वाहट: आष्टाङ्गनिघण्टु सर्वज्ञाय नमस्कृत्य द्रव्याणां गूढवाचिनाम् । अष्टाङ्गसंग्रहोक्तानां निघण्टुरभिधीयते ॥ १ ॥ विदारीपञ्चाङ्गुलवृश्चिकाली- वृश्चीवदेवाह्वयशूर्पपर्ण्यः । कण्डूकरी जीवनाह्वस्वसंज्ञे द्वे पञ्चके गोपसुता त्रिपादी ॥ २ ॥ विदार्यादिरयं हृद्यो बृंहणो वातपित्तहा । शोषगुल्माङ्गमर्दोर्ध्व- श्वासकासहरो गणः ॥ ३ ॥ विदारी गजवाजीष्टा वृषगन्धेक्षुगन्धिका । शृगालिका पुष्पवल्ली शुक्लकन्दा पलाशिका ॥ ४ ॥ क्षीरेक्षुवल्लीगन्धान्या क्षीरशुक्ला पयस्विनी । वल्लीपलाशिका क्षीर- विदारी श्रेष्ठकन्दकः ॥ ५ ॥ पञ्चाङ्गुलो वर्धमानश्चित्रो गन्धर्वहस्तकः । उरुवूकस्तथैरण्ड आमण्डो वातनाशनः ॥ ६ ॥ रक्तैरण्डो द्वितीयस्तु व्याघ्रो व्याघ्रतलोपमः । नक्राहिदंष्ट्रिका कोली वृश्चिकाल्युष्ट्रधूमकः ॥ ७ ॥ कालेयी धूम्रपत्त्रोष्ट्रा विशल्या सर्पदंष्ट्रिका । पुनर्नवा वर्षकेतुः वृश्चीवः श्वेतमूलकः ॥ ८ ॥ वर्षाभूः दीर्घपत्त्रा च विकसस्तु कठिल्लकः । सुनाडिको रक्तपुष्पो विशाखो मण्डलच्छदः ॥ ९ ॥ सहदेवा महागन्धा देवगन्धा बलाह्वया । गाङ्गेरुकी नागबला खरबन्धा निशाह्वया ॥ १० ॥ विश्वदेवा झषा काला तथा चाश्वगवेधुका । मुद्गपर्णी सहा सूप्य- पर्णी मार्जारगन्धिका ॥ ११ ॥ काकमुद्गा क्षुद्ररसा चास्रपित्तहरा सरा । पिशाची सिंहविन्ना च माषपर्णी महासहा ॥ १२ ॥ मर्कटी चात्मगुप्ता च कण्डूकृत्कपिकच्छुरा । वृष्यबीजा गलेकण्डू- करी शार्दुलविग्रहा ॥ १३ ॥ फणिजिह्वापर्ण्यभीरुः पीवरीन्दीवरी वरी । सूक्ष्मपत्त्रा द्वीपिशत्रुः शतमूली शतावरी ॥ १४ ॥ काकोली कवरी वीरा ध्वाङ्क्षोली क्षीरशुक्लिका । जीवन्ती जीवनी जीवा शाकश्रेष्ठा सुमङ्गला ॥ १५ ॥ पयस्या पयसी पोट- गला ज्ञेयार्कपुष्पिका । जीवकः कूर्चनिभस्तु वृषाणी वृषभो वृषः ॥ १६ ॥ पृश्निपर्णी पृथक्पर्णी धावनी कलशी गुहा । शृगालविन्ना लाङ्गूली स्थिरा क्रोष्टुकपुच्छिका ॥ १७ ॥ विदारिगन्धांशुमती शालपर्णी स्थिरा ध्रुवा । त्रिपर्ण्यतिगुहा सौम्या महाक्षी तन्विका मता ॥ १८ ॥ व्याघ्री निदिग्धिका क्षुद्रा द्रावणी कण्टकारिका । सिंहा च क्षुद्रवार्त्ताकी बृहती बहुपुत्रिका ॥ १९ ॥ वार्त्ताकी हिङ्गुली सिंही भाण्टाकी दुष्प्रधर्षिणी । गोकण्टको गोक्षुरकः श्वदंष्ट्रा च त्रिकण्टकः ॥ २० ॥ कन्या गोपी कृष्णवल्ली सारिवा फाणिजिह्विका । सुगन्धिमूला भद्रा च सुगन्धा गोपवल्ल्यपि ॥ २१ ॥ हंसपादी रक्तपादी त्रिपादी कीटमारिका । धृतराष्ट्रपदी चैव मृतमन्दातिपर्णिका ॥ २२ ॥ सारिवोशीरकाश्मर्य- मधूकशिशिरद्वयम् । यष्टी परुषकं हन्ति दाहपित्तास्रतृड्ज्वरान् ॥ २३ ॥ सारिवादिगणं वक्ष्ये पुरा प्रोक्ता तु सारिवा । वीरण्याभयलामज्ज- कोशीरममृणालकम् ॥ २४ ॥ वीरं वीरणमूलं च बहुमूलं रणप्रिया । काश्मर्यभीरुः श्रीपर्णी काश्मर्यं कट्फलं तथा ॥ २५ ॥ डोलाफलस्तीक्ष्णसारो मधूको गुडपुष्पकः । मधुपुष्पो लोध्रपुष्पो वानप्रस्थो मधुद्रुमः ॥ २६ ॥ ज्ञेयो मधूलसंज्ञोऽपि मधूको वारिसंस्थितः । छदे ह्रस्वस्तैलपुष्पस्तुल्यस्तु रसवीर्यतः ॥ २७ ॥ भद्रश्रियं मलयजं गोशीर्षं श्वेतचन्दनम् । कुचन्दनं ताम्रवर्णं लोहितं रक्तचन्दनम् ॥ २८ ॥ यष्टी मधुकयष्ट्याह्वा मधुकं क्लीतकाह्वयम् । परुषको मृदुफलो रोषजो धन्वनच्छदः ॥ २९ ॥ कृष्णाग्रन्थिककाकमाचिचविकाविश्वौषधाजाजिभिः पाठारामठरेणुकागजकणासिद्धार्थचित्रोषणैः । स्पृक्का जात्यजमोदहिङ्गुत्रुटिभिः भार्ङ्गीविलङ्गान्वितैः एभिर्विंशतिभिः कफामयहरः कृष्णादिकोऽयं गणः ॥ ३० ॥ पिप्पली मागधी कृष्णा वैदेही चपला कणा । उपकुल्या कौलनामा शौण्डी स्यात्तीक्ष्णतण्डुला ॥ ३१ ॥ काकमाची गुच्छफला स्वर्या मरिचिका फला । काकोली चविका चव्यं ग्रन्थिला कोलवल्लिका ॥ ३२ ॥ शुण्ठी महौषधं विश्वं नागरं विश्वभेषजम् । अजाजी जीरकं माता मेध्यं स्यादौत्तरापथम् ॥ ३३ ॥ कृष्णजीरेति काकोली कालिकोद्गारशोधनी । जीरणा कारभी योनि- शूलघ्नी चोपकुञ्चिका ॥ ३४ ॥ मालवी त्रिशिरा पाठा प्राचीना वृत्तपर्णिका । अम्बष्ठा स्थापनी वीरा बोधकी च कुचेलिका ॥ ३५ ॥ जन्तुघ्नं जरणं हिङ्गु भूतघ्नं वस्तिहिंसकः । कपिला रेणुका कौन्ती राजपुत्री हरेणुका ॥ ३६ ॥ श्रेयसी स्याद्गजकणा- कृत्रिमाचविकाफला । आसुरी सर्षपो राजी नासासंवेदनः कटुः ॥ ३७ ॥ सिद्धार्थको भूतनाशो रक्षोघ्नः श्वेतसर्षपः । तिला कट्वी मत्स्यपित्ता कटुका शकुलादनी ॥ ३८ ॥ वल्लीजं यवनेष्टं स्यान्मरिचं तीक्ष्णमूषणम् । स्पृक्का स्पृक्ब्राह्मणी देवी पिशुना च लता सती ॥ ३९ ॥ जातीफलं मज्जसारं जाती मदनशौण्डिकौ । अजमोदा खराह्वा च बस्तमोदा च मर्कटी ॥ ४० ॥ एला तु द्राविडी तुत्था सूक्ष्मैला बहुला त्रुटिः । भार्ङ्गी गर्दभशाकं च पद्मा ब्राह्मणयष्टिका ॥ ४१ ॥ पद्मकपुण्ड्रौ वृद्धितुगर्द्धयः शृङ्ग्यमृता दश जीवनसंज्ञाः ।* स्तन्यकरा घ्नन्तीरणपित्तं प्रीणनजीवनबृंहणवृष्याः ॥ ४२ ॥* पद्मकादिगणं वक्ष्ये हेमपद्मं तु पद्मकम् । प्रपौण्डरीकं श्रीपुष्पं पुण्ड्राह्वं मूलसाधनम् ॥ ४३ ॥ वृद्धिस्तु श्रावणी पुष्टिः महावृद्धिः परोच्यते । तवक्षीरी तुषा शुभ्रा वंशाख्या वंशरोचना ॥ ४४ ॥ शृङ्गी स्मृता महाघोषा ज्ञेया कर्कटशृङ्गिका । गुडूची कुण्डली छिन्न- रुहा काण्डोद्भवामृता ॥ ४५ ॥ मधुपर्णी वयःस्था च मण्डली तन्त्रिका स्मृता । शल्यपर्णी मणिच्छिद्रा मेदा मेदःसमुद्भवा ॥ ४६ ॥ महामेदा वृक्षरुहा महापुरुषदन्तिका । दशानां जीवनीयानां संज्ञा तु परिकीर्तिता ॥ ४७ ॥ परुषकं वरा द्राक्षा कट्फलं कतकात्फलात् । राजाह्वं दाडिमं शाकं तृण्मूत्रामयवातजित् ॥ ४८ ॥ परुषादिगणं वक्ष्ये पुरा प्रोक्तं परुषकम् । वरोत्तमा च त्रिफला श्रेष्ठा चापि फलत्रयम् ॥ ४९ ॥ प्राणदा पूतनामोघा हरीतक्यभया जया । पथ्यामृता हैमवती कायस्था रोहिणी स्मृता ॥ ५० ॥ अक्षः कलिः कर्षफलो विन्ध्यजातो विभीतकः । कोरङ्गको मृदुफलो धात्री चामलकी शिवा ॥ ५१ ॥ रोहिणी खट्वला प्रोक्ता द्राक्षा मृदुफला तथा । मृद्वीका तूत्तमफला गोस्तनी चौत्तरापथा ॥ ५२ ॥ हेमवल्को महावल्को भद्रवृक्षश्च कीर्तितः । कतकस्य फलं कात्यं ज्ञेयं वारिप्रसादनम् ॥ ५३ ॥ राजादनं क्षीरशुक्लं राजाह्वं वानरप्रियम् । शुकेष्टं दाडिमं चैव रक्तबीजफलाह्वयम् ॥ ५४ ॥ स्वाद्वम्लं रोचनं चैव द्वितीयमम्लदाडिमम् । बृहच्छदस्तथा शाको वरदारुः खरच्छदः ॥ ५५ ॥ अञ्जनं फलिनी मांसी पद्मोत्पलरसाञ्जनम् । सैलामधुकनागाह्वं विषान्तर्दाहपित्तनुत् ॥ ५६ ॥ स्मृतं स्रोतोञ्जनं वीरमञ्जनं यामुनं तथा । स्रोतोद्भवमथो नाद्यं सौवीरं नेत्रभूषणम् ॥ ५७ ॥ फलिनी कोलगिरिका श्यामा कान्ता प्रियङ्गुका । पिशाची नलदं मांसी जटिला भूतकेशिनी ॥ ५८ ॥ नलिनं पुष्करं पद्ममरविन्दं कुशेशयम् । पङ्केरुहं तामरसं सारसं सरसीरुहम् ॥ ५९ ॥ बिसप्रसूनराजीव- जलजाम्भोरुहाणि च । इन्दीवरं कुवलयं नीलं नीलोत्पलं तथा ॥ ६० ॥ सौगन्धिकं तु कल्हारं रक्तोत्पलसुगन्धिके । द्रवाह्वममृतासङ्ग- कृतं तार्क्ष्यो रसाञ्जनम् ॥ ६१ ॥ एला तु द्राविडी प्रोक्ता बहुला त्रुटिसंज्ञका । हेमपुष्पं तु नागाह्वं केसरं नागकेसरम् ॥ ६२ ॥ पटोलकटुरोहिणीचन्दनं मधुस्रवगुडूचीपाठान्वितम् । निहन्ति कफपित्तकुष्ठज्वरान् विषं वमिमरोचकं कामलाम् ॥ ६३ ॥ पटोलादिस्तु राजीमत्कुलकं च पटोलकम् । खरच्छदः पाण्डुफलो राजमान्योऽमृताफलः ॥ ६४ ॥ पीलुपर्णी मधुरसा मूर्वा चातिरसा स्मृता । मधुस्रवा पीलुपत्त्रा मोरटी क्षीरमोरटम् ॥ ६५ ॥ गुडूचीपद्मकारिष्ट- धानकारक्तचन्दनम् । पित्तश्लेष्मज्वरच्छर्दि- दाहतृष्णाघ्नमग्निकृत् ॥ ६६ ॥ निम्बोऽरिष्टो गुडूच्यादौ पिचुमान्दः शुकप्रियः । धान्या कुस्तुम्बुरुः धान्यं धनिका धान्यकं तथा ॥ ६७ ॥ आरग्वधेन्द्रयवपाटलिकाकतिक्ता- निम्बामृतामधुरसास्रुववृक्षपाठाः । भूनिम्बसैर्यकपटोलकरञ्जयुग्म- सप्तच्छदाग्निसुषवीफलबाणघोण्टाः ॥ ६८ ॥ आरग्वधादिर्जयति छर्दिकुष्ठविषज्वरान् । कफं कण्डूं प्रमेहं च दुष्टव्रणविशोधनः ॥ ६९ ॥ आरग्वधो राजवृक्षः शम्याकश्चतुरङ्गुलः । आरेवतो व्याधिघातः प्रग्रहः कृतमालकः ॥ ७० ॥ कलिङ्गकस्त्विन्द्रयवो वत्सकः कौटजं फलम् । पाटली दीर्घवृत्ता च स्थल्यामोघाम्बुवासिनी ॥ ७१ ॥ वृत्ततुण्डा काकतिक्ता शार्ङ्गेष्टाङ्गारवल्लिका । व्याघ्रपादः स्रुवतरुः स्वादुकण्टो विकङ्कतः ॥ ७२ ॥ किराततिक्तो भूनिम्बः कत्तृणः काण्डतिक्तकः । सैर्यकस्तु सहचरः सर्यको मृदुपुष्पकः ॥ ७३ ॥ बाणः स्मृतो नीलपुष्पः धीरशौर्यकघोश्वराः । पूतिकरञ्जः कैडर्यः प्रकीर्यश्चिरबिल्वकः ॥ ७४ ॥ उदकीर्यो नक्तमालः करञ्जो लाजपुष्पकः । सप्तच्छदोऽयुग्मपत्त्रः सप्ताह्वो गुच्छपुष्पकः ॥ ७५ ॥ चित्रको द्वीपिसंज्ञस्तु वह्निपर्यायवाचकः । रक्तचित्रस्तथान्यस्तु महाङ्गः कालमूलकः ॥ ७६ ॥ पानीयवल्ली सुषवी बृहद्वल्ल्युत्पलच्छदा । गालो राठोऽथ मदनः पिण्डीतः करहाटकः ॥ ७७ ॥ शल्यकैडर्यवृक्षः स्याच्छर्दनस्तगरः फलम् । घोण्टो मुण्ठगोपघोण्टौ पद्मकी मर्कटाह्वया ॥ ७८ ॥ असनतिनिशभूर्जश्वेतवाहप्रकीर्या खदिरकदरभण्डीशिंशपामेषशृङ्ग्यः । त्रिहिमतलपलाशाः जोङ्गकः शाकशालौ क्रमुकधवकलिङ्गच्छागकर्णाश्वकर्णाः ॥ ७९ ॥ असनादिर्विजयते श्वित्रकुष्ठकफक्रिमीन् । पाण्डुरोगं प्रमेहं च मेदोदोषनिबर्हणः ॥ ८० ॥ असनादौ पीतसारः प्रियको बीजकोऽसनः । स्यन्दनः स्तिमितो नेमिः रथद्रुः सर्वसाधकः ॥ ८१ ॥ भूर्जो भुर्जो बहुपुटो मृदुत्वक्चास्थिरच्छदः । पार्थोऽर्जुनः श्वेतवाहः ककुभः फाल्गुनाह्वयः ॥ ८२ ॥ गायत्री खदिरो गीता कुष्ठघ्नो बालपत्त्रकः । कदरः खदिरः सारः कोटरी श्यामसारकः ॥ ८३ ॥ भण्डी शुकद्रुः प्लवंगः शिरीषो मृदुपुष्पकः । कपिला शिंशपा कृष्ण- सारो मण्डलपत्त्रकः ॥ ८४ ॥ बस्तान्त्री मेषशृङ्गी च चक्षुष्या बहुलाङ्गिका । कालेयकं पीतसारं तृतीयं वर्णकृद्धिमम् ॥ ८५ ॥ ताडस्तालो दीर्घतरुस्तृणराजस्त्रिबीजकः । पलाशः किंशुको वात- रोधो ब्रह्मतरुः पटुः ॥ ८६ ॥ जोङ्गकः शीतशमनो लोहनामागरुः स्मृतः । सजह्विः श्रीकरः शालो रसो निर्यासरालकौ ॥ ८७ ॥ धवो दृढतरुर्गौरः शकटाक्षो मरूद्भवः । क्रमुकं कैवुकं पूगं कषायं मधुराह्वयम् ॥ ८८ ॥ श्वेतघ्नः शीतशमनः बस्तकर्णोऽजकर्णकः । शस्यसंवरणः शूरः कुशिकश्चाश्वकर्णकः ॥ ८९ ॥ वरुणसैर्यकयुग्मशतावरी- दहनमोरटबिल्वविषाणिकाः । द्विबृहतीद्विकरञ्जजयाद्वयं बहलपल्लवदर्भरुजाकराः ॥ ९० ॥ वरुणादिः कफं मेदो मन्दाग्नित्वं नियच्छति । आढ्यवातं शिरःशूलं गुल्मं चान्तः सविद्रधिम् ॥ ९१ ॥ वरुणादौ श्वेतपुष्पो वरुणो वरणः स्मृतः । शटालवृक्षो बिल्वोऽस्त्री पूतिवातो महाफलः ॥ ९२ ॥ मालूरः श्रीफलः शैवः शाण्डिल्यः श्रीनिवासकः । महाकाल्यजशृङ्गी च कूर्चपर्णी विषाणिका ॥ ९३ ॥ जयाग्निमन्थोऽरणिका तक्कारी वैजयन्तिका । शिग्रुः शोभाञ्जनस्तीक्ष्ण- गन्धो बहलपल्लवः ॥ ९४ ॥ मुरङ्गी शिग्रुको रक्त- पुष्पो मधुरशिग्रुकः । तृतीयो मधुरः सिंश- केसरो मधुशिग्रुकः ॥ ९५ ॥ सितं तीक्ष्णं शिग्रुबीजं श्वेताङ्गं मरिचाह्वयम् । दर्भः कुशो लवः स्थूलः सूक्ष्मो वेदपवित्रकः ॥ ९६ ॥ रुजाकरस्त्वार्तगलो हुंकारो भीषणाह्वयः । जालवृक्षो दुष्प्रधर्षः स्वादुतिक्तफलः स्मृतः ॥ ९७ ॥ ऊषकस्तुत्थकं हिङ्गु कासीसद्वयसैन्धवम् । सशिलाजतु कृच्छ्राश्म- गुल्ममेदःकफापहम् ॥ ९८ ॥ ऊषकादौ तु वृषको वूषको रुचकाह्वयः । ऊषो निःसारकः सिंहो मूत्रवृद्धिकरः स्मृतः ॥ ९९ ॥ कठिनं तुत्थकं द्वेधा कर्परं बर्हिकण्टकम् । जन्तुघ्नं जरणं हिङ्गु रामठं भूतनाशनम् ॥ १०० ॥ कासीसं पांशुधावाख्यं द्वितीयं पुष्पसंज्ञकम् । सैन्धवं माणिमन्थं च नादेयं लवणोत्तमम् ॥ १०१ ॥ शिलाजं धातुजं ज्ञेयं मन्दरोत्थं शिलाजतु । पार्वतं शैलनिर्यासः गिरिजं च शिलाह्वयम् ॥ १०२ ॥ वेल्लन्तरारणिकबूकवृषाश्मभेद- गोकण्टकोत्कटसहाचरबाणकाशाः । वृक्षादनीनलकुशाद्वयगुण्ठगुन्द्रा- भल्लूकमोरटकुरण्टकरम्भपार्थाः ॥ १०३ ॥ वर्गो वीरतराद्योऽयं हन्ति वातकृतान् गदान् । अश्मरीशर्करामूत्र- कृच्छ्राघातरुजाहरः ॥ १०४ ॥ वेल्लन्तरो वीरतरुर्गणे वीरतरादिके । वसुकः स्थूलपुष्पश्च बुकश्चेश्वरमल्लिका ॥ १०५ ॥ सिंहास्यः कर्कटश्चैव वृषकश्चाटरूषकः । वेणुपत्री वृषा पार्वी पर्वणी वंशपत्रिका ॥ १०६ ॥ अश्मभेदी शिलाभेदी ज्ञेया पाषाणभेदिका । उत्कटा सूक्ष्मपत्रा च दीर्घलोहितयष्टिका ॥ १०७ ॥ शरेक्षुकुसुमौ बाणः स काण्डेक्षुनिभाङ्घ्रिकः । श्वेतचामरकः काशो गुन्द्रा स्याद्गुच्छपुष्पिका ॥ १०८ ॥ वृक्षादनी तु शिखरो वन्दाकः कामवृक्षकः । मृदुपुष्पोऽथ सुषिरो नदीस्थो नलको नलः ॥ १०९ ॥ गुण्ठो वृत्ततृणः शुण्ठः शृङ्गवेराभमूलकः । भल्लूको भूतवृक्षश्च श्योनाकश्चैव टुण्टुकः ॥ ११० ॥ श्रीहस्तिनी कुरटका पिचुकः शितिवारकः । कृष्णसूक्ष्मफला युक्त- पुष्पा मस्तकमञ्जरी ॥ १११ ॥ करम्भः कर्कशो युग्म- फला चोत्तमकन्यका । कपोतवङ्का वरदा रविभक्ता सुवर्चला ॥ ११२ ॥ रोध्रशाबरकरोध्रपलाशाः जिङ्गिणीसरलकट्फलयुक्ताः । कुत्सिताम्बकदलीगतशोकाः सैलवालुपरिपेलवमोचाः ॥ ११३ ॥ एष रोध्रादिको नाम मेदःकफहरो गणः । योनिदोषहरः स्तम्भी वर्ण्यो विषविनाशनः ॥ ११४ ॥ लोध्रादौ तिल्वको लोध्रस्तिरीटः पट्टिकाह्वयः । द्वितीयः शाबरः श्वेतो घनत्वक्चाक्षिभेषजः ॥ ११५ ॥ जिङ्गिणी झिङ्गिणी ज्ञेया मोचकी गुडमञ्जरी । पूतिकाष्ठं देववृक्षः सरलो देवदारुकः ॥ ११६ ॥ सुरकाष्ठं भद्रदारुः देवपर्यायवाचकः । सुगन्धा सुवहा रास्ना युक्ताह्वा गन्धनाकुली ॥ ११७ ॥ सुरभिश्च कदम्बश्च कुञ्चिताङ्गो हरिप्रियः । रम्भा तु कदली मोचा वृत्तपुष्पांशुमत्फला ॥ ११८ ॥ अशोको विगतशोकः सुभगस्ताम्रपल्लवः । एलवालुकमैलेयं बालेयं हरिवालुकम् ॥ ११९ ॥ कुटन्नटं प्लवंगं च वितुन्नं परिपेलवम् । सुरभिः सल्लकी मोचा महारम्भा गजप्रिया ॥ १२० ॥ अर्कालकौ नागदन्ती विशल्या भार्ङ्गी रास्ना वृश्चिकाली प्रकीर्या । प्रत्यक्पुष्पी पीततैलोदकीर्या श्वेतायुग्मं तापसानां च वृक्षः ॥ १२१ ॥ अयमर्कादिको वर्गः कफमेदोविषापहः । कृमिकुष्ठप्रशमनो विशेषाद्व्रणशोधनः ॥ १२२ ॥ अर्कादौ तु सदापुष्पा सूर्याह्वार्कस्तु रूपिका । मन्दारः श्वेतकुसुमोऽलर्को विकरणः स्मृतः ॥ १२३ ॥ नागदन्ती श्वेतघण्टा नागिनी पूर्वपुष्पिका । विशल्या हलिनी वह्मि- जिह्वा लाङ्गलिका स्मृता ॥ १२४ ॥ भार्ङ्गी फञ्जी च पालिन्दी द्विजयष्टिः सुगन्धिका । अपामार्गः शैखरिकः प्रत्यक्पुष्पी मयूरकः ॥ १२५ ॥ काकादनी पीततैला वेगा काकाण्डकी तथा । ज्योतिष्मती पीततैला वेगा कङ्गुणिका स्मृता ॥ १२६ ॥ श्वेता सुनाभिः कटभी किणिही मधुरेणुका । कटंभरा महाश्वेता कालिन्दी कटभी सिता ॥ १२७ ॥ कुमार्याख्या महाश्वेता वन्ध्या कर्कोटकी तथा । इङ्गुदस्तिक्तमञ्जा च पीलुकस्तापसद्रुमः ॥ १२८ ॥ सुरसयुगफणिज्जं कालमाला विडङ्गं खरबुसवृषकर्णी कट्फलं कासमर्दः । क्षवकसरसिभार्ङ्गीकार्मुकाः काकमाची कुलहलविषमुष्टी भूस्तृणो भूतवेशी ॥ १२९ ॥ सुरसादिर्गणः श्लेष्म- मेदःकृमिनिषूदनः । प्रतिश्यायारुचिश्वास- कासघ्नो व्रणशोधनः ॥ १३० ॥ सुरसादौ गणे द्वेधा सुरा कृष्णगरुरतः । स्वादुगन्धिच्छदा चैव कायस्था तुलसी तथा ॥ १३१ ॥ फणिज्जको मञ्जरीकस्तीक्ष्णगन्धः सुगन्धिकः । कृष्णसर्जकः कालमालः वठिञ्जरकुठेरकौ ॥ १३२ ॥ विडङ्गं कृमिजिद्बल्यं किरीटं श्वेततण्डुलम् । शूकात्मकः खरबुसौ मरुवः खरपत्त्रकः ॥ १३३ ॥ वृषकर्ण्याखुकर्णी च तथा भूमिपरिश्रया । राजक्षवः पीतपुष्पः कासघ्नं कासमर्दकः ॥ १३४ ॥ उद्वेगजननस्तीक्ष्णः क्षवकः क्षुद्विबोधकः । कपित्थपत्त्री झरसी निर्झरा झरपत्त्रिका ॥ १३५ ॥ प्राचीना बोधकी कान्ता कामुका रक्तमञ्जरी । माधवी स्यादमुक्तश्च सुवसन्तोऽतिमुक्तकः ॥ १३६ ॥ काकमाची गूढफला काकाह्वा माचिकापि च । वोलो वृद्धः कुलहलो जम्बूलो भूकदम्बकः ॥ १३७ ॥ विषमुष्टिश्च कर्कोटी क्षयाह्वा केशमुष्टिका । पुत्राञ्जलिः भूतकेशी भूस्तृणो गुह्यबीजकः ॥ १३८ ॥ भूतावेशी भूतकेशी निर्गुण्डी तिन्दुवारकः । शेफालिका श्वेतपुष्पा श्वेतनिर्गुण्डिका स्मृता ॥ १३९ ॥ मुष्ककस्नुग्वराद्वीपि- पलाशधवशिंशपाः । गुल्ममेहाश्मरीपाण्डु- मेदोऽर्शःकफशुक्रजित् ॥ १४० ॥ मुष्ककादौ तु शिखरी मुष्कको मोक्षकस्तथा । कालमुष्कः क्षारवृक्षः क्षीणवारिफलः स्मृतः ॥ १४१ ॥ सुधा वज्री महावृक्षो ग्रन्थिला स्नुग्गुडा स्नुही । समन्तदुग्धा श्वजिह्व- पत्रश्च युग्मकण्टकः ॥ १४२ ॥ वत्सकमूर्वाभार्ङ्गीकटुका मरीचं घुणप्रिया च गण्डीरम् ।* एला पाठा जाजी कट्वङ्गफलाजमोदसिद्धार्थवचाः ॥ १४३ ॥* जीरकहिङ्गुविडङ्गं पशुगन्धा पञ्चकोलकं हन्ति ।* चलकफमेदःपीनसगुल्मज्वरशूलदुर्नाम्नः ॥ १४४ ॥* वनतिक्तो वत्सकादौ कुटजो गिरिमल्लिका । वृक्षकः शक्रवृक्षश्च वत्सकः कुटजस्तथा ॥ १४५ ॥ भङ्गुरातिविषा माद्री शुक्लकन्दा घुणप्रिया । द्वितीया तु प्रतिविषा श्वेतरक्तविषा मता ॥ १४६ ॥ दीर्घवृन्तो महानिम्बः कट्वङ्गोऽरलुतिक्तकः । दीप्यकं त्वजमोदस्तु यवानी जरणाह्वया ॥ १४७ ॥ वचोग्रगन्धा जटिला षड्ग्रन्था हैमवत्यपि । शुक्ला या सा स्वादुकन्दा सुवासा हिमसंभवा ॥ १४८ ॥ वचाजलददेवाह्व- नागरातिविषामयाः । हरिद्राद्वययष्ट्याह्व- कलशीकुटजोद्भवाः ॥ १४९ ॥ वचाहरिद्रादिगणावामातीसारनाशनौ । मेदःकफाढ्यपवन- स्तन्यदोषनिबर्हणौ ॥ १५० ॥ वचादौ प्राग्वचा प्रोक्ता मुस्ता तु जलदाह्वया । गाङ्गेयी कुरुविन्दा च देवाह्वा भद्रमुस्तकम् ॥ १५१ ॥ हरिद्रादिगणं वक्ष्ये गौरी श्यामा च निर्विषा । निशा क्षपा च रात्रिश्च वरा लोमशमूलिका ॥ १५२ ॥ स्वर्णवर्णा हरिद्रा तु निशाह्वा रजनी तथा । दार्वी कटंकटेरी च पर्जन्या च पचम्पचा ॥ १५३ ॥ प्रियङ्गुपुष्पाञ्जनयुग्मपद्माः पद्माद्रजो योजनवल्ल्यनन्ता । मानद्रुमो मोचरसः समङ्गा पुन्नागशीतं मदनीयहेतुः ॥ १५४ ॥ अम्बष्ठा मधुकं नमस्करी नन्दीवृक्षपलाशकच्छुरा । रोध्रं धातकिबिल्वपेशिके कट्वङ्गं कमलोद्भवं रजः ॥ १५५ ॥ गणौ प्रियङ्ग्वम्बष्ठादी पक्वातीसारनाशनौ । सन्धानीयौ हितौ पित्ते व्रणानामपि रोपणौ ॥ १५६ ॥ प्रियङ्ग्वादिगणे पूर्वं प्रियङ्गुः समुदाहृता । पद्मासितारविन्दा च चारटी पद्मचारिणी ॥ १५७ ॥ रजः परागं किञ्जल्कं केसरं पद्मसंभवम् । मञ्जिष्ठा विजया रक्ता समङ्गा विकसारुणा ॥ १५८ ॥ मञ्जुका रक्तयष्टी च ताम्रा योजनवल्ल्यपि । अनन्ता दीर्घमूला च समुद्रान्तो यवासकः ॥ १५९ ॥ सारद्रुः शाल्मली मोचा पुराणी रक्तपुष्पिका । निर्यासो यस्तु शाल्मल्याः स मोचरससंज्ञकः ॥ १६० ॥ समङ्गा शतपत्त्रा च तथैवाञ्जलिकारिका । नमस्कारी रक्तमूला तथा पुष्पावरोधिका ॥ १६१ ॥ पुंनागः पुरुषाह्वश्च तुङ्गाख्यो रक्तकेसरः । नमेरुर्देवपुंनागः स्कन्धपुष्पः सुराह्वयः ॥ १६२ ॥ मदहेतुः सिन्धुपुष्पी धातकी मदयन्तिका । कुञ्जरा हरिसारा च मदवीर्या मदप्रिया ॥ १६३ ॥ अम्बष्ठादौ स्मृताम्बष्ठा सहस्री बहुमूलकः । मधुपर्णी केकिशिखा मयूराह्वा शिखी तथा ॥ १६४ ॥ नन्दीवृक्षः प्ररोही च जयवृक्षेन्द्रवृक्षकौ । कच्छुरा पणिहारी च तीक्ष्णपत्त्रा मरुद्भवा ॥ १६५ ॥ मुस्तावचाग्निद्विनिशाद्वितिक्ता- भल्लातपाठात्रिफलीविषाख्याः । कुष्ठं कुटी हैमवती च योनि- स्तन्यामयघ्ना मलपाचनाश्च ॥ १६६ ॥ मुस्तादिके गणे मुस्ता पूर्वमेव प्रकीर्तिता । तिक्ता च कटुका ज्ञेया रोहिणी कटुरोहिणी ॥ १६७ ॥ स्फोटशोफक्षतकरं भल्लातकमरुष्करम् । पाकलं वारि भाव्यं च वाप्यं कुष्ठं गदाह्वयम् ॥ १६८ ॥ न्याग्रोधपप्पलसदाफलरोध्रयुग्मं जम्बुद्वयार्जुनकपीतनसोमवल्काः । प्लक्षाम्रवञ्जुलपियालपलाशनन्दी- कोलीकदम्बविरलामधुकं मधूकम् ॥ १६९ ॥ न्यग्रोधादिर्गणो व्रण्यः संग्राही भग्नसाधनः । मेदःपित्तास्रतृड्दाह- योनिरोगनिबर्हणः ॥ १७० ॥ न्यग्रोधादौ यक्षवासो न्यग्रोधो बहुपाद्वटः । अश्वत्थः पिप्पलो बोधिश्चैत्यद्रुश्चलपत्त्रकः ॥ १७१ ॥ उदुम्बरः कृमिफलः सुप्रतिष्ठः सदाफलः । बृहत्फला राजजम्बूः काकजम्ब्वल्पसस्यका ॥ १७२ ॥ फलश्रेणी वरः प्रोक्तः कपिचूतः कपीतनः । प्लक्षः कुपिप्पलः प्लावो गर्दभाण्डः कपीतनः ॥ १७३ ॥ आम्रश्चूतश्चावतलः कान्तः पिण्डफलस्तथा । वसन्तदूती माकन्दा भृङ्गेष्टा कोकिलप्रिया ॥ १७४ ॥ रसालद्रुः सहकारः सौरभः कोकिलप्रियः । नादेयो वञ्जुलः प्रोक्तो विदुलो वेतसोऽपरः ॥ १७५ ॥ प्रियालस्तु खरस्कन्धश्चारो द्राक्षारसप्रियः । कर्कन्धूः काष्ठकृत्कोली बदरी युग्मकण्टकः ॥ १७६ ॥ विस्फूर्जनी विकरणी तिन्दुकी विरला स्मृता । कालस्कन्धो नीलसारो द्वितीयः काकतिन्दुकः ॥ १७७ ॥ वक्रशल्या कृष्णफला विरला गृध्रनख्यपि । गन्धयुक्ता सारवस्त्रा दुर्धर्षा कुण्डली स्मृता ॥ १७८ ॥ एलायुग्मतुरुष्ककुष्ठफलिनीमांसीजलध्यामकं स्पृक्काचोरकचोचपत्त्रतगरस्थौणेयजातीरसाः । शुक्तिव्याघ्रिनखोऽमराह्वमगुरुः श्रीवासकः कुङ्कुमं चण्डागुग्गुलदेवधूपखपुराः पुंनागनागाह्वयम् ॥ १७९ ॥ एलादिको वातकफौ विषं विनियच्छति । वर्णप्रसादनः कण्डू- पिटिकाकोठनाशनः ॥ १८० ॥ एलादिके पूर्वमुक्ता सूक्ष्मैलान्या तु कथ्यते । भद्रैला बृहदेला तु स्थूलैला त्रिपुटोद्भवा ॥ १८१ ॥ सुहेला च सुषेणी च रेणुका कान्तनामिका । पिण्डी तुरुष्कजं तैलं पिरायाकं कृत्रिमं कपिः ॥ १८२ ॥ ह्रीवेरं वारि केशाह्वमुदीच्यं बालकं जलम् । ध्यामकं शबलं गन्धं स्पृक्का देवी लता सती ॥ १८३ ॥ चोरको ग्रन्थिपर्णी स्यात्शटी सोमसमुद्भवा । वराङ्गं चर्मनामा च चोचं त्वक्च वराङ्गकम् ॥ १८४ ॥ रोमशं छदनं पत्त्रं तमालं रोमशीफलम् । बहिष्ठं तगरं वक्रं नतं कालानुसारि च ॥ १८५ ॥ चारटी शुकबर्हाख्यं स्थौणेयं तैलपीतकम् । जातीरसो रसो बोलं शुक्तिः कररुहो नखः ॥ १८६ ॥ बदरीपत्त्रकं चैव ज्ञेयो नागहनुस्तथा । समुद्रजो व्याघ्रनखो विज्ञेयो व्याघ्रनामकः ॥ १८७ ॥ श्रीवेष्टको वायसको दधिनामा च कीर्तितः । काश्मीरं कुङ्कुमं रक्तं वाह्लीकं घुसृणं वरम् ॥ १८८ ॥ क्रोधना पिशुना चण्डा चौरी शङ्खिनिका मता । महिषाक्षो निशाचारी कौशिको गुग्गुलुः पुरः ॥ १८९ ॥ रालस्तु देवधूपः स्यात्शालः सर्जरसाह्वयः । कुन्दुरुर्मेदकः कुन्द्रो विज्ञेयः खपुरस्तथा ॥ १९० ॥ श्यामादन्तीद्रवन्तीक्रमुककुटरणाशंखिनी चर्मसाह्वा स्वर्णक्षीरीगवाक्षीशिखरिरजनकच्छिन्नरोहाकरञ्जाः । बस्तान्त्री व्याधिघातो बहलबहुरसस्तीक्ष्णवृक्षात्फलानि श्यामाद्यो हन्ति गुल्मं विषमरुचिकफौ हृद्रुजं मूत्रकृच्छ्रम् ॥ १९१ ॥ मसूरविदला श्यामा श्यामादो कालमेषिका । सुषेणिका शशाह्वा च कालिन्दी कालिका स्मृता ॥ १९२ ॥ चित्रा मुकूलको दन्ती निकुम्भः शम्बरस्तथा । उदुम्बरच्छदा हस्ति- दन्ती स्यादुपचित्रका ॥ १९३ ॥ न्यग्रोधाह्वा सुतत्रेणी द्रवन्त्युन्दुरुकर्णिका । कुम्भस्त्री भट्टिनी सूत्रा श्यामा कुटरणा त्रिवृत् ॥ १९४ ॥ शङ्खिनी तिक्तला वक्री यवतिक्ता किशोरिका । शङ्खावर्ता शङ्खपुष्पी विशिखा नाहिका स्मृता ॥ १९५ ॥ सातला सप्तला चर्म- कषाह्वावर्तकी स्मृता । अन्येषां तु तथा ब्राह्मी ब्रह्मनामा तु कीर्तिता ॥ १९६ ॥ स्वर्णक्षीरी हैमवती कङ्कुष्ठस्तीक्ष्णदुग्धिका । इन्द्रवारुणिका चैन्द्री गवाक्षी गजचिर्भिटी ॥ १९७ ॥ विशाला च विशल्या च सैव प्रोक्ता गवादनी । गिरिकर्ण्यश्वक्षुरकः स्थाणुकर्णी गवादनी ॥ १९८ ॥ नीलस्यन्दा नीलपुष्पी नीलाख्या गिरिकर्णिका । तिल्वकः शिखरी श्वेत- त्वक्तिरीटो बृहच्छदः ॥ १९९ ॥ कम्पिल्लको रञ्जनको रेचनो रक्तचूर्णकः । बस्तान्त्री वृषगन्धाख्या मेषान्त्री वृषपत्त्रिका ॥ २०० ॥ घनभूरिरसस्त्विक्षुः गुडमूलोऽसिपत्त्रकः । तीक्ष्णवृक्षः शणः पीलुः प्रोक्तोऽन्यः स्थाणुकस्तथा ॥ २०१ ॥ गणेषु यानि द्रव्याणि संग्रहे वाल्पसंग्रहे । तान्युक्तान्यभिधीयन्ते विप्रकीर्णान्यतः परम् ॥ २०२ ॥ पवित्रपत्त्रा मङ्गल्या शमी लक्ष्मी च केशनुत् । सोहला रुदती तन्वी सूक्ष्ममूलापराजिता ॥ २०३ ॥ पानीयो बीजवृक्षस्तु जीववृक्षस्तु पाशिकः । शुक्लपुष्पा भूमिलग्ना ह्रस्वाङ्गा शङ्खपुष्पिका ॥ २०४ ॥ सूक्ष्मपत्त्रा सर्पगन्धा सर्पाक्षी रक्तपुष्पिका । अन्या तु सुमहाकन्दा नाकुली नकुलप्रिया ॥ २०५ ॥ विष्णुक्रान्ता नीलपुष्पी सतीना छर्दिका तथा । वाट्यालकः पीतपुष्पो वाट्या भद्रौदनी बला ॥ २०६ ॥ महाबला वर्षपुष्पी शीतपाकी सुबीजकः । वाट्यायनी त्वतिबला भारद्वाजी सुपर्णिका ॥ २०७ ॥ रामान्याच्छादनफला वाट्या कार्पाससंज्ञका । अजटा बहुपत्त्रा च भूधात्री तामलक्यपि ॥ २०८ ॥ शीतवीर्यः पर्पटकः तृष्णाघ्नः सूक्ष्मपत्त्रकः । त्रायन्ती त्रायमाणा च पालिनी भयनाशिनी ॥ २०९ ॥ दुरालभा धन्वयासो यासो दुःस्पर्शकस्तथा । कल्याणलोचनो ज्ञेयो नादेयो जलजम्बुकः ॥ २१० ॥ महाकदम्बो निचुलोऽनपायी जलनूपुरः । किङ्किरातः कर्णिकारो गौरः कनकपुष्पकः ॥ २११ ॥ मन्दारः पारिभद्राह्वो ज्ञेयः कण्टकीकिंशुकः । पारिजातश्च रोहीतः प्लीहघ्नो रक्तपुष्पकः ॥ २१२ ॥ शुकनासा तु नलिका शुकघ्राणोऽल्पनालिका । शाकराजो भूतवासो गोजिह्वा कर्कशच्छदा ॥ २१३ ॥ अजाक्षी व्रणनाशिनी कुष्ठघ्नी फल्गुवाटिका । सिंहास्यः कर्कटश्चैव वृषो वासाटरूषकः ॥ २१४ ॥ अश्मन्तकोऽम्लयोनिश्च ज्ञेयो यमलपत्त्रकः । वंशो वेणुर्यवफलः सुपर्वा च तृणध्वजः ॥ २१५ ॥ करीरः कीचको मृत्यु- फलाङ्कुर इति स्मृतः । वारणस्तरली कुम्भि- करञ्जस्तीरवृक्षकः ॥ २१६ ॥ सिन्धुरः सिन्धुवारश्च श्वेतपुष्पावरोहितः । काकोदुम्बरिका फल्गुः भद्रोदुम्बरवायसी ॥ २१७ ॥ कालान्त्रदारी कन्थारी फणी खदिरवल्ल्यपि । सिता कुमारिका मल्ली मोहिनी वटपत्त्रिका ॥ २१८ ॥ फेनिलो हस्तिकर्कोटः काण्डो बाणः शणः स्मृतः । श्लेष्मान्तको बहुफलः शैलूषः कान्तवृक्षकः ॥ २१९ ॥ कुद्दालकः कोविदारस्ताम्रपुष्पो युगच्छदः । कालकर्णी भूतवल्ली बल्या गन्धाश्वगन्धिका ॥ २२० ॥ तिन्तिडीकस्तु वृक्षाम्लो बदरी कोलसंज्ञकः । कर्कन्धूः ह्रस्वबदरी वसुवृक्षस्तु धन्वनः ॥ २२१ ॥ सहस्रवीर्यस्तीक्ष्णाम्लो वराम्लस्त्वम्लवेतसः । गोधापदी गोधवल्ली पट्वम्लादित्यनामिका ॥ २२२ ॥ पत्त्रभङ्गो महाश्यामा खराश्वा वृद्धदारुकः । दावाग्निदमनी माता क्षुद्रकण्टरिका तथा ॥ २२३ ॥ बर्हिशिखाह्वया गुञ्जा रक्तिका काकणन्तिका । श्वेतकाम्भोजिका ध्वाङ्क्षी श्वेतपाकी शिखण्डिका ॥ २२४ ॥ तृतीया कृष्णकाम्भोजी कुणपोकः सुसादनी । ज्योतिष्मती कङ्गुणिका पारावतपदी च सा ॥ २२५ ॥ ईश्वरी नागदमनी कीटारिः सर्पगन्धिका । अधोमुखा त्ववाक्पुष्पी वाराही वनमालिका ॥ २२६ ॥ आरामशीतलो देवो गन्धाढ्यः कुरुमर्दकः । नागजिह्वा श्वेतफला क्षीरिणी चार्कपुष्पिका ॥ २२७ ॥ निम्बच्छदेन्द्रवल्ली च करभी रुचिरा स्मृता । लिखिका भक्तिका भूरी नवनीता प्रकीर्तिता ॥ २२८ ॥ ज्ञेया बदरिकापर्णी पर्णकः पूतिकर्णकः । मलयूः वाकुची चैव चन्द्ररेखा त्ववल्गुजः ॥ २२९ ॥ चक्षुष्या चारटी ज्ञेया तथारण्यकुलत्थिका । अहिमारोऽरिमेदस्तु पीतदारुर्हरिद्रुमः ॥ २३० ॥ श्वेतत्वक्तीक्ष्णसारश्च विबुधस्तीक्ष्णसारकः । वाप्याह्वं पौष्करं शूल- हरं बीजाह्वयं मतम् ॥ २३१ ॥ शरी तु सुव्रता ज्ञेया गन्धाह्वा सोमसम्भवा । सहस्रवीर्या गोलोमी सिता दूर्वा च शाद्वलः ॥ २३२ ॥ क्षुद्रवारी दुग्धयुता घटिका छत्रपत्त्रका । आघोटको ब्रह्मफलो रक्तबिन्दुस्तिलच्छदः ॥ २३३ ॥ अजाक्षी लोमपर्णी च ज्ञेयो मेषविलोचनः । महावृक्षो महानीलो भृङ्गाह्वो मार्कवः स्मृतः ॥ २३४ ॥ केशरञ्जनको ज्ञेयो भृङ्गराड्भृङ्गरेणुकः । रामाह्वार्कलतारामा तरुणी पुष्पवत्यपि ॥ २३५ ॥ सूर्यभक्ता सुखोद्भावा सूर्यावर्ता रविप्रिया । हिरण्यपुष्पी खर्जूरी ताडपत्त्री मुसल्यपि ॥ २३६ ॥ इक्ष्वालिका तु काकेक्षुः काण्डेक्षुर्वायसेक्षुकः । श्वेतचामरकः काशस्तथेक्षुकुसुमश्च सः ॥ २३७ ॥ अध्यण्डेक्षुरकः स्थूल- कण्टकः कोकिलाक्षकः । उच्चटा चटका ज्ञेया शिखण्ड्यास्फोतकः स्मृतः ॥ २३८ ॥ उन्मत्तको मातुलको धुत्तूरो हेमनामकः । त्रिपुष्पः कृष्णधुत्तूरः कृष्णपुष्पी च मोहिनी ॥ २३९ ॥ देवदाली च कर्कोटी वेणी जीमूतकः स्मृतः । धामार्गवः कोशफलो राजकोशातकी स्मृता ॥ २४० ॥ कटुकोशातकी क्ष्वेडा जालिनी कृतवेधनः । कटुकालाम्बुनी तुम्बा- लाम्बुरिक्ष्वाकुसंज्ञिका ॥ २४१ ॥ नीलिनी चारटी ज्ञेया नीलिनी नीलपुष्पिका । सूक्ष्मपादस्ताम्रचूडो ज्ञेयः कुक्कुटपादिकः ॥ २४२ ॥ गोधूलिका च गोजिह्वा गोजी क्रोष्टुकमूलकः । अङ्कोलो गिरिकोलश्च पीतसारो निकोचकः ॥ २४३ ॥ जालारिर्मेहशत्रुश्च बकुली तलपोटकः । स्वर्णवर्णाकरः पीत- पुष्पको दोहकाह्वयः ॥ २४४ ॥ शणपुष्पी बृहत्पुष्पी शणः घण्टशणः स्मृतः । उभातसी रुद्रपत्त्री गोपिका बाणकः स्मृतः ॥ २४५ ॥ सौम्या सुवर्चला ब्राह्मी सोमा ब्रह्मसुवर्चला । मण्डूकपर्णी विक्रान्ता चान्या ब्राह्मी वनौषधिः ॥ २४६ ॥ सुतजीवः पुत्रजीवः पवित्रः पुत्रसिद्धिकृत् । आवर्तकी चर्मरङ्गा महाजाली विभाण्डिका ॥ २४७ ॥ प्रसारणी सुप्रसरा सारणी सुप्रतानिका । हिङ्गुपत्त्री तु पृथ्वीका बाष्पिका कवरी स्मृता ॥ २४८ ॥ तुम्बुरुस्तीक्ष्णवल्कश्च तीक्ष्णपत्त्रः कुतुम्बुरुः । अक्षोडः पर्वतीयश्च फलस्नेहो गुडाश्रयः ॥ २४९ ॥ कीरेष्टः कर्परालश्च स्वादुमञ्जा पृथुच्छदः । अगस्तिको मुनिनामा कुम्भयोनिश्च स स्मृतः ॥ २५० ॥ अधिच्छत्त्रा कुम्भयोनिः द्रोणपुष्पी कुतुम्बिका । कौण्डिन्यश्च महाद्रोणः स्मृतो देवकुतुम्बकः ॥ २५१ ॥ अधिच्छत्त्रा गौतमस्था बालग्रन्थिः प्रकीर्तिता । वत्सादनी सुदशाख्या चक्राङ्गी जलशोषकः ॥ २५२ ॥ प्रपुन्नाटस्त्वेडगजो दद्रुघ्नश्चक्रमर्दकः । लक्ष्मणा पुत्रजननी रक्तबिन्दुच्छदा तथा ॥ २५३ ॥ नागिनी शूलिनी नाग- वल्ली मत्स्यार्जकः स्मृतः । शृगालघण्टा वज्राक्षी वज्रवल्ली तु शृङ्खला ॥ २५४ ॥ पलंकषा मूलकं च हिंगुना पुष्करच्छदः । दधिपुष्पी तु खट्वाङ्गी खट्वा पर्यङ्कपादिका ॥ २५५ ॥ बिम्बी गो हा तुण्डिकेरी तिलाख्या फलनाभिका । उर्वारुः कर्कटी प्रोक्ता लोमशा च प्रकीर्तिता ॥ २५६ ॥ खूर्जरिकस्तु कालिङ्गः मूत्रलं त्रपुसं स्मृतम् । कूष्माण्डकी पुष्पलता ककुभाण्डा फलोत्तमा ॥ २५७ ॥ गोरक्षतुम्बी गोरक्षी कुम्भालाम्बुर्घटाभिधा । चिर्भिटिका चित्रफला चीनारं चिर्भटं स्मृतम् ॥ २५८ ॥ लम्बा पिण्डफलेक्ष्वाकुः कटुका क्षत्रियात्मजा । महाफलेक्षुरा चैव तुम्बिका तिक्तबीजका ॥ २५९ ॥ चुक्रिका चाम्लिका चिञ्चा जीवन्ती तिन्तिडी स्मृता । चुक्रिका त्वम्लचाङ्गेरी सुनिषण्णदला तथा ॥ २६० ॥ उपोदकमुपोदी च क्षुद्रका पोदकी तथा । जीवन्तिको रक्तशाकः कलम्बी वल्ल्युपोदकः ॥ २६१ ॥ तण्डुलीयो मेघनादः चिल्ली तु लोमशा स्मृता । शितिवारः सूचिपत्त्रः स्वस्तिकः सुनिषण्णकः ॥ २६२ ॥ मत्स्याक्षिकस्तु मत्सीरः पत्तूरः प्रियसत्यपि । शीघ्रशाखा शाखिनी च महाशाकश्च वास्तुकी ॥ २६३ ॥ श्रावणी स्यात्मुण्डितिका भिक्षुः श्रवणशीर्षका । सौम्यगन्धा बर्बरिका तिलपर्णी च सा स्मृता ॥ २६४ ॥ सर्पश्चित्रस्तु नीलाभो भूशाको भूमिकन्दकः । रसोनो लशुनो ज्ञेयः पलाण्डुर्मुखदूषणः ॥ २६५ ॥ शतपुष्पा शतच्छत्त्रा मिशिः घोषा शताह्वया । मिश्रेया शालिनी शीत- शिवारण्या मिशिः स्मृता ॥ २६६ ॥ पृथ्वीका वारिपत्त्रा तु बाष्पिका च स्थलोद्भवा । कपित्थोऽथ दधित्थश्च दुर्मदः सुरभिच्छदः ॥ २६७ ॥ तोयक्षोभकरः कुम्भी वारुणो वृक्षधूमकः । मूषिकारिश्चित्रफलः करण्डफलकश्च सः ॥ २६८ ॥ चोचं चिषु नारिकेलः तुङ्गद्रुः कूर्चशेखरः । नीरपूर्णफलः शृङ्गी मोचं तु कदलीफलम् ॥ २६९ ॥ रम्भा तु कदली मोचा वृत्तपुष्पांशुमत्फला । करमर्दी क्षीरफला श्वेतपुष्पफलेति च ॥ २७० ॥ कृष्णपाकफलाविग्न- कराम्लाः करमर्दकः । मातुलुङ्गो बीजपूरो लुङ्गश्च फलपूरकः ॥ २७१ ॥ जम्बीरो जम्भलो जम्भः जम्बो दन्तशठः स्मृतः । नारङ्गस्त्वक्सुगन्धाख्य ऐरावतमुखप्रियौ ॥ २७२ ॥ भव्यं भविष्यं चाम्लं च भवं रोमफलं मतम् । पारावतं रैवतकं लिकुचो लकुचो डहुः ॥ २७३ ॥ पनसः कण्टकिफलः चोचो दीर्घफलः स्मृतः । नलिका सुषिरा शून्या कपोतचरणा नटी ॥ २७४ ॥ स्निग्धवृक्षस्तु सक्षीरः प्लक्षः स्याद्गुडबीजकः । कालवृन्ता कुबेराक्षी कुलिङ्गाक्षी च यक्षदृक् ॥ २७५ ॥ उग्रकाण्डः कारवल्ली तोयवल्ली सुकाण्डका । पञ्चाङ्गुली लिङ्गबीजा राजिका पिण्डवत्फला ॥ २७६ ॥ तुर्यतुण्डी शिलाच्छेदी पूतिका नित्यपुष्पिका । पर्वमञ्जरिका कीट- हन्त्री वृश्चिकहारिणी ॥ २७७ ॥ कुमारी व्याघ्रचरणा कन्या स्थूलदला च सा । बन्धूको बन्धुजीवश्च पार्वको वृकधूमकः ॥ २७८ ॥ कृष्णनीलः कालशाखः कैडर्यः सुरभिच्छदः । विश्वरूपा रूप्यगण्डा रूप्यो हरिततुम्बिली ॥ २७९ ॥ अर्शोघ्नश्चाखुकन्दश्च वन्यकन्दश्च शूरणः । रक्तपादी शमीपत्त्रा लज्जा लोहितयष्टिका ॥ २८० ॥ दुरारोहा खरस्कन्धा खर्जूरी स्वादुमस्तका । हिन्ताली तु महाताली कुताली तिलपुष्पिका ॥ २८१ ॥ बहुस्कन्धा मृत्युफला गूढपाकी शिलाफला । जतुवृक्षो घनस्कन्धः क्रिमिवृक्षः कुशाम्रकः ॥ २८२ ॥ नीलपत्त्री कालनीली नीलिनी नीलपुष्पिका । काकजङ्घा ध्वाङ्क्षजङ्घा दासी कान्ता प्रचीबला ॥ २८३ ॥ शरपुङ्खा बाणपुङ्खा मणिका चेक्षुपुङ्खिका । पुत्रदात्री वृत्तपत्त्रा वातारिः श्वेतपुष्पिका ॥ २८४ ॥ तालीशपत्त्रं तालीशं तालमामलकीदलम् । श्वासद्रुमः काकतरुः रुग्योग्यो व्याघ्रपर्ण्यपि ॥ २८५ ॥ कुब्जपुष्पा कृष्णवल्ली महानीला प्रतानिका । मृदुकान्तिः महाश्वेता श्वेता तु खटिका स्मृता ॥ २८६ ॥ रक्तपाषाणको धातुः गिरिमृद्गैरिकः स्मृतः । स्तन्याख्यो दुग्धपाषाणः सौधः पाषाणको लवः ॥ २८७ ॥ सौगन्धिको गन्धकस्तु वैगन्धो गन्धको बलिः । मनःशिला मनोगुप्ता मनोह्वा कुनटी शिला ॥ २८८ ॥ हरितालमालं तालं गोदन्तं नटभूषणम् । पारदो रसधातुश्च रुद्ररेता महारसः ॥ २८९ ॥ रसेन्द्रश्चपलः सूतो हरयोनी रसोत्तमः । अभ्रकं पार्वतीबीजं शैलोद्भूतं तथाम्बरम् ॥ २९० ॥ मयूरग्रीविकं तु स्यात्शिखिकण्ठं च तुत्थकम् । अन्यत्कर्परिका तुत्थं वामनं तुत्थमेव तु ॥ २९१ ॥ हिङ्गुलं दरदं म्लेच्छं रसभूः चर्मरञ्जनम् । सिन्दूरं रक्तरेणु श्री- भूषणं नागसम्भवम् ॥ २९२ ॥ सौवर्चलं तु रुचकमक्षाह्वं कृष्णसंज्ञकम् । विडं तु कृत्रिमं प्रोक्तं पृथ्वीसम्भवमौद्भिदम् ॥ २९३ ॥ समुद्रजं च सामुद्रं लवणं पटुनामकम् । यावशूको यवक्षारः स्रोतोघ्नस्तु सुवर्चिकः ॥ २९४ ॥ सौभाग्यं टङ्कणं क्षारः मालतीरससम्भवः । तापीसमुद्भवं ताप्यं माक्षिकं हैममाक्षिकम् ॥ २९५ ॥ जत्वश्मजं धातुजं च शिलाकर्पूरसंज्ञकम् । गोरोचना बदरिका सौराष्ट्री रोचना शिवा ॥ २९६ ॥ लाक्षा दीप्तिर्द्रुमव्याधिः क्रिमिजा लोहिता जतु । [पद्मोत्तरस्] तालकुम्भो यावकोऽलक्तकः स्मृतः ॥ २९७ ॥ मृगनाभिर्मृगमदः कस्तूरी दर्पसंज्ञकः । लताकस्तूरिका राली गन्धवेणी मुखप्रिया ॥ २९८ ॥ घनसारो हिमराजः कर्पूरं हिमनामकम् । मृगस्वेदो मृगजलं पूतिः पूत्यण्डजः स्मृतः ॥ २९९ ॥ जातीफलं मज्जसारं जातिका जातिपत्त्रकः । कक्कोलकं कोशफलं कोलकं बहुबीजकम् ॥ ३०० ॥ फलं द्वीपमरीचं च कटुकं कटुकीफलम् । लवंगं देवकुसुमं कुसुमं शेखरं लवम् ॥ ३०१ ॥ निष्पत्त्रं च महापुष्पं स्वर्गपुष्पं वरालकम् । शिलापुष्पं तु शैलेयं शिलाजं स्थविरं तथा ॥ ३०२ ॥ पुष्पाञ्जनं रीतिपुष्पं पुष्पकेतुश्च रीतिजम् । समुद्रफेनं शुष्कं च फेनं वारिधिजं मलम् ॥ ३०३ ॥ शङ्खो वारिभवः कम्बुः जलजो दीर्घनिःस्वनः । प्रवालं वल्लिजं रक्तं विद्रुमं च प्रकीर्तितम् ॥ ३०४ ॥ रूप्यकं रजतं तारं सुवर्णं कनकं स्मृतम् । जातरूपं तथा हेम शातकुम्भं च हाटकम् ॥ ३०५ ॥ जाम्बूनदं हिरण्यं च तपनीयं च काञ्चनम् । ताम्रमौदुम्बरं शुल्बं मिहिरं हरिनामकम् ॥ ३०६ ॥ रीतिका पित्तलं पूति पीतलोहं च सैंहलम् । त्रपुसं त्रपुसंज्ञं च तगरं रूप्यशत्रुकः ॥ ३०७ ॥ सीसकं नागमुरगं कांस्यं काशं च घोषकम् । वार्त्तालोहं वर्तलोहं त्रिलोहं पञ्चलोहकम् ॥ ३०८ ॥ कृष्णलोहमयः सार- मायसं च शिलोद्भवम् । अयोरजो लोहरजस्तत्किट्टं स्यादयोमलम् ॥ ३०९ ॥ चिपिटं चिप्पटं चिट्टं वालुका सिकता स्मृता । लोहकान्तमयस्कान्तं कान्तं भ्रामरचुम्बकम् ॥ ३१० ॥ मृदुलोहं तीक्ष्णलोहं तीक्ष्णाख्यं सूक्ष्मलोहकम् । कालकूटो महामुस्तो वत्सनाभो हलाहलः ॥ ३११ ॥ वत्सदन्ती महाशृङ्गी लेलिहस्तालपत्त्रकः । विषं च मूलकं शृङ्गी गरं कृत्रिमसंज्ञकम् ॥ ३१२ ॥ तोयच्छदा वारिपर्णी कुम्भिका जलकुम्भिका । दीर्घमूलं जलावासं शैवालं जलसम्भवम् ॥ ३१३ ॥ पङ्कजं पुण्डरीकं च शतपत्त्रं कुशेशयम् । बिसप्रसूनराजीव- जलजाम्भोरुहाणि च ॥ ३१४ ॥ शशिप्रियं च गन्धाढ्यं कुमुदं कोकनन्दनम् । काकोत्पलं तु काकोत्थं काकाख्यं ह्रस्वमुत्पलम् ॥ ३१५ ॥ तेषां फलं तु कुम्भीकं मूलं शालूककन्दकम् । कशेरुकः सुगन्धिश्च सुकन्दो मुस्तकन्दकः ॥ ३१६ ॥ शृङ्गाटको जलफलं जलकन्दस्त्रिकोणकः । करवीरोऽश्वमारस्तु बकुलं मद्यकेसरम् ॥ ३१७ ॥ अलक्ता माल्यशेफाली रूपिका ताम्रपुष्पिका । रक्तपुष्पी जया रुद्रा- -म्लायनी वनमालिका (?) ॥ ३१८ ॥ आम्लायनो राजसैर्यः कोरण्डो नखरञ्जनः । तिलकः पूर्णकः श्रीमान् सुद्युतिः शुक्लपुष्पकः ॥ ३१९ ॥ मालती सुमना जाती यूथिका गन्धनामिका । मल्लिकोक्ता विचकिला द्विपुष्पी पुष्पटी तथा ॥ ३२० ॥ कुञ्जरः शतपत्त्रश्च कण्टकाढ्यश्च कुब्जकः । अट्टहासः शङ्खशुक्ला नाम्ना सा शङ्खयूथिका ॥ ३२१ ॥ ऋषिर्दमनको दान्तो विनीतः कुलपत्त्रकः । दमनः पाण्डुरागः स्यात्तथा गन्धोत्कटो मुनिः ॥ ३२२ ॥ पानीयमम्बु सलिलं तोयं चोदकवारिणी । पयः कीलालममृतं जीवनं भुवनं वनम् ॥ ३२३ ॥ क्षीरं स्वादु पयो दुग्धं स्तन्यं वारि स्तनोद्भवम् । दधि माङ्गल्यकं चैव संतानं स्तनिका स्मृता ॥ ३२४ ॥ घोषं दण्डाहतं तक्रं कालशेयमुदाहृतम् । घृतमाज्यं हविः सर्पिः नवनीतं घृतालयः ॥ ३२५ ॥ गुडस्त्विक्षुविकारः स्यात्खण्डं फुल्लमिति स्मृतम् । सितोपला शर्करा च सिता मत्स्यण्डिका स्मृता ॥ ३२६ ॥ माक्षिकं सारघं क्षौद्रं मधु पुष्परसोद्भवम् । मधूच्छिष्टं च मदनं सिक्थकं मक्षिकामलम् ॥ ३२७ ॥ तैलमभ्यञ्जनवरं तिलजं तिलसम्भवम् । प्रसन्ना वारुणी ज्ञेया परिस्विन्ना च सा स्मृता ॥ ३२८ ॥ कादम्बरी घना सुरा मैरेयो ह्यासवो मदः । मार्द्वीकं मधु विज्ञेयं माध्वीकं मधुना कृतम् ॥ ३२९ ॥ गुडेन गौडं सितया शार्करं सैन्धमैक्षवम् । खण्डेन खण्डवासः स्यात्पैष्टकं पिष्टसम्भवम् ॥ ३३० ॥ अवन्तिसोमो धान्याम्लमारनालं च काञ्जिकम् । शुक्तं सौवीरकं चेति तुषोदं तु तुषोदकम् ॥ ३३१ ॥ यवोत्थं तण्डुलोदं च रसाम्लं शुक्तकाञ्जिकम् । ब्रह्माम्बु गोम्बु गोमूत्रं गोमलं गोमयं स्मृतम् ॥ ३३२ ॥ शालिर्व्रीहिर्वरश्चैव धान्यकं रक्तशूकरः । यवश्च स्थूलमध्यश्च वरुणो मुनिभिक्षितः ॥ ३३३ ॥ अकृष्टपच्यो नीवारः शकुन्तमुनिभोजनम् । चणकस्तु कलायः स्याद्गोधूमो म्लेच्छभोजनः ॥ ३३४ ॥ चमसी चातिबीजा स्यात्कोरदूषस्तु कोद्रवः । कङ्गुः संध्यन्थिसंबन्धी प्रियङ्गुः पीततण्डुलः ॥ ३३५ ॥ गवेधुका च गोजिह्वा कर्शनीया सिता तथा । उद्दालकस्तु जूर्णाह्वो यावनालः शुकप्रियः ॥ ३३६ ॥ वासन्तः कृष्णमुद्गस्तु माधवश्च सुराष्ट्रजः । मकुष्ठो वनमुद्गश्च मसूरः पित्तभेषजम् ॥ ३३७ ॥ हरिमन्थाः सुगन्धाश्च चणकाः कृष्णकञ्चुकाः । कुलत्थः कालवृत्तश्च ताम्रवर्णोऽनिलापहा ॥ ३३८ ॥ माषस्तु पिच्छिलरसः कुरुविन्दो वृषाकरः । राजमाषोऽलसान्द्रः स्यात्खञ्जकाख्यः कलायकः ॥ ३३९ ॥ आढकी तुवरी प्रोक्ता निष्पावा शिम्बिका स्मृता । तिलः स्नेहफलः स्नेह- पूर्णश्च कृष्णतैलकः ॥ ३४० ॥ फलत्रयं तु त्रिफला वरा श्रेष्ठा तथोत्तमा । द्विपं च मूलं दशकं दशमूलं दशाङ्घ्रिकम् ॥ ३४१ ॥ त्रिकटु त्र्यूषणं व्योषं कटुत्रयमिहोच्यते । पञ्चकोलं पञ्चकटु त्रिसुगन्धि त्रिजातकम् ॥ ३४२ ॥ औषधं भेषजं पथ्यमगदं च भिषग्जितम् । कलभो वारणो दन्ती मातंगो द्विरदो द्विपः ॥ ३४३ ॥ गजो हस्ती करीभश्च करेणुर्हस्तिनी स्मृता । हयोऽश्वस्तुरगो वाजी सप्तिर्वाहस्तु बाडवः ॥ ३४४ ॥ बालेयो रासभो ज्ञेयो धूसरो गर्दभः खरः । करभो दीर्घगश्चोष्ट्रः क्षमी वेसरको बली ॥ ३४५ ॥ शार्दूलश्चित्रकायस्तु व्याघ्रः स्यात्पुण्डरीकः (?) । पञ्चास्यो मृगराट्सिंहो हर्यक्षः केसरी हरिः ॥ ३४६ ॥ कण्ठीरवश्च विज्ञेयः पिङ्गदृष्टिर्मृगादनः । मृगे कुरङ्गवातायु- हरिणाजिनयोनयः ॥ ३४७ ॥ ताम्राभो हरिणः कृष्णस्त्वेणस्त्वक्कोमलः स्मृतः । कृष्णसारश्चित्रमृगः रोमशा चमरी स्मृता ॥ ३४८ ॥ वराहः शूकरः कीटी दंष्ट्री घोणी च रोमशः । स्तब्धरोमा पृथुस्कन्धः क्रोडः कोलस्तथा किरिः ॥ ३४९ ॥ कपिः प्लवंगप्लवग- शाखामृगवलीमुखाः । मर्कटो वानरः कीशः वनौकाः फलभक्षकः ॥ ३५० ॥ शृगालो जम्बुकः क्रोष्टा गोमायुर्मृगधूर्तकः । पारावतः कलरवो गेहपक्षी कपोतकः ॥ ३५१ ॥ कृकवाकुस्ताम्रचूडः कुक्कुटश्चरणायुधः । मयूरो बर्हिणो बर्ही नीलकण्ठो भुजंगभुक् ॥ ३५२ ॥ शिखावलः शिखी केकी कलापी मेघनादिनी । उलूको वायसारिस्तु कौशिको रजनीचरः ॥ ३५३ ॥ काकस्तु करटोऽरिष्टः बलिपुष्टः सकृत्प्रजः । परभूर्बलिभुग्ध्वाङ्क्षश्चिरजीवी च वायसः ॥ ३५४ ॥ एकदृष्टिश्चात्मघोषः द्रोणकाकस्तु कृष्टलः । चटकः कलविङ्कश्च कुलिङ्गश्चटकापि च ॥ ३५५ ॥ विज्ञेयश्चर्मपथिकः जातुषश्चर्मसाह्वयः । भरद्वाजो द्विजो ब्राह्मो व्याघ्राटः खञ्जरीटकः ॥ ३५६ ॥ सारङ्गः खञ्जनश्चैव मेघवृत्तिस्तु चातकः । वनप्रियः परभृतः कोकिलः सुस्वरः पिकः ॥ ३५७ ॥ गूढपात्कच्छपः कूर्मः कुलीरः कर्कटः स्मृतः । शम्बूको वृत्तशङ्खश्च शङ्खको मातृगेहकः ॥ ३५८ ॥ मीनो मत्स्योऽण्डजश्चैव जलौका जलशायनः । मण्डूको दर्दुरो भेकः काकाहिस्तोयसर्पकः ॥ ३५९ ॥ सर्पः पृदाकुर्भुजगो भुजंगोऽहिर्भुजंगमः । आशीविषो विषधरश्चक्री व्यालः सरीसृपः ॥ ३६० ॥ कुण्डली गूडपाच्चक्षुः श्रवाः काकोदरः फणी । दर्वीकरो दीर्घपृष्ठो जिह्मगः पवनाशनः ॥ ३६१ ॥ लेलिहानो दन्दशूको द्विजिह्वश्च बिलेशयः । कृकलासो मयूरादी कालेयो बहुपन्नगः ॥ ३६२ ॥ शतपात्सरटा चक्री नकुलः सर्पभक्षकः । नालिनी नालहूलीका तलाटा स्थूलदन्तिका ॥ ३६३ ॥ आखून्दुरुर्मूषकश्च वृकश्च दूषकः स्मृतः । छुछुन्दरी राजपुत्री विज्ञेया गन्धमूषिका ॥ ३६४ ॥ पुरोहिता कुड्यमत्स्या गौरी च गृहगोधिका । गौधेरकाकृतिर्गोधा प्राग्बाहुर्युग्मजिह्वकः ॥ ३६५ ॥ ओतुर्बिडालो मार्जारो वृषदंशक आखुभुक् । उदङ्घा कपिजङ्घा तु लोहिताङ्गः पिपीलकः ॥ ३६६ ॥ गण्डूपदा भूमिलता भूनागो वर्षजालकः । मधुयुतो मधुकरो मधुलिट्मधुपस्तथा ॥ ३६७ ॥ द्विरेफः पुष्पलिड्भृङ्गः षट्पदभ्रमरावलिः । इन्दिन्दिरश्चञ्चरीकः सरघा मधुमक्षिका ॥ ३६८ ॥ लम्बरोमा मक्षिका च परा दीपनिवारणी । पतंगिका पुत्तिका स्यात्दंशस्तु वनमक्षिका ॥ ३६९ ॥ भृङ्गारी चीरुका चीरी झिल्लिका घर्घरस्वना । पतंगः शलभो ज्ञेयः स्वद्योतो ज्योतिरिङ्गणः ॥ ३७० ॥ लुलायो महिषो वाह- द्वेषी कासरसैरिभौ । वन्यस्तु गवयो ज्ञेयः ककुद्मान् गोपतिर्वृषः ॥ ३७१ ॥ उक्षानड्वान् बलीवर्दः सुरभिर्गोपकः स्मृतः । सकृत्प्रसूता गृष्टिः स्यात्बष्कयण्येकहायनी ॥ ३७२ ॥ अन्नसारो रसो रक्त- योनिः स्याद्दृढधातुकः । रक्तं शोणं मांसकरं शोणितं क्षतजमसृक् ॥ ३७३ ॥ पलं मांसं शोणितोत्थं पिशितं क्रव्यमामिषम् । पिच्छा मांसोद्भवं मेदो वसा मेदःसमुद्भवा ॥ ३७४ ॥ मेदःसम्भवमस्थि स्याद्देहसंधानधारणम् । अस्थिसारस्तथा मज्जा स्नेहसारोऽस्थिसम्भवः ॥ ३७५ ॥ शुक्लं तेजो बीजपुंस्त्वे रेतो वीर्यान्त्यधातुके । ओजस्तु धातुसारः स्यात्सौम्यो हृदयदीपनः ॥ ३७६ ॥ अनिलो मारुतो वायुः मरुत्प्राणः प्रभञ्जनः । समीरणो मातरिश्वा पवनश्च सदागतिः ॥ ३७७ ॥ मायुः पित्तं वह्निकान्तं कफः श्लेष्मा च पिच्छिलः । कर्दमः पङ्कजम्बालौ मृत्सा मृत्स्ना च मृत्तिका ॥ ३७८ ॥ हसन्तिकाङ्गारधानी तैलपात्रं कुतूः स्मृता । पाषाणप्रस्तरग्रावो- -पलाश्मानः शिला दृषत् ॥ ३७९ ॥ पृथ्वी वसुंधराख्या च गौर्भूमिर्मेदिनी मही । धरा धरित्री धरणी क्षोणी ज्या काश्यपी क्षितिः ॥ ३८० ॥ सर्वंसहा वसुमती वसुधोर्व्यचला स्मृता । विश्वम्भरा रसानन्ता गोत्रा कुः पृथिवी क्षमा ॥ ३८१ ॥ अवनी भूतधात्री च विपुला सागराम्बरा । सूरो हंसो रविर्भानुः पतंगोऽर्को दिवाकरः ॥ ३८२ ॥ प्रद्योतनो दिनमणिः खद्योतो द्युमणिस्तथा ॥ ३८३ ॥ ब्रध्नः प्रभाकरो भास्वान् द्वादशात्मा दिवाकरः । सविता च सहस्रांशुर्मार्तण्डश्च विकर्तनः ॥ ३८४ ॥ कर्मसाक्षी जगच्चक्षुरंशुमाली त्रयीतनुः । विभावसुर्ग्रहपतिस्त्विषांपतिरहर्पतिः ॥ ३८५ ॥ शीतांशुरिन्दुश्चन्द्रमाः शशी चन्द्रो निशाकरः । विधुः सुधांशुः शुभ्रांशुरोषधीशो निशापतिः ॥ ३८६ ॥ अब्जो जैवातृकः सोमो ग्लौर्मृगाङ्कः कलानिधिः । द्विजराजः शशधरो नक्षत्रेशः क्षपाकरः ॥ ३८७ ॥ अङ्गारकः कुजो भौमो रौहिणेयो बुधो द्विजः । गुरुर्बृहस्पतिर्मन्त्री चोशना भार्गवः कविः ॥ ३८८ ॥ शनिः पङ्गुः सूर्यपुत्रः सैंहिकेयो विधुंतुदः । तमस्तु राहुः स्वर्भानुः केतुस्तु ध्वजनामकः ॥ ३८९ ॥ उडु नक्षत्रमृक्षं भं दोषा नक्तं निशा क्षपा । क्षणदा यामिनी रात्रिस्त्रियामा चोरवल्लभा ॥ ३९० ॥ दिनाहनी वासरश्च घस्रो भास्करवल्लभः । शम्भुरीशः पशुपतिः शिवः शूली महेश्वरः ॥ ३९१ ॥ ईश्वरः शर्वः ईशानः शंकरश्चन्द्रशेखरः । भूतेशः खण्डपरशुर्गिरीशो गिरिशो मृडः ॥ ३९२ ॥ मृत्युंजयः कृत्तिवासाः पिनाकी प्रमथाधिपः । उग्रः कपर्दी श्रीकण्ठः शितिकण्ठः कपालभृत् ॥ ३९३ ॥ वामदेवो महादेवो विरूपाक्षस्त्रिलोचनः । कृशानुरेताः सर्वज्ञो धूर्जटिर्नीललोहितः ॥ ३९४ ॥ हरः स्मरहरो भर्गस्त्र्यम्बकस्त्रिपुरान्तकः । गङ्गाधरोऽन्धकरिपुः क्रतुध्वंसी वृषध्वजः ॥ ३९५ ॥ व्योमकेशो भवो भीमः स्थाणू रुद्र उमापतिः । उमा कात्यायनी गौरी काली हैमवतीश्वरी ॥ ३९६ ॥ शिवापर्णा भवानी च पार्वती चण्डिकाम्बिका । अजो हरिर्वासुदेवो दैत्यारिः पुरुषोत्तमः ॥ ३९७ ॥ विष्णुर्नारायणः कृष्णो वैकुण्ठो विष्टरश्रवाः । दामोदरो हृषीकेशः केशवो माधवः स्वभूः ॥ ३९८ ॥ पीताम्बरोऽच्युतः शार्ङ्गी विष्वक्सेनो जनार्दनः । उपेन्द्र इन्द्रावरजश्चक्रपाणिश्चतुर्भुजः ॥ ३९९ ॥ लक्ष्मी पद्मालया पद्मा कमला श्रीर्हरिप्रिया । इन्दिरा लोकमाता मा क्षीराब्धितनया रमा ॥ ४०० ॥ नेत्रं पादः शिफा चाङ्घ्रिः मूलं शालूककन्दकौ । त्वक्चर्म वल्कलं प्रोक्तं विटपः शिखरं शिरः ॥ ४०१ ॥ पत्त्रं दलं छदः पर्णं पलाशश्छदनं तथा । पल्लवस्तु प्रवालः स्यात्मुकुलं कोरकं स्मृतम् ॥ ४०२ ॥ कलिका जालकश्चैव कोरकक्षारकुड्मलाः । प्रसूनं सुमनः सूनं पुष्पं च कुसुमं स्मृतम् ॥ ४०३ ॥ आमं शलाटुसंज्ञं तु पक्वं फलमुदाहृतम् । मकरन्दः पुष्परसः दलोत्थो दलजो रसः ॥ ४०४ ॥ औषधं भेषजं पथ्यमगदं च भिषग्जितम् । क्रिया चिकित्सितं शस्त्रं प्रायश्चित्तं समाहितम् ॥ ४०५ ॥ रोगहारोऽगदंकारो भिषग्वैद्यश्चिकित्सकः । रोगज्ञो जीवनो विद्वानायुर्वेदी गदान्तकः ॥ ४०६ ॥ शीतांश्वमृतलक्ष्मीभिर्जुष्टोऽसौ धनसंयुतः । क्षीरोधिजश्चाब्जयोनिः पायाद्धन्वन्तरिस्तथा ॥ ४०७ ॥ नासत्यावश्विनौ दस्रावाश्विनेयौ च तावुभौ । रक्षतां देवभिषजौ वैद्यपुत्रान् स्वरोचिषा ॥ ४०८ ॥