राधाकृष्णार्चनदीपिका सनातनसमो यस्य ज्यायान् श्रीमान् सनातनः । श्रीवल्लभोऽनुजः सोऽसौ श्रीरूपो जीवसद्गतिः ॥१॥ पुराणसंहितातन्त्र मन्त्रश्रुतिसमन्वितम् । गीताभागवतं शास्त्रं जयताद्व्रजधामसु ॥२॥ श्रीदामोदरराधार्चनमर्हति व्रजस्थानाम् । आवश्यकतामशाव्यनयो रत्राधिदेव्यं हि ॥३॥ तत्र कश्चित्शास्त्रप्रमाणकत्वं न मन्यते, तं प्रतीदं ब्रूमः लक्ष्मीरभितः स्त्रीतमा गोप्यो लक्ष्मीतमाः प्रथिताः । राधा गोपीतमा चेदस्याः का समा रामा ॥४॥ इति ॥ [*ण्Oट्E: ठिस्वेर्से इसॄउओतेदत्ङोपालचम्पू १.२५.] आस्तां तावत्लक्ष्मीविजेतृगुणगणगोपीगणप्रधानतया श्रीकृष्णसन्दर्भादौ निर्णीता । [*ण्Oट्E: ড়ोर्तिओन्सोf ऋKआढवे बेएन् लिfतेद्wहोलेसले fरों थे षन्दर्भस्.] अत्र च निर्णेष्यमाणा स्वयं भगवतः श्रीकृष्णस्य स्वयं लक्ष्मीरूपा श्रीराधा । गोपीजनमात्रसंवलितः स उपास्यत इत्यत्र शास्त्राणि शृणु । तत्रारोहभूमिकाक्रमेण दर्श्यते । आराधनं हि कृष्णस्य भवेदावश्यकं यथा । तथा तदीयभक्तानां नो चेद्दोषोऽस्ति दुस्तरः ॥५॥ [*ण्Oट्E: ठिस्वेर्से इस्, बुत्fओर्मुकुन्दस्य इन् थे प्लचे ओf हि कृष्णस्य, थे समे असॢBहाग्२.१. ठे fओल्लोwइन्ग्सेच्तिओन् fओल्लोwस्च्लोसेल्योन् ळBहाग्२.] (एन्द्पगे १) अत्र श्रीकृष्णस्य यथा गौतमीयतन्त्रे असारे घोरसंसारे सारं कृष्णपदार्चनम् । जन्मासाद्य मनुष्येषु शुद्धे च पितृमातरि । यो नार्चयति कल्पः सन् तस्मात्पापतरो हि कः ॥६॥ महाभारते मातृवत्पर्रक्षन्तं सृष्टिसंसारकारकम् । यो नार्चयति देवेशं तं विद्याद्ब्रह्मघातकम् ॥७॥ अथ तदीयानां यथा पाद्मे मार्कण्डेयोऽम्बरीषस्य वसुर्व्यासो विभीषणः । पुण्डरीको बलिः शम्भुः प्रह्लादो विदुरो ध्रुवः ॥८॥ दाल्भ्यः पराशरो भीष्मो नारदाद्याश्च वैष्णवैः । सेव्यो हरिं निषेव्यामी नो चेद्दोषः परं भवेत् ॥९॥ तथा हरिभक्तिसुधोदये (१६.७६) अर्चयित्वा तु गोविन्दं तदीयान्नार्चयन्ति ये । न ते विष्णोः प्रसादस्य भाजनं दाम्भिका जनाः ॥१०॥ पाद्मोत्तरखण्डे आराधनानां सर्वेषां विष्णोराराधनं परम् । तस्मात्परतरं देवि तदीयानां समर्चनम् ॥११॥ अर्चयित्वा तु गोविन्दं तदीयान्नार्चयेत्तु यः । न स भागवतो ज्ञेयः केवलं दाम्भिकः स्मृतः ॥१२॥ इति । अत्र पूर्वत्र च तदीयशब्देन तस्य भक्ता एव उच्यन्ते । तत्त्वन्ये (एन्द्पगे २) द्वौ भूतसर्गौ लोकेऽस्मिन् दैव आसुर एव च । विष्णोर्भक्तिपरो दैव आसुरस्तद्विपर्ययः ॥१३॥ इति विष्णुधर्माग्निपुराणादिनियमात् । तत्सृष्ट्यादिलीलागतत्वेऽपि तद्उदासीनेष्वौदासीन्यस्य योग्यत्वम् । तद्द्वेष्टृषु तद्द्वेष्यस्यैवेति च । तथैव दर्शितं सप्तमे राजसूयारम्भे श्रीयुधिष्ठिरादिभिः शिशुपालं प्रति गालिप्रदानादिना । अतः श्रीभगवानप्युक्तं प्रवृत्तिं च निवृत्तिं च (ङीता १६.७) इत्यारभ्य तानहं द्विषतः क्रूरान् संसारेषु नराधमान् । क्षिपाम्यजस्रमशुभानासुरीष्वेव योनिषु ॥१३॥ आसुरीं योनिमापन्ना मूढा जन्मनि जन्मनि । मामप्राप्यैव कौन्तेय ततो यान्त्यधमां गतिम् ॥१४॥ (ङीता १६.१९२०) तथा अवजानन्ति मां मूढा मानुषीं तनुमाश्रितम् । परं भावमजानन्तो मम भूतमहेश्वरम् ॥१५॥ मोघाशा मोघकर्माणो मोघज्ञाना विचेतसः । राक्षसीमासुरीं चैव प्रकृतिं मोहिनीं श्रिताः ॥१६॥ (ङीता ९.१११२) इत्यनेन स्वभक्ताः स्तुताः । महात्मानस्तु मां पार्थ दैवीं प्रकृतिमाश्रिताः । भजन्त्यनन्यमनसो ज्ञात्वा भूतादिमव्ययम् ॥१७॥ (एन्द्पगे ३) सततं कीर्तयन्तो मां यतन्तश्च दृढव्रताः । नमस्यन्तश्च मां भक्त्या नित्ययुक्ता उपासते ॥१८॥ (ङीता ९.१३१४) अतैवैकादशे मद्भक्तपूजाभ्यधिका इति । मम पूजतोऽप्यभि सर्वतोभावेनाधिका अधिकमत्प्रीतिकरीत्यर्थः । तस्मान्मद्भक्तपूजावश्यका चान्तरङ्गा चेति स्थिते एतेषामपि सर्वेषां प्रह्लादः प्रवरो मतः । [*ण्Oट्E: ठेसे त्wओ लिनेसरे ळBहाग्२.८, wहिछ्fइनिस्हेस्यत्प्रोक्तं तस्य माहात्म्यं स्कान्दभागवतादिषु.] सर्वेषु हरिभक्तेषु प्रह्लादो हि महत्तमः ॥२०॥ [*ण्Oट्E: (ष्कन्दড়्) ळBहाग्२.९] सप्तमे प्रह्लादस्यैव हि वाक्यम् क्वाहं रजःप्रभव ईश तमो ऽधिके ऽस्मिन् जातः सुरेतरकुले क्व तवानुकम्पा । न ब्रह्मणो न तु भवस्य न वै रमाया यन्मे ऽर्पितः शिरसि पद्मकरः प्रसादः ॥ (भागवतम् ७.९.२६) तत्रैव श्रीनृसिंहवाक्यम् भवन्ति पुरुषा लोके मद्भक्तास्त्वामनुव्रताः । भवान्मे खलु भक्तानां सर्वेषां प्रतिरूपधृक् ॥२२॥। सर्वतः पाण्डवः श्रेष्ठाः प्रह्लादादीदृशादपि । श्रीमद्भागवतं सम्यक्प्रमाणं स्फुटमीक्षते ॥२३॥ [*ण्Oट्E: ळBहाग्२.१२, wहिछ्बेगिन्स्पाण्डवाः सर्वतः श्रेष्ठाः.] तथा श्रीनारदवाक्यम् यूयं नृलोके बत भूरिभागा लोकं पुनाना मुनयो ऽभियन्ति । येषां गृहानावसतीति साक्षाद् गूढं परं ब्रह्म मनुष्यलिङ्गम् ॥ (७.१०.४८) [*ण्Oट्E: Kऋष्णष्५९* (प्२२), ८२ (प्३३)] (एन्द्पगे ४) स वा अयं ब्रह्म महद्विमृग्य कैवल्यनिर्वाणसुखानुभूतिः । प्रियः सुहृद्वः खलु मातुलेय आत्मार्हणीयो विधिकृद्गुरुश्च ॥ (७.१०.४९) न यस्य साक्षाद्भवपद्मजादिभी रूपं धिया वस्तुतयोपवर्णितम् । मौनेन भक्त्योपशमेन पूजितः प्रसीदतामेष स सात्वतां पतिः ॥ (७.१०.५०) व्याख्यातं च श्रीस्वामिचरणैः प्रह्लादस्य भाग्यं येन देवो दृष्टः । वयं तु मन्दभाग्या इति विषीदन्तं राजानं प्रत्याह यूयमिति त्रिभिः । पद्यत्रयस्य तात्पर्यार्थस्तैरेव लिखितः । न तु प्रह्लादस्य गृहेषु परं ब्रह्म वसति । न च तद्दर्शनार्थं मुनयस्तद्गृहानभियन्ति । न च तस्य मातुलेयादिरूपेण वर्तते । न च स्वयमेव प्रसन्नः । अतो यूयमेव ततोऽपि समत्तोऽपि भूरिभागा इति भावः ॥ इति । सदातिसन्निकृष्टत्वान्ममताधिक्यतो हरेः । पाण्डवेभ्योऽपि यदवः केचिच्छ्रेष्ठतमा मताः ॥ तथा श्रीदशमे अहो भोजयते यूयं जन्मभाजो नॄणामिह । यत्पश्यताऽसकृत्कृष्णं तद्दर्शनमपि योगिनाम् ॥ (१०.८२.२८) (एन्द्पगे ५) तद्दर्शनस्पर्शनानपथप्रजल्प शय्यासनाशनसयौनसपिण्डबन्धः । येषां गृहे निरयवर्त्मनि वर्ततां वः स्वर्गापवर्गविरमः स्वयमास विष्णुः ॥ (१०.८२.३०) तथा शय्यासनाटनालाप क्रीडास्नानाशनादिषु । न विदुः सन्तमात्मानं वृष्णयः कृष्णचेतसः ॥३०॥ (भागवतम् १०.९०.४६) यदुभ्योऽपि वरिष्ठोऽसौ भगवान् श्रीमद्उद्धवः । [*ण्Oट्E: ठे fइर्स्त्त्wओ लिनेस्fओल्लोw ळBहाग्२.२२. सर्वेभ्यो fओर्भगवान्.] यादवेन्द्रस्य यो मन्त्री शिष्यो भृत्यः प्रियो महान् आबाल्यादेव गोविन्दे भक्तिरस्य सदोत्तमा ॥३१॥ [*ण्Oट्E: ठे लस्त्त्wओ लिनेसरे ळभग्२.२५.] तथा तृतीये यः पञ्चहायनो मात्रा प्रातर्आशाय याचितः । तन्नैच्छद्रचयन् यस्य सपर्यां बाललीलया ॥३२॥ (भागवतम् ३.२.२) श्रीदशमे च वृष्णीनां प्रवरो मन्त्री कृष्णस्य दयितः सखा । शिष्यो बृहस्पतेः साक्षादुद्धवो बुद्धिसम्मतः ॥३३॥ तमाह भगवान् प्रेष्ठं भक्तमेकान्तिनं क्वचित् । गृहीत्वा पाणिना पाणिं प्रपन्नार्तिहरो हरिः ॥३४॥ (१०.४६.१२) एकादशे च (१६.२४) त्वं तु भागवतेष्वहमिति । न च सङ्कर्षणो न श्रीर्नैवात्मा च यथा भवानिति च । अतैव तृतीये स्वयं तथैवाचरितम् (एन्द्पगे ६) नोद्धवो ऽण्वपि मन्न्यूनो यद्गुणैर्नार्दितः प्रभुः । अतो मद्वयुनं लोकं ग्राहयन्निह तिष्ठतु ॥३५॥ (भागवतम् ३.४.३) यद्यस्माद्गुणैः सत्त्वादिभिर्नार्दितो न पीडितः गुणातीतः इत्यर्थः । यतः प्रभुः भक्तिरसास्वादे प्रभविष्णुः । व्रजदेव्यो वरीयस्य ईदृशादुद्दवादपि । यदासां प्रेममाधुर्यं स एषोऽप्यभियाचते ॥३६॥ (ळ्Bहाग्२.२९) तथा हि दशमे दृष्ट्वैवमादि गोपीनां कृष्णावेशात्मविक्लवम् । उद्धवः परमः प्रीतस्ता नमस्यन्निदं जगौ ॥३७॥ (भागवतम् १०.४७.५७) नमस्यन्निति वर्तमानशतृप्रयोगो नमस्कारस्यानवच्छिन्नत्वं बोधयति । इदं वक्ष्यमाणं तदेवाह एताः परं तनुभृतो भुवि गोपवध्वो गोविन्द एवमखिलात्मनि रूढभावाः । वाञ्छन्ति यद्भवभियो मुनयो वयं च किं ब्रह्मजन्मभिरनन्तकथारसस्य ॥३८॥ [भागवतम् १०.४७.५८] भावस्य दुर्लभत्वाद्धि तासां तत्सिद्धये पुनः । पादरेणूक्षितं येन तृणजन्मापि याच्यते ॥३९॥ [*ण्Oट्E: ठे सेचोन्द्लिने इसेxअच्त्ल्य्२.४१, थे fइर्स्त्लिने ओf wहिछिस् न चित्रं प्रेममाधुर्यम् आसां वाञ्छेद्यदुद्धवः ।] तथा हि श्रीदशमे आसामहो चरणरेणुजुषामहं स्याम् वृन्दावने किमपि गुल्मलतौषधीनाम् । (एन्द्पगे ७) या दुस्त्यजं स्वजनमार्यपथं च हित्वा भेजुर्मुकुन्दपदवीं श्रुतिभिर्विमृग्याम् ॥४०॥ [भागवतम् १०.४७.६१] तस्या मृग्यत्वं श्रुतिभिरेवोक्तं, यथा तत्रैव निभृतमरुन्मनोक्षदृढयोगयुजो हृदि यन् मुनय उपासते तद्अरयोऽपि ययुः स्मरणात् । स्त्रिय उरुगेन्द्रभोगभुजदण्डविषक्तधियो वयमपि ते समाः समदृशोऽङ्घ्रिसरोजसुधाः ॥४१॥ (भागवतम् १०.८७.२३) अत्र प्रतियुग्मान्तरस्थस्यापि शब्दस्य द्वयेन युग्मद्वयं पृथगवम्यते । ततश्च तद्ब्रह्माख्य तत्तं मुनय उपासते तदरयोऽपि ययुः स्मरणात् । स्त्रियः श्रीव्रजदेव्यः अङ्घ्रिसरोजसुधास्तत्प्रेममय=माधुर्याणि ययुः । वयमपि समदृशस्ताभिः समभावाः सत्यः समास्ताभिः तुल्यतां प्राप्ताः । व्यूहान्तरेण गोप्यो भूत्वा तवाङ्घ्रिसरोजसुधा ययिम इत्यर्थः । अत्र बृहद्वामनपुराणे तासां प्रार्थना पूर्वकाणि वाक्यानि सन्ति । स्त्रीशब्दस्य गोपी वाचकत्वम् । तदरयोऽपि ययुः स्मरणादित्यनेनासुराणामपि मोक्षदातृत्वेन अन्यतया प्रसिद्धस्य श्रीकृष्णस्यैवालम्बनत्वेन लब्धत्वात् । तासामेव तस्मिन् केवलेन रागेण भजनप्रसिद्धेः । तदेतदप्यास्तां श्रीनारायणाङ्गस्थिताया लक्ष्मीतोऽपि तासां परमवैलक्षण्यं तेनैव तादृशनिजभक्तिहेतुत्वेन दर्शितम् । यथा तत्रैव (एन्द्पगे ९) नायं श्रियोऽङ्ग उ नितान्तरतेः प्रसादः स्वर्योषितां नलिनगन्धरुचां कुतो ऽन्याः ॥४२॥ (भागवतम् १०.४७.६०) इत्यनेन लक्ष्म्यादिका निरवशेषा एव स्त्रियो नामुभिः सालक्षण्यं प्राप्नुवन्तीति विलक्षणा । तत्राप्युदगादित्यनेन स प्रसादस्तासु रासप्रसङ्गे उदितवानेव न तु जात इति स्वाभाविकप्रेमवत्यः । केवलस्य श्रीवृन्दावनविहारिणः पूर्णभगवतः सर्वतो विलक्षणस्य नित्यप्रेयसीरूपा इति । सर्वतो विलक्षणालक्ष्मीविशेषत्वेन प्राप्ताः । तस्मात्ताभिः सह तस्य पूजनमावश्यकमित्यायातम् । ततः स्थूणनिखननन्यायेन तद्अर्थं तासां स्वरूपं निरूप्यते । तत्रादौ श्रीभगवत्सन्दर्भे [*ण्Oट्E: ठिसिस्थे स्तर्तिन्ग्पोइन्तोf थे Bहगवत्सन्दर्भ. ठे त्wओ fओल्लोwइन्ग्वेर्सेसरे ॠउओतेदिन् सेच्तिओन् १६ अन्द्२१.] ब्रह्मेति परमात्मेति भगवानिति शब्द्यते इत्य्(भागवतम् १.२.११) आदिना श्रीभगवन्तं सुष्ठु निर्धार्य तस्य शक्तिद्वयी निरूपिता । मायाख्या स्वरूपभूताख्या च । तत्र ऋतेऽर्थं यत्प्रतीयेत न प्रतीयेत चात्मनि । तद्विद्यादात्मनो मायां यथाभासो यथा तमः ॥ [भागवतम् २.९.३३] इत्यनेन एषा माया भगवतः सृष्टिस्थित्य्अन्तकारिणी । त्रिवर्णा वर्णितास्माभिः किं भूयः श्रोतुमिच्छसि ॥ (भागवतम् ११.३.१६) इत्यनेन मायाशक्तिर्निरूपिता । तत्र तस्या अंशाश्च दर्शिताः ॥ अथ यन्न स्पृशन्ति न विदुर्मनो बुद्धीन्द्रिया सर्वैः इत्य्(भागवतम् ६.१६.२०) आदिना । त्वमाद्यः पुरुषः साक्षाद् ईश्वरः (एन्द्पगे ९) प्रकृतेः परः । मायां व्युदस्य चिच्छक्त्या कैवल्ये स्थित आत्मनि ॥ [भागवतम् १.७.२३] इत्यनेन च स्वरूपभूताचिन्त्यशक्तिर्दर्शिता । तस्या वृत्तिभेदेनान्तायाः श्रिया पुष्ट्या गिरा कान्त्या कीर्त्या तुष्ट्येलयोर्जया इत्यादि कियन्तो भेदाश्च दर्शिता (भागवतम् १०.३९.५५) । सा च शक्तिद्वयी अपरा चेति श्रीविष्णुपुराणे दर्शिता सर्वभूतेषु सर्वात्मन् या शक्तिरपरा तव । गुणाश्रया नमस्तस्मै शाश्वतायै सुरेश्वर ॥४५॥ यातीतगोचरा वाचां मनसां चाविशेषणा । ज्ञानिज्ञानपरिच्छेद्या वन्दे तामीश्वरीं पराम् ॥४६॥ इत्यनेन (Vइড়् १.१९.७६७७) ॥ तत्र प्रथमा श्रीवैष्णवानां जगद्वद्उपेक्षणीया यन्मयी एव खलु तस्य जगत्ता । द्वितीया तु तेषां श्रीभगवद्उपास्या तदीयस्वरूपभूता यन्मय्येव खलु तस्य भगवत्ता । तत्रैकमेव स्वरूपांशित्वेन शक्तिमत्त्वेन च विराजतीति । यस्य शक्तेः स्वरूपभूतत्वं निरूपितम् । चिच्छक्तिमत्ता प्रधानेन विराजमानं भगवत्संज्ञमाप्नोतीति तत्रैव दर्शितमेव । तदेवं शक्तित्वप्राधान्येन विराजमानां लक्ष्मीसंज्ञामाप्नोतीति दर्शयितुं प्रकरणमुत्थाप्यते । [*ण्Oट्E: ठे fओल्लोwइन्ग्पस्सगे एन्दिन्ग्wइथ्विशुद्धत्वमिसिन् Bहग्ष्११७.] तत्र तावदेकस्यैव्स्वरूपस्य सत्त्वाच्चित्तादानन्दाच्च स्वरूपभूता शक्तिरप्येका त्रिधा । तदुक्तं विष्णुपुराणे ह्लादिनी सन्धिनी संवित् त्वय्येका सर्वसंस्थितौ । ह्लादतापकरी मिश्रा त्वयि नो गुणवर्जिते ॥४७॥ इति (Vइড়् १.१२.६८) व्याख्यातं च स्वामिभिः । ह्लादिनी आह्लादकरी (एन्द्पगे १०) सन्धिनी सन्तता संविद्विद्याशक्तिः । एका मुख्या अव्यभिचारिणी स्वरूपभूतेति यावत् । सा सर्वसंस्थितौ सर्वस्य सम्यक्स्थितिर्यस्मात्तस्मिन् सर्वाधिष्ठानभूते त्वय्येव न तु जीवेषु च सा गुणमयी त्रिविधा सा त्वयि नास्ति । तामेवाह ह्लादतापकरी मिश्रा इति । ह्लादकरी मनःप्रसादोत्था सात्त्विकी । तापकरी विषयवियोगादिषु तापकरी तामसी । तद्उभयमिश्रा विषयजन्या राजसी । तत्र हेतुः सत्त्वादिगुणवर्जिते । तदुक्तं सर्वज्ञसूक्तौ ह्लादिन्या संविद्आश्लिष्टः सच्चिद्आनन्द ईश्वरः । स्वाविद्यासंवृतो जीवः सङ्क्लेशनिकराकरः ॥४८॥ इति (Bहावार्थदीपिका १.७.६) अत्र क्रमादुत्कर्षेण सन्धिनीसंविद्ध्लादिन्या ज्ञेयाः । तत्र च सति घटानां घटत्वमिव सर्वेषां सतां वस्तूनां प्रतीतेर्निमित्तमिति क्वचित्सत्तास्वरूपत्वेन आम्नातोऽप्यसौ भगवान् सदेव सोम्येदमग्र आसीदित्यत्र सद्रूपत्वेन व्यापदिश्यमाना मया सत्तां दधाति धारयति च सा सर्वदेशकालद्रव्यादिप्राप्तिकरी सन्धिनी । तथा संविद्रूपोऽपि यया संवेत्ति संवेदयति च सा संवित् । तथा ह्लादरूपोऽपि यया संविदुत्कटरूपया तं ह्लादं संवेत्ति संवेदयति च सा ह्लादिनीति विवेचनीयम् । तदेवं तस्या मूलशक्तेस्त्र्य्आत्मकत्वेन सिद्धे येन स्वप्रकाशतालक्षणेन तद्वृत्तिविशेषेण स्वरूपं स्वयं स्वरूपशक्तिर्वा विशिष्टमाविर्भवति तद्विशुद्धसत्त्वम् । तच्चान्यनिरपेक्षयस्तत्प्रकाश इति ज्ञापनज्ञानवृत्तिकत्वात्संविदेव । अस्य मायया स्पर्शाभावात्विशुद्धत्वम् । [*ण्Oट्E: ठिसेन्तिरे सेच्तिओन् बेगिन्निन्ग्wइथ्ह्लादिनी सन्धिनी संवितिस्fओउन्दिन् Bहगवत्सन्दर्भ, सेच्तिओन् ११७.] तदुक्तं श्रीविष्णुपुराणे (एन्द्पगे १२) सत्त्वादयो न सन्तीशे यत्र च प्राकृता गुणाः । स शुद्धः सर्वशुद्धेभ्यः पुमानाद्यः प्रसीदतु ॥४९॥ इति । [Vइড়् १.९.४४] श्रीदशमे च विशुद्धसत्त्वं तव धाम शान्तमित्यादि (भागवतम् १०.२७.४) हरिर्हि निर्गुणः साक्षात् पुरुषः प्रकृतेः परः । स सर्वदृगुपद्रष्टा तं भजन्निर्गुणो भवेत् ॥ इति [भागवतम् १०.८८.५] एकादशे च सत्त्वं रजस्तम इति गुणा जीवस्य नैव मे इति [भागवतम् ११.२५.१२] । गीतोपनिषत्सु च ये चैव सात्त्विका भावा राजसास्तामसाश्च ये । मत्त एवेति तान् विद्धि न त्वहं तेषु ते मयि ॥ त्रिभिर्गुणमयैर्भावैरेभिः सर्वमिदं जगत् । मोहितं नाभिजानाति मामेभ्यः परमव्ययम् ॥ इति [ङीता ७.१२३] तत्र चेदमेव विशुद्धसत्त्वं सन्धिन्य्अंशप्रधानं चेदाधारशक्तिः । संविद्अंशप्रधानमात्मविद्या । ह्लादिनीसारांशप्रधानं गुह्यविद्या । युगपत्शक्तित्रयप्रधानं मूर्तिः । अत्राधारशक्त्या भगवद्धाम प्रकाशते । तदुक्तं यत्सात्वताः पुरुषरूपमुशन्ति सत्त्वं लोको यत [भागवतम् १२.८.४०] [*ण्Oट्E: ठिसप्पेअर्स्तो बे एविदेन्चे थत् ८ इस्थे ओरिगिनल्सोउर्चे ओf थे मतेरिअल्, नोत्११७. टो बे fओल्लोwएद्.] इति । तथा ज्ञानतत्प्रवरकलक्षणवृत्तिद्वयकयात्मविद्यया तद्वृत्तिरूपमुपासकाश्रयं ज्ञानं प्रकाशते । एवं भक्तितत्प्रवर्तकलक्षणवृत्तिद्वयकया गुह्यविद्यया तद्वृत्तिरूपा प्रीत्यात्मिका भक्तिः प्रकाशते । एते एव विष्णुपुराणे लक्ष्मीस्तवे स्पष्टीकृते (एन्द्पगे १२) यज्ञविद्या महाविद्या गुह्यविद्या च शोभते । आत्मविद्या च देवि त्वं विमुक्तिफलदायिनी ॥ [Vइড়् १.९.११८] इति । यज्ञविद्या कर्म । महाविद्या अष्टाङ्गयोगः । गुह्यविद्या भक्तिः । आत्मविद्या ज्ञानम् । तत्तत्सर्वाश्रयत्वात्त्वमेव तत्तद्रूपा विविधानां मुक्तीनामन्येषां च विविधानां फलानां दात्री भवसीत्यर्थः ।क् [*ण्Oट्E: क्. ठिस्सेच्तिओन् चन् बे fओउन्दिनृKआड् १२१३.] श्रुतिश्च परास्य शक्तिर्विविधैव श्रूयते स्वाभाकिई ज्ञानबलक्रिया चेति । अथैवम्भूतानन्तवृत्तिका या स्वरूपशक्तिः सा त्विह भगवद्वामांशवर्तिनो मूर्तिमतो लक्ष्मीरेवेत्याह अनपायिनी भगवती श्रीः साक्षादात्मनो हरेः । [भागवतम् १२.११.२०] इति । टीका च अनपायिनी हरेः शक्तिः । तत्र हेतुः साक्षादात्मनः स्वस्वरूपस्य चिद्रूपत्वात्तस्यास्तद्अभेदादित्यर्थः इत्येषा । अत्र साक्षात्शब्देन माया परैत्यभिमुखे च विलज्जमाना इति [भागवतम् २.७.४७] विमोहिता विकत्थन्ते ममाहमिति दुर्धियः । [भागवतम् २.५.१३] इत्युक्त्वा माया नेति ध्वनितम् । अत्र अनपायित्वं यथा हयशीर्षपञ्चरात्रे परमात्मा हरिर्देवः तच्छक्तिः श्रीरिहोदिता । श्रीर्देवी प्रकृतिः प्रोक्ता केशवः पुरुषः स्मृतः । न विष्णुना विना देवी न हरिः पद्मजां विना ॥५१॥ इति । विष्णुपुराणे (Vइড়् १.९.१४३) नित्यैव सा जगन्माता विष्णुः श्रीरनपायिनी । यथा सर्वगतो विष्णुस्तथा श्रीस्तत्सहायिनी ॥५२॥ [*ण्Oट्E: ठिस्सेच्तिओन् ॠउओतेद्fरोम् Bहगवत्सन्दर्भ ११८.] (एन्द्पगे १३) देवत्वे देवदेहा सा मानुषत्वे च मानुषी । हरेर्देहानुरूपां वै करोत्येषात्मनस्तनुम् ॥५३॥ इति च । ब्रह्मसंहितायां (५.८) नियतिः सा रमा देवि तत्प्रिया तद्वशं तदा इति । नियम्यते स्वयं भगवत्येव नियताभवतीति स्वरूपभूता शक्तिः । देवी द्योतमाना प्रकाशरूपेत्यर्थः । चिद्रूपमिति स्कान्दे अपरं त्वक्षरं या सा प्रकृतिर्जडरूपिका । श्रीः परा प्रकृतिः प्रोक्ता चेतना विष्णुसंश्रया ॥५४॥ ततश्च भगवान् कृष्णसंज्ञ एव इति निर्धारिते न विष्णुना । विना देवीत्यादि देवत्वे देवदेहा सा इत्यादि तदीयस्वरूपभूता ईशवामांशवर्तिनी लक्ष्मी किमाख्या । इति निर्धार्या । तत्र द्वयोरपि पूर्योः श्रीमहिष्याख्या ज्ञेया । तदीयस्वरूपशक्तित्वं स्कान्दपर्भासखण्डे शिवगौरीसंवादे गोप्यादित्य्माहात्म्ये दृष्टं यथा पुरा कृष्णो महातेजा यदा प्रभासमागतः । सहितो यादवैः सर्वैः षट्पञ्चाशत्प्रकोटिभिः ॥ षोडशैव सहस्राणि गोप्यस्तत्र समागताः । लक्षमेकं षष्ठिरेते कृष्णसुताः प्रिये ॥ इत्युपक्रम्य । (एन्द्पगे १४) ततो गोप्यो महा देवि विद्या याः षोडश स्मृताः । तासां नामानि ते वक्ष्ये तानि ह्येकमनाः शृणु ॥ लम्बिनी चन्द्रिका कान्ता क्रूरा शान्ता महोदया । भीषणी नन्दिनी शोका सुपूर्वा विमला क्षया ॥ सुभद्रा शोभना पुण्या हंशीता कलाः क्रमात् । हंस एव यतः कृष्णः परमात्मा जनार्दनः । तस्यैताः शक्तयो देवि षोडशैव प्रकीर्तिता ॥ चन्द्ररूपी मतः कृष्ण कलारूपास्तु ताः स्मृताः । सम्पूर्णमण्डला तासां मालिनी षोडशी कला ॥ प्रतिपत्तिथिमाराभ्य सञ्चरत्यासु चन्द्रमाः । षोडशैव कला यास्तु गोपीरूपा वरानने ॥ एकैकशस्ताः सम्भिन्नाः सहस्रेण पृथक्पृथक् । एवं ते कथितं देवि रहस्यं ज्ञानसम्भवम् । य एतं वेद पुरुषः ज्ञेयो वैष्णवो बुधैः ॥ तत्र गोप्यो राज्ञ्य इत्यर्थः । गोपो भूपेऽपीत्यमरः । लम्बिनी अवतारशक्तिः । हंसशीतेत्यत्र प्राप्तस्य हंसस्य वाच्यमाह हंस एवेति । स च चन्द्ररूपी चन्द्र दृष्टान्तेननोद्देश्य इत्यर्थः । कलारूपा इति ताश्च शक्तयः चन्द्रस्यामृतेत्यादि कला दृष्टान्तेनोद्देश्या इत्यर्थः । अनुक्तामन्तिमां महाशक्तिमाह सम्पूर्णेति । सेयं तु कला समष्ठिरूपा ज्ञेया । दृष्टान्तोपादानाच्चन्द्रस्य तादृशत्वमाह प्रतिपदिति । आसु एतत्तुलात्वे विवक्षितमाह षोडशैवेति । षोडशानाम् (एन्द्पगे १५) एव विद्यारूपत्वात् । एतद्उपदेशस्य ज्ञानसम्भवरहस्यत्वात्तज्ज्ञानस्य वैष्णवत्वानुमाxअकलिङ्गत्वाच्च । क्रूरामीषणाशोकानामपि भगवत्स्वरूपभूतानामेव सतीनां मल्लानामशनिरित्यादिवत्श्रीकृष्णस्य कठिनत्वअप्रत्यायकत्वात् । मृतुर्भोजपतेरितिवत्दुर्जनविचित्रासकत्वात् । असतां शास्तेतिवत्तदीयशोकहेतुत्वादेवं च तत्तन्निरुक्तिरुपपद्यते । यथा प्रकाशैकरूपाया एव सूर्यकान्तोरुलूकेषु तामिस्रादिव्यञ्जकता । ततश्चन्द्ररूपी मत कृष्णः कलारूपस्तु ताः स्मृता इति स्फुटमेव स्वरूपभूतत्वं दर्शितम् । तदेवं तासां स्वरूपशक्तित्वे लक्ष्मीत्वं तासां सिद्धत्येव । तदेवमभिप्रेत्य तासां लक्ष्मीत्वमाह श्रीशुकः गृहेषु तासामनपय्यातर्क्यकृन् निरस्तसाम्यातिशयेष्ववस्थितः । रेमे रमाभिर्निजकामसम्प्लुतो यथेतरो गार्हकमेधिकांश्चरन् ॥६३॥ (भागवतम् १०.५९.४३) टीका च रमाभिर्लक्ष्म्या अंशभूताभिरित्येषा । स्वरूपशक्तित्वादेव रेमे इत्युक्तम् । अतो निजः स्त्रियः परमानन्दशक्तिविशेषोदयरूपप्रेमविशेषस्वरूपो यः कामस्तेन सम्प्लुतो व्याप्त इति । तत्र श्रीमत्याभासायां भूशक्तिरूपत्वं पाद्मोत्तरखण्डादौ । यमुनायाः कृपाशक्तिरूपत्वं स्कान्दयमुनामाहात्म्यादावित्यन्वेषणीयम् । किन्तु सत्यभामाया हरिवंशादौ सौभाग्याति (एन्द्पगे १६) शयस्य विवक्षितत्वात्प्रेमशक्तिप्रचुरभूशक्तित्वं ज्ञेयम् । स्वयं लक्ष्मीस्तु रुक्मिणी । द्वारकायामभूद्राजन्महामोदः पुरौकसाम् । रुक्मिण्या रमयोपेतं दृष्ट्वा कृष्णं श्रियः पतिम् ॥ (भागवतम् १०.५४.६०) इत्यादिषु तस्यामेव भूरिशः प्रसिद्धेः । अतः स्वयं लक्ष्मीत्वेनैव परस्परयोग्यतामाह श्रीशुकः अस्यैव भार्या भवितुं रुक्मिण्यर्हति नापरा । असावप्यनवद्यात्मा भैष्म्याः समुचितः पतिः ॥६४॥ (भागवतम् १०.५३.३७) [*ण्Oट्E: Fरों हेरे तो दर्शितवान्, Kऋष्णष्१८५१८६, पगे ११०. षेए अल्सो ङोपालचम्पू १५.७५.] अतः स्वयं भगवतोऽनुरूपत्वेन स्वयं लक्ष्मीत्वं प्रसिद्धमेव । अथ श्रीवृन्दावने तदीयस्वरूपशक्तिप्रादुर्भावाः श्रीव्रजदेव्यः । यथा ब्रह्मसंहितायां (५.३७) आनन्दचिन्मयरसप्रतिभाविताभिस् ताभिर्य एव निजरूपतया कलाभिः । गोलोक एव निवसत्यखिलात्मभूतो गोविन्दमादिपुरुषं तमहं भजामि ॥६५॥ इति । तत्र ताभिः श्रीगोपीभिर्मन्त्रे (५.२४) तच्छब्दप्रयोगात् । आनन्दचिन्मयरसेन प्रेमरसविशेषेण प्रैत्भाविताभिस्तत्प्रधानाभिरित्यर्थः । ह्लादिनीसारवृत्तिविशेषरूपत्वात् । कलात्वेनैव निजरूपत्वे सिद्धे पुनर्निजरूपतयोक्तिः प्रकटलीलायां (एन्द्पगे १७) परकीयाभासत्वस्य व्यवच्छेदार्थम् । यत उक्तं तत्रैव श्रियः कान्ताः कान्तः परमपुरुषः (५.५६) इति । श्रीपरमपुरुषयोरौपपत्यं नास्तीति युक्तं च दर्शितवान् । एतदभिप्रायेणैव स्वायम्भुवागमेऽपि श्रीभूलीलाशब्दैः तत्प्रेयसीविशेषत्वमुपदिष्टम् । अतैव गोपीजना विद्याकलाप्रेरक इत्यत्र तापनीवाक्ये श्रीमद्दशाक्षरस्थनामनिरुक्तौ ये गोपीजनास्ते आ सम्यग्या विद्या परमप्रेमरूपा तस्याः कलावृत्तिरूपा इति व्याख्येयम् । राजविद्या राजगुह्यमित्यादि गीताप्रकरणात्भगवत्यविद्यासंश्लेषाभावात् । तदुक्तं ह्लादिनीत्यादि । ततस्तासां प्रेरकस्तत्क्रीडायां प्रवर्तकः । स च पतित्व एव विश्रान्तः । इति वल्लभशब्देनैकार्थ्यमेव । जन्मजराभ्यां भिन्न इत्यादौ स वो हि स्वामी भवति इति तस्यामेव श्रुतौ, ताः प्रति दुर्वासावाक्यात् । स्त्रीसम्बन्धे स्वामीशब्दः पअत्यावेव रूढः । स्वामिनो देवृदेवरावित्यमरकोषात् । पादन्यासैरित्यादौ [भागवतम् १०.३३.७] कृष्णवध्व इति श्रीशुकवचनम् । ऋषभस्य जगुः कृत्यानि [भागवतम् १०.३३.२१] इत्यत्र टीका च ऋषभस्य पत्युः इति । सङ्गीतशास्त्रे च, गोपीपतिरनन्तो ऽपि वंशध्वनिवशं गतः इति. श्रीमच्छङ्कराचार्यकृते यमुनास्तोत्रे च, विधेहि तस्य राधिकाधवाङ्घ्रिपङ्कजे रतिमिति । उद्धवं प्रति श्रीभगवता च बल्लव्यो मे मदात्मिकाः [भागवतम् १०.४६.६] इति । तदिदं गच्छोद्धव व्रजं सौम्य पित्रोर्नः प्रीतिमावह इति [भागवतम् १०.४६.३] (एन्द्पगे १८) वल्लभाभिमानितामात्मनि व्यज्य श्रीकृष्णस्य वचनं ब्राह्मणस्य मम ब्राह्मणीत्यादिवत्गोपरूपस्य मम गोपीरूपा इत्यर्थः । अतस्तासामपि तथैवाभिमानं तत्रैवोक्तम् अपि बत मधुपुर्यामार्यपुत्रो ऽधुनास्ते इति (१०.४७.११) । तथैव च कुमारीणां सङ्कल्पवचनम् नन्दगोपसुतं देवि पतिं मे कुरुते नमः इति (१०.२२.४) । न केवलं साधारणरीत्या दाम्पत्यव्यवहारस्ताभिर्मम किन्तु मद्आत्मिका मत्स्वरूपशक्तय इत्यर्थः । आत्मशब्दस्य मनीवाचकत्वेन ता मन्मनस्का (१०.४६.४) इत्याद्युक्तं पुनरुक्तं स्यात् । उक्तं च तासां स्वरूपशक्तित्वं श्रीशुकदेवेन ताभिर्विधुतशोकाभिर्भगवानच्युतो वृतः । व्यरोचताधिकं तात पुरुषः शक्तिभिर्यथा ॥ इति । (१०.३२.१०) ताभिः शक्तिभिर्यथा यावत्तथा तत्रातिशुशुभे ताभिर्भगवान् देवकीसुतः इत्यादि । चकाश गोपीपरिषद्गतोऽर्चित इत्यादि । व्यरोचतैणाङ्क इवोडुभिर्वृत इत्यादि । स्वरूपशक्तित्वादेवाधिकं व्यरोचत इत्याद्य्उक्तमुपपद्यते । स्वशक्त्येकप्रकाशत्श्रीभगवतः । अतस्तासां लक्ष्मीसंज्ञत्वमप्युक्तं ब्रह्मसंहितायां लक्ष्मीसहस्रशतसम्भ्रमसेव्यमानमिति । श्रियः कान्ताः कान्तः परमपुरुष इति । श्रीदशमे च (एन्द्पगे १९) गोप्यो लब्ध्वाच्युतं कान्तं श्रिय एकान्तवल्लभमिति (१०.३३.१४) गोप्य एव श्रिय कान्तं मनोहरमेकान्तवल्लभं रहोरमणम् । तस्मात्नायं श्रियोऽङ्ग इति शुकानुवादः सामान्ये लक्ष्मीविजयं व्यनक्ति । लक्ष्मीसहस्रेति विरिञ्चवाणी लक्ष्मीविशेषत्वमुरीकरोति । कुरुत्वेऽपि श्रीयुधिष्ठिरादीनां पाण्डवसंज्ञत्वम् । लक्ष्मीत्वेऽपि व्रजदेवीनां गोपीसंज्ञत्वमिति । तस्मात्तासां परमलक्ष्मीरूपत्वेन तन्नित्यप्रेयसीत्वं सिद्धम् । तथा च गौतमीयतन्त्रे दशार्णव्याख्यायाम् (२०२१) गोपीति प्रकृतिं विद्याज्जनस्तत्त्वसमूहकः । अनयोराश्रयो व्याप्त्या कारणत्वेन चेश्वरः ॥६७॥ सान्द्रानन्दं परं ज्योतिर्वल्लभत्वेन कथ्यते । अथवा गोपी प्रकृतिर्जनस्तदंशमण्डलम् ॥६८॥ अनयोर्वल्लभः प्रोक्तः स्वामी कृष्णाख्य ईश्वरः। कार्यकारणयोरीशः श्रुतिभिस्तेन गीयते॥६९॥ अनेकजन्मसिद्धानां गोपीनां पतिरेव वा। नन्दनन्दन इत्युक्तस्त्रैलोक्यानन्दवर्धनः॥७०॥ इति. अतैव प्रथमा प्रकृतिः प्रधानम् । द्वितीया स्वरूपशक्तिः । तत्त्वानि महद्आदीनि अंशाः । ज्ञानशक्तिबलैश्वर्यवीर्यतेजांस्यशेषतः । भगवच्छब्दवाच्यानि विना हेयैर्गुणादिभिः ॥७१॥ इति विष्णुपुराणोक्ताः (Vइড়् ६.५.७९) । अत्र अनेकजन्मसिद्धानामिति, बहूनि मे व्यतीतानि (एन्द्पगे २०) जन्मानि तव चार्जुन [ब्ग्४.५] इतिवतनादिसिद्धत्वमेव बोधयति । पतिरेव इत्येवकारेण प्रकटलीलायामुपपतित्वव्यवहारस्तु मायिक एवेत्यर्थः । स चाग्रे दर्शयिष्यते । वाशब्दस्यैवोत्तरपक्षताबोधनाय । [*ण्Oट्E: ङ्Cড়् १५.७३७५] तदेवमादिभिर्विशिष्टत्वेनैव तद्आराधनादासां नित्यप्रेयसीत्वं सिद्धम् । तच्छृतीनां तद्आराधानां चानाघननतभावित्वात् । स हि मन्त्रे चतुर्धा प्रतीयते । मन्त्रस्य कारणरूपत्वेन वर्णसमुदायरूपत्वेन, अधिष्ठातृदेवतारूपत्वेन आराध्यरूपत्वेन च । अत्र कारणरूपत्वं तद्अधिष्ठातृदेवतारूपत्वं चोक्तं ब्रह्मसंहितायां प्रकृत्या पुरुषेण च इति (५.३) । प्रकृतिर्मन्त्रस्य स्वरूपस्त्रयमेव श्रीकृष्णः कारणरूपत्वात् । तदेवोक्तमृष्य्आदिस्मरणे कृष्णः प्रकृतिरिति । स एव अधिष्ठातृदेवतारूपः । वर्णसमुदायरूपं चोक्तं तत्रैव कामः कृष्णायेत्य्(Bरह्मष्५.२४) आदिना । उक्तं च हयशीर्षपञ्चरात्रे वाच्यत्वं वाचकत्वं च देवतामन्त्रयोर्हि । अभेदेनोच्यते ग्रह्म तत्त्वविद्भिर्विचारतः ॥ इति । आराध्यरूपत्वं च तत्रैव ब्रह्मसंहितायां ईश्वरः परमः कृष्णः सच्चिदानन्दविग्रहः । अनादिरादिरित्यादिना (५.१) क्विचिद्दुर्गाया अधिष्ठातृत्वं तु शक्तिशक्तिमतोरभेदविवक्षया । अत उक्तं गौतमीयकल्पे यः कृष्णः सैव दुर्गा स्याद्या दुर्गा कृष्ण एव स इति । यतः श्रीकृष्णस्तत्र स्वरूपशक्तिरूपेण दुर्गा नाम । तस्मान्नेयं मायांशभूता दुर्गा इति गम्यते । निरुक्तिश्चात्र दुःखेन (एन्द्पगे २१) गुर्व्आराधनादिप्रयासेन गम्यते ज्ञायते इति । तथा च नारदपञ्चरात्रे श्रुतिविद्यासंवादे जानात्येका परा कान्तं सैव दुर्गा तद्आत्मिका । या परा परया शक्तिर्महाविष्णुस्वरूपिणी । यस्या विज्ञानमात्रेण पराणां परमात्मनः । मुहूर्तादेव देवस्य प्राप्तिर्भवति नान्यथा ॥ एकेयं प्रेमसर्वस्वस्वभावा श्रीगोकुलेश्वरी । अनया सुलभो ज्ञेय आदिदेवोऽखिलेश्वरः ॥ भक्तिर्भजनसम्पत्तिर्भजते प्रकृतिः प्रियम् । ज्ञायतेऽत्यन्तदुःखेन सेयं प्रकृतिरात्मनः । दुर्गेति गीयते सर्वैरखण्डरसवल्लभा ॥ अस्या आवरिका शक्तिर्महामायाऽखिलेश्वरी । यया मुग्धं जगत्सर्वं सर्वदेहाभिमानिनः ॥ इति । अतैव मायां व्युदस्य चिच्छक्त्या कैवल्ये स्थित आत्मनीति प्रथमोक्तेः । न यत्र माया किमुतापरे हरेरिति द्वितीयोक्तेः मायातीतवैकुण्ठावरणकथने यथोक्तं पाद्मोत्तरखण्डे सत्याच्युतानन्तदुर्गाविष्वक्सेनगजाननाः । शङ्खपद्मनिधी लोकाश्चतुर्थावरणं स्मृतम् ॥ इत्यद्युक्त्वा नित्याः सर्वे परे धाम्नि ये चान्येऽपि दिवौकसः । ते वै प्राकृतनाकेऽस्मिन्ननित्यास्त्रिदिवेश्वराः ॥ (एन्द्२२) इति तेषां श्रीभगवद्अंशरूपत्वमुक्तं त्रैलोक्यसम्मोहनतन्त्रे सर्वत्र देवदेवोऽसौ गोपवेशधरो हरिः । केवलं रूपभेदेन नामभेदः प्रकीर्तितः ॥७७॥ अतो नाममात्रसाधारेणेऽनन्यभक्तैर्न विभेतव्यं किन्तु भागवतैर्नित्यवैकुण्ठसेवकत्वात्विष्वक्सेनादिवत्सत्कार्या एव ते । अर्चयित्वा तु गोविन्दं तदीयान्नार्चयेत्तु यः इत्यादिवचनेन तद्असत्कारे दोषश्रवणात् । अतैव तानेवोद्दिश्य उक्तमेकादशे दुर्गां विनायकं व्यासं विष्वक्सेनं गुरून् सुरान् । स्वे स्वे स्थाने त्वभिमुखान् पूजयेत्प्रोक्षणादिभिः ॥७८॥ (भागवतम् ११.२७.२९) अथ प्रकृतमनुसरामः । सदेव श्रीगोपीनां स्वरूपशक्तित्वे प्रसिद्धे श्रीकृष्णस्य नित्यप्रेयसीरूपत्वं सिद्धमेव । ततस्ताभिः सह तस्य पूजन आवश्यकता स्वतः सिद्धा । अत्र पुनः प्रतिवादी प्राह, यदि ताः कृष्णस्य नित्यप्रियाः, तर्हि कथं परकीयारूपत्वम् । तत्रापि पुत्रादिसंयोक्तृत्वं श्रूयते । सत्यं तद्रूपत्वं मायिकमिति वैष्णवतोषणीनाम्न्यां श्रीदशमटिप्पन्यां कृष्णसन्दर्भादौ च प्रमितमिति विस्तरभयान्नात्र प्रपञ्चितम् । अथ सामान्यतः श्रीकृष्णप्रियाः खलु द्विधा । नित्यसिद्धाः साधनसिद्धाश्च । तत्र नित्यसिद्धाः पूर्वोक्तिः । साधनसिद्धाश्च त्रिविधाः । ऋषिजाः श्रुतयो देवकन्याश्च । तत्र ऋषिजा यथा पाद्मोत्तरखण्डे (एन्द्२३) पुरा महर्षयः सर्वे दण्डकारण्यवासिनः । दृष्ट्वा रामं हरिं तत्र भोक्तुमैच्छन् सुविग्रहम् ॥७९॥ ते सर्वे स्त्रीत्वमापन्नाः समुद्भूताश्च गोकुले । हरिं सम्प्राप्य कामेन ततो मुक्ता भवार्णवात् ॥८०॥ [*ण्Oट्E: Bऋष्१.२.३०१२] न च वक्तव्यं गोकुलजातानां प्रापञ्चिकदेहादित्वं न सम्भवतीति । अवतारलीलायाः प्रापञ्चिकमिश्रत्वात् । श्रीदेवकी देव्यामपि षड्गर्भसंज्ञकानां जन्म श्रूयते इति । श्रुतयो यथा बृहद्वामनपुराणादिषु श्रूयन्ते । यत एव तथा व्याख्यातं स्त्रिय उरुगेन्द्रभोगभुजदण्डविषक्तधियो वयमपीति (भागवतम् १०.८७.२३) । गायत्री च तासु जातेति पाद्मे सृष्टिखण्डे यथा ब्रह्मणा गोपकन्याया गायत्र्या उद्वाहे गोपेषु श्रीविष्णुवाक्यम् मया ज्ञात्वा ततः कन्या दत्ता चैषाविरिञ्चये । युष्माकं च कुले चाहं देवकार्यार्थसिद्धये । अवतारं करिष्यामि मत्कान्ता तु भविष्यति ॥ इति । देवकन्याश्च यथा श्रीदशमे तत्प्रियार्थं सम्भवन्तु सुरस्त्रिय इति (भागवतम् १०.१.१३) । अत सुरस्त्रियस्तासां श्रीकृष्णप्रियाणामुपयोगायेवेति गम्यते । अतस्तत्प्रियार्थमित्येवोक्तं, न तु तत्प्रीत्य्अर्थमिति । अतस्तासां चतुर्विधत्वमुक्तं पाद्मे गोप्यस्तु ऋषिजा गोपकन्यकाः श्रुतिजाः पराः । देवकन्याश्च राजेन्द्र न मानुष्यः कदाचन ॥ (एन्द्पगे २४) गोपकन्या एव नित्याः । न मानुषः कथञ्चनेति प्रआकृतमानुष्यनिषेधात् । अतस्तासां स्वरूपशक्तित्वादेव श्रीभगवतस्ताभिः सह रिरंसा जाता । यथा श्रीशुकः । भगवानपि ता रात्रीः शरदोत्फुल्लमल्लिकाः वीक्ष्य रन्तुं मनश्चक्रे योगमायामुपाश्रितः ॥ (भागवतम् १०.२९.१) ता रात्रीर्वीक्ष्य उद्दीपनत्वेनानुभूयेति कौमुत्येनालम्बनरूपाणां तासां प्रेममहिमा दर्शितः । आत्मारामाश्च मुनयः इत्यादौ इत्थम्भूतगुणो हरिरितिवतित्थम्भूतगुणास्ताः येन तादृश्यपि तस्य रमण्च्छा जायते इति । अतैव व्यवहारार्थं तस्य कैशोरमपि मानितं जातमिति श्रीविष्णुपुराणे दर्शितम् । सोऽपि कैशोरकवयो मानयन्मधुसूदनः । रेमे ताभिरमेयात्मा क्षपासु क्षप्ताहितः ॥ (Vइড়् ५.१३.६०) इति । हरिवंशे च युवतीर्गोपकन्याश्च रात्रौ सङ्काल्य कालवित् । कैशोरकं मानयानः सह ताभिर्मुमोद च ॥ (ःV ६३.१८) इति । अत्र कालविदित्यस्य व्याख्यानं ता रात्रीर्विक्ष्येति । सह ताभिर्मुमोद हेत्यस्य सूचकं रन्तुं मनश्चक्रे इति । इत्यालम्बनकालदेशानां श्रीकृष्णाय परमपुरुषत्वं दर्शितं तस्माथ्लादिनीशक्तिविलासलक्षणतत्प्रेममय्येवैषा रिरंसा । न तु प्राकृतकाममयीति । श्रीस्वामिभिरपि व्यक्तमुक्तं द्वात्रिंशे विरहालापविक्लिन्नहृदयो हरिरिति स्वप्रेमामृतकल्लोलविह्वलीकृतचेतस इति । अतैव तच्छ्रवणफलद्वारा तद्अर्चनस्यावश्यकतां दर्शयति श्रीमन्मुनीन्द्रः ॥ (एन्द्पगे २५) विक्रीडितं व्रजवधूभिरिदं च विष्णोः श्रद्धान्वितो यः शृणुयादथ वर्णयेद्वा भक्तिं परां भगवति परिलभ्य कामं हृद्रोगमाश्वपहिनोत्यचिरेण धीरः ॥ (भागवतम् १०.३३.४२) इति ॥८४ अत्र स्वप्रियाभिः संवलितस्य श्रीकृष्णस्य क्रीडायाः श्रवणवर्णनमात्रेण बहुसाधनदुःसाध्यापि परा भक्तिरुदयते उदयमात्रेण च हृद्रोगः शीघ्रमपह्रियते इति हि स्पष्टमेवेति फलातिशयकथनेन प्रवर्तनात्विधित्वमेव सिध्यति । यस्य पर्णमयी जुहुर्भवति न स पापं श्लोकं शृणोतीतिवत् । न चाधिकारी कनिष्ठ इति वाच्यं धीर इत्युक्तत्वात् । अथ दर्शनमन्त्रे नामान्तरेणानिर्दिश्य श्रीवल्लवीनां नाम विशेषमालम्ब्यैव स्वयं भगवतो निर्देशात्तासां तत्परिचायकाङ्गरूपत्वमेव बोधितम् । गोपीगोपपशूनां बहिः स्मरेदस्य गीर्वाणघटामित्यादि क्रमदीपिकायां (Kड्३.३२) गौतमीयतन्त्रे नवीननीरदश्यामं नालेन्दीवरलोचनम् । वल्लवीनन्दनं वन्दे कृष्णं गोपालरूपिणम् ॥८५ इत्यादौ रुचिरौष्ठपुटन्यस्तवंशीमधुरनिःस्वनैः । लसद्गोपालिकाचेतो मोदयन्तं मुहुर्मुहुः ॥८६॥ वल्लवीवदनाम्भोजमधुपानमधुव्रतम् । क्षोभयन्तं मनस्तासां सुस्मेरापाङ्गवीक्षणैः ॥८७॥ (एन्द्पगे २६) यौवनोद्भिन्नदेहाभिः संसक्ताभिः परस्परम् । विचित्राम्बरभूषाभिर्गोपनारीभिरावृतम् ॥८७॥ इति । अत्र सा त्वां ब्रह्मन्नृपवधूः काममाशु भजिष्यतीति [भागवतम् ३.२१.२८] कर्दमं प्रति श्रीशुक्लवचनवच्च गोपजातिभिर्नारीभिरित्यर्थः । क्षोभयन्तं मोहयन्तं मुहुर्मुहुरिति वर्तमानद्वयप्रयोगेन नित्यमेव तद्उपासकैः पठ्यमानस्तवेन गोपीकृष्णयोः नित्यत्वमेव लक्ष्यते । सनत्कुमारकल्पे च गोपाङ्गना परिवृतं मूले कल्पतरोः स्थितमित्यादि । रुद्रयामलस्य शौरितन्त्रे गोपीगोगोपवीतो रुरुनखविलसत्कण्ठभूषश्चिरं नः इत्यादि । मृत्युसञ्जयतन्त्रे स्मरेद्वृन्दावने रम्ये मोहयन्तमनारतम् । वल्लवीवल्लभं कृष्णं गोपकन्यासहस्रशः ॥ इत्यादि । फुल्लेन्दीवरकान्तिमित्यादि एवं स्वायम्भुवागमादावपि । [*ण्Oट्E: KK ३.८२; Kऋष्णष्१०६ (प्४९ न्) अत्त्रिबुतेद्तो ंृत्युसञ्जयतन्त्र. ড়द्यावली ४६, अत्त्रिबुतेद्तो शरदाकर.] पुनः प्रतिवादी प्राह भवतु नाम ताः पूज्याः । किन्तु तासां नाम कुत्रापि न श्रुतम् । तत्रापि भविष्योत्तरे मल्लद्वादशीप्रसङ्गे श्रीकृष्णयुधिष्ठिरसंवादे गोपीनामानि राजेन्द्र प्राधान्येन निबोध मे । गोपालीपालिका धन्या विशाखा ध्याननिष्ठिका । राधानुराधा सोमाभा तारका दशमी तथा ॥८९॥ गोपालीयं नूनं पाद्मोक्तगायत्रीचरी भवेत् । पालिकेति संज्ञायां कण । दशमी तथेति दशमीत्यपि (एन्द्पगे २७) नामैकं तच्चान्वर्थमिति सर्वान्ते पठितम् । यद्वा तथेतिदशम्यपि तारकानाम्नीत्यर्थः । तथा स्कान्दे प्रह्लादसंहितायां द्वारकामाहात्म्ये मायावसरः प्रस्तावे उद्धवगमने (१२.२५३३) लक्षितो वाचेत्यादिना ललिता श्यामला धन्या विशाखा राधा शैव्या पद्मा भद्रा इत्येतानि अष्टौ गणितानि । अथ वनिताशतकोटिभिराकुलितमित्यागमप्रसिद्धेः । वनिताशतयूथप इति श्रीभगवत्प्रसिद्धेः । अन्यान्यपि लोकशास्त्रयोरवगन्तव्यानि । अथ शतकोटित्वान्यथानुपपत्त्या तासां तन्महाशक्तित्वमेव गम्यते । तत्रापि सर्वथा श्रेष्ठे राधाचन्द्रावलीत्युभे । भविष्योत्तरे सोमाभाशब्देन चन्द्रावल्येव सूचिता अर्थसाम्यप्रायात् । यतः श्रीराधया सह प्रतियोगित्वमैतिह्यमस्यात्र विराजते । तथा च श्रीबिल्वमङ्गलचरणाः राधामोहन मन्दिरादुपागतश्चन्द्रावलीमूचिवान् राधे क्षेममयेति तस्य वचनं श्रुत्वाह चन्द्रावली । कंस क्षेममये विमुग्धहृदये कंसः क्व दृष्टस्त्वया राधा क्वेति विलज्जितो नतमुखस्मेरो हरिः पातु वः ॥९०॥ [*ण्Oट्E: ठिसिस wएल्ल्क्नोwन् वेर्से, बुतिस्नोतिनन्योf थे Bइल्वमन्गल चोल्लेच्तिओन्स्.] तयोरप्युभयोर्मध्ये राधिका सर्वथाधिका । महाभावस्वरूपेयं गुणैरतिगरीयसी ॥९१॥ यथोक्तं मत्स्यपुराणे दक्षं प्रति देवीवचनम् रुक्मिणी द्वारवत्यां तु राधा वृन्दावने वने । चित्रकूटे तथा सीता विन्ध्ये विन्ध्यनिवासिनी । देवकी मथुरायां च पाताले परमेश्वरी ॥ इत्यादि । (एन्द्पगे २८) अत्र रुक्मिणीसहपाठादित्थं बोधयति यथा द्वारकायां तस्या एव सर्वथाधिक्यं तथा श्रीवृन्दावने तस्या इति । स्वरूपशक्तिव्यूहरुक्मिणीराधादेवकीनां मायांशरूपेणाभेदकथनं तु शक्तित्वसाधारण्येनैव । यथा जीवात्मपरमात्मनोश्चित्साम्येनैक्यं तद्वदिति । अथ यथा रुक्मिणीकृष्णयोः परस्परशोभित्वं श्रीशुकेन वर्णितम् अस्यैव भार्या भवितुमित्यादिनां [भागवतम् १०.५३.३७] तथैव राधाकृष्णयोरपि ऋक्परिशिष्टे श्रुत्या वर्णितं राधया माधवो देवो माधवेनैव राधिका विभ्राजन्ते जनेष्वा इति । विभ्राजन्ते विभ्राजते आ सम्यकिति श्रुतिपदार्थः । दर्शितं च तस्याः स्वरूपं बृहद्गौतमीये बलदेवं प्रति श्रीकृष्णेन सत्त्वं तत्त्वं परत्वं च तत्त्वत्रयमहं किल । त्रितत्त्वरूपिणी सापि राधिका मम वल्लभा ॥९३॥ प्रकृतेः पर एवाहं सापि मच्छक्तिरूपिणी । सात्त्विकं रूपमास्थाय पूर्णोऽहं ब्रह्म चित्परः ॥९४॥ ब्रह्मणा प्रार्थितः सम्यक्सम्भवामि युगे युगे । त्वया सार्धं तया सार्धं नाशाय देवताद्रुहाम् ॥९५॥ इति । अत्र सत्त्वं कार्यत्वं तत्त्वं कारणत्वं परत्वं ततोऽपि श्रैष्ठ्यं यत्तत्त्वत्रयं तदहमित्यर्थः तथैव बोधयति तथैवाग्रे ध्यानप्रसङ्गे देवस्याभेदरूपेण तप्तहेमसमप्रभाम् । रक्तवस्त्रपरीधानां रक्तालङ्कारभूषिताम् ॥९६॥ (एन्द्पगे २९) श्रीराधां वामभागे तु पूजयेद्भक्तितत्परः । देवी कृष्णमयी प्रोक्ता राधिका परदेवता ॥९७॥ वराभयकरा ध्येया सेविता सर्वदेवतैः । सर्वलक्ष्मीमयी सर्वकान्तिः सम्मोहिनी परा ॥९८॥ अत्र पूजयेदिति कण्ठोक्तिरेव । एवमग्रेऽपि मृत्युसञ्जयतन्त्रे पीतवस्त्रपरीधानां वंशयुक्तकराम्बुजाम् । कौस्तुभोद्दीप्तहृदयां वनमालाविभूषिताम् । श्रीमत्कृष्णाङ्घ्रिपल्यकनिलयां परमेश्वरीम् ॥९९॥ इत्यादि । यथा सर्वलक्ष्मीमयीं देवीं परमानन्दनन्दिताम् । रासोत्सवप्रियां राधां कृष्णानन्दस्वरूपिणीम् । भजे चिदमृताकारपूर्णानन्दमहोदधिम् ॥१००॥ इति । ध्यात्वेत्य्आदिसम्मोहनतन्त्रे चिन्तयेद्राधिकां देवीं गोपगोकुलसङ्कुलामित्यादि च । अस्याः श्रेष्ठत्वमादिवाराहे कटिरपरिवर्तन्यां गोवर्धनपरिक्रमे तत्कुण्डप्रसङ्गे यथा गङ्गायाश्चोत्तरं गत्वा देवदेवस्य चक्रिणः । अरिष्टेन समं तत्र महद्युद्धं प्रवर्तितम् ॥१०१॥ घातयित्वा ततस्तस्मिन्नरिष्टं वृषरूपिणम् । कोपेन पार्ष्णिघातेन महातीर्थं प्रकल्पितम् ॥१०२॥ स्नातस्तत्र तदा हृष्टो वृषं हत्वा सगोपकः । विपा मा (?) राधिकां प्राह कथं भद्रे भविष्यति ॥१०३॥ तत्र राधा समाश्लिष्य कृष्णमक्लिष्टकारिणम् । स्वनाम्ना विदितं कुण्डं कृतं तीर्थमदूरतः ॥१०४॥ (एन्द्पगे ३०) राधाकुण्डमिति ख्यातं सर्वपापहरं शुभम् । अरिष्टहन् राधाकुण्डस्नानात्फलमवाप्यते ॥१०५॥ राजसूयाश्वमेधाभ्यां नात्र कार्या विचारणा । गोहत्याब्रह्महत्यादि पापं क्षिप्रं प्रणश्यति ॥१०६॥ इति । अत्र सतीष्वपि सर्वासु तासु अस्या एव तेन सह तादृशप्रेमव्यवहारेणोत्कर्षावगमात्श्रेष्ठत्वमायातम् । तथा व्रतरत्नाकरधृतभविष्यपुराणे च बाल्येऽपि भगवान् कृष्णस्तरुणं रूपमाश्रितः । रेमे विहारैर्विविधैः प्रियया सह राधया ॥ एकदा कार्त्तिके मासि पौर्णमास्यां महोत्सवः । आसीन्नन्दगृहे इत्यादौ तस्मिन् दिने च भगवान् रात्रौ राधागृहं ययौ । सा च क्रुद्धा तमुदरे काञ्चीदाम्ना बबन्ध ह ॥१०८॥ कृष्णस्तु सर्वमावेद्य निजगेहमहोत्सवम् । प्रियां प्रसादयामास ततः सा तमवोचयत् ॥१०९॥ इदं चोवाच ताः कृष्णः प्रेयसी प्रीतमानसः । काञ्चीदाम त्वया तन्वि उदरे यन्मयार्पितम् ॥११०॥ दामोदरेति मे नाम प्रियं तेन शुभानने । नातः प्रीतिकरं नाम मम लोकेषु विद्यते ॥१११॥ नित्यमेतत्प्रजापत्यां सर्वसिद्धिर्भविष्यति । भक्तिं च दुर्लभां प्राप्य मम लोके महीयते ॥११२॥ उलूखले यदा मात्रा बद्धोऽहं भविता प्रिये । (एन्द्पगे ३१) उदरे दामभिर्लोके तदा व्यक्तं भविष्यति ॥११३॥ अनेन नाममन्त्रेण योऽस्मिन्मासि त्वया सह । मामर्चयेद्विधानेन स लभेत्सर्ववाञ्छितम् ॥११४॥ इति । अत्रापि प्रियया सह राधया इति श्रीकृष्णेच्छया श्रीकृष्णवद्बाल्येऽपि आविष्कृतनवयौवनमेव इति ज्ञेयम् । तत आरभ्य नन्दस्य व्रजः सर्वसमृद्धिमान् । हरेर्निवासात्मगुणै रमाक्रीडमभून्नृप ॥११५॥ (भागवतम् १०.५.१८) इत्यनेन श्रीकृष्णप्रादुर्भावानन्तरं तसामाविर्भावकथनात् । तत्रापि श्र्ष्ठत्वं पूर्ववज्ज्ञेयम् । तत्र तादृशभावैर्वर्णनं तस्याः श्रीशुकदेवेनापि कृतम् । एका भ्रूकुटिमाबद्ध्य प्रेमसंरम्भविह्वला । घ्नतीवैक्षत्कटाक्षेपैः सन्दष्टदशनच्छदा ॥११६॥ (भागवतम् १०.३२.६) इत्यनेन एकामुख्या एके मुख्यान्यकेवला इत्यमरः । एवं श्रीमद्गोपालतपन्यां यद्गान्धर्वीति विश्रुता सा तु सैव ज्ञेया । तस्या एवं मुख्यत्व्¨दिलिङ्गेन सर्वत्र चावगमात् । अतैव श्रीराधासंवलितदामोदरपूजा कार्त्तिके विहिता । श्रीकृष्णसत्यभामासंवादीये कार्त्तिकमाहात्म्ये च प्रातःस्नानसङ्कल्पमन्त्रं कार्त्तिकेऽहं करिष्यामि प्रातःस्नानं जनार्दन । प्रीत्य्अर्थं तव देवेश दामोदर मया सह ॥११७॥ [ःBV १६.१७२] [*ण्Oट्E: आल्तेर्नतिवे नुम्बेरिन्ग्१६. ८४] अत्र मासब्दप्रयोगः । तस्याः परमलक्ष्मीरूपत्वात् । (एन्द्पगे ३२) अर्घ्यदानमन्त्रे च साक्षात्तन्नामोक्तेः । यथा व्रतिनः कार्त्तिके मासि स्नानस्य विधिवन्मम । दामोदर गृहानार्घ्यं दनुजेन्द्रनिसूदन ॥११८॥ नित्ये नैमित्तिके कृत्स्ने कार्त्तिके पापशोषणे । गृहानार्घ्यं मया दत्तं राधया सहितो हरे ॥११९॥ [ःBV १६.१७४१७५] इति युग्मत्वेन उपादानात् तस्या एव श्रेष्ठत्वम् । तद्युगलोपासनायां भविष्यपुराणवचनं दर्शितमेव । तथा दशाध्यायिकार्त्तिकमाहात्म्यं चेन्नूनं पाद्मानुगतं स्यात्तर्हि तत्र तद्युगलो पासनं प्रकटतरमेवेति । तथा वासनाभाष्योत्थापित आग्नेयवचनेऽपि तस्याः श्रेष्ठत्वम् । यथा गोप्यः पप्रच्छुरुषसि कृष्णानुचरमुद्धवम् । हरिलीलाविहारांश्च तत्रैकां राधिकां विना । राधा तद्भावसंलीना वासनाया विरामिता ॥१२०॥ इत्यादि । अत्र तद्भावसंलीना इत्यनेन दिव्योन्मादमयवचनं मधुप कितवबन्धो इत्यादिकं तस्या एवेति विज्ञाप्य सर्वासु गोपीषु तस्याः श्रेष्ठ्यं दर्शितम् । युक्तं च तत्तु यतः । श्रीकृष्णान्वेषकर्त्रीणां तासां तामेवोद्धिश्य तदिदं वचनं श्रूयते यथा अनयाराधितो नूनं भगवान् हरिरीश्वरः यन्नो विहाय गोविन्दः प्रीतोऽयमनयद्रहः ॥१२१॥ (भागवतम् १०.३०.२८) अप्येणपत्न्युपगतः प्रिययेह गात्रैस् तन्वन् दृशां सखि सुनिर्वृतिमच्युतो वः । कान्ताङ्गसङ्गकुचकुङ्कुमरञ्जितायाः कुन्दस्रजः कुलपतेरिह वाति गन्धः ॥१२२॥ (भागवतम् १०.३०.११) (एन्द्पगे ३३) बाहुं प्रियांस उपधाय गृहीतपद्मो रामानुजस्तुलसिकालिकुलैर्मदान्धैः अन्वीयमान इह वस्तरवः प्रणामं किं वाभिनन्दति चरन् प्रणयावलोकैः ॥ (भागवतम् १०.३०.१२) इति । किं बहुना अस्याः सौभाग्यवाञ्छा द्वारकामहिषीणामपि श्रूयते । ततस्तासां तादृशवचनं श्रीशुकदेवेनाप्युदितं यथा न वयं साध्वि साम्राज्यमित्याद्युक्त्वा आहुः कामयामह एतस्य श्रीमत्पादरजः श्रियः । कुचकुङ्कुमगन्धाढ्यं मूर्ध्ना वोढुं गदाभृतः ॥१२४॥ व्रजस्त्रियो यद्वाञ्छन्ति पुलिन्दास्तृणवीरुधः । गावश्चारयतो गोपाः पादस्पर्शं महात्मनः ॥१२५॥ इति । [भागवतम् १०.८३.४२४३] व्रजस्त्र्य्आदीनां वाञ्छा दर्शिता पूर्णाः पुलिन्द्य उरुगायपदाब्जराग श्रीकुङ्कुमेन दयितास्तनमण्डितेन । तद्दर्शनस्मररुजस्तृणरूषितेन लिम्पन्त्य आननकुचेषु जुहुस्तदाधिम् ॥१२६॥ (भागवतम् १०.२१.१७) इत्यनेन । अत्र सत्युरुगायपदाब्जरागेत्यनेन (१०.२१.१७) सह दयितास्तनमण्डितेन इत्युक्त्या तत्कुङ्कुमं दयितास्तनतस्तस्य पदे लग्नमिति गम्यते । सा च दयिता कुचकुङ्कुमगन्ध्याढ्यम् (एन्द्पगे ३४) इत्येकवचनान्तनिर्देशेनानूदिता । तदिदं वर्णयन्तीषु तास्वपि सा विशिष्टेत्यवगम्यते । अयं भावः श्रीत्वे प्रसिद्धायाः श्रियस्तत्र कामनैव श्रूयते । न तु सङ्गतिः । यद्वाञ्छया श्रीर्ललनाचरत्तपो विहाय कामान् सुचिरं धृतव्रता इति [भागवतम् १०.१६.३६] नागपत्नीनाम् । या वै श्रियार्चितमजादिभिराप्तकामैरित्यादि [भागवतम् १०.४७.६२] उद्धवस्यापि वाक्यात् । न च रुक्मिणीत्वे प्रसिद्धायाः श्रियस्तत्र सङ्गतिः । कालदेशयोरन्यतमत्वात् । न च व्रजस्त्रीणां श्रीसम्बन्धलालसा युक्ता नायं श्रियोऽङ्ग इत्यादिना (१०.४७.६०) ततोऽपि परमाधिक्यश्रवणात् । तस्माद्रुक्मिणी द्वारवत्यां तु राधा वृन्दावने वने इत्याद्युक्तसिद्धान्तानुसारेण सर्वतो विलक्षणा या श्रीर्विराजते तामुद्दिश्यैव व्रजदेवीनां तदिदं वाक्यम् । ततश्च तासां यथा तत्र स्पृहास्पदता तथास्माकं पट्टमहिषीणामिति । सङ्गमश्चायं दिवस एवेति सम्भाव्यते । तत्रैव पुलिन्दानां भ्रमणात्कुङ्कुमानां लेपनकर्मणार्द्रत्वावगमाच्च । द्वयोः सङ्गमश्चायं न सम्भोगविशेषरूपः । रासप्रसङ्गे भगवानपि ता रात्रीः शरदोत्फुल्लमल्लिकाः । वीक्ष्य रन्तुं मनश्चक्रे इत्यत्रैव (भागवतम् १०.२९.१) नवसङ्गमस्य प्रतीयमानत्वात् । अन्यथा तत्र परीक्षार्थं पुनस्तेनोपेक्षावचनस्यासङ्गत्वापत्तेः । तदिदं वेणुप्रकरणे भणितत्वाद्वेणुसम्बन्धेनैव गम्यते । उरुगाय इत्यनेनैष एव संसूचितः । तस्माद्कदाचिद्वेणुकृताकर्षायास्तस्या लब्धमूर्च्छाया मूर्च्छाशान्तये सकुङ्कुमे स्विन्ने वक्षसि सम्भ्रमतः केवलेन श्रीचरणसञ्जीवनीपल्लवेन स्पृशन् गेवाद्यापि (एन्द्पगे ३५) वाद्यापि सम्यक्सङ्कोचानपगयमत्द्रुतमेव स तस्मान्निश्चक्रामेति बुध्यते । काश्चित्परोक्षं कृष्णस्य स्वसखीभ्योऽन्ववर्णयन्निति उक्तवान् । यास्तु तद्अन्यास्तासामेव पूर्णाः पुलिन्द्यः इत्यादि वचनम् । तस्मात्साध्वेवोक्तं लक्ष्मीरभितः स्त्रितमा इत्यादि । वर्णिता च सा तथैव श्रीजयदेवसहचरेण महाराजलक्ष्मणसेनमन्त्रिवरेणोमापतिधरेण यथा भ्रूवल्लीचलनैः कयापि नयनोन्मेषैः कयापि स्मित ज्योत्स्नाविच्छुरितैः कयापि निभृतं सम्भावितस्याध्वनि । गर्वाद्भेदकृतावहेलविनयश्रीभाजि राधानने सातङ्कानुनयं जयन्ति पतिताः कंसद्विषः दृष्टयः ॥१२७॥ [*ण्Oट्E: ... ॥ ] श्रीजयदेवेनापि राधामाधाय हृदये तत्याज व्रजसुन्दरीः । इति (ङ्ङ्३.१) । पत्युर्मनः कीलितम् (ङ्ङ्१२.१४) इति च । अतैव या परा परमा शक्तिर्महाविष्णुस्वरूपिणी । तस्या विज्ञानमात्रेण पराणां परमात्मनः ॥ मुहूर्तादेव देवस्य प्राप्तिर्भवति नान्यथा । एकेयं प्रेमसर्वस्वस्वभावा श्रीगोकुलेश्वरी ॥ अनया सुलभो ज्ञेय आदिदेवोऽखिलेश्वरः ॥ इत्युत्थापितपञ्चरात्रवचनं सर्वोपरि विराजमानं भवतीत्यलमतिविस्तरेण प्रमाणवचनसङ्ग्रहेण । तस्मात्सर्वासां गोपीनां राधिकातिगरीयसी । सर्वाधिक्येन कथिता यत्पुराणागमादिषु ॥ (एन्द्पगे ३६) अतः साधूक्तं श्रीदामोदरराधार्चनमर्हति व्रजस्थानामित्यादि । राधा वृन्दावने यद्वत्तद्वद्दामोदरो हरिः । दर्शितेषु च शास्त्रेषु तद्युग्मं तत्तद्ईशितुः ॥ राधया माधवो देवो माधवेनैव राधिका । विभ्राजन्ते जनेष्वेति परिशिष्टवचस्तथा ॥ न विष्णुना विना देवी न हरिः पद्मजां विना । हयग्रीवपञ्चरात्रमिह प्रकटितं यतः ॥ कार्त्तिकव्रतचर्यायामतस्ते युग्मदेवते । राधादामोदराभिख्ये वीक्ष्येते लोकशास्त्रयोः ॥ किं बहूक्त्या कुण्डयुग्मं तयोर्युग्मेन वीक्ष्यते । शास्त्रे च दर्शिता तस्मात्कैमुत्याद्युग्मता तयोः ॥ उमामहेश्वरौ केचित्लक्ष्मीनारायणौ परे । ते भजन्तां भजामस्तु राधादामोदरौ वयम् ॥ इति श्रीवृन्दावनवासिनः कस्यचिज्जीवस्य श्रीराधाकृष्णार्चनदीपिका सदा देदीप्यमानतामपद्यताम् ॥ श्रीगुरुचरणकमलेभ्यो नमः । श्रीकृष्णचैतन्यचन्द्राय नमः । श्रीराधादामोदराभ्यां नमः ড়द्यावली २५९; ष्Kं १.५५.३, ऋKआड्२६० मापतिधरस्य ॥