अष्टावक्रगीता जनक उवाच कथं ज्ञानमवाप्तोऽति कथं मुक्तिर्भविष्यति । वैराग्यं च कथं प्राप्तमेतद्ब्रूहि मम प्रभो ॥ १.१ ॥ अष्टावक्र उवाच मुक्तिमिच्छसि चेत्तात विषयान् विषवत्त्यज । क्षमार्जवदयातोषसत्यं पीयूषवद्भज ॥ १.२ ॥ न पृथ्वी न जलं नाग्निर्न वायुर्द्यौर्न वा भवान् । एषां साक्षिणमात्मानं चिद्रूपं विद्धि मुक्तये ॥ १.३ ॥ यदि देहं पृथक्कृत्य चिति विश्राम्य तिष्ठसि । अधुनैव सुखी शान्तो बन्धमुक्तो भविष्यसि ॥ १.४ ॥ न त्वं विप्रादिको वर्णो नाश्रमी नाक्षगोचरः । असङ्गोऽसि निराकारो विश्वसाक्षी सुखी भव ॥ १.५ ॥ धर्माधर्मौ सुखं दुःखं मानसानि न ते विभो । न कर्तासि न भोक्तासि मुक्त एवासि सर्वदा ॥ १.६ ॥ एको द्रष्टासि सर्वस्य मुक्तप्रायोऽसि सर्वदा । अयमेव हि ते बन्धो द्रष्टारं पश्यसीतरम् ॥ १.७ ॥ अहं कर्तेत्यहंमानमहाकृष्णाहिदंशितः । नाहं कर्तेति विश्वासामृतं पीत्वा सुखी भव ॥ १.८ ॥ एको विशुद्धबोधोऽहमिति निश्चयवह्निना । प्रज्वाल्याज्ञानगहनं वीतसोकः सुखी भव ॥ १.९ ॥ यत्र विश्वमिदं भाति कल्पितं रज्जुसर्पवत् । आनन्दपरमानन्दः स बोधस्त्वं सुखं चर ॥ १.१० ॥ मुक्ताभिमानी मुक्तो हि बद्धो बद्धाभिमान्यपि । किं वदन्तीह सत्येऽयं या मतिः सा गतिर्भवेत् ॥ १.११ ॥ आत्मा साक्षी विभुः पूर्ण एको मुक्तश्चिदक्रियः । असङ्गो निस्पृहः शान्तो भ्रमात्संसारवानिव ॥ १.१२ ॥ कूटस्थं बोधमद्वैतमात्मानं परिभावय । आभासोऽहं भ्रमं मुक्त्वा भावं बाह्यमथान्तरं ॥ १.१३ ॥ देहाभिमानपाशेन चिरं बद्धोऽसि पुत्रक । बोधोऽहं ज्ञानखड्गेन तन्निष्कृत्य सुखी भव ॥ १.१४ ॥ निःसङ्गो निष्क्रियोऽसि त्वं स्वप्रकाशो निरञ्जनः । अयमेव हि ते बन्धः समाधिमनुतिष्ठसि ॥ १.१५ ॥ त्वया व्याप्तमिदं विश्वं त्वयि प्रोतं यथार्थतः । शुद्द्धबुद्धस्वरूपस्त्वं, मा गमः क्षुद्रचित्तताम् ॥ १.१६ ॥ निरपेक्षो निर्विकारो निर्भरः शीतलाशयः । अगाधबुद्धिरक्षुब्धो भव चिन्मात्रवासनः ॥ १.१७ ॥ साकारमनृतं विद्धि निराकारं तु निश्चलम् । एतत्तत्त्वोपदेशेन न पुनर्भवसम्भवः ॥ १.१८ ॥ यथैवादर्शमध्यस्थे रूपेऽन्तः परितस्तु सः । तथैवास्मिन् शरीरेऽन्तः परितः परमेश्वरः ॥ १.१९ ॥ एकं सर्वगतं व्योम बहिरन्तर्यथा घटे । नित्यं निरन्तरं ब्रह्म सर्वभूतगणे तथा ॥ १.२० ॥ _______________________________________________________________________ जनक उवाच अहो निरञ्जनः शान्तो बोधोऽहं प्रकृतेः परः । एतावन्तमहं कालं मोहेनैव विडम्बितः ॥ २.१ ॥ यथा प्रकाशयाम्येको देहमेनं तथा जगत् । अतो मम जगत्सर्वमथवा न च किंचन ॥ २.२ ॥ सशरीरमहो विश्वं परित्यज्य मयाधुना । कुतश्चित्कौशलादेव परमात्मा विलोक्यते ॥ २.३ ॥ यथा न तोयतो भिन्नास्तरङ्गाः फेनबुद्बुदाः । आत्मनो न तथा भिन्नं विश्वमात्मविनिर्गतम् ॥ २.४ ॥ तन्तुमात्रो भवेदेव पटो यद्वद्विचारितः । आत्मतन्मत्रमेवेदं तद्वद्विश्वं विचारितम् ॥ २.५ ॥ यथैवेक्षुरसे कॢप्ता तेन व्याप्तैव शर्करा । तथा विश्वं मयि कॢप्तं मया व्याप्तं निरन्तरम् ॥ २.६ ॥ आत्माज्ञानाज्जगद्भाति आत्मज्ञानान्न भासते । रज्ज्वज्ञानादहिर्भाति तज्ज्ञानाद्भासते न हि ॥ २.७ ॥ प्रकाशो मे निजं रूपं नातिरिक्तोऽस्म्यहं ततः । यदा प्रकाशते विश्वं तदाहं भास एव हि ॥ २.८ ॥ अहो विकल्पितं विश्वमज्ञानान्मयि भासते । रूप्यं शुक्तौ फणी रज्जौ वारि सूर्यकरे यथा ॥ २.९ ॥ मत्तो विनिर्गतं विश्वं मय्येव लयमेष्यति । मृदि कुम्भो जले वीचिः कनके कटकं यथा ॥ २.१० ॥ अहो अहं नमो मह्यं, विनाशो यस्य नास्ति मे । ब्रह्मादिस्तम्बपर्यन्तं जगन्नाशेऽपि तिष्ठतः ॥ २.११ ॥ अहो अहं नमो मह्यमेकोऽहं देहवानपि । क्वचिन्न गन्ता नागन्ता व्याप्य विश्वमवस्थितः ॥ २.१२ ॥ अहो अहं नमो मह्यं दक्षो नास्तीह मत्समः । असंस्पृश्य शरीरेण येन विश्वं चिरं धृतम् ॥ २.१३ ॥ अहो अहं नमो मह्यं यस्य मे नास्ति किंचन । अथवा यस्य मे सर्वं यद्वाङ्मनसगोचरम् ॥ २.१४ ॥ ज्ञानं ज्ञेयं तथा ज्ञाता त्रितयं नास्ति वास्तवम् । अज्ञानाद्भाति यत्रेदं सोऽहमस्मि निरञ्जनः ॥ २.१५ ॥ द्वैतमूलमहो दुःखं नान्यत्तस्यास्ति भेषजम् । दृश्यमेतन्मृषा सर्वमेकोऽहं चिद्रसोऽमलः ॥ २.१६ ॥ बोधमात्रोऽहमज्ञानादुपधिः कल्पितो मया । एवं विमृशतो नित्यं निर्विकल्पे स्थितिर्मम ॥ २.१७ ॥ न मे बन्धोऽस्ति मोक्षो वा भ्रान्तिः शान्ता निराश्रया । अहो मयि स्थितं विश्वं वस्तुतो न मयि स्थितम् ॥ २.१८ ॥ सशरीरमिदं विश्वं न किंचिदिति निश्चितम् । शुद्धचिन्मात्र आत्मा च तत्कस्मिन् कल्पनाधुना ॥ २.१९ ॥ शरीरं स्वर्गनरकौ बन्धमोक्षौ भयं तथा । कल्पनामात्रमेवैतत्किं मे कार्यं चिदात्मनः ॥ २.२० ॥ अहो जनसमूहेऽपि न द्वैतं पश्यतो मम । अरण्यमिव संवृत्तं क्व रतिं करवाण्यहम् ॥ २.२१ ॥ नाहं देहो न मे देहो जीवो नाहम्, अहं हि चित् । अयमेव हि मे बन्ध आसीत्या जीविते स्पृहा ॥ २.२२ ॥ अहो भुवनकल्लोलैर्विचित्रैर्द्राक्समुत्थितम् । मय्यनन्तमहाम्भोधौ चित्तवाते समुद्यते ॥ २.२३ ॥ मय्यनन्तमहाम्भोधौ चित्तवाते प्रशाम्यति । अभाग्याज्जीववणिजो जगत्पोतो विनश्वरः ॥ २.२४ ॥ मय्यनन्तमहाम्भोधवाश्चर्यं जीववीचयः । उद्यन्ति घ्नन्ति खेलन्ति प्रविशन्ति स्वभावतः ॥ २.२५ ॥ _______________________________________________________________________ अष्टावक्र उवाच अविनाशिनमात्मानमेकं विज्ञाय तत्त्वतः । तवात्मज्ञस्य धीरस्य कथमर्थार्जने रतिः ॥ ३.१ ॥ आत्माज्ञानादहो प्रीतिर्विषयभ्रमगोचरे । शुक्तेरज्ञानतो लोभो यथा रजतविभ्रमे ॥ ३.२ ॥ विश्वं स्फुरति यत्रेदं तरङ्गा इव सागरे । सोऽहमस्मीति विज्ञाय, किं दीन इव धावसि ॥ ३.३ ॥ श्रुत्वापि शुद्धचैतन्यमात्मानमतिसुन्दरम् । उपस्थेत्यन्तसंसक्तो मालिन्यमधिगच्छति ॥ ३.४ ॥ सर्वभूतेषु चात्मानं सर्वभूतानि चात्मनि । मुनेर्जानत आश्चर्यं ममत्वमनुवर्तते ॥ ३.५ ॥ आस्थितः परमाद्वैतं मोक्षार्थेऽपि व्यवस्थितः । आश्चर्यं कामवशगो विकलः केलिशिक्षया ॥ ३.६ ॥ उद्भूतं ज्ञानदुर्मित्रमवधार्यातिदुर्बलः । आश्चर्यं काममाकाङ्क्षेत्कालमन्तमनुश्रितः ॥ ३.७ ॥ इहामुत्र विरक्तस्य नित्यानित्यविवेकिनः । आश्चर्यं मोक्षकामस्य मोक्षादेव विभीषिका ॥ ३.८ ॥ धीरस्तु भोज्यमानोऽपि पीड्यमानोऽपि सर्वदा । आत्मानं केवलं पश्यन्न तुष्यति न कुप्यति ॥ ३.९ ॥ चेष्टमानं शरीरं स्वं पश्यत्यन्यशरीरवत् । संस्तवे चापि निन्दायां कथं क्षुभ्येत्महाशयः ॥ ३.१० ॥ मायामात्रमिदं विश्वं पश्यन् विगतकौतुकः । अपि सन्निहिते मृत्यौ कथं त्रस्यति धीरधीः ॥ ३.११ ॥ निःस्पृहं मानसं यस्य नैराश्येऽपि महात्मनः । तस्यात्मज्ञानतृप्तस्य तुलना केन जायते ॥ ३.१२ ॥ स्वभावादेव जानानो दृश्यमेतन्न किंचन । इदं ग्राह्यमिदं त्याज्यं स किं पश्यति धीरधीः ॥ ३.१३ ॥ अन्तस्त्यक्तकषायस्य निर्द्वन्द्वस्य निराशिषः । यद्ऋच्छय्आगतो भोगो न दुःखाय न तुष्टये ॥ ३.१४ ॥ _______________________________________________________________________ अष्टावक्र उवाच हन्तात्मज्ञस्य धीरस्य खेलतो भोगलीलया । न हि संसारवाहीकैर्मूडैः सह समानता ॥ ४.१ ॥ यत्पदं प्रेप्सवो दीनाः शक्राद्याः सर्वदेवताः । अहो तत्र स्थितो योगी न हर्षमुपगच्छति ॥ ४.२ ॥ तज्ज्ञस्य पुण्यपापाभ्यां स्पर्शो ह्यन्तर्न जायते । न ह्याकाशस्य धूमेन दृश्यमानापि सङ्गति ॥ ४.३ ॥ आत्मैवेदं जगत्सर्वं ज्ञातं येन महात्मना । यद्ऋच्छया वर्त्तमानं तं निषेद्धुं क्षमेत कः ॥ ४.४ ॥ आब्रह्मस्तम्बपर्यन्ते भूतग्रामे चतुर्विधे । विज्ञस्यैव हि सामर्थ्यमिच्छानिच्छाविवर्जने ॥ ४.५ ॥ आत्मानमद्वयं कश्चिज्जानाति जगदीश्वरं । यद्वेत्ति तत्स कुरुते न भयं तस्य कुत्रचित् ॥ ४.६ ॥ _______________________________________________________________________ अष्टावक्र उवाच न ते सङ्गोऽस्ति केनापि किं शुद्धस्त्यक्तुमिच्छसि । सङ्घातविलयं कुर्वन्नेवमेव लयं व्रज ॥ ५.१ ॥ उदेति भवतो विश्वं वारिधेरिव बुद्बुदः । इति ज्ञत्वैकमात्मानमेवमेव लयं व्रज ॥ ५.२ ॥ प्रत्यक्षमप्यवस्तुत्वाद्विश्वं नास्त्यमले त्वयि । रज्जुसर्प इव व्यक्तमेवमेव लयं व्रज ॥ ५.३ ॥ समदुःखसुखः पूर्ण आशानैराश्ययोः समः । समजीवितमृत्युः सन्नेवमेव लयं व्रज ॥ ५.४ ॥ _______________________________________________________________________ अष्टावक्र उवाच आकाशवदनन्तोऽहं घटवत्प्रकृतं जगत् । इति ज्ञानं तथैतस्य न त्यागो न ग्रहो लयः ॥ ६.१ ॥ महोदधिरिवाहं स प्रपञ्चो वीचिसंनिभः । इति ज्ञानं तथैतस्य न त्यागो न ग्रहो लयः ॥ ६.२ ॥ अहं स शुक्तिसङ्काशो रूप्यवद्विश्वकल्पना । इति ज्ञानं तथैतस्य न त्यागो न ग्रहो लयः ॥ ६.३ ॥ अहं वा सर्वभूतेषु सर्वभूतान्यथो मयि । इति ज्ञानं तथैतस्य न त्यागो न ग्रहो लयः ॥ ६.४ ॥ _______________________________________________________________________ जनक उवाच मय्यनन्तमहाम्भोधौ विश्वपोत इतस्ततः । भ्रमति स्वान्तवातेन न ममास्त्यसहिष्णुता ॥ ७.१ ॥ मय्यनन्तमहाम्भोधौ जगद्वीचिः स्वभावतः । उदेतु वस्तमायातु न मे वृद्धिर्न च क्षतिः ॥ ७.२ ॥ मय्यनन्तमहाम्भोधौ विश्वं नाम विकल्पना । अतिशान्तो निराकार एतदेवाहमास्थितः ॥ ७.३ ॥ नात्मा भावेषु नो भावस्तत्रानन्ते निरन्जने । इत्यसक्तोऽस्पृहः शान्त एतदेवाहमास्तितः ॥ ७.४ ॥ अहो चिन्मात्रमेवाहमिन्द्रजालोपमं जगत् । अतो मम कथं कुत्र हेयोपादेयकल्पना ॥ ७.५ ॥ _______________________________________________________________________ अष्टावक्र उवाच तदा बन्धो यदा चित्तं किंचिद्वाञ्छति षोचति । किंचिन्मुञ्चति गृह्णाति किंचिद्धृष्यति कुप्यति ॥ ८.१ ॥ तदा मुक्तिर्यदा चित्तं न वाञ्छति न शोचति । न मुञ्चति न गृह्णाति न हृष्यति न कुप्यति ॥ ८.२ ॥ तदा बन्धो यदा चित्तं सक्तं कास्वपि दृष्टिषु । तदा मोक्षो यदा चित्तमसक्तं सर्वदृष्टिषु ॥ ८.३ ॥ यदा नाहं तदा मोक्षो यदाहं बन्धनं तदा । मत्वेति हेलया किंचित्मा गृहाण विमुञ्च मा ॥ ८.४ ॥ _______________________________________________________________________ अष्टावक्र उवाच कृताकृते च द्वन्द्वानि कदा शान्तानि कस्य वा । एवं ज्ञात्वेह निर्वेदाद्भव त्यागपरोऽव्रती ॥ ९.१ ॥ कस्यापि तात धन्यस्य लोकचेष्टावलोकनात् । जीवितेच्छा बुभुक्षा च बुभुत्सोपशमः गताः ॥ ९.२ ॥ अनित्यं सर्वमेवेदं तापत्रितयदूषितम् । असारं निन्दितं हेयमिति निश्चित्य शाम्यति ॥ ९.३ ॥ कोऽसौ कालो वयः किं वा यत्र द्वन्द्वानि नो नृणाम् । तान्युपेक्ष्य यथाप्राप्तवर्ती सिद्धिमवाप्नुयात् ॥ ९.४ ॥ नाना मतं महर्षीषां साधूनां योगिनां तथा । दृष्ट्वा निर्वेदमापन्नः को न शाम्यति मानवः ॥ ९.५ ॥ कृत्वा मूर्तिपरिज्ञानं चैतन्यस्य न किं गुरुः । निर्वेदसमतायुक्त्या यस्तारयति संसृतेः ॥ ९.६ ॥ पश्य भूतविकारांस्त्वं भूतमात्रान् यथार्थतः । तत्क्षणाद्बन्धनिर्मुक्तः स्वरूपस्थो भविष्यसि ॥ ९.७ ॥ वासना एव संसार इति सर्वा विमुञ्च ताः । तत्त्यागो वासनात्यागात्स्थितिरद्य यथा तथा ॥ ९.८ ॥ _______________________________________________________________________ अष्टावक्र उवाच विहाय वैरिणं काममर्थं चानर्थसङ्कुलम् । धर्ममप्येतयोर्हेतुं सर्वत्रानादरं कुरु ॥ १०.१ ॥ स्वप्नेन्द्रजालवत्पश्य दिनानि त्रीणि पञ्च वा । मित्रक्षेत्रधनागारदारदायादिसम्पदः ॥ १०.२ ॥ यत्र यत्र भवेत्तृष्णा, संसारं विद्धि तत्र वै । प्रौढवैराग्यमाश्रित्य वीततृष्णः सुखी भव ॥ १०.३ ॥ तृष्णामात्रात्मको बन्धस्, तन्नाशो मोक्ष उच्यते । भवासंसक्तिमात्रेण प्राप्तितुष्टिर्मुहुर्मुहुः ॥ १०.४ ॥ त्वमेकश्चेतनः शुद्धो जडं विश्वमसत्तथा । अविद्यापि न किंचित्सा का बुभुत्सा तथापि ते ॥ १०.५ ॥ राज्यं सुताः कलत्राणि शरीराणि सुखानि च । संसक्तस्यापि नष्टानि तव जन्मनि जन्मनि ॥ १०.६ ॥ अलमर्थेन कामेन सुकृतेनापि कर्मणा । एभ्यः संसारकान्तारे न विश्रान्तमभून्मनः ॥ १०.७ ॥ कृतं न कति जन्मानि कायेन मनसा गिरा । दुःखमायासदं कर्म तदद्याप्युपरम्यताम् ॥ १०.८ ॥ _______________________________________________________________________ अष्टावक्र उवाच भावाभावविकारश्च स्वभावादिति निश्चयी । निर्विकारो गतक्लेशः सुखेनैवोपशाम्यति ॥ ११.१ ॥ ईश्वरः सर्वनिर्माता नेहान्य इति निश्चयी । अन्तर्गलितसर्वाशः शान्तः क्वापि न सज्जते ॥ ११.२ ॥ आपदः सम्पदः काले दैवादेवेति निश्चयी । तृप्तः स्वस्थेन्द्रियो नित्यं न वाञ्छति न शोचति ॥ ११.३ ॥ सुखदुःखे जन्ममृत्यू दैवादेवेति निश्चयी । साध्यादर्शी निरायासः कुर्वन्नपि न लिप्यते ॥ ११.४ ॥ चिन्तया जायते दुःखं नान्यथेहेति निश्चयी । तया हीनः सुखी शान्तः सर्वत्र गलितस्पृहः ॥ ११.५ ॥ नाहं देहो न मे देहो बोधोऽहमिति निश्चयी । कैवल्यमिव संप्राप्तो न स्मरत्यकृतं कृतम् ॥ ११.६ ॥ आब्रह्मस्तम्बपर्यन्तमहमेवेति निश्चयी । निर्विकल्पः शुचिः शान्तः प्राप्ताप्राप्तविनिर्वृतः ॥ ११.७ ॥ नानाश्चर्यमिदं विश्वं न किंचिदिति निश्चयी । निर्वासनः स्फूर्तिमात्रो न किंचिदिव शाम्यति ॥ ११.८ ॥ _______________________________________________________________________ जनक उवाच कायकृत्य्आसहः पूर्वं ततो वाग्विस्तरासहः । अथ चिन्तासहस्तस्मादेवमेवाहमास्थितः ॥ १२.१ ॥ प्रीत्य्अभावेन शब्दादेरदृश्यत्वेन चात्मनः । विक्षेपैकाग्रहृदय एवमेवाहमास्थितः ॥ १२.२ ॥ सम्आध्यास्आदिविक्षिप्तौ व्यवहारः समाधये । एवं विलोक्य नियममेवमेवाहमास्थितः ॥ १२.३ ??? ॥ हेयोपादेयविरहादेवं हर्षविषादयोः । अभावादद्य हे ब्रह्मन्नेवमेवाहमास्थितः ॥ १२.४ ॥ आश्रमानाश्रमं ध्यानं चित्तस्वीकृतवर्जनम् । विकल्पं मम वीक्ष्यैतैरेवमेवाहमास्थितः ॥ १२.५ ॥ कर्मानुष्ठानमज्ञानाद्यथैवोपरमस्तथा । बुद्ध्वा संयगिदं तत्त्वमेवमेवाहमास्थितः ॥ १२.६ ॥ अचिन्त्यं चिन्त्यमानोऽपि चिन्तारूपं भजत्यसौ । त्यक्त्वा तद्भावनं तस्मादेवमेवाहमास्थितः ॥ १२.७ ॥ एवमेव कृतं येन स कृतार्थो भवेदसौ । एवमेव स्वभावो यः स कृतार्थो भवेदसौ ॥ १२.८ ॥ _______________________________________________________________________ जनक उवाच अकिंचनभवं स्वास्थ्यं कौपीनत्वेऽपि दुर्लभम् । त्यागादाने विहायास्मादहमासे यथासुखम् ॥ १३.१ ॥ कुत्रापि खेदः कायस्य, जिह्वा कुत्रापि खिद्यते । मनः कुत्रापि तत्त्यक्त्वा पुरुषार्थे स्थितः सुखम् ॥ १३.२ ॥ कृतं किमपि नैव स्यादिति सञ्चिन्त्य तत्त्वतः । यदा यत्कर्तुमायाति तत्कृत्वासे यथासुखम् ॥ १३.३ ॥ कर्मनैष्कर्म्यनिर्बन्धभावा देहस्थयोगिनः । संयोगायोगविरहादहमासे यथासुखम् ॥ १३.४ ॥ अर्थानर्थौ न मे स्थित्या गत्या न शयनेन वा । तिष्ठन् गच्छन् स्वपन् तस्मादहमासे यथासुखम् ॥ १३.५ ॥ स्वपतो नास्ति मे हानिः सिद्धिर्यत्नवतो न वा । नाशोल्लासौ विहायास्मादहमासे यथासुखम् ॥ १३.६ ॥ सुखादिरूपा नियमं भावेष्वालोक्य भूरिशः । शुभाशुभे विहायास्मादहमासे यथासुखम् ॥ १३.७ ॥ _______________________________________________________________________ जनक उवाच प्रकृत्या शून्यचित्तो यः प्रमादाद्भावभावनः । निद्रितो बोधित इव क्षीणसंस्मरणो हि सः ॥ १४.१ ॥ क्व धनानि क्व मित्राणि क्व मे विषयदस्यवः । क्व शास्त्रं क्व च विज्ञानं यदा मे गलिता स्पृहा ॥ १४.२ ॥ विज्ञाते साक्षिपुरुषे परमात्मनि चेश्वरे । नैराश्ये बन्धमोक्षे च न चिन्ता मुक्तये मम ॥ १४.३ ॥ अन्तर्विकल्पशून्यस्य बहिः स्वच्छन्दचारिणः । भ्रान्तस्येव दशास्तास्तास्तादृशा एव जानते ॥ १४.४ ॥ _______________________________________________________________________ अष्टावक्र उवाच यथातथोपदेशेन कृतार्थः सत्त्वबुद्धिमान् । आजीवमपि जिज्ञासुः परस्तत्र विमुह्यति ॥ १५.१ ॥ मोक्षो विषयवैरस्यं बन्धो वैषयिको रसः । एतावदेव विज्ञानं यथेच्छसि तथा कुरु ॥ १५.२ ॥ वाग्मिप्राज्ञमहोद्योगं जनं मूकजडालसम् । करोति तत्त्वबोधोऽयमतस्त्यक्तो बुभुक्षुभिः ॥ १५.३ ॥ न त्वं देहो न ते देहो भोक्ता कर्ता न वा भवान् । चिद्रूपोऽसि सदा साक्षी निरपेक्षः सुखं चर ॥ १५.४ ॥ रागद्वेषौ मनोधर्मौ न मनस्ते कदाचन । निर्विकल्पोऽसि बोधात्मा निर्विकारः सुखं चर ॥ १५.५ ॥ सर्वभूतेषु चात्मानं सर्वभूतानि चात्मनि । विज्ञाय निरहंकारो निर्ममस्त्वं सुखी भव ॥ १५.६ ॥ विष्वं स्फुरति यत्रेदं तरङ्गा इव सागरे । तत्त्वमेव न सन्देहश्चिन्मूर्ते विज्वरो भव ॥ १५.७ ॥ श्रद्धत्स्व तात श्रद्धत्स्व नात्र मोहं कुरुष्व भोः । ज्ञानस्वरूपो भगवानात्मा त्वं प्रकृतेः परः ॥ १५.८ ॥ गुणैः संवेष्टितो देहस्तिष्ठत्यायाति याति च । आत्मा न गन्ता नागन्ता किमेनमनुशोचसि ॥ १५.९ ॥ देहस्तिष्ठतु कल्पान्तं गच्छत्वद्यैव वा पुनः । क्व वृद्धिः क्व च वा हानिस्तव चिन्मात्ररूपिणः ॥ १५.१० ॥ त्वय्यनन्तमहाम्भोधौ विश्ववीचिः स्वभावतः । उदेतु वास्तमायातु न ते वृद्धिर्न वा क्षतिः ॥ १५.११ ॥ तात चिन्मात्ररूपोऽसि न ते भिन्नमिदं जगत् । अतः कस्य कथं कुत्र हेयोपादेयकल्पना ॥ १५.१२ ॥ एकस्मिन्नव्यये शान्ते चिद्आकाशेऽमले त्वयि । कुतो जन्म कुतः कर्म कुतोऽहंकार एव च ॥ १५.१३ ॥ यत्त्वं पश्यसि तत्रैकस्त्वमेव प्रतिभाससे । किं पृथक्भासते स्वर्णात्कटकाङ्गदनूपुरम् ॥ १५.१४ ॥ अयं सोऽहमयं नाहं विभागमिति सन्त्यज । सर्वमात्मेति निश्चित्य निःसङ्कल्पः सुखी भव ॥ १५.१५ ॥ तवैवाज्ञानतो विश्वं त्वमेकः परम्आर्थतः । त्वत्तोऽन्यो नास्ति संसारी नासंसारी च कश्चन ॥ १५.१६ ॥ भ्रान्तिमात्रमिदं विश्वं न किंचिदिति निश्चयी । निर्वासनः स्फूर्तिमात्रो न किंचिदिव शाम्यति ॥ १५.१७ ॥ एक एव भवाम्भोधावासीदस्ति भविष्यति । न ते बन्धोऽस्ति मोक्षो वा कृतकृत्यः सुखं चर ॥ १५.१८ ॥ मा सङ्कल्पविकल्पाभ्यां चित्तं क्षोभय चिन्मय । उपशाम्य सुखं तिष्ठ स्वात्मन्यानन्दविग्रहे ॥ १५.१९ ॥ त्यजैव ध्यानं सर्वत्र मा किंचिद्धृदि धारय । आत्मा त्वं मुक्त एवासि किं विमृश्य करिष्यसि ॥ १५.२० ॥ _______________________________________________________________________ अष्टावक्र उवाच आचक्ष्व शृणु वा तात नानाशास्त्राण्य्अनेकशः । तथापि न तव स्वास्थ्यं सर्वविस्मरणादृते ॥ १६.१ ॥ भोगं कर्म समाधिं वा कुरु विज्ञ तथापि ते । चित्तं निरस्तसर्वाशमत्यर्थं रोचयिष्यति ॥ १६.२ ॥ आयासात्सकलो दुःखी नैनं जानाति कश्चन । अनेनैवोपदेशेन धन्यः प्राप्नोति निर्वृतिम् ॥ १६.३ ॥ व्यापारे खिद्यते यस्तु निमेषोन्मेषयोरपि । तस्यालस्यधुरीणस्य सुखं नान्यस्य कस्यचित् ॥ १६.४ ॥ इदं कृतमिदं नेति द्वन्द्वैर्मुक्तं यदा मनः । धर्मार्थकाममोक्षेषु निरपेक्षं तदा भवेत् ॥ १६.५ ॥ विरक्तो विषयद्वेष्टा रागी विषयलोलुपः । ग्रहमोक्षविहीनस्तु न विरक्तो न रागवान् ॥ १६.६ ॥ हेयोपादेयता तावत्संसारविटपाङ्कुरः । स्पृहा जीवति यावद्वै निर्विचारदशास्पदम् ॥ १६.७ ॥ प्रवृत्तौ जायते रागो निर्वृत्तौ द्वेष एव हि । निर्द्वन्द्वो बालवद्धीमानेवमेव व्यवस्थितः ॥ १६.८ ॥ हातुमिच्छति संसारं रागी दुःखजिहासया । वीतरागो हि निर्दुःखस्तस्मिन्नपि न खिद्यति ॥ १६.९ ॥ यस्याभिमानो मोक्षेऽपि देहेऽपि ममता तथा । न च ज्ञानी न वा योगी केवलं दुःखभागसौ ॥ १६.१० ॥ हरो यद्युपदेष्टा ते हरिः कमलजोऽपि वा । तथापि न तव स्वास्थ्यं सर्वविस्मरणादृते ॥ १६.११ ॥ _______________________________________________________________________ अष्टावक्र उवाच तेन ज्ञानफलं प्राप्तं योगाभ्यासफलं तथा । तृप्तः स्वच्छेन्द्रियो नित्यमेकाकी रमते तु यः ॥ १७.१ ॥ न कदाचिज्जगत्यस्मिंस्तत्त्वज्ञो हन्त खिद्यति । यत एकेन तेनेदं पूर्णं ब्रह्माण्डमण्डलम् ॥ १७.२ ॥ न जातु विषयाः केऽपि स्वारामं हर्षयन्त्यमी । सल्लकीपल्लवप्रीतमिवेभं निम्बपल्लवाः ॥ १७.३ ॥ यस्तु भोगेषु भुक्तेषु न भवत्यधिवासितः । अभुक्तेषु निराकाङ्क्षी तादृशो भवदुर्लभः ॥ १७.४ ॥ बुभुक्षुरिह संसारे मुमुक्षुरपि दृश्यते । भोगमोक्षनिराकाङ्क्षी विरलो हि महाशायः ॥ १७.५ ॥ धर्मार्थकाममोक्षेषु जीविते मरणे तथा । कस्याप्युदारचित्तस्य हेयोपादेयता न हि ॥ १७.६ ॥ वाञ्छा न विश्वविलये न द्वेषस्तस्य च स्थितौ । यथा जीविकया तस्माद्धन्य आस्ते यथा सुखं ॥ १७.७ ॥ कृतार्थोऽनेन ज्ञानेनेत्येवं गलितधीः कृती । पश्यन् शृण्वन् स्पृशन् जिघ्रन्नश्नन्नस्ते यथा सुखं ॥ १७.८ ॥ शून्या दृष्टिर्वृथा चेष्टा विकलानीन्द्रियाणि च । न स्पृहा न विरक्तिर्वा क्षीणसंसारसागरे ॥ १७.९ ॥ न जगर्ति न निद्राति नोन्मीलति न मीलति । अहो परदशा क्वापि वर्तते मुक्तचेतसः ॥ १७.१० ॥ सर्वत्र दृश्यते स्वस्थः सर्वत्र विमलाशयः । समस्तवासना मुक्तो मुक्तः सर्वत्र राजते ॥ १७.११ ॥ पश्यन् शृण्वन् स्पृशन् जिघ्रन्नश्नन् गृह्णन् वदन्व्रजन् । ईहितानीहितैर्मुक्तो मुक्त एव महाशयः ॥ १७.१२ ॥ न निन्दति न च स्तौति न हृष्यति न कुप्यति । न ददाति न गृह्णाति मुक्तः सर्वत्र नीरसः ॥ १७.१३ ॥ सानुरागां स्त्रियं दृष्ट्वा मृत्युं वा समुपस्थितम् । अविह्वलमनाः स्वस्थो मुक्त एव महाशयः ॥ १७.१४ ॥ सुखे दुःखे नरे नार्यां संपत्सु च विपत्सु च । विशेषो नैव धीरस्य सर्वत्र समदर्शिनः ॥ १७.१५ ॥ न हिंसा नैव कारुण्यं नौद्धत्यं न च दीनता । नाश्चर्यं नैव च क्षोभः क्षीणसंसरणे नरे ॥ १७.१६ ॥ न मुक्तो विषयद्वेष्टा न वा विषयलोलुपः । असंसक्तमना नित्यं प्राप्ताप्राप्तमुपाश्नुते ॥ १७.१७ ॥ समाधानासमाधानहिताहितविकल्पनाः । शून्यचित्तो न जानाति कैवल्यमिव संस्थितः ॥ १७.१८ ॥ निर्ममो निरहंकारो न किंचिदिति निश्चितः । अन्तर्गलितसर्वाशः कुर्वन्नपि करोति न ॥ १७.१९ ॥ मनःप्रकाशसम्मोहस्वप्नजाड्यविवर्जितः । दशां कामपि संप्राप्तो भवेद्गलितमानसः ॥ १७.२० ॥ _______________________________________________________________________ अष्टावक्र उवाच यस्य बोधोदये तावत्स्वप्नवद्भवति भ्रमः । तस्मै सुखैकरूपाय नमः शान्ताय तेजसे ॥ १८.१ ॥ अर्जयित्वाखिलानर्थान् भोगानाप्नोति पुष्कलान् । न हि सर्वपरित्यागमन्तरेण सुखी भवेत् ॥ १८.२ ॥ कर्तव्यदुःखमार्तण्डज्वालादग्धान्तरात्मनः । कुतः प्रशमपीयूषधारासारमृते सुखम् ॥ १८.३ ॥ भवोऽयं भावनामात्रो न किंचित्परम्अर्थतः । नास्त्यभावः स्वभावनां भावाभावविभाविनाम् ॥ १८.४ ॥ न दूरं न च सङ्कोचाल्लब्धमेवात्मनः पदम् । निर्विकल्पं निरायासं निर्विकारं निरञ्जनम् ॥ १८.५ ॥ व्यामोहमात्रविरतौ स्वरूपादानमात्रतः । वीतशोका विराजन्ते निरावरणदृष्टयः ॥ १८.६ ॥ समस्तं कल्पनामात्रमात्मा मुक्तः सनातनः । इति विज्ञाय धीरो हि किमभ्यस्यति बालवत् ॥ १८.७ ॥ आत्मा ब्रह्मेति निश्चित्य भावाभावौ च कल्पितौ । निष्कामः किं विजानाति किं ब्रूते च करोति किं ॥ १८.८ ॥ अयं सोऽहमयं नाहमिति क्षीणा विकल्पनाः । सर्वमात्मेति निश्चित्य तूष्णीभूतस्य योगिनः ॥ १८.९ ॥ न विक्षेपो न चैकाग्र्यं नातिबोधो न मूढता । न सुखं न च वा दुःखमुपशान्तस्य योगिनः ॥ १८.१० ॥ स्वाराज्ये भैक्षवृत्तौ च लाभालाभे जने वने । निर्विकल्पस्वभावस्य न विषेसोऽस्ति योगिनः ॥ १८.११ ॥ क्व धर्मः क्व च वा कामः क्व चार्थः क्व विवेकिता । इदं कृतमिदं नेति द्वन्द्वैर्मुक्तस्य योगिनः ॥ १८.१२ ॥ कृत्यं किमपि नैवास्ति न कापि हृदि रञ्जना । यथाजीवनमेवेह जीवन्मुक्तस्य योगिनः ॥ १८.१३ ॥ क्व मोहः क्व च वा विश्वं क्व तद्ध्यानं क्व मुक्तता । सर्वसङ्कल्पसीमायां विश्रान्तस्य महात्मनः ॥ १८.१४ ॥ येन विश्वमिदं दृष्टं स नास्तीति करोतु वै । निर्वासनः किं कुरुते पश्यन्नपि न पश्यति ॥ १८.१५ ॥ येन दृष्टं परं ब्रह्म सोऽहं ब्रह्मेति चिन्तयेत् । किं चिन्तयति निश्चिन्तो द्वितीयं यो न पश्यति ॥ १८.१६ ॥ दृष्टो येनात्मविक्षेपो निरोधं कुरुते त्वसौ । उदारस्तु न विक्षिप्तः साध्याभावात्करोति किम् ॥ १८.१७ ॥ धीरो लोकविपर्यस्तो वर्त्तमानोऽपि लोकवत् । न समाधिं न विक्षेपं न लेपं स्वस्य पश्यति ॥ १८.१८ ॥ भावाभावविहीनो यस्तृप्तो निर्वासनो बुधः । नैव किंचित्कृतं तेन लोकदृष्ट्या विकुर्वता ॥ १८.१९ ॥ प्रवृत्तौ वा निर्वृत्तौ वा नैव धीरस्य दुर्ग्रहः । यदा यत्कर्तुमायाति तत्कृत्वा तिष्ठतः सुखम् ॥ १८.२० ॥ निर्वासनो निरालम्बः स्वच्छन्दो मुक्तबन्धनः । क्षिप्तः संस्कारवातेन चेष्टते शुष्कपर्णवत् ॥ १८.२१ ॥ असंसारस्य तु क्वापि न हर्षो न विषादिता । स शीतलमना नित्यं विदेह इव राजते ॥ १८.२२ ॥ कुत्रापि न जिहासास्ति नाशो वापि न कुत्रचित् । आत्मारामस्य धीरस्य शीतलाच्छतरात्मनः ॥ १८.२३ ॥ प्रकृत्या शून्यचित्तस्य कुर्वतोऽस्य यद्ऋच्छया । प्राकृतस्येव धीरस्य न मानो नावमानता ॥ १८.२४ ॥ कृतं देहेन कर्मेदं न मया शुद्धरूपिणा । इति चिन्तानुरोधी यः कुर्वन्नपि करोति न ॥ १८.२५ ॥ अतद्वादीव कुरुते न भवेदपि बालिशः । जीवन्मुक्तः सुखी श्रीमान् संसरन्नपि शोभते ॥ १८.२६ ॥ नानाविचारसुश्रान्तो धीरो विश्रान्तिमागतः । न कल्पते न जानाति न शृणोति न पश्यति ॥ १८.२७ ॥ असमाधेरविक्षेपान्न मुमुक्षुर्न चेतरः । निश्चित्य कल्पितं पश्यन् ब्रह्मैवास्ते महाशयः ॥ १८.२८ ॥ यस्यान्तः स्यादहङ्कारो न करोति करोति सः । निरहङ्कारधीरेण न किंचिदकृतं कृतम् ॥ १८.२९ ॥ नोद्विग्नं न च सन्तुष्टमकर्तृ स्पन्दवर्जितम् । निराशं गतसन्देहं चित्तं मुक्तस्य राजते ॥ १८.३० ॥ निर्ध्यातुं चेष्टितुं वापि यच्चित्तं न प्रवर्त्तते । निर्निमित्तमिदं किन् तु निर्ध्यायति विचेष्टते ॥ १८.३१ ॥ तत्त्वं यथार्थमाकर्ण्य मन्दः प्राप्नोति मूढताम् । अथ वायाति सङ्कोचममूढः कोऽपि मूढवत् ॥ १८.३२ ॥ एकाग्रता निरोधो वा मूढैरभ्यस्यते भृशम् । धीराः कृत्यं न पश्यन्ति सुप्तवत्स्वपदे स्थिताः ॥ १८.३३ ॥ अप्रयत्नात्प्रयत्नाद्वा मूढो नाप्नोति निर्वृतिम् । तत्त्वनिश्चयमात्रेण प्राज्ञो भवति निर्वृतः ॥ १८.३४ ॥ शुद्धं बुद्धं प्रियं पूर्णं निष्प्रपञ्चं निरामयम् । आत्मानं तं न जानन्ति तत्राभ्यासपरा जनाः ॥ १८.३५ ॥ नाप्नोति कर्मणा मोक्षं विमूढोऽभ्यासरूपिणा । धन्यो विज्ञानमात्रेण मुक्तस्तिष्ठत्यविक्रियः ॥ १८.३६ ॥ मूढो नाप्नोति तद्ब्रह्म यतो भवितुमिच्छति । अनिच्छन्नपि धीरो हि परब्रह्मस्वरूपभाक् ॥ १८.३७ ॥ निराधारा ग्रहव्यग्रा मूढाः संसारपोषकाः । एतस्यानर्थमूलस्य मूलच्छेदः कृतो बुधैः ॥ १८.३८ ॥ न शान्तिं लभते मूढो यतः शमितुमिच्छति । धीरस्तत्त्वं विनिश्चित्य सर्वदा शान्तमानसः ॥ १८.३९ ॥ क्वात्मनो दर्शनं तस्य यद्दृष्टमवलम्बते । धीरास्तं तं न पश्यन्ति पश्यन्त्यात्मानमव्ययम् ॥ १८.४० ॥ क्व निरोधो विमूढस्य यो निर्बन्धं करोति वै । स्वारामस्यैव धीरस्य सर्वदासावकृत्रिमः ॥ १८.४१ ॥ भावस्य भावकः कश्चिन्न किंचिद्भावकोऽपरः । उभयाभावकः कश्चिदेवमेव निराकुलः ॥ १८.४२ ॥ शुद्धमद्वयमात्मानं भावयन्ति कुबुद्धयः । न तु जानन्ति संमोहाद्यावज्जीवमनिर्वृताः ॥ १८.४३ ॥ मुमुक्षोर्बुद्धिरालम्बमन्तरेण न विद्यते । निरालम्बैव निष्कामा बुद्धिर्मुक्तस्य सर्वदा ॥ १८.४४ ॥ विषयद्वीपिनो वीक्ष्य चकिताः शरणार्थिनः । विशन्ति झटिति क्रोडं निरोधैकाग्र्यसिद्धये ॥ १८.४५ ॥ निर्वासनं हरिं दृष्ट्वा तूष्णीं विषयदन्तिनः । पलायन्ते न शक्तास्ते सेवन्ते कृतचाटवः ॥ १८.४६ ॥ न मुक्तिकारिकां धत्ते निःशङ्को युक्तमानसः । पश्यञ्छृण्वन् स्पृशञ्जिघ्रन्नश्नन्नास्ते यथासुखम् ॥ १८.४७ ॥ वस्तुश्रवणमात्रेण शुद्धबुद्धिर्निराकुलः । नैवाचारम्अनाचारमौदास्यं वा प्रपश्यति ॥ १८.४८ ॥ यदा यत्कर्तुमायाति तदा तत्कुरुते ऋजुः । शुभं वाप्यशुभं वापि तस्य चेष्टा हि बालवत् ॥ १८.४९ ॥ स्वातन्त्र्यात्सुखमाप्नोति स्वातन्त्र्याल्लभते परम् । स्वातन्त्र्यान्निर्वृतिं गच्छेत्स्वातन्त्र्यात्परमं पदम् ॥ १८.५० ॥ अकर्तृत्वमभोक्तृत्वं स्वात्मनो मन्यते यदा । तदा क्षीणा भवन्त्येव समस्ताश्चित्तवृत्तयः ॥ १८.५१ ॥ उच्छृङ्खलाप्यकृतिका स्थितिर्धीरस्य राजते । न तु सस्पृहचित्तस्य शान्तिर्मूढस्य कृत्रिमा ॥ १८.५२ ॥ विलसन्ति महाभोगैर्विशन्ति गिरिगह्वरान् । निरस्तकल्पना धीरा अबद्धा मुक्तबुद्धयः ॥ १८.५३ ॥ श्रोत्रियं देवतां तीर्थमङ्गनां भूपतिं प्रियम् । दृष्ट्वा सम्पूज्य धीरस्य न कापि हृदि वासना ॥ १८.५४ ॥ भृत्यैः पुत्रैः कलत्रैश्च दौहित्रैश्चापि गोत्रजैः । विहस्य धिक्कृतो योगी न याति विकृतिं मनाक् ॥ १८.५५ ॥ सन्तुष्टोऽपि न सन्तुष्टः खिन्नोऽपि न च खिद्यते । तस्याश्चर्यदशां तां तां तादृशा एव जानते ॥ १८.५६ ॥ कर्तव्यतैव संसारो न तां पश्यन्ति सूरयः । शून्याकारा निराकारा निर्विकारा निरामयाः ॥ १८.५७ ॥ अकुर्वन्नपि संक्षोभाद्व्यग्रः सर्वत्र मूढधीः । कुर्वन्नपि तु कृत्यानि कुशलो हि निराकुलः ॥ १८.५८ ॥ सुखमास्ते सुखं शेते सुखमायाति याति च । सुखं वक्ति सुखं भुङ्क्ते व्यवहारेऽपि शान्तधीः ॥ १८.५९ ॥ स्वभावाद्यस्य नैवार्तिर्लोकवद्व्यवहारिणः । महाह्रद इवाक्षोभ्यो गतक्लेशः सुशोभते ॥ १८.६० ॥ निवृत्तिरपि मूढस्य प्रवृत्तिरुपजायते । प्रवृत्तिरपि धीरस्य निवृत्तिफलभागिनी ॥ १८.६१ ॥ परिग्रहेषु वैराग्यं प्रायो मूढस्य दृश्यते । देहे विगलिताशस्य क्व रागः क्व विरागता ॥ १८.६२ ॥ भावनाभावनासक्ता दृष्टिर्मूढस्य सर्वदा । भाव्यभावनया सा तु स्वस्थस्यादृष्टिरूपिणी ॥ १८.६३ ॥ सर्वारम्भेषु निष्कामो यश्चरेद्बालवन्मुनिः । न लेपस्तस्य शुद्धस्य क्रियमाणेऽपि कर्मणि ॥ १८.६४ ॥ स एव धन्य आत्मज्ञः सर्वभावेषु यः समः । पश्यन् शृण्वन् स्पृशन् जिघ्रन्नश्नन्निस्तर्षमानसः ॥ १८.६५ ॥ क्व संसारः क्व चाभासः क्व साध्यं क्व च साधनम् । आकाशस्येव धीरस्य निर्विकल्पस्य सर्वदा ॥ १८.६६ ॥ स जयत्यर्थसंन्यासी पूर्णस्वरसविग्रहः । अकृत्रिमोऽनवच्छिन्ने समाधिर्यस्य वर्तते ॥ १८.६७ ॥ बहुनात्र किमुक्तेन ज्ञाततत्त्वो महाशयः । भोगमोक्षनिराकाङ्क्षी सदा सर्वत्र नीरसः ॥ १८.६८ ॥ महद्आदि जगद्द्वैतं नाममात्रविजृम्भितम् । विहाय शुद्धबोधस्य किं कृत्यमवशिष्यते ॥ १८.६९ ॥ भ्रमभूतमिदं सर्वं किंचिन्नास्तीति निश्चयी । अलक्ष्यस्फुरणः शुद्धः स्वभावेनैव शाम्यति ॥ १८.७० ॥ शुद्धस्फुरणरूपस्य दृश्यभावमपश्यतः । क्व विधिः क्व च वैराग्यं क्व त्यागः क्व शमोऽपि वा ॥ १८.७१ ॥ स्फुरतोऽनन्तरूपेण प्रकृतिं च न पश्यतः । क्व बन्धः क्व च वा मोक्षः क्व हर्षः क्व विषादिता ॥ १८.७२ ॥ बुद्धिपर्यन्तसंसारे मायामात्रं विवर्तते । निर्ममो निरहङ्कारो निष्कामः शोभते बुधः ॥ १८.७३ ॥ अक्षयं गतसन्तापमात्मानं पश्यतो मुनेः । क्व विद्या च क्व वा विश्वं क्व देहोऽहं ममेति वा ॥ १८.७४ ॥ निरोधादीनि कर्माणि जहाति जडधीर्यदि । मनोरथान् प्रलापांश्च कर्तुमाप्नोत्यतत्क्षणात् ॥ १८.७५ ॥ मन्दः श्रुत्वापि तद्वस्तु न जहाति विमूढताम् । निर्विकल्पो बहिर्यत्नादन्तर्विषयलालसः ॥ १८.७६ ॥ ज्ञानाद्गलितकर्मा यो लोकदृष्ट्यापि कर्मकृत् । नाप्नोत्यवसरं कर्तुं वक्तुमेव न किंचन ॥ १८.७७ ॥ क्व तमः क्व प्रकाशो वा हानं क्व च न किंचन । निर्विकारस्य धीरस्य निरातङ्कस्य सर्वदा ॥ १८.७८ ॥ क्व धैर्यं क्व विवेकित्वं क्व निरातङ्कतापि वा । अनिर्वाच्यस्वभावस्य निःस्वभावस्य योगिनः ॥ १८.७९ ॥ न स्वर्गो नैव नरको जीवन्मुक्तिर्न चैव हि । बहुनात्र किमुक्तेन योगदृष्ट्या न किंचन ॥ १८.८० ॥ नैव प्रार्थयते लाभं नालाभेनानुशोचति । धीरस्य शीतलं चित्तममृतेनैव पूरितम् ॥ १८.८१ ॥ न शान्तं स्तौति निष्कामो न दुष्टमपि निन्दति । समदुःखसुखस्तृप्तः किंचित्कृत्यं न पश्यति ॥ १८.८२ ॥ धीरो न द्वेष्टि संसारमात्मानं न दिदृक्षति । हर्षामर्षविनिर्मुक्तो न मृतो न च जीवति ॥ १८.८३ ॥ निःस्नेहः पुत्रदारादौ निष्कामो विषयेषु च । निश्चिन्तः स्वशरीरेऽपि निराशः शोभते बुधः ॥ १८.८४ ॥ तुष्टिः सर्वत्र धीरस्य यथापतितवर्तिनः । स्वच्छन्दं चरतो देशान् यत्रास्तमितशायिनः ॥ १८.८५ ॥ पततूदेतु वा देहो नास्य चिन्ता महात्मनः । स्वभावभूमिविश्रान्तिविस्मृताशेषसंसृतेः ॥ १८.८६ ॥ अकिंचनः कामचारो निर्द्वन्द्वश्छिन्नसंशयः । असक्तः सर्वभावेषु केवलो रमते बुधः ॥ १८.८७ ॥ निर्ममः शोभते धीरः समलोष्टाश्मकाञ्चनः । सुभिन्नहृदयग्रन्थिर्विनिर्धूतरजस्तमः ॥ १८.८८ ॥ सर्वत्रानवधानस्य न किंचिद्वासना हृदि । मुक्तात्मनो वितृप्तस्य तुलना केन जायते ॥ १८.८९ ॥ जानन्नपि न जानाति पश्यन्नपि न पश्यति । ब्रुवन्नपि न च ब्रूते कोऽन्यो निर्वासनादृते ॥ १८.९० ॥ भिक्षुर्वा भूपतिर्वापि यो निष्कामः स शोभते । भावेषु गलिता यस्य शोभनाशोभना मतिः ॥ १८.९१ ॥ क्व स्वाच्छन्द्यं क्व सङ्कोचः क्व वा तत्त्वविनिश्चयः । निर्व्याजार्जवभूतस्य चरितार्थस्य योगिनः ॥ १८.९२ ॥ आत्मविश्रान्तितृप्तेन निराशेन गतार्तिना । अन्तर्यदनुभूयेत तत्कथं कस्य कथ्यते ॥ १८.९३ ॥ सुप्तोऽपि न सुषुप्तौ च स्वप्नेऽपि शयितो न च । जागरेऽपि न जागर्ति धीरस्तृप्तः पदे पदे ॥ १८.९४ ॥ ज्ञः सचिन्तोऽपि निश्चिन्तः सेन्द्रियोऽपि निरिन्द्रियः । सबुद्धिरपि निर्बुद्धिः साहङ्कारोऽनहंकृतिः ॥ १८.९५ ॥ न सुखी न च वा दुःखी न विरक्तो न सङ्गवान् । न मुमुक्षुर्न वा मुक्तो न किंचिन्न च किंचन ॥ १८.९६ ॥ विक्षेपेऽपि न विक्षिप्तः समाधौ न समाधिमान् । जाड्येऽपि न जडो धन्यः पाण्डित्येऽपि न पण्डितः ॥ १८.९७ ॥ मुक्तो यथास्थितिस्वस्थः कृतकर्तव्यनिर्वृतः । समः सर्वत्र वैतृष्ण्यान्न स्मरत्यकृतं कृतम् ॥ १८.९८ ॥ न प्रीयते वन्द्यमानो निन्द्यमानो न कुप्यति । नैवोद्विजति मरणे जीवने नाभिनन्दति ॥ १८.९९ ॥ न धावति जनाकीर्णं नारण्यमुपशान्तधीः । यथातथा यत्रतत्र सम एवावतिष्ठते ॥ १८.१०० ॥ _______________________________________________________________________ जनक उवाच तत्त्वविज्ञानसन्दंशमादाय हृदयोदरात् । नानाविधपरामर्शशल्योद्धारः कृतो मया ॥ १९.१ ॥ क्व धर्मः क्व च वा कामः क्व चार्थः क्व विवेकिता । क्व द्वैतं क्व च वाद्वैतं स्वमहिम्नि स्थितस्य मे ॥ १९.२ ॥ क्व भूतं क्व भविष्यद्वा वर्तमानमपि क्व वा । क्व देशः क्व च वा नित्यं स्वमहिम्नि स्थितस्य मे ॥ १९.३ ॥ क्व चात्मा क्व च वानात्मा क्व शुभं क्वासुभं यथा । क्व चिन्ता क्व च वाचिन्ता स्वमहिम्नि स्थितस्य मे ॥ १९.४ ॥ क्व स्वप्नः क्व सुषुप्तिर्वा क्व च जागरणं तथा । क्व तुरियं भयं वापि स्वमहिम्नि स्थितस्य मे ॥ १९.५ ॥ क्व दूरं क्व समीपं वा बह्यं क्वाभ्यन्तरं क्व वा । क्व स्थूलं क्व च वा सूक्ष्मं स्वमहिम्नि स्थितस्य मे ॥ १९.६ ॥ क्व मृत्युर्जीवितं वा क्व लोकाः क्वास्य क्व लौकिकम् । क्व लयः क्व समाधिर्वा स्वमहिम्नि स्थितस्य मे ॥ १९.७ ॥ अलं त्रिवर्गकथया योगस्य कथयाप्यलम् । अलं विज्ञानकथया विश्रान्तस्य ममात्मनि ॥ १९.८ ॥ _______________________________________________________________________ जनक उवाच क्व भूतानि क्व देहो वा क्वेन्द्रियाणि क्व वा मनः । क्व शून्यं क्व च नैराश्यं मत्स्वरूपे निरञ्जने ॥ २०.१ ॥ क्व शास्त्रं क्वात्मविज्ञानं क्व वा निर्विषयं मनः । क्व तृप्तिः क्व वितृष्णत्वं गतद्वन्द्वस्य मे सदा ॥ २०.२ ॥ क्व विद्या क्व च वाविद्या क्वाहं क्वेदं मम क्व वा । क्व बन्धः क्व च वा मोक्षः स्वरूपस्य क्व रूपिता ॥ २०.३ ॥ क्व प्रारब्धानि कर्माणि जीवन्मुक्तिरपि क्व वा । क्व तद्विदेहकैवल्यं निर्विशेषस्य सर्वदा ॥ २०.४ ॥ क्व कर्ता क्व च वा भोक्ता निष्क्रियं स्फुरणं क्व वा । क्वापरोक्षं फलं वा क्व निःस्वभावस्य मे सदा ॥ २०.५ ॥ क्व लोकः क्व मुमुक्षुर्वा क्व योगी ज्ञानवान् क्व वा । क्व बद्धः क्व च वा मुक्तः स्वस्वरूपेऽहमद्वये ॥ २०.६ ॥ क्व सृष्टिः क्व च संहारः क्व साध्यं क्व च साधनम् । क्व साधकः क्व सिद्धिर्वा स्वस्वरूपेऽहमद्वये ॥ २०.७ ॥ क्व प्रमाता प्रमाणं वा क्व प्रमेयं क्व च प्रमा । क्व किंचित्क्व न किंचिद्वा सर्वदा विमलस्य मे ॥ २०.८ ॥ क्व विक्षेपः क्व चैकग्र्यं क्व निर्बोधः क्व मूढता । क्व हर्षः क्व विषादो वा सर्वदा निष्क्रियस्य मे ॥ २०.९ ॥ क्व चैष व्यवहारो वा क्व च सा परमार्थता । क्व सुखं क्व च वा दुखं निर्विमर्शस्य मे सदा ॥ २०.१० ॥ क्व माया क्व च संसारः क्व प्रीतिर्विरतिः क्व वा । क्व जीवः क्व च तद्ब्रह्म सर्वदा विमलस्य मे ॥ २०.११ ॥ क्व प्रवृत्तिर्निर्वृत्तिर्वा क्व मुक्तिः क्व च बन्धनम् । कूटस्थनिर्विभागस्य स्वस्थस्य मम सर्वदा ॥ २०.१२ ॥ क्वोपदेशः क्व वा शास्त्रं क्व शिष्यः क्व च वा गुरुः । क्व चास्ति पुरुषार्थो वा निरुपाधेः शिवस्य मे ॥ २०.१३ ॥ क्व चास्ति क्व च वा नास्ति क्वास्ति चैकं क्व च द्वयम् । बहुनात्र किमुक्तेन किंचिन्नोत्तिष्ठते मम ॥ २०.१४ ॥