अथ प्रथमोऽध्यायः श्रीयै नमः श्रीरामचन्द्राय नमः श्रीमद्विखनसमहागुरवे नमः श्रीमद्भ्यो भृगुमरीच्यत्रिकश्यपेभ्यो नमः प्रकीर्णाधिकारः. अथ प्रथमोऽध्यायः. श्रौतस्मार्तादिकङ्कर्म निखिलंयेनसूत्रितम् । तस्मैसमस्तवेदार्थविदे विखनसेनमः ॥ १.म१ ॥ श्रुतिस्मृतिनदीपूर्णं शास्त्रकल्लोलसंकुलम् । विष्णुभक्त्युदकंशुद्धं वन्देवैखानसार्णवम् ॥ १.म२ ॥ ऋषिप्रश्योत्तरम्. ऋषय ऊचुः- ब्रह्मपुत्रमुनिश्रेष्ठ नमस्तेदेहिनांवर । त्वमेवसर्ववेत्तासित्वमेववदतांवरः ॥ १.१ ॥ ततोज्ञातुंहिविष्णोर्वै भूपरीक्षादिषुक्रमम् । इच्छामस्त्वत्प्रसादेन दीनाश्शिष्यजनाःप्रभो ॥ १.२ ॥ विस्तारज्ञोहिसर्वेषां विस्तराद्वक्तुमर्हसि । केनमार्गेणकैर्मन्त्रैःकं देवंपूजयन्नरः ॥ १.३ ॥ कान्लोकान्समवाप्नोति तत्त्वमेतद्वदस्वनः । भृगुरुवाच- प्रणम्यदेवदेवेशं चक्रपाणिंखड्गध्वजम् ॥ १.४ ॥ विस्तारेणप्रवक्ष्यामि श्रुणुध्वंसुसमाहिताः । मुहूर्तविचारः सर्वारंभेप्रशस्तंस्यादादित्येचोत्तरस्थते ॥ १.५ ॥ अप्रशस्तमितिख्यात मयनेदक्षिणेतथा । पुष्यमासादिषण्मासा देवानान्तुदिवास्मृताः ॥ १.६ ॥ यस्मिन्मासेकृतंसर्वं विवृद्ध्यर्थमितिस्मृतम् । रात्रिराषाडमासादि रयुक्तस्सर्वकर्मसु ॥ १.७ ॥ प्रथमाचद्वितीयाच तृतीयापञ्चमीतथा । षष्ठीचसप्तमीचापि दशम्येकादशीतथा ॥ १.८ ॥ त्रयोदशीचतिथयः पौर्णमासीशुभास्स्मताः । प्राजापत्याश्वयुक्चौम्य तिष्यपौष्णत्रिरुत्तराः ॥ १.९ ॥ मैत्रादित्यमघास्वाती हस्ताश्चश्रवणंशुभाः । राशयश्चरवर्ज्यास्स्युरुभीतच्छोभनंस्थिरम् ॥ १.१० ॥ गुरुभार्गवसौम्येन्दु वाराश्श्रेष्ठतमास्मृता । एषामंशश्चद्रेक्काणहोरादर्शनमिष्यते ॥ १.११ ॥ एषामेवोदयंशस्तं तत्रसोमोदयंविना । क्रूरेचतुष्यनक्षत्रे व्याधिपीडांकरोतिहि ॥ १.१२ ॥ सूर्यसौरिश्चसौम्यश्चत्रिषडायस्थिताश्शुभाः । तधैवलग्नगाःकुर्युर्व्याधिशोकभयानितु.॥ १.१३ ॥ अष्टमस्थाग्रहास्सर्वे कर्तुःकुर्वन्तिदुस्थितिम् । एकादशगतास्सर्वे क्षेमारोग्यकरास्मृताः ॥ १.१४ ॥ भयकृद्भार्गवःप्रोक्तोद्विसप्तदशमस्थितः । द्विसप्तपञ्चनवम स्थितोजीवस्सुशोभनः ॥ १.१५ ॥ राष्ट्रस्ययजमानस्य महत्सौख्यङ्करोतिहि । सूर्यवारेशुभोविष्णु हस्तपौष्णत्रिरुत्तराः ॥ १.१६ ॥ मन्दवारेशुभौप्रोक्ता ब्राह्मस्वात्यौचतत्तथा । वर्जयेद्बुधवारेण हस्तमाश्वयुजन्तथा ॥ १.१७ ॥ गुरुवारेण वर्ज्यौतु तथासौम्योत्तरा उभौ । श्रवणञ्चैवपुष्यञ्च शुक्रवारेणवर्जयेत् ॥ १.१८ ॥ उत्तराषाढानक्षत्रं सोमवारेतु शोभनम् । द्वितीयाबुधयुक्ताच षष्ठीजीवसमायुता ॥ १.१९ ॥ सोम एकावशीयुक्तः करोतिप्राणसंशयम् । पौष्णस्तुसप्तमीयुक्तो दहत्यग्निरिवप्रजाः ॥ १.२० ॥ काणस्तूणान्धनक्षत्र गुरुविषीर्विवर्जयेत् । भूमिकंपेदिशान्दाहे दुर्दिनेचण्डमारुते ॥ १.२१ ॥ अशनिध्वनियोगेच निन्दितन्दिवसंस्मृतं । अयनेविषुवेचैव संत्याजङ्ग्रहणीतथा ॥ १.२२ ॥ षडशीतिमुघेवापि कृतंवास्तुविनश्यति । एवंपरीक्ष्यकर्तव्य मिच्छेच्चेच्छ्रेय आत्मनः ॥ १.२२:१ ॥ कर्णादिप्रतिष्ठान्तं कर्मकुर्याद्विचक्षणः । अथभूमिंपरीक्ष्यैव पूर्वङ्कर्षणमारभेत् ॥ १.२३ ॥ भूपरीक्षा श्वेतातुब्राह्मणीभूमी दक्तातु क्षत्रियातथा । पीतातुवैश्याकृष्णातु शूद्राभूमिरुदाहृता ॥ १.२४ ॥ मोक्षदाब्राह्मणीप्रोक्ता क्षत्रियाविजयप्रदा । वैश्यातुधनदाभूमि श्शूद्रापुत्रसमृद्धिदा ॥ १.२५ ॥ प्रतिलोमादिभिर्जुष्टां वल्मीकाढ्यञ्चवर्जयेत् । हस्तमात्रङ्खनित्वातु पूरयेत्तत्तुपांसुना ॥ १.२६ ॥ अधिकेपुष्कलाभूमिर्न्यूनेवर्ज्यासमेसमा । गुप्तन्त्रिरात्रेंऽकुरति ग्राह्यभूमिस्तुनान्यथा ॥ १.२७ ॥ पद्मङ्कुंभस्थतोयेन पूरितेतत्कृतावले । मुख्यंप्रदक्षिणावर्त मुदकंशास्तबुद्बुदः ॥ १.२८ ॥ सव्यावर्तन्तथानेष्ट मुदकंबहुबुद्बुदः । उत्तानपद्मकङ्ग्राह्यं नत्वधोमुखपद्मकम् ॥ १.२९ ॥ एवंपरीक्ष्यगृह्णीयात्पुण्याहमपिवाचयेत् । एवंपरीक्ष्यबहुधा कुर्यात्कर्षणमुत्तमम् ॥ १.३० ॥ कर्षणम् श्वेतौ वाकपिलौ वाथ नाङ्गङईनौवृषौतथा । अथवानान्यवर्णौ वा अरोगौबलशालिनौ ॥ १.३१ ॥ क्षीरवृक्षयुगंबद्ध्वा शमीवृक्षयुतन्तथा । असनङ्खदिरंवाथ हलङ्कृत्वासनेहकं ॥ १.३२ ॥ यन्त्रयित्वायुगेनाथ गोवालकृतरज्जुना । तस्यपश्चिमदेशेतु प्रपाङ्कृत्वाविधानतः ॥ १.३३ ॥ धान्यपीठानिकृत्वैव त्रिवेदिसहितङ्क्रमात् । पुर्वन्देवेशमभ्यर्च्य चक्रंपश्चात्समर्चयेत् ॥ १.३४ ॥ विष्वक्चेनञ्चगरुडं समभ्यर्च्यनिवेदयेत् । वास्तुयज्ञञ्चहुत्वातु पुण्याहमपिवाचयेत् ॥ १.३५ ॥ तोयधारांपुरस्कृत्य प्रादक्षिण्यवशेनतु । अचार्योऽहतवस्त्रेण चोत्तरीयाङ्गुलीयकै ॥ १.३६ ॥ अलङ्कृत्यविधानेन श्वेतमाल्यानुलेपनैः । समादायवृषन्तत्र "त्वंवृषभ"इतिब्रुवन्.॥ १.३७ ॥ वृषभन्दक्षिणेयोज्य"सौरभेय"इतिब्रुवन् । ततस्संयोजयेत्पश्चाद्बलीवर्दैबलान्विता ॥ १.३८ ॥ "युगंयुगश्रुङ्गम्"इतियोजयेच्चहलंपुनः । "ऋषिङ्गृह्णा"मितिमन्त्रेण ऋषिंसम्यक्प्रगृह्यच ॥ १.३९ ॥ "विष्णुर्मांरक्षऽऽत्वितिच स्वात्मरक्षांसमाचरेत् । "येऽस्मिन्देशेजीवन्त"इत्याश्रितांश्चविसर्जयेत् ॥ १.४० ॥ "हलकृष्टेऽऽतिमन्त्रेण दारयेत्तामिलांशुभाम् । कर्षयेद्वैष्णवैर्मन्त्रैः प्रागुदक्पृवणांमहीम् ॥ १.४१ ॥ ततःकर्षकमाहूय सर्वत्रैवतुकर्षयेत् । अयार्यंपूजयित्वातु तथैवसहलौवृषौ ॥ १.४२ ॥ प्रथमङ्कर्षणं कृत्वा द्वितीयं कर्षणञ्चरेत् । बीजंसर्वंसमादाय प्रोक्षणैःप्राक्षणञ्चरेत् ॥ १.४३ ॥ "इमेबीजाःप्ररोऽऽहेति सप्तग्राम्याण्यतःपरम् । वापयित्वातुबीजानि "देवित्वयि"समुच्चरन् ॥ १.४४ ॥ "दुहतांुहदिव"मित्युक्त्वातो यन्तत्रसमर्पयेत् । रक्षांसम्यग्विधायात्र चाचार्यमभिपूजयेत् ॥ १.४५ ॥ "सस्या"इमेतिमन्त्रेण सस्यंपक्वंप्रणम्यच । विष्वक्चेनादिभिर्मन्त्रैश्शान्तञ्चापिसमर्चयेत् ॥ १.४६ ॥ "शुद्धा"इमेतिमन्त्रेण गोभ्यस्सम्यङ्निवेदयेत् ॥ १.४७ ॥ इति श्रीवैखानसे भगवच्छास्त्रे भृगुप्रोक्तायां संहितायां प्रकीर्णाधिकारे प्रथमोऽध्यायः. _____________________________________________________________ अथ द्वितीयोऽध्यायः अथद्वितीयोऽध्यायः. शङ्कुस्थापनम् अतःपरंप्रवक्ष्यामि शङ्कुस्थापनमुत्तमम् । मेषन्तथैववृषभङ्गते सूर्येदिनेतथा ॥ २.१ ॥ कृत्वासमतलांभूमिं गोमयेनतुलेवयेत् । तद्बहिभ्रामयेत्सू त्रद्वयन्तेनै वमानतः ॥ २.२ ॥ प्राचीसाधनम् पूर्वाह्णेचापराह्णेच शङ्कुछायान्तुलाञ्छयेत् । ततस्सूत्रत्रयंवाथपाति येच्छङ्कुमथ्यमे ॥ २.३ ॥ भ्रामयेदधिकेर्ऽषन्तु न्यूनेतावद्विवर्धयेत् । प्राचीन्तत्सूत्रमानेन मध्यमेनै वकल्बयेत् ॥ २.४ ॥ उदक्सूत्रंभवेत्तत्र कृत्वातुचतुरश्रकम् । पञ्चगव्येनसंप्रोक्ष्य पुण्याहमपिवाचयेत् ॥ २.५ ॥ वास्तुपद देवतापूजनम् एकाशीतिपदान्कृत्वावास्तु देवान्प्रपूजयेत् । ईशानादि समभ्यर्च्य द्वात्रिंशत्बदभागिनः ॥ २.६ ॥ ईशानञ्चैवपर्जन्यं जयस्तञ्चमहेन्द्रकम् । आदित्यंसत्यकंभृशमन्त रिक्षञ्चपूर्वगान् ॥ २.७ ॥ अग्निःपूषाचवितथ ग्रहाक्षतयमास्तथा । गन्थर्वोभृङ्गराजर्षी दक्षिणेपददेवताः ॥ २.८ ॥ पश्चिमेनिरृतिश्चैव दौवारिकस्तथैवच । सुग्रीवःपुष्पदन्तश्च वरुणश्चासुरस्तथा ॥ २.९ ॥ शोषणश्चैवरागश्चते चाष्टौकधितास्सुराः । उत्तरेजवनोनाग मुख्यौभल्लाट एवच ॥ २.१० ॥ सोमोर्ऽगलोऽदितिश्चैव सूरिदेवस्तथैवच । ब्रह्मानवपदंभुङ्कै वास्तुमध्येविशेषतः ॥ २.११ ॥ अर्यमादण्ड भृच्चैवपाशभृद्धनदस्तथा । ब्रह्मणश्चचतुर्दिक्षु स्थिताष्षट्पदभागिनः ॥ २.१२ ॥ अपश्चैवापवत्सश्च सवितासावित्र एवच । इन्द्रश्चैवतथेन्द्राजो रुद्रोरुद्राज एवच ॥ २.१३ ॥ एतेद्विपदभोक्तारो विदिक्षष्टौस्थितास्सुराः । चरकीदेवतारिश्च पूतनापापराक्षसी ॥ २.१४ ॥ ईशानादिषुकोणेषु बाह्यस्थाःपदवर्जिताः । एवं विन्यस्यदेवांन्तु वास्तु देवं प्रकल्पयेत् ॥ २.१५ ॥ वास्तुपुरुषलक्षणम्-पूजा वास्तुनश्शिर ईशानेपादौ नैरृतिकेचरेत् । हस्तौसरित्पतौज्ञेयावग्नौ बाहुरुदाहृतः ॥ २.१६ ॥ अपिकण्ठैतिप्रोक्तं हृदयञ्चापवत्सके । नाभिर्ब्रह्मणिसंख्याता कुक्षस्सवितृसंज्ञके ॥ २.१७ ॥ इन्द्रैन्द्राजके गुह्यमूरुमूलेविधानतः । पार्श्वन्तुदक्षिणं प्रोक्तंवाममेवं प्रकल्पयेत् ॥ २.१८ ॥ शेतेवास्तुभुवं प्राप्यवास्तुदेवस्त्वधोमुखः । पुण्याहंवाचयित्वातु प्रोक्षणैःप्रोक्षणञ्चरेत् ॥ २.१९ ॥ पुष्पैर्गन्धैस्तथाधूपैर्दी पैश्चापिप्रपूजयेत् । नमस्कारैश्चसंयुक्तैः प्रणवाद्यैस्स्वनामभिः ॥ २.२० ॥ शल्यपरीक्षा पूजनान्तेस्पृशेत्कर्ता यमङ्गन्तन्निरीक्षयेत् । वास्तुदेहेऽपितत्रैवशल्यं ब्रूयाद्यथार्थतः ॥ २.२१ ॥ अस्तिशल्यंशिरस्स्पर्शे तद्धस्तद्वयमानतः । कण्ठस्पर्शेगलेचैव हस्तमात्रेसमादिशेत् ॥ २.२२ ॥ उपस्पर्शात्त्रिभिर्हास्तै श्श्रुङ्खलाशल्यमादिशेत् । हस्तमात्रैकरस्पर्शात्खट्यापादंसमादिशेत् ॥ २.२३ ॥ बहुसंस्पर्शनात्कर्तु रङ्गारस्तुत्रिहस्ततः । गुल्भैसर्पादिभिर्दुष्टं वितस्तिद्वयमानतः ॥ २.२४ ॥ पादेकण्टकमित्युक्तं षड्वितस्तिप्रमाणतः । कनिष्ठाङ्गुष्ठयोस्स्पृर्शाद्धस्तन्तत्रसमाचरेत् ॥ २.२५ ॥ व्ययाधिकेचतुर्हास्ते जानुस्पर्शात्ततःपरम् । शल्यंविशोध्यभूमिन्तां तलङ्कृत्वासमानतः ॥ २.२६ ॥ पञ्चगव्येनसंप्रोक्ष्य वास्तुदेवान्प्रपूजयेत् । वास्तुदेवताबलिः द्रोणन्द्रोणार्थकंवापितण्डुलान्पाचयेत्ततः ॥ २.२७ ॥ दधिगुडाज्यसंयुक्तं सर्वेषाञ्चबलिन्ददेत् । ब्रह्मदीनांनमोस्तंवा स्वाहास्तंवाबलिर्भवेत् ॥ २.२८ ॥ कृत्वातु बलिदानञ्च पुण्याहमपिवाचयेत् ॥ २.२९ ॥ इतिश्रीवैखानसे भगवच्छास्त्रे भृगुप्रोक्तायां संहितायां प्रकीर्णाधिकारे द्वितीयोऽध्यायः _____________________________________________________________ अथ तृतीयोऽध्यायः अथ तृतीयोऽध्यायः विमानभेदाः अथविन्यासरूपाणि प्रवक्षन्तेयथाक्रमम् । श्रीवत्संप्रथमंप्रोक्तं नन्द्यावर्तन्द्वितीयकम् ॥ ३.१ ॥ तृतीयंस्वस्तिकंविन्द्याच्चतुर्थंभद्रकंस्मृतम् । दण्डकंपञ्चमन्त्वाहुर्वेदिकंषष्ठमुच्यते ॥ ३.२ ॥ कुंभकंसप्तमंविन्द्या दष्टमंपद्मकन्तथा । नवमंस्याद्रथपदं दशमन्तुप्रकीर्णकम् ॥ ३.३ ॥ एतेषामाकृतिंवक्ष्ये यथावदनुपूर्वशः । न्यत्रदण्डकात्सर्वं बहिर्वीधीसमन्वितम् ॥ ३.४ ॥ तस्यचास्तगन्तैश्चिह्नैश्श्रीवत्साद्यंविधीयते । एकप्राचीनवीधीक मुदीचीनान्यवीथिकम् ॥ ३.५ ॥ श्रीवत्समितिविज्ञेयं सर्वविद्यासमंमतम् । मध्येकोणं चतुर्द्वारं प्रागीशादिप्रदक्षिणम् ॥ ३.६ ॥ तन्निगन्तोजवीथीकं नन्द्यावर्तमितिस्मृतम् । स्वस्तिकन्त्वोजवीथ्यन्तं भद्रंमध्यप्रतोलिकम् ॥ ३.७ ॥ एकप्राचीनकन्दण्डं चतुरश्रन्तुवेदिकम् । वृत्तङ्कुंभकमुद्दिष्टं पद्मकंस्याद्द्विवेदिकम् ॥ ३.८ ॥ ब्रह्मकोशाष्टकद्वारवीथीरथपदाकृतिः । प्रागुदक्प्रवणञ्चैव प्रकीर्णकमुदाहृतम् ॥ ३.९ ॥ द्विद्वारंवाचतुद्वान्रं मनस्तोयुक्तितोभवेत् । अयुक्तद्वारदेवस्य भजनंनाभिधीयते ॥ ३.१० ॥ दण्डकस्तेनमानेन योनिग्रहणमुच्यते । शरीरमङ्गंप्रत्यङ्गं ज्ञात्वायोनिंप्रकल्पयेत् ॥ ३.११ ॥ ग्रामंशरीरमङ्गंस्स्याद्देवद्विजपरिग्रहम् । प्रत्यङ्गमङ्गंसंवृत्तं विमानभवनादिकम् ॥ ३.१२ ॥ दण्डेनपूर्वयोर्वादं हस्तेनान्यत्रधीयते । दण्डेविस्तारमायाम मेकैकङ्गुणयेत्त्रिभिः ॥ ३.१३ ॥ एकैकंषष्टिभिहिन्त्वा शिष्टंयोनिंसमादिशेत् । हस्तेनद्वयसंसर्गे त्रिगुणंवसुभिहन्रेत् ॥ ३.१४ ॥ शेषंयोनिंविजानियाद्ध्वजधूमादिकङ्क्रमात् । सर्वत्रकल्पयेद्योनिं तयोर्वर्गफलेनवा ॥ ३.१५ ॥ योनेर्महादिशाश्रेष्ठा दिविसप्तत्रिगहिन्ता । प्रवीणञ्चतुरश्रंस्याच्चेषाणामायतंविदुः ॥ ३.१६ ॥ अष्टषट्चतुरंशास्स्यु रितरेषांयथाक्रमम् । एवमायामयोगस्तु प्रत्यङ्गस्यैवकल्पयेत् ॥ ३.१७ ॥ अङ्गेद्विगुणमायामं पादन्यूनमधाधिकम् । अर्धंनवाहयेन्न्यून मधिकन्तुविधीयते ॥ ३.१८ ॥ आत्मावास्तुशरीरस्य विस्तारादधिकंविदुः । पादायामशिखावापि द्विगुणंवाविशेषतः ॥ ३.१९ ॥ समंवासर्वतःकुर्याच्चरीरन्दण्डकादृते । वर्धयेदधिकायामं दण्डषोडशकेनवा ॥ ३.२० ॥ दण्डे अष्टगुणङ्कुर्या दायामंयुक्तितोऽथवा । अङ्गमागमविस्तारो दण्डभेदोऽपियोज्यते ॥ ३.२१ ॥ अन्यत्रदण्डनेछिन्द्याच्चरेषुतुविशेषतः । पातंविस्तारसूत्रेषु विदुस्सूत्रद्वयेऽपिवा ॥ ३.२२ ॥ कण्ठसूत्रद्वयेवापि प्रत्यङ्गेनैव कारयेत् । विधिभेदन्तुकर्तव्यं ब्रह्मभागेविशेषतः ॥ ३.२३ ॥ एवङ्क्रमेण शास्त्रज्ञश्शरीरं संप्रकल्पयेत् ॥ ३.२४ ॥ विष्णुस्थापनम् सहस्रभूसुरादूर्ध्वे ब्रह्मांशेवायुदेशके । पञ्चमूर्तिविधानेन स्थापयित्वा जनार्धनम् ॥ ३.२५ ॥ वैखानसै महाभागैर्वैदिकार्चनतत्परैः । वेदान्तवेदिभिर्विप्रैरञ्चयेत्पुरुषोत्तमम् ॥ ३.२६ ॥ शङ्करादि स्थापनमीशान ईश्वरञ्चैव सोमेशानावथापिवा । पश्चिमेकेशवस्थान मैशान्यांशङ्करालयम् ॥ ३.२७ ॥ अनुकल्पंविकल्पञ्च कल्पञ्चैवत्रिधाभवेत् । भूपरीक्षादियत्कर्म अनुकल्पमितिस्मृतम् ॥ ३.२८ ॥ देवादीनांमुनीनाञ्च कल्पयेत्तुविकल्पकम् । गभेन्मृदालयेयत्र प्रतिष्ठायान्तुकल्पकम् ॥ ३.२९ ॥ एवन्देशंविनिश्चित्य मूलस्थानञ्चनिर्दिशेत् । निर्मितेऽत्रविमानस्यचो त्सेधार्थंसमन्तुवा ॥ ३.३० ॥ जलास्तंवाशिलान्तं वाखानयेदुचितंसुधीः । विस्तारायामसीमान्ताद्बाह्येखात्वादृढायच ॥ ३.३१ ॥ एकहस्तन्द्विहस्तंवा त्रिहस्तंवाधिकङ्क्रमात् । वालुकैर्विश्वतःपूर्य दृढीकरणमादिशेत् ॥ ३.३२ ॥ बालालयन्तुशक्तानामशक्तानांविनाभवेत् । ध्रुवार्चायाःप्रतिष्ठाचे द्बालागारंनकल्पयेत् ॥ ३.३३ ॥ इति श्रीवैखानसे भगवच्छास्त्रे भृगुप्रोक्तायां संहितायां प्रकीर्णाधिकारे तृतीयोऽध्यायः _____________________________________________________________ अथ चतुर्थोऽध्यायः. अथचतुर्थोऽध्यायः. अद्येष्टका स्थापनम्. अथातस्संप्रवक्ष्यामि वास्तुनःप्रथमेष्टकाम् । साधयित्वापूर्वरात्रौ चतस्रःप्रथमेष्टकाः ॥ ४.१ ॥ शिलायांमृण्मयेवाथ कुर्याल्लक्षणसंयुताः । शैलादोषविनिर्मुक्तास्सुपक्वा अथमृण्मयाः ॥ ४.२ ॥ विस्तारेणेष्टकाःप्रोक्ता षट्पञ्चचतुरङ्गुलाः । उत्तमादिक्रियादेव विस्तारद्विगुणायताः ॥ ४.३ ॥ विस्तारार्थङ्घनंप्रोक्त मिष्टकानांप्रमाणतः । आलयाभिमुखेचैव प्रपाङ्कृत्वाविचक्षणः ॥ ४.४ ॥ तन्मध्येवेदिकाङ्कृत्वा हस्तमात्रप्रमाणतः । विस्तारन्तत्समञ्चौन मुत्सेथन्तुतदर्धकम् ॥ ४.५ ॥ सभ्याग्निं विधिवत्कृत्वातु विधिनाघोरमाचरेत् । भूमियज्ञञ्चकृत्वातु कलशैस्सप्तभिःक्रमात् ॥ ४.६ ॥ संस्नाप्यनववस्त्रेण चाच्छाद्यशयनोपरि । कौतुकंबन्धयित्वातु शयनेशाययेत्ततः ॥ ४.७ ॥ हुत्वातुपौरुषंसूक्तं विष्णुसूक्तमतःपरम् । चतुर्वेदादिमन्त्रांश्च श्रीभूसूक्तेयजेत्क्रमात् ॥ ४.८ ॥ इष्टकावाशिलावाथ तन्नामाद्यक्षरंस्मरेत् । नृत्तैगेन्यैश्चवाद्यैश्चरात्रिशेषंनयेत्क्रमात् ॥ ४.९ ॥ प्रभातेपूजयेत्पूर्वमाचार्यंशिल्पिभिस्सह । आचार्योमन्त्रयोग्यस्तु शिल्पिभिःकर्मयोग्यकैः ॥ ४.१० ॥ द्वारस्यदक्षिणेपाशेन्व्स्थानमस्यप्रशस्यते । सुमुहूर्तेन्यसेद्विद्वानिष्टकांश्चतुरःक्रमात् ॥ ४.११ ॥ विन्यासेतुचतुर्दिक्षु चतुर्वेदादिमस्त्रतः । तेषांमध्येतदागर्ते पूरयेदुदकेनतु ॥ ४.१२ ॥ तत्रैवनवरत्नानि विल्यसेदनुपूर्वशः । गभन्न्यासविधिः अथवक्ष्येविशेषेण गभन्न्यासविधिक्रमम् ॥ ४.१३ ॥ प्रासादोगभन्संयुक्तः कुरुतेसर्वसंपदम् । तस्मादादौप्रकर्तव्यः गभन्न्यासस्समृद्धिदः ॥ ४.१४ ॥ त्रयःप्रासादमूलेस्यात्पूर्वन्तुप्रथमेष्टके । उपानोपरिमध्यंस्यात्प्रतेरुपरिचान्ततः ॥ ४.१५ ॥ भूगतंशूद्रजातीना मुपानेनृपवैश्ययोः । प्रतेरुपरिविप्राणा मानुलोम्येनकारयेत् ॥ ४.१६ ॥ सर्वेषांभूगतङ्कार्यं सर्वसिद्धिकरंशुभम् । ऐन्द्रपावकयोर्मध्ये प्राग्द्वारेषुप्रकल्पयेत् ॥ ४.१७ ॥ द्वारस्यदक्षिणेकुर्यात्पश्चिमैपितधैवहि । कवाटार्गलयोगेवान्य स्तव्यङ्गभन्भायनम् ॥ ४.१८ ॥ फेला तथाताम्रमयीफेला स्फाटिकावाप्रशस्यते । पादविष्कंभविस्तारां फेलान्तत्त्वपदाञ्चितां ॥ ४.१९ ॥ खण्डस्फुटितवजान्य्सा ........ । घनंविंशतिभागैकं तदर्धार्धांशमेववा ॥ ४.२० ॥ विस्तारस्यचतुभान्गं कोष्ठभित्त्युच्छ्रयंभवेत् । उत्तमन्तुसमोत्सेधं त्रिपादंमध्यमंस्मृतं ॥ ४.२१ ॥ अथमञ्चार्धमुत्सेधं त्रिविधन्तत्प्रचक्षते । त्रिभागैकविधानंस्याद्द्विभागंभागिकंभवेत् ॥ ४.२२ ॥ अन्तरेचांगुलायामं तदर्धंभिन्नत्तिकम् । संयोगार्धविहीनंस्याद्विधानेऽभ्यन्तरेतथा ॥ ४.२३ ॥ प्रक्षाल्यपञ्चगव्येन विशुद्धङ्गभन्भाजनम् । आलयात्प्रमुखेचैव मण्टपेसमलङ्कृते ॥ ४.२४ ॥ गोमयेनोपलिप्यैव पुण्याहंवाचयेत्ततः । रक्तबीजानिधातूंश्च सन्न्यसेन्मस्त्रवित्तमः ॥ ४.२५ ॥ वैष्णवंविष्णुसूक्तञ्च पौरुषंसूक्तमुच्चरन् । "विष्णुर्योनिऽमित्युक्त्वातु गभंन्त्रनिधापयेत् ॥ ४.२६ ॥ इतिश्रीवैखानसे भगवच्छास्त्रेभृगुप्रोक्तायां संहितायां प्रकीर्णाधिकारे चतुर्थोऽध्यायः _____________________________________________________________ अथ पञ्चमोऽध्यायः प्रासादलक्षणम्. अथवक्ष्येविशेषेण प्रासादानान्तुलक्षणम् । प्रसादङ्कुरुतेयेन प्रासादैरतिकीर्तितम् ॥ ५.१ ॥ अङ्गुलभेदः त्रिविधन्तुसमाख्यातमङ्गुलंस्यात्प्रमाणतः । मानाङ्गुलन्तुप्रथमं मात्राङ्गुलमतःपरम् ॥ ५.२ ॥ तृतीयन्तुसमाख्यातं देहलब्धप्रमाणतः । रथरेण्वणुरष्टाभिरीक्षायू कायवास्तथा ॥ ५.३ ॥ क्रमशोऽष्टकुणैर्विद्धि मानाङ्गुलमितिस्मृतम् । मध्यमाङ्गुलिमध्यन्तु पर्यमात्राङ्गुलिंस्मृतम् ॥ ५.४ ॥ प्रतिमायाविभागेन तालगण्येन? भाजनम् । अङ्गुलन्तु समाख्यातं देहलब्धप्रमाणतः ॥ ५.५ ॥ प्रासादमण्डपानाञ्च मानाङ्गुलविधानतः । यागोपकरणानास्तु मात्राङ्गुलविधानतः ॥ ५.६ ॥ देहलब्धप्रमाणेन प्रतिमाङ्कारयेत्तथा । अङ्गुलैःकिष्कुरित्युक्तं चतुर्विंशतिभिस्तथा ॥ ५.७ ॥ पञ्चविंशतिभिश्चैव प्राजापत्यमुदाहृतम् । षड्विन्तिशधन्नुर्मुष्ठि सप्तविंशद्धनुग्रन्हः ॥ ५.८ ॥ हस्तानांलक्षणंप्रोक्तं मानाङ्गुलविधानतः । एकतलादिकल्पनम् त्रिहस्तादिसमारभ्य नवहस्तान्तमेवच ॥ ५.९ ॥ अयुग्मैरथहस्तैस्तुकुर्यादेकतलंबुधः । द्वितलन्तुततःकुर्यात्सत्रयोदशहस्तकैः ॥ ५.१० ॥ पञ्चाधिकदशैहन्स्तैप्रासादस्स्यात्त्रिभूमिकः । तलंप्रत्यधिकङ्कुर्यात्षड्ढस्तन्तुविशेषतः ॥ ५.११ ॥ आद्वादशतलादेवं कुर्याद्विस्तारमानकम् । विस्तारद्विगुणोत्सेध मुत्तमन्तुप्रचक्षते ॥ ५.१२ ॥ विस्तारंसप्तधाकृत्वा द्वादशांशन्तुमध्यमम् । एकादशांशमधमं विस्तारेसप्तधाकृते ॥ ५.१३ ॥ आद्वादशतलादेवमुत्सेधन्तुविधीयते । प्राङ्मुखोदङ्मुखैस्सूत्रैः(?) पदङ्कुर्यात्तुषोढशम् ॥ ५.१४ ॥ गभन्गेहस्समाख्यातो मध्यमन्तुचतुष्पदम् । बाह्यतोद्वादशपदं भित्त्यर्थमुपकल्पयेत् ॥ ५.१५ ॥ षड्भिष्षड्भिस्तधासूत्रैः(?) पदानांपञ्चविंशतिः । नवगभन्गृहंमथ्येभित्त्यर्थं शेषमुच्यते ॥ ५.१६ ॥ त्रिविधन्तुसमाख्यातं? प्रासादाकृतयस्तथा । नागरन्द्राविडञ्चेति वेसरञ्चत्रिधाभवेत् ॥ ५.१७ ॥ न्थूप्यन्तञ्चतुरश्रंस्यान्नागरंसमुदाहृतम् । कण्ठप्रभृतिचाष्टाश्रं प्रासादन्द्राविडंभवेत् ॥ ५.१८ ॥ कण्ठप्रभृतिवृत्तंय द्वेसरन्तत्प्रचक्षते । बेरःपूर्वंस्थितोयत्र तत्रबेरवशाद्भवेत् ॥ ५.१९ ॥ यावद्बेरन्त्रिभागैकं विस्तारंपीठमेवहि । पीठस्यत्रिगुणङ्गभंन् गर्भार्धंभित्तिरुच्यते ॥ ५.२० ॥ गभन्गेहत्रिभागैकं भित्तिंवातत्रकारयेत् । अग्रतोमण्डपङ्कुर्यात्प्रासादसमविस्तृतम् ॥ ५.२१ ॥ प्रासादस्य समायामं दशांशंमुखमण्डपम् । प्रासादस्याग्रतोद्वारं प्रकुर्याल्लक्षणान्वितम् ॥ ५.२२ ॥ व्रतेरुपरिसीमान्तं द्वारस्योत्सेधौच्यते । उत्तमन्द्वारविस्तारमुत्सेथार्धमुदाहृतम् ॥ ५.२३ ॥ उत्सेधार्ध दशांशेन हीनंमध्यममुच्यते । विंशत्यापरिहीनंस्या द्विस्तारमधमंभवेत् ॥ ५.२४ ॥ कायञ्चाप्यनुकायञ्च कुर्यादुत्सेधमानतः । भागमेकमधिष्ठानमुत्से धोवसुधाभवेत् ॥ ५.२५ ॥ पादायामोद्विभागस्स्याद्भागःप्रस्तारौच्यते । भागःकण्ठैतिप्रोक्तं द्विभासंशिखरंभवेत् ॥ ५.२६ ॥ भागस्थ्यूपिरितिख्यात मेवमुत्सेधौच्यते । काममेवंसमाख्यात मनुकायमधोच्यते ॥ ५.२७ ॥ कुर्यात्प्रासादविस्तारं चतुर्विंशतिभागिकम् । एकभागस्तुविस्तारं भागमेकन्तलन्तथा ॥ ५.२८ ॥ दशाङ्गुलंस्चाद्द्वितले त्रितलेद्वादशाङ्गुलम् । युगाङ्गुलविवृद्ध्यातु कर्तव्यंस्यात्तलंप्रति ॥ ५.२९ ॥ पादमस्यतुविष्कंभ मष्टभागंविहीनकम् । स्तंभाग्रेणैवगर्तव्य मनुकायप्रमाणतः ॥ ५.३० ॥ उपानस्यतुविष्कंभ मग्रेपादद्वयंभवेत् । अधिष्ठानन्त्रिधाकृत्वा भागोवैजगतीभवेत् ॥ ५.३१ ॥ कुमुदन्तुद्वितीयेन भागेनैवतुकारयेत् । कृत्वाशेषञ्चतंभान्ग मेकांशैनपट्चटिकाम् ॥ ५.३२ ॥ कुर्यात्सार्धेनकण्ठन्तु शेषंवाजिनमुच्यते । पादबन्धमितिख्यातं सर्वकार्येषुपूजितम् ॥ ५.३३ ॥ प्रतिक्रमंवाकर्तव्य मधिष्ठानप्रमाणतः । जगतीन्तद्वदेवाथ कुमुदंपृत्तमुच्यते ॥ ५.३४ ॥ भागेनपूर्ववत्कृत्वा चतुर्थंशेषमाचरेत् । पट्टिकेनैवकर्तव्य मेगमस्तरिकन्तथा ॥ ५.३५ ॥ द्वाभ्यांप्रतिमुखङ्कुर्यात्प्रतिक्रममिदंबवेत् । अधिष्ठानमितिख्यातं पादमानंप्रवक्ष्यते ॥ ५.३६ ॥ चतुरश्रमथाष्टाश्रं वृत्तञ्चैवत्रिधाभवेत् । कुंभयुक्तन्तथाके चित्केचित्कुंभविहीनकम् ॥ ५.३७ ॥ कैचिद्वैकुंभमणीभ्यां युक्तंपादंस्मरन्तिहि । विस्तारेणसमंवापि द्विगुणंवापिमूलतः ॥ ५.३८ ॥ चतुरश्रमधोहित्वा वृत्तमष्टाश्रमेववा । कर्तव्यन्तुयधायुक्त मथवाषोडशाश्रकम् ॥ ५.३९ ॥ पादानामाकृतिःप्रोक्ता कुंभलक्षणमुच्यते । पादाधिकमधाध्यर्थं पादोनन्द्विगुणन्तुवा ॥ ५.४० ॥ द्विगुणन्तुसमुत्सेधं पादविष्कंभमानतः । श्रीकरञ्चन्द्रकास्तञ्च सौमुख्यंप्रियदर्शनम् ॥ ५.४१ ॥ यथाक्रमेणनामानि कर्तव्यानिविशेषतः । श्रीकरंवृत्तपादानां कलाश्राणान्तथैवच ॥ ५.४२ ॥ चंन्द्रकान्तमथाष्टाश्रं सोमखण्डमितिस्मृतम् । अतिभारेषु स्तंभेषु प्रियदर्शनमुच्यते ॥ ५.४३ ॥ कृत्वानवांशकङ्कुंभं भागमेकंहृदुच्यते । कुंभञ्चतुर्भिरंशैस्तु कण्ठभागमुदाहृतम् ॥ ५.४४ ॥ आस्यमेकांशमित्युक्तं शेषङ्कुर्याद्द्विदण्डम् । एकेनपद्मकेनैव वृत्तमेकेनवातथा ॥ ५.४५ ॥ विस्तृतौ स्तंभविस्तारौ द्विगुणौकुंभमुच्यते । अध्यर्थमास्यविस्तारं हारोधामूलपादवत्? ॥ ५.४६ ॥ विस्तारमेवमुक्तंस्यान्मण्डैलन्क्षणमुच्यते । मण्डैस्त्रिपादमुत्सेधं विस्तारन्तुचतुगुन्णम् ॥ ५.४७ ॥ त्रिभागैकंभवेत्पद्मं वेत्रमेकन्तथैवच । भागावाफलकारामा वेत्रावापादरूपवत् ॥ ५.४८ ॥ पादाग्रकर्ममानेन स्कन्धङ्कुर्याद्विधानतः । स्तंभाग्रसमविस्तारं वीरकान्तन्त्रिपादतः ॥ ५.४९ ॥ तदूर्ध्वेपादताङ्कुर्याद्विस्तारंपादविस्तृतम् । समन्त्रिपादमर्धंवा बोधिकोत्सेधौच्यते ॥ ५.५० ॥ त्रिदण्डमधमायामे चतुर्दण्डन्तुमध्यमम् । उत्तमंपञ्चदण्डंस्या द्बोधिकोत्सेधौच्यते ॥ ५.५१ ॥ जगत्यन्तेकुमुदान्ते पट्टिकान्तेऽथवापुनः । जलनिर्याणमागंन्च नालनिगन्मनङ्क्रियात् ॥ ५.५२ ॥ हंसपादन्त्रिपादंवा वितस्तिर्वाविशेषतः । प्रतेबान्ह्यविनिष्क्रान्त्या नालींशैलमयीन्तथा ॥ ५.५३ ॥ गजोष्ठसदृशाकारां सिंहाकृतिमुखोत्तराम् । भूतसिंहोपमामूर्ध्वसारवाराधिकारयेत् ॥ ५.५४ ॥ द्विदण्डञ्चत्रिदण्डंवा गभन्गेहेतुवेश्मनः । बेरोदयसमंवाथ द्विगुणंवाध्यर्थमेववा ॥ ५.५५ ॥ प्रणालमूलविस्तारं त्रिभागैकाग्रविस्तरम् । व्यासत्रिभागंभागोनं बहुलन्तुत्रिभागभाम् ॥ ५.५६ ॥ वारिसंचारगंभीरतारं झझन्रलक्षणम् । अनिम्नोन्नतमाभित्ते स्तदात्यश्रङ्क्रमान्नतम् ॥ ५.५७ ॥ सर्ववाद्यसमायुक्तं तदामङ्गलवाचकैः । वास्तुहोमन्ततःकृत्वा आचार्यवूजयेत्ततः ॥ ५.५८ ॥ शिल्पिनंपूजयेत्पश्चात्सुमुहूर्तेसुलग्नके । आचार्यस्सुप्रसन्नात्मा वारुणंसूक्तमुच्चरेत् ॥ ५.५९ ॥ तक्षकस्थ्सापयेन्नालीं सुस्निग्धांसुदृढाङ्क्रमात् । बेरप्रासादगभन्स्य यावत्तालस्यचावधि ॥ ५.६० ॥ धारान्तुकेवलङ्कुर्याद्भित्तौतालस्यधीमतः? । श्रेष्ठमध्यकनिष्ठानि बेरस्यस्थापनन्त्रिधा ॥ ५.६१ ॥ धारादलसमाप्तौतु स्थापनञ्चोत्तमंभवेत् । द्वारबन्धस्यपूर्वेतु स्थापनंमध्यमंभवेत् ॥ ५.६२ ॥ मूर्धोपलस्यपूर्वेतु स्थापनंस्यात्कनीयसम् । यःकरोत्यन्यथाचास्मा दभिचारायचैवहि ॥ ५.६३ ॥ एवंनालञ्चसंस्थाप्य प्रस्तरञ्चोत्तरादिकम् । विष्कंभंपादविस्तार मुत्सेधन्त्रिविधंभवेत् ॥ ५.६४ ॥ उत्तमन्तुसमोत्सेधं त्रिपादंमध्यमंभवेत् । अधमञ्चार्धमुत्सेध मुत्तमंस्याद्विधानतः ॥ ५.६५ ॥ स्तंभाग्रैकत्रिभागैकं तस्योर्ध्वेपट्टिकाभवेत् । तत्समंनिगन्मंप्रोक्तं पट्टिकालक्षणन्त्विदम् ॥ ५.६६ ॥ द्विभागेनतदूर्ध्वेतु कर्तव्यंपद्मपट्टिकम् । द्विदण्डन्तुकपोतंस्या दुपानसमनिगन्मम् ॥ ५.६७ ॥ शेषंप्रस्तारमानन्तु कर्तव्यंपञ्चभागिकम् । एकेनपट्टिकाङ्कुर्यात्कण्ठमेकेनकारयेत् ॥ ५.६८ ॥ द्वाभ्यान्तदूर्ध्वे कर्तव्यमेकांशेनतुपट्टिकाम् । एवंप्रस्तारमाख्यातं तोरणंवक्ष्यतेऽथुना ॥ ५.६९ ॥ पाश्वन्योःपृष्ठतश्चापि कर्तव्यन्तो रणन्तथा । प्रतेरुत्तरसीमान्ते तोरणस्याश्रयोभवेत् ॥ ५.७० ॥ विस्तारन्तुतदर्धंस्या द्विस्तारंपञ्चभागिकम् । मकरांशन्त्रियंशेन शेषंपादमितिस्मृतम् ॥ ५.७१ ॥ पादान्तराग्रमधवाविस्तारन्तोरणस्यतु । पूर्वोक्तमेवकर्तव्यं मकरांशप्रमाणतः ॥ ५.७२ ॥ प्रमाणन्तो रणस्योक्तं नासिकायास्तुलक्षणम् । वक्ष्यतेतुप्रमाणेन यथाशास्त्रविनिश्चितम् ॥ ५.७३ ॥ गभन्गेहार्धविस्तारं महानासीतिकीर्त्यते । निगन्मन्तुतदर्धंस्यात्त्रिपादंसममेवचा ॥ ५.७४ ॥ शिखरेषु चतुर्धिक्षु कुर्यादेकान्तुनासिकाम् । विस्तारन्तुतदर्धंस्यात्क पोतेष्वष्टनासिकाः ॥ ५.७५ ॥ कूटस्यलक्षणंप्रोक्तं कूटशालंविधीयते । कृत्वाप्रासादषड्भागमेकभागंविधीयते ॥ ५.७६ ॥ भागेनकूटशालं स्याद्भागार्धंपञ्चमंभवेत् । चतुर्गुणंभवेत्कूयं शालास्याद्गोपुराकृतिः ॥ ५.७७ ॥ शालाविस्तारमानेन पाश्वन्योनान्सिकाभवेत् । एकनासिकयायुक्तं पञ्जरंसमुदाहृतम् ॥ ५.७८ ॥ ततःकण्ठार्धमानेन शिखरंवर्धयेत्ततः । कण्ठाद्द्विदण्डमित्युक्तं शिखरस्यतुनिगन्मम् ॥ ५.७९ ॥ निगन्माद्वर्तनाद्बाह्ये वर्धनन्तुतदर्धकम् । स्थूपिङ्कुभसमायुक्तं कुर्याद्दण्डंविधानतः ॥ ५.८० ॥ विस्तारन्तत्प्रमाणेन शिखरन्तत्रचोच्यतं । तदूर्ध्वेकण्ठमित्युक्तं फलकाचतदूर्ध्वतः ॥ ५.८१ ॥ क्रमेणकृशतां कुर्याद्यानदन्तस्तुमाक्ष्मतः इति श्रीवैखानसे भगवच्छास्त्रे भृगुप्रोक्तायां संहितायां प्रकीर्णाधिकारे पञ्चमोऽध्यायः _____________________________________________________________ अथ षष्ठोऽध्यायः. अथषष्ठोऽध्यायः मूधेन्ष्टकाविधिः अथवक्ष्येविशेषेण क्रमंमूर्धेष्टकाविधेः । प्रमुखेयागशालाञ्च कृत्वाचैवविचक्षण ॥ ६.१ ॥ मध्येवेदिंप्रकल्प्यैव स्थूपिकीलप्रमाणतः । सभ्यंप्रकल्प्यचप्राच्या माघारंविधिवद्यजेत् ॥ ६.२ ॥ वेदिमध्येन्यसेद्विद्वान् सुस्निग्धानिर्व्रणादृढाः । वैष्णवञ्चजपित्वैवचतस्रश्चेष्टकाःक्रमात् ॥ ६.३ ॥ किञ्चिदग्रंभवेन्निम्नं मूलेवैकिञ्चिदुन्नतम् । अधोभागेभवेत्पृष्ट मूर्ध्वभागेमुखंभवेत् ॥ ६.४ ॥ शालिपिष्टमयेनाथ लेखयेदक्षराणितु । यकारंपूर्वतोलेख्य रकारन्दक्षिणेन्यसेत् ॥ ६.५ ॥ लकारंपश्चिमेलेख्यवकारे चोत्तरेलिखेत् । लोहजान्दारुजांवाथ स्थूपिन्तत्रन्यसेद्बुधः ॥ ६.६ ॥ पादायामसमन्दीघंन् विस्तारंपादसम्मितम् । अग्रमङ्गुलविस्तार मानुपूर्व्यात्कृशन्तथा ॥ ६.७ ॥ चतुरश्रंभवेन्मूलं त्रिभागै कंसमंयथा । वृत्तन्तदूर्ध्वतःकुर्याच्छीलीपादमधोन्यसेत् ॥ ६.८ ॥ विस्तारत्रिगुणायामं विस्तारसमविस्तरं । तद्द्वयेनसमायोज्य नमंशूलंस्थितंयधा ॥ ६.९ ॥ पञ्चगव्यैस्समभ्युक्ष्य पुण्याहमपिवाचयेत् । वास्तुजोमञ्चहुत्वैव पर्यग्निकरणञ्चरेत् ॥ ६.१० ॥ मूर्धेष्टकाविधानेन होमङ्कृत्वाविचक्षणः । पुनःप्रभातेधर्मात्मा यजमानयुतोगुरुः ॥ ६.११ ॥ शिलादीन् संप्रगृह्यैव विमानेरोपयेत्तधा । पाणिभ्यांसंप्रगृह्यैव प्राङ्मुखोदङ्मुखोऽपिवा ॥ ६.१२ ॥ चतुर्वेदादिमन्त्रैश्च शिला इन्द्रादिषुन्यसेत् । ध्रुवसूक्तञ्जपित्वातु मथ्येस्थूपिंन्यसेत्तधा ॥ ६.१३ ॥ कालेशिल्पिनमाहूय पूजयित्वा विशेषतः । शिलाद्युपरिविन्यस्य दृढीकरणमाचरेत् ॥ ६.१४ ॥ पादबन्धेगलेचैव विमाने परितःक्रमात्विमानदेवाः । प्राच्यां विष्णुं प्रकुर्वीत यस्य गर्भगृहेस्थितिः ॥ ६.१५ ॥ दक्षिणेसत्यमूर्तेस्तु पश्चिमेचा च्युतस्य च । उत्तरेचानिरुद्धस्य स्थितिमेवं प्रकल्पयेत् ॥ ६.१६ ॥ गलेपुरुषमूर्तिस्तु दक्षिणे नारसिंहकः । पश्चिमे तु वराहश्च हयग्रीवस्तथोत्तरे ॥ ६.१७ ॥ सुखसनसमालुक्तं सर्वालङ्कारसंयुतम् । व्यालोद्ध्वकोणकञ्चैव वीशं वाथ मृगेश्वरम् ॥ ६.१८ ॥ वक्रतुण्डं च दुर्गां चाप्यग्रमण्डपभित्तिषु । स्थितमेवं सुसंस्थाप्य यथालाभं समर्चयेत् ॥ ६.१९ ॥ द्वारेषु द्वारपालानां स्थितिमेवं प्रकल्पयेत् । प्रासादलक्षणंप्रोक्तं मण्डपानामथोच्यते ॥ ६.२० ॥ स्तंभैष्षोडशभिर्युक्तं मण्डपं श्रीप्रतिष्ठितम् । द्वादशस्तंभसंयुक्तं बीजासनमिति स्मृतम् ॥ ६.२१ ॥ द्वात्रिंशद्गात्रसंयुक्तं जयभद्रेतिकीर्त्यते । षट्त्रिंशद्गात्रसंयुक्तं नन्द्यावर्तं सुशोभनम् ॥ ६.२२ ॥ चतुर्भिष्षष्टिभिस्त्संभैर्युक्तंश्रीभद्रकं स्मृतम् । स्तंभानां तु शतैर्युक्तं विशालमिति संज्ञितम् ॥ ६.२३ ॥ प्रासादवत्समाख्यातं प्रस्तारं तत्प्रमाणतः । वाजिनोपरि कर्तव्यं धारकस्तु कलास्तथा ॥ ६.२४ ॥ स्तंभविष्कंभमुत्सेधं चतुर्भागेनविस्तृतम् । तुलाविस्तारमानेन जयन्तीस्यात्समोन्नता ॥ ६.२५ ॥ ततो दण्डार्धबाहुल्य मनुमार्गं तदूर्ध्वतः । इष्टकाभिस्तदूर्ध्वं तु छादयेद्गल कान्वितम् ॥ ६.२६ ॥ पादाधिकमधाध्यर्धं द्विगुणं पादहीनकम् । चतुर्विधमथायामं कर्तव्यं मण्डपस्यतु ॥ ६.२७ ॥ आयामे तु यथायुक्तं स्तंभानां विधिरुच्यते । द्विहस्तं वात्रिहस्तं वा चतुर्हस्तमथापिवा ॥ ६.२८ ॥ स्तंभान्तरं प्रकर्तव्यं यथायुक्ति विशेषतः । एवङ्क्रमात्समाख्यातं प्राकारमधुनोच्यते ॥ ६.२९ ॥ पाकारं परितः कुर्यात्प्रासादस्य प्रमाणतः । प्राकारस्यतुविस्तारं तस्यदण्डमिहोच्यते ॥ ६.३० ॥ अन्तर्मण्डलमित्याहु रध्यर्धं दण्डमानतः । अन्तर्भारमितिप्रोस्तं मध्यभारं द्विदण्डत ॥ ६.३१ ॥ चतुर्दण्डप्रमाणेन युक्ता मर्यादभित्तिका । महामर्यादभित्तिस्स्यात्सप्तदण्डप्रमाणतः ॥ ६.३२ ॥ अध्यर्धद्विगुणं वापि त्रिगुणं वा चतुर्गुणम् । मुखायाममिति प्रोक्तं प्राकाराणां विशेषतः ॥ ६.३३ ॥ कपोता न्तंसमुत्सेधं भित्तिहस्तप्रमाणतः । कूटशालायुतं वापि कुर्यात्प्राकारसंयुतम् ॥ ६.३४ ॥ मूलजं तु तलोत्सेधं हस्तमेवं विधीयते । यथालाभोन्नतं वापि प्रधमावरणं स्मृतम् ॥ ६.३५ ॥ षडङ्गुलं क्रमात्कुर्यान्न्यूनप्राकारकंविदुः । जलनिर्याणमार्गं स्यात्पदान्ते तटकेऽपिवा ॥ ६.३६ ॥ प्रधमावरणद्वारं प्रमुखेकल्पयेत्तथा । द्वितीयावरणद्वारो व्यस्तश्छेन्नास्तिदूषणम् ॥ ६.३७ ॥ विमानोत्सेधतुर्यं वा पोदोनं चार्थमेव वा । पृधग्गोपुरसंयुक्त मुच्छ्रितं तु समन्तुवा ॥ ६.३८ ॥ पञ्चप्राकारमित्येवं त्रिप्राकारमथापिवा । त्रिप्राकारेषडङ्गुल्यं त्रिधाधस्तलनिम्नगम् ॥ ६.३९ ॥ प्राकारेहुच्छ्रयं विन्द्यात्कपोतान्तं तदुत्तमम् । मध्यमं चोत्करान्तेन कलशान्तं तथाधमम् ॥ ६.४० ॥ एवं प्राकारसंगेन तूत्सेधं त्रिविधं क्रमात् । उत्सेधात्पञ्चभागैकं चतुरंशकमेव वा ॥ ६.४१ ॥ षड्भागैकेन वाकुर्यात्त्रिविधं भित्तिविस्तरमथ वा । प्रासादभित्तिस्तु तत्समं भित्तिमेव च ॥ ६.४२ ॥ गर्भेऽष्टांशोच्छ्रयं श्रेष्ठं सप्तभागेद्विमध्यमम् । पञ्चभागैकमधमं बलिपीठं तथाभवेत् ॥ ६.४३ ॥ गर्भपञ्चत्रिभागैकं ... । नवांशेषट्चतुर्भागं मध्यमाधममुत्तमम् ॥ ६.४४ ॥ त्रिधा पैशाचिकं पीठाद्धस्तमात्रं क्रमाद्भवेत् । द्विहस्तान्तं त्रिहस्तान्तं चतुर्हस्तान्तमुच्यते ॥ ६.४५ ॥ अधमं मध्यमं श्रेष्ठं त्रिधा पैशाचपीठकम् । सप्तविंशतिभागैश्च सममेवं समुन्नतम् ॥ ६.४६ ॥ द्व्यंशं च पादुका ज्ञेयं चतुरंशं जनिं विदुः । त्षंशं तु कुंभमित्याहु श्चतुर्थङ्कण्ठमेव च ॥ ६.४७ ॥ षड्भागं करणेत्याहुर्द्व्यंशं वलकमेव च । चतुरंशे कपोताश्च अंशेचैवाग्रपट्टिका ॥ ६.४८ ॥ अध्यर्धं पद्मपुष्पन्तु एकार्धं पद्मपुष्पकम् । एवं सम्यग्विदित्वातु भागेभागे विनिर्दिशेत् ॥ ६.४९ ॥ इति श्रीवैखानसे भगवच्चास्त्रे भृगुप्रोक्तायां संहितायां प्रकीर्णाधिकारे षष्ठोऽध्यायः. _____________________________________________________________ अथ सप्तमोऽध्यायः. अथ सप्तमोऽध्यायः. परिवारालयलक्षणम्. अथातः परिवाराणामालयस्य च लक्षणम् । विमानात्पादहीनं वा तदर्धं वा समाचरेत् ॥ ७.१ ॥ वर्णयुक्तं ततश्श्रेष्ठं कनियोवर्णहीनकम् । सोमेशानद्वयोर्मध्ये विष्वक्सेनं प्रकल्बयेत् ॥ ७.२ ॥ द्वारस्य दक्षिणे चेन्द्र माग्नेय्यां पचनालयम् । तस्य पश्चिमदेशेतु पानीयस्थानमेवच ॥ ७.३ ॥ याम्ये शयनमुद्दिष्टं तत्पूर्वे यागमण्डपम् । ऐशान्ये पुष्पदेशन्तु दक्षिणे वस्त्रसंचयम् ॥ ७.४ ॥ ईशानसोमयोर्मध्ये स्थापनं ... तथा । इन्द्राग्न्योर्मध्यमेचैव धान्यस्थानं प्रशस्यते ॥ ७.५ ॥ सोपानमध्ये श्रीभूतमर्चयेद्बहिराननम् । पुरस्ताद्गरुडं तस्य देवाभिमुखमर्चयेत् ॥ ७.६ ॥ विमानपालान् दिक्पालान् भास्करेण समायुतम् । चक्रं ध्वजं च शङ्खं च भूतं वै भूतनायकम् ॥ ७.७ ॥ प्रथमावरणे देहुस्तत्तद्देशे समर्चयेत् । उत्सवं बलिमारभ्य अनपायिविशेषतः ॥ ७.८ ॥ अमितस्यापि तन्तत्र प्रदक्षिणमथाचरेत् । देवस्य कण्ठसीमान्तं बाह्यन्तं स्तनसम्मितम् ॥ ७.९ ॥ नाभ्यन्तं वा विशेषेण परिवारोदयं क्रमात् । धात्रादिभूतपर्यन्तं परिवारान्विशेषतः ॥ ७.१० ॥ वर्णवाहनकेत्वाद्यैर्नामनक्षत्रपूर्वकम् । मयाक्रियाधिकारे तु व्यक्तमुक्तन्तुलक्षणम् ॥ ७.११ ॥ बेरलक्षणम्-(शैलादि भेदः) अथ वक्ष्ये विशेषेण बेरलक्षणमुत्तमम् । शैलजं रत्नजं चैव धातुजं दारवं तथा ॥ ७.१२ ॥ मृण्मयं स्यात्तथैवेति पञ्चधाबेरमुच्यते । चतुर्विधं तु शैलं स्यात्सप्तधा रत्नजं तथा ॥ ७.१३ ॥ अष्टधा धातुजं प्रोक्तं दारुजं षोडशोच्यते । मृण्मयं द्विविधं प्रोक्तं क्रमाल्लक्षणमुच्यते ॥ ७.१४ ॥ शैलजलक्षणम् श्वेतं रक्तं तथा पीतं कृष्णं चैव चतुष्टयम् । शैलजं भेदमाख्यातं तस्य लक्षणमुच्यते ॥ ७.१५ ॥ गोक्षीरसन्निभाचैव शङ्खकुन्देन्दु सन्निभा । शीला श्वेता समाख्याता सा तु वश्यप्रदायिका ॥ ७.१६ ॥ जपाकुसुमसंकाशा शिला शोणितसन्निभा । बन्धूकपुष्पप्रतिमा जातिहिङ्गुलिकोपमा ॥ ७.१७ ॥ शिला रक्ता समाख्याता जयदा लक्षणान्विता । पीता सुवर्णसदृशा रजनीचूर्णसन्निभा ॥ ७.१८ ॥ शिला लक्षणसंयुक्ता धनधान्यसुखप्रदा । माषमुद्गल?संकाशा तथाजंबूफलोपमा ॥ ७.१९ ॥ भृङ्ग? मुत्पलसंकाशा प्रजावृद्धिकरास्मृता । शिला कृष्णा तु सर्वेषां सर्वसिद्धिप्रदायिका ॥ ७.२० ॥ विप्रक्षत्रियवैश्यानां शूद्राणाञ्च यधाविधि । श्वेता रक्ता तथा पीता कृष्णा चैव यथाक्रमम् ॥ ७.२१ ॥ द्विजानां च त्रिवर्णानां शिला रक्ता जयप्रदा । श्वेता मोक्षप्रदा प्रोक्ता ब्राह्मणानां विशेषतः ॥ ७.२२ ॥ एतैन्तुध्रुवबेरन्तु कारयेद्यदिभक्तितः । माणिक्यं च प्रवालं च वैदूर्यं स्भटिकं तथा ॥ ७.२३ ॥ मरतकं पुष्यरागं च नीलं चैतेषुरत्नजाः । माणिक्यं श्रीकरं प्रोक्तं प्रवालं वश्यकारकम् ॥ ७.२४ ॥ आकर्षणं तु वैढूर्यं स्फाटिकं पुत्रवृद्धिदम् । विद्वेषणं मरतकं स्तंभनं पूष्यरागकम् ॥ ७.२५ ॥ नीलं तुरमणैः कार्यं रत्नजानां फलं भवेत् । एतेषां कौतुकं कुर्या दन्येषां च विधीयते ॥ ७.२६ ॥ हैमं रैप्यं तथाताम्रं कांस्यं चैवारकूटकम् । आयसं सीसकं चैव त्रपुकं चेति धातुजम् ॥ ७.२७ ॥ हैमन्तु श्रीप्रदं प्रोक्तं रौप्यं राज्यप्रदायकम् । ताम्रं पुत्रसमद्ध्यर्थं कांस्यं विद्वेषकारकम् ॥ ७.२८ ॥ प्रोच्चारणे चारकूट मायसं क्षयकारणम् । सीसं नीरौगकरणं त्रपुरायुर्विनाशनम् ॥ ७.२९ ॥ एवं तु लोहजं प्रोक्तं ततो दारुजमुच्यते । देवदारुश्शमीवृक्षं पिप्पलं नन्दनं तथा ॥ ७.३० ॥ असनं खदिरञ्चैव वकुलं शङ्खि वातनम् । मयूरपद्मडुण्डूक कर्णिकारं तथैव च ॥ ७.३१ ॥ निबूकाञ्जनिकाचैव प्लक्षमौदुंबरं तथा । एतैर्वर्ज्यास्तु? चत्वारो द्विजातिक्रमयोगतः ॥ ७.३२ ॥ मृण्मयं द्विविधं प्रोक्तं पक्वापक्वं तथैव च । पक्वं च नाशकं चैवमपक्वं सर्वसिद्धितम् ॥ ७.३३ ॥ निमित्तदर्शनम्-(शुभनिमित्तानि) यस्मिन् देशे शिलास्तीति गच्छेन्निश्चितमानसः । प्रयाणकाले शकुना श्शुभाश्शुभ फलप्रदाः ॥ ७.३४ ॥ शुभवाक्योदकुंभास्थि गजराजद्विजोत्तमाः । चर्ममांसदधिक्षीर दुन्दभिध्वनयश्शुभाः ॥ ७.३५ ॥ (अशुभनिमित्तानि) अशोभनांस्तथावक्ष्येशपमाना यथायति । विकीर्णकेशाविप्रैक्यघृततैलाक्तदर्शनम् ॥ ७.३६ ॥ रिक्तकुंभनिरोधोक्ति तैलभाजनदर्शनम् । प्रयाणकाले नष्टास्तु विपरीतफलप्रदाः ॥ ७.३७ ॥ शुभे प्रयाणं कर्तव्यं स्थित्वा शोभनलक्षणम् । शिलां प्राप्य शुभेस्थाने वास्तुहोमं समाचरेत् ॥ ७.३८ ॥ वैष्णवं पौरुषं सूक्तं श्रीभूसूक्तं तथैव च । परिषेकं ततःकृत्वा कलशान् पञ्च सुन्यसेत् ॥ ७.३९ ॥ मृद्गन्धाक्षतजप्यांश्च सर्वौषध्युदकन्तथा । संस्थाप्याभ्यर्च्य पाद्याद्यै न्तत्तद्देवां त्समर्चयेत् ॥ ७.४० ॥ अभिषिञ्चेच्छिलां सूत्रे? मुहूर्तेकरणान्विते । अतोदेवादिमन्त्रेण शिलां छित्वाविचक्षणः ॥ ७.४१ ॥ अधोभागं मुखं तत्र शिर ऊर्ध्व प्रकल्पयेत् । पूर्वतश्चोत्तरे वाथ शिरोभागं प्रकल्पयेत् ॥ ७.४२ ॥ मुखं पृष्ठं तथापादं पार्श्वं चैव शिरस्तथा । लाञ्छयित्वा विधानेन ततस्तक्षण माचरेत् ॥ ७.४३ ॥ बाला च युवती वृद्धाज्ञातव्या लक्षणान्विता । स्निग्धा मृद्वी नता चैव बाला क्षीरस्वरातथा ॥ ७.४४ ॥ सुस्वरा का न्तिसंयुक्ता युवती सा शिला स्मृता । असिता झर्घरा रूक्षा वृद्धा या निस्स्वराशिला ॥ ७.४५ ॥ बाला क्षयप्रदा प्रोक्ता युवती सुसमृद्धिदा । कार्यनाशकरी वृद्धा ग्राह्या ज्ञात्वाशिलास्तथा ॥ ७.४६ ॥ मूर्धनस्तक्षणङ्कृत्वा शिलादोषांन्तु लक्षयेत् । शिलां प्रलिप्यक्षीरेण सर्पिषा सीसगैरिकैः ॥ ७.४७ ॥ एकरात्रोषितशिलां संप्रक्षाल्यांभसाततः । शिलादोषं परीक्ष्यैव कर्तव्यं विधिचोदितम् ॥ ७.४८ ॥ रेखाबिन्दुः कलङ्कश्च शिलादोषाः प्रकीर्तिताः । मण्डलं तु भवेत्तत्र यत्र गर्भं विनिर्दिशेत् ॥ ७.४९ ॥ सिते तु मण्डले सर्पोरक्तेतु कृकलासकम् । पीते तु मण्डले गोधा मञ्जिष्ठे दर्दुरो भवेत् ॥ ७.५० ॥ कपिले मूषिका प्रोक्तासितवर्णे तु वृश्चिकः । श्वेतरक्तविमिश्रेतु वृश्चिकश्श्वेतरक्तके ॥ ७.५१ ॥ रक्तमिश्रेतु मण्डूको मण्डलोभवेत् । सिंदूरवर्णे खद्योतः कपोते गृहगौलिका ॥ ७.५२ ॥ गुडवर्णेतु पाषाणं निस्स्वशोभे जलं भवेत् । वर्जयेद्गर्भ संयुक्तां विमलैरञ्चिन्तां तथा ॥ ७.५३ ॥ विमलं हेमकांस्याख्यं लोहाख्यं चत्रिदा स्मृतम् । परीक्ष्यैवं प्रकर्तव्यमेव मेव प्रमाणतः ॥ ७.५४ ॥ प्रासादगर्भमानं वा हस्तमानमथापि वा । प्रत्येकं त्रित्रिभेदं स्याद्द्वारमानं प्रवक्ष्यते ॥ ७.५५ ॥ द्वारादध्यर्धकं चैव द्वारात्पादाधिकं तथा । मध्यमं च कनीयस्स्याद्द्वारमेवं विधीयते ॥ ७.५६ ॥ अधमोत्तमयोर्मध्ये त्वष्टधा कारयेद्बुधः । कनीयस्त्रीणि विज्ञेयं त्रीणि मध्यमकं तथा ॥ ७.५७ ॥ त्रीणि चोत्तमकं विद्यादुत्सेधं नवथा भवेत् । स्तंभादध्यर्धकं तुङ्गमुत्तमं तु विशेषुः ॥ ७.५८ ॥ उत्तमाधमयोर्मध्ये द्वारमानेन योजयेत् । गर्भगेहसमं मध्यं त्रिपादं चाधमं भवेत् ॥ ७.५९ ॥ पादाधिकं तु विज्ञेयं श्रेष्ठमेवं विधीयते । (उत्तमाधमयोर्मध्ये द्वारमानेन योजयेत्) । हस्तमानं तधावक्ष्ये नवहस्तं तधोत्तमम् ॥ ७.६० ॥ षडङ्गुलैस्सहान्यान्तु सार्धद्विहस्तकावधि । एवमुत्सेधमानन्तु स्थावरस्य प्रशस्यते ॥ ७.६१ ॥ जङ्गमानां भवेन्नाम मूलबेरवशात्तथा । बिंबोदयं चतुर्विंशद्भागानष्टांशकं तथा ॥ ७.६२ ॥ बिंबोदयं चतुर्विंशद्भागानष्टांशकं तथा । वेदांशं तु भवेदुच्चं जङ्गमस्य प्रकीर्तितम् ॥ ७.६३ ॥ मानाङ्गुलेन सप्तादि द्विद्व्यङ्गुलविधानतः । पञ्चाशत्सवनाङ्गुल्या विधिस्सर्वोविधीयते ॥ ७.६४ ॥ मूलबेरांगुलान्मानमारभ्यैकादशांगुलम् । द्विद्व्यङ्गुलविवृद्ध्यातु सषष्टित्षङ्गुलं? भवेत् ॥ ७.६५ ॥ प्रत्येकं तु त्रिभेदं स्यादुत्तमाधममध्यतः । उत्कृष्टं नवतुङ्गं स्यान्मध्यमं नवतुङ्गकम् ॥ ७.६६ ॥ निकृष्टं तु तथा प्रोक्तं सप्तविंशतितुङ्गकम् । एतैरुत्तममानं स्यास्मध्यमं च तथैव हि ॥ ७.६७ ॥ कर्मार्चोत्सवस्नानाच्च योज्यं स्यादन्यधा नतु । अधमैस्तु भवेद्यत्र बलिबेरं विधीयते ॥ ७.६८ ॥ मात्रांगुलेन यन्मारं गृहार्चाणां तु नान्यथा ॥ ७.६९ ॥ इति श्रीवैखानसे भगवच्छास्त्रे भृगुप्रोक्तायां संहितायां प्रकीर्णाधिकारे सप्तमोऽध्यायः. _____________________________________________________________ अथाष्टमोऽध्यायः. अथाष्टमोऽध्यायः. पीठमानम् अथ पीठोदयं पश्चात्थ्सानकस्य विशेषतः । भुवङ्गस्य समं वाथ अध्यर्थं त्रिगुणं तु वा ॥ ८.१ ॥ परितः पावयोरस्य नीत्वावै भागमङ्गुलम् । ध्रुवार्चायामशेषेण षण्मानसहितं शुभम् ॥ ८.२ ॥ वक्ष्यामि देव्योर्मानं तत्कण्ठान्तं नासिकान्तकम् । हन्वस्तं बाहुसीमान्तं नाभ्यन्तं वाध कारयेत् ॥ ८.३ ॥ चतुर्धैकांशकं वापि तृतीयैकांशकं तु वा । ध्रुवार्चायां विशेषेण पीठमेवं प्रकल्पयेत् ॥ ८.४ ॥ चतुरश्रं सुवृत्तं वा दलैष्षोडशभिर्युतम् । स्थानकं चासनं वापि यानकं वा समाचरेत् ॥ ८.५ ॥ गर्भागारत्रिभागैकं चतुरश्रं त्रिमेखलम् । तस्योर्ध्ववेदिविस्तारं चतुरङ्गुलमेव हि ॥ ८.६ ॥ उत्सेधं तस्य चार्धन्तुपरितश्चतुरङ्गुलम् । विस्तारोत्सेधमानन्तु मध्येनिम्नं षडङ्गुलम् ॥ ८.७ ॥ उदीच्यान्तु प्रतीच्यान्तु वारिमार्गन्तु कारयेत् । प्राङ्मुखोदङ्मुखं सूत्रं दश सप्त समर्चयेत् ॥ ८.८ ॥ मध्ये कलापदं ब्राह्मं परितो दैविकं तथा । वैदाथिकाशीतिपदं मानुषं च तथैव च ॥ ८.९ ॥ पदं स्यात्षण्नवतिकं षष्टिःपैशाचिकं भवेत् । अर्चास्थानं तु ब्रह्मांशं त्रिधा कृत्य च दैविकम् ॥ ८.१० ॥ तथैव पश्चिमे भागे मध्ये वा स्थानकाय च । असनं वापि च तधा देवमानुषमध्यमे ॥ ८.११ ॥ शयानं मानुषे पीठे स्थापयित्वा विशेषतः । ध्रुवार्चने विशेषेण नागसूत्रान् समर्प्य च ॥ ८.१२ ॥ कोष्टमेकान पञ्चाशद्भवति ब्राह्ममन्दिरम् । दैविकं चाष्टभागन्तु मानुषं चार्त्विजं पदम् ॥ ८.१३ ॥ शेषं पैशाचमेवं स्याच्छान्तिपौष्टिकदैविकम् । ब्रह्मस्थाने विशेषण स्थापयेद्योगवीरकौ ॥ ८.१४ ॥ भोगमेव ध्रुवार्चायां देवमानुषमध्यमे । वीरकं स्थापयेद्विद्वान् पैशाचे क्रमशस्सुधीः ॥ ८.१५ ॥ ग्राममध्ये ध्रुवार्चायां स्थापयेद्भोगमेव तु । योगपीठे ध्रुवार्चा चेत्तद्ग्रामस्य विपद्भवेत् ॥ ८.१६ ॥ अन्येषां तु ध्रुवार्चायां भोगं वा योगमेव वा । आलयोद्दक्षिणे वापि वूर्वे वापि प्रपां तथा ॥ ८.१७ ॥ वेदिं तन्मध्यमे कुर्याद्बिंबाध्यर्धप्रमाणतः । सभ्याग्निकुण्डं तत्प्राच्यां स्नानवेदिं तथोत्तरे ॥ ८.१८ ॥ भूमियज्ञं च कृत्वातु पर्यग्नि प्रोक्षणं चरेत् । कलशैस्सप्तभिस्स्नाप्य वेद्यामारोपयेत्तथा ॥ ८.१९ ॥ आच्छाद्य नववस्त्रेण कौतुकं बर्धयेत्तथा । प्राक्षीरश्शाययेत्तत्र श्रीभूम्योरुभयोरपि ॥ ८.२० ॥ महाकायकृते बेरे प्रोक्षयेत्पञ्चगव्यकैः । अन्यत्सर्वक्रियां कृत्वाहौत्रशंसनमाचरेत् ॥ ८.२१ ॥ आदिमूर्त्यादि सर्वास्तमावाहनमथाचरेत् । अवाहनक्रमेणैव निरुप्याज्याहुतीर्यतेत् ॥ ८.२२ ॥ वैष्णवं पौरुषं सूक्तं विष्णुसूक्तं तथैव च । श्रीभूसूक्तं ततो हुत्वा ब्राह्मं रौद्रन्तथैवच ॥ ८.२३ ॥ नृत्तैर्गेयैश्च वाद्यैश्च रात्रिशेषं विनीय च । स्नात्वा प्रभाते त्वाचार्यो देवमुत्थाप्य चादरात् ॥ ८.२४ ॥ गर्भागारं प्रविश्यैव स्थापिते विहितेऽपि वा । न्यस्य पीठन्तु तन्मध्ये रत्नादीन्विन्यसेत्तदा ॥ ८.२५ ॥ ध्रुवसूक्तेन संस्थाप्य अतो देवादिमुच्चरन् । तत्तन्मन्त्रेण देव्यादीन् स्थापयेद्विहिते पदे ॥ ८.२६ ॥ विधिना चाष्टबन्धन्तु संयोज्यैव तु पूरयेत् । अन्तहोमं ततो हुत्वा दद्यादाचार्यदक्षिणाम् ॥ ८.२७ ॥ शिल्बिनं च समाहूय शर्करां लेपयेत्क्रमात् । शिलाप्रतिष्ठा चैवं स्याद्दारुसंग्रहणं ततः ॥ ८.२८ ॥ दारुसंग्रहणं चन्दनं खदिरं तालमसनं । रक्तचन्दनम् राजानं चिरिबिल्वञ्च अशोकं स्तिमितं तथा ॥ ८.२९ ॥ खादिरं धन्विनं चैवशिरीषं पद्मकं तथा । इत्येवमादयो वृक्षा गृह्यन्ते बेरकर्मणि ॥ ८.३० ॥ चण्डालस्थानपार्श्वे तु दुष्टप्राणिनिषेविते । मातृस्थानसमुद्बूते? श्मशाने देवमन्दिरे ॥ ८.३१ ॥ कूपवापीतटाकान्ते मुनिवासे सहालये । योगस्थानपदे धर्मशालायां मार्गमध्यमे ॥ ८.३२ ॥ प्रेतभूतालये चोरसत्त्वानां च निषेविते । प्रस्थानशलभस्थाने कल्पास्धिनिलयेऽपि च? ॥ ८.३३ ॥ सौष्टाभूतसमुद्भूतदेशे? रौणिक देशके । एवं स्थाने समुद्भूतं न गृह्णन्ति द्रुमं ततः ॥ ८.३४ ॥ पादानपावनं तर्धि मशनेर्यातिपीडनम् । असाक्षिकं सर्पनिलयं बहुवल्मीक संयुतम् ॥ ८.३५ ॥ सुजनं तरुणं रूक्षं बहुपक्षसमाकुलम् । अस्थिरं बहुचक्रं च सुशाखं चैकशाखिनम् ॥ ८.३६ ॥ कर्मान्तरगृहितं च कर्मान्तरप्रयोजनम् । एवमीदृग्विधं वृक्षं वर्जयेद्बेरकर्मणि ॥ ८.३७ ॥ आमूलाग्रं समं वृत्तमृजुं चैव प्रदक्षिणम् । विस्तारयामसंपन्नं शुभायैव समायुतम् ॥ ८.३८ ॥ सुमध्यवयसोपेतं कालपुष्पफलप्रदम् । ईदृग्विधं महावृक्षं शूलार्थं परिगृह्णते ॥ ८.३९ ॥ एवं लक्षण संपन्नं द्रुमं गत्वा प्रसन्नधीः । तन्मूले गोमयेनापि लेपयेच्चतुरश्रकम् ॥ ८.४० ॥ दिव्यलक्षणसंयुक्तं द्रुमं कृत्वा प्रदक्षिणम् । "वनराजेभ्यऽ इत्युक्त्वापायसं च बलिं ददेत् ॥ ८.४१ ॥ परशं च समादाय सेचयेत्पञ्चगव्यकैः । मूलमन्त्रं जपित्वा तु ध्मायेद्विष्णुं परात्परम् ॥ ८.४२ ॥ परशुञ्च समादाय भेदयेत्तु विचक्षणः । पयः परिस्रवे तत्र शुभमेवं विधीयते ॥ ८.४३ ॥ शोणितप्रस्रवे तत्र निर्दशेदशुभं पुनः । पूर्वं तुपतनं शस्तमाग्नेय्यां तु भयावहम् ॥ ८.४४ ॥ याम्यायां मरणं विन्द्यान्नैरृत्यां व्याधिमादिशेत् । पश्मिमेतु जनानां तु क्षुत्पिपासाविवर्धनं ॥ ८.४५ ॥ वायव्ये च भवेल्लाभ उत्तरे धनधान्यकं । ऐशान्यां शान्तिकं तत्र सर्ववृद्धिकरं नृणाम् ॥ ८.४६ ॥ तद्वृक्षपतने कालेकोशस्सर्वोमृदुर्भवेत् । सिहव्याघ्रगजादीनां सर्वसंपत्करं भवेत् ॥ ८.४७ ॥ वृक्षाग्रं भेवयित्वा तु त्वचं सम्यग्व्यपोह्य च । प्रक्षाल्यवारिणा श्वेतचन्दनेनानुलेपयेत् ॥ ८.४८ ॥ श्वेतवस्त्रेण संदेष्ट्य जयमङ्गलघोषणैः । रथेवा शकटे वाथस्कन्थे वा क्षिप्य वेशयेत् ॥ ८.४९ ॥ ग्रामं प्रदक्षिणङ्कृत्या स्वस्तिसूक्तं समुच्चरन् । शिष्टच्छायेसमे देशेतालुकोपरिशाययेत् ॥ ८.५० ॥ हेमरूप्यकृतं शूलं सर्वसंपत्समृद्धिदम् । लोहैरन्यैर्नकर्तव्य मभिचारस्य कारणम् ॥ ८.५१ ॥ विष्णुशूलं तु केशानां श्रेष्ठं पट्टिकमेव च । ध्येयं मेढ्रादयश्बोर्ध्वं समं भागस्य यत्त्रयम् ॥ ८.५२ ॥ ऊरुकेशान्तपर्यन्तं तस्यार्थं च तकं मुखम् । सरन्ध्रयवकं चोर्ध्वे मानशूलं शिरोधरम् ॥ ८.५३ ॥ हिक्कायां षड्यवं पञ्चाङ्गुलं नाभ्यन्तकं मतम् । त्रयोदशाङ्गुलयवं ततो मेढ्रन्तु नाभ्यधः ॥ ८.५४ ॥ योनेर्नाभेस्तुर्यादश्रं ब्राह्ममष्टौमतं ततः । हिक्कास्तं वैष्णवं भागं ततो वृत्तं शिवांशकम् ॥ ८.५५ ॥ उष्णीषं मातृकं शूलं स्थानादीनां सनातनम् । स्थानासनशयानानां चतुरश्राष्टवर्तुलम् ॥ ८.५६ ॥ यथाक्रमेण युञ्जीयादेवं वा पूर्वमुक्तवत् । सर्वेषां देवतानां च सामान्यं च तुरश्रकम् ॥ ८.५७ ॥ चतुर्मात्रार्धविस्तारं शूलमूलविशालकम् । अग्रतारं चतुर्मात्रमष्टांशोनमथापि वा ॥ ८.५८ ॥ द्वात्रिंशदङ्गुलायामं वक्षोदण्डस्य चोच्यते । तर्म? विस्तृतयोर्बाह्ये मातृसूत्रसमोर्धयोः ॥ ८.५९ ॥ वक्षोदण्डायतं स्वेन मुखेन द्विगुणं मतम् । उक्त्वासमन्तु बाह्यग्रेतत्सप्तांशविहीनकम् ॥ ८.६० ॥ तारं सप्ताङ्गुलं तेषां येन सार्थं त्रिमात्रकम् । षोढशाष्ट चतुर्मात्रायामतारसमन्वितम् ॥ ८.६१ ॥ कटिदण्डं भवेत्तस्य पार्श्वमध्यमनिम्नकम् । कृत्वैव निम्नकं वक्षोदण्डमध्ये प्रकल्पयेत् ॥ ८.६२ ॥ शेषयोर्वंशदण्डे तु नाभ्यन्तं निम्नमध्यकम् । दक्षिणे मूलमध्ये तु अग्रं कुर्याद्द्वयोरपि ॥ ८.६३ ॥ वक्षोदण्डस्यमूलाग्रे शिखा सूदस्रदायतम् । कालाङ्गुलकलातारं कलार्धविपुलं मतम् ॥ ८.६४ ॥ एवं चतुर्भुजं कृत्वाद्विभुजे द्विशिखं तथा । चतस्रश्शिबिका स्तस्मात्तस्या मेवाष्टबाहुके ॥ ८.६५ ॥ यावन्तो बाहवस्तस्मिं स्तावत्यश्च शिखा मताः । अध्यर्धाङ्गुलविस्तारं शिखायामं तदेव हि ॥ ८.६६ ॥ कटिदण्डं शिखायामं तारे द्वित्षङ्गुले क्रमात् । विन?द्विमात्रमेव स्याद्द्विशिखं कटिदण्डकम् ॥ ८.६७ ॥ श्रोणिभागादधस्तेन शेषयेद्वंशदण्डकम् । ऊरुदण्डालयं सप्तविंशदङ्गुलमुच्यते ॥ ८.६८ ॥ जानुभागं ततो जङ्घा प्यूर्ध्वदण्डसमायता । पादभागाभवे दूरुर्जङ्घयोर्झानुमानकम् ॥ ८.६९ ॥ आरोप्य मानयेज्जानुदण्डस्यासंभवादपि । पाददण्डे समारोप्य मानयेत्तलतुङ्गकम् ॥ ८.७० ॥ ऊरुदण्डविशालं स्यान्मूलेभागं तदश्रके । कलाङ्गुलं तदेकं स्याज्जङ्घामूलविशालकम् ॥ ८.७१ ॥ कलाविशालं जङ्घाग्रं कलायामं दशाङ्गुलम् । त्रिमात्रकलमूलस्य तारमग्रेऽधिकांगुलम् ॥ ८.७२ ॥ सप्तविंशति वाग्रोषं दण्डदीर्घं ततः कला । कोर्परस्स्यात्प्रकोष्ठस्य दीर्घं दशकलाङ्गुलम् ॥ ८.७३ ॥ प्रकोष्ठबाह्वैरारोप्य कोर्परं जानुवद्भवेत् । त्षङ्गुलं द्व्यङ्गुलं बाहुदण्डमूलाग्रविस्तरम् ॥ ८.७४ ॥ प्रकोष्ठं दण्डमूलस्य विशालं चद्विमात्रकम् । अध्यर्धाङ्गुलमग्रस्य विशालं लक्षणान्वितम् ॥ ८.७५ ॥ वक्षोदण्डशिखामध्ये बाहुमूलगते शिखे । बाहुमूलगताभ्यां तु वक्षोदण्डशिखागताम् ॥ ८.७६ ॥ शेषयेदग्रभागेभ्यः कोर्परे शेषयेत्ततः । प्रकोष्ठमूलगाभ्यां तु वक्षोदण्डशिखागताम् ॥ ८.७७ ॥ कटिदण्डोरुदण्डाभ्यां तच्छेषं बाहुदण्डवत् । जानुकोर्परमुद्दिष्टं तस्यतु द्विशिखेमतम् ॥ ८.७८ ॥ शेषयेन्नलकानान्तु प्रकोष्ठे तु भवेद्बुधाः । प्रसारितानां पादानां जानुसन्धौतु गृह्यताम् ॥ ८.७९ ॥ तथैव विसृजानां च बुधानां कोर्परं मतम् । स्थानादीनां क्रमास्छूलसंघातं वक्ष्यतेऽपि च ॥ ८.८० ॥ वंशदण्डं तथा वक्ष्ये दण्डं च कटिदण्डकम् । जानुदण्डद्वयं चैव पाददण्डद्वयं तथा ॥ ८.८१ ॥ बाहुदण्डाश्च चत्वार श्चत्वारश्च प्रकोष्ठकाः । तथा चरणदण्डौ द्वौ दण्डास्सप्त दश स्मृताः ॥ ८.८२ ॥ कटिदण्डार्धमारभ्य यावदासीनरपि । तारस्स्यात्पृष्ठफलका तारमूरौ च बन्धयेत् ॥ ८.८३ ॥ कटिदण्डादधस्ताच्च वक्षोदण्डधरस्तथा । योजयेदुपयानीलं? पृष्ठतो वृत्तमेव वा ॥ ८.८४ ॥ वंशदण्डं तथा तेन क्लेशयेद्विशिखेन तु । शिखाग्रसुषीरे कीलं लोहं वा स्कामथापि वा ॥ ८.८५ ॥ दार्ढ्यार्थं योजयेच्छूलं स्थितं वै शूलकर्मणि । अन्यत्कीलं तु सुषिरं कर्तव्यं कथञ्चन ॥ ८.८६ ॥ एवं स्थानस्य संप्रोक्तमासनस्य प्रवक्ष्यते । मेढ्रमूलादधोमूलं नाहमष्टांगुलं भवेत् ॥ ८.८७ ॥ भागमासनमानस्य भागं श्वभ्रप्रवेशनम् । मेढ्रसूत्रसमे सम्यक्शेषयेत्कटिदण्डकम् ॥ ८.८८ ॥ कटिदण्डशिखाह्यूरु दण्डमूलशिखानि च । आसने शयने चैव जानुसन्धिः प्रशस्यते ॥ ८.८९ ॥ एकोनविंशतिश्शूलदण्डानां तु समाकृतिः । नेष्यते कोर्परे संधिशयने दण्डहस्तके ॥ ८.९० ॥ तस्मादथ दश प्रोक्ता शूलसंख्या चतुर्भुजे । पञ्चान्ये द्विभुजे दण्ड दण्डा हस्ते चतुर्दश ॥ ८.९१ ॥ दक्षिणे वक्षोदण्डस्यायतमेकादशांगुलम् । शिखा पूर्ववदुद्दिष्टा बाहुमूलशिखान्विता ॥ ८.९२ ॥ तयोरुपरि चाभोगं छाययेच्छास्त्रवित्तमः । कटीडण्डद्वयादन्यत्स्थानस्योक्तवदाचरेत् ॥ ८.९३ ॥ उक्तं हि शयने याने वक्ष्यतेथ त्रिविक्रमम् । उद्दण्डस्योरुदण्डस्य शिखा भागायते स्मृते ॥ ८.९४ ॥ तावत्यः कटिदण्डस्य शिखायास्सम्यगन्वये । तदायतं तु कार्यार्थं तलदण्डं तु तद्द्वितम् ॥ ८.९५ ॥ स्थिताङ्घ्रिस्थ्सितिमान् प्रोक्तश्शेषं चेदं शयानवत् । एवमष्टभुजोपेतं चतुर्भुजसमन्विते ॥ ८.९६ ॥ शूलसंख्यानुरूपेण योजयेत्तु विचक्षणः । शूलं चक्रतनौ वक्रमवक्रे वक्रतां नयेत् ॥ ८.९७ ॥ स्त्रीणां शूलविभागन्तु लक्ष्म्यादीनां प्रवक्ष्यते । नासामानविभागं च शूलदण्डायतं मतम् ॥ ८.९८ ॥ भागतारं भवेद्वंशं दण्डं तच्चतुरश्रकम् । यदुक्तं बाहुपर्यन्तं तारं तस्माद्द्विपार्श्वयोः ॥ ८.९९ ॥ बाहुमूलविशालार्धं त्यक्त्वा यावत्तदन्तरम् । तावत्तु परमं वक्षोदण्डस्यायाममुच्यते ॥ ८.१०० ॥ कच्छांशोनं कराकारं कटिदण्डायतं मतम् । ऊरुतारं तु तुर्यांशा दूरुदण्डविशालकम् ॥ ८.१०१ ॥ जङ्घादण्डं त्रिभागैकं तावश्चे?दष्टांशदण्डकम् । मूलमेव मतं चैषामग्रमष्टांशहीनकम् ॥ ८.१०२ ॥ पार्श्वदण्डं न योक्तव्यं स्त्रीणां शूले कथं चन । पुरुषाणां प्रयोक्तव्य मध्यर्धाङ्गुलिविस्तरम् ॥ ८.१०३ ॥ सर्वेषामसि तालानां शूलमेवं विदुर्बुधाः । भुवङ्गस्य समं प्रोक्तं स्थानके पीठकोन्नतम् ॥ ८.१०४ ॥ भुवङ्गोपरितालं स्याद्ध्रुवपीठस्य चोन्नतिः । ध्रुवबेरस्य पादस्य प्रतिदिक्चतुरङ्गुलम् ॥ ८.१०५ ॥ विस्तारमूर्ध्ववेद्यान्तु पद्मपत्रदलैर्युतम् । मण्डलं चतुरश्रं वा पीठं कुर्यात्तदर्हकम् ॥ ८.१०६ ॥ दैविकं तु त्रिधा कृत्वा द्विभागं पुरतस्त्यजेत् । अपरे स्थानकं स्थाप्य मध्यभागेऽथ वा पुलः ॥ ८.१०७ ॥ देवमानुषयार्मध्ये वाऽसनं संप्रकल्पयेत् । किं चिद्दैविकसंयुक्ते मानुषे शयनं स्मृतम् ॥ ८.१०८ ॥ एवं सम्यग्विदित्वैव मासने च प्रवक्ष्यते । ध्रुवबेरं तथा कृत्वा चोर्ध्वं सिंहासनोच्छ्रयम् ॥ ८.१०९ ॥ तदर्हविस्तृतं प्रोक्त मुपधानेन संयुतम् । पादाश्रयेण पीठेन पद्माकारौ? च संयुतम् ॥ ८.११० ॥ यथासैन्दर्यकं कृत्वा शेषं युक्त्या समाचरेत् । बेरायामं चतुर्भागं शयनोच्छ्रायमुच्यते ॥ ८.१११ ॥ तत्तुरीयांशकोत्सेधं शिरोभागे विशेषतः । पादयोरुभयोश्चैव समं तत्रैव मूह्य च ॥ ८.११२ ॥ शेषभोगं त्रिरावेष्ट्य पञ्चवर्णसमायुतम् । अधःपुच्छं शिरश्चोर्ध्वं सर्पदेहे तु वेष्टिते ॥ ८.११३ ॥ तदुत्संगगतं देवं शयानं संप्रचक्षते । फणानां पञ्चकं कुर्याद्विषवेगसमन्वितम् ॥ ८.११४ ॥ एवमेव प्रकुर्वीत स्थानासनशयानकान् । पीठं कृत्वा प्रयत्नेन स्थापनारंभमाचरेत् ॥ ८.११५ ॥ अङ्कुरानर्पयित्वैव यागशालां प्रकल्पयेत् । शिलास्थापनसार्गेण सर्वं कृत्वाप्रयत्नतः ॥ ८.११६ ॥ अथाचार्यःप्रभाते तु स्नात्वा नित्यं समाप्य च । यजमानसमायुक्तो गर्भगेहं प्रविश्य च ॥ ८.११७ ॥ स्थानासनशयानानां पदमुक्तं विचार्य च । पीठं तदर्हकं कुर्याद्युक्तेनैव विधानतः ॥ ८.११८ ॥ प्रतिष्ठोक्तक्रमेणैव रत्नन्यासं समाचरेत् । आचार्यस्थापकादीनामृत्विजां दक्षिणां ददेत् ॥ ८.११९ ॥ शूले सार्थं समादाय गायत्रीं वैष्णवं जपन् । स्थापयेद्देवदेवस्य शूलं देव्योस्ततःक्रमात् ॥ ८.१२० ॥ आधारदण्डयोः पश्चाच्छिष्टदण्डान्नियोजयेत् । पुण्याहं वाचयित्वातु सभ्यमग्निं विसृज्य च ॥ ८.१२१ ॥ ततश्शिल्पिनमाहूय शास्त्रीयं प्रियदर्शनम्? । वस्त्रैराभरणैश्चापि पूजयित्वान्ववेक्ष्य च ॥ ८.१२२ ॥ रज्जुबन्धादिकं कर्म बेरोक्तं तत्र कारयेत् । अत्रानुक्तं ततः कुर्याच्छिल्पशास्त्रोक्तमार्गतः ॥ ८.१२३ ॥ इति श्रीवैखानसे भगवच्छास्त्रे भृसुप्रोक्तायां संहितायां प्रकीर्णाधिकारेऽष्टमोऽध्यायः. _____________________________________________________________ अथ नवमोऽध्यायः. अथ नवमोऽध्यायः. रज्जुबन्धनम् अथातस्संप्रवक्ष्यामि रज्जुबन्धविधिं क्रमात् । यथोक्तं च मृदस्सर्वास्समाहृत्य विधानतः ॥ ९.१ ॥ संपिष्य शोधयित्वैव यथोक्तं सर्व मौषधम् । चूर्णानि च यथोक्तानि कषायाणि विधानतः ॥ ९.२ ॥ योजयित्वा यथाभागं गव्यैरपि इहैवच । निर्यासेन कपिद्धस्य युक्तं नादेयवारिणा ॥ ९.३ ॥ पेषयित्वा मृदा सम्यक्संपिष्य च विधानतः । साधयित्वाथ वा वामं सार्धंवापि निधाय च ॥ ९.४ ॥ नालिकेरस्य सारेण त्रिवृतां रज्जुमाहरेत् । सरज्जुं बन्धयेच्छूलं यथातत्सुदृढं तथा ॥ ९.५ ॥ बन्धयित्वाष्टबन्धं च शूलमालिप्य सर्वशः । मृदं च तां समादाय शूल मालोपयेत्तथा ॥ ९.६ ॥ शूलोपरि प्रमाणं यच्चतुर्भागं विभज्यच । तत्त्रिभागं मृदाकुर्या द्रज्जुबन्धसमायुतम् ॥ ९.७ ॥ घटशर्करया वस्त्रमौक्तिकैर्वर्णकैर्युतम् । पूरये दन्यभागं च तत्प्रमाणविधानतः ॥ ९.८ ॥ शर्करां च समालिप्य पटं संयोज्य पूर्ववत् । मौक्तिकाकृति मालिप्य भूषणानि प्रकल्प्यच ॥ ९.९ ॥ यथोक्तेन विधानेन वर्णानपि सुयोजयेत् । मृण्मयं ध्रवबेरं चेत्कारये देवमैव तत् ॥ ९.१० ॥ अर्धचित्रं न कुर्वीत ध्रुवबेरं तु मृण्मयम् । शूलार्धं तु द्वयं कुर्यात्ताम्रनालसमायुतम् ॥ ९.११ ॥ खादिरं ताम्रदण्डं वाभित्तिस्थं सुदृढं चरेत् । छिद्रं कृत्वातदाधारे शूलं यन्त्रेण योजयेत् ॥ ९.१२ ॥ दृढं तद्योजयित्वैव बेरपृष्ठस्य मध्यमे । तत्पृष्ठेस्कन्धमध्ये च तदाधारेण योजयेत् ॥ ९.१३ ॥ शूले छिद्रं नकर्तव्यं कुर्याच्छेत्स विनश्यति । ताम्रेण ध्रुवबेरं चेन्मधूच्छिष्टविधानतः ॥ ९.१४ ॥ मृण्मयं द्विविधं प्रोक्त मपक्वं पक्वमित्यपि । पूर्वोक्तं मृण्मयं यत्तदपक्व मभिधीयते ॥ ९.१५ ॥ मृदाकृत्वाग्विनादग्धं यत्तत्पक्वमितीरितम् । अपक्वं मृण्मये विष्णोः कारयेत्तु विधानतः ॥ ९.१६ ॥ यदि पक्वं तु कुर्याच्छेत्तद्विनाशकं भवेत् । योगादिस्थानानि स्थानं चतुर्विधं विन्द्याद्योगं भोगं तथैव च ॥ ९.१७ ॥ सृष्टिः संहार इत्येषां स्थानभेदः प्रवक्ष्यते । सर्वतो भद्रकं नन्द्यावर्तकं श्रीप्रतिष्ठितम् ॥ ९.१८ ॥ स्वस्तिकं पर्वताकारं वृत्तभेदं तथैवच । प्रलीनक मथोद्योगं पद्मञ्चैव चतुर्मुखम् ॥ ९.१९ ॥ ब्रह्मादीशानपर्यन्तं क्रमेणैव निवेशयेत् । योगकान्तं भवेद्योगं स्थानकस्य विधीयते ॥ ९.२० ॥ चतुरश्रं वृत्तगेहं प्रासादं स्थानकस्य तु । आसनानां चतुर्भेदं पूर्वोक्तेन क्रमेण तु ॥ ९.२१ ॥ प्रलीनं सर्वतोभद्रं विमानं वा चतुर्मुखम् । विष्णुछन्दविमानं च श्रीप्रतिष्ठितकं तथा ॥ ९.२२ ॥ पर्वताकृतिकञ्चैव नन्द्यावर्तं तथैव च । महापद्मविमानं च प्रलीनक वीमानकम् ॥ ९.२३ ॥ अष्टाङ्गं सर्मतोभद्रं चित्रशिल्पं तथैव च । महापद्मं च वृत्तं च चतुर्मुखविमानकम् ॥ ९.२४ ॥ एवं विमानकं चैव आसनस्य विधीयते । स्वस्तिकं वृत्तभद्रं च वृत्तगर्भ मवेदिकम् ॥ ९.२५ ॥ प्रेक्ष्य गृहाल्पभूराजछन्दं च श्रीप्रतिष्ठितम् । मर्तलं च शनैर्योगं मार्ताण्डं च चतुष्फुटम् ॥ ९.२६ ॥ गणिकाविशालं संशुद्धं स्वस्तिकं ध्वजमानकम् । एवमाख्याय तन्त्राणि वर्तुलाद्यायुतानि च ॥ ९.२७ ॥ शयानकेन योग्यानि कथितानि मनीषिभिः । आयादिविचारः आयव्ययादि ऋक्षांश्चयोनिः पश्चाद्विधीयते ॥ ९.२८ ॥ बेरोदयं त्रिगुणितं शिष्टमायं नगे हृते । चतुर्भिर्गुणितं सप्त सौरवारादिकं दिनम् ॥ ९.२९ ॥ बेरोच्च मष्टगुणितं सप्तविशदिभिर्हृतम् । शिष्ट मश्व्यादिभं विन्द्यात्तच्छेषं स्याच्चतुर्गुणम् ॥ ९.३० ॥ रन्ध्रेहृते नवांशं तच्छेषं भांशयुगैर्हृतम् । बेरोदयं त्रिगुणितं योनिस्स्या दष्टभिर्हृतम् ॥ ९.३१ ॥ आयाधिक्ये शुभं प्रोक्त मृणवृद्धिर्व्ययाधिके । वारेषु सौरिसूर्यारैर्विनान्ये शुभदास्स्मृताः ॥ ९.३२ ॥ तस्करं भुक्तिशक्ती च धनं राज्यं क्लिबादि च । निर्हृत्य चाधनं प्रेष्यं तन्नामसदृशं फलम् ॥ ९.३३ ॥ नामकर्तृनृपर्क्षाद्या नामर्क्षानुगुणं भवेत् । यदाकारं ध्रुवाकारं तदाकारं च कौतुकम् ॥ ९.३४ ॥ आसने स्थानकंवापि शयाने स्थान मासनम् । देवे स्थिते न देव्यौ च आसीने स्थानकासने ॥ ९.३५ ॥ विपरीतं न कुर्वीत सर्वशास्त्रविशारदाः । तालनियमः श्रेष्ठं प्रादुर्भवं तालं केवलं केशवस्य तु ॥ ९.३६ ॥ तद्देवीनां सरस्वत्या मध्यमं दशतालकम् । चन्द्रेन्द्रानलकीनाशवरुणानिलशूलिनः ॥ ९.३७ ॥ ऋषयो वसवो रुद्रा मार्कण्डेयोऽमितो भृगुः । आर्याश्चैव गुहो हीनदशतालमिता मताः ॥ ९.३८ ॥ मरुतोऽपि च यक्षेशदेववध्वश्शुभाग्रहाः । तधान्येतु त्रिधा साध्या नवतालमिता मताः ॥ ९.३९ ॥ दैत्ययक्षेश? रन्धाश्च सिद्धगन्धर्वचारणाः । कुजार्कराहव श्श्रेष्ठनवतालेन सम्मताः ॥ ९.४० ॥ नवतालैर्मुनींश्चैव गणांश्चैव तु मानयेत् । उङ्गाश्चारणाश्चान्ये नवतालमितोदयाः ॥ ९.४१ ॥ मर्त्याश्चाष्टायताः प्रोक्ताः प्रेतानां सप्ततालकम् । षड्यमाः कुब्जकाः प्रोक्ता वामनाः पञ्चतालगाः ॥ ९.४२ ॥ भूगतानां चतुस्तालं किन्नरास्तु त्रितालकाः । कूश्माण्डा द्वितयाश्चैव कबन्धा स्त्वेकतालका? ॥ ९.४३ ॥ श्रेष्ठमध्यकनिष्ठानि त्रितालानान्तु तत्र नै । प्रवक्ष्यामि मधूच्छिष्टक्रियां प्रतिविधानतः ॥ ९.४४ ॥ यजमानगृहेवापि आलये वा मनोरमे । अलङ्कृत्य वितानाद्यैः कुण्ड मौपासनं क्रियात् ॥ ९.४५ ॥ आघारं विधिवत्कृत्वा वैष्णवं च यजेत्तथा । विष्णुसूक्तं च हुत्वातु ब्राह्मं रौद्रं तथैव च ॥ ९.४६ ॥ वीशशैषिकचक्रांश्च विघ्नेशं च सुहूयते । तस्याग्नेर्दक्षिणे कुर्या द्व्रीहिभि स्थ्संडिलं तथा ॥ ९.४७ ॥ चतुरश्रं ततो वृत्तं समास्तीर्य यथा शुभम् । चक्रशैषिकवीशांश्च क्रमेणैव सुपूजयेत् ॥ ९.४८ ॥ शोधितं तु मधूच्छिष्ट मादाय प्रणवेन तु । "इषेत्वोर्जेऽत्वेति मन्त्रेण प्रधानांगं प्रकल्पयेत् ॥ ९.४९ ॥ अक्षराणि च सन्न्यस्य चैवं ध्यात्वाभिमृश्य च । वैष्णवं च ततो हुत्वा देवा नन्यान् विसृज्य च ॥ ९.५० ॥ देव्यादीन् पार्षदां स्तत्र तत्तन्मन्त्रेण हूयताम् । तत्सिद्धं शिल्पिहस्ते तु निधायैव हरिंस्मरन् ॥ ९.५१ ॥ यथा नगेन्द्रियं ग्राह्यं योनिष्वेव समर्पयेत् । तथा तन्तु गृहीत्वैव स्थापनीयन्तु गर्भकम् ॥ ९.५२ ॥ मानोन्मानप्रमाणेन मतिमान् शिल्पिनाचरेत् । शनैरालिप्य संशोष्य मृद्भिश्च बहिरायसैः ॥ ९.५३ ॥ पट्टैराबद्ध्य विधिना पुनरालिप्य शोषयेत् । यजमानानुकूलर्क्षे पूर्ववद्धोम माचरेत् ॥ ९.५४ ॥ तथा तुल्यं च संस्थाप्य जलतुल्यक्रमेण वै । युक्तां सिद्धिं च संप्राप्य तं च गर्भं प्रतापयेत् ॥ ९.५५ ॥ शनैर्मृद्भेदनं कृत्वा विधिना बेरमाहरेत् ॥ ९.५६ ॥ इति श्रीवैखानसे फगवच्छास्त्रे भृगुप्रोक्तायां संहितायां प्रकीर्णाधिकारे नवमोऽध्यायः. _____________________________________________________________ अथ दशमोऽध्यायः. अथ दशमोऽध्यायः. अङ्कुरार्पणम् अतःपरं प्रवक्ष्यामि भूपरीक्षादिकर्मणाम् । देवदेवस्य विष्णोर्तु विधिना चांकुरार्पणम् ॥ १०.१ ॥ नवमे सप्तमेवापि पञ्चमे वात्षहेऽथ वा । आलयाभिमुखे वापि ऐशान्ये चोत्तरेऽपि वा ॥ १०.२ ॥ रुद्रहस्तं द्विजातीनां नृपाणां नवहस्तकम् । वैश्यानां मुनिहस्तन्तु शूद्राणां पञ्चहस्तकम् ॥ १०.३ ॥ षोडशस्तंभ संयुक्तं चतुर्द्वारसमायुतम् । मण्डपं वात कूटं वा प्रपां वा विधिना चरेत् ॥ १०.४ ॥ गोमयालेपनं कृत्वा "शाम्यऽन्त्विति च? मन्त्रतः । श्वेततन्त्तुलचूर्णं वा सुधाचूर्ण मथापि वा ॥ १०.५ ॥ सूक्ष्मचूर्णं च कृत्वा तु वालुकैर्मिश्रितं तथा । प्राग्रगं चोत्तराग्रं च "सोमंराऽजेति मन्त्रतः ॥ १०.६ ॥ युग्मं च स्रायित्वातु दर्शनीयं च सुन्दरम् । चक्रवालाद्यलङ्कृत्य पालिकांकुरशोभितैः? ॥ १०.७ ॥ मध्येचक्रं च कृत्वातु दर्शनीयं च कारयेत् । वितानैस्स्तंभवेष्टैश्च दर्भमालाद्यलङ्कृतम् ॥ १०.८ ॥ धर्मं ज्ञानं च वैराग्य मैश्वर्यं च चतुष्टयम् । अन्तस्त्संभ चतुष्कोशे स्थापयेदधिदेवताः ॥ १०.९ ॥ बाह्यानां द्वादशादित्या द्वादशानान्तु देवताः । अर्चयित्वा यधान्याय्यं तत्तद्विधिमधाचरेत् ॥ १०.१० ॥ पञ्चहस्तं त्रिहस्तं वा एकहस्त मथापिवा । पञ्चविंशत्पदं कृत्वा मध्ये ब्रह्मासनं चरेत् ॥ १०.११ ॥ संचारार्थं फवन्त्यष्ट परितश्च पदानि वै । प्रागादिमध्यमाः प्रोक्ता द्वारा श्चत्वार एवच ॥ १०.१२ ॥ शेषितार्कपदे धीमान् पालिकानां स्थितिं चरेत् । व्रीहिभि स्तण्डुलैर्वापि पङ्क्तिं कुर्या द्विधानतः ॥ १०.१३ ॥ षोडशांगुल मायामं यथालाभसमुन्नतम् । त्रिवेदिसहितं कुर्या द्वेदाश्रं ब्राह्म मासनम् ॥ १०.१४ ॥ पूर्वद्वारोत्तरे शेषं दक्षिणद्वारपूर्वके । वक्रतुण्डस्य पीठं स्यात्पश्चिमद्वारदक्षिणे ॥ १०.१५ ॥ पङ्क्तीश मुत्तरद्वार पश्चिमे सोमपीठकम् । कुंभे वाथ समभ्यर्च्येत्तत्पूर्वेशान्त मर्चयेत् ॥ १०.१६ ॥ षण्णां पीठं प्रकल्प्यैव ब्रह्मण श्चोक्तवच्चरेत् । ऐन्द्रादिच तथैशान्तं जयाद्यप्सरसोर्ऽचयेत् ॥ १०.१७ ॥ आढकं वा तदर्धं वा पादं वा तण्डुरैः पृथक् । बाह्येऽष्टांगुलिविस्तारे पीठे वा स्थण्डिलेऽपिवा ॥ १०.१८ ॥ चतुरश्रं सुवृत्तं चत्रिकोणं धनुराकृति । दण्डाकारं च पद्माभं वस्वश्रं समवृत्तकम् ॥ १०.१९ ॥ जयादीनां क्रमात्पीठं पालिकाबाह्यत श्छरेत् । दिक्पालानान्तुशक्तश्चे न्मण्डलानि तु कारयेत् ॥ १०.२० ॥ भूम्यां वा पूजयेत्तद्वत्कुशकूर्चेषु सत्वरः । चतुरश्रं त्रिकाणं च सुवृत्तं वज्रमेव च ॥ १०.२१ ॥ अर्धचन्द्रं च षट्कोणं वृत्तं नूपुरमेव च । दिगीशमण्डलाकार मन्येषां चतुरश्रकम् ॥ १०.२२ ॥ अश्वद्थपल्लवं दूर्वां कुशं चाबद्ध्य मध्यमे । पालिकादीन् क्रमेणैव मृदा वापूरयेच्छुचिः ॥ १०.२३ ॥ गायत्रीमन्त्रमुच्चार्य प्रणवेनादायमन्त्रवित् । मेदिनीमन्त्र मुच्चार्य चैशान्यादिषु पालिकाः ॥ १०.२४ ॥ सन्न्यस्यैव ततः कुंभान् द्वारवामे च सन्न्यसेत् । "राकामहंऽ समुच्चार्य द्वारदक्षिणतः पुनः ॥ १०.२५ ॥ "सिनीवाऽलीति मन्त्रेण आचार्यः सन्न्यसेत्क्रमात् । जातिक्रमेण चैशास्तं पालिकानां पदे पदे ॥ १०.२६ ॥ ब्रह्मणो दक्षिणे पार्श्व आचार्य श्चोत्तरामुघः । ब्राह्ममासन मास्थाय देवदेव मनुस्मरन् ॥ १०.२७ ॥ ब्रह्माद्यान् हृदयात्पूर्वं प्रणिध्यां सन्निवेशयेत् । स्थण्डिलोपरि कूर्चेषु पात्रा दावाहयेत्क्रमात् ॥ १०.२८ ॥ चतुर्मुखं चतुर्बाहुं सर्वाभरण बूषितम् । अभयं दक्षिणं हस्तं वाममूरुप्रतिष्ठितम् ॥ १०.२९ ॥ कुण्डिका मक्षमालाञ्च वहन्तं दक्षवामयोः । पद्मासनस्थं हेमाभं श्यामवस्त्रञ्च पद्मजम् ॥ १०.३० ॥ मूर्तिमन्त्रैस्समावाह्य ब्रह्माणं प्राङ्मुखं यजेत् । प्राग्द्वारे प्राङ्मुखं चैव दक्षिणद्वारके तथा ॥ १०.३१ ॥ प्रत्यग्द्वारविमानेऽपि चोत्तरद्वारके तधा । अब्जजं प्राङ्मुखञ्चान्यान् यथाविधि च संस्मरेत् ॥ १०.३२ ॥ भवनं प्राङ्मुखादीनां प्राङ्मुखश्च प्रजापतिः । पङ्क्तिमध्ये समभ्यर्च्ये द्ब्राह्ममन्त्रं समुच्चरन् ॥ १०.३३ ॥ हेमाङ्गं पीतवस्त्रं च द्विभुजं पद्मधारिणम् । स्धितं करण्डिकामौलिं शेषं तत्पश्चिमामुखम् ॥ १०.३४ ॥ अनन्तं सर्वनागाना मधिपं वारुणीपतिम् । फणसप्तकसंयुक्तं सिताभं प्राञ्जलिं स्मरेत् ॥ १०.३५ ॥ प्रवालाभं गजमुख मासीनं चोत्तरामुखम् । कदलीचूतपनसपाशांकुशधरं प्रभुम् ॥ १०.३६ ॥ एकदंष्ट्रं चतुर्बाहुं वग्रतुण्डं स्मरेद्बुधः । पीतांबरे तं श्यामाभं खड्गखेटकधारिणम् ॥ १०.३७ ॥ द्विभुजं करण्डिकामौलिं पङ्क्तीशं प्राङ्मुखं स्मरेत् । सितं श्यामांबरं सौन्युं द्विभुजं दण्डधारिणम् ॥ १०.३८ ॥ करण्डमकुटसंयुक्तं सुस्थितं दक्षिणामुघम् । अभ्राभांरक्तवस्त्रान्तां द्विहस्तांबुजधारिणीम् ॥ १०.३९ ॥ सर्वभूषाभूषिताङ्गां जयामैन्द्रपदेर्ऽचयेत् । नीलाभां पीतवस्त्रां तां द्विकरांबुजधारिणीम् ॥ १०.४० ॥ भूषाभूषितसर्वाङ्गां विजया मनलेर्ऽचयेत् । कुमुदाभां हरिद्वस्त्रां द्विकरांपङ्कजाङ्किताम् ॥ १०.४१ ॥ नानाभूषाभूषिताङ्गां विन्दां याम्यपदेर्ऽचयेत् । धातकीपत्र संकाशां नीलनीलांबरावृताम् ॥ १०.४२ ॥ द्विकरामंबुजधरां नन्दांनैरृतिपदेर्ऽचयेत् । धौताभां पीतवस्त्रां तां द्विहस्तांबुजधारिणीम् ॥ १०.४३ ॥ पुष्पाभरणसंयुक्तां पुष्टिकां वारुणेर्ऽचयेत् । स्वर्णाभां रक्तवस्त्रां तां द्विहस्तांबुजधारिणीम् ॥ १०.४४ ॥ कुमुद्वतीं भूषिताङ्गां वायव्ये चार्चयेत्क्रमात् । रक्ताभा मभ्रसंकाशवसनां भूषणैर्वृताम् ॥ १०.४५ ॥ द्विकरा मंबुजधरां सौम्ये चोत्बलकां यजेत् । हाटकाभां हरिद्वस्त्रां पद्मसंयुतबाहुकाम् ॥ १०.४६ ॥ सर्वालङ्कार संयुक्तां विशोगा मर्चयेत्ततः) । रक्ताभां हाटकाभां च हरिणीं नीलवर्णकाम् ॥ १०.४७ ॥ धातकीपद्र संताशां कुमुदोत्पलसन्निभाम् । अशोकाभां क्रमादेता द्विभुजाः पद्मधारिणीः ॥ १०.४८ ॥ विपरीतांबरधराः सुखासीना स्तदासनाः । जयाद्यास्सर्वभूषांगा ध्यायेदत्रेति केचन ॥ १०.४९ ॥ मेदिनीं चैव राकां च सिनीवालीं स्मरेद्बुधः । मेदिनीं पीदवस्त्रान्तां श्यामाङ्गीं द्विभुजां स्थिताम् ॥ १०.५० ॥ हस्तयोः पालिकां धृत्वा सुकेशीं तद्दिगाननाम् । पूर्णचन्द्रप्रियां देवीं पूर्णचन्द्रनिभाननाम् ॥ १०.५१ ॥ हेमाङ्गीं रक्तवस्त्रान्तां राकां कुंभधरां स्थिताम् । शेषं तद्वच्छिनीवालीं सितांगीं श्यामलांबराम् ॥ १०.५२ ॥ शरावं दधतीं मन्ये मेदिनीसदृशां तथा । ध्यात्वातत्तत्पदे सम्यगासीनां वाथ चार्ऽचयेत् ॥ १०.५३ ॥ बीजेसोमं तथा ध्यात्वा हस्ताभ्यां बीजधारिणम् । स्थानकं वाथचासीवं चोत्तरे दक्षिणामुखम् ॥ १०.५४ ॥ एवं ध्यात्वा ततोदेव मासनादिभिरर्चयेत् । हविः सम्यङ्मि वेद्यैव बलिं वा दापये द्बुधः ॥ १०.५५ ॥ जयादीनां क्रमाद्वर्णः प्रादक्षिण्यक्रमेणतु । वितस्तिः पालिकोत्सेधं तदर्धं विपुलं मुखम् ॥ १०.५६ ॥ अधोविपुलनाहेन मध्यनाहं दशांगुलम् । कुंभोदयं तु तत्तुल्यं रसमात्रं मुखायतम् ॥ १०.५७ ॥ कुंभोष्ठमिव वक्तव्यं कुंभकुक्षिर्दशांगुलम् । आश्रमद्वार संयुक्तं शेषं तत्पालिकासमम् ॥ १०.५८ ॥ तारोत्सेधं शरावं स्यान्मुखं तत्पालिकासमम् । आलयस्योत्तरे वापि ऐशान्ये वा विशेषतः ॥ १०.५९ ॥ गोमयेनोपलिप्यैव मेदिनीं तु समर्चयेत् । चक्रं शान्तं समभ्यर्च्य हरेत्तज्जठरे मृदम् ॥ १०.६० ॥ कांस्यपात्रे नुसन्न्यस्य शिष्यस्य शिरसि न्यसेत् । ग्रामं प्रदक्षिणं कृत्वा आलयं वा प्रदक्षिणम् ॥ १०.६१ ॥ पालिकादीन् प्रपूर्यैव गायत्रीमन्त्र मुच्चरन् । ऐशान्यादिषु कोणेषु स्थापयेत्ताश्च पालिकाः ॥ १०.६२ ॥ द्वारवामे तु कुंभं स्याच्छरावं द्वारदक्षिणे । नववस्त्रैस्समावेष्ट्य पालिकादीन् समर्चयेत् ॥ १०.६३ ॥ कङ्कुमुद्गयवाश्चापिनिष्पावाः सर्षपास्तथा । चणका स्तिलतिल्वाश्च पात्रेधान्यानिचाहरेत् ॥ १०.६४ ॥ हविःपात्रं तु संगृह्य वायव्ये सोम मर्चयेत् । पुण्याहं वाच्य तत्काले तूर्यघोषण माचरेत् ॥ १०.६५ ॥ "इमेबीऽजेति मन्त्रेण वापयेदङ्कुरां स्ततः । विष्णुसूक्तं समुच्चार्य यजमानयुतो गुरुः ॥ १०.६६ ॥ "सोमं राऽ जेति मन्त्रेण वापयेदङ्कुरां स्ततः । वारुणं मन्त्रमुच्चार्य जलनेकं तु कारयेत् ॥ १०.६७ ॥ शूद्रस्तु यजमानश्चेन्नपपस्त्रैर्गुरुं पुनः । संपूज्य दक्षिणां दत्वाततस्तेनैव वापयेत् ॥ १०.६८ ॥ प्रणवेनार्कपत्रैर्वातथा चैरण्डपत्रकैः । आच्छादये द्यावदन्तं त्रिकालाभ्यर्चनं मतम् ॥ १०.६९ ॥ अत्र देवान् विसृज्यैव गुप्तेदेशे निधापयेत् । वस्त्रैर्नवैः समाच्छाद्य पालिकादीन् समर्चयेत् ॥ १०.७० ॥ अमावास्याव्यवहिते कुर्यात्सद्या एंकुरार्पणम् । संक्रमव्यवधानेऽपि सद्य एवेति के च न ॥ १०.७१ ॥ सद्या एंकुरश्चेद्रात्रौ वा दिवावापि च कारयेत् । तथा सर्वक्रियां कृत्वा पुष्पैर्वा तण्डुरैस्तथा ॥ १०.७२ ॥ वापयेत्कर्मण स्तस्यसद्य एवतु कारयेत् । पात्रालाभेशरावेवा यथालाभं च कारयेत् ॥ १०.७३ ॥ अर्चयेत्तण्डुलान् शुद्धान् सद्यःकालांकुरार्पणे । गृह्णीयात्पालिका एव नवपञ्चैककल्पने ॥ १०.७४ ॥ ब्रह्मणोऽभिमुखेचैकं शेषान्तु परितोदिशि । तत्तद्दिगीश मभ्यर्च्य तत्तन्मन्त्रेणचार्ऽचयेत् ॥ १०.७५ ॥ एष एव विशेषस्स्या दन्यत्सर्वं खिलोक्तवत् । लक्षणं च तथैवोक्तं तत्रैव च गुणागुणाः ॥ १०.७६ ॥ अजस्रदीपदानं तु सर्वत्र विधिना चरेत् । कर्मान्ते जलमध्येतु निक्षिपे द्विजयांकुरान् ॥ १०.७७ ॥ इति श्रीवैखानसे भगवच्छास्त्रे भृगुप्रोक्तायां संहितायां प्रकीर्णाधिकारे दशमोऽध्यायः _____________________________________________________________ अथैकादशोऽध्यायः. अथैकादशोऽध्यायः. भगवत्प्रतिष्ठाविधिः अथातस्संप्रवक्ष्यामि प्रतिष्ठाविधिमुत्तमम् सुप्रशस्ते मुहूर्ते वै प्रतिष्ठां कारयेद्बुधः ॥ ११.१ ॥ आचार्यलक्षणम् वैखानसेन सूत्रेण निषेकादिक्रियान्वितान् । विप्रान् वेदविदश्श्रेष्ठान् धार्मिकान् ज्ञापतत्परान् ॥ ११.२ ॥ सौम्यान् जितेन्द्रियान् शुद्धान् विष्णोराराधने परान् । ऊहापोहविधानेन ध्वस्तसंशयमानसान् ॥ ११.३ ॥ पत्न्यपत्ययुतान् शान्तान् स्नानशीलान् सुरूपिणः । आहूय पूज्यतत्रैकं सर्वकार्योपदेशकम् ॥ ११.४ ॥ आचार्यं वरयित्वैव तेनोक्तं सर्व माचरेत् । भूमिः परीक्षिता येन गुरुणा विधिपूर्वकम् ॥ ११.५ ॥ कर्षणादिप्रतिष्ठान्तं कर्म तेनैव कारयेत् । ऊर्ध्वेप्याचार्यकर्माणि तत्र तेनैव कारयेत् ॥ ११.६ ॥ तदभावे तु तत्पुत्रं पौत्रं नप्तारमेव वा । तस्यैव भ्रातरं शिष्यं प्रशिष्यं गुरुमेव वा ॥ ११.७ ॥ सब्रह्मचारिणं वापि पूर्वाभावे तथोत्तरम् । तदनुज्ञात मितर माचार्यत्वे नियोजयेत् ॥ ११.८ ॥ अन्यधा चे न्महान्दोषो राजा राष्ट्रं च नश्यति । क्षीयन्ते वर्णधर्माश्च जायते वर्णसंकरः ॥ ११.९ ॥ अग्निहोत्रा न सीदन्ति स्वाध्यायो न प्रवर्तते । विपरीतानि चान्यानि भविष्यन्त्यधरोत्तरम् ॥ ११.१० ॥ तस्माच्छास्त्रोक्तविधिना सर्वकर्माणि कारयेत् । श्वेतगन्धानुलेपैश्च श्वेतपुष्पांगुलीयकैः ॥ ११.११ ॥ आचार्यादीन् समफ्यर्च्य नमस्कृत्य स्वदैववत् । "कर्मेदं मे कुरुऽष्वेति याचे दाचार्य मादरात् ॥ ११.१२ ॥ शिष्यः समर्पयेत्सर्वं भरमाचार्यपादयोः । आचार्यः सुप्रसन्नात्मा शिष्यानुग्रहतत्परः ॥ ११.१३ ॥ तथैवेति सुसंकल्प्य कुर्याच्चैवांकुरार्पणम् । अङ्कुरार्पणकादूर्ध्व मारंभदिवसादधः ॥ ११.१४ ॥ कूश्माण्डहोम मब्जाग्नौकारयेद्गुरुरत्वरः । शुद्धदन्तनखश्चैव श्वेतवस्त्रोत्तरीयकः ॥ ११.१५ ॥ त्रिषवणस्नाननिरतो हविष्याशी जितेन्द्रियः । एवं क्रमेणवै विद्वानृत्विग्भिः सार्थमाचरेत् ॥ ११.१६ ॥ अरणीं स्रुक्च्रुवौचैव जुहूमुपभृतं तथा । मङ्गलानि च दर्वीं च तोरणानि यथाक्रमम् ॥ ११.१७ ॥ न्यग्रोधप्लक्षा पश्वद्थं पितृवृक्षयुतं तथा । तोरणार्थं समाहृत्य लक्षणेन समन्वितम् ॥ ११.१८ ॥ अथाष्टमङ्गलं वक्ष्येद्वितालायतमेव च । प्रादेशविस्तृतं कुर्यात्षडङ्गुल मथापि वा ॥ ११.१९ ॥ घनं स्याच्चतुरङ्गुल्य? मत वा द्व्यङ्गुलंभवेत् । तस्य मध्ये लिखे द्विद्वान् तत्तद्रूपं पृथक्पृथक् ॥ ११.२० ॥ श्रीवत्सं पूर्णकुंभं च भेरी मादर्शनं तथा । मत्स्ययुग्माङ्कुशौ शङ्ख मावर्तं चाष्टमङ्गलम् ॥ ११.२१ ॥ आवर्तलक्षणं वक्ष्ये पञ्चविंशत्पदं तथा । ईशादिनैरृतान्तन्तु पदं त्रिस्त्रिःक्रमेण च ॥ ११.२२ ॥ पूर्वमध्यमपाश्चात्यपदान्येवतु योजयेत् । वायुव्ये त्वग्निकोणान्त मुदङ्मध्यमदक्षिणे ॥ ११.२३ ॥ अन्तरालपदांश्चाष्टौ विनैव तु विचक्षणः । एतैश्च सप्तदशभि रावर्त मभिधीयते ॥ ११.२४ ॥ शङ्खचक्रगदाचापा असिः पञ्चायुधान्यपि । स्रुचः स्रुवस्य दण्डं तु प्रादेशत्रय मायतम् ॥ ११.२५ ॥ मूलं प्रादेशमात्रं स्या दग्रनाहं तदर्धकम् । अग्रे बिल्वफलाकारं प्रादेश प्रतिमण्डलम् ॥ ११.२६ ॥ द्व्यङ्गुलं स्यात्तदास्यन्तु कर्तं माषद्वयावधि । स्रुवमेवं प्रकुर्वीत द्विप्रादेश मथापिवा ॥ ११.२७ ॥ जुहूदण्डसमायामं चतुर्विंशतकाङ्गुलम् । नाहं तदर्ध मित्युक्तं पद्मस्य मुकुलोपमम् ॥ ११.२८ ॥ षडङ्गुलं तु तस्याग्रं नाहं तस्य विचक्षणः । युगाङ्गुलाग्रविस्तार मष्टांगुल मथायतम् ॥ ११.२९ ॥ शेषं तु त्षश्र मित्युक्तं विस्तृतोन्नत मङ्गुलम् । मध्यगर्तानुपूर्व्येण जुह्वाश्चैवक्रमं विदुः ॥ ११.३० ॥ पश्चादुपभृतं कुर्यात्प्रादेशत्रय मायतम् । प्रादेशं नाहमित्युक्तं मूलादग्रं तदर्धकम् ॥ ११.३१ ॥ आनुपूर्व्यात्कृशं दण्डं गलान्तमिति संज्ञितम् । ऊर्ध्वे प्रादेशमायामं चतुरश्रं षडङ्गुलम् ॥ ११.३२ ॥ तदूर्ध्वेर्ऽधाङ्गुलायामं कण्ठ मेवं प्रचक्षते । शेषं तु त्षश्रकं कुर्यात्तत्र तेनैव कारयेत् ॥ ११.३३ ॥ उन्नतास्याङ्गुलार्धं स्याद्भित्त्युच्चमिति कथ्यते । ओष्ठ मेकाङ्गुलं ज्ञात्वा तन्मध्येनिम्न माचरेत् ॥ ११.३४ ॥ पूर्णचन्त्राकृतिं कृत्वा प्रादेशं तस्य नाहकम् । निम्नं चतुर्यवागाढ मग्रान्तस्तु क्रमाद्बुधः ॥ ११.३५ ॥ अथ दर्व्यास्तथायामं चतुर्विंशतिकांगुलम् । षडङ्गुलं तदग्रं स्यात्पुच्छं पञ्चांगुलं भवेत् ॥ ११.३६ ॥ शेषं त्रयोदशांगुल्यादण्ड मित्युच्यते क्रमात् । मूलस्थूलं भवेन्नारी अग्रस्थूलं नपुंसकम् ॥ ११.३७ ॥ मूलादग्रं क्रमाद्वृत्तं पुंरूप मीतिकथ्यते । दर्भैर्मालां च कृत्वैव तस्यां पर्वणि पर्वणि ॥ ११.३८ ॥ द्वौद्वौदर्भौ विविक्षिप्य द्वितालं लंबयेत्क्रमात् । द्वितालायामसंयुक्तं खादिरं दण्डमेव च ॥ ११.३९ ॥ दशांगुलपरीणाहं समवृत्तं तथैव हि । शाखांगुलसमायुक्तं मूलादग्रं तु बन्धयेत् ॥ ११.४० ॥ तत्ताम्रायसपट्टैर्वाबन्धयित्वा विचक्षणः । तन्मूले सुषिरं कृत्वा गोलकं तत्प्रमाणकम् ॥ ११.४१ ॥ एवन्तु मन्थदण्डस्स्यात्कुर्यात्तच्छास्त्रपारगः । शमीजात मथाश्वद्थ मरण्यर्थं प्रगृह्य च ॥ ११.४२ ॥ षडङ्गुलं तु विस्तारं गोलकं तु घनं भवेत् । दैर्घ्यं तस्य द्वितालं स्यात्फलकां कारयेद्बुधः ॥ ११.४३ ॥ तथैवोपरि पट्टिं च कृत्वा तत्र विचक्षणः । मैञ्ज्यैव त्रिवृतां रज्जुं मन्थनार्थाय कारयेत् ॥ ११.४४ ॥ दशाष्टनवभिर्हस्तैर्वस्त्र मायत मुच्यते । त्रिचतुःपञ्चतालं वाविस्तृतं वस्त्रमुच्यते ॥ ११.४५ ॥ गव्यं घृतं चाहरेत कापिलं तु गवादिषु । आजं च माहिषं त्याज्यं पक्षातीतं च वर्जयेत् ॥ ११.४६ ॥ पादौप्रक्षाल्यचाचम्य पूर्वोदङ्मुख एववा । ब्राह्ममासस मास्थाय वैष्णवं मन्त्रमुच्चरन् ॥ ११.४७ ॥ परिस्तरणकूर्चादीन् समिथादीन् प्रगृह्यच । कूर्चं प्रदक्षिणावर्तं गृह्णीया द्विधिवित्तमः ॥ ११.४८ ॥ प्रमुखे दक्षिणे वापि यागशालां प्रकल्पयेत् । यागशाला षोडशस्तंभसंयुक्तं मण्डपं कूटमेववा ॥ ११.४९ ॥ प्रपां वा तत्र कुर्वीत मध्ये कूटं च कारयेत् । निम्नोन्नतं विभज्यैव जलस्थलसमीपकम् ॥ ११.५० ॥ पूर्वोक्तेन विधानेन अलङ्कृत्य यथाक्रमम् । मध्ये वेदिं प्रकल्प्यैवबिंबाध्यर्ध प्रमाणतः ॥ ११.५१ ॥ तद्बहिःपूर्वभागेतु सभ्यकुण्डं प्रकल्पयेत् । सभ्यस्य पूर्वभागेतु कुण्ड माहवनीयकम् ॥ ११.५२ ॥ उत्तरेवापुनः कुर्या दौपासनविधानतः । सभ्यस्य दक्षिणे कुण्डं पैण्डरीकं प्रकल्पयेत् ॥ ११.५३ ॥ वेद्यास्तु दक्षिणेकुण्डमन्वाहार्यं प्रकल्पयेत् । नैरृते देवतास्थानं कल्पयेत्त द्विचक्षणः ॥ ११.५४ ॥ वैद्यान्तु पश्चिमे भागे गार्हपत्यं प्रकल्पयेत् । वायव्ये संचयस्थानं कल्पयेत्तद्विधानतः ॥ ११.५५ ॥ वेद्यास्तथोत्तरे भागे त्वावसध्यं प्रकल्पयेत् । ऐशान्ये स्नापनश्वभ्रं कल्पयेत्तद्विधानतः ॥ ११.५६ ॥ सभ्यस्य पैण्डरीकस्य मैखलात्रयमुच्यते । अन्येषां चैव कुण्डानां मेखलाद्वयमेव हि ॥ ११.५७ ॥ एकैकवेद्या विस्तार मुन्नतं चतुरङ्गुलम् । सभ्यस्य मध्यमं पञ्च पद्मस्याधष्षडङ्गुलम् ॥ ११.५८ ॥ औपासननोर्थ्ववेद्यास्स्या दुन्नतं तु द्वियङ्गुलम् । दक्षिणोत्तरयोश्चैव संस्थानं ब्रह्मसोमयोः ॥ ११.५९ ॥ द्वादशांगुलसंयुक्तं चतुरश्रं सुवृत्तकम् । शल्यलोष्टतुषांगारतृणभस्मादिहीनया ॥ ११.६० ॥ मृदा वा वालुकैस्तत्र पृथक्कुण्डं प्रकल्पयेत् । यागस्थानस्य पूर्वेतु प्रपां कृत्वा विचक्षणः ॥ ११.६१ ॥ नयनोन्मीलनार्ऽथाय यागशालां प्रकल्पयेत् । नयनोन्मीलनम् उक्तक्रियावसाने तु बेरमादायचात्वरः ॥ ११.६२ ॥ शिल्पिना शास्त्रमार्गेण कारयेदक्षिमोचनम् । देवस्य प्रमुखे कुर्याद्धान्यराशिं विशेषतः ॥ ११.६३ ॥ हेमश्रुङ्गां रौप्यखुरां सवत्सां कांस्यदोहनाम् । सवत्सांगां समादाय देवस्य प्रमुखे न्यसेत् ॥ ११.६४ ॥ घृतं मधुदधिक्षीरं गृहीत्वा कांस्यभाजने । रुक्मन्तत्रैव निक्षिप्य दीपयुक्तं तु विन्यसेत् ॥ ११.६५ ॥ हेमपात्रैस्तु सूचीभ्यां रजतैर्वापि चाहरेत् । हूलिकां ताटनीञ्चैव शीलां लोहमयस्यवै ॥ ११.६६ ॥ बिंबस्य चोत्तरे पार्श्वे वास्तुहोमं यजेत्ततः । पर्यग्नि चैव कृत्वातु प्रोक्षयेत्पञ्चगव्यकैः ॥ ११.६७ ॥ उत्तराभिमुखो देहघुद्धिं कृत्वा गुरुस्ततः । हूलिकां ताटनीञ्चैव गृहीत्वा मन्त्रपूर्वकम् ॥ ११.६८ ॥ "विष्णुस्त्वां रक्षऽत्वित्युक्त्वा विष्णुसूक्तं च संस्मरन् । पटस्य चान्तर्देवस्य मूर्धादीन् संस्पृशेत्क्रमात् ॥ ११.६९ ॥ विष्णुगायत्री मुच्चार्य तत्र कर्म समाचरेत् । देवीभ्यां च क्रमेणैव तत्तन्मस्त्रं जपेत्तदा ॥ ११.७० ॥ पश्चात्तुपात्रे सूचीभ्यां कृहीत्वा चाक्षिमोचनम् । षण्मण्डलानि संस्कुर्यादधिदेव मनुस्मरन् ॥ ११.७१ ॥ पक्ष्मवर्म च रक्तञ्च श्वेतं कृष्णं च तैजसम् । एतैस्तु मण्डलं ध्यात्वा दृढीकृत्वात्वरः क्रमात् ॥ ११.७२ ॥ हित्वार्ऽकराहुसौराणा मुदयन्तु द्विलोचने । नयनोन्मीलनं कुर्यात्सर्वसंपत्समृद्धये ॥ ११.७३ ॥ अन्धनक्षत्रके कुर्यात्सर्वनाशं न संशयः । पुरुषसूक्तं जपित्वैव दक्षिणे नयने न्यसेत् ॥ ११.७४ ॥ तधैव वामनेत्रेतु वैष्णवं मन्त्र मुच्चरन् । तत्सूक्ताभ्यां विशेषेण श्रीभूम्योश्च समाचरेत् ॥ ११.७५ ॥ देवस्यांगं स्पृशन् हुत्वा मौलिमालादिपूर्वकम् । तथा देव्योश्च हुत्वातु दद्भ्यस्स्याहादिना पृथक् ॥ ११.७६ ॥ विमानं नूतनं चेत्तु स्धूप्यादीनां हुतं चरेत् । पर्षदां मूर्तिमन्त्रेण कारयेन्मन्त्रवित्तमः ॥ ११.७७ ॥ वैष्णवं विष्णुसूक्तञ्च स्विष्टाकारं च हूयताम् । गोदानसूक्त मुच्चार्य कवादीनभिमृश्य च ॥ ११.७८ ॥ पटं पश्चा द्विसृज्यैव गवादीन् संप्रदर्शयेत् । गवादिद्रव्य मादाय दद्याच्च गुरवे ततः ॥ ११.७९ ॥ कौतुकादी न्विशेषेण पूर्वोक्तेन क्रमेणवै । बेरपीठे च संपाद्य रत्नादीनि विनिक्षिपेत् ॥ ११.८० ॥ रत्नं धातूंश्च बीजानि सुवर्णं चाऽत्र निक्षिपेत् । एवं संस्थाप्य मतिमान् संताप्यैव दृढं यथा ॥ ११.८१ ॥ ध्रुवबेरोक्तवत्कृत्वा नयनोन्मीलनं चरेत् । पश्चाज्जलाधिवासादीन् कुर्यात्तन्मन्त्रपारगः ॥ ११.८२ ॥ पञ्चगव्यं प्रगृह्यैव प्रोक्षयित्वा विचक्षणः । वसोःपवित्रमित्युक्त्वातत्र कार्यं सम्चरेत् ॥ ११.८३ ॥ पश्चात्क्षीरं समादाय प्रोक्षयित्वा समाहितः । "शन्नो देवीऽरितिप्रोच्य तेन कर्म समाचरेत् ॥ ११.८४ ॥ अर्थदर्शी प्रगृह्यैव देवस्याग्रे निधायच । प्रदीप मर्पये द्वद्वान् जले तत्राधिवासयेत् ॥ ११.८५ ॥ एवञ्चात्राधिवास्यैव चास्यबेरेषुवै पुनः । पञ्चगव्याधिवासं च तथा क्षीराधिवासनम् ॥ ११.८६ ॥ एतद्द्वयं विना तत्र कुर्यात्तोयाधिवासनम् । ग्रामे सर्वत्र तद्रात्रौ प्रभूतं निक्षिपेद्बलिम् ॥ ११.८७ ॥ इति श्रीवैखानसे भगवच्छास्त्रे भृगुप्रोक्तायां संहितायां प्रकीर्णाधिकारे एकादशोऽध्यायः. _____________________________________________________________ अथ द्वादशोऽध्यायः. भगवत्प्रतिष्ठाविधिः अथप्रदोषे धर्मात्मा जलस्थं देवमुद्धरेत् । स्नानद्रव्याणि चाहृत्य देवं संस्नाप्य मन्त्रवित् ॥ १२.१ ॥ क्षौमपट्टादिना छाद्य मणिहेमादिकैः पुनः । विविधैः पुष्पमालाद्यैरलङ्कृत्य मनोहरम् ॥ १२.२ ॥ यान मारोप्य देवेशं स्वक्तिसूक्तं समुच्चरन् । तोयधारां पुरस्कृत्य नीत्वा ग्रामं प्रदक्षिणम् ॥ १२.३ ॥ श्वभ्रस्य पश्चिमे भागे स्थापयित्वा विशेषतः । उत्तरे यागशालायां वास्तु होमं समाचरेत् ॥ १२.४ ॥ मथित्वाग्निं प्रगृह्णीया द्वास्तु होमाग्निमेव वा । संस्कृत्य विधिनादाय प्रणये द्गार्हपत्यके ॥ १२.५ ॥ त्रिस्संस्कृतो लौकिकाग्निर्मथिताग्निसमो भवेत् । आघारं विधिवत्कृत्वा वैष्णवान्तं समाचरेत् ॥ १२.६ ॥ ततोऽन्वाहार्यकुण्डे च पश्चादाहवनीयके । आवसथ्येततस्सभ्ये ततःपद्मानलेक्रमात् ॥ १२.७ ॥ सूत्रोक्तेन विधानेन सर्वत्राघारमाचरेत् । द्वात्रिंशत्प्रस्थसंपूर्णं घटमादायचात्वरः ॥ १२.८ ॥ "इषे त्वोर्जेऽत्वादि जपन् तन्तुना परिवेष्ट्य च । "शुची वो हव्यऽ इत्युक्त्वा कुंभप्रक्षालनं चरेत् ॥ १२.९ ॥ नदीतोयं समादाय समुत्पूय च पूरयेत् । वस्त्रयुग्मेन चावेष्ट्य अलङ्कुर्यात्प्रयत्नतः ॥ १२.१० ॥ एलातक्कोलकर्पूरैर्गन्धोशीराक्षतैःक्रमात् । अन्यैर्गन्धयुतैः पुष्पैर्वासयित्वा विधानतः ॥ १२.११ ॥ सुवर्णरत्नधातूंश्च न्यसित्वा मन्त्रवित्तमः । गोवालकुशदर्भैश्च कृतं कूर्चं तु निक्षिपेत् ॥ १२.१२ ॥ अथ वा निक्षिपेत्कूर्चं कृतं दर्भैस्तु केवलैः । अस्थि रत्नं सिरा स्तन्तुर्मांसो मृत्स्ना प्रकीर्तिता ॥ १२.१३ ॥ शोणितं रक्तमृद्भिन्तु जलं मेदस्तथैव च । शुक्रन्तु कूर्चमित्युक्तं वस्त्रं स्याच्चर्म वैष्टितम् ॥ १२.१४ ॥ सप्त धातव इत्येते कुंभेषु करकेषु च । एतेष्वेकं विनाकुर्यान्नास्ति तत्रास्य सन्निधिः ॥ १२.१५ ॥ देवस्य दक्षिणे पार्श्वे कुंभं तत्र निवेश्य च । अलङ्कृतस्तथाचार्यो वस्त्राभरणकुण्डलैः ॥ १२.१६ ॥ स्रग्गन्धैर्वेष्टितो धृत्मा मुखस्योष्णीषबन्धनम् । कुंभस्य दक्षिणे भागे प्राङ्मुखोदङ्मुखोऽपिवा ॥ १२.१७ ॥ स्वस्तिकासन मास्थाय ऋजुकायः समाहितः । ललाटादिषु स्थानेषु केशवादीन् प्रणम्यच ॥ १२.१८ ॥ अकाराद्यक्षरं सर्वं न्यसित्वा सर्वसन्धिषु । पश्चात्कुंभं सुसंत्पृश्य क्रमात्सूक्तादिकं जपेत् ॥ १२.१९ ॥ आत्मसूक्तन्ततो जप्त्वा पौरुषं सूक्तमेव च । सूक्तमेकाक्षरं जप्त्वा विष्णुसूक्त मतः परम् ॥ १२.२० ॥ श्रीभूसूक्तं ततो जप्त्वा "सहस्रशीर्षंऽसमुच्चरन् । वैष्णवं तु ततोजप्त्वा ध्यायेत्सम्यक्समाहितः ॥ १२.२१ ॥ प्राणायामं ततः कुर्यात्रेचपूरककुंभकैः । एतत्फलं क्रमाद्वक्ष्ये त्रिविधं तत्पृथग्विधम् ॥ १२.२२ ॥ तत्रैव रेचकं पूर्वं सर्वपापस्यदाहकम् । पश्चात्तु पूरकं कुर्या दमृताप्यायनं ततः ॥ १२.२३ ॥ तृतीयं कुंभकं कुर्या दमृतत्वं च संस्मरेत् । तस्मात्सर्वप्रयत्नेन रेचकादीनि कारयेत् ॥ १२.२४ ॥ कुंभगन्तु जलं स्मृत्वा वारुणं मण्डलं बुधः । अर्धचन्द्राकृतिं स्मृत्वा तस्य बीजाक्षरं न्यसेत् ॥ १२.२५ ॥ तमोङ्कारेण संवेष्ट्य बन्धयुक्तं? तु निश्मलम् । आदित्यमण्डलान्तस्थं देवं तत्रैव चाह्वयेत् ॥ १२.२६ ॥ आदिबीजं सुवर्णाभं प्रणवैः परिवेष्टितम् । पश्चाद्देवं समभ्यर्च्य कुर्या दर्घ्यान्त मर्चनम् ॥ १२.२७ ॥ बिंबं कुंभं च संगृह्य स्नानश्वभ्रे निवेशयेत् । श्वभ्रस्य पूर्वभागे तु दण्डपङ्क्तिं च कारयेत् ॥ १२.२८ ॥ कलशैः स्नापयेत्सम्य क्चतुर्दशभिरेवतु । देवं सर्वत्र संस्नाप्य दीपान्तं च समर्चयेत् ॥ १२.२९ ॥ नैरृते विष्टरे न्यस्य नमेद्देवां त्समाहितः । एवं देव्यौ समादाय स्नापये दत्वरं बुधः- ॥ १२.३० ॥ पाद्यमाचमनं दत्वा देवदेवं प्रणम्य च । पात्रं तु तण्डुलैः पूर्णं गृहीत्वात्र विशेषतः ॥ १२.३१ ॥ सौवर्णं राजतं वापि कौतुकं तत्र निक्षिपेत् । अथ वा तन्तु माहृत्य न्यसित्वा तण्डुलोपरि ॥ १२.३२ ॥ तांबूलसहिते पात्रे? देवस्याग्रे निधायच । पुण्याहं वाच्य तत्कालेस्वस्तिसूक्तं समुच्चरन् ॥ १२.३३ ॥ देवस्य दक्षिणेहस्ते देव्योर्यै वामहस्तयोः । "स्वस्तिदाऽ वीतिमन्त्रेण कौतुकं बन्धयेत्क्रमात् ॥ १२.३४ ॥ वेदमन्त्रज्ञ आचार्यो रक्षामन्त्रं समुच्चरन् । षड्द्रोणं धान्यमर्धं वा वेदिकोपरि चास्तरेत् ॥ १२.३५ ॥ तदर्धं तण्डुलांश्चैव तदग्धं तु तिलानपि । तदग्धं यवमादाय तदर्धं तिल्वमेव च ॥ १२.३६ ॥ अण्डजं मुण्डजं चैवरोमजं वामजं तथा । चर्मजं चास्तरेत्पञ्च शयनं वेदिकोपरि ॥ १२.३७ ॥ अलाभे तु तथैतैषां पञ्चवस्त्राणि वास्तरेत् । मूर्धोपधानं कर्तव्यमूर्ध्वेऽनस्तं समर्चयेत् ॥ १२.३८ ॥ देवं देव्यौ समादाय यद्दिग्द्वारं तथा शिरः । शाययेच्छयने विद्वान् "यद्वैष्णवऽमिति ब्रुवन् ॥ १२.३९ ॥ देव्योश्चापि तथा कुर्यात्तत्तत्सूक्तं जपेत्क्रमात् । उत्तराच्छादनं कुर्याद्गलान्तं तत्र निक्षिपेत्? ॥ १२.४० ॥ शय्यावेद्यास्तुपरितस्सर्वान् देवान्त्समर्चयेर्त् । इशानादिक्रमाद्देवान् बल्यन्तन्तु समर्चयेत् ॥ १२.४१ ॥ शङ्करं बलिरक्षं च वाग्देवीं बलिश्रक्रकौ । अग्निं पवित्रं शैलूषं प्राच्यां प्रत्यङ्मुखान् क्रमात् ॥ १२.४२ ॥ भौमं गुहं च दुर्गां च यमं मन्दं च नैरृतिम् । रोहिणीं सप्तमातॄश्च दक्षिणे चोत्तरामुखान् ॥ १२.४३ ॥ पश्चिमे नैरृताद्यादीनर्चयेत्तदनुक्रमात् । वैष्णवीं पुरुषं चैव बुधं ज्येष्ठां तथैव च ॥ १२.४४ ॥ पुष्परक्षकवायू च प्राङ्मुखांश्च समर्चयेत् । वायव्यादीशपर्यस्तं दक्षिणाभिमूखान् क्रमात् ॥ १२.४५ ॥ शुक्रं चैव भृगुं शान्तं तथा सप्त ऋषीनपि । भागीरथीं कुबेरं च चन्द्रं भूतानि चार्ऽचयेत् ॥ १२.४६ ॥ द्वारे द्वारे च धात्रादीन् द्वारदेवान्त्समर्चयेत् । विमानं परितो भ्यर्च्य न्यक्षादीनर्चयेत्क्रमात् ॥ १२.४७ ॥ देवस्याग्रे प्रसन्नात्मा पूजयेदनपायिनः । भूतद्वयं तथा तार्क्ष्यं तथा चैवामितं बुधः ॥ १२.४८ ॥ चक्रशङ्खारविन्दानि देवस्याग्रेर्ऽचयेद्बुधः । वेदानध्यापयेद्दिक्षु "ऋचां प्राऽचीरिति श्रुतिः ॥ १२.४९ ॥ संभारवेद्यामास्तीर्य धान्यं वस्त्रोवरिक्रमात् । हेमादिपात्रे रत्नादीं त्सन्न्यस्यैवाधिदैवतम् ॥ १२.५० ॥ विष्णुमभ्यर्च्य विधिना कारयित्वाधिवासनम् । विष्णुसूक्तं समुच्चार्य वस्त्रेणाच्छादयेद्बुधः ॥ १२.५१ ॥ पश्चाद्धोतारमाहूय यथोक्तगुणसंयुतम् । पादौप्रक्षाल्य चाचम्य कूर्चयुक्तं समाहितम् ॥ १२.५२ ॥ अलङ्कुर्याच्च पुष्पाद्यैः पञ्चाङ्गोचितभूषणैः । सभ्यस्य पूर्वभागे तु पश्चिमाभिमुखःस्थितः ॥ १२.५३ ॥ सभ्याध्वर्युं समीक्ष्यैव होता प्रणवमुच्चरेत् । "होतरेहिऽ पदे उक्तेततो होता समुच्चरेत् ॥ १२.५४ ॥ "अध्वर्यो देवऽतेत्युक्त्वा पादौ प्रक्षाल्य चाचमेत् । पूर्ववत्तत्र चस्थित्वा "ओं नमः प्रवक्त्रेऽ ब्रुवन् ॥ १२.५५ ॥ होता च नाम शर्मान्तं संयोज्यैव समुच्चरेत् । "भूते भविष्यऽतीत्युक्त्वा ब्रूयाद्"धिंऽकारपूर्वकम् ॥ १२.५६ ॥ "भूर्भुवस्सुवऽ रित्येव प्राङ्मुखश्च प्रदक्षिणम् । अदध्यात्समिधोऽध्वर्युः प्रत्योङ्कारं ततोऽनले ॥ १२.५७ ॥ होत्रा"ग्ने महाऽमित्युक्तेप्रभौः प्रवर इष्यते । राज्ञो वा राजपत्म्या वा तथामात्यस्य वा भवेत् ॥ १२.५८ ॥ ग्रामश्चेद्यजमानस्तु वसिष्ठप्रवरं वदेत् । अथ वा कारयेद्विद्वान् काश्यप्रवरं वदन् ॥ १२.५९ ॥ वैश्यादन्यत्र जातीयो यजमानो भवेद्यदि । तस्य तु प्रवरं हित्वा काश्यपप्रवरं वदेत् ॥ १२.६० ॥ तत "आयातु भगवाऽनुक्त्वा पश्चिमदिङ्मुखः । विष्ण्वादि भूत पर्यन्तं सर्वमूर्ती स्तदाह्वयेत् ॥ १२.६१ ॥ ननधोक्तेन मार्गेण पार्षदानाह्वयेद्बुधः । आवाहन क्रमेणैव निरुप्याऽज्याहुतीर्यजेत् ॥ १२.६२ ॥ सभ्याग्निं च परिस्तीर्य प्राणायामादिपूर्वकम् । "स्वस्तिचैऽवेति हुत्वातु तथा चैव "प्रजापतेःऽ ॥ १२.६३ ॥ "अग्निर्धीमतऽयेत्युक्त्वा "आदित्येभ्यऽस्तथैव च । "विश्वेभ्यो देवेभ्यऽश्चैव "मरुद्गणेभ्यऽएव च ॥ १२.६४ ॥ "भूरग्नयेऽचैवमाद्याश्चतस्रो व्याहृतीर्यजेत् । दशभिश्सतशस्त्वेतैस्सहस्राहुतिरुच्यते ॥ १२.६५ ॥ स्रुवेण स्रावयन् विद्वानविच्छिन्नं समाचरेत् । विष्णुसूक्तं समुच्चार्य सूक्तं पौरुषमेव च ॥ १२.६६ ॥ श्रीसूक्तं भूमिदैवत्य मतोदेवादि वैष्णवम् । एकाक्षरादिसूक्तं तु विष्णुगायत्रिया युतम् ॥ १२.६७ ॥ एतैन्तु सप्तभिस्सूक्तैश्चतुरावर्त्य हूयताम् । एतत्कर्तुमशक्तश्चेत्सकृद्वात्र समाचरेत् ॥ १२.६८ ॥ अष्टाक्षरेण मन्त्रेण द्वादशाक्षरकेण वा । वैष्णवं विष्णुगायत्रीं जुहुयादिति के चन ॥ १२.६९ ॥ ततश्चाहावनीयाग्निकुण्डे सम्यग्यथाक्रमम् । यजेत्पुरुषसूक्तं तु षोडशावर्त्य यत्नतः ॥ १२.७० ॥ अन्वाहार्वाग्निकुण्डे तु विष्णुसूक्तं सुहूयताम् । ब्राह्मञ्च व्याहृतीश्चैव जयादीन् जुहुयात्क्रमात् ॥ १२.७१ ॥ श्रीसूक्तं वैष्णवं चैव जुहुयाद्गार्हपत्यके । आवसद्थ्ये विशेषेण वैष्णवं रुद्रसूक्तकम् ॥ १२.७२ ॥ महीसूक्तं च जुहुयत्सूक्तमेकाक्षरादिकम् । पैण्डरीके तु जुहुयात्पारमात्मिकसंयुतम् ॥ १२.७३ ॥ रक्ताब्जं बिल्वपत्रं च श्वेताब्जानामसंभवे । घृतेनाप्लुत्य जुहुयाद्विष्णुगायत्रिया बुधः ॥ १२.७४ ॥ समिदाज्यं चरुर्लाजाः सर्षपाश्च यवास्तथा । तिलं तिल्वं तथा मुद्गा माषास्सक्तुर्गुडं तथा ॥ १२.७५ ॥ मध्वपूपा दधि क्षीरं होमद्रव्यमितीरितम् । एतैस्सप्तदशद्रव्यैर्वैष्णवं जुहुयाद्बुधः ॥ १२.७६ ॥ जुह्वाचैवोपजुह्वा च विष्णुसूक्तं सुहूयताम् । सभ्ये च वैण्डरीके च स्विष्टाकारं विना चरेत् ॥ १२.७७ ॥ अग्निष्वाहवनीयादिष्वन्तहोमं समाचरेत् । ऋगादींश्च चतुर्दिक्षु वेदानध्यापयेत्क्रमात् ॥ १२.७८ ॥ एवमध्ययनं प्रोक्त"मृचां प्राचीऽरिति श्रुतिः । नृत्तैगेन्यैश्च वाद्यैश्च रात्रिशेषं नयत्क्रमात् ॥ १२.७९ ॥ ततःप्रभाते धर्मात्मा स्नात्वास्नानविधानतः । ब्रह्मयज्ञं च कृत्वा तु जपेत्सूक्तानि द्वादश ॥ १२.८० ॥ पादौ प्रक्ष्याल्य चाचम्य देवानुद्धाप्य मन्त्रवत् । पूर्ववस्त्रं विसृज्यैव पुनरन्यद्विभूष्य च ॥ १२.८१ ॥ ब्रह्मस्थाने विशेषेण पीठं सम्यक्प्रकल्पयेत् । तदूर्ध्वे कल्पयेद्विद्वान्नवभागं विभज्य च ॥ १२.८२ ॥ पूर्वोक्तेन क्रमेणैव रत्नन्यासे समाचरेत् । सुधया परिपूर्यैव क्षौमेनाच्छादयेद्बुधः ॥ १२.८३ ॥ यजमानस्तु तत्काले आचार्यादीन् प्रणम्यच । सपादनवनिष्कं च गुरवे दक्षिणां ददेत् ॥ १२.८४ ॥ प्रत्येकं स्थापकादीनां पञ्चनिष्कं ददेत्तदा । सभ्याध्वर्योर्विशेषेण होतुश्चापि तथैव च ॥ १२.८५ ॥ पैण्डरीकस्य चाध्वर्योः प्रत्येकं पञ्चनिष्ककम् । अन्येष्वाहवनीयादिष्वध्वर्यूणां चतुभन्वेत् ॥ १२.८६ ॥ पषन्द्धामसु चाध्वर्योरन्येषां च पृथक्पृथक् । निष्कं पादाधिकं दद्यात्संपूर्णमिति पठ्यते ॥ १२.८७ ॥ आचार्यस्य नियोगेन दक्षिणादानमीरितम् । यजमानस्स्वतन्त्रेण न कुर्यादिति शासनम् ॥ १२.८८ ॥ हन्त्यल्पदक्षिणो यज्ञो यजमानं विशेषतः । अदक्षिणं तु यजनं निष्फलं त्विति शासनम् ॥ १२.८९ ॥ मुहूर्ते समनुप्राप्ते वाद्यघोषसमन्वितम् । तोयधारासमायुक्तं स्वस्तिसूक्तं समुच्चरन् ॥ १२.९० ॥ आचार्यः कुंभमादाय व्रजेत्पूर्वं ततःक्रमात् । नयेयुस्थ्सापकाः पश्चाद्देवं देप्यादिसंयुतम् ॥ १२.९१ ॥ प्रदक्षिणं शनैगन्त्वा देवागारं प्रविश्य च । पीठस्य दक्षिणे भागे धान्यपीठे प्रकल्पिते ॥ १२.९२ ॥ आचार्यस्सन्न्यसेत्कुंभं देवं चादायचात्वरः । कौतुकं ब्रह्मस्थाने तु स्थापयित्वा विचक्षणः ॥ १२.९३ ॥ "भूरसि भूंऽ इत्युक्त्वा पीठे देवं सुयोजयेत् । तस्य दक्षिणपाशेन्व्तु श्रीदेवीं स्थापयेद्बुधः ॥ १२.९४ ॥ तथैव वामपाशेन्व्तु भूमिं कुर्यात्प्रतिष्ठिताम् । देवस्य वामभागे तु स्थापयेद्बिंबमोत्सवम् ॥ १२.९५ ॥ स्नापनं बलिबेरं च दक्षिणे स्थापयेद्बुधः । विष्णुसूक्तं च जप्त्यैव पुरुषसूक्तयुतं तथा ॥ १२.९६ ॥ ध्रुवसूक्तं वैष्णवं च देवीभ्यां च पृथक्पृथक् । श्रीभूसूक्तं पृथक्जप्त्वा पश्चान्न्यासं समाचरेत् ॥ १२.९७ ॥ "सुवभुन्वभून्ऽरित्युक्त्वा चाक्षराणि विशेषतः । पादयोरन्तरे विद्वान् यकारं विन्यसेत्ततः ॥ १२.९८ ॥ बिंबस्य हृदये सम्यङ्न्यसेद्बीजाक्षरं परम् । रुक्माभं परमं बीजं सर्वकारणकारणम् ॥ १२.९९ ॥ तरुणार्क सहस्राभं ब्रह्मेशाभ्यां नमस्कृतम् । पद्मासनस्थं देवेशं श्रीवत्कालङ्कृतोरसम् ॥ १२.१०० ॥ शङ्खचक्रधरं सौम्यं सर्वाभरण भूषितम् । "ओऽमित्येकाक्षरं ब्रह्म प्रणवः परिपठ्यते ॥ १२.१०१ ॥ "श्रीऽकारं श्रिय इत्युक्त्वा "लऽकारं भुव इत्यपि । कूर्चेनादाय तत्तोयं कुंभस्थं शक्तिसंयुतम् ॥ १२.१०२ ॥ "इदं विष्णुऽस्समुच्चार्य समादाय समाहितः । "आयातु भगवाऽनुक्त्वाध्रुवबेरस्य मूर्धवि ॥ १२.१०३ ॥ विष्णुं च पुरुषं सत्यमच्युतं चानिरुद्धकम् । अचले देवदेवेशो व्याप्य तिष्ठतीति श्रुतिः ॥ १२.१०४ ॥ "श्रिये जाऽतेति मन्त्रेण श्रियमावाहयेद्बुधः । "मेदिऽनीति च मन्त्रेण हरिणीं सम्यगाह्वयेत् ॥ १२.१०५ ॥ कौतुकेचौत्सवेचैव स्नापने बलिबेरके । प्रणिधिमुद्धृत्य तत्काले दीपाद्दीपमिव क्रमात् ॥ १२.१०६ ॥ ध्रुवबेरात्समावाह्य कूर्चेनावाहयेत्क्रमात् । नवधा मार्गमालोक्य यथेष्टं कर्तुरिच्छया ॥ १२.१०७ ॥ अविच्छिन्नार्ऽचनं नित्यं विधिनैव प्रकल्पयेत् । अशक्तश्चेत्तथाकर्तुं प्रतिष्ठां नैव कारयेत् ॥ १२.१०८ ॥ आढ्यस्सर्वसमस्त्यागी चिकीर्षुर्विष्णुमन्दिरम् । स्वार्थं कृत्वा त्रिधैकांशं कुटुंबार्थे विधाय च ॥ १२.१०९ ॥ अंशाभ्यामवशिष्टाभ्यां विमानार्चनमारभेत् । आपद्यपि च कष्टायां न द्रुह्येदात्मने बुधः ॥ १२.११० ॥ अविच्छिन्ना यथा पूजा विधिना संप्रवर्तते । तथा प्रकल्पयेद्विद्वान् भूमिभोगेन वै स्थितिम् ॥ १२.१११ ॥ अर्चकस्यार्ऽचनार्ऽथं च कुटुंबार्थं च यत्नतः । अत्यन्तपुष्कलां भूमिं बहुसस्योचितां तथा ॥ १२.११२ ॥ करग्रहादि रहितामर्चकाय समर्पयेत् । ततश्च ताम्रपट्टादौ लेख्य सीमाविनिश्चयम् ॥ १२.११३ ॥ देवनाम्नैव तां भूमिं दद्यादर्चकजीविकाम् । इदमग्रे प्रकुर्वीति तदधीना स्थितिर्हरेः ॥ १२.११४ ॥ पिता हरिस्तु भगवानर्चकः पुत्र उच्यते । पुत्रस्यन लिखेन्नाम सन्निधाने पितुःक्रमात् ॥ १२.११५ ॥ अर्चकस्सुप्रसन्नात्मा हरिदेव हि केवलम् । अथ वा विलिखेद्विद्वान्नाम्ना वा पूजक स्य च ॥ १२.११६ ॥ तथार्ऽचकस्य चावासमालयस्य समीपतः । शिलाभिस्सुदृढं कृत्वा वासायास्य प्रशस्यते ॥ १२.११७ ॥ अक्लेशेन यथा जीवेदर्चकस्सुसमाहितः । यावच्चन्द्रदिवानाथं तथा कुर्यात्प्रयत्नतः ॥ १२.११८ ॥ अर्चके क्लेशयुक्तेतु क्लिश्यते भगवान् हरिः । अर्चके तु सुसंतुष्टे तदा तुष्टो जनार्दनः ॥ १२.११९ ॥ रूपद्वयं हरेः प्रोक्तं बिंबमर्चक एवच । बिंबे त्वावाहनादर्वाक्सदा सन्निहितोर्ऽचके ॥ १२.१२० ॥ पुनर्विचिन्त्य धर्मात्मा यजमानो मुदान्वितः । शक्तिलोभमकृत्वैव करोति विभवान्तरम् ॥ १२.१२१ ॥ पञ्चपर्वसु संक्रान्तौ पुण्याहेष्वितरेषु च । विशेष पूजनार्थञ्च हविरर्थं च यत्नतः ॥ १२.१२२ ॥ स्नपनार्थं चोत्सवार्थं प्रायश्चित्तार्थमेव च । नटनर्तकदासीनाङ्गायकानां चशक्तितः ॥ १२.१२३ ॥ विद्यार्थिनां च भक्तानामन्यस्य विभवस्य च । वृत्तिं तुपरिकल्प्यैव भूरूपां पुरतो हरेः ॥ १२.१२४ ॥ ददात्याचार्यहस्ते तु मन्त्रोदकपुरस्सरम् । अन्येषां विभवानां चतथैवान्यपदार्थिनाम् ॥ १२.१२५ ॥ तत्तन्नाम्नैव भूम्यादिं दापयेद्देशिकोत्तमः । आचार्यस्यापि तन्नाम्ना कल्पयेद्वृत्तिमुत्तमाम् ॥ १२.१२६ ॥ एवं यः कुरुते भक्त्या ऐहिकामुष्मिकं फलम् । पशुभृत्यादिभोगांश्च वाहनादीन् विशेषतः ॥ १२.१२७ ॥ सुवर्णरत्नधान्यादीनत्यन्तं समवाप्नुयात् । तस्य कायकृतं पापं तत्क्षणादेव नश्यति ॥ १२.१२८ ॥ यं यं कामयते सर्वन्तं तमाप्नोत्यसंशयम् । पूर्वजातिगतास्तस्य पितरः पितुरन्वये ॥ १२.१२९ ॥ मातृपक्षे च येजातास्तस्य मातामहादयः । सर्वेपि त्रिदिवं यान्ति मोदन्ते त्रिदिवे चिरम् ॥ १२.१३० ॥ ततो यास्यन्ति वैकुण्ठं निस्समाभ्यधिकं महः । यस्सम्यक्पालयेदेतदधिकं यश्च वर्धयेत् ॥ १२.१३१ ॥ आद्येष्टकादि निर्माणफलमेव प्रपद्यते । सर्वाशुभविनाशं च लब्ध्वाचेष्टमवाप्य च ॥ १२.१३२ ॥ अन्ते विमानमारुह्य विष्णोर्याति परं पदम् । किं बहूक्तेन विधिना न दैवं केशवात्परम् ॥ १२.१३३ ॥ तं विष्णुं पूजयेन्नित्यं सर्वसाधनसाधनम् । सर्वमुक्तिप्रदं नित्यं सर्वकामफलप्रदम् ॥ १२.१३४ ॥ ग्रामाग्रहारयोस्सम्यगर्चनं तत्र वासिनाम् । सर्वसिद्धिप्रदं नित्यं पुत्रपौत्रप्रवर्धनम् ॥ १२.१३५ ॥ सामान्यमग्नि होत्रं स्यादनग्नीनां तपोधनाः । साग्नीनामप्यविज्ञातप्रायश्चित्ताय कल्पते ॥ १२.१३६ ॥ तस्मात्कुर्यादविच्छिन्नमर्चनं सर्वयत्नतः ॥ १२.१३६ ॥ इति श्रीवैखानसे भगवच्छास्त्रे भृगुप्रोक्तायां संहितायां प्रकीर्णाधिकारे द्वादशोऽध्यायः. _____________________________________________________________ अथ त्रयोदशोऽध्यायः. अथ त्रयोदशोऽध्यायः. नवषट्पञ्चमूर्तिविधानम् अत ऊर्ध्वं प्रवक्ष्यामि नवषट्पञ्चमूर्तिकम् । विष्णुं च पुरुषं सत्यमच्युतं चाविरुद्धकम् ॥ १३.१ ॥ नरनारायणाभ्यां तु वाराहं नारसिंहकम् । एवं तु नवमूर्तिस्तु स्थापयित्वा यधाविधि ॥ १३.२ ॥ विष्ण्वादिपञ्चमूर्तीस्तु अदिमूर्तिन्तथाक्रमात् । स्थापयेत्तत्क्रमेणैव षण्मूर्तिकमिहोच्यते ॥ १३.३ ॥ विष्ण्वादीनां तु पञ्चानां स्थापनं पञ्चमूर्तिकम् । दशावतारकल्पः मत्स्यः कूर्मोवराहश्च नारसिंहोऽथ वामनः ॥ १३.४ ॥ रामो रामश्च रामश्च कृष्णः कर्किरिमे दश । सर्गकाले तु भगवान् सृष्ट्वा विखनसं गुरुम् ॥ १३.५ ॥ वेदानुपादिशत्तस्मै लोकसंरक्षणक्षमान् । पुरा मध्वादयः काले संभूय भुवि राक्षसाः ॥ १३.६ ॥ अपाहरंस्तु तान् वेदान् बलात्कृत्व विधिं मुहुः । तदा तु सोमकं हन्तुं राक्षसं रणविक्रमम् ॥ १३.७ ॥ अन्तर्हितमकूपारे मात्स्यं भावं गतो हरिः । हत्वा तु सोमङ्कं पश्चाद्वेदानब्जभुवे ददौ ॥ १३.८ ॥ ग्रामादिषु च सर्वत्र मध्यमे पश्चिमेऽपिवा । हस्तिपृष्ठविमाने तु कुंभाकारविमानके ॥ १३.९ ॥ द्वितालेनोत्तमं कुर्यान्मानमेतदुदाहृतम् । अवतारस्य सर्वस्य कौतुकं स्याच्छतुर्भुजम् ॥ १३.१० ॥ विशेषमत्र वक्ष्यामि प्रधानेऽब्जावले क्रमात् । हौत्रप्रशंसनं कृत्वा देवतावाहनं चरेत् ॥ १३.११ ॥ "मत्स्यं च जलजं चेति भद्रं क्रीडात्मकंऽतथा । एवमादिभिरावाह्य चान्यत्पूर्ववदाचरेत् ॥ १३.१२ ॥ "यस्स्वयं सृष्टऽमित्युक्त्वा शतमष्टोत्तरं यजेत् । यथोक्तेनैव मार्गेण संस्थाप्य विधिनार्ऽचयेत् ॥ १३.१३ ॥ कूर्मः देवासुरार्थं मृते कृतयुगे हरिः । कच्छपस्समभूद्धर्तुं मन्धरं तं महाचलम् ॥ १३.१४ ॥ ग्रामादौ वास्तुमध्ये च पर्वताग्रे विशेषतः । नन्द्यावर्तविमाने वा फेलाकारविमानके ॥ १३.१५ ॥ एकतालेन मानेन कूर्मरूपं विधीयते । कूर्मरूपं ध्रुवं कुर्यात्कौतुकं तु चतुर्भुजम् ॥ १३.१६ ॥ प्रतिष्ठां पूर्ववत्कुर्याद्गार्हपत्ये विशेषतः । हौत्रमत्र प्रशंसन्ति मूर्तिमस्त्रमथोच्यते ॥ १३.१७ ॥ "अकूपारं कूर्मरूपं विष्णुं च वसुधाधरम्ऽ । "अकूपारं जलं कूर्मं कच्छपंऽत्विति के च न ॥ १३.१८ ॥ समावाह्य तु तैरेव निरुप्याज्याहुतीर्यजेत् । "रायामीशऽस्समुच्चार्य शतमष्टाधिकं यजेत् ॥ १३.१९ ॥ उक्तवत्थ्सापयेद्विद्वान् विधिना सम्यगर्चयेत् । मत्स्यकूर्मौ द्विधा प्रोक्तौकिं चिद्भेदं प्रचक्षते ॥ १३.२० ॥ द्विभुजौ केचिदिच्छन्ति केचिदिष्टभुजौ बुधाः । वराहः देवमानुषतिर्यञ्च स्थावरा जङ्गमास्तथा ॥ १३.२१ ॥ पुरासृष्टा यथा सर्वे चत्वारो भुवि जन्तवः । जरायुजाण्डजोद्भिज्जन्वेदजाश्चेति जातितः ॥ १३.२२ ॥ एवं प्रवर्तमाने तु हिरण्याक्षो महाबलः । रसातलमगाद्धृत्वा चराचरधरां महीम् ॥ १३.२३ ॥ महावराहवपुषा तां तदोद्धृतवान् हरिः । वराहस्त्रिविधः प्रोक्तो देवस्याविष्कृतौ पुनः ॥ १३.२४ ॥ क्रमादादिवराहश्च वराहः प्रलयात्मकः । यज्ञवाराह इत्येवं त्रिविधिस्संप्रकीर्तितः ॥ १३.२५ ॥ विमाने पर्वताकारे श्रीप्रतिष्ठितके तथा । दशतालेन मानेन देवं सूकरमाचरेत् ॥ १३.२६ ॥ चतुबान्हुसमायुक्तं शङ्खचक्रधरं परम् । वामपादं समाकुञ्च्य महीमुद्धृत्य सादरम् ॥ १३.२७ ॥ दक्षिणं चण्डितं कुर्यान्महीमूरौ समाचरेत् । महीं च श्यामवर्णां तु कुर्याच्चैव विधानतः ॥ १३.२८ ॥ एवमादिवराहन्तु कारयेल्लक्षणान्वितम् । अवान्तरमनुप्राप्य यदा तु प्रलयं हरिः ॥ १३.२९ ॥ तत्तोयमुपसंहर्तुं वराहं रूपमास्थितः । ततः प्रलयवाराहं पुराभूतं च कारयेत् ॥ १३.३० ॥ शङ्खचक्रधरं सौम्यं पीतांबरधरं हरिम् । दक्षिणं चाभयं हस्तं वामं कट्यवलंबितम्, ॥ १३.३१ ॥ महीं तु दक्षिणे कुर्यात्सश्यामनिभां तथा । सुखासनक्रमेणैव चासीनां वा स्वलङ्कृताम् ॥ १३.३२ ॥ एवं प्रलयवाराहं कारयेत्तु विचक्षणः । हिरण्याक्षःपुरा रक्षो बलवान् बलिनां वरः ॥ १३.३३ ॥ वरेण गर्वाद्दुर्बुद्धिर्यज्ञविद्वेषकोऽवृधत् । अवातरत्तदा विष्णुवन् रसूकरमूर्तिमान् ॥ १३.३४ ॥ हत्वा सदैत्यं सबलं पश्चाद्यज्ञान्न्यवर्तयत् । तस्माद्यज्ञवराहं तु तञ्च कुर्याद्विधानतः ॥ १३.३५ ॥ श्वेतं यज्ञवराहं तु श्रीभूमिभ्यां सहैव वा । सुखासने समासीनं कुर्याल्लक्षणसंयुतम् ॥ १३.३६ ॥ त्रयाणां च वराहाणां स्थापने भेद उच्यते । पूर्वोक्तेन क्रमेणैव सर्वं कृत्वा विशेषतः ॥ १३.३७ ॥ सभ्याग्निकुण्डे रात्रौतु हौत्रशंसनमाचरेत् । "वराहं वरदं विष्णुमुर्वीसंधारणं तथा ॥ १३.३८ ॥ वज्रदंष्ट्रऽमिति प्रोच्य देवमादिवराहकम् । "महीं तां पृथुलामुर्वीऽमिति देवीं महीं क्रमात् ॥ १३.३९ ॥ आवाहयेद्यथान्यायमन्वत्सर्वं समाचरेत् । "वाराहं प्रलयहरं भूतेशं विष्णुमेव च ॥ १३.४० ॥ जगत्त्रयात्मकंऽ चोक्त्वा वराहं प्रलयात्मकम् । "वराहं देवरूपं च यज्ञेशं यज्ञवर्धकम् ॥ १३.४१ ॥ विष्णुंऽ चेति तथा देवं यज्ञवाराहमाह्वयेत् । आवाहनादिसर्वत्र पूर्ववत्कारयेद्बुधः ॥ १३.४२ ॥ "क्ष्मामेकाऽमिति मन्त्रेण यजेदष्टोत्तरं शतम् । हरेरुक्तविधानेन सर्वं पूर्ववदाचरेत् ॥ १३.४३ ॥ नारसिंहः हिरण्यकशिपुर्नाम दैत्यानां प्रबलोऽभवत् । वरेण गर्वाद्दैत्येन्द्रो हिरण्यकशिपुस्तदा ॥ १३.४४ ॥ देवैर्मृगैर्मनुष्यैर्वा जीविभिर्वाप्यजीविभिः । दिवा वा यदि वा रात्रौ वधो मे न भवेदिति ॥ १३.४५ ॥ लोकानुद्वेजयमास तदा तं दैत्यसत्तमम् । हन्तुकामः कृतोद्योगश्चिन्तयित्वा हरिः प्रभुः ॥ १३.४६ ॥ तत्पालितपुराद्बाह्ये महापर्वतमस्तके । रक्षसा पीडितैर्देवैः प्रार्थितः करुणानिधिः ॥ १३.४७ ॥ नरसिंहवपुर्भूत्वा दिवा रात्रिं व्यपोह्य च । संध्याकालेऽवधीत्तन्तु भुवङ्गे स नखायथः ॥ १३.४८ ॥ बाह्यमाभ्यस्तरं हित्वा जीवाजीवैर्नखैश्शुभैः । एवं दैत्यवधं कृत्वा पर्वतेऽन्तरभूथरिः ॥ १३.४९ ॥ ततस्तमर्चयेद्भक्त्या विजयार्थं विवृद्धये । पर्वताकृतिके वापि श्रीप्रतिष्ठितकेऽपिवा ॥ १३.५० ॥ दशतालेन मानेन नरसिंहं प्रकल्पयेत् । गिरिजं स्थूणजं चैव सुदर्शननृसिंहकम् ॥ १३.५१ ॥ तथा लक्ष्मीनृसिंहं च पातालनरसिंहकम् । तथा पुच्छनृसिंहं च नृसिंहं षड्विधं विदुः ॥ १३.५२ ॥ सिंहासने समासीनं सर्वाभरण भूषितम् । नारसिंहं चतुर्बाहुं शङ्खचक्रधरं परम् ॥ १३.५३ ॥ पादौ द्वौ च समाकुञ्च्य न्यस्य सिंहासने स्थितम् । प्रसार्य हस्तौ द्वौ जान्वोस्तयोरूर्ध्वे निधाय च ॥ १३.५४ ॥ वस्त्रेण चोरू बद्ध्वैवमासीनं गिरिजं तथा । श्रियं कनकवर्णाभां मेदिनीं श्यामसन्निभाम् ॥ १३.५५ ॥ ब्रह्मेशौ वन्दमानौ तु दक्षिणोत्तरयोः क्रमात् । वाहनं सामवेदं च प्रमुखे संप्रकल्पयेत् ॥ १३.५६ ॥ साम श्यामनिभं कुर्यात्सर्वाभरणभूषितम् । भूमीशो नामगन्धर्वो शैषिकस्थानमाश्रितः ॥ १३.५७ ॥ कारयेदुक्तवर्णन्तं सर्वाभरणभूषितम् । स्थूणजं संप्रवक्ष्यामि स्थूणादाविर्बभौ हरिः ॥ १३.५८ ॥ वामपादं समाकुञ्च्य दक्षिणं संप्रसार्य च । चतुर्भुजधरं देवं शङ्खचक्रेच कारयेत् ॥ १३.५९ ॥ हस्तं तु दक्षिणं पूर्वं कुर्याद्दानकरं तधा । वामहस्तं प्रबद्ध्यैव ऊरौ च तु सुविन्यसेत् ॥ १३.६० ॥ सटाकन्धरसंयुक्तं तीक्ष्णदंष्ट्रं भयानकम् । शङ्खकुन्देन्दुधवलं सर्वाभरणभूषेतम् ॥ १३.६१ ॥ सुदर्शननृसिंहस्य लक्षणं संप्रवक्ष्यते । सूर्यकोटिप्रतीकाशं चक्रं विमलमुज्ज्वलम् ॥ १३.६२ ॥ बृहद्भानुपुरद्वन्द्वं चक्रमध्ये प्रकल्पयेत् । चक्रमध्ये समासीनं नृसिंहमरुणप्रभम् ॥ १३.६३ ॥ अत्यन्तभीषणाकारं भक्तानामभयप्रदम् । चक्रायुधं चतुर्बाहुं देवदेवं प्रकल्पयेत् ॥ १३.६४ ॥ वक्ष्येलक्ष्मीरृसिंहस्य लक्षणं मुनिसत्तमाः । वामपादं समाकुञ्च्य दक्षिणं संप्रसार्य च ॥ १३.६५ ॥ वामोरौ श्रियमासीनां प्रांजलीकृतवास्तकाम् । वामहस्तेन देह्यश्च कुर्वन्तमुपगूहनम् ॥ १३.६६ ॥ दक्षिणं त्वभयं कुर्यात्पराभ्यां शङ्कचक्रके । पातालनारसिंहाख्यमासीनं पूर्ववत्तथा ॥ १३.६७ ॥ फणैस्तु पञ्चभिस्सम्यक्छन्नमूर्धानमेव च । दक्षिणादक्षिणं हस्तं वरदं कटीकं तथा ॥ १३.६८ ॥ वक्ष्ये पुच्छनृसिंहस्तु पुच्छयुक्तं तु कारयेत् । अभयं दक्षिणं हस्तं वाममूरुप्रतिष्ठितम् ॥ १३.६९ ॥ दक्षिणं पादमाकुञ्च्य सर्वाभरणभूषितम् । नारसिंहमिदं कृत्वास्थापनारंभमाचरेत् ॥ १३.७० ॥ तत्रचाहवनीयाग्नौ हौत्रशंसनमाचरेत् । "नारसिंहं तपोनाथं महाविष्णुं महाबलम् ॥ १३.७१ ॥ भक्तवत्सलऽ मित्युक्त्वा नरसिंहं समाह्वयेत् । "तपोनिधिंऽ समुच्चार्य शतमष्टाधिकं यजेत् ॥ १३.७२ ॥ स्नापनं चोत्सवं चैव हरेरिव विधानतः ॥ १३.७३ ॥ इति श्रीवैखानसे भगवच्छास्त्रे भृगुप्रोक्तायां संहितायां प्रकीर्णाधिकारे त्रयोदशोऽध्यायः. _____________________________________________________________ अथ चतुर्दशोऽध्यायः. अथ चतुर्दशोऽध्यायः. दशावतारकल्पः (वामनः) अथातस्संप्रवक्ष्यामि वामनस्य क्रमं यथा । वैरोचनसुतोह्युग्रो बली च बलिनां वरः ॥ १४.१ ॥ तद्बलस्यापहारार्थं काश्यपाज्जायते हरिः । हरिर्वामनरूपोऽभूच्छत्री दण्डी च वेदवित् ॥ १४.२ ॥ वटबीजेन सदृशः केवलं सूत्रदण्डभृत् । वर्तमाने महायज्ञे बलेर्वैरोचनेः पुरा ॥ १४.३ ॥ तद्यज्ञशालां संप्राप्य वटुरूपो महाहरिः । त्वं देहि त्रिपदीं मह्यं गामित्यूचे स्वमायया ॥ १४.४ ॥ बलिश्च त्रिपदं तस्मैप्रादात्तोयसमन्वितम् । हस्तेजले पतत्याशु भद्रं रूपमवाप्य च ॥ १४.५ ॥ देवस्त्रैविक्रमं रूपं सर्वं लोकं तदाग्रहीत् । त्रिविक्रमप्रतिष्ठायां विशेषस्संप्रवक्ष्यते ॥ १४.६ ॥ वसन्त्विमाने वा भद्रके हस्तिभद्रके (?) । दीर्घशारे महाकूटे स्थापनं सर्वसिद्धिदम् ॥ १४.७ ॥ दशतालेन मानेन देवदेवं प्रकल्पयेत् । सव्यं पादं स्थितं कुर्याद्दक्षिणं चोद्थितं भवेत् ॥ १४.८ ॥ चतुर्भुजं प्रकुर्वीत संयुतं वाष्टभिर्भुजैः । दक्षिणे शार्ङ्गमालंब्य भूम्यां चैव प्रस्र्य च ॥ १४.९ ॥ शरं च दक्षिणे हस्ते खड्गं चैव तथा भवेत् । गदा वामकरे प्रोक्ता तथा खेटकमेव च ॥ १४.१० ॥ चक्रशङ्खेतथा कुर्यादूर्ध्वबाहोर्विचक्षणः । एवमेव प्रकुर्वीत वसुहस्तं प्रकल्पयन् ॥ १४.११ ॥ सस्यश्यामनिभं कुर्याद्धर्ष वेगसमन्वितम् । सर्वाभरण संयुक्तं कीरीटादिविभूषितम् ॥ १४.१२ ॥ इन्द्रं सस्यनिभं कुर्याद्वामपार्श्वे च सुस्थितम् । दक्षिणे धर्मराजं च पुष्पमालाधरं पुनः ॥ १४.१३ ॥ दक्षिणे भित्तिपोर्श्वे तु ब्रह्माणं च प्रकल्बयेत् । हस्ताभ्यां कुंभयोश्चैव पादप्रक्षालनं चरेत् ॥ १४.१४ ॥ तस्यपादांबुजे चैव जातां गङ्गां च सुन्दरीम् । प्राञ्जलीकृत्य हस्ताभ्यां नाभेरूल्रावं शरीरगौ ॥ १४.१५ ॥ पार्श्वयोरुभयोश्चापि चन्द्रादित्यौ च पूर्ववत् । जांबवन्तं तथा भेरीं ताडयस्तं नराकृतिम् ॥ १४.१६ ॥ इन्द्रं श्यामनिभं कुर्याद्यममञ्जनसन्निभम् । आदित्यं चाग्नि वर्णं च चन्द्रं श्तेतं तथा चरेत् ॥ १४.१७ ॥ पीतवर्णं बलिं कुर्यान्नीलाभं जांबवन्तकम् । ब्रह्माणं पीतवर्णं च श्यामवर्णां च जाह्नवीम् ॥ १४.१८ ॥ एवं वर्णक्रमेणैव चित्राभासं च कारयेत् । पूजकौ तु प्रकुर्वीत तथा शक्रबृहस्पती ॥ १४.१९ ॥ शङ्खं दक्षिणतः कुर्याच्चक्रं वामे समर्चयेत् । अमूर्तं वा समूर्तं वा कल्पयित्वा यथाक्रमम् ॥ १४.२० ॥ शुक्रं शुक्लनिभं कुर्यात्पीतवर्णं बृहस्पतिम् । महीं दक्षिणतः पार्श्वेस्थितामेवं प्रकल्पयेत् ॥ १४.२१ ॥ उदङ्मुखीं च कुर्दीत पद्महस्तां च दक्षिणे । वामे प्रसारितां चैव सर्वरत्न विभूषिताम् ॥ १४.२२ ॥ तस्याःपूर्वे तथा कुर्यात्प्रह्लादं चोत्तरामुखम् । जटामुकुटसंयुक्तं सर्वाभरणभूषितम् ॥ १४.२३ ॥ हृदयेंजलिसंयुक्तं शुकवत्रनिभांबरम् । तस्यचोत्तरपार्श्वे तु ब्रह्मासूत्रस्य दक्षिणे ॥ १४.२४ ॥ असुरेन्द्रं तथासीनं विनतं पश्चिमामुखम् । ब्रह्माञ्जलि समायुक्तं कीरीटादिविभूषितम् ॥ १४.२५ ॥ एवं वैरोचनिं कुर्यात्पुष्पांबरधरंपरम् । नमुचिं च समासीनं पादपीठावलंबिनम् ॥ १४.२६ ॥ वामपार्श्वे समासीनं पूर्वभित्तिसमाश्रयम् । कल्पयित्वा यथामार्गं शुक्रं चैव समागतम् ॥ १४.२७ ॥ वामपादं समासीनं दक्षिणं कुञ्चितं तथा । अभयं दक्षिणं हस्तं वामं कट्यवलंबितम् ॥ १४.२८ ॥ सर्वाभरण संयुक्तं पश्चिमामुखमेव च । तस्य चोत्तरपार्श्वेतु पक्षिराजं प्रकल्पयेत् ॥ १४.२९ ॥ दक्षिणामुखसंयुक्तं शुक्रेमुष्टिप्रहारिणम् । एवं गर्भगृहे प्रोक्तं विधिना कारयेद्बुधः ॥ १४.३० ॥ मण्डपे निम्नितस्थाने अनन्तं चोत्तरामुखम् । हृदयेंजलिसंयुक्तं स्थितमेवं प्रकल्पयेत् ॥ १४.३१ ॥ फणैस्तु पञ्चभिर्युक्तं सर्वाभरणभूषितम् । उत्तरे भित्तिपार्श्वेतु वासुकीं च प्रकल्पयेत् ॥ १४.३२ ॥ अन न्तवत्तथा कुर्याद्धर्ष वेगसमन्वितम् । एवमेव विधानेन कल्पयित्वा यथाक्रमम् ॥ १४.३३ ॥ श्यामवर्णां तथा देवीं प्रह्गादं पीतमेव च । कनकाभं बलिञ्चैव नमुचिं च तथै व च ॥ १४.३४ ॥ शक्रं तु पूर्ववत्कुर्यात्पञ्चवर्णं खगाधिपम् । अनन्तं पीतवर्णं च वासुकिं श्याममेव च ॥ १४.३५ ॥ एवं स्थानक्रमेणैव कूटयुक्तेन कारयेत् । अथ वा भित्तिपार्श्वे तु चित्राभासेऽधमाधमम् ॥ १४.३६ ॥ त्रिविक्रमं प्रवक्ष्यामि यथा कुर्याज्जगत्त्रये । एकं जानुसमं कुर्याद्द्वितीयं नाभितस्समम् ॥ १४.३७ ॥ तृतीयं तु ललाटान्तं त्रिविधं स्यात्त्रिविक्रमम् । महीं देवीं तथा चैव प्रह्लादं तु बलिं तथा ॥ १४.३८ ॥ नमुचिं च तथा शुक्रं गरुडं च तथा चरेत् । अनन्तं वासुकीं चैव मष्टांगस्थापनं चरेत् ॥ १४.३९ ॥ विष्णुं त्रिविक्रमं चेति त्रिलोकेशमतः परम् । विश्वेश्वरं त्रिमूर्ति च सर्पाधारऽ मितीरयेत् ॥ १४.४० ॥ "पीतवर्णं गुरुं चैव तैष्यं चैव बृहस्पतिम्ऽ । "समुचिं कनकाभं च पीतवाससमित्यपि ॥ १४.४१ ॥ श्यामलाङ्गमिति प्रोक्तंऽ मूर्तिमन्त्रं यथाक्रमम् । "हरिणीं च तथा पौष्णीं क्षौणीञ्चैव तथा महीम्.ऽ ॥ १४.४२ ॥ "प्रह्लादं वीर्यवित्तं च विष्णु भक्तं महाबलम्ऽ । "असुरेन्द्रं बलिं चेति वदान्यं वीरऽमेव च ॥ १४.४३ ॥ शुक्रस्य पूर्वमेवोक्तं गरुडस्य विधानतः । "काश्यपं गरुडं चैव वैनतेयं खगाधिपम् ॥ १४.४४ ॥ "सहस्रशीर्षं शेषं च नागराजमितीर्य च । अनस्तंऽ च समुच्चार्य शेषस्यावाहनं चरेत् ॥ १४.४५ ॥ "वासुकीं नागराजं च काद्रवेयं मनोरमम् । एवं मूर्तिक्रमश्चैव मष्टांगस्थापने चरेत् ॥ १४.४६ ॥ प्रतिष्ठोक्तक्रमेणैव सर्वं पूर्ववदाचरेत् । त्रिविक्रमप्रतिष्ठायामन्वाहार्ये विशेषतः ॥ १४.४७ ॥ तथा हौत्रं प्रशंस्यैव मूर्त्यावाहनमाचरेत् । जुष्टाकारं च कृत्वैव पूर्ववत्सर्वमाचरेत् ॥ १४.४८ ॥ "यो वा त्रिमूर्तिऽरित्येवं शतमष्टाधिकं यजेत् । कर्षणादिप्रतिष्ठान्तं पूर्ववत्सम्यगाचरेत् ॥ १४.४९ ॥ इति श्रीवैखानसे भगवच्छास्त्रे भृगुप्रोक्तायां संहितायां प्रकीर्णाधिकारे चतुर्दशोऽध्यायः. _____________________________________________________________ अथ पञ्चदशोऽध्यायः. अथ पञ्चदशोऽध्यायः. दशावतार कल्पः (रामः) भार्गवः अतः परशुरामस्य स्थापनं वक्ष्यतेऽधुना । बहुभिर्बलवद्भिस्तु राजभिर्धरणी हता ॥ १५.१ ॥ तद्वधाय कृतोद्योगो जमदग्निसुतो हरिः । भूत्वावतीर्णो लोकेस्मिन् भारनिर्हरणाय वै ॥ १५.२ ॥ परशुं च गृहीत्वोर्व्यां नृपान् सर्वान् प्रगृह्य च । जघान किलभूयोऽपि रामो भीमपराक्रमः ॥ १५.३ ॥ स्थापयेच्छत्रुनाशाय रामं परशुधारिणम् । श्रीप्रतिष्ठितके चैव अङ्गनाकार एव च ॥ १५.४ ॥ मध्यमं दशतालेन रामं द्विभुजमाचरेत् । परशं दक्षिणे हस्ते धृत्वाचैव विचक्षणम् ॥ १५.५ ॥ वाममुद्देशहस्तं च जटामुकुटशोभितम् । रक्तवर्णयुतं चैव श्वेतांबरधरं तथा ॥ १५.६ ॥ सर्पाभरणसंयुक्तं स्थानकं तत्र कारयेत् । तद्रूपं कौतुकं कुर्यादथ वा तं चतुर्भुजम् ॥ १५.७ ॥ अन्वाहार्ये प्रधानाग्नौ हौत्रशंसनमाचरेत् । "राममृषिसुतं विष्णुं परशुपाणिऽमितीरयेत् ॥ १५.८ ॥ इत्येवमुक्त्वा चावाह्य निरुप्याज्याहुतीर्यजेत् । "विष्णुर्वरिष्ठऽ इत्युक्त्वा शतमष्टाधिकं यजेत् ॥ १५.९ ॥ उत्सवस्नपनादीनि विष्णुवत्सर्वमाचरेत्दाशरधिः । रावणो बहुभिः क्रूरै राक्षसैश्च महाबलैः ॥ १५.१० ॥ त्रीन् लोकान् पीडयामास वरदानेन गर्वितः । देवास्संपीडितास्सर्वे मुनयश्चाखिलास्तथा ॥ १५.११ ॥ तैर्देवैर्मुनिभिस्सर्वैः संस्तुतो हरिरव्ययः । तद्वधाय कृतोद्योगो मानुषं रूपमास्थितः ॥ १५.१२ ॥ अवतीर्णस्सुतो भूत्वा राज्ञो दशरथस्य चऽ । रामस्तु राक्षसान् हत्वा सर्वान् लोकानपालयते ॥ १५.१३ ॥ पुष्ट्यर्थी विजयार्थी च वीरार्थी च विशेषतः । कूटागारेंगनाकारे फेलाकारं चतुष्फुटम् ॥ १५.१४ ॥ स्वस्तिकं वा विमानस्तु कृत्वाचैव विचक्षणः । राघवं तु प्रतिष्ठाप्य यथा वत्संप्रपूजयेत् ॥ १५.१५ ॥ अथातस्संप्रवक्ष्यामि रामलक्ष्मण लक्षणम् । सीताया वायुपुत्रस्य भरतस्यासुजस्य च ॥ १५.१६ ॥ मानोन्मानप्रमाणानि वक्ष्ये संक्षेपतः क्रमात् । उत्तमं दशतालेन मध्यमेन यथाक्रमम् ॥ १५.१७ ॥ उत्तमं राघवेन्द्रस्य मध्यमं लक्ष्मणस्य च । अन्तेनै व तु मासेन सीतायास्तूच्छ्रयो भवेत् ॥ १५.१८ ॥ नवतालेन मानेन वायुपुत्रं प्रकल्पयेत् । अधमं दशतालेन भरतस्यानुजस्य च ॥ १५.१९ ॥ एवं युक्तियुतेनैव क्रियते शास्त्रवित्तमैः । गर्भद्वारविमानाभ्यां बेरमानमिहोच्यते ॥ १५.२० ॥ उत्सव प्रतिमायान्तु सर्वेषामालयेषु वै । तद्देवभेदं मूर्तीनां तत्प्रमाणेन योजयेत् ॥ १५.२१ ॥ इष्यते गर्भमानन्तु पुष्यमानं? विभज्य च । उत्तमं पञ्चभागं तु चतुर्भागं तु मध्यमम् ॥ १५.२२ ॥ त्रिभागमधमं प्रोक्तं यथावच्छास्त्रवित्तमाः । गर्भमानं प्रवक्ष्यन्ति द्वारमानन्तु वक्ष्यते ॥ १५.२३ ॥ सप्तभागे चतुर्भागमुत्तमं तु विधीयते । त्षंशं तु मध्यमं प्रोक्तमर्थांशमधमं भवेत् ॥ १५.२४ ॥ द्वारमानमिदं प्रोक्तं क्रियायान्तु विशेषतः । रामस्याथ ललाटान्तं नासान्तं लक्ष्मणोच्छ्रयम् ॥ १५.२५ ॥ आस्यान्तमथ वा कुर्याद्वायुपुत्रस्य लक्षणम् । भरतस्यामजस्यापि तथा गलसमं भवेत् ॥ १५.२६ ॥ उष्णीषात्पादपर्यन्तं चतुर्विंशच्छताङ्गुलम् । षष्टिद्विगोलगं विद्यादेकत्षंशत्रिभागीकम्? ॥ १५.२७ ॥ तालानि दशभागैकमुत्तमं दशतालकम् । चतुर्भागाष्टभागं स्याच्चतुस्तालं तथैव च ॥ १५.२८ ॥ दशतालस्य त्षंशेन उत्तमं मध्यमाधमम् । मध्यमादधमं हीनं मुखे वार्धाङ्गुलक्षयम् ॥ १५.२९ ॥ उष्णीषमङ्गुलं नेत्रं शिरस्त्षङ्गुलमिष्यते । ललाटे हनुपर्यन्तं त्रयोदशार्धाङ्गुलं भवेत् ॥ १५.३० ॥ गलं चतुर्यवाः प्रोक्ताग्रीवा सार्धत्रियङ्गुला । हिक्का हृदयानाभ्यन्तं मेढ्रमूलं मुखत्रयम् ॥ १५.३१ ॥ मुखायामं चतुर्मात्रं लिङ्गं पञ्चाङ्गुलायतम् । नाभिरर्धाङ्गुलं ज्ञेयं निम्नार्धवरितालका ॥ १५.३२ ॥ श्रोणी भागार्धमेवं स्यात्कटिः पञ्चाङ्गुलं भवेत् । मेढ्रमूलादिजान्वन्तं सप्तविंशतिकांगुलम् ॥ १५.३३ ॥ जानुभागमिति प्रोक्तं जङ्घोरू सुसमायुतौ । चरणं चतुरङ्गुल्यं मनोर्देशविधानतः ॥ १५.३४ ॥ ब्रह्माङ्गुलमूखायामं त्रयोदशांगुलमेव च । कनिष्ठांगुलमायाममेकादशांगुलं भवेत् ॥ १५.३५ ॥ अक्ष्णामुष्णीषपर्यन्तं भागार्धाङ्गुलमुच्छ्रयम् । हिक्कासूत्रान्तमेवं स्वात्स्कन्धमूलद्वयं भवेत् ॥ १५.३६ ॥ स्कन्धं भुजसमोत्सेधं भुजोर्ध्वं गोलकं भवेत् । भुजद्विमुखमायामं कूर्परं च कलायतम् ॥ १५.३७ ॥ प्रकोष्ठं विंशदङ्गुल्यं हस्तायाममिति स्मृतम् । नास्यानि नाभिवामेभ्यो रक्षान्तं सूत्रदक्षिणम् ॥ १५.३८ ॥ आदिसूत्रमिदं प्रोक्तमन्यत्सूत्रं च कारयेत् । ईषत्कुञ्चितमात्रन्तु मात्रार्धं समकुञ्चितम् ॥ १५.३९ ॥ द्विकलाकुञ्चितं ज्ञेयं त्रिविधं कुञ्चितं भवेत् । पाष्णोन्य्रन्तरसंयुक्तं पञ्चागुलसमन्वितम् ॥ १५.४० ॥ पादाङ्गुष्ठान्तरं चैव त्रयोदशांगुलमीरितम् । उष्णीषात्पार्श्वकर्णान्तं वामहस्तोच्छ्रयं भवेत् ॥ १५.४१ ॥ नीव्रं कण्ठयवानान्त द्विमुखं विस्तरं भवेत् । दक्षिणे लंबहस्तन्तु ऊरुमूलौ समं भवेत् ॥ १५.४२ ॥ नीव्रं पञ्चांगुलं चैवत्रयोदशांगुलमीरितम् । हस्तन्तु द्व्यङ्गुल चेति कटीबाहू षडङ्गुलम् ॥ १५.४३ ॥ त्रियुजा कुञ्चितं स्थित्या त्रिभङ्गाग्र विराजितम् । दक्षिणे कटिदेशे तु वाममक्षान्वितं भवेत् ॥ १५.४४ ॥ दक्षिणं मुखमाश्रित्य त्रिभङ्गाङ्ग मथोच्यते । श्रुङ्गारगुणसंयुक्तं किरीटं वा विशेषतः ॥ १५.४५ ॥ वज्रं पुल्लिङ्गवायुक्तं मकरकुण्डलमंयुतम् । किरीटमुकुटौ ज्ञेयो हारकेयूरसंयुतम् ॥ १५.४६ ॥ उष्णीषं केशपृष्ठान्ते त्रयोदशांगुलमायतम् । ग्रीवायां मध्यमं भागं ककुद्भागात्क्रमोन्नतिः ॥ १५.४७ ॥ जानकीं समभङ्गेन वामहस्तेव पुष्पधृत् । दक्षिणं संप्रसार्यैव रुक्मवर्णान्तु कारयेत् ॥ १५.४८ ॥ श्यामवस्त्रधरां चैव दिव्यस्त्रीमण्डनोपमाम् । लक्ष्मणं समभङ्गेन तप्तकाञ्चनसन्निभम् ॥ १५.४९ ॥ भरतं श्यामवर्णन्तु शत्रुघ्नन्तु सुवर्णकम् । लक्ष्मणस्याथ वामे तु स्थितौ बाणधनुर्धरौ ॥ १५.५० ॥ हनूमन्तं पिङ्गलाभं वार्ताविज्ञापने परम् । एवं सायुधवर्गन्तु वक्ष्यतेऽत्र निरायुधम् ॥ १५.५१ ॥ प्रसारि दक्षिणं पादमितरच्चैव कुञ्चितम् । दक्षिणे नाभयं हस्तं वामं कटिकमुच्यते ॥ १५.५२ ॥ स्थापनादिक्रियास्सर्वाः पूर्ववत्कारयेत्ततः । दक्षिणाग्नौ प्रधानेतु हौत्रशंसनमाचरेत् ॥ १५.५३ ॥ "रामं दाशरथिं विष्णुं काकुत्स्थऽमिति चाह्वयेत् । "सीतामयोनिजां लक्ष्मीं वैदेहीऽमिति चाह्वयेत् ॥ १५.५४ ॥ "रामानुजं च सौमित्रिं लक्ष्मणं लक्ष्मिवर्धनम्ऽ । "भरतं रामप्रियं चेति कैकैयीसुतमेव च ॥ १५.५५ ॥ सद्वृत्तऽमिति चावाह्य भरतस्य विशेषतः । "शत्रुघ्नं सुमनस्कं च लक्ष्मणानुजमेव च ॥ १५.५६ ॥ दशरथोद्भवऽमित्येव शत्रुघ्नं च समाह्वयेत् कपिराजं हनूमन्तं शब्दराशिं महामतिम्, ॥ १५.५७ ॥ जुष्टाकारादिसर्वं च पूर्ववत्कारयेद्बुधः । "रायामीऽशेति मन्त्रेण शतमष्टाधिकं यजेत् ॥ १५.५८ ॥ "श्रिये जातऽश्च सीताया होमे मन्त्र उदीरितः । "तन्मा यशोग्रऽ मन्त्रेण भरतस्य च हूयते ॥ १५.५९ ॥ "शन्नो निधत्ताऽमुच्चार्य लक्ष्मणस्य हुनेत्सुधीः । "भूमानन्तोग्रऽ इत्युक्त्वा शत्रुघ्नस्य समाचरेत् ॥ १५.६० ॥ "मरुतः परमाऽत्मेति मारुतस्येव मारुते । सर्वत्र जुहुयान्मन्त्रं शतमष्टाधिकं बुधः ॥ १५.६१ ॥ अर्चनं चोत्सवं चैव स्नपने च हरेरिव । हली दैत्यानां तु वधार्थाय यदुश्रेष्ठं मलाबलम् ॥ १५.६२ ॥ बलभद्रं विदुस्सोऽपि वसुदेवस्य संबभौ । भूभारमोचनार्थाय विष्णुस्सबलभद्रकः ॥ १५.६३ ॥ हत्वानरककंसादीन् सर्वान् लोकानपालयत् । एवं स्थापयितुं राममिच्छेत्कारयितं च यः ॥ १५.६४ ॥ सोमछन्दविमाने वा हस्तिपृष्ठेऽथ वाबुधः । तृतीयं राममास्थाप्य द्विभुजं स्वेतवर्णकम् ॥ १५.६५ ॥ दशतानेन मानेन कृत्वा रूपं समाहितः । दक्षिणेतरहस्ताभ्यां मुसलं खड्गमेव च ॥ १५.६६ ॥ श्रोणीनूत्रसमेनैव मुष्टिं समुसलं दृढम् । बाहुसूत्रसमं कुर्याद्धलं वामे तथैवच ॥ १५.६७ ॥ तस्य दक्षिणपार्श्वेतु लक्ष्मीवद्रोहिणीं चरेत् । एवं तु सायुधं कुर्याद्वक्ष्येऽहं तु निरायुधम् ॥ १५.६८ ॥ वामपादं समाकुञ्च्य दक्षिणं संप्रसार्य च । अभयं दक्षिणं हस्तं वाममूरौ च विन्यसेत् ॥ १५.६९ ॥ अग्नावाहवनीयेतु हौत्रं तत्र प्रशंसयेत् । "रामं यदुवरं विष्णुं हलायुधऽमितिक्रमात् ॥ १५.७० ॥ "इन्दिरां रेवतीं चैव लक्ष्मीं रामप्रियाऽमिति । एवमावाहनं कृत्वाजुष्टाकारादि पूर्ववत् ॥ १५.७१ ॥ "क्ष्मामेकाऽमिति मन्त्रेण शतमष्टाधिकं यजेत् । अर्चनं चोत्सवं चैव स्नपनं च हरेरिव ॥ १५.७२ ॥ इति श्रीवैखानसे भगवच्छास्त्रे भृगुप्रोक्तायां संहितायां प्रकीर्णऽधिकारे पञ्चदशोऽध्यायः _____________________________________________________________ अथ षोडशोऽध्यायः. अथ षोडशोऽध्यायः. दशावतारकल्पः(कृष्णः) अथातस्संप्रवक्ष्यामि कृष्णस्य स्थापनं बुधाः । कृष्णस्यालयमुद्दिष्टं कुंभाकारविमानके ॥ १६.१ ॥ कूटे वा गोपुरे वापि पर्वताकृतिकेऽपिवा । कृष्णस्य बालरूपस्य वयसा तालमानकम् ॥ १६.२ ॥ एकवर्षं समारभ्य यावत्बञ्चाब्दमादरात् । तालत्रयक्रमेणैव यथायोगं प्रकल्पयेत् ॥ १६.३ ॥ वेदवर्षं समारभ्यषट्तालत्रयमेव वा । सप्तवर्षं समारभ्य सप्ततालत्रयं तथा ॥ १६.४ ॥ दशवर्षं समारभ्य अष्टतालत्रयं तथा । त्रयोदश समारभ्य नवतालत्रयं तथा ॥ १६.५ ॥ एवं वयःक्रमेणैव तालमानं तथोच्यते । तिष्ठन्तमेकपीठस्थं रुक्मिण्या सत्यभामया ॥ १६.६ ॥ कृष्णं च बालवपुषं श्यामलं पीतवाससम् । रुक्मिणीं कनकाभां तां सत्यभामां च श्यामलाम् ॥ १६.७ ॥ वासुदेवं गुडाकेशं सर्वाभरणभूषितम् । क्रीडयष्टिधरं देवं त्रिभङ्गध्यानसंयुतम् ॥ १६.८ ॥ स्वस्तिकं दक्षिणं पादं वामपादं तु कुञ्चितम् । तिष्ठन्तमङ्गुलिस्थाने चांगुष्ठस्थितिमाचरेत् ॥ १६.९ ॥ किञ्चित्कुञ्चितजान्वन्तवामपादस्थितिर्भवेत् । वक्त्रं चैव तथा गात्रं कटिभागं तथैव च.॥ १६.१० ॥ त्रिषुमार्गेषु भङ्गित्वात्त्रिभङ्गित्वं विधीयते । वक्त्रं दक्षिणतो भागे मध्यभागं तु वामतः ॥ १६.११ ॥ कटीर्दक्षिणतो भागे भङ्गत्रयमुदाहृतम् । दक्षिणं कटिकं हस्तं क्रीडायष्टिसमन्वितम् ॥ १६.१२ ॥ दक्षिणे यष्टिहस्तन्तु नाभिसूत्रादधोन्नतम् । भूतवेदगुणाङ्गुल्या विधिना सहितालतः? ॥ १६.१३ ॥ वामं देव्योर्भुजासक्तं वामहस्तमधोमुखम् । हिक्कासूत्रादधो वामं कूर्परं स्याद्दशाङ्गुलम् ॥ १६.१४ ॥ षट्सप्ताष्टांगुलाधिक्योन्नतं वा कालयेत्क्रमात् । वामहस्ततलाग्रन्तु नाभिमात्रन्तु योजयेत् ॥ १६.१५ ॥ वेणुं च तरवेगं तु हस्ताभ्यां पीडयेत्क्रमात् । ऊर्ध्वकायसमं वेणुं क्रीडायष्टिं तु तत्समम् ॥ १६.१६ ॥ त्रिणतं श्यामलाङ्गं च द्विभुजं रक्तवाससम् । चतुर्भुजं वा कुर्वीत शङ्खचक्रधरं परम् ॥ १६.१७ ॥ सुस्थितं वामपादेन दक्षिणेनैव बन्धयेत् । सर्वाभरणसंयुक्तं सुन्दरं सौम्यलोचनम् ॥ १६.१८ ॥ देवीभ्यां सहितं कुर्या द्रहितं वात्र केचन । देवस्य वामे गरुडं प्राञ्जलीकृत्य नुस्थितम् ॥ १६.१९ ॥ पक्षद्वययुतं कुर्यात्तालपत्रस्य मूलवत् । नवनीतनटं कुर्यात्तथा कालीयमर्दनम् ॥ १६.२० ॥ पार्थसारथिरूपं तु देव्योश्च रहितं क्रमात् । पीठं च प्रतिमोत्सेथं पञ्चभागं त्रिभागिकं ॥ १६.२१ ॥ नवांशात्सप्तभागं चत्रिभागद्वयमुच्यते । लौकिकप्रतिमोत्सेधं मानांगुलमिति क्रमात् ॥ १६.२२ ॥ प्रथमं तु नवाङ्गुल्यं द्वद्व्यङ्गुलविवर्धनम् । नवसंख्यमिति प्रोक्तं मानमेवं विधीयते ॥ १६.२३ ॥ एतेन तु त्रिभेदं स्यादुत्तमाधममध्यमम् । मानंप्रमाणमुन्मानं लंबमानोपमानकम् ॥ १६.२४ ॥ पञ्चतालमिति प्रोक्तं लंबमानं विधीयते । सात्त्विकं राजसं चैव तामसं तु विवर्जयेत् ॥ १६.२५ ॥ दक्षिणं मानमुद्धृत्य नाभिसूत्रप्रमाणकम् । कटियोनिसमं वाथ दक्षिणं पादमेव हि ॥ १६.२६ ॥ दण्डहस्तन्तु मानेन मूर्ध्नि केशाक्षमेव वा । अभयं दक्षिणं हस्तं भ्रूमात्रं कूर्परादयः ॥ १६.२७ ॥ दक्षिणेन मुखं चैव किञ्चित्प्रहसिताननम् । केशकंबलमित्युक्तं सूत्रं वामाश्रयं भवेत् ॥ १६.२८ ॥ उष्णीषस्थपदे मध्ये नासाग्रे पुटवामके । नाभिमध्यगते वापि मुष्कमालोरुदक्षिणे ॥ १६.२९ ॥ पादे दक्षिणपाण्यन्ते अग्रान्मकुटवामके । लंबयेन्मध्यसूत्रं चेदन्यत्सूत्रं न कारयेत् ॥ १६.३० ॥ उष्णीषमङ्गुलार्धं च मुखमष्टांगुलं भवेत् । गलमर्थांगुलं तस्य ग्रीवान्तं द्व्यङ्गुलं भवेत् ॥ १६.३१ ॥ हिक्कान्तं हृदयान्तं च नाभ्यन्तं मेढ्रमूलकम् । अष्टादशांगुलं चैव मूर्ध्वकायं विधीयते ॥ १६.३२ ॥ त्रयोदशांगुलं चैव मूरुदीर्ङं विधीयते । जानुस्स्याद्द्व्यङ्गुलं चैव जङ्घा चोरुश्च तत्समा ॥ १६.३३ ॥ चरणं द्व्यङ्गुलं चैव मानमेव न संशयः । हीक्कासूत्रान्ततो बाहुर्दशाङ्गुलमिति स्मृतम् ॥ १६.३४ ॥ प्रकोष्ठमष्टाङ्गुलायामं सप्ताङ्गुलतलायतम् । मुखं मुखविशालं स्यात्कर्णविस्तारमङ्गुलम् ॥ १६.३५ ॥ ग्रीवाविस्तारमेवं स्याच्चतुरङ्गुल चतुर्यवम् । अभयं बाहुमानं चतुर्विंशतिरङ्गुलम् ॥ १६.३६ ॥ कक्षयोरन्तरं चैव चतुर्दशांगुल विस्तरम् । ऊरुर्दशांगुलं चैव श्रोणिरेकादशांगुलम् ॥ १६.३७ ॥ कटिविस्तारमेवं स्यात्त्रयोदशांगुलमिष्यते । ऊरुमूलसुविस्तारमष्टांगुलमिति क्रमात् ॥ १६.३८ ॥ षडङ्गुलं जानुतारं जङ्घातारं च सप्तकम् । त्षङ्गुलार्धं च विज्ञेयं नालिकाविस्तरं भवेत् ॥ १६.३९ ॥ पादविस्तारमेवोक्तं सर्वलक्षणसंयुतम् । कलापकुसुमश्यामं शङ्खचक्रगदाम्बुजम् ॥ १६.४० ॥ अनेकरत्नं स छन्नं कौस्तुभोद्भासि वक्षसम् । तारहारावलीरम्यं गरुडोपरि संस्थितम् ॥ १६.४१ ॥ देवीभ्यां सहितं कुर्यात्कृष्णं बृन्दावने रतम् । आलोल कुन्तलोद्भासि मुखचन्द्र विराजितम् ॥ १६.४२ ॥ अतिरक्ताधरोष्ठं च रक्तपाणिद्वयांचितम् । वामपादं समाकुञ्च्य चोत्तानीकृत्य दक्षिणम् ॥ १६.४३ ॥ दक्षिणं चाभयं हस्तं नवनीतयुतं तथा । वामं प्रसार्य चोत्तानं सर्वाभरणभूषितम् ॥ १६.४४ ॥ सांबरं तु प्रकुर्वीत विगतांबरमेव वा । एवं तु विधिना कुर्यान्नवनितनटं बुधः ॥ १६.४५ ॥ एवमेव प्रकुर्वीत कालीयाहिफणोपरि । नृत्यन्तं परमात्मानमुत्तानाकुञ्चिताङ्घ्रिकम् ॥ १६.४६ ॥ दक्षिणे तु करे कुर्यान्नवनीतस्य खण्डकम् । अहिपुच्छं करे वापि कुर्यात्कालीयमर्दनम् ॥ १६.४७ ॥ नीलोत्पलदलश्यामं पीतांबरसुशोभितम् । चतुर्भुजं शङ्खचक्रमूर्ध्वपाणिद्वये धृतम् ॥ १६.४८ ॥ अधःपाणिद्वये वेणुं वादयन्तं मुदान्वितम् । सर्वालङ्कारसंयुक्तं गरुडोपरि संस्थितम् ॥ १६.४९ ॥ देवीभ्यां सहितं देवं मुनिभिः परिवेष्टितम् । कृष्णमेवं प्रकुर्वीत सन्तानार्थी विशेषतः ॥ १६.५० ॥ कलापकुसुम श्यामं पूर्णचन्द्रनिभानसम् । बर्हिबर्हकृतोत्तंसं सर्वालङ्कारसंयुतम् ॥ १६.५१ ॥ युवतीवेषलावण्यं श्रीवत्सांकितवक्षसम् । स्मेरारुणाधरन्यस्तवेणुं त्रैलोक्यमोहनम् ॥ १६.५२ ॥ अक्षमालां च विद्यां च कुर्यादूर्ध्वकरद्वये । वेणुं करद्वये कुर्याच्चतुर्भुजयुतं हरिम् ॥ १६.५३ ॥ तपनीयलसत्कान्त्याभ्राजत्कमलहन्तया । निरीक्ष्यमाणचरणं वामपार्श्वस्थया श्रिया ॥ १६.५४ ॥ हेमसिंहासने रम्ये राज्ञीभिस्तु निषेवितम् । चन्द्रमण्डलसंकाशश्वेतछत्रेणशोभितम् ॥ १६.५५ ॥ नारदाद्यैर्मुनिगणैज्ञान्नार्थिभिरुपासितम् । इन्द्रादिदेवताबृन्धैः प्रणतं परमेश्वरम् ॥ १६.५६ ॥ एवं कृष्णं प्रकुर्वीत जगन्मोहनविग्रहम् । गोपीभिरावृतं गोभिः परमानन्दविग्रहम् ॥ १६.५७ ॥ व्यत्यस्य दक्षिणं पादं वामे न्यस्य च सुस्थितम् । चतुर्भुजं शङ्खचक्रधरमूर्ध्वकरद्वये ॥ १६.५८ ॥ धृत्वा वेदमयं वेणुमन्यहस्तद्वयेन च । अङ्गुलीभिर्मुदा वेणुसुषिराणि च पूरयन् ॥ १६.५९ ॥ दिव्यगान्धर्वगीतार्तं त्रिभङ्गेन च संस्थितम् । एवं कृष्णं प्रकुर्वीत वेणुनादनटं बुधः ॥ १६.६० ॥ सर्वभूषणसंयुक्तं ब्रह्मसूत्रसमन्वितम् । रक्तांबरधरं चैव श्यामलं कमलेक्षणम् ॥ १६.६१ ॥ रुक्मिणीसत्यभामाभ्यां पार्श्वयोरुपशोभितम् । रुक्मिणीं रुक्मवर्णाभां सत्यां श्यामनिभां तथा ॥ १६.६२ ॥ वसुदेवं देवकीं च पुरतो दक्षिणे तथा । यशोदां नन्दगोपं च देवेशं वीक्ष्य सुस्थितम् ॥ १६.६३ ॥ प्रद्युम्नं च तथा सांबं वामे कुर्यात्सलक्षणम् । दामं सुमनसं चैव कुर्यादन्यां च गोपिकाम् ॥ १६.६४ ॥ कर्णाग्रान्तन्तु कृष्णस्य सुमन्तुं वाममाश्रितम् । कक्षबाहुसमं वापि कारयेद्युक्तितः क्रमात् ॥ १६.६५ ॥ नवतालेन मानेन कुर्यात्तान् समलङ्कृतान् । देवकीं वसुदेवं च कृष्णवर्णौ प्रकल्पयेत् ॥ १६.६६ ॥ यशोदां गौरवर्णाञ्च कर्बुरं नन्दमाचरेत् । प्रद्युम्नं श्यामवर्णं च सांबं कालाञ्जनप्रभम् ॥ १६.६७ ॥ दामं रक्तनिभं चैव गौरं सुमनसं तथा । सुमन्तुं श्वेतवर्णं च कल्बयेद्विधिना बुधः ॥ १६.६८ ॥ एवं कृष्णं प्रकुर्वीत लीलामानुषविग्रहम् । चतुर्मूर्तिक्रमश्चैषां वासाधिकरणोक्तवत् ॥ १६.६९ ॥ धृत्वा पुष्पमयीं यष्टिं दक्षिणेवतु पाणिना । न्यस्यान्यं चैव भूमिस्थराजदण्डस्य मूर्धवि ॥ १६.७० ॥ राजार्हाभरणैर्युक्तं रुक्मीण्या सहितं प्रभुम् । एवे कृष्णं प्रकुर्वीत राजगोपालविग्रहम् ॥ १६.७१ ॥ पीतांबरधरं देवं ज्ञानमुद्रालसत्करम् । वेणुमन्यकरे धृत्वा सुखासीनं शुचिस्मितम् ॥ १६.७२ ॥ उपास्यमानं मुनिभिर्देवीभ्यां रहितं हरिम् । कृष्णमेवं प्रकुर्वीद ज्ञानगोपालविग्रहम् ॥ १६.७३ ॥ स्वर्णप्रभमुदाराङ्गमष्टबाहुं जगत्प्रभुम् । इक्षुचापांकुशान्वेणुं शङ्खारिसुमसायकान् ॥ १६.७४ ॥ बिभ्रन्तं रमया श्लिष्टदिव्यमङ्गलविग्रहम् । सर्वाभरणसंयुक्तं योगिनाममृतप्रदम् ॥ १६.७५ ॥ एवं सम्मोहनं कुर्यात्कृष्णं गोपालविग्रहम् । गवां गोपकुमाराणां गोपीनां रक्षणायवै ॥ १६.७६ ॥ नगं गोवर्धनं नाम दधार भगवान् हरिः । वामेनोद्धृतहस्तेन बिभ्रन्तं नगमुत्तमम् ॥ १६.७७ ॥ कटिन्यस्तान्य हस्तं च पद्महस्तमधापि वा । शङ्खचक्रधरं देवङ्कुर्याच्चैव चतुर्भुजम् ॥ १६.७८ ॥ एवं कृष्णं प्रकुर्वीत गोवर्धनधरं हरिम् । पुरा महति संग्रामे पार्थं रक्षितवान् हरिः ॥ १६.७९ ॥ पार्थं रथस्थितं कुर्याच्छरतूणीरसंयुतम् । समीक्षमाणं देवेशं स्यन्दनस्थं स्वपार्श्वगम् ॥ १६.८० ॥ श्यामवर्णं महाबाहु कृष्णमुद्बद्धकुन्तलम् । बिभ्रन्तं दक्षिणे पाशं शङ्खं वामकरे तधा ॥ १६.८१ ॥ अर्जुनस्य मुखं वीक्ष्य स्मयमानं महारथम् । एवं कृष्णं प्रकुर्वीत पार्थसारथिविग्रहम् ॥ १६.८२ ॥ वामजानुसमाकुञ्च्य दीर्घमन्यं प्रसार्य च । तथै वाविथ्य सन्न्यस्य भूम्यां वामकरं पुरः ॥ १६.८३ ॥ आकुञ्चितान्यपादेव चासनस्थितिशोभिना । अन्यहस्तेन संधार्य नवनीतं नवं नवम् ॥ १६.८४ ॥ मुहुरालोकयन्तं तद्दर्शनीयं विशेषतः । एवं कृष्णं प्रकुर्वीत बालगौपालविग्रहम् ॥ १६.८५ ॥ पुरा संदर्तसमये संहृतेषु जगत्सु च । वटपत्रे विनिद्राणो बभूव भगवान् हरिः ॥ १६.८६ ॥ वटपत्रे शयानं तु बालरूपं परात्परम् । आकृष्य दक्षिणं पादं वामहस्तेन लीलया ॥ १६.८७ ॥ पादाङ्गुष्ठं मुखे न्यस्य धास्यन्तं हसिताननम् । दक्षिणेन तु हस्तेन वहन्तं दक्षिणोरुकम् ॥ १६.८८ ॥ प्रसारितेतरपदं दिव्यालङ्कारशोभितम् । वटपत्रं प्रकुर्वीत विशालं चाधराग्रकम् ॥ १६.८९ ॥ वटपत्रशयानं तु कृष्णमेवं प्रकल्पयेत् । शङ्खचक्रगदापद्म पाशांकुशलसत्करम् ॥ १६.९० ॥ कराभ्यां वेणुमादाय धमन्तं सर्वमोहनम् । सूर्यायुतशताभासं पीतांबरसुशोभितम् ॥ १६.९१ ॥ नानालङ्कारसुभगं सूर्यमण्डलसंस्थितम् । एवं प्रकल्पयेत्कृष्णं महान्तं सर्वमोहनम् ॥ १६.९२ ॥ कृष्णरूपमसंख्यातंस्वेच्छारूपं तु कारयेत् । कालीयमर्दनादौ तु नागकन्यादिकल्पनम् ॥ १६.९३ ॥ कल्पनं भोगभेदस्य चैवमादीन् प्रकल्पयेत् । युक्त्या बुद्ध्या च भक्त्या च यथा स्यान्मनसः प्रियम् ॥ १६.९४ ॥ एवं रूपं च कृत्वा तु तद्रूवं कौतुकं चरेत् । अथवाकौतुकं बिंबं चतुर्भुजसमन्वितम् ॥ १६.९५ ॥ अभयं वरदं पूर्वं शङ्खचक्रधरं परम् । एवं चतुर्भुजं कृत्वा स्थापनारंभमाचरेत् ॥ १६.९६ ॥ पूर्वोक्तयागशालायां पञ्चाग्नीन् परिकल्प्य च । पैण्डरीके प्रधानाग्नौ हौत्रशंसनमाचरेत् ॥ १६.९७ ॥ "कृष्णं नारायणं पुण्यं त्रिदशाधिपऽमत्यपि । "रुक्मिणीं सुंदरीं देवीं रमाऽमिति च रुक्मिणीम् ॥ १६.९८ ॥ "सत्यरूपां सतीं चैव सन्नतीं च क्षमाऽमिति । इत्येवमुक्त्वा चावाह्य गरुडं पूर्ववत्तधा ॥ १६.९९ ॥ आवाहनक्रमेणैव निरुप्याज्याहुतीर्यजेत् । "सत्यस्सत्यस्थऽ इत्युक्त्वा शतमष्टाधिकं यजेत् ॥ १६.१०० ॥ श्रीभूम्योरिव कुर्याच्च रुक्मिणीसत्यभामयोः । पूर्वोक्तेन विधानेन स्थापनादीनि कारयेत् ॥ १६.१०१ ॥ कर्की युगान्तसमये विष्णुः कर्की नाम भविष्यति । खड्गखेटकहस्तस्तु म्लेच्छादीन् स हनिष्यति ॥ १६.१०२ ॥ कूटे वा गोपुरे वापि पर्वताकृतिकेऽपि वा । कल्किरूपं प्रतिष्ठाप्य विमाने तु समर्चयेत् ॥ १६.१०३ ॥ मध्यमं दशतालेन भिन्नांजनचयप्रभम् । अश्वाननं मुखं कुर्यादन्यच्चैव नराकृति ॥ १६.१०४ ॥ चतुर्भुजं च हस्तेषु क्रमाच्चैवायुधान्यपि । चक्रं शङ्खं च खड्गं च दधानं खेटकं तथा ॥ १६.१०५ ॥ अथवा कल्पयेद्देवमश्वारूढं द्विबाहुकम् । शुद्धस्फचिकसंकाशं खड्गखेटक धारिणम् ॥ १६.१०६ ॥ अत्रैव कौतुकं कुर्याद्विष्णुरूपं चतुर्भुजम् । पूर्वोक्तयागशालायां पञ्चाग्नीन् परिकल्प्य च ॥ १६.१०७ ॥ पैण्डरीके प्रधानाग्नौ हौत्रशंसनमाचरेत् । "कर्किणं कामरूपं च विष्णुं संहारकारणम्ऽ ॥ १६.१०८ ॥ एवमावाह्य विधिना निरुप्याज्याहुतीर्यजेत् । "धूर्नो वहन्ताऽ मित्युक्त्वा शतमष्टाधिकं यजेत् ॥ १६.१०९ ॥ उत्सवस्नपनादीनि विष्णोरिव समाचरेत् । विष्णोर्दशावताराणामेवं प्रोक्तं तु लक्षणम् ॥ १६.११० ॥ अनादिर्भगवान् कालो नास्य चान्तोऽपि दृश्यते । चक्रवत्परिवर्तन्ते सृष्टिस्थित्यन्तसंयमाः ॥ १६.१११ ॥ अवताराश्च कीर्त्यन्ते भूयांसः परमात्मनः । धर्मसंरक्षणार्थाय दुष्टसंशिक्षणाय च ॥ १६.११२ ॥ सद्य आविर्भवेद्विष्णुर्यत्र भक्तानुकंपया । आविर्भावं तु तं विन्द्यात्प्रादुर्भावमथेतरत् ॥ १६.११३ ॥ आविर्भावन्तु मत्स्याद्याः पञ्च पञ्चेतरास्स्मृताः । गजेन्द्रमोक्षणादीनप्याविर्भावान् प्रचक्षते ॥ १६.११४ ॥ अन्तराले तथा विष्णोर्दक्षिणोत्तरपार्श्वयोः । कल्पयेद्रामकृष्णौ तु मुखमण्डप एव वा ॥ १६.११५ ॥ अथान्तर्मण्डपे वापि तथावरण मण्डपे । संस्थाप्य कौतुकं बेरं द्वयमेवेति के च न ॥ १६.११६ ॥ नारसिंहं वराहं च वामनं च त्रिविक्रमम् । ध्रुवबेरं विना कृत्वा कौतुकं लक्षणान्वितम् ॥ १६.११७ ॥ स्थापयित्वा तथा विष्णोः पूजयेदग्रमण्डपे । मत्स्यकूर्मवराहाणां वामनस्य विशेषतः ॥ १६.११८ ॥ कौतुकं विष्णुरूपं तु कुर्याच्चैव चतुर्भुजम् । ध्रुवरूपं न कुर्वीत यथेष्टमितरत्रतु ॥ १६.११९ ॥ इति श्रीवैखानसे भगवच्छास्त्रे भृगुप्रोक्तायां संहितायां प्रकीर्णाधिकारे षोडशोऽध्यायः _____________________________________________________________ अथ सप्तदशोऽध्यायः. अथ सप्तदशोऽध्यायः.अदिमूर्तिकल्पः अथ वक्ष्ये विशेषेण केशवादिविनिर्णयम् । केशवं तु प्रकुर्वीत सौम्यरूपं चतुर्भुजम् ॥ १७.१ ॥ शङ्खचक्रगदापद्मधरं स्वर्णाभवे व च । सर्वालङ्कारसंयुक्तं मुक्ताहारविभूषितम् ॥ १७.२ ॥ स्थितमेवं प्रकुर्वीत देवीभ्यां सहितं प्रभुम् । नारायणं प्रकुर्वीत घनश्यामं चतुर्भुजम् ॥ १७.३ ॥ शङ्खपद्मधकं देवं बिभ्रन्तं च गदामसिम् । भूषितं मणिभूषाभिः वीतवाससमच्युतम् ॥ १७.४ ॥ प्रकुर्याच्च विशेषेण लक्ष्मीनारायणं शुभम् । उत्तमं दशतालेन मानोन्मानप्रमाणतः ॥ १७.५ ॥ सिंहासने समासीनं दक्षिणांघ्रिं प्रसार्य च । आसने निहितं वामं लक्षणं पूर्ववत्तथा ॥ १७.६ ॥ लक्ष्मीं सन्न्यस्य वामोरौ मुखे हर्षसमन्विताम् । प्रसारितकरां देवीं पञ्चतालप्रमाणतः ॥ १७.७ ॥ प्राञ्जलीकृतहस्तां तां सर्वाभरणभूषिताम् । वामेन तां परिष्वज्य दक्षिणेनाभयप्रदम् ॥ १७.८ ॥ अन्याभ्यां च कराभ्यां च शङ्खचक्रधरं परम् । तार्क्ष्यंस्कन्धासनस्थं वा अन्यत्सर्वं च पूर्ववत् ॥ १७.९ ॥ तार्क्ष्यं नवार्धतालेन अर्धेषद्भृकुटिं? मुखम् । दक्षिणोरौ स्थितां लक्ष्मीं केचिदिच्छन्तिसूरयः ॥ १७.१० ॥ नागभोगे समासीनमेवं कुर्यात्तु वा हरिम् । सप्तभिः पञ्चभिर्वापि फणैर्विस्तारितैर्युतम् ॥ १७.११ ॥ शेषं सम्यक्प्रकुर्वीत समुत्तुङ्गशरीरिणम् । माधवं चोत्पलनिभं चक्रचावगदासिभिः ॥ १७.१२ ॥ चतुर्भुजधरं कुर्याच्चित्रमाल्यांबरं हरिम् । गोविन्दं पाण्डुराभं च चतुर्भुजधरं हरिम् ॥ १७.१३ ॥ गदाशङ्खारिपद्मानि बिभ्रन्तं कारयेद्बुधः । विष्णुं नीलोत्पलाभन्तु शङ्खार्यब्जगदाभृतम् ॥ १७.१४ ॥ सर्वाभरण संयुक्तं पीतवाससमच्युतम् । रक्तोत्पलाभं कुर्वीत देवं तु मधुसूदनम् ॥ १७.१५ ॥ शङ्खार्यब्जगदापाणिं चतुर्भुजमनामयम् । त्रिविक्रमं नीलवर्णं शङ्खार्यब्जगदाभृतम् ॥ १७.१६ ॥ चतुर्भुजधरं देवं सर्वाभरणभूषितम् । वामनं मेघवर्णं तु चतुर्बाहुं महाबलम् ॥ १७.१७ ॥ गदाशङ्खारिपद्मानि बिभ्रन्तं छलरूपिणम् । अथ वा कारयेत्कुंभं दध्यन्नं च करद्वये ॥ १७.१८ ॥ दधिवामनमाहुस्तं श्वेताभं द्विभुजं हरिम् । अथ वा वटुरूपं तु धृत्वा दण्डकमण्डलू ॥ १७.१९ ॥ स्वर्णच्छमि बालरूपं द्विभुजं कारयेद्धरिम् । सितासिताभं कुर्वीत श्रीधरं तु चतुर्भुजम् ॥ १७.२० ॥ कौमोदकीशङ्खचक्रपद्मधारिणमीश्वरम् । हृषीकेशं प्रकुर्वीत श्यामाभं च चतुर्भुजम् ॥ १७.२१ ॥ गदाशङ्खारिपद्मानि बिभ्रन्तं हरिमव्ययम् । सितमेचकवर्णन्तु पद्मनाभं प्रकल्पयेत् ॥ १७.२२ ॥ कौमोदकीचक्रपद्मशङ्खपाणिं रमाधवम् । दामोदरं प्रकुर्वीत सितगौराभमीश्वरम् ॥ १७.२३ ॥ पद्मशङ्खगदाचक्रधरं देवं चतुर्भुजम् । संकर्षणं तु कुर्वीत श्वेतवर्णं चतुर्भुजम् ॥ १७.२४ ॥ शङ्खार्यब्जगदापाणिं सर्वाधारं सनातनम् । वासुदेवं प्रकुर्वीत तरुणादित्यसन्निभम् ॥ १७.२५ ॥ शङ्खचक्रगदापद्मधरं सर्वधरं विभुम् । चन्द्राभं नवकुन्दाभमथ वा कालयेद्धरिम् ॥ १७.२६ ॥ प्रद्युम्नं तु सुवर्णाभं कुर्याद्देवं चतुर्भुजम् । चक्रशङ्खगदापद्मधरं देवं महाबलम् ॥ १७.२७ ॥ अनिरुद्धं हिरण्याभं सर्वालङ्कारसंयुतम् । शङ्खचक्रधनुःखड्गधरं देवेश्वरेश्वरम् ॥ १७.२८ ॥ सितासिताभं कुर्वीत देवेशं पुरुषोत्तमम् । शङ्खचक्रगदापद्मधरं देवं चतुर्भुजम् ॥ १७.२९ ॥ अथोक्षजं प्रकुर्वीत शङ्खाभं च चतुर्भुजम् । चक्रशङ्खगदापद्मधरं भूषणभूषितम् ॥ १७.३० ॥ नारसिंहं तु मेघाभं सर्वालङ्कारसंयुतम् । शङ्खपद्मगदाचक्रधरं भक्ताभयप्रदम् ॥ १७.३१ ॥ सितमेचकवर्णं तु कुर्वीत विभुमच्युतम् । गदाब्जचक्रशङ्खाङ्कं चतुर्भुजविराजितम् ॥ १७.३२ ॥ जनार्दनमुदाराङ्गं नीलवर्णं समाचरेत् । चक्रशङ्खगदापद्मधरं देवं सनातनम् ॥ १७.३३ ॥ अथ वा कटिविन्यस्तवामहस्तं प्रकल्पयेत् । उपेन्द्रं घनकृष्णाभं सर्वाभरणभूषितम् ॥ १७.३४ ॥ शङ्खचक्रगदापद्मधरं देवं जगत्प्रभुम् । हरिं पाण्डुरकृष्णाभं सर्वालङ्कारशोभितम् ॥ १७.३५ ॥ शङ्खपद्मगदाचक्रधरं कुर्यान्मनोहरम् । कृष्णं तु नीरदश्यामं पुण्डरीकनिभेक्षणम् ॥ १७.३६ ॥ शङ्खचक्रगदापद्मधरं कुर्याद्विचक्षणः । सर्वेषां तु विमानानि विष्णोरुक्तवदाचरेत् ॥ १७.३७ ॥ सभ्यकुण्डे प्रधानाग्नौ हौत्रं तत्र प्रशंस्य च । "केशवं क्लेशसंहारं विष्णुं चैव परात्परम्ऽ ॥ १७.३८ ॥ "नारायणं नरं विष्णुं नरकान्तकऽ मित्यपि । "माधवं पुण्डरीकाक्षं विष्णुं सर्वात्मकंऽ त्विति, ॥ १७.३९ ॥ "गोविन्दं परमानन्दं विष्णुं चैव सनातनम्ऽ । .विष्णुं व्यापिनमीशानं सर्वलोकाधिपं तथा ॥ १७.४० ॥ "मधुसूदनमुद्योगं महान्तं विष्णुऽमित्यपि । "त्रिविक्रमं त्रिलोकेशं लोकाधारं सनातनम्ऽ ॥ १७.४१ ॥ "वामनं वरदं चैव काश्यपिं चादितिप्रियम्ऽ । "श्रीधरं पुरुषं चेति विष्णुं श्रीवत्सवक्षसम्ऽ ॥ १७.४२ ॥ "हृषीकेशं जगन्नाथं विष्णुं विश्वमयंऽ तथा । "पद्मनाभं सुरेशं च विष्णुं चैव जगत्पतिम्.ऽ ॥ १७.४३ ॥ "दामोदरं सदाधारं विष्णुं प्रणवरूपिणम्ऽ । "संकर्षणं यदुवरं विष्णुं हलधरऽन्तथा ॥ १७.४४ ॥ "वासुदेवं पुण्यमूर्तिं भद्रेशं पुण्यरूपिणम्ऽ । "प्रद्युम्नं जगदीशानं विष्णु पुण्यात्मकंऽ तथा ॥ १७.४५ ॥ "अनिरुद्धं महान्तं च वैराग्यं सर्वतेजसम्ऽ । "पुरुषोत्तममानन्दं विष्णुं पञ्चात्मकंऽ तथा ॥ १७.४६ ॥ "अधोक्षजमनादिं च विष्णुं व्यापकऽ मित्यपि । "नारसिंहं तपोनाथं महाविष्णुं महाबलम्ऽ ॥ १७.४७ ॥ "अच्युतं चापरिमितमैश्वर्यं श्रीपतिंऽ तथा । .जनार्दनमनाद्यन्तं विष्णुं तेजोमयंऽ तथा ॥ १७.४८ ॥ "उपेन्द्रमिन्द्रावरजं विष्णुं वैकुण्ठऽमित्यपि । "हरिं पापहरं चेति विष्णुं मङ्गलविग्रहम् ॥ १७.४९ ॥ "कृष्णं नारायणं पुण्यं त्रिदशाधिपऽमित्यपि । आवाह्य तु क्रमेणैव निरुप्याज्याहुतीर्यजेत् ॥ १७.५० ॥ "विष्णोर्नुकाऽदभिष्षड्भि"रतोदेवाऽदभिस्तथा । केशवादिद्वादशानां मन्त्रैर्द्वादशभिर्हुनेत् ॥ १७.५१ ॥ नारसिंहस्य कृष्णस्य मन्त्रः पूर्वमुदीरितः । इतरेषां दशानां तु दशमन्त्राः प्रकीर्तिताः ॥ १७.५२ ॥ "विष्णुस्सर्वेषाऽमित्यादि "यं यज्ञैऽरन्तमीरिताः । तं तं देवं समुद्दिश्य तत्तन्मन्त्रेण चात्वरः ॥ १७.५३ ॥ शतमष्टाधिकं हुत्वा शेषं पूर्ववदाचरेत् । एवं सर्वत्र कुर्वीत देवीभ्यां सहितं विभुम् ॥ १७.५४ ॥ तद्रूपं कौतुकं कुर्यात्सर्वलक्षणलक्षितम् । कर्षणादिक्रियास्सर्वा विष्णोरिन समाचरेत् ॥ १७.५५ ॥ लक्ष्मीकल्पः अथ वक्ष्ये विशेषेण लक्ष्मीस्थापनमुत्तमम् । अष्टधा प्रोच्यते लक्ष्मीः प्रथमा त्वनपायिनी ॥ १७.५६ ॥ विष्णोर्वक्षस्थ्सलेकार्या सर्वालङ्कारसंयुता । दक्षस्तनस्योर्ध्वभागे वह्न्यश्रेदिव्यमण्डले ॥ १७.५७ ॥ पद्ममध्ये समासीनां पद्मद्वयकराञ्चिताम् । वरदाभयहस्तां च मन्दस्मित मुखांबुजाम् ॥ १७.५८ ॥ एवं रूपां प्रकुर्वीत योगलक्ष्मीस्तुसा मता । योगलक्ष्मीं प्रतिष्ठाप्य श्रीकामस्सम्यगर्चयेत् ॥ १७.५९ ॥ देवेशेन समं कुर्यादस्यास्थ्चापनमुत्तमम् । कालान्तरे प्रकुर्याच्छेद्धेमरूप्यादिना पुनः ॥ १७.६० ॥ कृत्वा श्रीवत्सरूपं तु धारयेद्विष्णुमव्ययम् । तत्तद्बिंबानुरूपं च कुर्याच्छ्रीवत्सलक्षणम् ॥ १७.६१ ॥ भोगलक्ष्म्यस्समाख्याता श्श्रीभूनीलाः क्रमादिमाः । ध्रुवादिषु तु बेरेषु श्रीभूम्यौ देवपाशन्व्गे ॥ १७.६२ ॥ वैकुण्ठमार्गसंचारा नीला नित्यसमाश्रिता । श्रीभूम्योस्थ्सापनं पूर्वं देवेशेन सहोदितम् ॥ १७.६३ ॥ देवीभ्यां रहिते देवे कुर्यात्कालान्तरे पुनः । पृधक्प्रतिष्ठां श्रीभूम्योः कुर्यादाङ्गिरसोक्तिवत् ॥ १७.६४ ॥ वीरलक्ष्मीरिति प्रोक्ता पृथगालयसंगता । अलयाद्दक्षिणे पार्श्वेकुर्यात्तु पृथगालयम् ॥ १७.६५ ॥ दशतालेन मानेन कुर्याद्देवीन सलक्षणाम् । पद्मद्वयकरां चैव वन्दा भयधारिणीम् ॥ १७.६६ ॥ किरीटमुकुचोपेतां सर्वालङ्कारशोभितम् । पद्मासने समासीनां हेमाभां सर्वमङ्गलाम् ॥ १७.६७ ॥ गोदामन्यां प्रकुर्वीत लक्ष्मीं तु विजयाभिधाम् । नवतालें मानेन कुर्यादन्यालयाश्रिताम् ॥ १७.६८ ॥ दक्षिणेन तु हस्तेन कल्हारं दधतीं तथा । प्रसारितेतरकरां बद्धधम्मिल्लशोभिनीम् ॥ १७.६९ ॥ सर्वालङ्कारसंयुक्तां तिष्ठन्तीमेव कारयेत् । गोदा भूम्यंशजा प्रोक्ता तन्मन्त्रेणाचरेत्क्रियाः ॥ १७.७० ॥ पाकलक्ष्मीस्समाख्याता पचनालयसंगता । अष्टतालेन मानेन कुर्यात्तां पचनालये ॥ १७.७१ ॥ पद्मद्वयाञ्चितकरां वरदाभयधारिणीम् । आसीनां वाथ तिष्ठन्तीं कुर्याद्भूषणभूषिताम् ॥ १७.७२ ॥ द्वितीय मण्डपद्वारे द्वारलक्ष्मीं समाचरेत् । पतङ्गपट्टिकामध्ये सर्वालङ्कारशोभिताम् ॥ १७.७३ ॥ पद्मद्वयाञ्चितकरां वरदाभयधारिणीम् । पद्मासने समासीनां किरीटादिविभूषिताम् ॥ १७.७४ ॥ गजै तु पाशन्व्योःकुर्याद्धेमकुंभकरौ पुनः । सिंचन्तौ तौ महालक्ष्मीं कुर्यात्कुंभजलैस्तथा ॥ १७.७५ ॥ श्रीभूम्योर्वीरविजयलक्ष्म्योरेव विधीयते । ध्रवबेरानुरूपेण बेरान्तरसमर्चनम् ॥ १७.७६ ॥ तद्रूपं कौतुकं कुर्यादुत्सवादि यथेच्छया । अन्यासांनैव कुर्वीत ध्रुवार्चामेव कारयेत् ॥ १७.७७ ॥ पैण्डरीके प्रधानाग्नौ हौत्रं तत्र प्रशंस्य च । श्रीभूम्योर्मूर्तिमन्त्रैश्च क्रमेणावाहनादिकम् ॥ १७.७८ ॥ "गोदां कृष्णप्रियां लक्ष्मीं रुक्मिणीऽमिति चाह्वयेत् । आवाहनक्रमेणैव तन्मन्त्रैर्जुहुयात्क्ररूत् ॥ १७.७९ ॥ प्रतिष्ठोक्तक्रमेणैव सर्वं पूर्ववदाचरेत् । नवषट्पञ्चमूर्तीनां विमानस्यालयस्य च ॥ १७.८० ॥ द्विमूर्तिस्थापनं तद्वत्रिमूर्तस्थापनं तथा । अन्येषां परिवाराणां स्थापनं विधिवच्चरेत् ॥ १७.८१ ॥ यद्यत्समर्प्यते वस्तु देवेशस्य तु मन्दिरे । तत्तत्सर्वं विधानेन प्रतिष्ठाप्य समर्पयेत् ॥ १७.८२ ॥ असंस्कृतं तु न ग्राह्यं न तद्देवप्रियं भवेत् । भूषणानि च वा सांसि पात्राण्यन्यत्परिच्छदम् ॥ १७.८३ ॥ बेरालङ्कारयोग्यानि धामालङ्करणानि च । यथाहंन् संस्कृतान्येव गृह्णीयात्सफलं भवेत् ॥ १७.८४ ॥ तत्तद्द्रव्याधिदैवत्यं देवतामूर्तिमन्त्रकम् । जुहुयात्सर्वमन्यच्च प्रतिष्ठोक्तवदाचरेत् ॥ १७.८५ ॥ द्रव्याधिदेवताकल्बस्सम्यगुक्तो मयाखिले ॥ १७.८६ ॥ इति श्रीवैखानसे भगवच्छास्त्रे भृसुप्रोक्तायां संहितायां प्रकीर्णाधिकारे सप्तदशोऽध्यायः _____________________________________________________________ अथाष्टादशोऽध्यायः. भगवदर्चनम् अथ वक्ष्ये विशेषेण विष्णोरर्चनमुत्तमम् । "प्रवः पान्तमऽन्धेत्यादि श्रुतिभिर्विहितं तथा ॥ १८.१ ॥ यच्चोक्तं गुरुणा सूत्रे समासेन महर्षिणा । तेनैव विवृतं शास्त्रे सार्धकोटी प्रमाणतः ॥ १८.२ ॥ अस्माभिस्तु सुसंक्षिप्तं चातुर्लक्षप्रमाणतः । तदर्चनक्रमं वक्ष्ये श्रुणुध्वमृषिसत्तमाः ॥ १८.३ ॥ वैखानसेन सूत्रेण निषेकादि क्रियान्वितः । ऋत्विगुक्तगुणोपेतस्सुपुष्टाङ्गस्समाहितः ॥ १८.४ ॥ गृहस्थो ब्रह्मचारी वा भक्त्यैवार्ऽचनमाचरेत् । द्रव्यैरनेकैस्संपाद्यं तथानन्तोपचारकैः ॥ १८.५ ॥ आशक्यं विधिवत्कर्तुं ब्रह्माद्यैरपि पूजनम् । मनुष्यैःकिमुवक्तव्यं दरिद्रैरदृढात्मभिः ॥ १८.६ ॥ यथाशक्ति ततः कुर्यात्तस्माद्बहुभिरर्चकैः । बहुभिः परिचारैश्च तथै वान्यपदार्थिभिः ॥ १८.७ ॥ निर्वर्त्यं पूजनं विष्णोश्श्रद्धाभक्तिसमन्वितैः । तस्मान्नवविधा ग्राह्या अर्चकाः परिचारकाः ॥ १८.८ ॥ उत्तमे तूत्तमं प्रोक्तमर्चकानान्तु विंशतिः । अशीतिः परिचाराणामुत्तमे मध्यमं ततः ॥ १८.९ ॥ परिचाराणां चतुष्षष्टिदर्चकाष्षोडश स्मृताः । उत्तमे त्वधमं प्रोक्तमर्चका द्वादश स्मृताः ॥ १८.१० ॥ पञ्चाशत्परिचाराश्च मध्यमे चोत्तमं पुनः । चत्वारिंशत्परिचराः पूजकाश्चाष्टकीर्तिताः ॥ १८.११ ॥ मध्यमे मध्यमं प्रोक्तमचन्काष्षडुदीरिताः । पञ्चविंशत्परिचरा मध्यमे त्वधमं पुनः ॥ १८.१२ ॥ चत्वारः पूजकास्तत्र परिचारास्तु षोडश । त्रयोर्ऽचकाः परिचरा नव स्युरधमोत्तमे ॥ १८.१३ ॥ पूजकौ द्वौपरिचराश्चत्वारोऽधममध्यमे । एकोर्ऽचकः परिचरौ द्वौप्रोक्तावधमाधमे ॥ १८.१४ ॥ आचार्यस्स्यादुपद्रष्टा देवस्सान्निध्यकारकः । अर्चनाद्यखिलं कार्यं तन्नियोगेन कारयेत् ॥ १८.१५ ॥ स हि कार्यस्य निर्णेता गोप्ताधर्मस्यदेशिकः । अर्चको देवदेवस्य कुर्यान्मन्त्रासनादिषु ॥ १८.१६ ॥ उपचाराननन्तांश्च विधिना शास्त्रचोदितान् । अर्चकस्य सहायन्तु किङ्करः परिचारकः ॥ १८.१७ ॥ बहुकार्यकराश्चैते ग्राह्यास्तु परिचारकाः । सम्माजन्नकरश्चैव तथा स्यादुपलेपकः ॥ १८.१८ ॥ दीपोद्दीपयिता चौव पोत्रशोधनकारकः । पानीय वाहकश्चैव पुष्पापचयकारकः ॥ १८.१९ ॥ धूपदीपादिकर्ता च गन्धपेषणतत्परः । तत्तत्परिच्छदाहर्ता तथैव बलिवाहकः ॥ १८.२० ॥ एवमादीनि कार्याणि कुर्वन्ति परिचारकाः । पाचकः परिचारस्स्यात्पचनालयसंगतः ॥ १८.२१ ॥ हविष्पाकविधानज्ञश्शौचाचारपरायणः । एतान्वैखानसानेव वृणेत्सर्वान् पदार्थिनः ॥ १८.२२ ॥ अलाभे तत्र सर्वेषामाचार्यं चार्चकान्पुसः । वैखानसानेव वृणन्नक्युदर्यादन्यसूत्रिणः ॥ १८.२३ ॥ अवैखानस विप्रस्तु पूजयेदालये हरिम् । स वै देवलको नाम सर्व कर्मबहिष्कृतः ॥ १८.२४ ॥ परिचारांन्तु वृणुयादलाभे त्वन्यसूत्रिणः । दीक्षितानेवसद्वृत्तानागमोक्तविधानतः ॥ १८.२५ ॥ यजमानस्सदाध्यात्मरतो मोक्षार्थचिन्तकः । धनी सर्वसमस्त्यागी भक्तियुक्तः प्रसन्नधीः ॥ १८.२६ ॥ शास्त्रोक्तेन विधानेन विष्णुलाञ्छनलाञ्छितः । देवस्य नित्यपूजार्थमुत्सवार्थं विशेषतः ॥ १८.२७ ॥ तथान्यविभवार्थं च दापयेद्धनसंचयम् । आचार्याज्ञाप्रतीक्षस्स्यातॄजके हितचिन्तकः ॥ १८.२८ ॥ परिचारे प्रसन्नश्च किङ्करेषु दयापरः । तीर्थप्रसादसेवी च निर्माल्येषु कृतादरः ॥ १८.२९ ॥ इति लक्षणसंपन्नाः प्रभवन्त्यालयार्चने । अथार्चकः प्रमन्नात्मा पञ्चकालपरायणः ॥ १८.३० ॥ ब्राह्मेमुहूर्ते चोद्थाय नारायणमनुस्मरेत् । कृत्वा सूत्रोक्तविधिना शौचादीनि यथाविधि ॥ १८.३१ ॥ स्नात्वा स्नानविधानेन धृत्वा धौतांबरे पुनः । ऊर्ध्वपुण्ड्राणि संधार्य विधिना केशवादिभिः ॥ १८.३२ ॥ धृत्वा पवित्रपद्माक्षतुलसीमणिमालिकाः । धृत्वोभयपवित्रे च तथा सन्ध्यामुपास्य च ॥ १८.३३ ॥ उष्णीषेण च पञ्चागभूषणैन्सुविभूषितः । समाप्य नित्यकर्माणि महामन्त्रादिकं जपन् ॥ १८.३४ ॥ अरुणं तु जपित्वैव नारायणमतः परम् । प्रणम्य यन्त्रिकाञ्चैव कराभ्यां परिगृह्य च ॥ १८.३५ ॥ बाह्वोश्शिरसि वा न्यस्य भक्त्या परमया युतः । संगतः परिचारैश्च यजमानेन सादरम् ॥ १८.३६ ॥ सर्ववाद्य समायुक्तः सर्वमङ्गलशोभितः । क्रममाणश्शनैर्विद्वान् देवागारं प्रति व्रजेत् ॥ १८.३७ ॥ "प्रतद्विष्णुऽरिति प्रोच्य चालयं परितःक्रमात् । युग्मप्रदक्षिणं कुर्याद्देव देवमनुस्मरन् ॥ १८.३८ ॥ युग्मप्रदक्षिणं कुर्यादयुग्मं त्वाभिचारिकम् । आयुग्मं तु परीत्यापि तथायुग्मं प्रणम्य च ॥ १८.३९ ॥ प्रेक्षेतोद्यन्तमादित्यं जपेद्द्वादशसूक्तकम् । छायालङ्घनदोषन्तु न तत्र स्यात्प्रदक्षिणे ॥ १८.४० ॥ देवागारं प्रविश्यैव तत्तन्मन्त्रमनुस्मरन् । द्वारदेवान् प्रणम्याथ निरस्तं रक्षमस्त्रतः ॥ १८.४१ ॥ गृहीत्वा यन्त्रिकां चैव "हिरण्यपाणिऽ मुच्चरन् । कवाटे तु सुसंयोज्य "दिवंऽ वीति समुच्चरन् ॥ १८.४२ ॥ कवाटोद्घायनं कृत्वा प्रविशेदन्तरं बुधः । "अतो देवाऽ इतिप्रोच्य देवं वीक्ष्यप्रणम्य च ॥ १८.४३ ॥ परिचारकमाहूय दीपानुद्दीपयेत्क्रमात् । प्रणवं मन्त्रमुच्चार्य तत्र कार्यं समाचरेत् ॥ १८.४४ ॥ त्रिस्संप्रहार्य पाणिभ्यां "शाम्यन्त्विऽत्यादि चोच्चरन् । आदर्शं गाश्च कन्याश्च हस्त्यश्वादीन् शुभोदयान् ॥ १८.४५ ॥ ब्राह्मणान्वेदविदुषो नर्तकांश्चैव गायकान् । देवस्य पुरतस्थ्साप्य मुखमण्डप एवचा ॥ १८.४६ ॥ प्रच्छन्न पटमुद्वास्य कृत्वा नीराजनं तथा । सर्ववाद्यसमायुक्तं दर्शयेद्धरये मुदा ॥ १८.४७ ॥ धारोष्णं चैव गोक्षीरं नवनीतं सशर्करम् । देवेशाय निवेद्याथ कुर्याद्यवनिकां पुनः ॥ १८.४८ ॥ "भूः प्रपद्येऽ समुच्चार्य देवेशं प्रणमेन्मुहुः । "परं रंऽहीति मन्त्रेण शयनस्थं श्रियःपतिम् ॥ १८.४९ ॥ "भूरसी भूऽरिति प्रोच्य जीवस्थाने निवेशयेत् । तस्मिन् कालेतु ये भक्त्या सेवन्ते पुरुषोत्तमम् ॥ १८.५० ॥ तेषां पुण्यफलं वक्तुं न शक्यं त्रिदशैरपि । ततश्शिष्यं समाहूय विनयान्वितमादरात् ॥ १८.५१ ॥ सम्मार्जनादिकर्माणि गुरुस्तस्मै समादिशेत् । "अव धूतिऽमिति प्रोच्य गर्भगेहादि सर्वतः ॥ १८.५२ ॥ मार्जन्या मार्जयेच्छिष्यः प्रादक्षिण्यक्रमेण वै । पांस्वादीन् परिहृत्यापि प्राकारान्तं च सर्वशः ॥ १८.५३ ॥ "आशाऽस्विति समुच्चार्य गोमयेनोपलेपयेत् । पञ्चगव्यैस्तु संप्रोक्ष्य रङ्गवल्लीस्समाचरेत् ॥ १८.५४ ॥ "आ मा वाजस्यऽ मन्त्रेण यथोक्तेन विधानतः । सर्वण्यपि च पात्राणि शोधयेत्सुमनोरमे ॥ १८.५५ ॥ तो यसंग्रहणार्थं तु नियुक्तः पूजकेन तु । घटमादाय शिष्यस्तु "दुहतां दिवऽमुच्चरन् ॥ १८.५६ ॥ नदीतटाककूपानां पूर्वालाभे परं व्रजेत् । उपस्थाय जलं स्मृत्वा जाह्नवीं लोकपावनीम् ॥ १८.५७ ॥ "आज्यमभिगृह्णाऽमीति चाप्पवित्रेण वाससा । गृहीत्वोत्पूतमाधावं गायत्रीमुच्चरन् पुनः ॥ १८.५८ ॥ अलङ्कृत्यघटं सम्यक्क्षौमेनाच्छाद्य तन्मुखम् । गजे शिरसि वा क्षिप्त्वा सर्ववाद्यसमायुतम् ॥ १८.५९ ॥ पुनरालयमाविश्य कृत्वा चैव प्रदक्षिणम् । सोमं राजानमुच्चार्य गर्भगेहे तु दक्षिणे ॥ १८.६० ॥ विन्यसेच्च ततः कुंभं त्रिपादोपरि शोभिते । एलोशीरादिचाहृत्य गन्धद्रव्यं यथाविधि ॥ १८.६१ ॥ दद्यादर्चकहस्ते तु गृहीत्वा तत्तु पूजकः । पूर्णकुंभे तु निक्षिप्यतोयं तदधिवासयेत् ॥ १८.६२ ॥ अलाभे कुशदूर्वैर्वा तुलसीदलमिश्रितैः । अभिमृश्य ततः कुंभ "मिदमापश्शिवाऽइति ॥ १८.६३ ॥ सूत्रोक्तविधिना कृत्वा पुण्याहं विधिवत्तदा । "शुचि वो हव्यऽमन्त्रेण संभारान् प्रोक्षयेत्क्रमात् ॥ १८.६४ ॥ शोधयित्वातु निर्माल्यं "नश्यस्तु जगताऽमिति । "अहमेवेदऽमुक्त्वा तु पीठपुष्पं च शोधयेत् ॥ १८.६५ ॥ "पूतस्तस्यऽ समुच्चार्य वेदिमद्भिस्सुशोधयेत् । ध्रुवस्य पादपुष्पस्तु विष्णुगायत्रिया तथा ॥ १८.६६ ॥ पञ्चभिर्मूर्ति मन्त्रैश्च दत्वा देवं प्रणम्य च । देवनिर्माल्यशेषेण विष्वक्सेनं विभूष्य च ॥ १८.६७ ॥ अन्यन्निर्माल्यमादाय शुचिस्थानेऽप्सु वा क्षिवेत् । पूजनार्थांश्च संभारान् यथाशक्ति सुसंभरेत् ॥ १८.६८ ॥ ततस्समाहितो भूत्वासंभारार्चनमारभेत् । तत्तत्थ्सानेषु पात्राणि यथार्हं स्थापयेद्बुधः ॥ १८.६९ ॥ स्नानार्थमग्निकोणे स्यादर्घ्यर्थं नैरृतेऽपि च । पाद्यार्थं वायुदेशे स्यादाचमार्थमथेशके ॥ १८.७० ॥ शुद्ध्यर्थमेकं मध्ये तु पञ्चपात्रमिदं क्रमात् । त्रिपादोपरे निक्षिप्ते विशाले ताम्रभाजने ॥ १८.७१ ॥ "अग्निश्शुऽचीति मन्त्रेण स्थापयेच्च हरिं स्मरन् । कुर्याच्च पात्रसंस्कारं शोषणादि यथाविधि ॥ १८.७२ ॥ उद्धरिण्यां गृहीत्वातु प्रणवेन जलं तदा । निक्षिप्य तुलसीं तस्यां पुष्पं वा धारणं चरेत् ॥ १८.७३ ॥ वारिकुंभमुखे ब्रह्मा तदधो रुद्र ईरितः । वरुणस्तु जले ध्येयस्तथै वावाहनं चरेत् ॥ १८.७४ ॥ त्रिपादे चन्द्रमावाह्य चादित्यं चोर्ध्वभाजने । वसिष्ठसोमयज्ञाङ्गानिन्दुं मन्द्रं क्रमेणवै ॥ १८.७५ ॥ आग्नेयादिक्रमेणैव पञ्चपात्रेषु चाह्वयेत् । कर्पूरोशीरकं चैव गन्धानेलालवङ्गकम् ॥ १८.७६ ॥ स्नानद्रव्यमिदं प्रोक्तं स्नानपात्रे तुनिक्षिपेत् । विष्णुपर्णं पद्मदलं दूर्वां श्यामाकमेव च ॥ १८.७७ ॥ प्राद्यद्रव्याणिसंपाद्य पाद्यपात्रे तु निक्षिपेत् । कुशाक्षततिलव्रीहियवमाषांस्तथैव च ॥ १८.७८ ॥ प्रियङ्गूंश्चैव सिद्धार्थानर्घ्यपात्रे तु निक्षिपेत् । एलोशीरलवङ्गादिं स्तक्कोलानीति च क्रमात्, ॥ १८.७९ ॥ क्षिपेदाचामपात्रे तु शुद्धतोये ततःक्रमात् । पुष्पाणि गन्धान्विन्यस्येद्यथालाभमथापिवा ॥ १८.८० ॥ अलाभेतत्तदुच्चार्य तुलसीं वा विनिक्षिपेत् । "धाराऽस्विति च मन्त्रेण पात्राण्यद्भिः प्रपूरयेत् ॥ १८.८१ ॥ "इदमापश्शिवाःऽ प्रोच्य सुरभिमुद्रां प्रदर्श्य च । पात्राभिमन्त्रणं कुर्याद्दसदिग्बन्धनं चरेत् ॥ १८.८२ ॥ विष्णुगायत्रीमुच्चार्य तत्रकार्यं समाचरेत् । घण्टायां चैव ब्रह्माणं नादे वेदान्समर्चयेत् ॥ १८.८३ ॥ तज्जिह्वायां षडास्यस्तुसूत्रेनागान्त्समर्चयेत् ऊर्ध्वेवीशं च शङ्खारी पार्श्वयोस्तस्यचार्चयेत् ॥ १८.८४ ॥ नाले चैव महादेवमिति घण्टाधिदेवताः । त्रिपादस्योत्तरेस्थाप्य विमलन्तु पतद्ग्रहे ॥ १८.८५ ॥ वरुणं शङ्खकुक्षौ तु मूले तु पृथिवीं तथा । धारायां सर्वतीर्थांश्च शङ्खे चन्द्रं समर्चयेत् ॥ १८.८६ ॥ उद्धरिण्यां च पानीयपात्रे सोममथार्चयेत् । आसने धर्ममावाह्यप्लोते त्वष्टारमेव च ॥ १८.८७ ॥ अंबरे सूर्यमावाह्य चोत्तरीये निशाकरम् । भूषणे षण्मुखं चैव यज्ञसूत्रे निशाकरम् ॥ १८.८८ ॥ पुष्पे पुल्लं तथा गन्धे मुखवासे च मेदिनीम् । अक्षते काश्यपं धूपे बृहस्पतिमधाह्वायेत् ॥ १८.८९ ॥ दीपे श्रियं घृते सामतैले पितॄन्त्समर्चयेत् । उपधाने तथाछत्रे पादुके शेषमर्चयेत् ॥ १८.९० ॥ यन्त्रिकायां च मार्ताण्डं सिद्धार्थे सोममर्चयेत् । कुशाग्रे जाह्नवीं चैव तिलेषु पितृदेवताः ॥ १८.९१ ॥ तण्डुले रविमावाह्य दध्नि चावाहयेद्यजुः । क्षीरेऽथर्वाणमावाह्य मधुपर्के ऋचं तथा ॥ १८.९२ ॥ मात्रायां शर्वमावाह्य हविःपात्रे दिवाकरम् । हविष्णु पद्मगर्भं च पानपात्रे निशाकरम् ॥ १८.९३ ॥ उपहारादिपात्रेषु दिवाकरमथार्चयेत् । ज्येष्ठामावाह्य मार्जन्यां नर्तकेशर्वमर्चयेत् ॥ १८.९४ ॥ गायके सामवेदं च नन्दीशं वादकेर्ऽचयेत् । पाञ्चजन्यं च शङ्खे तु गणिकास्वप्चरस्त्स्रियः ॥ १८.९५ ॥ गरुडं परिचारेषु समावाह्य ततः क्रमात् । अनुक्तेषु तु द्रव्येषु विष्णुमावाह्य कारयेत् ॥ १८.९६ ॥ तत्तद्द्रव्याधिपे स्मृत्वातत्तद्द्रव्यसमीपतः । तत्तद्द्रव्यधरत्वेन चतुर्भिर्विग्रहैर्यजेत् ॥ १८.९७ ॥ तत्तत्कर्मसु काले वै यथार्हमुपयोजयेत् । तत्काले प्यथ वावाह्यतस्मिन् कर्मणि योजयेत् ॥ १८.९८ ॥ ततोर्ऽचकः प्रसन्नात्माध्यात्वात्मानं जनार्दनम् । देवस्य दक्षिणेभागे कूर्मपीठे समाहितः ॥ १८.९९ ॥ बिंबार्हं संस्थितो वापि समासीनोऽथ वा पुनः । ध्यात्वा ध्यानविधानेन जप्त्वाचार्यपलंपराम् ॥ १८.१०० ॥ योगशास्त्रोक्तमागेन्ण प्राणायामादिकं चरेत् । भूतशुद्धिं विधायादौ न्यासानन्यान्त्समाचरेत् ॥ १८.१०१ ॥ अकारादिक्षकारान्तमक्षराणि यथाविधि । सर्वत्र सन्धिषु न्यस्य ब्रह्मन्यासं समाचरेत् ॥ १८.१०२ ॥ "ब्रह्म ब्रह्मन्तरात्मेऽति हृदयं चाभिमर्शयेत् । "द्यौर्द्यैरऽसीति चोच्चार्य मूर्धानं चाभिमर्शयेत् ॥ १८.१०३ ॥ "शिखे उद्वर्तयाऽमीति स्पृशेच्चैव शिखां तथा । "देवानामायुधैऽरुक्त्वा कवचं बन्धयेत्ततः ॥ १८.१०४ ॥ "नारायणाय विद्महऽ इति दशदिग्भन्धनं चरेत् । "सुदर्शनमऽभीत्युक्त्वा दक्षिणे तु सुदर्शनम् ॥ १८.१०५ ॥ "रविपाऽमिति वामे च शङ्खं च बिभृयात्करे । "सूर्योसि च द्रोऽसीऽत्युक्त्वा नेत्रयोर्दक्षवामयोः ॥ १८.१०६ ॥ सूर्याचन्द्रमसोश्चैव मण्डले सन्न्यसेद्बुधः । "अहुरण्यं विधिं यज्ञं ब्रह्माणं देवेन्द्रऽमित्यपि ॥ १८.१०७ ॥ अङ्गुष्ठादिकनिष्ठान्तं करन्यासं समाचरेत् । "अन्तरस्मिन्निमऽइति ब्रह्माणं च हृदि न्यसेत् ॥ १८.१०८ ॥ प्राणानायम्य संकल्प्य तिथिवारादिकीर्तयेत् । ततो मन्त्रासनं विद्वान् संकल्प्य च यथाविधि ॥ १८.१०९ ॥ "प्रतद्विष्मुस्सवतऽइति इति त"थास्त्वासनऽमित्यपि । पुष्पदभन्कुशेष्वेकं पीठान्ते चासनं ददेत् ॥ १८.११० ॥ "विश्वाधिकानाऽमित्युक्त्वा स्वागतं तु समाचरेत् । "मनोऽभिमन्ताऽमन्त्रेण देवेशमनुमान्य च ॥ १८.१११ ॥ "त्रीणि पऽदेति मन्त्रेण दद्यात्पाद्यं पदद्वये । "आमावाजस्यऽमन्त्रेण स्पृश्यमघंन्य्प्रदाय च ॥ १८.११२ ॥ देवस्य दक्षिणे हस्ते स्पृश्यं स्सृश्याघन्य्मुच्यते । "शन्नोदेवीऽरिति प्रोच्य दद्यादाचमनीयकम् ॥ १८.११३ ॥ "देवस्यऽत्वेति मन्त्रेण चादर्शं दर्शयेत्ततः । अन्नाद्याय समुच्चार्य दन्तधावनमाचरेत् ॥ १८.११४ ॥ हिरण्मयं वा रौप्यं वा दन्तकाष्ठं षडङ्गुलम् । जौदुंबरं वा संपाद्य यथालाभं समाचरेत् ॥ १८.११५ ॥ "इदं ब्रऽह्मेति मन्त्रेण जिह्माशोधनमाचरेत् । "यन्मे गर्भेऽसमुच्चार्य गण्डूषं क्षालनं तथा ॥ १८.११६ ॥ "शन्नोदेवीऽरिति प्रोच्य दद्यादाचमनं ततः । "विचक्रमेऽ नमुच्चार्य मुखवासं प्रदापयेत् ॥ १८.११७ ॥ पूर्ववस्त्रं विसृज्यैव परिधाप्यान्यवाससा । ग्रीवायाः पृष्ठतः कुर्यादवकुण्ठनमादरात् ॥ १८.११८ ॥ केशान्विकीर्य मन्त्रज्ञो वामभागे च सुस्थितः । "उवानहाऽविति प्रोच्य पुरस्तात्पादुकेन्यसेत् ॥ १८.११९ ॥ "भूःप्रपद्येऽ समुच्चार्य प्रणम्य जगतां पतिम् । "पर ब्रऽह्मेति मन्त्रेण समादाय तु कौतुकम् ॥ १८.१२० ॥ स्वस्तिसूक्तं ततो जप्त्वा "प्रतद्विष्णुऽरिति ब्रुवन् । स्नानपीठे सुसंस्थाप्य पाद्यमाचमनं ददेत् ॥ १८.१२१ ॥ अतो देवादिमन्त्रैस्तु तैलमालिप्य मूर्धनि । तथैव विष्णुगायत्षा सर्वांगाण्यनुलेपयेत् ॥ १८.१२२ ॥ "परिलिखितऽमिति मन्त्रेण सर्वाङ्गमपि शोधयेत् । आम्लेन खण्डशीकेन शर्कराभिर्यथोचितम् ॥ १८.१२३ ॥ अलाशोधनं कुर्याच्छ्रीपत्रामलकांबुना । शालिपिष्टेन गन्धाद्यैरङ्गशोधनमाचरेत् ॥ १८.१२४ ॥ विशदं शोधयित्वातु संस्नाप्योष्णेन वारिणा । "वारीश्चतस्रऽइत्युक्त्वा शुद्धोदैरभिषेचयेत् ॥ १८.१२५ ॥ "नमो वरुणऽइत्युक्त्वा गोक्षीरैरभिषेचयेत् । "भूरानिलयऽमन्त्रेण स्नापयेद्गन्धवारिणा ॥ १८.१२६ ॥ "अग्निमीलेऽसमुच्चार्य मधुना स्नानमाचरेत् । "सीनीवाऽलीति मन्त्रेण हारिद्रोदकसेचनम् ॥ १८.१२७ ॥ तत्तद्द्रव्यान्तरे चैव भवेच्छुद्धोदकाप्लपः । पुनर्गन्धोदकेनैव "गन्धद्वाराऽ मुदीर्य च ॥ १८.१२८ ॥ स्नापयेद्देवदेवेशं तूर्यघोषपुरस्सरम् । चतुर्वेदादिमन्त्रैश्च शुद्धोदैस्स्नापयेत्पुनः ॥ १८.१२९ ॥ "मित्रस्सुपर्णऽइत्युक्त्वा विमृज्य प्लोतवासना । पूर्ववस्त्रं विसृज्यैप परीधाप्य तथेतरत् ॥ १८.१३० ॥ पाद्यमाचमनं दद्यात्पूर्वोक्तेन विधानतः । प्रणम्य देवदेवेशं दत्वापुष्बाञ्जलिं ततः ॥ १८.१३१ ॥ "भूरसि भूऽरित्युच्चार्य जीवस्थाने निवेशयेत् । "त्रिर्देवऽमन्त्रमुच्चार्य दृश्याघन्य्न्तु समर्पयेत् ॥ १८.१३२ ॥ ततःप्रोक्ष्य ध्रुवस्थानं गायत्रीमन्त्रमुच्चरन् । "संयुक्तमेतऽदुच्चार्य ध्रुवकौतुकयोन्ततः ॥ १८.१३३ ॥ संबन्धार्थं न्यसेत्कूर्चं कौतुकाग्रं विधानतः । गायत्षा ध्रुवपीठन्तु प्रोक्ष्य शुद्धेन वारिणा ॥ १८.१३४ ॥ "विष्णवे नमऽइत्युक्त्वा देवदेवमनुस्मरन् । ध्रुवस्य पादयोर्मध्ये पुष्पन्यासं समाचरेत् ॥ १८.१३५ ॥ प्रागादि च न्यसेत्तत्र पादक्षिण्यक्रमेण वै । चतुर्थ्यन्तेन पुष्पाणिपुरुषं सत्यमच्युतम् ॥ १८.१३६ ॥ अनिरुद्धमिति रोच्य महादिक्षु चतुर्षु च । आग्नेयादि तथा न्यन्येद्विदिक्षु च क्रमेण वै ॥ १८.१३७ ॥ कपिलं चैव यज्ञं च नारायणं पुण्यमेव च । प्रथमावरणं चैतद्द्वितीयावरणे ततः ॥ १८.१३८ ॥ पूर्वोक्तेन क्रमेणैव वाराहं नारसिंहकम् । वामनं त्रिविक्रमं चैव सुभद्रं च ततः परम् ॥ १८.१३९ ॥ ईशितात्मानमित्युक्त्वा सर्वोद्वहमतः परम् । सर्वविद्वेश्वरं चेति समभ्यर्च्येद्बहिर्मुखान् ॥ १८.१४० ॥ तृतीयावरणे तत्तद्दिगीशांश्च समर्चयेत् । श्रीफूम्योर्मूर्तिमन्त्रैश्च देव्योरपि समाचरेत् ॥ १८.१४१ ॥ एवं ध्रुवस्य पीठे तु पुष्पन्यास उदाहृतः । अथ कौतुकपीठे तु पूर्वोक्तेन क्रमेण वै ॥ १८.१४२ ॥ प्राच्यां सुभद्रमावाह्य हयात्मकमतः परम् । रामदेवं पुण्यदेवं सर्वं चैव सुखावहम् ॥ १८.१४३ ॥ संवहं सुवहं चेति प्रथमावरणेर्ऽचयेत् । द्वितीयावरणे तद्वन्मित्र मत्रिं शिवं ततः ॥ १८.१४४ ॥ विश्वं सनातनं चैव सनर्थनमतः परम् । सनत्कुमारं सनकमर्चयेच्च बहिर्मुखान् ॥ १८.१४५ ॥ तृतीयावरणे तद्वल्लोकपालान्त्समर्चयेत् । प्रणवादि नमोऽन्तं स्यादर्चनं न्यास उच्यते ॥ १८.१४६ ॥ एकादशभिरष्टाभिरुपचारैस्तथार्चयेत् । तत्र देव्योश्च विधिना ध्रुवतेव्योरिवाचरेत् ॥ १८.१४७ ॥ मार्कण्डेयं भृगुं चैव देवदक्षिणवामयोः । ब्रह्माणं शङ्करं तद्वद्भित्तिपार्श्वे समर्चयेत् ॥ १८.१४८ ॥ देवेशाभिमुखानेतान्यथाविधि समर्चयेत् । द्वारार्चनं समारभ्य शिष्यः कुर्याद्गुरूदितः ॥ १८.१४९ ॥ द्वारे द्वारे द्वारदेवान् द्वारपालान्त्समर्चयेत् । विमानपालान् लोकेशांस्तथा चैवऽनपायिनः ॥ १८.१५० ॥ परिवारांस्तथान्यांश्च विष्णुभूतान्तमेव च । तत्तन्नाम्ना समभ्यर्च्य "भूरानिलयऽ मन्त्रतः ॥ १८.१५१ ॥ द्वारप्रक्षालनं कृत्वा दक्षिणे मध्यवामयोः । धर्मं ज्ञानमथैश्वर्य मावाह्य सुसमर्चयेत् ॥ १८.१५२ ॥ सर्वत्र द्वारवामे तु रक्षार्थं शान्तमर्चयेत् । ततो यवनिकां कुर्याद्द्वारे क्षौमादिनिर्मिताम् ॥ १८.१५३ ॥ स्त्रियश्शूद्रान्तु पतिताः पाषण्डा वेदनिन्दकाः । देवतान्तर भक्ताश्च पापरोगादिपीडिताः ॥ १८.१५४ ॥ अभिशस्ताश्च ये पापाश्शास्त्रेषु तु विनिन्दिताः । पूजाकाले तु नार्हन्ति सेवितुं हरिमव्ययम् ॥ १८.१५५ ॥ ध्यानमाविश्य तत्काले पूजकस्सुसमाहितः । आत्मसूक्तं जपित्वैव साक्षान्नारायणो भवेत् ॥ १८.१५६ ॥ विष्णुं व्यापिनमात्मान मखण्डानन्दचिन्मयम् । रुक्माभं रक्तनेत्रास्यपाणिपादं सुखोद्वहम् ॥ १८.१५७ ॥ किरीटहारकेयूरकुण्डलाङ्गदभूषितम् । शङ्खचक्रधरं देवं वरदाभयचिह्नितम् ॥ १८.१५८ ॥ श्रीवत्सांकं महाबाहुं कौस्तुभोद्भासितोरसम् । शुकपिञ्छांबरधरं प्रलंबब्रह्मसूत्रिणम् ॥ १८.१५९ ॥ दिव्यायुधपरीवारं दिव्यभूषाविभूषितम् । देवीभ्यां परिवारैश्च सेव्यमानं जगत्पतिम् ॥ १८.१६० ॥ ध्यायेत्सन्निहितं बिंबे नारायणमनामयम् । यथाबेरं तथा थात्वा न्यासकर्म ततश्चरेत् ॥ १८.१६१ ॥ सुवर्भुवर्भूरित्युक्त्वा मूर्ध्नि नाभौ च सादयोः । बिंबस्य व्याहृतीर्न्यस्येद्व्याहृतिन्यास उच्यते ॥ १८.१६२ ॥ पादयोरन्तरे पीठे यकारं च ततोन्यसेत् । अकारं हृदयेन्यस्य चादिबीजं ततःपुनः ॥ १८.१६३ ॥ आवेष्ट्य प्रणवेनैतान् प्रणामं पुनराचरेत् । पुष्पगन्धाक्षतैर्युक्तं शुद्धोदैरभिपूरितं ॥ १८.१६४ ॥ प्रणिधिं चौर्ध्वमुद्धृत्य दीपाद्दीपमिवक्रमात् । "इदं विष्णुरितिऽप्रोच्य "चायातु भगवाऽनिति ॥ १८.१६५ ॥ प्रणवात्मकमव्यक्तं दिव्यमङ्गलविग्रहम् । ध्रुवात्प्रणिधितोये तु कूर्चेवावाहयेद्धरिम् ॥ १८.१६६ ॥ तद्व्याप्तं तो यमादाय कौतुकस्य तु मूर्ध नि । प्रणवेन समास्राव्य कूर्चेवावाहयेद्गुरुः ॥ १८.१६७ ॥ मूर्तिमन्त्रान्त्समुच्चार्य तत्र कार्यं समाचरेत् । देव्यौ चैव तथावाह्य सम्यगभ्यर्चयेद्बुधः ॥ १८.१६८ ॥ तथैवावाहयेद्विद्वान् विधिना चोत्सवादिषु । कैतुकाद्बलिबेरस्य केचिदावाहनं विदुः ॥ १८.१६९ ॥ अलङ्कारासनं पश्चात्संकल्स्य च यथाविधि । असनं मन्त्रवद्दद्याद्देवेशमनुमानयेत् ॥ १८.१७० ॥ पाद्यमाचमनं चापि दद्यात्पूर्वोक्तमन्त्रतः । "तेजोवत्क्यावऽवमन्त्रेण वस्त्रं क्षौमादिचार्पयेत् ॥ १८.१७१ ॥ "भूतो भूतेषुऽ मन्त्रेण भूषणैश्च विभूष्य च । "सोमस्य तनूरऽसीत्युक्त्वाधारयेदुत्तरीयकम् ॥ १८.१७२ ॥ अष्टाक्षरेण मन्त्रेण चोर्ध्वपुण्ड्रं च धारयेत् । "अग्निं दूतमिऽति प्रोच्य यज्ञसूत्रं समर्पयेत् ॥ १८.१७३ ॥ "तद्विष्णोरिति मन्त्रेण पुष्पाद्यैः पूजयेत्ततः । मूर्तिमन्त्रान्त्समुच्चार्य केशवादिभिरेव वा ॥ १८.१७४ ॥ अष्टोत्तरशतैस्तद्वदष्टोत्तरसहस्रकैः । अनन्तैनान्मभिः पूज्योऽनन्तनामा भवान् हरिः ॥ १८.१७५ ॥ "तद्विप्रासऽ इति प्रोच्य चन्दनेनानुलेपयेत् । "परोमात्रऽयेत्युच्चार्य धूपमाघ्रापयेत्ततः ॥ १८.१७६ ॥ "विष्णोः कर्माणिऽ मन्त्रेण दीपं तस्मै प्रदर्शयेत् । "त्रिर्देवऽइति मन्त्रेण दद्यादघं च पूर्ववत् ॥ १८.१७७ ॥ उपचारेषु सर्वेषु प्रियमघंन्य्हरेस्स्मृतम् । तस्मान्निवेदयेद्धीमान्मधुपकोन्पमं शुभम् ॥ १८.१७८ ॥ अचमनन्तु तस्यान्ते पूर्वमन्त्रेण कारयेत् । द्रोणतण्डुलमादाय तदर्धं पादमेववा ॥ १८.१७९ ॥ तण्डुलार्थतिलैर्युक्तं मुखवासफलान्वितम् । गृहीत्वा कांस्यपात्रेतु देवस्याग्रे निधाय च ॥ १८.१८० ॥ दशन्येद्देवदेवस्य "सोमं राजानऽमुच्चरन् । देवार्पितैस्तु निर्माल्यैः पूजयित्वार्ऽचकं ततः ॥ १८.१८१ ॥ "घृतात्पऽरीति मन्त्रेण दशन्यित्वाकरं हरेः । अर्चकाय प्रदेयं स्यान्मात्रादानमिति स्मृतम् ॥ १८.१८२ ॥ बहुशो दक्षिणां दद्याद्दानसाद्गुण्यसिद्धये । "देवस्यऽत्वेति मन्त्रेण परिगृह्य तदर्चकः ॥ १८.१८३ ॥ उपयुञ्ज्यात्कुटुंबार्थे स हि दायहरो हरेः । देवद्रव्योवभोगे तु यश्शास्त्रैदोन्ष ईरितः ॥ १८.१८४ ॥ वैखानसानां तद्दोषा नास्ति देवप्रसादतः । प्रणम्य देवदेवेशं मन्त्रैर्वेदादिसंभवैः ॥ १८.१८५ ॥ स्त्रोत्रैश्च विविधैन्त्सुत्वा पादे पुष्पाञ्जलिं क्षिपेत् । दशन्येद्विविधाकारान् दीपान्मन्त्रेण तत्र तु ॥ १८.१८६ ॥ कुंभदीपं समादाय देवाग्रे तु विनिक्षिपेत् । वाराहं नारसिंहं च चामनं च त्रिविक्रमम् ॥ १८.१८७ ॥ दलेष्वभ्यर्च्य विधिना दीपे लक्ष्मीं समर्चयेत् । वर्तिकायां श्रियं चैव धूमेऽभ्यर्च्यभवं तथा ॥ १८.१८८ ॥ प्रोक्ष्योपचारैरभ्यर्छ्य पुष्पगन्धादिभिः क्रमात् । "शुभ्रा ज्योतिऽरिति प्रोच्य कराभ्यां परिगृह्य च, ॥ १८.१८९ ॥ प्रदक्षिणं त्रिवारं तु दर्शयन् भ्रामयेद्धरिम् । सर्ववाद्यसमायुक्तं तं दीपं परिगृह्य च ॥ १८.१९० ॥ शिष्यो वा गणिका वापि देवागारं परीत्य च । विसृजेच्चैव तं दीपं पृष्ठे यूथाधिपस्य च ॥ १८.१९१ ॥ तद्दीपदर्शनान्नॄणामायुश्श्रीपुत्रसंवदः । संभवन्ति न सन्देहो विष्णोर्नी राजनं ही तत् ॥ १८.१९२ ॥ चित्रैश्चवालव्यजनैस्तत्काले वीजयेद्गुरुः । दर्बणं चामरं छत्रं व्यजनं चतुरङ्गकम् ॥ १८.१९३ ॥ नृत्तं गीतं च वाद्यं च वैष्णवं मन्त्रमुच्चरन् । देवस्य दर्शयित्वातु स्तोत्रं वेदैःक्रमाच्चरेत् ॥ १८.१९४ ॥ तथा नानाविधैस्तोत्रैश्श्रावयेदच्युतं हरिम् । अनुक्तं चैव यत्सर्वमूहयित्वा समाचरेत् ॥ १८.१९५ ॥ श्रीभूम्योहृन्दये न्यस्य तत्तद्बीजाक्षरं पृथक् । तत्सूक्ताभ्यां षोडशोपचारैरभ्यर्चयेत्क्रमात् ॥ १८.१९६ ॥ उत्चवादेश्च पूर्वोक्तं सर्वमर्चनमाचरेत् । ततोभोज्याननं चैव संकल्प्य च यथाविधि ॥ १८.१९७ ॥ घृतं मधु गुडं चैव पयो दधि समन्वितम् । प्रस्थमात्रं तु संग्राव्यां मधुपकन्मिहोच्यते ॥ १८.१९८ ॥ "यन्मधुनेति मन्त्रेण मधुपाकं निवेदयेत् । पश्चादाचमनं दत्वाशिष्यं कार्ये नियोजयेत् ॥ १८.१९९ ॥ "अथावनीदऽमन्त्रेण शोधयित्वा स्थलं ततः । मण्डलं चतुरश्रं च कारयेत्बरिचारकः ॥ १८.२०० ॥ हविः पात्राणि संशोध्य रविमभ्यर्छ्य तेषु वै । अभिघार्य घृतेनैव हविस्तत्र तु निक्षिपेत् ॥ १८.२०१ ॥ "अमृतोपस्तरणमऽसीत्यत्र कार्यं समाचरेत् । उपदंशादिकं तत्र गुडं दधि फलानि च ॥ १८.२०२ ॥ निक्षिप्य विष्णुगायत्षा पृथक्पात्रेष्वसंकरम् । "यत्ते सुसीमऽ मन्त्रेण गोघृतेनाभिघार्य च ॥ १८.२०३ ॥ देवस्याग्रे तु निक्षिप्य त्रिपादेषु यथाविधि । हविरर्पणकाले तु न सेव्यो हरिरुच्यते ॥ १८.२०४ ॥ तस्माद्वैखानसान् हित्वा ब्राह्मणा अन्यसूत्रिणः । न विशेयुस्तथान्ये च तत्काले विष्णुमन्दिरम् ॥ १८.२०५ ॥ कवाटं बन्धयेत्पश्चात्घण्टानादं च कारयेत् । तूर्यघोषादिकं कुर्यान्मृडुवाद्यप्रियो हरिः ॥ १८.२०६ ॥ ततोर्ऽचकः प्रसन्नात्मा देवदेवमनुस्मरन् । हविःपात्रेषु तुलसीं निक्षिप्याष्टाक्षरेण तु ॥ १८.२०७ ॥ पुष्पैरभ्यर्च्य संप्रोक्ष्य प्रणवैः परिषिच्य च । अभिमृश्यान्नसूक्तेन सुरभिमुद्रां प्रदर्श्य च ॥ १८.२०८ ॥ "तदस्य प्रियऽमित्युक्त्वा हविरुष्णं निवेदयेत् । "सुभूस्स्वयंभूंऽत्युक्त्वा अपूपं च निवेदयेत् ॥ १८.२०९ ॥ पृथुकादीनि चान्यानि "विश्वभेषजऽमन्त्रतः । अपक्वानि च वस्तूनि सर्वमष्टाक्षरेण तु ॥ १८.२१० ॥ "इदं विष्णुऽस्समुच्चार्य पानीयं स्वादु शीतलम् । निवेदयित्वा गण्डूषं पाद्यमाचमनं ददेत्, ॥ १८.२११ ॥ "घृतात्बऽरीति मन्त्रेण मुखवासं प्रदापयेत् । विष्णुगायत्रीमुच्चार्य दद्यात्पुष्पाञ्जलिं ततः ॥ १८.२१२ ॥ नित्याग्निकुण्डे छुल्ल्यां वा परिषिच्य च पावकम् । चरुणाज्येन जुहुयास्मूर्तिमन्त्रैःक्रमाद्बुधः ॥ १८.२१३ ॥ देव्यादिभ्यस्तथा हुत्वा वैष्णवं च यजेत्क्रमात् । पुष्पन्यासोक्तदेवेभ्यः पाषन्दानां तथैव च ॥ १८.२१४ ॥ त्रिकालेषूत्तमं प्रोक्तमधमं प्रातरेवहि । प्रातर्मध्याह्नयोश्चैव मध्यमं होमलक्षणम् ॥ १८.२१५ ॥ रक्षेदग्निमविच्छिन्नमशक्तो यश्च रक्षितम् । समिध्यात्मनि वारोप्य प्रणीयाहरहर्यजेत् ॥ १८.२१६ ॥ ततोयात्रासनं विद्वान् संकल्प्य विधिना बुधः । प्रोक्ष्यालङ्कृत्य चादाय रथं वा चतुरन्तरम् ॥ १८.२१७ ॥ बलिबेरं समारोप्य सर्वालङ्कारसंयुतम् । "रथन्तरंऽ समुच्चार्य तत्र कार्यं समाचरेत् ॥ १८.२१८ ॥ "योगेशं परंब्रह्माणं परमात्मानमित्यपि । भक्तवत्सलऽमित्युक्त्वा मूर्तिमन्त्रैस्तथा हरिम् ॥ १८.२१९ ॥ नाराचरज्ज्वा नुदृढं बन्धयेद्रहसिक्रमात् । "विष्णुस्त्वाऽमिति मन्त्रेण पादौ सृष्ट्वा नमेन्मुहुः ॥ १८.२२० ॥ "सोमं राजानऽमुच्चार्य छत्रं मूर्धनि धारयेत् । "मरुतः परमाऽत्मेति पार्श्वयोश्चामरे ददेत् ॥ १८.२२१ ॥ "वायुपऽरीति मन्त्रेण व्यजनैर्वीजयेद्धरिम् । तथान्यैस्सुमहाहैन्श्च युक्तोदिव्यपरिच्छदैः ॥ १८.२२२ ॥ घण्टारवेण संयुक्तं शङ्खभेरीनिनादितैः । भेरीमृदङ्गपणवनिस्सालैः काहलैरपि ॥ १८.२२३ ॥ मर्दलैर्दिव्यवाद्यैश्च लयश्रुतिसमन्वितैः । उपतिष्ठेज्जगद्योनिं नारायणमनामयम् ॥ १८.२२४ ॥ शिष्यमाहूय तत्काले सोष्णिषं सोत्तरीयकर्म् । ऊर्ध्वेपुष्पं च सन्न्यस्य प्रोक्षयित्वा च मन्त्रतः ॥ १८.२२५ ॥ तस्योष्णीषोपरिस्थाप्य बलिपात्रं विचक्षणः । अलङ्कृत्य च माल्याद्यैःपूजयेत्ताक्षन्य्वत्स्मरेत् ॥ १८.२२६ ॥ वाहयित्वा बलिं तेन बलिपात्रेण चैव हि । सर्वद्वारेषु सर्वत्र पुष्पन्यासोक्तमागन्तः ॥ १८.२२७ ॥ पूर्वान्तमुत्तरान्तं च निक्षिपेत्तु बलिं क्रमात् । तोयं पुष्पं बलिं तोयं चत्वारस्तत्र विग्रहाः ॥ १८.२२८ ॥ ततो देवं समानीय क्रममाणाश्शनैश्सनैः । वाहका वाहयेयुस्तं रथं सर्वङ्गसुन्दरम् ॥ १८.२२९ ॥ क्रमेण नम्रकायस्तु क्षिपेच्छिष्यो बलिं क्रमात् । बलिं दत्पाग्रतो गच्छेद्देवेन सह वा पृथक् ॥ १८.२३० ॥ ततो देवं क्रमान्नीत्वा प्रादक्षिण्यक्रमेण वै । तत्काले तु बलिर्देय स्तत्क्रमस्तुप्रवक्ष्यते ॥ १८.२३१ ॥ मणिकं च ततस्सन्ध्यां प्रधमद्वारपालकौ । तापसं सिद्धिदं चैव द्वितीय द्वारपालकौ ॥ १८.२३२ ॥ न्यक्षेन्द्रावन्तराले च यथाविधि समर्चयेत् । प्रथमावरणद्वारे किष्किन्धं तीर्धमेव च ॥ १८.२३३ ॥ द्दितीयावरणद्वारे गणेशं शेषमर्चयेत् । तृतीयावरणद्वारे शङ्खपद्मनिधी तथा ॥ १८.२३४ ॥ तुहिणं च बलिन्दं च चतुर्थावरणे तथा । पञ्चमावरणे चैव खड्गं शाङ्खं समर्चयेत् ॥ १८.२३५ ॥ षष्ठे चावरण शङ्खचक्रचूडौ समर्चयेत् । चण्डं तथा प्रचण्डं च सप्तमावरणेर्ऽचयेत् ॥ १८.२३६ ॥ सोपानमध्ये श्रीभूतं गरुडं च समर्चयेत् । हवीरक्षकमग्निं च आग्नेय्यां सम्यगर्चयेत् ॥ १८.२३७ ॥ विमानदक्षिणे पार्श्वे विवस्वन्तं यमं तथा । नैरृत्यां वाद्यऽरक्षं च निरृतिं च समर्चयेत् ॥ १८.२३८ ॥ पश्चिमे मित्रमभ्यर्च्येत्तथा वरुणमेव च । वायव्यामर्चयेच्चैव पुष्पेशमरुतौ तथा ॥ १८.२३९ ॥ उत्तरस्यां तु क्षत्तारं कुबेरं च समर्चयेत् । ईशानं भास्करं चैव तथैशान्ये समर्चयेत् ॥ १८.२४० ॥ भूतपीठे समभ्यर्च्य चक्रं चैव ध्वजं तथा । शङ्खं यूथाधिपं चैव अक्षहन्तं तथार्चयेत् ॥ १८.२४१ ॥ पीठस्य दक्षिणे भागे "ये भूताऽ इति मन्त्रतः । भूतयक्षपिशाचेभ्यो बलिशेषं तु निर्वपेत् ॥ १८.२४२ ॥ पादौ प्रक्षाल्य चाचम्य तत्र कार्यं समाचरेत् । नृत्तगेयादियुक्तं तु दिव्यस्तोत्रैस्समन्वितम् ॥ १८.२४३ ॥ प्रदक्षिणत्रयं कृत्वा भ्रामयित्वा जगद्गुरुम् । सोपानमध्ये संस्थाप्य रज्जुबन्धं विसृज्य च ॥ १८.२४४ ॥ जयशब्दैस्तथामन्त्रैर्दद्यान्नी राजनं ततः । ततो देवं समादाय स्वस्थाने तु निवेशयेत् ॥ १८.२४५ ॥ विष्णुसूक्तं समुच्चार्य प्रणामं मुहुराचरेत् । दद्यात्पुष्पाञ्जलिं चैव द्वादशाष्टषडक्षरैः ॥ १८.२४६ ॥ पौरुषं सूक्तमुच्चार्य प्रणवं च समुच्चरन् । मुखवासं समर्प्यैव शक्तितो दक्षिणां ददेत् ॥ १८.२४७ ॥ ततःपतद्ग्रहात्तीर्थमादायैव तु पूजकः । त्रिःपिबेन्नियतो भूत्वा तुलसीमपि भक्षयेत् ॥ १८.२४८ ॥ प्रत्यूषश्च प्रभातश्च मध्याह्नश्चापराह्मकः । सायङ्कालो निशीथश्च पूजाकालान्तु षट्स्मृताः ॥ १८.२४९ ॥ प्रातःकालेर्चनं कुर्याज्जपहोमाभिवृद्धये । राजराष्ट्राभिवृद्ध्यर्थं मध्याह्नार्चनमिष्यते ॥ १८.२५० ॥ सायङ्कालेर्ऽचनं चैव सर्वसस्याभिवृद्धये । उषःकालार्ऽचनं प्रोक्तं प्रजापशुविवृद्धये ॥ १८.२५१ ॥ अपराह्णार्चनं चैव दैत्यनाशनहेतवे । अर्धरात्रार्ऽचनं प्रोक्तं चतुष्पादभिवृद्धये ॥ १८.२५२ ॥ एवं षट्कालपूजायां फलमुक्तं विशेषतः । षट्कालं वा त्रिकालं वा द्विकालं कालमेव वा ॥ १८.२५३ ॥ पूजनं देवदेवस्य त्वैहिकामुष्मिकप्रदम् । षट्काल पूजने कुर्यादादावाहनंबुधः ॥ १८.२५४ ॥ तथान्त्य वेलार्चनायां कुर्यादुद्वासनं परम् । उपसन्ध्यासु देवेशमासनाद्यष्टविग्रहैः ॥ १८.२५५ ॥ समभ्यर्च्य हविर्दद्याद्विना होमं बलिं तथा । पुष्पन्यासं च होमं च परिवारार्चनं बलिम् ॥ १८.२५६ ॥ नित्ययात्रोत्सवं चैवेत्युपसन्ध्यासु वर्जयेत् । त्रिकालमर्चनेऽन्यत्र म्नपनं प्रातरेव ही ॥ १८.२५७ ॥ प्रोक्षणं चान्यकाले तु मन्त्रेणेत्याह पूजनम् । शिष्याणामप्यभावे तु वर्षाद्युपहतौ तथा ॥ १८.२५८ ॥ तथा वाद्याद्यभावे वा बलिकाले समागते । तदा देवान्त्समावाह्य द्वाराग्रे निक्षिपेद्बलिम् ॥ १८.२५९ ॥ सूर्यस्त्वामन्त्रमुच्चार्य कवाटं बन्धयेत्ततः । मध्याह्ने चैव सायाह्ने काले काले तथाचरेत् ॥ १८.२६० ॥ तथैवोद्घटयेत्काले सर्वं पूर्ववदर्चनम् । पुष्पं द्वारार्चितं शोध्य पुनर्द्वारे समर्चयेत् ॥ १८.२६१ ॥ ध्रुवपीठेतु पुष्पाणि न शोध्यानि पुनःपुनः । तानि पुष्पाण्यनुद्धृत्य तदूर्ध्वे न्यासमाचरेत्, ॥ १८.२६२ ॥ सायार्चने तु तानि स्युनिन्र्माल्यानि न चान्यतः । कौतुकाद्यर्चितं पुष्पमादाय विधिना बुधः ॥ १८.२६३ ॥ पीठे पार्श्वे निधायान्यैरर्चयेत्तु नवैर्नवैः । अन्त्यवेलार्चनान्ते तु संकल्ब्य शयनासनम् ॥ १८.२६४ ॥ विमुच्य वस्त्रमाल्यादीन् सूक्ष्मवस्त्रं समर्प्य च । अभ्यर्च्य पुष्बगन्धाद्यैर्देवदेवं श्रियःपतिम् ॥ १८.२६५ ॥ सर्वौषधिविमिश्रं च कषायं तोयमेव च । निवेद्य देवदेवस्य मुखवासंप्रदापयेत् ॥ १८.२६६ ॥ "यद्वैष्णवऽमिति प्रोच्य मृदुवाद्यैर्मनोरमैः । दिव्योपधानसहिते दिव्यालङ्कारशोभिते ॥ १८.२६७ ॥ परिष्कृते वितानाद्वैर्दिव्यधूपैः सुधूपिते । महाहान्स्तरणोपेते शयने शाययेद्धरिम् ॥ १८.२६८ ॥ श्रीभूम्यौ च समादाय तन्मन्त्राभ्यां क्रमाद्गुरुः । शाययेद्देवपाशेन्व्तु "ध्रुवन्तऽइति चोच्चरेत् ॥ १८.२६९ ॥ "अरिचितस्सुष्टुतश्चासि सुपर्णगरुडध्वज । चक्रपाणे महाबाहो यथेष्टं वस ओं नमःऽ ॥ १८.२७० ॥ इति मन्त्रं समुच्चार्य भक्त्या परमाया युतः । प्रातरावाहितां शक्तिं ध्रुवबेरेऽवरोपयेत् ॥ १८.२७१ ॥ प्रदक्षिणं प्रणामं च कृत्वा मन्त्रेण देशिकः । स्तुत्वा पुरुषसूक्तेन विष्णुगायत्रिया तथा ॥ १८.२७२ ॥ व्यापकत्रयमन्त्रैश्च तथा "विष्णोर्नुकाऽदिभिः । "अतो देवाऽदिभिर्मन्त्रैर्मन्त्रैरन्यैश्च वैष्णवैः ॥ १८.२७३ ॥ एकाक्षरादिसूक्तैश्च द्वादशाष्टषडक्षरैः । मुहुःपुष्पाजलिं दत्वाक्षामयेद्दोषसंचयम् ॥ १८.२७४ ॥ अथ वक्ष्ये विशेषेण पूजनं चौत्सवादिषु । ब्रह्मस्थानं कौतुकस्य पूर्वमेव समीरितम् ॥ १८.२७५ ॥ पाशन्व्योःकौतुकस्याथ स्थापयेत्स्नापनौत्सवौ । उत्तरे कौतुकस्यैव बलिबेरस्य संस्थितिः ॥ १८.२७६ ॥ गर्भालयस्य संकोचे त्वथ वा मुखमण्डपे । अन्तरालेऽथ वा स्थाप्य पूजयेत्स्नापनौत्सवौ ॥ १८.२७७ ॥ स्नापनौत्सवयोःकुर्यात्पूर्वोक्तार्चनमुत्तमम् । आसनाद्युपचारांश्च कल्पयेत्षोडशाथ वा ॥ १८.२७८ ॥ त्रयोदशोपचारैश्च शान्तं सम्यक्समर्चयेत् । नवोपचारैरभ्यर्च्येदनपायिगणांस्तथा ॥ १८.२७९ ॥ द्वारदेवान् द्वारपालान् लोकपालांस्तथैव च । अष्टोपचारैरभ्यर्च्येन्मूर्तिमन्त्रैः समाचरेत् ॥ १८.२८० ॥ इतरान् परीवारांश्च यजेत्षोडशविग्रहैः । तथैव पाकलक्ष्म्याश्च द्वारलक्ष्म्याश्च कारयेत् ॥ १८.२८१ ॥ श्रीवत्सलक्ष्म्याश्च तथा देवेन सह चाचरेत् । अवतारप्रतिष्ठायां ध्रुवर्चां वाथ कारयेत् ॥ १८.२८२ ॥ त्रिविक्रमप्रतिष्ठायां ध्रुवार्चामर्चयेत्ततः ॥ १८.२८३ ॥ इति श्रीवैखानसे भगवच्छास्त्रे भृगुप्रोक्तायां संहितायां प्रकीर्णाधिकारेऽष्टादशोऽध्यायः _____________________________________________________________ ZŽःॢऊण्ङ्BEई ३९??? अथैकोनविंशोऽध्यायः. अथैकोनविंशोऽध्यायः. भगवदर्चनम् अत ऊर्ध्वं ध्रुवार्चायामर्चनं संप्रवक्ष्यते । मूर्धादि पीठात्सन्न्यस्तपुष्पादीन्यपि शोधयेत् ॥ १९.१ ॥ योगवीरार्चनं स्याच्चेत्त्रिकालं स्नानमाचरेत् । प्रातर्मध्याह्नयोर्वाथ योगपीठेध्रुवार्ऽचनम् ॥ १९.२ ॥ भोगमेव ध्रुवार्चायां प्रातर्मध्याह्न योरपि । त्रिकालं वाथ संस्नाप्य ध्रुवार्चायां विशेषतः ॥ १९.३ ॥ वस्त्रादीन्यपि संशोध्य पुष्पन्यासं च पूर्ववत् । शिवादीनर्चयित्वातु पादपीठे समन्ततः ॥ १९.४ ॥ तथासनाद्यैस्सर्वैश्च त्रिसंध्यं चार्चयेद्बुधः । अर्धयामे तु पूर्वान्तमर्चयित्वा च पूर्ववत् ॥ १९.५ ॥ हविर्नि वेदयेच्चैवानुक्तमस्यच्च पूर्ववत् । आवाहनविसर्गौ तुन कुर्यादिति शासनम् ॥ १९.६ ॥ अथ वक्ष्येर्ऽचनान्तेतु विधानं प्रति कर्मणाम् । सौवर्णमुत्तमं पात्रं राजतं मध्यमे भवेत् ॥ १९.७ ॥ अधमं ताम्रपात्रं तु त्रिविधं पात्र मुच्यते । त्रितालमुत्तमं प्रोक्तं द्वितालं मध्यमं भवेत् ॥ १९.८ ॥ अधमं त्वेकतालं स्यात्त्रिविधं पात्रविस्तरम् । विस्तारेण समाख्यातं तयोर्मध्यममध्यमम् ॥ १९.९ ॥ तस्य मध्ये त्रिभागैकं कर्णिकांगुलमुच्छ्रयम् । परेतोऽष्टदलं कुर्यात्कर्णिकोच्छ्रयमानतः ॥ १९.१० ॥ द्व्यङ्गुलं मूलनाहं स्यात्तदग्रं त्वर्धनाहकम् । किञ्चित्फलांबुजाकारमग्रं कुर्याद्विचक्षणः ॥ १९.११ ॥ द्विप्रस्थतण्डुलैः पक्वमन्नं तत्रैव निक्षिपेत् । अभिघार्य घृतेनैव अष्टांगुलसमुन्नतम् ॥ १९.१२ ॥ दशाङ्गुलं वा उत्सेधं द्वादशांगुलमेववा । तत्पात्रञ्च समादाय कौतुकाग्रे निधाय च ॥ १९.१३ ॥ कौतुकाच्छक्तिमादाय चार्चयेदष्टविग्रहैः । "परब्रह्माण मित्युक्त्वा परमात्मानमित्यपि ॥ १९.१४ ॥ भक्तवत्सलं योगेशंऽ चतुर्मूर्तिभिरर्चयेत् । प्रातःपुष्पबलिं कुर्यान्मध्याह्नेन्नबलिं तथा ॥ १९.१५ ॥ साये त्वर्घ्यबलिं कुर्यात्पूर्वमेव प्रचोदितम् । तण्डुलैः कुडुबैश्चापि यथालाभमथापि वा ॥ १९.१६ ॥ श्रुतं चार्घ्यबलिं कुर्यात्पुष्बं तु चतुरङ्गुलम् । शिष्यमाहूय तत्काले सोष्णीषं सोत्तरीयकम् ॥ १९.१७ ॥ शिष्यं गरुड वत्स्मृत्वा पात्रमुद्धृत्यतत्र वै । "उदुत्यऽमिति मन्त्रेण शिष्यस्तच्छिरसि न्यसेत् ॥ १९.१८ ॥ प्रदक्षिणं ततः कुर्यात्कुर्याच्छब्दरवैर्युतम् । वितानछत्रसंयुक्तं पिञ्छचामरसंयुतम् ॥ १९.१९ ॥ धूपदीपसमायुक्तं शनैःकुर्यात्प्रदक्षिणम् । प्रदक्षिणत्रयं कृत्वा प्रविशेदालयं भुधः ॥ १९.२० ॥ भूतपीठान्तरे तिष्ठेद्गृह्णीयात्तु तदर्चकः । कौतुकाग्रेतु सन्न्यस्य ओङ्कारेण निवेशयेत् ॥ १९.२१ ॥ बल्यग्रं खण्डयित्वातु सेनेशाय निवेदयेत् । तच्छेषं सोदकं चैव भूतपीठे तु निक्षिपेत् ॥ १९.२२ ॥ उत्सवं कर्तुकामश्चेत्त्रिसंधिष्वेवमुत्तमम् । सायं प्रातर्मध्यमं स्यात्सायं चैवाधमं भवेत् ॥ १९.२३ ॥ बलिं च बलिबेरं वा कारयेदिति के च न । बल्यर्थं क्लप्तदेवस्य चोर्ध्वमानमुदाहृतम् ॥ १९.२४ ॥ महाबेरस्य हस्तेन चैकविंशतिकांगुलम् । सप्तदशाङ्गुलं विद्याद्द्वादशांगुलमेव वा ॥ १९.२५ ॥ श्रेष्ठमध्यकनिष्ठानि त्रिविधं मानमाचरेत् । अर्चाबेरत्रिभागै कमुत्तमप्रतिमाभवेत् ॥ १९.२६ ॥ तन्मानस्य दशांशेन त्वेकोनं मध्यमं भवेत् । मध्यमस्य दशांशेन त्वेकोनमधमं भवेत् ॥ १९.२७ ॥ महतो मूलबेरस्य मुखायामं प्रशस्यते । बल्यर्थं प्रतिमां कुर्यात्सर्वेषां स्थापनं भवेत् ॥ १९.२८ ॥ सौवर्णं राजतं ताम्रं श्रेष्ठमध्यमगौणतः । रत्नजप्रतिमां कुर्यान्मानोन्मानं न विद्यते ॥ १९.२९ ॥ उष्णीषं गोलकं ज्ञेयं शिरोमानं त्रिमात्रकम् । केशान्तार्चा समं भागं संगमात्पुटसूत्रकम् ॥ १९.३० ॥ पुटसूत्राद्धनुपर्यन्तमेकमेकन्तु भागशः । गलमर्धाङ्गुलं विन्द्यान्मात्रार्धं ग्रीवमुच्यते ॥ १९.३१ ॥ हिक्काहृदयपर्यन्तं मुखं मात्राधिकं भवेत् । हृदयं नाभि तथैवोक्तं तदधस्तात्तु तत्समम् ॥ १९.३२ ॥ ऊरू च द्विमुखायामं गोलकोत्सेधमिष्यते । चरणं जानुमानं च कालायपुरतो परम्? ॥ १९.३३ ॥ हिक्कासूत्रादधस्तात्तु बाहुद्विमुखनेत्रकम् । प्रकोष्ठं मुखबन्धं च मुखमर्धाधिकं भवेत् ॥ १९.३४ ॥ मणिबन्धाङ्गुलस्याग्रे मुखयामं प्रशस्यते । चतुर्भुजं च कृत्वा तु मानमेवमुदाहृतम् ॥ १९.३५ ॥ .........वकुर्यात्पद्माकारं तु गोलकम् । अथ वक्ष्ये विशेषेण हविष्पाकं विधानतः ॥ १९.३६ ॥ पक्त्वा वित्तानुसारेण हवींष्यपि च कल्पयेत् । अल्पे महति वा तुल्यं फलमाढ्यदरिद्रयोः ॥ १९.३७ ॥ निवेदयित्वा देवेशं कल्याणं कारयेद्बुधः । अवदत्वा? घृतं यत्तु कल्याणमशुभायवै ॥ १९.३८ ॥ अलाभे चैव सर्वेषां व्रीहीणां तण्डुलां ःस्तथा । शतद्वयं पञ्चविंशद्व्रीहिभिः पूरितं तु यत् । शुक्तिमात्रमिति ख्यातं मानं तेनैव कारयेत् ॥ १९.४० ॥ तद्द्वयं तिलमित्युक्तं प्रकुञ्चं स्यात्तिलद्वयम् । प्रसृतिस्तद्द्वयं प्रोक्तं कुडुबं प्रसृतिद्वयम् ॥ १९.४१ ॥ अञ्जलि स्तद्द्वयं प्रोक्तं प्रस्थं स्यादञ्जलिद्वयम् । पात्रं प्रस्थद्वयं प्रोक्तमाढकं तद्द्वयं भवेत् ॥ १९.४२ ॥ चतुराढकसंयुक्तं द्रोणमित्यभिधीयते । द्रोणद्वयं भवेत्खारी भारङ्खारीद्वयं भवेत् ॥ १९.४३ ॥ द्रोणतण्डुलसंयुक्तमुत्तमं हविरुच्यते । तदर्धं मध्यमं प्रोक्तन्तदर्धमधमं भवेत् ॥ १९.४४ ॥ उत्तमोत्तममित्युक्तमष्टद्रोणैन्तु तण्डुलैः । अधिकं यद्भवेत्तस्मात्प्रोक्तं सर्वं महाहविः ॥ १९.४५ ॥ तदर्धैस्तण्डुलैः सिद्धं मध्यमं हविरुच्यते । षड्द्रोणैस्तण्डुलैः सिद्धं हविरुत्तममध्यमम् ॥ १९.४६ ॥ द्रोणहीनं भवेत्तस्मादुत्तमाधममुच्यते । मध्यमोत्तममित्युक्तं चतुर्द्रेणैस्तु तण्डुलैः ॥ १९.४७ ॥ द्रोणत्रयं भवेद्यत्र कृतं मध्यममध्यमम् । मध्यमाधममित्युक्तं द्रोणद्वयकृतं हविः ॥ १९.४८ ॥ द्रोणेन तण्डुलेनैव निवेद्यऽमधमोत्तमम् । तस्य मध्यममित्युक्तमाढकद्वय सम्मितम् ॥ १९.४९ ॥ आढकेन तु संयुक्त मधसूधममुच्यते । तण्डुलानाढकार्धं तु देवीनां तु प्रकल्पयेत् ॥ १९.५० ॥ चरुप्रस्थद्वयं प्रोक्तं हविराढकमुच्यते । प्रस्थं कुडुबसंयुक्तं पिशाचानां बलिर्भवेत् ॥ १९.५१ ॥ गन्धवर्णरसैर्जुष्टाः प्रग्राह्यास्तण्डुलास्तथा । प्रक्षाल्य तण्डुलान् सम्यक्निष्बीड्य च पुनःपुनः ॥ १९.५२ ॥ चतुः प्रक्षालनं कृत्वा "प्रजास्थाऽलीति मन्त्रतः । "ऊर्जस्वऽतीति मन्त्रेण पात्रे प्रक्षिप्य तण्डुलान् ॥ १९.५३ ॥ छुल्ल्यामारोपयेत्पश्चा "द्विष्णवे जुष्टऽमित्यपि । "वाचस्पऽतीति मन्त्रेण हविस्स्विन्नन्तु पाचयेत् ॥ १९.५४ ॥ धूमगन्धरसं स्विन्नमतिपक्वं च शीतलम् । केशकीटापविद्धन्तु त्यजेत्पर्युषितं तथा ॥ १९.५५ ॥ मुद्गं चैव महामुद्गं कूटस्थं राजमाषकम् । कदली पनसं चैव कूश्माण्डं बृहती तथा ॥ १९.५६ ॥ कन्दमूलफलान्यन्ये साराढ्या उपदंशकाः । गुडं दधि समायुक्तमाज्ययुक्तं......... ॥ १९.५७ ॥ हविःकृत्वा चतुर्भागमूर्ध्वभागे निवेदयेत् । अधस्तादेकभागेन होमार्थं बलये तथा ॥ १९.५८ ॥ यदंशं पात्रसंशिष्टं पूजायैव च निर्मितम् । सौवर्णे राजते पात्रे काञ्च्ये ताम्रे निवेदयेत् ॥ १९.५९ ॥ अग्नि कार्यावशिष्टं च बलिशिष्टं च यद्धविः । तत्सर्वं पूजकायैव प्रोक्तमेवं मनीषिभिः ॥ १९.६० ॥ द्वितीयावरणे प्रोक्तमाग्नेय्यां पचनालयम् । अर्चकस्य गृहे वापि पाचयित्वा निवेदयेत् ॥ १९.६१ ॥ प्रणिधिं चाज्यस्थालीं च प्रोक्षणीपात्रमेव च । अर्घ्यप्रदानपात्रं च कुडुबेन प्रपूरितम् ॥ १९.६२ ॥ हविःपात्रप्रमाणन्तं बलिपात्रप्रमाणतः । पानीयदानपात्रं च कांस्यं शुक्तिजमेव वा ॥ १९.६३ ॥ हिरण्मयं वा रौप्यं वा यधाशोभमलङ्कृतम् । तांबूलदाने प्येवं स्यात्सौवर्णं कांस्यमेव हि ॥ १९.६४ ॥ दपन्णं च प्रदातव्यं ध्रुवानससमं भवेत् । आवाहनार्थप्रणिथिं प्रस्थमात्र प्रपूरितम् ॥ १९.६५ ॥ कलुषं कृमिशैवालयुक्तं सूत्रविवर्जितम् । गन्धवर्णरसैर्जुष्टमशुचिस्थानमाश्रितम् ॥ १९.६६ ॥ पङ्काश्मदूषितं चैव सामुद्रं पल्वलोदकम् । अग्राह्यमुदकं ग्राह्यमेभिर्देषैर्विवर्जितम् ॥ १९.६७ ॥ उत्तमं त्रिगुणैरद्भिस्सानं चाथममुच्यते । अभिषेको नदीभ्नन्तु मध्यमे मध्यमं बवेत् ॥ १९.६८ ॥ उशीरचन्दनोपेतं यज्जलं पाद्यमुच्यते । एलालवङ्गतक्कोलजातीफलसमन्वितम् ॥ १९.६९ ॥ आप आचमनीयार्थमुशीरामयचन्दनैः । आपःक्षीरकुशाग्रादि यवसिद्धार्थतण्डुलैः ॥ १९.७० ॥ तिलव्रीहि समायुक्तैरर्घ्य मष्टाङ्ग मुच्यते । चन्दनं चागुरुश्चैव कुङ्कुमं गन्ध उच्यते, ॥ १९.७१ ॥ एकं द्वयं त्रयं वापि कर्बूरेण चतुष्टयम् । उशीरचन्टनोपेतं घृतयुक्तं घृताप्लुतम् ॥ १९.७२ ॥ किञ्चित्कर्बूरसंयुक्तं धूपमित्युच्यते बुधैः । गोघृतेन कृतं यत्तु दीपमुत्तममुच्यते ॥ १९.७३ ॥ चतुरङ्गुलमायामं राजसं दीपमेव हि । दीपं तत्त्षङ्गुलायामं मध्यमं दीपमुच्यते ॥ १९.७४ ॥ अधमं तु भवेद्दीपमङ्गुलद्वयसम्मितम् । कापिलेन गृतेनापि कृतं कर्बूरवर्तिकम् ॥ १९.७५ ॥ दीपं विष्णुप्रियं प्रोक्तं सर्वसिद्धिप्रदायकम् । तामसं तु भवेद्दीपं माहिषेण तु सर्पिषा ॥ १९.७६ ॥ वृक्षबीजोद्भवस्नेहदीपं पैशाचमुच्यते । तामसं वापि पैशाचमयोग्यं दीपमुच्यते ॥ १९.७७ ॥ क्षौमं कार्पासजं वस्त्रं वक्षभेदाङ्गसंभवम् । दशहस्तायतं चैव विस्तारं तु द्विहस्तकम् ॥ १९.७८ ॥ मनोहरं तु सुश्लक्ष्णं विशेषं वस्त्रमुच्यते । बेरायामार्धमानेन वस्त्रविस्तार मुच्यते ॥ १९.७९ ॥ विस्ताराष्टगुणायामं सदशं तु सलक्षणम् । मयूरपिञ्छैःकुर्यात्तु चतुस्तालं तु विस्तृतम् ॥ १९.८० ॥ अधोमुखं तु कर्तव्यमत ऊर्ध्वमुखं तथा । पञ्चारत्निप्रमाणेव दण्डस्स्यादधमं तथा ॥ १९.८१ ॥ अधिकं द्वादशाङ्गुल्यं मध्यमेचोत्तमेपि वा । एवं पिञ्छं समाख्यातं छत्रलक्षणमुच्यते ॥ १९.८२ ॥ षट्तानं छत्रविस्तारमुत्तमं समुदाहृतम् । मध्यमं पञ्चतालंस्याच्च तुस्तालमथाधमम् ॥ १९.८३ ॥ मौक्तिकं तु भवेच्छत्रं वस्त्रेशापि हितं तथा । वस्त्रेण वा तथा कुर्यात्तालपत्रमथापि वा ॥ १९.८४ ॥ छत्रं त्वधोमुखं प्रोक्तं दण्डं पिञ्छस्य दण्डवत् । सुवर्णरत्नसंयुक्तं कुर्यादाभरणादिकम् ॥ १९.८५ ॥ मुकुटं कुण्डलं चैव हारं कैयूरकं तथा । कटकं कटिसूत्रं च पुष्पं वै हारनूपुरे ॥ १९.८६ ॥ कुर्यादुदरबन्धं च रत्नहारं च मेखलाम् । हारं च कर्णपुष्पं च प्रतिमाया यथार्हकम् ॥ १९.८७ ॥ चामरै श्चामरं कुर्यात्पिञ्छैर्वापि मयूरजैः । दण्डं हक्तप्रमाणं स्याद्बालदण्डप्रमाणकम् ॥ १९.८८ ॥ हेमरत्नमयं दण्डं तारताम्रमयं तथा । अथ वा दारुदण्डं स्यान्मयूरपिञ्छं च योजयेत् ॥ १९.८९ ॥ एवं तु चामरं प्रोक्तं प्रच्छन्नपटमुच्यते । क्षौमकार्पाससंयुक्तं द्वारमानन्तु कारयेत् ॥ १९.९० ॥ अथ वक्ष्ये विशेषेण सहस्रधाराविधिक्रमम् । सौवर्णं राजतं वापि ताम्रं वापि स्वशक्तितः ॥ १९.९१ ॥ उत्तमं षोडशाङ्गुल्यं मध्यमं द्वादशांगुलम् । अष्टांगुलं तदधमं यथाशक्ति च कारयेत् ॥ १९.९२ ॥ एतैरङ्गुलिभिस्सम्यक्भ्रमीकृत्य च चन्द्रवत् । भागं भित्त्युन्नतं प्रोक्तं गोलकं वा विशेषतः ॥ १९.९३ ॥ सीमावृत्तं तु विस्तारमष्टाङ्गुलमिति स्मृतम् । कर्णि कायामविस्तारं गोलकं तु यवोन्नतम् ॥ १९.९४ ॥ मध्ये रत्नं सुवर्णं वा यथा शक्ति समर्पयेत् । कर्णिकामभितः कुर्याद्दलान्यष्ट सुसंगतम् ॥ १९.९५ ॥ परितष्षोडशदलं द्वात्रिंशत्कर्णिकं बहिः । चतुष्षष्टिसमायुक्तं दलं बाह्ये प्रकल्पयेत् ॥ १९.९६ ॥ दले यवद्वयघनं रेखामपि च कारयेत् । सहस्रसुषिरैर्युक्तं समानोक्तं च कारयेत् ॥ १९.९७ ॥ षोडशद्वादशाष्टाभिरङ्गुल्यायामविस्तृतम् । मालं तद्धस्तविस्तारं शङ्खान्तरसमीकृतम् ॥ १९.९८ ॥ पद्माकृतिं च कृत्वा तु तौ च नालसमायुतौ । शेषं युक्त्या प्रकुर्वीत जलनिर्गमनं बुधः,, ॥ १९.९९ ॥ सर्वसैन्दर्यसंयुक्तं तथाकारं च कारयेत् । प्रक्षाल्य पञ्चगव्येन शोधनीयेन शोधयेत् ॥ १९.१०० ॥ देवालयस्य पुरितो गोमयेनोपलिप्य च । थान्यराशिं समास्तीर्य वस्त्रं चोपरि विन्यसेत् ॥ १९.१०१ ॥ उत्तरे वास्तुहोमं च पर्यक्निं चैव पूर्ववत् । आचार्यं पूजयेत्तत्र नववस्त्राङ्गुलीयकाः, ॥ १९.१०२ ॥ तन्त्रेन्दुमण्डलं ध्यात्वा पद्मे पद्मनिधिं तथा । शङ्खे शङ्खनिधिं तद्वदावाह्यैव समर्चयेत् ॥ १९.१०३ ॥ पुण्याहं वाचयित्वा तु दक्षिणां च ददेत्पुनः । बिंबशुद्धिं च कृत्वातु मन्त्रेणैवाभिषिच्य च ॥ १९.१०४ ॥ देवदेवं समभ्यर्च्य हविस्तत्र निवेदयेत् । एवं वै कृतपात्राणि देवार्थं च प्रदापयेत् ॥ १९.१०५ ॥ तस्य कायकृतं पापं तत्क्षणादेव नश्यति । सर्वदोषोपशमनं विष्णुभक्तिविवर्धनम् ॥ १९.१०६ ॥ इति श्रीवैखानसे भगवच्छास्त्रे भृसुप्रोक्तायां संहितायां प्रकीर्णाधिकारे एकानविंशोऽध्यायः. _____________________________________________________________ अथ विंशोऽध्यायः. अथ विंशोऽध्यायः. रक्षादीपविधिः अतः परं प्रवक्ष्यामि रक्षादीपविधिक्रमम् । सौवर्णं राजतंवापि ताम्रंवापि स्वशक्तितः ॥ २०.१ ॥ द्वात्रिंशदङ्गुलं श्रेष्ठं मध्यमं पादहीनतः । अधमं विंशदङ्गुल्यं समवृत्तन्तु कारयेत् ॥ २०.२ ॥ अष्टदिक्षु च मध्येच चतुर्दिक्षु च वा तथा । केवलं कर्णिकां वाथ कर्णिकायान्तु विस्तृतम् ॥ २०.३ ॥ तदर्धमुन्नतं विन्द्याद्गण्डायामं षडङ्गुलम् । द्व्यङ्गुलं तु परीणाहं तदूर्थ्वे भागविस्तृतम् ॥ २०.४ ॥ तदर्धं विस्तृतोत्सेधं दीपबात्रं प्रकल्प्य च । अलभेशालिपिष्टं वा गोमये वा समाहरेत् ॥ २०.५ ॥ तत्तत्थ्साने तु विन्यस्य पात्रेसंयोजयेत्ततः । आढकं वा तदर्धं वा पिण्डार्धं च चरुंपचेत् ॥ २०.६ ॥ हारिद्रचूर्ण संयुक्तं पात्रे प्रक्षिप्य मन्त्रवित् । आज्येन स्राव्य संमृज्य मुष्टिमात्रं दृढीकृतम् ॥ २०.७ ॥ दशपिण्डां स्तदर्धं वा साक्षते च समाहरेत् । जलेन कुंभमापूर्य सर्वगन्धसमायुतम् ॥ २०.८ ॥ कुशकूर्चान्विनिक्षिप्यपल्लवैरपि भूषयेत् । अष्टमङ्गलसंयुक्तं पाद्याचमनसंयुतम् ॥ २०.९ ॥ पुष्पगन्धसमायुक्तं धूपदीपार्घ्य संयुतम् । पृधक्पात्रे समाहृत्य देवदेवं च पूजयेत् ॥ २०.१० ॥ शङ्खध्वनिसमायुक्तं वंशध्वनिसमायुतम् । भेरीमृदङ्गसुषिरवाद्यघोषसमायुतम् ॥ २०.११ ॥ स्तोत्रध्वनिसमायुक्तं स्वक्तिसूक्तसमन्वितम् । दासीभिश्चाथ वा भक्तैस्स्वहस्तोपरि धारयेत् ॥ २०.१२ ॥ प्रदक्षिणं शनैर्गत्वा देवालयमुपाव्रजेत् । आचार्यं पूजयित्वातु देवदेवं प्रणम्यच ॥ २०.१३ ॥ रक्षादीपं समादाय "श्रिये जातऽ इति ब्रुवन् । बिंबमूर्ध्नि तु संयोज्यत्रिः प्रदक्षिणमाचरेत् ॥ २०.१४ ॥ दिक्पिण्डं तु विसृज्यैव प्रोक्षयित्वा च मन्त्रवित् । प्रदक्षिणं प्रणामं च कारयेदष्टमङ्गलैः, ॥ २०.१५ ॥ पाद्यमाचमनं दत्वागन्धपुष्पादिभिर्यजेत् । मुखवासं च दत्वातु स्तुतिमन्त्रैश्च वैष्णवैः ॥ २०.१६ ॥ समालभ्यैव हस्ताभ्यां पुष्पदूर्वाङ्कुराक्षतैः । पादेपुष्पाञ्जलिङ्कुर्यात्कुर्याद्देवस्य मन्त्रतः ॥ २०.१७ ॥ आलयात्तु बहिर्गत्वा पीठपार्श्वेतु निक्षिपेत् । कौतुके बलिबेरेपि स्नापने प्यौत्सवेऽपि च, ॥ २०.१८ ॥ प्रादुर्भावे च सर्वेषामाविर्भावे तथैव च । एवमेव तु कृत्वा तु भ्रामयित्वा विचक्षणः, ॥ २०.१९ ॥ चक्रवीशामितादीनामिन्द्रादीनां तथैव च । दर्शनं भ्रामणं चैवमाचरेच्छास्त्रवित्तमः ॥ २०.२० ॥ मोहादज्ञानतः कुर्यात्सर्वहानिर्भविष्यति । सायाह्ने चत्रिपूजान्ते चोत्सवान्ते च नित्यशः ॥ २०.२१ ॥ एवमेव विधानेन कारयेदुत्तमं विदुः । सर्वशान्तिकरं चापि सर्वकंपत्समृद्धिदम् ॥ २०.२२ ॥ दारिद्षादिविनाशेन सर्वान् कामनवाप्नुयात् । अतःपरं प्रवक्ष्यामि शिबिकानां तु लक्षणम् ॥ २०.२३ ॥ मात्राङ्गुलेन वाकुर्याच्छिभिकादीन्विधानतः । आवृतं तदर्धविस्तारमुत्तमं तुविधीयते ॥ २०.२४ ॥ तत्षडङ्गुलहीनन्तु मध्यमन्तुप्रकीर्तितम् । विस्ताराध्यर्धपादेन ?अयामद्विगुणं भवेत् ॥ २०.२५ ॥ उत्तमाधममध्यानां शिबिकाविस्तरो भवेत् । त्रिभागैकस्य भागं स्याच्चतुर्भागैकभागिकम् ॥ २०.२६ ॥ पञ्चभागैकभागं स्याद्विस्तारस्य घनं भवेत् । तच्चतुर्भागमेवं स्यादेकैकं वमनं भवेत् ॥ २०.२७ ॥ शेषभागं तु पद्मोक्तं तलायुक्ति विशेषतः । शिबिकाविस्तृतं चैवं भागैकं भागमेव च ॥ २०.२८ ॥ तच्चतुर्भागमेवोक्तं भित्त्युत्सेधं विधीयते । द्वितलं त्रितलं चैव गुलिकाफलकाभवेत् ॥ २०.२९ ॥ गुलिकापादतलोत्सेधं मध्योर्ध्वतलवत्समम् । चतुर्भागैकमेवन्तु नवभागैकमेव वा ॥ २०.३० ॥ अङ्गुलं चाङ्गुलार्थं च ऊर्थ्वपट्ट्या च संयुतम् । अतःपरं प्रवक्ष्यामि रथादीनां विधिक्रमम् ॥ २०.३१ ॥ पञ्चषट्सप्ततालं वा चाष्टतालमथापि वा । विस्तारायममेवं स्यादुत्सेधं द्विगुणं भवेत् ॥ २०.३२ ॥ मण्डपद्वारयुक्तं वा कूटाकारमथापि वा । अधराधरमायामं रथायामत्रयं भवेत् ॥ २०.३३ ॥ छत्रस्यायामविस्तारादुत्सेदार्धप्रमाणतः । एवं तु परिकल्प्यैव शिबिकायाममुच्यते ॥ २०.३४ ॥ रथायामसमं वापि पादहीनमथार्थकम् । विस्तारं तत्त्रिभागै कमायामं चोच्छ्रयं भवेत् ॥ २०.३५ ॥ विस्तारार्धसमुत्सेधं विस्तारार्थाधिकायतम् । शयनं संप्रकल्प्यैव पूर्वोक्तेनैव दारुणा ॥ २०.३६ ॥ सर्वालङ्कारसंयुक्तं सर्वसैन्दर्यसंयुतम् । शिल्पशास्त्रोक्तमार्गेण शिल्पिभिः कालयेद्बुधः ॥ २०.३७ ॥ पञ्चगव्यैस्सुसंशोध्य वास्तुहोमश्च हूयताम् । पर्यग्नि चैव कृत्वातु कलशैस्स्नापयेत्ततः ॥ २०.३८ ॥ मण्डपे वा प्रपायां वा स्थण्डिले वात्र विन्यसेत् । नवैर्वस्त्रैस्समावेष्ट्य पुण्याहमपि वाचयेत् ॥ २०.३९ ॥ जौपासनाग्निकुण्डं च कारयित्वा विधानतः । आघारं पूर्ववत्कृत्वा कुंभपूजां समाचरेत् ॥ २०.४० ॥ वैष्णवं विष्णुसूक्तं च तत्तद्देवांश्च मूर्तिभिः । व्याहृत्यन्तं च हुत्वा तु अन्तहोमश्च हूयते ॥ २०.४१ ॥ यानादिषु च तन्मध्ये तत्तद्देवां स्तथैव च । आवाह्यैव समभ्यर्च्य देवदेवं प्रणम्य च ॥ २०.४२ ॥ पाद्याद्यर्घ्यान्तमभ्यर्च्य हविस्सम्यङ्निवेदयेत् । सर्वालङ्कारसंयुक्तं सर्ववाद्यसमन्वितम् ॥ २०.४३ ॥ यानादिषु समारोप्य "प्रतद्विष्णुऽरिति ब्रुवन् । ग्रामं वा प्यालयं वापि प्रदक्षिणमधाचरेत् ॥ २०.४४ ॥ मन्दिरं संप्रविश्यैव स्वेस्वेस्थाने निवेशयेत् । एवं यःकुरुते भक्त्या वैष्णवं पदमाप्नुयात् ॥ २०.४५ ॥ अतःपरं प्रवक्ष्यामि प्रपामण्डपलक्षणम् । मण्डपं त्रिविधं ज्ञेये विमानसमविस्तृतम् ॥ २०.४६ ॥ अर्धं पादं तु पादं वा हीनन्तु त्रिविधं भवेत् । प्रमुखे तस्यसोपानमालयार्धमिति स्मृतम् ॥ २०.४७ ॥ पूर्वेतु स्नपनार्थाय मण्डपं संप्रकल्पयेत् । षोडशस्तंभयुक्तं वा द्वादशस्तंभसंयुतम् ॥ २०.४८ ॥ ऐशान्ये वा प्रकुर्वीत स्नपनार्थं प्रकल्पयेत् । प्रथमावरणे वाथ द्वितीयावरणेऽथ वा ॥ २०.४९ ॥ एकादशेन हस्तेन समं सम्यक्प्रकल्पयेत् । नवहस्तं सप्तहस्तं पञ्चहस्तमिति त्रिधा ॥ २०.५० ॥ प्रथमावरणे बाह्ये मण्डपन्तु विधीयते । आस्थानवृत्तगेयादिदर्शनार्थं प्रकल्पयेत् ॥ २०.५१ ॥ पूर्ववत्प्रमुखे कुर्याद्यथाविभवविस्तरम् । यजमानस्य हस्तेन द्विहस्तन्तु विवर्धयेत् ॥ २०.५२ ॥ पूर्ववत्स्तंभसंयुक्तं यथायोग्यं प्रकल्पयेत् । तत्बूर्वदिशि शालायां नृत्तार्थन्तु विधीयते ॥ २०.५३ ॥ विष्कंभं नवहस्तं वा आयामं द्विगुणीकृतम् । यजमानेच्छया तत्र द्विहस्तन्तुविवर्धयेत् ॥ २०.५४ ॥ अयादिलक्षणं वक्ष्ये यजमानानुकूलतः । हस्तं पादं तदर्धं वा विस्तारायादिसंयुतम् ॥ २०.५५ ॥ तथैव नूनं कृत्वा तु अयादीन् लक्षयेद्बुधः । शिलाभिरिष्टकाभिर्वा हस्तोच्छ्रयसमं तलम् ॥ २०.५६ ॥ द्वितलं वा प्रकुर्वीत तालं सम्यक्प्रकल्पयेत् । शैलजं दारुसारं वा स्तंभमाहृत्य यत्नतः ॥ २०.५७ ॥ वृत्तं वा चतुरश्रं वा ऋजुं वक्रविवर्जितम् । स्तंभानां विंशतिं गृह्य बाह्यस्तंभं प्रगृह्य च ॥ २०.५८ ॥ तन्मध्ये द्वादशस्तंभं पूर्ववत्कारयेद्बुधः । स्तंभायामं यथायोगं कृत्वा तत्र विचक्षणः ॥ २०.५९ ॥ द्वितालघन संयुक्तं स्तंभमानेन स्वस्तिकम् । स्तलत्योर्ध्वे विभज्यैव समं वन्दत्यप्रकल्पयेत् ॥ २०.६० ॥ तस्यामेव तु स्तंभार्थं पादं संस्थाप्य स्वस्तिकम् । दृढं कृत्वा तदूर्ध्वेत स्तंभं संस्थाप्य वै बुधः ॥ २०.६१ ॥ द्व्यङ्गुलं च भवैर्वाथ वेदिकां कारयेद्बुधः । नानालङ्कारसंयुक्तं नानाचित्रसमन्वितम् ॥ २०.६२ ॥ उत्तरं तत्समं कृत्वा बोधिकेतु सुयोजयेत् । स्तंभादूर्ध्वन्तु संस्थाप्य तदूर्ध्वे प्रस्तरं न्यसेत् ॥ २०.६३ ॥ अभ्लन्तरोत्तरादूर्ध्वेऽबिष्टकाधानपादयोः । बालोत्तरं यथायोग्यं स्थापयेत्सुदृढं क्रमात् ॥ २०.६४ ॥ तद्बिल्वको यथामार्गं योग्यं तत्पद्ममुच्छ्रयम् । एवं लक्षणसंयुक्तं दर्शनीयं च कारयेत् ॥ २०.६५ ॥ यजमानेच्छयातत्तन्मण्डपेन सहैव तु । षोडशस्तंभसंयुक्तं द्वादशस्तंभमेववा ॥ २०.६६ ॥ भक्तियुक्तं प्रकल्प्यैव प्रपां युक्त्यैव कारयेत् । अपरे द्वारसंयुक्तं पूर्ववत्स्तंभमेव वा ॥ २०.६७ ॥ कवाटं तत्र वा कुर्याच्छेषं यक्त्यैव कारयेत् । शिल्पशास्त्रोक्तमार्गेण शिल्पिभिः कारयेद्बुधः ॥ २०.६८ ॥ मण्डपस्य समाप्तौतु अङ्कुरानर्पयेत्क्रमात् । शुद्ध्यर्थं वास्तुहोमं च पुण्याहं चैव कारयेत् ॥ २०.६९ ॥ ब्राह्मणान् भोजयेत्पश्चात्तद्देशमुपलक्षयेत् । चरोदये च नक्षत्रे स्थिरराशिं प्रगृह्य च ॥ २०.७० ॥ मण्डपस्य तु मध्ये वै धान्यपीठानि कल्पयेत् । प्रतिष्ठोक्तक्रमेणैव कुंभन्यासाति कारयेत् ॥ २०.७१ ॥ पश्चिमे गार्हपत्याग्नावाघारं जुहुयात्क्रमात् । होता हौत्रक्रमेणैव हौत्रं तत्र प्रशंसयेत् ॥ २०.७२ ॥ तत्तद्देवस्य चावाह्य जुष्टाकारं हुतं चरेत् । श्रीसूक्तं वैष्णपं चैव वैष्णवं चैकविंशतिः ॥ २०.७३ ॥ इन्द्रादिलोकपालानां प्रत्येकं जुहुयात्क्रमात् । तत्तत्स्थानेतु कूर्चे वा स्थण्डिले वा समर्चयेत् ॥ २०.७४ ॥ प्रभूतं तु निवेद्यैव द्रोणन्द्रोणार्छमेव वा । आचार्यस्यार्चकादीनां दक्षिणां च ददेत्क्रमात् ॥ २०.७५ ॥ सौवर्णैरुत्पलैः पुष्पैरलङ्कुर्यात्प्रपां ततः । पद्मैर्वाकुमुदैर्वाथ पुष्पैरन्यैस्स्वशक्तितः ॥ २०.७६ ॥ देवदेवमलङ्कृत्य वस्त्रमाल्यादिभिः पुनः । प्रपां संयोज्य देवेशं ध्यानेनैव तु सन्नयेत् ॥ २०.७७ ॥ देवेशं स्थापयेत्तत्र पाद्याद्यैरर्चयेत्क्रमात् । महाहविः प्रभूतं वा यथाशक्ति निवेदयेत् ॥ २०.७८ ॥ एवं यः कुरुते भक्त्या विष्णुलोके महीयते इति श्रीवैखानसे भगवच्छास्त्रे भृगुप्रोक्तायां संहितायां प्रकीर्णाधिकारे विंशोऽध्यायः. _____________________________________________________________ अन्थैकविंशोऽध्यायः विशेषार्चनम् अथातस्संप्रवक्ष्यामि विष्णुपञ्चदिनानि च । श्रवणं द्वादशी शुक्ले कृष्णे चार्धे च द्वादशी ॥ २१.१ ॥ पूर्णिमा चाप्यमावास्या पञ्चैतानि दिनानि वै । पूर्वोक्तेन विधानेन अङ्कुरानर्बयेत्क्रमात् ॥ २१.२ ॥ बद्ध्वा प्रतिसरं तत्र पूर्वरात्रौतु शाययेत् । प्रातस्सन्ध्यार्चनान्तेतु स्नापनोक्तक्रमेणवै ॥ २१.३ ॥ समभ्यर्च्य निवेद्यैव पूर्वस्थाने निवेशयेत् । मार्गशीर्षाख्यमासे तु पूर्वपक्षे विशेषतः ॥ २१.४ ॥ प्रातस्सन्ध्यावसानेतु पूर्वमास्थानमण्डपे । संस्थाप्य चतुरो वेदान् क्रमेणाध्यापयेत्सदा ॥ २१.५ ॥ पूजयेद्देवदेवेशं सप्तविंशतिविग्रहैः । एकादशीमुपोप्यैव महापातकनाशिनीम् ॥ २१.६ ॥ ततःप्रभाते द्वादश्यां स्नात्वास्नानविधानतः । मृण्मयानि तु भाण्डानि पुराणानि परित्यजेत् ॥ २१.७ ॥ मृष्टसिक्तोपलेपाद्यैश्शोधयित्वा यथार्हकम् । स्नापनोक्तक्रमेणैव स्नापयित्वा यथाविधि ॥ २१.८ ॥ आसनादिभिरभ्यर्च्य पायसं च निवेदयेत् । पानीयाचमनं दत्वा मुखवासं ततःपरम् ॥ २१.९ ॥ पुरुषसूक्तेन संस्तूय ग्कामं चैव प्रदक्षिणम् । धामप्रदक्षिणं कृत्वा जीवस्थाने निवेशयेत् ॥ २१.१० ॥ संवत्सरेर्ऽचने हीने नित्यनैमित्तिकादिषु । तत्सर्वं पूर्णमित्याहुर्द्वाशीपूजने कृते ॥ २१.११ ॥ पौषे तु पूर्णिमायां वै विष्णुपञ्चदिनोक्तवत् । अर्चयित्वातु देवेशं गव्यं क्षीरं निवेदयेत् ॥ २१.१२ ॥ सोऽपि संवत्सरफलं लभते नात्र संशयः । माघमासे पुनर्वस्वो राघवोऽजायत स्वयम्, ॥ २१.१३ ॥ तत्तस्तस्यामपोष्यैव रामं वा विष्णुमेव वा । ग्रामं प्रदक्षिणं कृत्वा स्नापयित्वा निवेदयेत् ॥ २१.१४ ॥ तिलपद्मविधिं वक्ष्ये श्रुणुध्वं मुनिपुङ्गवाः । माघमासे तु पञ्चम्यां पूर्वपक्षे विशेषतः ॥ २१.१५ ॥ पूर्वरात्रै तु देवेशमर्चयित्वा यथाविधि । हवींष्यपि निवेद्यैव बद्ध्वा प्रतिसरं पुनः ॥ २१.१६ ॥ पूर्ववच्छाययित्वैव रात्रिशेषं नयेत्क्रमात् । प्रभाते देवमुद्धाप्य कलशैस्स्नापयेत्पुनः ॥ २१.१७ ॥ मण्डपं वाथ कूटं वा प्रपां वाथ यथोचितम् । गोमयेनोपलिप्यैव पञ्चवर्णैरलङ्कृतम् ॥ २१.१८ ॥ तस्मिन् संस्थाप्य देवेशं प्रणम्यैवानुमास्य च । प्रमुखे धान्यराशौ तु द्विहस्तायतविस्तृते ॥ २१.१९ ॥ कृष्णाजिनं समास्तीर्य नववस्त्रेस्समास्तरेत् । तदूर्ध्वेतु विकीर्यैवषड्द्रोणं तिलमेव हि ॥ २१.२० ॥ द्रोणत्रयं द्वये वापि मण्डलाकालवत्तथा । अष्टभिश्चदलैर्युक्तं तिलपद्मं समालिखेत् ॥ २१.२१ ॥ त्रिणिष्केन तदर्धेन निष्कमात्रेण वा पुनः । स्वर्णपद्मं च कृत्वातु तिलपद्मे तु विन्यसेत् ॥ २१.२२ ॥ आढकैश्शालिधान्यैश्च पूर्णपात्राणि षोडश । इन्द्रादीशानपर्यन्तं शालिराश्युपरि न्यसेत् ॥ २१.२३ ॥ अढकं तैलमाहृत्य तदर्धञ्च घृतं तथा । पश्चिमे दधिमन्न्यस्य देवदेवं प्रणम्य च ॥ २१.२४ ॥ आत्मसूक्तं च जप्त्वातु पूजयेदष्टविग्रहैः । प्रणम्य देवदेवाय पद्ममध्येतु पूर्ववत् ॥ २१.२५ ॥ प्राच्यादि पुरुषादींश्च चतुर्मूर्तिभिराह्वयेत् । एकादशोपचारैश्च पूजयित्वा यथार्हकम् ॥ २१.२६ ॥ इन्द्राद्यैशान्तमावाह्य देग्देवानर्चयेत्तत । "अतोदेवाऽदिसंयुक्तं विष्णुसूक्तं जपेत्पुनः ॥ २१.२७ ॥ बिंबे देवं समारोप्य चान्यानुद्वासयेत्क्रमात् । यजमानोऽथ तत्काले दद्यादाचार्यदक्षिणाम् ॥ २१.२८ ॥ विष्णुभक्तियुतं शास्तं दयाद्यात्मगुणैर्युतम् । वेदपारायणपरं सर्वावयवसंयुतम् ॥ २१.२९ ॥ विप्रमाहूय तत्काले देवस्य नियतोऽग्रतः । ध्यात्वा देवेशमाचार्यो देवदेवस्य सन्निधौ ॥ २१.३० ॥ तिलपद्मं ददेत्तस्मै सर्वलोकहिताय वै । स्तोत्रैर्गेयैश्च वादैश्च स्तुत्वा देवं समर्चयेत् ॥ २१.३१ ॥ देवं याने समारोप्य सर्वालङ्कारसंयुतम् । देवालयं परीत्यैव जीवस्थाने निवेशयेत् ॥ २१.३२ ॥ एवे यःकुरुते भक्त्या विष्णवे परमात्मने । सर्वान् कामानवाप्नोति वैष्णवं लोकमश्नुते ॥ २१.३३ ॥ फाल्गुने मासि फल्गुन्यां श्रिया सार्थं जनार्दनम् । स्नापयित्वोत्सवं कृत्वा समभ्यर्छ्य निवेदयेत् ॥ २१.३४ ॥ चैत्रेमासि तथा चैत्षां कुर्याद्दमनकोत्सवम् । पूर्वस्मिन्नेव दिवसे रात्रिपूजावसानके ॥ २१.३५ ॥ भद्ध्वा प्रतिसरं तत्र देवेशाय निवेदयेत् । वसस्तं काममभ्यर्च्य पायसान्नं निवेदयेत् ॥ २१.३६ ॥ देसस्य दक्षिणे पार्श्वे मालां दमनकींन्यसेत् । प्रभाते देवमुद्धाप्य स्नापयित्वार्ऽचयेत्तथा ॥ २१.३७ ॥ देवस्य पुष्पमन्त्राभ्यां दद्याद्भक्ति समन्वितम् । सर्वेषां परिवाराणां दद्यात्तन्मन्त्रमूर्तिभिः ॥ २१.३८ ॥ ग्रामं प्रदक्षिणं कृत्वा संस्थाप्यास्थानमण्डपे । समभ्यर्च्य निवेद्यैव मुखवासं ददेत्ततः ॥ २१.३९ ॥ वैशाख्यां पौर्णमास्यां वै स्नापयित्वा समर्चयेत् । ज्येष्ठे तु स्नापयेद्देवं नववस्त्रं प्रदापयेत् ॥ २१.४० ॥ सोऽपि संवत्सरफलं प्राप्नुयादेव मानवः । अर्घ्यदानं प्रशस्तं स्याद्देवस्याषाढमासके ॥ २१.४१ ॥ श्रावणे मासि सक्षत्रे श्रवणे तु विशेषतः । उत्सवस्नपनादीनि पूर्ववत्कारयेद्बुधः ॥ २१.४२ ॥ अतःपरं प्रवक्ष्यामि जयन्त्युत्सवलक्षणम् । जयन्ती श्रावणे मासि कृष्णपक्षेऽष्टमी शुभा ॥ २१.४३ ॥ रोहिणीसहिता ज्ञेया सर्वपापहरा तिथिः । तस्यां जातो जचगन्नाथो जगत्पालन काङ्क्षया ॥ २१.४४ ॥ चन्द्रस्योदयकालेतु मध्यरात्रे स्वलीलया । तस्मिन् वै दिवसे कृष्णमर्चयित्वा प्रयत्नतः ॥ २१.४५ ॥ उत्सवं कारयेद्यस्तु विष्णोस्सालोक्यतां व्रजेत् । अष्टमी रोहिणीयुक्ता रहितावा विचक्षणैः ॥ २१.४६ ॥ अविद्धैव सदा ग्राह्यासप्तम्या सर्वदा तिधिः । आदित्योदयवेलायां कलामात्राष्टमी यदि ॥ २१.४७ ॥ सातिथिस्सकला ज्ञेया निशीथव्यापिनी भवेत् । नागविद्धा यथा नन्दा वर्जिता श्रवणान्विता ॥ २१.४८ ॥ तथाष्टमीं पूर्वविद्धां सर्क्षां वापि परित्यजेत् । अविद्धैवाष्टमी ग्राह्या तां सुपुण्यामुपावसेत् ॥ २१.४९ ॥ रोहिणीसहिता कृष्णा मासि भाद्रपदेऽष्टमी । अर्धरात्रादधश्चोर्ध्वं गलया वापि पूर्ववत् ॥ २१.५० ॥ जयन्ती नाम सा प्रोक्ता सर्वपापप्रणाशिनी । तस्मात्तु दिवसात्पूर्वं नवमे वाथ सप्तमे ॥ २१.५१ ॥ पञ्चमे वा त्षहेऽवापि विधिवा चाङ्कुरार्पणम् । पूर्वेद्युरेव शर्वर्यां रात्रिपूजावसानके ॥ २१.५२ ॥ बद्ध्वा प्रतिसरं तत्र शयने शाययेद्धरिम् । तस्यां तिथावर्धरात्रे कृष्णमेवं विशेषतः ॥ २१.५३ ॥ पुष्पाञ्जलिं ततः कुर्याच्छ्रिया युक्तो जनार्दनः । भूमिभारापहाराय लोकेजातो जगत्पतिः ॥ २१.५४ ॥ इति संचिन्तयेद्देवं वैष्मवं मन्त्रमुच्चरन् । सर्वालङ्कारसंयुक्तं मण्डपं च प्रदक्षिणम् ॥ २१.५५ ॥ पुरस्तान्मध्यमे वापि चास्थाने वाप्यलङ्कृते । तन्मध्ये विष्टरे स्थाप्य देवदेवं प्रणम्य च ॥ २१.५६ ॥ तैलं हरिद्रचूर्णं च कलशान् संप्रपूर्य च । स्थण्डिले विन्यसेत्तत्र देवदेवं समर्चयेत् ॥ २१.५७ ॥ तैलेनाभ्यञ्जनं कृत्वा चूर्णेनोद्यर्तनं चरेत् । नादेयं गन्धतोयं च पुष्पोदं चाक्षतोदकम् ॥ २१.५८ ॥ कुशोदकं तु संभृत्य कलशान् पञ्च विन्यसेत् । "अतो देवाऽदिभिर्मन्त्रैस्स्नापयेत्पुरुषोत्तमम् ॥ २१.५९ ॥ पाद्याद्यर्ङ्यान्तमभ्यर्च्य देवदेवं प्रणम्य च । "हिरण्यगर्भऽ इत्युक्त्वागवां क्षीरं निवेदयेत् ॥ २१.६० ॥ मुखवासं च दत्वैव प्रणामं च ततश्चरेत् । निवेदितं तु तत्क्षीरं वन्ध्यापुत्रप्रदं भवेत् ॥ २१.६१ ॥ पीत्वाप्रसूते पुत्रं च आयुष्मन्तं बलान्वितम् । नीत्वा घृतं च तैलं च मुखवासयुतं तथा ॥ २१.६२ ॥ देवस्य दर्शयित्वा तु ब्राह्मणेभ्यः प्रदीयताम् । देवदेवमलङ्कृत्य भक्तानामात्तचेतसाम् ॥ २१.६३ ॥ यथा वै यजमानस्य तथा प्रियकरं भुधैः । सर्ववाद्यसमायुक्तं सर्वालङ्कारसंयुतम् ॥ २१.६४ ॥ ग्रामं वाप्यालयं वापि प्रदक्षिणमथाचरेत् । आलयं संप्रविश्यैव कलशैस्स्नावयेद्बुधः ॥ २१.६५ ॥ आचार्यदक्षिणां दत्वा सोदकं देवसन्निधौ । प्रभूतं तु निवेद्यैव मुखवासं ददेत्पुनः, ॥ २१.६६ ॥ एवमेवं तथा कुर्यादुत्सवं प्रतिवत्सरम् । भुक्तिमुक्तिप्रदमिदमृषिभिः परीकीर्तितम् ॥ २१.६७ ॥ अपरेऽथ दिने वापि कारयेदुत्सवं भुधः । यद्यन्मन्त्रक्रियालोपो वैष्णवैर्हूयते तथा ॥ २१.६८ ॥ एकस्मिन् वत्सरे हीने देवदेवं प्रणम्य च । स्नपनं पञ्चविंशद्भिः कलशैश्शुद्धमानसैः ॥ २१.६९ ॥ शान्तिहोमं च हुत्वातु पुण्याहमपि वाचयेत् । उत्सवं द्विगुणं कुर्याद्दक्षिणां च स्वशक्तितः ॥ २१.७० ॥ श्रावणे द्वादशीयोगे मापि भाद्रपदे तथा । संवत्सरार्चादोषस्य शान्त्यर्थं केशवस्य तु ॥ २१.७१ ॥ अस्मिन्मासे विशेषेण पवित्रारोपणं हरेः । सर्वदोषोपशमनं सर्वकामाभिवृद्धिदम्, ॥ २१.७२ ॥ मासेऽस्मीन्नारभेतैव श्रवणव्रतमुत्तमम् । त्रिभिर्वर्षैस्त्रिभिर्मासैरुपोष्य च महत्पलम् ॥ २१.७३ ॥ आश्वयुजमासे चाश्व्यर्क्षे देवेशं स्नापयेत्ततः । अर्घ्यदानं प्रशस्तं स्याद्देवदेवस्य शार्जिणः ॥ २१.७४ ॥ अथातः कृत्तिकादीपदानलक्षणमुच्यते । कार्तिक्यां पूर्णिमायान्तु यदृक्षन्तु प्रवर्तते ॥ २१.७५ ॥ तदृक्षं दीपऋक्षं स्यात्कालापेक्षा न विद्यते रव्यस्तमयवेलायां । दीपारोपणमाचरेत् ॥ २१.७६ ॥ देवस्य सन्निधौ स्तंभे देवालयसमोच्छ्रये । अधिके वा महादीपं महास्नेहं प्रकल्पयेत् ॥ २१.७७ ॥ त्रिपादं वा तधर्धं वा दीपदण्डं समाहरेत् । वेणुं वा क्रमुकं वापि तालं वा नालिकेरकम् ॥ २१.७८ ॥ मधूकं तिन्त्रिणीकं चेत्यन्यैस्सारद्रुमैस्तथा । शताष्टदीपसंयुक्तंमुत्तमोत्तममुच्यते ॥ २१.७९ ॥ उत्मे मध्यमं दीपं । शतसंख्याक्रमं विदुः । उत्तमाधमदीपं स्यान्नवतिर्द्व्यधिका तथा ॥ २१.८० ॥ मध्यमोत्तममुक्तं स्यादशीतिश्चतुरस्तथा । मध्यमे मध्यमं चैव षट्सप्ततिरथोच्यते ॥ २१.८१ ॥ मध्यमाधमदीपन्तु अष्टषष्टिरिति स्मृतम् । अधमोत्तमदीपन्तु षष्टिसंख्यां वदन्तिहि ॥ २१.८२ ॥ द्विपञ्चाशत्प्रदीपांश्च कुर्यादधममध्यमे । अधमाधममेवेदं चत्वारिंशत्प्रदीपकम् ॥ २१.८३ ॥ अशक्तानां यथाशक्ति दीपं तत्रैव योजयेत् । दण्डेतु सुषिरे योज्यं चतुर्दिक्षु क्रमेण वै ॥ २१.८४ ॥ भूतपीठस्य पूर्वेतु दीपस्थानं विधीयते । "पद्मकोशप्रतीकाशऽ इति श्रुत्यामुदाहृतम् ॥ २१.८५ ॥ तस्मात्सर्वप्रयत्नेन पद्मं कुर्यात्सलक्षणम् । विस्तारायामतुल्यं स्याच्चतुस्तालप्रमाणतः ॥ २१.८६ ॥ गोलकाङ्गुलमुत्सेधं चतुरश्रं प्रकल्पयेत् । तत्रैव शालिभि स्तिर्यक्पद्ममष्टदलान्वितम् ॥ २१.८७ ॥ तन्मध्ये तालमात्रेण समवृत्तं सकर्णिकम् । एकाङ्गुलसमुत्सेधं तत्रैवोपरि तण्डुलैः ॥ २१.८८ ॥ सति पद्मं समुत्फुल्लं नववस्त्रं समास्तरेत् । पुष्पं तस्योपरि न्यस्य कल्बयेत्पद्ममण्डलम् ॥ २१.८९ ॥ दलेष्वभ्यर्च्य च वसून्मध्ये धर्मं समर्चयेत् । आलयाभिमुखे कुर्यात्प्रपां चैवातिसुन्दरम् ॥ २१.९० ॥ आस्थानमण्डपे वापि कल्पयेत्पद्ममण्डलम् । सौवर्णं राजतं ताम्रं मृण्मयं वास्वशक्तितः ॥ २१.९१ ॥ शरावं प्रस्थसंपूर्णं समाहृत्य विचक्षणः । किञ्चित्कर्पूरसंयुक्तं पिचुवर्तिसमन्वितम् ॥ २१.९२ ॥ गव्यं घृतं समादाय स्थापयेत्पद्ममध्यमे । आचार्यस्सुप्रसन्नात्मा नववस्त्रोत्तरीयकः ॥ २१.९३ ॥ "श्रियैजाऽतेति मन्त्रेण दीपस्योद्दीपनं चरेत् । प्रतीच्यां पद्ममध्येतु श्रियं ध्यात्वा समाह्वयेत् ॥ २१.९४ ॥ एकादशोपचारैश्च पूजयित्वा समाहितः । श्रीदेवीं मनसा ध्यात्वा श्रीसूक्तं च समुच्चरन् ॥ २१.९५ ॥ दीपमादाय हस्ताभ्यामप्सरोभिर्विशेषतः । दीपानन्यान्त्समादाय तो यधारासमन्वितम् ॥ २१.९६ ॥ गेयध्वनिसमायुक्तं नृत्तवाद्यसमन्वितम् । प्रदक्षिणं ततः कृत्वा गर्भागारं प्रवेशयेत् ॥ २१.९७ ॥ देपस्य दक्षिणे पार्श्वेस्थापयेन्मन्त्रवित्तमः । देवदेवं समानीय मण्डले स्थाप्य चात्वरः ॥ २१.९८ ॥ कुर्याद्दशोपचारांश्च समभ्यर्च्येद्विधानतः । "श्रीये जाऽतेति मन्त्रेण दीपानुद्दीपयेद्बुधः ॥ २१.९९ ॥ गर्भगेहेच सोपाने प्रासादे मुखमण्डपे । प्रासादशिखरे वापिग्रीवायां चरणेऽपि च ॥ २१.१०० ॥ प्राकारेषु च सर्वत्र तथैव स्नपनालये । पुष्पसंचयदेशे च द्वारे चास्थानमण्डपे ॥ २१.१०१ ॥ अन्येष्वपि च सर्वत्र दीपानुद्दीपयेत्क्रमात् । कार्पासतूलं संबद्ध्य शरावेषुघृतेन वै ॥ २१.१०२ ॥ पूर्वोक्तेनैव मन्त्रेण चोद्दीपनमथाचरेत् । नृत्तगेयादिवाद्यैश्च घोषयित्वा प्रयत्नतः ॥ २१.१०३ ॥ तच्छरावस्थदीपं च बलिपीठस्य पश्चिमे । अधिदेवं समाराध्य निक्षिपेद्दीपमण्डपे ॥ २१.१०४ ॥ "शुभ्राज्योतिऽरिति प्रोच्य दण्ड्राग्रेऽन्यांश्च निक्षिपेत् । निवेद्य बहूधा देवं पृथुकादीन्विशेषतः ॥ २१.१०५ ॥ भक्ष्याणि गुडमिश्राणिप्रभूतं च महाहविः । ग्रामं प्रदक्षिणं कृत्वा सर्वालङ्कारसंयुतम् ॥ २१.१०६ ॥ पुनर्देवं समादाय जीवस्थाने निवेशयेत् । सोऽपि संवत्सरफलं प्राप्य गच्छेत्परं पदम् ॥ २१.१०७ ॥ ग्रहणाराधनम् अथातस्संप्रवक्ष्यामि सूर्यसोमोपरागयोः । अर्चनादिविधिं सम्यक्देवदेवस्य शार्ङ्गिणः ॥ २१.१०८ ॥ सूर्यग्रहे चतुर्यामं त्रियामं तु विधुग्रहे । नाश्नन्ति हव्यकव्यानि देवताः पितरस्तथा ॥ २१.१०९ ॥ आलये तु हरेः पूजां न त्यजन्ति महर्षयः । हविर्निवेदनं हित्वापूजां सर्वां समाचरेत् ॥ २१.११० ॥ ग्रहणे वर्तमानेतु स्नापयेत्पुरुषोत्तमम् । कोटियज्ञफलं प्राप्य ब्रह्मलोके महीयते ॥ २१.१११ ॥ ग्रस्तास्तग्रहणे कुर्यात्स्नपनं तु परेऽहनि । तथा ग्रस्तोदये कुर्यादिति शातातपोऽब्रवीत् ॥ २१.११२ ॥ सर्वधा वरमाने तु ग्रहणेस्नपनं चरेत् । ग्रहणं संक्रमो हस्तिच्छाया च विषुवादिकम् ॥ २१.११३ ॥ युगादि व माद्यास्तु पुण्यकालाः प्रकीर्तिताः । निषेथः कथितः प्राज्ञैर्हविर्दासवदुत्सवे ॥ २१.११४ ॥ नित्यार्चनं चोत्सवं च स्नपनात्पूर्वमाचरेत् । स्नापयित्वा हृषीकेशं हविर्दानं प्रशस्यते ॥ २१.११५ ॥ वास्तुशुद्धिं सदा कुर्याद्ग्रहणे चन्द्रसूर्ययोः । पुराणानि च भाण्डानि त्यक्त्वान्यानि समाहरेत् ॥ २१.११६ ॥ कुशाग्राणां समुत्क्षेपाद्वाससां शुद्धिरिष्यते । अपक्वानां च वस्तूनां न पक्वं परिगृह्णते ॥ २१.११७ ॥ अदृश्यमुपरागन्तु नोपरागं प्रचक्षते । दीक्षितस्य तथान्यस्य स्नानं स्यात्स्पर्शमोक्षयोः ॥ २१.११८ ॥ यावानाद्यन्तकालस्स्यात्तावताकीर्तयेद्धरिम् । मौनी जपादिकं कुर्यादूर्ध्वपुण्ड्रधरश्शुचिः ॥ २१.११९ ॥ सप्तवाताहतं वस्त्रमार्द्रं धृत्वा न दोषभाक् । ग्रहणे भगवत्सेवा सर्वाशुभविनाशिनी ॥ २१.१२० ॥ दद्याद्धानानि शक्त्या वै सकामो हरिमन्दिरे । तदनन्तं भवेत्साक्षी यत्रानन्तो हरिस्स्वयम् ॥ २१.१२१ ॥ प्रभूतं तु निवेद्याथ भुञ्जीयात्तदनन्तरम् । रात्रौ श्राद्धं प्रकुर्वीत ग्रहणे तन्नदोषकृत् ॥ २१.१२२ ॥ दूषिते तूक्तकाले तु तस्यापगम एव च । विपरीते महान् दोष इति शास्त्रविदो विदुः ॥ २१.१२३ ॥ न निशीथात्परं श्राद्धमापत्स्वपि विधीयते । स्नानमाशौचिनां नित्यं तेऽपि दानं च कुर्व ॥ २१.१२४ ॥ न जपो न तपस्तेषामशुद्धा मोक्षणे पुनः । यदा राश्यन्तरं राशेः काले संक्रमते रविः ॥ २१.१२५ ॥ तदा तु पुण्यकालस्स्यात्स्नपनाद्यत्र कारयेत् । कटकेविंशतिः पूर्वं मकरे विंशतिः परे ॥ २१.१२६ ॥ पुण्यान्तु घटिकाः प्रोक्ता स्तत्र ग्रहणवच्चरेत् । यदास्तमयवेलायां संध्यायां संक्रमोरवेः ॥ २१.१२७ ॥ पूर्वेऽह्णि पुण्यकालस्स्यादपराह्णात्परस्स्मृतः । अर्धास्तमित आदित्ये तथा चार्ऽधोदिते सति ॥ २१.१२८ ॥ पाश्चात्यपूर्वघटीकास्तिस्रस्संध्या प्रकीर्तिताः । उपरागेऽपि कुर्याद्वै उत्सवेऽवभृथं हरेः ॥ २१.१२९ ॥ विधुग्रहे निशां सर्वामहोरात्रं रविग्रहे । त्यजेच्छुभे तदा कुर्यान्नैव दीपोत्सवं हरेः ॥ २१.१३० ॥ पश्चान्निशीथाद्ग्रहणे दीपं दास्यन्ति के च न । अविद्धेपर्वणि प्रोक्तं दीपदानं शुभावहम् ॥ २१.१३१ ॥ ग्रहणेऽपि भवेद्दीपमविद्धा पूर्णिमा न चेत् । अपर्वण्यर्पितं दीपं हन्ति पुण्यं पुरातनम् ॥ २१.१३२ ॥ मासर्क्षेष्वन्यपुण्वर्क्षे विष्णुपञ्चदिने तथा । अर्चनार्थाय देवस्य कालो मध्याह्न उच्यते ॥ २१.१३३ ॥ काम्ये तु सुमुहूर्ते स्यात्पूजनं नान्यधा चरेत्. इति श्रीवैखानसे भगवच्छास्त्रे भृगुप्रोक्तायां संहितायां प्रकीर्णाधिकारे एकविंशोऽध्यायः. _____________________________________________________________ अथ द्वाविंशोऽध्यायः. अथ द्वाविंशोऽध्यायः. स्नपनम् अथातस्स्नपनागारं प्रमुखे चोत्तरे तथा । ऐशान्यां वा विशेषण प्रपां वा मण्डपन्तु वा ॥ २२.१ ॥ वितानोपरि संवीतं लंबमानं परिष्कृतम् । स्तंभान्त्संवेष्ट्य वस्त्रैश्च दुकूलैस्तान्तवैरपि ॥ २२.२ ॥ मुक्तादामसमायुक्तं पूर्णकुंभसमन्वितम् । सत्वं रजस्तमश्चैव ऐश्वर्यं चाधिदैवतम् ॥ २२.३ ॥ चतुर्वेदादिकैर्मन्त्रैस्तोरणांस्थ्सापयेत्क्रमात् । उभयोः पार्श्वयोश्चैव कदलीक्रमुकान्वितम् ॥ २२.४ ॥ पूर्वास्तमुत्तरान्तं च षट्सूत्रं संप्रसार्य च । कल्पयेदायतसमं पदानां पञ्च विंशतिम् ॥ २२.५ ॥ मध्येब्राह्मं पदं हित्वा चर्यार्धं परितोऽष्ट च । पूर्वादि चत्वारि पदं द्वारार्थं परिकल्पयेत् ॥ २२.६ ॥ शिष्टांश्च द्वादशपदान् द्रव्यन्यासार्थमाहरेत् । मध्येश्वभ्रन्तु कर्तव्यमौपासनविधानतः ॥ २२.७ ॥ मध्येनिम्नं च कृत्वा तु तालमात्रप्रमाणतः । श्वभ्रस्य मध्यमे चैव बिल्वजं फलकं न्यसेत् ॥ २२.८ ॥ तत्प्रमाणाधिकं पीठं परितश्चतुरङ्गुलम् । मध्येहित्वा प्रतिष्ठाप्य द्विवेदिसहितं क्रमात् ॥ २२.९ ॥ ततःपावनमार्गेण जलं गच्छेदुदङ्मुखम् । मण्डपात्तु बहिस्थ्साने जलस्थानं तु खानयेत् ॥ २२.१० ॥ आच्छाद्य कदलीपत्रैः पद्मपत्रैरथापि वा । हारिद्रैश्चाथ पत्रैर्वापत्रैः क्रमुकजैस्तु वा ॥ २२.११ ॥ "अतोदेवाऽदिमन्त्रेण कुशदर्भांन्तु शोधयेत् । यावच्छ्वभ्रप्रमाणन्तु तावत्कृत्वासमाहरेत् ॥ २२.१२ ॥ हस्तमात्रं तथायामे प्रोक्षणार्थं तु कूर्चकम् । मार्जनार्थन्तु कूर्चं च षडङ्गुलमिति स्मृतम् ॥ २२.१३ ॥ पञ्चभिर्वात्रिभिर्वाथ द्वादशांगुलमायतम् । कलशार्थं तु कुर्वीत यथाकलशसंख्ययो ॥ २२.१४ ॥ तण्डुलैर्व्रीहिभिश्चैव सतिलैश्चत्रिवेदिकम् । व्रीह्यर्धं तण्डुलं प्रोक्तं तदर्धं च तिलानपि ॥ २२.१५ ॥ उत्तमं द्रोणमित्युक्तं मध्यमं तु तदर्धकम् । अधमं चाढकं चैव पङ्क्तिं कुर्याद्विचक्षणः, ॥ २२.१६ ॥ सम्यक्दग्ध्वातु कलशानभिन्नान्त्संप्रगृह्य च । शरावाणां प्रमाणं तु कुडुबं समुदाहृतम् ॥ २२.१७ ॥ षट्प्रस्थमात्रं करकं कुंभं तु द्रोणमेव च । "देवस्यऽत्वेति कलशान् कुंभादीन्त्संप्रगृह्य च ॥ २२.१८ ॥ यवान्तरं तु तन्तूनां संवेष्ट्य कलशानपि । पूर्वरात्रौ विशेषेण देवेशं संप्रणम्य च ॥ २२.१९ ॥ समभ्यर्च्य निवेद्यैव मुखवासं ददेत्ततः । पूर्वोक्तेन विधानेन बद्ध्वाप्रतिसरं ततः ॥ २२.२० ॥ शयनं सोपधानं च कालयित्वातु पूर्ववत् । शयने शाययेद्देवमुत्तराच्छादनं चरेत् ॥ २२.२१ ॥ नृत्तैर्गेयैश्च वाद्यैश्च रात्रिशेषं नयेत्क्रमात् । ततः प्रभाते धर्मात्मा यजमानयुतो गुरुः ॥ २२.२२ ॥ श्वभ्रमध्ये प्रतिष्ठाप्य कूर्चान्त्सम्यङ्न्यसेत्क्रमात् । जयादीरपि तत्रैव चैन्द्राद्यैशान्तमर्चयेत् ॥ २२.२३ ॥ पङ्क्तीशमर्चयेत्पूर्वं नीलवारुणमध्यमे । विष्वक्चेनं समभ्यर्च्य सोमेशानान्तरेपि च ॥ २२.२४ ॥ लोकपालान्त्समभ्यर्च्ये द्विग्रहैर्दशभिस्त्रिभिः प्राग्द्रव्याणि । नदीतिरे मृदं गृह्य सस्यङे त्रेतटाकके ॥ २२.२५ ॥ दर्भमूले च संगृह्य गजदन्ते तथैवच । गोश्रुङ्गे कर्कटावासे वल्मीकस्य तु मध्यमे ॥ २२.२६ ॥ महीं देवीमनुज्ञाप्य ताश्चाहृत्य पृथक्पृथक् । आतपेनाथ संशोष्य विश्वामित्रान् परिह्रसेत् ॥ २२.२७ ॥ शरावेषु मृदं चैव पूरयित्या पृथक्पृथक् । इन्द्रादीशानपर्यन्तं प्रदक्षिणवशेन तु ॥ २२.२८ ॥ "उदुत्यऽमिति मन्त्रेण प्रथमं सन्न्यसेन्मृदः । मृदुपस्नानमेकं तु ऐशान्यां विप्यसेत्तदा ॥ २२.२९ ॥ अश्वद्थेन पलाशेन बिल्वेन खदिरेण वा । कुर्यादष्टांगुलोत्सेधं चतुरश्रं समस्ततः ॥ २२.३० ॥ मूलं षडङ्गुले चाग्रात्त्षङ्गुलं समुदाहृतम् । अनेन वा मृदा वापि कुर्याद्वै पर्वतान् क्रमात् ॥ २२.३१ ॥ हिमवानूर्जवान्विन्ध्यो विदूरो वेदपर्वतः । महेन्द्रश्च पुरश्चन्द्रश्शतश्रुङ्गाश्च पर्वताः ॥ २२.३२ ॥ एषां वर्णस्तथैवोक्तः कुर्याद्वर्णेन संयुतान् । श्वेतं पीतं च कृष्णं च रक्तं वै श्वेतमेव च ॥ २२.३३ ॥ पीतं कृष्णं च रक्तं च क्रमाद्वर्ण उदाहृतः । प्रागादीशान्त मेतांश्च "इदं विष्णुऽरिति न्यसेत् ॥ २२.३४ ॥ शैलानां चाप्युपस्नामेकमीशान्यगोचरम् । शालिव्रीहियवा मुद्गतिलमाष प्रियङ्गवः ॥ २२.३५ ॥ गोधूमश्चणकस्तिल्वोमसूरश्चाद्थसी तथा । कुलुद्धमाषकाश्चैव षष्टिर्निष्पाव एव च ॥ २२.३६ ॥ एतान्याहृत्य धान्यानि शरावेषु पृथक्पृथक् । प्रक्षिप्य तांश्य संपूर्णान् क्रमाद्द्वौ द्वौन्यकेत्तथा ॥ २२.३७ ॥ इन्द्रादीशानपर्यन्तं "शुक्रन्तऽ इति मन्त्रतः । न्यसेदेकमुपस्नानं धान्यानामग्निदिश्यपि ॥ २२.३८ ॥ शरावाणामलाभे तु कलशेषु पृथक्पृथक् । "सोम ओषधीनाऽमुच्छार्य पूर्ववच्चांकुरानपि ॥ २२.३९ ॥ यमनीलान्तरे चापि शरावेतु सुविन्यसेत् । अङ्कुराणामुपस्नानमेकमत्रैव विन्यसेत् ॥ २२.४० ॥ पर्वतार्थं समं प्रोक्तवृक्षैर्यत्नेन वा मृदा । मङ्गलानि प्रकुर्याच्च दारुपक्षाण्यनुक्रमात् ॥ २२.४१ ॥ श्रीवत्सं पूर्णकुंभं च भेरीमादर्शनं तथा । मत्स्ययुग्मांकुशं शङ्खमावर्तमिति चाष्टवै ॥ २२.४२ ॥ श्रीवत्सं तत्तु रुक्माभं घटोरक्ताभ उच्यते । रक्तां भेरीं सुवर्णाभं तस्य पार्श्वेऽसितं?तथा ॥ २२.४३ ॥ आदर्शनं च श्वेतं स्याद्वृत्तं चन्द्रवदिष्यते । मत्स्ययुग्मं तथा श्वेतमूर्ध्वाननमितीरितम् ॥ २२.४४ ॥ अङ्कुशस्य तु दण्डं च रक्तं कृष्णघृणीयुतम् । शङ्खं शङ्खनिभं प्रोक्तं रक्तमावर्तमिष्यते ॥ २२.४५ ॥ सप्ताङ्गुलसमुत्सेधमेषां पीठं द्विगोलकम् । यथा वृक्षैस्तथा कुर्यात्पञ्चवर्णैर्मृदा तधा ॥ २२.४६ ॥ एवं लक्षणमुद्दिष्टं शेषं युक्त्या समाचरेत् । प्रदक्षिणक्रमेणैव चैन्द्रादीशान्तमर्चयेत् ॥ २२.४७ ॥ दिक्ष्वष्टसु महादिक्षु तत्तद्द्वारस्य दक्षिणे । "शं सा नियच्छऽत्वित्युक्त्वामङ्गलान्यत्र विन्यसेत् ॥ २२.४८ ॥ मङ्गलानामुपस्नानमेन्द्राद्येचैकमेवहि । एवं प्रकरणं प्रोक्तं कलशानां............ ॥ २२.४९ ॥ द्वादश प्रधानद्रव्याणि पञ्चगव्यक्रमं वक्ष्ये देवस्य स्नपनं प्रति । कपिलाया वरं क्षीरं श्वेताया दधि चोच्यते ॥ २२.५० ॥ रक्तवर्णाघृतं ग्राह्यं कृष्णाया गोश्शकृद्भवेत् । मूत्रं तु नीलवर्णायाः पञ्चगव्यमिति स्मृतम् ॥ २२.५१ ॥ प्रस्थपादं घृतं चैव द्विगुणं दधि संयुतम् । गृहीत्वा त्रिगुणं क्षीरं गोमयन्तु चतुर्गुणम् ॥ २२.५२ ॥ षड्गुणं चैव गोमूत्रं पञ्चगव्ययुतं क्रमात् । अपातितं तु गोमूत्रं पतितं गोमयं भवेत् ॥ २२.५३ ॥ धारोष्णं क्षीरमादाय सद्यस्त्सप्तं घृतं भवेत् । अशुक्तं दधि गृह्णीयादेतत्सर्वत्र लक्षणम् ॥ २२.५४ ॥ "गाङ्गेयंऽ मन्त्रमुच्चार्य गोमूत्रं पूर्वमाहरेत् । तत्परं तु शकृद्ग्राह्य "मीशानऽमिति मन्त्रतः ॥ २२.५५ ॥ "हिरण्यपाणिऽमित्युक्त्वा पय आदाय निक्षिपेत् । "इषे त्वेऽति दधि यञ्ज्याद्घृतं "चायन्तऽ इत्यपि ॥ २२.५६ ॥ इत्येवं पञ्चभिर्मन्त्रैः पञ्चगव्यं समाहरेत् । एतदाढकपूर्मन्तु कलशेदृश्यते पृथक् ॥ २२.५७ ॥ सौवर्णं राजतं ताम्रं कांस्यं मृण्मयमेव वा । द्वादशांगुलविस्तारं षोडशांगुलनाहकम् ॥ २२.५८ ॥ द्व्यङ्गुलं संभरेत्कण्ठं मुखं पञ्चाङ्गुल भवेत् । पक्वबिंब फलाकारं खण्डस्भुटीतवर्जितम् ॥ २२.५९ ॥ एवं कलशमादाय पञ्चगव्यैःप्रपूर्य च । "रुद्रमस्यऽमिति प्रोच्य न्यसेदीशानगोचरे ॥ २२.६० ॥ आढकार्धघृतेनैव संपूर्णं कलशं तथा । "घृतप्रतीकऽ इत्युक्त्वा इ द्रेशानान्तरेन्यसेत् ॥ २२.६१ ॥ कलशं मधुसंयुक्तं सुकुशैः पूरितं तथा । "मधु वाऽतेति मन्त्रेण इन्द्राग्न्योरन्तरे न्यसेत् ॥ २२.६२ ॥ न शुक्तं दधि गव्यं च? संपूर्णकलशं तथा । "दधि क्राव्ण्नऽ इत्युक्वा आग्नेय्यां दधि विन्यसेत् ॥ २२.६३ ॥ सद्यो दुग्धं पयोग्राह्य मक्षतैः पूरितन्तथा । "अणोरणीयाऽ नित्युक्त्वा यमाग्न्योर्मध्यमे न्यसेत् ॥ २२.६४ ॥ उशीरागरुपर्णैर्वा संयुक्तं चन्दनेन वा । शुद्धोकेन संगृह्य कलशं परिपूरितम् ॥ २२.६५ ॥ यमनीलान्तरे तत्र "अप्सरऽस्स्विति विन्यसेत् । व्रीहिमाषयवैर्युक्तं सर्षपञ्चाक्षतं विदुः ॥ २२.६६ ॥ तूर्यघोषसमायुक्तं मिश्रितं चाक्षतोदकम् । तत्राक्षतोदकेनैव संपूर्णं कलशं ततः ॥ २२.६७ ॥ "इमा ओषधयऽ इत्युक्त्वा न्यसेन्नी लेऽक्षतोदकम् । कदलीमातुलुङ्गाम्र पनसेर्नालिकेरकैः ॥ २२.६८ ॥ आर्द्रादिभिः फलैश्चान्यैर्यथालाभं समाहृतैः । फलैरर्धांशसंयुक्तं शेषं तोयेन पूरितम् ॥ २२.६९ ॥ फलोदकमिति प्रोक्तं कलशं संप्रसाथितम् । नीलवारुणयोर्मध्ये "सोमं राऽजेति विन्यसेत्, ॥ २२.७० ॥ कुशाग्रैरथ वा दूर्वैरक्षतैश्च समन्वितम् । कुशोदकमिति प्रोक्तं कलशं तेन पूरितम् ॥ २२.७१ ॥ वरुणोदानयोर्मध्ये "यतस्स्वऽमिति विन्यसेत् । वज्रं नीलं प्रवालं च शङ्खजं शुक्तिजं तथा ॥ २२.७२ ॥ एतानि पञ्चरत्नानि ततो मरतकं तथा । वैडूर्यं पुष्यरागं च गोमेधिकमिति क्रमात् ॥ २२.७३ ॥ रत्नोदकमिति प्रोक्तं कलशं तेन पूरितम् । वायव्ये सन्न्यसेद्विद्वा"नतो देवादिऽमुच्चरन् ॥ २२.७४ ॥ यथालाभं तथा रत्नसुवर्णसहितं क्रमात् । वैष्णवं विष्णुसूक्तं च पुरुषसूक्तयुतं जपेत् ॥ २२.७५ ॥ तथाभिमन्त्रितं तोयं जप्योदकमिति स्मृतम् । कुबेरोदानयोर्मध्ये "ब्रह्मा देवानाऽमिति न्यसेत् ॥ २२.७६ ॥ फलान्ते तु वितुन्नास्स्युरोषध्यस्समुदाहृताः । सर्वौषधिसमायुक्तं सर्वौषध्युदकं भवेत् ॥ २२.७७ ॥ तर्यांशेषु गृहीतं च कलशं पूर्णमंभसा । सोमेशानास्तरेचैव "चित्रं देवानाऽमिति न्यसेत् ॥ २२.७८ ॥ एषां प्रत्येकमेकं तु कलशं शुद्धवारिणा । गृहीत्वा तदुपस्नानं वामपार्श्वेतु विन्यसेत् ॥ २२.७९ ॥ उपस्नाने तु कलशा"नतो देवाऽदिना न्यसेत् । एवं प्रधानकलशाश्चतुर्विंशतिरीरिताः ॥ २२.८० ॥ अनुद्रव्याणि नन्द्यावर्तं च पद्मं च तुलसी विष्णुपर्णिका । बिल्वं च करवीरं च पद्मं कुमुदमेव च ॥ २२.८१ ॥ अष्टवै पुण्यपुष्पाणि ग्राह्याणि तु यथाक्रमम् । दिवाशुद्धं तु बिल्वं च कपिद्थं बिल्ववन्निशि ॥ २२.८२ ॥ करवीरं दिवा शुद्धं निशि सितं? तथा शुचि । शरावेषु समाहृत्य पुष्पाणि तु पृथक्पृथक् ॥ २२.८३ ॥ "इमास्सुमनसऽ इति मन्त्रेण यमनीलान्तरे न्यसेत् । तस्योपस्नानमेकन्तु तत्पार्श्वे कलशं न्यसेत् ॥ २२.८४ ॥ श्रीवेष्टकं यवं मुद्गमुशीरं चैव रत्नकम् । तथा मसूरं दमनं जातीफलयुतं तथा ॥ २२.८५ ॥ लवङ्गं च समाहृत्य चूर्णयित्वाक्रमेण वै । समाराध्यैव तच्चूर्णं शरावेषु च पूरयेत् ॥ २२.८६ ॥ पङ्क्तीशाद्दक्षिणे चूर्णं "वन्द्यो नऽइति विन्यसेत् । एषामलाभे चूर्णानां ग्राह्यमैलादिचूर्णकम् ॥ २२.८७ ॥ उपस्नानं तु तत्पार्श्वे त्वेकं वै कलशं न्यसेत् । अश्वद्थस्य मधूकस्य खदिरस्य वटस्य च ॥ २२.८८ ॥ वञ्जुलासनयोश्चापि चित्रवृक्षस्य च त्वचः । हृत्वोलूखलमध्ये च "उदुत्यऽमिति विन्यसेत् ॥ २२.८९ ॥ उक्त चर्मण्यलाभे तु अश्वद्थस्य विधीयते । कषायं परिकल्प्यैव "ये ते शतऽमिति ब्रुवन् ॥ २२.९० ॥ वरुणोदानयोर्मध्ये कषायकलशं न्यसेत् । उपस्नानं तु तत्पार्श्वे एकं वै कलशं न्यसेत् ॥ २२.९१ ॥ सिंही च नकुलव्याघ्रनन्दादित्यं च पुष्करम् । दूर्वा च सहदेवी च पाठा साह्वयमेव च ॥ २२.९२ ॥ एवं वनौषधीर्गृह्य सोमवाय्वोन्तु मध्यमे । उपस्नानं तु तत्पार्श्वे एकं वै कलशं न्यसेत् ॥ २२.९३ ॥ नदीतटाककूपानां पल्वलस्य च वारिभिः । पृथक्संपूर्य कलशांश्चतुरस्तु समाहरेत् ॥ २२.९४ ॥ तस्यैकं कलशं पार्श्वे उपस्नानं तु विन्यसेत् । हरेणुकं च स्थौणेयं पत्रं व्याघ्रनखं तथा ॥ २२.९५ ॥ पर्णागरुं च द्यामाकं कचोरं चेरुवालकम् । माञ्ची जातिफलैलांश्च लवङ्गं चन्दनं तथा ॥ २२.९६ ॥ कर्पूरं च बलोशीरस्थिरनारदमेव च? । कस्तुंबुरुं तथान्यानि सुगन्धीनि शुचीनि च ॥ २२.९७ ॥ प्राण्यङ्गं च पुरीषं च वर्जयित्वा समाहरेत् । एतेषामपि यच्चूर्णं सूक्ष्ममुत्पीड्य कल्पितम् ॥ २२.९८ ॥ सर्वगन्धमिति प्रोक्तं शरावेषु प्रपूरयेत् । न्यसे"त्त्रातारऽमित्येव यक्षराजेशमध्यमे ॥ २२.९९ ॥ तत्तत्पार्श्वेन्यसेत्तेषामुपस्नानं तथैव च । नवस्य स्निग्धवर्णस्य हारिद्रस्य प्रकल्पयेत्, ॥ २२.१०० ॥ चूर्णं तु कलशे क्षिप्त्वा संपूर्णं कलशं चरेत् । पङ्क्तीशस्यैव पार्श्वेतु "सिनी वाऽलीति विन्यसेत् ॥ २२.१०१ ॥ तस्य पार्श्वे न्यसेदेकमुपस्नानन्तु पूर्ववत् । पालाशदूर्वापामार्गनन्द्यावर्तदलानि च ॥ २२.१०२ ॥ करवीरस्य पत्राणि कुशपत्राणि चैव हि । मूलगन्धार्थमाहृत्य तस्य पार्श्वे न्यसेद्बुधः ॥ २२.१०३ ॥ शुद्धोदकलशं स्थाप्येदुपस्नानं च पूर्ववत् । वस्त्रयुग्मं नवं सूक्ष्मं कृतं कार्पासतन्तुना ॥ २२.१०४ ॥ प्लोतार्थन्तु समाहृत्य शुद्धपात्रे तु निक्षिपेत् । विष्णुगायत्रिया स्थाप्य यक्षराजेशमध्यमे ॥ २२.१०५ ॥ प्लोतपार्श्वेन्यसेत्तानि "ब्रह्मजज्ञानऽमित्यपि । जातिं हिङ्गुलिकं चैव अञ्जनं च मनश्शिलाम् ॥ २२.१०६ ॥ गोरोचनं च गिरिकमिति धातून्त्समाहरेत् । एतानि चूर्णयित्वातु शरावेषु पृथक्पृथक् ॥ २२.१०७ ॥ प्रक्षिप्य "जातवेऽदेति न्यसेत्तत्रैव पूर्ववत् । एकादशानुकरणे कलशांश्चैव पूरयेत् ॥ २२.१०८ ॥ अहतं च सुमाक्ष्मं च वस्त्रयुग्ममखण्डितम् । वस्त्रं यज्ञोपवीतं च पवित्रं भूषणादिकम् ॥ २२.१०९ ॥ एवमादीनि संगृह्य सोमेशानान्तरे न्यसेत् । विन्यस्य कलशांश्चैव तथा चूर्णान् पृथक्पृथक् ॥ २२.११० ॥ वस्त्रैरावेष्ट्य तान्त्सर्वान् पुनःकूर्चानि निक्षिपेत् । उत्कूर्चं वाप्यधःकूर्चं प्रागग्रं वोदगग्रकम् ॥ २२.१११ ॥ विन्यस्य तेषु कूर्चानि शरावे रपिधाय च । प्रणम्य देवदेवेशं द्रव्यार्चसमथारभेत् ॥ २२.११२ ॥ ततश्चर्यापदान्तेषु जयाद्यप्सरसोर्ऽचयेत् । जयां च विजयां विन्दांनन्दकां पुष्टिकामपि ॥ २२.११३ ॥ कुमुद्वतीमुत्पलकां विशोकां च समर्चयेत् । प्रागादिवेद्याः परितः पङ्क्तौ पङ्क्तीशमर्चयेत् ॥ २२.११४ ॥ विष्वक्सेनं ततः पश्चादिन्द्रादींश्च समर्चयेत् । द्रव्यदेवार्चनम् मृद्देवता तु भूदेवी पर्वतेशस्तु पावकः ॥ २२.११५ ॥ वायुर्वैधान्यदेवस्स्याद्गरुडा ओंकुरदेवता । मङ्गलाधिपतिश्शक्रःपञ्चगव्याधिपश्शिवः ॥ २२.११६ ॥ तथैव विश्वेदेवाश्च उपस्नानाधिदेवताः । सामवेदो घृतेशस्स्यादुपस्नाने तु वत्सराः ॥ २२.११७ ॥ ऋग्वेदो मधुदेवस्स्यादुपस्नाने तु वायवः । यजुर्वेदो दधीशोऽभूदुपस्ना कपर्दिनः ॥ २२.११८ ॥ क्षीरे त्वधर्ववेदश्च उपस्नानेऽश्विनौ तथा । गन्धोदके षडृतवो मरुतस्तदनन्तरे ॥ २२.११९ ॥ अक्षतोदे विश्वमूर्तिरुपस्नाने बृहस्पतिः । सोमः फलोदकेशस्स्यादनन्तस्तदनन्तरे ॥ २२.१२० ॥ कुशोदके च मुनय उपस्नाने तु तक्षकः । विष्णूरत्नोदकेशस्स्याद्गन्धर्वास्तनदन्तरे ॥ २२.१२१ ॥ मन्त्रोरत्नोदकेशस्स्यादुपस्नानेतु पुष्पजाः । सर्वौषध्युदके भानुरुपस्नानेऽप्सरोगणाः ॥ २२.१२२ ॥ पुण्यपुष्पेषु धातारं चूर्णेष्वप्यनपायिनम् । वरुणः कषायदेवस्स्यात्तीर्थे चैव जगद्भुवः ॥ २२.१२३ ॥ वनौषधीशो रुद्रोऽभूच्छिनीवाली हरिद्रके । उपस्नानि तु राका स्यात्सर्वगन्धे शतक्रतुः ॥ २२.१२४ ॥ ब्रह्माणं मूलगन्धेतु प्लोतवस्त्रे पुरन्दरम् । धातुष्वपि च दुर्गां च तत्तद्द्रव्यधरं स्मरन् ॥ २२.१२५ ॥ त्रयोदशोपचारैश्च मूर्तिमन्त्रैरथार्ऽचयेत् । उपस्नानेषु चान्येषु वरुणं च तथार्ऽचयेत् ॥ २२.१२६ ॥ आचार्य पूजयित्वातु वस्त्रैराभरणैस्तथा । शिष्यं च पूजयेत्पश्चाद्यजमानस्स्वशक्तितः ॥ २२.१२७ ॥ ततो गुरुःप्रसन्नात्मा देवेशं संप्रणम्य च । अष्टोपचारैरभ्यर्च्य स्नपनावसरं ततः ॥ २२.१२८ ॥ विज्ञाप्य हरये सम्यक्पश्चात्कार्यं समाचरेत् । "रक्षस्व त्वऽमिति प्रोच्य द्रव्यदेवं प्रणम्य च ॥ २२.१२९ ॥ शिष्यस्तुनम्रकायस्सन्नाचार्याज्ञां प्रतीक्षते । आज्ञापयेद्गुरुश्शिष्यं "हरस्वेदऽमिति ब्रुवन् ॥ २२.१३० ॥ तत्तद्द्रव्यं समादाय शिष्यस्तस्मै निवेदयेत् । अद्भिःप्रोक्ष्य समादाय तद्द्रव्यं गुरुरत्वरः ॥ २२.१३१ ॥ प्वणवं तु समुच्चार्य तत्र कार्यं समाचरेत् । ललाटान्तं समुद्धृत्य देवदेवं प्रणम्य च ॥ २२.१३२ ॥ तद्द्रव्येण सकृत्त्रिर्वा देवेशस्य प्रदक्षिणम् । तद्द्रव्यनाम संयोज्य तन्मन्त्रान्ते तु कारयेत् ॥ २२.१३३ ॥ "अतो देवाऽदितिमन्त्रेण देवदेवं प्रणम्य च । विष्णुं च पुरुषं सत्यमच्युतं चानिरुद्धकम् ॥ २२.१३४ ॥ एवं मन्त्रं समुच्चार्य तत्र कार्यं समाचरेत् । क्रियान्ते पात्रमादाय पूर्वस्थाने निवेशयेत् ॥ २२.१३५ ॥ स्नपनप्रयोगः "एकाक्षरेणऽ मन्त्रेण प्रोक्ष्यं गृह्य प्रदक्षिणम् । कूर्चेनादाय संस्राव्य मूर्ध्निवै स्नापयेन्मृदा ॥ २२.१३६ ॥ "विश्वे निमग्नऽइत्युक्त्वापर्वतेन प्रदक्षिणम् । धान्येन स्नापयेच्चैव "प्राणप्रसूतिऽमुच्चरन् ॥ २२.१३७ ॥ "वितत्य बाणऽमित्युक्त्वा अङ्कुरैरेव चार्ऽचयेत् । "त्वं यऽज्ञेति च मन्त्रेण मङ्गलैश्च प्रदक्षिणम् ॥ २२.१३८ ॥ "वसोः पवित्रऽमित्युक्त्वा पञ्चगव्याभिषेचनम् । "वारीश्चतस्रऽइत्युक्त्वा सर्वोपस्नानमाचरेत् ॥ २२.१३९ ॥ "अग्न आयाहिऽ मन्त्रेण घृतेनैवाभिषे चयेत् । "अग्निमीलेति मन्त्रेण मधुनैवाभिषेचयेत् ॥ २२.१४० ॥ दध्माभिषेचयेत्पश्चा"दिषे त्वेऽति समुच्चरन् । "शन्नो देवीरऽभीत्युक्त्वा क्षीरेणैवाभिषेचयेत् ॥ २२.१४१ ॥ "अभि त्वा शूरऽइत्युक्त्वा स्नापयेद्गन्धवारिणा । "इमा ओषधयऽइत्युक्त्वा स्नापयेदक्षतोदकैः ॥ २२.१४२ ॥ "जपन् दऽत्वेति चोच्छार्य फलोदैश्चाभिषेचयेत् । "चत्वाऽरीति च मन्त्रेण कुशोदैश्चाभिषेचयेत् ॥ २२.१४३ ॥ "तत्पुरुषाऽयेति मन्त्रेण रत्नोदैश्चाभिषेचयेत् । "पूत स्तऽन्येति मन्त्रेण जप्योदैरभिषेचयेत् ॥ २२.१४४ ॥ "चत्वारि श्रुंगेत्युच्चार्य सर्यौषध्युदकैश्चरेत् । "धाता विधाऽतेत्युच्चार्य पुण्यपुष्पैरथार्चयेत् ॥ २२.१४५ ॥ "ऋचो यजूंषिऽ मन्त्रेण चूर्णेन स्नापयेद्गुरुः । "स एष देवऽ उच्चार्य उद्वर्तेत कषायकैः ॥ २२.१४६ ॥ "स सर्ववेत्ताऽमन्त्रेण तीर्थोदेश्चाभिषेचयेत् । "सामैश्च सांगऽमित्युक्त्वा मार्जयेच्च वनौषधीः ॥ २२.१४७ ॥ हारिद्रचूर्णैस्संस्नाप्य "अतो देवाऽ इति ब्रुवन् । "त्वं स्त्रीपुमाऽनित्युच्चार्य लेपयेत्सर्वगन्धकैः ॥ २२.१४८ ॥ स्नापयेदुष्णतोयेन "आपो हिऽष्ठेति चोच्चरन् । नित्यस्नानोक्तमार्गेण शुद्धोदैरभिषेचयेत् ॥ २२.१४९ ॥ तत्तद्द्रव्याभिषेकान्ते स्नानवस्त्रं विसृज्य च । धौतं समर्पयेच्चैव पूजयेदष्टविग्रहैः ॥ २२.१५० ॥ "मित्रस्सुवर्णऽइत्युक्त्वा प्लोतेन परिमृज्य च । वस्त्राद्यैस्समलङ्कृत्य पूर्वोक्तेनैव कारयेत् ॥ २२.१५१ ॥ "त्वं भूर्भुवस्त्वंऽमन्त्रेण मूलगन्धेन मार्जयेत् । "बुद्धिमताऽमित्युच्चार्य चालङ्कुर्याच्च धातुभिः ॥ २२.१५२ ॥ पाद्यमाचमनं दद्यादालयस्य प्रदक्षिणम् । स्वस्तिसूक्तादिसूक्तं च जप्त्वाचैवाथ कारयेत् ॥ २२.१५३ ॥ अर्चास्थाने तु संस्थाप्य पूजयित्वोक्तमार्गतः । महाहाविः प्रभूतं वा यथाशक्ति निवेदयेत् ॥ २२.१५४ ॥ निष्काधिकं सुवर्णं च सवत्सामपि गां तथा । गुरवे दक्षिणां दद्यात्स्नापकानां तथैव च ॥ २२.१५५ ॥ तत्रान्यकर्मकर्तॄणां यथाशक्त्याच दक्षिणाम् । दद्यात्कर्मफलं प्राप्य यजमानोऽथ भक्तिमान् ॥ २२.१५६ ॥ स्नपनायत्तमुद्दिष्टधान्यद्रव्यांबराणि च । पात्राणि च तथान्यानि स्नपनान्ते धृतानि च ॥ २२.१५७ ॥ निवेदयित्वा गुरवे प्रणमेच्च मुहुर्मुहुः । ध्रुवार्चना यदि स्यात्तु प्रमुखे स्नपनं चरेत् ॥ २२.१५८ ॥ वितानस्तंभवेष्टादिपूर्ववत्कारयेत्ततः । पञ्चहस्ताभेदेषु पङ्क्तिं कुर्याद्विधानतः ॥ २२.१५९ ॥ मध्ये कुभं च स्न्यस्य अर्चयित्वा च पूर्ववत् । ध्रुवपीठस्य परितः कूर्चयुक्तं चतुर्दिशम् ॥ २२.१६० ॥ जयादीरर्चयित्वातु मृदादीन् पूर्ववत्क्रमात् । तत्पात्रं संप्रगृह्यैव पाणिभ्यां क्षालनं चरेत् ॥ २२.१६१ ॥ अथ वा पात्रमादाय पूरयित्वातु सन्न्यसेत् । द्रव्यं प्रति विशेषेण पूरयित्वार्ऽचयेत्क्रमात् ॥ २२.१६२ ॥ पाद्यं चाचमनं पुष्पं गन्धं धूपं तथैव च । दीपमर्घ्यं तथाचाममर्चयित्वाष्टविग्रहैः ॥ २२.१६३ ॥ देवदेवं नमस्कृत्य प्रदक्षिणमथाचरेत् । देवस्य पुरतस्तिष्ठेद्द्रव्यमादाय पाणिना ॥ २२.१६४ ॥ गौशृङ्गाग्रं समुद्धृत्य पूर्वोक्तविधिना क्रमात् । पुनः प्रदक्षिणं कृत्वा पूर्वस्थाने तु विन्यसेत् ॥ २२.१६५ ॥ ध्रुवेणाभ्यस्तरे चैव बिंबैरन्यैस्सहैवतु । पूर्वमुक्तं ध्रुवार्चा चेत्स्नपनं सम्यगाचरेत् ॥ २२.१६६ ॥ यथोक्तेनैव मार्गेण यथाविधि समर्चयेत्चत्वारिंशत् ॥ २२.१६७ ॥ गव्यं श्रुतं दधि मधु क्षीरे स्याद्रत्न तोयकम् ॥ २२.१६८ ॥ जप्यं द्वादशैतान् समाहृत्य ॥ २२.१६९ ॥ न्तु उपस्नानमेकं हारिद्र मध्यमोत्तमम् ॥ २२.१७० ॥ उपस्नानवि माधमं चैव स्नपनं तु विधीयते ॥ २२.१७१ ॥ स्तथा कुर्यात्कलशैस्तु चतुर्दशैः ॥ २२.१७२ ॥ मध्यमे मध्यमं चैव मध्यमाधम विधीयते ॥ २२.१७३ ॥ सप्तभिः कलशैः मध्यमं तेषां षड्भिः कल ॥ २२.१७४ ॥ धममुच्यते चतुर्दशैः ॥ २२.१७५ ॥ गव्यं घृतं क्षीरमक्ष पस्नानं तथैव च ॥ २२.१७६ ॥ एतै दशैतान् कलस्याचेत्क्र? त ॥ २२.१७७ ॥ पूर्वोक्तेनैव कलशस्यचेत् ॥ २२.१७८ ॥ दिक्षष्ट गव्यैस्तु ऐन्द्रे घृतमि ॥ २२.१७९ ॥ म्येगन्धोदकं तथा पयो त्यां वारुण्यामक्षतोदकम् ॥ २२.१८० ॥ सौम्ये जप्योदकं क्रमात्व्यस्तुसप्तभिः कलशैः ॥ २२.१८१ ॥ चत्रिषट्योणस्थलं सप्तभिः कलशोक्तवत् ॥ २२.१८२ ॥ नवकोष्ठन्तु तत्र वै म भश्च कुशांभसा ॥ २२.१८३ ॥ जप्या विन्यसेतेवमेवं येत् ॥ २२.१८४ ॥ दक्षिणायनकालेतु उत्तरायणकालेतु पश्चात् ॥ २२.१८५ ॥ ये तु संप्राप्ते तत्सूर्येंदूपरागेषु स्नपनं देवदेवस्य कृत्वा त ॥ २२.१८६ ॥ इति श्रीवैखानसे भगवच्छास्त्रे भृगुप्रोक्तायां संहितायां प्रकीर्णाधिकारे द्वाविंशोऽध्यायः. _____________________________________________________________ अथत्रयोविंशोऽध्यायः. अथत्रयोविंशोऽध्यायः. उत्सवचक्रम् अतःपरं प्रवक्ष्यामि पूर्वोद्दिष्टं सुदर्शनम् । सुदर्शनस्य चोद्दिष्टं प्रमाणं च विशेषुः ॥ २३.१ ॥ महाबेरस्य मानेन नवाङ्गुलमिति स्मृतम् । तस्य वृत्तं समुद्दिष्टमराश्चैव तु त्षङ्गुलम् ॥ २३.२ ॥ वृत्तं पट्टस्य विस्तारमेकाङ्गुलमुदाहृतम् । तन्मध्ये चारकूटं स्यादेकांगुलमुदाहृतम् ॥ २३.३ ॥ अरा द्वादश उद्दिष्टा एतच्चक्रस्य वै तथा । अधमं मार्गमालोक्य प्रोक्तमेतत्प्रमाणकम् ॥ २३.४ ॥ तत्र मध्यं प्रमाणन्तु वक्ष्यामि श्रुणुतादरात् । महाबेरस्य हस्तेन द्वादशांगुलमुच्यते ॥ २३.५ ॥ तद्वृत्तं तस्य हस्तेन द्वादशांगुलमुच्यते । वृत्तं तस्य समुद्दिष्टमारकूटं द्वियङ्गुलम् ॥ २३.६ ॥ वृत्तपट्टस्य विस्तारमेकांगुलमुदाहृतम् । अष्टौ च चतुरङ्गुल्या? दुद्दिष्टाश्च समासतः ॥ २३.७ ॥ अराष्षोडश उद्दिष्टाश्चक्रस्यैव तु मध्यमे । कूर्मं वाप्यथ सिंहं वा पद्मं वाप्यथ कालयेत् ॥ २३.८ ॥ अधस्ताद्योगदण्डं च एकाङ्गुलमुदाहृतम् । उभयोः पादयोश्चैव सिंहेनैव तु कारयेत् ॥ २३.९ ॥ आयसेनैव वा कुर्याद्दारुणा वा तथैव च । सर्वत्र सुंदरं कुर्यात्सजानन? विधीयते ॥ २३.१० ॥ एतल्लक्षणमुद्गिष्टं चक्रस्यैव प्रमाणतः । मधूच्छिष्टेन विधिना कुर्याद्वै तत्र तत्र तु ॥ २३.११ ॥ विदध्याद्देव देवस्य हेति प्रवरमुत्तमम् । प्रमाणं च तु सर्वत्र तत्त्रिभागं विशेषतः ॥ २३.१२ ॥ स्थापनां मूर्तिमन्त्रं च चक्रस्य श्रुणुतर्षयः । अथातस्संप्रवक्ष्यामि वैष्णवं चक्रमुत्तमम् ॥ २३.१३ ॥ त्रिविधं चक्रमुद्दिष्टं ब्रह्मणा परमेषिना । कालचक्रं वीरचक्रं सहस्रविकचं क्रमात् ॥ २३.१४ ॥ करोद्धृतं वीरचक्रं देवस्य मुखमानतः । सर्वाजिनां समूहन्त बजं खत्रयमन्ततः? ॥ २३.१५ ॥ देवस्य मुखमानं स्याद्द्वादशाष्टारचिह्नितम् । ज्वालापञ्चकसंयुक्तं कराग्रे दक्षिणे चरेत् ॥ २३.१६ ॥ मयं महीमयं दिव्यमष्टारं द्वादशारकम् । एभिर्मन्त्रैस्समभ्यर्च्य रक्षार्थं मोक्षशान्तये ॥ २३.१७ ॥ कालचक्रं प्रवक्ष्यामि औत्सवं सर्वशान्तिदम् । ध्रुवबेरमुखायामं द्विगुणायामविस्तृतम् ॥ २३.१८ ॥ वृत्तं च षड्गुणं प्रोक्तं क्षतान्तं तत्सुवृत्तकम् । वृत्तस्य पट्टविस्तारं त्रियङ्गुलमिति स्मृतम् ॥ २३.१९ ॥ षडङ्गुलसमायाममारकूटं तु त्षङ्गुलम् । यवा कारकरा ज्ञेया उभयत्र प्रवेशता ॥ २३.२० ॥ अरकूटेऽथ सिंहं वा मकरं वाथ पद्मकम् । ज्वालात्रिकं वा कर्तव्यं ज्वालापञ्जकमेव वा ॥ २३.२१ ॥ शताष्टारं निंशतिं वा उत्तमे सम्यगाचरेत् । चतुष्पञ्चद्विपञ्चाशन्मध्यमे समुदाहृतम् ॥ २३.२२ ॥ द्वात्रिंशद्वा चतुर्विंशदधमे संप्रयोजयेत् । एवं स्यात्कालचक्रन्तु उत्सवार्थं प्रकल्पयेत् ॥ २३.२३ ॥ चक्राधस्तात्तथा नालं द्वादशांगुलमाचरेत् । चक्रद्विगुणदण्डन्तु खदिरं चासनं भवेत् ॥ २३.२४ ॥ याज्ञिकैरथ वा वृक्षैः कारयेदत्र शासनम् । षडङ्गुलायतविस्तारां फलकां संप्रकल्पयेत् ॥ २३.२५ ॥ वृत्तं वा चतुरश्रं वा लंबदामसमायुतम् । त्रियङ्गुलसमुत्सेधं संधयेत्तरिकोपरि ॥ २३.२६ ॥ तदधस्तात्तु ताटिं च कुंभलंबकसंयुतम् । अष्टांगुलसमुत्सेथं कारयेदिति शासनम् ॥ २३.२७ ॥ अन्तस्सुषिरसं कृत्वा?दण्डाग्रे चाध एव वा । कूरदण्डेन संयोज्य फलकोफलपद्मकम् ॥ २३.२८ ॥ लता प्रस्थतरं वापि कारयेदिति शासनम् । पद्मं तु त्षङ्गुनायामं विस्तारमधिकांगुलम् ॥ २३.२९ ॥ पालिकोपरि सिंहौ द्वावुभयोः पार्श्वयोश्चरेत् । चक्रं संवहमानौ तौ यावत्तत्र च कालयेत् ॥ २३.३० ॥ तयोर्मानं समुद्दिष्टं पञ्चांगुलमिति स्मृतम् । दण्डमध्येन कुर्यात्तद्दण्डमूले षडङ्गुलम् ॥ २३.३१ ॥ पीठं षडङ्गुलोत्सेधं चतुरङ्गुलमेव वा । वृत्तं वा चतुरश्रं वा सरोजदलकर्णयुक् ॥ २३.३२ ॥ षाढशांगुलमायामं विस्तारं संप्रकीर्तितम् । कर्णिकामध्यमे नालमष्टांगुल समायुतम् ॥ २३.३३ ॥ नालदण्डेन संयोज्य बन्धयेदष्टबन्धनैः । हारवत्सुदृढं कुर्यादवक्रमृजुसंयुतम् ॥ २३.३४ ॥ एवं कृत्वा यथामार्गं स्थापनं सम्यगाचरेत् । सहस्रविकचं चक्रं पुरुषाकारमाचरेत् ॥ २३.३५ ॥ रक्ताभं नीलवर्णं च नवतालेन मानतः । द्विभुजं मुकुटोद्बन्धं चक्रचूलिनमाचरेत् ॥ २३.३६ ॥ सुदर्शनं तथा चक्रं सहस्रविकचं तथा । अनपायिनमित्येवं मूर्तिमन्त्रैस्समर्चयेत् ॥ २३.३७ ॥ शतधारं कालचक्रं सर्वासुरविमर्दनम् । सर्वविघ्नहरं चेति कालचक्रं समर्चयेत् ॥ २३.३८ ॥ कालचक्रं प्रवक्ष्यामि सर्वासुरविनाशनम् । षट्ट्रिंशदङ्गुलं वापि षट्पञ्चाशच्छताष्टकम् ॥ २३.३९ ॥ विस्तारायामतोमानमुत्तमाधममध्यमम् । मानांगुलेन तद्ग्राह्यं तक्षकं वर्तुलं भवेत् ॥ २३.४० ॥ सहस्रारा अष्टशतं त्रिशतं षष्टिमेव वा । अराःक्रमेण संयुक्ता उत्तमाधममध्यमाः ॥ २३.४१ ॥ चतुर्विंशत्तथा ज्वालाष्षोडश द्वादशाथ वा । दशसप्ताङ्गुलं पञ्च वृत्तं पट्टस्य संयुतम् ॥ २३.४२ ॥ चक्रप्रभेहकं भागं पीठं पद्मकमाचरेत् । दण्डादीनि विना तस्य पद्मं पीठस्ययोजयेत् ॥ २३.४३ ॥ एतदुक्तं महच्चक्रं सर्वारिष्टविनाशनम् । चक्रस्य स्थापनं मार्गं प्रवक्ष्यामि तपोधनाः ॥ २३.४४ ॥ अङ्कुरानर्पयित्वातु कारयेदक्षिमोचनम् । तथाधिवासनं कृत्वा गव्यानामधिवासनम् ॥ २३.४५ ॥ यागशालां तथा कृत्वा भूषयेत्तोरणान्वितम् । शय्यावेदिं च तन्मध्ये चाध्यर्धायामविस्तृतम् ॥ २३.४६ ॥ तत्तुर्यांशोदयां वेदिं कृत्वा तां चतुरश्रकम् । प्राच्यामाहवनीयं च कुण्डमौपासनाग्निवत् ॥ २३.४७ ॥ प्राच्यां तु स्नानवेदिं च कृत्वाचैव विचक्षणः । अथाधिवासितं चक्रमादायेवाभिषिच्य च ॥ २३.४८ ॥ अग्निं संसाध्य पूर्वोक्तं कुंभं संसाथयेत्पुनः । चक्रस्याभिमुखे कुंभं धान्यपीठोपरिक्रमात् ॥ २३.४९ ॥ सन्न्यस्य तु गुरुर्धीमान् यदितं भावयेत्तथा । ग्रामं प्रदक्षिणं कृत्वा शालायां स्थापयेत्तथा ॥ २३.५० ॥ हृत्पद्ममध्ये चक्रेशं द्विभुजं प्रांजलीकृतम् । रक्ताभं कृतवस्त्राभं ध्यात्वासम्यक्प्रपूर्य च ॥ २३.५१ ॥ तस्मात्कुंभे समावाह्य पूर्वोक्तमभिपूज्य च । वेद्यां संस्नाप्य तच्चक्रं कलशैस्नापयेत्तदा ॥ २३.५२ ॥ समल कृत्य वक्त्राद्यैर्धान्यपीठोपरिक्रमात् । सन्न्यस्य कुंभं संयुक्तं बद्ध्वा प्रतिसरं ततः ॥ २३.५३ ॥ शाययित्वा तथा चक्रं हौत्रं सम्यक्प्रशंस्य च । चक्राङ्गान्यायधांगानि मूर्तिमन्त्रान् प्रचक्षते ॥ २३.५४ ॥ पश्चादग्निं परिस्तीर्य वैष्णवैर्मन्त्र संयुतैः । "भूमाननोऽग्रे वन्द्यानऽहुत्वा गायत्रिसंयुतम् ॥ २३.५५ ॥ शतमष्टोत्तरं हुत्वा रात्रिशेषं व्यपोह्य च । स्नात्वा प्रभाते पूर्वोक्तं चक्रमादाय पूर्ववत् ॥ २३.५६ ॥ ग्रामं प्रदक्षिणं कृत्वा कुंभेनासादयेत्तथा । मण्डपे दक्षिणे पार्श्वे कृतपीठे विशेषतः ॥ २३.५७ ॥ रत्नं निक्षिप्य पूर्वोक्तमन्त्रेण स्थापयेत्तदा । चक्रमन्त्रौ सुसन्न्यस्य बीजान् सन्न्यस्य पूर्ववत् ॥ २३.५८ ॥ कुंभाच्छक्तिं तथावाह्य पूजयेदासनादिभिः । पायसाद्यैर्नि वैद्याथ गुरुं सम्यक्प्रपूजयेत् ॥ २३.५९ ॥ इति श्रीवैखानसे भगवच्छास्त्रे भृसुप्रोक्तायां संहितायां प्रकीर्णाधिकारे त्रयोविंशोऽध्यायः. _____________________________________________________________ अथ चतुर्विंशोऽध्यायः. उत्सवः अतःपरं प्रवक्ष्यामि देवेशस्योत्सवक्रमम् । वर्षदं सर्वलोकस्य शान्तिदं सर्वपुष्टिदम् ॥ २४.१ ॥ राज्ञां विजयदानाय शत्रूणां नाशहेतवे । व्याधिदुर्भिक्षशा न्त्यर्थमुत्सवं कारयेद्बुधः ॥ २४.२ ॥ कालश्रद्धानिमित्तार्था(ख्या)उत्सवास्त्रिविधास्स्मृताः । मासेतु यस्मिन् कस्मिंश्छित्प्रतिसंवत्सरं चरेत् ॥ २४.३ ॥ एकस्मिन् समयेचैव स तु कालोत्सवो भवेत् । इष्टमासे दिने चेष्टे श्रद्धया क्रियते तु यः ॥ २४.४ ॥ स तु श्रद्धोत्सवोज्ञेय स्तस्मात्कालोत्सवो गुरुः । भयप्रदनिमित्तेषु तथानावृष्टिकादिषु ॥ २४.५ ॥ क्रियते तत्र शान्त्यर्थं स निमित्तोत्सवस्स्मृतः । प्रतिष्ठादिवसे तीर्थं प्रति संवत्करं चरेत्, ॥ २४.६ ॥ कालोत्सव इतिज्ञेयश्शान्त्यर्थं सप्रकीर्तितः । राजराष्ट्राभिवृद्ध्यर्थं राज्ञां चैवाभिवृद्धये ॥ २४.७ ॥ अत्मनश्चैव पुत्राणां कुर्यादुक्तेषु मङ्गलम् । राज्ञो जन्मदिने चैव यस्स श्रद्धोत्सवो भवेत् ॥ २४.८ ॥ अद्भुताद्युद्भवेशान्तिस्सतु नैमित्तिकोत्सवः । ग्रामादौ चोत्सवस्स्याच्चेत्क्रमेणैवं तु कारयेत् ॥ २४.९ ॥ सर्वदुःखार्तिशान्त्यर्थमादौ काल्युत्सवं चरेत् । अन्वेषां क्रूरदेवानां शिष्टभूतगणस्य च ॥ २४.१० ॥ शान्त्यर्थं कारयेत्पश्छास्त्रोक्तं शङ्करोत्सवम् । विशस्त्रिगणसान्त्यर्थं सौम्यमार्गेण वास्तुषु ॥ २४.११ ॥ चक्रसेनेश संयुक्तं कुर्याद्दुर्गोत्सवं पुनः । सर्वेषामपि देवानां मुनीनामपि सर्वशः ॥ २४.१२ ॥ पितॄणां च ग्रहाणां च तत्पत्नीनां च सर्वशः । द्विजानामपि शान्त्यर्थं लोकानामपि सर्वशः ॥ २४.१३ ॥ पुष्ट्यर्थं कारयेत्पश्चाद्देवेशस्योत्सवं क्रमात् । अन्यधा चेद्विनाशस्स्यात्सर्वेषां च न संशयः ॥ २४.१४ ॥ तस्मात्परिहरेद्विद्वान् ग्रामादौतं विशेषतः । विषुवायनभूपर्क्षप्रतिष्ठाकर्तृभेषु च ॥ २४.१५ ॥ ग्रहणेमासनक्षत्रे विष्णुपञ्चदिनेषु च । उत्सवस्यान्तदिवसे तेषु तीर्थं प्रकल्पयेत् ॥ २४.१६ ॥ एतेष्वेकं परिग्राह्यं यजमानस्य चेच्छया । विषुवे चायने चैव ग्रहणे सोमसूर्ययोः ॥ २४.१७ ॥ तत्तत्काले प्रकुर्वीत तीर्थस्नारन्तु नान्यधा । अन्यर्क्षेष्वथ पूर्वाह्णेमध्याह्ने वा गुणान्विते ॥ २४.१८ ॥ एकस्मिन्नेव मासेतु यदि तीर्थदिनद्वयम् । तयोरन्त्यदिने तीर्थमिति पूर्वजदर्शनम् ॥ २४.१९ ॥ तदेव यदि सूर्यस्य विद्धं चेत्संक्रमादिभिः । वर्जनीयं तथा पूर्वं प्रशस्तमभिधीयते ॥ २४.२० ॥ वारद्वयानुषक्ते चेत्तिथौ स्यात्तुपरे तथा । अधिमासः परित्याज्यः कालोत्सवविधौहरेः ॥ २४.२१ ॥ अर्कवारर्क्ष संयोगस्सर्वदा संप्रशस्यते । श्रवणद्वादशीयोगस्सर्वकर्मफलप्रदः ॥ २४.२२ ॥ योगाश्च सुप्रशस्तास्स्युस्सिद्धामृतवराह्वयाः । तिथिद्वयानुषक्तं चेऽन्नक्षत्रं स्यात्परेऽहनि ॥ २४.२३ ॥ परस्मिन् दिवसे स्याच्चेद्यावच्च दशनाडिकाः । हीनं चेत्पूर्वदिवसे संकल्प्यावभृथं चरेत् ॥ २४.२४ ॥ उत्तमं तु त्रिसप्ताहं मध्यमं स्याच्चतुर्दश । नवाहं वाथसप्ताहमधमं परिचक्षते ॥ २४.२५ ॥ त्रिगुणान्युत्सवाहानि कृत्वादौ घोषणं चरेत् । मध्यमे द्विगुणादौ स्यादुत्सवादि दिनेऽधमे ॥ २४.२६ ॥ अथवावभृथात्पूर्वमेकविंशतिके दिने । ध्वजस्यारोहणं कृत्वा सर्वमुत्सवमाचरेत् ॥ २४.२७ ॥ राहुदर्शनसंक्रान्त्योः स्नानं श्रेष्ठं निशास्वपि । क्रियां समाप्य मध्याह्ने रात्रौचेत्सकलं बुधः ॥ २४.२८ ॥ तावत्कालं विनोदेव नीत्वा तत्तीर्थमाचरेत् । पक्षन्त्रयोदशाहं वा दिनान्येकादश क्रमात् ॥ २४.२९ ॥ नवाहं वाथ सप्ताहं पञ्चाहमथ वा पुनः । त्रिदिनं द्विदिनं चैव कुर्यादेकाहमेव वा ॥ २४.३० ॥ न ध्वजारोहणं कुर्यात्त्षहादौतु विशेषतः । उत्सवस्य दिनादौतु घोषये द्विधिपूर्वकम् ॥ २४.३१ ॥ घोषणादिवसात्पूर्यं कालयेदङ्कुरार्ऽपणम् । ध्वजदण्डं ततोवक्ष्ये विप्रादीनां यथाक्रमम् ॥ २४.३२ ॥ वेणुं च जातिवृक्षं च चंपकं क्रमुकं तथा । ध्वजदण्डार्थमाहृत्य सर्वेषां क्रमुकं तु वा ॥ २४.३३ ॥ अन्यैर्वाशुभवृक्षैर्वाकारयेदिति के च न । चतुर्विंशाङ्गुलं नाहं ध्वजदण्डमथोत्तमम् ॥ २४.३४ ॥ तस्मात्तु द्व्यङ्गुलं हीनं ध्वजदण्डन्तु मध्यमम् । विंशत्यङ्गुलनाहे तदधमं दण्डमुच्यते ॥ २४.३५ ॥ यथालाभपरीणाहमवक्रं परिगृह्य च । ध्वजदण्डमृजुं कुर्वाद्विमानसमयायतम् ॥ २४.३६ ॥ विमानस्याधिकं कुर्यात्पादहीन मथार्ऽधकम् । अध्यर्थं वाधिपादं वा मूलादग्रं क्रमात्कृशम् ॥ २४.३७ ॥ वेणुकं यदि संग्राह्यं भूतवेदांगुलायतम् । षडङ्गुलपरीणाहं वेणुदण्डं सुसंस्थितम् ॥ २४.३८ ॥ तन्मध्ये द्वियमं हित्वा तन्मध्ये वलयं दृढम् । तालद्वयमथायामं यममात्रन्तु विस्तृतम् ॥ २४.३९ ॥ उत्सेधं भागमुद्दिष्टं दारुभिर्याज्ञिकैस्तुवा । तच्चतुर्थांशकं कृत्वा मूलेऽग्रेद्व्यंशकन्त्यजेत् ॥ २४.४० ॥ मध्ये द्व्यंशं तु कर्तव्यं सुषिरद्वयसंयुतम् । शकलानि त्रीणियोज्य मूलमध्याग्रतःक्रमात् ॥ २४.४१ ॥ प्रक्षाल्यमूलमन्त्रेण तन्मन्त्रैःप्रोक्षणं चरेत् । दशदर्भयुतं कूर्चमग्रेचैव तु योजयेत् ॥ २४.४२ ॥ दर्भमालान्तरावेष्ट्य दण्डोचाश्वद्थपत्रयुक् । मध्याङ्गुलिपरीणाहं दण्डद्विगुणमायतम् ॥ २४.४३ ॥ दण्डाग्रे तत्र संयोज्य रज्जुं तत्रैव बन्धयेत् । संव्यपोह्य चतुस्तालं पृष्ठे यूधाधिपस्यतु ॥ २४.४४ ॥ खानयित्वा ध्वजस्थानं त्रितालं गाढयेव च । मेदिनीं तु समभ्यर्च्य रत्नं बीजानि च क्षिपेत् ॥ २४.४५ ॥ स्थापयित्वा ध्वजं तत्र ध्वजमन्त्रेण मन्त्रवित् । देवदेवं समीक्ष्यैव यष्टिं तत्प्र मुखे न्यसेत् ॥ २४.४६ ॥ ध्वजदण्डमृजुं कुर्याद्दृढं तत्रैव कारयेत् । मूलं त्रितालमुत्सेधं तदध्यर्धन्तु विस्तृतम् ॥ २४.४७ ॥ तदूर्ध्वे रत्निमात्रन्तु साष्टपत्रं सकर्णिकम् । शुद्धकार्पासवस्त्रन्तु समाहृत्य नवं दृढम् ॥ २४.४८ ॥ उत्तमं षोडशं हस्तं मध्यमं तिथिहस्तकम् । अधमं चतुर्दशं हस्तं त्रिविधं वस्त्रमुच्यते ॥ २४.४९ ॥ पञ्चतालं चतुस्तालं त्रितालं विस्तृतं क्रमात् । अग्रं पादं विदित्वा तु मुखं पृष्ठं तथैव च ॥ २४.५० ॥ चतुर्भागं पटं कुर्यादेकभागं शिरो भवेत् । वीशस्थानं द्विभागं तु पुच्छमेकांशमुच्यते ॥ २४.५१ ॥ मध्यमस्याग्रमूलं च यष्टिं सम्यक्प्रयोजयेत् । तन्मध्ये तु लिखेद्वीशं पञ्चवर्णैरलङ्कृतम् ॥ २४.५२ ॥ ध्रुवबेरस्य कण्ठास्त मुत्तमे चोत्तमं भवेत् । अधमेऽन्त्यन्तु नाभ्यन्तं तयोर्मध्येष्टधा भवेत् ॥ २४.५३ ॥ एकै मगथमान्तं च नवधा मानमुच्यते । ध्वजदण्डस्य वीशस्य षट्शुभानि निरीक्षयेत् ॥ २४.५४ ॥ यजमानानुकूले च नक्षत्रे च विशेषतः । नवार्धतालमानं वा नवतालमथापि वा ॥ २४.५५ ॥ अतिभङ्गं नतं चैव भङ्गत्रयसमन्वितम् । वामपादे समाकुञ्च्य दक्षिणं संप्रसार्य च ॥ २४.५६ ॥ किञ्चित्संकुचितं पीठात्पर्ष्णीपार्श्वं समुद्धृतम् । पक्षद्वयसमायुक्तं करण्डमुकुटान्वितम् ॥ २४.५७ ॥ श्यामं श्वेतं तथा कृष्णं रक्तं पीतं तथैव तु । एतैस्तु पञ्चभिर्वर्णैरनुरूपैस्तु शोभनैः ॥ २४.५८ ॥ गरुडं प्राञ्जलिं कुर्यात्किञ्चित्कं प्रेक्षयेद्बुधः । भूषणैरष्टनागैश्च वामहस्ते त्वनन्तकः ॥ २४.५९ ॥ वासुकिर्यज्ञ सूत्रन्तु कटीसूत्रन्तु तक्षकम् । हारं कर्कोटकं चैव पद्मं दक्षिणकर्णके ॥ २४.६० ॥ महापद्मं वामकर्णे शङ्ख च शिरसि क्रमात् । गुलिकं दक्षिणे हस्ते क्रमात्सर्वविभूषणम् ॥ २४.६१ ॥ मूर्ध्नश्चोपरि कर्तव्यं श्वेतछत्रं तु सुन्दरम् । पार्श्वयोरुभयोश्चापि चामरद्वय संयुतम् ॥ २४.६२ ॥ पादपार्श्वद्वयेचैव दीपद्वय समन्वितम् । पूर्णकुंभं तयोर्मध्ये लिखित्वा तु विशेषतः, ॥ २४.६३ ॥ तस्याधस्शङ्खचक्रे च समालिख्य विशेषतः । मुक्तादामाद्यलङ्कृत्य पार्श्वयोः कदलीकृतम् ॥ २४.६४ ॥ पूर्वस्मिन्नेव दिवसे कृत्वा नयनमोक्षणम् । देवालयस्याभिमुखे प्रपायां मण्डपे-थ वा ॥ २४.६५ ॥ पञ्चवर्णैरलङ्कृत्य वितानस्तंभवेष्टनैः । शालिराशिं च कृत्वैव तत्पटन्तु सुसन्न्यसेत् ॥ २४.६६ ॥ वास्तुहोमं ततःकृत्वा पर्यग्नीकरणं चरेत् । पुण्याहं वाचयित्वैव प्रोक्षयेत्पञ्चगव्यकैः ॥ २४.६७ ॥ ऐशान्यामग्निकुण्डे तु चौवासन विधानतः । आघारं विधिवद्धुत्वा वैष्णवं च सुहूयते ॥ २४.६८ ॥ हैमपात्रस्थवर्णेन हैमतूल्या विशेषतः । तन्मन्त्रं च समुच्चार्य नयनोन्मिलनं चरेत् ॥ २४.६९ ॥ अङ्गहोमं ततःकृत्वा दर्शनीयैश्च दर्शयेत् । विष्णुसूक्तं च हुत्वातु तथा पुरुषसूक्तकैः ॥ २४.७० ॥ व्याहृत्यंन्तं च हुत्वातु ततः कुंभं प्रगृह्यच । तन्तुना परिवेष्टै व कूर्चयुक्तं सहाक्षतम् ॥ २४.७१ ॥ वदन्वै विष्णुगायत्रीं गायत्रीं गरुडस्य च । "इषे त्वोर्ज्येऽत्वादि जपन् "आप उन्दन्त्विऽति क्रमात् ॥ २४.७२ ॥ ततः पुरुषसूक्तं च मन्त्रानपि च वैष्मवान् । कूर्चेनैव तु तत्तोयमभिमृश्य समाहितः ॥ २४.७३ ॥ तदंबुना कुशाग्रेण प्रोक्षणैः प्रोक्षणं चरेत् । अपो हिरण्यवर्णाभिः पवमानादिभिस्त्रिभिः ॥ २४.७४ ॥ "शन्नो देवीऽरभीत्युक्त्वा पुरुषसूक्तेन वैष्णपैः । शुद्ध्यर्थं प्रोक्षयित्वा तु पुण्याहमपि वाचयेत् ॥ २४.७५ ॥ परिषिच्य पावकं पश्चात्तन्मन्त्रेण सुहूयताम् । सायमर्चावसाने तु कुंभपूजां समाचरेत् ॥ २४.७६ ॥ कलशैस्सप्तभिः प्रोक्ष्य बद्ध्वाप्रतिसरं ततः । अण्डजादीनि पञ्चैव धान्यान्यास्तीर्य वस्त्रयुक् ॥ २४.७७ ॥ शयने शाययेच्चैव देववादे शिरस्तथा । हौत्रं प्रशंस्य तत्काले होता हौत्रक्रमेण वै ॥ २४.७८ ॥ वैनतेयस्य मन्त्रेण तन्मूर्त्यावाहनं चरेत् । मूर्तिमन्त्रैस्समावाह्य निरुप्याज्याहुतीर्यजेत् ॥ २४.७९ ॥ "शतधारं कदाऽवीति वीशमन्त्रमुदाहृतम् । तथाद्वादशपर्यायं वैष्णवं च सुहूयताम् ॥ २४.८० ॥ व्याहृत्यन्तं च कृत्वा तु रात्रिशेषं व्यपोह्य च । आग्नेय्यां न्यस्य भेर्यां च नन्दिकेश्वरमाह्वयेत् ॥ २४.८१ ॥ पुनः प्रभाते धर्मात्वास्नात्मास्नानविधानतः । मुहूर्ते समनुप्राप्ते हृदि बीजाक्षरं न्यसेत् ॥ २४.८२ ॥ कुंभाच्छक्तिं समावाह्यचार्ऽचयित्वा विधानतः । पुण्याहं वाचयित्वैव समभ्यर्च विवेदयेत् ॥ २४.८३ ॥ अग्निं प्रज्वाल्य तन्मन्त्रैर्जुहुयाद्दशशःक्रमात् । अन्तहोमं वाचयित्वैव समभ्यर्च्य निवेदयेत् ॥ २४.८४ ॥ उपलिप्य पटं पश्चात्पञ्चवर्णैरलङ्कृतम् । धूपदीपैरलङ्कृत्य शालिपीधं प्रकल्पयेत् ॥ २४.८५ ॥ चतुरश्रं समं कृत्वा विस्तारं चैकभागकं । शाल्यर्धं तण्डुलं प्रोक्तं तदर्धं तिलमाहरेत् ॥ २४.८६ ॥ चक्रं पश्चिमतो न्यस्य धान्यपीठोपरि स्थितम् । तस्यैवोत्तरतः पार्श्वेविष्वक्सेनं तथैव च ॥ २४.८७ ॥ धान्यपीठे सुसंस्थाप्य गरुडं पश्चिमामुखम् । न्यस्य भेरीं च पार्श्वे यष्टिं सुसन्न्यसेत् ॥ २४.८८ ॥ देवदेवं सुसंपूज्य द्विगुणं पूजयेत्ततः । द्विगुणं हविरेवोक्तं देवीभ्यां च तथा भवेत् ॥ २४.८९ ॥ चक्रादीनां पृथक्कुर्यादासनादीन् पृथक्पृथक् । नन्दीश्वरं तथाभ्यर्च्य हविर्भिश्च निवेदयेत् ॥ २४.९० ॥ आचार्यो यष्टिमादाय "भूर्भुवस्सुवऽ रीरयन् । "उप श्वासयऽ मन्त्रं च जप्त्वा भेरीं सुताडयेत् ॥ २४.९१ ॥ वादकस्तु शुचिर्भूत्वा वस्त्रमाल्याद्यलङ्कृतः । सर्ववाद्यसमायुक्तं भेरीमादाय शास्त्रवित् ॥ २४.९२ ॥ शास्त्रोक्तेन विधानेन चक्राग्रेताडयेत्तदा । द्रोणैर्द्रेणार्धकैर्वापि आढकैर्वाथ तण्डुलैः ॥ २४.९३ ॥ पाचयित्वा कटाहेतु प्रक्षिपेद्बलिमुत्तमम् । मुद्गनिष्पावतिल्वांश्च लाजापूपौप्रगृह्य च ॥ २४.९४ ॥ कटाहे तु सुसन्न्यस्य शिष्यस्तं शिरसा वहेत् । अभिवन्द्य ध्वचं पूर्वमादाय समलङ्कृतम् ॥ २४.९५ ॥ रथे वा शिबिकायां वा मन्त्रेणारोप्य मङ्गलैः । सह पुष्पं बलिं पात्रे संगृह्यानुगतं पुनः ॥ २४.९६ ॥ चक्रवीशामितान् पश्चान्नाथवद्गमयेत्तदा । आचार्यः पुरतो गत्वा सर्ववाद्यसमायुतम् ॥ २४.९७ ॥ गर्भगेहस्थदेवानां ब्रह्मादीनां यथाक्रमम् । द्वारेषु द्वारपालेभ्यो धामपालेभ्य एव च ॥ २४.९८ ॥ अन्येषां परिवाराणां स्वेस्वेस्थाने बलिं क्षिपेत् । आलयस्य बहिर्गत्वा ग्रामे सर्वत्र घोषयेत् ॥ २४.९९ ॥ मध्यमे चालयं यत्र ब्रह्मादीशान्तमाचरेत् । यस्यां दिशि भवेद्धाम तद्दिगादि बलिं क्षिपेत् ॥ २४.१०० ॥ उत्सवभ्रमणं कुर्यात्प्रादक्षिण्यक्रमेण नै । ग्रामं गत्वातु संप्राप्य संधौ संधौ विशेषतः ॥ २४.१०१ ॥ ध्यात्वा बुद्ध्वाधिपान्मन्त्री भूम्यामावाह्य पूर्ववत् । अर्घ्यान्तं च समभ्यर्च्य मुष्ट्यन्नं नामभिर्ददेत् ॥ २४.१०२ ॥ संधौ तत्संधिमादाय प्राच्यां "भूतेभ्यऽइत्यपि । देवेभ्यो दक्षिणे पश्चा द्राक्षनेभ्यश्च पश्चिमे ॥ २४.१०३ ॥ नागेभ्यश्चोत्तरे चाथ ऊर्ध्वायां दिशि चक्रमात् । "ये भूताऽइति मन्त्रेण पूर्वं दद्याज्जलं पुनः ॥ २४.१०४ ॥ पुष्पं बलिं तथाधावं संदद्याच्चक्रसन्निधौ । यस्यां दिशि विमानं वा ब्रह्माद्येव बलिं ददेत् ॥ २४.१०५ ॥ आचरेदथ वा तस्य दिगीशाद्यं बलिं क्रमात् । पश्चिमस्थ विमानं चेद्वरुणादि बलिं क्षिपेत् ॥ २४.१०६ ॥ अथ वा ग्राममध्ये चेद्दत्वा ब्रह्मबलिं पुरः । ततोदिक्पालकानां च तथा भूतबलिं क्षिपेत् ॥ २४.१०७ ॥ दिगीशयोर्द्वयोर्मध्ये महावीथ्यां विशेषतः । संधिर्यदि भवेत्तत्र भूतानां च बलिं क्षिपेत् ॥ २४.१०८ ॥ संध्यन्तरगतां संधिमाचरेद्यदि मोहतः । कर्मणो वास्तुजातानामनर्धं भवति ध्रुवम् ॥ २४.१०९ ॥ प्रागन्तं पश्चिमाद्यं च एकवीथिं च दण्डकम् । कुर्यात्तत्रैव चक्राद्यैः पश्चिमाद्यं बलिं ततः ॥ २४.११० ॥ वरुणनिरृति वायुभ्यः पश्चिमे तु बलिं तथा । धात्रे यमकुबेराभ्यां सधौ मध्ये बलिं क्षिपेत् ॥ २४.१११ ॥ इन्द्रवापकरुद्रेभ्यः प्राच्यां दद्यात्ततः क्रमात् । उदगन्तैकवीथिश्चेद्दक्षिणाद्यं बलिं क्षिपेत् ॥ २४.११२ ॥ यमनीलानलेभ्यश्च दक्षिणे मध्यमेऽपि च । ब्रह्मवारुण शक्रेभ्यश्चोत्तरे च बलिं तथा ॥ २४.११३ ॥ कुबिल पवने शेभ्यो बलिं दद्यात्क्रमेण च । नद्यादिषु विमानं चेत्परितः प्राङ्गणे ददेत् ॥ २४.११४ ॥ पूर्वं क्षिप्त्वा बलिं धीमान् पुनस्तस्य च तस्य च । मन्त्रमुच्चार्य पूर्वोक्तं गद्यपद्यैश्च घोषयेत् ॥ २४.११५ ॥ नगरादौ तु गद्यैश्च प्रशंस्योपांशुना बुधः । तत्तन्मन्त्रं समुच्चार्य घोषयेत्पटहादिभिः ॥ २४.११६ ॥ "प्रियतां भगवान्विष्णुस्सर्वलोकेश्वरो हरिः । ब्रह्मेशाभ्यां च सहितश्चोत्सवे नः प्रसीदतु ॥ २४.११७ ॥ देवाश्च ऋषयस्सर्वे पितरश्च ग्रहादयः । विष्णुलोकगतास्सर्वेनानालोकनिवासिनः ॥ २४.११८ ॥ सर्वेन्ये देवतास्सर्वाः परिवारगणैस्सह । विश्वे ते विष्णुयागेऽर्स्मि समागच्छन्तु सादराः ॥ २४.११९ ॥ हव्यं बलिं समादाय भुञ्जन्तु शुभदायिनःऽ । इत्युक्त्वा घोषयेत्संधौ चक्रस्याभिमुखे पुनः ॥ २४.१२० ॥ ब्रह्माद्यान् स्वस्वतालैश्च घोषयेद्वादकः पुनः । बलिमेवं च निर्वाप्य प्रदक्षिणव शेन तु, ॥ २४.१२१ ॥ जपन्वै शाकुनं सूक्तं प्रविशेदालयं पुनः । बलिशिष्टं भूतपीठे "सर्वभूतेभ्यऽ इत्यपि ॥ २४.१२२ ॥ बलिं तत्तोयशेषं च प्रक्षिपेच्चक्रसन्निधौ । धामप्रदक्षिणं कृत्वा ध्वजाद्यैरनपायिभिः ॥ २४.१२३ ॥ शान्तं चक्रं च चत्स्थाने स्थापयेन्मतिमान् पुनः । ध्वजस्थानं प्रविश्यैव ध्वजमादाय मन्त्रवित् ॥ २४.१२४ ॥ "स्वस्ति दाऽइति मन्त्रेण बध्नीयाद्रज्जुना सह । मन्त्रेण मतिमान् पश्चात्प्राङ्मुखो वा प्युदङ्मुखः ॥ २४.१२५ ॥ दण्डाग्रे योजयेत्पश्चाच्छङ्खकाहलसंयुतम् । समाबद्ध्य पुनस्स्निग्धं "भूरिऽसीति जपं स्ततः ॥ २४.१२६ ॥ अभिमन्त्ष ध्वजं पश्चादासनाद्यैस्समर्चयेत् । पुण्याहं वाचयेत्पश्चान्मुद्गान्नं तु ध्वजस्य च ॥ २४.१२७ ॥ निवेद्य मुखवासं च प्रणाममपि कारयेत् । तत्काले मौद्गिकं चान्नं गरुडस्य निवेदितम् ॥ २४.१२८ ॥ स्त्रियस्सत्बुत्रकामा स्तदश्नीयुर्भक्तिसंयुताः । आयष्मन्तं बलारोग्यवन्तं दान्तं सुलक्षणम् ॥ २४.१२९ ॥ बुद्धिमन्तं यशोवन्तं प्रसूयेयुस्सुतं ध्रुवम् । (ततन्तु तोषयेद्वीशं स्तोत्रैर्ध्यानयुतो गुरुः ॥ २४.१३० ॥ "नमो नमस्ते पक्षीन्द्र स्वाऽध्यायवपुषे नमः । वाहनाय महाविष्णोस्तार्क्ष्यायामित तेजसे ॥ २४.१३१ ॥ गरुडाय नमस्तुभ्यं सर्वसर्पेन्द्रमृत्यवे । वैनतेय महाबाहो महाबल वयोऽधिप ॥ २४.१३२ ॥ विहगेन्द्र नमस्तेऽस्तु समुत्पाटीतकल्पक । आहृतामृतकुंभाय जननीदास्यमोचिने ॥ २४.१३३ ॥ सुरासुरेन्द्रजयिने नागेन्द्राबरणाय ते । यदाधारमिदं सर्वं तदाधाराय ते नमः ॥ २४.१३४ ॥ पक्षौ यस्य बृहत्साम रथन्तरमपि द्वयम् । अक्षिणी चापि गायत्री त्रिवृत्साम शिरस्स्वयम् ॥ २४.१३५ ॥ स्तोम आत्मा नमस्तस्मै वामदेव्याङ्गसम्पदे । नमःप्राणादिवायूनामीशाय गरुडात्मने ॥ २४.१३६ ॥ पक्षीन्द्र पक्षविक्षेपतरङ्गानिलसंपदा । निरस्तासुरसन्नाह समरे शत्रुसूदन ॥ २४.१३७ ॥ प्रतिष्ठितः पटे तुभ्यं नमःप्रणवमूर्तये । कर्मणां सिद्धिमाहूतः कुरुष्व विहगेश्वर ॥ २४.१३८ ॥ दोषानपनयास्माकं गुणानावह सर्वशः । विघ्नानि जहि सर्वाणि आत्मसात्कुरु मामपि.ऽ ॥ २४.१३९ ॥ स्तुत्वैवं गारुडं मन्त्रं जपेदेकाग्रमानसः) । ध्वजस्यारोहणे यावत्तावस्मूर्त्या विशेषतः ॥ २४.१४० ॥ त्रिकालं वा द्विकालं वा एक कालमधापि वा । हविस्सम्यङ्निवेद्यैव सप्तविंशति विग्रहैः ॥ २४.१४१ ॥ पूजयित्वा ध्वजं पश्चाद्रात्रौ भूतबलिं क्षिपेत् । "जियमत्युच्छ्रयं धन्यं ध्वजंचेति ध्वजं तथा ॥ २४.१४२ ॥ ध्वजमूले तथेन्द्रादीन् दण्डे ब्रह्माणमित्यपि । सूर्येन्द्वग्नींस्तु फलकत्रये यष्ट्यां सुदर्शनम् ॥ २४.१४३ ॥ वलये वानुकिं रज्ज्वां त्रिमूर्तीरर्चयेत्ततः । घण्टायां चैव ब्रह्माणं दर्भदाम्नि सरस्वतीम् ॥ २४.१४४ ॥ इतिक्रमेण चावाह्य तन्मन्त्रैरर्चनं चरेत् । ध्वजारोहणमारभ्य चोत्सवादिदिनादधः ॥ २४.१४५ ॥ सायं प्रातश्च वूजान्ते ध्वजारोहणवद्बलिम् । शिष्येण गुरुणा चाथ चक्रस्याभिमुखे तथा ॥ २४.१४६ ॥ नित्यं रात्रौ विशेषेण तथा भूतबलिं क्षिपेत् । वीशामितौ विना धीमान् तीर्थान्तं सर्वरात्रिषु ॥ २४.१४७ ॥ चक्रमेव नयेद्विद्वान् बलिरक्षणहेतवे । ध्वजस्यारोपणं यावत्तावन्नित्यं समाहितः ॥ २४.१४८ ॥ त्रिकालं वा द्विकालं वाप्येककालमथापि वा । पूर्वोक्तेन क्रमेणैव समभ्यर्च्य निवेदयेत् ॥ २४.१४९ ॥ ध्वजस्यारोहणं रात्रावपि कुर्वन्ति के च न । उत्सवारंभदिवसात्तत्र ये ग्रामवासिनः ॥ २४.१५० ॥ अन्यकार्यसमासक्तान गच्छेयुस्थ्सलान्तरम् । गच्छेयुरथ वा तीर्थे निवर्तेयुरसंशयम् ॥ २४.१५१ ॥ बहिर्वीथ्यां तु तद्ग्रामे जनास्सर्वे तथैव च । तावान्न तेषां निर्बन्धस्समीपस्थेषु यस्स्मृतः ॥ २४.१५२ ॥ अहूतव्या उत्सवार्थे देवास्सम्यक्प्रकीर्तिताः । देवादीनां च सर्वेषां तेषां स्थानं प्रवक्ष्यते ॥ २४.१५३ ॥ इन्द्रादयो महादिक्षु विदिक्षु च समाश्रिताः । तथैकादश रुद्राश्च द्वादशाहस्करा अपि ॥ २४.१५४ ॥ वसवस्स्युरथाष्टौ च ओङ्कारश्च वषट्कृतम् । एते देवास्त्रयस्त्रिंशाः कथिता ब्रह्मणा पुरा ॥ २४.१५५ ॥ अश्विनावपि तत्रेति केचिदाहुर्मनीषिणः । त्रयस्त्रिंशद्देवतानां स्थानमैशान्यमुच्यते ॥ २४.१५६ ॥ अपरे चापि कर्तव्या नदीपार्श्वे विशेषतः । अष्टादशगणानान्तु भुतपीठस्य दक्षिणे ॥ २४.१५७ ॥ देवाश्च ऋषयस्सर्वे पितरो दैत्यदानवाः । असुराश्चैव गन्धर्वा स्तथैवाप्सरपाङ्गणाः ॥ २४.१५८ ॥ यक्षाश्च राक्षसाश्चैव नागाभूताः पिशाचकाः । अनावृष्टिगणाश्चैव तथामृतमुचां गणाः ॥ २४.१५९ ॥ मातरश्चैव रोहिण्यः सूर्या अष्टादश स्मृताः । अष्टादशगणाश्चैते प्रोक्ता वै देवयोनयः ॥ २४.१६० ॥ अनुक्तानन्यदेवांश्च इन्द्रपार्श्वे समर्चयेत् । देवानां चैव पत्नीश्च तत्तत्पार्श्वे समर्चयेत् ॥ २४.१६१ ॥ स्कन्दो विघ्नश्च दुर्गा च ज्येष्ठा चैव सरस्वती । तदालये बलिं दद्यात्प्राकारे चोत्तरेऽपि वा ॥ २४.१६२ ॥ परिवारोक्तदेशे तु रोहिण्यो मातरस्तथा । ऋषिपत्नीश्च तास्सप्त ऋषिभिस्सह चार्ऽचयेत् ॥ २४.१६३ ॥ सिद्धान् विद्याधरांश्चैव गरुडगन्धर्वकिन्नरान् । किपूरुषांश्चारणान् देवान्महादिक्षु समर्चयेत् ॥ २४.१६४ ॥ भूतेभ्यश्चाथ यक्षेभ्यः पिशाचेभ्य स्तथैव च । राक्षसेभ्यश्च नागेभ्यस्संधौ संधौ बलिं ददेत् ॥ २४.१६५ ॥ राजवेश्माङ्गणे मध्ये इन्द्रं चैव समर्चयेत् । तस्य दक्षिणपार्श्वे तु जयश्रीकीर्तीस्समर्चयेत् ॥ २४.१६६ ॥ उत्सवार्थं विशेषेण संभारानाहरेत्ततः । रथं च शिबिकां चैव यन्त्रडोलादिकांस्तथा ॥ २४.१६७ ॥ कारयित्वा च शिल्पोक्तं दीपानन्यान् प्रगृह्य च । भेर्यादीन्यपि वाद्यानि शङ्खकाहलकानि च ॥ २४.१६८ ॥ तालवृन्तं ध्वजानन्यान् छत्रचामरबर्हिणः । नर्तकान् गायकानन्यान् यथोक्तं पूर्वमाहरेत् ॥ २४.१६९ ॥ आलयं समलङ्कृत्य तोरणाद्यैर्विभूष्य च । परिचारान् समाहूय स्वस्वकर्म निवेदयेत् ॥ २४.१७० ॥ मण्टपादीनि सर्वाणि प्रपादीनि च सर्वशः । आस्तानार्थं च नृत्यार्थं कारयेच्छिल्पशास्त्रवित् ॥ २४.१७१ ॥ "अव धूऽतेति मन्त्रेण ग्रामवीथीर्विशेषतः । विप्रा वेदविदश्शुद्धाश्शोधयेयुर्मनोरमम् ॥ २४.१७२ ॥ "आशासु सप्तऽइत्युक्त्वा गव्याद्यैः सर्वतश्शुभम् । समभ्युक्ष्योपलिप्यैव तण्डुलानवकीरयेत् ॥ २४.१७३ ॥ कदलीपूगकुंभाद्यैरलङ्कुर्याद्गृहांगणम् । वितानाद्यैर्विशेषेण फूषयेत्सर्वतश्शुभम् ॥ २४.१७४ ॥ तद्ग्रामवासिनः सर्वेऽलङ्कृता नान्यतत्पराः । नैमित्तिकादिकं हित्वा ध्यायेयुर्मनसा हरिम् ॥ २४.१७५ ॥ तद्ग्रामसीमन्यन्तस्थ्सा नित्यकर्मक्रियां विना । नैमित्तिकानि काम्यानि तीर्थान्तं नाचरेद्बुधाः ॥ २४.१७६ ॥ प्रवृत्ते चोत्सवे विष्णोस्सौम्यमार्गेण वास्तुषु । अन्यदेवोत्सवं तत्र नाचरेदिति शासनम् ॥ २४.१७७ ॥ अस्मिन् देवोत्सवे यागे तद्वास्तुषु विशेषतः । संकल्प्य चोत्तरां वेदिं प्रवृत्तेऽन्यानि नाचरेत् ॥ २४.१७८ ॥ यदि चेत्सर्वनाशस्स्यात्कर्ताभर्ता विनश्यति । तस्मात्परिहरेद्धीमान् तीर्थान्तं तेषु वान्तुषु ॥ २४.१७९ ॥ उत्सवादिदिनात्पूर्वं सप्तमे पञ्चमेऽथ वा । संस्नाप्य देवदेवेशमङ्कुरार्ऽपणमाचरेत् ॥ २४.१८० ॥ इति श्रीवैखानसे भगवच्छास्ते भृगुप्रोक्तायां संहितायां प्रकीर्णाधिकारे चतुर्विंशोऽध्यायः. _____________________________________________________________ अथ पञ्चविंशोऽध्यायः. उत्सवविधिः अथोत्सवविधिं वक्ष्ये देवदेवस्य शार्ङ्गिणः । आरंभदिवसात्पूर्वं यजमानो मुद्न्वितः ॥ २५.१ ॥ पूर्वोक्तगुणसंपन्नं वरयित्वा गुरुं तथा । द्विगुणाराधनायैकमेकं कुंभार्चनाय च ॥ २५.२ ॥ होमार्थं बलिदानार्थं तथा स्थानार्चनाय च । वृणेत्पदार्थिनः पञ्च तावतः परिचारकान् ॥ २५.३ ॥ आचार्यमुपसंगम्य संपूज्य च विधानतः । "कर्मेदं मे कुरुऽष्वेति याचयेद्विनयान्वितः ॥ २५.४ ॥ आचार्यः सह शिष्यैस्तु कृत्वा केशादिवापनम् । स्नात्वा स्नानविधानेन धृत्वा धौतं यथाविधि ॥ २५.५ ॥ ऊर्ध्वपुण्ड्रधरस्सम्यक्संध्यादीन् समुपास्य च । ब्रह्मयज्ञं च कृत्वैव तथा देवर्षि तर्पणम् ॥ २५.६ ॥ जपेद्द्वादशसूक्तानि नारायणमथारुणम् । आलये संप्रविश्यैव देवेशं संप्रणम्य च ॥ २५.७ ॥ देवं विशेषतोऽभ्यर्च्य कार्यं तस्मै निवेदयेत् । यजमानोऽपि धर्मात्मा नित्यकर्म समाप्यच ॥ २५.८ ॥ देवालयं प्रविश्चैव पुण्याहं कारयेत्ततः । श्रीवैखानस सूत्रोक्त मधुपर्मविधानतः ॥ २५.९ ॥ आचार्यमृत्विजश्चैव संपूज्य विधिना ततः । अलङ्कुर्याच्च गन्थाद्यैर्धूपदीपादिभिस्तथा ॥ २५.१० ॥ नववस्त्रोत्तरीयाद्यैस्तथा पञ्चाङ्गभूषणैः । पञ्चाङ्गभूषणं वक्ष्ये यथा कुर्यादतन्द्रितः ॥ २५.११ ॥ दशनिष्कप्रमाणेन कुण्डलाभरणं पृथक् । षण्णिष्कमानं कटकमङ्गदं चांगुलीयकम् ॥ २५.१२ ॥ एकविंशतिनिष्काढ्यं कटीसूत्रं सलक्षणम् । तदर्धांशप्रमाणेव ग्रीवालङ्करणं पृथक् ॥ २५.१३ ॥ अष्टनिष्क प्रमाणेव यज्ञसूत्रं च कारयेत् । अनेन विधिना कुर्याद्गुरोरर्धार्धमृत्विजाम् ॥ २५.१४ ॥ आचार्यः प्रोक्ष्यचात्मानं यजमानमथर्त्विजः । प्राश्नीयात्पञ्चगव्यं च पदार्थिभ्यश्चसादरम् ॥ २५.१५ ॥ यजमानाय दद्याच्च मन्त्रपूर्वं विशेषतः । ततः पद्माग्निमाधाय परिषिच्य च पावकम् ॥ २५.१६ ॥ यद्देवादि चतुस्सूक्तान्याज्येन जुहुयाद्गुरुः । वैश्वानरेण सूक्तेन चोपतिष्ठेद्धुताशनम् ॥ २५.१७ ॥ क्षपयित्वा ततः पापं कर्मार्हास्ते भवन्त्यतः । कूश्माण्डहोम इत्युक्तस्सर्वपापप्रणाशनः ॥ २५.१८ ॥ तत्काने दीक्षितास्सर्वे विधिमन्त्रपुरस्सरम् । बद्ध्वा प्रतिसरं हस्ते पश्चात्कुर्युःक्रियामपि ॥ २५.१९ ॥ ततःप्रभृति सर्वे ते शुद्ध दन्तनखास्तथा । हविष्यभोजिनो दान्ता स्त्रिकालस्नायिनोऽपि च ॥ २५.२० ॥ जितेन्द्रिया भवेयुस्ते तथाऽधश्सायिनोऽपि च । स्त्रीशूद्राभ्यामसंभाष्य नारायणपरायणाः ॥ २५.२१ ॥ यावत्कालं भवेद्दीक्षा तावच्छुद्धा इमे स्मृताः । सूतके मृतके वापि तेषां नाशौच इष्यते ॥ २५.२२ ॥ अथवक्ष्येंकुरार्थन्तु मृत्तिकाग्रहणे विधिम् । शान्त चक्रे समभ्यर्च्य हवींष्यपि निवेद्य च ॥ २५.२३ ॥ विष्वक्सेनं समादाय यानमारोप्य नाथवत् । आचार्यः पुरतोगच्छे "द्विष्णुर्माऽमिति चोच्चरन् ॥ २५.२४ ॥ चक्रस्य पश्चाद्गच्छेयुराचार्येण समन्विताः । आदर्शहेमकलशपूर्णकुंभांकुरादिभिः ॥ २५.२५ ॥ ध्वजत्रयादिकान् सर्वान् पुरस्कृत्य पदार्थिनः । प्राच्यां सर्वसमृद्धिस्स्यादाग्नेय्यां धान्यनाशनम् ॥ २५.२६ ॥ याम्ये जनविनाशस्स्यान्नैरृत्यां धननाशनम् । अनावृष्टिश्च वारुण्यां राजकोपश्च पावने ॥ २५.२७ ॥ सौम्ये पुत्रसमृद्धिस्स्या दैशान्यां सुखदं भवेत् । एतानां तु दिशां मध्ये प्रशस्तां शुद्धमृत्तिकाम् ॥ २५.२८ ॥ आचार्यस्साधनैर्युक्तो दिशं गत्वा सशिष्यकः । ग्रामदेवालयादारादारामेऽत्र मनोरमे ॥ २५.२९ ॥ नदीतटाकतीरे वा सीमामनतिलङ्घ्य च । प्रार्ध्य भूदेवतामन्त्रै श्शुद्धे देशे मृदं हरेत् ॥ २५.३० ॥ वीशामितौ च चक्रं च स्थापयेत्प्राङ्मुखान् बुधः । प्राङ्मुखश्चोपलिप्यैव वृत्ताकारं समुल्लिखेत् ॥ २५.३१ ॥ तत्र स्थानं च संप्रोक्ष्य "दधि क्राव्ण्णऽउच्चरन् । भूरूपं तु लिखित्वैव "भूमिर्भूऽम्नेति च ब्रुवन् ॥ २५.३२ ॥ ऊर्ध्ववक्त्रां च शयितामैशान्यां न्यस्तमौलिकाम् । देवीं महीं तामभ्यर्च्य प्रोक्षणैः प्रोक्षणं चरेत् ॥ २५.३३ ॥ एकादशोपचारैश्च मूर्तिमन्त्रैस्समर्चयेत् । पुण्याहं वाचयित्वातु मेदिन्यादि समुच्चरन् ॥ २५.३४ ॥ खनित्रे शेषमभ्यर्च्य वस्त्राद्यैस्समलङ्कृते । ललाटे सर्वदोषघ्नं बाह्वोर्बहुसुखप्रदम् ॥ २५.३५ ॥ स्तनद्वये वयोवृद्धिर्जठरे सर्वसंपदः । अधोभागे मृदं तस्या नाहरेत कदाचन ॥ २५.३६ ॥ एवं संकल्प्य मनसा मेदिन्यादि तदा ब्रुवन् । "त्वां खनाऽमीति मन्त्रेण वाराहं मनसा स्मरन् ॥ २५.३७ ॥ उभाभ्याञ्चैव हस्ताभ्यां खनित्रेण खनेद्बुधः । महीं देवीमनुज्ञाप्य खनित्वा तालमात्रकम् ॥ २५.३८ ॥ अपोह्यैव च तत्सर्वं तदधस्थ्सां मृदं हरेत् । वैष्णवं मन्त्रमुच्चार्य तत्रकार्यं समाचरेत् ॥ २५.३९ ॥ पात्रमध्ये सुसन्न्यस्य पूर्ववच्छिरसिन्यसेत् । पश्चाद्देवीं समुद्वास्य चापटं तत्र पूरयेत् ॥ २५.४० ॥ शिरसा धारयित्वातु पुरस्ताच्चक्रशान्तयोः । ग्रामं प्रदक्षिणं कृत्वा देवालयमुपाव्रजेत् ॥ २५.४१ ॥ पूर्वस्मिन्नुत्तरे पार्श्वे वांकुरानर्पयेत्तधा । चक्रादीनभिषिच्यैव हविस्सम्यङ्निवेद्य च ॥ २५.४२ ॥ स्वेस्वेस्थाने तु संस्थाप्य पश्चाद्यागं समारभेत् । अलयाभिमुखे वापि दक्षिणे वा मनोरमे ॥ २५.४३ ॥ यमपावकयोर्मध्ये पावकांशेऽथ वा चरेत् । ऐशान्यां वाथ वा केचित्सोमेशानान्तरे तथा ॥ २५.४४ ॥ कल्पयेद्यागशालां च प्रतिष्ठोक्तविधानतः । वेदिं तन्मध्यमे पङ्क्तौ वेदिमानेन कारयेत् ॥ २५.४५ ॥ प्रतिष्ठाद्यर्धमानं वा रत्निमात्रोदयं क्रमात् । पञ्चाग्नीन् कल्पयेद्धीमानुत्सवे चोत्तमे तथा ॥ २५.४६ ॥ त्रेताग्नीन् कल्पयेद्विद्वान्मध्यमे चोत्सवेक्रमात् । अधमं यदि चेत्सभ्यं कल्पयेत्पूर्ववत्सुधीः ॥ २५.४७ ॥ त्रेताग्निकल्पनं यत्र प्रधानं गार्हपत्यकम् । उभयोरन्ययोस्सभ्यं प्रधानं कल्पयेत्तथा ॥ २५.४८ ॥ भूमियज्ञेव सर्वत्र शोधयेच्च यथाविधि । देवं देव्यौ समादाय स्नानश्वभ्रे गुरूत्तमः ॥ २५.४९ ॥ "परं रंऽहेति मन्त्रेण स्थापयेच्च विशेषतः । नित्यस्नानोक्तमार्गेण स्नापयित्वा हरिं परम् ॥ २५.५० ॥ आस्थाने विष्टरं न्यस्य तदूर्ध्वे वस्त्रमास्तरेत् । देवं देव्यौ समादाय श्वेतवस्त्रैर्विभूष्य च ॥ २५.५१ ॥ कुण्डलांगदहारादिभूषणैरपि भूषयेत् । श्वेतमाल्यैरलङ्कृत्य श्वेतगन्धानुलेपनैः ॥ २५.५२ ॥ पवित्रं चोत्तरीयञ्च गत्वा देवं प्रणम्य च । राजवच्चोपचारादीनाचरेद्देशिकोत्तमः, ॥ २५.५३ ॥ नवकुभारोपणम् पूर्वोक्तविधिना धीमान्नव कुंभान् प्रगृह्यच । "इन्द्रं नरो नऽइत्युक्त्वातन्तुना वेष्टयेत्तथा ॥ २५.५४ ॥ वेद्यामुपरिपूर्वोक्तधान्यान्यास्तीर्य मन्त्रवित् । चतुस्सूत्रैर्नवपदं कृत्वा कुंभांश्च विन्यसेत् ॥ २५.५५ ॥ कुंभानद्भिः प्पपूर्यैव कुशकूर्चाक्षतादिकान् । मङ्गलान्यायुधं रत्नं प्रतिकुंभं पृथक्पृथक् ॥ २५.५६ ॥ गायत्षा चैव निक्षिव्य मध्यकुंभे विशेषतः । द्व्यङ्गुलेन प्रमाणेन स्रुगादीन्यपि पूर्ववत् ॥ २५.५७ ॥ हानकेनैव कृत्वा तु विष्णुसूक्तेन निक्षिपेत् । आवेष्ट्य वस्त्रयुग्मेन सर्वानपि पृथक्पृथक् ॥ २५.५८ ॥ वेद्या मधस्तात्पूर्वेतु वीशं वै पश्चिमामुखम् । सन्न्यस्य दक्षिणे पश्चाच्चक्रं चैवोत्तरामुखम् ॥ २५.५९ ॥ पङ्क्तीशं प्राङ्मुखं पश्चात्पश्चिमे चोत्तरेऽथ वा । दक्षिणाभिमुखं शान्तं स्थण्डिलोपरि सन्न्यसेत् ॥ २५.६० ॥ अभावे गरुडादीनां स्थाने तत्र च तत्र च । कुंभान्त्सन्न्यस्य तन्मध्ये ध्यात्वैवावाहयेत्क्रमात् ॥ २५.६१ ॥ यावत्तीर्थावसानं स्यात्तावत्कुंभेतु पार्षदान् । सायं प्रातर्विशेषेण पूजयेद्विधिवत्सुधीः ॥ २५.६२ ॥ पश्चात्सभ्याग्निकुण्डे तु विधिनाघार माचरेत् । उत्तराभिमुख स्तिष्ठन् कुरुर्वेद्यास्तु दक्षिणे ॥ २५.६३ ॥ प्राणायामं ततःकृत्वा पूर्ववद्ध्यानमाचरेत् । प्रधानकुंभमध्ये तु विष्णुं देव्यौ च सान्वयौ ॥ २५.६४ ॥ ध्रुवादावाहयेन्मन्त्री प्रागादिषु यथाक्रमम् । पुरुषं कपिलं सत्यं यज्ञमच्युतमेव च ॥ २५.६५ ॥ नारायणं चानिरुद्धं ततः पुण्यं समर्चयेत् । तं रुक्मवर्णं रक्तास्यं रक्तनेत्रं सुखोद्वहम् ॥ २५.६६ ॥ किरीटहारकेयूरलंबयज्ञोपवीतिनम् । कौस्तुभोद्भासितोरस्कं श्रीवत्सांकं चतुर्भुजम् ॥ २५.६७ ॥ दक्षिणेनैकहस्तेन भक्तानामभयप्रदम् । वामेनाप्यन्यहस्तेन स्वकट्यामवलंबितम् ॥ २५.६८ ॥ पराभ्यां तु कराभ्यां तु शङ्खचक्रधरं परम् । शुकपिञ्छांबरधरं विष्णुं प्रणवरूपिणम् ॥ २५.६९ ॥ तप्तहाटकसंकाशां पद्मपत्रायतेक्षणाम् । तिसृभिःपुष्पचूडूभिर्ललाटोपरि शोभिताम् ॥ २५.७० ॥ सपद्मवामहस्तान्तां कक्ष्याबद्धघनस्तनीम् । प्रसारितेतरकरां प्रसन्नेन्दुनिभाननाम् ॥ २५.७१ ॥ श्रीवत्सांकितबीजान्तां फाल्गुनेचोत्तरोद्भवाम् । विष्णोर्दक्षिणपार्श्वस्थां हंसनिर्याख्यवाहिनीम् ॥ २५.७२ ॥ वामभागे महीं श्यामां सर्वाभरणभूषिताम् । वैशाखे रेवतीजातां दधतीं दक्षिणेऽंबुजम् ॥ २५.७३ ॥ प्रसारितेतरकरां प्रसन्नेन्दुनिभाननाम् । महाचातकमारूढां लक्ष्नीपूर्वाक्षरान्विताम् ॥ २५.७४ ॥ पुरुषः प्राङ्मुखोऽच्छाभः पीतवासाश्चतुर्भुजः । शङ्खचक्रधरश्श्रीमान् सर्वाभरणभूषितः ॥ २५.७५ ॥ वरदोऽभयदः प्राच्यां श्रीभूमिसहितो हरिः । कपिलः प्राङ्मुखोऽच्छाभो रक्तवस्त्रोऽष्टबाहुयुक् ॥ २५.७६ ॥ दक्षिणेनैकहस्तेव भक्तानामभयप्रदः । अन्यैश्चक्रासिहलभृत्सर्वाभरणभूषितः ॥ २५.७७ ॥ वामेनाप्यन्यहस्तेन स्वकट्यामवलंब्य च । अन्यैश्संखधनुर्दण्डधरस्सुंदर विग्रहः ॥ २५.७८ ॥ आग्नेय्यां दिशि गायत्षा सावित्षा च युतो हरिः । सत्योयाम्यमुखश्श्रीमानञ्जनाभश्चतुर्भुजः ॥ २५.७९ ॥ शङ्खचक्रधरस्यौम्यस्सर्वाभरणभूषितः । वरदोऽभयदस्साधूरक्तवासा महाहनुः ॥ २५.८० ॥ देवीभ्यां धृतिपौष्णीभ्यां युतो याम्यदिशि प्रभुः । यज्ञः पश्चिमदिग्वक्त्रस्तप्तचामीकरप्रभः ॥ २५.८१ ॥ सप्तहस्तश्चतुश्श्रुङ्गो रक्तवासा द्विशीर्षकः । शङ्खचक्राज्यपात्रस्रुक्स्रुवानुपभृतं जुहूम् ॥ २५.८२ ॥ बिभ्रत्त्रिपादो नैरृत्यां देवस्स्वाहास्वधायुतः । अच्युतः पश्चिमाशास्यः कनकाभश्चतुर्भुजः ॥ २५.८३ ॥ शङ्खचक्रधरश्श्रीमान् सर्वाभरणभूषितः । वरदोऽभयदस्साक्षी सर्वकर्मफलप्रदः ॥ २५.८४ ॥ युक्तःपवित्रीक्षोणीभ्यां प्रतीच्यां श्यामलांबरः । नारायणः पश्चिमास्यस्स्फटिकाभश्चतुर्भुजः ॥ २५.८५ ॥ शङ्खचक्रधरश्श्रीमान् सर्वाभरणभूषितः । वरदोऽभयदश्श्यामांबरश्श्रीवत्सचिह्नितः ॥ २५.८६ ॥ संयुतः कमलेलाभ्यां वायव्यां जगतां पतिः । अनिरुद्ध उदीच्यास्यः प्रवालाभश्चतुर्भुजः ॥ २५.८७ ॥ अनन्तोत्संग आसीनः पुष्पांबरधरो हरिः । शङ्खचक्रधरश्श्रीमान् सर्वाभरणभूषितः ॥ २५.८८ ॥ दधत्स्वदक्षिणे वामे प्रमोदादायिनीं महीम् । वरदोऽभयदो देव उदीच्यां सर्वसिद्धिदः ॥ २५.८९ ॥ पुण्यःप्रागाननश्श्रीमां स्तरुणादित्यसन्निभः । श्रीवत्सवक्षा नित्यश्रीस्सर्वाभरणभूषितः ॥ २५.९० ॥ चतुर्भुजश्शङ्खचक्रवरदाभयचिह्नितः । श्वेतवस्त्रोत्तरीयोपवीताद्यैस्समलङ्कृतः ॥ २५.९१ ॥ इन्दिराधरणीनाथरिशान्यां पुण्यपूरुषः । एतान् देवान् समावाह्य समभ्यर्च्याष्टविग्रहैः ॥ २५.९२ ॥ वीशानसायिपङ्क्तीशशान्तान् दिक्ष्वर्चयेत्क्रमात् । सायं प्रातर्विना कुंभैर्देवं वीशामितैस्सह ॥ २५.९३ ॥ वेद्यामेव प्रतिष्ठाप्य पूजयेदिति के च न । होत्रप्रशंसनम् होता पश्चात्प्रधानाग्नौ हौत्रशंसनमाचरेत् ॥ २५.९४ ॥ प्रतिष्ठोक्तक्रमेणैव तदालयगतान् सुरान् । अवाह्य तत्क्रमेणैव निरुप्याज्याहुतीर्यजेत् ॥ २५.९५ ॥ परिषिच्य पावकं पश्चाद्वैष्णवं जुहुयात्क्रमात् । वेद्यान्तु पश्चिमे वाथ वायव्यां वा विशेषतः ॥ २५.९६ ॥ स्थिण्डिलं कल्पयित्वात्र चास्तरेदण्डजादिकान् । यजमानसमायुक्तो गुरुर्देवं प्रणम्य च ॥ २५.९७ ॥ कुसुमाञ्जलि मुत्सृज्य "प्रतद्विष्णुंऽरिति ब्रुवन् । देवीभ्यां सह देवेशमादाय स्थण्डिलोपरि ॥ २५.९८ ॥ प्राङ्मुखं चैव संस्थाप्य पूजयेदष्टविग्रहैः । उत्सवप्रतिमाभावे स्नापने वा विशेषतः ॥ २५.९९ ॥ स्नपनस्याव्यभावे तु कौतुके चाचरेत्तु वा । कौतुके यदि चेद्देव्यौ नैवादाय तथा चरेत् ॥ २५.१०० ॥ नादरेन्नित्यवैकल्यं विसर्गावाहने तथा । आचरेदुत्सवं विद्वान्नित्यार्चान्तु यथाक्रमम् ॥ २५.१०१ ॥ कुर्याच्चेन्नित्यवैकल्यं सर्वनाशो भवेद्ध्रुवम् । स्नापयेद्यदि चेद्विद्वान्मध्यमे चोत्सवस्य तु ॥ २५.१०२ ॥ स्नपने यदि संप्राप्ते कौतुके स्नपनं चरेत् । स्नापनप्रतिमाभावे स्नपनं यदि चोत्सवे ॥ २५.१०३ ॥ संप्रास्ते स्नपने चात्र कौतुके चोत्सवं विना । अचरेदेव सांकर्यं नाचरेदुभयोरपि ॥ २५.१०४ ॥ उत्सवे वर्तमाने तु कौतुके स्नपनं यदि । संभवेदुक्तकाले तु कर्मणी द्वे समाचरेत् ॥ २५.१०५ ॥ पुराप्रवृत्तकार्ये तु दोषो नानेन संभवेत् । कातुके चेद्यथै काग्नौ बहुकर्मवदाचरेत् ॥ २५.१०६ ॥ गृहे त्रेताग्नि वन्नित्यं प्रणीयारोपणं विना । स्नापनोत्सवभेदे तु कौतुकेन दिनं दिनम् ॥ २५.१०७ ॥ अरोहणं यदि भवेद्द्रुवे तत्कर्म पूर्वतः । आवाह्य कर्ममामन्ते तथा साये विसर्जयेत् ॥ २५.१०८ ॥ पात्र रावाहनं नित्यमर्चनादौ विशेषतः । विसर्गं सायमर्चान्ते कौतुके तु यथा तथा ॥ २५.१०९ ॥ तथैवौत्सवदीक्षान्ते समावाह्य ध्रुवात्सुधीः । विसर्गं नाचरेन्मध्ये दीक्षान्तेतु समाचरेत् ॥ २५.११० ॥ अर्चनान्ते विशेषेण पुण्याहमपि वाचयेत् । हेमपात्रे तु सौवर्णं कौतुकं तण्डुलोपरि ॥ २५.१११ ॥ सन्न्यस्य पूर्ववद्धीमान् बन्धयेद्दक्षिणेकरे । कुंभान् देव्यौच चक्रादीन् समाबद्ध्य समर्चयेत् ॥ २५.११२ ॥ परिषिच्य पावकं पश्चाद्वैष्मवं विष्मुसूक्तकम् । जुहुयात्पौरुषं सूक्तं श्रीभूसूक्त समन्वितम् ॥ २५.११३ ॥ दिनसंध्याधिदैवत्यं तिथिवारर्क्षदैवतम् । तथा मासाधिदै वत्यमब्ददै वत्यमेव च ॥ २५.११४ ॥ तदालयगतानां च जुहुयान्मूर्तिभिः क्रमात् । व्याहृत्यन्तं प्रधाने स्यात्तत आहवनीयके ॥ २५.११५ ॥ नृसूक्तं दक्षिणाग्नौ च वैष्णवं तथा ॥ २५.११६ ॥ अवसथ्ये महीसूक्तमेकाक्षरमतो यजेत् । जुहुयात्पैण्डरीकाग्ना "वतो देवादिऽ वैष्णवम् ॥ २५.११७ ॥ विष्णुसूक्तं पुरुषसूक्तं "यद्देवादिऽसमन्वितम् । पारमात्मिक मन्त्रांश्च ब्राह्ममैन्द्रं च वारुणम् ॥ २५.११८ ॥ जुहुयाद्विष्णुगायत्षा श्वेताब्जं च घृताप्लुतम् । अष्टोत्तरशतं चैव सर्वदोषोपशान्तये ॥ २५.११९ ॥ एकाग्निमथ वाधाय जुहुयादधमाधमम् । सभ्य होमं च पूर्वोक्तं वैष्णवादि विधानतः ॥ २५.१२० ॥ अथोत्सवाधिदैवत्यं विशेषेण प्रवक्ष्यते । ब्राह्ममार्षं तथा रौद्रमैन्द्रं सौम्यं च वैष्मवम् ॥ २५.१२१ ॥ सर्वदैवत्ययाम्ये च वारुणं च नवाह्निके । आग्नेयं प्राजापत्यं च कौबेरं वैघ्नमेव च ॥ २५.१२२ ॥ श्रीदैवत्यं च कौमारमादित्यं रौद्रमेव च । दौर्गमैन्द्रं तथा याम्यं वैष्णवं स्कान्गमेव चर् ॥ २५.१२३ ॥ इशान्यं सौम्यमित्येतत्तिथिदैवत्यमुच्यते । तत्तद्द्वारे तु जुहुयान्मत्रैर्द्वाराधिपोचितैः ॥ २५.१२४ ॥ तथा नक्षत्रदैवत्यं जुहुयाद्विधिना बुधः । त्रिसंधिषु हुनेदैन्द्रं सौरं बार्हस्पतं क्रमात् ॥ २५.१२५ ॥ मासर्क्षाधिपदैवत्यं मासदैवत्यमुच्यते । याम्यं च वैष्णवं सौम्यं ब्राह्मं बार्हस्पतं तथा ॥ २५.१२६ ॥ सौम्यमैन्द्रं वारुणं च शेषाग्न्यादित्यभौतिकम् । मारुतं भृगुदैवत्यं वारुणं वैघ्नमेव च ॥ २५.१२७ ॥ रौद्रं कौबेरकं त्वाष्ट्रं मैत्रं कौमारमेव च । सावित्रीं श्रीदैवत्यं चैव गौरीदैवत्यमेव च ॥ २५.१२८ ॥ आदित्यं पैतृकं चैवादिति दैवत्यमेव च । योगदैवत्यमेतत्क्याज्जुहुयाद्विधिना बुधः ॥ २५.१२९ ॥ ऐन्द्रं च प्राजापत्यं च मैत्रमार्यमणं तथा । भूत श्रीयाम्यदैवत्यं भार्गवं वृषदैवतम् ॥ २५.१३० ॥ कौबेरं वायुदैवत्यं जुहुयात्करणेषु वै । देवेभ्यः पितृभ्यश्चेति पक्षयोश्शुक्लकृष्णयोः ॥ २५.१३१ ॥ सौरं चान्द्रं च जुहुयात्क्रमादयनयोर्द्वयोः । "मधुश्च माधवऽश्चेति जुहुयादृतुषु क्रमात् ॥ २५.१३२ ॥ विष्णुः प्रजापतिश्शूली विघ्नेशस्सप्त चर्षयः । अष्टौ लोकाधिपाः पञ्च भूता विश्वंभरादयः ॥ २५.१३३ ॥ वसवोऽष्टौ च रोहिण्यस्सप्त श्रीश्चण्डिका गुहः । सूर्यस्सोमश्चिरञ्जीवी काशीवीशपुरर्दराः ॥ २५.१३४ ॥ चक्रश्शान्तो गुरुर्भौमबुधशुक्रशनैश्चराः । हविःपालो ह्यनस्तश्च गङ्गा ज्येष्ठा च मातरः ॥ २५.१३५ ॥ प्रभवादि क्रमादेते विज्ञेया वत्सराधिपाः । तथोत्सवाधिदैवत्यं तिथिवारर्क्षदैवतम् ॥ २५.१३६ ॥ चतुर्दैवत्यमात्रन्तु जुहुयादिति के च न । पलाशबिल्वशामीलन्य ग्रोथोदुंबरास्तथा ॥ २५.१३७ ॥ अश्वद्धखदिरप्ल क्षब्रह्मवृक्षाः क्रमादिमे । समिधां ग्राह्य वृक्षान्तु पर्णमश्वद्थमेव वा ॥ २५.१३८ ॥ पद्मं च बिल्वपत्रं च करवीरं कुमुदं तथा । नन्द्यावर्तं च तुलसी तथैव स्थलपङ्कजम् ॥ २५.१३९ ॥ विष्णुक्रान्तारविन्दे तु पुष्पाण्येतान्यनुक्रमात् । अलाभे तुलसीं वाथ करवीरं च पङ्कजम् ॥ २५.१४० ॥ मुद्गं निष्पावकं चैव कुलुद्धं माषयेव च । तिलानपूपान् लाजांश्च यवान् सक्तून् यथाक्रमम् ॥ २५.१४१ ॥ बलिद्रव्याणि चोक्तानि सर्वाभावे तु मौद्गिकम् । एवमेव विधानेन द्विकालं होममाचरेत् ॥ २५.१४२ ॥ प्रातस्संध्यावसानेतु सायमर्चावसानके । होमं कृत्वा बलिं दद्याद्द्विकालं चोत्सवं चरेत् ॥ २५.१४३ ॥ उत्सवभ्रमणं वक्ष्ये देवदेवस्य शार्ङ्गिणः । बलिनिर्वापणान्ते तु सायं प्रातर्विशेषतः ॥ २५.१४४ ॥ देवदेवमलङ्कृत्य वस्त्राद्यैर्भूषणैश्शुभैः । सुगन्धिपुष्पमालाभिर्गन्धैरपि मनोहरैः ॥ २५.१४५ ॥ रथे वा शिबिकायां वा वीशस्कन्धेऽपि वा तथा । गजाश्वांदोलिकादौ वा वाहने समलङ्कृते ॥ २५.१४६ ॥ "अहमेवेदऽमन्त्रेण देवमारोप्य निश्चलम् । अष्टोपचारैरभ्यर्च्य लाजापूपादिकांस्तथा ॥ २५.१४७ ॥ संक्कृतान् गुडसंमिश्रान्निवेद्य मुखवासकम् । दत्वा वाद्यैस्समायुक्तं सर्वालङ्कारसंयुतम् ॥ २५.१४८ ॥ दासीभिर्वादकैश्यैव नृत्तगेयसमन्वितैः । ब्राह्मणैर्वेदविद्भिश्च समायुक्तं शनैश्सनैः ॥ २५.१४९ ॥ ध्वजैश्चत्रैरातपत्रैस्तोरणैश्च तथैव च । संभृतैः संयुतं चान्यैस्सर्वैश्शृङ्गारलक्ष्मभिः ॥ २५.१५० ॥ वालव्यजनहस्ताभिर्दासीभिः पार्श्वयोर्द्वयोः । वीज्यमानं विशेषेण तथा भक्तवरैरपि ॥ २५.१५१ ॥ वाहये युर्द्विजा देवं ब्राह्मणा वेदपारगाः । दीपैरुदग्रैर्बहुभिः परिषिक्तैर्घृतादिना ॥ २५.१५२ ॥ परस्सहस्रैस्सर्वत्र दीपयेच्च शतावरैः । विप्रैस्त्रयीमधीयानैर्जपस्तुतिपरायणैः ॥ २५.१५३ ॥ नृत्यता गायता मापि गाणिक्येन सुसेवितम् । वीणादिवादिभिश्चैव वन्दिभिश्च तथा परैः ॥ २५.१५४ ॥ षड्जादिगीतनिपुणैर्वाद्यवादककोविदैः । गद्यं पद्यं तथा मिश्रं पथद्भिस्त्सोत्रमुज्ज्वलम् ॥ २५.१५५ ॥ वै तण्डिकैस्तथा जल्पैर्निपुणैर्वादशिक्षितैः । तथा तत्त्वकथानिष्ठैः पदार्धज्ञैश्च तार्किकैः ॥ २५.१५६ ॥ मीमांसकैर्याज्ञिकैश्च छान्दसैस्सांख्यकोविदैः । योगज्ञैश्च पुराणज्ञैश्शाब्दिकैस्तत्त्ववेदिभिः ॥ २५.१५७ ॥ मौहूर्तिकैश्च गणशःपरस्परजीगीषुभिः । तत्तच्छास्त्रोकमार्गेण प्रमेयं च बहुस्थितम् ॥ २५.१५८ ॥ उच्चैर्ब्रुवाणैर्विद्वद्भिः पञ्चकालपरायणैः । वासुदेवस्य माहात्म्यं कथयद्भिश्चसात्त्विकैः ॥ २५.१५९ ॥ शास्त्रेषु नैपुणं सर्वं प्रदर्शयितुमुद्यतैः । देवस्य पुरतःपृष्ठे पार्श्वतश्चस्थितैर्जनैः ॥ २५.१६० ॥ सेनया सर्वतो दिक्षु चतुरङ्गबलाढ्यया । देवस्य पार्श्वयोः पूर्दे लाक्षारञ्जितमस्करैः ॥ २५.१६१ ॥ यत्रैर्दारुमयैश्चित्रैः पक्ष्याकारैरितस्ततः । देवताकृतियन्त्रैश्च तथा यन्त्रैर्गजादिभिः ॥ २५.१६२ ॥ निषादिभिस्समारूढैस्स्त्रीभिश्च भरतोदितैः । मार्गैर्बहुविधैर्नृत्तं दर्शयन्तीभिरद्भुतम् ॥ २५.१६३ ॥ लेखायन्त्रैस्त्स्रियारूढैर्यन्त्रैरन्यैस्तथा विथैः । गतागतानि कुर्वाणैरनुयातं समाकुलैः ॥ २५.१६४ ॥ शनैर्नयेज्जगन्नाथं यथाशक्ति समन्वितैः । आरभ्यावरणादाद्यादेषा परिवृतिर्भवेत् ॥ २५.१६५ ॥ देवेन सार्थमाचार्यो यानमारुह्य तत्र तु । रक्षार्थं देवदेवस्य ध्यायन्नुपविशेद्धरिम् ॥ २५.१६६ ॥ अर्चकश्च तथासीनस्सम्यगर्चनमाचरेत् । आरोहणे गजेन्द्रस्य देवदेवं विशेषतः ॥ २५.१६७ ॥ वस्त्राभरणपुष्बाद्यैरलङ्कृत्य यथार्हकम् । देवेशं पूर्वमारोप्य हस्तेनादायचांकुशम् ॥ २५.१६८ ॥ निषीदेद्गजपृष्ठे तु देशिकस्स्वयमत्वरः । अर्चकश्छत्रमादाय तथा देवस्य धारयेत् ॥ २५.१६९ ॥ तोयधारां पुरस्कृत्य कुर्याद्भ्रमणमाचरात् । ग्रामं प्रदक्षिणं कुर्याद्बलिर्येन पधा कृतः ॥ २५.१७० ॥ तत्काले देवमायान्तं भक्ता भागवता जनाः । स्पगृहप्रांगणे चैव प्रत्युद्थाय पुनःपुनः ॥ २५.१७१ ॥ प्रणम्य चोपहारांश्च दद्युर्बहुविधान् बहून् । पत्रं पुष्पं फलं पूगं नागवल्लीदलान्यपि ॥ २५.१७२ ॥ दक्षिणां च विशेषेण यथाशक्ति यथारुचि । नीराजनादि कुर्युश्च बालवृद्धातुरास्तदा ॥ २५.१७३ ॥ तपोभिर्बहुभिर्गम्ये स्वयमेव परात्परे । भक्तानुकंपया देवे स्पगृहद्वारमागते ॥ २५.१७४ ॥ को न नन्दति मूढात्मा तस्य का निष्कृतिर्भवेत् । तत्काले चार्पितं द्रव्यं यदपक्वं प्रगृह्य च ॥ २५.१७५ ॥ आमन्त्रं तु निवेद्यैव भगवत्प्रियमाचरेत् । उपहारेषु तत्रार्धं गृह्णीयाद्भागमर्चकः ॥ २५.१७६ ॥ नागवल्लीदलं पुष्पं क्रमुकं दक्षिणादिकम् । सर्वमर्चकसर्वस्वं गृह्णीयादर्चकस्स्वयम् ॥ २५.१७७ ॥ तत्काले भक्तिनम्रेभ्यस्संप्राप्तेभ्यश्च सन्निधिम् । भगदत्पादुकां दद्याच्छिरसि श्रद्धया गुरुः ॥ २५.१७८ ॥ शिरसा धारणे मर्त्यैस्स्पृष्टिदोषो न विद्यते । न नयेत्पादुकां विष्णोर्दूरीकृत्य तु सन्निधिम् ॥ २५.१७९ ॥ न गृहद्वारसीमान्तं नयेत्तां गृहिणां गुरुः । इष्टं राजगृहे स्त्रीभिः पादुकाधारणं यदि ॥ २५.१८० ॥ देहलीमनतिक्रम्य नेयात्तां दीपिकान्विताम् । तदा दीपैस्तथान्यैश्च राजार्हैश्च परिच्छदैः ॥ २५.१८१ ॥ नेया स्यात्पादुका विष्णोः प्रणिधिस्सा यतो हरेः । तस्सन्निधिमतिक्रम्य पूजकस्तु न जातु चित् ॥ २५.१८२ ॥ आदानायोपहाराणां प्रयायाद्गृहिणां गृहान् । नापि कार्यान्तरासक्तः पञ्चहस्तानति क्रमेत् ॥ २५.१८३ ॥ एष श्रेष्ठोपचारस्स्याद्यतस्सम्मान्यते हरिः । एवं प्रदक्षिणं नीत्वा निवर्तेतालयं प्रति ॥ २५.१८४ ॥ गोपुराग्रेतु देवेशं कृत्वा देवोन्मुखं क्रमात् । अर्घ्यपाद्यादिनाभ्यर्च्य निवेद्य पृथुकादिकम् ॥ २५.१८५ ॥ धामप्रदक्षिणं नीत्वा पुनराविश्य चालयम् । अवरोप्य च देवेशं स्थाप्य चास्थानमण्डपे ॥ २५.१८६ ॥ पाद्यमाचमनं दत्वा मुखवासं प्रदाय च । कौतुकं तु विसृज्यैव शुद्धोदैस्स्नापयेत्प्रभुम् ॥ २५.१८७ ॥ विमृज्य प्लोतवस्त्रेण समलङ्कृत्य पूर्ववत् । कौतुकं पुनराबद्ध्य हविःपश्चान्निवेदयेत् ॥ २५.१८८ ॥ कुर्याद्राजोपचाराणि स हि राजा जगत्प्रभुः । विनोदं कारयेच्चैव नृत्तगीतादिभिर्बहु ॥ २५.१८९ ॥ ततः प्रणम्य देवेशं पूर्वस्थाने निवेशयेत् । प्रथमेऽहनि सायेतु कर्तव्यमिदमीरितम् ॥ २५.१९० ॥ द्वितीयाहःप्रभृत्येव सायं प्रातश्च नित्यशः । नित्यार्चनान्ते द्विगुणमर्चयेच्च निवेदयेत् ॥ २५.१९१ ॥ कुंभदेवान् समाराध्य ध्वजदेवार्चनं चरेत् । होमं बलिं च दत्वातु कारयेदुत्सवं तथा ॥ २५.१९२ ॥ तृतीये पञ्चयेऽवाह्नि प्रातस्स्याद्गरुडोत्सवः । षष्ठेऽहनि तु मध्याह्ने देवीभ्यां सहितं हरिम् ॥ २५.१९३ ॥ पीठमध्ये समारोप्य समभ्यर्च्याष्टविग्रहैः । जलकुङ्कुममादाय कारयेदुत्सवं तथा ॥ २५.१९४ ॥ नववस्त्रादिकं दत्वा पृथुकानि निवेद्य च । दत्वा तांबूलमाचाममर्चयेद्राजवत्प्रभुम् ॥ २५.१९५ ॥ सप्तमे प्रातरर्चान्ते कुर्यात्सप्तर्षिपूजनम् । वृणुयादृत्विजस्सप्ततदाचार्यपुरस्सरान् ॥ २५.१९६ ॥ ध्यात्वा सप्तर्षिवत्तांस्तु स्वर्णं गामाज्यमेव च । तण्डुलोदककुंभादीन् दूर्वाग्रं क्रमुकं तथा ॥ २५.१९७ ॥ दद्यात्प्रभूतं तेभ्यन्तु ब्राह्मणेभ्यः पृथक्पृथक् । तत्सायं च विशेषेण कृष्णगन्धानुलेपनम् ॥ २५.१९८ ॥ सद्यः प्रतिसरं बद्ध्वा देवाग्रे स्थण्डिलं चरेत् । कृष्णागुरु समादाय सर्ववाद्यसमायुतम् ॥ २५.१९९ ॥ ग्रामं प्रदक्षिणं कृत्वा स्थण्डिलोपरि विन्यसेत् । पुण्याहं विधिवत्कृत्वा श्रियमावाह्य तत्र च ॥ २५.२०० ॥ संस्कृत्य विधिवद्गन्धान् समभ्यर्च्य हरिं ततः । "गन्धद्वारेऽति मन्त्रेण सर्वाङ्गं लेपयेद्गुरुः ॥ २५.२०१ ॥ देव्यादीनां तथा कुर्यात्तत्तन्मन्त्रैर्यथाविधि । तच्छेषगन्धं भक्त्यैव भक्तेभ्यो दापयेद्गुरुः ॥ २५.२०२ ॥ तद्गन्धधारणान्नॄणां भदेयुस्सर्वसंपदः । सायमर्चावसाने तु रथयात्रां समाचरेत् ॥ २५.२०३ ॥ अष्टमे दिवसे प्राप्ते समाप्ते प्रातरुत्सवे । अलङ्कृत्य तु देवेशं मृगयोत्सवमाचरेत् ॥ २५.२०४ ॥ मध्याह्ने देवदेवस्य जलक्रीडोत्सवं चरेत् । प्रपां कृत्वा विधानेन नद्यादीनां तटे बुधः ॥ २५.२०५ ॥ वितानाद्यैरलङ्कृत्य जलक्रीडार्थमण्टपम् । बिंबाध्यर्धायतामर्धविस्तारां बिंबदघ्निकाम् ॥ २५.२०६ ॥ जलद्रोणीमथाच्छिद्रां न्यस्य लोहमयीं घनाम् । नादेयाद्भिस्समापूर्व "धारास्विऽति च मन्त्रतः ॥ २५.२०७ ॥ एलाचन्दनकर्बूरैः कुङ्कुमेनाधिवासयेत् । कल्हारकेतकीपुष्पैरुशीरागुरुभिस्तथा ॥ २५.२०८ ॥ आस्तीर्य नववस्त्राणि "वेदाहऽमिति मन्त्रतः । "पुण्यतीर्थं शिवं पुण्यं देवावासऽमिति ब्रुवन् ॥ २५.२०९ ॥ अधिदेवं समावाह्य विग्रहैरष्टभिर्यजेत् । मण्डपे पश्चिमार्धे तु विष्टरे सोत्तरछदे ॥ २५.२१० ॥ देवदेवं समास्थाप्य शकुनसूक्तं समुच्चरन् । नववस्त्रोत्तरीयाद्यैरलङ्कृत्य मनोहरम् ॥ २५.२११ ॥ पाद्यादिभिस्समभ्यर्च्य स्थापगैस्सहितो गुरुः । "भूः प्रपद्येऽति मन्त्रेण देवदेवं प्रणम्य च ॥ २५.२१२ ॥ "परं रंहेऽति मन्त्रेण देवमादायचादरात् । "प्रतद्विष्णुस्त्सवतऽइति जलद्रोण्यां निवेश्य च ॥ २५.२१३ ॥ इन्द्रादी श्च जयादीश्च तण्डुलैःक्ज्प्तमण्डले । समावाह्य समभ्यर्च्येज्जलद्रोण्यभितो गुरुः ॥ २५.२१४ ॥ "अपो हि ष्ठाऽदि मन्त्रां स्त्रीननुवाकान्त्समुच्चरन् । "इदमापश्शिऽवेत्युक्त्वा "आपो वा इदऽमुच्चरन् ॥ २५.२१५ ॥ अभिमन्त्ष जलद्रोण्यां देवदेवं प्रणम्य च । पौरुषं सूक्तमुच्चार्य विष्णुसूक्तं च वैष्णवम् ॥ २५.२१६ ॥ "इषे त्वोर्जेऽत्वादि जपन् "भूरानिलयऽ इत्यपि । मङ्जयित्वा जलद्रोण्यां देवं प्राक्छिरसं हरिम् ॥ २५.२१७ ॥ अधिवास्यतु यामार्धं यामद्वयमथापि वा । "परं रंऽहेति मन्त्रेण तत उद्धृत्यवै पुनः ॥ २५.२१८ ॥ अलङ्कृत्य च वस्त्राद्यैर्यथार्हं परिपूज्य च । यानमारोप्य देवेशं ग्राममालयमेव वा ॥ २५.२१९ ॥ प्रदक्षिणं क्रमान्नीत्वा सर्वालङ्कालसंयुतम् । ग्रामवीथ्यामुपहृतमुपहालमगृह्य च ॥ २५.२२० ॥ पुनरालयमाविश्य संस्थाप्यास्थानमण्डपे । सुगन्धितैलेनाभ्यज्य देवं संस्नाप्य पूर्ववत् ॥ २५.२२१ ॥ जीवस्थाने समास्थाप्य समभ्यर्च्य निवेदयेत् । तद्रात्रावुत्सवान्तेतु देवं देवीयुतं हरिम् ॥ २५.२२२ ॥ प्रतिष्ठोक्तविधानेन बद्ध्वा प्रतिसरं ततः । अधिवासविधानेन शयने शाययेद्गुरुः ॥ २५.२२३ ॥ प्रभाते देवसुत्थाप्य पाद्याद्यर्घ्यान्तमर्चयेत् । तस्मिन् तीर्थदिने प्रातर्हेमाद्यं प्रातरुत्सवम् ॥ २५.२२४ ॥ कृत्वा हविर्विना देवमभ्यर्च्यास्थानमण्डपे । प्रमुखे गरुडं पश्चाद्दक्षिणे चक्रमेव च ॥ २५.२२५ ॥ अमितं चोत्तरेधीमान् धान्यपीठोपरि न्यसेत् । नित्यपूजां हविर्दानं ध्रुवबेरे समाचरेत् ॥ २५.२२६ ॥ पूर्वालङ्कृतवस्त्रादीन् विसृज्यैव प्रयत्नतः । अन्यवस्त्राणिचाच्छाद्य यथार्हं भूष्य भूषणैः ॥ २५.२२७ ॥ अष्टोपचारैरभ्यर्च्य देवं चक्रादिदेवताः । व्रीहिभिस्थ्संडिलं कृत्वा द्विहस्तायतविस्तृतम् ॥ २५.२२८ ॥ उलूखलं च मुसलं स्थाप्य वस्त्रेण संयुतम् । तयोरीशौ क्रमेणैव ब्रह्येशावर्चयेद्बुधः ॥ २५.२२९ ॥ पात्रे हरिद्रां संगृह्य सिनीवालीमथार्ऽच्य च । उलूखले हरिद्रां च तन्मन्त्रेण विनिक्षिपेत् ॥ २५.२३० ॥ गृहीत्वा वैष्णवैर्मन्त्रैराचार्यो मुसलं तथा । विष्णुसूक्तं समुच्चार्य किञ्चित्तदवघातयेत् ॥ २५.२३१ ॥ भक्तैर्वा देवदासीभिश्चूर्णीकृत्य विशेषतः । एकस्मिन्वाद्वयोर्वाथ त्रिषु वा कलशेषुवै ॥ २५.२३२ ॥ गन्धोषितं च वादैलमाढकं परिगृह्यच । पिधाय च पिधानैश्च स्थण्डिलोपरि विन्यसेत् ॥ २५.२३३ ॥ आच्छाद्य नववस्त्रेण सोमं तैले समर्चयेत् । सिनीवालीं च तच्चूर्णे चक्रादींश्च प्रपूजयेत् ॥ २५.२३४ ॥ देवमभ्यर्च्य पुण्याहं वाचयन्वैष्णवं गुरुः । संस्राव्य मूर्थ्नि तत्तैलं "वेदाहऽमिति मन्त्रतः ॥ २५.२३५ ॥ हारिद्रचूर्णैस्संस्नाप्य चक्रादीन् स्नापयेत्ततः । तच्छिष्टं धारयन् भक्तस्सर्वपापैः प्रमुच्यते ॥ २५.२३६ ॥ अथ याने समारोप्य देवं चक्रादिभिस्सह । चूर्णोत्सवमिमं कृत्वा तीर्थोत्सवमथाचरेत् ॥ २५.२३७ ॥ देवखातं यदि फवेत्तीर्थं तत्र प्रशस्यते । नद्यादितीरे संस्थाप्य देवीभ्यां सह वा विना ॥ २५.२३८ ॥ चक्रादीन् पूर्ववत्स्थाप्य प्रमुखे स्थण्डिलं चरेत् । द्रव्येणापूर्व कलशान् गायत्रीमन्त्रमुच्चरन् ॥ २५.२३९ ॥ मध्ये सिद्धार्थकं न्यस्य प्राच्यां स्यादक्षतोदकम् । दक्षिणे गन्धतोयं स्यात्पश्चिमे तु कुशोदकम् ॥ २५.२४० ॥ जप्योदकं चोत्तरे स्याद्विदिशासु च मध्यतः । उपस्नानानि विन्यस्य क्रमात्तदधिपान् गुरुः ॥ २५.२४१ ॥ आदित्यानप्सरसश्च काश्यपं च गुरुं तथा । ऋतूंश्च मरुतश्चैव मुनीं स्तक्षकमेव च ॥ २५.२४२ ॥ मन्त्रान्विद्याधरांश्चैव क्रमेणावाह्यचार्चयेत् । "पूतस्तऽस्येति मन्त्रेण "इमा ओषधयऽइत्यपि ॥ २५.२४३ ॥ "अभि त्वा शूरऽ"चत्वारिऽ"पूतस्तन्येऽतिचक्रमात् । कलशैः पञ्चभिस्स्नाप्यतत्तद्द्रव्यान्तरे क्रमात् ॥ २५.२४४ ॥ "वारीश्चतस्रऽइत्युक्त्वा चोपस्नानं समाचरेत् । शिष्टाभिः कलशाद्भिश्च चक्राधीनभिषिच्य च ॥ २५.२४५ ॥ प्रविश्य तु जलं तत्र वरुणं चार्चयेत्क्रमात् । हस्ताभ्यां चक्रमादाय देवं भक्तैस्समन्वितः ॥ २५.२४६ ॥ आचार्यः प्रथमं तीर्थे चक्रं स्सृष्ट्यावगाहयेत् । नाभिदघ्नजले तत्र जलमध्ये तु सुस्थितः ॥ २५.२४७ ॥ चक्रं देवं हृदि स्थाप्य हस्ताभ्यां धारयन् दृढम् । "ये ते शतंऽ समुच्चार्य प्राङ्मुखो वाप्युदङ्मुखः ॥ २५.२४८ ॥ निमज्जयेत्तदा चक्रं सर्ववाद्ययुतं गुरुः । जनास्सर्वे च तत्तीर्थे स्नात्वा विगतकल्मषाः ॥ २५.२४९ ॥ भवेयुरश्वमेधस्य फलं च समवाप्नुयुः । ततस्तीरे प्रतिष्ठाप्य विष्टरे चक्रमुत्तमे ॥ २५.२५० ॥ कुर्यादवभृथस्नानं शुद्धस्नानोक्तमार्गतः । ततो विसृज्य वस्त्रादीन् देवं चान्यैर्विभूष्य च ॥ २५.२५१ ॥ तत्रैव नसस्नांभारान् संभृत्य विधिना गुरुः । देवीभ्यां सह देवेशं स्नापयेत्पूर्ववत्प्रभुम् ॥ २५.२५२ ॥ अलङ्कृत्य विशेषेण कुर्यादर्घ्यान्तपूजनम् । पश्चाद्देवं समादाय सर्वालङ्कारसंयुतम् ॥ २५.२५३ ॥ शाकुनं सूक्तमुच्चार्य नीत्वा ग्रामं प्रदक्षिणम् । देवालयं प्रविश्याथस्थाप्य चास्थानमण्डपे ॥ २५.२५४ ॥ पाद्यादिभिस्समभ्यर्च्य वेदानध्यापयेत्क्रमात् । मुहुःपुष्पांजलिं दत्वाजीवस्थाने निवेशयेत् ॥ २५.२५५ ॥ चक्रादीनपि चादाय तत्तत्थ्साने निवेश्य च । पुण्याहं वाचयित्वातु प्रोक्षणेः प्रोक्षणं चरेत् ॥ २५.२५६ ॥ नित्यपूजं समाप्यैव हविर्दद्याद्विशेषतः । यागशालां समासाद्य हुत्वाग्निषु च वैष्णवम् ॥ २५.२५७ ॥ कुंभस्थां शक्तिमादाय ध्रुवबेरेऽवरोपयेत् । अन्तहोमं च हुत्वाग्निं नित्यकुण्डेप्रणीय च ॥ २५.२५८ ॥ तद्रात्रौ नित्यहोमान्ते बलिं दत्वा च पूर्ववत् । पश्चाच्चक्रं विना दद्याद्बलिं शुद्धान्न कल्पितम् ॥ २५.२५९ ॥ पूर्वोक्तेनैव मार्गेण सर्वत्र बलिमाचरेत् । चैत्यस्थाने प्रपायां तु उत्याने वृक्षमूलके ॥ २५.२६० ॥ तटाके निर्झरे कूपवापीवल्मीकपार्श्वके । श्मशानेऽन्यत्र देवाग्रे वीथ्यन्तेषु च निक्षिपसेत् ॥ २५.२६१ ॥ पुनरालयमाविश्य स्नात्वा चाप्यग्निसन्निधौ । ध्वजमूलं समासाद्य सर्ववाद्य समायुतम् ॥ २५.२६२ ॥ ध्वचावरोहणं कुर्याद्ध्वजमत्रं समुच्चरन् । तद्ध्वजं तु समादाय प्रादक्षिण्यक्रमेण वै ॥ २५.२६३ ॥ परीत्य मन्दिरं पश्चात्प्रविश्याभ्यन्तरं पुनः । देवस्य पादमूले तु न्यस्य पुष्पाञ्जलिं ददेत् ॥ २५.२६४ ॥ क्षमामन्त्रं समुच्चार्य दण्डवत्प्रणमेद्भुवि । फलश्रुतिः एवं यः कुरुते भक्त्वा विष्णोरुत्सवमादरात् ॥ २५.२६५ ॥ सर्वपापविशुद्धात्मा सर्वान् कामानवाप्य च । अन्ते विमानमारुह्य विष्णुलोकं स गच्छति ॥ २५.२६६ ॥ पुष्पयागः अतःपरं प्रवक्ष्यामि पुष्पयागं सुखावहम् । द्वितीयदिवसे तीर्थात्पुष्पयागं समाचरेत् ॥ २५.२६७ ॥ शान्तिदं पुष्टिदं चेति काम्यदं च त्रिधा भवेत् । प्रातर्मध्याह्नापराह्णाः क्रमात्कालाः प्रकीर्तिताः ॥ २५.२६८ ॥ न्यूनं वाप्यधिकं चैतद्दोषोपशमनाय वै । आस्थानमण्डपे वाथ स्नपनालय एव वा ॥ २५.२६९ ॥ चतुर्दिशं चतुर्हस्तं गोपयेनोपलिप्य च । पञ्चविंशत्पदं कृत्वा षट्सूत्रैः प्रागुद्गगतैः ॥ २५.२७० ॥ मध्ये ननपदे पद्मं साष्टपत्रं सकर्णिकम् । रत्नधान्यादिकैर्वापि तण्डुलैर्व्रीहिभिस्तिलैः ॥ २५.२७१ ॥ बहिस्तेषु पदेष्वग्रे वीशमेकत्र पूजयेत् । दक्षिणे चक्रमभ्यर्च्य पङ्क्तीशं पश्चिमे तथा ॥ २५.२७२ ॥ उदीच्यां शान्तमभ्यर्च्य शेषेषु च पदेषु वै । पूजाद्रव्याणि संभृत्य प्रत्येकं विन्यसेद्बुधः ॥ २५.२७३ ॥ दलेष्वष्टसु पद्मस्य सुवर्णशकलोपरि । लोकपालान्त्समभ्यर्च्य वस्त्रोपरि यथादिशम् ॥ २५.२७४ ॥ निष्कत्रयसुवर्णेव कल्पिते कर्णिकोपरि । आदित्यमण्डलं तत्र राजते चन्द्रमण्डलम् ॥ २५.२७५ ॥ तस्मिन् सुवर्णरूपे तु वह्नि मण्डलमर्चयेत् । विष्टरं तत्र संस्थाप्य तदन्तर्गतपङ्कजे ॥ २५.२७६ ॥ तत्र देवं प्रतिष्ठाप्य यावद्दिवसमुत्सवम् । तावत्कृत्वस्समभ्यर्छ्य सप्तविंशतिविग्रहैः ॥ २५.२७७ ॥ तत्र पूजावसानेतु तत्तत्पुष्पाञ्जलिं ददेत् । पङ्कजं तुलसी बिल्वं करवीरमथोत्पलम् ॥ २५.२७८ ॥ नन्द्यावर्तं च कुमुदमपामार्गं तथैव च । विष्णुक्रान्तं च दूर्वां चक्रमादेतान्यनुक्रमात् ॥ २५.२७९ ॥ एवं पुष्पाजलिं दत्वा ऋत्विजस्सहतैर्गुरुः । नृत्तैर्गेयैश्चवाद्यैश्च चतुर्वेदस्तवैरपि ॥ २५.२८० ॥ परात्परतरं पारं गुह्याद्गुह्यतरं गुरुम् । सर्ववेदार्थसारं तं द्वादशाष्याक्षरं तथा ॥ २५.२८१ ॥ जपन्तो विष्णुगायत्रीं शतमष्टोत्तरं ततः । दद्युः पुष्पाञ्जलि भक्त्या देवदेवस्य पादयोः ॥ २५.२८२ ॥ पञ्चाग्निष्वथ वाग्नींस्त्रीन् पैण्डरीकमथापि वा । देवस्य परितः कुर्यादुत्तमादिक्रमे क्रमात् ॥ २५.२८३ ॥ उत्तमे सभ्यकुण्डे तु मध्ये त्वाहवनीयके । हौत्रप्रशंसनं कुर्यात्तदालयगतान्त्सुरान् ॥ २५.२८४ ॥ आवाह्याज्यं निरूप्यैव तत्क्रमेणाहुतीर्यजेत् । वैष्णवं विष्णुसूक्तं च सम्यग्घुत्वा विशेषत ॥ २५.२८५ ॥ ततश्चाहवनीयाग्नौ नृसूक्तं वैष्णवं यजेत् । दक्षिणाग्नौ विष्णुसूक्तं श्रीसूक्तं च यजेत्क्रमात् ॥ २५.२८६ ॥ जुहुयाद्गार्हपत्याग्नौ गायत्रीं वैष्णवीं(वं)ततः । आवसद्ध्ये तु जुहुयात्सूक्तमेकाक्षरादिकम् ॥ २५.२८७ ॥ आज्येन समिधा तत्तद्धविर्भेदैश्च हूयताम् । एतदुत्तममुद्दिष्टं मध्यमं तु प्रवक्ष्यते ॥ २५.२८८ ॥ यथालाभप्रमाणेन पूर्वोक्तार्धेन वा हरेः । पद्ममण्डलदेवानां कारयेत्प्रतिमादिकम् ॥ २५.२८९ ॥ तत्तद्दिनार्चनान्ते तु शुद्धान्नं वा निवेद्य च । सर्वार्चान्ते पञ्चहविर्दद्यादित्याह पूर्वजः ॥ २५.२९० ॥ चतुर्वेदादिघोषं च चतुर्दिक्षु प्रकल्पयेत् । अब्जहोमं क्रमेणैव जुहुयान्मन्त्र वित्तमः ॥ २५.२९१ ॥ पुष्पन्यासक्रमेणैव सर्वविद्येश्वरान्तकम् । अभ्यर्च्य प्रथमं पश्चात्पष्पयागोक्त पूजनम् ॥ २५.२९२ ॥ कृत्वा यथालाभहविर्भक्ष्याणि विविधानि च । निवेद्य मुखवासान्ते परिवारबलिं क्षिपेत् ॥ २५.२९३ ॥ इत्येवं मध्यमे प्रोक्तं प्रवक्ष्याम्यधमे पुनः । विना दिशादिभिर्भेदैर्हेमैश्च पृथगर्चनैः ॥ २५.२९४ ॥ मण्डले देवमारोप्य पूजयित्वा यधाविधि । हवींषि पञ्च चोक्तानि निवेद्य च ततः परम् ॥ २५.२९५ ॥ दद्यात्पुष्पांजलिं मन्त्रैस्समस्तदिवसोदितैः । जान्वन्तं च तथोर्वन्तं कट्यन्तं च समर्चयेत् ॥ २५.२९६ ॥ नाभ्यन्तं च स्तनान्तं च बाह्यस्तमिति चक्रमात् । ग्रीवान्तं च ललाटान्तं मौल्यस्तमिति चक्रमात् ॥ २५.२९७ ॥ तत्तत्पूजावसानेतु हविस्सम्यङ्नि वेदयेत् । उत्सवाज्ञातदोषाणां प्रायश्चित्तमिदं स्मृतम् ॥ २५.२९८ ॥ अतस्सर्वप्रयत्नेन पुष्पयागं समाचरेत् । द्वादशाराधनम् कुर्याद्यथोक्तविधिना द्वादशाराधनं तथा ॥ २५.२९९ ॥ दद्यादाचार्यपूर्वेभ्यो दक्षिणां विधिवत्ततः । एकविंशतिनिष्कन्तु दद्यादाचार्यदक्षिणाम् ॥ २५.३०० ॥ पदार्थिनां च सर्वेषां तदर्धं स्यात्पृथक्पृथक् । गोभूमिभ्यां विशेषेण दत्वाचार्यं प्रसादयेत् ॥ २५.३०१ ॥ आचार्यस्सुप्रसन्नात्मा सर्वाग्निषु यथाक्रमम् । अन्तहोमं समाप्यैव देवदेवं प्रणम्य च ॥ २५.३०२ ॥ जीवस्थाने प्रतिष्ठाप्य देवेशं सम्यगर्चयेत् । ब्राह्मणान् भोजयेच्चैव प्रदद्याद्भूरिदक्षिणाम् ॥ २५.३०३ ॥ पुष्पयागोत्सवः प्रोक्तो देवदेवस्य शार्ङ्गिणः । शान्तिकादिविधाने तु कुर्यादङ्कुरपूर्वकम् ॥ २५.३०४ ॥ एवं यःकुरुते भक्त्यापुष्बयागं हरेः प्रियम् । सर्वान् कामानवाप्यैव सर्वैश्वर्यमवाप्य च ॥ २५.३०५ ॥ सर्वान् शत्रून् विजित्वैव प्रजापशुसमन्वितः । अन्ते विमानमारुह्य विष्णुसायुज्यमाप्नुयात् ॥ २५.३०६ ॥ इति श्रीवैखानसे भगवच्छास्त्रे भृगुप्रोक्तायां संहितायां प्रकीर्णाधिकारे पञ्चविंशोऽध्यायः. _____________________________________________________________ अथ षड्विंशोऽध्यायः अथ षड्विंशोऽध्यायः प्रायश्चित्तम् अतःपरं प्रवक्ष्यामि भूपरीक्षादिनिष्कृतिम् । न्यूनेऽतिरिक्ते व्याघाते प्रायश्चित्तं समाचरेत् ॥ २६.१ ॥ प्रायोदोषस्समुद्दिष्टश्चित्तं तस्य निवारणम् । प्रायश्चित्तं समाख्यातं कुर्यात्कर्मसमृद्धये ॥ २६.२ ॥ प्रायश्चित्तमकुर्वाणस्सति दोषे विनश्यति । तस्मात्सर्मप्रयत्नेन कुर्याद्यत्नेन निष्कृतिम् ॥ २६.३ ॥ आलयस्य च निर्माणं पूजाद्यास्तत्र याःक्रियाः । अस्माच्छास्त्रादतिक्रम्य निष्फलाःप्रभवन्तिहि ॥ २६.४ ॥ तद्दोषशमनायैव महाशान्तिपुरस्सरम् । सर्वाःक्रियाःक्रमेणैव पुनश्शास्त्रोक्तवच्चरेत् ॥ २६.५ ॥ यच्छास्त्रविधिमुत्सृज्य क्रियते कामकारतः । नोक्तं दद्यात्फलं कर्म प्रत्युतानर्थदं भवेत् ॥ २६.६ ॥ शिल्पं च ज्योतिषं वास्तु तदऽन्ये चागमाः परे । तावता हि प्रमाणं स्याद्यावदेतेन नान्तरम् ॥ २६.७ ॥ वैखानसमिदं शास्त्र मन्यशास्त्रानपेक्षितम् । प्रणिवायाब्जजः पूर्वं सर्वशास्त्रार्थसंग्रहम् ॥ २६.८ ॥ मोहादज्ञानतो वापि विचिकित्सापदेषु यः । शास्त्रान्त रानुरोधेन शास्त्रमेतद्विमानयेत् ॥ २६.९ ॥ स याति नरकं घोरं यावदाभूतसंप्लवम् । तस्मान्निष्कास्य तं मूढं शास्त्रोक्तं सम्यगाचरेत् ॥ २६.१० ॥ यदागच्छेद्बहिर्द्वारं भूमिं सम्यक्परीक्षितुम् । अपतेदन्तरायश्चेत्प्रायश्चित्तं हुनेद्बुधः ॥ २६.११ ॥ जपेच्च वैष्णवं वैघ्नं शतशः पुनराचरेत् । दुर्दर्शने जपेत्सौरं हुनेत्पूर्वोक्तवद्बुधः ॥ २६.१२ ॥ दुर्वाक्ये तु श्रुते ब्राह्मं जपेत्सारस्वतं तथा । तत्काले कलहे चैव शोणितप्रस्रवे तथा ॥ २६.१३ ॥ अग्निदाहादिके चैव वैष्णवं सौम्यसंयुतम् । वैष्वक्सेनं तथा सौदर्शनं गारुडमेव च ॥ २६.१४ ॥ लौकिकाग्नौ हुनेद्ध्यात्वा देवं पश्चात्समाचरेत् । भूपरीक्षणकाले तु यदि पांसुक्षयो भवेत् ॥ २६.१५ ॥ पूर्णाहुतिं च जुहुयात्तथा मिन्दाहुती बुधः । परीक्षिता यदा भूमिः पूर्वमेवान्यवर्त्मना ॥ २६.१६ ॥ औपासनाग्निमाधाय व्याहृत्यन्तं तु वैष्णवम् । जुहुयाद्दशशः कुर्यात्ततः कर्माणि मन्त्रतः ॥ २६.१७ ॥ वृषभस्याङ्गहानौतु कर्षणे दोषशान्तये । रौद्रं ब्राह्मं च जुहुयात्ततोऽन्यं वृषमाहरेत् ॥ २६.१८ ॥ हलादीनां तु निर्माणे यज्ञवृक्षेतरैः कृते । तथा प्रमाणहीने च जुहुयाद्वैष्णवं तथा ॥ २६.१९ ॥ सौम्यं चैव तथाग्नेयं प्राजापत्यं च देशिकः । रज्जभेदे वारुणं च सीताभेदेश्रियं तथा ॥ २६.२० ॥ दात्रभेदे तु जुहुयाज्ज्येष्ठामन्त्रं विचक्षणः । ऋषिभेदे तु वायव्यं क्षिणीये वासवं तथा ॥ २६.२१ ॥ युगे नागं प्रतोदे तु याम्ये व्याहृतिसंयुतम् । कपालास्थितुषाङ्गारकेशवल्मीकखर्पराः ॥ २६.२२ ॥ दृष्टाःकर्षणकाले चेत्तद्व्यपोह्याविलंबितम् । अभ्युक्ष्य पञ्चगव्येन सौम्याग्नेयौ हुनेत्क्रमात् ॥ २६.२३ ॥ तत्र चेदर्चने हीने शान्तवीशानपायिनाम् । वैष्णपं जुहुयात्तत्तद्दैवत्यं चार्ऽचयेत्पुनः ॥ २६.२४ ॥ बीजावापनहीने तु जुहुयाद्वैष्णवं तथा । सौम्यं हुत्वा च वायव्यं पुनर्बीजानि वापयेत् ॥ २६.२५ ॥ गवां निवेदने हीने वैष्णपं चामितं हुनेत् । गारुडं चक्रमन्त्रं च दशशस्सुसमाहितः ॥ २६.२६ ॥ पलालभारानाहृत्य गोगणेभ्यो निवेदयेत् । पददेवबलौ हीने हुनेत्तन्मन्त्रपूर्वकम् ॥ २६.२७ ॥ वैष्णवं ब्राह्ममैन्द्रं च याम्यं वारुणमेव च । कौबेरं च क्रमाद्धुत्वा बलिं तत्र समर्पयेत् ॥ २६.२८ ॥ ब्रह्मपद्मक्रियाहानौ वैष्णवब्राह्मवारुणान् । भूदैवत्यं च जुहुयात्पुनः कार्यं समाचरेत् ॥ २६.२९ ॥ दिक्फरिच्छेदहीने तु दिग्दैवत्यं च वैष्णवम् । सौरं चैव पुनर्हुत्वा कुर्याद्दिक्साधनं ततः ॥ २६.३० ॥ विमानार्थं यदा भूमिःखन्यते तत्र संभवे । शर्कराशल्यलोष्टादौ वैष्णवं ब्राह्ममेव च ॥ २६.३१ ॥ पञ्चभूताधिदै वत्यं व्याहृतीश्च हुनेत्क्रमात् । हीनेऽधिके वा माने तु शीलाया इष्टकस्य वा ॥ २६.३२ ॥ वैष्णवं विष्णुसूक्तं च हुत्वा विधिवदाचरेत् । विपर्यासे तु विन्यासे दिग्दैवत्यं च वैष्णवम् ॥ २६.३३ ॥ हुत्वा यथोक्तवत्कृत्वाजपेद्वेदादिकान्मनून् । रत्नन्यासविहीने तु हुनेत्तदधिपान्ममान् ॥ २६.३४ ॥ विष्णुसूक्तन्ततो हुत्वा रत्नन्यासं समाचरेत् । गर्भन्यासविहीने तु वैष्णवं विष्णुसूक्तकम् ॥ २६.३५ ॥ हुत्वा श्रीभूमि दैवत्यं गर्भन्यासं पुनश्चरेत् । प्रमाणहीने तु वैष्णवं विष्णुसूक्तकम् ॥ २६.३६ ॥ सौरं सौम्यमथाग्नेयं यजेत्कुर्याद्विधावतः । निर्माणकाले द्रव्याणां स्थापने संकरेणवै ॥ २६.३७ ॥ विपर्यासे च संप्राप्ते वैष्णवं जुहु यात्क्रमात् । तत्तत्थ्सानाधिदैवत्यं हुत्वा विधिवदाचरेत् ॥ २६.३८ ॥ अनुक्तदेशे न्यासे च विष्णुसूक्तं च पौरुषम् । हुनेच्छ्रीभूमिदैवत्यं तत्तत्थ्साने निवेशयेत् ॥ २६.३९ ॥ अप्रमाणे शिलायां वा तथा मूर्धेष्टकादिषु । जुहुयान्निष्कृतिं विद्वानाद्येष्टकविधानतः ॥ २६.४० ॥ स्थूपिकीले तदाधारे प्रमाणपरिवर्जिते । अलाभे चोक्तदारूणां वैष्णवं सौम्यपावके ॥ २६.४१ ॥ भूदैवत्यं च हुत्वा तु विधिना कालयेद्बुधः । विमाने निर्मिते पश्चात्सुधाकर्मण्यकल्पिते ॥ २६.४२ ॥ वैष्णवं विष्णुसूक्तं च सूक्तं पौरुषमेव च । हुनेच्छ्रीभूमिदैवत्यं विधिना पुनरारभेत् ॥ २६.४३ ॥ आग्नेयं भूमिदैवत्यं हुत्वा कार्यं समाचरेत् । हीने धाम्नःकवाटादौ धात्रादीन् जुहुयाच्च षट् ॥ २६.४४ ॥ वैष्णवं श्रीमहीमन्त्रान् हुत्वा निर्मापयेत्पुनः । प्राकारे गोपुरे हिने दोषो भूयान्महत्तरः ॥ २६.४५ ॥ वंशहानिर्द्विषद्वृद्धिरर्थनाशो महद्भयम् । शान्तेहिने महापत्स्यात्कुलं चोत्सीदति ध्रुवम् ॥ २६.४६ ॥ भूतपीठविहीने तु धनधान्यायुषां क्षयः । कूपारामहविश्शालपुष्पसंचयवाटिकाः ॥ २६.४७ ॥ स्नानपानीयशाला च तथैवास्थानमण्डपम् । नृत्तगीतप्रपाश्चैवं मण्डपादावनिर्मिते ॥ २६.४८ ॥ संपद्येत महान् दोषः कृतं स्यादकृतं पुनः । तस्मात्सर्वप्रयत्नेन कारयेच्छक्तितो बुधः ॥ २६.४९ ॥ वैष्णवं विष्णुसुक्तं च पौरुषं सूक्तमेव च । हुत्वा श्रीभूमिदैवत्यं तत्तद्दैवत्यमेव च ॥ २६.५० ॥ यथोक्तं तु प्रकुर्वीत वित्तशाठ्यंन कारयेत् । प्रथमेष्टकां समारभ्य स्थूपिकीलावसानके ॥ २६.५१ ॥ आनुक्तानां च दोषाणामियं स्यात्सर्वनिष्कृतिः । आलयात्पुरतोवाथ दक्षिणे वा मनोरमे ॥ २६.५२ ॥ शुचौ देशे प्रतिष्ठाप्य पद्माग्नौ जुहुयात्क्रमात् । वैष्णवं विष्णुसूक्तं च पौरुषं सूक्तमेव च ॥ २६.५३ ॥ हुनेच्छ्रीभूमिदै वत्यमङ्ग होमश्चहूयते । स्थूप्याद्युपानपर्यन्तविमानाङ्गानि नामतः ॥ २६.५४ ॥ "दद्भ्यस्स्वाऽहादि जुहुयाद्ब्राह्मं रौद्रं विनायकम् । आग्नेयं दुर्गासूक्तं च प्राजापत्यं च हावयेत् ॥ २६.५५ ॥ समापिते विमाने तु धनलोभादिना पुनः । ध्रुवबेरं विनाकृत्वा कौतुके स्थापिते यदि ॥ २६.५६ ॥ आभिचारिकमेतत्स्याद्राज राष्ट्रविनाशनम् । तद्दोषपरिहारार्थं महाशान्तिं त्षहं चरेत् ॥ २६.५७ ॥ वैष्णवांश्च सुसंपूज्य भोजयेद्ब्राह्मणान् बहून् । "क्षमऽस्वेति नमस्कृत्य देवदेवं तु कौतुकम् ॥ २६.५८ ॥ बालालये प्रतिष्ठाप्य ध्रुवबेरं समाचरेत् । ध्रुवार्चाबेरमथ वा कृत्वा स्थापनमाचरेत् ॥ २६.५९ ॥ विमानस्य समाप्तौ तु मासादूर्ध्वं तु तत्र वै । ध्रुवस्थापनहीने तु वैष्णवं जुहुयात्ततः ॥ २६.६० ॥ विष्णुसूक्तं तथा रौद्रमैन्द्रमाग्ने यमेव च । वारुणं बार्हस्पत्यं च श्रीभूदैवत्यमेव च ॥ २६.६१ ॥ शान्तिं हुत्वा विधानेन दद्यादाचार्यदक्षिणाम् । ब्राह्मणान् भोजयित्वैव पूजयित्वा तु वैष्णवान् ॥ २६.६२ ॥ ध्रुवबेरं प्रतिष्ठाप्य विधिना सम्यगर्चयेत् । एवं मासद्वयेऽतीते द्विगुणं निष्कृतिर्भवेत् ॥ २६.६३ ॥ मासत्रये तु त्रिगुणमेवमावत्सरं भवेत् । संवत्सरे व्यतीते तु दोषो भूयान्महत्तरः ॥ २६.६४ ॥ सप्ताहं तु महाशान्तिं हुत्वाब्जाग्नौ विधानतः । ब्राह्मणान् भोजयेत्पश्चाद्विधिना सर्वमाचरेत् ॥ २६.६५ ॥ सप्तवर्षेषु सप्ताहं प्रथमादिक्रमेण वै । केचिदिच्छन्ति मुनयस्सप्ताहान्तमिदं चरेत् ॥ २६.६६ ॥ अत ऊर्ध्वं कर्षणादि पुनस्संस्कारमाचरेत् । जलाधिवासनात्पूर्वमङ्गहानौ ध्रुवस्यतु ॥ २६.६७ ॥ वैष्णवं विष्णुसूक्तं च सूक्तं पौरुषमेव च । हुनेच्छ्रीभूमिदैवत्यं "दद्भ्यस्स्वाहाऽदिकं तथा ॥ २६.६८ ॥ आचार्यदक्षिणां दद्याद्बेरं सम्यक्परीक्षयेत् । संधानयोग्यं संदध्यात्पुनः कार्यं समाचरेत् ॥ २६.६९ ॥ शक्तश्चेन्नूतनं बेरमाहृत्य तु समाचरेत् । शिलाग्रहणसंस्कारमकृत्वा शिल्पिना कृतम् ॥ २६.७० ॥ बेरमादाय जुहुयाच्छान्तिं वैष्णवमन्त्रतः । भूमौ पिधाय तद्बेरं वास्तुहोमं समाचरेत् ॥ २६.७१ ॥ पर्यग्निपञ्चगव्याभ्यां बेरं संशोध्य यत्नतः । परितः पूर्ववद्गत्वा बलिं देवं समर्च्य च ॥ २६.७२ ॥ पश्चात्समन्त्रकं कृत्वाविधिना स्थापयेद्बुधः । जलाधिवासनादर्वाक्थ्सापनात्पूर्वमेव च ॥ २६.७३ ॥ देवस्य देव्यादीनां वा अङ्गहानिर्भवेद्यदि । वैष्णवं विष्णुसूक्तं च पौरुषं सूक्तमेव च ॥ २६.७४ ॥ श्रीसूक्तं च महीसूक्तं ब्राह्मं रौद्रं तथैव च । मुन्योर्मन्त्रमथान्येषां तत्तन्मत्रं सुहूयताम् ॥ २६.७५ ॥ संधानयोग्यं संदध्यादयोग्यं विधिवत्त्यजेत् । संधाय वान्यं चाहृत्य पुनस्थ्सापनमाचरेत् ॥ २६.७६ ॥ स्थापिते तु महाबेरे मासादूर्ध्वमसंस्कृते । अब्जाग्नौ वैष्णवं चैव विष्णुसूक्तं तथैव च ॥ २६.७७ ॥ सूक्तं तु पौरुषं हुत्वा श्रीभूदैवत्यमेव च । ब्राह्मं रौद्रं पार्षदं च हुत्वा कार्यं समाचरेत् ॥ २६.७८ ॥ मासद्वये तु द्विगुणं त्रिमासे त्रिगुणं भवेत् । संवत्सरान्तमेवं स्यात्तदन्ते स्थापयेत्पुनः ॥ २६.७९ ॥ अतीते द्वादशे वर्षे कर्षणादि पुनः क्रियाः । शिलासंग्रहणाद्यन्यत्कृत्वा स्थापनमाचरेत् ॥ २६.८० ॥ अथ वक्ष्ये कर्षणादौ पुनस्संस्कार माचरेत् । तृणगुल्मलतादीनि शोधयेत्पूर्वमालये ॥ २६.८१ ॥ कुर्याच्छिलेष्टकादारुप्रक्षेपणविधिं क्रमात् । सुधावर्णानुलेपादीन् समाप्य गुरुत्वरः ॥ २६.८२ ॥ अलयस्योत्तरे कुर्याद्वास्तुहौमं यथाविथि । पुण्याहं वाचयेद्विद्वान् पर्यग्निं चैव कारयेत् ॥ २६.८३ ॥ पञ्चगव्यैस्समभ्युक्ष्य ततस्संकर्प्य कर्षणम् । आलयाभिमुखे कृत्वा व्रीहिभिस्थ्संडिलं बुधः ॥ २६.८४ ॥ शान्तानपायिनौ वीशं चाभ्यर्च च निवेदयेत् । सुवर्णेन हलं कृत्वा गर्भागारादि सर्वशः ॥ २६.८५ ॥ गृहीत्वा दक्षिणे हस्ते मन्त्रैर्विष्णोर्नुकादिभिः । कर्षयित्वा यथोक्तानि बीजान्याहृत्य देशिकः ॥ २६.८६ ॥ अभ्युक्ष्य सोममभ्यर्च्य विष्णुगायत्रिमुच्चरन् । अभिमन्त्ष ततो बीजान् "सोमं राजानऽमुच्चरन् ॥ २६.८७ ॥ सर्वत्र वापनं कुर्याद्दूर्वादींश्चाहरेत्तृणान् । आस्तीर्योपरि ता न्तृर्वान् सूक्तं गौदानिकं पुनः ॥ २६.८८ ॥ उच्चार्य गोगणेभ्यस्तान्निवेद्य च प्रदापयेत् । आलयं तु सुसंशोध्य ब्रह्मादीनां ददेद्बलिम् ॥ २६.८९ ॥ द्रोणैस्तदर्धैर्वा पक्त्वा तण्डुलैस्सघृतं चरुम् । पूर्वं तोयं ततः पुष्पं बलिं तो यं समर्पयेत् ॥ २६.९० ॥ पुनस्संशोधयेद्धाम शान्तिहोमपुरस्सरम् । तत्तत्संस्कारहोमं च हुत्वा कुर्यात्क्रियास्ततः ॥ २६.९१ ॥ आद्येष्टकार्थमासाद्य कुण्डमौपासनं बुधः । वैष्णवं विष्णुसूक्तं च पौरुषं सूक्तमेव च ॥ २६.९२ ॥ देग्दैवत्यं च जुहुयाद्देवं ध्यायन् समाहितः । जपेद्वेदादिमन्त्रांस्तु संस्पृश्याद्येष्टकास्थलम् ॥ २६.९३ ॥ कृत्वान्तः परिषेकं च परिषिच्यानलं पुनः । गर्भन्यासार्थमागूर्य वैष्णवं विष्णुसूक्तकम् ॥ २६.९४ ॥ पुरुषसूक्तं च श्रीसूक्तं महीसूक्तं तथैव च । देग्दैवत्यं च जुहुया"न्नागराजायऽसेत्यपि ॥ २६.९५ ॥ "सर्वरत्नेभ्यऽइत्युक्त्वा "सर्वधातुभ्यऽइत्यपि । "सर्वबीजेभ्यऽइत्युक्त्वा"सर्वलोहेभ्यऽइत्यपे ॥ २६.९६ ॥ "नदीभ्यःपातालेभ्यऽश्च "नागेभ्योऽजुहुयात्ततः । "दिग्गजेभ्यो विष्णवेऽ च स्वाहान्तं जुहुयात्क्रमात् ॥ २६.९७ ॥ तत आभ्यन्तरद्वारदक्षिणन्तंभदक्षिणे । मेदिनीं तु समभ्यर्च्य जपेत्सूक्तं तु पौरुषम् ॥ २६.९८ ॥ मेदिन्यादींस्ततो जप्त्वातत्तत्थ्सावं स्पृशेद्बुधः । कृत्वान्तः परिषेकन्तु तत्र कार्यं समाचरेत् ॥ २६.९९ ॥ नष्टे गर्भे च हुत्वैवं संपाद्य स्थापयेत्पुनः । अन्यैष्टकार्थं जुहुयाद्वैष्णवं विष्णुसूक्तकम् ॥ २६.१०० ॥ पुरुषसूक्तं च हुत्वातु जुहुयाद्विधिना बुधः । विमानपालदैवत्यं जपन् वेदादिकान्मनून् ॥ २६.१०१ ॥ विमानस्योपरिष्टात्तु स्थूपिकीलादधस्तथा । जपन्वैविष्णुसूक्तं च कुर्याच्चैवाभिमर्शनम् ॥ २६.१०२ ॥ ध्रुवे प्रमाणहीने च परिस्तीर्य च पावकम् । ध्रुवस्थापनवद्धुत्वा रत्नन्यासोदितान्मनून् ॥ २६.१०३ ॥ जपेत्थ्सापनसूक्तं च नवीकृत्य प्रयत्नतः । कौतुकादींश्च कृत्वैव प्रतिष्ठां कारयेद्बुधः ॥ २६.१०४ ॥ नष्टे ध्रुवे पुनःकुर्यादुत्कृष्टद्रव्यनिर्मितम् । अथ वा वूर्ववत्कृत्वा स्थापयेद्विधिनात्वरः, ॥ २६.१०५ ॥ नरैर्वृषैर्मृगाद्यैर्वाबेरमुत्पाटितं यदि । अहीनाङ्गं तु संगृह्य शुद्ध्यर्थमधिवासयेत् ॥ २६.१०६ ॥ जलाधिवासं कृत्वा तु तत्थ्साने विधिना बुधः । रत्नन्यासं च कृत्वैव प्रतिष्ठां पुनराचरेत् ॥ २६.१०७ ॥ अन्यालयादपहृतमनिष्पन्नक्रियं तथा । शिलाबेरं यदि स्यात्तद्भूमौ सम्यक्पिधाय च ॥ २६.१०८ ॥ विधिनाहृत्य संस्कार्यं कृत्वा स्थापनमाचरेत् । शिल्पिना विथिपूर्वं तु कृतं बेलं तथा चरेत् ॥ २६.१०९ ॥ यथाविधि यथास्थानं स्थापितं दोषवर्जितम् । बेरं न चालयेद्यस्माद्राजराष्ट्रविनाशनम् ॥ २६.११० ॥ तद्दोषशमनार्थाय पद्माग्नौ जुहुयात्क्रमात् । सप्ताहं तु महाशान्तिं कुर्याद्ब्राह्मणभोजनम् ॥ २६.१११ ॥ दद्यात्सुवर्णं गां भूमिं प्रतिष्ठां पुनराचरेत् । अविधिज्ञैरथाचार्यैरृत्विग्भिस्थापगैस्तथा ॥ २६.११२ ॥ स्थापितं बेरमाज्ञाय चालयित्वा यथाविधि । विधिज्ञैस्थ्पापनं विद्वान् कारयेदत्वरं तथा ॥ २६.११३ ॥ विधिज्ञैस्थ्सापितं बेरमज्ञानाच्चालितं यदि । शान्तिं हुद्वा विधानेन विधिज्ञैस्थ्सापयेत्पुनः ॥ २६.११४ ॥ नदीतटाकपाथोधिप्रवाहैर्वात्ययाध वा । दैवात्प्रचालिते तत्र विमाने वा ध्रुवेऽपि वा ॥ २६.११५ ॥ भूमौ पिधाय तद्बेरं निर्माय पुनरालयम् । अचलं स्थापयेद्बेरं शास्त्रोक्तेनैव वर्त्मना ॥ २६.११६ ॥ सापाये तु स्थले तस्मिन् सन्निकृष्टे स्थले चरेत् । ग्रामादौ वा विविक्ते वा प्रदेशे सुमनोरमे ॥ २६.११७ ॥ विमानं सुदृढं कृत्वा देवमादाय तत्र वै । सर्वैश्च पार्षदैर्युक्तं संस्थाप्य विधिनार्ऽचयेत् ॥ २६.११८ ॥ ग्रामादीनामभावे तु शतदण्डात्परं ततः । विमानं विस्तृते देशे कृत्वा संस्थाप्य चार्चयेत् ॥ २६.११९ ॥ राजाराष्ट्रान्तरं जित्वा बेरमाहृत्य यत्नतः । स्वराष्ट्रेस्थापितुं चेच्छेद्यदि ग्रामं विधाय च ॥ २६.१२० ॥ तद्वास्त्वङ्गालये बेरं विधिना स्थाप्य चार्चयेत् । अपौरुषालयाभ्याशे विमानं पौरुषं यदि ॥ २६.१२१ ॥ कर्तुमिच्छेत्तदा कुर्यात्तत्प्राकारान्तरे पुनः । भूशुद्ध्यादीन्विना कृत्वा प्राकारं प्रतिमादिकम् ॥ २६.१२२ ॥ प्रतिष्ठाप्यार्ऽचयेत्तस्य मूलस्थानार्ऽचनं फलम् । प्रमादादथवा दैवा दालये स्नपनालये ॥ २६.१२३ ॥ आस्थानमण्डपे पाकस्थानप्राकारयोरपि । गोवुरेस्नानपानीयशालादौ वह्निदूषिते ॥ २६.१२४ ॥ महावातहतेऽकस्मादशन्यादिहते तथा । पारमात्मिकमब्जाग्नावीङ्कारादींस्तथा हुनेत् ॥ २६.१२५ ॥ विच्छिन्नं मिन्दाहुतीचैव आग्नेयं व्याहृतीस्तथा । पुनरन्यन्नवं कृत्वा प्रतिष्ठां कारयेत्क्रमात् ॥ २६.१२६ ॥ शिलाग्रहण काले वा तदा दारुग्रहेऽपि च । क्रियाङ्गीने विपर्यासे वैष्णवं विष्णुसूक्तकम् ॥ २६.१२७ ॥ मिन्दाहुती च विच्छिन्नं व्याहृत्यन्तं हुनेद्बुधः । द्वारस्तंभे भुवङ्गादौ हीने मानेऽग्निदूषिते ॥ २६.१२८ ॥ जीर्णे वा कृमिदष्टे वानुपयुक्तं त्यजेद्बुधः । अन्यमाहृत्य विधिना संयोज्यैव च पूर्ववत् ॥ २६.१२९ ॥ नित्याग्नौ वैष्णवं सौम्यमाग्नेयं शान्तिमाचरेत् । गर्भन्यासार्थमथवा पीठन्यासार्थमेव वा ॥ २६.१३० ॥ रत्नानामप्यलाभे तु सुवर्णं तत्र निक्षिपेत् । विष्णुसूक्तं तु जुहुयात्प्रायश्चित्तं तु तद्भवेत् ॥ २६.१३१ ॥ धातूनां पारदं प्राक्तमलाभप्रणिधिन्तु तत् । पारदं तत्र निक्षिप्य ब्राह्मं रौद्रं च निष्कृतिः ॥ २६.१३२ ॥ यवा बीजप्रतिनिधिर्मुद्गान्वा तत्र निक्षिपेत् । वायव्यं वैष्मवं चेति जुहुयात्तत्र निष्कृतिः ॥ २६.१३३ ॥ ध्रुवबेलस्य निर्माणे शूलग्रहणकर्मणि । स्थापने वा विपर्यासे ब्राह्मं रौद्रं च वैष्णवम् ॥ २६.१३४ ॥ वाहृत्यन्तं च हुत्वैव विधिना योजयेत्पुनः । अप्रमाणे विमाने तु बेरं मानविवर्जितम् ॥ २६.१३५ ॥ अज्ञानात्स्थापितं चेत्तद्राजराष्ट्रविनाशकृत् । तद्दोषशमनार्थं च महाशान्तिं हुनेद्बुधः ॥ २६.१३६ ॥ तद्विमानं च तद्बेरं स्थापयेद्विधिवत्पुनः । तत्तद्बेरोक्तशूलानां प्रमाणं यदि हीयते ॥ २६.१३७ ॥ पूर्णं कृत्वा वैष्णवं च पौरुषं सूक्तमेव च । "दद्भ्यस्स्वाऽहेत्यङ्गहोमं हुत्वातु स्थापयेत्पुनः ॥ २६.१३८ ॥ स्नेहचूर्णकषायादौ हीने योगविपर्यये । रज्जुबन्धाष्टबन्धादौ शर्करालेपने तथा ॥ २६.१३९ ॥ तथा मृदालेपने च पटाच्छादनकर्मणि । भूषादौ क्रमहीने वा वर्णादीनां व्यतिक्रमे ॥ २६.१४० ॥ वैष्णवं ब्राह्मरौद्राग्निमहाभूताथिपांस्तथा । प्राजापत्यं व्याहृतीश्च हुत्वा विधिपदाचरेत् ॥ २६.१४१ ॥ महाबेरं चार्धचित्रं मृण्मयं नैव कारयेत् । सौवर्णं राजतं ताम्रं शैलं दारवमेववा ॥ २६.१४२ ॥ रत्नजं वार्धचित्रस्तु कुर्याद्बेरं सलक्षणम् । कृत्रिमेणाप्यनुक्तेन वर्णेनालेपितं पुनः ॥ २६.१४३ ॥ बेरं प्रक्षाल्य निर्वासवारिणा परिमार्ज्यच । वैष्णवं विष्णुसूक्तं च हुत्वाब्जाग्नौ जयादिकान् ॥ २६.१४४ ॥ पश्चाद्यथोक्तवर्णेन यथार्हमनुलेपयेत् । ध्रवबेरं सुधायुक्त मिष्टकाकल्पितं तथा ॥ २६.१४५ ॥ दुष्टद्रव्यकृतं वाथ स्थापितं चाभिचारिकम् । तच्छीघ्रमपहायेव पद्माग्नौ वैष्मवं तथा ॥ २६.१४६ ॥ विष्णुसूक्तं पौरुषं च श्रीभूदैवत्यमेव च । यद्देवादींस्तथा ब्राह्मरौद्रपावकवारुणान् ॥ २६.१४७ ॥ सर्वदैवत्यमन्त्रांश्च पारमात्मिकमेव च । महाशान्ति च हुत्वैतां सर्वदोषविनाशिनीम् ॥ २६.१४८ ॥ पश्चत्संस्कृत्य विधिवद्बेरं संस्थाप्य चार्चयेत् । वृत्तलोहारकूटाद्यैरनुक्तद्रव्यसंभवैः ॥ २६.१४९ ॥ निर्मितं कौतुकं बेरमभिचाराय कल्पते । तद्दोषशान्त्यै पद्माग्नौ महाशान्तिं समाचरेत् ॥ २६.१५० ॥ बेरं सलक्षणं कृत्वा विधिना स्थापयेत्पुनः । कौतुकं स्थितमासीनमथ वा कारयेद्बुधः ॥ २६.१५१ ॥ शयानं नाचरेदार्षं यथावस्थितमर्चयेत् । निर्दुष्टे कौतुकादौ तु पूज्यमाने तु विग्रहे ॥ २६.१५२ ॥ नैव प्रवेशयेद्बेरमुत्कृष्टद्रव्यकल्पितम् । निकृष्टद्रव्यजं चापि पूज्यमानं न संत्यजेत् ॥ २६.१५३ ॥ अर्च्यमाने कौतुकादौ विरूपे वर्णवर्जिते । युक्तेवा झर्झुराद्यैश्च ध्रुवेशक्तिं समर्प्य च ॥ २६.१५४ ॥ नवीकृत्य पुनर्बिंबं संशोध्य स्थापयेत्पुनः । कौतुकं चेदर्च्यमानं दैवाद्राजादिभिर्हृते ॥ २६.१५५ ॥ तद्देशशुद्धिं कृत्वैव महाशान्तिं पुरोदिताम् । कृत्वा न्यस्यात्र रत्नं वा सुवर्णं कूर्चमेव वा ॥ २६.१५६ ॥ ध्रुवाद्वा हृदयादर्क मण्डलाद्वा विधानतः । देवमावाह्य तत्काले पश्चाद्बेरं यथाविधि ॥ २६.१५७ ॥ पूर्वद्रव्येण वोत्कृष्टद्रव्येणापि प्रकल्पयेत् । कालापेक्षामकृत्वैव प्रतिष्ठां पूर्ववच्चरेत् ॥ २६.१५८ ॥ मधूच्छिष्टक्रियाहीनं बेरमादाय वैष्णवम् । शान्तिंहुत्वा रौद्रसौरपावकान् पुनराचरेत् ॥ २६.१५९ ॥ अन्यालये स्थापितं तु ध्रुवं कौतुकमेव वा । अन्यालये स्थापयेच्चेन्महाशान्तिं हुनेद्बुधः ॥ २६.१६० ॥ वैष्णवांन्तु सुसंपूज्य ब्राह्मणान् भोजयेद्बहु । तत्तत्थ्साने तु विधिना संस्थाप्यार्चन माचरेत् ॥ २६.१६१ ॥ ग्रामादीनामालयस्य नाशेबेरं तु तद्गतम् । अन्यस्मिन्नालये स्थाप्य यथार्हं तु समर्चयेत् ॥ २६.१६२ ॥ कृते तु पीठसंघाते बेरे त्ववनते क्रमात् । दक्षिणादि भवेन्मृत्युरर्थनाशोऽभिवर्धनम् ॥ २६.१६३ ॥ पुत्रहानि स्तुन्दभेदे ध्यान्यानां तु विनाशनम् । उरश्छिद्रेर्ऽथनाशश्च कृशे कार्श्यं भजेन्नरः ॥ २६.१६४ ॥ स्थूले च महतीव्याधिर्दीर्घेऽनायुष्यमेव च । ह्रस्वेऽदुर्भिक्षमाप्नोति न्यूनाधिक्यसमुद्भवे ॥ २६.१६५ ॥ अन्येष्वङ्गेषु हानिस्स्याच्छास्त्रोक्तं सम्यगाचरेत् । ध्रुवस्य स्थापनादर्वाक्प्राक्प्रतिष्ठाविधेस्तथा ॥ २६.१६६ ॥ अनुक्तनिष्कृतिं वक्ष्ये कापिलेन घृतेन वै । पद्माग्नौ वैष्णवं विष्णुसूक्तं सुक्तं च पौरुषम् ॥ २६.१६७ ॥ श्रीभूदैवत्यमन्त्रांश्च जुहुयाद्व्याहृतीर्बुनः । तत्तत्कर्मपुनः कुर्यादन्यथा निष्फलं भवेत् ॥ २६.१६८ ॥ इति श्रीवैखानसे भगवच्छास्त्रे भृगुप्रोक्तायां संहितायां प्रकीर्णाधिकारे षड्विंशोऽध्यायः. _____________________________________________________________ अथ सप्तविंशोऽध्यायः प्रायश्चित्तम् आचार्यस्यर्त्विजां चैव पूजकस्य विशेषतः । यथोक्तवरणे हीने शान्तिं कुर्याद्यथाविधि ॥ २७.१ ॥ अब्जाग्नौ तु महाशान्तिं दशवारं हुनेत्ततः । यथोक्तं वरणं कृत्वा पश्चात्कर्म समाचरेत् ॥ २७.२ ॥ अङ्कुरार्पणकाले तु ब्रह्मादीनामथार्ऽचने । हविर्निवेदने वापि हीने शान्तिं समाचरेत् ॥ २७.३ ॥ तद्दैवत्यं वैष्णवं च हुत्वा-भ्यर्च्य निवेदयेत् । अङ्कुरार्पणहीने तु वैष्णवं विष्णुसूक्तकम् ॥ २७.४ ॥ पुरुषसूक्तं च ब्राह्मं च व्याहृतीश्च हुनेत्तथा । पुनरप्यङ्कुरान् कृत्वा पश्चात्कार्यं समाचरेत् ॥ २७.५ ॥ कृत्वांकुरार्पणं पश्चान्नाचरेत्कर्म चेत्ततः । राजराष्ट्रविनाशस्स्यान्महाशान्तिं समाचरेत् ॥ २७.६ ॥ "क्षमऽस्वेति प्रणम्यैव पुनरङ्कुंमाचरेत् । अक्ष्युन्मेषात्तु पूर्वं चेत्पीठसंघातकर्मणि ॥ २७.७ ॥ अलाभे चैव रत्नानां वैष्णवं विष्णुसूक्तकम् । सूक्तं तु पौरुषं ब्राह्मं सौम्यं चैव तु व्याहृतिः ॥ २७.८ ॥ हुत्वा सुवर्णं बहुश स्तत्तत्थ्साने विनिक्षिपेत् । अक्ष्युन्मेषणकाले तु गवादीनामसंभवे ॥ २७.९ ॥ दर्शनद्रव्यरूपाणां यथालाभं प्रगृह्य च । तत्तद्द्रव्याधिदैवत्यं वैष्णवं जुहुयात्क्रमात् ॥ २७.१० ॥ तत्तद्द्रव्यं च संपाद्य विधिवद्दर्शयेत्पुनः । अक्ष्युन्मेषणहीने वा राहुसौरोदयेऽथ वा ॥ २७.११ ॥ अन्धकेचैव नक्षत्रे कृते चैवाक्षिमोचने । सर्वनाशो भवेत्तस्माद्वैष्णवं विष्णुसूक्तकम् ॥ २७.१२ ॥ नवग्रहादिमन्त्राश्च हुत्वाक्ष्युन्मीलनं चरेत् । पञ्चगव्यादिषु द्रव्येष्वधिवासे विवर्जिते ॥ २७.१३ ॥ हुत्वा वैष्णवमार्षञ्च विष्णुसूक्तं तथैव च । जलाधिवासं त्रियहमेकाहं वापि कालयेत् ॥ २७.१४ ॥ यज्ञालये महावेद्यां कृतायामप्रमाणतः । अन्यदेशकृतायां वा विहीनायां च शोभनैः ॥ २७.१५ ॥ तत्तद्देशाधिदैवत्यं वैष्णवं विष्णुसूक्तकम् । श्रीभूदैवत्यं च हुत्वैव यथोक्तं पुनराचरेत् ॥ २७.१६ ॥ ध्रुवबेराक्षिमोक्षान्ते यदि बेरं न शोधयेत् । विपरीतेऽपि वा हुत्वा वैष्णवं विष्णुसूक्तकम् ॥ २७.१७ ॥ पुरुषसूक्तं रौद्रमार्षं वारुणं च पुनश्चरेत् । अग्निकुण्डान्यविधिना कृतान्यालक्ष्य सत्वरम् ॥ २७.१८ ॥ ब्राह्मं सौम्यमथाग्नेयं विधिना कारयेत्ततः । अप्रमाणेषु कूर्चादिष्वाज्यपात्र स्रुवादिषु ॥ २७.१९ ॥ मिन्दाहुती च सावित्रं व्याहृतीश्च हुनेद्बधः । पञ्चाग्निषु यथास्थानं प्रोक्षणोल्लेखने कृते ॥ २७.२० ॥ मथिताग्नावलाभे तु प्राप्य चाचार्यमन्दिरम् । अथ वा श्रोत्रियागारादाहृत्याग्निं समाचरेत् ॥ २७.२१ ॥ निधाय गार्हपत्येग्निमाघारं जुहुयाद्बुधः । वैष्णवं भूमिदैवत्यमाग्नेयं च हुनेत्क्रमात् ॥ २७.२२ ॥ तमग्निं वर्धयित्वातु दक्षिणाग्नौ प्रणीय च । तत आहवनीयाग्नावावसध्ये ततः परम् ॥ २७.२३ ॥ सभ्ये पद्मानले चैवं क्रमात्प्रणयनं चरेत् । विपरीते प्रणयने तत्तन्मन्त्रविवर्जिते ॥ २७.२४ ॥ वैष्णवं पावकं ब्राह्मंसौम्यं हुत्वा पुनश्चरेत् । तत्तदग्निषु चाघारात्पूर्वं तेषामथान्तरा ॥ २७.२५ ॥ नगच्छेद्यदि गच्छेत्तु तत्तद्दिक्पालदैवतम् । वैष्णवं पावकं चेति प्रायश्चित्तं हुनैत्क्रमात् ॥ २७.२६ ॥ उत्पन्ने मथिताग्नौ तु शान्ते तत्र प्रमादतः आदौ प्रणयनादर्वागथवाग्निषु सर्वशः शान्तिं यथोदितां कुर्यादग्नि सूक्तं सहस्रशः) । तण्डुलैरेकजातीयैर्द्विप्रस्थैः पाचयेच्चरुं गव्यं च नवनीतं च लौकिकानलसंस्कृतम् ॥ २७.२७ ॥ संस्कारकाले संस्कुर्यात्तदग्निं मन्त्रवत्तदा । आज्यस्थाल्यामथ चरौ मक्षिकादिः पतेद्यदि ॥ २७.२८ ॥ तद्व्यपोह्यान्यदादाय प्राजापत्यं च पावकम् । वैष्णवं च हुनेदाज्ये त्वलब्धे नूतने पूनः ॥ २७.२९ ॥ व्यपोह्य दोषं तं दर्भैरुद्दीप्योत्पूय चाचरेत् । आघारितेऽग्नौ नष्टे तु "अयं ते योनिऽ मुच्चरन् ॥ २७.३० ॥ आरोपयेच्च समिधं तद्भस्मनि यथार्हतः । "उद्बुद्ध्यऽस्वेति निक्षिप्य विधिना लौकिकेऽनले ॥ २७.३१ ॥ विच्छिन्नं मिन्दाहुती च वैष्णवं व्याहृतिपूर्वकम् । परिस्तरादिद्रव्याणां दाहे भेदेऽथ नाशने ॥ २७.३२ ॥ पुनस्तत्तच्च संयोज्य महाव्याहृतिपूर्वकम् । आग्नेयं मिन्दाहुती च वैष्णवं च हुनेद्बुधः ॥ २७.३३ ॥ पात्रेऽनुक्ते स्रुवं पात्रं गृह्णीयाद्धोमकर्मणि । हविर्विशेषेऽनु क्तेतु घृतं वा सघृतं चरु ॥ २७.३४ ॥ द्रव्ये प्रमाणहीने तु कापिलेन घृतेन वै । वैष्णवं विंशतिर्हुत्वा पश्चात्कार्यं समाचरेत् ॥ २७.३५ ॥ प्रायश्चित्तानलेऽनुक्ते छुल्ल्यां नित्यानलेऽपि वा । क्रियाहीने विपर्यासे मन्त्राणां संकरेऽपि वा ॥ २७.३६ ॥ वैष्णवं व्याहृतीश्चैव व्याहृत्यन्तं हुनेत्क्रमात् । पुण्याहहीने पुण्याहमन्त्रान् द्वादशशो जपेत् ॥ २७.३७ ॥ वास्तुहोमविहीने तु तन्मन्त्रान् दशशो हुनेत् । प्रायश्चित्तविशेषे यद्यनुक्ते वैष्णवं ततः ॥ २७.३८ ॥ विष्णुसूक्तं पौरुषं च सूक्तं हुत्वा समाचरेत् । रत्नप्रतिनिधी रुक्मं धातूनां पारदं तथा ॥ २७.३९ ॥ बीजानां च यवाः प्रोक्ताः पूर्वालाभे परस्स्मतः । रत्नानां प्रणिधिं गृह्य वैष्णवं विष्णुसूक्तकम् ॥ २७.४० ॥ दिग्दैवत्यं वैष्णवं च धातूनामथ तत्परम् । बीजानां प्रणिधिं गृह्य वायव्यं वैष्णवं तथा ॥ २७.४१ ॥ हुने द्विंशतिवारं तु प्रत्येकं दोषशान्तये । वस्त्रेलक्षणहीने वा युक्ते छेदादिना ततः ॥ २७.४२ ॥ तत्त्यक्त्वान्यं समाहृत्य श्रीदैवत्यं च वैष्णवम् । अण्डजादिद्वलब्धेषु वस्त्रं प्रत्येकमाहरेत् ॥ २७.४३ ॥ वैष्णवं श्रीभूदैवत्यं हुत्वा कार्यं समाचरेत् । प्रमाणहीनेषु पुनस्तोरणादिषु चात्वरः ॥ २७.४४ ॥ पृथग्द्वाराधिदैवत्यं जुहुयाद्विंशतिं बुधः । दर्भरज्ज्वां विहीनायां हुनैदार्षं च वैष्णवम्, ॥ २७.४५ ॥ कुंभे प्रमाणहीने वा दोषयुक्तेऽपि वा तथा । वस्त्राभ्यां वर्णचिह्नैश्च हीने नात्रवसेद्धरिः ॥ २७.४६ ॥ यत्नेन तानि निक्षिप्य वैष्णवं विष्णुसूक्तकम् । पुरुषसूक्तं ब्राह्मं च मुनिमन्त्रांश्च पावकम् ॥ २७.४७ ॥ जुहुयाद्दशकृत्वन्तु विप्राणां भोजनं चरेत् । आचार्यदक्षिणान्दद्यात्सफलं भवति ध्रुवम् ॥ २७.४८ ॥ भिन्ने तु साधिते कुंभे वैष्णपं विष्णुसूक्तकम् । पुरुषसूक्तं ब्राह्ममैन्द्रमाग्नेयं चार्षमेव च ॥ २७.४९ ॥ हुत्वा विंशतिकृत्वन्तु दद्यादाचार्यदक्षिणाम् । ब्राह्मणान् भोजयित्वैव संपूज्यैव च वैष्मवान् ॥ २७.५० ॥ अन्यत्कुंभं समाहृत्य पूर्ववत्साधयेद्बुधः । स्पृष्टे तु साथिते कुंभे पतितैः कुक्कुटादिभिः ॥ २७.५१ ॥ तद्व्यपोह्यार्यदादाय पूर्ववत्साधयेत्तथा । वैष्णवं विष्णुसूक्तं च पुरुषसूक्तं तथैव च ॥ २७.५२ ॥ ब्राह्मं सौरमथाग्नेयमष्टाधिकशतं यजेत् । आचार्यदक्षिणां दद्याद्वैष्णवान् पूजयेद्विधिः ॥ २७.५३ ॥ स्पर्शदुष्टे तथा बेरे स्नपनं शास्त्रतश्चरेत् । पूर्वोक्तां निष्कृतिं कृत्वा पश्चात्कार्यं समाचरेत् ॥ २७.५४ ॥ न्रुवादीनामलाभेतु स्रुवेणैव हुनेद्धविः । श्वकुक्कुटाद्यैस्संस्पृष्टे कुण्डे तं तं व्यपोह्य च ॥ २७.५५ ॥ कुण्डं तु पूर्ववत्कृत्वा कृत्वाघारं यथाविधि । आग्नेयं वैष्णवं पञ्चवारुणं मूलहोमकम् ॥ २७.५६ ॥ शतशो जुहुयात्कुर्याद्ब्राह्मणानां च भोजनम् । अलाभे समिधां कृह्य पालाशीर्वटसंभवाः ॥ २७.५७ ॥ आग्नेयं वैष्णवं ब्राह्मं हुत्वाकार्यं समाचरेत् । दर्भान् कुशान्वा समिधो मासातीतान् प्रगृह्य च ॥ २७.५८ ॥ वारुणं वैष्णवं ब्राह्मं सौम्यमाग्नेयमेव च । आदित्यं जुहुयाच्चैव दोष शान्तिर्भवेत्तथा ॥ २७.५९ ॥ दधि क्षीरं गृहीतं चेदाजं माहिषमेव वा । वैष्णवं ब्राह्ममाग्नेयं सौरं च व्याहृतीर्हुनेत् ॥ २७.६० ॥ अनुक्तदेशादानीता मृदो वा वालुकास्तथा । अग्निकुण्डार्थमाहृत्य वारुणं वैष्णवे हुनेत् ॥ २७.६१ ॥ आर्द्रं सधूमं दुर्गन्धं लेपयुक्तं सकण्टकम् । जन्तुयुक्तं क्षिपेद्वह्नाविन्धनं तत्परित्यजेत् ॥ २७.६२ ॥ अन्यत्प्रक्षिप्य चाग्नेयं वैष्णवं व्याहृतीर्हुनेत् । वस्त्रादिद्रव्ये दर्भेषु प्रपायां कूट एव वा ॥ २७.६३ ॥ दग्धायामग्निना ब्राह्मं वैष्णवं सौरमेव च । आग्नेयं वैष्णवमिति प्रत्येकं दशशो हुनेत् ॥ २७.६४ ॥ कलशन्यासरचनाविपर्याने तु वैष्णवम् । पङ्क्तीशदैवत्यं च हुनेत्ततश्शास्त्रवदाचरेत् ॥ २७.६५ ॥ स्नपने तु विपर्याने बेरस्य जुहुयाद्बुधः । पञ्चवारुणमन्त्रांश्च वैष्णवं च यथाविधि ॥ २७.६६ ॥ शयने चेद्विपर्यासो वैष्णवं श्रीमहीमनून् । कलशस्नानशयने प्रत्येकं दशशो हुनेत् ॥ २७.६७ ॥ हीने वा विपरीते वा तत्र हौत्रप्रशंसने । ब्राह्मं मुनीन्द्रमन्त्रांश्चहुनेत्पारिषदामपि ॥ २७.६८ ॥ अवाहनादावर्चायां विपरीते विवर्जिते । वैष्णवं विष्णुसूक्तं च ब्राह्मं रौन्द्रं हुनेद्दश ॥ २७.६९ ॥ सर्वेषामुक्तहोमानां विपरीते विवर्जिते । पद्माग्नौ वैष्णवं विष्णुसूक्तं सूक्तं च पौरुषम् ॥ २७.७० ॥ शयानमुद्धरेद्देवमकाले चाप्यमन्त्रकम् । हुत्वा श्रीभूमिदैवत्यं चतुष्कृत्वन्तु शाययेत् ॥ २७.७१ ॥ हीने चाध्ययने सारस्वतमष्टाधिकं शतम् । प्रायश्चित्तं च हुत्वैव यथाशास्त्रं समाचरेत् ॥ २७.७२ ॥ यथालाभं च गृह्णीयादलाभे षोडशर्त्विजाम् । तन्त्रेण कारयेत्सर्वमेष शास्त्रविधिस्स्मृतः ॥ २७.७३ ॥ प्रतिष्ठायामुत्सवेवा तथान्यच्छुभकर्मणि । कुर्वतां तु पुरश्चर्यामाचार्यस्य र्त्विजां तथा ॥ २७.७४ ॥ आस्नानाद्दीक्षितानां तु नाशौचःपरिकीर्तितः । मोहादनुष्ठिताशौचाःपतन्तिनरकेऽशुचौ ॥ २७.७५ ॥ गृह्णीया त्संस्कृतांस्तान्वा पुनरन्यानथापि वा । आचार्य स्थ्सापकादींस्तु भर्त्सनादिकमाचरन् ॥ २७.७६ ॥ वैष्णवं विष्णुसूक्तं च सूक्तं पौरुषमेव च । ब्राह्मं सारस्वतं हुत्वा ताननुज्ञाप्य चाचरेत् ॥ २७.७७ ॥ आचार्यदक्षिणाकालेऽतीते हुत्वा तु वैष्णवम् । मुनिमन्त्रञ्च जुहुयात्पृथगष्टोत्तरं शतम् ॥ २७.७८ ॥ यथोक्तदक्षिणां दद्यादर्थलोभं न कारयेत् । ब्राह्मणानामन्नदाने विहीने शान्तिमाचरेत् ॥ २७.७९ ॥ त्रियहं तु महाशान्ति स्तद्दोषविनिवारिणी । हन्त्यल्पदक्षिणो यागः फलं दद्यात्सदक्षिणः ॥ २७.८० ॥ यज्ञस्य दक्षिणा जीवस्तस्माद्यत्नेन पालयेत् । इयं तात्कालिकीज्ञेया भूमिमग्रे प्रदापयेत् ॥ २७.८१ ॥ अर्चकस्यार्चनार्धं च कुटुंबार्थं विशेषतः । भूमिभोगमकल्प्यैव महाशान्तिं समाचरेत् ॥ २७.८२ ॥ असंकल्पितवृत्तिस्तु देवावासो न वर्धते । अर्चकः प्रणिधिर्यस्माद्राज्ञो राष्ट्रस्य कल्पते ॥ २७.८३ ॥ तस्मात्समाहितः कुर्याद्यथा पूजा न लुप्यते । आपद्यपि च कष्टायां पूजामेतां न लोपयेत् ॥ २७.८४ ॥ यदैव लुप्यते पूजा येन केनापि हेतुना । अग्रेर्ऽचकमियाद्दोष आर्द्रमेषोऽपराध्यति ॥ २७.८५ ॥ तस्माद्दायेन भूम्यादि स्थिरदानेन सादरम् । रूढाधिकार एवाग्रे प्रवर्तेतार्ऽचनेर्ऽचकः ॥ २७.८६ ॥ यस्मादर्चनहीने तु राजराष्ट्रादिसंक्षयः । तद्ग्रामवासिनस्तस्माद्राजा राष्ट्रगता अपि ॥ २७.८७ ॥ भगवत्पूजनाहेतो रुपकुर्युः प्रयत्नतः । आर्द्रापराधो भवति यस्माद्दोषेषु पूजकः ॥ २७.८८ ॥ तं वृत्तिकर्शितं दृष्य्वा राजा च ग्रामवासिनः । सुखितं तं तथा कुर्युर्यथा देवस्तथार्चकः ॥ २७.८९ ॥ दत्वृत्तिमधिकां चापिन शङ्केयुरसूयवः । यथार्हमुपयुञ्जीरन् स्वशक्तिं तत्सुखाय वै ॥ २७.९० ॥ प्रतिष्ठान्ते तु विधिवदर्चके त्वप्रकल्पिते । आसुरी सा भवेदर्चा कर्ता नैवाप्नु यात्फलम् ॥ २७.९१ ॥ देवेन सार्थमुद्दिष्टं यत्कुलं पूजकस्य तु । तदतिक्रम्य पूजां तु कारयेदितरेण चेत् ॥ २७.९२ ॥ रौरवं नरकं याति कर्ता कारयिता च यः । तस्मा त्सर्वप्रयत्नेन शास्त्रोक्तं परिपालयेत् ॥ २७.९३ ॥ श्वः कार्यमद्य कुर्वीत पूर्वाह्णे चापराह्णिकम् । न हि प्रतीक्षते मृत्युः कर्तव्यो धर्मसंग्रहः ॥ २७.९४ ॥ न त्य क्तविभवो जातु भवेच्च विभवे सति । यथाशक्ति प्रकुर्वीत विभवांश्च न लोभयेत् ॥ २७.९५ ॥ अलाभे कौतुकादीनां सुवर्णं न्यस्य वैष्मवम् । विष्णुसूक्तं नृसुक्तं च वायव्यं दिगधीश्वरम् ॥ २७.९६ ॥ सभ्येऽन्तहोमहीने तु वैष्णवं पावकं तथा । व्याहृतीश्च हुनेद्विद्वान् दशकृत्वस्समाहितः ॥ २७.९७ ॥ अग्निग्रहणहीने तु हुत्वा पूर्वोक्तनिष्कृतिम् । श्रोत्रियावसथादग्निमाहृत्याघारवूर्वकम् ॥ २७.९८ ॥ नित्यहोमं च जुहुयात्ततः प्रभृति चाचरेत् । ध्रुवादावाहयेद्यस्मात्कौतुकादि चतुर्ष्वपि ॥ २७.९९ ॥ प्रमादात्कुंभतीर्थेन तेषामावाहने कृते । "इषेत्वेऽत्यादिना स्नाप्य शीघ्रं शुद्धेन वारिणा ॥ २७.१०० ॥ अनुमान्य च देवेशं वैष्णवं विष्णुसूक्तकम् । जुहुयात्पौरुषंसूक्तं ध्रुवादावाहयेत्पुनः ॥ २७.१०१ ॥ अथनित्यार्चनायान्तु प्रायश्चित्तं प्रवक्ष्यते । सूर्योदयाच्च मध्याह्नात्पूर्व मस्तमयादपि ॥ २७.१०२ ॥ कवाटोद्घाटने हीने नित्याग्नौ वा महानने । वैष्णवं धात्रादिदैवत्यं हुत्वा दौवारिकं तथा ॥ २७.१०३ ॥ शीघ्रमुद्घाटयेद्द्वारं देवदेवं प्रणम्य च । अमन्त्रकमथान्यैर्वा कवाटोद्घाटने कृते ॥ २७.१०४ ॥ पूर्वोक्तं जुहुयाच्छान्तिं जपेद्द्वादशसूक्तकम् । मार्जनादिषु हीनेषु निर्माल्येचाप्यशोधिते ॥ २७.१०५ ॥ वैष्णवं वारुणं हुत्वा वायव्यं शान्तमेव च । यथावत्कारयेत्सर्वं मन्त्रेणैव पुनर्गुरुः ॥ २७.१०६ ॥ द्रव्यप्रतिनिधिस्तोयमलाभे तेन चाचरेत् । देवस्य स्नपने हीने वैष्णवे वारुणं हुनेत् ॥ २७.१०७ ॥ "अपो हिऽष्ठादिभिर्मन्त्रैस्स्नावयेन्निष्कृतिर्भवेत् । पश्नान्नित्यं प्रकुर्वीत स्नानं नित्यार्चनोदितम् ॥ २७.१०८ ॥ अशक्तौस्नापने प्रोक्ष्यं मन्त्रेण कुशवारिभिः । वस्त्रादींश्च व्यपोह्यैव धौतवस्त्रं समर्पयेत् ॥ २७.१०९ ॥ नित्यं स्नानमशक्यं चेद्विष्णुपञ्चदिनेषु वै । स्नापयेद्देवदेवेशमिति केचिद्वदन्तिहि ॥ २७.११० ॥ ध्रुवपीठेतु निर्माल्यं संशोध्य पुनरेव च । पुष्पन्यासं प्रकुर्वीत ध्रुवे नित्यार्चनं भवेत् ॥ २७.१११ ॥ पुष्पन्यासं विनाकुर्यात्कौतुकस्यार्चनं यदि । वैष्णवं विष्णुसूक्तं च पुरुषसूक्तं तधैव च ॥ २७.११२ ॥ हुत्वा च विष्णुगायत्रीं पुष्बन्यासं क्रमाच्चरेत् । संबन्धकूर्चहीनेतु वैष्णवं मुनिमन्त्रकम् ॥ २७.११३ ॥ हुत्वासन्न्यस्य कूर्चं तु पश्चात्कार्यं समाचरेत् । धात्राद्यर्चनहीने तु तद्दैवत्यं सवैष्णवम् ॥ २७.११४ ॥ हुत्वार्चयेद्धातृमुखान् तथा परिषदः क्रमात् । उपचारविपर्यासे "क्षमऽन्वेति प्रणम्य च ॥ २७.११५ ॥ अनुमान्यार्चयेद्देवं हीने चैव तु विग्रहे । तद्देवतामनुं जप्त्वा वैष्णवं च विशेषतः ॥ २७.११६ ॥ पुनस्तदुपचारादि पूजये त्सर्वविग्रहैः । उक्तद्रव्ये ष्वलब्धेषु पुष्पं तोयमथाक्षतम् ॥ २७.११७ ॥ गृहीत्वा चैव तत्सर्वं ध्यात्वा देवं समर्चयेत् । अर्चाकालेऽन्यकालं वा स्मये वा मूषिकादिभिः ॥ २७.११८ ॥ मरुता वापि विच्छिन्नमजस्रं दीपमादरात् । द्विगुणं तु समुद्दीप्य सौरं रौद्रं च पावकम् ॥ २७.११९ ॥ वैष्णवं च तथाहुत्वा पुनरर्चनमाचरेत् । तत्काले सर्वदीपानां नाशे दोषो महत्तरः ॥ २७.१२० ॥ देवं शुद्धोदकैस्स्नाप्य कुशोदैरभिषिच्य च । पूर्वोक्तां निष्कृतिं हुत्वा द्विगुणं तु निदेवयेत् ॥ २७.१२१ ॥ बहुदीपेषुचैकस्मिन्नष्टे तेनन दुष्यति । मन्त्राणां स्खलने मूर्त्याप्रणवेन सहाचरेत् ॥ २७.१२२ ॥ अर्चाकाले यवनिकाहीने चैव प्रजापतिम् । वैष्णपं चैव हुत्वा तु पटं कृत्वार्ऽचयेत्पुनः ॥ २७.१२३ ॥ वेददूषक पाषण्ड पापरोगान्वितैर्जनैः । प्रतिलोमादिभिर्ल्मेच्छैरन्त्यजातिभिरेव च ॥ २७.१२४ ॥ तत्काले दर्शने हुत्वा वैष्णवं ब्राह्ममेव च । रौद्रं च पावकं हुत्वा व्याहृतीश्च ततोर्ऽचयेत् ॥ २७.१२५ ॥ यदि चावरणाद्बाह्ये पञ्चाशद्दण्डकान्तरे । मनुष्याणां मृतिस्स्यात्तदुद्धृत्यैवार्चयेद्धरिम् ॥ २७.१२६ ॥ नैवार्चनं हविर्दानं ततः पूर्वं समाचरेत् । ध्रुवकौतुकयोः कुर्यात्पुष्पन्यासावसानकम् ॥ २७.१२७ ॥ पश्चात्कालात्यये शान्तिं हुत्वा द्विगुणमर्चयेत् । एककालार्चने हीने द्वितीये द्विगुणं चरेत् ॥ २७.१२८ ॥ तृतीये त्रिगुणं कुर्यादेकाहेर्ऽचाविवर्जिते । वैष्णवं विष्णुसूक्तं च पुरुष सूक्तं तथैव च ॥ २७.१२९ ॥ हुनेच्छ्रीभूमिदैवत्यं द्व्यहे तु द्विगुणं भवेत् । त्षहे त्रिगुणमेवन्तु द्वादशाहान्तमाचरेत् ॥ २७.१३० ॥ अतीते द्वादशाहेतु संधायौपासनानले । वैष्णवं विष्णुसूक्तं च पुरुषसूक्तं तथैव च ॥ २७.१३१ ॥ आलये परिषद्देव मन्त्रान् हुत्वा च शक्तितः । कलशैस्स्नाप्य देवेशमभ्यर्च्य हविरर्पयेत् ॥ २७.१३२ ॥ मासं हीनेर्ऽचने कुर्यादालयाभिमुखे गुरुः । सभ्याग्नौ वैष्णवं विष्णुसूक्तं सूक्तं च पौरुषम् ॥ २७.१३३ ॥ हुत्वा श्रीभूमिदैवत्यं सर्वदैवत्यमेव च । कलशैरष्टभिश्च त्वारिंशद्भिस्स्नापयेद्धरिम् ॥ २७.१३४ ॥ विशेषेण हविर्दद्याद्द्वितीयेद्विगुणं तथा । तृतीये त्रिगुणं चैवं वत्सरानन्तु वर्धयेत् ॥ २७.१३५ ॥ अतीते वत्सरे चैवं पद्माग्नौ सप्तवासरम् । महाशान्तिं तु हुत्वैव कृत्वा वैष्णवपूजनम् ॥ २७.१३६ ॥ ब्राह्मणान् भोजयित्वैव शताष्टकलशैः पुनः । संस्नाप्य देवदेवेशं पुनस्थ्सापन माचरेत् ॥ २७.१३७ ॥ अक्ष्युन्नेषाधिवासौ तु पुनस्थ्सापनकर्मणि । हित्वान्यत्सकलं कर्म पूर्ववत्तु समाचरेत् ॥ २७.१३८ ॥ हविर्हीने जनास्सर्वेतद्ग्रामस्थास्समीपगाः । पीडिताः क्षुत्पिपासाद्यैर्भवेयुर्व्याधिता अपि ॥ २७.१३९ ॥ तस्मादतिप्रयत्नेन हविस्सम्य ङ्निवेदयेत् । हीने हविष्येक काले द्वितीये द्विगुणं भवेत् ॥ २७.१४० ॥ तृतीये त्रिगुणं कुर्यादेकस्मिन् दिवसे गते । वैष्णवं श्रीमहीमन्त्रान्मूर्ति होमं तथा हुनेत् ॥ २७.१४१ ॥ देवं शुद्धोदकैस्स्नाप्य प्रभूतं तु निवेदयेत् । सोपदंशमपक्वं च शीतं पर्युषितं तथा ॥ २७.१४२ ॥ पात्रान्तरेष्वनिक्षिप्तं सावशेषं च लङ्घितम् । विवृतं स्रावितं चैव विकृतं दृष्टि दूषितम् ॥ २७.१४३ ॥ अप्रोक्षितमथास्पृष्ट मगृहीतममुद्रितम् । हविर्निवेदयेच्चेत्तु वैष्णवं श्रीमहीमनून् ॥ २७.१४४ ॥ आग्नेयं वारुणं चैव वायव्यं दशशो हुनेत् । द्विगुणं तु पुनःकृत्वा प्रभूतं तु निवेदयेत् ॥ २७.१४५ ॥ निवेद्य चाशुमिस्पृष्टं देवं संस्नाप्य मन्त्रतः । वैष्णवं विष्णुगायत्रीं त्रयस्त्रिंशत्क्रमाद्धुनेत् ॥ २७.१४६ ॥ जुहुयाद्विधिनाशान्तिं प्रोक्षणैरपि प्रोक्षयेत् । पुण्याहं वाचयित्वैव द्विगुणं चार्चनं हविः ॥ २७.१४७ ॥ व्रीह्यङ्गारतुषैर्युक्तेशर्करादिविमिश्रिते । निवेदिते तु हविषि मन्त्रेणाष्टाक्षरेण तु ॥ २७.१४८ ॥ वैष्णप्या चैव गायत्षा मन्त्रैस्संस्तूय वैष्णवैः । "क्षमऽस्वेत्यनुमान्यैव प्रणमयैव च याचयेत् ॥ २७.१४९ ॥ मक्षिकाद्यैर्जन्तुभिश्च केशाद्यैरपि दूषिते । निवेदिते तु हविषि शुद्धोदैस्स्नाव्यवै हरिम् ॥ २७.१५० ॥ वैष्णवं विष्णुसूक्तं च श्रीभूदैवत्यमेव च । अष्टोत्तरशतं हुत्वा द्विगुणं तु निवेदयेत् ॥ २७.१५१ ॥ महाहविषि चैतैन्तु संयुक्ते तत्र दूषितम् । पुरुषाशनमात्रं तु व्यपोह्य तदनन्तरम् ॥ २७.१५२ ॥ भस्मांभसाकुशै "रापो हिरण्य पवमानऽकैः । प्रोक्ष्य देवं सुसंप्रार्ध्य तद्गृहीत्वा निवेदयेत् ॥ २७.१५३ ॥ पूर्वमर्कोदयात्पक्व मुपदंशमथो हविः । कोष्णं चेदर्पयेत्प्रातरर्चनान्तेन दोषभाक् ॥ २७.१५४ ॥ पूर्व मस्तमयात्पक्वं तथा सायं निवेदयेत् । असंस्कृतं तु तांबूलं लेपकेशान्वितं तथा ॥ २७.१५५ ॥ जन्तुस्पृष्टं निवेद्यैव वैष्णवंश्रीमहीमनुन् । हुत्वा संस्कृत्य तांबूलं पुनरन्यन्निवेदयेत् ॥ २७.१५६ ॥ अर्चनांगेषु चान्येषु पदार्थेष्वेवमेव हि । दूषितेष्वध हीनेषु तस्य तस्याधिदैवतम् ॥ २७.१५७ ॥ मन्त्रं स वैष्णवं हुत्वा पुनरन्यैस्समर्चयेत् । अलाभे चैव सर्वेषां पुष्पं तोयं प्रगृह्यच ॥ २७.१५८ ॥ संकल्प्यैव प्रतिनिधिं तत्तत्स्मृत्वा समर्चयेत् । नित्यहोमे विहीनेतु वैष्णवं दशशो हुनेत् ॥ २७.१५९ ॥ यथोक्तहोमं द्विगुणमाचरेत्तदनन्तरम् । अग्निसंरक्षणेऽशक्ता "वयन्ते योऽनिमुच्चरन् ॥ २७.१६० ॥ समिध्यारोपयेत्कुण्डात्पश्चात्संस्थाप्य लौकिके । न्यस्य "चोपावरोऽहेतिप्रत्यहं जुहुयात्क्रमात् ॥ २७.१६१ ॥ सुरर्षिमनुजानां तु बलं यस्मात्पृवर्धते । तस्माद्बलिस्समाख्यातस्तदर्थं प्रत्यहं हरिम् ॥ २७.१६२ ॥ उक्तद्रव्येषु चावाह्य त्रिषु कालेषु देशिकः । अभ्यर्च्य भ्रामयेदेवमशक्तः कर्तुमुत्तमम् ॥ २७.१६३ ॥ यथोक्तपात्रे निक्षिप्य बलिद्कव्यन्तु केवलम् । तस्योपरि यथोक्तं तु बलिबेरं च विन्यसेत् ॥ २७.१६४ ॥ शिरसा धारयन् पात्रं त्रिर्द्विर्वा सकृदेव वा । देने ततः परीयाच्च देवागारं प्रदक्षिणम् ॥ २७.१६५ ॥ अथ हित्वा बलिद्रव्यं शिबिकादौ गजेऽथवा । अरोप्य याने विधिवत्कारयेच्च प्रदक्षिणम् ॥ २७.१६६ ॥ प्रातर्भ्रमणहीने तु वैष्मवं सौरसौम्यकम् । प्राजापत्यं च जुहुयाद्धीने चोक्तप्रदक्षिणे ॥ २७.१६७ ॥ वैष्णवं गारुडं हुत्वा बलिभ्रमणमाचरेत् । हीने प्रातर्बलौ कुर्यान्मध्याह्ने द्विगुणं बलिम् ॥ २७.१६८ ॥ तथा हीने च मध्याह्ने रात्रौ त्रिगुणमाचरेत् । एकाहे तु बलौ हीने नित्याग्नौ वा महानने ॥ २७.१६९ ॥ वैष्णवं विष्णुसूक्तं च पुरुषसूक्तं तथैव च । दिग्दैवत्यं च हुत्वा तु प्रदक्षिणनुथाचरेत् ॥ २७.१७० ॥ देवालङ्कारहीने तु श्रीदैवत्यं यजेद्बुधः । छत्रपिञ्छाद्यलाभे तु वारुणं जुहुयात्तथा ॥ २७.१७१ ॥ अलाभे चामरादीनां वायव्यं चैव हूयते । दीपालाभे पावकं च व्याहृत्यन्तं यजेत्त्रयम् ॥ २७.१७२ ॥ द्व्यहे तु द्विगुणं कुर्वात्त्षहे त्रिगुणमेव च । द्वादशाहान्तमेवं स्याद्द्वादशाहे गते ततः ॥ २७.१७३ ॥ औपासनाग्निमाधाय वैष्णवं विष्णुसूक्तकम् । पुरुषसूक्तं च श्रीभूमिदैवत्यं ब्राह्म मेव च ॥ २७.१७४ ॥ रौद्रं दिग्देवतामन्त्रं हुत्वैव भ्रमणं चरेत् । मानेऽतीते तु पद्माग्नौ वैष्णवं विष्णुसूक्तम् ॥ २७.१७५ ॥ नृसूक्तं पारमात्मीकमीङ्कारादीं स्तदालये । परिषद्देवमन्त्रांश्च हुत्वा भ्रमणमाचरेत् ॥ २७.१७६ ॥ द्विमासे द्विगुणं कुर्यात्त्रिमासे त्रिगुणं चरेत् । वर्धये द्वत्सरान्तं चाप्यतीते वत्सरे पुनः ॥ २७.१७७ ॥ सभ्यं संसाध्य देवाभिमुखे वा दक्षिणे नलम् । वैष्णवं विष्णुसूक्तं च सूक्तं पौरुषमेव च ॥ २७.१७८ ॥ श्रीभूम्योश्चैव दैवत्यं सर्वदैवत्यमेव च । हुत्वा चार्यं च संपूज्य बल्युद्धरणमाचरेत् ॥ २७.१७९ ॥ पतितेऽन्नबलौ भूम्यां भिन्ने जीर्णे च पूर्ववत् । बलिमापाद्य हुत्वा च वैष्णवं गारुडं तथा ॥ २७.१८० ॥ प्राजापत्यं तु विधिना ततः कुर्यात्प्रदक्षिणम् । बल्युद्धरणकाले तु विघ्नश्चेदापतेत्तदा ॥ २७.१८१ ॥ सौरं सौम्यं वैष्णवं च हुत्वा पुनरथाचरेत् । पात्रालाभे हविःपात्रं हुनैदादाय वैष्णवम् ॥ २७.१८२ ॥ प्रमाणहीनेऽन्नबलौ वैष्णवं च प्रजापतिम् । जुहुयाद्दोषदुष्टे तु हविर्निष्कृतिमाचरेत् ॥ २७.१८३ ॥ आवाहनं विना चान्नबलौ तु भ्रमणेकृते । वैष्णवं विष्णुसूक्तं च पुरुषसूक्तं तथैव च ॥ २७.१८४ ॥ हुत्वा श्रीभूमिदैवत्यं विधिना भ्रमणं चरेत् । बल्यग्रखण्डे विधिना शान्ताय त्वनिवेदिते ॥ २७.१८५ ॥ वैष्णवं मूर्तिमन्त्रं च हुत्वैव दशशः क्रमात् । निवेद्य विष्वक्चेनाय प्रदाय मुखवासनम् ॥ २७.१८६ ॥ पुनश्च बल्युद्धरणं विधिना कारयेत्ततः । अकृते बलिदाने तु प्राश्य पादोदकं हरेः ॥ २७.१८७ ॥ प्रसादं चापि संप्राश्य पुनर्द्विगुणमर्चयेत् । प्रवृत्तायां तु पूजायां हविर्दानान्तमेव च ॥ २७.१८८ ॥ तीर्थप्रसाददानं वा पादुकाग्रहणं तथा । नशस्तमन्यथा कृत्वा शान्तिहोमं समाचरेत् ॥ २७.१८९ ॥ पूजान्ते पूजकात्पूर्वमन्यस्तीर्थादिकं पिबेत् । प्रसादं वापि गृह्णीयात्तत्पूजा निष्फला भवेत् ॥ २७.१९० ॥ महाशान्तिं तथा हुत्वा पुनःपूजां समाचरेत् । तीर्थं पुष्पं ततः क्षीरं गन्धं च तदनन्तरम् ॥ २७.१९१ ॥ सर्वाण्वपि हवींष्यत्र नागवल्लीदलान्यपि । यद्यन्निवेदितं देवे दद्यादग्रेर्ऽचकाय च ॥ २७.१९२ ॥ अर्चकस्तु हरिस्साक्षाच्चररूपो यतस्स्मृतः । नित्ये कर्मणि सर्वत्र पूजकं पूर्वमर्चयेत् ॥ २७.१९३ ॥ आचार्य मर्चकं वाथ तथा नैमित्तिकेर्ऽचयेत् । यद्यवैखानसो विप्रः कदापि हरिमन्दिरे ॥ २७.१९४ ॥ समिच्छेदग्रसन्मानं तद्देवस्य विमाननम् । यजमानो विपन्नस्स्याद्राजराष्ट्रं विनश्यति ॥ २७.१९५ ॥ अज्ञानादथ वा मोहादाचले दन्यथायदि । द्विगुणं तु समभ्यर्च्य चान्यद्द्विगुण माचरेत् ॥ २७.१९६ ॥ अशुचिर्वाप्यनाचारः सदावैखानस श्शुचिः । पिता मृष्यति पुत्राणां विशङ्कं दोषसंचयम् ॥ २७.१९७ ॥ पिता हि भगवान् विष्णुपुत्रास्स्युः पूजका हरेः । तस्मात्तेषु न कुप्येत दीर्घमायुर्जिजीविषुः ॥ २७.१९८ ॥ अतःपरं प्रवक्ष्यामि निष्कृतिं स्नपनाश्रिताम् । नित्यं नैमित्तिकं काम्यं त्रिविधं स्नपनं भवेत् ॥ २७.१९९ ॥ विषुवे चायनद्वन्द्वे स्नपनं नित्यमुच्यते । चन्द्र सूर्योपरोगे यन्नैमित्तिकमिति स्मृतम् ॥ २७.२०० ॥ शेषेषु स्नपनं यत्तत्काम्यं तु परिकीर्तितम् । नित्यस्नापनहीने तु वैष्णवं विष्णुसूक्तकम् ॥ २७.२०१ ॥ पुरुषसूक्तं वारुणं च दशकृत्वो हुनेत्पुनः । स्नपनं विधिवत्कुर्यान्नि त्यस्नपन निष्कृतिः ॥ २७.२०२ ॥ ग्रहणे स्नपने हीने पूर्ववन्निष्कृतिं चरेत् । काम्ये च पूर्ववत्कृत्वा शुद्धोदैरभिषेचयेत् ॥ २७.२०३ ॥ अन्यथा चेन्महादोषो यजमानो विनश्यति । आलयात्पुरतश्चैव उत्तरे वा मनोरमे ॥ २७.२०४ ॥ उत्तमं स्नपनागारमैशान्यां मध्यमं भवेत् । पश्चिमे दक्षिणे चैवमधमं संप्रकीर्तितम् ॥ २७.२०५ ॥ आग्नेय्यादिषु कोणेषु स्नपने वैष्णवं तथा । विष्णुसूक्तं नृसूक्तं च दिगीशानां मनुं हुनेत् ॥ २७.२०६ ॥ स्नपनं कारयेत्पश्चादेषा व्यत्यय निष्कृतिः । संध्याकालेतु संप्राप्ते निमित्तस्नपने तथा ॥ २७.२०७ ॥ नैमित्तिकं समाप्यैव नित्यपूजं समाचरेत् । अन्यथा वैष्णवं मन्त्रं शतवारं जपेत्सुधीः ॥ २७.२०८ ॥ पूर्वरात्रौ प्रतिसरे हीने च शयने तथा । वैष्णवं श्रीमहीमन्त्रान् हुत्वा सौदर्शनं तथा ॥ २७.२०९ ॥ शय्याधिवासनं हित्वा बन्धयेत्कौतुकं पुनः । एमबेरे कौतुके तु कर्तव्ये शयनं विना ॥ २७.२१० ॥ बद्ध्वा प्रतिसरं सद्यस्स्नपनं सम्यगाचरेत् । कृतेऽंकुरार्पणे हीने स्नपने वैष्णपं तथा ॥ २७.२११ ॥ सौम्यं श्रीभूमिदैवत्यं वैघ्नं हुत्वाभिषेचयेत् । विनांकुरार्पणं चाथ स्नापयेदिति केचन ॥ २७.२१२ ॥ प्रमाणहीनेऽधिके वा पङ्क्तौ स्नानावटेऽपि च । वैष्णवं भूमिदैवत्यं पङ्क्तीशस्य मनुं यजेत् ॥ २७.२१३ ॥ हीने शान्ताद्यर्चने च वैष्णवं शान्तमेव च । पङ्क्तीशस्यार्चने हीने तन्मन्त्रं च जयादीकान् ॥ २७.२१४ ॥ इन्द्राद्यर्चनहीने तु तन्मन्त्रं वैष्णवं हुनेत् । कलशेष्वप्रमाणेषु वैष्णवं वायुदैवतम् ॥ २७.२१५ ॥ आग्नेयं जुहुयान्मृत्सु हीनास्वत्र च वैष्णवम् । भूदैवत्यं च जुहुयान्मृत्सु सर्वास्वयं विधिः ॥ २७.२१६ ॥ पर्वतेष्यप्रमाणेषु वैष्णवं पावकं हुनेत् । धान्येषु वैष्णवं चैव वायव्यं च हुनेद्बुधः ॥ २७.२१७ ॥ अङ्कुरेषु विहीनेषु वैष्णवं गारुडं तथा । जुहुयाद्व्याहृतीश्चैव यथार्हं संभरेत्पुनः ॥ २७.२१८ ॥ वर्णहीनेष्वमानेषु मङ्गलेषु तु वैष्णवम् । ऐन्द्रं च जुहुयात्कुर्याद्यथार्हं संभरेदपि ॥ २७.२१९ ॥ पञ्चगव्ये मन्त्रहीने विहीने योगकर्मणि । जुहुयाद्वैष्णवं रौद्रं मन्त्रेणैव सुयोजयेत् ॥ २७.२२० ॥ उक्तप्रमाणहीनेषु पञ्चगव्यादिषु क्रमात् । प्रधानेषु जलैःपूर्व द्रव्याधिपमनुं तथा ॥ २७.२२१ ॥ वैष्णवेनैव मन्त्रेण सह हुत्वा समाचरेत् । प्राशनं प्रोक्षं वापि शास्त्रेऽस्मिन् यत्र चोद्यते ॥ २७.२२२ ॥ अयमेव विधिर्ज्ञेयः पञ्चगव्यस्य सर्वतः । साधिते कलशेभिन्ने त्वन्यमादाय पूर्ववत् ॥ २७.२२३ ॥ आपूर्याभ्यर्च्य दशशो वैष्णवं जुहुयात्ततः । कलशानां विपर्यामे तद्धृतेनैव चाप्लुते ॥ २७.२२४ ॥ वैष्णवं द्रव्यदैवत्यं हुत्वा संशोध्य तत्पुनः । शुद्धोदैस्स्नापयेच्चैव यथावच्च पुनर्न्यसेत् ॥ २७.२२५ ॥ कृते तु कलशन्यासे श्वकाकादिभिरेव वा । अस्पृश्यैर्वापि संस्पर्शे संसाध्यान्यत्तु पूर्ववत् ॥ २७.२२६ ॥ शान्तिं वैष्णवमन्त्रांश्च हुत्वा कार्यं समाचरेत् । कृमिकीटादिपतने तत्तद्द्रव्यं परित्यजेत् ॥ २७.२२७ ॥ अन्यदादाय जुहुयाद्वैष्णवं द्रव्यदैवतम् । रत्नालाभे वैष्णवं तु हुत्वा स्वर्णं तु निक्षिपेत् ॥ २७.२२८ ॥ वस्त्रालाभे वैष्णवं च श्रीदैवत्यं च हावयेत् । यथोक्तस्नपने हीने कथं चित्स्नपनं चरेत् ॥ २७.२२९ ॥ अथ वा कारयेच्छुद्धस्नपनं वा विधानतः । अत ऊर्ध्वं प्रवक्ष्यामि प्रायश्चित्तमथोत्सवे ॥ २७.२३० ॥ कालादिभेदन्तेषां च लक्षणं च पुरोदितम् । पुरस्कृत्य तिथिं केचित्केचिन्नक्षत्रपूर्वकम् ॥ २७.२३१ ॥ संकल्पयन्त्यवभृथं वरमृक्षापवर्गकम् । अकृते नियते कालं कृते वानियते तथा ॥ २७.२३२ ॥ कालोत्सवे महान् दोषस्तत्र कुर्यात्तुनिष्कृतिम् । उत्सवात्पूर्वमुद्दिस्य महाशान्तिं त्षहं चरेत् ॥ २७.२३३ ॥ विज्ञाप्य देवदेवेशं ततः कालोत्सवं चरेत् । अन्यथा तु कृतं कार्यमकृतं स्यादसंशयम् ॥ २७.२३४ ॥ अन्यस्मिन् वापि मासे तु न कुर्याद्यदि चोत्सवम् । एष एव विधिः प्रोक्तः परस्मिन्वत्सरे कृते ॥ २७.२३५ ॥ एवं त्रिवत्सरेभ्यस्स्यादत ऊर्ध्वं विशेषतः । सप्ताहन्तु महाशान्तिं कृत्वा तूत्सव माचरेत् ॥ २७.२३६ ॥ एवे द्वादशवर्षान्तं ततश्चस्थापनं पुनः । तत्र देवो न रमते योऽसावुत्सव दैवतम् ॥ २७.२३७ ॥ यत्र देवालये विष्णुस्थ्साप्यते प्रथमं ततः । तेनैव कारयेत्सर्वमाचार्येणार्ऽचकेन च ॥ २७.२३८ ॥ तदभावे तु तत्पुत्रैःपौत्रैस्तद्वंशजैस्तथा । तन्नियुक्तैस्तदीयैर्वापूर्वाभावे परैश्चरेत् ॥ २७.२३९ ॥ अन्यथा क्रियते चेत्तु यजमानो विनश्यति । उत्सवाहस्सु हीनेषु प्रायश्चित्तं समाचरेत् ॥ २७.२४० ॥ वर्धयेद्वैष्णवं कार्यं ह्रासयेन्न कदा चन । प्रमादाद्वाप्यशक्तौ वा कृत्वा संप्रार्थयेद्धरिम् ॥ २७.२४१ ॥ महाशान्तिं तु हुत्वैव शेषं कुर्यात्प्रयत्नतः । एष एव विधिर्वृद्धौ स तु श्रेयोऽभिवृद्धिदः ॥ २७.२४२ ॥ यदा त्ववभृथेदैवात्कृते विनिमयेन तु । असंकल्पितवत्कुर्यात्तत्र पूर्वोक्त निष्कृतिः ॥ २७.२४३ ॥ प्रमादाद्बुद्धिपूर्वं वा तत्तद्वेलोत्सवादिषु । अकृतेषु यथाशास्त्रं कृत्वा तन्त्रेण वैपुनः ॥ २७.२४४ ॥ मन्त्रेण वा पुनस्सूक्ष्मं कालेऽवभृथमाचरेत् । यज्ञस्यापभृथोऽन्तस्स्यान्नोत्सवस्तदनन्तरम् ॥ २७.२४५ ॥ अकृतोत्सवकार्याणि यथोक्तं पूर्वमाचरेत् । नित्योत्सवं हरेः कुर्यान्नित्यश्री र्नित्यमङ्गलः ॥ २७.२४६ ॥ हरिर्नारायणो देवो नालं देवा स्तमर्चितुम् । आचार्ये यजमाने वा पूजकेऽन्यपदार्थिनि ॥ २७.२४७ ॥ नष्टे सद्यस्तदान्यन्तु वरयित्वा समाचरेत् । न दैवं प्रतिबध्नाति कार्यं यत्कर्म मानुषम् ॥ २७.२४८ ॥ देवेशमनुमान्याथ महाशान्तिं तु पद्मके । समृतो ब्रह्ममेधार्ऽहः पूतं तद्गात्रमुच्यते ॥ २७.२४९ ॥ सर्वे पदार्थिनः प्रोक्ता गुरुपूर्वाःपदार्थिनः । ग्रामान्तरं प्रयाते तु दीक्षामध्ये पदार्थिनि ॥ २७.२५० ॥ अस्पृश्यस्पर्शदोषेण सुरापानादिना तथा । अनुक्तदोषैर्वा दुष्टे रोगाच्छौचाद्यसंभवे ॥ २७.२५१ ॥ शावाद्याशौसयोग्ये वा शवानुगमने तथा । वाहने दाहने चैव प्रेतान्नश्राद्धभोक्तरि ॥ २७.२५२ ॥ श्राद्धस्य याजके श्राद्धशिष्टभोक्तरिभोक्तरि । दोषस्स्याद्विधिना तत्र महाशान्तिमथाचरेत् ॥ २७.२५३ ॥ श्राद्धकर्तिरि नो दोष स्तत्र दाता भवेत्सहि । परान्नेन मुखं दग्धं हस्तौ दग्धौ प्रतिग्रहात् ॥ २७.२५४ ॥ परस्त्रीभिर्मनोदग्धं ब्रह्मशापः कुतः कलौ । दीक्षामध्ये नान्यदीक्षां गर्भदीक्षां विना चरेत् ॥ २७.२५५ ॥ विधुरे यजमाने तु दीक्षितः पुरुषो भवेत् । सदारो वा प्यदारोवा दीक्षितस्स्यात्कलत्रवान् ॥ २७.२५६ ॥ दंपती यजमानो चेदयमभ्युदयो भवेत् । अनग्निमत्यदारे वा गुरौ तं तु न दीक्षयेत् ॥ २७.२५७ ॥ अन्यस्मिन् पदभाजी स्याद्यथासंभवमादरः । वैधुर्यसंभवे त्वेषां मध्ये दुष्यन्ति नैव ते ॥ २७.२५८ ॥ वत्सराशौचमितरच्चाशौचं न प्रवर्तते । मातापित्रोर्मृतौ यत्तु प्रोक्तमभ्युदये पुनः ॥ २७.२५९ ॥ ध्वजारोहणहीने तु कृते निष्फल उत्सवः । कृत्वैवारोहणं तस्माद्ध्वजस्योत्सवमाचरेत् ॥ २७.२६० ॥ ध्वजस्यारोहणं कृत्वा नाचरेद्यदि चोत्सवम् । अज्ञानादर्थलोभाद्वामासेऽ न्यस्मिन्त्समाचरेत् ॥ २७.२६१ ॥ नकुर्याच्चेद्द्वितीये तु मासे कर्ता विनश्यति । तस्मान्निष्कृतिमब्जाग्नौ हुत्वा तूत्सवमाचरेत् ॥ २७.२६२ ॥ वैष्णवं विष्णुसूक्तं च नृसूक्तं चैव गारुडम् । ध्वाजं शान्तं च चक्रं च तथैवोत्सवदैवतम् ॥ २७.२६३ ॥ व्याहृत्यन्तं च हुत्वा तु वैष्णवान् पूज्य चाचरेत् । ध्वजस्य लक्षणं वक्ष्ये येन मानेन कारयेत् ॥ २७.२६४ ॥ विमानेन समं वाथ पादेनार्ऽधेन वाधिकम् । पादेनार्धेन हीसं वा पञ्चधापि प्रकल्पयेत् ॥ २७.२६५ ॥ जयश्रीकीर्तिविजयमङ्गलाख्याः प्रकीर्तिताः । अर्धहीनं न कुर्वीत तदेवागतिकं भवेत् ॥ २७.२६६ ॥ तस्माच्चहीनं नैव स्यादधिकं स्यात्तु शक्तितः । अवक्रमृजुमन्येनासंबद्धं कीलितादिभिः ॥ २७.२६७ ॥ श्लक्ष्णं मनोहरं दारु गृहीत्वाखण्डमुत्तमम् । तं चतुर्दशधा कुर्याम्मालाग्रे तेन कारयेत् ॥ २७.२६८ ॥ भागमेकं विहायाग्रे तत्र कुर्यात्त्रिमेखलाः । मेखलानामथायामस्तद्भागेन समो भवेत्, ॥ २७.२६९ ॥ त्रितालविस्तृतं कुर्याद्दण्डविस्तृतमेव वा । अन्तरं च समं तेषां तिस्रः कुर्यात्तु यष्टिकाः ॥ २७.२७० ॥ यष्टी द्वे पुरतः कुर्यात्पश्चादेका विधीयते । सर्वत्र किङ्किणीनां तु कुर्याच्छतम शेषतः ॥ २७.२७१ ॥ पश्चाच्छेषं त्रिधा कुर्याच्चतुर्धा वा ध्वजं बुधः । अष्टाश्रं च षडश्रं च चतुरश्रं च वृत्तकम् ॥ २७.२७२ ॥ मूलादारभ्य कुर्वीत चतुर्धा विहितं ध्वजम् । त्रिधा कृते न कुर्यात्तु षडश्रं शेषमाचरेत् ॥ २७.२७३ ॥ आद्यं भागं त्रिधा कृत्वा केचिदेवं प्रकुर्वते । शिखरं शिर इत्याहुरर्धेन शिखरं भवेत् ॥ २७.२७४ ॥ प्रमादात्पतितं गृह्य शिखरं स्थापयेद्विधिः । स्पुटितेवाथ भिन्ने वा बिंबस्योक्तवदाचरेत् ॥ २७.२७५ ॥ अधिष्टिते तु शिखरे द्विजैर्गृध्रादिभिस्सकृत् । विष्ठादिकरणे वापि उषिते वा निरन्तरम् ॥ २७.२७६ ॥ वास्तुहोमं च हुत्वैव पर्यग्निकरणं चरेत् । एष एव विधिः प्रोक्तो विमानशिखरादिषु ॥ २७.२७७ ॥ अधिष्ठानेन पादेन प्रस्तरेण च संयुतम् । ध्वजमूले त्विष्टकाभिर्वेदिं कुर्यान्मनोहराम् ॥ २७.२७८ ॥ न तामप्यधितिष्ठेत नरो दीर्घं जिजीविषुः । किं पुनस्तत्र वक्तव्यमालयाद्यवरोहणे ॥ २७.२७९ ॥ विमानं विष्णुरूपं स्यान्न तत्पादादिवा क्रमेत् । धामप्रदक्षिणे पूर्वं कुर्यात्तत्र नमस्त्रियाः ॥ २७.२८० ॥ न लङ्घयेद्ध्वजछायां प्रदक्षिणविधिं विना । गोपुरस्य विमानस्य प्राकारस्यालयस्य च ॥ २७.२८१ ॥ प्रमादादतिलङ्घ्यैव प्राणायामशतं चरेत् । शिवदृष्टिं विष्णुवृष्ठं दुर्गायाः पार्श्वतो दृशम् ॥ २७.२८२ ॥ विघ्नेशस्योर्ध्वदृष्टिं च तीक्ष्णमाहुर्मनीषिणः । यावच्छावतरेच्छाया तावती दोषभूमिका ॥ २७.२८३ ॥ दोषभूमिं परित्यज्य निवासं परिकल्पयेत् । त्यागे संपत्समृद्धिस्स्यादन्यथा विपरीतकृत् ॥ २७.२८४ ॥ रध्यादिभिर्यथा भूयादन्तरं तन्न दोषकृत् । अथ वा शतदण्डान्तं त्यक्त्वान्वे वसतिं जगुः ॥ २७.२८५ ॥ यावद्धामायतं दावत्पृष्ठं वा मुघमेव वा । ततोधिकं तच्च तच्च केचिदाहुर्मनीषिणः ॥ २७.२८६ ॥ ध्वजं नित्यमुशन्त्येके यत्रैको ह्यनवायिषु । तत्रारोहणकर्मादि नेच्छन्ति परमर्षयः ॥ २७.२८७ ॥ औत्सवं ध्वजमास्थाप्य तत्र कार्यं प्रकुर्वते । ध्वजमेकं तु सर्वत्र केचिदाहुर्मनीषिणः ॥ २७.२८८ ॥ अतः परं प्रवक्ष्यामि ध्वजदण्डे तु निष्कृतिम् । प्रमादात्पतिते भूम्यां ध्वजे वातादिना दृढे ॥ २७.२८९ ॥ अभग्ने वाथ भग्ने वा ध्वजं तत्र पूनः क्षिपेत् । अभग्ने तं ध्वजं गृह्य कृत्वा मन्त्रेण तक्षणम् ॥ २७.२९० ॥ अधिवासादिकं कृत्वा तत्थ्साने स्थापयेद्बुधः । भग्ने ध्वजे न सग्राह्यस्तमप्सु विधिना त्यजेत् ॥ २७.२९१ ॥ ततोऽन्यं ध्वजमादाय स्थापयेदविलंबितम् । चोराद्यैर्बुद्धिपूर्वं वा पातिते पूर्ववद्विधिः ॥ २७.२९२ ॥ तत्राधिकं प्रकुर्वीत शिल्पिभिस्तक्षणं पुनः । अभग्नध्वजवत्कुर्यादन्यत्पूर्ववदत्वरः ॥ २७.२९३ ॥ भागेनानुपयुक्तस्य ध्वजस्य त्याज्यतैव हि । दुष्टभागस्य दानेन न कदाचित्परिग्रहः ॥ २७.२९४ ॥ अथ वा सुदृडं गृह्य प्रतिष्ठां महतीं चरेत् । दुष्टं भागं व्यपोह्यैव प्रमाणं लक्षयेत्पुनः ॥ २७.२९५ ॥ प्रमाणमप्रमाणं वा ध्वजं नान्येन दारुणा । संयुतां वर्धितां कुर्यादेष सार्वत्रिको विधिः ॥ २७.२९६ ॥ यन्तु ताम्रादिना कुर्याल्लोहेन कवचादिकम् । बालालयं प्रकल्प्यैव तत्रकार्यं समाचरेत् ॥ २७.२९७ ॥ स्थितमेव ध्वजं कुर्यान्न तु तं चालयेत्क्वचित् । दग्धं ध्वजं परित्यज्य पुनरन्यं समाहरेत् ॥ २७.२९८ ॥ ध्वजेऽन्त्यजातिभिस्स्पृष्टे महाशान्तिमथाचरेत् । तैस्समीपमुपेतैन्तु सहस्राहुतिमाचरेत् ॥ २७.२९९ ॥ पतिते वात्यया चैवं ध्वजस्य शिखरे तथा । मेखलासु च तत्सर्वं नवीकृत्य यथाविधि ॥ २७.३०० ॥ ध्वजदण्डे तु संयोज्य प्रतिष्ठां पुनराचरेत् । ध्वजस्य चलने चापि प्रमादाद्व्रश्चने तथा ॥ २७.३०१ ॥ भग्नाभग्न ध्वजस्योक्तनिष्कृतिं तु समाचरेत् । एष एव विधिः प्रोक्तो दण्डेष्वन्वेषु सर्वतः ॥ २७.३०२ ॥ अशन्यादिनिपातेन धामन्यन्तरिते यदि । देवे नष्टे ध्वजे सुस्थे ध्वजस्याराधनं भवेत् ॥ २७.३०३ ॥ आलयं च पुनःकृत्वा तमेवाराधयेद्ध्वजम् । निरीक्ष्यत्रीणि वर्षाणि देवागारे त्वनिर्मिते ॥ २७.३०४ ॥ तत्र देवो न रमते तद्ध्वजं तु त्यजेत्सुधीः । अथ वा यत्र कुत्रापि प्रतिष्ठाप्य समर्चयेत् ॥ २७.३०५ ॥ अथ वक्ष्ये ध्वजस्थानं यथाशास्त्रविनिश्चितम् । पिठगोपुरयोर्मध्ये पञ्चभागं प्रकल्प्य च ॥ २७.३०६ ॥ पीठात्त्यक्त्या चतुर्भागं पञ्चमे ध्वजसंस्थितिः । तत्संधौ तु प्रशस्तं स्याद्यथा संफवमाचरेत् ॥ २७.३०७ ॥ यदि प्राकारबाह्ये स्याद्ध्वजश्शास्त्रवदाचरेत् । अनुक्तस्थाननिहितं तं च शास्त्रवदाचरेत् ॥ २७.३०८ ॥ अशक्तौ पुनरन्यं च प्राकारं कारयेत्क्रमात् । देवदृग्विषयं कुर्याद्ध्वजं लैवापरोक्षयेत् ॥ २७.३०९ ॥ यदा चान्यालयैर्वापि गोपुरादिभिरेव वा । अभ्यन्तरं भवेच्चेत्तु छिद्रं कुर्यात्तु दृक्पथे ॥ २७.३१० ॥ वृक्षाद्यैःपतितैर्नष्टे चालितेऽवनतेऽपि च । तद्ध्यजं पूर्ववत्कुर्यात्त्रिमासाभ्यन्तरेऽत्वरः ॥ २७.३११ ॥ कृम्यादिभिर्विहङ्गैर्वाकोटरादौ कृते ध्वजे । कृत्वा बालालयं पश्चात्समीकृत्यार्चयेत्पुनः ॥ २७.३१२ ॥ रज्जुबन्धादिकरणे ध्वजस्यारोहणे कृते । बालालयं न तत्र स्याद्वास्तुशुद्धिं समाचरेत् ॥ २७.३१३ ॥ प्राक्षयेत्पञ्चगव्यैस्तु ध्वजमन्त्रेण हूयते । अत ऊर्ध्वं प्रवक्ष्यामि निष्कृतावर्चनक्रमम् ॥ २७.३१४ ॥ उक्तेन विधिना यत्र नष्टे दुष्टेऽपि वा ध्वजे । पुनस्थ्सापनपर्यन्तं कुर्याद्वेणुध्वजं शुभम् ॥ २७.३१५ ॥ अथ वा कारयेद्विद्वान् सुवर्णरजतादिभिः । ध्वजं तालोन्नतं स्थाप्य गर्भगेहे तु पूजयेत् ॥ २७.३१६ ॥ अधिवासादि तत्सर्वं प्रतिष्ठोक्तवदाचरेत् । अचलो वेणुदण्डः स्याद्गर्भगेहे भवेच्चलः ॥ २७.३१७ ॥ उत्सवादौ तु सर्वत्र वेणुदण्डं समाचरेत् । चलदण्डो वेणुदण्ड इति स्यादुत्सवेद्वयम् ॥ २७.३१८ ॥ उत्सवादौ प्रवृत्ते तु उक्तदोषे त्वयं विधिः । ध्वजस्थं गरुडं तस्मादवमुच्य समाहितः ॥ २७.३१९ ॥ नीत्वातु यागशालायां संस्थाप्य तु समर्चयेत् । वेणुदण्डं प्रतिष्ठाप्य सद्यस्तस्मिन् प्रयोजयेत् ॥ २७.३२० ॥ महाशान्तिं तथा कुर्यात्सहस्राहुतिमेव च । वैष्णवं विष्णुदैवत्यं गारुडं ध्वाजमेव च ॥ २७.३२१ ॥ सौदर्शनं च कूश्माण्डान् शतमष्टाधिकं यजेत् । तथैव दीपदण्डस्य भवेत्सर्वत्र चक्रमः ॥ २७.३२२ ॥ ध्वजे नारोपयेद्दीपं दीपदण्डः पृथग्भवेत् । तत्र दीपं समारोप्य न लभेत्फलमव्ययम् ॥ २७.३२३ ॥ ध्वजे दीपं समारोप्य वैष्णवं शतशो यजेत् । आपत्कल्पं प्रवक्ष्यन्ति ध्वजे दीपावरोहणम् ॥ २७.३२४ ॥ दीपयुक्ते ध्वजे नष्टे पूर्ववन्निष्कृतिं चरेत् । वीशप्रतिष्ठाहीने तु ध्वजस्यारोहणे कृते ॥ २७.३२५ ॥ वैष्णवं विष्णुसूक्तं च नृसूक्तं ध्वाजमेव च । गारुडं दशशो हुत्वा प्रतिष्ठां पुनराचरेत् ॥ २७.३२६ ॥ ध्वजदेवस्य चक्रस्य शान्तनन्दीशयोस्तथा । हीनेर्ऽचने वैष्णवं च तद्दैवत्यसमन्वितम् ॥ २७.३२७ ॥ हुत्वैव पुनरभ्यर्च्य पश्चात्कार्यं समाचरेत् । भेरीताडनहीने च रौद्रं च व्याहृतीस्तथा ॥ २७.३२८ ॥ हुत्वा महाव्याहृतीश्च भेरीताडनमाचरेत् । अर्चनादिषु सर्वत्र यत्र घण्टानिनादनम् ॥ २७.३२९ ॥ एष एव विधिः प्रोक्तः प्रायश्चित्तं समाचरेत् । आरोपिते तु गरुडे हीने चैव निवेदने ॥ २७.३३० ॥ वैष्णवं ध्वंमेत्रौ च हुत्वा गारुडमेव च । निवेदयेत्तुद्विगुणं "क्षमऽस्वेत्यनुमानयेत् ॥ २७.३३१ ॥ मुद्गान्ने तु तथा हीने वैष्णवं वायुदैवतम् । आग्नेयमीङ्कारादींश्च गारुडं ध्वाजमेव च ॥ २७.३३२ ॥ हुत्वा यत्नेन बहुशो मौद्गिकं च निवेदयेत् । वर्षवातातपैस्सम्यगुपघातादिसंभवे ॥ २७.३३३ ॥ विष्ठाद्युपहते चैव पक्षिणामसकृत्सकृत् । रज्ज्वादित्रुटने चैव प्रमादात्पतनेऽपि च ॥ २७.३३४ ॥ पातिते बुद्धिपूर्वं वा अकालेऽप्यवरोपिते । शूद्राद्यैरनुलोमैर्वा स्पृष्टे ध्वजगते पटे ॥ २७.३३५ ॥ अशुचिं शोधयित्वान्यत्समीकृत्यासमीकृतम् । उत्सवाधिपदैवत्यं षड्वारं जुहुयाद्गुरुः ॥ २७.३३६ ॥ गारुडं ध्वजमन्त्रं च सहस्तं चैव हूयताम् । ततश्शेषं समाप्येत विपरीतं न कारयेत् ॥ २७.३३७ ॥ प्रमादाद्बुद्धिपूर्वं वा पटे दग्धेऽन्यमाहरेत् । शान्तिं पूर्वोदितां कृत्वा प्रतिष्ठां पुनराचरेत् ॥ २७.३३८ ॥ अवरोहणमुद्वासन्तं च मन्त्रेण कारयेत् । अवरोहणहीने तु मन्त्रेणोद्वासनं भवेत् ॥ २७.३३९ ॥ ततश्शेषं प्रकूर्वीत अशक्ताववरोहणे । अप्रमाणं पटं गृह्य महाशान्तिं समाचरेत् ॥ २७.३४० ॥ पुनरन्यं समादाय कर्मशेषं समाचरेत् । हीने तु चोत्सवारंभस्नपने वैष्णवं तथा ॥ २७.३४१ ॥ विष्णुसूक्तं नृसूक्तं च वारुणं चैव हूयते । शुद्धोददैरभिषाकस्स्यात्प्रायश्चित्तविधिस्स्मृतः ॥ २७.३४२ ॥ हीने कौतुकबन्धे तु वैष्णवं शान्तमेव च । सौदर्शनं च हुत्वा तु कौतुकं बन्धयेत्पुनः ॥ २७.३४३ ॥ यज्ञागारे कुंभवेद्याहीने वाप्यधिकेऽपि वा । वैष्णवं पावकं भूमिदैवत्यं च हुनेद्बुधः ॥ २७.३४४ ॥ तोरणानामलाभे तु हुनेद्दौवारिकान्मनून् । हीनायां दर्भमालायामार्षं हुत्वेतराङ्क्रियात् ॥ २७.३४५ ॥ अलङ्कारविहीने तु श्रीदैवत्यं तधा हुनेत् । प्रातर्बलिं तु निर्वाप्य हीने नित्योत्सवे तथा ॥ २७.३४६ ॥ वैष्णवं शान्तवीशौ च हुत्वा चोत्सवदैवतम् । सायं कुर्यादुत्सवं तु द्विगुणं कारयेत्क्रमात् ॥ २७.३४७ ॥ सायं हीनं तु द्विगुणं प्रातरुत्सवमाचरेत् । एककालोत्सवश्चेत्तु कृत्वा कालद्वयं बलिम् ॥ २७.३४८ ॥ सायाह्ने चोत्सवं कुर्यात्कालातीतेऽप्ययं विधिः । दिग्देवतास्समावाह्य प्रथमेऽहनि पूजयेत् ॥ २७.३४९ ॥ प्राच्यादि बलिदानं स्यादीशानान्तं प्रदक्षिणम् । देवाह्वाने व्यत्ययस्स्याद्व्यतीहारोऽथ वा भवेत् ॥ २७.३५० ॥ पूर्वोक्तां निष्कृतिं कृत्वा द्विगुणं तु बलिं ददेत् । ब्रह्मणश्च दिगीशानां बलिदानं तु नैत्यिकम् ॥ २७.३५१ ॥ अदाने निष्कृतिं कृत्वा पूर्वोक्तं षड्गुणं बलिः । चतुष्पथाधिदेवानां वृक्षादीनामथेच्छया ॥ २७.३५२ ॥ प्रथमावाहनादर्वाग्व्यत्यये पूर्वनिष्कृतिः । प्रथमं वास्तुशुद्धिस्स्याद्य वै दीयते बलिः ॥ २७.३५३ ॥ अन्तं शुद्ध्यन्ति रथ्यास्ताश्शुर्ध्यन्ति समये पुनः । अकृतायां वास्तुशुद्धौ दद्याद्रथ्यासु चेद्बलिम् ॥ २७.३५४ ॥ शान्तिं कृत्वातु पूर्वोक्तां वास्तुशुद्धिं पनर्बलिः । अन्तश्शचे वास्तुनि तु न बलिभ्रमणं चरेत् ॥ २७.३५५ ॥ शवमुद्धृत्य पश्चात्तु पर्यग्नि करणं भवेत् । अकाले बलिदानं स्यादसुरप्रीतिवर्धनम् ॥ २७.३५६ ॥ अकाले तु बलिं दत्वा काले तु त्रिगुणं बलिः । बलिभ्रमणदेशस्स्याद्देवस्य भ्रमणाय हि ॥ २७.३५७ ॥ नान्यत्र चर्या देवस्य लघुप्रोक्षण मन्यथा । न हि श्रद्धोत्सवे दोषमुशन्त्येनं स हीतरः ॥ २७.३५८ ॥ वास्तुवृद्धौ तथा ह्रासे ग्रामसीमानवीकृतौ । अनुमान्य च देवेशं शताष्टकलशाप्लवः ॥ २७.३५९ ॥ कृत्वा सीमां विनिश्चित्य ततः कार्यं समाचरेत् । अस्तरा चोत्सवं कुर्यात्सहस्रकलशाप्लवः ॥ २७.३६० ॥ देवतावाहनं कृत्वा तथैवोत्सव माचरेत् । देवादीनां बलं यस्माद्वर्धते स बलिस्स्मृतः ॥ २७.३६१ ॥ श्वसूकरादिभिर्दुष्टैर्नभक्ष्यो बलिरुच्यते । बलिभुग्वायसः प्रोक्तो गोमुख्या मेध्यजन्तवः ॥ २७.३६२ ॥ विपरीते महान् दोषस्तन्मन्त्रैर्हावयेच्छतम् । बलिशेषं न शूद्रोऽद्यादर्चको बलिशेषभाक् ॥ २७.३६३ ॥ बलावमन्त्रकं क्षिप्ते संक्षिप्ते विधिवर्जिते । भक्षिते चानुलोमाद्यैःपूर्वोक्तां निष्कृतिं चरेत् ॥ २७.३६४ ॥ बलौ पर्युषितेऽत्युष्णे तथा चैवानिवेदिते । निवेदनात्प्रागर्वाग्वादृष्टे शूद्रादिभिर्बलौ ॥ २७.३६५ ॥ पूर्वोक्तां निष्कृतिं कृत्वा सर्वत्र द्विगुणं बलिः । देवतावाहनं यत्र देशेप्राक्क्रियते ततः ॥ २७.३६६ ॥ तत्रैव बलिदानं स्याद्यावदुद्वासनं भवेत् । मण्डलं च जलं कूर्चमाह्वानाधार उच्यते ॥ २७.३६७ ॥ रथ्यासु बलिदानाय पीठं शैलादिभिर्भवेत् । बलिदानं तु गुप्तं स्यान्न तत्बश्यन्त्यवैदिकाः ॥ २७.३६८ ॥ तत्थ्सावं तु तिरस्कुर्यात्काले यवनिकादिभिः । बलिप्रदानहीने तु वैष्णवं बलिरक्षकम् ॥ २७.३६९ ॥ हुत्वा तु निष्कृतिं कुर्याद्बलिदानं पुनस्तदा । बलिद्रव्येऽथ वा पात्रे पतिते भूतले तथा ॥ २७.३७० ॥ भिन्ने नष्टे च पूर्वोक्तं हुत्वान्यं बलिमाहरेत् । बलिदानं तु कृत्वैव भुतपीठे क्षिपेत्ततः ॥ २७.३७१ ॥ बलिशेषमनुक्ते तु स्थाने बुद्ध्या तु निर्वपेत् । वैष्णवं चाक्षहमनुं वैष्वक्चेनं च गारुडम् ॥ २७.३७२ ॥ सौदर्शनं च हुत्वैव भूतपीठे बलि क्षिपेत् । हविर्निवेदने हीनेहीने च द्विगुणार्चने ॥ २७.३७३ ॥ शान्तिं च वैष्णवं हुत्वा तथाभ्यर्च्य निवेदयेत् । यथोक्तहोमे हीने तु वैष्णवं विष्णुसूक्तकम् ॥ २७.३७४ ॥ नृसूक्तं च त्रयस्त्रिंशत्कृत्वो हुत्वा हुनेत्पुनः । चक्रवीशामितानां च कुंभस्थानामथापिवा ॥ २७.३७५ ॥ देवानामर्चने हीने वैष्णवं विष्णुसूक्तकम् । नृसूक्तं सान्तमन्त्रौ च गारुडं चाक्रमेव च ॥ २७.३७६ ॥ हुत्वा पुनस्समभ्यर्च्य विशेषेण निवेदयेत् । देवालङ्करणे हीने श्रीदैवत्यं च वैष्णवम् ॥ २७.३७७ ॥ हुद्वालङ्कारमासाद्य विधीना भूषयेद्गुरुः । अलङ्कारेषु द्रव्येषु निर्यासं चन्दनं सुमम् ॥ २७.३७८ ॥ तद्धित्वान्यत्समादाय द्रव्यं प्रक्षाल्यमन्त्रतः । पञ्चगव्यैस्समभ्युक्ष्य तेनालङ्कार उच्यते ॥ २७.३७९ ॥ नृत्ते गेयेऽथ वा हीने वैष्णवं रुद्रदैवतम् । स्तोत्रहीने तथा ब्राह्मं हुत्वा सारस्वतं ततः ॥ २७.३८० ॥ भक्तबृन्दैः परिवृतौ हीनायां वारुणं तथा । वैष्णवं शान्तदैवत्यं हीने पिच्छादिके तथा ॥ २७.३८१ ॥ वैष्णवं जुहुयात्तद्वद्धविरक्षमनुं ततः । यानात्काले यागशालां देवे न प्रतिगच्छति ॥ २७.३८२ ॥ भवेन्नित्यार्चनं तत्र यत्रदेवोऽधिवासितः । ध्रुवार्चनं यथा पूर्वं न तत्रास्ति व्यतिक्रमः ॥ २७.३८३ ॥ देवं प्रत्यागतं दृष्ट्या पुनरन्योत्सवं चरेत् । दिनव्यपाये कुर्याच्च तत्कालनियतोत्सवम् ॥ २७.३८४ ॥ अतीतमुत्सवं चापि तन्त्रेणात्र समाचरेत् । तद्दिनेप्यप्रमादाच्चेद्भूयात्कालस्य यापनम् ॥ २७.३८५ ॥ न जह्या देवकुर्याच्च तत्कालोचितमुत्सवम् । अत्र प्रमादेतु भवेत्पूर्वोक्तैव हि निष्कृतिः ॥ २७.३८६ ॥ दीक्षितो वस्त्रमाल्याद्यैः पञ्चागार्पितभूषणैः । चरेन्नित्यं विशुद्धात्मा विपरीते तु दोषकृत् ॥ २७.३८७ ॥ दीक्षाङ्गस्य तु वस्त्रस्य तथा प्रतिसरस्य वा । नाशे तत्र महान् दोषस्तदान्यत्पुनराहरेत् ॥ २७.३८८ ॥ सहस्रं विष्णुगायत्रीं हुत्वा शान्तिमथाचरेत् । यावद्दीक्षाभवेत्तावद्दीक्षाङ्गस्य परिग्रहः ॥ २७.३८९ ॥ अन्तेतु तद्गताशक्तिस्स्वयमेवावहीयते । अथ वा मोचनं कुर्यादिते के चिद्वदन्तिहि ॥ २७.३९० ॥ तत्र पूर्णाहुतिं कालं प्रवदन्ति विपश्चितः । प्रतिष्ठान्ते तु सा दीक्षा भवेदुत्सवसंगता ॥ २७.३९१ ॥ न तत्र दीक्षासांकर्यं द्वयमेकत्र चेद्यदि । अन्योन्यं कलहायन्ते यद्याचार्यादयःक्रतौ ॥ २७.३९२ ॥ महाननर्थस्तत्र स्यात्प्रतिभूर्गुरुरत्र हि । गुरुवाक्यं च राजाज्ञां सममाहुर्महर्षयः ॥ २७.३९३ ॥ दीक्षिते वर्तमाने तु नान्यं तत्र प्रवेशयेत् । नह्येकस्मिन् भवेत्कार्य आचार्यद्वय संगतिः ॥ २७.३९४ ॥ प्रमादाद्बुद्धिपूर्वं वा कलहे क्षतजस्रुतिः । क्षतानि वा भवेयुस्तं विसृज्यान्येन कारयेत् ॥ २७.३९५ ॥ न तस्य तु भवेद्दीक्षा महाशान्तिं तु कारयेत् । स दीक्षितो भवेदेव पूर्वस्य प्कणिधिस्स हि ॥ २७.३९६ ॥ यावदाशौचसंक्रान्ति राशौचेत्वशुचिर्भवेत् । पुनरन्यं समादाय शेषं पूर्ववदायरेत् ॥ २७.३९७ ॥ आदौ मध्ये तधान्ते च हीने ब्राह्मणभोजने । त्रिवाकं तु महाशान्तिं हुत्वा ब्राह्मणभोजनम्, ॥ २७.३९८ ॥ द्विगुणं कारयेच्चैव वैष्णवानां तु पूजनम् । पुनाति पूजितस्सद्यः पाप्मभ्यो वैष्णपस्सकृत् ॥ २७.३९९ ॥ अवैष्णवैश्च पाषण्डैरूढे देवे द्वनर्थकृत् । तद्दोषशान्तये कुर्यात्सहस्रकलशाप्लवम् ॥ २७.४०० ॥ अवैष्णवकृतापूजा हन्ति पुण्यं पुरातनम् । यानात्तु पतिते देवे शीघ्रमुद्धृत्य सादरम् ॥ २७.४०१ ॥ "क्षमऽस्वेत्यनुमान्यैव शुद्धोदैरभिषिच्यच । वैष्णवं विष्णुसूक्तं च नृसूक्तं सहितं क्रमात् ॥ २७.४०२ ॥ दिनाधिपस्य दैवत्यं हुत्वा चोत्सवमाचरेत् । चक्रवीशाखमितादीनां बिंबाभावे पृथक्पृथक् ॥ २७.४०३ ॥ तण्डुलोपरिपात्रेषु कूर्चेष्वावाह्य मन्त्रतः । तत्तद्रूपं तु संस्मृत्य समभ्यर्च्य विधानतः ॥ २७.४०४ ॥ हुत्वा च तत्तद्दैवत्यं पश्चादुत्सवमाचरेत् । पतने तु तथैतेषामुद्धृत्यैव च पूर्ववत् ॥ २७.४०५ ॥ स्नापयित्वा हुनेत्तत्तद्दैवत्यं वैष्णवं तथा । यानात्तु पतिते बिंबे हीनाङ्गे दोषगौरवे ॥ २७.४०६ ॥ पद्मानले महाशान्तिं हुत्वा तद्दोषशान्तये । ध्रुवबेरे समारोप्य तच्चक्तिं विधिना ततः ॥ २७.४०७ ॥ कौतुकं स्नापनं वाथ बलिबेरमथापि वा । यथार्हं समलङ्कृत्य समावाह्य यथाविधि ॥ २७.४०८ ॥ समभ्यर्च्योत्सवं कुर्यान्न तत्रस्याद्व्यतिक्रमः । बेरान्तरस्यालाभे तु रत्नं वा काञ्चनं तथा ॥ २७.४०९ ॥ न्यस्य पात्रे समावाह्य समभ्यर्च्य दिने दिने । महाशान्तिं च हुत्वैव पुनरुत्सवमाचरेत् ॥ २७.४१० ॥ हीनाङ्गं च पुनर्बेरं संधानविधिना पुनः । संधाय चात्वरेणैव प्रतिष्ठां पुनराचरेत् ॥ २७.४११ ॥ पतने गायगादीनां श्रीदैवत्यं च वैष्णवम् । वादकानां तु पतनै ब्राह्मं रौद्रं तथैव च ॥ २७.४१२ ॥ आचार्यादीनां तु पतने संक्षोभे च तथाकृते । आर्षभं वैष्णवं तद्वद्ध्वजादीनां च पातने ॥ २७.४१३ ॥ ध्वाजं च वारुणं चैव वायव्यं च हुनेद्विधिः । वर्षधारासु वात्यायां विद्युद्व्रजसमाहतौ ॥ २७.४१४ ॥ काले न चोत्सवं कुर्यात्कुर्याच्चेद्वैष्णवं तथा । विष्णुसूक्तं नृसूक्तं च श्रीभूदैवत्यमेव च ॥ २७.४१५ ॥ हुत्वोत्सवं प्रकुर्वीत विपरीते तु दोषकृत् । वीथ्यन्तरे वर्षधाराप्रवेशेऽशनिगर्जिते ॥ २७.४१६ ॥ तृणपांसु समायुक्तवातस्पर्शे विशेषतः । कलहध्वनिसंयुक्ते देवं संस्नाप्य मन्त्रवित् ॥ २७.४१७ ॥ वैष्णवं दिग्दैवत्यं च वारुणं वायुदैवतम् । यद्देवादींश्च हुत्वैव पुनरुत्सवमाचरेत् ॥ २७.४१८ ॥ कलहे रुधिरस्रावे दाहे चाप्युत्सवे ततः । वैष्णपं चाग्निदैवत्यं ब्राह्मं रौद्रं तथैव च ॥ २७.४१९ ॥ तद्दिनाधिपदैवत्यं जुहुयात्प्रार्थयेद्धरिम् । आलयाभ्यन्तरे चैव शस्त्राद्यैर्मरणे सति ॥ २७.४२० ॥ तच्छीघ्रमपहायैव पद्माग्नौ जुहुयात्तथा । महाशान्तिं तद्दिनाधिदैवत्यं च विशेषतः ॥ २७.४२१ ॥ वीथ्यां चेन्मरहणादौतु तच्छीघ्रं तु व्यपोह्य च । शान्तिहोमं च हुत्वैव पुनरुत्सवमाचरेत् ॥ २७.४२२ ॥ नाडिकाया अथार्याक्चेत्पुनरुत्सवमाचरेत् । आलयस्याशीतिदण्डाभ्यन्तरे तु शवे सति ॥ २७.४२३ ॥ तत्रोत्सवं न कुर्यात्तु कुर्याच्चेत्स विनश्यति । तच्छीघ्रमपहायेव प्रायश्चित्तं यथोदितम् ॥ २७.४२४ ॥ महाशान्तिं पार्षदं च चहुत्वा चोत्सवमाचरेत् । लगरे विधिरेषस्स्याद्ग्रामेनैष विकल्प्यते ॥ २७.४२५ ॥ अन्तश्सवेनैव कुर्यादुत्सवं ग्रामवृद्धये । ध्वजस्वारोहणादुर्ध्वं यावत्तीर्थदिनं भवेत् ॥ २७.४२६ ॥ अन्यात्सवं शुभं कर्म कुर्याच्चेदाभिचारिकम् । तद्दोषशमनायैव वैष्णवं विष्णुसूक्तकम् ॥ २७.४२७ ॥ नृसूक्तं पार्षदं चैव हुत्वा विप्रांस्तु भोजयेत् । तीर्थाहात्पूर्वरात्रौ तु हीने कौतुक बन्धने ॥ २७.४२८ ॥ शयने वा वैष्णवं च श्रीभूदैवत्यमेव च । सौदर्शनं च हुत्वान्ते यथोक्तं तु समाचरेत् ॥ २७.४२९ ॥ तीर्थस्नाने तु कालस्यातीते हीने च वैष्मवम् । वारुणं स्कन्ददैवत्यं हुत्वा चौक्तं समाचरेत् ॥ २७.४३० ॥ ध्वजावरोहणे हीने तद्रात्रौ ध्वाजमेव च । गारुडं वैष्णवं हुत्वा देवेशं प्रार्थयेद्गुरुः ॥ २७.४३१ ॥ अवरोहणकारे तु बलौ हीने विशेषतः । ध्वजदेवं सुसंपूज्य वैष्णवं विष्णुसूक्तकम् ॥ २७.४३२ ॥ तदालयस्थदेवानां मन्त्रांश्चैव विशेषतः । हुत्वा देवेशमभ्यर्छ्य ध्वजं समवरोहयेत् ॥ २७.४३३ ॥ उत्सवान्ताप्लवेहीने वैष्णवं विष्णुसूक्तकम् । पुरुषसूक्तं जयादीनश्च मूर्तिमन्त्राश्च हावयेत् ॥ २७.४३४ ॥ अत्रानुक्तेषु दोषेषु प्रायश्चित्तं भवेदिदम् । वैष्णवं विष्णुसूक्तं च नृसूक्तं च तथैव च ॥ २७.४३५ ॥ हूयते विष्णुगायत्री सर्वपापप्राणाशिनि । एवमष्टाविंशतिर्वा शक्तावष्टोत्तरं शतम् ॥ २७.४३६ ॥ इति श्रीवैखानसे भगवच्छास्त्रे भृगुप्रोक्तायां संहितायां प्रकीर्णाधिकारे सप्तविंशोऽध्यायः. _____________________________________________________________ अथाष्टाविंशोऽध्यायः. अथाष्टाविंशोऽध्यायः. प्रायश्चित्तम् अथास्पृश्यस्पर्शनेतुप्रायश्चित्तं प्रवक्ष्यते । सर्पमूषकमण्डूकमार्जारनकुलादिषु ॥ २८.१ ॥ गर्भागारं प्रविष्टेषु विण्मूत्रादिविसर्जने । व्यपोह्य तत्पञ्चगव्यैस्तथाब्लिङ्गाभिरेव च ॥ २८.२ ॥ वैष्णवं विष्णुगायत्रीं शतमष्टोत्तरं जपेत् । ध्रुवं चै वाधितिष्ठत्सु विण्मूत्रादिविसर्जने ॥ २८.३ ॥ क्षिप्रं वस्त्रेण संशोद्य मार्जयित्वा कुशेन च । "आपो हिरण्यवर्णाऽभिः "पापमानीऽभिरेव च ॥ २८.४ ॥ संस्रोक्ष्य चार्चयेद्देवमन्यता विपरीतकृत् । स्पर्शेतैरेव बिंबानां शुद्धोदैस्स्नापयेद्विधिः ॥ २८.५ ॥ उदक्यया सूतिकया रजकेनान्त्यजातिभिः । प्रथमावरणे विष्टे चार्चास्थाने च पर्षदाम् ॥ २८.६ ॥ प्रविष्टे चाथ संस्पृष्टे दार्भेणोद्दीप्य वह्निना । हुत्वा च वास्तु यज्ञेव पञ्चगव्यैस्समुक्ष्य च ॥ २८.७ ॥ कृत्वा पुण्याहमन्ते तु नित्याग्नौ जुहुयात्ततः । दौवारिकमनुं चैव द्वारपालं च वैष्णवम् ॥ २८.८ ॥ बाङ्यावरणपक्षे तु मार्जनेनोपलेपनैः । प्रोक्षणैर्वास्तुयज्ञेव शुद्धिर्भवति सर्वतः ॥ २८.९ ॥ अर्चाकाने तु दृष्टेषु चैतेषु विधिना हरिम् । संस्नाप्य पञ्चगव्यैन्तु शुद्धोदैस्स्नाप्य चात्वरः ॥ २८.१० ॥ प्रोक्षणैः प्रोक्ष्य हुत्वा तु पूर्ववच्छार्चयेत्ततः । एतेषु संप्रविष्टेषु चालयाभ्यन्तरे तथा ॥ २८.११ ॥ तत्स्पृष्टहविषां चैव प्रमादात्तु निवेदने । शोधयित्वाथ तद्द्रव्यं यथाविधि विशेषतः ॥ २८.१२ ॥ वास्तुहोमं च हुत्वाथ पर्यग्निकरणं चरेत् । पञ्चगव्यैस्समभ्युक्ष्य पुण्याहमपि वाचयेत् ॥ २८.१३ ॥ संस्नाप्य कलशैर्देवं हुत्वा नित्यानले ततः । वैष्णवं विष्णुसूक्तं च नृसूक्तं रौद्रमेव च ॥ २८.१४ ॥ ब्राह्मं च श्रीमहीसूक्ते ब्राह्मणान् भोजयेत्ततः । स्पृष्टेतु चैतैर्बिंबेषु ध्रुवादिषु विशेषतः ॥ २८.१५ ॥ कृत्वातु पूर्ववच्छुद्धिं वास्तुहोमं च कारयेत् । पर्यग्निपञ्चगव्याभ्यां शोधयित्वा ततःपरम् ॥ २८.१६ ॥ संस्नाप्य कलशैर्देवमब्जाग्नौ विधिवत्तदा । महाशान्तिं च हुत्वैव प्रतिष्ठां पुनराचरेत् ॥ २८.१७ ॥ शूद्राद्यैरनुलोमैश्च स्पृष्टं दत्वा हविस्ततः । पञ्च गव्यैश्च शुद्धोदैर्देवं संस्नाप्य चादरात् ॥ २८.१८ ॥ पुण्याहं कारयेत्पश्छाद्द्विगुणं तु निवेदयेत् । महापातकिभिश्चैव चण्डालै पुल्कसादिभिः ॥ २८.१९ ॥ आलये संप्रविष्टे तु तत्स्पृष्ठे विनिवेदिते । सप्ताहं महतीं शान्तिं हुत्वाब्जाग्नौ विधानतः ॥ २८.२० ॥ संस्नाप्य कलशैर्देवं प्रतिष्ठां पुनराचरेत् । पुनश्चध्रुवबेरे वा बिंबेष्यन्येषु मन्दिरे ॥ २८.२१ ॥ स्पृष्टेषु पूर्ववच्छुद्धिं कृत्वा द्विगुणमेव च । हुत्वा तु महतीं शान्तिं संस्नाप्य कलशैर्विभुम् ॥ २८.२२ ॥ प्रतिष्ठोक्तक्रमेणैव प्रतिष्ठां पुनराचरेत् । पतिते चैव पाषण्डे चान्यतन्त्रेण दीक्षिते ॥ २८.२३ ॥ प्रविष्टे गर्भगेहे तु वास्तुशुद्धिं विधाय च । हुत्वा तु महतीं शान्तिं प्रतिष्ठां पुनराचरेत् ॥ २८.२४ ॥ उक्तेष्वेतेषु सततं प्रथमावरणे तथा । द्वितीये वा संचरत्सु मासेऽतीते विशेषतः ॥ २८.२५ ॥ मासमेकं महाशान्तिं हुत्वा कृत्वा विधानतः । कर्षणादि पुनःकृत्वा प्रतिष्ठां पुनराचरेत् ॥ २८.२६ ॥ तथा संवत्सरेऽतीते त्यक्त्वा चावाहनादिकम् । कौतुकादीन्त्सुसंरक्ष्य गर्भागारादि सर्वतः ॥ २८.२७ ॥ वासयेद्गा विशेषेण मासेऽतीते विशेषतः । सर्वत्र शुद्धिं कृत्वातु हुत्वा मासत्रयं ततः ॥ २८.२८ ॥ महाशान्तिं तथा कृत्वा कर्षणादि पुनःक्रियाः । बालालयं च संकल्प्य बिंबशुद्धिमाथाचरेत् ॥ २८.२९ ॥ जलाधिवासनाद्यैश्च तथा वित्तानुसारतः । अशीत्यधिकसाहस्रैस्संस्नाप्य कलशैर्हरिविम् ॥ २८.३० ॥ ब्राह्मणान् भोजयित्वैव संपूज्यापि च वैष्णवान् । बालालये प्रतिष्ठाप्य देवेशं विधिवत्ततः ॥ २८.३१ ॥ आलयं चैव सर्वत्र नवीकृत्य विशेषतः । महाप्रतिष्ठां कृत्वैव देवदेवं समर्चयेत् ॥ २८.३२ ॥ एतैस्संसर्गिणां स्पर्शे सूतिकाक्तैव निष्कृतिः । स्पर्शे तत्संसर्गिणां च शुद्धिस्स्यात्स्नपनादिना ॥ २८.३३ ॥ ततस्संसर्गिणां चैव न दोषः परिकथ्यते । अशौमवद्द्विजस्पृष्टहविषां च निवेदने ॥ २८.३४ ॥ एकाहं तु महाशान्तिं हुत्वा संस्नाप्य चौदकैः । पुण्याहं वाचयित्वैव पूर्ववच्च समर्चयेत् ॥ २८.३५ ॥ स्पृष्टेषु चाथ बिंबेषु कौतुकादिषु वा ध्रुवे । पूर्ववन्महतीं शान्तिं हुत्वा संस्थापयेत्पुनः ॥ २८.३६ ॥ प्रविष्टे चालयाद्बाङ्ये सर्वत्र च यथार्हकम् । गौरवं लाघवं ज्ञात्वा सर्वमूह्यैव कारयेत् ॥ २८.३७ ॥ खद्यैतपक्षिजातादिप्रवेशे चालयान्तरे । स्पर्शने चैव बिंबानां कृत्वा पर्यग्नि पूर्ववत् ॥ २८.३८ ॥ संशोद्य पञ्चगव्यैस्तु शुद्धोदैरभिषिच्य च । प्रोक्षणैः प्रोक्ष्यनित्याग्नौ छुल्ल्यां वा वैष्णवं हुनेत् ॥ २८.३९ ॥ बिंबादीन् तत्समीपस्थान् संशोध्यैव च पूर्ववत् । शुद्धोदैस्स्नाप्य पुण्याहं कृत्वोक्तं होममाचरेत् ॥ २८.४० ॥ पूर्वमुक्तेषु देशेषु श्वादीनां वा नृणामपि । छेदने ताडने चैव रक्तस्रावे मृतौ तथा ॥ २८.४१ ॥ तद्व्यपौह्य च तद्देशशुद्धिं कृत्वा विधानतः । वास्तुहोमं च हुत्वैव कलशैस्स्नाप्य सप्तभिः ॥ २८.४२ ॥ तद्दोषशमनार्थं च महाशान्तिं हुनेत्ततः । अभ्यर्च्य पूर्ववद्देवं हविस्सम्यङ्नि वेदयेत् ॥ २८.४३ ॥ संभूते त्वालयाद्बाह्ये कृत्वा पर्यग्नि पूर्ववत् । देवं शुद्धोदकैस्स्नाप्य शान्तिं हुत्वा विधानतः ॥ २८.४४ ॥ संपूज्य वैष्णवांश्चैव पूर्ववत्सम्यगर्चयेत् । देवेशस्य शवे दृष्टे संस्नाप्य कलशैर्हरिम् ॥ २८.४५ ॥ वैष्णवं विष्णुसूक्तं च पौरुषं जुहुयात्ततः । गजाश्वपशुमुखेषु प्रथमावरणे पुनः, ॥ २८.४६ ॥ मृतेषु तद्व्यपोह्यैव खनित्वा तादृशं स्थलम् । वास्तुहोमं च हुत्वा तु शद्धोदैरभिषिच्य च ॥ २८.४७ ॥ वैष्णपं विष्णुसूक्तं च पौरुषं जुहुयाद्विधिः । प्रस्वेदे रुधिरस्रावे रोदने जल्पने तथा ॥ २८.४८ ॥ हासे दृष्टे महाबेरे सत्सु धूमादिषु स्वतः । आलयाभिमुखेऽब्जाग्निं साधयित्वाथ वैष्णवम् ॥ २८.४९ ॥ विष्णुसूक्तं नृसूक्तं चरिङ्कारान् पारमात्मिकम् । हुत्वा संस्नाप्य देवेशं कलशैस्सप्तभिः क्रमात् ॥ २८.५० ॥ समभ्यर्च्य हविर्दत्वा ब्राह्मणान् भोज्य सादरम् । वैष्णवांश्च सुसंपूज्य दद्यादायार्यदक्षिणाम् ॥ २८.५१ ॥ तृणवल्मीककीटादावुत्पन्ने तत्र पूर्ववत् । शान्तिं पूर्वोदितां हुत्वाभोजयित्वापि ब्राह्मणान् ॥ २८.५२ ॥ देवं बालालये स्थाप्य नवीकरणमाचरेत् । विमाने तु हठाद्भिन्ने पतिते वा विधानतः ॥ २८.५३ ॥ शान्तिं मासत्रयं हुत्वा कर्षणादि विधाय च । बालालयं च संकल्प्य कृत्वा चाप्स्वधिवासनम् ॥ २८.५४ ॥ बिंबशुद्धिं तु कृत्वैव संस्नाप्य कलशैर्हरिम् । अशीत्यधिकस्राहस्रैर्यथाविभवविस्तरम् ॥ २८.५५ ॥ ब्राह्मणान् भोजयित्वैव संपूज्यैव तु वैष्णवान् । देवं बालालये स्थाप्य नवीकृत्यालयादिकम् ॥ २८.५६ ॥ सर्वत्र चाविशेषेण प्रतिष्ठां पुनराचरेत् । तत्राशनिहते चैव मक्षिकादिफिरावृते ॥ २८.५७ ॥ संस्नाप्य कलशैर्देवं पूजां कृत्वा विशेषतः । प्रभूतं तु निवेद्यैव हुत्वा शान्तिं विधानतः ॥ २८.५८ ॥ ब्राह्मणान् भौजयित्वैव पुनस्संधानमाचरेत् । स्थूपिकीले विनष्टे तु विमानोपरि संस्थिते ॥ २८.५९ ॥ विमानकल्पवत्कृत्वा पुनस्संधानमाचरेत् । अकाशे प्रतिसूर्यस्य दर्शने वैष्णवं तथा ॥ २८.६० ॥ सौरं च दशकृत्वन्तु हुत्वाभ्यर्च्य विशेषतः । दिग्दाहे वैष्णवं दिग्दैवत्यमाग्नेयमेव च ॥ २८.६१ ॥ शिलावर्षे वारुणं च वैष्णवं त्रिश्चत्रिंशता । अकाले शशिनः पूर्तौक्षये वा प्रतिदर्शने ॥ २८.६२ ॥ महोत्पाते च महतीं हुत्वा शान्तिं विधानतः । देवं विशेषतोऽभ्यर्च ब्राह्मणान् भोजयेत्ततः ॥ २८.६३ ॥ आलयाभ्यन्तरे बाह्यप्राकारे वा विशेषतः । रक्तस्त्रीदर्शनेचैवं तं देशं परिशोध्य च ॥ २८.६४ ॥ देवं विशेषतोऽभ्यर्च्य हविस्सम्यङ्निवेदयेत् । ध्रुवबेरे कौतुकादौ स्पृष्टे चैव ध्रुवोदिताम् ॥ २८.६५ ॥ शुद्धिं जलाधिवासं च कृत्वा संस्थापयेत्पुनः । गर्भालये तु सर्पादिदर्शने तद्व्यपोह्य च ॥ २८.६६ ॥ गोमयेनोपलिप्यैव गव्यैरभ्युक्ष्य पञ्चभिः । औपासनाग्निमाधाय वैष्णवं शान्तिमाचरेत् ॥ २८.६७ ॥ पुण्याहं वाचयित्वैव ब्राह्मणान् भोजयेत्ततः । सर्पादौ तु मृते तत्र तद्व्यपौह्योपलिप्य च ॥ २८.६८ ॥ पञ्चगव्यैन्तु संप्रोक्ष्य वास्तुशुद्धिं विधाय च । संस्नाप्य कलशैर्देवं चतुर्विंशतिभिस्तदा ॥ २८.६९ ॥ एकाहं पैण्डरीकाग्नौ महाशान्तिं विधाय च । ध्रुवादिषु तु बिंबेषु मुहुस्स्पृष्टेषु तैस्तथा ॥ २८.७० ॥ देवं शुद्धोदकैस्स्नाप्य महाशान्तिं विधाय च । पुण्याहं वाचयित्वैव विशेषार्चनमाचरेत् ॥ २८.७१ ॥ मृते प्रासादबाह्ये तु तद्व्यपोह्य च पूर्ववत् । प्रोक्षणैः प्रोक्ष्य च हुनेद्दिग्दैवत्यं च वैष्णदम् ॥ २८.७२ ॥ पाकस्थाने गोपुरादौ मृते सर्पे व्यपोह्य च । उपलिप्य च नित्याग्नौ वैष्णवं च विशेषतः ॥ २८.७३ ॥ तत्थ्सानाधिपदैवत्यं दशशो जुहुयाद्विधिः । आलयाभ्यन्तरे चैव सर्पत्रावरणेऽपि वा ॥ २८.७४ ॥ महावातेऽविवृष्टौ वा शत्रुचोराद्युपप्लवे । संस्माप्य कलशैर्देवं वास्तुहोमं विधाय च ॥ २८.७५ ॥ पर्यग्नि पञ्चगव्याभ्यां शोधयित्वा विधानतः । पुण्याहं वाचयित्वैव वैष्णवं विष्णुसूक्तकम् ॥ २८.७६ ॥ नृसूक्तं श्रीमहीमन्त्रान् ब्राह्मं रौद्रं विशेषतः । प्राजापत्यं च हुत्वैव ब्राह्मणान् भोजयेद्विधिः ॥ २८.७७ ॥ अथ वक्ष्ये विशेषेण भयरक्षार्थनिष्कृतिम् । चोरैरमित्रैरथ वा परचक्रेण संकुले ॥ २८.७८ ॥ लोहजप्रतिमानां च तिरोधानं प्रकल्पयेत् । शुचौ देशे सुगुप्ते तु खनित्वा चावटं घनम् ॥ २८.७९ ॥ सिकताभिः प्रपूर्यैव कुशानास्तीर्य चोपरि । अवटेऽभ्यर्च्य भूदेवी "मपो हिऽष्ठेति प्रोक्ष्य च ॥ २८.८० ॥ देवागारं प्रविश्यैव यजमानयुतो गुरुः । देवदेवं प्रणम्यैव समभ्यर्च्यानुमान्य च ॥ २८.८१ ॥ "यावत्कालं भयं भूयात्तावदीश जनार्दन । हरिश्या सहित स्तत्र शयीधाऽ इति सन्मनुम् ॥ २८.८२ ॥ वीज्ञाप्य शक्तिं बिंबस्थां ध्रुवबेरेऽवरोपयेत् । बेराभावे तु हृदये समारोप्य विधानतः ॥ २८.८३ ॥ "परं रंहऽ इति प्रोच्य पीठादादाय चात्वरः । "प्रतद्विष्णु स्तवतऽ इत्यवटे न्यस्य रक्षितम् ॥ २८.८४ ॥ "यद्वैष्णवऽमिति प्रोच्य प्राक्छिरश्शाययेत्ततः । अवटं सिकताभिर्वा मृदा वा पूर्व यत्नतः ॥ २८.८५ ॥ अच्छिद्रं सुदृढं कुर्यादवटं परिरक्षितम् । पश्चादभ्यन्तरं गत्वा देवदेवं प्रणम्य च ॥ २८.८६ ॥ ग्रथितं पञ्चदशभिर्दर्भैः कूर्चं प्रगह्य च । द्वादशांगुलदीर्घन्तु जीवस्थाने निधाय च ॥ २८.८७ ॥ ध्रुवबेरात्समादाय तत्कूर्चेर्ऽचनमाचरेत् । बालालयं भवेच्छेत्तु अर्चापीठे विशेषतः ॥ २८.८८ ॥ कूर्चं सन्न्यस्य हृदयात्प्रणिध्यां विनिवेश्यच । कूर्चं तु बिंबवत्स्मृत्वा मनसैवाक्षराणि तु ॥ २८.८९ ॥ तत्तत्थ्साने तु संस्कृत्य सन्न्यस्यावाह्य चार्चयेत् । स्नपनादौ तु संप्राप्ते कुर्यादभ्युक्षणं बुधः ॥ २८.९० ॥ मासादूर्ध्वं तु तत्कूर्चं व्यपोह्यान्यं निधापयेत् । काले तु बिंबमुद्धृत्य संशोध्याम्लादिभिस्तदा ॥ २८.९१ ॥ पुण्याहान्तेकृतेऽस्पृश्य स्पर्शने त्वविलंबितम् । कृत्वा जलाधिवासादीनङ्कुरार्पणपूर्वकम् ॥ २८.९२ ॥ आलयाभिमुखे वापि दक्षिणे वा मनोरमे । प्रपायां मण्डपेकूटे यत्वाब्जाग्निं विधायच ॥ २८.९३ ॥ तदुत्तरे वास्तहोमं हुत्वाबिंबसमीपतः । पर्यग्निकरणं कृत्वा गव्यैस्संशोध्य पञ्चभिः ॥ २८.९४ ॥ अब्जाग्नौ पश्चिमे भागे बिंबार्धाधिकविस्तृताम् । भागोन्नतां यथालोभोन्न तां धान्यैर्विधाय च ॥ २८.९५ ॥ वेदिं मनोहरां चैव वासांस्यास्तीर्य पञ्च च । संस्नाप्य कलशैर्दिव्यैश्चतुर्दशभिरेव च ॥ २८.९६ ॥ पुण्याहान्ते प्रतिसरं बद्ध्वा कौतुकपूर्वकम् । बेराणि देवीसहितं शाययेच्छयने शुभे ॥ २८.९७ ॥ अवताराणां तु शयनं पृथगेव विधीयते । परिषिच्य च पद्माग्नौ हौत्रशंसनमाचरेत् ॥ २८.९८ ॥ देवेशस्य च देव्याश्च अवतारगणस्य च । दक्षिणप्रणिधौ चैव पार्षदानामथोत्तरे ॥ २८.९९ ॥ आवाह्य कृत्वा निर्वापं हुनेदाज्याहुतीःक्रमात् । वैष्णवं विष्णुसूक्तं च पुरुषसूक्तं तथैव च ॥ २८.१०० ॥ गायत्री वैष्णवी चैव द्वादशाक्षरमेव च । प्राजापत्यं मिन्दाहुती विच्छिन्नं जुहुयादयम् ॥ २८.१०१ ॥ शान्तिहोम इति प्रोक्ता महाशान्तिं जगुःपरे । षण्माने समतीते तु हुत्वा शान्तिं विशेषतः ॥ २८.१०२ ॥ सक्तुलाजतिलापूपैराज्यमिश्रैस्तु वैष्णवम् । विष्णुसूक्तं च प्रत्येकं शतशो जुहुयाद्विधिः ॥ २८.१०३ ॥ श्वेतं रक्तं सरोजातमलाभे बिल्वकच्छदम् । घृताप्लुतं तु वैष्णव्या गायत्षाजुहुयात्तथा ॥ २८.१०४ ॥ सर्वदैवत्यमन्ते च जुहुयात्पारमात्मिकम् । एनमेके महाशान्तिहोममाचक्षते बुधाः ॥ २८.१०५ ॥ पश्चादप्यवताराणां तत्तन्मन्त्रं विशेषतः । पृथगष्टोत्तरशतं हुत्वा रात्रिं नयेत्ततः ॥ २८.१०६ ॥ स्नात्वा प्रभाते देवेशं प्रणम्य प्रणवेन तु । बोधयित्वाभिवन्द्यैव "करुणाब्धे क्षमस्य मे ॥ २८.१०७ ॥ शतं सहस्रमयुतमसंख्येयं मुहुर्मुहुः । कृतानामपराधानाऽमिति संप्रार्थ्य भक्तितः ॥ २८.१०८ ॥ प्राचीन वस्त्रमाल्यादीन् द्यपोह्यन्यैर्विभूष्य च । सर्ववाद्य समायुक्तं शाकुनं सूक्तमुच्चरन् ॥ २८.१०९ ॥ तोयधारां पुरस्कृत्य गच्छेत्तु पुरतो गुरुः । स्थापका देवमुद्धृत कृत्वा धामप्रदक्षिणम् ॥ २८.११० ॥ अभ्यन्तरं प्रविश्यैव स्थापयेयुश्च पूर्ववत् । देवपादौ गुरुस्स्पष्ट्वा वैष्णवं विष्णुसूक्तकम् ॥ २८.१११ ॥ पौरुषं चात्मसूक्तं च जप्त्वा ध्यात्वा विधानतः । ध्रुवाद्वा हृदयाच्छक्तिं प्रणिध्यां तु निवेश्य च ॥ २८.११२ ॥ कृत्वाक्षराणां विन्यासमावाहनमथाचरेत् । तदालयगतांश्चैव देवानन्यां त्समाह्वयेत् ॥ २८.११३ ॥ पुण्याहं वाचयेत्पश्चाद्यथोक्तं पूर्वमाचरेत् । यजमानोपि शुद्धात्मा दद्यादाचार्यदक्षिणाम् ॥ २८.११४ ॥ पश्चादग्निं परिस्तीर्य शान्तिहोमं समाचरेत् । यथाविभवविस्तारमुत्सवं स्नपनं चरेत् ॥ २८.११५ ॥ अशक्तस्स्नपनं कुर्यादन्यत्सर्वं च पूर्ववत् । कूर्चादावर्चने हीने तन्निष्कृतिमथाचरेत् ॥ २८.११६ ॥ एवं चैद्वत्स रेऽतीते पुनस्थ्सापनमाचरेत् । अवतारविशेषस्य पृथक्कुर्यादितीतरे ॥ २८.११७ ॥ तेषां पुनःप्रतिष्ठा चेत्तत्तद्धोमं तु के चन । इद्थं स्याद्भयरक्षार्थनिष्कृतिस्सर्वसिद्धिता ॥ २८.११८ ॥ अथ वक्ष्ये विशेषेण पुनर्बालालयं बुधाः । महाबेरे विमाने च पतिते जरिते तथा ॥ २८.११९ ॥ भिन्नेंगहीने निहते वात्ययाशनिनाथ वा । वर्णक्षये स्थलभ्रंशे गर्भगेहस्य चान्यथा ॥ २८.१२० ॥ पीठगर्भादिनाशे वा अस्पृश्यैर्वा प्रवेशने । उन्नतस्थापनेच्छायां कुर्याद्बालालयं हरेः ॥ २८.१२१ ॥ बालालयेऽभ्यर्च्यमाने संभूते स्थानसंकटे । चण्डालाधिष्ठिते चैव स्थाननाशे ह्रदादिभिः ॥ २८.१२२ ॥ अन्यत्र तूचिते देशे कृत्वा पूर्वोक्तमार्गतः । कर्षणादिक्रियास्सर्वा बिंबमानीय चादरात् ॥ २८.१२३ ॥ प्रतिष्ठाप्य तु तत्रैव कुर्यान्मूलालयं ततः । बाह्ये चैव विमानस्य चाङ्गोपाङ्गक्षतौ तथा ॥ २८.१२४ ॥ मक्षिकातृणवल्मीकपादपाद्यैर्विभेदने । विना बालालयस्थानं शक्तिं गृह्य विमानगाम् ॥ २८.१२५ ॥ तदङ्गदेवतानां च समारोप्य ध्रुवे पुनः । नवीकृत्य विमानोक्तप्रतिष्ठां पुनराचरेत् ॥ २८.१२६ ॥ अकृत्वा देवतारोपं महाबेरे विशेषतः । विमानं नाधितिष्ठेत सर्वत्रायं विधिस्स्मृतः ॥ २८.१२७ ॥ विमानध्रुवयोर्नाशे युगपत्तत्रनिष्कृतिः । कौतुकादीन् प्रतिष्ठाप्य विहाय प्रार्थनामनुम् ॥ २८.१२८ ॥ बालालयं प्रकल्प्यैव विधिना तत्र चार्चयेत् । तस्य कालेऽप्यतीते तु तदा तत्र न दोषकृत् ॥ २८.१२९ ॥ यस्याङ्गस्य भवेद्धानिस्तत्र बालालयं भवेत् । कृत्वा तस्य तु संस्कारं यथोक्तं तत्पुनश्चरेत् ॥ २८.१३० ॥ कौतुकादिविनाशे च दोषयुक्ते ध्रुवे तथा । विमाने च तथा दुष्टे कृत्वा बालालयं पुनः ॥ २८.१३१ ॥ यथालाभेन मानेन बिंबमाहृत्य दारवम् । प्रतिष्ठाप्याद्यतरुणालयोक्तविधिना ततः ॥ २८.१३२ ॥ कौतुकादींश्च संकल्प्य प्रतिष्ठाप्यार्चयेत्क्रमात् । अलाभे कौतुकादीनां दोषयुक्ते तु दारवे ॥ २८.१३३ ॥ बिंबमस्यं समाहृत्य प्रतिष्ठाप्यैव दारवम् । तद्बेरं विधिवत्त्यक्त्वा कृत्वा मूलालये पुनः ॥ २८.१३४ ॥ विधिना मूलबेरं तु प्रतिष्ठाप्य समर्चयेत् । बालालयस्य संस्थानं वक्ष्ये मूलालयस्य तु ॥ २८.१३५ ॥ मध्यसूत्राद्दक्षिणे च प्रथमावरणे तथा । द्वितीयावरणे वाथ मण्टपादौ मनोरमे ॥ २८.१३६ ॥ यत्रावकाशस्तत्रैवं बालागारं प्रकल्पयेत् । द्वितीयावरणादूर्ध्वं न बालागारकल्पनम् ॥ २८.१३७ ॥ एकादि तु त्रिहस्तान्तं विस्तारं तु विधीयते । अध्यर्धं चैव पादोनमुत्सेधं द्विगुणं तु वा ॥ २८.१३८ ॥ उत्सेधं पञ्चधा कृत्वाधिष्ठानं चैकमंशकम् । भित्त्युच्चं द्व्यंशमथ च द्व्यंशं तु शिखरं मतम् ॥ २८.१३९ ॥ लुपोपरे तृणाच्छन्नं मृण्मयं कारयेत्सुधीः । भित्तिविष्कंभमानं स्यान्मूलालयसमं तथा ॥ २८.१४० ॥ द्विगुणं चतुर्गुणं कृत्वा यच्छिष्टं विधिना कृतम् । नालीगृहं भवेद्विन्द्यात्तमेव तरुणालयम् ॥ २८.१४१ ॥ मण्डपादिषु चेद्भित्त्या सह तस्य यथार्हकम् । नालीगृहं मण्डपेन प्रमुखे रहितं तु वा ॥ २८.१४२ ॥ सहिते तु समं कुर्यात्त्रिपादं चार्धमेव वा । पूर्वापरयुतं वाथ दक्षिणोत्तरमायतम् ॥ २८.१४३ ॥ समं वा तरुणागारं शिल्पशास्त्रोक्तवच्चरेत् । पञ्चविंशतिभागं तु कृत्वा गर्भालयं ततः ॥ २८.१४४ ॥ मध्ये ब्राह्मं पदं चैकं परितोऽष्टौ तु दैविकम् । मानुषं तस्य परितः पदान्यन्यानि षोडश ॥ २८.१४५ ॥ कौतुकं ब्रह्मणस्थ्साने स्थापयेदुत्तमं भवेत् । दैविके मानुषे स्थाप्य मध्यमं चाधमं भवेत् ॥ २८.१४६ ॥ त्रीणि तु स्नपनादीनि बेराणि स्थापयेत्सदा । अन्त्ययोरेव नान्यत्र स्थानभेदः प्रशस्यते ॥ २८.१४७ ॥ प्राणस्थानेतु पीठं स्याद्रम्यमेकत्रिमेखलम् । यथालाभायतं तद्वद्विस्तारो त्सेधसंयुतम् ॥ २८.१४८ ॥ रत्नन्यासविहीनं वा कृत्वा विभवविस्तरात् । आलयाग्रेऽथ वा बालागाराग्रे पूर्ववद्बुधः ॥ २८.१४९ ॥ यागशालां तु कृत्वैव तोरणादीन्विधाय च । सुभृत्यैव च संभारानृत्विजोवरयेत्क्रमात् ॥ २८.१५० ॥ शालामध्ये प्रकल्प्यैव शय्यावेदिं मनोहरम् । चतुरश्रां पादहीनामर्धहीनां विशेषतः ॥ २८.१५१ ॥ तद्भित्त्यातु समां तत्तुरीयांशोत्सेधसम्मित्ताम् । पञ्चत्रीनथवै काग्निं संकल्प्यैव च पूर्ववत्.॥ २८.१५२ ॥ पर्यग्नि पञ्चगव्याभ्यां संशोध्य विधिना ततः । बालागारं यज्ञशालां पुण्याहमपि वाचयेत् ॥ २८.१५३ ॥ हुत्वाग्निकुण्डेष्वाघारं प्रधानाग्निं समिन्ध्य च । गायत्रीं वैष्णवीं चैव वैष्णवं विष्णुसूक्तकम् ॥ २८.१५४ ॥ पौरुषं चैकाक्षरादि श्रीभूसूक्तं च वारुणम् । पञ्चमन्त्रान् जयानभ्यातानान् राष्ट्रभृतस्तथा ॥ २८.१५५ ॥ मिदाहुती च विच्छिन्नमृद्धिं वैष्णवसंयुतम् । प्रत्येकं प्रतिमन्त्रं च हुत्वां च समनन्तरम् ॥ २८.१५६ ॥ श्वेताब्जं विष्णुगायत्षाघृताक्तं बिल्वपत्रकम् । हुनेदष्टोत्तरशतं सर्वदोषविनाशनम् ॥ २८.१५७ ॥ रात्रिपूजावसाने तु देवमभ्यर्च्य यत्नतः । हविर्निवेद्य तां शक्तिं कौतुकादिषु संगताम् ॥ २८.१५८ ॥ महाबेरे समारोप्य कुंभमाहृत्य पूर्ववत् । तन्तुना परिवेष्ट्यैव "शुची वो हव्यऽमन्त्रतः ॥ २८.१५९ ॥ प्रक्षाल्योत्पवनं कृत्वा "धारास्विऽति च मन्त्रतः । अद्भिरापूर्याभिमृश्य "इदमापश्शिवाऽ इति ॥ २८.१६० ॥ वस्त्रयुग्मेन चावेष्ट्य नवरत्नादि विन्यसेत् । उच्चार्यविष्णुगायत्रीं तत्र कार्यं समाचरेत् ॥ २८.१६१ ॥ ततोऽभ्यन्तरमाविश्य देवाग्रे धान्यमण्डले । सन्न्यस्य कुंभमासित्वा देवाग्रे तूत्तरामुखः ॥ २८.१६२ ॥ समाहितो हरिं ध्यायन् प्रार्थयेन्मन्त्रमुच्चरन् । "अनर्हमेतत्त्वद्गेहं जीर्णं तूर्णं व्यपोह्य च ॥ २८.१६३ ॥ किञ्चित्कालं च देवेश त्वयात्र स्थीयतां विभो । यावद्वयं नवं कृत्वा प्रतिष्ठां कारयामहे ॥ २८.१६४ ॥ प्रसादं कुरु तावत्त्वमस्मिन् गेहे जगत्पतेऽ । इत्युक्त्वाब्दमथ द्वौत्रीन् संकल्प्यावधिमादरात् ॥ २८.१६५ ॥ देव्यादिसहितं देवमावाह्यांभसि कुंभके । आचार्यश्शिरसा कुंभं धारयन्नग्रतस्त्वियात् ॥ २८.१६६ ॥ तदनु स्थापकाबिंबन्यादाय स्नपनावटे । यज्ञालये प्रतिष्ठाप्य चतुर्दशभिरेव च ॥ २८.१६७ ॥ कलशैस्स्नाप्य वस्त्राद्यैरलङ्कृत्य समर्च्यच । शय्यावेद्यां धान्यपीठे शयनानि तु पञ्चवै ॥ २८.१६८ ॥ आस्तीर्य चाथ वासांसि बद्ध्वा प्रतिसरं ततः । तथैव शाययेत्कुर्यादुत्तराच्छादनं पुनः ॥ २८.१६९ ॥ परिषिच्य प्रधानाग्निं हौत्रशंसनमाचरेत् । कृत्वा चावाहनादीनि हुनेदग्निषु पूर्ववत् ॥ २८.१७० ॥ प्रधानाग्नौ स्रुवेणाज्यमादायैव तु वैष्णवम् । गायत्रीं वैष्णपं विष्णुसूक्तं पौरुषमेव च ॥ २८.१७१ ॥ एकाक्षरादिसूक्तं च श्रीभूदैवत्यमेव च । त्रिर्हुत्वा सर्वदैवत्यपर्षदां मन्त्रमेव च ॥ २८.१७२ ॥ हुत्वा व्यपोह्य विधिना रात्रिशेषं समाहितः । स्नात्वा प्रभाते देवेशं प्रणम्य प्रमवेन तु ॥ २८.१७३ ॥ विबोध्य दक्षिणां दद्याद्यजमानो मुदान्वितः । ततोऽग्निं साधयित्वा तु गुरुस्स्विष्टकृतं तथा ॥ २८.१७४ ॥ पूर्णाहुतिं च हुत्वैव विसृज्याग्निं विधानतः । धारयन् शिरसा कुंभं शाकुनं सू"क्तमुच्चरन् ॥ २८.१७५ ॥ आचार्यः पुरतेगच्छेत्थ्सापकास्तदनस्तरम् । हस्ताभ्यां देवमादाय सर्ववाद्यसमायुतम् ॥ २८.१७६ ॥ सर्वालङ्कारसंयुक्तं तो यधारापुरस्सरम् । आलयं परितो गत्वा प्रविश्याभ्यन्तरं पुनः ॥ २८.१७७ ॥ विहाय स्थिरराशिं तु सुमुहूर्तेविशेषतः । "प्रतद्विष्णुऽरिति प्रोच्य प्राणपीठे हरिंस्मरन् ॥ २८.१७८ ॥ प्रतिष्ठाप्य तु देवेशं तस्य दक्षिणवामयोः । श्रियं भुवं च मन्त्राभ्यां तयोस्संस्थापयेत्क्रमात् ॥ २८.१७९ ॥ देवपादौ स्पृशन् पश्चाद्विष्णुसूक्तं जपन् गुरुः । कृत्वाक्षराणां न्यासादी "निदं विष्णुंऽति ब्रुवन् ॥ २८.१८० ॥ कूर्चेनादाय कुंभस्थां शक्ति"मायातुऽ मन्त्रतः । "विष्णुमावाहयाऽमीति कौतुकस्य तु मूर्धवि ॥ २८.१८१ ॥ "श्रियंच "हरिणींऽचेति देव्यौ दक्षिणवामयोः । संस्राव्यावाहयेद्देवांस्ततः पारिषदानपि ॥ २८.१८२ ॥ कौतुकाद्दक्षिणे वामे स्नपनादीनि कौतुकात् । संस्थाप्य तु समावाह्य तावत्कालं समर्चयेत् ॥ २८.१८३ ॥ स्थापकैस्सह पुण्याहं कृत्वाभ्यर्च्यासनादिभिः । हविर्निवेद्य देवेशं हुत्वा होमं च नैत्यिकम् ॥ २८.१८४ ॥ बलिं निर्वाप्य कुर्वीत बलिभ्रमणमेव च । स्नपनं चोत्सवादीनि पूर्ववत्कारयेत्क्रमात् ॥ २८.१८५ ॥ बालालयार्चने कुर्यादर्चनं तु ध्रुवार्चयोः । आवाहनं विसर्गं च हित्वा सर्वं समाचरेत् ॥ २८.१८६ ॥ महानसादिनिर्माणं बालालयविधौ पुनः । सूलालयोक्तवत्कुर्याद्विपरीतं न कारयेत् ॥ २८.१८७ ॥ अज्ञानादर्थलोभाद्वा कालस्यातिक्रमे सति । देवं विशेषतोऽभ्यर्च्यशान्तिं वैष्णवसंयुतम् ॥ २८.१८८ ॥ हुत्वा संपूज्य पूज्यांश्च यजमानो गुरुस्तथा । संप्रार्थ्य देवं कालस्य चावधिं ज्ञापयेत्पुनः ॥ २८.१८९ ॥ भक्तिनम्र स्ततःकुत्याच्छीघ्रङ्कर्मेदमादरात् । एवं द्वादशवर्षान्तं कारयेच्छ ततः परम् ॥ २८.१९० ॥ न र मेत हरिस्तत्र तस्मा दुक्तं समाचरेत् । अशक्तश्चेत्तथा कर्तुं बालागालान्तरं पुनः ॥ २८.१९१ ॥ संकल्प्यस्थापयेत्तत्र विपरीतकृदन्यथा । देहाद्देहान्तरप्राप्तौ यथा संस्क्रियते नरः ॥ २८.१९२ ॥ तथा स्थानान्तनप्राप्तौ प्रतिष्ठां कारयेद्धरेः । प्रथमेऽथ द्वितीये ना नष्टे बालालयेऽर्चिते ॥ २८.१९३ ॥ दुष्टे वा येन केनापि मण्डपादौ मनोरमम् । देशं तु समलङ्कृत्य संशोध्य विधिवत्पुनः ॥ २८.१९४ ॥ संस्थाप्य कौतुकादींश्च समभ्यर्च्येद्विधानतः । बालालयं नवीकृत्य तदेव त्वरितं यथा ॥ २८.१९५ ॥ वास्तुशुद्धिं च पुण्याहं कृत्वा संस्थाप्य चार्चयेत् । अयुक्तेतु ततस्तस्मिन्निधायान्यत्र मन्दिरम् ॥ २८.१९६ ॥ पुनः प्रतिष्ठामार्गेण प्रतिष्ठाप्य समर्चयेत् ॥ २८.१९७ ॥ इति श्रीवैखानसे भगवच्छास्त्रे भृगुप्रोक्तायां संहितायां प्रकीर्णाधिकारेऽष्टाविंशोऽध्यायः _____________________________________________________________ अथैकोनत्रिंशोऽध्यायः. प्रायश्चित्तम् अथवक्ष्ये विशेषेण ध्रुवबेरस्य निष्कृतिम् । ताम्रजं शैलजं चैव मूर्तिकं दारवं त्विति ॥ २९.१ ॥ चातुर्विध्यं ध्रुवस्यात्र पूर्वमेव मयोदितम् । षण्मानसहितं कृत्वासनालं पादपद्मकम् ॥ २९.२ ॥ कृत्वा तु ताम्रजं बिंबं कौतुकस्योक्तवर्त्मना । कृत्वाक्ष्युन्मोचनं चाधिवासान् संस्थाप्य चाचलम् ॥ २९.३ ॥ स्थापयेत्सह देव्यौच शुद्ध्यर्थं प्रतिपर्वतु । शुद्धोदैरभिषिच्यैव भूषणैश्च विभूष्यच ॥ २९.४ ॥ पुष्पन्यासं च कृत्वैव सर्वान् परिषदः क्रमात् । शैलानेव प्रकुर्वीत यथा शातातपोऽब्रवीत् ॥ २९.५ ॥ शैलं ध्रुवं तथा चित्रं चित्रार्धं वा विधाय च । पूर्वोक्तेन विधानेन परं संस्कृत्य तत्क्रमात् ॥ २९.६ ॥ देव्यावन्यांश्च देवांश्च तदालयगतानपि । तद्द्रव्येण प्रकुर्वीत ध्रुवं षण्मानसंयुतम् ॥ २९.७ ॥ कृत्वाक्ष्णोश्च भ्रुवोस्तद्वदोष्ठयोरुभयोरपि । करपादतले चैव नखेषु मुकुटेऽपि च ॥ २९.८ ॥ भूषणेषु विधानेन तत्तद्वर्णेन लेपयेत् । मृण्मयं दारवं वा चेत्तद्द्रव्येणैव देवताः ॥ २९.९ ॥ तदालयगताः कुर्यादन्यथा विपरीतकृत् । अथ वा वर्णहीनं तु शैलं सर्वत्र कारयेत् ॥ २९.१० ॥ अर्धचित्रस्य शैलस्य हीनेष्वं गेषु चैव हि । प्रत्यङ्गेषु तथोपाङ्गेष्वनिष्टं तद्भवेदिह ॥ २९.११ ॥ बालागारेऽथ तच्छक्तिं नीत्वा बिंबं समाहरेत् । भूमौ पिधाय तस्योर्ध्वे पद्माग्निं परिकल्प्य च ॥ २९.१२ ॥ हुत्वा च महतीं शान्तिं शिलाग्रहणवत्तथा । तत्तदङ्गसमुत्पत्तिं युक्त्या तक्ष्णा तु कारयेत् ॥ २९.१३ ॥ हीने महाङ्गे तद्बेरमयुक्तं चेत्समीकृतौ । त्यक्त्वा तद्विधिना बेरं पुनरन्यत्समाहरेत् ॥ २९.१४ ॥ बेरं संधानयोग्यं यस्त्यजेत्पापी भवेत्स हि । विनष्टं च भवेत्सर्वंसंधानं शक्तितश्चरेत् ॥ २९.१५ ॥ ध्रुवबेरमथार्ऽचां च कर्तुं पूर्वमिवद्वयम् । अशक्तश्चेद्ध्रुवार्चान्तु कृत्वा चैकं स्वशक्तितः ॥ २९.१६ ॥ प्रतिष्ठाप्यार्चयेत्सम्यगिति के चिन्मनीषिणः । एकबेरप्रतिष्ठायामेष एव विधिस्स्मृतः ॥ २९.१७ ॥ अशक्तश्चेद्ध्रुवं बेरमर्चाबेरमथापि वा । सहितं रहितं वाथ देवीभ्यांस्थाप्य चार्चयेत् ॥ २९.१८ ॥ मृदालये ब्रह्मस्थाने ध्रुवार्चाबेरमाहरेत् । तं देवीसहितं कृत्वा विमानं च विशेषतः ॥ २९.१९ ॥ शैलं तु कर्तुमिच्छेच्चेद्देवो दैविकमाश्रयेत् । यथा तथा प्रकल्प्यैव विमानं कौतुकं पुनः ॥ २९.२० ॥ लोहजं जङ्गमं कृत्वा ब्रङ्मस्थाने समाचरेत् । कौतुकं शैलजं चेत्तु स्थावरं त्वेव स्थापयेत् ॥ २९.२१ ॥ लघुबेरं प्रतिष्ठाप्य विमाने मृण्मयेऽर्चिते । कर्तुमिच्छेद्ध्रुवं बेरं विमानं चैव शैलजम् ॥ २९.२२ ॥ विमानं परिकल्प्यैव विधिना हस्तमानतः । देवीभ्यां सहितं देवं दैविकांशे विधाय च ॥ २९.२३ ॥ पूर्वार्चितां गृहीत्वैव बेरं कौतुककर्मणि । तस्योत्तरे चौत्सवादीन् प्रतिष्ठाप्य समर्चयेत् ॥ २९.२४ ॥ पूर्वं ध्रुवार्चाबेरेतु अर्च्यमाने मृदालये । शिलाभिरिष्टकाभिर्वा विमानं कर्तुमिच्छया ॥ २९.२५ ॥ रक्षार्थं तस्य बेरस्य शिल्पिस्पर्शनिवृत्तये । काष्ठेन पञ्जरं कृत्वा बालागारं दृढं ततः ॥ २९.२६ ॥ संशोध्य शल्यं चाधस्ताद्युक्त्या परमाया पुनः । विमानं युग्महस्तेन तद्बेरस्य वशादपि ॥ २९.२७ ॥ यथाविभवविस्तारं सौधं कृत्वा सुरक्षयेत् । तद्बेरसममध्यर्धं द्विगुणं चतुरश्रकम् ॥ २९.२८ ॥ अधमं मध्यमं तद्वदुत्तमं त्रिविधोदितम् । कृत्वा तस्य चतुर्भागं त्रिभागं चार्धमेववा ॥ २९.२९ ॥ गर्भागारं भवेच्छेषं भित्तिविष्कंभमेव च । समण्टपं विमानं तु पूर्ववत्कारयेद्विधिः ॥ २९.३० ॥ शिलेष्टकाविमाने तु वर्गस्यान्ते परस्य वा । कारयेन्मिश्रमथ चेदशक्तः कर्तुमीदृशम् ॥ २९.३१ ॥ अधिष्ठानस्य चोर्ध्वं हि यथेष्टस्थानके पुनः । मिश्रद्रव्येण कुर्यात्तु शक्तिलोभं न कारयेत् ॥ २९.३२ ॥ वर्णक्षयेध्रुवे दोषसंफदे स्फुटितादिभिः । अल्पदोषेऽपि वाशक्तिं ध्रुवबेरस्थितां तदा ॥ २९.३३ ॥ कुंभेऽंभसि समावाह्य तत्कुंभं कौतुकादि च । समादाय विधानेन मालिकायां तु मण्डपे ॥ २९.३४ ॥ सन्न्यस्य कौतुकादौ तु समावाह्य समर्चयेत् । काले कुंभे समारोप्य क्रियास्सर्वास्समाचरेत् ॥ २९.३५ ॥ अतीते द्विदिने कुंभमन्यदादायचात्वरः । कुंभाच्छक्तिं समादाय कुंभेऽन्यस्मिन् विधालतः ॥ २९.३६ ॥ अर्चयेत्त्रिदिने चैवं कुंभसंशोधनं चरेत् । पश्चाच्च वर्णलेपादीन् कृत्वा संशोद्य चैवहि ॥ २९.३७ ॥ वास्तुहोमं च पुण्याहं ध्रुवशुद्धिं च कारयेत् । कुंभं बिंबं समादाय प्रविश्याभ्यन्तरं ततः ॥ २९.३८ ॥ कौतुकादीन् सुसंस्थाप्य न्यासादींश्च विधाय च । कुंभस्थां शक्तिमादाय ध्रुवबेरेऽवरोपयेत् ॥ २९.३९ ॥ ध्रुवात्पुनः कौतुकादिष्वावाङ्य तु समर्चयेत् । दोषाणां गोरवान्मासादूर्ध्वं कालेत्वपेक्षिते ॥ २९.४० ॥ देवं बालालये स्थाप्य शोधयेन्मृण्मयं पुनः । यावच्छूलं पुनश्शैलं शिलान्तं शोधयेत्क्रमात् ॥ २९.४१ ॥ नवषट्पञ्चमूर्तीनां विमाने दोषसंयुतम् । यत्तलं तत्तलं गृह्य बालस्थानं प्रकल्प्य च ॥ २९.४२ ॥ कौतुकादीन् सुसंस्थाप्य विधिना सम्यगर्चयेत् । पश्चात्तले तु निर्दुष्टे कौतुकादीन् प्रगृह्य च ॥ २९.४३ ॥ स्थापयित्वा पुनश्चैव विधिनापि समर्चयेत् । अथ वक्ष्ये जीर्णबेरपरित्यागविधिं क्रमात् ॥ २९.४४ ॥ ध्रुवस्याङ्गविहीने तु त्यजेत्तत्सद्य एव हि । कर्त्राराधकयोर्ग्राह्यमन्यथा स्यान्महद्भयम् ॥ २९.४५ ॥ तस्मात्सर्वप्रयत्नेन जीर्णं संशोध्य सर्वतः । नववस्त्रैस्समाच्छाद्य बद्ध्वा च कुशरज्जुभिः ॥ २९.४६ ॥ ब्राह्मणैर्वाहयित्वैव नदीं स्फारां समुद्रगाम् । अशोष्यं वा जलाधारमन्यन्नीत्वाथ तत्तटे ॥ २९.४७ ॥ प्रपां कृत्वाग्निमाधाय चौपासनमतन्द्रितः । आघारान्ते तु जुहुयाद्वैष्णवं शतशस्ततः ॥ २९.४८ ॥ "दद्भ्यस्स्वाऽऽहेत्यङ्गहोमं व्याहृत्यन्तं हुनेद्भुधः । वस्त्रबन्धं विमोच्यैव प्राङ्मुखोदङ्मुखो गुरुः ॥ २९.४९ ॥ वारुणं वैष्णवं चैव प्रक्षिप्यैव च तज्जले । स्नायात्संस्मृत्य देवेशं दारवे तु विशेषतः ॥ २९.५० ॥ दग्ध्वाग्निनाथ तद्भस्म निक्षिपेत्तादृशे जले । देव्यादीनां पर्षदां च तत्तन्मन्त्रं सवैष्णवम् ॥ २९.५१ ॥ हुनेज्जलेक्षिपेत्पश्चाद्दद्यादाचार्य दक्षिणाम् । अथ चेत्कौतुकादीना मङ्गहानिस्तदुच्यते ॥ २९.५२ ॥ महाङ्गानि शिरः कुक्षि वक्षः कण्ठान् प्रचक्षते । पादौहस्तौ बाहवश्चेत्यङ्गानि प्रवदन्तिहि ॥ २९.५३ ॥ अङ्गुल्यः कर्णनासाद्याः प्रत्यङ्गानि विदुर्बुधाः । शिरश्चक्रं च पीठं च प्रभामण्डलमेव च ॥ २९.५४ ॥ उपाङ्गान्यूचिरे भूषणायुधांबरपूर्वकान् । तत्रोपाङ्गस्य हीने तु कुंभं संसाध्य पूर्ववत् ॥ २९.५५ ॥ आवाह्य कुंभे तच्छक्तिं बिंबं संधाय पूर्ववत् । कृत्वा जलाधिवासादीन् वास्तुहोमं विधाय च ॥ २९.५६ ॥ संशोद्य पञ्चगव्यैश्च कुशोदैश्च विशेषतः । सप्तभिः कलशैस्थ्साप्य कुंभस्थां शक्तिमादरात् ॥ २९.५७ ॥ समावाह्य पुनर्बिंबे विधिना सम्यगर्चयेत् । प्रत्यङ्गहीने तच्छक्तिं महाबेरेऽवरोप्य च ॥ २९.५८ ॥ उध्रुत्य बिंबं संप्रोक्ष्य पञ्चगव्यैः कुशोदकैः । तुल्यलोहेन संधाय चाधिवास्य कुशादिषु ॥ २९.५९ ॥ पुनः प्रतिष्ठामार्गेण प्रतिष्ठां पुनराचरेत् । अङ्गहीनेतु संधानयोग्यं संधाय पूर्ववत् ॥ २९.६० ॥ अर्चयेदन्यथा युक्तेहीने वापि महाङ्गके । भूमौ पिधाय तद्बेरं तदूर्ध्वे जुहुयात्क्रमात् ॥ २९.६१ ॥ अङ्गहोमं महाशान्तिमपोह्यैव च तद्दिनम् । उद्धृत्य बिंबं प्रक्षाल्य पञ्चगव्यैः कुशोदकैः ॥ २९.६२ ॥ त्रिरग्नौ संपरिक्षिप्य शोधयेदाम्लवारिणा । राजतं द्विस्सकृद्रौक्मं दहेदग्नाविति क्रमः ॥ २९.६३ ॥ कृत्वातेनैव द्रव्येण बिंबं पूर्ववदुत्तमम् । पुनःप्रतिष्ठां कृत्वैव कारयेदर्चनं क्रमात् ॥ २९.६४ ॥ पटे कुड्येऽथ वा लिख्य बेरे विधिवदर्चिते । जीर्णमालोक्य तच्छक्तिमारोप्यैवार्कमण्डले ॥ २९.६५ ॥ नवीकृत्य पुनस्तस्मिन् प्रतिष्ठाप्य समर्चयेत् । आचार्येण च येनादौ कर्षणाद्याः कृताः क्रियाः ॥ २९.६६ ॥ प्रतिष्ठा वा कृता विष्णोस्तेनैवान्यांश्च कारयेत् । नित्यार्चनोत्सवादींश्च प्रायश्चित्तादिकानपि ॥ २९.६७ ॥ तदभावे च तत्पुत्रं पौत्रं नप्तारमेव च । तद्वंशजं वा तच्छिष्यं तन्नियुक्तमथान्ततः ॥ २९.६८ ॥ आचार्यसन्निधौ नान्यमाचार्यं वरयेत्क्वचित् । वरयेद्यदि राष्ट्रस्य राज्ञश्चापि महद्भयम् ॥ २९.६९ ॥ भवेच्च निष्फला पूजा सर्वं कार्यं विनश्यति । तस्मात्सर्वप्रयत्नेन न कुर्याद्गुरुसंकरम् ॥ २९.७० ॥ अज्ञानादर्थलोभाद्वा कृते त्वाचार्यसंकरे । अब्जानले महाशान्तिं हुत्वा संप्रार्थ्यवै गुरुम् ॥ २९.७१ ॥ याचयित्वा "क्षमऽऽस्वेति पूजयित्वा विशेषतः । पनस्तेनैव तत्कर्म कारयेदिति शासनम् ॥ २९.७२ ॥ आचार्यदीनामलाभे तु तद्रूपं लेखयेत्पटे । तत्सन्निधौ युक्तमन्यमाचार्यं वरयेत्तथा ॥ २९.७३ ॥ एकस्मिन्नालये स्याच्चेत्सन्निपातस्तु कर्मणाम् । आचार्यं संप्रणम्यैव तत्पुत्राद्यैर्विधानतः ॥ २९.७४ ॥ कारयेत्तदलाभेतु कारयेत्तन्त्रतो गुरुः । पूर्वं तु योगमार्गेण प्रतिष्ठाप्यार्चिते पुनः ॥ २९.७५ ॥ देवीभ्यां सह पश्चात्तु कारयेत्स्थापनं यदि । आभिचारिकमेव स्याद्राजराष्ट्रविनाशकृत् ॥ २९.७६ ॥ ध्रुवकौतुक संयुक्ते पूज्यमाने पुरा ततः । विमानध्रुवयोर्नाशे ब्रह्मस्थाने ध्रुवार्चनम्, ॥ २९.७७ ॥ कौतुकं चोत्सवस्थाने स्थापयेदिति के चन । स्थानके चासनं कुर्याच्छयनं वापि चेच्छया ॥ २९.७८ ॥ असनेशयनं कुर्यात्थ्सानकं न तु कारयेत् । शयने नासनं चैव स्थानकं कारयेद्विधिः ॥ २९.७९ ॥ कौतुकं स्थितमासीन मौत्सवं कारयेत्तथा । असीनं कौतुकं कुर्यात्थ्सितमौत्सवमेव वा ॥ २९.८० ॥ स्नपनं बलिबेरं च स्थितं सर्वत्र कारयेत् । अवतारगणस्यैव मूर्तीनां पञ्चकस्य च ॥ २९.८१ ॥ अन्योन्यसंकरेणैव स्थापने कौतुकस्य च । महत्तरो भवेद्दो, स्तद्दोषशमवाय वै ॥ २९.८२ ॥ हुत्वा तु महतीं शान्तिं यथास्थाने तु स्थापयेत् । अथ वक्ष्ये विशेषेण शान्तिपञ्चककल्पनम् ॥ २९.८३ ॥ नराणां पापबाहुल्यादपराधविशेषतः । देवास्सृजन्त्यद्भुतानि तेषु दृष्टेषु सत्वरम् ॥ २९.८४ ॥ कुर्याच्छान्तिं यथोक्तान्तु विपरीते त्वनर्थकृत् । कर्त्राराधकयोश्चैव राज्ञो राष्ट्रस्य वास्तुवः ॥ २९.८५ ॥ संक्षोभो जायते सद्यो विनाशो भवति ध्रुवम् । द्वादशाहान्तरे तस्माच्छान्तिं कुर्याद्विधानतः ॥ २९.८६ ॥ अतीते द्वादशाहेतु महाशान्तिपुरस्सरम् । संपूज्य वैष्णवान् शक्त्यादत्वा वै भूरिदक्षिणाम् ॥ २९.८७ ॥ आरभेदुत्तरं कर्म मासेऽतीते विशेषतः । सप्ताहं तु महाशान्तिं हुत्वा विप्रशतं तथा ॥ २९.८८ ॥ भोजयित्वा च देवेशमनुमान्य तु कारयेत् । षण्मासे समतीते तु रमते तत्र नोहरिः ॥ २९.८९ ॥ तस्मात्सर्वप्रयत्नेन कुर्याच्छान्तिं यथोदिताम् । भौमान्तरिक्षदिव्याख्यभेदात्त्रिविधमद्भुतम् ॥ २९.९० ॥ ग्रहयुद्धश्च भेदश्च विकारो ग्रहमण्डले । सर्वग्रासोपरागश्च दुर्भिक्षश्चाक्षभेदनम् ॥ २९.९१ ॥ एवमादीनि दिव्यानि त्वद्भुतानि प्रचक्षते । आन्तरिक्षाणि चार्केन्द्वोः परिवेषो निरन्तरः ॥ २९.९२ ॥ वर्णान्तरेण बाहुल्यात्परिवेषस्तथाविधः । रात्राविन्द्रधमर्देवसद्म चाकाशमण्डले ॥ २९.९३ ॥ अशन्युल्कादिपातश्च राहुपुच्छादिदर्शनम् । नक्षत्रपतनं केतोर्धूमस्येन्द्रस्य दर्शनम् ॥ २९.९४ ॥ गन्धर्वनगरस्यापि दर्शनं पतनं तु वा । प्रतिसूर्याब्जनक्षत्रदर्शनं संप्रचक्षते ॥ २९.९५ ॥ भौमान्यनेकथोक्तानि चरस्थिरविभेदतः । देशकालस्वभावादिविरुद्धं प्रसवादिकम् ॥ २९.९६ ॥ पृषदंशकसर्पाश्वयोनिजानां विशेषतः । गोनागमहिषाद्येषु तिर्यक्षु जननं तथा ॥ २९.९७ ॥ कृमिकीटपतङ्गेषु विष्किरेष्वण्डजादिषु । विवर्णाकारवासादिराश्रयादिस्तथालये ॥ २९.९८ ॥ रक्तस्त्रीदर्शनादीनि चाद्भुतानि चरेषु तु । दिव्यानि चान्तरिक्षाणि तेषामत्रोत्तमोत्तमम् ॥ २९.९९ ॥ नाराणि चोत्तमानि स्युर्माहिषाद्यानि मध्यमम् । सरीसृपादिषु भवान्यथमानि वदन्तिहि ॥ २९.१०० ॥ रोदनं हसनं जल्पो ज्वलनं परिवर्तनम् । स्वेदश्च रुधिरस्रावः कृमिकीनादिसंभवः ॥ २९.१०१ ॥ अकालस्फोटनं धूमश्चाङ्गकंपनमेव च । स्वापनास्वादनेचैव तृणवल्मीक संभवः ॥ २९.१०२ ॥ प्रतिमायां भवेच्चेत्तु रक्तस्त्रीदर्शनं तथा । पाषण्डप्रतिलोमान्त्यजातिभिः पतितैस्थथा ॥ २९.१०३ ॥ सृगालादिभिरस्पृश्यैस्स्पर्शने च प्रवेशने । स्थूणाविरोहणे चैव चलने परिवर्तने ॥ २९.१०४ ॥ तथापसर्पणे चैव कवाटशयनासने । भित्त्यायुधांबरे तद्वदग्निहोत्राद्युपस्करे ॥ २९.१०५ ॥ विमाने च विकारश्च मक्षिकावृक्षपातने । प्रवर्तने चोपसर्पे पर्णपुष्पफलेषु च ॥ २९.१०६ ॥ शाखादौ विपरीतस्य दर्शनं च विशेषतः । रक्तस्रावो जलस्रावश्चाद्भुतानि स्थिरेषु तु ॥ २९.१०७ ॥ तेषु गर्भकृहे चैव पीठे चैव भवानि तु । राज्ञोराष्ट्रस्य विप्राणां नाशकानि विशेषतः ॥ २९.१०८ ॥ कर्त्राराधकयोर्नाश इति शातातपोऽब्रवीत् । प्रासादजानि राज्ञां स्युः प्रासादेऽपि विशेषतः ॥ २९.१०९ ॥ अधिष्ठाने च पादे च प्रस्तरे च गलेऽपि च । शिखरे च भवानि स्युःक्षत्रियाणां क्रमेण तु ॥ २९.११० ॥ अभिषेकस्य योग्यस्य युवराजस्य चैव हि । अभिषिक्तस्य सम्राजश्चात्याहितकराणि तु ॥ २९.१११ ॥ प्रथमावरणे वैश्यजातीनां मन्त्रिणां तथा । पुरोहितस्य तन्मण्डलाधिपानां महद्भयम् ॥ २९.११२ ॥ शूद्रजातिविपद्धेत्द्वितीयावरणादिषु । सस्यनाशो गजाश्वादिपशुनाशस्च जायते ॥ २९.११३ ॥ पुरोधसश्चाग्निकुण्डे ब्रह्मस्थाने द्विजन्मनाम् । रुद्रालये तु सर्वेषां नृपस्य तु गुहालये ॥ २९.११४ ॥ सेनेशानां विपत्तिः स्याद्वक्रतुण्डालये तथा । श्षालये राजपत्नीनां दुर्गास्थानेऽन्ययोषिताम् ॥ २९.११५ ॥ मातृस्थानेऽन्त्यजातीनामोषधीनां कुबेरके । नृपवाहनशस्त्रोपजीविनां भास्करालये ॥ २९.११६ ॥ अन्यदेवालये तत्तद्भोक्तानामपि लक्षयेत् । आस्थानमण्डपसङ्गमण्डबप्राङ्गणेषु च ॥ २९.११७ ॥ महानसे नृपावासे क्रीडास्थाने विशेषतः । आचार्ययजमानादिपदार्थिनिलयेषु च ॥ २९.११८ ॥ चैत्यवृक्षादिषूद्भूता रक्तस्त्रीदर्शनादयः । वल्मीकाद्याश्च फलदास्तत्तद्दिश्युक्तमार्गतः ॥ २९.११९ ॥ भौमेषु देवबेरार्चापीठगर्भगृहार्ते । जातादोषान्तु संप्रोक्ता उत्तमोत्तमसंज्ञिताः ॥ २९.१२० ॥ उत्तमास्तुपुनर्जाताः प्राकारेमुखमण्डपे । मध्यमाः प्रथमावरणे शेषेषूक्तास्तथाधमाः ॥ २९.१२१ ॥ तथा राजाङ्गणे चोत्तमोत्तमाः परितस्ततः । अङ्कणेषूत्तमा अन्तर्वास्तुके मध्यमास्स्मृताः ॥ २९.१२२ ॥ अधमा वास्तुनो बाह्ये तारतम्यमिति स्मृतम् । दिव्यान्तरिक्षयोर्नास्ति चिकित्सा शान्तिरिष्यते ॥ २९.१२३ ॥ भौमेषु तु चरेष्वत्र निमित्तं च निमित्तिनम् । देशान्तरे वासयित्वा शान्तिन्तत्र समाचरेत् ॥ २९.१२४ ॥ स्थिरेषु प्रतिमानां तु रोदने हसने तथा । ज्वलने च तथा देवं संस्थाप्य तरुणालये ॥ २९.१२५ ॥ तद्बेरस्थां समारोप्य शक्तिं तत्र विधानतः । शान्तिं कृत्वा पुनः कुर्यात्थ्सापनं चार्चनं क्रमात् ॥ २९.१२६ ॥ परिवृत्तौ पुनस्थ्साप्य कुर्याच्छान्त्यादि पूर्ववत् । स्वेदे च रुधिरस्रावे सर्वं रोदनवच्चरेत् ॥ २९.१२७ ॥ कृमिकीटपतङ्गानां कृणादीनामथोद्भवे । आरोप्य पूर्ववच्छक्तिं पुनस्संधाय युक्तितः ॥ २९.१२८ ॥ शान्त्यादीनाचरेदेवमकालस्फोटनादिके । बेरार्चापीठके तद्वदालयाभ्यन्तरेपे च ॥ २९.१२९ ॥ वल्मीकाद्युद्भवे देवं संस्थाप्य तरुणालये । यावद्दोषं खनित्वैव गव्यैरभ्युक्ष्य पञ्चभिः ॥ २९.१३० ॥ संशोध्य सर्वं संधाय पुनस्थ्सापन माचरेत् । प्रासादबाह्ये चोत्पन्ने विवरे विशदीकृते ॥ २९.१३१ ॥ पेषयित्वा मरीच्यादिजलेनापूर्य चाश्मना । आलिप्य शर्करां कुर्याच्छान्तिं दिव्यप्रचोदिताम् ॥ २९.१३२ ॥ पुनरप्युदिते कुर्यादेवमेव तुयुक्तितः । मक्षिकादर्शने तत्त्यद्व्यपोह्यत्वविलंबितम् ॥ २९.१३३ ॥ शोधयित्वा ततश्शान्तिमारभेत विचक्षणः । अस्पृश्यस्पक्शने तद्वत्कृत्वा शान्तिं समाचरेत् ॥ २९.१३४ ॥ स्थूणाविरोहणादौ च पुनस्संधाय चाचरेत् । हठाद्वृक्षाधिपतिने शान्ति स्तत्त्यागपूर्विका ॥ २९.१३५ ॥ राजाङ्गणे समुत्पन्ने राजानं सबलं पुनः । वेश्मान्तरं वासयित्वा शान्तिं कृत्वा यथोचिताम् ॥ २९.१३६ ॥ अभिषिच्य पुनर्युक्तेदिने राष्ट्रं प्रवेशयेत् । अथोत्तमोत्तमस्योत्तमस्य स्यान्मध्यमस्य च ॥ २९.१३७ ॥ अधमस्यापि चास्पृश्यस्पर्शनस्य यथाक्रमम् । क्रमेणाद्भुतशान्तिस्तु प्रभूता महती तथा ॥ २९.१३८ ॥ शान्तिश्शुद्धिरिति प्राज्ञैः पञ्चधा शान्तिरुच्यते । आलयाभिमुखे तद्वदैशान्यां चोत्तरेऽथ वा ॥ २९.१३९ ॥ पर्वताग्रे तटाकस्य तीरे वा मण्डपं प्रपाम् । कूटं वा षोडशस्तंभसंयुक्तां सुमनोहरम् ॥ २९.१४० ॥ चतुर्हस्तप्रमाणान्तस्त्संभान्तरसमायुताम् । तानोन्नताचलायुक्तां? कृत्वा मध्ये विधानतः ॥ २९.१४१ ॥ कुण्डं श्रामणकोक्तं तु कृत्वाधो द्वादशाङ्गुलम् । खनित्वैव चत्प्राच्यां द्विहस्तायत विस्तृतम् ॥ २९.१४२ ॥ हस्तमात्रसमुत्सेधं कृत्वा स्थण्डिलमुत्तमम् । प्रागादिषु चतुर्धिक्षु क्रमेणाहवनीयकम् ॥ २९.१४३ ॥ अन्वाहार्यं चावसथ्यं गार्हपत्यं च कारयेत् । अग्नेयादिषु कोणेषु कुण्डान्यौपासनानि च ॥ २९.१४४ ॥ कृत्वाद्वारेषु विधिना तोरणादि प्रकल्पयेत् । पूर्मकंभैरङ्कुरैश्च कदलीभिर्ध्वजैरपि ॥ २९.१४५ ॥ स्तंभ वेष्टनकाद्यैश्च दर्भमालाभिरेव च । अलङ्कृत्य वितानाद्यैर्यथाविभवस्तरम् ॥ २९.१४६ ॥ स्थण्डिले धान्यराशिं तु कृत्वा तस्य च मध्यमे । पद्ममष्टदलं कृत्वा तण्डुलैस्तस्य मध्यमे ॥ २९.१४७ ॥ सौवर्णं राजतं ताम्रं कृण्मयं वा स्वशक्तितः । द्वात्रिंशत्प्रस्थसंपूर्णं कंभमादाय शास्त्रवत् ॥ २९.१४८ ॥ तन्तुना परिष्ट्यैव यवान्तरमनन्तम् । वस्त्रयुग्मेन संवेष्ट्य भूषणैश्च विभूष्य च ॥ २९.१४९ ॥ सौवर्ण मङ्गलान्यष्टौ तथा पञ्चायुधानि च । वर्णचिह्नानि तादृंशि चाहीनान्यङ्गुलादपि ॥ २९.१५० ॥ रत्नानि हेम रजतं ताम्रं कांस्यं तथा त्रपु । सीसायस्तीक्ष्णुकान्तानि ग्रहरूपाणि चैव हि ॥ २९.१५१ ॥ निक्षिप्यापूर्य तोयेव शुद्धेन तु विधानतः । कर्पूरचन्दनोशीरलवङ्गैलादिकानपि ॥ २९.१५२ ॥ गन्धद्रव्याणि चान्यानि न्यस्य चूतादिपल्लवान् । तन्मुखं तु पिधानेव पिदध्यात्सदृशेनवै ॥ २९.१५३ ॥ आचार्यमृत्विजश्चापि वृत्वा शास्त्रविधानतः । नववस्त्रोत्तरीयाद्यैः पञ्चाङ्गार्पितभूषणैः ॥ २९.१५४ ॥ अलङ्कृत्याग्निकुण्डेषु हुत्वाघारं यथोदितम् । मध्ये सूर्यं तथेन्द्रादि भार्गवाङ्गारकौ तथा ॥ २९.१५५ ॥ मन्दं गुरुं पावकादि चन्द्रराहुध्वजान् बुधम् । प्रदक्षिणवशेनैव ध्यात्वावाङ्यार्ऽचयेत्ततः ॥ २९.१५६ ॥ अष्टाक्षरेणायुतं वा सहस्रं चाष्टसंयुतम् । अभिमृश्य विधानेन ग्रहयज्ञोदितेन वै ॥ २९.१५७ ॥ हुनेच्च तत्तद्दैवत्यं समिच्चरुघृतैः क्रमात् । हुत्वाष्टोत्तरसाहस्रं ततो वैखानसानले ॥ २९.१५८ ॥ घृताप्लुतैर्बिल्वदलैरष्टोत्तर सहस्रकम् । हुनेदष्टाक्षरं नित्यं तथा बिल्वसमिद्घेतैः ॥ २९.१५९ ॥ दूर्वापूपव्रीहितिलचरुलाजाब्जसक्तुभिः । वैष्णव्याचैव गायत्षा पूर्ववज्जुहुयाद्गुरुः ॥ २९.१६० ॥ घृतेनाष्टाक्षरेणैव सहस्रं चाष्टसंयुतम् । हुत्वान्ते तु घृतेनैव वैष्णवं विष्णुसूक्तकम् ॥ २९.१६१ ॥ जुहुयात्पौरुषं सूक्तं नृत्तैर्गेयैश्च घोषयेत् । यथादिशं चतुर्वेदान्नित्यमध्यापयेत्क्रमात् ॥ २९.१६२ ॥ कल्पसूत्रमथौखेयं प्रणीतं गुरुणा पुरा । स्वाध्यायो यत्र यत्रोक्तस्तत्राध्येयं विधानतः ॥ २९.१६३ ॥ ऋत्विग्भ्यो दक्षिणां दद्यादेवं सप्ताहमाचरेत् । यदि देवालये दोषः कुंभपार्श्वेथ स्थण्डिले ॥ २९.१६४ ॥ देवं तं स्थाप्य चाभ्यर्छ्य निवेद्य च महाहविः । देवस्याभिमुखे हुत्वा होममन्ते यथाविधि ॥ २९.१६५ ॥ नवाहं वाथ स्ताहमुत्सवं कारयेद्विधिः । दिव्यान्तरिक्षयोः कुंभजलेना प्लावयेन्नृपम् ॥ २९.१६६ ॥ भौमेषु तत्थ्सलं प्राक्ष्य शिष्टतोयेन वै नृपम् । तत्पत्नीं चाभिषिञ्चेच्च गुरुं संपूज्य पार्थिवः ॥ २९.१६७ ॥ सुवर्णपशुभूम्यादीन् दद्यादृत्विग्भ्य एव च । दक्षिणां बहुलां दद्याज्जीवो यज्ञस्य दक्षिणा ॥ २९.१६८ ॥ यदि राजगृहे दोषः कृत्वा मण्डपमन्तिके । पूर्ववद्ग्रहयज्ञं च होमं श्रामणकेऽनले ॥ २९.१६९ ॥ कुंभस्य साधनं कृत्वा सप्ताहान्ते प्रभुं तथा । स्नापयेत्कुंभतोयेन प्रतिष्ठान्तक्रमेण वै ॥ २९.१७० ॥ दक्षिणां गुरुपूर्वेभ्यो दत्वा कृत्वांकुरार्ऽपणम् । शुभेऽनुकूले नक्षत्रे कृत्वा चैवाभिषेचनम् ॥ २९.१७१ ॥ प्रविशेत्पूर्वगेहं तु धर्मसिद्ध्यैगुरूदितः । एष एव विधिः प्रोक्तो गृहिणामपि सम्मतः ॥ २९.१७२ ॥ राज्ञां परार्थवृत्तित्वात्सोऽत्र तु प्रकृतीकृतः । सर्वग्रासोपरागादिदिव्याद्भुतशमायवै ॥ २९.१७३ ॥ यथाशक्ति ब्राह्मणेभ्यस्स्वर्णं भूमिं पशूनपि । दद्यात्तथा विशेषेण दक्षिणां भूरिसम्मिताम् ॥ २९.१७४ ॥ अनावृष्टिनिवृत्त्यर्थं कुंभं संगृह्य पूर्ववत् । सर्वतीर्थं समावाह्य समभ्यर्च्याग्रतो हरेः ॥ २९.१७५ ॥ ध्यान्यपीठे तु सौवर्णं पद्ममष्टदलैर्युतम् । हेमपात्रे तु सन्न्यस्य देवमावाह्य तत्र च ॥ २९.१७६ ॥ अभ्यर्च्य तस्य चोर्ध्वेतु पीठे कुंभं निधाय च । कुंभमूले तु सुषिरं सूचीमात्रं विधाय च ॥ २९.१७७ ॥ तद्धारया त्वविच्छिन्नरूपया सेचयेद्धरिम् । समिद्भिर्वैतसीभिस्तु पालाशीभिरथापि वा ॥ २९.१७८ ॥ अष्ठोत्तरसहस्त्रं तु जुहुयात्पञ्जवारुणम् । अग्नौ श्रामणके पश्चाद्दिशाहोमेषु पूर्ववत् ॥ २९.१७९ ॥ अष्टात्तरसहस्रं तु प्रत्येकं पञ्चवारुणम् । समिद्भिर्जुहुयाद्विद्वान् वैतसीभिर्यधाविथि ॥ २९.१८० ॥ समिद्भिः पुनराज्येन वैतसीभिः पृथग्घुनेत् । अष्टाधिकसहस्रं तु "इन्द्रं प्रणयन्त"मित्यपि ॥ २९.१८१ ॥ श्रामणाग्निं विधायैकं दक्षिणे तस्य वज्रिणम् । आवाह्य तु समभ्यर्च्य "शचीसहाऽऽयेति होमयेत् ॥ २९.१८२ ॥ देवं विशेषतोऽभ्यर्च्य कारयेत्स्नपनादिकम् । एवं ज्ञात्वा विधानेन तत्तत्कर्मसु गौरवम् ॥ २९.१८३ ॥ त्षहादि त्रिंशद्घस्रान्तं श्रामणाग्नौ यथाविथि । दिने दिने पूरयित्वा कुंभं तेनैव सेचयेत् ॥ २९.१८४ ॥ सर्वान्ते देवमास्नाप्य समभ्यर्च्य हविर्ददेत् । कर्मान्ते स्यान्महावृष्टिस्तस्माद्यत्नेन कारयेत् ॥ २९.१८५ ॥ अथ वा वर्ष कामी वा मोक्षार्थी पशुकामनः । सर्वोपद्रवशान्त्यर्थी विजयार्थी विशेषतः ॥ २९.१८६ ॥ स्नपनालयमासाद्य अलङ्कृत्य च पूर्ववत् । कर्मगौरवमाज्ञाय संभृत्य बहुधा पयः ॥ २९.१८७ ॥ पूजयेत्प्रथमं यत्नादाचार्यं सहि धारकः । आचार्यस्सुप्रसन्नात्मा श्वभ्रात्प्राच्यां तु तण्डुलैः ॥ २९.१८८ ॥ कृत्वा पङ्क्तिं दक्षिणोत्तरायतां विपुलान्तराम् । श्वभ्राद्दक्षिणतः कृत्वा कुण्डं श्रामणकस्य तु ॥ २९.१८९ ॥ अग्निमाधाय कुंभां स्तु नव संवेष्ट्य तन्तुना । अद्भिः प्रक्षाल्य चोत्पूय कुशकूर्चेन चात्वरः ॥ २९.१९० ॥ क्षीरेण पूरयित्वैव चोत्बूतेन क्रमेण वै । पङ्क्तिं निधायापिधानैरपिधायोपरि क्रमात् ॥ २९.१९१ ॥ वस्त्रेणाच्छादयेच्छ्वभ्रंपूजान्तेभ्यर्च्य वै हरिम् । स्वस्तिसूक्तेन चानम्य संस्थाप्य श्वभ्रमध्यमे ॥ २९.१९२ ॥ अर्चनोक्तविधानेन सर्वं पूर्वनदायरेत् । तन्तुना वेष्टिते क्षीरं कृहीत्वाकरके पूनः ॥ २९.१९३ ॥ विष्णुसूक्तेन "चेषेऽऽत्वेत्याद्यैर्मन्त्रैः क्रमाद्गुरुः । तया संस्नापयेद्देनमुक्तयो क्षीरधारया ॥ २९.१९४ ॥ तथैव परिषिच्याग्निं मन्त्रै"र्विष्णोर्नुऽऽकादिभिः । "अतोदेवादिऽऽभिस्तद्वदष्टार्ण मनुना तथा ॥ २९.१९५ ॥ जुहुयाद्विष्णुगायत्षा अष्टाधिकसहस्रकम् । अथ वा स्नपनं यावत्तावदुद्वर्त्य मन्त्रतः ॥ २९.१९६ ॥ हारिद्रेन तु चूर्णेन संशोध्याम्लादिभिस्ततः । गन्धोदेन सुसंस्नाप्य प्लोतेन विमृजेत्ततः ॥ २९.१९७ ॥ वस्त्रादिभिरलङ्कृत्य समभ्यर्च्य विधानतः । पायसादि हविर्दद्याद्दप्यादाचार्यदक्षिणाम् ॥ २९.१९८ ॥ अनेन सर्वान् कामांश्च लभेताविशयं नरः । ध्रुवबेरार्चने चेत्तु संस्नाप्य प्रमुखे घटम् ॥ २९.१९९ ॥ तस्मादानीय तत्रैव स्नापयेदुक्तगौरवात् । सप्तपञ्चत्षहान्यत्र क्षीरस्नानं प्रकल्पयेत् ॥ २९.२०० ॥ एवं घृताभिषेकं च कारयेत्सदृशं फलम् । इमामद्भुताशान्तिन्तु काश्यपाद्याः प्रचक्षते ॥ २९.२०१ ॥ अथ प्रभूतशान्तिं तु प्रवक्ष्यामि तपोधनाः । पूर्ववन्मण्टपादीनि कारयित्वा यथाविधि ॥ २९.२०२ ॥ विशाहोमं चकृत्वैव श्रामणाग्नौ यथोदितम् । कुंभं संसाध्य च प्राग्वत्सप्ताहान्ते विशेषतः ॥ २९.२०३ ॥ अष्टोत्तरशतं वाष्टचत्वारिंशदथाथ वा । संगृह्य कलशानान्तु समभ्यर्च्यऽभिषेच्य च ॥ २९.२०४ ॥ देवं विशेषतोऽभ्यर्च्य हविर्दद्यादयं विधिः । महाशान्तिक्रमं वक्ष्ये विना कुंभस्य साधनम् ॥ २९.२०५ ॥ अग्नौ श्रामणके बिल्वपत्रैराज्याप्लुतैःक्रमात् । अष्टाधिकसहस्रं वै हुनेदष्टाक्षरेण तु ॥ २९.२०६ ॥ आज्येन वैष्णवं विष्णुसूक्तं पौरुषमेव च । हुत्वा त्षहान्ते संस्नाप्य शुद्धस्नपनवर्त्मना ॥ २९.२०७ ॥ समभ्यर्च्य हविर्दद्यान्महाशान्तिरियं भवेत् । औपासनाग्नावेकाहं हुत्वा शान्तिं विधानतः ॥ २९.२०८ ॥ ब्राह्मणान् भोजयित्वैव दद्यादाचार्यदक्षिणाम् । अथ शुद्धिविधिं वक्ष्ये वास्तुहोमं हुनेत्ततः ॥ २९.२०९ ॥ बिल्वपत्रादिभिर्हुत्वा पृथगष्टोत्तरं शतम् । पुण्याहान्ते गुरुं पूज्य भोजयेद्ब्राह्मणानपि ॥ २९.२१० ॥ सर्वत्रतु विकल्पेन घटसंस्कारमाचरेत् । अथातस्सर्वशान्तिस्स्यादपमृत्युभये तथा ॥ २९.२११ ॥ ग्रहकोपे महाव्याधौ परचक्रभये तथा । अर्थबन्धुविनाशे च दुर्भिक्षे च पराजये ॥ २९.२१२ ॥ अभिचारभये चैव तापत्रयनिपीडने । विरुद्धेऽचात्मनः प्राप्ते सर्वशान्तिं समाचरेत् ॥ २९.२१३ ॥ सप्ताहं वा नवाहं वा द्वादशार्णेन वै पृथक् । अष्टोत्तर सहस्रं तु जुहुयाद्विधिना क्रमात् ॥ २९.२१४ ॥ इति श्रीवैखानसे भगवच्छास्त्रे भृगुप्रोक्तायां सिहितायां प्रकीर्णाधिकारे एकोनत्रिंशोऽध्यः. _____________________________________________________________ अथत्रिंशोऽध्यायः. प्रायश्चित्तम् अथवक्ष्ये विशेषेण तन्त्रसंकरनिष्कृतिम् । वैष्णवस्यान्यतन्त्रेण संकरे दोषमादिशेत् ॥ ३०.१ ॥ ग्रामस्य यजमानस्य राज्ञो राष्ट्रस्य संक्षयः । तद्दोषशमनायैव सांकर्यमपहाय च ॥ ३०.२ ॥ पद्मावले वैष्णवं च विष्णुसूक्तं च पौरुषम् । पारमात्मिकमीङ्कारा द्यष्टाशीतिं विशेषतः ॥ ३०.३ ॥ अष्टोत्तरसहस्रं वा शतमष्टोत्तरं तु वा । दोषगौरवमुद्दिश्य हुत्वा पूर्ववदाचरेत् ॥ ३०.४ ॥ वैष्णवं द्विविधं शास्त्रं मुनिभिः परिकीर्तितम् । वैखानसं पञ्चरात्रं वैदिकं तान्त्रिकं क्रमात् ॥ ३०.५ ॥ वैखानसं वैदिकं स्याद्वैदिकैरर्चितं द्विजैः । ऐहिकामुष्मिकफलप्रदं सौम्यं प्रकीर्तितम् ॥ ३०.६ ॥ पञ्चरात्रमथाग्नेयमवैदिकमतात्त्विकम् । तापादिपञ्चसंस्कारदीक्षावद्भिस्समर्चितम् ॥ ३०.७ ॥ अश्रीकरमथ प्रोक्तङ्केवलामुष्मिकप्रदम् । सौम्यं सर्वत्र संपूज्यं ग्रामादिषु विशेषतः ॥ ३०.८ ॥ ब्राह्मणानां च गेहेषु सौम्ये नै वार्चयेद्धरिम् । आग्नेयमर्चयेत्तद्वदवास्त्वङ्गालये तथा ॥ ३०.९ ॥ पर्वतादिष्वरण्येषु विविक्तेषु स्थलेषुच । विप्रावासे जनावासे नैव कुर्यादनेन तु ॥ ३०.१० ॥ सौम्ये वैखानसे मार्गे यद्याग्ने येन संकरः । पञ्चरात्रेण संप्राप्तो राजा राष्ट्रं विनश्यति ॥ ३०.११ ॥ तद्दोषशमानायैव पद्माग्नौ जुहुयात्क्रमात् । महाशान्तिं विधानेन सप्ताहं वा त्षहन्तु वा ॥ ३०.१२ ॥ अष्टाधिकशदैश्चैव संस्नाप्य कलशैस्ततः । अभ्यर्च्य देवदेवेशं संपूज्यैव तु वैष्णवान् ॥ ३०.१३ ॥ भोजयित्वा ब्राह्मणांस्तु कारयेत्पूर्ववर्त्मना । पञ्चरात्रविधानेन प्रतिष्ठाप्यार्चनेकृते ॥ ३०.१४ ॥ कालेनान्तरिते तस्मिन् कुर्यात्सौम्य प्रवेशनम् । सौम्यत्वाद्राजराष्ट्राणां तत्स मृद्धिकरं भवेत् ॥ ३०.१५ ॥ पद्मानले महाशान्तिं हुत्वादौ च ततःक्रमात् । वैखानसेन विधिनाविमानं बिंबमेव च ॥ ३०.१६ ॥ संस्कृत्य चोचितैस्सर्वैस्कंस्कारैः कर्षणादिभिः । प्रतिष्ठाप्य तदारभ्य सर्वं तेनैव चाचरेत् ॥ ३०.१७ ॥ आलयाश्रितदेवानां परिवारस्य पर्षदाम् । पूजायामप्यमुख्यायां संकरो नैव सम्मतः ॥ ३०.१८ ॥ महात्म्यं किमुवक्ष्यामि शास्त्रस्य महतोऽस्य वै । नालं देवास्त्रयस्सेन्द्रा अनन्तोऽप्युपवर्णितुम् ॥ ३०.१९ ॥ श्रुणन्तु मुनयस्सर्वे शास्त्रमाहात्म्यमुत्तमम् । यावच्छक्ति प्रवक्ष्यामि ज्ञातं गुरुकृपाबलात् ॥ ३०.२० ॥ पुरा चतुर्मुखो ब्रह्मासिसृक्षुरखिलं जगत् । सुप्तोद्थितश्चिरं कालं प्राक्रामीत्सर्गकर्मणि ॥ ३०.२१ ॥ विसस्मार यदा धाता निद्रयाक्रान्तमानसः । वेदान्त्सर्गप्रधानांस्तु सृष्टिर्नैवप्रवर्तते ॥ ३०.२२ ॥ चिन्तातुर स्तदा ब्रह्मा मूढः कर्तव्यकर्मणि । बहुधा ध्यायमानस्तुन लेभे कारणं स्वतः ॥ ३०.२३ ॥ स्वशक्त्या यद्विधेयं स्यात्सर्वं चक्रे विमूढधीः । न हि तत्कारणं लेभे वेदविस्मरणं तु यत् ॥ ३०.२४ ॥ चिराच्छिन्तां तु तां त्यक्त्वा स्वस्थचित्तः प्रजापतिः । हृत्पद्ममध्ये पुरुषं परमेण समाधिना ॥ ३०.२५ ॥ चिन्तयामास वै विष्णुमृग्यजुस्सामरूपिणम् । तुष्टाव च तदा ब्रह्मा हरिप्रवणमानसः ॥ ३०.२६ ॥ ननाम च तदा विष्णुं शङ्खचक्रगद्धरम् । अर्चयामास देवेशं पाद्याद्यैर्विग्रहैस्समैः ॥ ३०.२७ ॥ मुहुर्मुहुः प्रणम्याथमूर्थ्ना देवं जगत्पतिम् । निर्व्याजकरुणालेशाद्देवस्य विमलान्तरः ॥ ३०.२८ ॥ तुष्टावजगदीशानं नारायणमजं विधिः । "जितन्ते पुण्डरीकाक्ष नमस्ते विश्वभावन ॥ ३०.२९ ॥ नमस्तेऽस्तु हृषीकेश महापुरुष पूर्वज । देशकालपरिच्छेदरहितानन्त चिन्मय ॥ ३०.३० ॥ सत्यज्ञानसुखानन्दस्वरूप परमेश्वर । पञ्चव्यूह चतुर्व्यूहान न्तव्यूहात्मविग्रह ॥ ३०.३१ ॥ विष्णो पुरुष सत्याच्युतानिरुद्ध जगत्पते । नित्यमुक्तजनावासपरमव्योमनायक ॥ ३०.३२ ॥ श्रीभूनीलादिसंसेव्य दिव्यमङ्गलविग्रह । शङ्खचक्रगदावाणे भक्ताभयवरप्रद ॥ ३०.३३ ॥ कीरीट हार केयूर कटकाङ्गदभूषित । ग्रैवेयकपरिष्कार कटीसूत्रविराजित ॥ ३०.३४ ॥ तुलसीमालिकाराजद्विशालोरस्थ्सलांचित । प्रलंबयज्ञसूत्राढ्य कौस्तुभाभरणोज्ज्वल ॥ ३०.३५ ॥ सर्वलोकेश्वराचिन्त्य श्रीवत्सकृतलक्षण । दिव्यायुधसमासेव्य पीतांबरसुशोभित ॥ ३०.३६ ॥ नित्यनिर्यत्ननिरन्ध्रविसारिकरुणारस । मन्दस्नितमुखांभोज मधुराधरपल्लव ॥ ३०.३७ ॥ रुक्माभ रक्तनेत्रास्यपाणिपाद सुखोद्वह । सुभ्रूललाटसुभग सुनस स्वायतेक्षण ॥ ३०.३८ ॥ वृत्तपीनायतभुज तनुमध्य महाहनो । विलासविक्रमाक्रान्त त्रैलोक्यचरणांबुज ॥ ३०.३९ ॥ ज्ञानशक्ति बलैश्वर्यवीर्य तेजोविधेऽनघ । नमस्ते विष्णवे तुभ्यं पुरुषाय नमो नमः ॥ ३०.४० ॥ समस्सत्यस्वरूपाय अच्युताय नमो नमः । नमोऽनिरुद्धरूपाय वासुदेवाय शार्ङ्गिणे ॥ ३०.४१ ॥ नमश्चिदात्मनेऽनन्त शान्तरूपाय धन्विने । शासते निरपेक्षाय स्वतन्त्रायाधिकारिणे ॥ ३०.४२ ॥ अच्युतायाविकाराय तेजसां निधये नमः । प्रधान पुरुषेशाय वेदवेद्याय वेदिने ॥ ३०.४३ ॥ नमः पर व्यूहरूप नमो विभवविग्रह । अन्तर्यामिन्नमस्तेऽस्तु नमोर्ऽचारूप शाश्वत ॥ ३०.४४ ॥ सहस्रशीर्षं पुरुषं सहस्राक्षं निरञ्जनम् । सहस्रपादं त्रातारं शरणं त्वाङ्गतोऽस्म्यहम् ॥ ३०.४५ ॥ माता त्वं मे पिता त्वं मे भ्राता त्वं मे सखामम । सर्वं त्वमसि विश्वात्मंस्त्वयि सर्वं प्रतिष्ठितम् ॥ ३०.४६ ॥ संसारसागरं घोरमनन्तं क्लेशभाजनम् । त्वामेव शरणं पाप्य निस्तरन्ति मनीषिणः ॥ ३०.४७ ॥ न हि ते गोप्य ते किञ्चिन्न ह्यन्त्यविदितं तव । त्वं साक्षी देहिनामेकस्सर्वं व्याप्य त्वमेधसे ॥ ३०.४८ ॥ न ते रूपं न करणं कारणं नास्ति तेऽनघ । त्वं शास्ता सर्वलोकानां स्रष्टापाता हरन् हरे ॥ ३०.४९ ॥ अहं भवश्च ते ब्रह्मन् प्रसादक्रोधजावुभौ । त्वत्तो मे मानसं जन्म प्रथमं द्विजपूजितम् ॥ ३०.५० ॥ विज्ञानं तदिदं प्राप्तं ब्रह्मत्वं च यदार्जितम् । सर्वं तव कटाक्षस्य लेशोऽयं मधुसूदन ॥ ३०.५१ ॥ तमसाक्रान्तचित्तस्य विस्मृता निगमा मम । अवेदविहितस्सर्गो मया कर्तुं न शक्यते ॥ ३०.५२ ॥ प्रसीद परमेशान वेदभिक्षां प्रयच्छ मे । इति चिन्तयतस्तस्य बभूवावाविलं मनः ॥ ३०.५३ ॥ ततस्तुभगवान् ब्रह्मा वेदराशिमवाप्तवान् । सस्मार निखिलान्वेदान् सांगानुपनिषद्गणम् ॥ ३०.५४ ॥ पुराणन्यायमीमांसाधर्मशास्त्राणि सर्वशः । चतुष्षष्टिकलाश्चैव विद्यास्थानानि यानि च ॥ ३०.५५ ॥ अन्तर्हितानां खननाद्वेदानान्तु विशेषतः । स विभुः प्रोच्यते ब्रह्मा विखना ब्रह्मवादिभिः ॥ ३०.५६ ॥ वैखानसश्च भगवान् प्रोच्यते स पितामहः । जगत्सर्वमशेषेण वेददृष्टेन वर्त्मना ॥ ३०.५७ ॥ प्राणाच्च चक्षुषस्तद्वदभिमानाच्च मर्मणः । हृदयाच्छिरसश्श्रोत्रादुदानाद्व्यानतस्ततः ॥ ३०.५८ ॥ समानाच्च तथापानादृषिश्रेष्ठानिमान् दश । दक्षं मरीचिनं नीललोहितं भृगुमेन च ॥ ३०.५९ ॥ तथांगिरसमत्रिञ्च पुलस्त्यं पुलहं तथा । वसिष्ठं चक्रतुं चैव क्रमादसृजदब्जभूः ॥ ३०.६० ॥ नव ब्रह्माण एवै ते विनास्युर्नीललोहितम् । वेदानां व्यसनादर्पाक्प्राग्रूपं मिलितं तु यत् ॥ ३०.६१ ॥ तान्तु वैखानसीं शाखायेतानध्यापयन्मुनिः । नाम्ना विखनसं प्राहुर्यं च शातातपं तथा ॥ ३०.६२ ॥ भृग्वङ्गिरोमरीच्यत्रिपुलस्त्यपुलहाःक्रतुः । तथा वसिष्ठोदक्षश्च नव ब्रह्माणरिरिता ॥ ३०.६३ ॥ (नव ब्राह्माण एवैते विन्यान्ये नीललोहितम्) । एते विखनसश्सिष्याश्श्रुतिस्मृतिविधानतः । तच्छिष्यास्तु महात्मानो मुनयस्तत्त्वदर्शिनः ॥ ३०.६४ ॥ वेदानुगानि शास्त्राणि चक्रुर्लोकहितैषिणः । के चिद्गृह्याणि वै चक्रुर्गृह्यश्रौतात्मकानि तु ॥ ३०.६५ ॥ धर्मशास्त्राणि केचित्तु पुराणानि च के चन । इतिहासांस्तथाकल्पान् प्रोचुरन्ये महर्षय? ॥ ३०.६६ ॥ के चिद्व्याकरणं केचिन्न्यायमन्ये तथेतरत् । वाङ्मयं सकलं सर्वं शास्त्रबद्धं प्रचक्रिरे ॥ ३०.६७ ॥ तान्तुवाखानसीं शाखां स्वसूत्रे विनियुक्तवान् । पद्मभूःपरमो धाता तस्मिन्नाराधनत्रयम् ॥ ३०.६८ ॥ तान्तु वैखानसीं शाखां स्वसूत्रे विनियुक्तवान् । चक्रे ऋगादिभेदैस्तु व्यसित्वा तु पृथक्पृथक् ॥ ३०.६९ ॥ आदिकाले तु भगवान् ब्रह्मातु विखना मुनिः । यजुश्शाखानुसारेण चक्रेसूत्रं महत्तरम् ॥ ३०.७० ॥ वर्णाश्रमाचारयुतं श्रौतस्मार्तसमन्वितम् । यत्सूत्राद्यन्तमध्येषु भगवान् विष्णुरव्ययः ॥ ३०.७१ ॥ यष्टव्यो गीयते यस्मात्सर्वसूत्रोत्तमं तु तत् । वेदे वैखानसे सूत्रे यो धर्मः परिकीर्तितः ॥ ३०.७२ ॥ सर्वैस्सधर्मोनुष्ठेयो नात्र कार्याविचारणा । स्वसूत्रस्य परित्यागादन्यसूत्रसमाश्रयात् ॥ ३०.७३ ॥ सद्यःपतति वै विप्रोन वेदस्य समाश्रये । सूत्रं वैखानसं यत्तु वेदस्संप्रतिपद्यते ॥ ३०.७४ ॥ एतद्वैखानसं सूत्रमन्यसूत्रानपेक्षितम् । एतद्वैखानसं सूत्रं सर्ववेदार्थसंग्रहः ॥ ३०.७५ ॥ वैष्णवं सर्वविप्राणां साम्न्यमभिधीयते । वैखानसस्य सूत्रस्य चाग्नेश्श्रामणकस्य च ॥ ३०.७६ ॥ नारायणस्य देवस्य माहात्म्यं नावबुध्यते । यथा वेदेषु सर्वेषु सामवेदः प्रशस्यते ॥ ३०.७७ ॥ तथा सर्वेषु सूत्रेषु सूत्रमेतत्प्रशस्यते । अग्निर्वैखानसं शास्त्रं विष्णुर्वेदाश्चशाश्वताः ॥ ३०.७८ ॥ गायत्री वैष्णवा विप्रास्सप्तैते बहुपावनाः । अधीतेषु च वेदेषु सांगेषु लभते फलम् ॥ ३०.७९ ॥ तत्फलं लभते सद्यस्सूत्रमेतत्पठन् द्विजः । अग्नीषोमादयो देवा ये यज्ञांशहविर्भुजः ॥ ३०.८० ॥ ते सर्वे सूत्रमाश्रित्य चैनं गच्छन्ति माधवम् । शारीराण्यन्यसूत्राणि तथा स्वर्गफलानि च ॥ ३०.८१ ॥ वैष्णवं सूत्रमेतद्धि सर्वसिद्धिकरं परम् । आद्यत्वात्सर्वसूत्राणां वैष्णवत्वाद्विशेषतः ॥ ३०.८२ ॥ मयानुवर्तितं तद्वत्काश्यपात्रिमरीचिभिः । यस्मिन्नेव तु संप्रोक्ते सूत्रे विखनसा पुरा ॥ ३०.८३ ॥ वनस्थानां तु सर्वेषां विधिश्श्रामणकाभिधः । वानप्रस्थास्ततस्स्वर्वे येद्विजाश्चान्यसूत्रिणः ॥ ३०.८४ ॥ तत्सूत्रविध्यमष्ठानात्स्मृता वैखानसा अमी । किं बहूक्तेन विधिना सर्वं वैखानसं जगत् ॥ ३०.८५ ॥ परस्मिन् व्योम्नि यच्चार्ऽके यत्तेजस्तुत्रयीमयम् । तद्वैखानः परं ब्रह्म इति वेदादधीमहि ॥ ३०.८६ ॥ शास्त्रमेतच्च सूत्रं च सर्वेषामपि जीवनम् । ये वैखानससूत्रेण संस्कृतास्तु द्विजातयः ॥ ३०.८७ ॥ ते विष्णुसदृशा ज्ञेयास्सर्वेषामुत्तमोत्तमाः । वैखानसानां सर्वेषां गर्भवैष्णवजन्मनाम् ॥ ३०.८८ ॥ नारायणस्स्वयं गर्भेमुद्रां धारयिते निजाम् । विप्रा वैखानसाख्याये तेभक्तास्तत्त्वमुच्यते ॥ ३०.८९ ॥ एकान्तिनस्सुसत्त्वस्था देहान्तं नान्ययाजीनः । विष्णोःप्रियतमा लोके चत्वारः परिकीर्तिताः ॥ ३०.९० ॥ अश्वद्थःकपिला गावस्तुलसी वैष्णवा द्विजाः । द्विजेषु ब्राह्माणाश्श्रेष्ठा ब्राह्मणेषु च चैष्णवाः ॥ ३०.९१ ॥ वैष्णवेषु परं श्रेष्ठा ये वैखानससूत्रिणः । वैष्णवीं प्रतिमां लोके विप्रं वैखानसं तथा ॥ ३०.९२ ॥ गङ्गां विष्णुपदीं दृष्ट्वा सर्वपापैः प्रमुच्यते मूलमस्यापि शास्त्रस्य । सार्धकोटिप्रमाणतः उपादिशत्स भगवानस्मभ्यं नैमिशे वने ॥ ३०.९३ ॥ इति संक्षेपतः प्रोक्तं महत्त्वं सूत्रशास्त्रयोः । तस्माद्वैखानसा विप्रास्संपूज्या भगवत्प्रियाः ॥ ३०.९४ ॥ पूजान्ते स्नपनान्ते च तथान्ते चोत्सवस्य च । आचार्यमर्चकं चापि सर्वान् वैखानसांस्तथा ॥ ३०.९५ ॥ प्रथमं पूजयित्वैव पश्चात्कार्यं समाचरेत् । यःपूजकमनादृत्य विप्रं वैखानसं हठात् ॥ ३०.९६ ॥ तीर्थं गृहीतुं प्रथम्च्छेत्स पतति ध्रुवं यः । पूजकमनादृत्य विप्रं वैखानसं पुनः ॥ ३०.९७ ॥ प्रसादं देवदेवस्य प्रथमं तु जिघृक्षति । ब्रह्महत्यामवाप्नोति तत्बूजा निष्पला भवेत् ॥ ३०.९८ ॥ यः पूजकमनादृत्य विप्रं वैखानसं पुनः । यादृशीमपि देवाग्रे वाञ्छत्यपचितिं जनः ॥ ३०.९९ ॥ चतुर्वेद्यपि सो विप्रस्सद्यश्चण्डालतां व्रजेत् । तत्पूजा निष्फला च स्याद्राजराष्ट्रं विनश्यति ॥ ३०.१०० ॥ षट्कालं वा त्रिकालं वा द्विकालं कालमेव वा । आलये भगवत्पूजा सौम्येन विधिना कृता ॥ ३०.१०१ ॥ सर्वसंपत्करी सा स्याज्जगतामिति शासनम् । तत्रार्चने तु शुद्धात्मा पूजकः परितोषितः ॥ ३०.१०२ ॥ तेन राजा च राज्यं च यजमानश्च नान्वयः । सर्वलोकश्च संतुष्टो वर्धते ब्रह्मतेजसा ॥ ३०.१०३ ॥ अग्रं वृक्षस्य राजानोमूलं वृक्षस्य पूजकाः । तस्मान्मूलं न हिंसीयान्मूलादग्रं प्ररोहति ॥ ३०.१०४ ॥ फलं वृक्षस्य राजानः पुष्पं वृक्षस्य पूजकाः । तस्मात्पुष्पं न हिंसीयात्पुष्पात्संजायते फलम् ॥ ३०.१०५ ॥ देवस्यं ब्राह्मणस्वं च सन्मानं पूजकस्य च । यस्तु न त्रायते राजा तमाहुर्ब्रह्मघातुकम् ॥ ३०.१०६ ॥ दुर्बलानामनाथानां बालवृद्धतपस्विनाम् । अन्यायैः परिभूतानां सर्वेषां पार्थिवो गतिः ॥ ३०.१०७ ॥ राजा पिता च माता च राजा च परमो गुरुः । राजा च सर्वभूतानां परित्राता गुरुर्मतः ॥ ३०.१०८ ॥ दावाग्निदवदग्धानां राजा पूर्णमिवांभसा । समुद्रमिव तृप्यन्ति ब्राह्मणा वेदवादिनः ॥ ३०.१०९ ॥ दहत्यग्निस्तेजसा च सूर्यो दहति रश्मिभिः । राजा दहति दिडेन विप्रो दहति मन्युवा ॥ ३०.११० ॥ मन्युप्रहरणा विप्राश्चक्र प्रहरणो हरिः । चक्रात्तीक्ष्णतरो मन्युस्तस्माद्विप्रान्न कोपयेत् ॥ ३०.१११ ॥ अग्निदग्धं प्ररोहेत सूर्यदग्धं तथैव च । दण्ड्यस्तु संप्ररोहेत ब्रह्मशापहतो हतः ॥ ३०.११२ ॥ आपद्यपि च कष्टायां नावमान्यो हि पूजकः । अर्चकेन तु तुष्टेन यदुक्तं देवसन्निधौ ॥ ३०.११३ ॥ तद्वाक्यं तु ह रेर्वाक्यं नावमान्यो हि पूजकः । अर्चकं कोपयेद्यस्तु स हि देवस्य कोपकृत् ॥ ३०.११४ ॥ देवेशं तोषयेद्यस्तु स हि पूजकतोषकृत् । गन्धं पुष्पं तथा माल्यं तांबूलं चाक्षतादिकम् ॥ ३०.११५ ॥ प्रसादं चापि देवस्य प्रथमं पूजकोर्ऽहति । षडङ्गविदुषां चैव क्रतुप्रवरयाजिनाम् ॥ ३०.११६ ॥ वैखानसः पुनात्यग्रे गोष्ठीं विप्रशतस्य तु । फलाभिसंधिरहितं सर्वं कर्माखिलं कृतम् ॥ ३०.११७ ॥ ब्रह्मार्पणधिया कुर्यात्स भवेद्वैष्णवोत्तमः । नान्यं देवं नमस्कुर्यान्नान्यं देवं प्रपूजयेत् ॥ ३०.११८ ॥ अर्चयेत्सततं ध्यायेन्नारायणमनायम् । कायेन मनसा वाचा स तु वैष्णव उच्यते ॥ ३०.११९ ॥ तिर्यक्पुण्ड्रधरं चैव पाषण्डिनमवैष्णवम् । देवाग्रे पूजयेऽन्नैव तद्वैष्णवविमानना ॥ ३०.१२० ॥ अभ्यर्च्या विष्णुभक्ता हि वैष्णवा भगवत्प्रियाः । अवैष्णवस्य पूजा तु तेषामग्रे सुदारुणा ॥ ३०.१२१ ॥ तस्मात्सर्वप्रयत्नेन त्यजेद्दूरादवैष्णवम् । येतु सामान्यभावेन मन्यन्ते पुरुषोत्तमम् ॥ ३०.१२२ ॥ रुद्रादिभिस्सहाज्ञा नात्तेऽपि ज्ञेया अवैष्णवाः । नरेषु ब्राह्मणाश्श्रेष्ठा ब्राह्मणेषु विपश्चितः ॥ ३०.१२३ ॥ विपश्चित्सु कृतधियस्तेषु कर्तार एव च । कर्तृषु ब्रह्मविदुषो ये हि भक्ताजनाक्दने ॥ ३०.१२४ ॥ विष्णुभक्तेषु सर्वत्र श्रेष्ठा वैखानसास्स्मृताः । तस्मात्संपूज्य सर्वादौ भक्त्या वैखानसं द्विजम् ॥ ३०.१२५ ॥ विष्णुभक्तं ततः पूज्य यथावर्णानुपूर्व्यशः । गोष्ठीं समर्चयेत्काले भोज्याश्चान्ये द्विजातयः ॥ ३०.१२६ ॥ स्त्रीयः पूज्या विधानेन वैष्णप्यो वैष्णवाश्रयाः । न हि साधारणि सृष्यिर्वैष्णवीति विचिन्तयेत् ॥ ३०.१२७ ॥ जन्मान्तरसहस्रेषु तपोध्यानसमाधिभिः । नराणां क्षीणपापानां कृष्णे भक्तिः प्रजायते ॥ ३०.१२८ ॥ न ह्यभागवतैर्विष्णुर्ज्ञ्रातुं स्तोतुं च तत्त्वतः । द्रष्टुं वा शक्यते मूढाः प्रवेष्टुं कुत एव हि ॥ ३०.१२९ ॥ तद्भक्तिभाविताः पूता नरास्तद्गतचेतसः । भवन्तिवै भागवतास्ते विष्णुं प्रविशन्ति च ॥ ३०.१३० ॥ अनेक जन्मसंसारचिते पापसमुच्चये । वार्षिणे जायते पुंसां गोविन्दाभिमुखी मतिः ॥ ३०.१३१ ॥ प्रद्वेषं याति गोविन्दे द्विजान् वेदांश्च निन्दति । यो नरस्तं विजानीयादासुरांशसमुद्भवम् ॥ ३०.१३२ ॥ पाषण्डेषु रतिः पुंसां हेतुवादानुकूलता । जायते विष्णुमायातः पतितानां दुरात्मनाम् ॥ ३०.१३३ ॥ यदा पापक्षयः पुंसां तदा देवद्विजातिषु । विष्टौ च यज्ञपुरुषे श्रद्धा भवति निश्चला ॥ ३०.१३४ ॥ यथा स्वल्पान शेषस्तु नराणां पापसंचयः । भवन्ति ते भागवता निश्श्रेयशपरा नराः ॥ ३०.१३५ ॥ भ्राम्यतामत्र संसारे नराणां कर्मदुर्गमे । हस्तावलंबनो ह्येको भक्तिक्रीतो जनार्दनः ॥ ३०.१३६ ॥ कर्मणा मनसा वाचा प्राणिनां योऽनसूयकः । भावसक्तश्च गोविन्दे विष्णौ भागवतो हि सः ॥ ३०.१३७ ॥ यो ब्राह्मणांश्च वेदांश्च नित्यमेव नमस्यति । न द्रोग्धा परवित्तादेः सहि भागवतः स्मृतः ॥ ३०.१३८ ॥ सर्वान् देवान् हरिं वेत्ति सर्वान् लोकांश्च केशवम् । तेभ्यश्च नास्यमात्मावं स हि भागवतस्स्मृतः ॥ ३०.१३९ ॥ देवं मनुष्यमन्यं वा पशुपक्षिपिपीलिकाः । तरुपाषाणकाष्ठादीन् भूम्यंभोगगनं दिशः ॥ ३०.१४० ॥ आत्मानं चापि देवेशाद्व्यतिरिक्तं जनार्दनात् । यो न जानाति पुण्यात्मा स हि भागवतस्स्मृतः ॥ ३०.१४१ ॥ सर्वं भगवतो भागो यद्भूतं भव्यसंस्थितम् । इति यो वै विजानाति स हि भागवतस्स्मृतः ॥ ३०.१४२ ॥ भवभीतिं हरत्येष भक्तिभावेन भावितः । भगवानिति यद्भावस्स तु भागवतस्स्मृतः ॥ ३०.१४३ ॥ भावं न कुरुते यस्तु सर्वभूतेषु पापकम् । कर्मणा मनसा वाचा स तु भागवतस्स्मृतः ॥ ३०.१४४ ॥ बाह्यार्थनिरपेक्षो यो भक्त्या भगवतः क्रियाम् । भावेन निष्पादयति ज्ञेयो भागवतो हि सः ॥ ३०.१४५ ॥ नारयो यस्य सुस्निग्धा न चोदासीनवृत्तयः । पश्यतस्सर्वमेवेदं विष्णुं भागवतस्स हि ॥ ३०.१४६ ॥ सुतप्तेनेह तपसा यज्ञैर्वा बहुदक्षिणैः । तां गतिं न नरायान्ति यां तु भागवता नराः ॥ ३०.१४७ ॥ योगच्युतैर्भागवतैद्देवराजश्शतक्रतुः । अवाङ्निरीक्ष्यते नज्रीकिमु ये योगपारगाः ॥ ३०.१४८ ॥ यज्ञनिष्पत्तये वेदा देवा यज्ञपतेः कृते । तत्तोषणाय यतते स हि भागवतस्स्मृतः ॥ ३०.१४९ ॥ येन सर्वात्मना भक्त्या विष्णौ भावो निवेशितः । युक्तत्वात्कृतकृत्यत्वात्स हि भागवतस्स्मृतः ॥ ३०.१५० ॥ व्रतिनां यज्ञपुरुषः पूज्यो विष्णुरसंशयः । स्त्रीयश्च स्वं च भर्तारमृते पूज्यन्न दैवतम् ॥ ३०.१५१ ॥ भर्तुर्गृहस्थस्य सतः पूज्यो यज्ञपतिर्हरिः । वैखानसानामाराध्यस्तपोभिर्मधुसूदनः ॥ ३०.१५२ ॥ ध्येयः परिव्राजकानां वासुदेवो महात्मनाम् । एवमाश्रमिणां विष्णुस्सर्वेषां च परायणम् ॥ ३०.१५३ ॥ न दानैर्नतपोभिश्च प्रीयते भगवान् हरिः । वर्णाश्रमाचारवता यथा स परितुष्यति ॥ ३०.१५४ ॥ वर्णाश्रमाचारवता पुरुषेण परःपुमान् । विष्णुराराध्यते पन्था नान्यस्तत्तोषकारकः ॥ ३०.१५५ ॥ अत्रानुक्तेषु दोषेषु प्रायश्चित्तं प्रवक्ष्यते । पैण्डरीकाग्निमासाद्य परिषिच्य च पावकम् ॥ ३०.१५६ ॥ षट्कृत्वो वैष्णवं तद्वच्चतुष्कृत्वश्च व्याहृतीः । अष्टाक्षरं चाष्टकृत्वस्तथा च द्वादशाक्षरम् ॥ ३०.१५७ ॥ हुत्वा द्वादशकृत्वस्तु विष्णुसूक्तं च पौरुषम् । एकाक्षरादिसूक्तं च श्रीभूसूक्तद्वयं हुनेत् ॥ ३०.१५८ ॥ देवं संस्नाप्य चाभ्यर्च्य हविस्सम्यङ्नि वेदयेत्, । अनेन विधिना तत्र शान्तिर्भवति शोभना ॥ ३०.१५९ ॥ हादोषेषु च पुनरुक्तहोमैस्सहैव तु । पारमात्मिकमीङ्काराद्यष्टाशीतिं विशेषतः ॥ ३०.१६० ॥ हुत्वा च सर्वदैवत्यमष्टाभिश्च शतैर्घटैः । देवं संस्नाप्य चाभ्यर्च्य हविस्सम्यङ्नि वेदयेत् ॥ ३०.१६१ ॥ इति श्रीवैखानसे भगवच्छास्त्रे भृगुप्रोक्तायां संहितायां प्रकीर्णाधिकारे त्रिंशोऽध्यायः. _____________________________________________________________ अथैक त्रिंशोऽध्यायः. संप्रोक्षणत्रयम्. अथ वक्ष्यामि तत्रोक्तप्रायश्चित्तस्य संग्रहम् । जलसंप्रोक्षणं चैव लघुसंप्रोक्षणं तथा ॥ ३१.१ ॥ महासंप्रोक्षणं चेति प्रायश्चित्तं त्रिधा स्मृतम् । निमित्ते समनुप्राप्ते ज्ञात्वा गौरवलाघवम् ॥ ३१.२ ॥ वक्ष्यमाणक्रारेण सद्यस्संप्रोक्षणं चरेत् । संप्रोक्षणविधानस्य न कालनियमस्स्मृतः ॥ ३१.३ ॥ न कुर्यान्मासनक्षत्र तिथिवाराद्यवेक्षणम् । तस्मान्निमित्ते संप्राप्ते सद्यस्संप्रोक्षणं चरेत् ॥ ३१.४ ॥ देशकालाद्यवेक्षाया निमित्ते सति गौरवम् । बहुबेरेषु चैकस्मिन् स्थावरे जङ्गमेऽथ वा ॥ ३१.५ ॥ अर्चनायां विहीनायां कालातीते विपर्यये । निर्माल्यपूजने चैव निवेदितनिवेदने ॥ ३१.६ ॥ एकाहेऽप्यर्चनाहीने नित्यस्नापनवर्जने । बलिहोमादिहीनेच नित्योत्सवविवर्जने ॥ ३१.७ ॥ प्राकाराभ्यन्तरे प्राप्ते प्रमादादशुभे सति । अस्पृश्यागमने तत्र चण्डालाद्यैः प्रवेशने ॥ ३१.८ ॥ श्वकुक्कुट वराहोष्ट्रगर्दभानां प्रवेशने । उदक्यया सूतिकया पाषण्डाद्यैरथापि वा ॥ ३१.९ ॥ कुण्डगोलव्रतभ्रष्टतुरुष्कादिप्रवेशने । अन्यसूत्रिद्विजैस्स्पृष्टे मोहादज्ञानतोऽपिवा ॥ ३१.१० ॥ महावातहते बिंबे संसिक्ते वर्षबिन्दुभिः । विण्मूत्ररुधिरस्रावे बहुजल्पे च मैथुने ॥ ३१.११ ॥ एवमादिनिमित्ते तु जलसंप्रोक्षणं चरेत् । नैवासंप्रोक्षिते बिंबे हरिर्वसति निश्चयः ॥ ३१.१२ ॥ तस्माद्बिंबविशुद्ध्यर्थं संप्रोक्ष्यैव समर्चयेत् । दोषाधिक्ये समुत्पन्ने लघुसंप्रोक्षणं चरेत् ॥ ३१.१३ ॥ राष्ट्रक्षोभे च दुर्भिक्षे तन्त्रसंकरदूषणे । शूद्रैर्वाथानुलोमैर्वापाषण्डैर्भ्रमितैरपि ॥ ३१.१४ ॥ उदक्यया सूतिकया पतितैर्वाथ पातकैः । चण्डालाद्यैः प्रविष्टे च गर्भागारे विशेषतः ॥ ३१.१५ ॥ सूतैर्वा कुण्डगोलाद्यैस्तथा देवलकादिभिः । श्वकुक्कुट वराहाद्यैः प्रविष्टे गार्दभादिभिः ॥ ३१.१६ ॥ उलूकगृध्रकाकाद्यैः प्रविष्टेऽन्तर्गृहे तथा । तुरुष्काद्यैःप्रविष्टे वा शुक्रणोणितयोरपि ॥ ३१.१७ ॥ विण्मूत्रादेर्विसर्गे वा गर्भागारेर्धमण्डपे । त्षहादूर्ध्वं विहीने तु पूजने दीपवर्जने ॥ ३१.१८ ॥ एक रात्रमतिक्रम्य देवेग्रामान्तरस्थिते । आग्निदाहेऽशनीपाते गर्भागारेर्ऽधमण्डपे ॥ ३१.१९ ॥ अन्यसूत्षर्चिते बिंबेस्पृष्टे वा बुद्धिपूर्वकम् । अन्यैरनुक्तैर्देषैश्च लघुसंप्रोक्षणं चरेत् ॥ ३१.२० ॥ महानिमित्ते संप्राप्ते महासंप्रोक्षणं चरेत् । द्वादशाहात्समारभ्य वत्सरान्तं विधानतः ॥ ३१.२१ ॥ हीनायामर्चनायां च नित्ये नैमित्तिके तथा । क्रियाहीने विपर्यासे हीने मासोत्सवादिके ॥ ३१.२२ ॥ नित्यस्नपनहीनेऽपि मात्रादानविहीनके । बलिहोमादिहीने च संप्राप्ते शास्त्रसंकरे ॥ ३१.२३ ॥ एवमादिषु हीनेषु वत्सरान्तं प्रमादतः । पर्षदां परिवाराणामाश्रितालयसेविनाम् ॥ ३१.२४ ॥ ध्वजारोहणपूर्वं तु कृते कालोत्सवादिके । विप्रादिमरणे प्राप्ते देवागारे विशेषतः ॥ ३१.२५ ॥ गर्दभाश्वलुलायोष्ट्रश्वसूकरमुखे मृते । गजादिमृगनाशे च देवागारे प्रमादतः ॥ ३१.२६ ॥ चण्डालाद्यन्त्यजातीनां मरणे वा विशेषतः । शूद्रैर्वाथानुलोमैर्वा पाषण्डैः पतितादिभिः ॥ ३१.२७ ॥ संस्पृष्टे वैष्णवे बिंबे तुरुष्काद्यैर्मलिम्लुचैः । स्पृष्टे चण्डालकाद्यैर्वा महापातकदूषितैः ॥ ३१.२८ ॥ विमानेऽशनिपाते वा महोल्का पतनेऽपि वा । लोहितो पलवर्षे च वांसुवर्षे विशेषतः ॥ ३१.२९ ॥ भूकंपाच्चलिते बिंबे वल्मीकस्य समुद्भवे । शिथिलिभवने वापि चाष्टबन्धे विशेषतः ॥ ३१.३० ॥ जीर्णे स्तंभादिपतने देवागारेन वीकृते । अग्निस्पर्शे च बेरस्य मनुष्यप्रसवे तथा ॥ ३१.३१ ॥ सुथाकर्मणि सर्वत्र गर्भगेहादिके पुनः । बिंबेषु गर्भगेहे वा कृमिकीटादिदर्शने ॥ ३१.३२ ॥ हसने रोदने चैव भाषणे च विशेषतः । स्वेदशोणितयोर्वापि दर्शने वर्णसंक्षये ॥ ३१.३३ ॥ विमाने मण्डपे वाथ यत्र कुत्रापि वा हरेः । देवागारे समुत्पन्ने दोषेष्वेतेषु वा पृथक् ॥ ३१.३४ ॥ दुर्भिक्षे राष्ट्रसंक्षोभे दुर्निमित्तेषु चैव हि । दुस्स्वप्ने भूमिकंपे वा परराजाद्युपद्रवे ॥ ३१.३५ ॥ भूगुप्ते चोद्धृते बिंबे चिरमन्यालये स्थिते । अतिक्रम्य त्रिरात्रं तु देवे ग्रामान्तरे स्थिते ॥ ३१.३६ ॥ कुण्डगोलकसूताद्यैर्दीक्षितैरर्चने कृते । अनुक्तानि च कर्वाणि दुरितान्यद्भुतानि च ॥ ३१.३७ ॥ दृष्ट्वातु यजमानश्च ये तत्परिसरे जनाः । ग्रामस्थिता चनाश्चैव राजा राष्ट्रं च यत्नतः ॥ ३१.३८ ॥ ज्ञात्वा शास्त्रोक्तविधिना दोषजं भक्तितः फलम् । महासंप्रोक्षणं कुर्यान्महादोषापनुत्तये ॥ ३१.३९ ॥ महदोषेषु सर्वत्र महाशान्तिर्विथीयते । पूर्वं स्थापितबिंबस्य न साधारणहेतुना ॥ ३१.४० ॥ स्यात्पुनस्थ्सापनं तस्मान्महासंप्रोक्षणं चरेत् । महासंप्रोक्षणविधेर्नूतनस्थापनस्य च ॥ ३१.४१ ॥ स्वल्पो भेद इति प्रोक्तमृषिभिः काश्यपादिभिः । जलसंप्रोक्षणविधिं प्रवक्ष्यामि तपोधनाः ॥ ३१.४२ ॥ यजमानाभ्यनुज्ञातो गुरुस्स्नात्वा विधानतः । आलयाभिमुखे वापि दक्षिणे वा मनोरमे ॥ ३१.४३ ॥ स्थण्डिले सैकते शुद्धे पुण्याहाग्निमुखात्वरम् । वास्तुहोमावसाने च दोषदुष्टं तु यत्स्थलम् ॥ ३१.४४ ॥ पर्यग्निपञ्चगव्याभ्यां संस्क्रत्य विधिना बुधः । बिंबं पुरुषसूक्तेन कलशैरभिषिच्य च ॥ ३१.४५ ॥ षट्द्रोणधान्य राशौ तु पञ्चकुंभान्निधाय च । वस्त्रयुग्नेन संवेष्ट्य प्रतिमास्तेषु निक्षिपेत् ॥ ३१.४६ ॥ नालिकेराम्रपत्राद्यैरलङ्कृत्य पृथक्घटान् । पञ्चसूक्तं जपित्वैव पञ्चशान्तिभिरेव च ॥ ३१.४७ ॥ पञ्चमूर्तिभिरावाह्य समभ्यर्च्याष्टविग्रहैः । पश्चादग्निं परिस्तीर्य पञ्चसूक्तं हुनेत्सुधीः र् ॥ ३१.४८ ॥ इङ्कारादींश्च जुहुयादष्टाशीतिमतः परम् । पञ्चवारुणमन्त्रैश्च महाव्याहृतिभिस्सह ॥ ३१.४९ ॥ पश्चादग्निं विसृज्यैव गुरवे दक्षिणां ददेत् । निष्काहीनसुवर्णं च वस्त्राभरणकुण्डलान् ॥ ३१.५० ॥ पश्चात्कुंभजलेनैव प्रोक्षयित्वा समन्त्रकम् । प्रभूतं च निवेद्यैव नित्यार्चनमथाचरेत् ॥ ३१.५१ ॥ अनेन विधिना दोषा नश्यत्येव न संशयः । तद्बिंबे देवसान्निध्यं भवेदित्याह चाङ्गिराः ॥ ३१.५२ ॥ एतावानेव संप्रोक्तो जलसंप्रोक्षणक्रमः । लघुसंप्रोक्षणं कुर्याद्यजमानेन वै गुरुः ॥ ३१.५३ ॥ यथार्हं पूजितः पूर्वमारंभदिवसादधः । त्षहे वा द्वियहे वापि कृत्वा चैवाङ्कुरार्पणम् ॥ ३१.५४ ॥ औपासनाग्नौ श्वोभूते वास्तुहोमं विधाय च । पर्यग्नि पञ्चगव्याभ्यां शोधयित्वा समन्ततः ॥ ३१.५५ ॥ अभिषिच्य च देवेशमष्टोत्तरशतैर्घुटैः । शोथयित्वा विधानेन वस्तुवास्तुपरिच्छदान् ॥ ३१.५६ ॥ पश्चात्पद्माग्निमासाद्य कृताघारं विधानतः । कुंभपूजां ततः कुर्यात्सम्यक्ध्यानयुतो गुरुः ॥ ३१.५७ ॥ द्वात्रिंशत्प्रस्थसंपूर्णान् कुंभानाहृत्य शोभनान् । तन्तुना वेष्टयित्वा तु तोयैरापूर्य मन्त्रत ॥ ३१.५८ ॥ षड्भारधान्यरोशौ तु वेद्यां सप्तदश क्रमात् । वस्त्रयुग्मेन संवेष्ट्य प्रतिमास्तेषु निक्षिपेत् ॥ ३१.५९ ॥ निष्कत्रयकृतांस्तत्र नव रत्नानि यत्नतः । रत्नालाभे सुवर्णं वा प्रत्येकं निक्षिपेद्घटे ॥ ३१.६० ॥ गन्धपुष्पैस्समभ्यर्च्य नालिकेराम्रपल्लवैः । आयुधैःपञ्चभिस्तद्वत्तोरणैरष्टमङ्गलैः ॥ ३१.६१ ॥ अलङ्कृत्य गुरुर्धीमान्त्पृष्ट्वा कूर्चेन तान् घटान् । पञ्चसूक्तं पञ्चशान्तिं ततो द्वादशसूक्तकम् ॥ ३१.६२ ॥ सारस्वतादिसूक्तं च दिक्सूक्तं पञ्चवारुणम् । स्वस्तिसूक्तं जपित्वैव तथैवौषधिसूक्तकम् ॥ ३१.६३ ॥ नवमूर्तिभिरावाह्य देवीभ्यां सह पार्षदैः । द्वात्रिंशद्विग्रहैस्सम्यगभ्यर्च्य तु निवेदयेत् ॥ ३१.६४ ॥ पैण्डरीकाग्निमासाद्य परिषिच्य च पावकम् । पञ्चसूक्तेन जुहुयाद्व्यापकत्रयमन्त्रतः ॥ ३१.६५ ॥ अष्टोत्तरशतं तद्वदष्टाविंशतिरेव वा । रिङ्कारादींश्च जुहुयादष्टाशीतिमतः परम् ॥ ३१.६६ ॥ धातादिं मूलहोमं च पञ्चवारुणमेव च । हुत्वा कूश्माण्डहोमं च पञ्चवारुणमेव च ॥ ३१.६७ ॥ पङ्कजैर्बिल्वपत्रैर्वा विष्णुगायत्रिया ततः । अष्टोत्तरशतं हुत्वा पश्चादग्निं विसर्चयेत् ॥ ३१.६८ ॥ पश्चाद्गुरुः पूजितस्सन् वस्त्राभरणकुण्डलैः । कुंभमादाय शिरसो ग्राममालयमेव वा ॥ ३१.६९ ॥ प्रदक्षिणं परीत्याथ देवदेवस्य सन्निधौ । कूर्चेनादाय तत्तोयं प्रोक्षयेत्पञ्चमूर्तिभिः ॥ ३१.७० ॥ "शुची वो हव्य"मन्त्रेण प्रोक्षयेत्सर्वमन्दिरम् । उपचारैस्समभ्यर्च्य "क्षमऽऽस्वेति प्रणम्य च ॥ ३१.७१ ॥ महाहविः प्रभूतं वा देवेशाय निवेदयेत् । ब्राह्मणानां सहस्रं च भोजयेद्गुरुणा सह ॥ ३१.७२ ॥ गुरवे दक्षिणां दद्यात्सुवर्णं पञ्चनिष्ककम् । प्रदद्याद्भूमिमिष्टां च प्रोन्मिषत्सस्यमालिनीम् ॥ ३१.७३ ॥ दशदानं ततः कृत्वा नित्यार्चनमथाचरेत् । एवं यः कुरुते भक्त्या लघुसंप्रोक्षणं हरेः ॥ ३१.७४ ॥ विष्णुसान्निध्यमाप्नोति दोषशान्तिश्च जायते । राजराष्ट्राभिवृद्धिश्च जगत्पुष्टिकरं भवेत् ॥ ३१.७५ ॥ लघुसंप्रोक्षणविधिर्मया प्रख्यापितः किल । काश्यपाद्यैश्च मुनिभिरेवमेव प्रचोदितः ॥ ३१.७६ ॥ महासंप्रोक्षण विधौ विशेषो वक्ष्यते मया । जलाधिवासरहितं नेत्रोन्मीलनवर्जनम् ॥ ३१.७७ ॥ प्रतिष्ठोक्तविधानेन सर्वं पूर्ववदाचरेत् । नेत्रयोस्तेजने तद्वद्दृष्टिदोषे विशेषतः ॥ ३१.७८ ॥ जलाधिवासनं कुर्यादक्ष्णोरुन्मीलनं पुनः । महाशान्तिविधानस्य विशेषोऽत्र प्रकीर्तितः ॥ ३१.७९ ॥ जङ्गमप्रतिमास्सर्वा अधिवासपुरस्सरम् । प्रोक्षयित्वा विधानेन देवं पूर्ववदर्चयेत् ॥ ३१.८० ॥ महानिमित्ते संप्राप्ते यजमानार्थितो गुरुः । प्रतिष्ठोक्तदिने विद्वानृत्विग्भिर्लक्षणान्वितैः ॥ ३१.८१ ॥ वस्त्रैराभरणैश्चापि पूर्वोक्तमिव भूषितः । प्रोक्षणादिवसात्सूर्वमङ्कुरार्पणमाचरेत् ॥ ३१.८२ ॥ द्रव्याण्यपि सुसंभृत्य यागशालां प्रविश्य च । कदलीपूगमालाद्यैः पताकाद्यैरलङ्कृताम् ॥ ३१.८३ ॥ तन्मध्येकल्पयेद्वेदिं शयनार्थं विधानतः । तस्यास्तु पूर्वदिग्भागे कुंभवेदिं सलक्षणम् ॥ ३१.८४ ॥ परितश्चाग्निकुण्डांश्च पैण्डरीकं च कारयेत् । देवालयं च संशोध्य मृष्टसिक्तोपलेपनैः ॥ ३१.८५ ॥ आचार्यस्सुप्रसन्नात्मा यजमानार्थितो मुहुः । स्नात्वास्नानविधानेन गायत्रीं च सहस्रशः ॥ ३१.८६ ॥ जप्त्वा द्वादशसूक्तानि पुण्याहमपि वाचयेत् । वास्तुहोमं ततः कृत्वा कुण्डे त्वौपासने गुरुः ॥ ३१.८७ ॥ पर्यग्नि पञ्चगव्याभ्यां संशोध्यैव च सर्वतः । गार्हपत्यादिकुण्डेषु क्रमादाघारमाचरेत् ॥ ३१.८८ ॥ पक्वबिंबसमाकारघटानां पञ्चविंशतिम् । तन्तुना त्रिवृता वेष्ट्य शोधयित्वा सुधूपितान् ॥ ३१.८९ ॥ आदाय मन्त्रवद्दिव्यं जलमाहृत्य यत्नतः । पूताभिरद्भिरापूर्य नालिकेराम्रपल्लवैः ॥ ३१.९० ॥ अलङ्कृत्य तथा कूर्चैर्गन्धपुष्पाक्षतादिभिः । यवैर्वाह्रीहिभिर्वाथ वेद्यां द्वादशभारकैः ॥ ३१.९१ ॥ आस्तीर्य तेषु संस्थाप्य पृथग्वस्त्रेण वेष्टयेत् । सौवर्णप्रतिमास्तत्र पञ्चनिष्ककृताः पृथक् ॥ ३१.९२ ॥ गजकूर्मादिरूपाणि नवरत्नादि च क्षिपेत् । ध्यानमार्गेण कुंभेषु मध्यमादिषु चक्रमात् ॥ ३१.९३ ॥ नवमूर्तिक्रमेणैव मन्त्रेणावाहयेद्गुरुः । वेद्यधस्थेषु कुंभेषु चें दादीनष्टदिक्पतीन् ॥ ३१.९४ ॥ आवाह्य गन्धपुष्पाद्यैस्समभ्यर्च्य निवेदयेत् । सहस्रकलशैस्स्नाप्य स्नपनोक्तप्रकारतः ॥ ३१.९५ ॥ सौवर्णं कौतुकं बद्ध्वा प्रतिष्ठोक्तविधानतः । शय्यावेदिं समभ्युक्ष्य पञ्चतल्पान् प्राकल्प्यच ॥ ३१.९६ ॥ शालिव्रीहियवैश्चापि षड्भारैश्च पृथक्पृथक् । तदर्धैस्तण्डुलैश्चाथ तदर्धैश्च तिलैस्तथा ॥ ३१.९७ ॥ उपर्युपरि चास्तीर्य चर्मजादीन् समास्तरेत् । शयने शाययेद्वेद्यामौत्सवं बिंबमुक्तवत् ॥ ३१.९८ ॥ कूर्चाधिवासं कुर्वीत ध्रुवमात्रं यदिक्रमात् । वेदानध्यापयेद्दिक्षु "ऋचां प्राचीऽऽरिति श्रुतिः ॥ ३१.९९ ॥ गार्हपत्यादिकुण्डेषु प्रतिष्ठोक्तविधानतः । ऋत्विग्भिः कारयेद्धोमं तत्तद्दैवत्यपूर्वकम् ॥ ३१.१०० ॥ गुरुस्सभ्याग्निमासाद्य परिषिच्य च पावकम् । पञ्चसूक्तं क्रमेणैव महाव्याहृतिपूर्वकम् ॥ ३१.१०१ ॥ व्यापकत्रयमन्त्रं च विष्णुगायत्रिया पुनः । अषोत्तरशतं हुत्वा व्याहृत्या च तथैव च ॥ ३१.१०२ ॥ ततोऽब्जाग्निं समासाद्य पञ्चसूक्तैस्सहैव तु । धातादिमूलहोमं च पञ्चवारुणसंयुतम् ॥ ३१.१०३ ॥ महाशान्त्युक्तमन्त्रांश्च त्रिरावर्त्य हुनेत्ततः । कुंभवेदिं समासाद्य समभ्यर्च्याष्टविग्रहैः ॥ ३१.१०४ ॥ स्पृष्ट्वा कूर्चेन तत्कुंभानृत्विग्भिस्सह वै गुरुः । आत्मसूक्तं जपित्वैव पञ्चसूक्तमतः परम् ॥ ३१.१०५ ॥ स्वस्तिसूक्तं च दौर्गं च रात्रिमेकाक्षरं तथा । अष्टदिक्पालसूक्तानि पञ्चशान्तिमतः परम् ॥ ३१.१०६ ॥ "आपो हिरण्यवर्णाऽऽभ्यां पावमानीभिरेव च । जप्त्वा द्वादशसूक्तं च ततस्सभ्यानले क्रमात् ॥ ३१.१०७ ॥ हौत्रप्रशसनं कुर्यात्सर्वं होत्तु पूर्ववत् । चतुर्मूर्तिक्रमेणैव सहस्राहुतिना सह ॥ ३१.१०८ ॥ "यद्देवाऽऽद्यैश्च कूश्माण्डैस्सर्वदैवत्यमन्त्रकैः । हुत्वातु दोषशान्त्यर्थं लोजैस्तद्वत्तिलैरपि ॥ ३१.१०९ ॥ सापूपैर्विष्णुगायत्षा हुत्वाकुण्डेषु पूर्ववत् । अष्टोत्तरशतं तद्वदष्टाविंशतिरेव वा ॥ ३१.११० ॥ परिषेगं ततः कृत्वा पैण्डरीके विशेषतः । पद्मैर्वा बिल्वपत्रैर्वा विष्णुगायत्रिया ततः ॥ ३१.१११ ॥ अषोत्तरसहस्रं तु घृतेनाप्लुत्य वै हुनेत् । पारमात्मिकमन्त्रैश्च रिङ्काराद्यैश्च यत्नतः ॥ ३१.११२ ॥ अष्टाशीतिं ततो हुत्वा महाव्याहृतिपूर्वकम् । हुत्वा तद्दोषनाशाय राजराष्ट्राभिवृद्धये ॥ ३१.११३ ॥ सभ्याग्निं पौण्डरीकाग्निं हित्वान्येष्वन्तहोमकम् ॥ ३१.११४ ॥ नृत्तगीतादिवाद्यैश्च रात्रिशेषं नयेद्गुरुः । प्रातस्स्नात्वा विधानेन कलशैस्स्नपनं चरेत् ॥ ३१.११५ ॥ पञ्चसूक्तैश्च संस्नाप्य पञ्चशान्तिसमन्वितम् । पश्चाद्देवमलङ्कृत्य सुवस्त्राभरणादिकैः ॥ ३१.११६ ॥ गन्धपुष्पैस्सुगन्धैश्च यापन्नेत्रमनःप्रियम् । मुहूर्ते समनुप्राप्ते कुंभमादाय देशिकः ॥ ३१.११७ ॥ स्वस्तिसूक्तं जपन् ग्राममालयं वा प्रदक्षिणम् । कृत्वा देवाग्रतः कुंभं ध्यान्यपीठे निवेशयेत् ॥ ३१.११८ ॥ यजमानेन शक्त्यावै गुरुस्संपूजितस्तदा । कूर्यादनन्तरोक्तांश्च संस्कारान् भगवत्प्रियान् ॥ ३१.११९ ॥ वस्त्रेराभरणैश्शुभ्रैः कुण्डलैश्च विशेषतः । यजमानस्सुसंपूज्य पशुभूम्यादिभिर्गुरुम् ॥ ३१.१२० ॥ गुरवे दक्षिणां दद्यान्निष्काणामेकविंशतिम् । ऋत्विग्भ्यश्च तथा दद्यात्सुप्रीतो भगवान् हरिः ॥ ३१.१२१ ॥ गुरुः पश्चात्समावाह्य समभ्यर्च्याष्टविग्रहैः । महाहविर्नि वेद्यैन पायसापूपसंयुतम् ॥ ३१.१२२ ॥ साज्यं सव्यञ्जनं दत्वा मुखवासं निवेदयेत् । पुष्पाञ्जलिं ततो दत्वा "क्षय"स्वेति प्रणम्य च ॥ ३१.१२३ ॥ सहस्रं ब्राह्मणानां च भोजयेच्छान्तिहेतवे । दशदानं विशेषेण देवप्रीतिकं भवेत् ॥ ३१.१२४ ॥ एवमाद्वादशाब्दात्तु प्रतिष्ठामाचरेत्ततः । पुनस्थ्सापनसंस्कारात्प्रायश्चित्तं न हीतरत् ॥ ३१.१२५ ॥ तस्मात्सर्वप्रयत्नेन शास्त्रोक्तं सर्वमाचरेत् । एवं यःकुरुते भक्त्या विष्णोस्संप्रोक्षणत्रयम् ॥ ३१.१२६ ॥ प्रतिष्ठाफलमासाद्य वैष्णवं लोकमाप्नुयात् ॥ ३१.१२७ ॥ इति श्रीवैखानसे भगवच्छास्त्रे भृगुप्रोक्तायां संहितायां प्रकीर्णाधिकारे एकत्रिंशोऽध्यायः. _____________________________________________________________ अथद्वात्रिंशोऽध्यायः. प्रकीर्णकम्. अतःपरं प्रवक्ष्यामि ज्येष्ठायामुत्सवक्रमम् । ज्येष्ठे मासि तु संप्राप्ते ज्येष्ठानक्षत्र संयुते ॥ ३२.१ ॥ विष्णोरेव विशेषस्स्यात्सुगन्धं तैलमाहरेत् । तैलक्रमं प्रवक्ष्यामि श्रुणुध्वं मुनिपुङ्गवाः ॥ ३२.२ ॥ यागशालां प्रकल्प्यैव सर्वालङ्कालसंयुताम् । सभ्यं च पैण्डरीकं च कारयित्वा सलक्षणम् ॥ ३२.३ ॥ तद्दिनस्य तु पूर्वेद्युस्तृतीये पञ्चमेऽपि वा । सप्तमेऽहनि वा चापि अङ्कुरार्पणमाचरेत् ॥ ३२.४ ॥ आघारं विधिवत्कृत्वा सर्वकार्यमदः परम् । वेद्यास्तथोत्तरे पार्श्वे भूम्यामपटमाचरेत् ॥ ३२.५ ॥ चतुस्तालप्रमाणेव विस्तारं निम्नमेव च । निम्नेतु विन्यसेद्भाण्डं द्विद्रोणपरिमाणकम् ॥ ३२.६ ॥ "भूः प्रति"ष्ठेति मन्त्रेण निम्ने भाण्डं सुनिक्षिपेत् । मलयागुरुदारूणि देवदारु तथैव च ॥ ३२.७ ॥ यानि चात्र सुगन्धीनि देवयोग्यानि तानि वै । गुग्गुलं च समाहृत्य मर्दयित्वासकृत्सकृत् ॥ ३२.८ ॥ विष्णुऽगायत्रिया भाण्डे तानि द्रव्याणि निक्षिवेत् । शरावेण पिधायाथ मृदा च परिलेपयेत् ॥ ३२.९ ॥ गोकरीषाणि काष्ठानि तस्योपरि विनिक्षिपेत् । मन्दाग्निना पचेत्तत्तु यावत्तैलागमं भवेत् ॥ ३२.१० ॥ तावत्कालं पचेद्विद्वान् तैलमाहृत्य संभृतम् । वासितानि तु वस्तूनि परिहृत्य तु तत्र वै ॥ ३२.११ ॥ सुगन्धिदैलभाण्डं च ध्यान्यपीठोपरि न्यसेत् । पूर्वोक्तेनैव मन्त्रेण तन्तुना परिवेष्टयेत् ॥ ३२.१२ ॥ पितॄन् सोमं तथाभ्यर्च्य वनत्पतिमतः परम् । तैले तस्मिन् विधानेन अर्घ्यान्तमभिपूजयेत् ॥ ३२.१३ ॥ वैष्णवं विष्णुसूक्तं च नरसूक्तं तथैव च । जप्त्वातु विष्णुगायत्रीमष्टोत्तरसहस्रकम् ॥ ३२.१४ ॥ आचार्यस्त्वरितो गत्वा सभ्याग्नेस्तु समीपतः । द्वितालविस्तृतं वृत्तं चतुरङ्गुलमुन्नतम् ॥ ३२.१५ ॥ कूर्माकृतिवदाकारं बिल्वाद्यैः परिकल्पितम् ॥ ३२.१६ ॥ प्रतिष्ठायामुत्सवे च जपहोमार्चनादिषु । देवकार्येषु सर्वेषु तथान्येषु च कर्मसु ॥ ३२.१७ ॥ कूर्मपीठं तु गृह्णीयादन्यथा निष्फलं भवेत् । असीनः कूर्मपीठे तु सभ्याग्नौ जुहुयात्तथा ॥ ३२.१८ ॥ वैष्णवं विष्णुसूक्तं च नरसूक्तं तथेव च । जुहुयात्सर्वदैवत्यं पारमात्मिकमेव च ॥ ३२.१९ ॥ महाव्याहृतिभिर्हुत्वा अन्तहोमं समाचरेत् । प्रणिध्यां शङ्खपात्रे वा अग्निमारोपयेत्सुधीः? ॥ ३२.२० ॥ तैलस्यालेपनात्पूर्वं ध्रुवादग्निं समाहरेत् । स्रग्वस्त्रकुण्डलाद्यैश्च आचार्यं पूजयेत्ततः ॥ ३२.२१ ॥ परिचारकमाहूय यथार्हं पूज्य तं ततः । उष्णीषं धारयित्वातं परिचारकमूर्धनि ॥ ३२.२२ ॥ सुगन्धितैलभाण्डं तु यत्नेनापि विनिक्षिपेत् । शनैश्सनैश्च गत्वा तु सर्ववाद्यसमन्वितम् ॥ ३२.२३ ॥ सर्वालङ्कारसंयुक्तं ब्रह्मघोषसमन्वितम् । वीथिं प्रदक्षिणीकृत्य देवस्याग्रेतु निक्षिपेत् ॥ ३२.२४ ॥ अर्घ्यान्तमभिपूज्यैव देवेशं संप्रणम्य च । वैष्णवं विष्णुसूक्तं च नरसूक्तं जपेत्क्रमात् ॥ ३२.२५ ॥ तैलेनालेपयेद्देवमाचार्य स्त्वरितस्तथा । देवीभ्यां च ततः पश्चात्तत्तन्मन्त्रेण लेपयेत् ॥ ३२.२६ ॥ सर्वेषां परिवाराणां तत्तन्मन्त्रैश्च कारयेत् । आचार्यस्त्वरितोगत्वा चौत्सवस्य समीपतः ॥ ३२.२७ ॥ "परिलिखितऽमिति मन्त्रेण कवचं परिशोधयेत् । जीर्णे भिन्ने च कवचे शिल्पिनैन सुसन्नयेत् ॥ ३२.२८ ॥ प्रक्षाल्य पञ्चगव्येन जलेन परिशोधयेत् । कृत्वापि वास्तुशुद्धिं च यथोक्तां निष्कृतिं चरेत् ॥ ३२.२९ ॥ विष्णोर्नुकादिमन्त्रैश्च संदध्यात्कवचं तथा । दृढीकृत्य तु पूर्वोक्तं यत्नेन परिकल्पयेत् ॥ ३२.३० ॥ सहस्रकलशैर्देवं स्नापयित्वा यथाविधे । नित्यपूजाविधानेन देवमाराध्य पूर्ववत् ॥ ३२.३१ ॥ महाहविःप्रभूतं वा पायसं च निवेदयेत् । "क्षमस्वेऽऽति वदन् भूयः प्रणमेत्पुरुषोत्तमम् ॥ ३२.३२ ॥ ब्रह्मघोषं ततः कुर्याद्दद्यादाचार्यदक्षिणाम् । दिने पक्षे च मासे च तथा संनत्सरे चरेत् ॥ ३२.३३ ॥ यद्यद्रूपं तथाध्यायेत्तत्तद्बिंबेषु योजयेत् । तस्मात्सर्वप्रयत्नेन बिंबरक्षां समाचरेत् ॥ ३२.३४ ॥ पवित्रारोपणम् अथ वक्ष्ये विशेषण पवित्रारोपणं हरेः ॥ ३२.३५ ॥ सर्वदोषोपशमनं सर्वयज्ञफलप्रदम् । सर्वकामप्रदं चैव सर्वतुष्टिकरं परम् ॥ ३२.३६ ॥ सर्वलोकस्य वृद्ध्यर्थं सर्वलोकस्य शान्तिदम् । यद्यन्मन्त्रक्रियाहीनं द्रव्यहीनं च यत्कृतम् ॥ ३२.३७ ॥ तद्दोषशमनायैव पवित्रारोपणं चरेत् । पवित्रारोपणे हीने या पूजा निष्फला भवेत् ॥ ३२.३८ ॥ संक्षोभो जायते तत्र तस्माद्यत्नेन कारयेत् । आषाढे श्रावणे मासि प्रोष्ठपद्यां विशेषतः ॥ ३२.३९ ॥ द्वादश्यां शुक्लपक्षे तु विष्णुपञ्चदिनेऽथ वा । संसर्पमधिमासं च तिथिवारं च शून्यकम् ॥ ३२.४० ॥ दशम्येकादशीमिश्रं तद्दिनं च विवर्जयेत् । हरितिथ्यां च निर्दुष्टे पवित्रारोपणं शुभम् ॥ ३२.४१ ॥ नवाहं वाथ सप्ताहं पञ्चाहमथ वा त्षहम् । उक्तलक्षणसंपन्नमाचार्यं वरयेत्क्रमात् ॥ ३२.४२ ॥ ऋत्विजो वरयेत्तद्वच्छिष्यांश्च वरयेत्ततः । तद्दिनात्पूर्वरात्रौ तु देवेशं प्रार्थयेद्गुरुः ॥ ३२.४३ ॥ "भगवतो बलेऽऽनेति प्रोच्य नम्राङ्गस्सुसमाहितः । पाद्याद्यैश्च विशेषेण देवमभ्यर्च्य सत्वरः ॥ ३२.४४ ॥ प्रार्थनासूक्तमुच्चार्य वेदाध्ययनमारभेत् । परितो यागशालायाश्शिष्यैः परिवृतोगुरुः ॥ ३२.४५ ॥ चतुर्षु द्वारदेशेषु क्रमात्प्रागादिषु स्वयम् । चतुर्वेदान्दिमन्त्रांश्च शक्त्याध्ययनमाचरेत् ॥ ३२.४६ ॥ पुण्याहं च ततः कृत्वा मृत्संग्रहणमाचरेत् । अङ्कुरानल्पयित्वैव मुद्गान्नं च निवेदयेत् ॥ ३२.४७ ॥ औपासनाग्निकुण्डे तु आघारं विधिवद्यजेत् । वास्तुहोमं च हुत्वा तु गव्यं कृत्वा विधानतः ॥ ३२.४८ ॥ पर्यग्नि पञ्चगव्याभ्यां योगशालां विशोधयेत् । "तमेकनेमि"मित्युक्त्वा "आमावाजस्य"इत्यपि ॥ ३२.४९ ॥ "तन्तुन्तव्वऽऽन्निति प्रोच्य "यन्मेगर्भ"इतीरयन् । षड्भिश्च वैष्णवैर्मन्त्रैर्विष्णुगायत्रिया तथा ॥ ३२.५० ॥ पवित्राणि सुसंप्रोक्ष्य विधिना पञ्चगव्यकैः । "प्रतद्विष्णुस्तवत"इति "इदं विष्णु"रितीरयन् ॥ ३२.५१ ॥ विष्णुगायत्रिया पश्चात्पवित्रं संप्रणम्य च ॥ ३२.५२ ॥ उत्तमं स्वर्णसूत्रं च मध्यमं रौप्यसूत्रकम् । कार्पासमधमं गृह्य सर्वदोषविवर्जितम् ॥ ३२.५३ ॥ सुमङ्गलीभिर्युग्माभिर्ब्राह्मणीभिर्विशेषतः । अलाभे कन्यकाभिर्वा निर्मितं सूत्रमुत्तमम् ॥ ३२.५४ ॥ गृह्णीयाद्बिंबमानेन चाष्टोत्तरसहस्रकम् । ग्रन्थयोंगुष्ठमात्रास्स्युस्ताभिर्मालां च कारयेत् ॥ ३२.५५ ॥ वनमाला समाख्याता विष्णोःप्रियतमा भवेत् । विष्णुसूक्तं च जप्त्वातु "अणोरणीयाऽऽनिति ब्रुर्न ॥ ३२.५६ ॥ प्रोक्ष्य हारिद्रतोयेन "इमे धू"पेति धूपयेत् । चतुर्वेदादिमन्त्रैश्च तोरणाद्यैरलङ्कृतम् ॥ ३२.५७ ॥ नभ्याग्निकुण्डं कृत्वैव आघारं विधिवद्यजेत् ॥ ३२.५८ ॥ बिंबाध्यर्धप्रमाणेन शय्यावेदिं प्रकल्पयेत् । तिलतण्डुलधान्यैश्च धान्यपीठं प्रकल्प्य च ॥ ३२.५९ ॥ दर्भांस्तत्र समास्तीर्य चाण्डजादीनि चास्तरेत् । "प्रतद्विष्णुऽऽरिति प्रोच्य पवित्रं सन्निधाय च ॥ ३२.६० ॥ पञ्चमूर्तभिरावाह्य समभ्यर्च्य प्रणम्य च । जप्त्वा प्रतिसरं मन्त्रं धूपदीपादि दर्शयेत्? ॥ ३२.६१ ॥ "अतो देवा"दिना पश्चाद्देवेशं प्रार्थयेद्गुरुः । पाद्यादिभिस्समभ्यर्च्य धूपदीपादिदर्शयेत् ॥ ३२.६२ ॥ बद्ध्वा प्रतिसरं देवं श्रीभूम्यौ च तथैव च । आचार्यस्यर्त्विजां चैव बद्ध्वाप्रतिसरं तथा ॥ ३२.६३ ॥ "यद्वैष्णवं समुच्चार्य पवित्रं शयनं चरेत् । सूक्ष्मवस्त्रेण चाच्छाद्य चार्पयेत्पुष्बमक्षतम् ॥ ३२.६४ ॥ विष्णुसूक्तं च गोदानसूक्तं चैवात्मसूक्तकम् । एकाक्षरादिसूक्तं च वैष्णवं सूक्तमेव च ॥ ३२.६५ ॥ नृसूक्तं रुद्र सूक्तं च दुर्गासूक्तं तथैव च । सारस्वतं तथा सूक्तं रात्रिसूक्तमतः परम् ॥ ३२.६६ ॥ "ऋतं च सत्यं"जप्त्वैव "सहस्रशीर्षऽऽमेव च । श्रीभूसूक्तञ्च जप्त्वैव कारयेद्देशिकोत्तमः ॥ ३२.६७ ॥ दशानां चैव पञ्चानां सूक्तानां जप उत्तमम् । मध्यमं दशसूक्तानां पञ्चानामधमं भवेत् ॥ ३२.६८ ॥ प्रागादिदिक्षु च तथा विदिक्षु च चतुर्ष्वपि । क्रमाच्छान्तं खगाधीशं चक्रं शङ्खं तथैव च ॥ ३२.६९ ॥ विमानपालांश्चावाह्य समभ्यर्च्य विशेषतः । मुद्गान्नं विनिवेद्यैव प्रणामं मुहुराचरेत् ॥ ३२.७० ॥ सर्वरक्षाकरं चक्रं पवित्रोपरि चार्चयेत् । निवेदयेत्तदान्नेन शान्तादीनां बलिं ददेत् ॥ ३२.७१ ॥ पादौ प्रक्षाल्य चाचम्य यथोक्तेन विधानतः । हौत्रं प्रशंस्य विधिवदावाहन मथाचरेत् ॥ ३२.७२ ॥ जुष्टाकारं च कृत्वा तु जुहुयाच्च यथाक्रमम् । हावयेत्पञ्चभिस्सुक्तैस्तत्तद्दैवत्यमेव च ॥ ३२.७३ ॥ वश्चादग्निं विसृज्यैव रात्रिशेषं नयेद्गुरुः । ततः प्रभाते धर्मात्मा स्नात्वा स्नानविधानतः ॥ ३२.७४ ॥ नित्यपूजा विधेरन्ते देवेशं प्रार्थयेद्गुरुः । अष्टोत्तरशतैर्देवं स्नापयेत्कलशैस्ततः ॥ ३२.७५ ॥ अलङ्कृत्यच देवेशं धूपदीपादिकं ददेत् ॥ ३२.७६ ॥ औद्यन्तम्"इतिमन्त्रेण पवित्रं मूर्ध्नि धारयन् । सर्ववाद्यसमायुक्तं तो यधारापुरस्सरम् ॥ ३२.७७ ॥ प्रदक्षिणं शनैर्गत्वादेवाग्रेसन्निधायच । "सुर्य"च मन्त्रेण शतञ्जप्त्वा तु पल्लवम् ॥ ३२.७८ ॥ आचार्यस्सुप्रसन्नात्मा स्वात्मरक्षां विधायच । विष्णुसूक्तं समुच्चार्य कनिष्ठादि च रोपयेत् ॥ ३२.७९ ॥ पाद्याद्यैर्देवमभ्यर्च्य मुखवासान्तमादरात् । कुंभांस्तु सप्तदश च अलङ्कृत्य यथाविधि ॥ ३२.८० ॥ वेद्यामारोपयेत्कुंभान् स्वस्तिके सन्निधाय च । शय्यावेदि च तत्प्राच्यां सभ्यकुण्डं प्रकल्प्यच ॥ ३२.८१ ॥ अब्जाग्निकुण्डमाग्नेय्यामीशे चौपाससं तथा । औपासनाग्निकुण्डे तु आघारं विधिवद्यजेत् ॥ ३२.२ ॥ शय्यावेद्यास्तूत्तरे च त्रिहस्तायतविस्तृताम् । चतुरश्रां समां कृत्वायन्त्रवेदिं सलक्षणम् ॥ ३२.३ ॥ पञ्चवर्णैर्विशेषेण यन्त्रं विख्य मनोहरम् । अथ यन्त्रं प्रवक्ष्यामि श्रुणुध्वं मुनिसत्तमाः ॥ ३२.४ ॥ सर्वरक्षाकरसुदर्शन यन्त्रः:- आदौ षट्कोणं विलिख्य तन्मध्ये साध्यनाम विलिख्य ओं क्ष्राम्, ह्रीम्, श्रीम्, विलिख्य, तत्पार्श्वयोः, इर्म्, इम्, इति दृष्टिबीजं, उम्, ऊम्, इति श्रोत्रबीजं च विलिख्य, षट्कोणेषु, सहस्रारहुं फट् इति सुदर्शनषडक्षरीं विलिख्य, कोणसंधौ ओं हं लं रं यम्? लिखित्वा, तद्बहिर्वृत्तमष्टदलं विलिख्य, दलेषु ओं न म स्सु दर्श ना य इति विलिख्य, दलसंधौ ओं ज य ज य नृ सिं ह इति विलिख्य, तद्बहिर्वृत्तं षोदशदलं विलिख्य, दलमध्ये ओं न मो भ ग व ते महा सु दर्श नाय स्वाहा इति विलिख्य, दलसंधौ ओं हुं न मो भ ग व ते व ज्र व रा हा य स्वा हा इति विलिख्य, तदुपरि वृत्तद्वयं वृत्तद्वयमध्ये अकारादिक्षकारान्तं मातृकावर्णान् विलिख्य, तदुपरि भूपुरद्वयं चतुष्कोणं विलिख्य, चतुर्द्वारे ओमां ह्रीं क्रोमिति विलिख्य, तत्तद्दिग्देवताबीजानि लिखित्वा, लं रं हं षं वं यं सं शमिति बीजं लिखित्वा, आग्नेया दीशानान्तं प्राणप्रतिष्ठामन्त्रं, मन्त्रराजगायत्रीं, यन्त्रराजगायत्रीं, चविलिख्य, तन्मन्त्रेणावाह्यभ्यर्च्य सुदर्शनमूल मन्त्रं दशसहस्रं जपित्वा, तद्ग्रायत्षा तद्दशांशं जपित्वा मन्त्रराजं च दशांशं जपित्वा तद्दशांशं तर्पणं तद्दशांशं होमं तद्दशांशं ब्राह्मणभोजनं कारयेत्. यन्त्रदशाङ्गम्:- बीजं प्राणं च शक्तिश्च दृष्टिर्वश्यादिकं तथा मन्त्रयन्त्रस्य गायत्री बीजस्थापनमेव च भूतदिक्पालबीजं च यन्त्रस्याङ्गानि वै दश. यन्त्रगायत्री:- यन्त्रराजाय विद्महे महायन्त्राय धीमहि तन्नो यन्त्रः प्रचोदयात्. सुदर्शनगायत्री:- उग्रं वीरं महाविष्णुं ज्वलन्तं सर्वतोमुखम् नृसिंहं भीषणं भद्रं मत्युमृत्युं नमाम्यहम् तत्र सर्वत्रानुक्रमणिकासु यन्त्रस्यास्य पाठोदृश्यते. मूलग्रन्थेत्वस्य मातृकाकोशेन दृश्यते. तथापि बहूनां मातृकाकोशानामनुपलं भादस्यस्थितिरत्रऽशङ्कितापि निवेश्यते. परस्तीर्य विधानेन पावकं विधिवद्यजेत् ॥ ३२.८२ ॥ लाजापूपै राज्य मिश्रैर्मूलमन्त्रं समुच्चरन् । अष्टात्तरशतेनैव होमयेद्देशिकोत्तमः ॥ ३२.८३ ॥ पुरुषसूक्तं च जुहुयात्ततो द्वात्रिंशसंख्यया । पश्चादग्निं परिस्तीर्य "क्षयऽऽस्वेति प्रणम्य च ॥ ३२.८४ ॥ एवं प्रतिदिनं कुर्यादन्ते देवं तु रोपयेत् । सायं संध्यामुपासित्वा यागशालां प्रविश्य च ॥ ३२.८५ ॥ सभ्याग्निं पैण्डरीकाग्निं चासाद्याघारमाचरेत् । अब्जाग्नौ शान्तिहोमं च हुत्वैव गुरुरत्वरः ॥ ३२.८६ ॥ कुंभं विना महाशान्तिहोमं के चिद्वदन्तिहि । वेद्यां तु पुरतस्तिष्ठन् प्राणायामादिकं चरेत् ॥ ३२.८७ ॥ नवमूर्तिभिरावाह्य दिक्पालानावहेत्क्रमात् । अष्टोपचारैरभ्यर्छ्य मुद्गान्नं विनिवेदयेत् ॥ ३२.८८ ॥ पानीयाचमनं दत्वा मुखवासं ददेत्ततः । "आपो वा"इति मन्त्रेण पवित्रं धारयेद्घटम् ॥ ३२.८९ ॥ "अग्नावग्निऽऽरिति प्रोच्य पवित्रं चाग्निकुण्डके । कुण्डस्यैव तु मानेन समलङ्कृत्य पावकम् ॥ ३२.९० ॥ "पवित्रन्तु"इति प्रोच्य पवित्रं धारयेद्गुरुः । समिन्थ्यैव तु सभ्याग्निं परिषिच्य विधानतः ॥ ३२.९१ ॥ हौत्रं प्रशंस्य विधिवत्समिद्भिर्हावयेद्गुरुः । तदालयगतान् श्चैव देवानावाहयेत्क्रमात् ॥ ३२.९२ ॥ जुष्टाकारं ततः पश्चात्स्वाहाकालं ततः परम् । विष्णुसूक्तं सुहुत्वा तु पुरुषसूक्तमतः परम् ॥ ३२.९३ ॥ चरुं लाजांस्तथापूपानाज्यमिश्रांश्च हावयेत् । पश्चात्तु वैष्णवैर्मन्त्रैश्चतमष्टोत्तरं यजेर्त् ॥ ३२.९४ ॥ इङ्कारादींस्ततः पश्चात्पारमात्मिकसंयुतम् । अष्टाशीतिं ततो हुत्वा तत्तद्दैवत्यमेव च ॥ ३२.९५ ॥ सर्वदैवत्यमन्त्रांश्च धातादीन् पञ्च वारुणम् । मूलहोमं ततो हुत्वा तथान्ते परिषिच्य च ॥ ३२.९६ ॥ यागशालाचतुर्द्वारे चतुर्वेदानथोच्चरेत् । ऐशान्यां तु विशेषेण जपेदष्टाक्षरं मनुम् ॥ ३२.९७ ॥ द्वादशाक्षरमन्त्रं च गायत्रीं वैष्णवं तथा । नारायणाख्यगायत्रीं पारमात्मिकमित्यपि ॥ ३२.९८ ॥ व्यापकत्रयसंयुक्तं विष्णुगायत्रिया युतम् । ततश्च वैष्णवं जप्त्वा "यो वा भू"तेति पञ्चकम् ॥ ३२.९९ ॥ पुष्बाञ्जलिं जपित्वैव न्यसेद्देवस्य पादयोः । नृत्तगीतादिवाद्यैश्च रात्रिशेषं नयेद्गुरुः ॥ ३२.१०० ॥ ततः प्रभाते धर्मात्मा स्नात्वा संध्यामुपास्य च । यागशालां प्रविश्यैव देवेशं प्रार्थयेत्ततः ॥ ३२.१०१ ॥ "भूरग्नय"इति प्रोच्य वेदिं संप्रोक्ष्य चात्वरः । कुंभाराधनहोमादीन् सर्वं पूर्ववदाचरेत् ॥ ३२.१०२ ॥ कुंभमाराधयेत्पूर्वं बिंबपूजा त्वनन्तरम् । पश्चाद्धोमं प्रकुर्वीत बलिदानं ततः परम् ॥ ३२.१०३ ॥ एवं कुर्याद्विधानेन दिनं प्रति गुरूत्तमः । समाप्ते तु दिने सायं पूर्णाहुति मथाचरेत् ॥ ३२.१०४ ॥ तदग्निं त्रियहादूर्ध्वं साधयेदग्निकुण्डके? ॥ ३२.१०५ ॥ कुंभमादाय शिरसा तोयधारापुरस्सरम् । प्रदक्षिणं शनैर्गत्वा देवाग्रे सन्निधाय च ॥ ३२.१०६ ॥ "हिरण्य पवमाना"द्यैःकुंभतोयेन प्रोक्षयेत् । देवमभ्यर्च्य पाद्याद्यैः प्रभूतं च निवेदयेत् ॥ ३२.१०७ ॥ पानीयाचमलं दत्वा मुखवासं ददेत्पुनः । क्षमामन्त्रं समुच्चार्य "क्षम"स्वेति नमेन्मुहुः ॥ ३२.१०८ ॥ यजमानोऽपि शुद्धात्मा भक्तिनम्रस्समाहितः । आचार्यं पूजयेत्तत्र गन्धमार्यानुलेपनैः ॥ ३२.१०९ ॥ पञ्चाङ्गभूषणैश्चैव दुकूलैश्च नवैस्तथा । ततो गुरुः प्रसन्नात्मा प्रयुञ्ज्यादाशिषस्तदा ॥ ३२.११० ॥ तदुक्तं भगवत्प्रोक्तं प्रतिगृह्णीयुरादरात् । एवं कुर्वीत प्रत्यब्दं पवित्रारोपणं हरेः ॥ ३२.१११ ॥ इहलोके सुखीभूत्वा स याति परमां गतिम् । प्रियतां भगवान्विष्णुः प्रार्थनासूक्तमुच्यते ॥ ३२.११२ ॥ "कनिक्रदाऽऽपिमन्त्राश्च शाकुनं सूक्तमीरितम् । "स्वस्तिनो मिमीऽऽतेत्युक्त्वा स्वस्तिसूक्तमिति स्मृतम् ॥ ३२.११३ ॥ "शुद्धा इमे पशव"इति गोसूक्तं समुदाहृतम् । "ऋतं च सत्यं"चेत्यादि अघमर्षणमुच्यते ॥ ३२.११४ ॥ "अणोरणीया"नित्युक्त्वासूक्तं प्रोक्षणमीरितम् । "अपो हिरण्यवर्णाश्च पवमान"इति त्रयः ॥ ३२.११५ ॥ प्रोक्षणं सूक्तमिति तु केचिद्वैकल्पिकं जगुः । "या जाता"इति मन्त्राश्च ओषधीसूक्तमुच्यते ॥ ३२.११६ ॥ "कृणुष्व पाज"इत्यादि सूक्तं प्रतिसराह्वयम् । ("अतोदेवाऽऽदि षड्भिस्तु वैष्णवं सूक्तमुच्यतेः) ॥ ३२.११७ ॥ "अतोदेवादि षण्मन्त्राऽऽष्,ड्वैष्णवपदाह्वयाः । "विष्णोर्नुऽऽकादि षण्मन्त्रा विष्णुसूक्तमुदीरितम् ॥ ३२.११८ ॥ "सहस्रशीर्षा पुरुष"इति पौरुषसूक्तकम् । "हिरण्य वर्णा"इत्यादि श्रीसूक्तं सर्वकामदम् ॥ ३२.११९ ॥ "भूमिर्भूम्नेऽऽत्यादिमन्त्रा भूमिसूक्तमुदाहृतम् । "उप श्वासय"इत्यादि दुन्दुभीसूक्तमुच्यते ॥ ३२.१२० ॥ "सुपर्णोऽसि गरुत्माऽऽनित्युक्तं सूक्तं च गारुडम् । "हिरण्यगर्भऽऽइत्यादि ब्रह्मसूक्तमुधृतम् ॥ ३२.१२१ ॥ "इन्द्रं वो विश्वत"इति इन्द्रसूक्तमिहोच्यते । "अग्ने नयेत्याऽऽदिषड्भिरग्निसूक्तं प्रचक्षते ॥ ३२.१२२ ॥ "आयातुदेव"इत्यादियमसूक्तंप्रकीर्तितम् । "नमस्सुते निरृते"सूक्तंनैरृतमुच्यते ॥ ३२.१२३ ॥ "अस्तभ्नाद्यामृषभऽऽइति वारुणसूक्तकम् । "पीवोन्नांरयि वृधस्सुमेधाऽऽइति वायवम् ॥ ३२.१२४ ॥ "अद्भ्यस्तिरोधाऽऽइत्यादि कौवेरं सूक्तमुच्यते । "स्तुहि श्रुतं गर्तऽऽइति रुद्रसूक्तं प्रकीर्तितम् ॥ ३२.१२५ ॥ "ओमासश्चर्षणीऽऽत्यादि सूक्तं सारस्वतं भवेत् । "विश्वजितेधनऽऽइति विश्वजित्सूक्तमुच्यते ॥ ३२.१२६ ॥ "रात्री व्यख्यऽऽदित्यादि रात्रिसूक्तमुदाहृतम् । "जातवेदसऽऽइत्यादि षड्दुर्गासूक्तमुच्यते ॥ ३२.१२७ ॥ "आ गोदानाऽऽदिति प्रोच्यगोदानं सूक्तमुच्यते । "एकाक्षरम्"इतिप्रोच्य सूक्तमेकाक्षरादिकम् ॥ ३२.१२८ ॥ "आत्मात्मा परमेत्यादि आत्मसूक्तं प्रकीर्तितम् ॥ ३२.१२९ ॥ वैष्णवं विष्णुसूक्तं च पुरुष सूक्तमतः परम् । श्रीभूसूक्तं च पञ्चैतं पञ्चसूक्तमिहोच्यते ॥ ३२.१३० ॥ विष्णुसूक्तं नृसूक्तं च श्रीभूसूक्तमतः परम् । एकाक्षरादि सूक्तं च पञ्चसूक्तं जगुःपरे ॥ ३२.१३१ ॥ विष्णुसूक्तं नृसूक्तं च श्रीभूसूक्तं च वैष्णवम् । एकाक्षरादिसूक्तं च विष्णुगायत्रिया सहा ॥ ३२.१३२ ॥ आहत्य सप्तभिश्चैतैस्सप्तसूक्तं समीरितम् । रुद्रसूक्तं ध्रुवसूक्तं दुर्गासूक्तं ततः परम् ॥ ३२.१३३ ॥ रात्रिसूक्तं तथा सूक्तं सारस्वतमपि क्रमात् । विश्वजित्सूक्तमथ च सहस्रशीर्षमित्यपि ॥ ३२.१३४ ॥ अघमर्षणसूक्तं च गोदानं सूक्तमेव च । आत्मसूक्तेन संयुक्तं दशमूक्तमुदाहृतम् ॥ ३२.१३५ ॥ दशसूक्तं पञ्चसूक्तं कृत्वा संहृतमेव च एवं । भवेत्पञ्च दशसूक्तमिति संज्ञा प्रभाषिता ॥ ३२.१३६ ॥ अतःपरं प्रवक्ष्यामि श्रुणुध्वं मुनिसत्तमाः । मण्डलाराधनं नित्यं पुण्याहं स्नपनं चरेत् ॥ ३२.१३७ ॥ चत्पारिंशद्धिनादूर्ध्वं मण्डलं दिनपञ्चकम् । पुण्याहं विधिवत्कृत्वा व्रीहिभिस्तण्डुलोपरि ॥ ३२.१३८ ॥ नवं कलशमादाय पूर्वोक्तेन विधानतः । समभ्यर्च्य जपं कुर्याद्ब्राह्मणैर्ब्रह्मवादिभिः ॥ ३२.१३९ ॥ वैष्णवं विष्णुसूक्तं च पुरुषसूक्तमतः परम् । श्रीभूसूक्तं तथा पञ्चशान्तिं चैव पृथक्पृथक् ॥ ३२.१४० ॥ चतुरावर्त्य जप्त्वा तु स्नापयेद्ध्रुवमच्युतम् । तथैव कौतुकादींश्च स्नापयेद्विधिना बुधः ॥ ३२.१४१ ॥ दध्योदनं गुडान्नं च पायसं च विशेषतः । निवेद्य देवदेवस्य मुखवासं प्रदापयेत् ॥ ३२.१४२ ॥ आचार्यदक्षिणां दद्यादृत्विजां च तथैव च । प्रतिष्ठादिनमारभ्य मण्डलान्तं दिनं प्रति ॥ ३२.१४३ ॥ एवमेव क्रमेणैव कारयेत्तु विशेषतः । मण्डलार्धं तु कुर्याच्छेन्मध्यमं तत्प्रचक्षते ॥ ३२.१४४ ॥ मण्डलान्ते विशेषेण कारयेद्द्विजभोजनम् । सभ्याग्निकुण्डं कृत्वैव पुण्याहमसि वाचयेत् ॥ ३२.१४५ ॥ आघारं विधिवद्धुत्वा वैष्णवं सूक्तमेव च । विष्णुसूक्तं ततो हुत्वा पुरुषसूक्त समन्वितम् ॥ ३२.१४६ ॥ श्रीभूसूक्तं समुच्चार्य पञ्चशान्तिमतः परम् । पारमात्मिकमीङ्काराद्यष्टाशीतिं क्रमाद्धुनेत् ॥ ३२.१४७ ॥ अष्टाक्षरं समुच्चार्य तथैव द्वादशाक्षरम् । पूर्णाहुतिं ततो हुत्वा अन्तहोमश्चहूयते ॥ ३२.१४८ ॥ संस्नापयेच्छ कलशैरष्टाधिकशतैःक्रमात् । वर्णयुक्तन्ध्रुवं बेरं प्राङ्गयेत्(?) स्नापयेन्नतु ॥ ३२.१४९ ॥ द्वादशाराधनं कुर्यान्मध्ये मध्ये विधानतः । ग्रामं प्रदक्षिणीकृत्य सर्ववाद्यसमन्वितम् ॥ ३२.१५० ॥ पक्षिराजोपरि स्थाप्य रक्षादीपं च दर्शयेत् । जीवस्थाने सुसंस्थाप्य प्रणामं कारयेत्ततः ॥ ३२.१५१ ॥ एवं यःकुरुते भक्त्या मण्डलाराधनं हरेः । सर्वान् कामानवाप्यैव स याति परमाङ्गतिम् ॥ ३२.१५२ ॥ इति श्रीवैखानसे भगवच्छास्त्रे भृगुप्रोक्तायां संहितायां प्रकीर्णाधिकारे. द्वात्रिंशोऽध्यायः. _____________________________________________________________ अथत्रयस्त्रिंशोऽध्यायः. अर्चावतारमहत्त्वम्. अथ वक्ष्ये विशेषेण देवदेवस्य शार्ङ्गिणः । पञ्चधावस्थितं रूपं परव्यूहादिभेदतः ॥ ३३.१ ॥ अनुग्रहाय लोकानां भक्तानामनुकंपया । परव्यूहादिभेदेन देवदेवः प्रवर्तते ॥ ३३.२ ॥ आद्येन पररूपेण व्यूहाख्येनेतरेण तु । तथाविभवरूपेण नानाभावमुपेयुषा ॥ ३३.३ ॥ अन्तर्यामिस्वरूपेण चतुर्थेन तथा पुनः । अर्चावताररूपेण पञ्चधावस्थितो हरिः ॥ ३३.४ ॥ अनौपम मनिर्देस्यं पुनस्स भजते परम् । विश्वाप्यायनकं कान्त्या पूर्णेन्द्वयुतुल्यया ॥ ३३.५ ॥ परन्धाम परञ्ज्योतिस्सर्वशक्तिमयोऽमलः । निर्द्वन्द्वो निर्विकल्पोऽच्छोनित्योऽचिन्त्यस्सनातनः ॥ ३३.६ ॥ अप्रमेयो निराद्यन्तो दृश्योऽदृश्यो ह्यतीन्द्रियः । सुसूक्ष्मत्वादनिर्देश्यस्सर्वज्ञस्सदसद्विभुः ॥ ३३.७ ॥ आनादिमत्परं ब्रह्म सर्वहेयविवर्जितम् । व्यापि यत्सर्वभूतेषु स्थितं सदसतोः परम् ॥ ३३.८ ॥ शङ्खचक्रगदापद्मदिव्यायुधपरिष्कृतः । सहस्रादित्यसंकाशे पकमे व्योम्नि संस्थितः ॥ ३३.९ ॥ नित्यमुक्तैकसंभाव्यश्चतुर्भुजधरोहरिः । अन्यूनानतरिग्तैस्स्वैर्गुणैष्षड्भिरलङ्कृतः ॥ ३३.१० ॥ समस्समविभक्ताङ्गस्सर्वावयवसुन्दरः । दिव्यैराभरणैर्युक्तस्सुधाकल्लोलसंकुलैः ॥ ३३.११ ॥ श्रिया नित्यानपायिन्या सेव्यमानो जगत्पतिः ॥ ३३.१२ ॥ पञ्चधातु पुनर्व्यूहः प्रोच्यते श्रुतिसम्मतः । देवो विष्ण्वादिभेदेव पञ्चधा व्यवतिष्ठते ॥ ३३.१३ ॥ स वा एष पुरुषः पञ्चधा पञ्चात्मेति च श्रुतिः । तथा पोपूयमानः पञ्चभिस्स्वगुणैरिति ॥ ३३.१४ ॥ आदिमूर्तिस्तु पञ्चानां विष्णुर्भेदाश्च तस्यतु । चतस्रः पुरुषाद्यास्स्युर्मूर्तयो भिन्नलक्षणाः ॥ ३३.१५ ॥ तद्विष्णोश्श्रमापनुदाय चतुर्गुणाऽऽयेति चश्रुतिः । तस्माद्ब्रह्म चतुष्पादित्युच्यते वेदवेदिभिः ॥ ३३.१६ ॥ पादादर्धात्त्रिपादाच्च केवलाच्छक्तिभेदतः । क्रमेण धर्मज्ञानैश्वर्यवैराग्याख्यैर्गुणैर्युताः ॥ ३३.१७ ॥ भवन्तिमूर्तयस्तस्माच्चतस्रो विषयैर्निजैः । चातुरात्म्यादादिमूर्तेश्चतस्रस्तत्रमूर्तयः ॥ ३३.१८ ॥ विष्णुश्चैव महाविष्णुस्सदाविष्णुरिति क्रमात् । व्यापी नारायण इति तन्नामानि ततःक्रमात् ॥ ३३.१९ ॥ विष्णोरंशस्तु पुरुषो महाविष्णोस्तु सत्यकः । सदाविष्णोरच्युतस्स्याद्य्यापिनोऽंशोऽनिरुद्धकः ॥ ३३.२० ॥ धर्मादिभिर्ब्रह्मगुणैश्चतुर्धाभेद ईरितः । तृतीयं विभवाख्यन्तं विश्वमन्तरमध्यमम्? ॥ ३३.२१ ॥ नानाकारक्रियाकर्तृ रूपं वक्ष्ये महात्मनः । विभवा मत्स्यकूर्माद्या हयग्रीवादयो मताः ॥ ३३.२२ ॥ अन्तर्यामिस्वरूपं तु तुरीयमिदमुच्यते । नीवारशूकवत्तन्वी पीताभा स्यात्तनूपमा ॥ ३३.२३ ॥ तस्याश्शिखाया मध्ये परमात्मा व्यवस्थितः । इत्युक्तश्श्रुत्यभिहितो हृदयांबुजमध्यमे ॥ ३३.२४ ॥ ज्वलन्महाग्नौ विश्वार्चिर्ज्वालान्ते विश्वतो मुखे । आपादतलचूडाग्रं सन्तापयति सन्ततम् ॥ ३३.२५ ॥ शिखा तत्र च पीताभा तन्वी नीवारशूकवत् । मध्ये शिखायास्तस्याश्च ज्योतिः प्रज्वलितं महत् ॥ ३३.२६ ॥ स्वसंकल्पविशेषेण तप्तजांबूनदप्रभः । पीतांबरधरस्सौम्यस्सुप्रसन्नश्शुचिस्मितः ॥ ३३.२७ ॥ पद्माक्षो रक्तनेत्रास्यपाणिपादश्चतुर्भुजः । चक्रशङ्खाभयधरः कटिन्यस्तान्यहस्तकः ॥ ३३.२८ ॥ श्रीवत्सांको महाबाहुस्सर्वाभरणभूषितः । हृदि तिष्ठति सर्वात्मा श्रीभूमिभ्यां च पार्षदैः ॥ ३३.२९ ॥ भ्रामयन् सर्वभूतानि यन्त्रारूढानि मायया । अन्तर्यामीति विज्ञेयस्सर्वकारणकारणः ॥ ३३.३० ॥ अन्यदर्चास्वरूपं तु सर्वोत्तरफलप्रदम् । नित्यमुक्तोपभोग्यत्वात्परव्यूहात्मनोहरेः ॥ ३३.३१ ॥ तत्कालसन्निकृष्टैकलक्ष्यत्वाद्विभवात्मनः । विशुद्धैर्योगसंसिद्धैश्चिन्त्यत्वादन्तरात्मनः ॥ ३३.३२ ॥ अर्चात्मन्येव सर्वेषामधिकारो निरङ्कुशः । विशेषभक्तिहेतुत्वात्प्रतिमाराधनं परम् ॥ ३३.३३ ॥ अर्चावतारस्सर्वेषां बान्धवो भक्तवत्सलः । अर्चावतारविषये मयाप्युद्देशतस्तथा ॥ ३३.३४ ॥ उक्ता गुणा न शक्यन्ते वक्तुं वर्षशतैरपि । विचित्रा देहसंपत्तिरीश्वराय निवेदितुम् ॥ ३३.३५ ॥ कल्पिता ब्रह्मणा पूर्वं हस्तपादादिसंयुता । मुधैव जिह्वा कृष्णेति केशवेति न वक्ष्यति ॥ ३३.३६ ॥ मुधा चित्तं नतद्गामि यदन्यत्किमितोऽधिकम् । सा जिह्वा या हरिं स्तौति तच्चित्तं केशवार्पितम् ॥ ३३.३७ ॥ तत्कर्मचार्चनं तस्य तदन्यत्तु निरर्थकम् । सत्तामात्रं परं ब्रह्म विष्ण्वाख्यमविशेषणम् ॥ ३३.३८ ॥ दुर्विचिन्त्यं यतःपूर्वं तत्प्राप्त्यर्थमिहोच्यते । वातोर्मिचञ्चलं चित्तमनालंबनमस्थिरम् ॥ ३३.३९ ॥ सूक्ष्मत्वाद्ब्रह्मणोऽजस्य निग्राह्यं ग्राह्मधर्मणः । सम्यगभ्यस्यतोऽजस्रमुपबृंहितशक्तिमत् ॥ ३३.४० ॥ जन्मान्तरशतस्यापि ब्रह्मग्राह्येव जायते । यद्यस्तरायदोषेण नापकर्षो विचिन्त्यते ॥ ३३.४१ ॥ योगिनो योगरूढस्य तालाग्रात्पतनं यथा । तदाप्नोति परं ब्रह्मक्लेशेन महतापि च ॥ ३३.४२ ॥ जन्मान्तराभ्यासोद्धेन विज्ञानेन समाधिना । विष्ण्वाख्यं ब्रह्मदुष्प्रापं विषयाक्रान्तचेतसा ॥ ३३.४३ ॥ मनुष्येणाल्पसारेण तत्प्राप्तौ साधनं त्विदम् । सुरूपां प्रतिमां विष्णोः प्रसन्नवदनेक्षणाम् ॥ ३३.४४ ॥ कृत्वात्मनः प्रीतिकरीं सुवर्णरजतादिभिः । तामर्चयेत्तां व्रणमेत्तां नमेत्तां विचिन्तयेत् ॥ ३३.४५ ॥ विशत्यपास्तदोषस्तु तामेव ब्रह्मरूपिणीम् ॥ ३३.४६ ॥ इति श्रीवैखानसे भगवच्छास्त्रे भृगुप्रोक्तायां सहितायां प्रकीर्णाधिकारे त्रयस्त्रिंशोऽध्यायः. _____________________________________________________________ अथ चतुस्त्रिंशोऽध्यायः स्वयंव्यक्तादि स्थानपञ्चकम्. अत ऊर्ध्वं प्रवक्ष्यामि स्थलपञ्चककल्पनम् । देवदेवो महाबाहुर्हरिर्नारायणस्स्वयम् ॥ ३४.१ ॥ येन येन प्रकारेण आविरास्तेधरातले । अर्चावताररूपेण भक्तसौलभ्यहेतवे ॥ ३४.२ ॥ स्वयंव्यक्तं च दिव्यं च सैद्धं पौराणमेव च । पौरुषं चेति कथितं स्थलानां पञ्चकं बुधैः ॥ ३४.३ ॥ स्वयंव्यक्तं तु तत्प्रोक्तं यत्रासौ हरिव्ययः । स्वेच्छया लोकरक्षाये भूम्यामाविर्भवेत्स्वयम् ॥ ३४.४ ॥ न तत्र देवदेवस्य प्रतिष्ठा विधिसम्मता । न चापि कर्षणं नापि बिंबशुद्ध्यादिकाः क्रियाः ॥ ३४.५ ॥ बिंबेन सह देवेशस्सन्निधत्ते यतस्स्वयम् । यानदिच्छा वसेद्भूमौ तावत्कालं समर्चितः ॥ ३४.६ ॥ स्वयंव्यक्तस्थले पूजा सर्वलोकशुभप्रदा । स्वयंव्यक्तस्थलान्यत्र चत्वार्यासत भूतले ॥ ३४.७ ॥ यत्र वैखानसं शास्त्रमाश्रित्य परमं शुभम् । अर्चयामो जगद्योनिमहमन्ये च ते त्रयः ॥ ३४.८ ॥ मरीचिर्मन्धरे विष्णुमर्चयामास केशवम् । सर्वदेवोत्तमं देवं श्रीनिवासेऽत्रिरर्चयत् ॥ ३४.९ ॥ काश्यपो विष्ण्वधिष्ठाने शुभक्षेत्रेऽप्यहं भृगुः । यादृशीवर्तते पूजा या बिंबानां च संस्थितिः ॥ ३४.१० ॥ न किं चित्तामतिक्रम्य पूर्वोक्तां तु समाचरेत् । स्वयमाविरभूद्देवो यत्र भक्तानुकंपया ॥ ३४.११ ॥ कर्तव्यमखिलं तत्र तन्निदेशेन कल्प्यते । न वाप्युच्छास्त्रकरणं प्रवर्तयति माधवम् ॥ ३४.१२ ॥ तस्मात्सर्वप्रयत्नेन पूर्वैराचरितं चरेत् । अन्यथा चेत्तु कुर्वाणो देवायैवापराध्यति ॥ ३४.१३ ॥ यन्मायामोहितं सर्वं यस्यान्तं केऽपि नो विदुः । तस्य देवस्य माहात्म्यं वक्तुं शक्नोति को भुवि ॥ ३४.१४ ॥ यद्यदा चरितं तत्र तत्सर्वं शास्त्रमेव हि । तत्रापि च विशेषोऽस्ति प्रायश्चित्तादिदर्शने ॥ ३४.१५ ॥ सर्वं प्रामादिकं कुर्यात्तत्र शास्त्रं प्रवर्तकम् । श्रुतिस्मृती उभेतस्य परमाज्ञां वदन्ति ही ॥ ३४.१६ ॥ स्वयंव्यक्तस्थले पूजा सर्वलोकशूभावहा । स्वयं व्यक्तो जगन्नाथस्तादात्म्येन शिलादिषु ॥ ३४.१७ ॥ स्वयं भक्तजनाभीष्टान् विचार्यैव प्रयच्छति । न ह्यत्र साधनापेक्षा स्वयंन्यक्तस्ततो वरः ॥ ३४.१८ ॥ देवैः प्रतिष्ठितो यत्र हरिराविर्बभूव हि । तद्दिद्यस्थलमुद्दिष्टं देवो दिव्य उदीर्यते ॥ ३४.१९ ॥ स्मृता देवास्त्रयस्त्रिंशत्तावत्कोटीमिता अपि । सर्वे ते फलकामास्स्युर्वे प्रपद्यन्ते यथा हरिम् ॥ ३४.२० ॥ तांस्तथा भजते देवो यतोऽसौ करुणानिधिः । फलार्थिनो यदा देवाः प्रतिष्ठ्याप्य हरिं क्रमात् ॥ ३४.२१ ॥ समभ्यर्च्य च संप्राप्य वांभितं तदनन्तरम् । लोकानुग्रहहेतोर्वै तादृशं देवमन्दिरम् ॥ ३४.२२ ॥ चिरस्थायि च संकल्प्य यथार्हं समपूजयन् । दिव्यस्थलस्थदेवो हि देवानां सन्निधापनात् ॥ ३४.२३ ॥ अत्यन्तं पुष्टिवः प्रोक्तस्सर्वशान्तिकरस्सृतः । दिव्यस्थलस्थपूजा तु शतयोजनविस्तृतम् ॥ ३४.२४ ॥ पुनाति परितो देशं नात्र संदेह इष्यते । दिव्यस्थलानि कथितान्यसंख्येयानि भूतले ॥ ३४.२५ ॥ न हि देवास्स्वयं भूमाववतीर्य कलौ क्वचित् । प्रतिष्ठां देवदेवस्य कुर्वन्ति कुहिचिद्ध्रुवम् ॥ ३४.२६ ॥ दिव्यस्थलानि भूभागे कलौ तु विरलानि वै । भविष्यन्ति बहून्यत्र लुप्तबूजानि सत्तमाः ॥ ३४.२७ ॥ दिव्यस्थलकृता पूजा शास्त्रसिद्धा न संशयः । नोच्छास्त्रं तु प्रतिष्ठादि कुर्वन्तिदिवि देवताः ॥ ३४.२८ ॥ देवाश्च देवलोकेऽपि कृत्वा वैष्णवमन्दिरम् । आराध्य च जगन्नाथं प्राप्नुवन्ति फलं बहु ॥ ३४.२९ ॥ या तु भूमितले पूजा तादृशी दिविजा न वै । कर्मभूमिस्तु संप्रोक्ता भूमिर्द्यैर्न हि तत्समा ॥ ३४.३० ॥ संचिन्त्य पुण्यं पापं वा भूमौ लोकान्तरेनराः । गमिष्यन्तिततो ज्यायान् भूभागस्सर्वकर्मसु ॥ ३४.३१ ॥ ततो देवाः प्रतिष्ठाप्य चार्चयित्वा रमापतिम् । अर्चावताररूपेण स्वयं तीर्णाः पुनः पुनः ॥ ३४.३२ ॥ भूमिस्थानखिलान् जन्तून् तार्ययिष्यन्त्यनुग्रहात् । अतो विप्रास्सदा यज्ञैर्दानैश्च तपसा मुहुः ॥ ३४.३३ ॥ तोषयिष्यन्ति देवान्वै तेषामानृण्यहेतवे । देवा निसर्गरिपवो मनुष्येषु भवन्त्यपि ॥ ३४.३४ ॥ आराधनेन देवस्य चोपकुर्वन्ति मानवान् । इदमेव हरेः पूजाबलं संपादितं फलम् ॥ ३४.३५ ॥ सर्वेऽपि सात्त्विका यान्ति तुष्यन्ति स्वार्जितैः फलैः । न द्विष्यन्ति रिपून्वापि तत्रो दाहरणं सुराः ॥ ३४.३६ ॥ यथा च्यवनधर्मा स्यात्स्वर्गस्स्वर्गाश्रितोऽथ वा । तथादिन्यस्थलानिह न स्युश्शाश्वतिकानि तु ॥ ३४.३७ ॥ दिव्यस्थलेषु सर्वत्र दिव्येनैवागमेन तु । वैखानसेन पूजासीत्साहि श्रौती च सम्मता ॥ ३४.३८ ॥ प्रायश्चित्तोचितान्यत्र निमित्तानि यदातदा । शास्त्रोक्तं कारयेदेव नान्यथा कारयेद्विधिः ॥ ३४.३९ ॥ ये तु पूर्वार्जितैरेव तपोभिः परमात्मनि । रक्तात्मानस्तपस्सिद्धास्संकल्प्य स्वतपःफलम् ॥ ३४.४० ॥ देवदेवं जगन्नाथं नारायणमनायम् । प्रतिष्ठाप्य क्वचिद्बिंबे समभ्यर्च्य विशेषतः ॥ ३४.४१ ॥ उज्जीवनाय लाकानां प्रदास्यन्तीह पूजनम् । स देशस्सैद्ध इत्युक्तस्सैद्धा तत्रार्चनोच्यते ॥ ३४.४२ ॥ न हि सिद्धास्तपस्सिद्धिं कुर्वन्ति विभलां क्वचित् । यस्यानुग्रहमिच्छन्तस्तपस्यन्तीह साधवः ॥ ३४.४३ ॥ यं प्रसादयितुं विप्रा यज्ञदानादि कुर्वते । तस्यैवाराधनं हित्वा किं सिद्धास्संप्रकुर्वते ॥ ३४.४४ ॥ ते सिद्धास्ते महात्मानस्ते सन्त न्ते तपस्विनः । ये स्वकर्मफलं देवं विदित्वा श्रीपतिं हरिम् ॥ ३४.४५ ॥ प्रतिष्ठाप्य तु तद्रूपमर्चयन्ति निरन्तरम् । न ह्यन्यः प्रापणे हेतुरर्चनान्मुक्तिहेतवे ॥ ३४.४६ ॥ सैद्धस्थले तु या पूजा सर्वशान्तिकरी स्मृता । पञ्चाशद्योजनं तस्य परितः पावयेन्महीम् ॥ ३४.४७ ॥ सिद्धप्रतिष्ठिता देशा बहवो विदिताः पुरा । उत्पद्यन्ते भविष्यन्ति सन्तिसिद्धा धरातले ॥ ३४.४८ ॥ सैद्धस्थलानि भूयांसि भविष्यन्ति च सन्ति च । सिद्धा वैखानसं शास्त्रमाश्रित्यैव स्वनिर्मितम् ॥ ३४.४९ ॥ देवं संपूजयन्तीह तत्प्रायः प्रचलत्यपि । न हि सिद्धाः प्रकुर्वन्तिकिञ्चिदुच्छास्त्रमापदि ॥ ३४.५० ॥ तस्मात्सर्वप्रयत्नेन सर्वं सिद्धाश्रितस्थले । कुर्याद्वैखानसं शास्त्रमाश्रित्य सकलाः क्रियाः ॥ ३४.५१ ॥ सिद्धा जानन्ति शास्त्रार्थान् सिद्धा जानन्ति चागमान् । सिद्धास्समर्चयन्त्येव वैखानसविधानतः ॥ ३४.५२ ॥ यदि सिद्धाश्रितो देशःपूज्यतेऽन्यैः प्रमादतः । राजा तं तु विचार्यैव पुनर्वैखानसैःक्रमात् ॥ ३४.५३ ॥ सत्वरं याजयेत्कृत्वा प्रायश्चित्तं यथाविधि । सैद्धमेके स्थलं प्राहुरार्षमेतच्च सम्मतम् ॥ ३४.५४ ॥ अथ पौराणिको देशः कथ्यते यत्र यत्र वै । गाधा पौराणिकी भूयात्तत्पुराणस्थलं मतम् ॥ ३४.५५ ॥ अज्ञातकर्तृकाण्यत्र स्मर्यन्ते प्रायशो बहु । स्थलानीमानितत्तानि?पुराणानि प्रचक्षते ॥ ३४.५६ ॥ पुराणानि त्वनन्तानि स्थलानि पृथिवीतले । भवन्त्यथ कलौ प्राप्ते लुप्यन्ते तान्यनेकशः ॥ ३४.५७ ॥ दशयोजनपर्यन्तां भूमिं तु परितस्सकृत् । पुनाति देशः पौराणस्तत्र किं चिन्न हीयते ॥ ३४.५८ ॥ स्वयंव्यक्तादयस्सर्वे पौराणाः कीर्तिता अपि । स्वयंव्यक्तादिभेदेन व्यवहारस्य दर्शनात् ॥ ३४.५९ ॥ पुराणत्वं च तेषां स्यादन्यत्पौराणमुच्यते । पुराणस्थलदेवस्य प्रतिष्ठा विधिसम्मता ॥ ३४.६० ॥ प्रतिष्ठिते त्वविधिना स्थरे नैव रमेद्धरिः । न हि वृद्धास्समर्चन्ति बिंबमुच्छास्त्रनिर्मितम् ॥ ३४.६१ ॥ न हि पौराणिके देशे यजमानस्य गौरवम् । अर्थस्य गौरवं चापि दर्शनीयं महात्मभिः? ॥ ३४.६२ ॥ यदि पश्येद्विसूढात्मा रौरवं नरकंव्रजेत् । एष एव विशेषस्स्यादन्यत्सैद्धवदाचरेत् ॥ ३४.६३ ॥ पुराणस्थलपूजा तु शास्त्रदृष्टेन वर्त्मना । प्रमादेतु समीकार्यान तेन स्याद्व्यतिक्रमः ॥ ३४.६४ ॥ मानुषं पञ्चमं प्रोक्तं स्थलं यत्र विशेषतः । ग्रामे वा नगरे वापि शास्त्रोक्ते सुमनोरमे ॥ ३४.६५ ॥ प्रतिष्टाप्यार्चके विष्णुस्सर्वदेवेश्वरेश्वरः । ब्राह्मणैः क्षत्रियैर्वैश्यैश्शूद्रैर्वान्यैर्नरोत्तमैः ॥ ३४.६६ ॥ वैखानसेन शास्त्रेण पञ्चरात्रेण वा पुनः । मानुषस्थलपूजा तु योजनं परितस्थ्सलम् ॥ ३४.६७ ॥ पापयेत्तस्य तु प्रोक्ताशक्तिरन्यातु तावती । मनुष्याः पुण्यकर्माणस्तत्र तत्र दिने दिने ॥ ३४.६८ ॥ प्रेरिता भगवद्भक्त्याधनिनो निर्धना अपि । निर्माय भगवद्गेहं प्रतिष्ठाप्य श्रियःपतिम् ॥ ३४.६९ ॥ अर्चयन्ति विशेषेण वैखानसविधानतः । विशालः पृथिवीभागः कालोऽनादिरन्तकः ॥ ३४.७० ॥ शास्त्रं चाप्यतिगंभीरं भक्ताश्च बहवो हरौ । तस्मात्सर्वप्रयत्नेन सर्वस्याप्यनुशासनम् ॥ ३४.७१ ॥ प्रोक्तं विखनसा पूर्वं भगवच्छास्त्रमुत्तमम् । अनेनैव प्रकारेण सर्वत्राराधयेद्धरिम् ॥ ३४.७२ ॥ भक्ताश्च बहुधा शास्त्रं प्रशंसन्तीदमेव ही । तदुक्तेनैव विधिना कल्पयेदालयादिकम् ॥ ३४.७३ ॥ यथा मानाधिकरणे मया प्रोक्तस्स विस्तरः । यत्र वा दृश्यते भेदो भगवच्छास्त्रशिल्पयोः ॥ ३४.७४ ॥ शिल्पशास्त्रं परित्यज्य भगवच्छास्त्रतश्चरेत् । प्रधानमेतच्छास्त्रं स्याद्भगवद्गेहकल्पने ॥ ३४.७५ ॥ न तच्छास्त्रमनादृत्य कार्यं किं चित्समाचरेत् । लोभान्मोहादथाज्ञानाच्छास्त्रेऽस्मिन्न धृतं चरेत् ॥ ३४.७६ ॥ अतिक्रम्यापि शास्त्रं तत्पूजा निष्भला भवेत् । यजमानो विपद्येत तस्मादत्रोक्तमाचरेत् ॥ ३४.७७ ॥ तेनैव तु विधानेन प्रतिष्ठादिकमाचरेत् । ऐहिकामुष्मिकं यस्मात्फलद्वयमवाप्यते ॥ ३४.७८ ॥ ग्रामे विष्ण्वर्चनाहीने विष्ण्वर्चाहीनवेश्मनि । तीर्थपानं सुरापानमन्नं गोमांसभक्षणम् ॥ ३४.७९ ॥ देवधामविहीनं तु श्मशानं ग्राम उच्यते । गृहं च चितितुल्यं स्याद्यत्र नाराध्यते हरिः ॥ ३४.८० ॥ यो मोहादथ वालस्यादकृत्वा देवतार्चनम् । भुङ्क्ते स याति नरकान् सूकरेष्वसि जायते ॥ ३४.८१ ॥ केशवार्चागृहे यस्य न तिष्ठति शूभप्रदा । तस्यान्नं नैव भोक्तव्यमभक्ष्येण समं हि तत् ॥ ३४.८२ ॥ बिंबशुद्ध्यादिकं कृत्वा शास्त्रोक्तविधिना पुनः । कलान्यासादिकं सर्वं विधाय परमेश्वरः ॥ ३४.८३ ॥ प्रतिष्ठाप्यार्च्यते यत्र परितो योजनावधि । पूयतेऽनुग्रहाद्विष्णोः स देशोऽप्राकृतस्स्मृतः ॥ ३४.८४ ॥ तत्र पार्षदसंयुक्तश्श्रिया लक्ष्म्या समन्वितः । यथा च परमे व्योम्नि सन्निधत्ते तथा हरिः ॥ ३४.८५ ॥ तत्र देवास्त्रयस्त्रिंशत्पितरः पन्नगाश्च ये । साध्या विद्याधरा यक्षास्सर्वा वै देवयोनयः ॥ ३४.८६ ॥ सर्वसंवत्समृद्धिस्स्यात्पर्जन्यो वर्षुको भवेत् । वायुर्वाति सुखं तत्र सूर्यस्तपति तेजसा ॥ ३४.८७ ॥ चन्द्रमाश्शीतलैर्देशं सेवते किरणैस्तथा । भूमिस्सस्यवती च स्यात्प्रसन्नं च नभो भवेत् ॥ ३४.८८ ॥ नक्षत्रग्रहताराश्च प्रसादाभिमुखास्समे । राजन्वती प्रजा च स्यात्पशुपुत्रसमन्विता ॥ ३४.८९ ॥ न व्याधिजं भयं किं चिन्नापि ज्वरकृतं तथा । न व्यालजं भयं वापि भवेदत्रन संशयः ॥ ३४.९० ॥ नोपप्लवो नृपाणां वा मृगाणां वाप्यपां भवेत् । ब्राह्मणाः क्षत्रिया वैश्याश्शूद्रास्तत्र निवासिनः ॥ ३४.९१ ॥ स्वे स्वे कर्मण्यभिरता भवेयुस्सुखजीविनः । आग्निहोत्राश्च हूयन्ते तप्यन्तेऽत्र तपांसि च ॥ ३४.९२ ॥ दीयन्ते भूरिदानानि यत्र देवो हरिस्प्वयम् । अप्राकृतमिमं देशं सन्निधानाच्छ्रियः पतेः ॥ ३४.९३ ॥ प्राकृतं यो वदेन्मूढस्स याति नरकं ध्रुवम् । अप्राकृतमिमं देवं नरो यश्चापनिह्नुते ॥ ३४.९४ ॥ चण्डालस्स तु विज्ञेयो निष्कृतिर्नास्य दृश्यते । महापातकीनां तद्वद्दृष्टं पातकिनामपि ॥ ३४.९५ ॥ उपपातकिनां चापि प्रायश्चित्तं विशेषतः । शास्त्रापलापिनां नैव प्रायश्चित्तं प्रदृश्यते ॥ ३४.९६ ॥ यस्तु सामान्यभावेन मन्यते स्थलमीदृशम् । ब्रह्महत्यामवाप्नोति भ्रूणहत्यां तथैव च ॥ ३४.९७ ॥ स्वर्णस्तेये च यत्पापं सुरापाने च यद्भवेत् । गुरुतल्पस्य गमने यच्चपापमुदीरितम् ॥ ३४.९८ ॥ वृषलीगमने यच्च पापं सर्वं तदश्नुते । नास्ति शास्त्रात्परं ज्ञानं नस्यात्तस्मात्प्रवर्तकम् ॥ ३४.९९ ॥ तस्मात्तस्यावमानेन सद्यः पतति दूषकः । तस्मिन् देशे विशेषेण सर्वेभागवता हरौ ॥ ३४.१०० ॥ देवपादोदकादीनि पीत्वा यास्यन्तिसद्गतिम् । न हि सर्वोऽपि सर्वत्र स्वयंव्यक्तस्थलादिकम् ॥ ३४.१०१ ॥ गत्वैवाराधयेद्विष्णुं सदा तच्चाप्यसंभवि । अत एव कृपासिंधुर्भगवान् भूतभावनः ॥ ३४.१०२ ॥ अर्चावताररूपेण ग्रामे ग्रामे गृहे गृहे । अवतीर्य महाबाहुर्भक्तसौलभ्यहेतवे ॥ ३४.१०३ ॥ अर्च्यते शास्त्रविधिना तत्र कार्योन संशयः । तस्मादप्राकृतं देशं न ब्रूयात्प्राकृतं नरः ॥ ३४.१०४ ॥ न च सामान्यभावेन तं पश्येद्यदि पश्यति । नश्यत्येव न संदेह इति शास्त्रविनिश्चयः ॥ ३४.१०५ ॥ इति श्रीवैखानसे भगवच्छास्त्रे भृगुप्रोक्तायां सहितायां प्रकीर्णाधिकारे चतुस्त्रिंशोऽध्यायः. _____________________________________________________________ अथ पञ्चत्रिंशोऽध्यायः. फलश्रुतिः अथ वक्ष्ये विशेषेण क्रियायोगश्रितं फलम् । यस्तु देवालयं दारुशिलालोहविलेखनैः ॥ ३५.१ ॥ कारयेन्मृण्मयं वापि तस्यानन्तफलं स्मृतम् । अहन्यहनि यज्ञेन यजतो यन्महत्फलम् ॥ ३५.२ ॥ प्राप्नोति तत्फलं विष्णोर्यः कारयति मन्दिरम् । कुलानां शतमागामि समतीतं तथा शतम् ॥ ३५.३ ॥ तारयेद्भगवद्गेहमिति बुद्धिं करोति यः । सप्तजन्मकृतं पापमल्पं वा यदि वा बहु ॥ ३५.४ ॥ विष्णोरालयविन्यासप्रारंभादेव नश्यति । सप्तलोकमयो विष्णुस्तस्य यःकुरुते गृहम् ॥ ३५.५ ॥ प्रतिष्ठां समपाप्नोति स नरस्साप्तलौकिकीम् । प्रशस्तदेशे भूभागे यो नरो भवनं हरेः ॥ ३५.६ ॥ कारयत्यक्षयान् लोकान् स वरः प्रतिपद्यते । इष्टकाचयविन्यासो यावद्वर्षाणि तिष्ठति ॥ ३५.७ ॥ तावद्वर्षसहस्राणि तत्कर्तादिवि मोदते । प्रतिमां लक्षणवतीं यः कारयति मानवः ॥ ३५.८ ॥ केसवस्य स तल्लोकमक्षयं प्रतिपद्यते । षष्टिं वर्षसहस्राणां सहस्राणि स मोगते ॥ ३५.९ ॥ स्वर्गौकसां निवासेषु प्रत्येकमरिसूदनः । ततः प्रयाति वैकुण्ठं निस्समाभ्यधिकं महः ॥ ३५.१० ॥ प्रतीष्ठाप्य हरेरर्चां सुप्रशस्ते निवेशने । पुरुषः कृतकृत्यत्वान्नैनं श्वो मरणं तपेत् ॥ ३५.११ ॥ ये भविष्यन्ति येऽतीता आकल्पाः पुरुषाः कुले । तांस्तारयति संस्थाप्य देवस्य प्रतियां हरेः ॥ ३५.१२ ॥ बेरपूजा त्वियं प्रोक्ता पूजानामुत्तमोत्तमा । अतीते यजमानेऽपि चिरमस्या अवस्थिते ॥ ३५.१३ ॥ अनुशस्ताः किल पुरा यमेव यमकिङ्कराः । पाशधण्डधराः क्रूराः प्रजासंयमनोद्यताः ॥ ३५.१४ ॥ विहरध्वं यथान्याय्यं नियोगो मेऽनुपाल्यताम् । नाज्ञाभङ्गं करिष्यन्ति भवतां जन्तवः क्वचित् ॥ ३५.१५ ॥ केवलं ये जगन्नाथमनस्तं समुपाश्रिताः । भवद्भिः परिहर्तव्यास्तेषां नास्त्यत्र संस्थितिः ॥ ३५.१६ ॥ ये तु भागवता लोके तच्चित्तास्तत्परायणाः । पूजयन्ति सदा विष्णुं ते वस्त्याज्याः सुदूरतः ॥ ३५.१७ ॥ यस्तिष्ठन् यस्स्वपन् भुञ्जनुत्तिष्ठन् स्खलितेषु च । संकीर्तयति गोविन्दं स वस्त्याज्यस्सुदूरतः ॥ ३५.१८ ॥ नित्यनैमित्तिकैर्देवं ये यजन्ते जनार्दनम् । नावलोक्या भवद्भिस्ते तत्तेजो हन्ति वौ गतिम् ॥ ३५.१९ ॥ ये धूपपुष्पवासोभिर्भूषणैश्चापि दुर्लभैः । अर्चयन्ति न ते ग्राह्यानराः कृष्णाश्रयोद्धताः ॥ ३५.२० ॥ उपलेपनकर्तारस्सम्मार्जनकराश्च ये । कृष्णालये परित्याज्यास्तेषां त्रिपूरुषं कुलम् ॥ ३५.२१ ॥ येन चायतनं विष्णोः कारितं तत्कुलोद्भवम् । पुंसां कुलं नावलोक्यं भवद्भिर्दुष्टचक्षुषा ॥ ३५.२२ ॥ येनार्चा भगवद्भक्त्या वासुदेवस्य कारिता । नरायुतं तत्कुलजं भवतां शासनातिगम् ॥ ३५.२३ ॥ भवतां भ्रमतामत्र विष्णुसंश्रयमुद्रया । विनाज्ञाभङ्गकृन्नैव भविष्यति नरःक्वचित् ॥ ३५.२४ ॥ यज्ञा नराणां पापौघक्षालनाः सर्वकामदाः । तथैवेज्या जगद्धातुस्सर्वयज्ञमयो हरिः ॥ ३५.२५ ॥ स्थापितं प्रतिमा विष्णोस्सम्यक्संपूज्य मानवः । यं यं कामयते कामं तं तमाप्नोत्यसंशयम् ॥ ३५.२६ ॥ यथा हि ज्वलनो वह्निस्तमोहानिन्तदर्थिनाम् । शीतहानिन्तदन्येषां स्वेदं स्वेदाभिलाषिणाम् ॥ ३५.२७ ॥ करोति क्षुधितानां च भोज्यां पाकक्रियां शिखी । तथैव कामान् भूतेशस्सददाति यथेप्सितम् ॥ ३५.२८ ॥ कल्पद्रुमादिवहरेर्यदिष्टं तदवाप्यते । यस्सदायतने विष्णोः कुरुते मार्जनक्रियाम् ॥ ३५.२९ ॥ सपांसुभुम्यैर्? देहस्य सर्वं पापं व्यपोहाति । यावन्तः पांसुकणिका मार्ज्यन्ते केशवालये ॥ ३५.३० ॥ वर्षाणि दिवि तावन्ते वसत्यस्तमलो नरः । अहन्यहनि यत्पापं कुरुते विषयी नरः ॥ ३५.३१ ॥ यो बाह्याभ्यन्तरं वेश्म मार्जयेत्केशवालये । सबाह्याभ्यन्तरं तस्य कायो निष्कल्मषो भवेत् ॥ ३५.३२ ॥ गोचर्ममात्रं सम्मृज्य हन्ति तत्केशवालये । सबाह्याभ्यन्तरं यच्च मार्जयेदच्युतालये ॥ ३५.३३ ॥ सबाह्याभ्यन्तरं तस्य कायं निष्कल्मषं विदुः? । उदकाभ्युक्षणं विष्णोर्यः करोति सता गृहे ॥ ३५.३४ ॥ सोऽपिगच्छति यत्रास्ते भगवान् यादसां पतिः । मृदा धातुविकारैर्वा वर्णकैर्गोमयेन वा ॥ ३५.३५ ॥ विष्णोरायतने नित्यं यः करोत्यनु लेपनम् । प्रवाते वाति गुणवद्वर्षास्वतिमनोहरम् ॥ ३५.३६ ॥ स्वनुलिप्तं शूभाकारं स्वकृहं लभते नरः । पूर्णधान्यहिरण्यादिमणिमुक्ताफलोज्ज्वलम् ॥ ३५.३७ ॥ प्रत्यासन्नजलोपेतं गृहं प्राप्नोति शोभनम् । सामन्तस्वजनानां च सर्वेषामुत्तमोत्तमम् ॥ ३५.३८ ॥ तदाप्नोति गृहं रम्यमुपलेपनकृन्नरः । येनानुलिप्ते तिष्टन्ति विष्ण्वायतनभूतले ॥ ३५.३९ ॥ ब्राह्मणाःक्षत्रिया वैश्याश्शूद्रस्साध्व्यस्त्रियस्तथा । तस्य पुण्यफलं वक्तुं नालं देवास्सहानुगाः ॥ ३५.४० ॥ अप्सरोगणसंकीर्णं मुक्ताहालशतोज्ज्वलम् । श्रेष्ठं सर्वविमानानां स्वर्गधिष्ण्यमवाप्नुयात् ॥ ३५.४१ ॥ यावन्त स्तिथयो लिप्ता दिव्याब्दांस्तावतो नरः । तस्मिन्विमाने स नरस्त्स्री वा तिष्ठति शोभने ॥ ३५.४२ ॥ स्रग्गन्धवस्त्रसंयुक्तः सर्वभूषणभूषितः । गन्धर्वाप्सरसां संघैः पूज्यमानस्स तिष्ठति ॥ ३५.४३ ॥ लिप्ता च यावता हस्ता विष्णोरायतने मही । तावद्योजनविस्तीर्णस्वर्गस्थानाधिपो भवेत् ॥ ३५.४४ ॥ पूज्यमानस्सुरगणैश्शीतोष्णादिविवर्जितः । मनोज्ञगात्रो विप्रेन्द्रैस्तिष्ठत्याभूतसंप्लवम् ॥ ३५.४५ ॥ तत्क्षयादिह चागत्य विशिष्टे जायते कुले । अत्युत्कृष्टगृहं प्राप्य मर्त्यलोकेऽभिवाञ्छितम् ॥ ३५.४६ ॥ नतत्र तावद्दारिद्षं नोपसर्गोन वाकलिः । न तावन्मृतनिष्क्रान्तिर्यावज्जीवन्ति साक्षिणः ॥ ३५.४७ ॥ विष्णुस्समस्तभूतानि ससर्जैतानि यानि वै । तेषां मध्ये जगद्धातुरतीवेष्टा वसुंधरा ॥ ३५.४८ ॥ कृते सम्मार्जने तस्यास्तथा चैवानुलेपने । प्रयाति परमं तोषं विष्णुर्भूर्वैष्णवीयतः ॥ ३५.४९ ॥ उपोषितो नरो नारी यःकरोत्यनुलेपनम् । न तस्यजायते भङ्गो गार्हस्थ्ये तु कदा च न ॥ ३५.५० ॥ या च नारी करोत्येवं यथावदनुलेपनम् । नाप्नोति सापि वैधव्यं गृहभङ्गं कदा च न ॥ ३५.५१ ॥ सर्वाभरणसंपूर्णस्सर्वोपस्करधान्यवान् । गोमहिष्यादिसंभागं गृहमाप्नोति मानव ॥ ३५.५२ ॥ तस्मादभीप्सता सम्यग्गार्हस्थ्यं तदखण्डितम् । विष्णोरायतने कार्यं सहसै वोपलेपनम् ॥ ३५.५३ ॥ यश्चानुलेपनं कुर्याद्विष्णोरायतने नरः । सोऽपि लोकं समासाद्य मोदतेवै शतक्रतोः ॥ ३५.५४ ॥ पुष्पप्रकीर्णमत्यर्थं सुगन्धं केशवालये । उपलिप्ते नरो दत्वा न दुर्गतिमवाप्नुयात् ॥ ३५.५५ ॥ स्नानपानांभसां विष्णोः प्रदानात्तत्सलोकभाक् । स्नानीयद्रव्यदानेन नीरोगः प्रीत्य मोदते ॥ ३५.५६ ॥ क्षौमादिदानादाप्नोति परलोके महत्सुखम् । आलेपनद्रव्यदानात्कामानाप्नोति शाश्वतान् ॥ ३५.५७ ॥ एलाकर्पूरतांबूलीतैलादि स्पर्शनात्पुखी । परत्रेह च लोके स्याद्दीर्घकालमसंशयः ॥ ३५.५८ ॥ सर्वयज्ञमयो विष्णुर्गव्यानां परमस्स्मृतः । जायते येषु लोकेषु पुलकस्संगमोमहान् ॥ ३५.५९ ॥ येषु क्षीरवहा नद्यो ह्रदाः पायसकर्दमाः । तान् लोकान् पुरुषा यान्तिक्षीरस्नानकरा हरेः ॥ ३५.६० ॥ आह्गादं निर्वृतिं स्वास्थ्यमारोग्यं चारुरूपता । सप्तजन्मान्यवाप्नोति क्षीरस्नानकरो हरेः ॥ ३५.६१ ॥ दध्यादीनां विकाराणां क्षीरतस्संभवो यथा । तथैवाशेषकामानां क्षीरस्नापनतो हरेः ॥ ३५.६२ ॥ यथा च विमलं क्षीरं यथा निर्वृतिकारकम् । तथास्य निर्मलं ज्ञानं भवत्यतिफलप्रदम् ॥ ३५.६३ ॥ ग्रहानुकूलतां पुष्टिं प्रियं चाप्यखिले जने । करोति भगवान् विष्णुःक्षीरस्नापनतोषितः ॥ ३५.६४ ॥ सर्वोऽस्यस्निग्धतामेति दृष्टिमात्प्रात्प्रसीदति । यस्स्नापयति देवस्य घृतेन प्रतिमां हरेः ॥ ३५.६५ ॥ इन्द्रप्रस्थे द्विजाग्षाणां स ददाति गवां शतम् । गवां शतस्य विप्राणां न दत्तस्य भवेत्फलम् ॥ ३५.६६ ॥ घृतप्रस्थेन तद्विष्णोर्लभेत्स्नानोपयोगिनाम् । पुरा राजर्षिभिः प्राप्ता सप्तद्वीपा वसुन्धरा ॥ ३५.६७ ॥ घृताढकेन गोविन्द प्रतिमास्नापनात्किल । प्रतिमासं सिताष्टम्यां घृतेन जगतः पतिम् ॥ ३५.६८ ॥ स्नापयित्वा समस्तेभ्यः पापेभ्योऽपि प्रमुच्यते । द्वादश्यां पौर्णमास्यां च गव्येन हविषा हरेः ॥ ३५.६९ ॥ स्नापनं देवदेवस्य महापातकनाशनम् । ज्ञानतोऽज्ञानतो वापि यत्पापं कुरुते नरः ॥ ३५.७० ॥ तत्क्षालयति संध्यायां घृतेन स्नापयन् हरिम् । घृतक्षीरेण देवेशे स्नापिते मधुसूदने ॥ ३५.७१ ॥ स गत्वावैष्णवं धाम मोदते सह सूरिभिः । स्रजं बद्ध्वा सुमनसां यः प्रयच्छति विष्णवे ॥ ३५.७२ ॥ स भुक्त्वा विपुलान् भोगान्नाकपृष्ठे विराजते । चामरव्यजन छत्रदानात्स्वाराज्यमश्नु ते ॥ ३५.७३ ॥ दानादाभरणादीनां तेजस्वी दिविमोदते । दानाच्च नवरत्नावां देवसालोक्यमश्नुते ॥ ३५.७४ ॥ आदर्शनप्रदानेन दृश्यस्सर्वैर्भविष्यति । गन्धद्रव्य प्रदानेन सुगन्धिर्दायते भृवेत् ॥ ३५.७५ ॥ धूपद्रव्यप्रदानेन स्वस्थानं स्वर्गिणां भवेत् । उपानहौ पादुके च वाहनं यानमेव च ॥ ३५.७६ ॥ ददाति यो संदयित्वा? मणिकाञ्चनचित्रितम् । स विमानं तु दुत्प्रापं प्राप्नो त्येव न संशयः ॥ ३५.७७ ॥ अलङ्कृतं भद्रपीठं प्रयच्छन् सर्वकामभाक् । विनतानन्दनस्थानं ध्वजमुत्पाद्य दर्शयन् ॥ ३५.७८ ॥ सामीप्यं सहसा विष्णोर्याति सद्यो स संशयः । ध्वजं च वाद्यमुत्पाद्य विष्णुसात्कुरुते तु यः ॥ ३५.७९ ॥ स दिव्यदुन्दुभि प्रायंस्थानं प्राप्य विराजते । दासीदासं तथात्मान मात्मीयं च प्रयच्छलि ॥ ३५.८० ॥ वासुदेवाय दास्येन मुक्तिः करतलेस्थिता । नृत्तभेदैर्गीतभेदैस्तथा वाद्यैरनेकथा ॥ ३५.८१ ॥ श्रोतव्यैरपि दृश्यैश्च देवदेवस्य सन्निधौ । आसीनमुपचारैस्तैर्ये समाराधयन्तिते ॥ ३५.८२ ॥ प्रेत्य दिव्येषु लोकेषु पूज्यन्तेतैर्न संशयः । दीपं प्रयच्छति नरो विष्णोरायतने हि यः ॥ ३५.८३ ॥ सदक्षिणस्य यज्ञस्य फलं प्राप्नोत्यसंशयः । आहोरात्रमनिर्वाणं दीपमारोपयेन्नरः ॥ ३५.८४ ॥ सर्वपाप विशुद्धात्मा विष्णुलोके महीयते । दिनेदिने जपन्नाम केशवेति समाहितः ॥ ३५.८५ ॥ सकृद्ददातियोविप्रःप्रदीपं केशवालये । जातिस्मरत्वं प्रज्ञां च प्राकाश्यं सर्ववन्तुषु ॥ ३५.८६ ॥ अव्याहतेन्द्रियत्वं च समाप्नोति न संशयः । सर्वकालं च चक्षुष्मान्मेधावी दीपदो नरः ॥ ३५.८७ ॥ जायते नरकं चापि तमस्संज्ञं न पश्यति । सुवर्णमणिमुक्ताढ्यं मनोज्ञमतिशोभनम् ॥ ३५.८८ ॥ दीपमालाकुलं दिव्यं विमानमधिरोहति । तस्मादायतने विष्णोर्दद्याद्दीपं प्रयत्नतः ॥ ३५.८९ ॥ तांश्चदत्वान्नहीनस्ते? न च तैलवियोजनम् । कुर्वीत दीपहर्ताच मूकूऽन्धो जायते जडः ॥ ३५.९० ॥ अन्धेतमसि दुष्पारे नरके पतितान् किल । विक्रोशमानान्मनुजान् वक्ष्यन्ति यमकिङ्कराः ॥ ३५.९१ ॥ विलापैरल मत्रेवं किंवो विलपिते फलम् । तथा प्रमादिभिः पूर्वमात्मात्यन्तमुपेक्षितः ॥ ३५.९२ ॥ पुर्वमालोचितं नैतत्कथमन्ते भविष्यति । इदानीं यातना भौगाःकिं विलापः करिष्यति ॥ ३५.९३ ॥ देहोदितानि स्वल्पानि विषयाश्चातिकर्षकाः । एतत्कोन विजानाति येन यूयं प्रमादिनः ॥ ३५.९४ ॥ जन्तुर्जन्मसहस्रेभ्यो ह्येकस्मिन्मानुषो यदि । तत्राप्यतिविमाढत्वात्किंभोगानभिधावति ॥ ३५.९५ ॥ कोऽतिभारो हरेर्नाम्नि जिह्वया परिकीर्तिते । वर्णिते तुल्यमूलेतु यदग्निर्लभ्यते सुखम् ॥ ३५.९६ ॥ अतोऽधिकरोलाभः कोवश्चितैऽभवत्तथा । येनायतेषु हस्तेषु स्वातन्त्षेसति दीपकः ॥ ३५.९७ ॥ महाफलो विष्णुगृहे न दत्तो नरकापहाः । न वो विलपिते किं चिदिदानीं दृश्यते फलम् ॥ ३५.९८ ॥ अस्वातन्त्षे विलपतां स्वातन्त्षे तु प्रमादिनाम् । अवश्यंपातिनः प्राणा भोक्ताजीवोप्यहर्निशम् ॥ ३५.९९ ॥ दत्तं चलभते भोक्तुं कामयन्विषयांस्तदा । एतत्स्वातन्त्षवद्भिर्वो युक्तमासीत्परीक्षितुम् ॥ ३५.१०० ॥ इदानीं किं विलापेन सहध्वं यदुपागतम् । यद्येतदनभीष्टं वो यद्दुःखं समुपस्थितम् ॥ ३५.१०१ ॥ यद्भूयोऽपि मतिः पापे न कर्तव्या कथं च न । पापकर्मणिनिर्वृत्तेऽप्यज्ञानादघनाशनम् ॥ ३५.१०२ ॥ कर्तव्यमप्यविच्छिन्नं स्मरद्भिर्मधुसूदनम् । विमानमतिविद्योति सर्वरत्नमयं दिवि ॥ ३५.१०३ ॥ समाप्नोति नरो दत्वा प्रदीपं केशवालये । हविषां पायसादीनां हरये च निवेदनात् ॥ ३५.१०४ ॥ सुखैकरसपूर्णत्मा राजते विष्णुसन्निधौ । भक्ष्यपानीयभोज्यानामन्येषामपि दानतः ॥ ३५.१०५ ॥ श्वेतद्वीपे तत्समीपे वसन्ति सुखिनस्सदा । बहुनात्र किमुक्तेन वासुदेवार्थमादरात् ॥ ३५.१०६ ॥ ददाति वस्तुदानं? यस्थ्सानं प्राप्नोति चेप्सितम् । कर्मणां मार्जनादीनां फलभोगादनन्तरम् ॥ ३५.१०७ ॥ कर्मशेषैः पुनर्जन्म कर्मानुगुणयोनिषु । उत्कृष्टास्वेन भोक्तारो लभन्ते सुखिनस्सदा ॥ ३५.१०८ ॥ आरामाणां तटाकानां प्रपाणां च प्रवर्तनात् । विष्णोरालयसामीप्ये तत्फलं केन वर्ण्यते ॥ ३५.१०९ ॥ सुप्रदर्शा बलवती चित्रा धातुविभूषिता । उपेता सर्वभूतैश्च श्रेष्ठा भूमिरिहोच्यते ॥ ३५.११० ॥ तस्याः क्षेत्रविशेषाश्च तटाकानां च बन्धनम् । औदकानि च सर्वाणि प्रवक्ष्याम्यनुपूर्वशः ॥ ३५.१११ ॥ तटाकानां च वक्ष्यामि कृतानां चापि ये गुणाः । त्रिषु लोकेषु सर्वत्र पूजनीयः प्रतापवान् ॥ ३५.११२ ॥ अथ वा मित्रसदनं मैत्रं मित्रविवर्धनम् । कीर्तिसंजननं श्रेष्ठं तटाकानां निवेशनम् ॥ ३५.११३ ॥ धर्मस्यार्थस्य कामस्य फलमाहुर्मनीषिणः । तटाकं सुकृतं देशेक्षेत्रमेकं महाश्रयम् ॥ ३५.११४ ॥ चतुर्विधानां भूतानां तटाकमुपलक्षयेत् । तटाकानि च सर्वाणि दिशन्ति श्रियमुत्तमाम् ॥ ३५.११५ ॥ देवा मनुष्या गन्धर्वाः पितरो यक्षराक्षसाः । स्थावराणि च भूतानि संश्रयन्ति जलाशयम् ॥ ३५.११६ ॥ तस्मात्तांस्तु प्रवक्ष्यामि तटाके ये गुणास्स्मृताः । या च तत्र फलावाप्तिरृषिभिस्समुदाहृता ॥ ३५.११७ ॥ वर्षाकाले तटाके तु सलिलं यस्य तिष्ठति । अग्निहोत्रफलं तस्य फलमाहुर्मनीषिणः ॥ ३५.११८ ॥ शरत्का ले तु सलिलं तटाके यस्य तिष्ठति । गोसहस्रस्य संप्रेत्य लभते फलमुत्तमम् ॥ ३५.११९ ॥ हेमन्तकाले सलिलं तटाके यस्य तिष्ठति । स वै बहुसुवर्णस्य यज्ञस्य लभते फलम् ॥ ३५.१२० ॥ यस्य वै शैशिरे काले तटाके सलिलं भवेत् । तस्याग्निष्टोमयज्ञस्य भलमूहुर्मनीषिणः ॥ ३५.१२१ ॥ तटाकं सुकृतं यस्य वसन्तेतं महाश्रयम् । अतिरात्रस्य यज्ञस्य फलं स समुपाश्नुते ॥ ३५.१२२ ॥ निदाघकाले पानीयं तटाके यस्य तिष्ठति । वाजिमेधपलं तस्य फलं वै मुनयो विदुः ॥ ३५.१२३ ॥ स कुलं तारयेत्सर्वं यस्य खाते जलाशये । गावः पिबन्ति सलिलं साधवश्च नरास्सदा ॥ ३५.१२४ ॥ तटाके यस्य गावस्तु पिबन्ति तृषिता जलम् । मृगपक्षिमनुष्याश्य सोऽश्वमेधफलं लभेत् ॥ ३५.१२५ ॥ यत्पिबन्ति जलं तत्र स्त्यायन्ते विश्रमन्तिच । तटाकदस्य तत्सर्वं प्रेत्यानन्त्याय कल्पते ॥ ३५.१२६ ॥ दुर्लभं सलिलं चेह विशेषेण परत्र वै । पानीयस्य प्रदानेन प्रीतिर्भवति शाश्वती ॥ ३५.१२७ ॥ तटाके यस्य पानीयं पानीयाय जगत्पतेः । तस्य पुण्यफलं वक्तुं नालं देवास्सहानु गाः ॥ ३५.१२८ ॥ तटाके यस्य पानीये सायं प्रातर्द्विजातयः । स्नात्वा कुर्वन्ति कर्माणि तस्य नाकेस्थितिर्भवेत् ॥ ३५.१२९ ॥ तटाके यस्य देवस्य स्नापनं चाधिवासनम् । तस्य लोका भवन्त्येव पावनाः क्षतिवर्जिताः ॥ ३५.१३० ॥ सर्वदानैर्गुरुतरं सर्वदानैर्विशिष्यते । पानीयावासदानं तु देवस्याग्रे प्रशस्यते ॥ ३५.१३१ ॥ अथ वक्ष्ये विशेषेण वृक्षाणामवरोपणम् । स्थानराणां च भूतानां जातयष्षट्प्रकीर्तिताः ॥ ३५.१३२ ॥ वृक्षगुल्पल तावल्ल्यस्त्वक्चारास्तृणजातयः । एता जात्यस्तु वृक्षाणां तेषां रोपे गुणास्त्विमे ॥ ३५.१३३ ॥ कीर्तिश्च मानवे लोके प्रेत्य चैव फलं शुभम् । लभते नाम लोके च पितृभिश्च महीयते ॥ ३५.१३४ ॥ देवलोकगतस्यापि नामतस्य न नश्यति । अतीतेऽनागते चोभेपितृवं शेऽन्यतस्तथा ॥ ३५.१३५ ॥ तारयेद्वृक्षरूपी च तस्माद्वृक्षांश्च रोपयेत् । तस्य पुत्रा भवन्त्येते पादपा नात्र संशयः ॥ ३५.१३६ ॥ परलोकगतस्स्वर्गं लोकांश्चाप्नोति सोऽव्ययान् । पुष्पैस्सुरगणान् वृक्षाः फलैश्चापि तथा पितृन् ॥ ३५.१३७ ॥ चायया चातिथींश्चापि पूजयन्ति महीरुहाः । किन्नरोरगरक्षांसि देवगन्धर्वमानवाः ॥ ३५.१३८ ॥ तथा ऋषिगणाश्चैव संश्रयन्ति महीरुहान् । पुष्पिताः फलवन्तश्च तर्पयन्तीह मानवान् ॥ ३५.१३९ ॥ वृक्षदं पुत्रवद्वृक्षास्तारयन्ति परत्र तु । पत्रं फलं वा पुष्पं वा यस्यारामेऽवरोपिते ॥ ३५.१४० ॥ अच्युतस्य पदं प्राप्तं लोकास्तस्याच्युता ध्रुवम् । पत्रैःफलैर्वापुष्पैर्वा प्रीयते भगवान् हरिः ॥ ३५.१४१ ॥ तस्मात्तटारे तद्वृक्षा रोप्याश्श्रेयोर्थिना सदा । पुत्रवत्परिपाल्याश्च पुत्रास्तेधर्मतस्स्मृताः ॥ ३५.१४२ ॥ तटाककृद्वृक्षरोपी इष्टयज्ञश्च यो नरः । एते स्वर्गे महीयन्ते ये चान्ये सत्यवादिनः ॥ ३५.१४३ ॥ तस्मात्तटाकान् कुर्वीत आरामांश्चैव रोपयेत् । यजेच्च विविधैर्यज्ञैस्सत्यं च सततं वदेत् ॥ ३५.१४४ ॥ गोभूहिरण्यदानानि कृत्वाचार्याय विष्णवे । अर्चकाय विशेषेण स्वर्गतस्सुखमेधते ॥ ३५.१४५ ॥ अतिदानं तु सर्वेषां भूमिदानमिहोच्यते । अचला ह्यक्षयो भूमिस्सर्वान् कामान् प्रयच्छति ॥ ३५.१४६ ॥ यस्तुदद्याद्भूमिदानं देवनाम्नार्चकायहि । तस्यैहिकं भवेत्पुण्यं तथा पारत्रिकं बहु ॥ ३५.१४७ ॥ यस्तु दद्यात्स्वनाम्नैव पूजकाय वसुंधराम् । तस्य कामाः प्ररोहन्ति सर्वमैहिकमश्नुते ॥ ३५.१४८ ॥ देवकार्याय वैदद्याद्यो देवाय वसुन्धराम् । देवनाम्नैव तस्य स्यात्केवलामुष्मिकं फलम् ॥ ३५.१४९ ॥ ब्रह्मार्पणधिया यस्तु गुप्तं दास्यति किं चन । देवाय देवकार्याय ब्राह्मणायाधिकारिणे ॥ ३५.१५० ॥ यावज्जीवति तद्दानं स्वर्गेतस्य स्थितिर्भवेत् । यं यं कामं तु मनसि कृत्वा यद्यच्च योर्ऽपयेत् ॥ ३५.१५१ ॥ तं तमेव फलं लब्ध्वाकर्तासम्मोदते चिरम् । किमलभ्यं भगवति प्रसन्ने श्रीनिकेतने ॥ ३५.१५२ ॥ आचार्यायार्पिता भूमिरत्यन्तफलदायिनी । ततोर्ऽचकार्पिता दद्यादनन्तं फलमुच्यते ॥ ३५.१५३ ॥ पदार्थिनामथान्वेषां तथान्यविभवस्य च । सर्वमेव भवेद्दत्तं वसुधां यः प्रयच्छति ॥ ३५.१५४ ॥ फालकृष्टां महीं दद्यात्सबीजां सस्यमालिनीम् । यावत्सूर्यकरा लोके तावत्स्वर्गे महीयते ॥ ३५.१५५ ॥ फालकृष्टां महीं दद्यात्सबीजां सस्यमालिनीम् । यावत्सूर्यकरा लोके तावत्स्वर्गे महीयते ॥ ३५.१५६ ॥ यश्चापि कुरुते पापं पुरुषोवृत्तिकर्शितः । अपि गोकर्णमात्रेण भूमिदानेन शुद्ध्यति ॥ ३५.१५७ ॥ सप्तहस्तेन वा सम्यक्त्रिंशद्दण्डेन वर्धनम् । स शतान्येव गोकर्णमिति वेदविदो विदः ॥ ३५.१५८ ॥ जितेन्द्रयाय गुणिने पूजकाय तपस्विने । दद्यान्महीं भदेत्तस्य फलमक्षयमच्युतम् ॥ ३५.१५९ ॥ यथाप्सु पतितस्सद्यस्तैलबिन्दुः प्ररोहति । एवं भूमिकृतं दानं सस्ये सस्ये प्ररोहति ॥ ३५.१६० ॥ यथा बीजानि रोहन्ति प्रकीर्णानि महीतले । एवं कामाःप्ररोहन्ति भूमिदानसमार्जिताः ॥ ३५.१६१ ॥ यथा गौर्भरते वत्सं क्षीरिणी क्षीरमुत्सृजेत् । एवं दत्ताचिरं कालं भूमिर्भरति भूमिदम् ॥ ३५.१६२ ॥ इक्षुभिस्सततां भूमिं यवगोधूमशाद्वलैः । यो ददाति नरश्रेष्ठस्स न प्रच्यवते दिवः ॥ ३५.१६३ ॥ शुभं भद्रासनं छत्रं वराश्च वरयोषितः । भूमिदानस्य चिह्नानि फलमेतन्न संशयः ॥ ३५.१६४ ॥ आदित्य वसवो विष्णुर्ब्रह्मा सोमो हुताशनः । शूलपाणिश्च भगवानभिनन्दन्ति भूमिदम् ॥ ३५.१६५ ॥ सौवर्णछत्रहक्म्याणि वसोर्धाराश्च कामदाः । गन्धर्वाप्सरसो यत्र तत्र तिष्ठन्ति भूमिदाः ॥ ३५.१६६ ॥ इयमेव पुरा भूमिः पालिता बहुभिग्नृपैः । अन्यैश्च बहुभिर्दत्ता राजभिस्सत्यसंगरैः ॥ ३५.१६७ ॥ यस्य यस्य यदा भूमि स्तस्य तस्य तदा फलम् । भूमिं यः प्रतिगृह्णाति यश्च भूमिं प्रयच्छति ॥ ३५.१६८ ॥ तावुभौ पुण्यकर्माणौ नियतौ स्वर्गगामिनौ । दानपालनयोर्मध्ये दानाच्छ्रेयोऽनुपालनम् ॥ ३५.१६९ ॥ दानात्स्वर्गमवाप्नोति पालनादच्युतं पदम् । स्वदत्ताद्द्विगुणं पुण्यं परदत्तानुपालनम् ॥ ३५.१७० ॥ भूमिदस्स्वर्गमारुह्य शास्वतीरेधते समाः । पुनश्च जन्म संपाप्य भवेद्भूमि पतिर्ध्रुवम् ॥ ३५.१७१ ॥ यथा भूमिस्सदा देवी दातारं कुरुते पतिम् । एवं सदक्षिणा दत्ताकुरुते गौर्जनाधिपम् ॥ ३५.१७२ ॥ अपि पापकृतं प्राप्य प्रतिगृह्णाति भूमिदम् । महीं ददत्पवित्रस्स्यात्पुण्या च जगती यतः ॥ ३५.१७३ ॥ नामैव प्रियदत्तेति गुह्यामेतत्सनातनम् । तदस्यास्सततं प्रीत्यैकीर्तनीया प्रयच्छता ॥ ३५.१७४ ॥ तपोयज्ञाश्रितं शीलमलोभस्सत्यवादिता । गुरुदैवतपूजा च नातिक्रामति भूमिदम् ॥ ३५.१७५ ॥ भर्तुर्निश्श्रेयसे युक्ता स्त्यक्तात्मादोरणे हताः । ब्रह्मलोकगतास्सन्तो नातिक्रामन्तिभूमिदम् ॥ ३५.१७६ ॥ यथा जनित्री क्षीरेण पुष्णाति स्वसुतं मुदा । एवं सर्वगुणैर्भूमिर्दातारमनुपुष्यति ॥ ३५.१७७ ॥ अग्निष्टोमादिभिर्यज्ञैरिष्ट्वा विपुलदक्षिणैः । न तत्फलमवाप्नोति यद्दत्वा वसुधां पुनः ॥ ३५.१७८ ॥ मृत्योर्हि किङ्करा दण्डा ह्यग्नितापास्सुदारुणाः । घोराश्च वारुणाः पाशा नोपसर्पन्ति भूमिदम् ॥ ३५.१७९ ॥ पीतरः पितृलोकस्था देवलोके दिवौकसः । सन्तर्पयन्ति दातारं भूमेः प्रभवतांनरः ॥ ३५.१८० ॥ आदित्या इव दीप्यन्ते तेजसा दि मानवाः । ये प्रयच्छन्ति वसुधां हरये लोकसाक्षिणे ॥ ३५.१८१ ॥ कृशाय कृशभृत्याय वृत्तिं क्षीणाय सीदते । देवाग्रेर्ऽप्यतु विप्राय सुश्रीर्भवति मानवः ॥ ३५.१८२ ॥ आस्फोटयन्ति पितरः प्रनृत्य नि पितामहाः । भूमिदो नः कुले जातस्सवस्सन्तारयिष्यति ॥ ३५.१८३ ॥ स नः कुलस्य पुरुषस्सनो बन्धुस्सनो गुरुः । स दाता स च विक्रान्तो यो ददाति वसुंधराम् ॥ ३५.१८४ ॥ लोकांस्तु सृजता पूर्वं गावस्सृष्टास्स्वयंभुवा । वृद्ध्यर्थं सर्वभूतानां तस्मात्ता मातरस्स्मृताः ॥ ३५.१८५ ॥ तास्तुदत्वा सौरभेयीस्स्वर्गेलोके महीयते । धेनुं दत्वा सुव्रतां च सोपधानां पयस्विनीम् ॥ ३५.१८६ ॥ सवत्सां कपिलां दिव्यामाचार्यायार्चकाय च । देवदेवस्य तुष्ट्यर्थं देवाय ब्राह्मणाय वा ॥ ३५.१८७ ॥ न तस्य शक्यते वक्तुं फलं वर्षशतैरपि । यावन्ति धेन्वालोमानि वत्सायाश्च विशेषतः ॥ ३५.१८८ ॥ तावद्वर्ष सहस्राणि कामान् दुह्येत सा वरा । प्रयच्छते यःकपिलां सवत्सां कांस्यजोहनाम् ॥ ३५.१८९ ॥ स्वर्णश्रुङ्गीं रौप्यखुरां तैस्तैर्द्रव्यगुणैः पुनः । सा गौः कामदुघा भूत्वा दातारमुपसर्पति ॥ ३५.१९० ॥ गोसहस्रं तु यो दद्यात्सर्वरत्नैरलङ्कृतम् । परां वृद्धिंश्रियं प्राप्य स्वर्गलोके महीयते ॥ ३५.१९१ ॥ दश चोभयतःप्रेत्य माता महपितामहाः । गच्छेत्सुकृतिनां लोकान् गावो दत्वा यथाविधि ॥ ३५.१९२ ॥ दायाद्यलब्धैर्योगाद्यैर्गावस्सम्पाद्य योददेत् । तस्यापि चाक्षया लोका भवन्तीह परत्र च ॥ ३५.१९३ ॥ यो वा द्यूते धनं जित्वागावःक्रीत्वा प्रयच्छति । स गच्छेद्विरजान् लोकान् गोप्रदानफलार्जितान् ॥ ३५.१९४ ॥ प्रतिगृह्यतु यो दद्याद्गावश्शुद्धेन चेतसा । स गत्वा दुर्लभं स्थानममरैस्सह मोदते ॥ ३५.१९५ ॥ यश्चात्मविक्रयं कृत्वा गावो दद्याद्यधाविधि । स गत्वा विरजान् लोकान् सुखं वसति देववत् ॥ ३५.१९६ ॥ संग्रामे यस्तनुं त्यक्त्वा त्वक्त्वा गावःप्रयच्छति । देहविक्रय मूल्यास्ता श्शाश्वताः कामदोहनाः ॥ ३५.१९७ ॥ जीर्णां चैवोपभुक्राञ्च जरद्गां शीलवर्जिताम्, । तमः प्रविशते दत्वा द्विजं क्लेशेन योजयेत् ॥ ३५.१९८ ॥ दानयोग्या भवेस्नैव कृशा दुष्टा पलायिनी । युञ्ज्यात्ल्केशैस्तु यो विप्रं दत्वैनां तद्वृधा भवेत् ॥ ३५.१९९ ॥ युवानं बलिनं श्यामं हलेन सह यूथपम् । गोपतिं हरये दद्याद्भूरिश्रुङ्गमलङ्कृतम् ॥ ३५.२०० ॥ ब्राह्मणानां गवां चैव कुलमेकं द्विधा कृतम् । एकत्र मन्त्रा स्तिष्ठन्ति हविरेकत्र तिष्ठति ॥ ३५.२०१ ॥ उपगम्य तु यो दद्याद्गावश्शुद्धेन चेतसा । यावन्तितासां रोमाणि तावत्स्वर्गे महीयते ॥ ३५.२०२ ॥ प्रवक्ष्यामि गवांलोका यादृशायत्र संस्थिताः । मनोज्ञा रमणीयाश्च सर्वकामदुहास्सदा ॥ ३५.२०३ ॥ पुण्याःपापहराश्चेव गवां लोका न संशयः । अत्यन्तसुखिनस्तत्र सर्वपापविवर्जिताः ॥ ३५.२०४ ॥ प्रमोदन्ते महास्थ्साने नरा विगतकल्मषाः । तुल्यप्रभावा देवैस्ते मोदन्ते प्सरसां गणैः ॥ ३५.२०५ ॥ गन्धर्वैरुपगीयन्ते गोशरण्या न संशयः । ब्राह्मणास्साधुवृत्ताश्च दयावन्तोऽनुकंपकाः ॥ ३५.२०६ ॥ घृणिनश्शुभकर्तारो मोदन्तेदैवतैस्सह । यथैव सलिले मत्स्यस्सलिलेन सहोष्य ते ॥ ३५.२०७ ॥ गोभिः पापकृतं कर्म दृढमेव व्यपोह्यते । मातरस्सर्वभूतानां प्रजानां रक्षणे कृताः ॥ ३५.२०८ ॥ ब्रह्माणा लोकसारेण गावःपापभयापहाः । तानु दत्तासु लोकेऽस्मिन् किं न दत्तं भवेदिह ॥ ३५.२०९ ॥ देवेशाय विशेषेण तत्क्रियाय तथा पुनः । प्रतिपाद्यास्सदा गानो भूतिं स्भारामभीप्सुभिः ॥ ३५.२१० ॥ सुवर्णं परमं दानं सुवर्णं दक्षिणा परा । एतत्पवित्रं परममेतत्स्वस्त्ययनं महत् ॥ ३५.२११ ॥ दशपूर्वान् परान् वंश्यानात्मानं च विशेषतः । अपिपापशतं कृत्वा दत्तं विप्रिषु तारयेत् ॥ ३५.२१२ ॥ सुवर्णं ये प्रयच्छन्ति नराश्शुद्धेव चेतसा । देवतास्ते प्रयच्छन्ति समस्तमिति नश्श्रुतम् ॥ ३५.२१३ ॥ अग्निर्हि देवतास्सर्वास्सुवर्णं च हुताशनः । तस्मात्सुवर्णं ददता दत्तास्सर्वाश्च देवताः ॥ ३५.२१४ ॥ अग्न्यभावे च कुर्वन्ति वह्निस्थाने च काञ्चनम् । सर्वदेवप्रमाणज्ञा वेदश्रुतिनिदर्शनात् ॥ ३५.२१५ ॥ यस्त्वेनं ज्वलयेदग्निमादित्योदयनं प्रति । दद्याद्वै देवमुद्दिश्य सर्वान्कामानवाप्नुयात् ॥ ३५.२१६ ॥ सुवर्णदस्सर्वलोके कामानिष्टानवाप्नुते । विरजांबरसंवीतः परियाति ततस्ततः ॥ ३५.२१७ ॥ विमानेनार्कवर्णेन भास्वरेण विराजता । अप्सरोगणसंकीर्णो भास्वरस्तेन तेजसा ॥ ३५.२१८ ॥ हंसबर्हिणयुक्तेन कामगेन नरोत्तमः । दिव्यगन्धवहस्स्वर्गे परिगच्छन्नितस्ततः ॥ ३५.२१९ ॥ तस्मात्स्वशक्त्या दातव्यं काञ्चनं मानवैर्भुवि । विमानेनार्कवर्णेन स याति स्वर्गमुत्तमम् ॥ ३५.२२० ॥ न ह्यतः परमं लोके सद्यः पापविनाशनम् । ब्रह्मकोशस्य शुद्धस्य सुवर्णं यः प्रयच्छति ॥ ३५.२२१ ॥ बहून्यब्दसहस्राणि स्वर्गेलोके महीयते । इति संक्षेपतः प्रोक्तं स्वर्णदानफलं मया ॥ ३५.२२२ ॥ अथ वक्ष्ये विशेषेण फलमन्नस्य दापनात् । विष्णवे च श्रियै भूम्यै सर्वदेवेभ्य एव च ॥ ३५.२२३ ॥ तन्नि वेदित शेषस्य दानाच्चार्थिभ्य आदरात् । न शक्यते फलं तस्य वक्तुं वर्षशतैरपि ॥ ३५.२२४ ॥ तथापि गीयते यत्तु विस्तारात्परमर्षिभिः । संक्षेपतः प्रवक्ष्यामि अन्नदानार्जितं फलम् ॥ ३५.२२५ ॥ प्रसादममृतं ब्रूयादन्नं देवनिवेदितम् । तीर्थं चामृतमित्येव देवपादोदकं वदेत् ॥ ३५.२२६ ॥ अन्नमेव प्रशंसन्ति देवा ऋषिगणास्तथा । लोकतन्त्रं हि संज्ञाश्च सर्वमन्ने प्रतिष्ठितम् ॥ ३५.२२७ ॥ अन्नेन सदृशं दानं न भूतो न भविष्यति । तस्मादन्नं विशेषेण दातुमिच्छन्ति मानवाः ॥ ३५.२२८ ॥ अन्नमूर्जस्करं लोके प्राणाश्चान्ने प्रतिष्ठिताः । अन्नेन धार्यते सर्वं विश्वं जगदिदं महत् ॥ ३५.२२९ ॥ अन्नाद्गृहस्था लोकेस्मिन् भिक्षवस्तापसास्तथा । अन्नाद्भवन्ति वै प्राणाः प्रत्यक्षं नात्र संशयः ॥ ३५.२३० ॥ कुटुंबं पीडयित्वा तु ब्राह्मणाय महात्मने । दातव्यं भिक्षवे चान्नमात्मनो भूतिमिच्छता ॥ ३५.२३१ ॥ ब्राह्मणायाभिरूपाय यो दद्यादन्नमर्थिने । विदधाति निधिं श्रेष्ठं पारलौकिकमात्मनः ॥ ३५.२३२ ॥ श्रान्तमध्वनि वर्तन्तं वृद्धमर्हमुपस्थितम् । अर्चयेद्भूतिमन्विच्छन् गृहस्थो गृहमागतम् ॥ ३५.२३३ ॥ क्रोधमुत्पतितं हित्वा सुशीलो वीतमत्सरः । अन्नदः प्राप्नुते भू यो भुवि चेह च यत्सुखम् ॥ ३५.२३४ ॥ नावमन्येदभिगतं न प्रणुद्यात्कथं चन । अपि श्वपाके शुनि वा न दानं विप्रणश्यति ॥ ३५.२३५ ॥ यो दद्यादपरिक्लिष्टमन्न मध्वनि वर्तते । शान्तायादृष्टपूर्वाय समहद्धर्ममाप्नुयात् ॥ ३५.२३६ ॥ पितॄन् देवानृषीन्विप्रानतिथींश्च विशेषतः । यो नरःप्रीणयत्यन्नैस्तस्य पुण्यफलं महत् ॥ ३५.२३७ ॥ कृत्वातिपातकं कर्मयो दद्यादन्न मर्थिने । ब्राह्मणाय विशेषेण न स पापेन मुह्यते ॥ ३५.२३८ ॥ ब्राह्मणेष्वक्षयं नाम्नां शूद्रे महत्भलम् । अन्नदामपि शूद्रे च ब्राह्मणस्य विशिष्यते ॥ ३५.२३९ ॥ न पृच्छेद्गोत्रचरणं स्वाध्यायं देशमेन च । भिक्षितो ब्राह्मणेनेह दद्यादन्नं प्रयाचितः ॥ ३५.२४० ॥ अन्नदस्यान्नवृक्षाश्च सर्वकामफलप्रदाः । भवन्ति चेह नामुत्रनृपतेर्नात्रसंशयः ॥ ३५.२४१ ॥ आशंसते हि पितरस्सुवृष्टिमिव कर्षकाः । अस्माकमपि पुत्रो वा पौत्रो वान्नं प्रदास्यति ॥ ३५.२४२ ॥ ब्राह्मणोहि महद्भूतं स्वयं देहीति याचते । अकामोवा सकामो वा दत्वा पुण्यमवाप्नुयात् ॥ ३५.२४३ ॥ ब्राह्मणस्सर्वभूतानामतिधिः प्रसृताग्रभुक् । विप्रा यमधिगच्छन्ति भिक्षमाणा गृहं सदा ॥ ३५.२४४ ॥ सत्कृताच्च निवर्तन्ते तदतीव प्रवर्थते । महाभोगे कुले प्रेत्य जन्म चाप्नोति नित्यशः ॥ ३५.२४५ ॥ दत्वात्वन्नं नरो लोके यथास्थानमनुत्तमम् । नित्यं मृष्टान्नदायी तु स्वर्गे वसति सत्कृतः ॥ ३५.२४६ ॥ अन्नं प्राणा नराणांहि सर्वमन्ने प्रतिष्ठितम् । अन्नदः पशुमान् पुत्री धनवान् भोगवानपि ॥ ३५.२४७ ॥ प्राणवांश्चापि भवति रूपवांश्च तथा भवेत् । अन्नदःप्राणदो लोके सर्वदः प्रोच्यते तु सः ॥ ३५.२४८ ॥ अन्नं हिदत्वातिथये ब्राह्मणाय यथाविधि । प्रदाता सुखमाप्नोति दैवतैश्चापि पूज्यते ॥ ३५.२४९ ॥ ब्राह्मणो हि महद्भूतं क्षेत्रभूतमिहोच्यते । उप्यते यत्र तद्बीजं तद्धि पुण्यफलं महत् ॥ ३५.२५० ॥ प्रत्यक्षप्रीतिजननं भोक्तुर्दातुर्भवत्युत । सर्वाण्यन्यानि दानानि परोक्षफलवन्त्युत ॥ ३५.२५१ ॥ अन्नाद्धि प्रसवं यान्ति रतिरन्नाद्धि जायते । धक्मार्थावन्नतो विद्यात्रोगनाशस्तथान्नतः ॥ ३५.२५२ ॥ अन्नं ह्यद्भुतमित्याह पुरा कल्पे प्रजापतिः । अन्नं भुवं दिवं खं च सर्वमन्ने प्रतिष्ठितम् ॥ ३५.२५३ ॥ अन्न प्रणाशे भिद्यन्ते शरीरे पञ्च धातवः । बलं बलवतोऽपीह प्रणश्यत्यन्नहानितः ॥ ३५.२५४ ॥ आवाहाश्च विवाहाश्च यज्ञाश्चान्नकृते तथा । निवर्तन्ते विशेषेण ब्रह्म चात्र प्रदीयते ॥ ३५.२५५ ॥ अन्नतस्सर्वमेतद्धि यत्किञ्चित्स्थाणु जङ्गमम् । त्रिषुलोकेषु धर्मार्थमन्नं देयं ततो बुधैः ॥ ३५.२५६ ॥ अन्नदस्य मनुष्यस्य बलमोजो यशांसि च । आयुश्च वर्धते तद्वत्तेषु लोकेषु निश्चितम् ॥ ३५.२५७ ॥ मेघादूर्ध्वं सन्निधत्तेप्राणानां पवनः पतिः । यच्च मेघगतं वारि शक्रो वर्षति हर्षितः ॥ ३५.२५८ ॥ आदत्ते च रसान् भौमानादित्यस्स्वगभस्तिभिः । वायुरादित्यतप्तांश्च रसान् देवःप्रवर्षति ॥ ३५.२५९ ॥ तद्यथा मेघतो वारि पतितं भवति क्षितौ । तदा वसुमती देवी स्निग्धा भवति भाविता ॥ ३५.२६० ॥ ततस्सस्यानि रोहन्ति येन वर्तयते जगत् । मांसमेदोऽस्थिशुक्राणां प्रादुर्भावस्ततः पुनः ॥ ३५.२६१ ॥ संभवन्ति ततश्शुक्रात्प्राणिनः पृधिवीतले । अग्निष्टोमौ हि तच्छ्रक्रं सृजतः पुष्यतश्च ह ॥ ३५.२६२ ॥ एवमन्नाद्धि सूर्यश्च पवनश्शुक्रमेवच । एक एव स्मृतो राशिस्ततो भूतानि जङ्गिरे ॥ ३५.२६३ ॥ प्राणान् ददाति भूतानां तेजश्च सततप्रभम् । गृहमभ्यागतायाथ यो दद्यादन्नमर्थिने ॥ ३५.२६४ ॥ अन्नदानाद्धि येलोकास्तांश्रुणुध्वं समाहिताः । भवनानि प्रकाशन्ते दिवि तेषां महात्मनाम् ॥ ३५.२६५ ॥ तारासंस्थानरूपाणि नाना स्तंभान्वितानि च । चन्द्रमण्डलशुभ्राणि किङ्किणीजालवन्ति च ॥ ३५.२६६ ॥ तरुणादित्यवर्णानि स्थावराणि चराणिच । अनेकशतभौमानि सांतर्जलचराणि च ॥ ३५.२६७ ॥ वैडूर्यार्कप्रकाशानि रौक्मरूप्यमयानि च । सर्वकामफलाश्चापि वृक्षा भवनसंस्थिताः ॥ ३५.२६८ ॥ वाप्यो वीथ्यः सभाः कूपादीर्घि काश्चैव सर्वशः । घोषवन्त्यथ यानानि मुक्तान्यथ सहस्रशः ॥ ३५.२६९ ॥ भक्ष्यभोज्यमयाश्शैला वासांस्याभरणानि च । क्षीरं स्रवन्ति सरितस्तथा चैवान्न पर्वताः ॥ ३५.२७० ॥ प्रासादाः पाण्डुराभ्राभाश्शय्याश्च कनकोज्ज्वलाः । तान्यन्नदाः प्रपद्यन्ते तस्मादन्नं ददेत्सदा ॥ ३५.२७१ ॥ दद्यादद्यात्सदैवान्नं विष्णवे विनिवेदितम् । हविःपात्रादि सौवर्णं राजतं ताम्रमेव वा ॥ ३५.२७२ ॥ कांस्यं वाप्यथ यो दद्यादर्घ्य पात्रादिकानपि । कलशान् करकान् कुंभानन्यांश्चैव परिच्छदान् ॥ ३५.२७३ ॥ शक्तिलोभमकृत्वैव तस्य पुण्यफलं महत् । सौवर्णान्येवयो दद्यात्सारूप्यं लभते फलम् ॥ ३५.२७४ ॥ राजतान्यथ योदद्यात्सामीप्यं फलमाप्नुयात् । दद्यात्ताम्राणि कांस्यानि सारोक्यं पदमेति सः ॥ ३५.२७५ ॥ ध्वचान्विचित्रान् यो दद्यान्नानावर्ण समायुतान् । सर्वेषामुत्तमो भूत्वा कुलकेतुर्भविष्यति ॥ ३५.२७६ ॥ श्वेतं वितानं रक्तं वा कृष्णं पीतं च श्यामलम् । दुकूलेनाथ पट्टेन तन्तुनान्येन वा कृतम् ॥ ३५.२७७ ॥ यो दद्याद्देवदेवस्य स गच्छेद्वैष्णवं पदम् । सोपधानां सतल्पां च खट्वां दद्याच्च योहरेः ॥ ३५.२७८ ॥ कुबेरलोकमासाद्य तत्र सम्मोदते चिरम् । आतपत्रं तथा हैमं मुक्तादामविभूषितम् ॥ ३५.२७९ ॥ हैमदण्डयुतं दद्यादिन्द्रलोकं स गच्छति । राज्यकामी तु राजा स्यात्सार्वभौमोऽपि जायते ॥ ३५.२८० ॥ मयूरच्छत्रदानात्तु वारुणं लोकमाप्नुयात् । चामरं हेमदण्डं च व्यजनं रत्नभूषितम् ॥ ३५.२८१ ॥ केवलं हेमदण्डं वा भक्त्या शक्त्या च संयुतम् । अर्पयेद्धरये यस्तु देवलोके महीयते ॥ ३५.२८२ ॥ मयूरव्यजनं तद्वद्रुक्मदण्डं च शक्तितः । भक्त्यैव यो हरेर्दद्याद्वायुलोके महीयते ॥ ३५.२८३ ॥ विमानं हैवसंच्छन्नं विष्णोर्यः कारयेन्नरः । अशक्यं तत्फलं वक्तुं सर्वैरपि सुरासुरैः ॥ ३५.२८४ ॥ सौवर्मं विष्णुरूपन्तु यो भक्त्यैव तु कारयेत् । तस्यापि यत्फलं सर्वमनन्तमिति नश्श्रुतम् ॥ ३५.२८५ ॥ मण्डपं वा प्रपां वाथ रत्नमुक्तोपशोभितम् । हेमलंब? समायुक्तं हैमस्तंभपरिष्कृतम् ॥ ३५.२८६ ॥ कल्पयेद्विष्णुसालोक्यं प्राप्नोत्यमरदुर्लभम् । हैमं सिंहासनं श्रेष्ठं यो भक्त्यैवार्ऽपयेद्धरेः ॥ ३५.२८७ ॥ सिंहासनं समास्थाय माहेन्द्रीं संपदं व्रजेत् । हैमीर्याश्शिबिकाश्चैव रङ्गादीन्यश्च कारयेत् ॥ ३५.२८८ ॥ हैमं यानं तथारुह्य विष्णुलोकं स गच्छति । अशक्तोदारवान् वाथरङ्गादीन् शिबिकास्तथा ॥ ३५.२८९ ॥ सिंहासनं वा यो दद्यात्सोमलोकं स गच्छति । यश्च कांस्यमयीं घण्टांहृद्यध्वनियुतां ददेत् ॥ ३५.२९० ॥ हृद्यवाक्सुस्वरो हृद्यो वाग्मी स तु भवेन्नरः । शङ्खभेर्यादिदानेन शक्रलोके स पूज्यते ॥ ३५.२९१ ॥ नृत्तगेयादिभिर्वाद्यैर्घोषणं कारयेत्तु यः । नर्तयेदप्सरोभिर्वा गान्धर्वं लोकमाप्नुयात् ॥ ३५.२९२ ॥ वीणावेणुविनादैश्च शक्त्या यः पूजयेद्धरिम् । भुक्त्वात्रमहदैश्वर्यं वैष्णवं पदमाप्नुयात् ॥ ३५.२९३ ॥ यद्यद्द्रव्यं मुदा युक्तो दद्यात्तु हरये नरः । तदग्रे पूजकेभ्यश्च गुरवे च विशेषतः ॥ ३५.२९४ ॥ तत्प्रीत्यै चेतरेभ्यश्च ब्राह्मणेभ्यो विधानतः । समृद्धिं तस्य तस्यैव द्रव्यस्याप्नोत्यसंशयम् ॥ ३५.२९५ ॥ यं कामयित्वा दद्याद्यत्तत्सर्वं स लभेन्नरः । यद्यत्कर्म तदर्थं स्यात्परिचर्या च तस्य या ॥ ३५.२९६ ॥ तस्योपचारं यत्कर्म करोति श्रद्धया तु यः । सर्वयज्ञफलं प्राप्य नामीप्यं पदमाप्नु यात् ॥ ३५.२९७ ॥ तस्मादत्र प्रतिष्ठाप्य देवदेवस्य मन्दिरम् । शक्तिलोभमकृत्वैव विभवानाञ्चभक्तितः ॥ ३५.२९८ ॥ बहुधा बहुलां वृत्तिं कल्पयेच्चेत्तदुत्तमम् । अथार्ऽचने फलं वक्ष्ये विशेषेण मधुद्विषः ॥ ३५.२९९ ॥ भक्त्याप्रदक्षिणं कुर्वन्नित्यं विष्ण्वालये नरः । सायं प्रातश्च देवेशं नमस्यन्नथ चिन्तयन् ॥ ३५.३०० ॥ यः प्रमामं मुहुः कुर्यात्स तु यज्ञफलं लभेत् । उपचारविशेषाणाद्वक्ष्यते फलम् ॥ ३५.३०१ ॥ ध्यानमावाहनं कृत्वा सर्वान् कामानवाप्नुयात् । अष्टाङ्गयोगमार्गेण मनसा भावयन् हरिम् ॥ ३५.३०२ ॥ संचिन्त्य मनसा पूर्वं पूतकायो महामनाः । यः कुर्यात्पूजनं विष्णोस्तत्र देवो वसेद्ध्रुवम् ॥ ३५.३०३ ॥ अर्चकस्य तपोयोगात्पूजाया श्चातिशायनात् । आभिरूप्याच्च बिंबस्य सन्निधेः प्रोच्यते हरेः ॥ ३५.३०४ ॥ आसनं हरये दत्वा प्रतिष्ठां लभते चिरम् । स्वागतेनानुमानेन यः पूजयति माधवम् ॥ ३५.३०५ ॥ सर्वैरनुमतो भूत्वा स्वागतं सोऽभिपद्यते । पाद्यमाचमनीयं च समर्प्य हरये नरः ॥ ३५.३०६ ॥ बाह्यमाभ्यन्तरं यत्तु पापं तेन विमुच्यते । नित्यं पुष्पाणि पुण्यानि भक्त्या यस्तु समर्चयेत् ॥ ३५.३०७ ॥ सूर्यकोटिनिभं दिव्यं विमानमधिरुह्यसः । विष्णुलोकं गतस्सत्यं विष्णुवन्मोदते चिरम् ॥ ३५.३०८ ॥ देवेशं पुष्पमालाद्यैरलङ्कुर्याच्च यो बुधः । तस्यानन्तफलं प्रोक्त मनन्तो भगवान् हरिः ॥ ३५.३०९ ॥ चंपकाशोकपुन्नाग जातीमलयपङ्कजम् । समर्प्य देवदेवाय शुभानामाश्रयो भवेत् ॥ ३५.३१० ॥ दमनोशीरलामज्जा केतक्युत्पलमर्पयेत् । मङ्गलं तस्य निश्छिद्रं भवेदेव न संशयः ॥ ३५.३११ ॥ तुलसीमर्पयेद्विद्वान् पादयोर्भक्तितो हरेः । स चान न्तफलं प्राप्य मोदते विष्णुसन्नेधौ ॥ ३५.३१२ ॥ सुगन्धिपुष्पदानेन सुगन्धिर्जायते नरः । बहुपुष्पप्रदानेन बहुधा तुष्यते?हरिः ॥ ३५.३१३ ॥ बहुजातिसुमानां च दानेन प्रीयते स वै । पादयोरर्पणाद्विष्णोः पुष्पाणां संचयं सकृत् ॥ ३५.३१४ ॥ पदेपदे चाश्वमेधफलं प्राप्नोत्यसंशयम् । तुलसीं मूर्थ्नि देवस्य समर्प्य मधुविद्विषः ॥ ३५.३१५ ॥ नरः पापाद्विमुच्येत कर्मणा नोपलिप्यते । सर्वाङ्गेष्वर्पयन् पुष्पं सर्वगस्य नरो हरेः ॥ ३५.३१६ ॥ सर्वदा सर्वलोकेषु कामचोरो भविष्यति । अलङ्कृत्य फलैर्देवं पुष्पार्पणफलं लभेत् ॥ ३५.३१७ ॥ संगन्धचन्दनद्रव्यं कर्पूरादियुतं तथा । यथार्हमर्पयेदङ्गेश्लक्ष्णं सर्वाङ्गसुन्दरम् ॥ ३५.३१८ ॥ स नरो विष्णुसालोक्यं प्रयात्यमरदुर्लभम् । स्वयमेवाहृतैः पुष्पैः पूजयेद्यस्तु माधवम् ॥ ३५.३१९ ॥ स सर्वान् समवाप्नोति पुष्पार्पणफलादिकान् । सर्वेषामपि पुष्पाणां तुलसी प्रीतिदा हरेः ॥ ३५.३२० ॥ तुलसीदलमादाय यत्र गच्छति पूजकः । अनुगच्छति तं देवो यथा गोर्वत्सला भृशम् ॥ ३५.३२१ ॥ प्रत्यहं पूजयेद्यस्तु तुलस्या गरुडध्वजम् । जन्ममृत्युजराव्याधिमुक्तो मुक्तिमवाप्नुयात् ॥ ३५.३२२ ॥ मणिकाञ्चनपुष्पाणि मुक्तावैदूर्यकानि च । तुलसीदलदानस्य कलां नार्ऽहन्ति षोडशीम् ॥ ३५.३२३ ॥ सुमञ्जरीदलैर्युक्तैः कोमलैस्तुलसीदलैः । ये कुर्वन्ति हरेः पूजां ते कृतार्थाः कलौ युगे ॥ ३५.३२४ ॥ शुष्कं पर्युषितं वार्ऽद्रं काष्ठं वा तुलसीदलम् । अर्चने वासुदेवस्य लक्षकोटिगुणं भवेत् ॥ ३५.३२५ ॥ तुलसीग्रहणं शस्तं विष्णोरर्चनहेतवे । वर्ज्यं पर्युषितं पुष्पं न वर्ज्यं तुलसीदलम् ॥ ३५.३२६ ॥ वर्ज्यं पर्युषितं तोयं न वर्ज्यं जाह्नवीजलम् । अन्यत्पर्युषितं वर्ज्यं न वर्ज्यं पद्मपुष्पकम् ॥ ३५.३२७ ॥ शुष्कैः पर्युषितैर्वापि काष्ठमूलमृदादिभिः । अर्चनाद्वासुदेवस्य मुक्तो भवति पूरुषः ॥ ३५.३२८ ॥ पुष्कराद्यानि तीर्थानि गङ्गाद्यास्सरितस्तथा । देवा दिविस्थिता ये वैतिष्ठन्ति तुलसीदले ॥ ३५.३२९ ॥ तावद्गर्जन्ति पुष्पाणि मालत्यादीनि गर्वतः । यावन्न प्राप्यते पुण्या तुलसी विष्णुवल्लभा ॥ ३५.३३० ॥ सकृदभ्यर्च्य गोविन्दं तुलस्या चैव मानवः । मुक्तिभागी निरातङ्कं कृष्णस्यानुचरो भवेत् ॥ ३५.३३१ ॥ नाक्षतैरर्चयेद्विष्णुं न शंभुं शङ्खवारिणा । नार्चयेद्दूर्वया दुर्गां न तुलस्या सुरान्तरम् ॥ ३५.३३२ ॥ दलालाभे तुलस्यास्तु पत्रैराराधयेद्धरिम् । पत्रालाभे शिफाभिर्वा शिफाभावे शिफालवैः ॥ ३५.३३३ ॥ लवालाभे मृदा तत्र भक्तिमानर्चयेद्धरिम् । हरेरभ्यर्चनायां च तुलसी साधनं परम् ॥ ३५.३३४ ॥ अलाभे तुलसी च तन्नामग्रहणं परम् । भगवानरविन्दाक्षस्सन्तुष्यति सहस्रधा ॥ ३५.३३५ ॥ न पद्मैर्नापि कल्हारैर्न हेमकुसुमैरपि । तथा तुष्यति गोविन्दो यथैन तुलसीदलैः ॥ ३५.३३६ ॥ संगृह्य तुलसीं भक्त्या सर्वानिष्ट । तुलस्यैव हरेः पूजां ये कुर्वन्ति सदा भुवि ॥ ३५.३३७ ॥ तस्मात्तुलस्या सदृशं स च भूतं न भावि च । तुलसीकाननामोदवापिता यत्र मारुताः ॥ ३५.३३८ ॥ न तत्र धरणीभागे चरन्ति यमकिङ्कराः । "तुलसी तुलसीऽऽत्येवं नामान्यावर्तयन्तिये ॥ ३५.३३९ ॥ ते विष्णुलोकमासाद्य पश्यन्ति मधुसूदनम् । दर्शनाच्छ्रवणात्स्वर्शात्स्मरणात्कीर्तनादपि ॥ ३५.३४० ॥ पुनाति तुलसी पुण्या दशपूर्वान् दशावरान् । तुलसीकाननं यत्र यत्र वा हरिकीर्तनम् ॥ ३५.३४१ ॥ तत्रैवास्ते हरिश्श्रीमान् शङ्खचक्रगदायुधः । यः पूजयेत्फलैर्विष्णुं नुपक्वैरमृतोपमैः ॥ ३५.३४२ ॥ पुण्यवृक्षसमुद्भूतैस्तत्फलं केन वर्ण्यते । चन्दनागुरुकोष्ठ्वाद्यैर्भूपमाघ्रापयेच्चयः ॥ ३५.३४३ ॥ सूर्यलोकं स गत्वैव याति विष्णोः परं पदम् । घृतेन कापिलेनैव दृढवर्तियुतं तु यः ॥ ३५.३४४ ॥ दर्शयेद्देवदेवस्य दीपं दृष्टिमनोहरम् । सोऽन्धं नैव प्रविशति नरकं नरपुङ्गवः ॥ ३५.३४५ ॥ यस्तु तैलेन संदीप्तं दर्शयेद्दीपमुज्ज्वलम् । विमानमतिविद्योति यात्यारुह्य तमःपरम् ॥ ३५.३४६ ॥ कर्बूरदीपं यो भक्त्या दर्शयेद्धरये नरः । तस्य पापानि नश्यन्ति निर्लेपस्स भविष्यति ॥ ३५.३४७ ॥ विधिनार्ऽघ्यं हरेर्दद्यादष्ठाङ्गं भक्तितो नरः । चन्द्रलोकं स गत्वैव याति विष्णोः परं पदम् ॥ ३५.३४८ ॥ सुगन्धि शुभमुत्पूतं स्नानतोयं च यो ददेत् । देवेशस्य विशेषण स भवेद्वीतकल्मषः ॥ ३५.३४९ ॥ ततश्च वारुणं लोकं प्राप्य तत्रैव मोदते । प्लोतवस्त्रोत्तरीयाणि विशुद्धानि मृदूनि च ॥ ३५.३५० ॥ देवदेवस्य दत्वा तु सौम्यं लोकमवाप्नुयात् । कार्पासमथ च क्षौमं कौशेयं राङ्कवं तथा ॥ ३५.३५१ ॥ यथाशक्ति समर्प्यैव फलं चानन्तमश्नुते । कार्पासाद्राङ्गवं तस्मात्कौ शेयं क्षौममित्यपि ॥ ३५.३५२ ॥ प्रशस्तं कथितं वस्त्रं यथा शक्त्यनुरूपतः । सौवर्णाभरणान्यत्र मुक्तामणिकृतानि वा ॥ ३५.३५३ ॥ अर्पयेद्देवदेवस्य भवेद्भूमिपतिस्स हि । जांबूनदं शातकुंभं हाटकं वैणवं तथा ॥ ३५.३५४ ॥ श्रुङ्गी च शुक्तिजं चैव जातरूपमतः परम् । रसविद्धं तथा प्रोक्तमाकरोद्गतमित्यपि ॥ ३५.३५५ ॥ प्रोक्तं बहुविधं हेम पूर्वात्पूर्वात्परं परम् । प्रत्युप्तानि विशेषेण रत्नैर्नावाविधैर्हरेः ॥ ३५.३५६ ॥ भूषणान्यर्पयेद्भक्त्या मित्राण्यस्य नवग्रहाः । राजश्रियं च भुक्त्वा न्ते विष्णुलोकं स गच्छति ॥ ३५.३५७ ॥ उपवीतं तु यो दद्यात्सौवर्णैस्तन्तुभिः कृताम् । द्विजोत्तमस्स्याद्विज्ञानी ब्रह्मलोकमवाप्नुयात् ॥ ३५.३५८ ॥ सालग्रामैश्च बहुभिर्निर्मितां मालिकां तु यः । अर्पयेद्देवदेवस्य स विष्णोर्याति सन्निधिम् ॥ ३५.३५९ ॥ लक्ष्मीः प्रियतमा विष्णोस्सा हि नित्यानपायिनी । स्वसंकाल्पानुविद्धा च शक्तिस्सर्वात्मिका परा ॥ ३५.३६० ॥ प्रकृतेर्मूलभूता च स्वामिनी जगतां सताम् । लक्ष्मीप्रतिकृतिं कृत्वा मणिमुक्तादिभिर्मुना ॥ ३५.३६१ ॥ आबध्य मालिकायां यो देवेशाय समर्पयेत् । तस्य प्रसन्नौ जायेते दंपती जगतः पती ॥ ३५.३६२ ॥ मात्रां च देवदेस्य दत्वा हस्ते विशेषतः । सर्वान् कामानवाप्नोति चरांशस्तर्पितो हरेः ॥ ३५.३६३ ॥ मधुपर्कं हरेर्दद्याद्भक्त्या प्रीतिकरं हरेः । विरजांऽ बरसंवीतश्शशाङ्कधवलो मुदा ॥ ३५.३६४ ॥ चन्द्रलोकाधिपो भूत्वा यायाद्विष्णुपदं महत् । हविर्नि वेद्य देवस्य प्रतिष्ठाफलमश्नुते ॥ ३५.३६५ ॥ प्रभूतं विनिवेद्यैव जीर्णोद्धारफलं तथा । पायसं विनिदेद्यैव हरेर्भक्त्या विशेषतः ॥ ३५.३६६ ॥ पयोह्रदैश्च पितरस्तृप्तिमायान्ति तस्यतु । कृसरं विनिवेद्यैव देवस्य मुदितो नरः ॥ ३५.३६७ ॥ अक्षयं प्रतिपद्येत स्वगृहेऽन्नं चिरं चिरम् । गौल्यं निवेद्य देवस्य प्राप्नोति गुडपर्वतान् ॥ ३५.३६८ ॥ मुद्गान्नस्य प्रदानेन मुद्गराशिं समाप्नुयात् । यवोदनस्य दोनेन नीरोगो भवति ध्रुवम् ॥ ३५.३६९ ॥ शुद्धान्नस्य प्रदानेन त्रिशुद्धा भवति प्रजा । अपूपादिप्रदानेन मनस्वी जायते नरः ॥ ३५.३७० ॥ उपदंशादिदानेन नोपदंशो भविष्यति? । सुगन्धि स्वादु शुद्धं च पानीयं यो हरेर्ददेत् ॥ ३५.३७१ ॥ हविर्दानफलस्यार्धं फलं सम्यक्समश्नुते । कदल्या नारिकेलस्य चूतस्य पनसस्य च ॥ ३५.३७२ ॥ फलानि च नुपक्वानि भक्त्या शुद्धानि यो ददेत् । हविर्दानाच्चतुर्भागं फलं सोऽपि समाप्नुयात् ॥ ३५.३७३ ॥ कर्पूरैलालवङ्गैश्च तथा जातीफलादिभिः । मातुलुङ्गफलैश्शुद्धैस्सुपक्वैश्च युतं तथा ॥ ३५.३७४ ॥ तांबूलं क्रमुकैर्युक्तं मुखवासं च यो ददेत् । सर्वैश्वर्यमवाप्नोति विष्णुलोकं च गच्छति ॥ ३५.३७५ ॥ विधिना बलिमाराध्य कारयेद्यः प्रदक्षिणम् । बलं बलवतां लब्ध्वा विष्णुलोकं स गच्छति ॥ ३५.३७६ ॥ बलिं सेवेत यो भक्त्या सोऽपि यज्ञफलं लभेत् । देवस्य मण्डपं कुर्याद्गन्धपुष्पैः प्रपान्तुवा ॥ ३५.३७७ ॥ सर्वैश्वर्यमवाप्यैव नित्यपुष्पफलं व्रजेत् । विष्णोः कथास्तु संकीर्त्यस्तोत्रैः स्तुत्वा च वैष्णवैः ॥ ३५.३७८ ॥ श्रुत्वाभक्त्या हरिं ध्यायन् विष्णुलोके महीयते । सौम्यान् पुण्यानिमान् विष्णोश्चतुरोऽप्यर्चनाविधीन् ॥ ३५.३७९ ॥ श्रावयेद्यो बुधो भक्त्या तथा यश्श्रुणुयादपि । सर्वपापविनिर्मुक्ता वैष्णवं पदमाप्नुयुः ॥ ३५.३८० ॥ अथोत्सवादिकरणे फलं वक्ष्ये मधुद्विषः । सकामानां फलं काम्यमकामानां परं पदम् ॥ ३५.३८१ ॥ उत्सवं तु प्रवक्ष्यन्ति देवदेवार्चनां सुराः । उत्साह उत्सवः प्रोक्तो मनुष्याणां विशेषेतः ॥ ३५.३८२ ॥ उदित्युत्कृष्टशब्दोऽयं सवो यज्ञ उदाहृतः । तस्मादुत्तमयज्ञत्वादुत्सवः परिभाष्यते ॥ ३५.३८३ ॥ वाजिमेधास्तयागानां तस्माद्देवोत्सवो वरः । उत्सवं देवदेवस्य यः कुर्यात्स्वकुलं स्वकम् ॥ ३५.३८४ ॥ उत्तारयन् स्वयं विष्णोस्स याति परमं पदम् । सवादुत्तारणं यस्मादुत्सवः परिकीर्त्यते ॥ ३५.३८५ ॥ स यज्ञो वो नरान् युष्मानुत्तारयति निश्चयम् । इति वेदा वदन्तीति स उत्सव उदीर्य ते ॥ ३५.३८६ ॥ वाजीमेधसहस्रेण यजतो यत्फलं भवेत् । यश्चोत्सवेन यजते तयोस्तुल्यं फलं न्मृतम् ॥ ३५.३८७ ॥ यागानामपि सर्वेषां फलमुत्सवकर्मणा । देवस्याश्नुवते सर्वं ये यजन्ते संशयः ॥ ३५.३८८ ॥ सवानुत्क्रमते यस्मात्तस्मादुत्सव उछ्यते । उपकुर्वन्ति ये मर्त्या देवस्योत्सवकर्मणि ॥ ३५.३८९ ॥ कर्माणा मनसा वाचा तेऽपि यान्ति फलं बहु । ग्रामे वा रगरे वऽपि पत्तने वा महोत्सवः ॥ ३५.३९० ॥ यत्र प्रवर्तते विष्णोस्संपदस्सन्ति तत्र वै । यत्र देशे जनपदे राष्ट्रे वा प्युत्सवो हरेः ॥ ३५.३९१ ॥ नापमृत्युभयं तत्र नैनावग्रहसंभवः । नैव चोराद्युपहतिर्न तापत्रयसंगतिः ॥ ३५.३९२ ॥ धर्मश्चतुष्पाद्वर्तेत कलौ तत्रादिमो युगः । धार्मिकश्च भवेद्राजा प्रजा धर्मपरायणाः ॥ ३५.३९३ ॥ भवन्ति सुखिनस्सर्वे सर्वदुःखविवर्जिताः । महोत्सवे वर्तमाने यदर्थिभ्यः प्रदीयते ॥ ३५.३९४ ॥ पानीयमन्नं वस्त्रं वा तत्सहस्रगुणं भवेत् । पुष्पमुलफलैरिज्या देवस्याभरणादिकैः ॥ ३५.३९५ ॥ क्रियमाणा यथाशक्ति नित्यानन्त्याय कल्पते । सेवन्ते तत्र ये देवमहर्निशमतन्द्रिताः ॥ ३५.३९६ ॥ तेषां पुण्यफलं वक्तुं नालं देवास्सहासुराः । आलेपनं मार्जनं च रजः प्रशमनं तथा ॥ ३५.३९७ ॥ वारिभीर्दीपिकारोपं क्ष्वेलनास्फोटनादिकम् । कुर्वन्तिये ब्राह्मलोकं प्रयान्त्यमरदुर्लभम् ॥ ३५.३९८ ॥ यानं वहन्ति ये विप्रास्ते यान्ति ब्रह्मणः पदम् । रथं वहन्ति ये चाश्वास्तेऽपि यान्तिसुरालयम् ॥ ३५.३९९ ॥ छत्रादिधारिणश्चापि मोदन्ते दिवि मानवाः । आचार्याश्चार्चकाश्चैव तथैव परिचारकाः ॥ ३५.४०० ॥ उत्सवेऽधिकृता विष्णोः प्राप्नुवन्ति यथेप्सितम् । ऋचो यजूंषि सामानि ये तत्राधीयते जनाः ॥ ३५.४०१ ॥ ते परे व्योम्नि देवस्य पार्श्वे वर्तन्ति निस्स्पृहाः । सर्वशान्तिकरं सर्वदुःखोत्सादनमुत्तमम् ॥ ३५.४०२ ॥ राज्ञो राष्ट्रस्य सुखदमायुरारोग्य वर्धनम् । प्रजानां वासुदेवस्य कल्याणाराधनं महत् ॥ ३५.४०३ ॥ इमं देवादयस्सर्वे विष्णोरुत्सवमुत्तमम् । कृत्वा शाश्वतिकं स्थानं प्राप्नुवन्त्यतिदुर्लभम् ॥ ३५.४०४ ॥ अथ वक्ष्ये विशेषेण महास्नपनजं फलम् । येन द्रव्येण देवेशं स्नापयेद्यस्तुभक्तितः ॥ ३५.४०५ ॥ तद्द्रव्यं वर्थते तस्य नश्यं त्येवाशुभानि तु । राज्ञो राष्ट्रस्य तद्द्रव्यं समृद्ध्यैव भविष्यति ॥ ३५.४०६ ॥ अशुभानि विनश्यन्ति शूभानि प्रभवन्ति च । निर्माति यःप्रपां विष्णोर्देवस्य न्नपनाय वै ॥ ३५.४०७ ॥ तस्य निर्मीयते गेहस्स्वर्गे स्वर्गनिवासिभिः । मृद्भिस्संस्नापनाद्भूमिस्सर्वसस्यान्विता भवेत् ॥ ३५.४०८ ॥ नगैः प्रदक्षिणादेव गोत्रस्य स्थितिराप्यते । धान्यैस्संस्नापनाद्विष्णोर्धान्यानां वृद्धिराप्यते ॥ ३५.४०९ ॥ अङ्कुरैरर्चनाद्विष्णोः प्रजावृद्धिर्भविष्यति । मङ्गलैः पूजनात्सर्वमङ्गलानि भवन्ति वै ॥ ३५.४१० ॥ स्नापनात्पञ्चभिर्गव्यैः पापं सश्यति सर्वधा । घृतेन स्नापनाद्भुयात्सामाध्ययनजं फलम् ॥ ३५.४११ ॥ क्षीरेण स्नापयेद्विष्णुं गाश्च क्षीरवतीरियात् । मधुना स्नापयेद्विष्णुं मधुस्यन्दि भवेद्वचः ॥ ३५.४१२ ॥ दध्ना संस्नापयेद्देवमच्छं तस्य भवेद्यशः । गन्धोदस्नापनाद्विष्णोस्सर्वसंपद्वृतोभवेत् ॥ ३५.४१३ ॥ स्नापयेदक्षतोदैस्तु प्रजा तस्याक्षता भवेत् । फलोदकस्नापनेन शुभानीयात्फलानि तु ॥ ३५.४१४ ॥ स्नापनात्तु कुशोदेन ब्रह्मवर्चसमाप्नुयात् । रत्नोदकस्नापनेन मणिरत्नादि वर्धयेत् ॥ ३५.४१५ ॥ जप्योदकस्य स्नानेन सर्वजापफलं लभेत् । भवन्त्योषधयस्सर्वास्सर्वौषध्युदकाप्लवात् ॥ ३५.४१६ ॥ पुण्यपुष्पार्चनेनैव पुण्यवान् जायते नरः । चूर्णैश्श्रीवेष्टकादीनीमर्पणाद्वृद्धिरायुषः ॥ ३५.४१७ ॥ उद्वर्तनात्कषायेण चूर्णेनावाप्यते रुचिः । तीर्थोदस्नापनेनैव तीर्थयात्राफलं भवेत् ॥ ३५.४१८ ॥ वनौषधीभिस्संस्पर्शाद्भवेन्नित्यमरोगता । हारिद्रचूर्णस्नानेन प्रीतो भवति चाच्युतः ॥ ३५.४१९ ॥ मार्जनात्सर्वगन्धैश्च श्रीर्भवत्यचला चला । मार्जनान्मूलगन्धैश्च कुलमेधेत नित्यशः ॥ ३५.४२० ॥ धातुभिश्चाप्यलङ्काराद्धातुवृद्धिर्भविष्यति । अन्यैरनुक्तैर्वा यस्तुद्रव्यैः स्नापनकर्मणि ॥ ३५.४२१ ॥ उपतिष्ठेज्जगद्योनिं फलं प्राप्नोति विस्तृतम् । यस्तु कुर्याज्जलद्रोणीं स्नानपीठं च शार्ङ्गिणः ॥ ३५.४२२ ॥ स सर्वैः पूज्ययानन्तु पीठे चात्युन्न ते वसेत् । एवं यस्स्नपनं विष्णोः कारयेच्छक्तितो नरः ॥ ३५.४२३ ॥ यथोक्तानीह लब्ध्वैवफलानि सुचिरं भुवि । अन्ते विमासमारुह्य हैमं देवैः परीवृतः ॥ ३५.४२४ ॥ किन्नरैरप्सरोभिश्च नृत्तैर्गेयैश्च तर्पितः । यक्षैर्वृतोऽथ गन्धर्वैस्त्सूयामानो मुदान्वितः ॥ ३५.४२५ ॥ सर्वलोकात्परं पुण्यं वैकुण्ठं लोकमाप्नुयात् । देवदेवस्य विष्णोस्तु स्नपनं भक्तिमांस्तु यः ॥ ३५.४२६ ॥ सेवेत सोऽपि पाप्मभ्यो मुच्यते नात्र संशयः । स्नापनान्तेतु देवेशस्योत्सवं यश्च कारयेत् ॥ ३५.४२७ ॥ प्रजावृद्धिं श्रियं स्फारां समाप्नोति विशेषतः । उत्सवं सेवतेयस्तु सोऽपि यज्ञफलं लभेत् ॥ ३५.४२८ ॥ विष्णुपञ्चदिने यस्तु देवेशं स्नापयेत्प्रभुम् । तस्य स्यान्महती संपत्पशुपुत्रादि सम्मिता ॥ ३५.४२९ ॥ ग्रहणे विषुवे तद्वत्संक्रमादिषु चैवहि । अन्येष्वपि च पुण्येषु कार्येषु जगतः प्रभुम् ॥ ३५.४३० ॥ स्नापयेद्यश्च सेवेत फलमाप्नोति सोऽपि सः । यः कुर्याद्वैष्णवं धाम भक्तिश्रद्धासमन्वितः ॥ ३५.४३१ ॥ खण्डिते स्फटिते धाम्नि दूषिते च सूधादिभिः । समादध्यात्पुनर्धाम स लोकं याति वैष्णवं ॥ ३५.४३२ ॥ चोरैरपहृते बिंबेयः कुर्यात्प्रतिमां पुनः । स्थापयेद्भक्ति युक्तश्च स याति परमां गतिम् ॥ ३५.४३३ ॥ प्रमादात्पतिते बिंबे स्फुटते दूषितेऽथ वा । यः सन्धाय पुनः कुर्यात्प्रितिष्ठां पूर्ववन्मुदा ॥ ३५.४३४ ॥ तस्य तष्यति देवेशो वरमिष्टं प्रदास्यति । शीर्णे जीर्णे तथा भिन्ने भूषणादौ विशेषतः ॥ ३५.४३५ ॥ नवीकृत्यार्ऽपयेद्यस्तु तस्य पापं प्रणश्यति । यानानि रथङ्गादीन्यालोक्य शिथिलानि वै ॥ ३५.४३६ ॥ समीकृत्य तु योदद्यात्तानि भक्त्या हरेन्नरः । तस्य कायकृतं पापं तत्क्षणादेव नश्यति ॥ ३५.४३७ ॥ यस्तु वीक्ष्य हरेरर्चां पतमानामनादरात् । नर्धयेद्धनदानेन तस्य लोका मधुद्विषः ॥ ३५.४३८ ॥ सीदतां वृत्तिहीनानां देवस्याघ्रे पदार्थिनाम् । यो दद्यादुचितां वृत्तिं स यमं नोपसर्पति ॥ ३५.४३९ ॥ यस्तु देवोत्सवादीनि कारयेद्भक्तिसंयुतः । लुप्तप्रायाणि तस्याऽऽपि भवेत्फलमन न्तकम् ॥ ३५.४४० ॥ यः कुर्याद्देवतागारे लुप्तकार्याणि सत्तमः । न तस्य कृतकृत्यत्वादमात्या यमकिङ्कराः ॥ ३५.४४१ ॥ देवार्धे ब्राह्मणस्यार्ऽथे यस्त्यजेत्तनुमुत्तमाम् । तस्य वासो भवेत्स्वर्गे चावदिद्राश्च तुर्धश ॥ ३५.४४२ ॥ देवार्थे ब्राह्मणस्यार्ऽधे सर्वस्वं स्वन्त्यजेत्तु यः । तस्य तुष्यति देवेशस्स तु स्वाराज्यमश्नु ते ॥ ३५.४४३ ॥ प्रायश्चित्तनिमित्तानि संभूतानितु धामनि । दृष्ट्वा च श्रद्धया युक्तोयो देवमुपतिष्ठते ॥ ३५.४४४ ॥ तस्य तुष्यति देवेशः प्र हृष्टस्संप्रसीदति । प्रायश्चित्तान्यशेषाणि पापौघध्वंसनाय वै ॥ ३५.४४५ ॥ निर्दिष्टानि पुराकल्पे ब्रह्मणा परमेष्ठिना । लोकानुग्रहलेतोर्वै पवृत्तो गुरुरत्वरः ॥ ३५.४४६ ॥ नराणां सीदतां दृष्ट्वा चित्तवृत्तीस्सुदुर्मलाः । प्रायश्चित्तविधानं तु प्रोवाच जगतां हितः ॥ ३५.४४७ ॥ न कश्चिन्नाचरेत्कर्म शास्त्रोक्तं सकलं क्रमात् । तस्मात्सर्वप्रयत्नेन प्रायश्चित्तं समाचरेत् ॥ ३५.४४८ ॥ प्रायश्चित्तं तु कृत्वैव य उक्तामाचरेत्क्रियाम् । तस्य स्याद्द्विगुणं पुण्यं मतस्स्यादनुपालनम् ॥ ३५.४४९ ॥ भक्तिश्रद्धान्वितो यस्तु कुर्याद्वा कारयेत्क्रमात् । देवेशस्य प्रतिष्ठादि प्रायश्चित्तान्त सत्क्रियाः ॥ ३५.४५० ॥ तस्य पुण्यफलं वक्तुं न शक्यं त्रिदशैरपि । इह लोकेऽखिलान् कामाननुभूय सुखं चिरात् ॥ ३५.४५१ ॥ देहन्तेजायते सद्यश्शङ्खचक्रगदाधरः । श्रीवत्सांकश्चतुर्बाहुश्श्यामलाङ्गस्सु सुन्दरः ॥ ३५.४५२ ॥ गगने गरुडारूढस्सर्व देवनमस्कृतः । अदित्यमण्डलं भित्वा गत्वा शुभ्रांशुमण्डलम् ॥ ३५.४५३ ॥ ततोऽवतीर्य निखिलान् लोकानपि यथाक्रमम् । सत्यस्थं सत्यरोकस्थं जगतः प्रभवाप्ययम् ॥ ३५.४५४ ॥ तथाशेषविशेषं च नित्यानन्दं निरञ्जनम् । सुधारससमास्वादतुलितं नित्यतृप्तिदम् ॥ ३५.४५५ ॥ शाश्वतं तत्परञ्ज्योतिः प्रविशेन्नात्र संशयः । अथ वक्ष्ये विशेषेण क्रियालोपे च यत्फलम् ॥ ३५.४५६ ॥ निर्मातुमालयं यस्तु संकल्प्य मतिमान्नरः । परेणेद्बोधितो भूयस्तस्मा दर्थान्नि वर्तते ॥ ३५.४५७ ॥ तावुभौ नरकं प्रेत्य भवेतां दुःखभागिनौ । कर्ता कारयिता चैव प्रेरकश्चानुमोदकः ॥ ३५.४५८ ॥ सुकृते दुष्कृते चैव वदन्ति समभागिनः । निर्मातुमिच्छया धाम देवस्य मधुविद्विषः ॥ ३५.४५९ ॥ स्वयं निवर्तते यस्तु तस्य स्यान्महती विपत् । संकल्प्य देवतागारं निर्मातुं यो विशेषतः ॥ ३५.४६० ॥ आचार्यं वृणुयान्नो चेत्तस्य कार्यं प्रणश्यति । आचार्यस्सततं गोप्ता आचार्यस्तु पिता स्मृतः ॥ ३५.४६१ ॥ आचार्यस्सर्वमेवेति यो मन्येत स मन्यते । आरभ्य गेहनिर्माणं देवस्य जगतः पतेः ॥ ३५.४६२ ॥ असमाप्य तु यो मूढो निवर्ते प्रविलोभतः । तस्य संपद्विनाशस्स्यात्क्रुद्धो भवति चाव्ययः ॥ ३५.४६३ ॥ प्रवृत्तायां प्रतिष्ठायां येन केनापि हेतुना । यः कुर्यादन्तरायं तु तस्य पुण्यं विनश्यति ॥ ३५.४६४ ॥ येन विघ्नस्तदा भूयात्तं हत्वापि न दोषभाक् । यस्तु शास्त्रोदितं कर्म कुर्वन्तं च पदार्थिनम् ॥ ३५.४६५ ॥ शिल्पिनं विवदेन्मूढस्तस्य नास्तिफलं क्वचित् । विवदेत य उच्छास्त्रमाचार्येण पदार्थिना ॥ ३५.४६६ ॥ तस्याशुभानि भूयांसि भवेयुर्नात्र संशयः । अध्वरे वर्तमाने तु संभारान् शास्त्रचोदितान् ॥ ३५.४६७ ॥ यो न दद्यात्स पापीयान्नाप्नुयात्कर्मजं फलम् । प्रतिष्ठाप्य हरेर्बिंबं यो न सत्कुरुते गुरुम् ॥ ३५.४६८ ॥ अन्यान्पदार्थिनश्चापि स किञ्चिन्नाप्नुयात्फलम् । प्रतिष्ठान्ते तथा नित्यमविच्छिन्नं तु पूजितुम् ॥ ३५.४६९ ॥ अर्चकं वृणुयान्नो चेद्यजमानो विनश्यति । अर्चकं च तथाचार्यमन्यांश्चापि पदार्थिनः ॥ ३५.४७० ॥ कालावधिं विनिश्चित्य यः कर्मसु नियोजयेत् । स भवेद्ब्रह्महा चैव धनं तस्य विलुप्यति ॥ ३५.४७१ ॥ दायर्हां कायेद्व्रत्तिमर्चकस्य न चेद्यदि । यजमानो विपद्येत देवावासो नशिष्यति ॥ ३५.४७२ ॥ आचार्यमर्चकं कुर्यात्स्वस्थानाद्योऽवरोपितम् । अन्यं वा योजयेत्तत्र तावुभौ विनशिष्यतः ॥ ३५.४७३ ॥ आपद्यपि च कष्ठायां न कदाप्यन्यमर्चकम् । पूर्वावरोपणादेव नियुञ्ज्यात्तु कथं चन ॥ ३५.४७४ ॥ आद्यार्चकस्य वंशेतु जायन्ते ये महाशयाः । सर्वे च क्रमशः पूजां कर्तुमर्हन्ति ते यतः ॥ ३५.४७५ ॥ पित्र्यं भवति देवस्य दायाद्यं पूजनं स्वतः । तस्मात्तद्वंशजान् हित्वा यद्यन्यैः कारितार्ऽचना ॥ ३५.४७६ ॥ ब्रह्महत्याभवेत्तस्य तत्बूजा निष्फला भवेत् । यस्तुदद्यादर्चकाय भृत्यर्थं के वलं धनम् ॥ ३५.४७७ ॥ अन्यद्वाप्यस्थिरं वस्तु न हरिस्तेन तुष्यति । लोभान्मोहादथाज्ञानाद्य आदत्तेर्ऽचको धनम् ॥ ३५.४७८ ॥ वेतनार्धं तथा दद्याद्यजमानो विमूढधीः । उभौतौनरकं यातो यादच्चन्द्र दिवाकरम् ॥ ३५.४७९ ॥ वित्तार्थं पूजयेद्यस्तु नियम्याप्यवधिं हरिम् । सवैदेवलको नाम सर्वकर्म बहिर्कृतः ॥ ३५.४८० ॥ अदत्वा वसुधामग्रे पूजनार्थ मथार्चके । निर्माति ब्राह्मणं भूयो यजमानस्तु देवलम् ॥ ३५.४८१ ॥ नह्यस्मात्पातकं किञ्चि द्ब्राह्मणायाऽपराध्यति । अलब्ध्वादेवतागारनिर्माणसदृशं फलम् ॥ ३५.४८२ ॥ ब्रह्मघ्नत्वमनुप्राप्य विनश्यति न संशयः । हर्ता हारयिता भूमेर्दत्तस्य दनुशासिनः ॥ ३५.४८३ ॥ तत्किङ्कराणामन्येषां यो मूढस्स तमोवृतः । संबद्धो वारुणैः पाशैः कृष्यमाणस्समन्ततः ॥ ३५.४८४ ॥ दुःखितो नरके भूयस्तिर्यग्योनिषु जायते । स्वदत्तां वरदत्तां वा यो हरेत वसुन्धराम् ॥ ३५.४८५ ॥ षष्टिर्वर्षसहस्राणि विष्ठायां जायते कृमिः । स्वदत्ताद्द्विगुणं पुण्यं परदत्तानु पालनम् ॥ ३५.४८६ ॥ परदत्तापहारेण स्वदत्तं निष्पलं भवेत् । अन्यायेन हृता भूमिरन्यायेनैन हारिता ॥ ३५.४८७ ॥ हरतो हारकस्यापि दहत्यासप्तमं कुलम् । पञ्च कन्यानृते हन्ति दश हन्ति गवानृते ॥ ३५.४८८ ॥ शतमश्वानृते हन्ति सहस्रं पुरुषानृते । हन्ति जातानजातांश्च हिरण्यार्ऽधेऽनृतं वदन् ॥ ३५.४८९ ॥ सर्वं भूम्यनृते हन्ति नो ब्रूयादनृतं क्वचित् । विन्ध्याटवीष्वतोयासु शुष्ककोजरवासिनः ॥ ३५.४९० ॥ कृष्णसर्पाः प्रजायन्ते देवब्रह्मस्वहारिणः । तटाकानां सहस्रेण हयमेधशतेन च ॥ ३५.४९१ ॥ गवां कोटिप्रदानेन भूमिहर्तान शुद्ध्यति । ब्रह्मस्वं ब्रह्महत्या च दरिद्रस्य च यद्धनम् ॥ ३५.४९२ ॥ गुरुमित्रधनं चैव स्वर्गस्थमपि पातयेत् । ब्रह्मस्वे नो मतिं कुर्यात्प्राणैः कण्ठगतैरपि ॥ ३५.४९३ ॥ अग्निदग्धाः प्ररोहान्ति ब्रह्मदग्धो न रोहति । न विषं विषमित्याहुर्ब्रह्मस्वं विषमुच्यते ॥ ३५.४९४ ॥ विषमेकाकिनं हन्ति ब्रह्मस्वं पुत्रपौत्रकम् । ब्रह्मस्वं प्रणयाद्भुक्तं दहत्यासप्तमं कुलम् ॥ ३५.४९५ ॥ विक्रमेण तु भोक्तॄणां दशपूर्वान् दशावरान् । लोहचूर्णांश्च चूर्णांश्च विषं वा जरयेत्पुमान् ॥ ३५.४९६ ॥ ब्रह्मस्वं त्रिषु लोकेषु कःपुमान् जरयिष्यति । देवस्वं ब्राह्मणस्वं च लोभेनो पहिनस्ति यः ॥ ३५.४९७ ॥ स पापात्तु परेलोके गृध्रोच्छिष्टेन जीवति । देवद्रव्यविनाशेन ब्रह्मस्वहरणेन च ॥ ३५.४९८ ॥ कुलान्यकुलतां यान्ति ब्राह्मणातिक्रमेण च । सहस्रसम्मिता धेनुरनड्वान् दशधेनवः ॥ ३५.४९९ ॥ दशावड्वत्समं यानं दशयानसमो हयः । दशवाजिसमा कन्या भूमिदानेन सा समा ॥ ३५.५०० ॥ षष्टिर्वर्ष सहस्राणि स्वर्गे तिष्ठति भूमिधः । आच्छेत्ताचानुमन्ता च तान्येन नरके वसेत् ॥ ३५.५०१ ॥ पतन्त्यश्रूणि रुदतां दीनानामवसीदताम् । ब्राह्मणानां हृते क्षेत्रे हन्यादासप्तमं कुलम् ॥ ३५.५०२ ॥ साधुभ्यो भूमिमाक्षिप्य न भूमिं विन्दतेक्वचित् । ददद्धि भूमिं साधुभ्यो विन्दते फूमिमुत्तमाम् ॥ ३५.५०३ ॥ अर्चकः प्रणिधिर्यस्माद्देवेशस्य जगत्पतेः । स देवो ब्राह्मणस्साधुर्महद्भूतं प्रचक्षते ॥ ३५.५०४ ॥ तस्मात्तदर्पितां वृत्तिं नैव शङ्केत बुद्धिमान् । तदर्चकार्पितां भूमिं यो हरेत यतेत वा ॥ ३५.५०५ ॥ किं पुनस्तस्य वक्तव्यं न भवेत्तस्य निष्कृतिः । न वाचा शक्यते वक्तुं गतिस्तस्य दुरात्मनः ॥ ३५.५०६ ॥ म्रियेत सद्य एवासौ जायतेऽथ पुनः पुनः । न तस्य शरणं क्वापि लभ्यते पापकर्मणः ॥ ३५.५०७ ॥ देवस्येऽपि मतिं कुर्यात्प्रह्मस्वं न हरेत्क्वचित् । प्रासादमण्डपादीनां भोक्तारः कैटभद्विषः ॥ ३५.५०८ ॥ तेमूढमतयः प्रेत्य नरकेषु निरत्ययाः । वसन्ति भूयो जायन्ते नीचयोनिषु च ध्रुवम् ॥ ३५.५०९ ॥ भूषणच्छत्रवस्त्रादिहर्ता यो दुर्मतिर्नरः । गले निगलितः पाशैः कृष्यते निरयेषु सः ॥ ३५.५१० ॥ वाहनानि च यानानि वैष्णवानि हरन्तिये । मोहाद्वसन्ति ते दीर्घ मङ्गारनरकोदरे ॥ ३५.५११ ॥ प्रेत्य भूयोऽपि जायन्ते गर्दभोष्ट्रादियोनिषु । चन्दनादीनि वस्तूनि पुष्पाणि सुरभीण्यपि ॥ ३५.५१२ ॥ व्रजन्ति स्वानि विष्णोस्ते व्रजन्ते याम्ययातनाम्? । अनुभूय पुनर्भूयो जायन्ते गन्धमूषिकाः ॥ ३५.५१३ ॥ उपानत्पादुकापीठवाहनानि हरन्तिये । उषित्वा नरकेष्वेते जायन्ते फणिनां कुले ॥ ३५.५१४ ॥ गोभूहिरण्यवस्त्रादि धनं विष्णोः परिग्रहम् । आहृत्य येऽनुभुञ्जन्ते नरकेषु दुरत्ययाः ॥ ३५.५१५ ॥ उषित्वा प्रेत्य भूयोऽपि जायन्ते श्वादियोनिषु । सर्वेषु नरकेष्वेवं देवब्रह्मस्वहारिणः ॥ ३५.५१६ ॥ नसन्ति मूढमतयो याम्यदुःखेषु यातनाः । वासुदेवप्रतिकृतेर्भेदनच्छेदनादिषु ॥ ३५.५१७ ॥ विक्रीडादीनियान्येषु यतन्ते पापचेतसः । एते यान्ति क्रमात्सर्वास्नरकान् भृशदारुणान् ॥ ३५.५१८ ॥ अन्येष्वप्यपचारेषु स्थूलसूक्ष्मेषु मानवाः । कृतिनः प्रेत्य नरके पच्यन्ते दुःखभागिनः ॥ ३५.५१९ ॥ अथनित्यार्चनायां वै देवेशस्य विशेषतः । उपचारादिहानो तु पापस्येदं फलं भवेत् ॥ ३५.५२० ॥ आसनस्य विहीने तु धर्मनाशो भविष्यति । स्वागते बुद्धिनाशस्स्यान्मूकत्वमनुमानके ॥ ३५.५२१ ॥ विहीने पादुकायास्तु पङ्गुत्वं संभवत्युत । पाद्यहीने महान्रोगः क्लेशश्चापि भविष्यति ॥ ३५.५२२ ॥ दन्त धावनहीने च दुष्टदन्तोऽभिजायते । तांबूलहीने विद्वेषं कुष्टं तैलविहीनके ॥ ३५.५२३ ॥ केशसंशोधने हीने गलरोगो भविष्यति । स्नानद्रव्यविहीने च स्नानहीने तथैव च ॥ ३५.५२४ ॥ राजयक्ष्मा भवेद्रोगः पापिष्ठश्च सुदारुणः । प्लोतहीने वातरोगो वस्त्रहीने जलोदरः ॥ ३५.५२५ ॥ संव्यानहीने हृद्रोगो यज्ञसूत्रविहीनके । अग्निदाहभयं चैव मन्दाग्नित्वं च जायते ॥ ३५.५२६ ॥ गन्धहीने च कुष्ठस्स्याद्भूषाहीने महद्भयम् । पुष्पहीने त्वलाभस्स्यात्तथा च कफसंभवः ॥ ३५.५२७ ॥ (शूद्राहृतैः क्रयक्रीतैरर्चनं निष्फलं सुमैः । अरण्याद्वागृहाद्वापि विक्रीतान्यापणान्तरात् ॥ ३५.५२८ ॥ अयाचितानि पुष्पाणि लब्धान्यर्हाणि नार्ऽचने । तथा पर्युषितैर्यापि जन्तुभिर्दूषितैरपि ॥ ३५.५२९ ॥ म्लानैरस्पृश्यसंस्पृष्टैर्दुर्गन्धैः पादलङ्घितैः । प्रतिलोमान्त्यजानीतैरर्चनं त्वफलं भवेत् ॥ ३५.५३० ॥ उत्तमं स्वार्जितं पुष्पं मध्यमं वन्यमुच्यते । अधमं तु क्रयक्रीतं पारक्यमधमाधमम् ॥ ३५.५३१ ॥ हस्तानीतं पटानीतं स्वयं पतितमेव वा । अन्यारामोद्भवं पुष्पं नार्ऽपयेदिति के चन ॥ ३५.५३२ ॥ आरहरे च शुक्रे च मन्वादिषु युगादिषु । नाहरेत्तुलसीपत्रं मध्याह्नात्परतस्तथा ॥ ३५.५३३ ॥ संक्रान्त्यां पक्षयोरन्ते द्वादश्योर्निशि संध्ययोः । तुलसीं ये विचिन्वन्ति ते कृन्तन्ति हरेश्शिरः ॥ ३५.५३४ ॥ भृग्वर्कांगारके वारे द्वादश्यां पञ्चपर्वसु । नाहरेत्तुलसीपत्रं नन्दायां श्रवणेऽपि च ॥ ३५.५३५ ॥ केशकीटापविद्धानि शीर्णपर्युषितानि च । भुग्नपत्रं न च ग्राह्यं कृमिदुष्टं च नाहरेत् ॥ ३५.५३६ ॥ वर्जयेदूर्णनाभेन वासितं यदि शोभनम् । स्थलजं नोद्धरेत्पुष्पं छेदयेज्जलजं न तु ॥ ३५.५३७ ॥ निषिद्धैर्दुःखदैर्देवं नार्ऽचयेत कदा चन । न शुष्कैःपूजयेद्देवं कुनुमैर्न महीगतैः ॥ ३५.५३८ ॥ न विशीर्णतरैश्शिष्टैर्नाशुभैर्नाविकासिभिः । पूतिगन्धोग्रन्धानि ह्युग्रगन्धानि वर्जयेत् ॥ ३५.५३९ ॥ स्नानं कृत्वा तु ये के चित्पुष्पं गृह्णन्ति वैद्विजाः । देवतास्तन्न गृह्णन्तितन्न गृह्णन्ति मानवाः ॥ ३५.५४० ॥ पितरस्तन्न गृह्णन्ति भस्मीभवति काष्ठवत् । स्नानं कृत्वातु मध्याह्ने पुष्पाणि न समाहरेत् ॥ ३५.५४१ ॥ तेभ्यःक्रुद्धोऽक्षयं दुःखं क्रोधाद्विष्णुः प्रयच्छति । अन्यदेवार्ऽथसन्दिष्टैः पूजयेद्यो हरिं प्रभुम् ॥ ३५.५४२ ॥ स तु तेनैव पापेन मण्डूको जायते नरः । ततस्स नरकं याति यावदाभूतसंप्लवम् ॥ ३५.५४३ ॥ कुसुमानां निवेद्यानां गन्धमाघ्राति यो नरः । स पूति गन्धसंयुक्तः कुष्ठी चैव प्रजायते ॥ ३५.५४४ ॥ जन्मद्वयं तु वै मूढश्शूद्रतां याति मानवः । असूत्रग्रथितं पुष्पमस्नेहाक्तं तथोदनम् ॥ ३५.५४५ ॥ अवालुकायुतं तोयं सर्वं पर्युषितं भवेत् । एतैस्तु पूजनात्सद्यो निष्फलास्सकलाः क्रियाः ॥ ३५.५४६ ॥ आदर्शनविहीने तु कामिला च भविष्यति । बाधिर्यं धूपहीने च दीपहीनेऽन्धतामियात् ॥ ३५.५४७ ॥ अर्घ्यहीने तु देवस्य कुलं भवति निन्दितम् । मधुपर्कविहीने च मधुमेहो भविष्यति ॥ ३५.५४८ ॥ मात्रादानविहीने तु सर्वनाशो भविष्यति । रक्षानीराजने हीने राङ्गसैर्(?) आवृतिर्भवेत् ॥ ३५.५४९ ॥ वेदाध्ययनहीने तु कर्मलोपो भवेद्ध्रुवम् । हविर्निवेदने हीने दुर्भिक्षं भवति ध्रुवम् ॥ ३५.५५० ॥ उपदंशविहीने च दारिद्षं ग्रामवासिनाम् । नालिकेरफले हीने हीने क्षीरादिके तथा ॥ ३५.५५१ ॥ विनाशस्सर्वसस्यानां दुर्भिक्षं च भवेध्ध्रुवम् । हीने भक्ष्यादिके चैव विविधे हविषी प्रभो ॥ ३५.५५२ ॥ तद्ग्रामयजमानस्य विशेषेणाशुभं भवेत् । विनियोगक्रमस्यात्रहीने पूजैव नश्यति ॥ ३५.५५३ ॥ काले यवनिकाहीने कर्ता चैव विनश्यति । द्वारपूजाविहीने तु तस्क रादिप्रवेशनम् ॥ ३५.५५४ ॥ द्वारपालकपूजायो हीने चौराद्युपद्रवः । शान्तस्य पूजने हीने तथा चैवानपायिनाम् ॥ ३५.५५५ ॥ राज्ञो राष्ट्रस्य सर्वस्य विनाशस्स्यान्न संशयः । यजमानस्य तत्रापि परराजाद्युपद्रवः ॥ ३५.५५६ ॥ पापरोगादिपीडा च भविष्यति तथा पुनः, । सर्पवृश्चिकलूताद्यैर्हानिश्चैव भवेद्बहु ॥ ३५.५५७ ॥ पुष्पन्यासेर्ऽचनेहीने न्यूने वा मन्त्रवर्जिते, । तद्ग्रामवासिनां चैव राजद्वेषो भविष्यति ॥ ३५.५५८ ॥ भूतपीठस्य पार्श्वे वा दक्षिणे वा विशेषतः, । भूतादिनागपर्यन्तं बल्यर्चनविहीनके ॥ ३५.५५९ ॥ शाकिन्यादिग्रहास्सर्वे प्रविशन्ति न संशयः । श्रीदेव्या अर्चने हीने संपदां तु भवेत्क्षयः ॥ ३५.५६० ॥ हरिण्यर्चनहीने च स्थाननाशो भविष्यति, । अग्निपूजाविहीने तु न्यूने वा मन्त्रवर्जिते ॥ ३५.५६१ ॥ निवेदनाज्यहीने वा संभवेद्वर्णसंकरः, । वर्णाश्रमादिहानिश्च ब्राह्मणानां विपद्भवेत् ॥ ३५.५६२ ॥ पानीयहीने देवस्य भवेत्तत्र त्ववग्रहः, । मुखवासविहीने तु जनविद्वेषणं भवेत् ॥ ३५.५६३ ॥ बलिद्रव्यविहीने तु न्यूने मन्त्रविवर्जिते । बलक्षयो जनानां स्यात्पितॄणां पतनं भवेत् ॥ ३५.५६४ ॥ पुष्पांजलिविहीने तु राजकोपा भविष्यति, । प्रणामस्तुतिहीने तु सद्यो मृत्युर्भविष्यति, ॥ ३५.५६५ ॥ ध्यानहीने कुलं हन्ति न्यासहीने विपद्भवेत् । प्राणायामविहीने तु परचक्रभयं भवेत् ॥ ३५.५६६ ॥ शौचाचारविहीने तु पशुपुत्रादिनाशनम् । बिंबन्यासविहीने तु कलत्रं तस्य नश्यति ॥ ३५.५६७ ॥ प्रदक्षिणविहीने तु पातकी जायते नरः । नित्यमर्चावसानेतु पूजकाचार्ययोर्मुदे ॥ ३५.५६८ ॥ दक्षिणादानहीने तु सा पूजा निष्फला भवेत् । राष्ट्रस्य यजमानस्य राज्ञश्चापि भवेद्भयम् ॥ ३५.५६९ ॥ हीने तु पाचकादीनां दक्षिणादानकर्मणि । पशुवाहननाशश्च तद्ग्रामे संभवेन्नृणाम् ॥ ३५.५७० ॥ प्रातः पूजाविहीने तु तद्ग्रामेऽवग्रहो भवेत् । ब्राह्मणानां क्रियाहानिस्सर्वकर्मविनाशनम् ॥ ३५.५७१ ॥ मध्याह्नपूजाहीने तु राष्ट्रक्षोभो भविष्यति । सायङ्कालार्ऽचने हीने तद्ग्रामयजमानयोः ॥ ३५.५७२ ॥ अर्थहानिः प्रजाहानिर्भविष्यति न संशयः । उपसंध्यार्चने हीने कर्मलोपो भविष्यति ॥ ३५.५७३ ॥ विष्णुपञ्चदिने चैव हीने स्नानेर्ऽचने तथा । उत्सवे च विशेषण यजमानभयं भवेत् ॥ ३५.५७४ ॥ मासपूजाविहीनेतु भ्रातृद्वेषो भविष्यति । विषुदे चायने चैव हीने तत्रोक्तकर्मणि ॥ ३५.५७५ ॥ ग्रामस्य यजमानस्य यशोहानिर्भविष्यति । स्नपनोक्ते तथान्यस्मिन् दिवसे स्नानवर्जिते ॥ ३५.५७६ ॥ अकाले च कृते वापि भवेत्क्षामभयं तथा । नित्योत्सवविहीने तु निरानन्दो भवेज्जनः ॥ ३५.५७७ ॥ अन्यस्मिन्नर्चनद्रव्ये विहीने दोष आपतेत् । निमित्ते यदि संप्राप्ते स्नापयेच्चेन्न माधवम् ॥ ३५.५७८ ॥ तस्य पापफलं नक्तुं न केनापि हि शक्यते । राज्ञो राष्ट्रस्य च भवेत्सर्वत्रात्याहितं ध्रुवम् ॥ ३५.५७९ ॥ गृहनाशः प्रपाहीने हीनायां चाप्यलङ्कृतौ । मृत्सुहीनानु नाशस्स्यात्सस्यानां तु न संशयः ॥ ३५.५८० ॥ पर्वतेषु विहीनेषु स्थैर्यं तस्य विलुप्यते । धान्येषु तु विहीनेषु द्यान्यनाशो भवेत्तथा ॥ ३५.५८१ ॥ अङ्कुराणामभावे तु प्रजाहानिश्च संभवेत् । मङ्गलेष्वथ हीनेषु तस्य भूयादमङ्गलम् ॥ ३५.५८२ ॥ पञ्चगव्यविहीने तु गोहत्या समवाप्यते । घृतहीने बुद्धिनाशोऽनायुष्यं क्षीरहीनके ॥ ३५.५८३ ॥ मधुहीने महान् व्याधिर्दधिहीने तु संज्वरः । क्षीरहीने भवेत्तस्य मलिना कीर्तिरेव हि ॥ ३५.५८४ ॥ गन्धोदकविहीने तु दुर्गन्धो जायते भृशम् । अक्षतोदकहीने तु क्षतिस्तस्य प्रजायते ॥ ३५.५८५ ॥ फलोदकविहीने तु विफलं तस्य जीवितम् । कुशोदकविहीने च नैधेत ब्रह्मवर्चसम् ॥ ३५.५८६ ॥ रत्नोदकविहीने च धनध्यान्य विनाशनम् । अभावे चौषधीनान्तु व्याधिपीडा भविष्यति ॥ ३५.५८७ ॥ उपस्नानविहीने तु मलिनं जायते कुलम् । उष्णांभसामभोवे तु भवेदुष्णशरीरता ॥ ३५.५८८ ॥ पुण्यपुष्पविहिने तु पापीयान् जायते नरः । जातीफलादिचूर्णस्य चाभावे तु विपद्भवेत् ॥ ३५.५८९ ॥ कषायचूर्णहीने तु कान्तिहीनो भवेन्नरः । वनौषधीनां चालाभे रोगी भवति निश्चयः ॥ ३५.५९० ॥ हारिद्रचूर्णहीने तु गतश्रीर्जायते नरः । मूलगन्धविहीने तु वार्धक्यं भवति ध्रवम् ॥ ३५.५९१ ॥ धातूनामप्यभावेतु सिर्धातुर्जायते नरः । प्लोतवस्त्रोत्तरीयाणां भूषणानां विहीनके ॥ ३५.५९२ ॥ कर्मनाशो भवेदेव न तुष्टति रमापतिः । आचार्यस्यर्त्विजां तद्वदन्येषां च पदार्थिनाम् ॥ ३५.५९३ ॥ दक्षिणादानहीने च सर्वनाशो भविष्यति । हीने हविषि देवस्य निष्फलं स्नपनं भवेत् ॥ ३५.५९४ ॥ स्नपनान्तोत्सवे हीने न देवःपरितुष्यति । शिथिलं भगवद्गेहं दृष्ट्या श्रुत्वा च योनरः ॥ ३५.५९५ ॥ तत्क्रिया लोपिता वापि स भवेद्देवहा ध्रुवम् । तद्ग्रामवासिनस्सर्वे राजा चान्योधनी पुनः ॥ ३५.५९६ ॥ शीघ्रं सर्वं समीकृत्य पूर्ववत्पुनराचरेत् । अन्यथा यदि कुर्याच्छेद्राजराष्ट्रं विनश्यति ॥ ३५.५९७ ॥ धर्मसेतुमिमं विन्द्यात्सर्वसाधारणं नरः । पालनीयस्सदा सोऽयं जगतां यत्र संस्थितिः ॥ ३५.५९८ ॥ प्रायश्चित्तनिमित्तेतु संप्राप्ते यस्तु मूढधीः । अकृत्वा निष्कृतिं कुर्यात्कारयेत्कर्म चोत्तरम् ॥ ३५.५९९ ॥ लोभान्मोहदथाज्ञानादनादृत्य च शासनम् । भगवच्छासनद्रोही स भवेत्पातकी जनः ॥ ३५.६०० ॥ प्रमादिनां मनुष्याणां स्खलनं नियतं यतः । निष्कृतिर्विहिता पूर्वैर्नतामतिचरेत्क्वचित् ॥ ३५.६०१ ॥ ब्रह्माद्यैरपि यद्देवैरशक्यं पूजनं हरेः । तदुक्ता निष्कृतिः पूर्वैर्नतामतिपतेत्क्वचित् ॥ ३५.६०२ ॥ निमित्ते यस्त्वकृत्वैव प्रायश्चित्तं यथोचितम् । न्नित्यं नैमित्तिकं काम्यं कुर्यात्तदकृतं भवेत् ॥ ३५.६०३ ॥ तस्मान्निमित्ते संप्राप्ते निष्कृतिं सद्य आचरेत् । इति संक्षेपतः प्रोक्तं क्रियायोगाश्रितं फलम् ॥ ३५.६०४ ॥ इति श्रीवैखानसे भगवच्छास्त्रे भृगुप्रोक्तायां सहितायां प्रकीर्णाधिकारे पञ्चत्रिंशोऽध्यायः _____________________________________________________________ अथषट्त्रिंशोऽध्यायः. अपचाराः अपचारास्तथा विष्णोर्द्वात्रिंशत्परिकीर्तिताः । यानैर्वा पादुकैर्वापि गमनं भगवद्गृहे ॥ ३६.१ ॥ देवोत्सवाद्यसेवाचाप्रणामं च तदग्रतः । एकहस्तप्रणामश्च तत्पुरस्तात्प्रदक्षिणम् ॥ ३६.२ ॥ उच्छिष्टे चैव चाशौचे भगवद्वन्दनादिकम् । पादप्रसारणं चाग्रे तथा पर्यङ्कबन्धनम् ॥ ३६.३ ॥ शयनं भोजनं चैव मुधाभाषणमेव च । उच्चैर्भाषा वृधाजल्पो रोदनाद्यं च विग्रहः ॥ ३६.४ ॥ निग्रहोऽनुग्रहश्चैव स्त्रीषु साकूतभाषणम् । अश्लीलकथनं चैवाप्यधोवायुविमोक्षणम् ॥ ३६.५ ॥ कंबलावरणं चैव वरनिन्दा परस्तुतिः । शक्तौ गौणोपचारश्चाप्यनिवेदितभक्षणम् ॥ ३६.६ ॥ तत्तत्कालोद्भवानां च फलादीनामनर्पणम् । विनियुक्तावशिष्टस्य प्रदानं व्यञ्जनादिषु ॥ ३६.७ ॥ पृष्ठीकृत्यासनं चैव परेषामभिवन्दनम् । गुरौमौनं निजस्तोत्रं देवतानिन्दनं तथा ॥ ३६.८ ॥ अपचारां स्तु विविधानीदृशान् परिवर्जयेत् । अपचारेष्वनन्तेषु सत्स्वन्येषु प्रमादतः ॥ ३६.९ ॥ "क्षमऽऽस्वेत्यर्थनैवैगा निष्कृतिर्निरुपद्रवा । अन्यथा यदि कुर्वाणःप्रमादात्ज्ञानतोऽथवा ॥ ३६.१० ॥ स याति नरकान् घोरान् सन्ततं भृशदारुणान् । येतु स्मरणमात्रेण भवन्ति हृदयच्छिदः ॥ ३६.११ ॥ द्वात्रिंशन्नरकाः द्वात्रिंशन्नरकास्ते तु कीर्त्यन्तेब्रह्मवादिभिः । रौरवध्वान्तशीतोष्णतापांबुजमहांबुजाः ॥ ३६.१२ ॥ कालसूत्रोऽष्टमो ह्येते नरका इति विश्रुताः । सूच्यग्रकालखड्गाश्च क्षुरधारांचबरीषकाः ॥ ३६.१३ ॥ तप्तांगारमहादाहौ संतापश्चेति के चन । भवन्त्यष्टासु भीभत्का महाशब्दा भयानकाः ॥ ३६.१४ ॥ लक्षाप्रलेपमांसादनिरुच्छ्वसनसोच्छ्वसाः । युग्माद्रिशाल्मलीलोहप्रदीपक्षुत्पिपासिकाः ॥ ३६.१५ ॥ कृमीणां निचयश्चैव राजानः परिकीर्तिताः । लोहस्तम्भोऽथ विण्मूत्रे तथा वैतरणी नदी ॥ ३६.१६ ॥ तामिस्रश्चान्धतामिस्रः कुम्भीपाकोऽथ रौरवः । महापदानुगामी च राजराजेश्वराह्वयः ॥ ३६.१७ ॥ त्रयस्त्रींशत्पुटेष्वर्धं पार्थिवं चार्धमायसम् । तन्मध्ये नरका घोरा बहुशस्तमसि स्थिताः ॥ ३६.१८ ॥ तेषां नरकभेदानामष्टाविंशतिकोटयः । एतेषां दारुणानां तु नरकाणां पतिस्थ्सितः ॥ ३६.१९ ॥ कूश्माण्ड इति विख्यातः प्रलयार्कालनद्युतिः । करालवदनः क्रुद्धो वृत्तकोटरलोचनः ॥ ३६.२० ॥ टङ्कपाणिस्तथाभूतैर्भूतैर्भूयोभिरावृतः । पापास्त्वेतेषु पच्यन्तेनराः कर्मानुरूपतः ॥ ३६.२१ ॥ यातनाभिर्विचित्राभिरापापप्रक्षयान्तकम् । प्रायश्चित्तोज्घिता दृप्तानिजधर्मपराङ्मुखाः ॥ ३६.२२ ॥ परधर्मरताश्चोराः पतन्ति नरकाग्निषु । महापातकिनःकल्पं तिष्ठन्ति नरकाग्निषु ॥ ३६.२३ ॥ मन्वन्तरं पातकिनो देवब्रह्मस्वहारिणः । उपपातकिनो मर्त्या देवदेवाग्नियज्वनाम् ॥ ३६.२४ ॥ द्विजगोगुरुधर्माणां निन्दका ब्रह्मणो दिनम् । अन्ये चतुर्युगं मर्त्यास्तदर्धं च नराधमाः ॥ ३६.२५ ॥ तिष्ठन्ति नरके घोरे निजपापानुरूप्यतः । द्यूतस्त्रीविषयासक्ता ये धर्मविकलाःखलाः ॥ ३६.२६ ॥ पतन्ति तेषु घोरेषु नरकेषु नराधमाः । न श्रुण्वन्ति च ये मूढास्साधूक्तं धर्मगौरवम् ॥ ३६.२७ ॥ "प्यत्यक्षं केन तद्दृष्टं प्रत्युऽऽतेति वदन्ति च । कामलोभाभिभूताश्च बिडालव्रतिनस्तथा ॥ ३६.२८ ॥ पापिष्ठाः कर्महीनाश्च जिह्वोपस्थपरायणाः । यतिनिन्दापरा ये च क्षेत्रतीर्थादिदूषकाः ॥ ३६.२९ ॥ पतन्ति तेषु ते मर्त्याविवशाः पापबन्धनाः । इहानुभूयनिर्दिष्टमायुर्मर्त्यास्स्वयंभुवा ॥ ३६.३० ॥ निमित्तं किञ्चिदासाद्य विमुच्यन्तेकलेवरैः । लभन्ते ते पुनर्देबं यातनीयं स्वकर्मजम् ॥ ३६.३१ ॥ तन्मात्रगुणसंपन्नं सुखदुःखोपभोगदम् । पापाः पापक्षयो यावत्पच्यन्ते नरकाग्निषु ॥ ३६.३२ ॥ आमलप्रक्षयाद्वह्नौ ध्मायन्तेधातवो यथा । यावन्तोजन्तवस्स्वर्गभूपातालेषु सर्वतः ॥ ३६.३३ ॥ तावन्त एव घोरेषु सन्त्यधो नरकाग्निषु । अष्टाविंशतिरेवोक्ताः क्षितेर्नरककोटयः ॥ ३६.३४ ॥ सप्तमस्य तलस्याधो घोरेतमसि संस्थिताः । घोराख्या प्रधमाकोटिस्सु घोरतलसंस्थिताः ॥ ३६.३५ ॥ अतिघोरा महाघोरा घोरघोरा च पञ्चमी । षष्ठी तरलताराख्या सप्तमी च भयावहा ॥ ३६.३६ ॥ अष्टमी कालरात्री च नवमी च भयोत्कटा । दशमी तदधश्चण्णा महाचण्डा ततोऽप्यधः ॥ ३६.३७ ॥ चण्डकोलाहलाचान्या प्रचण्डानरकाधिका । पद्मापद्मवती भीमा भीमभीषणनायका ॥ ३६.३८ ॥ कराला विकराला च वज्रा विंशतिकास्मृता । त्रिकोणा पञ्चकोणा च सुदीर्घा परिवर्तुला ॥ ३६.३९ ॥ सप्तभौमाष्टभौमा च दीप्तायामेति चाष्टमी । इत्येता नामतः प्रोक्ता घोरा नरककोटयः ॥ ३६.४० ॥ अष्टाविंशतिरेवैताः पापानां यातनात्मनाम् । तासां क्रमेण विज्ञेयाः पञ्च पञ्चैकनायकाः ॥ ३६.४१ ॥ प्रत्येकं सर्वकोटीनां नामतस्तान्निबोधत । रौरवः प्रथमस्तेषां रुदन्ते यत्र देहिनः ॥ ३६.४२ ॥ महारौरवको यत्र महान्तोऽपि रुदन्तिच । तमश्शीतं यथा चोष्णं पञ्चाद्या नायकास्स्मृताः ॥ ३६.४३ ॥ सुघोरस्सुतपस्तीक्ष्णः पद्मस्सं जीवनश्शतः । महामांसो विलोमश्च सुभीमश्च कटङ्कटः ॥ ३६.४४ ॥ तीव्रवेषी करालश्च विकरालः प्रकम्पनः । महापद्मस्सुपद्मश्च कालवक्रश्च गर्जनः ॥ ३६.४५ ॥ सूचीमुखस्सुनेमिश्च खादकस्सुप्रपीडनः । कुंभीपाकस्सुपाकश्च चक्रकश्चातिदारुणः ॥ ३६.४६ ॥ अङ्गारराशिफवनमसृक्पूयचहद्रस्तथा । तीक्ष्णायस्तुण्डशकुनिर्महासंवर्तकस्तता ॥ ३६.४७ ॥ सुतप्ताब्जस्सुलोपश्च पूतिमांसो द्रवत्रपु । उच्छ्वासश्च निरुच्छ्वासो सुदीर्घः कूटशाल्मली ॥ ३६.४८ ॥ दरीष्टस्सुमहानादप्रभावस्सुप्रभावनः । ऋक्षमेषवृकाश्शल्य सिंहव्याघ्रगजाननाः ॥ ३६.४९ ॥ श्वसूकराजमहिषखरमेषहयाननाः । ग्रहकुंभीरनक्रास्याः सर्पकूर्मास्यवायसाः ॥ ३६.५० ॥ कृध्रोलूकजलूकाश्च शार्दूलकपिकर्कटाः । गन्धकः पूतिवक्रश्च रक्ताक्षः पूतिमृत्तिकः ॥ ३६.५१ ॥ कणधूमस्तुषाग्निश्च कृमीणां निचयस्तथा । अमेध्यश्चाप्रतीकारो रुधिरान्नस्यभोजनम् ॥ ३६.५२ ॥ लालाभक्षमभक्षश्च सर्वभक्षश्च दारुणः । जङ्कटस्सुविलासश्च विकटः कटपूतनः ॥ ३६.५३ ॥ अम्बरीषः कटाहश्च कष्टा वैतरणी नदी । सुतप्तलोहशयनमेकपादप्रतप्तकम् ॥ ३६.५४ ॥ असितालवनं घोरमस्थिभङ्गप्रपीडनम् । तिलातसीक्षुयान्त्राणिकूटपाशप्रमर्दनम् ॥ ३६.५५ ॥ महाछुल्ली सुछुल्ली च तप्तलोहमयी शिला । पर्वतक्षुरधाराख्यं तथा च मलपर्वतः ॥ ३६.५६ ॥ मूत्रविष्ठांधकूपेषु क्षारकूपेषु पातनम् । मुसलोलूखलं यन्त्रं शिलाशकललाङ्गलम् ॥ ३६.५७ ॥ तालपत्रासिगहनं महामशकमण्डपम् । सम्मोहनोऽस्थिभङ्गश्च तपुःशूलमयोगुडः(?) ॥ ३६.५८ ॥ बहुदुःखं महादुःखं कश्मलं शमलं मलम् । हालाहलो निरूपश्च सुरूपश्च तमोऽनुगः ॥ ३६.५९ ॥ एकपादस्त्रिपादश्च तीव्रवीचिश्च रन्तिमः । अष्टाविंशतिरेवैतैः क्रमशः पञ्चकाः स्मृताः ॥ ३६.६० ॥ कोटीनामानु पूर्व्येण पञ्च पञ्चैव नायकाः । रौरवाद्यं च वीर्यं च शतमेकन्तु सर्वतः ॥ ३६.६१ ॥ चत्वारिंशत्समधिकं महानरकमण्डलम् । तेषु पापाः प्रपच्यन्तेनराः कर्मानुरूपतः ॥ ३६.६२ ॥ यातनाभिर्विचित्राभिराकर्मप्रक्षयाद्भृशम् । सुसूढं हस्तयोर्बद्ध्वातप्तशृङ्खलया नराः ॥ ३६.६३ ॥ महावृङ्गरशाखासुगम्यन्तेयमकिङ्करैः । डोलिताश्चातिवेगेन निस्संज्ञा यान्तियोजनम् ॥ ३६.६४ ॥ अन्तरिक्षस्थितानां च लोहभारशतं ततः । पादयोर्बध्यते तेषां यमदूतैर्महाबलैः ॥ ३६.६५ ॥ तेन भारेण महता भृशमाताडितानराः । आख्यान्तस्स्वानि कर्माणि तूष्णीं तिष्टन्ति विह्वलाः ॥ ३६.६६ ॥ ततस्तप्तैरग्नि वर्णैर्लोहदण्डैस्सकण्टकैः । हन्यन्ते किङ्करैर्घोरैस्समर्तात्पापकारिणः ॥ ३६.६७ ॥ ततः क्षारेण दीप्तेन वह्नेरपि विशेषतः । समन्ततः प्रलिप्यन्ते ताम्रेण च पुनः पुनः ॥ ३६.६८ ॥ द्रुतेनात्यन्तलिप्तेन क्षताङ्गा जर्जरीकृताः । पुनर्विधाय चाङ्गानि शिरःप्रभृति चक्रमात् ॥ ३६.६९ ॥ वार्ताकवत्प्रपच्यन्ते तप्ततैले कटाहके । निष्ठापूर्णे तथाकूपे कृमीणांनिचये पुनः ॥ ३६.७० ॥ मेदोऽसृक्पूयपूर्णायां वाप्यां क्षिप्यन्ति? ते पुनः । भक्ष्यन्ते कृमिभिस्तीव्रैर्लोहतुण्डैश्च वायसैः ॥ ३६.७१ ॥ श्वभिर्दंशैर्वृकैरुग्रैर्व्याघ्रैश्च विकृतैर्नरैः । पच्यन्ते चरुवद्वापि प्रदीप्ताङ्गारराशिषु ॥ ३६.७२ ॥ प्रोतास्तीक्ष्णेषु शूलेषु नराः पापेन कर्मणा । शैलपीठैरथाक्रम्य घोरैः कर्मभिरात्मजैः ॥ ३६.७३ ॥ तिलवत्संप्रपीड्यन्ते चक्राख्ये नरके नराः । पच्यन्ते चातितप्तेषु लोहभाण्डेष्वनेकथा ॥ ३६.७४ ॥ तैलपूर्णकटाहेषु सुतप्तेषु पुनःपुनः । सर्देन्द्रियाणि संबद्ध्य क्रमात्पापेन यातनाः ॥ ३६.७५ ॥ भवन्ति घोराः प्रत्येकं शरीरे तत्कृतेन च । ये श्रुण्वन्ति हरेर्निन्दां तेषां कर्णः प्रपूर्यते ॥ ३६.७६ ॥ अग्निनर्णैरयःकीलैस्तप्तैस्ताम्रादिकद्रुतैः । त्रपुसीसारकूरकूटाद्यैःक्षारेण जतुना पुनः ॥ ३६.७७ ॥ सुतप्ततीक्ष्णतैलेन वज्रलेपेन चान्ततः । क्रमादापूर्यते कर्णौ? नरकेषु च यातनाः ॥ ३६.७८ ॥ अनुक्रमेण सर्वेषु भ्रमन्त्येतेषु यातनाः । ये तु देव गृहं गत्वा तत्र सेवार्थमागताः ॥ ३६.७९ ॥ अथ वान्यत्र तद्रूपा मदमोहपराजिताः । परदारांश्च गच्छन्ति लुब्धास्स्निग्धेन चक्षुषा ॥ ३६.८० ॥ गुरोःकुर्वन्ति भ्रुकुटीं क्रूरनेत्राश्चये नराः । सूचीभिरग्निवर्णाभिस्तेषां चक्षुः प्रविध्यते ॥ ३६.८१ ॥ क्षाराद्यैश्च क्रमात्सर्वैर्देहे सर्वाश्च यातनाः । स्पर्शलोभेन ये मूढास्संस्पृशन्ति परस्त्रियः ॥ ३६.८२ ॥ तेषां तप्ताग्निवर्णाभिस्सूचीभिर्विध्यते करः । ततः क्षारादिकैस्सर्वं शरीरमनुलिप्यते ॥ ३६.८३ ॥ यातनाश्च महाकष्टास्सर्वेषु नरकेषु च । परेष्वजन्ति चात्युग्रं प्रदीप्तं लोहशाल्मलिम् ॥ ३६.८४ ॥ हन्यन्ते पृष्ठदेशेषु पुनर्भीमैर्महाबलैः । दन्तुरेणातिकुण्ठेन क्रकचेन बलीयसा ॥ ३६.८५ ॥ शिलःपृभृति पाट्यन्तेघोरैः कर्मभिरात्मजैः । तेनतेनैव रूपेण हन्यन्ते पारदारिकाः ॥ ३६.८६ ॥ गाढमालिङ्ग्यते नारी ज्वलन्तीलोहनिर्मिता । पूर्वाकालं ज्वलन्तं तं पूरुषं लोहनिर्मितम् ॥ ३६.८७ ॥ दुश्चारिण्यःस्त्रीयो गाढमालिङ्गन्तिवदन्ति च । किं प्रधावसि वेगेन न ते मोहोऽस्ति संप्रति ॥ ३६.८८ ॥ लङ्घितस्ते यथा भर्ता पापं भुङ्क्ष्व तदाधुना । लोहकुंभे विनिक्षिप्ताः सापिधाने शनैश्शनैः ॥ ३६.८९ ॥ मृद्वग्निना प्रपच्यन्ते स्वपापैरिव मानवाः । उलूखलाद्यैः क्षोद्यन्ते प्रपीड्यन्ते शिलासु च ॥ ३६.९० ॥ क्षिप्यन्ते चान्धकूपेषु दश्यन्ते भ्रमरैर्भृशम् । कृमिभिर्भिन्न सर्वाङ्गाश्शतशो जर्जरीकृताः ॥ ३६.९१ ॥ सुतीक्ष्णक्षुरकूपेषु क्षिप्यन्ते तदनन्तरम् । महज्वाले च नरके पापाः पच्यन्ति सर्वतः ॥ ३६.९२ ॥ इतस्ततश्च धावन्ति दह्यमानास्तदर्चिषा । पृष्ठेनानीय जङ्घे द्वे विन्यस्ते स्रन्धयोजिते ॥ ३६.९३ ॥ तयोर्मध्येन चाकृष्य बाहुपृष्ठेन गाढतः । बद्ध्वा परस्परं सर्वं सुदृढं पापरज्जुभिः ॥ ३६.९४ ॥ पिण्डबद्धं दशन्त्येनं भ्रमारास्तीक्ष्णलोहजाः । मानिनां क्रोधिनां चैव तस्कराणां च दारुणाः ॥ ३६.९५ ॥ पिण्डबद्धास्स्मृता याम्यमहाज्वाले च यातनाः । रिज्जुभिर्वेष्टितांगाश्च प्रलिप्ताः कर्दमेन च ॥ ३६.९६ ॥ करीषवत्प्रपच्यन्ते म्रियन्ते तेन तेतथा । सुतीक्ष्णक्षारतोयेन कर्मशानु शिलासु च ॥ ३६.९७ ॥ अपापसंक्षयात्पापा घृष्यन्ते चन्दनं यथा । शरीराभ्यन्तरगतैस्सन्ततं कृमिभिर्नराः ॥ ३६.९८ ॥ भक्ष्यन्ते तीव्रवदनैरादेह प्रक्षयाद्भृशम् । कृमीणां निचये क्षिप्ताः पूतिमांसस्य राशिषु ॥ ३६.९९ ॥ तिष्ठन्त्युद्विग्नहृदयाः पर्वताभ्यन्तरार्दिताः । सुतप्तवज्रलेपेन शरीरमुपलिप्यते ॥ ३६.१०० ॥ अधोमुखोर्ध्वपादाश्च वृता स्तप्यन्ति वह्निना । वदनान्तः प्रविन्यस्तं सुप्रतप्तमयोगुडम् ॥ ३६.१०१ ॥ ते खादन्ति पराधीना हन्यमानाश्च मुद्गरैः । ये देवारामपुष्पाणि लोभात्संसृह्य पाणिना ॥ ३६.१०२ ॥ जिघ्रन्ति मूढमनसो शिरसा धारयन्ति च । आरोप्यते शिरस्तेषां सुतप्तैर्लोहशङ्कुभिः ॥ ३६.१०३ ॥ ततः क्षारेण दीप्तेन तैलताम्रादिभिः क्रमात् । शरीरे च महाघोराश्चित्रा नरकयातनाः ॥ ३६.१०४ ॥ बहुधोत्पाट्यते जीह्वा येऽसत्य प्रियवादिनः । संदंशेन सुतप्तेन प्रपीड्योरसि पादतः ॥ ३६.१०५ ॥ मिध्यागमप्रवक्तुश्च जीह्वा चास्य विनिर्गता । क्रोशार्धजीह्वाविस्तीर्णैर्हलैस्तीक्ष्णैः प्रपाट्यते ॥ ३६.१०६ ॥ निर्भर्त्सयन्तिये क्रूरा मातरं पितरं गुरुम् । तेषां वज्रजलूकाभिर्मुखमादश्यते यतः ॥ ३६.१०७ ॥ ततःक्षारेण ताम्रेण त्रपुणा सिच्यते पुनः । द्रुतैरापूर्यतेऽत्यर्थं तप्तलोहैश्च तन्मुखम् ॥ ३६.१०८ ॥ इतस्ततः पुनर्धावन् बद्ध्यते यमकिङ्करैः । ये निन्दन्ति महात्मानमाचार्यं धर्मदेशिकम् ॥ ३६.१०९ ॥ विष्णुभक्तांश्च सम्मूढास्तद्धर्मं चैह शाश्वतम् । तेषामुरसि कन्थे च जिह्मायां दन्तसन्धिषु ॥ ३६.११० ॥ तालुन्योष्ठे च नासायां मूर्ध्नि सर्वांगसन्धिषु । अग्निवर्णास्सुतप्ताश्च त्रिशिखा लोहशङ्कवः ॥ ३६.१११ ॥ आरोप्यन्ते सुबहुशः स्थानेष्वेतेषु मुद्गरैः । ततः क्षारेण तप्तेन ताम्रेण त्रपुणा पुनः ॥ ३६.११२ ॥ तप्तलोहादिभिस्सर्वैरापूर्यन्ते समन्ततः । यातनाश्च महाचित्राश्शरीरस्यापि सर्वतः ॥ ३६.११३ ॥ निश्शेषनरकेष्वेवं भ्रमन्ति क्रमशः पुनः । ये गृह्णन्ति परद्रव्यं पद्भ्यां विप्रं स्पृशन्ति च ॥ ३६.११४ ॥ देवोपकरणांगं च ज्ञानं च लिखितं क्वचित् । हस्तपादाघनैस्ते षामापूर्यन्ते समन्ततः ॥ ३६.११५ ॥ क्षारताम्रादिभिर्धीप्तैर्दह्यन्ते क्रमशः पुनः । नरकेषु च सर्वेषु विचित्रा देहयातनाः ॥ ३६.११६ ॥ भवन्ति बहुशः कष्टाः पाणिपादसमुद्भवाः । प्रदत्तां देवदेवस्य तन्नाम्ना पूजकस्य वा ॥ ३६.११७ ॥ पदार्धिनामथान्येषां हठाद्वृत्तिं हरन्तिये । ते वै नरककूपेषु पच्यमानास्स्वकर्मभिः ॥ ३६.११८ ॥ व्रजन्तियातना भूयो नातियन्तियामाङ्गणम् । ये देवायतनारामवापीकूपमठाङ्गणम् ॥ ३६.११९ ॥ उपद्रवन्ति पापिष्ठा नृपास्तत्र वसन्ति च । व्यायामोद्वर्तनाभ्यङ्गस्नानपानान्नभोजनम् ॥ ३६.१२० ॥ क्रीडनं मैथुनं द्यूतमशौचाद्याचरन्ति च । ते नधैर्विविधैर्घोरैरिक्षु यन्त्रादिपीडनैः ॥ ३६.१२१ ॥ निरयाग्निषु पच्यन्ते यावदाचन्द्रतारकम् । देवायतनपर्यन्ते देवारामे च कुत्रचित् ॥ ३६.१२२ ॥ समुत्सृजन्ति ये मूढाःपुरीषं मूत्रमेव वा । तेषां शिश्नं सवृषणं हन्यते लोहमुद्गरैः, ॥ ३६.१२३ ॥ सूचीभीर्नेत्रपर्यन्तैरग्निवर्णैस्सकण्टकैः । अरोप्यन्ते गुदे तेषां यावन्मूर्ध्नि विनिर्गतैः ॥ ३६.१२४ ॥ ततः क्षारेण महता ताम्रेण त्रपुणा पुनः । द्रुतेनापूर्यते गाढं गुदं शिश्नं च देहिनाम् ॥ ३६.१२५ ॥ मनस्सर्वेन्द्रियाणां च यस्मादुक्तं प्रवर्तनम् । तस्मादिन्द्रियदुःखेन जायते तत्सुदुःखितम् ॥ ३६.१२६ ॥ अन्न पानमदत्तं यैर्मूढैर्नाप्यनुमोदितम् । धने सत्यपि ये दानं न च यच्छन्ति तृष्णया ॥ ३६.१२७ ॥ अतिथिं चावमन्यन्ते कालप्राप्तं गृहाश्रमे । तेजोहीना रणे बद्धा हस्तपादानधारिताः ॥ ३६.१२८ ॥ विस्तारितांगाश्शुष्यन्ति तिष्ठन्त्यब्दशतं नराः । हस्तपादललाटेषु कीलिता लोहशङ्कुभिः ॥ ३६.१२९ ॥ नित्यं च विकृतं वक्रं कीलकद्वयघाटितम् । कृमिभिःप्राणिभिश्चोग्रैर्लोहतुण्डैश्च वायसैः ॥ ३६.१३० ॥ उपद्रवैर्बहुविधैर्मुखमन्तः प्रपीड्यते । जिह्वा ततः प्रभिन्ना च गाढं शृङ्खलया पुनः ॥ ३६.१३१ ॥ तिष्टन्ति लंबमानाश्च लोहाकारास्सुवर्तुलाः । ततः स्वमांसमुत्कृष्य तिलमात्रप्रमाणतः ॥ ३६.१३२ ॥ खादितुं दीयते तेषां सूच्यग्रेण च शोणितम् । यथा निर्मांसतां प्राप्ताः कालेन बहुधा पुनः ॥ ३६.१३३ ॥ ततः क्षारेण दीप्तेन तच्छरीरं प्रलिप्यते । भिद्यन्ते वर्ष धाराभिश्शुष्यन्ते वायुना पुनः ॥ ३६.१३४ ॥ पुनस्तैलेन सिच्यन्ते सुतप्तेन समन्ततः । इति चित्रविधैर्घोरैर्मध्यमानास्स्वकर्मजैः ॥ ३६.१३५ ॥ म्रियन्ते नैव पापिष्ठा यावत्पापस्य संक्षयः । तस्मात्पापं न कुर्वीत चञ्चले जीविते सति ॥ ३६.१३६ ॥ एवं क्लिष्टा विशिष्टाश्च सावशेषेण कर्मणा । ततः क्षितिं समासाद्य जायन्ते देहिनः पुनः ॥ ३६.१३७ ॥ स्थावरा विविधाः क्रूरास्तृण गुल्मादिभेदितः । तत्रानुभूय दुःखानि जायन्ते कीटयोनिषु, ॥ ३६.१३८ ॥ निष्क्रान्ताः कीटयोनिभ्योजायन्ते पक्षिणः क्रमात् । संक्लिष्टाः पक्षिभेवेन भवन्ति मृगजातिषु ॥ ३६.१३९ ॥ मार्गं दुःघमतिक्रम्य जायन्ते पशुयोनिषु । क्रमाद्गोयोनिमासाद्य जायन्ते मानुषे पुनः ॥ ३६.१४० ॥ व्युत्क्रमेणापि मानुष्यं प्राप्यते पुण्यगौरवात् । ततो मनुष्यतां प्राप्य तत्तत्पापानुसारतः ॥ ३६.१४१ ॥ संयुतां पापचिह्नेश्च वर्तन्ते प्राणिनस्ततः । देवाभिगमनम् स्नातो धृतोर्ध्वपुण्ड्रश्च प्रयतश्शान्तमानसः ॥ ३६.१४२ ॥ अव्यग्रश्चान्यकार्येषु गृहीत्वा शक्तितस्स्वयम् । फलादीन्युपहाराणि गन्धान् सुमनसस्तथा ॥ ३६.१४३ ॥ हिरण्यं हरिमुद्दिश्य येन सर्वाःकृता इमे । उपहारादिभिस्सम्यगभिसच्छेज्जगद्गुरुम् ॥ ३६.१४४ ॥ पत्रैः पुष्पैःफलैर्वापि यथाशक्ति समर्पितैः । अयत्नसुलभेनापि तोयेनापि स तुष्यति ॥ ३६.१४५ ॥ पादचार्येव गच्छेत्तु देवालयमतन्द्रितः । अशक्तोऽप्यथ वाशक्त आढ्यो वा दुर्विधोऽध वा ॥ ३६.१४६ ॥ आधिराज्ये जगद्धातुरधिकारी समस्स्मृतः । न हि संहरते ज्योत्स्नां चन्द्रश्चण्डालवेश्मनि ॥ ३६.१४७ ॥ न वा सौधेषु सम्राजां सुधाधाराः प्रवर्षति । भोगायतनमे तेषा मेकाकारं कलेपरम् ॥ ३६.१४८ ॥ अनुगृह्णाति दाता तस्य नोच्चानचो विधिः विष्णुपारम्यम् । देवतेह परञ्ज्योतिरेक एव परः पुमान् ॥ ३६.१४९ ॥ स एव बहुधा लोके मायया भिद्यते स्वया । विष्ण्वाख्यस्स स्वयं मायं प्रकृतिं व्यज्य स द्विधा ॥ ३६.१५० ॥ स्थितस्त्रिधा च सत्त्वादिगुणभेदात्प्रतीयते । विष्णुब्रह्मशिवाख्योऽसौ स्थित्युत्पत्यन्तकृत्स्मृतः ॥ ३६.१५१ ॥ विष्ण्वाद्या मूर्तयस्तस्य धर्मज्ञानादिभेदतः । चतस्र एव विज्ञेया वेदवर्ण युगाश्रयाः ॥ ३६.१५२ ॥ विष्णुश्च पुरुषस्सत्यो ह्यच्युतश्छानिरुद्धकः । पञ्चधोपनिषद्भेदान्महाभूतत्वमागतः ॥ ३६.२५३ ॥ मनश्श्रोत्रादिभिष्षड्भिरङ्गैश्च हृदयादिभिः । षडक्षरात्मको नित्यमृषिभिश्चैष भिद्यते ॥ ३६.१५४ ॥ सप्तव्याहृतिभिर्लो कैश्छन्दोभिः क्रतुभिस्तथा । सप्तधा भिद्यमानोऽसौ विज्ञातव्यो विचक्षणैः ॥ ३६.१५५ ॥ अष्टप्रकृतिभिश्चासावष्टमूर्तिभिरेव च । अष्टाक्षरमयो नित्यमष्टधा चैष भिद्यते ॥ ३६.१५६ ॥ नारायणो नृसिंहश्च वराहो वामनस्तथा । रामब्रह्मेन्द्रसूर्याश्च चन्द्रस्तैर्न वधा स्थितिः ॥ ३६.१५७ ॥ इन्द्रोऽग्निश्ट यमश्चैव निरृतिर्वरुणस्तथा । वायुस्सोमस्तथेशानो ब्रह्मानन्तश्चते दश ॥ ३६.१५८ ॥ एकादशेन्द्रियैर्भिन्नस्तथा द्वादशमानपैः । स त्रयोदशधा चैव विश्वेदेवादिभिः स्थितः ॥ ३६.१५९ ॥ स चतुर्दशधा भिन्नो मनुभिश्चाक्षुषादिभिः । तिथिभिः पञ्चदशधा भिन्नो ज्ञेयस्सु वै प्रभुः ॥ ३६.१६० ॥ स्वरैष्षोडशधा भिन्नोदिक्कोणावान्तरैस्तथा । मूर्त्यन्तरैश्च विज्ञेयो बहुधा तस्य विस्तरः ॥ ३६.१६१ ॥ एकद्वित्रिचतुःपञ्चषडाद्या विश्वतो मुखाः । मुखभेदास्समाख्यातास्तस्य विश्वात्मनो हरेः ॥ ३६.१६२ ॥ द्व्यादयो विश्वतःपाणेर्भुजभेदस्तथा स्मृताः । विविधाभरणा दीर्घा विविधायुधधारिणः ॥ ३६.१६३ ॥ मूर्धानश्चैव तस्योक्ता लसन्मुकुटकुण्डलाः । हैमोर्ध्वपुड्रलावण्यप्रभवा वक्रकुन्तलाः ॥ ३६.१६४ ॥ स्मेरारुणाधरास्सौम्याः प्रसादामृतवर्षिणः । सहस्रं पौरुषे सूक्ते पादाश्चाक्षीण्यनेकशः ॥ ३६.१६५ ॥ हिरण्यगर्भोऽनेकात्मा विमलश्श्याम एव च । नीलः पीतस्तथा रक्तो नानावर्णः प्रकीर्तितः ॥ ३६.१६६ ॥ चन्द्रसूर्यौस्मृतौ तस्य नयने वामदक्षिणे । ब्रह्माणमाहुर्मूर्धानं केशांश्चास्य वनस्पतीन् ॥ ३६.१६७ ॥ आस्यं वेदाश्च येऽनन्ता तोयं रुधिरमेव च । उपजिह्वा तु तस्योक्तमुपश्रुतिशतं तथा ॥ ३६.१६८ ॥ भ्रुवोर्मध्ये तथा रुद्रं भृगुं मनसि संस्थितम् । रुद्रा एकादश ज्ञे या स्तस्य कण्ठं समाश्रिता ॥ ३६.१६९ ॥ नक्षत्रग्रहताराश्च दन्तास्स्युर्मरुतोऽपि च । धर्माधर्मौतथोर्ध्वाधरोष्ठौ तु परिकीर्तितौ ॥ ३६.१७० ॥ इन्द्राग्नी तालुके तस्य जिह्माचैव सरस्वती । दिशश्च विदिशश्चैव श्रोत्रयोन्तस्य संस्मृताः ॥ ३६.१७१ ॥ वायुःप्राणेषु विज्ञेयस्साध्याश्चांगुलयःस्मृताः । ऋषयो रोमकूपेषु सागरा वस्तिगोचराः ॥ ३६.१७२ ॥ नद्यश्च वसुधा चास्य नागाश्च नलके स्थिताः । जानुस्थावश्विनौ देवौ पर्वताश्चोरुसंस्थिताः ॥ ३६.१७३ ॥ गुह्योऽस्य गुह्यका ज्ञेया वसवश्चोरसि स्थिताः । नखाग्रेषु च विज्ञेया दिव्या ओषधयस्तथा ॥ ३६.१७४ ॥ नासिकायाः पुटौ ज्ञेयावयने दक्षिणोत्तरे । ऋतवो बाहुमूले तु मासाः करतलेषु च ॥ ३६.१७५ ॥ ललाटाग्रे तथा सिद्धा भ्रुवोर्मेघास्सविद्युतः । यक्षकिन्नरगन्धर्वा दैतेया दानवास्तथा ॥ ३६.१७६ ॥ राक्षसाश्चारणाश्चास्य जठरं समुसाश्रिताः । पितरः प्रेतकूश्माण्ड वेतालप्रमथास्तथा ॥ ३६.१७७ ॥ पातालगोचराश्चास्य पावयुग्मं समाश्रिताः । पार्श्वयोस्तस्य विज्ञेयाःक्रिया वेदैरभिष्टुताः ॥ ३६.१७८ ॥ अग्निहोत्रादिकर्माणि वर्णाश्रमहितानि च । स्वाहास्वधावषट्का रास्सर्वेऽस्य हृदये श्रिताः ॥ ३६.१७९ ॥ नाम्नां शतं सहस्रं वा तथानन्तं पठन्तियत् । अनन्तानन्तरूपस्य यथायोगं समन्वितम् ॥ ३६.१८० ॥ मूर्तयश्चास्य सर्वास्तास्संख्यातीताः प्रकीर्तिताः । देवादीनां च सर्वेषां मूर्तयस्तत्र संश्रिताः ॥ ३६.१८१ ॥ तस्मादनन्तन्संप्रोक्तः पुंसूक्ते तदुदीरितम् । "सहस्रशीर्षा पुरुषस्सहस्राक्षस्सहस्रपात्" ॥ ३६.१८२ ॥ ब्राह्मणा मुखते यस्य क्षत्रिया यस्य बाहुतः । ऊरुतो यस्य वै जाता वैश्याश्चेति नरा भुवि ॥ ३६.१८३ ॥ चन्द्रमा मनसो जातश्चक्षुषोर्मिहिरस्तथा । मूखादिन्द्रस्तथाग्निश्च प्राणाद्वायुरजायत ॥ ३६.१८४ ॥ नाभ्यायस्यान्तरिक्षं च शिरसो द्यौरजायत । पद्भ्यां भूमिर्दिशश्श्रोत्राद्यस्य देवस्य संबभौ ॥ ३६.१८५ ॥ तमीदृशं महाविष्णुमप्रमेयमनामयम् । तत्प्रसादादृते ज्ञातुं वक्तुं वा नैव शक्यते ॥ ३६.१८६ ॥ सर्वदेवमयो विष्णुः सर्वे देवास्तदात्मकाः । अशेषं वाङ्मयं चेदं लोकालोकं चराचरम् ॥ ३६.१८७ ॥ वैष्णव्या व्याप्यते शक्त्या वायुनेवदिशोऽन्तरम् । सर्वे विष्णुमयादेवास्सर्वशास्त्रेषु कीर्तिताः ॥ ३६.१८८ ॥ आधाराधेयभावेन द्वेधास व्याप्य तिष्ठति । सर्वभूतहितायैव निष्कलस्सकलःस्थितः ॥ ३६.१८९ ॥ निष्कलस्सकलश्चैवं ज्ञेयो विष्णुस्सनातनः । सर्वतःपाणिपादं तत्सर्वतोऽक्षिशिरोमुखम् ॥ ३६.१९० ॥ सर्वतश्श्रुतिमल्लोके सर्वमावृत्य तिष्ठति, । सर्वेन्द्रियगुणाभासं सर्वेन्द्रियविवर्जतम् ॥ ३६.१९१ ॥ असक्तं सर्वभृच्चैव निर्गुणं गुणभोक्तृ च । अविभक्तं च भूतेषु विभक्तमिव च स्थितम् ॥ ३६.१९२ ॥ भूतभर्तृच तद्ज्ञेयं ग्रसिष्णु प्रभविष्णु च । ज्योतिषामपि तज्ज्योतिस्तमसः परमुच्यते ॥ ३६.१९३ ॥ ज्ञानं ज्ञेयं ज्ञानगम्यं हृदि सर्वस्य विष्ठितम् । तच्चाद्यो जगतामीशः परेशः परमेश्वरः ॥ ३६.१९४ ॥ परावरस्वरूपेण विष्णुस्सर्वहृदि स्थितः । स्थूलसूक्ष्मपरत्वेन त्रिधा च भगवान् स्थितः ॥ ३६.१९५ ॥ प्रभविष्णुर्महाविष्णुस्सदाविष्णुः स्मृतश्च सः । आत्मा स ह्यन्तरात्मा च परमात्मा च संस्मृतः ॥ ३६.१९६ ॥ वैराजं लैङ्गिकं चैव बहिरन्तश्च सर्वशः । शब्दादिश्चिन्मयं रूपं जाग्रत्स्वप्न सुषुप्तिगम् ॥ ३६.१९७ ॥ मन्त्रानुस्वारनादेषु त्रयमन्वेषयेद्बुधः । वेदे च भगवच्छास्त्रे सांख्ये योगे तथैव च ॥ ३६.१९८ ॥ धर्मशास्त्रे पुराणे च मुनिभिर्देवमानुषैः । पठ्यते निखिलैर्नित्यं विश्वं विष्णुमयं जगत् ॥ ३६.१९९ ॥ यच्च भूतं भविष्यच्च वर्तमानं तु किं चन । इन्द्रियाणीन्द्रियार्थाश्च भूतान्तः करणानि च ॥ ३६.२०० ॥ अव्यक्तं त्रिगुणा माया विद्या धर्मादयस्तथा । नियतिश्च कला कालः सर्वमन्यच्च तन्मयम् ॥ ३६.२०१ ॥ विष्णुरेव परो देवस्सर्व भूतेष्ववस्थितः । सर्वभूतानि चैवाचौ न तदस्तीह यन्न सः ॥ ३६.२०२ ॥ देवासुरादयो मर्त्याः पशवश्च सरीसृपाः । तरुवल्लीतृणौषध्यो महाभ्राशनिविद्युतः ॥ ३६.२०३ ॥ शैलाब्धिसरिदारामनगराणि सरांसि च । लोकाश्चान न्तकालोऽग्नि प्रेतावासोरगालयाः ॥ ३६.२०४ ॥ सप्तभूरादयो ब्राह्मशैववैष्णवसंज्ञिताः । सर्वे च विष्णुनैकेन व्याप्तास्सर्वात्मनात्मना ॥ ३६.२०५ ॥ वराहो भार्गवस्सिंहो रामश्रीधरवामनाः । अश्विकृष्णौ च दिक्ष्वेषां लोकैरण्डं सहाखिलम् ॥ ३६.२०६ ॥ यच्चानुक्तमशेषेण विष्णोरेता विभूतयः । विश्वव्यापितयेवैष विष्णुर्वृद्धैरुधीरितः ॥ ३६.२०७ ॥ पुरुसंज्ञेशरीरेऽस्मिन् शयनात्पुरुषः स्मृतः । सत्यश्छाबाधितार्थत्वान्नित्यत्वात्स प्रकीर्तितः ॥ ३६.२०८ ॥ अच्युतोऽच्यवनादेव स हरिः समदीरितः । अनिरुद्धस्तथा प्रोक्तस्सर्वस्मादनिरोधनात् ॥ ३६.२०९ ॥ वसनास्तर्वभूतेषु वासुदेवत्वमीयिवान् । आदिमूर्तेस्समाकृष्टः स्मृतस्संकर्षणः प्रभुः ॥ ३६.२१० ॥ प्रद्युम्नो द्युम्न पृष्ठत्वात्त्रिधामा धामभिस्त्रिभिः । वैकुण्ठामलवर्णत्वाद्वैकुण्ठश्टायमुच्यते ॥ ३६.२११ ॥ लीयेते प्रलये त्वस्मिन् केशावित्येष केशवः । नरनारीप्रकर्तृत्वान्नराणां चायनादयम् ॥ ३६.२१२ ॥ नारायणो नरोद्धानामयनत्वादपाञ्च सः । माधवो मधुषूत्पत्त्या धवत्वाद्वा श्रियःस्मृतः ॥ ३६.२१३ ॥ गोविन्दतीति गोविन्दो गावो विन्दन्ति यं तथा । असुरं मधुनामानं हन्तीति मधुसूदन ॥ ३६.२१४ ॥ त्रिभिःस्वैर्विक्रमैर्व्याप्तो जगदेष त्रिविक्रमः । वामनो व्रास्वतायोगाच्छ्रीधरो वहनाच्छ्रियः ॥ ३६.२१५ ॥ हृषीकस्येन्द्रियस्येशो हृषीकेश उदीरितः । पद्मं नाभेरभूद्यप्य पद्मनाभस्ततस्म्मतः ॥ ३६.२१६ ॥ उदरालम्बि दामास्येत्युक्तो दामोदरो हरिः । उत्तमः पुरुषोयस्मादुक्तस्स पुरुषोत्तमः ॥ ३६.२१७ ॥ विलोमेन्द्रियगम्यत्वात्प्रोच्यते स त्वधोक्षजः । अर्धमर्धं लरस्सिंहो नरसिंहा उदाहृतः ॥ ३६.२१८ ॥ जनार्दनस्स पापिष्ठान् जनानर्दयतीति सः । इन्द्रस्यावरजो भूत उपेन्द्रः प्रोच्यते हरिः ॥ ३६.२१९ ॥ हरणात्सर्वपापानां हरिर्नायणः स्मृतः । कर्षणात्पापराशीनां कृष्णस्सर्वात्मको हरिः ॥ ३६.२२० ॥ रुद्रो रोदयते तस्मात्ब्रह्मा बृंहणकर्मणा । इन्द्रश्च परमैश्वर्याद्वहनाद्वह्निरुच्यते ॥ ३६.२२१ ॥ यमस्संयमनात्पुंसां वरणाद्वरुणस्तथा । वायुर्वानात्सवात्सोमरिशश्चेष्टे जनेषु यः ॥ ३६.२२२ ॥ आदित्योऽदितिपुत्रत्वाच्चन्द्रश्चन्दयते यतः । इत्येवं गुणवृत्त्योह्यैः शब्देरेकोऽप्यनेकथा ॥ ३६.२२३ ॥ श्रुतिभिः प्रोच्यते ब्रह्म विष्ण्वाख्यं जातु नेतरत् । तस्येश्वरस्य चैश्वर्यात्सर्वमेतत्प्रवर्तते ॥ ३६.२२४ ॥ सेश्वरं हि जगत्सर्वं भवेन्नानीश्वरं क्वचित् । तन्मयत्वेन गोविन्दे न्यस्तसर्वभरा नराः ॥ ३६.२२५ ॥ तद्याजीनो महाभागास्तरन्ति भववारिधिम् । तं प्रसाधयितुं यत्नः कार्यस्सरात्मना नरैः ॥ ३६.२२६ ॥ भक्तिनम्रस्सदा गच्छेत्सर्वोऽपि जगतः पतिम् । तद्देवस्य प्रियं भूयाद्यतस्सम्माननं तु तत् ॥ ३६.२२७ ॥ तस्य सन्निहितो देवो यस्य चित्ते जनार्दनः । दानेन तपसा नान्यैस्त्यस्य तुष्टोभवेद्धरिः ॥ ३६.२२८ ॥ आरुह्य शकटं गच्छेद्यो विष्णोर्मन्दिरं नरः । नारी वा बालको वाथ वृद्ध आतुर एव वा ॥ ३६.२२९ ॥ तस्य पुण्यफलं नास्ति प्रेत्य युग्यश्च जायते । ये वाहयन्ति तान्मर्त्यान्नरा वा प्राणिनश्च ये ॥ ३६.२३० ॥ ते यास्यन्ति पदं विष्णोर्यस्मात्पादच रास्तु ते । ये वाहयन्ति जन्तूंस्तान् स्तेऽपिमूढाः पतन्ति वै ॥ ३६.२३१ ॥ यस्तोदयति तानेव गमने मूढचेतनः । स यामीर्यातनाः प्राप्य तोद्यते यमकिङ्करैः ॥ ३६.२३२ ॥ पुनः पशुत्वमापन्नस्तोद्यते पशुभिर्नरैः । यो वा भृतकदानेन वाहनेन तु मानवः ॥ ३६.२३३ ॥ वाहयत्यथ वोहेत सोऽपि यास्यति दुर्गतिम् । अपारे दुर्गसंसारे कर्मबद्धे विशेषतः ॥ ३६.२३४ ॥ स्वीयं कर्म समुत्सृज्य पतन्ति नरकेऽशुचौ । ततःपशुत्वमापन्नाश्चिरं तिष्ठन्ति भूतले ॥ ३६.२३५ ॥ पादुकामधिरुह्यापि यो देवालयमाप्रजेत् । स पशुर्जोयते प्रेत्य रोगी चेहप्रजायते ॥ ३६.२३६ ॥ पादुकां वाहनं चापि योऽधिष्ठित्य विमूढधीः । प्रणामं हरये कुर्यात्त स्य दूरतरो हरिः ॥ ३६.२३७ ॥ देवदर्णनमुद्दिश्य नैवेदं विध आव्रजेत् । अयत्नाद्गमने जातेऽप्यवरुह्य च वाहनात् ॥ ३६.२३८ ॥ पादुकादि विमुच्यैव समुपस्पृश्य वारिणा । प्रविशेत्प्रयतो भूत्वा प्राकारं प्रथमं पुनः ॥ ३६.२३९ ॥ न विशेद्धाम देवस्य यादता वाहनादिभिः । तादृशं पुरुषं दृष्ट्वा यथाशक्त्यवबोधयेत् ॥ ३६.२४० ॥ आद्यस्त्वेषोऽपचारस्स्याद्यत्नहार्योभवेत्ततः । श्मशानमध्ये गत्वातु यो गच्छेद्देवतागृहम् ॥ ३६.२४१ ॥ सप्तजन्मकृतात्पुण्यात्तत्क्षणान्मुच्यते नरः । सार्गालीं योनिमाश्रित्य पसेज्जन्मत्रयं ततः ॥ ३६.२४२ ॥ दरिद्राश्चैव मार्खाश्च भविष्यन्ति त्रिजन्मकम् । अन्यदेवगृहं गद्वाह्यस्नात्वा यो व्रजेद्गृहम् ॥ ३६.२४३ ॥ देवदेवस्य मोहात्तु तस्य पापं महाद्भवेत् । गृहाद्गृहं तथा गद्वा भिक्षार्थी क्षुधितस्स्वयम् ॥ ३६.२४४ ॥ भिक्षामलब्ध्वा कुत्रापि दरिद्रो जायते नरः । चत्वारि चैव जन्मानि तेषामन्ते च यो बुधः? ॥ ३६.२४५ ॥ चण्डालयोनि माप्नोति जन्मानि दश पञ्च च । अत्र चोदाहरन्तीमं विशेषं काश्यपादयः ॥ ३६.२४६ ॥ सर्वदेवमयो विष्णुस्सर्ववेदमयो हरिः । तस्यातिरिक्तं नो किञ्चिद्विशेषस्तत्र वक्ष्यते ॥ ३६.२४७ ॥ सर्वेऽप्यधिकृता लोके तत्तत्कर्मानुरूपतः । आब्रह्मस्तंबपर्यन्तं जगदन्तर्व्यवस्थिताः ॥ ३६.२४८ ॥ तस्मादेव जगत्सर्वं सर्गकाले प्रजायते । तस्मिन्नेव पुनस्तच्च प्रलये संप्रलीयते ॥ ३६.२४९ ॥ यः वरः प्रकृतेः प्रोक्तः पुराणः पुरुषोऽव्ययः । स एव सर्वभूतात्मा नर इत्यभिधीयते ॥ ३६.२५० ॥ नराज्जातानि तत्त्वानि नाराणीति प्रचक्षते । तान्येव चायनं यस्य स तु नारायणः स्मृतः ॥ ३६.२५१ ॥ नारायणः परं ब्रह्म तत्त्वं नारायणः परः । विष्ण्वादिभिस्तथा केचिद्वासुदेवादिभिः परे ॥ ३६.२५२ ॥ संज्ञाभेदैर्महात्मानस्सदैवाराधयन्तितम् । सर्वत्र परिपूर्णस्य सर्वधा सर्ववस्तुषु ॥ ३६.२५३ ॥ न जातु लभ्यते किञ्चिद्येनाव्याप्तं तु किं चन । तस्मात्तस्मिन् समारोप्य सर्वं देवेश्वरेश्वरे ॥ ३६.२५४ ॥ उपासनं भवेद्यत्तु तद्भवेदुचितं बुधैः । अन्यत्र तं समारोप्य यदि चोपासनं भवेत् ॥ ३६.२५५ ॥ तद्भवेदन्यदेवार्चा तस्मात्परिमितं फलम् । येऽप्यन्यदेवताभक्तायजन्ते श्रद्धयोऽन्विताः ॥ ३६.२५६ ॥ यजन्ते तेऽपि देवेशं तमेवाविधि पूर्वकम् । अन्ये ते ब्रह्मरुद्रेन्द्रास्तदाद्या देवतास्स्मृताः ॥ ३६.२५७ ॥ वैष्णवा अवताराश्च ये तु शास्त्रोदिताः पुरा । परमार्थे न भिद्यन्ते नान्यत्वं स्यात्परस्परम् ॥ ३६.२५८ ॥ विष्ण्वालयादथैकस्मादन्यविष्ण्वालयस्य तु । तत्स्थानां दैवतानां वा नान्यत्वं जातु संभवेत् ॥ ३६.२५९ ॥ अथ शास्त्रविधिर्भिन्नो यत्र नाप्युपलभ्यते । तत्रान्यत्वं विजानीयान्न चेच्छेच्छास्त्रसंकरम् ॥ ३६.२६० ॥ हरिं देवं तु संसेव्य वाहनस्थं द्विजोत्तमः । यदन्यं सेदते वीथ्यां तत्काले वाहनस्थितम् ॥ ३६.२६१ ॥ सोऽपि पापमवाप्नोति विष्णुध्यानेन शुद्ध्यति । देवेशस्योत्सवो यत्र ग्रामे वा नगरेऽपि वा ॥ ३६.२६२ ॥ पर्वताग्रे महानद्यास्तीरे दुर्गाटवीषुवा । तत्र गच्छेन्नरो भक्त्या सेवेतोत्सवमादरात् ॥ ३६.२६३ ॥ सह पुत्त्रेस्सहामात्यैस्सर्वैः परिजनैर्वृतः । वैष्णवं क्रतुदेशन्तु गत्वा सेवेत मानवः ॥ ३६.२६४ ॥ यथार्ऽहमुपयुञ्जीत स्वशक्तिं तत्क्रियासु च । श्रुत्वा देवोत्सवारंभं पङ्गूभावेन यो नरः ॥ ३६.२६५ ॥ तिष्ठेत्स जन्मसाहस्रं पङ्गुरेव भविष्यति । तद्भवेद्विफलं जन्म भूभारस्तस्य जीवितम् ॥ ३६.२६६ ॥ देवेशस्योत्सवे सम्यग्वर्तमाने महाफले । योऽन्यत्र व्यापृतस्तत्र न गच्छेद्दुर्मना नरः ॥ ३६.२६७ ॥ न तस्य निष्कृतिः प्रोक्ता स पापी नरकं व्रजेत् । अनाहूतोऽध्वरं गच्छेत्तथा गुरुकुलं व्रजेत् ॥ ३६.२६८ ॥ योऽध्वरं गन्तुकामोऽत्र प्रतीक्षेतार्ङ्गणादिकम् । तन्य पूर्वार्जितं पुण्यं तत्क्षणादेव नश्यति ॥ ३६.२६९ ॥ देवोत्सवं तु यो मर्त्यो यतमानं तु सेवितुम् । वारयेद्येन केनापि हेतुना स तु दुर्मतिः ॥ ३६.२७० ॥ अफलस्सफलो वापि पतत्येव न संशयः । विष्णुपञ्चदिने वापि पुण्याहेष्वितरेष्वपि ॥ ३६.२७१ ॥ उपोषितस्तु श्रुत्वैव देवेशस्योत्सवं हठात् । तत्क्षणाद्यो न गच्छेत्तु तस्य पापं महद्भवेत् ॥ ३६.२७२ ॥ खट्वामास्थाय यश्शेते वर्तमाने तदुत्सवे । आसीनस्थ्सित एवात्र स यामीर्यातना व्रजेत् ॥ ३६.२७३ ॥ देवेशाभिमुखं गत्वा न कुर्याद्यो नमस्क्रियाम् । स पापिष्ठतरो लोके निष्कृतिर्नास्य विद्यते ॥ ३६.२७४ ॥ उत्क्रमिष्यन्ति यत्प्राणाः प्राणदे समुपस्थिते । प्रत्युद्थानाभिवादाभ्यां पुनस्तान् प्रतिपादयेत् ॥ ३६.२७५ ॥ सर्वेषां प्राणभूतोऽसौ भगवान् हरिरव्ययः । प्राणिनश्चेतनास्सर्वे प्राण्येकः प्राणदोऽपरः ॥ ३६.२७६ ॥ अन्यथा चेन्महादोषः संक्षुफ्यन्ते च मानवाः । एकहस्तप्रणामेन यत्पापं न तदन्यतः ॥ ३६.२७७ ॥ हस्तौ द्वौ निर्मितौ धात्रा किं तेन सुकृतं भवेत् । प्राञ्जलीकृत्य हस्तौतु याचेत मधुसूदनम् ॥ ३६.२७८ ॥ य एकेनैव हस्तेन प्रणमेन्मन्दधीर्हरिम् । तस्यहस्तो भवेदेकः पश्चाज्जन्मशतैरपि ॥ ३६.२७९ ॥ इह वै जायते पङ्गू रोगी चैव न संशयः । किमिदं बहुलैश्चित्रैः करणैर्देहकल्पनम् ॥ ३६.२८० ॥ यद्येकैकं न चेत्तस्य कैङ्कर्यायोपयुज्यते । किं स्वाधीनेन हस्तेन स्वाधीनं कर्म सेवितुम् ॥ ३६.२८१ ॥ अशक्नु वानास्स्वातन्त्षहताः पापहता हताः । एकहस्तप्रणामस्तु परिहार्यो विशेषतः ॥ ३६.२८२ ॥ प्रणतं चैकहस्तेन यस्तु प्रत्यभिवादयेत् । तावुभौ नरकं यातस्तयोर्यस्मात्समागमः ॥ ३६.२८३ ॥ देवतास्तादृशं मूढं शपन्ति च विशङ्किताः । पुरस्ताद्यस्तु देवस्य कुर्यादात्मप्रदक्षिणम् ॥ ३६.२८४ ॥ आत्मना स भवेद्वापस्स द्रुह्येदात्मने बुधः । पुरस्ताद्देवबिंबे तु देव्यमङ्गलविग्रहे ॥ ३६.२८५ ॥ वर्तमाने त्वनादृत्य न ह्यन्यस्य प्रदक्षिणम् । यत्र मानसिकार्चा स्यात्तच्च मानसिकं भवेत् ॥ ३६.२८६ ॥ अन्तर्यामी य एवास्ते हृदये निष्कलो हरिः । स एव सकलो भूत्वा बिंबे यत्सन्निधापितः ॥ ३६.२८७ ॥ तस्मात्सकलपूजायां नैव कुर्याद्व्यतिक्रमम् । न कदापि भवेत्प्राज्ञ उच्भिष्टस्स्वेषु कर्मसु ॥ ३६.२८८ ॥ विण्मूत्रं पथि कृत्वातु शौचं यावन्न चाचरेत् । उच्छिष्टस्तावदेव स्यादनर्हस्सर्वकर्मसु ॥ ३६.२८९ ॥ नखरोमाणि यश्चैव केशास्थीनि तथैव च । क्षिपेत्तु देवतागारे स भवेद्ब्रह्महा नरः ॥ ३६.२९० ॥ माक्षिकीं योनिम्श्रित्य जायते म्रियते पुनः । सप्त जन्मानि तत्रैव व्रजेन्नरकमस्ततः ॥ ३६.२९१ ॥ तांबूलं चर्वितं यस्तु प्रक्षिपेद्देवमन्तिरे । स याति नरकं घोरं यावदाभूतसंप्लवम् ॥ ३६.२९२ ॥ ततो मुक्तो महापापी शुनकोऽपरजन्मनि । संस्थितस्त्रीणि जन्मानि वसत्येव न संशयः ॥ ३६.२९३ ॥ निष्ठीवनकरो यस्तु मन्दिरे मधुविद्विषः । कृमिभक्ष्ये पतेद्घोरे नरके पापकृन्नरः ॥ ३६.२९४ ॥ श्लेष्मातकतरुर्भूत्वा जायते जन्मपञ्चकम् । मूत्रयेन्मन्दिरे यस्तु केशवस्य विमूढधीः ॥ ३६.२९५ ॥ स मूत्रगर्तनरके पतत्येव ह्यवाक्छिराः । तस्मान्मुक्तस्तुरक्तादिनिंबकद्रुममास्थितः ॥ ३६.२९६ ॥ जनिष्यति न सन्देहस्सप्तजन्मसु सौकरीम् । पुरीषं वात्र कुर्वीत यो नरो भगवद्गृहे ॥ ३६.२९७ ॥ स याति नरकान् घोरान् पर्यायेणैकविंशतिम् । ततो मुक्तस्तु पापात्मा विष्ठायां जायते कृमिः ॥ ३६.२९८ ॥ समीपे मन्दिरस्यापि सकृन्मूत्रं करोति यः । स तिष्ठेद्रौरवे घोरे वर्षाणामयुतं शतम् ॥ ३६.२९९ ॥ ततोऽपि मनुजो मुक्तो ग्रामसूकरजातिताम् । ग्रामे जन्मशतं प्राप्य विष्ठाभूसूकरस्तथा ॥ ३६.३०० ॥ यस्तु रेतोविसर्गं च कृत्वा कामादकामतः । अस्नातो देवतागारमियात्सद्यस्स नश्यति ॥ ३६.३०१ ॥ यो यत्र देवतागेहे दन्तधावनमाचरेत् । तथा निर्लेखयेज्जिह्वां स पापी नश्यति ध्रुवम् ॥ ३६.३०२ ॥ तैलेनाभ्यक्तसर्वाङ्गः कषायोद्वर्तितस्तथा । यो नरःप्रविशेद्गेहं देवस्य परमात्मनः ॥ ३६.३०३ ॥ स याति गृहगोधात्वं नवजन्मानि पञ्च च । अनुगम्य यथा प्रेतं याति देवालयं तु यः ॥ ३६.३०४ ॥ आराधितुमथेच्छेद्वास गच्छेन्नरायुतम् । बलिभुग्योनितां याति जन्मानि सुबहूनि वै ॥ ३६.३०५ ॥ भरणं तु तथा कृत्वा मृतकस्य विशेषतः । मन्दिरं न प्रवेष्टव्यं प्रविष्टस्तु प्रणश्यति ॥ ३६.३०६ ॥ चाण्डालीं योनिमाश्रित्य जन्मकृन्नव पञ्च च । भविष्यति तथा भूयः पृथक्क्रूरोऽथ निष्ठुरः ॥ ३६.३०७ ॥ भुक्त्वाश्राद्धं परगृहे यायाद्विष्णुगृहन्तु यः । अर्चयेद्वा विशेषेण चटको जायते खलः ॥ ३६.३०८ ॥ तत्र जन्मशतं प्राप्य ततो गोधावपुर्गतः । छायामाक्रम्य यो मोहाद्याति विष्णोस्तु मन्दिरम् ॥ ३६.३०९ ॥ प्रदक्षिणमकुर्वन्वा यस्तिष्ठेन्मतिपूर्वकम् । सोऽप्युच्छिष्टोभवेन्मूढस्तस्य पापफलं त्विदम् ॥ ३६.३१० ॥ तिष्सेत्स कानने शून्ये कण्टकैर्बहुभिर्वृतः । फलपुह्पादिहीनश्च श्मशाने? शून्यवृक्षताम् ॥ ३६.३११ ॥ यज्ञ सूत्रमधःकृत्य कर्णे कृत्वा विशेषतः । अपसव्यं च धृत्वैव धृत्वा चैव निवीतवत् ॥ ३६.३१२ ॥ न गच्छेद्देवतागारं न वा मुक्तशिखो नरः । अकच्छः पुच्छकच्छश्च नग्नः कौपीनमातृधृक् ॥ ३६.३१३ ॥ रिक्तहस्तश्शून्यफालस्त्यक्तसंव्यान एव च । खादन्नपि च तांबूलमुपहारादि भक्षयन् ॥ ३६.३१४ ॥ देवालयं विशेन्नैव तस्य पापं महद्भवेत् । दुराचारो हि पुरुषो नेहायुर्विन्दते महत् ॥ ३६.३१५ ॥ त्रस्यन्ति चास्य भूतानि तथा परिभनन्तिच । तस्मादाचारवानेव कुर्याद्वैवैदिकीः क्रियाः ॥ ३६.३१६ ॥ अपि पापशरीरस्य आचारो हन्त्यलक्षणम् । आचारलक्षणो धर्मः सन्तश्चारित्रलक्षणाः ॥ ३६.३१७ ॥ साधूनां च यथावृत्तमेतदाचारलक्षणम् । अप्यदृष्टं श्रवादेव पुरुषं धर्मचारिणम् ॥ ३६.३१८ ॥ स्वानि कर्माणि कुर्वाणं तं जनाः कुर्वते प्रियम् । ये नास्तिका निष्क्रियाश्च गुरुशास्त्रातिलङ्घिनः ॥ ३६.३१९ ॥ अधर्मज्ञा दुराचारास्ते भवन्तिगतायुषः । विशीला धर्ममर्यादा नित्यं संकीर्णमैथुनाः ॥ ३६.३२० ॥ अल्पायुषो भवन्तीहनरा निरयगामिनः । लोष्ठमर्दी तृणच्छेदी नखखादी च यो नरः ॥ ३६.३२१ ॥ नित्योच्छिष्टस्संकुसुको नेहयुर्विन्दते क्वचित् । विष्णुस्थानसमीपस्थान् विष्णुसेवार्थमागतान् ॥ ३६.३२२ ॥ श्वपचान् पतितान्वापि स्पृष्ट्वा न स्नानमाचरेत् । उत्सवे वासुदेवस्य यःस्नाति स्पर्शशङ्कया ॥ ३६.३२३ ॥ स्वर्गस्थाः पितरस्तस्य पतन्ति नरकेऽशुचौ । पिबेत्पादोदकं विष्णोर्गुरूणां वा विशेषतः ॥ ३६.३२४ ॥ तत्र नाचमनं कुर्यात्तद्वत्सोमे द्विजोत्तमः । अन्यदेवार्थसन्दिष्ठैः पूजयेयुश्च ये हरिम् ॥ ३६.३२५ ॥ सप्तजन्मानि पञ्चापि मुडूकत्वं व्रजन्ति ते । जन्मद्वयन्तु वै मूढाश्शूद्रतां यान्ति ते नराः ॥ ३६.३२६ ॥ कुसुमानां निवेद्याहं गन्धमाघ्राति यो नरः । स पूतिगन्धसंयुक्तः कुष्ठी चैव भवेद्ध्रुवम् ॥ ३६.३२७ ॥ तदन्ते त्रीणि जन्मानि तादृशानि भवन्त्युत । जातकं मृतकं वापि यस्याशौचं विधीयते ॥ ३६.३२८ ॥ अनर्हस्सर्वकर्मभ्यो स नेयाद्देवता गृहम् । पुंप्रसूतौ स्मृतं पूर्वैस्सापिण्ड्यं सप्तपूरुषम् ॥ ३६.३२९ ॥ कन्यकाजनने तद्वत्सापिण्डन्तु त्रिपूरुषम् । व्रतिनां सत्रिणां तद्वद्यतीनां ब्रह्मचारिणाम् ॥ ३६.३३० ॥ नाशौचः कथ्यते प्राज्ञैर्यथा शातातपोऽब्रवीत् । व्रतसंकल्पमात्रेण व्रतित्वं व्रतिनो भवेत् ॥ ३६.३३१ ॥ वृतमात्रस्तथर्त्विक्च सत्रे सत्री प्रकीर्तितः । काषायदण्डमात्रेण यतित्वञ्च यतेर्मतम् ॥ ३६.३३२ ॥ उपनीतो वसेन्मा वा तथा गुरुकुले क्रमात् । ब्रह्माध्येति नचाध्येति ब्रह्मचारी कुमारकः ॥ ३६.३३३ ॥ राजाज्ञाकारिणां तद्वद्राज्ञां च स्नातकस्य चर् । इदृशानामथान्येषामत्रास्तर्भावरिरितः ॥ ३६.३३४ ॥ न कुर्याच्च नमस्कारं नैव प्रत्यभिवादयेत् । नार्ऽपयेदुपहारांश्च तीर्थादीन्नापि सेवते ॥ ३६.३३५ ॥ आशौची ब्राह्मणो यस्तु मोहाद्देवं प्रपूजयेत् । सप्तजन्मसु दारिद्षमत्यन्तं समवाप्नुयात् ॥ ३६.३३६ ॥ श्वानयोनिशतं प्राप्य ततश्चण्डालतामियात् । योभुक्त्वा देवतागारे निक्षिप्योच्छिष्टमत्र तु ॥ ३६.३३७ ॥ गच्छेदन्यत्र वा प्रास्यात्सोपि मूढो विपद्यते । यस्तु देवगृहद्वारे प्रसार्य चरणौ क्वचित् ॥ ३६.३३८ ॥ शेते निद्राति सम्मोहात्स याति नरकायुतम् । पुनश्च जन्म संप्राप्य नीचयोनिष्वनेकशः ॥ ३६.३३९ ॥ यातनाश्चानुभूयेव दौर्ब्राह्मण्यं व्रजेत्तु सः । यस्तु देवगृहे मूढश्सयीत मदमोहितः ॥ ३६.३४० ॥ तत्रोच्छिष्टनिधानेन भृशं निश्श्वासमारुतैः । दुर्गन्धी जायते मर्त्योजायते जन्मपञ्चकम् ॥ ३६.३४१ ॥ ततस्सूकरतां प्राप्य जन्मानि नव पञ्च च । क्लिश्यते बहुभिः कष्टैर्न शयीत हरेर्गृहे ॥ ३६.३४२ ॥ उपधानादिसहितं य स्तल्पमधितिष्ठति । देवालये विशेषेण प्राकारे वापि मूढधीः ॥ ३६.३४३ ॥ स भवेद्दुर्भगश्चैव सर्पयौनिषु जायते । सप्त पञ्च च जन्मानि ततो मानुषतां व्रजेत् ॥ ३६.३४४ ॥ शयीत देवतागेहे व्याधितो यस्तु दुर्मतिः । स भवेद्दुर्मना दीनो प्रेत्य चेह च जन्मनि ॥ ३६.३४५ ॥ यःस्त्रिया सहितो मूढश्शयीत भगवद्गृहे । स भवेद्दुरितष्षण्डस्सप्तजन्मानि पञ्च च ॥ ३६.३४६ ॥ योगिभिर्योगसिद्ध्यर्थमभ्यस्यन्ते विशेषतः । आसनानि त्वसंख्यानि देवागारे न चाचरेत् ॥ ३६.३४७ ॥ मन्त्रयोगपरैस्तद्वल्लययोगपरायणैः । हठयोगिभिरेतानि क्रियन्ते राजयोगिभिः ॥ ३६.३४८ ॥ स्वस्तिकं सर्वतोभद्रं सिद्धं सिंहासनं तथा । सव्यं खूलं सुखं चैव गोमुखं गरुडं तथा ॥ ३६.३४९ ॥ मयूरं मत्स्यमत्स्येन्द्रं मण्डूकं मुद्गरं मृगम् । कुञ्जरं कुक्कुटं नागं काष्ठं क्रैञ्चं च कूर्मकम् ॥ ३६.३५० ॥ खड्गं च कामदहनं वैयाघ्रं वेणुकासनम् । योन्यासनं वासकं च धीरं पद्मासनं तथा ॥ ३६.३५१ ॥ वाराहं चैव पर्यङ्कं पतगासनमेव च । त्रिपदं हस्तिकर्णं च हेममर्धासनं तथा ॥ ३६.३५२ ॥ इत्यादीना मासना नामशीतिश्च तुरुत्तरा । अन्यानि शास्त्रसिद्धानि यानि सन्ति विशेषतः ॥ ३६.३५३ ॥ तान्यास्थायि तु देवाग्रेनो पतिष्ठेत बुद्धिमान् । भुञ्जीयाद्देवतागारे यः पापस्स तु दुर्मनाः ॥ ३६.३५४ ॥ कुक्षिरोगार्दितो भूत्वा जन्मानि दश पञ्च च । ततस्सृगालतां प्राप्य पतेद्धि नरकेऽशुचौ ॥ ३६.३५५ ॥ यो वा मूढमतिर्मोहात्कारयेद्द्विजभोजनम् । देवागारे विशेषेण स भवेन्निन्दितो जनः ॥ ३६.३५६ ॥ गर्भागारे चान्तराले तथा चैवार्धमण्डपे । महामण्डपमध्ये च नान्नमद्याद्विशेषतः ॥ ३६.३५७ ॥ अन्नं पात्रे विनिक्षिप्य पुटपत्रादिनिर्मिते । आपोशनं तु कृत्वैव यदद्याद्भोजनं तुतत् ॥ ३६.३५८ ॥ न देवताप्रसादस्य गृहीतस्याञ्जलौ तथा । न चैवापोशनं कुर्यात्कुर्याच्चेत्तदसम्मतम् ॥ ३६.३५९ ॥ यस्तु पानीयपात्राणि पीतान्यत्र तु विन्यसेत् । स गच्छेन्नरकान् क्रूरान् यावन्त उदबिन्दवः ॥ ३६.३६० ॥ पात्रे तिष्ठन्ति शरदस्तावतीर्नात्र संशयः । निवेदितं तु देवस्य देवस्याग्रे विशेषतः ॥ ३६.३६१ ॥ प्रदद्यात्तु क्रमेणैव वर्णाश्रमविधानतः । अश्नन्तिभक्तास्सर्वेऽपिगृहीत्वैवांजलौ पुनः ॥ ३६.३६२ ॥ ब्रह्मण्यदेवमुद्दिश्य पुरुषं ब्राह्मणप्रियम् । नारायणमनाद्यन्तं विष्णुं सर्वेश्वरेश्वरम् ॥ ३६.३६३ ॥ ब्राह्मणान् भोजयेद्यस्तु कर्मसाद्गुण्यसिद्धये । तथा निष्कृतिनिष्पत्त्यैशास्त्रोक्तेन विधानतः ॥ ३६.३६४ ॥ कारयेन्नोक्तदेशेषु कदापि द्विजभोजनम् । यस्त्वन्नं दापयेद्विप्रो द्विजेभ्यो भक्तिसंयुतः ॥ ३६.३६५ ॥ निवेदितं तु देवस्य संतुष्ट्यैस्वस्य तस्य च । तस्य तुष्यति देवेश आदाता तु विपद्यते ॥ ३६.३६६ ॥ दातुस्तु सकलं पापं मनोवाक्कायकर्मभिः । बहुशस्संचितं पूर्वमादाता समवाप्नुयात् ॥ ३६.३६७ ॥ प्रसादोऽपिहि देवस्य परपाकरुचिं नरम् । न जातु पावयेन्नैव पावयेत्पावयेन्न तु ॥ ३६.३६८ ॥ यदृच्छालाभसंतुष्टं यथा भक्तवरं तथा । महिमानं प्रसादस्य योऽवजानाति मूढधीः ॥ ३६.३६९ ॥ तेन भुक्तं भवेत्पापं दातुरेव न संशयः । अयुतं ब्राह्मणानान्तु तर्पयित्वातु यत्फलम् ॥ ३६.३७० ॥ तत्फलं नश्यति क्षिप्रमुच्छिष्टस्य कणेन तु । अथान्नविक्रयेदोषः कथ्यते विधिवित्तमैः ॥ ३६.३७१ ॥ अन्नविक्रयिणः पापा व्रजन्ति यमयातनाः । प्रेत्य सृगालतां यान्ति नव जन्मानि पञ्च च ॥ ३६.३७२ ॥ यस्त्वन्नं भगवद्गेहे विक्रीणाति विशेषतः । चण्डालो जायते प्रेत्य क्षुधितश्च चरेन्मुहुः ॥ ३६.३७३ ॥ विक्रीणते तु ये विप्रा वाणिज्ये दत्तचक्षुषः । येऽप्यन्नमुपहारादि चेतरद्देवमन्दिरे ॥ ३६.३७४ ॥ तेऽपि यान्ति महाघोरं नरकं भृशदारुणम् । यत्र नैवभवेष्यन्ति पालीयायोदबिन्दवः ॥ ३६.३७५ ॥ कणमन्नस्य वान स्यात्तप्यन्ते तत्र ते जनाः । ये गृहीत्वा तदन्नादि भुञ्जते क्षुधिता जनाः ॥ ३६.३७६ ॥ उपकुर्वन्तिये वा तानुच्यन्तेऽभक्ष्यभोजनाः । अन्नं प्राणा मनुष्याणां सर्वमन्ने प्रतिष्ठितम् ॥ ३६.३७७ ॥ अन्नं ब्रह्मात्मकं विन्द्याद्विन्द्यादन्नमयीं तनुम् । अन्नं विक्रीणते ये तु प्राणविक्रयिणः स्मृताः ॥ ३६.३७८ ॥ तस्मात्सर्वप्रयत्नेन त्यजेत्तत्क्रय विक्रयौ । न कुर्याद्देवता गेहेऽभ्युदयं श्राद्धभोजनम् ॥ ३६.३७९ ॥ कुर्यान्न चापि श्राद्धादीन्विहायापि द्विजाशनम् । तस्मात्सर्वप्रयत्नेन नाश्नीयाद्धरिमन्दिरे ॥ ३६.३८० ॥ मुधा संभाषते यस्तु प्रविश्य हरिमन्दिरम् । स निधिं पुरतस्सिद्धं त्यक्त्वा भिक्षति काकिणीम् ॥ ३६.३८१ ॥ यस्तु संभाषते व्यर्थं देवालयमुपाश्रितः । सिद्धमन्नं परित्यज्य भिक्षामटति दुर्जनः ॥ ३६.३८२ ॥ यन्मुहूर्तं क्षणं वापि परमात्मान चिन्त्यते । सा हानिस्तन्ममहच्छिद्रं सा भ्रान्तिस्सा तु विक्रिया ॥ ३६.३८३ ॥ दस्युभिर्मुषितेनेव दग्धेनेव दवाग्निना । व्याधिभिःपीडितेनेव चाकृष्टेनेव मृत्युना ॥ ३६.३८४ ॥ भीतेनेवोत्तमर्णेन धर्षितेनेव राजभिः । मग्नेनेव महासिंधौ हतेनेव च वात्यया ॥ ३६.३८५ ॥ संपिष्टेनेव पाषाणैराक्रन्देद्यस्स मुच्यते । सन्त्यनेका प्रदेशाश्च समयाश्च विशेषतः ॥ ३६.३८६ ॥ लोकयात्राविनिष्पत्त्यै देहयात्रोपयोगिनः । तस्माद्देवगृहं गत्वा नरो नान्यपरो भवेत् ॥ ३६.३८७ ॥ यत्प्रसंगे हरेर्नाम तन्ममहत्त्वं च नाप्यते । स सर्वोऽपि मुधा प्रोक्तोमिथ्येत्येके वदन्तितम् ॥ ३६.३८८ ॥ न हि देवस्य पुरतः क्वचिदप्यनृतं वदेत् । सत्यस्वरूपी भगवान् सत्यं तस्मैन गूहयेत् ॥ ३६.३८९ ॥ सत्यमेव परं ब्रह्म सत्यमेव परं तपः । सत्यमेव परो यज्ञस्सत्यमेव परं श्रुतम् ॥ ३६.३९० ॥ सत्यं देवेषु जागर्ति सत्यं धर्मतरोः फलम् । तपोयज्ञश्च पुण्यं च देवर्षिपितृपूजनम् ॥ ३६.३९१ ॥ आद्यो विधिश्च विद्या च सर्वं सत्ये प्रतिष्ठितम् । सत्यं यज्ञन्तथा वेदास्सत्या देवी सरस्वती ॥ ३६.३९२ ॥ व्रतचर्या तथा सत्यमोङ्कारस्सत्यमेव च । सत्येन वायुरावाति सत्येनार्ऽकः प्रकाशते ॥ ३६.३९३ ॥ दहत्यग्निश्च सत्येन यायात्सत्येन सद्गतिम् । पर्जन्यो धरणीभागे सत्येनापः प्रवर्षति ॥ ३६.३९४ ॥ स्वाध्यायस्सर्ववेदानां सर्वतीर्थावगाहनम् । सत्यं तु वदतो लोके तुलितं स्यान्न संशयः ॥ ३६.३९५ ॥ अश्वमेधसहस्रं च सत्यं च तुलया कृतम् । अश्वमेधसहस्रात्तु भारस्सत्ये विशिष्यते ॥ ३६.३९६ ॥ सत्येन देवाः प्रीणन्ति पितरो ब्राह्मणास्तथा । सत्यमाहुःपरं धर्मं सत्यमाहुः परं पदम् ॥ ३६.३९७ ॥ सत्यमाहुः परं ब्रह्म तस्मात्सत्यं न लोभयेत् । ये सत्यनिरतास्सत्यशपथास्सत्यविक्रमाः ॥ ३६.३९८ ॥ महत्मानो मुनिश्रेष्ठास्ते परां सिद्धिमाप्नुवन् । दैवतैस्सह मोदन्ते स्वर्गे सत्यपरायणाः ॥ ३६.३९९ ॥ अप्चरोगणसंकीर्णैर्विमानैस्संचरन्ति च । वक्तव्यं च सदा सत्यं न सत्याद्विद्यते परम् ॥ ३६.४०० ॥ अगोधे विमले शुद्धे सत्यतीर्थे शुचिह्रदे । स्नातव्यं मनसा युक्तैस्तत्स्नानं परमं स्मृतम् ॥ ३६.४०१ ॥ देवार्थे वा परार्थे वा पुत्रार्थे वाऽऽत्मने तथा । येऽनृतं नाभिभाषन्ते ते स्वर्गं यान्तिमानवाः ॥ ३६.४०२ ॥ यस्सत्यवादी पुरुषो नानृतं परिभाषते । संप्राप्य विरजान् लोकानुषित्वा शाश्वतीस्समाः ॥ ३६.४०३ ॥ भगवद्भक्तिमुक्तानां जायते श्रीमतां कुले । साक्षिणस्सन्तिसर्वेते देवता भास्करादयः ॥ ३६.४०४ ॥ परीक्षन्ते च सर्वासु दशासु पुरुषं सदा । न वाच्यमनृतं तस्मात्प्राणैः कण्ठगतैरपि ॥ ३६.४०५ ॥ येऽनृतं ब्रुवते मूढाश्शपथानि च कुर्वते । देवागारे विशेषेण ते प्रणश्यन्ति सान्वयम् ॥ ३६.४०६ ॥ पुनर्जन्मशतं यान्ति कीटडयोनिष्वनेकशः । गीतवादित्रनृत्तादीन् पुण्याख्यानकथाश्च ये ॥ ३६.४०७ ॥ लोपयन्त्यथ पारुष्यैर्मन्दिरे मधुविद्विषः । ते यान्ति नरकं पापा जायन्ते नीचयोनिषु ॥ ३६.४०८ ॥ तथा तेऽपि दुरात्मानो गार्दभीं योनिमाप्नुयुः । तथान्ते क्रूरा नव जन्मानि पञ्च च ॥ ३६.४०९ ॥ अनिबद्धप्रलापान् ये कुर्वते देवमन्दिरे । तेऽपि तित्तिरितां भूत्वा जायन्ते जन्मपञ्चकम् ॥ ३६.४१० ॥ देवभाषां परित्यज्य देशभाषासु यो नरः । स्तुवीत देवतागेहे देवस्याग्रे विशेषतः ॥ ३६.४११ ॥ तस्य दोषोमहानाशु नैव पूजाफलं भवेत् । असाराणि तु शास्त्राणि भूयांसि पृथिवीतले ॥ ३६.४१२ ॥ यत्र देवस्य महात्म्यकथनं न प्रपञ्च्यते । तेषु शास्त्रेषु ये जाताश्शास्त्रार्थाश्च विशेषतः ॥ ३६.४१३ ॥ वादाश्च प्रतिवादाश्च संस्कारास्सर्व एव हि । चित्रशिल्पा न संदेहो नरस्तेन न मुच्यते ॥ ३६.४१४ ॥ सा विद्या या हरिं स्तौति सा क्रिया यत्तदर्चनम् । या न्या यदन्यदखिलं दुष्टोदर्का हि जीविका ॥ ३६.४१५ ॥ न हि देवगृहं गत्वा शास्त्रार्थैर्नी रसैर्नरः । मुहूर्तं क्षपयेत्कालं तद्देवस्य विमानना ॥ ३६.४१६ ॥ विशालं वाङ्मयं सर्वं सृष्ट्वा स्रष्टा हरिः प्रभुः । तदन्तस्संप्रविश्यैव वाच्यवाचकभेदतः ॥ ३६.४१७ ॥ विज्ञानाय मनुष्याणां विज्ञानघनविग्रहः । सदोपकुरुते यस्मात्सर्वे भक्तवराः सदा ॥ ३६.४१८ ॥ सर्वा वाचो विमुच्यान्याश्चिन्तयानाश्च सादरम् । तन्महत्त्वकथागन्धदरिद्रं वाचनं तथा ॥ ३६.४१९ ॥ पाठनं लेखनाद्यं च नैव कुर्याद्गृहे हरेः । स भवेदक्षरद्रोङी यस्तु कुर्याद्व्यतिक्रमम् ॥ ३६.४२० ॥ द्रुह्येत्स वाङ्मयायापि तस्माद्युक्ततरो भवेत् । यस्तु देवगृहं गत्वा रोदिति प्रणयाद्यथा ॥ ३६.४२१ ॥ दुःखितः स्तौति वा देवं तत्स्यान्मानसिकं मलम् । निर्वाणपरमं स्थानं म्लानेन मनसा तु यः ॥ ३६.४२२ ॥ सेवते स न जानाति तद्विष्णोः परमं पदम् । नारी वा पुरुषो वापि गत्वा देवगृहं क्वचित् ॥ ३६.४२३ ॥ न रोदेत्पातयेन्नाश्रु नैवान्यं रोदयेदपि । यावन्त्यश्रूणि रुदतां पतेयुर्देवमन्दिरे ॥ ३६.४२४ ॥ तावन्त्यब्दसहस्राणि ते वसन्ति यमालये । अनुभूय पुनस्तत्र यातनास्तीव्रचोदनाः ॥ ३६.४२५ ॥ प्राप्य तित्तिरितां कालं वसिष्यन्ति चिरं भुवि । नैवात्र हिंसां कुर्वीत प्राणिनां दुःखदां क्वचित् ॥ ३६.४२६ ॥ अहिंसा वैदिकं कर्म ध्यानमिन्द्रियनिग्रहः । तपोऽथ गुरुशुश्रूषा धर्मद्वाराष्षडीरिताः ॥ ३६.४२७ ॥ अहिंसापाश्रयं धर्मं दान्तो विद्वान् समाचरेत् । त्रीदण्डं सर्वभूतेषु निधाय पुरुषश्शुचिः ॥ ३६.४२८ ॥ कामक्रोधौ च संयम्य ततः सिद्धिमवाप्नु ते । अहिंसकानि भूतानि दण्डेन विनिहन्तियः ॥ ३६.४२९ ॥ आत्मनस्सुखमन्विच्छन् स प्रेत्य न सुखी भवेत् । आत्मोपमस्तु भूतेषु यो वैभवति पूरुषः ॥ ३६.४३० ॥ त्यक्तदण्डो जितक्रोधस्स प्रेत्य सुखमेधते । सर्वभूतात्मभूतस्य सर्वभूतानि पश्यतः ॥ ३६.४३१ ॥ मुह्यन्ति मार्गे देवाश्च ह्यपदस्य पदैषिणः । न तत्परस्य संदध्यात्प्रतिकूलं यदात्मनः ॥ ३६.४३२ ॥ एष सांग्राहिको धर्मःकामादन्यः प्रवर्तते । प्रख्यापने च दाने च सुखदुःखे प्रियाप्रिये ॥ ३६.४३३ ॥ आत्मौवम्येन पुरुषः प्रमाणमधिगच्छति । ऋषयो ब्राह्मणा देवाः प्रशंसन्ति विशेषतः ॥ ३६.४३४ ॥ अहिंसालक्षणं धर्मं वेदप्रामाण्यदर्णनात् । कर्मणा न नरः कुर्वन् हिंसां जातु विचक्षणः, ॥ ३६.४३५ ॥ वाचा च मनसा चैव ततो दुःखात्प्रमुच्यते । चतुर्विधेयं निर्दिष्टा ह्यहिंसा ब्रह्मवादिभिः ॥ ३६.४३६ ॥ एकैकतोऽपि विभ्रष्टा न भवेन्नात्र संशयः । यथा सर्वश्चतुष्पाद्वै त्रिभिः पादैर्न तिष्ठति ॥ ३६.४३७ ॥ तथैवेयं विशेषेण कारणैः प्रोच्यते त्रिभिः । यथा नागपदेऽन्यानि पदानि पदगामिनाम् ॥ ३६.४३८ ॥ सर्वाण्येवापिधीयन्ते पदजातानि कैञ्जरे । एवं लोकेष्वहिंसा तु निर्दिष्टाधर्मतः पुरा ॥ ३६.४३९ ॥ न ह्यतस्सदृशं किञ्चिदिहलोके परत्र च । यत्सर्वेष्विह भूतेषु दयाहिंसात्मिका तु या ॥ ३६.४४० ॥ न भयं विद्यते जातु नरस्येह दयावतः । दयावतामिमे लोकाः परत्रापि तपस्विनाम् ॥ ३६.४४१ ॥ अभयं सर्वभूतेभ्यो यो ददाति दयापरः । अभयं सर्वभूतानि ददतीति जगौ श्रुतिः ॥ ३६.४४२ ॥ क्षतं च पतितं चैव स्खलितं क्लिन्नमाहतम् । सर्वभूतानि रक्षन्ति समेषु विषमेषु च ॥ ३६.४४३ ॥ नैनं व्यालमृगा घ्नन्ति न पिशाचा न राक्षसाः । मुच्यते भयकालेषु मोक्षयेद्यो भये परान् ॥ ३६.४४४ ॥ प्राणदानात्परं दानं न भूतं न भविष्यति । न ह्यात्मनः प्रियकरं किं चिदस्तीह निश्चितम् ॥ ३६.४४५ ॥ अनिष्टं सर्वभूतानां मरणं नाम कथ्यते । मृत्युकाले हि भूतानां सद्यो जायेत वेपथुः ॥ ३६.४४६ ॥ व्याधिजन्मजरादुःखैर्नित्यं संसारसागरे । जन्तवः परिवर्तन्ते मरणादुद्विजन्ति च ॥ ३६.४४७ ॥ गर्भवासेषु पच्यन्ते क्षाराम्लकटुकै रसैः । मूत्रस्वेदपुरीषाणां परुषैर्भृशदारुणैः ॥ ३६.४४८ ॥ जाताश्चाप्यवशास्तत्र छिद्यमानाः पुनः पुनः । हन्यमानाश्च दृश्यन्ते विवशा घातुका नराः ॥ ३६.४४९ ॥ कुंभीपाकेच पच्यन्तेतां तां योनिमुपागताः । आक्रम्य मार्यमाणाश्च त्रास्यन्त्यन्ये पुनः पुनः ॥ ३६.४५० ॥ नात्मनोऽस्ति प्रियतमः पृथिवीमनुसृत्य ह । तस्मात्राणेषु सर्वेषु दयावानात्मवान् भवेत् ॥ ३६.४५१ ॥ येन येन शरीरण यद्यत्कर्मकरोति यः । तेन तेन शरीरण तत्तत्फलमुपाश्नुते ॥ ३६.४५२ ॥ अहिंसा परमो धर्मस्तथाहिंसा परो दमः । अहिंसा परमं दानमहिंसा परमं तपः ॥ ३६.४५३ ॥ अहिंसा परमो यज्ञस्तथाहिंसा परं फलम् । अहिंसा परमं मित्रमहिंसा परमं सुखम् ॥ ३६.४५४ ॥ सर्वयज्ञेषु वा दानं सर्वतीर्थेषु वा प्लुतम् । सर्वदानफलं वापि नैतत्तुल्यमहिंसया ॥ ३६.४५५ ॥ अहिंस्रस्य तपोऽक्षय्यमहिंस्रो जयते सदा । अहिंस्रस्सर्वभूतानां यथा माता यथा पिता ॥ ३६.४५६ ॥ तस्मादहिंस्रस्सततमुपवास व्रतं चरेत् । फलमङ्गिरसाप्रोक्तमुपवासस्य विस्तरात् ॥ ३६.४५७ ॥ त्रिरात्रं पञ्चरात्रं वा सप्तरात्रमथापि वा । धान्यान्यपि न हिंसेत यस्स भूयादहिंसकः ॥ ३६.४५८ ॥ नाश्नाति यावतो जीवस्तावत्पुण्येन यज्यते । आहारस्य वियोगेन शरीरं परितप्यते ॥ ३६.४५९ ॥ तप्यमाने शरीरे तु शरीरे चेन्द्रियाणि तु । तिष्ठन्ति स्ववशे तस्य नृपाणामिव किङ्कराः ॥ ३६.४६० ॥ निरुणद्धीन्द्रियाण्येव स सुखी स विचक्षणः । इन्द्रियाणां निरोधेन दानेन च दमेन च ॥ ३६.४६१ ॥ नरस्सर्वमवाप्नोति मनसा यद्यदिच्छति । एवं मूलमहिंसाया उपवासः प्रकीर्तितः ॥ ३६.४६२ ॥ कामान्यान्यान्नरो भक्त्या मनसेच्छति माधवात् । व्रतोपवासनात्प्रीतस्तान् प्रयच्छत्यसौ हरिः ॥ ३६.४६३ ॥ मासे मासे तथैकस्मिन्नेकस्मिन्नियतं चरेत् ॥ ३६.४६४ ॥ उपवासव्रतमिदं तस्यानन्तं फलं भवेत् । एकादश्यां निराहारस्संपूज्य हरिमव्ययम् ॥ ३६.४६५ ॥ तत्पादसलिलं तद्वत्तुलसीं च तदर्पितामा । पीत्वा च भक्षयित्वा च उपवासव्रतं चरेत् ॥ ३६.४६६ ॥ उपवासदिने यस्तु तीर्धं श्रीतुलसीयुतम् । न प्राश्नीयाद्विमूढात्मा रौरवं नरकं व्रजेत् ॥ ३६.४६७ ॥ न हि देवगृहं गत्वा विवदेत नरः क्वचित् । न तत्स्थानं विवादस्य तस्मात्तं दूरत स्त्यजेत् ॥ ३६.४६८ ॥ मनोऽनवस्थितं यस्य स नालं पूजितं हरिम् । यस्यैव निर्मलं चित्तं सोर्ऽहस्सर्वेषु कर्मसु ॥ ३६.४६९ ॥ रागाद्यपेतं हृदयं वागदुष्टानृतादिना । हिंसादिरहितः कायः केशवाराधने त्रयम् ॥ ३६.४७० ॥ रागादिदूषिते चित्तं नास्पदं कुरुते हरिः । न बध्नाति पदं हंसः कदाचित्कर्दमांभसि ॥ ३६.४७१ ॥ न योग्या माधवं स्तोतुं वाग्दुष्टा चानृतादिना । तमसो नाशनायालं मेघच्छन्नोन चन्द्रयाः ॥ ३६.४७२ ॥ हिंसादिदूषितः कायः प्रभवेन्नार्चने हरेः । जनचित्तप्रसादाय यथा काशस्तमोवृतः ॥ ३६.४७३ ॥ मनोदोषविहीनानां न दोषस्स्यात्कथं च न । अन्यथालिङ्ग्यते कान्ता स्नेहेन दुहितान्यथा ॥ ३६.४७४ ॥ यतेश्च कामुकानां च योषिद्रूबेऽन्यथा मतिः । अशिक्षयैव मनसः प्रायो लोकश्च वञ्च्यते ॥ ३६.४७५ ॥ लालेत्युद्विजते लोको वक्त्रासव इति स्पृहा । विशुद्धैः करणैस्तस्माद्व्रजेद्देवगृहं नरः ॥ ३६.४७६ ॥ विवादः क्रोधजो यस्मात्तस्मात्तं परिवर्जयेत् । क्रुद्धः पापं न कुर्यात्कः क्रुद्धो हन्याद्गुरूनपि ॥ ३६.४७७ ॥ क्रुद्धः परुषया वाचा नरस्साधूनधिक्षिपेत् । साधुसज्जनसन्तापः साधूनां च विमानना ॥ ३६.४७८ ॥ दहत्यासप्तमं तस्य कुलं नात्र विचारणा । वाच्यावाच्यं प्रकुपितो न विचानाति कर्हि चित् ॥ ३६.४७९ ॥ नाकार्यमस्ते क्रुद्धस्य नावाच्यं विद्यते क्वचित् । यस्समुत्पतितं क्रोधं क्षमया तु निरस्यति ॥ ३६.४८० ॥ यथोरगस्त्वचं जीर्णां स वै पुरुष उच्यते । ते मान्याःपुरुषश्रेष्ठाः क्षमया क्रोधमुद्धितम् ॥ ३६.४८१ ॥ निर्वापयन्ते ये नित्यं दीप्तमग्निमिवांभसा । परापवादं न ब्रूयान्नाप्रियं च कदा चन ॥ ३६.४८२ ॥ न मन्युः कश्चिदुत्पाद्यो महतां देवसन्निधौ । स्वयं दत्तावधानस्तु देवकार्ये विशेषतः ॥ ३६.४८३ ॥ मन्येत भगवत्सर्गे स्वात्मानं चाप्यकिञ्चनम् । स एव भगवान् देवस्सर्वज्ञः सर्वशक्तियुक् ॥ ३६.४८४ ॥ सर्वेशस्सर्ववित्सर्वोनिग्रहानुग्रहे रतः । तस्मान्नान्यस्य जात्वस्ति शक्तिः क्रोधप्रसादयोः ॥ ३६.४८५ ॥ इति संचिन्त्य भूयोऽपि सर्वेष्वपि च जन्तुषु । भगवत्सन्निधौ स्थित्वा आनृशंस्यं प्रयोजयेत् ॥ ३६.४८६ ॥ यद्यद्भावि भवद्भूतं विद्यात्तत्तस्य चेष्ठितम् । यद्यहङ्कारमाश्रित्य स्वातन्त्षमदमोहितः ॥ ३६.४८७ ॥ निग्रहेऽनुग्रहे वापि शक्तिं स्वस्यावबोधयेत् । स याति नरकं घोरं न दैवं तस्य मृष्यति ॥ ३६.४८८ ॥ तथा स्त्रीणां विशेषण त्याज्या स्यादतिसंगतिः । देवतामन्दिरं प्राप्य कालेष्वन्येषु वा तथा ॥ ३६.४८९ ॥ आयुर्यशस्तपोहानिः पुंसां स्त्रीष्वतिसंगिनाम् । पुरुषेष्वतिसक्तानां तुल्या सा योषितामपि ॥ ३६.४९० ॥ कुलीना रूपवत्यश्च नाथवत्यश्च योषितः । मर्यादासु स तिष्ठन्ति स दोषः स्त्रीषु गर्हितः ॥ ३६.४९१ ॥ न स्त्रीभ्यः परमन्यद्वै पापीयस्तरमस्ति वै । स्त्रियो हि मूलं दोषाणां सर्वेषां नात्र संशयः ॥ ३६.४९२ ॥ समाज्ञातानृद्धिमतः प्रतिरूपान् व शेस्थितान् । पतीनन्तरमासाद्य नालं नार्यः परीक्षितुम् ॥ ३६.४९३ ॥ असद्धर्मस्त्वयं स्त्रीणां प्रायेण हि भवेद्भुवि । पापीयसो नरान् यद्वै त्यक्तलज्जा भजन्तिताः ॥ ३६.४९४ ॥ स्त्रीयं हि यः प्रार्थयते सन्निकर्षं च गच्छतिर् । इषच्च कुरुते सेवां तमेवेच्छन्ति योषितः ॥ ३६.४९५ ॥ अनर्थित्वान्मनुष्याणां भयात्परिजनस्य च । मर्यादायाममर्यादाः स्त्रीयस्तिष्ठन्ति भर्तृषु ॥ ३६.४९६ ॥ नासां कश्चिदगम्योऽस्तिनासां वयसि संस्थितिः । रूपवन्तं विरूपं वा पुमानित्येव भुञ्जते ॥ ३६.४९७ ॥ न भयान्नाप्यनुक्रोश्नान्नार्ऽथहेतोः कथं च न । न ज्ञातिकुलसंबन्धात्त्स्रियस्तिष्ठन्ति भर्तृषु ॥ ३६.४९८ ॥ यौवने वर्तमानानां मृष्टाभरणवाससाम् । नारीणां स्वैरवृत्तीनां स्पृहयन्ति कुलस्त्रीयः ॥ ३६.४९९ ॥ याश्च शस्वद्बहुमता रक्ष्यन्ते दयिताःस्त्रीयः । अपि ताः संप्रसज्जन्ते कुब्जान्धजूवामनैः ॥ ३६.५०० ॥ पङ्गुष्वन्येषु कुष्ठेषु ये चान्ये कुत्सिता नराः । स्त्रीणामगम्यो लोकेऽस्मिन्नास्ति कश्छिदिहोद्यते ॥ ३६.५०१ ॥ यदि पुंसां गतिस्तत्र कथं चिन्नोपपद्यते । अप्यन्योन्यं प्रवर्तन्तेन हि तिष्ठन्ति भर्तृषु ॥ ३६.५०२ ॥ दुष्ठाचाराः पापरता असत्या मायया वृताः । अदृष्टबुद्धिबहुलाः प्रायेणेत्यवधार्यते ॥ ३६.५०३ ॥ अलाभात्पुरुषाणां हि भयात्परिजनस्य च । वधबन्धभयाच्चापि स्वयं गुप्ता भवन्ति ताः ॥ ३६.५०४ ॥ चलस्वभावा दुस्सेव्या दुर्ग्राह्या भावतस्तथा । प्राजस्य पुरुषस्येव यथा भावास्तथा स्त्रीयः ॥ ३६.५०५ ॥ नाग्निस्तृप्यति काष्ठानां नापगानां महोदधिः । नान्तकस्सर्वभूतानां न पुंसां वामलोचनाः ॥ ३६.५०६ ॥ रहस्यमिदमन्यच्च विज्ञेयं सर्वयोषिताम् । दृष्ट्वैव पुरुषं ह्यन्यं योनिः प्रक्लिद्यते स्त्रियाः ॥ ३६.५०७ ॥ कामानामपि दातारं कर्तारं मानसान्त्वयोः । रक्षितारं न मृष्यन्ति स्वभर्तारमसत्स्त्रियः ॥ ३६.५०८ ॥ न कामभोगान् विपुलान्नालङ्कारार्थ संचयान् । तथैव बहुमन्यन्ते यथा रत्यामनुग्रहम् ॥ ३६.५०९ ॥ अन्तकः शमनो मृत्युः पातालं बडबामुखम् । क्षुरधारा विषः सर्पो वह्निरित्येकतः स्त्रियः ॥ ३६.५१० ॥ एता हि स्वीयमायाभिर्वञ्चयन्तीह मानवान् । न चासां मुच्यते कश्चित्पुरुषो हस्तमागतः ॥ ३६.५११ ॥ गावो नवतृणानीव गृह्णन्त्येता नवं नवम् । शंबरस्य च या माया या माया नमुचेरपि ॥ ३६.५१२ ॥ बलेः कुंभीनसेश्चैव तास्सर्वायोषितो विदुः । हसन्तं प्रहसन्त्येता रुदन्तं प्ररुदन्ति च ॥ ३६.५१३ ॥ अप्रियं प्रियवाक्यैश्च गृह्णते कालयोगतः । यदि जिह्मा सहस्रं स्याज्जीवेच्च शरदां शतम् ॥ ३६.५१४ ॥ अनन्यकर्मा स्त्रीदोषाननुक्त्वा निधनं व्रजेत् । उशना वेद यच्छास्त्रं यच्च वेद बृहस्पतिः ॥ ३६.५१५ ॥ स्त्रीबुद्ध्या न विशिष्येत सुरक्ष्या न भवन्तिताः । अनृतं सत्यमित्याहुस्सत्यं चापि तथानृतम् ॥ ३६.५१६ ॥ इति यास्ताः कथं रक्ष्याः पुरुषैर्दुर्भराः स्त्रियः । संपूज्यमानाः पुरुषैर्विकुर्वन्ति मनो नृषु ॥ ३६.५१७ ॥ अपास्ताश्च तथा सद्यो विकुर्वन्ति मनः स्त्रियः । न च स्त्रीणां क्रियाः काश्चिदिति धर्मो व्यवस्थितः ॥ ३६.५१८ ॥ निरिन्द्रिया ह्यशास्त्राश्च स्त्रीयोऽनृतमिति श्रुतिः । शय्यासनमलङ्कारमन्न पानमनार्यताम् ॥ ३६.५१९ ॥ दुर्वागर्भवं रतिं चैव ददौ स्त्रीभ्यः प्रजापतिः । न तासां रक्षणं शक्यं कर्तुं पुंसां कथं चन ॥ ३६.५२० ॥ अपि विश्वकृता चैव कुतस्तु पुरुषैरिह । वाचा च वधबन्धैर्वा क्लेशैर्वा विविधैस्तथा ॥ ३६.५२१ ॥ न शक्या रक्षितां नार्यस्ता हि नित्यमसंयताः । अविद्वांसमलंलोके विद्वांसमपि वा पुनः ॥ ३६.५२२ ॥ प्रमदाह्युत्पथं नेतुं कामक्रोधवशानुगम् । नातः परं हि नारीणां विद्यते च कदा चन ॥ ३६.५२३ ॥ यथा पुरुष संसर्गः परमेतत्फलं विदुः । आत्मच्छन्देन वर्तन्ते नार्यो मन्मथचोदिताः ॥ ३६.५२४ ॥ न च दह्यन्ति गच्छन्त्यः सुतप्तैरपि पांसुभिः । नानिलोऽग्निर्न वरुणो न चान्ये त्रिदशान्तथा ॥ ३६.५२५ ॥ प्रियाः स्त्रीणां यथा कामो रतिशीला हि योषितः । सहस्रेकिल नारीणां प्राप्येतैका कदा चन ॥ ३६.५२६ ॥ तथा शतसहस्रेषु यदि काचित्पतिव्रता । नैता जानन्ति पितरं न कुलं न च मातरम् ॥ ३६.५२७ ॥ न भ्रातॄन्न च भर्तारं न च पुत्रान्न देवरान् । लीलायन्त्यः कुलं घ्नन्ति कूलानीव सरिद्वराः ॥ ३६.५२८ ॥ स्त्रीष्वायाससमेतस्य ये पुंसश्शक्रबिन्दवः । न ते सुखाय मन्तव्याः स्वेदजा इव बिन्दवः ॥ ३६.५२९ ॥ कृमिभिस्तुद्यमानस्य कुष्ठिनः पामनस्य वा । कण्डूयनाग्नितापाभ्यां यत्सुखं स्त्रीषु तद्विदुः ॥ ३६.५३० ॥ यादृशं विद्यते सौख्यं कण्डूपूयविनिर्गमे । तादृशं स्त्रीषु विज्ञेयं नाधिकं तासु विद्यते ॥ ३६.५३१ ॥ ग्रन्थेस्तु वेदना यद्वत्स्फुटितस्य निवर्तने । तद्वत्स्त्रीष्वपि विज्ञेयं न सौख्यं परमार्थतः ॥ ३६.५३२ ॥ वर्चोमूत्रविसर्गात्तु सुखं भवति यादृशम् । तादृशं स्त्रीषु विज्ञेयं नाधिकं तासु विद्यते ॥ ३६.५३३ ॥ न चाणुमात्रमप्येवे सुखमस्ति विचारतः । तथा देवोत्सवादीनां सेवा तासां निषिध्यते ॥ ३६.५३४ ॥ न हि स्वतन्त्रतो योषिज्जातु गच्छेत्स्थलान्तरम् । न हि निर्मिमते वृद्धा लीलया देवमन्दिरान् ॥ ३६.५३५ ॥ कामुकानां विलासार्थं तस्माद्युक्ततरो भवेत् । अनुगच्छेत्पिता भ्राता भर्ता पुत्रोऽथ वा यदि ॥ ३६.५३६ ॥ तदा देवगृहं यायान्नान्यथा जातु कामिनी । ध्यायतो विषयान् पुंसस्संगस्तेषूपजायते ॥ ३६.५३७ ॥ संगात्संजायते कामः कामात्क्रोधोऽभिजायते । क्रोधाद्भवति सम्मोहस्सम्मोहात्स्मृतिविभ्रमः ॥ ३६.५३८ ॥ स्मृतिभ्रंशाद्बुद्धिनाशो बुद्धिनाशात्प्रणश्यति । बलवानिन्द्रियग्रामो विद्वांसमपिकर्षति ॥ ३६.५३९ ॥ तस्मात्स्त्रीया भवेद्विद्वान्नातिसक्तः कथं चन । तस्मात्स्त्रीषु न कर्तव्यः प्रसंगो देवताकृहे ॥ ३६.५४० ॥ तथैव परदारेभ्यो मनः प्रहिणुयान्न च । परदारा न गन्तव्या नरैरृद्धिमभीप्सुभिः ॥ ३६.५४१ ॥ न हीदृशमनायुष्यं लोके किं चन विद्यते । यादृशं पुरुषस्येह परदारनिषेवनम् ॥ ३६.५४२ ॥ तादृशं विद्यते किञ्चि दनायुष्यं नृणामिह । यावन्तो रोमकूपाः स्युः स्त्रीणां गात्रेषु निर्मिताः ॥ ३६.५४३ ॥ तावद्वर्षसहस्राणि नरकं पर्युपासते । अतिसंगं त्यजेत्तस्माद्योषितां देवमन्दिरे ॥ ३६.५४४ ॥ यैरसभ्यः पदैरर्थः पदेनैकेन वा तथा । गम्यते कथनं तादृगश्लीलं परिवर्जयेत् ॥ ३६.५४५ ॥ अश्लीलकथनाच्चैव भवेदुद्वेजनं नृणाम् । भक्तानां भगवद्गेहे भवेच्चित्तमथाविलम् ॥ ३६.५४६ ॥ निवर्तेत मनस्तत्र निविष्टं परमात्मनि । तस्मादश्लीलमाभाष्ट नरः पापपरो भवेत् ॥ ३६.५४७ ॥ स तु चण्डालतां प्राप्य जायते जन्मनां शतम् । अर्तोन प्रविशेद्गेहं देवस्य परमात्मनः ॥ ३६.५४८ ॥ वायुभूते शरीरेऽस्मिन् वायुसंचारकर्मणि । मलवायुविसर्गस्तु देवगेहे विशेषतः ॥ ३६.५४९ ॥ पातयेत्पुरुषं सत्यमपि वेदान्तपारगम् । तस्मादपानगन्धस्य विसर्गं नैव चाचरेत् ॥ ३६.५५० ॥ अथ वायुनिरोधेतु व्याधिकोपो भविष्यति । तस्माद्वायुविसर्गं तु कुर्यादेवाविचारयन् ॥ ३६.५५१ ॥ इति देवगृहं गन्तुं व्याधितो नैव चार्हति । तथा कुष्ठी विशेषेण पापरोगार्दितास्समे ॥ ३६.५५२ ॥ उद्वीक्षितुं च देवेशं मन्दिरे मधुसूदनम् । अर्चितुं सेवितुं चापि दातुं द्रव्यचयं तथा ॥ ३६.५५३ ॥ नार्हन्तियस्मात्तत्सक्तं पापं सांक्रामिकं भवेत् । यद्यन्यथा भवेत्सद्यस्स पापी संप्रजायते ॥ ३६.५५४ ॥ जन्मानि नव पञ्चापि जायते मलभुक्कृमिः । यदा विशेद्गृहं विष्णोस्सेवार्धं मधुविद्विषः ॥ ३६.५५५ ॥ कृत्वोपवीतवत्सम्यगुत्तरीयं मनोहरम् । सेवेत देवदेवशमुपवीतः सदा शुचिः ॥ ३६.५५६ ॥ कञ्चुकेनावृताङ्गस्तु न गच्छेद्धरिमन्दिरम् । नैवाभिवादनं कुर्यान्नाभिवाद्यः स उच्चते ॥ ३६.५५७ ॥ उष्णीषी न च सेवेत नैव पाणौ धृतायुधः । वस्त्रेणाच्छाद्य देहन्तुकम्बलेनेतरेण वा ॥ ३६.५५८ ॥ योगच्छेद्वैष्णवं धाम यो वापि प्रणमेद्धरिम् । श्वित्री संजायते मूढो नवजन्मानि पञ्च च ॥ ३६.५५९ ॥ क्षौमादिभिर्वा संवीतो यो नरःप्रणमेद्धरिम् । चण्डालयोनितां याति नव जन्मानि पञ्च च ॥ ३६.५६० ॥ न जातु त्वमितब्रूयादापन्नोपि महत्तरम् । त्वङ्कारो वा वधो वेति विद्वत्सु न निशिष्यते ॥ ३६.५६१ ॥ परनिन्दा परस्यैव पुंसो निन्दा भविष्यति । परनिन्दा च शास्त्रस्य परस्य तु विनिन्दनम् ॥ ३६.५६२ ॥ परनिन्दा भवेत्क्रोधात्क्रोधात्सद्यो विनश्यति । निन्दया वै परेषां तु निन्दितास्ते पुनस्स्मृताः ॥ ३६.५६३ ॥ तस्मान्निदां परेषां तुदेवाग्रे परिवर्जयेत् । तथा परस्तुतिं चैव विधिना संत्यजेन्नरः ॥ ३६.५६४ ॥ परः परात्मा पुरुषः पुराणः प्रोच्यते तु यः । तदग्रेऽन्यस्य देवस्य न स्तुतिं स्तावयेन्नरः ॥ ३६.५६५ ॥ यस्तु सर्वेश्वरादन्यमधिकं तस्य चाग्रतः । पूजयेद्यदि मन्येत पूजार्हं वास नश्यति ॥ ३६.५६६ ॥ सर्वं जगच्च तस्यैव स्वरूपं परमात्मनः । तथापि तत्तद्रूषेण तारतम्यजुषा पुनः ॥ ३६.५६७ ॥ पूज्यते भगवान् भक्तैस्तत्र शास्त्रोदिता गतिः । तस्माद्देवेश्वरादन्यद्यत्किञ्चित्थ्साणु जङ्गमम् ॥ ३६.५६८ ॥ पूजार्हं विद्यते वस्तु तद्धामनि विशेषतः । तस्मात्पूजां स्तुतिं चान्यामितरेषामसंशयम् ॥ ३६.५६९ ॥ त्यजेद्देवगृहे यस्तु सुखं मन्येत जीवितुम् । शक्तौ सत्यां विशेषेण यस्तुलोभादिना नरः ॥ ३६.५७० ॥ गौणैरर्चयते विष्णमुपचारैरुदीरितैः । न तस्य विद्यते पुण्यं स तूच्छास्त्रं व्रवर्तते ॥ ३६.५७१ ॥ यावता कीर्त्यतेशास्त्रे फलमाढ्यदरिद्रयोः । तत्तच्छक्त्यर्पितैरेव यथार्हं च धनादिकैः ॥ ३६.५७२ ॥ यथा तुष्यतिदेवेशो मुक्ताहारेण भूभुजाम् । तथैव तुलसीदाम्ना दुर्विधस्यापि तुष्यति ॥ ३६.५७३ ॥ तस्मात्कुर्वीत यत्नेन शक्तिलोभं न जातु चित् । अन्यथा यदि कुर्वाणः फलं नैव प्रपद्यते ॥ ३६.५७४ ॥ प्रेत्य मार्जारतां प्राप्य जायते जन्मपञ्चकम् । विषं प्राश्नाति सम्मूढो यस्स्वस्मै पचते नरः ॥ ३६.५७५ ॥ योऽद्यादन्नं कणं वापि यद्विष्णोरनिवेदितम् । स भवेद्ब्रह्महाभूयः स भुङ्क्तेपूयशोणितम् ॥ ३६.५७६ ॥ यत्पिबेच्च यदश्नीयात्यच्चजिघ्रेच्च धारयेत् । अनुलिंपेच्च यत्तत्तन्निवेद्याग्रे मधुद्विषे ॥ ३६.५७७ ॥ तन्निवेदितशेषं तु भुञ्जीयाद्वोपयोजयेत् । विष्णोर्निवेदितं यस्तु न भुङ्क्ते मनुजाधमः ॥ ३६.५७८ ॥ कल्पकोटिशतेनापि निष्कृतिर्नास्य विद्यते । निवेदितं तु यद्विष्णोर्भक्तेभ्यस्तस्य दापनात् ॥ ३६.५७९ ॥ प्रीयत्भगवान् देवस्तत्परस्तु भवेन्नरः । निवेदितं यदि ब्रूयादुच्छिष्टमिति मन्दधीः ॥ ३६.५८० ॥ स तु दुर्गतिमासाद्य विन्दते यमयातनाः । विभूतिं समुपाश्रित्य यस्यानन्तस्य शाश्वतम् ॥ ३६.५८१ ॥ समृद्धा धरणी सेयं सशैलवनकानना । या च भूयांसि लोकेऽस्मिन्नुत्पादयति सन्ततम् ॥ ३६.५८२ ॥ ओषधीर्निखिला स्तद्वत्पुष्पाणि च फलानि च । तस्यानृण्यस्यहेतोर्वैय तेत विधिना नरः ॥ ३६.५८३ ॥ यस्तु नार्ऽपयते विष्णोस्तत्तत्कालोद्भवानि तु । सस्यानि चौषधीस्तद्वत्फलानि कुसुमानि च ॥ ३६.५८४ ॥ संभृतानि यथाशक्ति सभवेद्ब्रह्मह्नरः । नवानि काले जातानि सस्यादीनि विशेषतः ॥ ३६.५८५ ॥ ध्यायन्ति देवदेवेशमभिगन्तुं यतन्ति च । कदर्थयन्तोये मूढास्तेषामभ्यर्थनं परम् ॥ ३६.५८६ ॥ औदासीन्येन तिष्ठन्ति स्वयं वाप्युपयुञ्जते । तेयान्तिनरकान् घोरान् कृतघ्ना यान्तियान् बहून् ॥ ३६.५८७ ॥ शपन्त्यौषधयस्सर्वास्तस्माद्भक्त्या विशेषतः । नवं सस्यं फलं पुष्पं दधिक्षीरं घृतं मधु ॥ ३६.५८८ ॥ यदर्हमर्पणे सर्वमग्रे तस्मै समर्पयेत् । लोभान्मोहादथाज्ञानाद्य उच्छिष्टं निवेदयेत् ॥ ३६.५८९ ॥ देवेशाय विशेषेण स भवेत्पातकी नरः । उच्छिष्ट मन्यदेवस्य यो देवाय निवेदयेत् ॥ ३६.५९० ॥ सोऽपि चण्डालतां प्राप्य नश्येदेव न संशयः । निवेदितं तु देवस्य य उच्छिष्टेन योजयेत् ॥ ३६.५९१ ॥ देवानामित रेषां वा मनुष्याणामथापि वा । स पापी जन्मसाहस्रं श्वानयोनिषु जायते ॥ ३६.५९२ ॥ न हि देवगृहं गत्वा पृष्टी कृत्यासनं चरेत् । देवाभिमुख एव स्याद्भक्तस्सर्वात्मनानरः ॥ ३६.५९३ ॥ न पृष्ठं दर्शयेज्जातु देवाग्रे हितचिन्तकः । पार्श्वतस्तु चरन्नेव निवर्तेतालयं प्रति ॥ ३६.५९४ ॥ नैवान्यं प्रणमेज्जातु प्रविश्य हरिमन्दिरम् । स हि सर्वेश्वर श्शेषी यस्तत्रास्ते रमाधवः ॥ ३६.५९५ ॥ पूजार्हश्च प्रणामार्हः पूजार्हस्तत्र नेतरः । यस्तथा प्रणमेन्मूढस्स याति नरकायुतम् ॥ ३६.५९६ ॥ चण्डालयोनिमासाद्य भजते यातना मुहुः । यस्तु देवगृहं प्राप्तान् वैष्णवान् भगवत्प्रियान् ॥ ३६.५९७ ॥ आचार्यमृत्विजश्चाथ पूजकान् परिचारकान् । नार्ऽचयेन्मौनमास्थाय स विनश्यति सान्वयः ॥ ३६.५९८ ॥ यदिष्टं याजकेभ्यस्स्यात्पूरणायेव तस्यतु । भक्ताः परिचरेयुश्च विशेषाद्ग्रामवासिनः ॥ ३६.५९९ ॥ अन्यथा चेन्मदोषस्सर्वेषां च विपचद्भवेत् । अत्मानं यो विशेषेणस्तौत्यहङ्कार भाविदः ॥ ३६.६०० ॥ अनादृत्य गुरून् दैवमनिबद्धं च संपदेत् । अवलीप्तोन जानाति दोषमात्मनि संगतम् ॥ ३६.६०१ ॥ कुलविद्यातपस्सम्पत्प्रमुखैर्गर्विते नरः । न सुखं न च सौभाग्यं येनात्मान्तूयते स्वयम् ॥ ३६.६०२ ॥ तस्मादात्मस्तुतिं कृत्वा नरः पतति निश्चयम् । ततो जन्मशतं प्राप्य मृगयोनौ विशेषतः ॥ ३६.६०३ ॥ जायते म्रियतेऽभीक्ष्णं तस्य पापं महद्भवेत् । यस्देवगृहं गत्वा वाञ्छत्यपचितिं जनः ॥ ३६.६०४ ॥ स तु तित्तिरितां याति नवजन्मानि पञ्च च । देवेशस्यतु सेवार्थं वर्णानामानुपूर्व्यशः ॥ ३६.६०५ ॥ अधिकारः समाख्यातस्तत्क्रमं न विमानयेत् । विशन्ति गर्भगेहेतु ये वैखानससूत्रिणः ॥ ३६.६०६ ॥ गर्भागारे प्रवेष्टव्यो न ह्यवैखानसः क्वचित् । अन्तराले तथा येषां स्थानं तत्तु प्रवक्ष्यते ॥ ३६.६०७ ॥ अन्ये द्विजाश्च तिष्ठन्ति यथा स्यादाश्रमक्रमः । ते द्विजास्तत्स्त्रीयश्चापि सेवन्ते तत्र संगताः ॥ ३६.६०८ ॥ क्षत्रजाता विशेषण स्थित्वा चैवार्ऽधमण्डपे । देवेशमभिसेवन्ते तदीया याश्च योषितः ॥ ३६.६०९ ॥ संगताश्शूद्रजाताश्च प्रतिलोमभवाश्चये । महामण्डपमास्थाय सेवन्ते पुरुषोत्तमम् ॥ ३६.६१० ॥ अनुलोमभुवश्चैवये चान्ये म्लेच्छजातयः । गोपुराद्बाह्यतः स्थित्वा सेवन्ते मन्दिरं हरेः ॥ ३६.६११ ॥ तारतम्यमिदं ज्ञात्वा सेवेत सततं हरिम् । देवतानिन्दनं कुर्याद्यस्स पापीन मुच्यते ॥ ३६.६१२ ॥ अन्यदेवसमं यस्तु मन्यते पुरुषोत्तमम् । चण्डालयोनितामेति नव जन्मानि पञ्च च ॥ ३६.६१३ ॥ अपह्नुत्य पुनर्देवां स्तद्द्रव्यादि हरेत्तु यः । स भवेद्देवहा सत्यं जायते श्वादियोनिषु, ॥ ३६.६१४ ॥ तिरस्कृत्य तथा देवान् भगवच्छास्त्रमेव च । कर्माणि स्वेच्छया कुर्यात्सोऽपि स्याद्देवहा नरः ॥ ३६.६१५ ॥ कथायां कथ्यमानायां देवस्य मधुविद्विषः । अनादृत्य च ये यान्ति ते नराः पापकारिणः ॥ ३६.६१६ ॥ तोयहीनेऽतिरौद्रे च वने वै शून्यवृक्षताम् । जायन्ते सप्तजन्मानि ततश्चण्डालतां ययुः ॥ ३६.६१७ ॥ देवेषु गोषु विप्रेषु देवागारेषु चैव हि । वहेन्नैवाधिपत्यं यन्नासावृद्धिमवाप्नुयात् ॥ ३६.६१८ ॥ दोषाश्च बहुला स्तस्मिन्नाधिपत्ये स्मृता बुधैः । कामतोऽकामतश्चापि सर्वं तस्य विचेष्टितम् ॥ ३६.६१९ ॥ पापायैव भवेत्तस्माद्भूतिकामस्तु तं त्यजेत् । सेवार्थिनां सकाशात्तु बलात्कारेण यः प्रभुः ॥ ३६.६२० ॥ गृह्णीयात्तुकरं सद्यः पतेत्स सह तेन च । देवस्य सन्निधौ भक्तैर्भक्त्यायत्तु समर्प्यते ॥ ३६.६२१ ॥ पत्रं फलं वा मूलं वा स्वर्णं वासांसि चेतरत् । दायाद्यमर्चकानां तु यो मोहादपनिह्नुते ॥ ३६.६२२ ॥ स्वयं वाप्युपयुञ्जीत स पापी नरकं व्रजेत् । विश्राणयन्ति हरये यद्भक्ता भक्तिभाविताः ॥ ३६.६२३ ॥ तन्नाम्ना पूजकानेव जानन्ति फलभागिनः । स्थिरजङ्गमयोः पूजा यतस्सम्पादिता भवेत् ॥ ३६.६२४ ॥ तस्माद्भगवतो नाम्ना दत्तं यद्देवमन्दिरे । विहायाभरणादीनि वासांस्यन्यत्परिच्छदम् ॥ ३६.६२५ ॥ देवालङ्कारयोग्यानि मूल्यवन्ति विशेषतः । अर्चका एव गृह्णीयुः प्रतिबध्नीत नेतरः ॥ ३६.६२६ ॥ यस्त्वधीकारगर्वेण देवागारमुपाश्रितः । अकाले सेवितुं चेच्छेत्सोऽपि यास्यति दुर्गतिम् ॥ ३६.६२७ ॥ अथ वा सेवितुं चेच्छेत्कारणेनापि केन चित् । उक्तेष्वेव तु कालेषु सेवेत मतिमान्नरः ॥ ३६.६२८ ॥ अन्त्यार्चनावसाने यत्कवाटो बध्यते ततः । पुनरुद्घाटनं यावत्प्रत्यूषे च भविष्यति ॥ ३६.६२९ ॥ तावन्नैव हरिं सेवेदकालस्स विशेषतः । प्रत्यूषाद्यन्त्यकालान्तपूजनेऽपि तु मन्त्रतः ॥ ३६.६३० ॥ तत्तत्काले कवाटस्य बन्धने विहितेऽपि च । न तदा तावती हानिरवबद्धेऽप्यमन्त्रकम् ॥ ३६.६३१ ॥ अथार्ऽचनार्हकालेपि भक्तानां सेवनाय तु । अकाला बहवः प्रोक्तास्तथा यवसिकोदिता ॥ ३६.६३२ ॥ तस्मादकालसेवां तु विधिना परिवर्जयेत् । विषयाक्रान्तचित्तानां विष्ण्वर्चनमकुर्वताम् ॥ ३६.६३३ ॥ कर्मभूमौ नृणां जन्म कर्मापि विभलं ध्रुवम् । यो गुरौ मानुषं भावं शिलाभावं च दैवते ॥ ३६.६३४ ॥ मन्त्रेषु जीविकाभावं हिंसाभावं मखेषु च । पूजकेषु च पूजायां नीरसं भावमेति सः ॥ ३६.६३५ ॥ सर्वधा निन्दितव्यो हि जीवितं तस्य निष्फलम् । क्षमामन्त्रः अथ वक्ष्ये विशेषण क्षमामन्त्रविधिं परम् ॥ ३६.६३६ ॥ अपचारेषु सर्वेषु यं जप्त्वा मुच्यते नरः । अपराधः कृतो येन जानता स्ववशेन सः ॥ ३६.६३७ ॥ क्षमामन्त्रसहस्रस्य जापेनापि न मुच्यते । क्षमामन्त्रस्त्वशेषाघध्वंसनक्षम उच्यते ॥ ३६.६३८ ॥ "नारायण नमस्तेऽस्तु नमो भक्तपरायण । नमो नमो नमस्तेऽस्तु नमस्तेऽस्तु नमो नमः ॥ ३६.६३९ ॥ अज्ञानादर्थलोभाद्वा रागाद्द्वेषात्प्रमादतः । अपराधः कृतो यस्तं क्षमस्व पुरुषोत्तम ॥ ३६.६४० ॥ संध्ययोश्च दिवा रात्रौ जाग्रत्स्वप्नसुषुप्तिषु । अपराधः कृतो यस्तं क्षमस्व पुरुषोत्तम ॥ ३६.६४१ ॥ कायेन मनसा वाचा सर्वैर्वापि समुच्चितैः । अपराधः कृतो यस्तं क्षमस्व पुरुषोत्तम ॥ ३६.६४२ ॥ तिष्ठता प्रजता चैव शय्यासनगतेन च । अपराधः कृतो यस्तं क्षमस्व पुरुषोत्तम ॥ ३६.६४३ ॥ स्नास्यता जपता वापि यजता जुह्वता मया । अपराधः कृतो यस्तं क्षमस्व पुरुषोत्तम ॥ ३६.६४४ ॥ भुजता ध्यायता नूनं विषयानुपसेवता । अपराधाः कृता ये तान् क्षमस्व पुरुषोत्तम ॥ ३६.६४५ ॥ मया वा मज्जनैर्वापि मम बन्धुभिरेववा । अपराधः कृतो यस्तं क्षमस्व पुरुषोत्तम ॥ ३६.६४६ ॥ राज्ञा वा तदमात्यैर्वा राजभृत्यैरथापिवा । अपराधः कृतो यस्तं क्षमस्व पुरुषोत्तम ॥ ३६.६४७ ॥ आचार्येणार्ऽचकेनापि भक्तैर्वापरिचारकैः । अपराधः कृतो यस्तं क्षमस्व पुरुषोत्तम ॥ ३६.६४८ ॥ गायकैर्नर्तकैर्वाथ वादित्राणां च वादकैः । अपराधः कृतो यस्तं क्षमस्व पुरुषोत्तम ॥ ३६.६४९ ॥ प्रणवादिविसर्गान्तं क्रियासु विधिपूर्वकम् । अमन्त्रमर्चने दोषं क्षमस्व पुरुषोत्तम ॥ ३६.६५० ॥ उद्धानाच्छयना न्तन्तु क्रियासु विविधासु च । श्रद्धालोपकृतं दोषं क्षमस्व पुरुषोत्तम ॥ ३६.६५१ ॥ कश्शक्नोत्यर्चितुं देवं त्वामनाद्यन्तमव्ययम् । तस्मादज्ञानचरितं क्षमस्व पुरुषोत्तम ॥ ३६.६५२ ॥ प्रार्थये देवदेवं त्वां प्रसीद भगवन्मयि । प्रसीदतु रं मह्यं तव वक्षःस्थलालया ॥ ३६.६५३ ॥ इशाना जगतो देवी माता नित्यानपायिनी । प्रसीदन्तु सुराः सर्वे प्रसादाद्युवयोर्मयि ॥ ३६.६५४ ॥ स्वस्त्यस्तु कृपयास्माकं युवयोः सुप्रसन्नयोः । उपचारापदेशेन कृतानहरहर्मया ॥ ३६.६५५ ॥ अपचारानिमान् त्सर्वान् क्षमस्व पुरुषोत्तम । इति विज्ञापयेद्भूयो भक्तिसाध्वसभावितः ॥ ३६.६५६ ॥ तदर्थनात्परं प्रीतः प्रसीदति खगध्वजः । क्षमामन्त्रमिमं देयान्न चाशुश्रूषवे क्वचित् ॥ ३६.६५७ ॥ गुह्याद्गुह्यतमो गोप्यस्सर्वदा गुरुभिः सदा इति श्रीवैखानसे भगवच्छास्त्रे भृगुप्रोक्तायां सिहितायां प्रकीर्णाधिकारे षट्त्रिंशोऽध्यायः. _____________________________________________________________ अथ सप्तत्रिंशोऽध्यायः. त्रियुगधर्म प्रपञ्चः. अथ वक्ष्ये लघूक्तेन युगधर्मांस्ततः परम् । कृतं त्रेता द्वापरश्च कलिश्चेति चतुर्युगम् ॥ ३७.१ ॥ कृतमेव च कर्तव्यं तस्मिन् काले यदीप्सितम् । न तत्रधर्माःसीदन्ति न च क्षीयन्तिवै प्रजाः ॥ ३७.२ ॥ ततः कृतयुगं प्रोक्तमन्वर्थेन गुणेन वै । न तस्मिन् युगसंसर्गेव्यवायो नेन्द्रियक्षयः ॥ ३७.३ ॥ नानूया नापि रुदितं न दर्पो न च पैशुनम् । न विग्रहो न विद्वेषोन मिथ्या नापि वञ्चनम् ॥ ३७.४ ॥ न भयं न च सन्तापो न लोभो न च मानिता । तदा ज्योतिःपरं ब्रह्म वैखानसमनामयम् ॥ ३७.५ ॥ या गतिर्योगिनामेका ह्यपुनर्भवकाङ्क्षिणाम् । विष्णुस्सर्वात्मको देवः शुक्लो नारायणः स्मृतः ॥ ३७.६ ॥ अन्तर्यामिणि तस्मिंस्तु सर्वलोकमये हरौ । स्वयं शुक्लत्वमापन्ने सर्वमच्छं भविष्यति ॥ ३७.७ ॥ ब्राह्मणाः क्षत्रिया वैश्याश्शूद्राश्च भगवत्पराः । स्वकर्मनिरतास्सर्वेभवन्ति मनुजाः कृते ॥ ३७.८ ॥ समाश्रमं समाचारं सत्यभूतं तपोरतम् । विज्ञानभरितं सर्वं जगद्भवति सन्ततम् ॥ ३७.९ ॥ एक वेदसमायुक्ता एकधर्मविधिक्रियाः । पृथग्धर्मास्त्वेक वेदा धर्ममेकमनुव्रताः ॥ ३७.१० ॥ चतुराश्रमयुस्तेन कर्मणा कालयोगिना । अकामभलसंयोगाः प्राप्नुवन्ति परां गतिम् ॥ ३७.११ ॥ कृते युगे चतुष्पादश्चातुर्वर्ण्यस्य शाश्वतः । एतत्कृतयुगं नाम त्रैगुण्यगुणवर्जितम् ॥ ३७.१२ ॥ ततस्त्रेतायुगं नाम यत्र धर्मस्त्री पाद्भवेत् । रक्ततां तु समभ्येति हरिर्नारायणः प्रभुः ॥ ३७.१३ ॥ सत्यप्रवृत्ताश्च नराः दानधर्मपरायणाः । यजन्ते विविधैर्यज्ञैर्नारायणमनामयम् ॥ ३७.१४ ॥ ब्राह्मणाद्यास्स्वधर्मेषु प्रवर्तन्ते निरन्तरम् । यतो धर्मपदे वृद्धा द्वापरं प्रतिपेदरे ॥ ३७.१५ ॥ युगं संशीनधर्मत्वाद्द्वापरं परिचक्षते । विष्णुः पीतत्वमभ्येति वेदश्चापि विभज्यते ॥ ३७.१६ ॥ द्विपाद्भवति वैधर्मो द्वापरे समुपस्थिते । द्विवेदाश्चैकवेदाश्च निर्वेदाश्च तथा परे ॥ ३७.१७ ॥ विभिन्नशास्त्रनिष्ठाश्च भवन्ति विविधक्रियाः । प्रजा दानपरा भूत्वा दानं शंसन्ति सन्ततम् ॥ ३७.१८ ॥ राजसं भावमाश्रित्य राजसी भवति प्रजा । सत्त्वात्प्रच्यवमानानां व्याधयो भृशदारुणाः ॥ ३७.१९ ॥ अत्याहितानि चान्यानि भवेष्यन्त्यधरोत्तरम् । कालस्य ह्रस्वतायोगाच्चतुर्थं स्याद्युगं कलिः ॥ ३७.२० ॥ प्रत्यक्षरूपधृग्देवो न कलौ दृश्यते यतः । कृतादिष्विव तेनैव त्रियुगः कलिरुच्यते ॥ ३७.२१ ॥ पदेनैकेन वै धर्मः प्रवर्तेत कलौ युगे । तस्मिंस्तु समनुप्राप्ते न धर्मस्संप्रवर्तते ॥ ३७.२२ ॥ तामसं युगमासाद्य हरिः कृष्णत्वमेति च । यः कश्चिदत्र धर्मात्मा क्रियोयोगरतो भवेत् ॥ ३७.२३ ॥ नरं धर्मपरं दृष्ट्वा सर्वेऽसूयां प्रकुर्वते । वर्णाश्रमाश्रिताचाराः प्रणश्यन्तिन संशयः ॥ ३७.२४ ॥ व्रताचाराः प्रणश्यन्ति ध्यानयज्ञादयस्तथा । उपद्रवा जनिष्यन्ति ह्यधर्मस्य प्रवर्तनात् ॥ ३७.२५ ॥ असूयानिरतास्सर्वे दंभाचारपरायणाः । प्रजाश्चाल्पायुषस्सर्वे भविष्यन्तिकलौ युगे ॥ ३७.२६ ॥ सर्वेधर्माः प्रणश्यन्ति कृष्णे कृष्मत्वमागते । यस्मात्कलिर्महाघोरस्सर्वपापस्य साधकः ॥ ३७.२७ ॥ ब्राह्मणाः क्षत्रिया वैश्याश्शूद्रा धर्मपराङ्मुखाः । घोरे कलियुगे प्राप्ते द्विजा वेदपराङ्मुखाः ॥ ३७.२८ ॥ व्याजधर्मपरास्सर्वे वृधाहङ्कार दूषिताः । सर्वमाक्षिप्यते नित्यं नरैः पण्डितमानिभिः ॥ ३७.२९ ॥ अहमेवाधिक इति सर्वो विवदते जनः । अधर्मलोलुपास्सर्वे तथा चैव द्विजातयः ॥ ३७.३० ॥ अतस्त्वल्पायुषस्सर्वे भविष्यन्ति कलौ युगे । अल्पायुष्ट्वान्मनुष्याणां न विद्याग्रहणं भवेत् ॥ ३७.३१ ॥ विद्याग्रहणशून्यत्वादधर्मस्संप्रवर्तते । व्युत्क्रमेण प्रजास्सर्वा म्रियन्ते पापतर्पराः ॥ ३७.३२ ॥ ब्राह्मणाद्यास्तथा वर्णास्संकीर्यन्ते परस्बरम् । कामक्रोधपरा मूढा वृधाहं कारपूरिताः ॥ ३७.३३ ॥ बद्धवैरा भविष्यन्ति परस्परवधेप्सवः । जनास्सर्वे दयाहीना दाक्षिण्य परिवर्जिता ॥ ३७.३४ ॥ शूद्रतुल्या भविष्यन्ति तपस्सत्यविवर्जिताः । उत्तमा नीचतां यान्ति नीचाश्चोत्तमतां तथा ॥ ३७.३५ ॥ राजानो द्रव्यनिरता लोभमोहपरायणाः । धर्मकञ्चुकसंवीता धर्मविध्वंसकारिणः ॥ ३७.३६ ॥ यो योऽश्वरथनागाढ्यस्स स राजा भविष्यति । किङ्कराश्च भविष्यन्ति शूद्राणां चद्विजातयः ॥ ३७.३७ ॥ म्लेच्छाश्च युनाद्याश्च पालयन्ति वसुंधराम् । अनावृष्टिभयात्प्रायो गगनादत्तचक्षुषः ॥ ३७.३८ ॥ भविष्यन्ति नरास्सर्वे सदा क्षुद्भयकातराः । कलौ नराभविष्यन्ति स्वल्पभाग्या बहुप्रजाः ॥ ३७.३९ ॥ पतिवाक्यमनादृत्य सदान्यगृहतत्पराः । दुश्शीला दुष्टशीलेषु करिष्यन्ति स्पृहां स्त्रियः ॥ ३७.४० ॥ परुषानृतभाषिण्यो देहसंस्कार वर्जिताः । वाचालाश्च भविष्यन्तिकलौ प्राप्ते सदा स्त्रियः ॥ ३७.४१ ॥ नगरेषु च ग्रामेषु प्राकाराट्टादिकान् जनाः । चोरादिभयभीताश्च काष्ठयन्त्राणि कुर्वते ॥ ३७.४२ ॥ दुर्भिक्षकरपीडाभिरतीवोपद्रुता जनाः । गोधूमान्नयवान्नाढ्यान् देशान् प्राप्स्यन्ति दुःखिताः ॥ ३७.४३ ॥ स्वकार्यसिद्धिपर्यन्तं स्निह्यन्त्यन्येषु मानवाः । भिक्षवश्चापि मित्रादिस्नेहसंबन्धयन्त्रिताः ॥ ३७.४४ ॥ अन्नोपाधिनिमित्तेन शिष्यान् गृह्णन्ति सर्वतः । उभाभ्यामपि हस्ताभ्यां शिरःकण्डूयनं स्त्रियः ॥ ३७.४५ ॥ कुर्वन्त्यो भर्तृमुख्यानामाज्ञां भेत्स्यन्त्यानादृताः । पाषण्डालापनिरताः पाषण्डिजनसंगिनः ॥ ३७.४६ ॥ भविष्यन्ति यदा विप्रा स्तदा वृद्धिमियात्कलिः । अल्पोदकास्तथा मेघा अल्पसस्या वसुंधरा ॥ ३७.४७ ॥ अल्पक्षीरास्तथा गावः क्षीरात्सर्पिर्न जायते । एकवर्णा भविष्यन्ति वर्णाश्चत्वार एव च ॥ ३७.४८ ॥ नास्ति वर्णान्तरं तत्रलयं यास्यन्ति मानवाः । सन्तस्सीदन्त्यसन्तश्च विलसन्तिसमन्ततः ॥ ३७.४९ ॥ मैत्री परजने भूयाद्वैरं च स्वजने भवेत् । पुत्राः पितृषु जीवत्सु म्रियन्ते च तदग्रतः ॥ ३७.५० ॥ कलौ काकिणिकेऽप्यर्थे विगृह्य त्यक्तसौहृदाः । त्यक्ष्यन्तिहि प्रियान् प्राणान् हनिष्यन्ति स्वबान्धवान् ॥ ३७.५१ ॥ पाषण्डप्रचुरेधर्मे दस्युप्रायेषु राजसु । चौर्यानृतवृधाहिंसानानावृत्तिषु वै नृषु ॥ ३७.५२ ॥ शूद्रप्रायेषु वर्णेषु छागप्रायेषु गोषु च । करिष्यन्ति तथा शूद्राः प्रव्रज्यालिङ्गिनौऽधमाः ॥ ३७.५३ ॥ काषायपरिनीताश्च जटिला भक्मधूसराः । अशौचावक्रमतयः परपाकान्नजीविनः ॥ ३७.५४ ॥ देवद्विजनिवासेषु पूजामिच्छन्ति पापिनः । भविष्यन्ति दुरात्मानः शूद्राः प्रव्रजितास्तथा ॥ ३७.५५ ॥ उत्कोच जीविनस्तत्र महापापरतास्तथा । भविष्यन्त्यथ पाषण्डाः कापाला भिक्षवोधमाः ॥ ३७.५६ ॥ धर्मविध्वंसशीलानां द्विजनां राजवल्लभाः । शूद्रा धर्मान् प्रवक्ष्यन्ति प्रव्रज्यालिङ्गिनोऽधमाः ॥ ३७.५७ ॥ गीतवाद्यपरा विप्रा वेदवादपराङ्मुखाः । भविष्यन्ति कलौ प्राप्ते शूद्रमार्ग प्रवर्तिनः ॥ ३७.५८ ॥ हर्तारो न च दातारोभविष्यन्ति कलौ युगे । विश्वासहीनाः पिशुना वेददेवद्विजातिषु ॥ ३७.५९ ॥ असंस्कृतो क्तिवक्तारो रागद्वेषपरास्तथा । परमायुश्चतेषां स्यात्तदा वर्षाणि षोडश ॥ ३७.६० ॥ पञ्चमे वाथःवष्ठे वा वर्षेकन्या प्रसूयते । सर्त्पवर्षाष्टवर्षाश्च प्रसूयन्ते तथा नराः ॥ ३७.६१ ॥ स्वकर्मत्यागिनस्सर्वे कृतघ्ना भिन्नवृत्तयः । याचकाः पिशुनाश्चैव भविष्यन्ति कलौ युगे ॥ ३७.६२ ॥ परावमाननिरता आत्मस्तुतिपरायणाः । परस्वहरणोपायचिन्तकाः सर्वदा नराः ॥ ३७.६३ ॥ निन्दां कुर्वन्ति सततं पितृमातृकुलेषु तु । वदन्ति वाचा धर्मांश्च चेतसा पापलोलुपाः ॥ ३७.६४ ॥ छादयन्ति प्रयत्नेन स्वदोषं पापकर्मजम् । अपापे दुष्कृतं सम्यग्विवृण्वन्ति नराधमाः ॥ ३७.६५ ॥ धर्ममार्गप्रवक्तारं तिरस्कुर्वन्ति पापिनः । भविष्यन्ति कलौ प्राप्ति राजानो म्लेच्छजातयः ॥ ३७.६६ ॥ द्विजाश्च क्षत्रिया वैश्याः शूद्राश्चान्याश्च जातयः । अत्यन्तकामिनस्सर्वे संकीर्यन्ते परस्परम् ॥ ३७.६७ ॥ न शिष्यो न गुरुः कश्चिन्न पुत्रो न तथा पिता । न भार्या न पतिस्तत्र भविता सर्वसंकरः ॥ ३७.६८ ॥ कलौ च ते भविष्यन्ति धनाढ्या अपि याचकाः । रसविक्रयिणश्चापि भविष्यन्ति कलौ युगे ॥ ३७.६९ ॥ धर्मपत्नीषु यच्छन्ति पतयो जारलक्षणम् । द्विष्यन्ति पितरं पुत्रा गुरुं शिष्याद्विषन्ति च ॥ ३७.७० ॥ पतिं च वनिता द्वेष्टि कलौ प्राप्तेन संशयः । लोभाभिभूतमनसस्सर्वे दुष्कर्मशालिनः ॥ ३७.७१ ॥ परान्नलोलुपा नित्यं भविष्यन्ति द्विजातयः । परस्त्रीनिरतास्सर्वे परद्रव्यपरायणाः ॥ ३७.७२ ॥ मर्त्यामिषेण जीवन्ति दुहन्तश्चाप्यजाविकान् । सरित्तीरेषु कुद्दालैरोपयिष्यन्ति चौषधीः ॥ ३७.७३ ॥ अत्यल्पानि फलान्यासां भविष्यन्ति कलौ युगे । वेश्यालावण्यशीलेषु स्पृहां कुर्वन्ति योषितः ॥ ३७.७४ ॥ धर्मविघ्ना भविष्यन्ति स्त्रियश्च पुरुषेषु च । न कन्यां याचते कश्चिन्न च कन्याप्रदो नरः ॥ ३७.७५ ॥ कन्या वरांश्च छन्देन ग्रहीष्टन्ति परस्परम् । प्रायशः कृपणानां च बन्धूनां च तधा द्विजाः ॥ ३७.७६ ॥ साधूनां विविधानां च वित्तान्यपहरन्ति च । न यक्ष्यन्ति न होष्यन्तिन तपस्यन्ति वै जनाः ॥ ३७.७७ ॥ नैव दास्यन्ति दानादि नार्ऽचयिष्यन्ति वा हरिम् । न धर्मे निविशिष्यन्ति हेतुवादकथाश्रयाः ॥ ३७.७८ ॥ अपात्रेष्वेव दानानि कुर्वन्ति च तथा नराः । क्षीरोपाधिनिमित्तेन गोषु प्रीतिं प्रकुर्वते ॥ ३७.७९ ॥ न कुर्वन्ति तथा विप्राः स्नानशौचादिकाः क्रियाः । अकालकर्मनिरताः कूटयुक्तिविशारदाः ॥ ३७.८० ॥ देवनिन्दापराश्चैव विप्रनिन्दापरास्तथा । त्यक्तपुण्ड्रशिखासूत्राश्चरिष्यन्तिद्विजातयः ॥ ३७.८१ ॥ विष्णुभक्तिपरं न स्यान्मनः कस्यापि जातु चित् । देवपूजापरं दृष्ट्वा सर्वे परिहसन्ति च ॥ ३७.८२ ॥ शास्त्रोदिताश्च ये देवाःपरिवारा मधुद्विषः । तान् परित्यज्य मोहेन नराः कालबलात्कृताः ॥ ३७.८३ ॥ हेतुवादपरान् देवान् करिष्यन्त्यपरां स्तदा । निर्बध्नन्ति द्विजानेव करार्थं राजकिङ्कराः ॥ ३७.८४ ॥ नाद्रियन्ते द्विजानन्ये कलौ पापसमाकुले । दानयज्ञ जपादीनां विक्रीणन्ते फलं द्विजाः ॥ ३७.८५ ॥ प्रतिग्रहं च कुर्वन्ते चण्डालादेरपि द्विजाः । शूद्रस्त्रीमङ्गनिरता विधवासंगलोलुपाः ॥ ३७.८६ ॥ रजस्स्वलानां वोढारो भविष्यन्ति कलौ युगे । शूद्रान्न पाननिरताः शूद्रप्राया भवन्ति च ॥ ३७.८७ ॥ अट्टशूलाजनपदाः शिवशूलाश्चतुष्पथाः । प्रमदाः केशशूलिन्यो भविष्यन्ति कलौ युगे ॥ ३७.८८ ॥ कुहकाश्च जनास्तत्र हेतुवादविशारदाः । पाषण्डिनो भविष्यन्ति तिष्टन्त्याश्रमनिन्दकाः ॥ ३७.८९ ॥ न च द्विजातिशुश्रूषां सर्वधर्मनिवर्तिनीम् । गृहप्रायेष्वाश्रमेषु योगिप्रायेषु बन्धुषु ॥ ३७.९० ॥ ततश्छानुदिनं धर्मस्सत्यं शौचं दया क्षमा । कालेन बलिना सर्वं नश्यत्यायुर्बलं स्मृतिः ॥ ३७.९१ ॥ वीत्तमेव कलौ नॄणां जन्माचारगुणोदयम् । दांपत्येऽभिरुचिर्हेतुर्मायैव व्यवहारके ॥ ३७.९२ ॥ धर्मन्यायव्यवस्थानां कारणं बलमेव हि । स्त्रीत्वमेवोपभोगे स्वाद्विप्रत्वे सूत्रमेव हि ॥ ३७.९३ ॥ लिङ्गमेवाश्रमख्यातावन्यायो वृत्तिकारणम् । अवृत्तौ चापि दौर्बल्यं पाण्डित्ये चाफलं वचः ॥ ३७.९४ ॥ स्वीकार एव चोद्वाहे स्नानमेवाशुचौ स्मृतम् । उदरंभरिता स्वार्थेसत्यत्वे धार्ष्ट्यमेव हि ॥ ३७.९५ ॥ दाक्ष्ये कुटुंबभरणे यशोर्थे धर्मसेवनम् । इत्थं कलियुगे प्राप्ते धर्मस्सर्वोऽपि जीर्यते ॥ ३७.९६ ॥ यदा मायानृतं तन्द्रा निद्रा हिंसा विषायनम् । शोको मोहो भयं दैन्यं स कलिस्तामसःस्मृतः ॥ ३७.९७ ॥ यदायदा सतां हानिर्वैदिकानां द्विजन्मनाम् । तदा तदा कलिंप्राप्तमवबुद्ध्येत पण्डितः ॥ ३७.९८ ॥ अहो दुःखमहोदुःखमहोदुःखमहो महत् । स्वरूपमतिभीमस्य संसारस्य सुदुर्भरम् ॥ ३७.९९ ॥ विण्मूत्रपूयकलिते गर्भवासे निपीडनात् । अशुचावतिभीभत्से दुःखमत्यन्तदुस्सहम् ॥ ३७.१०० ॥ दुःखं च जायमानानां गात्रभङ्गादिपीडने । वातेन प्रेर्यमाणानां मूर्छनायातिभीतिदम् ॥ ३७.१०१ ॥ बालके निर्विवेकानां भूतदैवात्मसंभवम् । यौवने वार्धके चैव मरणे चाति दारुणे ॥ ३७.१०२ ॥ एकौत्तरं मृत्युशतं देहे ज्ञेयं प्रतिष्ठितम् । तत्रैकः कालसंज्ञः स्याच्छेषास्त्वागन्तुकाःस्मृताः ॥ ३७.१०३ ॥ ये चात्रागन्तुकाः प्रोक्तास्ते तु शाम्यन्ति भेषजैः । जपहोमप्रदानैश्च कालमृत्युर्न शाम्यति ॥ ३७.१०४ ॥ विविधा व्याधयश्शस्त्रं सर्पाद्याः प्राणिनस्तथा । विषाणि चाभिचाराश्च मृत्योर्द्वाराणि देहिनाम् ॥ ३७.१०५ ॥ नौषधं न तपो दानं न मन्त्रान च बान्धवाः । शक्नुवन्ति नरं त्रातुं कालमृत्युप्रपीडितम् ॥ ३७.१०६ ॥ रसायनतपोजप्ययोगसिद्धैर्महात्मभिः । कालमृत्युरपि प्राप्तो जीयतेऽनलसैर्नरैः ॥ ३७.१०७ ॥ नास्ति मृत्युसमं दुःखं नास्ति मृत्युसमं भयम् । सद्भार्यां पुत्रमित्राणि राज्यैश्वर्यसुखानि च ॥ ३७.१०८ ॥ आबद्धानि च वैराणि मृत्युस्सर्वं विनाशयेत् । यद्दुःखं मरणे जन्तोर्न तस्येह समं क्वचित् ॥ ३७.१०९ ॥ मण्डूक इव सर्पेण ग्रस्यते मृत्युना जगत् । बान्धवैश्च परिष्वक्तः प्रियैश्च परिवारितः ॥ ३७.११० ॥ निश्श्वपन् दीर्घमुष्णं च मुखेन परिशुष्यता । चतुर्ष्वन्तेषु खट्वायाः परिवृत्य मूहुर्मुहुः ॥ ३७.१११ ॥ सम्मूढः क्षिपतेऽत्यर्धं हस्तपादमितस्ततः । खट्वाया वाञ्छते भूमिं भूमेः खट्वां ततो महीम् ॥ ३७.११२ ॥ विवस्त्रस्त्यक्तलज्जश्च मूत्रविष्ठापरिप्लुतः । याचमानश्च सलिलं शुष्ककण्ठास्यतालुकः ॥ ३७.११३ ॥ चिन्तयानश्चवित्तानि कस्यैतानिमृतेमयि । नखाग्रैश्च स्पृशन् भूमिं कालपाशेन कर्षितः ॥ ३७.११४ ॥ म्रियते पश्यतामेव गले खुरखुरायते । जीवस्तृणजलूकावद्देहाद्देहं विशेदसौ ॥ ३७.११५ ॥ संप्राप्योत्तरवंशे च तनुं त्यजति पौर्विकीम् । देहभेदेन यः पुंसां वियोगः कर्मसंक्षयात् ॥ ३७.११६ ॥ मरणं तद्विनिर्दिष्टं न नाशः परमार्थतः । जायते म्रियते चैवं कर्मभिः स्वयमार्जितैः ॥ ३७.११७ ॥ शीतोष्णतृष्णाक्षुद्रोग्रज्वरादिपरिवारितः । सर्वदैवपुमानास्ते यावज्जन्मान्त संस्थितिः ॥ ३७.११८ ॥ दुःखातिशयभूतं हि यदन्ते नासुखं नृणाम् । तस्योपमानं नैवास्ति कार्येणैवानु मीयते ॥ ३७.११९ ॥ कृष्यमाणस्य पुरुषैर्यद्यमस्यातिदुस्सहम् । दुःखं तत्संस्मृतिं प्राप्तं करोति मम वेपथुम् ॥ ३७.१२० ॥ ततश्चैव पुनस्तस्य योनिसंक्रमणे च यत् । गर्भस्थस्य च यद्दुःखमतिदुस्सहमुल्बणम् ॥ ३७.१२१ ॥ पुनश्च जायमानस्य बाल्ययौवनजं च यत् । दुःखान्येतान्यनन्तानि संसारान्तरवर्तिभिः ॥ ३७.१२२ ॥ पुरुषैरनुभूयन्ते सुखभ्रान्तिविमोहितैः । न वै सुखकला काचिदत्रास्त्यत्यन्तदुःखदे ॥ ३७.१२३ ॥ संसारसंकटे संगमुपेतानां कदा चन । विषयासक्तमनसस्सततं पामरा जनाः ॥ ३७.१२४ ॥ न मतिं कुर्वते विष्णौ सर्वलोकेश्वरेश्वरे । अथापि नात्र बिभ्यन्ति वैष्णवा भगवत्प्रियाः ॥ ३७.१२५ ॥ विष्णुध्यानपरास्सन्तो विष्वर्चनपरायणाः । ते विष्णुसदृशा ज्ञेया न हि तान् बाधते कलिः ॥ ३७.१२६ ॥ मायेयं वैष्णवी भूयः पातयेत्प्राणिनस्तदा । दुस्तरापि भवेत्साध्या यैर्न्यस्तं माधवेमनः ॥ ३७.१२७ ॥ असंत्यज्य च गार्हस्थ्यमतप्त्वा चतथा तपः । छिनत्ति वैष्णवीं मायां केशवाराधने रतः ॥ ३७.१२८ ॥ विषयानविरोधेन सेवमानोऽपि माधवम् । अर्चयानस्तरन्त्येनां विष्णुमायां दुरत्ययाम् ॥ ३७.१२९ ॥ यत एवमतो लब्ध्वाशरीरं कर्मसाधनम् । शुभं कर्मैव कर्तद्यं तत्प्रसादाय मानवैः, ॥ ३७.१३० ॥ प्रसादितेऽस्मिन् सर्वेषां स्ववर्णाश्रमकर्मभिः । सर्वेहस्तगताः कामा मुक्तिश्चान्ते करस्थिता ॥ ३७.१३१ ॥ कार्यार्था मूर्तयस्तस्य लोककल्याणकारकाः । अतस्साकारमेवेष्ट्वा भक्त्येमं सिद्धिमाप्नुयात् ॥ ३७.१३२ ॥ इदं च शास्त्रमालंब्य पूजयेद्विष्णुमव्ययम् । यद्ध्यानं केवलं प्रोक्तं शास्त्रे क्वचिदनाश्रयम् ॥ ३७.१३३ ॥ न तत्रेन्द्रियदौर्बल्यात्कर्मस्थस्याधिकारिता । यथा गिरितटाग्रस्थवनस्पतिफलेच्छया ॥ ३७.१३४ ॥ उपाये वर्ततेऽश्रान्तस्तथासौ यत्नमाचरेत् । सर्वत्र क्रमवान् यत्नःकार्यो नैच्छैव केवला ॥ ३७.१३५ ॥ तत्कायवाङ्मनोयोगैःक्रमादिच्छेत्परां गतिम् । निराकारेतु या भक्त्या पूजेष्टा ध्यानमेव वा ॥ ३७.१३६ ॥ रमणीयमिवाभाति तदनर्थस्य कारणम् । स्थूलभावप्रसंदीनि जन्मनास्येन्द्रियाणि तु ॥ ३७.१३७ ॥ सूक्ष्माच्छ न प्रपद्यन्ते चिराच्च किमुताचिरात् । न च रूपं विना दोवो ध्यातुं केनापि शक्यते ॥ ३७.१३८ ॥ सर्वरूपनिवृत्ता हि बुद्धिः कुत्रास्य तिष्ठति । निवृत्ताग्लायते बुद्धिर्निद्रयाहि परीयते ॥ ३७.१३९ ॥ तस्माद्विद्वानुपासीत बुद्ध्या साकालमेव तम् । अस्तितस्य परोक्षं तदिति किञ्चिदनुस्मरेत् ॥ ३७.१४० ॥ सर्वधाकारमुद्दिष्टं न परित्यज्य पण्डितः । परं देवमुपासीत मुक्तये वा फलायवा ॥ ३७.१४१ ॥ भक्त्याकृतेनार्चनेन तुष्टोदेवः प्रजापतेः । पूजाद्यनुग्रहायाऽदावाविर्भूतश्चतुर्भुजः ॥ ३७.१४२ ॥ तस्मात्तेनैव रूपेण ह्रिया लक्ष्म्या समायुतः । ध्येयस्सेव्योर्ऽचनियश्च सदा नारायणो बुधैः ॥ ३७.१४३ ॥ साकारेऽस्मिन् कृता पूजा स्तुतिर्वा ध्यानमेव वा । विधिना शास्त्रदृष्टेन तस्मिन्नेव कृता भवेत् ॥ ३७.१४४ ॥ तदेवाराधनं विष्णोरवज्ञातं विशेषतः । ख्यापनार्थं कलौ कश्चिद्भविष्यति महामतिः ॥ ३७.१४५ ॥ धर्मग्लानिरधर्मस्य वृद्धिर्यावद्भविष्यति । तावव्भर्ता महाविष्णुः सृजत्यात्मानमात्मना ॥ ३७.१४६ ॥ श्रीनिवासे जनावाने श्रीनिवासः स्वयं हरिः । श्रीनिवासस्समाख्यातो भूमाववतरिष्यति ॥ ३७.१४७ ॥ उत्पत्स्यमान एवासौ भ्राजमानस्स्वतेजसा । जगदावरणं क्रूरं तमः पुञ्जं हनिष्यति ॥ ३७.१४८ ॥ पञ्चहायन एवाथ प्राप्तसर्वकलाकुलः । संस्कृतोऽखिलसंस्कारैर्ब्रह्मवर्चससेवितः ॥ ३७.१४९ ॥ सर्वलोकेश्वरं देवं श्रीनिवाकं श्रियः पतिम् । चतुर्भुजमुदाराङ्गं दिव्याभरणभूषितम् ॥ ३७.१५० ॥ श्रीवत्सांकं महाबाहुं शङ्खचक्रगदाधरम् । किरीटमुकुटोपेतं वरदाभयचिह्नितम् ॥ ३७.१५१ ॥ हैमोर्ध्वपुण्ड्रलावण्यलसद्वदनपङ्कजम् । वैखानसैर्महाभागैरर्च्यमानं निरन्तरम् ॥ ३७.१५२ ॥ कृतास्पदं कलियुगे तदीयं कुलदैवतम् । "अरायि काण"इत्याद्यैश्श्रुतिवाक्यैरभिष्टुतम् ॥ ३७.१५३ ॥ "रयिः ककुद्माऽऽनित्याद्यैर्मन्त्रैर्वैखानसैः परैः । इज्यमानं विशेषेण विविधैः पारमात्मिकैः ॥ ३७.१५४ ॥ कल्याणगुणसंपूर्णं दिव्यमङ्गलविग्रहम् । स्वयंव्यक्तं परञ्ज्योतिः परं ब्रह्म परात्परम् ॥ ३७.१५५ ॥ विधिना शास्त्रदृष्टेन देवमाराधयिष्यति । प्रसादसुमुखो देवस्स्वात्मभूते शिशौ स्वयम् ॥ ३७.१५६ ॥ अवनम्य च मूर्धानं गृहीष्यति गले स्रजम् । दिव्यैःप्रसन्नैर्ग्रथितां कुसुमैस्तुलसीदलैः ॥ ३७.१५७ ॥ स्वयं सार्धं कुमारेण हवींषि च भुजिष्यति । संतुष्टेन कुमारेण प्रार्थितः करुणानिधिः ॥ ३७.१५८ ॥ वैखानसैर्महाभागैरुपेतैः सह मन्दिरे । हवींष्यशिष्यत्यध्यक्षं कुमारं सान्त्वयिष्यति ॥ ३७.१५९ ॥ अर्चावतारमहात्म्यं लोकेभ्यःख्यापयिष्यति । देवोर्ऽचकपराधीनः सर्वं तेभ्यः करिष्यति ॥ ३७.१६० ॥ तथा सम्मानितः प्रेम्णा श्रीनिवासेन सादरम् । यज्ञैर्बहुविधैरन्यैर्यज्ञेशं संयजिष्यति ॥ ३७.१६१ ॥ विशाले बहुसंस्कारसंकुले वसुधातले । स्थापयिष्यति विष्ण्वर्चां ग्रामे ग्रामे गृहे गृहे ॥ ३७.१६२ ॥ पुराणि च जनावासा गृहाणि गृहिणां तथा । मन्दिरैरिन्दिरेशस्य सुन्दरैर्नतिभन्धुरैः ॥ ३७.१६३ ॥ मण्डितानि भविष्यन्ति जगत्तत्त्वं भजिष्यति । इत आचार्य निर्देश इतश्शिष्योपसर्पणम् ॥ ३७.१६४ ॥ इहैव गृहिणां भूयः प्रसंग इह मन्त्रणम् । अचार्यवरणं चेह शिल्पिनामिह मार्गणम् ॥ ३७.१६५ ॥ इह प्रस्तरसंग्राह इह दारुग्रहस्तथा । इह दिक्साथनं चैह वसुधासंपरीक्षणम् ॥ ३७.१६६ ॥ इतो मङ्गलघोषश्च इतःपुण्याहवाचनम् । इत आद्येष्टकान्यास इतो मूर्धेष्टकाविधिः ॥ ३७.१६७ ॥ इतश्शूलग्रहश्चेत इतो वैरज्जुबन्धनम् । इतश्च मृत्स्नासंस्कार इतो वर्णविलेखनम् ॥ ३७.१६८ ॥ इतो मधूच्छिष्टविधिरितोऽलङ्कारकल्पनम् । इतो ध्वजस्य निर्माणमितो भक्तसमागमः ॥ ३७.१६९ ॥ इतःप्रतिष्ठासंकल्प नातो नयनमोक्षणम् । इतोऽधिवासनं चेतो प्रभूतबलिदापनम् ॥ ३७.१७० ॥ इतोऽग्निमन्थनं चेतो होम आनन्दवर्धनः । इह गीतं नृत्तमिह वाद्यं श्रुतिमनोहरम् ॥ ३७.१७१ ॥ इह प्रतिष्ठा देवस्य इह च द्विजभोजनम् । इह कालोत्सवश्चेह धनुषि प्रातरुत्सवः ॥ ३७.१७२ ॥ मुद्गान्नस्य गुडान्नस्य प्रसादस्य निवेदनम् । अद्योत्तिष्ठति वैकुण्ठः शयितः क्षीरसागरे? ॥ ३७.१७३ ॥ अद्य व्रतस्यापवर्गो संशितस्स भुवो हरेः । अद्य वैवाहिकं देव्याव्रतान्ते लोकमङ्गलम् ॥ ३७.१७४ ॥ अद्य पौषी पूर्णिमाहोचाद्य चैकादशी शुभा । अद्य देवस्य कुर्यन्ति स्नपनं कलशैश्शतैः ॥ ३७.१७५ ॥ अद्य दाशरथिर्जातो द्वादशी माघसंभवा । अद्य चाता जगन्माता फाल्गुने रेवती तिथौ ॥ ३७.१७६ ॥ अद्यकुर्वन्ति देवस्य दमनोत्सवमीश्वराः । चैत्रमासस्त देवस्य महाप्रीतिकरः किल ॥ ३७.१७७ ॥ कुर्वन्ति मनुजाधीशा वसन्ते दिव्यमुत्सवम् । जलक्रीडोत्सवो ह्यद्य चैत्रयात्रा हरेःक्वचित् ॥ ३७.१७८ ॥ केतकीमालतीजातीमल्लिकादोलिकोत्सवः । गन्धोत्सवोऽद्य क्रियते पौर्णमासी कदा दिनम् ॥ ३७.१७९ ॥ कदा चैकादशी पुण्या कदा वा द्वादशीतिधिः । कदा नृसिंहस्संजातः स्मृतमद्यत्रयोदशी ॥ ३७.१८० ॥ वैशाखे शुक्लपक्षे तु क्रियते वार्षिकोत्सवः । कदा भवेत्पौर्णमासी क्रियते चन्द्रिकोत्सवः ॥ ३७.१८१ ॥ कदा ज्येष्ठोत्सवो भूयात्कदा वा पूर्णिमा शुभा । प्रपोत्सवः कदा भूयादाषाढी च भविष्यति ॥ ३७.१८२ ॥ कदा च श्रवणं भूयान्नक्षत्रं यत्र मारुतिः । रामसेवाधुरं धृत्वा जातस्साक्षान्महामतिः ॥ ३७.१८३ ॥ कदा च श्रावणी भूयाद्यत्र नारायणो हरिः । स्वात्मानं जनयामास लोककल्याणहेतवे ॥ ३७.१८४ ॥ वैखानसं विखनसं विरिञ्चमिति यं विदुः । कदा भाद्रपदो मासस्तत्र चैकादशी भवेत् ॥ ३७.१८५ ॥ कदा वा द्वादशी भूयात्सर्वपाप प्रणाशिनी । तिलधेनुं प्रदास्यन्ति यत्र देवस्य सन्निधौ ॥ ३७.१८६ ॥ कदाश्विनो भवेन्मासस्तत्रापि दशमी शुभा । अश्वयात्रा हरेर्भूयादनुयास्यामहे हरिम् ॥ ३७.१८७ ॥ कदा भवेदमावास्या यस्यां स नरकोहतः । कदा वा कार्तिकोमासो भविष्यति हरिप्रियः ॥ ३७.१८८ ॥ दीपारोपो भवेत्तत्र कदा वा कार्तिकी शुभा । कदायुगादय स्तद्वत्पुण्यकाला विशेषतः ॥ ३७.१८९ ॥ कदा भविष्यति हरे रथयात्रा महात्मनः । कदा वा गजयात्रा स्यात्कदा वीशाधिरोहणम् ॥ ३७.१९० ॥ कदा भ्रमति देवेशो ग्रामवीथिषु सुन्दरम् । कदा लभिष्टति हरेस्तीर्थं परमपावनम् ॥ ३७.१९१ ॥ कदा प्रसादं देवस्य कणस्यापि लभिष्यति । कदा शङ्खरथाङ्गादिदिव्यलाञ्छनलाञ्छिता ॥ ३७.१९२ ॥ पादुका देवदेवस्य संस्करिष्यति मे शिरः । कदा वा तुलसीं पुण्यामर्पितां तस्य पादयोः ॥ ३७.१९३ ॥ अश्नामि शिरसा चैव धारयिष्यामि वैष्णवीम् । कदा वा पुण्यपुष्पाणामेकं देवसमर्पितम् ॥ ३७.१९४ ॥ शिरसा धारयिष्यामि जिघ्रामि भहुगन्धवत् । देवदेवस्य द्रक्ष्यामि कदा सर्वाङ्गसुंदरम् ॥ ३७.१९५ ॥ आपादमौलिपर्यन्तं लावण्यमधुरं वपुः । इत्यादिकाः कथास्तत्र भविष्यन्ति प्रजासु च ॥ ३७.१९६ ॥ सर्वे धर्मपरास्सर्वे नारायण परायणाः । अर्चने वासुदेवस्य भविष्यन्ति रता नराः ॥ ३७.१९७ ॥ इत्येव कालं कालेयं गुरुरुज्जीवयिष्यति । श्रीनिवासं श्रियोवासमर्चिष्यति चिरं भुवि ॥ ३७.१९८ ॥ पाषण्डोपप्लुतं धर्ममुद्धरिष्यति वैष्णवम् । इदं च भगवच्छास्त्रं चिरस्थायि करिष्यति ॥ ३७.१९९ ॥ सर्वतन्त्रस्वतन्त्रोऽसौ बहून् ग्रन्धान् प्रणेष्यति । असंख्येभ्यश्च शिष्येभ्यस्तत्तार्थमुपदेक्ष्यति ॥ ३७.२०० ॥ धर्मव्यवस्थां कृत्वैवं कलावतिभयङ्करे । समेष्यति परं स्थानं तद्विष्णोः परमं पदम् ॥ ३७.२०१ ॥ युगान्ते च पुनर्नामहरेर्नैको गृहीष्यति । तदा हरिर्महावीरः कल्की नाम भविष्यति ॥ ३७.२०२ ॥ अधर्मनिधनं कृत्वा धर्मं संस्थापयिष्यति । हरेर्दिव्यावताराणामवतारकथामिमाम् ॥ ३७.२०३ ॥ यः पठेच्छ्रुणुयाद्वापि सोऽपि यास्यति सद्गतिम् । धन्यास्ते पुरुषश्रेष्ठा दुरन्ते भवसागरे ॥ ३७.२०४ ॥ ये नामापि कलौ विष्णोस्स्मरिष्यिन्त्यव्ययात्मवः । ध्यायन् कृतयुगे विष्णुं त्रेतायां दापरे यजन् ॥ ३७.२०५ ॥ यत्तत्फलमवाप्नोति कलौ स्मरणमात्रतः । हरेर्हरति पापानि नामसंकीर्तितं सकृत् ॥ ३७.२०६ ॥ पाषण्डबहुले लोके कलावतिभयङ्करे । तन्नामकीर्तयेद्यस्तु तं विद्यात्कृतिनां वरम् ॥ ३७.२०७ ॥ तस्मात्सर्वप्रयत्नेन भक्त्या परमया युतः । समूर्ताराधनं कुर्यान्नान्यथा मुक्तिमाप्नुयात् ॥ ३७.२०८ ॥ नाथमाद्यैस्तु नवभिरध्यायैरीड्यते क्रमात् । भूपरीक्षादिकर्माणि विमानानां च कल्पनम् ॥ ३७.२०९ ॥ विविधानां च बेराणां निर्माणविधिविस्तरः । दशमे नांकुरारोपः पश्चाद्द्वाभ्यामुदीरितः ॥ ३७.२१० ॥ प्रतिष्ठा विधिरत्यन्त फलदो जगतः पतेः । पश्चाद्दशावताराणां चतुर्भिः प्रोच्यते विधिः ॥ ३७.२११ ॥ तथा सप्तदशे चोक्त आदिमूर्ति विधिस्ततः । अष्टादशेर्ऽचनं सांगमुक्तं मधुविदारिणः ॥ ३७.२१२ ॥ द्वाभ्यामुक्तस्ततो पूजाद्रव्य संग्रहण क्रमः । एकविंशे विशेषार्चाविधिस्सम्यगुदीरितः ॥ ३७.२१३ ॥ द्वाविंशेस्नपनं चोक्तं त्रयोविंशे विशेषतः । विधिरुत्सवचक्रस्य प्रोक्तो द्वाभ्यामथोत्सवः ॥ ३७.२१४ ॥ ततश्च षड्भिरध्यायैः प्रायश्चित्तस्य विस्तरः । प्रोक्तस्ततश्च द्वात्रिंशे संकीर्णंशा उदीरिताः ॥ ३७.२१५ ॥ अर्चावतारमहिमा त्रयस्त्रिंशे प्रकीर्तितः । स्वयंव्यक्तादिभेदश्च चतुस्त्रिंशे प्रकाशितः ॥ ३७.२१६ ॥ पञ्चत्रिंशे तु संप्रोक्तं क्रियायोगाश्रितं फलम् । षट्त्रिंशेत्वपचाराश्च कथिता देवकोपनाः ॥ ३७.२१७ ॥ कलिधर्माश्च संप्रोक्तास्सप्तत्रिंशे विशेषतः । सप्तत्रिंशद्भिरध्यायैरेवं गुरुकृपाबलात् ॥ ३७.२१८ ॥ षड्भिः सहस्रैः श्लोकैस्तु क्रियाङ्गमुपवर्णितम् ॥ ३७.२१९ ॥ इत्यार्षे श्रीवैखानसे भगवच्छास्त्रे भृगुप्रोक्तायां चतुर्विंशत्सहान्रिकायां सहितायां प्रकीर्णाधिकारे सप्तत्रिंशोऽध्यायः इति श्रीमति प्रकीर्णाधिकारे क्रियापादः. श्री विखनसमहागुरवे नमः श्रौतस्मार्तादिकं कर्म निखिलं येन सूत्रितं तस्मै समस्तवेदार्थविदे विखनसे नमः. जयत्यात्मेश्वरोस्नि द्रध्यान सौधप्रियातिथिः श्रीमत्पत्रपुरीवासः श्रीरामस्सीतया गृही. श्रीरामचन्द्राय नमः.