तस्मात्नोऽस्मभ्यं प्रसीद इमं दुराग्रहं त्यजेत्यर्थः । तत्र वरदेश्वरेति सोपलम्भं सम्बोधनम् । एष एव वरोऽस्मभ्यं दीयतामिति बोधकम् । तदेव व्यञ्जयन्ति त्वयि चिराद्धृता अवस्थिता या आशा तृष्णा तां व्याप्य वयं मा स्म मा भवाम । तस्यां त्वन्मनःस्थितायां तृष्णायां वयम् उदासीना एव भवाम इत्यर्थः । ततस्तां छिन्द्या इति । अरविन्दनेत्रेति । एतादृशेऽपि नेत्रे कौटिल्यं न युक्तमिति भावः । मा स्मेत्यस्तेर्मायोगे लङि रूपम् । आशायाः कर्मत्वं च गोदोहमस्तीतिवत् । श्रवणाद्दर्शनादित्यादिसूचितं निजभावजन्मापलपन्ति चित्तम् [भागवतम् १०.२९.३४] इति । नोऽस्माकं चित्तं सुख एव वर्तते न तु भवता तस्मादपहृतम् । यस्माग्गृहेषु निर्विशति । तत्र चिह्नं करावपि गृहकृत्यार्थं निर्विशत इति । यदुक्तं सुमध्यमा इति तत्राहुः पादौ कथं तव पादमूलात्पदमपि न चलतः । ततः कथं व्रजं न यामः, अपि तु याम एवेत्यर्थः । यत्तूक्तं व्रजं प्रति न यात किं त्विहैव स्थीयतामिति तत्राहुः करवाम किं वेति । अगृहान् प्रतियातेति सतृष्णं यदुक्तं तत्राहुः सिञ्च [भागवतम् १०.२९.३५] इति । अङ्ग, हे कामुक, नोऽस्माकं स्वाभाविकाथासावलोककसहितात्कलगीताज्जातो यस् तव हृच्छयाग्निस्तं त्वद्अधरामृतपूरकेणैव सिञ्च । अस्मदीयस्य तस्य कथञ्चिदप्राप्यत्वादिति । अन्योऽपि रसलुब्धो लोभ्यवस्तुनोऽप्राप्तौ निजौष्ठमेव लेढीति नर्म च व्यञ्जितम् । तत्र हेतुमाह नो इति । धत्ते पदं त्वमविता यदि विघ्नमूर्ध्नि [भागवतम् १०.४.१०] इत्य्आदिवतत्र चेच्छब्दोऽपि निश्चये । ततश्च यस्मात्निश्चितमेव वयं ते तव विरहजाग्न्य्उपयुक्तदेहा नो भवामः । ततो ध्याने विषयेऽपि तव पदयोः पदवीमपि न यामः न स्पृशामः । सखे इति सम्बोध्य प्राचीनमिथोबाल्यक्रीडागतसौहृद्यप्रकटनेन निजवचस आर्जवं प्रकटितवत्यः । ननु सख्येन बाल्यक्रीडायामपि स्पर्शादिकं जातमेवास्ति तर्हि कथम् अहो इदानीमुदासीनाः स्थ । तत्राहुः यर्हि [भागवतम् १०.२९.३६] इति । हे अम्बुजाक्ष अरण्यजनाः पशुपक्ष्य्आदयस्तेषां प्रियस्य बाल्यभावेन तैरेव कृत मैत्रस्य तव यर्हि यदा क्वचिदपि रमाया रमण्या दत्तावसरं पाद तलं जातं, तद्अनुगतावुन्मुखं बभूवेत्यर्थः । तत्प्रभृत्येव वयं तदपि नास्प्राक्ष्म न स्पृष्टवत्यः । किमुतान्यदङ्गम् । तदेवं निज दाढ्येनैव पूर्वं त्वयाभिरमिताः कारितबाल्यक्रीडा अपि वयमधुना अञ्जसः अनायासेन अन्येषां गुरुजनादीनां समक्षं स्थातुं पारयामः । बतेति शङ्कायाम् । अन्यथा तैरपि त्यज्येमहीति भावः । अथ प्रीयन्ते मयि जन्तवः इत्यत्र कामिन्यो यूयं कान्तभावात्मकमेव स्नेहं कर्तुमर्हथेति यदभिप्रेतं तत्र लक्ष्म्य्आदिरूपमुदाहरणम् आशङ्क्य परिहरन्ति श्रीर्[भागवतम् १०.२९.३७] इति । श्रीरपि वक्षसि तथा प्रसिद्धेः श्रीविष्णोरुरसि पदं लब्ध्वापि यस्य तव श्रीगोकुलवृन्दावनस्थितं पदाम्बुजरजस्तुलस्या वृन्दया सह चकमे । त्वज्जन्मत आरभ्य नन्दस्य व्रजो रमाक्रीडो बभूवेति तुलसीलक्षणरूपान्तरा वृन्दादेवी वृन्दावने नित्यवासमकरोदिति च मुनिजनप्रसिद्धेः । कथम्भूतम् अपि रजश्चकमे । भृत्यैर्व्रजसम्बन्धिभिर्जुष्टं शिरो धारणादिनोपभुक्तमपि । सा तु कीदृङ्महिमापि । यस्याः स्वविषयक (पगे १३४) कृपावीक्षणे उत अपि । अन्यसुराणां तत्पार्षदादीनामपि प्रयासस्तादृशमहिमापि । वयं चेति चशब्दः काकुसूचकस्यापिशब्दस्य समानार्थः । ततो यथा श्रीर्यथा च वृन्दा तद्वद्वयमपि मुघ्दाः सत्यः तस्य तव पादरजः प्रपन्नाः अपि तु नैवेत्यर्थः । प्राक्तनं वाक्यं निगमयन्ति तन्नः [भागवतम् १०.२९.३८] इति । वृजिनार्दनेति कर्मण्यनेव । हे सर्वदुःखनिवारक, ततस्तस्मात्नोऽस्मान् प्रति प्रसीद इमां दुर्दृष्टिं त्यजेत्यर्थः । ननु यूयमपि गृहादि त्यागेनात्रागत्य तद्वदेव मत्पादरजः प्रपन्नाः तत्राहुः न तेऽङ्घ्रि मूलमिति । तद्वदसतोर्विसृज्य त्वद्उपासनाशाः सत्यस्तवाङ्घ्रिमूलं न प्राप्ता अपि तु कौतुकेनैव ज्योत्स्नायां वृन्दावनदर्शनार्थमागता इत्य् अर्थः । अतस्त्वदीयतादृशनिरीक्षणजाततीव्रकामेन तप्तात्मानो यास्तासामेव दास्यं देहि न तु मादृशीनाम् । अत्र षष्ठी चात्यन्तदानाभावे सम्प्रदानत्वं न भवतीति विवक्षया । अतस्तदपि दानं गोकुलेऽस्मिन्नातिस्थिरीभविष्यतीति भावः । पुरुषभूषणेति सम्बोधनं च श्लिष्टम् । पुरुषान् गोकुलगतान् सखि जनानेव भूषयति न त्वद्यापि गोकुलरमणीं काञ्चिदपि । अतस्तादृश तप्तात्मानोऽपि नायिकाः कल्पनामात्रमय्य इति भावः । अत्र भावान्तरेणागतिसूचनात्दृष्टं वनं कुसुमितम् [भागवतम् १०.२९.२१] इत्यनेन तद्भावोद्दीपनमपि नादृतम् । अथ श्रवणाद्[भागवतम् १०.२९.२७] इत्यादौ दर्शनान्मयि भावः इत्यनेन यन् निजसौन्दर्यबलं दर्शितं तत्राहुः वीक्ष्य [भागवतम् १०.२९.३९] इति । अत्राप्य् अन्त्यश्चशब्दः काक्वाम् । पूर्वस्तु तत्तद्उक्तसमुच्चये । एतदपि एतच् चापि विलोक्य दास्यो भवाम, अपि तु न सर्वथैव इत्यर्थः । ननु यद्येवं दृढव्रता भवत तर्हि कथमिहैव सर्वां रात्रिं न तिष्ठथेत्याशङ्क्य पुनः सशङ्कमाहुः का स्त्र्यङ्ग ते [भागवतम् १०.२९.४०] इति । यद्यप्येव तथापि अङ्ग हे कलपदायतवेणुगीत, हे सम्मोहित सम्मोहनाख्यकामबाणमोहित, त्रिलोक्यामेषा का स्त्री या ते त्वत्तः सकाशातार्यचरितात्सद्आचाराद्धेतोरपि न चलेत् । अस्त्वस्माकं परम साधुमर्यादाव्रतानां दूरतो वार्ता । तदेवं ततश्चलने हेतुं सम्बोधनद्वयेन गुणगतं भावगतं च तदीयं दोषमुक्त्वा रूपगतं चाहुः त्रैलोक्येति । तथा आर्यचरितादेव हेतोरिदं च रूपं विलोक्य का न चलेत् । यत्यस्मात्गोद्विजेति । सुन्दरीणां सुन्दरपरपुरुषनिकटस्थितिर्हि बाढं लोकविगानाय स्यादिति । रजन्येषा [भागवतम् १०.२९.१९] इत्यादौ इह वीरस्य मम सन्निधौ स्थेयमित्य् अत्र बलाकारमप्याशङ्क्य सस्तुतिकमिव प्रार्थयन्ते व्यक्तं भवान् [भागवतम् १०.२९.४१] इति । यस्मादीदृशो जातस्तस्माथे आर्तबन्धो धर्मच्युति भयतोऽपि व्रजजनांस्त्रायमाण, किङ्करीणां गृहदासीनामपि भवद् दर्शनजातकामतप्तेष्वपि स्तनेषु करपङ्कजं नो निधेहि नार्पय । अस्तु तावत्स्तनानां वार्ता तासां शिरःसु च मा निधेहि । तदेवं सति मादृशीनां तु सत्कुलजातानां परमसतीनां तत्तद्वार्तां मनसापि न निधेहीति भावः । तदेवं श्रीकृष्णप्रार्थनाप्रत्याख्यान रूपोऽर्थो व्याख्यातः । स्वयं दूत्यविशेषेण प्रार्थनारूपो व्यङ्गोऽर्थश् च प्रायः प्रसिद्ध एव । तत्र धर्मशास्त्रोपदेशबलेन यत्पत्य्आदीनाम् अनुवृत्तेर्नित्यत्वं श्रीभगवता स्थापितं ज्ञानशास्त्रमालम्ब्य तन् निराकर्तुं प्रतिभावचलनेनैव तस्य परमात्मतत्त्वं कल्पयन्त्यः सर्वोपदेशानां तद्अनुगतावेव तात्पर्यं स्थापयन्ति यत्पत्य्अपत्य [भागवतम् १०.२९.३२] इति । एतत्स्वधर्मोपदेशवाक्यं सर्वोपदेश(पगे १३५)वाक्यानां तात्पर्यास्पदे त्वय्येवास्तु । त्वद्भजन एव पर्यवस्यत्वित्यर्थः । कथम् अहं तद्आस्पदम् । तत्राहुः त्वमात्मा परमात्मेति । ततः तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति [Bआऊ ४.४.२२] इत्य्आदिशास्त्रबलेन त्वमेव तद्आस्पदमित्यर्थः । अथ मम परमात्मत्वमपि कुतः ? तत्र सप्रतिभमाहुः किल प्रसिद्धौ तनुभृतां प्रेष्ठः निरुपाधिप्रेमास्पदं बन्धुर् निरुपाधिहितकारी च भवानिति । तच्च द्वयं परमात्मलक्षणत्वेन आत्मनस्तु कामाय सर्वं प्रियं भवति [Bआऊ २.४.५] इत्यादिज्ञानशास्त्रे प्रसिद्धम् । तस्मात्त्वमेव परमात्मेति सिद्धम् । तस्मात्त्वद् उपासनोन्मुखानामस्माकं ब्राह्मणो निर्वेदमायात्, नास्त्यकृतः कृतेन [ंुण्डकऊ १.२.१२] इति बलवत्तरज्ञानशास्त्रोपदेशेन स्वधर्म परित्यागेऽपि न दोष इति भावः । तासां तद्ऐश्वर्यज्ञानं च तन् माधुर्यानुभवातिशयेनोदेतुं न शक्नोतीति पूर्वमेव दर्शितम् । तत्र च विशेषतः सद्आचारं प्रमाणयन्ति कुर्वन्ति हि [भागवतम् १०.२९.३३] इति । कुशलाः सारासारविद्वंसः सन्तः । हि प्रसिद्धौ । विशेषत इत्यर्थः । स्व आत्मनि परमात्मनीति पूर्वाभिप्रायेण । स्वे आत्मनि अन्तःकरणे नित्य प्रियत्वेनानुभूयमानो यस्त्वं तस्मिंस्त्वयीत्यर्थः । इत्यभिप्रायेणवा । यस्मात्ते चैवम्भूते त्वय्येव रतिं कुर्वन्ति न तु धर्मादौ तद्धेतौ गृहादौ वा । तस्मादस्माकं पत्य्आदिभिः किम् ? यर्ह्यम्बुजाक्ष [भागवतम् १०.२९.३६] इत्य् आदिषु रमादिशब्दाः श्रीर्यत्पदाम्बुजेत्यादिवदेव व्याख्येयाः । इति वाचिकानुभावेषु संलापव्याख्या । ॥ १०.२९ ॥ श्रीशुकः ॥ ३३२ ॥ [३३३] सन्देशस्तु प्रोषितस्य स्ववार्ताप्रेषणं भवेत्[ऊण्११.९३] । स यथा हे नाथ हे रमानाथ व्रजनाथार्तिनाशन । मग्नमुद्धर गोविन्द गोकुलं वृजिनार्णवात् ॥ [भागवतम् १०.४७.५२] [३३४] अन्यार्थकथनं यत्तु सोऽपदेश इतीरितः [ऊण्११.९७] । स यथानिःस्वं त्यजन्ति गणिकाः [भागवतम् १०.४७.७८] इत्यादि जारा भुक्ता रतां स्त्रियमित्यन्तम् । स्पष्टम् । ॥ १०.४७ ॥ श्रीगोप्य उद्धवम् ॥ ३३४ ॥ [३३५] यत्तु शिक्षार्थवचनमुपदेशः स उच्यते [ऊण्११.९९] । स यथा बलदेवागमने किं नस्तत्कथया गोप्यः कथाः कथयतापराः । यात्यस्माभिर्विना कालो यदि तस्य तथैव नः ॥ [भागवतम् १०.६५.१४] स्पष्टम् । ॥ १०.६५ ॥ ताः ॥ ३३५ ॥ [३३६] व्याजेनात्माभिलाषोक्तिर्व्यपदेश इतीर्यते [ऊण्११.१०३] । स यथाकृष्णं निरीक्ष्य [भागवतम् १०.२१.१२] इत्यादौ देव्यो विमानगतयः स्मरनुन्नसाराः इत्य् आदि । स्पष्टम् । ॥ १०.२१ ॥ ताः ॥ ३३६ ॥ [३३७] एवं प्रलापानुलापापलापादिदेशनिर्देशा अपि पञ्च वाचिकेषु ज्ञेयाः । इत्य् अनुभावाः । अथ व्यभिचारिणः । अत्र निर्वेदः सावमाने स्यात्चरणरज उपास्ते यस्य भूतिर्वयं का [भागवतम् १०.४७.१५] इति । स्पष्टम् । ॥ १०.४७ ॥ ताः ॥ ३३७ ॥ [३३८] अनुतापो विषादकः अक्षण्वतां फलम् [भागवतम् १०.२१.७] इत्यादौ दृश्यः । दैन्यमौर्जित्यराहित्ये तन्नः प्रसीद वृजिनार्दन [भागवतम् १०.२९.३८] इत्यादि । स्पष्टम् । ॥ १०.२१ ॥ ताः ॥ ३३८ ॥ [३३९] ग्लानिर्निष्प्राणता मता [Bऋष्२.४.२६] काचिद्रासपरिश्रान्ता [भागवतम् १०.३३.१०] इत्य् आदौ दर्शिता । स्वेदात्मा श्रमः तासां रतिविहारेण [भागवतम् १०.३३.२०] (पगे १३६) इत्यादि । [३४०] उल्लासे विवेकशमने मदः तद्अङ्गसङ्गप्रमदाकुलेन्द्रियाः [भागवतम् १०.३३.१८] इत्यादि । स्पष्टम् । ॥ १०.३३ ॥ श्रीशुकः ॥ ३४० ॥ [३४१] अन्यस्य हेलने गर्वः । तस्याः स्युरच्युत नृपा भवतोपदिष्टाः [भागवतम् १०.६०.४४] इत्यादि । स्पष्टम् । ॥ १०.६० ॥ श्रीरुक्मिणी ॥ ३४१ ॥ [३४२] शङ्का स्वानिष्ठतर्किते । अपि मय्यनवद्यात्मा दृष्ट्वा किञ्चिज्जुगुप्सितम् [भागवतम् १०.५३.२४] इत्यादि । स्पष्टम् । ॥ १०.५३ ॥ सा ॥ ३४२ ॥ [३४३] त्रासो भिया मनःक्षोभे क्रोशन्तं कृष्ण रामेति विलोक्य स्वपरिग्रहम् [भागवतम् १०.३४.२७] इति । स्पष्टम् । ॥ १०.३४ ॥ श्रीशुकः ॥ ३४३ ॥ [३४४] आवेगश्चित्तसम्भ्रमे दुहन्त्योऽभिययुः काश्चिद्दोहं हित्वा समुत्सुकाः [भागवतम् १०.२९.५] इत्यादि । स्पष्टम् । ॥ १०.२९ ॥ सः ॥ ३४४ ॥ [३४५] उन्मादो हृदयभ्रान्तौ गायन्त्य उच्चैरमुमेव संहता [भागवतम् १०.३०.४] इत्यादि । स्पष्टम् । ॥ १०.३० ॥ सः ॥ ३४५ ॥ [३४६] अपस्मारो मनोलये मयि ताः प्रेयसां प्रेष्ठे दूरस्थे गोकुलस्त्रियः । स्मरन्त्योऽङ्ग विमुह्यन्ति विरहौत्कण्ठ्यविह्वलाः ॥ [भागवतम् १०.४६.५] [३४७] व्याधिस्तत्प्रभवे भावे धारयन्त्यतिकृच्छ्रेण प्रायः प्राणान् कथञ्चन [भागवतम् १०.४६.६] इति । स्पष्टम् । ॥ १०.४६ ॥ श्रीभगवानुद्धवम् ॥ ३४६३४७ ॥ [३४८] मोहो हृन्मूढतात्मनि । निजपदाब्जदलैः [भागवतम् १०.३५.१७] इत्यादौ, कुज गतिं गमिता इत्यादि । स्पष्टम् । ॥ १०.३५ ॥ श्रीगोप्यः ॥ ३४८ ॥ [३४९] प्राणत्यागे मृतिः सास्मिन्नसिद्धवपुषां रतौ । अन्तर्गृहगताः काश्चित् [भागवतम् १०.२९.९] इत्यादौ श्रीकृष्णसन्दर्भे व्याख्याता । अन्यत्र कृष्णकृत्येभ्यो बलिनः क्लेशशङ्कया । आलस्यमचिकीर्षायां कृत्रिमं तेषु चोज्ज्वले ॥ तत्र कृष्णकृत्येभ्योऽन्यत्र तद्यथातद्अङ्गसङ्ग इत्यादौ केशान् दुकूलं कुचपट्टिकां वा । नाञ्जः तु प्रतिव्योढुमलं व्रजस्त्रियः [भागवतम् १०.३३.१७] इति । ॥ १०.३३ ॥ श्रीशुकः ॥ ३४९ ॥ [३५०] अथोज्ज्वले कृष्णसहितविहारकृत्येषु च कृत्रिमं तद्यथा न पारयेऽहं चलितुम् [भागवतम् १०.३०.३७] इत्यादि । स्पष्टम् । ॥ १०.३० ॥ श्रीराधा ॥ ३५० ॥ [३५१] जाड्यमप्रतिपत्तौ स्यात् तमागतं समाज्ञाय वैदर्भी हृष्टमानसा । न पश्यन्ती ब्राह्मणाय प्रियमन्यन्ननाम सा ॥ [भागवतम् १०.५३.३१] स्पष्टम् । ॥ १०.५३ ॥ श्रीशुकः ॥ ३५१ ॥ [३५२] व्रीडेत्याहु अधृष्टताम् । पत्युर्बलं शरासारैश्छन्नं वीक्ष्य सुमध्यमा । सव्रीडमैक्षत्तद्वक्त्रं भयविह्वललोचना ॥ [भागवतम् १०.५४.४] इदं भावसाङ्कार्येऽप्युदाहार्यम् । ॥ १०.५४ ॥ सः ॥ ३५२ ॥ [३५३] अवहित्ताकारगुप्तौ । सभाजयित्वा तमनङ्गदीपनम् [भागवतम् १०.३२.१५] इत्य् आदि । अत्र सम्भाजनादिना कोपाच्छादनम् । ॥ १०.३२ ॥ सः ॥ ३५३ ॥ (पगे १३७) [३५४] स्मृतिः प्राग्ज्ञातचिन्तने ताः किं निशाः स्मरति यासु तदा प्रियाभिर् वृन्दावने कुमुदकुन्दशशाङ्करम्ये । [भागवतम् १०.४७.४३] इत्यादौ दर्शिता । अहो वितर्क इत्युक्तः न लक्ष्यन्ते पदान्यत्र [भागवतम् १०.३०.३१] इत्यादि । ॥ १०.३० ॥ श्रीगोप्यः ॥ ३५४ ॥ [३५५] ध्यानं चिन्तेति भण्यते कृत्वा मुखान्यवशुचः [भागवतम् १०.२९.२९] इत्यादि । स्पष्टम् । ॥ १०.२९ ॥ श्रीशुकः ॥ ३५५ ॥ [३५६] मतिः स्यादर्थनिर्धारे त्वं न्यस्तदण्डमुनिभिर्गदितानुभाव आत्मात्मदश्च जगतामिति मे वृतोऽसि । [भागवतम् १०.६०.३९] इति । स्पष्टम् । ॥ १०.६० ॥ श्रीरुक्मिणी ॥ ३५६ ॥ [३५७] औत्सुक्यं समयाक्षमा निशम्य गीतं तद्अनङ्गवर्धनम् [भागवतम् १०.२९.४] इत्यादि । स्पष्टम् । ॥ १०.२९ ॥ श्रीशुकः ॥ ३५७ ॥ [३५८] औग्र्यं चान्त्ये कृत्रिमं क्वापि । यथा क्रूरस्त्वमक्रूरः [भागवतम् १०.३९.२१] इत्य् आदौ । तच्च क्वापि कृत्रिमं, यथा देहि वासांसि धर्मज्ञ नो चेद्राज्ञे ब्रुवामहे [भागवतम् १०.२२.१५] इति । स्पष्टम् । ॥ १०.२२ ॥ श्रीव्रजकुमार्यः ॥ ३५८ ॥ [३५९] अमर्षस्त्वसहिष्णुता । पतिसुतान्वय [भागवतम् १०.३१.१६] इत्यादौ कितव योषितः कस्त्यजेन्निशि ॥ इति । स्पष्टम् । ॥ १०.३१ ॥ श्रीगोप्यः ॥ ३५९ ॥ [३६०] असूयान्योदयद्वेषे तस्या अमूनि नः क्षोभम् [भागवतम् १०.३०.३०] इत्यादौ । चापल्यं चित्तलाघवे श्वो भाविनि त्वमजितोद्वहने [भागवतम् १०.५२.४१] इत्यादौ मां राक्षसेन विधिनोद्वह वीर्यशुल्कामिति । स्पष्टम् । ॥ १०.५२ ॥ श्रीरुक्मिणी ॥ ३६० ॥ [३६१] चेतोनिमीलने निद्रा एवं चिन्तयती बाला गोविन्दहृतमानसा । न्यमीलयत कालज्ञा नेत्रे चाश्रुकलाकुले ॥ [भागवतम् १०.५३.२६] स्वप्नः सुप्तिरितीर्यते । एष च ऊषादृष्टान्तेनानुमेयः । बोधो निद्रादि विच्छेद इति त्रिंशत्त्रयाधिकाःन्यमीलयत कालज्ञा नेत्रे इत्यनन्तरम् । [३६२] एवं वध्वाः प्रतीक्षन्त्या गोविन्दागमनं नृप । वाम ऊरुर्भुजो नेत्रमस्फुरन् प्रियभाषिणः ॥ [भागवतम् १०.५३.२७] तेन स्फुरणेन जजागारेत्यर्थः । ॥ १०.५३ ॥ श्रीशुकः ॥ ३६१३६२ ॥ [३६३] अथ कान्ताभावः स्थायी । तस्य च हेतुद्वयम् । श्रीकृष्णस्वभावो वामाविशेषस्वभावश्चेति । प्रथमो, यथा कान्यं श्रयीत तव पाद सरोजगन्धमाघ्राय [भागवतम् १०.६०.४२] इत्यादिषु । [३६४] उत्तरो, यथा नैवालीकमहं मन्ये वचस्ते मधुसूदन । अम्बाया एव हि प्रायः कन्यायाः स्याद्रतिः क्वचित् ॥ व्यूढायाश्चापि पुंश्चल्या मनोऽभ्येति नवं नवम् । बुधोऽसतीं न बिभृयात्तां बिभ्रदुभयच्युतः ॥ [भागवतम् १०.६०.४७४८] इति । यद्भवतोक्तमथात्मनोऽनुरूपम् [भागवतम् १०.६०.१७] इत्यादिकं तत्तव वाक्यं स्त्रीजातौ प्रायो नानृतं मन्ये । यत अम्बाया यथा क्वचिदेकत्र साल्व एव रतिर्जाता तथान्यस्याः कन्याया एकत्र रतिः प्रायः एव स्यात् । न तु नियमेन । किं च व्यूढाया अपि इति । यद्वा कन्याया अपि क्वचिदेकत्र रतिः स्यात् । प्राय इति साध्व्या एवेत्यर्थः । तत्र दृष्टान्तः अम्बाया (पगे १३८) इवेति । पुंश्चल्यास्तु व्यूढाया अपि मनो अवं नवमभ्येति । तस्मात्परम पुण्यशीलाया एव त्वयि स्वभावतो रतिर्भवेदिति भावः । ॥ १०.६० ॥ श्रीरुक्मिणी ॥ ३६४ ॥ [३६५] एष च स्थायी साक्षाद्उपभोगात्मकस्तद्अनुमोदनात्मकश्चेति द्विविधः । पूर्वः साक्षान्नायिकानाम् । उत्तरः सखीनाम् । उभयव्यपदेशानाम् उभावपि । तत्रोपभोगात्मकः स सामान्यतो यथाव्कृष्णं निरीक्ष्य वनितोत्सवरूपशीलम् [भागवतम् १०.२१.१२] इति । स्पष्टम् । ॥ १०.२१ ॥ श्रीगोप्यः ॥ ३६५ ॥ [३६६] स एव पुनः सम्भोगेच्छानिदानः सैरिन्ध्र्य्आदौ यथा सहोष्यतामिह प्रेष्ठ [भागवतम् १०.४८.९] इत्यादि । स्पष्टम् । ॥ १०.४८ ॥ सैव ॥ ३६६ ॥ [३६७] क्वचिद्भेदितसम्भोगेच्छः पट्टमहिषीषु यथा, स्मायावलोकलव दर्शित [भागवतम् १०.६१.४] इत्यादिषु । स्वरूपाभिन्नसम्भोगेच्छः श्रीव्रज देवीषु, यथा यत्ते सुजातचरणाम्बुरुहं [भागवतम् १०.३१.१९] इत्यादिषु । आसां चैष स्वाभाविक एव । अतएव स्वपरित्यागजातेर्षया दोषं कल्पयित्वापि तत् परित्यागासामर्थ्योक्तिः । यथा मृगयुरिव कपीन्द्रम् [भागवतम् १०.४७.१७] इत्य् आदौ दुस्त्यजस्तत्कथार्थः इति । एष चासु बहुभेदो वर्तते । एकत्र भावे खलु मिथुनस्य मिथ आदर विशेषः । तत्र प्रेयसीनां त्वदीयत्वाभिमानातिशयेन कान्तं प्रति पारतन्त्र्यविनयस्तुतिदाक्षिण्यप्राचुर्यम् । अन्यत्र मदीयत्वातिशयः । यत्र परतन्त्रकान्ततयान्तर्मर्मज्ञतानर्मकौटिल्याभास प्राचुर्यम् । एतद्युगलस्य च भेदस्य बह्व्अंशस्वल्पांशतत्साङ्कर्य भेदेनापरासु च बहुविध इति । एते च भावा यथोक्ताः काचित्कराम्बुजं शौरेर्जगृहेऽञ्जलिनां मुदा । काचिद्दधार तद्बाहुमंसे चन्दनरूषितम् ॥ काचिदञ्जलिनागृहात्तन्वी ताम्बूलचर्वितम् । एका तद्अङ्घ्रिकमलं सन्तप्ता स्तनयोरधात् ॥ एका भ्रूकुटिमाबद्ध्य प्रेमसंरम्भविह्वला । घ्नतीवैक्षत्सन्दष्टदशनच्छदा ॥ अपरानिमिषद्दृग्भ्यां जुषाणा तन्मुखाम्बुजम् । आपीतमपि नातृप्यत्सन्तस्तच्चरणं यथा ॥ तं काचिन्नेत्ररन्ध्रेण हृदिकृत्य निमील्य च । पुलकाङ्गुल्युपगुह्यास्ते योगीवानन्दसम्प्लुता ॥ सर्वास्ताः केशवालोकपरमोत्सवनिर्वृताः । जहुर्विरहजं तापं प्राज्ञं प्राप्य यथा जनाः ॥ [भागवतम् १०.३२.४९] अत्रादरविशेष्मयप्राग्उक्तभावा काचित्कराम्बुजमित्यत्र प्रथमोक्ता । इयं च सर्वाग्रस्थितत्वादादौ वर्ण्यते । ततो ज्येष्ठेति गम्यते । ततश्च सर्वादौ तयैव मिलनं कृष्णस्य । तथा तस्यामेव श्री कृष्णस्याप्यादरातिशयोऽवगम्यते । एवं तथाञ्जलिना करग्रहणात्तस्या अपि तस्मिन्नादरो व्यक्तः । तत्पारतन्त्र्यादिकमपि । मध्यस्थितत्वं चास्याः । ततः साध्वेवेदं प्रथमोदाहरणम् । अथ मदीयत्वातिशयमयद्वितीयोदाहरणम् । एका भ्रूकुटिमाबध्य इत्यादि । एषा खलु मध्यतो वर्णनया मध्यस्थितेत्यवगम्यते । मध्य स्थितत्वं चास्याः परमदुर्लभतां व्यनक्ति । ततो भावविशेषधारिता चास्या गम्यते । तस्य साक्षात्प्रत्यायकं च मदीयत्वातिशयादिबोधक भ्रूभङ्ग्य्आदिकमेवास्ति । इयं च श्रीराधैव ज्ञेया । ईदृश एव भावोऽस्याः कार्त्तिकप्रसङ्गे व्रतरत्नाकरधृतभविष्य वचने दृश्यते तस्मिन् दिने च भगवान् रात्रौ राधागृहं ययौ । सा च क्रुद्धा तमुदरे काञ्चीदाम्ना बबन्ध ह ॥ कृष्णस्तु सर्वमावेद्य निजगेहमहोत्सवम् । प्रियां प्रसादयामास ततः (पगे १३९) सा तमवोचयत् ॥ इति । ततः सिद्धे च तस्या भावस्य तादृशत्वे यथा राधा प्रिया इत्यादि पाद्मादि वचनानुसारेण अनयाराधितो नूनं [भागवतम् १०.३०.२८] इत्याद्य्अनुसारेण च तन् माहात्म्यात्तादृशभावमाहात्म्यमेव स्फुटमुपलभ्यते । द्वारकायामेतद्अनुगतभावत्वेनैव श्रीसत्यभामापि सर्वतः प्रशस्ता । तत्र भावसादृश्यं सर्वतः प्रशस्तत्वं च यथा श्रीविष्णु पुराणे यदि ते तद्वचः सत्यं सत्यात्यर्थं प्रियेति मे । मद्गेहनिस्फुटार्थाय तदायं नीयतां तरुः ॥ [Vइড়् ५.३०.३३] इति । पाद्मकार्त्तिकमाहात्म्ये श्रीकृष्णवाक्यं च यथा न मे त्वत्तः प्रियतमा इत्यादि । श्रीहरिवंशे वैशम्पायनवचनं च तन्निर्धारकम् सौभाग्ये चाधिकाभवदिति । अथ या च पूर्वभावोपलक्षिता सापि तद्भावविरोधिभावत्वेन तत् प्रतिपक्षनायिका स्यात् । चन्द्रावल्येव सेति च प्रसिद्धम् । तथोक्तं श्री बिल्वमङ्गलेन राधामोहनमन्दिरादुपागतश्चन्द्रावलीमूचिवान् राधे क्षेममयेति तस्य वचनं श्रुत्वाह चन्द्रावली । कंस क्षेममये विमुग्धहृदये कंसः क्व दृष्टस्त्वया राधा क्वेति विलज्जितो नतमुखस्मेरो हरिः पातु वः ॥ इति । अत्र चन्द्रावल्याः सदृशभावा काचिदञ्जलिनेत्यादिना वर्णिता । एका तद् अङ्घ्रिकमलमित्यादिना च । एते तत्सख्यौ पद्माशैव्ये इत्यभियुक्त सिद्धिः । श्रीराधायाः सदृशभावा च । अपरिनिमिषद्दृग्भ्यामित्यादिना वर्णिता । तं काचिद्[भागवतम् १०.३२.८] इत्यादिना च । मदीयोऽसौ स्वयमेव माम् अनुभविष्यतीति स्वयं ग्राहस्पर्शाद्य्अभावेन वाम्यस्पर्शात् । ततश्चैते तत्सख्यौ । एते च प्रायस्तत्सनामत्वात् । तद्अनुगततया पाठाच्चानुराधाविशाखे भवेताम् । ये खलु विशाखा ध्याननिष्ठिका इति, राधानुराधा इति भविष्योत्तरपठिते तत्रानुराधैव ललितेत्य् अभियुक्तप्रसिद्धिः । सङ्करभावा च काचिद्दधार [भागवतम् १०.३२.४] इत्य् आदिनोक्ता । तद्बाहोरंसे धारणेन पूर्वस्या दाक्षिण्यांशेन साम्यात् । उत्तरस्या एषा खलु श्यामलेत्यभियुक्तप्रसिद्धिः । अत्राष्टमी च विष्णु पुराणोक्ता यथा काचिदायान्तमालोक्य गोविन्दमतिहर्षिता । कृष्ण कृष्णेति कृष्णेति प्राह नान्यदुदीरितम् ॥ [Vइড়् ५.१३.४४] इति । अस्या नातिस्फुटभावत्वात्ताटस्थ्यम् । एषा च भद्रेत्यभियुक्त प्रसिद्धिः । तेषां भावानां परमानन्दैकरूपत्वं दर्शयति सर्वा [भागवतम् १०.३२.९] इति । ॥ १०.३२ ॥ श्रीशुकः ॥ ३६७॥ [३६८] अथानुमोदनात्मके कान्तभावे साध्ये तत्सम्भावनार्थं तदीय लेशानुमोदनमात्रस्योदाहरणं यथा अस्यैव भार्या भवितुं रुक्मिण्यर्हति नापरा । असावप्यनवद्यात्मा भैष्म्याः समुचितः पतिः ॥ किञ्चित्सुचरितं यन्नस्तेन तुष्टस्त्रिलोककृत् । अनुगृह्णातु गृह्णातु वैदर्भ्याः पाणिमच्युतः ॥ एवं प्रेमकलाबद्धा वदन्ति स्म पुरौकसः । [भागवतम् १०.५३.३७३९] अत्र नानावासनजनानामेषां हृदि तत्तन्नानाविलासमयस्य कान्त भावस्य पूर्णस्वरूपस्पर्शायोग्यत्वात्कथञ्चित्तद्दाम्पत्यस्थिति मात्रलक्षणस्य तदीयसामान्यांशस्यैवानुमोदनमात्रं जातम् । अतएव प्रेमकलाबद्धा इत्युक्तम् । प्रेम्नः कान्तभावस्य या कला कोऽपि लेशस् तेन बद्धास्तद्अनुमोदनसुखानुकूला इत्यर्थः । तत एवं यस्य कलयापि विषमभावानाम् (पगे १४०) अपि सर्वेषां पुरौकसां तथा चित्त वृन्दमुल्लासितम्, यथा युगपदैकमत्यमेव सर्वभावातिक्रमेण सर्वेषां जातम् । स एव यत्र भावराकाधीशः स्वयमुदयते तच्चित्तानां तादृश उल्लासस्तु परात्पर एव स्यादिति भावः । [३६९] अथ साक्षात्तद्अनुमोदनात्मकपूर्णकान्तभावस्योदाहरणमाह अप्येणपत्न्युपगतः प्रिययेह गात्रैस् तन्वन् दृशां सखि सुनिर्वृतिमच्युतो वः । कान्ताङ्गसङ्गकुचकुङ्कुमरञ्जितायाः कुन्दस्रजः कुलपतेरिह वाति गन्धः ॥ बाहुं प्रियांस उपधाय गृहीतपद्मो रामानुजस्तुलसिकालिकुलैर्मदान्धैः । अन्वीयमान इह वस्तरवः प्रणामं किं वाभिनन्दति चरन् प्रणयावलोकैः ॥ [भागवतम् १०.३०.१११२] एणपत्नि एणत्वप्रयोगेण हे प्रशस्तनेत्रे पत्नीत्वप्रयोगेण बुद्ध्या तु हे मादृशमानुषीतुल्ये इत्यर्थः । तत्रापि हे सखि, वक्ष्यमाण सौभाग्यभरेण हे लब्धमद्विधसख्ये, प्रियया सह अच्युतः श्री कृष्णः । श्लेषेण तस्याः सकाशादविश्लिष्टः सन् गात्रैरुभयोः परस्परम् आसङ्गेन शोभाविशेषं प्राप्तैरङ्गैः कृत्वा वस्त्वादृशीनां दृशां नेत्राणां सुनिर्वृतिं केवलश्रीकृष्णदर्शनजानन्दादपि अतिशयितम् आनन्दं तन्वन् विस्तारयनुत्तरोत्तरमुत्कर्षयनपि किमुपगतः युष्मत् समीपं प्राप्तोऽभूत् । ननु कथमिदं भवतीभिरनुमितमित्याशङ्क्यानुमानलिङ्गं तन् मिथुनश्लाघागर्भवचनेनाहुः कान्तेति । कुलपतेर्व्रजनाथवंश तिलकस्य या कुन्दस्रक्तस्या गन्धः सौरभ्यमिह वाति वायुसङ्गेन प्रसरति । कथम्भूतायाः स्रजः । कान्ता सर्वसाद्गुण्येन तस्यापि लालसास्पदरूपा या स्यात्तस्या अङ्गसङ्गे कुचकुङ्कुमेन रञ्जितायाः । अतः सन्ततपरिचयविशेषेण तत्तत्सौरभ्यविशेषस्यात्रास्माभिर् अवधारितत्वात्भवतीनामत्र चरन्तीनां समीपं प्राप्त एवासौ तया युत इत्यर्थः । अथ तां तद्दर्शनजातेन हर्षेण सम्प्रति तद्वियोगजातेन दुःखेन च स्थगितवचनमाशङ्क्य तेन च तयोः सङ्गममेव निर्धार्य परमानन्देन तद्अवसरोचितं तदीयविलासविशेषं वर्णयन्त्यस्तत्र पुष्पादिभरनम्राणां तरूणामपि तदीयसौविदल्लादिभृत्यविशेष भावेन तन्नमस्कारमुत्प्रेक्ष्य पुनस्तेषामेव तत्सन्निधिजन्य सौभाग्यविशेषं तान् प्रत्येव पृच्छन्त्यस्तयोस्तादृशविलासावेशातिशयम् आहुः बाहुं प्रियांस इति । अन्वीयमानः अनुगम्यमानः । परस्परं प्रणयावलोकैश्चरन् क्रीडन् । इह वो युष्माकं प्रणामं किं वाभिनन्दति सादरं गृह्णाति । अपि तु विलासाविष्टस्य तस्य तद्अभिनन्दनं न सम्भावयाम इत्यर्थः । ॥ १०.३० ॥ श्रीराधासख्यः ॥ ३६९ ॥ [३७०] तदेवमालम्बनादिस्थाय्य्अन्तर्भावसंवलनं चमत्कारावहतया उज्ज्वलाख्यो रसः स्यात् । तस्य च भवेद्द्वयं विप्रलम्भः सम्भोगश्चेति । तत्र विप्रलम्भो विप्रकर्षेण लम्भः प्राप्तिर्यस्य स तथा । यथोक्तम् यूनोरयुक्तयोर्भावो युक्तयोर्वा तयोर्मिथः । अभीष्टालिङ्गनादीनामनवाप्तौ प्रकृष्यते । स विप्रलम्भो विज्ञेयः सम्भोगोन्नतिकारकः ॥ [ऊण्१५.२] इति । तदुन्नतिकारकत्वमन्यत्र चोक्तम् न विना विप्रलम्भेन सम्भोगः पुष्टिमश्नुते । काषायिते हि वस्त्रादौ भूयानेवाभिवर्धते ॥ [ऊण्१५.३] यदुक्तं स्वयं कृष्णेन नाहं तु सख्यो भजतोऽपि जन्तून् [भागवतम् १०.३३.२०] इत्यादि । अन्यत्र च यत्त्वहं भवतीनां वै दूरे (पगे १४१) वर्ते प्रियो दृशाम् । मनसः सन्निकर्षार्थं मद्अनुध्यानकाम्यया ॥ यथा दूरचरे प्रेष्ठे मन आविश्य वर्तते । स्त्रीणां च न तथा चेतः सन्निकृष्टेऽक्षिगोचरे ॥ [भागवतम् १०.४७.३४३५] इति । तस्य विप्रलम्भस्य चत्वारो भेदाः पूर्वरागो मानः प्रेमवैचित्त्यं प्रवासश्चेति । अथ सम्भोगश्च यूनोः सङ्गतयोः सम्बद्धतया भोगो यत्र स भाव उच्यते । यथोक्तम् दर्शनालिङ्गनादीनामानुकूल्यान्निषेवया । यूनोरुल्लासमारोहन् भावः सम्भोग उच्यते ॥ [ऊण्१५.१८८] इति । स च पूर्वरागानन्तरज इत्यादिसंज्ञया चतुर्विधः । तत्र पूर्वरागः । रतिर्या सङ्गमात्पूर्वं दर्शनश्रवणादिजा । तयोरुन्मीलति प्राज्ञैः पूर्वरागः स उच्यते ॥ [ऊण्१५.५] स च पट्टमहिषीषु श्रीरुक्मिण्या यथा सोपश्रुत्य मुकुन्दस्य रूपवीर्यगुणश्रियः । गृहागतैर्गीयमानास्तं मेने सदृशं पतिम् ॥ [भागवतम् १०.५२.२३] इत्यादि । स्पष्टम् । ॥ १०.५२ ॥ श्रीशुकः ॥ ३७० ॥ [३७१] अथ व्रजदेवीनाम् । तत्र यदासां क्वचिद्बाल्येऽपि सम्भोगो वर्ण्यते तत् खलु औपपतिकभाववतीनां तासां मध्ये कासाञ्चिन्निमित्तविशेषं प्राप्य कदाचित्कदाचित्तद्भावाविर्भावप्रभावेण कैशोराविर्भावात् सङ्गच्छते । यथा भविष्ये कार्त्तिकप्रसङ्गे बाल्येऽपि भगवान् कृष्णः कैशोरं रूपमाश्रितः इत्यादिनोक्तम् । अन्यदा तद्आच्छादने सति तत् कैशोरादिकमाच्चन्नमेव तिष्ठति । तस्माद्भावादीनाम् अविच्छेदाभावान्नातिरसाधायकत्वमिति नात्रोट्टङ्क्यते । अथ महातेजस्वितया ष्ष्ठवर्षमेवारभ्य कैशोराविर्भावविच्छेदे सति तासामपि पुनः पूर्वरागो जायते । ततोऽन्यासां तु सुतरां स तूदाह्रियते । यथा आश्लिष्य समशीतोष्णं प्रसूनवनमारुतम् । जनास्तापं जहुर्गोप्यो न कृष्णहृतचेतसः ॥ [भागवतम् १०.२०.४५] गोप्यस्तु न जहुः । तत्र हेतुः कृष्णेति । विरहे प्रत्युत तापकरत्वादिति भावः । ॥ १०.२० ॥ श्रीशुकः ॥ ३७१ ॥ [३७२] तद्विवरणं च इत्थं शरत्स्वच्छजलं पद्माकरसुगन्धिना । न्यविशद्वायुना वातं सगोगोपालकोऽच्युतः ॥ कुसुमित वनराजिशुष्मिभृङ्ग द्विजकुलघुष्टसरःसरिन्महीध्रम् । मधुपतिरवगाह्य चारयन् गाः सहपशुपालबलश्चुकूज वेणुम् ॥ तद्व्रजस्त्रिय आकर्ण्य वेणुगीतं स्मरोदयम् । काश्चित्परोक्षं कृष्णस्य स्वसखीभ्योऽन्ववर्णयन् ॥ तद्वर्णयितुमारब्धाः स्मरन्त्यः कृष्णचेष्टितम् । नाशकन् स्मरवेगेन विक्षिप्तमनसो नृप ॥ बर्हापीडं नटवरवपुः कर्णयोः कर्णिकारं बिभ्रद्वासः कनककपिशं वैजयन्तीं च मालाम् । रन्ध्रान् वेणोरधरसुधया पूरयन् गोपवृन्दैर् वृन्दारण्यं स्वपदरमणं प्राविशद्गीतकीर्तिः ॥ इति वेणुरवं राजन् सर्वभूतमनोहरम् । श्रुत्वा व्रजस्त्रियः सर्वा वर्णयन्त्योऽभिरेमिरे ॥ अक्षण्वतां फलमिदं न परं विदामः सख्यः पशूननुविवेशतयोर्वयस्यैः । वक्त्रं व्रजेशसुतयोरनुवेणुजुष्टं यैर्वा निपीतमनुरक्तकटाक्षमोक्षम् ॥ चूतप्रवालबर्हस्तवकोत्पलाब्ज मालानुपृक्तपरिधानविचित्रवेशौ । मध्ये विरेजतुरलं पशुपालगोष्ठ्यां रङ्गे यथा नटवरौ क्व च गायमानौ ॥ गोप्यः किमाचरदयं कुशलं स्म वेणुर् दामोदराधर(पगे १४२) सुधामपि गोपिकानाम् । भुङ्क्ते स्वयं यदवशिष्टरसं ह्रदिन्यो हृष्यत्त्वचोऽश्रु मुमुचुस्तरवो यथार्याः ॥ [भागवतम् १०.२१.१९] तथा वृन्दावनं सखि भुवो वितनोति कीर्तिम् [भागवतम् १०.२१.१०] इत्यादि । धन्याः स्म मूढमतयोऽपि हरिण्य एता [भागवतम् १०.२१.११] इत्यादि । कृष्णं निरीक्ष्य [भागवतम् १०.२१.१२] इत्यादि । गावश्च कृष्णमुख [भागवतम् १०.२१.१३] इत्यादि । प्रायो बताम्ब मुनयः [भागवतम् १०.२१.१४] इत्यादि । नद्यस्तदा तदुपधार्य [भागवतम् १०.२१.१५] इत्यादि । दृष्ट्वातपे व्रजपशून् [भागवतम् १०.२१.१६] इत्यादि । पूर्णाः पुलिन्द्य [भागवतम् १०.२१.१७] इत्यादि । हन्तायमद्रिरबला [भागवतम् १०.२१.१८] इत्यादि । गा गोपकैर्[भागवतम् १०.२१.१९] इत्यादि च स्मर्तव्यम् । इत्थमिति । इत्थं पूर्वाध्यायवर्णितप्रकारेण । कुसिमितेति पूर्वेणान्वयः । अत्रत्यं वनं तद्अन्तर्वनम् । शुष्मिणो मत्ताः । तद्व्रजेति कृष्णस्य वेणु गीतमाश्रुत्य । तथापि परोक्षं लज्जया निजभावावरणाय तद्अग्रजादि वर्णनसहयोगेनाच्छन्नं यथा स्यात्तथैवावर्णयन् । समुचितवर्णनं हि प्रीतिमात्रं बोधयति न तु कान्तभावमिति । तद्वर्णयितुमिति तथापि नाशकन् । परोक्षवर्णनायां न समर्था बभूवुः । तत्र हेतुः स्मरन्त्य इति । तत्र च हेतुः स्मरवेगेनेति । पूर्वोक्तं कृष्णचेष्टितं वर्णयन्ति बर्हापीडमिति । अधरसुधयेति फुत्कारस्य तत्प्राचुर्यं विवक्षितम् । ततश्च युक्त एव तद्अनुभवेन तासां तादृशमोह इति भावः । नाशकन्नित्येतद्विवृणोति इतीति । अभिरेमिरे उन्मदा बभूवुः । अथ यथा नाशकंस्तथा तद्वाक्यद्वारैव दर्शयति श्रीगोप्य ऊचुरित्य् आदिना । तत्र द्विधा परोक्षीकरणा शक्तिः । एकत्राज्ञाननतोऽपि भाव प्राबल्येनैवार्थान्तराविर्भावेण अन्यत्र भावपारवश्येन ज्ञानत एव तद्उद्घाटनेन । तत्र प्रथमेन यथा अक्षणवतामिति । अर्थान्तरं चात्र व्रजेशसुतयोर्मध्ये कनिष्ठत्वेन तदनु पश्चात्वेणुजुष्टं मुखं तद्यैर्निपीतमिति योज्यम् । अथोत्तरेण यथा चूतप्रवालेत्यादि द्वयम् । तत्र प्रथमं परोक्षीकरणे । द्वितीयं तद्अशक्ताविति ज्ञेयम् । एवमग्रे च गावश्च कृष्णमुखनिर्गतवेणुगीतेत्यादिषु विजातीय भाववर्णनमपि परोक्षविधाने मन्तव्यम् । अथोपसंहारः एवंविधा भगवतो या वृन्दावनचारिणः । वर्णयन्त्यो मिथो गोप्यः क्रीडास्तन्मयतां गताः ॥ हेमन्ते प्रथमे मासि नन्दव्रजकुमारिकाः । चेरुर्हविष्यं भुञ्जानाः कात्यायन्य्अर्चनव्रतम् ॥ [भागवतम् १०.२१.२०] तन्मयतां तद्आविष्टताम् । स्त्रीमयः षिङ्ग इतिवत् । ॥ १०.२१ ॥ श्रीशुकः ॥ ३७३ ॥ [३७४] तथा तासु कुमारीणाम् हेमन्ते प्रथमे मासि नन्दव्रजकुमारिकाः । चेरुर्हविष्यं भुञ्जानाः कात्यायन्य्अर्चनव्रतम् ॥ [भागवतम् १०.२२.१] इत्यादि । स्पष्टम् । ॥ १०.२२ ॥ सः ॥ ३७४ ॥ [३७५] अत्र कामलेखादिप्रस्थापनं मतम् । तत्रोदाहरणं श्रुत्वा गुणान् भुवनसुन्दर शृणवतां ते [भागवतम् १०.५२.३७] इत्यादि श्रीरुक्मिणी सन्देशादिकं ज्ञेयम् । अथ पूर्वरागानन्तरजः सम्भोगः । तत्र सम्भोगस्य सामान्याकारेण सन्दर्शनसंजल्पसंस्परशसंप्रयोगलक्षणभेदचतुष्टय भिन्नत्वं दृश्यते । सन्दर्शनं सम्यग्दर्शनं यत्र स भावः इत्यादि । अथ श्रीरुक्मिण्याः सन्दर्शनसंस्पर्शनाख्यौ तद्अनन्तरजौ सम्भोगौ यथा सैवं शनैश्चलयती चलपद्मकोशौ प्राप्तिं तदा भगवतः प्रसमीक्षमाणा । उत्सार्य वामकरजैरलकानपाङ्गैः (पगे १४३) प्राप्तान् ह्रियैक्षत नृपान् ददृशेऽच्युतं च ॥ तां राजकन्यां रथमारुरुक्षतीं जहार कृष्णो द्विषतां समीक्षताम् । [भागवतम् १०.५३.५४५५] भगवतः प्राप्तिं तत्रागमनं ह्रिया प्रसमीक्षमाणा सलज्जं द्रष्टुम् आरभमाणा प्राप्तान् पुरतः स्थितान्नृपानैक्षत । ततश्च व्यूकुलचित्ता तत्रैव पुनरच्युतमपि ददृश इत्यर्थः । ॥ १०.५३ ॥ श्रीशुकः ॥ ३७५॥ [३७६] अथ व्रजकुमारीणां सन्दर्शनसंजल्पो, यथा तासां वासांस्युपादाय नीपमारुह्य सत्वरः । हसद्भिः प्रहसन् बालैः परिहासमुवाच ह ॥ [भागवतम् १०.२२.९] इत्यादि । अत्रैवं विवेचनीयम् । तेन यद्यपि तासां स्वविषयप्रेमोत्कर्षो जायत एव तथापि तद्अभिव्यञ्जकचेष्टाविशेषद्वारा साक्षात्तद्आस्वादाय तादृशी लीला सलज्जा विस्तारिता । विदग्धानां च यथा वनितानुरागास्वादने वाञ्छा न तथा तत्स्पर्शादावपि । तत्र लज्जाच्छेदो नाम पूर्वानुरागव्यञ्जको दशाविशेषो वर्तते । तथोक्तम् नयनप्रीतिः प्रथमं चिन्तासङ्गस्तथा सङ्कल्पः । निद्राच्छेदस्तनुता विषयनिवृत्तिस्त्रपानाशः । उन्मादो मूर्च्छा मृतिरित्येताः स्मरदशा दशैव स्युः ॥ [ऊण्१५.७१] तेषु च व्यञ्जकेषु कुलकुमारीणां लज्जाच्छेद एव पराकाष्ठा । ता हि दशमीमप्यङ्गीकुर्वन्ति, न तु वैजात्यम् । ततोऽनुरागातिशय स्वादनार्थं तथा परिहसितम् । सखायश्च ते न मयोदितपूर्वं वा अनृतं तदिमे विदुः [भागवतम् १०.२२.११] सन्तततद्अविनाभावव्यक्त्या हसद्भिः [भागवतम् १०.२२.९] इत्यादौ बालशब्दप्रयुक्त्या च तदीयसख्यव्यतिरिक्त भावान्तरास्पर्शिनस्तद्अङ्गनिर्विशेषा अत्र बाला एव च । ये चोक्ता गौतमीयतन्त्रे प्रथमावरणपूजायाम् दामसुदामवसुदामकिङ्किणीर्गन्धपुर्ष्पकैः । अन्तःकरणरूपास्ते कृष्णस्य परिकीर्तिताः । आत्माभेदेन ते पूज्या यथा कृष्णस्तथैव ते ॥ इति । ततो रहस्यत्वात्तादृशानुरागास्वादकौतुकप्रयोजनकनर्म परिपाटीमयत्वात्तस्यां लीलायां न रसवत्त्वव्याघातः प्रत्युत उल्लास एव । तथैव तस्यां लीलायां श्रीकृष्णस्याभिप्रायं मुनीन्द्र एव व्याचष्टे भगवानाहता वीक्ष्य शुद्धभावप्रसादितः । स्कन्धे निधाय वासांसि प्रीतः प्रोवाच सस्मितम् ॥ [भागवतम् १०.२२.१८] आहता आगताः । लज्जात्यागेऽपि स्त्रीजातिस्वभावेन लज्जांशावशेषात् नम्रतयेषद्भग्नदेहा वा । एवमुत्कण्ठाभिव्यक्त्या तद्भाव मुग्धत्वाभिव्यक्त्या च शुद्धः परमौज्ज्वल्येनावगतो यो भावस्तेन तदास्वादनेन जनितचित्तप्रसक्तिः । अथ पुनरपि यूयं विवस्त्रा यदपि धृतव्रता [भागवतम् १०.२२.१९] इत्यादिकं तल्लज्जांशावशेषनिःशेषतादर्शनकौतुकार्थं श्रीकृष्णनर्म वाक्यम् । तद्अनन्तरमित्यच्युतेन [भागवतम् १०.२२.२०] इत्यादिकं तासामपि तथैव तद्अनन्तरमपि स्वयं तथैव व्याचष्टे दृढं प्रलब्धास्त्रपया च हापिताः प्रस्तोभिताः कृईडनवच्च कारिताः । वस्त्राणि चैवापहृतान्यथाप्यमुं ता नाभ्यसूयन् प्रियसङ्गनिर्वृताः ॥ [भागवतम् १०.२२.२२] (पगे १४४) [३७९] १०२२०२९१ अथ गोपैः परिवृतो भगवान् देवकीसुतः १०२२०२९३ वृन्दावआद्गतो दूरं चारयन् गाः सहाग्रजः १०२२०३६३ तरूणां नम्रशाखानां मध्येन यमुनां गतः [३८०] १०२२०३०१ निदाघार्कतपे तिग्मे छायाभिः स्वाभिरात्मनः १०२२०३०३ आतपत्रायितान् वीक्ष्य द्रुमानाह व्रजौकसः इत्यादि । १०२३०२११ यमुनोपवनेऽशोकनवपल्लवमण्डिते १०२३०२१३ विचरण्तं वृतं गोपैः साग्रजं ददृशुः स्त्रियः १०२३०२२१ श्यामं हिरण्यपरिधिं वनमाल्यबर्ह १०२३०२२२ धातुप्रवालनटवेषमनुव्रतांसे १०२३०२२३ विन्यस्तहस्तमितरेण धुनानमब्जं १०२३०२२४ कर्णोत्पलालककपोलमुखाब्जहासम् १०२३०२३१ प्रायः श्रुतप्रियतमोदयकर्णपूरैर् १०२३०२३२ यस्मिन्निमग्नमनसस्तमथाक्षिरन्ध्रैः १०२३०२३३ अन्तः प्रवेश्य सुचिरं परिरभ्य तापं १०२३०२३४ प्राज्ञं यथाभिमतयो विजहुर्नरेन्द्र ॥ [भागवतम् १०.२३.२१२३] १०२३०३४१ तत्रैका विधृता भर्ता भगवन्तं यथाश्रुतम् १०२३०३४३ हृदोपगुह्य विजहौ देहं कर्मानुबन्धनम् (पगे १४५) एवं लीलानरवपुर्[भागवतम् १०.२३.३७] ॥ १०.२२ ॥ श्रीशुकः ॥ ३७८३८२ ॥ [३८३] अथ तद्अनन्तरमेव शरदि सर्वासामेव श्रीव्रजदेवीनां सन्दर्शनादि सर्वात्मक एव पूर्वरागान्तरजः सम्भोगो वर्ण्यते । तत्र कुमारीणाम् अपि तादृशप्राप्तावकृतार्थंमन्यानां पूर्वरागांशो नातिगतः । कस्याश्चित् पूर्णाः पुलिन्द्यः [भागवतम् १०.२१.१७] इत्यनुसारेण कासाञ्चित्तु यर्ह्यम्बुजाक्ष [भागवतम् १०.२९.३६] इत्यादावस्प्राक्ष तत्प्रभृतीः इत्यनेन श्रुतो यः स्पर्शः सोऽपि वेणुगीतकृततन्मूर्च्छादिशमनानुरोधेनैव न तु सम्भोग रीत्येति मन्तव्यः । यत एव तस्य तासामपि अपूर्ववत्प्रत्याख्यान प्रार्थनावाक्ये सङ्गच्छेते । अथ तासां स यथा निशम्य गीतं तद्अनङ्गवर्धनं व्रजस्त्रियः कृष्णगृहीतमानसाः । आजग्मुरन्योन्यमलक्षितोद्यमाः स यत्र कान्तो जवलोलकुण्डलाः ॥ [भागवतम् १०.२९.४] इत्यादि । स्पष्टम् । ॥ १०.२९ ॥ श्रीशुकः ॥ ३८३ ॥ [३८४] अथ तद्अन्तराले मानरूपो विप्रलम्भः । तत्र यथोक्तम् अहेरिव गतिः प्रेम्णः स्वभावकुटिला भवेत् । अतो हेतोरहेतोश्च यूनोर्मान उदञ्चति ॥ [ऊण्१५.१०२] तथा अहेतोर्नेति नेत्युकेर्हेतोर्यन्मान उच्यते । अस्य प्रणय एव स्यान्मानस्य पदमुत्तमम् ॥ [ऊण्१५.७६] इति । ततोऽस्य सहेतुर्निर्हेतुश्चेति भेदद्वये च सति हेतुरपि यथोक्तः हेतुरीर्ष्याविपक्षादेर्वैशिष्ट्ये प्रेयसा कृते । भावः प्रणयमुख्योऽयमीऋषामानत्वमृच्छति ॥ [ऊण्१५.७७] इति । यथा च स्नेहं विना भयं न स्यान्नेर्ष्या च प्रणयं विना । तस्मान्मानप्रकारोऽयं द्वयोः प्रेमप्रकाशकः ॥ [ऊण्१५.७८] इति । अतएव हरिवंशे रुषितामिव तां देवीं स्नेहात्सङ्कल्पयन्निव । भीतभीतोऽतिशनकैर्विवेश यदुनन्दनः ॥ रूपयौवनसम्पन्ना स्वसौभाग्येन गर्विता । अभिमानवती देवी श्रुत्वैवेर्ष्यावशं गता ॥ इति । अतः प्रियकृतस्नेहभङ्गानुमानेन सहेतुरीर्ष्यामानो भवति । एष च विलासः श्रीकृष्णस्यापि परमसुखदः । यथा चोक्तं श्रीरुक्मिणीं प्रति स्वयमेव त्वद्वचः श्रोतुकामेन क्ष्वेल्याचरितमङ्गने [भागवतम् १०.६०.२९] मुखं च प्रेमसंरम्भस्फुरिताधरमीक्षितुम् [भागवतम् १०.६०.३०] इत्यादि । श्रीरुक्मिण्यामपि तद्अविक्षिप्तिवं व्यक्तम् । जाड्यं वचस्तव गदाग्रज [भागवतम् १०.६०.४०] इत्यादौ । युक्तं च तत्कान्ताभावाख्यायाः प्रीतेः पोषकत्वेन (पगे १४६) तद् भावस्यावगमात् । प्राचीनार्वादीनकविसम्प्रदायसम्मतत्वाच्च । तस्मादादरणीय एव मानाख्यो भावः । तत्र सर्वासां युगपत्त्यागेन सङ्गप्राथम्येन च तथानुदयान्निगूढस्तन्मानलेशो रासे श्रीव्रज देवीनां जातः । स च परित्यागजेर्ष्याहेतुक एव ज्ञेयः । यथा सभाजयित्वा तमनङ्गदीपनं सहासलीलेक्षणविभ्रमभ्रुवा । संस्पर्शनेनाङ्ककृताङ्घ्रिहस्तयोः संस्तुत्य ईषत्कुपिता बभाषिरे ॥ [भागवतम् १०.३२.१५] इत्यादि । स्पष्टम् । ॥ १०.३२ ॥ श्रीशुकः ॥ ३८४ ॥ [३८५] एष च स्तुत्य्आदिभिः शाम्यति । यथैव तास्तुष्टाव एवं मद्अर्थोज्झितलोकवेद स्वानां हि वो मय्यनुवृत्तयेऽबलाः । मया परोक्षं भजता तिरोहितं मासूयितुं मार्हथ तत्प्रियं प्रियाः ॥ [भागवतम् १०.३२.२१] न पारयेऽहं निरवद्यसंयुजां [भागवतम् १०.३२.२२] इत्यादि । स्पष्टम् । ॥ १०.३२ ॥ श्रीभगवान् ॥ ३८५ ॥ अथ निर्हेतुः प्रणयमानः । निर्हेतुत्वं च केवलप्रणयविलसित्वेन हेत्व् अभावान्मन्यते । एष नायकस्यापि भवति । भगवत्प्रीतिमये रसे स तूद्दीपनोऽपि प्रसङ्गादत्रोदाहरणीयः । यथा तासां तत्सौभाग्यमदं वीक्ष्य मानं च केशव [भागवतम् १०.२९.४८] इत्यादिप्रकरणं योजनान्तरेण मन्यते । तत्र मानः प्रणयमानः । तस्य हेतुः सौभगमदः । ततो मानस्य प्रशमरूपाय तासां प्रसादाय स्वयमपि प्रणय मानेनैवान्तरधीयत । तथाग्रेऽपि यां गोपीमनयत्कृष्णो विहायान्याः स्त्रियो वने [भागवतम् १०.३०.३६] इत्य् आदौ तस्याः प्रणयमानः । येनैवोक्तं न पारयेऽहं चलितुं नय मां यत्र ते मनः [भागवतम् १०.३०.३८] इति । अथ पूर्ववत्तस्यापि प्रणयमानः । प्रणयकोपेनैव सोऽप्येतद् अनन्तरमेनां स्कन्ध आरुह्यताम् [भागवतम् १०.३०.३९] इत्युक्तवान् ततोऽन्तर्हितवांश्च । अत्र श्रीव्रजदेवीनामहेतुः श्रीकृष्णसय तु हेत्व् आभासजोऽसौ । यासां खलु प्रणयः स्वप्रवाहाद्य्उद्रेकेन स्वरसावर्त रूपं कौटिल्यं स्पृशन्मानाख्यप्रीतिविशेषतां प्राप्नोति । तासामेव मानाख्यविप्रलम्भोऽपि शुद्धो जायते । ततोऽन्यासां पुनर्हेतुलाभेऽपि विषादभयचिन्ताप्राय एव जायते । यथा श्रीरुक्मिणीं प्रति श्रीकृष्णस्य सप्रणयपरिहासवचनमयेऽध्याये तद् वृत्तम् । तत्र श्रीकृष्णस्य सकौतुकोऽयमभिप्रायः । इयं खलु सरसल प्रेमवती परमगाम्भीर्यवती च । ततो ममाभीष्टः प्रियाकोपविलासः प्रेमनिर्बन्धप्रकाशकसविकारकण्ठोक्तिविशेषो वा नास्यां स्फुटम् उपलभ्यते । तस्मात्कोपविलासो वा तज्जननाभावे तु तादृशोक्तिर्वा यथास्यां प्रकाशते तथा बाढं परिहासेन प्रयतिष्ये । तत्र यस्यां कोप जनने भ्रातृवैरूप्यादिकमपि कारणं नासीत् । तस्यां तत्रान्यत् परमायोग्यमेव किन्तु मदविश्लेषसुखमेवास्याः सर्वस्वमिति तद् दर्पन्यक्कारेणैव कोपः सम्भवेत् । यदि ततोऽपि कोपो नाविर्भवेत् । तथापि मद्विश्लेषभयेन पूर्वानुरागवदधुनापि विकारविशेषसहित निगदेनैव प्रेमनिर्बन्धं प्रकाश्येतेति । तथा हि तत्र तां रूपिणीम् [भागवतम् १०.६०.१०] इत्यादौ प्रीतः स्मयनित्यनेन व्यक्तम् । परिहासमयत्वं तु विशेषतोऽप्युक्तम् । प्रसङ्गेन तस्याः प्रेमसारल्यादिद्वयमपि तद्दृष्ट्वा भगवान् कृष्णः प्रियायाः प्रेमबन्धनम् । हास्यप्रौठिमजानन्त्याः करुणः सोऽन्वकम्पत ॥ [भागवतम् १०.६०.२५] इति । हास्यं परिहासः । तत्र प्रौढिः अवश्यमेनां सरलप्रेमाणमपि गम्भीरामपि क्षोभयिष्यामीति (पगे १४७) गर्वः । तां प्रणयरस कौटिल्याभावेनाजानन्त्या इत्यर्थः । एव अग्रेऽपि हास्यप्रौढिभ्रमच् चित्ताम् [भागवतम् १०.६०.२८] इत्युक्तम् । तत्र तेन परिहासेन कोपविलासादिदर्शनमेवाभीष्टमिति स्वयम् एवोक्तम् मा मा वैदर्भ्यसूयेथा जाने त्वां मत्परायणाम् । त्वद्वचः श्रोतुकामेन क्ष्वेल्याचरितमङ्गने ॥ मुखं च प्रेमसंरम्भ स्फुरिताधरमीक्षितुम् । कटाक्षेपारुणापाङ्गं सुन्दरभ्रुकुटीतटम् ॥ अयं हि परमो लाभो गृहेषु गृहमेधिनाम् । यन्नर्मैरीयते यामः प्रियया भीरु भामिनि ॥ [भागवतम् १०.६०.२९३१] इति । अत्र यद्यपि तस्याः प्राग्भयमेव वर्णितं तथापि तत्रासूयाप्रयोगः प्रोत्तम्भनार्थ एव । तत्प्रयोगेण हि स्वस्य तद्अधीनताक्षिप्यते । अतएव भामिनीत्यपि सम्बोधितम् । अथ तस्य प्रेमनिर्बन्धप्रकाशकविकारदर्शनेच्छापि प्राक्तनैव वाक्येन व्यक्ता । तद्दृष्ट्वा भगवान् कृष्णः प्रियायाः प्रेमबन्धनम् [भागवतम् १०.६०.२५] इत्यनेन । तथा निगदेनैव तद्व्यक्तिदर्शनेच्छा स्वयमेव व्यञ्जिता साध्व्येतच्छ्रोतुकामैस्त्वं राजपुत्रि प्रलम्भिता [भागवतम् १०.६०.४९] इति । पूर्वं हि त्वं वै समस्तपुरुषार्थमयः फलात्मा [भागवतम् १०.६०.३८] इत्यादिकम् । तयापि निगदितमस्ति । अत्र परिहासज्ञानानन्तरं तद् दिदृक्षिता किञ्चित्कोपव्यक्तिश्च जातास्ति जाड्यं वचस्तव गदाग्रज [भागवतम् १०.६०.४०] इत्यादिषु । जाड्यस्य प्राचुर्यविवक्षया जाड्यमेव वच इति सामानाधिकरण्येनोक्तं माधुर्यमेव नु मनोनयनामृतं नु [Kअर्णामृत ६८] इतिवत् । अथ तद्अविश्लेषदर्पन्यक्कार एव तत्क्षोभे हेतुरित्यत्रापि श्रीशुक वाक्यम् एतावदुक्त्वा भगवानात्मानं वल्लभामिव मन्यमानामविश्लेषात्तद्दर्पोघ्न उपारमत् ॥ [भागवतम् १०.६०.२१] इति । अन्यस्य च तत्र हेतुत्वं स्वयमेव निराकृतम् भ्रातुर्विरूपकरणं युधि निर्जितस्य प्रोद्वाहपर्वणि च तद्वधमक्षगोष्ठ्याम् । दुःखं समुत्थमसहोऽस्मद्वियोगभीत्या नैवाब्रवीः किमपि तेन वयं जितस्ते ॥ [भागवतम् १०.६०.५६] इति । अत्र च प्रकरणे तस्याः प्रणयस्यापि तादृशत्वाभावात्मानायोग्यत्वमपि दर्शितम् । तस्मात्साधूक्तं यासां खलु प्रणयः इत्यादि । अथ मानानन्तरजः सम्भोगो, यथा इत्थं भगवतो गोप्यः श्रुत्वा वाचः सुपेशलाः । जहुर्विरहजं तापं तदङ्गोपचिताशिषः ॥ [भागवतम् १०.३३.१] इत्यादि । स्पष्टम् । ॥ १०.३३ ॥ श्रीशुकः ॥ ३८६ ॥ [३८७] अथ प्रेमवैचित्त्यम् । तल्लक्षणं च प्रियस्य सन्निकर्षेऽपि प्रेमोन्मादभ्रमाद्भवेत् । या विश्लेषधियार्तिस्तत्प्रेमवैचित्त्यमुच्यते ॥ [ऊण्१५.१४७] तद्यथा कृष्णस्यैवं विहरतो गत्य्आलापेक्षितस्मितैः । नर्मक्ष्वेलिपरिष्वङ्गैः स्त्रीणां किल हृता धियः ॥ ऊचुर्मुकुन्दैकधियो गिर उन्मत्तवज्जडम् । चिन्तयन्त्योऽरविन्दाक्षं तानि मे गदतः शृणु ॥ श्रीमहिष्य ऊचुः कुररि विलपसि त्वं (पगे १४८) वीतनिद्रा न शेषे स्वपिति जगति रात्र्यामीश्वरो गुप्तबोधः । वयमिव सखि कच्चिद्गाठनिर्विद्धचेता नलिननयनहासोदारलीलेक्षितेन ॥ [भागवतम् १०.९०.१३१५] तथा नेत्रे निमीलयसि [भागवतम् १०.९०.१६] इत्यादि, भो भोः सदा निष्टनसे उदन्वन् [भागवतम् १०.९०.१७] इत्यादि, त्वं यक्ष्मणा [भागवतम् १०.९०.१८] इत्यादि, किं न्वाचरितम् [भागवतम् १०.९०.१९] इत्यादि, मेघ श्रीमन् [भागवतम् १०.९०.२०] इत्यादि, प्रियराव [भागवतम् १०.९०.२१] न चलसि [भागवतम् १०.९०.२२] इत्यादि, शुष्यद्ध्रदाः [भागवतम् १०.९०.२३] इत्यादि । हंस स्वागतमास्यतां पिब पयो ब्रूह्यङ्ग शौरेः कथां दूतं त्वां नु विदाम कच्चिदजितः स्वस्त्यास्त उक्तं पुरा । किं वा नश्चलसौहृदः स्मरति तं कस्माद्भजामो वयं क्षौद्रालापय कामदं श्रियमृते सैवैकनिष्ठा स्त्रियाम् ॥ [भागवतम् १०.९०.२४] एवं विहरतः कृष्णस्य गत्य्आदिभिः स्त्रीणां धियो हृताः । ततश्च ता मुकुन्दैकधियः समाहिता इव क्षणमगिरः सत्यः पुनरनुराग विशेषेणोन्मत्ता इव विहरन्तमपि तमरविन्दाक्षं परोक्षवच्चिन्तयन्त्यो जडं विवेकशून्यं यथा स्यात्तथा ऊचुः । तानि वचनानि मे मम गदतो वाक्यतः शृण्विति । अथ विरहस्पर्शीनि तान्येवोन्मादवाक्यान्याहुः कुररीत्यादि । हे कुररि जगति त्वमेवैका रात्र्यां विलपसि अतएव न शेषे न निद्रासि । ईश्वरोऽस्मत् स्वामी तु गुप्तबोधः क्वचिदाच्छन्नः स्वपिति । तस्मादस्माकं तव च विलापादिसाधर्म्यादिदमनुमीयत इत्याहुः वयमिवेति । एवमन्यत्रापि योजनीयम् । तदैव दैवादागतं हंसं दूतं कल्पयित्वाहुः हंसेति । नोऽस्मान् प्रति पुरा रहसि उक्तं किं वा स्मरति । स्मरतु मामेवेत्य् आशयेनाहुः तमिति । यदि च तद्आग्रहस्तदा हे क्षौद्र सौहृद्य चाञ्चल्येन क्षुद्रस्य तस्य दूत, तमेव कामदं युवतिजनक्षोभकम् अत्रालापय आह्वय । किन्तु यासामाद्य वयं त्यक्ताः तां श्रियमृते । तां सोल्लुण्ठं स्तौति । स्त्रियां मध्ये सैव एकत्र तस्मिन्निष्ठा यस्यास्तादृशी । ततः कथं तस्यां नासज्येतेति व्यञ्जितम् । काक्वा स्वेषामपि तन्निष्ठत्वं व्यज्य सोल्लुण्ठत्वं दर्शितम् । अथ तासां तद्विधाशेषविप्रलम्भानन्तरजं नित्यमेव सर्वात्मक सम्भोगमाह इतीदृशेन भावेन कृष्णे योगेश्वरेश्वरे । क्रियमाणेन माधव्यो लेभिरे परमां गतिम् ॥ [भागवतम् १०.९०.२५] विष्णोः श्रीकृष्णस्य एव सम्बन्धिनीं गतिं नित्यसंयोगं लेभिरे । अत्र हेतुः माधव्यः मधुवंशोद्भवस्य श्रीकृष्णस्यैव नित्यप्रेयस्यस् ताः । ॥ १०.९० ॥ श्रीशुकः ॥ ३८८ ॥ [३८९] अथ प्रवासः । नानाविधश्चैष तद्अनन्तरसङ्गश्च श्रीव्रजदेवी रेवाधिकृत्योदाहरणीयः । सङ्गत्य्अर्थं तत्र प्रवासलक्षणम् पूर्वसङ्गतयोर्यूनोर्भवेद्देशान्तरादिभिः । व्यवधानं तु यत्प्राज्ञैः स प्रवास इतीर्यते ॥ तज्जन्यविप्रलम्भोऽयं प्रवासत्वेन कथ्यते । [ऊण्१५.१५२१५३] इत्यर्थः । अत्र चिन्ता प्रजागरोद्वेगौ तानवं मलिनाङ्गता । प्रलापो व्याधिरुन्मादो मोहो मृत्युर्दशा दश ॥ [ऊण्१५.१६७] अयं च किञ्चित्दूरगमनमयः सुदूरगमनमयश्च । तत्र पूर्वोऽपि द्विविधः । एकलीलागतः लीलापरम्परा (पगे १४९) न्तरालगतश्च । पूर्वो यथा अन्तर्हिते भगवति सहसैव व्रजाङ्गनाः । अतप्यंस्तमचक्षाणाः करिण्य इव यूथपम् ॥ [भागवतम् १०.३०.१] इत्यादि । [३९०] तथा, ततश्चान्तर्दधे कृष्णः सा वधूरन्वतप्यत । [भागवतम् १०.३०.३९] इति स्पष्टम् । ॥ १०.३० ॥ सः ॥ ३८९३९० ॥ [३९१] अत्र प्रलापाख्या दशा चहा नाथ रमण प्रेष्ठ [भागवतम् १०.३०.४०] इत्यादिः । स्पष्टम् । ॥ १०.३० ॥ श्रीराधा ॥ ३९१ ॥ [३९२] तथा जयति तेऽधिकं जन्मना व्रजः श्रयत इन्दिरा शश्वदत्र हि । दयित दृश्यतां दिक्षु तावकास्त्वयि धृतासवास्त्वां विचिन्वते ॥ [भागवतम् १०.३१.१] तथा शरद्उदाशये साधुजात [भागवतम् १०.३१.२] इत्यादि । विषजलाप्ययाद्[भागवतम् १०.३१.३] इत्यादि । न खलु गोपिकानन्दन [भागवतम् १०.३१.४] इत्यादि । मधुरया गिरा [भागवतम् १०.३१.८] इत्यादि । विरचिताभयं [भागवतम् १०.३१.५] इत्यादि । व्रजजनार्तिहन् [भागवतम् १०.३१.३] इत्यादि । प्रणतदेहिनां [भागवतम् १०.३१.७] इत्यादि । तव कथामृतं [भागवतम् १०.३१.९] इत्यादि । प्रहसितं [भागवतम् १०.३१.१०] इत्यादि । चलसि यद्व्रजाच्[भागवतम् १०.३१.११] इत्यादि । दिन परिक्षये [भागवतम् १०.३१.१२] इत्यादि । प्रणतकामदं [भागवतम् १०.३१.१३] इत्यादि । सुरतवर्धनं [भागवतम् १०.३१.१४] इत्यादि । अटति यद्भवान् [भागवतम् १०.३१.१५] इत्य् आदि । पतिसुतान्वय [भागवतम् १०.३१.१६] इत्यादि । रहसि संविदं [भागवतम् १०.३१.१७] इत्य् आदि । व्रजवनौकसां [भागवतम् १०.३१.१८] इत्यादि । यत्ते सुजातचरणाम्बुरुहं स्तनेषु भीताः शनैः प्रिय दधीमहि कर्कशेषु । तेनाटवीमटसि तद्व्यथते न किं स्वित् कूर्पादिभिर्भ्रमति धीर्भवद्आयुषां नः ॥ [भागवतम् १०.३१.१९] तत्र विषजलाप्ययादित्यादिकं सर्वस्यैव गोकुलस्य स्वरक्षणीयता दृष्ट्याप्यस्मानधुना रक्षेत्यभिप्रायम् । वृषात्मजाद्वत्सात् मयात्मजात्व्योमासुरादित्यर्थः । पुनश्च तत्तद्अलौकिककर्म लक्ष्यीकृत्य न खलु गोपिकानन्दनो भवानित्यादिद्वये याचकरीत्या दैन्येन तत्र परमेश्वरत्त्वारोप इयं स्तुतिः । ततो विश्वस्यापि स्व रक्षणीयतादृष्ट्याप्यस्मानधुना रक्षेति पूर्ववत् । तत्रापि सात्वतानां वैष्णवानां श्रीमन्नन्दादीनां कुलेऽवतीर्णत्वात् । तत्रापि बाल्येऽस्मत् सखित्वाप्तेर्वैशिष्ट्यमेव युज्यते इत्यर्थः । वृष्णिधुर्य इति तेषामपि यदुवंशोत्पन्नत्वात् । तथा च स्कान्दे मथुरामाहात्म्ये गोवर्धनश्च भगवान् यत्र गोवर्धनो धृतः । रक्षिता यादवाः सर्वे इन्द्रवृष्टिनिवारणात् ॥ इति । तत्रैवान्यत्र अपि श्रीगोविन्दकुण्डप्रस्तावे यत्राभिषिक्तो भगवान्मघोना यदुवैरिणा इति । अथवा विषजलाप्ययादित्यादिना स्तुत्वा पुनः सप्रणयेर्ष्यमाहुः, न खल्वित्यर्धेन । एवं दुरवस्थापन्नानामस्माकमुपेक्षया भवान् खलु निश्चयेन गोपिकायाः सर्वेषां व्रजवासिनामस्माकं रक्षाकारिण्याः श्रीव्रजेश्वर्या नन्दनो नास्ति किन्तु कस्यापि सुखेन दुःखेन चास्पृष्टत्वाद् अखिलदेहिनामन्तरात्मदृक्शुद्धजीवद्रष्टा परमात्मास्ति । एवमपि नूनं ब्राह्मणार्थि (पगे १५०) तत्वेनानासक्ततयैव सर्व रक्षावतीर्णत्वान्नास्मानुपेक्षितुमर्हति इति पुनः सदैन्यमाहुः विखनसेत्यर्धेन । पूर्ववत्तद्अभिप्रायेणैव विरचिताभयमित्यादिकम् अप्युक्तम् । प्रणतदेहिनामिति । श्रीनिकेतनमपि प्रणतदेहिप्रभृतीनां पाप कर्षणादिरूपम् । तत एव परमकरुणामयत्वेनावगतमस्माकं कुचेष्व् अपि हृच्छयकर्तनाय कर्तुमुचितमित्यर्थः । हृच्छयनिदानं तद् अनुरूपं प्रतीकारान्तरं चाहुः मधुरयेति । नूनं यत्सौरभ्यदिग्धतयैव तव गीर्मधुरा मनो मोहयति तद् एवाधरसीधु भवेदत्रौषधभित्यर्थः । अहो तवाधरसीधु तादृश पुण्यहीनाभिः कथं सुलभं स्यात् । यतः सा मधुरा गीरप्यस्तु दूरे । गुरुगोष्ठीनियमबन्दनकत्वमापन्नाभिरस्माभिः प्रसङ्गान्तरेणापि जनपरम्पराप्रख्यायमानमपि तव चरितामृतम् अपि दुर्लभमित्याह, तव कथामृतमिति । तद्ये गृणन्ति तेऽपि अस्मभ्यं भूरिदा जाताः । कुतः पुनर्युष्माकं मय्येतावाननुरागस्तत्राहुः प्रहसितमित्यादि । कथं मम प्रहसितादीनामेतादृशत्वं तत्राहुःहे कुहकेति । तादृशी कापि कुहना या त्वयि विद्यते तां त्वमेव वेत्सीत्यर्थः । एवमन्यान्यपि योजनीयानि । परमप्रकर्षेणाहुः यत्ते सुजात इति । ॥ १०.३१ ॥ श्रीगोप्यः ॥ ३९२ ॥ [३९३] एतद्अनन्तरं सम्भोगोदाहरणं च दर्शितम् । तं विलोक्यागतं प्रेष्ठम् [भागवतम् १०.३२.३] इत्यादिभिः । अत्र च क्रमेण विरहसन्तापधुतिः । तत्र प्रथमतो यथा सर्वास्ताः केशवालोकपरमोत्सवनिर्वृताः । जहुर्विरहजं तापं प्राज्ञं प्राप्य यथा जनाः ॥ [भागवतम् १०.३२.९] द्वितीयो यथा तद्दर्शनाह्लादविधूतहृद्रुजः [भागवतम् १०.३२.१३] इत्यादि । तृतीयो यथा इत्थं भगवतो गोप्यः श्रुत्वा वाचः सुपेशलाः । जहुर्विरहजं तापं तदङ्गोपचिताशिषः ॥ [भागवतम् १०.३३.१] स्पष्टम् । ॥ १०.३३ ॥ श्रीशुकः ॥ ३९३ ॥ [३९४३९७] अथ द्वितीयं किञ्चिद्दूरप्रवासमाह गोप्यः कृष्णे वनं याते तमनुद्रुतचेतसः । कृष्णलीलाः प्रगायन्त्यो निन्युर्दुःखेन वासरान् ॥ [भागवतम् १०.३५.१] तत्र च तासां प्रलापाख्यामवस्थामाह श्रीगोप्य ऊचुः वामबाहुकृतवामकपोल वल्गितभ्रूरधरार्पितवेनुम् । कोमलाङ्गुलीभिराश्रितमार्गं गोप्य ईरयति यत्र मुकुन्दः ॥ व्योमयानवनिताः सह सिद्धैर् विस्मितास्तदुपधाय सलज्जाः । काममार्गनसमर्पितचित्ताः कश्मलं ययुरपस्मृतनिव्यः ॥ [भागवतम् १०.३५.२३] यथा हन्त चित्रमबलाः शृणुतेदम् [भागवतम् १०.३५.४] इत्यादि वृन्दशो व्रजवृषा [भागवतम् १०.३५.५] इत्य्आद्य्अन्तम् । बर्हिणस्तबक [भागवतम् १०.३५.६] इत्यादि तर्हि भग्न गतयः [भागवतम् १०.३५.७] इत्याद्य्अन्तम् । अनुचरैः [भागवतम् १०.३५.८] इत्यादि वनलतास् [भागवतम् १०.३५.९] इत्याद्य्अन्तम् । दर्शनीयतिलकः [भागवतम् १०.३५.१०] इत्यादि सरसि सारस [भागवतम् १०.३५.११] इत्याद्य्अन्तम् । सहबलः [भागवतम् १०.३५.१२] इत्यादि महद्(पगे १५१) अतिक्रमण [भागवतम् १०.३५.१३] इत्यादि विविधगोपचरणेषु [भागवतम् १०.३५.१४] इत्यादि सवनशस्[भागवतम् १०.३५.१५] इत्याद्य्अन्तम् । निजपदाब्जदलैर्[भागवतम् १०.३५.१६] इत्यादि व्रजति तेन वयं [भागवतम् १०.३५.१७] इत्य्आद्य्अन्तम् । मणिधरः [भागवतम् १०.३५.१८] इत्यादि क्वणितवेणुरव[भागवतम् १०.३५.१९] इत्य्आद्य्अन्तम् । कुन्द दाम [भागवतम् १०.३५.२०] इत्यादि मन्दवायुः [भागवतम् १०.३५.२१] इत्य्आद्य्अन्तं च तत् तद्युगलं स्मर्तव्यम् । अत्र सहसिद्धैरिति तेषामपि तादृशवेणुवाद्यमहिम्ना वैन्ता भावापत्तिः सूचिता । अनुचरैरिति । अत्रादिपुरुष इवाचलभूतिरित्यनेनैव बोध्यते । एवमेव सर्वत्र तासां प्रेमकृतसर्वोत्तमतास्फूर्त्या क्वचित् तद्ऐश्वर्यवर्णनमुत्प्रेक्सैव यत्पत्य्अपत्येत्य्आदिवदिति । वनलता इति । अत्र विष्णुं सर्वत्रैव स्फुरन्तं श्रीकृष्णमित्यर्थः । निज पदाब्जेति । अत्र व्रजभूशब्देन तत्स्थानि तृणादीनि लक्ष्यन्ते । तेषां च खुरतोदशमनं स्पर्शमाहात्म्येन नित्यमङ्कुरशालित्वकरणात् । अतएवापरिमितचतुष्पदविगाहेऽपि तच्चारस्य समावेशः सिध्यतीति ज्ञेयम् । एतद्अनन्तरं दर्शानात्मकसम्भोगो यथा वत्सलो व्रजगवां यदगध्रो वन्द्यमानचरणः पथि वृद्धैः । कृत्स्नगोधनमुपोह्य दिनान्ते गीतवेणुरनुगेडितकीर्तिः ॥ उत्सवं श्रमरुचापि दृशीनाम् उन्नयन् खुररजश्छुरितस्रक् । दित्सयैति सुहृद्आशिष एष देवकीजठरभूरुडुराजः ॥ [भागवतम् १०.३५.२२२३] अत्र देवकीजठरभूरिति सङ्केतनामग्रहणम् । सङ्केतमूलं तु प्रागयं वसुदेवस्य क्वचिज्जातस्तवात्मजः [भागवतम् १०.८.१४] इति ज्ञेयम् । अथवा, अनेनैवाप्रसिद्धोऽपि देवकीशब्दोऽत्र श्रीयशोदायामेव ज्ञेयः । तत्र तस्या एव तन्मातृत्वेन प्रसिद्धत्वात्नाभेरसावृषभ आस सुदेवीसूनुः [भागवतम् २.७.१०] इत्यत्र मेरुदेव्या एव सुदेवीति संज्ञावत् । द्वे नाम्नी नन्दभार्याया यशोदा देवकीति च इति पुराणान्तरवचनं च तथा । एवं मदविघूर्णितलोचन ईषत्[भागवतम् १०.३५.२४] इति यदुपतिर्द्विरदराज विहारः [भागवतम् १०.३५.२५] इति स्मर्तव्यम् । व्रजगवामिति तत्र स्थिता बाल वृद्धा गावस्तेषामप्युपलक्षणत्वेनोक्ताः । तथैतद्अग्रे एवं व्रजस्त्रियो राजन् कृष्णलीलानुगायतीः । रेमिरेऽहःसु तच्चित्तास्तन्मनस्का महोदयाः ॥ [भागवतम् १०.३५.२६] एवमपराह्णेषु तदीयागमनानन्देन नित्यमहःस्वपि रेमिरे । ॥ १०.३५ ॥ श्रीशुकः ॥ ३९४३९७ ॥ [३९८] अथ दूरप्रवासः । स च भावी भवन् भूतश्चेति त्रिविधः । तत्र भावी यथा गोप्यस्तास्तदुपश्रुत्य बभूवुर्व्यथिता भृशम् रामकृष्णौ पुरीं नेतुमक्रूरं व्रजमागतम् ॥ [भागवतम् १०.३९.१३] तासां विलापश्च अहो विधातस्तव न क्वचिद्दया संयोज्य मैत्र्या प्रणयेन देहिनः । तांश्चाकृतार्थान् वियुनङ्क्ष्यपार्थकं विक्रीडितं तेऽर्भकचेष्टितं यथा ॥ [भागवतम् १०.३९.१९] तथा यस्त्वं प्रदर्श्यासितकुन्तलावृतं [भागवतम् १०.३९.२०] इत्यादि । क्रूरस्त्वमक्रूर [भागवतम् १०.३९.२१] इत्यादि । न नन्दसूनुः क्षणभङ्गसौहृदः [भागवतम् १०.३९.२२] इत्यादि । सुखं प्रभाता रजनीयम् [भागवतम् १०.३९.२३] इत्यादि । तासां मुकुन्दः [भागवतम् १०.३९.२४] इत्यादि । अद्य ध्रुवं तत्र दृशो भविष्यते [भागवतम् १०.३९.२५] इत्यादि । (पगे १५२) मैतद्विधस्याकरुणस्य [भागवतम् १०.३९.२६] इत्यादि । अनार्द्रधीरेष [भागवतम् १०.३९.२७] इत्यादि । निवारयामः [भागवतम् १०.३९.२८] इत्यादि । यस्यानुराग [भागवतम् १०.३९.२९] इत्यादि । योऽह्नः क्षये व्रजमनन्तसखः [भागवतम् १०.३९.३०] इत्य् आदिकं च स्मर्तव्यम् । भवन् च, यथा गोप्यश्च दयितं कृष्णमनुव्रज्यानुरञ्जिताः । प्रत्यादेशं भगवतः काङ्क्षन्त्यश्चावतस्थिरे ॥ [भागवतम् १०.३९.३४] इत्यादि । ता निराशा निववृतुर्गोविन्दविनिवर्तने । विशोका अहनी निन्युर्गायन्त्यः प्रियचेष्टितम् ॥ [भागवतम् १०.३९.३७] इत्यन्तम् । विशोका विविधशोकवृत्तयः सत्यः । तत्तद्गाने तत्तल्लालसायाः साक्षाद् इव स्फूर्तेर्वा विशोकप्राया अहनी अहोरात्रं निन्युर्यापयामासुः । ॥ १०.३९ ॥ श्रीशुकः ॥ ४०० ॥ [४०१] भूतो, यथा ता मन्मनस्का मत्प्राणा मद्अर्थे त्यक्तदैहिकाः [भागवतम् १०.४६.४] इत्य् आदिना दर्शितः । अत्र दूतमुखेन परस्परसन्देश्च दृश्यते । दूताः स्फुरितसङ्ख्यांशा उद्ध्वबलदेवादयः । तत्र तं प्रश्रयेणावनताः सु सत्कृतमव्रीडहासेक्षणसूनृतादिभिः [भागवतम् १०.४७.३] इत्य्आदिदिशा पूर्वं रचिताकारगुप्तीनामपि तासां महार्त्या महासङ्कोचपरित्यागमप्य् आह इति गोप्यो हि गोविन्दे गतवाक्कायमानसाः । कृष्णदूते समायाते उद्धवे त्यक्तलौकिकाः ॥ [भागवतम् १०.४७.९] अपृच्छन्न् [भागवतम् १०.४७.३] इति प्राक्तनक्रिययान्वयः । ॥ १०.४७ ॥ श्रीशुकः ॥ ४०१ ॥ [४०२] अतएव गोप्यो हसन्त्यः पप्रच्छू रामसन्दर्शनादृताः । कच्चिदास्ते सुखं कृष्णः पुरस्त्रीजनवल्लभः ॥ [भागवतम् १०.६५.९] इत्यादि । हसन्त्यः प्रेमेर्ष्यया कृष्णमुपहसन्त्य इत्यर्थः । ॥१०.६५ ॥ श्रीशुकः ॥ ४०२ ॥ [४०३] यथैव श्रीमद्उद्धवसन्निधावुन्मादवचनमपि दर्शितम् । काचिन्मधुकरं दृष्ट्वा ध्यायन्ती कृष्णसङ्गमम् । प्रियप्रस्थापितं दूतं कल्पयित्वेदमब्रवीत् ॥ [भागवतम् १०.४७.११] काचिच्छ्रीराधा । तथैव आख्यातं वासनाभाष्ये । एतद्विवरणं च श्री दशमटिप्पन्यां दृश्यमिति । [४०४] तत्र उन्मादेनैव मानिनीभङ्ग्याह अष्टभिःमधुप कितवबन्धो [भागवतम् १०.४७.१२] इत्यादि । [४०५] माने कारणमाह सकृदधरसुधां [भागवतम् १०.४७.१३] इत्यादि [४०६] अत्र किंवदन्तीमाश्रित्य पद्मायाः प्रतिनायिकात्वेनोपन्यासः क्रियते । दूत प्रस्तुतिप्रत्याख्यानं किमिह [भागवतम् १०.४७.१४] इति । [४०७] विजयते सर्वं वशीकरोति इति विजयः श्रीकृष्णः स एव सखा त्वद्बन्धुः । तस्य सखीनां सम्प्रति माथुरीणामेवाग्रतः तस्य विजयस्य तद्वशीकार पर्यन्तस्य प्रसङ्गः । तथापि तद्आसक्तौ तद्दोष एव कारणमिति स्व दोषं परिहरन्ती दैन्यमालम्ब्य तस्य निर्दयत्वं प्रतिपादयति दिवि भुवि च [भागवतम् १०.४७.१५] इत्यादि । [४०८] अपि च । एवमपि अस्मद्विधकृपणपक्षपाते सत्येव तत्र उत्तमश्लोक शब्दो भवितुमर्हति सम्प्रति तु तस्य तद्अभावदर्शनान्न सदयत्वं तद्अभावान्यतरामुत्तमश्लोकत्वमपि इति भावः । (पगे १५३) स्व कौमल्यमुद्रया जनितं तच्चाटुकारोद्यमतिशयं मत्वाह विसृज शिरसि [भागवतम् १०.४७.१६] इत्यादि । [४०९] ततः प्रणयेर्षया तस्मिन् दोषमारोप्यापि स्वस्व्यास्तदीयासक्ति परित्यागासामार्थ्यं वर्णयन्ती तत्तद्दोषं परिहरति मृगयुर्[भागवतम् १०.४७.१७] इत्यादि । [४१०] यतस्तेऽप्यसिता एवंविधास्तस्मादसितस्य श्यामजातिमात्रस्य सख्यैः प्रणयबन्धैः । पुनः तत्कथाया यद्दुस्त्यजत्वं तत्खलु तस्यापि दोषत्वेनैव स्थापयति यदनुचरित [भागवतम् १०.४७.१८] इत्यादि । [४११] कर्णस्यैव पीयूषं न तु मनस इत्यापातमात्रस्वाद्यत्वं बोधितम् । विधूतद्वन्द्वधर्मत्वादेव विनष्टा अचेतनप्राया जाताः । इह वृन्दावने व्हङ्गाः शुकादयोऽपि भिक्षोः सन्न्यासिनश्चर्यां देहादिनैरपेक्ष्यं चरन्ति आचरन्तो दृश्यन्त इत्यर्थः । ततः सानुतापम् आह वयमृतम् [भागवतम् १०.४७.१९] इति । [४१२] तदेवमष्टकेन मानभङ्गीं व्यज्य स्वकाठिन्यातिशयेन दूतं निवर्तमानमाशङ्क्य कलहान्तरिताभङ्ग्या द्वयेनाह प्रियसखा [भागवतम् १०.४७.२०] इति । [४१३] तत्रापि सकौटिल्यमर्धेनाह नयसीति । द्वन्द्वं मिथुनीभावः । दुस्त्यजद्वन्द्वत्वे हेतुः सततमिति । अत्र तद्वक्षसि स्थिता लक्ष्मी रेखैव प्रेमेर्ष्यया साक्षात्तद्रूपत्वेनोत्प्रेक्षिता । अन्ते सदैन्यमाह अपि बत [भागवतम् १०.४७.२१] इति । श्रीकृष्णसन्देशो यथोदाहृतः श्रीकृष्णसन्दर्भे भवतीनां वियोगो मे [भागवतम् १०.४७.२९] इत्यादिकः । अत्र प्रकाशान्तरेण सर्वव्रजसहितस्य तस्य नित्यवृन्दावनविहाररूपोऽर्थस्तत्रैव प्रतिपादितः । यस्तु व्यक्तो ज्ञान योगप्रतिपादकः स च दुःखादौ शमयितव्ये लोकरीत्या सम्भवतीत्य् एके । तत्र ज्ञानयोगोपदेशेन तासां न शान्तिरिति द्वितीयसन्देशो यत्त्वहं भवतीनां वै [भागवतम् १०.४७.३४] इत्यादिकः । या मया क्रीडता रात्र्याम् [भागवतम् १०.४७.३७] इत्यन्तः । अत्र यत्त्वहमित्यादौ अपि स्मरथ नः सख्यः स्वानामर्थचिकीर्षया गतान् [भागवतम् १०.८२.४२] इत्यादि वक्ष्यमाणानुसारेण कार्यान्तरस्यापि भवत् प्रेमसुखवृद्धिफलत्वमेवेत्यभिप्रायः । ततस्ताः कृष्णसन्देशैर्व्यपेतविरहज्वराः । उद्धवं पूजयां चक्रुर्ज्ञात्वात्मानमधोक्षजम् ॥ [भागवतम् १०.४७.५३] इत्यत्रापि व्यपेतविरहज्वरत्वं तद्आगमनादिश्रवणेनापातशान्ति रूपमेव क्वचिद्गदाग्रजः सौम्य [भागवतम् १०.४७.४०] इत्य्आद्य्उक्तेः । आत्मानं तस्य तद्दूततया तत्प्रेर्यत्वेनान्तःकरणाधिष्ठातारमधोक्षजं श्री कृष्णमेव मत्वा तद्आत्मकत्वेनोद्धवं पूजयाञ्चक्रुरित्यर्थः । यथा चोक्तम् तमागतं समागम्य कृष्णस्यानुचरं प्रियम् । नन्दः प्रीतः परिष्वज्य वासुदेवधियार्चयत् ॥ [भागवतम् १०.४६.१४] इति । ॥ १०.४७ ॥ श्रीशुकः ॥ ४०३४१३ ॥ [४१४] एवं श्रीबलदेवद्वारकसन्देशोऽप्यनुमेयः सङ्कर्षणस्ताः कृष्णस्य सन्देशैर्हृदयंगमैः । सान्त्वयामास भगवान्नानानुनयकोविदः ॥ [भागवतम् १०.६५.१६] इत्यनुसारेण । अथ तद्अनन्तरजः सन्दर्शनादिमयः सम्भोगः कुरुक्षेत्र प्रसिद्धः । यथा गोप्यश्च कृष्णमुपलभ्य चिरादभीष्टं (पगे १५४) यत्प्रेक्षणे दृशिषु पक्ष्मकृतं शपन्ति । दृग्भिर्हृदीकृतमलं परिरभ्य सर्वास् तद्भावमापुरपि नित्ययुजां दुरापम् ॥ [भागवतम् १०.८२.३९] [४१५] तदेवं तासामवस्थामुक्त्वा श्रीभगवतोऽपि तद्विषयकस्नेहमयीम् ईहामाह भगवांस्तास्तथाभूता विविक्त उपसङ्गतः । आश्लिष्यानामयं पृष्ट्वा प्रहसन्निदमब्रवीत् ॥ [भागवतम् १०.८२.४०] [४१६] अन्तःसक्षोभेणापि रुक्ष एव प्रहासोऽयं स्वापराधं क्षमयता प्रपञ्चितः । तत्र स्वव्यवहारोपपत्त्या सान्त्वयति अपि स्मरथ नः सख्यः स्वानामर्थचिकीर्षया । गतांश्चिरायिताञ्छत्रु पक्षक्षपणचेतसः ॥ [भागवतम् १०.८२.४१] [४१७] किं वा रोषेण स्मरणमपि न कुरुथेति भावः । तत्र स्वदोषनिवारणं स्वानामिति । स्वानां स्वेषामस्मत्पितुः श्रीव्रजराजस्य बन्धुवर्गाणां यादवानाम् । उभयेषामपि यादवत्वेन ज्ञान्तीनामिति वा । तत्रातिविलम्बे कारणं शत्रुपक्षेति । ततश्च भवतीनां निर्विघ्नः संयोगोऽप्यनेन भविष्यतीति भावः । आत्मनो वामान्तरसङ्गमाशङ्क्य परमेश्वर पारतन्त्र्योपपादानेन सान्त्वयति अप्यवध्यायथास्मान् स्विदकृतज्ञाविशङ्कया । नूनं भूतानि भगवान् युनक्ति वियुनक्ति च ॥ [भागवतम् १०.८२.४२] इत्यादि द्वयम् । [४१८] स्वस्य परमेश्वरत्वप्रसिद्धिमाशङ्क्य सङ्कुचन् तथापि विरहजात प्रेमातिशयोऽयं युष्मद्अभीष्टाव्याघातायैव जात इत्याह मयि भक्तिर्हि भूतानाममृतत्वाय कल्पते । दिष्ट्या यदासीन्मत्स्नेहो भवतीनां मद्आपनः ॥ [भागवतम् १०.८२.४४] टीका चमयि भक्तिमात्रमेव तावदमृतत्वाय कल्पते । यत्तु भवतीनां मत्स्नेह आसीत्तद्दिष्ट्या अतिभद्रम् । कुतः मद्आपनः मत् प्रापणः इत्येषा । [४१९] तत्र स्वप्राप्तौ विश्वासार्थं देशान्तरस्थितस्यापि स्वस्य श्रीकृष्णाख्य नराकृतिपरब्रह्मणः सर्वाश्रयत्वमनुभावयति अहं हि सर्व भूतानाम् [भागवतम् १०.८२.४४] इत्यादिद्वये । [४२०] उक्तं च दामोदरलीलायां न चान्तर्न बहिर्यस्य [भागवतम् १०.९.१३] इत्यादि । अत्र च पद्यद्वये प्रकाशान्तरेण वृन्दावन एव सर्वव्रजसहिततदीय नित्यविहारः श्रीकृष्णसन्दर्भे दर्शितः । स एवात्रानुसन्धेयः । तत्र च तासां तथैवानुभवोदेयो जात इत्याह अध्यात्मशिक्षये [भागवतम् १०.८२.४५] इति । आत्मानं स्वं श्रीकृष्णमधिकृत्य या शिक्षा तया । विरहोद्भुततद् अनुस्मरणजीर्णदेहास्तं श्रीकृष्णं तथैवान्वभवन्निति । एके त्वाहुः अहं हीत्यादिकं लोकरीत्या दुःखनिवारणार्थमेव ब्रह्मज्ञानम् उक्तम् । न तु तत्र तात्पर्यम् । यथा रुक्मिवैरूप्यकृतौ श्रीबलदेवेन वहति न तु तत्र तात्पर्यं, तद्वत् । तदेवमेव तादृशाध्यात्मशिक्षयापि तास्तमेवाध्यगान्न तु ब्रह्मेति । [४२१] तथापि तासां साक्षात्प्राप्त्य्उत्कण्ठामाह आहुश्च ते नलिननाभ पदारविन्दम् [भागवतम् १०.८२.४८] इत्यादि । तत्र हे नलिननाभ, नोऽस्माकं दुःखोद्रेकेण त्वच्चिन्तनारम्भ जायमानमूर्छानां ते तव पदारविन्दं मनस्यप्युदियात् । यत्खलु यथा भवतोपदिस्टं तद्अनुसारेणाक्षुभितबोधैर्(पगे १५५) योगेश्वरैर् हृदि विचिन्त्यमित्यादि श्रीकृष्णसन्दर्भव्याख्या द्रष्टव्या (Kऋष्णष् १७०) ॥ ॥ १०.८२ ॥ श्रीशुकः ॥ ४१४४२१ ॥ [४२२] तदेवं सन्दर्शनसंस्पर्शनसंजल्पात्मकसम्भोगोऽत्र दर्शितः । तस्मिन्मासत्रयसंवासात्मके च वैशेष्ट्यान्तरमप्यूह्यम् । अथ पुनस् तद्अनन्तरजातविप्रलम्भानन्तरमपि भावी योऽपुनर्विच्छेदः सम्भोगः स च तत्रैव सूचितोऽस्ति । यता तथानुगृह्य भगवान् गोपीनां स गुरुर्गतिः [भागवतम् १०.८३.१] इति । आहुश्चेत्यादिना यथा तासां साक्षात्तत्प्राप्तिपर्यन्तमभीष्टं तथानुगृह्य गतिर्नित्यतया प्राप्तव्यः । ॥ १०.८३ ॥ श्रीशुकः ॥ ४२२ ॥ [४२३] एवमेव श्रीकृष्णसअन्दर्भे पाद्मोत्तरखण्डाद्य्अनुसारेण दर्शितम् अस्ति । तत्र हि श्रीकृष्णस्य द्वारकातो वृन्दावने पुनरागमनम् । तदा प्रापञ्चिकलोकप्रकटतया मासद्वयं ताभिः क्रीडा । तद्अनन्तरं च तद्अप्रकटतया ताभ्यो नित्यसंयोगदानमिति । एकादशेऽपि स्वयम् एवोद्धवं प्रति तदेव स्पष्टमुक्तम् । तत्र रामेण सार्धं मथुरां प्रणीत [भागवतम् ११.१२.१०] इत्य्आदिद्वये वियोगतीव्राधयस्ता मत्तोऽन्यं सुखाय न ददृशुरिति । तास्ताः क्षपा मया हीनाः कल्पसमा बभूवुः [भागवतम् ११.१२.११] इति चातीतप्रयोगेण तदानीं विरहस्य नास्तित्वं बोधितम् । तद्अनन्तरं स्वप्राप्तिसुखोल्लासश्च वर्णितः । ता नाविदन्मय्यनुषङ्ग बद्धधियः [भागवतम् ११.१२.१२] इत्य्आदिद्वयेन । अनु महाविरहस्य पश्चाद् यः सङ्गस्तेन बद्धधियः सत्यः परमानन्दावेशेन तदानीं किमपि नाविदन् । हर्षमोहं प्रापुरित्यर्थः । तत्र तज्ज्ञानस्य कृष्णैकतानतायां दृष्टान्तः यथेति । अस्यार्थान्तरमपि श्रीकृष्णसन्दर्भे कृतमस्ति मत्कामा रमणं जारम् [भागवतम् ११.१२.१३] इत्य् आदौ तद्अनन्तरपद्ये तं च यादृशं प्रापुस्तथा विशिनष्टि । विवृतं च तत्रैव सङ्क्षेपतश्च । मां श्रीकृष्णाख्यं परमं ब्रह्म प्रापुः । तं च मन्नित्यप्रेयसीलक्षणं स्वस्वरूपमजानन्त्यो जाररूपं पूर्वं प्रापुः । तथापि मयि कामः रमणत्वेनाभिलाषो यासां तादृश्यः सत्यो रमणरूपं तु पश्चादिति । ततः परकीयाभासत्वं च तासां कालकतिपयमयत्वेनैव व्याख्यातम् । एवमेवाभिप्रेतमस्मदुपजीव्यश्रीमच्चरणानामुज्ज्वलनीलमणौ तत्रोपक्रमे नेष्टा यदङ्गिनि रसे कविभिर्परोढा तद्गोकुलाम्बुजदृशां कुलमन्तरेन । आशांसया रसविधेरवतारितानां कंसारिणा रसिकमण्डलशेखरेण ॥ [ऊण्५.३] इत्यत्रावतारसमय एव तथा व्यवहारनिगमनात् । उपसंहारे च ललित माधवस्य [७.१८] दग्धं हन्त दधानया वपुः इत्यादावौपपत्य भ्रमहानान्तरलीलायां सर्वफलस्य समृद्धिमद्आख्यस्य सम्भोगस्य दर्शितत्वात् । तदेवमस्य विप्रलम्भचतुष्टयपुष्टस्य सम्भोगचतुष्टयस्य सन्दर्शनादित्रयात्मकस्यावान्तरभेदा अन्येऽपि ज्ञेयाः । यथा लीला चौर्यं सङ्गानं रासः जलक्रीडा वृन्दावनविहार इत्यादयः । तत्र लीला चौर्यं यथा तासां वासांस्युपादाय नीपमारुह्य सत्वरः [भागवतम् १०.२२.९] इत्यादि । स्पष्टम् । ॥ १०.२२ ॥ श्रीशुकः ॥ ४२३ ॥ [४२४] सङ्गानं काचित्समं मुकुन्देन [भागवतम् १०.३३.९] इत्यादौ । एवं कदाचिदथ गोविन्दो रामश्चाद्भुतविक्रमः । विजह्रतुर्वने रात्र्यां मध्यगौ व्रजयोषिताम् ॥ (पगे १५६) उपगीयमानौ ललितं स्त्रीजनैर्बद्धसौहृदैः । स्वलङ्कृतानुलिप्ताङ्गौ स्रग्विनौ विरजोऽम्बरौ ॥ [भागवतम् १०.३४.२०२१] इत्यादि । प्रायो होरिकावसरोऽयम् । व्रज एव गानेन सभ्रातृकस्यापि तस्य स्त्रीजनैर् विहारात् । तथा भविष्योत्तरविधानात् । तथैवाद्याप्यार्यावर्तीयप्रजानाम् आचारोऽपि दृश्यते । अत्र च निशामुखं मानयन्तावुदितोडुपतारकम् [भागवतम् १०.३४.१३] इति तन्मोहात्सवशालिन्यां फाल्गुनपौर्णमास्यां हेमन्तशिशिर हिमकुज्झटिकान्ते चन्द्राद्य्उल्लासे तद्उल्लासो वर्णितः । तस्मात्तदानीं सख्योल्लासधारिणा श्रीरामेणापि युतिः सङ्गतैव । वने रात्र्यामिति पाठस् तु क्वाचित्क एव । तत्र च व्रजान्तस्थमेव वनं ज्ञेयम् । ॥ १०.३४ ॥ श्रीशुकः ॥ ४२४ ॥ [४२५४२७] रासः । तत्रारभत गोविन्दो रासक्रीडामनुव्रतैः [भागवतम् १०.३३.२] इत्यादि । जलक्रीडा सोऽम्भस्यलं युवतिभिः परिषिच्यमानः [भागवतम् १०.३३.२३] इत्यादि । वृन्दावनविहारः ततश्च कृष्णोपवने जलस्थलप्रसूनगन्धानिल जुष्टदिक्तटे [भागवतम् १०.३३.२४] इत्यादि । स्पष्टम् । ॥ १०.३३ ॥ सः ॥ ४२५४२७॥ [४२८] अथ सम्प्रयोगो यथाबाहुप्रसारपरिरम्भकरालकोरुनीवी [भागवतम् १०.२९.४६] इत्यादि । स्पष्टम् । ॥ १०.२९ ॥ सः ॥ ४२८ ॥ [४२९] इयं च श्रीकृष्णचन्द्रस्योज्ज्वललीला राससम्बन्धिन्यप्यनन्तत्वेन सम्मता एवं शशाङ्कांशुविराजिता निशाः [भागवतम् १०.३३.२५] इत्यादौ । अथ सर्वसौभाग्यवतीमूर्ध्वमणेः श्रीराधिकायाः सम्बन्धिनीं लीलां वर्णयन्ति कस्याः पदानि चैतानि याताया नन्दसूनुना । अंसन्यस्तप्रकोष्ठायाः करेणोः करिणा यथा ॥ अनयाराधितो नूनं भगवान् हरिरीश्वरः । यन्नो विहाय गोविन्दः प्रीतोऽयमनयद्रहः ॥ धन्या अहो अमी आल्यो गोविन्दाङ्घ्र्यब्जरेणवः । यान् ब्रह्मेशो रमा देवी दधुर्मूर्ध्न्यघनुत्तये ॥ तस्या अमूनि नः क्षोभं कुर्वन्त्युच्चैः पदानि यत् । यैकापहृत्य गोपीनां रहो भुङ्क्तेऽच्युताधरम् ॥ न लक्ष्यन्ते पदान्यत्र तस्या नूनं तृणाङ्कुरैः । खिद्यत्सुजाताङ्घ्रितलामुन्निन्ये प्रेयसीं प्रियः ॥ इमान्यधिकमग्नानि पदानि वहतो वधूम् । गोप्यः पश्यत कृष्णस्य भाराक्रान्तस्य कामिनः ॥ १ रावरोपिता कान्ता पुष्पहेतोर्महात्मना । अत्र प्रसूनावचयः प्रियार्थे प्रेयसा कृतः ॥ प्रपदाक्रमणे एते पश्यतासकले पदे । केशप्रसाधनं त्वत्र कामिन्याः कामिना कृतम् । तानि चूडतया कान्तामुपविष्टमिह ध्रुवम् ॥ [भागवतम् १०.३०.२७३४] अत्र कस्या इति सर्वासां वाक्यम् । अनया इति सुहृदाम् । धन्या इति तट्स्थानाम् । तस्या इति प्रतिपक्षाणाम् । न लक्ष्यन्त इति ताः खेदयन्तीनां सखीनाम् । इमानीति तद्असहमानानां प्रतिपक्षाणाम् । अत्रावरोपितेति सार्धं पुनः सखीनाम् । केशेति पुनः प्रतिपक्षाणामर्धम् । तानीति पुनः सखीनाम् इति ज्ञेयम् । तन्मिथुनविषयकतत्तच्छब्दप्रयोगेण सौहृदादिव्यञ्जनात् । या तु विलोक्यार्ताः समब्रुवन् [भागवतम् १०.३०.२६] इति सर्वासामेवार्तिरुक्ता सापि स्वस्योत्कण्ठाविशेषेण सर्वत्र सङ्गच्छत एव ॥ ॥ १०.३० ॥ श्रीव्रजदेव्यः ॥ ४२९ ॥ तत्र तस्याः श्रीवृन्दावनेश्वर्या लीलायां प्राक्प्रदर्शितमप्येणपत्नी [भागवतम् १०.३०.११] इत्य्आदिद्वयं चानुसन्धेयम् ॥ तत्र विस्तरशङ्कातो या या व्याख्या न विस्तृता । सा श्रीदशमटिप्पन्यां दृश्या रसमभीप्सुभिः ॥ तदेवमनेन सन्दर्भेण शास्त्रप्रयोजनं व्याख्यातम् । तथा चैवम् अस्तु । आलीभिः परिपालितः प्रवलितः सानन्दमालोकितः प्रत्याशं सुमनःफलोदयविधौ सामोदमामोदितः । वृन्दारण्यभुवि प्रकाशमधुरः सर्वातिशायिश्रिया राधामाधवयोः प्रमोदयतु मामुल्लासकल्पद्रुमः ॥ तादृशभावं भावं प्रथयितुमिह योऽवतारमायातः । आदुर्जनगणशरणं स जयति चैतन्यविग्रहः कृष्णः ॥ इति श्रीकलियुगपावनस्वभजनविभाजनप्रयोजनावतारश्रीश्री भगवत्कृष्णचैतन्यदेवचरणानुचरविश्ववैष्णवराजसभाजन भाजनश्रीरूपसनातनानुशासनभारतीगर्भे श्रीभागवतसन्दर्भे प्रीतिसन्दर्भो नाम षष्ठः सन्दर्भः ॥ श्रीभागवतसन्दर्भे सर्वसन्दर्भगर्भगे । प्रीत्याख्यः षष्ठः सन्दर्भः समाप्तिमिह सङ्गतः ॥ समाप्तोऽयं षष्ठः सन्दर्भः । सम्पूर्णोऽयं ग्रन्थः । श्रीप्रीतिसन्दर्भः