श्री श्री राधाकृष्णाष्टकालीयलीलास्मरणक्रमपद्धतिः एवं पद्मोपरि ध्यात्वा राधाकृष्णौ ततस्तयोः । अष्टकालोचितां सेवां विदध्यात्सिद्धदेहतः । गुरुवर्गाज्ञया तत्र पूजयेद्राधिकाहरी ॥ १ ॥ बाह्यपूजां ततः कृत्वा पाद्यमर्घ्यं क्रमेण च । विधिपूर्वकशुश्रूषानन्तरं साधकः क्रमात् । द्वात्रिंशद्अक्षरमुखान्जपेन्मन्त्रानतन्द्रितः ॥ २ ॥ महामन्त्रं जपेदादौ दशार्णं तद्अन्तरम् । ततः श्रीराधिकामन्त्रं गायत्रीं कामिकीं ततः ॥ ३ ॥ ततो युगलमन्त्रं च जपेद्रासस्थलीप्रदम् । ततोऽष्टानां सखीनां च जपेन्मन्त्रान् यथाक्रमम् । ततोऽष्टमञ्जरीणां च स्वस्वमन्त्रान् क्रमाज्जपेत् ॥ ४ ॥ अष्टकालीयसूत्रमाह, यथा निशान्तः प्रातः पूर्वाह्नो मध्याह्नश्चापराह्नकः । सायं प्रदोषो रात्रिश्च काला अष्टौ यथाक्रमम् ॥ ५ ॥ मध्याह्नो यामिनी चोभौ षण्मुहूर्तमितौ स्मृतौ । त्रिमुहूर्तमिता ज्ञेया निशान्तप्रमुखाः परे ॥ ६ ॥ तेषु सिद्धदेहेन सेवनं यथा सनत्कुमारसंहितायाम्, श्रीनारद उवाच भगवन् सर्वमाख्यातं यद्यत्पृष्ठं त्वया गुरो । अधुना श्रोतुमिच्छामि रागमार्गमनुत्तमम् ॥ ७ ॥ श्रीसदाशिव उवाच साधु पृष्ठं त्वया विप्र सर्वलोकहितैषिणा । रहस्यमपि वक्ष्यामि तन्मे निगदितं शृणु ॥ ८ ॥ परकीयाभिमानिन्यस्तथास्य च प्रिया जनाः । प्रचुरेणैव भावेन रमयन्ति निजप्रियम् ॥ ९ ॥ आत्मानं चिन्तयेत्तत्र तासां मध्ये मनोरमाम् । रूपयौवनसम्पन्नां किशोरीं प्रमदाकृतिम् ॥ १० ॥ नानाशिल्पकलाभिज्ञां कृष्णभोगानुरूपिणीम् । प्रार्थितामपि कृष्णेन ततो भोगपराङ्मुखीम् ॥ ११ ॥ राधिकानुचरीं नित्यं तत्सेवनपरायणाम् । कृष्णादप्यधिकं प्रेम राधिकायां प्रकुर्वतीम् ॥ १२ ॥ प्रीत्यानुदिवसं यत्नात्तयोः सङ्गमकारिणीम् । तत्सेवनसुखास्वादभरेणातिसुनिर्वृताम् ॥ १३ ॥ इत्यात्मानं विचिन्त्यैव तत्र सेवां समाचरेत् । ब्राह्ममुहूर्तमारभ्य यावत्सान्ता महानिशा ॥ १४ ॥ श्रीनारद उवाच हरेरत्र गतां लीलां श्रोतुमिच्छामि तत्त्वतः । लीलामजानतां सेव्यो मनसा तु कथं हरिः ॥ १५ ॥ श्रीसदाशिव उवाच नाहं जानामि तां लीलां हरेर्नारद तत्त्वतः । वृन्दादेवीं समागच्छ सा ते लीलां प्रवक्ष्यति ॥ १६ ॥ अविदूरे इतः स्थानात्केशीतीर्थसमीपतः । सखीभिः संवृता सास्ते गोविन्दपरिचारिका ॥ १७ ॥ श्रीसनत्कुमार उवाच इत्युक्तस्तं परिक्रम्य गुरुं नत्वा पुनः पुनः । वृन्दास्थानं जगामासौ नारदो मुनिसत्तमः ॥ १८ ॥ वृन्दापि नारदं दृष्ट्वा प्रणम्यापि पुनः पुनः । उवाच तं मुनिश्रेष्ठं कथमत्रागतिस्तव ॥ १९ ॥ श्रीनारद उवाच त्वत्तो वेदितुमिच्छामि नैत्यिकं चरितं हरेः । तदादितो मम ब्रुहि यदि योग्योऽस्मि शोभने ॥ २० ॥ श्रीवृन्दादेव्युवाच रहस्यं त्वां प्रवक्ष्यामि कृष्णभक्तोऽसि नारद । न प्रकाश्यं त्वया ह्येतद्गुह्याद्गुह्यतरं महत् ॥ २१ ॥ अथ निशान्तसेवा मध्ये वृन्दावने रम्ये पञ्चाशत्कुञ्जमण्डिते । कल्पवृक्षनिकुञ्जे तु दिव्यरत्नमये गृहे ॥ २२ ॥ निद्रितौ तिष्ठतस्तल्पे निविडालिङ्गितौ मिथः । मद्आज्ञाकारिभिः पश्चात्पक्षिभिर्बोधितावपि ॥ २३ ॥ गाढालिङ्गननिर्भेदमाप्तौ तद्भङ्गकातरौ । न मनस्कुरुतस्तल्पात्समुत्थातुं मनागपि ॥ २४ ॥ ततश्च शारिकासंघैः शुकाद्यैरपि तौ मुहुः । बोधितौ विविधैः पद्यैः स्वतल्पादुदतिष्ठताम् ॥ २५ ॥ उपविष्टौ ततो दृष्ट्वा सख्यस्तल्पे मुदान्वितौ । प्रविश्य चक्रिरे सेवां तत्कालस्योचितां तयोः ॥ २६ ॥ पुनश्च शारिकावाक्यैरुत्थाय तौ स्वतल्पतः । गच्छतः स्वस्वभवनं भीत्य्उत्कण्ठाकुलौ मिथः ॥ २७ ॥ इति निशान्तसेवा अथ प्रातःसेवा प्रातश्च बोधितो मात्रा तल्पादुत्थाय सत्वरम् । कृत्वा कृष्णो दन्तकाष्ठं बलदेवसमन्वितः ॥ २८ ॥ मात्रानुमोदितो याति गोशालां दोहनोत्सुकः । राधापि बोधिता वृद्धवयस्याभिः स्वतल्पतः ॥ २९ ॥ उत्थाय दन्तकाष्ठादि कृत्वाभ्यङ्ग समाचरेत् । स्नानवेदीं ततो गत्वा स्नापिता ललितादिभिः ॥ ३० ॥ भूषागृहं व्रजेत्तत्र वयस्या भूषयन्त्यपि । भूषणैर्विविधैर्दिव्यैर्गन्धमाल्यानुलेपनैः ॥ ३१ ॥ ततश्च स्वजनैस्तस्याः श्वश्रूं सम्प्रार्थ्य यत्नतः । पक्तुमाहूयते तूर्णं ससखी सा यशोदया ॥ ३२ ॥ श्रीनारद उवाच कथमाहूयते देवि पाकार्थं सा यशोदया । सतीषु पाककर्त्रीषु रोहिणीप्रमुखाष्वपि ॥ ३३ ॥ श्रीवृन्दोवाच दुर्वाससा स्वयं दत्तो वरस्तस्यै महर्षिणा । इति कात्यायनीवक्त्राच्छ्रुतमासीन्मया पुरा ॥ ३४ ॥ त्वया यत्पच्यते देवि तद्अन्नं मद्अनुग्रहात् । मिष्टं स्वाद्व्अमृतस्पर्द्धि भोक्तुरायुष्करं तथा ॥ ३५ ॥ इत्याह्वयति तां नित्यं यशोदा पुत्रवत्सला । आयुष्मान्मे भवेत्पुत्रः स्वादुलोभात्तथा सती ॥ ३६ ॥ श्वश्र्वानुमोदिता सापि हृष्टा नन्दालयं व्रजेत् । ससखीप्रकरा तत्र गत्वा पाकं करोति च ॥ ३७ ॥ कृष्णोऽपि दुग्ध्वा गाः काश्चिद्दोहयित्वा जनैः पराः । आगच्छति पितुर्वाक्यात्स्वगृहं सखिभिर्वृतः ॥ ३८ ॥ अभ्यङ्गमर्दनं कृत्वा दासैः संस्नापितो मुदा । धौतवस्त्रधरः स्रग्वी चन्दनाक्तकलेवरः ॥ ३९ ॥ द्विफालबद्धकेशैश्च ग्रीवाभालोपरि स्फुरन् । चन्द्राकारस्फुरद्भालतिलकालकरञ्जितः ॥ ४० ॥ कङ्कणाङ्गदकेयूररत्नमुद्रालसत्करः । मुक्ताहारस्फुरद्वक्षा मकराकृतिकुण्डलः ॥ ४१ ॥ मुहुराकारितो मात्रा प्रविशेद्भोजनालये । अवलम्ब्य करं मातुर्बलदेवमनुव्रतः ॥ ४२ ॥ भुक्त्वा च विविधान्नानि मात्रा च सखिभिर्वृतः । हासयन् विविधैर्वाक्यैः सखींस्तैर्हासितः स्वयम् ॥ ४३ ॥ इत्थं भुक्त्वा तथाचम्य दिव्यखट्टोपरि क्षणात् । विश्रमेत्सेवकैर्दत्तं ताम्बूलं विभजन्नदन् ॥ ४४ ॥ राधापि भोजनानन्दं दृष्ट्वा यशोदयाहूत । ललितादिसखीवृता भुङ्क्तेऽन्नं लज्जयान्विता ॥ ४५ ॥ इति प्रातःसेवा अथ पूर्वाह्नसेवा गोपवेशधरः कृष्णो धेनुवृन्दपुरःसरः । व्रजवासिजनैः प्रीत्या सर्वैरनुगतः पथि ॥ ४६ ॥ पितरं मातरं नत्वा नेत्रान्तेन प्रियागणान् । यथायोग्यं तथा चान्यान् सन्निवर्त्य वनं व्रजेत् ॥ ४७ ॥ वनं प्रविश्य सखिभिः क्रीडित्वा च क्षणं ततः । वञ्चयित्वा च तान् सर्वान् द्वित्रैः प्रियसखैर्युतः ॥ ४८ ॥ सङ्केतकं व्रजेद्धर्षात्प्रियासन्दर्शनोत्सुकः । सापि कृष्णे वनं याते दृष्ट्वा तं गृहमागता ॥ ४९ ॥ सूर्यादिपूजाव्याजेन कुसुमाद्य्आहृतिच्छलात् । वञ्चयित्वा गुरून् याति प्रियसङ्गेच्छया वनं ॥ ५० ॥ इति पूर्वाह्नसेवा अथ मध्याह्नसेवा इत्थं तौ बहुयत्नेन मिलित्वा स्वगणैर्वृतौ । विहारैर्विविधैस्तत्र वने विक्रीडतो मुदा ॥ ५१ ॥ स्यन्दोलिकासमारूढौ सखीभिर्दोलितौ क्वचित् । क्वचिद्वेणुं करस्रस्तं प्रियया चोरितं हरिः ॥ ५२ ॥ अन्वेषयन्नुपालब्धो विप्रलब्धः प्रियागणैः । हासितो बहुधा ताभिर्हृतस्व इव तिष्ठति ॥ ५३ ॥ वसन्तर्तुना जुष्टं वनखण्डं क्वचिन्मुदा । प्रविश्य चन्दनाम्भोभिः कुङ्कुमादिजलैरपि ॥ ५४ ॥ विषिञ्चतो यन्त्रमुक्तैस्तत्पङ्केनापि तौ मिथः । सख्योऽप्येवं विषिञ्चन्ति ताश्च तौ सिञ्चतः पुनः ॥ ५५ ॥ तथान्यर्तुसु जुष्टासु क्रीडतो वनराजिषु । तत्तत्कालोचितैर्नानाविहारैः सगणौ द्विज ॥ ५६ ॥ श्रान्तौ क्वचिद्वृक्षमूलमासाद्य मुनिसत्तम । उपविश्यासने दिव्ये मधुपानं प्रचक्रतुः ॥ ५७ ॥ ततो मधुमदोन्मत्तौ निद्रया मीलितेक्षणौ । मिथः पाणिं समालम्ब्य कामबाणवशङ्गतौ ॥ ५८ ॥ रिरंसु विशतः कुञ्जं स्खलत्पादाब्जकौ पथि । ततो विक्रीडतस्तत्र करिणीयूथपौ यथा ॥ ५९ ॥ सख्योऽपि मधुभिर्मत्ता निद्रया पिहितेक्षणाः । अभितः कुञ्जपुञ्जेषु सार्वा एव विलिल्यिरे ॥ ६० ॥ पृथगेकेन वपुषा कृष्णोऽपि युगपद्विभुः । सर्वासां सन्निधिं गच्छेत्प्रियाणां परितो मुहुः ॥ ६१ ॥ रमयित्वा च ताः सर्वाः करिणीगजराडिव । प्रियया च तथा ताभिः सरोवरमथाव्रजेत् ॥ ६२ ॥ श्रीनारद उवाच वृन्दे श्रीनन्दपुत्रस्य माधुर्यक्रीडने कथम् । ऐश्वर्यस्य प्रकाशोऽभूदिति मे छिन्धि संशयम् ॥ ६३ ॥ श्रीवृन्दोवाच मुने माधुर्यमय्यस्ति लीलाशक्तिर्हरेर्दृशा । तया पृथक्कृतः क्रीडेद्गोपिकाभिः समं हरिः ॥ ६४ ॥ राधया सह रूपेण निजेन रमते स्वयम् । इति माधुर्यलीलायाः शक्तिर्नेशताया हरेः ॥ ६५ ॥ जलसेकैर्मिथस्तत्र क्रीडित्वा सगणौ ततः । वासःस्रक्चन्दनैर्दिव्यभूषणैरपि भूषितौ ॥ ६६ ॥ तत्रैव सरसस्तीरे दिव्यरत्नमये गृहे । अश्नीतः फलमूलानि कल्पितानि मयैव हि ॥ ६७ ॥ हरिस्तु प्रथमं भुक्त्वा कान्तया परिवेशितम् । द्वित्राभिः सेवितो गच्छेच्छय्यां पुष्पविनिर्मिताम् ॥ ६८ ॥ ताम्बूलैर्व्यजनैस्तत्र पादसंवाहनादिभिः । सेव्यमानो भृशन्ताभिर्मोदितः प्रेयसीं स्मरन् ॥ ६९ ॥ श्रीराधापि हरौ सुप्ते सगणा मुदितान्तरा । कान्तदत्तं प्रीतमना उच्छिष्टं बुभुजे ततः ॥ ७० ॥ किञ्चिदेवो ततो भुक्त्वा व्रजेच्छय्यानिकेतनम् । द्रष्टुं कान्तमुखाम्भोजं चकोरीवन्निशाकरम् ॥ ७१ ॥ ताम्बूलचर्वितं तस्य तत्रत्याभिर्निवेदितम् । ताम्बूलान्यपि चाश्नाति विभजन्ति प्रियालिषु ॥ ७२ ॥ कृष्णोऽपि तासां शुश्रूषुः स्वच्छन्दं भाषितं मिथः । प्राप्तनिद्र इवाभाति विनिद्रोऽपि पटावृतः ॥ ७३ ॥ ताश्च क्ष्वेलीं क्षणं कृत्वा मिथः कान्तकथाश्रयाः । व्याजनिद्रां हरेर्ज्ञात्वा कुतश्चिदनुमानतः ॥ ७४ ॥ विमृश्य वदनं दृग्भिः पश्यन्त्योऽन्योन्यमाननम् । लीना इव लज्जया स्युः क्षणमुचुर्न किञ्चनम् ॥ ७५ ॥ क्षणादेव ततो वस्त्रं दूरीकृत्य तदङ्गतः । साधु निद्रां गतोऽसीति हासयन्त्यो हसन्ति तम् ॥ ७६ ॥ एवं तौ विविधैर्हासै रममाणौ गणैः सह । अनुभूय क्षणं निद्रासुखं च मुनिसत्तम ॥ ७७ ॥ उपविश्यासने दिव्ये सगणौ विस्तृते मुदा । पणीकृत्य मिथो हारचुम्बाश्लेषपरिच्छदान् ॥ ७८ ॥ अक्षैर्विक्रीडितः प्रेम्णा नर्मालापपुरःसरम् । पराजितोऽपि प्रियया जितमित्यवदन्मृषा ॥ ७९ ॥ हारादिग्रहणे तस्याः प्रवृत्तस्ताड्यते तया । तयैवं ताडितः कृष्णः कर्णोत्पलसरोरुहैः ॥ ८० ॥ विषण्डवदनो भूत्वा गतस्व इव नारद । जितोऽस्मि च त्वया देवि गृह्यतां यत्पणीकृतम् ॥ ८१ ॥ चुम्बनादि मया दत्तमित्युक्त्वा च तथाचरत् । कौटिल्यं तद्भ्रुवोर्द्रष्टुं श्रोतुं तद्भर्त्सनं वचः ॥ ८२ ॥ ततः शारीशुकानां च श्रुत्वा वागाहवं मिथः । निर्गच्छतस्ततः स्थानाद्गन्तुकामो गृहं प्रति ॥ ८३ ॥ कृष्णः कान्तामनुज्ञाप्य गवामभिमुखं व्रजेत् । सा तु सूर्यगृहं गच्छेत्सखीमण्डलसंयुता ॥ ८४ ॥ कियद्दूरं ततो गत्वा परावृत्य हरिः पुनः । विप्रवेशं समास्थाय याति सूर्यगृहं प्रति ॥ ८५ ॥ सूर्यं च पूजयेत्तत्र प्रार्थितस्तत्सखीजनैः । तदेव कल्पितैर्वेदैः परिहास्यावगर्भितैः ॥ ८६ ॥ ततस्ता अपि तं कान्तं परिज्ञाय विचक्षणाः । आनन्दसागरे लीना न विदुः स्वं न चापरम् ॥ ८७ ॥ विहारैर्विविधैरेवं सार्धयामद्वयं मुने । नीत्वा गृहं वजेषुस्ताः स च कृष्णो गवां व्रजेत् ॥ ८८ ॥ इति मध्याह्नसेवा अथापराह्नसेवा सङ्गम्य तु सखीन् कृष्णो गृहीत्वा गाः समन्ततः । आगच्छति व्रजं कर्षन्नुत्तानमुरलीरवैः ॥ ८९ ॥ ततो नन्दादयः सर्वे श्रुत्वा वेणुरवं हरेः । गोधूलिपटलैर्व्याप्तं दृष्ट्वा चापि नभःस्थलम् ॥ ९० ॥ विसृज्य सर्वकर्माणि स्त्रियो बालादयोऽपि च । कृष्णस्याभिमुखं यान्ति तद्दर्शनसमुत्सुकाः ॥ ९१ ॥ राधिकापि समागत्य गृहं स्नात्वा विभूषिता । सम्पाच्य कान्तभोगार्थं द्रव्याणि विविधानि च । सखीसंघयुता यान्ति कान्तं द्रष्टुं समुत्सुकाः ॥ ९२ ॥ राजमार्गे व्रजद्वारि यत्र सर्वे व्रजौकसः । कृष्णोऽप्येतान् समागम्य यथावदनुपूर्वशः ॥ ९३ ॥ दर्शनैः स्पर्शनैर्वापि स्मितपुर्वावलोकनैः । गोपवृद्धान्नमस्कारैः कायिकैर्वाचिकैरपि ॥ ९४ ॥ साष्टाङ्गपातैः पितरौ रोहिणीमपि नारद । नेत्रान्तसूचितेनैव विनयेन प्रियास्तथा ॥ ९५ ॥ एवं तैश्च यथायोग्यं व्रजौकोभिः प्रपूजितः । गवालयं तथा गाश्च सम्प्रवेश्य समन्ततः ॥ ९६ ॥ पितृभ्यामर्थितो याति भ्रात्रा सह निजालयम् । स्नात्वा पित्वा तथा किञ्चिद्भुक्त्वा मात्रानुमोदितः । गवालयं पुनर्याति दोग्धुकामो गवां पयः ॥ ९७ ॥ इत्यपराह्नसेवा अथ सायंसेवा ताश्च दुग्ध्वा दोहयित्वा पाययित्वा च काश्चन । पित्रा सार्धं गृहं याति पयोभारिशतानुगः ॥ ९८ ॥ तत्रापि मातृवृन्दैश्च तत्पुत्रैश्च बलेन च । संभुङ्क्ते विविधान्नानि चर्व्यचूष्यादिकानि च ॥ ९९ ॥ इति सायंसेवा अथ प्रदोषसेवा तन्मातुः प्रार्थनात्पूर्वं राधयापि तदैव हि । प्रस्थाप्यन्ते सखीद्वारा पक्वान्नानि तद्आलयम् ॥ १०० ॥ श्लाघयंश्च हरिस्तानि भुक्त्वा पित्रादिभिः सह सभागृहं व्रजेत्तैश्च जुष्टं वन्दिजनादिभिः ॥ १०१ ॥ पक्वान्नानि गृहीत्वा याः सख्यस्तत्र समागताः । बहूनि च पुनस्तानि प्रदत्तानि यशोदया ॥ १०२ ॥ सख्या तत्र तया दत्तं कृष्णोच्छिष्टं तथा रहः सर्वं ताभिः समानीय राधिकायै निवेद्यते ॥ १०३ ॥ सापि भुक्त्वा सखीवर्गयुता तद्अनुपूर्वशः सखीभिर्मण्डित तिष्ठेदभिसर्तुं मुदान्विता ॥ १०४ ॥ प्रस्थाप्यतेऽनया काचिदित एव ततः सखी । तयाभिसारिता साऽथ यमुनायाः समीपतः ॥ १०५ ॥ कल्पवृक्सनिकुञ्जेऽस्मिन् दिव्यरत्नमये गृहे । सितकृष्णनिशायोग्यवेश याति सखीयुता ॥ १०६ ॥ कृष्णोऽपि विविधं तत्र दृष्ट्वा कौतुहलं ततः । कवित्वानि मनोज्ञानि श्रुत्वा च गीतकान्यपि ॥ १०७ ॥ धनधान्यादिभिस्तांश्च प्रीणयित्वा विधानतः । जनैराकारितो मात्रा याति शय्यानिकेतनम् ॥ १०८ ॥ मातरि प्रस्थितायान्तु भोजयित्वा ततो गृहात् । सङ्केतकं कान्तयात्र समागच्छेदलक्षितः ॥ १०९ ॥ इति प्रदोषसेवा अथ रात्रिसेवा मिलित्वा तावुभावत्र क्रीडतो वनराजिषु । विहारैर्विविधैर्हास्यलास्यगीतपुरःसरैः ॥ ११० ॥ सार्धयामद्वयं नीत्वा रात्रेरेवं विहारतः । सुषुप्सू विशतः कुञ्जं पञ्चषाभिरलक्षितौ ॥ १११ ॥ निर्वृन्तकुसुमैः क्प्ते केलितल्पे मनोरमे । सुप्तावतिष्ठतां तत्र सेव्यमानौ प्रियालिभिः ॥ ११२ ॥ इति रात्रिसेवा श्रीनारद उवाच श्रोतुमिच्छामि भो देव व्रजराजसुतस्य च । वृन्दावने रसं दिव्यं राधयैकान्तिकं सह ॥ ११३ ॥ श्रीसदाशिव उवाच शृणु नारद वक्ष्यामि राधाकृष्णरसं शुचिं । सुगोप्यं परमोदारं न वक्तव्यं हि कस्यचित् ॥ ११४ ॥ ऐकान्तिकरसास्वादं कर्तुं वृन्दावने मुने । व्रजराजकुमारं च बहुकालमभावयम् ॥ ११५ ॥ मयि प्रसन्नः श्रीकृष्णो मन्त्रयुग्ममनुत्तमम् । युगलाख्यं ददौ मह्यं स्वीयोज्ज्वलरसाप्लुतम् ॥ ११६ ॥ समब्रवीत्तदा कृष्णः स्वशिष्यं मां स्वकं रसम् । ब्रवीमि त्वां शृणुष्वाद्य ब्रह्मादीनामगोचरम् ॥ ११७ ॥ व्रजराजसुतो वृन्दावने पूर्णतमो वसन् । सम्पूर्णषोडशकला विहारं कुरुते सदा ॥ ११८ ॥ वासुदेवः पूर्णतरो मथुरायां वसन् पुरि । कलाभिः पञ्चदशभिर्युतः क्रीडति सर्वदा ॥ ११९ ॥ द्वारकाधिपतिर्द्वारवत्यां पूर्णस्त्वसौ वसन् । चतुर्दशकलायुक्तो विहरत्येव सर्वदा ॥ १२० ॥ एकया कलया द्वाभ्यां मथुराद्वारकाधिपौ । वृन्दावनपते रूपौ पूर्णौ स्वे स्वे पदे रसे ॥ १२१ ॥ मथुरानाथो वृन्दावनाधिपापेक्षया स्वरूपेण लीलया च एकया कलया ऊनः । मथुरालीलायां मथुरायां च सम्पूर्णषोडशकलः । तथा द्वारकानाथो वृन्दावनाधिपापेक्षया स्वरूपेण लीलया च । द्वाभ्यां कलाभ्यामूनः । द्वारकायां द्वारकालीलायां च पूर्णषोडशकलः । श्रीर्भूलीला योगमाया चिन्त्याचिन्त्या तथैव च । मोहिनी कौशलीत्यष्टौ बहिरङ्गाश्च शक्तयः ॥ १२२ ॥ लीला प्रेमस्वरूपा चस्थापन्याकर्षणी तथा । संयोगिनी वियोगिन्याह्लादिनीत्यन्तरङ्गिका ॥ १२३ ॥ व्रजे श्रीकृष्णचन्द्रस्य सन्ति षोडशशक्तयः । पोषिका मधुरस्यैव तस्यैता वै सनातनाः ॥ १२४ ॥ ह्लादिनी य महाशक्तिः सर्वशक्तिवरीयसी । तत्सारभावरूपा श्रीराधिका परिकीर्तिता ॥ १२५ ॥ तया श्रीकृष्णचन्द्रस्य क्रिडायाः समये मुने । तद्आविष्टं वासुदेवं सह क्षीराब्धिनायकम् ॥ १२६ ॥ अन्तरीक्ष्यगतं कुर्याच्छक्तिराकर्षणी हरेः । क्रीडान्ते स्थापयेत्तन्तु स्थापनी कृष्णदेहतः ॥ १२७ ॥ सम्पूर्णषोडशकलः केवलो नन्दनन्दनः । विक्रीडन् राधया सार्धं लभते परमं सुखम् ॥ १२८ ॥ श्रीनारद उवाच गते मधुपुरीं कृष्णे विप्रलम्भरसः कथम् । वासुदेवे राधिकायाः संशयं छिन्धि मे प्रभो ॥ १२९ ॥ श्रीसदाशिव उवाच शक्तिः संयोगिनी कामा वामा शक्तिर्वियोगिनी । ह्लादिनी कीर्तिदापुत्री चैवं राधात्रयं व्रजे ॥ १३० ॥ मम प्राणेश्वरः कृष्णस्त्यक्त्वा वृन्दावनं क्वचित् । कदाचिन्नैव यातीति जानीते कीर्तिदासुता ॥ १३१ ॥ कामावामे न जानीत इति च ब्रह्मनन्दन । रासारम्भ इवान्तर्धिं गतवान्नन्दनन्दनः ॥ १३२ ॥ मथुरां मथुरानाथो वासुदेवो जगाम ह । अन्तर्हिते नन्दसुते श्रीमद्वृन्दावने मुने ॥ १३३ ॥ प्रवासाख्यं रसं लेभे राधा वै कीर्तिदासुता । ततो वदन्ति मुनयः प्रवासं सङ्गविच्युतिम् ॥ १३४ ॥ मम जीवननेता च त्यक्त्वा मां मथुरां गतः । इति विह्वलिता वामा राधा या विरहादभूत् ॥ १३५ ॥ यमुनायां निमग्ना सा प्रकाशं गोकुलस्य च । गोलकं प्राप्य तत्राभूत्संयोगरसपेशला ॥ १३६ ॥ कामा राधा च मथुराविरहेण निपीडिता । कुरुक्षेत्रं गता तीर्थयात्रापरमलालसा ॥ १३७ ॥ नन्दनन्दनभावज्ञ उद्धवो व्रजमागतः । सान्त्वयिष्यन् कीर्तिदायाः सुतां मासद्वये गते ॥ १३८ ॥ राधामास्वादयामास श्रीमद्भागवतार्थकं । कथायां भागवत्यान्तु जातायां मुनिपुङ्गव ॥ १३९ ॥ व्रजेन्द्रनन्दनः श्रीमांस्तदा प्रत्यक्षतां गतः ॥ १४० ॥ अतएव पाद्मोत्तरखण्डोक्तं द्वारकाधिपतेर्वृन्दावनं प्रतिगमनं क्षीराब्धिशाय्याविष्टत्वात्क्षीराब्धिशायिनो द्रोणादीनां लब्धवरत्वात्, तेषां पुनः स्वस्थानप्रापणार्थमेवेत्यवगन्तव्यम् । श्रीमद्भागवतवाक्यानामेवं विचारोऽवगन्तव्यः पद्मोत्तरखण्डे तु “कालिन्दिपुलिने रम्ये” इत्यत्र श्रीद्वारकानाथस्य श्रीनन्दनन्दनमधुरलीलासंदर्शने सोत्कण्ठत्वाद्व्योमयानैरेत्य श्रीवृन्दावने मासद्वयमुवासेत्यभिप्रायो ज्ञेयः । तद्यथा श्रीललितमाधवे (८.३४)“अपरिकलितपूर्वः” इत्यादि । इति ते सर्वमाख्यातं नैत्यिकं चरितं हरेः । पापिनोऽपि विमुच्यन्ते स्मरणाद्यस्य नारद ॥ १४१ ॥ अष्टकालोक्तशुश्रूषानन्तरं साधकः क्रमात् । द्वात्रिंशद्अक्षरमुख्यान् जपेन्मन्त्रानतन्द्रितः ॥ १४२ ॥ महामन्त्रं जपेदादौ दशार्णं तद्अनन्तरम् । ततः श्रीराधिकामन्त्रं गायत्रीं कामकीं तथा ॥ १४३ ॥ ततो युगलमन्त्रं च जपेद्रासस्थलीप्रदम् । ततोऽष्टानां सखीनां च जपेन्मन्त्रान् यथाक्रमम् । ततः षण्मञ्जरीणां च स्वस्वमन्त्रान् क्रमाज्जपेत् ॥ १४४ ॥ यथा आदिपुराणे गोपीभावेन ये भक्ता मामेव पर्युपासते । तेषु तास्विव तुष्टोऽस्मि सत्यं सत्यं धनञ्जय ॥ १४५ ॥ वेशभूषावयोरूपैर्गोपिकाभावमाश्रिताः । भावुकीयाश्च तद्भावं यान्ति पादरजोऽर्चनात् ॥ १४६ ॥ यथा एकाम्रपुराणे अहो भजनमाहात्म्यं वृन्दावनपतेर्हरेः । पुमान् योषिद्भवेद्यत्र योषिद्आत्मसमानिका ॥ १४७ ॥ पाद्मे च (उत्तरखण्डे) पुरा महर्षयः सर्वे दण्डकारण्यवासिनः । रामं दृष्ट्वा हरिं तत्र भोक्तुमैच्छन् सुविग्रहम् ॥ १४८ ॥ ते सर्वे स्त्रीत्वमापन्नाः समुद्भूताश्च गोकुले । हरिं सम्प्राप्य कामेन ततो मुक्ता भवार्णवात् ॥ १४९ ॥ बृहद्वामनसिद्धाश्च श्रुतयोऽपि यथा पुरा । गोपीभावेन संसेव्य समुद्भूता हि गोकुले ॥ १५० ॥ यद्उक्तं श्रीरूपगोस्वामिचरणैः हरिं सुरागमार्गेण सेवते यो नरोत्तमः । केवलेनैव स तदा गोपिकात्वमियाद्व्रजे ॥ १५१ ॥ भक्तितत्त्वकौमुद्याम् एकस्मिन् वासनादेहे यदि चान्यस्य भावना । तर्हि तत्साम्यमेव स्यात्यथा वै भरते नृपे ॥ १५२ ॥ यथा सनत्कुमारसंहितायाम् श्रीनारद उवाच धन्योऽस्म्यनुगृहीतोऽस्मि त्वया देवि न संशयः । हरेर्मे नैत्यिकी लीला यतो मेऽद्य प्रकाशिता ॥ १५३ ॥ श्रीसनत्कुमार उवाच इत्युक्त्वा तां परिक्रम्य तया चापि प्रपूजितः । अन्तर्धानं गतो राजन्नारदो मुनिसत्तमः ॥ १५४ ॥ मयाप्येतदानुपूर्व्यं सर्वं तत्परिकीर्तितम् । जपन् नित्यं प्रयत्नेन मन्त्रयुग्ममनुत्तमम् ॥ १५५ ॥ कृष्णवक्त्रादिदं लब्धं पुरा रुद्रेण यत्नतः । तेनोक्तं नारदायाथ नारदेन मयोदितम् ॥ १५६ ॥ संसाराग्निविनाशाय मयाप्येतत्तवोदितम् । त्वया चैतद्गोपनीयं रहस्यं परमाद्भुतम् ॥ १५७ ॥ श्र्यम्बरीष उवाच कृतकृत्योऽभवं साक्षात्त्वत्प्रसादादहं गुरो । रहस्यातिरहस्यं यत्त्वया मह्यं प्रकाशितम् ॥ १५८ ॥ श्रीसनत्कुमार उवाच धर्मानेतानुपादिष्टो जपन्मन्त्रमहर्निशम् । अचिरादेव तद्दास्यमवाप्स्यसि न संशयः ॥ १५९ ॥ “एतान् धर्मान्अष्टकालसेवारूपान्; मन्त्रम्युगलमन्त्रम्; तद्दास्यम्तयोः श्रीराधाकृष्णयोर्दास्यं दासीभावम्” इति । मयापि गम्यते राजन् गुरोरायतनं मम । वृन्दावने यत्र नित्यं गुरुर्मेऽस्ति सदाशिवः ॥ १६० ॥ द्वात्रिंशद्अक्षरादीनां मन्त्राणां क्रमेण फलं यथा पाद्मे द्वात्रिंशद्अक्षरं मन्त्रं नामषोडशकान्वितम् । प्रजपन् वैष्णवो नित्यं राधाकृष्णस्थलं लभेत् ॥ १६१ ॥ गौतमीयतन्त्रे च अहर्निशं जपेन्मन्त्रं मन्त्री नियतमानसः । स पश्यति न सन्देहो गोपरूपिणमीश्वरम् ॥ १६२ ॥ गौरीतन्त्रे च श्रीमद्अष्टाक्षरं मन्त्रं राधायाः प्रेमसिद्धिदम् । प्रजपेत्साधको यस्तु स राधान्तिकमाप्नुयात् ॥ १६३ ॥ सनत्कुमारसंहितायाम् जपेद्यः कामगायत्रीं कामबीजसमन्विताम् । तस्य सिद्धिर्भवेत्प्रेम राधाकृष्णस्थलं व्रजेत् ॥ १६४ ॥ एतां पञ्चपदीं जप्त्वा श्रद्धयाऽश्रद्धयासकृत् । वृन्दावने तयोर्दास्यं गच्छत्येव न संशयः ॥ १६५ ॥ किशोरीतन्त्रे च एतान् सखीनामष्टानां मन्त्रान् यः साधको जपेत् । श्रीराधाकृष्णयोः क्षिप्रं विहारस्थलमाप्नुयात् ॥ १६६ ॥ तत्रैव मन्त्रानेतान्मञ्जरीणामष्टानां यो जपेत्सदा । प्रेमसिद्धिर्भवेत्तस्य श्रीवृन्दावनमाप्नुयात् ॥ १६७ ॥ स्मरणानन्तरं सिद्धदेहस्यैव च साधकः । अष्टकालोदितां लीलां संस्मरेत्साधकाङ्गकः ॥ १६८ ॥ कालौ निशान्तपूर्वाह्नावपराह्नप्रदोषकौ । विज्ञेयौ त्रित्रिघटिकौ प्रातः सायं द्वयं द्वयम् ॥ १६९ ॥ द्विद्विप्रघटिकौ ज्ञेयौ मध्याह्नरात्रिकाविति ॥ १७० ॥ एतेषु समयेष्वेवं या या लीला पुरोदिता । तां तामेव यथाकालं संस्मरेत्साधको जनः ॥ १७१ ॥ इति श्रीध्यानचन्द्रगोस्वामिविरचिता श्री श्री राधाकृष्णाष्टकालीयलीलास्मरणक्रमपद्धतिः ।