अध्याय १ दैवपुरुषकार १.१ यस्मिन्नुदयति विकसति कमलमिवास्तं प्रयाति संकुचति। १.१ सचराचरं त्रिभुवनं स जयति किरणालयः सविता॥ १.२ यक्षेशमेधेन विजित्य धात्रीमित्येवमभ्युद्यमिनो नृपस्य् १.२ विनिघ्नतो विघ्नकरान्न पापं क्रियात्क्रमेणैव पशून्मखेषु॥ १.३ उत्साहमन्त्रप्रभुशक्तियुक्तो धीमान् विनीतेन्द्रियभृत्यवर्गः। १.३ प्रजानुरक्तो धृतिमान् सहिष्णुर्वृद्धोपसेवी विजिगीषुरिष्टः॥ १.४ साम्वत्सरस्तस्य विनीतवेषो धीमान् स्वतन्त्राङ्गपटुः कुलीनः। १.४ दक्षः प्रगल्भोऽविकलो विनीतस्तादृग्विधस्तस्य पुरोहितोऽपि॥ १.५ तस्य दैवनरकारसमेतां वर्णयन्ति कवयः फलसिद्धिम्। १.५ तत्र केचिदवधूय नृकारं दैवमेव फलदायकमाहुः॥ १.६ लब्धव्यान्येव लभ्यते गन्तव्यान्येव गच्छति। १.६ प्राप्तव्यान्येव प्राप्रोति दुःखानि च सुखानि च् । १.७ उत्थानाच्चेद्भवेत्सिद्धिर्न कश्चित्प्राप्नुयात्फलम्। १.७ अहोरात्रं विचेष्टन्तो दृश्यन्ते वृत्तिकर्शिताः॥ १.८ विहङ्ग इव वधो हि(स्यात्) निपत्यार्यमनीश्वरः। १.८ विधानविहितोऽदेश्यो नान्येषां नात्मनः प्रभुः॥ १.९ तस्माद्दैवं प्रधानं हि न कुर्यात्कर्म मानुषम्। १.९ निश्चेष्टमपि लोकेऽस्मिन् भजते भुक्तिरुत्तमा॥ १.१० आघातदुर्जयनयं परिभूय दैवमात्माभिमानचपलाः प्रचरन्ति येऽरीन्। १.१० तेषां चिरादपि कृतान्तमहापशूनां हस्तग्रहं न समुपैति जितापि लक्ष्मी॥ १.११ तथा परे नापेक्स्यैव दैवं दैर्यावलम्बिनः। १.११ प्रत्येक्षिनः क्रियासिद्धौ केवलं जगुरुद्यमम्॥ १.१२ उत्थानहीनो राजा हि बुद्धिमानपि सर्वदा। १.१२ प्रधर्षनीयः शत्रूणां भुजङ्ग इव निर्विषः॥ १.१३ उत्थानधीरः पुरुषो वाग्धीरानधितिष्ठति। १.१३ उत्थानधीरं वाग्धीरा रमयन्त उपास्यन्त् । १.१४ विधानगणनाजडः पुरुषकारसुप्तादरो १.१४ मनोरथपरिश्रमैर्न परिचुम्बति श्रीमुखम्। १.१४ पराक्रमविनिश्चितैकसुनयो हि सद्यः श्रुतं १.१४ हरिर्मदसुवासितं पिबति कुंजराश्रुं मधु॥ १.१५ कृषिवृष्टिसमानुगा दृश्यन्ते फलसिद्धयः। १.१५ अस्मिन्नर्थे शृणु श्लोकान् द्विपायनमुखोद्गतान्॥ १.१६ न विना मानुषं दैवं दैवं वा मानुषं विना। १.१६ नैकं निर्वर्तयत्यर्थमेकारणिरिवानलम्॥ १.१७ सिद्ध्यन्ते सर्व आरम्भाः संयोगात्कर्मणोऽर्द्ध्योः। १.१७ दैवात्पुरुसकाराच्च न त्वेकस्मात्कथाज्चन् । १.१८ अनुशास्ति नरं दैवमिहास्येत्यनुशासकः। १.१८ इह नास्य भविष्यामि कुतः फलमनीहितम्॥ १.१९ यत्नेन सम्पद्य मनुष्यकारं यत्नावकाशे पुरुषो निरुद्धः। १.१९ प्रतीक्षते दैवमतं द्वितीयस्तमापदो नात्मकृताः स्पृशन्ति॥ १.२० सत्त्वार्जितं कर्मफलं सुखेन विपक्ष्यते राजसमुद्यमे[न]। १.२० कृच्छ्रेण शेषं महता यतोऽतो भाज्यानि मृग्याणि नृभिर्नृकारैः॥E२० अध्याय २ तिथिगुण २.१ यात्राकालमतः परं मुनिमतान्यालोक्य संख्यापया- २.१ (म्य)भ्युद्धुष्य पृथूक्तमक्षरगुरौ सम्पन्न्नमीशं भुवः। २.१ ज्ञाते जन्मनि तस्य यानसमयं वांछन्ति होराविदस् २.१ त्वज्ञातेऽप्यफलेषु नाक्षरमिव प्राहात्र रत्नावलिम्॥ २.२ विदिते होराराशौ स्थानबलपरिग्रहे ग्रहाणां च् २.२ आयुषि च परिज्ञाते शुभमशुभं वा फलं वाच्यम्॥ २.३ अन्ये वदन्त्यविदिते (त्व)पि जन्मकाले २.३ योग्यः प्रयाणसमयो मनुजेश्वराणाम्। २.३ प्रश्नोदयोद्भवफल्(आन्वित)सिद्धिभाग्यस् २.३ तत्त्वार्थविन्निग(द)ति स्म वचो वशिष्ठः॥ २.४ अपृच्छतः पृच्छतो वा यियासोर्यस्य कस्य चित् । २.४ होराकेन्द्रत्रिकोणेभ्यस्तस्य विन्द्याच्छुभाशुभम्॥ २.५ दैवज्ञस्य हि दैवेन सदसत्फलवांछतः। २.५ अवशो गोचरं मर्त्यः सर्वः समुपनीयत् । २.६ अश्रौषीच्च पुरा विष्णोर्ज्ञानार्थं समुपस्थितः। २.६ वचनं लोकनाथस्य निःसृतं मुखपङ्कजात् ॥ २.७ यत्सारं पृच्छतः पुंसो ग्रहरा(श्या)श्रितं फलम्। २.७ तत्सारं तस्य जन्म स्याद्य(द्य)प्यन्यगृहे भवेत् ॥ २.८ बुध्वा शास्त्रं यथान्यायं बलाबलविधानतः। २.८ यथोक्तं जातके सर्वं तथैवात्रापि चिन्तयेत् ॥ २.९ तस्मान्नृपः कुसुमरत्नफलाग्रहस्तः २.९ प्रातः प्रणम्य रवये हरिदिङ्मुखस्थः। २.९ होराङ्गशास्त्रकुशलान् हितकारिणश्च २.९ संहृत्य दैवगणकान् सकृदेव पृच्छेत् । २.१० अथ नृपतिसमीपे दैववित्पृष्टमात्रह् २.१० फलमुद्यनिमित्तैस्तर्कयेच्छास्त्रदृष्ट्या। २.१० सदिति सदसि वाच्यं यद्यपि स्यादसत्तत् २.१० स्फुटं पै कथनीयं भूभुजे मन्त्रिणे वा॥ २.११ सुमधुरफलपुष्पक्षीरवृक्षावृतायां २.११ चरणगतिसुखायां गोशकृत्पेयवत्याम्। २.११ सलिलकुसुमवत्यां स्नानिनो भद्रमूर्ध्वं २.११ ग्रहभगणगतिज्ञः प्रादिशेत्पृच्छकस्य् । २.१२ स्तनचरणतलौष्ठाङ्गुष्ठहस्तोपराङ्गं २.१२ श्रवणवदननासागुह्यरन्ध्राणि भूपः। २.१२ स्पृशति यदि कराग्रैर्गण्डकट्यंसकं वा २.१२ प्रवदति शुभशब्दं वाहिनी शास्ति शत्रून्॥ २.१३ उदयमुदयपं वा जन्मभं जन्मपं वा २.१३ तदुपचयगृहं वा वीक्ष्य लग्ने यियासोः। २.१३ विनिहतमरिपक्षं विद्धि शत्रोरिदं वा २.१३ यदि हिबुकसमेतं पृच्छतोऽस्तस्थितं वा॥ २.१४ पार्ष्णिग्राहः पृष्ठतो भास्करस्य प्राग्यातव्यस्तिग्मरश्मेश्च यानः। २.१४ आक्रन्दार्कात्सप्तमे यः स्थितश्च तत्तुल्यास्ते शक्तितश्चिन्तयीयाः॥ २.१५ जीवज्ञार्कसितापरैः सुतसुहृद्दुश्चित्कलग्नायगैः २.१५ सिद्धार्थोऽरिगणान् विजित्य न चिरात्प्रष्टा समेत्यालयम्। २.१५ लग्ने वा कुजमन्दयोः सुतगते जीवे रवौ कर्मगे २.१५ लाभे कर्मणि वा सितेन्दुसुतयोः प्रष्टुर्जयो निश्चितः॥ २.१६ तस्मिन्नेव भवेद्योगे यदि शुक्रोऽष्टमाश्रितः। २.१६ प्रष्टारमुद्यमादेव हतशक्तिर्विशस्त्यरिः॥ २.१७ गुर्वर्कशशिभिः सिद्धिर्लग्नारिदशमस्थितैः। २.१७ तद्वल्लग्नारिरन्ध्रस्थैर्जीवशुक्रदिवाकरैः॥ २.१८ सचिवाप्तिर्गुरावाये कर्मण्यसितवक्रयोः। २.१८ चतुर्थे ज्ञेऽष्टमे चन्द्रे जायास्थे च सिते जयः॥ २.१९ कर्मण्यारे रवावाये तृतीयस्थेऽर्कनन्दन् २.१९ चन्द्रे षष्ठे विलग्नस्थैः शेषैः प्रष्टुर्ध्रुवो जयः॥ २.२० सहजेऽर्कार्किभूपुत्रैः सौम्यैर्लग्नगतैर्जयः। २.२० गुरौ वा लग्नगे पापैर्लाभे कर्मणि वा स्थितैः॥ २.२१ माहेयम(न्द)योः षष्ठे लग्ने गुरुशशाङ्कयोः। २.२१ सितचन्द्रजयोरन्ते जयः कर्मणि तीक्ष्णगौ॥ २.२२ इत्य्योगाः शुभाः प्रोक्ताः प्रश्नकाले जयाश्रिताः। २.२२ अशुभास्तु भवन्त्यत्र तान् प्रवक्ष्याम्यतः परम्॥ २.२३ युद्धे भङ्गो यमेन्द्वारैर्नवमात्मजलग्नगैः। २.२३ शशाङ्कयमयोर्लग्ने मृत्युर्भूसुतदृष्टयोः॥ २.२४ सवक्रे निधने मन्दे मृत्युर्लग्ने दिवाकर् २.२४ चन्द्रेऽस्मिन् त्र्यायमृत्युस्थे ससूर्ये वा वदेद्वधम्॥ २.२५ वक्रज्ञशशिभिर्द्यूने प्रष्टुर्नाशोऽपि गच्छतः। २.२५ क्षुन्माराशत्रुवृद्धिश्च लग्ने माहेयशुक्रयोः॥ २.२६ चन्द्रावनीजयोर्मूर्तौ षष्ठे शशिजशुक्रयोः। २.२६ निधनस्थे सहस्रांशौ विज्ञेयो मन्त्रिणो वधः॥ २.२७ तनयस्य वधः प्रष्टुः पापैरुदयपुत्रगैः। २.२७ सचन्द्रे रुधिरे लग्ने भङ्गः सूर्यात्मजेक्षित् । २.२८ द्यूननैधनगे चन्द्रे लग्नं याते दिवाकर् २.२८ विपर्यये वा यातस्य त्रासभङ्गवधागमः॥ २.२९ द्वित्रिकेन्द्रस्थितैः पापैः सौम्यैश्च बलवर्जितैः। २.२९ अष्टमस्थे निशानाथे प्रष्टुर्बन्धवधात्ययाः॥ २.३० कुजचन्द्रमसोर्द्यूने स्वभेदोऽर्कबुधोदय् २.३० तद्वन्मन्दारयोर्युद्धे भङ्गः सौम्यार्कयोस्तथा॥ २.३१ सर्वैस्तु नवमे राजा हन्ति मन्त्रिपुरोहितान्। २.३१ योगेऽस्मिन्नुदये चन्द्रे सुतस्थपतिदेशिकान्॥ २.३२ अर्कार्कसुतयोर्लग्ने दृष्टयोः क्षितिसूनुना। २.३२ चन्द्रेऽस्ते विबलैः सौम्यैः प्रष्टुः सेनापतेर्वधः॥ २.३३ विधने वक्रयमयोश्चन्द्रेऽस्ते लग्नगे रवौ। २.३३ ज्ञे तृतीये च विक्रम्य समन्त्री हन्यते नृपः॥ २.३४ मूर्घोदयं शुभसुहृद्युतवीक्षितं वा २.३४ लग्नं शुभाश्च बलिनः शुभवर्गलग्न् २.३४ सिद्धिप्रदं भवति नेष्टमतोऽन्यथा तज् २.३४ जन्मप्रयाणफलयुक्तिभिरन्यदुद्यम्॥ २.३५ निधनहिबुकहोरासप्तमार्थेषु पापा २.३५ न शुभफलकराः स्युः पृच्छतां मानवानाम्। २.३५ दशमभवनयुक्तेष्वेषु सौम्याः प्रशस्ताः २.३५ सदसदिदमशेषं यानकालेऽपि चिन्त्यम्॥E३५ अध्याय ३ तितिगुण ३.१ नन्दा भद्रा विजयाश्चाथ रिक्ताः पूर्णाश्चैताः फलमेवं विदध्युः। ३.१ नेष्टा मध्या प्रवराश्चेति शुक्ले कृण्णे चिन्त्यास्तिथयस्ताः प्रतीपाः॥ ३.२ सर्वाः शस्तास्तिथयः शुक्लपक्षे हित्वा त्र्य्ंशं बहुलेऽन्त्यं च कैश्चित् । ३.२ षष्ठ्यष्टम्योर्वसुलब्धापि याता द्वादश्यां वा नाशमाशु प्रयाति॥ ३.३ प्रतिपदि फलमेके पञ्चदश्यां च नेष्टं जगुरिदमिति तज्ज्ञैर्याप्यमेवावधार्यम्। ३.३ किमपि किमपि नूनं तैः समीक्ष्योक्तमेतत्समवचनविघाते युक्तता केन चिन्त्या॥E३ अध्याय ४ नक्षत्रबल ४.१ दिशि दिशि बहुलाद्याः सप्तकाः प्राक्प्रवृत्ताः ४.१ पवनदहनदिक्स्थस्तिर्यगत्युग्रदण्डः। ४.१ सुरपतिरपि कृच्छ्रं याति तं लंघयित्वा ४.१ ननु भवति विरोधो दिक्षु दण्डैकगासु॥ ४.२ प्राग्द्वारिकैरनलदिङ्न विरोधमेति शेषाः प्रदक्षिणगताः विदिशः प्रकल्प्याः। ४.२ उल्लंघ्य दण्डमपि काममियान्नरेन्द्रः शूलं विहाय यदि दिङ्मुखलग्नशुद्धिः॥ ४.३ ज्येष्ठायां पुरुहूतदिङ्मुखगतः प्राप्तो बलिर्बन्धनं ४.३ याम्यामाजपदे मुरश्चलितवान् यातो मुरारेर्वशम्। ४.३ रोहिण्यां नमुचिः प्रतीच्यभिगतः पूर्तिं गतो वज्रिणा ४.३ सौम्यामर्यमदैवते च गतवान्मृत्योर्वशं शम्बरः॥ ४.४ पुष्योऽथ हस्तः श्रवणः श्रविष्ठा प्राच्यादिमुख्यान्युदगश्वियुक्च् ४.४ नैशाकरं त्वाष्ट्रमथानुराधा पौष्णं च मध्यानि तथाहुरेक् । ४.५ सर्वद्वारिकसंज्ञितानि गुरुभं हस्ताश्विमैत्राणि च ४.५ श्रेष्ठान्यैन्दवपौष्णविष्णुवसुभान्याद्यैः सहाष्टौ सदा। ४.५ रौद्राजाहियमानिलानलमघाशाक्ताग्निभिर्निन्दितं ४.५ यानं त्वष्ट्रनिलान्तरेऽग्नियमयोः पित्र्योरजे चान्तर् । ४.६ स्वे स्वे कर्मणि पूजितानि मुनिभिः शुद्धानि सर्वाण्यपि ४.६ त्यक्त्वार्कोदयमानलेऽरिविषयं यात्रा दिघक्षोः शुभा। ४.६ रोहिण्यां त्रिषु चोत्तरेषु विजयो यातुर्विशाखासु च ४.६ त्यक्त्वा वासरपूर्वभागमवदद्गर्गोऽधिराज्यार्थिनः॥ ४.७ मूलेन्दूरगशङ्करेष्वरिवधे यायाद्दिनार्धं विना ४.७ भृत्यर्थं पवनाश्विसूर्यगुरुभेष्वह्नोऽपरार्धं विना। ४.७ रात्र्यादौ तु न पौष्णमैत्रशशिभत्वाष्ट्रेषु वांछन् द्युतिं ४.७ रात्रेर्मध्यमपास्य पूर्वभरणीपित्र्येषु हन्तुं पराः॥ ४.८ निशान्तभागे त्रिषु वैष्णवाद्येष्वियाद्धनार्थी न पुनर्वसौ च् ४.८ निषेधयन्त्यम्बुपसंज्ञकस्य मध्याह्नमेके सनिशान्तभागम्॥ ४.९ यथेष्टवेलागमनं प्रशस्तं हस्तैन्दवोपेन्द्रसुरेज्यभेषु। ४.९ कृत्वा प्रयाणं श्रवणे श्रियोऽर्थी विशेन्न जातुः क्षितिपः स्वसीम्नि॥ ४.१० सौम्ये गत्वाध्युष्य रौद्रेऽदितीशे संप्रस्थाता बाधते शत्रुसंघान्। ४.१० मैत्रे गत्वा पौरुहूते समुष्य? मूले यायाच्छत्रुनाशाय भूपः॥ ४.११ हस्ते गत्वा स्वातिचित्रे समुष्य शक्राग्न्यृक्षे प्रस्थितो बाधतेऽरीन्। ४.११ तिष्ये पौष्णे वासवे चैकरात्रं सीम्नि स्थित्वा भूतिमाप्नोति याता॥ ४.१२ ऋक्षे पापैः संयुतेऽन्तः प्रकोपो लक्ष्मीभ्रंशो राहुणार्केण रोगः। ४.१२ केतूल्काभ्यां पीडिते देशनाशः क्लेशः सौरे सोष्णरश्म्यात्मजे च् । ४.१३ दिङ्म्(आर्ग)धूपपरिवेशविकम्पपांसुयुक्तेष्वथानयगदश्रमरोगपीडाः। ४.१३ भिन्ने ग्रहेण वशतामुपयाति शत्रोः सन्ध्यारात्रेऽशनिहतेऽजविघात उक्तः॥ ४.१४ जन्मादि कर्म ततो दृशन्न(व)मं संघातिकं चोडुभागम्। ४.१४ समुदयम् (आ)द्याद्दश(मं) भ्रमविनाशसंज्ञं च त्रयोर्विंशम्॥ ४.१५ आद्यात्तु पंचविंशं मानसमेतं नरः षडृक्षः स्यात् । ४.१५ मानवनक्षत्रो नृपतिराद्यात्तदेवाभिषेकर्क्षम्॥ ४.१६ नामानुरूपमेषां सदसत्फलमिष्टपापगुणदोषैः। ४.१६ जन्मर्क्षादिविशुद्धौ याता शत्रून् जयत्यचिरात् ॥ ४.१७ जन्मभकर्माधानोदितास्तु सम्पद्विपत्कराः क्षेमाः। ४.१७ प्रत्यरिसाधकवैनाशिकाः स्युर्मित्रातिमित्रे च् । ४.१८ मित्रातिमित्रसाधकसम्पदः क्षेमेषु कर्मभे यथा। ४.१८ प्राप्नोति नावशेषेष्वभिषेकपुरस्ताद्यातस्तु॥ ४.१९ सितसिद्धार्थकशालिप्रियङ्गुमदयन्तिकाम्बुभिः पुष्य् ४.१९ स्नात्वा यायात्प्राचीं सौम्ये सहस्रमणितोयैः॥ ४.२० गोशृङ्गाप्यनदीगिरिवल्मीकतडागमृत्समायुक्तैः। ४.२० तोयैः स्नात्वा नृपतिर्यायाद्याम्यां दिशं हस्त् । ४.२१ सरिदभ्याकुलमृड्भिः स्नात्वा (च)चैत्रे प्राग्दिशं यायात् । ४.२१ श्रवणे तु नदीसङ्गममृत्सलिलैः पच्चिमामेव् । ४.२२ मधुभद्रदारुसहितैः स्नात्वा तोयैरुदक्श्रविष्ठासु। ४.२२ गोगजविषाणकोशैर्मधुघृतपूर्णैरुदक्पौष्ण् । ४.२३ उदग्वै वैश्वदेवे स्नात्वा मधुपूथिकापूर्तसलिलैः। ४.२३ नक्सत्रदेवमन्त्रैश्चाग्निं हुत्वा जयं लभत् । ४.२४ अक्षतमाषाः खिन्नास्तिलसहितास्तण्डुला दधि च गव्यम्। ४.२४ वृषभपिशितं मृगस्य च पञ्चानामाश्विनादीनाम्॥ ४.२५ रुधिरविलायनपायसभुजङ्गमांसानि शाङ्करादीनाम्। ४.२५ पित्र्ये तिलौदनं षष्टिकान्नमृक्षद्वये परतः॥ ४.२६ प्राश्याः प्रियङ्गुचित्राण्डजाः फलं यावकं कुलत्थाश्च् ४.२६ मधुसर्पिषी च हस्तान्मूलान्यम्बूनि सक्तवो मूलात् ॥ ४.२७ श्रवणादीनामद्याच्छालिं शाकं बिडालमांसं च् ४.२७ आज्यं यथेष्टमांसं च सक्तवो माषसंयुक्ताः॥ ४.२८ प्राश्यादि घृतं तिलौदनं मत्स्याः क्षीरमिति प्रदक्षिणम्। ४.२८ अद्यान्नृपतिर्यथादिशं नक्षत्राभिहितं च सिद्धय् । ४.२९ अस्वादु च्युतकचमक्षिकानुविद्धं दुर्गन्धि क्षयकृदभूरि यच्च दग्धम्। ४.२९ सुस्विन्नं मुदु रुचिरं मनोनुकूलं स्वाद्वन्नं बहु विजयाय यानकाल् । ४.३० गुणवति तिथावृक्षेऽनिष्टे दिवा गमनं हितं ४.३० निशि च भगने शस्तं यानं तिथौ गुणवर्जित् ४.३० भतिथिगदितान् दोषान् प्राप्नोत्यतः प्रतिलोमगो ४.३० गुणमपि तयोः सम्यग्यातुर्जगाद भृगुर्मुनिः॥E३० अध्याय ५ वारफल ५.१ उदरनयनरोगश्वापदारण्यवाधाः सवितृदिवसयाताप्यश्नुतेऽर्थक्षयं च् ५.१ अनिलकफजरोगान् शक्तिमानान्नहानिं सलिलजनितपीडां चाह्नि याता हिमांशोः॥ ५.२ ज्वलनवधविषासृक्पित्तरुक्शत्रुपीडामवनिजदिनयाता वाध्यते शत्रुसंघैः। ५.२ अहनि सवितृसूनोर्दैन्यमाप्नोति गच्छन् स्वजनधनवियोगं मृत्युबन्धामयांश्च् । ५.३ बुधदिवसगतोऽरीन् बाधते मन्त्रशक्त्या स्रवणसुखकथाप्तिं शिल्पिमित्रागमांश्च् ५.३ क्षितिधनजयरत्नस्त्रीप्रतापप्रमोदानतिबलमचिरेण स्वीकरोत्यह्नि सूरेः॥ ५.४ प्रवरयुवतिशय्यावस्त्रगन्धान्नपानस्मरसुखधनरत्रान्यह्नि भुंक्ते सितस्य् ५.४ अनुपचयगतोऽहः शस्तमप्यप्रशस्तं शुभमुपचयसंस्थः पापसंज्ञो विधत्त् ।E४ अध्याय ६ मुहूर्त ६.१ गरवणिजविष्टिपरिवर्जितानि करणानि यातुरिष्टानि। ६.१ गरमपि कैश्चिच्छस्तं वणिजं च वणिक्क्रियास्वेव् ६.२ शिवभुजगमित्रपितृवसुजलविश्वविरिञ्चिपङ्कजप्रभवाः। ६.२ इन्द्राग्नीन्द्रनिशाचरवरुणार्यमयोनयश्चाह्नि॥ ६.३ रुद्राजाहिर्बुध्न्याः पूषा दस्रान्तकाग्निधातारः। ६.३ इन्द्वदितिगुरुहरिरवित्वष्ट्रनिलाख्याः क्षणा रात्रौ॥ ६.४ अह्नः पञ्चदशांशो रात्रेश्चैवं मुहूर्त इति संज्ञा॥ ६.४ स च विज्ञेयस्तज्ज्ञैश्छायायन्त्राम्बुभिर्युक्त्या॥ ६.५ नक्षत्रवत्क्षणानं परिघादि तदीश्वरैः समं चिन्त्यं। ६.५ फलमपि तदेव दृष्टं गर्गाद्यैस्तत्र च श्लोकाः॥ ६.६ अहोरात्रं च सम्पूर्णं चन्द्रनक्षत्रयोजितम्। ६.६ तन्नक्षत्रमुहूर्ताश्च समकर्मगुणाः स्मृताः॥ ६.७ अष्टमेऽर्धदिवसे समे शुभो यो विरिञ्चविभुसंज्ञितः क्षणः। ६.७ तेन यानमपहाय दक्षिणां सर्वदिक्ष्वभिजिता प्रशस्यत् ।E७ अध्याय ७ चन्द्रबल ७.१ सत्य आह गतिकर्मकल्पहा जन्मगस्तु हिमगुर्यियासतः। ७.१ तत्र देहनवतेऽवजायते तेन कर्मसु न साधकः स्मृतः॥ ७.२ तच्च तस्य बहुभिर्विशोधितं लग्नमेव सुतरां यतस्तनुः। ७.२ तुल्यदेहनवतां प्रपद्य किं सोदयोदयमुवाच शोभनम्॥ ७.३ अष्टवर्गपरिशोधितः शशी श्रेष्ठतां समनुवर्तते यदा। ७.३ जन्मगोऽपि हि तदा प्रशस्यते योऽष्टवर्गशुभदः स शोभनः॥ ७.४ सप्तमायदशषट्त्रिजन्मगो नेष्टदो द्विनिधनोपगैर्ग्रहैः। ७.४ बन्धुरिःफनवपञ्चमस्थितैश्चेष्टदो यदि विलोमवेश्मगः॥ ७.५ यस्य गोचरफलप्रमाणता तस्य वेधफलमिष्यते न वा। ७.५ प्रायशो न बहुसंमतं त्विदं स्थूलमार्गफलदो हि गोचरः॥ ७.६ यस्योत्सृजत्युडुपतिः पुरुषोऽपसव्यं जन्मर्क्षमापदमुपैति स भूमिपालः। ७.६ यायी तथेतरगृहोपगते सितादौ यायीतरेश्वरजयो बहुले क्षयश्च् । ७.७ होराराशावुपचयगृहे जन्मभे वा यियासोर्हानिर्हानावुडुगणपतौ वृद्धिरापूर्यमाण् ७.७ पक्षस्यादावपचयगृहे हानिरापूर्यमाणे वृद्धिस्तूक्ता ह्रसति हिमगौ कृष्णपक्षादिसंस्थ् । ७.८ उपचयगृहयुक्तः सव्यगः शुक्लपक्षे शुभमभिलषमाणः सौम्यमध्यस्थितो वा। ७.८ सखिवशिगृहयुक्तः कारकर्क्षेऽपि चेन्दुर्जयसुखफलदाता तत्प्रहर्तान्यथातः॥ ७.९ प्रक्षीणेऽप्य अनुपचयस्थितेऽपे यायाद्विश्रब्धं यदि सखिवश्यकारकर्क्ष् ७.९ नैवं चेदुदयगृहात्स्वजन्मभाद्वा सम्पूर्णेऽप्युपचयगेऽपि न प्रयायात् ॥ ७.१० भृगुसुतबुधभिन्ने रुक्सुरेड्येन मृत्युर्भयमसितकुजाभ्यां केतुना स्त्रीप्रणाशः। ७.१० अपटुकिरणकान्तौ गच्छतः शत्रुवृद्धिः सविकृतपरिवेषे नेत्रनाशः शशाङ्क् ।E१० अध्याय ८ लग्नबल ८.१ द्विपदवशगाः सर्वे सिंहं विहाय चतुष्पदाः सलिलनिलयाभर्क्षावश्याः सरीसृपजातयः। ८.१ मृगपतिवशे तिष्ठन्त्येते विहाय सरीसृपान्न कथितगृहेषूह्यं वश्यं जनव्यवहारतः॥ ८.२ स्थलजलजसरीसृपाः स्वकानां बलमभिवीक्ष्य विधेयतां भजन्त् ८.२ विषमगृहवशे समा द्युसंस्था निशि विषमा वशवर्तिनः समानाम्॥ ८.३ शीर्षोदये समभिवांछितकार्यसिद्धिः पृष्ठोदये विफलतां बलविद्रवश्च् ८.३ यातव्यदिङ्मुखगतस्य सुखेन सिद्धिर्व्यर्थश्रमो भवति दिक्प्रतिलोमलगेन्॥ ८.४ शस्तं दिवा दिनबले निशि नक्तवीर्ये राशौ विपर्ययबले गमनं न शस्तम्। ८.४ इन्द्वर्कलग्नसहितेषु गमश्चराद्येष्वन्यस्वकोभयमहीप्रतिवृद्धिदाता॥ ८.५ मीनोदये प्रवसतः कुटिलः सदोषो मार्गे भवत्यकृतकार्यनिवर्तनं च् ८.५ अन्यांशकेष्वपि झषे फलमेतदेव मीनांशकेषु च परर्क्षसमाश्रितेषु॥ ८.६ रिपुनिधने रिपुनिधनं रिपुषष्ठे लग्नगे वधो यातुः। ८.६ सत्यानुशासनमिदं वासिष्ठे नायमेकान्तः॥ ८.७ शत्रोः प्रसूतिसमये यदि निधनं संयुतं ग्रहैः पापैः। ८.७ सौम्ययुतं वा षष्ठं सदसत्फलता ततस्ताभ्याम्॥ ८.८ क्लेशाद्विना फलमरिक्षयमर्थसिद्धिं प्राप्नोति लग्नसहिते प्रवसन् स्वलग्न् ८.८ अर्थक्षयं श्रममनर्थमतो द्वितीये कल्याणसौख्यविभवागममाहुरेक् । ८.९ भृत्यार्थवाहनसहायजयास्तृतीये बन्धार्थनाशभयसैन्यवधाश्चतुर्थ् ८.९ मन्त्रोपजापविपदात्मजभेऽरिवृद्धिः षष्ठेऽरिवित्तबलदीप्तिजयागमाश्च् । ८.१० द्यूनेऽध्ववाहनविपत्क्षुदतिश्रमार्तिर्बन्धो वधः परिभवो निधने रुजश्च् ८.१० धर्मेऽर्थनाशगदकार्यविपद्भयानि कार्यं विना बलभयं दशमे क्षयश्च् । ८.११ केचिद्वदन्त्युपचयोपगृहीतमेतत्तस्माच्छुभं दशमभे गमनं विलगेन्। ८.११ अर्थाप्तिदीप्तिशुभसिद्धिजयाश्च लाभे रिप्फे छलं व्यअय्भये विजितेऽपि भेदः॥ ८.१२ रोगाज्जन्मगृहोदये सुतवधोऽसिद्धिश्च तत्पञ्चमे ८.१२ द्यूने क्लेशमवाप्य जन्मभवनात्प्राप्नोति पश्चात्सुखम्। ८.१२ मार्गादेव निवर्तनं नवमभे मेषूरणेऽर्थागमः ८.१२ शेषर्क्षेषु यथैव लग्नभवनात्तद्वत्फलं जन्मतः॥ ८.१३ क्षुत्तृष्णार्तिमार्गनाशोऽक्षिरोगः क्लेशावाप्तिस्तिग्मगोः प्राग्विलग्न् ८.१३ शस्ता चान्द्रे देवतार्थं स्वदेशे कौजे पित्तव्यालशस्त्राग्निपीडा॥ ८.१४ बौधे तुष्टिर्वांछिताप्तिर्यशश्च जैवेऽथाप्तिः स्थानमानारिनाशाः। ८.१४ स्त्रीरत्नाप्तिः कार्यसिद्धिश्च शौक्रे मान्दे बन्धव्याधिनीचावमानाः॥ ८.१५ सौम्योऽपि जन्मनि न यः शुभपुष्टिदाता स्थानं न तस्य शुभदं व्रजतो विलगेन्। ८.१५ पापोऽपि यः शुभफलं प्रकरोति पुंसां स्थानं विलग्नगतमिष्टमुशन्ति तस्य् । ८.१६ अविधेयं भवनं यत्स्वजन्मलग्नर्क्षयोः प्रयातृणाम्। ८.१६ अप्यनुकूलं लग्नं धनक्षयायासदं भवति॥ ८.१७ सखिवश्यतामुपेते स्वजन्मलग्नर्क्षयोर्विलग्नर्क्ष् ८.१७ अपचयकरेऽपि यातुर्जयधनमानागमाः क्षिप्रम्॥ ८.१८ केचिद्वदन्ति यस्मिन् ग्रहो निरंशं करोति तल्लग्नम्। ८.१८ भवनं यातुरनिष्टं भयशोकोद्वेगदं यस्मा । ८.१९ वृषवृश्चिककर्कटैर्नृणामनुकूलैरपि लग्नमाश्रितैः। ८.१९ गमनं प्रवद्नयशोभनं मुनयोऽन्यर्क्षसमाश्रितैरपि॥ ८.२० वेशिर्विलग्नोपगतो यियासोर्विनापि यत्नात्कुरुते फलाप्तिम्। ८.२० गौयानमिष्टं जलराशिलग्ने तदंशके चान्यगृहोदयेऽपि॥E२० अध्याय ९ लग्नभेद ९.१ ऊर्ध्वा तिर्यग्वानता स्याच्च होरा मुक्ता क्रान्ता नागतार्का क्रमेण् ९.१ इत्येताः स्युर्जीवशर्मोपदेशे ज्ञेयो राशिर्ब्रह्मषण्डस्य पक्ष् । ९.२ ऊर्ध्वा स्याद्या षट्चराद्येषु होरा भूयो भूयो मण्डले कैश्चिदुक्ता। ९.२ राशौ राशौ प्राग्विलग्नोपयातैः द्रेक्काणैस्तु प्राह होरां वसिष्ठः॥ ९.३ सर्वं प्रमाणं मुनिचोदितत्वात्किं त्वत्र योज्यं दलमेव होरा। ९.३ यस्मिन् सहस्रांशुरवस्थितोऽर्धे तिर्यङ्मुखी सा गणये ततोऽन्याः॥ ९.४ धत्ते वांछितकार्यमूर्ध्ववदना क्लेशाद्विना लग्नगा ९.४ क्लेशायासपरिक्षयांश्च कुरुते तिर्यङ्मुखी गच्छतः। ९.४ सैन्यभ्रंशमधोमुखी प्रकुरुते कृच्छ्राद्गृहे चागमं ९.४ स्र्वाः पुष्टफलप्रदाः स्वपतिना दृष्टा न पापग्रहैः॥ ९.५ ग्रहदिवसफलं यदेव यातुर्तदखिलमेव करोति तस्य होरा। ९.५ हिमसलिलसृजो विनाह कश्चिद्युवतिसमाश्रयरत्नदेति चान्द्री॥ ९.६ द्रेक्काणाकारचेष्टागुणसदृशफलं योजयेद्वृद्धिहेतोर् ९.६ द्रेक्काणे सौम्यरूपे कुसुमफलयुते रत्नभाण्डान्विते च् ९.६ सौम्यैर्दृष्टे जयः स्यात्प्रहरणसहिते पापदृष्टे च भङ्गः ९.६ साग्नौ दाहोऽथ बन्धः सभुजगनिगले पाशयुक्ते च यातुः॥ ९.७ नृपभूर्तिर्लग्नगते द्रेक्काणे मन्त्रिणो द्वितीये च् ९.७ वैद्यपुरोहितसाम्बत्सरास्तृतीये परे भृत्याः॥ ९.८ स्थानपराक्रमचिन्ता व्यापारपराक्रमौ चमूपबलम्। ९.८ अभ्यवहार्यं शयनासने च तत्पंचसु क्रमशः॥ ९.९ यानासनशय्यावाहनानि दशमेऽपरेऽन्नपानानि। ९.९ वाहनयोधाः परतस्त्रयोदशे भवति युवराजा॥ ९.१० ज्ञेयं बलं प्रयातुर्मन्त्रस्य विनिश्चयश्च तत्परतह् । ९.१० तरतः पञ्चदशाद्ये द्रेक्काणचतुष्टये रिपवः॥ ९.११ एकोनविंशके सैनिकाम्बुशयने धनानि परतोऽर्थाः। ९.११ परतोऽस्य दण्डनेता सैम्यस्योपद्रवः प्ररतः॥ ९.१२ सेनाच्छिद्रं तस्मात्सेनानेता भवेच्चतुर्विंश् ९.१२ सैन्यारोग्यं सैन्यं चतुष्पदं च क्रमात्त्रितय् । ९.१३ कार्यं कोशः फलसिद्धयस्त्रये भूमिपास्त्रये परतः। ९.१३ धर्मक्रियाथ योधार्चनं च यात्रासमाप्तिश्च् । ९.१४ इत्युदयाद्या भावा द्रेक्काणैर्ये मया समुद्दिष्टाः। ९.१४ सदसत्फलमादेश्यं सदसद्युतवीक्षणात्तेषाम्॥ ९.१५ नवभागे तिग्मांशोर्वाहननाशो विलग्नसंप्राप्त् ९.१५ कृच्छ्रात्स्वगृहागमनं प्रतापमृदुता च चन्द्रांश् । ९.१६ कौजेऽग्निभयं बौधे मित्रप्राप्तिर्धनागमो जैव् ९.१६ भोगविवृद्धिः शौक्रे भृत्यविनाशो रविसुतांश् । ९.१७ यदुदयति फलं ग्रहे प्रदिष्टं जनयति तस्य नवांशको व्लग्न् ९.१७ सुभभवननवांशे सहायो रिपुबलभागमुपैति यातुरत्र् । ९.१८ यत्प्रोक्तं राश्युदये द्वादशभागेऽपि तत्फलं वाच्यम्। ९.१८ यच्च नवांशकविहितं त्रिंशांशस्योदये तत्स्यात् ॥E१८ अध्याय १० ग्रहस्थानबल १०.१ सन्तापशोकगदविघ्नकृदुद्गमेऽर्कः कल्याणमानबलहार्दिहरो द्वितीय् १०.१ हेमान्नविद्रुममणिक्षितिदस्तृतीये वैराग्यबन्धुकलहारतिदश्चतुर्थ् । १०.२ पुत्रापदं सुतगृहेऽध्वनि चार्थसिद्धिं षष्ठेऽभिवांछितफलाप्तिमरिक्षयं च् १०.२ द्यूने कलत्रकलहं धनसंक्षयं च मृत्युं करोति निधने सविता रुजं च् । १०.३ धर्मं हिनस्ति नवमे सवितार्थदश्च हत्वा वियत्यविदितं श्रमकर्मदाता। १०.३ रत्नागमं सुबहु लाभगतः करोति कृत्वा व्ययं व्ययगतः कुरुतेऽर्थमल्पम्॥ १०.४ लग्ने शशी कलहशोककरो न पूर्णः स्त्रीवाजिरत्नसुहृदात्मजदः कुटुम्ब् १०.४ दुश्चिक्यगो युवतिरत्नधनप्रदाता बन्ध्वाप्तिदः सुहृदि तत्क्षयदश्च कृष्ण् । १०.५ अर्थप्रदस्तनयगः सुतशोककृच्च मित्रारितां प्रकुरुते न सुखं च षष्ठ् १०.५ अस्तेऽर्थभूयुवतिदोऽर्थविनाशदोऽणुश्चन्द्रोऽष्टमे निधनशोककरः प्रयातुः॥ १०.६ प्रत्येति चाशु नवमे कुरुते च कार्यं क्षीणे क्षयो वियति वृद्धिरतोऽन्यथास्थ् १०.६ ऐश्वर्यसौख्यधनलाभमुपैते लाभे क्लेशक्षयव्ययभयानि च रिष्फयात् । १०.७ लग्ने विषाग्निरुधिरागमशस्त्रबाधा भिन्द्याद्बलं धनगतोऽर्थकरश्च पश्चात् । १०.७ दुश्चिक्यगो युवतिरत्नधनाम्बराप्तिं बन्धुक्षयारिभयदो हिबुके महीजः॥ १०.८ पुतापदं क्षितिसुतः कुरुते सुतस्थः शत्रुप्रणाशमचिरादरिगः करोति। १०.८ अर्थक्षयारतिगदार्दनमस्तसंस्थो बन्धार्थहानिगदमृत्युभयानि मृत्यौ॥ १०.९ धर्मं न साधयति धर्मगतो महीजः शस्तोऽम्बरे न शुभदः कथितोऽपरिश्च् १०.९ लाभेऽर्थसिद्धिविभवागमदः प्रयातुर्वित्तक्षयं बहु करोति गतश्च रिष्फ् । १०.१० लग्ने कीर्तिसुखार्थबुद्धिविजयान् प्राप्नोति वित्तं धने १०.१० सोत्कण्ठं स विरागमेति सहजे कामान् लभेताखिलान्। १०.१० पाताले शयनान्नपानविभवान् पुत्रागमं पञ्चमे १०.१० षष्ठे यात्यरिबाध्यतां शशिसुते क्लेशश्च यातुर्भवेत् ॥ १०.११ जायास्थे प्रवराङ्गनाम्बरधनप्राप्तिर्बुधेऽर्काच्युते १०.११ केचित्क्लेशमुशन्ति नैधनगते शंसन्ति केचिच्छुभम्। १०.११ धर्मे धर्मविवृद्धिरम्बरगते सिद्धिर्भवेदीप्सिता १०.११ विद्यार्थाप्तिरयत्नतश्च परतो रिष्फे च वाच्यो व्ययः॥ १०.१२ कीर्तिर्लग्नेऽर्थाथसिद्धिर्द्वितीये दुश्चिक्यस्थे क्षुच्छ्रमार्तिः सुरेज्य् १०.१२ पातालस्थे धर्मतत्वाभिमाना कार्यं सिध्यत्यात्मजस्थेऽप्यसाध्यम्॥ १०.१३ षष्ठे जीवे शत्रुरायाति वश्यं केचित्प्राहुर्वश्यतां याति शत्रोः। १०.१३ विन्दन्त्यस्तेऽरिष्टयोषायशांसि मृत्यौ प्राणान् हन्त्यथान्ये जगुर्न् । १०.१४ पुत्रोत्पत्तिर्धर्मसिद्धिश्च धर्मे जीवे कर्मण्यर्थसिद्धिर्यशश्च् १०.१४ लाभे कार्यं वाञ्छितं याति सिद्धिः रिष्फे प्राप्ते क्लिश्यतेऽनेकदुःखैः॥ १०.१५ वेश्यार्थाम्बरमाल्यभोजनसुखप्राप्तिर्विलग्ने भृगौ १०.१५ लाभोऽर्थे सहजे न सीदति गतः प्राप्नोति श्रेष्ठां श्रुतिम्। १०.१५ पाताले सुहृदागमः सुतगृः स्थानार्थमानागमः १०.१५ षष्ठे शत्रुपराभवारतिशुचं स्थानेऽन्यथा तज्जगुः॥ १०.१६ दत्त्वा स्त्रीधनमस्तगः स्वविषयव्युच्छित्तिदो भार्गवः १०.१६ कार्यं साधयतेऽष्टमेऽथ नवमे क्षिप्रं करोतीप्सितम्। १०.१६ यातुः कर्मगतः प्रभूतधनदो लाभे जयार्थप्रदो १०.१६ व्यर्थं द्वादशगो व्ययं प्रकुरुते शस्तोऽपरैर्द्वादश् । १०.१७ बन्धं वधं चार्कसुते विलग्ने धने अर्थहानिं लभते शुभं च् १०.१७ शत्रोर्बलं हन्ति गतस्तृतीये चतुर्थगो बन्धुभयं परेभ्यः॥ १०.१८ नार्थस्य सिद्धिः सुतगेऽर्कपुत्रे रिपून् रिपुस्थे सृजयत्ययत्नात् । १०.१८ उत्साहभङ्गोऽक्षिरुजश्च दारे विषाग्निशस्त्रादिवधोऽष्टमस्थ् । १०.१९ धर्मे न धर्मं लभते सुखञ्च यानावृतिं कर्मफलं च स्वस्थ् १०.१९ एकादशस्थे जयवित्तलाभान्मन्देऽन्त्यगे नार्थमुपैति याता॥ १०.२० प्रायो जगुः सहजशत्रुदशायसंस्थाः १०.२० पापाः शुभाः सवितृजं परिहृत्य खस्थम्। १०.२० सर्वत्रगाः शुभफलं जनयन्ति सौम्यास् १०.२० त्यक्त्वास्तसंस्थममरारिगुरुं जिगीषोः॥ १०.२१ केचित्प्राहुररिव्ययास्तसहजस्थानानि हित्वा भृगुः १०.२१ श्रेष्ठश्चन्द्रसुतोऽन्त्यधर्मसहजद्यूनस्थितो नेतरः। १०.२१ चन्द्रो लाभसुतार्थधर्मसहजव्योमस्थितः पूजितो १०.२१ जीवः सर्वगतो मणित्थकथितो नेष्टोऽन्त्यषट्स्त्र्याश्रितः॥ १०.२२ एकीयपक्षेऽपि हि कैश्चिदुक्तो भृगुः शुभोऽन्त्यात्मजलाभवर्जम्। १०.२२ चन्द्रस्त्रिषष्ठायदशास्तसंस्थो बुधोऽस्तलग्नायसुहृद्व्ययस्थः॥E२२ अध्याय ११ उत्सर्गापवाद ११.१ सौम्यासौम्येष्वेतल्लग्नाद्स्थेषु यत्फलं प्रोक्तम्। ११.१ तत्समकालगतानां फलवैषम्यादनेकान्तम्॥ ११.२ होराविदो जगुरिदं सुतावबलो दशाधिपारिश्च् ११.२ अशुभफलदश्चासाम्प्रतमुदये सौम्योऽपि नेष्टफलः॥ ११.३ साम्प्रतं शुभदः सुतौ बलन्वितो यो दशाधि(प)मित्रं च् ११.३ पापोऽपिशुभफलः स्याच्छलोकः शास्त्रोदितश्चात्र् । ११.४ सौम्योऽप्यतीवचिरभाविफलो न योज्यः ११.४ पापोऽप्यसाम्प्रतफलो रिपुनिर्जितश्च् ११.४ पाकाधिपोऽऽत्मसदनाष्टकवर्गशुद्धः ११.४ अवल्पोऽफलश्च दिनभांशविधिस्तथा स्यात् ॥ ११.५ सौम्यं दशाधिपं लग्नसंस्थमिच्छन्ति केचिदाचार्याः। ११.५ पापां चोपचयस्थं न विलग्ने तत्र च श्लोकौ॥ ११.६ सौम्यग्रहेषु लग्नेषु शुभमेकान्तनिश्चितम्। ११.६ पपग्रहोदये यातुरसंशयमशोभनम्॥ ११.७ तस्मात्क्रूरं दशानाथं यातुर्वीर्यगुणान्वितम्। ११.७ कुर्यादुपचयर्क्षेषु न विलग्ने कथंचन् । ११.८ तच्च विरुद्धं तेषां कथमन्यदशासु दास्यते स्वफलम्। ११.८ एवं फलस्य नाशो व्रजति सर्वस्य फललि(ली)प्सोः॥ ११.९ तस्मान्नैकान्तोऽयं जातकमवलोक्य निर्दिशेत्सदसत् । ११.९ श्लोकौ वृत्तं भेदं प्राह मणित्थो वसिष्ठश्च् । ११.१० रक्षका वर्धकाश्चैव ये स्युर्जन्मनि नायकाः। ११.१० तान् पापानपि निःशङ्को यात्रालग्नेषु योजयेत् ॥ ११.११ शुभाशुभफला योगा जातके येऽप्युदाहृताः। ११.११ तान् सर्वानवलोक्यैव प्रयाणेष्वपि योजयेत् ॥ ११.१२ होरागतः स्वभवने यदि सूर्यपुत्रो मेषोपगोऽवनिसुतः स्वगृहे शशाङ्कः। ११.१२ शुक्रस्तुलाधरगतो मिथुने बुधश्च सिंहे रविर्यदि च पार्थिवजन्म विद्यात् ॥ ११.१३ जन्मसमये शशाङ्कोदयोपचयसंस्थिता ग्रहाः केचित् । ११.१३ ते सर्वे नानाख्या क्रूराः सौम्यैः समाश्चिन्त्याः॥ ११.१४ यो यस्य दशमगृहगः स तस्य वश्यस्तु भवति नियमेन् ११.१४ यश्चाथ पणफरस्थः स भवति रक्षोपगस्तद्वत् ॥ ११.१५ उपचयगृहोपयाताः प्रस्परं कीर्तित्स्तु तानसमाः। ११.१५ आदौ प्रकीर्णकाध्याये चोदिताः कारकाश्च् । ११.१६ जन्मेश्वरलग्नपयोर्यः शत्रुर्लग्नगः स सौम्योऽपि। ११.१६ कुरुते देहविपत्तिं क्रूरोऽपि शुभं तयोर्मित्रम्॥ ११.१७ भवेन्न यः कारकतानसंज्ञः स्वजन्मलग्नाधिपयोः शुभोऽपि। ११.१७ करोति लग्नोपगतः स यातुर्भयं विनाशं च बहुप्रकारम्॥ ११.१८ पपोऽपे लग्नोपगतो नराणां शुभप्रदः कारकतानसंज्ञः। ११.१८ तस्मात्प्रय्त्नादिद्मेव चिन्त्यं यियासतां कारकतानयातम्॥ ११.१९ एकोऽपि वक्रोपगतो नराणां शुभोऽशुभो वापि चतुष्टयस्थः। ११.१९ वर्गोऽपि वास्योदयगो विनाशं बहुप्रकारं कुरुतेऽध्वगानाम्॥ ११.२० स्वसुतस्थाने सूर्यः स्त्रीजनरत्नप्रमोददो लग्न् ११.२० अवशेषस्थानगतो वधबन्धोद्वेगदः क्षिप्रम्॥ ११.२१ उडुपतिरुदयं प्राप्तः सर्वस्थानोपगः प्रयातृणाम्। ११.२१ कुरुते रिपुप्रवृद्धिं दीप्तिविनाशं विघातं च् । ११.२२ स्थानेऽर्कसुतस्य कुजो लग्नस्थो रिपुविनाशजयदाता। ११.२२ शेषस्थानोपगतः क्षितिसुतो रत्नार्थनाशकरः॥ ११.२३ रविशशिभौमस्थानेष्वनर्थदो लग्नगः शशाङ्कसुतः। ११.२३ भृगुसुतगुरुमन्दानामभिषेकजयार्थदीप्तिकरः॥ ११.२४ जीवो भृगुचन्द्रमसोः स्थाने धनयोधनाशकः प्रोक्तः। ११.२४ तत्परिशेषस्थानेष्ववनिसुहृद्वित्तंजयदाता॥ ११.२५ सौम्यस्थाने शुक्रो बलहानिकरोऽर्थदोऽरिहन्ता च् ११.२५ स्थाने परिशेषाणामनिलज्वरशत्रुकोपकरः॥ ११.२६ अर्कस्थाने मन्दो लग्नस्थः प्रीतिसौख्यलाभकरः। ११.२६ नेष्टोऽन्यस्थानस्थः प्रतापबलमानहानिकरः॥ ११.२७ सवितृतनयः स्वस्थानस्थो धनाङ्गविनाशकृत् ११.२७ तुहिमकिरणः स्त्रीरत्नाप्तिं नरेश्वरतां रविः। ११.२७ अवनितनयः सैन्यक्षोभं प्रियश्रवणं बुधः ११.२७ सुरगुरुरथो भोगप्राप्तिं करोति जयं सितः॥ ११.२८ योऽस्तं यात्युदयं वा दक्षिणमार्गस्थितः सहस्त्रांशोः। ११.२८ कुरुते ग्रहः सलग्ने योधधनाङ्गक्षयं यातुः॥ ११.२९ तिग्मकरस्योत्तरतो दर्शनमायाति यो ग्रहोऽस्तं वा। ११.२९ मध्ये तु वा स लग्ने यातुः कुसुमाम्बराशनदः॥ ११.३० नियतगतिद्युतिवर्णप्रमाणवैकृत्यमुच्यते विकृतिः। ११.३० विकृतिस्थो गल्नगतो न शुभः शुभदः स्वभवनस्थः॥ ११.३१ याम्ये तमो ज्ञः श्रवणे रविस्तु जातो विशाखासु सितश्च पुष्य् ११.३१ पौष्णप्यभाग्योरगकृत्तिकासु मन्दारवागीशशिरवीन्दुजन्मा॥ ११.३२ त्रिविधोत्पाताभिहतं बलवद्ग्रहपीडितं च यस्यर्क्षं। ११.३२ यात्रायां लग्नगतः स वर्जनीयोऽनुकूलोऽपि॥ ११.३३ पाकेश्वराधिमित्रे तद्वर्गे वा विलग्नगे यातुः। ११.३३ स्वयमरिरुपैति वश्यं प्रणतशिराः सार्वभौमोऽपि॥ ११.३४ पकेश्वरारिलग्ने वर्गे वा तस्य भूपतिर्गच्छन्। ११.३४ विनिहतशूरनराश्वः शत्रोरायाति वश्यत्वम्। ११.३५ मूर्त्यर्थयोधवाहनमन्त्र्यरिमार्गनैधनमनांसि। ११.३५ कर्मागमव्ययाश्चोदयादयः कीर्तिता भावाः॥ ११.३६ यात्राफलं चतुर्थे जामित्रे शत्रवः प्रमादश्च् ११.३६ शुभपापग्रहयोगाच्छुभाशुभं निर्दिशेदेषाम्॥ ११.३७ सत्याचार्यस्य मते विबलः शस्तः शशी प्रयाणेषु। ११.३७ दिग्वीर्योनः केवलमिन्दुः शस्त इति जगुरन्य् । ११.३८ यदेव यस्योदयसंस्थितस्य फलं प्रयाणे सदसत्प्रदिष्टम्। ११.३८ तदेव तस्याखिलमह्नि यातुर्ग्रहस्य वर्गे च विलग्नसंस्थ् ।E३८ अध्याय १२ मिश्रक १२.१ व्यसनं प्राप्नो(ति) महद्व्यतिपाते निर्गतोऽथवा मृत्युम्। १२.१ वैधृतिगमनेऽप्येवं त्र्यह्नस्पृशि समुपदिशान्त्येव् । १२.२ नावमरात्रे यायाद्दोषस्तत्राधिमासके व्यसनम्। १२.२ ऋत्वयनयुगस्याप्तौ न विजयकाङ्क्षी नृपः प्रवसेत् ॥ १२.३ स्वर्क्षेशदशाधिपयोर्मित्रोदासीनशत्रुभांशभवाः। १२.३ तत्पाकभुजश्चोक्ता विजिगीषोर्मित्रमध्यरिपवः॥ १२.४ रिक्तानिष्टदशोऽरिर्नियमाद्विजिगीषुणा समुच्छेद्यः। १२.४ अवरोहिदशः पीड्यः कर्षयितव्यस्तथारोही॥ १२.५ न सदृशदशोऽभियोज्यः सन्धानं तेन भूपतेर्व्यासम्। १२.५ अशुभैष्यासन्नदशः शुभैष्यपाकेन सन्दध्यात् ॥ १२.६ श्रेयान् विपर्यये विग्रहस्तथारोहिण्यशुभैष्यदशः। १२.६ आसीत यदा शत्रुः शुभैष्यपाके विदूरस्थः॥ १२.७ आरोहिशुभैष्यदशः पाकपतौ बलयुते च भूपालः। १२.७ यायात्तद्विपरीतं द्वैधीभावं तु मिश्रदशः॥ १२.८ रिक्तोपहतदशायां जन्मोदयनाथशत्रुपाके च् १२.८ स्वदशेशकारकदशः संश्रयणीयो नराधिपतिः॥ १२.९ उपचयकर्तुर्व्रजेद्दिशं बलवति कण्टकगे च दिक्पतौ। १२.९ मनसापि न दिग्बलान्विते दिगधिपतौ च ललाटसंस्थित् । १२.१० जन्मोदयपौ बलान्वितावुपचयकण्टकगौ शुभप्रदौ। १२.१० क्रूरावपि नित्यमेव तौ सौम्यैरेव समावुदाहृतौ॥ १२.११ स्वदशाधिपजन्मलग्नपाः सन्ध्यार्कोपगता न शोभनाः। १२.११ परिहृत्य सितार्कनन्दनौ मध्यास्तिग्मकराद्विनिःसृताः॥ १२.१२ परस्परं सौरिकुजौ रवीन्दू त्रिकोणगौ भार्गवलोहितौ च् १२.१२ फलं यदुक्तं तदशेषमेव विनाश्य पश्चात्स्वदिशं नयन्ताम्॥ १२.१३ रिपुदिवसो यस्य भवेत्सौम्योऽपि स लग्नगो न शुभदाता। १२.१३ पापोऽपीष्टं जनयति मित्रं स्वदिने विलग्नस्थः॥ १२.१४ बलिनः कण्टकसंस्था वर्षाधिपमासदिवसहोरेशाः। १२.१४ द्विगुणशुभाशुभफलदा परतः परतो ग्रहा यातुः॥ १२.१५ यात्राजसिंहतुरगोपगते वरिष्ठा मध्या शनैश्चरबुधोशनसां गृहेषु। १२.१५ भानौ कुलीरझषवृश्चिकगेऽतिदीर्घा शस्तस्तु देवलमतेऽध्वनि पृष्ठतोऽर्कः॥ १२.१६ सकलफलददशाढ्यके प्रवरा मध्याष्टवर्गसंशुद्धौ। १२.१६ न्यूनफला तात्कालिकविलग्नतिथिदिवसकरणाद्यैः॥ १२.१७ उत्तमफला यात्रा त्रिकोणतुङ्गोपच(ये)षु सौम्येषु। १२.१७ मध्या स्वमित्रभवनोपगेषु नीचारिभेष्वधमा॥ १२.१८ मध्याधमाधमोत्तमसममध्याधोधमोत्तमोत्कृष्टा। १२.१८ मध्योत्तमा च षष्ठा यात्रा यात्राविदामिष्टा॥ १२.१९ दिग्वर्गविलोमगे हते सन्ध्याकरोपगते विदीधितौ। १२.१९ शुक्रे प्रवसन्नरेर्वशं याति बुधे च विलोमसंस्थित् । १२.२० अनुलो(म)गते शशाङ्कजे शुक्रे चैवमपि व्यवस्थित् १२.२० यायादविशङ्कितोऽपरैः कथितोऽप्याङ्गिरसो यथेन्दुजः॥ १२.२१ आक्रन्दसारी दिनमध्यगोऽर्कः पौरः पुरस्तादपरत्र यायी। १२.२१ आक्रन्द इन्दुर्गुरुमन्दसौम्याः पौराः स्मृता यायिन इत्यतोऽन्य् । १२.२२ यायिग्रहैर्वीर्यजयोपपन्नैः केऽरिप्रयाणं प्रवदन्ति धन्यम्। १२.२२ सत्यं तथा किं तु विशेषमाहुस्ते भूपतेः सत्फलदा जिगीषोः॥ १२.२३ दृष्टे साम्नां कर्मनिष्टं सुरारौ वैतालीयं पाददम्भौ च हित्वा। १२.२३ शस्तो राहुस्त्र्यायकर्मोपयातो यातव्यश्चासन्नतागश्च केतुः॥ १२.२४ साम्नां शुक्रबृहस्पती दिनकरो वक्रश्च दण्डेश्वरौ १२.२४ भेदस्येन्दुजराहुकेतुरविजा दानस्य नक्तम्चरः। १२.२४ आर्कादाटविकं यमा(द्) भृतबलं(स्यु)र्भार्गव्(आच्छ्रेणिकं) १२.२४ ज्ञान्मन्त्रं रिपुदेशमौलबलपालक्(आभौमे)न्दुवागीश्वराः॥ १२.२५ यतोऽप(प)न्नदिवसकरोडुनाथयोस्ततो व्रजेद्रिपुनधनाय पार्थिव् १२.२५ अथायनेन युगपदेकसंस्थयोर्द्युनक्तयो रविशशिनोर्व्रजेत्तदा॥E२५ अध्याय १३ देहस्पन्दन १३.१ दक्षिणपार्श्वस्पन्दनमभिधास्ये तत्फलक्षयो वाम् १३.१ पृथिवीलाभः शिरसि स्थानविवृद्धिर्ललाटे स्यात् । १३.२ भ्रूनासिकान्तरे प्रियसमागमो भृत्यलब्धिरक्षिणोस्तु। १३.२ दृक्पर्यन्तेऽर्थाप्तिः पूर्वे ज्ञेयात्र चोत्कण्ठा॥ १३.३ योषित्सौख्यं गण्डे दृक्चरमाधश्च सङ्गरे विजयः। १३.३ श्रवणे च हितश्रवणं नासायां प्रीतिसौख्यं च् । १३.४ अधरोत्तरौष्ठयोः प्रियसमागमविजयौ गले च भोगाप्तिः। १३.४ अंसे भोगविवृद्धिर्वाहाविष्टेन संयोगः॥ १३.५ हस्तेऽर्थाप्तिः पृष्ठे पराजयो वक्षसि स्मृतो विजयः। १३.५ प्रीत्युत्पत्तिः पार्श्वे स्तने त्वपूर्वा विषयलब्धिः॥ १३.६ कट्यां बलप्रमोदः स्थानभ्रंशः प्रकीर्तितो नाभौ। १३.६ हस्ते कोशविवृद्धिः क्लेशो हृदयेऽर्थपर्यन्तः॥ १३.७ वाहनलाभः स्फिग्यायुर्वृषणे योषिदागमः शिश्न् १३.७ मुष्के तनयोत्पत्तिर्वस्तावन्तःपुराभ्युदयः॥ १३.८ पृष्ठत ऊर्वोर्दोषः पुरतश्चलने तु शचिवहितलब्धिः। १३.८ प्रचलति च जानुसन्धावरिसन्धानं बलवदुक्तम्॥ १३.९ देशैकदेशनाशो जंघायां स्थानलब्धिरंध्र्युपरि। १३.९ अध्वागमनमलाभं चरणतले स्पन्दमाने तु॥ १३.१० व्रणपिटकतिलकलांछनमशकादायस्त्वेव निर्दिष्टाः (स्युः)। १३.१० कण्डूयनं नरपतेर्दक्षिणपाणौ जयायैति॥E१० अध्याय १४ चित्तशुद्धिर् १४.१ पृष्टव्यो दैवविदा विश्रब्धमुपह्वरे नराधिपतिः। १४.१ रिपुनिधनप्रणिधानं प्रति भवतः किं मनः कुरुत् । १४.२ ब्रूयात्स चेन्मम मनः प्रोत्सहते हर्षयेत्ततश्चैवम्। १४.२ चित्तानुकूलता सिद्धिलक्षणं तत्र च श्लोकाः॥ १४.३ शुभाशुभानि सर्वाणि निमित्तानि स्युरेकतः। १४.३ एकतश्च मनश्शुद्धिस्तद्धि शुद्धं जयावहम्॥ १४.४ कियच्चिरं न लभ्येत निमित्तं गमनानुगम्। १४.४ न त्वेव तु मनोऽनर्थं चिरेणाप्यनुमन्यत् । १४.५ निमित्तानुचरं सूक्ष्मं देहेन्द्रियमहत्तरम्। १४.५ तेजो ह्येतच्छरीरस्थं त्रिकालफलदं नृणाम्॥ १४.६ प्रीयते न मनोऽनर्थैर्नासिद्धावभिनन्दति। १४.६ तस्मात्सर्वात्मना यातुरनुमेयं सदा मनः॥E६ अध्याय १५ गुह्यकानुष्ठान १५.१ यात्रार्वाक्सप्ताहाद्गुह्यकसाहायकं त्र्यहं पूर्वम्। १५.१ त्र्यहमथ विजयस्नानं गृहयज्ञं सप्तमे दिवस्। १५.२ पक्वाममांसदधिफलकुसुमासवपायसप्रतिसरोभिः। १५.२ मूलकभक्षैर्गन्धैर्गुग्गुलुमुख्यैस्तथा धूपैः॥ १५.३ सांवत्सरसचिवपुरोहिताप्तपुरुषायुधीयपरिचारः। १५.३ यायान्नगरचतुष्पथमभुक्तवस्त्रोत्तरीयाङ्गः॥ १५.४ अर्धनिशायामुदयति सौम्ये वक्रेऽथवा तदंशे वा। १५.४ दद्याद्बलिं दशस्वप्याशासु पुरोहितः क्रमशः॥ १५.५ आवर्तयेत्पुरोधाः कृताञ्जलिस्तत्र रुद्रसावित्रीम्। १५.५ कूष्माण्डमहारौहिणकुबेरहृदयान्यतः प्रपठेत् ॥ १५.६ द्वारत्रिकचतुष्काद्रिपुरनिष्कुटवासिनः। १५.६ महापथनदीतीरगुहागाह्वरवसिनः॥ १५.७ विश्वरूपा महासत्त्वा महात्मनो महाव्रताः। १५.७ प्रथमाः प्रतिगृह्नीध्वमुपहारं नमोऽस्तु वः॥ १५.८ सुपुत्रामात्यभृत्योऽयं सदारश्चैव पार्थिवः। १५.८ रक्ष्णीयो हिते चास्य प्रयतध्वं समाहिताः॥ १५.९ एवमुक्त्वा ततस्त्वर्घ्यं प्रमथेभ्यः प्रदापयेत् । १५.९ सावित्र्याः स्थण्डिले तस्मिन् सूतस्तूपहरेद्बलिम्॥ १५.१० यमेन्द्रवरुणार्थेशविष्णुपावकशूलिनाम्। १५.१० यक्षरक्षःपिशाचानामसुराणां तथाइव च् । १५.११ ये स्युर्भूतगणास्तेभ्यो नमोऽस्त्वित्यनुयान्तु च् १५.११ सन्नद्धाः स्वैः प्रहरणैररिसेनावधा इनाः॥ १५.१२ चमूसमेता अनुयान्तु पृष्ठतो विचित्रमाल्याभरना मदोत्कटाः। १५.१२ विचित्रवस्त्रा जटिलाः किरीटिनः कराललम्बोदरकुब्जवामनाः॥ १५.१३ निवृत्तयात्रः पुनरप्यहं हि वो विजित्य शत्रून् भवतां प्रसादतः। १५.१३ अतो विशिष्टं बहुवित्तमुत्तमं बलिं करिष्ये विधिनोपपादितम्॥ १५.१४ अनर्चिता ये नृपतिं सवाहनं विनाशयन्ति क्षपयन्ति वा चमून्। १५.१४ सुपूजिताः सिद्धिकरा भवन्ति ते प्रवाधकाः शत्रुगणस्य चाहव् । १५.१५ क्षणषष्ठिभागमात्रं प्रयतो नृपतिर्विसर्जयेत्प्रमथान्। १५.१५ दैवज्ञपुरोधोभ्यामावेदितमङ्गलो यायात् ॥E१५ अध्याय १६ स्वप्न १६.१ दुकूलमुक्तामणिभृन्नरेन्द्रः समन्त्रिदैवज्ञपुरोहितोऽतः। १६.१ स्वदेवतागारमनुप्रविश्य निवेशयेत्तत्र दिगीश्वरार्चाम्॥ १६.२ अभ्यर्च्य मन्त्रैस्तु पुरोहितस्तानधश्च तस्यां भुवि संस्कृतायाम्। १६.२ दर्भैस्तु कृत्वास्तरमक्षतैस्च किरेत्समन्तात्सितसर्षपैश्च् । १६.३ ब्राह्मीं सदूर्वामथ नागपुष्पीं कृत्वोपधानं शिरसि क्षितीशः। १६.३ पूर्णान् घटान् पुष्पफलाभिधानानाशासु कुर्याच्चतुरः क्रमेण् । १६.४ यज्जाग्रतो दूरमुपैति दैवमावर्त्य मन्त्रां क्रमशस्त्रिरेतम्। १६.४ लघ्वेकभुग्दक्षिणपार्श्वशायी स्वप्नं परीक्षेत यथोपदेशम्॥ १६.५ नमः शम्भो त्रिनेत्राय रुद्राय परमात्मन् १६.५ वामनाय विरूपाय स्वप्नाधिपतये नमः॥ १६.६ भगवन् देव देवेश सूलभृद्वृषवाहन् १६.६ इष्टानिष्टे ममाचक्ष्व स्वप्ने सुप्तस्य शाश्वतम्॥ १६.७ एकवस्त्रे कुशास्तीर्णे सुप्तः प्रयतमानसः। १६.७ निशान्ते पश्यति स्वप्नं शुभं वा यदि वाऽशुभम्॥ १६.८ गतैष्यजात्यन्तरसत्त्वसङ्गैः स्वप्नेऽप्यनूके गतिजे च नित्यम्। १६.८ यातुः प्रकोपादनिलात्मकस्य नगाद्रितुङ्गाम्बरलङ्घनानि॥ १६.९ पित्ताधिके काञ्चनरत्नमाल्यदिवाकराग्निप्रभृतीनि पश्येत् । १६.९ श्लेष्माधिकश्चेन्दुभशुभ्रपुष्पसरित्सरोम्भोधिविलङ्घनानि॥ १६.१० जघन्यमध्यप्रथमे निशांशे प्रावृच्छरन्माधवसंज्ञते च् १६.१० काले मरुत्पित्तकफप्रकोपात्साधारणः स्यात्फलसन्निपातः॥ १६.११ दशासु चोक्तं ग्रहपाकजातं चिन्ता तु दृषा तु यथा तथैव् १६.११ बीभत्ससत्त्वाभिभवोऽभिचारो विघ्नोद्भवो गुह्यकजः प्रदिष्टः॥ १६.१२ अनूकचिन्ताग्रहदोषदृष्टान्यतीतकर्ंाणि च निष्फलानि। १६.१२ द्युदृष्टपूर्वाः कथिताश्च तद्वदन्यत्र लोके कथिता विशेषाः॥ १६.१३ प्रत्यक्षवद्भवति यः स्फुरतीव चान्तः १६.१३ स्वप्नस्य तस्य नियमात्सदसत्फलाप्तिः। १६.१३ स्वप्नाः शुभाशुभकृताः फलदा नराणाम् १६.१३ उद्देशमात्रमिह ताननुवर्णयामि॥ १६.१४ स्वाङ्गप्रज्वलनं परोपगमनं शक्रध्वजालिङ्गनं १६.१४ दिक्संवृत्तनरेन्द्रकन्यकतनोर्विक्षेपणं दिक्षु च् । १६.१४ बन्धो वा निगले ग्रसेच्च दहनं नानाशिरोबाहुता १६.१४ छत्रं वा द्विरदोऽभिषिच्य बिभृयाद्दिव्योऽथवा ब्राह्मणः॥ १६.१५ उडुपदिनकृद्गोशृङ्गाग्रस्रुताम्ब्वभिषेचनं १६.१५ यदि च महिषीसिंहीव्याघ्रीगवां सुखदोहनः। १६.१५ जठरनिसृतैश्चान्त्रैर्ग्रामद्रुमादिनिवेष्टनं १६.१५ विशति यदि वा सुश्लिष्टाङ्गी तनुं प्रवराङ्गना॥ १६.१६ मनुजहृदयमूर्ध्नां भक्षणं वा स्वदेह- १६.१६ भुजगतुरगसिंहेभाजमांसादनानि। १६.१६ तृणतरुकुसुमाम्भःप्रोद्गमो वा स्वनाभौ १६.१६ क्षितितनुपरिवर्तोन्मूलने वाधिराज्यम्॥ १६.१७ दिनकरशशिताराभक्षणस्पर्शणानि १६.१७ दरणमपि च मूर्ध्नः सप्त पञ्च त्रिधा वा। १६.१७ वृषभगृहनगेन्द्राश्वेभसिंहाधिरोहो १६.१७ ग्रसनमुदधिभूम्योश्चाधिराज्यप्रदानि॥ १६.१८ विपुलरणविमर्दद्यूतवादैश्च जित्वा १६.१८ पशुमृगमनुजानां लब्धिरग्र्यासनं वा। १६.१८ विडशनपरिलेपोऽगम्यनारीगमो वा १६.१८ स्वमरणशिखिलाभः सस्यसन्दर्शनं च् । १६.१९ सितसुरभिमनोज्ञालेपमाल्याम्बराणां १६.१९ द्विजसुरगुरुराज्ञां दर्शनान्यासिषं च् १६.१९ मणिरजतसुवर्णाम्भोजपात्रेषु भुङ्क्ते १६.१९ यदि दधिपरमान्नं शोणिते मज्जने वा॥ १६.२० सिततुरगरथध्वजातपत्रव्यजनसरोजमणिद्विपेन्द्रलाभाः। १६.२० अभय जय च भुंक्ष्व चेति शब्दाः परिणतराज्यफलप्रदाः प्रदिष्टाः॥ १६.२१ पूर्वजन्मसु चाभ्यस्ता सत्त्वरूपा गतिस्तदा। १६.२१ (तद)नूकमिति प्रोक्तमिह पश्चात्करोति यत् ॥ १६.२२ मुद्रादिषु यज्ञनीविषु स्त्रीसंज्ञादिषु चाङ्गनाप्तिरुक्ता। १६.२२ लब्धे शयनेऽथ दर्पणे भृङारादिषु चोद्भवः (सुत)स्य् । १६.२३ कामिन्यां धनलब्धिरम्बुतरणे शोकस्य नाशो भवेद् १६.२३ धर्षो रोदितशोचितादिषु तथा दाहे विवृद्धिर्मता। १६.२३ गोशृङ्गिद्विजदेवतापितृसुहृद्भूपाश्च शंसन्ति यत् १६.२३ स्वप्ने तन्नियमाद्भवत्यवितथं नेष्टं शुभं वा फलम्॥ १६.२४ गोभेरन्यत्र गोत्रे तृणतरुकुसुमप्रोद्भवः स्नेहपानं १६.२४ क्रीडायानोपभोगः खरकपिकरभव्यालरूपैश्च सत्त्वैः। १६.२४ कायस्यालेपनं वा कलुषमलमषीगोमयस्नेहपङ्कैर् १६.२४ दृग्जिह्वादन्तबाहुप्रपतनमथवानर्थशोकप्रदानि॥ १६.२५ गीतोत्क्रीडितभूषितप्रहसितप्र्(आमोदिता)खेलितानि १६.२५ अर्केन्दुध्वजतारकानिपतनं स्त्रोतोवहाया गमः। १६.२५ रज्जुच्छेदचिताप्रपातजननीगात्रप्रवेशस्तथा १६.२५ स्वप्ने कांस्यविचूर्णनं च शिरसः क्लेशामयानर्थदाः॥ १६.२६ श्मश्रुकेशनखदैर्घ्यकल्पना वानरीविकृतनार्युपासनम्। १६.२६ रक्तवस्त्रमनुजाङ्गमर्दनं रोगमृत्युभयशोकतापदम्॥ १६.२७ स्थलमृगपशुकीटानूपवर्यन्धजानां १६.२७ प्लवनमुदकराशौ स्याद्विवाहोत्सवो वा। १६.२७ सरसिजजतुभाण्डक्रीडनं नर्तनं वा १६.२७ मलिनविवसनत्वं चाशु रोगप्रदानि॥ १६.२८ स्वद्रव्यनाशः सुहृदां वियोगश्छेदश्च पाण्योः कमलापहारः। १६.२८ प्रासादवेश्माद्रिशिरोवताराः स्वप्नेषु नेष्टा इति संप्रदिष्टाः॥ १६.२९ मित्रस्याप्तिः स्याद्विकोशासिलाभे वश्यं गच्छेद्भूपतेः शासनाप्तौ। १६.२९ सर्पे कर्णौ नासिकां वा प्रविष्टे तच्छेदः स्याद्वेष्टने चाशु बन्धः॥ १६.३० आद्ये वर्षाद्वत्सरार्धाद्द्वितीये यामे पाको वर्षपादात्तृतीय् १६.३० मासात्पाकः शर्वरीपश्चिमांशे सद्यः पाको गोविसर्गे च दृष्ट् । १६.३१ दृष्ट्वा स्वप्नं शोभनं नेह सुप्यात्पश्चाद्दृष्टो यः स पाकं विधत्त् १६.३१ शंसेदिष्टं तत्र साधुद्विजेभ्यस्ते त्वाशिभिः पूजयेयुर्नरेन्द्रम्॥ १६.३२ भूयः प्रस्वपनं न चास्य कथनं गङ्गाभिषेको जपः १६.३२ शान्तिः स्वस्त्ययनं निषेवणमपि प्रातर्गवाश्वत्थयोः। १६.३२ विप्रेभ्यश्च तिलान्नपानकुसुमैः पूजा यथाशक्तितः १६.३२ पुण्यं भारतकीर्तनं च कथितं दुःस्वप्नविच्छित्तय् ।E३२ अध्याय १७ विजयस्नान १७.१ क्षीरैकतरुनगार्णवतूलनदीसङ्गमाः सरः शोष्यम्। १७.१ गोस्थानपटुसुरालयरुचिराः स्नानप्रदेशाः स्युः॥ १७.२ समगम्भीरानूषरशाड्वलभूमौ प्रदक्षिणजलायाम्। १७.२ काष्ठारश्मिप्रमितं वास्तु लिखेत्सर्वतो भद्रम्॥ १७.३ सर्वैर्धान्यैस्तिलमुद्गमाषचणकातसीपरिश्लिष्टम्। १७.३ अच्छिन्नाग्रैर्दर्भैः कुशैः स(मस्ता)त्परिस्तीर्णम्॥ १७.४ रजतमणिहेमगर्भैः सक्षीरप्रवालसितसूत्रै(श्च)। १७.४ कलशैः कालमूलैश्च शोभितद्वारं (तन्मध्ये)॥ १७.५ तन्मध्ये ब्राह्मी ब्रह्मा साम दूर्वाग्रशंखपुष्पाः स्युः। १७.५ दिङ्मुखमरत्नितुङ्गं स्थाप्यं पीनं सप्रवेष्टम्॥ १७.६ तस्य ग्रहानुलोमं कालं केचिज्जगुर्निषेवेत् १७.६ पुरोघ ...... षाष्टिकयवपायसाहारम्॥ १७.७ अभिमतदेवकृतमनाः पूर्वद्वारेण पार्थिवः प्रविशेत् । १७.७ भद्रासनं प्रदक्षिणमध्यासित्वाथ तस्य विधिः॥ १७.८ प्रियङ्गुसिद्धर्थकनागदानगोरोचनाक्षैर्घृतैः समेतैः। १७.८ प्रागात्मरक्षा प्रतिचक्रपूतैः स्नानोन्मुखस्यावनिपस्य कार्या॥ १७.९ श्वेतस्य बभ्रोरथवा वृषस्य चर्मास्तरे व्याघ्रमृगेन्द्रयोर्वा। १७.९ तत्स्थस्य कुर्यान्मनुजेश्वरस्य जयाभिषेकं विधिवत्पुरोधाः॥ १७.१० क्रमान्महीरूप्यसुवर्णकुम्भैः क्षीरस्य दध्नो हविषश्च पूर्णैः। १७.१० स्नायाच्च तोयैः सह सप्तमृद्भिः पश्चाच्च सर्वौषधिगन्धतोयैः॥ १७.११ परिजप्य महारौहिणकुष्माण्डकुवेरहृदयरुद्रगणैः॥ १७.११ अभिषेचयेन्नरेन्द्रं पुरोहितोऽस्मिन् समृध्द्या च् । १७.१२ द्वात्रिंशतिं षोडश वाथवाष्टौ घटप्रमाणं मुनिभिः प्रदिष्टम्। १७.१२ स्नातस्त्वलङ्कारमपास्य पूर्वं नवं विदध्याद्द्विजमन्त्रपूर्तम्॥ १७.१३ मागघबन्दिसुहृद्द्विजसूतैरभिमतवाक्कृतमङ्गलकुशलः। १७.१३ चर्मसु चोपविशेदभिषिक्तः पृषतगजेन्द्रविडालवृकाणाम्॥ १७.१४ गृहीतधूपाम्बरमाल्यगन्धस्त्रिर्भ्रामयित्वोपरि चौषधींश्च् १७.१४ वामेऽस्य पार्श्वेऽग्रत आस्थितो वा प्रतीपपातं जुहुयाद्धुताशम्॥ १७.१५ गोरोचनाहेमफलानि सर्पिर्ब्राह्मीं सदूर्वां सितसर्षपांश्च् १७.१५ आसेव्य सर्वाणि यथोपदेशं भक्त्या द्विजान् स्वस्ति च वाचयित्वा॥ १७.१६ सौम्येन यायात्फलपुष्पपाणिर्द्वारेण पश्येन्न च पौरुहूतम्। १७.१६ प्रागुद्धरेद्दक्षिणपादमेवं कुर्वन्नृपः सर्वरिपून् प्रशास्ति॥E१६ अध्याय १८ ग्रहयज्ञ १८.१ ग्रहयज्ञमतो वक्ष्ये तत्र निमित्तानि लक्षयेद्वेद्याम्।[चितेदिन् ब्स्४३.१४] १८.१ भङ्गो मानोनायां दिग्भ्रष्टायामसिद्धिश्च् । १८.२ नगरपुरोहितदेवीसेनापतिपार्थिवक्षयं कुरुत्[चितेदिन् ब्स्४३.१४] १८.२ प्राग्दक्षिणापरोत्तरमध्यमभागेषु या विकला॥ १८.३ तत्रार्चा ताम्रमयी सवितुः पालाशिका सुस्रुक्समिधः। १८.३ आ कृष्णेति च मन्त्रो रक्ता गन्धाः सहागुरणाः॥ १८.४ माषातसीतिलांश्चार्कसमुद्गचणकान् विहाय भोज्यविधिः। १८.४ वकुलार्कागस्त्यपलाशशल्लकीकुसुमपूजा च् । १८.५ अष्टशतसंमितेभ्यो विप्रेभ्यो दक्षिणाहिताग्निभ्यः। १८.५ देया वृषकनकमही सहस्रकिरणं (स)मुद्दिश्य् । (सूर्यः) १८.६ न्यग्रोधात्स्रुक्समिधः स्फटिकादर्चा च शितगोः कार्या। १८.६ शैलेयकनखवर्ज्या गन्धाः कुसुमानि च सितानि॥ १८.७ गोधूमशालियावरवण्डगोपयः पूर्वमशनमथ मन्त्रः। १८.७ आप्यायस्वेति भवेच्चातुर्वेदाय दद्याच्च् । १८.८ मणिमुक्ताक्षौमहिरण्यसंयुतां श्वेततुल्यवत्साङ्गाम्। १८.८ रजतशफविषाणां क्षीरिणीं च तु हिमांशुमुद्दिश्य् ।(चन्द्रः) १८.९ रक्तकरवीरसमिधो रक्ता गन्धाश्च चन्दनात्प्रतिमा। १८.९ मन्त्रश्चाग्निर्मूर्धेत्यशनं गुडषष्टिकप्रायम्॥ १८.१० ताम्रकनकप्रवालौर्णिकानि देयानि दक्षिणा चास्य् १८.१० उद्दिश्य धरातनयं छन्दोगेभ्यो व्रतस्थेभ्यः॥मं(गलः) १८.११ मन्त्रश्चोद्बूध्यस्वेत्यादि प्रतिमा च युक्तिलोहमयी। १८.११ स्रुक्समिधश्च मधूकादथ वा चान्द्रेरपामार्गात् ॥ १८.१२ युक्तिप्राया गन्धाः कालीयककुङ्कुमप्रियंग्वाद्याः। १८.१२ कुसुमानि मालतीवकुलतिलकमदयन्तिकादीनि॥ १८.१३ भोज्यं मसुरतिलशालिमुद्गचणकादि दक्षिणा स्वच्छश्च् १८.१३ सरजतमणिर्व्रतिभ्यश्चान्द्रेराथर्वणेभ्यश्च् ।बु(धः) १८.१४ अश्वत्थ्यर्जुनसमिधः कनकार्चा त्वग्निवर्जिता गन्धाः। १८.१४ पीतकुसुमानि च गुरोर्भोज्यं तिलमुद्गचणकानि॥ १८.१५ बह्वृग्भ्य एकवर्णं मध्यमवयसं तुरङ्गमं दद्यात् । १८.१५ शृङ्गीसुवर्णयुक्तं बृहस्पतेश्चेति गुरोर्मन्त्रः॥बृ(हस्पतिः) १८.१६ रजतार्चा मदनीया गन्धाः कुसुमानि चित्रसुरभीणि। १८.१६ पनसोदुम्बरसमिधो भोज्यं वृष्यं च भृगुसूनोः॥ १८.१७ अन्नात्परिस्रुताद्यो मन्त्रः स्त्रीकर्कशास्त्वलङ्काराः। १८.१७ अध्वर्युभ्यो देया द्वात्रिंशद्भ्यः तदर्हेभ्यः॥शु(क्रः) १८.१८ शालशमीस्रुक्समिधः शन्नो देवीति भास्करेर्मन्त्रः। १८.१८ लोहार्चा शैलेयकमुस्तकशुक्त्युत्कटा गन्धाः॥ १८.१९ गिरिकर्णिकातसीस्पन्दनांजनादीनि कृष्णपुष्पाणि। १८.१९ अशनानि कृष्णतिलमाषचणकनिष्पावमुख्यानि॥ १८.२० प्रेष्यामतीतवयसां त्रप्वंजनसीसकृष्णलोहयुताम्। १८.२० दद्यादुद्दिश्यार्किं वृषलीपतिवृद्धमूर्खेभ्यः॥श(निः) १८.२१ वैभीतस्रुक्समिधो राहोर्होमेऽथवा भवेद्दूर्वा। १८.२१ मन्त्रश्च कया नश्चित्रपूर्वकोऽर्चा च नागमयी॥ १८.२२ उद्दिश्य सैंहिकेयं महिषं प्रतिपादयेत्सुवृद्धेभ्यः। १८.२२ विप्रेभ्य इति यदन्यत्तत्सर्वं सूर्यपुत्रसमम्॥(राहुः) १८.२३ केतोः कांस्यप्रतिमा केतुं कृण्वन्न्न केतवे मन्त्रः। १८.२३ आरण्यकुसुमपूजा स्रुक्समिधः खदिरकुशमय्यः॥ १८.२४ मांसौदनमननं १ रह्मबन्धुवर्गस्य दक्षिणा देया। १८.२४ प्रहरणफल्गुद्रव्याणि चैवं केतुं समुद्दिश्य् ।(केतुः)E२४ अध्याय १९ अग्निलक्षण १९.१ कृत्वैवं ग्रहपूजामृचा ततश्चाग्निलिङ्गया जुहुयात् । १९.१ श्लोकांश्चास्मिन्नर्थे काश्यपमुनिचोदितान् वक्ष्य् । १९.२ ततोऽप्रतिरथं कृत्स्नं यात्रालिङ्गं च यद्भवेत् । १९.२ आयुष्यमभयं चैव सर्वं चैवापराजितम्॥ १९.३ शर्मवर्मगणं चैव तथा स्वस्त्ययनं गणम्। १९.३ एतान् पञ्चगणान् हुत्वा संस्थाप्याग्निं यथाविधि॥ १९.४ भूत भूतेति च गणं यत्ते चन्द्रस्तथैव च् १९.४ ऐन्द्रो गणस्तथा चान्द्रो मन्त्राशीःसूक्तमेव च् । १९.५ भूयो भूयस्तथा ज्वालां संस्पृश्याथ पुरोहितः। १९.५ स्पृशेच्च नृपतिं मन्त्रैरुच्चैर्ब्रूयात्पुनः पुनः॥ १९.६ चक्षुर्दः प्राणदश्चापि वर्चोदश्च भव प्रभो। १९.६ अनाधृष्यतमश्चासि यथा त्वं हव्यवाहन् । १९.७ शात्रवाणां तथा राजाप्यनाधृष्यो भवत्ययम्। १९.७ हूयमाने निमित्तानि वक्ष्याम्यहमतः परम्॥ १९.८ कम्पोत्कासविजृम्भणप्रचलनस्वेदाश्रुपातक्षुधो- १९.८ द्गाराद्यं च पुरोधसः स्मृतिविपच्चानिष्टमन्यच्छुभम्। १९.८ आज्यं केशपिपीलिकामलयुतं सत्त्वावलीढं च यत् १९.८ तन्नेष्टं शुभमन्यथोपकरणं द्रव्याण्यनूनानि च् । १९.९ उत्थाय स्वयमुज्ज्वलार्चिरनलः स्वाहावसाने हविर् १९.९ भुक्ते देहसुखः प्रदक्षिणगतिः स्निग्धो महान् संहतः। १९.९ निर्धूमः सुरभिः स्फुलिङ्गरहितो यात्रानुलोमो मृदुर् १९.९ मुक्तेन्दीवरकाञ्चनद्युतिधरो यातुर्जयं शंसति॥ १९.१० इष्टद्रव्यघटातपत्रतुरगश्रीवृक्षशैलाकृतिर् १९.१० भेर्यब्दोदधिदुन्दुभीभशकटस्निग्धस्वनः पूजितः। १९.१० नेष्टः प्रोक्तविपर्ययो हुतवहः स्निग्धोऽन्यथापीष्टदः १९.१० सव्येऽङ्गे नृपतिं दहन्नतिहितः शेषं च लोकाद्वदेत् ॥E१० अध्याय २० प्रस्थानिक २०.१ व्रजेद्दिगीशं हृदये निवेश्य यथेन्द्र मैन्र्यामपराश्च तद्वत् । २०.१ सुशुक्लमाल्याम्बरभृन्नरेन्द्रो विसर्जयेद्दक्षिणपादमादौ॥ २०.२ सितातपत्रो मणिरत्नशोभः प्रधूयमानैः सितचामरैश्च् २०.२ जयस्वनापूरितराजमार्गो द्विजेन्द्रमन्त्राभिविवृद्धतेजाः॥ २०.३ कन्याणनामसचिवाप्तजनायुधीयदैवज्ञविप्रजनकंचुकिमध्यसंस्थः। २०.३ द्वात्रिंशतं समुपगम्य पदानि भूमौ प्रागादि नागरथवाजिन्रैः प्रयायात् ॥E३ अध्याय २१ गजलक्षणेङ्गित २१.१ मा भूत्प्रसङ्गादतिविस्तरोऽत्र गजाश्वपुंलक्षणदर्शनेषु। २१.१ निमित्तमात्रं कथयाम्यतोऽहं प्रयाणकालोपयिकं नृपाणाम्॥ २१.२ ताम्रौष्ठतालुवदनाः कलविङ्कनेत्राः स्निग्धोन्नताग्रदशनाः पृथुलायतास्याः। २१.२ चापोन्नतायतनिगूढनिमग्नवंशास्तन्वेकरोमचितकूर्मसमानकुम्भाः॥ २१.३ विस्तीर्णकर्णहनुनाभिललाटगुह्याः कूर्मोन्नतैर्fओओत्नोते{Bष्६६.७ कूर्मोन्नत-} द्विनवविंशतिभिर्नखैश्च् २१.३ रेखात्रयोपचितवृत्तकराः सजलाम्भोदनिनादवृंहिणःfओओत्नोते{Bष्६६.७ धन्याः सुगन्धिमदपुष्करमारुताश्च}। २१.४ दीर्घाङ्गुलिरक्तपुष्कराः सजलाम्भोदनिनादवृंहिःः। २१.४ बृहदायतवृत्तकंधरा धन्या भूमिपतेर्मताङ्गजाःfओओत्नोते{Bष्६६.८ मतङ्गजाः}॥ २१.५ निर्मदाभ्यधिकहीननखाङ्गान् कुब्जवामनकमेषविषाणाम्। २१.५ दृश्यकोशफलपुष्करहीनान् श्यावनीलशवलसिततालून्॥ २१.६ स्वल्पवक्त्ररुहमत्कुणखण्डान् हस्तिनीं च गजलक्षणयुक्ताम्। २१.६ गर्भिणीं च नृपतिः परदेशं प्रापयेदतिविरूपफलास्त् । २१.७ दन्तमूलपरिणाहदीर्घतां द्विः प्रमुच्य परतोऽस्य कल्पयेत् । २१.७ श्यावापूतिमलरक्तदर्शनं पापसत्त्वसदृशं च पापदम्॥ २१.८ पार्थिवोपकरणाकृतिं यदा चिह्नमुद्वहति कल्पिते रद् २१.८ श्रीजयार्थबलवृद्धयस्तदा स्निग्धशुक्लरुचिराश्च शोभनाः॥ २१.९ दक्षिणे शुभमतीव शोभनं पापमप्यतिविरूपमन्यतः। २१.९ याप्यता भवति तद्विपर्यये विस्तरोऽन्यमुनिभिः प्रकीर्तितः॥ २१.१० मूलमध्यदशनाग्रसंस्थिता देवदैत्यमनुजाः क्रमात्ततः। २१.१० स्फीतमध्यपरिपेलवं फलं शीघ्रमध्यचिरकालसम्भवम्॥ २१.११ दन्तभङ्गफलमत्र दक्षिणे भूपदेशबलविद्रवप्रदम्। २१.११ वामतः सुतपुरोहितेभयान् हन्ति साटविकदारनायकान्॥ २१.१२ आदिशेदुभयभङ्गदर्शनात्पार्थिवस्य सकलं कुलक्षयम्। २१.१२ सौम्यलग्नतिथिभादिभिः शुभं वर्धतेऽशुभमतोऽन्यथा भवेत् ॥ २१.१३ क्षीरवृक्षफलपुष्पपादपेष्वापगातटविघट्टनेनfओओत्नोते{Bष्९३.११ ‚Íविघट्टितेन} वा। २१.१३ वाममध्यरदभङ्गखण्डने शत्रुनाशकृदतोऽन्यथापरम्॥ २१.१४ स्खलितगतिरकस्मात्त्रस्तकर्णोऽतिदीनः श्वसिति मृदु सुदीर्घं न्यस्तहस्तः पृथिव्याम्। २१.१४ द्रुतमुकुलितदृष्टिः स्वप्नशीलो विलोमो भयकृदहितभक्षी नैकशोऽसृच्छकृत्कृत् ॥ २१.१५ वल्मीकस्थाणुगुल्मक्षुपतरुमथनः स्वेच्छया दृष्टदृष्टिर् २१.१५ यायाद्यात्रानुलोमं त्वरितपदगतिर्वक्त्रमुन्नाम्य चोच्चैः। २१.१५ कक्षासन्नाहकाले जनयति च मुहुः शीकरं वृंहितं वा २१.१५ तत्कालं वा मदाप्तिर्जयकृदथ रदं वेष्टयन् दक्षिणं च् ।E१५ अध्याय २२ वाजिलक्षणेङ्गित २२.१ आवर्तसत्त्वद्युतिवर्णजातियानस्वराङ्गादिगुणोपपन्नाः। २२.१ संक्षेपतोऽश्वा विजयाय राज्ञामावर्तलेशोपनयो यतोऽयम्॥ २२.२ अश्रुपातहनुगण्डहृद्गलप्रोथशङ्खकटिवस्तिजानुषु। २२.२ मुष्कनाभिककुदे तथा गुदे सव्यकुक्षिचरनेषु चाशुभाः॥ २२.३ ये प्रपानगलकर्णसंस्थिताः पृष्ठमध्यनयनोपरिस्थिताः। २२.३ ओष्ठवङ्क्रिfओओत्नोते{Bष्६५.च्‚Íसक्थि}भुजकुक्षिपार्श्वगास्ते ललाटसहिताः सुशोभनाः॥ २२.४ वालावकिरणहेषितधूमज्वालादि चोद्यमे लक्ष्यम्। २२.४ तुरगाणामत्रार्याः प्रकीर्तिता विष्णुगुप्तकृताः॥ २२.५ तत्रोत्सर्गेणासनपश्चिमभागाश्रये ज्वलनमेषाम्। २२.५ नेष्टमितरत्र शस्तं वामेतरपार्श्वयोस्तद्वत् ॥ २२.६ सममन्यत्पदकेसरपुच्छेषु ज्वलनदहनकणधूमाः। २२.६ राष्ट्रभयरोगसम्भ्रमसपत्नचक्रापमर्दकराः॥ २२.७ प्राक्फलतुल्यं पृष्ठे जघने वालेषु चैव निर्दिष्टम्। २२.७ अन्तःपुरप्रकोपो मेढ्रज्वलने सधूमे वा॥ २२.८ नित्यं च बालकिरणे दाहज्वालास्फुलिङ्गकणधूमाः। २२.८ स्कन्धासनांसदेशे वधाय बन्धाय च रणेषु॥ २२.९ वक्षोक्षिललाटभुजेष्वश्वानां हेषतां च वदनेभ्यः। २२.९ ज्वालोत्पत्तिर्जयदा धूमोत्पत्तिः स्वामिनोऽभावाय् । २२.१० नासापुटाश्रुपातप्रोथशिरोलोचनेषु रजनीषु। २२.१० विजयाय प्रज्वलनं ताम्रासितहरितशवलानाम्॥ २२.११ विजयाय सर्वैदैव हि सुशुक्लशुकवर्णयोर्ज्वलनमेषु। २२.११ एवं च यथासम्भवमन्येष्वपि वाहनेषु फलम्॥ २२.१२ इष्टानिष्टव्यंजकमतः परं हेषितं समवधार्यम्। २२.१२ तच्च प्रसारिताचलशिरोधरोद्भूतमिष्टफलम्॥ २२.१३ ग्रासान्तर्वक्त्राणामुच्चैः स्निग्धानुनादि गम्भीरम्। २२.१३ द्विजपूर्णभाजनेष्टद्रव्यस्रग्गन्धसुरमूलैः॥ २२.१४ खलिनान्नपानवर्मस्वाम्युपकरणाभिनन्दिता चैषाम्। २२.१४ सर्वार्थसिद्धये स्याद्दक्षिणपार्श्वं विलोकयताम्॥ २२.१५ सन्ध्यासु दीप्तदिङ्मुखसम्भ्रमगाढप्रनष्टनिद्राश्च् २२.१५ हेषन्तो भयजनना वधबन्धपराजयकराश्च् । २२.१६ वक्रीकृतवालधयो दक्षिणपार्श्वानुशायिनो नेष्टाः। २२.१६ वामचरणैः क्षितितलं घ्नन्तो ज्ञेयाः प्रवासाय् । २२.१७ सजृम्भणं पृष्ठविधूननं च वालप्रकारस्त्वसकृल्लिलिक्षोः। २२.१७ पादेन पादाकलनं प्रसङ्गः सेनासमुद्योगदृशां हयानाम्॥ २२.१८ निद्रानिरोधालसनीलनेत्राः प्रध्यानशून्यस्मृतयो दिनेषु। २२.१८ निशासु चान्योन्यविरोधनष्टनिद्रास्तुरङ्गा न शिवाय भर्तुः॥ २२.१९ जंघे लिंहन्नव्रणरोमपङ्के पादौ च संहृष्टतनुर्जयाय् २२.१९ विपर्ययः पश्चिमयोः प्रयत्नात्स्वयं तु यात्राभिमुखो नियम्य् । २२.२० मुहुर्मुहुर्मूत्रशकृत्करोति न ताड्यामानोऽप्यनुलोमयायी। २२.२० अकार्यभीतोऽश्रुविलोचनश्च शिवं न भर्तुस्तुरगो विधत्त् । २२.२१ आरोहति क्षितिपतौ विनयोपपन्नो यात्रानुगोऽन्यतुरगं प्रतिहेषितश्च् २२.२१ वक्त्रेण वा स्पृशति दक्षिणमात्मपार्श्वं योऽश्वः स भर्तुरचिरात्प्रतनोति लक्ष्मीम्॥E२१ अध्याय २३ शकुनशुभाशुभ २३.१ अन्यजन्मान्तरकृतं पुंसां कर्मfओओत्नोते{Bष्८५.५ कर्म पुंसां} शुभाशुभम्। २३.१ यत्तस्य शुकुनः पाकं निवेदयति गच्छताम्॥ २३.२ ग्राम्यारण्याम्बुभूव्योमद्युनिशोभयचारिणः। २३.२ रुतयातेक्षितोक्तेषु ग्राह्यः पुंस्त्रीनपुंसकाः। २३.३ पृथग्जात्यनवस्थानादेषां व्यक्तिर्न लभ्यतेfओओत्नोते{Bष्८५.७ लक्ष्यते}। २३.३ सामान्यलक्षणोद्द्शे श्लोकावृषिकृताविमौ॥ २३.४ पीनोन्नतविकृष्टाङ्गाःfओओत्नोते{Bष्८५.८ -अङ्गाः} पृथुग्रीवाः सवक्षसःfओओत्नोते{Bष्८५.८ स्थिरविक्रमाः}। २३.४ स्वल्पगम्भीरविरुताः पुमांसः स्थिरविक्रमाः॥ २३.५ तनुग्रीवशिरोनासाःfओओत्नोते{Bष्८५.९ तनूरस्कशिरोग्रीवाः} सूक्ष्मास्यपदविक्रमाः। २३.५ प्रसन्नfओओत्नोते{Bष्८५.९ प्रसक्त-}मृदुभाषिण्यः स्त्रियोऽतोऽन्यं नपुंसकम्॥ २३.६ ग्राम्यारण्यप्रचाराद्यं लोकादेवोपलक्षयेत् । २३.६ संविक्षिप्सुरहं वच्मि यात्रामात्रप्रयोजनम्॥ २३.७ पथ्यात्मानं नृपं सैन्ये पुरे चोद्दिश्य देवताम्। २३.७ सार्थे प्र्धानं साम्ये तुfओओत्नोते{Bष्८५.११ स्याज्} जातिविद्यावयोधिकम्॥ २३.८ मुक्तप्राप्तैष्यसूर्यासुfओओत्नोते{Bष्८५.१२ -अर्कासु} फलं दिक्षु तथाविधम्। २३.८ अङ्गारदीप्तधूमिन्यस्ताश्च शान्तास्ततोऽपराः॥ २३.९ तत्पञ्चमदिशां तुल्यं फलंfओओत्नोते{Bष्८५.१३ शुभं} त्रैकाल्यमादिशेत् । २३.९ परिशेषदिशोर्वाच्यं यथासन्नं शुभाशुभम्॥ २३.१० शीघ्रमासन्ननिम्नस्थैश्चिरादुन्नतदूरगैः। २३.१० स्थानवृध्युपघाताश्च तद्वद्ब्रूयात्फलं बुधःfओओत्नोते{Bष्८५.१४ पुनः}॥ २३.११ क्षणतिथ्युडुवातार्कैर्दैवदीप्तो यथोत्तरम्। २३.११ क्रियादीप्तो गतिस्थानभावस्वरविचेष्टितैः॥ २३.१२ दशधैवं प्रशान्तोऽपि सौम्यस्तृणफलाशनः। २३.१२ मांसामेध्याशनो रौद्रो विमिश्रोऽन्नाशनः स्मृतः॥ २३.१३ हर्म्यप्रासादमाङ्गल्यfओओत्नोते{Bष्८५.१७ -मङ्गल्य-}मनोज्ञस्थानसंस्थिताः। २३.१३ श्रेष्ठा मधुरसक्षीरफलपुष्पद्रुमेषु च् । २३.१४ स्वकाले गिरितोयस्था बलिनो द्युनिशाचराः। २३.१४ क्लीवस्त्रीपुरुषाश्चैव बलिनः स्युर्यथोत्तरम्॥ २३.१५ जवजातिबलस्थानहर्षसत्त्वैर्बलान्विताःfओओत्नोते{Bष्८५.१९ स्वरान्विताः}। २३.१५ स्वभूमावनुलोमाश्च तदूनाः स्युर्विवर्जिताः॥ २३.१६ क(म्स्.कु)क्कुटेभचिरिल्ल्यश्fओओत्नोते{Bष्-पिरिल्यश्} च शिखिवञ्जुलच्छिक्कराः। २३.१६ बलिनः सिंहनादाश्च कूटपूरी च पूर्वतः॥ २३.१७ क्रोष्टुकोलूकहारीतकाककोकर्क्षपिङ्गलाः। २३.१७ कपोतरुदिताक्रन्द्र(म्स्.आक्रन्द)क्रूरशब्दाश्च याम्यतः॥ २३.१८ गोशशक्रौञ्चलोमाशहंसोत्क्रोशकपिञ्जलाः। २३.१८ विडालोत्सववादित्रगीतहासाश्च वारुणाः॥ २३.१९ शतपत्रकुरङ्गाखुमृगैकशफकोकिलाः। २३.१९ चाषशल्यकपुण्याहघण्टाशंखरवा उदक् ॥ २३.२० न ग्राम्योऽरण्यगो ग्राह्यो नारण्यो ग्रामसंस्थितः। २३.२० दिवाचरो न शर्वर्यां न च नक्तंचरो दिवा॥ २३.२१ द्वन्द्वरोगार्दितत्रस्तकलहामिषकांक्षिणः। २३.२१ आपगान्तरिता मत्ता न ग्राह्याः शकुनाः क्वचित् ॥ २३.२२ रोहिताश्वाजवालेयकुरङ्गोष्ट्रमृगाः शशाः। २३.२२ निष्फलाः शिशिरे ज्ञेया वस्नते काककोकिलौ॥ २३.२३ न तु भ्राद्रपदे ग्राह्याः सूकराश्चfओओत्नोते{Bष्८५.२७ स्व} वृकादय् २३.२३ शरद्यब्जादगोक्रौञ्चाः श्रावणे हस्तिचातकौ॥ २३.२४ व्याघ्रर्क्षवानरद्वीपिमहिषाः सविलेशयाः। २३.२४ हेमन्ते निष्फला ज्ञेया बालाः सर्वे विमानुषाः॥ २३.२५ ऐन्द्रानलदिशोर्मध्ये त्रिभागेषु व्यवस्थिताः। २३.२५ कोशाध्यक्षानलाजीवितपोयुक्ताः प्रदक्षिणम्॥ २३.२६ शिल्पी भिक्षुर्विवस्त्रा स्त्री याम्यानलदिगन्तर् २३.२६ परतश्चापि मातङ्गगोपधर्मसमाश्रयाः॥ २३.२७ नैरृतीवारुणीमध्ये प्रमदाः सूतितस्कराः। २३.२७ शाक्तिकःfओओत्नोते{Bष्८५.३१ शौण्डिकः} शाकुनिर्हिंस्रो वायवीपश्चिमान्तर् । २३.२८ विषघातकगोस्वामिकुहकज्ञास्ततः परम्। २३.२८ धनवानीक्षणीकश्च मालाकारस्ततः परम्fओओत्नोते{Bष्८५.२३ परं ततः}॥ २३.२९ वैष्णवश्चरकश्चैव वाजिनां रक्षणे रतः। २३.२९ एवं द्वात्रिंशतो भेदाः पूर्वदिग्भिः सहोदिताः॥ २३.३० राजा कुमारो नेता च दूतः श्रेष्ठी चरो द्विजः। २३.३० गजाध्यक्षश्च पूर्वाद्याः क्षत्रियाद्याश्चतुर्दिशः॥ २३.३१ गच्छतस्तिष्ठतो वापि दिशि यस्यां व्यवस्थितः। २३.३१ विरौति शकुनो वाच्यस्तद्दिग्जेन समागमः॥ २३.३२ भिन्नभैरवदीनार्तपरुषाक्षमजर्जराः। २३.३२ स्वरा नेष्टाः शुभाः शान्ता हृष्टप्रकृतिपूरिताः॥ २३.३३ शिवाश्यामारलाछुच्छुपिङ्गलागृहगोधिकाः। २३.३३ सूकरी परपुष्टा च पुन्नामानश्वामतह् ॥ २३.३४ स्त्रीसंज्ञा भासभषककपिश्रीकर्णच्छित्कराः। २३.३४ शिखिश्रीकण्ठपिप्पीकारुरुश्येनाश्च दक्षिणा॥ २३.३५ क्ष्वेडास्फोटितपुण्याहगीतशंखाम्बुनिःस्वनाः। २३.३५ सतूर्याध्वयनाः पुंवत्स्त्रीवदन्या गिरः शुभाः॥ २३.३६ ग्राम्यौ मध्यमषड्जौ तु गान्धारश्चेति शोभनाः। २३.३६ षड्जौमध्यमगान्धारा ऋषभश्च स्वरा हिताः॥ २३.३७ रुतकीर्तनदृष्टेषु भारद्वाजाजबर्हिणः। २३.३७ धन्यौ नकुलचाषौ च सरटः पापदोऽग्रतः॥ २३.३८ जाहकाहिशशक्रोडगोधानां कीर्तनं शुभम्। २३.३८ रुतसंदर्शनं नेष्टं प्रतीपं वानरर्क्षयोः॥ २३.३९ ओजाः प्रदक्षिणं शस्ता मृगाः सनकुलाण्डजाः। २३.३९ चाषं सनकुलं वामं भृगुराहापराह्नतः॥ २३.४० छित्करःfओओत्नोते{Bष्८५.४४ छिक्करः} कूटपूरी च पिरिली(?) चाह्नि दक्षिणाः। २३.४० अपसव्यं सदा शस्ता दंष्ट्रिणः सविलेशयाः॥ २३.४१ श्रेष्ठे हयसिते प्राच्यां शवमांसे च दक्षिण् २३.४१ कन्दकादधिनी पश्चादुदग्गा विप्रसाधवः॥ २३.४२ जालश्वचरणौ नेष्टौ प्राग्याम्ये शस्त्रघातकौ। २३.४२ पश्चादासवषण्डौ च खलासनहलान्युदक् ॥ २३.४३ कर्मसङ्गमयुद्धेषु प्रवेशे नष्टमार्गन् २३.४३ यानव्यत्यस्तगा ग्राह्या विशेषश्चात्र कथ्यतेfओओत्नोते{Bष्८५.४७ वक्ष्यते}॥ २३.४४ दिवा प्रस्थानवद्ग्राह्याः कुरङ्गरुरुवानराः। २३.४४ अह्नस्तु प्रथमे भागे चाषवञ्जुलकुक्कुटाह् ॥ २३.४५ पश्चिमे शर्वरीभागे नप्तृकोकूकपिङ्गलाह् । २३.४५ सर्व एव विपर्यस्था ग्राह्याः सार्थेषु योषिताम्॥ २३.४६ नृपसन्दर्शने ग्राह्याः प्रवेशेऽपि प्रयाणवत् । २३.४६ गिर्यरण्यप्रवेशेषु नदीनां चावगाहन् । २३.४७ वामदक्षिणगौ शस्तौ यौ तु तावग्रपृष्ठगौ। २३.४७ क्रीयादीप्तौ विनाशाय यातुः प्रैघसंज्ञितौ॥ २३.४८ तावेव तु यथाभागं प्रशान्तरुतचेष्टितौ। २३.४८ शकुनौ शकुनद्वारसंज्ञितावर्थसिद्धय् । २३.४९ केचित्तु शकुनद्वारमिच्छन्त्युभयतः स्थितैः। २३.४९ शकुनैरेकजातीयैः शान्तचेष्टाविराविभिः॥ २३.५० विसर्जयति यद्येक एकश्च प्रतिषेधति। २३.५० स विरोधोऽशुभो यातुर्ग्राह्यो वा बलवत्तरः॥ २३.५१ पूर्वं प्रावेशिको भूत्वा पुनः प्रास्थानिको भवेत् । २३.५१ सुखेन सिद्धिमाचष्टे प्रवेशे तद्विपर्ययात् ॥ २३.५२ विसृज्य शकुनः पूर्वं स एव निरुणद्धि चेत् । २३.५२ प्राह यातुररेर्मृत्युं समरंfओओत्नोते{Bष्८५.५६ डमरं} रोगमेव च् । २३.५३ अपसव्यास्तु शकुना दीप्ता भयनिवेदिनः। २३.५३ आरम्भे शकुनो दीप्तो वृषान्तेfओओत्नोते{Bष्८५.५७ वर्षान्तस्} तद्भयंकरः॥ २३.५४ तिथिवायुअर्कभस्थानचेष्टादीप्ता यथाक्रमम्। २३.५४ धनसैन्यबलाङ्गेष्टकर्मणां स्युर्भयंकराः॥ २३.५५ जीमूतध्वनिदीप्तेषु भयं भवति मारुतात् । २३.५५ उभयोः सन्ध्ययोर्दीप्ताः शस्त्रोद्भवभयंकराः॥ २३.५६ चिताकेशकपालेषु मृत्युबन्धवधप्रदाः। २३.५६ कण्टकीकाष्ठभस्मस्थाः कलहायासदुःखदाः॥ २३.५७ अप्रसिद्धिं भयं वापि निःसाराश्मव्यवस्थिताह् । २३.५७ कुर्वन्ति शकुना दीप्ताः शान्ता याप्यफलास्तु त् । २३.५८ आसिद्धिसिद्धिदौfओओत्नोते{Bष्८५.६२ असिद्धिसिद्धिदौ, आसिद्धिसिद्धिदौ‚ई‚Í“ङ्‚ß‚È‚¢‚ॠ‚ईCBष्‚ɏ]‚श्‚Ä“ङ्‚ށB} ज्ञेयौ निर्हाराहारकारिणौ। २३.५८ स्थानात्क्रोशन्fओओत्नोते{Bष्८५.६२ रुवन्} व्रजेद्यात्रां शंसते त्वन्यथागमम्॥ २३.५९ कलहः स्वरदीप्तेषु स्थानदीप्तेषु विग्रहः। २३.५९ उच्चमादौ ध्वनिंfओओत्नोते{Bष्८५.६३ स्वरं} कृत्वा नीचं पश्चाच्च दोषकृत् ॥ २३.६० एकस्थाने रुवन् दीप्तः सप्ताहाद्ग्रामनाशकृत्fओओत्नोते{Bष्ग्रामघातकः}। २३.६० पुरदेशनृपाणां च ऋत्वर्धायनवत्सरात् ॥ २३.६१ सर्वे दुर्भिक्षकर्तारः स्वजातिपिशिताशनाः। २३.६१ सर्पमूषिकमार्जारपृथुरोमविवर्जिताः॥ २३.६२ परयोनिषु गच्छन्तो मैथुनं देशनाशनाः। २३.६२ अन्यत्र वेशरोत्पत्तेर्नृणां वाजातिमैथुनात् ॥ २३.६३ बन्धघातवधानिfओओत्नोते{Bष्८५.६७ -भयानि} स्युः पादोरुमस्तकाभिगैःfओओत्नोते{Bष्८५.६७ पादोरूमस्तकान्तिगैः}। २३.६३ अप्सस्यपिशितान्नआदैर्वर्गमोषक्षतग्रहाः॥ २३.६४ इष्टं वा गोरसान्नं वा भारद्वाजस्य दर्शन् २३.६४ चाषस्य पूर्णवक्त्रस्य महान् लाभः प्रदक्षिण् । २३.६५ वामदक्षिणगः श्रेष्ठः पुरस्ताच्च कपिंजलः। २३.६५ तित्तिरिः पृष्ठतः श्रेष्ठः सर्वत्रान्यत्र गर्हितः॥ २३.६६ अनुलोमो वृषो नर्दन् धन्यो गौर्महिषस्तथा। २३.६६ गमनप्रतिषेधाय खरः प्रत्युरसि स्थितः॥ २३.६७ उलूकी वामतः क्षेम्या दक्षिणेन च कोकिला। २३.६७ शर्करिश्च (?) मयूरश्च शस्यते दक्षिणे सदा॥ २३.६८ वृकाः शृगालाः शार्दूला विडाला गर्दभाः शुनः। २३.६८ वामतोऽर्थकरा ज्जेयाः कुरङ्गा दक्षिणेन च् । २३.६९ रिक्तकुम्बोऽनुकूलश्च शस्तोऽम्भोर्थी यियासतः। २३.६९ चौर्यविद्यावणिग्वित्तमुद्यतानां विशेषतः॥E६९ अध्याय २४ शिवारुत २४.१ पृष्ठतः पूजिता शान्ता शिवा मांसास्थिवर्जिता। २४.१ क्रूरशब्दातिदीप्ता च क्रूरकर्मणि पूजिता॥ २४.२ पूर्वोदीच्योः शिवा शस्ता शान्ता सर्वत्र पूजिता। २४.२ धूमिताभिमुखी हन्ति स्वरदीप्ता दिगीश्वरान्॥ २४.३ [राजा कुमारो नेता च दूतः श्रेष्ठी चरो द्विजः। २४.३ गजाध्यक्षश्च पूर्वाद्याः क्षत्रियाद्याश्चतुर्दिशम्॥] २४.४ सर्वदिक्ष्वशुभा दीप्ता विशेषेणाह्न्यशोभना। २४.४ पुरे सैन्येऽपसव्या च कष्टा पूर्वोन्मुखा शिवा॥ २४.५ याहीत्यग्निभयं शास्ति टाटेति मृतिचोदिताfओओत्नोते{Bष्८९.६ मृतवेदिका}। २४.५ धिग्धिक्दुष्कृतमाचKषे सज्वाला देशनाशिनी॥ २४.६ नैव दारुणतामेके स्वज्वालायाःfओओत्नोते{Bष्८९.७ सज्वालायाः} प्रचक्षत् २४.६ अर्काद्यनलवत्तस्या वक्त्राज्ज्वाला स्वभावतःfओओत्नोते{Bष्८९.७ वक्त्रं लालास्वभावतः}॥ २४.७ अन्यप्रतिरुता याम्या सा बन्दहवधशंसिनी।fओओत्नोते{Bष्८९.८ सोद्बन्धमृतशंसिनी} २४.७ वारुण्याभिरुताfओओत्नोते{Bष्८९.८ अनुरुता} सैव संसते सलिले मृतिम्॥ २४.८ अक्षोभ्यश्रवणं चेष्टं धनप्राप्तिः प्रियागमः। २४.८ क्षोभात्प्रधानभेदश्च वाहनानामसम्पदःfओओत्नोते{Bष्८९.९ च सम्पदः}। २४.९ फलमा सप्तमादेतदग्राह्यं परतो रुत् २४.९ याम्यायां तद्विपर्यस्तं फलं षट्पञ्चमाद्रुतेfओओत्नोते{Bष्८९.१० ऋते}॥ २४.१० या रोमांचं मनुष्याणां शकृन्मूत्रं च वाजिनाम्। २४.१० रावात्त्रासं च जनयेत्सा शिवा न शिवप्रदा॥ २४.११ मौनं गता प्रतिरुते नरद्विरदवाजिभिः। २४.११ या शिवा सा शिवं सैन्ये पुरे वा संप्रयच्छति॥E११ अध्याय २५ वायसेङ्गित २५.१ शस्तो नीडस्तु वैशाखे पदपे निरुपद्रव् २५.१ देशोत्थानं तु वल्मीकचैत्यधान्यगृहादिषु॥ २५.२ काकानां श्रावणे द्वित्रिचतुःशावाः शुभावहाः। २५.२ गैरिकश्वेतचित्राश्च वर्णाश्चौराग्निमृत्युदाः॥ २५.३ अण्डावकिरणे ध्वांक्षा दुर्भिक्षमरकावुभौ। २५.३ शावानां विकलत्वे वा निःशावत्वे कृताथवा॥ २५.४ हरेदुपनयेद्वापि यद्द्रव्यं वायसोऽग्रतः। २५.४ तन्नाशलब्धौ विज्ञेयौ हेमपीते विनिर्दिशेत् ॥ २५.५ रक्तद्रव्यं प्रदग्धं वा न्यसन् गेहेऽग्निदः स्मृतः। २५.५ तृणभस्मास्थिकेशांश्च शयने स्वामिमृत्युदः॥ २५.६ पुरसैन्योपरि व्योम्नि व्याकुलैरनिलाद्भयम्। २५.६ सव्यमण्डलगैः स्वार्थमपसव्यैः परोद्भवम्॥ २५.७ अकार्यसहितैर्भेदो रोधश्चक्राकृतिस्थितैः। २५.७ वर्गतश्चाभिघातः स्याद्रिपुवृद्धिश्च निर्भयैः॥ २५.८ उपानच्छत्रयानाङ्गशस्त्रच्छायावकुट्टन् २५.८ मृत्युं तत्स्वामिनो ब्रूयात्पूजा स्यात्तत्प्रपूजन् । २५.९ काष्ठरज्ज्वस्थिनिःसारकेशकण्टकभृद्रुवन्। २५.९ व्यालाहिव्याधिशस्त्राग्नितस्करेभ्यो भयङ्करः॥ २५.१० युद्धं सेनाङ्गसंस्थेषु मोषकृत्स्वावलेखन् २५.१० चरन्निशि विनाशाय दुर्भिक्षं धान्यमोषकृत् ॥ २५.११ वामपार्श्वस्थितः श्रेष्ठो दक्षिणाद्वापि वामगः। २५.११ ध्वांक्षः पार्श्वद्वयेनापि शस्तो यात्रानुलोमगः॥ २५.१२ यातुः कर्णसमो ध्वांक्षः क्षेम्यो नार्थप्रसादकः। २५.१२ वामादक्षिणगो नेष्टो वा समानः प्रतीपगः॥ २५.१३ विरुवन् चाग्रतः पक्षे धून्वन् ध्वांक्षो भयप्रदः। २५.१३ प्रत्युरस्युपसर्पन् च संस्पर्शन् च तथा भवेत् ॥ २५.१४ एकपादो चलत्पक्षः काकोऽवस्कन्दखेटकः। २५.१४ वधबन्धकरो वाशन् खरसूकरपृष्ठगः॥ २५.१५ पङ्कदिग्धशरीरस्य वराहस्योपरिस्थितः। २५.१५ वायसः शस्यते यातुस्तूष्णीभूतो रुवन्नपि॥ २५.१६ क्षीरवृक्षाजमहिषीगोस्थितो गोरसप्रदः। २५.१६ अन्नदः पर्णविच्छेदी पानदो जलकुट्टनात् ॥E१६ अध्याय २६ श्वेङ्गित २६.१ नृहयातपवारणेभशस्त्रध्वजदेहानवमूत्रयन् जयाय् २६.१ सभयो विचरन् विना निमित्तं न शुभश्चाभिमुखो भषन् लिखन् गाम्॥ २६.२ उच्चैर्भषणं समागतानां दीनं वाभिरुतं रविं निरीक्ष्य् २६.२ संघरदनजृम्भणे च नेष्टे प्रस्थानेषु तथा विधूननं च् । २६.३ पूर्णास्यत्वं घ्रायकत्वं च यातुः प्रादक्षिण्यं मैथुनं चानुलोमम्। २६.३ यात्राकाले सारमेयस्य शस्तं पद्भ्यां मूर्धनः स्वस्य कण्डूयनं च् ।E३ अध्याय २७ मङ्गलामङ्गल २७.१ सिद्धार्थकादर्शपयोंजनानि बद्धैकपश्चामिषपूर्णकुम्भाः। २७.१ उष्णीषभृङ्गारनृवर्द्धमानपुंयानवीणातपवारणानि। २७.२ दधिमधुघृतरोचनाकुमार्यो ध्वजकनकाम्बुजभद्रपीठशंखाः। २७.२ सितवृषकुसुमाम्बराणि मीना द्विजगणकाप्तजनाश्च चारुवेषाः॥ २७.३ ज्वलितशिखिफलाक्षतेक्षुभक्ष्या द्विरदमृदङ्कुशचामरायुधानि। २७.३ मरकतकुरुविन्दपद्मरागस्फटिकमणिप्रमुखाश्च रत्नभेदाः॥ २७.४ स्वयमथ रचितान्ययत्नतो वा यदि कथितानि भवन्ति मङ्गलानि। २७.४ स जयति सकलां ततो धरित्रीं ग्रहणदृगालभनश्रुतैरुपास्य् । २७.५ कार्पासौषधकृष्णधान्यलवणक्लीवास्थितैलावसाः २७.५ पङ्काङ्गारगुडाहिचर्मशकृतः क्लेशाय सव्याधिताः। २७.५ वातोन्मत्तजडेन्धनं तृणतुषक्षुत्क्षामतक्रारयो २७.५ मुण्डाभ्यक्तविमुक्तकेशपतिताः काषायिनश्चाशुभाः॥ २७.६ पटुपटहमृदङ्गशंखभेरीपणवरवं सपताकतोरणाग्रम्। २७.६ प्रचुरकुसुमतोयशान्तरेणुं सुरभिसुवेषजनं व्रजेच्च मार्गम्॥E६ अध्याय २८ ध्वजातपत्रादिशकुन २८.१ ध्वजातपत्रायुधसन्निपातः क्षितौ प्रयाणे यदि मानवानाम्। २८.१ उत्तिष्ठतो वाम्बरमेति सङ्गं पतेच्च वा तन्नृपतेः क्षयाय् २८.२ दद्रुप्रतिश्यामविचर्चिकाः स्युः कर्णाक्षिरोगा पिटकोद्भवो वा। २८.२ प्रायो बले नेतरि वा नृपे वा जानीत राज्ञो भयकारणं तत् ॥ २८.३ उत्तानशय्यासनवातसर्गनिष्ठ्यूतदुर्दर्शनकासितानि। २८.३ नेष्टानि शब्दाश्च तथैव यातुरागच्छतिष्ठप्रविशस्थिराद्याः॥ २८.४ कार्यं तु मूलशकुनेऽन्यतरजे तदह्नि विद्यात्फलं नियतमेवमिमे विचिन्त्याः। २८.४ प्रारम्भयानसमये तु तथा प्रवेशे ग्राह्यं क्षुतं न शुभदं क्वचिदप्युशन्ति॥ २८.५ क्रोशादूर्ध्वं शकुनविरुतं निष्फलं प्राहुरेके २८.५ तत्रानिष्टे प्रथमशुकुने मानयेत्पंच षड्वा। २८.५ प्राणायामान्नृपतिरशुभे षोडशैवं द्वितीये २८.५ प्रत्यागच्छेत्स्वभवनमतो यद्यनिष्टस्तृतीयः॥ २८.६ चक्रे वराहमिहिरः शकुनोपदेशमुद्देशतो मुनिमतान्यवलोक्य सम्यक् । २८.६ यद्ग्रन्थविस्तरभयादविजानतो वा नोक्तं तदन्यकथितादपि चिन्तनीयम्॥E६ अध्याय २९ निवेश २९.१ स्निग्धा स्थिरा सुरभिगुल्मलता सुगन्धा शस्ता प्रदक्षिणजला च निवासभूमिः। २९.१ नेष्टा विपर्ययगुणा कचशर्करास्थिवल्मीककण्टकविभीतकसङ्कुला च् । २९.२ गत्वालयं सुरगुरुद्विजसाधुमित्रतीर्थेतिहासजयपुण्यकथासु तिष्ठेत् । २९.२ हत्वा पशुं रिपुगृहाकृतमुद्यमे च प्रास्याथ वान्नमयमस्य विधाय रूपम्॥ २९.३ एकत्राध्युषितस्यात्रिगौतमच्यवना जगुः। २९.३ यात्रां त्रिपञ्चसप्ताहात्पुनर्भद्रेण योजयेत् ॥ २९.४ तच्चायुक्तमिति प्राहुर्होराशास्त्रविदो जनाः। २९.४ वांछितार्थफलावाप्तौ यात्रा परिसमाप्यत् ।E४ अध्याय ३० अभियोज्य ३०.१ अक्षेपशीलः परुषाभिधायी विरक्तभृत्यः परदारगामी। ३०.१ लुब्धोऽसहायो व्यसनी कृतघ्नः स्थितिप्रभेत्ता करशीर्णराष्ट्रः॥ ३०.२ विस्रम्भहा क्रोधवशो नृशंसः क्षुद्रः प्रमादी न बहुश्रुतश्च् ३०.२ दिव्यान्तरिक्षक्षितिजैर्विकारैर्निपीडितो यः स तु दैवहीनः॥ ३०.३ अतो विपर्यस्तगुणेन राज्ञा तादृग्विधोऽरिस्त्वभियुक्तमात्रः। ३०.३ तरुर्घुनैर्जग्ध इवात्तवीर्यो महानपि क्षिप्रमुपैति भङ्गम्॥E३ अध्याय ३१ सेनावातवृष्ट्युल्काभूगर्जितसन्ध्या ३१.१ विद्विष्टप्रवरनरप्रतापहीना निःशौचा मृतवरवारणाश्च योधाः। ३१.१ सोत्पातप्रकृतिविपर्ययानुयाता शोकार्ता रिपुवशमाशु याति सेना॥ ३१.२ संग्रामे वयममरद्विजप्रसादाज्ज्योष्यामो रिपुबलमाश्वसंशयेन् ३१.२ यस्यैवं भवति बले जनप्रवादः सोऽल्पोऽपि प्रचुरबलं रिपुं निहन्ति॥ ३१.३ प्रोत्क्षिप्तक्षुपपांशुपत्रविहगच्छत्रध्वजाग्रान्तकृद् ३१.३ दुर्गन्धिः करिदानशेषजनकः सावर्त्तलोष्टोत्करः। ३१.३ यातुर्वायुरनिष्टदः शुभकरो यात्रानुलोमोद्यमः ३१.३ प्रह्लादी सुरभिप्रदक्षिणगतिः स्वादुश्च सिद्धिप्रदः॥ ३१.४ पृथुघनमनुलोमं स्निग्धमम्भोदवृन्दं तरुनगनगरेष्टद्रव्यसत्वानुकारि। ३१.४ जयदमुभयपार्श्वाधिष्ठितं पृष्ठतो वा न शुभकरमतोऽन्यद्यानकाले नृभर्तुः॥ ३१.५ निन्दितसत्त्वपिशाचविचित्राः पिशितमृगाकृतयः परुषाश्च् ३१.५ वज्रमुचः क्षतजाश्ममुचो वा बलभयमाशु जनाः कथयन्ति॥ ३१.६ भृशं क्षरन्तो रुधिरारुणा वा सशक्रचापा खररूक्षनादाः। ३१.६ रणोपयोज्याकृतिचित्ररूपा रणाय दृष्टा गगनेऽम्बुवाहाः॥ ३१.७ सप्ताहान्तर्बलभयकरी वृष्टिरन्यर्तुजाता ३१.७ केचिद्यात्रामसितजलदैः प्रोत्थितां पूजयन्ति। ३१.७ चित्राभ्रायां बलपतिवधो रुक्च पीताम्बुदायां ३१.७ क्ष्च्चोष्णायां भवति न चिरादम्बुदायां विनाशः॥ ३१.८ वाहनानि सव्यगो हन्ति योषितोऽन्यथा। ३१.८ पंजराकृतिस्थितः सर्वतो बलेश्वरम्॥ ३१.९ चापमैन्द्रमनुलोममखण्डं प्रोज्ज्वलं बहुलमायतमिष्टम्। ३१.९ स्फूर्जनं सलिलकुम्भनिषेकं क्षोभितार्णवसमं विजयाय् । ३१.१० तन्वी प्रलम्बा विजयाय दीर्घा तडिद्घनस्फूर्जथुवर्जिता च् ३१.१० शस्ताशनिश्चाप्यसमीपजातः प्रदक्षिणेनाप्स्यति पातशब्दः॥ ३१.११ लग्नेऽर्केन्दू निघ्नती शस्ति पौरानुल्का हन्याद्यातुपौरान् ग्रहाश्च् ३१.११ यातुः शस्ता सम्भृता वा ध्रुवर्क्षे नेष्टातोऽन्या धूमिनी श्यावरक्ता॥ ३१.१२ हन्यान्नृपपौरराष्ट्रिकान् भृत्याम्भोरुहतस्करान् द्विजांश्च् ३१.१२ वेला क्रमशो दिनादितः काष्ठायां च स यत्र भूस्वनश्च् । ३१.१३ शस्ता शान्तद्विजमृगघुष्टा सन्ध्या स्निग्धा मृदुषवना च् ३१.१३ पांशुध्वस्ता जनपदनाशं धत्ते रूक्षा रुधिरनिभा वा॥E१३ अध्याय ३२ उत्पात ३२.१ परिवेषोऽर्कशशिनोः शत्रुपक्षग्रहैः सह् ३२.१ स्निग्धोऽखण्डश्च जयदः पापदो बहुमण्डलः॥ ३२.२ प्रतिलोमोऽतिबहुलो नेष्ट इष्टः प्रदक्षिणः। ३२.२ नीहारः पांशुपातश्च हितः स्निग्धः प्रदक्षिणः॥ ३२.३ गन्धर्वनगरं हन्ति प्राक्प्रभृत्यवनीश्वरम्। ३२.३ बलेशं युवराजं च पुरोहितमिति क्रमात् ॥ ३२.४ सिताद्यं ब्राह्मणादींश्च विदिक्षु वर्णसङ्करान्। ३२.४ प्रदक्षिणं तु यात्रायां जयदं नेष्टमन्यथा॥ ३२.५ दिशां दाहोऽथ जयदः प्रदक्षिण उपागतः। ३२.५ श्वभ्रोन्नते वधो राज्ञो जयाय व्यत्ययेन च् । ३२.६ घृताम्बुपयसां स्रावे च्युते वृक्षाच्च तत्क्षयः। ३२.६ तैले च नाशो मुख्यानां रक्ते शस्त्रकृतं भयम्॥ ३२.७ मद्येन तु मिथो भेदो रुग्भयं दधिनिस्रव् ३२.७ कुसुमात्कुसुमोत्पत्तौ परचक्रागमं वदेत् ॥ ३२.८ बहुतोयेऽतिसंशोषः कूपेऽसृक्पूर्तिविस्रवः। ३२.८ राज्ञोऽब्दार्धाद्वधं कुर्युः स्रोतोऽल्पत्वे परागमः॥ ३२.९ वृष्टिविद्युत्स्वनैर्व्यभ्रे चरस्थिरविपर्यय् ३२.९ दिनोल्कायां च पीड्यन्ते जना भूपतिभिः सह् । ३२.१० सप्ताहं सन्ततान्यतो वृष्टिर्हन्यान्नराधिपम्। ३२.१० अनग्निज्वलने पुंसां व्याधिराश्वेव जायत् । ३२.११ पीडा राष्ट्रस्य षण्मासादुष्णशीतविपर्यय् ३२.११ मासेऽष्टमे नृपस्यान्तो निनादे पशुपक्षिणाम्॥ ३२.१२ नगरारण्यसत्त्वानामरण्यपुरसेवन् ३२.१२ राष्ट्रपीडाधिके वर्षे मुख्यलोकस्य च क्षयः॥ ३२.१३ स्तम्भोपलकुसूलार्चापीठशय्यापसर्पण् ३२.१३ गदने चापि देशस्य नाशं मासत्रयाद्वदेत् ॥ ३२.१४ गोनागाश्ववधोऽब्दार्धे व्यत्ययो वा नृपान्तकृत् । ३२.१४ देशनाशस्तथा स्त्रीणां खगाहिपशुसम्भव् । ३२.१५ धान्यरसमद्यभोजनफलपुष्पस्नेहमांसवस्त्राणाम्। ३२.१५ सिकतारजोरसात्मकसशर्कराङ्गारवर्षेषु॥ ३२.१६ सुतपत्नी क्षुद्राज्ञा नृपदेशचमूपमरणसंक्लेशाः। ३२.१६ भेदोऽपदोऽथ मन्त्रिव्याधिविनाशभूपक्रोधाः॥ ३२.१७ निशि सुरचापं सितवर्णाद्यं जनयति पीडां द्विजपूर्वाणाम्। ३२.१७ भवति च यस्यां दिशि तद्दिश्यं नरपतिमुख्यं न चिराद्धन्यात् ॥ ३२.१८ मृगपशुरासभवाजिगजानां वियतरवो न चिराद्भयदाता। ३२.१८ विबुधपतिध्वजतोरणपातः फलमिदमेव करोति नृपाणाम्॥E१८ अध्याय ३३ पुरदुर्गालब्धो ३३.१ शुद्धैर्द्वादशकेन्द्रनैधनगतैः पापैस्त्रिषष्ठायगैर् ३३.१ लग्ने केन्द्रगतेऽथवा सुरगुरौ दैतेयपूज्येऽथवा। ३३.१ सर्वारम्भफलप्रसिद्धिरुदये राशौ च कर्तुः शुभे ३३.१ स्वग्राम्यस्थिरभोदये सुभवनं कार्यं प्रवेशोऽपि वा॥ ३३.२ क्रूरोदये तदहनि व्यतिपातयोगे रिक्ते तिथावृतुसमाप्तिषु वैधृते वा। ३३.२ तीक्ष्णोग्रभेषु च हुताशविषाभिघातरौद्राणि सिद्धिमुपयान्यसिते च पक्ष् । ३३.३ केतूल्कार्कजराहुकीलककुजा बिम्बप्रविष्टा यतः ३३.३ सूर्येन्द्वोः परिवेषखण्डमथवा दृश्येत यस्यां दिशि। ३३.४ क्रोष्टुश्वाहिपिपीलिकाशशमृगाध्वांक्षादयो वा पुरे ३३.४ सैन्ये वापि यतो विशन्ति हि ततः शस्त्रोः पुरं घातयेत् ॥ ३३.५ पातालर्क्षे राहुकेत्वोः पुरेऽरेस्तोयोच्छित्तिः सालपातश्च कार्यः। ३३.५ जामित्रस्थे भूमिजेऽस्यांशके वा पुत्रेणेन्दोर्वीक्षितेऽग्निः प्रदेयः॥E५ अध्याय ३४ जयोत्तर ३४.१ दिग्दाहक्षतजरजोश्मवृष्टिपातैर्निर्घातक्षितिचलनादिवैकृतैश्च् ३४.१ युद्धान्ते मृगशकुनैश्च दीप्तनादैर्नो भद्रं भवति जयेऽपि पार्थिवस्य् । ३४.२ शुभा मृगपतत्रिणो मृदुसमीरणो ह्लादकृत् ३४.२ ग्रहाः स्फुटमरीचयो विगतरेणुदिङ्मण्डलम्। ३४.३ यदान्यदपि वैकृतं न विजयावसाने भवेत् ३४.३ तदा सुखमकण्टकं नृपतिरत्ति देशं रिपोः। ३४.३ उद्वाहमकालोत्सवमभिषेकं चात्मजस्य यः कृत्वा। ३४.३ प्रस्थानाविहतः सोऽभ्येति ततश्चोत्सवदिनेषु॥ ३४.४ परविषयपुराप्तौ साधुदेवद्विजस्वं ३४.४ कुलजनवनिताश्च क्ष्माधिपो नोपरुन्ध्यात् । ३४.४ विगजतुरगशस्त्रान्नार्तिभीतांश्च हन्याच् ३४.४ छुभतिथिदिवसर्क्षे हृष्टसैन्यो वशेच्च् । ३४.५ स्वविषयमुपगम्य मानवेन्द्रोऽवलिमुपयाचितकानि चाधिकानि। ३४.५ निगदितविधिनैव संप्रदद्यात्प्रथमगणासुरभूतदैवतेभ्यः॥ ३४.६ इति मनुजपतिर्यथोपदेशं भगणविदां प्रकरोति यो वचांसि। ३४.६ स सकलनृपमण्डलाधिपत्यं व्रजति दिविव पुरन्दरोऽचिरेण् ।E६ Eन्दोf Bऋहद्यात्रा