१.०१ : अचिन्त्याव्यक्तरूपाय निर्गुणाय गुणात्मन् १.०१ : समस्तजगदाधारमूर्तये ब्रह्मणे नमः॥ १.०२ : अल्पावशिष्टे तु कृते *मयो नाम महासुरः।(B मयनाम) १.०२ : रहस्यं परमं पुण्यं जिज्ञासुर्ज्ञानमुत्तमम्॥ १.०३ : वेदाङ्गमग्र्यमखिलं ज्योतिषां गतिकारणम्। १.०३ : आराधयन् विवस्वन्तं तपस्तेपे सुदुश्चरम्॥ १.०४ : तोषितस्तपसा तेन प्रीतस्तस्मै वरार्थिन् १.०४ : ग्रहाणां चरितं प्रादान्मयाय सविता स्वयम्॥ १.०५ : विदितस्ते *मया भावस्तोषितस्तपसा ह्यहम्। (ड्मयाभावस्) १.०५ : दद्यां कालाश्रयं ज्ञानं ग्रहाणां चरितं महत् ॥ १.०६ : न मे तेजःसहः कश्चिदाख्यातुं नास्ति मे क्षणः। १.०६ : मदंशः पुरुषो +अयं ते निःशेषं कथयिष्यति॥ १.०७ : इत्युक्त्वान्तर्दधे देवः समादिश्यांशमात्मनः। १.०७ : स पुमान्मयमाहेदं प्रणतं प्राञ्जलिस्थितम्॥ १.०८ : शृणुष्वैकमनाः पूर्वं यदुक्तं ज्ञानमुत्तमम्। १.०८ : युगे युगे महर्षीणां स्वयमेव विवस्वता॥ १.०९ : शास्त्रमाद्यं तदेवेदं यत्पूर्वं प्राह भास्करः। १.०९ : युगानां परिवर्तेन कालभेदो +अत्र *केवलः॥(B केवलम्) १.१० : लोकानामन्तकृत्कालः कालो +अन्यः कलनात्मकः। १.१० : स द्विधा स्थूलसूक्ष्मत्वान्मूर्तश्चामूर्त उच्यत् । १.११ : प्राणादिः कथितो मूर्तस्त्रुट्याद्यो +अमूर्तसंज्ञकः। १.११ : षड्भिः प्राणैर्विनाडी स्यात्तत्षष्ट्या नाडिका स्मृता॥ १.१२ : नाडीषष्ट्या तु नाक्षत्रमहोरात्रं प्रकीर्तितम्। १.१२ : तत्त्रिंशता भवेन्मासः सावनो +अर्कोदयैस्तथा॥ १.१३ : ऐन्दवस्तिथिभिस्तद्वत्संक्रान्त्या सौर उच्यत् १.१३ : मासैर्द्वादशभिर्वर्षं दिव्यं तदह उच्यत् । १.१४ : सुरासुराणामन्योन्यमहोरात्रं विपर्ययात् । १.१४ : तत्षष्टिः षड्गुणा दिव्यं वर्षमासुरमेव च् । १.१५ : तद्द्वादशसहस्राणि चतुर्युगमुदाहृतम्। १.१५ : सूर्याब्दसंख्यया द्वित्रिसागरैरयुताहतैः॥ १.१६ : सन्ध्यासन्ध्यांशसहितं विज्ञेयं तच्चतुर्युगम्। १.१६ : कृतादीनां व्यवस्थेयं धर्मपादव्यवस्थया॥ १.१७ : युगस्य दशमो भागश्चतुस्त्रिद्व्येकसङ्गुणः। १.१७ : क्रमात्कृतयुगादीनां षष्ठांशः सन्ध्ययोः स्वकः॥ १.१८ : युगानां सप्ततिः सैका मन्वन्तरमिहोच्यत् १.१८ : *कृताब्दसंख्यास्तस्यान्ते सन्धिः प्रोक्तो जलप्लवः॥(B ऋताब्दसंख्या) १.१९ : ससन्धयस्ते मनवः कल्पे ज्ञेयास्चतुर्दश् १.१९ : कृतप्रमाणः कल्पादौ सन्धिः पञ्चदशः स्मृतः॥ १.२० : इत्थं युगसहस्रेण भूतसंहारकारकः। १.२० : कल्पो ब्राह्ममहः प्रोक्तं शर्वरी तस्य तावती॥ १.२१ : परमायुः शतं तस्य तयाहोरात्रसंख्यया। १.२१ : आयुषो +अर्धमितं तस्य शेषकल्पो +अयमादिमः॥ १.२२ : कल्पादस्माच्च मनवः षड्व्यतीताः ससन्धयः। १.२२ : वैवस्वतस्य च *मनोर्युगानां त्रिघनो गतः॥(B मनोयुगानां) १.२३ : अष्टाविंशाद्युगादस्माद्यातमेतत्कृतं युगम्। १.२३ : अतः कालं प्रसंख्याय संख्यामेकत्र पिण्डयेत् ॥ १.२४ : ग्रहर्क्षदेवदैत्यादि सृजतो +अस्य चराचरम्। १.२४ : कृताद्रिवेदा दिव्याब्दाः शतघ्ना वेधसो गताः॥ १.२५ : पश्चाद्व्रजन्तो +अतिजवान्नक्षत्रैः सततं ग्रहाः। १.२५ : जीयमानास्तु लम्बन्ते तुल्यमेव स्वमार्गगाः॥ १.२६ : प्राग्गतित्वमतस्तेषां भगणैः प्रत्यहं गतिः। १.२६ : परिणाहवशाद्भिन्ना तद्वशाद्भानि भुञ्जत् । १.२७ : शीघ्रगस्तान्यथाल्पेन कालेन महताल्पगः। १.२७ : तेषां तु परिवर्तेन पौष्णान्ते भगणः स्मृतः॥ १.२८ : विकलानां कला षष्ट्या तत्षष्ट्या भाग उच्यत् १.२८ : तत्त्रिंशता भवेद्राशिर्भगणो द्वादशैव त् । १.२९ : युगे सूर्यज्ञशुक्राणां खचतुष्करदार्णवाः। १.२९ : कुजार्किगुरुशीघ्राणां भगणाः पूर्वयायिनाम्॥ १.३० : इन्दो रसाग्नित्रित्रीषुसप्तभूधरमार्गणाः।(५७७५३३३६) १.३० : दस्रत्र्यष्टरसाङ्काक्षिलोचनानि कुजस्य तु॥(२२९६८३२) छेच्केद् १.३१ : बुधशीघ्रस्य शून्यर्तुखाद्रित्र्यङ्कनगेन्दवः।(१७९३७०६०) १.३१ : बृहस्पतेः खदस्राक्षिवेदषड्वह्नयस्तथा॥(३६४२२०) १.३२ : सितशीघ्रस्य षट्सप्तत्रियमाश्विखभूधराः।(७०२२३७६) १.३२ : शनेर्भुजङ्गषट्पञ्चरसवेदनिशाकराः॥(१४६५६८) १.३३ : चन्द्रोच्चस्याग्निशून्याश्विवसुसर्पार्णवा युग्(४८८२०३) १.३३ : वामं पातस्य वस्वग्नियमाश्विशिखिदस्रकाः॥(२३२२३८) १.३४ : भानामष्टाक्षिवस्वद्रित्रिद्विद्व्यष्टशरेन्दवः।(१५८२२३७८२८) १.३४ : भोदया भगणैः स्वैः स्वैरूनाः स्वस्वोदया युग् । १.३५ : भवन्ति शशिनो मासाः सूर्येन्दुभगणान्तरम्। १.३५ : रविमासोनितास्ते तु शेषाः स्युरधिमासकाः॥ १.३६ : सावहाहानि चान्द्रेभ्यो द्युभ्यः प्रोज्झ्य तिथिक्षयाः। १.३६ : उदयादुदयं भानोर्भूमिसावनवासरः॥ १.३७ : वसुद्व्यष्टाद्रिरूपाङ्कसप्ताद्रितिथयो युग्(१५७७९१७८२८) १.३७ : चान्द्राः खाष्टखखव्योमखाग्निखर्तुनिशाकराः॥(१६०३००००८०) १.३८ : षड्वह्नित्रिहुताशाङ्कतिथयश्चाधिमासकाः।(१५९३३३६) १.३८ : तिथिक्षया यमार्थाश्विद्व्यष्टव्योमशराश्विनः॥(२५०८२२५२) १.३९ : खचतुष्कसमुद्राष्टकुपञ्च रविमासकाः।(५१८४००००) १.३९ : भवन्ति भोदया भानुभगणैरूनिताः क्वहाः॥ १.४० : अधिमासोनरात्र्यार्क्षचान्द्रसावनवासराः। १.४० : एते सहस्रगुणिताः कल्पे स्युर्भगणादयः॥ १.४१ : प्राग्गतेः सूर्यमन्दस्य कल्पे सप्ताष्टवह्नयः।(३८७) १.४१ : कौजस्य वेदखयमा बौधस्याष्टर्तुवह्नयः॥(२०४, ३६८) १.४२ : खखरन्ध्राणि जैवस्य शौक्रस्यार्थगुणेषवः।(९००, ५३५) १.४२ : गो +अग्नयः शनिमन्दस्य पातानामथ वामतः॥(३९) १.४३ : मनुदस्रास्तु कौजस्य बौधस्याष्टाष्टसागराः। (२१४, ४८८) १.४३ : कृताद्रिचन्द्रा जैवस्य त्रिखाङ्काश्च तथा भृगोस्॥(ड्भृगोस्तथा)(१७४, ९०३) १.४४ : शनिपातस्य भगणाः कल्पे यमरसर्तवः।(६६२) १.४४ : भगणाः पूर्वमेवात्र प्रोक्ताश्चन्द्रोच्चपातयोः॥ १.४५ : षण्मनूनां तु सम्पीड्य कालं तत्सन्धिभिः सह् १.४५ : कल्पादिसन्धिना सार्धं वैवस्वतमनोस्तथा॥ १.४६ : युगानां त्रिघनं यातं तथा कृतयुगं त्विदम्। १.४६ : प्रोज्झ्य सृष्टेस्ततः कालं पूर्वोक्तं दिव्यसंख्यया॥ १.४७ : सूर्याब्दसंख्यया ज्ञेयाः कृतस्यान्ते गता अमी। १.४७ : खचतुष्कयमाद्र्यग्निशररन्ध्रनिशाकराः॥(१९५३७२००००) १.४८ : अत ऊर्ध्वममी युक्ता गतकालाब्दसंख्यया। १.४८ : मासीकृता युता मासैर्मधुशुक्लादिभिर्गतैः॥ १.४९ : पृथक्ष्थास्ते +अधिमासघ्नाः सूर्यमासविभाजिताः। १.४९ : लब्धाधिमासकैर्युक्ता दिनीकृत्य दिनान्विताः॥ १.५० : द्विष्ठास्तिथिक्षयाभ्यस्ताश्चान्द्रवासरभाजिताः। १.५० : लब्धोनरात्रिरहिता लङ्कायामार्धरात्रिकः॥ १.५१ : सावनो द्युगणः सूर्याद्दिनमासाब्दपास्ततः। १.५१ : सप्तभिः क्षयितः शेषः सूर्याद्यो वासरेश्वरः॥ १.५२ : मासाब्ददिनसंख्याप्तं द्वित्रिघ्नं रूपसंयुतम्। १.५२ : सप्तोद्धृतावशेषौ तु विज्ञेयौ मासवर्षौ॥ १.५३ : यथा स्वभगनाभ्यस्तो दिनराशिः कुवासरैः। १.५३ : विभाजितो मध्यगत्या भगणादिर्ग्रहो भवेत् ॥ १.५४ : एवं स्वशीघ्रमन्दोच्चा ये प्रोक्ताः पूर्वयायिनः। १.५४ : विलोमगतयः पातास्तद्वच्चक्राद्विशोधिताः॥ १.५५ : द्वादशघ्ना गुरोर्याता भगणा वर्तमानकैः। १.५५ : राशिभिः सहिताः शुद्धाः षष्ट्या स्युर्विजयादयः॥ १.५६ : विस्तरेणैतदुदितं संक्षेपाद्व्यावहारिकम्। १.५६ : मध्यमानयनं कार्यं ग्रहाणामिष्टतो युगात् ॥ १.५७ : अस्मिन् कृतयुगस्यान्ते सर्वे मध्यगता ग्रहाः। १.५७ : *विना तु पातमन्दोच्चान्मेषादौ तुल्यतामिताः (ड्विनेन्दु)॥ १.५८ : मकरादौ शशाङ्कोच्चं तत्पातस्तु तुलादिगः। १.५८ : निरंशत्वं गताश्चान्ये नोक्तास्ते मन्दचारिणः॥ १.५९ : योजनानि शतान्यष्टौ भूकर्णो द्विगुणानि तु। १.५९ : तद्वर्गतो दशगुणात्पदं भूपरिधिर्भवेत् ॥ १.६० : लम्बज्याघ्नस्त्रिजीवाप्तः स्फुटो भूपरिधिः स्वकः। १.६० : तेन देशान्तराभ्यस्ता ग्रहभुक्तिर्विभाजिता॥ १.६१ : कलादि तत्फलं प्राच्यां ग्रहेभ्यः परिशोधयेत् । १.६१ : रेखाप्रतीचीसंस्थाने प्रक्षिपेत्स्युः स्वदेशजा॥ १.६२ : राक्षसालयदेवौकःशैलयोर्मध्यसूत्रगाः। १.६२ : रोहीतकमवन्ती च यथा सन्निहितं सरः॥ १.६३ : अतीत्योन्मीलनादिन्दोः पश्चात्तद्गणितागतात् ।(C अतीत्योन्मीलनादिन्दोर्दृक्षिद्धिर्गणितागतात् ।) १.६३ : यदा भवेत्तदा प्राच्यां स्वस्थानं मध्यतो भवेत् ॥ १.६४ : अप्राप्य च भवेत्पश्चादेवं वापि निमीलनात् । १.६४ : तयोरन्तरनाडीभिर्हन्याद्भूपरिधिं स्फुटम्॥ १.६५ : षष्ट्या विभज्य लब्धैस्तु योजनैः प्रागथापरैः। १.६५ : स्वदेशः परिधौ ज्ञेयः कुर्याद्देशान्तरं हि तैः॥ १.६६ : वारप्रवृत्तिः प्राग्देशे क्षपार्धे +अभ्यधिके भवेत् । १.६६ : तद्देशान्तरनाडीभिः पश्चादूने विनिर्दिशेत् ॥ १.६७ : इष्टनाडीगुणा भुक्तिः षष्ट्या भक्ता कलादिकम्। १.६७ : गते शोध्यं युतं गम्ये कृत्वा तात्कालिको भवेत् ॥ १.६८ : भचक्रलिप्ताशीत्यंशं परमं दक्षिणोत्तरम्। १.६८ : विक्षिप्यते स्वपातेन स्वक्रान्त्यन्तादनुष्णगुः॥ १.६९ : तन्नवांशं द्विगुणितं जीवस्त्रिगुणितं कुजः। १.६९ : बुधशुक्रार्कजाः पातैर्विक्षिप्यन्ते चतुर्गुणम्॥ १.७० : एवं त्रिघनरन्ध्रार्करसार्कार्का दशाहताः। १.७० : चन्द्रादीनां क्रमादुक्ता मध्यविकेषेपलिप्तिकाः॥ [स्पष्टाधिकारः] २.०१ : अदृश्यरूपाः कालस्य मूर्तयो भगणाश्रिताः। २.०१ : शीघ्रमन्दोच्चपाताख्या ग्रहाणां गतिहेतवः॥ २.०२ : तद्वातरश्मिभिर्*बद्धास्तैस्सव्येतरपाणिभिः। (C नद्धास्) २.०२ : प्राक्पश्चादपकृष्यन्ते यथासन्नं स्वदिङ्मुखम्॥ २.०३ : प्रवहाख्यो मरुत्तांस्तु स्वोच्चाभिमुखमीरयेत् । २.०३ : पूर्वापराकृष्टास्ते *गतिं यान्ति पृथग्विधाः॥(C गतीर्, पृथग्विधाम्) २.०४ : ग्रहात्प्राग्भगणार्धस्थः प्राङ्मुखं कर्षति ग्रहम्। २.०४ : उच्चसंज्ञो +अपरार्धस्थस्तद्वत्पश्चान्मुखं ग्रहम्॥ २.०५ : स्वोच्चापकृष्टा *भगणैः प्राङ्मुखं यान्ति यद्ग्रहाः। (C भगणात्) २.०५ : तत्तेषु धनमित्युक्तमृणं पश्चान्मुखेषु *च् । (तु) २.०६ : *दक्षिणोत्तरतो +अप्येवं पातो *राहुः स्वरंहसा।(C दक्षिणोत्तरयोर्, राहुश्च रंहसा) २.०६ : विक्षिपत्येष विक्षेपं चन्द्रादीनामपक्रमात् ॥ २.०७ : उत्तराभिमुखं पातो विक्षिपत्यपरार्धगः। २.०७ : ग्रहं प्राग्भगणार्धस्थो याम्यायामपकर्षति॥ २.०८ : बुधभार्गवयोः शीघ्रात्तद्वत्पातो *यदा स्थितः। (C यथास्थितः) २.०८ : तच्छीघ्राकर्षणात्तौ तु विक्षिप्येते यथोक्तवत् ॥ २.०९ : महत्वान्मण्डलस्यार्कः स्वल्पमेवापकृष्यत् २.०९ : मण्डलाल्पतया चन्द्रस्ततो बह्वपकृष्यत् २.१० : भौमादयो +अल्पमूर्तित्वाच्छीघ्रमन्दोच्चसञ्ज्ञकैः। (C संज्ञितैः) २.१० : दैवतैरपकृष्यन्ते सुदूरमतिवेगिताः॥ २.११ : अतो धनर्णं सुमहत्तेषां गतिवशाद्भवेत् । २.११ : आकृष्यमाणास्तैरेवं व्योम्नि यान्त्यनिलाहताः॥ २.१२ : *वक्रातिवक्रा विकला मन्दा मन्दतरा समा। (C वक्रानुवक्रा) २.१२ : तथा शीघ्रतरा शीघ्रा ग्रहाणामष्टधा गतिः॥ २.१३ : तत्रातिशीघ्रा शीघ्राख्या मन्दा मन्दतरा समा। २.१३ : ऋज्वीति पञ्चधा ज्ञेया *या वक्रा सातिवक्रगा॥(C +अन्या वक्रादिका मता) २.१४ : तत्तद्गतिवशान्नित्यं यथा दृक्तुल्यतां ग्रहाः। २.१४ : प्रयान्ति तत्प्रवक्ष्यामि स्फुटीकरणमादरात् ॥ २.१५ : राशिलिप्ताष्टमो भागः प्रथमं ज्यार्धमुच्यत् २.१५ : तत्तद्विभक्तलब्धोनमिश्रितं तद्द्वितीयकम्॥ २.१६ : आद्येनैवं क्रमात्पिण्डान् भक्त्वा *लब्धोनसंयुताः।(C लब्धोनितैर्युतैः) २.१६ : *खण्डकाः स्युश्चतुर्विंशज्यार्धपिण्डाः क्रमादमी॥(C खण्डकैस्) २.१७ : तत्त्वाश्विनो +अङ्काब्धिकृता रूपभूमिधरर्तवः।(२२४, ४४९, ६९१) २.१७ : खाङ्काष्टौ पञ्चशून्येशा बाणरूपगुणेन्दवः॥(८९०, ११०५, १३१५) २.१८ : शून्यलोचनपञ्चैकाश्छिद्ररूपमुनीन्दवः।(१५२०, १७१९) २.१८ : वियच्चन्द्रातिधृतयो गुणरन्ध्राम्बराश्विनः॥(१९१०, २०९३) २.१९ : मुनिषड्यमनेत्राणि चन्द्राग्निकृतदस्रकाः।(२२६७, २४३१) २.१९ : पञ्चाष्टविषयाक्षीणि कुञ्जराश्विनगाश्विनः॥(२५८५, २७२८) २.२० : रन्ध्रपञ्चाष्टकयमा वस्वद्र्यङ्कयमास्तथा।(२८५९, २९७८) २.२० : कृताष्टशून्यज्वलना नगाद्रिशशिवह्नयः॥(३०८४, ३१७९) २.२१ : षट्पञ्चलोचनगुणाश्चन्द्रनेत्राग्निवह्नयः।(३२५६, ३३२१) २.२१ : यमाद्रिवह्निज्वलना रन्ध्रशून्यार्नवाग्नयः॥(३३७२), ३४०१) २.२२ : रूपाग्निसागरगुणा वस्वग्निकृतवह्नयः।(३४३१, ३४३८) २.२२ : प्रोज्झ्योत्क्रमेण व्यासार्धादुत्क्रमज्यार्धपिण्डिकाः॥ २.२३ : मुनयो रन्ध्रयमला रसषट्का मुनीश्वराः।(७, २९, ६६, ११७) २.२३ : द्व्यष्टैका रूपषड्दस्राः सागरार्थहुताशनाः।(१८२, २६१, ३५४) २.२४ : खर्तुवेदा नवाद्र्यर्था दिङ्नागास्त्र्यर्थकुञ्जराः।(४६०, ७१०, ८५३) २.२४ : नगाम्बरवियच्चन्द्रा रूपभूधरशङ्कराः॥(१००७, ११७१) २.२५ : शरार्णवहुताशैका भुजङ्गाक्षिशरेन्दवः।(१३४५, १५२८) २.२५ : नवरूपमहीध्रैका गजैकाङ्कनिशाकराः॥१७१९, १९१८) २.२६ : गुणाश्विरूपनेत्राणि पावकाग्निगुणाश्विनः।(२१२३, २३३३) २.२६ : वस्वर्णवार्थयमलास्तुरङ्गर्तुनगाश्विनः॥(२५४८, २७६७) २.२७ : नवाष्टनवनेत्राणि पावकैकयमाग्नयः।(२९८९, ३२९३) २.२७ : गजाग्निसागरगुणा उत्क्रमज्यार्धपिण्डकाः॥(३४३८) २.२८ : परमापक्रमज्या तु सप्तरन्ध्रगुणेन्दवः।(१३९७) २.२८ : तद्गुणा ज्या त्रिजीवाप्ता तच्चापं क्रान्तिरुच्यत् ।(C इष्यते) २.२९ : ग्रहं संशोध्य मन्दोच्चात्तथा शीघ्राद्विशोध्य च् २.२९ : शेषं केन्द्रपदं तस्माद्भुजज्या कोटिरेव च् ।(C केन्द्रं पदं) २.३० : गताद्भुजज्या विषमे गम्यात्कोटिः पदे भवेत् । २.३० : *युग्मे तु गम्याद्बाहुज्या कोटिज्या तु गताद्भवेत् ॥(C समे) २.३१ : लिप्तास्तत्त्वयमैर्भक्ता *लब्धं ज्यापिण्डिकं गताम्।(C लब्धा ज्यापिण्डिका गताः) २.३१ : गतगम्यान्तराभ्यस्तं विभजेत्तत्त्वलोचनैः॥(२२५) २.३२ : तदवाप्तफलं योज्यं ज्यापिण्डे *गतसंज्ञक्(C गतसंज्ञिते) २.३२ : स्यात्क्रमज्याविधिरयमुत्क्रमज्यास्वपि स्मृतः॥ २.३३ : ज्यां *प्रोज्झ्य शेषं तत्त्वाश्विहतं तद्विवरोद्धृतम्।(C प्रोज्झ्यान्यत्तत्त्वयमैर्हत्वा)(२२५) २.३३ : संख्यातत्त्वाश्विसंवर्गे *संयोज्य धनुरुच्यत् ।(C संयोज्यं) (२२५) २.३४ : रवेर्मन्दपरिध्यंशा मनवः शीतगो रदाः। (१४, ३२) ३.३४ : युग्मान्ते विषमान्ते तु नखलिप्तोनितास्तयोः॥ २.३५ : युग्मान्ते +अर्थाद्रयः *खाग्निसुराः सूर्या नवार्णवाः।(C खाग्निः सुरास्)(७५, ३०, ३३, १२, ४९) २.३५ : ओजे द्व्यगा वसुयमा रदा रुद्रा गजाब्दयः॥ २.३६ : कुजादीनां *अतः शीघ्रा युग्मान्ते +अर्थाग्निदस्रकाः।(C ततश्शैघ्र्या)(२३५) २.३६ : गुणाग्निचन्द्राः *खनगा द्विरसाक्षीणि गो+अग्नयः॥(C खागाश्च)(१३३, ७०, २६२, ३९) २.३७ : ओजान्ते *द्वित्रियमला द्विविश्वे यमपर्वताः।(C द्वित्रिकयमाः)(१३२, ७२) २.३७ : खर्तुदस्रा वियद्वेदाः शीघ्रकर्मणि कीर्तिताः॥(२६०,४०) २.३८ : ओजयुग्मान्तरगुणा भुजज्या त्रिज्ययोद्धृता। २.३८ : *युग्मे वृत्ते धनर्णं स्यादोजादूनाधिके स्फुटम्॥ (C युग्मवृत्ते) २.३९ : तद्गुणे भुजकोटिज्ये भगणांशविभाजित् २.३९ : तद्भुजज्याफलधनुर्मान्दं लिप्तादिकं फलम्॥ २.४० : *शैघ्र्यं कोटिफलं केन्द्रे मकरादौ धनं स्मृतम्।(C शैघ्रे) २.४० : संशोध्यं तु *त्रिजीवायां कर्क्यादौ कोटिजं फलम्॥(C त्रिजीवातः) २.४१ : तद्बाहुफलवर्गैक्यान्मूलं कर्णश्चलाभिधः। २.४१ : त्रिज्याभ्यस्तं भुजफलं चलकर्णविभाजितम्॥ २.४२ : लब्धस्य चापं लिप्तादिफलं *शैघ्र्यमिदं स्मृतम्। (C शैघ्रम्) २.४२ : एतदाद्ये कुजादीनां चतुर्थे चैव कर्मणि॥ २.४३ : मान्दं कर्मैकमर्केन्दोर्भौमादीनामथोच्यत् २.४३ : *शैघ्र्यं मान्दं पुनर्मान्दं शैघ्र्यं चत्वार्यनुक्रमात् ॥(C शैघ्रं) २.४४ : मध्ये शीघ्रफलस्यार्धं मान्दमर्धफलं तथा। २.४४ : मध्यग्रहे *मन्दफलं सकलं शैघ्र्यमेव च् ।(C पुनर्मान्दं) २.४५ : अजादिकेन्द्रे सर्वेषां *शैघ्र्ये मान्दे च कर्मणि।(C मान्दे शैघ्रे) २.४५ : धनं ग्रहाणां लिप्तादि तुलादाव्र्णमेव च् । २.४६ : अर्कबाहुफलाभ्यस्ता ग्रहभुक्तिर्विभाजिता। २.४६ : भचक्रकलिकाभिस्तु लिप्ताः कर्या ग्रहे +अर्कवत् ॥ २.४७ : स्वमन्दभुक्तिसंशुद्धा मध्यभुक्तिर्निशापतेः। २.४७ : दोर्ज्यान्तरादिकं कृत्वा भुक्तावृणधनं भवेत् ॥ २.४८ : ग्रहभुक्तेः फलं कार्यं ग्रहवन्मन्दकर्मणि। २.४८ : दोर्ज्यान्तरगुणा भुक्तिस्तत्त्वनेत्रोद्धृता पुनः॥ (२२५) २.४९ : स्वमन्दपरिधिक्षुण्णा भगणांशोद्धृता कलाः।] २.४९ : कर्क्यादौ तु धनं तत्र मकरादावृणं स्मृतम्॥ २.५० : मन्दस्फुटीकृतां भुक्तिं प्रोज्झ्य शीघ्रोच्चभुक्तितः। २.५० : तच्छेशं विवरेणाथ हन्यात्त्रिज्यान्त्यकर्णयोः॥ २.५१ : चलकर्णहृतं भुक्तौ कर्णे त्रिज्याधिके धनम्। २.५१ : ऋणमूने +अधिके प्रोज्झ्य शेषं वक्रगतिर्भवेत् ॥ २.५२ : दूरस्थितः स्वशीघ्रोच्चाद्ग्रहः शिथिलरश्मिभिः। २.५२ : सव्येतराकृष्ततनुर्भवेत्वक्रगतिस्तदा॥ २.५३ : कृतर्तुचन्द्रैर्वेदेन्द्रैः शून्यत्र्येकैर्गुणाष्टभिः।(१६४, १४४, १३०, ८३) २.५३ : शररुद्रैश्चतुर्थेषु केन्द्रांशैर्भूसुतादयः॥(११५) २.५४ : भवन्ति वक्रिणस्तैस्तु स्वैः स्वैश्चक्राद्विशोधितैः। २.५४ : अवशिष्टांशतुल्यैः स्वैः केन्द्रैरुज्झन्ति वक्रताम्॥ २.५५ : महत्त्वाच्छीघ्रपरिधेः सप्तमे भृगुभूसुतौ। २.५५ : अष्टमे जीवशशैजौ नवमे तु शनैश्चरः॥ २.५६ : कुजार्किगुरुपातानां ग्रहवच्छीघ्रजं फलम्। २.५६ : वामं तृतीयकं मान्दं बुधभार्गवयोः फलम्॥ २.५७ : स्वपातोनाद्ग्रहाज्जीवा शीघ्राद्भृगुजसौम्ययोः। २.५७ : विक्षेपघ्न्यन्त्यकर्णाप्ता विक्षेपस्त्रिज्यया विधोः॥ २.५८ : विक्षेपापक्रमैकत्वे क्रान्तिर्विक्षेपसंयुता। २.५८ : दिग्भेदे वियुता स्पष्टा भास्करस्य यथागता॥ २.५९ : ग्रहोदयप्राणहता खखाष्टैकोद्धृता गतिः। २.५९ : चक्रासवो लब्धयुता स्वाहोरात्रासवः स्मृताः॥ २.६० : क्रान्तेः क्रमोत्क्रम्मज्ये द्वे कृत्वा तत्रोत्क्रमज्यया। २.६० : हीना त्रिज्या दिनव्यासदलं तद्दक्षिणोत्तरम्॥ २.६१ : क्रान्तिज्या विषुवद्भाघ्नी क्षितिज्या द्वादशोद्धृता। २.६१ : त्रिज्यागुणाहोरात्रार्धकर्णाप्ता चरजासवः॥ २.६२ : तत्कार्मुकमुदक्क्रान्तौ *धनशनी पृथक्ष्थित्(C धनहानी) २.६२ : स्वाहोरात्रचतुर्भागे दिनरात्रिदले स्मृत् । २.६३ : याम्यक्रान्तौ विपर्यस्ते द्विगुणे तु दिनक्षप् २.६३ : विक्षेपयुक्तोनितया क्रान्त्या भानामपि स्वक् । २.६४ : भभोगो +अष्टशतीलिप्ताः खाश्विशैलास्तथा तिथेः। २.६४ : ग्रहलिप्ताभभोगाप्ता भानि भुक्त्या दिनादिकम्॥ २.६५ : रवीन्दुयोगलिप्ताभ्यो योगा भभोगभाजिताः। २.६५ : गता गम्याश्च षष्टिघ्न्यो भुक्तियोगाप्तनाडिकाः॥ २.६६ : अर्कोनचन्द्रलिप्ताभ्यस्तिथयो भोगभाजिताः। २.६६ : गता गम्याश्च षष्टिघ्न्यो नाड्यो भुक्त्यन्तरोद्धृताः॥ २.६७ : ध्रुवाणि शकुनिर्नागं तृतीयं तु चतुष्पदम्। २.६७ : किंस्तुघ्नं तु चतुर्दश्याः कृष्णायाश्चापरार्धतः॥ २.६८ : बवादीनि ततः सप्त चराख्यकरणानि च् २.६८ : मासे +अष्टकृत्व एकैकं करणानां प्रवर्तत् । २.६९ : तिथ्यर्धभोगं सर्वेषां करणानां प्रकल्पयेत् । २.६९ : एषा स्फुतगतिः प्रोक्ता सूर्यादीनां खचारिणाम्॥ ३.०१ : शिलातले +अम्बुसंशुद्धे वज्रलेपे +अपि वा सम् ३.०१ : तत्र शङ्क्वङ्गुलैरिष्टैः समं मण्डलमालिखेत् ॥ ३.०२ : तन्मध्ये स्थापयेच्छङ्कुं कल्पनाद्वादशाङ्गुलम्। ३.०२ : तच्छायाग्रं स्पृशेद्यत्र वृत्ते पूर्वापरार्धयोः॥ ३.०३ : तत्र बिन्दू विधायोभौ वृत्ते पूर्वापराभिधौ। ३.०३ : तन्मध्ये तिमिना रेखा कर्तव्या दक्षिणोत्तरा॥ ३.०४ : याम्योत्तरदिशोर्मध्ये तिमिना पूर्वपश्चिमा। ३.०४ : दिङ्मध्यमत्स्यैः संसाध्या विदिशस्तद्वदेव हि॥ ३.०५ : चतुरस्रं बहिः कुर्यात्सूत्रैर्मध्याद्विनिर्गतैः। ३.०५ : भुजसूत्राङ्गुलैस्तत्र दत्तैरिष्टप्रभा स्मृता॥ ३.०६ : प्राक्पश्चिमाश्रिता रेखा प्रोच्यते सममण्डल् ३.०६ : उनण्डले च विषुवन्मण्डले परिकीर्त्यत् । ३.०७ : रेखा प्राच्यपरा साध्या विषुवद्भाग्रगा तथा। ३.०७ : इष्टच्छायाविषुवतोर्मध्यमग्राभिधीयत् । ३.०८ : शङ्कुच्छायाकृतियुतेर्मूलं कर्णो +अस्य वर्गतः। ३.०८ : प्रोज्झ्य शङ्कुकृतिं मूलं छाया शङ्कुर्विपर्ययात् ॥ ३.०९ : त्रिंशत्कृत्यो युगे भानां चक्रं प्राक्परिलम्बत् ३.०९ : तद्गुणाद्भूदिनैर्भक्ताद्द्युगणाद्यदवाप्यत् । ३.१० : तद्दोस्त्रिघ्ना दशाप्तांशा विज्ञेया अयनाभिधाः। ३.१० : तत्संस्कृताद्ग्रहात्क्रान्तिच्छायाचरदलादिकम्॥ ३.११ : स्फुटं दृक्तुल्यतां गच्छेदयने विषुवद्वय् ३.११ : प्राक्चक्रं चलितं हीने छायार्कात्करणागत् । ३.१२ : अन्तरांशैरथावृत्य पश्चाच्छेषैस्तथाधिक् ३.१२ : एवं विषुवती छाया स्वदेशे या दिनार्धजा॥ ३.१३ : दक्षिणोत्तररेखायां सा तत्र विषुवत्प्रभा॥ ३.१३ : शङ्कुच्छायाहते त्रिज्ये विषुवत्कर्णभाजित् ३.१४ : लम्बाक्षज्ये तयोश्चापे लम्बाक्षौ दक्षिणौ सदा। ३.१४ : मध्यच्छाया भुजस्तेन गुणिता त्रिभमौर्विका॥ ३.१५ : स्वकर्णाप्ता धनुर्लिप्ता नतास्ता दक्षिणे भुज् ३.१५ : उत्तराश्चोत्तरे याम्यास्ताः सूर्यक्रान्तिलिप्तिकाः॥ ३.१६ : दिग्भेदे मिश्रिताः साम्ये विश्लिष्टाश्चाक्षलिप्तिकाः। ३.१६ : ताभ्यो +अक्षज्या च तद्वर्गं प्रोज्झ्य त्रिज्याकृतेः पदम्॥ ३.१७ : लम्बज्यार्कगुणाक्षज्या विषुवद्भाथ लम्बया। ३.१७ : स्वाक्षार्कनतभागानां दिक्षाम्ये +अन्तरमन्यथा॥ ३.१८ : दिग्भेदे +अपक्रमः शेषस्तस्य ज्या त्रिज्यया हता। ३.१८ : परमापक्रमज्याप्ता चापं मेषादिगो रविः॥ ३.१९ : कर्क्यादौ प्रोज्झ्य चक्रार्धात्तुलादौ भार्धसंयुतात् । ३.१९ : मृगादौ प्रोज्झ्य भगणान्मध्याह्ने +अर्कः स्फुटो भवेत् ॥ ३.२० : तन्मान्दमसकृद्वामं फलं मध्यो दिवाकरः। ३.२० : स्वाक्षार्कापक्रमयुतिर्दिक्षाम्ये +अन्तरमन्यथा॥ ३.२१ : शेषं नतांशाः सूर्यस्य तद्बाहुज्या च कोटिज्या। ३.२१ : शङ्कुमानाङ्गुलाभ्यस्ते भुजत्रिज्ये यथाक्रमम्॥ ३.२२ : कोटिज्यया विभज्याप्ते छायाकर्णावहर्दल् ३.२२ : क्रान्तिज्या विषुवत्कर्णगुणाप्ता शङ्कुजीवया॥ ३.२३ : अर्काग्रा स्वेष्टकर्णघ्नी मध्यकर्णोद्धृता स्वका। ३.२३ : विषुवद्भायुतार्काग्रा याम्ये स्यादुत्तरो भुजः॥ ३.२४ : विषुवत्यां विशोध्योदग्गोले स्याद्बाहुरुत्तरः। ३.२४ : विपर्ययाद्भुजो याम्यो भवेत्प्राच्यपरान्तर् । ३.२५ : माध्याह्निको भुजो नित्यं छाया माध्याह्निकी स्मृता। ३.२५ : लम्बाक्षजीवे विषुवच्छायाद्वादशसङ्गुण् । ३.२६ : क्रान्तिज्याप्ते तु तौ कर्णौ सममण्डलगे रवौ। ३.२६ : सौम्याक्षोना यदा कान्तिः स्यात्तदा द्युदलश्रवः॥ ३.२७ : विषुवच्छाययाभ्यस्तः कर्णो मध्याग्रयोद्धृतः। ३.२७ : स्वक्रान्तिज्या त्रिजीवाघ्नी लम्बज्याप्ताग्रमौर्विका॥ ३.२८ : स्वेष्टकर्णहता भक्ता त्रिज्ययाग्राङ्गुलादिका। ३.२८ : त्रिज्यावर्गार्धतो +अग्रज्यावर्गोनाद्द्वादशाहतात् ॥ ३.२९ : पुनर्द्वादशनिघ्नाच्च लभ्यते यत्फलं बुधैः। ३.२९ : शङ्कुवर्गार्धसंयुक्तविषुवद्वर्गभाजितात् ॥ ३.३० : तदेव करणी नाम तां पृथक्स्थापयेद्बुधः। ३.३० : अर्कघ्नी विषुवच्छायाग्रज्यया गुणिता तथा॥ ३.३१ : भक्ता फलाख्यं तद्वर्गसंयुक्तकरणीपदम्। ३.३१ : फलेन हीनसंयुक्तं दक्षिणोत्तरगोलयोः॥ ३.३२ : याम्ययोर्विदिशोः शङ्कुरेवं याम्योत्तरे रवौ। ३.३२ : परिभ्रमति शङ्कोस्तु शङ्कुरुत्तरयोस्तु सः॥ ३.३३ : तत्त्रिज्यावर्गविश्लेषान्मूलं दृग्ज्याभिधीयत् ३.३३ : स्वशङ्कुना विभज्याप्ते दृक्त्रिज्ये द्वादशाहत् । ३.३४ : छायाकर्णौ तु कोणेषु यथास्वं देशकालयोः। ३.३४ : त्रिज्योदक्चरजायुक्ता याम्यायां तद्विवर्जिता॥ ३.३५ : अन्त्या नतोत्क्रमज्योना स्वहोरात्रार्धसङ्गुणा। ३.३५ : त्रिज्याभक्ता भवेच्छेदो लम्बज्याघ्नो +अथ भाजितः॥ ३.३६ : त्रिभज्यया भवेच्छङ्कुस्तद्वर्गं परिशोधयेत् । ३.३६ : त्रिज्यावर्गात्पदं दृग्ज्या छायाकर्णौ तु पूर्ववत् ॥ ३.३७ : अभीष्टच्छाययाभ्यस्ता त्रिज्या तत्कर्णभाजिता। ३.३७ : दृग्ज्या तद्वर्गसंशुद्धात्त्रिज्यावर्गाच्च यत्पदम्। ३.३८ : शङ्कुः स त्रिभजीवाघ्नः स्वलम्बज्याविभाजितः। ३.३८ : छेदः स त्रिज्ययाभ्यस्तः स्वाहोरात्रार्धभाजितः॥ ३.३९ : उन्नतज्या तया हीना स्वान्त्या शेषस्य कार्मुकम्। ३.३९ : उत्क्रमज्याभिरेवं स्युः प्राक्पश्चार्धनतासवः॥ ३.४० : इष्टाग्राघ्नी तु लम्बज्या स्वकर्णाङ्गुलभाजिता। ३.४० : क्रान्तिज्या सा त्रिजीवाघ्नी परमापक्रमोद्धृता॥ ३.४१ : तच्चापं भादिकं क्षेत्रं पदैस्तत्र भवो रविः। ३.४१ : इष्टे +अह्नि मध्ये प्राक्पश्चाद्धृते बाहुत्रयान्तर् । ३.४२ : मत्स्यद्वयान्तरयुतेस्त्रिस्पृक्षूत्रेण भाभ्रमः। ३.४२ : त्रिभद्युकर्णार्धगुणाः स्वाहोरात्रार्धभाजिताः॥ ३.४३ : क्रमादेकद्वित्रिभज्यास्तच्चापानि पृथक्पृथक् । ३.४३ : स्वाधो +अधः परिशोध्याथ मेषाल्लङ्कोदयासवः॥ ३.४४ : खागाष्टयो +अर्थगो +अगैकाः शरत्र्यङ्कहिमांशवः। ३.४४ : स्वदेशचरखण्डोना भवन्तीष्टोदयासवः॥ ३.४५ : व्यस्ता व्यस्तैर्युताः स्वैः स्वैः कर्कटाद्यास्ततस्त्रयः। ३.४५ : उत्क्रमेण षडेवैते भवन्तीष्टास्तुलादयः॥ ३.४६ : गतभोग्यासवः कार्या भास्करादिष्टकालिकात् । ३.४६ : स्वोदयासुहता भुक्तभोग्या भक्ताः खवह्निभिः॥ ३.४७ : अभीष्टघटिकासुभ्यो भोग्यासून् प्रविशोधयेत् । ३.४७ : तद्वत्तदेष्यलग्नासूनेवं यातात्तथोत्क्रमात् ॥ ३.४८ : शेषं चेत्त्रिंशताभ्यस्तमशुद्धेन विभाजितम्। ३.४८ : भागैर्युक्तं च हीनं च तल्लग्नं क्षितिजे तदा॥ (C भागहीनं च युक्तं च) ३.४९ : प्राक्पश्चान्नतनाडीभिस्तस्माल्लङ्कोदयासुभिः। ३.४९ : भानौ क्षयधने कृत्वा मध्यलग्नं तदा भवेत् ॥ ३.५० : भोग्यासूनूनकस्याथ भुक्तासूनधिकस्य च् ३.५० : सम्पीण्ड्यान्तरलग्नासूनेवं स्यात्कालसाधनम्॥ ३.५१ : सूर्यादूने निशाशेषे लग्ने +अर्कादधिके दिवा। ३.५१ : भचक्रार्धयुताद्भानोरधिक्के +अस्तमयात्परम्॥ [चन्द्रग्रहण] ४.०१ : सार्धानि षट्सहस्राणि योजनानि विवस्वतः। ४.०१ : विष्कम्भो मण्डलस्येन्दोः सहाशीत्या चतुश्शतम्॥ ४.०२ : स्फुटस्वभुक्त्या गुणितौ मध्यभुक्त्योद्धृतौ स्फुटौ। ४.०२ : रवेः स्वभगणाभ्यस्तः शशाङ्कभगणोद्धृतः॥ ४.०३ : शशाङ्ककक्षागुणितो भाजितो वा +अर्ककक्षया। ४.०३ : विष्कम्भश्चन्द्रकक्षायां तिथ्याप्ता मानलिप्तिका॥ ४.०४ : स्फुटेन्दुभुक्तिर्भूव्यासगुणिता मध्ययोद्धृता। ४.०४ : लब्धं सूची महीव्यासस्फुटार्कश्रवणान्तरम्॥ ४.०५ : मध्येन्दुव्यासगुणितं मध्यार्कव्यासभाजितम्। ४.०५ : विशोध्य लब्धं सूच्यां तु तमो लिप्तास्तु पूर्ववत् ॥ ४.०६ : भानोर्भार्धे महीच्छाया तत्तुल्ये +अर्कसमे +अपि। ४.०६ : शशाङ्कपाते ग्रहणं कियद्भागाधिकोनक् । ४.०७ : तुल्यौ राश्यादिभिः स्याताममावास्यान्तकालिकौ। ४.०७ : सूर्येन्दू पौर्णमास्यन्ते भार्धे भागादिकौ समौ॥ ४.०८ : गतैष्यपर्वनाडीनां स्वफलेनोनसंयुतौ। ४.०८ : समलिप्तौ भवेतां तौ पातस्तात्कालिको +अन्यथा॥ ४.०९ : छादको भास्करस्येन्दुरधःस्थो घनवद्भवेत् । ४.०९ : भूच्छायां प्राङ्मुखश्चन्द्रो विशत्यस्य भवेदसौ॥ ४.१० : तात्कालिकेन्दुविक्षेपं छाद्यच्छादकमानयोः। ४.१० : योगार्धात्प्रोज्झ्य यच्छेषं तावच्छन्नं तदुच्यत् । ४.११ : यद्ग्राह्यमधिके तस्मिन् सकलं न्यूनमन्यथा। ४.११ : योगार्धादधिके न स्याद्विक्षेपे ग्राससम्भवः॥ ४.१२ : ग्राह्यग्राहकसंयोगवियोगौ दलितौ पृथक् । ४.१२ : विक्षेपवर्गहीनाभ्यां तद्वर्गाभ्यामुभे पद् । ४.१३ : षष्ठ्या संगुण्य सूर्येन्द्वोर्भुक्त्यन्तरविभाजित् ४.१३ : स्यातां स्थितिविमर्दार्धे नाडिकादिफले तयोः॥ ४.१४ : स्थित्यर्धनाडिकाभ्यस्ता गतयः षष्ठिभाजिताः। ४.१४ : लिप्तादि प्रग्रहे शोध्यं मोक्षे देयं पुनः पुनः॥ ४.१५ : तद्विक्षेपैः स्थितिदलं विमर्दार्धे तथा +असकृत् । ४.१५ : संसाध्यमन्यथा पाते तल्लिप्तादिफलं स्वकम्॥ ४.१६ : स्फुटतिथ्यवसाने तु मध्यग्रहणमादिशेत् । ४.१६ : स्थित्यर्धनाडिकाहीने ग्रासो मोक्षस्तु संयुत् । ४.१७ : तद्वदेव विमर्दार्धनाडिकाहीनसंयुत् ४.१७ : निमीलनोन्मीलनाख्ये भवेतां सकलग्रह् । ४.१८ : इष्टनाडीविहीनेन स्थित्यर्धेनार्कचन्द्रयोः। ४.१८ : भुक्त्यन्तरं समाहन्यात्षष्ट्याप्ताः कोटिलिप्तिकाः॥ ४.१९ : भानोर्ग्रहे कोटिलिप्ता मध्यस्थित्यर्धसंगुणाः। ४.१९ : स्फुटस्थित्यर्धसंभक्ताः स्फुटाः कोटिकलाः स्मृता॥ ४.२० : क्षेपो भुजस्तयोर्वर्गयुतेर्मूलं श्रवस्तु तत् । ४.२० : मानयोगार्धतः प्रोज्झ्य ग्रासस्तात्कालिको भवेत् ॥ ४.२१ : मध्यग्रहणतश्चोर्ध्वमिष्टनाडीर्विशोधयेत् । ४.२१ : स्थित्यर्धान्मौक्षिकाच्छेषं प्राग्वच्च्छेषं तु मौक्षिक् । ४.२२ : ग्राह्यग्राहकयोगार्धाच्छोध्याः स्वच्छन्नलिप्तिकाः। ४.२२ : ताद्वर्गात्प्रोज्झ्य तत्कालविक्षेपस्य कृतिं पदम्॥ ४.२३ : कोटिलिप्ता रवेः स्पष्टस्थित्यर्धेनाहता हृताः। ४.२३ : मध्येन लिप्तास्तन्नाड्यः स्थितिवद्ग्रासनाडिकाः॥ ४.२४ : नतज्या +अक्षज्ययाभ्यस्ता त्रिज्याप्ता तस्य कार्मुकम्। ४.२४ : वलनांशा सौम्ययाम्याः पूर्वापरकपालयोः॥ ४.२५ : राशित्रययुताद्ग्राह्यात्क्रान्त्यंशैर्दिक्षमैर्युताः। ४.२५ : भेदे +अन्तराज्ज्या वलना सप्तत्यङ्गुलभाजिता॥ ४.२६ : सोन्नतं दिनमध्यार्धं दिनार्धाप्तं फलेन तु। ४.२६ : छिन्द्याद्विक्षेपमानानि तान्येषामङ्गुलानि तु॥ [सूर्यग्रहण] ५.०१ : मध्यलग्नसमे भानौ हरिजस्य न सम्भवः। ५.०१ : अक्षोदङ्मध्यभक्रान्तिसाम्ये नावनतेरपि॥ ५.०२ : देशकालविशेषेण यथावनतिसम्भवः। ५.०२ : लम्बनस्यापि पूर्वान्यदिग्वशाच्च तथोच्यत् । ५.०३ : लग्नं पर्वान्तनाडीनां कुर्यात्स्वैरुदयासुभिः। ५.०३ : तज्ज्यान्त्यापक्रमज्याघ्नी लम्बज्याप्तोदयाभिधा॥ ५.०४ : तदा लङ्कोदयैर्लग्नं मध्यसंज्ञं यथोदितम्। ५.०४ : तत्क्रान्त्यक्षांशसंयोगो दिक्षाम्ये +अन्तरमन्यथा॥ ५.०५ : शेषं नतांशास्तन्मौर्वी मध्यज्या साभिधीयत् ५.०५ : मध्योदयज्ययाभ्यस्ता त्रिज्याप्ता वर्गितं फलम्॥ ५.०६ : मध्यज्यावर्गविश्लिष्टं दृक्क्षेपः शेषतः पदम्। ५.०६ : तत्त्रिज्यावर्गविश्लेषान्मूलं शङ्कुः स दृग्गतिः॥ ५.०७ : नतांशबाहुकोटिज्ये +अस्फुटे दृक्क्षेपदृग्गती। ५.०७ : एकज्यार्धगतश्छेदो लब्धं दृग्गतिजीवया॥ ५.०८ : मध्यलग्नार्कविश्लेषज्या छेदेन विभाजिता। ५.०८ : रवीन्द्वोर्लम्बनं ज्ञेयं प्राक्पश्चाद्घटिकादिकम्॥ ५.०९ : मध्यलग्नाधिके भानौ तिथ्यन्तात्प्रविशोधयेत् । ५.०९ : धनमूने +असकृत्कर्म यावत्सर्वं स्थिरीभवेत् ॥ ५.१० : दृक्क्षेपः शीततिग्मांश्वोर्मध्यभुक्त्यन्तराहतः। ५.१० : तिथिघ्नत्रिज्यया भक्तो लब्धं सावनतिर्भवेत् ॥ ५.११ : दृक्क्षेपात्सप्ततिहृताद्भवेद्वावनतिः फलम्। ५.११ : अथवा त्रिज्यया भक्तात्सप्तसप्तकसङ्गुणात् ॥ ५.१२ : मध्यज्यादिग्वशात्सा च विज्ञेया दक्षिणोत्तरा। ५.१२ : सेन्दुविक्षेपदिक्षाम्ये युक्ता विश्लेषितान्यथा॥ ५.१३ : तया स्थितिविमर्दार्धग्रासाद्यं तु यथोदितम्। ५.१३ : प्रमाणं वलनाभीष्टग्रासादि हिमरश्मिवत् ॥ ५.१४ : स्थित्यर्धोनाधिकात्प्राग्वत्तिथ्या(?)न्तलाल्लम्बनं पुनः। ५.१४ : ग्रासमोक्षोद्भवं साध्यं तन्मध्यहरिजान्तरम्॥ ५.१५ : प्राक्कपाले +अधिकं मध्याद्भवेत्प्राग्रहणं यदि। ५.१५ : मौक्षिकं लम्बनं हीनं पश्चार्धे तु विपर्ययः॥ ५.१६ : तदा मोक्षस्थितिदले देयं प्रग्रहणे तथा। ५.१६ : हरिजान्तरकं शोध्यं यत्रैतत्स्याद्विपर्ययः॥ ५.१७ : एतदुक्तं कपालैक्ये तद्भेदे लम्बनैकता। ५.१७ : स्वे स्वे स्थितिदले योज्या विमर्दार्धे +अपि चोक्तवत् ॥ [छेद्यक] ६.०१ : न छेद्यकमृते यस्माद्भेदा ग्रहणयोः स्फुटाः। ६.०१ : ज्ञायन्ते तत्प्रवक्ष्यामि छेद्यकज्ञानमुत्तमम्॥ ६.०२ : सुसाधितायामवनौ बिन्दुं कृत्वा ततो लिखेत् । ६.०२ : सप्तवर्गाङ्गुलेनादौ मण्डलं वलनाश्रितम्॥ ६.०३ : ग्राह्यग्राहकयोगार्धसम्मितेन द्वितीयकम्। ६.०३ : मण्डलं तत्समासाख्यं ग्राह्यार्धेन तृतीयकम्॥ ६.०४ : याम्योत्तराप्राच्यपरासाधनं पूर्ववद्दिशाम्। ६.०४ : प्रागिन्दोर्ग्रहणं पश्चान्मोक्षो +अर्कस्य विपर्ययात् ॥ ६.०५ : यथादिशं प्राग्रहणं वलनं हिमदीधितेः। ६.०५ : मौक्षिकं तु विपर्यस्तं विपरीतमिदं रवेः॥ ६.०६ : वलनाग्रान्नयेन्मध्यं सूत्रं यद्यत्र संस्पृशेत् । ६.०६ : तत्समासे ततो देयौ विक्षेपौ ग्रासमौक्षिकौ॥ ६.०७ : विक्षेपाग्रात्पुनः सूत्रं मध्यबिन्दुं प्रवेशयेत् । ६.०७ : तद्ग्राह्यबिन्दुसंस्पर्शाद्ग्रासमोक्षौ विनिर्दिशेत् ॥ ६.०८ : नित्यशो +अर्कस्य विक्षेपाः परिलेखे यथादिशम्। ६.०८ : विपरीताः शशाङ्कस्य तद्वशादथ मध्यमम्॥ ६.०९ : वलनं प्राङ्मुखं देयं तद्विक्षेपैकता यदि। ६.०९ : भेदे पश्चान्मुखं देयमिन्दोर्भानोर्विपर्ययात् ॥ ६.१० : वलनाग्रात्पुनः सूत्रं मध्यबिन्दुं प्रवेशयेत् । ६.१० : मध्यसूत्रेण विक्षेपं वलनाभिमुखं नयेत् ॥ ६.११ : विक्षेपाग्राल्लिखेद्वृत्तं ग्राहकार्धेन तेन यत् । ६.११ : ग्राह्यवृत्तं समाक्रान्तं तद्ग्रस्तं तमसा भवेत् ॥ ६.१२ : छेद्यकं लिखता भूमौ फलके वा विपश्चिता। ६.१२ : विपर्ययो दिशां कार्यः पूर्वापरकपालयोः॥ ६.१३ : स्वच्छत्वाद्द्वादशांशो +अपि ग्रस्तश्चन्द्रस्य दृश्यत् ६.१३ : लिप्तात्रयमपि ग्रस्तं तीक्ष्णत्वान्न विवस्वतः॥ ६.१४ : स्वसंज्ञितास्त्रयः कार्या विक्षेपाग्रेषु बिन्दवः। ६.१४ : तत्र प्राङ्मध्ययोर्मध्ये तथा मौक्षिकमध्ययोः॥ ६.१५ : लिखेन्मत्स्यौ तयोर्मध्यान्मुखपुच्छविनिःसृतम्। ६.१५ : प्रसार्य सूत्रद्वितयं तयोर्यत्र युतिर्भवेत् ॥ ६.१६ : तत्र सूत्रेण विलिखेच्चापं बिन्दुत्रयस्पृशा। ६.१६ : स पन्था ग्राहकस्योक्ता येनासौ सम्प्रयास्यति॥ ६.१७ : ग्राह्यग्राहकयोगार्धात्प्रोज्झ्येष्टग्रासमागतम्। ६.१७ : अवशिष्टाङ्गुलसमां शलाकां मध्यबिन्दुतः॥ ६.१८ : तयोर्मार्गोन्मुखीं दद्याद्ग्रासतः प्राग्ग्रहाश्रिताम्। ६.१८ : विमुञ्चतो मोक्षदिशि ग्राहकाध्वानमेव सा॥ ६.१९ : स्पृशेद्यत्र ततो वृत्तं ग्राहकार्धेन संलिखेत् । ६.१९ : तेन ग्राह्यं यदाक्रान्तं तत्तमोग्रस्तमादिशेत् ॥ ६.२० : मानान्तरार्धेन मितां शलाकां ग्रासदिङ्मुखीम्। ६.२० : निमीलनाख्यां दद्यात्सा तन्मार्गे यत्र संस्पृशेत् ॥ ६.२१ : ततो ग्राहकखण्डेन प्राग्वन्मण्डलमालिखेत् । ६.२१ : तद्ग्राह्यमण्डलयुतिर्यत्र तत्र निमीलनम्॥ ६.२२ : एवमुन्मीलने मोक्षदिङ्मुखीं सम्प्रसारयेत् । ६.२२ : विलिखेन्मण्डलं प्राग्वदुन्मीलनमथोक्तवत् ॥ ६.२३ : अर्धादूने सधूंरं स्यात्कृष्णमर्धाधिकं भवेत् । ६.२३ : विमुञ्चतः कृष्णतांरं कपिलं सकलग्रह् । ६.२४ : रहस्यमेतद्देवानां न देयं यस्य कस्यचित् । ६.२४ : सुपरीक्षितशिष्याय देयं वत्सरवासिन् । [ग्रहयुति] ७.०१ : ताराग्रहाणामन्योन्यं स्यातां युद्धसमागमौ। ७.०१ : समागमः शशाङ्केन सूर्येणास्तमनं सह् । ७.०२ : शीघ्रे मन्दाधिके +अतीतः संयोगो भवितान्यथा। ७.०२ : द्वयोः प्राग्यायिनोरेवं वक्रिणोस्तु विपर्ययात् ॥ ७.०३ : प्राग्यायिन्यधिके +अतीतो वक्रिण्येष्यः समागमः। ७.०३ : ग्रहान्तरकलाः स्वस्वभुक्तिलिप्ताः समाहताः॥ ७.०४ : भुक्त्यन्तरेण विभजेदनुलोमविलोमयोः। ७.०४ : द्वयोर्वक्रिण्यथैकस्मिन् भुक्तियोगेन भाजयेत् ॥ ७.०५ : लब्धं लिप्तादिकं शोध्यं गते देयं भविष्यति। ७.०५ : विपर्ययाद्वक्रगत्योरेकस्मिंस्तु धनव्ययौ॥ ७.०६ : समालिप्तौ भवेतां तौ ग्रहौ भगणसंस्थितौ। ७.०६ : विवरं तद्वदुद्धृत्य दिनादिफलमिष्यत् । ७.०७ : कृत्वा दिनक्षपामानं तथा विक्षेपलिप्तिकाः। ७.०७ : नतोन्नतं साधयित्वा स्वकाल्लग्नवशात्तयोः॥ ७.०८ : विषुवच्छाययाम्यस्तद्विक्षेपाद्द्वादशोद्धृतात् । ७.०८ : फलं स्वनतनाडीघ्नं स्वदिनार्धविभाजितम्॥ ७.०९ : लब्धं प्राच्यामृणं सौम्याद्विक्षेपात्पश्चिमे धनम्। ७.०९ : दक्षिणे प्राक्कपाले स्वं पश्चिमे तु तथा क्षमः॥ ७.१० : सत्रिभग्रहजक्रान्तिभागघ्नाः क्षेपलिप्तिकाः। ७.१० : विकलाः स्वमृणं क्रान्तिक्षेपयोर्भिन्नतुल्ययोः॥ ७.११ : नक्षत्रग्रहयोगेषु ग्रहास्तोदयसाधन् ७.११ : शृङ्गोन्नतौ तु चन्द्रस्य दृक्कर्मादाविदं स्मृतम्॥ ७.१२ : तात्कालिकौ पुनः कार्यौ विक्षेपौ च तयोस्ततः। ७.१२ : दिक्तुल्ये त्वन्तरं भेदे योगः शिष्टं ग्रहान्तरम्॥ ७.१३ : कुजार्किज्ञामरेज्यानां त्रिंशदर्धार्धवर्धिताः। ७.१३ : विष्कम्भाश्चन्द्रकक्षायां भृगोः षष्टिरुदाहृता॥ ७.१४ : त्रिचतुः कर्णयुत्याप्तास्ते द्विघ्नास्त्रिज्यया हताः। ७.१४ : स्फुटाः स्वकर्णास्तिथ्याप्ता भवेयुर्मानलिप्तिकाः॥ ७.१५ : छायाभूमौ विपर्यस्ते स्वच्छायाग्रे तु दर्शयेत् । ७.१५ : ग्रहः स्वदर्पणान्तःस्थः शङ्क्वग्रे सम्प्रदिश्यत् । ७.१६ : पञ्चहस्तोच्छ्रितौ शङ्कू यथादिग्भ्रमसंस्थितौ। ७.१६ : ग्रहान्त्रेण विक्षिप्तावधो हस्तनिखातगौ॥ ७.१७ : छायाकर्णौ ततो दद्याच्छायाग्राच्छङ्कुमूर्धगौ। ७.१७ : छायाकर्णाग्रसंयोगे संस्थितस्य प्रदर्शयेत् ॥ ७.१८ : स्वशङ्कुमूर्धगौ व्योम्नि ग्रहौ दृक्तुल्यतामितौ। ७.१८ : उल्लेखं तारकास्पर्शाद्भेदे भेदः प्रकीर्त्यत् । ७.१९ : युद्धमंशुविमर्दाख्यमंशुयोगे परस्परम्। ७.१९ : अंशादूने +अपसव्याख्यं युद्धमेको +अत्र चेदणुह् ॥ ७.२० : समागमो +अंशादधिके भवतश्चेद्वलान्वितौ। ७.२० : अपसव्ये जितो युद्धे पिहितो +अणुरदीप्तितान्॥ ७.२१ : रूक्षो विवर्णो विध्वस्तो विजितो दक्षिणाश्रितः। ७.२१ : उदक्ष्थो दीप्तिमान् स्थूलो जयी याम्ये +अपि यो बली॥ ७.२२ : आसन्नावप्युभौ दीप्तौ भवतश्चेत्समागमः। ७.२२ : स्वल्पौ द्वावपि विध्वस्तौ भवेतां कूटविग्रहौ॥ ७.२३ : उदक्ष्थो दक्षिणस्थो वा भार्गवः प्रायशो जयी। ७.२३ : शशाङ्केनैवमेतेषां कुर्यात्संयोगसाधनम्॥ ७.२४ : भावाभावाय लोकानां कल्पनेयं प्रदर्शिता। ७.२४ : स्वमार्गगाः प्रयान्त्येते दूरमन्योन्यमाश्रिताः॥ [नक्षत्रग्रहयुति] ८.०१ : प्रोच्यन्ते लिप्तिका भानां स्वभोगो +अथ दशाहतः। ८.०१ : भवन्त्यतीतधिष्ण्यानां भोगलिप्तायुता ध्रुवाः॥ ८.०२ : अष्टार्णवाः शून्यकृताः पञ्चषष्टिर्नगेषवः। ८.०२ : अष्टार्था अब्धयो +अष्टागा अङ्गागा मनवस्तथा॥ ८.०३ : कृतेषवो युगरसाः शून्यवाणा वियद्रसाः। ८.०३ : खवेदाः सागरनगा गजागाः सागरर्तवः॥ ८.०४ : मनवो +अथ रसा वेदा वैश्वमाप्यार्धभोगगम्। ८.०४ : आप्यस्यैवाभिजित्प्रान्ते वैश्वान्ते श्रवणस्थितिः। ८.०५ : त्रिचतुः पादयोः सन्धौ श्रविष्ठा श्रवणस्य तु। ८.०५ : स्वभोगतो वियन्नागाः षट्कृतिर्यमलाश्विनः॥ ८.०६ : रन्ध्राद्रयः क्रमादेषां विक्षेपाः स्वादपक्रमात् । ८.०६ : दिङ्मासविषयाः सौम्ये याम्ये पञ्च दिशो नव् । ८.०७ : सौम्ये रसाः खं याम्ये +अगाः सौम्ये खार्कास्त्रयोदश् ८.०७ : दक्षिणे रुद्रयमलाः सप्तत्रिंशदथोत्तर् । ८.०८ : याम्य +अध्यर्धत्रिककृता नव सार्धशरेषवः। ८.०८ : उत्तरस्यां तथा षष्टिस्त्रिंशत्षट्त्रिंशदेव हि॥ ८.०९ : दक्षिणे त्वर्धभागस्तु चतुर्विंशतिरुत्तर् ८.०९ : भागाः षड्विंशतिः खं च दास्रादीनां यथाक्रमम्॥ ८.१० : अशीतिभागैर्याम्यायामगस्त्यो मिथुनान्तगः। ८.१० : विंशे च मिथुनस्यांशे मृगव्याधो व्यवस्थितः॥ ८.११ : विक्षेपो दक्षिणे भागैः खार्णवैः स्वादपक्रमात् । ८.११ : हुतभुग्ब्रह्महृदयौ वृषे द्वाविंशभागगौ॥ ८.१२ : अष्टाभिस्त्रिंशता चैव विक्षिप्तावुत्तरेण तौ। ८.१२ : गोलं लब्ध्वा परीक्षेत विक्षेपं ध्रुवकं स्फुटम्॥ ८.१३ : वृषे सप्तदशे भागे यस्य याम्यो +अंशकद्वयात् । ८.१३ : विक्षेपो +अभ्यधिको भिन्द्याद्रोहिण्याः शकतं तु सः॥ ८.१४ : ग्रहवद्द्युनिशे भानां कुर्याद्दृक्कर्म पूर्ववत् । ८.१४ : ग्रहमेलकवच्छेषं ग्रहभुक्त्या दिनानि च् । ८.१५ : एष्यो हीने गृहे योगो ध्रुवकादधिके ततः। ८.१५ : विपर्ययाद्वक्रगते ग्रहे ज्ञेयः समागमः॥ ८.१६ : फाल्गुन्योर्भाद्रपदयोस्तथैवाषाढयोर्द्वयोः। ८.१६ : विशाखाश्विनिसौम्यानां योगतारोत्तरा स्मृता॥ ८.१७ : पश्चिमोत्तरताराया द्वितीया पश्चिमे स्थिता। ८.१७ : हस्तस्य योगतारा सा श्रविष्ठायाश्च पश्चिमा॥ ८.१८ : ज्येष्ठाश्रवणमैत्राणां बार्हस्पत्यस्य मध्यमा। ८.१८ : भरण्याग्नेयपित्र्याणां रेवत्याश्चैव दक्षिणा॥ ८.१९ : रोहिण्यादित्यमूलानां प्राची सार्पस्य चैव हि। ८.१९ : यथा प्रत्यवशेषाणां स्थूला स्याद्योगतारका॥ ८.२० : पूर्वस्यां ब्रह्महृदयादंशकैः पञ्चभिः स्थितः। ८.२० : प्रजापतिर्वृषान्ते +असौ सौम्ये +अष्टत्रिंशदंशकैः॥ ८.२१ : अपांवत्सस्तु चित्राया उत्तरे +अंशैस्तु पञ्चभिः। ८.२१ : बृहत्किञ्चिदतो भागैरापः षड्भिस्तथोत्तर् । [उदयास्त] ९.०१ : अथोदयस्तमययोः परिज्ञानं प्रकीर्त्यत् ९.०१ : दिवाकरकराक्रान्तमूर्तिनामप्लतेजसाम्॥ ९.०२ : सूर्यादभ्यधिकाः पश्चादस्तं जीवकुजार्जजाः। ९.०२ : ऊनाः प्रागुदयं यान्ति शुक्रज्ञौ वक्रिणौ तथा॥ ९.०३ : ऊना विवस्वतः प्राच्यामस्तं चन्द्रज्ञभार्गवाः। ९.०३ : व्रजन्त्यभ्यधिकाः पस्चादुदयं शीघ्रयायिनः॥ ९.०४ : सूर्यास्तकालिकौ पश्चात्प्राच्यामुदयकालिकौ। ९.०४ : दिवा चार्कग्रहौ कुर्याद्दृक्कर्माथ ग्रहस्य तु॥ ९.०५ : ततो लग्नान्तरप्राणाः कालांशाः षष्टिभाजिताः। ९.०५ : प्रतीच्यां षड्भयुतयोस्तद्वल्लग्नान्तरासवः॥ ९.०६ : एकादशामरेज्यस्य तिथिसङ्ख्यार्कजस्य च् ९.०६ : अस्तांशा भूमिपुत्रस्य दश सप्ताधिकास्ततः॥ ९.०७ : पश्चादस्तमयो +अष्टाभिरुदयः प्राङ्महत्तया। ९.०७ : प्रागस्तमुदयः पश्चादल्पत्वाद्दशभिर्भृगोः॥ ९.०८ : एवं बुधो द्वादशभिश्चतुर्दशभिरंशकैः। ९.०८ : वक्री शीघ्रगतिश्चार्कात्करोत्यस्त्मयोदयौ॥ ९.०९ : एभ्यो +अधिकैः कालभागैर्दृश्या न्यूनैरदर्शनाः। ९.०९ : भवन्ति लोके खचरा भानुभाग्रस्तमूर्तयः॥ ९.१० : तत्कालांशान्तरकला भुक्त्यन्तरविभाजिताः। ९.१० : दिनादि तत्फलं लब्धं भुक्तियोगेन वक्रिणः॥ ९.११ : तल्लग्नासुहते भुक्ती अष्टादशशतोद्धृत् ९.११ : स्यातां कालगती ताभ्यां दिनादि गतगम्ययोः॥ ९.१२ : स्वात्यगस्त्यमृगव्याधचित्राज्येष्ठाः पुनर्वसुः। ९.१२ : अभिजिद्ब्रह्महृदयं त्रयोदशभिरंशकैः॥ ९.१३ : हस्तश्रवणफाल्गुन्यः श्रविष्टा रोहिणीमघाः। ९.१३ : चतुर्दशांशकैर्दृश्या विशाखाश्विनिदैवतम्॥ ९.१४ : कृत्तिकामैत्रमूलानि सार्पं रौद्रर्क्षमेव च् ९.१४ : दृश्यन्ते पञ्चदशभिराषाढाद्द्वितयं तथा॥ ९.१५ : भरणीतिष्यसौम्यानि सौक्ष्म्यात्त्रिःसप्तकांशकैः। ९.१५ : शेषाणि सप्तदशभिर्दृश्यादृश्यानि भानि तु॥ ९.१६ : अष्टादशशताभ्यस्ता दृश्यांशाः स्वोदयासुभिः। ९.१६ : विभज्य लब्धाः क्षेत्रांशास्तैर्दृश्यादृश्यताथवा॥ ९.१७ : प्रागेषामुदयः पश्चादस्तो दृक्कर्म पूर्ववत् । ९.१७ : गतैष्यदिवसप्राप्तिर्भानुभुक्त्या सदैव हि॥ ९.१८ : अभिजिद्ब्रह्महृदयं स्वातीवैष्णववासवाः। ९.१८ : अहिर्बुध्न्यमुदक्ष्थत्वान्न लुप्यन्ते +अर्करश्मिभिः॥ [चन्द्रशृङ्गोन्न] १०.०१ : उदयास्तविधिः प्राग्वत्कर्तव्यः शीतगोरपि। १०.०१ : भागैर्द्वादशभिः पश्चाद्दृश्यः प्राग्यात्यदृश्यताम्॥ १०.०२ : रवीन्द्वोः षड्भयुतयोः प्राग्वल्लग्नान्तरासवः। १०.०२ : एकराशौ रवीन्द्वोश्च कार्या विवरलिप्तिकाः॥ १०.०३ : तन्नाडिकाहते भुक्ती रवीन्द्वोः षष्टिभाजित् १०.०३ : तत्फलान्वितयोर्भूयः कर्तव्या विवरासवः॥ १०.०४ : एवं यावत्स्थिरीभूता रवीन्द्वोरन्तरासवः। १०.०४ : तैः प्राणैरस्तमेतीन्दुः शुक्ले +अर्कास्तमयात्परम्॥ १०.०५ : भगणार्धं रवेर्दत्त्वा कार्यास्तद्विवरासवः। १०.०५ : तैः प्राणैः कृष्णपक्षे तु शीतांशुरुदयं व्रजेत् ॥ १०.०६ : अर्केन्द्वोः क्रान्तिविश्लेषो दिक्षाम्ये युतिरन्यथा। १०.०६ : तज्ज्येन्दुरर्काद्यत्रासौ विज्ञेया दक्षिणोत्तरा॥ १०.०७ : मध्याह्नेन्दुप्रभाकर्णसङ्गुणा यदि सोत्तरा। १०.०७ : तदार्कघ्नाक्षजीवायां शोध्या योज्या च दक्षिणा॥ १०.०८ : शेषं लम्बज्यया भक्तं लब्धो बाहुः स्वदिङ्मुखः। १०.०८ : कोटिः शङ्कुस्तयोर्वर्गयुतेर्मूलं श्रुतिर्भवेत् ॥ १०.०९ : सूर्योनशीतगोर्लिप्ताः शुक्लं नवशतोद्धृताः। १०.०९ : चन्द्रबिम्बाङ्गुलाभ्यस्तं हृतं द्वादशभिः स्फुटम्॥ १०.१० : दत्त्वार्कसंज्ञितं बिन्दुं ततो बाहुं स्वदिङ्मुखम्। १०.१० : ततः पश्चान्मुखी कोटिं कर्णं कोट्यग्रमध्यगम्॥ १०.११ : कोटिकर्णयुताद्बिन्दोर्बिम्बं तात्कालिकं लिखेत् । १०.११ : कर्णसूत्रेण दिक्षिद्धिं प्रथमं परिकल्पयेत् ॥ १०.१२ : शुक्लं कर्णेन तद्बिम्बयोगादन्तर्मुखं नयेत् । १०.१२ : शुक्लाग्रयाम्योत्तरयोर्मध्ये मत्स्यौ प्रसाधयेत् ॥ १०.१३ : तन्मद्ख्यसूत्रसंयोगाद्बिन्दुत्रिस्पृग्लिखेद्धनुः॥ १०.१३ : प्राग्बिम्बं यादृगेव स्यात्तादृक्तत्र दिने शशी॥ १०.१४ : कोट्या दिक्साधनात्तिर्यक्षूत्रान्ते शृङ्गमुन्नतम्। १०.१४ : दर्शयेदुन्नतां कोटिं कृत्वा चन्द्रस्य साकृतिः॥ १०.१५ : कृष्णे षड्भयुतं सूर्यं विशोध्येन्दोस्तथासितम्। १०.१५ : दद्याद्वामं भुजं तत्र पश्चिमं मण्डलं विधोः॥ [पात] ११.०१ : एकायनगतौ स्यातां सूर्यचन्द्रमसौ यदा। ११.०१ : तद्युतौ मण्डले क्रान्त्योस्तुल्यत्वे वैधृताभिधः॥ ११.०२ : विपरीतायनगतौ चन्द्रार्कौ क्रान्तिलिप्तिका। ११.०२ : समास्तदा व्यतीपातो भगणार्धे तयोर्युतौ॥ ११.०३ : तुल्यांशुजालसम्पर्कात्तयोस्तु प्रवहाहतः। ११.०३ : तद्दृक्क्रोधभवो वह्निर्लोकाभावाय जायत् । ११.०४ : विनाशयति पातो +अस्मिन् लोकानामसकृद्यतः। ११.०४ : व्यतीपातः प्रसिद्धो +अयं सञ्ज्ञाभेदेन वैधृतः॥ ११.०५ : स कृष्णो दारुणवपुर्लोहिताक्षो महोदरः। ११.०५ : सर्वानिष्टकरो रौद्रो भूयो भूयः प्रजायत् । ११.०६ : भास्करेन्द्वोर्भचक्रान्तश्चक्रार्धावधिसंस्थयोः। ११.०६ : दृक्तुल्यसाधितांशादियुक्तयोः स्वावपक्रमौ॥ ११.०७ : अथौजपदगस्येन्दोः क्रान्तिर्विक्षेपसंस्कृता। ११.०७ : यदि स्यादधिका भानोः क्रान्तेः पातो गतस्तदा॥ ११.०८ : ऊना चेत्स्यात्तदा भावी वामं युग्मपदस्य च् ११.०८ : पदान्यत्वं विधोः क्रान्तिविक्षेपाच्चेद्विशुध्यति॥ ११.०९ : क्रान्त्योर्ज्ये त्रिज्ययाभ्यस्ते परक्रान्तिज्ययोद्धृत् ११.०९ : तच्चापान्तरमर्धं वा योज्यं भाविनि शीतगौ॥ ११.१० : शोध्यं चन्द्राद्गते पाते तत्सूर्यगतिताडितम्। ११.१० : चन्द्रभुक्त्या हृतं भानौ लिप्तादि शशिवत्फलम्॥ ११.११ : तद्वच्छशाङ्कपातस्य फलं देयं विपर्ययात् । ११.११ : कर्मैतदसकृत्तावद्यावद्क्रान्ती समे तयोः॥ ११.१२ : क्रान्त्योः समत्वे पातो +अथ प्रक्षिप्तांशोनिते विधौ। ११.१२ : हीने +अर्धरात्रिकाद्यातो भावी तात्कालिके +अधिक् । ११.१३ : स्थिरीकृतार्धरात्रेन्द्वोर्द्वयोर्विवरलिप्तिकाः। ११.१३ : षष्टिघ्न्यश्चन्द्रभुक्त्याप्ताः पातकालस्य नाडिकाः॥ ११.१४ : रवीन्दुमानयोगार्धं षष्ट्या सङ्गुण्य भाजयेत् । ११.१४ : तयोर्भुक्त्यन्तरेणाप्तं स्थित्यर्धं नाडिकादि तत् ॥ ११.१५ : पातकालः स्फुटो मध्यः सो +अपि स्थित्यर्धवर्जितः। ११.१५ : तस्य सम्भवकालः स्यात्तत्संयुक्तो +अन्त्यसांज्ञितः॥ ११.१६ : आद्यन्तकालयोर्मध्यः कालो ज्ञेयो +अतिदारुणः। ११.१६ : प्रज्वलज्ज्वलनाकारः सर्वकर्मसु गर्हितः॥ ११.१७ : एकायनगतं यावदर्केन्द्वोर्मण्डलान्तरम्। ११.१७ : सम्भवस्तावदेवास्य सर्वकर्मविनाशकृत् ॥ ११.१८ : स्नानदानजपश्राद्धव्रतहोमादिकर्मभिः। ११.१८ : प्राप्यत सुमहच्छ्रेयस्तत्कालज्ञानतस्तथा॥ ११.१९ : रवीन्द्वोस्तुल्यता क्रान्त्योर्विषुवत्सन्निधौ यदा। ११.१९ : द्विर्भवेद्धि तदा पातः स्यादभावो विपर्ययात् ॥ ११.२० : शसाङ्कार्कयुतेर्लिप्ता भभोगेन विभाजिताः। ११.२० : लब्धं सप्तदशान्तो +अन्यो व्यतीपातस्तृतीयकः॥ ११.२१ : सार्पेन्द्रपौष्ण्यधिष्ण्यानामन्त्याः पादा भसन्धयः। ११.२१ : तदग्रभेष्वाद्यपादो गण्डान्तं नाम कीर्त्यत् । ११.२२ : व्यतीपातत्रयं घोरं गण्डान्तत्रितयं तथा। ११.२२ : एतद्भसन्धित्रितयं सर्वकर्मसु वर्जयेत् ॥ ११.२३ : इत्येतत्परमं पुण्यं ज्योतिषां चरितं हितम्। ११.२३ : र्हस्यं महदाख्यातं किमन्यच्छ्रोतुमिच्छसि॥ [भूगोल] १२.०१ : अथार्कांशसमुद्भूतं प्रणिपत्य कृताञ्जलिः। १२.०१ : भक्त्या परमयाभ्यर्च्य पप्रच्छेदं मयासुरः॥ १२.०२ : भगवन् किम्प्रमाणा भूः किमाकारा किमाश्रया। १२.०२ : किंविभागा कथं चात्र सप्तपातालभूमयः॥ १२.०३ : अहोरात्रव्यवस्थां च विदधाति कथं रविः। १२.०३ : कथं पर्येति वसुधां भुवनानि विभावयन्॥ १२.०४ : देवासुराणामन्योन्यमहोरात्रं विपर्ययात् । १२.०४ : किमथ तत्कथं वा स्याद्भानोर्भगणपूरणात् ॥ १२.०५ : पित्र्यं मासेन भवति नाडीषष्ट्या तु मानुषम्। १२.०५ : तदेव किल सर्वत्र न भवेत्केन हेतुना॥ १२.०६ : दिनाब्दमासहोराणामधिपा न समाः कुतः। १२.०६ : कथं पर्येति भगणः सग्रहो +अयं किमाश्रयः॥ १२.०७ : भूमेरुपर्युपर्यूर्ध्वाः किमुत्सेधाः किमन्तराः। १२.०७ : ग्रहर्क्षकक्षाः किंमात्राः स्थिताः केन क्रमेण ताः॥ १२.०८ : ग्रीष्मे तीव्रकरो भानुर्न हेमन्ते तथाविधः। १२.०८ : कियती तत्करप्राप्तिर्मानानि कति किं च तैः॥ १२.०९ : एवं मे संशयं छिन्धि भगवन् भूतभावन् १२.०९ : अन्यो न त्वामृते छेत्ता विद्यते सर्वदर्शिवान्॥ १२.१० : इति भक्त्योदितं श्रुत्वा मयोक्तं वाक्यमस्य हि। १२.१० : रहस्यं परमध्यायं ततः प्राह पुनः स तम्॥ १२.११ : शृणुष्वैकमना भूत्वा गुह्यमध्यात्म संज्ञितम्। १२.११ : प्रवक्ष्याम्यतिभक्तानां नादेयं विद्यते मम् । १२.१२ : वासुदेवः परं ब्रह्म तन्मूर्तिः पुरुषः परः। १२.१२ : अव्यक्तो निर्गुणः शान्तः पञ्चविंशात्परो +अव्ययः॥ १२.१३ : प्रकृत्यन्तर्गतो देवो बहिरन्तश्च सर्वगः। १२.१३ : सङ्कर्षणो +अपः सृष्ट्वादौ तासु वीर्यमवासृजत् ॥ १२.१४ : तदण्डमभवद्धैमं सर्वत्र तमसावृतम्। १२.१४ : तत्रानिरुद्धः प्रथमं व्यक्तीभूतः सनातनः॥ १२.१५ : हिरण्यगर्भो भगवानेष छन्दसि पठ्यत् १२.१५ : आदित्यो ह्यादिभूतत्वात्प्रसूत्या सूर्य उच्यत् । १२.१६ : परं ज्योतिस्तमः पारे सूर्यो +अयं सवितेति च् १२.१६ : पर्येति भुवनानेष भावयन् भूतभावनः॥ १२.१७ : प्रकाशात्मा तमोहन्ता महानित्येष विश्रुतः। १२.१७ : ऋचो +अस्य मण्डलं सामान्युस्त्रामूर्तिर्यजूंषि च् । १२.१८ : त्रयीमहो +अयं भगवाण्कालात्मा कालकृद्विभुः। १२.१८ : सर्वात्मा सर्वगः सूक्ष्मः सर्वमस्मिन् प्रतिष्ठितम्॥ १२.१९ : रथे विश्वमये चक्रं कृत्वा संवत्सरात्मकम्। १२.१९ : छन्दांस्यश्वाः सप्त युक्ताः पर्यटत्येष सर्वदा॥ १२.२० : त्रिपादममृतं गुह्यं पादो +अयं प्रकटो +अभवत् । १२.२० : सो +अहङ्कारं जगत्सृष्ट्यै ब्रह्माणमसृजत्प्रभुः॥ १२.२१ : तस्मै वेदान् वरान् दत्त्वा सर्वलोकपितामहम्। १२.२१ : प्रतिष्ठाप्याण्डमध्ये +अथ स्वयं पर्येति भावयन्॥ १२.२२ : अथ सृष्ट्यां मनश्चक्रे ब्रह्माहङ्कारमूर्तिभृत् । १२.२२ : मनसश्चन्द्रमा जज्ञे सूर्यो +अक्ष्णोस्तेजसां निधिः॥ १२.२३ : मनसः खं ततो वायुरग्निरापो धरा क्रमात् । १२.२३ : गुणैकवृद्ध्या पञ्चैव महाभूतानि जज्ञिर् । १२.२४ : अग्नीषोमौ भानुचन्द्रौ ततस्त्वङ्गारकादयः। १२.२४ : तेजोभूखाम्बुवातेभ्यः क्रमशः पञ्च जज्ञिर् । १२.२५ : पुनर्द्वादशधात्मानं व्यभजद्राशिसञ्ज्ञकम्। १२.२५ : नक्षत्ररूपिणं भूयः सप्तविंशात्मकं वशी॥ १२.२६ : ततश्चराचरं विश्वं निर्ममे देवपूर्वकम्। १२.२६ : ऊर्ध्वमध्याधरेभ्यो +अथ स्रोतोभ्यः प्रकृतीः सृजन्॥ १२.२७ : गुणकर्मविभागेन सृष्ट्वा प्राग्वदनुक्रमात् । १२.२७ : विभागं कल्पयामास यथास्वं वेददर्शनात् ॥ १२.२८ : ग्रहनक्षत्रतारानां भूमेर्विश्वस्य वा विभुः। १२.२८ : देवासुरमनुष्याणां सिद्धानां च यथाक्रमम्॥ १२.२९ : ब्रह्माण्डमेतत्सुषिरं तत्रेदं भूर्भुवादिकम्। १२.२९ : कटाहद्वितयस्येव सम्पुटं गोलकाकृति॥ १२.३० : ब्रह्माण्डमध्ये परिधिर्व्योमकक्षाभिधीयत् १२.३० : तन्मध्ये भ्रमणं भानामधो +अधः क्रमशस्तथा॥ १२.३१ : मन्दामरेज्यभूपुत्रसूर्यशुक्रेन्दुजेन्दवः। १२.३१ : परिभ्रमन्त्यधो+अधःस्थाः सिद्ध्हविद्याधरा घनाः॥ १२.३२ : मध्ये समन्तादण्डस्य भूगोलो व्योम्नि तिष्ठति। १२.३२ : बिभ्रानः परमां शक्तिं ब्रह्मणो धारणात्मकाम्॥ १२.३३ : तदन्तरपुटाः सप्त नागासुरसमाश्रयाः। १२.३३ : दिव्यौषधिरसोपेता रम्याः पातालभूमयः॥ १२.३४ : अनेकरत्ननिचयो जाम्बूनदमयो गिरिः। १२.३४ : भूगोलमध्यगो मेरुरुभयत्र विनिर्गतः॥ १२.३५ : उपरिष्टात्स्थितास्तस्य सेन्द्रा देवा महर्षयः। १२.३५ : अधस्तादसुरास्तद्वद्द्विषन्तो +अन्योन्यमाश्रिताः॥ १२.३६ : ततः समन्तात्परिधिः क्रमेणायं महार्णवः। १२.३६ : मेखलेव स्थितो धात्र्या देवासुरविभागकृत् ॥ १२.३७ : समन्तान्मेरुमध्यात्तु तुल्यभागेषु तोयधेः। १२.३७ : द्वीपिषु दिक्षु पूर्वादिनगर्यो देवनिर्मिताः॥ १२.३८ : भूवृत्तपादे पूर्वस्यां यमकोटीति विश्रुता। १२.३८ : भद्राश्ववर्षे नगरी स्वर्णप्राकारतोरणा॥ १२.३९ : याम्यायां भारते वर्षे लङ्का तद्वन्महापुरी। १२.३९ : पश्चिमे केतुमालाख्ये रोमकाख्या प्रकीर्तिता॥ १२.४० : उदक्सिद्धपुरी नाम कुरुवर्षे प्रकीर्तिता। १२.४० : तस्यां सिद्धा महात्मानो निवसन्ति गतव्यथाः॥ १२.४१ : भूवृत्तपादविवरास्ताश्चान्योन्यं प्रतिष्ठिताः। १२.४१ : ताभ्यश्चोत्तरगो मेरुस्तावानेव सुराश्रयः॥ १२.४२ : तासामुपरिगो याति विषुवस्थो दिवाकरः। १२.४२ : न तासु विषुवच्छाया नाक्षस्योन्नतिरिष्यत् । १२.४३ : मेरोरुभयतो मध्ये ध्रुवतारे नभः स्थित् १२.४३ : निरक्षदेशसंस्थानामुभये क्षितिजाश्रय् । १२.४४ : अतो नाक्षत्रोच्छ्रयस्तासु ध्रुवयोः क्षितिजस्थयोः। १२.४४ : नवतिर्लम्बकांशास्तु मेरावक्षांशकास्तथा। १२.४५ : मेषादौ देवभागस्थे देवानां याति दर्शनम्। १२.४५ : असुराणां तुलादौ तु सूर्यस्तद्भागसञ्चरः॥ १२.४६ : अत्यासन्नतया तेन ग्रीष्मे तीव्रकरा रवेः। १२.४६ : देवभागे सुराणां तु हेमन्ते मन्दतान्यथा॥ १२.४७ : देवासुरा विषुवति क्षितिजस्थं दिवाकरम्। १२.४७ : पश्यन्त्यन्योन्यमेतेषां वामसव्ये दिनक्षप् । १२.४८ : मेषादावुदितः सूर्यस्त्रीन् राशीनुदगुत्तरम्। १२.४८ : सञ्चरन् प्रागहर्मध्यं पूरयेन्मेरुवासिनाम्॥ १२.४९ : *कर्क्यादीन् सञ्चरंश्तद्वदह्नः पश्चार्धमेव सः।(C कर्कादीन्) १२.४९ : तुलादींस्त्रीन्मृगादींश्च तद्वदेव सुरद्विषाम्॥ १२.५० : अतो दिनक्षपे तेषामन्योन्यं हि विपर्ययात् । १२.५० : अहोरात्रप्रमाणं च भानोर्भगणपूरणात् ॥ १२.५१ : दिनक्षपार्धमेतेषामयनान्ते विपर्ययात् । १२.५१ : उपर्यात्मानमन्योन्यं कल्पयन्ति सुरासुराः॥ १२.५२ : अन्ये +अपि समसूत्रस्था मन्यन्ते +अधः परस्परम्। १२.५२ : भद्राश्वकेतुमालस्था लङ्कासिद्धपुराश्रिताः॥ १२.५३ : सर्वत्रैव महीगोले स्वस्थानमुपरि स्थितम्। १२.५३ : मन्यन्ते खे यतो गोलस्तस्य क्वोर्धवं क्व वाधः॥ १२.५४ : अल्पकायतया लोकाः स्वस्थानात्सर्वतो मुखम्। १२.५४ : पश्यन्ति वृत्तामप्येतां चक्राकारां वसुन्धराम्॥ १२.५५ : सव्यं भ्रमति देवानामपसव्यं सुरद्विषाम्। १२.५५ : उपरिष्टाद्भगोलो +अयं व्यक्षे पश्चान्मुखः सदा॥ १२.५६ : अतस्तत्र दिनं त्रिंशन्नाडिकं शर्वदी तथा। १२.५६ : हानिवृद्धी सदा वामं सुरासुरविभागयोः॥ १२.५७ : मेषादौ तु सदा वृद्धिरुदगुत्तरतो +अधिका। १२.५७ : देवांशे च क्षपाहानिर्विपरीतं तथासुर् । १२.५८ : तुलादौ द्युनिशोर्वामं क्षयवृद्धी तयोरुभ् १२.५८ : देशक्रान्तिवशान्नित्यं तद्विज्ञानं पुरोदितम्॥ १२.५९ : भूवृत्तं क्रान्तिभागघ्नं भगणांशविभाजितम्। १२.५९ : अवाप्तयोजनैरर्को व्यक्षाद्यात्युपरिस्थितः॥ १२.६० : परमापक्रमादेवं योजनानि विशोधयेत् । १२.६० : भूवृत्तपादाच्छेषाणि यानि स्युर्योजनानि तैः॥ १२.६१ : अयनान्ते विलोमेन देवासुरविभागयोः। १२.६१ : नाडीषष्ट्या सकृदहर्निशाप्यस्मिन् सकृत्तथा॥ १२.६२ : तदन्तरे +अपि षष्ट्यन्ते क्षयवृद्धी अहर्निशोः। १२.६२ : परतो विपरीतो +अयं भगोलः परिवर्तत् । १२.६३ : ऊने भूवृत्तपादे तु द्विज्यापक्रमयोजनैः। १२.६३ : धनुर्मृगस्थः सविता देवभागे न दृश्यत् । १२.६४ : तथा चासुरभागे तु मिथुने कर्कटे स्थितः। १२.६४ : नष्टच्छाया महीवृत्तपादे दर्शनमादिशेत् ॥ १२.६५ : एकज्यापक्रमानीतैर्योजनैः परिवर्जित् १२.६५ : भूमिकक्षाचतुर्थांशे व्यक्षाच्छेषैस्तु योजनैः॥ १२.६६ : धनुर्मृगालिकुम्भेषु संस्थितो +अर्को न दृश्यत् १२.६६ : देवभागे +असुराणां तु वृषाद्ये भचतुष्टय् । १२.६७ : मेरौ *मेषादिचक्रार्धे देवाः पश्यन्ति भास्करम्।(ड्-चकार्धे) १२.६७ : सकृदेवोदितं तद्वदसुराश्च तुलादिगम्॥ १२.६८ : भूमण्डलात्पञ्चदशे भागे देवे +अथ वासुर् १२.६८ : उपरिष्टाद्व्रजत्यर्कः सौम्ययाम्यायनान्तगः॥ १२.६९ : तदन्तरालयोश्च्छाया याम्योदक्सम्भवत्यपि। १२.६९ : मेरोरभिमुखं याति परतः स्वविभागयोः॥ १२.७० : भद्राश्वोपरिगः कुर्याद्भारते तूदयं रविः। १२.७० : रात्र्यर्धं केतुमाले तु कुरावस्तमयं तदा॥ १२.७१ : भारतादिषु वर्षेषु तद्वदेव परिभ्रमन्। १२.७१ : मध्योदयार्धरात्र्यस्तकालान् कुर्यात्प्रदक्षिणम्॥ १२.७२ : ध्रुवोन्नतिर्भचक्रस्य नतिर्मेरुं प्रयास्यतः। १२.७२ : निरक्षाभिमुखं यातुर्विपरीते नतोन्नत् । १२.७३ : भचक्रं ध्रुवयोर्बद्धमाक्षिप्तं प्रवहानिलैः। १२.७३ : पर्येत्यजस्रं तन्नद्धा ग्रहकक्षा यथाक्रमम्॥ १२.७४ : सकृदुद्गतमब्दार्धं पश्यन्त्यर्कं सुरासुराः। १२.७४ : पितरः शशिगाः पक्षं स्वदिनं च नरा भुवि॥ १२.७५ : *उपरिष्टस्य महती कक्षाल्पाधःस्थितस्य च्(C उपरिष्ठस्य) १२.७५ : महत्या कक्षया भागा महान्तो +अल्पास्तथाल्पया॥ १२.७६ : कालेनाल्पेन भगणं भुङ्क्ते +अल्पभ्रमणाश्रितः। १२.७६ : ग्रहः कालेन महता मण्डले महति भ्रमन्॥ १२.७७ : स्वल्पयातो बहून् भुङ्क्ते भगणान् शीतदीधितिः। १२.७७ : महत्या कक्षया गच्छन् ततः स्वल्पं शनैश्चरः॥ १२.७८ : मन्दादधः क्रमेण स्युश्चतुर्था दिवसाधिपाः। १२.७८ : वर्षाधिपतयस्तद्वत्तृतीयाश्च प्रकीर्तिताः॥ १२.७९ : ऊर्ध्वक्रमेण शशिनो *मासानामधिपाः स्मृताः।(ड्मसानाम्) १२.७९ : होरेशाः सूर्यतनयादधो+अधः क्रमशस्तथा॥ १२.८० : भवेद्भकक्षा तीक्ष्णांशोर्भ्रमणं षष्टिताडितम्। १२.८० : सर्वोपरिष्टाद्भ्रमति योजनैस्तैर्भमण्डलम्॥ १२.८१ : कल्पोक्तचन्द्रभगणा गुणिताः शशिकक्षया। १२.८१ : आकाशकक्षा सा ज्ञेया करव्याप्तिस्तथा रवेः॥ १२.८२ : सैव यत्कल्पभगणैर्भक्ता तद्भ्रमणं भवेत् । १२.८२ : कुवासरैर्विभज्याह्नः सर्वेषां प्राग्गतिः स्मृता॥ १२.८३ : भुक्तियोजनजा सङ्ख्या सेन्दोर्भ्रमणसङ्गुणा। १२.८३ : स्वकक्षाप्ता तु सा तस्य तिथ्याप्ता गतिलिप्तिका॥ १२.८४ : कक्षा भूकर्णगुणिता महीमण्डलभाजिता। १२.८४ : तत्कर्णा भूमिकर्णोना ग्रहोच्च्यं स्वं दलीकृताः॥ १२.८५ : खत्रयाब्धिद्विदहनाः कक्षा तु हिमदीधितेः।(३२४३० १२.८५ : ज्ञशीघ्रस्याङ्कखद्वित्रित्कृतशून्येन्दवस्तथा॥(१०४३२०९) १२.८६ : शुक्रशीघ्रस्य सप्ताग्निरसाब्धिरसषड्यमाः।(२६६४६३७) १२.८६ : ततो +अर्कबुधशुक्राणां खखार्थैकसुरार्णवाः॥(४३३१५००) १२.८७ : कुजस्याप्यङ्कशून्याङ्कषड्वेदैकभुजङ्गमाः।(८१४६९०९) १२.८७ : चन्द्रोच्चस्य कृताष्टाब्धिवसुद्वित्र्यष्टवह्नयः॥(३८३२८४८४) १२.८८ : कृतर्तुमुनिपञ्चाद्रिगुणेन्दुविषया गुरोः।(५१३७५७६४) १२.८८ : स्वर्भानोर्वेदतर्काष्टद्विशैलार्थखकुञ्जराः॥(८०५७२८६४) १२.८९ : पञ्चवाणाक्षिनागर्तुरसाद्र्यर्काः शनेस्ततः।(१२७६६८२५५) १२.८९ : भानां रविखशून्याङ्कवसुरन्ध्रशराश्विनः॥(२५९८००१२) १२.९० : खव्योमखत्रयखसाग्रषट्कनागव्योमाष्टशून्ययमरूपनगाष्टचन्द्राः।(१८७१२०८०८६४००००००) १२.९० : ब्रह्माण्डसम्पुटपरिभ्रमणं समन्तादभ्यन्तरे दिनकरस्य करप्रसारः॥ [ज्योतिषोपनिषद्] १३.०१ : अथ गुप्ते शुचौ देशे स्नातः शुचिरलङ्कृतः। १३.०१ : सम्पूज्य भास्करं भक्त्या ग्रहान् भान्यथ गुह्यकान्॥ १३.०२ : पारम्पर्योपदेशेन यथाज्ञानं गुरोर्मुखात् । १३.०२ : आचार्यः शिष्यबोधार्थं सर्वं प्रत्यक्षदर्शिवान्॥ १३.०३ : भूभगोलस्य रचनां कुर्यादाश्चर्यकारिणीम्। १३.०३ : अभीष्टं पृथिवीगोलं कारयित्वा तु दारवम्॥ १३.०४ : दण्डं तन्मध्यगं मेरोरुभयत्र विनिर्गतम्। १३.०४ : आधारकक्षाद्वितयं कक्षा वैषुवती तथा॥ १३.०५ : भगणांशाङ्गुलैः कार्या दलितैस्तिस्र एव ताः। १३.०५ : स्वाहोरात्रार्धकर्णैश्च तत्प्रमाणानुमानतः॥ १३.०६ : क्रान्तिविक्षेपभागैश्च दलितैर्दक्षिणोत्तरैः। १३.०६ : स्वैः स्वैरपक्रमैस्तिस्रो मेषादीनामपक्रमात् ॥ १३.०७ : कक्षाः प्रकल्पयेत्ताश्च कर्क्यादीनां विपर्ययात् । १३.०७ : तद्वत्तिस्रस्तुलादीनां मृगादीनां विलोमतः॥ १३.०८ : याम्यगोलाश्रिताः कार्याः कक्षाधाराद्द्वयोरपि। १३.०८ : याम्योदग्गोलसंस्थानां भानामभिजितस्तथा॥ १३.०९ : सप्तर्षीणामगस्त्यस्य ब्रह्मादीनां च कल्पयेत् । १३.०९ : मध्ये वैषुवती कक्षा सर्वेषामेव संस्थिता॥ १३.१० : तदाधारयुतेरूर्ध्वमयने विषुवद्वयम्। १३.१० : विषुवत्स्थानतो भागैः स्फुटैर्भगणसञ्चरात् ॥ १३.११ : क्षेत्राण्येवमजादीनां तिर्यग्ज्याभिः प्रकल्पयेत् । १३.११ : अयनादयनं चैव कक्षा तिर्यक्तथापरा॥ १३.१२ : क्रान्तिसञ्ज्ञा तया सूर्यः सदा पर्येति भासयन्। १३.१२ : चन्द्राद्याश्च स्वकैः पातैरपमण्डलमाश्रितैः॥ १३.१३ : ततो +अपकृष्टा दृश्यन्ते विक्षेपान्तेष्वपक्रमात् । १३.१३ : उदयक्षितिजे लग्नमस्तं गच्छच्च तद्वशात् ॥ १३.१४ : लङ्कोदयैर्यथासिद्धं खमध्योपरि मध्यमम्। १३.१४ : मध्यक्षितिजयोर्मध्ये या ज्या सान्त्याभिधीयत् । १३.१५ : ज्ञेया चरदलज्या च विषुवत्क्षितिजान्तरम्। १३.१५ : कृत्वोपरि स्वकं स्थानं मध्ये क्षितिजमण्डलम्॥ १३.१६ : वस्त्रच्छन्नं बहिस्चापि लोकालोकेन वेष्टितम्। १३.१६ : अमृतस्रावयोगेन कालभ्रमणसाधनम्॥ १३.१७ : तुङ्गबीजसमायुक्तं गोलयन्त्रं प्रसाधयेत् । १३.१७ : गोप्यमेतत्प्रकाशोक्तं सर्वगम्यं भवेदिह् । १३.१८ : तस्माद्गुरूपदेशेन रचयेद्गोलमुत्तमम्। १३.१८ : युगे युगे समुच्छिन्ना रचनेयं विवस्वतः॥ १३.१९ : प्रसादात्कस्यचिद्भूयः प्रादुर्भवति कामतः। १३.१९ : कालसंसाधनार्थाय तथा यन्त्राणि साधयेत् ॥ १३.२० : एकाकी योजयेद्बीजं यन्त्रे विस्मयकारिणि। १३.२० : शङ्कुयष्टिधनुश्चक्रैश्छायायन्त्रैरनेकधा॥ १३.२१ : गुरूपदेशाद्विज्ञेयं कालज्ञानमतन्द्रितैः। १३.२१ : तोययन्त्रकपालाद्यैर्मयूरनरवानरैः॥ १३.२१ : ससूत्ररेणुगर्भैश्च सम्यक्कालं प्रसाधयेत् ॥ १३.२२ : पारदाराम्बुसूत्राणि शुल्वतैलजलानि च् १३.२२ : बीजानि पांसवस्तेषु प्रयोगास्ते +अपि दुर्लभाः॥ १३.२३ : तांरपात्रमधश्छिद्रं न्यस्तं कुण्डे +अमलाम्भसि। १३.२३ : षष्टिर्मज्जत्यहोरात्रे स्फुटं यन्त्रं कपालकम्॥ १३.२४ : नरयन्त्रं तथा साधु दिवा च विमले रवौ। १३.२४ : छायासंसाधनैः प्रोक्तं कालसाधनमुत्तमम्॥ १३.२५ : ग्रहनक्षत्रचरितं ज्ञात्वा गोलं च तत्त्वतः। १३.२५ : ग्रहलोकमवाप्नोति पर्यायेणात्मवान्नरः॥ [मान] १४.०१ : ब्राह्मं दिव्यं तथा पित्र्यं प्राजापत्यं गुरोस्तथा। १४.०१ : सौरं च सावनं चान्द्रमार्क्षं मानानि वै नव् । १४.०२ : चतुर्भिर्व्यवहारो +अत्र सौरचान्द्रार्क्षसावनैः। १४.०२ : बार्हस्पत्येन षष्ट्यब्दं ज्ञेयं नान्यैस्तु नित्यशः॥ १४.०३ : सौरेण द्युनिशोर्मानं षडशीतिमुखानि च् १४.०३ : अयनं विषुवच्चैव संक्रान्तेः पुण्यकालता॥ १४.०४ : तुलादि षडशीत्यह्नां षडशीतिमुखं क्रमात् । १४.०४ : तच्चतुष्टयमेव स्याद्द्विस्वभावेषु राशिषु॥ १४.०५ : षड्विंशे धनुषो भागे द्वाविंशे निमिषस्य च् १४.०५ : मिथुनाष्टादशे भागे कन्यायास्तु चतुर्दश् । १४.०६ : ततः शेषाणि कन्याया यान्यहानि तु षोडश् १४.०६ : क्रतुभिस्तानि तुल्यानि पितॄणां दत्तमक्षयम्॥ १४.०७ : भचक्रनाभौ विषुवद्द्वितयं समसूत्रगम्। १४.०७ : अयनद्वितयं चैव चतस्रः प्रथितास्तु ताः॥ १४.०८ : तदन्तरेषु संक्रान्तिद्वितयं द्वितयं पुनः। १४.०८ : नैरन्तर्यात्तु संक्रान्तेर्ज्ञेयं विष्णुपदीद्वयम्॥ १४.०९ : भानोर्मकरसङ्क्रान्तेः षण्मासा उत्तरायणम्। १४.०९ : कर्क्यादेस्तु तथैव स्यात्षण्मासा दक्षिणायनम्॥ १४.१० : द्विराशिनाथ ऋतवस्ततो +अपि शिशिरादयः। १४.१० : मेषादयो द्वादशैते मासास्तैरेव वत्सरः॥ १४.११ : अर्कमानकलाः षष्ट्या गुणिता भुक्तिभाजिताः। १४.११ : तदर्धनाड्यः सङ्क्रान्तेरर्वाक्पुण्यं तथा पर् । १४.१२ : अर्काद्विनिःसृतः प्राचीं यद्यात्यहरहः शशी। १४.१२ : तच्चान्द्रमानमंशैस्तु ज्ञेया द्वादशभिस्तिथिः॥ १४.१३ : तिथिः करणमुद्वाहः क्षौरं सर्वक्रियास्तथा। १४.१३ : व्रतोपवासयात्राणां क्रिया चान्द्रेण गृह्यत् । १४.१४ : त्रिंशता तिथिभिर्मासश्चान्द्रः पित्र्यमहः स्मृतम्। १४.१४ : निशा च मासपक्षान्तौ तयोर्मध्ये विभागतः॥ १४.१५ : भचक्रभ्रमणं नित्यं नाक्षत्रं दिनमुच्यत् १४.१५ : नक्षत्रनाम्ना मासास्तु ज्ञेयाः पर्वान्तयोगतः॥ १४.१६ : कार्तिक्यादिषु संयोगे कृत्तिकादि द्वयं द्वयम्। १४.१६ : अन्त्योपान्त्यौ पञ्चमश्च त्रिधा मासत्रयं स्मृतम्॥ १४.१७ : वैशाखादिषु कृष्णे च योगः पञ्चदशे तिथौ। १४.१७ : कार्त्तिकादीनि वर्षाणि गुरोरस्तोदयात्तथा॥ १४.१८ : उदयादुदयं भानोः सावनं तत्प्रकीर्तितम्। १४.१८ : सावनानि स्युर्*एतेन यज्ञकालविधिस्तु तैः॥(डेतन) १४.१९ : सूतकादिपरिच्छेदो दिनमासाब्दपास्तथा। १४.१९ : मध्यमा ग्रहभुक्तिस्तु सावनेनैव गृह्यत् । १४.२० : सुरासुराणामन्योन्यमहोरात्रं विपर्ययात् । १४.२० : यत्प्रोक्तं तद्भवेद्दिव्यं भानोर्भगणपूरणात् ॥ १४.२१ : मन्वन्तरव्यवस्था च प्राजापत्यमुदाहृतम्। १४.२१ : न तत्र द्युनिशोर्भेदो ब्राह्मं कल्पः प्रकीर्तितम्॥ १४.२२ : एतत्ते परमाख्यातं रहस्यं परमाद्भुतम्। १४.२२ : ब्रह्मैतत्परमं पुण्यं सर्वपापप्रणाशनम्॥ १४.२३ : दिव्यं चार्क्षं ग्रहाणां च दर्शितं ज्ञानमुत्तमम्। १४.२३ : विज्ञायार्कादिलोकेषु स्थानं प्राप्नोति शास्वतम्॥ १४.२४ : इत्युक्त्वा मयमामन्त्र्य सम्यक्तेनाभिपूजितः। १४.२४ : दिवमाचक्रमे +अर्कांशः प्रविवेश स्वमण्डलम्॥ १४.२५ : मयो +अथ दिव्यं तज्ञानं ज्ञात्वा साक्षाद्विवस्वतः। १४.२५ : कृतकृत्यमिवात्मानं मेने निर्धूतकल्मषम्॥ १४.२६ : ज्ञात्वा तमृषयश्चाथ सूर्यलब्धवरं मयम्। १४.२६ : परिबब्रुरुपेत्याथो ज्ञानं पप्रच्छुरादरात् ॥ १४.२७ : स तेभ्यः प्रददौ प्रीतो ग्रहाणां चरितं महत् । १४.२७ : अत्यद्भुततमं लोके रहस्यं ब्रह्मसम्मितम्॥