श्रीपाद ध्यानचन्द्र गोस्वामी साधको ब्राह्ममुहूर्ते चोत्थाय निजेष्टनामानि स्मरेत्कीर्तयेद्वा स जयति विशुद्धविक्रमः कनकाभः कमलायतेक्षणः । वरजानुलम्बिसद्भुजो बहुधा भक्तिरसाभिनर्तकः ॥ १ ॥ श्रीरामेति जनार्दनेति जगतां नाथेति नारायणे* त्यानन्देति दयापरेति कमलाकान्तेति कृष्णेति च । श्रीमन्नाममहामृताब्धिलहरीकल्लोलमग्नं मुहुर् मुह्यन्तं गलद्अश्रुनेत्रमवशं मां नाथ नित्यं कुरु ॥ २ ॥ श्रीकान्त कृष्ण करुणामय कञ्जनाभ कैवल्यवल्लभ मुकुन्द मुरान्तकेति । नामावलीं विमलमौक्तिकहारलक्ष्मी लावण्यवञ्चनकरीं करवाणि कण्ठे ॥ ३ ॥ कृष्ण राम मुकुन्द वामन वासुदेव जगद्गुरो मत्स्य कच्छप नरसिंह वराह राघव पाहि माम् । देवदानवनारदादि मुनीन्द्रवन्द्य दयानिधे देवकीसुत देहि मे तव पादभक्तिमचञ्चलाम् ॥ ४ ॥ हे गोपालक हे कृपाजलनिधे हे सिन्धुकन्यापते हे कंसान्तक हे गजेन्द्रकरुणापारीण हे माधव । हे रामानुज हे जगत्त्रयगुरो हे पुण्डरीकाक्ष मां हे गोपीजननाथ पालय परं जानामि न त्वां विना ॥ ५ ॥ श्रीनारायण पुण्डरीकनयन श्रीराम सीतापते गोविन्दाच्युत नन्दनन्दन मुकुन्दानन्द दामोदर । विष्णो राघव वासुदेव नृहरे देवेन्द्रचूडामणे संसारार्णवकर्णधारक हरे श्रीकृष्ण तुभ्यं नमः ॥ ६ ॥ भाण्डीरेण शिखण्डमण्डन वर श्रीखण्डलिप्ताङ्ग हे वृन्दारण्यपुरन्दर स्फुरद्अमन्देन्दीवर श्यामल । कालिन्दीप्रिय नन्दनन्दन परानन्दारविन्देक्षण श्रीगोविन्द मुकुन्द सुन्दरतनो मां दीनमानन्दय ॥ ७ ॥ (ড়द्यावली ३३३८) समुद्रमेखले देवि पर्वतस्तनमण्डले । विष्णुपत्नि नमस्तुभ्यं पादस्पर्शं क्षमस्व मे ॥ ८ ॥ ततो बहिर्गत्वा मैत्रकृत्यादिविधिं कुर्यात्, दन्तधावनादिमाचरेत्, शुद्धआसने पूर्वाभिमुखी उपविश्य निश्चलमनाः स्मरेत्श्रीमद्गौरचन्द्रं स्वर्धुन्या दक्षिणे तटे । चिन्तामणिचित्तधाम्नि श्रीनवद्वीपनामके ॥ ९ ॥ स्वर्धुन्यां चारुतीरे स्फुरितमतिबृहत्कुर्मपृष्ठाभगात्रं रम्यारामावृतं सन्मणिकनकमहासद्मषण्डैः परीतम् । नित्यं प्रत्यालयोद्यत्प्रणयभरलसत्कृष्णसंकीर्तनाट्यं श्रीवृन्दाटव्यभिन्नं त्रिजगदनुपमं श्रीनवद्वीपमीडे ॥ १० ॥ फुल्लच्छ्रीमद्द्रुमवल्लीतल्लजलसत्तीरा तरङ्गावली रम्या मन्दमरुम्मरालजलजश्रेणिषु भृङ्गास्पदम् । सद्रत्नाचितदिव्यतीर्थनिवहा श्रीगौरपादाम्बुज धूलिधूसरिताङ्गभावनिचिता गङ्गास्ति सम्पावनी ॥ ११ ॥ तस्यास्तीरसुरम्यहेमसुरसामध्ये लसच्छ्रीनव द्वीपो भाति सुमङ्गलो मधुरिपोरानन्दवन्यो महान् । नानापुष्पफलाढ्यवृक्षलतिकारम्यो महत्सेवितो नानावर्णविहङ्गमालिनिनदैर्हृत्कर्णहारी हि यः ॥ १२ ॥ काण्डं मारकतं प्रभूतविटपीशाखा सुवर्णात्मिका पत्रालिः कुरुविन्दकोमलमयी प्रावालिकाः कोरकाः । पुष्पाणां निकरः सुहीरकमयो वैदूर्यकीया फल श्रेणी यस्य स कोऽपि शाखिनिकरो यत्रातिमात्रोज्ज्वलः ॥ १३ ॥ तन्मध्ये द्विजभव्यलोकनिकरागारालिरम्याङ्गनम् आरामोपवनालिविलसद्वेदीविहारास्पदम् । सद्भक्तिप्रभया विराजितमहाभक्तालिनित्योत्सवं प्रत्यागारमघारिमूर्तिसुमहद्भातीह यत्पत्तनम् ॥ १४ ॥ एवंभूते श्रीनवद्वीपमध्ये मनसि निवासं कृत्वा तत्र श्रीगुरुदेवस्य शय्योत्थानमुखप्रक्षालनदन्तधावनादिक्रमेण यथायोग्यं सेवां कुर्यात्सेवानन्तरं ध्यायेत्यथा यामले तत्र श्रीगुरुध्यानम् कृपामरन्दान्वितपादपङ्कजं श्वेताम्बरं गौररुचिं सनातनम् । शन्दं सुमाल्याभरणं गुणालयं स्मरामि सद्भक्तमहं गुरुं हरिम् ॥ १५ ॥ श्रीगुरुपरमगुरुपरात्परगुरुपरमेष्ठिगुरूणामनुगामित्वेन श्रीमन्महाप्रभोर्मन्दिरं गच्छेत् । तत्र तद्आज्ञया श्रीनवद्वीपचन्द्रस्य शय्योत्थानं सुवासितजलेन श्रीमुखप्रक्षालनादिक्रमेण सेवां कुर्यात् । तत्र श्रीमन्महाप्रभोर्ध्यानं यथा ऊर्द्ध्वाम्नाये (३.१५) द्विभुजं स्वर्णरुचिरं वराभयकरं तथा । प्रेमालिङ्गनसम्बद्धं गृणन्तं हरिनामकम् ॥ १६ ॥ अनन्तरं श्रीवृन्दावनं ध्यायेत् वृन्दावनं दिव्यलतापरीतं लताश्च पुष्पस्फुरिताग्रभाजः । पुष्पाण्यपि स्फीतमधुव्रतानि मधुव्रताश्श्रुतिहारिगीताः ॥ १७ ॥ मध्ये वृन्दावने रम्ये पञ्चाशत्कुञ्जमण्डिते । कल्पवृक्षनिकुञ्जे तु दिव्यरत्नमये गृहे ॥ १८ ॥ तत्र सिद्धदेहेन श्रीराधाकृष्णयोर्निशान्तलीलां स्मरेद्यथा निशावसाने श्रीराधाकृष्णौ श्रीवृन्दानियुक्तरसमयपरमविदग्धशुकशारिवृन्दपद्यपठनजनितप्रबोधावपि गाढोपगूहनसुखभङ्गादसहिष्णुतया क्षणमवकाश्यमानजागरौ तत्तत्पद्यप्रपठितनिशावसानसातङ्कौ पुष्पमयानन्दतल्पोत्थितौ स्वस्वकुञ्जात्तत्कालागतश्रीमल्ललिताविशाखादिप्रियसखीवृन्दसनर्मवाग्विलासेन सान्तरानन्दौ कक्खट्य्उदितजटिलाश्रवणात्सशङ्कौ सङ्गत्यागभयम् असहमानौ तौ भीत्योत्कण्ठाकुलौ स्वस्वगृहं गच्छतः । एवं क्रमेण श्रीगौरचन्द्रस्य श्रीराधाकृष्णयोर्लीलां स्मरेत् । निशान्तलीलास्मरणानन्तरं गुर्व्आदीन् दण्डवत्प्रणमेत्यथा अज्ञानतिमिरान्धस्य ज्ञानाञ्जनशलाकया । चक्षुरुन्मीलितं येन तस्मै श्रीगुरवे नमः ॥ १९ ॥ इति मन्त्रं पठित्वा श्रीगुरुं दण्डवत्प्रशम्य एवं परमगुरुपरात्परगुरुपरमेष्ठिगुरुगोस्वामिचरणान् क्रमेण दण्डवत्प्रणमेत् । ततः श्रीगौरचन्द्रं प्रणमेत् विश्वम्भराय गौराय चैतन्याय महात्मने । शचीपुत्राय मित्राय लक्ष्मीशाय नमो नमः ॥ २० ॥ नित्यानन्दमहं वन्दे कर्णे लम्बितमौक्तिकम् । चैतन्याग्रजरूपेण पवित्रीकृतभूतलम् ॥ २१ ॥ निस्तारिताशेषजनं दयालुं प्रेमामृताब्धौ परिमग्नचित्तम् । चैतन्यचन्द्रादृतमर्चितं तम् अद्वैतचन्द्रं शिरसा नमामि ॥ २२ ॥ गदाधर नमस्तुभ्यं यस्य गौराङ्गो जीवनम् । नमस्ते श्रीश्रीनिवासपण्डित प्रेमविग्रह ॥ २३ ॥ एवं क्रमेण गौरभक्तगणान् दण्डवत्प्रणमेत् । श्रीनवद्वीपधाम्ने नमः । श्रीगङ्गायै नमः । श्रीसङ्कीर्तनाय नमः । श्रीगौडमण्डलाय नमः । कन्दर्पकोटिरम्याय स्फुरद्इन्दीवरत्विषे । जगन्मोहनलीलाय नमो गोपेन्द्रसूनवे ॥ २४ ॥ तप्तकाञ्चनगौराङ्गि राधे वृन्दावनेश्वरि । वृषभानुसुते देवि प्रणमामि हरिप्रिये ॥ २५ ॥ श्रीराधिकाप्राणसमां कनीयसीं विशाखिकाशिक्षितसौख्यसौष्ठवाम् । लीलामृतेनोच्छलिताङ्गमाधुरीम् अनङ्गपुर्वां प्रणमामि मञ्जरीम् ॥ २६ ॥ ललितादिपरमप्रेष्ठसखीवृन्देभ्यो नमः । कुसुमिकादिसखीवृन्देभ्यो नमः । कस्तूर्यादिनित्यसखीवृन्देभ्यो नमः । शशिमुख्यादिप्राणसखीवृन्देभ्यो नमः । कुरङ्गाक्ष्यादिप्रियसखीवृन्देभ्यो नमः । श्रीरूपादिमञ्जरीभ्यो नमः । श्रीदामादिसखिवृन्देभ्यो नमः । सर्वगोपगोपीभ्यो नमः । व्रजवासिभ्यो नमः । श्रीवृन्दाविपिनेभ्यो नमः । श्रीरासमण्डलाय नमः । श्रीयमुनायै नमः । श्रीराधाकुण्डश्यामकुण्डाभ्यां नमः । श्रीगोवर्धनाय नमः । श्रीद्वादशविपिनेभ्यो नमः । श्रीव्रजमण्डलाय नमः । श्रीमथुरामण्डलाय नमः । सर्वावतारेभ्यो नमः । अनन्तकोटिवैष्णवेभ्यो नमः । वाञ्छाकल्पतरुभ्यश्च कृपासिन्धुभ्य एव च । पतितानां पावनेभ्यो वैष्णवेभ्यो नमो नमः ॥ २७ ॥ अथ स्नानमाचरेत्यथानद्यादौ प्रवाहाभिमुखे तडागादिषु पूर्वाभिमुखी तीर्थानि आह्वयेद्यथा गङ्गे च यमुने चैव गोदावरि सरस्वति । नर्मदे सिन्धो कावेरि जलेऽस्मिन् सन्निधिं कुरु ॥ २८ ॥ महापापभङ्गे दयालो नु गङ्गे महेशोत्तमाङ्गे लसच्चित्तरङ्गे । द्रवब्रह्मधामाच्युताङ्घ्र्यब्जजे मा पुनीहीनकन्ये प्रवाहोर्मिधन्ये ॥ २९ ॥ विष्णोर्नाभ्य्अम्बुमध्याद्वरकमलमभूत्तस्य नालीसुमेरोर् मध्ये निःस्यन्दमाना त्वमसि भगवति ब्रह्मलोकात्प्रसूता । खाद्भ्रष्टा रुद्रमूर्ध्नि प्रणिपतितजला गां गतासीति गङ्गा कस्त्वां यो नाभिवन्देन्मधुमथनहरब्रह्मसम्पर्कपूताम् ॥ ३० ॥ गङ्गा गङ्गेति यो ब्रूयात् योजनानां शतैरपि । मुच्यते सर्वपापेभ्यो विष्णुलोकं स गच्छति ॥ ३१ ॥ चिदानन्दभानोः सदा नन्दसूनोः परप्रेमपात्री द्रवब्रह्मगात्री । अघानां लवित्री जगत्क्षेमधात्री पवित्रीक्रियान्नो वपुर्मित्रपुत्री ॥ ३२ ॥ राधिकासमसौभाग्य सर्वतीर्थप्रवन्दित । प्रसीद राधिकाकुण्ड स्नामि ते सलिले शुभे ॥ ३३ ॥ ततः शुक्लवस्त्रे परिधाय श्रीहरिमन्दिरधारणं कृत्वा श्रीहरिनामाक्षरमङ्कयेद्गात्रे ललाटे केशवं ध्यायेन् नारायणमथोदरे । वक्षःस्थले माधवं तु गोविन्दं कण्ठकूपके ॥ ३४ ॥ विष्णुं च दक्षिणे कुक्षौ बाहौ च मधुसूदनम् । त्रिविक्रमं कन्धरे तु वामनं वामपार्श्वके ॥ ३५ ॥ श्रीधरं वामबाहौ तु हृषीकेशं च कन्धरे । पृष्ठे तु पद्मनाभं च कट्यां दामोदरं न्यसेत् । तत्प्रक्षालनतोयं तु वासुदेवेति मूर्धनि ॥ ३६ ॥ पूर्ववत्स्थिरासने स्थिरचित्तः तत्रादौ श्रीनवद्वीपमध्ये श्रीरत्नमन्दिरे रत्नसिंहासनोपरि भक्तवृन्दपरिसेवितं श्रीश्रीकृष्णचैतन्यदेवं गुर्वादिक्रमेण ध्यात्वा पूजयेत् । तत्रादौ श्रीजगन्नाथमिश्रस्य मन्दिरं ध्यायेत् । यथा चैतन्यार्चनचन्द्रिकायाम् श्रीजगन्नाथमिश्रस्य मन्दिराङ्गनमुत्तमैः । नानारत्नमणियुक्तैर्विचित्रमन्दिरपुरम् ॥ ३७ ॥ तन्मध्ये रविकान्तिनिन्दिकनकप्राकारसतोरशं श्रीनारायणगेहमग्रविलसत्संकीर्तनप्राङ्गणम् । लक्ष्म्य्अन्तःपुरपाकभोगशयनश्रीचन्द्रशालं पुरं यद्गौराङ्गहरेर्विभाति सुखदं स्वानन्दसंवृहितम् ॥ ३८ ॥ तन्मध्ये नवचूडरत्नकलसं व्रजेन्द्ररत्नान्तरा* मुक्तादामविचित्रहेमपटलं सद्भक्तिरत्नाचितम् । वेदद्वारसद्अष्टमृष्टमणिरुट्शोभाकवाटान्वितं सच्चन्द्रातपपद्मरागविधुरत्नालम्बियन्मन्दिरम् ॥ ३९ ॥ तन्मध्ये मणिचित्रहेमरचिते मन्त्रार्णयन्त्रान्विते षट्कोणान्तरकर्णिकारशिखरश्रीकेशरैः सन्निभे । कूर्माकारमहिष्ठयोगमहसि श्रीयोगपीठाम्बुजे राकेशावलिसूर्यलक्षविमले यद्भाति सिंहासनम् ॥ ४० ॥ पार्श्वाधःपद्मपटिघटितहरिमणिस्तम्भवैदूर्यपृष्ठं चित्रछादावलम्बिप्रवरमणिमहामौक्तिकं कान्तिजालम् । तूलान्तश्चीनचेलासनम्उडुपमृदुप्रान्तपृष्ठोपधानं स्वर्णान्तश्चित्रमन्त्रं वसुहरिचरणध्यानगम्याष्टकोशम् ॥ ४१ ॥ तन्मध्ये श्रीगौरचन्द्रं वामे श्रीलगदाधरम् । तद्दक्षिणेऽवधूतेन्द्रं श्रीलाद्वैतं ततः स्मरेत् ॥ ४२ ॥ तद्दक्षिणे श्रीनिवासं स्मरेत्श्रीपण्डितोत्तमम् । स्मरेत्श्रीभक्तवृन्दं च चतुर्दिक्षु सुवेष्टितम् ॥ ४३ ॥ श्रीमद्गौरभक्तवृन्दे स्वीयस्वीयगणान्विते । रूपस्वरूपप्रमुखे स्वगणस्थान् गुरून् स्मरेत् ॥ ४४ ॥ तत्रादौ श्रीगुरुस्मरणं यथा सनत्कुमारसंहितायाम् शशाङ्कायुतसंकाशं वराभयलसत्करं । शुक्लाम्बरधरं दिव्यशुक्लमाल्यानुलेपनम् ॥ ४५ ॥ प्रसन्नवदनं शान्तं भजनानन्दनिर्वृतम् । दिव्यरूपधरं ध्यायेद्वरदं कमलेक्षणम् ॥ ४६ ॥ रूपपूर्वगुरुगणान्उगतं सेवनोत्सुकम् । एवं रूपं गुरुं ध्यायेन्मनसा साधकः शुचिः ॥ ४७ ॥ तत्समीपे सेवोत्सुकमात्मानं भावयेद्यथा दिव्यश्रीहरिमन्दिराढ्यतिलकं कण्ठं सुमालान्वितं वक्षः श्रीहरिनामवर्णसुभगं श्रीखण्डलिप्तं पुनः । शुद्धं शुभ्रनवाम्बरं विमलतां नित्यं वहन्तीं तनुं ध्यायेच्छ्रीगुरुपादपद्मनिकटे सेवोत्सुकां चात्मनः ॥ ४८ ॥ श्रीमन्मौक्तिकदामबद्धचिकुरं सुस्मेरचन्द्राननं श्रीखण्डागुरुचारुचित्रवसनं स्रग्दिव्यभूषाञ्चितम् । नृत्यावेशरसानुमोदमधुरं कन्दर्पवेशोज्ज्वलं चैतन्यं कनकद्युतिं निजजनैः संसेव्य्मानं भजे ॥ ४९ ॥ कञ्जारेन्द्रविनिन्दिसुन्दरगतिं श्रीपादमिन्दीवर* श्रेणीश्यामसद्अम्बरं तनुरुचा सान्ध्येन्दुसंमर्दकम् । प्रेमोद्घूर्णसुकञ्जखञ्जनमदाजिन्नेत्रहास्याननं नित्यानन्दमहं स्मरामि सततं भूषोज्ज्वलाङ्गश्रियम् ॥ ५० ॥ सद्भक्तालिनिषेविताङ्घ्रिकमलं कुन्देन्दुशुक्लाम्बरं शुद्धस्वर्णरुचिं सुबाहुयुगलं स्मेराननं सुन्दरम् । श्रीचैतन्यदृशं वराभयकरं प्रेमाङ्गभूषाञ्चित* मद्वैतं सततं स्मरामि परमानन्दैककन्दं प्रभुम् ॥ ५१ ॥ कारुण्यैकमरन्दपद्मचरणं चैतन्यचन्द्रद्युतिं ताम्बूलार्पणभङ्गिदक्षिणकरं श्वेताम्बरं सद्वरम् । प्रेमानन्दतनुं सुधास्मितमुखं श्रीगौरचन्द्रेक्षणं ध्यायेच्छ्रीलगदाधरं द्विजवरं माधुर्यभूषोज्ज्वलम् ॥ ५२ ॥ श्रिचैतन्यपदारविन्दमधुपाः सत्प्रेमभूषोज्ज्वलाः शुद्धस्वर्णरुचो दृग्अम्बुपुलकस्वेदैः सद्अङ्गश्रियः । सेवोपायनपाणयः स्मितमुखाः शुक्लाम्बराः सद्वराः श्रीवासादिमहाशयान् सुखमयान् ध्यायेम तान् पार्षदान् ॥ ५३ ॥ इति स्मरणानन्तरं श्रीगुरोराज्ञया श्रीमन्महाप्रभुं षोडशोपचारादिभिः तन्मूलमन्त्रेणैव पूजयेत् । श्रीमन्महाप्रभुमन्त्रोद्धारो यथा ऊर्द्ध्वाम्नाये श्रीव्यासं प्रति श्रीनारदवाक्यम् (३.१४१६) अहो गूढतमः प्रश्नो भवता परिकीर्तितः । मन्त्रं वक्ष्यामि ते ब्रह्मन्महापुण्यप्रदं शुभम् ॥ ५४ ॥ क्लीं गौराय नम इति सर्वलोकेषु पूजितः । मायारमानङ्गबीजैः वाग्बीजेन च पूजितः । षडक्षरः कीर्तितोऽयं मन्त्रराजः सुरद्रुमः ॥ ५५ ॥ मन्त्रो यथाक्लिं गौराय नमः; ह्रीं, श्रीं, क्लीं, ऐं गौराय नमः । एतत्पाद्यम्, एतदर्घ्यम्, एतदाचमनीयम्, एष गन्धः, एतत्पुष्पम्, एष धूपः, एष दीपः, एतन्नैवेद्यम्, एतत्पानीयजलम्, इदमाचमनीयम्, एतत्ताम्बूलम्, एतद्गन्धमाल्यम्, एष पुष्पाञ्जलिरित्यादि । एवं श्रीनित्यानन्दप्रभुं पूजयेत्, श्रीमन्नित्यानन्दप्रभोर्मन्त्रोद्धारो यथा (ब्रह्माण्डपुराणे धरणीशेषसम्वादे) इति नामाष्टशतकं मन्त्रं निवेदितं शृणु । मया त्वयि पुरा प्रोक्तं कामबीजेति संज्ञकम् ॥ ५६ ॥ वह्निबीजेन पूतान्ते चादौ देव नमस्तथा । जाह्नवीपदं तत्रैव वल्लभाय ततः परम् । इति मन्त्रो द्वादशार्णः सर्वत्रैव मनोहरः ॥ ५७ ॥ मन्त्रो यथाक्लिं देवजाह्नवीवल्लभाय स्वाहा । इति मन्त्रेणैव पूजयेत् । एवं श्र्यद्वैतप्रभुं पूजयेत् । अथ श्र्यद्वैतप्रभोर्मन्त्रोद्धारो यथा पाद्मे अहो गूढतमः प्रश्नो नारद मुनिसत्तम । न प्रकाश्यस्त्वया ह्येतद्गुह्याद्गुह्यतरं महत् ॥ ५८ ॥ कामबीजसमायुक्ता अद्वैतवह्निनायिका । ङेऽन्ता वै ऋषिवर्णोऽयं मन्त्रः सर्वातिदुर्लभः ॥ ५९ ॥ मन्त्रो यथाक्लीमद्वैताय स्वाहा । तद्अनन्तरं श्रीमन्महाप्रभोः शेषनिर्माल्येन श्रीगदाधरपण्डितं पूजयेत्तन्मन्त्रेणैव, श्रीगदाधरपण्डितमन्त्रो यथाश्रीं गदाधराय स्वाहा । अथ तथैव श्रीश्रीवासादिभक्तान् गुरुवर्गादीन्महाप्रभुनिर्माल्यप्रसादेन पूजयेत्, स्वस्वनामचतुर्थ्यन्तेन श्रीगुरुदेवं तु तन्मूलमन्त्रेणैव पूजयेत् । श्रीगुरुमन्त्रोद्धरो यथा बृहद्ब्रह्माण्डपुराणे सूतशौनकसम्वादे श्रीं गुमित्येव भगवद्गुरवे वह्निवल्लभा । दशार्णमन्त्रराजश्च सर्वकार्येषु रक्षिता ॥ ६० ॥ मन्त्रो यथाश्रीं गुं भगवद्गुरवे स्वाहा । ततोऽवशेषनिर्माल्यादिकं गृह्णीयात्; स्थानान्तरे च संस्थाप्य प्रभुपादपद्मे पुष्पाञ्जलिं दत्त्वा आरात्रिकं कुर्यात् । तद्अन्तरं चामरव्यजनादिकं कृत्वा श्रीगुरुपार्श्वे तिष्ठन् ध्यानानुक्रमेण निरीक्षणं कृत्वा ततो बहिःपूजयेत् । बहिःपूजां कृत्वानन्तरं स्वस्वगायत्रीमन्त्रान् जपेत्क्रमात् तत्रादौ श्रीगुरुगायत्री यथा पाद्मेश्रीं गुरुदेवाय विद्महे गौरप्रियाय धीमहि तन्नो गुरुः प्रचोदयात् । प्रथमं मन्त्रगुरोः पूजा पश्चाच्चैव ममार्चनम् । कुर्वन् सिद्धिमवाप्नोति ह्यन्यथा निष्फलं भवेत् ॥ ६१ ॥ ध्यानादौ श्रीगुरोर्मूर्तिं पूजादौ च गुरोः पूजाम् । जपादौ च गुरोर्मन्त्रं ह्यन्यथा निष्फलं भवेत् ॥ ६२ ॥ ततो जपलक्षणं यथा (श्रीहरिभक्तिविलासः १७.१४३, १२९) न कम्पयेच्छिरो ग्रीवां दन्तान्नैव प्रकाशयेत् । मनःसंहरणं शौचं मौनं मन्त्रार्थचिन्तनम् ॥ ६३ ॥ मनोमध्ये स्थितो मन्त्रो मन्त्रमध्ये स्थितं मनः । मनोमन्त्रं समायुक्तमेतद्धि जपलक्षणम् ॥ ६४ ॥ अथ जपाङ्गुल्यादिनियमः (श्रीहरिभक्तिविलासः १७.११६१२०) तत्राङ्गुलिजपं कुर्वन् साङ्गुष्ठाङ्गुलिभिर्जपेत् । अङ्गुष्ठेन विना कर्म कृतस्तदफलं भवेत् ॥ ६५ ॥ कनिष्ठानामिका मध्या चतुर्थी तर्जनी मता । तिस्रोऽङ्गुल्यस्त्रिपर्वा स्युर्मध्यमा चैकपर्विका ॥ ६६ ॥ पर्वद्वयं मध्यमाया जपकाले विवर्जयेत् । एवं मेरुं विजानीयाद्ब्रह्मणा दूषितं स्वयम् ॥ ६७ ॥ आरभ्यानामिकामध्यात्प्रदक्षिणमनुक्रमात् । तर्जनीमूलपर्यन्तं क्रमाद्दशसु पर्वसु ॥ ६८ ॥ अङ्गुलिर्न वियुञ्जीत किञ्चित्सङ्कोचयेत्तलम् । अङ्गुलीनां वियोगे तु छिद्रेषु स्रवते जपः ॥ ६९ ॥ मध्यमा चैकपर्विका इत्युक्तेः केचित्मध्यमामध्यपर्व गृह्णन्ति तन्न । अथ जपक्रमो यथा प्रथमं गुरुदेवस्य मन्त्रगायत्रीं संस्मरेत् । ततः श्रीगौरचन्द्रस्य गायत्र्युच्चारणं तथा ॥ ७० ॥ श्रीलावधूतेन्द्राद्वैतमन्त्रगायत्रीं संस्मरेत् । ततः श्रीगदाधरस्य श्रीवासपण्डितस्य च ॥ ७१ ॥ श्रीगुरुदेवस्य मन्त्रो यथाश्रीं गुं भगवद्गुरवे स्वाहा । अथ गायत्रीश्रीं गुरुदेवाय विद्महे, गौरप्रियाय धीमहि, तन्नो गुरुः प्रचोदयात् । इति श्रीगुरुगायत्रीस्मरणानन्तरं गुरुवर्गान् स्मरेत्; स्मरणक्रमो यथा श्रीगुरुपरमगुरुरित्यादिक्रमेण स्वस्वप्रणाल्य्अनुसारेण स्वस्वपरिवारेश्वरपरमपरमेष्ठिगुरुपर्यन्तं ध्यानं कृत्वा स्वीयस्वीयनामानि चतुर्थ्यन्तं कृत्वा जपानन्तरं श्रीश्रीचैतन्यमहाप्रभोर्मन्त्रं गायत्रीं च स्मरेत् । मन्त्रो यथा क्लीं गौराय स्वाहा । गायत्री यथा क्लीं चैतन्याय विद्महे विश्वम्भराय धीमहि तन्नो गौरः प्रचोदयात् । मन्त्रो यथा क्लीं देवजाह्नवीवल्लभाय स्वाहा । गायत्री यथा क्लीं नित्यानन्दाय विद्महे सङ्कर्षणाय धीमहि तन्नो बलः प्रचोदयात् । मन्त्रो यथा क्लीमद्वैताय स्वाहा । गायत्री यथा क्लीमद्वैताय विद्महे महाविष्णवे धीमहि तन्नो अद्वैतः प्रचोदयात् । मन्त्रो यथा श्रीं गदाधराय स्वाहा । गायत्री यथा गां गदाधराय विद्महे पण्डिताख्याय धीमहि तन्नो गदाधरः प्रचोदयात् । मन्त्रो यथा श्रीं श्रीवासाय स्वाहा । गायत्री यथा श्रीं श्रीवासाय विद्महे नारदाख्याय धीमहि तन्नो भक्तः प्रचोदयात् । श्री श्री गौरगदाधर मन्त्रो यथा क्लीं श्रीं गौरगदाधराय स्वाहा । अनन्तरं स्तवप्रणामादि कृत्वा श्रीगौरचन्द्राष्टकालीयसूत्रानुसरेण स्मरेत् गौरस्य शयनोत्थानात्पुनस्तच्छयनावधि । नानोपकरणैः कुर्यात्सेवनं तत्र साधकः ॥ ७२ ॥ श्रीनवद्वीपचन्द्रस्य चरितामृतमद्भुतम् । चिन्त्यतां चिन्त्यतां नित्यं मानससेवनोत्सुकः ॥ ७३ ॥ निशान्ते गौरचन्द्रस्य शयनं च निजालये । प्रातःकाले कृतोत्थानं स्नानं तद्भोजनादिकम् ॥ ७४ ॥ पूर्वाह्नसमये भक्तमन्दिरे परमोत्सुकम् । मध्याह्ने परमाश्चर्यकेलिं सुरसरित्तटे ॥ ७५ ॥ अपराह्ने नवद्वीपभ्रमणं भूरिकौतुकम् । सायाह्ने गमनं चारुशोभनं निजमन्दिरे ॥ ७६ ॥ प्रदोषे प्रियवर्गाढ्यं श्रीवासभवने तथा । निशायां स्मरेदानन्दं श्रीमत्संकीर्तनोत्सवम् ॥ ७७ ॥ एवं श्रीचैतन्यदेवं निषेव्य सिद्धदेहेन श्रीकृष्णसेवाङ्गं विदध्यात् । अत्र कारिका तच्चिन्तनादिसमये कुर्यात्तदनुसारतः । चिन्तनं तु तयोस्तत्र वसन् गुरुगणान्वितः ॥ ७८ ॥ पुनश्चाक्षुषलीलेऽस्मिन् सिद्धदेहेन साधकः । मनसा मानसीं सेवामष्टकालोचितां व्रजेत् ॥ ७९ ॥ साधकः सिद्धदेहेन कुर्यात्कृष्णप्रियागृहे । गुरुरूपप्रियापार्श्वे ललितादि सखीगणे ॥ ८० ॥ निवासं यावटे नित्यं गुरुरूपासखीयुतः । श्रीयावटपुरे श्रीमद्वृषभानुपुरेऽपि च ॥ ८१ ॥ नन्दीश्वरपुरे राधाकृष्णकुण्डतटद्वये । श्रीमद्वृन्दावने रम्ये श्रीमद्वृन्दावनेशयोः ॥ ८२ ॥ प्रातराद्यष्टसमये सेवनं तु क्रमेण च । नानोपकरणैर्दिव्यैर्भक्ष्यभोज्यादिभिः सदा । चामरव्यजनाद्यैश्च पादसंवाहनादिभिः ॥ ८३ ॥ किशोरी गोपवनिता सर्वालङ्कारभूषिता । पृथुतुङ्गकुचद्वन्द्वा चतुःषष्टिगुणान्विता ॥ ८४ ॥ निगूढभावा गोविन्दे मदनानन्दमोहिनी । नानारसकलालापशालिनी दिव्यरूपिनी ॥ ८५ ॥ सङ्गीतरससंजातभावोल्लासभरान्विता । दिवानिशं मनोमध्ये द्वयोः प्रेमाभराकुला ॥ ८६ ॥ सर्वलक्षनसम्पन्ना भावहावादिभूषिता । गुरुप्रसादजननी गुरुरूपाप्रियानुगा । गान्धर्विकास्वयूथस्था ललितादिगणान्विता ॥ ८७ ॥ स्वयूथेश्वर्य्अनुगता यावटग्रामवासिनी । चिन्तनीयाकृतिः सा च कामरूपानुगामिनी ॥ ८८ ॥ चिद्आनन्दरसमयी द्रुतहेमसमप्रभा । सुचीननीलवसना नानालङ्कारभूषिता ॥ ८९ ॥ श्रीराधाकृष्णयोः पार्श्ववर्तिनी नवयौवना । गुरुदत्तस्य नाम्नोऽस्या माता वर्गाद्यमञ्जरी । पिता वर्गतृतीयाख्यो वर्गान्ताह्वयकः पतिः ॥ ९० ॥ निवासो यावटे तस्या दक्षिणा मृद्विका हि सा । श्रीराधावस्त्रसेवाढ्या नानालङ्कारभूषिता ॥ ९१ ॥ अस्यैव सिद्धदेहस्य साधनानि यथाक्रमम् । एकादशप्रसिद्धानि लक्ष्यन्तेऽतिमनोहरम् ॥ ९२ ॥ नाम रूपं वयो वेशः सम्बन्धो यूथ एव च । आज्ञा सेवा पराकाष्ठा पाल्यदासी निवासकः ॥ ९३ ॥ एतेषां विशेषलक्षणान्युच्यन्ते श्रीरूपमञ्जरीत्यादिनामाख्यानानुरूपतः । चिन्तनीयं यथायोग्यं स्वनाम व्रजसुभ्रुवाम् ॥ ९४ ॥ रूपं यूथेश्वरीरूपं भावनीयं प्रयत्नतः । त्रैलोक्यमोहनं कामोद्दीपनं गोपिकापतेः ॥ ९५ ॥ वयो नानाविधं तत्र यत्तु त्रिदशवत्सरम् । माधुर्याद्भुतकैशोरं विख्यातं व्रजसुभ्रुवाम् ॥ ९६ ॥ वेशो नीलपटाद्यैश्च विचित्रालङ्कृतैस्तथा । स्वस्य देहानुरूपेण स्वभावरससुन्दरः ॥ ९७ ॥ सेव्यसेवकसम्बन्धः स्वमनोवृत्तिभेदतः । प्राणात्ययेऽपि सम्बन्धं न कदा परिवर्तयेत् ॥ ९८ ॥ यथा यूथेश्वरीयूथः सदा तिष्ठति तद्वशे । तथैव सर्वथा तिष्ठेद्भूत्वा तद्वशवर्तिनी ॥ ९९ ॥ यूथेश्वर्याः शिरस्याज्ञामादाय हरिराधयोः । यथोचितां च शुश्रूषां कुर्यादानन्दसंयुता ॥ १०० ॥ चामरव्यजनादीनां सर्वाज्ञाप्रतिपालनम् । इति सेवा परिज्ञेया यथामति विभागशः ॥ १०१ ॥ श्रीराधाकृष्णयोर्यद्वद्रूपमञ्जरिकादयः । प्राप्त नित्यसखीत्वं च तथा स्यामिति भावयेत् ॥ १०२ ॥ पाल्यदासी च सा प्रोक्ता परिपाल्या प्रियंवदा । स्वमनोवृत्तिरूपेण या नित्यपरिचारिका ॥ १०३ ॥ निवासो व्रजमध्ये तु राधाकृष्णस्थली मता । वंशीवटश्च श्रीनन्दीश्वरश्चाप्यतिकौतुकः ॥ १०४ ॥ अनङ्गमञ्जरी प्रोक्ता विलासमञ्जरी तथा । अशोकमञ्जरी चेति रसमञ्जरिका तथा ॥ १०५ ॥ रसालमञ्जरी नाम्ना तथा कमलमञ्जरी । करुणामञ्जरी ख्याता विख्याता गुणमञ्जरी ॥ १०६ ॥ एवं सर्वाश्च विख्याताः स्वस्वनामाक्षरैः पराः । मञ्जर्यो बहुशः रूपगुणशीलवयोऽन्विताः ॥ १०७ ॥ नामरूपादि तत्सर्वं गुरुदत्तं च भावयेत् । तत्र तत्र स्थिता नित्यं भजेत्श्रीराधिकाहरी ॥ १०८ ॥ भावयन् साधको नित्यं स्थित्वा कृष्णप्रियागृहे । तदाज्ञापालको भूत्वा कालेष्वष्टसु सेवते ॥ १०९ ॥ सखीनां सङ्गिनीरूपामात्मानं भावनामयीम् । आज्ञासेवापराकाष्ठाकृपालङ्कारभूषिताम् । ततश्च मञ्जरीरूपान् गुर्वादीनपि संस्मरेत् ॥ ११० ॥ अथ प्रातःपूर्वाह्नलीलां स्मृत्वा मध्याह्ने सङ्गमितौ राधाकृष्णौ परस्परसङ्गजनितनानासात्त्विकविकारभूषितौ ललितादिप्रियसखीवृन्दसनर्मवाग्विलासेन जनितपरमानन्दौ नानारसविलासचिह्नौ सम्मग्नमानसौ विहितारण्यलीलौ वृन्दारण्ये सुमहीरुहमूले योगपीठोपरि उपविष्टौ एवम्भूतौ राधाकृष्णौ संस्मरेत् । प्रथमं षड्दलं पद्मं तद्बहिर्वसुपत्रकम् । तद्बहिर्दशपत्रं च दशोपदलसंयुतम् ॥ १११ ॥ श्रीमद्राधाकृष्णलीलारसपूरितविग्रहम् । तत्तद्इच्छावशेनैवोन्मीलितं भाति मुद्रितम् ॥ ११२ ॥ प्राकारास्तद्बहिस्तत्र दिक्षु द्वारचतुष्टयम् । चतुष्कोणाश्च षड्दल्यां षट्पद्य्अष्टादशाक्षरी ॥ ११३ ॥ यथा ब्रह्मसंहितायाम् (२४) सहस्रपत्रं कमलं गोकुलाख्यं महत्पदम् । तत्कर्णिकारं तद्धाम तद्अनन्तांशसम्भवम् ॥ ११४ ॥ कर्णिकारं महद्यन्त्रं षट्कोशं वज्रकीलकम् । षड्अङ्गं षट्पदीस्थानं प्रकृत्या पुरुषेण च ॥ ११५ ॥ प्रेमानन्दमहानन्दरसेनावस्थितं हि यत् । ज्योतीरूपेण मनुना कामबीजेन सङ्गतम् ॥ ११६ ॥ तत्किञ्जल्कं तद्अंशानां तत्पत्राणि श्रियामपि ॥ ११७ ॥ एवम्भूत योगपीठे श्रीश्रीराधाकृष्णौ स्मरेत् । अथ श्रीकृष्णचन्द्रस्य वयोवेशादयोऽखिलाः । रसशास्त्रानुसारेण निरूप्यन्ते यथामति ॥ ११८ ॥ (भक्तिरसामृतसिन्धु २.१.३०८, ९) वयः कौमारपौगण्डकैशोरमिति तत्त्रिधा ॥ ११९ ॥ कौमारं पञ्चमाब्दान्तं पौगण्डं दशमावधि । आषोडशाच्च कैशोरं यौवनं स्यात्ततः परम् ॥ १२० ॥ आद्यमध्यान्तभेदेन कौमारादीनि च त्रिधा । अष्टमासाधिकं वर्षं भागत्वेन च कीर्तितम् ॥ १२१ ॥ तद्यथाआद्यकौमारमष्टमासाधिकमेकवर्षमेवं मध्यकौमारम्, एवं च शेषकौमारम्; एवं पञ्चमवर्षपर्यन्तं कौमारं ज्ञेयम् । आद्यपौगण्डमष्टमासाधिकमेकवर्षम्; एवं मध्यपौगण्डम्; एवं च शेषपौगण्डम्; एवं च क्रमेण षष्ठवर्षमारभ्य दशवर्षपर्यन्तं पौगण्डं ज्ञेयम् । आद्यकैशोरं सार्धदिनद्वयोत्तरैकादशमासाधिकमेकवर्षम्; एवं मध्यकैशोरम्; एवं शेषकैशोरम्; क्रमेणैकादशवर्षमारभ्य पञ्चदशवर्षनवमाससार्धसप्तदिनपर्यन्तं कैशोरं ज्ञेयम् । अथ श्रीकृष्णस्य व्रजलीलातत्र श्रीकृष्णस्य व्रजलीला पञ्चदिनोत्तरषड्मासाधिकदशवर्षीया ज्ञेया (१०६५) अथ च (भागवतम् ३.२.२६) एकादशसमास्तत्र गूढार्चिः सबलोऽवसत् ॥ १२२ ॥ महाराजकुमारतया भोगातिशयेन समृद्ध्या वर्षमासदिनानां सार्धतया सार्धसप्तदिनोत्तरनवमासाधिकपञ्चदशवर्षपरिमितं श्रीकृष्णस्य वयो ज्ञेयम् (१५९७ १।२) । अत्रैव शेषकैशोरे षोडशहायने सदा । व्रजे विहारं कुरुते श्रीमन्नन्दस्य नन्दनः ॥ १२३ ॥ वंशीपाणिः पीतवासा इन्द्रनीलमणिद्युतिः । कण्ठे कौस्तुभशोभाढ्यो मयूरदलभूषणः ॥ १२४ ॥ गुञ्जाहारलसद्वक्षा रत्नहारविराजितः । वनमालाधरो निष्क शोभोल्लसितकण्ठकः ॥ १२५ ॥ वामभागस्थितस्वर्णरेखाराजद्उरःस्थलः । वैजयन्तीलसद्वक्षा गजमौक्तिकनासिकः ॥ १२६ ॥ कर्णयोर्मकराकारकुण्डलाभ्यां विराजितः । रत्नकङ्कनयुग्घस्तः कौङ्कुमं तिलकं दधत् ॥ १२७ ॥ किङ्किणीयुक्तकटिको रत्ननूपुरयुक्पदः । मालतीमल्लिके जातियूथी केतकीचम्पके ॥ १२८ ॥ नागकेशर इत्यादि पुष्पमालास्वलङ्कृतः । इति वेशधरः श्रीमान् ध्येयः श्रीनन्दनन्दनः ॥ १२९ ॥ शृङ्गं वामोदरपरिसरे तुन्दबन्धान्तरस्थं दक्षे तद्वन्निहितमुरलीं रत्नचित्रां दधानः । वामेनासौ सरललगुणं पाणिना पीतवर्णं लीलाम्भोजं कमलनयनः कम्पयन् दक्षिणेन ॥ १३० ॥ अस्यैव कृष्णचन्द्रस्य मन्त्राः सन्ति त्रयोऽमलाः । सिद्धाः कृष्णस्य सत्प्रेमभक्तिसिद्धिकरा मताः ॥ १३१ ॥ तत्रादौ मन्त्रोद्धारो यथा सनत्कुमारसंहितायाम् हरेकृष्णौ द्विरावृत्तौ कृष्ण तादृक्तथा हरे । हरे राम तथा राम तथा तादृग्घरे मनुः ॥ १३२ ॥ हरे कृष्ण हरे कृष्ण कृष्ण कृष्ण हरे हरे । हरे राम हरे राम राम राम हरे हरे ॥ १३३ ॥ अस्य ध्यानं यथा तत्रैव ध्यायेद्वृन्दावने रम्ये गोपगोभिरलङ्कृते । कदम्बपादपच्छाये यमुनाजलशीतले ॥ १३४ ॥ राधया सहितं कृष्णं वंशीवादनतत्परम् । त्रिभङ्गललितं देवं भक्तानुग्रहकारकम् ॥ १३५ ॥ विशेषतो दशार्णोऽयं जपमात्रेण सिद्धिदः । पञ्चाङ्गान्यस्य मन्त्रस्य विज्ञेयानि मनीषिभिः ॥ १३६ ॥ इति गौतमीयतन्त्रवाक्यात्रागमार्गे दशाक्षरगोपालमन्त्रस्य प्रसिद्धिः; तद्उद्धारो लिख्यते, स यथा गौतमीयतन्त्रे खान्ताक्षरं समुद्धृत्य त्रयोदशस्वरान्वितम् । पार्णं तुर्यस्वरयुतं छान्तं धान्तं तथा द्वयम् ॥ १३७ ॥ अमृतार्णं मांसयुग्मं मुखवृत्तेन संयुतम् । भार्शं तु मुखवृत्ताढ्यं पवनार्णं तथैव च ॥ १३८ ॥ बीजशक्तिसमायुक्तो मन्त्रोऽयं समुदाहृतः । गुप्तबीजस्वभावत्वाद् दशार्णः खलु कथ्यते ॥ १३९ ॥ ब्रह्मार्णं तुर्यसंयुक्तं मांसद्वयसमन्वितम् । नादबिन्दुसमायुक्तं जगद्बीजमुदाहृतम् ॥ १४० ॥ शुक्रार्णममृतार्णेन मुखवृत्तेन संयुतम् । गगनं मुखवृत्तेन प्रोक्ता शक्तिः परात्परा ॥ १४१ ॥ दशाक्षरो मन्त्रो, यथा क्लीं गोपीजनवल्लभाय स्वाहा । अष्टादशाक्षरो मन्त्रो, यथा क्लीं कृष्णाय गोविन्दाय गोपीजनवल्लभाय स्वाहा । फुल्लेन्दीवरकान्तिमिन्दुवदनं बर्हावतंसप्रियं श्रीवत्साङ्कमुदारकौस्तुभधरं पीताम्बरं सुन्दरम् । गोपीनां नयनोत्पलार्चिततनुं गोगोपसङ्घावृतं गोविन्दं कलवेणुवादनपरं दिव्याङ्गभूषं भजे ॥ १४२ ॥ अथ कामगायत्रीमन्त्रोद्धारो यथा स्वायम्भुवागमे क्लीं ततः कामदेवाय विद्महे च पदं ततः । ततश्च पुष्पबाणाय धीमहीति पदं ततः ॥ १४३ ॥ ततस्तन्नोऽनङ्ग इति ततश्चैव प्रचोदयात् । एषा वै कामगायत्री चतुर्विंशाक्षरी माता ॥ १४४ ॥ कामगायत्री, यथा क्लीं कामदेवाय विद्महे पुष्पबाणाय धीमहि तन्नोऽनङ्गः प्रचोदयात् । क्रीडासक्तो मदनवशगो राधयालिङ्गिताङ्गः सभ्रूभङ्गः स्मितसुवदनो मुग्धनेपथ्यशोभः । वृन्दारण्ये प्रतिनवलतासद्मसु प्रेमपूर्णः पूर्णानन्दो जयति मुरलीं वादयानो मुकुन्दः ॥ १४५ ॥ यथा बृहद्गौतमीयतन्त्रे देवी कृष्णमयि प्रोक्ता राधिका परदेवता । सर्वलक्ष्मीमयी सर्वकान्तिः सम्मोहिनी परा ॥ १४६ ॥ ऋक्परिशिष्टे च राधया माधवो देवो माधवेनैव राधिका विभ्राजन्ते जनेष्वा ॥ १४७ ॥ मात्स्ये च वाराणस्यां विशालाक्षी विमला पुरुषोत्तमे । रुक्मिणी द्वारवत्यां तु राधा वृन्दावने वने ॥ १४८ ॥ पाद्मे च (ऊण्४.५) यथा राधा प्रिया विष्णोस्तस्याः कुण्डं प्रियं तथा । सर्वगोपीषु सैवैका विष्णोरत्यन्तवल्लभा ॥ १४९ ॥ (ऊण्४.३४, ६७) महाभावस्वरूपेयं गुणैरतिवरीयसी । गोपालोत्तरतापन्यां यद्गान्धर्वेति विश्रुता ॥ १५० ॥ ह्लादिनी या महाशक्तिः सर्वशक्तिवरीयसी । तत्सारभावरूपेयमिति तन्त्रे प्रतिष्ठिता ॥ १५१ ॥ सुष्ठुकान्तस्वरूपेयं सर्वदा वार्षभानवी । धृतषोडशशृङ्गारा द्वादशाभरणान्विता ॥ १५२ ॥ तत्र सुष्ठुकान्तस्वरूपा, यथा श्रीकृष्णवाक्यम् (ऊण्४.८) कचास्तव सुकुञ्चिता मुखमधीरदीर्घेक्षणं कठोरकुचभाग्उरः क्रशिमशालि मध्यस्थलम् । नते शिरसि दोर्लते करजरत्नरम्यौ करौ विधूनयति राधिके त्रिजगदेष रुपोत्सवः ॥ १५३ ॥ धृतषोडशशृङ्गारा यथा (ऊण्४.९) स्नाता नासाग्रजाग्रन्मणिरसितपटा सूत्रिणी बद्धवेणी सोत्तंसा चर्चिताङ्गी कुसुमितचिकुर स्रग्विणी पद्महस्ता । ताम्बूलास्योरुबिन्दुस्तवकितचिबुका कज्जलाक्षी सुचित्रा राधालक्तोज्ज्वलाङ्घ्रिः स्फुरिति तिलकिनी षोडशाकल्पिनीयम् ॥ १५४ ॥ द्वादशाभरणाश्रिता यथा (ऊण्४.१०) दिव्यश्चूडामणीन्द्रः पुरटविरचिताः कुण्डलद्वन्द्वकाञ्चि* निष्काश्चक्रीशलाकायुगवलयघटाः कण्ठभूषोर्मिकाश्च । हारास्तारानुकार भुजकटकतुलाकोटयो रत्नक्प्ता* स्तुङ्गा पादाङ्गुरीयच्छविरिति रविभिर्भूषणैर्भाति राधा ॥ १५५ ॥ मध्ये वयसि कैशोर एव तस्याः स्थितिः । पूर्ववद्दिवसगणनया विंशतिदिनोत्तरपञ्चमासाधिकनववर्षपरिमितं मध्यकैशोरं वयः (९५२०); राजकुमारीत्वाद्भोगातिशयेन समृद्ध्या वर्षमासदिनानां सार्धतया पञ्चदशदिनोत्तरमासद्वयाधिकचतुर्दशवर्ष परिमितं वयोऽस्याः ज्ञेयम् (१४२१५) । अस्या मदीयताभावो मधुस्नेहस्तथैव च । मञ्जिष्ठाख्यो भवेद्रागः समर्था केवला रतिः ॥ १५६ ॥ कन्दर्पकौतुकं कुञ्जं गृहमस्यास्तु यावटे । मातास्याः कीर्तिदा प्रोक्ता वृषभानुः पिता स्मृतः ॥ १५७ ॥ अभिमन्युः पतिस्तस्या दुर्मुखो देवरः स्मृतः । जटिलाख्या स्मृता श्वश्रूर्ननन्दा कुटिला मता ॥ १५८ ॥ यथा स्युर्नायकावस्था निखिला एव माधवे । तथैव नायिकावस्था राधायां प्रायशो मताः ॥ १५९ ॥ (ऊण्४.५०५४) तस्या वृन्दावनेश्वर्याः सख्यः पञ्चविधा मताः । सख्यश्च नित्यसख्यश्च प्राणसख्यश्च काश्चन । प्रियसख्यश्च परमप्रेष्ठसख्यश्च विश्रुताः ॥ १६० ॥ सख्यः कुसुमिकाविन्ध्याधनिष्ठाद्याः प्रकीर्तिताः । नित्यसख्यश्च कस्तूरीमणिमञ्जरिकादयः ॥ १६१ ॥ प्राणसख्यः शशिमुखीवासन्तीलासिकादयः । गता वृन्दावनेश्वर्याः प्रायेणेमाः स्वरूपताम् ॥ १६२ ॥ प्रियसख्यः कुरङ्गाक्षी सुमध्या मदनालसा । कमला माधुरी मञ्जुकेशी कन्दर्पसुन्दरी । माधवी मालती कामलता शशिकलादयः ॥ १६३ ॥ परमप्रेष्ठसख्यस्तु ललिता सविशाखिका । सचित्रा चम्पकलता तुङ्गविद्येन्दुलेखिका । रङ्गदेवी सुदेवी चेत्यष्टौ सर्वगणाग्रिमाः ॥ १६४ ॥ (ऊण्३.६१) यूथाधिपात्वेऽप्यौचित्यं दधाना ललितादयः । स्वेष्टराधादिभावस्य लोभात्सख्यरुचिं दधुः ॥ १६५ ॥ मदीयताभावलक्षणं यथा शृङ्गाररससर्वस्वः कृष्णः प्रियतमो मम । इति यः प्रौढनिर्बन्धो भावः स स्यान्मदीयता ॥ १६६ ॥ उदाहरणं यथा शिखिपिञ्छलसन्मुखाम्बुजो मुरलीवान्मम जीवनेश्वरः । क्व गतोऽत्र विहाय मामितो वद नारायण सर्ववित्तम ॥ १६७ ॥ भुजचतुष्टयं क्वापि नर्मणा दर्शयन्नपि । वृन्दावनेश्वरीप्रेम्णा द्विभुजः क्रियते हरिः ॥ १६८ ॥ यथा (ऊण्५.७) रासारम्भविधौ निलीय वसता कुञ्जे मृगाक्षीगणै* र्दृष्टं गोपयितुं समुद्धुरधिया या सुष्ठु संदर्शिता । राधायाः प्रणयस्य हन्त महिमा यस्य श्रिया रक्षितुं सा शक्या प्रभविष्णुनापि हरिणा नासीच्चतुर्बाहुता ॥ १६९ ॥ मधुस्नेहलक्षणं यथा (ऊण्१४.९३९४) मदीयतातिशयभाक् प्रिये स्नेहो भवेन्मधु । स्वयं प्रकटमाधुर्यो नानारससमाहृतिः ॥ १७० ॥ मत्ततोष्मधरः स्नेहो मधुसाम्यान्मधूच्यते ॥ १७१ ॥ उदाहरणं यथा (ऊण्१४.९५) राधा स्नेहमयेन हन्त रचिता माधुर्यसारेण सा सौधीव प्रतिमा घनाप्युरुगुणैर्भावोष्मणा विद्रुता । यन्नामन्यपि धामनि श्रवणयोर्याति प्रसङ्गेन मे सान्द्रानन्दमयी भवत्यनुपमा सद्यो जगद्विस्मृति ॥ १७२ ॥ माञ्जिष्ठरागलक्षणं यथा (ऊण्१४.१३९) अहार्योऽनन्यसापेक्षो यः कान्त्या वर्द्धते सदा । भवेन्माञ्जिष्ठरागोऽसौ राधामाधवयोर्यथा ॥ १७३ ॥ उदाहरणं यथा (ऊण्१४.१४१) धत्ते द्रागनुपाधि जन्म विधिना केनापि नाकम्पते सूतेऽत्याहितसञ्चयैरपि रसं ते चेन्मिथो वर्त्मने । ऋद्धिं सञ्चिनुते चमत्कृतिकरोद्दामप्रमोदोत्तरां राधामाधवयोरयं निरुपमः प्रेमानुबन्धोत्सवः ॥ १७४ ॥ समर्थारतेर्लक्षणं यथा (ऊण्१४.५२५३) कञ्चिद्विशेषमायान्त्या सम्भोगेच्छा ययाभितः । रत्या तादात्म्यमापन्ना सा समर्थेति भण्यते ॥ १७५ ॥ स्वस्वरूपात्तदीयाद्वा जाता यत्किञ्चिदन्वयात् । समर्था सर्वविस्मारिगन्धा सान्द्रतमा मता ॥ १७६ ॥ उदाहरणं यथा (ऊण्१४.५४, ५५, ५७) प्रेक्ष्याशेषे जगति मधुरां स्वां वधूं शङ्कया ते तस्याः पार्श्वे गुरुभिरभितस्त्वत्प्रसङ्गो न्यवारि । श्रुत्वा दूरे तदपि भवतः सा तुलाकोटिनादं हा कृष्णेत्यश्रुतचरमपि व्याहरन्त्युन्मदासीत् ॥ १७७ ॥ सर्वाद्भुतविलासोर्मिचमत्कारकरश्रियः । सम्भोगेच्छाविशेषोऽस्या रतेर्जातु न भिद्यते । इत्यस्यां कृष्णसौख्यार्थमेव केवलमुद्यमः ॥ १७८ ॥ इयमेव रतिः प्रौढा महाभावदशां व्रजेत् । या मृग्या स्याद्विमुक्तानां भक्तानां च वरीयसाम् ॥ १७९ ॥ यथा श्रीदशमे (१०.४७.५८) एताः परं तनुभृतो भुवि गोपवध्वो गोविन्द एव निखिलात्मनि रूढभावाः । वाञ्छन्ति यद्भवभियो मुनयो वयं च किं ब्रह्मजन्मभिरनन्तकथारसस्य ॥ १८० ॥ श्रीराधामन्त्रोद्धारो यथा गौरीतन्त्रे श्रीनादबिन्दुसंयुक्ता तथाग्निर्मुखवृत्तयुक् । चतुर्थी वह्निजायान्ता राधिकाष्टाक्षरो मनुः ॥ १८१ ॥ मन्त्रो यथा श्रीं रां राधिकायै स्वाहा । गायत्री यथा श्रीराधिकायै विद्महे, प्रेमरूपायै धीमहि, तन्नो राधा प्रचोदयात् । अस्या ध्यानं यथा तत्रैव स्मेरां श्रीकुङ्कुमाभां स्फुरद्अरुणपटप्रान्तक्प्तावगुण्ठां रम्यां वेशेन वेणीकृतचिकुरशिखालम्बिपद्मां किशोरीम् । तर्ज्जन्य्अङ्गुष्ठयुक्त्या हरिमुखकमले युञ्जतीं नागवल्ली* पर्णं कर्णायताक्षीं त्रिजगति मधुरां राधिकामर्चयामि ॥ १८२ ॥ तप्तहेमप्रभां नीलकुन्तलबद्धमल्लिकाम् । शरच्चन्द्रमुखीं नृत्यचकोरीचञ्चलेक्षणाम् ॥ १८३ ॥ बिम्बाधरस्मितज्योत्स्नां जगज्जीवनदायिकाम् । चारुरत्नस्तनालम्बिमुक्तादामविभूषणाम् ॥ १८४ ॥ नितम्बनीलवसनां किङ्किणीजालमण्डिताम् । नानारत्नादिनिर्माणरत्ननूपुरधारिणीम् ॥ १८५ ॥ सर्वलावण्यमुग्धाङ्गीं सर्वावयवसुन्दरीम् । कृष्णपार्श्वस्थितां नित्यं कृष्णप्रेमैकविग्रहाम् । आनन्दरससम्मग्नां किशोरीमाश्रये वने ॥ १८६ ॥ सौरीं रक्ताम्बरां रम्यां सुनेत्रां सुस्मिताननाम् । श्यामां श्यामाखिलाभीष्टां राधिकामाश्रये वने ॥ १८७ ॥ विना राधाप्रसादेन कृष्णप्राप्तिर्न जायते । ततः श्रीराधिकाकृष्णौ स्मरणीयौ सुसंयुतौ ॥ १८८ ॥ यथा भविष्योत्तरे प्रेमभक्तौ यदि श्रद्धा मत्प्रसादं यदीच्छसि । तदा नारद भावेन राधायाराधको भव ॥ १८९ ॥ तथा च नारदीये सत्यं सत्यं पुनः सत्यं सत्यमेव पुनः पुनः । विना राधाप्रसादेन मत्प्रसादो न विद्यते ॥ १९० ॥ श्रीराधिकायाः कारुण्यात्तत्सखीसंगतिमियात् । तत्सखीनां च कृपया योषिद्अङ्गमवाप्नुयात् ॥ १९१ ॥ अनङ्गसुखदाख्योऽस्ति कुञ्जस्तस्योत्तरे दले । विज्ञेयोऽयं तडिद्वर्णो नानापुष्पद्रुमावृतः ॥ १९२ ॥ ललितानन्ददो नित्यमुत्तरे कुञ्जराजकः । गोरोचनाभा ललिता तत्र तिष्ठति नित्यशः ॥ १९३ ॥ मयूरपिञ्छसदृशवसना कृष्णवल्लभा । खण्डिताभावमापन्ना रतियुक्ता हरौ सदा ॥ १९४ ॥ चन्द्रताम्बूलसेवाढ्या दिव्याभरणमण्डिता । सप्तविंशत्य्अहो युक्ताष्टमासमनुहायना (१४८२७) ॥ १९५ ॥ अस्या वयःप्रमाणं यत्पिता माता विशोककः । शारदा च पतिर्यस्या भैरवाख्यो मतो बुधैः ॥ १९६ ॥ स्वरूपदामोदरतां प्राप्ता गौररसे त्वियम् । इयं तु वामप्रखरा गृहमस्यास्तु यावटे ॥ १९७ ॥ खण्डितालक्षणं, यथा (ऊण्५.८५८६) उल्लङ्घ्य समयं यस्याः प्रेयानन्योपभोगवान् । भोगलक्ष्माङ्कितः प्रातरागच्छेत्सा हि खण्डिता । एषा तु रोषनिःश्वासतूष्णींभावादिभाग्भवेत् ॥ १९८ ॥ यावैर्धूमलितं शिरो भुजतटीं ताटङ्कमुद्राङ्कितां संक्रान्तस्तनकुङ्कुमोज्ज्वलमुरो मालां परिम्लापिताम् । घूर्णाकुड्मलिते दृशौ व्रजपतेर्दृष्ट्वा प्रगे श्यामला चित्ते रुद्रगुणं मुखे तु सुमुखी भेजे मुनीनां व्रतम् ॥ १९९ ॥ वामप्रखरालक्षणं यथा (ऊण्६.२५) सौभाग्यादेरिहाधिक्यादधिका साम्यतः समा । लघुत्वाल्लघुरित्युक्तास्त्रिधा गोकुलसुभ्रुवः ॥ २०० ॥ प्रत्येकं प्रखरा मध्या मृद्वी चेति पुनस्त्रिधा ॥ २०१ ॥ प्रगल्भवाक्या प्रखरा ख्याता दुर्लङ्घ्यभाषिता । तदूनत्वे भवेन्मृद्वी मध्या तत्साम्यमागता ॥ २०२ ॥ तत्र लघुप्रखरा (ऊण्८.३१) सा लघुप्रखरा द्वेधा भवेद्वामाथ दक्षिणा ॥ २०३ ॥ तत्र वामा (ऊण्८.३२) मानग्रहे सदोद्युक्ता तच्छैथिल्ये च कोपना । अभेद्या नायके प्रायः क्रूरा वामेति कीर्त्यते ॥ २०४ ॥ (ऊण्८.३७) यूथेऽत्र वामप्रखरा ललिताद्याः प्रकीर्तिताः ॥ २०५ ॥ वामप्रखरोदाहरणं, यथा (ऊण्८.३६) अमूर्व्रजमृगेक्षणाश्चतुर्अशीतिलक्षाधिकाः प्रतिस्वमिति कीर्तितं सवयसा तवैवामुना । इहापि भुवि विश्रुता प्रियसखी महार्घ्येत्यसौ कथं तदपि साहसी शठ! जिघृक्षुरेनामसि ॥ २०६ ॥ अस्या यूथो, यथा (श्रीकृष्णगणोद्देशदीपिका १.२४२) रत्नरेखा (प्रभा) रतिकला सुभद्रा चन्द्र (भद्र) रेखिका । सुमुखी च धनिष्ठा च कलहंसी कलापिनी ॥ २०७ ॥ अस्या मन्त्रोद्धारो, यथा सम्मोहनतन्त्रे लक्ष्मी लीला च ललिता ङे ततो वह्निनायिका । एषोऽष्टार्णो महामन्त्रो ललितायास्तु रागदः ॥ २०८ ॥ मन्त्रो यथाश्रीं लां ललितायै स्वाहा । अस्या ध्यानं, यथा तत्रैव गोरोचनाद्युतिविडम्बितनूं सुवेशीं मयूरपिञ्छवसनां शुभभूषणाढ्याम् । ताम्बूलसेवनरतां व्रजराजसूनोः श्रीराधिकाप्रियसखीं ललितां स्मरामि ॥ २०९ ॥ ईशानदल आनन्दनामकं कुञ्जमस्ति हि । मेघवर्णं श्रीविशाखा यत्रास्ते कृष्णवल्लभा ॥ २१० ॥ स्वाधीनभर्तृकाभावमापन्ना हि हरौ सदा । वस्त्रालङ्कारसेवाढ्या गौराङ्गी तारकाम्बरा ॥ २११ ॥ पक्षाहर्युग्युग्ममाससंयुक्तमनुहायना (१४२१५) । अस्या वयः पिता माता पावनो दक्षिणा क्रमात् ॥ २१२ ॥ पतिर्यस्या बाहुकाख्योऽप्यसौ गौररसे पुनः । रायरामानन्दतया विख्याताभूत्कलौ युगे ॥ २१३ ॥ इयं त्वधिकमध्या हि गृहमस्यास्तु यावटे ॥ २१४ ॥ स्वाधीनभर्तृकालक्षणम् (ऊण्५.९१) स्वायत्तासन्नदयिता भवेत्स्वाधीनभर्तृका । सलिलारण्यविक्रीडाकुसुमावचयादिकृत् ॥ २१५ ॥ उदाहरणं यथा (ऊण्५.९२) मुदा कुर्वन् पत्राङ्कुरमनुपमं पीनकुचयोः श्रुतिद्वन्द्वे गन्धाहृतमधुपमिन्दीवरयुग्मम् । सखेलं धम्मिल्लोपरि च कमलं कोमलमसौ निरावाधां राधां रमयति चिरं केशिदमनः ॥ २१६ ॥ (ऊण्८.१९) अत्र यूथे विशाखाद्या भवन्त्यधिकमध्यमाः ॥ २१७ ॥ अधिकमध्योदाहरणं यथा (ऊण्८.१७) दामार्प्यतां प्रियसखीप्रहितां त्वयैव दामोदरे कुसुममत्र मयावचेयम् । नाहं भ्रमाच्चतुरिके सखि सूचनीया कृष्णः कदर्थयति मामधिकं यदेषः ॥ २१८ ॥ अस्या यूथो यथा (कृष्णगणोद्देशदीपिका १.२४३) मालती माधवी चन्द्ररेखा चापि शुभानना । कुञ्जरी हरिणी चैव सुरभिश्चपलापि च ॥ २१९ ॥ अस्या मन्त्रोद्धारो, यथा बृहद्गौतमीये वाग्भवः सौं ततो ङेऽन्ता विशाखा वह्निजायिका । अष्टाक्षरो विशाखाया मन्त्रोऽयं प्रेमवृद्धिदः ॥ २२० ॥ मन्त्रो यथा ऐं सौं विशाखायै स्वाहा । अस्या ध्यानं, यथा तत्रैव सच्चम्पकावलिविडम्बितनुं सुशीलां ताराम्बरां विविधभूषणशोभमानाम् । श्रीनन्दनन्दनपुरो वसनादिभूषा* दाने रतां सुकुतुकां च भजे विशाखाम् ॥ २२१ ॥ चित्रं पूर्वदले कुञ्जं पद्मकिञ्जल्कनामकम् । श्रीचित्रा स्वामिनी तत्र वर्तते कृष्णवल्लभा ॥ २२२ ॥ अभिसारिकात्वमापन्ना हरौ रतिसमन्विता । लवङ्गमालासेवाढ्या काश्मीरवर्णसंयुता ॥ २२३ ॥ काचतुल्याम्बरा चासौ सदा चित्रगुणान्विता । अस्याश्चैव वयोमानं मनुसंख्यादिनान्वितम् ॥ २२४ ॥ ऋषिमासाधिकं शक्रहायनं चेति विश्रुतम् (१४७१४) ॥ २२५ ॥ चतुरोऽस्याः पिता प्रोक्तो जनन्यस्याश्च चर्च्चिका । पतिः पीठरकश्चास्या असौ गौररसे पुनः ॥ २२६ ॥ गोविन्दानन्दतां प्राप्ता चतुर्थयुगमध्यके । इयं त्वधिकमृद्वी च गृहमस्यास्तु यावटे ॥ २२७ ॥ अभिसारिकालक्षणं यथा (ऊण्५.७१७२) याभिसारयते कान्तं स्वयं वाभिसरत्यपि । सा ज्योत्स्नी तामसी यानयोग्यवेषाभिसारिका ॥ २२८ ॥ लज्जया स्वाङ्गलीनेव निःशब्दाखिलमण्डना । कृतावगुष्ठा स्निग्धैकसखीयुक्ता प्रियं व्रजेत् ॥ २२९ ॥ उदाहरणं यथा तत्र (१) ज्योत्स्न्य्अभिसारिकायाः (ऊण्५.७४) इन्दुस्तुन्दिलमण्डलं प्रणयते वृन्दावने चन्द्रिकां सान्द्रां सुन्दरि नन्दनो व्रजपतेस्त्वद्वीथिमुद्वीक्षते । त्वं चन्द्राञ्चितचन्दनेन खचिता क्षौमेण चालङ्कृता किं वर्त्मन्यरविन्दचारुचरणद्वन्द्वं न सन्धित्ससि ॥ २३० ॥ (२) तामस्य्अभिसारिकायाः (Vइं ४.२२, ऊण्५.७५) तिमिरमसिभिः संवीताङ्ग्यः कदम्बवनान्तरे सखि बकरिपुं पुण्यात्मानः सरन्त्यभिसारिकाः । तव तु परितो विद्युद्वर्णास्तनुद्युतिसूचयो हरि हरि घनध्वान्तान्येताः स्ववैरिणि भिन्दते ॥ २३१ ॥ (ऊण्८.२१) अधिका मृदवश्चात्र चित्रा मधुरिकादयः ॥ २३२ ॥ अधिकमृद्व्य्उदाहरणं, यथा (ऊण्८.२०) दरापि न दृग्अर्पिता सखि शिखण्डचूडे मया प्रसीद बत मा कृथा मयि वृथा पुरोभागिताम् । नटन्मकरकुण्डलं सपदि चण्डि लीलागतिं तनोत्ययमदूरतः किमिह संविधेयं मया ॥ २३३ ॥ अस्या यूथो यथा (श्रीकृष्णगणोद्देशदीपिका १.२४५) रसालिका तिलकिनी शौरसेनी सुगन्धिका । वामनी वामनयना नागरी नागवल्लिका ॥ २३४ ॥ अस्या मन्त्रोद्धारो, यथा स्कान्दे लक्ष्मीश्चित्रा चतुर्थ्यन्ता वह्निजाया षडक्षरः । मन्त्रोऽयं चित्रिकानाम्न्याः कृष्णसख्या उदीरितः ॥ २३५ ॥ मन्त्रो यथाश्रीं चित्रायै स्वाहा । अस्या ध्यानं, यथा तत्रैव काश्मीरवर्णां सहितां विचित्र* गुणैः स्मिताशोभिमुखीं च चित्राम् । काचाम्बरां कृष्णपुरो लवङ्ग* मालाप्रदाने नितरां स्मरामि ॥ २३६ ॥ आग्नेयपत्रे पूर्णेन्दुकुञ्जस्वर्णाभवर्णके । श्रीन्दुलेखा वसत्यत्र हरितालसमाङ्गिका ॥ २३७ ॥ दाडिम्बकुसुमोद्भासिवसना कृष्णवल्लभा । प्रोषितभर्तृकाभावमापन्ना रतियुग्घरौ ॥ २३८ ॥ अमृताशनसेवाढ्या यासौ नन्दात्मजस्य वै । वयोमानं भवेत्तस्याः सर्वशास्त्रेषु सम्मतम् ॥ २३९ ॥ सार्धदिग्वासरैर्युक्ता द्विमासमनुहायना (१४२१० १।२) । असौ तु वामप्रखरा हरेश्चामरसेविनी ॥ २४० ॥ गृहमस्यास्तु यावटे पिता सागरसंज्ञकः ॥ २४१ ॥ अस्या माता भवेद्वेला पतिरस्यास्तु दुर्बलः । वसुरामानन्दतया ख्याता गौररसे ह्यसौ ॥ २४२ ॥ प्रोषितभर्तृकालक्षणं यथा (ऊण्५.८९) दूरदेशं गते कान्ते भवेत्प्रोषितभर्तृका । प्रियसंकीर्तनं दैन्यमस्यास्तानवजागरौ । मालिन्यमनवस्थानं जाड्यचिन्तादयो मताः ॥ २४३ ॥ उदाहरणं यथा (ऊण्५.९०) विलासी स्वच्छन्दं वसति मथुरायां मधुरिपु* र्वसन्तः सन्तापं प्रथयति समन्तादनुपदम् । दुराशेयं वैरिण्यहह मद्अभीष्टोद्यमविधौ विधत्ते प्रत्यूहं किमिह भविता हन्त शरणम् ॥ २४४ ॥ वामप्रखरालक्षणोदाहरणे तूक्ते; अस्या यूथो यथा श्रीकृष्णगणोद्देशदीपिकायाम् (१.२४७) तुङ्गभद्रा चित्रलेखा सुरङ्गी रङ्गवाटिका । मङ्गला सुविचित्राङ्गी मोदिनी मदनापि च ॥ २४५ ॥ अस्या मन्त्रोद्धारो यथा ईशानसंहितायाम् वाग्भवश्चेन्दुलेखा च चतुर्थी वह्निजायिका । मन्त्रः स्याच्चेन्दुलेखाया अष्टार्णः समुदीरितः ॥ २४६ ॥ मन्त्रो यथाऐमिन्दुलेखायै स्वाहा । अस्या ध्यानं यथा तत्रैव हरितालसमानदेहकान्तिं विकसद्दारिमपुष्पशोभिवस्त्राम् । अमृतं ददतीं मुकुन्दवक्त्रे भज आलीमहमिन्दुलेखिकाख्याम् ॥ २४७ ॥ दक्षिणेऽस्मिन् दले कामलतानामास्ति कुञ्जकम् । अत्यन्तसुखदं तप्तजाम्बूनदसमप्रभम् ॥ २४८ ॥ श्रीचम्पकलता तिष्ठत्यमुष्मिन् कृष्णवल्लभा । असौ वासकसज्जात्वमापन्ना रतियुग्घरौ ॥ २४९ ॥ वाममध्या चम्पकाभा चातकाभशुभाम्बरा । तत्सेवा रत्नमालाया दानं चामरचालनम् ॥ २५० ॥ सार्धत्रयोदशदिनमासद्वयसमन्विताः । मनुसंख्याहायनाश्च वयोमानं भवेत्पुनः (१४२१३ १।२) ॥ २५१ ॥ मातास्या वाटिका ख्याता पिता चारामसंज्ञकः । अस्याश्च भर्ता चण्डाख्यस्तथा गौररसे ह्यसौ । शिवानन्दतया ख्यातिमागता हि कलौ युगे ॥ २५२ ॥ वासकसज्जालक्षणं यथा (ऊण्५.७६७७) स्ववासकवशात्कान्ते समेष्यति निजं वपुः । सज्जीकरोति गेहं च या सा वासकसज्जिका ॥ २५३ ॥ चेष्टास्याः स्मरसंक्रीडासङ्कल्पवर्त्मवीक्षणम् । सखीविनोदवार्त्ता च मुहुर्दूतिक्षणादयः ॥ २५४ ॥ उदाहरणं यथा (ऊण्५.७८) रतिक्रीडाकुञ्जं कुसुमशयनीयोज्ज्वलरुचिं वपुः सालङ्कारं निजमपि विलोक्य स्मितमुखी । मुहुर्ध्यायं ध्यायं किमपि हरिणा सङ्गमविधिं समृद्ध्यन्ति राधा मदनमदमाद्यन्मतिरभूत् ॥ २५५ ॥ वामप्रखरालक्षणोदाहरणे तूक्ते; अस्या यूथो यथा (कृष्णगणोद्देशे १.२४४) कुरङ्गाक्षी सुरचिता मण्डली मणिमण्डना । चण्डिका चन्द्रलतिका कन्दुकाक्षी सुमन्दिरा ॥ २५६ ॥ अस्या मन्त्रोद्धारो यथा गारुडे आदौ च चम्पकलता ङेऽन्ता वैश्वानरप्रिया । मन्त्रोऽयं चम्पकलताप्रेमदो वसुवर्णकः ॥ २५७ ॥ मन्त्रो यथाचम्पकलतायै स्वाहा । अस्या ध्यानं यथा तत्रैव चम्पकावलिसमानकान्तिकां चातकाभवसनां सुभूषणाम् । रत्नमाल्ययुतचामरोद्यतां चारुचम्पकलतां सदा भजे ॥ २५८ ॥ रक्षोदले श्यामवर्णे कुञ्जे श्रीरङ्गदेविका । सुखदाख्ये निवसति नित्यं श्रीहरिवल्लभा ॥ २५९ ॥ पद्मकिञ्जल्कवर्णाभा जबापुष्पनिभाम्बरा । उत्कण्ठिताभावयुक्ता श्रीकृष्णे रतिभाक्सदा ॥ २६० ॥ असौ चन्दनसेवाढ्या वाममध्या भवेत्पुनः । गृहमस्या यावटे तु वयोमानं भवेत्पुनः ॥ २६१ ॥ सार्धवेददिनैर्युक्तं द्विमासं मनुहायनम् (१४२४ १।२) । माता श्रीकरुणा प्रोक्ता पिता श्रीरङ्गसागरः ॥ २६२ ॥ पतिर्वक्रेक्षणः प्रोक्तो ह्यसौ गौररसे पुनः । गोविन्दानन्दघोषाख्यामापन्ना हि कलौ युगे ॥ २६३ ॥ उत्कण्ठितालक्षणं यथा (ऊण्५.७९८०) अनागसि प्रियतमे चिरयत्युत्सुका तु या । विरहोत्कण्ठिता भाववेदिभिः सा समीरिता ॥ २६४ ॥ अस्यास्तु चेष्टा हृत्तापो वेपथुर्हेतुतर्कणम् । अरतिर्वाष्पमोक्षण्च स्वावस्थाकथनादयः ॥ २६५ ॥ उदाहरणं यथा (ऊण्५.८१) सखि किमभवद्बद्धो राधाकटाक्षगुणैरयं समरमथवा किं प्रारब्धं सुरारिभिरुद्धुरैः । अहह बहुलाष्टम्यां प्राचीमुखेऽप्युदिते विधौ विधुमुखि! न यन्मां सस्मार व्रजेश्वरनन्दनः ॥ २६६ ॥ वाममध्यालक्षणोदाहरणे तूक्ते; अस्या यूथो यथा (श्रीकृष्णगणोद्देशे १.२४८) कलकण्ठी शशिकला कमला प्रेममञ्जरी । माधवी मधुरा कामलता कन्दर्पसुन्दरी ॥ २६७ ॥ अस्या मन्त्रोद्धारो यथा किशोरीतन्त्रे लक्ष्मीरग्निरङ्गदेवी ङेऽन्ता वह्निप्रिया ततः । रङ्गदेव्यास्तु मन्त्रोऽयमष्टार्णो रागभक्तिदः ॥ २६८ ॥ मन्त्रो यथाश्रीं रां रङ्गदेव्यै स्वाहा । अस्या ध्यानं च तत्रैव राजीवकिञ्जल्कसमानवर्णां जबाप्रसूनोपमवासस्आढ्याम् । श्रीखण्डसेवासहितां व्रजेन्द्र सूनोर्भजे रासगरङ्गदेवीम् ॥ २६९ ॥ कुञ्जोऽस्ति पश्चिमे दलेऽरुणवर्णः सुशोभनः । तुङ्गविद्यानन्ददो नाम्नेति विख्यातिमागतः ॥ २७० ॥ नित्यं तिष्ठति तत्रैव तुङ्गविद्या समुत्सुका । विप्रलब्धात्वमापन्ना श्रीकृष्णे रतियुक्सदा ॥ २७१ ॥ चन्द्रचन्दनभूयिष्ठकुङ्कुमद्युतिशालिनी । पाण्डुमण्डनवस्त्रेयं दक्षिणप्रखरोदिता ॥ २७२ ॥ मेधायां पौष्कराजाता पतिरस्यास्तु बालिशः । नृत्यगीतादिसेवाढ्या गृहमस्यास्तु यावटे ॥ २७३ ॥ द्वाविंशतिदिनैर्युक्ता द्विमासमनुहायनाः (१४२२२) ॥ २७४ ॥ अस्या वयःप्रमाणं स्यादसौ गौररसे पुनः । वक्रेश्वर इति ख्यातिमापन्ना हि कलौ युगे ॥ २७५ ॥ विप्रलब्धालक्षणं यथा (ऊण्५.८३८४) कृत्वा सङ्केतमप्राप्ते दैवाज्जीवितवल्लभे । व्यथमानान्तरा प्रोक्ता विप्रलब्धा मनीषिभिः । निर्वेदचिन्ताखेदाश्रुमूर्छानिःश्वसितादिभाक् ॥ २७६ ॥ उदाहरणं यथा विन्दति स्म दिवमिन्दुरिन्दिरा* नायकेन सखि वञ्छिता वयम् । कुर्महे किमिह शाधि सादरं द्रागिति क्लममगान्मृगेक्षणा ॥ २७७ ॥ दक्षिणालक्षणं यथा (ऊण्८.३८, ४२) असहा माननिर्बन्धे नायके युक्तवादिनी । सामभिस्तेन भेद्या च दक्षिणा परिकीर्तिता ॥ २७८ ॥ तुङ्गविद्यादिका चात्र दक्षिणप्रखरा भवेत् ॥ २७९ ॥ उदाहरणं यथा (श्रीगीतगोविन्दे ९.१०) स्निग्धे यत्परुषासि यत्प्रणमति स्तब्धासि यद्रागिणि द्वेषं यासि यदुन्मुखे विमुखतां यातासि तस्मिन् प्रिये । तद्युक्तं विपरीतकारिणि! तव श्रीखण्डचर्चा विषं शीतांशुस्तपनो हिमं हुतवहः क्रीडामुदो यातनाः ॥ २८० ॥ अस्या यूथो यथा (श्रीकृष्णगणोद्देशे १.२४६) मञ्जुमेधा सुमधुरा सुमध्या मधुरेक्षणा । तनूमध्या मधुस्यन्दा गुणचूडा वराङ्गदा ॥ २८१ ॥ अस्या मन्त्रोद्धारो यथा किशोरीतन्त्रे लक्ष्मीपूर्वा तुङ्गविद्या चतुर्थी हुतभुक्प्रिया । मन्त्रोऽयं तुङ्गविद्याया वसुवर्णः समीरितः ॥ २८२ ॥ मन्त्रो यथाश्रीं तुङ्गविद्यायै स्वाहा । अस्या ध्यानं, यथा तत्रैव चन्द्राढ्यैरपि चन्दनैः सुललितां श्रीकुङ्कुमाभद्युतिं सद्रत्नान्वितभूषणाञ्चिततनुं शोणाम्बरोल्लासिताम् । सद्गीतावलिसंयुतां बहुगुणां डम्फस्य शब्देन वै नृत्यन्तीं पुरतो हरे रसवतीं श्रीतुङ्गविद्यां भजे ॥ २८३ ॥ वायव्यदलके कुञ्जमास्ते हरितवर्णकम् । वसन्तसुखदमत्र सुदेवी वर्तते सदा ॥ २८४ ॥ कलहान्तरिताभावमापन्ना रतियुग्घरौ । पद्मकिञ्जल्करुचिरा जबापुष्पनिभाम्बरा ॥ २८५ ॥ असौ च जलसेवाढ्या वामा प्रखरिका मता । वेदवासरसंयुक्तद्विमासमनुहायना (१४२४) ॥ २८६ ॥ अस्या वयःपरिमाणं यावटे तु निकेतनम् । मातास्याः करुणा प्रोक्ता जनको रङ्गसागरः ॥ २८७ ॥ भ्रात्रा वक्रेक्षणस्येयं परिणीता कनीयसा । श्रीवासुदेवघोषाख्यामाप्ता गौररसे त्वसौ ॥ २८८ ॥ कलहान्तरितालक्षणं यथा (ऊण्५.८७) या सखीनां पुरः पादपतितं वल्लभं रुषा । निरस्य पश्चात्तपति कलहान्तरिता हि सा । अस्याः प्रलापसन्तापग्लानिनिःश्वसितादयः ॥ २८९ ॥ उदाहरणं यथा (ऊण्५.८८) स्रजः क्षिप्ता दूरे स्वयमुपहृताः केशिरिपुणा प्रियवाचस्तस्य श्रुतिपरिसरान्तेऽपि न कृताः । नमन्नेष क्षौनीविलुठितशिखं प्रैक्षि न मया मनस्तेनेदं मे स्फुटति पुटपाकार्पितमिव ॥ २९० ॥ वामप्रखरालक्षणोदाहरणे तूक्ते; अस्या यूथो यथा (श्रीकृष्णगणोद्देशे १.२४९) कावेरी चारुकवरी सुकेशी मञ्जुकेशिका । हारहिरा हारकण्ठी हारवल्ली मनोहरा ॥ २९१ ॥ अस्या मन्त्रोद्धारो यथा रुद्रयामले द्वे वाग्भवे रमा ङेऽन्ता सुदेवी दहनप्रिया । उक्तः सुदेव्या मन्त्रोऽयमष्टार्णः प्रेमभक्तिदः ॥ २९२ ॥ मन्त्रो यथाऐं सौं श्रीं सुदेव्यै स्वाहा । अस्या ध्यानं यथा तत्रैव अम्भोजकेशरसमानरुचिं सुशीलां रक्ताम्बरां रुचिरहासविराजिवक्त्राम् । श्रीनन्दनन्दनपुरो जलसेवनाढ्यां सद्भूषणावलियुतां च भजे सुदेवीम् ॥ २९३ ॥ कुञ्जोऽस्ति रूपोल्लासाख्यो ललिताकुञ्जकोत्तरे । सदा तिष्ठति तत्रैव सुशोभा रूपमञ्जरी ॥ २९४ ॥ प्रियनर्मसखीमुख्या सुन्दरी रूपमञ्जरी । गोरोचनासमाङ्गश्रीः केकिपत्रांशुकप्रिया ॥ २९५ ॥ सार्धत्रिदशवर्षासौ (१३६) वाममध्यात्वमाश्रिता । रङ्गणमालिका चेति प्रवदन्ति मनीषिणः ॥ २९६ ॥ इयं लवङ्गमञ्जर्या एकेनाह्ना कनीयसी । कलौ गौररसे रूपगोस्वामित्वं समागता ॥ २९७ ॥ अस्या मन्त्रोद्धारो यथा किशोरीतन्त्रे श्रीबीजेन समायुक्ता ङेऽन्ता वै रूपमञ्जरी । अयमष्टाक्षरो रूपमञ्जर्या मन्त्र ईरितः ॥ २९८ ॥ मन्त्रो यथाश्रीं रूपमञ्जर्यै स्वाहा । अस्या ध्यानं यथा तत्रैव गोरोचनानिन्दिनिजाङ्गकान्तिं मायूरपिञ्छाभसुचीनवस्त्राम् । श्रीराधिकापादसरोजदासीं रूपाख्यकां मञ्जरिकां भजेऽहम् ॥ २९९ ॥ रत्यम्बुजाख्यः कुञ्जोऽस्ति इन्दुलेखाकुञ्जदक्षिणे । तत्रैव तिष्ठति सदा सुरूपा रतिमञ्जरी ॥ ३०० ॥ तारावलीदुकूलेयं तडित्तुल्यतनुच्छविः । दक्षिणा मृद्वीका ख्याता तुलसीति वदन्ति याम् ॥ ३०१ ॥ अस्या वयो द्विमासाढ्यहायनास्तु त्रयोदश (१३२) । इयं श्रीरघुनाथाख्यां प्राप्ता गौररसे कलौ ॥ ३०२ ॥ अस्या मन्त्रोद्धारो यथा किशोरीतन्त्रे नादबिन्दुयुतो वह्निर्मुखवृत्तसमन्वितः । स्वाहान्ता मञ्जरी ङेऽन्ता रतिमञ्जरिकामनुः ॥ ३०३ ॥ मन्त्रो यथारां रतिमञ्जर्यै स्वाहा अस्या ध्यानं यथा तत्रैव तारालिवासोयुगलं वसानां तडित्समानस्वतनुच्छविं च । श्रीराधिकाया निकटे वसन्तीं भजे सुरूपां रतिमञ्जरीं ताम् ॥ ३०४ ॥ कुञ्जस्य तुङ्गविद्यायाः कुञ्जः पूर्वत्र वर्तते । लवङ्गसुखदो नाम्ना सुदृशां सुमनोहरः ॥ ३०५ ॥ लवङ्गमञ्जरी तत्र मुदा तिष्ठति सर्वदा । सा तु रूपाख्यमञ्जर्या एकेनाह्ना वरीयसी ॥ ३०६ ॥ उद्यद्विद्युत्समानश्रीस्तारावलीपटावृता । श्रीकृष्णानन्ददा नित्यं दक्षिणा मृद्विका मता ॥ ३०७ ॥ वय एकदिनं सार्धहायनास्तु त्रयोदश (१३६१) । श्रीसनातननामासौ ख्याता गौररसे कलौ ॥ ३०८ ॥ अस्या मन्त्रोद्धारो यथा किशोरीतन्त्रे श्रीलीलाभ्यां समायुक्ता ङेऽन्ता लवङ्गमञ्जरी । स्वाहा लवङ्गमञ्जर्या मन्त्रोऽयं दशवर्णकः ॥ ३०९ ॥ मन्त्रो यथाश्रीं लां लवङ्गमञ्जर्यै स्वाहा अस्या ध्यानं यथा तत्रैव चपलाद्युतिनिन्दिकान्तिकां शुभतारावलिशोभिताम्बराम् । व्रजराजसुतप्रमोदिनीं प्रभजे तां च लवङ्गमञ्जरीम् ॥ ३१० ॥ रसानन्दप्रदो नाम्ना चित्राकुञ्जस्य पश्चिमे । कुञ्जोऽस्ति तत्र वसति सर्वदा रसमञ्जरी ॥ ३११ ॥ श्रीरूपमञ्जरीसम्यग्जिवातु सा प्रकीर्तिता । हंसपक्षदुकूलेयं फुल्लचम्पककान्तिभाक् ॥ ३१२ ॥ लवङ्गमञ्जरीतुल्या प्रायेण गुणसम्पदा । अतीव प्रियतां प्राप्ता श्रीरूपमञ्जरीश्रिता ॥ ३१३ ॥ सन्धानचतुरा सेयं दौत्ये कौशलमागता । त्रयोदशशरद्युक्ता (१३) दक्षिणा मृद्विका मता ॥ ३१४ ॥ सा कलौ रघुनाथाख्यायुक्तभट्टत्वमागता ॥ ३१५ ॥ अस्या मन्त्रोद्धारो यथा किशोरीतन्त्रे मुखवृत्तयुतो वह्निनादबिन्दुसमन्वितः । स्वाहान्तसम्प्रदानान्तो मन्त्रो वै रसमञ्जरी ॥ ३१६ ॥ मन्त्रो यथारां रसमञ्जर्यै स्वाहा । अस्या ध्यानं यथा तत्रैव हंसपक्षरुचिरेण वाससा संयुतां विकचचम्पकद्युतिम् । चारुरूपगुणसम्पदान्वितां सर्वदापि रसमञ्जरीं भजे ॥ ३१७ ॥ ऐशान्ये चम्पकलताकुञ्जात्कुञ्जोऽस्ति शोभनः । गुणानन्दप्रदो नाम्ना तत्रास्ते गुणमञ्जरी ॥ ३१८ ॥ रूपमञ्जरिकासौख्याभिलाषा सा प्रकीर्तिता । जबाराजिदुकूलेयं तडित्प्रकरकान्तिभाक् ॥ ३१९ ॥ कनिष्ठेयं भवेत्तस्यास्तुलस्यास्तु त्रिभिर्दिनैः । श्रीकृष्णामोददाक्षिण्यमाश्रिता प्रखरोदिता ॥ ३२० ॥ वयोऽस्या एकमासाढ्या हायनास्तु त्रयोदश । सप्तविंशतिभिर्युक्तं दिनैश्च समुदीरितम् (१३१२७) ॥ ३२१ ॥ गोपालभट्टनामासौ ख्याता गौररसे कलौ ॥ ३२२ ॥ अस्या मन्त्रोद्धारो यथा किशोरीतन्त्रे गणेशो मुखवृत्ताढ्यो नादबिन्दुसमन्वितः । ङेऽन्ता वह्निप्रियान्ता च मन्त्रो वै गुणमञ्जरी ॥ ३२३ ॥ मन्त्रो यथागां गुणमञ्जर्यै स्वाहा अस्या ध्यानं यथा तत्रैव जबानिभदुकूलाढ्यां तडिद्आलितनुच्छविम् । कृष्णामोदकृतापेक्षां भजेऽहं गुणमञ्जरीम् ॥ ३२४ ॥ लीलानन्दप्रदो नाम्ना सुदेव्याः कुञ्जकोत्तरे । तत्रैव तिष्ठति सदा मञ्जुलाली सुमञ्जरी ॥ ३२५ ॥ रूपमञ्जरिकासख्यप्राया सा गुणसम्पदा । जबाराजिदुकूलेयं तप्तहेमतनुच्छविः ॥ ३२६ ॥ लीलामञ्जरी नामास्या वाममध्यात्वमाश्रिता । वयःसप्ताहयुक्तासौ सार्धत्रिदशहायना (१३६७) ॥ ३२७ ॥ कलौ गौररसे लोकनाथगोस्वामितां गता ॥ ३२८ ॥ अस्या मन्त्रोद्धारो यथा किशोरीतन्त्रे लक्ष्मीयुक्ता मञ्जुलाली मञ्जरी वह्निजायिका । चतुर्थ्यन्ता भवेन्मन्त्रो दशार्णः खलु कथ्यते ॥ ३२९ ॥ मन्त्रो यथाश्रीं मञ्जुलालीमञ्जर्यै स्वाहा अस्या ध्यानं यथा तत्रैव प्रतप्तहेमाङ्गरुचिं मनोज्ञां शोणाम्बरां चारुसुभूषणाढ्याम् । श्रीराधिकापादसरोजदासीं तां मञ्जुलालीं नियतं भजामि ॥ ३३० ॥ वैशाखकुञ्जादाग्नेये कुञ्जोऽस्ति सुमनोहरः विलासानन्ददो नाम्नात्रास्ते विलासमञ्जरी ॥ ३३१ ॥ विलासमञ्जरी रूपमञ्जरीसख्यमाश्रिता । स्वकान्त्या सदृशीं चक्रे या दिव्यां स्वर्णकेतकीम् ॥ ३३२ ॥ चञ्चरीकदुकूलेयं वामा मृद्वीत्वमाश्रिता कनिष्ठा रसमञ्जर्याश्चतुर्भिर्दिवसैरियम् (१२११२६) ॥ ३३३ ॥ जीवगोस्वामितां प्राप्ता कलौ गौररसे त्वसौ ॥ ३३४ ॥ अस्या मन्त्रोद्धारो यथा किशोरीतन्त्रे श्रिया प्रचेतसा चैव नादबिन्द्वास्यवृत्तगा । विलासमञ्जरी ङेऽन्ता स्वाहान्तो मनुरीरितः ॥ ३३५ ॥ मन्त्रो यथाश्रीं वां विलासमञ्जर्यै स्वाहा अस्या ध्यानं यथा तत्रैव स्वर्णकेतकविनिन्दिकायकां निन्दितभ्रमरकान्तिकाम्बराम् । कृष्णपादकमलोपसेवनीम् अर्चयामि सुविलासमञ्जरीम् ॥ ३३६ ॥ नैरृते श्रीरङ्गदेवीकुञ्जात्कुञ्जोऽस्ति पश्चिमः । कौस्तूर्यानन्ददो नाम्ना तत्रास्ते कौस्तूरीमञ्जरी ॥ ३३७ ॥ काचतुल्याम्बरा चासौ शुद्धहेमाङ्गकान्तिभाक् । वयस्त्रिदशवर्षासौ वामा मृद्वीत्वमाश्रिता ॥ ३३८ ॥ श्रीकृष्णकविराजाख्यां प्राप्ता गौररसे कलौ ॥ ३३९ ॥ अस्या मन्त्रोद्धारो यथा किशोरीतन्त्रे श्रीबीजेन समायुक्ता ङेऽन्ता कौस्तूरीमञ्जरी । स्वाहान्त इति वै प्रोक्तो नवार्णमन्त्र उच्यते ॥ ३४० ॥ मन्त्रो यथा श्रीं कस्तूरीमञ्जर्यै स्वाहा । अस्या ध्यानं यथा तत्रैव विशुद्धहेमाब्जकलेवराभां काचद्युतिचारुमनोज्ञचेलाम् । श्रीराधिकाया निकटे वसन्तीं भजाम्यहं कौस्तूरीमञ्जरिकाम् ॥ ३४१ ॥ अथ वृन्दावनाधीशौ पद्मकेशरमध्यगौ । कोटिकन्दर्पलावण्यौ ध्यायेत्प्रियसखीवृतौ ॥ ३४२ ॥ उक्तवेशवयोरूपसंयुतौ सुमनोहरौ । संस्मरेत्सिद्धदेहेन साधकः साधनैर्युतः ॥ ३४३ ॥ तत्रादौ मञ्जरीरूपान् गुर्वादीन् तु स्वीयान् स्वीयान् प्रणाल्य्अनुसारेण संस्मरेत्श्रीगुरुपरमगुरुक्रमेणेति ततः श्रीराधिकां ध्यायेत् । ततः श्रीनन्दनन्दनम् । अथ युगलमन्त्रोद्धारो यथा सनत्कुमारसंहितायाम् गोपीजनवल्लभेति चरणानिति च क्रमात् । शरणं च प्रपद्ये च तत एतत्पदद्वयम् ॥ ३४४ ॥ पदत्रयात्मको मन्त्रः षोडशार्ण उदाहृतः । नमो गोपीजनेत्युक्त्वा वल्लभाभ्यां वदेत्ततः । पदद्वयात्मको मन्त्रो दशार्णः खलु कथ्यते ॥ ३४५ ॥ मन्त्रो यथागां गोपीजनवल्लभचरणान् शरणं प्रपद्ये, नमो गोपीजनवल्लभाभ्याम् । अस्य ध्यानं यथा तत्रैव अथ ध्यानं प्रवक्ष्यामि मन्त्रस्यास्य द्विजोत्तम । पीताम्बरं घनश्यामं द्विभुजं वनमालिनम् ॥ ३४६ ॥ बर्हिबर्हकृतापीशं शशिकोटिनिभाननम् । घूर्णायमाननयनं कर्णिकारावतंसिनम् ॥ ३४७ ॥ अभितश्चन्दनेनाथ मध्ये कुङ्कुमबिन्दुना । विचित्रतिलकं भाले विभृतं मण्डलाकृतिम् ॥ ३४८ ॥ तरुणादित्यसङ्काशकुण्डलाभ्यां विराजितम् । घर्माम्बुकणिकाराजद्दर्पणाभकपोलकम् ॥ ३४९ ॥ प्रियामुखे कृतापाङ्गलीलया चोन्नतभ्रुवम् । अग्रभागलसन्मुक्तास्फुरद्उच्चसुनासिकम् ॥ ३५० ॥ दशनज्योत्स्नया राजत्पक्वबिम्बफलाधरम् । केयूराङ्गदसद्रत्नमुद्रिकादिलसत्करम् ॥ ३५१ ॥ विभृतं मुरलीं वामे पाणौ पद्मं तथोत्तरे । काञ्चीदामस्फुरन्मध्यं नूपुराभ्यां लसत्पदम् ॥ ३५२ ॥ रतिकेलिरसावेशचपलं चपलेक्षणम् । हसन्तं प्रियया सार्धं हासयन्तं च तां मुहुः ॥ ३५३ ॥ इत्थं कल्पतरोर्मूले रत्नसिंहासनोपरि । वृन्दारण्ये स्मरेत्कृष्णं संस्थितं प्रियया सह ॥ ३५४ ॥ वामपार्श्वे स्थितां तस्य राधिकां च स्मरेत्ततः । सुचीननीलवसनां द्रुतहेमसमप्रभाम् ॥ ३५५ ॥ पटाञ्चलेनावृताङ्गां सस्मिताननपङ्कजाम् । कान्तवक्त्रे न्यस्तनृत्यच्चकोरीं चञ्चलेक्षणाम् ॥ ३५६ ॥ अङ्गुष्ठतर्ज्जनीभ्यां च निजप्रियमुखाम्बुजे । अर्पयन्तीं नागवल्लीं पूगचूर्णसमन्विताम् ॥ ३५७ ॥ मुक्ताहारस्फुरच्चारुपीनोन्नतपयोधराम् । क्षीणमध्यां पृथुश्रोणिं किङ्किणीजालमण्डिताम् ॥ ३५८ ॥ रत्नताडङ्कमञ्जीररत्नपादाङ्गुलीयकाम् । लावण्यसारमुग्धाङ्गीं सर्वावयवसुन्दरीम् ॥ ३५९ ॥ आनन्दरससम्मग्नां प्रसन्नां नवयौवनम् । सख्यश्च तस्या विप्रेन्द्र तत्समानवयोगुणाः । तत्सेवनपरा भाव्याश्चामरव्यजनादिभिः ॥ ३६० ॥ अथ च दीव्यद्वृन्दारण्यकल्पद्रुमाधः श्रीमद्रत्नागारसिंहासनस्थौ । श्रीमद्राधाश्रीलगोविन्ददेवौ प्रेष्ठालीभिः सेव्यमानौ स्मरामि ॥ ३६१ ॥ स्मरेदेवं क्रमेणैव सिद्धदेहेन साधकः । ससाधनेन पद्मस्य व्रजेशौ केशरस्थितौ ॥ ३६२ ॥